शरणगमनदेशना नमो रत्नत्रयाय त्र्यपायपञ्चयोनीनां सर्वदुःखविघातकम् । श्रेयोऽभ्युदयसौख्यानां दातारं प्रणमामि तम् ॥ १ ॥ अत्र शरणगमनमभिधास्ये । समासतः । अधिष्ठानस्थिती चिन्ता कालप्रकृतिमानकम् । नयः शिक्षा निरुक्तिश्च कर्मौपम्यविभक्तयः । आदीनवार्थशंसाश्च प्रोक्ताः पञ्चदश क्रमात् ॥ २ ॥ तत्र अधिष्ठानपुद्गलस्तु द्विविधः महायानगोत्रीयो हीनयानगोत्रीयश्च । स्थितिर्द्विविधा महाहीनयानभेदतः । तत्रैवं हि तावद्महायानशास्त्रेषु रत्नत्रयम् तथतारत्नत्रयम्, अभिसमयरत्नत्रयं, सम्मुखस्थं च रत्नत्रयम् । तच्चैवम् ज्ञेयाविपर्यस्तज्ञानम्, निर्विकल्पाद्वयज्ञानम्, धर्मधात्ववस्थितत्वं च । तदेव विशुद्धधर्मधातुप्रज्ञापारमिता, समाहितावस्थायां गगनतलवत्समस्तधर्मसाक्षात्कारिण्यां महाभूमौ अवस्थिताः बोधिसत्त्वाश्च (तथतारत्नत्रयम्) । अथ चैवं द्विविधो रुपकायः , सन्तानावस्थिताश्चतुःसत्यसप्तत्रिंशद्बोधिपाक्षिकधर्मभूमिपारमितादयो धर्माः, प्रयोगमार्गीयाश्च बोधिसत्त्वाः । पुनश्चैवम् चित्राङ्किततोत्कीर्णनिषिक्तमृण्मयादि (बुद्धप्रतिमादि) नवाङ्गप्रवचनमयपोथीपुस्तकादि, संभारमार्गीयाश्च बोधिसत्वाः । हीनयानशास्त्रं तावत् बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः । निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥ ३ ॥ इति । तत्र आशयो महायानिनान्तु अशेषसत्त्वार्थचिन्तनम् । इतरस्य च आत्मार्थमेव चिन्तनम् । तत्र अवधिर्महायानिनान्तु बोधिमण्डपर्यन्तम् । इतरस्य तु यावज्जीवनं प्रतिज्ञा । तत्र स्वभावो ह्र्यपत्रपायुक्तता अविज्ञप्त्पादश्च । तत्र मानं तु स्वीकरणम्, शरणकरणं विज्ञप्त्युत्पादश्च । तत्र नयस्तु शरणगमनविधिः । स च गुरोरवगन्तव्यः । तत्र शिक्षा साधारणी असाधारणी च गुरुपादेभ्यो ज्ञेया । तत्र निरुक्तिस्तु दासभावः तदितरस्वामिनमनन्विष्य शरणगमनम् । तत्र कारित्रं तु बोधिचित्तमहावृक्षोत्पादस्य मूलत्वम्, मोक्षमहानगरस्य प्रवेशद्वारत्वम्, उपवासादिसर्वसंवराणामाश्रयत्वम् । तत्रौपम्यं तावद्राज्ञः मन्त्रिणो वा प्रजागणस्य तद्वचनानतिक्रमणम्, तदाराधनमिव च । तत्र भेदस्तु साधारणासाधारणत्वेन विशिष्टः । तत्र आदीनवौ द्वौ । शरणच्युतिरज्ञानं वा । च्यवनं च्युतिर्वा यथा चन्द्रकीर्तिपादानाम् गृहीत्वा सदधिष्ठानं पुनर्हीनसमाश्रये । च्युतिपक्षाश्रयत्वात्सो याति सज्जनहास्यताम् ॥ ४ ॥ इत्युक्तिर्निदर्शनमात्रम् । तत्रार्थस्तु यथोक्तं भगवता "बहवः शरणं यान्ति पर्वतांश्च वनानि च । आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः ॥ ५ ॥ न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् । नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ ६ ॥ यस्तु बुद्धं च धर्म च संघं च शरणं गतः । चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥ ७ ॥ दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् । आर्य चाष्टाङ्गिकं मार्ग क्षेमं निर्वाणगामिनम् ॥ ८ ॥ एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् । एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ ९ ॥ इति । शरणगममार्थः तादृशः । तत्रानुशंसास्तिम्नः । हेतुकालानुशंसा मार्गकालानुशंसा फलकालानुशंसा च । हेतुकाला एहिकी आमुष्मिकी च । एहिकानुशंसा अष्टमहाभयमोक्षः, अनन्तरायः, शासनप्रियदेवसाहाय्यम्, मरणकाले च चित्तहर्षादि । आमुष्मिकी तु संसारदुर्गतिदुःखेभ्य उद्धरणम्, निर्वाणाभ्युदयसुखप्रदत्त्वञ्च । मार्गानुशंसा तु चतु(रार्य)सत्यार्याष्टाङ्गिकमार्गसप्तबोध्यङ्गादियोजनम् । फलानुसंसा द्विविधनिर्वाणस्य त्रिकायस्य च प्राप्तिः । इदं हि संक्षिप्तम्, विस्तरं तु गुरुशास्त्रभ्यो ज्ञेयम् । शरणगमनदेशनानाम गुरुबोधिसत्त्वदीपङ्करश्रीज्ञानविरचिता समाप्ता ॥