सूत्रार्थसमुच्चयोपदेशः नमो रत्नत्रयाय संदृश्य गम्भीरमुदारमब्ध्याकाशोपमं सूत्रसुमातृकां च । श्रीमद्गुरोरास्यसमुद्गतार्थान् दुष्प्रापणीयांन् विलिखामि चाहम् ॥ १ ॥ अत्र बोधिसत्त्वानां रत्नोपमाः पञ्चाशद्धर्माः प्राणोपमादयः । तानभिधास्ये किञ्चित् । तद्यथा- आयुर्जीवितमाधार ऊष्मविज्ञानयोर्हि यः । २ अ ब । यथा सत्त्वाः प्राणेषु स्निह्यन्तः प्राणांश्चाश्रयन्ते, तथा बोधिसत्त्वा अपि प्राणोपमबोधिचित्ते स्निह्यन्तस्तदाश्रयन्ते । मातापितृसमो धर्मस्तु शून्यता-करुणे । तदनोत्पादे न बोधिसत्त्वसम्भवः । गृहिणीवत्मृति-शिक्षा-कर्मणिसंचितिसंज्ञानि अहोरात्रं त्रिः समागमः । गृहवद्दश कुशलानि । इमामि तु गृहमेव दुर्गतिद्वारपिधानात् । धनोपमानि आर्यसप्तधनानि, अल्पेच्छता, संतोषश्च । मित्रवत्त्रिधातुप्रयोगं कुर्वन्नपि निर्वाणाशयता, विपुलदानेऽपि विपाकनिरपेक्षता, सर्वधर्मानुत्पादज्ञानेऽपि कर्मविपाकानुत्सर्गः, सर्वधर्मनैरात्म्यज्ञानेऽपि सत्त्वेषु करुणोत्पादः । मूलसमाः श्रद्धा, श्रवणं, त्यागः , क्षान्तिश्च । क्षेत्रोपमं शीलम् । बन्धुसमाः दशपारमिताः । आचार्योपमास्तु षडनुस्मृतयः । उपाध्यायोपमास्तु आर्यकाश्यप-परिपृच्छासूत्रे बोधिचित्ताविस्मरणाय चत्वारो धर्माः । श्रेष्ठिसमाः शिक्षासमुच्चये चतुर्दशापकारप्रतिपक्षाः । भगिनीसमानि चतुरप्रमाणानि । दासोपमानि चतुःसंग्रहवस्तूनि । प्रजोपमस्तु श्व-दास-चाण्डालवदहङ्कार-नाशः । नेत्रोपमे तु आशयाध्याशयविशुद्धी । धात्रीसमं कल्याणमित्रम् । राजोपमं त्रिरत्नम् । तोयसंकारोपमा त्रिमण्डलपरिशुद्धिः । मार्गदर्शकसमाः स्मृति-सम्प्रजन्य-योनिशोमनसिकाराप्रमादाः, चतुर्विपर्यासप्रतिपक्षसेवनञ्च । चर्र्नवत्सत्त्वापरित्यागानुग्रहौ । अलङ्कारोपमाः श्रद्धा, शीलं, त्यागः, श्रुतं, प्रज्ञा च । व्याधिपीडोपमं तु आध्यात्मिकबाह्यवस्त्वभिनिविष्टचित्तम् । हतचित्तपुरुषवत्गृहस्थो बोधिसत्त्व एवं विचारयति- कदाहं ब्रह्मचारी भवेयम् । प्रव्रजित एवं चिन्तयति- कदाहं जगतो दुःखानि मोक्तुं क्षम इति । कुसीदोपमं गृहस्थेन क्षेत्रादीनामपरित्यागः । प्रव्रजितेन दौःशील्यादीनामप्रहाणम् । शीलस्कन्धसूत्रे-ऽभिक्षवः, प्रव्रजितेन हस्तियुद्धदर्शनमपि मिथ्याजीव इति उक्तम् । सुस्वभावोपमो योनिशोमनसिकारवान् । मूकोपमः परदोष-भ्रान्त्यनाख्याता, स्वगुणानाख्याता, अपरनिन्दकश्च । अन्धोपमोऽपरदोषद्रष्टा । गृहीतचौरोपमः सद्धर्मविनाशे सद्धर्मग्राहकः । बालोपमः सुवाक्, स्फूर्तिमान्, सुखदः, सुतोषः, सुपोषः, सुभरः, सन्तुष्टश्च । दूतोपमस्तु बोधिसत्त्वो बह्वर्थो बहुक्रिय उदारचित्तश्च । अमात्योपमो दृढप्रतिज्ञः । पण्डितोपमोऽप्रतिहतसत्त्वः प्रत्युपकारी च । शिष्योपमस्तु त्रिर्दिवा त्रिश्च रात्रौ गुरुपर्युपासकः, कृतपुण्यसम्भारसञ्चयः संवरपोषकश्च । प्रत्युत्थापकोपमः सर्वसत्त्वबुद्धत्वप्रापणपूर्वं स्वबुद्धत्वकामः । अन्धनायकोपमः स्वबुद्धभावपूर्व परार्थक्रियाः । प्रथमकल्पमनुष्योपम आचरण-शील-जीविका-विधि-दृष्टिसम्पन्नः । सकामपुरुषोपमः समस्तचर्यापथपरार्थपरिणामनः, यथा-ऽआर्यरत्नमेघसूत्रोक्तम्ऽ । अन्धकारोपमो महामध्यमकार्थनित्यवासः । घातकोपमस्त्यक्तमिथ्यादृष्ट्युत्पादः । चौरोपमः त्यक्तप्रमादानादरः । शत्रूपमस्तु अह्रीप्रमादः । मूर्खोपमः स्मृति-सम्प्रजन्यविरहितः । मत्तोपमः चतुःकृष्णः । तिर्यगुपमोऽज्ञातशिक्षानयः । वधिकोपमो निष्करुणाचारः । अकृतज्ञोपमस्त्यक्तप्रातिमोक्षसंवरः । अनाथोपम उपायकौशल्यरहितः । उन्मत्तोपमः कार्याकार्यानभिज्ञता । माराभिभूतोपमः पञ्च-पञ्चाशद्-द्वात्रिंशदान्तरायिकधर्मामभिज्ञता । के च (ते) पञ्चपञ्चाशद्?ऽआर्यबोधिसत्त्वपिटकेऽ तद्यथा- आन्तरायिक एको धर्मः- प्रमादः । आन्तरायिकौ द्वौ धर्मवह्रीक्यमनपत्राप्यञ्च । त्रयः- रागो द्वेषो मोहश्च । चत्वारः- चतस्रः असद्गतयः । पञ्चप्राणातिपातोऽदत्तादानं काममिथ्याचारो मृषावादो मद्यपानं च । षड्-बुद्ध-धर्म-संघ-शीलाचार्य-ज्येष्ठानादरः । सप्त- सप्तविधा मानाः । अष्टौ-मिथ्याष्टकम् । नव- नवधा चित्ताघातवस्तूनि । दश- दशाकुशलानि इति प्राप्तम् । द्वात्रिंशदान्तरायिका धर्मा अपिऽआर्यमहायानोपदेशसूत्रेऽ तद्यथा-ऽपुत्रि! महायानान्तरायिका धर्मास्तु द्वात्रिंशत् । तैरान्तरायिकैः सर्वज्ञतायां शीघ्रं न निर्याणं भवति । के च द्वात्रिंशत्? तद्यथा- श्रावकप्रत्येकबुद्धयानकामिता, इन्द्रब्रह्मत्वकामिता, जन्मसंस्थब्रह्मचर्यम्, कुशलमूलैकरागः, भोगसम्पत्मात्सर्यम्, सत्त्वविषमदानम्, शीलशैथिल्यम्, परचित्तारक्षणम्, व्यापाद-प्रतिघानुशयः, तच्चित्तलयः, मुषितस्मृतिता, श्रवणानर्थिकता, अविचारणा, अनार्यचर्या, मानातिमानविवृद्धिः, काय-वाक्-चित्त-कर्मापरिशुद्धिः, सद्धर्मापरिरक्षणम्, आचार्यधर्मप्रतिच्छादनम्, संग्रहवस्तूत्सर्गः, सम्मोदनीयधर्मत्यागः, पापमित्रसेवनम्, बोध्यपरिणामनेति त्रिस्कन्धविपक्षता, अल्पकुशलमूलमन्यना, अनुपायपतितबुद्धिः, पराङ्मुखीभूय त्रिरत्नाशंसनम्, बोधिसत्त्वव्यापादचिन्तनम् । अश्रुतधर्मप्रहाणम्, मारकर्मानवबोधः, लोकायतमन्त्रग्रहणम्, सत्त्वापरिपाचनम्, संसारादपरिखेदऽ, इति । ऽपुत्रि! द्वात्रिंशदिमे महायानस्य आन्तरायिकाः सम्यक्व्यपदिष्टाः । तैरन्तरायैः सर्वज्ञताऽ निःसरणम् । किं तर्हि? तथापि पुत्रि, यावन्तो हि महायानगुणा अन्तराया अपि तावन्तस्तावदित्युक्तम् । अपि च, अप्रमेया अन्तरायधर्मा बहुषु सूत्रेषु दृश्यन्ते, किन्तु अत्र ग्रन्थगौरवात्न निरुप्यन्ते । एतन्मार्गस्थीकृतादिकर्मिकबोधिसत्त्वैस्तत्तत्सूत्रेषु द्रष्टव्यम्, आस्थितये च प्रयतितव्यम् ।ऽ अपराण्यपि सांकथ्यानि बहूनि वर्तन्ते-सुघोरपरुषं सुदुःसहं दुखं चिरं सह्यत इदमपि महदाश्चर्यम् । चतुरोघविक्षिप्तं पौनःपुन्येन कङ्कालयानारोहणं तदपि महदाश्चर्यम् । भार्या गृहं च प्रहाय सुव्रतादानेऽपि सदा कायवाङ्मनोविक्षेप इदमपि महदाश्चर्यम् । स्वल्पमात्रस्यापि कुशलमूलस्य अभावेऽपि तस्यैवार्थतो बुद्धज्ञानगवेषणमिदमपि महदाश्चर्यं प्रतिमोक्षशिक्षाभावेऽपि- महायानश्रेष्ठबोधिद्वयगवेषणमिदमपि महदाश्चर्यम् । इत्यादिषु महाश्चर्येषु बहुष्वपि सत्सु, जम्बूद्वीपपुरुषस्य विकल्पाचाराः कथं वक्तुं शक्यन्ते । तस्माद्भवन्तो मुक्तिकामा विद्वांसस्तैरुन्मत्तैः सह अकृतसंसर्गा अप्रमत्तास्तिष्ठन्तु । एवं ते करुणाविषयत्वव्यतिरिक्ताः उत्तममार्गव्यपदेशेऽपि तत्र न प्रविशन्ति, किमहं करवाणि । यावदभिज्ञता न प्राप्यते तावदन्येषां विपाकासंभवात्खड्गवत्स्थातव्यम् । सद्गुरुर्गवेषणीयः, सदा सूत्राणि च द्रष्टव्यानि । सूत्रसमुच्चयोपदेशो महाविद्वदाचार्यदीपङ्करश्रीज्ञान-विरचितः समाप्तः ॥ तेनैव भारतीयमहोपाध्यायेन महासंशोधकलोकचक्षुषा जयशीलेन (छुल्ख्रिमस्र्ग्यल्व) च अनूद्य सम्पाद्य च निर्णीतः ॥