समाधिसंभारपरिवर्तः लोकनाथाय नमः बोधिचित्तं दृढं कुर्यात्पूर्व कारुण्यशक्तिजम् । भवभोगसुखेऽसक्तः परिग्रहपराङ्मुखः ॥ १ ॥ श्रद्धादिधनसम्पन्नो गुरुं बुद्धसमं भजेत् । तद्दिष्टसमयाचारं परिपालितुमुद्यतः ॥ २ ॥ कुम्भगुह्याभेषेकं तु प्रसादाल्लभते गुरोः । कायवाक्चित्तसंशुद्धः सिद्धिपात्रं स साधकः ॥ ३ ॥ समाध्यङ्गसमुद्भूतसंभारपारिपूरितः । शीघ्रं सिद्ध्याप्तिरेवं च गुह्यमन्त्रनयस्थितिः ॥ ४ ॥ समाध्यङ्गच्युतौ तस्य विपक्षस्थितितस्तथा । जन्मकोटिसहस्रैश्च समाधिर्न प्रसिध्यति ॥ ५ ॥ तत्समाधिप्रसिध्यर्थ गुह्यवृत्तस्थयोगवित् । तद्भिन्नं चिन्तनं त्यक्त्वा दृढवीर्येण चोद्यमेत् ॥ ६ ॥ समाधेर्यानि चाङ्गानि विपक्षस्तद्विनिश्चये । समाध्यङ्गं विपक्षश्च संक्षेपेण समुच्यते ॥ ७ ॥ शीलसम्पत्तियुक्तत्वं भोगेषु निरपेक्षता । क्षान्तिर्दृढप्रतिज्ञा च जनसंसर्गवर्जनम् ॥ ८ ॥ कायवाक्चित्तकार्येषु सम्प्रजन्यसमन्वयः । बुद्धकायस्तुतिस्मृत्या कायानुस्मृतिसंयुतिः ॥ ९ ॥ यस्मिन् काले तु यत्कार्य दार्ढ्र्य तस्य ह्यनुस्मृतौ । पञ्चावरणहानिश्च युक्तकृद्भक्तमानता ॥ १० ॥ समस्तलोकधर्मेषु चित्तोपेक्षा सदा तथा । संलेखोऽङ्गानि चेमानि विपक्षस्तद्विपर्ययः ॥ ११ ॥ समाधिसम्भारकृतैर्हि पुण्यैः समाधिं वज्रोपममेतु लोकः । १२, अ ब । समाधिसम्भारपरिवर्तो महापण्डिताचार्यदीपङ्करश्रीज्ञानपादविरचितः समाप्तः ॥ तेनैव भारतीयोपाध्यायेन महासंशोधकलोकचक्षुषा भिक्षु-शाक्यमतिना च अनूद्य निर्णीतः ॥