सत्यद्वयावतारनाम ॥ नमो महाकारुणिकाय ॥ द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृतिसत्यं च सत्यं च परमार्थतः ॥ १ ॥ संवृत्तिर्मन्यते द्वेधा मिथ्या च तथता तथा । आद्या द्विधोदचन्द्रश्च कुसिद्धान्तवितर्कणा ॥ २ ॥ अविचारैकरम्या च विनाशोत्पादधर्मिणी । अर्थक्रियासमर्था च तथतासंवृतिर्मता ॥ ३ ॥ एक एवपरो ह्यर्थः परैश्च द्विविधो मतः । न काचिद्धर्मता सिद्धा कुतो द्वित्र्यादिकं भवेत् ॥ ४ ॥ अनुत्पादनिरोधादि देशनावाक्यलक्षितम् । परमार्थाभिन्नशीलत्वान्नैव धर्मा न धर्मता ॥ ५ ॥ शून्यतायां विभेदस्तु किञ्चिन्मात्रं न विद्यते । निर्विकल्पतया बोधे शून्यतादृष्टिरुच्यते ॥ ६ ॥ उक्तं सूत्रे सुगम्भीरे तद्दर्शनमदर्शनम् । तत्र द्रष्टा न दृश्यं चाप्यनादिनिधनं शिवम् ॥ ७ ॥ निर्विकल्पं निरालम्बं भावाभावविवर्जितम् । अनाश्रयाप्रतिष्ठानमतुल्यं निर्गतागतम् ॥ ८ ॥ अनिर्वाच्यमनाभासं निर्विकारमसंस्कृतम् । योगिगम्यमिदं क्लेशज्ञेयावरणवर्जितम् ॥ ९ ॥ प्रत्यक्षमनुमानञ्च तद्द्वयं बौद्धसम्मतम् । उभाभ्यां शून्यता गम्येत्यर्वाग्दृङ्मोहभाषितम् ॥ १० ॥ प्रसज्येद्धर्मताज्ञानं तीर्थिके श्रावकेऽपि च । विज्ञानिनाञ्च किं वाच्यं माध्यमिकेऽविरुद्धता ॥ ११ ॥ तर्हि सर्वेऽपि सिद्धान्ता मानमेयतया समाः । सर्वतर्कविरुद्धत्वान्मानमेयापि धर्मता ॥ १२ ॥ बाहुल्येन कथं न स्यात्प्रत्यक्षं चानुमा वृथा । तीर्थ्यवादनिवृत्यर्थं विद्वद्भिः कृतयः कृताः ॥ १३ ॥ सविकल्पाविकल्पाभ्यां ज्ञानाभ्यां नावगम्यते । आगमेऽपि स्फुटं विद्वानाचार्यो भव्य आह च ॥ १४ ॥ शून्यतावगता केन व्याकृता या तथागतैः । नागान्तेवासिचन्द्रो हि धर्मतासत्यदर्शकः ॥ १५ ॥ ततः परम्पराम्नायैर्धर्मतासत्यगम्यता । धर्मस्कन्धसहस्राणि चत्वार्युक्तान्यशीति च ॥ १६ ॥ धर्मतान्तर्गतं सर्वं मुक्तिस्तु शून्यताबोधेस् तदर्था शेषभावना तथ्यसंवृतिमाधूय ॥ १७ ॥ शून्यताभ्यसने सति संवृतिहेतोःपुण्यादेः । परलोकाच्च वञ्च्यते विविक्तार्थमजानानः ॥ १८ ॥ स्वल्पश्रुतिसमाश्रितः यो नरः पुण्यकृन्नास्ति । नष्टः कापुरुषस्तु सः विनाशयति दुर्दृष्टा ॥ १९ ॥ शून्यता मन्दमेधसं चन्द्राचार्य उवाचैवम् । उपायभूतं व्यवहारसत्यमुपेयभूतं परमार्थसत्यम् ॥ २० ॥ द्वयोर्विभेदं न हि वेद यो स व्रजेदपायं विपरीतबोधात् । व्यवहारमनागम्य परमार्थो न देश्यते ॥ २१ ॥ तथ्यसंवृतिसोपानमन्तरेण विपश्चितः । तत्त्वप्रासादशिखरारोहणं न हि युज्यते ॥ २२ ॥ यथायं संवृतेर्भासो युक्त्या किञ्चिन्न लभ्यते । परमार्थस्त्वलब्धत्वमादिसंस्थितधर्मता ॥ २३ ॥ हेतुप्रत्ययजन्यत्वात्संवृतिर्भासवन्मता । अयुक्तं शोधितुं चेत्कैर्जलचन्द्रादिविनिर्मितम् ॥ २४ ॥ नानाप्रत्ययजन्यत्वात्सिद्धो भासोऽखिलस्ततः । प्रत्ययानां तु विच्छेदात्संवृत्त्यापि न सम्भवः ॥ २५ ॥ एवं दृष्टेरसंमोहाज्जाते चर्याविशोधने । उन्मार्गेऽगमनं कृत्वाकनिष्ठं स्थानमाप्नुयात् ॥ २६ ॥ आयुष्यमल्पं बाहुलाश्च विद्या आयुःप्रमाणं च कियन्न विद्मः । स्वाभीष्टमेव प्रतिलम्भनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ २७ ॥ अर्वाग्दृशा मोहवशेन चापि क्षमो न सत्यद्वयनिर्णयेऽपि । उक्तीर्गुरूणामिह सम्प्रतीत्य न्यस्तं द्वयं नागमतं हि सत्यम् ॥ २८ ॥ राज्ञोऽनुरोधेन सुवर्णद्वीपे कृतेऽत्र श्राद्धो यदि वा जनोऽद्य । गृह्णातु सम्यक्सुपरीक्षणेन न श्रद्धया नैव च गौरवेण ॥ २९ ॥ सौवर्णराजेन गुरोःफलेन संप्रेषितो देवमतिर्हि भिक्षुः । तस्याग्रहात्सत्यद्वयावतारो युक्त्या सुधीभिस्त्विह वीक्षणीयः ॥ ३० ॥ आचार्यदीपङ्करश्रीज्ञानविरचितः सत्यद्वयावतारः समाप्तः । तेनैव पण्डितेन अनुवादकेन वीर्यसिंहेन चानूद्य संशोध्य च निर्णीतः ।