{प्. २३३} पण्डितदुर्वेकमिश्रकृतो हेतुबिन्दुटीकालोकः । [१ ब्] । *<१>*नमो बुद्धाय । प्रहीणावृतिसंघातं प्रणिपत्य तथागतम् । विवृणोमि यथाशक्ति भट्टार्चटगुरोर्गिरः ॥ अभिमानधना ये च ये च बुद्धिधना जनाः । न तदर्थमयं यत्नस्तस्मान्नैव निरर्थकः ॥ स्वेष्टदेवतानमस्क्रिया हि पुण्यप्रसवभूमिरितश्चान्तरायरहिता ईप्सितपरिसमाप्तिर्भवतीत्यागमाद्वेदिता शिष्टाचारानुरक्षणधर्मा *<२>*चायं धर्माकरदत्तो हेतुबिन्दुतीकां चिकीर्षुरादित एव स्वाधिदैवतं स्तुतिपुरःसरं नमस्यति । नमस्कारश्लोककरणे चाक्षेपपरिहारौधर्मोत्तरप्रदीपादितनीतिदिशा अनुगन्तव्यौ । आशयप्रयोगभेदेन हेत्ववस्थामुभयीं स्वार्थपरार्थप्रकर्षभेदेन फलावस्थां द्वयीं दर्शयिष्यते । अस्य हेतुफलावस्थोपदर्शनं*<३>* मुनीन्द्रस्य नमस्याभिमता । बोधिसत्त्वावस्थायां हि भगवाननेकजन्माभ्यासयोगात्कल्याणमित्रसंपर्काच्च प्रथममाशयविशेषसम्पदमुदपीपदत् । यामिह प्रणिधिबोधिचित्तमातिष्ठन्ते तत्त्वविदः । तस्य परस्तादाशंसितार्थसंपादनाय प्रयोगविशेषमशेषमकार्षीत् । यं प्रस्थानबोधिचि*<४>*त्तमाचक्षते । तस्योपरिष्टात्प्रयोगविशेषप्रकर्षप्राप्तेः परमपुरुषार्थफलं सकलमलब्ध । अथातः सत्त्वोपकारं विविधमबाधितं व्यधित । अत एवायं यः संजाते [१.५. [त्यादिनादौ कण्ठोक्तामकृत आशयावस्थाम् । तदनु पुण्यज्ञाने [१.६. [त्यादिना प्रयोगावस्थाम् । तस्य पश्चात्कृत्स्ने [१.७.] त्यादिना फलावस्थाम् । तदनन्तरं लोक [१.८.] इत्यादिना च सत्त्वोपकारावस्थामिति । यत्र च एवंविधो जिनरविः [१.८.] तं नमस्यामि [१.८.] नमस्कारोमीति सम्बन्धः । उपकार्योपकारिणोः समं प्रवर्तमाना निरन्तरमुदीयमाना च महत्त्वयुक्ता महती च सा दुःखात्दुःखहेतोर्वा समुद्धरणकामता नाम या करुणा तदात्मिका कृपा चेति तथा । संजाता *<६>*महाकृपा यस्य स तथोक्तः । किं कर्तुं स तथाविध इत्याकांक्षायामाह -- त्रातुम् [१.५.] इति । {प्.२३४}किं त्रातुमित्यपेक्षायां त्राणक्रियाकर्म जनम् [१.५.] आह । तं विशेषयन्नाह -- समग्रम् [१.५.] परिपूर्णं सकलमिति यावत् । पुनरपि विशिनष्टि व्यसनिनम् [१.५.] इति । व्यसनं दुःखम्, तद्वन्तम् । नित्ययोगे चायमिनिर्द्रष्ट्व्यः । कृपाशब्दप्रत्यासत्तेः *<७>*सामर्थ्यात्दुःखात्दुःखहेतोर्वा त्रातुमित्यर्थोऽवतिष्ठते । अविवक्षितापादनाद्वा अनपादानत्वम् । दुःखाद्दुःखहेतोश्च सर्वसत्त्वा मया मोचयितव्या इत्याशयसंपद्योगिन्यवस्था आशयावस्थेत्युच्यते । हेतुः [१.६.] निमित्तम्, सार्वज्ञपदस्येति वक्ष्यमाणस्वार्थप्रकर्षप्राप्तिसामर्थ्यादवसेयम् । चितिक्रियाभिसम्बन्धाद्द्वितीया । कीदृशमि*<८>*त्याशङ्कायां तद्विशेष्टुमुक्तं पुण्येत्यादि पश्चाद्योज्यम् । पुण्यज्ञानमयं [१.६.] पुण्यज्ञानस्वभावम् । अन्यथा विशिनष्टि विपुलं [१.६.] विस्तीर्णं महान्तं यावत् । पुण्यज्ञानसंभारावेव हि सार्वज्ञं पदमावहतः । पुण्यज्ञानसंभारोपार्जनमेव सत्त्वोद्धरणाय प्रयोगः । तेन तत्पदप्राप्त्यैव सत्त्वोद्धरणसंभवात् । अन्यथा तत्पदाभावात् । [२ ] *<१>*एवंविधप्रयोगसम्पद्योगिन्येवावस्था प्रयोगावस्थेत्युच्यते । अयं प्रयोगः प्राचीनश्चाशयो द्वावेतौ पारंपर्येण परमपदप्राप्तेः कारणमिति तत्पदप्राप्तिहेतुत्वमात्रविवक्षया, अवस्थामात्रविवक्षया च हेत्ववस्था भगवतो व्यपदिश्यते । भेदविवक्षया पुनराशयप्रयोगावस्थेति । प्रचित्य [१.६.] उपचित्य राशीकृत्येति यावत् । तथा*<२>*भूताद्रिसमाश्रितौ समाश्रयणापेक्षायां पौर्वकालिकः प्रत्ययः । किमेवंकारं चकारेत्याह -- कृत्स्ने[१.७.]त्यादि । यच्छब्दोऽत्रापि सम्बध्यते । उत्तरत्रापि अभिसम्भन्त्स्यते । किं भूतः सन् यस्तमाश्रित इत्याह -- विधूते[१.६.]ति । सर्वथा निरस्तः सादरनिरन्तरचिरकालाभ्यासायासो येन स तथा । मतद्वयाश्रयणेन*<३>* सदाव्यापनेन इच्छाधीनत्वात्योग्यतया वा व्यापनेन उपयुक्तकार्त्स्न्ये कृत्स्नशब्दप्रयोगात्सोपायहेयोपादेयात्मककृत्स्नज्ञेयविसर्पिणी चासावावरणादिलक्षणस्य मलस्यातिशयेन प्रहाणान्निर्मलप्रज्ञा चेति तथा । सैव परार्थोदयस्थानत्वादुदयाद्रिरिव तथा । तं श्रितः [१.७.] प्राप्तः तद्योगी *<४>*जात इति यावत् । इदमेव च सर्वज्ञस्य पदं परमपुरुषार्थफलम् । एवंलक्षणफलसंपद्योगिन्यवस्था फलावस्थेत्युच्यते । {प्.२३५}हृदि भवं हार्दम् [ १.८.] सदसत्पथविवेकविबन्धकत्वात्तम इव तमः [१.८.] अज्ञानं कयाचिद्व्यपेक्षया तु हृदो मनसो भेदविवक्षायां तदुभयत्वमुक्तम्. लोकोक्त्यपे*<५>*क्षया वा । तदपहन्ति विध्वंसयति धर्मदेशनाद्वारेण अन्यथा चेति तथा । जिनो मारजयनाद्बुद्धो भगवान्। क्व हार्दतमोपह इति अपेक्षयामाह -- लोके [१.८.] इति । लोकविषयं यच्चैतसं तमस्तस्य हन्ता । लोकस्यैव तथाभूततमसोपहन्तेति यावत्लुप्य(क्य)त इति लोकः । हार्दतमः *<६>*शब्दप्रत्यासत्तेः प्राणी ज्ञातव्यः । एवंकारिण्येवावस्था सत्त्वोपकारावस्थेत्युच्यते । स एव व्यसनिजनत्राणनिमित्तकृपाधारणसाधर्म्यात् । रवेरपि तदागमे तथार्थोप्वर्णनात् । तदा तु व्यसनं रोगो ज्ञातव्यम् । उदयाद्रिसमाश्रयणसाम्याल्लोके तमोपहत्वसाधर्म्याच्च । तदा *<७>*तत्तमोऽन्धकारं द्रष्टव्यम् । रविरिव रविः । रूपकालङ्कारश्चात्र काव्यगुणो दर्शितः । मूर्ध्ना नमस्यामि [१.८.] इति शिरः प्रणमयत एवंविधं वचनमवसेयम् । तेन कायिको नमस्कारो दर्शितः स्यान्नान्यथा । शब्दानुपूर्वीविशेषोच्चारणेन तु वाचिको दर्शितः । कायव्यापारव्याहारयोश्च तदुत्थापकमनःपूर्वकत्वात्*<८>*मानसिकोऽपि इति सर्वमवदातम् । सोपायस्वार्थसम्पदाख्यानद्वारेणेयं नमस्क्रिया इति तत्त्वाव्याख्यानमुद्घृष्टं नातिश्लिष्टञ्चेति नोद्घटितम् । अथवा अन्यथा व्याख्यायते । परार्थः खल्वयं टीकालक्षणो ग्रन्थोऽभिप्रेतः । परश्च विषयदोषाशङ्कायां श्रवणाय नावधत्ते । ततश्चानवधानं विषयदोषाशङ्क[२ ब्.]*< १>*या व्याप्तं तद्विरुद्धोपदर्शनेन अनवधाननिषेधार्थं व्यापकविरुद्धविषयविशुद्धिमुपदिदर्शयिषुराह -- य [१.५.] इत्यादि । टीकाविषयोश्चा(*<०>*षयश्चा)चार्यधर्मकीर्तिग्रन्थः । तद्विषुद्धिश्च प्रवचनविशुद्ध्या, प्रवचनार्थसमर्थनपरतया आचार्यशास्त्रस्य तदेकविषयत्वात् । ततश्चाचार्यशास्त्रविशुद्धिनिबन्धनप्रवचनविशुद्धिं बोधयितुं भगवतो गुणेदि*<२ अ>*त्वनिर्दोषते नमस्कारापदेशेन दर्शयति । उपायोपदर्शनपूर्वकतथाभूतप्रज्ञोदयाद्रिसमाश्रयणाभिधानेन भगवतः सर्वाज्ञानविगमो दर्शितः । सर्वाज्ञानवैधुर्यादस्तु निर्दोषः, स तु स्वार्थप्रकर्षप्राप्तः कस्मात्परस्मै सोपायहेयोपादेयतत्त्वमुपदिशति येन तस्य तथाभूतं प्रवचनं सम्भवेदित्यपे*<३>*क्षायां -- यः संजाते[१.५.]त्यादिना महाकरुणया योगमुपदर्शयति । ततो महाकरुणा*<या>*गात्समीचीनमुपदिशति प्रज्ञाप्रकर्षयोगाच्च भूतं समाधा(ससाध)नमिति प्रकाशितम् । तेनानुपदेशोऽन्यथोपदेशश्च व्युदस्तः । यदाह -- {प्.२३६}"दयया श्रेय आचष्टे ज्ञानाद्भूतं ससाधनम्" [प्व्१.२८४] इति । तथा -- "वैफल्याद्वक्ति *<४>*नानृतम्" इति । अत एवाविपरीतज्ञेयाद्युपदेशद्वारेण हार्दतमोपहः [१.८.] संवृत्तः इत्यर्थादेव वचनं विशुद्धं दर्शितम् । तद्विषयतया चाचार्यग्रन्थविशुद्धिः । तद्विषयतया च टीकाविशुद्धिश्च सामर्थ्यादाख्याता भवति । शेषं समानं पूर्वेणेति । भवतु भगवतो निर्दोषतया प्रवचनविशुद्धिः । तथाप्याचार्यस्य*<५>* वाङ्मनसो(सयो)र्वैगुण्यसम्भवेन तच्छास्त्रं न विशोत्स्यति इत्याशङ्क्याचार्यस्यापि जगदतिशायिप्रज्ञायोगप्रदर्शनेन वाङ्मनसो(सयो)र्वैगुण्याभावो न्यायमार्गे[१.१३.]त्यादिना दर्शयिष्यते । वाङ्मनसो(सयो)र्वैगुण्यं हि जाड्ये सति भवत्तेन व्याप्तम् । तद्विरुद्धं चात्यन्तप्रकृष्टबुद्धित्वम् । तस्मिन् सति कथं भवेदित्यभिप्रायात् । *<६>*आचार्यग्रन्थविशुद्धावपि तवैव वाङ्मनसयोर्वैगुण्यात्टीका अवदाता न भविष्यति इति चाशङ्क्य औद्धत्यपरिहारापदेशेन आचार्यवचनापेक्षया आत्मनो जडत्वमभ्युपेत्य वैदर्भ्यपरया वचनमङ्ग्या तथापि [१.१५.] इत्यादिना स्ववाङ्मनसो(सयो)र्वैगुण्यवैकल्यमपि प्रकाशैष्यते । आदौ कस्य*<७>*चित्पार्श्वस्थस्य अश्रुतैतत्पूर्वपक्षवादिवचनस्य तत्रानादृतस्य वा व्याख्यातग्रन्थव्याख्यानेन चर्वितचर्वणमनुतिष्ठता त्वया [कथं] तत्त्वातिशयप्रकाशनलक्षनं माधुर्यमन्तस्तृप्तिकरमासादयितव्यः (व्यम्) तत्किमेवमाचरितमिति त्वरयाभिप्रायं स्वयमुद्घाटितं विघटयितुमाह -- वरं हि [१.१०.] इत्यादि । -- त्वरायोगिनोऽस्य पूर्वपक्षं क्षे*<८>*पयित्वा तु ते एवाशङ्के निराकुर्वन्नाह -- न्यायमार्गे[१.१३.]त्यादि । पूर्वव्याख्याने तु वरमव्याख्यातेऽन्यत्र क्लेशः क्रियतां यत्र रसविशेषास्वादः सम्भवी, न पुनरत्र तदसम्भवादिति आशङ्कायामिदं योज्यम् । उत्तराभ्यां तु श्लोकाभ्यां स्वकीयौद्धत्यपरिहारः केवलः कृत इति । धर्मकीर्तेरिमानि वचनानि तेषु । आकृष्टरसं हि र[३ ]*< १>*सनीयं चर्वितमुच्यते । अमीषामपि बहुभिर्व्याख्यातत्वेन आकृष्टरसत्वात्चर्वितमिव चर्वितेषु चर्वणं [१.१०.] रसास्वादार्थो व्यापारविशेषः । अचर्वितचर्वणरूपादव्याख्यातान्यग्रन्थव्याख्यानादिति प्रकरणलभ्यमवधिमभिसम्बन्धाय (सन्धाय) किञ्चिदिष्टौ -- वरम् [१.१०.] इत्यव्ययमाह । {प्. २३७}"वरमद्य कपोतः श्वो मयूरात्", "मृताद्वरं दुर्बलते"त्यादि यावत् । न पुनरच*<२>*र्वितान्यग्रन्थचर्वणमिति बुद्धिस्थीकृतवर्जनीयाङ्गमेव चैवमाह । सामर्थ्यगम्यत्वाच्च वर्जनीयत्वेनाभिमतं नावादीत् । ’पि’ न्यायतः सम्भावनामाह । अन्ये पुनरनिपातमेव श्रेष्ठवचनं चर्वणसमानाधिकरणं वरशब्दं वर्णयन्ति । न केवलमचर्वितेष्विति चापिशब्दं व्याचक्षते । महतोऽपि महीयांसमाचार्यम् । विदुषश्चा*<३>*स्य सर्वथैवाभिधानं द्रष्टव्यम् । ननु च व्याख्यातत्वादान्तरतया निष्पीडितस्य मनागपि माधुर्याभावादेव तदप्राप्तौ कथं वरमित्यभिधीयत इति आशङ्क्य प्रतिवस्तूपमालङ्कारेण प्रतिवचनमाह निष्पीडितापि [१.११.] इति । मृद्वीका द्राक्षाफलम् । किमः क्षेपे प्रयोगात्नैव जहातीत्यर्थः । अनया वचनव्यक्त्या *<४>*असूयामपि । गम्भीराणामाचार्यगिरां नूनं न सर्वमर्थजातं यथावत्पूर्वे व्याचख्युरतस्तथाविधरसास्वादस्तेन भविष्यतीति नितरां वाच्यमिति सूचयति । पूर्वपक्षनिषेधाभिप्राये हिः[१.१०.] यस्मादर्थे, व्यक्तमित्यस्मिन्नर्थे वा । न्यायमार्गः [१.१३.] युक्तिमार्गः एव तुलेत्यन्तर्नीतनियमः समासः । एकत्र [१.१३.] इत्ययं शब्दः का*<५>*काक्षिवदुभयोरपि पार्श्वयोर्व्याप्रियते । तेनायमर्थः जगत्कर्मभूतमेकत्र एकस्मिंस्तुलान्तर्वर्तमानमेकत्रावस्थिता यस्य मतिर्जयेदधरीकुर्यात् । जयेदिति सम्भावनापदमेतत् । यन्मतेर्जगदभिभवनं सम्भाव्यते इत्यर्थः । शक्यार्थं वा । जगज्जेतुं शक्तेति यावत् । तस्य [१.१४] एवंमतेः गिरः [१.१४.] वाच*<६>* । परोक्षार्थेत्याद्यात्मिकाः । क्वति वदन्स्वव्याख्येयतया तान् संभावयति । दुरवगाहतया गम्भीराः [१.१४.] । अत एव क्वेत्याह । अहं जडधीः क्व चेत्यनेन तदव्याख्यातृत्वेनात्मानमसंभावयन् दूरीकरोति । तथापि [१.१५.] इत्यनेन निपातसमुदायेन प्रकृतं प्रतिसमाधत्ते ।[१]यानुद्दिश्य [१.१६.] यानधिकृत्य *<७>*यदर्थमिति यावत् । मयापि[१.१६.]एवंविधेनापि मया । वक्त्रोक्तिपक्षे त्वाचार्यं प्रति जडधीरिति ब्रुवता लोकं प्रति विपर्ययोऽन्तर्निहितः । __________नोतेस्__________ [१] टिबेतनभाषान्तरमाश्रित्य "तेषां कृते" इत्येवंरूपः पाठोऽस्माभिः कल्पितः मुद्रितश्च। किन्तु इमां टीकामाश्रित्य तत्रत्यमूलपाठः "यानुद्दिश्य" इत्येवं पूरणीयः । ___________________________ मन्दमतयः सन्ति मत्तोपि केचन [१.१५.] इति विदर्भवचनेन दुर्जनमनस्तोषकरेण -- यदि दुर्जनो मयि नाहत्य यदा चरति तदा बहुबिरेवाचार्याभिप्रायो न सम्यग्व्यज्ञायीति बहुजनोद्देशेनैव *<८>*मयैतद्विभज्यते । अन्यथा तु सोपि जनः {प्. २३८}पूर्वादपव्याख्यानग्रन्थादाचार्यग्रन्थार्थं ज्ञास्यति । न ह्यज्ञो ज्ञकृतादेव किञ्चिदवगच्छति नान्यत इति नियमः । ततः कथमहमस्मिन्निष्फले महीयसि प्रयासे प्रवर्तेयेति दर्शयति । पूर्वव्याख्याने पुनरौद्धत्यपरिहारमात्रपरं विवक्षितमेतन्नैतत्पर्यवसानव्यापारमिति [३ ] *<१>*सर्वमनवद्यम् । अवच्छेद्यावच्छेदकभावेनावस्थितौ विशिष्टौ वाच्यवाचकराशी प्रकरणम् [१.१८.] तस्यारम्भ [१.१८.] आरभ्यत इति कृत्वा । सामर्थ्यात्तदादिस्तत्र प्रयोजनं [१.१८.] फलं प्रकरणस्येत्यर्थात् । इदं च शाब्दीङ्गतिमाश्रित्योक्तं द्रष्टव्यम् । आर्थेन तु न्यायेन प्रकरणाभिधेयस्यानुमानस्य प्रयोजनं परोक्षार्थप्रतिपत्तिरूपं व्याख्यार्थतया ज्ञातव्यम् । *<२>*तथा ह्यनुमनव्युत्पादनमेवानेन कस्मात्क्रियते ? यस्मात्परोक्सार्थप्रतीतिस्तदाश्रया । अतस्तत्परं वदन् वाक्यमिति सैव वाक्यार्थः । एतच्च "परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वात्" इत्यनेन तु [३.२३.] इत्यादिना परस्ताल्लेशतो निर्ने(र्णे)ष्यत इति । तत्[१.१६.] प्रयोजनाभिधानम् । चो [१.१६.] अवधारणे प्रवृ[त्त्य]र्थमित्यस्मात्परो द्रष्टव्यः । इतिः [१.१९] *<३>*एवमर्थे । केचिद्व्याख्यातारो मन्यन्त इति विशेषः [इति शेषः]त एव तदनुसहायकमन्यं साक्षिणमुपक्षिपन्त आचक्षते तदुक्तम् [१.२०.] इत्यादि । कस्यचिद्[१.२१.] इत्यनेन सर्वं संगृह्णाति अल्पस्येतरस्यापि वेत्यर्थः । अत एव पूर्वस्मादविशेषप्रदर्शनार्थो वा[१.२१.]शब्दः । यावत्[१.२२.] इत्यव्ययमवधौ । नोक्तम् [१.२२.] इत्यस्मात्परोऽस्तिर्भवन्तीपरः *<४>*सामान्यप्राय[ः] सिद्धो द्रष्टव्यः । तावदिति *<प>*र्ववदवधौ । तच्छास्त्रं तच्च कर्म केन गृह्यताम् [१.२२.] प्रवृत्तिविषयि क्रियताम् । किमः क्सेपे प्रयोगात्न केनचिदित्यर्थः । तत्[१.२४.] श्रोतृप्रवृत्त्यर्थं प्रकरणादौ प्रयोजनाभिधानमयुक्तम् [१.२४.] । ननु येनाभिप्रायेण तैस्तत्प्रवृत्यर्थमुपवर्ण्यते स एवाभिप्रायो भवता ना*<५>*बोधि तत्कथमेतत्प्रतिषिध्यत इत्याशङ्क्य यत [१.२४.] इत्यादिना तदभिप्रायमुद्भिनत्ति । इतिना [१.२४.] वचनस्याकारमाह । तं प्रति प्रकरणस्योपायतां निश्चित्य प्रवृत्तिः स्याद्यथा स्यादिति प्रकरणात् । किमुपायनिश्चयेन तेषामित्याह -- अनुपाय [१. २५.] इति । प्रेक्षावताम्[२.१]इति काकाक्षिन्यायेन द्वयोरपि पार्श्वयो*<६>*रभिसम्बध्यते । उपायनिश्चयेपि कस्मात्प्रवृत्तिरित्याह -- तदर्थितया [२.१.] तस्य फलस्याभिलाषेण । क्व प्रवृत्तिरित्याह -- प्रकरणस्य श्रवणं [२. १.] आदिग्रहणात्चिन्तादेः {प्. २३९} संग्रहस्तत्र । इति [२.२] हेतौ । तदभिधानस्य [२.२] तस्य प्रयोजनस्योक्तेः । अर्थवत्ता [२.२] सफलत्वं वर्ण्यते [२.२] तैरिति प्रकरणात् । यदि सोपपत्ति*<७>*कमेतत्तैस्तथोपवर्णितं तर्हि सुन्दरमेवेत्याह -- न चैतदिति [२.२] । चोऽवधारणे । एतदनन्तरोपनीतोपपत्तिगर्भितं तदभिधानं न युक्त्या सङ्गतम् । तदुपाये [२.३] तस्य प्रयोजनस्योपाये । तद्भावः [२.३] तदुपायत्वम् । तस्य निश्चयात्[२.३] । सस्यद्युपाये बीजादौ [२.४] प्रवृत्तिः । अवधृते[१.४]त्यत्रान्तर्भूतो णिजर्थो द्रष्टव्यः । तेन अवध्र्तः अवधारितो बी*<८>*जादि भावो यैस्तेषाम् । कर्षका अपि बीजादिविषये बुद्धिपूर्वकारिण इति प्रेक्षावत्त्वपुरस्कारेणोदाहरणम् । ननु यथोपेयार्थिनामुपायानिश्चयेन प्रवृत्तौ प्रेक्षावत्त्वे क्षतिस्तथोपेयानिश्चयेपि प्रवृत्तौ किं न तत्क्षतिरित्याह उपेये तु [२.६] इति । तुः पूर्वस्मादस्य भेदं दर्शयति ।[२]भाविनि [१.६] इति हेतुभावेन विशेषणम् । अनिश्चयेपि [२.७] इत्युपे[४ ]*< १>*यस्येति प्रकरणात् । __________नोतेस्__________ [२] हेतुबिन्दुटीकायाः प्रतेरत्र त्रुटितत्वात्"भाविनि" इति पदं पूरयित्वा न मुद्रितं निर्दिष्टपृष्ठे, तथापि "उपेये तु" इत्यनन्तरं तत्पदं तत्र स्थाप्यमेव आलोकानुरोधेन । ३२ हे. ___________________________ इतिः [२.८] सम्भावनाया आकारं दर्शयति । एतदुक्तं भवति -- शक्यनिश्चयमनिश्चित्य प्रवर्तमानाः स्वकर्तव्याकरणादुपालभ्याः, न त्वशक्या(क्य)निश्चयमिति । यद्येवं प्रकरणस्यापि प्रयोजनविशेषं प्रत्युपायभावं निश्चित्य तदर्थितया प्रवर्तिष्यन्त इति आह -- निश्चयश्च [२.१०] इति । चोऽवधारणे । कस्मान्नास्ति इत्याह -- शब्दानाम् [२.११] इति । न*<२>*नु च वाच्यवाचकभावलक्षणप्रतिबन्धसद्भावात्प्रतिबन्धाभावोऽसिद्धः । तथाहि -- यदि शब्दस्य वाचकशक्तिरर्थस्य च वाच्यशक्तिर्वस्तुसती न स्यात्तदा पौरुषेयी स्यात् । पुरुषाधीनत्वे च शक्तेः -- योऽयम् "शब्द एव वाचकोऽर्थस्य, अर्थ एव वाच्यः, न त्वर्थः शब्दस्य वाचकः" इति दृष्टो नियमः, स न स्यात् । पुरुषेच्छाया अव्याह*<३>*तप्रसरत्वात् । न च नियमविलोपोऽस्ति । न हीच्छन्नपि समयकारः पुरुषोऽर्थे वाचकशक्तिम्, शब्दे च वाच्यशक्तिमर्पयितुं पारयति । तस्माद्यथा घट-प्रदीपयोः प्रकाश्यप्रकाशकशक्तिर्वैपरीत्यमननुभवन्ती नियमवती वास्तवी तथा शब्दार्थयोरपि वाच्यवाचकशक्तिर्नियमवती वास्तव्येवेति । {प्.२४०}अत्रोच्य*<४>*ते । यद्यर्थशब्दमात्रापेक्षया नियमः प्रतिपाद्यते तदासावसिद्धः । तथाहि -- सङ्केतवशात्तृणजूटादिरर्थो यथार्थान्तरस्य ममत्वक्रियाविशेषविधातादिलक्षणस्य प्रकाशको वाचकस्तथा समयसामर्थ्यादेवार्थः शब्दस्यापि वाचको भवत्येव । तद्यथा भूतहस्तलक्षणायां कलायां *<५>*कनिष्ठाद्या अङ्गुल्यः ककारादीनां तत्पर्वरेखाश्चाकारादीनाम् । न च शब्दस्यापि अर्थप्रकाशनादर्थप्रतीतिजननादन्यद्वाचकत्वं नाम । अथ घटार्थो घटशब्दस्य वाचको न भवतीत्युच्यते । हन्त! तस्यापि सङ्केतवशात्तथाभावः केन निवार्यते? । "यदाहं युष्मभ्यं घटम*<६>*र्थं दर्शयामि तदा घटश दमुच्चारयितव्यम्, अन्यथा वा ज्ञास्यथेति" -- तदा किं तस्य तथात्वं न भवति? । यदि सत्यवादी भवान्नैवं वक्तुमर्हतीति यत्किञ्चिदेतत् । तस्मात्सिद्धः प्रतिबन्धाभावः । ननु शब्दस्य तावद्वक्तुकामतायामस्ति प्रतिबन्धः । सा च यथावस्त्वेव वर्तत इति प्रणालिकया बाह्ये प्रति*<७>*बन्धात्शब्दस्य प्रामाण्यं कोऽपहस्तयेदित्याशङ्क्याह -- विवक्षायाम् [२.११] इति । अपिः [२.१२] विशेषविवक्षाया अभ्युपगमे । वस्त्वनतिक्रमेणापि क्वचिद्भवतीति नियमग्रहणम् । ततः [२.१२] इति विवक्षायां प्रमाणात्शब्दात् । स्यादेतत्-- ये यमर्थं यथा विवक्षया विषयीकुर्वन्ति वक्तारस्ते तथैव तमर्थमनुतिष्ठन्ति इत्यत्र अप्येवं विवक्षितुरेवमेवानुष्ठानं*<८>* भविष्यतीति निश्चये कुतो निश्चयाभावः इत्याशङ्क्याह -- न हि [२.१३] इति । हिः यस्मात् । कथं तथानुष्ठाननियमाभाव इत्याह -- विसंवादे[२.१४]ति । "सरितस्तीरे शर्कराशकटं पर्यस्तमास्ते । तदागच्छत भो गच्छामः" इत्यभिधायाप्यन्यथा प्रवृत्तिदर्शनात्लोके [२.१५] व्यवहर्तरि जने । सर्वग्रन्थकारवचनेऽपि अनाश्वासात्[२.१६] आस्थाया अभावात् । प्रयोजना[४ ]*< १>*भिधानात्प्रकरणस्य तदुपायभावविषयोऽर्थसन्देहः प्रवृत्त्यङ्गमुपजायते । ततश्च प्रकरणे प्रवृत्तिरर्थिनामिति प्रकरणस्य प्रयोजनविशेषं प्रत्युपायत्वसंशयं प्रवृत्त्यङ्गकर्तुमादिवाक्यमुक्तमिति मतं पश्चात्धर्मोत्तरादिनाप्यर्थात्दर्शितं येषाम्, तान् कटाक्षयन्नाह -- प्रयोजने[२.१७]त्यादि । प्रकरणस्य [२.१७] इति प्रथमतो योज्य*<२>*म् । तस्य तस्मिन् वा उपायस्तद्भावस्तत्ता सैव[३]विषयो यस्य स तथा । __________नोतेस्__________ [३] अस्माभिः "तदुपायताविषये" इति पाठः कल्पयित्वा मुद्रितः किन्तु आलोकमाश्रित्य "तदुपायताविषयः" इति पाठः कल्पनीयः । ___________________________ {प्. २४१} कस्य तदुपायतेत्येकदेशाकाङ्क्षायां तु प्रकरणस्य [२.१७] इति श्रुतत्वाद्द्रष्तव्यम् । जन्यते [२.१८] जायते । अत एव "जनिः कर्तुः प्रकृतिः" [पा. १.३.२३] इत्यनेन लब्धापादानसंज्ञकात्पूर्वं पञ्चमी । ततः [२.१८] सन्देहोदयात् । तद्भावनिर्धारणाय [२.१८] तदुपायनिश्चयार्थम् । कृषीवलो [२.१८] हालिकः । आदि[२.१८]शब्दात्*<३>*तदितरः । अङ्कुरादिजननयोम्यं बीजं, तद्विपरीतमबीजम्[४] । तदवधृतये [२.१८] तन्नियमार्थम् । __________नोतेस्__________ [४] अत्रालोकसम्मतः टीकापाठः "बीजाबीजावधृतये" न तु यथा मुद्रिते लभ्यते "बीजाद्यवधृतये" इति । ___________________________ चेत्[२.१९] इति पराभ्युपगमे सर्वत्र । न [२.१९] इति युक्तत्वेनाभिमतां प्रवृत्तिं प्रतिषेधयति । हेतुमाह -- प्रयोजने[२.१९]ति । असति वचने कथं सम्भव इत्याह -- तत्साधके[१.२०]ति । तस्य [२.२१] संशयस्य । "अनुमानव्युत्पत्तिः प्रयोजनमस्य" इत्य्*<४>*अनभिधाने विशिष्टं प्रयोजनं प्रति प्रकरणस्योपायत्वं कथमिह सन्दिग्धे विदग्ध इत्याशङ्क्याह -- अनुमाने[२.२१]ति । दर्शनात्[२.२२] इत्युपलम्भात् । सामर्थ्यात्तेषां श्रवणादित्यर्थोऽवसातव्यः । अयमत्रभट्टार्चटस्याभिप्रायः -- यद्व्युत्पत्त्य योऽर्थीश्रुततदुपायग्रन्थसम्भवश्च स कस्यचिद्ग्रन्थस्य दर्शनात्तस्य चार्थित्व*<५>*विषयोपायभावं प्रति साधकबाधकप्रमाणाप्रतिसंवेदी तथाविधवचनमन्तरेणापि अर्थित्वमात्रचोदितोऽर्थित्वविषयोपायभावं संशयानो जिज्ञासादित एवान्यत्र आदिवाक्यवियुक्त इव ग्रन्थे प्रवर्तिष्यति(ते) -- तत्पाठश्रवणादिलक्षणां प्रवृत्तिमाचरिष्यति । अन्यथा आदिवाक्यविकले भूयसि शास्त्रे प्रवृ*<६>*त्तिर्न स्यात् । तत्र च यदेव प्रवृत्तिनिबन्धनं तदत्रापि भविष्यति । नापि आदिवाक्ये सत्यप्याश्वासो युज्यते, अन्यत्प्रतिज्ञातवतामपि अन्यव्युत्पादनदर्शनात् । यथातः (यथा --"अथातः) धर्मं व्याख्यास्यामः" [व्स्१.१.१] इति प्रतिज्ञाय षट्पदार्थीप्रतिपादनंकणादस्य । ततो निष्फलैवादिवाक्यक्रिया स्याद्यदि तद्विषय*<७>*संशयोत्पादनेने प्रवृत्त्यर्थं तदुपवर्ण्यते । अन्यथा त्वादिवाक्येपि कथमिव प्रवर्तेत श्रोतेति? । {प्. २४२} अनयैव चर्चद्वाराधर्मोत्तरादिमतेपि प्रत्यवस्थेयम् । तथाहि --यद्यर्थसंशयं प्रकरणे प्रवृत्त्यङ्गं कर्तुमभिधेयादीनि अभिधीयन्त आदिवाक्येन, तत्करणादेव च तफलमुपवर्ण्यते, तर्हि तत्रैवादिवाक्ये कथं प्रवृत्तिः*<८>* श्रोतॄणामसति तस्यादिवाक्यस्याभिधेयाद्यभिधायके वाक्यान्तरेऽ इति प्र्ष्टोधर्मोत्तरादिराचष्टां तावत् । का प्रवृत्तिरादिवाक्य इति चेत्; तस्य पठनं श्रवणमर्थावगाहनम् । अन्यथा प्रकरणेपि का प्रवृत्तिरिति तुल्यचोद्यम् । व्याख्यातृवचनात्तत्र प्रवृत्तौ प्रकरणेऽपि का क्षतिः? । तद्वचनं क्रीडाद्यर्थमन्यथापि [५ ]*<१>*संभाव्यत इति चेत्; समानमिदमन्यत्रापि । जिज्ञासया प्रवृत्तौ चादिवाक्यं वैयर्थ्यमश्नुवीत । आदिवाक्यविकलशास्त्रप्रवृत्त्यैव च प्रयासाल्पीयस्त्वात् । तत्र तदन्तरेणापि प्रवृत्तिर्नान्यत्रेति प्रतिवचनं प्रतिक्षिप्तम् । तस्माद्दूरमपि गत्वा तेनेदमभिधानीयं यदेवास्मदभिमतमिति किमतिनिर्बन्धेन [कृ]तं बहुतिथेन दोषेण । संशयस्य *<२>*स्वरूपमुपदर्शयन्नाह -- किमस्य [२.२२] इति । न वा किञ्चिदि[२.२२]त्यनेन निश्चयेनान्यानुसरणबीजं दर्शितम् । संप्रति प्रयोजनविशेषं प्रति प्रकरणस्योपायभावसंशयं तदभिधानात्प्राण्न्यायप्राप्तं प्रदर्श्य प्रयोजनमात्रापेक्षयापि तस्योपायत्वसन्देहस्तदभिधानस्य पुरस्तात्सम्भवी ततोऽपि प्रकरणे प्रवृत्तिरव्याहतेति दर्शयन् *<३>*तत्रैवाभ्य्च्चये हेतुमाह -- अपि च [२.२३] इति । एवं जिज्ञासोः [२.२४] इत्येतज्जिज्ञासात इत्यर्थात् । प्रवृत्त्युपयोगिप्रयोजनशून्यं निष्प्रयोजनम् [२.२४] तद्विपरीतं प्रयोजनवत्[२.२४] । उत [२.२४] इति पक्षान्तरावद्योतने । अनेन प्रेक्षापूर्वकारि[त्व]प्रयुक्तत्वजि(प्रयुक्तजि)ज्ञासा दर्शिता । सप्रयोजनत्वानुसरणे कदाचिदस्मदभिमतमपि प्रयोज*<४>*नं सम्भाव्यत इति भावः । अत एव व्यनक्ति -- अस्मदभिमतेन वा [२.२४] इति । इतिना [२.२५] जिज्ञासायाः स्वरूपं दर्शितम् । व्यर्थः [२.२५] निष्फलः प्रयोजनप्रतिपादको वाक्यस्य प्रस्तावादादिवाक्यस्योपन्यासः [२.२६] प्रदर्शनम् । यद्येवमर्थो वाक्योपन्यासो व्यर्थस्तर्हि किमर्थंवार्तिककारेणाकारीत्याशण्क्य तस्माद्[२.२७] इत्या*<५>*दिनोपसंहारव्याजेन फलमस्य दर्शयति । यस्मादेवमर्थः सम्बद्धः तस्माद्धेतोः । कर्तुं प्रतिपादयितुं वा नारभ्यते [२.२८] नानुष्ठीयत इति यथासंख्यं सम्बन्धः । तयोः साध्ययोः यथासंख्यमेवोदाहरणे प्राह । {प्.२४३} इतिः [३.२] प्रतिषेध्यस्य तत्करणप्रतिपादनानुष्ठानलक्सणस्य व्यापकस्यानुप*<६>*लब्धेराकारं कथयति । तया प्रत्यवतिष्ठमानस्य [३.२] प्रत्यवस्थानं कुर्वतः । तस्या असिद्धता, यस्या उद्भावनं प्रदर्शनं तदेवार्थः प्रयोजनम्, तद्यथा भवतीत्युपन्यसनक्रियाया विशेषणमेतत् । आदीयते अस्मादिति आदिः [३.३] तत्र । अस्मात्खलु अर्था आदाय आदाय व्याख्यायन्त इति । स्यादेतत्-- वचन*<७>*स्यास्य बहिरर्थे प्रामाण्याभावात्कथमसौ तद्वचनात्तदसिद्धतां बुध्यते? । यदि परस्मादस्य तद्विषयोऽर्थसंशयः प्रव्र्त्त्यङ्गं जायत इति तदेव मतमायातमिति किमनेन मसीम्रक्षितकुक्कटन्यायेनाचरितेनेति । अत्राचष्टे -- केवलं यः प्रतिपत्ता सति प्रयोजनादौ प्रेक्षापूर्वकारिणं कर्तारं *<८>*नियमेन आदौ तद्वादिनं मन्वानः तदर्थं वचनमस्याप्यपश्यन्नप्रेक्षावत्प्रयुक्तत्वगर्भप्रयोजनादिकमत्रापि जानीते, तं प्रतिपत्तृविशेषं प्रतीदमकृतादिवाक्यंवार्तिककृदिति । अन्यथा कथमसौ निष्प्रयोजनं चेदि(दमि)त्यादि निःसन्दिग्धमभिदध्यात् । आद्यस्य तूक्तया नीत्या प्रवृत्तिरव्याहतेति सर्वमवदातम् । अत्र*<१>* [५ ]भट्टार्च्चटमते सर्वैरेवधर्मोत्तरादिमतानुसारिभिः पराक्रम्यते । इत्थमस्माभिरिदं गमितम् । एतच्च साध्वसाधु वा मध्यस्थया धिया सद्भिरेव विज्ञास्यत इति । पूर्वं सामान्येन प्रयोजनाभिधानमाख्यातमिदानीं विशेषेणावच्छिन्दन्नाह तत्रेति [३.५] वाक्योपन्यासे । एतदर्थात्मनोपि संभवात्प्रकरणात्मन इत्याह । तदुक्तम्काव्याल*<२>*ङ्कारे "शब्दार्थौ सहितौ काव्यम्" [काव्या. १.१६] इति । कथं पुनर्व्युत्पादनं "परोक्षार्थे"त्यादिशब्दरूपस्य प्रकरणस्य प्रयोजनमित्याशंक्य सर्वशब्दसाधारणप्रयोजनोपन्यासपूर्वकमस्य तद्योगं दर्शयितुं यथास्वम् [३.६] इत्यादिनोपक्रमते । यस्य यदात्मीयमित्यस्यार्थः । वाक्यस्य [३.६] एकस्मिन्नर्थे प्राधान्येन प्रतिपाद्येऽर्थाद्वारेणान्योन्या*<३>*पेक्षिण उपकार्योपकारकभावेनावस्थितस्य पदसमूहस्य । हिः [३.६] यस्मादर्थे । तदेवात्र नास्तीत्याह तच्चे[३.७]ति । चो यस्मादर्थे । पदानां [३.७] सुप्तिङ्न्तानां शब्दानामवान्तरवाक्यान्तर्गतानाम् । अवान्तरवाक्यानामि[३.७]ति ।हेतुबिन्दुसंज्ञकमहावाक्यापेक्षया तदन्तर्भूतानां वाक्यानाम् । आकांक्षापूरण*<४>*योग्यं(ग्य)तत्तदर्थद्वारेण परस्परं[५]सम्बन्धो[३.७]व्यपेक्षा तेन । __________नोतेस्__________ [५] परस्परसंसर्गात्ऽ स्[अतः परं सर्वत्र मुद्रितहेतुबिन्दुटीकायाःस्ऽ इति संज्ञा बोध्या ।] ___________________________ {प्. २४४} नन्वेतावतापि न ज्ञायते कोत्र समुदायार्थो यस्मिन् प्रतिपाद्ये अमीषां परस्परसम्बन्धेन व्यापार इत्याह तथाहि [३.८] इति । निपातसमुदायश्चायं यस्मादित्यस्मिन्नर्थे सर्वत्र । व्युत्पाद्यते [३.८] विप्रतिपत्तिनिराकरणेन प्रतिपाद्यते । *<५>*इतिः [३.८] हेतौ । यदि तच्छब्देन तत्परामृष्येत तदा तदभिधेयं व्युत्पाद्यतयोक्तं भवेद्यावता तच्छब्देन तन्न परामृष्टमिति आह -- तस्यैव [३.९] इति ।[६]चः यस्मादर्थे । वाक्यभेदेश्च द्रष्टव्यः । ततोऽयमर्थः -- यस्मात्तच्छब्देन तस्य सम्बन्धः स्वीकारः तस्मात्सम्बन्धात्[३.९] इति । __________नोतेस्__________ [६] आलोकानुरोधेनतस्यैव च तच्छब्देनऽ इतिटीकापाठः स्यात् । मुद्रिते तुचऽ वर्जितः पाठोऽस्ति । ___________________________ स्यादेतत्-- अयं खलु तच्छब्दो अनन्तरप्र*<६>*कान्तं प्रधानं परामृशन् दृष्टः, अनुमानञ्च सामान्ये(समासार्थे) गुणीभूतम् । तत्कथं तस्य तेन परामर्शः? इत्यशंक्याह -- यद्यपि [३.९] इति । निपातसमुदायश्चायं विशेषार्थाभिधानाभ्युपगमे सर्वत्र । गुणीभूतम्[७][३.१०] उपसर्जनीभूतमप्रधानीभूतमिति यावत् । बहुव्रीहावन्यस्यैव पदार्थस्य प्राधान्यात् । __________नोतेस्__________ [७] टीकायां प्रतेरत्र त्रुटितत्वात्गुणभूतम्ऽ इति कल्पयित्वा स्थापितः पाठः, किन्तु आलोकसम्मतःगुणीभूतम्ऽ इति पाठः । ___________________________ त*<७>*थापि [३.१०] इत्यभ्युपगपूर्वं विशेषोक्तौ । शब्दस्य वृतिः प्रवृत्तिः -- अर्थाभिधानम्, तस्याः । प्रधानस्य संस्पर्शः स्वीकारः सम्बन्धः इति यावत् । तेन समं वास्तवसम्बन्धात्तत्परामर्शः स्यादित्याह -- शब्दानाम् [३.१२] इति । स्वभावतः [३.१२] स्वरूपेण सङ्केताव्यवधानेनेत्यर्थाः । अथवा मस(श)कसंकाशे किं महास्त्राकर्षणप्राये*<८>*णेति मन्यमानस्तदभिमतं प्राधान्यमेव दर्शयन्नाह -- पक्षे[३.१३]त्यादि । अयमस्याशयः -- यद्यपि समासार्थोपसर्जनं प्रत्यवम्रस्टुमशक्यं तथापि व्युत्पाद्यतया शास्त्रे प्रकृतत्वात्बुद्ध्यन्तरेण गृहीतं स्वतन्त्रं सत्प्रत्यवमृष्यते । यथायद्गृहमेतत्तमानयऽ इति । अविपरीतस्वरूपप्रतिपत्तिः [३.१४] शिष्यसन्तानवर्त्तिनीति द्रष्टव्यम् । [६ ]*< १>*साध्यत्वाद्[३.१५] एवेत्यवधारणीयम् । {प्. २४५} यद्येवं तद्व्युत्पत्त्यर्थमिति वक्तव्ये णिचा निर्देशेन किं प्रयोजनमित्याह -- अत एव [३.१५] इति । यतोऽनुमानव्युत्पत्तिः प्रकरणस्य साध्यत्वादेव प्रयोजनं नान्यथा अतः अस्मात्कारणात्प्रकरणस्य व्यापारस्तथार्थाभिधानं तद्दर्शयितुं[८][३.१६] । किंरूपं तद्दत्शयितुमित्याह -- अनुमाने[३.१५]ति । अनुमानव्युत्पत्तिः विषयः साध्यत्वाद्य*<२>*स्य स तथोक्तस्तं दर्शयितुं व्युत्पत्तिविषयं प्रयोजकव्यापारं दर्शयितुमिति यावत् । निर्दिशति [३.१६] आचार्य इत्यर्थात् । णिच्निर्देशस्यैवाकारमितिः दर्शयति । __________नोतेस्__________ [८] प्रतिपादयितुम्ऽ इति कल्पयित्वा पूरितो टीकापाठः । तथापि आलोकानुरोधेनदर्शयितुम्ऽ इत्येव सम्यक् । ___________________________ एवं च व्याचक्साणः शिष्यस्यानुमानव्युत्पत्तौ प्रकरणस्य हेतुकर्तृतां दर्शयति । शब्दोऽर्थं प्रतिपादयति इति लोकस्य व्यवहारदर्शनात् । सामर्थ्याच्चाचार्यस्यापि तथाभाव*<३>*मभिप्रैति । सति चैवं कर्तुः श्रोतुश्च करण-श्रवणप्रयोजनमपि सूचितं भवति । अथासति साध्यसाधनसम्बन्धाभिधाने कथं तत्प्रतीतिर्येन तस्य तत्प्रयोजनं सिद्धिमध्यासीतेत्याह -- ततश्च [३.१७] इति । यतः प्रकरणव्यापारोऽनुमानव्युत्पत्तिविषय उक्तः ततः कारणात् । चः [३.१७] अवधारणे उक्तः [३.१७] प्रकाशितः*<४>* । अन्यथा प्रकरणव्यापारस्य तद्विषयत्वायोगादिति भावः । ननु च प्रणेतुर्ज्ञानस्थमर्थं प्रतिपादयितुमुच्यते न (ंुच्चरितेन) शब्दात्मना प्रकरणेन तदभिधानं कर्तव्यम् । न हि अन्यथा तमर्थं प्रतिपाद्या(द्याः आ)कृत्या दर्शयितुं शक्यन्ते । तथा चार्थाभिधानमेवात्र प्रयोजकस्य प्रकरणस्य व्यापारः । स च ण्यन्ताभिधेयः*<५>* । तस्मात्व्युत्पादनं प्रकरणस्याभिधानमेव । ततश्चास्यैवाभिधानार्थमिदमारभ्यत इति प्रसक्तम् । न चैतद्युक्तम् । अनुमानव्युत्पत्त्यर्थं हीदमारभ्यते । न त्वस्यैवाभिधानार्थमिति चोद्यं प्रतिविधातुमभ्युपगच्छन्नाह -- यद्यपि [३.१८] इति । शब्दस्य वृत्तं वर्तनं प्रवृत्तिः व्यापार इति यावत् । तेन शाब्देन न्या*<६>*येन प्रकरणव्यापारस्य प्राधान्यमित्यर्थः । एतदुक्तं भवति -- शब्दस्य हि व्युत्पत्तिविषयः प्रयोजकव्यापारोऽभिधेयः प्रधानं तेन् तादर्थ्यं गम्येतेति । यदीदमनुमतमेव तर्हि किमर्थमेवमभिहितमित्याशङ्क्य प्रतिसमाधानमाह -- तथापि [३.१९] इति । वस्तुवृत्तेन [३.१९] वस्तुवृत्त्यपेक्षया आर्थेन न्यायेनेति*<७>* यावत् । {प्२४६}वस्तुवृत्त्यापि कथं व्युत्पत्तेः प्राधान्यमित्याह तस्या [३.१८] इति । अयमाशयः -- सर्वो हि प्रयोजकव्यापारः प्रयोज्यक्रियार्थः । उक्तं हि "विक्लेदनोपसर्जना विक्लित्तिः पचेः प्रधानार्थः" इति । तस्माद्व्युत्पादनार्थमिति प्रयोजकव्यापारवद्व्युत्पत्त्यर्थमित्युक्तं भवति । तद्व्युत्पत्त्यर्थमिति तूच्यमाने अन्यैस्तदर्थैस्भोजना*<८>*दिव (जनाव)स्थानादिभिः प्रयोजकस्तदर्थमात्रव्यापारतया समान उक्तः स्यात् । अस्ति चास्यासाधाराणो व्यापारः । स कथं नां गम्येत इति न्याय्यो णिङ्निर्देशः इति । शाब्दीं गतिमाश्रित्य वाक्यस्य प्रकरणप्रयोजनाभिधानप्रवृत्तत्वमभिसन्धाय परोक्षार्थेत्यादेरेकदेशस्य शाब्द्यैव गत्या गुणभूतार्थवाचकत्वं द[६ ]*< १>*र्शयन्नाह -- परोक्षार्थे[३.२३]ति । शब्दात्मनश्चेत्प्रकरणस्य प्रयोजनमुक्तम्, कृतमर्थात्मनस्तेनाभिहितेन इत्याशङ्क्याह -- न हि [३.२४] इति । तात्पर्यार्थप्रदर्शनेनैवं व्याचक्षाणश्चार्थेन न्यायेन अभिधेयप्रयोजनमेव वक्तुं प्रवृत्तमिदं वाक्यमिति दर्शयति । यथा [४.५] इति सामान्योक्तस्यास्य विषयोपदर्शने । भूतं [४.५] सत्यम् । किं तदि*<२>*त्यपेक्षायां ब्राह्मणीत्युक्तौ स्त्रीत्वावगतावपि यथा न तत्र स्त्रीप्रत्ययस्तद्वत्सर्वत्र द्रष्टव्यमित्यर्थः । आ समन्तादुप्यतेऽनेन इति आवपनम् [४.५] किमित्यपेक्षायामियम् [४.५] इति । उष्ट्रिका पिटकिका । ननु परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वात्यदि तद्व्युत्पाद्यते तर्हि शब्दादेरपि तन्निमित्तत्वात्तदपि किं न व्युत्पाद्यते इत्याशङ्क्याह -- अनेन [४.७] इति । अनेन *<३>*तत्प्रतिपत्तेः त्रिरूपलिङ्गाश्रयत्वकथनेन । चो यस्मादर्थे । प्रमाणभूता [४.८] प्रमाणरूपा अव्यभिचारिणीति यावत् । कस्मादेवमुक्तं भवतीत्याह -- अन्यस्मात्[४.८] इति उक्तत्रिरूपलिङ्गादन्यस्मात्तत्प्रतिपत्तेरव्यभिचारिण्याः परोक्षार्थप्रतिपत्तेरयोगादप्रयुज्यमानत्वात् । असत्यवधारणे अयम*<४>*र्थः कुतस्त्य इत्याह -- अवधारणात्[४.१०] नियमादिति । इतिः [४.१०] अवधारणस्य आकारं दर्शयति । ततः [४.१०] परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वादेव । आदि[४.१०]शब्दादर्थापत्त्यादिपरिग्रहः । उक्तादन्येन प्रकारेणानुमानत्वे प्रामाण्ये सति इति यावत् । तेषां [४.११] शब्दादीनाम् । {प्. २४७} स्यादेतत्-- अलिङ्गजापि परोक्षार्थप्रतिपत्तिर्*<५>*अव्य्भिचारिणी भविष्यति तत्कहं शब्दादीनां सत्यपि प्रामाण्ये तथात्वमित्याशङ्क्याह -- तथाहि [४.१३] इति । सर्वशब्देनाशेषपरिग्रहं दर्शयति । स्वतन्त्रा [४.१३] स्ववशा लिङ्गानपेक्षेति यावत् । हेतुमाह -- तस्याः [४.१४] इति । यस्तया व्यवसीयते स तस्याः स्वार्थः । मा भूत्संवादिका, प्रमाणं तु कस्मान्न भवति? । आह -- अवि*<६>*संवादनम्[९]अविसंवादकत्वं, तदेव लक्षणं स्वभावो यस्य तद्भावस्तत्त्वं तस्मात्[४.१५] । __________नोतेस्__________ [९] आलोकसम्मतः मूलपाठःविसंवादनलक्षत्वात्ऽ न तु यथा मुद्रितः --अविसंवादलक्षणत्वात्ऽ इति । ___________________________ स्वतन्त्राया अयोगात्, अन्यत एव सा भविष्यति किमेतावतानुमानत्वम्? । न हि पक्षधर्मतैव लिङ्गस्य रूपं येन तज्जायाः तथात्वं स्यादित्याह -- अन्यत्रापि(तोपि) [४.१५] इति ।[१०]असम्बद्धात्[४.१६] सिषाधयिषिताप्रतिबद्धात् । __________नोतेस्__________ [१०] स्ऽ प्रतेरत्र त्रुटितत्वात्यदि स्याऽ इति पूरितमस्माभिः । आलोकमनुसृत्यअसम्बद्धात्यदि स्याऽ इति -- पाठः पूरणीयः । ___________________________ अस्तु तर्हि प्रतिबन्धो न तु *<७>*पक्षधर्मता । ततश्चान्वयव्यतिरेकवतोऽपि शब्दादेरपक्षधर्मात्परोक्षार्थप्रतिपत्तिरव्यभिचारिणी नानुमानमित्याशङ्क्याह -- धर्म्यसंबन्धेपि [४.१६] इति । यद्येवमस्तु तत्प्रतिपत्तिहेतोः पक्षधर्मत्वमपि । किमतः इत्याह -- एवम् [४.१८] इति । एवं[११]रूपं [४.१८] साध्यसम्बद्धं विशिष्टधर्मसम्बद्धञ्च । इतिः हेतौ । सर्वा [४.१८] कृत्स्नैव । न भिद्यते [४.१९] न पृथक्प्रमाणम्*<८>* । __________नोतेस्__________ [११] अयमालोकसम्मतः पाठः । सेवम्भूतःऽ । ___________________________ सर्वत्रायमितिः [४.१९] वाक्यार्थपरिसमाप्तौ । यत्र तु अर्थविशेषे वर्तते स प्रायेण कथ्यते । स्यादेतत्-- उत्सूत्रोऽयमर्थस्त्वया व्याख्यायते न त्वयमत्राचार्यस्य विवक्षित इत्याह एष च [४.१९] इति । चः [४.२०] यस्मादर्थे । ननु प्रकृतसम्बन्धादर्थितमयमर्थोऽत्यन्त (-दर्शनेऽयमर्थोऽसङ्गत) इत्याह -- पक्ष [४.२०] इति । व्याप्त एव च [४.२२] इति समुच्चीयमानावधारणमिदम् । नरञ्च नारायण[७ ]*< १>*मेव चादौ स्वतः सुतौ द्वौ जनयां बभूव इति यथा {प्. २४८} "विवक्षातोऽप्रयोगेऽपि तस्यार्थोऽयं प्रतीयते" इति च भावः अवधारणात्[४.२२] इति ध्रु(ब्रु)वतः । तद्व्युत्पादनार्थमित्यत्रापि अर्थग्रहणसम्भवाद्[१२]अत्रे[४.२४]त्याह । __________नोतेस्__________ [१२] आलोकसम्मतःत्रार्थग्रहणंऽ इति पाठः । सर्थग्रहणंऽ । ___________________________ इतिः [४.२४] पदस्याकारं दर्शयति । स्वलक्षणविषयं [४.२४] वस्तुविषयम्, न सामान्यविषयमित्यर्थात् । कथमर्थविषयत्वाभिधानेऽनुमानप्रामाण्यस्य स्वलक्षण*<२>*विषयत्वमुक्तं भवतीत्याह -- अर्थे[४.२५]ति । एवमेवाचार्यस्य तथाभिधानं सङ्गच्छते नान्यथेति दर्शयितुमाह -- अत एव [४.२६] इति । अनुमनप्रामाण्यस्य स्वलक्षणविषयत्वादेव । अन्यथाप्रत्यक्षव्यवस्थायाःऽ इति विशेषो(ष्यो)क्तं स्यात्न सामान्येनेत्याशयः । अत्र प्रामाण्यस्य वस्तुविषयत्वादन्येन सामान्यविषयत्वप्रकारेण तत्र [४.२७] स्वलक्षणे, नान्यविषया*<३>*ज्ज्ञानादन्यत्र प्रवृत्तिर्युक्ता, अतिप्रसङ्गादिति भावः । ननु सामान्यमपि वस्तु, तेन तदर्थक्रियार्थितयैवे प्रवृत्तिरुपपत्स्यत इत्याह -- सामान्यस्येति [५.१] । अपिना [५.१] वस्तुत्वेऽभ्युपगमं दर्शयति । तस्यामेवार्थक्रियायां प्रवृत्तिर्भविष्यतीत्याह -- तस्याश्च [५.२] इति ।[१३]तदुत्पत्तावेव [५.२] सामान्यालम्बनज्ञानोत्पत्तावेव । __________नोतेस्__________ [१३] तदु[त्पाद्य]त्वेनऽ स्। ___________________________ तर्हि वाहदोहार्थक्रि*<४>*यार्थितयैव प्रतीते गोत्वे सामान्ये प्रवर्त्स्यतीति अत आह -- न हि [५.२] इति । हिः अवधारणे । हेतुमाह -- तस्य[१४][?] इति । अन्वयव्यतिरेकाभ्यां तत्रैव तद्व्यापारावधारणादिति भावः । __________नोतेस्__________ [१४] स्वलक्षणस्यैव स्। ___________________________ भिन्नस्य सतः कार्यकारणभावादन्यस्य सम्बन्धस्याभावाद्[१५]अनुपकार्यतये[५.४]त्याह । __________नोतेस्__________ [१५] अनुपकार[कत्वेन]ऽ स्। ___________________________ अभ्युपेत्यापि सम्बन्धमिदानीमाह -- सत्यपि [५.५] इति । चः [५.५] वक्तव्या*<५>*न्तरसमुच्चये । धूमार्थिनोपि धूमप्रतिपत्तौ धूमध्वजे प्रतिपत्तिः प्राप्नोति इति इष्टं धर्ममतिक्रान्तः प्रसङ्गः अतिप्रसङ्ग[५.६]स्तस्माद्धेतोः । {प्. २४९} अनवसितः -- अनवधारितः, विवेकः -- अन्यत्वं येन स तथा तस्य [५.६] । तदनवसाय एव कुत इत्याह -- समवायस्य [५.३] इति । समवायेन हि सम्बद्धं सामान्यमिति --नैयायिकादीनांमतम् । तस्य[१६]सामान्यस्याध्यवसायात्[५.७] समारोपात् । तत्र [५.७] स्वलक्षणे । __________नोतेस्__________ [१६] आलोकसंमतःतदध्यवसायात्ऽ इति पाठः ।वसायात्ऽ स्। ___________________________ ननु किमिदं समवायस्य सूक्ष्मत्वं विवक्षितम्? । यदि परिमाणविशेषयोगित्वम्, तदस्य न सम्भवति । अथाप्युपलब्धिजननयोग्यरूपरहितत्वं तदपि तदभावात्तदेव नोपलभ्यताम्, न तु तस्य ताद्रूप्येण सामान्यतद्वेतोर्भेदानुपलक्षणमुपपद्यते । न च समवायो नोपलभ्यतेनैयायिकमते समवेतविशेषणभावेन तस्योपलब्धेरिष्टत्वात् । तन्मतस्य चाशंक्यमानत्वादिति । न, अभिप्रायापरिज्ञानात् । इह हि सूक्ष्मत्वं समवायस्य समवायिनोर्भेदेनानुपलम्भकत्वं विवक्षितम् । एष हि समवायस्य महिमा येन समवायिनौ निर्लुठितगर्भवद्भेदेन नोपल*<८>*म्भयति पटतन्त्वादिवदिति । अन्यथा व्याख्यानं तु साहसमेव । अत्र एवं तर्हि [५.७] इति प्रतिविधानम् । इह भ्रान्तेस्त्वयाप्यवश्याभ्युपगन्तव्यत्वाद्भ्रान्तिमात्रमेवास्तु [५.८] इत्याह । वासनाद्वयनिबद्धो हि विकल्पः स्वाभासमेवागोव्यावृत्तं प्रतियन् बाह्यस्याप्यगोव्यावृत्ततया भेदमवगाहितुमनीशानो बाह्य एव गौर्मया प्रतीत इत्यभिमन्यमा[७ ]*< १>*नः प्रकृत्यैव भ्रान्तिरूपो जायते । भ्रान्तिरेव भ्रान्तिमात्रम् [५.८] वस्तुभूतसामान्यशून्यं स्वक्षणाश्रयतया अनुमानज्ञानाश्रयतयोपगतत्वेन च तयोरन्तर्वर्तित्वादनुपयोगितया च घाटामस्तकान्तरालवर्तिमांसपिण्डरूपगडुस्थानीयत्वात्गडुरूपं [५.८] तेन तद्विषयतयोपगतेनेति प्रकरणात्किं [५.८] न किञ्चिदित्यर्थः । अयमस्याशयः -- *<२>*यदि विकल्पो दृश्यविकल्प्यावर्थावेकीकृत्य लोकं प्रवर्तयितुं न शक्नुयात्यदि च तदुपगमेऽपि भ्रान्तिः प्रवृत्तिनिमित्तं नोपगम्येत, तदा तथा प्रवृत्तौ सामान्यमुपयुज्येतापि । यदि च तत्प्रमाणप्रसिद्धं भवेत्गडुवदेवानुपयुक्तमपि उपगम्येत, उपगम्य च तथा प्रवृत्ति इष्येत, यावता सर्वमेवेदमसम्भवीति । ननु निर्निबन्धनोऽन्यत्रा*<३>*न्यस्य समारोपो नोपपद्यते । न च व्यक्तिषु सर्वतो व्यावृत्तासु अनुगताकारस्य बुद्धिप्रतिभासस्यारोपे किण्चिन्निमित्तमस्ति । तत्कथं भ्रान्त्या प्रवृत्तिकल्पना ज्यायसीत्यभिप्रायवानाह -- निर्बीजे[५.८]ति । {२५०} ता एव [५.९] इत्युत्तरम् । याः स्वहेतुभ्यस्तथोत्पन्नास्ता व्यक्तयः स्वहेतुसामर्थ्यात्तदेकप्रत्यवमर्षार्थज्ञानाद्येकं कार्यं *<४>*यासां तास्तथा । एतदुक्तं भवति -- अतत्कार्यव्यावृत्त्या तदेककार्यत्वं सर्वसजातीयानुगतं तासु विद्यमानमनुगताकारस्य बुद्धिप्रतिभासस्यारोपबीजं किन्न भवतीति? । स्यादेतत्-- तदेककार्यतया तथाभूता अपि व्यक्तयः तथाभूताया भ्रान्तेर्बीजमुपपद्यन्ते । सामान्यमित्यस्मत्पक्षस्यापि न किञ्चित्प्रमाणमित्यभि*<५>*सम्बन्धमाकलय्य परस्परसामान्याभिधानमुन्मूलयितुमाह -- वर्णे[५.१०]ति । वर्णः शुक्लादिः, आकृतिः संस्थानं संयोगविशेषः, ताभ्यां समानोऽविशिष्टः आकार आभासो यस्य यत्र वा तत्तथोक्तम् । वर्णसमानाभासमाकृतिसमानाभासं वर्णाभासमाकृत्याभासमिति यावत् । वर्णाकृतिप्रयुक्त*<६>*त्वात्सामान्यस्य, तज्ज्ञानस्यापि तथात्वं नायुक्तमित्याह -- न च [५.११] इति । तद्रूपं [५.११] वर्णाकृतियुक्तरूपम् । तदुक्तम् -- "वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते" [प्व्२.१४७] इति । तत्[५.११] तस्मात् । वर्णाकृतिप्रयुक्तं हि प्रतिभासमानं हि तद्वर्णाकृतियोगिन्यपरत्र भ्रान्तेर्बीजं [५.११] निबन्धनं भवेत्, नान्यदितिभावः । यदि नाम सामान्य*<७>*तद्वतोर्वर्णादियोगाभ्यां वैसदृश्यं तथापि सामान्यं तत्र भ्रमनिबन्धनं किं न भवति इत्याह -- सादृश्ये[५.११]ति । अस्ति हि काचिद्भ्रान्तिर्या अन्तरुपप्लवसम्भवे इत्यभिप्रेत्य परैः [५.१२] इत्याह । यदि एवं बाह्यस्य बुद्धिप्रतिभासेन सामान्येन किं सादृश्यं येन ब्रान्तिरुत्पद्यत इति आह -- व्यक्तय [५.१२] इति । [१७]सामान्यालम्बनं यज्ज्ञानं तस्य य आकारो*<८>* विजातीयव्यावृत्तरूपं तस्य सरूपाः [५.१३][१८]विजातीयव्यावृत्ता [५.१२] इति हेतुभावेन विशेषणम् । तेन विजातीयव्यावृत्तत्वादित्यर्थः । बुद्धिप्रतिभासस्य वा अतद्रूपपरावृत्ततयैवावभासनादिति च भावः । __________नोतेस्__________ [१७] आलोकसम्मतःसामान्यालम्बनज्ञानाकारसरूपाःऽ इति पाठः ।सामान्याकारज्ञानस्वरूपाःऽ स्। [१८] आलोकसम्मतःविजातीयव्यावृत्ताःऽ इति पाठः ।[समानजा]तीयव्यावृत्ताःऽ स्। ___________________________ यैर्वैशेषिकादिभिर्व्यक्तेर्भिन्नं सामान्यमिष्टं तैरप्यवश्यमुक्तया नीत्या स्वलक्षणविषयमनुमानस्य प्रामाण्यमेष्टव्यमिति प्र[८ ]*< १>*तिपाद्य संप्रतिमीमांसकादीन् प्रतिपादयितुं यैः [५.१६] इत्यादिनोपक्रमते । {प्. २५१} तुः [५.१६] विशेषार्थः । सामाण्यमनुमाने प्रतिभासमानं प्रवृत्तिविषयः, तच्च व्यक्तिस्वरूपमिति स्वलक्षणविषयमेव प्रामाण्यं तस्यापतितमित्याशयः । यद्येवं भवन्मतवत्तदपि मतमतिशोभनमित्याशङ्क्य आह -- स्वलक्षणे[५.१७]ति । तद्देशोपसर्गणजन्मनीन्द्रियज्ञान इव *<२>*प्रतिभासनप्रसङ्गेन शब्दादपि तं(तत्)प्रतीतौ चक्षुरिन्द्रियादिवैयर्थ्यप्रसङ्गेन व्यक्तेरप्रतिभासने तदात्मकं सामान्यं कथमिव प्रतिभायादिति भावः । ननु यद्यनुमानस्यापि प्रामाण्यं स्वलक्षणविषयं तर्हि प्रत्यक्षादस्य भेदः कथमित्याशङ्क्याह --[१९]परोक्ष इति । तुः प्रत्य्क्षादनुमानं भेदवद्दर्शयति । __________नोतेस्__________ [१९] स्संज्ञकहेतुबिन्दुटीकायाः प्रतेरत्र त्रुटितत्वात्मूलपाठाभावः बोध्यः । ___________________________ यस्मादर्था[त्]साक्षादनुदय*<३>*मानमुत्पत्तुं लिङ्गमपेक्सते, अर्थञ्च न साक्षात्करोति तस्मादित्यर्थः । सति भाव आश्रयार्थः । स्यान्मतम् -- यद्यस्यापि स्वलक्षणं विषयः, तर्ह्यन्यत्सामान्यलक्षणं, सोऽनुमानस्य विषयः[न्बि] इतिन्यायबिन्दुर्विरुध्येतेत्याह -- तदेवेति । चो यस्मादर्थे । कथं तथा वक्तुं शक्यत इत्याह -- लक्ष्यत इति । सा*<४>*मान्यमतद्रूपपरावृत्तिर्लक्षणं लक्षकं यस्यातद्रूपपरावृत्तस्य वस्तुनः । त एव भेदाश्च अविवेचितभेदाः सामान्यमित्यर्थः । पुनरुक्ताशङ्कामित्यर्थपुनरुक्ताशङ्का इत्यवसेयम् । शब्दपुनरुक्तस्यानुम्भवादेव तदाशङ्काया अभावात् । द्विविधं हि पुनरुक्तम् । अर्थपुनरुक्तम् -- यदा विशेषविधित्सा*<५>*द्यभावे स एवार्थः शब्दान्तरेणाभिधीयते । शब्दपुनरुक्तं तु विधित्साद्यभाव एव यदा स एव शब्दः पुनरुच्चार्यते । विशेषविधित्सादिभावे तदेव द्वैधमर्थानुवादशब्दानुवादात्मना द्वैधं भवतीति । वार्तिकादौ तर्ह्यनैपुण्यमाचार्यस्येति चेत् । न, मन्दबुद्धीनधिकृत्य तत्प्रवृत्तेः । प्रमाणेनेति तृतीयान्तात्तसिर्द्रष्टव्यः । तन्निश्चयतः प्रभेदनिश्चयतः पुरुषव्युत्पादनमिति विग्रहः । प्रभेदस्य व्युत्पादनमिति सम्बध्यते । प्रभेदोऽपि द्विधा द्रष्टव्यः -- अनुपलब्ध्यादिभेदेन पक्षधर्मत्वाद्यात्मना च । यदि कार्यादिभेदनिश्चायकं प्रमाणमत्रोक्तम्, तर्हि अन्वयादिप्र(स्व)रूपप्रभेदनिश्चायकं प्रमाणं नोक्त*<७>*मेवत्याशंक्याह त्रिविधेति । त्रिभिरन्वयव्यतिरेकपक्षधर्मतात्मकैः प्रकारैः । {प्. २५२} प्रकर्षेण भिन्नस्य भेदमुपगतस्य । एवमभिधानादेव चास्य प्रभेदस्येत्यत्रास्माभिस्तथा व्याख्यातमन्यथा एतन्न संगच्छेत । स्यादेतत्-- लिङ्गलक्षणानुमानस्वरूपस्य व्युत्पादनं स्याद्यदि लक्ष्यं लक्षणं तन्निर्दिष्टं भवेत् । प्रभेदस्य च *<८>*तदा स्याद्यदि तन्निर्देशः स्यात् । न चात्र तद्वाचकमस्तीत्याह तत्र त्रेधाव्युत्पादने व्यवस्थिते सतीति । एवञ्च निर्देशप्रदर्शनं परं कृतं बोद्धव्यं न तु लक्षणानुवादेन लक्ष्यविधिर्दर्शितः । हेतुरिति तु लक्ष्यमनूद्य पक्षधर्म इत्यादिलक्षणं विधेयमवसेयम् । इतिना नियमस्याकारो दर्शितः । प्रतिपाद्योपलक्षणं [८ ]*< १>*भावग्रहणम् । तेन भावेषु अभिधेयेषु इत्यर्थः । अभावेषु तथा न स्यात् । अत्र तु साहायकंकुमारिलसाक्षिणमपक्षिपन्नाह तदुक्तमिति । संवित्तेरनुगमोऽनुबन्धः स्थैर्यम् । धारावाहित्वमिति यावत् । सकृज्जाता तु विपक्षाभावसंवित्तिरदृढा यत्र, न तत्र, यथावधारणमित्यनेन सूचयति ।[२०]हिर्यस्मादिन्द्रियस्य भावाङ्गे(वांशे)नैव संयोगः । संयोगशब्देन *<२>*संबन्धो विवक्ष्यते । न त्वन्यतरकर्मादिगुण एव । सामान्यादेरप्रत्यक्षत्वप्रसङ्गात् । सोऽपि कस्मादित्याह -- योग्यत्वादिति । भावांशेन सह सम्बद्धमिन्द्रियं योग्यंमीमांसकमते । सतोरेव सम्बन्धोपपत्तेरिति भावः । स विषयोऽस्येति तद्विषयस्तस्य भावस्तत्ता । कस्या सेत्यपेक्षायामाह प्रत्य्क्षस्येति । कस्मादित्याह -- अर्थेति । विरो*<३>*धिन्यनुपपन्ना चतुर्धा चतुर्भिः प्रकारैः । __________नोतेस्__________ [२०] भावांशेनैव संयोगो योग्यत्वादि इन्द्रियस्य हिऽ इति स्व्, अभाव १८ । ___________________________ असामान्यतयैव तत्साधनीभविष्यतीत्याह -- तत्र इति । अनुक्रान्तं रूपं [६.९] स्वभावो यस्य तत्तथा । अनुक्रान्तं प्रकान्तमेकज्ञानसंसर्गितुल्ययोग्यतालक्षणं वाच्यम् । हेत्वन्तरमपि तथा भविष्यति इत्याह -- यदि [६.९] इति सम्भावयति । हिः [६.९] यस्मादर्थे । स्यात्तथारूपमिति प्रस्तावात् । आदि[६.९]*< ४>*शब्दात्कालस्य संग्रहः । घटवदिति चाशयः । अयं प्रकारः[२१][६.१२] कार्यकारणव्याप्यव्यापकलक्षणः । तस्मात्[२२][६.१२] कार्यकारणभावाद्यभावात् । ते [६.१२] कारणव्यापकानुपलब्धी । न च तस्य चात्यन्तासतोऽविकलकारणस्य भावः सम्भवति इति भावः । __________नोतेस्__________ [२१] प्रकारोऽयंऽ --स् [२२] तत्ऽ -- स् ___________________________ {प्. २५३} अमूषां सम्भवमभ्युपपद्येदानीं दूषणं दत्ते -- सम्भवे च[२३] [६.१४] *<५>*इति । __________नोतेस्__________ [२३] वाऽ स् ___________________________ ननु कथमयं नियमः सिध्यतीति प्रश्ने किमिदमकृतं नियमसिद्ध्यनङ्गमभिधीयत इत्याशङ्क्याह -- एवं मन्यत [६.१८] इति । एवं वक्ष्यमाणकम् । इह [६.१८] वाङ्मये व्यवहारे । तद्विपर्ययेण [६.१८] तस्य नियम्यमानस्य विपर्ययेण । तद्विपक्षस्य [६.१९] तस्य नियमविषयस्य विपक्षः तद्विपक्षस्तस्य व्याप्तौ । [६.२१] सत्याम् । *<६>*प्रतिषेध्यस्य हेतुत्वस्य यः स्वभावस्तेन यद्विरुद्धं हेत्वाभासत्वं तस्य उपलब्ध्या [६.२५] । ननु हेतूक्तलक्षणप्रतीतिकाम्(मो)हेतोरेव रूपं प्रतीयताम्, कथं पुनः परस्परपरिहारवत्तया तयोर्विरोधः प्रतीयत इत्याह -- तदात्मे[७.१]ति । तस्य हेतोर्य आत्मा तत्र नियतो यः प्रतिभासस्तस्य यज्ज्ञानं संवे*<७>*दनं तस्माद्धेतोः विपरीतस्य अन्यतया तदनात्मतया सामर्थ्यात्ज्ञातया । इत्थंभूतलक्षणा चेयं तृतीया । तदाभासता तस्याः प्रतीतेः [७.२] सामर्थ्येन निश्चयात् । तस्मात्किं भवतीत्याह -- परस्परमिति [७.२] स्यादेतत्-- अत्यन्तासतो हेत्वन्तरस्य न केनचित्सह विरोधावगतिः येन विरुद्धोपलम्भातभावगतिर्भवति । तत्र च हेतुत्वम*<८>*त्यन्तासत्कथं निषिध्येत इति पूर्वपक्षद्वयमुत्प्रेक्षमाण आह -- ते च [७.४] इति । चो यस्मादर्थे । नापि च तेन निषिध्यमानं हेतुत्वमत्यन्तासत्तयोपगतमिति सम्बन्धनीयम् । तर्हि किमत्र तत्त्वमित्याह -- केवलं [७.६] इति । अन्यत्र [७.६] कार्यादौ प्रसिद्धं निश्चितं व्यामोहादज्ञानात्तत्र [७.६] हेतुत्रयबाह्ये अर्थे आरोपितं [७.७] सत्त्वेन व्यवस्थापितम् । शङ्कित[९ ]*< १>*मस्ति न वेतिऽ संशयास्पदीकृतम् । तत्[७.७] तस्मात् । किं कस्मात्सामर्थ्यात्प्रकाश्यमानमित्युक्तम् । एवमुपलक्षणत्वादस्य कथं निषेध इत्यपि द्रष्टव्यम् । ननु किं हेत्वन्तरे हेतुत्वं भवत्वा[भवथेत्वा]भासत्वभावान्निवर्तमानमवगतं येन तस्यानेन विरोधो वक्ष्यत इत्याह -- न च [७.८] इति । इदानीमत्यन्तासत्त्वमभ्युपगम्यापि दोषाभावं प्रदर्शयितुमाह -- नापि [७.१०] इति । {प्. २५४} कथं पुनस्तत्रैव*<२>* तदवगमो न भवतीत्याशङ्क्याह -- न हि [७.११] इति । मा तत्रावधारि विरोधोऽन्यत्रापि कथमत्यन्तः(ता)सतस्तदवगम इत्याह -- सर्वत्र[२४] [७.१३] इति । __________नोतेस्__________ [२४] स्प्रतावत्र शङ्कितः पाठः । आलोकानुरोधेन स तु "विरोधोऽपि तु सर्वत्र" इति गम्यते । ___________________________ लक्षणं [७.१५] वस्तूनां विभक्तरूपं, तत्प्रयोजनमस्य इति तथा[२५]। नियतरूपप्रतीतिरेव सर्वेण समं तस्य विरोधप्रतीतिरिति समुदायार्थः । __________नोतेस्__________ [२५] लाक्षणिकः [७.१५] ___________________________ दुर्मतीनां विस्पन्दितानि [७.१८] व्याकृतानि, तेषु । प्रकरणं निगमयन्नाह -- इति स्थितमे*<३>*तत्[७.१८] इति । इतिः [७.१८] इति अनन्तरोक्तमुपपत्तिप्रकारं प्रत्यवमृषति । इतिः [७.२०] अभिप्रायस्याभिप्रायेण विषयीकृतस्याकारं दर्शयति । प्रमाणयोर्द्वैतात्द्वयोरनियतरूपदर्शने कतरेणे[७.२५]त्युक्तम् । उपगतमित्यनेनारोपमाह । विशेषप्रतिषेधात्शेषविधानं लब्धमित्यभिप्रायेण पक्षधर्मतासद्भावे पि*<४>* [७.२७] इत्याह । भवतु अविनाभावाभावो हेत्वाभासत्वन् तु कस्मादित्याह -- अविनाभावेति [८.२] । असिद्धविरुद्धानैकान्तिकानां सामान्यधर्मेण [८.३] साधारणेन धर्मेण । संप्रति विशिष्टेन नाम्ना साधनमिदमवच्छिन्दनाह -- इति [८.३] इत्यादि । अविनाभाववैकल्यमेव तु कुतः सिद्धिमित्याह -- अविनाभाववैकल्यञ्च [८.५] इति । तेभ्यः*<५>* स्वभावादिभ्यो व्यतिरिक्तानां व्यापकानुपलब्ध्या[२६] [८.६] वक्ष्यमाणस्य व्यापकस्यानुपलब्ध्या । __________नोतेस्__________ [२६] व्यापकानुपलब्धितः -- स् ___________________________ तदनुपलब्धिरेव कुत इत्याह -- त्रिविधे[८.५]ति । तद्भावे हि त्रिविधान्तर्भावादेव तद्व्यतिरिक्तत्वमेव न भवेदिति भावः । किं तद्व्यापकानुपलब्ध्या तत्सिद्धिमध्यारोहतीत्याह -- तथाहि [८.६] इति । तादात्म्येन तदुत्पत्ता*<६>*वेवेति(त्पत्त्या वेति) विवक्षितम् । न तु द्वाभ्यामेव । तस्मादुत्पत्तिस्तत्कारणाद्वोत्पत्तिश्च तदुत्पत्तिरिष्टा द्रष्टव्या । कुतस्ताभ्यां तस्य व्याप्तिरित्याह -- तयोः [८.७] इति । तत्र [८.७] अविनाभावे । तस्य [८.८] अविनाभावस्य । तयोः [८.८] सतोरेव । {प्. २५५} कस्मात्तयोरेव तस्य भावः? । किं पुनरन्यथापि न भावहित्याह -- अतत्स्वभावस्येति [८.८] । पूर्वोक्तत*<७>*दुत्पत्तिनिषेधेन यस्य यस्मादनुत्पत्तिर्यत्कारणाद्वा तस्यातदुत्पत्तेरिति [८.८] बोद्धव्यम् । अत्र स्वातन्त्र्यजिहासयावार्तिकमुपन्यस्यति -- तदुक्तम् [८.९] इति । स्यादेतत्-- दृष्टचरमिदं यततत्स्वभावेन अनुत्पन्नेन च केनचित्कस्यचिदव्यभिचारो यथा रसादिना रूपादेरित्याह -- रूपादिना [८.१५] इति । रसादेरविनाभावः [८.१५] अव्यभिचारित्वम् । *<३>*केनेत्याह -- रूपादिना [८.१५] इति । आदिशब्दात्स्पर्शादिसङ्ग्रहः । तत्कारणोत्पत्तिरेव [८.१६] इत्यभिदधानस्तदुत्पत्तिशब्देन पूर्वं द्वे विधे विवक्षिते इति स्फुटयति । एतदेवान्यथा [८.१७] इत्यादिना द्रढयति । विशेषाभावोऽसिद्धः, एकार्थसमवायित्वमेव विशेष इत्यभिप्रेतुर्वचनमेकार्थ [८.१९] इत्यादिना शङ्कते । एकार्थसमवाय इत्यत्र द्वयी व्युत्प[९ ]*< १>*त्तिः -- एकस्मिन्नर्थे एकस्मिन् समवाय एकार्थस्य वा समवाय इति । अत्र तु एकस्मिन्नर्थे द्वयोः समवायः इति विवक्षितम् । स निमित्तं यस्य अविनाभावस्य स तथा । सिद्धान्ती प्रतिविधास्यमानश्चोदयति -- ननु [८.२०] इति । "अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः" [प्रशस्त. प्. ६९६) इत्यादावाधार्याधारग्रहणादुपवर्ण्यते इत्या*<२>*ह । अस्तु तथाविधयोरसौ का क्षतिरिति आह -- स च [८.२०] इति । चो यस्मादर्थे । तस्याभिधेयत्वेनाभिमतस्वरूपान्धकारे अतिप्रसक्तिदोषान्न सिध्यति [८.२१] । स्थित्यादिकरणेनाधारभावस्यान्यत्र निषिद्धत्वादिति भावः । इतिः [८.२१] हेतौ । समवायमभ्युपेत्य एतदुक्तम् । तदेव तु नास्तीति संप्रति प्रतिपादयन्नाह --[२७]यथा च [८.२२] इति । तादा*<३>*त्म्ये चे[२८][९.१]ति तेन सहेत्येव योजनीयम् । __________नोतेस्__________ [२७] स्प्रतेरत्र त्रुटितत्वात्"-समवायो[वसे]यः" इति कल्पनया पूरितः पाठः । आलोकानुरोधेन तु स एवं स्यात्-- "-समवायोऽवसेयः । यथा च समवायः" [२८] वा -- स् ___________________________ {प्. २५६} ये [९.२] वस्तुस्वभावाः एवं भवन्ति [९.२] तथाभूताव्यभिचारिणो भवन्ति । भवन्तस्तर्हि किं कर्तार इत्याह -- केवलम् [९.३] इति । द्रष्टारः [९.३] परिच्छेदकाः तथाभूतवस्तुस्वभावानामिति प्रकरणात् । "अकस्मात्"शब्दोऽनिमित्तवचनः तेनाकस्माद्भवोऽहेतुक इत्यर्थः । इतिः [९.४] तस्मात्न कस्य चिद्व*<४>*स्तुनः स स्वभावो विरमेत् । सर्वस्य सर्वः स्वभावः स्यादित्यर्थः । दिगादिवदहेतोः सतो देशकालनियमो नेष्ट एवेति वादिनि तु देशकालग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेन यथा देशकालनियमो हेतुरहितस्य नास्ति तथा द्रव्यनियमोऽपि न स्यादित्यर्थः । एतदेव तद्धि [९.५] इत्यादिना समर्थयति । *<५>*हिर्यस्मात्तद्गमकं वस्तु कर्तृ किञ्चिद्गम्यं[२९]कञ्चिद्(क्वचिद्) धर्मिण्युपनीयेत अग्निर्वा न वेति [९.५] तद्विपरीतं वा स्यात् । यस्य [९.५] वस्तुनो यत्र [९.६] गम्ये किञ्चिद्द्रव्यमायत्तं, न वेति अस्य विवरणमनायत्तमिति । __________नोतेस्__________ [२९] "क्वचिद्" इति मुद्रिते संपूरितः पाठः सम्यक् ___________________________ अन्वयमुखेनोक्त्वा व्यतिरेकमुखेणाप्युपपादयति अन्यथा [९.६] इति । [३०]तस्माद्[९.७] इत्यादिनोपसंहरति । __________नोतेस्__________ [३०] "ततो" इति मुद्रिते संपूरितः पाठः । ___________________________ पादप्रसारिका [९.९] इति । सुखावस्थानोपलक्षणमिदं द्रष्टव्यम् । अभिधातव्यमेव कारणम् । न तु भवदभिप्रेतमित्याह तच्च [९.१०] इति । इतिः [९.१०] तस्मात् । तद्विकला [९.११] अविनाभावरहिताः । एतदेवाचार्यवचनेन संस्यन्दयन्नाह -- तथा चाह [९.११] इति । स्यादेतत्-- असत्यपि तत्स्वाभाव्ये तत्कार्यत्वे वा किञ्चिदर्थान्तरमव्यभिचरदृष्टमेव यथा*< ७>*तपे तरुच्छाया । यथा तुलाया अर्वाग्भागोन्नामावनामौ परभागावनामोन्नामाविति । एवमाद्यस्माभिर्धर्मोत्तरप्रदीपे विस्तरेण निरूपितमित्यास्तां तावदिह । स्यादेतद्-- अविनाभावस्य तादात्म्यतदुत्पत्त्योरव्यभिचारे निमित्तं न तावत्तादात्म्यतदुत्पत्ती स्तो यथा चायं तथा तदन्योपि तदव्यभिचारी च स्या*<८>*न्न च तस्य तत्स्वभावत्वं तत्कार्यत्वञ्चेति । {प्. २५७} अत्रोच्यते । नाविनाभावो नामान्य एवान्वयव्यतिरेकवतोऽविनाभाविनो रूपात् । केवलं कयाचिद्व्यपेक्षया ततो भिन्न इव कथ्यते. न तु तावता वस्तुतो भिन्न एव. अविनाभावि च रूपं किञ्चिदव्यभिचरितव्यादर्थान्तरं किञ्चिदनर्थान्तरम्, तस्य तत्कार्यतयाइव प्रतिबन्धोऽनर्थान्त[१० ]*<१>*रस्य तु तादात्म्येन । अत एवाविनाभावभावात्तादात्म्यतदुत्पत्तिव्यवहारः साध्यते । तदभावं तु तदपि रूपं नास्तीति प्रतिपाद्यत इति सर्वमवदातम् । अत्र [९.१५] अस्मिन्नर्थे प्रयोगो [९.१५] द्व्यवयं साधनवाक्यम् । तदुत्पत्तिपक्षे तु तत्कारणेन चेत्यपि । स्यादेतत्-- यथा तादात्म्यतदुत्पत्त्यभावोऽप्यनुपलब्धिः साध्याव्यभिचारिणी तथान्यदपि किं न भवेदित्याशं*<२>*क्याह स्वभावे[९.१८]ति । अभावव्यवहारयोग्यतायाः साधनादित्यभिप्रायः । तादात्म्यं [९.१९] लक्षनं निबन्धनं यस्य स तथा । तदपिआचार्यस्याभिमतमिति दर्शयन्नाह तदुक्तम् [९.२२] इति । इदानीमिममेव "पक्षधर्म"इत्यादिश्लोकमन्यथा व्याचिख्यासुरनेन यावन्तोऽर्था निर्दिष्टाः तावतः परिसंख्यातुमाह -- तदेवम् [९.२५] इति ।[३१]तस्य संख्यानियमस्योपपत्ति*<३>*र्युक्तिः । __________नोतेस्__________ [३१] "तदुपदर्शकं च प्रमाणम्" -- स्। "तदुपपत्तिश्च" इति आलोकसंमतः पाठः । ___________________________ एतच्छ्लोकव्याख्यानस्यापरामपि विधां दर्शयन्नाह -- अथवा [९.२८] इति । पूर्वन् तु लक्ष्यानुवादेन लक्षणविधानपरं विवक्षितम् । न त्ववधारणचिन्ताकृतेति ततो भिन्नमिदं व्याख्यानम् । कथमिदमुक्तमवधारणमुपपद्यत इत्यभिप्रेत्य पृच्छति । किं कारणम् [१०.१] अत्रेति प्रस्तावात् । किमिति सामान्यतः कारणं पृच्छति । अवि*<४>*नाभाव[३२]भावादिति श्लिष्टनिर्देशमभिसन्धाय त्रिविधस्य च [१०.३] इत्युक्तम् । तथा ह्यविनाभावे नियमान्नियतत्वादित्युक्ते कस्येत्याशंकायां त्रिविधस्य च श्रुतत्वात्त्रिविधस्येति युज्यते वक्तुम् । __________नोतेस्__________ [३२] अविनाभावनियमात्-- स् ___________________________ एवमुभयावधारणे(णेन) व्याख्यातेन कोर्थातिशयः प्रकाशितो भवतीत्याह तेन [१०.३] इति । द्वावपि इति शब्दौ हेत्वर्थाउ । एवमु*<५>*क्तं भवति । ततः [१०.७] कारणात्त्रिविधहेतुवाह्येषु हेतुव्यवहारं कुर्वन्तो निरस्ता भवन्ति । कुतः? अवि[३३]नाभावस्याभावात् । त्रिवेधे च हेतावहेतुतामाचक्षाणा निरस्ता भवन्ति । कुतः अत्रावि[३४]नाभावस्यावश्यं भावात्[१०.८] । __________नोतेस्__________ [३३] आलोकसंमतः पाठः सम्यक्, न तु यथा संपूरितः [३४] अहेतुत्वम् -- स् ___________________________ {प्. २५८} अस्मिन् व्याख्याने "हेत्वाभासास्ततोऽपरे" इति व्याख्यातुं पूर्वपक्षं रचयन्नाह[३५]तथैतत्[१०.११] *<६>*इति । द्वेधा हि तदंशव्याप्तिविरहो विपर्ययव्याप्तेः विपर्यये बाधकप्रमाणाभावादित्यभिप्रायेणाह विपर्यये[१०.१७]त्यादि । ते [१०.१७] बुद्धिनिविष्टा असिद्धविरुद्धानैकान्तिका हेतुरूपविकलतया हेत्वाभासा गम्यन्त एव । असिद्धेत्यादि तु वास्तवानुवादः । न तु तत्संज्ञया ज्ञातैस्तैः प्रयोजन(नं) हेतुत्वमात्रज्ञाने*<७>*न चरितार्थत्वात् । एवमपि वा प्रज्ञाइः ज्ञायन्त इति न काचित्क्षतिः । __________नोतेस्__________ [३५] तत्रैतत्-- स् ___________________________ एवदेव सामान्यन्यायोपदर्शनमुखेन प्रसाधयन्नाह -- तथाहि [१०.१९] इति । अत्रापि व्याख्याने अङ्गाङ्गिभावेन प्रतिपादितानामर्थानामवच्छेदं कुर्वन्नाह -- तदत्रेति [१०.२७] । तदुभयस्य -- त्रिविधो हेतुरेव, त्रिविध एव हेतुरित्यस्यावधारणद्वयस्य कारणम् [११.१] उपपत्ती द्वे *<८>*इत्यर्थत्वात् । श्लिष्टस्य षष्ठ्या सप्तम्या च संगतस्य, अविनाभावनियमात्-- इत्यस्य निर्देशात् । अनन्तरोक्तास्त्रयोऽर्था इमौ च द्विकारणलक्षणौ द्वावर्थापत्तयश्चक इति षडर्था भवन्ति । अस्मिन्नेव श्लोके पूर्वव्याख्यानापरित्यागेनावृत्त्यैवापरमपि व्याख्यानमभ्युच्चिन्वन्नाह किञ्चेति [११.४] । ननु प्रथम एव व्याख्याने "त्रिविधैव(त्रिधैव) स[१० ]*< १>*इति प्रभेदस्य व्युत्पादनम्" इति ब्रुवता स हेतुस्त्रैधा कार्यस्वभावानुपलब्धिभेदभिन्न इति प्रकाशितमेवैतत्, कथं व्याख्यानान्तरमिदमिति चेत् । सत्यमेतत् । केवलं "त्रिधैव स" इत्यत्र व्याख्यानान्तरमिदं विधेयं तच्च तदा सुज्ञातं भवति, यद्यस्य प्राक्प्रवृत्तं व्याख्यानमुपदर्श्य प्रदर्श्यत इत्यभिप्रायेण तद्व्याख्यानमनूदितम् । एतदपेक्षेण तु अ*<२>*थवेत्यनेन किञ्चशब्दार्थमुज्ज्वलयता यत्प्रदर्श्यते तदेव व्याख्यानान्तरं द्रष्टव्यम् । अजहत्कार्यत्वादिप्रभेद एवायं प्रभेदो ज्ञातव्यः । तेनायमर्थः -- कार्यादिभेदभिन्न एव प्रत्येकं पक्षधर्मत्वान्वयव्यतिरेकात्मकस्त्रिरूप एवेति । एतेनैकद्विपदपर्युदासेन षट्पक्षान् प्रतिक्षिप्य सप्तमपक्षपरिग्रहेणानुमानलक्षणमभिप्रे*<३>*तं वार्तिककृतो दर्शयति । यत एकपदपरिग्रहेण त्रयः पक्षा, द्विपदपरिग्रहेणापि त्रय इति षट्कम्, तत्पर्युदासेन सप्तिका(सप्तम)परिग्रहः । तथाहि पक्षधर्मो हेतुरित्युच्यमाने यस्य सपक्षेनन्वयो विपक्षे च प्रवृत्तिः सोपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वादिति । सपक्षे यस्यान्वय इत्युच्यमा*<४>*ने विपक्षप्रवृत्तेरपक्षधर्मस्य हेतुत्वं स्यात् । यथा नित्यः शब्दश्चाक्षुषत्वात्सामान्य{प्. २५९}वदिति । य(त)था सपक्षव्यतिरेक इत्युच्यमाने योऽपक्षधर्मः सपक्षे च नास्ति स हेतुः स्यात् । यथा अनित्यः शब्दोऽसत्त्वादिति । पक्षधर्मे सपक्षे च योऽस्ति स हेतुरित्युच्यमाने नित्यः शब्दः प्रमेयत्वादिति*<५>* विपक्षवृत्तिर्हेतुः स्यात् । पक्षधर्मः सपक्षे नास्तीत्युच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं सपक्षवृत्तिहीनो हेतुः स्यात् । सपक्षेऽस्ति विपक्षे च नास्तीत्युच्यमाने अनित्याः परमानवः कृतकत्वादित्ययमपक्षधर्मो हेतुः स्यात् । तदेतत्सर्वं मा भूदिति समुदायोपादाने प्रयो*<६>*जनमिति । इदमेव च सर्वं बुद्धावाधायधर्मोत्तरप्रदीपेऽस्माभिरभ्यधायि "त्रिरूपाल्लिङ्गादिति च आचक्षाणेन" इत्यादि । ननु पक्षधर्मवचने पक्षधर्मतोक्ता । अन्वयव्यतिरेकात्मकयोस्तु रूपयोः केनाभिधानं येनैवं व्याख्यायत इत्याह तदंशे[११.६]ति । अत्रैव सामर्थ्यावच्छिन्नमवदर्शयन्नाह *<७>*नाबाधिते[११.७]त्यादि । पूर्वप्रभेदापरित्यागेनास्य भेदस्य विवक्षितत्वात् । उभयमपि तच्छब्देन परामृषति । अविनाभावभाव एवाबाधितविषयत्वस्य भावात्न तद्रूपान्तरम्, वस्तूनाञ्च विरुद्धस्वभावद्वयाभावात्तत्रैकस्मिंस्तदविनाभाविनि तद्विरुद्धरूपाविनाभाविनोऽन्यस्यासंभवेनापि(प्य)प्रतिपक्षत्वं नाम तदन्तर्गतमेव । यस्य तु तद्व्य*<८>*तिरिक्तमिष्टं तदभिप्रायेण व्यतिरिक्त[११.१०]ग्रहणम् । रूपान्तरस्य[११.१२] सम्भवः[११.१२] सद्भावः, स यस्यास्ति तस्मिन् । अविना[भावा]भावमेव नहि [११.१३] इत्यादिना समर्थयति । रूपान्तरयोगिन्यप्यविनाभावासम्भवादसिद्धस्तद्भाव इत्याह तद्वति [११.१४] प्रतिबन्धनिबन्धना[विना] भाववतीति । यदि तस्मिन्नपि रूपान्तरं स्यात्केवलमप्रमाणकमेतदुच्यत इत्याह यथा चे[११.१५]ति । [११ ] *<१>*वक्ष्यते[३६]हेतुना व्यक्तीक्रियत इति । __________नोतेस्__________ [३६] वक्ष्यति -- स् ___________________________ पक्षो धर्मधर्मिसमुदायः । तथाभूतसमुदायसाधकप्रमाणाभावेन तद्धर्मतया सर्वस्यैव ग्रहीतुमशक्यत्वादिति भावः । अथ कथञ्चित्तद्धर्मस्य सिद्धिः [११.१९] निश्चयस्तस्यां वा सिद्धप्रयोजनत्वात्तस्य हेतोर्वैयर्थ्यम् । परस्थानपतितत्वात्पर एवासावित्यभिप्रायेणईश्वरसेन एव परः [१२.६] अभिप्रेतः । अधि(व्यधि)करणत्वेन*<२>* साध्याधिकरणाद्विभिन्नाधिकरणत्वेन असिद्धम् [१२.१२] अनिश्चितम्, तत्र चिरास्पदीभूते धर्मिणि द्वयोरप्यन्ययोरसिद्धत्वात् । इदमिह स्वरूपासिद्धमिदं तु व्यधिकरणासिद्धमित्येतदेव कुतो व्यवस्थाप्यमिति चेत् । सत्यमेतत् । केवलं तत्रासिद्धोऽपि हेतुरन्यधर्मिगतत्वेनोपादीयते, स व्यधिकरणासिद्धो बोद्धव्यः । {प्. २६०} कस्मात्तत्संबन्धना*<३>*र्थं नाशङ्कनीयमित्याशंकायां तदभिधानीयं तदभिव्यक्तत्वादनेन नोक्तम् । धर्मो हेतुस्तदंशेन व्याप्त इत्युक्ते वा [सक]लोपि हि जानात्येव । न तस्यात्मन एवांशेन व्याप्त इत्यभिप्रायात् । आचार्येण [१३.२२] इति ।ाचार्यदिग्नागेन । पक्सस्य धर्मिणो धर्मस्यानुपपत्तेः न तावत्कर्मधारयो त एवासंख्यापूर्वकत्वा*<४>*च्च न द्विगुः । अनव्ययत्वाच्च नाव्ययीभावः । यच्छब्दवाच्यासंभवात्, न हि स एव धर्मी स एव धर्म इत्यर्थविरोधाच्च समासान्तस्यानिच्प्रत्ययप्रसक्तेश्च न बहुव्रीहिः । नपुसंकलिङ्गात्द्विवचनप्रसङ्गाच्च "चा"अर्थासंभवाच्च न द्वन्द्वः । सप्तमीसमाससूत्रे च धर्मशब्दस्यासंग्रहाद्योगविभागेन तत्समासभावे*<५>*पि षष्ठीसप्तम्योरभेदादित्यभिप्रायवान् प्राह [३७]षष्थीतत्पुरुषाद्[१४.२२] इति । षष्ठीसमासे च राजपुरुषादौ स्वाम्यन्तरव्यवच्छेदो दृष्टो राज्ञः पुरुषो वाच्युस्येति(-षो नान्यस्येति) । तद्वदिहापि पक्षस्य धर्मो नान्यस्येत्यन्ययोगव्यवच्छेदः स्यादित्यभिसम्बन्धः । __________नोतेस्__________ [३७] षष्ठीसमासाच्च -- स् ___________________________ ननु ज्वाला [१५.२१] वह्निः । आदिशब्दाद्बुद्ध्यादि क्षणिकत्वेनेष्टमिति तत्क*<६>*थमक्सणिवादिनं तं प्रति पक्षस्य(स्या)भाव इत्याह यदपीति [१५.२१] । न प्रत्यक्षतः [१५.२२] इति ब्रुवतोयं भावः -- यदि प्रत्यक्षेण क्षणस्योपलक्षणं स्यात्, तदा दृष्टान्तपर्येषणा पर्यवसानं गच्छेत् । यदा त्वनुमानतस्तदा तदपि तेषामनुमानमदृष्टान्तकं कथं स्यादिति साधनं दुःखमिति । एतच्च कस्यचित्परस्य क्षणिकत्वाभ्यु*<७>*पगममभ्युपगम्योक्तम् । न तु सहेतुनाशवादिभिर्बुद्ध्यादेरप्युत्पत्तिक्षण एव भावो न तु द्वितीये क्षण इति एवं लक्षणं क्षणिकत्वमेष्टव्यम्, आशुतरविनाशित्वाभिप्रायेण क्षणिकशब्दप्रवृत्तेरिष्टत्वादिति द्रष्टव्यमिति । तत्र प्रति.....न्धनस्याविनाभावस्य बाधकप्रमाणतः सिद्धावप्यन्यत्वेऽत्रैव वृत्तिरपेक्षणीयेति परिभा.... *<८>*काल्पनिकत्वं [१५.२४] तस्य प्रतिपन्नं स्यादित्याशयः । प्रतिपन्नं [१५.२५] स्वीकृतमभ्युपगतमिति यावत् । स्व(स) [१५.२६] इति स्वसाध्यप्रतिबन्धः । अन्यत्र [१६.१]विनिश्चये । यद्वस्तु धूमादिकं क्वचित्पर्वतादौ दृष्टं निश्चितं तस्य धूमादेः यत्र वह्न्यादौ प्रतिबन्धः प्रतिबद्धत्वं तद्विदः प्रतिबन्धविदः पुंसस्तस्य प्रतिबन्धविषयस्य वह्न्यादेः तद्धूमादि[११ ]*< १>*कं गमकमनुमापकं तत्र पर्वतादौ इतिः एवमर्थे । गतिर्बलं सामर्थ्यमिति यावत् । एवंपरम् [१६.५] एवंप्रधानमेतदर्थं "तत्तुल्ये सद्भावः" इति वचनम् । स हेतुनापि तत्त्वेन (हेतुः कल्पितत्वेन) धर्मो यस्य स तद्धर्मा [१६.५] साध्यधर्मी तस्य । वस्तुबलादागतं वास्तवम् । {प्. २६१} पक्षत्वेन तस्य सपक्षत्वं निराक्रियत इत्याह साध्यत्वेने[१६.६]ति । इच्छाव्यवस्थितलक्षणत्वेन तस्यावास्तवत्वं *<२>*दर्शितम् । तेन हीनबलत्वं साध्याविनाभावित्वस्याविनाभावादिति संबन्धः । कस्मात्तन्निबन्धनं तदित्यपेक्षायामाह -- अन्यथा [१६.८] इति । तस्याविनाभावित्वस्यायोगादयुज्यमानत्वादिति । इदम् [१६.१०] अत्राननुवृत्तेरिति । सत्यमि[१६.१०]त्यादिना प्रतिविधत्ते । कस्यचिदि[१६.१४]ति शिंशपात्वादेर्वृक्षत्वादिव्यवहारसाधनस्य । यदापि तथाविधस्य हेतोरन्यत्वे च प्रसिद्धेन *<३>*प्रतिबन्धेन् कार्यं तदाप्यन्यत्राप्यननुवर्तमानः कथं दुष्येदित्याह तदा ही[१६.१८]ति । विरुद्धोपि विपर्यये सम्यग्धेतुनेति चेति विपर्ययानिश्चितवृत्तित्वमुक्तम् । तस्मिन् धर्मिणि संशयहेतुः स्यात् । साध्यभावाभावयोरित्यर्थात् । साध्यभावाभावविमुक्त एव धर्मी भविष्यति प्रकारान्तरसद्भावात्, तत्कथमसौ तत्र संशयहे*<४>*तुः स्यादित्याशंक्याह -- तदुभयबहिर्भावायोगात्[१६.१९] साध्यवृत्तिव्यवच्छेदे वह्निभावायोगात् । कस्येत्याशंकायामाह तद्धर्मिणः [१६.१९] तस्य हेतोराश्रयस्येति । कस्मात्पुनस्तेन साध्यधर्मव[ता] । तदभाववता वा भवितव्यः(व्यम्) प्रकारान्तरस्यापि सम्भवादित्याह साध्ये[१६.२०]ति । अन्योन्यव्यवच्छेदरूपाणामेकभावस्या*<५>*परविधिनान्तरीयत्वात्कुतः प्रकारान्तरं संभवतीति भावः । स्यादेतत्-- अन्तर्व्याप्तिप्रसाधकादेव प्रमाणाद्विवादाध्यासितस्य धर्मिणस्तद्धर्मत्वज्ञानान्मौलस्य हेतोह्कथमतिव्यक्तमपि वैयर्थ्यंभदन्तधर्माकरदत्तेन न लक्षितमिति । अहो अभिप्रायापरिज्ञानविलसितम् । एवं हि ब्रुवतोऽस्यायमाश*<६>*यः -- दृष्टान्तधर्मिणीव साध्यधर्मिण्यपि सर्वोपसंहारेण धर्मानवच्छेदेन व्याप्तिग्रहे मौलादेव साध्यसिद्धेः कुतो वैयर्थ्यम् । इतरथा दृष्टान्तधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्ताविष्यमाणायां कथमिव मौलो हेतुर्वैयर्थ्यं नाश्नुवीत । तथाहि तत्रापि तत्प्रवृत्तं धर्मिसामान्योपग्रहेण व्याप्तिं प्रतिपद्यते । *<७>*तथा च पक्षीकृतस्यापि जिज्ञासितधर्मवत्त्वं तत एव सिद्धमिति । अथोच्यते -- बाधकप्रमाणमाहात्म्यात्सत्त्वस्य क्षणिकत्वसिद्धावपि किं न शशविषाणादेस्तत्त्वं सिद्धं ततस्तद्व्यावृत्तिरूपताप्रतिपादनार्थं धर्मिणोऽवश्यं "संश्चायं शब्दादिः" इत्यर्थः [उप]संहर्तव्यः । इतः सत्त्वहेतोरेवासंहृतात्शब्दादेः क्षणिकत्वावगतिर्नास्मन्मते हेतोर्वैयर्थ्यमि*<८>*ति । ननु समानमिदमस्माकमपि । तथाहि व्याप्तिग्राहकात्प्रमाणात्तत्र प्रवृत्तादपि धर्मिविशेषापरिग्रहेण प्लवमानाकारा प्रवृत्तिः क्षणिकत्वसत्त्वयोस्तादात्म्यग्राहिणी जाता न तु प्रवृत्त्यङ्गम् । "य(स)च्चेदम्" इति तु दर्षिते सति "इदं क्षणिकं शब्दादि" इति प्रवृत्त्यङ्गं प्रतीतिरुपजायते, यतो विशिष्टे देशादौ प्रवर्त्तत इति । कथमस्मन्मते मौल[१२ ]*< १>*स्य हेतोर्वैयर्थ्यम् {प्. २६२}अमन्दमन्दाक्षेणोच्यत इति ।धर्मोत्तरादिभिर्विगर्हितेऽप्यस्मिन्मते गतिरियमस्माभिरुपवर्णिता । अत्रापि तु किञ्चिद्वाच्यं तदस्माभिरेवस्वयूथ्यविचारे दर्शितमिह तु मा भूद्विरसीभाव इति नोच्यत इति । ननु विशेषणेन सहोदितो निपातोऽयोगं व्यवच्छिनत्ति । "विशेषणविशेष्याभ्यामिति" वचनात् । अत्र च पक्ष एव *<२>*व्यवच्छेदकवद्विशेषणमिति तेनैव सहावधारणं वाच्यम् । तथा च पक्षस्यैवे धर्म इत्युक्तौ तदवस्थो दोष इति चेत् । नैतदस्ति । "विशेषणविशेष्याभ्याम्" इत्यत्र शाब्दीं गतिमनाश्रित्याश्रितत्वाद्विशेषणम्, आश्रयत्वाद्विशेष्यमित्यार्थेन विशेषणविशेष्ययोरभिप्रेतत्वात् । सति चैवं पक्षो न विशेषणम्, आश्रयत्वाद्विशेष्यस्तु भवति, धर्मस्त्वाश्रि*<३>*तत्वाद्विशेषणमेव न विशेष्य इति । तेन सहोदितनिपातोऽयोगमेव व्यवच्छिनत्तीति सर्वमवदातम् । चैत्रो [१७.४] नाम कश्चित्पुरुषः । तेनैवाकारेण ज्ञातस्य ज्ञानाय प्रश्नानुपपत्तिः । साम[३८]र्थ्यम् [१७.११] । आदि[१७.११] शब्दात्प्रकरणादिसंग्रहः । प्रकृष्टे अनन्यसाधारणे गुणेऽतिशये वृत्तिर्यस्य स [१७.१२] तथा । तदुक्तं "*<४>*न हि विशेषसन्निधिरेव सामान्यशब्दानां विशेषावस्थितिहेतुरपि तु प्रकरणसामर्थ्यादिकमर्पय(मपि" इ)ति । पार्थे ही[१७.१२]त्यादिनैतदेव समर्थयते । पार्थः पृथायाः कुन्ताया अपत्यम् । योगरूढिश्चैषा तेनार्जुन एवाभिधीयते । श्रोतुः [१७.१९] अर्थात्प्रष्टुः प्रतिपाद्यस्येति यावत् । तादृशं [१७.१३] सातिशयं धानुर्द्धर्य(यं य)दान्य*<५>*गामि निषिध्यते । __________नोतेस्__________ [३८] आलोकसम्मतः "सामर्थ्यादिना" इति सम्यक् । न तु यथा मुद्रितः "प्रकरण सामर्थ्यादिना" इति । ___________________________ कमात्तत्र धनुर्धरत्वमात्रमित्याह प्रतिपाद्ये[१७.१५]ति । परामृष्यते[३९][१७.२१] वाच्यत्वेन परिगृह्यते । __________नोतेस्__________ [३९] परामृश्यते -- स् ___________________________ अनभिमतं प्रतिषेधयति न धर्म [१७.२१] इति । कुत इत्याह -- धर्मस्ये[१७.२२]ति । ननु कैषा वाचोयुक्तिर्द्धर्मस्य धर्मासंभवादिति । किं धूमादीनामाश्रितत्वेन धर्माणां धूमत्वपार्थिवत्वादयो धर्मा न सन्ति*<६>*? येनैवमुच्यत इति । सत्यमेतद्वा केवलं बोधे यत्नः करणीयः । धर्मशब्देनेह साध्यो वह्न्यादिरभिप्रेतः स च तस्य धर्मो नास्त्येवेति किमवद्यम् । अथात्र केन धर्मोऽभिहितो येन धर्मस्य धर्मभावप्रतिपादनं युज्यत इत्याह {प्. २६३} अंशश्च [१७.२२] इति । चो यस्मादर्थे । अंश इवांशो यथांशोऽ*<७>*शिविशेषणस्तथा धर्मोपि धर्मिविशेषक इत्यभिप्रायः । पक्षशब्देन समुदायवचनात्तदेकदेश एवांशो वक्तव्य इत्याह पक्षशब्देन [१७.२२] इति । तस्यैवैकदेशः किं नोच्यत इत्याह तस्य[४०]च [१७.२२] इति । [४०] मुद्रिते "च" रहितः पाठः कप्लितः किन्तु आलोकसम्मतः पाठः "तस्य च एक-" इति । ___________________________ धर्माणां धर्मा[४१]धारत्वासंभवादि[१७.२८]ति पूर्वं बोद्धव्यम् । यतो व्याप्ये सति व्यापकस्य नियमेनोपस्थापनमेव व्यापकनिष्ठा व्याप्ति*<८>*स्तत्करणात् । व्याप्यस्यैव [१८.३] न तु व्यापकस्य व्याप्तताप्रतीतिरविनाभाविताप्रतीतिः । किमपेक्षा सा तथा प्रतीतिरित्याह[४२]व्यापके[१८.२]ति । व्यापकभावमपेक्षते "ईक्षिक्षमिभ्यांञ्च" [वा. १९८१] इति कर्मोपपदे णः । व्यापकस्य भावं नियमविषयं रूपमपेक्ष्य पर्यालोच्य तथा प्रतीतिर्भवतीत्यर्थः । __________नोतेस्__________ [४१] अयमेव सम्यक्पाठः न तु यथा कल्पितोऽस्माभिह्"धर्माणां धर्मान्तरत्वाभावात्" इति । [४२] आलोकसम्मतः "व्यापकभावापेक्षा" इति पाठः सम्यक्, न तु यथा अस्माभिः कल्पितः । ___________________________ तत्र भावमेवेत्यभिमतमवधारणं प्रदर्श्यानभिमतं निरा[१२ ]*< १>*कुर्वन्नाह न त्वि[१८.३]ति । नापि तत्रैवे[१८.५]ति । अवधार्यत इति वर्तते । साधारणः [१८.६] सपक्षासपक्षसाधारणः । दोषान्तरसमुच्चयार्थश्चकारः । वा[१८.८]शब्दो व्यापकधर्मापेक्षया पक्षान्तरमवद्योतयति । तत्रैवे[१८.८]त्यवधारणमभिमतं प्रतिपाद्यान्यथावधारणं निषेधयन्नाह अत्रापीति [१८.९] । एतदेव सूत्रकारवचनेन संस्यन्दयन्नाह तदुक्तमि[१८.१७]ति । *<२>*लिङ्गे साधने सति लिङ्गी साध्यं भवत्येव । अनेन व्यापकधर्मगता व्याप्तिर्दर्शिता । इतरल्लिङ्गं पुनर्लिङ्गिन्येव साध्य एव भवतीति । अनेन व्याप्यधर्मगता व्याप्तिरुक्ता । उक्तेन प्रकारेण नियमस्यावधारणस्य विपर्यासे वैपरीत्ये-विपर्यासश्च एकत्रायोगव्यवच्छेदेन विशेषणा(णम)परत्रान्ययोगव्यवच्छेदेन तस्मिन् विपर्यासे सति *<३>*लिङ्गलिङ्गिनो[र]सम्बन्धो ()व्याप्तिरित्यर्थः ।[४३]तेन [१८.२०] व्याप्तेरुभयत्र एकाकारताप्रतिपत्तिप्रतिषेधप्रदर्शनेन । अयञ्च दोषआचार्येणये धूमं संयोगिनं हेतुमिच्छन्ति, तान् प्रत्यभिहितो न तुनैयायिकान् प्रति । तैर्धूमस्य एकार्थसमवायित्वाल्लिङ्गत्वेनोपगतत्वात् । ते हि धूमा{प्. २६४}वयविनं प्रदेशं वा धर्मिणमाधाय*<४>* साग्नित्वसिषाधयिषया धूमत्वं धूमवत्त्वं वा सामान्यं हेतुमुपाददत इति । __________नोतेस्__________ ___________________________ [४३] एतेन -- स् इह [१८.२३] व्याप्तिवत्सद्गमकत्वे आख्यातं [१८.२३] प्रकाशितम् । तथाही[१८.२३]त्यादिनैतदेव समर्थयते । एतदपि तद्वचनेन संस्यन्दयन्नाह -- तथा च [१९.१] इति । द्विष्ठत्वात्सम्बन्धस्य कथमुभयत्रैकाकारताव्याप्तिर्न स्यादित्याशंक्य यद्यपि इत्यनेन द्विष्ठं सम्ब*<५>*न्धं वास्तवमभ्युपगम्यापि प्रतिविधत्ते । कयोरसावित्याह = अङ्ग [१९.२] इति । अंगेज्ञप(अङ्गेर्ज्ञानप)रस्य ग्रहणादंग्यते लिङ्ग्यते प्रतीयतेऽनेन परोक्षार्थ इत्यङ्गं लिङ्गम् । तेन लिङ्गलिङ्गिनोरित्यर्थः । किंभूतः स इत्याह । सहे[१९.२]ति । तयोरेव युगपद्भाविप्रकृतत्वात् । द्विष्ठत्वाभ्युपगमादेव च सहभावित्वाभ्युपगमो*<६>*प्यायातः । "यद्यपि"शब्दसान्निध्यात्"तथापी"त्यर्थतो द्रष्टव्यम् । तस्य संबन्धस्य वृत्तिर्वर्तनम् । तयोर्लिङ्गलिङ्गिनोरित्यर्थात् । कयोरिव सेत्याह -- आधाराधेययोरिवेति सप्तम्यन्ताद्वतिः । यथा आधाराधेयभावलक्षणः सम्बन्धो द्विष्ठोपि नैकरूपया वृत्त्या द्वयोर्वर्तते यत एवैकसम्बन्धयोगेपि नाधारस्या*<७>*धेयत्वमाधेयस्य वाधारत्वं तथा लिङ्गलिङ्गिनोर्व्याप्तिरपि धूमत्वादावन्यथा, अन्यथा च वह्नित्वादौ । अत एव धूमत्वादिरेव व्याप्यतया गमको न प्रमेयत्वादिः । वह्नित्वादिरेव व्यापकतया गम्यो न तु तार्णत्वादिर्नापि धूमो गम्यो वह्निर्गमक इति । यत एवं तस्य वृत्तिः तेन [१९.४] कारणेन । इती[१९.४]त्यादिना प्रकरणोपसंहारः । अन्यत्र*<८>* [१९.१०] इतिन्यायबिन्दौ ।विनिश्चयेऽपि "त्रिरूपाल्लिङ्गात्" इत्यादिनोक्तः । स्पर्धयावस्थानं कक्षा । तुल्या कक्षा [१९.२२] यस्य स, तद्भावस्तत्ता, तस्याः सूचकं प्रकाशनं तदेव अर्थः प्रयोजनं यस्य "वा"शब्दस्य । परमार्थतस्तादात्म्यात्[१९.२४] इति ब्रुवता तदुपपादयता चान्वयेन व्यतिरेकगतौ व्यतिरेकेण चान्वयगतौ स्वभावहेतुरधिकृत इति दर्शितम् । तेन यत्के[१३ ]*< १>*नचिदुपक्षिप्तम् -- "सामर्थ्यमिच्छतःकीर्तेर्नष्टं द्वित्वावधारणम्" इति - तदपहस्तितं द्रष्टव्यम् । {प्. २६५}[४४]प्रसङ्गतो निश्चयरूपात्प्रस्तावात् । "पक्षधर्मस्तदंशेन व्याप्तो हेतुः" इति वचनात् । सूत्रस्य क्रमेण परिपाट्या । सर्वस्येति सर्वस्यैवेत्यवधारणीयम् । प्रत्यक्षानुमानाभ्यामिति सामस्त्यनिषेधो बोद्धव्यो न तु कस्यचित् । द्वाभ्यामन्यस्य पुनरेकैके*<२>*नेति । __________नोतेस्__________ [४४] अत्र स्प्रतेरेकं पत्रं नष्टम् । ___________________________ अविकल्पनत्वात्प्रत्यक्षास्य कथं ततो निश्चयस्तस्य सम्भवीत्याशंक्याह -- प्रत्यक्षेण[४५]प्रती[२०.८]ति । चो [२०.८] यस्मादर्थे । सामान्यविकल्पजननादि[२०.९]ति धूमादिलिङ्गप्रत्यक्षाभिप्रायेणोक्तम् । उपचारत [२०.९] इति प्रत्यक्षतो निश्चय इत्युपचारतः उच्यत इति । __________नोतेस्__________ [४५] स्प्रतौ "प्रति" इति नास्ति । ___________________________ ननु सामान्यं लिङ्गं कथं तस्याध्यक्षतो निश्चय इत्याह यद्यपी[२०.११]ति । यस्तु [२०.१९] इत्यादिनाउद्द्यो*<३>*तकरमतमाशंक्यते । अग्निसम्बन्धी [२०.१९] वह्निमान् । स देशोऽप्रत्यक्षोऽधोदेशस्य ताद्रूप्यादित्याशयः । किं तथाभूतं नभोस्ति? सत्त्वे वा किं तस्य भागोस्तीत्याशंक्यबौद्धाभिप्रेतमेव दर्शयन् पर आह आलोके[२०.२०]ति । आदिरहणात्तमसो ग्रहणम् । तदुक्तम् " आलोकतमसी नभः" इवा(इत्या)शयः । प्रदेशे वस्तुतः साधर्म्या(साध्या)धा*<४>*र इति द्रष्टव्यम् । तर्ह्यनुमानोत्सेद एव प्राप्त इत्याशंक्य पुनेरेव व्यवस्थां कुर्वन्नाह तस्माद्[२०.२२] इति । कथं पुनः स एव धर्मी स एव हेतुर्भवितुमर्हतीत्याह साग्निः [२०.२२] इति । अनेन धूमविशेषस्य धर्मित्वं धूमसामान्यस्य हेतुत्वं दर्शयति । समानचोद्योपदर्शनमुखेन तुल्या(तस्या)पि [२०.२३] इत्यादिना सिद्धान्ती प्र*<५>*तिविधातुमुपक्रमते । तस्यैवं मतेः । तावत [२०.२७] इति दृश्यादृश्यविभागवतः धूमेपि धर्मिणि उक्तेन प्रकारेण एतत्संगच्छत इति साम्याभिमानशष्यं(शस्यं) परस्य सा(शा)तयन्नाह प्रदेश एव चे[२१.१]ति । चशब्दः परमताद्विशेषार्थः । अन्यत्रोपलभ्यमानस्यान्यदेशापेक्षया गमकत्वं कथमित्याह देश*<६>*काले[२१.२]ति । आचार्येणाप्येतदभिमतमित्युपदर्शयन्नाह यदाचे(हे)[२१.३]ति । अतश्चैवमभ्युपेतव्यमिति दर्शयन्नाह पथे[२१.९]ति । अनुमानहेतुत्वादनुमानं प्रत्ययभेदभेदित्वादि । धर्मिणो वा[२१.१५] स्वरूपग्रहणमपि तावत्कथं युज्यते इत्येव योज्यम् । तयोः सम्बन्धस्य [२१.१५] आधाराधेयलक्षणस्य ग्रह*<७>*णम् । इतिः [२१.१६] प्रत्यवस्थीयमानस्याकारं दर्शयति । {प्. २६६} एवमसौ प्रत्यवतस्थ इति कथं ज्ञायत इत्याशंक्याह तेन ही[२१.१६]ति । हिर्यस्मात्तेनकुमारिलेन। ज्योतिष्टोमादेः श्रेयःसाधनत्वं धर्मो बोद्धव्यः । यदाहशबरस्वामी"को धर्म्मो यः श्रेयःसाधनः" [शाबरभा.१.१.२] इति । अतएवकुमारिलोप्याह "श्रेयःसाधनताप्येषां नि*<८>*त्यं वेदात्प्रतीयते" [श्लोकवा. २.१४] इति । जैमिनिसूत्रे शबरस्वामीयमेतद्भाष्यम् [२१.१७] । एतद्भाष्यमिति चार्थद्वारेणोक्तम् । न त्वीदृश एवभाष्यग्रन्थः। प्रमाणस्येति विवक्षायामनुमानादिन [२१.१८] इति निर्देशः । कदा तत्पूर्वकं तदित्याह यदेति । निर्विकल्पा कल्पनाशून्या इन्द्रियस्य धीः [२१.१९] । सैव कथं तथेत्याह स्मृती[२१.१९]ति । यस्मादर्थे वा [१३ ] *<१>*यदाशब्दो द्रष्टव्यः । विकल्पनमन्तरेणापि कथं न तथा ग्रहणमित्याह नचे[२१.२०]ति । लिङ्गादेः प्रत्यासन्नत्वात्लिङ्गादिकमेवाविकल्प्येति द्रष्टव्यम् । तथा सम्बद्धत्वेन गृहीतिर्ग्रहणम् । इतिः आक्षेपस्याकारं दर्शयति । प्रत्यक्षेणाग्रहणं कस्येत्यपेक्षायामाह लिङ्गादे[२१.२३]रिति । कुत इत्याह -- अविकल्पनादिति । तदित्यग्रहणम् । नेति निषेधयति । विकल्प*<२>*स्यापीष्टत्वात्प्रत्यक्षेणेति प्रकरणात् । किं विकल्पमात्रस्य तथोत्पत्तिरित्याशंक्याह -- अर्थे[२१.२४]ति । अर्थरूपमुपकारि यस्य, तस्माद्वोपकारोप्यस्तीति तथा । ननु निर्विकल्पसविकल्पभेदेनार्थविज्ञानस्य द्वैते सतीदं वक्तुं युज्यते । न चैतत्संभवीत्याह -- अस्ती[२१.२५]ति । हिर्यस्मादर्थे । विकल्पात्पूर्वं भावात्प्रथमम् [२१.२५] आद्यं बालादिषु तथा*<३>*विधविकल्पानिष्टेर्ज्ञानं दृष्टान्ततयेष्टम् । शुद्धवस्तुजम् [२१.२६] शब्दस्मरणरहितवस्तुजमित्यर्थः । ततः [२१.२७] आलोचनाज्ञानात्परमुत्तरकालम् । पुनरप्रथमे । जात्यादिभिर्विशिष्टं यया बुद्ध्यावसीयते सापि न केवलमालोचनाज्ञानमिति अपिशब्दः । एवं च ब्रुवतोऽयं भावः -- यद्यपि प्रथमं निर्विकल्पकबोधेन द्व्यात्मकं *<४>*वस्तुगृहीतमिन्द्रियसंबन्धात्, तथापि न विशेष्यविशेषणभावापत्त्या गृहीतम्, अयःशलाकाकल्पयोर्जातितद्वतोः साक्षात्करणात् । तथा गृह्णत्त्विदं प्रमाणमेवेति । इतिना [२२.१] उक्तेः आकारं दर्शयति । उक्तं [२२.३] सामर्थ्यादेतदुक्तम् । न तु साक्षात्तेनोक्तमेतत् । यस्मात्तेनैवं ब्रुवता सामर्थ्यादेतत्प्रकाशितं ततः [२२.३] तस्मात् । तेनकुमारिलेन उपद[४६]र्शितो यो दोषः "सौगतानामेव प्रत्यक्षेण लिङ्गाद्यग्रहणाम्" इत्येवंलक्षणः, तस्य प्रतिविधानाय । __________नोतेस्__________ [४६] उपवर्णित स्। ___________________________ {प्. २६७} शिष्याणां सुखप्रतिपत्त्यर्थं सधूमं ही[२२.४]त्यादिफक्किकायाः समुदायार्थमुपदर्शयन्नाह अयमत्रे[२२.५]ति । ननु चाविकल्पकं प्रत्यक्षं नेयतो व्याधान(व्यापारान्)कर्तुं समर्थं तत्*<६>* कथं तन्निबन्धनस्तन्निश्चय इत्यभिधातरि कथमिदं "सधूमं ही"त्यादिवचो न प्लवत इत्याशंकायामत्रे[२२.५]ति । हिः [२२.५] अवधारणे । एकस्य साक्षादितरस्य सामर्थ्याज्जननात्विधिप्रतिषेधविकल्पद्वयं जनयती[२२.९]त्युक्तम् । कदाचिद्विधिविकल्पं कदाचित्प्रतिषेधविकल्पं जनयतीत्यभिप्रायेण चैतदुक्तम् । एवमेतदि[२२.१०]ति यथायोगं वि*<७>*धिविकल्पो दर्शितः । नान्यथा [२२.१०] इत्यादि यथायोगं प्रतिषेधविकल्पः । किमनुभूतेऽर्थे विकल्पोदयः? नैवमुच्यत इत्याह[४७]यथाभ्यासमि[२२.११]ति (यथानुभवमिति) । यद्यनुभवानतिक्रमेण विकल्पोदयस्तदा सर्वत्रांशे तदुदयप्रसङ्गः इत्याह अभ्यासे[२२.११]ति । अभ्यासादिसहकारिणामित्यभ्यासादिसहकारिकाणामिति बोद्धव्यम् । न तु विकल्पस्योत्पद्यमानाभ्या(मानस्याभ्या)सादिः *<८>*सहकारी, अनुभवस्य तु भवति । केचित्(कश्चित्) खलु यन्नम(?)नुभवो भूयोदर्शनलक्षणाभ्याससहकार्यनुरूपं विकल्पं जनयति । अस्याप्ययमर्थः -- नानुभव इत्येव विकल्पं जनयति । किंतु कश्चित्पुनः पुनस्तत्रोत्पद्यमानस्तादृशो भवति । यथा रूपकादिपरीक्षकाणाम् । कश्चित्तु स्वभावातिशयलक्षणं पाटवमपेक्ष्य जनयति । अस्याप्यय[१४ ]*< १>*मर्थः -- कश्चिदनुभवः प्रकृत्यैव पटीयान् जायते यस्तत्र क्षमः । यथा योगिनां सर्वत्र । अस्मादादीनां के(क्व)चिद्विषये । क्वचित्पुनरविद्यानुबन्धात्सदृशापरापरोत्पादविप्रलब्धश्च सर्वदैव तिरस्कृतपटिमा यो नैव तत्क्षमो भवति । यथार्वाग्दर्शिनां क्षणिकत्वादौ । पाटवादी[२२.११]त्यत्रादिग्रहणात्प्रत्यासत्तितारतम्यादयो गृह्यन्ते । __________नोतेस्__________ [४७] यथानुभवमिति -- स् ___________________________ स्यादेतत्-- स*<२>*म्बन्धोऽयमिति निश्चयाननुभवनात्कथं सम्बन्धनिश्चयस्तन्निबन्धन उच्यत इत्याशंक्याह तथाही[२२.१३]ति । पाश्चात्यविधिप्रतिषेधविकल्पजननं यथोक्तः प्रकारस्तेन । ननु सम्बन्धस्याधाराधेयलक्षणस्याननुभवात्कथं तन्निश्चयस्तन्निबन्धन उपवर्ण्यत इत्याह न चे[२२.१६]ति । तथा [२२.१९] औत्तराधर्येण अवस्थितमर्थद्व्यमाश्रित्य [२२.१९] गृहीत्वा । {प्. २६८} यदि *<३>*तथाभूतवस्तुद्वयादन्यो नास्ति तर्हि कथम् "अनयोरयं संबन्धः सम्बन्धिनौ चैतौ" इति व्यवहार इत्याह -- तेनेति[२२.२०] । येन तथाभूतवस्तुद्वयानुभवाश्रयतः समारोपितः सन्बन्धः तेन कारणेन व्यवहार[२२.२१]श्च "अयं धर्मी अयं धर्मः" इति शाब्दोऽभिप्रेतः । धर्मधर्मितये[२२.२१]तीत्थंभूतलक्षणा चेयं तृतीया । एतद्व्यवहारे कारणमाह भे*<४>*दान्तरे[२२.२०]ति । न त्वयं परमार्थिको व्यवहार इत्यर्थः । ननु च तथाभूतवस्तुद्वयादन्यस्य सम्बन्धस्याभावात्, तस्य च प्रत्यक्षेण ग्रहणात्सम्बन्धनिश्चयस्तथाभूतवस्तुद्वयकृतोस्तु, लिङ्गसामान्यनिश्चयस्तु कथं तत्कृतः । प्रत्यक्षेण लिङ्गसामान्यस्याग्रहणात् । न च विशेषो लिङ्गमित्याशंक्याह सामान्ये[२२.२२]ति । *<५>*अपिशब्दः सम्बन्धव्यवहारात्सामान्यव्यवहारस्यानतिशयख्यापनार्थः । स्यादेतत्-- अनुगतस्य वस्तुनोऽभावेऽनुगतप्रत्ययो निर्हेतुकः कथं भवेदित्याह तेषामेव [२२.२३] इति । न स्वलक्षणस्य विकल्पजनने साक्षाद्व्यापरस्तस्यातद्विषयत्वादित्याह -- अनुभवे[२२.२३]ति । यदि ते विजातीयस्वभावास्तथापि कथं त*<६>*त्प्रत्ययहेतुत्वं तेषामित्याह -- विजातीये[२२.२३]ति । एकाकारस्याभिन्नकारस्य परामर्षः, स चासौ प्रत्ययश्च [तत्र] हेतुत्वात् ।ाचार्यवचनेनैतत्संस्यन्दयन्नाह तथा चाह [२२.२५] इति । [एकस्या]भिन्नस्य प्रत्यवमर्षस्तदेवेदमिति सम्बन्धाहार (समन्वाहार) इति विग्रहः कार्यः न त्वेकश्चासौ प्रत्यवमर्षश्चेति । एवं हि प्रत्यवमर्षश्चा(स्या)पि भिन्न*<७>*त्वात्कथमेकत्वं? तदपरैक(परा)मर्शादिति यद्युच्येत तदा तस्यापि तत्त्वं तत इत्यनवस्था । तथा च यावदन्तिमस्य तथात्वं न ज्ञायते तावदादिमस्यापि तत्त्वव्यवस्था न स्यात्, असत्यां च तस्यामेकधीहेतुभावेन व्यक्तीनामप्यभिन्न[त्वम]र्पायितुं न शक्येतेत्यलमिह विस्तरेण । यस्मात्तैरयं विकल्पो जन्यते ततः [२३.१] । अनुभूतालम्बनं ज्ञानं स्मृतिः, अत्र तु *<८>*सामान्यं केनानुभूतमयं गृह्णाति, येन स्मृतित्वं स्यादित्याह तत्प्रतिभासिन [२३.१] इति । विजातीयव्यावृत्तं स्वलक्सणं प्रत्यक्षेणेक्षितम्, न तु व्यावृत्तिरित्याह नही[२३.३]ति । स्यादेतत्-- विकल्पानामनर्थग्राहितया बाह्यार्थासंस्पर्शादेव कथं गृहीतग्राहित्वलक्षणं स्मृतित्वमित्याश्चर्य उपसंहारापदेशेनाह -- तस्मात्[२३.४] इति । यद्येवं द्वैधमपि विकल्पः प्रतिपत्तुरध्यवसा[१४ ]*< १>*यवशाद्गृहीतबाह्यार्थग्राहितया स्मृतिरुच्यते, तर्हि परमार्थतः किंविषय इत्याह वस्तुत [२३.७] इति । यतोऽयं विकल्पः परमार्थतो निर्विषयोपि प्रतिपन्त्रध्यवसायानुरोधात्स्मृतिरभिप्रेतः ततः [२३.७] तस्मात् । यदेतद्वक्ष्यमाणकमाह {प्. २६९} कश्चित्कुमारिलादिः। किमाहेत्याह सामान्ये[२३.७]ति । अभेदेनाभिन्नाकारं यद्विज्ञानं तदेतत्स्मार्तं स्मृतिरूप*<२>*मिति योबौद्धो वदेत् । तस्याइवंवादिनो नूनं निश्चितं वन्ध्यासुतेऽपि विषये यत्स्मरणं तत्र शक्तता सामर्थ्यमस्तु । वन्ध्यासुतस्यापि स्मर्त्तुं यत्सो(-र्तुमसौ) शक्त इति यावत्कथं तस्यात्यान्ताभावस्मरणशक्ततोपकल्प्यत इति आशंकायां चूर्णकेनोपपत्तिमाह सामान्यस्याननुभूततया अननुभूतत्वात् । एवं ब्रुवतोऽपि (यं) भावः -- अनुभूते *<३>*हि स्मृतिर्भवति । यदि वाननुभूतेपि स्मरणमुपपद्यते तदा वन्ध्यासुतेप्यननुभूतत्वाविशेषात्स्मार्ता बुद्धिः किं न कल्प्यत इति । अङ्ग[२३.१८]शब्दोऽध्येषामन्त्रणे । किंशब्दः सामान्यतः प्रश्ने । पुनःशब्दस्तु विशेषतः । तेनायमर्थः -- युष्मानेवाध्येष्य सामान्यतो विशेषतश्च एतत्पृच्छाम इति । शतं संवत्स*<४>*राः पुरुषायुषम् । अत्र स्वातन्त्र्यपरिजिहीर्षया तत्कारिका उपक्षिपन्नाह -- तथा चाहे[२३.१९]ति । यस्य [२३.२०]बौद्धस्यमतेन । तस्य एकलिङ्गिनि [२३.२८] गतिर्युगसहस्रेषु बहुष्वपि न विद्यत [२३.२९] इति सम्बन्धः कार्यः । आनन्त्यात्[२३.२८] इति हेतुः । तस्यैव समर्थनं सर्वम् । अलिङ्गजमेवानुमानं भविष्यतीत्याह -- नचे[२३.२१]ति । चो यस्मादर्थे । *<५>*लिङ्गविनिर्मुक्तं[२३.२१] लिङ्गरहितम् । असामान्यस्य स्वलक्षणस्य अनवगतमेव लिङ्गं लिङ्गिज्ञानं करिष्यतीत्याह -- नचे[२३.२३]ति । चः पूर्ववत् । प्रदीपयोग्यतया गमकस्वस्याभावादिति भावः । तस्य [२३.२४] सामान्यरूपस्य लिङ्गस्य । तस्य लिङ्गसामान्यग्राहिणोऽनुमानान्तरस्योद्भूतिः [२३.२५] जन्म । किंभूताल्लिङ्गात्सामान्यज्ञा*<६>*नसंहितात्सामान्यज्ञानयुक्तात्सामान्यात्मना ज्ञातादिति यावत् । अस्य च लिङ्गसामान्यस्य ज्ञायमानस्यानुमेयत्वम्, प्रत्यक्षेण त्वन्मते सामान्याग्रहणादिति भावः । तस्य लिङ्गस्य सामान्यस्योद्भवस्तदुद्भवो [२३.२६] लिङ्गेनापरेणेत्यर्थात् । तेनापि सामान्यरूपतया अनुमानान्तरादेव ज्ञातेन तथाभाव्य*<७>*मित्यभिप्रायेणाह -- अनुमानान्तरादेव ज्ञातेने[२३.२७]ति । अस्त्वेवं का क्षतिरित्याह एवं चे[२३.२७]ति । नन्वेवं लिङ्गानुमानस्यैवानन्त्यं न तु लिङ्ग्यनुमानस्य तत्कथंलिङ्ग्यनुमानानामित्युक्तमिति चेत् । सत्यं, केवलं तदेवाद्यं लिङ्गं ज्ञापकहेत्वधिकारात्ज्ञायमानसामान्यरूपतया चानुमानता (-मानेन) निश्चीयमानं लिङ्गि जातम् । स्वलिङ्ग्यपे*<८>*क्षया लिङ्गमपेक्षत(मपीष्यत) इति अभिप्रायाददोष एव । {प्. २७०} एकस्मिल्लिङ्गिनि [२३.२८] धर्मिणि । ननु च सामान्यरूपस्य लिङ्गत्वे तस्य चानुमानेनैव ग्रहे न प्रत्यक्षतस्तन्निश्चय उपपद्यत इत्यभिधातरि कथमिदमाचार्यीयं सधूमेत्यादिना प्रत्यक्षतस्तन्निश्चयस्योपवर्णनं युज्यत इत्याशंक्याह एवं मन्यत [२३.३०] इति । प्रकृत्या विभ्रमाद्[२४.१] भ्रान्तत्वात् । [१५ ]*< १>*सामान्यं हि विजातीयव्यावृत्तिः । अयमर्थो -- विजातीयव्यावृत्तेरन्यस्य सामान्यस्याभावात्विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वासनाद्वयनिबद्धश्च विकल्पः स्वप्रतिभासमेव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति । प्रक्र्त्या भ्रान्तत्वात्सामान्यस्य । स विवेचित*<२>*भेदो []भेद एव विकल्पेन प्रतीयत इत्युक्तम् । अथ यदि प्रकृतिभ्रान्तोऽयं विकल्पस्तर्हि कथं तस्य अतद्व्याव्र्त्तवस्तुप्रापकत्वलक्षणं संवादकत्वमित्याह लिङ्गविकल्पस्य चे[२४.२]ति । कस्मात्पुनर्विकल्पाभाससामान्यस्य लिङ्ग(ङ्गत्वम्) न तु धूमादिस्वलक्षणस्येत्याह नही[२४.६]ति । तस्ये[२४.६]त्यादिनोपपत्तिमाह । अत्रैवोपचयहेतुं दर्शयन्नाह साध्ये[२४.७]ति । अय*<३>*मत्राभिप्रायः । अवश्यं हि किञ्चिदनुमित्सता धूमादिस्वलक्षणदर्शनोत्तरकालम् -- "इदं साध्यमिदं साधनम्" इति संकलयितव्यम् । सति चास्मिन् संकल्पे सतः क्षणभङ्गितया वस्तुदर्शनाभावात् । दर्शनेन च विषयिणा विषयस्य दृश्यस्या[४८]भिधानं तेन दृश्यस्य लिङ्गं(लिङ्ग)स्वलक्षणस्याभावादित्यर्थः । ततश्च कथं स्वलक्षणदर्शनाश्रयो *<४>*गम्यगमकभावो भवेद्येन कल्पितधर्मद्वारको गम्यगमकभावो [न भ]वेदिति । __________नोतेस्__________ [४८] प्दृश्यस्य लिङ्गम् । न् प्रतेरत्र सम्यक्पाठः । अत एव स एव मूले स्थापितः । ___________________________ ननु यदि प्रत्यक्षपृष्ठभाविनापि विकल्पेन सामान्यं प्रतीयते, तर्हिन्यायबिन्दौ यदवादि [ते]न "अन्यत्सामान्यलक्षणं सोऽनुमानस्य विषयः" इति विरुध्येतेत्याशंक्याह यत्तूक्तमि[२४.९]ति । तदन्यस्ये[२४.११]त्यनुमानोत्तरकालभावि*<५>*नोऽप्राप्तप्रामान्यस्याग्निरत्रेत्याद्याकारस्यान्यस्यापि स्वतन्त्रस्य विकल्पस्य । एवमपि किमर्थमवधार्यत इत्याह स्वलक्षणेति [२४.१२] । स्वलक्षणं विषयो ग्राह्यत्वेन नैव भवतीति प्रतिपादयितुमित्यर्थः । पूर्वपक्षद्वयपूर्वकं फक्किकायाः समुदायार्थं व्याख्यायावयवार्थं व्याख्यातुं तत्र [२४.१३] इत्यादिनोपक्र*<६>*मते । आदि[?]शब्दादेकविनाशे सर्वविनाशादिसङ्ग्रहः "प्रत्यक्सेण दृष्टवतः" {प्. २७१} इत्यस्य तात्पर्यार्थमाह न त्वि[२४.२६]ति । कथं पुनरस्य तथामननमनुपपन्नमित्याह नही[२४.२७]ति । वस्तुवलभाविने[२४.२७]ति हेतुभावेन विशेषणम् । स्यादेतत्-- कथं विविक्तताप्रतीतिः । यदि केवलप्रतीतिस्तर्हि साभावसंवित्तिभन्तरेण*<७>* नतरां प्रसिद्द्यतीति कथं प्रत्यक्षेण तथाग्रहणमुपवर्ण्यत इति । तदसत् । तथाहि भिन्नमभावमिच्छतापि वस्तूनां स्वरूपं पराननुप्रविष्टमवश्यैष्टव्यम्, अन्यथा प्रातिस्विकामेवं तदभावस्यैवायोगानाम् (?) । अतः पराननुप्रवेशेन ग्रह एव केवलग्रहः । इतरथेतरेतराश्रयत्वप्रसङ्गः । तावत्खल्वभावसंवित्तिर्नास्ति तदा*<८>*त्मवद्यावत्केवलग्रहो न भवेत् । तावच्च केवलग्रहो नास्ति यावत्नाभावसंवित्तिरिति । किञ्च यथा केवलोऽभावोऽपरणाभावेन विना प्रतीयते तथा भावोप्यन्तरेणापराभावं केवलः किं न मीयेत । एवमनभ्युपगमे वानवस्था प्रसज्येतेति । तदाहवार्तिकालंकारे प्रज्ञाकरगुप्तः "प्रपराननु[१५ ]*< १>*वेशेन प्रतीतिः केवलग्रहः । ननु केवलसम्व(संवित्ति)रभाववित्तितः कुतः । सापि केवलसंवित्तिं विना नेति समानता ॥ यथा वा केवलोऽभावो विनाभावेन मीयते । तथाभा(तथा भा)वोपि नैवञ्चेदनवस्था प्रसज्यते ॥" इति । कथं निर्विषयस्य विकल्पस्य यथादृष्टभेदस्य परमार्थविषयत्वमुच्यत इत्याह[४९]निश्चयेत्यादि । __________नोतेस्__________ [४९] स्प्रतिरत्र त्रुटितः । ___________________________ अनेनैतदुपपत्त्यपे*<२>*क्षया । परमार्थशब्दयोगोवार्तिककारस्य टीकाकृतादर्शितः । लक्ष्यते चायमाचार्यस्याभिमतः । समानो यद्वत्यादृशो दृष्टो यथादृष्टः । स चासौ भेद एव परमार्थः । स एव विषयोऽध्यवसायवशाद्यस्येति स तथा । इतरथा तु परमार्थतोऽविषय एव । "परमार्थशब्दं प्रयुंजानो वार्तिककारः कथं न प्रमाद्ये(द्य?)" एवं तुभट्टा*<३>*र्चटेन कथं न व्याख्यातमिति न प्रतीमः । प्रमाणलक्षणसामान्येन योगमुपदर्श्य प्रमाणविशेषस्य प्रत्यक्षस्यापि लक्षणेन योगं दर्शयन्नाह सदिति । । इन्द्रियाणामिति व्यक्तिविवक्षया बहुवचनम् । चक्षुरिन्द्रियापेक्षया ग्रन्थस्यास्य योजनायां तु इन्द्रियस्य नायनरश्म्यवयविन इन्द्रियस्यानु*<४>*मानसिद्धस्य संभारदंशेन संयोगे संबन्धे सत्यस्य विकल्पस्य नीतोपनित्यात्मनो भावादिति । {प्. २७२-२७८} "यद्वेन्द्रियं प्रमाण(णं) स्यात्तस्य चार्थेन संगतिः [श्लोकवा. ४.६०] इत्यादिवचनात्स्वाभिमानात्प्रत्यक्षत्वेनेन्द्रियमुदाहरणीकृतं परेण । न पुनः प्रतिपाद्यप्रतिपादकयोर्बुद्धिसाम्यविषयो दृष्टान्तो भवितुमर्हति ।बौद्धस्यै*<५>*वमनिष्टेर्बाधकाभिधानाच्चेति । प्रथममिती[२५.१३]त्यत्र च्छेदः सुबोध एव । आद्यमि[२५.१२]त्येतद्व्याचक्षाण आह आदौ [२५.१४] इति । कस्मादा[द]वित्याकांक्षायामाह विकल्पप्रवृतेरि[२५.१४]ति । आदौ भवमिति त्वर्थ[ः] यस्यार्थस्येत्यादिना स्वलक्षणेनासाधारणस्यैवोपलक्षणादसाधारणविषयं स्वलक्षणमिति व्याचष्टे । इतरयो[२५.१६]र्विधिप्रतिषेध*<६>*विकल्पयोः । उक्तमेवार्थं तथाही[२५.१७]त्यादिनोपपादयति । असंकीर्णरूपे [२५.२५] [अ]परामिश्र(मृष्ट)स्वभावे । ननु च तस्यासंकीर्णरूपता [न] स्वतः किं त्वभावांशसद्भावात् । तत्कथमेवमभिधीयत इत्याशंक्य कारणमाह तथाही[२५.२६]त्यादि । अन्यथा [२५.२७] तस्य पररूपमिश्रताप्रकारेण । स एवाभावांशः [२५.२८] पराभावो न सिद्ध्येत्परात्मव*<७>*दिति भावः । अत्रैवाभ्युच्चयहेतुमाह न चेति [२५.२८] । सा [२६.१] संकीर्णरूपता कथं न युक्तिमतीत्याह स्वहेतुबले[२६.२]ति । स्वहेतुबलायातस्य तद्धेतुभावेन विशेषणम् । योगपरिवर्जनं तस्यायोगात्तेन वस्तुनेति सामर्थ्यात् । ननु तेन तस्य संकीर्णरूपस्य विनाश[ने] पराभावेन सर्वेषामेव भावानामुदयक्षणादूर्ध्वमभावादभावैक*<८>*रसं जगत्स्यादिति प्रसंजयितुं युक्तं न भू(तु) तेन संकीर्णरूपविनाशेन[५०]वरं स्वहेतोरेवासंकीर्णरूपाणामुदयोऽस्त्वि[२६.४]ति । सत्यम् । यथाश्रुतिः(ते) स्यादेष दोषः । केवलमस्य तात्पर्यार्थबोधे यत्नः करणीयः । इह खलु भावानां क्षणभङ्गित्वेपि सदृशापरापरक्षणोदयाद्वस्तुसन्तानविषया प्रतीतिरस्ति न त्वभावविष[१६ ]*< १>*यैव । अतएव तत्त्ववार्मतथ(?)यामुपप्लवतोत्पद्यते । उदयोत्तरकालमव्यवधानेन वस्तुविषया च प्रतीतिः कथमुपपद्येत यदि स एवाभावः पूर्वसिद्धं संकीर्णरूपं विनास्यादन्यसं(विनाश्यात्यदसं)कीर्णरूपमुत्पादयेत् । सति चैवं वरं स्वहेतोरेव तथाविधातामुदयोस्त्वित्युच्यत इति । हेतुत्वेनार्थाक्रियाकारित्वेन वस्तुरूपत्वादभाव*<२>*रूपतैव हीयेतेत्येतदुपेक्षे(क्ष्यै)व चैतदुक्तं द्रष्टव्यम् । __________नोतेस्__________ [५०] -विनाशने च वरं -- स् ___________________________ प्रथमं संकीर्णरूपाणामुत्पादोभ्युपेयते पश्चादसंकीर्णरूपाणामुदयमुपगन्तुम् -- का पुनरत्र हानिरित्याशंक्याह किमि[२६.५]त्यादि । कश्चित्किल परिव्राडशुचौ पतितं {प्. २७९} मोदकं करण गृह्णन् केनचित्सोत्प्रासं पृष्टः " किमशुचेर्मोदकमुद्ग्र्ह्णासि" इति । स एवं पृष्टस्तं प्रत्य*<३>*वादीत्"प्रक्षाल्यों(ल्या) त्रैव त्यक्षा(क्ष्या)मि" इति । सोऽयं परिव्राजको(क)मोदके(क)ग्रहणार्थो न्यायस्तदुपगमेन किम् [२६.६] । यथा च तत्र तन्मतम् "अत्रैव त्यक्तव्य एवायम्" तदा किमशुचिं रक्षितस्यान्नस्य ग्रहणेन, वरमयं पूर्वावस्थाने नै(ए)वास्तु इत्युपालम्भस्तथात्रापि । यदि त्वभावत एवासंकीर्णरूपाणां पश्चादुत्पादोऽभ्युपेतव्यो *<४>*वरं प्रथमत एव तथाभूतानामुदयोऽभ्युपगम्यतामित्याभिप्रायः । ततस्तथाविधो(ध)स्य प्रमाणप्रसिद्धौ चायमुपालम्भाभिप्रायो द्रष्टव्यः । तस्मादि[२६.६]त्यादिना प्रकृतोपसंहारः । प्रत्य्क्षबलेन [२६.१३] इत्यस्य तात्पर्यार्थं दर्शयन्नाह -- यदि तु [२६.१३] इति । यदिः संभावयति तुर्भिनत्ति । व्यवच्छेदेविषया [२६.१४] व्यवच्छिन्नऋउपविष*<५>*यातद्रूपपरावृत्तरूपविषयेति यावत् । तथा सत्यपि स्मृतिर्न स्यात् । व्याप्तिग्राहकप्रमाणानधिगतस्य विशिष्टदेशादिवर्तितदसाधारणरूपस्य ग्रहणादिति भावः । "अन्यरूपमिदं न भवति" इत्य(ती)यमभावप्रतीतिः केन प्रमाणेनेष्टा येनास्याः प्रामाण्यमाचार्येण निवार्यत इत्याशंक्याचार्यस्याभिप्रायं *<६>*परिस्फुटयन्नाह -- नाभावे[२६.२०]ति । कस्मात्पुनरेतत्प्रतीतिजनकत्वेनान्यद[भा]वाख्यं प्रमाणं न भवति, एषा च तत्फलमित्याह नही[२६.२०]ति । आक्रियते अध्यवसीयत इति आकारो [२६.२१] विशेषो व्यावृत्तिरेव । किंभूत इत्याह -- पाटवे[२६.२२]ति । पाटवं तीक्ष्णता बुद्धेरिति प्रकरणात् । आदिशब्दात्प्रत्यासत्तितारतम्यादेर्ग्रहणम् । पाटवा*<७>*दिप्रत्ययान्तरं स्वनिश्चया[या]पेक्षत इति तत्सापेक्ष उक्तः । एतदेवोपपादयन्नाह नही[२६.२२]ति । अनधिगमादिति [२७.१०] वस्तुनो विशेषणत्वेनाग्रहणादिति द्रष्टव्यम् । न तु सर्वथा []ग्राह एव वाच्यः । अयःशलाकाकल्पस्य स्वतन्त्रस्य तेन ग्रहणस्याभिमतत्वात् । अ(न्य)था "निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनो ग्रहणम् ।" (श्लोकवा. प्. ११८) इत्यादि विरुध्येत । इन्द्रिय*<८>*सम्बधाधीनालोचनाज्ञानोत्पत्तिश्च कथमनिष्टमात्रेन निर्वर्त्येते(निवर्त्येते)ति । पुनर[२७.१४]प्रथमे । वर्ण्यत [२७.१६] इति वदन् प्रमाणाप्रसिद्धतां दर्शयति । प्रख्यानं प्रकाशनं प्रतिभासनं प्रख्या । तै[मि]रिकादिज्ञानस्येव प्रख्या [२७.२७] यस्य स तथोक्तः । अत एव तत्सदृश इत्यार्थः । अथ मा भूत्सामान्यमर्थक्रियासाधनं व्यक्तिस्तावत्तत्साधनीभवति । [१६ ]*< १>*तदध्यवसायितयैव च विधिविकल्पः प्रमाणं किं न भवतीत्याशंक्य न तत्र प्रामाण्यमिति [२७.२४] दूरस्थेन सम्बन्धः कार्यः । तस्य [२७.२३] विधेर्विकल्पस्येति प्रस्तावात् । {प्. २८०} कथमप्रामाण्यमित्याशंक्यं योज्यम् । तस्य निर्विकल्पकप्रत्यक्षविषयस्य निर्विकल्पकज्ञानेनाधिगमादिति । चो [२७.२३] व्यक्तमित्यस्मिन्नर्थे । न मयार्थक्रियासाधननिर्विकल्पप्रत्यक्षविषयाध्यवसातृत्वं *<२>*तस्योच्यते, येन त्वयैवमुच्यत इत्याह ततः परमि[२७.१९]त्यादि । चो [२७.२१] यस्मादर्थे । ततोयमर्थः -- यस्मादेवमुच्यते पूर्वपक्षवादिनेत्यर्थात् । एवमभिधानेऽपि कथं तदध्यवसाय उक्तो भवतीत्याशंक्याह तत्रेति [२७.२१] । जातिमतिरिक्तामधिगच्छतोऽस्य प्रामाण्यं भविष्यतीत्याशंक्योक्तमेवार्थमधिकविधानार्थमनुवदन्नाह जातेस्त्विति [२७.२४] । अपिः [२७.२५] अक्षमायाम् । तस्या अर्थक्रियासाधनत्वाभावेनानर्थत्वाद्, अर्थक्रियासाधनस्याइव चार्थत्वात् । अपूर्वार्थविज्ञानत्वस्य प्रमाणलक्षणस्याभावादभिप्रेत्य न प्रामाण्यमित्युक्तम् । अनेन यः परेण विधिविकल्पस्य "तत्रापूर्वार्थविज्ञानम्" इत्यादिना सामान्येन प्रमाणलक्षणयोगो दर्शितः स नास्तीति दर्शितम् । योपि "सत्संप्रयोग" इत्यादिना *<४>*विषेशेण प्रत्यक्सलक्षणयोगो दर्शितः सोऽपि नास्तीति दर्शयन्नाह अत एवेति [२७.२५] । अतएव -- जातेरर्थक्रियासाधनत्वाभावेनानर्थत्वादेव । प्रत्यक्षतापि अस्य विकल्पस्य असंभविनी । कथं न संभवतीति आह -- अर्थक्रिये[२७.२५]ति । तेन सहेन्द्रियाणां [२६.२६] यः संप्रयोगः सम्बन्धस्तस्या अभावात्[२७.२६] । मीमांसकमतेन सदै(तै)व सहेन्द्रियं सम्बन्धं (बन्द्धुं) प्रभवति नासतेत्यभिप्रायः । तदुक्तंकुमारिलेन -- "भावांशेनैव सम्बन्धो योग्यत्वादिन्द्रियस्य हि" (श्लोकवा. प्र. १८) इति । [५१]अस्य [२८.१३] अर्थक्रियासाधनस्य वि(साधनवि)षयस्य ज्ञानस्य अर्थक्रियासाधने [२८.१४] वस्तुनि प्रवृत्त्यङ्गत्वादुपदर्शितार्थप्रापकत्वादिति यावत् । नेतरत्प्रमाणं व्रवीती[२८.१३]ति संबन्धनीयम् । इतरदि[२२.८]त्यर्थक्रियासाधनविषयं यन्न भव*<६>*तीति । तद(द्)विपरीतत्वाद[२७.१४]र्थक्रियासाधने प्रवृत्त्यनङ्गत्वात् । एतदेव समर्थयन्नाह तथाहीति [२८.१४] । अप्रतारक[२८.१५]मुपदर्शितार्थप्रापकमित्यर्थः । लोकेपी[२८.१५]त्यत्रच्छेदो व्यक्त एव । लोके व्यवहर्तरि जने । अपि व्यक्तमेतदित्यस्मिन्नर्थे । __________नोतेस्__________ [५१] तस्य स्। ___________________________ ननु यदि नाम तदर्थक्रियासाधने प्रवर्तकं न भवति तथापि तत्प्रापकत्वेनाविसंवाद*<७>*कतया प्रमाणं किं न भवतीत्याशंक्याह यच्चे[२८.१६]ति । अनधिगच्छन्निति (गंच्छदि)ति [२८.१६] । अत्र हेतौ शतुर्विधानात्प्रवर्तते । अनधिगमादिति कारणमुक्तम् । {प्. २८१} तत्सध्यतया [२८.२२] सामान्यजन्मजन्य(सामान्यजन्य)तयोपगतामभिन्नज्ञानाभिधानलक्षणाम् । "समानप्रसवात्मिका जातिः" इति वचनात् । व्यक्तिसाध्याम् [२८.२३] इति व्यक्तिसाध्यतयोपगतामिति प्रत्येतव्यम् । अनेन यौवार्थक्रिया*<८>*युष्माभिर्व्यक्तिसाध्यतयोपगम्यते सैव तत्साध्या भविष्यतीत्यपि पक्षः प्रतिक्षिप्तः । उभयत्रापि व्यक्तेरेवान्वयव्यतिरेकाभ्यां साक्षात्पारंपर्येण च तत्र सामर्थ्यस्य प्रमाणेनावगतत्वादित्यभिप्रेतम् । ननु कस्मिन् काले करोतीति प्रश्ने "स्वलक्षणप्रतिपत्तेरूर्ध्वम्" [२८.२३] इत्युक्तं युक्तम् । न तु[५२]कीदृश इति प्रश्ने इति चेत् । सत्यं केवलं स्वलक्षण[१७ ]*< १>*प्रतिपत्तेः [२८.२४] उत्तरकालं प्रतीयमानत्वादूर्ध्वमुत्तरकालमित्युक्तमुपचारत इति बोद्धव्यम् । तत्प्रतिपत्तेरूर्ध्वं प्रतीयमानत्वमेव दर्शयन्नाह तत्सामर्थ्येति [२८.२५] । यद्वा कीदृशमिति प्रश्नयित्वैव तत्सामर्थ्येति योज्यम् । तत्सामर्थ्योत्पन्नविकल्पग्राह्यत्वमपि किं स्वलक्षणप्रतिपत्तेरूर्ध्वमेव किं वा कियत्कालपरि(र्य)वसाने इत्यपेक्षायामुक्तं तत्प्रतिपत्ते*<२>*रूर्ध्वमिति एवं ब्रवीति [२८.२७] । किंविशिष्टं सामान्य तथातया प्र(ब्र)वीतीति । पराभिप्रायेणाप्येवमभिधानं किमर्थमित्याह दर्शनेति [२८.२७] । ननु किं सामान्यमात्रमेवार्थक्रियासाधनं न भवति, येन परैस्तथाभिधानादेवं ब्रवीतीत्युच्यत इत्याशंक्याभ्युपगममेवोत्तरं रचयन्नाह -- सर्वमेवेति [२८.२९] । __________नोतेस्__________ [५२] कीदृशं स् ___________________________ यदि एवमनुमानविकल्पग्राह्यस्यापि सामान्यस्य तथात्वा*<३>*त्तद्विषयस्यानुमानविकल्पस्यापि प्रामाण्यन्न स्यात् । ततश्च शब्दप्रवेशेऽक्षितारानिर्गमवृत्तान्तो जात इत्याशंक्याह यत्त्वपि [२९.१] । तुर्विशेषार्थः । यत्सामान्यमर्थक्रियामुपकल्पयति [२९.३] । कीदृशमित्यपेक्षायामाह -- अनधिगतेति [२९.२] । अनधिगतं पूर्वज्ञानेनापरिच्छिन्नं यदर्थक्रियासाधनं तद्विषय आश्रयत्वा*<४>*ध्यवसायेन यस्य तत्तथा । हेतुभावेन चैतद्विशेषणम् । अनेन च विधिविकल्पावभासिसामान्यस्यार्थक्रियासाधनविषयत्वेपि नानधिगतार्थक्रियासाधनविषयत्वमिति न तद्विषयस्य प्रामाण्यमिति दर्शितम् । तद्विषयत्वमेवास्य कुत इत्याह सम्बद्धेति [२९.२] यदर्थक्रियायां सम्बद्धं क(का)रणभावेन तत्संबन्धा*<५>*त्तदारूढत्वात्तन्निष्ठत्वादिति यावत् । सम्बद्धसम्बन्ध(द्ध)त्वमेवेदृशमस्य क्व इत्यपेक्षायां कारणे[२९.१]त्यादि योज्यम् । तथाभूतलिङ्गनिश्चयद्वारेण प्रतीयमानत्वात्कारणव्यापकसंबद्धलिङ्गनिश्चयद्वारायातम् [२९.१] उक्तं वेदितव्यम् । कार्यञ्च व्याप्यञ्च तथावसीयमानं स्वकारणं व्यापकं चातद्रूपपरावृत्तं *<६>*प्रत्याययतीति भावः । अनेन सर्वणैतदुक्तमनुमानविकल्पेन हि परमार्थतोऽर्थक्रियासाधनमेव वह्न्यादि विशिष्टदेशाद्यवच्छेदेन । {प्. २८२} एकतो व्यावृत्त्योल्लिख्यमानं सामान्यं, नान्यदतस्तदध्यवसायिनस्तस्य प्रामाण्यमुपपद्यते । ननु दर्शनोत्तरकालभाविनो विकल्पस्य विशिष्टदेशादितया गृहीत*<७>*स्यैवार्थक्रियासाधनस्य तथाध्यवसायादिति विधिविकल्पग्राह्यमपि सामान्यमनधिगतार्थक्रियासाधनविषयं सत्स्वग्राहिणं विकल्पं प्रामाण्येन जोजयिष्यतीत्याह -- इदमिति [२९.४] । तुः पूर्वाद्वैधर्म्यमस्य द्योतयति । उदाह्रियते [२९.९] । उदाहरणीक्रियते । प्रकृतपरित्यागे किं कारणमिति चाशयः । निराकर्तुमु[२९.१०]दाह्रियत इति संबन्धनीय्*<८>*अम् । दृष्टान्तमेव विवटयितुं कां पुनरि[२९.१०]त्यादिनोपक्रमते । परस्परं व्यावृत्त्या हि व्यक्तयो भिन्नमेव ज्ञानमुपजनयेयुः । कथं पुनरभिन्नां धियमभिधानं चादधतीत्याशंक्याह -- एवम् [२९.२३] इति । तदेकं वाहदोहादिकार्यं तत्र प्रतिनियमः । प्रतिनियतत्वमवश्यं प्राग्भावित्वं लक्षणं [२९.२३] यस्या सा तथोक्ता । उपकर्तव्यमभिव(व्य)क्तव्यं न तु जनयितव्यमित्यवसे[१७ ]*< १>*यम् । नित्यतया तस्य परेण तथात्वानुभ्युपगमात् । पराभ्युपगमानपेक्षायां चास्य दृष्टान्तत्वानुपपत्तेः । तस्माद्विवक्षितादपरं सामान्यं [२९.२४] तदेकसामान्यं व्यंजकत्वाख्यम् । अन्यथा [२९.२४] तदपरसामान्ययोगेन व्यंजकत्वप्रकारेण । तदभिव्यक्तयेपि तदपरं सामान्यं तदेकसामान्याभिव्यंजकाख्यं सामान्याभिव्यञ्जकत्वाख्यमपरमुपेयम् । *<२>*तथा तदभिव्यक्तयेप्यन्यदित्यनवस्थाया अपर्यवसानस्य प्रसंगात्[२९.२४] प्राप्तेर्हेतोः । साधयिष्यन्ति विवक्षितसामान्ययोगमन्तरेण स्वभावत एवेति प्रकरणादवसेयम् । ननु किं प्रमाणपरिदृष्टार्थापलापे प्रयतिर्भवतां येनैवमभिधीयत इत्याह किम् [२९.६] इति । अथ किमज्ञायमानप्रमाणकमसदवश्यं भवति येन सर्वथा तदर्थक्रियो*<३>*च्छेदः क्रियत इत्याह प्रमाणाबाधितेन चे[२९.२६]ति । प्रमाणाबाधामेव मात्रया दर्शयितुं तथाही[२९.२७]त्यादिनोपक्रमते नोपलक्षयाम [२९.२८] इति वदन् दृश्यानुपलम्भं बाधकं दर्शयति । अविभावनं [३०.२] निर्लुठितगर्भवद्विभागेनाप्रतिपत्तिः । रूपरूपिणोरनन्यत्वेन भेदे रूपिण एम भेदापत्तेरित्यभिप्रेत्याह पदार्थ*<४>*द्वयोपगमप्रसंगादिति [३०.५] । आदि[३०.५]शब्दाच्छब्दज्ञानपरिग्रहः । ननु भिन्नसामान्ययोगाद्भेदो भावानां, न पुनः प्रतिभासभेदादित्याशंक्य यदि अप्यत्र शतं दोषाः सम्भवन्ति, तथापि ग्रन्थावस्तिरभयादेकमेव दूषणं दत्ते सामान्यस्येति {प्. २८३} [३०.७] । एवं मन्यते यदि सामान्यभेदाद्भावभेदस्तदा गवाश्वरस्येव गोत्वा*<५>*श्वत्वयोरपि भेदस्तदपरसामान्यभेदाद्भवेदिति सामान्यस्याप्यपरसामान्यप्रसक्तेरिति । अस्त्वेव का क्षितिरित्याह -- निःसामान्यस्येति [३०.७] । अस्ये[३०.७]ति सामान्यस्य । एतेनेति [३०.१०] "न तथाविधमुपलक्षयाम्" इत्यादिनोपदर्शितेन दृश्यानुपलम्भेन । कथं पुनर्दृश्यानुपलम्भः सिद्धो येन तन्निराक्र्टमे*<६>*तत्स्यात्यत [३०.१५] इति । तदासिद्धमि[३०.१५]त्यन्व(नु)गमापेक्षत्वं बुद्धेरिति प्रकरणाद्द्रष्टव्यम् । तत्र [३०.१६] इन्द्रियबुद्धावनुपलक्षणाद्[३०.१६] अप्रतिभासनात् । अस्पष्टनीलाद्याकाराः सा(रा सा)मान्यबुद्धिरभिमतं संवेद्यत इति चात्राभिप्रेतम् । व्यक्तिरूपमपास्यान्यस्येष्ट(स्पष्ट)मेव रूपमुपगतम् । तत्रावभासते तदेव सामान्य*<७>*मस्माकमित्याशंक्य तदपि नास्तीत्यभिप्रायवानाह स्पष्टस्यापी[३०.२७]ति । अनुपलक्षणादित्यभिसम्बद्ध्यते । संप्रति द्वितीयस्य स्पष्टरूपस्योपलक्षणमभ्युपगम्य तस्यानुगाभिरूपत्वं प्रतिषेधयन्नाह । तद्भावे चे[३०.१७]ति । चो विशेषार्थाभिधानाभ्युपगमे । अनेन किं तद्द्वितीयं स्पष्टं रूपं साबलेयबाहुलेयव्यक्तिद्वयान्तरालं न व्याप्नोति*<८>* किं व्याप्नोतीति विकल्पयोर्बुद्धिस्थीकृतयोर्मध्येऽव्यापनपक्षे दोषं दर्शयति । व्यक्तिद्वयस्यान्तरालमवकाशमव्याप्नुवतः [३०.१७] स्वसत्तयानभिसम्बन्ध(ध्न)तः । कथं तदनुगमो [३०.१८] व्यक्त्यन्तरानुगमो व्यक्त्यन्तरव्यापित्वं निष्क्रियत्वेन गत्वा व्यापारासंभवात्तथात्वेपि पूर्वव्यक्तिवियोगानुषङ्गात् । न च तत्साङ्गमिति च भावः । द्वितीय [१८ ] *<१>*विकल्पेप्याह व्याप्तौ चे[३०.१८]ति । तत्र [३०.१९] अन्तराले । न तस्य तत्र व्यक्तं रूपमस्ति व्यञ्जकाभावात्तेनानुपलक्षणमित्याह नही[३०.१९]ति । अवश्यं हि भूतले तत्कयाचिद्व्यक्तमिति न तस्याव्यक्तरूपसंभव इति भावः ।वार्तिककारस्याप्ययमर्थोऽभिप्रेत इति प्रतिपादयन्नाह -- तथा चे[३०.२०]ति । प्रकृतोपययोगिभाग एव पठितुं युज्यत इतिवार्तिकस्य पादत्र*<२>*यमेवायमपठत् । उक्तयोपपत्त्या व्यक्तैकरूपसंभवे चेदमन्यदा(त्रा)पीति निदर्शयन्नाह -- एकत्रापीति [३०.२३] । चो वक्तव्यान्तरसमुच्चये । सर्वसर्वगतवादिनमधिकृत्योक्तं सकलेति [३०.२३] । स्वाश्रयसर्वगतवादिनं तु प्रति स्वाश्रये[३०.२४]ति । नाम[३०.२५]शब्दोऽसम्भावनायाम् । इह एकत्रैवाश्रय इत्यने*<३>*नाप्यंशेनायं न दृष्टान्तः किन्तु यथा क्षणिकत्वस्य निर्विकल्पकबोधेन दृष्टस्यापि न दर्शनावसायस्तथा सकलस्वाश्रयरूपप्रतिभासेपि न दर्शनावसाय इत्यनेनैव । अस्तु तर्हि सर्वभुवनवर्तिरूपस्य निश्चयः । सर्वस्वाश्रयवर्तिनो वा का {प्. २८४} क्षतिरित्याह तत [३०.२७] इति । ततस्तादृशरूपनिश्चयात् । तच्[३१.१]छब्दे*<४>*न सामान्यं प्रत्यवमृष्यते । सहचारिशब्देन च संबद्धं विवक्षितम् । तेनायमर्थस्तत्सहचारिणः सामान्यसंबद्धस्य तत्समवायविषयस्येति यावदिति । एतच्चनैयायिकादीन्प्रत्यभिहितम् । मीमांसकंप्रत्याह -- तदभिन्नस्वभावस्य चे[३१.१]ति । किमिन्द्रियबुद्धौ सामान्यस्य प्रतिभास आहोस्विद्विकल्पबुद्धा*<५>*वनुमानात्मिकायामिति विकल्पयोरन्तर्निहितयोरेकं विकल्पं निराकृत्यापरं निराकर्तुमाह अथे[३१.३]ति । आदिशब्दाद्शब्दबा(शब्दादि)परिग्रहः । प्राक्तनमेवाभिप्रेत्ये[३०.१५]ति पदमत्राभिसंबध्यते । ततः अनुमानादिबुद्धिमिति द्वितीयया निर्देशः । यथास्पष्टो व्यक्त्याकारोऽर्थाकारो वा लक्ष्यमाणः सम्वेद्य*<६>*मानोस्ति न तथा स्वलक्षणप्रतिभासो व्यक्त्याकारो लक्ष्यमाणोस्तीति योज्यम् । कस्मादेवमित्याह -- तदभाव [३१.५] इति तस्य स्वलक्षणस्याभावे तासां [३१.६] सामान्यबुद्धीनाम् । अत्रैवाभ्युच्चयहेतुमाह आकारान्तरेण चे[३१.६]ति । स्वज्ञाने इन्द्रियजन्मनि ज्ञाने । स्पष्तास्पष्टरूपद्वययोगि स्वलक्षणं तेनेन्द्रि*<७>*यज्ञाने स्पष्टेन रूपेण प्रतिभात्यन्यत्र पुनरस्पष्टेनेत्याह अनेके[३१.६]ति । अतिप्रसङ्गादि[३१.७]ति घट प्रतिभासेपि पटप्रतिभासकल्पना स्यात् । घटपटलक्षणरूपद्वय(या)योगित्वात्पटस्येत्यादेरुत्तरस्यात्रापि सुवचत्वादित्यभिसन्धिः । तस्मादि[३१.७]त्यादिनोपसंहरति । इयमभिन्नाभासा सामान्याकारा स्वलक्षणादुद्भवोऽस्या इति स्वलक्षणोद्भवा सती भिन्नार्थग्राहिणी व्यावृत्तवस्तुग्राहिणी न प्रतिभाति । किं त्वनादी[३१.९]ति । "दृढत्वात्सर्वदा बुद्धेर्" इति ब्रुवता यदि बुद्धेर्दार्ढ्यमभिहितं तदपि निऋउपयन्नाह -- दृड्ःत्वञ्चे[३१.१०]ति । सहेतुकविनाशवादिपक्षे क्षणिकत्वाभ्युपगमादि[३१.१०]त्याशुतरविनाशित्वाभ्युपगमादिति वेदितव्यम् । अस्याः [३१.११] सामान्यबुद्धेः । तद्[३१.१०] अबाध्यमानत्वम् । [१८ ]*< १>*स्याच्छब्दोऽनेकान्तवचनो नियतोस्ति तेन स्याद्वादो[३१.१२]नकान्तवाद यद्वा स्यादक्षणिकः स्यात्क्षणिक इत्यादि [३१.१२] स्यादिति वादः स्याद्वादस्तस्य भंगो निराकरणं तस्मादेवावधारणीयो बाधक इति प्रकृतत्वात् । स्याद्वादभङ्गमधीत्येति कर्मणि ल्यब्लोपे चेयं पञ्चमी द्रष्टव्या । एवं मन्यत [२९.२२] इत्यादिना यदुपक्रान्तं तदुपसंहरन्नाह *<२>*तस्मादि[३१.१६]त्यादि । यस्तु [३१.१८] मिथ्यात्वे[५३]दोष [३२.१] इति सम्बन्धः । {प्. २८५} उक्तः [३२.१] परेणेत्यर्थात् । किं कृत्वासावुक्त इत्याह पूर्वपक्षयित्वेति [३१.१९] । सामान्यम् [३१.२२] इत्यादिर्भविष्यती[३१.२२]त्यन्तः पूर्वपक्षग्रन्थः । अस्यैव पूर्वपक्षस्याकारमिति[३०.२३]शब्दो दर्शयति । तस्य [३१.१९] सामान्यस्य वृत्ते[३१.१९]र्वर्तनस्य । नियामकं व्यवच्छेदकम् । साबलेयादिषु कर्कादिसाधारणे परस्परं भिन्न*<३>*त्वेपि गोत्वमेव वर्तते नाश्वत्वमित्येतन्निमित्तम् । यथैकस्मात्साबलेयात्कर्को भिन्नस्तथा बाहुलेयोपि ततस्तुल्येपि भिन्नत्वे [३१.२१] भेदे केषुचित्[३१.२१] साबलेयादिषु वृत्तिर्गोत्वस्य अवृत्तिताविद्यमानवृत्तित्वमविद्यमानत्वमेवाश्वत्वस्यादिशब्दसंगृहीतस्य । कस्य केषुचिद्वृत्त्यवृत्तितेति अपेक्षायामुक्तं*<४>* गोत्वादेरि[३१.२२]ति । अनिमित्ते[५४]ति काकाक्षिन्यायेनोभयत्रापि वृत्त्यवृत्तितायां बुद्धावपि संबध्यते । तेनायमर्थो यथा गोत्वादेः केषुचिद्वृत्त्यावृत्तितानिमित्तापि नियामकसामान्यरहितापि तथा [३१.२२] तद्वद्बुद्धि[३१.२२]रभिन्नाभासा धीरनिमित्ता जनकगोत्वसामान्यशून्यानादितथाविधवासनासामर्थ्यात्केषु*<५>*चिदेव भविष्यती[३१.२२]ति । तेन विषयं विना कुतोत्प(विना बुद्ध्युत्प)त्त्यभावेन तत्[३१.२५]सामान्यं ध्रुवं नित्यमिच्छंति । यद्वा तेन कारणेन तत्सामान्यमिच्छन्ति ध्रुवं निश्चितम् । तेनाभिन्नेन विषयेण विना अनुगमात्मिकानां बुद्धीनामुत्पादे को दोष इत्याह । ता हीति [३१.२६] । ता अभिन्नाभासा सामान्यबुद्धयः । अनेन सामान्याभावे तथाभूतबुद्ध्युत्पादे बाधकप्रमाणमुक्तं परेण । असावेव वन्दीकृतमर्थं प्रतिकुर्वन्नाह -- न त्विति [३१.२७] । वृत्तिर्नियतेति प्रकरणात् । न दुष्यती[३१.२७]ति ब्रुवतोऽयं भावस्तदन्तरेण तथाविधबुद्द्युत्पादे मिथ्यात्वदोषोस्ति बाधकः । सामान्यस्य [३१.२७] तु सामान्यान्तरेण केषुचिदेव वृत्तौ किमस्ति बाधकं येन तत्रान्य*<७>*सामान्यमभ्यनुजानामीति । असौ [३२.१] मिथ्यात्वप्रसक्तिदोषो न तथागतसिद्धान्ततीतिपरिशुद्धबुद्धीन[३२.२]स्मदादीन् बाधते व्यथयति । कस्मादित्याह सामान्ये[३२.२]ति । यद्यपि पूर्ववत्सामान्यबुद्धेर्मिथ्यात्वव्यवस्थानिबन्धनं प्रमाणं मात्रया दर्शितं तथापि बहुमुखमेवास्या मिथ्यात्वव्यवस्थापकं प्रमाणमस्तीति प्रतिपादयितुं तथाही[३२.३]त्यादिनो*<८>*पक्रमते । साम्ना [३२.४] गलकम्बलः । आदिशब्दात्ककुदादिपरिग्रहः ।[५५]नासाधारणं सामान्यरूपताहानिप्रसङ्गात् । नोदयव्ययप्रसङ्गयोगि नित्यत्वाभावप्रसङ्गभावादिति बुद्धिस्थम् । इतिः [३२.८] अनन्तरोक्तं प्रत्यवमृषति । कुतो न युक्तमित्याह विरुद्धे[३२.९]ति । अमुमर्थं सातिरेकं कारिकाभिर्वक्तुं पर {प्. २८६} मुखेनाह ने(-खेनाह आहचे)त्यादि । नाश इति व्यक्ते[१९ ]*< १>*रितिप्रकरणाद्द्रष्टव्यम् । अजातता [३२.१०] केनेष्ठे[३२.११]ति लिङ्गविपरिणामेन संबन्धनीयम् । केन [३२.११] कारणेन । तद्वद्व्यक्तिवत् । अनन्वयो [३२.११] व्यक्त्यन्तराननुगामित्वम् । __________नोतेस्__________ [५३] "मिथ्यात्वप्रसङ्गदोषः" -- स् [५४] "अनिमित्ता" -- स् [५५] न चासा--- स् ___________________________ ननु च "सामान्यान्यपि चैतानि नाशीन्याश्रयनाशत" [श्लोकवा. पृ. ३८०] इति वचनान्मीमांसकैर्व्यक्तिनाशे नाश इष्ट एवेति किमुच्यते व्यक्तिनाशेऽनाशः । केनेष्ठे(ष्ट इ)ति प्रकृतं मीमांसकमतमिति । सत्यमेत*<२>*त् । केवलमेवंवक्तुरयमाशयः यद्येकं सामान्यं ततो भिन्नञ्चाभिन्नञ्च संगच्छते तदा व्यक्तिरूपेण व्ययते तद्व्यतिरिक्तेन च रूपेणानुवर्तत इति स्यादपि यदि परं मनोमोदकोपयोगमात्रवदेतदिति । एतच्चाधस्ताद्यथावसरमिहैव प्रतिपादयिष्यते । अत एव च कैश्चिन्नैयायिकाइर्नाशीनीत्युपलभ्यानीत्येतदर्थं*<३>*कुमारिलेनोक्तं व्याख्यातमिति । व्यक्तिजन्मनि जन्मानिष्टौ सामान्यस्य दूषणमिदमुपस्थितमिति दर्शयन्नाह -- व्यक्ती[३२.१२]त्यादि । जातिरिति वक्ष्यमाणापेक्षया स्त्रीलिङ्गेन निर्देशः । निष्क्रियत्वाज्जातेरित्यभिप्रेत्य नागतेत्यभ्युपगमयति । प्राग्[३२.१३] व्यक्त्युदयात्पूर्वम् । दृश्याया अनुपलब्धत्वादित्यभिप्रायेण च नासीदित्यु*<४>*[३२.१३]पगमयति । चेदि[३२.१२]त्यत्रापि संबध्यते । तस्या व्यक्तेरुत्पद्यमानाया देशो दिश्यतेऽस्मिन्निति कृत्वाधार उक्तः । अनेनैतद्दर्शयति । तत्संबब्धोरु(?)बन्धनेन वा प्रकारेण भवेत्स चैकोपि न भवतीति । सा जातिः तया व्यक्त्या सङ्गता संबद्धा कथं [३२.१३] न कथञ्चित् । तज्जन्यजन्मनि सामान्यस्येष्यमाणे*<५>* तादात्म्यं तावदतिभवान्न(तावद्भेदान्न) युज्यते । तत्सम्बन्धमात्रमपि न संगच्छत इत्यभिप्रायोऽस्यैवं च वदितुर्बोद्धव्योऽन्यथामीमांसकमतेतादात्म्यादन्यस्य सम्बन्धस्यानिष्टेरागताश्रयान्तरादित्यादिद्वारा सम्बन्धमात्रनिषेधोऽनुपयुक्तः प्रसज्येत प्रस्तुतञ्च तन्मतमिति । व्यक्तिनाशेऽविनाशित्वेष्तौ*<६>* च सामान्यस्ये(स्या)यं दोषः स्यादिति दर्शयन्नाह व्यक्ति(क्तीति) [३२.१४] । निष्क्रियत्वादित्यभिप्रायेण नागते[३२.१४]त्याह । तच्छून्ये[३२.१४] नष्तव्यक्तिरहिते दृश्यादर्शनाभिप्रायेण च न स्थितेत्याह । क्वेति [३२.१५] काकाक्षि(काक्वा) प्रश्नयुक्तः कथं(कथ)नाशक्यत्वं प्रतिपादयति । जातेर्व्यक्त्यात्मकत्वोपगमे तदुदयव्यययोस्तदन्वय*<७>*व्ययौ न स्याताम् । सत्याञ्च तद्विष्तावयमयञ्च दोष इति प्रतिपाद्य तत्तदिष्टौ च जातेस्तादात्म्योपगम एव जघन्य इति प्रतिपादयन्नाह व्यक्ते[३२.१६]रित्यादि । सा व्यक्तिरात्मा स्वभावो यस्य तद्भावः । अनुपप्लुतं [३२.१७] वाद्यादिभिरप्रापितास्वास्थ्यं चेतो {प्. २८७} येषां तेषाम् । कथमिष्टम् । क्षेपे चायं किमः प्रयोगः । उपप्लुतचेत*<८>*सामेवमीमांसकानामिदमिष्टमिति सामर्थ्याद्दर्शितम् । प्रमाणासि(मासि)द्धौ प्रकृष्टं कारकं प्रमाणमुच्यतेऽविशेषाधायित्वे च साधकतमत्वाभावात्कथमस्य तत्त्वं स्यादित्याशयः । नैवै[३२.२७]ति व्याचक्षाणश्च[३२.२७]कारमवधारणे दर्शयति । लिङ्गग्रहणात्तरकालभाविनो [३२.२८] विकल्पस्येति प्रकरणात् । तस्मिन् विकल्पे [१९ ] *<१>*प्रतिभासनात्तस्य सामान्यमिति प्रकाशितम् । संबद्धसंबन्धादित्यादि पूर्वोक्तः प्रकारः । व्यक्तिस्वभावत्वे तस्य कथं तदकर्तृत्वमित्याह तस्येति [३३.३] । कल्पितं विकल्पेन घटितं रूपं [३३.३] स्वभावो यस्य तस्य । तदसंभवाद्[३३.३] रञ्जनाद्यर्थक्रियानुपपत्तेः । सर्वनित्यसाधारणदूषणमिह समुच्चिन्वन्नाह । नचे[३३.४]ति । अन्या [५६]चे[३३.५]ति तदेकसाध्यतयोपगताभिन्नज्ञानाभिधानल*<२>*क्षणमवसेयम् । इति[३३.६]रेवमर्थो मन्यते [३३.६] चेतसि निधत्तेवार्त्तिककार इत्येवं ब्रुवाण इति चार्थाद्द्रष्टव्यम् । __________नोतेस्__________ [५६] वेति स्। ___________________________ अनधिगतार्थविषयं प्रमाणमिति प्रमाणलक्षणं परेण कारिकया दर्शितमिति दर्शयन्नाह तत्रापूर्वेति [३३.११]. अहमहमिकया क्रिया आहोपुरुषिका तया [३३.१६] करणभूतया । तत्स्वलक्षणमस्पष्टरूपतया अनुकरोतीति तदनुकारी*<३>*ति विवक्षितमिति प्रकट्यन्नाह । अस्पष्टनीलस्वलक्षणानुकारी [३३.२७] अस्पष्टनीलस्वलक्षणाभासमित्यर्थः । सर्व एव हि विकल्पोऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस्तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः, स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । यथा चैतत्तथोभे(चे) समीचीनमाचार्यो *<४>*विनिश्चयमिति (य इति) तत एवा[व]गन्तव्यम् । कथं पुनरस्पष्टनीलस्वलक्षणानुकारि न तु निर्विकल्पवत्स्पष्टस्वलक्षणानुकारीत्याशंक्य योज्यम् -- साक्षाद्[३३.२७] व्यवधानेन अनुत्पत्तेस्ततः स्वलक्षणादिति प्रकरणात् । यदि ततस्तन्नोत्पन्नम्, तर्हि तस्य नियतनीलाद्याकारपरिग्रहः कुतस्त्य इत्याशंक्य योज्यम् -- दर्शने[३३.१७]ति । दर्शने*<५>*नामुधेना(नानुभवेना)हितः संस्कारो [३३.२७] वासना तस्या[५७]वेध [३३.२७] आक्षेपस्तद्वशात् । चो[३३.२७] व्यक्तमेतदित्यास्मिन्नर्थे । __________नोतेस्__________ [५७] आधेय स्। ___________________________ ननु यत्तत्रावभासते तत्स्वलक्षणम् । येन स्पष्टनीलस्वलक्षणानुकारीत्युच्यत इत्याह दृश्ये[३३.२८]ति । दृश्यविकल्प्ययोरेकीकरणात् । दृश्यविकल्प्यावर्थावेकीकृत्यास्य प्रवृत्तेरित्यर्थः । दृश्यविकल्प्यैकीकरणं*<६>* च तस्य तथोत्पत्तेरेव द्रष्टव्यम् । तदवभासिनोऽबाह्यत्वादेव न परमसावनुकरोतीत्याशयः । स [३४.१] विकल्पः । त पो(पा)नालम्बने कथं गृहीतग्राहित्वलक्षणं स्म्र्तित्वमित्याशंक्याह तथाही[३४.४]ति । {प्. २८८} स्मृतिरूपत्वमेवानुमानविकल्पस्य प्रतिपादयन् परः प्राह -- तथाहि[३४.११]त्यादि । अग्नित्वादिना रूपणानवच्छिन्न्*<७>*अत्वातनग्निव्यवृत्तं वस्तुमात्रमित्याह महानसस्सूपकारशाला । आदि[३४.१२]शब्दादयस्कारकुट्यादेर्ग्रहणम् । प्राक्[३४.१५] पूर्वं व्याप्तिग्रहणकाल इत्याकूतम् । प्रदेशविशेषे पर्वतादौ । तद्वस्[३४.१३] अनुमानविकल्पवत् । नन्वधिगतावधिगन्तुरप्यनुमानविकल्पस्य प्रामाण्यप्रदर्शनेनास्यापि तथाभूतस्य प्रामाण्यमावेदितमेवति किमनेनोक्ता*<८>*नतिशायिनोक्तेनापीत्याशंक्याह एवं मन्यत [३४.१४] इति । पूर्वपक्षिणैतस्मिन्नुक्तेप्येवं ब्रुवाणो नियतमेवं वक्ष्यमाणकं मन्यते [३४.१४] चेतसि निवेशयति । यदि[३४.१४]त्यादिना मननीयमेव दर्शयति । आदि[३४.१५]शब्दात्कालस्य परिग्रहः । साध्यधर्मिग्राहि [३४.१७] पर्वतादिग्राहि । दृष्टान्तधर्मिगाहि [३४.१७] महासादिधर्मिग्राहि । तत्र दृष्टान्तधर्मिग्राहिणा दर्शने[न] नैव [२० ] पर्वतादिविशिष्टमनग्निना व्यावृत्तं वस्तु गृहीतम् । नापि तदाह न पर्व(नापि पर्व)तादिसाध्यधर्मिग्राहिणान्वयाद्यवेदिनो(ना)पि । तथात्र विपत्ति (तथात्वेऽविप्रतिपत्ति)प्रसंगात्तद्विशिष्टमनग्निव्यावृत्तं वस्तु गृहीतमितिदर्शनान्वया(दर्शनद्वया)नधिगतमुक्तम् । अयोगोव्यवच्छेदेन [३४.१८] संबन्धव्युदा...एन तद्विपरीतत्वाद्[३४.२०] अनुमानविकल्पविपरीतत्वात् । तेन यदा(था) डृ..यत्यैव निश्चयनात् । ननु वस्त्वधिष्ठानत्वाद्व[३४.२३]स्त्वालम्बनत्वादित्यभिप्रेतम् । तथा चानुमानासंग्रहः इत्याह वस्त्वधिष्ठानत्वं चे[३४.२३]ति । चकारस्तुशब्दस्यार्थे । प्रमाणस्य व्यापारः प्रापणं तस्य विषयस्तमभिप्रेत्योच्यते । नालम्बनलक्षणं [३४.२५] विषयमभिप्रेत्योच्यते इति सम्बन्धनीयम् । आलम्बनलक्षणं ग्राह्यरूपम् । उक्तादन्येन प्रकारेण अन्यथाव्यापिनी सर्वप्रमाणासंग्राहिका । विप्रकृष्टो दे*<३>*शकालस्वभावैर्व्यवहितो विषयो यस्याः सा तथोक्ता । तत्रापी[३५.१]त्यादि प्रतिविधानम् । विकल्परूपस्यैव वस्तुनो धर्मित्वात् । तस्यैव च तत्प्रधानत्वाद्यनुपादानत्वसाध्यत्वात् । तत्रापि प्रमाणव्यवस्थायास्तदेव विकल्परूपं वस्त्वधिष्ठानमस्तीति समुदायार्थ । दर्शनविधिप्रतिषेधविकल्पानां दर्शनस्यैव *<४>*प्रामाण्यं नेतरयोरिति प्रकृतम् । उक्तञ्च "तत्र तदाद्यमेव"[२५.११] इत्यादिना । तत्कुतोऽस्य वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनस्यार्थोत्पा(स्योपपा)दनमित्याशंक्य संगति दर्शयितुमिदं चे[३५.१२]त्यादिनोपक्रमते । तस्य अनधिगतवस्तुरूपाधिगन्तृत्वस्य असिद्धता । तस्या उद्भावनं [३५.१६] प्रकाशनं तदर्थम् । {प्. २८९} तस्यैव [३५.२०] स्वलक्षणस्यैव । सामा*<५>*न्यस्याप्यर्थ्क्रियास(सा)मर्थ्यलक्षणत्वात्तद्विषयोपि विकल्पः प्रामाण्यान्नापैतीति पूर्वपक्षमुत्पश्यन्नेवं ब्रुवाणः किं मन्यत इत्याह सामान्यस्येति [३५.२१] । तद्विपरीतत्वाद[३५.२१]र्थक्रियासामर्थ्यलक्षणविपरीतत्वात् । यथा च तस्यार्थक्रियाकारित्वसंभवि तथा पुरस्तादुक्तमिति । गूढाभिसन्धिश्चैवं मन्यत [३५.२१] इति द्रष्टव्य*<६>*म् । ततोपि [३५.२३] वस्तुन्येव [३५.२४] पुरुषस्य प्रवृत्तेरि[३५.२३]ति संबन्धः । तत्सामर्थ्यजन्मा विकल्पो न प्रमाणमि[३५.२३]ति साध्ये च हेतुपदमेतत् । कथं प्रवृत्तिरित्याह तदध्यवसायेने[३५.२४]ति । कस्मात्तदध्यवसायेन प्रवृत्तिः कल्प्यते इत्यन्यथे[३५.२५]ति । तत्र [४।३५.२४] स्वलक्षणे पूर्वस्या उपपत्तेरस्याश्च तुल्यत्वात्किमनेन पुनरुक्तेने*<७>*त्याह पूर्वमि[३५.२७]ति । एतञ्च शाब्दीं गतिमाश्रित्य भेदो दर्शितो द्रष्टव्यः । अथार्थाभेदात्किं मुखभेदमात्रेण भेदेनोपदर्शितेनेति निर्बन्धस्तदेवोच्यत इत्यभिप्रायवानाह यद्वे[३६.१]ति । किमिती[३६.६]तिनिपातानिपातसमुदायः कस्मादित्यस्यार्थे वर्तते । स्यादेतत्स्वलक्षणे निर्विकल्पकविषये प्रवर्तयन्नपि तदनुभवात्प्रमेया*<८>*न्तरविषयः सन् प्रामाण्यं प्राप्स्यतीत्याशंक्याह अयमस्याभिप्राय [३६.१२] इति । तत्रैव [३६.१३] प्रमेयान्तरे स्वविषय एव[५८]प्रवर्तयेदि[३६.१४]ति । सम्भावनपदमेतत् । शक्यार्थं वा । किं कर्तुं प्रवर्तयेदित्याह -- रूपं [५९]तत्साध्यमि[३६.१४]ति । प्रमेयान्तरमात्रं तद्विषयमभिप्रेत्य तत्रैव प्रवर्त्तयेत्तत्साध्यामर्थक्रियामधिगन्तुमि[३६.१४]त्युक्तमधुना तु यदि सामर्थ्य[२० ](सामान्य)*< १>*लक्षणं तत्प्रमेयान्तरं तदा नैव वा [३६.१४] इत्युक्तम् । नैव वा प्रवर्तयेत्न स्वलक्षणे नापि सामान्ये न क्वचिदपीति प्रवृत्तिमात्रप्रतिषेधाद्घ्रियते । __________नोतेस्__________ [५८] प्रवर्तयतु स्। [५९] तत्साध्यामर्थक्रियां स्। ___________________________ यद्वा पूर्वं सामान्यसाध्यामर्थक्रियामनाकल्य्याभिहितं तत्रैव [३६.१३] इत्यादि । इदानीं तु तत्साध्यामर्थक्रियामाकाल्य्योक्तम् -- नैव वे[३६.१४]ति । कस्मादेवामित्याह -- तद्विषये[३६.१५]ति । तत्सिद्धय एव प्रवर्तयिष्यतीति आह विकल्पे[३६.१६]ति । तत्सि*<२>*द्धे[३६.१४]रभिन्नज्ञानलक्षणाया अर्थक्रियाया निष्पत्तेः । सामार्थ्याच्चाभिन्नाभिधानलक्षणायाश्चेत्याभेदम् (श्चेत्यपि वेद्यम्) । ननु ततः प्रमेयान्तरविषयोपि प्रत्ययस्तद्विषये प्रवर्त्तयन्निष्पादितस्वविषयार्थक्रियो वा क्वचित्प्रवर्त्तयन् प्रामाण्यमपि प्राप्स्यतीत्याह -- नही[३६.१६]त्यादि । प्रत्यया [३६.१७] इत्यत्र बहुवचनेन साकल्यं दर्शयति । साधिता निष्पादिता अर्थक्रिया [३६.१८] । {प्. २९०} स्वविषयार्थक्रि*<३>*या येषान्ते तथा, तेषां क्वचिदपि [३६.१९] न प्रवर्तयन्तीति पूर्वकेणाभिसम्बन्धः । विशेषेण [३६.१९] विशेषेष्यैव यैर्मीमांसकैरेवं व्याख्या[य]ते [३६.१९] तेषां मत इति सामार्थ्यात् । द्व्यात्मकस्य [३६.२१] सामान्यविशेषात्मकस्य । विज्ञानाभिन्नहेतुत्वादिच्छादेर्विज्ञानात्मकं(कत्वं) सिद्धमभिप्रेत्य प्रामाण्यानुषङ्गः कुतो(कृतो) वेदितव्यः । प्रमाणानामियत्ता [३६.२६] व्य*<४>*वच्छेदः ।कुमारिलमतेन प्रत्यक्षानुमानोपमानार्थापत्तिशाब्दाभावाः षडेव प्रमाणानीत्येवंरूपा विशीर्येत [३६.२७] त्रुट्येत् । धारया प्रवाहेन वहनशीलानि [३७.१] भवनधर्माणि । अनेकान्तस्तदभिन्नयोगक्षेमत्वलक्षणो हेतुरिति प्रकरणात् । एकस्मिन्नर्थे सजातीयानि सजातीयविजातीयानि वा*<५>* प्रमाणानि संप्लवन्ते प्रवर्त्तन्त इति वादी [३७.५] । प्रतिक्षणं [३७.७] भिद्यत [३७.८] इति सम्बन्धः । केषां क्षणिविशेषे(ष)साध्येऽर्थे वाञ्छा भवति । यद्यस्मदादीनां तथार्थादर्शित्वादेव न संभवतीत्याह योगिनामि इ[३७.११]ति । योगश्चित्तैकाग्रता स येषामस्ति तेषाम्, नित्ययोगे प्रशंसायां वाय[मि]निर्द्रष्टव्यः । शमथविपश्यने वा योगस्तद्व*<६>*ताम् । ननु तेषां स्वार्थासंभवात्किमभिप्रेत्यास्मिन् वाञ्छा भवतीत्याह -- परे[३७.११]ति । अथ परोपकारिणः परेषामेवोपकुर्वन्तु कस्मात्पुनः क्षणविशेषसाध्यमर्थं प्राप्तुं परिहर्त्तुं वाभिलषन्तीत्याह कस्यचिदि[३७.१२]ति । कस्यचित्क्षणविशेषसाध्यस्यार्थस्य कथं चित्साक्षात्पारंपर्येण वोपयोगादुप[३७.१२]युज्यमान*<७>*त्वात् । क्वचित्[३७.१२] प्राणिनीति प्रकरणादवसेयम् । अनेन परोपकाराङ्गत्वं तस्य दर्शितम् । तदा [३७.१२] नानायोगक्षेमत्वमिति सम्बन्धनीयम् । तदेत्यत्रच्छेदो व्यक्त एव । एतदेव निदर्शयन्नाह -- यथे[३७.१२]ति । सामान्योच्छेदस्यार्थस्य विषयोपदर्शने यथैतद्दर्शितम्, तथान्यदपि द्रष्टव्यमिति यथाशब्दस्यार्थः । भावनामार्गव्युदासेन[६०]दर्शनमार्ग [३७.१२] इत्यु*<८>*क्तम् । दुःखे धर्मज्ञानक्षांतिः, दुःखे धर्मज्ञानम् । दुःखेऽन्वयज्ञानक्षांतिः, दुःखे अन्वयज्ञानम् । समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम् । समुदयेऽन्वयज्ञानक्षान्तिः, समुदयेऽन्वयज्ञानम् । निरोधे धर्मज्ञानक्षान्तिः, निरोधे धर्मज्ञानम् । निरोधेऽन्वयज्ञानक्षान्तिः, निरोधेऽन्वयज्ञानम् । मार्गे धर्मज्ञानक्षान्तिः, मार्गे धर्मज्ञान[म्] । मा[२१ ]*< १>*र्गेऽन्वयज्ञानक्षान्तिरित्येवं पञ्चदशक्सणा दर्शनमार्गः तदुक्तमभिधर्मकोशे "अदृष्टदृष्टेर्दृङ्मार्गस्तत्र पञ्चदशक्षणाः" [अक्. ६.२८] इति । तस्मिन् दर्शनमार्गे फलभूताः पञ्चसंक्लेशस्कन्धाः । दुःखाख्यं सत्यम् । {प्. २९१} तस्मिन् दुःखे धर्मज्ञानक्षान्तिः [३७.१३] स्वरूपज्ञानयोग्यता । दुःखसाक्षात्संका(क्षात्का)रिज्ञानोपजननयोग्यः कुशल इति यावत् । __________नोतेस्__________ [६०] अत्र विशेषार्थिना विसुद्धिमग्गोऽनुसतव्यः पृ. ३५९ । ___________________________ स क्षणः किं करो*<२>*तीत्याह ।[६१]दशानामि[३७.१३]ति । राग-प्रतिध-मानाविद्या-विचिकित्सा पञ्च, सत्कायदृष्टि-मिथ्यादष्ट्यन्तह्राहदृष्टि-दृष्टिपरामर्ष-व्रतपरामर्षलक्षणा दृष्टयः -- दशानुशयाः एषां वासनां निरोधयति [३७.१३] विनाशयति । कथं करोतीत्याह । तद्विरुद्धे[३७.१४]त्यादि । तैरनुशयैर्विरुद्धोऽयमाशयश्चित्तसंतत्यवस्थाविशेषस्तस्यो*<३>*त्पादनात् । दुःखे धर्मज्ञानक्षान्तिक्षणस्यार्थक्रियामुपदर्श्य दुःखे धर्मज्ञानक्षणस्य ततो भिन्नामर्थक्रियां दर्शयितुमाह -- दुःख [३७.१४] इति । दुःखे धर्मज्ञानं [३७.१४] दुःखस्वरूपसाक्षात्कारि(र)प्रवृत्तज्ञानम् । निर्वाणं [३७.१५] मोक्षः प्राप्यते अनयेति व्युत्पत्त्या, निर्वाणस्य प्राप्तिर्यस्मादिति व्युत्पत्त्या वा तावत्क्लेशविविक्तता निर्वाण*<४>*प्राप्तिशब्देनोक्ता । दर्शनमार्गप्रहेयाणां द्वात्रिंशतः क्लेषानां मध्येऽनेन दशानामेव क्लेषानां वि(नि)रोधाद्दग्ध(द्दश)क्लेशविविक्ततानाततस्यात्पादनात (?) समुदयादिज्ञानादिप्रहातव्यक्लेशप्रहाणिप्रतिरूपा निर्वाणभावस्य दवीया(यः) सिद्ध्यवस्थानादन्यथाइतदसमंजसं स्यादिति । अथवा निर्वाणशब्देन नैवार्चटःपरमनिःश्रयसात्मने यदेवमूचे किंत्ववान्तरनिःश्रेयसं तथाभूतमिति न किञ्चिदवद्यम् । कथं तथाकरोतीत्याह अनुशयति [३७.१५] । सति तस्मिन्मनागपि ते पुनर्नोत्पद्यन्ते । अपि तु तद्विविक्त एव क्षणप्रबन्ध इति तदा सुदार्ड्ःयापादनं तस्याधीसयम् (?) । पूर्वकेन च क्षणेन क्लेशा निष्क्लेशिता उत्तरेण तु यथा ते*<६>* पुनर्न प्रविशन्ति, तथा आचरितमित्यनयोर्व्यापारप्रयोजनम् । अतएवाभिधर्मकोषे "चौरनिष्काशनपाटपिधानवद्" इति (अक्६.२८ भ्) दर्शितम् । दुःखे धर्मज्ञानक्षान्तिधर्मज्ञाने च कामावचरक्लेशप्रतिपक्षतया ज्ञातव्ये दुःखे धर्मज्ञानक्षान्तिधर्मज्ञानयोरुदाहरणा(ण)दिङ्मात्रत्वेन अन्येषामपि तथा विवि*<७>*क्तत्वादेषामि[३७.१६]ति बहुवचनेनाह ग्राहकाण्यालम्बकानि । कानि पुनस्तानि ग्राहकाणीत्याह परे[३७.१६]ति । परचित्तविषयाणि ज्ञानानि परचित्तज्ञानानि [३७.१६] । __________नोतेस्__________ [६१] दमानां सिति त्वसम्यक् ___________________________ एतदुक्तं भवति । दर्शनमार्गमधिगच्छतो दुःखे धर्मज्ञानक्षान्त्यादिक्सणाः । क्रमभाविनः क्रमभाविभिर्ज्ञानैर्योग्यंतरेण यदालम्ब्यते परार्थोद्देशेन तथा तद्विषयाणि त*<८>*द्योगान्तरज्ञानानि पृथगेव [३७.१६] पूर्वपूर्वज्ञानाद्भिन्नान्येव प्रमाणानीति दर्शनमार्गाधिगन्तृक्षणविषयाणां योगिज्ञानानां पृथगेव प्रामाण्यमिति प्रतिपाद्य संप्रति सामान्येनैव योगिज्ञानानि भिन्नार्थक्रियासामर्थ्यक्षणविषयाणि सर्वाण्येव प्रमाणानीति प्रतिपादयिष्यन्नाह -- परहिते[३७.१७]त्यादि । {प्. २९२} भगवताम् [३७.१८] अध्यक्षचेतसां नानायो [२१ ]*< १>*गक्षेमत्वात्[३७.२१] । पृथगेव प्रामाण्यमिति शेषः प्रकरणलभ्यं वा । अधिकरणे चेयं षष्ठी । तेन भगवत्सम्बन्धीनि यान्यध्यक्षचेतांसि साक्षात्कारप्रवृत्तानि ज्ञानानि तेषामित्यार्थः । किंभूतानां भगवतामित्याह सर्वे[३७.१९]ति । सर्वभावान् भावनाबलजेन ज्ञानेन प्रतिक्षणमी[६२]क्षमाणानां [३७.२०] पश्यताम् । कथं तेषां नानायोगक्षेमत्वमित्याह तद्विषये[३७.२०]ति । तेषां भगवत्स*<२>*म्बन्ध्यध्यक्षचेतसां [३७.२०] ये विषयाभिन्नाः क्षणास्तषां भिन्नास्वर्थक्रियासूपयोगतो [३७.२१] व्यापारात् । अनेन विषयस्य तथात्वाद्विषयिणस्तथात्वमुक्तमवसेयम् । कस्मात्पुनस्ते प्रतिक्षणं भावान् वीक्षन्त इत्याह -- कश्चिदेवे[३७.१८]ति । इतिः [३७.१९] हेतौ । अनुग्राहकविबन्धकानुरूपम् आचरितुमित्यर्थादेव स्थितम् । __________नोतेस्__________ [६२] -क्षणं वीक्षमाणानां -- स् ___________________________ ननु तथापि सिद्धार्था भगवन्तः स्वार्थमणी*<३>*यांसमप्यपश्यन्तः कस्यचित्क्षणस्य कस्यचित्प्राणिनोऽनुग्राहकत्वे विबन्ध[क]त्वेपि कस्माद्भावान् प्रतिक्षणं वीक्षन्त इत्याशंक्यतेहे(क्य हे)तु भावेन भगवद्विशेषणपदमाह परहिते[३७.१७]ति । परस्मै हितमायति पथ्यं तस्याधानं करणम् । तस्य दीक्षा अनुष्ठेयमेवैतदिति नियमस्तद्वताम् । नित्ययोगे चायं मतुप्*<४>* । ज्ञानमेव सदसद्विवेककरणादालोक इवालोकस्तेनावभासित उद्योतितोऽन्तरात्मा येषान् तेषाम् [३७.१८] अन्तरात्मेति लोकभाव(न)योक्तं परमार्थ(त)स्तु तथाभूतज्ञानावलोकवतामित्यर्थः । अशब्दविषये प्रथने वाच्ये वेः परात्स्तृणातेर्घञोऽभावाद्वस्तुविस्तर इत्यसाधुरयं प्रयोग इति *<५>*चेत् । तत्तु नातिश्लिष्टम् । यतः सूत्रे प्रथनं विस्तीर्णत्वमभिप्रेतम् । तदाहकाशिकाकारः"प्रथनं विस्तीर्णता" इति । न चात्र विस्तरशब्देन वस्तूनां विस्तीर्णत्वमभिप्रेतमपि तु बाहुल्यं यथा तृणस्य विस्तर इत्यत्र । अतएव "प्रथन इति किं? तृणविस्तर" इति प्रत्युदाहृतम् । अस्य चार्थंभागवृत्तिकारोपि अञ्जसा*<६>*व्य(सा व्या)ञ्जीत्"तृणस्य विस्तरो बाहुल्यमित्यर्थः" । तत्कथमप्रथने वर्त्तमानादस्माद्धातोर्घञ्भवितुमर्हतीति । अतएवप्रज्ञाकरगुप्तोपिवार्तिकालङ्कारस्यादौ "प्रायः प्रस्तुतवस्तुविस्तरभृतो नक्षन्त एवोच्चकैर्वक्तारः" इत्यवोचदिति । किं सर्ववेदिनोऽधिकृत्य भवतायं हेतुरनेकान्त उच्यते, अ*<७>*थास्मदादीनिति विकल्पयोर्बुद्धिस्थीकृतयोः पूर्वस्मिन् विकल्पे प्रतिसमाधायापरस्मिन्नपि प्रतिविधातुकामः तद्यदी[३७.२१]त्यादिनोपसंहर्तुमुपक्रमते । क्षणानां विवेकः पृथक्त्वं तद्द्रष्टुं शीलं येषां तानधिकृत्यो[३७.२१]द्दिश्य उच्यते । {प्. २९३} प्रकरणात्"पूर्वेणाभिन्नयोगक्षेमत्वाद्" इति हेतुरनैकान्तिक इत्याख्यायते । तदा "नानेकान्तः स हेतुर्" इति *<८>*प्रकरणात् । विपक्षगमनाभावादिति भावः । अथे[३७.२३]ति पक्षान्तरमुपक्षिपति । संव्यवहारः प्रवृत्तिनिवृत्तिलक्षणमनुष्ठानं प्रयोजनं येषां तान् [३७.२३] । परमार्थतो भेदकारणमुक्तमन्यान्यकारणतये[३८.५]ति । तत्राद्य एव प्रमाणम् । न सम्यञ्चोऽपि पराञ्चः प्रत्यया इति समर्थयितुं तथाही[३८.८]त्यादिनोपक्रमते । तत्साधन[३८.८]मर्थक्रियासाध[२२ ]*< १>*नं तस्य प्रापणं तत्र समर्थे [३८.९][६३]अक्लीवाविद्यमानविप्लवा धी[३८.१०]र्येषां ते तथा तेषां प्रेक्षापूर्वकारिणामित्यर्थः अर्थस्य क्रिया निष्पत्तिस्तस्याः साधनं निष्पादकं तस्य भेदोभिन्नत्वात् । संधुक्षण [३८.१६] संदीपनमादिशब्दात्पवनस्वेदनादिपरिग्रहः । __________नोतेस्__________ ___________________________ [६३] "अक्लीवधियां" इति आलोकसंमतः पाठः । "अविक्लवधियां" इति स् यद्येवमि[३९.१८]त्यादि यच्चोद्यम् । तथाही[४०६?]त्यादि प्रत्यक्षं प्रमाणमभ्रान्तमित्युक्तं भवतीति वक्त*<४>*व्यम् । अनन्तरोक्तादेव कारणकलापात् । प्रत्यक्षलक्षणानुक्तौ च प्रत्यक्षस्यैवानभिधाने परोक्षप्रतिपत्तेः सर्वस्या अनुमानेऽन्तर्भावप्रदर्शनेपि कथं प्रमाणद्वैतमाख्यातं भवति? दर्शनमेव प्रमाणमित्याख्यानाच्च नाज्ञानमिन्द्रियादि प्रमाणमिति दर्शितं भवति । भिन्नायास्तु प्रथमायाः कथमपाक*<५>*रणम्? किं च मुख्यवृत्त्या यदुद्दिश्य शास्त्रं प्रवर्तते तदर्थं तदुच्यते । न तु सामर्थ्यानुषंगतो वा यद्व्युत्पादयति तदर्थं तदुच्यते । न च प्रत्यक्षव्युत्पादनाभ्युपगमेपि मुख्यवृत्त्या तद्व्युत्पादने प्रवृत्तमिदमिति कथं सामान्येन सम्यग्ज्ञानव्युत्पादनार्थमुच्यते । अन्यथा अनुमानव्युत्पादनार्थत्वेपि तस्य सामर्थ्यादनु*<६>*मानाभासप्रतिपादनमनुषङ्गतो विकल्पस्य धारावाहिनाञ्च पराञ्चा(पराचां)विकल्पज्ञानानां प्रमाणाभासत्वप्रतिपादनमस्तीति अनुमानतदाभासव्युत्पादनार्थमिति प्रमाणाप्रमाणव्युत्पादनार्थमिति वा किं नोच्यते? यद्य(यद)प्यन्यत्सम्यग्ज्ञानव्युत्पादनार्थमभिप्रेतम्, तत्रापि कल्पनाप्रवृ(भृ)तोर्मिथ्याज्ञानस्यापि*<७>* प्रसंगतो व्युत्पादनमस्तीति तदपि सम्यग्ज्ञानव्युत्पादनार्थमिति किं नोच्यत इति यत्किञ्चिदेतत् । तथा यद्यनुमानतस्तथाभूतस्य निश्चयात्तस्य प्राधान्यमुच्यते, तदा प्रत्यक्षतो धर्मिग्रहणं व्याप्तिग्रहणञ्चान्तरेण नानुमाने प्रवृत्तिरस्तीति तस्यापि किं न प्राधान्यमुच्यते? न च तस्यापरभावात्प्राधान्यकल्पना ज्यायसी । कि*<८>*ञ्च तदपि तत्त्वे निश्चायकमनुमानं समस्ततत्त्वनिश्चायकसाक्षात्कारप्रवृत्तप्रत्यक्षाङ्गमुपसर्जनम् । तदेतभूयेयं (?) प्रधानं भवितुमर्हतीति कथं विपर्यस्तास्तत्त्वविदः । अपि च स्वसंवेदनं प्रत्यक्षामन्तरेण सर्वथा न कस्यचित्तत्त्वव्यवस्थानमिति तस्याइव प्राधान्यं किं न कल्प्यत इति । स हि मिथ्याज्ञानं प्रत्यक्षस्य विषयो [२२ ] *<१>*यत(त्र) तेनानुरूपो निश्चयो जनितः न च तत्र विवादः संभवति येनानुमानात्तन्निश्चयः पार्थ्यते । {प्. २९४} अथोत्तरकालभाविनः संशयस्यानुमानतो निरासात्तस्य तथात्वमुच्यते । तर्हि प्रत्यक्षस्यातिशयेन तद्वाच्यम्, तत्संशयोनो(यानु)त्पादस्य प्रत्यक्षनिबन्धनस्य बहुलमुपलम्भात् । अथ तदा तत्प्रत्यक्षं गृहीतग्राहितया न प्रमाणव्यपदेशयोग्यं सत्सशयं निरस्य*<२>*ति अनुमानमपि तथैवेति किमनेनोक्तेन? न च क्षणिकत्वादि प्रत्यक्षस्य विषयो येनानुमानतस्तन्निश्चयात्प्राधान्यं तस्य कल्प्येतेत्यलं बहुना । प्रत्यक्षस्यापि पटुनः प्रवर्तकत्वात्किं न प्राधान्यं? नहि योग्यता योग्याद्वस्तुनोऽन्या या परोक्षा सती तेन निश्चेतुमशक्यान्येन निश्चीयेत तन्निश्चायकं तज्ज्ञानमन्यत्प्रमाणं सदनुमानं स्यात् । किन्तु *<३>*योग्यमेव वस्तु योग्यता, यथा च प्रत्यक्षस्यार्थस्यैकप्रकारा प्रतिपत्तिस्तथाचार्येण स्वयमेवान्यत्र दर्शितम् । अथ यद्यपि योग्यता योग्यवस्तुस्वभावा तथापि परोक्षफलसव्यपेक्षा परोक्षेति । ननु फलस्य परोक्षत्वे सा किं परमार्थतः परोक्षा किं वा परोक्षकल्पा? तत्र यदि परोक्षंमते (?) परोक्षैव तदा प्र*<४>*त्यक्षपरोक्षयोरेकात्मतानुपपत्तेर्भिन्नैव स्यात् । यथामीमांसकानांकार्यार्थापत्तिसाधना । अथ परोक्षैव; कथं पुनः प्रत्यक्षस्वभावा परोक्षैव । तन्निश्चयस्य कर्तुमशक्यत्वादिति चेत् । यदि नामाभ्यासात्पूर्वं निश्चेतुमशक्या तथाप्यभ्यासदशापन्नेन पटीयसा प्रत्यक्षेण स्वतोऽपसारितभ्रान्तिनि*<५>*मित्तेन किं न निश्चीयते? फलमपि तस्य दाहादि नात्यन्तपरोक्षमन्यत्र तत्कृतस्य तस्यानेकशोऽनुभवात् । अत एवाभ्यासेन तत्पटुतरं जातम् । नत्वमभ्यु(न तु अभ्यु)दयादि दानचेतनादिकार्यत्वेन निश्चितं केनचिद्येन तत्राप्यभ्यासात्तथानिश्चयः स्यात् । यावतात्यन्तपरोक्षमेव । अतस्तदपेक्षया दानचेतना*<६>*शक्तेरनिश्चयो युक्तः । तदयमर्थो येनासकृद्वह्न्यादेर्दाहाद्यनुभूतं स तदा फलस्य परोक्षत्वेपि दाहादिजननयोग्यमेतदिति प्रत्यक्षेण निश्चिनोत्येव । यथा चानभ्यासावस्थायां पूंसः कृत्तिमाकृत्तिममुक्तादिप्रतिपत्तेः परोपदेशापेक्षणात्स्वतोऽसंभवेपि सत्यप्यभ्यासे स एव पुरुषः पुरुषा*<७>*न्तरनिरपेक्षो मुक्तादेः कृत्तिमादिरूपतां स्वयमेव प्रतिपद्यते । तथानभ्यासावस्थायां स्वतस्तद्योग्यतानिश्चयेपि अभ्यासादितः पटिमप्रत्यक्षं स्वयमेव तद्योग्यं निश्चाययिष्यतीति किं नानुमन्यते । आह चात्रभर्तृहरिः"मणिरूप्यादिज्ञानं तद्विदां नानुमानिकम्" इति । किञ्च न व्याप्तिस्मरणमन्तरेणानुमानं प्रवर्तते । न चाग्न्या*<८>*दि वस्तु दृष्ट्वा तत्साध्यार्थक्रियावाञ्छया प्रवृत्तौ यद्यदेवमर्थक्रियाकारि यथा महानसादि दृष्टं तद्वस्त्विति प्रवृत्तौ(त्तेः) प्राग्व्याप्तिस्मरणं सत्यवादिना वदितुं शक्यत इति कथं तत्रानुमानस्य प्रवर्तकत्वकल्पना न साहसम् । अतश्चैवं यतस्ताद्रूप्यावसाये प्रत्यक्षं नानुमानसापेक्षमनवस्थाप्रसक्तेः । यथा च तस्य पाटवं ताद्रुप्यनिश्चये [२३ ] *<१>*चरितार्थमुपवर्णनीयम्, तथा योग्यतानिश्चये किं न वर्ण्यत इत्यलमतिविस्तरेण । यत्तु तच्चानुमेयतां नातिपतति [४०.१९] तत्स्वपरसंतानवर्तिनीर्बुद्धीरधिकृत्योक्तम् "अन्यत्रानुभूतविषयेभ्य" इति वचनादिति । अत्र च सर्वत्र समाधानं धीमद्भिरेव विधेयम् । {प्. २९५} आत्मा (?) साध्यसाधनभावो [४१.२०] गम्यगमकभावः । कृतकत्वादौ पारमार्थिकं [४१.२४] साध्यसाध*<२>*नयोर्धर्मिणिश्चभेदं [४१.२४] भिन्नं रूपं नालम्ब[ते] नाश्रयते । कुतो नालम्बत इत्याह सम्बन्धे[४१.२५]ति । परमार्थभिन्नानामकार्यकरणभूतानां सम्बन्धाभावे तथात्वाभावप्रसंगात् । एकस्मिन्नर्थे द्वयोः समवाय एकार्थसमवायो [४१.२६]त्र विवक्षितः कृतकत्वानित्यत्वे [४१.२६] आदी यस्य तस्य । कृतकत्वमादिर्यस्य सावयवत्वादेः साधनधर्मस्य । अनित्यत्वमादिर्यस्य*<३>* सावयवत्वादेः साध्यधर्मस्य । तस्ये[४१.२७]ति समवायस्य । अत्रैवापेचयहेतुमाह समवायादि[४२.२]ति ।[६४]आदि[४२.३]शब्दादकाशदिक्कालमनःपरमाणूनां संग्रहः । कथं पुनः कृतकत्वादेः शब्दादौ वृत्तावात्मादिव्र्त्तिरासंज्यत इत्याह । य एव ही[४२.३]ति । तस्य [४२.५] समवायस्य । "न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात्विशेषलिङ्गा*<४>*भावाच्च तस्माद्भाववत्सर्वत्रैकः समवाय" [प्रश.भ्. प्र्. १७२] इति वचनादेकत्वेनाभ्युपगमः । अथापि स्यात्न समवायाद्वृत्तिरपि तु समवाय एव वृत्तिरिति तदप्यवद्यम् । संबन्धाभावेन भावोयं व्र्त्तिरिति कल्पनाया अयोगात् । संबन्धान्तरकल्पनायाञ्चानवस्थाप्रसंगात् । यदि च समवायस्तस्य व्र्त्तिरात्मादिष्वपि तस्य भावात्*<५>* कथं न तस्य वृत्तिरिति तदवस्थो दोष इति । अथ[४२.६]शब्दः पक्षान्तरमवद्योतयति । एतस्मिन्नुपगमे गड्डप्रवेशेऽक्षितारानिर्गम्वृत्तान्तो जात इति दर्शयन्नाह सैव तर्ही[४२.८]ति । __________नोतेस्__________ [६४] पुर्वत्र शंकाचिह्नितं "आत्मा (?)" इति पदमत्रत्यं सम्भवति ___________________________ अभूत्वा यो न भवति भूत्वा च [न] विनश्यति स तद्विपरीतरूपस्तस्य यः समारोपस्तस्य व्यवच्छेदः स विषयो [४२.९] यस्यास्तस्याः । सा किम*<६>*वश्याभ्युपगमनीया येनान्यस्योपगमो निषिध्यत इत्याह सैवेति [४२.८] । परमार्थेन भेदो धर्मिणा सहेत्यर्थात्तद्वतोः परमार्थभेदवत्त्वञ्च पराभिप्रायेणोक्तं द्रष्टव्यम् । धर्मिणि [४२.११] शब्दादौ । तद्धर्मतानपेक्षायान्तु नित्याभिमतेष्वपि तौ वर्तेयातामिति भावः । उत्पत्तिविनाशधर्मतायाः कल्पनाबुद्धेश्चान्तराले घाटामस्तकान्तरालवर्तिमांसपिण्डापरनाम गडुरिव गडु[४२.११]र्निष्फलत्वात्तेन । व्यतिरेको भेदस्तद्वता [४२.१२] । अयमभिसन्धिः । यदि कृतकत्वादयो धर्मा व्यतिरेकिणस्तव धर्मिणि प्रमाणसिद्धाः स्युस्तदा सत्यामपि तस्य वस्तुनस्तथातायामजागलस्तनवदनुपयुक्ता अपि केन नाम नाभ्युपगम्येरन् । वस्तुस्वभावाना*<८>*मपर्यनुयोज्यत्वात् । केवलं तदेव प्रमाणसिद्धत्वं न संभवति प्रत्यक्षप्रमाणवाधितत्वमेव लक्ष्यत इति । {प्. २९६} अथ किं कल्पनानिवेशिनः कृतकत्वादयो धर्माः साध्यधर्ममवबोधयन्ति येनावश्याभ्युपगमनीत्याया(नीयाया) उत्पत्तिविनाशधर्मताया एव तथाविधबुद्धिनिबन्धनत्वात्किमन्येनेत्युच्यत इत्याशंकायामभ्युपगम [२३ ] *<१>*एवोत्पत्तिर्(वोत्तर)मित्यभिप्रायवानाह तथाही[४२.१२]त्यादि । सत्तामात्रेण [४२.१२] तन्निश्चायकज्ञाननिरपेक्षेण स्वरूपेण वस्तुन उत्पत्तेः प्रभृति सर्वदेति वेदितव्यम् । अनवरतं [४२.१४] सततं तद्धर्मस्य साध्यधर्मस्य प्रतीतिस्तस्याः प्रसङ्गात्[४२.१४] । कथं नाम ते तत्प्रतीतिनिबन्धनं भवतीत्याह किंत्वि[४२.१४]ति । ननु वस्त्वसंस्पर्शित्वे विकल्पस्य कथं वस्तुनः कृतकत्वादिरूप*<२>*ताप्रतीतिरित्याह स चे[४२.१५]ति । चो यस्मादर्थे । तद्रूपस्य [४२.१७] कृतकत्वादिरूपस्य वस्तुनोऽसंस्पर्शेप्यग्रहणेपि । तदग्राहिणः कथं तदध्यवसाय इत्याह परम्परये[४२.१७]ति । तदुपादानत्वात्[४२.१८] कृतकत्वात्कृतकत्वादिरूपबाह्योपादानत्वात् । तस्य विकल्पस्येति प्रकरणात् । ननु च न कृतकत्वादयो धर्मास्तथाविधबुद्धिनिबन्धनत्वेनेष्यन्ते किन्त्व*<३>*र्थक्रियाकारितया, तत्कथं तथाविधविकल्पः स्याद्यतः प्रसवेत्(विकल्पस्य ततः प्रसवः) । तस्य तस्य धर्मस्य वैयर्थ्यमित्याह तद्व्यतिरिक्तास्त्वि[४२.१८]ति । तु शब्दो यस्मादर्थे । तस्मादभूत्वाभवनधर्मणो भूत्वा चाभावनधर्मणो धर्मिणो व्यतिरिक्ता अन्ये तस्याः कल्पनाबुद्धेरुत्पत्तिस्तस्या निमित्तं केवलं निमित्तमात्रम् [४२.१८] तद्भावस्तया । एतदुक्तं*<४>* भवति यदि कृतकत्वादि(दिः) धर्मिणोऽन्यो न स्यात्तर्हि कृतकादिबुद्धिरनुभवसिद्धा निर्निबन्धना स्यात् । न चैवमतोऽस्त्येतद्बुद्धिकारी कृतकत्वादिति (दिरिति) तत्कल्पना । ततश्च तन्मात्रकारित्व(त्वं) परिकल्पनीयं साधीयः । तथापि तथाविधाद्भावादन्ये ते तन्निबन्धनं कल्प्यंतामित्याह तद्वरमि[४२.१९]त्यादि । यस्मादेवमनन्तरोक्तं तत्*<५>* [४२.१९] तस्मात् । तस्य कृतकत्वादेर्या कल्पना । "अत्रैवेदं कृतकत्वादि नात्मादिषु" इत्येवंरूपा तस्या यन्निबन्धनमभूत्वाभवनधर्मतादि तदेव तथाविधविकल्पप्रसवनिमित्तं वरमस्तु [४२.२०] । हेतुमस्यानिष्टेराह तस्ये[४२.२०]ति । अस्तु तदभ्युपगमस्तथापि कथं तस्य वैयर्थ्यमित्याह । तदभ्युपगमे चे[४२.२१]ति । चरितार्था [४२.२१] अन्येन निष्पादितप्रयोजना व्यतिरेकवन्तः [४२.२१] तद्व्यतिरिक्ताः कल्पनानिर्मितास्तु ते संतु । तत्र [न] काचिद्बाधेति चार्थात्सूचितम् । स्यादेतत्-- यदि व्यतिरिक्तानित्यतादिधर्मयोगेपि वस्तुन एवावस्थायित्वादिरूपं व्यवहर्तारः प्रतिपादयन्ति, तदा तस्य भूत्वाभवनधर्मताद्युपगमे तदुपगमे च तस्यैतद्बुद्धिनिबन्धनत्वस्य युज्यमानत्वाच्चरितार्था व्यतिरेकिणो धर्मा त भ(धर्मा भ)वेयुर्यावता व्यतिरिक्तानित्यतादिभावे तदेव व्यवहर्तारः प्रतिपद्यन्ते । तत्कथं यदेव तत्कल्पनानिबन्धनमित्याद्युच्यमानं परभागं पुष्णातीत्याशंक्याह अवश्यञ्चे[४२.२२]ति । {प्. २९७} चो यस्मादर्थे । व्यक्तमेतदित्यस्मिन्नर्थे वा । अनित्यताग्रहणं चोपलक्षणं तेन कृतकत्वादावपि यथा*<८>*योगमेव तत्प्रत्ययं प्रतिपद्यन्ते [४२.२३] निश्चिन्वन्ति । कृतकत्वादनित्यतामतमन्धन्त(तामनुमिन्वन्त) इति प्रकरणात् । कस्मादवस्त्वात्मानं ते तथा प्रतीयन्तीत्याह तस्मादनवस्थायीस्वभावस्यानुरूपा समीचीनोचिता या अर्थक्रिया तदर्थितया प्रवृत्तेः [४२.२४] प्रवर्तनात् । तेषामनुमातॄणामित्यर्थात् । अत्र विपर्यये बाधकमाह अन्यथे[४२.२४]ति । व्यतिरि[२४ ]*< १>*क्तानित्यतायां सत्यां नित्यत्वात्[४२.२५] स्थिरत्वात्तस्य शब्दादिवस्तुनः प्रस्तावात् । नित्यत्वादि[४२.२५]ति ब्रुवाणस्यायमाशयो भिन्ननित्यतायोगेपि वस्तुनो नान्यथात्वं तस्यास्तत्राकिञ्चित्करत्वात् । किञ्चित्क्रियायां वा भेदाभेदादिदोषानुषङ्गात् । भेदेपि ततो व्यावृत्त(व्यावर्त)मानस्य तस्याकाशादेरिव नित्यत्वव्यवस्थेति वस्तुनो नित्यत्वाद्धे[४२.२५]तोस्तस्य नित्यत्वस्य *<२>*वस्तुनो योऽवगमस्तेनार्थि[६५]त्वे न्यायप्राप्ते सति अयमनुमातादि(ता अनि)त्य्शब्दादिपदार्थसाध्यार्थक्रियार्थी -- [४२.२५][६६]इतिस्तस्माच्छब्दादिकं नित्यमाशंकमानः [४२.२६] तदसंदेहेऽनुमानायोगात् । तथा सन्दिहानः किं कस्माद्वस्तुनोऽनित्यताविचारं प्रत्याहितास्थः [४२.२६] कृततात्पर्यार्थः । अनित्यतायास्तद्व्यतिरिक्तत्वाद्तस्य स्थिरात्मतानिश्चयादेव*<३>* तत्संशयपूर्वकानित्यताविचारस्यैवायोगादिति भावः । [६५] अवगमार्थित्वेन स्। [६६] नास्ति स्। ___________________________ व्यतिरिक्तानित्यतयेति क्वचित्पाठः । तत्र नित्यत्वे प्रयोज्ये हेतौ तृतीया प्रत्येया । व्यतिरिक्तायामनित्यतायां वस्तुनस्तथा विचारो न युज्यत इति प्रतिपाद्य दोषान्तरमपि तस्यां दर्शयन्नाह व्यतिरिक्तायां चे[४३.१]ति । तत्रैव प्रतिपन्नायामनित्यतायां न वस्तुन्यप्रतिपन्न इत्यर्थात्सूचितम् । तद्वारेण [४३.२] व्यतिरिक्तानित्यताद्वारेण । प्रतिपत्ते[४३.२]र्वस्तुनस्तथात्वज्ञानात् । व्यवधीयते वस्त्वनेनानित्यादिनेति व्यवधिस्तेन [४३.४] । व्यवधानं वा व्यवधिस्तेन किम् [४३.३] । अव्यवहितस्यैव भिन्नानित्यतादिव्यवधानशून्यस्यैव वरमस्तु प्रतिपत्तिः । विशेष्हे*<५>*तुमाह -- तेनैवे[४३.४]ति । व्यतिरिक्तानित्यताप्रपिपत्तावपि वस्तुनस्तथात्वप्रतीतिः कथं युज्यत इत्यादिदोषशतमुत्पश्यन् सोत्प्रासमाह तदेतदि[४३.४]ति । एषो [४३.८]नन्तरोक्तो दोषो न [४३.८] भवति । तत्स्वभावतया [४३.८] हेतुभूतया । कथञ्चि[४३.४]त्केनचिद्रूपेण यो भेदस्तस्योपगमे किञ्चित्कलमुत्पश्यामो [४३.१०] नोत्प्रे*<६>*क्षामहे । यदि कथंचिद्भेदो न स्याद्भेदाधिष्ठानः साध्यसाधनभावः कथमुपपद्येतोयोनु(द्येतेत्याह) साध्ये[४३.१०]ति । अपि [४३.११] न्यायबलायातां संभावनामाह । {प्. २९८} साध्यधर्मस्य साधनधर्मरूपतोपगमे सति भेदोपगमे फलं न किञ्चिदिति प्रतिपाद्य संप्रत्येकात्मसाध्यसाधनयोर्भेद एव न संभवति । तत्कथं स चे*<७>*तनोपगम्येति(गम्य इति) (?) प्रतिपादयन्नाह न चे[४३.११]ति । कथंचित्केनापि स्वभावेन यो भेदः [४३.१२] कृतकत्वानित्यत्वयोः स न युक्तः । कस्मादित्याह एकस्मादि[४३.१२]ति । येन धर्मिस्वभावेन तयोरभेद इष्यते तस्मादेकस्मात्[६७]स्वभावभेदात्तयो[४३.१२]र्धर्मयोरिति प्रस्तावात् । येन स्वभावेन तयोर[४३.१३]भेदस्तेनापि [न] भेद एव येनायं दोषः स्यात् । कि*<८>*न्तु ततोपि स्वभावात्तयोः कृतकत्वानित्यत्वयोः कथंचिद्भेदाभेदौ न भेद एवाभेद एवे(एव वे)ति । येन स्वभावेनाभिन्नाविष्येते तदेकस्वभावादपि भेदवतो[४३.१४]र्भिद्यमानयोः । तेन भेदावधिना स्वभावेन कथञ्चिदभेदनिमित्तम् [४३.१४] इति । यद्यभेदो नेष्यते तदैकान्तिको भेद एव स्यात् । सति चैवं पूर्वको दोष इति प्रायेणो[२४ ]*< १>*क्तम् ॥ तेनाप्य[४३.१६]भेदनिमित्तेनाभिन्नेन स्वभावेन कथंचिद्भेदनिमित्तमिति प्रस्तावाद्बोद्धव्यम् । अपरोक्षोऽभ्यु(रोऽभ्यु)पगन्तव्यः [४३.२५] । अत्रापि यदि तेन स्वभावेन तयोरभेद एव भवेत्तदैकान्तिकोऽभेद एव तदा च कल्पनावभासिभेदनिबन्धनः साध्यसाधनभावः स्यात्तथा चास्मन्मतानुप्रवेशप्रसङ्ग इत्याशयोऽवसेयः । अभेद*<२>*निमित्ते भेदनिमित्ते च स्व्भावान्तरेऽभ्युपगते माभूदैकान्तिकोऽभेदो भेदो वेति पुनस्तथाभूतस्वभावान्तराभ्युपगमो न्यायप्राप्तः । पुनस्तत्राप्येवमित्यभिप्रायवानितिशब्दहेतावभिप्रायाह अनन्तैवे[४३.१६]ति (-प्रायवानाह इत्यनन्तैवेति । इति शब्दो हेतौ) । न केवलमविकल्पकायां बुद्धावत्य्[६८]आप[४३.१६]शब्दः । परंपरा [४३.१७] परपाटिः । तत्कल्पनया [४३.२८] भिन्नाभिन्नस्वभावकल्पनया विप्रलम्भ*<३>*न्ते [४३.१८] विसम्वादयन्ति । दूषान्तरमप्यत्रोपचिन्वन्नाह । कथंचिच्चेति [४३.१९] । भेदपक्षभाविना संबन्धाभावेन साध्यसाधनभावायोगादित्यादीनां दोषाणां कथमनवसरो [४३.२०]वसरोऽवकाश एवेत्यर्थः । इतोपि भिन्नाभिन्नरूपोभयधर्मासंभव इति संक्षेपेणाह यश्चे[४३.२०]ति । पुरोधाय [४३.२०] पुरस्क्र्त्य विकल्पबुद्ध्या आलम्ब्येति *<४>*यावत्कल्पनाघटितस्य प्रतिषेधात्पारमार्थिक [४३.२४] इत्याह । इतिः त्रितयस्याकारं दर्शयति । त्रयोऽवयवा अस्येति त्रितयम् [४३.२०] । __________नोतेस्__________ [६७] स्वभावादभेदात्स्। [६८] नास्ति स् ___________________________ प्रकरणमुपसंहरन्नाह तस्मादि[४३.२४]त्यादि । स चो[४४.१८]क्तरूपोऽन्वयः । तस्या विरोधाद[४४.२०]नुपपतेः । {प्. २९९} यथा चायोगस्तथोपरिष्टत्सहकारिपर्वणि निर्णेष्यते । भवतोऽस्मादभिधानप्रत्ययाविति भावः [४५.५] कार्यत्वमि[४५.५]त्यादिना तमेवाभिव्यनक्ति । तद्भदानुविधानमेव साध्ययन्नाह चन्दने[४५.२३]त्यादि । ऊर्णा मेषलोम भेदो विशेषः । अनेनैतदाह -- यद्यदृश्यं तस्य करणं स्यात्तत्कथमकरणस्येन्धनादेर्भेदमनुवि[द]ध्यादिति । इन्धनभेदानुविधानं धूमस्य प्रतिपाद्य वह्निभेदानुविधानं प्रतिपादयन्नाह -- अल्पे[४५.२७]ति । अल्पश्च महांश्चाल्पमहान्तौ तौ च ताविन्धनविकारौ च तत्कारिणः । प्रातिपदिकग्रहणे न हि तदन्तस्य ग्रहणमिति । "आन्महतः समानाधिकरण" [पा. ६.३.४६] इत्यात्वन्न भवति । तदनुरूपस्या[४५.२७]ल्पमहतो वा धूमस्य दर्शनादिति सम्बन्धः । अदृश्यात्मनोऽग्न्यादिसामग्र्यां नियतं सन्निधान*<७>*मुपेक्ष्याग्न्यादेरेव कार्यं धूम इति । एतत्साधिकामुपपत्तिमभिधायाधुना तन्नियतसन्निधानमेव तस्य न युज्यत इति दर्शयन्नाह न चे[४५.२८]ति । चो वक्तव्यान्तरसमुच्चये । तस्याग्न्यादेः कार्यं तत्कारणं तद्भावस्तत्ता [४६.१] । तस्यैवादृश्यस्य तदनन्तरं भावान्न धूमः स्यादिति भावः । चो [४६.३]दृश्यकार्यत्वेन समं धूमादिकार्यस्य तुल्योपायत्वं*<८>* समुच्चिनोति । तस्यादृश्यस्य सत(सतः)तद्भावानुविधानम् । चोऽवधारणे समान[४६.४]मित्यस्मात्परोद्रष्टव्यः ।[६९]अत्रापि वृक्षेन्धनयोरपि तथाभावकल्पनायां तदेवोत्तर[४६.५]मिति । तदुपलम्भे प्रगुपलब्धिलक्षणप्राप्तमुपलब्धमुपलभ्यत इति । वृक्षादिभावे नियतसन्निधेरदृश्यात्मनः कुतश्चिदिन्धनस्य भाव इति पुनर[४६.६]प्रथमे चोद्ये [२५ ] *<१>*परकीय एव[७०]एव वाक्य(वृक्ष)भेदानुविधानादिन्धनस्य वृक्षादिसन्निधाने ऽदृश्यात्मनो नियतसन्निधानता युक्ता, प्रतिबन्धाभावात्प्रतिबन्धे [४६.२] चे[७१]त्यादि । वृक्षादिकारणत्वं तस्य वृक्षादेः स्वहेतोरेव [४६.५] बीजादेर्भावदर्शनादि[४६.५]ति परिहारः । तत्राप्यदश्यात्मनो नियतसन्निधेरित्यादिचोद्यपरिहारयोराभीक्षून्येनानवस्थानात्पर्यवसानं च (नं न) स्यात् । ततश्चै*<२>*कस्यापि नियतकार्यत्वं न स्यादित्याकूतम् । यदि व तस्याप्यदृश्यस्य भावे नियतसन्निधान[न]परमदृश्यं कारणं किं न कल्प्यते? न्यायस्य समानत्वात् । तथात्राप्येवमित्यनवस्था न व्यवस्थितः कार्यकारणभवो भवेदित्यर्थः । अथवा तत्रापि [४६.५] वृक्षादौ तथाभावकल्पनायाम् [४६.५] दृश्यभावकल्पनायां परेण क्रियमाणायां तदेवोत्तर[*<३>*मिन्धना]देर्वृक्षादिभेदानुविधानात् । न च वृक्षादिसन्निधाने नियतसन्निधानता युक्तेत्यादि । नापि वृक्षादिकारणत्वमदृश्यात्मनो वृक्षादेः स्वहेतोरेव बीजादेर्भावदर्शनदिति {प्. ३००} च । उत्तीर्यतेऽनिष्टपक्षादनेनेत्युत्तरमेतत् । बीजादिभावे नियतसन्निधेरित्यादौ पुनश्चोद्ये [४६.६] च परस्य स एव बीजादिभेदानुवि*<४>*धानादित्याद्यनंतरोक्तोऽस्माकं परिहारह्[४६.६] परचोद्यप्रतिविधानम् । अनवस्था [४६.६] चानन्तरं व्याख्यातेति । एतेने [४६.६]न्धनादेः स्वहेतोरेव वृक्षादेर्भावदर्शनाद्ति वचनसामर्थ्यात्, यस्य यस्माद्भावो दृश्यते तस्य तत्कारणत्वमिति प्रतिपादितेन । यस्या एव सामग्र्या अग्नीन्धनादेरुत्पत्तिस्तस्या एव तद्द्र्श्यत्व*<५>*मुपजायत इति । एकसामग्र्यधीनता [४६.७] तयोर्नियतसन्निधाननिमित्तं सापि प्रत्युक्ता प्रत्याख्याता कस्यचिद्भावे विज्ञायमानस्यैव तत्कार्यत्वव्यवस्थासिद्धेः । तद्भावेऽनुपलभ्यमानस्य तु तत्कार्यत्वकल्पनायामतिप्रसंगादिति भावः । अत्रैव वक्तव्यान्तरं समुच्चिवन्नाह तदि[४६.७]ति । तस्यादृ*<६>*श्यस्यान्वयव्यतिरेकानुविधानात्[४६.७] । तद[४६.८]दृश्यम् । तच्चा[४६.८]न्वयव्यतिरेकानुविधानम् । निमित्ताभावमेवावेदयन्नाह कार्येति [४६.१०] । सत्स्वन्येषु कारणेषु समर्थेषु कार्यमभवत्कस्त(वत्त)दुत्पत्तौ कारणान्तरमपेक्षणीयं प्रतिपादयति । न तु भवे(व)देवेति समुदायार्थः । __________नोतेस्__________ [६९] तत्रापि स् [७०] स एव स् [७१] बन्धे वा स् ___________________________ संप्रति स(त)त्कारणत्वमुपेत्यापि*<७>* नास्मत्प्रतिज्ञातस्य काचित्क्षतिरिति प्रतिपादयितुमाह रूपन्त्विति (भवत्विति) [४६.१२] ।[७२]यतो [४६.१४] वह्न्यादेः कारणत्वहानेः अग्न्यादेरन्यस्यापि[७३]भावः [भावे] धूमं प्रति कारणत्वेन कथं न अग्न्यादेः कारणत्वहानिः [४६.१४] । कथञ्च तन्निष्चयेन प्रवृत्तौ न विसम्वाद इत्याशंक्याह तस्य (?) । अभ्युपगमनीयदृष्टान्तद्वारेणामुमर्थं द्रढयन्नाह*<८>* नही[४६.१५]त्यादि । दृष्टस्य कारणस्य हानमभावो न ह्यकारणत्वेन प्रतीतस्य कारणत्वहानिरित्यर्थः । तस्य दृष्टकारणस्य कार्यं तद्दर्शनात्[४६.१६] । अतत्प्राप्ति[४६.१६]र्दृष्टकारणाप्राप्तिः प्रसज्यत आपद्यते अनेनेति प्रसङ्गापादनमतिशयितः प्रसङ्गोऽतिप्रसंगस्तेनालं [४६.१६] न किञ्चित् । ननु च तद्भावे भावस्तदभावेऽभावश्च [२५ ] *<१>*कार्यधर्माविमौ तत्कथमयमेव कार्यकारणभाव उत्युच्यते । कार्यभाव इति तु युक्तं वक्तुमिति । सत्यमेतत्केवलमेतस्मिन् कार्यधर्मे कथिते कारणधर्मोपि स्वभावे भावो भावनं भावो भावयितृत्वं सत्तयाभिसम्बन्धयितृत्वं स्वाभावे चाभावोऽभावनमभावयितृत्वमनुत्पादयितृत्वं यत्तल्लक्षणः सुज्ञानो भवतीत्याचार्येणैव*<२>*मुक्तमनेनाप्येवं व्याख्यातम् । {प्. ३०१} तेनायमर्थः -- अर्थान्तरत्वे सति यः प्राग्भावी सो(स्वा)न्वयव्यतिरेकावनुविधापयति तत्कारणम् । यश्च पश्चाद्भाव्यन्वयव्यतिरेकानुविधापनान्व्यव्यतिरेकानुविधानलक्षणः कार्यकारणभाव [४६.२२] इति । यद्वा कार्यकारणभावनिश्चयहेतुत्वादयमेव तथोक्तः । तथा हि कार्यगताभ्यामेव तद्भाव*<३>*भावतद्(तद)भावाभावाभ्यां तयोः कार्यकारणभावो विभाव्यते । असति कारणत्वे तद्भाव(वा)भावयोस्तद्भावाभावावेव न भवेतामिति । नायमेवमयमेव कारणभावो नाम अन्य एव द्विष्ठः सम्बन्धोऽस्तीत्याशंक्याह स हीति [४६.२३] । हि यस्मादर्थे । ताभ्यां [४६.२३] तद्भावभावतदभावाभावाभ्याम् । स्वरूपे*<४>*णास्वीकृतकार्यकारणरूपयोरग्निधूमयोः दूषणान्तरमन्वचिन्वन्नाह स्वभावेन चे[४७.१]ति । तस्य [४७.४] अपूर्वस्य रूपस्य तेन निष्पाद्यमानस्य । ततो [४७.४]कार्यकारणरूपाभ्याम् । नहीत्वाय(?)र्थान्तरस्यत्व समर्थनम् (?) । ततस्तस्य ततो [४७.९]र्थान्तरत्वात् । पूर्वके [४७.९] इति कार्यकारणभावसम्बन्धेन क्रियमाणो(माणात्) *<५>*रूपात्प्राग्भाविनी वह्निस्तस्य धूमरूपे (?) तद्भावः [४७.१३] कार्यकारणभावः तयोस्ताद्रूप्येपि कारणबुद्धावस्योपयोगान्न वैयर्थ्यमित्याह -- कर्ये[४७.१३]ति । अपि [४७.१४] न्यायतः सम्भावनां दर्शयति । कथमवसीयते नार्थान्तरनिमित्ते इत्याह तस्ये[४७.१४]ति । तस्य तत्सामर्थ्या(तस्य ताभ्यामर्था)न्तरस्य तथाविधस्य [४७.१६] तद्विवेकेनाप्रति*<६>*भासिनः । अपि [४७.१६] व्यक्तिमित्येतदस्मिन्नर्थे । सर्वं सर्वत्र गृहीतमितीष्टं धर्ममतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गः [४७.१६] । तस्यानुपलब्धिलक्षणप्राप्तत्वाद्विशेषे(ष)णासिद्धोयं हेतुरित्याह अनुपलब्धी[४७.१६]ति । किमवश्यमुपलभ्यमानेन तेन तद्बुद्धिहेतुना भाव्यं येनैवमुच्यत इत्याह न ही[४७.१८]ति । तद्बु*<७>*द्धी [४७.१८] कार्यकारणबुद्धी । अस्य [४७.१९] अर्थान्तरस्य तयोः [४७.१९] कार्यकारणबुद्ध्योः । न चान्वयव्यतिरेकानुविधानमविदुषस्तद्बुद्धी भवत इति बुद्धिस्थम् । उपपत्त्यन्तरमत्रैव समुच्चिन्वन्नाह न चे[४७.१९]ति । स्वविशिष्टप्रत्ययनिबन्धनं [४७.२०] चो(स्वो)परक्तज्ञाननिबन्धनम् । कार्यकारणबुद्ध्यो[४७.२१]र्विकल्पात्मिकयोरिति प्रकरणाद्द्रष्टव्यम् । तद्बु*<८>*द्धिनिबन्धनत्वेपि तस्य कथमवश्यमुपलक्षणमित्याह नही[४७.२२]त्यादि । चो [४७.२४] वक्तव्यान्तरसमुच्चये । कार्यकारणाभ्याम् __________नोतेस्__________ [७२] अत्र "यतो वह्न्यादेः कारणत्वहानेः" एतावान् पाठः अग्रे "विसंवाद इत्याशङ्क्याह" एतदनन्तरं संगच्छते । प्रमादात्प्रागायातो भाति । [७३] अग्रेतनं "तस्य?" इति शंका चिह्नितं पदमत्रत्यं भाति । तथा च "तस्य भावे" इति "तद्भावे" [४६.१३] इत्यस्य विवरणम् । ___________________________ अ[४७.२४]ग्निधूमाभ्यामर्थान्तरस्य [४७.२४] भिन्नस्य । कार्यकारणभावरूपस्य सत्त्वस्य सबन्धान्तरसद्भावात्कथं न घटत इत्याह । सम्बन्धे[४७.२५]ति । तस्मात्कार्यकारणाभावसंबन्धादन्यस्य तेनाप्यर्थान्तरेण [२६ ] *<१>*सम्बन्धेन सहास्य कथं संबन्ध इति पर्यनुयोगे संबन्धान्तरं कल्पनीयम् । पुनः पर्यनुयोगे पुनस्तथेति अनवस्था[४७.२५]प्रसक्तिस्ततः । न चैवंसम्बन्धान्तरं परिकल्प्यते । किं तर्हि कार्यकारणभूतवस्तुकार्यकारणाख्यसम्बन्धयोर्{प्. ३०२} अकार्यकारणभाव एव सम्बन्ध इत्याह कार्ये[४७.२६]ति ।[७४]तद्भावस्य [४७.२७] कार्यकारणभावस्य भिन्न*<२>*स्य कल्पितस्य ततोऽसहभावित्वात् । कार्यकारणकाले [४७.२७] कार्यकारणभूतवह्निधूमादिवस्तुकाले । तयोश्चैककालिकत्वं कुतो येनैकजनकत्वं स्यादिति । अत्र गजनिमीलिकां कृत्वैतदुक्तं द्रष्टव्यम् । स च [४८.३] कार्यकारणाध्यवसायः । भवत्वसौ कल्पितविषयस्तथापि भिन्नसम्भवः कथं न भवेदित्याह -- *<३>*कल्पिते[४८.४]ति । तद्व्यवसायस्य कार्यकारणताव्यवसायस्य । त[७५]स्य भिन्नस्य कार्यकारणभावस्य । माभूत्कल्पितविषयोयं तदवसाय इति हि तस्य कल्पना स चेत्तथाविध ऐषितव्यः किं तेनेति भावः । किं कल्प्यमानोसौ तद्भावः किं कार्यकारणभावाभ्यां सहिताभ्यां जन्यते आहोस्विदे*<४>*कैकेनेति पक्षयोराद्यं पक्षं क्षपयन्नाह कार्येति [४८.५] । कार्येण जन्यमानः कार्यभावः स्यात् । कारणेन जन्यमानश्च कारणभाव इत्यभिप्रेत्य कथमि[४८.६]त्याह । प्रत्येकजन्यमानतायामपि कारणमुद्दिश्य निरूपयन्नाह -- यदा चे[४८.६]ति । पश्चा[४८.८]च्छब्दापेक्षया तु स्वकार्यस्येति वि*<५>*भक्तिविपरिणामेन योज्यम् । अ[७६]तसर्थप्रत्यययोगेनषष्ठी प्राप्तेः । तत्तस्मादुभयोः [४८.९] कार्यतद्भावयोः । __________नोतेस्__________ [७४] सद्भावं स् [७५] तस्या स्। [७६] षष्ठ्यतसर्थप्रत्ययेन (पा. २.३.३०) ___________________________ नन्वेकसामग्र्यधीनतैवानयोः सम्बन्ध इति कथं परस्परासम्बन्ध उच्यत इति चेत् । न, कार्येणापि सममस्य कार्यकारणभावस्य संबन्धस्य प्रकृतत्वात्सूक्तमिदम् । एक*<६>*सामग्र्यधीनतेष्टौ च तदुत्पत्तेः पूर्वं कारणं न कारणं स्यात् । त्वन्मते तद्योगात्तदव्यवस्थितेर्योयमप्राप्तत्वादिति दोषो द्रष्टव्यः । कार्यस्य धूमादेः क्रिया [४८.११] करणं कथम् । तदपेक्षं [४८.१३] तद्धूमादिक्रियापेक्षम् । अस्य [४८.१२] वह्न्यादेः असत्त्वान्मा स्म तज्जनयत, का नो हानिरित्याह तद्भावश्चे[४८.१५]ति*<७>* । तद्भावः कार्यकारणभावः संबन्धः । कारणाभावादनुत्पन्नश्च(न्नाश्व)शशविषाणा यथा नः (न) कथं तद्भावसम्बन्धो भवितुमर्हतीत्याशयः । संप्रत्यक्षणिकपक्षमभ्युपगम्याह -- अक्षणिकत्वेपीति । प्रत्ययहेतुः कार्यकारणबुद्धिहेतुर्वा नातिवर्तते । यदि हि तदाश्रितं स्यात्तदा तत्र तथाविधं बोधं विदध्याद*<८>*न्यथासति विप्रकर्षाभावात्सर्वत्र तद्बुद्धिं जनयेन्नो वा क्वचिदपीति भावः । इदं पुनरत्र साधु दृश्यते । अयं खलु कार्यकारणभावः कार्यकारणयोर्वस्तुनोर्वर्त्तमानो नांशेन वंशदण्डवद्वर्तते अखण्डरूपत्वात् । कार्याभावः कारणा[७७]भाव इति प्राप्तेरनेकरूपतापत्तिप्रसक्तेश्च । प्रत्येक[२६ ]*< १>*रूपकार्यत्वेन वर्तमानश्च यथाकार्यकार[ण]योः कार्यकारणबुद्धी जनयति तथा प्रत्येकं जनयेत् । सति चैवं वह्नावेव धूमापेक्षयैव कार्यकारणबुद्धी प्रसज्येयातां तथा धूमेपि तद्वह्न्यपेक्षयैव कार्यकारणबुद्धी प्रसङ्ग(सज)तः । मा स्म वा कार्यकारणयोरपि {प्. ३०३} भूतामिति । तदेकप्रका(हा)रनिहतेऽपि सम्बन्धेऽस्मिन्निमामीदृशीं सूक्ष्मेक्षिकां कुर्वताभट्टार्चटेन*<२>*कथमयं स्थवीयान् दोषो न दर्शित इति न प्रतीमः । __________नोतेस्__________ [७७] "कारणभाव" इत्यपि पठ्यते । ___________________________ ननु यः किल कार्यकारणलक्षणसंबन्धान्तरवशात्कयोश्चिद्वस्तुनोः कार्यकारणरूपतामुपैति तं प्रत्येतदुच्यमानं शोभेत । अस्माकं तु कार्यसमवायं कारणत्वं कारणसमवाय(यि)त्वं च कार्यत्वमिच्छतामित्यनन्तरोक्ताद्दोषान्न(क्ता दोषा न) किंचिदुपघ्नन्तीतिनैयायिकवचनमाशंक्य तदभि*<३>*मानमप्युन्मूलयन्नाह -- समवयीति । समवायिकारणस्यैव कपालादेः । तत्रैव घटादिकार्यस्य समवायात् । चो यस्मादर्थे । निमित्तकारणं कुलालादि । असमवायिकारणं कपालसंयोगादिः । तयोर्न कार्यसमवायोस्तीति न कारणं स्यात्ततश्चाव्यापित्वं लक्षणदोष इति सामर्थ्याद्दर्शितम् । कार्यलक्षणे*<४>*(ण)स्याप्यकार्यस्य वेति वाशब्दोऽपिशब्दस्यार्थे । तत्समवायः कारणसमवायः । समवायिकारण एव कपालादौ समवायह्कार्यत्वं न निमित्तासमवायिकारणयोरिति सप्तम्यन्तं स(पद)द्वयमिह सम्बन्धव्यम्, कपालादिसमवायिन एव घटादेरुदयोपगमात् । ततश्च निमित्तासमवायिकारणापेक्षया घटादि*<५>*कं कार्यं न स्यादित्यत्रापि अव्यापितैव दर्शिता । इदानीं साधारणं दूषणमुपदर्शयन्नाह तस्य चेति । तस्य समवायस्य चो वक्तव्यान्तरसमुच्चये । अन्यथात्वव्याख्यानमत्र साहसमिति नानूद्यतेपि । व्यक्तिभेदविवक्षयोपयुक्तकार्ये वा सर्वत्रशब्दप्रयोगात् । सर्वत्र कार्यकारणभूते वस्तुनि । अविशेषाद*<६>*विशिष्टरूपत्वात् । परस्परमन्योन्यं वह्नेर्धूमो धूमस्यापि वह्निः । कार्यं कारणं च स्यात्, समवायस्य कार्यत्वकारणत्वलक्षणस्य विशेषादुभयस्ताद्रूप्यमताद्रूप्यं वा न समं स्यादित्येवं वदितुरभिप्रायः । अथवा सर्वत्र काले वस्तुनि अकार्यकारणभूतेपि । सर्वत्र वा अंतशो महासामान्यस्य सत्तायाः*<७>* समवायभावान्न समवायभावो विभावितः । किंत्वविशेष एवानूदित इति द्रष्टव्यम् । ननु नाविशिष्टः समवायः कार्यत्वकारणत्वलक्षणत्वेनेष्टोऽस्माकं किंतु पूर्वोत्तरभावाभावैशिष्ट इत्याशंक्याह पूर्वेति । पूर्वोत्तरकालावच्छिनौ पदार्थौ पूर्वोत्तरावुक्तौ । तयोर्यौ भावाभावौ, पूर्वभाव एव यदुत्तरस्य भावः । तदभा*<८>*व एव योऽभावोऽभवितृत्वम्, पुर्वस्यापि यः स्वभाव एव भावो भावनं सत्तयाभिसंबन्धकत्वं स्वाभाव एव च योऽभावोऽभावनं समं (?) [अ]भावयितृत्वं तद्विशेषणः समवायः कार्यकारणलक्षणम् । एतदुक्तं भवति योऽर्थान्तरं स्वान्वयव्यतिरेकावनुविधापयति, यश्चार्थान्तरस्यान्वयव्यतिरेकावनुविधत्ते एव अन्वयव्यतिरेकानुविधा[पना] [२७ ]*< १>*न्वयव्यतिरेकानुविधायिनी वस्तुनी विशेषणे यस्य समवायस्य स तद्विशेषणः । {प्. ३०४} कार्यकारणत्वलक्षणत्वेनेष्त इति न सर्वत्र तथाभावप्रसङ्ग इति । अन्यथा व्याख्यानं त्वभावशब्दस्य दुर्योज्यत्वात्साहसमिती नानूद्यतेपि । एतन्निषेधयन्नाह । अयुक्तेति । हेतुमाह तदिति । तेन भावाभाववता पूर्वोत्तरकालेन वस्तुनासंबन्धादवि*<२>*द्यमानसम्बन्धत्वात् । अयमर्थो विशेषणं व्यवच्छेदकं भवति । *<३>*तत्र केन संबन्धेन तथाभूते च वस्तुनि समवायमिममवच्छिन्नो (च्छिन्तो) येन तद्विशेषणं स्यात् । एवमेव च तथात्वे सर्वं सर्वस्य विशेषणं स्यादिति । ननु विशेषणविशेष्यभाव एव *<४>*सम्बन्धः । न च सम्बन्धेन सम्बन्धान्तरानुसरणं श्रेयमित्याशंक्याह निरतिशयस्येति । निष्क्रान्तोऽतिशयो व्यवस्थितरूपाद्विशेषो यस्मान्निष्क्रान्तो वातिशयात् । तस्य केनचिदतिशाययितुमशक्यस्येत्यर्थः । नित्यत्वाच्च निरतिशयत्वमिति बुद्धिस्थम् । एवं ब्रूवाणश्चैवमभिप्रैति विशेषणेन तावदतिशा*<५>*यके नावश्यभाव्यमन्यथा सर्वं सर्वस्य विशेषणमापद्येत । तत्रानित्यस्य कश्चिदतिशयमादधत्किञ्चिद्भवेदपि विशेषणम् । यदि तत्रापि सोऽतिशयः किं ततो भिन्न उताभिन्नः, यदि भिन्नस्तस्य किमायातमथाभिन्नस्तस्यैव तर्हि करणमापतितमिति कश्चिन्न पर्यनुयुञ्जीत, न तु पूर्वापरकालयो रविचलित*<६>*तद्रूपस्य नित्यस्येति । संप्रति ते यद्यवश्यं विशेषने अस्यैष्टव्ये इति निर्बन्धस्तदैतत्युक्तरूपमित्युपग...अर्भमुपदर्शयन्नाह तयोरेव वेति । वाशब्दोऽभ्युपगतं पक्षान्तरं दर्शयति । तयोरन्वयव्यतिरेकानुविधापनान्वयव्यतिरेकानुविधायिनोस्तद्विशेषणयोस्तत्समवायविशेषणत्वेना*<७>*भिमतयोस्तल्लक्षणता कार्यकारणलक्षणतास्तु । तयोरेव प्रमाणोपपन्नत्वादितरस्य च तद्बाधितत्वादित्याशयः । इतिरनन्तरोक्तं प्रत्यवमृषति । एवमभिप्रायवता वार्तिककृतेति प्रकरणात् । अग्नीन्धनाद्येव सामग्रीत्यन्तर्नीतनियमः समासः कर्तव्योऽत एवामूं नियममसहमानस्य भिनसामग्रीवादिनो*<८>* मतमाशंक्य तन्निराकुर्वन्नाह न चेति । अन्यथा कुतोऽस्य प्रत्याख्यानग्रन्थस्योत्थानं स्यादिति । स्वरूपत एवापरसामग्रीनिरपेक्षेणैव रूपेण । कार्ये [४८.२३] जनयितव्ये यतः [४७.२६] शक्तिव्याघातात् । अन्यत्रे[४८.२६]ति । निपातोऽन्यवचनोस्ति तेनान्यदित्यार्थः । सामग्र्यपि जनयन्ती किं सामग्र्यन्तरसव्यपेक्षा जनयत्यथानपेक्षा । यदि [२१ ] साम*<१>*ग्र्यन्तरसापेक्षा तर्हि सैवान्वयव्यतिरेकाभ्यां जनिका स्यादाद्यसामग्र्यास्तु जनकत्वं हरीतकिं प्राप्य देवता रेचयन्तीत्यनेन तुल्यं स्यात् । अ(य)द्यनिरपेक्षा तद्वदभावोपि स्वहेतुलक्षणसामर्थ्यस्तन्निरपेक्ष एव किं न जनयतीत्यपि दूषणमिह द्रष्टव्यम् । न च सामग्री ततो भेदेनोपलभ्यते । न चास्या अनुपलब्धिलक्षणप्राप्तता युक्तेत्या*<२>*द्यपि पूर्ववद्द्रष्टव्यम् । {प्. ३०५} अन्वयोऽन्वेतृत्वमन्वीयमानत्वं च व्यतिरेको व्यतिरेचयितृत्वं व्यतिरिच्यमानत्वं च तावात्मानौ यस्य तस्य [४९.११] । ये [४९.१८] मीमांसकादयः । तम[४९.१८]न्वयनिश्चयम् । तस्य स्वकारणाव्यभिचारद्वारक [४९.२७] इत्याचक्षाणो यस्यार्थान्तरस्य येनान्वयः सकललोकसाक्षिकः सोऽवश्यं तज्जन्यस्तत्कारणजन्यो वे*<३>*ति प्रतिपादयति अतएव "कार्यकारणभावाद्वा" इत्यत्रापि तेन समं तत्कारणेन समं वा कार्यकारणभावादिति वेदितव्यमिति । तत्र स्वभावहेत्वादौ विपर्ययेण बाधकप्रमाणवृत्त्याद्येव दर्शितं तत्तु कथमन्वयनिश्चय उक्त [५१.१] उच्यत इत्याशंक्याह स्वभावे[५१.२]ति । विपर्यये [५१.२] साध्यविपर्यये हेतोर्बाधकं*<४>* विपरीतोत्थापकं यत्प्रमाणं तस्य वृत्त्या [५१.२] साध्यसाधनयोः तन्निबन्धनत्वात् । अन्वयनिश्चयस्येति प्रकरणात् । उत्तरत्राप्येवं द्रष्टव्यम् । तद्भावसिद्धेः तन्मात्रवृत्तिसिद्धेस्तद्धेतुकत्वात् । असद्व्यवहारस्य हि दृश्यानुपलब्धिमात्रे वृत्तौ सिद्धायां देशकालानवच्छेदेन यत्र यत्रोपलब्धिलक्षणानुपलब्धिस्तत्र तत्रासद्व्यवहारयोग्यतेत्यन्वयनिश्चयप्रवृत्तेर्निमित्तान्तराभाव[७८]साधकप्रमाणतस्तद्[७९]भावसिद्धिहेतुकत्वाच्चे[५१.४-५]ति उक्तम् । ते न (?) कारणव्यापकानुपलब्धी । __________नोतेस्__________ [७८] -भावप्रसाधक-स् [७९] तदभावसिद्धिहेतुत्वाच्च- स्। ___________________________ तस्ये[५१.१५]ति साध्याभावे हेत्वभावस्य ।[८०]तद्भावसिद्धि[५१.१९]स्तत्स्वभावतासिद्धिस्ततः तादात्म्यतदुत्पत्तिलक्षणे निमित्ते यस्य प्रतिबन्धस्य*<६>* प्रतिबद्धत्वस्य तस्य निश्चयात्[५१.२२] । तस्मादुत्पत्तिस्तत्कारणाद्वोत्पत्तिस्तदुत्पत्तिरभिप्रेता । अनुपलब्ध्योः [५२.२] कारणव्यापकानुपलब्ध्योरिति प्रकरणात् । कदा पुनस्तद्विशेषणं नोपेक्षितुं शक्यत इत्याह यदेति [५२.३] । उपादत्ते [५२.४] निदर्शनीयत्वेन स्वीकरोति प्रतिपादक इति प्रकरणात् । असिद्धत्वादि*<७>*[५२.८]ति । संदिग्धासिद्धत्वादिति द्रष्तव्यम् । तत्[५२.१२] साध्याभावेऽभावख्यापनम् । तादात्म्यतदुत्पत्तिसिद्धौ हि प्लवमानाकारायाः साध्याभावे साधनाभावप्रतिपत्तेरुत्पत्तिरित्याशयः । अमुमेवार्थं तथा [५२.१५] हीत्वादिना प्रसाधयति । फलवचनस्य कार्यशब्दस्य नपूंसकलिङ्गत्वादसति बहुव्रीहावजहल्लिङ्गत्वाच्च कार्य[५२.२१]मिति निर्देशोवार्तिककार*<८>*स्यावसातव्यः । __________नोतेस्__________ [८०] तद्भावता-स् ___________________________ अनुपकारिका [५२.२३] अकिञ्चित्करी । अदर्शनमात्रा[५२.२३]त्प्रतिबन्धविरहिताद्विपक्षेऽदर्शनात्केवलात् । तदसंभवं [५२.२३] व्यतिरेकासम्भवम् । तमेव {प्. ३०६} तथाही[५२.२७]त्यादिनोपपादयति । साध्याभावादन्यस्य तदनुपलब्धिकारणस्याभावातेकत्र स्थितस्यापि तदनुपलब्धिरस्तीत्यभाव एव किं न भवतीत्याशंक्याह देशेत्यादि*<१>* [२८ ] । आदिशब्दात्कालस्य परिग्रहः । तत्र [५३.३] धर्मिणि सत्यपि [५३.३] विद्यमानेपि हेतौ अनुपलम्भमात्रस्य [५३.४] उपलम्भविरहमात्रस्य [।] न तथाविधो व्यतिरेकोऽभिप्रेत इत्याह -- तथाविधस्यै[५३.५]वेति । नन्वदर्शनमात्राद्व्यतिरेकमिच्छतामुक्तेन न्यायेन तदसंभव एव दर्शितः । प्रतिबन्धमन्तरेण दर्शनमात्रादन्वयमिच्छतां तु न तदभावो भावितोऽव*<२>*श्यदर्शयितव्यश्चासौ "अविनाभावनियमोऽदर्शनान्न न दर्शनात्" [प्र.वा. ३.३०] इत्यत्राभिधानादित्याशंक्यानन्तरोदित एवायमर्थ इति दर्शयितुमाह अन्वयनिश्चयो [५३.७]पीति । तेनापि [५३.८] प्रतिबन्धनिबन्धनान्वयनिश्चयवचनेनापि । दर्शननिबन्धनम्[८१] इति [५३.८] सपक्षे दर्शनमात्रनिबन्धनमिति प्रकरणात्द्रष्टव्यम् । अस्याप्य[५३.९]न्वयस्यापि । न द*<३>*र्शनमात्रादन्वयमिच्छामो येनैवमभिधीयते । किंतु भूयोदर्शनादित्याशंक्याह न चेति [५३.१२] । एवमुपलक्षणत्वादस्य नादर्शनमात्राद्व्यतिरेकमिच्छामोऽपि तु भूयोदर्शनादित्यपि द्रष्टव्यमेव । "भूयोदर्शनगम्या हि" (श्लो.वा. अनु.१२) इत्यस्य शेषनिर्देशेनापि गमयितुमशक्यत्वाद्व्याप्तिर[५३.१३]न्वयात्मिकेति द्रष्ट*<४>*व्यम् । भवतोपि महानसमहाह्रदादौ भुयोदर्शनादर्शनाभ्यां किमन्यद्व्याप्तिनिमित्तमस्तीत्याह असती[५३.१४]ति । प्रतिबन्धनिबन्धनाभ्यामेव ताभ्यां सा सिद्ध्यति नान्यथेत्यनेन दर्शितम् । क्वचिद्देशे बहुलं [५३.१४] प्रचुरं यथा भवति तथा दृष्टानां [५३.१४] साहचर्येणोपलब्धानामामलकत्वकषायरसत्वादीनाम् । अन्य*<५>*थात्वस्यापि [५३.१४] क्सीरावसेकादिना मधुररसत्वादिभावस्यापि सम्भवात् । सम्भावनाया अवकाशं दर्शयितुं तदसंभवे [५३.१५] इति । तस्यान्यथात्वस्यासंभवेऽभावे । एवमुपलक्षणत्वादस्य साध्यभावे भूयोदर्शनेपि न व्यतिरेकात्मिका व्याप्तिः सिद्ध्यति । के(क्व)चिद्बहुलं साध्याभावेऽभाविनामुपलम्भेप्य*<६>*न्यथात्वस्य संभवात् । तदसम्भवबाधकप्रमाणाभावादित्य् अपि द्रष्टव्यम् । तथाहि मधुररसत्वाभावेऽम्भस्त्वस्य साधनधर्मस्याभावः साध्यधर्मिणः सामुद्रादम्भसोऽन्यत्र सर्वत्र दृश्यत इति भूयोदर्शनेपि लवणोदधावेवान्यथात्वं दृष्टमिति । अन्यथाम्भस्त्वमपि महार्णवाम्भसो मधुरत्व*<७>*साध्ये सम्यग्धेतुरभ्यवगन्तव्यः प्रसज्येत । बाधकाभावात्कार्यव्याप्याभावव्यतिरेके सति स्याता(?)र्वाग्दर्शिभिरशक्यनिश्चयत्वेनालक्षणत्वादस्य साध्याभावे हीत्यलं बहुना । __________नोतेस्__________ [८१] -निबन्धनाम -- स् ___________________________ तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धद्वयनिश्चयो य एव स चोपायः [५४.१२] "सा विपर्यये बाधकप्रमाणवृत्तिः" इति वचनात्"प्रत्यक्षानुपलम्भसाधनः" {प्. ३०७} इति वचना*<८>*च्च दर्शितः । इति[५४.१३]स्तस्मात्पृथग्नोक्तः [५४.१३] भेदे[न]नोक्त आचार्येणेति प्रकरणात् । प्रतिबन्धसिद्धावपि कथं कारणव्यापकानुपलब्ध्योरन्वयव्येतिरेकौ प्रसिद्ध्यत इत्याशंक्य एतदेवोपपादयन्नाह तथाहि[५४.१४]त्यादि । कार्यव्याप्याभावव्यतिरेके सति किंरूपे तस्मिन्नित्याह[८२]तल्लक्षण इति । तत्कार्यस्वभावात्मनि [२८ ] प्र*<१>*तिषेधप्रतिषेधस्य विधिरूपत्वादित्यभिप्रायः । व्यतिरिच्यते असंभवति । कथं व्यतिरिच्यत इत्याह । कारने[५४.१४]ति । अन्यथे[५४.१६]ति यदि तद्व्यतिरेके न व्यतिरिच्यत इति । __________नोतेस्__________ [८२] तद्भावलक्षने -- स् ___________________________ तदनु "तादात्म्यतदुत्पत्त्योरविनाभावव्यापिकयोर्" इति पुरस्तादुक्तं कथं पुनरधुना तादाम्यतदुत्पत्त्योरविनाभावेन व्याप्तयोर्भावादि[५५.२५]त्युच्यत इत्याशंक्याह कृतकम्[८३]इ[५५.२६]ति । उभय*<२>*व्याप्तित्वादित्यर्थः । प्रागेवोक्तमि[५५.३०]ति -- "अविनाभाववैकल्यण्चे"त्यादिना पूर्वमुक्तत्वादित्युक्तम् । यदि वे[५६.१]त्यादिनोपपत्त्यन्तरमपि दर्शयति । कार्यहेतुप्रसङ्गात्कार्यादप्यन्यद्[५६.१]त्युक्तम् । रोहिण्या रोहिणीनक्षत्रस्य आसत्तिरुदेष्यमाणायाः प्रत्यासन्नता तस्याः क्लृप्तिः [५६.१४] कल्पनाज्ञानमिति यावत् । सापि [५६.१४] तत्कल्पना उक्तत्वादि[५६.१६]त्येतज्जातीयं*<३>* प्रत्युक्तत्वेनोक्तमर्थादित्यर्थः । __________नोतेस्__________ [८३] कृतकत्वा -- स् ___________________________ कथं पुनस्तस्यास्तदुदयानन्तरमुदयोऽवश्यंभावी संगच्छत इत्याशंक्योपसंहारव्याजेनाह तस्मादि[५६.१६]ति । नक्षत्रचक्रस्ये[५६.१६]ति कृत्तिकाख्यसप्ततारावृन्दस्येति प्रकरणादवसेयम् । संक्रान्तिः [५६.१६] पूर्वावस्थानदेशात्संक्रमणमभिव्यक्त्यवस्थाप्राप्तिर्वा तस्या हेतुरे*<४>*व कालव्यवधानेने[५६.१७]ति कियत्कालक्षेपेणेति द्रष्टव्यं कल्पयितव्य[५६.१७]स्तद्धेतुत्वेनेति प्रकरणात् । अनेन तत्रापि प्रतिबन्धसद्भावो दर्शितः । नीडानुपघाते सत्यनुत्रस्तानां गृहीताण्डानां पिपीलिकानामेकदिगभिमुखानां सञ्चरणं दृष्ट्वा यद्वर्षानुमानं तदप्यसति प्रतिबन्धे स घटते तस्मात्तत्रापीयमेव गतिरिति दर्शयितुं यथे[५६.१७]तिना दर्शयति । इतरथा विवादाध्यासितसत्त्वादस्य कथं दृष्टान्तरूपतोपपद्येत । भूतानां [५६.१७] पृथिव्यादीनां संक्षोभो [५६.१७]वस्थाविशेषः । य एव तथाभूतपीपिलिकासंक्षोभहेतुः स एव कतिपयकालव्यवधानेन पश्चात्कालभाविनो वर्षस्य हेतुरित्य*<६>*र्थोऽर्थाद्द्रष्टव्यः । कारणकारणतया च हेतुर्द्रष्टव्योऽन्यथा चिरातीतं कारणमिष्टं {प्. ३०८} स्यादेष्तव्यं वा । इति[५६.१८]स्तस्माथेतोः कृत्तिकोदयस्य हेतोर्यो धर्मः [५६.१८] कतिपयकालात्ययेन रोहिण्युदयोपादानकारणशक्तिप्रबोधाधानेनान्यथा वा यज्जनकत्वं तदनुमानेन । इत्थंभूतलक्ष*<७>*णाचेयं तृतीया । कल्पयितव्या [५६.१८] रोहिण्यासत्ति कल्पनेत्यभिसम्बन्धात्स्त्रीलिङ्गेन निर्देशः । दृश्यत्वविशेषणानवच्छिन्नानुपलब्धिरनुपलब्धिमात्रम् [५६.२०] । अभावायोगादि[५६.२२]त्यभावविषयत्वायोगादिति द्रष्टव्यं तद्द्वारेण [५६.२४] विरुद्धोपलब्धिमुखेन । एवं ब्रुवाणः सैव विरोधग्रहणकालप्रव्र्त्ता दृश्यानुपलब्धिरिदानीं स्मर्यमा*<८>*णाभावसाधनी । तत्स्मारकत्वेन चोपलम्भस्यास्यैकज्ञानसंसर्गिवस्त्वन्तरानवच्छिन्नस्यानुपलब्धिरूपता अत एवोक्तं "प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते (प्र.वा.२.९०)" इत्यभिप्रैति । अत्र च यथा प्रज्ञाकरगुप्तेन पराक्रान्तं तथास्माभिर्धर्मोत्तरप्रदीपे दर्शितमिति नेहोच्यते । अन्यथा [५६.२५] यदि तद्द्वारे[२९ ]*< १>*णानुपलब्धिप्रयोगो नेष्यते । अनिषिद्धान्यभावे सत्यप्रतिषिद्धानिवारितोपलब्धिर्यस्यान्यभावेपि सा तत्त्वत इत्यर्थः । अभावासिद्धेर[५६.२५]भावानिश्चयादभावायोगादिति यावत् । समुदायस्य साध्यत्वात्कथमसौ साध्य इत्याह अवयव [५७.५] इति । सम्बन्ध्यन्तरस्यानुपादानात् । कस्यासौ स्वभावोऽवसातव्य इत्याह साध्ये*<२>*ति [५७.६] । तन्मात्रादन्वयित्वमपि तस्य संभाव्यते । ततो विशिष्यत इत्याह यो हीति [५७.१७] । यदि नाम न व्यभिचारस्तथापि कस्माद्विशेषणं नोपपद्यते इत्याह संभव [५७.२२] इति । परमतमपेक्षत इति परमतापेक्षमीक्षिक्षमिभ्यां चे(पा.वा ४७०)ति कर्मोपपदेऽणः । परेपि किमेवमेषितरो न भवंति येन तन्मतापेक्षमिदमुच्यते इत्या*<३>*ह नैयायिके[५७.२५]ति । वेगाख्यसंस्कारवता द्रव्येण मुद्गरादिना यः संयोगा[५८.४]ख्यो गुणस्तस्मादवयवेषु घटादिद्रव्यारम्भकेषु कपालादिषु, कर्माणि क्रियाबहुवचनेन व्याप्तिमुपदर्शयति न तु बहुत्वसंख्यामेव । संयोगस्यैक्ये क्रियाया अप्येकस्या भावात् । यथा वेगवत्सू*<४>*च्यादिसंयोगे कुवलयदले आमे वा घटे, तथापि क्रियाप्रणालिकया द्रव्यनाशोऽस्त्येवेति । तेभ्यः [५८.४] कर्मभ्यह् । अवयवा[५८.४]नां तद्द्रव्यारम्भकाणां द्रव्यारम्भकसंयोगप्रतिद्वन्द्वीविभागाख्यो गुण उत्पद्यते । ततो [५८.४] विभागात्संयोगविनाशो द्रव्यारम्भकस्य संयोगस्य विनाशः । ततः सं*<५>*योगविनाशात् । तेनावयवसम्योगेनासमवायिकारणेन यदारब्धं द्रव्यं तद्विनश्यति । द्वेधा हि द्रव्यस्य नाशो वैशेषिकादिभिरभ्युपेयते आश्रयविनाशादसमवायिकारणविनाशाच्च । अत्र चासमवायिकारणस्यास्य संयोगस्य विनाशात् । {प्. ३०९} कार्यग्रहणेन तु वास्तवं रूपम*<६>*नूदितम् । न तु तदारब्धं चाकार्यञ्चास्ति यद्व्यवच्छिद्यते । यदि चा(वा) कार्यत्वेनैव तन्नश्यति । यत्कार्यं तदवश्यं नाशधर्मकमिति प्रतिपादयितुं कार्य[५८.५]ग्रहणम् । आहेत्य्(भि)सम्बन्धाद्द्वितीयया निर्देशः । समवायबलाद्वृत्तौ तस्यैकरूपत्वाद्विशेषाभावो विवक्षितः । कृतकत्वानित्यत्वयोरेकत्वे कथं गम्य*<७>*गमकभावो भेदे तस्योपपत्तेरित्याह[८४]दर्शनेति [५८.२३] । कृतकत्वानित्यत्वयोर्धर्मयोर्यो भेदः पृथक्त्वं तस्यावभासः स विद्यते यस्यां सा च सा कल्पना चेति तथा । धर्मभेदमवभासयतीति वा तथा । सा च सा कल्पना चेति तथा । इत्थं पदसंस्कारं कृत्वा पश्चादभूत्वाभवन्धर्मकभूत्वाभवन्धर्मकवस्तुदर्शनबलोत्पन्ना च सा *<८>*कृतकत्वानित्यत्वधर्मभेदावभासिकल्पना चेति विग्रहः कार्यः । सैव द्वारमु[५८.२७]पायस्तेन । साधकप्रमाणाभावाद्बाधकसद्भावाच्च न तत्कल्पना युक्तिमतीति भावः । एवं साध्यसाधनभावोपपत्तावपि तत्कल्प्यताम् । यदि तदेव व्यतिरिक्तमनित्यत्वादि तत्साध्यामर्थक्रियां प्राप्तुं हातुं वार्थिभिश्चिन्त्यते तदपि नास्तीति दर्शयितुमाह*<१>* [२९ ] -- कल्पयित्वापीति [५८.२८] वस्त्वात्मन एव [५८.२८] तद्धर्मिस्वरूपस्यैव । हानोपादानविषयतया चिन्त्यत्वाद्[५८.२९] विचार्यत्वात् । कथं तस्यैव चिन्त्यत्वमित्याह -- अर्थक्रिये[५८.२८]ति । कैश्चिन्तनीयत्वमित्याह -- तदर्थिभि[५८.२९]रिति । तामर्थक्रियामर्थयन्तीति तथा तैः । अर्थक्रिया च तदायत्ता अत एवोपेक्सा(पेया)र्थिन उपायमेवानुसरंतीति । एतदेवचार्यवचनेन संस्पन्दयन्नाह -- तदु*<२>*क्तमि[५८.२९]ति । यस्मादेवमेवैतन्नान्यथा तत्तस्मादुक्तमाचार्येण । सन् हि शब्दार्थोऽसन्ध्यावृत्तिः (सद्व्यावृत्तिः) शब्दार्थ इति यः पक्षभेद[५९.१]स्तेन तं हेतूकृत्य ये शब्दार्थान्नापहवते(ह्नुवते) तैर्वस्त्वेव [५९.२] शब्दादिकमेव । व्यावृत्तिः शब्दार्थ इति वादिभिरप्यर्थात्व्यावृत्तमेव वस्तु तथापि प्र(था प्र)तिपाद्यत इति तेषाम् अपि वस्तुचिन्तनम् । अथवा शब्दार्थमनपव*<३>*दद्भिः सदापेक्ष्याभे(दादिपक्षभे)देन सत्त्वेनासत्त्वेन च वस्त्वेव चिन्त्यत इत्यर्थः । तस्मा(कस्मा)द्वस्त्वेव चिन्त्यत इत्याहाशं(त्याशं)कायामत्रहीत्युक्तम् । हिर्यस्मात् । अत्र [५९.२] वस्तुनि । यद्यप्यत्र विधौ सामान्यादिरूपे व्यावृत्तौ च प्रसज्यप्रतिषेधान्मति(धात्मनि) फलोदयो न प्रतिबद्ध[५९.२]स्तथा(थापि) किं तथात्वेन चिन्त्यते इत्यत आह अर्थेति । षण्ड्ःस्य*<४>* [५९.४] सुरतमाचरितुमक्षमस्य तृतीया(य)प्रकृतेः । रूपं च वैरूप्यं चेति द्वन्द्वैकवद्भावः तत्र कामिन्या वृषस्यन्त्याः किं परीक्षया [५९.४] विमृष्यावधारणेन । __________नोतेस्__________ [८४] तद्दर्शन-स् ___________________________ {प्. ३१०} ननु यदि वस्तुतः कृतकत्वानित्यत्वयोस्तादात्म्यं तर्हि वस्तुनः कृतकत्वनिश्चयेऽनित्यत्वमप्यैकात्म्यान्निश्चितमेवेति कथमनुमानावतार इत्याशंक्योपसंहारव्याजे*<५>*नाह -- तस्मादि[५९.६]ति । यस्मात्तस्यैव वस्तुनस्ताप्यमवश्यैषितव्यं तस्मात् । दृष्टा अपि भावाः केनचिदात्मना निश्चितास्तदन्येनात्मना अनुमानतो निश्चीयन्त इति {५] संबन्धः । दृष्टाः साक्षात्कृता भावाः शब्दादयो धर्मिणः । केनचि[५८.६]त्कृतकत्वादिना रूपेण, किंभूतेन? तस्मात्कृतकादन्यदकृतकं तस्माद्व्यावृत्तेन*<६>* । कथञ्चिदभ्यासपाटवादिप्रकारेण तदन्येनानित्यत्वादिना तद्रूपमनित्यरूपं यन्न भवति तस्माद्व्यावृत्तेन [५९.७] । अनेन व्यावृत्त्यभेदेन व्याव्र्त्ति(त्ते)र्भेदो दर्शितः । कृतकत्वेनेव यदि तेनाप्यात्मना ते तदा निश्चेतुं शक्याः कथमनुमानान्निश्चीयन्त इत्याह [५९.८] अनिश्चीयमाना इति । अनिश्चय एव कुत इत्याह । भ्रा*<७>*न्ती[५९.७]ति । भ्रान्तेर्विभ्रमस्य कारणं निरन्तरसदृशापरापरोत्पत्तिरविद्या च तस्य सद्भावात् । अथ यदि तदानीमनिश्चितरूपेण समं तस्य निश्चितस्य रूपस्य प्रतिबन्धो नावसितस्तर्हि कथमसम्बद्धदर्शनात्तन्निश्चयो भवितुमर्हतीत्याशंकायामनुमानं विशिष्टमाह निश्चिते[५९.८]ति । प्रमाणान्तरतो [५९.८] विपर्यये बाधकात्प्रमाणात् । प्रति*<८>*बन्धावसायः पुरोवर्ती पूरभावी यस्यानुमानस्य तस्मात्[५९.९] इतिस्तस्मात्तस्य [५९.१२] विनाशस्यार्थान्तरनिमित्ततया तन्मात्रानन्वयित्वे । यस्मादेवंभूता सत्ता तत्समवायो वा अनित्यता अतएव [५९.१६] कारणातात्मादावेवंभूतसत्तासमवाययोरभावादिति भावः । अथास्त्वेवं किं नच्छिन्नमनेन तावद्विशेषणेनास्माभिरतत्स्वभावता*<१>* [३० ] विनाशस्याख्याता तावतैव चरितार्थाः स्म इति सौगतमतमाशंक्य स्वसिद्धान्ताभ्यासव्यामोहापस्मारः परः प्राह -- विनाश इति च [५९.१६] इति । इतिर्विनाशशब्दं प्रत्यवमृषति । तेन विनाशशब्देनेत्यर्थः । प्रागभावादिभेदेन भावाभावस्यानेकविधत्वात्विशिनष्ति प्रध्वंसाभावलक्षणमि[५९.१७]ति । कृतकत्वम[५९.१७]पि भवद्भिस्तदात्मकमेव*<२>* मन्यते ततोऽयुक्तमतत्स्वभावताप्रतिपादनमिति च पुनराशंक्य पर एवाह -- कृतकत्वमिति {२५] तु[५९.१७]र्भिनत्ति मन्यामहे [५९.१७] इत्यभिसम्बन्ध्यते । तथाविधस्य [५९.२०] प्रध्वंसाभावलक्षणस्य । हेतुमत्तया [५९.१७] विरोधादनुपपत्तेः । कथं पुनर्विरोध इत्याह स्वयमि[५९.२०]ति । एवं ब्रुवाणस्तदुपपत्त्यनभिधानकारणं दर्शयति । प्रतिपित्सवो [५९.२३]नुतिष्ठा*<३>*सवः । मुद्गरादेः [६०.१] सकाशादुदयेऽपि तस्य [६०.२] प्रध्वंसाभावस्य । {प्. ३११} भावे [६०.२] विनाशो वस्तुनि । अनुपयोगाद्[६०.२] अव्यापारात् । अतादर्थस्थ्योऽनि(दवस्थ्यमनि)त्यत्वं तस्य च तदवस्थत्वात्कथमनित्यत्वमित्यर्थः । यदि नाम तद्भावे तत्पूर्वावस्थितरूपान्न विचलति तथापि तद्विशेषणौ सत्तासमवायौ तस्यानित्यता व्यवस्थाप्य*<४>*त इत्याह अविचलितेति [६०.४] । अविचलितमनापन्नान्यथाभावं रूपं यस्य तस्य सत्तायामाह -- सामान्यस्य समवायस्य चैकत्वेनात्मादेरपि तथाभावो भवेदिति भावः । "विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामह" इति यत्परेणोक्तं तदवद्यं प्रतिपाद्य "कृतकं त्विति च" यदुक्तं तदपि *<५>*दूषयन्नाह स्वकारणे[६०.६]ति । समवायस्यैकत्वेनात्मादेरपि तथाभावप्रसङ्गेनैवमनिच्छतोपि न सिद्द्यतीत्याशयः । अमुमेवार्थं विधिमुखेन साधयन्नाह [अ]भूत्वेति [६०.८] वर्ण्यते [६०.८] लोकनेति शेषः । अनेनैतद्दर्शयति वृद्धव्यवहारो हि शब्दार्थनिश्चयभूमिः । कृतकत्वशब्देन चैवंविध एवार्थोऽभिधीयते*<६>* वृद्धैरिति । प्राक्पध्वंसाभावयोस्तद्विशेषणरूपतामुपेत्य प्राग्दूषणमुक्तम् । संप्रति तु तामपि विघटयन्नाह न चे[६०.८]ति । एतच्च पूर्वमेव व्याख्यातप्रायम् । तदेव [६०.१०] अभूत्वाभवनं भवितृत्वं कृतकत्वमस्तु । एवं तुल्यन्यायतया वा(चा)भवनमनिच्छतोऽनित्यता न सिद्ध्यति । भूत्वाभवनोपगमे वा स्थिरस्वभावतयैवानित्यतास्त्विति अभिप्रायवतोक्तमस्थिरत्वभावता चे[६०.१०]ति । यदि वा तस्मादनेन(ना)स्थिरस्वभावतैव भावस्यानुमातव्येति यदुत्पत्त्यभिधानपूर्वकमुपसंहृतिः तदभिप्रायेणैवमुक्तम् । कृतकत्वस्य व्यभिचारः [६०.१६] साध्यरहिता वृत्तिरनैकान्तिकत्वमिति यावत् । प्रतिषेध्यस्यावश्यंभावित्वस्य यद्विरुद्धं अनवश्यं*<८>*भावित्वं तेन यद्व्याप्त(प्तं) हेत्वन्तरापेक्षित्वं तस्योपलब्धिः विरुद्धव्याप्तोपलब्धिर्{२०] इ[६०.१९]ति च विरुद्धव्याप्त्यो(तो)पलब्ध्यप्रसङ्ग इति द्रष्टव्यं परोपगमेन पक्षधर्मतासिद्धेः । यत्र हि व्याप्तिर्वास्तवी पक्षधर्मता तु परोपगमसिद्धा स प्रसङ्गहेतुः । यत्र तु त्रितयं प्रमाणसिद्धं स स्वतन्त्रो हेतुरित्याशय एषः । तस्य [६०.२०] च परिमितस्य*<१>* [३० ] हेतोः तदाश्रयस्य [६०.२१] रङ्गाश्रयस्य वस्त्रादेः । उपधातकः प्रत्ययो विधुरप्रत्ययस्तदुपनिपातेन नावश्यंभावितेत्यनवश्यं भावितेत्यर्थः । पुनः शब्देन रागाद्विनाशं [६०.२२] भिनत्ति । तद्धेतुसन्निधे[६०.२४]र्विनाशहेतुसन्निधेः प्राक्[६०.२४] । त एवोपधातक(का) विनाशकाः स्युस्ततश्च सहेतुको विनाशः सिद्ध इत्यस्याभिप्रायः । तकारणानां*<२>* च [६०.२७] स्वकारणायत्तसन्निधित्वादित्येव संबद्ध्यते । सन्निहितानामपि विनाशहेतूनां संबन्धीनीमानि विरोधीनि {प्. ३१२} शक्तिविबन्धकानि योगिपिशाचादीनि तेषामप्यानन्त्यात्[६०.२८] । तद्भावे [६०.२८] तेषां विरोधिनां सद्भावे । तच्छक्तिप्रतिबन्धात्[६०.२८] तस्य नाशहेतोः शक्तेरुपघातात् । यदि ते तद्धेतवस्तैरवश्यं तत्फलैर्भाव्यमित्याह *<३>*नावश्यमि[६०.२८]ति । इतिर्हेतौ सापेक्षोऽपि [६०.२९] हि निद्रादिर्वते (हरिद्रादिवस्त्रे) द्रव्यापेक्षोपि किं न स्यादिति प्रश्ने बौद्धीयं वचनं स्याद्[६१.२] यदि तथोपलभ्येते[६१.२]ति । तथा [६०.३] सर्वगतत्वेन । यद्येवमि[६०.३]ति परः । अन्यथाभाव[६१.४]स्य क्वचिदभवनस्य शंका संदेहस्तया नाधातव्यो [६०.४] न करणीयो भवद्भिरिति च प्रकरणात् । *<४>*अनेनैतद्परो दर्शयति सर्वत्रोपलब्धस्यान्यथाभावशंकैव भवतः प्रेक्षावतो न युक्ता केवलमनेन व्याजेन नूनं परसिद्धान्तस्यानवद्यतया मनःखेद एव त्वया क्रियत इति । किं[८५]पुनरि[६१.५]ति सिद्धान्ती । सामान्यविशेषाकाराभ्यां प्रश्नः किंपुनःशब्देन निपातानिपातसमुदायेन दर्शि*<५>*तः । समस्तवस्तुविस्तरव्यापी [६१.५] सर्ववस्तुबाहुल्यव्यापी ज्ञानालोको [६१.५] यस्य भवतः स तथा । यथा तु वस्तुविस्तरशब्दसिद्धिस्तथा पुरस्तादभिहितम् । तथाभावे [६१.६] सर्ववस्तुदर्शित्वे वा कस्यचिद्धेतुकृतो विनाशो दृष्टः । सर्वस्यैव ताद्रूप्यमनिवारितमिति आह -- कस्यचिदि[६१.६]ति । तुरवधारणे हेत्वा*<६>*यत्तजन्मनाम् [६१.७] कारणान्तराधीनोत्पत्तीनां वस्त्ररागादीनामन्यथापि दर्शनाद् [६१.८] अपितृते(अपीतत्वे)नाप्युपलब्धेर्हेतोः उपजाता[६१.८]न्यथात्व शंका प्रकरणाद्विनाशस्याभावसंदेहो यस्य पुंसस्तथा सन् । अनेनार्थान्तरानुबन्धिनि विनाशो साध्ये कृतकत्वस्य संदिग्धविपक्षव्यावृत्तिकत्वेनानै*<७>*कान्तिकमाह । कृतकमपि चायम् [६१.९]इत्यादिना तु साधारणानैकान्तिकं दर्श्यति । भावाभाव[६१.१०]शब्देन प्रध्वंसाभावो विवक्षितः । तस्यैव स्वनिष्पत्तावपेक्षितपरव्यापारत्वेन कृतकत्वात् । तथात्वेनेष्तत्वाच्च । नित्यतोपगमे कारणमाह तद्विनाश [६१.१०] इति । तस्य भावाभावस्य प्रध्वंसलक्षणस्य विनाशे भावस्य*<८>* प्रध्वस्तस्योन्मज्जनमाविर्भावस्तस्य प्रसंगात्[६१.१०] प्राप्तेः । __________नोतेस्__________ [८५] किं वा पुनरिति स् ___________________________ स्यादेतन्नित्यं सत्त्वादिप्रसङ्गेन नाहेतुकं वस्तुनामुज्जनम् । न च घटादेर्भावस्य तद्विनाशविनाशोन्वयव्यतिरेकाभ्यां कारणत्वेनावगतोऽपि तु कुलालादिरेव । तत्कथं विनाशविनाशे तदुन्मज्जनमासंज्यमानमभजमानं न स्यादिति । तदे*<१>*[३१ ]तदवद्यम् । तथाहि घटाभावव्यावृत्तिर्{प्. ३१३} एव घटो घटविनाशश्च घटा(ट)भावव्यावृत्तिरिति घटाभावस्याभावे घटरूपोन्मज्जनासंजनं ज्याय एवेति । अत्रैवोपचयहेतुमाह न चे[६१.११]ति । स [६१.१४] नाशोऽहेतुः सन् तस्य [६१.१४] प्रध्वंसाभावस्य कथं[८६]जायेत [६१.१४] जनितुमर्हति । __________नोतेस्__________ [८६] संजायते स् ___________________________ भाषानां [६१.१७] वस्तूनामयं विनाशाख्यो धर्म ऐकान्तिकोऽ[६१.१७]वश्यंभावी । *<२>*अनेनैतद्दर्शयति -- नैव कृतकत्वं निर्विशेषणं साधनमस्माभिरभिधीयते येनैवं स्यात्किन्तु वस्तुत्वविशेषणानव(णेनाव)विच्छिन्नं ततो वस्तुत्वे सति यत्कृतकत्वं तदवश्यंभाविनाशमित्यार्थ इति । कुतः पुन[६१.१७]रित्यादिना सिद्धान्ती प्रतिविधत्ते क्षेपे किमः प्रयोगान्न कुतश्चिदित्यर्थः । एतदि[६१.१८]ति भावानामवश्यभावी विनाश इति । तेषां *<३>*भावानाम्[८७]अन्यथात्वस्य [६१.१८] अविनाशित्वस्यानुपलब्धेरेतदवसितमिति प्रकरणात् । भवन्नपि [६१.१८] विद्यमानोपि । आत्मादेः [६१.१८] सत्ताया अनिवर्तक [६१.१८] आत्माद्यभावस्यासाधकः कथमन्यत्र [६१.१८] वस्तुषु अन्यथाभावमविनाशित्वं निवर्तयति [६१.१९] निषेधयति । आत्माद्युपन्यासेन चैतद्दर्शयति । यद्यविनाशित्वानुप*<४>*लम्भोऽविनाशाशित्वाभावं साधयति तर्हि विशेषाभावादात्माद्यनुपलम्भोपि तदभावं साधयेत् । न चायमपीति दृष्टान्तविघटनं परस्याशंकमान आह तस्ये [६१.१९]ति । तस्य आत्मादेः आत्मनस्तावद्रूपरसादिप्रत्ययानामेकानेकत्वसाधकस्याबाधितप्रतिसन्धानविषयत्वादेरनुमानात्*<५>* । आदि[६१.१८]शब्दसंगृहीतस्य च दिगादेः पूर्वापरादिप्रत्ययादेरनुमानत इति बुद्धिस्थम् । इतिना [६१.१९] वक्तव्यस्याकारः कथितः । तत्राप्यनुमाने [६१.२०] तत्सत्त्वसाधके । __________नोतेस्__________ [८७] अन्यथाभावस्य स् ___________________________ ननु यस्यानुपलब्धिस्तस्याभाव एवेत्यभिधातरि कोऽयमुपालम्भः । विपक्षेपि हेतोर्वृत्त्यदर्शणेऽभावसिद्ध्यविरोधात्; आत्मादेस्त्व*<६>*नुपलब्धिरेवासिद्धा ततो नाभावसिद्धिरिति । साधूक्तं भवता केवलं तत्रापी[६१.२०]त्यादि ब्रुवतोऽभिप्रायो न सम्यग्व्यज्ञायि । अयं खल्वस्याशयः । तावद्धेतोर्विपक्षेऽनीक्षणं न क्षमते अभावं विभावयितुं, यावद्यद्यन्नोपलभ्यते तत्तन्नास्तीति न सिध्यति । सति चैवमात्माद्यनुपलभ्यमानमसत्सि*<७>*द्धमिति प्रमाणप्रतिक्षिप्तं कथमनुमानस्य विषयः स्यात्? तदुक्तं "व्याप्तो हेतोरनाश्रय" इति । यदि वानुपलम्भ एव प्रतिबन्धशून्यः केवलोऽनुपलम्भो देशकालविप्रकृष्टेषु कथं तथाभावमवबोधयेत्? यतस्तेन सिद्धिविपक्षा हेतुव्यावृत्तिरात्मादेः सत्त्वमनुमापयेदिति । प्रयोगभङ्ग्यैव [६१.२५] प्रयोग*<८>*विन्यासेनैव प्रसङ्गेना[६२.१]नुषङ्गेन प्रस्तावेनेति यावत् । {प्. ३१४} साध्यदृष्टान्तधर्मिणोः समानः [६२.३] सदृशो हेतुसद्भावलक्षणो धर्मः [६२.३] प्रतिपाद्यतया यस्य [६२.३] प्रयोगस्यासौ सधर्मा, समानस्येति योगविभागात्समानस्य पक्षादिष्विति वक्तव्ये परिग्रहाद्वा स भावस्तस्य भावो [६२.३] भवतोऽस्मादभिधानप्रत्ययाविति कृत्वा [३१ ]*< १>* रूपविशेषः । तयोरेव विसदृशो [६२.४] हेतुसद्भावासद्भावलक्षणो धर्मः प्रतिपाद्यतया यस्य तस्य भावः [६२.५] अशेषस्य साध्येतरधर्मिणः (साध्यधर्मिणः) साध्यधर्मणोवान्यत्र सर्वत्र साध्ये हेतोर्व्याप्तिर्विवक्षिता । न तु साध्यधर्मणोऽन्यत्र दृष्टान्तधर्मिणि प्रवृत्तेन सर्वोपसंहारेण गृह्यमाणा व्याप्तिर्बहिर्व्याप्तिः तस्या निरासः [६२.१] । ननु च सत्त्वलक्षणे *<२>*स्वभावहेतौ साध्यधर्मिण्यपि विपर्यये बाधकप्रमाणवृत्त्यापि व्याप्तिर्ग्रहीतुं शक्यत इति । नैतदपेक्षया हेतोरन्यत्र वृत्त्यपेक्षया किंचिद्येनेदमासज्येत । किंतु कार्यहेतोः सर्वस्य स्वभावहेतुविषयस्य चावश्यमन्यत्र प्र(अ)वृत्तिरपेक्षणीया । तदर्थमन्यत्राअनुवृत्तिरित्याशङ्कितमिति किन्न भवान् व्याचष्टे*<८>* । आचार्यस्य च सत्त्व*<३>*हेतूपन्यासानन्तरं यथा घटादय [६२.९] इत्युदाहरणदर्शनात्तु त्वदीयं व्याख्यानमपव्याख्यानं लक्ष्यत इति निर्भर्त्सनामाशङ्क्यास्याचार्यस्यान्यदृशमभिप्रायमुद्घाटयन्नाह यथा घतादय [६२.९] इति । यस्य [६२.९] पुंसः । किं पुनस्तत्र स्मृत्याधानार्थं दृष्टान्तवचनम्, न तु दृष्टान्तमात्रप्रतिपादनार्थमित्याह -- दृष्टान्ते[६२.११]ति*<४>* । अनेन पुरुषविशेषं प्रति एतदाचार्येणेति नास्मद्व्याख्यानस्य किंचिदवद्यमिति दर्शयति । विभक्तिविपरिणामेन सम्बन्धमेव सर्वस्मिन्नि[६२.१६]त्यनेन दर्शयति । बहिरेवध्याप्तिर्बहिर्व्याप्तिस्ताम् । ते [६२.२३] निरस्ता भवन्ति [६२.२५] इति सम्बन्धः । यद्यपी[६२.२४]ति निपातसमुदायो विशेषाभिधानार्थाभ्युपगमे । तावते[६२.२४]ति साधनधर्मस्य साध्यधर्मेणान्वयदर्शनमात्रेणेति । अस्य [६२.२४] साधनधर्मस्य तथाभावस्य साध्येनान्वीयमानत्वस्य अभावात्[६२.२४] । प्रतिबन्धमन्तरेण तदभावेऽपि तदभा(तद्भा)वाविरोधादिति भावः । इतिः [६२.२५] हेतौ । तस्य प्रतिबन्धसाधकस्य प्रमाणस्य[८८]स्मरणाय [६३.३] । धर्मविशिष्टः [६३.४] सिषाधैय्षितधर्मविशि*<६>*ष्टो धर्मी [६३.५] शब्दादिः । तस्याः [६३.६] साध्यधर्मविशिष्टधर्मिप्रतिपत्तेः । व्याप्तिप्रदर्शनपूर्वके पक्षधर्मप्रदर्शनेऽभिधाय पक्षधर्मप्रदर्शनपूर्वके व्याप्तिप्रदर्शनेऽप्याह -- तत्पूर्विकायां चे[६३.८]ति । तत्पूर्विकायां पक्षधर्मप्रदर्शनपूर्विकायां व्याप्तौ [६३.८] {प्. ३१५} प्रदर्श्यमानायाञ्चेति शेषः सर्वोपसंहारेण व्याप्तिग्रह*<७>*णे प्लवमानाकारायाः प्रतिपत्तेरुभयत्राविशेषान्मुखभेदमात्रेणैतदुक्तमित्यवसेयम् । __________नोतेस्__________ [८८] तत्स्मृतये स्। ___________________________ साध्यनिर्देशः प्रतिज्ञा [६३.२४] तस्याह्प्रयोगः [६३.२४] प्रयुक्तिः स न[८९]दर्शितः [६३.२४] साध्यनिर्देशो न कृत इत्यर्थः । प्रत्यक्ष[६४.१२]ग्रहणं प्रमाणोपलक्षणं द्रष्तव्यं तेन तभिस्रायां रात्रौ प्राक्तनादिविप्रकृष्टे देशे कर्पूरोर्णादिगर्थ(गन्ध)विशेषाद्धू*<८>*मविशेषमनुमानतो निश्चित्याग्निविशेषमनुमिन्वतोऽपि सङ्ग्रहः । प्रतिज्ञाप्रयोगरहितादि[६४.१६]त्यवधारणफलप्रदर्शनमेतत् । __________नोतेस्__________ [८९] नोपदर्शितः स्। ___________________________ अत्रार्थितैव कर्णमागत्य बुद्धिस्थं प्रकाशयति य पिशाची सा किल कर्णपिशाचिका [६४.१८] । लिङ्गस्य पक्षधर्मान्वयव्यतिरेकात्मनो गमकस्य अनुसरणं [६५.१२] निश्चयनम् । इतिः [६५.१४] हेतौ । उपहसति [६५.१४] त*<१>*[३२ ]त्तामधिरोहति । किमुपहसतीत्याह -- यत्तदि[६५.१४]ति लोकोक्तिश्चैषा । कथं तत्स्पर्धास्योच्यत इत्याह तत्तुल्यत्वादि[६५.१५]ति । अस्य [६५.१५] अनुमातुः । क्रमस्य [६५.१५] समानाधिकरणषष्ठ्येव वा । "तद्वचनस्ये"[६५.२३]त्यादिना पूर्वं स्वयं कारणमभिधाय आचार्योक्तं कारणं दर्शयितुं परं प्रश्नेनोपक्रमयति कस्मादि[६५.१३]ति । यदि प्रतिज्ञाप्रयोगेऽपि सा शङ्का तर्हि*<२>* किं तेनेत्याशङ्क्य पर एवाह अनित्य [६६.१३] इत्यादि । तदा(तुना) [६६.१३] प्रतिज्ञाप्रयोगपक्षं विशिनष्टि "असति साध्यनिर्देश[६६.९]" इत्येवाभिसम्बध्यते । हेतुश्च विरुद्धश्च अनैकान्तिकश्च तेषां प्रतीतिः [६६.१४] निश्चयो न स्यात् । इदमेव दूषणं तेन समुच्चितम् । अत्रैव दूषान्तरमपि समुच्चिन्वन्नाह । हेतोश्चे[६६.१७]ति । स्वपक्षविशेषं दर्शयन्नाह ।[९०]सति त्वि[६६.१८]ति । यवते[६६.२७]ति तृती*<३>*यान्तप्रतिरूपको निपातः किन्त्वेतस्यार्थे वर्तमानो अत्रोपपत्तेः । तस्मिन्निबद्धतद्(तस्मिनिव तद्वत्) विषयः साध्यलक्षण उपस्थाप्यते [६७.३] उपनीयते येने[६७.३]त्यर्थकथनमेतत् । उपस्थाप्यते येन पुरुषेणासौ तथा, विषयस्य तथेति तु विग्रहः । तेनानिर्दिष्तविशेषेण केनचिद्विना [६७.४] कथं पुनस्तान*<४>*(तेन) साध्यमुपस्थाप्यत इत्याशंकायां योज्यं --[९१]प्रतिज्ञाद्वारेणेति । [६७.३] __________नोतेस्__________ [९०] "तु" नास्ति स्। [९१] प्रतिज्ञावचनद्वारेनेति स्। ___________________________ {प्. ३१६} एवं तावदनेन व्याख्यातम् । केचित्पुनरन्यथाप्येतद्व्याचक्षते । उपस्थाप्यते प्रकाश्यते येन [६७.३] वचनेन तेन विना [६७.३] । अयमपि "प्रमेयस्योपदर्शनमन्तरेण" [६९.२४] इत्यत्रोपदर्शनशब्देन वचनमेव व्याख्यास्य[ति] न तु पुरुषम् । तदपि *<५>*अग्निरत्राग्निमानयं साग्निरयमित्यादिरूपेणानिर्दिष्टविशेषं विवक्षितमित्यतः -- केनचिदित्युक्तमिति कार्यिणो [६७.५]र्थिनः । अर्थित्वं चान्वयब्राह्मणाप्राप्त्यादिना द्रष्टव्यम् । मूल्यं [६७.६] निष्क्रयं मृगयते [६७.६] प्रार्थयते । इतस्ततः पार्वणश्राद्धादिभोजी द्विजः पर्वब्राह्मणः [६७.६] । अमुमेव दृष्टान्तं विवृण्वन्नाह यथे[६७.६]ति । दक्षिणा [६७.७] अत्र प्रकरणाद्भोजनानन्तरं दानं द्रष्टव्यम् । अन्यदा [६७.७] अर्थविशेषाप्राप्तिकालादन्यस्मिन् काले । प्रार्थनापूर्वकमितस्ततो भोजनशीलतौर्ध्वरथ्यिकः[९२]पर्वब्राह्मणसदृशस्य चैतद्विशेषणं चरणम् । श्र(श्रा)द्धादी[६७.८]त्यत्रादिग्रहणादुपनयनसमावर्तनादिपर्वसङ्ग्रहः । अर्थित्वमा*<७>*त्रेपि नैतद्वचनं तस्य सम्भाव्यत इति तं विशेषयन्नाह -- श्रद्धालु[६७.८]मिति । श्रद्धालुं श्रद्धावन्तम् । अनेन श्रद्धानुविद्धमेवार्थित्वं कार्यशब्देन वार्तिककृतो विवक्षितमिति दर्शयति । घृतपुरः [६७.८] खाद्यविशेषस्तं प्रति । सोपि मह्यं प्रचुरो दातव्य इति विरुक्तेन दर्शयति ।[९३]रूप्यं [६७.९] प्रचुरतरताम्नाल्पतररूप्यघटितो द्रव्य*<८>*विशेषः । दक्षिणायथादौ (णादौ) च प्रायेण रूपकेण व्यवहारः । ददा[९४]त्य् अभिसम्बन्धाद्द्वितीया । तेन [६७.९] एवंवादिना पर्वब्राह्मणेन । __________नोतेस्__________ [९२] और्ध्वरथिकः स्। [९३] रूपकं स्। [९४] ददासि स्। ___________________________ ननूक्तमेतद्यथा परार्थेऽनुमाने लिङ्गं परस्मादेव प्रत्येयमिति तत्पुनस्त्वया न अपहस्तितमिति आशंकायां यद्[९५]अस्मद्वचनादपी[६७.१७]त्युक्तम् । तद्व्याख्यातुं किं चे[६७.११]त्यादिनोपक्रमते*<१>* [३२ ] किं चेति च ब्रुवाणो नियतं वक्तव्यान्तरसमुच्चये । अर्थादाचार्यस्याभिप्रेत इति दर्शयति न त्वस्यैव वक्तव्यान्तरसमुच्चयार्थः किंच[६७.११]शब्दप्रयोगो घटते । यदपि ब्रवीषीत्यादेरस्मद्वचनादपीत्याचार्यवचनान्तरव्याख्यानपरत्वस्य व्यक्तत्वात् । अथवायं निपातानिपातसमुदायः किञ्चशब्दोऽस्य विवक्षितः किन्तु *<२>*चकारः अपिशब्दस्यार्थे । तेन किमपीत्युक्तं भवति । ततोऽयं वाक्यार्थो यदपि किमपि ब्रवीषीति । एवं च ब्रुवता लोकोक्तिरनुकृतेति । तद्वचनस्य [६७.१८] लिङ्गवचनस्य, अनुसरिष्यति [६७.२०] तदेव लिङ्गमिति प्रकृतत्वात । अङ्ग[६८.१]शब्दोऽत्राध्येषामन्त्रणे । किं[६८.१]शब्दः सामान्यतः प्रश्ने पुनः [६८.१] शब्दस्तु विशेषतः । तेनायमर्थो {प्. ३१७} युष्मा*<३>*नेवाध्येष्य सामान्यतो विशेषतश्चैव पृच्छाम इति । उपहासे चेयमध्येषणा प्रकरणाद्द्रष्टव्या । __________नोतेस्__________ [९५] यतः अस्मद्वचनादपि स्। ___________________________ आदि[६८.४]शब्दाद्वैधर्म्यवत्प्रयोगस्य हेतुविरुद्धानैकान्तिकानां हेतोस्त्रैरूप्यस्य च ग्रहणम् । प्राक्प्रतीति[६६.२३]शब्देनाचार्येण साधर्म्यवैधर्म्यवत्प्रयोगयोर्हेतुविरुद्धानैकान्तिकानां हेतोस्त्रैरूप्यस्य च स्वरूपप्रतीतिर्विवक्षितेत्यभिप्रेत्य साधर्म्यवत्प्रयोगदेः [६६.२४] प्रतीतिरिति व्याचष्टे । अतएव क्रमेणैतत्सर्वं दर्शयिष्यते । ननु किमवश्यं प्राप्तिः पक्षधर्मस्य च प्रयोगो येनैवमुच्यमानं शोभते इत्याशंक्याह -- एवं मन्यत [६८.९] इति । तदनित्यमिति उक्तं [६८.१८] इति योजयित्वा किं *<५>*तन्मात्रोक्त्या सोऽवगम्यत इत्यशंकायां पक्षधर्मवचने सती[६८.१८]ति योज्यम् । यत्कचिदि[६९.५]त्यादि तु[९६]पूर्वमेव कृतव्याख्यानम् । अनुमानकाल एवात्र व्यवहारकालो [६९.६]भिप्रेतः । न पक्षादिसङ्केतग्रहणापेक्षा [६९.६] वस्तुगतिरित्यनुवर्तते । आचार्यपादै[६९.१२]रित्याचार्यवसुबन्धुमभिसन्धा*<६>*योक्तम् । नान्तरीयकार्यदर्शनं तद्विदोऽनुमानमि[६९.१२]त्यास्यायमर्थः । योर्थः किंचिदन्तरेण न भवति स नान्तरीयकः । अत्र च सामर्थ्याद्यमर्थमन्तरेण न भवति तन्नान्तरीयक इति ग्राह्यम् । स चासावर्थश्चेति तदा तस्य दर्शनम् । दर्शनेन च विषयिणा विषयस्य तस्यैव दृश्यमानस्य*<७>* निर्देशः । तेन निश्चीयमान एवासौ परोक्षार्थहेतुर्भवतीति दर्शितम् । तद्विद [६९.१२] इति तन्नान्तरीयकतां यो वेत्ति तस्येत्यर्थः । अनुमान[६९.१२]हेतुत्वाच्चानुमानमुक्तम् । इति[६९.१३]र्गमकरूपमात्रस्य स्वरूपं दर्शयति[९७]वादविधौवादविधिसंज्ञके प्रकरणे । तत्राप्या[६९.१४]चार्यीये लक्षणे । कैश्चि[६९.१४]दुद्द्योतकरप्रभृति[भिः] । कुतः पुनरसंत एव दोषास्तैः कीर्त्यन्त *<८>*इत्याशंकायां योज्यं स्वप्रज्ञे[६९.१४]ति । स्वप्रज्ञाया अपराधो दोषस्तस्मात् । तु[६९.१४]रवधारयति । तथा ह्युद्द्योतकरेण किलानुमानसूत्रवार्तिकेऽपरे तु ब्रुवते नान्तरीयकार्थदर्शनं तद्विदोऽनुमानमिति" (न्यायवा. प्. ५४) पठित्वा तस्यार्थं मात्रया विवृत्त्यैव "अत्रार्थग्रहणमतिरिच्यत" इति मात्रयैव दूषणमुक्त्वा पुनर्विपञ्चितम् -- "नान्तरीयकार्य इति समासपदमेतत् । तत्र यदि षष्ठी*<१>* [३३ ] समासो नान्तरीयकस्यार्थ इति । नान्यन्तरीयकं तावत्कृतकत्वम्, तस्यार्थो धर्मः प्रयोजनं वा? यदि तावद्धर्मः कृतक[त्व]स्यार्थः, सत्त्वप्रमेयत्वाभिधेयत्वाद्यनुमानं प्राप्तम् । अथ प्रयोजनमनित्यत्वप्रतिपत्तिर्हेतुः प्राप्तः । अथ बहुव्रीहिर्नान्तरीयको र्थो यस्येति । तत्रापि कृतकत्वं नान्तरीयकं तद्यस्य स हेतुः प्राप्तः । तच्च कृतकत्वं घटादेः {प्. ३१८} *<२>*शब्दस्यानित्यत्वस्य वा । यदि घटादेः, घटादिर्हेतुः प्राप्तः । अनित्यः शब्दो घटात् । अथ शब्दस्य, शब्दो हेतुः प्राप्नोति । अनित्यः शब्दः शब्दात् । अ(अथा)नित्यत्वस्य[९८]साध्यसाधनकृतकत्वं धर्मस्तथाप्यनित्यः शब्दोऽनित्यत्वादिति प्राप्नोति । अथानित्यत्वस्यार्थः कृतकत्वमिति । सर्वथा कृतकत्वमनित्यत्वे न हेतुः स्यात् । अथ समानाधिक*<३>*रणो नान्तरीयकश्चासावर्थश्चेति । तथाप्यसमर्थः समासो विशेषणविशेष्यनियमाभावात् । उभयपदव्यभिचारे सति समानाधिकरेणा भवति नीलोत्पलवत्नीलशब्दस्यानेकार्थप्रवृत्तत्वादुत्पलशब्दस्य च तथाभावात्सामानाधिकरण्यं भवति । न पुनरिह नान्तरीयकत्वे इत्यु(क इत्यु)क्ते*<४>*स्ति व्यभिचारोऽर्थोऽनर्थ इति येनार्थग्रहणं समर्थं स्यात् । एकपदव्यभिचारोऽपि दृष्टं सामानाधिकरण्यं पृथिवी द्रव्यम्" इति चाशंक्योक्तम् "अन्यथा तं(तत्)पृथिवी द्रव्यमिति । अत्रोभयपदव्यभिचारः । प्रधानाङ्गभावस्य भेदेन पृथिवीशब्देन द्रव्यमप्युच्यते पृथ्वीत्वञ्च । द्रव्यशब्देन च प्रधानाङ्गविवक्षया*<५>* द्रव्यं द्रव्यत्वञ्च अत एवोभयपदव्यभिचारात्पृथिवी द्रव्यमिति युक्तमुक्तम् । इह पुनर्न युक्तं नान्तरीयकद(कार्थद)र्शनमिति । कस्मादर्थप्रत्यायनार्थत्वाच्छब्दप्रयोगस्य -- अर्थप्रत्यायनार्थं हि शब्दस्य प्रयोगमिच्छन्ति । नान्तरीयक इति चोक्तेऽर्थो गम्यते । अतो न युक्तोऽर्थशब्द इति । तद्विद इति न युक्तं नैवान्यथानान्तीयक (?) इति । न हि नालिकेरद्वीपवासिनो धूमदर्शनान्नान्तरीयक इति ज्ञानमस्ति । अतस्तद्विद इत्यपि न वक्तव्यम् ।" (न्यायवा. प्. ५४-५५) असन्त एव दोष इति ब्रुवाणश्चायमेवाभि(वमभि)प्रैति । समासान्तरपक्षभाविनस्तावद्दोषानभ्युपगममात्रेणैकप्रहारनिहताः । समानाधिकरणसमासस्त्वेकपद*<६>*व्यभिचारेपि दृष्टत्वान्नानुपपन्नः । तथा ह्यर्थो नान्तररीयकोऽपि स्यादनित्यलक्षणोऽनान्तरीयकोऽपि स्यात्नित्यलक्षणः । तत एकपदव्यभिचारादपि सामानाधिकरण्यमविरुद्धम् । अथ त्वन्मते नित्यो नामास्त्येव कल्पविपरिवर्ति तावदस्ति, तत एवैतदुपलप्स्यते । अन्यथायमनित्यध्वनिः कं व्यवच्छिंद्यात् ।बौद्धाभिमतस्य*<८>* च तथाभूतस्य क्षणिकत्वस्य केनचिदनिष्टेः तथाभूतव्यवच्छेदात्नैवाक्षणिकज्ञानवास्त्वित्यादौ प्रयोगेऽयमक्षणिकध्वनिः कं व्यवच्छिंद्यात् । अथ नान्तरीयक इति पूर्वमुक्तेऽर्थस्यावगतत्वात्किमर्थपदेन येनैवं समासश्चिन्त्येत । हन्ताकाशा[दि]शब्देनैव पूर्वभाविना द्रव्यादिरूपस्यावगतत्वात्किं द्रव्यादिशब्देन ये*<१>*[३३ ]न तत्रापि तथा समासः स्यात् । तदेवमादौ य एव ते परिहारः समाधिर्भ(स मेऽपि भ)विष्यति इति यत्किञ्चिदेतत् । यत्तु पृथिवी द्रव्यमित्यत्रोभयपदव्यभिचारं दर्शयित्वा सर्वत्रोभयपदव्यभिचारादेव समानाधिकरणः समासो भवतीति दर्शितं तद्योगः(तत्पापीयः) । आकाशद्रव्यं दिग्द्रव्यं कालद्रव्यम्, {प्. ३१९} सामान्यपदार्थः, विशेषपदार्थः, समवाय*<२>*पदार्थः षट्पदार्थः याचकपुरुष इत्यादौ उभयपदव्यभिचारस्य ब्रह्मणापि विभावयितुमशक्यत्वात्सामानाधिकरण्यस्य च दर्शनात् । न ह्येषामाकाशादीनां सामान्यं केनचिदप्यते संगच्छते वा येनाकाशादिशब्दानामाकाशाकाशत्वाद्यनेकार्थवृत्तित्वादुभयपदव्यभिचारे समानाधिकरणः समासः स्यात् । *<३>*नापि षण्णां किञ्चित्सामान्यमस्ति यस्याप्यभिध्याद(भिधानाद)यमप्युभयपदव्यभिचारो वर्ण्यते । न च याचकशब्देन कर्मापि तज्जातिरपि वाभिधीयते । अत्र चोपपत्तिरन्यत्राभिहितेति नोच्यते । न चाकाशद्रव्यं, सामान्यपदार्थः, याचकपुरुष इत्यादि कर्मधारयः समासो न*<४>* दृश्यते । किञ्च यथा पृथिवीशब्देन पृथिवी पृथिवीत्वञ्चोच्यत इत्युभयपदव्यभिचारात्पृथिवीद्रव्यमिति युज्यते वक्तुम्, तथा नान्तरीयकत्वं नान्तरीउअकश्च, अर्थशब्देनाप्यर्थत्वमर्थश्चोच्यत इत्युभयपदव्यभिचाराद्युक्तार्थ एव समासः । अथ त्वन्मते नार्थत्वाद्यस्ति । यदि नाम वास्तवं नास्ति तथापि कल्पितं तावदस्ति । तावतापि शब्दसिद्ध्युपपत्तेरुक्तप्रायमेतदिति किं बहुना? वस्तुवृत्त्याभावान्नान्तरीयकार्थो धूमो भवति । तस्य दर्शनं [६९.१२] नान्तरीयकार्थदर्शनमपि भवति । तत्र यदि तद्विद [६९.१२] इति नोच्येत तदा नालिकेरद्वीपायातस्य धूमदर्शनमनुमानमापद्येत ततस्तद्विद इति वक्तव्यमेव । न च नान्तरीयकोऽर्थ इति ज्ञानमे*<६>*व नान्तरीयकार्थज्ञानमित्युच्यते, येनैवमुच्येत । किंतु वस्तुतोऽनान्तरीयको यो न भवत्यर्थः, तस्य यद्दर्शनं तदपीत्यलमतिशब्दार्थपर्यवदातमतीनां वचन विधा(चा)रणयेति । प्रतिज्ञावचनं न युक्तमि[६९.१६]ति सम्बन्धः । कथमयुक्तमित्याशंकायां पक्षधर्मेत्या[६९.१६]दिकारणवचनम् । __________नोतेस्__________ [९६] पृ. २६०. पं. २३ [९७] नास्ति स्। [९८] अनित्यत्वस्य साधनभावेन कृतकत्वं धर्मः । न्यायवा. प्. ५४ ___________________________ संशयितादिक[६९.२५]मित्यत्रादि*<७>*ग्रहणेनाप्रतिपन्नस्य जिज्ञासोश्चावबोधः । सामान्यन्यायसिद्धामस्तिक्रियामपेक्ष्य मुक्त्वे[६९.२९]ति पौर्वकालिकः प्रत्ययः प्रत्येयः । संशयजिज्ञासादिक[७०.९]मित्यत्रादिशब्दात्प्रयोजनादिपरिग्रहः । तथामुनैवादिग्रहणेन पञ्चम्यन्तस्यापि हेतुप्रयोगस्य संग्रहः कार्यः । असति हि साध्याभिधाने कुत एतदिति हेत्वा*<८>*कांक्षाया एवाभावात् । साध्यसिद्धौ हेतोर्निमित्तत्वं कथयन्तीं पंचमीमुच्चारयन्तं कथमिव विचक्षणा तयाच(णा न प्रत्याच)क्षीरन्निति । दृष्टान्त एव वचनकर्मतां नीयमान उपसंहरणं तदपेक्षः उपसंहारो [७०.११] ढौकनं सत्त्वप्रदर्शनम् । दृष्टान्तदृष्टसामर्थ्यस्य हेतोरिति च प्रकरणाद्द्रष्टव्यम् । साध्यशब्देनोपचारात्साध्यधर्मीष्टः । [३४ ] *<१>*पष्ठीसप्तम्योरभेदाच्च साध्यधर्मिणीत्यर्थो बोद्धव्यः । इति[७०.१३]र्लक्षणस्य स्वरूपमाह प्रतिज्ञाया [७०.१४] लक्षणमित्यनुवर्तते । {प्. ३२०} तस्य प्रमाणवलायातस्यार्थस्य संप्रत्ययो [७०.२८]न्यथाशंकार्थाव्य(-काव्य)वच्छेदः तदर्थं यथा भवति । यदि प्रमाणानां व्यापारो निगमनेनोपसंह्रियते । तदैतद्युज्यते वक्तुम् । न चास्य तथात्वमित्याशंक्याह अशषे[७०.२८]ति चो[७०.२९] यस्मादर्थे*<२>* । व्यापारशब्देन व्यापारफलमभिप्रेतम् । ननु कानि पुनरत्र प्रमाणानि सन्ति यद्बलायातार्थोपसंहरणमस्य वर्ण्यत इत्याशङ्क्य परै एषामवयवानामेवं प्रमाणत्वरूपमाख्यातमित्याख्यातुं तथाही[७०.२९]त्यादिनोपक्रमते । उपरी[७१.४]ति प्रकरणादन्यकृतस्य नाम्न इति द्रष्टव्यम् । तथाहि ते कस्यचिद्राजपुत्रस्य महामात्रस्य वा*<३>* योगिनो(ना)न्येन सजातीयेन कृतं नाम श्रुत्वा अहोपुरुषिकया धनाशया चोदिता अन्यथा चा(वा) तदु[त्]साहवर्धनं नाम कृत्वा तल्लिखितुं प्रयुञ्जतेऽत एव नामलेखनमि[९९][७१.४]ति णिचा निर्दिष्टम् । अयुक्ततया निष्फलमपी[१००][७१.५]ति वास्तवानुवादोऽप्येष प्रकृतोपयोगी । बालप्रतारकञ्च तत्तदुपयोगवर्णनञ्चेति*<४>* तथा तल्लक्षणया [७१.१३] । वैयर्थ्यादि स्यादिति सम्बन्धात्प्रतिज्ञावचनस्ये[७१.२१]त्युक्तम् । __________नोतेस्__________ [९९] नामलेखने -- स् [१००] "अपि" नास्ति -- स् ___________________________ ननूद्योतकरोपवर्णितमस्य प्रयोजनमस्तीति कथं वैयर्थ्यमित्याह यत्तूक्तमि[७१.२२]ति । दत्तमुत्तरमि[७१.२३]ति । "तेनैव तावद्दर्शितेने"[६६.३]त्यादिनोक्तत्वादुक्तम् । यथोक्ते च स्वयमुत्तरमाह यश्चे[७१.२३]ति । तदभावे [७१.२७] प्रथमं साध्यल*<५>*क्षणकर्मनिरूपपणाभावे । स्वार्थानुमानदृष्टश्चे[७०.२१]त्यादिना च यदुपनयसमर्थनार्थं परेणोक्तं तत्प्रतिविधातुकाम आह यश्चाग्नी[७२.१]त्यादि । चो यस्मादर्थे । कदाचिदि[७२.४]ति यदा धूमं दृष्ट्वा तस्याग्निना व्याप्तिमनुस्मृत्य तं तत्त्वेन प्रत्यवमृश्य प्रत्येतीति । अस्य [७२.४] प्रत्यवमृश्य प्रत्ययार्थस्य । तदे[७२.४]त्याद्यु*<६>*त्तरम् । अथ तदन्तरेणापि यत्पक्षार्थप्रतीतेरविधानान्न तेन किञ्चिदिति ब्रूयात् । समानमिदं प्रकृतेऽपीति च बुद्धिस्थमस्यैवं ब्रूवतो द्रष्टव्यम् । प्रमाणव्यापारसमर्थनार्थञ्च यदुक्तं[१०१]तत्राप्याह । यत्पुनरि[७२.७]ति । न क्वचिदागमे पठ्यत [७२.९] इति ब्रुवता चागमप्रतिज्ञयोरेकविषयत्वादागमः प्रति*<७>*ज्ञेत्युच्यत इति ये वर्णयन्ति [ते] निरस्ताः । यो हि प्रतिज्ञयोच्यतेऽर्थः स एव चागमेप्युच्यते तदैव तत्स्यात् । न चैवमतो निरासः । __________नोतेस्__________ [१०१] प्. ७० पं.२९ ___________________________ {प्. ३२१} हेतुशब्देन गमकवचनं वाच्यम् । गमकञ्च त्रैरूप्यवल्लिङ्गम् । न च पञ्चम्यन्तेन तेन शब्देन लिङ्गस्य त्रैरूप्यमभिधीयते किन्तु पक्षधर्मत्वमात्रम् [७२.११] निमित्तभाव एव चेत्येवं व्*<८>*अदितुरभिप्रायः । एतेन तदपि विनिक्षिप्तं यत्कैश्चिन्निपुण(णं)मन्यैर्नैयायिकैरुच्यते, "प्रतिज्ञार्थं साधयितुं समर्थं पक्षधर्मत्वेनोपसंहर्तव्यं लिङ्गमनुमानं तदभिधायी शब्दो हेतुः सोऽप्यभिधेयस्य नियमहेतुत्वात्बाह्याङ्गं सामानाधिकरण्यं चाभिधानाभिधेययोरभेदविवक्षया साक्षात्पाररंपर्ये[३४ ]*< १>*ण चैकचिषयत्वादिति । "तावद्धि धूमादिवस्तु न लिङ्गं यावद्वह्न्यादिनान्तरीयकतया न निश्चीयते, धर्मिविशेषे च क्वचिन्नोपलीयते । तन्नान्तरीयकतया निश्चितं क्वचिदुपसंहृतं च साध्यसाधनसामर्थ्यं भवति नान्यथा । न च पचम्यन्तेन "धूमाद्" इत्यादिना शब्दे[न] तस्य तन्नान्तरीयकत्वं पक्षे च सत्त्वं कथ्यते । उदाहरणोपनययोर्वैयर्थ्यंप्रसङ्गात् । *<२>*तत्कथं प्रतिज्ञार्थसाधनसमर्थलिङ्गाभिधायित्वं तस्य शब्दस्य येन "तदभिधायी शब्दो हेतुः" इत्युच्यते, स तथा बाह्याङ्गमिति चोच्यते "हेतुरनुमानम्" इति सामानाधिकरण्यं तथा कल्पेतेति । प्रत्यक्षेण साध्यसाधनयोर्व्याप्तिस्तत्र गृह्यत इति दृष्टान्तः प्रत्यक्षोऽभिप्रेतः । अत एवायं न सर्वः प्रत्यक्ष [७२.१२] इति । नैव स*<३>*र्वत्र दृष्टान्ते प्रत्य्क्षेण साध्यसाधनयोर्व्याप्तिर्गृह्यते । यथा भवन्मत एव नित्य आत्मा सत्तासम्बन्धित्वे सत्यनाश्रितत्वात्, परमाणुवदित्यत्र दृष्टान्ते नित्यत्वं सत्तासम्बन्धित्वे सत्यनाश्रितत्वं यौ धर्मौ तयोर्व्याप्तिरनुमानेन गृह्यत इत्यभिसन्धिः । अनेनैतदपि प्रत्युक्तं यत्तैरेवनैयायि*<४>*कप्रवरैरुच्यते -- "साध्यसाधनयोर्व्याप्तितो विषयो दृष्टान्तः । तत्र प्रत्यक्षेण व्याप्तिं गृहीत्वा पश्चादुदाहरति । तेन प्रत्यक्षं नियामकमस्तीति" । उदाहरणमपि वाक्यस्य भागान्तरमिति प्रत्यक्षेण व्याप्तिग्रहणस्यासर्वविषयत्वात्क्वचिद्भावात्तथाभिधाने च तत एव दृष्टान्तोऽनुमान*<५>*मित्यभिधीयेतेति । तस्य तदातिरिक्तार्थग्रहणाभावादित्यभिप्रायेण उपमानं तु प्रमाणमेव न भवती[७२.१३]त्याह । एतच्च बहुबाध्य(बहुवाच्य)मन्यत्रोक्तमिति नेहोक्तम्, सिद्धस्त्वर्थोऽनूदितः । अनयैव च द्वारा यदुच्यते तैरेव "यथातथेति दृष्टान्तदार्ष्टान्तिकयोः सारूप्यप्रतिपत्तिरुपमानमतिदेशेवाक्य*<६>*ता, पक्षधर्मत्वग्राहिप्रमाणवचनमुपनयः । अत्राप्युपमानं नियमहेतुत्व(त्वं) धर्मिणि वा साधनधर्मस्य संभवं बोधयदसंभवं निवर्तयति यत्प्रमाणं तन्नियामकमस्तीति उपनयोपि नियमहेतुमत्त्वाद्भागान्तरम्" इति तदपि प्रत्याख्येयं द्विविधस्यास्य वर्णितस्योपमानस्याप्रामाण्यादेव*<७>* कथं नियामकम्? येनोपनयनस्य नियमहेतुकसिद्ध्या {प्. ३२२} भागान्तरत्वं सिद्ध्येत् । धर्मिणि च साधनधर्मस्य सम्भवं परिच्छेद(च्छिद्य) प्रत्यक्षमनुमानं वासंभवं निवर्तयतीति अत्रापि प्रत्यक्षं नियामकमस्तीति दृष्टान्तवदुपनयोपि प्रत्यक्षमिति वक्तव्यः । क्वचिदनुमानस्यापि तथात्वादनुमानमित्यपीत्यलमतार्किकवचननि*<८>*र्बन्धेन । तद्व्यापार [७२.१४] उपमानरूपोपनयव्यापारः । स एवो[७२.१६]पनय एव । स्यादेतद्-- अनित्यः शब्द इत्युक्ते कुत एतदिति श्रोतुरपेक्षोपजायते । न तु धर्मिणि लिङ्गस्य सत्त्वो(सत्त्वा)पेक्षा । तस्मात्प्रतिज्ञानन्तरं परापेक्षितसाध्यप्रतिपत्तिरपि तु प्रति(पत्तिहेतुप्रति)पिपादयिषया पञ्चम्यन्तस्य तदभिधायिनः शब्दस्य प्रयोगो न तु ध[३५ ]*< १>*र्मिणि लिङ्गस्य सत्त्वप्रतिपादनार्थः । ततो न तस्य पक्षधर्मताप्रतिपादनं प्रयोजनमिति कथं पक्षधर्मत्वं स एव दर्शयिष्यतीति न किञ्चित्तेनेत्युच्यमानं शोभेतेति । अत्रोच्यते । अनित्यः शब्द इति प्रतिज्ञोपादानेपि तदनन्तरमेव यद्यद्कृतकं तत्सर्वमनित्यम्, यथा घटस्तथा चायं कृतक इत्युक्ते साध्यप्रतीतौ किं निमित्ताकांक्षोपश*<२>*मो नास्ति? येन पञ्चम्यन्तस्य लिङ्गाभिधायिन एव तदुपशमः प्रयोजनं वर्ण्येत । यदि सत्यवादी भवान्नैवं वक्तुमर्हतीति । किञ्च यो यस्मिन् किञ्चिद्निमित्तभावमपेक्षते न स तत्र शशविषाणायमानस्य तत्त्वमपेक्षते । अपि तु तत्र सत एवेति कथं शब्दानित्यत्वसिद्धौ कस्यचिन्निमित्तावमपेक्षितवता सत्त्वं नापेक्षितम् । येन *<३>*परानपेक्षितं सत्त्वं प्रतिपादयितुं न तन्निमित्ताभिधायिनः शब्दस्य सामान्य(मर्थ्य)मस्तीत्युच्येत तस्माच्छब्दादौ धर्मिणि लिङ्गस्य साध्यसिद्धौ निमित्तभूतसत्त्वप्रतिपादनं हेतुप्रयोगस्य प्रयोजनमवश्यैषितव्यम् । य(त)च्चोपनयेनापि शक्यं संपादयितुमिति साधूक्तं किं[१०२]तेने[७२.१७]ति । __________नोतेस्__________ [१०२] न किञ्चित्तेन स्। ___________________________ संप्रति निगमने यथाश्रुति *<४>*दूषणमाह -- यत्र[१०३]प्रतिज्ञाया [७२.१८] इति । अथापि स्यान्नायं पुनः शब्दः [अ]प्रथमे किं तर्हि सादृश्ये, यथा "अचिरप्रभा पुनर्निश्चरति" इत्यत्र । सादृश्यञ्च कियद्रूपेणास्त्येव । यद्वा यद्यपि सिद्धनिर्देशो निगमनं साध्यनिर्देशश्च प्रतिज्ञा, तथापि यस्यैव प्रतिज्ञायां साध्यत्वमासीत्तस्याइव निगमने सिद्धत्वमित्यवस्था*<५>*वन्तमेकमाश्रित्य समानविषयतया निगमनं प्रतिज्ञेत्युपचर्यते तथा च पुनर्वचनमप्युपपन्नमिति । न चैतन्निगमनं निष्प्रयोजनमाशंकनीयम्, साध्ये विपरीतप्रसङ्गप्रतिषेधार्थत्वादस्य । तदुक्तं "साध्यविपरीतशंकाव्यवच्छेदार्थं निगमनमिति" । यद्यपि च लिङ्गमाश्रयवत्साध्याविनाभावि च*<६>* प्रतिज्ञादिभिरवयवैराख्यातं तथापि निगमनमन्तरेण व्यापकविरुद्धप्रसंगाशंका स्यात् । {प्. ३२३} अन्यदेव हि दृष्टान्तधर्मिणि साध्यं यत्साधनधर्मस्य व्यापकमासीत् । अन्यदेव च धर्मिण्यनित्यत्वं तच्च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्यमानः साध्यविरुद्धमब्यापकत्वेन विशेषा*<७>*भावान्मूढमतिर्नित्यत्वमपि धर्मिणि प्रसञ्जयेत् । तथा च सति साध्यविपर्यये हेतोर्वृत्तिशंकायां बाधकं प्रमाणं तदेव वाच्यं यदुदाहरणस्थयोः साध्यसाधनयोः प्रतिबन्धग्राहि । अतएव तस्मादित्यनेन सर्वनाम्ना प्रतिबद्धं लिङ्गं साध्यविरुद्धशंकां निवर्तयितुं प्रकृतत्वात्प्रत्यवमृष्यते । तस्माद्विपर्ययशंकानिवर्तकप्रमाणोपस्थाप*<८>*कं निगमनं साध्ये विपरीतप्रसङ्गप्रतिषेधार्थं भवतीति । तदेतन्नैयायिकप्रवरस्य प्रकृष्टं प्रज्ञास्स्वलितविलसितम् । तथा हि साध्ये निर्दिष्टे हेतौ चाभिहिते डृष्टान्ते चोदाहृते दृष्टान्तदष्टसामर्थ्ये च हेतौ साध्यधर्मिण्युपनीते कः सचेतनो "येन विना यो न भवति धर्मः स भवंस्तदभावमप्युपस्थापयति" इति निश्चीन्वीत संशयीत वा येन [३५ ] *<१>*विरुद्धप्रसङ्गशंकानिराकरणाय निगमनमभिधीयेत । न चायमनुन्मत्तोऽनित्यत्वे द्वे षस्यति(पश्यति) येनान्यदेव दृष्टान्तधर्मिणि साध्यमनित्यत्वमन्यदेव च साद्यधर्मिण्यनित्यत्वे तच्च साधनधर्मस्य व्यापकं न भवतीति अव्यापकस्य सिद्धिं मन्येत यतो ()व्यापकत्वेन विशेषाभावात्तनित्यत्वमपि धर्मिणि प्रसञ्जयेत् । न च विशेषेण व्याप्तिमसावग्र*<२>*ही[दि]ति, विशेषेण व्याप्तेरवासम्भवात् । तथा चोक्तं -- "व्याप्तिः सामान्यधर्मयोः" इति । अन्यथा सत्यपि तस्मिंस्तदाशंके(का) नापाक्रियेत । एतेन सप्रतिपक्षत्वशंकानिराकरणत्वं तत्प्रयोजनमिति यत्कैश्चिदुपवर्ण्यते तदपि परास्तमवसेयम् । अथ मोहमाहात्म्यादेवमपि संभाव्यत इति चेत् । अपयातं तर्हि पञ्चावयवत्वं वाक्यस्य । *<३>*सम्भवत्यपि कश्चिन्मूढतरमतिर्यः पञ्चावयवेऽपि वाक्ये प्रयुक्ते नानित्योपीति वचनमन्तरेण शब्दस्यानित्यत्वं नियतं न प्रत्येति । अस्ति च दिगम्बराणांविप्रतिपत्तिः -- स्यान्नित्यः शब्दः स्यादनित्य इति । तद्भावव्युदासाय नानी(नि)त्योपीत्यपि किं नोच्यत इत्यलमतिविस्तरेण निष्प्रयोजनकत्वेन । निगमनस्य वाक्याङ्गत्वे*<४>* निरस्ते प्रथममुपदर्शितं यदुभयेषां मतं तदरण्यानीरुदिततुल्यं जातमिति किं तत्रोक्तेनेति । ज्यायान् [७२.२१] श्रेष्ठतरः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा यस्य स तथा तदात्मकः [७२.२१] सामस्त्यनिषेधश्चैष द्रष्टव्यः । हेतुरि[७२.२५]त्यभिधानाभिधेययोरभेदविवक्षया साक्षात्पारम्पर्येण एकविषयत्वाद्वा*<५>* पक्षधर्मत्वाभिधायी शब्दो द्रष्टव्यः । हेतुश्चैवानुवाद्येनात्मना प्रतिपाद्यमानो व्याप्यरूपः प्रतिपादिनो भवतीति प्रथमान्तेन तदभिधायिना शब्देन प्रतिपाद्यते । अतः प्रथमान्त एव तदभिधायी शब्दो न्याय्यः । हेत्वभिधायिशब्दमात्रापेक्षया तु पूर्वापरनियमखन्डनमाचार्यस्य द्र*<६>*ष्टव्यम् । __________नोतेस्__________ [१०३] यत्र च प्रतिज्ञाया स्। ___________________________ {प्. ३२४} साधनधर्मस्य साध्यस्वभावताया एवे[७३.१२]ति स्वभावहेत्वधिकारेण विवृतम् । कार्यहेतुना व्यभिचारमाशंक्य कार्यस्ये[७४.६]त्याह । तेन [७४.७] प्रतिबन्धेन । तयो[७४.७]रन्वयव्यतिरेकयोः ।[१०४]तदभावख्यातिः [७५.७] तदभावज्ञानम्, नियतं ख्यापयतश्चायमभिसन्धिः । तत्तुल्य एवास्तीत्यभिधानेऽतत्तुल्ये सर्वत्रान्यस्मिन् विरुद्धेऽसति च *<७>*नास्तित्वं लक्षणान्तरमिति प्रसङ्गे नियमार्थमित्येव नास्तित्वं रूपं तृतीयं न पुनर्विरुद्धे अन्यत्र [७५.८] चेति दर्शयितुमसत्येवेत्युक्तं सूत्रकारेणेति । विरुद्धत [७५.८] इति सहस्थितलक्षणेनैव विरोधेन विरुद्ध्यत इति । कथं नानुष्नाशीतादपी[७५.१६]त्याह अन्यतो [७५.१६] विपक्षाद्व्यवच्छेदस्याभावस्य प्रसङ्गादि[७५.१६]ति । इति [७५. १६] दोषस्याकारं दर्शयति । तस्य [७५.१९] तदभाव*<८>*स्य । अन्यमिच्छतामि[७५.२१]त्यभिसम्बध्यते । तथा परस्परपरिहारस्थितलक्षणेनापि[१०५][७५.१३] विरोधेन विरुद्धमित्यपि द्रष्टव्यम् । __________नोतेस्__________ [१०४] हेतोरभावख्यातिः स् [१०५] -लक्षणतयापि स् ___________________________ अभिधातो [७३.१५] वेगवद्द्रव्यसंयोगविशेषोभिमतः । अभिधाताग्निसंयोगादेव नाशप्रत्ययौ [७६.१५] तयोः सन्निधिः [७६.१६] तं विना विनाशो न घटादिभिः संसर्गतां [७६.१६] याति । तदनपेक्षालक्षणं बाधकम् [७६.२६] । प्रसङ्गमुखेन [७६.२६] परोपगमसिद्ध [३६ ]*<१>* पक्षधर्मताद्वारेण । विपञ्चयितुमि[७७.१]ति ब्रुवाणेन चाधिकप्रतिपादनार्थमुक्तमेवोच्यमानमनुवाद एव न तु पुनरुक्तमिति दर्शितम् । आकाशादिनित्यद्रव्यापेक्षया देशकाल[७७.२]ग्रहणं दृष्टान्तार्थं द्रष्टव्यम् । तेनायमर्थो यथा नित्यानाममीषां देशकालनियमो नास्ति तथा शब्दगुणत्वादिस्वभावनियमोपि न युज्यत इति दृष्टान्तार्थम् । देशस्वभा*<२>*वनियमायोग[७७.५]स्तु दार्ष्टान्तिकः । एकाङ्गवैकल्यात्[७७.३] सत्त्वलक्षणैकाङ्गहीनत्वात् । तदात्मतां [७७.५] क्षणिकत्वस्य प्रकृतस्याकृतकसदात्मतां प्रति [७७.५] । शास्त्रकार[७७.५]शब्दः प्रकरणात्कीर्तिपादेषु द्रष्टव्यः । सत्त्वस्य क्षणिकस्वभावतां प्रतिपादयिष्यती [७७.९]ति सम्बन्धः । वस्तुस्थित्यैव [७७.७] वस्तुवृत्त्यै न परोपगमबलेनेत्यर्थात् । अभावप्रसङ्गेन*<३>* [७७.९] प्रकरणाद्विनाशसद्भावप्रसङ्गेनेत्यवसेयम् । {प्. ३२५} पूर्वाचार्योक्तं [७७.११]दिङ्नागपादोक्तं तं प्रत्यनपेक्षत्वं ख्यापयितुमुपक्रमत [७७.१२] इति सम्बन्धनीयम् । तं [७७.१२] परेष्टं प्रति । वस्तुगतौ [७७.२५] वस्तुप्रकारे तदात्मा [७८.१] निर्वृत्तस्थिरात्मा । तस्य [७८.१] अन्यथाभावस्य । प्रसङ्गात्[७८.२] हेतोः । तस्यैव [७८.२] स्वहेतुतः स्थिररूपतया निर्वृत्तस्यैव अन्यथात्वायोगा*<४>*थेतोः । तत्र [७८.३] हेत्वगते स्थिररूपे हेतुव्यापारस्य [७८.३] कल्पयितुमशक्यत्वाच्च [७८.३] नान्यथाभावस्तदात्मा शक्यते कर्तुम् [७८.१] । तस्य विनाशस्य स्वभावस्तत्स्वभावस्[७८.५]तमेव । लक्षण[७८.११]शब्दो रूपनिबन्धनः । स्वलिङ्गेन चस्यावस्थानं कृतम् । तस्य [७८.१६] भावान्तरशून्यभावान्तररूपस्य । सर्वरूपशून्यस्य ह्यभावस्य हे*<५>*तुस(म)त्ता विरुध्यते न त्वस्येति भावः । यदीदं भवतामपीष्टं तर्हि कस्मादस्मन्मतं नाभ्युपेयत इत्याह -- किंत्वि[७८.१९]ति । तदुत्पत्तौ [७८.२४] प्रध्वंसरूपभावान्तरोत्पत्तौ । एतस्मिन् पराभिप्रायेप्येवं ब्रुवाणो नियतमेवं [७८.२६] वक्ष्यमाणकं मन्यते [७८.२३]वार्तिककार इति चार्थात्सर्वस्येन्धनादेः [७८.२६] तथाभावः प्रध्वस्तत्वं *<६>*गवादेस्तथाभावः [७८.२७] प्रध्वंसरूपत्वमिति द्रष्टव्यम् । द्वयमप्येतद्यत्रकुर्वन् (?) परः प्राह । तस्मिन् सती[७९.१]ति । अनेन दृश्यमानाङ्गारादिभावेन सर्वमिन्धनादि निवर्तत इति न सर्वस्य प्रध्वस्तत्वं नापि गवादौ सतीन्धनादि निवर्तत इति न गवादेः प्रध्वंसरूपतेति परेण दर्शितम् । अस्य [७९.७] अङ्गारादेः । ध्वंसंते [७९.१३] ध्वंसमुपयान्ति विनश्यन्तीति यावत् । दीपापेक्षयाव्यक्तता द्रव्या(बुद्ध्य)पेक्षया आत्मभावः । भावरूपाव्यक्तताभाव [७९.१५] इति ब्रुवाणस्तथात्मकाभावरूपता यावद्व्यवस्थाप्यतामभावैकरसत्वात्प्रतिपत्तेः । न तु भावरूपाव्यक्ततापत्तौ प्रमाणमस्तीति दर्शयति । एतदेव दर्शयन्नाह यदि ही[७९.१६]त्यादि । अत्रापि [७९.१९] उपलब्धियोग्यताविकलरूप*<८>*तापत्तौ । पर्युदासेने[८०.३]त्यस्य विवरणं विवक्षितादि[८०.३]ति । सन् बोधगोचरप्राप्तोऽवधिज्ञानविषयतापन्नः तद्भावे [८०.१२] वह्न्यादिभावे नश्यन्निति । "लक्षणहेत्वो[ः] क्रियायाः" (पा. ३.२.१२६) इति हेतौ शतु(?)र्विधानाद्धेतुपदमेतत् । {प्. ३२६} ननूक्तया नीत्या नाशस्य तत्कार्यतोपपत्तेः कथमेतदाचार्येणोक्तमित्याशंक्याह अयमभिप्राय [८०.१६] इति । स्यान्मतं प्र[३६ ]*< १>*तीतिविषयोपि न च तत्र प्रतीतिलक्षणार्थक्रियाकारी । यथा साध्याभावे हेत्वभावरूपो व्यतिरेको विकल्पेन प्रतीयमानः न विकल्पस्य । कारकश्च कथमुच्यते? न ह्यकारणं विषयो अतिप्रसङ्गादिति । नैतदस्ति साक्षात्कारप्रवृत्तज्ञानाभिप्रायेण तदुक्तेर्न तत्र व्यभिचारोऽस्ति । अनेनापि च तथाविधज्ञानविषयेणावश्यभाव्य[म]न्यथा *<२>*प्रत्यक्षानुपलम्भनिबन्धनः कार्यकारणभावः कथं व्ययस्थाप्येत अत एवाह[१०६]तद्विषयस्य [८०.२४] वा कथं हेतुमत्तावगतिरिति वा सामर्थ्य[१०७]समंगिता सामर्थ्ययोगिता भावता [८०.२७] वस्तुता, अत्यन्तपरोक्षाणम् [८१.७] असर्वज्ञापेक्षया सर्वदा परोक्षाणाम् । तर्हिशब्दार्थश्चात्र प्रकरणाद्द्रष्टव्यः । ज्ञानहेतुरूपतया [८१.८] अनुमानसिद्धयेति विवक्षितम् । *<३>*अनेन ज्ञातहेतुरूपतया प्रतिभासनये चामीषां प्रतिष्ठितेन रूपेण प्रतिभासनमिति परेण दर्शितम् । ने[८१.८]त्यनेन [अ]भावस्य प्रतिष्ठितरूपावभासनाभावं परेणेष्टं निवर्तयति । भवितृरूपत्वेन प्रतिभासनमेव शशविषाणाद्यपेक्षयास्यापि [८१.८] प्रतिष्ठितरूपावभासनमिति सिद्दान्तिनापि दर्शितम् । सर्वसामर्थ्य्शून्यतालक्षणेनाभावे दोषान्तरमन्वाचिन्वन्नाह सर्वरूपविवेकस्य चेति [७१.९] । उन्मज्जनं [८१.१०] प्रकाश्यं यच्च चक्षुरादीनां प्रतिष्ठितरूपावभासनसद्भावावबोधार्थं तेषां ज्ञानहेतुरूपतया प्रतिभासनादिति परेणेरितं तदभावेपि शक्यं*<५>* वक्तुम् इति दर्शयन्नाह ज्ञानविषयतयेति [८१.११] । पूर्वं त्वत्र गजनिमीलिकां कृत्व अन्यदुक्तम् । अस्याप्य[८१.११]भावस्यापि तद्धेतुरूपतयावभासनस्य तुल्यत्वात्[८१.११] । चक्षुरादि(दे)रिति प्रकरणात् । यदि नामास्य ज्ञानविषयता तथापि न तद्धेतुता तत्कथं तद्धेतुरूपतयावभासनं तुल्यमुच्यत इत्याह अहेतोश्चे[८१.१२]ति । *<६>*एतच्च पूर्ववद्बोद्धव्यम् । यद्यभावो नाम नास्त्येव भवन्मते तर्हि अमूरभावबुद्धयः कमालम्बेरन्नित्याह -- अस्माकं त्वि[८१.१२]ति स्ववासनापरिपाकान्वया [८१.१२] इति हेतुभावेन विशेषणम् । तद्व्यतिरेकि [८१.१९] ततो निवृत्तं तदभाववदिति यावत् । संस्पृश्येत [८१.१९] गृह्येत तत्पर्युदासेन [८१.१९] निवृत्त्यवधिव्युदासेन । सदिति प्रत्य*<७>*याविषयस्य न भावतेति ब्रुवता यदसदात्मकत्वमस्योपगतं तत्र किं स्वरूपेणासन् किं वा पररूपेणेति पक्षयोरेकं भावं दूषयितुमाह -- न चास्ये[८१.२४]ति स्वरूपेणा[८१.२४]नपेक्षितभावान्तरसंसर्गेण तुच्छरूपेणाप्यसतो [८१.२४]किञ्चिद्रूपस्य । न च {प्. ३२७} भावाभावयोर्यौगपद्यमुपपद्यते कदाचित् । न हि जीवत एव मरणमिति घता*<८>*मण्चतीति भावः । ध्वंसेन विनाशश्च क्रियमाणः किं तदात्मा ततोऽन्यो मृषा भावान्तररूपो वा तुच्छरूपो वेति तत्र ये विकल्पाः तत्र तृतीयस्मिन् विकय्यं भवतु[१०८]चायं [८१.२६] ततस्तद्भावेपि निमित्तीस्यादि(किमितीत्यादि)दूषणपरिहारयोराभीक्षण्ये चानवस्थावभि(स्थाभि)प्रायवानाह ततश्चानवस्थेति [८२.६] । अत इन्धनादेर्निवृत्तेः । कथमिति सिद्धान्ती । तद्भेदा[८२.८][३७ ]*< १>*द्धेतुभेदात् । दृष्टं चैतत्सर्वत्र सहेतुकेऽन्यत्रैति दर्शयन्नाह शाली[८२.९]त्यादि ।[१०९]एकरसस्यै[८२.१३]कस्य भावस्य । संक्षेपेणैतदत्रानेन विचारितम् ।क्षणभङ्गसिद्धौ तु विस्तरेण ततश्च विस्तररुचिन तत एवावगन्तव्यम् । साप्यस्मदीयाक्षणभङ्गसिद्धिरपेक्षितव्येति अभिप्रायवानाह विस्तरतश्चे[८२.१४]ति । स्यादेतत्"न भवत्येव केवलम्" इत्यनेन*<२>* किमग्न्यादिसंयोगकाले तस्य स्वरूपाभावः प्रतिपाद्यते किं वा तदनुवृत्तिः । न तावत्तदनुवृत्तिरक्षणिकत्वप्रसङ्गादशब्दार्थत्वाच्च । अभावप्रतिपादने च पूर्वोक्ता दोषाः प्रसज्येरन्निति । नैष दोषः, अनया हि वचनभङ्ग्या परसंकुचितकालस्थाप्युत्पत्तिकाल एव स द्वितीये क्षणे न किञ्चिदिति यद्रूपं भावस्य तत्प्रतिपाद्यते*<३>* । न तु किञ्चिद्विधीयते । अत एवाह नास्याभवनमन्यद्वा भवतीति [८२.१८] । मा भूदग्निसंयोगादिर्नाशस्य कर्ता किं नश्च्छिनं यदि परहेतुरस्ति -- इत्याह [अ]कर्तुरहेतुत्वमि[८२.२२]ति । स खलु तस्य कर्त्ता व्ययते(पठ्यते) यः प्राग्भावी सन्नर्थान्तरं स्वान्वयव्यतिरेकावनुविधापयति यथा चक्षुरादि विज्ञानस्य । तथाभूतस्यान्वय*<४>*व्यतिरेकानुविधापनमेव हेतुत्वम्, तद्भावे भावस्य तदभावे चाभावस्य हेतुलक्षणत्वात् । अग्न्यादिभावे च भवनधर्मणः कस्यचिद्भा(चिदभा)वात्कर्तृत्वाभावे कथमिव तल्लक्षणं हेतुत्वमेव संगम्यत इति चैवांवदितुरभिप्रायः । [१०६] तदविषय स् [१०७] सम्बन्धिता [१०८] वायं स् [१०९] एकरूपस्य स् ___________________________ सू[११०]च्यग्रेषु स्थातुमशक्तः सर्षप [८२.२६] इति योज्यम् । यथायोगं सम्बन्धः *<५>*हेत्वन्तरापेक्षितत्वं तद्विरुद्धं चानपेक्षित्वम् । तेन च प्राप्तं(व्याप्तं) स्।तत्स्वाभाव्यमिति । __________नोतेस्__________ [११०] सूभ्यग्रे-स्था स् ___________________________ अवकाश[८३.१५]शब्देनावकाशवद्वचनं विवक्षितम् । तेनावसरप्राप्तं वचनमाशङ्क्येत्यर्थो बोद्धव्यः । एवमन्यत्राप्येवंविधे प्रयोगे ज्ञेयम् । दृष्टान्तादागतो दार्ष्टान्तिकः[१११][८३.२१] । कुशूलशब्देन घटादिरचित आधारविशेष उच्यते । तदादाववस्था[८३.२३]वस्थानं यस्य स तथोक्तः । __________नोतेस्__________ [१११] कं स् ___________________________ {प्. ३२८} अवस्थानामिव [८४.१८] आत्मनः प्रातिस्विकरूपस्य तद्भेदे[८४.१९]वस्थाभेदे । कथंचित्[८४.२४] केनापि प्रकारेणाभेद इत्यर्थस्य रखलद्गतिपदमेवैतत् । तनोर्भेदादेव भेदप्रसङ्गो [८४.२६] भिन्नरूपताप्रसङ्गः । तद्वद[८४.२६]भिन्नरूपावस्थातृवत् । अभेदस्य वा [८४.२६] प्रसङ्ग*<७>* इति प्रकृतत्वाद्योज्यम् । ननु यदि भेदाभेदौ चैकान्तिकौ स्यातां स्याद[न]न्तरोक्तो दोषः । यावता तयोरपि केनचिद्रूपेण भेदः केनचिदभेद इत्याशंकमान आह -- तयोरपी[८४.२६]ति । तयोर्भेदाभेदयोः, अवस्था च तद्वानवस्थावांश्च तयोरात्मानौ तयोश्च । तस्याप्य[८५.१]भेदनिमित्ततयेष्टस्यापि रूपान्तरस्य । *<८>*ताभ्याम[८५.१]वस्थातद्वद्भ्याम् । [८५.१] अन्यथा यदि ताभ्यां तस्याभेदनिमित्तस्य रूपान्तरस्य कथञ्चिद्भेदो न स्यादैकात्म्यं यदि स्यादित्यर्थः । स चासावभेदनिमित्तैकस्वभावश्चेति तथा तस्मात्[८५.१] । भेदाभेदावि[८५.२]ति वदितुश्चायमाशयः -- एकात्म्यपक्षे अभेदनिमित्ते रूपान्तरे वा ताभ्यामवस्थातद्वद्भ्यामनुप्रवेष्टव्यं तयोर्वा [३७ ] *<१>*तेनाभेदनिमित्तेन रूपान्तरेण । तत्र यदि तयोरभेदनिमित्ते रूपान्तरे अनुप्रवेशस्तदाभिन्नरूपमात्रस्य भावादवस्थातद्वतोरभेद एवेति भेदस्य वार्तापि न स्यात् । अथ तस्याभेदनिमित्तस्य रूपान्तरस्य तयोरनुप्रवेशस्तदावस्थातद्वन्तावेवावस्थितावित्यपगतमभेदेनेति । एवं तर्हि तस्यास्तु ताभ्यां कथञ्चिद्भेद इत्याह -- *<२>*रूपान्तरस्ये[८५.३]ति । कथञ्चित्त[८५.३]देताभ्यामिति तु प्रकरणात् । तन्निबन्धनं [८५.३] रूपान्तरस्य ताभ्यां किञ्चिद्भेदनिबन्धनम् । यथा पूर्वं तथास्याप्य[८५.४]पररूपस्य । तदन्यत्[८५.४] कथञ्चिद्भेदनिबन्धनम् । अयमस्य भावः -- तस्यापरस्य रूपस्य तेभ्योऽवस्थातद्वद्भेदनिमित्तरूपान्तरेभ्यः कथञ्चिद्भेदोन्यथा तदपरैकस्वभावादत्यन्त*<३>*मभेदादवस्थावस्थात्रभेदनिमित्तरूपान्तराणां प्राक्तनेन न्यायेनत्यंतं भेदाभेदौ प्रसज्येयाताम् । अतस्तेभ्यस्तस्य कथञ्चिद्भेदेऽवश्यैषितव्ये तन्निबन्धनमपरस्यापि रूपस्यापरं रूपमुपैतव्यमिति । तथा तदन्यत्राप्येवमेवेत्यपरिमितरूपतैवैकस्य [८५.४] स्यात् । तस्मा*<४>*दि[८५.६]त्यादिना प्रकृतमुपसंहरति । तद्बाधां [८५.१०] प्रत्यक्षबाधाम् । अनेनैतद्दर्शयति । न प्रत्यक्षा सती प्रत्यभिज्ञा बाध्यते किंतु बाध्यमाना प्रत्यक्षाभासा सेति । एतच्चोपरिष्टादभिधास्यते ।[११२]अनेकान्तोऽनिश्चयो भवेत्[८५.१२] । अनिश्चयफलत्वं संशयहेतुत्वं स्यादिति यावत् । __________नोतेस्__________ [११२] अनैकान्तिकता भवेत्स्। ___________________________ एतदेव [८५.१४] जनकाजन*<५>*कत्वमेव ।[११३]धर्म(र्मि)लक्षणस्या[८५.१७]वस्थातुरित्यर्थः । __________नोतेस्__________ [११३] धर्मिलक्षणस्य । स् ___________________________ {प्. ३२९} न चा(चे)यमवस्था कार्यविज्ञानातिरिक्तं ज्ञानं जनयति येन ज्ञानलक्षणायामर्थक्रियायामस्योपयोगात्सामर्थ्यं कल्प्येत्यभिप्रायेण सर्वसामर्थ्यविरहलक्षणस्ये[८५.२२]त्यवोचदिति । अनुभावादि[८५.२४]ति, हेतौ शतुर्विद्यानाद्बाधानुभवादि*<६>*त्यर्थः । बाधासद्भावाद्"बाधवर्जितम्" इति सामान्यप्रमाणलक्षणस्याभावं प्रतिपाद्य विशेषलक्षणस्याप्यभावं प्रतिपादयितुं तत्प्रतिभासिनिश्चे[८५.२५]त्यादिनोपक्रमते । एकरूपाभावे कथं तत्त्वाध्यवसायः स्यात्सर्वेषामित्याशङ्क्यान्यथैवास्योपपत्तिमुपसंहारव्याजेन दर्शयन्*<७>* आह -- तस्मादि[८६.३]त्यादि । सदृश[८६.३]शब्देन निरन्तरसदृशं विवक्षितम् । तेन निरन्तरस्य सदृशस्यापरस्य भाव[८६.३]स्तन्निरन्तरनिबन्धनेत्यर्थः । केशादिषु लूनपुनारूढेष्वित्यर्थादवसेयम् । आकारसाम्यमात्रेणापहृतं प्रकरणात्यथात्वनिश्चयायोग्यीकृतं हृदयं [८६.४] चेतो येषां तेषाम् । ननु यदि आकारस्य साम्यं*<८>* सादृश्यं नाम त्वन्मते किञ्चित्स्यात्तन्मात्रापहृतहृदयाः प्रत्यभिजानीयुः । न चैतदस्ति, तत्कथमेवमुक्तमित्याह न चे[८६.८]ति । "एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदेऽपि नियताः केचित्स्वभावेनेन्द्रियादिवत् ॥" [प्रमाणवा. ३.७२] इत्यादिना विपञ्चितत्वादेवमुक्तम् । तेषु [८६.१७] भावेषु । त्रयाणामपि रूपाणां प्रमाणसिद्धत्वात्[३८ ] *<१>*स्वतंत्रहेतुरियं व्यापकानुपलब्धिः [८७.७] । अनेन [८७.९] प्रत्यभिज्ञानेन प्रत्यक्षरूपेण अनिश्चिते[८७.१०]त्यादि प्रतिविधानम् । तावदस्य बाधकत्वं न भवति यावत्प्रत्यभिज्ञानस्याप्रामाण्यं न सिद्ध्यति, अन्यथा अनेनैव बाध्यमानविषयत्वादस्य कथं प्रामाण्यं येन बाधकत्वं स्यात्? तावच्च तस्याप्रामाण्यं नोपपद्यते यावदनुमानस्यास्य प्रामाण्यसिद्ध्याबोधकत्वं न सि*<२>*द्ध्यति । इतरथा बाधवर्जितत्वादिलक्षणसम्भवे प्रामाण्याप्रच्युतिरितीतरेतराश्रयत्वं दोष इत्याशङ्क्यमानमाह नापी[८७.१०]ति । अनुमान[८७.११]शब्देनोपचाराल्लिङ्गमभिप्रेत्य स्वसाध्यप्रतिबन्धादि[८७.१२]त्याद्युक्तम् । यदि वा लिङ्गस्येत्यध्याहार्यमवचने च प्रमाणलक्षणयुक्ते बाधसम्भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानाश्वास इत्याभि*<३>*प्रायः । {प्. ३३०} नैवं ब्रूमहे [८७.१७] किन्तु प्रत्यक्षाभासा सती चार्थादवतिष्ठते । अनुमानस्य विरोधो बाधस्तमश्रुवाना [८७.२०] व्याप्नुवती भजमानेति यावत् । आकारस्य [८७.२०] रूपस्य सामान्याद्[११४][८७.२०] एकतां [८७.२०] तत्त्वं[११५]प्रतीयती [८७.२१] निश्चिन्वती । आदि[८७.२१]शब्दात्फलस्य सङ्ग्रहः । सूर्योपराजितशब्देन यस्य रूढिः । आदि[८७.२२]शब्दाद्वन्येतरकर्कोटादिपरिग्रहः । तथा*<४>*भावमेतदनुभवति [८७.२३] । __________नोतेस्__________ [११४] साम्यात्स्। [११५] प्रतियती स् ___________________________ अथ किं "न च स पक्षे क्वचिद्वर्तत [८८.१९]" इत्यसिद्धत्वे कारणमिदमुक्तम्? एवञ्चेत्न तर्हीयन्तं कालं भवान् बुद्धवानसिद्धलक्षणम्, पक्षवृत्त्यादिना प्रकारेण हेतोस्तथाभावादिति । युक्तमवादीदिदं भवान् यदि परं तदायमसिद्धो हेतुरि[८८.१८]ति वदितुरभिप्रायं नाज्ञासीत् । अयं खल्वस्याभिप्रायः *<५>*प्रत्यभिज्ञा नाम विकल्पविशेष एषः । स च विकल्पस्य विषयो यः शब्दस्य विषयः, शब्दसंसृष्टार्थप्रतिभासित्वाद्विकल्पस्य । स च शब्दस्य विषयो यः संकेतस्य विषयः, वाच्यवाचकभावसम्बन्धस्य वास्तवस्य व्युदस्तत्वात् । न चासामार्थ्यवैयर्थ्याभ्यां स्वलक्षणात्मनि संकेतः कर्तुं शक्यत इति कथं वस्तु*<६>*तो भावाः केचिदभि(पि) प्रत्यभिज्ञानविषयात्म(त्मा)नः । तत्र(तन्न) प्रत्यभिज्ञापनत्वं(ज्ञायमानत्वं) सिद्धिमध्यासीत । यद्यत्प्रत्यभिज्ञायते तत्तत्पूर्वापरयोः कालयोरेकस्वभावं यथेदमितितथागतान् प्रतिपादयितुमशक्यत्वात्व्याप्त्यसिद्ध्यानैकान्तिकश्चायमिति । प्रौढवादितया सिद्धिमभ्युपगम्यापि दूषणान्तराभिधित्सया प्रवृत्त*<७>*स्य सिद्धान्तवादिनो न चे[८८.१९]त्यादिवाक्यम् । यद्वा दूषणान्तरमन्वाचिन्वन्नाह -- न चे[८८.१९]ति । [११६]ज्ञानजनकस्वभावताविरहादि[८८.२७]ति ब्रुवता चेदं दर्शितम् । यदि सर्वेषां जनकस्वभावता तस्यां चान्यापेक्षिता स्यात्स्याददनैकान्तिकत्वम्, न चेद[म]स्तीति । भेद[८८.२८]शब्दो विशेषवचनः । __________नोतेस्__________ [११६] "ज्ञान" इतिपदं नास्ति -- स् ___________________________ प्रकृते तव किमायातमित्याह -- तद्वदि[८९.१०]ति । तैः [८९.१२] बीजादिभिः अनेकान्त इति मौलस्य हेतोरिति द्रष्टव्यम् । सामान्येना[८९.१४]विशेषेण । {प्. ३३१} न सह[८९.२२]शब्दो युगपदर्थवृत्तिराचार्येणेष्टोऽपि तु सहोदरवदेकार्थवृत्तिः । अपि तु एकार्थकरणमपि [११४.१९] यद्वर्णमिति किं सहकारिलक्षणपर्वणि प्रतिपादयिष्यते । न च युगपत्कारित्वादेव भावानां परस्परसहकारित्वं घटते । घटपटादीनामपि कदा स्वां स्वा[३८ ]*< १>*मर्थक्रियां कुर्वतामपि तथाभावप्रसङ्गात् । तत्कथं "सहकारिषु युगपत्करणशीलेषु" [८९.२२] इत्येतद्भट्टार्चटो व्याचष्ट इति चेत्, नायं दोषः । न हि सहशब्दस्य एतद्व्याख्यानं युगपदित्यपि तु भाविकारणानभ्युपगमे अवश्यमेकार्थकारिणामेकदा करणमित्येकार्थं बुद्धावारोप्य वास्तवं रूपमिदमनूदितम् । तेन युगपदेकार्थकरणशीलेष्वित्यव*<२>*सेयम् । एकार्थकारित्वमेव तु लक्षणं न तु युगपत्करणमवश्यंभाव्यपि व्यभिचारात् । प्राज्ञाः पुनरेतद्यथाश्रुति समर्थयन्ति । ननु लाभो महानयमिति, न च काचिदक्षमा । नैवे[८९.२५]ति व्याचक्षाणो वैशब्दमवधारणे दर्शयति । कः पुनस्तत्रेतरेषां व्यापार इत्याह -- भवनेति[९०.३] । व्यापारोपयोगस्यास्य पारमार्थिकत्वं कारकत्वं हीये*<३>*ते[९०.८,९]ति संबन्धनीयम् । कुत एतदित्यपेक्षायां कार्येत्यादियोज्यम् । उपचारात्[९०.८] कारकत्वस्येति प्रकृतत्वात् । तथा [९०.१७] तद्वत् । तत एव [९०.१७] स्वसन्निधिमात्रत एव । स्वत एव [९१.१] कारणव्यापारनिरपेक्षाद्रूपादेव । आत्मन [९१.२] इति कार्यात्मनः । प्रागपि [९१.२] जन्मनः पूर्वमपि । रूपरूपिणोरनन्यत्वादित्यभिप्रेत्य रूपभेदलक्षणात्वा*<४>*दित्यु[९१.४]क्तम् । तत्कुतोऽसत्त्वात् । यत्र स्थितेन कार्यं जनयितव्यं स कार्यदेशो [९१.१२]भिप्रेतः । यश्चासावभिप्रायश्चेति तथा तद्वता [९२.३] । ननु सर्वेषामङ्कुरोत्पादे सामर्थ्याप्रच्युतेरनेकाङ्कुरेण नियतमुत्पत्तव्यमेवेति यत्परेण प्रकटितं तत्कथमेवंब्रुवतापहस्तितमित्याशंक्याह अयमभिप्राय [९२.४] इति । युगपत्कर्तृभ्य*<५>* [९२.१६] इति पूर्ववद्बोद्धव्यम् । उक्ते सति किं नाम प्रतीयतामिति तत्स्वभावस्य जननादित्यस्यानैकान्तिकत्वे मौलस्यापि तथात्वमनिवार्यमिति परस्याशयः । न कारणभेदात्कार्यभेदः स्यादि[९२.१८]ति प्रसङ्गे कार्याभेदस्य बाधके परेणोक्ते कथमेतत्तद्बाधकं भवतीत्याशंक्याह एवं मन्यत [९२.२९] इति । सामग्रीजन्यस्वभावत्वात्[९३.१] तदवस्थाप्राप्तानेकसमर्थजन्यस्वभावत्वात् । कार्यस्या[९३.१]भिन्नात्मन इति प्रकरणात् । नन्वि[९३.२]त्यादि परः । यद्येवमि[९३.४]ति {प्. ३३२} सिद्धान्ती । यदनेकस्माद्भवतानेकेन भवितव्यमि[९३.४]ति एकजातीयापेक्षयोक्तं न तु कार्यमात्रापेक्षया, भिन्नजातीयस्यानेकस्योत्पादाभ्युपगमात् । एकं कर्तृ*<७>*तत्कार्यमि[९३.६]त्यभिन्नरूपकार्यम् । एतत्त[९३.८]द्भावे भवनम् । भवतामि[९३.१०]तिसांख्यानभिसंधायाह । धर्मवचनस्य संकरशब्दस्य भावादसंकराद[९३.२३]सांकर्यादित्यर्थः । अत एवाह परस्परेति [९३.२४] । परोदाहृतकार्यापेक्षया सामग्रीभेदाद्भेदं प्रतिपादयितुं तथाही[९३.२५]त्यादिनोपक्रमते । साद्गुण्यमाभिमुख्यम् । आदि[९३.२६]शब्दात्वासनाप्रबोधादिसंग्रहः*<८>* । इन्द्रिय[९३.२७]शब्देन तिमिरादिविकृतमिन्द्रियं विवक्षितमन्यतो भ्रान्तिज्ञानानुदयात् । मात्रग्रहणेन चालम्बनस्यैव निरासो विवक्षितः । न त्वालोकादेः तदभावे तदनुत्पत्तेः । तदन्ये[९३.२८]त्यत्राप्यालोकादि द्रष्टव्यम् । उपयोगविषय[९४.४]स्तदेकं जन्यं विज्ञानं तथाविधस्यै[९४.४]कात्मतालक्षणस्य । न भिद्यते [९४.६] नानात्वं न भव(ज)ति । किं न्वि[९४.८]ति नि[३९ ]*< १>*पातानिपातसमुदायः प्रश्ने । यदि वा वितर्के नुशब्दः किंशब्दस्तु प्रश्ने । वै[९४.८]शब्दो निपातोऽत्र संबोधने । अनेकस्य भावे तेषामनेन(क)जनकत्वमित्युपगते हृदयनिहितशङ्करस्वामिचोद्यः कश्चिन्नन्वि[९४.१२]त्यादिना चोदयति । स एव स्वातन्त्र्यपरिजिहीर्षयानैयायिकप्रवरवचनेन संस्पन्दयन्नाह आह चे[९४.१८]ति ।शङ्करस्वामीच बुद्धिस्थमस्य*<२>* । तत्तस्मात्किं [९४.१९] कस्मात् । विज्ञानाभिन्नहेतुक(ज)मि[९४.१९]ति हेतुभावेन विशेषणम् । तेषामवान्तरसामग्रीभेदाद्भेद इति प्रतिपादयितुं तेषामि[९४.२०]त्यादिनोपक्रमते । विज्ञानोत्पत्तौ विज्ञानमुपादानकारणम् । चक्षुरादिसहकारिकारणम् । चक्षुःक्षणोत्पत्तौ तु चक्षुरुपादानकारणम्, विज्ञानादि सहकारिकारणमेवमन्यत्रापीत्ये*<३>*कमुपादानकारणमितरत्सहकारि कारणं कृत्वा सामग्रीणां वैलक्षण्यमीक्षितव्यम् । कार्याणां [९४.२५] विज्ञानचक्षुःक्षणादिरूपाणाम् । बोधरूपतादेरि[९४.२८]त्यादि सिद्धान्ती । अनुकार इति करोतेः णिजन्ताद्ध द्रष्टव्यः । अनुकार[९४.२८]णञ्च स्वसंततिपतितकार्यकर्तृकत्वं वाच्यम् । {प्. ३३३} एतच्चास्यैवोपसंहारे व्यक्तीकरि*<४>*ष्यते । तस्यानुकारणमेवानुकर्तृमुखेन दर्शयन्नाह तथाही[९५.१]ति । द्वितीयलक्षणं विवृण्वन्नाह नियमेन चे[९५.३]ति । समनन्तरशब्दः समश्चासौ बोधरूपत्वेनानन्तरश्चाव्यवहितेनेति व्युत्पत्त्यापि प्रकृतत्वान्मनस्कार एव द्रष्टव्यो न त्वागमसिद्ध्याश्रयणेनोपादानमात्रे, उपादान*<५>*लक्षणस्यैवाभिधानात्शकन्ध्वादिपाठाच्च दीर्घत्वाभावोवसेयः । न चक्षुरादेर्नियमेन व्यापार [९५.४] इत्यर्थात् । चक्षुषो [९५.५] नियमेन व्यापार इति प्रकृतत्वात् । जन्यतया यत्स्वविज्ञानं तस्य योग्यतार्थादुत्पत्तुर्या योग्यता तद्धेतोह्[९५.५] । ज्ञानोत्पादहेतोरित्यर्थः । चक्षुर्विशेषणत्वेऽपीत्थ*<६>*मेवास्यायमेवार्थः । अत्रापि समनन्तरशब्देपिनमन(ब्देनमन)स्कारोऽभिप्रेतः । उक्तयोर्लक्षणयोराद्यं लक्षणं दुर्बोधत्वादुपसंहारव्याजेन स्पष्टयन्नाह -- तस्मादि[९५.६]ति । स्वसंततिव्यवस्थैव कुतो येन तत्पतितकार्यप्रसूतिनिमित्तं [९५.७] ज्ञातव्यमित्यपेक्षायां योज्यम् । यदेकाकारे[९५.७]ति । इतिः [९५.११] हेतौ । आ*<७>*(अवा)न्तरविशेषकृतत्वात्त[९५.१२]स्या एवोक्तलक्षणावान्तरविशेषकृतत्वादित्यर्थः । तस्मादि[९५.१५]त्यादिना प्रकृतमुपसंहरति । कार्यस्यै[९५.१५]कजातीयस्येति विवक्षितम् । कार्यमात्रापेक्षयानेकत्वस्येष्टत्वात्प्रसङ्गानुपपत्तेः । अन्ये(अथ) तदभुपगमात्सिद्धं भवताम् । ततो नैवं वक्तुमुचितमित्याशंक्याह न चे[९५.१६]ति । एवं तावद्भट्टार्चटेनोपादानसहकारिलक्षणं प्रणीतम् । केचित्पुनरत्रैवं ब्रुवते, नैवेदं लक्षणद्वयमुपपद्यते अव्याप्तेः । तथाहि यदि यदेकाकारपरामर्षप्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यपसूतिनिमित्तं तदुपादानकारणमित्युच्यते, तदा चन्द्रकान्तादपां प्रसवे ज्योत्स्ना न स्यादुपादानकारणम् । यदि चन्द्रकान्त[३९ ]ः १ःमणेरुपयतीनामपां चन्द्रिकया सममेकाकारपरामर्शप्रत्ययहेतुत्वमस्ति येन तथा तया तासां तदेकसांतानव्यवस्थासिद्धौ स्वसन्ततिपतितकार्यजनकत्वेन शशाङ्कवदुपादानकारणं कल्पेरन् । न च तत्रान्यस्य तदुपादानकारणत्वमुपपद्यते । एवं वनस्पतिभ्यः फलप्रसूतौ त्वग्भावा[११७]विशेषस्य न स्यात्तदुपादानत्वम् । *<२>*कियद्वा शक्यते निदर्शयितुं दिङ्मात्रं तावदुपदर्शितम् । द्वितीयेऽपि लक्षणेऽनेनैवाव्याप्तित्वमुन्नेयम्, न हि चन्द्रिकादेरवादिमात्रोत्पत्तौ नियमेन व्यापारः शक्रेणाषि शक्यते दर्शयितुम् । तादृशोत्पादो विद्यत इति चेत् । चक्षुरादेरपि तादृग्विज्ञानोत्पादे नियमेन व्यापार इति तस्यापि तथात्वप्रसक्तिरिति यत्किञ्चिदेतत् । *<३>*सहकारिलक्षणमप्यवद्यम् । सिद्धसंतान एव हि वस्तुनि प्रागवस्थापेक्षविशेषहेतुत्वं कस्यचित्कल्प्येत । {प्. ३३४} सन्तानापेक्षकस्य तु प्रथमक्षणस्योत्पादे कथमेवमभिधानं [न] साहसमित्यलं बहुनेति । अत्र तु समाधानमतद्भि(नं महद्भि)रेव विधेयम् । __________नोतेस्__________ [११७] "भावविशेषस्य" इत्यपि दृश्यते । ___________________________ उभय[९५.२३]मित्येकसामग्रीमध्यप्रविष्टकारणस्य भेदादनेकत्वा*<४>*त्कार्यस्य एकजातीयस्याभेद एकत्वं कारणभेदा[९५.२०]त्सामग्रीलक्षणस्य कारणस्य सामग्र्यन्तरापेक्षया वैलक्षाण्यात् । कार्यस्यापि भेदः [९५.२०] सामग्र्यन्तरकार्याद्वैलक्षण्यमिति । ताव[९५.२६]च्छशब्दः क्रमे । कुलालः [९५.२७] कुम्भकारः व्यग्रस्वभावानि [९६.१] अन्योन्यासहितस्वभावानि कारणान्तरसहितानि [९६.१] सन्ति यानि कार्याणीष्टकादिरूपाणि [९६.१] साधयन्ति निर्वर्तयन्ति । मृत्पिण्डस्य चर्मकारादिकारणप्रतिलम्भे सतीष्टकादिकार्यं, कुलालस्य दात्रादिप्रत्ययान्तरप्राप्तौ लवण(ना)दिकार्यम् । सूत्रस्य कुविन्दादिहेत्वन्तरसाहित्ये घ(प)टादिकार्यम् । तान्यपि किं भूतानि साधयन्तीत्याह तदन्ये[९६.१]ति । मृत्पिण्डापेक्षया बीजादिजन्येभ्योऽकुरादिभ्यो *<६>*भिन्नस्वभावानि, तेभ्यो [९६.३] व्यग्रावस्थाप्राप्तकारणान्तरसाध्येभ्यो विलक्षणमेव घटात्मकं कार्यं समग्राणि सन्ति जनयन्ति [९६.३] मृत्पिण्डकुलालसूत्राणीति सामग्र्युपलक्षणमुक्तं न पुनरियन्ति एव घटस्य कारणानि । एवं वक्ष्यमाणेप्युपदर्शने द्रष्टव्यम् । उपदर्शितमेवोपपादयन्नाह तथाही[९६.४]ति । नन्य्यदि*<७>* कुलालादिसहितो मृत्पिण्डस्तदन्यसमाग्रीमध्यप्रविष्टमृत्पिण्डकार्यादविशिष्टं कार्यं जनयन्ति, न तर्हि सामग्रिवैलक्षण्यात्कार्यवैलक्षण्ये निदर्शनमिदमुपपद्यत इत्याशंक्याह कुलालादीति [९६.४] । तदात्मकमेव [९६.६] मृदात्मकमेव घटादिलक्षणमेव करोति । मृत्पिण्ड [९६.४] इति प्रागुक्तोऽभिम्सम्बध्यते कर्ता । कुतो विलक्षणं *<८>*करोतीत्याह तत्कार्यादपीष्टकादेरिति [९६.७] । केन कारणेणेत्याह केवले[९६.७]ति । केवलमृत्पिण्डाद्भिन्नः स्वभावो यस्य मृत्पिण्डस्य स तथा तस्य भावस्तत्ता तया [९६.७] । केवलशब्देन च कुलालादिरहि[त]तामात्रं विवक्षितम् । न तु कारणान्तरसाहित्यव्यवच्छेदस्तेन तत्कार्यादि[९६.७]ति कारणान्तरसहितमृत्पिण्डकार्यादित्यर्थः । कुतस्त्यस्तस्या [४० ] *<१>*सौ बिन्नः स्वभाव इत्याह -- तत्कारेणे[९६.६]ति । तस्य कुलालस्यार्थात्कुलाल[क्षण]लक्षणस्य प्रत्यासीदतो यत्कारणं प्राक्तनक्षणस्तेनाहित उत्पादितो विशेषो [९६.६] विशिष्टं रूपं यस्य स तथोक्तः । अनेनैकसामग्र्यधीनाविशिष्तोत्पत्तिः सूचिता । हेतुभावेन चैतद्विशेषणम् । चो [९६.६] व्यक्तमेतदित्यस्मिन्नर्थे । एवमुपादानभावे चोभय*<२>*त्र व्याप्रियमाणस्यापि मृत्पिण्डस्य सहकार्या(र्य)न्तरप्रतिलम्भादात्मनोपि सतः कार्यस्य तदन्यसहकारिसहितकार्यात्विलक्षणस्यैव {प्. ३३५} जनकत्वं प्रतिपाद्य सहकारणस्याप्युभयत्र सहकारिभावेनैव व्याप्रियमाणस्य कुलालादेरुपादानान्तरप्राप्तौ तदन्यसहितकार्याद्विलक्षणकार्यजनकत्वमतिदिशन्नाह -- एवमि*<३>*[९६.८]ति तदन्योपादानसहितं [९६.८] मृत्पिण्डलक्षणादुपादानाद्यदन्यदुपादानं तेन सहितम् । मृत्पिण्डसहितं [९६.८] तद्विलक्षणमेव [९६.९] । तस्मात्तदन्योपादानसहितकार्याद्विसदृशमेव घटादिकं कार्यं जनयति [९६.१०] । इति[९६.१०]र्यथा मृत्पिण्डादीत्यादेराचार्यीयवाक्यस्य यः समुदायार्थस्तस्याकारं दर्शयति*<४>* । तत्रे[९६.११]त्यादिनेदानीमवयवार्थं व्याचष्टे । वुघ्न[९६.१५]शब्देन मृषय(मृण्मय)पिधानविशेष उच्यते । तस्य पृथु[९६.१५]शब्देन विशेषणसमासं कृत्वा तस्योदरा[९६.१५]दीति तत्पुरुषं विधाय तदिव तस्येव वाकारो [९६.१५] यस्येति बहुवृईहिः कार्यः । आदिशब्दात्तदवयवान्तरविशेषस्य भिन्नजातीयस्य कम्बुग्रीवादे*<५>*र्वा संग्रहः । सूत्रात्त[९६.१७]स्यैव घटस्य [९६.१८] चक्रादेर्विभक्तः स्वभावो भ्वतीति [९६.२१] सम्बन्धः । मृत्संस्थानविशेषात्मतयाइव(तैव) घटस्य कुतस्त्येत्याह मृत्पिण्डे[९६.१७]ति । तज्जननस्वभावत्वात्[९६.१९] मृत्संस्थानात्मताजननस्वभावत्वात्कारणात् । घटस्य तद्रूपयोगात्[९६.१९] मृत्संस्थानरूपयोगात् । अन्यदेव सूत्रसाहि*<६>*त्येपि तयोः कथं तज्जननस्वभाव[त्व]मित्याह तन्निरपेक्षे[९६.२०]ति । तच्छब्देन सूत्रं परामृष्यते,[११८]भिन्नस्वभावत्वाद्विलक्षणस्वभावत्वात्तन्निरपेक्षावस्थातो भिन्नस्वभावतैव तयोः कथमित्यपेक्षायां सूत्रकारणोपहितविशेषयोरि[९६.२०]ति हेतुभावेन विशेषणपदमिदं योज्यम् । निर्दिष्ट*<७>*कारणाभिप्रायेण कारणत्रय[९६.२४]ग्रहणं न तु घटस्य त्रीण्येव कारणानि । तदुपयोगैर्भिन्नसामग्रीव्यापारैः कार्यापेक्षस्व(ये स्व)भावविशेषाः कार्याणां विशिष्टाः स्वभावास्तेषामसंकरोऽ[९६.२४]साङ्कर्यम् । तत्र यदि ते कुलालादयह्प्रत्येकं जनकाः स्युस्तदानुक्रान्तकारणत्रयजन्य [९६.२१] इत्युच्येत । तथापि कथं सर्वतः समुत्प*<८>*द्यमानस्याखण्डात्मनः कार्यस्यायं विशेषोऽस्मादयञ्चास्मादिति व्यवस्थाप्यत इत्याशंक्याह्तस्य चैकैके[९६.२५]त्यादि । इतोऽस्तु कार्यस्य तत्सामग्रीभूतसकलजन्यत्वं तद्गतस्य तु ततद्विशेषस्य कथं तज्जन्यत्वव्यवस्थेत्याह तदेकैकस[जा]तीति [९६.२७] मृत्पिण्डाद्यपेक्षया मृत्पिण्डादेरपरस्य तज्जातीयत्वं प्रत्येयम् । [४० ]*< १>* अनेनैतद्दर्शयति -- नैकस्यामेव सामग्र्यां तस्मिन्नेवाखण्डात्मनि कार्ये तत्तद्विशेषस्य तत्तज्जन्यत्वमवधार्यते अपि तु तत्तदुपचये तत्तदुपचयत्य तत्तदपोधारे तत्तदु(द)पचयस्य दर्शणादेकत्वाध्यवसायतश्चैकाधिकरणत्वेन {प्. ३३६} व्यवस्थापितादिति । व्यवहर्तारश्चैवं न विपञ्चि(श्चि)त इति तत्त्वचिन्तकै[९६.२९]रित्युक्तम् । तेषामप्येवं *<२>*विवेचनेन किं प्रयोजनमित्याह यत [९६.२९] इति । यतोऽनन्तरोक्तविवेचनात् । अनेकमपि कारणं कस्मात्स्वीकुर्वन्तीत्याह परस्परे[९७.१]ति । क्षेपवत्यां हि सामग्र्यामन्योन्योत्पादितातिशयकार्यप्रणालिकया वाञ्च्छिताङ्कुरादिकार्योपजननयोग्यकारणसामग्र्यसद्भावार्थम् । एतच्चोपरिष्तात्प्रदर्शयिष्यते । __________नोतेस्__________ [११८] भिन्नात्मकतया स्। ___________________________ "यत्र यद्योग्यं रूप*<३>*मुपपद्यते स तस्य विषय" इति तद्विषयस्य [९७.१४] घटस्येत्यर्थः । तदन्यावस्थाविषयात्[९७.१५] प्राप्तसहकार्यन्तरावस्थाकार्यात् । अस्ये[९७.१९]ति कार्यस्य । अनेन "तज्जनितविशेषभेदस्ये"ति मूलस्य कार्य[९७.१७]पदविशेषणस्य बहुव्रीहौ कर्तव्ये विग्रहो दर्शितः । ज्ञानं [९७.२७] तद्रूपमनुकर्तुं युक्तम् [९७.२८] । ने[९७.२६]त्यनुवर्तते*<४>* न युक्तं [९७.२८] नार्हतीति चार्थः । हेतौ शानचो विधानात्तद्रूपविकलार्थसामर्थ्येनो[९७.२८]त्पादादिति तद्रूपानुकारी(रा)युक्ततायां हेतुरुक्तो द्रष्टव्यः । तथापि कस्मान्न युक्तमित्यपेक्षायामाह -- भ्रान्तते[९८.१]ति । ऐकान्तिकी [९८.३] या परेणाइकान्तिकत्वेनाभिमता सा नास्ति, एकत्वादेव प्रमाणसिद्धादित्यभिप्रायः । यदि*<५>* वा नैकान्तिकी न निश्चयवती । अथवानेकात्मतैवैकान्तिकी नेतिपूर्वेणाभिसंबध्यते । अथ विज्ञानोपजनने किमिन्द्रियादीनि स्वलक्षणान्तरान्तराप्रसवधर्माण्यपेतसंतानान्येव येनैकस्यैव कार्यस्य करणमेषामुपवर्ण्यते । इत्याह एतच्चे[९८.६]ति । ननु एकसामग्री[९८.६]शब्देन यदि विज्ञानस्य जनकः कारणकलापोऽभिप्रेतः, तदोक्तमेव किमपेतं(त)संतानता तेषामिति । अथैकमुपादानमितरत्सहकारिकारणमभिसन्धाय एकसामग्रीत्युक्तं न तदपि चतुरस्रम्, तस्या अप्यवान्तरसामग्र्याः किं तदुपादानोपादेयस्याइव क्षणस्य प्रसवः । अथोपादेयमनेकं न भवतीत्यभिप्रे*<७>*यते । हंत तदपि सर्वं स्वं स्वमुपादानमपेक्ष्योपादेयमेवेति तदवस्थो दोष इति । उत्तर(उक्त) एव एकसामग्रीशब्दार्थः कैवलं बोधे यत्रः करणीयः । एकमुपादानं सदेवेतरत्सहकारिकारणसदेव व्याप्रियते यदा तदा एकस्यैव विज्ञानस्य मनस्कारोपादानस्य चक्षुरादिसहकारिकारणस्यैव सत उत्प*<८>*त्तिर्न तु चक्षुःक्षणस्यैवंभूतस्य स[त] उत्पत्तिरपि तु चक्षुरुपादानस्य मनस्कारादिसहकारिकारणस्य सत इति । एवं रूपादिक्षणस्याप्युत्पादे द्रष्टव्यं स्वयम् । अत्र समुदायार्थो मनस्कारोपादानकारणचक्षुरादिसहकारिकारणात्मिका सती सामग्र्येकमेव कार्यं जनयति । तदैवान्यज्जनयन्ती तु नैवमात्मिका सती ज[४१ ]*< १>*नयति । किं तर्हि चक्षुरुपादानकारणमनस्कारादिसहकारिकारणात्मिका । {प्. ३३७} एवं रूपादिक्षणजन्मि(न्म)न्यपि प्रत्येयम् । अत एवैषामान्तरसामग्रीभेदः कृतः परस्परतो भेद इत्युक्तं पुरस्तादिति सर्वमवदातम् । कस्मात्पुनरिष्टैकसामग्र्यपेक्षयैवैतदुच्यते, न च सामग्रीमात्रापेक्षयापीत्याह परमार्थतस्त्वि[९८.६]ति । तत्सामर्थ्यन्तर्गताना*<२>*मि[९८.७]ति सा च सा चक्षुरादिसहकारिकारणात्मिका सामग्री चेति तथा यत्रोपादानभावेनान्तर्गतानामन्तर्भूतानां यत्र सामग्र्यां सहकारित्वेन तेषां व्यापारस्तत्र । तत्सामग्र्यन्तरं तदवयवत्वेन । कार्यान्तरस्ये[९८.८]ति सोपादेयक्षणापेक्षया तद्विज्ञानं चक्षुषः कार्यान्तरमेवमन्यस्याप्यन्यत्तस्य कार्यान्तरस्यापि प्रारम्भादित्यनुवर्तते *<३>*अनेककार्यकर्तृत्वमिति र(च) शेषः कार्यः अन्यथा कस्मिन् साध्ये पञ्चमीयं हेतुभावमभिदध्यात् । अस्यैवार्थस्य दृढीकरणार्थं दृष्टान्तयन्नाह यथे[९८.९]ति । तदा [९८.१०] तद्वदनेकप्रत्ययजनितमपी[९८.९]त्येकमित्यस्यानुवृत्तेस्तथानेकप्रत्ययजनितमेकमपि नास्तीत्यर्थः । इति [९८.९] हेतौ । अपि [९८.१०] न्यायतः सम्भावनामाह । *<४>*यदि वा परमार्थतः कारणानेकत्वात्कार्यानेकत्वोपगमेऽपि न काचित्क्षतिरि[९८.९]ति सम्बन्धः कार्यः । कस्मान्न क्षतिरित्याह -- तत्सामग्र्यन्तर्गतानामि[९८.७]ति । यथेत्यादि च पूर्ववद्व्याख्येयम् । इतिस्त्वनन्तरोक्तान्योपादानकारणानि सहकारिकारणानि प्रत्यवमृषति, ततोयमर्थ उक्तलक्षणकारणानेकत्वादिति । संप्रति प्रकृतमुपसंहरन्नाह तत [९८.१०] इति । सामान्येन [९८.११] कार्यमात्राश्रयणेन । अथ सिद्धसाधनत्वं हेतोः को दोष इति चेत् । तदेतद्धर्मोत्तरप्रदीपेऽस्माभिर्विवेचितं विस्तरतश्च स्वयूथ्यविचार इत्यास्तां तावदिह । द्रव्य[९८.१६]शब्देन द्रवति पर्यायान् गच्छतीति व्युत्पात्त्या धर्मो परिणामिनित्यो विवक्षितः *<६>*पर्यायशब्देन च परि समन्तादेत्येति द्रव्यमिति व्युत्पत्त्या धर्माः । आदि[९८.१८]शब्दात्स्पर्शादिसंग्रहः । घटो द्रव्यं रूपादयः [९८.१९] पर्याया इति द्रव्यपर्याययोरेतदुदाहरणमितिः संख्याभेद[९८.१९]स्याकारं दर्शयति द्वितीयस्तु संज्ञाभेदस्य । इति[९८.२२]ना लक्षणभेदस्याकारो दर्शितः । वस्तुराग [९८.२३] इत्युपलक्षणमेतत् । इति*<७>*ना [९८.२३] कार्यभेदस्य स्वरूपमाह इतिर[९८.२४]नन्तरोक्तभेदाभेदं प्रत्यवमृषति । चक्षुरादीनामभिन्नो य आत्मा एककार्यजनकः सामान्यभूतस्तज्जन्यता तस्य [९८.२६] । एतदेव द्वयमित्यादिनोपसंहरति परः । सामान्येन पररूपाणामात्माभेदस्य बो(स्याबा)धकत्वं प्रतिज्ञाय विशेषेणेदानीं दर्शयितुमाह -- संख्याभेदस्तावदि[९९.७]ति । बहुत्वेन*<८>* व्यवहारो बहुवचनान्तस्य प्रयोगः । बहुवचनं च "युष्मदि गुरावेकपाम्" इत्यनेन । अनेन संख्याभेदादित्यस्य {प्. ३३८} साधारणानैकान्तिकत्वं दर्शितम् । धर्मधर्मिसमुदायात्मकस्य कार्त्स्न्यस्याप्रतीतिः [९९.१२] प्रसज्येत । तत्प्रतीतौ वावस्थात्रवस्थाविषयपूज्यताप्रत्ययगोचरत्वस्य गौरवस्याप्रतीतिः प्रसज्येत । अत्रैव वक्तव्या[४१ ]*< १>*न्तरमुच्चिन्वन्नाह व्रीहय [९९.१२] इति चेत्यत्र बहुवचनं "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्" [पा.१.२.५८] इत्यनेन । न च पर्यायरूपेण भिद्यन्त [९९.१६] इति ब्रुवता च यदि संख्याभेदोऽनेकत्वस्य साधकः स्यात्तदा तदभेदोप्येकत्वस्य साधकः स्यात् । अन्यथा तस्यायोगात् । न चैवं तस्मात्संख्याभेदो न समर्थोऽनेकत्वं साधयितुमिति दर्शितं द्रष्टव्यम् । ततः*<२>* [९९.१९] संज्ञाभेदात् । अनेन संज्ञाभेदादित्यस्य संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं दर्शितम् । संप्रति साधारणानैकान्तिकत्वमपि दर्शयन्नाह एकस्मिन्नपि चेति[९९.१९] अत्र गजनिमीलिकया पूर्वदोषो द्रष्टव्यः । समस्तस्य [९९.२१] शक्तिशक्तिमदात्मकस्य धर्मधर्मिसमुदायस्य । तयो[९९.२३]र्द्धर्मधर्मिणोस्तद्वाधिनां [९९.२४] धर्मवाचिनाम् । मात्रा [९९.२६] लेशः । *<३>*सर्वदैकरूपेणावस्थानं कूटस्थनित्यता तया [९९.२८] तत्तदवस्थारूपेण परिणमतोऽवस्थानं परिणामनित्यता तदुपगमात्[१००.१] सा च [१००.१] परिणामनित्यता । अस्य [१००.२] परिणामनित्यस्य सुवर्णादेर्द्रव्यस्य । तद्रूपेण [१००.२] पर्यायरूपेण च्छेदो विनाशः । पर्यायाणामिवेति वैधर्म्यदृष्टान्तः । इयं परिणामनित्यता ।[११९]कूटस्थनित्य*<४>*ता द्रव्ये पर्यायातिरिक्ते न संभवति [१००.४] । कुत इत्याह पर्याये[१००.५]ति । __________नोतेस्__________ [११९] अत्र "कूटस्थनित्यतावत्" इति पाठः टिबेटनानुसारी सम्यग्भाति । ___________________________ विभक्तपरिणामेष्वि[१००.१२]ति पाठे विभक्तः परिणामो येषामिति विग्रहः । विभक्तो विशिष्तकार्यकारित्वेन नियुक्त इति चार्थ इति पूर्वे निबन्धकृतो व्याचख्युः । इदानीमपि केचित्पण्डितांमन्या अनेनैव पाठेन कथमपि व्याचक्षते । तदेतत्पापीयः *<५>*विभक्ति[क्त]शब्दस्यान्यार्थत्वात्, न ह्ययं विभक्तशब्दो विशिष्टकार्यकारित्वेन नियुक्तं वक्ति । अपि तु विभागेन व्यवस्थापितम् । किञ्च किमस्य शब्ददारिद्यं येन विशिष्टकार्यकारिपरिणामेष्विति वक्तव्यं विहाय इदमीदृशमवाचकमाचक्षीत । सर्व एव च परिणामस्तदन्यकार्यापेक्षया विशिष्टकार्यकारीति कोऽन्यस्माद*<६>*स्य पटादिपरिणामस्य विशेषः, कश्चास्य नियोक्तेति किमस्थानपराक्रमेण । तस्मात्क्वचित्पुस्तके प्रमादपाठ एषः । विभक्तपरिमाणेष्विति तु पाठो युक्तरूपः । तत्र परिंाणं मानव्यवहारकारणं {प्. ३३९} गुणविशेषः । परप्रसिद्ध्या चेदमुच्यते तच्च दीर्घत्वाख्यमुत्पाद्यमत्र विवक्षितम् । तत्र विभक्तं विभागेन*<७>* व्यवस्थापितं परिमाणं येषां पटादीनां तेषु विस्तारितेषु दीर्घीकृतेष्विति यावत् । विभक्तायामादिकर्पटादयः किञ्चिदावृण्वते किञ्चिच्च धारयन्ति किञ्चिदुपबध्नन्तीति । प्रागविद्यमानं कस्यचिद्(द्)भावे भवदुत्पद्यमानं कार्यम् [१४०.१८] । हेतौ च शतुर्विधानात्पूर्वमभावा(भव)त्कस्यचिद्भावे भावा(भव)दित्यर्थः । भवेत्कार्यमिति तु पापीयान् पाठः । यदि*<८>* परस्परोपादानाहितरूपविशेषस्तत्सामग्र्यन्तर्गतः सर्व एव क्षणः प्रत्येकं समर्थ उत्पद्यते । यतो विज्ञानादिप्रसूतिस्तेन तावदवश्यं ज्ञानजननस्वभावेनैव भाव्यम्, अविज्ञानजननस्वभावेनैव वा, न तु परस्परविरुद्धतदतज्जननस्वभावेन भेदप्रसङ्गादित्यभिप्रायवान् परश्चोदयन्नाह नन्वि[१००.२४]त्यादि । कथं तदन्यकार्य[४२ ]*<१>*संभव [१००.२६] इति ब्रुवतश्चायमभिप्रायः -- "तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥" (प्रमाणवा. २.२५१) इति । अनेककार्यक्रियास्वभावत्वाद्वि[१०१.३]ज्ञानात्मकानेककार्यकारिरूपत्वात् । तेषां [१०१.४] सजातीयेतरक्षणानाम् । तेषां चक्षुरादीनां सत्ता तदा[न]न्तर्येण दर्शनं [१०१.५] तस्मात् । ननु तत्सन्निधौ विज्ञानलक्षणकार्यदर्शनात्विज्ञानस्यैव *<२>*जनक इत्यवधारणात्तदवस्थे दोष कस्मादिदमुच्यत इत्याह तत्रे[१०१.५]ति । अनैनैतदाह धर्ममात्रस्य संदेहादयोगव्यवच्छेद एवात्र न्यायप्राप्तो नान्ययोगव्यवच्छेद इति । ननु च येन रूपेण विज्ञानं विज्ञानं जनयति यदि तेनैकरूपेणैव रूपं जनयति तदा तेनावश्यं तद्विज्ञानवद्बोधात्मना भाव्यम् । अथ तदन्येन रूपे*<३>*ण जनयति तर्हि विरुद्धरूपद्वयानुषङ्ग इत्याशङ्क्याह न चात [१०१.७] इति । अतो विज्ञानाविज्ञानजननस्वभावत्वात् । कस्मान्न स्यादित्याह -- एकस्यैवे[१०१.७]ति । आत्मातिशयस्य [१०१.७] स्वहेतुप्रत्ययसामर्थ्यायातविज्ञानाविज्ञानोपजननयोग्यस्वभावविशेषस्य । अनेनैतद्दर्शयति एकेनैव रूपेण तत्तज्जनयति *<४>*केवलं तदेकं रूपमीदृग्विज्ञानाविज्ञानजननमिति । एतदुक्तं भवति तत्सामग्र्यन्तर्गतानां सर्वेषामेव क्षणानां स्वहेतुभिरिदं रूपमुपनीतं यदुत यूष्मत्प्राग्भावेऽनेकेनैव बोधाबोधात्मकेन कार्येण जनितव्यमिति । एवं तर्हि विज्नानाभिन्नहेतुजत्वेन {प्. ३४०} सुखादीनां बोधात्मकत्वं दुःखसाध[कत्व]मापनीय*<५>*(प)न्नम् । तत्रापि हीदं शक्यते वक्तुं प्रोषितागतप्रियपुत्रादिक्षणस्य स्वहेतुसमूहादेव तथाभूतं रूपमुप(द)पादि येन विज्ञानमविज्ञानात्मकं च सुखमन्यच्च जनयतीति शुद्धाद्रूपे(?) यदिमे(?)तद्विशेषवद्विशेषाख्यानेऽस्माभिह्परिहृतमिति तत एवनुगन्तव्यमिति । पूर्वमवधीरितावधारणनिरूपेणा*<६>*क्तावुक्तमधुना पुरस्कृतावधारणोक्ताविति भेदो द्रष्टव्यः । इदंतया व्यपदेशयोग्यं सनिदर्शनम् । स्वदेशे परोत्पत्तिनि(वि)बन्धकं सप्रतिघम् [१०१.११] । इयं चागमभाषा । भिन्नप्रवृत्तिनिमित्तयोरेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यं तेषां तन्निमित्तानां तदयोगादेकत्रैव वृत्त्यनुपपत्तेः । अपेक्षायां [१०१.१४] *<७>*तदेकोपकारापेक्षायाम्, उपकारस्योपकार्याभेदान्न्यायप्राप्तादिति । उक्तमेवाधिकाभिधानार्थमवतारयन्नाह -- नापी[१०१.१७]त्यादि । प्रतिबन्धाभाव एव कुत इत्याह -- तद्ग्राहकेति तदभावमेव प्रतिपादयितुमाह प्रत्यक्षत [१०१.१८] इति । एकात्मतयैव [१०१.२०] ज्योतीरूपाद्यात्मतयैव । प्रत्यक्षेणैवमुपलम्भान्न तावत्प्रत्यक्षं तत्प्रतिबन्धसाधकमित्यर्थाद्दर्शितम् । येनानुमानेन कार्यभेदस्य कारणानेकत्वप्रतिबन्धः साध्यते तत्रापि [१०१.२०] एतच्चैकसामग्र्यन्तर्गतविशिष्टैकैककारणापेक्षया द्रष्टव्यं न तु कारणमात्रापेक्षया कलापात्कलापोत्पत्तेरिति । अत्रैव दोषान्तरं समुच्चिन्वन्नाह एकस्ये[१०१.२१]ति । सहकार्य्युपादानभावेनानेकक्रियानभ्युपगमे [१०१.२१] यदि [४२ ] *<१>*एकस्यानेकरूपत्वमस्माभिरभ्युपेतं स्यात्प्रमाणोपपन्नं तदा धर्मिस्वभावतयैव तदुच्येतेत्यभिप्रायेणोक्तमेकस्यानेकस्वभावताया एव चिन्त्यत्वादि[१०१.२५]ति । तद्वद[१०१.२७]नेकवत् । अन्यथेति यदि येनानेकेनैव(क)स्वभावतामनुभवति तदेव परं भिद्यते । न त्वसौ धर्मीति इति[१०२.३]र्हेतौ । एकं कार्यं यस्यानेकस्य तदेककार्यं तस्य भावस्तत्ता [१०२.४] एक*<२>*कार्यकारित्वं न स्यादित्यर्थः । तस्यैव कार्यस्य यदात्मपुरस्कारेण धर्मिपर्यायव्यवस्था तेन भेदादेवैकरूपत्वाभावादिति समुदायार्थः । ननु नैवास्माभिरेकमनेकं करोतीत्युच्यते येन त्वयैवमुच्येत, किन्तु समग्रावस्थायां तदेकैकमेव तदेकैकमुपकल्पयतीत्याशंक्य न चैके[१०२.६]त्यादि प्रथमतो योज्यम् । कस्मान्न *<३>*जनयतीत्यपेक्षायां तु पश्चाद्योज्यम् । नही[१०२.४]त्यादि । सहैव[१२०]युगपदेव । एतद्दोषभयात्परस्परोपादानकृतोपकारापेक्षत्वे चेष्यमाणे तेषामेकैकेन भावतस्तावतः क्षणस्योपकारात् । कथमेकमनेककार्यकृन्न् स्यादिति चानेन दर्शितम् । ततश्चे [१०२.६]त्य्{प्. ३४१} एकस्यानेककार्यकारित्वासंभवात् । गतार्थमप्येतत्कण्ठोक्तं कुर्वन्नाह । अनेकस्ये[१०२.७]त्यादि । यथायोगमेकानेकशब्दौ सम्बन्धव्यौ । अनभ्युपगमादेवैकस्यानेकक्रियाविरहादुक्तया नीत्यानेकस्याप्येकक्रियाविरहादिति चार्थो द्रष्टव्यः । __________नोतेस्__________ [१२०] सहैक स् ___________________________ ननु च एकस्यानेककारित्वप्रकारादनेकस्यैवैककारित्वप्रकारात्किलान्यः प्रकारो नास्ती*<५>*त्यभिमतम् । अस्ति खल्वनेकमेवानेकं करोतीति प्रक्रान्तं तत्कथमेतत्संगस्यत इति चेन्न । अनेकैकसामग्र्या(य)न्तःपतितेनानेकक्रियोपगमे सर्व्वस्यैवोपादानसहकारिभावेन सजातीजविजातीयविशिष्टक्षणारम्भस्य न्यायप्राप्तस्योपगमादेकस्यानेकक्रियोपगमप्राप्तेरित्यभिप्राया*<६>*त्सर्वमवदातम् । अहेतुकत्वे च तन्नियमायोगादिति भावः । द्रव्यपर्याययोस्तावद्भिन्नं कार्यमिष्टम् । तौ चैकस्वभावावेकं वस्त्विति कथमेकस्यानेककार्यकारित्वमनुन्मत्तेन प्रतिक्षिप्यत इत्यभिप्रायवानाह द्रव्ये[१०२.१३]त्यादि । एकस्वभावत्वेऽपि नैकवस्तुतेत्यह -- स्वभावस्यैवे[१०२.१५]ति । अन्यथा यदि *<७>*वस्तुनोऽन्यः स्वभावः स्यात्तस्य [१०२.१५] वस्तुनः एवं स्वभावस्याप्यवस्तुताप्रसङ्गादित्यपि द्रष्टव्यं येनाभिप्रायेण कथं नोन्मत्तः [१०२.१४] इत्यवादीत्तमिदानीं स्फुटयन्नाह एकस्वभावत्वे चे[१०२.१६]ति । यदा हि तूलपिण्डादिद्रव्यं द्विपिण्डकद्रव्यनिर्माणसमय एव काकतालीयन्यायेन पवनावधूततूलांशुप्रभृतिना स्वल्पपरिमाणेन *<८>*द्रव्यान्तरेण संयुज्यते द्रव्यारम्भकसंयोगाप्रतिद्वंद्वी(द्वि)विभा[ग]ज(भागज)नकक्रियाहेतुं च सहकारिकारणं प्रतिलभते । तदतद्द्रव्यं द्विपिण्डकं तूलद्रव्यम् । गुणं च तथाभूतसंयोगाख्यम् । कर्म च तथाभूतां क्रियामेकदैव करोतीति द्रव्यगुणकर्मणां समवायिकारणंवैशेषिकैरव्श्यैपितव्यमित्यभिप्रायोऽस्यैवं वदितुरवसातव्यः । [४३ ] *<१>*अन्यथा कार्यद्रव्योदयसमकालं कार्ये [न] शुक्लादिरूपमुत्पद्यते । किन्तूत्पन्ने कार्ये पश्चात्कारणादुत्पद्यते अत एवैकस्मिन् क्षणे द्रव्यमरूपमस्पर्शमरसमगन्धमुपगम्यतेयोगैः। तस्य तु गुणस्योत्पद्यमानस्य समवायिकारणं तदेवानन्तरोत्पन्नं द्रव्यं न तु तत्कारणं द्रव्यम् । एवं तावदिदमस्माभिर्यथा कथञ्चिदुपपादितम्, *<२>*कर्मणश्चैकस्येति तु संयोगसंस्कारापेक्षयोपपादयितुं शक्यते न पुनः संयोगविभागापेक्षया । न हि कुतश्चिदपि कर्मणो युगपत्संयोगविभागावुत्पद्येते किन्तु प्रथमं विभागस्ततः प्राच्यसंयोगविनाशस्तदनन्तरमु?अरसयोग इति पदार्थविदः प्रजानते । न च युक्त्याया(पा)द्यैतद्वक्तव्यम् ।वैशेषिकप्रक्रियायां*<३>* स्थित्वैवैतदभिधानस्य प्रकान्तत्वात् । अन्यथा किमस्ति कर्म किमस्ति संयोगादिर्येनैवमुच्येत । अतश्चैवं यत्क्र्तान्तकोपेने[१०२.१७]त्याह । अभिन्नकालं च कार्यं विचारयितुं प्रकृतं न तु भिन्नकालमिति किं बहुना । एतच्चवैशेषिकशैलीमनुपालयन्तो यदि केचन निपुणा मनीषिणो यथाश्रुति समर्थय*<४>*न्ति कामं समर्थयन्तु न नो हानिः काचिदपि तु महानेव लाभ इति । {प्. ३४२} अनवय[१२१]वत्वेन [१०२.२४] कार्त्स्न्येन । न तु सजातीया विजातीयाः समस्ता व्यक्रीर्व्यश्नुवीरन्नि[१०२.२५]त्यर्थः । कथया [१०३.१] विचारेण । __________नोतेस्__________ [१२१] अनवयवेन स् ___________________________ देशकालस्वभावभेदानां मध्ये देशकालाभेदस्याभेदसाधने साधारणानैकान्तिकत्वं प्रतिपादयन्नाह तथाही[१०३.४]त्यादि*<५>* । स्वभावाभेदपि निरूपयन्नाह -- स्वभावोपी[१०३.५]ति । अपिरुपगमप्रदर्शने । द्वितीयः पुनरपि [१०३.६] अवधारणे रूपतेत्यस्मात्परो द्रष्टव्यः । अनुवृत्तिव्यावृत्तिरूपते[१०३.६]ति द्रव्यस्यानुवृत्तिरूपता पर्यायाणां व्यावृत्तिरूपतेति यथाक्रमं योज्यम् । प्रत्येकमिति प्रतिवस्त्वत्यर्थो द्रष्टव्यः न तु प्रत्यात्मेति । *<६>*नहि द्रव्यस्य व्यावृत्तिरूपतापि नापि पर्यायाणामनुवृत्तिरूपतापि । तदयमर्थो यदि प्रतिवस्तु द्रव्यपर्याययोरनुवृत्तिव्यावृत्तिरूपतैवोपगम्यत इत्यन्योन्यव्यावृत्तिस्वभावद्वयाविष्टं घटपटवत्पदार्थद्वयं स्यान्न त्वेकं द्विरूपम् । इति[१०३.८]र्हेतौ । तस्मात्[१०३.८] स्वभावाभेदात् । पदार्थद्वयस्यैव न्याय*<७>*प्राप्तत्वात्स्वभावाभेदस्यैवं सिद्धत्वादिति भावः । अनुवृत्तिव्यावृत्त्योस्तत्स्वभावत्वमुपेत्यैतदुक्तमेतदेव तु नास्तीति दर्शयन्नाह -- न चे[१०३.८]त्यादि अनुवर्तमानव्यावर्तमानाधानत्व[१२२][१०३.९] च भावत्वं निमित्तमिहाभिप्रेतं यदनन्तरं व्यक्तीकरिष्यते ततस्तयोस्तत्स्वभावत्वायोगात् । तत्स्वाभावत्वमेवानयोः कथं न युज्य*<८>*ते यनैवमुच्यत इत्याह -- भावत्वेने[१०३.११]ति भावत्वेन क्रियात्वेन । भवित्रधीनत्वात्[१०३.११] कर्त्रधीनत्वात् । भावयद्वा(यन् वा) उत्पत्तिमान् धर्मस्तत्त्वेन भविता धर्मी तदधीनत्वात्न तु तत्त्वादिति । यद्येककार्यकर्तृत्वादेकत्वं तर्हि अनेककार्यकर्तृत्वादनेकत्वं स्यात् । अन्यथा तद्यो(तदयो)गात्न चैवमिष्टं युक्तं वा तस्मादेतदपि विपर्यये बाध[४३ ]*< १>*काभावान्न वक्तुमुचितमित्यभिप्रायवानाह एकस्यापीति [१०३.२२] । एकस्याप्यनेके[१०३.२४]त्यादि ब्रुवतः पूर्ववदभिप्रायो बोद्धव्यः । कृताकृतानां [१०३.२२] संकेतितासंकेतितानाम् । एकाभिधानाभिधेयत्वासंभवे विश्वस्य तद्योग्यत्वं हेतुः । विषयभेदं प्रकृतत्वात्शब्दानामभिधेयलक्षणविषयभेदं [१०३.२६] ब्रुवाणं [१०३.२६] प्रत्यभिहितम[१०३.२६]नन्तरमेव । एकत्रापी[१०३.२७]ति ब्रुवतश्च*<२>* पूर्ववदभिप्रायो ज्ञेयः । अनन्तरोक्तया वचनभङ्ग्या संदिग्धविपक्षव्यावृत्त्यानैकान्तिकत्वं सूचयित्वा सम्प्रत्येकविज्ञानविषयत्वादित्यस्य साधारणानैकान्तिकत्वं ख्यापयितुमाह बहूनाञ्चेति [१०४.१] । ननु यद्येकं द्विरूपन्नेष्यते कथं तर्हि तदेकं विज्ञानं बोधरूपं नीलाकारं चोत्पद्यत इत्युच्यत इति परस्य वचनमाशंक्या*<३>*ह[१२३]किंत्विति । नीलप्रतिच्छायतया [१०४.३] नीलसरूपतया भावतो[१०४.५] वस्तुतः । अनेन व्यावृत्तिभेदमुपादाय तथोच्यते न तु वास्तवं द्वैरुप्यमिति दर्शितम् । {प्. ३४३} संमूर्च्छितत्वाद्[१०४.६] भूयोन्योन्यावयवाप्रविष्टत्वात् । शबलरूपत्वे चायं हेतुह् । दृष्टान्तमेव विघटयन्नाह स ही[१०४.८]त्यादि । स हिरण्यकशिपुवधार्थनिर्मि*<४>*तनरसिंहात्मकः । अवयविनः प्रमाणबाधितत्वादित्यभिप्रेत्य परमाणुसंहा(घा)तरूप [१०४.८] इत्युक्तम् । प्रत्येकं नरसिंहरूपा न भवन्ति [१०४.९] । सर्वत्र नरसिंहद्रव्य(बुद्ध्य)भावादिति भावः । अनेनैव संमूर्च्छितत्वाभावेन शबलरूपत्वासिद्धेः साधनशून्यो दृष्टान्त इति दर्शितम् । तथा चाव्यवस्थितपरमाणुप्रच*<५>*याभिप्रयेण भागशब्दप्रवृत्तिर्न तु परप्रसिद्धा तस्यावयवाभिप्रायेण अवयव्यारम्भस्यानभ्युपगमात् । संप्रति भवतु नरसिंहभागाभ्यां नरसिंहावयविनो निर्माणं तथापि तस्य शबलरूपत्वासिद्धेः साधनशून्य एव दृष्टान्त इति दर्शनाद्दर्शयितुमाह जात्यन्तरं चे[१०४.१०]ति । तासु ता*<६>*सु ह्यवस्थासु स एवायं नर इत्यनुवृत्तिप्रत्ययहेतोर्नरत्वजातेरूर्ध्वतासामान्यशब्दाभिलाप्यायास्तासु चावस्थासु सिंहः सिंह इत्यनुगाभिप्रत्ययहेतोः सिंहत्वजातेस्तथाभूताया अन्या तासु तास्ववस्थासु स एवायं नरसिंह इत्यनुवृत्तप्रत्ययहेतुभूता तथाभूतैव जातिर्जात्यन्तरमवसेयम् । *<७>*स [१०४.१०] इति सामानाधिकरण्येन निर्देशश्च तस्य तद्वतश्चाभेदविवक्षया समुदायविवक्षया वा द्रष्टव्यः ।दिगम्बरमतस्य च प्रकृतत्वातेवं व्याख्यायते तेन हि तिर्यक्सामान्यं नेष्टमुपरिष्टाच्च एतद्भट्टार्चटेनापि स्फुटयिष्यते । नापि तिर्यक्सामान्यमत्र कल्पयितुं युक्तम्, नरसिंहस्य तथाभूतस्यैकत्वातनेकवृ*<८>*त्तित्वाच्च सामान्यस्येति । शबलरूपत्वाभावमेव विचित्रं ही[१०४.११]त्यादिनाप्रतिपादयति । अयमस्याशयो यदि संमूर्च्छितत्वं त्यक्त्वा यथा कथञ्चिदनेकरूपत्वेनापि शबलरूपतोच्यते तथाप्येकत्वाभावस्य न्यायप्राप्तत्वान्नैकस्य (शबलरूपतोच्यते) । तथाप्येकत्वाभावस्य न्यायप्राप्तत्वान्नैकस्य[१२४]) शबलरुपत्वमिति [४४ ] *<१>*प्रकृतमेव हीयेतेति । अवश्यं हि शाबल्यमिच्छता वैचित्र्यं नानारूपत्वमेष्तव्यमित्यभिप्रायेणाह (वैचित्र्यं नानारूपत्वमेष्तव्यमित्यभिप्रायेणाह[१२५]) विचित्र्यं ही[१०४.११]ति । यद्येकं शबलरूपं चो(नो)पपद्यते कथं तर्हि लोकः शबलमिदमिति मन्यत इत्याशंक्याह केवलमि[१०४.१३]त्यादि । एकप्रत्ययवमर्षाद्येकं कार्यं तस्य दर्शनात्[१०४.१३] । एकव्यवहारे चायं हेतुः । __________नोतेस्__________ [१२२] "त्वेन" इत्यपि पठितुं शक्यम् । [१२३] विज्ञानं तु स् [१२४] कोष्ठकान्तर्गतः पाठः पुनरावर्तितः । [१२५] कोष्ठकान्तर्गतः पाठः पुनरावर्तितः । ___________________________ इह खलु*<२>* वास्तवधर्मापेक्षो वास्तवो धर्मी । धर्मश्च पूर्वं कृतकविचारेण पारमार्थिको निरस्तस्तदपेक्षो धर्म्यपि वास्तवो व्युदस्त इत्यभिप्रायेण धर्मधर्मीणोर्निषेधादि[१०४.१८]त्युक्तम् । {प्. ३४४} अनन्तरोक्तमर्थजातं सातिरेकं स्वक्र्ताभिः कारिकाभिः प्रतिपादयितुं परमुखेणाह -- आह चे [१०४.२०]ति । वस्तुन [१०४.२१] एकस्येति प्रकरणात् । किल[१०४.२१]शब्दो वक्तुररुचिं ख्यापयति । तयो[१०४.२२]र्द्रव्यपर्याययोः । तत्र संज्ञाभेदस्य तावद्भेदकत्वं प्रतिबध्नन्नाह इन्द्रिये[१०४.२३]ति । वस्तुरूपं शब्दानां नैव [१०४.२४] गोचरो विषयः । अपोहस्यापि वस्तुत्वेनाध्यावसायात्विशेषयन्नाह इन्द्रियज्ञाननिर्भासी[१०४.२४]ति । बहुवचनेन व्याप्तिमाह तत्तस्मात्केन [१०४.२३] हेतुना । लोकोक्तिश्चैषा द्रष्तव्या । संज्ञा सांकेतिकः शब्दस्तद्भेदा*<४>*त्[१०४.२४] । अत एव सामान्येन शब्दाविषयत्वं प्रतिपादितम् । शब्दानां वस्तुगोचरत्वनिषेधद्वारा च संज्ञाभेदस्याभेदकत्वं प्रतिपादयतोऽयमाशयो यदि पुनः शब्दा वस्तुवृत्त्या इन्द्रियज्ञानानीव बाह्यविषया अभविष्यन्नियतमिमे अन्योन्यभिन्नरूपाः सन्तो लोचनादिचेतांसीव रूपादीन्यर्थान् स्वस्वविषया*<५>*नभेत्स्यन्त इति । वस्तूनां तद्गो(तदगो)चरत्वे कारणमाह -- परमे[१०४.२५]त्यादि । अभिधानाभिधेययोरभेदविवक्षायामित्यादिवचनादि[१०४.२५]त्यादिवचनप्रतिपादितादर्थादित्यर्थोऽवसातव्यः । तत्त[१०४.२७]स्मात्कल्पितगोचराः [१०४.२७] कल्पनारूढरूपविषयाः । तत्त[१०४.२८]स्माद्यदि संज्ञाभेदाद्भेदः [१०४.२८] कल्पितस्यैव भेदो भवेदिति यो*<६>*ज्यम् । कल्पितभेदे किं वस्तुभेदो न भवतीत्याह व्यावृत्तिभेद [१०५.१] इति । अर्थाक्षिप्तमेव कंठोक्तं कुर्वन्नाह न वस्तुन [१०५.१] इति । ननु किमेकद्विवचनबहुवचनान्येव संख्या येन तद्भेदः संख्याभेदः (संख्याभे[१२६]द) उच्येत । न चैतत् । किंन्त्वद्यै(?)वैकत्वादिरूपा संख्या तदभिधायकं तु वचनमत एव पाणिनिः*<७>* "बहुषु बहुवचनाम"(पा. १.४.२१)त्याद्याचख्याविति । स्यादेवैतत्यद्येकादिव्यवहारहेतुः संख्या एकद्रव्यानेकद्रव्या वा प्रमाणबाधिता न स्यात् । केवलमिति एव नास्ति । अस्ति तु तथाभूतसङ्केतानुरोधादेकादिवचनमेवैकादिव्यवहारनिबन्धहमित्यनेनाभिप्रायेणोक्तं नैवान्यो मतो वचनभेद [१०५.२] इति । __________नोतेस्__________ [१२६] कोष्ठकान्तर्गतः पाठः पुनरावर्तितः । ___________________________ ततो [१०५.३] वचनभेदात्मका*<८>*त्संख्याभेदात्कल्पितस्य [१०५.३] कल्पनाविपरिवर्तिनो रूपस्य न तु वस्तुन [१०५.४] इति दूरस्थमिह संबन्धनीयम् । कथञ्चिद्{प्. ३४५} [१०५.४] द्रव्यपर्यायरुपेणान्यथा वा । अभिन्नते[१२७][१०५.३]ति भेदाध्यवसायोऽवसयः । कुतः पुनः सिद्धमेतद्वचनभेदात्मकः संख्याभेदः, स चाभेदक इत्याह -- येषामि[१०५.४]ति । अत्रापि वाच्यवाचकयोरभेदविवक्षया इत्यादि प्रतिपादि[४४ ]*< १>*त एवेत्यादिशब्देनोक्तो द्रष्टव्यः । __________नोतेस्__________ [१२७] विभिन्नता स् ___________________________ अधुना लक्षणभेदमधिकृत्याह अविनाश [१०५.५] इति । किं [१०५.६] कस्मात् । तदात्मका [१०५.६] नैव, विरुद्धधर्माध्यासादिति भावः । यदि वा तदात्मका इति हेतुभावेन विशेषणं तेन तदात्मकत्वात्किं कस्माद्द्रव्याविनाशे नाशिन [१०५.६] इत्यर्थः । अनेनैकस्य एतल्लक्षणद्वयायोगाल्लक्षणभेदोऽसिद्ध उक्तः । उक्तदोष(षं) निराचिकीर्षोः प*<२>*रस्य वचनमा[शङ्कमा]न आह नष्टा [१०५.७] इति । ते [१०५.७] पर्यायाः । चेदि[१०५.७]ति पराभ्युपगमं दर्शयति । पर्यायरूपेण [१०५.७] न धर्मिरूपेणेत्यर्थादवस्थितम् । एतन्निराकुर्वन्नाह -- द्रव्येति । द्रव्यस्वभावतोऽन्यस्वभावता तेषां किमस्ति? पृच्छतश्चायमभिप्रायो यश्.अन्यस्वभावता तेषां भवेत्स्वभावभेदेन स्वभावाभेद एव न भवेदिति । अत एवायं वैद*<३>*र्भपरस्य प्रश्नः । सिद्धान्तवाद्येवैतद्दोषदर्शिनोऽन्यस्वभावतानिषेधमाशंकमान आह न चेदिति [१०५.८] । अत्राप्याह नाश [१०५.८] इति । तथा [१०५.८] तेन प्रकारेण । पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेणेत्येवमात्मना कथं नाशः [१०५.८] । नो चेदिति तु क्वचित्पाठः । तत्रापि नष्टाः पर्यायरूपेण द्रव्यस्वभावेन नो*<४>* चेत्[१०५.८] न यदि प्रकृताश्च पर्यायाः कर्तृकत्वेनाभिसंबध्यन्ते । एतदाशंक्य सिद्धान्त्येवाह किमन्यरूपता तेषामि[१०५.८]ति । द्रव्यस्वभावस्य श्रुतत्वात्, द्रव्यस्वभावादन्यस्वरूपता तेषां किमस्तीत्यर्थः । शेषं समानं पूर्वेण । अनुगामिरूपं द्रव्यमुदयव्यययोगिनस्तु पर्याया ऐकात्म्यञ्च द्रव्यपर्या*<५>*याणामह्रीकैः किं नेष्तं? तत्र व्ययिनः पर्यायानधिकृत्योक्तम् । इदानीमुदयिनोऽधिकृत्याह -- द्रव्यात्मनी[१०५.९]ति । पर्याया इत्यनुवर्तते । द्रव्यस्यात्रैव श्रुतत्वात्तत्[१०५.९]शब्देन तस्य परामर्शः । तदयं वाक्यार्थो विरुद्धधर्माध्यास(से) भेदनिबन्धनेपि केन कारणेन ते [१०५.१०] पर्यायाः द्रव्यात्मका इति । विरुद्ध्धर्मा*<६>*ध्यास एव कुत इत्याह -- द्रव्यात्मनि स्थिते पश्चाद्भवन्त [१०५.९] इति । हेतौ शतुर्विधानाच्च पश्चाद्भावादित्यर्थः । तन्निष्पत्तावनिष्पत्तिरेव विरुद्धधर्माध्यास इति भावः । {प्. ३४६} अनेन च प्रकारद्वयेन तादात्म्यहापनेन भिन्नरूपाणामेषां तेन सह सम्बन्धाभावात्तद्धर्मत्वमेव च न स्यात् । ततश्च प्रकृतकृतिदर्शितमत्रैव वक्तव्यान्तरं समुञ्चिन्वन्नाह भूत... किमिति [१०५.१०] तत्र द्रव्ये भूतं जातं किं? द्रव्यपर्याययोरैकात्म्येन द्रव्यस्थितौ पर्यायाणामपि नियता स्थितिरिति न किञ्चिद्भूतमित्यभिसन्धिः । यतः [१०५.१०] कस्यचित्तदतिरिक्तस्याभावात् । अभिप्रायमविदुषः परस्य वचनमाशंकमान आह भेदे[१०५.११]ति । भिद्यन्त इति भेदाः पर्याया एव *<८>*तद्रूपं भूतं यदाष्यते [१०५.११] । एतन्निराचिकीर्षन्नाह भिन्नमि[१०५.१२]ति । हिरवधारणे भिन्नमित्यस्मात्परो द्रष्टव्यः । अभेदे [१०५.१३] तयोरैकात्म्ये । एतदि[१०५.१४]ति द्रव्याविनाश(शे) पर्यायाः पर्यायरूपेण नष्टा न धर्मिरूपेण, स्थिते च तस्मिन् भेदरूपं भूतमिति चेति । असंबद्धत्वमेवास्य पूर्वसामर्थ्योक्तं कण्ठोक्तं कुर्वन्नाह[१२८]एवमि[१०५.१४]ति नष्टं च तदन्[४५ ]*< १>*ष्टं चेति तथा । [१२८] एकमिति स् ___________________________ तदैतत्प्रसज्यत इति पार्श्वस्थस्याविदितप्रस्तावस्य प्रश्नमाशंक्याह -- द्रव्ये[१०५.१५]त्यादि । यस्मादुक्तया नीत्या लक्षणभेद एव सिद्धस्ततः [१०५.१६] तस्मात् । सम्प्रति कार्यभेदं प्रस्तुवन्नाह -- कार्ये[१०५.१७]ति । कार्यभेदात्तयोः स्वभावस्य भेदो यदि भवेत्[१०५.१७] । तथा सति [१०५.१७] स्वभावभेदे सति अवश्यं हि भेदमिच्छता स्वभावभेद एवैष्टव्योऽन्यथा भेदासिद्धेः । सति *<२>*चैवं किमकिञ्चित्करः कार्यभेदो भेदसिद्ध्यर्थमुच्यत इति परं शिक्षयन्नाह स्वभावस्यैवे[१०५.१९]ति । ननु कार्यभेदोऽभिन्नस्य स्वभावस्य भेदक इति किञ्चित्कर एवापि(एवोप)न्यासार्होऽपि च तत्किमेवमुच्यत इत्यासंक्याह न हि [१०५.२०] इति । हिर्यस्मात्कार्याणां भेदः पश्चात्प्रकरणात्स्वहेत्वागतस्याभिन्नस्वभावस्य पश्चाद्भवनस्वभावस्य तस्यैव स्वहेतुबलायातस्याभिन्नस्य न भेदकः [१०५.२०] हेतौ शतुर्विधानात्पश्चाद्भावादित्यर्थः । प्राग्भावी हि कारणं तद्भिन्नं स्वभावं कुर्यादपि, न तु पश्चाद्भावीत्यभिप्रायः । पश्चाद्भवन्नपि कस्मान्न भेदक इति? आह स्वभावस्येति [१०५.२१] । ननु कार्यभेदः स्वहेतुसमुत्थं स्वभावं मा नाम विकार्षित्तदवस्थे विकारायोगात्, तमेव तु विनाशयि*<४>*ष्यतीत्याह नाशेति [१०५.२१] । यदि चायं कार्यभेदस्तयोः स्वभावस्य भेदकः स्यात्तदयं दोषः स्यादिति दर्शयन्नाह -- एकान्तेने[१०५.२२]ति । {प्. ३४७} ते द्रव्यपर्यायात्मके वस्तुनी [१०५.२२] । स्यादेतत्-- स्यादयं दोषो यदि भेदः पश्चात्प्रकरणात्स्वहेत्वावगे(त्वाग)तस्याभिन्नस्वभावस्य पश्चाद्भवन्स्वभावस्य तस्यैव स्वहेतुबलाया*<५>* तस्याभिन्नस्य न भेदकस्तयोरभिन्नोय(यं) स्वभावो न भवेत् । यावतास्त्यभिन्नोपि स्वभावस्ततस्तयोरभेदोपीत्याह स चेति [१०५.२२] । सोऽभिन्नः स्वभावः । तयोः [१०५.२३] द्रव्यपर्याययोः, केन कारणेन । कुतः पुनरसौ तयोर्न स्यादित्याह -- विभिन्नाभ्यामि[१०५.२३]ति परस्परभिन्नाभ्यां द्रव्यपर्यायाभ्यामभिन्नस्याभि*<६>*न्नस्वभावस्य कल्पितस्य तस्य । विभेदतो [१०५.२३] भेदाद्व्यतिरेकात् । भेदे हि कार्यकारणभावः संबन्धः । स चात्र नास्तीति च बुद्धिस्थम् । तेषां [१०५.२३] द्रव्यपर्यायकल्पिताभिन्नस्वभावानाम् । तस्यापि [१०५.२५] तृतीयस्यापि स्वभावस्य तदभेदप्रसिद्ध्ये [१०५.२५] द्रव्यपर्यायाभिन्नस्वभावाभेदप्रसिद्ध्यर्थं परश्चतुर्थः कल्पनीयो [१०५.२६]न्यथायः -- *<७>*शलाकाकल्पास्तूयेव(स्त्रय एवा)संबद्धाः प्रसज्येरन्निति भावः । एवं पञ्चमादावपि सैव वार्तेत्यादिना भिन्नस्वभावस्यासम्बन्धनिश्चयपरिपन्थिन्य[न]वस्था स्यात् । ननु किम[न]वस्थाभयाद्दृष्टानेकस्वभावापलापः कर्तव्यः इत्याह -- न चेति [१०५.२७] । स्यादेतत्स्यादयं दोषो यद्यभिन्नस्य स्वभावस्य द्रव्यपर्यायाभ्यां भेदोऽप्युपगम्येत । किन्त्वभेद*<८>* एवेत्याह ऐकान्तिकस्त्वि[१०५.२९]ति । भिन्नयोर्द्रव्यपर्याययोरभिन्नास्वभावादभेद ऐकान्तिको यदि भवेदिति योज्यम्, भेद एव तयोर्विशीर्येत [१०५.३०] विलीयेत । कुत इत्याह तदेके[१०५.३०]ति । तस्मादेकस्मात्स्वभावादव्यतिरेकस्तयोरित्यर्थात् । अथवा विभिन्नाभ्यामित्याद्यन्यथा व्याख्येयम् । विभिन्नाभ्यां [१०५.२३] द्रव्यपर्यायाभ्यामभिन्नस्या[१०५.२३]व्यतिरिक्तस्य [४५ ] *<१>*विभेदस्तदात्मवद्भेदात् । अयं चाभिप्रायो द्र्व्यपर्या[य]योः कल्पिताभिन्नस्वभावयोस्तादात्म्योपगमे तस्य वा तयोरनुप्रवेश एषितव्यस्तयोर्वा तत्रेति । तत्र यदि कल्पितस्य स्वभावस्य द्रव्यपर्याययोरनुप्रवेशस्तदा तावेव स्वरूपेण व्यवतिष्ठेयातां न त्वसाविति सोऽसन्कथं तत्सम्बन्धी स्यात् । ननु च नासौ स्वभावस्तयोरुपलीयमानस्तदभेदा*<२>*नुभावी किं तर्हि तेषामभेदसिद्ध्यर्थमभिन्नस्वभावोऽन्योऽभ्युपगम्यते इत्यभिप्रायस्य परस्य वचनमाशंकमान आह तेषामि[१०५.२४]ति । अत्रापि दोषान्तरमुपेक्ष्यैवानवस्थां दर्शयन्नाह तथे[१०५.२६]ति । अथ द्रव्यपर्याययोस्तस्मिन्नभिन्ने स्वभावेऽनुप्रवेशस्तत्राह ऐकान्तिकस्त्वि[१०५.२९]त्यादि इति । {प्. ३४८} ननु न तयोस्तदाभि(दाभि)न्नस्वभावयोगादभेदो येनैव*<३>*मुच्यते । किन्तु स्वत एवाभेद इत्याह अभेदस्ये[१०६.१]ति । अभेदस्य द्रव्यपर्याययोः स्वरससिद्धस्यैकात्म्यस्य अपरित्यागे [१०६.१]ङ्गीकारे । तस्य भेदस्य अवितथाभावे [१०६.२] सत्यत्वे । अभेदे [१०६.२] प्रतिपाद्ये मृषार्थत्वात्(र्थता) तत्प्रतिपादकस्य वचनस्येत्यर्थात् । कस्मात्पुनर्भेदाभेदावेकात्मकौ न स्यातामित्याह अन्योन्ये[१०६.३]ति । अन्योन्या*<४>*भावरूपाणाम[१०६.३]न्योन्यव्यवच्छेदेन व्यवस्थितात्मनाम् । एकस्य भावो [१०६.४] विधिरपरस्याभावा निषेधो यस्तद्धेतुको यतः [१०६.४] भेदाभेदाभ्यां द्विरूपता नास्ति । यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गः (ङ्गं) स्यान्नैकत्र भेदाभेदौ भवेताम् । स एव तु न भेदव्यवस्थानिमित्तमित्याशंक्याह अन्योन्याभावरूपाश्चे[१०६.४]ति । विरोधो [१०६.८] *<५>*विरुद्धधर्माध्यासोऽभिप्रेतः । भेदशब्देन भेदव्यवस्था विवक्षिता । लक्षण[१०६.८]शब्देन च निमित्तम् । तेनायमर्थो यदि विरुद्धधर्माध्यासो भेदव्यवस्थाङ्गं नेष्यते, तदैवं न स्यात् । एवं च कथं स्यातेवं च कस्मान्नेष्तव्यमिति । तद्रूपाः सन्तोपि न भेदिनो [१०६.५] भिन्नाः स्युर्विरोधस्य भेदव्यवस्थाङ्गत्वात् । अन्येन प्रकारेण तद्विनाशे [१०६.६] पर्यायविनाशे । द्रव्यं कथं विनाशि स्यात् । द्रव्यं हि पर्यायरूपेण नश्यति, न तु द्रव्येरूपेणेत्यह्रिकैरिष्यते । तद्रूपेणापि विनाशः कस्मादिष्यते । सर्वथैव तस्य विनाशः किन्नेष्यत इत्यर्थः । कथं नाम द्रव्यमेष्तव्यमित्याकांक्षायां षिक्षयन्नाह कूटे[१०६.७]ति । नित्यता [१०६.७] स्थिरता । "नेध्रु(र्ध्रु)व" इत्य*<७>*नेन निसस्त्ययो विधानात् । अप्रच्युतानुत्पन्नपूर्वापररूपस्यावस्थानं कूटस्थनित्यता, भेदेषु [१०६.७] पर्यायेषु । परिणामनित्यता द्रव्येषु कस्मादिष्तेति सामर्थ्यादावेदितम् । अस्तु तर्हीष्ता कूटस्थनित्यतेत्याशंक्याह तदिष्टावि[१०६.९]ति । तस्याः कूटस्थनित्यताया इष्टौ । अत्र दोषान्तरमुपेक्ष्यैव एतदाह किन्ने[१०६.९]ति । यथोत्तरोत्तरसर्वपर्या*<८>*यानुगामिसुवर्णत्वाद्येकं सामान्यमिष्यते तत्तद्भिन्नदेशादिसर्वव्यक्त्यनुयायिसुवर्णत्वगोत्वाद्येकं किं [१०६.१०] कस्मान्नेष्यते । इच्छामस्तर्हीदमपीत्याह जनन्ये[१०६.१०]ति । जननी माता । प्रथममढा पत्नी जाया । ननु यदि स्त्रीत्वसामान्यमभिप्रेत्येदमुच्यते तदाभ्युपगम एवोत्तरमिति कोयमनुपया(नुयो)गः ? भार्यात्वञ्चोपाधिरूप न [४६ ] *<१>*सामान्यम् । अन्यथा संकेतावेदिनोपि गाव इव ता अपि भार्या म[अ]भिमता व्यक्त्यस्तेनरूपेण सामान्यभासां {प्. ३४९} धियमादधीरन् । न चैतदस्ति, तस्मादयुक्तमेतदिति । शोभनमुक्तं भवता केवलमेवं वदितुरभिप्रायो न सम्यग्ज्ञायि । अयं खल्वस्याभिप्रायो येनोपाध्यवच्छिन्नेन केनचिद्रूपेण तत्स्त्रीत्वं तस्यां जायायां वर्तमान*<२>*मेनां तथोपभोगाङ्गं नोपपादयति विनैव तावदात्मना जनन्यामपि तेन वर्तितव्यमन्यरूपाभावात् । सति चैवं तस्या अपि तथात्वमापद्येत; एवमत्रापेक्षयाप्युच्यमानजायाया अपि तथात्वमनिवार्यम् । यद्येवं शाबलेयबाहुलेयादीनामप्येकगोत्वादियोगादेकत्वं किं नापाद्यत इति? प्रियं प्रियेणाचरितमिति । उदाहरण*<३>*दिङ्मात्रं तूक्तमेतदुपहासापदेशेनेति सर्वमवदातम् । एवमुक्तया नित्या भेदाभेदावेकाधिकरणौ न युक्ताविति प्रतिपाद्याधुना भवेतां तौ तथा, तथाप्युक्तदोषान्न मुक्तिरिति प्रतिपादयन्नाह भेदाभेदोक्तदोषाश्चे[१०६.११]ति । द्रव्यपर्याययोर्भेदे ह्येकान्तेन विभिन्ने ते स्याताम् । न त्वेकं द्विरूपम्, तथा*<४>* सुवर्णकुण्डलादिपर्याययोरपरस्परात्मतया कुण्डलादिसुवर्णविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गादयो दोषाः । अभेदपक्षे चैकस्याने[क]कार्यकर्तृत्वमुक्तमव्याहतमापद्येत । द्रव्यपर्यायरूपत्वेनाभ्युपेतं द्वैरूप्यं हीयेतेत्यादयो दोषाः । सति चैवं विफलोऽयमेकस्य भेदाभ्युपग*<५>*म इति चार्थाद्दर्शितम् । तयो[१०६.११]र्भेदाभेदयोरिष्तौ [१०६.११] कथं वा न भवन्ति । प्रत्येकं भावान्न समुदाये भवन्तीत्याह -- प्रत्येकमिति ते [१०६.१२] दोषाः । ननु च दृष्टमिदं यत एकैकभाविनो दोषाः समुदायावस्थायां न भवन्तीत्यभिप्रायवान् परः प्राह गुडश्चेति [१०६.१३] । केवलो गुडः ष्लेष्मणोर्हेतुर्नागरं शुण्ठी *<६>*केवलं पित्तस्य कारणम् [१०६.१३] । मिलितयोस्त्वनयोस्तौ दोषौ कस्मान्न भवत इति प्रकरणाद्द्रष्टव्यमध्याहारो वा कर्तव्यः । अत्र समाधिमाह तन्मूलमि[१०५.१४]ति । परस्परोपसर्पणाश्रयात्प्रत्ययात्तदुपादानसहकारिणोऽन्यदेव [१०६.१४] तत्-- कार्यकारिणः केवलाद्गुडात् । केवलाच्च नागराद्भिन्नमेव विशिष्ता*<७>*र्थक्रियाकारि द्रव्यान्तरमिदं गुडनागरा[१०६.१४]ख्यमुत्पन्नम् । न तु स एव गुडो नागरञ्च द्वे इमे द्रव्ये । तन्मूलं [१०६.१४] तद्गुडनागरकारणम् । अनेनैतदाह -- विशिष्टश्लेष्महरणाद्यर्थक्रियाकारिद्रव्यान्तरमिदमुदपादि तेन प्रत्येकभावी मम दोषो न भवति । भवतस्तु मिलितावपि भेदाभेदौ द्रव्यपर्यायलक्षणौ तावेवेति कथन्नो(कथमु?)भयभा*<८>*विनो दोषा न भवेयुरिति । अथास्तु द्रव्यान्तरमिदं तथापि मधुरत्वात्कटुकत्वाच्च कथं कफपित्तकृन्न भवतीति पार्श्वस्थस्य चोद्यं प्रतिक्षिपन्नाह मधुरमि[१०६.१५]ति । सर्वं मधुरं [१०६.१५] कफहेतुर्न संभाव्यते । स्यादि[१०६.१५]ति संभावनपदमेतत्, शक्यार्थं वा । केन पुनर्निदर्शनेन सर्वं मधुरमेव(वं) संभावयितुमयुक्तमित्यत आह यथे[१०६.१५]ति । {प्. ३५०} कफना[४६ ] *<१>*शकत्वादेव मधुर(न) इत्यभिप्रायः । अनेन मधुरत्वादित्ययं हेतुः साधारणानैकान्तिको दर्शितः । तीक्ष्णं [१०६.१६] कटुकं वा सर्वमिति नेति स्यादिति चानुवर्तनीयम् । पूर्ववन्निदर्शनं व्याख्येयम् । मागघिका [१०६.१६] पिप्पली शीतवीर्याहित्ये(ते)त्याशयः । अनेनापि कटुकत्वादित्यस्य साधरणानैकान्तिकत्वं दर्शयतोऽयमभिप्रायः । गुडनागराख्यस्य द्रव्यान्तरस्या*<२>*स्यान्यदेवेत्थं मधुर(न) इव माधुर्यं कटुकत्वमपि पिप्पल्या इवान्यदेव तेन मिलितावस्थायां न दोषद्वयसम्भव इति । यदि च प्रत्येकभाविनां दोषाणां मिलितावस्थायां गुडनागरादेरभावोपदर्शनेनैतत्प्रतिषिध्यते, तदा प्रत्येकभाविनां दोषाणां समुदायावस्थायामपि भावदर्शनात्किमस्मदभिमतं चानुप(नाभ्युप)पद्यत इति *<३>*दर्शयितुं प्रत्येकमि[१०६.१७]त्यादिनोपक्रमते । यदि वा समुदायावस्थायां तेषां दोषाणामसद्भावे साध्ये प्रत्येकभावित्वादित्यस्य हेतोः साधारणानैकन्तिकत्वं दर्शयितुमाह -- प्रत्येकमि[१०६.१७]ति । यत्प्रत्येत्येकं यस्य कार्यस्य निदानं [१०६.१७] निमित्तं स्वतस्तद्यदि स्वहेतुबलान्मिभ्रम[१०६.१७]न्यसहितमेवाधिकरणमुत्पद्यते तदा किं *<४>*तत्कार्यकारि तत्र दृष्टम्? [१०६.१८] क्षेपे किमः प्रयोगाद्दृष्टमेवेत्यर्थः । स्नेहो हि कफहेतुरूष्णत्वं च पित्तकृद्दृष्टं सहितावस्थायामपि ते तत्कार्यकारिणी दृष्टे यथा अमूमाषङ्गते, अत एव यथा माष [१०६.१८] इत्युदाहरति । माषो हि स्निग्धत्वादूष्णवीर्यत्वाच्चोभयात्मक उभयमेव कार्यं कफपित्तलक्षणं करोतीति । ननु मधुररसादपि मधुरः(नः) श्लेष्मा कस्मान्न जायते कटुकाया अपि पिप्पल्याः कुतो न पित्तं येनास्मदुक्तं भवता व्यभिचार्यते । तथाप्यभावे वा गुडान्नागराच्च तौ दोषौ मा भूतामिति परस्य मतमाशंक्य दृष्टस्योपपत्तिप्रकारं दर्शयितुमाह शक्त्यपेक्षञ्चे[१०६.१९]ति । यस्मात्तेन कार्येणोत्पत्तव्यम्, तस्य स्वोपादानशक्ति*<६>*मपेक्षत इति शक्त्यपेक्षम् [१०६.१९] । किं तत्कार्यं माधुर्यादि गुणमात्रं निबन्धनं न भवतीति प्रश्नेऽभ्युपगम एवोत्तरं कुर्वन्नाह -- गुणेति [१०६.१९] । आचारविशेषानवच्छिन्नः केवलो माधुर्यादिगुणो गुणमात्रं तदनिबन्धनम् [१०६.१९] अकारणं यस्य तत्तथोक्तम् । शक्त्यपेक्षत्वेपि कार्यस्य तस्याः सर्वत्र भावात्तदवस्थो [दोष] *<७>*इत्याह सर्वत्रेति [१०६.२०] । तासां [१०६.२०] शक्तीनां किञ्चिदेव कार्यं कस्यचिदेव जन्यतया सम्बन्धी भवति । अयमर्थो मधुरत्वाविशेषेपि किञ्चिदेव स्वहेतुसमुद्भूतरूपविशेषं यत्तथाकार्यकारि न तत्सर्वम् । तद्धेतोस्तज्जननः स्वभावः कुतस्त्य इति चेत्, स्वहेतोस्तस्यापि तथेत्यपर्यनुयोज्य ए(-ज्यमे)वैतत् । एतदुक्तं भवति -- एकन्तेन विभ(भि)न्नत्वादि*<८>*दोषो हि भेदमात्रे प्रसज्यमानो न भेदस्य शक्तिविशेअमपेक्षते । न च भेदस्य {प्. ३५१} विशेष एव संभवति मिलितावस्थायामपि ताद्रूप्यादेव । एवमभेददोषोपि द्रष्टव्यः । तस्माद्गुणमात्रनिबन्धनं यत्कार्यं तद्यथा सति तस्मिन् भवति । तथा भेदाभेदमात्रे संभविनो दोषा ये ते तद्भावे कथं न स्युरिति । भेदाभेदाभ्यामुत्पत्ति[४७ ]*< १>*धर्मत्वममीषां दोषाणामभ्युपेत्य सर्वमिदमुक्तमधुना तु तादात्म्यादेव तेषामनिवार्यत्वमायातमिति प्रतिपादयितुं गुडनागरादौ परेण दृष्टान्तीकृते जन्यदोषाणामन्यथैवानुपपत्तिमभ्युपगच्छन्नाह विरोधी[१०६.२४]ति । विरोधिनो नागरादेः । सन्निधिस्तस्माद्विरोधिशुन्याद्गुडादेर्जन्म यस्य दोषस्य स तज्जन्मा न भवेद[१०६.२३]पि । तदात्मा [१०६.२४] भेदाभेदात्मा । तु दोषः, स तु तस्मिन्नात्मभूते भेदे अभेदे चानिष्तोपि न निवर्तते [१०६.२४] । अतत्स्वभावत्वप्रसङ्गादिति भावः । इदमत्रार्थसतत्त्वं भिद्यमानं हि रूपं भेदो विपर्ययेण चाभेदः । विभिन्ने च ते स्यातामित्यादिना च वस्तुतस्तदात्मक एव दोषो दर्शितः । अनेककार्यकारित्वमपि अभिन्नरूपात्मकमेव वस्तुतः । अन्य*<३>*दपि दूषणं वस्तुतो भेदाभेदात्मकमेव । व्यावृत्तिकृतस्तु भेदो यदि भवेद्भवतु न तावता प्रकृतक्षतिरिति । तन्मतेऽवस्थान्तरावयविनः सत्त्वमुपेत्यैतदुक्तमिदानी तु स एव नास्तीति दर्शयितुमाह भागा एव चे[१०६.२५]ति । भागा एव भागत्वेनाभिमता एव । परमार्थतस्तु परमाणव एवेत्यर्थः । तेन तेन प्रकारेणाधिस्ति*<४>*र्यगूर्द्ध्वावस्थानलक्षणेन तत्तदर्थक्रियाकारित्वलक्षणेन च संनिविष्ता [१०६.२५] व्यवस्थिताः । तद्वान् [१०६.२३] भागवान् । निर्विभागः स्वतो निरंशः । अनेन दृश्यानुपलंभो {दर्शितः । तदभावाच्च केन सह तेषां भेदाभेदचिन्ता स्यादिति चाभिप्रेतम् । नन्वसत्येकस्मिन्नवयविनि धारणाकर्षने कथमुपपद्येयातामित्याह -- अन्योऽन्ये[१०६.२७]ति । ते*<५>* [१०६.२७] भागाः । एक सामग्र्यधीनत्वादन्योन्यकारणाधीनापेक्षाः सन्तस्तथावस्थितवपुषो येनैकस्याकर्षने धारने वान्येषामपि ते भवत इति । न केवलं दृष्टहेतुबलात्तेषां तथास्थितिरपि त्वदृष्टवशादपीति दर्शयन्नाह -- कर्मणां चे[१०६.२८]ति । लोकस्यासाधारणचेतनात्मकर्मणामपि सामर्थ्यात्तेऽविनिर्भागवर्ति*<६>*नः [१०६.२८] परस्परं विभागेन न वर्तन्ते । ननु चाकारणस्य कर्मणः सामर्थ्योपवर्णनमयुक्तमित्याशंक्याह सन्निवेशने[१०६.२९]ति । हि[१०६.२१]र्यस्मादर्थे । "कर्मजं लोकवैचित्र्यम्" [अभिध्. ४.१] । {प्. ३५२} इति वचनात्कर्मभिर्जनिता [१०६.३०] इत्याह । तेषामेव प्राणिनां साधारणैरसाधारर्णवौ कर्मभिः । तेभ्यः [१०६.३०] कर्मस्य एव तदाधिपत्यादेवेति यावत् । अवि*<७>*भागिनो [१०६.३०] विभागेन न वर्तन्ते । अथासत्येकस्मिन्नवयविनि एकोयं घट इत्यादि व्यपदेशः कथं स्यादित्याशंक्याह -- ते चे[१०६.३१]ति । ते भागाः कथंचिदेककार्यकारित्वादिना प्रकारेण । ननु चैको घट इत्यादि शब्दजन्मनि शब्दानुविद्धे ज्ञाने तावत्किञ्चिदेकत्वेन प्रत्यवभासते तदेव च स्वलक्षणं स्वलक्षणत्वेनाध्यवसायात्त कथमभे*<८>*दिनोऽर्थस्यापलापः क्रियत इत्याह न चे[१०६.३२]ति । स्वलक्षणालम्बनं ज्ञानं स्वलक्षणज्ञानं [१०६.३२] तस्मिन्न । अयमभिप्रायो यदि शब्दगोचरोऽर्थः स्वलक्षणं स्यात्तदेन्द्रियप्रभवेपि प्रत्यये तथैव प्रतिभासेत । न चैतदस्ति सजातीयविजातीयव्यावृत्तप्रतिभासात् । न चैकमेव रूपमुपायभेदेऽपि भिन्नाकारावभासि युक्तम् । तदुक्तम् "एकस्यै[४७ ]*< १>*व कुतो रूपं भिन्नाकारावभासि तत्" [प्रमानावा.२.२३५] एवं तर्हि शब्दप्रत्ययगोचर एव किञ्चिदेकं तावदास्ताम् । ततो न सर्वथैकस्याभावः सिध्यतीत्याह अस्पष्ते[१०७.१]ति । त एव [१०७.१] भागा एवम् । विजातीयव्यावृत्त्या केवलया प्रतीयमानास्पष्टरूपाः [१०७.१] । अयमर्थस्तत्रापि ज्ञाने त एव भागा अ[वि]वेचितभेदाः प्रतीयन्ते न तु तदतिरिक्तं किञ्चिदेकमपि । अध्यवसायानु*<२>*रोधेन च त एवेत्युक्तं द्रष्टव्यम् । यतौ भागातिरिक्तं निर्भागदृश्यमनुपलभ्यमानमसद्व्यवहारगोचरः तत[१०७.२]स्तस्मात् ।[१२९]तेषां भागानां पर्यायशब्दाभिलाप्यानाम् । __________नोतेस्__________ [१२९] एषां स् ___________________________ पुनरपि निर्भागमङ्गीकृत्य सिंहावलोकितन्यायेन दूषणान्तरमाह । नि[१३०]र्भागस्य चे[१०६.३]ति । भिन्नो देषो यस्य स चासावंशश्चेति पदसंस्कारं कृत्वा पश्चादनेकशब्देन सह *<३>*कर्मधारयः कार्यः । तद्योगिता [१०७.३] तद्व्यापिता । अयमाशयो यदि तत्सांशं स्यात्, तदेकेनांशेनैकं भिन्नदेशमंशं व्याप्यापरेणापरं व्याप्नुयात् । न तु निरंशं सत्तथा कर्तुमुत्सहत इति । ननु प्रतीयते तावदेकस्यानेकभिन्नदेशांशयोगिता तत्र किं कथमेतदिति विमृष्टेन । तथा चोक्तम __________नोतेस्__________ [१३०] निर्विभागस्य स् ___________________________ [१३१]"तत्तथैवाभ्युपैतव्यं यद्यथैव प्रतीयत ।" __________नोतेस्__________ [१३१] तुलनाश्लोकवा. अनु. १८६ । ___________________________ इत्यभिप्रायवतः परस्य वचनमाशङ्कमान आह प्रतीतेश्चेदि[१०७.४]ति यद्यप्यत्रोक्तमेव दूषणं न निर्विकल्पे नापि विकल्पे ज्ञाने तदेकमनुभासत इत्यदि । {प्. ३५३} तथापि तदुपेक्ष्यैव दूषणान्तरमाह[१३२]ध्वंसे[१०७.४]ति । __________नोतेस्__________ [१३२] क्षणध्वंसानु-स्। ___________________________ ये पर्यायाः स्थेमानं [१०७.५] स्थैर्यं दधतः प्रतीयन्ते [१०७.५] यत्तदोर्नित्यमभिसंबन्धात्ते *<५>*क्षणध्वंसानुभाविनः कुतः कस्मान्मता [१०७.५] इति योज्यम् । अनेनैतदाह प्रतीतिशरणाश्चेद्भवन्तस्तदा कथमन्यथा प्रतीयमाना अन्यथा अनुगम्यन्त इति । पुनः परस्य वचनमाशंकमान आह -- अन्यत [१०७.६] इति । अन्यतो बाधकात्प्रमाणात्तन्मता इत्यभिसम्बन्धव्यम् । इह प्रकृते तद्बाधकं पमाणं समं [१०७.६] तुल्य*<६>*मत्रापि तद्धित इत्यर्थः । उक्तेपि दृश्यानुपलम्भादौ बाधकेऽन्यदपि बाधकं दर्श्यन्नाह -- ऐकान्तिकावि[१०७.७]ति । अनन्यत्वादेकात्मकत्वात् । तयोरन्योन्यानुप्रवेशमुखेन भेद एवाभेद एव वेति नियमवन्तावैकान्तिकाउ स्याताम् । ध्रुवं [१०७.७] निश्चितम् । अथैकात्म्येत्पि पर्याया एव भिद्यन्ते न धर्मी धर्मे (?) च न भिद्य*<७>*ते न तु पर्याया इत्याशंक्याह -- अन्योन्यं वे[१०७.८]ति । विरुद्धधर्माध्यासस्य एकत्वबाधकस्य भावाद्भेद एव नियतो [१०७.८]वश्यंभावीत्यभिप्रायः । अनन्यत्वेपि नायं दोषो भिन्नरूपस्यापि भावादिति परस्य वचनमाशंकमान आह तयोरपी[१०७.९]ति । अपिशब्दो भिन्नकमो भेद इत्यस्मात्परो द्रष्टव्यः । न केवलमभेद इति चार्थः । अत्रा*<८>*प्याह येनात्मने[१०७.१०]ति । अपिशब्ददर्शितमभेदमपि दूषयन्नाह द्रव्ये[१०७.१२]ति । स्वभाव [१०७.१३] इत्यभिन्नस्वभाव इत्यभिप्रेतम् । यन्निमित्ता [१०७.१३] यदभिन्नरूपनिमित्ता । कथं नास्तीत्याह तत [१०७.१४] इति । तत एकस्मात्स्वभावात्, अभेदे स्वभावानुप्रवेशे तयोः स्वात्महानिः [१०७.१४] द्रव्यरूपता पर्यायरूपता च हीयेत, तदात्मवदिति भावः । त[४८ ]*< १>*स्या[१०७.१५]भिन्नस्य स्वभावस्य ताभ्यां [१०७.१५] द्रव्यपर्यायाभ्याम् । त [१०७.१५] इत्यनेनोक्तं बहुत्वमेवाह धर्मी[१०७.१६]त्यादि । तेभ्यो [१०७.१७] द्रयपर्यायतदन्यस्वभावेभ्योऽन्योऽभिन्नः स्वभावस्तेषामेव त्रयाणामभेदसिद्ध्यर्थं कल्प्यते यदि तत्रापि स एव दोष इति पुनः स्वभावान्तरकल्पने च पूर्व [१०७.१८] इव प्रसङ्गोऽनवस्थाप्रसङ्गह्स्यात् । अत्रैव दोषान्तरं समुच्चिन्वन्नाह *<२>*धर्मीत्वमि[१०७.१९]ति । कुत एवं स्यादित्याह तत्तन्त्रत्वादि[१०७.१९]ति । तस्मिन् पारतन्त्र्यं तस्मात् । कयोस्तत्तन्त्रत्वमित्यपेक्षायाम् {प्. ३५४} आह -- तदन्ययोरि[१०७.१९]ति । तस्मादेकस्वभावादन्ययोर्द्रव्यपर्याययोर्भेदस्याभेदस्य च तन्मूलत्वात्तत्तन्त्रत्वं प्रत्येयम् । अस्तु तर्हि तस्य तथात्वमनेकात्मकत्वं च वस्तुनः । न च दृष्टस्यानवस्थया अपलापः क*<३>*र्तुं शक्य इत्याह -- न चैवमि[१०७.२०]ति । चो यस्मान्नैवं प्रमाणेन गम्यते । प्रकरणमुपसंहरन्नाह तेने[१०७.२०]ति । तेना[न]न्तरोक्तेन कारणकलापेन अयमनेकान्तवादो जाल्मकल्पित उत्पथप्रस्थितकल्पितः । इति[१०७.२१]र्हेतौ । बहुभाषितया अलं [१०७.२१] न किञ्चित् । एतावतैव सर्वस्य समाहितत्वादिति भावः । अवश्यमो भा*<४>*व आवश्यकमित्यस्य भावप्रत्ययान्तत्वादपृक्करणस्यावश्यकमिति प्राप्ते योयमावश्यकमपृथक्करणमि[१०८.१]ति प्रयोगे सामानाधिकरण्येन निर्देशः सः कथमिति तु न जाने महान्त एव प्रष्टव्याः । संयोगविभागेषु [१०८.११] कर्तव्येषु अनपेक्षो [१०८.११] न कारणमिति रूपादिवर्गाभिप्रायेणानपेक्ष*<५>*स्य तत्कारणमात्रं विवक्षितम् । न तु विशेषप्रतिषेधात्सापेक्षस्य कारणत्वम् । अगुणत्वेन च द्रव्यकर्मणोर्व्यवच्छेदः । सामान्यवत्त्वेन च सामान्यविशेषसमवायानाम् । संयोगविभागापेक्षया त्वनपेक्षो न कारणं किन्तु सापेक्ष एव कारणमिति विवक्षितम् । सापेक्षत्वं न चरमभाव्यपे*<६>*क्षया द्रष्टव्यम् । न तु कस्यचिदन्यानपेक्षस्यैव कारणत्वमस्ति येनानपेक्षोऽकारणमित्युच्यमानं शोभेत । तदात्वगुणत्वेन द्रव्यस्य व्यवच्छेदो द्रष्टव्यः । तद्यथा तन्तुतुरीसंयोगलक्षणो गुणः पटतुरीसंयोगे कर्तव्ये पटं पश्चाद्भाविनमपेक्षते । यथा च वंशादौ पाटनाख्या*<७>*वयवकर्मजोऽवयवान्तराद्विभागः पश्चाद्भाविनं द्रव्यविनाशमपेक्ष्य सक्रियस्यावयवस्याकाशादिदेशाद्विभागमारभते, यथा चासौ न क्रियाजो विभागः किन्तु विभागज एवेति विभागजं विभागमभ्युपगच्छद्भिर्वैशेषिकैरिष्यते तथा नेहाप्रकृतत्वादुच्यते । गुणवदित्यत्रादि[१०८.१५]ग्रहणात्समवायिकारणत्वस्य संग्रहः । चो*<८>*द्य[१०८.२८]शब्देन प्रकरणाद्बौद्धकृतंचोद्यं द्रष्टव्यम् । तस्य परिहार [१०८.२८] इति विग्रहः । अस्माकमयमास्माकीनः [१०९.१६] । "[१३३]युष्मदस्मद्भ्यामन्यतरस्यां खञ्" इत्यनेन खञ कर्तव्यः । प्राग्व[१०९.६] प्रागुक्तसंस्कारपक्ष इव । निर्बन्धग्रहणेन [१०९.२१] चेत्याचष्ट [१०९.२५] इति सम्बन्धः । __________नोतेस्__________ [१३३] पाणिनीयं सूत्रं (४.३.१) तु भिन्नम् । ___________________________ सहकरणशीला [११०.६] एककरणशीलाः । प्रत्ययान्तरं [१११.२] वासनाप्रबोधकं रसादिकञ्च [४८ ] *<१>*यथायोग्यं वाच्यम्, तत्सापेक्षा [१११.२], ततः [१११.३] सामग्र्यास्तथाभूताया । इतरस्ये[१११.३]ति {प्. ३५५} निर्विकल्पकस्य रसाद्यालम्बनस्य । तदुपादेयत्वेन [१११.३] विज्ञानलक्षणोपादानोपादेयत्वेन । ननु च मनस्कारादिसमुदायजन्यमिदमेकमुपदर्शितमेतत्सामग्रीमध्यप्रविष्टैकजन्यं तु किं न दर्शितमित्याह तदन्यदि[१११.१३]ति । एकजन्यमिति तत्सामग्र्यन्तःपतितकारणानपेक्षैकजन्यमि*<२>*त्यवसेयम्, न त्वेकजन्यं नाम किञ्चित्संभवति । तत्र चक्षुरादिनिरपेक्षमनस्कारजन्यो मनोराज्यादिविकल्पः, विषयादिनिरपेक्षचक्षुर्मनस्कारात्मकद्वयजन्यं द्विचन्द्रादिविज्ञानम्, समनन्तरप्रत्ययाद्विज्ञानाच्चक्षुर्विज्ञानस्योपलम्भामहे(?)त्याद्यभिधानादेवैतदूहितुं शक्यमित्यहिप्रायेण च स्व[१३४]यमूह्यमि[१११.१३]त्याह । ननु किं भागतो विशेषवृत्तिर्येन*<३>* बहुवचनेन निर्देश इत्याह[१३५]तज्जन्यापेक्षया चे[१११.१७]ति । सामग्र्यन्तरस्य स्वभावभेदवतो भावाद्भिन्नकार्यप्रसूतिः । __________नोतेस्__________ [१३४] स्वयमभ्यूह्यं स् [१३५] अतज्जन्यापेक्षया स् ___________________________ कुतः स्वभावभेदवत्त्वं तस्येत्यपेक्षायां योज्यं कार्यान्तरे[११२.१]त्यादि । पृथिव्यादीन्युपादाय वर्तन्त इत्युपादाय रूपं [११२.५] परस्परादि मयूरव्यंसकादित्वात्समासः । आगमापेक्षया वक्तुमुद्यतेन च*<४>* परेणागमभाषैवानूदिता । स्वभावस्थितं तेनाश्रयः(स्थितेराश्रयः) स्वभावस्थित्याश्रयः [११२.१८] । अवश्यं हि प्रतिबन्धकेन किञ्चित्करेण भाव्यम् । किञ्चित्शब्दवाच्येनार्थान्तरेणेत्यभिप्रायेणाह स्वभावान्तरोत्पादने यावदि[११२.१९]ति । ननूपकारक आधारो न तु जनकस्तत्कथमेवमुच्यत इत्याह नही[११२.२७]ति । भूतानां [११३.२] पृथिव्यादी*<५>*नाम् । उच्यत इति [११३.२]वैभाषिकमते कथ्यत इति द्रष्टव्यम् । न तुसौत्रान्तिकनये भूतभौतिकविभागोस्ति । कालक्षेपेण [११३.९] कालविलंबने । तत्सहभाविने[११३.१४]त्यनुग्राह्यसहचारिणेत्यवसेयम् । अनन्तरं [११३.१४] तदुत्पादनात् । तस्य विशेषस्योत्पादनात् । तस्य [११३.१५] क्रियमाणविशेषस्य । कथं तत्राकिञ्चित्करत्वं तस्य स*<६>*हकारिणो ज्ञापितं भवतीत्याह -- शक्तिप्रतिबन्धकापनयनेने[११३.१९]ति । यस्मादर्थेऽयं निपातः "न वै"[नै]वेति व्याचक्षाणो वै[११३.२५]शब्दमवधारणे दर्शयति । संभावनायां [११४.२] न्यायबलायातायामित्यवसेयम् । अत एव व्यनक्ति न्याये[११४.३]ति । {प्. ३५६} अनेन सहकारीत्यत्रैकार्थः सहशब्दोवार्तिककारेण दर्शितः । कथं तर्हि सह युगपत्कुर्वन्त [११४.१२] इत्ययं व्याचष्टेति चेत्, उक्तमत्र पूर्वमिति न पुनरुच्यते । एवंविध [११४.१३] इत्येकार्थकारी । वह्न्यादिसहकारीशीतक्षणादिलक्षणे कार्याभिसन्धिनापचीयमान[११४.१७]ग्रहणम् । यावते[११५.८]ति तृतीयान्तप्रतिरूपकोऽयं निपातो यस्मादित्यस्मिन्नर्थे, किंत्वेतस्मिन्नर्थे वा अनुवर्तते । सहिता अन्येन युक्ताः क्षणमात्रवि*<८>*लम्बिनः [११५.९] क्षणमात्रस्थायिनः । तदवस्थाया प्राक्पूर्वं पश्चादुत्तरकालं[१३६]पृथक्तद्विकलावस्थायां भावः [११५.१०] सद्भावः । __________नोतेस्__________ [१३६] पृथक्त्व स् ___________________________ ननु यदि स्वहेतोः समर्थस्योत्पत्तिस्तर्हि कथमनन्तरमुक्तम् -- "ते समर्थाः स्वभावतः [११५.६]" इत्यत आह परमते[११५.१६]ति । भवत्यस्मात्कार्यमिति भावो हेतुस्तस्मादिति । तदपि त्वया कस्मान्न व्याख्यातमिति चेत् । न, स[४९ ]*<१>*मर्थः कुत उत्पन्न इत्यस्य व्याघातप्रसंगात् । सहकारिभ्यः सामर्थ्यम्[१३७]इच्छन्ती[११५.१७]ति चमीमांसकमताश्रयणेनाह न तुनैयायिकाएवमिच्छन्ति येन तन्मतोपग्रहेणाप्येतत्संगच्छेत, सहकारिसाकल्यस्यैव तैः सामर्थ्यरूपत्वेनेष्टेः । तथा चाह --जल्पमहोदघिः"सहकारिसाकल्यं तद्वतः सामर्थ्यं वैकल्यं त्वसामर्थ्यम्" इति । __________नोतेस्__________ [१३७] मिच्छति स् ___________________________ समर्थं [११५.२५] विवक्षितकार्यक*<२>*रणे शक्तम् । आवश्यकं[१३८]जननमि[११६.११]त्यस्य शब्दस्य तु सिद्धिः[१३९]पूर्वं न जाने । __________नोतेस्__________ [१३८] अवश्यंजनकत्वं स् [१३९] द्रष्टव्यम् -- पृ. ३५४ पं. ८ -- "अवश्यमो भावः इत्यादिना न जाने इत्यन्तेन कृता", एतदर्थकः पाठस्त्रुटितोत्र भाति । ___________________________ कुशूलञ्च तदपनेतृपुरुषप्रयत्नश्च क्षेत्रनयनं च प्रकिरणं [११६.१४] च प्रकरणात्क्षेत्रे प्रकिरणं चेति द्वन्द्वं कृत्वा पश्चादादिशब्दे[न] बहुव्रीहिः कार्यः । प्रकिरणमित्ययमौणादिकः शब्दो न तु किरतिर्ल्युडन्तो द्रष्टव्यस्तदा गुणस्याप्रतिषेधेन प्रकरणमिति प्राप्तेरसाधु*<३>*त्वप्रसंगात् । समेत्य [११६.१९] योग्यदेशे स्थित्वा सम्भूय आद्येन सह मिलित्वा प्रत्ययैः सहकार्युपादानरूपैः । ननु च "अत एव तयोरवस्थयोर्" इत्यादिना प्रत्यभिज्ञायाः प्रामाण्यमपोदितमेव तत्कथं न पुनरुक्ते(क्तमि)त्याह -- पूर्वञ्चे[११७.९]ति । एतदपि [११७.११] {प्. ३५७} सारूप्यविषयप्रत्यभिज्ञाप्रामाण्यनिराकरणमिति । उक्तमेव सामर्थ्याद्दर्शित*<४>*मेव । तर्हि किमर्थं पुनरुक्तमित्याह -- विपञ्चनार्थं त्वि[११७.१२]ति तुः पूर्वस्मादस्य कथनस्य विशेषं दर्शयति । आध्यात्मिकेषु [११७.१५] आन्तरेषु । पश्चाद्बाह्येपि दर्शयितव्यत्वात्क्रमे तावच्शब्दमाह । शक्यपरिच्छेदं [११७.१५] विशिष्टकार्यकारणतया परिच्छेत्तुं शक्यम् । [१४०]साक्षादव्यवधानेन विज्ञानकार्यकारिणः प्रत्ययाद्धेतोः । *<५>*तस्य जनने -- व्यवधानादिप्रतिपत्तौ व्यवधानादिस्वीकारे, कथं तादृशो न भवतीत्याह अन्यादृशादिति । अन्यादृशाद्धि भवन्नन्यादृशस्यापि हेतोर्हेतुव्यपदेशसंभवाज्जननहेतुरित्याह । कथं तद्धेतुरित्याह तदिति तत्सहकारिभिः परस्परोपसर्पणाद्याश्रयहेतुसहकारिभिरिन्द्रियादिभिः । *<६>*समर्थञ्च तद्विज्ञानजनने स्वस्वक्षणान्तरं चेति तथा तस्यारम्भात् । अनेन परस्परोपसर्पणाद्याश्रयप्रत्ययविशेषेन्द्रियादिकलापस्य साक्षाद्विज्ञानहेतोर्हेतुत्वं दर्शितम् । एतच्चानन्तरमेव स्पष्टयिष्यते । इदं चाक्षेपवतीं सामग्रीमभिप्रेत्योक्तं द्रष्टव्यम् । कथमन्यथाभावस्या*<७>*संभव इति आह परस्परेति । विज्ञाननिर्माणसमर्थाश्च ते हेतवश्च ते च ते इन्द्रियादयश्च तेषामुपादानैः । समर्थहेत्विन्द्रियादेर्जननं तस्मात् । अनन्तरोक्तस्पष्टीकरणं चैतद्द्रष्टव्यम् । __________नोतेस्__________ [१४०] स्प्रतिरत्र त्रुटिता । ___________________________ सुखसंवर्दितत्वादिति व्याचक्षाणो मूले सुखैधित इत्यस्यानभियोगनिमित्तस्यापि सामर्थ्यात्क्रीडन[११९.१२]शील इत्यस्य हेतुभावेन *<८>*विशेषणत्वं दर्शयति । ननु कृतं निष्पादितमुच्यतेऽत्र च किमाचार्येण निष्पादितमित्याशंकां निराकुर्वन्नाह कृतमि[११९.१४]ति । न पुनरे[११९.१५]वमाचक्षाणेन द्विरुक्ताभावो दर्शित इति बोद्धव्यम् । अस्यार्थस्यासकृदुक्तत्वातेकवारं प्रतिविहिते पुनः प्रतिविधापयितरि अवज्ञासंभवेनोपहासांयोगाच्च कृतं कृतमिति निर्देशस्य न्या[४९ ]*<१>*यप्राप्तत्वादतिप्रसिद्धत्वाच्चेति । ननु किं कुर्वन्तं कर्तुं प्रयुङ्क्ते पुनः पूर्वपक्षवादी येन पुनः पूर्वपक्षवादी कारयतीत्युच्यत इत्याह -- पुनरित्यादि । निर्लोठितं [११९.१७] निरूपितं निर्णीतमिति यावत् । पूर्ववन्मीमांसकाभिप्रायेण सामर्थ्यं सहकारिभ्यो जायत [११९.२५] इत्याचष्टे । सामर्थ्यस्यो[१२०.६]त्पत्तिः तद्वतोऽनुत्पत्तिः [१२०.७] । {प्. ३५८} सम्प्रति प्रकारान्तरेणापि प्रत्यभिज्ञाया अप्रामाण्यं परमभ्युपगमयितुं भूमिकां रचयन्नाह -- व्यावस्थितस्यैवे[१२०.१२]ति । अयं चात्राभिप्रायः -- भवतु यावद्बीजादावुच्छूनोच्चूनतरादिविशेषस्य दर्शनात्सामर्थ्योत्पादादिकल्पना न पुनरिह तथा अदर्शनादिति । व्यवस्थितस्यान्यत्वमनापन्नस्य । सामर्थ्यं [१२०.१३] विज्ञानोत्पादादिसामर्थ्यम् । अप्रतिभासमानो विवेको [१२०.१४] यस्य पुं*<३>*सः स तथा । यद्यपि विवेकोऽस्य प्रत्यक्षतो नावगम्यते तथाप्येतस्मात्प्रमाणात्तत्स्वभावस्य सामर्थ्यस्योत्पत्तिः कल्प्यत इति दर्शयन्नाह विज्ञानादी[१२०.१५]ति । अनुत्पत्तिप्रसंगात्प्रागसत्सामर्थ्यं चक्षुरादिसन्निधावुत्पद्यत इति निश्चयः । क्रमिणां विज्ञानादिकार्याणां यौगपद्योदयप्रसङ्गात्[१२०.१५] । *<४>*तच्च क्रमवदिति निश्चयः । यद्येवमि[१२०.१७]ति सिद्धान्ती । अविकृतमे[१२०.१७]करूपम् । अपूर्वसामर्थ्यस्य यः प्रतिभास आकारस्तेन विविक्तो रहितो य उपलादिस्तद्ग्राहि । यत एवैवं तत एवाविकृतमिति च द्रष्टव्यम् । अनवक्लृप्तिख्यापनार्थो वा[१२०.१९]शब्दः । अभ्युपगम्यतामेवं का क्षतिरित्याह तथेति तद्वत् । *<५>*सामर्थ्यमि[१२०.२५]त्यागन्तुकं सामर्थ्यमित्यवसातव्यम् । द्विविधं हि सामर्थ्यं प्रातिस्विकमागन्तुकञ्च । प्रातिस्विकी च शक्तिरवश्यैषितव्या । अन्यथा शिलाशकलमपि क्षित्यादिसान्निध्ये बीजवदंकुरं कस्मान्न निव(र्व)र्तयतीति पर्यनुयोगे किमुत्तरं वाच्यमिति हि तेषां मतम् । ननु सामर्थ्यमतिशयलक्षणं सहकार्याधेयं ततोऽन्यदेव तत्क*<६>*थं "सहकारिप्रत्यय[सान्निध्य]लक्षणस्ये"त्युच्यत इत्याह अत[१४१]एवे[१२१.३]ति । प्रत्यासत्तिलक्षणस्य सान्निधस्य तेभ्यः सन्निहितेभ्योऽन्यस्यानपपत्तेः । सान्निध्यशब्दपरित्यागेन सहकारिप्रत्ययलक्षणस्येति ते एवेत्याद्यप्युक्तं द्रष्टव्यम् । अत एवाभ्युपगमादि[१२१.३]ति उपागताभ्युपगमादि*<७>*ति प्रत्येतव्यम् । एवमिच्छ[१४२]ता [१२१.६] क्षणि[१४३]कतैवेत्यभिसंबन्धनीयम् । __________नोतेस्__________ [१४१] तत एव स् [१४२] इच्छतो स् [१४३] क्षणिकतेवै-स् ___________________________ यच्छब्देस्यैतद्व्याख्यानं यस्मादि[१२१.२१]ति । इदं शब्दस्य चैतदिति एतद्दर्शनम् [१२१.२१] । अनुत्तरस्यैवोत्तरीकरणादुत्तरीकृतमि[१२१.२४]त्युक्तम् । एवं नियुञ्जानमहो महासामर्थ्यमस्तु का तवाक्षमेत्याशंक्य यदि नामेत्यवतारयितुं न चात्रे[१२१.२५]त्याद्याह । न चात्र मे काचिदक्षमा [१२१.२५] किंत्वितीयमस्माकं चिन्ता चित्तं दुनोती[१२२.३]ति सम्ब*<८>*न्धः । न चात्र मे [१२१.२५] इत्यनेन टीकाकारवचनेनैकवाक्यीकरणपक्षेत्य(प्य)स्माकमिति "अस्मदो द्वयोश्च" (पा. १-२-५९) {प्. ३५९} इत्यनेनैकस्मिन्नेवार्थे बहुवचनेन द्रष्तव्यम् । एवमसंबद्धवादिन्यपूज्य एव पूजावचनमुपसंहारपरं द्रष्टव्यम् । दैन्योद्भावनमि[१२२.१]त्यर्थात्संबोध्यमानस्य दैन्यप्रकाशनमिति । निकृष्टसम्बोधनेऽयं हन्तः [१२२.१] शब्द इति यावत् । ततोऽप्र[५० ]*< १>*सवधर्मकत्वात् । अपेतोऽपगतः संतानः [१२२.२] प्रसूतिः परंपरा यस्य तथोक्तम् । इतिना [१२२.३] चिन्तारूपमुपदर्शितम् । शिरःकम्पे चास्य सत्यमिदमस्ती[१२२.१०]त्यस्य शब्दस्य प्रयोगमाकलय्य प्रयोक्तुरभिप्रायं वर्णयन् पृच्छती[१२२.१३]त्याचष्टे । अत एव चेदमाह -- किं त्वयास्तित्वेन पृच्छ्यत इति पार्श्वस्थं प्रश्नयन्नाह किं तदि[१२२.१३]ति । इति हेतोराहार्य इति प्र*<२>*करणात् । औदासीन्यापत्तिरित्यत्रेति शब्देन इदमास्तित्वेनाभिप्रेतस्य न्याय्यवचन[१२२.१७]स्याकारो दर्शितः । अत एव न्याय्यवचनस्यास्तित्वेन दर्श्यमानस्य रूपं दर्शयन् सत्य्मिदमप्यस्ती[१२२.१६]ति पुनराह । यद्येवमस्य न्याय्यवचनस्य सद्भावादनवद्यमेवास्मन्मतमित्याशं*<३>*क्याह किंत्वि[१२२.१७]ति । केवलमिदं [१२२.१७] वक्षमाणं प्रष्टव्योसि । प्रच्युतमजनकं रूपमुत्पन्नं जनकं रूपं द्वन्द्वैकवद्भावमभिप्रेत्य प्रच्युतोत्पन्नमित्याह -- अप्रच्युतो(ता)नुत्पन्नत्वेनैव च स्थिरैकस्वभाव[१२३.८]त्वं ज्ञेयम् । तद्भेदेऽपि [१२३.१९] जनकाजनकभेदेपि । तस्य [१२३.२०] भावभेदस्य । अपरापेक्षस्वभावभेदलक्षणत्वादि[१२३.२०]ति परा*<४>*पेक्षो यः स्वभावभेदो न भवति स्वत एव यो भावभेदलक्षणत्वादिति । भवत इदं भावत्कम् [१२३.२१] । आधीयते [१२३.२६] अधिक्रियते नियुज्यते वा । स्वरूपेण कर्तृत्वे विवक्षितस्यापि ताद्रूप्य प्रसज्येतेत्यभिप्रायेणाह ए[१४४]षामपि पररूपेण कर्तृत्व [१२४.१] इति । पररूपेण कर्तृत्वे इति पर एव कर्ता स्यात् । तस्य तु तथात्वं*<५>* हरीतकीं प्राप्य देवता रेचयन्तीत्यनेन तुल्यं स्यादित्यभिप्रेत्याह -- पररूपेणाप्यकारकत्वादि[१२४.३]ति । अस्योत्तरस्य [१२४.५] "सहितस्तत्स्वभावो न केवल" इत्यस्य । प्रकृतमुपसंहरन्नाह -- तस्मादि[१२४.१०]ति । कथञ्चित्के[१२४.१०]नापि प्रकारेण न कार्यक्रियाया विरामः । पुरस्तादपि तस्य स्वरूपस्य भावादिति भावः । __________नोतेस्__________ [१४४] तेषामपि-स् ___________________________ *<६>*स्यादेतज्जनकमस्य रूपमवस्थितं जनकञ्च तदुच्यते यस्मिन् सत्येव कार्यमस्ति न तु यस्मिन् सति कार्यं भवत्येव, सति भावस्याक(का)रणसाधारण्णत्वात् । कार्यमपि तद्भा(तदभा)वे {प्. ३६०} नोपपद्येत इत्येव तस्य कार्यं, तद्भावे तु भवत्यवश्यमिति को(क्वो)पयोगोऽस्य । तस्मात्कथं तद्रूपभावेपि कार्यक्रिया*<७>* प्रसंजनं ज्याय इति । अत्रोच्यते अक्षणिकत्वेनाप्रच्युतानुत्पन्नरूपान्तरे सर्वावस्थासमानेऽपि कारणं यदि कार्यं नोपजायते तर्हि तत्स्वतन्त्रमापद्येत । तथा च न तत्तस्य कार्यं स्यात् । तदवादि वार्तिकालंकारे प्रज्ञाकरगुप्तेन -- "सर्वावस्थासमानेऽपि कारणे यद्यकार्यता ॥ स्वतन्त्रं कार्यमेव स्यान्न [तत्]कार्यं तथा *<८>*सति ॥" इति । कारणपारतन्त्र्ये च तत्कारणं तत्कार्यं हठादेव जनयेत् । तथाप्यभावे न तस्य कार्यं स्यात् । तस्माद[कारणात्] कारणस्य विशेषः कार्यस्यावश्यंभाव एवावश्यञ्च वक्तव्यः । ननु "तद्भा(तदभा)वे न भवति कार्यम्" इत्यकारणादस्य विशेषः । न हि तस्याकारणस्याभावे तत्कार्यं न भवतीति, हन्त कुत एतदवगम्यते तद[५० ]*<१>*भावप्रयुक्तोऽस्याभाव इति । यदि हि तद्भा(तदभा)वस्याभावे तद्भावलक्षणे कार्याभावस्याभावः कार्यभावलक्षणः स्यात्तदा तदभावप्रयुक्तोऽस्याभावः सिद्ध्येदितरथाकारणाभिमताभावप्रयुक्तोऽपि तदभावः किं न कल्प्यते?[१४५]तदभावेपि कार्याभावस्य भावान्न तदभावप्रयुक्ततास्येति चेत्, समानमिदं कारणाभिमतेपि । तस्माद्यथा *<२>*तदवस्थ एव कारणे स्वयमेव कार्यं न भवति स्वातन्त्र्यात्, तथा तदभावोऽपि स्वयमेव न भविष्यतीति स्वातन्त्र्यादेव । यश्च स्वयमेव न भवति नासौ नियम्यत तेन परतन्त्रत्वे तस्य कारणस्य भावेऽवश्यमेव भवेत् । तदाहअलङ्कारकारः __________नोतेस्__________ [१४५] अकारणाभिमताभावाभावेऽपि इत्यर्थः । ___________________________ "[१४६]तद्भावेपि न भावश्चेदभावे भाविता कुतः । __________नोतेस्__________ [१४६] प्रमाणवा. आलं. पृ. ७४. ___________________________ तदभावप्रयुक्तोऽस्य सोऽभाव इति *<३>*तत्कुतः ॥" इति । तस्मात्तद्भावे भावस्तदभावे चाभाव इति विशेषितः कार्यकारणभावोऽवश्यं भवतीति ज्ञापयति । तथा च कारणे सत्यवश्यंभावि कार्यमायातमिति कथं कदाचित्क्रियाविरामः । किञ्च तथाविधो हि कार्याभावो निर्हेतुकत्वात्स्वयमेव भवतीति युक्तमपि । भावस्तु हेतुपरतन्त्रत्वात्स*<४>*मर्थे हेतौ न भवतीति न युक्तम् । तदुक्तम् "अभावो हि पदार्थानां स्वयमेव भवेदपि । भावस्तु परतन्त्रत्वात्कथं हेतोर्भवेन्न सः ॥" इति । {प्. ३६१} ननु कार्याभावस्य स्वतन्त्रत्वात्"कारणे सत्येव न भवती"ति युक्तमेवैतत् । एवं तर्हि न कारणाभाव प्रयुक्तोऽभाव कथं भवेत्कार्यस्य(कार्यम्[१४७]अस्य) ततः स्वयमे*<५>*व न भवति, यश्च स्वयमेव न भवति नासौ तेन नियन्तुं शक्यः । ततो यथा स्वयं न भवति तथा भवेदपि । ततो न तस्य कार्यम् । यदा तु कारणे सति भवेदेव तदा स्वरसनिरोधेप्यपरापरक्षणोत्पत्तेस्तदभाव एव संतानोच्छेदस्तदभाव एव च संतानाक्षेपक्षणानारम्भो वा सु*<६>*ज्ञात(न) इति कारणप्रतिबद्धत्वं सिद्ध्यति । __________नोतेस्__________ [१४७] "कार्यमस्य" प्रमाणवा. अलं.पृ. ७४. ___________________________ एतेन तदपि निरस्तम्यदाहुरेके यथोभयाधीननिरूपणा व्याप्तिरयोगव्यवच्छेदेन व्यापके निरूप्यते व्याप्ये सति भाव एव व्यापकस्य नाभाव इति; व्याप्यस्य पुनरन्ययोगव्यवच्छेदेन व्यापक एव भावो व्याप्यस्य नान्यत्रेति । एवं कार्य*<७>*कारणभावोऽप्युभयाधीननिरूपणोपि कारणेऽयोगव्यवच्छेदेन निरूप्यते, कार्योत्पादस्य पुरस्ताद्भाव एव कारणस्य नाभाव इति; कार्ये पुनरन्ययोगव्यवच्छेदेन कारण एव सति भावो नान्यस्मिन्नित्यनुभवानुसारान्निश्चीयत इति । उक्तया नीत्या तद्भावेऽभवतस्तत्कार्यताया एवाभावप्रसङ्गात्*<८>*स्वभावेऽभावमत(?)श्चातत कार्यः का(तत्कार्यका)रणतायाः स तु या (?) अभिसंबन्धयत एव चात्र भवतः (?) कारणस्य मुख्यस्यानुभवोऽन्यस्तु तादर्थ्यादुपचरितकारणभावस्यानुभव इति स्वयमुपचरितकारणानुभवरूपत्व एवेति । अपि च यथा कारणे सत्यवश्यं भावमनिच्छता कार्यस्य कादाचित्कादन्वयात्तत्कार[५१ ]*< १>*णमिष्यते । तथा कादाचित्कादव्यतिरेकादपि किन्न कारणमिष्यते युज्यते वा । तस्मात्कार्यकारणभावं नियतमिच्छता यथा व्याप्तिमान् व्यतिरेक एष्टव्यस्तथा व्याप्तिमान्नन्व(मानन्व)योप्यवश्यैषितव्योऽन्यथा तद्यो(तदयो)गादिति । किं च सहितावस्थायां तावदसौ भावः कार्यं जनयतीतीष्यते । जनयतीति च कोऽर्थः ? किं कार्यं*<२>* सत्तयाभिसम्बध्यते किं वाभिसंत्स्यते? किञ्चातः ? यद्युतरः पक्षस्तदा तस्मिञ्जनयति न कदाचित्कार्यं सत्प्रत्ययविषयः स्यात्सत्तया अभिसम्बन्धस्य भावितत्वा(वित्वा)त् । अथान्य(द्य) एवोपगमस्तदा विकल्पद्वयम्, किमनेनैव स्वभावेन पूर्वमयमवस्थितोऽथान्येन । न तावदन्येन, एकस्य रूपद्वयायोगात् । *<३>*अनेनैव स्वभावेनावस्थाने च संप्रतीव तदापि कार्यं सत्तयाभिसम्बध्यत इत्युपेतं स्यात् । तथा च प्रकृतकृ(क्ष)तिरिति किमस्थानाभिनिवेशेनेति । अथ भवतोऽपि किमिदं कारणत्वं? किं प्राग्भाव एव किं वा प्रागेव भावः? यदि प्राग्भाव एव, तदा स्थिरस्यापि एवमेव कारणत्वे सु[१४८]साधितस्य*<४>* निराकरणं प्रसज्येत । अथ प्रागेव भावः, तदेतत्क्षणिकत्वे सिद्धे सिद्ध्यति । तदेव तु न सिद्धमिति {प्. ३६२} कथमिदमुच्यमानं शोभेतेति । आस्तां प्राग्भाव एव कारणत्वं को बाधः? ननूक्तमेवाक्षणिकस्यापि कारणत्वे साधयितुं शक्ये तदनिराकृतिरेव महती बाधेति चेति । हन्त किं *<५>*हेतुरूपस्य लक्षणेनाक्षणिकस्य सत्त्वंतथागतैर्निराक्रियते येनेदमपि वक्तुमध्यवसितास्तर्कविदः कथं नामेति चेत् । उच्यते । प्राग्भाव एवासौ स्थिररूपात्क्रमाक्रमाख्यस्य व्यापकस्य निवृत्त्या निवर्तते । यथा च तस्य ताभ्यां व्याप्तिर्यथा च ततस्तयोर्निवृत्तिस्तथान्यत्र निऋणीतमिति ने*<६>*ह हेतुलक्षणकालेऽप्रकृतत्वादुच्यते । अथ तदेव न संगच्छते । तर्हि तदेवोच्यताम् । न तु हेतुलक्षणेन तस्या निराकृतिरिति । अलमतार्किकवचनेनातिनिर्बन्धेनेति । __________नोतेस्__________ [१४८] अत्र स्वसाधितस्य इत्यपि दृश्यते । ___________________________ न हि स सामी(ही)[त्य]इत्ये[१२३.२१]केन प्रकारेण व्याख्यायापरेणापि प्रकारेण व्याख्यातुमथवे[१२४.१०]त्यादिनोपक्रमते ।[१४९]अस्या [१२४.१०] अपेक्षा*<७>*याः । __________नोतेस्__________ [१४९] अस्य स् ___________________________ ननूक्तमेव प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावो भावस्तत्कथं प्रत्ययान्तरसाहित्यदशायाः पूर्वं कुर्यादित्याह प्रत्ययान्तरे[१२४.१९]ति । तदतत्कालयोः [१२४.२३] सहकारिसाहित्यासाहित्यकालयोः । केचित्पुनः "स्वहेतुभिरेवायं प्रत्ययान्तरसापेक्षकार्यजननस्वभावो जनित [१२४.११]" इत्यत्रैव विपञ्च्यते । *<८>*यद्येवंधर्मोऽयं स्वहेतुभिरेव जनितः स्यात्तदा न कदाचिज्जनयेत् । तथा हि यावत्सहकारिप्रत्ययसन्निधिकालस्तावदकरणधर्मासौ भावोऽन्यथास्या पूर्वमपि कर्तृत्वं प्रसज्येत । प्रत्ययान्तरसन्निधिकाले च स एव कियत्कालाकरणस्वभावो यः प्रथमे क्षण आसीत् । ततो नैव कुर्यात्कि[५१ ]*<१>*यत्कालाकरणधर्मत्वात्तस्य क्रियायात्(क्रियायांतु) स एव स्वभावो न भवेत् । यद्वा तावत्कालापेक्षजनकस्य स्वभावस्यानुवृत्तेस्तादात्म्यः(म्ये) तावत्कालमक्रिय एव । पुनरन्ते तथैवेति कथमिवाक्षणिकः कदाचिदपि जनयेत् । तस्मान्न प्रत्ययान्तरापेक्षजनकस्वभावो भावः स्वहेतुभिर्जन्यत इति । तथा चाह -- "तत्सहकारिसापेक्ष*<२>*जनको यदि हेतुभिः । भावः स्याज्जनितो नासौ किंचिज्जनयेत्तदा ॥ तथाहि सन्निधीयन्ते यावत्ते सहकारिणः । तावन्नूनमकर्तासौ स्वभावस्तस्य वस्तुनः ॥ एषितव्योऽन्यथा पूर्वं तत्कर्तृत्वप्रसङ्गतः । तत्सन्निधानकाले च स्वभावोऽस्य (?) वर्तते ॥ तन्न कुर्यात्क्रियायां वा स्वभावोस्य नो भवेत्(?) । यद्वा {प्. ३६३} तावत्समयसापे*<३>*क्षजनकस्यानुवृ...त्ततः ॥ स्वभावस्य तथाप्येष तावत्कालमसत्क्रियः । पुनरन्ते तथैवेति कुर्यादक्षणिकः कथम्? ॥" इति । उपगतोऽन्त्यो [१२५.९] यस्य स तथोक्तः । प्रस[१५०]ज्येत्[१२६.२२] यस्य निपातस्यार्थकथनं हठादि[१२६.२२]ति । __________नोतेस्__________ [१५०] प्रसह्य स्। ___________________________ सुतराम[१२७.१५]तिशयेन । सन्तानमप्याश्रित्य कथमुच्यत इत्याह -- पूर्वोत्तरेति [१२८.८] । किं लक्षणं नाम वस्तु*<४>*तस्तत्र सहकारित्वमित्याह -- पूर्व[१५१]क्षणेभ्यस्त्वि[१२८.१०]ति । तस्य [१२८.१४] विशेष्य । __________नोतेस्__________ [१५१] पूर्वपूर्वक्षणे-स्। ___________________________ तत्समानकाल[१५२]कारणक्षणः [१३०.४] । प्र[१५३]यातुर(?)समानकालकारणक्षणः । एकत्वेनाधिमुक्तस्य [१३०.६] तदेवेदमिति निश्चितस्य । __________नोतेस्__________ [१५२] तत्समानकालः स् [१५३] प्रदातुर- इत्यपि पठ्यते । ___________________________ उपनिपतन्तीति उपनिपातास्ते च क्षणाः [१३०.१३] तथा क्षणो यतोऽन्यो नास्ति कालः सोवच्छेदकत्वेनैषां विद्यत *<५>*इति "[१५४]अर्ष आदि"त्येनद्विधातव्यः । तेनैकक्षणिकस्थायीनि वस्तुरूपाणीत्यर्थः । एवमन्यत्राप्येवंविधे प्रयोगे ज्ञेयम् । स्वरसतः [१३०.१०] स्वानुरागान्नाशो(न्)मुखत्वादिति यावत् । प्रकरणात्कार्योत्पादं प्रत्यनुगुणत्वं [१३०.१५] प्रत्येयम् । क्षेपवती [१३०.१९] कालविलम्बवती । __________नोतेस्__________ [१५४] पाणिनीयसूत्रं तु "अर्ष आदिभ्योऽच्(५.२.१२७) इति वर्तते । किंतु दुर्वेकेन अन्यदेव किञ्चिदुद्धत भाति । तथा च अत्र "अर्ष आदिभ्योऽदित्यनेनाद्विधातव्यः" इति पाठः सम्यक्सम्भाव्यते । ___________________________ तदनासादनमेव कथमित्याह -- क्षणानामि[१३०.२७]ति*<६>* । अयं निरतिशयोऽयं च सातिशय इति विवेकस्याभावात् । कार्योत्पादानुगुणमा[१३०.२८]द्यमित्यर्थात् । यदुक्तमक्षणिके तत्सर्वं क्षणिकेष्वपि ममं यत [१३१.१०] इति । तेषां [१३१.१२] क्षणिकानाम् । यद्वा क्षणानामि[१३१.१३]तीदमुभयत्रापि सम्बन्धनीयम् । पूर्वं स्वदेशस्थित्या ता(ते) एव परस्परतः समुत्पन्नविशेषाः सन्निधीयन्ते [१३१.१५] प्रत्यासीदन्ति । दूरदेशवर्तिनां कथं हेतुफलभावप्रतिनियम इत्याशंकायां न्यायमुपदर्शयन्नाह येन यस्याभी[१३१.१६]ति येन दूरस्थितसहकारिकृतेन विशेषेण सविशेषा एव संनिधीयन्त इतीष्यते । तस्य विशेषस्योत्पत्तावपि [१३१.२२] । {प्. ३६४} नैव कार्योत्पादने योग्यास्तेऽस्माभिरिष्यन्ते किं तर्हि कार्योत्पादानुगुणस्योत्पा*<८>*दने तत्कथं तदुपायेत्याद्युच्यमानं शोभेतेत्याशंक्याह यदि हि [१३२.५] इति । भङ्ग्या [१३२.२०] वक्त्रोक्त्या । किं पुन[१३२.२२]र्हि द्विस्त्रिर्वा ब्रूमः । किं तर्हि शतश एव ब्रूम इत्यर्थः । संप्रत्येवमेव व्याख्यानस्य निरवद्यतयापूर्वटीकाकृतःकटाक्षयन्नाह -- एवमि[१३२.२३]ति । ये [१३२.२५]टीकाकृतः। न विशेषोत्पादनादेवेत्यादिग्रन्थस्य पुनरुक्ततापरि[५२ ]*<१>*हारार्थं यतन्ते यत्नं कुर्वन्ति । हन्ते[१३२.२६]ति निपातो नामन्त्रणमात्रे । तदभावा[१३३.२]द्विशेषोत्पादाभावात् । न सर्वदापरापरयोगोस्य संभवति येनास्य तन्निबन्धनो विशेषः कल्प्यत इत्याह नही[१३३.२२]ति । एकमेवा[१३३.२२]सहायमेव । छायापि शीताद्यर्थक्रियाकारिणी वस्त्वेव त्वना(न त्वा)लोकाभावमात्रमितिच्छा[१५५]योद्वता (?) । न तु प्रतिक्षणमित्यादिना एकदैवार्थस्योक्तत्वात्कथं द्विः पुनर्ग्रहणं कृतमित्याह क्षणिकेष्वि[१३३.२९]ति । द्वि[१३४.२]र्द्वौ वारौ "द्वित्रिचतुर्भ्यः सुज्" इति । (पा. ५-४-१८) सुचकेनोक्तमित्याह तत्र स्वरसत [१३४.२] इति । तज्जन्मनिमित्तमित्याचक्षाणो मूले निमित्तसप्तमीं दर्शयति । __________नोतेस्__________ [१५५] योद्धता (?) इत्यपि पठ्यते । ___________________________ परस्परोपसर्पणाद्याश्रयादेव प्रत्ययविशेषादि[१३६.२३]ति जन्मन्यपरस्परसंपृक्तलक्षणव्यवधानेनेति द्रष्टव्यम् । *<३>*अन्यथा वक्ष्यमाणविरोधः स्यात् । यस्मिन् कार्ये कर्तव्येऽनुकूलोऽनुगुणः स चासौ विशेषश्चेति तथा आसादितस्तदनुकूलो विशेषो यैस्ते तथा तैः [१३६.२८] । अथ केन ग्रन्थेन पूर्वमनवस्थोक्ता कथं च स्यादिति पार्श्वस्थवचनमाशंक्य तं प्रागुक्तं ग्रन्थं तस्य चार्थं दर्शयन्नाह अथे[१३७.१]त्यादि । कथं *<४>*सा न भवतीत्याह तस्ये[१३७.४]ति । कुशूलाद्यवस्थमपि बीजं क्षित्यादिना कृतविशेषं क्षित्यादिकमपि तेन कृतविशेषमेवोपतिष्ठत इत्यस्य प्रक[१५६]रण(कार)स्यानुभ्युपगमात्[१३७.४] किं नामाभ्युपेतामत्याह पुरुष[१३७.५]त्यादि । पुर्ववत्प्रकिरण[१३७.५]शब्दो द्रष्तव्यः । कार्योत्पादानुगुणोऽयमाद्यो विशेषः संपर्कक्षणा*<५>*नन्तरक्षणरूपस्तज्जनकस्य धर्मशब्दादनिचं विधातुं व्युत्पत्तिं दर्शयन्नाह अक्षेपेणे[१३७.१४]ति । कार्यतामननुभवत [१३७.२७] इति तत्कार्यतां चेति द्रष्टव्यमितरथा अन्त्यावस्थाप्राप्तेरबी(प्राप्तेन बी)जादिना अनेकान्तः स्यात् । __________नोतेस्__________ [१५६] प्रकारस्यानुभ्युपगमात्स् ___________________________ {प्. ३६५} बाहुल्येनेति विवृण्वन् प्रायः[१३७.२८]शब्दं निपातं दर्शयति बाहुल्येनेत्यस्यार्थे वर्तमानम् । *<६>*अथ येन न्यायेन क्षणिकस्यैकार्थक्रियया सहकारित्वसंभवस्तेनाक्षणिकस्यापि भविष्यति तत्कथमेवं विभज्यत इति आह तत्सम्भविन [१३८.२] इति । स्वभावान्तरोत्पत्तिरपि विरुद्धा कस्मात्कल्प्यत इत्याह प्रागकारकस्ये[१३८.३]ति । कथं न विरुध्यत इत्याह तस्यैव ही[१२८.४]ति । तर्हि पूर्वस्वभावस्य कथमु(म)*<७>*पनय इत्याह -- तत्रे[१३८.६]ति । [१५७]तत्सभावतैव । __________नोतेस्__________ [१५७] इदं "असौ" (१३८.१५) इत्यस्य अर्थकथनं भाति । ___________________________ किमिती[१३८.१५]ति निपातानिपातसमुदायः कस्मादित्यस्यार्थे वर्तते । मुघे[१३८.१५]त्ययमपि निपातो वृथेत्यस्यार्थे । तानि [१३८.१५] प्रत्ययान्तराणि । सम्प्रति व्याख्यातप्रबन्धस्य संभवप्रस्तुताभिधानसंगतिं दर्शयन्नाह तदेवमि[१३८.१७]ति । अनेकान्तपरिहारायोक्तमस्ये(क्तस्ये)[१३८.२०]ति "तत्स्वभावस्य जननाद्" इत्यस्य *<८>*प्रसंगात्प्रस्तावादागतं प्रासंगिकं [१३८.२३] कार्यं यथेष्टमविनाशं हेतु(ष्टं विनाशहेतु)नैव निवृत्तिः क्रियत इत्याह विनाशहेतो[१३९.२७]रिति । मुद्गरादेः [१३९.२८] सकाशात्, वस्त्वन्तरस्य [१३९.२९] प्रध्वंसलक्षणस्य भावे । व्यवस्थितरूपस्य [१४०.५] प्राच्येनैव रूपेण वर्तमानस्य । ननु यदि स्वरसनिरुद्धात्ताम्रादेरुपादानकारणाद्वह्न्यादेश्च सहकारि[५२ ]*<१>*कारणादन्यस्यैव द्रव्यादिरूपस्य ताम्रादेरुत्पत्तिरिहाचार्येणोपगम्यते -- तर्हिप्रमाणवार्तिकेऽनेनैव यदवादि -- "सहकारात्सहस्थानाशंका अग्निताम्र(स्थानमग्निताम्र)द्रवत्ववत्" (प्रमाणवा. १.६.४) इति तद्विरुध्येत । शक्यते हि तत्रापीदं वक्तुमुपादानात्तस्मात्तस्माच्च सहकारिकारणादन्यदेव तत्तथोत्पन्नम् । न त्वग्निस्ताम्रद्रवत्वं सह तिष्ठत इति चेत् । सत्यम्, यथाश्रुति*<२>* स्याद्विरोधो यथा त्वविरोधस्तथास्माभिर्विशेषाख्याने ख्यापितमिति तत एवानुगन्तव्यमिति । {प्. ३६६} अस्थितिस्वभावोऽ[१४०.१९]स्थितिस्वरूपो धर्मः पराश्रितत्वात् । तस्योत्पत्तिः । ततो [१४०.१२]स्थिररूपाद्धर्माद्विनाशहेतुसमुद्भूतात् । इति[१४०.१९]रुच्यमानस्याकारं दर्शयति । पर एव प्रश्नयन्नाह -- कथं ज्ञायत [१४०.२२] इति । अवस्थानात्[१४०.२४] तस्य विनाशस्य काष्ठादेरि*<३>*ति प्रकरणात् । तथापि तस्य तथात्वं कथमित्याशंक्य पर एवाह यदी[१४०.२४]ति । तदसंभवेपि [१४०.२५] विनाशहेत्वग्न्याद्यभावेपि । तर्हि न निवर्तेतैवेत्याशंक्य स एवाह तस्य स्वभावेने[१४०.२५]त्यादि । यदुत [१४०.२६] यदेतत् । यत्तस्मात्तस्य विनाशो भवतीति ब्रुवता परकार्यत्वं तस्य कथितं भवतीत्याशंक्य स एवाह परस्मा*<४>*दि[१४०.२७]ति । उक्तमेवार्थमुपसंहारव्याजेन स्फुटयन्नाह स्वहेतुभिरेवायमि[१४०.२८]ति । अत्रमीमांसकस्य सहायकं दर्शयन्नाह -- तदुक्तमि[१४१.२]ति । येन स्वभावेन विरोधिनं [१४१.४] अपेक्ष्य निवर्तत [१४१.३] इति योज्यम् । अन्येषां क्षणिकवादिनां मुद्गरादिकम[१४१.४]पेक्ष्य निवर्तत इति सम्बन्द्धव्यम् । भावच्युति[१४१.८]र्भावस्याभावः प्रसज्य*<५>*प्रतिषेध इत्यर्थः, अवधारणेनान्यस्य विरामः । सापि कथमहेतुरित्याह -- तस्याश्चे[१४१.९]ति । यदि सा भवित्री कथमहेतुका भवेदित्याशंक्य स एवाह -- नही[१४१.९]ति । को नामास्य भाषितस्यार्थ इत्याह केवलमि[१४१.१०]ति । इदमनन्तरोक्तमुत्तरं कर्तृ विकल्पद्वयं कर्म नातिक्रामति [१४१.१२] । नित्यविकल्पस्यावकाशो [१४१.१४] नास्ती*<६>*ति ब्रुवतोऽयमाशयः । स हि नित्य उच्यते यो नैव विनश्यति न चायं तथोपगत इति । ने[१४१.१५]ति सिद्धान्ती । तदुपगमेपि [१४१.१५] कालान्तरस्थितिधर्मतोपगमेपि । संवत्सर [१४१.१६] इति "कालाध्वनोरत्यन्तसंयोग" (पा. २-३-५) इति द्वितीया । सम्वत्सरं व्याप्य स्थित [१४१.१८] इत्यर्थः । यद्येकदिवसावति(सेऽति)क्रान्ते सत्येकदिवसा(स)न्यूनस*<२>*म्वत्सरे स्थितिधर्मा स्यात्तदानयोः स्वभावयोर्विरुद्धधर्माध्यासेन भेद एव भवेदित्यभिप्रायेण स एव तदन्तेपी[१४१.१८]त्याह । ये(ते)नैव न्यायेन द्वित्रिक्षणस्थितिधर्मोत्पादावगमेपि नित्यतोपगमोऽवगन्तव्यः । अनेन [१४१.२७] अक्षणिकवादिना । पूर्वोक्तेन [१४२.३] "तदन्तेपि स एवास्य स्वभाव" इत्यनेन न्यायेन युक्त्या तदयोगा[१४२.५]न्नाशायोगात् । ने[१४२.९]ति सिद्धान्तवादी । अत एव [१४२.९] विरोधिसन्निधानापेक्षत्वादेव विनाशस्य तन्निबन्धनत्वप्रसंगात्[१४२.८] अपेक्षणीयविरोधिकारणत्वप्रसक्तेः । {प्. ३६७} हेतुभावस्य [१४२.१०] [५३ ]*<१>*हेतुत्वस्यापेक्षा कार्येणापेक्ष्यमाणधर्मस्यैवापेक्षा सा विवक्षितत्वात्सा लक्षणं [१४२.११] यस्य तद्भावस्तत्त्वं तस्मात् । कः पुनरि[१४२.१२]ति सिद्धान्ती । अयं चास्याशयो यदि विनाशोऽन्यथा नोपपद्यते परतश्च न भवति तं चापेक्षत इति प्रमाणसिद्धं स्यात्कल्प्येत वैतत्, यदि परमेतदेव नास्तिईति । पूर्वमकिण्चित्करत्वेन विरोधित्वमुपेत्य तदपेक्षा*<२>*यामुक्तम् । संप्रति तु विरोधित्वेऽकिञ्चित्करत्वमेव नास्तीति दर्शयन्नाह कथञ्चे[१४२.१५]ति । नाम[१४२.१६]शब्दोऽसंभावनायामिह । समयः [१४२.२०] सिद्धान्तः । तद्भाव एव [१४२.२७] मुद्गरादिभाव एव । तेषां [१४२.२७] कपालादीनां भावातुत्पादात् । यथा तद्भावभावित्वं तेषां तथा दर्शयन्नाह -- वेगवदि[१४२.२८]ति । कस्मात्संजातातिशय इत्यपेक्षायां योज्यं परस्परे[१४२.२८]त्यादि । *<३>*कार्यमुखेनोक्त्वा कारणमुखेनाप्याह तस्य चे[१४३.२]ति । तस्य वेगवन्मुद्गरादिसहकारिणो घटक्षणस्य । परस्परपरिहाररूपत्वात्[१४३.१०] परस्परपरिहारस्थितरूपत्वात् । विनाशः कथं तस्य स्वभावो भवितुमर्हति येन एवमुच्यत इत्याह -- विनश्यती[१४३.१४]ति । भावे विहितो घञ(कु)तो वचनात्क*<४>*र्तरि भवतीत्याशंक्याह -- बहुलमि[१४३.१४]ति । "कुत्यल्युटो बहुलम्" (पा. ३-३-११३) इत्यस्माद्वचनादित्यर्थः । विनाशं प्रत्यनपेक्षां [१४३.२३] प्रतिपाद्ये[१४३.२४]ति योज्यम् । अनपेक्षां विनंष्टुरित्यर्थात् । कथं प्रतिपाद्येत्याह -- तदि[१४३.२३]ति । तद्धेत्वयोगेन विनाशहेत्वयोगेन । अयोग एव कुत इत्याह -- असामर्थ्ये[१४३.२४]ति । पूर्वाचार्यशब्देनाचार्यदिग्नागोऽभिप्रेतः । स्यादेतत्तत्र खलु विपर्यये बाधकं प्रमाणमुच्यते यत्साध्यविपर्यये हेतोर्वृत्ति(त्तिं) बाधमानं साध्यसाधनयोः प्रतिबन्धं साधयति । न तु यत्साक्षादेव साध्यं साधयति । इयं चानपेक्षा साक्षादेव क्षणक्षयितां कृतकानां सतां साधयितुं शक्तेति । *<६>*तथाहि ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियता यथान्त्या कारणसामग्री स्वकार्योत्पादने । विनाशं प्रत्यनपेक्षाश्चोदयानन्तरमिमे कृतका भावा इति -- प्रयोगे कृते कृतकानामेषां क्षणिकता किं न प्रतीयते येन कृतकत्वाद्धेतोस्तत्सिद्धिः प्रार्थ्यते । तस्मादयं मौलो हेतुर्वैयर्थ्यमात्मनः पश्यन्नै(श्यन्ने)वं विपर्यये बाधकं प्रमाणं साध्यसिद्धौ सहायमपेक्षयितुं क्षणमपि न क्षमत इति । न वयंभट्टार्चटेन कृतकत्वस्य हेतोरेवंरूपे वुपर्यये बाधकप्रमाणे प्रदर्शिते सति {प्. ३६८} चैवं गडुप्रवेशेऽक्षितारानिर्गमकल्पिते यथाश्रुति सुश्लिष्टं किञ्चिद्वक्तुमीश्महे, केवलंवार्तिककार*<८>*स्य कृतकत्वहेतोर्व्याप्तिं समर्थयितुं पूर्वाचार्यैः कामनपेक्षां ब्रुवतोयमभिप्रायं (?) प्रकाशयितुं सहामहे । अनपेक्षशब्देन ह्यनपेक्षासूचितं बाधकमभिप्रेतम् । न त्वेतदै(दे)व बाधकं प्रमाणम् । तथाहि कृतकत्वस्योदयानन्तरमविनाशित्वे सति विनाशं प्रति सापेक्षत्वं स्यात् । अन्यथा विनाशयोगात् । विनाशं [५३ ] *<१>*प्रत्यनपेक्षत्वं तद्धेतुयोगादवगतं तस्य व्यापकं ततस् तद्व्यापकं स्वविरुद्धविधिना विपक्षात्तद्भावानियतत्वादुदयानन्तरमविनाशित्वलक्षणात्निर्वतमानं स्वयमपि व्याप्यं कृतकत्वमादाय निवर्तत इति व्याप्तिसिद्धिः । ततश्च व्यापकविरुधोपलम्भात्कृतकस्य हेतोर्निवृत्तिरिति व्यापकोपलब्धिवुपर्यये बाधकं प्रमाणम् -- एत*<२>*त्सुचनार्थमनपेक्षां (?) बाधकं प्रमाणमस्याभिमतम् । ये यद्भावं प्रत्यनपेक्षा इत्येतदपि यद्यनन्तरोक्तसूचनाद्बाधकं प्रमाणमुच्यते, काममुच्यतां कः प्रतिकूलोऽनुकूलमाचरति । न तु जातु तदेव बाधकं प्रमाणं वक्तुं युक्तं स्वातन्त्र्येण क्षणिकत्वस्य तेन साधनात् । तदुक्यमाचार्यशान्तरक्षितेन -- "तत्र ये कृतका भावाः सर्वे ते क्षणभङ्गिनः । विनाशं प्रति सर्वेषामनपेक्षतयास्थितेः ॥ यद्भावं प्रति यन्नैव हेत्वन्तरमपेक्षते । तत्तत्र नियतं ज्ञेयं स्वहेतुभ्यस्तथोदयात् । निर्विबन्धा हि सामग्री स्वकार्योत्पादने यथा । विनाशं प्रति सर्वेपि निरपेक्षाश्च जन्मिनः ॥" (तत्त्वसं. ३५३-३५५) इत्यादि । ये पुनरिमं दो*<४>*षमुपदर्शितं प्रतिवद[१५८]न्तो यथाश्रुति बाधकं प्रमाणमिदं समर्थयितुमीशते न तान् वयं[१५९]विद्मः प्रत्युतोपकारिण एव मन्यामह इति । तर्हि पूर्वाचार्यैरकृतकसतां क्षणिकत्वमुक्तम्, तथा च नित्यत्वमुर्पक्षेत(?)मित्याशंक्योपसंहारव्याजेनाह -- तदेवमि[१४४.९]त्यादि । अहेतोः स्वभावादिनियमायो*<५>*गादित्यभिप्रायेणाह कृ[१६०]तकत्वस्य सतोऽभावादि[१४४.९]ति । __________नोतेस्__________ [१५८] "बहन्तो" इत्यपि पठ्यते । [१५९] अत्र यदि "द्विष्मः" इति पाठः स्यात्तदा बाढं संगच्छेत् । [१६०] अकृतकस्य स्। ___________________________ सामान्येनेत्यस्य स्पष्टीकरणं कृतके[१४४.२५]ति तत्स्वभावसापेक्षत्वाद्धि[१४४.२३]नाशिस्वभावसापेक्षत्वात् । विनाशिस्वभावसापेक्ष[१६१]णादि[१४४.२४]ति हेतुभावेन विशेषणम् । इति[१४४.२५]र्हेतौ । {प्. ३६९} अ[१६२]नपेक्षाया [१४४.२५] हेतुभूतायाः स्वतो नस्वतः स्व(नश्वरस्व)भावता तस्या प्र(अ)सि*<६>*द्धेः हेत्वन्तरव्यापारनिषेधमात्राभिप्रायेण स्व[१६३]तो [१४४.२५] ग्रहणं द्रष्टव्यम् । अभिधानीयमभिधातुमुचितमिति मन्यमान [१४४.२७] आचार्य इति प्रकरणात् । संभावनायां [१४५.४] न्यायबलायातायामिति द्रष्टव्यम् । __________नोतेस्__________ [१६१] सापेक्षाणां स्। [१६२] अनपेक्षया स्। [१६३] सतो स्। ___________________________ ननु सत्तायोगादितः सत्वमक्षणिकस्योपपत्स्यते तत्कथं शक्तिर्हि [१४५.१८] -- इत्याद्युच्यमानं शोभत इ*<७>*त्याशंक्याह एवं मन्यत [१४५.२०] इति । त्रिपदार्थसत्करीति सत्ता तैरिष्यत इत्यभिप्रायेणाह -- सामान्यादी[१४५.२२]ति । आदिशब्दात्विशेषसमवायपरिग्रहः । स्वरूपसत्त्वे च तेषामिष्यमाणे तद्वदन्येषामपि किं [न] भवेत्? इतरेतराश्रयत्वे चैकासिद्धौ द्वयासिद्धिर्दोषः । तेषां [१४५.२४] वन्ध्यासुतादीनाम् । तस्यैव सत्तायोग इत्यर्थसाम*<८>*र्थ्यमेव भावलक्षणमायातमि[१४६.३]त्येष एव पाठः इति[१४६.२]शब्देन हेत्वभिधाने अर्थ्यत इत्यर्थो दाहपाकादिस्तत्र सामर्थ्यं तदेव भावलक्षणमायातमिति संगतत्वात् । तस्यैव सत्तायोग इत्यर्थ इति प्रमादपाठः । एवं हि सामर्थ्यमेव भावलक्षणमित्यकारणमुक्तं स्यात्के च(क्व च) तत्सामर्थ्यमिति च नोक्तं भवेत्तस्मा[५४ ]*<१>*दित्यध्याहृत्य व्याख्याने च क्लिष्टमिष्टं स्यादिति । अत्रैवोपपत्त्यन्तरं समुच्चिन्वन्नाह -- इत्थं चे[१४६.३]ति अनेन वक्ष्यमाणेन प्रकारेण । एवम[१४६.३]र्थसामर्थ्यभावलक्षणमिति । तमेव प्रकारं दर्शयन्नाह अन्यथे[१४६.३]ति । अर्थसामर्थ्यादन्येन प्रकारेण । मीमांसकादीनां सत्त्वलक्षणमपास्यदिगम्बरस्यापि दूषयितुमाह । उत्पादे[१४६.६]ति*<२>* । यद्येवमाहुः:- "घटमौलिसुवर्नार्थीं नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥" [आप्तमी. ५९] "न नाशेन विना शोको नोत्पादेन विना धृतिः । स्थित्या विना न माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् ॥" इति । तथा "प्रयोव्रतो न दध्यत्ति न पयोत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद्वस्तु त्रयात्मकम् ॥" [आप्तमी. ६०] इति । कथमयु*<३>*क्तमित्याह घ्रौव्येणे[१४६.७]ति । विरोधाद्धेतोरेकस्मिन् धर्मिण्ययोगात्[१४६.७] । एषामित्यर्थात् । अनेनासंभवितां लक्षणदोषमाह -- यथोक्तं [१४६.१०] यादृशमुक्तमुत्पाद्व्ययघ्रौव्यात्मकं लक्षणं यस्य तत्तथोक्तम् । उत्पादव्ययघ्रौव्याणाम् {प्. ३७०} असत्त्वप्रसङ्गेनाव्यापितालक्षणदोषो द्रष्टव्यः न चासद्धिस्तैरन्यस्य योगो *<४>*युक्त इति । अन्यथा [१४६.१२] स्वज्ञानजननमप्ययोग्यशक्तत्वोपगमे(म?)प्रकारेण(?) यदि हि सामान्यादिति स्वज्ञानं जनयेत्तदार्थत्वेन व्यवस्थाप्येत नान्यथेति भावः । आदि[१४६.१२]शब्देन द्रव्याव्यवस्थादिसंग्रहः । क्षणि[१६४]कत्व [१४६.२७] इति सत्सप्तमीयम् । क्रमयौगपद्याभ्यामि[१४६.२८]ति क्रमयौगपद्यकारित्वाभ्यामिति द्र*<५>*ष्टव्यमितरथा कार्यधर्माभ्यामाभ्यां कारणधर्मः कार्यकारित्वं कथमिव व्याप्येत । यथाचामू कार्यधर्मौ तथोपरिष्टाद्भट्टार्चटेन एव स्फुटयिष्यते । __________नोतेस्__________ [१६४] अक्षणिकत्वे स्। ___________________________ अर्थक्रियाकारित्वमात्रक्रमाक्रमकारित्वात्मकार्थक्रियाकारित्वविशेषयोश्चोभयव्याप्तिकत्वात्मकं सत्त्वं क्रमाक्रमकारित्वाभ्यां व्याप्तमि*<६>*त्युच्यते । अन्यथा सामान्येन विशेषो व्याप्यते । वृक्षत्वेनेव शिंशपात्वम् । न तु विशेषेण सामान्यं व्याप्यते । वृक्षत्वमिव शिंशपात्वेनेति । कथमिदमुच्यमानं शोभेतेति । ततो [१४६.२९] व्याप्यव्यापकभावात्कार्यकारणशक्तरूपव्यापकयोः क्रमाक्रमकारित्वयोर्निवृत्ते[१४७.१]र्निवृत्तत्वात् । त(क)दा निवृत्तिरित्यपेक्षायामाह अक्षणि*<७>*कत्व [१४७.२] इति अक्षणिकत्वे सति । तत्र एवाक्षणिकत्वाद्विपक्षान्निवृत्तेरिति च सामर्थ्यादपादानं द्रष्टव्यम् । कथं तयोस्ततो निवृत्तिरित्याह -- विरोधादि[१४७.१]ति । विरोधादित्यनुपपत्तेरित्यर्थ, न तु शास्त्रनिर्दिष्टलक्षणयोर्विरोधयोरन्यतरविरोधवशादिति । "विरोधशब्देनायोगस्य विवक्षितत्वात्ततश्चाक्षणिकस्य क्रमयौगपद्याभ्याम् *<८>*अर्थ्क्रियासिद्धिमनुसरतासौगतेन[१६५]विरोध्यप्यक्षणिकः[१६६]प्रत्येतव्यो विरोधिप्रतिपत्तिनान्तरीयकत्वाद्विरोधसिद्धिर्[१६७]इति यदीरितंशङ्कराचार्येण तदपहस्तितम् । अयोगपक्षेऽपि यावत्सम्भवं दूषणं प्रतिविधानं चास्माभिर्विशेषाख्यान एव विस्तरेणाभिहितमिति तत एवापेक्षितव्यमिति. अनेन च यस्य [न] क्रमाक्रमयोगो न त[५४ ]*<१>*स्य क्वचित्सामर्थ्यम्, यथाकाशकुशेशयस्य. अस्ति चाक्षणिके सति व्यापकानुपलम्भः सत्त्वहेतोः साध्यविपर्यये बाधकं प्रमाणं दर्शितं वेदितयम् । यथा चास्याश्रयासिद्धत्वदोषो न संभवति । अ(त)थास्माभिश्चतुःस(श)त्यांक्षणभङ्गसिद्धौविशेषाख्याने चाख्यातमिति तत एवावगन्तव्यमिति. विरुद्धयोः [१४७.३] सत्त्वासत्त्वयोः । ततोऽक्षणिकत्वात् । __________नोतेस्__________ [१६५] सौगतेनएम्.(च्f. स्तेइन्केल्ल्नेर्१९६३: ८ fरग्. ६) : सौगते ह्ब्टा [१६६] विरोध्यप्यक्षणिकःेम्.(च्f. स्तेइन्केल्ल्नेर्१९६३: ८ fरग्. ६) : विरोध्यस्य क्षणिकः ह्ब्ता [१६७] विरोधसिद्धेरेम्.(च्f. स्तेइन्केल्ल्नेर्१९६३: ८ fरग्. ६) : विरोधसिद्धिर्ह्ब्ता ___________________________ *<२>*क्रमयौगपद्याभ्यामेवे[१४७.६]त्यत्र क्रमयौगपद्ये कार्यधर्मावेव विवक्षिते । तेनायमर्थः -- कार्यमङ्कुरादिकं बीजादिना [१४७.६] केवलं वा क्रियेतान्यसहितं {प्. ३७१} चेति । कार्यजन्मनः[१६८][१४७.८] कार्योत्पत्तेः । विप्रकर्षिणां [१४७.१०] स्वभावादिविप्रकर्षयुक्तानां ने[१४७.१४]ति सिद्धान्ती । उभयथा [१४७.१५] तस्य प्रकारान्तरस्य दृश्यत्वादृश्यत्वप्रकारेण । कार्यान्तरसाहित्यासाहित्यरूपे क्रम*<३>*यौगपद्ये विवृण्वता चानेन कार्यधर्मत्वं क्रमयौगपद्वयोर्व्यक्तमुपदर्शितम् । अत एव क्रमयौगपद्याभ्यां कार्यक्रियाव्याप्तेत्यस्माभिर्व्याख्यातं तथा । तदुभयावस्थाविरहेपि [१४७.१७] कार्यान्तरसहितासहितावस्थाभावेप्यङ्कुरादेरिति प्रकरणात् । अन्यथाभवनं [१४७.१८] प्रकारान्तरम् । भवत्वेवं, ततः किमायात*<४>*मित्याह -- तस्य चे[१४७.१८]ति । अनेन दृश्यात्मत्वं तस्य समर्थितम् । अस्तुं दृश्यानुपलम्भात्कस्मिंश्चिद्देशे काले च तस्याभावव्यवहारोऽन्यस्मिन् पुनर्देशे काले चाप्रतिषेधात्कथं तत्र प्रकारान्तरस्याभावः सिद्ध्यतीति आशंक्याह । तस्य चे[१४७.२३]त्यादि । अङ्कुरादिभावस्य अङ्कुराद्युत्पादस्य अवस्थाद्वयबहिर्भावनिषे*<५>*धे कार्यान्तरसहितासहितावस्थाबहिर्भावस्ताभ्यां प्रकारान्तरं तस्य निषेधे दृश्यानुपलम्भकृते सति ह्यनि(सति नि)षेध इत्याह -- कयोश्चिदि[१४७.२४]ति । देशान्तरादौ (१४७.२४) भावेपी[१४७.२५]ति तस्याङ्कुरादेरिति प्रकरणात्न काचित्क्षतिः [१४७.२५] । किं भूते देशान्तरादावित्याह क्रमेणेत्या[१४७.२४]दि । इतरस्मिन् वा [१४७.२४] युगपदङ्कुरादि*<६>*भाववति वा । एतच्च हेतुभावेन विशेषणम् । अयं चाशयो देशान्तरादिरप्य् एतद्देशान्तरवत्क्रमेन वा तद्भाववान् युगपद्वा भवितुमर्हति, तदुभयावस्थाबहिर्भावस्य निषिद्धत्वात् । सति चैवमदोष एवेति । न काचित्क्षतिरि[१४७.२५]ति ब्रुवतश्चायमभिप्रायः -- कार्यस्य चैकत्रैकदावस्थाद्वयबहिर्भावो निषि*<७>*द्धोऽन्यदापि तेन भवता प्रमाणपरिदृष्टात्मनैव भवितव्यमन्यथा तत्कथं देशान्तरादौ प्रकारान्तरमाशंक्येति(क्येतेति) । प्रकरणमुपसंहरन्नाह त[त] [१४७.२५] इति । __________नोतेस्__________ [१६८] कार्यात्मनः स् ___________________________ ननु संप्रत्येवोक्तः स्वभावानुपलम्भ एवेत्यादि तत्कथमिदानीमुच्यते प्रत्यक्ष [१४७.२५] इत्यादीति चेत् । नैष दोषः पूर्वं हि मूढं प्रतिपत्तारं प्रति तथोक्तमधुना पुनरमूढं प्रती*<८>*ति को व्याघातः । क्रमयौगपद्ययोरि[१४८.१]ति क्रमाक्रमयोरित्यर्थः सकृतप्रत्युपलक्षणेन यौगपद्यशब्देनाक्रमस्यैव विवक्षितत्वातन्यथान्योऽन्यव्यवच्छेदरूपता दुरुपपादापद्यते ततः सर्वत्रैवाक्रमार्थी(र्थो) यौगपाद्यार्थः । अत एवास्माभिरक्रमशब्देन यौगपद्यमनूदितमिति । तस्य [१४८.३] प्रकारान्तरस्य प्रतिषेधः । [५५ ]*<१>*उभयनिषेधात्मकमेव प्रकारान्तरं किं {प्. ३७२} न भवति येनैकनिषेधनापरविधानात्तस्य निषेधो भवतीत्याह -- विधिप्रतिषेधयोरि[१४८.४]ति । अयमभिप्रायः -- क्रमो न भवतीति अयमेवाक्रमविधिः । सोपि न भवतीति तदैव तस्य निषेधः अनयोश्चैकाधिकरणयोरेककालिकयोर्विरोधस्तस्मात्तथाभूतस्या...ं...व इति । तस्याप्रतिषेध [१४८.३] *<२>*इति त्वपाठ एअ । कारणमपि कारणापेक्षया कार्यमेवेति कारणग्रहणम्, न तु कारणत्वेनास्योपयोगोऽत्र कश्चित् । कर्य एव प्रकारान्तरासंभवस्य चिन्त्यत्वात्; यद्वा कारणेन क्रियमाणे कार्य इति ज्ञापनार्थं कारणग्रहणं वास्तवं रूप(वरू)पानुबादकं प्रतिषेधस्य यद्विरुद्धं तस्योपलब्धिरित्याशंका एतदेवोपपादयन्नाह व्यवच्छिद्य*<३>*माने[१४८.१०]ति । इतरस्य व्यवस्थानमि[१४८.१०]ति तथव्यवच्छिद्यमानप्रकारादितरव्यवस्थानमिति तथा ।[१६९]सम्भवं हेतोः [१४८.१५] सद्भावमिति प्रकरणात् । संभवग्रहनं चोपलक्षणं तेन पूर्वसिद्धां च व्याप्तिं प्रदर्श्येत्यपि द्रष्टव्यम् । विरोधसाधनमेवा[१४८.१५]र्थात्प्राक्प्रवृत्तमित्यवसेयम् । बाधकमित्यस्याविरुद्धोपलब्धेः साध्यवि*<४>*पर्यये बाधकं [१४८.१५] प्रमाणमुच्यत इति चाध्याहार्या(र्य)क्रियापेक्षयायं क्त्वाप्रत्ययः कार्योऽन्यथा कां क्रियामपेक्ष्येयं पूर्वकाला प्रदर्शनक्रिया प्रदर्शयितव्या यत्रायं भवेत्, यथाश्रुति भिन्नकर्तृकायां च क्रियायामयं प्रसज्येत पुरुषसम्बधित्वात्प्रदर्शनस्येति । विरुद्धमात्राभिप्रायेण शीतोष्णस्पर्शयोरि[१४८.१६]त्युदाहरति । __________नोतेस्__________ [१६९] सद्भावं स् ___________________________ ननु क्रमाक्रमाभ्यां कार्यं कामं व्याप्यतां तथाप्यक्षणिकः क्रमेणाक्रमेण वा कार्यं करिष्यति । सति चैवं व्यापकानुपलम्भोऽसिद्ध इत्याशंक्याह -- तत्रेति [१४८.१८] । अविशेषात्[१४८.१८] पूर्वरूपाविशेषात् । एतदेव दृष्टान्तव्याजेन व्यनक्ति अकारकावस्थायामिवे[१४८.१८]ति । अपेक्षितसहकारिप्रत्ययः स*<६>*न्करोति नान्यदेत्याह -- सहकार्यपेक्षा चे[१४८.१९]ति । अनुपन्यसनीये[१४८.२०]ति च सम्बन्धः; कुत इत्याह द्विविधस्यापी[१४८.१९]ति । अथ यथा भिन्नदेशानेककार्यकारित्वमेकस्य स्वहेतु(तो)स्तथोत्पादादुपपद्यते तद्धि(तद्वद्भि)न्नकालानेककार्यकरणमुपपत्स्यते तत्कुतः क्रमकारित्वानुपपत्तिरक्षणिकस्येति चेति(चेत्) । तदेतच्च*<७>*तुःस(श)त्यां क्षणभङ्गसिद्धावस्माभिः सूक्तं प्रत्युक्तमिति तत एवानुगन्तव्यम् । ननु कारणलक्षणस्य क्रमस्य क्षणिकपक्षेप्यनुपपत्तेः समानो दोष इति चेदेतदपि तत्रैव निर्णितमिति नेहोच्यत इति । सर्वेषां [१४८.२०] चेति द्वितीयादिक्षणभाविनामित्यवसेयम् । एकक्रियाकाल एव [१४८.२०] प्रथम क्षणक्रियाकाल {प्. ३७३} एव । तत्कारण[क]स्य*<८>* [१४८.२१] द्वितीयादिक्षणभावित्वेनाभिमतकार्यकारकस्य तदैकक्रियाकले, एव[१४८.२०]कारो भावादित्यस्मात्परो द्रष्टव्यः । अनेन च यद्यदा यज्जनसमर्थं तत्तदा जनयत्येव यथा अन्त्या कारणसामग्री । द्वितीयादिक्षणभावित्वेनाभिमतकार्यजनस्वरूपश्चाक्षणिकः प्रथमक्षण इति स्वभावहेतुप्रसङ्गं सूचयति । नापि युगपत्[१४८.२१] । "[५५ ]*<१>*अक्षणिकः कार्याणि करोती"[१४८.१८]त्यभिसम्बध्यते । येन स्वभावेन तत्कार्यमजीजनत्तस्य स्वरूपस्यानुवृत्तेरित्यभिप्रेत्य पुनस्[१७०]तत्करणप्रसङ्गाच्चे[१४८.२२]त्याह । अनेनापि समुदाये यज्जननसमर्थं तत्तदा त तज्जनयत्येव यथान्त्यः कारणकलापः । कृतकत्वेनाभिमतकार्यकरणरूपश्चाक्षणिको द्वितीयादिक्षण इति स्वभावहेतुप्रसङ्गमे*<२>*व दर्शयति । अनयोश्च प्रसङ्गहेत्वोरुपदर्शितयोरर्थादुन्नीयमानयोश्च प्रसङ्गविपर्यययोर्यावत्संभवं दूषणं तदुद्धरणं चास्माभिर्विशेषख्याने समीचीनं निरूपितमिति तत एवावगन्तव्यमिति । अकारकरूपाविशेषाद्[१४८.२३] इदानीं यदकारकरूपमस्य तस्मादविशेषादित्यर्थोऽवसातव्यः । भेदप्रसङ्गः [१४८.२५] शक्ताशक्तयो*<३>*रूपयोरित्यर्थात् । अत्रैवोपपत्त्यन्तरमुपचिन्वन्नाह नित्यश्चे[१४८.२५]ति ।[१७१](पूर्वोत्तरकालभावा च उपपत्त्योर्भेदोऽवसेयः पूर्वकालहेतुरकाले च) एकदा [१२८.२८] एकस्मिन्नेव क्षणात्मनि काले सर्वस्य कर्तव्यस्यैकदा [१४८.२९] एव कृतत्वादर्थक्रियाकारित्वाभावादसत्त्वं स्यात् । इति[१४९.१]र्हेतौ । प्रकरणमुपसंहरन्नाह एव[१४९.२]मिति । __________नोतेस्__________ [१७०] पुनस्तत्क्रियाप्रसङ्गात्स्। [१७१] कोष्ठकान्तर्गतः पाठः असम्बद्धो भाति । ___________________________ आर्य*<४>*ज्ञानं तन्वंतीति आयतनानि । चक्षुरादीनि [१४९.३] च तान्यायतनानि चेति तथा । अन्तर्व्याप्तिवादिनोप्यस्य मते प्रमाणसिद्धस्यैव धर्मित्वं वाच्यमन्यथान्तर्व्याप्तिरसमर्थिता स्यात् । ततश्चक्षुराद्यायतनानाममीषां प्रमाणसिद्धानामिति द्रष्टव्यम् । स्यादेतद्यत्सत्तत्क्षणिकमेवेति नियतं क्षणिकत्वं साधयितुं किल स*<५>*त्त्वाख्यो हेतुरुपदीयते । अयं चाखिलं वस्तु नाक्षणिकं नापि क्षणिकमिति साधयन् साध्यविपर्ययसाधानाद्विरुद्ध एव । तथा चावादीद्वादन्याये स्याद्वादकेशरी-- "अखिलस्य वस्तुनोऽनेकान्तिकत्वं सत्त्वात् । अन्यथार्थक्रिया कुतः" -- इति । एतच्च व्याचक्षाणेन कुलभूषणेन टीकाकृता एवं व्याख्यातमुप*<६>*पादितञ्च -- "अखिलं चराचरं सूक्ष्मव्यवहितविप्रकृष्टं वस्तु धर्मित्वेनोपात्तम् । अन्तो धर्मो नैकोऽनेकोऽन्त आत्मा स्वरूपं यस्य तद्भावस्तत्त्वम् -- अयं साध्यो धर्मः सत्त्वादिति हेतुः । अन्यथानेकात्मकत्वाभावप्रकारेण -- {प्. ३७४} अर्थक्रिया कार्यं सं(र्यसं)पादनं कुतो न कुतश्चित् । अनेनान्यथानुपपत्तेर्विपर्यये बाधकं प्रमाणं समर्थकं दर्शितम् -- "अन्यथानुपपन्नत्वं यस्यासौ हेतुरिष्यते । दृष्टान्तौ द्वावपिस्तां वा (?) याचातौ हि न कारणम् ॥" इति न्यायात् । तन्न तावदक्षणिको भावः कार्यं कऋतुं शक्नोति । तस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोतचत(राधात्) नापि क्षणिको भावः कार्यं कर्तुं प्रभवति । तथाहि किं क्षणिको भावः स्वसत्ताकाले कार्यकरणस्व*<८>*भावोऽथान्यदा । यदि प्रथमविकल्पस्तदा तदैव कुर्यात् । स्वसत्ताक्षणे च कार्यकृतौ सर्वं जगदेकक्षणवर्ति प्राप्नोति । तथाहि कारणं स्वसत्ताक्षण एव यत्कार्यमकृत तदप्यन्यस्य कारणमिति तदपि तदैव स्वकार्यं कुर्यात् । तदपि कारणमन्यस्येति तदपि तदैव कुर्यादेवमुत्तरेष्वप्ययमेव न्याय इति । सत्यम्, का[५६ ]*<१>*रणं स्वसत्ताक्षण एव कार्यङ्करोति, तत्करणस्वभावत्वात्, केवलं कार्यमन्यदोत्पद्यत इति चेत् । तर्हि कार्यमपि तदैवोत्पद्येतान्यद तत्कालं परिहृत्य कार्योत्पत्तिर्विरुध्येत[१७२]उत्पत्ताविष्यमाणां(णायां) वा समनन्तरोत्पादविरोधः । तथाहि तत्करणसमर्थस्यापि कालमुज्जित्वा जायमानस्य कार्यस्य कारणकृतोपकारपराङ्मुख*<२>*स्य योऽयं समनन्तरनियम एतद्विनाशानन्तरमेवेदमस्य कार्यमिति तस्यानुपपत्तिः । सोयं कारणविनाशो विरूपाख्योऽकिङ्चित्करस्तथापि यदि तत्समनन्तरनियमः कार्यस्य स्यात्तदा नित्यस्यापि कारणत्वमप्रतिहतं स्यात् । तथाहि यथा स्वसत्तालक्षण एव कार्यकरणस्वभावे क्षणिके भावे सत्यपि न तदैव *<३>*कार्याण्युत्पद्यन्ते अपि तु कालान्तरे, तथा नित्येपि भावे सर्वदा तत्करणसमर्थेऽपि कार्याण्येव विलम्ब्य विलम्ब्योत्पद्यन्त इति किं न समानम् । न च द्वितीये क्षणे निर्व्यापारतया सदसतोरक्षणिकक्षनिकयोः कश्चिद्विशेष इति ।" __________नोतेस्__________ [१७२] अत्र प्राक्तनं "अन्यदा" पदं समाकृष्य अन्यदोत्पत्तौ इष्यमाणायामित्यर्थः कर्तव्यः । ___________________________ यदिनामाह्रीकोक्तिरुपेक्षणीया प्रेक्षावतां तथापि किञ्चिदुच्यते । *<४>*इह खलु कार्यकारित्वं वस्तूनां न व्यापारसमावेशातुत्पादातिरोकिणो व्यापारस्यानुपपत्तेः, नापि कार्येण सहोत्पादः, सव्येतरविषाणयोरिव सहभुवोरन्यतरकारित्वानुपपत्तेः । "असतः प्रागसामर्थ्यात्पश्चाच्चानुपयोगतः ।" इति न्यायात् । किं तर्हि किञ्चिदनन्तरं सत्तयाभि*<५>*सम्बध्यमानं प्रति नियतप्राग्भावित्वमेव, कार्यस्यापि नियमेन तदनन्तरभावित्वमेव तज्जन्यत्वम् । सति चैवं स्वसत्ताकाले कार्यकरणस्वभावो भाव इति कोऽर्थः? तत्सत्ताकालं पूर्वं कृत्वा कार्यं सत्तयाभिसंबध्यत इति । तथा स्वलक्षण(स्वक्षण) एव करोतीत्यस्यापि कोऽर्थः? अनन्तरभाविकार्या*<६>*त्पूर्वं सद्भवति {प्. ३७५} कारणमिति । तदुक्तं "भूतिर्यैव क्रिया सैव" इत्यादि । इत्थं चैकप्रहारनिय(ह)तमेव तत्सर्वंदिगम्बरेरितम् । ततश्च क्षणिकस्यैवार्थक्रियोत्पत्तेः सत्त्वं क्षणिकत्वमेव साधयद्विरुद्धमाचक्षाणाःक्षपणाअनेकान्तत्वे च साध्ये साधनमिदमुपनयन्तः स्फुटमहीकावेति(महीका एवेति) *<७>*उपेक्षामेव प्रे...वितामर्हन्तीति । स्वभावहेतुं व्याख्याय कार्यहेतुं व्याख्यातुकामोवार्तिककारस्य कार्यहेत्वभिधानस्य निमित्तं दर्शयन् पूर्वापरयोः संगतिं तदेवमि[१५०.३]त्यादिना करोति । तद्गतं [१५०.५] कार्यहेत्वाश्रितम् । कस्मात्पुनः स्वभावहेतुवदप्यस्यान्वयव्यतिरेकावेव न प्रतिपाद्येते, येन तद्गता*<८>* परभ्रान्तिकारणोपादानर्थमेव कार्यहेतुविषयो[प]दर्शनं वर्ण्येत इति आशंक्य कार्यहेतावि[१५०.४]त्यादि योज्यम् । तयोर[१५०.४]न्वयव्यतिरेकयोः । तर्हि कार्यकारणभावसिद्धिरेतद्दर्शनीया ततश्च तां दर्शयितुमिति किं नोच्यत इत्यपेक्षायां तस्याश्चे[१५०.५]ति योज्यम् । तस्याः कार्यकारणभावसिद्धेः । हेतोः प्रत्यासन्नत्वात्[५६ ] *<१>*हेतोर्व्यतिरिक्त [१५०.७] इत्याचष्टे । कार्यं [१५०.७] कार्यमेवेति विवक्षितम् । "त्रिधैव स" इति नियमस्य पूर्वं प्रतिपादितत्वातत एव कस्मात्कार्यमेवे[१५०.८]ति पश्चाच्चोदयिष्यते । अनर्थान्तरे व्यावृत्तिभेदात्परिकल्पितव्यावृत्त्यन्तररूपं धर्मान्तरे । असाधारणं कार्यं [१५०.९] । दिङ्[१७३]नागेन[१७४](सर्वव्यक्तिष्वनुपग(ष्वनुग)तप्रत्ययप्रसूतिः?) । __________नोतेस्__________ [१७३] "आचार्येण" [१५०.१३] इत्यस्य विवरणं दिग्नागेन इति भाति । [१७४] "सर्वव्यक्तिष्वनुगतप्रत्ययप्रसूति?" इदं शंकाचिह्ञितं पदं नात्रत्यं किंतु अग्रेतनं भाति । तच्च "अग्नेरिति" इत्यस्य अनन्तरं यदि स्यात्तदा संगच्चेतापि । तत्रापि सामान्यपदं गच्छितं भाति । तथा च सर्वव्यक्तिष्वनुगतप्रत्ययप्रसूतिः सामान्यमित्यर्थः स्यात् । ___________________________ सर्वथा तद्भावमेव प्रतिपादयन्नाह*<२>* -- अग्नेरि[१५०.१७]ति । अस्याश्रितत्वादग्नेः अग्नित्वं सर्वाग्निव्यापनादनुगतप्रत्ययहेतुत्वविवक्षयैव सामान्यधर्मा अपि गमकाभिप्रेतास्त इव । तार्णत्वादेः सर्वाग्न्यव्यापनाद्व्यावृत्तप्रत्ययहेतुत्वा(त्व)विवक्षया विशेषधर्मत्वं विवक्षितम्, न तु सर्वथा सामान्यरूपत्वमस्य निराचिकीर्षितं सर्वतार्णादिवह्निष्वनुगतप्रत्ययप्रसूति*<३>*हेतुत्वात्, सामान्यरूपस्य चात्राव्याघातात्, अन्यथा तार्णवह्न्यादिजन्यरूपतयावधारितात्धूमान्वयता(मान्न वह्निता)र्णाद्यनुमानं स्यात्विशेषरूपस्याव्यापकतया अननुमेयत्वात् । तेपि विशेषधर्मा गम्याः स्युः, इष्यन्ते चाग्नेः सामान्यधर्मा एवाग्नित्वद्रव्यत्वसत्त्वज्ञेयत्वादयो गम्या इति भावः । धूमस्यापि विशेषधर्मवत्सामान्यधर्मा गमकाः स्युः न चेष्यन्ते सत्त्वज्ञेयत्वापार्थिवत्वादयो गमका इति भावः । कोऽसौ धूमाश्रितो विशेषधर्मो {प्. ३७६} दृष्टान्तीकृत इति चेदेवं धूमत्वपाण्डुत्वादिभिरि[१५०.२३]त्यत्र धूमत्वादि निरूपयिष्यंतो निर्देक्ष्यामः । ननु कार्यत्वस्य तद्भावाख्यैकसम्बन्धवशाद्गमकत्वं तत्कथं "सर्वथा *<५>*जन्यजनकभावाद्" इत्युच्यत इत्याशंक्याह जन्ये[१५०.२०]ति । सर्वथा जन्यजनकभावमेव प्रतिपादयन्नाह तथाही[१५०.२१]ति । पूर्वोक्तेन प्रकारेणाग्नित्वादीनां सामान्यधर्मत्वं ज्ञेयम् । सर्वं चैतद्धर्मभेदपरिकल्पनयोच्यते । तृणे भवो वह्निस्तार्णः [१५०.२२] । पर्णे भवः पार्णः [१५०.२३] । भावप्रधानश्चैव निर्देशस्तेन तार्णत्वादिभिरित्यर्थः । ननु यथाग्नित्वं सकलाग्निव्यापनेनानुगतप्रत्ययहेतुत्वात्सामान्यधर्म उच्यते तथा धूमत्वमपि सामान्यधर्म एव । यथा च द्रव्यत्वादयोऽग्न्यनग्निसाधारणत्वादनुगतबुद्धिनिबन्धनत्वेन सामान्यधर्मास्तथा पाण्डुत्वमपि धूमनीहारादिगमनादनुगतज्ञानकारणत्वाच्च सामान्यधर्म *<७>*एव तत्कथममू विशेषणे धर्मित्वेनोदाहरणीकृते इति । साधूक्तं भवति(ता) केवलं बोधे यत्नः करणीयः । इह खलु सर्वधूमव्यक्तिव्याप्यनुगतप्रत्ययहेतुधूमत्वमेव सामान्यविशेषो विजातीयाद्व्यावृत्तप्रत्ययपुरस्कारेण विशेषधर्मो विवक्षित इत्यादिचोद्यमपोदितम् । एवं सत्यग्नित्वमपि विशेषधर्म इत्यग्ने*<८>*र्विशेषधर्मस्यापि गम्यत्वमायातमिति चेत् । तथाविधस्य विशेषधर्मस्य गम्यत्वेनेष्टत्वान्न कश्चिद्दोष इति । अवान्तरविशेषस्य तु तार्णत्वादेर्गम्यत्वं दूममात्रस्य तदप्रतिबन्धान्निषिध्यत इति किमवद्यम् । धूमस्य विजातीयासाधारणधर्मवाचकश्च पाण्डुशब्दोऽस्ति योनेनोपात्त इति द्वितीयमपि चोद्यमपोद्यते । स [५७ ]*<१>*चैतच्छब्दाभिलाप्यो धर्मो दुर्ज्ञान इत्यग्निरत्र पाण्डुत्वादिति नोच्यत इति सर्वमवदातम् । स्वभावैवध[१५१.८](वैर्ध)र्मैरित्यर्थः । अपरोर्थ [१५१.१३] इति । यावद्भिरविनाभाविकारणस्य बाह्यैकदेशस्यान्योऽर्थो न तु समुदायग्रन्थस्यामुमर्थमन्तरेण पूर्वार्थमात्रेण वाक्यस्यासंगतत्वात् । संबध्यत [१५१.११] इति तत्कार्यं तेषां हेतुरि[१५१.१५]ति सम्बन्धः कार्य इत्यर्थो न*<२>* तु पूर्वव्याख्यानोक्तमत्रापि व्याख्यानेऽभिसम्बध्यत इति बोद्धव्यम् । पूर्वव्याख्याने तेषां स्वगतानां धूमत्वादीनां हेतुरिति प्राप्तावर्थां सं(वर्थासं)गतेरेव संबन्धनीयत्वादिति । तेषामिति कारणगतानां धर्माणां हेतुस्तत्कार्यमिति पूर्वोक्तमभिसंबध्यते । कैः स्वभावैर्हेतुरित्यत्र गजनिमीलिकैव कृता एतदेनुसन्धानेन न *<३>*त्वनन्तरं वाक्यं भविष्यति । केचित्पुनरत्रैवमाहुः -- उक्ते सति नियतमेतद्व्याख्येयं नान्यथा । सति चैवं पूर्वव्याख्यानस्य क्वोपयोगः । तस्माद्यतस्तदुत्पत्तिनियमाभावे सर्वथा जन्यजनका(क)भावो व्यवस्थापयितुमयुक्तस्तस्माद्यावद्भिः कारणे {प्. ३७७} व्यवस्थितैर्धर्मैर्विना तत्कार्यं न भवति ताव*<४>*तां हेतुर्नान्येषां तत्कार्यत्वनियमादित्येवं व्याख्यातुमुचितमिति । अत्र तु समाधानमत्राभियुक्तैरेव दातव्यमिति । पूर्वव्याख्यानस्य पश्चाद्व्याख्याततया पश्चाद्भवेन पाश्चात्येनार्थेन [१५१.२०] कारणाश्रितानां तावतां हेतुरित्यनेन कारणगतमंशमि[१५१.२०]वांशं धर्मं निरूप्य साध्यत्वेन निश्चित्य पश्चाद्*<५>*व्याख्यातादर्थात्प्राग्व्याख्यातत्वेन प्राग्भवेन प्राक्तनेनार्थेन "यावद्भिर्धूमत्वादिभिः स्वगतैर्" इत्यनेन कार्यगतमशं धर्मं निरूपय[१५१.२०]न् प्रकरणाद्गमकतया निश्चिन्वन् । पूर्ववत्पाण्डुत्व[१५१.२३]मनयोः विशेषरूपत्वं च प्रत्येयम् । परेषामु[१५२.८]भयत्राविशिष्टरूपसंयोगवशाद्गम्यगमकभावमि*<६>*च्छतामित्यभिप्रायः । ग्रहीतुं [१५२.२०] निश्चेतुम् । धूमत्वं विशेषणं यस्य तेन धूमत्वादिति विशेषणे तु द्रव्यत्वादौ हेतुतयोपनीयमाने समर्थविशेषत्वेनासाधनाङ्गवचनात्कथमेव क्ष्मादीनि गृह्यत इतिभट्टार्चटेणापि शङ्कितं न च परिहृतमिति किमस्माकमत्र परिश्रमेणधर्मोत्तरादेरे*<७>*व तु तदवसेयमिति । यथाइव जन्यजनकभावस्तथैव किं न गम्यगमकभाव इत्याह नही[१५२.२५]ति । वस्तुवृत्त्यपेक्षयैव कस्मान्न तथात्वं किं पुनर्निश्चयापेक्ष इत्याह -- तथाही[१५२.२६]ति । ननु भवो भवतो यस्माद्भावशंकायां नान्वयव्यतिरेकावित्युक्ते ततोऽभाव उच्यमानः कथं शोभत इत्याशंक्याह एवं मन्यत [१५४.१२] इति । शक्रमूर्द्धा [१५४.२८] वल्मीकः*<८>* इति । मन्यमान आह -- सर्वः [१५५.१३] तथाविधजन्मे[१५५.१५]ति कुत [१५५.१७] इति द्रष्टव्यम् । ननु उक्तमेव तदुत्पन्नमेव कार्यं कारणमपेक्षते न तु तादृशातादृशतायां ततस्तयोर्हेतुनिरपेक्षयोरिष्टत्वादेव किमनेनोक्तेनेत्याशंक्याहेतुकत्वे सर्वत्रैवोत्पत्तरितयो (?) विशेषेणभावः स्यादिति इत्यादिदूषणमुत्पत्स्येव (?) कारणनिरपेक्षत्व[५७ ]*<१>*मेव तयोरसहमान आह नही[१५९.४]ति । तदपेक्षा इत्यपेक्षा । अपराजितशब्देन यो लताविशेष उच्यते स सूर्यशब्दाभिधेयोऽवसेयः । इतर [१६१.२४] शब्देन लताचम्पको वृक्षचम्पकसमानाकारो देशविशेषभवो वक्तव्यो न तु भूमिचम्पक इति यस्य रूढिः तस्य वृक्षचम्पकेन सहाकारसाम्यस्यैवाभात् । क्षणभेदा(धानं[१७५]कुतश्चिद्रूपात्कथंचित्तेन सहैकप्रत्यवमर्शजनना)श्रयत्वेनैव सूक्ष्मावान्तरजातिभेदे [१६२.१८] । जातिभेदे कथमेकसंतानव्यवस्थेत्याह -- {प्. ३७८} सर्वे[१६२.२०]ति । यद्येकाकारप्रत्ययनैवनुनैव्यप्रत्यय(निबन्धनै)कसन्तानव्यवस्था तदान्यस्य सो(स्वो)पादानेन सहैकसंतानव्यवस्था न स्यात्सा चावश्यवाच्यान्यथा स्वसन्ततिपतितकार्यजनकत्वेन या तस्योपादनत्वेनाभिमतस्योपादानव्यवस्था सा न स्यादित्य*<२>*भिप्रायवान् परश्चोदयति आद्यस्ये[१६२.२२]ति । जात्यनुविधानं कुतचि(श्चि)द्रूपात्कथञ्चित्तेन सहैकप्रत्यवमर्षजननम् । तथाही[१६२.२३]त्यादिनैतदेव समर्थयते । अगुरुजातिभेदानुकरणं तद्धूमस्यागुरुगन्धसहचारितया प्रत्यवमर्षजनकत्वम् । अनुकुर्वन्त्येवेति वर्तते तद्धूमाः [१६२.२४] तद्वर्तिंधूमाः । *<४>*तद्भेदानुकरणमेषां कुतो ज्ञायते इत्याह -- तद्रू[१७६]पे[१६२.२५]ति । यस्मादिन्धनेन सह धूमस्य केनचिद्रूपेण एकाकारपरामर्शजनकतयैकसंतति [व्यवस्थानाद्येन (?)] तस्मातिन्धनमेवेति स्थूलेनायं व्यपदेशो वस्तुतस्तु तद्गतार्द्रसन्तानविशेषस्तस्योपादानकारणं ज्ञेयं सन्ता*<५>*नस्तु तस्याङ्गारादेः । यथा चैतत्तथाधर्मोत्तरेण विनिश्चयटीकायां निर्णीतमिति तत एवापेक्षितव्यम् । प्रसज्यते प्रतिपाद्यत इति प्रसङ्गोऽतिशयितः प्रसङ्गोऽतिप्रसङ्गस्तेनालम[१६३.४]तिविस्तरेणेत्यर्थोऽत्र द्रष्टव्यः । __________नोतेस्__________ [१७५] कोष्ठकगतः पाठः प्रत्यन्तरे दृश्यते स च न सम्यग्भाति । [१७६] दुर्वेकानुरोधेन "तद्रूपरसवीर्य" इत्यादि पाठः स्यात् । ___________________________ तस्य [१६३.६] कार्यभेदस्यातादृशत्वलक्षणस्याभावात् । तस्येति भेदस्य तस्मिन् स*<६>*त्यजायमानस्यापि कथमहेतुत्वमिति पार्श्वस्थवचनमाशंक्याह नही[१६३.९]ति । असत्यभेदे [१६३.११] प्रकरणादसति सामग्र्यभेद इत्यर्थः । कुतः पुनरसत्यभेदे जात इत्यपेक्षायां योज्यं सामग्र्योरि[१६३.११]ति । हेतौ [१६३.१२] सामग्र्योर्भेदेऽन्यादृशत्वलक्षणे सत्यभवतो भेदस्य तथा तद्वथेतौ [१६३.१२] सामग्र्यभेदलक्षणेऽसत्यपि भवतो भेदस्येति प्रकरणात् । अभेदस्तादृशत्वमेकजातीयत्वमिति यावत्तस्य निबन्धनत्वात्[१६३.१४] शालिकोद्रवादौ भेदस्य भावात्कथं न क्वचित्पदानुबन्ध इत्याह शाली[१६३.१५]ति । तद्धेत्वोरभेदहतुत्वात्तयोरप्यभेदेनैव भवितव्यमिति तदपि पक्षीकृतमेवेति भावः । हेतुभेदेऽपि *<८>*शालिकोद्रवादेर्न तत्कु(कृ)तो भेदोऽन्यादृशत्वमपि त्वेवमेवेत्याह -- निमित्तमन्तरेणे[१६३.१३]ति । कल्पनायां भेदकल्पनायां विशेषाभावान्निर्मित्तत्वेन विशेषाभावात्[१६३.१६] शाल्यन्तरेऽपि किं न कल्प्यत इति शेषः प्रकरण लंभ्यं वा । यद्वा न हेत्वभेदोऽभेदस्य निबन्धनम् । नापि हेतुभेदः कित्वेवमेवाभेदो भविष्यतीत्या[५८ ]*<१>*ह -- निमित्तमि[१६३.१६]ति । कल्पनायामभेदकल्पनायाम् । विशेषाभावाच्छालिकोद्रवयोरपि भे(अभे)दः किं न कल्प्यत इति पूर्ववत् । स्यादेतत्प्रतिभासनियमनिबन्धनोयमभेदो नान्यनिबन्धनस्तत्किमेवमुच्यते इत्याह प्रतिभासे[१६३.१६]ति । प्रतिभासस्य भेदस्तादृशत्वम् । तस्य स(भ्रा)न्तिनिमित्ताद्{प्. ३६९} आ[१६३.१७]कारसाम्यादेः परमार्थतो भेदेऽप्यतादृ*<२>*शत्वेप्युपलक्षणाद्दर्शनानैवमिति द्रष्तव्यम् । एवमुपलक्षणत्वादस्य भेदविचारावसरेऽपि प्रतिभासभेदाद्भेद इति पूर्वपक्षे प्रतिभासभेदस्य च कुतश्चिद्भ्रान्तिनिमित्तात्परमार्थतोऽभेदेप्युपलक्षणादिति वक्तव्यम् । उभयत्रापि तु यदि प्रतिभासभेदाभेदावप्यपरप्रतिभासभेदाभेदनिबन्धनौ तत्रापि तत्प्रत्यनवस्था तस्मादा*<३>*द्ययोरपि तथात्वं व्यवस्थापयितुं न शक्यत इति दोषो दर्शयितव्यः तयोः [१६३.२१] भेदाभेदयोः । तस्य [१६३.२२] स्वंभावस्य । ताभ्यां [१६३.२२] भेदाभेदाभ्याम् । तेभ्यां भावस्वभावभेदाभेदेभ्योऽन्यः स चासौ सम्बन्धश्चेति तथा तस्य कल्पना [१६३.२३] तस्याम् । सोपि तेषां कुत इत्याकांक्षायां सम्बन्धाङ्गीकरणं तत्रापि तत्पर्यनुयोगे तदे*<४>*वोत्तरमित्यनवस्था । स्वात्मन्येवावस्थानादि[१६३.२४]ति ब्रुवतोऽयं भावो यदि भावस्वभावे तयोरनुप्रवेशस्तदा स एवावतिष्ठेत न तु तौ । अथ तयोस्तस्यानुप्रवेशस्तर्हि ताववतिष्ठेयातां न त्वसाविति । पुनर्भेदपक्ष एव दोषान्तरं समुच्चिन्वन्नाह अनुपकाराच्चे[१६३.२५]ति । यौ भेदाभेदौ तादृशत्वाता*<५>*दृशत्वलक्षणावसौ प्रतिपद्यते तावपि यदि भिन्नौ [१६४.१] ततो व्यतिरिक्तौ । तादवस्था (तदबस्थः) [१६४.२] न भिन्नं नाप्यभिन्नं यत्तदवस्थम्, यदवस्थं भेदाभेदप्रतिपत्तिकाले । तस्य [१६४.२] भावस्वभावस्य । तस्य [१६४.६] स्वरूपान्तरेण क्रियमाणस्य । तत एव हेतुबलायातात्कुतश्चिद्भिन्नाभिन्नाद्रूपाद्विशेषसामान्यात्मनो[१६४.११]रित्यत्र विशेषशब्देन स्वलक्षणं न वाच्यम् । तस्य भिद्यत इति व्युत्पत्त्या भेदरूपत्वापत्तेरयोगासिद्धिप्रसङ्गान्नापि विशेष्पदार्थस्तस्य विनाशारम्भरहितेश्वे वाणवाकाशादिषु प्रवृत्तेः परेण भेदशब्देनाभिप्रेतत्वात् । किंत्वेकसामान्ययोगेप्यवान्तरसामान्यविशेषः । तयो[१६४.१३]र्भेदाभेदयोः । *<७>*अपेक्षया ही[१६४.१८]त्यत्रस्थस्य हिशब्दस्य मौलस्य व्याख्यानमेतत्यस्मादि[१६४.१८]ति । टीकाकृतस्तु "अपेक्षयाहि" इत्यत्रस्थहिशब्दोऽवधारणे, यद्वा हिर्यस्मादपेक्षया तस्येति योज्यम् । द्वावेतौ शतृप्रत्ययौ हेतौ द्रष्टव्यौ । साधनानां कारणानां साधनाय [१६५.२] निष्पादनाय कथं नेष्यत इत्याह । विलक्षणादपी[१६५.१०]ति । यादृशं दृष्टं यथा दृष्टम् । *<८>*यथादृष्टं कार्यं यथादृष्टादेव कारणादुत्पद्येतेति वर्तते । विलक्षणयापि विवक्षितसामग्र्या अन्यादृशापि तल्लक्षणं विवक्षितसामग्र्या जायमानकार्यसरूपम् । तत्सामग्रीवैलक्षण्याविशेषाद्यस्याः कस्याश्चित्सामग्र्या जायमानं किं तल्लक्षणं न भवतीति । तथा च स एव दोष इत्याशंक्य पर एवाह कस्याश्चिदेवे[१६५.२३]ति । अत्रास्मि[५८ ]*<१>*न् पूर्वपक्षे [१६५.२५] यादृशी शक्ति[१६५.२८]रिति योज्यम् । नामान्तरेण [१६६.३] संज्ञान्तरेण । कथं तदेव नामान्तरेणोक्तं {प्.३८०} स्यादित्याह तद्विलक्षणस्ये[१६६.३]ति । तद्विलक्षणस्याग्न्यादिसामग्रीविलक्षणस्य । याग्न्यादिसामग्र्यान्यादृशी सामग्री सा तच्छब्देन प्रत्यवम्रष्टव्या । तस्याविलक्षणस्याग्न्यादिकारणकलापस्य य आत्मातिशयः शक्तिशब्दवाच्यस्तस्यासंभवाद[१६६.४]योगात् । *<२>*अनग्न्यादिरूपस्य कारणकलापस्याग्न्यादिसामग्रीशक्तियोगासंभवादिति समुदायार्थः । तदात्मातिशययोगेऽपि कथमग्न्यादिरूपत्वं तस्येत्याह स एव ही[१६६.४]ति धूमं जनयति सहकारिकारणत्वेन । स्वजातिमनुकारयत्यु[१६६.५]पादानभावेन जनयतीत्यर्थः । यदि चे[१६६.७]त्यत्र चशब्दस्तुशब्दस्यर्थे । तां सामग्रीमग्न्यादिसंज्ञया वयं*<३>* व्यवहरामो भवन्तस्तु शक्रमूर्धादिसंज्ञया व्यवहरन्ते अतो नाग्नि संज्ञायामेव विवादः स्यात् । [१६६.७] कथं पुनर्नाग्न्येव विवादो नान्यत्रेत्याह अर्थाभेदमि[१६६.७]ति । अर्थाभेदं तथा धूमजननशक्तिलक्षणमभ्युपगम्य तथाभिधानात्[१६६.७] शक्रमूर्धादीत्यभिधानात् । धूमादिकं कार्यं कर्तृ कथं निश्चितमित्याह -- अतद्रूपे[१६६.९]ति । का*<४>*रणमिन्धनादिकं कर्म न व्यभिचरति । क्षणापेक्षापक्षे तु कारणमिन्धनादि क्षणरूपमित्यवसेयम् । अव्यभिचारस्याकारं दर्शयति -- तद्विलक्षणादिति । इतिर्हेतौ सिद्ध्यति [१६६.१२] निष्पद्यत इति । कार्यं हेतुं व्याख्यायाधुनानुपलब्धिं व्याचिख्यासुर्यतस्ततस्तदुत्थानं तदुपदर्शयितुं तदेवमि[१६७.३]त्यादिनोपक्रमते । भवदुत्पद्यमानं दृष्टं निश्चितं सकृदि[१६७.३]ति सकृदपीति ज्ञेयम् । प्रत्यक्षानुपलम्भाभ्यां [१६७.३] यथा व्याख्याताभ्याम् । तथाविधादेवे[१६७.४]त्यवधारयतोऽनन्तरोक्तैवोपपत्तिः बुद्धिस्था । अवधारणेन प्रतीयमानमप्यतथाविधाज्जन्मनिषेधं कण्ठोक्तं कुर्वन्नाह -- ने[१६७.४]ति । व्याप्त्या [१६७.५] सर्वदेशकालपरिग्रहेण । *<६>*तुरनुपलब्धिं भेदवतीं दर्शयति । यादृश्युक्ता यथोक्ता [१६७.७] तस्यां दृश्यत्वविशेषणायामित्यर्थः । निमित्तान्तराभावोपदर्शनं प्रागुक्तमिति भावः । स्वरूप[१६७.८]ग्रहणमुपलक्षणं तेन व्यापारेपीत्यपि प्रत्येयम् । अत एव व्यापारस्य पश्चाद्दर्शयितव्यत्वात् । क्रमे तावच्छब्दं प्रयुञ्जानोऽनुपलब्धिस्वरूपं *<७>*तावद्दर्शयतीति वक्ष्यति । ए[व]का[१६७.८]रस्त्वन्वयव्यतिरेकविषयविप्रतिपत्तिमात्रनिरासार्थः । यथाश्रुति व्याख्याने तु तथेत्यादि वक्ष्यमाणमसंगतं स्यात् । तथाही[१६७.८]त्यादिना स्वरूपविषयविप्रतिपत्तिं प्रतिपादयति । तथा चेश्वरसेनश्वरकव्याख्याने प्रमाणान्तरत्वेनेमामुपदर्शयां बभूव । प्रतिषेध्यविषयज्ञानविषयरूपे*<८>*णापरिणाम[१६७.११]स्तद्विषयज्ञानानाधारत्वं तद्ग्राहकत्वेनानवस्थानमात्मनो मन्तव्यम् । तज्ज्ञानाधारत्वप्रतिषेधमात्रविवक्षया च पक्षान्तरमिति प्रमाणान्तरत्वमेव तदन्यविज्ञानाश्रयेणोपपादयन्न् {प्. ३८१} आह नही[१६७.१३]ति । प्रत्यक्षम् एकमनुमानात्मकं यद्वा । तस्य [१६७.१३] प्रत्यक्षस्यानुमानस्य वा । ततो भावांशात् । किं कुर्वत्तर्हि तदभावप्रमाण[५९ ]*<१>*व्यपदेशमश्नुत इत्याह भावांश (अभावांशे) [१६७.१४] जनयदिति [१६७.१५] हेतावयं शतृप्रत्ययः प्रत्येयः । तदित्यन्यविषयज्ञानम् । तदिन्द्रियजन्मनि ज्ञाने यदवभासते स तस्य विषयस्तत्प्रतिपत्तिजनकत्वेन लभत इत्यभिसंबन्धाद्द्वितीया साधन[१६७.१८]पदसंस्कारवेलायामनुपलब्धिर्नापेक्षितेति तथा निर्देशः । कथं तर्हि स सिध्यतीत्याशंकायामाचार्यदेशीय*<२>*स्यैवाभिप्रायं वर्णयन्नाह अनुपलब्धेरि[१६७.१८]ति । यदि विमृश्यमानम् "अघटमेतद्भूतलम्" इति प्रतीतिर्नातिशेते "तद्घटो नास्ति" इति ज्ञानं प्रतियोगिस्मरणसहायेनेन्द्रियेण जन्यमानत्वात्तज्ज्ञाना[न]न्तरभावि संयुक्तविशेषभावलक्षणातिन्द्रियार्थसन्निकर्षाट्जायमानं प्रत्यक्षं सदेव प्रमाणान्तरमनुमानादेः प्रमाणादन्यत्प्रमा*<३>*णम् । यद्वा विशेषवचनोऽयमन्तरशब्दः । किं भूतं सदेतत्प्रत्यक्षं प्रमाणमित्याह अभावस्य [१६७.२१] इति । तुच्छरूपस्य [१६७.२१] इति भावरूपशून्यस्येति बोद्धव्यं न त्ववस्था(त्वस्त्वा)त्मन इति तन्मतेनाभावस्यापि वस्तुत्वात् । ननु च नेदं प्रत्यक्षं प्रमाणं, अपि तु सन्निकर्षस्य प्रत्यक्षप्रमाणस्य प्रमाणरूपं फलमेतत्तत्कथ*<४>*मेवमुक्तमिति चेत्, सत्यमेतत् । केवलं हानादिबुद्धिरूपं फलं प्रधानमिदं प्रमाणमभिप्रेतम् । परिच्छेदात्मकमि[१६७.२१]ति च परिच्छिद्यतेऽनेनेति परिच्छेदस्तदात्मकम् । परिच्छित्तिस्तूपादानादिधीरेवेति । यदि वा प्रमाणशब्देनोपचारात्फलमेवाभिप्रेतमिह एवंभूतं प्रत्यक्षप्रमाणफलान्तरमाच*<५>*क्षाणैश्च सामर्थ्यात्यत एतद्भवति तत्प्रत्यक्षं प्रमाणमिति दर्शितमिति सर्वथावदातम् । तेषामेव बौद्धं प्रति वक्रोक्तिं दर्शयन्नाह -- तदेव [१६७.२१] इति तदेव प्रमाणमनन्तरोक्तं यत् । प्रतिवादिनां तीर्थकानामाचार्यदेशीयानां च तन्निरासार्थं [१६७.२४] बुद्धिभेदनिरासार्थं, विप्रतिपत्तिनिरासार्थमिति याव*<६>*त् । उपलब्धिलक्षणप्राप्तिर्यस्यास्ति स खलूपलब्धिलक्षणप्राप्त उच्यते । सैव तु कीदृशी यत्प्राप्तोऽर्थस्तथोक्तो वार्तिककृतेत्याशङ्क्योपलब्धिलक्षणप्राप्तिमभिप्रेतां दर्शयन्नाह उपलब्धी[१६७.२५]ति । उपलब्धिलक्षणप्राप्तिरेवंरूपा शास्त्रकृता*<७>* अन्यत्र व्याख्याता [१६७.२९] इति सम्बन्धः कार्यः । प्रत्यय[१६७.२६]शब्दः प्रत्येकमभिसम्बध्यते ।[१७७]हेतुप्रत्यय आलोकादिः, समननतरप्रत्ययः प्राक्तनं विज्ञानम्, अधिपतिप्रत्ययश्च चक्षुरादिः, आलम्ब्यत इति कृत्वा आलम्बनप्रत्ययो नीलादिः स । किमर्थं सा तथारूपा शास्त्रकृता [१६७.२८] {प्. ३८२} अन्यत्र व्याख्यातेत्याशङ्कायामाह -- नैयायिक [१६८.१] इति । विप्रतिपत्तिमेव दर्शयन्नाह -- ते हि [१६८.१] इति । द्र[१७८]व्याणामु[१६८.२]पलम्भकानीति वदता च यत्रैतानि सन्ति तदुपलम्भे निमित्तं द्रव्य एव च सन्तीति द्रव्यस्यैवोलम्भे निमित्तममूनि नोपलम्भमात्र इति दर्शितम्, अन्यथा अभावसमवाययोरुपलब्धिर्न स्यात् । न च नास्ति संयुक्तसमर्थतया विशेषणभावेन तयोरुपलम्भस्यनैयायिकैरिष्टत्वात् । [५९ ]*<१>*एवं गुणादीनामपि तथा तथोपलब्धेरिष्टत्वादिति । एवमेषामभिधानं कुतो ज्ञायत इति आह महती[१६८.२]ति । एतच्च प्रतितन्त्रसिद्धान्ताश्रयणेन एवं वचनादि[१६८.३]त्याचष्ट इति द्रष्टव्यमन्यथा असंगतमुक्तं स्यात्वैशेषिकसूत्रत्वादस्येति । अस्यायमर्थो महत्त्वयुक्ते महत्युपलब्धिर्भवति न द्वयणुकादौ । यदि महत्त्वादुपलब्धिस्तर्हि परममहत्त्वेप्यवकाशादौ सा किं न भवतीति पर्यनुयोगाशंकायां तद्व्यवच्छेदार्थमुक्तमनेकद्रव्यत्वादिति । अथवा अनेकद्रव्यावयवास्तद्वत्त्वमवयविनो महत एव न द्वयणुकस्येत्युत्पत्त्यान्यनिरपेक्षत्वं महत्त्वानेकद्रव्यत्वयोरिति लक्षणविकल्प एवायं विवक्षितं बोद्धव्यम् । अनेकं द्रव्यमारम्भकतया विद्यते यस्य तद्भावस्त*<३>*स्मात् । अनेकद्रव्यवत्त्वादिति पाठे सर्वधनादेराकृतिगणत्वेन गणपाठादस्य बहुव्रीहिप्रतिषेधेन शतुर्विधे द्रष्टव्यः (मतुविधिः दृष्टः) अन्यथा कर्मधारयमत्त्वर्थीयात्बहुव्रीहिर्लाघवेनेष्ट इत्यनेकं द्रव्यं [यस्य] स तथा तद्भावस्तस्मादिति निर्देशः प्राप्नोति अनेकद्रव्यवत्त्वा(व्यत्वा)दिति पाठे तु न कश्चिदायासः । यदि *<४>*महत्त्वादनेकद्रव्यवत्त्वादन्यत[र]स्माद्वा उपलब्धिर्वायावपि सा स्यात् । तन्निवृत्त्यर्थमुक्तं रूपादि[१६८.३]ति । __________नोतेस्__________ [१७७] दुर्वेकानुरोधेन "हेतुसमनन्तरे"त्यादि पाठः सम्यग्भाति । [१७८] दुर्वेकानुरोधेन "द्रव्याणामुपलम्भकान्याह" इति पाठः स्यात् । ___________________________ ननु चानयोपलब्धिलक्षणप्राप्त्या युक्तस्यानुपलम्भतोऽभावसिद्धेरनुपलब्धिस्तावल्लिङ्गत्वेन तैरिष्टैवेत्याह -- एवं च [१६८.३] इति । अनैकान्तिकीत्याचक्षते [१६८.५] त एवनैयायिकाः। कुतोऽनैकान्तिकीत्याशङ्क्य *<५>*तन्मत एव स्थित्वा आह -- सत्यपि [१६८.४] इति । एतदेव तन्मत्यैव निदर्शनेनोपपादयन्नाह -- नहि [१६८.५] इति ।[१७९]न भवन्ति न सन्ति ।भाष्यकारःप्रकरणात्न्यायभाष्यकारःपक्षीलस्वामी । अनुमानत उपलब्धिमेव तदीयां दर्शयितुमाह -- इन्द्रियत्वात्[१६८.८] इति । प्राप्यकारी [१६८.९] विषयं प्राप्य तेन सह संयुज्य तत्र ज्ञानं जनयतीत्यर्थः । ए*<६>*तच्चार्थकथनमवसेयं न तु अनुगमानप्रयोग एष । पञ्चावयवस्य वाक्यस्यानुपदर्शनात् । भवबैकान्तिकत्वं कीतन(तदनैकान्तिकत्वकीर्तन)मेवोपसंहरन्नाह -- तदेवमि[१६८.११]ति । {प्. ३७३} अनैकान्तिकत्वाभिधानं च तेषां वैशेषिकसूत्रे यथाश्रुति द्रष्टव्यम् । न तु तैर्यथा व्याख्यायते । ते हि रूपादित्युद्भूतसमाख्यातादिति विशेष्य *<७>*नायनरश्म्यवयविन उपलब्धिं निवर्तयन्तीति ।[१८०]तन्निरासार्थमु[१६८.१२]पलब्धिलक्षणप्राप्तानुपलब्धेरनैकान्तिकत्वनिरासार्थम् । कथं तन्निरासार्थमित्याह -- उपलब्धी[१६८.१२]ति । अभ्यधाद्[१६८.१३] अन्यत्रेति सामर्थ्यात् । तदुपदर्शनेति[पि] यदि व्यभिचारसंभवः कथं तन्निराकृतं भवतीत्याह यदाही[१६८.१३]ति । कुतो व्यभिचारावकाश [१६८.१५] इति तयोपलब्धिलक्षण*<८>*प्राप्त्या वर्तमानस्यानुपलब्धिरिति च प्रकरणात् । तस्या [१६८.१५] इत्युपलब्धिलक्षणप्राप्तानुपलब्धेः । __________नोतेस्__________ [१७९] मूले "भवन्ति" इत्येव मुद्रितं किंतु "न भवन्ति" इत्येव पाठोऽनुटीकागतः साधुः । [१८०] तन्निरासं स्। ___________________________ ननुनैयैकैर्यदुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वादिकमुच्यते तस्याप्यनवद्यत्वात्सैवोपलब्धिलक्षणप्राप्तिर्भवतापि कस्मान्नोच्यते किं पुनराहोपुरुषिकयान्याभिधीयत इत्याशंक्याह महत्त्वादिकं त्वि[१६८.१६]ति । तमेवा[६० ]*<१>*संभवमाश्रयाभावद्वारेण प्रतिपादयितुमाह नही[१६८.१७]ति । हिर्यस्मात् । न रूपादिव्यतिरिक्तं द्रव्यं स्वज्ञाने प्रतिभासते । कथं न प्रतीभातीत्याह आकारान्तरेणे[१६८.१८]ति । रूपाद्यात्मनोऽन्येनात्मना । किं भूतेनेति आह तत्प्रतिभासे[१६८.१८]ति तस्य रूपादेः प्रतिभासः प्रतिभासत इति कृत्वा स्वरूपमेव तस्य विवेकः प्रच्युतिस्तद्वता । अनेनानुपलम्भ*<२>*स्तद्भावव्यवहारसाधको दर्शितः । प(घ)टप्रतिभासनेऽपि पटप्रतिभासव्यवस्था स्यादित्यतिप्रसङ्ग[१६८.१९]स्तस्मात् । इदानीं द्रव्यमभ्युपगम्य महत्त्वादेः तदुपलम्भकत्वमपाकर्तृकाम आह न चे[१६८.२०]ति । तत्सम्बन्धेपि महत्त्वसंबन्धेपि । स्वहेतुसमुद्भूतेऽपि तत्रामहति द्रव्यात्मनि तस्याकिञ्चित्करत्वादिति भावः । स्वरूपेण महतस्तु किमर्थान्तरे*<३>*ण महत्त्वेन तद्बुद्धेरपि तत एवोत्पत्तेरिति चाभिप्रेत्य न च स्वरूपेणामहत [१६८.२०] इति । एकस्मिन्नेव पक्षे स दोषो दर्शितोऽनेनेति द्रष्टव्यम् । अथ तत्संबन्धे मा भूदस्य स्वतो महत्ता किं नश्छिन्नमर्थान्तरभूतमहत्त्वरूपेणास्य ग्रहणं भविष्यतीत्याह -- [१६८.२१] -- पर[१८१]रूपेणेति । परस्य ततोऽन्यस्य महत्त्वस्य रूपेण । *<४>*कथमभ्रान्तं [१६८.२१] भ्रान्तमेव । अतस्मिंस्तद्ग्रहरूपत्वाद्भ्रान्तेरिति भावः । उपलम्भयतीत्युपलंभकम् । एतच्च महत्त्वमुपेत्योक्तं दूषणम् । न तु च महत्वा(त्व)न्नाम किञ्चित्न चात्र स(तत्) कस्याचिदुपलंभकं नामेत्यपि वक्तव्यम् । रूपं वा द्रव्यस्योपलम्भकमिति वर्तते । कुतस्तस्यानुपलम्भकत्वमित्याह -- तस्यापी[१६८.२३]ति । तस्य रूप*<५>*स्य न तथा ग्राहकत्वमि[१६८.२४]ति सम्बन्धनीयम् । ग्राहयतीति {प्. ३८४} ग्राहकं तस्य भावस्तत्त्वमिति चार्थो द्रष्तव्यः । अपि [१६८.२३] न्यायतः संभावनामाह । तुल्योपकत्त्वं(पपत्तिं) वा समुच्चिन्नोति । परेणाकांक्षितहेतुं दर्शयितुमाह स्वरूपेणे[१६८.२३]ति । स्वरूपेण प्रातिस्विकेन आत्मना ग्रहणे सत्यन्यस्योपलब्धौ तस्येति प्रत्यासत्तेः । नान्यस्यापरोक्षीभाव इति द्रव्यात्मनोऽत्यन्तपरोक्षत्वात् । अयमस्याशयो रूपं हि गृह्यमाणमेवोपलम्भकं युक्तं, नान्यथा । न तच्च द्रव्यरूपेण गृह्यते तद्ग्राहिणो ज्ञानस्य भ्रान्तत्वप्रसंगात् । ततः कथं द्रव्यस्योपलंभ इति । तथाप्यस्य तथात्वमुपगच्छामो यदि ततो भेदेन तत्प्रतिभासः *<७>*स्यान्न चैतदस्तीति प्रतिपादयन्नाह द्रव्यरूपस्ये[१६८.२३]ति । द्रव्यरूपस्य द्रव्यस्वरूपस्य । तद्विवेकेन रूपस्वभावविवेकेन अनुपलक्षणादनुपलब्धेः । एतच्च दूषणं महत्त्वेप्युपलंभे द्रष्तव्यम् । अत्रैव वक्तव्यान्तरं समुच्चिन्वन्नाह -- न चे[१६८.२४]ति । हेतुमाह यत [१६८.२५] इति । प्रतिलब्धात्मकमेवोत्पन्नमेव सत् । तथातां [१६८.२५] समवायिकारणताम् । उत्पत्तिक्ष*<८>*णे निर्गुणमपि द्वितीये क्षणे सगुणं भविष्यतीत्याह न चे[१६८.२७]ति ।[१८२]स्वस्य द्रव्यस्य । प्राक्तनरूपयोगेपि पूर्वस्वरूपनाशोऽक्षणिकत्वादस्येत्याशयः । यतः [१६८.२८] पूर्वरूपनाशरूपान्तराविर्भावात् । __________नोतेस्__________ [१८१] अपररूपेण स्। [१८२] अस्य स् ___________________________ ननु च पूर्वरूपनाशे तस्यैव नाशाद्रूपान्तराविर्भावे चान्यस्यैव भावात्कथं यदेव महत्त्वादिकं प्रति प्रागप्रतिपन्नाधारभावं तदेवाधा[६० ]*<१>*रतां यायादिति चेदयमपरोऽस्तु दोषोऽस्येत्यभिप्रायाददोष एषः । इहापि महत्त्वादिकं प्रति द्रव्यमाधारो नोपपद्यत इति दर्शयन्नाह -- न चे[१६९.१]ति । प्रजनकस्यापि तथात्वेऽतिप्रसंगात् । स्थापकत्वादिना प्रकारान्तरेणाधारभावस्यान्यत्र निषिद्धत्वाच्चेति भावः । अर्थाक्रियाविरोधाद[१६९.२]र्थक्रियाया अनुपपत्तेः । यथा चाक्षणिकः क्रमेणाक्रमेण वार्थक्रियामुपकल्पयितुं न कल्प्यते तथोदितं पुरस्तात् । समवायिकारणस्येति प्रकरणात्महत्त्वादिकं प्रति समवायिकारणस्यास्योपलम्भस्य द्रव्यस्येत्यर्थोऽवसेयः । स्यादेतद्यदि नामानन्तरोदितया नीत्या तं प्रति तस्याधारभावो नोपपद्यते तथापि तदनाधार एव तत्समवयिकारणं किं न भवतीत्याह यत [१६९.३] इति । *<३>*स्वोत्कलितं स्वाश्रितं स्वारूढमिति यावत् । जनयतु तर्हि स्वोत्कलितं कार्यम् । यतस्तथा व्यपदेशमश्नत इत्याह -- न चे[१६९.४]ति । एतदिति स्वोत्कलितकार्यजननम् । अयमस्याशयो लब्धात्मसत्त्वेनैव हि तथा जनयितव्यं न त्वागृहीतमहत्त्वादिरूपेण तेनोत्पत्तव्यं सहभुवोः कार्यकारणभावाभावेनात*<४>*द्धेतुकत्वप्रसंगात्क्षणिक[त]या तु द्वितीयेक्षणेऽसत्त्वात्न स्वोत्कलितकार्यजननमिति -- पश्चादाधार [१८३]भावो [१६९.५] न चेत्यनुवर्तते, स्वहेत्वागतस्य तदाधाररूपस्याविनाशादिति भावः । __________नोतेस्__________ [१८३] आधाराभावः स् ___________________________ {प्. ३८५} तदभावेपि कथमसंभवीत्याह -- यस्मादि[१६९.६]ति । एवमनेकद्रव्यवदिति व्यपदिश्यते । द्रव्याभावश्च न हि रूपादिव्य्*<५>*अतिरिक्तमित्यादिना अनन्तरमेवोपपादितः । तयोपलब्धिलक्षणप्राप्त्या [१६९.१०] उपलब्धिलक्षणप्राप्तस्येति तथाभूतोपलब्धिलक्षणप्राप्तिमत इत्यर्थः । इति[१६९.११]र्हेतौ शास्त्रकारः प्रकरणात्वार्तिककारः। अभावशब्देन अभावो अभावव्यवहारश्चाभिप्रेत्य(त) इत्यभिप्रायेण आह -- अभावव्यवहारहेतुश्चे[१६९.१३]ति । या त्वि[१६९.१३]त्यादि ब्रुवतश्चायमभिप्रायो -- यदि व्यापकाद्यनुपलब्ध्यभिप्रायेणाभावव्यवहारयेतुर्वेति वक्तुमध्यवस्याह -- नैतद्रूपातभावशब्देनाप्यभावव्यवहारस्य विषयेण विषयिणो निर्देशसम्भवेन वक्तुं शक्यत्वात्ब्रुवन् विशिष्टामेवानुपलब्धिमबिप्रैतीति उपलब्धिलक्षणप्राप्तानुपलब्धेर्व्यापारमिमं कथयता च वार्तिककृता सामर्थ्याद्यदत्रोपदर्शितमन्यत्र तु साक्षादभिहितं तदपि दर्शयन्नाह -- या त्वनुपलब्धी[१६९.१५]त्यादि सद्व्यवहारप्रतिषेधहेतुरित्यवगन्तव्यम् [१६९.१७] । कुतः पुनस्तदन्यवस्तुविज्ञानमेवेच्छन्तीति ज्ञायत इत्यपेक्षायां योज्यम् -- विज्ञानं वान्यवस्तुनीति वचनादि[१६९.२१]ति । यदा कर्तृस्थतया *<८>*विवक्ष्यत [१६९.२४] इत्यर्थः । ननु भवन्मते किमुपधी(मुपलब्धा) कश्चिदात्मास्ति, येनैवमुच्यते इत्याह -- उपलभमानश्चे[१६९.२६]ति । चो व्यक्तमेतदित्यस्मिन्नर्थे यस्मादर्थे वा । अत्रैवाहंकारस्योपपत्तेरिति भावः । ननु उपलब्धिक्रियायाः कर्ता उपलभमान उच्यते । तत्किमुपलब्धिजनकस्तथाविधोपलभमान उच्यत इत्याशंक्याह तथाही[१६९.२८]ति । काममेवमुच(च्य)ताम् [६१ ]*<१>*तथापीन्द्रियादेः कथं तत्त्वमित्याह न चे[१६९.२८]ति । अन्यस्ये[१७०.१]त्यात्मनः । जनकत्वमिति प्रकरणातुपलब्धिजनकत्वमित्यर्थः । आत्मन [१७०.७] आत्माख्यस्य नित्यद्रव्यस्य । तदुत्पत्तावुपलब्ध्युत्पत्तौ हेतूनामव(न)स्थितिः इयन्त एव हेतव इति व्यवस्थाभावः । हेत्वनवस्थितौ च कार्यार्थिनो नियतकारणोपादानं न स्यादिति भावः । आश्रयत्वात्तर्ह्यसौ कर्ता *<२>*भविष्यतीत्याह -- आश्रयत्वमपी[१७०.११]ति । तस्य नित्यस्यात्मनो*<६>* जनकत्वानुपपत्तेरिति भावः । क्षणिकत्वे उत्पत्तिक्षणमात्रसत्त्वे सति स्थितेरुपादातिरेकिण्या अभावात्[१७०.१२] । न पाताभावस्तस्याः [१७०.१४] पतनस्यैवासंभवादिति भावः । कुतो न पतनं तस्या यतो न पाताभावः स्थितिरित्याह -- तस्याः [१७०.१४] इति । तस्या उपलब्धेर्गुरुत्वाभावात्[१७०.१५] {प्. ३८६} गुरुत्वसंज्ञकगुणा*<३>*भावात् । तदभावश्च बुद्धेर्गुणरूपत्वे निर्गुणत्वात्, निर्गुणत्वञ्च गुणानां "अगुणत्वं द्रव्याश्रितत्वं चे"ति वचनात्, गुरुत्वं च गुणः "गुरुत्वं जलभूम्योः पतनकारणम्" इति वचनाच्च गुरुत्वाभावः । मा भूद्गुरुत्वं तस्याः पतनं तु किं न भवतीत्याह -- सं[१८४]योगाभाव [१७०.१५] इति । यदि गुरुत्वादेव पतनं भवेत्न *<४>*तर्हि शाखादौ फलान्यवतिष्ठेतेति संयोगाभावे सतीत्युक्तं संयोगाभावे [१७०.१५] शाखावृन्तादिसंयोगाभावे । __________नोतेस्__________ [१८४] संयोगाभावेन स्। ___________________________ कृतान्तः [१७०.१६] सिद्धान्तः समवायातुपलब्धेस्तत्र समवायादित्यर्थः । सोऽपि [१७०.१६] समवायोऽपि । कार्यकारणा(ण)भावविशेषः आधार्याधारभावः स चात्मनो नित्यस्य स संभवतीति भावः । यद्यप्यु*<५>*पलब्धेर्न पातः सम्भवी तथाप्यसौ किमाधारो न भवतीत्याशङ्क्य पूर्वस्मिन् पक्ष एव प्रतिवचनं दर्शयति । न चापतनधर्मिकाया [१७०.१७] इति । अपतनधर्मकत्वं च तस्या गुरुत्वाभावादनन्तरमेव प्रतिपादितम् । अनेनैतद्दर्शयति -- पतनधर्मणो जलादेः पातप्रतिबन्धकः कश्चिदाधारो भवतु यावद्य*<६>*दि तत्रापि कश्चित्कोऽयं प्रतिबन्धो नामेति न पर्यनुयुञ्जीत । न त्वपतनधर्मण इति तदाहप्रामाणिकचक्रचूडामणिः-- "स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारो गुणसामान्यकर्मणाम् ॥" [प्रमाणवा. १.७०] इति । अन्यस्याप्या[१७०.१८]त्मनोपि । तद्भावप्रसङ्गस्तदाधारत्वप्रसङ्गः । कुत एतदित्या*<७>*ह तस्ये[१७०.१९]ति । तस्य समवायस्य । समानत्वात्[१७०.१९] एकत्वात् । अत एवाह -- एकत्वेन [१७०.१९] इति । अस्य [१७०.१९] समवायस्य । प्रकरणे [१७०.२५] चिंतायां प्रस्तावे इति यावत् । विवक्षितात्[१७०.२५] शास्त्रविहिताद् । भक्ष्यात्[१७०.२५] भक्षणार्हात् । अन्यत्वेन ग्राम्यकुक्कुटः [१७०.२६] तदन्यस्य [१७०.२६] ब्राह्मणादेरन्यस्य । भक्ष्योऽपि सन्नभक्ष्य उच्यत [१७०.२६] इति सम्ब[न्ध]नीयम् । अनेकेन निदर्शनेनोपपद्य*<८>*मानोऽर्थः सुज्ञातो भवतीत्य्निदर्शनान्तरमाह यथा च [१७०.२७] इति । अधिकारे [१७०.२७] प्रस्तावे । तद्वद्[१७१.१] उपदर्शितद्वयवद्विशिष्ट [१७१.३] उत्तरपदार्थाभावविशिष्टे अर्थे [१७१.३] तत्सदृश इति यावत् । तया नञो भावविषयता [१७१.३] इति {प्. ३८७} योज्यम् । तया [१७१.३] इतीत्थम्भूतलक्षना चेयं तृतीया प्रत्येया । भावविषयभानप्रतिषेधमात्रविषयतेत्यर्थात् । किंभूतस्य नञ [६१ ] *<१>*इत्यपेक्षायां योज्यमागृहीते[१७१.३]ति । तथा विधिसामानयेन समन्तात्स्वीकृऋतोत्तरपदार्थप्रतिषेधस्य कथं पुनरेतत्ज्ञातव्यमित्यत्रायं न ...त्तरपदार्थप्रतिषेधमात्रवृत्तिः प्रसह्यवृत्तिरत्र तु उत्तरपदार्थाभावविशिष्टसदृशवस्तुवृत्तिः पर्युदासवृत्तिः इत्याशङ्कायामाह यत्र [१७१.४] इति । यत्रैवमेवं तत्र पर्युदासवृत्तिता [१७१.६] इति सम्बन्धः । विधेः प्राधा*<२>*न्यम[१७१.४]भिधेयतया भावरूपं प्रतिपाद्यत इत्यर्थः । प्रतिषेधः [१७१.५] तथाभूतोत्तरपदार्थनिषेधः अर्थगृहीतः सदृशवस्तुविधानसामर्थ्याक्षिप्तः विधिभाग्विधे[१७१.५]र्योऽर्थः क्षत्रियादिः स्वपदेनात्मवाचकेन नोच्यते पर्युदासमर्थप्रतिपादके वाक्ये इति बोद्धव्यं न तु "समासनिमित्ते अन्वाख्यानवाक्य" इति नित्यसमासत्वादस्य तदसंभवात्*<३>*इतरथा "रज्ञाः पुरुषमानय" इत्यादिवत्क्षत्रियानयने विवक्षिते न ब्राह्मणमानयेत्यादिरपि प्रयोगः प्रसज्येत । यत्तु [न] ब्राह्मणोऽब्राह्मण इत्युच्यते तद्ब्राह्मणो न भवति प्रसज्यप्रतिषेधेन मात्रया अर्थः कथ्यते । पर्युदासे प्रसज्यप्रतिषेधोप्यस्तीति कृत्वा, न पुनः समासार्थमन्वाखानवाक्यं *<४>*तत्, कुम्भं करोतीति कुम्भकारः कुम्भस्य समीपमुपकुंभमित्यादिवदिति । यदि स्वपदेन नोच्यते कथं नामासवुच्येत इति चेत् । अन्यशब्देनेति ब्रूमः । अन्यशब्दस्यैव तत्र प्रयोगातेकवाक्यता च तथार्थकथने वाक्ये नञर्थवाचकस्यान्यशब्दस्य सुवन्तेनैअ पदान्तरेणाभिसम्बन्धात् । एतदेव*<५>* सामान्योपदर्शितं लक्षणं प्रकृते योजयन्नाह वि[१८५]धिश्चे[१७१.६]ति । वाक्येन [१७१.७] तथाविधेनेति द्रष्टव्यम् । एवं तत्प्रतिषेधः प्रतीयत इत्याह -- विवक्षितोपलब्धेरनिवर्तन [१७१.८] इति । कथं तर्ह्यसावुच्यत इत्याह किं तर्ही[१७१.१०]ति । कथमन्यशब्देनोच्यते न तु स्वशब्देनेत्याह अन्यशब्दस्यैवे[१७१.११]ति*<६>* । वाक्य इति तत्त्वार्थकथने वाक्य [१७१.११] इति प्रत्येयम् । तत्रापि कथमन्यशब्दप्रयोग इत्यपेक्षायां योज्यं पर्युदासाश्रयेणे[१७१.१०]ति । एतदेव दर्शयति अन्योपलब्धिरनुपलब्धिरि[१७१.११]ति । इतिर[१७१.१२]शब्देनाभिधानस्याकारं दर्शयति । नञश्च सुबन्तेन समासैकदेशेन । सामर्थ्यं [१७१.१२] व्यपेक्षालक्षणः सम्बन्धः । *<७>*इति[१७१.१२]र्हेतौ । एकवाक्यत्वं न वाक्यभेदं(दः) सामानाधिकरण्यमित्यर्थः । तदेव दर्शयन्नाह -- अन्या[१८६]उपलब्धिर् अनुपलब्धिरि[१७१.१२]ति । इतिना एकवाक्यत्वस्याकारो दर्शितः । प्रसज्यप्रतिषेधः [१७१.१३] कंचिदर्थं प्रसज्य यः प्रतिषेधः । कस्यचिदर्थस्य प्रसङ्गमुपदर्शनमधिकारं कृत्वा यो निषेध उत्तरपदार्थप्रतिषेधमात्रं यत्राभि*<८>*धेयमित्यर्थः मयूरव्यंसकादित्वाच्च {प्. ३८८} समासः ।[१८७]तद्विपरीतः [१७१.१३] उपदर्शितपर्युदासविपरीतः । वैपरित्यमेव सुखप्रतिपत्त्यर्थमुपदर्शयन्नह -- तत्र ही[१७१.१४]त्यादि । तत्र ह्यत्तरपदार्थप्रतिषेधस्य समासार्थत्वात्प्राधान्यम् । विधिः कस्यचिदर्थस्य विधानमर्थात्सामर्थ्यात्गम्यते [१७१.१४] यदा विधिप्रतीतिस्तदार्थादिति च द्रष्टव्यम् । [६२ ] *<१>*तथाहि "अभिहिते न भवन्ति द्वितीयाद्याः विभक्तयः" इत्युक्तेर्विशेषप्रतिषेधस्य शेषधीनान्तरीयकत्वादिति लक्षणात्सामर्थ्यादनभिहिते भवतीति गम्यते । सूर्यं न पश्यन्तीति नात्र प्रदृ(नञोऽत्रदृ)शिना तिञन्तेन संबद्धो न तु सुबन्तेनेति वाक्यभेदः । प्रतिषेधभाक्[१७१.१५] सूर्यदर्शनादिः स्वपदेन [१७१.१५] स्ववाचकेन सूर्यं न पश्यन्तीति अनेनोच्यते । अत्र तु समास*<२>*निमित्तेऽन्वाख्यानवाक्य इति द्रष्टव्यम् । प्रसज्यवृत्तिनञ्समासे तत्संभवादिति सर्वञ्चैतत्प्रकरणादितो ज्ञातुं शक्यमिति सर्वमवदातम् । __________नोतेस्__________ [१८५] विधेश्चेति स् [१८६] न उपलब्धि-स् [१८७] एतद्विपरीतः स् ___________________________ प्रासंगिकं परिसमापय्य संप्रति प्रकृतमनुधुन्व(नुबन्ध्न)न्नाह तदेवमि[१७१.१६]ति ।[१८८]भावतो [१७१.२६] वस्तुनः परमार्थत इति यावत् । संबन्धकल्पनायाम[१७१.२७]न्यस्य वास्तवस्य संबन्धस्य कल्पनायाम् । सोप्यर्थान्तरभूतः सम्बन्धः*<३>* कथं तयोरिति पर्यनुयोगे तदन्यकल्पना, तत्राप्येवमित्यनवस्था प्रस्तुतवस्तुव्यवस्थापरिपंथिनी स्यात् । उक्तसदृशमुक्तप्रायम् [१७१.२७] । __________नोतेस्__________ [१८८] सम्बन्धाभावतः सिति तु न युक्तं, "सम्बन्धो भावतो" इति तु अनुटीकानुरोधेन सम्यक्पाठः । ___________________________ तत्र विज्ञाने किं भूतं सद्घटरूपं तत्र स्वाकारमर्पयतीत्यपेक्षायां योज्यं तथाविधमि[१७२.१६]ति । यथाविधं प्रदेशरूपं तथाविधं सत्व्यवधानविप्रकर्षादिरहितमित्यर्थः । स्वाकारद्वारे*<४>*ण । [१७२.१९] स्वाकारार्पणद्वारेण । एतदेव स्फुटयन्नाह तदि[१७२.२०]ति । तयोः संसर्गस्वा(संसर्गमा)त्मनि [१७२.२०] स्वात्मनि दर्शयति । अवधेयवचसः [१७२.२८] आकर्णनीयवचनाः । लघुवृत्तित्वाद्[१७२.२८] अतिशीघ्रप्रचारत्वात्ज्ञानस्य यौगपद्याभिमानो [१७२.२९] युगपद्ग्र्हीतानीत्यध्यवसायः । एवं चाचक्षाणेन क्रमेणैव तानि पुरोवर्तीनि तुल्ययोग्यतारूपाणि वस्तूनि गृह्य*<५>*न्ते ज्ञानेन तु युगपदिति सामर्थ्याद्दर्शितम् । सर्वत्र तथाभावप्रसंगात्[१७३.५] भ्रान्तिकल्पनाप्रसंगात् । ज्ञानमेवात्र क्रियेति मन्यते परः । कथमि[१७३.४]ति सिद्धान्ती सन्तमसावस्थितघटादिप्रतिपत्तौ कर्तव्यायां प्रदीपस्यापि करणरूपत्वमव्याहतमिति भावः । कर्तृभेदाद्देवदत्तादिप्रतिपत्तृरूपकत्वनैक(कर्त्रनेक)त्वात् । कर्त्रे*<६>*कत्वात्[१७३.५] तर्हि इति सिद्धान्तवादी । अयमस्याशयो यदि सत्यप्येकस्मिन्नस्मिन् करणेऽनेकत्र घटादिके कर्मणि कर्त्रनेकत्वादनेकक्रियोदयो वर्ण्यते तर्हि कर्त्रेकत्वात्क्रियैकत्वमिति सामर्थ्यादायातम् {प्. ३८९} ततश्च न करणैकत्वानुविधानं क्रियैकत्वस्येति किमनेनोक्तेनापीति । स्यादेतत्यथा तत्र कर्तारो*<७>* बहवः प्रतिपत्तारस्तथा करणान्यपीन्द्रियाणि बहून्येव ततश्च करणबाहुल्यादेवानेकत्र कर्मणि क्रियाबाहुल्यमिति करणैकत्वात्क्रियैकत्वं व्यवस्थितमिति । तदेतदवद्यम् । यतो ज्वल्यमाने दीपे प्रत्येकमेकस्मिन्नेवेन्द्रिये प्रदीपे वा करणे सर्वेषामेव प्रतिपतॄणामनेकघटादिकर्मविषयज्ञानक्षणानेकक्रियो*<८>*दयात्साधारणनैकान्तिकत्वमनिवारितमेवेति । विशरारुषु [१७३.६] विशरणशीलेष्वित्यर्थः । अयमस्याभिप्रायो यः किल लब्धात्मसत्ताक एव पश्चात्स्वातन्त्र्येण कांचित्क्रियामभिनिवेशयति स कर्ता, यश्च क्रियासिद्धौ साधकतमः स करणमुच्यते । तथा सत एव कदाचित्क्रियायोगादर्थान्तरभूता क्रिया जायते क्षणमात्रस्थायी च कृत्स्ना(स्नो) भाव [६२ ] *<१>*इति कथं सत्त्वमासाद्य तथाकारी तथा प्रतिपत्स्यते क्रियास्वर्था(क्रियामर्था)न्तरभूतामिति । संप्रति क्षणिकाक्षणिकयोरसाधारणदूषणमाह -- न चे[१७३.८]ति । सर्वकारकान्वयव्यतिरेकानुविधायिनीति विशेषणं हेतुभावेन वेदितव्यम् । रूपरसादिवै(रसावि ववै)धर्म्योदाहरणम् । इदानीमेकज्ञानसंसर्गादित्यत्रैकशब्दार्थं निरूपयितुमाह तत्रे[१७३.१४]ति । एकायतनसंगृहीत एकरूपा*<२>*द्यायतनस्ंगृहीतोऽनेकत्रापि एकमेवेन्द्रियज्ञानमि[१७३.१५]ति । निराकारपक्षे द्व्यादिसंख्यानिरासार्थ एकः शब्दः साकारपक्षेपिचित्राद्वैतवादिमतेन तथैवैकशब्दः । प्रत्यर्थमि[१७३.१६]ति स्थूलेनायं व्यपदेशः कृतः । परमार्थतस्त्वेकस्मिन्नेव द्रव्ये परमाणुसमूहात्मके प्रति परमाणु तदाकारधारीण्य*<३>*र्वाग्दर्शनं संक्षेपान्येव(दर्शनप्रसंगे यान्येव) ज्ञानान्युत्पद्यन्त इति । अस्मिंश्च पक्षे यच्चोद्यम्, यश्च परिहारस्तद्द्वयमपि विशेषाख्यानेऽस्माभिरभिहितमिति नेहोच्यते । योग्यताया [१७३.२३] इति प्रकरणात्प्रतिषेध्यतद्विविक्तप्रदेशयोः स्वज्ञानोपजननयोग्यताया इत्यर्थः एकस्मिन् ज्ञाने संस्रष्टुं शीलं ययोस्तौ तथोक्तौ*<४>* । व्याप्तिन्यायसमाश्रयाद[१७३.२३]शेषोपसंहारन्यायस्वीकारात् । प्रत्यासत्तेः [१७४.१] प्रत्यासत्तिन्यायसमाश्रयणादित्यर्थः । का पुनरत्र तयोः प्रत्यासत्तिः सम्भविनीत्याह -- एकज्ञाने[१७४.१]ति । तस्माद्[१७४.८] घटात् । यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिर्यदा तत्स्वभावस्तदा ज्ञेयधर्मलक्षणा तद्विविक्तज्ञानमे*<५>*व पर्युदासवृत्त्यानुपलब्धिरुच्यताम्, न तु तत्स्वभावो वेतिकुमारिलो [१७४.११] मीमांसावार्तिककारो मन्यत इति शेषः । कर्तृकर्मस्थत्वविवक्षयोपलब्धेर्द्वैतादनुपलब्धेरपि तथैव द्वैतमायातं न्यायत इति मन्यते । घटाभावव्यहारे तद्विविक्तप्रदेशज्ञानस्यैवोपयोगादनुपलब्धित्वं *<६>*युक्तं नान्यस्येत्य्{प्. ३९०} आशंक्य द्वयोरप्युपयोगाविशेषं प्रतिपादयन्नाह यथे[१७४.१२]ति । प्रतियोगी निषेध्या(ध्यो) विवक्षितस्तत्स्मरणापेक्षम् [१७४.१३] । एतदेव प्रतिपत्तृव्यवहारेणोपपादयन्नाह तथाही[१७४.१४]त्यादि । अथैकैकत्रैकैकं नास्तीति कथं द्वयोस्तत्त्वार्थमिति चेत् । नैतदस्ति । एकैकस्मिन्नेकैकस्य विशेषण*<७>*त्वेनावश्यं भावात् । तथाहि यस्मात्केवलप्रदेशाकारं ज्ञानं मया संवेद्यते तस्माद्धटो नास्तीति व्यवहरमाणस्यापि प्रदेशो विज्ञानावच्छेदकत्वेनोपयुज्यत एव । तथा ग(य)तः केवलः प्रदेशोयं दृश्यते ततो नास्ति घट इति व्यवहरतोपि दर्शनं प्रदेशोपाधिभावेन व्याप्रियत एवेति । आहत्ये[१७४.२]ति निपातस्त*<८>*त्क्षणमित्यस्यार्थे । तयो[१७४.१६]र्भावाभावांशयोः । उद्भवाभिभवाभ्यां यथासंख्यग्रहणाग्रहणव्यवस्था [१७५.१६] । धर्मभेदे धर्मिरूपेणाभेदेऽपि धर्मयोर्भेद इष्टः [१७५.१८] । नोऽस्माकं स्थानं[१८९]स्थितं व्यवस्थानं मतमिति यावत्तस्मिन् । उद्भवाभिभवात्मत्वात्[१७५.१८] उद्भूतानुद्भूतरूपत्वात् । ग्रहणं [१७५.१८] चशब्दादग्रहणं चावतिष्ठते तयोरिति प्रकर[६३ ]*<१>*णात् । __________नोतेस्__________ [१८९] स्थिते स्। ___________________________ एतस्मिन् व्याख्याने भावप्रधानः साधनशब्दोवार्तिककारस्य विवक्षित उन्नेतव्य इत्यभिप्रायेण साधनत्वमि[१७६.६]ति व्याचष्टे । सिद्धिहेतुत्वशब्दसामर्थ्याच्च कस्यचिदिति लब्धम् । तदयोगात्सि[१७६.७]द्धिहेतुत्वायोगात् । दूषणान्तरमत्र समुच्चिन्वन्नाह अभावस्ये[१७६.९]ति च । अभावस्य नास्तीति ज्ञानजनने [१७६.१०] नित्यं तज्जननप्रसङ्ग [१७६.१०] इति योजयित्वा कुत एतदित्यपेक्षा*<२>*यामनपेक्षितसहकारिण [१७६.९] इति हेतुभावेन विशेषणपदं योज्यम् । तदनपेक्षत्वमेव कथमस्येत्यपेक्षायामनाधेयातिशयं [१७६.१०] तत्प्रति (यतयेति) योज्यम् । साध[१९०]नत्वायोगात्त[१७६.११]स्य प्रतिषेधमात्रस्येति प्रक्र्तत्वात्प्रत्येयम् । तस्य साधनासिद्धेरित्यस्य एकं(एकां) विधामभिधाय अपरामुपदर्शयितुमाह अथवे[१७६.११]ति । साधनमेव [१७६.१२] साधकमेव निश्चायकमेवेति*<३>* यावत्तदुभ(द)यप्रसङ्गात्[१७६.१५] नास्तीति ज्ञानोदयप्रसंगात् । __________नोतेस्__________ [१९०] साधकत्व- स्। ___________________________ अन्यथा [१७६.२५] भावरूपसंसृष्टत्वप्रकारेण । तदयोगात्[१७६.२६] तस्याभावांशस्यायोगात् । सा पररूपात्सं(पासं)सृष्टरूपता । {प्. ३९१} प्रकारान्तरेणाप्यभावव्यवहारसिद्धेरविबन्धात्किं तवैतत्पक्षाश्रयणप्रयत्नेनेति परपक्ष एवाशंक्यापरस्यैवाभिप्रायं *<४>*वर्णयन्नाह एवं मन्यत [१७७.९] इति । घटज्ञानाभावप्रतिपत्त्या [१७७.१०] वा घटाभावं प्रतिपद्यत [१७७.११] इति वर्तते । ततो [१७७.११] घटाभावप्रतिपत्तेः । घटाभावव्यवहारमिति प्रतिपद्यत इत्यस्यानुवर्तनादुक्तं केवलप्रदेशाभिप्रायेण साक्षाद्ग्रहणम् [१७७.१५] । तज्ज्ञानाभिप्रायेण पारंपर्यग्रहणम् । स च तथा हानतो(भावतो) घटाभावः । एवं हि लोकप्रतीतिरनुकूलिता भवतीति भावः । मध्ये घटाभावप्रतीतेर्भावात्पारंपर्येणापि [१७७.१८] इत्याचष्टे परः । इति[१७७.१९]ना मननीयस्याकारो दर्शितः । केवलप्रदेशज्ञानापेक्षया स्वसम्वेदन[१७८.२]प्रत्यक्षेण चेत्युक्तं द्रष्टव्यम् । पर एव विशेषमाशंक्य परिहरन्नाह नन्वस्त्येवे[१७८.८]ति । इतरया [१७८.९] प्रतिषेधमा*<६>*त्रया रूपयानुपलब्ध्या तदवगतया अन्यस्ये[१७८.१२]ति व्यवधानाव्यवधानकृतस्य । एवं सति को गुण इत्याह --सांख्य(ख्यः) स्वमते गुणं दर्शयन्नाह तथे[१७८.१८]ति तथा सही(ती)ति योज्यम् । हिर्यस्मादर्थे द्रष्टव्यः । तस्य वस्तुनो लिङ्गं भवति । [१७९.१] तल्लिङ्गमेवं सति भवतीत्यर्थोऽवसेय इति । भावाभावयोर्विरोधा[१७९.१०]देकात्मत्वानुप*<७>*पत्तेः तुच्छरूपत्वं[१७९.१५] न किञ्चिद्रूपत्वम् । तदपि पररूपेण न किञ्चिदित्यभिप्रायेणाह -- पररूपेण [१७९.१६] तस्यापि तुच्छरूपत्वादिति शून्यविकल्पप्रतिभासी [१७९.१७] तदभावमात्रविकल्पप्रतिभासी । तद्[१९१]रूप परिहारात्[१७९.१८] प्रतिषेध्यरूपविरहात् । तथा तद्वत् । विरुध्येत [१७९.२०] नोपपद्येत । अन्यथा [१७९.२१] स्वरूपेणापि तुच्छरूपत्वप्रकारेण । कथं पुनस्तथात्वे परस्य तत्राभावो न स्यादित्याह -- यो ही[१७९.२२]ति रूपान्तरन्तु सदृशरूपान्तरन्तु । __________नोतेस्__________ [१९१] तद्रूपविरहात्स् ___________________________ कीदृशं पररूपशून्यं [१७९.२८] निषेध्यरूपरहितम् । विषयेण वामुना विषयिणो विधानस्य विधीयमानधर्मस्य -- निर्देशो द्रष्टव्यः । पर्युदास इति [१७९.२८] कथ्यत इति वर्तते । ततो विवक्षिताद्रूपात्तत्प्रतीतिः [१८०.२] रूपान्तराभावप्रतीतिः । नेति प्रकृतं निषेधयति । प्रतीतावित्यन्तर्भू[६३ ]*<१>*तो ञिजर्थो द्रष्टव्यस्तेनाकारणस्य प्रत्यायकाजनकस्य प्रतीतौ प्रत्यायने सामर्थ्यासम्भवात्[१८०.२] प्रकरणात्तस्य [१८०.५] विवक्षितस्य रूपस्येति । अर्थान्तरस्य सतो {प्. ३९२} गमकत्वे हि तज्जनितत्वं सामर्थ्यं वाच्यम् । नचार्थान्तरप्रसज्यप्रतिषेधेन सकलशक्तिविकलेन तज्जनितं येनास्य तथाभावो भवेदिति भावः । अवश्यं किं तेन तत्कारणेन भाव्यं येनाकारणस्येत्यु*<२>*च्यमानं शोभेतेत्याह तादात्म्ये[१८०.३]ति । अन्यस्य [१८०.९] अव्यभिचारनिबन्धनस्य भावादिति भावः । तेन[१९२]प्रत्यक्षेण अग्रहणात्[१८०.९] । __________नोतेस्__________ [१९२] तेन ग्रहणात्स् ___________________________ स्यादेतद्यदि तत्त्वव्यवस्थापकादेव प्रमाणाद्घटस्याधेयभूतस्याभावः सिद्ध्यति, तर्हि तस्य घटासंसृष्टरूपत्वसिध्यर्थमभावप्रमाणमभ्युपेयम् । घटासंसृष्टरूपत्वमस्य ततः सिद्ध्यति । एवं तर्हि घटं प्रत्याधा*<३>*रभावोऽस्याभावप्रमाणप्रतिषेध्यः प्राप्त इत्याशंकायां यथा द्वयमप्येतत्तत एव प्रसिद्ध्यति तथा प्रदर्शयितुं द्विविधो ही[१८०.९]त्यादिनोपक्रमते । अयमि[१८०.१०]ति । इदमात्रे(त्र) देशमात्रं विवक्षितम् । तद्व्यावृत्तरूपतया [१८०.१०] घटव्यावृत्तस्वभावतया । घटसंसृस्तरूपो न घटेन सम्बन्धस्याहैकरूपम् । तद्व्यावृत्तरूप*<४>*तयैव च घटवानपि घटसहितोऽपि । ततो घटातन्य इति । सर्वथा घटादन्यत्वं तस्यैका विधा । घटवानि[१८०.१०]ति तु प्रमादपाठः । द्वितीयां बा(वि)धामाह केवलश्चे[१८०.११]ति । केवल इति, घटादन्य एव सानु(सन्) -- तत्संयोगीति विवक्षितं तदेव कैवल्यं स्पष्टयन्नाह -- घटं प्रती[१८०.११]ति । तस्य प्रदेशस्य तद्विवेकेन [१८०.१२] घट*<५>*रूपविवेकेन च प्रत्यक्षेण ग्रहणे सति । घटविरहश्च [१८०.१२] संयोगिघटविरहश्च । इतिस्तस्मात् । वस्तूनामसङ्करो [१८०.१३]साङ्कर्यम्, मत्सरशब्दवद्धर्मवचनस्यापि संकरशब्दस्या(स्य) भावात्, तत्सिद्ध्यर्थं तन्निश्चयार्थं, परानभ्युपगतापेक्ष(क्ष्य)ते [१८०.२०][१९३]तदेति [१८०.२०] इहैवच्छेदः स्वज्ञान एव । परानभ्युपगतत्वमेव*<६>* तस्याः प्रतिपादयति अन्यभावादिति । अन्यथा [१८०.२१] यदि तस्य तद्भावरूपता परानभ्युपगतानपेक्षते(क्षिता) तेन प्रकारेण । प्रत्यक्षसिद्धता च [१८०.२२] तदभावस्येति प्रकरणात् । तदैवे[१८०.२३]ति तयोस्तादात्म्योपगमकाले । यद्वा प्रत्यक्षसिद्धता तदैव नेति योज्यम् । यद्वा सा परानभ्युपगतापेक्ष्यते किं तदा प्रत्यक्षसिद्धतेत्याशंकायां ने[१८०.२३]त्युत्तरम् । के(क्व) तर्हि साभिहितेत्यपेक्षायामुक्तं प[१९४]क्षान्तर [१८०.२३] इति । तादात्म्योपगमपक्ष इत्यर्थः । संयोग एव समवायशब्देनोक्त इति व्याचक्षाणश्च धूमो हि संयोगी हेतुरित्यभिप्रैति । कुतः पुनः स्वशब्देनैव {प्. ३९३} गो नोक्त इत्याह -- संयोगे[१८१.२]ति । भेदेने[१८१.३]तरभिन्नेन रूपेण यो व्यपदेशो [१८०.३] व्यपदिश्यमानत्वं तत्रानादरात् । यद्वा भेदेन भिन्नेन वाचकेन यो व्यपदेशमा(श आ)ख्यानं तत्रानादरादिति । किं पुनः समवाय एव नोच्यत इत्याह परेषां त्वि[१८०.३]ति । एवं तावद्भट्टार्चटोव्याचष्ट अन्ये पुनरस्थान एवास्य मतिविभ्रमो जात इत्याचक्षते । तथाहि धूमावयविधर्मिणि पर्वते वा धूमत्वे(मवत्त्वे)न धूमत्वेन च हेतुना साग्नि[६४ ]*<१>*त्वं साध्यत इत्येकार्थसमवाय्येव धूमो हेतुरिति परे संसचते (संचक्षते) । पुरस्ताच्चायं तस्माद्धूम एवात्र धर्मी कर्तव्यः । साग्निरयं धूमो धूमत्वादित्युद्योतकरमतमदर्शयदिदानीं तु तद्विस्मृत्यैवं व्याचक्षाणोवार्तिककारमप्यवज्ञयात्र(ज्ञापात्र)मापादयतीति -- किमत्र ब्रूम इति । इतरस्य [१८१.६] धूमस्य । __________नोतेस्__________ [१९३] तदिति स्। [१९४] पक्षान्तरेण स् ___________________________ ननु चे[१८१.८]त्यादिना प्रकृतमाक्षि[प]ता सत्यं [१८१.१०] प्रसङ्गोरनित्या(ङ्गेनेत्या)दिना *<२>*च परिहरता अनेन यदीश्वरसेनमतानुप्रवेशेन कश्चिदन्यभावतदभावयोरमीषामन्यतमं सम्बन्धमिच्छति तदभावोपदर्शनेन स तावत्कण्ठोक्तेनैव निरस्यते । सामर्थ्याच्च येपिनैयायिका-- "न वयमनयोर्गम्यगमकभावं वर्णयामोऽपि तु संयुक्तविशेषणसन्निकर्षजन्मना प्रत्यक्षेण घटाभावः प्रतीयते" इत्यभि*<३>*मन्यन्ते तेप्यन्यभावतदभावयोः सम्बन्धाभावेन विशेष्यविशेषणभावानुपपत्तेः कथं तज्जन्मनः प्रत्यक्षस्य वार्तापि येन तदवसेयोऽसत्त्वाद्भवितुमर्हतीति निरस्ता भवन्तीत्यभिप्रायेणान्यभावतदभावयोः सम्बन्धाभावो विभावित इति वेदितव्यम् । अस्यैवार्थस्य पुनरुक्ततां परिहर्तुमाह *<४>*पूर्वं हि [१८१.११] इति । तस्य तदन्यासंसृष्टरूपस्येत्यादिना प्रागभिहितत्वादुक्तम् । प्रत्यक्षान्तरमि[१८१.१२]ति हानादिबुद्धिव्यपेक्षया बोद्धव्यम् । न च विशेषणविशेष्यभावलक्षण एव संबन्धः । सम्बन्धेन च संबन्धान्तरं मृगणीयमिति तेन शक्यते वक्तुं षट्सु पदार्थेष्वस्यानन्तर्भावेन सप्तमपदार्थोपगमयन्वि*<५>*प्र(गमनप्र)सङ्गात्दण्डदण्डिनोर्जातितद्वतोश्च विशेषणविशेष्यभावोपपत्तेः संयोगसमवायसम्बन्धयोरस्तंगमनप्रस(सं)गाच्च किं कुर्वच्च तत्तस्य विशेषणमित्यादिविचारासहत्वाच्चेति । एवं चास्याक्षेपपरिहारापुनरुक्तताप्रदर्शनं चानवगतवक्ष्यमाणग्रन्थार्थस्य त्वरया चोदितस्य चोद्ये *<६>*सत्यादितो द्रष्टव्यमितरथा संबन्धाभावोपदर्शनग्रन्थव्याख्यानानन्तरमिदं भ्राजेतेति ।[१९५]तेन प्रदेशावयवा द्रव्यात्मानो [१८१.२५] द्रव्यस्वभावाः । नवैव [१८१.२६] नवसंख्याव्यवच्छिन्नान्येव पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्ममनोलक्षणानि । तदाहप्रशस्तकरः"तत्र द्रव्याणि -- {प्. ३९४} पृथिव्यप्तेजोवाय्वाकाशदिक्कालात्म*<७>*मनांसि सामान्यविशेषसंज्ञोक्तानि नवैवेति । "[प्रश. भा. प्. ३] आदि[१८१.१७]शब्दाद्गुणवत्त्वसमवायिकारणत्वावबोधेः(धः) । __________नोतेस्__________ [१९५] तेहि स् ___________________________ तत्र [१८१.१७] अभावो[वे] गुणरूपेणैवाभावो द्रव्ये वर्तिष्यत इत्याह न चे[१८१.२८]ति । तत्र द्रव्ये रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्[त्व]संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्म*<८>*शब्दाश्चतुर्विशतिगुणाः । न चायमभावस्तेषां चतुर्विशतेर्गुणानां रूपादीनामन्यतमः । कर्मरूपतया तर्हि तत्रासौ वर्तिष्यत इत्याह -- नापी[१८२.१]ति । कर्मरूपतया [१८२.१] वर्तत इत्यनुवर्तते । कस्मान्न वर्तत इत्याह पञ्चस्वि[१८१.१]ति । उत्क्षेपणापक्षेपणावकुञ्चनप्रसारणगमनलक्षणेषु पञ्चसु कर्मस्वनन्तर्भावात् । कथं तस्य तत्रान[६४ ]*<१>*न्तर्भाव इत्याह तल्लक्षणविरहादि[१८२.२]ति । किं पुनः कर्मणो लक्षणं यद्विरहस्तस्योच्यत इत्याह एकद्रव्यमि[१८२.२]ति । भावप्रधानत्वान्निर्देशस्यैकद्रव्यत्वमित्यर्थः । आदि[१८२.३]ग्रहणेन कर्मत्वसम्बन्धः क्षणिकत्वं मूर्तद्रव्यवृत्तित्वं गुरुत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वमसमवायिकारणत्वं स्वपराश्रय*<२>*समवेतकार्यारम्भकत्वं सगानजातीयानारम्भकत्वं द्रव्यारम्भकत्वं च परिगृहीतम् । सामान्यादिरूपेण तर्हि तत्रासौ वर्त्स्यतीत्याह -- नापी[१८२.३]ति । अपि शब्दाद्विशेषसमवायपरिग्रहः । कुतस्तथा न वर्तत इत्याह तद्रूपे[१८२.३]ति । एवं ब्रुवतोऽस्यायमाशयः -- स्वविषयसर्वगतमभेदात्मकमनेकवृत्त्यनुवृत्तिबुद्धिकारणं हि सामान्यस्य रूपं न*<३>* चायं तथा । तथान्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वावि(त्वाद्वि)शेषा विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशदिक्कालात्मनःस्व(त्मनःसु) प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्तिबुद्धिहेतवः, न चायं तथा । अयुतसिद्धानामाधार्याधारभूतानां च सम्बन्धः इहप्रत्ययहेतुः समवायो न चायं तद्रूप इति । *<४>*तदभ्युपगमात्त[१८२.५]स्य संयोगस्याभ्युपगमात् । पञ्चानां [१८२.९] द्रव्यगुणकर्मसामान्यविशेषाणां समवायित्वं [१८२.९] समवायाश्रयत्वम् । प्रदेशाभावेपि [१८२.१३] विशिष्टोद्देशाभावेपि घटाभावसंभवात्[१८२.१३] । अनेन व्यतिरेकाननुविधानं दर्शितम् । न चास्य प्रतिविषयं भेद [१८२.१८] इति अनेन चेतरकार्यधर्मातिक्रमो दर्शितः । सम्बन्धिभेदात्[१८२.१९] । सम्बन्धिनां घटपटादीना भेदात्नानात्वातन्यादृशत्वाद्वा । भेदे [१८२.२०] नानात्वे अन्यादृशत्वे वेष्यमाणे । तत्प्रसङ्गो भयप्र(भेदप्र)सङ्गः । समनन्तरमेवोक्तं (?) । ननु च वाच्यवाचकभूताविह शब्दार्थौ प्रकृतौ तथा बुद्धिघटिते च शब्दार्थसामान्ये वाच्यवाचकरूपे न तु शब्दार्थस्वलक्षणे, न च तयोः *<६>*शब्दार्थसामान्ययोर्जन्यजनकभावः {प्. ३९५} सम्भवी तत्कथमेवमुक्तमित्याशङ्क्य विशेषाभिधानार्थमभ्युपगच्छन्नाह -- यद्यपि चे[१८३.४]ति । शब्दार्थयोरि[१८३.५]ति । वाच्यवाचकभूतयोरिति विवक्षितम् । बुद्धिकल्पितसामान्यरूपते[१८३.५]ति प्रबुद्धसंकेताहितवासनस्य या बुद्धिः "स एवायं यो मया वाचकत्वेन प्रतिपन्नः स *<७>*एवायं यो वाच्यत्वेन प्रतीत" इति संकेतकालोपलब्धशब्दार्थभेदेन स्वाकारं प्रतीयती जायते तया यद्रूपं कल्पितं सामान्यं तद्रूपतेति विशेषविवक्षया न । तथापी[१८३.५]ति उत्प्रेक्षा समाकलनमध्यवसाय इति यावत्तस्या निबन्धनस्य [१८३.६] बीजस्य । शब्दस्वलक्षणानुभावादेव हि वाचकशब्दसामान्या(न्यो)त्प्रेक्षा भव*<८>*तीति भावः । तन्मुखेन [१८३.७] वाचकशब्दसामान्योत्प्रेक्षाबीजशब्दस्वलक्षणोत्थापनद्वारेण अन्यभावस्य [१८३.१३] केवलप्रदेशादिभावस्य । अनेन च प्रागपि [१८३.१५] इत्यादिना सत्यपि तदभिप्राय [१८३.१६] इत्यादिना च तदन्वयव्यतिरेकानु(काननु)विधानं तस्य दर्शितम् । भेदे सत्यसति कार्यकारणभावे अविनाभावानुपपत्तेस्तद्द्वारक [१८३.१६] [६५ ] *<१>*इत्याह । ननु यदि यद्यस्य सिद्धेर्निबन्धनं तस्य तेन सह कार्यकारणभावादिकः सम्बन्धोऽवश्यं भावीत्युच्यते । न तर्हि चक्षुरादीन्द्रियं स्वविषयस्य रूपादेः प्रतिपत्तिनिबन्धनं स्यादित्यभिप्रायवान् परः प्राह --[१९६]कथं तर्हि [१८३.२८] इति । सिद्धान्त्याह -- परस्परे[१८३.२८]ति । अनेन यदि नाम तयोः समकालिकयोः साक्षात्कार्यकारणभावोऽस्तीति दर्शयति । अनयोरप्येवमेव भवि*<२>*ष्यतीत्याह -- नैवमि[१८४.१]ति । इह अन्यभावे तदभावसाधने । एवं [१८४.१] अनन्तरोक्तं नास्ति । कुत इत्याह -- अन्यभावे[१८४.१]ति । तदयोगादे[१८४.१]कसामग्र्युत्पादायोगात् । अयोगश्चाभावस्य कुतश्चिदुत्पादे भावरूपताप्राप्तेस्ताद्रूप्यहानिप्रसङ्गात्घटाभावेन च विना तत्प्रदेशक्षणसदृशस्य क्षणस्याभावप्रसङ्गाच्च द्रष्तव्यः । प्रौढवादितया तत्तदुक्तमयुक्तं प्रतिपाद्य*<३>* सम्प्रत्यप्रस्तुताभिधानमस्य दर्शयन्नाह -- लिङ्गलिङ्गिभावलक्षणस्य च [१८४.२] इति । __________नोतेस्__________ [१९६] कथमिन्द्रिय स्। ___________________________ न तु केवलो [१८४.२४] घटाभाव इति प्रकृतत्वात् । कैवल्यमेव दर्शयति धर्मिणः कस्यचिद्गुणभावं [१८४.२४] विशेषणत्वमनापन्न इति । तद[१९७]न्यस्य [१८५.२३] धर्मिणोऽभावादिति केवलप्रदेशरूपादन्यस्य । धर्मिणो [१८५.२४] लिङ्गाश्रयस्याभावादिति । __________नोतेस्__________ [१९७] ततश्चान्यस्य स्। ___________________________ {प्. ३९६} देशकालव[१९८]स्तुनियत [१८६.८] इति *<४>*हेतुभावेन विशेषणम् । प्रतिज्ञा [१८६.१०] साध्यनिर्देशस्तस्याः । कृतकत्वादिपरिजिहीर्षया विशिंसन्नाह -- व्यावृत्तितोऽपी[१८६.१२]ति । प्रदेशमात्रमि[१८६.१४]ति ब्रुवता परेण प्रदेशत्वसामान्यं हेतुः प्रदेशविशेषो धर्मीति दर्शितम् । __________नोतेस्__________ [१९८] देशकालावस्यानियतो स्। ___________________________ योऽसौ केवल [१८६.२३] इति । पुरोऽवस्थितघटजातीय इति द्रष्टव्यं तस्यैव प्रकृतत्वात् । लिङ्गवज्ज्ञापकत्वादवश्यप्रत्येतव्यमित्यभिप्रायेणाह -- लिङ्गभूतस्य [१८६.२५] केवलस्य प्रदेशस्य [१८६.२६] प्रतिपत्ताविति पूर्ववत्प्रतिज्ञार्थैकदेशताप्यत्र द्रष्टव्या । ततः केवलप्रदेशाल्लिङ्गीभूतात् । विषयविषयिभावेने[१८७.१०]तीत्थंभूतलक्षणा तृतीया । तथाविधा भिप्रायानभिज्ञा(ज्ञ)तयेति[१९९]पाठोऽवदातो यथाभिधानाभिप्रायानभ्ज्ञा(ज्ञ)तयेति पाठे तु महान् क्लेशः । __________नोतेस्__________ [१९९] अभिप्रायानभिज्ञतया स्। ___________________________ प्रमेय*<६>*त्वेन [१८७.१९] साध्यत्वेन । आदिशब्दादन्योन्याभावप्रध्वंसाभावयोर्न विरोधोमीमांसकमतेऽत्यन्ताभावस्य च । एते [१८८.३] प्रागभावादिरूपा भेदाः इतरप्रतीतेश्चा[१८८.६]भावांशप्रतीतेश्च । तत्संयोगे [१८८.६] तेनेन्द्रियेण प्रत्येतव्यस्य सम्बन्धे । इत्थं तु [१८८.५] यत्प्रतीयत [१८८.६] इति प्रकरणात् । तदसंयोगहेतुकमि[१८८.७]न्द्रियासम्बन्धहेतुकम् । *<७>*ज्ञानमिति प्रकृतत्वात् । यद्वा तत्तथाविधं ज्ञानमसंयोगहेतुकं प्रकरणादिन्द्रियासंयोगहेतुकं न भवतीति । ननु भावांशयोर्भेदात्कथं "तदन्यभाव एवे"त्युक्तमाचार्येण इत्याशङ्क्याह -- एवं मन्यत [१८८.१५] इति । तद्रूपवैकल्यात्[१८८.१७] घटरूपविरहितत्वात् । तद्रूपवैकल्यं [१८८.१७] घटरूपवैकल्यम् । तदभावे [१८८.१८] घटरूपवैकल्याभावे । तस्य घटादन्यस्य भावस्य प्रदेशादेः । तथा च [१८८.२०] तस्यापि घटरूपत्वप्रकारे सति । अभावांशेऽपि घटाभावोऽपि न[२००]सिद्ध्यति घटात्मनिवेति भावः । तत्संयोग एव [१८८.२४] अन्यभावसंयोग एव । विचारयता [१८९.२] मयेति बुद्धिस्थम् । अवधार्यो [१८९.३] ज्ञातव्यः । __________नोतेस्__________ [२००] न सिद्ध्येत्स्। ___________________________ सकलत्रैलोक्यविलक्षणं [१८९.११] सर्वपदार्थव्यावृत्तम् । असांकर्येण [१८९.१२] अभिश्रत्वेन । संप्र[२०१]मुग्धाकारं [१८९.५] संदिह्यमानसर्वाकारम् {प्. ३९७} अनिश्चिताकारमिति । कामलो विद्यतेऽस्येति कामली [१८९.१७] तस्य । तत्परिच्छदाभावः [१८९.२०] तस्य पुरोवर्तिनो भूतलादेरप्यभावस्य परिच्छेदाभावः । __________नोतेस्__________ [२०१] सम्मुग्धाकारं स्। ___________________________ ननु च कस्यचिद्दर्शनाद्योयं क्वचित्प्राप्तिपरिहारार्थो व्यवहार इति प्रकृते अदृष्टस्य च परिहारार्थ [१८९.२३] इति व्याख्यानं कथमिव न साहसं न ह्यदृष्टस्य दर्शनमस्ति । अथ दर्शनमित्युपलक्षणमेतत्, ततोऽदर्शना[६५ ]*<१>*दित्यपि द्रष्टव्यमिति चेत् । तदवद्यम्, दर्शनस्यैव संकीर्णासंकीर्णरूपावभासितया विचारयितुं प्रकांतत्वात्, यदि चादृष्टपरिहारार्थो व्यवहारो भवेत्तर्हि कण्टकादेः परिहारार्थो व्यवहारो न भवेत्किन्तु प्राप्त्यर्थो एव, सम्यक्ज्ञानपूर्विका च सर्वहानोपादानलक्षणा पुरुषार्थसिद्धिर्न स्यादिति । स्थाने पराक्रान्तं भवता केवलं विवक्षिते दृष्टादृष्टशब्दार्थे समीचीनं मनो न प्रणिहितम्, दृष्टशब्देन हि सुखमत्रविवक्षितमदृष्टशब्देन च तद्विपर्ययेण दुःखम्, तते......... -- कस्यचिद्वस्तुनः सुखहेतोर्दर्शनाद्योयं क्वचिद्देशे संवित्सामर्थ्यमाववि(भावि)स्मरणादिना दृष्टस्य सुखस्य प्राप्त्यर्थो व्यवहारः प्रवृत्तिलक्षणो यश्च दुःखहेतोर्दर्शनाददृष्टस्य*<३>* दुःखस्य परिहारार्थो व्यवहारो निवृत्तिलक्षणः स न स्यात्; सर्वत्रैव सुखहेतुदुःखहेतुविषयत्वेन संप्रमुग्धाकारत्वात्सर्वस्यैव दर्शनस्येति । अतश्चैवं यद्विनिश्चयः"सुखदुःखसाधने हि ज्ञात्वा यथार्हं प्रतिपित्सवः" इत्यलं बहुना । किं भूतस्तदर्थो व्यवहार इत्याह प्रवृत्तिनिवृत्तिलक्षण [१८९.२४] *<४>*इति यथासंख्य सम्बन्धः कार्यः । अन्यथा [१८९.२६] संकीर्णरूपाप्रतिभासनप्रकारेणास्य [१८९.२६] प्रत्यक्षस्य । ज्ञानद्वयेन [१९०.६] प्रत्यक्षानुपलम्भरूपेण । पर[१९०.१६]मितिमीमांसकमित्यवसेयम् । एवमभ्युपगमे कारितेऽपि किं फलमित्याह तथा चे[१९०.१७]ति । यथाश्रुति ज्ञापरिणामाख्येन धर्मेणे[१९०.१८]त्युक्तं द्रष्टव्यम् । भावां[२०२]शस्यैवाभावत्वेनोप*<५>*गतत्वादि[१९०.२०]ति । "भावान्तरविनिर्मुक्तोऽभावोत्रानुपलंभवद्" इत्यादिवचनादुक्तं भावान्तरस्याप्यतुल्ययोग्यतारूपस्य तथात्वेनेष्टत्वात् । न त्वदुपगतानुपलब्धिरूपत्वमभावप्रमाणस्य भविष्यतीत्यत आह तुल्ययोग्यतारूप[२०३]स्यै[१९०.२०]वेति । अन्यथा तस्य तदभावरूपत्वानुपपत्तेरिति भावः । भवत्येवं *<६>*तथाप्येकज्ञानसंसर्गित्वानपेक्षितया भेदो भविष्यतीत्याह तुल्ययोग्यतारूपस्य [१९०.२०][२०४]एतज्ज्ञानसंसर्गिण एव चे[१९०.२०]ति । अन्यथा तुल्ययोग्यतारूपतैव {प्. ३९८} न सिद्ध्येत् । असत्यां च तस्यां न प्रतियोग्यताभावनश्चयः स्यादित्याशयः । तथोपेयम[१९०.२१]भावप्रमाणतयोपगन्तव्यम् । तज्ज्ञानात्[१९०.२१] तस्य तदतुल्ययोग्य*<७>*तारूपस्य तदेकसंसर्गिणश्च वस्तुनो ज्ञानात् । एतदेव साधयन्नाह नही[१९०.२२]ति । कथमभावः [१९०.२८] प्रसज्यप्रतिषेधयोर्निरूपाख्यानत्वात्कस्यचित्परिच्छेदो [१९१.१] भवति । तद्धेतुभावः [१९१.२] प्ररिच्छेदहेतुत्वम् । __________नोतेस्__________ [२०२] भावान्तरस्यैव- स् [२०३] स्यैक- स् [२०४] एकज्ञान- ___________________________ तदे[१९१.१०]त्येवमभ्युपगमकाले । कस्यचिदपी[१९१.१०]त्यनेन कस्यचिदपीति मूलग्रन्थमनुभासते । तदेवाहेति कस्यचिदिति ग्रहणकपदविवक्षि*<८>*तमेवाहआचार्यः। तस्ये[१९१.१०]त्यनेन तस्येति मूलपदमुल्लिङ्गार्थमाह सलिलोपलम्भाभावस्ये[१९१.१०]ति । तदन्यस्य वे[१९१.१४]ति । मूल(लं) व्याचक्षाण आह --[२०५]ततोऽपी[१९१.११]ति । कस्मात्पुनस्ततः सलिलादन्यस्यानलादेरिति व्याख्यायते न तु तत्प्रतिषेधमात्रपुरस्कारेणेत्याशंक्याचार्यस्यैतद्द्वयोपन्यासेऽभिप्रायं वचनभङ्ग्या वर्णयितुमाह वि[६६ ]*<१>*ज्ञान[२०६]ञ्चे[१९१.११]ति । तत्रापि [१९१.१२] "विज्ञानं वान्यवस्तुनि" इति लक्षणे तदङ्गीकरणेऽपरिणामशब्देनान्यवस्तुज्ञानाभ्युपगममिति यावत् । तदात्मकत्वाद[१९१.१३]न्यवस्तुज्ञानात्मकत्वात् । तत आत्मनो यः परिणामो मा भूद्भेदेन व्यवस्थाप्येत "विज्ञानं वान्यवस्तुनि" इति लक्षणमिति प्रकरणात् । कस्यचिदपीत्यादेर्मूलग्रन्थस्य समुदायार्थमिदानीं ततश्च*<२>* कस्यचिदपी[१९१.१४]त्यादिना वक्तुमुपक्रमते । स्थाप[१९१.१५]शब्देन गाढस्वापोऽभिप्रेतः । प्रगाढनिद्राक्रान्तस्य हि विषयग्रहणवैकल्यं भवति । यदि यत्तदपेक्षेणान्यस्यान्यत्वेन सर्वं सुस्थं स्यात्परस्य तदा व्यवधानाद्यवस्थैव प्रसङ्गार्थमाचार्येण नोपदर्शिता स्यादिति भावो व्यवधानादिग्रहणेन च एतद्दर्शयती[१९१.१६]ति ब्रुवतो द्रष्टव्यः । प्रकारान्तरेणास्मदभिमतात्प्रधानादन्येन प्रकारेण । न तिष्ठेदिति अस्यार्थकथनं प्रवर्तेते[१९१.२५]ति । तर्हि प्रतिष्ठेतैवार्थक्रियावाप्तये प्रस्थानमेव कुर्यादित्याह नापी[१९१.२५]ति । न प्रतिष्ठेतेत्यस्यार्थं कथयति न प्रवर्तेतेति [१९१.२५] एतदेव प्रदर्शयितुमुपक्रमते । तथाही[१९१.२६]ति । __________नोतेस्__________ [२०५] ततो वे- स्। [२०६] इज्ञानं वे- स्। ___________________________ तत एकदशनादन्या *<४>*भावे ज्ञानमुत्पद्यते तथोच्यते [१९२.१९]न्यदित्युच्यते । तद्रूपतया [१९२.१९] सकलासंकीर्णवस्तुरूपावभासितया । तदन्यद्वस्तु {प्. ३९९} प्रतियदेवमन्याभावं प्रत्येतीति व्यपदिश्य [१९२.२०] तदयोगाद[१९२.२०]न्यभावप्रतिपत्त्ययोगात् । यश्चान्यो विकल्पो पाश्चात्यो [१९३.८] विधिविकल्प इत्यर्थात् । अभावाख्यप्रमाणं [१९३.९] नेत्यनुवर्तनीयम् । वहनं *<५>*वहित्रं तदारूढैः [१९३.१७] । तदात्मनो [१९५.५] शेषपदार्थवृत्तात्मनः सकाशात्तत्[१९५.६] प्रत्यक्षम् । तत्प्रामाण्यसमाश्रिता [१९५.७] अभावप्रामाण्यसमाश्रिता । स्वभावत एव [१९५.१०] स्वहेतुत एव । तस्या(स्य) [१९५.१३] अभावाख्यस्य प्रमाणस्य । अध्यात्मनः [१९५.२४] परात्मनः सकाशात् । तदन्येभ्यो निवर्तनं [१९६.१] व्यवच्छेदनं तस्य गृह्यमाण*<६>*स्येत्यर्थात्तत्परिच्छेदप्रसङ्गात्[१९६.७] अन्यात्मपरिच्छेदप्रसङ्गात् । तदात्मनः [१९६.१०] सकाशादशेषमन्यन्निवर्तयतीति वर्तते । तदात्मनोपलभमानेति कथमुच्यत इत्यपेक्षायां तथाविधस्वभावस्यैवानुकारादि[१९६.१३]ति योज्यम् । उपलभमाने[१९६.१४]ति हेतौ शानयोर्विधानाद्धेतुपदमिदमन(मव)वसेयम् । *<७>*अन्यदेशे[१९६.१५]त्यादि तथात्वप्रच्युते[१९६.१४]र्व्याख्यानम् । तथाभूतादि[१९६.२४]त्यादेर्मूलग्रन्थस्य अभावात्कार्यमाह । अभावकल्पनया [१९६.२८] इत्यभावप्रमाणकल्पनयेति प्रकरणात् । विषयमेवा(विषयेणैव) विषयिणो निर्देशात्द्रष्टव्यम् । [२०७]अन्यच्चैवमात्मकं [१९७.१] न भवतीति वर्तते । ततो [१९७.३] निर्विकल्पकात्प्रत्यक्षात विधिप्रतिषेधविकल्पावि[१९७.४]ति यथावासनाप्रबोधं*<८>* विधिविकल्पञ्चेति बोद्धव्यम् । अथ वैकल्यस्य (?) साक्षादितरस्य सामर्थ्याज्ज्ञानाद्विधिप्रतिषेधविकल्पद्वयोपजनन उक्तः ।[२०८]तदर्थादिति [१९७.२१] तत्त्वान्यत्वाभ्यां भिन्नतया विकल्पता(ना)दित्यर्थः । येन निमित्तेन विवक्षितस्य ततोऽन्यत्वं न व्यवस्थाप्यते, तस्य निमित्तस्य समानत्वात्[१९७.२७] । कथं प्रकारान्तराभावं सूचयतीत्यपेक्षायां योज्यम् [६६ ] *<१>*तद्विरुद्धस्येति [१९७.२७] तेन परिच्छिद्यमानेन विरुद्धस्यैतत्परिहारेण व्यवस्थितस्य तदसंकीर्णस्येति यावत् । तद्विरुद्धस्य सर्ववस्तुनो द्वैविध्यसाधनम् {प्. ४००} एव कुत इत्यपेक्षायां सर्वस्यान्यतया व्याप्तिसाधनादिति [१९८.४] योज्यम् । __________नोतेस्__________ [२०७] अन्यथैतदात्मकं सिति तु न सम्यक् । ___________________________ [२०८] ततोऽर्थात्स् ___________________________ एकस्य प्रमाणस्य व्यापार एव [१९८.६] इति ब्रुवतोऽयं भावः -- तस्यैवैकस्य प्रमाणस्य वृत्तं विमृष्यमान(ण)मेवमवतिष्ठते । यत*<२>* इति तद्रूपत्वात्[१९८.१०] परासंकीर्णरूपत्वात् । वस्त्वनतिक्रमेण यथावस्तु [१९८.१०] इति दृष्टतदन्यत्वेन सर्वस्य व्याप्तिसाधनादित्यपि प्रमाणवृत्तविचारेणोच्यत इत्यवसातव्यम् । इतिना [१९८.२७][न]न्तरोक्तस्य न्यायस्याकारो दर्शितः । अनन्यसहायत्वं [१९९.१] च कार्यस्य [१९९.१] एकजातीयकार्यापेक्षया द्रष्टव्यम् । द्वयोर्भावो द्वितैव द्वैतं तत्सिद्धेः [१९९.३] । ह(प्र)तीयत्येव [१९९.६] बुद्धिः व्यवस्था[२०९]पककाल एवा[१९९.६]तद्रूपं ततः पृथक्करोतीति अनुवर्तनीयम् । इतरथा शतृप्रत्ययस्यानुपपत्तिः प्रसज्येत । अत्र कथं प्रत्ययान्तराभावः सिद्ध्यतीत्यपेक्षायामाह -- तद्विपरीते[१९९.६]त्यादि । __________नोतेस्__________ [२०९] व्यवस्थापनाकाल एव स् ___________________________ एकप्रमाणनिबन्धनां [१९९.९] इति प्रत्यक्षैकनिबन्धनामनुमानैकनि*<४>*बन्धनां वेति विवक्षितम् । न तु परोप्येनामनेकप्रमाणनिबन्धनामिच्छति यदनेन व्यवच्छिद्येत । अभावप्रमाणमात्रनिबन्धनतया तेनोपगमादिति तस्योपलभ्यमानस्य [१९९.११] तदात्मनो [१९९.१२] व्यवच्छेद [१९९.१२] इति सम्बन्धः । "तदन्यात्मन" इति मूले निर्देशात्कथं त्वया तदन्यात्मताया [१९९.१४] इति व्याख्यायत इत्य*<५>*नुयोगमाशङ्क्याह भावप्रधानत्वान्निर्देशस्य [१९९.१४] इति । अवच्छिद्यते [१९९.१८] व्यवच्छिद्यते । सा तदेकाकारनियता प्रतिपत्तिः । स च [२००.३] तद्देशकालश्च स्यात् । तद्देशता च लोकप्रसिद्धदेशाभिप्रायेणोक्ता द्रष्टव्या । न तु वस्तुनो मूर्तं वस्तु वस्त्वन्तरेणैकदेशं नामेति । नो चेत्कथमिति वर्तते । अभावसिद्धिरि[२००.९]त्य*<६>*भावव्यवहारसिद्धिर्मूढं प्रतीति च द्रष्टव्यम् । अमूढस्य प्रत्यक्षादेवाभावव्यवहारसिद्धेः । एतच्चानन्तरमेव प्रतिपादयिष्यते । यथोक्तमेवानुपलम्भं दर्शयितुमाहोपलब्धिलक्षणप्राप्तस्य [२००.९] इति । अनुपलम्भादिति चावर्तनीयम् । तेनायं वाक्यार्थः -- उपलब्धिलक्षणप्राप्तस्यानुपलम्भादिति । ननु उप*<७>*लब्धिलक्षणप्राप्तानुपलम्भ एव कीदृशो यस्मात्तत्सिद्धिरित्याह तत्तुल्ये[२००.१०]ति । तेन निषेध्येन सह तुल्या स्वज्ञानोपजननं प्रति योग्यता सैव रूपं स्वभावो यस्य {प्. ४०१} स तथा तस्य यदुपलम्भ उपलभ्योपलभमानधर्मः स आत्मा यस्य [२००.१०] तस्मात् । चो [२००.१०] व्यक्तमेतदित्यस्यार्थे । यद्वा उपलम्भशब्देन ज्ञानमात्रस्याभिधानम् । तेन तु तत्तु*<८>*ल्ययोग्यतारूपोपलभ्यमानसेन इति समुच्चीयते इत्येवंरूपादनुपलम्भात् । अन्यथा व्याख्याने तूपलब्धिलक्षणप्राप्तस्येत्यसङ्गतं स्यादिति । न तु सामान्येन [२००.१०] अनुपलम्भमात्रादित्यर्थः । किमेवंवादिनोऽपि सम्भवति येनैवमुच्यत इत्याह -- यथाहुः पर [२००.११] इति । वस्तुसत्तावबोधार्यं [२००.१३] यत्र वस्तुरूपेण प्रमाणपञ्चकं [६७ ] *<१>*न जायते तत्रेति [२००.१२] योज्यम् । पञ्चावयवा यस्येति पञ्चकम् । "संख्यायातिसदत्ताया कन्" इत्यनेन कन् । प्रमाणं च तत्पञ्चकं चेति पश्चात्कर्मधारयः कार्यः प्रमाणपञ्चकं [२००.१२] न जायत इति च पञ्चानां प्रमाणानां मध्ये यत्रैकमपि न जायत इत्यर्थः । सति वस्तुनि तदनुदय एव कथमित्याह सत्यपी[२००.१५]ति । तद्विषयाया उपलब्धे[२००.१९]र्लिङ्गत्वमपि प्रकरणात् । तदभावेन सह सम्बन्धाभावस्य तुल्यत्वादि[२००.२५]ति योज्यम् ।[२१०]भावरूपाया उपलब्धिरूपभावरूपायाः । __________नोतेस्__________ [२१०] अन्यभावरूपायाः स् ___________________________ कस्मात्सकाशात्प्रमाणान्तरं प्रत्यक्षादिकं नास्तीत्याह -- अन्यभावविषयोपलब्धेरि[२०१.२७]ति । किमिति [२०२.६] सामान्यतः पृच्छति । पुनरि[२०२.६]ति विशेषतः सोऽन्यभावो [२०२.६] योसौ केवलप्रदेशलक्षणोऽन्यभावः प्रत्यक्षलक्षणेने[२०२.७]न्द्रियजप्रत्यक्षलक्षनेन । एतच्च प्रायेण लोको यस्मात्केवलमिदं भूतलं वे*<३>*द्यते तस्माद्घटोऽत्र नास्तीति प्रत्ययमुखेन प्रतिपद्यत इत्यभिप्रायेणोक्तं द्रष्टव्यम् । अनुपलम्भेन सिद्ध [२०२.८] इति च तस्यापि प्रत्यक्षस्य तदनुपलम्भरूपत्वात्वास्तवानुवादो बोद्धव्यो न तु तस्यानुपलम्भरूपताप्रतिपादनमिदानीं प्रकृतं नाप्युपयुक्तमिति । अभावव्यवहारं साधयेत्[२०२.८] नाभावमित्यर्थात्, तस्य केवल*<४>*प्रदेशोपलब्धिकाल एव सिद्धत्वादिति भावः । ननु अनुपलब्ध्या अभावव्यवहारः साधनीयो न चासौ प्रदेशस्तथेत्याह कर्मस्थक्रियापेक्षये[२११][२०२.८]ति । उपलब्धेः कर्मस्थत्वापेक्षया तत्पर्युदासेनान्यभावस्य तथात्वमित्यर्थः । प्रत्यक्षणाभावव्यवहारं प्रवर्तयितुमनीशानोऽस्य मते मूढो वाच्यस्तस्य प्रतिपत्तौ [२०२.१०] प्रतिप*<५>*त्तिशब्देन चाभावव्यवहारैकदेशो ज्ञानलक्षणो अनुष्ठानलक्षणो वा वक्तव्यः । तस्यां साध्यायां व्यवहारश्च तदितरो द्रष्टव्यः । मूढं प्रतिपत्तारं प्रति तं साधयति नामूढमिति च समुदायार्थः । अमूढस्य {प्. ४०२} तर्हि किं निबन्धनोऽसद्व्यवहार इत्याह -- यस्त्वि[२०२.११]ति । प्रसङ्गेना[२०२.१३]स्यैव प्रस्तावेनालं न किञ्चित् । अत्रधर्मोत्तरःप्रा*<६>*ह -- "तदेकाकारनियतं पटीयोऽपि प्रत्यक्षं नाभावव्यवहारं प्रवर्तयतुमलमदृष्टानामपि सत्त्वान्नित्यं शंक्यमानानुपलम्भव्यभिचारो ह्यभावः" इति । दृश्यत्वविशेषणापेक्षायां चानुपलब्धिरेवायातेति चाभिप्रैति । अत्र तु यथा प्रतिवक्तव्यं तथास्माभिःस्वयूथ्यविचारे विचारितं विस्तरेणेति तत एवापेक्षितव्यमिति । __________नोतेस्__________ [२११] -पेक्षायां स् ___________________________ यद्यपि बहुप्रकारानुपलब्धिस्तथापि मूलभूतप्रकारप्रदर्शनार्थं त्रिविधे[२०२.२१]त्युक्तं द्रष्तव्यम् । सविशेषणा [२०२.२८] सह विशेषणेन उपलब्धिलक्षणप्राप्तत्वलक्षणेन वर्तत इति । तथा कारणव्यापकानुपलब्धिलक्षणस्ये[२०३.२६]ति कारणव्यापकयोर्यानुपलब्धिः तद्विविक्तप्रदेशज्ञानात्मिका तल्लक्षणस्येति । सिद्धसम्बन्धयो[२०४.३]रिति कारणव्यापक*<८>*योरिति मूलग्रन्थस्यापेक्षणात्सङ्गतमिदम् । तथाभावदर्शने[२०४.१०]ति एकदर्शनेनान्यदर्शने तथैकादर्शनेनान्यदर्शनेऽपि भूयस्त्वविशेषणत्वे च क्रियमाणे लोहलेख्यत्वपार्थिवत्वादिना प्रत्ययवत्तल्लब्धी तद्विविक्तपदार्थज्ञानात्मिके तयोः संदेहरूपत्वात् । तदभावस्य च तयोः कारणव्यापकयोरभावस्यच संदिग्धलक्षणता वाच्या । एतदेव विदर्भवचनेन मात्रया दर्शयन्नाह -- [६७ ] *<१>*पुरुषस्य त्वि[२०४.११]ति । यदृच्छासंवाद [२०४.१२] इति ब्रुवतो यथामलककषायरसत्वादिना संस्कारादिना अन्यथाभावसम्भवेऽपि साहचर्यादर्शनसंवादस्तथा विवक्षितेऽपि भविष्यतीति भावः । प्रतिबन्धः [२०४.१६] सम्बन्धोऽभिधातव्यो न तत्प्रतिबद्धत्वं यथान्यत्र । साध्यसाधनयोरि[२०४.१६]त्यादेरनुपपत्तिप्रसङ्गात् । प्रतिबन्धे चेष्टौ च सर्वेषां साधनवत्त्वेन*<२>* च साध्यवतां साध्याभाववत्त्वेन च साधनाभाववतामर्थतां द्रष्टृम(?) पेक्षत्वेपि व्याप्तिमतोरन्वयव्यतिरेकयोर्निश्चयः सञ्जायते । सोयमुपानटधर्ममात्र (?) पृथिव्याच्छादनं न्यायः प्रायः प्रकारो द्रष्टव्यः । जरन्नैयायिकाभिप्रायेण नैयायिक[२०५.२३]*<३>*ग्रहणमस्य बोद्धव्यम् । अधुनतनाः पुनरन्वयव्यतिरेकिणं पंचलक्षणमन्वयिनं व्यतिरेकिणं चतुर्लक्षणलक्षणमाचक्षत इति सामान्येननैयायिकग्रहणे व्याख्यायमाने तन्मतावेदनमस्यावेदितं स्यादिति । संख्याया गुणत्वेन द्रव्याश्रितत्वाद्धेतुद्रव्यस्ये[२०५.२८]त्याह । एकसंख्यानवच्छिन्नायामित्यस्यैवार्थकथनं {प्. ४०३} प्रतिहेतुरहितायाम् [२०६.३] इति । साध्यप्रतिपक्षसाधको हेतुः प्रतिहेतुः तद्रहितायाम् । सिषा*<४>*धयिषितविरुद्धं न व्यभिचरतीति । तथा ज्ञातत्वं चा[२०६.६]परं रूपमिति प्रागुक्तमनुवर्तते । यथोक्तबाधाप्रमाणेन साध्यधर्मनिराकरणं तस्मिन् [२०६.१७] साध्येऽसति [२४६.१७] । वतेति [२०७.२] निपातोऽनुविषये । यंत्रद्वय[२०७.३]शब्देन प्रकरणादाकर्षकनिष्काषकलक्षणे यन्त्रे वक्तव्ये । यथा किल केनचित्कुतूहलिना कश्चित्तपस्वी स्त्रीरूपधारिणी तृतीयां प्रकृतिं परिचरणायोग्यां शब्दवाच्यामुद्वाह्य पुत्रं तदर्थक्रियां वा व्यपदेशेन प्रार्थ्यते तेन तुल्यमिदं यदविनाभावविकलं हेतुमुपदर्श्य धर्मिणि साध्यकथनमिति मन्वानः परोपहासपूर्वकमाहाचर्यःशण्ढमुद्वाह्ये[२०७.१५]ति मूलमनूद्यस्यात्वं(र्थं?) प्रकृते योजयन् दर्शयति -- तस्मिन्नि[२०७.१५]ति । *<६>*तस्मिन् साध्यधर्मिणि साध्यधर्मसाधनशक्तिविकलं [२०७.१६] साध्यधर्मप्रकाशनशक्तिवियुक्तम् । तद्वैकल्यञ्च तस्य तत्र तदविनाभावितयानिष्टेः । शब्दार्थस्यैतद्व्याख्यानं प्रतिच्छायया द्रष्टव्यम् । उद्वाह्य [२०७.१५] पदार्थं तथैव व्याचक्षाण आह -- परिणाय्ये[२०७.१६]ति । परिणाय्यपदेन च तत्संबन्धत्वोपदर्शनं तल्लक्षितम् । तल्लक्षणं*<७>* पुत्रं मृ[२१२]ग्यते [२०७.१७] प्रार्थ्यते याच्यत इति यावत् । ननु चान्यत्राविनाभाव्यपि हेतुस्तत्र साध्यं विभावयेदिति कोऽयमुपहास इत्याह नही[२०७.२०]ति । यदम्भस्तल्लवणरसं यथा सामुद्रम् । अम्भश्चेदं नादेयमिति प्रयोगे चैतदुच्यत इत्यवसेयम् । लवणतया [२०७.२१] लवणरसतया । __________नोतेस्__________ [२१२] मृगयते स्। ___________________________ अम्भस्त्वादिषु [२०७.२५] हेतुयोपनीतेषु तथा दर्शनात् । अबाधितधर्मा [२०७.२७] *<८>*अबाधितसाध्यधर्मा । तन्निपतस्य [२०८.१३] बाधकप्रमाणवृत्तिनियतस्य । व्यापकाभावे व्याप्यस्याप्यवश्यमभाव इति भावः । तद्भावस्य [२०८.२०] साध्यभावस्य । अत एवे[२०८.२१]ति बाधकप्रमाणे सति साध्याभावादेव । तदभावेपि [२०८.२३] बाधकप्रमाणवृत्त्यभावेपि वा भावात्साध्याभावस्येति प्रकरणात् । हेतोः सामर्थ्यं हेतुसामर्थ्यं तत्प्रतिपादयन्नाह परः [२०९.२] । कथं [६८ ] *<१>*हेतुसामर्थ्यं प्रतिपादयतीत्यपेक्षायां योज्यम् -- तत्रान्यथात्वम्[२१३]इ[२०९.१]ति । {प्. ४०४} दर्शयन्निति [२०९.२] हेतौ शतुर्विधानात्तत्राबाधाया अन्यथात्वप्रदर्शनादित्यर्थः । तत्सिद्धये [२०९.६] साध्यसिद्धये । यत्रासौ तदर्थमभिधानीयः स हेतुप्रयोगस्य विषयः [२०९.६] । __________नोतेस्__________ [२१३] तत्रान्यथार्थमिति स् ___________________________ वै[२०९.९]शब्दोऽक्षमायां बाधानुपलब्धिरबाधेत्यादि यदुच्यते तत्र क्षम्यत इत्यर्थः । किंत्वि[२०९.९]ति निपातानिपातसमुदायः*<२>* प्रश्ने । तस्या [२०९.१०] इतिर्मात्रार्थानां भयहेतुरपादानमित्यपादानत्वादपादाने पञ्चमीयम् । काकु[२०९.१६]शब्देनात्र वचनविन्यासो विवक्षितः । प्रश्नार्थस्य किं शब्दस्याप्रयोगेपि काकुरेव शिरःकम्पसहिता प्रश्नं प्रकाशयतीत्यभिप्रायेण पृच्छती[२०९.१६]ति व्याचष्टे । बाधानुपलब्धिरबाधेति अभिधानादुक्तमेतदि[२०९.१६-१७]त्यभिप्रायवान् परः प्राहोक्तमेवै*<३>*तदिति । किमर्थं प्रयुज्यते [२०९.१८] स हेतुरिति सामर्थ्यात् । अभावनिश्चयं [२०९.२४] परमार्थतोऽसद्भावनिश्चयं प्रति । संशयितस्य [२१०.६] बाधां प्रति जातसंदेहस्य । ज्ञान[नि]वृत्त्या[२११.४] बाधकज्ञान[नि]वृत्त्यासौ साध्यबाधा । आदि[२१२.२१]शब्दादनुमानविरुद्धादेः संग्रहः तेषां [२१२.२३] {१५] प्रत्यक्षविरुद्धादीनामुपवर्णनं [२१२.२३] स्वरूप*<४>*प्रदर्शनम् । तद्भावायोगाद्विषयत्वायोगात्साधकप्रमाणस्यानुमानस्यावृत्तेर्यदुक्तं "व्यस्तोहेतोरनाश्रय" इति भावः ।[२१४]किं यथा बाधाविनाभावयोरि[२१३.९]ति पाठो युक्तरूपः । किंशब्दवियुक्ते तु पाठे सशिरःकम्पयाकांक्षा एवंवदतः प्रश्नोऽभिप्रायगतो द्रष्टव्यः । __________नोतेस्__________ [२१४] कथं -- यथा बाधाविनाभावयोः स् ___________________________ तल्लक्षणं [२१३.१४] तस्य हेतोः लक्षणम् । अन्वयव्यतिरेकात्माविनाभावः [२१३.१४] । लक्षणशब्दस्य चासति बहुव्रीहावजहल्लिङ्गत्वात्स्वलिङ्गेन निर्देशः । विरुद्धस्यापि विपर्यये सम्यग्धेतुत्वात्तदभिप्रायेण विपर्ययस्य चे[२१३.२३]त्युक्तम् । भावसिद्धि[२१४.१४]स्तत्त्वसिद्धिस्तदयोगात् । विवक्षितैकसंख्यत्वप्रतिपादित[२१४.१७]मिति विवक्षितैकसंख्यत्वशब्देन प्रतिपादितमित्यर्थः । *<६>*पूर्वकस्ये[२१४.२१]त्यलक्षणमेतदित्यस्य । अत्रापि बाधितत्वादिरूपान्तरयोगिन्यपि पूर्वयोजितुमुपदर्शितम् । निष्प्रमाणिके[२१४.५९]त्येतद्धेतुभावेन विशेषणम् । स इति [२१५.३] स एवेति विवक्षितम् । निरस्तप्रतिपक्षत्वमेव कुत इत्याह -- तथाविधे[२१५.१२] तथा {प्. ४०५} भूतविशेषवति पटू तथाविधे साध्ये क्वचिद्धर्मिणि [२१५.१३] संभवति सति । तद*<७>*व्यभिचारिणः [२१६.७] साध्याव्यभिचारिणः । वेदप्रामाण्यनिराकर्तृष्वि[२१७.१४]ति प्रत्यक्षाद्यधिकारोपि तेनासंवादादीत्यादिष्वित्यभिप्रेतं -- यदाह --वार्तिके कुमारिलः-- "स्वर्गयागादिसम्बन्धविषयाश्चोदना मृषा । प्रत्यक्षाद्यधिकारोपि तैरर्थांसंगतिर्यत[२१५]" [श्लोकवा. २.२६] इत्यादि । __________नोतेस्__________ [२१५] श्लोकवार्तिके तु -- "प्रत्यक्षाद्यगताथत्वादीदृग्बुद्धादिवाक्यवत्" इति उत्तराधर्म ___________________________ सौगतैरि[२१७.१४]तिवार्तिककारात्पूर्वैरिति विवक्षितम् । प्रतिहेतव [२१७.१६] इत्यदुष्टकारणजन्य*<८>*त्वादित्यादयः । यथाहकुमारिलः-- "चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिङ्गाप्तोक्त्यक्षबुद्धिवद् ॥" [श्लोकवा. २.१८४] इत्यादि । तन्निमित्तसंभवाद(दा)[२१७.२०]शंकानिमित्तसंभवात् । आक्रोशमात्रेण [२१७.२०] विपूर्वपक्षे भाषिकामात्रेण । केषां न कश्चिद्धेतुः स्यादित्याह एकसंख्यावादिनामि[२१८.१]ति । सम्यग्ज्ञानविपर्ययहेतुरिष्ट [२१८.६] इति प्राक्तनेनआचार्यग्रन्थेन । अ[६८ ]*<१>*थाप्रदर्शितहेतुरि[२१८.६]त्यस्याचार्यग्रन्थस्य सम्बन्धः कार्य इति । न कथञ्चिद्व्यवच्छेदहेतुकं[२१६][२१८.९] केनापि प्रकारेण नित्यानित्यव्यवच्छेदहेतुत्वम् । ताभ्यामस्यान्वयव्यतरेकासिद्धेरभिप्रायेणैवोक्ते । __________नोतेस्__________ [२१६] -हेतुत्वम् -- स् ___________________________ भुजमुत्क्षिप्य [२१८.१६] बाहुमूद्ध्...वीर्कृत्य फूत्कुर्वन् [२१८.१७] फूत्कारं मुञ्चन्नित्यर्थः । कैश्चिद्[२१८.१८]ईश्वरसेनजिनेन्द्रबुद्धिप्रभृतिभिः । अप्रच्छादनीयं [२१८.२०] अनावरणीयम् । मी*<२>*मांसकमतेन निरंतरा प्रीतिः स्वर्गे(र्गो) वाच्यः । अपवर्गस्तु मोक्षः । स च दर्शनभेदादनेकविध इष्टः । स्वर्गापवर्गयोजनमेववैयाकरणमताश्रयेण दर्शयन्नाह -- तथाही[२१९.१]ति ।मीमांसकमताश्रयेणाथवेत्यनेन पक्षान्तरमाह -- वेदान्तनिषेवणात्[२१९.५] आत्मतत्त्वनिषेवणात् । प्रज्ञाजातीयेन [२१९.५] प्रशस्तप्रज्ञेन । उप*<३>*हासेप्ययं प्रयोगः प्रकरणात्ज्ञातव्यः । यदस्य सामर्थ्यमासीत्तत्तदुपदर्शनेनोत्कीलितं {प्. ४०६} अपनीतं [२१९.८] इति व्याचक्षाणश्चोत्कीलितमपनीतं साधनसामर्थ्यं यस्य श्रावणत्वलक्षणस्य हेतोः स तथोक्तो मूलग्रन्थ इति दर्शयति । ननु तानि वस्तूनि ते च पुरुषाः प्रतिहेतुनैतद्विपरीतरूपोपदर्शनद्वारा तथाभूतायाः संपदः प्रच्याव्यन्ते, न तु तेन हेतुनेति किमुच्यते तानि वस्तूनि नित्यत्वसंपदः प्रच्याव्य तांश्च पुरुषाण्स्वर्गापवरसम्पद [२१९.८] इति चेत्, सत्यमेतत्केवलं यस्मादसौ विद्यमान एव स्वयं प्रापितायास्तथाभूतायाः संपदः प्रच्याव्यमाना न समानजातीयेन परेण *<५>*तानि वस्तूनि तांश्च पुरुषांस्त्रायस्व त्रायस्वेति फूत्कारं विप्लवमाभाषमाणानीव स्वजीवितमपेक्षमाण इवोपेक्षते । तस्मात्प्रच्याव्या वयं तं परं प्रयुक्तमिवेत्यभिप्रायाददोषत्रय (?) इति चेत्, सर्वञ्चैतत्किं यो वस्तुतो असंभवात्प्रतिहेतुरित्यादिदूषणमवाधितविषयत्वेऽपि लक्षणे प्रतिहेतुप*<६>*दमपोद्धृत्याबाधपदं प्रक्षिप्य वक्तव्यम् । अत एवस्माभिरेतन्निदानमेव किं वस्तुतोऽसंभवद्बाधत्वमबाधितविषयत्वमभिप्रेतमुताप्रतिभासमानबाधत्वमपि किं तदैव किं वा अन्येषामपि । तत्रापि किं तदैवाहोस्विदुभयं वदापि (?) । अन्येषामपि किं तदैवाथ कालान्तरेऽपीत्यादि विकल्प्य सर्वत्र यथा *<७>*योगं दूषणमुपनयद्भिरात्मनिराकरणेऽ...आधि[त]त्वमात्मसाधनस्य प्रतिसंधानलक्षणस्य हेतोर्विशेषणमपहस्तितम् । ततोऽन्यैरपि जिगीषुभिरबाधि[त]त्वे विशेषणे सर्वत्रैवानयैव दिशा प्रत्यवस्थेयमिति । तल्लक्षणं [२२०.२३] लिङ्गलक्षणम् । ज्ञानस्यैव भावप्रत्ययेन [२२०.२४] त्वत्प्रत्ययेन । एतदेव साधयन्नाह तथाही[२२०.२४]ति । स्वतन्त्र*<८>* एव [२२०.२९] वाच्य्वस्तुनिरपेक्ष एव । अनर्थप्रतिलम्भ एव स्यात्[२२१.१] अर्थप्रतिलम्भो न स्यादेवेत्यर्थः । अस्य [२२१.२] विकल्पप्रतिभासिनः सामान्याकारस्य । यद्येवं बाह्यस्यैव हेतुत्वमस्तु तत्किमनेन प्रयासेनेत्याह -- साध्ये[२२१.३]ति । कथं तर्हि विकल्पारूढानां सामान्याकाराणां परमार्थतो बाह्याङ्गासंस्पर्शिनां संपादकत्वं साध्यसाधनभावः [६९ ]*<१>*कार्यादिरूपत्वं चेत्याशङ्क्याह -- तद्धर्मतामेवे[२२१.४]ति । तस्यैव तद्धर्मतां बाह्यवस्तुधर्मताम् । बाह्यगतं(तां) तद्व्यावृत्तिरूपतामिति यावत् । अनु[२१७]सरंतो [२२१.४] भेदाप्रतिपत्त्या अविद्यमाननिबन्धनयाध्यवस्यन्तो नानैकव्यतिरेकान् [२२१.४] एकस्मिन्नप्यर्थे नानारूपं कृतकत्वानित्यत्वादि, एकत्वं सामान्यमनुगामिरूपं, व्यतिरेकं तयोः परस्पर(रं) धर्मिणश्च भेदं हेतौ *<२>*शतुर्विधानात्प्रदर्शनादित्यर्थः । साध्यसाधनभावसमर्थनार्थमेतदुक्तं द्रष्टव्यम् । {प्. ४०७} संवादकत्वसमर्थनार्थमाह -- वस्तुनि [२२१.५] इति । वस्तुनि -- साध्येऽर्थे । परम्परया [२२१.५] संबद्धसंबद्धतया । कार्यादिव्यपदेशसमर्थन(ना)याह कार्यादी[२२१.५]ति । कार्यादिदर्शनद्वारायातत्वात्तत्त्वेनाध्यवसायाच्च कार्यादि[२१८]व्यपदेशनिबन्धनं [२२१.५] त एव इति प्रकरणात् । तेन व्यपदेश*<३>*निबन्धनमिति च व्यपदेश "इन्द्रियमस्थानमेतद्राजन (?)" इति निर्देशवद्द्रष्तव्यः । __________नोतेस्__________ [२१७] अनुस्मरंतो स्। ___________________________ [२१८] कार्यादिलिङ्गव्यपदेशनिबन्धनं स्। ___________________________ ज्ञानस्य बाह्यलिङ्गरूपत्वं निराकृत्य सामान्याकाररूपत्वमपि निराकुर्वन्नाह विकल्पावभासी च [२२१.७] इति । तस्य [२२१.८] विकल्पावभासिनः । सामान्याकारस्य निरूपस्ये[२२१.८]ति च व्याचक्षाणोऽलीकरूपतामपोहस्याभिप्रैति । तद्रूपस्य [२२१.९] अवृक्षव्यावृत्ति*<४>*रूपस्य विचारतोऽसद्रूपस्य विकल्प[२१९]प्रतिबिम्बकस्य [२२१.९] इति । विकल्पाकाराद्भेदेन प्रत्येतुमशक्यत्वात्प्रतिबिम्बस्येव प्रतिबिम्बकस्यापोहस्य अथवा अनया वचनभङ्ग्या बुद्धयाकारोऽपि तथाध्यस्तोऽपोहो वाच्य इति दर्शितमनेन । कथं तस्य सामान्यात्मत्वव्य्वस्थेत्याह -- यस्मादि[२२१.१०]ति । अनुयायितया [२२१.११]ध्य[२२०]वसित*<५>*स्येत्यन्तरोक्तमनुवर्तते । एवंविधस्यापि किं न विकल्पात्मता । तथा च ज्ञानं किं न रूपं लिङ्गस्येत्याह -- तथात्वे च [२२१.११] इति । तथात्वे [२२१.११] अनुयायित्वे । विकल्परूपा[२२१]त्मता [२२१.१२] विकल्पस्वलक्षणात्मता । प्रकृतायां [२२१.१७] प्रस्तुतायाम् । रूप[२२२]मभिधीयते [२२१.१७] एवंविधं लिङ्गस्य रूपमित्यभिधीयते । प्रत्ययात्[२२३][२२१.२१] संप्रत्ययात् । __________नोतेस्__________ [२१९] विकल्पप्रतिबिम्बचक्रस्य स्। [२२०] व्यवसितस्य स्। [२२१] विकल्परूपता स्। [२२२] स्वरूपमभि- स्। [२२३] संप्रत्ययात्स् ___________________________ परमतापेक्षया प्रमातुरि[२२१.२८]त्युक्त*<६>*म् । तथा संयोगसमवायादीनाम् [२२२.१] इति, आलोकमनस्कारादीनाम् [२२२.२] इति, वस्तुवृत्त्यपेक्षयोक्तम् । न हि तेष्वसत्स्वि[२२२.२]ति ब्रुवतोऽयं भावो यदि तत्र साध्यं न भवेत्तदा तदव्यभिचारिवस्तुदर्शनप्रनाडिकया तत्र ज्ञानमेव न भवेत् । यदि च लिङ्गे धूमादौ महत्त्वादिसमवायो न स्यात्, यदि च तस्येन्द्रियेण संयोगो न*<७>* भवेत्, तदा तद्विषयं प्रत्यक्षमेव न भवेत् । असति च तस्मिन्न लिङ्गिनि विज्ञानमुत्पद्येत तथालोका भावेऽपि तथैव लिङ्गिज्ञानानुत्पत्तिर्ज्ञातव्या । तथासति मनस्कारेऽसति । मनस्कारसाद्गुण्य इति बोद्धव्यम् । पूर्ववाल्लिङ्गिज्ञानानुत्पत्तिश्च । निश्चयोऽपीत्येव पाठः यत्र पुस्तके {प्. ४०८} निश्चयो ही[२२२.९]ति पाठः । तत्र हिशब्दोऽपिशब्दस्य वार्थे*<८>* द्रष्तव्यः । तद्विशेषत्वात्[२२२.१०] ज्ञानविशेषत्वात् । अस्य [२२२.११] निश्चयस्य । "सपक्षे भावेन" [२२२.१९] किं भूतेनेत्याह -- विपक्षे [२२२.१९] इति । सर्वत्र विपक्षे योऽभावः तद्विशिष्टेन [२२२.२१] किं भूतेन सर्वत्र विपक्षे योऽभावेनेत्याह -- सपक्ष [२२२.२०] इति । तादात्म्यतदुत्पत्ती लक्षणे निमित्ते यस्य भावस्य स तथा तद्विशिष्टेन [२२२.२१] । ननु च दर्शनादर्शननिबन्धनौ सपक्षासपक्षयो[६९ ]*<१>*र्भावाभावावप्यन्योन्यविशिष्टावेव तत्कोऽतिशयोऽनेनोक्त इत्याशङ्क्याह -- एतदुक्तं भवती[२२२.२२]ति । प्रतिबन्धसाधकप्रमाणवृत्त्या नि[२२४]श्चितो (तौ) [२२२.२३] न तु दर्शनादर्शनाभ्यामित्यर्थात् । तथाविधावि[२२३.६]ति व्याप्तिमान्तावित्यर्थः । __________नोतेस्__________ [२२४] निश्चितौ स् ___________________________ तादात्म्यतदुत्पत्तिसाधनविषयं [२२३.१०] तादात्म्यतदुत्पत्तिसिद्धिविषयम् । तयोरेव [२२३.१९] भावाभावयोरेव । आक्षिप्यते [२२३.२०] प्रकाश्यते । उत्पत्त्यतिरेकि*<२>*ण्याः सत्ताया अनुत्पत्तेर्या सत्ता उत्पत्ति[२२३.१९]रिति व्याचष्टे । अभावलक्षणस्य [२२३.२९] प्रतियोग्यपेक्षया तद्विविक्तपदार्थलक्षणस्य परमताश्रयणेन चैवमभिधानं सिद्ध्यन्ति [२२४.१] व्यवहारयोग्यतामुपयान्ति । सर्वस्य [२२४.१] इति पुंसः । तथा च अयत्नसिद्धः सर्वः सर्वदर्शीत्याशयः । नैवमि[२२८.१]तीदमिति सम्बन्ध्यते । लिङ्गस्य प्रकृतत्वात्ज्ञापकस्य [२२४.१३] इत्याह*<३>* । आचार्येण [२२४.२१] इतिआचार्यदिग्नागेन ।सूत्रकारीयनिश्चितग्रहणसाफल्यमुपवर्णयतावार्तिककृतास्वानुमतिरत्र दर्शितैवेत्यभिप्रायेण आचार्यवचनमिव कृत्वा इह अस्माभिश्च [२२४.२१] इत्यादि । तथाभावो [२२५.३] व्याप्त्यान्वयः । सर्वत्र तदभावे अवश्यमभावो नेति पूर्वकमनुवर्तनीयम् । तस्माद्यत [२२५.९] इत्यादिकवस्तु(-कस्तु) मूलस्यादि*<४>*ग्रन्थो अनेन सुबोधत्वान्न व्याख्यातः । अयं त्वस्यार्थोऽवसेयो यत एवं तस्माद्[२२४.२०] यतः प्रमाणादनयोर्भावाभावयोर्भवति निश्चयस्तदधीनता तयोर्भावाभावयोः सत्ता व्यवस्थेत्यस्यार्थस्य ज्ञापनार्थं निश्चितवचनं कृतमिति ।ाचार्यदिग्नागकृतनिश्चितग्रहणार्थे भूयः संह्रियमाणेवर्तिककारेण कथमस्मा*<५>*भिरित्युच्यत इत्याशंक्याह -- अस्माभिरि[२२५.९]ति । आचार्यकृते [२२५.९] सूत्रकाराचार्यकृते । निश्चितग्रहणे [२२५.९] अस्माकमभिमतत्वादि[२२५.१०]ति वचनेन चैवंाचार्यस्याभिप्रायं दर्शयति । तच्चेदस्माकमभिमतमेव तदास्माभिरेवोक्तमिति । एवं तावदनेन व्याख्यातं लक्ष्यते पुनरयमस्यार्थः -- {प्. ४०९} एतदर्थं सूत्रकारेणप्रमाणसमुच्चये*<६>* -- मया च विनिश्चयादौ निश्चितग्रहणं कृतमित्यभिप्रेत्याचार्यवार्तिककारेणावाभ्यामित्यस्मिन्नर्थेऽस्माभिरित्यभिधायीति । द्वयोरर्थयोर्बहुवचनं केन वचनेनेति "अस्मदोर्द्वयोश्च" इत्यनेनेति ब्रूम इति । अतोऽपि न्यायातिति पाठोः अत एव न्यायात्[२२५.१२] इति तु प्रमादपाठः । प्रतिपन्नत्वात्[२२५.१५] ज्ञानस्येति प्रकरणात् । त्रैरूप्यात्ज्ञानं [२२५.१...] "रूपान्तरं न भवती"त्यनुवर्तते । सपक्षे भाव उच्यत [२२६. ] इत्यनेन च साध्ये सत्येव भावो लक्षितस्तथा अभावोऽसपक्ष [२२६.१] इत्यनेन असति साध्ये अभाव एव विवक्षितः । व्यावृत्तिकृतं भेदमुपादाय [२२६.९] इति तत्राभावव्यावृत्त्या भावो व्यवस्थाप्यते । तत्र भावयावृत्त्याभाव इति । परमार्थतो भेदो नास्ति [२२६.१०] इति ब्रुवतो*<८>*यं भावः तस्मिन् सत्येव भावो भवितृत्वं तदभावो चाभाव एवाभवितृत्वमेवमेव हेतोः स्वगत एवायं धर्मोऽत एव यत्रान्वयस्तत्र व्यतिरेक इति स्वभावहेतुसाध्यमेतदवतिष्ठते । न तत्त्वा(त्वर्था)पत्तिगम्यमिति । ननु च यद्यनयोः परस्परान्तर्भावो न भवेत्तर्हि कथमेकं वाक्यमुभयं गमयेत् । तथा चैतत्पूर्वोक्तं [७० ] *<१>*किं ...... र्हीति । भिन्नलक्षणमेव [२२६.१५] व्यावृत्तितो भिन्नस्वभावमेव सन्तं ततश्च भिन्नत्वातनयोर्लिङ्गरूपत्वाच्च पृथगवयवान्तरत्वं युक्तमिति भावः । यद्येकः स्वभा...............यदुक्तपूर्वं तदवस्थमेवेत्याह परस्पर [२२६.१६] इत्यादि । एकवाक्यात्[२२६.१६] एकवाक्यार्थरूपत्वातेकवाक्यप्रकाश्यरू*<२>*......सपक्षविपक्षयोर्भावाभावयोरपरस्पराक्षेपादिति सिद्धान्तवादिनाभिहितं किमनेन तदप्रतिविधायकेन न त्वि[२२६.१७]त्यादिनोक्तेन इत्याशङ्क्य पूर्वपक्षवादिमत एव ...............दर्शयितुमाह -- अयमभिप्राय [२२६.१७] इति । तदभावोऽभावो गम्यते अन्यथा तदर्थैवास्या वाक्यस्य न स्यादित्या*<३>*.........त इति वर्तते । प्रतिबन्धश्च [२२६.२२] प्रतिबद्धत्वञ्च हेतोरित्यर्थात् । तादात्म्यतदुत्पत्तिभ्यां [२२५.२२] तादात्म्येन तदुत्पत्त्या वा । तद्भावे भावरूप एवे[२२६.२३]ति विचारत एतदवतिष्ठते । यत इत्यभिप्रायेणोक्तमेकवाक्येनेति पीनो देवदत्त इत्यादिना तत एवैकवाक्या[२२५]न्तरभावादि[२२७.१७]ति __________नोतेस्__________ [२२५] -वाक्यार्थान्तर-स् ___________________________ {प्. ४१०} कदाचित्*<४>* .........पादनकाले दृष्टादित्यभिप्रायेणोक्तम् -- एकवाक्यार्थानपेक्षावे[२२७.१८]कवाक्यार्थावतवन्ता(?)वित्यर्थः । तदन्तर्भावमात्रेण [२२७.१८] एकवाक्यार्थान्तर्भावमात्रेण नियमवद्वाक्यव्यपक्षेया कदाचिद्दृष्टेन तदन्तर्भावात् । एकरूपान्तरर्भावात्तु द्वितीयगति[२२७.२७]र्नेति वर्तते । भिन्नरूपावेवे[२२८.६]ति यथा तया क*<५>*......त तथा भिन्नरूपावेवेति । ततः [२२८.१९] शास्त्रात् । सर्वदा चात्र ज्ञान[२२८.१५]ग्रहणं ज्ञातत्वोपलक्षणं ज्ञातव्यम् । ज्ञात(न)शब्देन अस्यैव विवक्षित्वात् । एतच्च पुरस्तादुपदर्शितमेव । स्यादेतत्ये तावत्ज्ञातत्वशब्देन ज्ञानमेवाभिदधते ते सन्तूक्तया नीत्या निराकृताः । ये तु ज्ञानकर्मत्वं ज्ञातत्वं*<६>* .........निराक्रियन्ते इत्याशङ्कायामाह तदयमत्र [२२८.२०] इत्यादि । तदपेक्षोऽपि [२२८.२५] ज्ञानापेक्षोऽपि । प्रकरणमुपसंहरन्नाह -- तदेवमि[२२८.२८]ति । त्रीणि पक्षधर्मान्वयव्यतिरेकात्मकानि लक्षणानि यस्य स तथोक्त इति सर्वमवदातम् । आचार्यश्रीधर्मकीर्तिविरचितस्यास्यहेतुबिन्दुसं*<७>*...............थ तत्त्वप्रकाशिकां टीकां पटीयसीमीदृशीं परार्थमुद्दिश्य प्रणयता नियतं मयापि किमपि पुण्यमुपार्जितं तदप्यहं परार्थमुपनयामिति मन्वानोऽनेकजन्माभ्यस्तकृपायोगात्सात्मीभूतपरार्थकरणोऽयं भदन्तधर्माकरदत्त इमम् [२२९.१] इत्यादि परिणामनाश्लोकेनाह । अस्यायं समुदाया[र्थः *<८>*मुनीशराद्द्धा]न्तनयप्रदीपम् [२२९.२] विवृ[२२६]त्य यत्पुण्यमुपार्जितं तत्जगतो विशुद्धिं विधेयात्[२२९.३] इति । कायवाङ्मनोमौनयोगान्मुनयः प्रत्येकबुद्धादयस्तेषामीशः शास्ता बुद्धो भगवान् सवासनक्लेशपरिहाणियोगेनात(?)भ्यस्तस्य प्रकर्षप्राप्तया तायित्वात्तस्य नयो नीतिः प्रवचनं तस्य राद्धान्तः सिद्धान्तस्तस्य [७० ]*<१>* ............क्षणिकाः सर्वसंस्कारा इत्यादि प्रवचनार्थस्यानेन यथावत्प्रकाशनात्कुत्सितः प्रमाणानुपपन्नार्थप्रकाशनात्तर्को न्यायदर्शनादि[रि]ति तथा । अशेषश्चासौ स चेति तथा । तस्य मार्गः [२२९.१] पन्थाः सिद्धान्त इत्यर्थः । क्षतः खण्डितः तद्वैरूप्यापादनादशेषः कुतर्कमार्गो येन स तथा । तं विवृ[२२७]त्य व्याख्याय*<२>* ...............र्थात् । तत्पुण्यं [२२९.३] कर्तृ विशुद्धिं [२२९.३] विमलचित्तसंतति परां [२२९.४] प्रकृष्टां सर्वावरणप्रहाणादिति सर्वमनवद्यमिति । __________नोतेस्__________ [२२६] वितत्य स् [२२७] वितत्य स् ___________________________ {प्. ४११} दारिद्र्यदुःखादभियोगमात्राद्विशुद्धबुद्धेर्विरहादबोधात् । नास्तीह सूक्तं मम यत्पुनः स्यात्गुरोर्जितारेःस खलु प्रसादः ॥ कुतूहलेनैव यदृच्छया वा मात्सर्यतो दोषजिघृक्ष*<३>*[या वा] ......स्वत एव रूपं विज्ञास्यतेऽस्येति न वर्णयामः ॥ कृतोऽयमर्चटालोको निबन्धो बालबान्धवः । यत्र मूर्तिरिवादर्शे दृश्यते स्वपरस्थितिः ॥ परार्थमुद्दिश्य यथार्थमर्चटंविवृण्य पुण्यं यदुपार्जितं मया । निहन्तु तेनावरणानि विद्विषो जनोन्तरायेण विनैव सर्वथा ॥ समाप्तश्चा*<५>* ............... निबन्धः ॥ कृतिरियं पण्डितदुर्वेकमिश्रस्येति ।