आपत्तिदेशनाविधिः नमो बुद्धाय "गुरवो महावज्रधरादजः, दशदिगवस्थिताश्च सर्वबुद्धबोधिसत्त्वाः मां समन्वाहरन्तु । भदन्तो मां समन्वाहरतु । अहमेवंनामा अनादिसंसारात्प्रभृतिप्रत्युत्पन्नपर्यन्तं राग-द्वेष-मोहवशात्कायवाङ्मनसा दशाकुशलानि कृतवान्, पञ्चानन्तर्याणि, पञ्च तत्सभागानि, प्रातिमोक्षसंवरविरोधः, बोधिसत्त्वशिक्षाविरोधः, गुह्यमन्त्र-समयादि-विरोधः, समासतोऽभ्युदय-निःश्रेयसविघ्नभूताः, संसारापायहेतुभूताश्च ये केऽपि आपत्तिदोषराशयः (सन्ति) तान् सर्वान् गुरुवज्रधरादीनां, दशदिगवस्थितानां सर्वबुद्धबोधिसत्त्वानां, भदन्तस्य च अग्रतो देशयामि, आविष्करोमि, न प्रतिच्छादयामि । आविष्कृतेन मम स्पर्शविहारो भवति,अनाविष्कृतेन एवन्न भवती ति त्रिर्वदेत् । ततो दर्शन-संवर-पृच्छानन्तरम् "उपायं", "साधु" चेति वदेत् । प्रथमसंयोजनविधिः- एवन्नामाहमनादिसंसारात्प्रभृति क्लेशबाहुल्यात्प्रमादादिवशाद्वा दोषापत्तिराशिबहुलः, तान् संघस्य अग्रतः प्रतिदेष्टुकामः, अतोऽनुगृह्यतामिति । अन्ते आपत्तित उद्धृतोऽस्मीत्यतीव कृतज्ञोऽस्मीति धर्मानुरुपकार्यमनुमोदये इति वदेत् । "आपत्तिदेशनाविधिः आचार्यदीपङ्करश्रीज्ञानविरचितः समाप्तः । तेनैव भारतीयोपाध्यायेन भोटीयलोकचक्षुषा भिक्षु-जयशीलेन च अनूद्य निर्णीतः ।