गर्भसङ्ग्रहः । नमो महाकारुणिकाय । त्रैलोक्यदुःखसिन्धूनां कर्मभ्यः क्षुब्धवीचयः । कुशलाकुशलादिभ्यः सास्रवेभ्यो विनिःसृताः ॥ १ ॥ रागद्वेषादितस्तानि जातानि क्लेशहेतुतः । तेषामुद्भवहेतुश्चापीष्टानिष्टादिकस्तथा ॥ २ ॥ द्वैधग्रहणतो जातः पदार्थग्राहकग्रहाः । नित्यविभ्वैकताद्याश्च समस्तोत्पादहेतवः ॥ ३ ॥ भाग्यवान् पुरुषस्तस्मात्मुक्तिकांक्षी परात्मनोः । प्रतीत्यादिसुयुक्तीनामभ्यासैर्विनिवारयेत् ॥ ४ ॥ भावानां ग्रहणं तावत्धर्मान् बाह्यान्तराखिलान् । सर्वलक्षणहीनेन चाकाशेन समं भजेत् ॥ ५ ॥ वस्तुग्रहाभिभूतं तु लक्ष्यीकृत्याखिलं जगत् । दुःखसागरसंशोषिमहाकारुण्यपूर्वकम् ॥ ६ ॥ स्वपरार्थभवं रत्नं बोधिचित्तं प्रभावयेत् । बोधिचर्यामहावीचिषट्पारमितादिकम् ॥ ७ ॥ ध्यानव्युत्थानयोगेन पञ्चमार्गैः क्रमाद्व्रजेत् । द्विविधावरणं छित्त्वा द्वौ संभारौ प्रपूर्य च ॥ ८ ॥ त्रिकायफलमाप्तव्यं त्रिकायाप्तेश्च लक्षणम् । नभोवच्छून्यतायाश्चानाभोगकरुणाम्बुदात् ॥ ९ ॥ द्विकायामृतधाराभिरात्रिधातु सदार्द्रयन् । बोधिमण्डसुबीजेभ्यः पुण्यशस्यानि पाचयेत् ॥ १० ॥ हृदयं सर्वबुद्धानां गर्भसङ्ग्रह इत्ययम् । कालान्त्यादल्पमायुष्यं बहुरोगाश्चाल्पभोगिता ॥ ११ ॥ दुर्हेतुबहुविघ्नैश्च चिरं स्थातुमशक्तितः । पदानुच्छेदशक्यत्वात्सन्मित्रं हि समाश्रयेत् ॥ १२ ॥ अत्यन्तवीर्यचित्तेन प्रपातं स्मरता भृशम् । सङ्गृहीतोऽञ्जसा गर्भो मोक्तुं स्वं च परं तथा ॥ १३ ॥ स्नेहैनैतत्कृतात्पुण्यात्सत्त्वाः सर्वेऽपि दुर्भगाः । बोधिचित्तमया भूत्वा गर्भं गृह्णन्तु चाञ्जसा ॥ १४ ॥ गर्भसङ्ग्रहो नाम महाचार्य-दीपङ्करश्रीज्ञानविरचितः समाप्तः ॥