योगावतारः नमस्तारायै श्रुत्वा शास्त्रमुदारं निश्चित्य पारमार्थिकं तत्त्वम् । मृद्वासनोपविष्टः सश्रद्धो योगमारभेद्[योगी] ॥ १ ॥ ग्राह्यग्राहकमुभयं नोभयमहमेव निर्वृतिर्मग्न इति । बहुविधविकल्पजालं प्रविज्ञाय मनःसमापत्तिः ॥ २ ॥ ज्ञेयं विलोक्य सकलं मा योगमेव निर्भासम् । प्रविवाच्ये देहे यत्तत्तथताज्ञानवज्रेण ॥ ३ ॥ सर्वाकारविवर्जितमाद्यन्तविभागरहितमविकल्पम् । निमर्लसहस्रदीधितिनिर्भिन्नमेति सर्वं गगनमिव ॥ ४ ॥ स्वाकारमात्रशेषं पश्यति चित्तं स्वमाद्यनुत्पन्नम् । येनापि पश्यतीदं तदपि तथैवावलोकयति ॥ ५ ॥ सोऽनुपलम्भोऽचित्तं तथताज्ञानं तत्कोटिञ्च । एवं तमसोऽभ्यासात्प्रज्ञावेदितनिरोधमाप्नोति ॥ ६ ॥ ताभिर्युक्तो योगी सत्त्वार्थमनेकधा कुरुते । अस्मिन् परिनिष्पन्ने तिष्ठति योगी सदार्यमध्वानम् ॥ ७ ॥ दनघवायौ निष्कम्प्यं क्लेशमाराद्यैः । प्रज्ञापारमितां वास्मिन् सर्वदा प्रवृत्तस्य ॥ ८ ॥ सिद्ध्यन्त्यन्ये बहवः समाधियोगदानरागाद्याः ॥ ९ ॥ ॥ योगावतारः समाप्तः ॥ ॥ कृतिरियमार्यदिग्नागपादानामिति ॥