आचार्यदिग्नागविरचितः प्रज्ञापारमितापिण्डार्थः । नमः प्रज्ञापारमितायै ॥ प्रज्ञापरमिता ज्ञानमद्वयं सा तथागतः । साध्या तादर्थ्ययोगेन ताच्छब्द्यं ग्रन्थमार्गयोः ॥ १ ॥ आश्रयश्चाधिकारश्च कर्म भावनया सह । प्रभेदो लिङ्गमापच्च सानुशंसमुदाहृतम् ॥ २ ॥ श्रद्वावतां प्रवृत्यङ्गं शास्ता पर्षच्च साक्षिणी । देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये ॥ ३ ॥ सङ्गीतिकर्ता लोके हि देशकालोपलक्षितम् । ससाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति ॥ ४ ॥ सर्वं चैतन्निपातात्मश्रवणादेः प्रकीर्तनम् । प्रासङ्गिकं तु एवार्था मुख्या द्वात्रिंशदेव हि ॥ ५ ॥ प्रभेदः षोडशाकारः शून्यताया यथाक्रमम् । निर्दिष्टोऽष्टासहस्त्रया स विज्ञेयोऽन्यापदेशतः ॥ ६ ॥ इत्थमष्टसहस्रीयमन्यूनार्थैर्यथोदितैः । ग्रन्थसङ्क्षेप इष्टोऽत्र त एवार्था यथोदिताः ॥ ७ ॥ बोधिसत्त्वं न पश्यामीत्युक्तवांस्तत्त्वतो मुनिः । भोक्ताध्यात्मिकवस्तूनां कथिता तेन शून्यता ॥ ८ ॥ रूपं रूपस्वभावेन शून्यमित्युक्तितः पुनः । बाह्यान्यायतनानीह भोज्यानि प्रतिषिद्धवान् ॥ ९ ॥ रूपाद्यभावे तद्देहप्रतिष्ठालक्षणक्षतिः । गतार्था येन तद्दृष्टं तदाध्यात्मिकमित्यसत् ॥ १० ॥ आध्यात्मिकानां शून्यत्वे प्रकृतेरपि शून्यता । विज्ञानरूपं गोत्रं हि कृपाप्रज्ञात्मकं मतम् ॥ ११ ॥ नोत्पन्नो न निरुद्धो वा सत्त्व इत्यादिना स्फुटम् । सत्त्वसंसारयोः कामं दर्शिता तेन शून्यता ॥ १२ ॥ बुद्धधर्मांस्तथा बोधिसत्त्वधर्मान्न पश्यति । इत्यादिना विनिर्दिष्टा शून्या दशबलादयः ॥ १३ ॥ प्रति प्रति यतो धर्माः कल्पिता इति कीर्तितम् । ततो न परमार्थोऽस्ति धर्माणामिति चोक्तवान् ॥ १४ ॥ आत्मादिदृष्टेरुच्छेदं महत्या प्रकरोति यत् । ततः पुद्गलनैरात्म्यं भगवान् सर्वथा जगौ ॥ १५ ॥ सर्वधर्मा अनुत्पन्ना इति कीर्तयता तथा । कथितं धर्मनैरात्म्यं सर्वथा तत्त्ववेदिना ॥ १६ ॥ सावद्यनिरवद्यानामवृद्धिपरिहाणितः । संस्कृतासंस्कृतानां च कुशलानां निराकृतिः ॥ १७ ॥ कुशलानां च शून्यत्वे तद्गता अक्षता तथा । कल्पितैवेति भेदानां शून्यतायाः स सङ्ग्रहः ॥ १८ ॥ दशभिश्चित्तविक्षेपैश्चित्तं विक्षिप्तमन्यतः । योग्यं भवति बालानां नाद्वयज्ञानसाधने ॥ १९ ॥ तानपाकर्तुमन्योन्यं विपक्षप्रतिपक्षतः । प्रज्ञापारमिताग्रन्थस्ते च सम्पिण्डय दर्शिताः ॥ २० ॥ यदाह बोधिसत्त्वः सन्नित्यभावप्रकल्पना । विक्षेपं विक्षिपन् शास्ता सांवृतस्कन्धदर्शनात् ॥ २१ ॥ एतेनाष्टसहस्र्यादावादिवाक्यात्प्रभृत्यपि । आ समाप्तेर्निषेद्धव्या विधिनाभावकल्पना ॥ २२ ॥ हेतुवाक्यानि नैतानि कृत्यमात्रं तु सूच्यते । ब्रह्मजालादिसूत्रेषु ज्ञेयाः सर्वत्र युक्तयः ॥ २३ ॥ बोधिसत्त्वं न पश्यामि अहमित्यादि विस्तरैः । निराकरोति भगवान् भावसङ्कल्पविभ्रमम् ॥ २४ ॥ यन्न पश्यति नामापि गोचरं[न] क्रियां तथा । स्कन्धांश्च सर्वतस्तेन बोधिसत्त्वं न पश्यति ॥ २५ ॥ कल्पितस्य निषेधोऽयमिति सङ्ग्रहदर्शनम् । सर्वो ज्ञेयतयारूढ आकारः कल्पितो मतौ ॥ २६ ॥ प्रज्ञापारमितायां हि त्रीन् समाश्रित्य देशना । कल्पितं परतन्त्रं च परिनिष्पन्नमेव च ॥ २७ ॥ नास्तीत्यादिपदैः सर्वं कल्पितं विनिवार्यते । मायोपमादिदृष्टान्तैः परतन्त्रस्य देशना ॥ २८ ॥ चतुर्धा व्यवदानेन परिनिष्पन्नकीर्तनम् । प्रज्ञापारमितायां हि नान्या बुद्धस्य देशना ॥ २९ ॥ दशसङ्कल्पविक्षेपविपक्षे देशनाक्रमे । त्रयाणामिह बोद्धव्यं समस्तव्यस्तकीर्तनम् ॥ ३० ॥ यथादिवाक्ये निष्पन्नपरतन्त्रपरिकल्पितैः । अभावकल्पनारूपविक्षेपविनिवारणम् ॥ ३१ ॥ तेन बुद्धं तथा बोधिं न पश्यामीति वाचकैः । आ समाप्तेरिह ज्ञेया कल्पितानां निराकृतिः ॥ ३२ ॥ शून्ये रूपे स्वभावेन समारोपः क्व केन वा । इत्यन्येष्वपि वाक्येषु बोद्धव्यं तन्निवारणम् ॥ ३३ ॥ न हि शून्यतया शून्यमिति वाक्यं विनिर्दिशन् । अपवादविकल्पानां निरासं सर्वथोक्तवान् ॥ ३४ ॥ मायोपमस्तथा बुद्धः स स्वप्नोपम इत्यपि । अयमेव क्रमो ज्ञेयो विज्ञैर्वाक्यान्तरेष्वपि ॥ ३५ ॥ सामानाधिकरण्येन प्रोक्तो मायोपमो जिनः । मायोपमादिशब्दैश्च परतन्त्रो निगद्यते ॥ ३६ ॥ पृथग्जनानां यज्ज्ञानं प्रकृतिव्यवदानिकम् । उक्तं तद्बुद्धशब्देन बोधिसत्त्वो यथा जिनः ॥ ३७ ॥ निजं स्वरूपं प्रच्छाद्य तदविद्यावशीकृतम् । मायावदन्यथा भाति फलं स्वप्नमिवोझति ॥ ३८ ॥ अद्वयस्यान्यथाख्यातौ फले वाप्यपवादिनाम् । अपवादविकल्पानामपवादोऽयमुच्यते ॥ ३९ ॥ न रूपं शून्यता युक्ता परस्परविरोधतः । नीरूपा शून्यता नामरूपमाकारसङ्गतम् ॥ ४० ॥ इत्येकत्वविकल्पस्य बाद्धा(ध्या?)नानात्वकल्पनम्(ना?) । रुणाद्धि नान्यत्तद्रूपं शून्यतायां कथञ्चन ॥ ४१ ॥ असदेव यतः ख्याति तदविद्याविनिर्मितम् । असत्ख्यापनशक्त्यैव साविद्येति निगद्यते ॥ ४२ ॥ इदमेवोच्यते रूपं प्रज्ञापारमितेति च । अद्वयं द्वयमेवैतद्विकल्पद्वयबाधनम् ॥ ४३ ॥ युक्तिं चाह विशुद्धत्वात्तथा चानुपलम्भतः । भावाभावविरोधाच्च नानात्वमपि पश्यति ॥ ४४ ॥ नाममात्रमिदं रूपं तत्त्वतो ह्यस्वभावकम् । तत्स्वभावविकल्पानामवकाशं निरस्यति ॥ ४५ ॥ रूपं रूपस्वभावेन शून्यं यत्प्रथमोदितम् । तत्स्वभावसमारोपसङ्कल्पप्रतिषेधनम् ॥ ४६ ॥ नोत्पादं न निरोधं च धर्माणां पश्यतीति यत् । भगवानाह, तद्वयस्ता तद्विशेषस्य कल्पना ॥ ४७ ॥ कृत्रिमं नाम वाच्याश्च धर्मास्ते कल्पिता यतः । शब्दार्थयोर्न सम्बन्धस्तेन स्वाभाविको मतः ॥ ४८ ॥ बाह्यार्थाभिनिवेशस्तु भ्रान्त्या बालस्य जृम्भते । तथैव व्यवहारोऽयं त्वत्रार्थोऽस्ति कश्चन ॥ ४९ ॥ अत्र तेन यथा नाम कल्प्यते न तथास्ति तत् । वाच्यं वस्तु ततो निष्ठा यथानामार्थकल्पना ॥ ५० ॥ प्रज्ञापारमिता बुद्धो बोधिसत्त्वोऽपि वा तथा । नाममात्रमिति प्राह व्यसन् सत्यार्थकल्पनम् ॥ ५१ ॥ शब्दार्थप्रतिषेधोऽयं न वस्तु विनिवार्यते । एवमन्येष्वपि ज्ञेयो वाक्येष्वर्थविनिश्चयः ॥ ५२ ॥ नैवोपलभते सम्यक्सर्वनामानि तत्त्ववित् । यथार्थत्वेन तेनेदं न ध्वनेर्विनिवारणम् ॥ ५३ ॥ सुभूतिस्तु द्वयं व्यसन् शब्दं शब्दार्थमेव च । बोधिसत्त्वस्य नो नाम पश्यामीति स उक्तवान् ॥ ५४ ॥ प्रज्ञापारमितावाक्यं नास्ति यन्नेयता गतम् । ऊह्यास्तु केवलं तेऽर्था[स्तदेवं]सूक्ष्मया धिया ॥ ५५ ॥ प्रक्रान्तार्थतिरस्कारो या चार्थान्तरकल्पना । प्रज्ञापारमितायां हि प्रोक्ता सा प्रतिवर्णिका ॥ ५६ ॥ एतावानर्थसङ्क्षेपः प्रज्ञापारमिताश्रयः । आवर्त्य(र्त?)ते स एवार्थः पुनरर्थान्तराश्रितः ॥ ५७ ॥ प्रज्ञापारमितां सम्यक्सङ्गृह्याष्टसहस्रिकाम् । यत्पुण्यमाप्तं तेनास्तु प्रज्ञापारमितो जनः ॥ ५८ ॥ प्रज्ञापारमितापिण्डार्थसङ्ग्रहः समाप्तः । कृतिराचार्यदिग्नागपादानाम् ॥