भिक्षुणा अवलोकितसिंहेन समुद्भावितः धर्मसमुच्चयः प्रथममुदानम् (जितधर्मकायवर्गाः परिवर्तो ह्यनित्यता । अप्रमादः कामतृष्णे स्त्री च मद्येन ते दश ॥ ) ॥ (१) जितवर्गः मङ्गलाचरणम् ॥ ओं नमो बुद्धाय ॥ प्रहीणसर्वास्रव निर्मलश्रीर्यः क्लेशजम्बालनिमग्नलोकम् । कृपागुणेनोदहरत्समेन प्रणम्यतेऽस्मै त्रिभवोत्तमाय ॥ १.१ ॥ ग्रन्थकारप्रतिज्ञा सद्धर्म स्मृत्युपस्थानसूत्रवैपुल्यसागरात् । गाथाः समुद्धरिष्यामि लोकलोचनतत्पराः ॥ १.२ ॥ मोक्षस्यायतनानि षट् अप्रमादस्तथा श्रद्धा वीर्यारम्भस्तथा धृतिः । ज्ञानाभ्यासः संताश्लेषो मोक्षस्यायतनानि षट् ॥ १.३ ॥ नव शान्तिसम्प्राप्तिहेतवः दानं शीलं दमः क्षान्तिर्मैत्रीभूतेष्वहिंसता । करुणामुदितोपेक्षा शान्तिसम्प्राप्तिहेतवः ॥ १.४ ॥ नरकस्याग्रहेतवः चापल्यं पापसंश्लेषः क्रूरता वितथं वचः । मिथ्यादृष्टिः प्रमादश्च नरकस्याग्रहेतवः ॥ १.५ ॥ प्रेतेषु षटुद्भवकारणानि मात्सर्यमीर्ष्या कटुवाक्यता हि प्रमादसेवा विरतिः शुभाच्च । तत्त्वेष्वभिद्रोहरतं मनश्च प्रेतेषु पन्थान इहोद्भवन्ति ॥ १.६ ॥ तिर्यग्योनौ उद्भवसाधनानि अज्ञानसेवा जड (ता) च बुद्धेः सद्धर्मनाशः प्रियमैथुनत्वम् । आहारशक्तिः प्रबला च निद्रा तिर्यग्गतौ च प्रवदन्ति हेतुम् ॥ १.७ ॥ कर्मफलम् अशुभं त्रिविधं कृत्वा कायवाङ्मनसां महत् । उत्तरोत्तरसम्बद्धं कर्मणा सम्प्रदृश्यते ॥ १.८ ॥ बालानामपि सम्बद्धमुत्तरोत्तरमेव तत् । शुभञ्च त्रिविधं कृत्वा साधवो यान्ति निर्वृतिम् ॥ १.९ ॥ तस्मात्कर्मफलं मत्वा प्रमादस्य च वर्जनम् । श्रेयसे क्रियते बुद्धेरेतत्सुखमनुत्तमम् ॥ १.१० ॥ दानशीलवतो नित्यं सर्वसत्त्वानुकम्पिनः । सिद्धयन्ति सर्वशस्तुल्यास्तस्माच्छीलपरो भवेत् ॥ १.११ ॥ कस्य कार्यसिद्धिः भवति? मैत्रीकरुणायुक्तस्य गताकांक्षस्य देहिनः । परानुग्रहयुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१२ ॥ सन्तुष्टस्याप्रमत्तस्य सर्वसत्त्वहितैषिणः । रागद्वेषविमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१३ ॥ मित्रामित्रप्रहीणस्य समचित्तस्य देहिनः । अपायगतिभिन्नस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१४ ॥ एवं च तस्य धीरस्य धर्मदानरतस्य च । मात्सर्येर्ष्याप्रमुक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१५ ॥ संवरस्थस्य शान्तस्य गुरुपूजारतस्य च । कार्याकार्यविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१६ ॥ अशठस्यातिदक्षस्य प्रियवाक्यस्य नित्यशः । ध्यानाध्ययनशक्तस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१७ ॥ देशकालविधिज्ञस्य साध्यासाध्यं विजानतः । शक्योपायविधिज्ञस्य कार्यसिद्धिर्ध्रुवं स्थिता ॥ १.१८ ॥ क्रोधादिविजयसाधनमुखेन धर्मतास्वरूपनिरूपणम् अक्रोधेन हतः क्रोधः क्षमया क्रूरता जिता । धर्मेण निर्जितोऽधर्मः प्रभया विजितं तमः ॥ १.१९ ॥ सत्यादेः प्रशंसा मृषावाक्यं सत्यहतं पैशुन्यं च समाधिना । पारूष्यं मार्दव जितमबद्धं बन्धना जितम् ॥ १.२० ॥ प्राणातिपातो मैत्र्या च स्तेयं दानैः सदा जितम् । अयोनिशोमनस्कारो योनिजेन सदा जितः ॥ १.२१ ॥ अविद्या विद्यया जिता दिवसेन तथा क्षपा । शुक्लपक्षेण च कृष्णपक्षो (हि) सर्वशो जितः ॥ १.२२ ॥ मिथ्याकामेष्वविजितो बुद्धया तत्त्वविचारया । आर्याष्टाङ्गेन मार्गेण योनिजेन सदा जितः ॥ १.२३ ॥ वैशारद्यैश्चतुर्भिश्च कदर्य जितमेव तत् । विस्मृतिश्च हता स्मृत्या क्षणेनात्मानमेव च ॥ १.२४ ॥ अरण्यवासनियतैर्जिता रागवशा नराः । मेरुणा पर्वता जिता (वृक्षेण) वनमालिका ॥ १.२५ ॥ समुद्रेण जिता सर्वे तीर्था (हि) जलसम्भवाः । आदित्यतेजोविजिता सर्वे च ग्रहतारकाः ॥ १.२६ ॥ नित्या जिता अनित्येन दारिद्रयं दानसम्पदा । शाठ्यं न मार्दव जितं सत्येनानृतिको हतः ॥ १.२७ ॥ भूतेन निर्जितोऽभूतो वह्निना तरुसम्पदः । पिपासा विजिता तोयैर्जिघित्सा भोजनैस्तथा ॥ १.२८ ॥ वीर्यप्रशंसा सिंहेन विजिताः सर्वे मृगाः सत्त्वाधिकाश्च ये । सन्तापेन महेच्छा च जिता नित्यं प्रकीर्त्यते ॥ १.२९ ॥ दया प्रशस्यते नित्यमदया नैव शस्यते । वीर्येण निर्जितं सर्व कौसीद्यं मोहवर्धनम् ॥ १.३० ॥ तत्त्वदर्शिपुरुषप्रशंसा ज्ञानाधिकैः सदा दान्तैः पुरुषैस्तत्त्वद(र्शि)भिः । विजिताः क्रूरकर्माणो मिथ्यावादाधिका नराः ॥ १.३१ ॥ बुद्धेन निर्जिताः सर्वे तीर्थ्याः कुटिलवादिनः । असुरा विजिता देवैर्धर्मतेयं व्यवस्थिता ॥ १.३२ ॥ ॥ इति जितवर्गः प्रथमः ॥ (२) धर्मोपदेशवर्गः गुरुः कीदृग्भवेत्? यो हि देशयते धर्म क्षेमं निर्वाणगामिनम् । स सर्वबन्धनच्छेत्ता गुरुर्भवति देहिनाम् ॥ २.१ ॥ छित्त्वा मोहमयं पाशं यो हि देशयते शिवम् । सन्मार्गदेशकः प्रोक्तो दुर्मार्गविनिवारकः ॥ २.२ ॥ धर्मस्य प्रवरत्वं येन धर्मेण मनुजास्तरन्ति भवसागरम् । सद्धर्मप्रबरः प्रोक्तो न धर्मो लौकिको हि सः ॥ २.३ ॥ क्षेत्राणीमानि चत्वारि विद्यन्ते यस्य देहिनः । तस्येदं सफलं जन्म कथितं मार्गदेशकैः ॥ २.४ ॥ सकलेन्द्रियतां प्राप्य लब्ध्वा बुद्धस्य शासनम् । यो न धर्मरतो मर्त्यः स पश्चादनुतप्यते ॥ २.५ ॥ यमसायुज्यं व्यासक्तमनसां नित्यं नित्यं कामगवेषिणाम् । पुत्रदारप्रसक्तानामन्तकोऽभ्येति देहिनाम् ॥ २.६ ॥ चित्तस्य वशीकरणं सङ्कल्पदोषमनसं तैस्तैर्दोषैः समाकुलम् । चित्तं नयत्युपायेन चित्तबद्धा हि देहिनः ॥ २.७ ॥ दुर्दमस्यातिचण्डस्य सिद्धिप्रेप्सोर्विशेषतः । न चित्तस्य वशं गच्छेत्शत्रुभूतं हि तन्नृणाम् ॥ २.८ ॥ सश्रुतेन सुदिष्टेन भावितेनाप्यनेकशः । धर्मेण शाम्यते चित्तं जालिनेव यथा हयः ॥ २.९ ॥ सद्धर्मश्रवणफलं सद्धर्मश्रवणं कृत्वा पापाद्विरमते पुमान् । श्रेयसे प्रतिपत्तिं च नित्यमेवोपपद्यते ॥ २.१० ॥ सद्धर्मश्रवणं कृत्वा मनः प्रहलादमृच्छति । कुशलं चास्य सुमहत्सन्धाने सम्प्रतीक्षते ॥ २.११ ॥ श्रुत्वा भवति धर्मात्मा श्रुत्वा पापं न कुर्वते । श्रुत्वा कर्मफलं ज्ञात्वा निर्वाणमधिगच्छति ॥ २.१२ ॥ श्रुत्वा वेदयते धर्म श्रुत्वा बुद्धः प्रसीदति । श्रुत्वा धर्मं विमोक्षाय यतते पण्डितो नरः ॥ २.१३ ॥ धर्मलक्षणतत्त्वज्ञः श्रुत्वा भवति मानवः । तस्माच्छ्रुत्वा प्रयत्नेन बुद्धिः कार्या प्रयत्नतः ॥ २.१४ ॥ श्रुत्वा संसारविमुखां कथां सुगतदेशिताम् । प्रहाय तृष्णां विविधां प्रयाति पदमव्ययम् ॥ २.१५ ॥ चतुर्विधां प्रत्ययितां धर्माणां चोदमव्ययौ । श्रुत्वा तां ज्ञायते सर्वा पुमान् श्रद्धाविभावितः ॥ २.१६ ॥ स्कन्धायतनधातूनां यदेतल्लक्षणद्वयम् । श्रुत्वा तज्ज्ञायते सर्व तस्मात्धर्मपरो भवेत् ॥ २.१७ ॥ प्रबला ये त्रयो दोषाः सर्वसंसारबन्धनाः । ते प्रणश्यन्त्यशेषेण सद्धर्मश्रवणेन वै ॥ २.१८ ॥ प्रवृत्तेर्लक्षणं कृत्स्नं निवृत्तेश्चाप्यशेषतः । श्रुतिमांस्तत्प्रजानाति तस्माच्छ्रुतमनुत्तमम् ॥ २.१९ ॥ मृत्युकालोपपन्नस्य वेदनार्तस्य देहिनः । न व्यथा श्रुतमालम्ब्य स्वल्पापि हृदि जायते ॥ २.२० ॥ सम्यग्ज्ञानेन ये दग्धाः क्लेशवृक्षाः समन्ततः । न तेषामुद्भवो भूयः कदाचिदुपलभ्यते ॥ २.२१ ॥ अप्रमादविदग्धं हि श्रुतं सर्व सुखोदयम् । श्रेयसश्व श्रुतं मूलं तस्माच्छ्रुतपरो भवेत् ॥ २.२२ ॥ सद्धर्मश्रवणं श्रुत्वा वृद्धांश्चोपास्य पण्डितः । प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम् ॥ २.२३ ॥ धर्मेण वर्तते श्रुत्वा दुःखान्मुच्येत वै यथा । श्रुत्वा भवति मैत्र्यात्मा तस्माच्छ्रेयः परं श्रुतम् ॥ २.२४ ॥ कायवाङ्मनसां बुद्धिः श्रुत्वा भवति देहिनाम् । तस्मात्सद्बुद्धिकामो यस्तेन श्रोतव्यमादरात् ॥ २.२५ ॥ श्रुत्वा भावं समाश्रित्य दृढवीर्यपराक्रमम् । तरन्ति पुरुषास्तूर्ण त्रिभव विपुलं महत् ॥ २.२६ ॥ श्रुत्वा यः पुरुषः सर्वैर्धनवानभिजायते । अश्रुतार्थधनैर्युक्तं दरिद्रं प्राहुस्तं बुधाः ॥ २.२७ ॥ सद्धर्मनाशफलम् सद्धर्मधननष्टस्य गुरुणा वर्जितस्य च । विफलं जीवितं चेष्टं पापैरुपहतस्य च ॥ २.२८ ॥ प्रमादादीनामनिष्टफलसाधनत्वम् प्रमादिनः कुसीदस्थ पापमित्रस्य देहिनः । जीवितं निष्फलं दृष्टं बीजमुप्तं यथोसरे ॥ २.२९ ॥ शास्त्रप्रामाण्यम् श्रुतदृष्टिविनिर्मुक्तमर्थमाहुर्विचक्षणाः । न चक्षुर्भ्यां विनिर्मुक्तमर्थमित्यभिधीयते ॥ २.३० ॥ धर्मसेवनाग्रहः यो हि धर्म परित्यज्य अधर्ममनुतिष्ठति । स भैषज्यं परित्यज्य व्याधिमेवोपसेवते ॥ २.३१ ॥ सेवतां सेवतां पुंसां धर्मो भवत्यनेकशः । वर्षाणां समवायेन यथोद्यानं प्रवर्धते ॥ २.३२ ॥ इह वज्रासने भूमिर्न संसारेऽन्यथा भवेत् । बोधिचित्तसमुत्थानं बोधिप्राप्तिस्तथोत्तमा ॥ २.३३ ॥ धर्मचारी प्रशान्तात्मा कायोत्थायी समाहितः । अवश्यं शुभभागीस्यात्स प्रमादेन वञ्चितः ॥ २.३४ ॥ ज्ञानसेवनाग्रहः तस्माज्ज्ञानगुणान्मत्वा ज्ञानं सेवेत पण्डितः । नह्यज्ञानेन संयुक्तं पुमान् कश्चित्प्रतिभवेत् ॥ २.३५ ॥ धर्मानुसारिणी श्रद्धा धर्मानुसारिणी श्रद्धा यथा याति सुखावहा । सातिदुर्गतिसन्यक्ता व्यसनेषु महद्बलम् ॥ २.३६ ॥ प्रदीपकल्पा तमसि व्याधितानामिवौषधम् । अर्थानां नेत्र भूता सा दरिद्राणां महद्बलम् ॥ २.३७ ॥ भवाद्यैर्ह्रियमाणानां पूर्वभूता सुखावहा । प्रमादमदमत्तानां सा प्रमादविघातिका ॥ २.३८ ॥ शान्तपदप्राप्तेः फलं स हि यत्तत्पदं शान्तं निर्वाणमुनिभिर्वृतम् । तत्प्रापयत्यखेदेन सम्यग्ज्ञानपुरःसरम् ॥ २.३९ ॥ ॥ इति धर्मोपदेशवर्गः द्वितीयः ॥ (३) कायजुगुत्सावर्गः कायस्य स्वरूपनिरूपणम् सत्कारैर्वृहणैर्मासैरपि शय्यासनादिभिः । न स्वीकर्तुमयं कायः कदाचित्केनचित्कृतः ॥ ३.१ ॥ कायस्य रिपुत्वम् कृतघ्नस्याविदक्षस्य नित्यं रन्ध्रप्रहारिणः । कः कायस्य रिपोरर्थ पापं कुर्याद्विचक्षणः ॥ ३.२ ॥ रोगानी तमनर्थानां बहूना भाजनं तथा । अशुच्यङ्गस्य निकरं कायमित्यभिधीयते ॥ ३.३ ॥ अविज्ञेयं मरणं जीवितञ्च क्षणिकम् उपस्थितमविज्ञेयं मरणं तत्त्वचिन्तकैः । जीवितं च क्षणादूर्ध्वं न गच्छति निरूप्यते ॥ ३.४ ॥ कायस्य हेयत्वम् आयुष्कर्मार्थनिर्माणमेतं कायं त्यज्ययम् । अपि विद्धस्तथा शेते काष्ठलोष्ठसमो भुवि ॥ ३.५ ॥ क्षणे क्षणेऽपि कायोऽयं जीर्यते न निवर्तते । तथा यौवनमदैर्बाला मुहयन्ते (मुग्धचेतसः) ॥ ३.६ ॥ धनधान्यमदैर्मत्ताः कुर्वन्त्यहितमात्मनः । तन्नाशमुपयात्येवं स च पापेन दहयते ॥ ३.७ ॥ अधार्मिकनिन्दा न मनुष्या मनुष्यास्ते येभ्यो धर्मो न रोचते । न मार्गे च स्थितास्तत्त्वे निर्वाणपुरगामिके ॥ ३.८ ॥ मनुष्ययोनेः भवसागरतरणोपायः कथं प्राप्य हि मानुष्यं श्रेयसामालयं महत् । न ज्ञानप्लवमारूहय तरन्ति भवसागरात् ॥ ३.९ ॥ जीवनस्य क्षणिकता विद्युदालातसदृशं गन्धर्वनगरोपमम् । सदा तद्याति रभसं जीवितं सर्वदेहिनाम् ॥ ३.१० ॥ शरीरे न मदं कुर्यात्क्षणिके भङ्गुरे सदा । इत्वरे चपलेऽसारे जरामरणभीरुके ॥ ३.११ ॥ ध्यायिनान्नगतं ह्येतत्शोकानामालयो महान् । शुभाशुभानां क्षेत्रं च शरीरमवधीयते ॥ ३.१२ ॥ सफलजीवनरहस्यम् ज्ञानशीलदयादानैर्यस्य गात्रं विभूषितम् । तस्य सत्त्वैकसारस्य शरीरं सफलं मतम् ॥ ३.१३ ॥ धातुज्ञानात्मोक्षः धातूनां मारकात्सर्वमिदं मुक्तं कलेवरम् । शरीरधातु विचयात्साक्षाद्भवति नेतरात् ॥ ३.१४ ॥ शरीरधातुं यो मुक्त्वा धातुष्वन्येषु रज्यते । स धातुकत्वशिक्षातो दुःखेनैव प्रमुच्यते ॥ ३.१५ ॥ हिरण्यधातुर्न तथा दुःखशान्त्यै हि वर्तते । शरीरधातुतत्त्वज्ञो यथा दुःखात्प्रमुच्यते ॥ ३.१६ ॥ दुःखाद्दुःखोदयस्तेन दुःखी न परिरक्ष्यते । प्रवीणो राजचौरादिभयैः सर्वैरूपद्रुतम् ॥ ३.१७ ॥ तस्मादनर्थकं नित्यं दूरतस्तं विवर्जयेत् । वर्जनात्सुखितो दुष्टसङ्ग्रहाद्दुःखितः पुमान् ॥ ३.१८ ॥ शरीरधातुतत्त्वज्ञो धातुलक्षणतत्त्ववित् । ध्यानाध्ययनसंसक्तो दहति क्लेशपर्वतान् ॥ ३.१९ ॥ तस्माच्छरीरजान् धातून् पण्डितः प्रत्यवेक्षते । तेषां स्वलक्षणं ज्ञात्वा मोक्षो भवति देहिनाम् ॥ ३.२० ॥ ॥ इति कायजुगुप्सावर्गस्तृतीयः ॥ (४) परिवर्तवर्गः कस्य कालः परिवर्तते कामैरेवावितृष्णस्य तृष्णया तृषितस्य च । चञ्चलेन्द्रियचित्तस्य कालोऽयं परिवर्तते ॥ ४.१ ॥ अनित्यध्येयता यस्य सुखसक्तस्य देहिनः । स्त्रीदर्शनेन मत्तस्य कालोऽयं परिवर्तते ॥ ४.२ ॥ जातिमरणवश्यस्य मोहितस्य च तृष्णया । बालस्य तु जनस्यास्य कालोऽयं परिवर्तते ॥ ४.३ ॥ गतिचारकबद्धस्य उद्वेगवशगस्य च । प्रमादविषमूढस्य कालोऽयं परिवर्तते ॥ ४.४ ॥ औद्धत्यादिप्रसक्तस्य गात्रशोभारतस्य च । लाभैरतृप्तमनसः कालोऽयं परिवर्तते ॥ ४.५ ॥ पञ्चबन्धनबद्धस्य षड्भिर्व्यामोहितस्य च । त्रैलोक्यविधिमूढस्य कालोऽयं परिवर्तते ॥ ४.६ ॥ विनिपातानभिज्ञस्य वितर्कोपहतस्य च । जनस्य सक्तमनसः कालोऽयं परिवर्तते ॥ ४.७ ॥ तत्कालरमणीयेषु परिणामहितेषु च । कामेषु सक्तमनसः कालोऽयं परिवर्तते ॥ ४.८ ॥ पूर्वदुःखानभिज्ञस्य दिव्यसौख्यरतस्य च । विप्रयोगानभिज्ञस्य कालोऽयं परिवर्तते ॥ ४.९ ॥ कर्मजालेन बद्धस्य मनस्येव विचेष्टिनः । सत्पथात्परिभ्रष्टस्य कालोऽयं परिवर्तते ॥ ४.१० ॥ भवदोषानभिज्ञस्य तृष्णया मूढचेतसः । मोहान्धकारमग्नस्य कालोऽयं परिवर्तते ॥ ४.११ ॥ कामैकपाशबद्धस्य निःसहायस्य देहिनः । देवीगणविमूढस्यं कालोऽयं परिवर्तते ॥ ४.१२ ॥ इन्द्रियाद्व्यपकृष्टस्य सत्पथभ्रामितस्य च । त्रैधातुकरसज्ञस्य कालोऽयं परिवर्तते ॥ ४.१३ ॥ संवरासंवरज्ञस्य व्यापादबहुलस्य च । नष्टसम्बुद्धमार्गस्य कालोऽयं परिवर्तते ॥ ४.१४ ॥ हिताहितवहिर्गस्य कार्याकार्यजडस्य च । क्रीडाबाल सदृशस्य कालोऽयं परिवर्तते ॥ ४.१५ ॥ नदीप्रस्त्रवणोच्चेषु वनोपवनभूमिषु । (सं)क्रीडातत्परस्यास्य कालोऽयं परिवर्तते ॥ ४.१६ ॥ विमानगिरिपृष्ठेषु धर्माकरवनेषु च । रमतः कामभोगेषु कालोऽयं परिवर्तते ॥ ४.१७ ॥ कर्मधर्म विपाकेषु निरासक्तस्य देहिनः । केवलाहारसक्तस्य कालोऽयं परिवर्तते ॥ ४.१८ ॥ शरीरस्थितस्यापि शरीरानभिज्ञता कर्मणायुः परिश्रान्तं त्रैधातुकमिदं सदा । भ्रमन्ति चक्रवन्नित्यं न च विन्दन्ति बालिशाः ॥ ४.१९ ॥ जगतः दोषानभिज्ञता विनिपातोच्छ्रु यमयं यो नामारोहते जगत् । न च दोषावधेयत्वं प्रकुर्वन्ति विमोहिताः ॥ ४.२० ॥ धीरस्य कामपरिवर्जनं सौख्यहेतुः एतत्(तु) परमं सौख्यं यत्कामपरिवर्जनम् । वीतकांक्षस्य धीरस्य गतशोकस्य तापिनः ॥ ४.२१ ॥ मुनीनां चरमपदप्राप्तिफलम् तदादिमध्यनिधने कल्याणं क्षेममुत्तमम् । यद्प्राप्यमुनयः श्रान्ताश्चरन्ति विगतज्वराः ॥ ४.२२ ॥ दुःखहेतवः कामाः सत्कामजं भवेत्सौख्यं विनिपातगतं तु तत् । न हि कामविशेषं च किञ्चिद्दुःखविपाकजम् ॥ ४.२३ ॥ तस्मात्कामेषु मतिमान्न लुभ्येत्कथञ्चन । ते हि संसारदुःखानां हेतुभूताः सुदारुणाः ॥ ४.२४ ॥ वनोपवनशैलेषु पद्माकरवनेषु च । विभ्रान्तास्तृष्णया बालाः पतन्ति सह दैवतैः ॥ ४.२५ ॥ शुभकर्मासक्तेः उपदेशः काञ्चनेषु (च) शैलेषु वैदूर्यशिखरेषु च । क्षीयते हि शुभं कर्म यतस्व सह दैवतैः ॥ ४.२६ ॥ कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च । चरतस्तैः शुभं क्षीणं यतस्व सह दैवतैः ॥ ४.२७ ॥ भूमिभागेषु रम्येषु रत्नाकरवनेषु च । न शुभं ते सदा चीर्ण यतस्व सह दैवतैः ॥ ४.२८ ॥ पञ्चात्मकेन वीर्येण मनःप्रहलादकारिणा । हतस्य गतकालस्य यतस्व सह दैवतैः ॥ ४.२९ ॥ देवानां हितानभिज्ञता कामं संसक्त मनसैर्नित्यं विषयतत्परैः । न ज्ञायते हितं देवैर्यदमन्त्राहितं भवेत् ॥ ४.३० ॥ देवनिन्दा अल्पशिष्टमिदं पुण्यं च्यवनं समुपस्थितम् । गन्तव्यमन्यत्र सुरैः सुकर्मफलभोजिभिः ॥ ४.३१ ॥ ये नित्यं शुभसंसक्ताः कुर्वन्ति वा शुभं सदा । तेषां विसदृशो हेतुर्मूर्खाणां हि विवर्तते ॥ ४.३२ ॥ के मृत्युं प्रतीक्षन्ते भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । शुभशीलतमोऽज्ञानाः सर्वदा न परायणाः ॥ ४.३३ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । ये न कर्मविपाकस्य ज्ञानं रोषवधे रताः ॥ ४.३४ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । प्रज्ञापयन्ति न समा स्तृष्णाग्निपरिवारिताः ॥ ४.३५ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । विप्रयोगकृतं दुःखं ये न पश्यन्ति दारुणम् ॥ ४.३६ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । स्त्रीजनासक्तहृदया न विन्दन्ति पुनर्भवम् ॥ ४.३७ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । विपत्तिव्याधिशोकेभ्यो नोद्विजन्ति कथञ्चन ॥ ४.३८ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । ये पापमित्रसंसर्ग प्रकुर्वन्ति महारूषम् ॥ ४.३९ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । भावितं चेतसा यैर्न न च तत्त्वप्रवेशिता ॥ ४.४० ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । येन सर्वास्ववस्थासु संसारभयभीरवः ॥ ४.४१ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । कार्याकार्येषु ये नित्यं न सुभाषितचेतसः ॥ ४.४२ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । ये न तत्त्वधियो नित्यं सर्वभूतहिते रताः ॥ ४.४३ ॥ भुक्त्वा मृत्युं प्रतीक्षन्ते ते जनाः काममोहिताः । ये शरीर सुखार्थेन धर्म हिंसन्ति मोहिताः ॥ ४.४४ ॥ पण्डितलक्षणम् एकान्तमनसा नित्यं शुभं कार्यं प्रयत्नतः । अशुभं च सदा वर्ज्यमेतत्पण्डितलक्षणम् ॥ ४.४५ ॥ विनिपातसाधनानि क्षयं यातं च यत्शीलं स्पृष्ट्वा यः समुपागतः । प्रमादावञ्चितोऽवश्यं विनिपातो भविष्यति ॥ ४.४६ ॥ विषयिणः परिवर्तनशीलता न तु विषयाणाम् गता गच्छन्ति यास्यन्ति देवेशाश्चैव सर्वतः । तिष्ठन्ति शिखरे रम्ये नानारत्नविभूषिते ॥ ४.४७ ॥ वैदूर्यशिखरा रम्यास्तथान्ये वनमालिनः । विषयास्तादृशा एव जनस्तु परिवर्तते ॥ ४.४८ ॥ वनोपवनरम्याणि भूमिभागानि सर्वशः । तिष्ठन्त्यविकलान्येव जनस्तु परिवर्तते ॥ ४.४९ ॥ वैदूर्यमयनालानि काञ्चनानि विशेषतः । पद्माकराणि तान्येव जनस्तु परिवर्तते ॥ ४.५० ॥ सरांसि सरितो रम्याः पक्षिसङ्घैर्निरन्तरम् । तथैवाविकला ह्येते जनस्तु परिवर्तते ॥ ४.५१ ॥ विमानानि रथाश्चैव हर्म्याणि च तथैव च । तिष्ठन्त्यविकला ह्येते जनस्तु परिवर्तते ॥ ४.५२ ॥ परिवर्तनं लोकस्य विषयैर्वञ्चितस्य च । तथापि नामलोकस्य नोद्वेगो हृदि जायते ॥ ४.५३ ॥ अभ्यासेन खरी भूतं चित्तं संसारचारिणम् । येन मन्ये महद्दुःखं हृदये नैव वर्तते ॥ ४.५४ ॥ शूलिकेन यथा बद्धाः पशवो गृहपञ्जरे । एकैकशो विनश्यन्ति शेषाणां नास्ति सम्भ्रमः ॥ ४.५५ ॥ सुखाय कामिनामेव इयं भूमिरवस्थिता । च्युताश्चैवोपपन्नाश्च तथामी बालिशाः सुराः ॥ ४.५६ ॥ विषयोन्मुखानां मरणानभिज्ञत्वम् प्रमादाय हताः सत्त्वा मृत्युः क्षणिकदुःखदः । नावबुद्धयन्ति मरणं पशुवद्वीतसम्भ्रमाः ॥ ४.५७ ॥ ते पश्चाद्दीर्घमनसः कालस्य वशमागताः । पश्चात्तापमयो वह्निर्धक्ष्यते निष्प्रतिक्षयः ॥ ४.५८ ॥ दारुणं निष्प्रतीकारमवश्यं रूपदेहिनाम् । मरणं कालवशगं तद्विदित्वागमं चरेत् ॥ ४.५९ ॥ विप्रयोगान्ताः सर्वे संयोगाः समागमाः प्रियालोके वियोगाश्चाप्रियाः सदा । संयोगो विप्रयोगान्तो धर्मतेयं सनातना ॥ ४.६० ॥ क्षणे लवे मुहूर्ते च दिवारात्रौ तथाध्वनि । मरणं चिन्तयेद्धीरस्तस्य नास्ति प्रतिक्रिया ॥ ४.६१ ॥ गतकल्मषा एव शान्तिमधिगच्छन्ति स्मृतिमग्न्यां प्रशंसन्ति येषां मरणसंभवा । श्रेयसैकपरां शान्ति प्रयान्तिं गतकल्मषाः ॥ ४.६२ ॥ मृत्योरर्थमनुस्मृत्य दोषोऽयं कस्य सम्मतः । निर्दोषं हि मनः सर्वं शान्तं भवति नित्यशः ॥ ४.६३ ॥ तथागतैः अप्रमादपरं श्रेष्ठमुक्तम् अप्रमादपरं श्रेष्ठमिदमुक्तं तथागतैः । यन्मृत्योः स्मरणं नित्यमशुभानां च वर्जनम् ॥ ४.६४ ॥ ॥ इति परिवर्तवर्गश्चतुर्थः ॥ (५) अनित्यतावर्गः सुखं क्षयान्तम् क्षयान्तं हि सुखं सर्व न सुखं विद्यते ध्रुवम् । संसृजेन्न सुखं तस्मात्यदीच्छेत्सुखमात्मनः ॥ ५.१ ॥ मृत्युः सर्वानपि आकर्षति गच्छतां तिष्ठतां चैव हसतां क्रीडतामपि । अविसह्यो महावेगो मृत्युर्नश्यति दारुणः ॥ ५.२ ॥ न तत्स्थ मिहामुत्र यत्रासौ प्रतिपद्यते । तथापि नाम संमूढा जनयित्वा वशंगतः ॥ ५.३ ॥ (न बालं न युवानं वा) न स्थविरमेव वा । गृहस्थमगृहस्थं वा यदासौ नापकर्षति ॥ ५.४ ॥ सुखितं दुःखितं वापि गुणवन्तं तथैव च । व्रतस्थमव्रतस्थं वा यदासौ नापकर्षति ॥ ५.५ ॥ दुःशीलं शीलवन्तं च (दानिनं च तथोत्तमम्) । राजानं चोत्तमं चापि यदासौ नापकर्षति ॥ ५.६ ॥ दैवं वा नारकं वापि तिर्यञ्च प्रतजं तथा । प्रमत्तमप्रमत्तं वा यदासौ नापकर्षति ॥ ५.७ ॥ कामधातूपपन्नं वा रूपधातौ स्थितञ्च यः । आरुप्यधातूपपन्नं वा यदासौ नापकर्षति ॥ ५.८ ॥ कर्मपाशो जरादण्डो व्याधिदण्डो महावनम् । रक्तोपमो मृत्युरयं सत्त्वानादाय गच्छति ॥ ५.९ ॥ एवंविधे प्रतिभये मृत्यौ परमदारुणे । (उपस्थिते प्रवर्तन्ते) सुराः कामविमोहिताः ॥ ५.१० ॥ पतनान्तं सर्वसुखं सन्त्यजेत् यद्दुःखं च्यवमानस्य देवलोकात्सुरस्य च । नरके यद्भवं दुःखं विप्रयोगपुरःसरम् ॥ ५.११ ॥ विषमाक्षिकसंयुक्तं यथान्नं चापि (शोभनम्) । (ततो) देवगतं सौख्यं पतनान्तं विसर्जयेत् ॥ ५.१२ ॥ क्षीणपुण्यस्य दीनस्य स्वदारैर्वर्जितस्य च । यद्दुःखं च्यवमानस्य तस्यौपम्यं न विद्यते ॥ ५.१३ ॥ सुकृतक्षीणमन्दस्य द्विपस्येव गतत्त्विषः । शाम्यति देवस्य यद्दुःखं महद्दुःखं प्रजायते ॥ ५.१४ ॥ देवस्यापि च्यवनम् तृष्णाविषयवृद्धस्य शोकोपहतचेतसः । मन्दवाग्देहचेष्टस्य देवस्य च्यवनाद्भयम् ॥ ५.१५ ॥ दुःखस्य विषयतरत्वम् यथा यथा सुखास्वादाः कामा परमवञ्चकाः । (तथा) तथा भवत्येव तेषां दुःखं महत्तरम् ॥ ५.१६ ॥ यतमानस्य यद्दुःखं देवलोकान् प्रजायते । तस्यान्तरेण नरकं कलां नार्हति षोडशीम् ॥ ५.१७ ॥ च्यवनान्तं देवलोकं मरणान्तं तदा भुवि । दृष्ट्वा दुःखं (भवत्येव श्रेयसे क्रियतां मनः) ॥ ५.१८ ॥ सौख्यं पतनान्तम् पतनान्तं सदा सौख्यं नास्ति लोकस्य नित्यजाः । तद्बुद्ध्वा कारणं सर्व श्रेयसे क्रियतां मनः ॥ ५.१९ ॥ सर्व दुःखान्तम् सर्वे क्षयान्ता निचया पतनान्ता समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥ ५.२० ॥ जातस्य मरणं नित्यं न तस्यास्तीति नित्यता । न भूतारावितानेन त्रिषु धातुषु दृश्यते ॥ ५.२१ ॥ गर्भमेके विनश्यन्ति तथैके सूतिकागृहे । परिसर्पणकाश्चैके तथैव (च विनश्वराः) ॥ ५.२२ ॥ मरणं ध्रुवम् उदयास्तं च गमनं भास्करस्य प्रदृश्यते । तथा जातस्य सर्वस्य स्थितं मरणमग्रतः ॥ ५.२३ ॥ सर्व सुखं क्षयान्तम् क्षयान्तं हि सुखं सर्व यो न विन्दति मोहधीः । स पश्चान्मरणे प्राप्ते (दुःखाय जनिभाग्भवेत्) ॥ ५.२४ ॥ कुशलं कार्य(करणं कुशली च) प्रियः सदा । सुखं हि धर्माचरणं कथयन्ति मनीषिणः ॥ ५.२५ ॥ अनित्यमध्रुवं सर्व परिणामे कटुः सदा । संसारः कथितो बुद्धेर्हेतुस्तत्त्वविचारणे ॥ ५.२६ ॥ देवाः सुखप्रमत्ता ये तेषां सुखमशाश्वतम् । च्यवमानस्य च यद्दुःखं देवलोकात्सुरस्य हि ॥ ५.२७ ॥ तस्योपमानं नैवास्ति नरकान्नरकं हि तत् । किमेते नावबुध्यन्ते पतनान्तं सदा सुखम् ॥ ५.२८ ॥ अजरामरवल्लोकं पश्यन्ति सुखमोहिताः । च्युत्युपपत्तिमल्लोकः संख्या तस्य न विद्यते । न चोद्विजन्ति पुरुषास्तृष्णया परिवञ्चिताः ॥ ५.२९ ॥ अभियाति सदा जन्म त्वरितं याति यौवनम् । संयोगो विप्रयोगश्च सहजः परिदृश्यते । विमूढा नानुपश्यन्ति विषयैः परिवञ्चिताः ॥ ५.३० ॥ तृष्णाविवशा देवाः च्यवन्ति च्यवन्ति देवाः विवशास्तृष्णया परिमोहिताः । सा भूमिस्तानि पद्मानि वनानि विविधानि च ॥ ५.३१ ॥ सर्वपदार्थानामापातरमणीयत्वम् शिखराग्राणि रम्याणि रत्नवन्ति महान्ति च । सरांसि नद्यो विविधा रत्नपाषाणभूषिताः ॥ ५.३२ ॥ वृक्षा विचित्रकुसुमाः पङ्क्तिभिर्विविधैः स्थिताः । हर्म्याग्राणि च रम्याणि रत्नवन्ति महान्ति च ॥ ५.३३ ॥ कल्पवृक्षा हेममया केचिद्वैदूर्य निर्मलाः । राजतास्तपनीयाश्च विमिश्रा वररोहिणः ॥ ५.३४ ॥ भ्रमरैरूपगीताश्च विभान्ति कमलाकराः । विभूषणानि रम्याणि देवार्हाणि च सर्वतः ॥ ५.३५ ॥ सर्व क्षणिकम् सर्वमेतत्तथैवास्ति जनस्तु परिवर्तते । मायाबुद्बुदफेनाभं गन्धर्वनगरोपमम् ॥ ५.३६ ॥ सुखं सर्वस्य देवस्य तृष्णया वञ्चितस्य हि । स विनाश्य जनं सर्व भ्रामयित्वा भवार्णवे ॥ ५.३७ ॥ तृष्णैव दुःखमूलम् तृष्णा विषाग्निसदृशा लोकानामत्र तिष्ठति । अवितृप्ता कामभोगैरपि तप्ता सुखोद्भवा ॥ ५.३८ ॥ कालानलेन निर्दग्धा क्व ते देवगणाः गताः । सर्वथाधिगता येयं तृष्णा लोकवितन्विनी ॥ ५.३९ ॥ यया विमोहिता देवाः कालस्य वशमागताः । देवासुरा नरा यक्षा नरके यान्ति जङ्गमाः ॥ ५.४० ॥ कालपाशयोजितं त्रैधातुकमिदम् गच्छन्ति विवशाः सर्वे कालपाशं दुरासदम् । त्रैधातुकमिदं सर्व कालपाशेन योजितम् ॥ ५.४१ ॥ तृष्णाविमोहिताः मरणं न पश्यन्ति न च पश्यन्ति विवशास्तृष्णामोहेन मोहिताः । अनेन हि यथा देवाः शतशोऽथ सहस्त्रशः ॥ ५.४२ ॥ गताः कालाग्निनिर्दग्धा विषयैर्धनसंभवैः । परस्य दृश्यते मरणमात्मनो नैव दृश्यते ॥ ५.४३ ॥ पश्चात्ते व्यसने प्राप्ते विन्दन्ते दुःखमात्मनः । प्रमादकलुषं चेतो विषयाभिरतं सदा ॥ ५.४४ ॥ न विन्दन्ति ध्रुवं मृत्युं देहिनां सहजस्थितम् । सुखोत्तरमनाशस्य प्रमादाभिरतस्य च ॥ ५.४५ ॥ मृत्युसैन्यमुपैतीदं प्रमाथि विषसन्निभम् । न मन्त्रौषधकर्माणि न देवा नासुरास्तथा ॥ ५.४६ ॥ कालपाशबद्धस्य न कोऽपि त्राता कालपाशेन बद्धस्य त्रातारो न भवन्ति ते । रजसा गुण्ठितं वक्त्रमात्मनो नैव विन्दति ॥ ५.४७ ॥ तृष्णाया हेयत्वे हेतुः प्राप्तेश्च्यवनभूतोऽयं मृत्युः पश्चाद्भविष्यति । लोलुपस्य सदा यत्नैरवितृप्तस्य तृष्णया ॥ ५.४८ ॥ सहसाभ्येति मरणं यन्नदृष्टं सुखार्थिनाम् । अयं तवाग्रहो दुःखं मृत्युना प्रेषितो महान् ॥ ५.४९ ॥ अस्मादनन्तरं मृत्युर्भविष्यति सुदारुणः । महागिरिवरादस्मात्वनोपवनभूषितात् ॥ ५.५० ॥ बद्धानरा विषयगा स्वकर्मफलभोगिनः । क्रीडाविहारिणस्तावत्क्वचित्तृष्णासुखं न हि । तर्ष्यया तृष्णया मूढाः पतन्ति विवशा भुवि ॥ ५.५१ ॥ धूमस्यानन्तरं वह्निर्यथा भवति नित्यशः । तथा च्यवनलिङ्गस्य पृष्ठतश्च्यवनं स्थितम् ॥ ५.५२ ॥ जात्या जात्या ध्रुवं मृत्युश्चारोग्ये सति रुक्स्थिता । सम्पत्तौ व्यसनप्राप्तियौवने सहजा जरा । सर्वैः प्रियैर्वियोगश्च न संयोगो ध्रुवं स्थितः ॥ ५.५३ ॥ धर्मतायाः महत्त्वम् धर्मतेयं सदालोके सम्यग्बुद्धेन देशिता । उभयस्य क्षयो नाशो जनस्यो परिवर्तते ॥ ५.५४ ॥ जातौ सत्यां यथा मृत्युरवश्यं स्थित एव हि । क्षीयते सुकृतं कर्म आयूंषि क्षणिकानि हि ॥ ५.५५ ॥ संवरादिकं भजध्वम् संवर धर्मविनये भजध्वं पुरुषोत्तमाः । अभ्येति यौवनं सर्वं जीवितं चानुगच्छति ॥ ५.५६ ॥ सर्वस्य नाशशालित्वम् नश्यन्ति सर्वदा सर्वा मा प्रमादे मनःकृथा । न नित्यं लभ्यते स्वर्गो न नित्यं क्षणसम्पदा ॥ ५.५७ ॥ यस्य यावन्नाभिपतनं तावत्क्षिप्रं (प्र)युज्यताम् । (तस्य जाते हि पतने तत्प्रयोगो वृथा भवेत्) ॥ ५.५८ ॥ अयं स हि द्रुमवनो नानारत्नविभूषितः । लतागह्वरसंच्छन्नः पद्माकरविभूषितः ॥ ५.५९ ॥ जाम्बूनदमयैश्शुद्धैः प्रासादैः रत्नचित्रितैः । नानाविधैः प्रस्त्रवणैर्लताभिरुपशोभितः ॥ ५.६० ॥ कर्मसाक्षीजनस्यास्य भित्वा गगनमुच्छ्रितः । कल्पाग्निविरतो मेरुः सर्वथा न भविष्यति ॥ ५.६१ ॥ किं पुनर्ये सुरास्तत्र फेनबुद्बुदसन्निभाः । उत्पद्यन्ते विनश्यन्ति प्रमादमदमोहिताः ॥ ५.६२ ॥ सुखदुःखमनन्तं च स्वेच्छाकामफलोद्भवम् । देवलोकाद्यथा देवाः पतन्ति नरके पुनः ॥ ५.६३ ॥ तद्दुःखं परमं कटु शरीरमानसैदुःखैर्विद्यमानेषु सर्वतः । न तच्छक्यं प्रमत्ते स्यात्तद्दुःखं परमं कटु ॥ ५.६४ ॥ वियोगदुःखं दुःखनामग्रतः परिपठ्यते । तच्चदेवगतौ नित्यमग्रतः सम्प्रवर्तते ॥ ५.६५ ॥ सर्वप्रियैर्मनापैश्च विप्रयोगो भविष्यति । न च देवाः प्रपश्यध्वं मरणान्तं हि जीवितम् ॥ ५.६६ ॥ च्युतिकाले तु सम्प्राप्ते विह्वलेन्द्रियचेतसा । जानीध्वं तत्परं दुःखं यदवश्यं भविष्यति ॥ ५.६७ ॥ सर्वं क्षणिकम् अकालचक्रप्रतिमं गन्धर्वनगरोपमम् । त्रिभवे संभवं सर्व फेनबुद्बुदसन्निभम् ॥ ५.६८ ॥ यः फेनराशौ संमूढः कुर्याच्छादनसंस्तरम् । स मूढः संस्कृते कुर्यादभिस्वादं भ्रमात्मकम् ॥ ५.६९ ॥ मृत्युमहिमा न देवा न नरा यक्षा नासुरा गरुडास्तथा । त्रायन्ते मृत्युसमये कर्मणा परितप्यताम् ॥ ५.७० ॥ यावन्नायाति समये मृत्युराजः सुदारुणः । तावत्तु सुकृतं कार्य मा पश्चात्परितप्यथ ॥ ५.७१ ॥ यद्भूतकामजं सौख्यं प्राकृतं विषयोद्भवम् । मृत्युकाले समुत्पन्ने तिष्ठन्ति न बुधर्षमा ॥ ५.७२ ॥ किं करिष्यन्ति सौख्यानि किं स्त्रियः किञ्चबान्धवाः । मृत्युना ह्रियमाणस्य देवलोकात्समन्ततः ॥ ५.७३ ॥ स्थिरास्ता भूमयः सर्वा वनोपवनभूषिताः । मृत्युरज्ज्वा विबद्धश्च त्वन्तु कालेन नीयसे ॥ ५.७४ ॥ आकाशे जलदा यद्वद वायुना समुदीरिताः । संश्लिष्टाश्च वियुज्यन्ते संसारे प्राणिनस्तथा ॥ ५.७५ ॥ ऋतौ ऋतौ यथा पुष्पमागतैर्दृश्यते नरैः । व्यतीते तु ऋतौ सर्वे प्रतियान्ति यथागताः ॥ ५.७६ ॥ यथा काले समुत्पन्ने मोदन्ते सुकृतैः सुराः । व्यतीते तु शुभे काले प्रतियान्ति यथागताः ॥ ५.७७ ॥ ऋतौ ऋतौ यथा वृक्षे पर्णजायतेऽनेकशः । व्यतीते तु शुभे काले शीर्यते तत्समन्ततः ॥ ५.७८ ॥ यथा पर्णोपमादेतन्न सौख्यमभयं भवे । शीर्यते सततं सौख्यं नासौख्यं विद्यते ध्रुवम् ॥ ५.७९ ॥ प्राबृट्काले यथा वर्षमाकाशे न निवर्तते । तथा सौख्यमिदं सर्व गच्छति न निवर्तते ॥ ५.८० ॥ बर्हिणां च यथा नादो वायुना समुदीरितः । श्रूयते तत्प्रणाशाय तथा सौख्यमिदं स्मृतम् ॥ ५.८१ ॥ यथा हि ज्वलने क्षिप्तं ध्रुवं कालं प्रदहयते । तथा वहन्युपमः कालः काष्ठवच्चरतां स्मृतः ॥ ५.८२ ॥ आगताश्च गताश्चैके शतशोऽथ सहस्त्रशः । संवेगो न भवत्येषा तृष्णया मोहितास्तथा ॥ ५.८३ ॥ यथा यथा महासौख्यं स्वयं भोगो यथा यथा । तथा तथा महद्दुःखं पतनान्तोद्भवं ध्रुवम् ॥ ५.८४ ॥ जात्यादि दुःखपरम्परा जातिर्दुःखा जरा दुःखा मरणं दुःखमेव च । प्रियैश्च सह विश्लेषो दुःखस्यैषा परम्परा ॥ ५.८५ ॥ मृत्युना न बिभेत् एकस्य पतनं दृष्ट्वा कथं नोद्विजते जनः । ममापि पतनं ह्येतत्सर्वपापैर्भविष्यति ॥ ५.८६ ॥ यः पश्यति भयं दूरात्प्रतिपत्तौ च वर्तते । (स)म्प्राप्ते मृत्युसमये न विभेति गतव्यथः ॥ ५.८७ ॥ विभुज्यमानो दौनैश्च मृत्युः स्वजनबान्धवैः । यद्दुःखं मृत्युसमये तन्न शक्यं प्रभाषितुम् ॥ ५.८८ ॥ पतनान्तं हि मरणं पतमानो यथा गिरिः । निष्प्रत्यनीकं बलवत्पुरुषानपकर्षति । संश्लिष्यते महावेगः सम्प्रहारी च सर्वदा ॥ ५.८९ ॥ तं ज्ञात्वा मा प्रमादेषु स्तुबध्वं देवसत्तमाः । संश्लेषयति विश्लेषं यौवने च सदा जरा ॥ ५.९० ॥ जीविते च सदा मृत्युः पदमेतत्सदा स्थितम् । अनित्येनाग्निनावश्यं दग्धब्यो यत्र गोचरः ॥ ५.९१ ॥ कल्पान्ते किं पुनर्देवा ये फेनकदलीसमाः । न तदस्ति भवेत्किञ्चिद्यद्ज्ञानं संस्कृतं चलम् ॥ ५.९२ ॥ यन्नित्यं (च) सुखं वा स्यादेतत्स्थानं न विद्यते । उपस्थितमिव ज्ञेयं मरणं सर्वजन्तुभिः ॥ ५.९३ ॥ यस्मात्तस्य प्रतीकारः सर्वोपायैर्न शक्यते । रूपं क्षणिकमेतेषां वयोऽपि क्षणिकं तथा ॥ ५.९४ ॥ क्षीयते च तथा सौख्यं न च बुद्धयन्त्यमेधसः । यदा तत्सर्वमेतेषामनेकं शुभलक्षणम् ॥ ५.९५ ॥ जन्मतः कालचक्रेण परिपाटया विनाशितम् । तथैवैतत्पुरा नष्टमनेकशतलक्षणम् ॥ ५.९६ ॥ तथैतदपि जन्मैषां मृत्युराजो हरिष्यति । प्रमादमनसां ह्येषां नित्यं सुखविहारिणाम् ॥ ५.९७ ॥ निधनाय कालपाशोऽयमभ्येति सुखनाशकः । सुखारोग्यबलप्राणप्रियविश्लेषकारकः ॥ ५.९८ ॥ बलवन्मृत्युराजोऽसौ समीपमुपसर्पति । यः समीपगतो ह्येषां प्रमत्तानामनेकशः ॥ ५.९९ ॥ सुखनाशः सुनिश्चितः जीवितं सह सौख्येन त्वरितं नाशयिष्यति । दीर्घकालमिदं ध्वस्तं प्रमादापहताः सुराः ॥ ५.१०० ॥ नावबुद्धयन्ति मोहान्धाः सौख्येन प्रतिबोधिताः । यदा हीनप्रभाह्येते विह्वलेन्द्रियचेतसः ॥ ५.१०१ ॥ यमलोकं पतिष्यन्ति तदा ज्ञानस्य तत्फलम् । जीयते बत कालोऽयं क्षणिकं च यथा सुखम् ॥ ५.१०२ ॥ तथापि रक्तमनसो नावबुद्धयन्त्यचक्षुषः । रम्याद्रम्यतरं यान्ति नित्यं सुखविहारिणः ॥ ५.१०३ ॥ प्रयास्यन्ति यथा हयेते मृत्युराजो हरिष्यति । जरा जातिविपत्तीनां यो न मूढो विषीदति ॥ ५.१०४ ॥ स पश्चात्मृत्युसमये तप्यते (हीनचेतसा) । सुखं देवेषु सम्प्राप्य (तदेतद्) गुणसम्मतम् ॥ ५.१०५ ॥ कृतहुतं विनाशान्तं क्षणिकं जीवितं चलम् । यथा हि यद्विनाशान्तं तथैषामपि जीवितम् ॥ ५.१०६ ॥ अचिरेणापि कालेन भविष्यति न संशयः । यावन्नायाति मरणं यावद्बुद्धिरनाविला ॥ ५.१०७ ॥ मनसा धर्मरतिः कार्या तावद्धर्मरतं धार्य मनोबलेन धीमता । सर्वजीवितनाशाय सर्वसौख्यक्षयाय च ॥ ५.१०८ ॥ प्रियवियोगः निश्चितः सर्वप्रियवियोगाय मृत्युराश्रयमेति च । तस्मिन्नाप्ते महाध्याने मृत्युः परमदारुणः ॥ ५.१०९ ॥ नान्यत्त्राणमृते धर्मात्तस्माद्धर्मरतो भवेत् । उपपन्नस्य देवस्य या प्रीतिरुपपद्यते ॥ ५.११० ॥ नासौ च्यवनदुःखस्य कलामर्हति षोडशीम् । मृत्युकाले समुत्पन्ने न कश्चित्कस्यचित्तथा ॥ ५.१११ ॥ सर्वस्य नाशत्वम् न च गच्छन्तिमप्येकं पदमेकं हि गच्छति । यदा जातं तदारम्य नरो मृत्युपरायणः ॥ ५.११२ ॥ नानामोहपरीतस्तु भयमेतन्न विद्यते । यदा ते च्यवनं प्राप्ते भवभोगकरं परम् ॥ ५.११३ ॥ तदा विन्दति मूढात्मा यद्भयं मृत्युजं महत् । विषयोरगसन्दष्टा तृष्णा विषविमोहिता ॥ ५.११४ ॥ न विन्दन्ति सदा देवाश्च्यवनान्ते महद्भयम् । च्यवन्ति च तथा दुःखमुत्पादयन्ति देहिनाम् ॥ ५.११५ ॥ यथोपपत्तिश्च्यवनं देवानां सम्प्रजायते । कर्मवायुसमुद्भ्रान्तं प्रयोगेण च दुःखितम् ॥ ५.११६ ॥ पुरुषं नयते मृत्युरवशं (सुखवञ्चितम्) । न मातरो न पितरो न मित्राणि न बान्धवाः ॥ ५.११७ ॥ सहायतां व्रजन्तीयं पुरुषं कालचोदितम् । असहायो जनश्चायं जनः प्रकृतिवञ्चितः ॥ ५.११८ ॥ मन एव पाशबन्धनम् केवलं तु मनःपाशैर्बन्धनैर्बध्यते जनः । न जनः स्वजनश्चेह त्राता भवति कस्यचित ॥ ५.११९ ॥ गृहीत इव केशेषु मृत्युना धर्ममाचरेत् मृत्युकाले समुत्पन्ने स्वजनोऽपि यथा जनः । यस्त्वं पश्यसि देवानां सुखमेतन्महोदयम् ॥ ५.१२० ॥ तत्प्रसह्यमहादेवो मृत्युराजो हरिष्यति । त्वरितं याति जन्मेदं न च विन्दति बालिशः ॥ ५.१२१ ॥ पश्चात्तु व्यसने प्राप्ते प्रतिविन्दन्ति दुःखिनः । यदि दुःखाद्भयं त्वरितं यदि मृत्युभयश्च यः ॥ ५.१२२ ॥ धर्मे हि क्रियतां बुद्धिरेवं सुखमवाप्स्यथ । विनाशान्तं सदा सौख्यमनित्यं सर्वतश्चलम् ॥ ५.१२३ ॥ देवत्वं पतनान्तम् सर्वदेवकृतं सौख्यं न च विन्दन्ति मोहिताः । अभूत्वा च च्यवन्त्येते भूत्वावश्यं हि चञ्चलाः ॥ ५.१२४ ॥ देवाः पतनभावाय धर्मतेयं व्यवस्थिता । प्रमत्ताः कामभोगेषु ये देवाश्चलमानसाः ॥ ५.१२५ ॥ न पश्यन्ति सुरास्तीव्रं व्यसनान्तं हि जीवितम् । यदैव जायते देवस्तदैव मरणाय सः ॥ ५.१२६ ॥ श्रेयसे मतिः कर्त्तव्या दिवसान्ते यथा रात्रिरवश्यं प्रतिपद्यते । दिवसं जीवितं प्रोक्तं रात्रिः स्थान्मरणोपमा ॥ ५.१२७ ॥ तस्मात्तदुभयं ज्ञात्वा श्रेयसे क्रियतां मनः । तदेतदर्थ नृणां हि स्त्रीरागवशवर्तिनाम् ॥ ५.१२८ ॥ तदिष्टं मृत्युसैन्येन प्रसहयमवमर्दितम् । भावाभावादिभिर्मूढान् वञ्चयित्वा स्त्रियो नरान् ॥ ५.१२९ ॥ प्रयान्ति मृत्युसमये स्वकर्मफलभोगिनः । पद्मोपवनशैलेषु नदीनां निर्झरेषु च ॥ ५.१३० ॥ बहुशः क्रीडनं कृत्वा कूपायाभिगताः प्रियाः । अवश्यम्भावि मरणमवश्यं च वियोगिता ॥ ५.१३१ ॥ तथापि नाम पुरुषा नित्यं रागवशानुगाः । सुखितं दुःखितं वा(पि) जीर्णमन्यत्र यौवनम् ॥ ५.१३२ ॥ मृत्युराजोऽवमर्दति दुष्कुलीनं कुलीनं वा मृत्युराजोऽवमर्दति । सुरूपं वा विरूपं वा बलवन्तं तथाबलम् ॥ ५.१३३ ॥ सनाथं नष्टनाथं वा मृत्युराजोऽवमर्दति । राजानं वा तथा मृत्युः गृहिणं वा तथा यतिम् ॥ ५.१३४ ॥ क्रूरं वा मृदुकं वापि मृत्युराजोऽवमर्दति । निर्धनं वा दरिद्रं वा सगुणं निर्गुणं तथा ॥ ५.१३५ ॥ स्त्रियं वा पुरुषं वापि मृत्युराजोऽवमर्दति । प्रवासिनं गृहस्थं वा जले वापि स्थलेस्थितम् ॥ ५.१३६ ॥ स्थितं वा गिरिशृङ्गेषु मृत्युराजोऽवमर्दति । जागरन्तं तथा सुप्तं भुञ्जानं वा तथा स्थितम् ॥ ५.१३७ ॥ प्रमाथी सर्वलोकस्य मृत्युराजोऽवमर्दति । भूमिस्थं (वा) विमानस्थं विदेशस्थं तथा गृहे ॥ ५.१३८ ॥ क्रकचः कालचक्रोऽयं मृत्युराजोऽवमर्दति । भाग्यवन्तं तथा धन्य निस्त्रिशं (चैव) धर्मिकम् ॥ ५.१३९ ॥ रोगिणं स्वस्थदेहं वा मृत्युराजोऽवमर्दति । चण्डं सुशीलिनं चापि कदर्य धनिनं तथा ॥ ५.१४० ॥ प्रमत्तमप्रमत्तं वा मृत्युराजोऽवमर्दति । नारकेयं तथा प्रेतं तिर्यञ्चो मनुजं तथा ॥ ५.१४१ ॥ अनिवृत्तबलोत्साहो मृत्युराजोऽवमर्दति । कामधातौ च ये देवा रूपधातौ च ये स्थिताः ॥ ५.१४२ ॥ तान् सर्वान् हि प्रतिबलान्मृत्युराजोऽवमर्दति । आरूप्येषु च ये देवाः समापत्तिनिवेशकाः । तान् सर्वानपि वै देवान्मृत्युराजोऽवमर्दति ॥ ५.१४३ ॥ सर्व विनाशान्तम् यद्जातं संस्कृतं किञ्चिद्तद्विनाशान्तमेव हि । तन्नास्ति संस्कृतं किञ्चिद्यस्य नाशो च विद्यते । मृत्योर्बलमिदं ज्ञात्वा कामदोषं च सर्वतः ॥ ५.१४४ ॥ तृष्णया वञ्चनं चापि विरमध्वं भवार्णवात् । तदैतद्व्यसनं मत्वा मृत्योरपि चलाचलम् ॥ ५.१४५ ॥ सुदान्तं क्रियतां चित्तम् सुदान्तं क्रियतां चित्तं येनेदं भ्राम्यते जगत् । वनोपवनशैलेभ्यो विमानेभ्यश्च सर्वतः ॥ ५.१४६ ॥ सर्वदेवाः पचिष्यन्ति कालाग्निविनिपातिताः । प्रमादमनसो मूढा भूयो विषयजिहिमताः ॥ ५.१४७ ॥ तृष्णापाशेन सम्बद्धा देवाः यास्यन्ति दुर्गतिम् । रभसं जीवितं सौख्यं प्रयाति खलु देहिनाम् ॥ ५.१४८ ॥ न च विन्दन्ति विबुधा जात्यन्धा इव सत्पथम् । जलबुद्बुदसंकाशं जीवितं सर्वदेहिनाम् ॥ ५.१४९ ॥ नदीतरङ्गचपलं यौवनं व्यतिवर्तते । अनित्या (हि)कटाक्षेक्षाप्रदुःखास्तुषिताः सुराः ॥ ५.१५० ॥ रागस्य हेयत्वम् निर्वायत्यवशो दीनो दीपः स्नेहक्षयादिव । कर्मक्षयपरिक्षिप्तो द्वादशारो महाबलः ॥ ५.१५१ ॥ धर्मचक्रो भवत्येष निपाती स्यान्न चञ्चलः । विचित्रविषयारम्या अनेकसुखमण्डिताः ॥ ५.१५२ ॥ कालग्रासाः सर्वे भवन्ति तुषिताः पतन्ति विवशाः कालस्य वशमागताः । कालस्य वशमापन्ना यथा रोहन्ति पादपाः ॥ ५.१५३ ॥ ते पुनः कालमासाद्य भवन्ति विगतत्विषः । यथा कालं समापद्य भवन्ति सुखिताः सुराः ॥ ५.१५४ ॥ पुनस्तमैव संसृत्य पतन्ति विवशा हि ते । कर्मकालं समासाद्य लोकोऽयं परिवर्तते ॥ ५.१५५ ॥ सुखं व्रजति दुःखं हि कालस्य वशमागतः । यद्वृत्तं प्राक्शुभं कर्म तच्च दुष्टमहोदयम् ॥ ५.१५६ ॥ तदिदं भुञ्जते स्वर्गं क्षीयते च ततः पुनः । सहेतुकस्य सर्वस्य क्षणिकस्य विशेषतः ॥ ५.१५७ ॥ अनित्यतापरामर्शो नासौ भवति सर्वतः । ये भावाः संस्कृता नित्याः सर्वे ते विप्रलोभिनः ॥ ५.१५८ ॥ विप्रलोभ्य जनं याति धर्मतेयं व्यवस्थिता । शीघ्रस्रोता यथा नद्यस्तथा सौख्यं शरीरिणाम् ॥ ५.१५९ ॥ क्षणिकं जीवितं सर्व न च विन्दन्ति बालिशाः । जरा व्याधिश्च मृत्युश्च विपत्तिः कर्मसंक्षये ॥ ५.१६० ॥ भवन्त्येतानि देवानां नित्यानां कामचारिणाम् । नायुर्ध्रुवं भवत्येव न सौख्यं त्रिषु धातुषु ॥ ५.१६१ ॥ न (च) विन्दन्ति विवशा देवाः कामेन मोहिताः । वर्षधारा यथाकाशे दुःस्था भवति सर्वतः ॥ ५.१६२ ॥ तथा सौख्यमिदं सर्व वर्षधारोपमं सदा । वायुना पांसवो यान्ति अन्योन्य परिघट्टिताः ॥ ५.१६३ ॥ भ्राम्यते गगनेऽवश्यस्तथा श्लेषः शरीरिणाम् । सुचिरमपि संरम्यं नित्यता नास्ति देहिनाम् ॥ ५.१६४ ॥ अचिन्त्यार्थे सौख्यमिदं न च विन्दन्ति बालिशाः । वातेरितं तु यत्सौख्यं विनाशान्तं भविष्यति ॥ ५.१६५ ॥ सुखस्य दुःखमिश्रितत्वम् विनाशं नैव बुध्यन्ति कामिनश्चित्तवञ्चिताः । दुःखमिश्रं सुखमिदं प्रच्छन्नमिव विद्यते ॥ ५.१६६ ॥ पद्ममालापरिच्छिन्नो विषपूर्णो यथा घटः । ओदनं विषसम्मिश्रं मरणान्तं (हि) तत्तथा ॥ ५.१६७ ॥ तथा सौख्यमिदं सर्व तस्मात्तत्परिवर्जयेत् । आदौ मध्ये तथा चान्ते नरकाय भविष्यति ॥ ५.१६८ ॥ उत्पादस्थितिभङ्गानि सर्वाणि वस्तूनि उत्पादस्थितभ्ङ्गान्तं सर्व संस्कृतमुच्यते । सर्व च संस्कृतं सौख्यं ननु भट्टारमेव तत् ॥ ५.१६९ ॥ भट्टारञ्च विलासश्च (सु)व्ययक्षणिकं तथा । सुखं च जीवितं सर्व तस्मात्तत्परिवर्जयेत् ॥ ५.१७० ॥ आदौ मध्ये तथा चान्ते श्रेयस्येव मनः सदा । सुदान्तः शुद्धचितस्य मृत्युकाले न सीदति ॥ ५.१७१ ॥ मरणस्यावश्यम्भावित्वम् अवश्यम्भावि मरणं प्रियस्य च वियोगता । न च चिन्तयतः काले विषये विप्रलोभिनः ॥ ५.१७२ ॥ जरामरणचक्रं तमविषह्यं सुदारुणम् । पादपान् देवगान् सत्त्वान्न च बुद्धयन्त्यचक्षुषः ॥ ५.१७३ ॥ सर्वस्य जातस्य च्यवनं भवति च्यवमानस्य देवस्य विकलेन्द्रियचेतसः । यद्दुःखं सुकरं तस्य नौपम्यमिह विद्यते ॥ ५.१७४ ॥ यथा यथा महत्सौख्यं तृष्णोपहतचेतसः । तथा तथा महद्दुःखं च्यवमानस्य दुःसहम् ॥ ५.१७५ ॥ कृत्वा हि संस्कृतं कर्म न ज्ञात्वा कर्मणः स्थितिः । मृत्युकाले समुत्पन्ने पश्चात्तापेन दहयते ॥ ५.१७६ ॥ मृत्योः पूर्वमेव स्वहितमाधेयम् यावन्नाप्येति मरणं यावच्च क्षणसम्पदः । तावत्स्वहितमाधेयमेष मार्गः सुखावहः ॥ ५.१७७ ॥ च्यवनं देवलोकेषु मरणं नरभूमिषु । विदित्वा कः पुमानास्थां कुर्यात्सोपद्रवे भवे ॥ ५.१७८ ॥ सर्व विनाशि तैलवर्तिप्रणाशेन दीपनाशो यथा ध्रुवम् । कर्मक्रिया तथा कस्य विनिपातः सुरालयात् । भित्तिनाशो यथावश्यं चित्तनाशो ध्रुवंस्थितः ॥ ५.१७९ ॥ कर्मनाशात्तथा सौख्यमवश्यं विनिपद्यते । क्षीणपुण्याः निपत्यन्ते देवाः सर्वे सुरालयात् ॥ ५.१८० ॥ अनित्यतैषां सर्वेषां सत्त्वानां विनिपातिका । मृत्युः पिवति भूतानि जरा पिवति यौवनम् ॥ ५.१८१ ॥ व्याधिः पिवति चारोग्यं न च लोकोऽवबुध्यते । उपपन्नाः सुबहुशः प्रतीताश्चाप्यनेकशः ॥ ५.१८२ ॥ जायते जीर्यते चायं च्यवने चोपपद्यते । न क्षणोऽस्ति मुहूर्तो वा परिवर्तस्तथापि वा ॥ ५.१८३ ॥ यत्र मृत्युर्विलम्बेन न च लोकोऽवबुध्यते । उपपन्नास्तु बहुशः प्रतीताश्चाप्यनेकशः ॥ ५.१८४ ॥ यन्न मृत्युविलम्बः स्यान्न च लोकोऽवबुध्यते । अनित्यं जीवितं सर्व न विलम्बि च यौवनम् ॥ ५.१८५ ॥ सर्वभूतान्यनित्यानि न च लोकोऽवबुध्यते । अन्ते क्रमेण नश्यन्ति भावाः क्षणविलम्विनः ॥ ५.१८६ ॥ सम्बद्धाः कर्मसूत्रेण न च लोकोऽवबुध्यते । देवकोटिसहस्त्राणि वनोपवनसेविनाम् ॥ ५.१८७ ॥ निमीलितानि कालेन न च लोकोऽवबुध्यते । पङ्काभावचरा देवाः प्रमत्ता भोगतृष्णया ॥ ५.१८८ ॥ यास्यन्ति विलयं सर्वे न च लोकोऽवबुध्यते । फेनबुद्बुदसङ्काशं स्वप्नद्रव्योपमं सुखम् ॥ ५.१८९ ॥ क्षयं प्रयाति शीघ्रं च न च लोकोऽवबुध्यते । सर्वस्य सर्वथा सर्वो विनाशो नियतो भवे ॥ ५.१९० ॥ न च बालस्य संसारान्निर्वेदमुपपद्यते । न सर्वः सर्वथा सर्व सर्वोपायैः प्रयत्नशः । संत्राता भवने प्राप्ते मृत्युकाले सुदारुणे ॥ ५.१९१ ॥ मृत्युरित्यभिधीयते व्युच्छेत्ता सर्वसौख्यानां दुःखनामाकरो महान् । विश्लेषः सर्वबन्धानां मृत्युरित्यभिधीयते ॥ ५.१९२ ॥ भयोपनेता भूतानां दुःखानामुदधिः समः । व्यामोहकर्त्ता बुद्धीनां मृत्युरित्यभिधीयते ॥ ५.१९३ ॥ सञ्छेत्ता जीवितानामिन्द्रियाणां च नाशकः । अमृश्यः सर्वभूतानां मृत्युरित्यभिधीयते ॥ ५.१९४ ॥ अधृष्यः सर्वभूतानामजेयः सर्वकर्मणाम् । विनाशः सर्वसत्त्वानां मृत्युरित्यभिधीयते ॥ ५.१९५ ॥ अवश्यम्भावि तत्त्वानामन्तकं सर्वदेहिनाम् । निकायभागनाशोऽयं मृत्युरित्यभिधीयते ॥ ५.१९६ ॥ सदेव यक्षगन्धर्वपिशाचोरगरक्षसाम् । कालचक्रविनाशी (च) मृत्युरित्यभिधीयते ॥ ५.१९७ ॥ असंयमी प्रमाथी च बह्निवत्सर्वदेहिनाम् । क्रूरश्चाविनिवर्त्त्यश्च मृत्युरित्यभिधीयते ॥ ५.१९८ ॥ स्कन्धायतननाशश्च आरुप्यस्याथ चेतसः । कालधर्मो महावेशो मृत्युरित्यभिधीयते ॥ ५.१९९ ॥ श्रेयसे मतिः करणीया न तु प्रमादे स एव धा(त)वे शीघ्रं विनिपाताय देहिनाम् । श्रेयसे क्रियतां यत्नो मा प्रमादेः मनः कृथाः ॥ ५.२०० ॥ गतं जीवनं नायाति यथा (हि शीघ्र) गमनं पक्षिणां पवनस्य वा । तथा शीघ्रतरं याति जीवितं सर्वदेहिनाम् ॥ ५.२०१ ॥ गतो निवर्तते वायुर्निवर्तन्ते च पक्षिणः । जीवितं यन्निरुद्धं तु तस्य नागमनं पुनः ॥ ५.२०२ ॥ द्रुतं क्षीयन्ति कर्माणि द्रुतमभ्येति चान्तकः । अवश्यम्भावि विश्लेषं न च विन्दन्ति देवताः ॥ ५.२०३ ॥ अनिर्वायो महावेगश्चतुःसत्यनिवर्हणः । अवश्यम्भावि बलवानेष मृत्युरुपैति च ॥ ५.२०४ ॥ श्रुति प्रमादिनो देवाः सुखेन परिवञ्चिताः । न विन्दन्ति महद्दुःखं यदवश्यं भविष्यति ॥ ५.२०५ ॥ संस्कृतस्य हि सर्वस्य समयस्य विशेषतः । विनाशो भवति (चा)सौ धर्मतेयं भवे भवे ॥ ५.२०६ ॥ जरायौवननाशाय प्राणनाशाय चान्तकः । विपत्तिभूतनाशाय स्थिता (वै) नाशहेतवः ॥ ५.२०७ ॥ एवंविधे महाघोरे व्यसने (वै) महद्भये । प्रमादिनो हि यद्देवाः नूनमेते च चेतनाः ॥ ५.२०८ ॥ अनागतभयं यो हि पश्यति ज्ञानचक्षुषा । स पण्डित इति ज्ञेयो विपरीतस्तु बालिशः ॥ ५.२०९ ॥ कर्मक्षये सुखस्य नाशः विमूढमनसः सर्वे वञ्चिताः स्वेन चेतसा । कर्मक्षये तु नश्यन्ति दीपा स्नेहवशादिव ॥ ५.२१० ॥ अनेकविषयाणां च इदं सौख्यमनुत्तमम् । भुक्त्वा कर्मक्षयो भूत विनिपातो भविष्यति ॥ ५.२११ ॥ अनित्यत्वानवगमादधर्मरतिः जलतरङ्गचपलं जीवितं याति देहिनाम् । न च बुद्बुदनिःसारमवगच्छन्ति बालिशाः ॥ ५.२१२ ॥ फेनराशिश्चिरं तिष्ठेदुपायैः कतिभिर्ननु । न तु देवाश्चिरं तिष्ठन्त्यनित्यो भावनमिति ॥ ५.२१३ ॥ लोभवशादेव मृत्योरुपेक्षा कृष्यते भूरियं सर्वा मनुजैः फलकांक्षिभिः । न च संदृश्यते मृत्युर्लाभसक्तैरपण्डितैः ॥ ५.२१४ ॥ क्षणे क्षणे विवर्धन्ते लोभाशा मोहिते जने । न च विन्दन्ति संसाराः क्षीयमाणाः क्षणे क्षणे ॥ ५.२१५ ॥ दण्डत्रयमुपसंहरति जरादण्डोऽयमभ्येति यौवनान्तकरो नृणाम् । आरोग्यशक्तिनाशाय व्याधिदण्डोऽयमागतः । दण्डत्रयमिदं घोरं ससुरासुरनाशकम् ॥ ५.२१६ ॥ अभ्येति न च मूढोऽयं लोकं पश्यति बालिशः । परस्परं प्रलोभाच्च स्वजनं स्नेहचञ्चलम् ॥ ५.२१७ ॥ मोहबद्धाः मृत्युं वियोगं च नावगच्छन्ति गच्छत्यन्योन्यसंश्लिष्टो मोहबद्धे जने जनः । पुत्रपौत्रप्रपौत्राणां वशगाश्चापि ये नराः ॥ ५.२१८ ॥ कर्मस्कन्धस्य दुःखावहत्वम् सर्वे तेन भविष्यन्ति त्वं तु सङ्गेन बाध्यसे । जीवितान्तकरः शत्रुर्न विशङ्को महाबलः ॥ ५.२१९ ॥ सोऽविलम्बी महावेगो मृत्युरेषोऽभ्युपैति च । चलाचलविधिर्ज्ञेयः कर्मस्कन्धैर्निदर्शितः ॥ ५.२२० ॥ देवादीनां क्षयो भवति देवनागाः (स)गन्धर्वा पिशाचोरगराक्षसाः । न शक्ताश्च्यवने क्षान्तं बलं तस्य तथागतम् ॥ ५.२२१ ॥ तत्त्वदर्शको दुर्गतिं नाधिगच्छति चलाचलविधिर्ज्ञेयः कर्मणा तत्त्वदर्शकः । अलिप्तः पापकैर्धर्मैर्न स गच्छति दुर्गतिम् ॥ ५.२२२ ॥ इति अनित्यतावर्गः पञ्चमः (६) अप्रमादवर्गः प्रमादरतस्य न मोक्षः यः प्रमादरतो जन्तुर्नासौ मोक्षाय कल्पते । प्रमादविषमूढस्य निर्वाणं दूरमेव तत् ॥ ६.१ ॥ न प्रमादे मनः कार्यम् न प्रमादेषु बध्येत्प्रमादः शत्रुरुत्तमः । प्रमादपरमा देवाः पतन्ति नरके पुनः ॥ ६.२ ॥ स्वभावतामिमां ज्ञात्वा धर्माणामुदयव्ययम् । न प्रमादे मनः कार्य प्रमादविषमुत्तमम् ॥ ६.३ ॥ प्रमादाप्रमादयोः परस्परविरोधित्वम् अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम् । अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः ॥ ६.४ ॥ यथा विषं तथा वह्निः प्रमादः प्राणिनां तथा । प्रमादोन्मादिताः सत्वाः दुःखाद्दुःखं प्रयान्ति ते ॥ ६.५ ॥ अप्रमत्ताः सदामर्त्याः सर्व प्रक्रमसंस्कृताः । प्रयान्ति परमां शान्ति प्रमादो यत्र नास्ति हि ॥ ६.६ ॥ यः प्रमादे रतो जन्तुर्न शुभान्यनुचेष्टते । तस्य धर्मविमूढस्य कुतः स्वर्गो भविष्यति? ॥ ६.७ ॥ प्रमादं वर्जयेद्यस्मात्प्रमादं विषमुत्तमम् । अप्रमत्ता न भ्रियन्ते प्रमत्तास्तु सदात्मृताः ॥ ६.८ ॥ सौभाग्यं प्राप्य यो मर्त्यः प्रमादेषु च वर्तते । न पण्डित इतिख्यातो विपरीतस्तु नान्यथा ॥ ६.९ ॥ न प्रमादस्य कालो हि हर्षस्य न कथञ्चन । व्यामोहजननाच्चेतो मृत्युकाले महाबले ॥ ६.१० ॥ प्रमादमुखेन प्रमादवर्णनम् हर्षो धूमः प्रमादोऽग्निर्देवान् दहति नैकशः । विषयैर्मोहिता मूढा न च विन्दन्त्यचक्षुषः ॥ ६.११ ॥ अव्युच्छिन्नानि पश्यन्ति संस्काराणि च देहिनाम् । यथा हि विषयैर्मूढा नावगच्छन्ति यद्द्विषः ॥ ६.१२ ॥ तस्मात्प्रमादं विषवत्कथयन्ति मनीषिणः । सुखं न दृश्यते पूर्व प्रमादोमन्दबुद्धिभिः ॥ ६.१३ ॥ (यथा) प्रमादोपकृताः प्रयान्ति नरकं पुनः । फले प्राप्ते प्रमादोऽयं पश्चात्सन्तप्यते व्यथा ॥ ६.१४ ॥ प्रमादोऽनर्थकरः सर्वानर्थकरो दृष्टः प्रमादः पण्डितैः नरैः । तथा च कुशलं प्रायो यः प्रमादं न सेवते ॥ ६.१५ ॥ दुःखं यस्य भवेदिष्टं स प्रमादं निषेवताम् । न प्रमादपरः कश्चित्कदाचित्सुखमाप्नुयात् ॥ ६.१६ ॥ प्रमादशून्यानामच्युतपदप्राप्तिः प्रमादविरताः सन्तो गच्छन्ति पदमच्युतम् । ना प्रमादपरः कश्चिन्नरके दुःखितान्नयेत् ॥ ६.१७ ॥ यदि देवाः सहन्तीमं रमन्ते मन्दमेधसः । तिरश्चां हि सुराणां च विशेषो नैव विद्यते ॥ ६.१८ ॥ प्रमादवशात्देवलोकाद्पतन्ति प्रत्येकं कर्मवैचित्र्यं प्रमादपरमाः सुराः । नावगच्छन्ति पतनं देवलोकाद्भविष्यति ॥ ६.१९ ॥ सन्निकृष्टं सदा दुःखं पतनं वा भविष्यति । देवलोकोत्तरा देवा यथा स्यात्सुखमात्मनः ॥ ६.२० ॥ देवलोकं समासाद्य यः प्रमादेषु रक्षते । स क्षीणशुभकर्मान्तं च्यवनान्ते विबुध्यते ॥ ६.२१ ॥ मा प्रमादपरोभूयाः प्रमादो नोचितः सुरैः । प्रमादैर्दोषविहताश्च्यवन्ति त्रिदशालयात् ॥ ६.२२ ॥ प्रमादवशगः पुरुषः नाशमेति दह्यते पुरुषः सर्वः प्रमादेन विमोहितः । स पश्चाद्विगते तस्मिन् प्रत्यादेशेन रक्ष्यते ॥ ६.२३ ॥ दोषोद्भवामिमां भूमिं प्रमादावृत्तशाद्वलम् । विचरन्ति सदा मूढाः सुराः सत्कृतमोहिताः ॥ ६.२४ ॥ चञ्चला विषमास्तीव्रा प्रमादाः कामहेतवः । न तेषां विश्वसेद्वीरो यस्मात्स्वप्नोपमा हि ते ॥ ६.२५ ॥ कामः नारकस्य हेतुरिति न स्वप्नो नरके हेतुः कामाः स्वप्नस्य हेतुकाः । तस्मात्काममिमं मुक्त्वा नित्यं सुचरितं चरेत् ॥ ६.२६ ॥ अप्रमादात्सर्व प्राप्तुं शक्नोति यत्रावाप्तं पदं कृत्स्नं सुरैः कामविमोहितैः । तत्प्राप्यते पदं वीरैरप्रमादपरैर्नरैः ॥ ६.२७ ॥ प्रमादमूलसंसारः प्रमादमूलसंसारो देवानामालयस्तथा । ये प्रमादविषैर्मत्तास्ते मग्ना भवसङ्कटे ॥ ६.२८ ॥ तमः प्रमादमूलञ्च अविद्या हयपकारिका । अन्धकारेण ये मूढास्तेषां चक्षुर्न विद्यते ॥ ६.२९ ॥ प्रमादः मोहात्मकः तेजसा हि तथा मूलैरग्निना न च कथ्यते । मोहानां प्रवरस्तद्वत्प्रमादः परिकीर्त्यते ॥ ६.३० ॥ प्रमादानलतप्तेन मनसा तद्विचेष्टते । मुहयन्ते येन ते बालाः प्रयान्ति नरकं पुनः ॥ ६.३१ ॥ प्रमादोन्मादितः सुखमेवानुभवति प्रमादोन्मादिता देवास्त्रिविधा ये चलात्मकाः । वियोगदुःखं विस्मृत्य संयोगे सुखकांक्षिणः ॥ ६.३२ ॥ पतनान्तमेव जीवनम् उपस्थिते महादुःखे पतनान्ते हि जीविते । पश्चाद्वहन्ति विरसं पतनान्तं सुखं चलम् ॥ ६.३३ ॥ संयोगो विप्रयोगान्तः पतनान्तः सुखं सदा । जरान्तं यौवनं सर्व कर्मान्तः सर्वदेहिनाम् ॥ ६.३४ ॥ संसारः कर्मनाटकसम्बद्धः शुभाशुभेन बद्धा हि कर्मणा सर्वदेहिनः । नटवन्नटयन्त्येते गत्यां गत्यां पृथक्पृथक् ॥ ६.३५ ॥ कर्मनाटकसम्बद्धः संसारो भ्रमते सदा । न तत्र विश्वसेद्धीमाननित्या कर्मणां गतिः ॥ ६.३६ ॥ प्रमादः परमोदोषः सर्वपापानि विषवत्प्रमादः परिबर्ज्यताम् । प्रमादेन तु ये मुक्ता (स्ते) तीर्णास्ति भवार्णवात् ॥ ६.३७ ॥ प्रपातपतितो दोषी कदाचिदपि जीवति । न प्रमादप्रपतितः कदापि सुखवान् भवेत् ॥ ६.३८ ॥ प्रमादः परमो दोषः कदाचित्सर्वकर्मसु । न रात्रौ न दिवा तस्य शुभं भवति कर्हिचित् ॥ ६.३९ ॥ यत्सुखं लौकिकं किञ्चिद्यच्च लोकोत्तरं मतम् । नश्यते तत्प्रमादेन तस्मात्तत्परिवर्जयेत् ॥ ६.४० ॥ अप्रमादोऽमृतपदम् अप्रमादोऽमृतपदं प्रमादो मृत्युनः पदम् । अप्रमादेन ते देवाः देवानां श्रेष्ठतां गताः ॥ ६.४१ ॥ प्रमादमूलः संसारः अप्रमादश्च (सद्) गतिः । तस्माद्प्रमादविरतः सुखी भवति सर्वदा ॥ ६.४२ ॥ दुःखाद्विभेति चेत्प्रमादं परित्यजेत् इच्छते यत्सुखं नित्यं यश्च दुःखाद्विभेति (वै) । स (हि) प्रमादाद्विरमेत्प्रमादो विषवन्नृणाम् ॥ ६.४३ ॥ प्रमादनिद्राविहता प्रमादविषमोहिताः । प्रपातं हि प्रपद्यन्ते जनाः शुक्ल कृतात्मकाः ॥ ६.४४ ॥ अप्रमादः परं श्रेयः अप्रमादः परं श्रेयो न प्रमादः कथञ्चनः । अप्रमादेन सुखिनः प्रमादेन (सु)दुःखिताः ॥ ६.४५ ॥ प्रमादमूढाः नरकं व्रजन्ति प्रमादमूढा हि नरा भूयो मद्येन मोहिता । धिक्प्रमादविमूढास्ते चरन्ति नरकं पुनः ॥ ६.४६ ॥ प्रमादवागुराबद्धा विषयार्णवसंस्थिताः । तृष्णाविषयसम्बद्धो देवः क्रीडत्यनेकशः ॥ ६.४७ ॥ जातमात्रस्य देवस्य तत्क्षणं क्षीयते सुखम् । न विन्दन्ति विवशाः प्रमादावृत्तचेतसः ॥ ६.४८ ॥ प्रमादवशः कामवशगोऽतृप्त एव तिष्ठति प्रमादोद्भ्रान्तमनसो नित्यं विषयतत्पराः । अतृप्ताः कामभोगेषु सुखेन सुखिता हि च ॥ ६.४९ ॥ कामानलेन सन्दग्धाः विप्रमादेन मोहिताः । न विन्दन्ति बलं सर्व विनाशान्तं हि जीवितम् ॥ ६.५० ॥ अनेकानि सहस्त्राणि सुराणां नियुतानि च । कामानलेन सन्दग्धाः प्रमादेन विमोहिताः ॥ ६.५१ ॥ प्रमादयुताः पतन्ति ह्रियते पुरुषः सर्वः प्रमादेन विमोहितः । स पश्चाद्व्यसने प्राप्ते बुध्यते तस्य तत्फलम् ॥ ६.५२ ॥ विषवत्प्राणहृद्दृष्टः प्रमादस्तत्त्वदर्शिभिः । अग्निवद्दह्यते नित्यं शस्त्रवच्च निकृन्ततिः ॥ ६.५३ ॥ मित्रवद्दृश्यते पूर्व पश्चाद्भवति शत्रुवत् । वहिशः सर्वदेवानां प्रमादः सम्प्रवर्तते ॥ ६.५४ ॥ देवासुरमनुष्याणां नागानां च विशेषतः । प्रमादः कारणं दृष्टं सर्वान्नर्थान् करोति सः ॥ ६.५५ ॥ यः प्रमादहतो नित्यं नासौ कल्याणमर्हति । कल्याणवर्जितः पुरुषो नरकानुपकर्षति ॥ ६.५६ ॥ विविधा कृतयस्तिर्यग्प्रमादपरिवञ्चिताः । मैथुने भोजने चैव येषां बुद्धिः सदारताः ॥ ६.५७ ॥ यदा सुचरितं कर्म चान्तीभूतं दिवौकसाम् । भविष्यति तदाभूयः क्व यास्यन्ति प्रमादिनः ॥ ६.५८ ॥ प्रमादवारिणां दुःष्टाः कर्मवायुभिराहताः । पतन्ति वृक्षवद्देवा गत्यां गत्यां पृथक्पृथक् ॥ ६.५९ ॥ सुराणामपि संवेगजनितः शोको जायते शतशो न हुतश्चैव दिवि जाता दिवौकसः । न च संवेगजनितो हृदि शोकः प्रजायते ॥ ६.६० ॥ प्रमादकलुषं पीत्वा मोहात्पानं दिवौकसः । पतन्ति नरकं तीव्रं वह्निना परिवारितम् ॥ ६.६१ ॥ सुदुर्लभस्य मानुषस्य जन्मनः साफल्यवैफल्ये सुलब्धं मानुषं जन्म ये लब्ध्वा अप्रमादिनः । कुर्वन्ति सुकृतं कर्म देवलोकोपगामिनः ॥ ६.६२ ॥ दुर्लभं मानुषं कर्म लब्ध्वापि ये प्रमादिनः । ते प्रमादात्परिभ्रान्ताः पतन्ति नरके नराः ॥ ६.६३ ॥ मृत्युसमये प्रमादी तपत्येव प्रमादरतसत्त्वो यः कृपया परिवर्तते । स पश्चान्मृत्युसमये तप्यते स्वेनचेतसा ॥ ६.६४ ॥ प्रमादस्य दाहकत्वम् न तथा दह्यते वह्निर्न च शस्त्रं विकृन्तति । पञ्चेन्द्रियसमुद्भूतं प्रमादो दह्यते तथा ॥ ६.६५ ॥ सुखरूपं तथा दुःखं मित्ररूपं तथा रिपुः । प्रमादिनां हि तन्नित्यं तस्मात्तं परिवर्जयेत् ॥ ६.६६ ॥ प्रमादतृष्णया मिश्रो रागस्तदनुवर्धकः । त्रयस्ते रिपवः क्रुष्टाः नाशयन्ति सुखं नृणाम् ॥ ६.६७ ॥ ये प्रमादरता नित्यं न च धर्मरता बुधाः । ते मृत्युसमये प्राप्ते यमदूतैः पराकृताः ॥ ६.६८ ॥ विषवत्प्रमादं मत्वा तत्परित्यागिनःधन्या प्रमादं विषवद्ये तु परिरक्षन्ति पण्डिताः । ते मृत्युसमये प्राप्ते भवन्ति सुखभागिनः ॥ ६.६९ ॥ प्रमादः परमो मृत्युरप्रमादः परं सुखम् । तस्मात्सुखार्थिनाः नित्यं मा प्रमादे मतिं कृथाः ॥ ६.७० ॥ धात्वायतन सम्मोहः श्रेयसां विध्न धात्वायतनसम्मोहः श्रेयसां विघ्नकारकः । सन्यासः सर्वकर्माणां प्रमादः सम्प्रवर्तते ॥ ६.७१ ॥ दोषयन्त्रविलग्नाय मायाद्वारस्य दूतकः । सम्मोहस्याग्रणी पापः प्रमादः सम्प्रवर्तते ॥ ६.७२ ॥ प्रमादरताः मृत्युमुखं प्रति गच्छन्ति ये प्रमादरता बालास्ते मृत्योर्हस्तमास्थिताः । प्रमादसेवका ये तु ते सर्वे निधनंगता ॥ ६.७३ ॥ प्रमादिनो देवा अपि क्षीणपुण्याः भवन्ति पुण्यक्षयाय देवानां प्रमादेन विहिंसिताः । पतन्ति सुखसंमूढास्त्राणं तेषां तदा कुतः ॥ ६.७४ ॥ सद्धर्माचरणं भूतदयैव एको धर्मस्तथाश्रेयः कृपया संयतः पृथुः । क्षान्तिश्चापि सदा युक्ता दया भूतेषु सर्वदा ॥ ६.७५ ॥ बलभूता भवन्त्येते मृत्युकाले महाभये । तस्मात्प्रमादरहितैः सेवनीयाः प्रयत्नतः ॥ ६.७६ ॥ विद्याविधिज्ञस्यैव प्राणिनः शान्तिर्जायते अविद्यावर्तनं श्रेयो विद्याया रक्षणं सदा । विद्याविधिज्ञो यः (सत्वः) प्रमादस्तस्य शाम्यति । पुरुषार्थो नियतो (ह्यत्र) यत्प्रमादस्य वर्जनम् ॥ ६.७७ ॥ अप्रमादरतस्यैव पुरुषार्थसिद्धिर्भवति अप्रमादरतस्यैव पुरुषार्थः सतां मतः । प्रमादो बन्धनं प्रायो मुक्तिस्तस्याप्रमादतः ॥ ६.७८ ॥ प्रमादसेवनाद्बन्धनम् मोक्षबन्धनयोरेतल्लक्षणं स्यात्सतां मतम् एवं मत्वा सदा देवो यः प्रमादेन रक्षति । स पश्चान्मृत्युसमये ज्ञास्यते तस्य तत्फलम् ॥ ६.७९ ॥ सन्तोष एव निर्वाणसाधनम् यथा यथा हि सन्तोषः सेव्यते यतिभिः सदा । तथा तथा हि निर्वाणमनिके तस्य वर्तते ॥ ६.८० ॥ विरागः सर्वकामेषु निर्वाणे च प्रवर्तताम् । नासौ मारस्य विषयः कदाचित्सम्प्रवर्तते ॥ ६.८१ ॥ ज्ञानेनैव दुःखप्रहाणम् नराणां पश्य मनसो नित्यं व्यापारमेव च । उद्योगश्च सदाज्ञानं स कथं दुःखमेष्यति ॥ ६.८२ ॥ कः बन्धनमुक्तो भवति? अतीतभयसम्पन्नः प्रत्युत्पन्ने च बुद्धिमान् । अनागतविधिज्ञो यः स मुक्तः क्लेशबन्धनात् ॥ ६.८३ ॥ अप्रमादरतो नित्यमविश्वासे च कातरः । संज्ञानसेवी विमलो निर्वाणस्यान्तिके स्थितः ॥ ६.८४ ॥ महत्सुखं प्रमादेन नश्यति प्रमादेनापि नश्यन्ति देवाः प्राप्यमहत्सुखम् । किं पुनर्येन वा मूढाः प्रमादवशसेविनः ॥ ६.८५ ॥ मृतः स नरो भवति यः प्रमादविहारवान् । जीविते च प्रमत्तोऽयं सततं ज्ञानधारणे ॥ ६.८६ ॥ प्रमादाप्रमादयोरन्तरम् अप्रमादप्रमादाभ्यामिदमन्तरमिष्यते । मृत्युं च वर्जयेद्दोषं प्रमादं दुःखमूलकम् ॥ ६.८७ ॥ नित्यं प्रमुदिता देवाः नित्यं प्रमुदिता वयम् । पक्षिणां च सुराणां च विशेषो नोपलभ्यते ॥ ६.८८ ॥ न धर्माचरणं दृष्टं मोक्षचर्या न यात्यसौ । तथैव यदि देवानां ते गताः पक्षिभिः समा ॥ ६.८९ ॥ ये प्रमादविनिर्मुक्ता ये च धर्मरताः सदा । ते देवाः सत्पथा लोके न प्रमादविहारिणः ॥ ६.९० ॥ यदि क्रीडारता देवाः प्रमादचरिताः सदा । देवानां च खगानां च विशेषो नोपलभ्यते ॥ ६.९१ ॥ धर्मपतितः जात्या न शोभते कर्मणां तु विशेषेण जातिर्धर्मैर्विशिष्यते । न धर्मपतितः कश्चिद्जात्या भवति शोभनः ॥ ६.९२ ॥ येन निन्दन्ति संसारमिमं सर्वक्षयात्मकम् । ते सुरापिसमा नित्यं पक्षिभिर्मूढबुद्धिभिः ॥ ६.९३ ॥ येषामेवस्थिता बुद्धिरमता धर्मगोचरे । ते देवाः सम्मत्ता लोके न प्रमादविचारिणः ॥ ६.९४ ॥ ये जन्महेतुप्रभवं दुःखं बुध्यन्ति शोभनम् । ते देवा न तु ये सक्ताः कामेषु हितकारिषु ॥ ६.९५ ॥ वियुज्यमाना बहुशो भृत्यस्वजनबान्धवैः । ये नोद्विजन्ति संसारे ते देवाः पक्षिभिः समाः ॥ ६.९६ ॥ मद्यपानाधिकः प्रमादः मद्यपानाधिको दृष्टः प्रमादस्तत्त्वदर्शिभिः । जीर्यते मद्यपानं हि प्रमादो नैव जीर्यते ॥ ६.९७ ॥ प्रमादमत्तो गतिपञ्चके भ्रमते प्रमादोपहतोलोको भ्रमते गतिपञ्चके । तस्मात्प्रमादमत्तो हि सर्वोपायैर्विशिष्यते ॥ ६.९८ ॥ प्रमादः मद्यादपि हीनतरः एकाहं परमं मद्यं प्रमादयति देहिनः । प्रमादः कल्पकोटिभिर्भ्रमतोऽपि न जीर्यते ॥ ६.९९ ॥ ये प्रमादैर्विरहितास्ते गताः पदमव्ययम् । ये तु प्रमादवशगास्ते भवन्ति खगा नराः ॥ ६.१०० ॥ हितार्थिना मनुष्येण प्रमादोवर्ज्य एव हि । यस्मात्प्रमादवशगाः क्लेशा बुद्धेन देशिताः ॥ ६.१०१ ॥ देवानां कृतेऽपि प्रमादो हेय एव खगा यदि प्रमादेन कुर्वन्ति लघुचेतसः । कस्माद्देवाः प्रमादं(तं) न जहंति विशेषतः ॥ ६.१०२ ॥ यस्तु दूरात्प्रमादेन भयं नावैति दुर्मतिः । सोऽवश्यं व्यसने प्राप्ते पश्चात्तापेन दह्यते ॥ ६.१०३ ॥ पतनं देवलोकात्ते दानै रक्षन्ति दारुणम् । तद्विचिन्त्य प्रमादस्ते न संसेव्यः कथञ्चन ॥ ६.१०४ ॥ ये प्रमादरता नित्यं न ते सौख्यस्य भागिनः । प्रमादो दुःखमूलश्च मूलमेकं सुदारुणम् ॥ ६.१०५ ॥ पद्मकोटिसहस्त्राणि नियुतान्यर्बुदानि च । असंख्यानि च देवानां प्रमादेन वितन्विताः ॥ ६.१०६ ॥ अप्रमादः परं मित्रं प्रमादश्च शत्रुः अप्रमादः परं(मित्रं) नित्यं हितकरं नृणाम् । प्रमादस्तु परं शत्रुस्तस्यन्मित्रपरो भवेत् ॥ ६.१०७ ॥ शुभस्यान्तकरो हयेष विषवद्दारुणं परम् । दुर्गतीनां परं मार्गः प्रमाद इति कथ्यते ॥ ६.१०८ ॥ प्रमादेन प्रमत्ता ये विषयैश्चापि रञ्जिताः । नरास्ते मूढमनसो नित्यं दुःखस्य भोगिनः ॥ ६.१०९ ॥ ज्ञानशून्याः भयदुःखमविगण्य पशुभिः समाः भवन्ति येषां भयं न दुःखं (च) न च ज्ञानावलोकनम् । पशुभिस्ते समाविष्टा न पुरा सुखकांक्षिणः ॥ ६.११० ॥ आहारमैथुनरतिः पशूनां हृदि वर्तते । सा रतिर्यदि देवानां ते गताः पशुभिः समाः ॥ ६.१११ ॥ प्रमादः मृत्योः पर्याय एव क्रीडन्त्यतिशयं ह्येते मृत्योर्गम्ये पुरःस्थिता । सम्प्राप्ते मृत्युसमये फलं दास्यन्ति (दारुणम्) ॥ ६.११२ ॥ विषवत्परिहेयो(ऽयं) सर्वैरपि (सुदुःसहः) । मृत्योः पर्यायनामैष प्रमादो हृदि देहिनाम् ॥ ६.११३ ॥ प्रमादेन हतान् पूर्वं पश्चान्मृत्युः प्रमर्दति । धर्मजीवितसौख्यानां तमेकांशं प्रकथ्यते ॥ ६.११४ ॥ अप्रमाद एव स्वर्गमार्गः अप्रमाद इति ख्यातः स्वर्गमार्ग प्रदेशकः । अर्थानथौ समावेतौ पश्चान्मोक्षस्तथैव (च) ॥ ६.११५ ॥ अप्रमादः गुणः प्रमाद एव दोषः अप्रमादः प्रमादश्च गुणदोषसमाविभौ । तत्रैव मूढमनसो विजानन्ति च देहिनः ॥ ६.११६ ॥ शत्रुणा सह रक्षन्ति ज्ञाने परिहरन्ति च । प्रमादविषवृक्षस्य शाखास्तिस्त्रः प्रतिष्ठिताः ॥ ६.११७ ॥ जरा व्याधिश्च मृत्युञ्च नित्यं तस्योपरिस्थिताः । जरादयो न बाध्यन्ते पुरुषं सत्क्रियान्वितम् ॥ ६.११८ ॥ अप्रमादी सदा भयनिर्मुक्तः सन् सुखीतिष्ठति संसारे तिष्ठते धीमानप्रमादरतः सदा । निकृन्तन्ति सदा दोषा न प्रमादं परिष्वजेत् ॥ ६.११९ ॥ सदा भयविनिर्मुक्तः सुखं प्राप्नोत्यनुत्तमम् । (अ) प्रमादाच्च यत्सौख्यं शाश्वतं स भयं हि तत् ॥ ६.१२० ॥ यत्तु तस्माद्विनिर्मुक्तं तत्सौख्यं ध्रुवमच्युतम् । शतशो मनुजा (हयत्र) प्रमादेन विमोहिताः ॥ ६.१२१ ॥ तथापि नाम वशगास्ते प्रमादे प्रतिष्ठिताः । चत्वारो हि विपर्यासाः प्रमादस्योपरिस्थिताः ॥ ६.१२२ ॥ प्रमादविरहात्तेपि नश्यन्ति लोकशत्रवः । यदनेकविकल्पोऽयमनेकभयसङ्कटः ॥ ६.१२३ ॥ प्रमादरहिताः देवाः सन्तोऽच्युतं सुखमश्नुते संसारो भ्रमते दुःखे तत्प्रमादस्य चेष्टितम् । एकः प्रमादविरहात्प्राप्यते सुखमच्युतम् ॥ ६.१२४ ॥ प्रमादेन विनश्यन्ति सर्वधर्मा हतास्त्रवाः । देवानां च प्रमादोऽयमुपर्युपरि वर्तते ॥ ६.१२५ ॥ कथं प्रमादसम्मूढाः देवा यास्यन्ति निर्वृतिम् । तदे(त)त्सौम्यमनसा चिन्तयित्वा विकल्पयेत् ॥ ६.१२६ ॥ तथा मे हित मास्थेयं यथा यत्स्यात्(सुखावहम्) । ये देवा यच्च तत्सौख्यं पश्यन् यदपिकिञ्चन ॥ ६.१२७ ॥ संस्कृतस्यैव ध्रुवपदप्राप्तिर्भवति तत्सर्व (हि) ध्रुवं गत्वा संस्कृतस्यैष सम्भवः । अवश्यं ते विनश्यन्ति ये भावाः संस्कृताश्चलाः ॥ ६.१२८ ॥ प्रमादवशाद्देवा अपि दुःखभागिनः भवन्ति प्रमादनिरता (देवा)नित्यं दुःखस्य भागिनः । प्रमादापहतजनो यस्तेषां कुरुते मतिः ॥ ६.१२९ ॥ संवियोगे समुत्पन्ने दुःखेन परितप्यते । विषयेषु सकामेषु तृष्णावनगतेषु च ॥ ६.१३० ॥ तेन ते वञ्चिता देवाः प्रमादवशवर्तिनः । मूलमेतदनर्थानां यत्प्रमादानुसेवनम् ॥ ६.१३१ ॥ प्रमादवर्जनं क्षेमकरम् तस्यैतद्वर्जनं धन्यं सर्वक्षेमकरं महत् । सत्वा नैवापन्नसुखा दुःखैश्चापि समन्विताः ॥ ६.१३२ ॥ तथा बुद्धिरनुष्ठेया यथा मत्स्या जलानुगाः । स्वर्गे प्रमादवशगा स्त्रीविधेयाश्च ते सुराः ॥ ६.१३३ ॥ प्रमादिनो दुःखभागिनो भवन्ति ते स्त्रीवह्निविनिर्दग्धा नित्यं दुःखस्य भागिनः । तस्मात्प्रयत्नशो देवैरङ्गना परिवर्जनम् ॥ ६.१३४ ॥ कर्त्तव्यं कामलोलस्य मनसा धृतिवर्धनम् । कार्याकार्येविमूढस्य धर्माधर्मे तथैव च ॥ ६.१३५ ॥ पुरुषस्यात्मभङ्गस्य निर्वाणं दूरमेव तत् । गुरुताभावतत्त्वज्ञो निपुणो धर्मगोचरः ॥ ६.१३६ ॥ धर्मिण एव सुखमाप्नुवन्ति धर्माकांक्षी फलाकांक्षी तादृशं लभते सुखम् । निधौतमघकल्माषाः नित्यं धर्मानुवर्तिनः ॥ ६.१३७ ॥ प्रमादविमोहिता एव दुःखमाप्नुवन्ति सुखिनस्ते सदा दृष्टा न प्रमादविहारिणः । प्रमादापहतः पूर्व प्रमादेन विमोहितः ॥ ६.१३८ ॥ मद्येन देवोऽपि प्रमादमेति देवो वा पुरुषश्चापि न सुखस्यान्तिके हि सः । मृतः स पुरुषो नित्यं यो मद्येन प्रमाद्यति ॥ ६.१३९ ॥ मद्यदोषाधृताः सर्वे भवन्ति नरके नराः । असंसर्गचरो दोषो मद्यमित्यभिधीयते ॥ ६.१४० ॥ मद्येन मोहिता नित्यं देवाः नरकगामिनः । असम्भूतेषु रक्षन्ते न सम्भूते कथञ्चनः ॥ ६.१४१ ॥ मदात्स्वाकारमलिना देवाः कामैर्विमोहिताः । कामेन मोहिता देवा मद्येनापि तथैव च ॥ ६.१४२ ॥ प्रमादी तत्त्वं न पश्यति न तत्त्वमत्र पश्यन्ति जात्यन्धा इव सत्पथम् । प्रमादाकुलितं चित्तं न तत्त्वमनुपश्यति ॥ ६.१४३ ॥ प्रमादश्चाग्निवत्तस्मात्परिवर्ज्यः समन्ततः । प्रमादेन विनश्यन्ति कुशला धर्मयोनयः ॥ ६.१४४ ॥ प्रमादविषसेवनं नाशायैव जायते मार्ग च विषसंस्पृष्टं सर्वथा नैव पश्यति । दशधर्मा विनश्यन्ति प्रमादविषसेविनाम् ॥ ६.१४५ ॥ ध्यानानि चैव चत्वारि प्रणश्यन्ति प्रमादिनः । अप्रमादं प्रशंसन्ति बुद्धाः कामविवर्जिताः ॥ ६.१४६ ॥ अप्रमत्ता जरामुक्ता भवन्ति प्रमादञ्च जुगुप्सन्ति जरामरणपञ्जरम् । अप्रमत्ता जरामुक्ता प्रमत्ता दुःखभोगिनः ॥ ६.१४७ ॥ प्रमाद एव बन्धनम् । प्रमादो बन्धनं हयेतद्दुःखितं मन्दबुद्धिनाम् । अप्रमादेन कुशला देवानां समितिङ्गताः ॥ ६.१४८ ॥ तस्मात्ते पतिता भूयो ये प्रमादानुसेविनः । प्रमत्तपुरुषः सर्व संसारान्नैव मुच्यते ॥ ६.१४९ ॥ प्रमादपाशपाशेन येन बद्धा हि देहिनः । अकार्य कार्यसदृशं कार्य कुर्वन्ति सर्वदा ॥ ६.१५० ॥ अप्रमादिनः कल्याणपरम्परामाप्नुवन्ति अप्रमादान्नरः सर्व विपरीतं (हि) पश्यति । न लौकिकेषु कार्येषु कुतो न श्रैयसेषु च ॥ ६.१५१ ॥ प्रमादं न प्रशंसन्ति पण्डिता बुद्धिपारगाः । यथा शुभं परिक्षीणं भविष्यति दिवौकसाम् ॥ ६.१५२ ॥ प्रमादफलं हानिकरम् तदा प्रमादस्य फलं ज्ञास्यन्ति कटुकं हि तत् । कामसंसक्तमनसां तस्यान्ते सुखसेविनाम् ॥ ६.१५३ ॥ भविष्यति सुखं तस्माद्विनिपातोदयो महान् । विषयाभिमुखेप्सूनां नित्यमाशागतात्मनाम् ॥ ६.१५४ ॥ स्त्रीदर्शनसुमत्तानां विनिपातो भविष्यति । (नित्यं कामान्) निषेवन्ते प्रमादरागसेविनः ॥ ६.१५५ ॥ ताः सर्वा मृत्युसमये परित्यक्ष्यन्ति योषितः । च्यवमानं सुरं सर्वे न कश्चिदनुगच्छति ॥ ६.१५६ ॥ मोक्षाभिलाषिणः दुष्कृतं त्यजन्ति कर्मणा पृष्ठतः सर्व गच्छन्तमनुयाति च । युक्तं च (हि) सदा सेव्यं वर्जनीयं च दुष्कृतम् ॥ ६.१५७ ॥ प्रमादं च मदं जहयात्प्रमाद (वि)रतो भवेत् । प्रमादो भवमूलोऽयं प्रमादस्तु न शान्तये ॥ ६.१५८ ॥ प्रमादाप्रमादौ विचिन्त्य धीरः सुखमेधते अप्रमादप्रमादाभ्यामिदमुक्तं स्वलक्षणम् । तद्विचिन्त्य सदा धीरः सुखं सुचरितं चरेत् ॥ ६.१५९ ॥ धर्मचारी कदापि दुःखं नाप्नोति न धर्मचारी पुरुषः कदाचिद्दुःखमृच्छैति । संसरन्त्यथ संसारे प्राणिनः स्वेन कर्मणा ॥ ६.१६० ॥ प्रमादो विनिपाताय किमर्थमिहलोकोऽयं प्रमादेन विहन्यते । प्रमादः श्रेयसां नाशः प्रमादो बन्धनं परम् ॥ ६.१६१ ॥ प्रमादो विनिपाताय प्रमादो नरकाय च । दुःखस्य हेतुरेवैकः प्रमादः परिकीर्तितः ॥ ६.१६२ ॥ अप्रमादरतो निर्वाणमधिगच्छति तस्मात्सुखार्थी पुरुषः प्रमादं परिवर्जयेत् । यैः प्रमादः परित्यक्तः प्राप्तं तैः पदमच्युतम् ॥ ६.१६३ ॥ अप्रमादरतो यो हि निर्वाणस्यैव सोऽन्तिके । अप्रमादपदं हयेतन्निर्वाणस्याग्रतः पदम् ॥ ६.१६४ ॥ प्रमत्तः सदैव दुःखितो भवति प्रमादो विनिपाताय हेतुरेषः प्रकीर्तितः । प्रमत्तः पुरुषः सर्वः सोन्माद इव लक्ष्यते ॥ ६.१६५ ॥ लघुत्वं याति लोकेऽस्मिन् प्रत्यवायेषु पच्यते । प्रमत्तः पुरुषः शक्तो विपरीतेषु वर्तते ॥ ६.१६६ ॥ हेतौ कर्मविपाके च मृत्यूत्पत्तौ तथैव च । प्रमादाग्निश्च यं तीक्ष्णो नरकानुपकर्षति । तस्मान्नरकमोक्षार्थ प्रमादं विनिवर्जयेत् ॥ ६.१६७ ॥ ये प्रमादं विनिर्जित्य नित्यं ज्ञानरता नराः । ते क्लेशबन्धनं छित्वा पदं याताः सुखोदयम् ॥ ६.१६८ ॥ कर्मसूत्रैर्निबद्धाश्च चित्तदोलां समाश्रिताः । भ्रमन्ति विभवे सत्त्वा मा प्रमादेषु रक्षथः ॥ ६.१६९ ॥ सुखी भवति दुःखी वै दुःखितश्चापि सुखितः । भर्तापि तृप्तो भवति मा प्रमादेषु रक्षथः ॥ ६.१७० ॥ माता पिता वा भवति भार्या मातृत्वमेव च । परिवर्तो महानेषु मा प्रमादेषु रक्षथः ॥ ६.१७१ ॥ प्रमादाज्जायते रागो रागाद्द्वेषः प्रपद्यते । स दोषपथमापन्नो नरकानुपधावति ॥ ६.१७२ ॥ प्रज्ञारुढः प्रमादशून्यः सन् शिवं पन्थानमाप्नोति प्रज्ञाप्रासादमारोह योगक्षेममनुत्तमम् । एष पन्थाः शिवः श्रेष्ठो यः प्रमादविवर्जितः । तेन मार्गेण सततं निर्वाणं यान्ति पण्डिताः ॥ ६.१७३ ॥ विरोधो मार्गसम्पत्तौ चित्तसन्तानदूषकः । आछेत्ता धर्मसेतूनां प्रमादः परिकीर्तितः ॥ ६.१७४ ॥ प्रमादोपहताः नाशं यान्ति स्मृति सन्दूषकं दृष्टं मोक्षाय वृत्तिनाशकः । दुर्गतीनां परं नेता प्रमादः सम्प्रवर्तते ॥ ६.१७५ ॥ अनेक पुरुषः क्षिप्तो नात्मनो विन्दते हितम् । नावाच्यं न च कार्याणां विन्दतेऽमृतकोपमः ॥ ६.१७६ ॥ त एते पशुभिस्तुल्या देवविग्रहधारिणः । प्रमादोपहता मूढा नृत्यन्ति च हसन्ति च ॥ ६.१७७ ॥ उत्पन्नाविच्युताः मार्गात्क्षान्तिं ये नाशयन्ति च । नृभवार्णवभूता ये ते प्रमादानुधाविनः ॥ ६.१७८ ॥ जनकः सर्वदोषाणां बन्धनं पापकर्मणाम् । प्रमोषः सर्वधर्माणां प्रमादारिः प्रवर्तते ॥ ६.१७९ ॥ सर्वेषां शुभकर्माणां प्रमादः शत्रुरेव नाध्यात्मिकानि कर्माणि न बाहयानि कथञ्चन । प्रमादोपहतो जन्तुर्जानीते नष्टमासनः ॥ ६.१८० ॥ क्रीडायां व्यग्रमनसो नृत्यगान्धर्वलालसाः । अतृष्णार्विषयैर्दिव्यैर्नक्ष्यन्ति विबुधालयाः ॥ ६.१८१ ॥ भयस्थाने हसन्त्येते प्रमादेन विमोहिताः । मार्गामार्ग न विन्दन्ति जात्यन्धेन सुराः समाः ॥ ६.१८२ ॥ कामधातावेव प्रमत्ताः भ्रमन्ति कामधातौ भ्रमन्येते चक्रवद्गति पञ्चके । ध्यानेभ्यो यद्धि पतनं तत्प्रमादस्य चेष्टितम् ॥ ६.१८३ ॥ प्रमादचेष्टितं कर्मपतनाय जायते आरूप्येभ्यश्च यत्स्थानं चतुर्थं प्राप्यलौकिकात् । भ्रमन्ति भ्रमदोलायां तत्प्रमादस्य चेष्टितम् ॥ ६.१८४ ॥ प्रमादबन्धनैर्बद्धं तृष्णापाशैश्च यन्त्रितम् । त्रैधातुकमिदं कृत्स्नं न च बुद्धयन्त्य चेतसः ॥ ६.१८५ ॥ यत्प्रयान्ति धर्मस्थानं तृष्णाभयदर्शिताः । न भूयः खेदमायाति तत्प्रमादस्य चेष्टितम् ॥ ६.१८६ ॥ प्रमादवशात्दुःखमेवाप्नोति जनः प्रियविश्लेषजं नृणां यद्दुःखं हृदि जायते । सेवनाद्यत्प्रमादस्य कथयन्ति तथागता ॥ ६.१८७ ॥ अनर्था हि त्रयो लोके यैरिदं नश्यते जगत् । व्याधिर्जरा च मृत्युश्च प्रमादालस्य सम्भवाः ॥ ६.१८८ ॥ प्ररोहन्ति यथा भूमौ सवौषधितृणादयः । तथा प्रमादिनां क्लेषाः प्रवर्तन्ते पृथग्विधाः ॥ ६.१८९ ॥ प्रमादस्य विषाङ्कुरः स्त्रीश्लेषो मद्यपानं च क्रीडा च विषयैः सह । चापल्यमयकौसीद्यं प्रमादस्य विषाङ्कुरः ॥ ६.१९० ॥ प्रमादाप्रमादयोर्लक्षणम् प्रमादः परमं दुःखप्रमादः परं सुखम् । समासाल्लक्षणं प्रोक्तमप्रमादप्रमादयोः ॥ ६.१९१ ॥ अतः प्रमादो न सेव्यः तस्मात्प्रमादो न नरेण सेव्यः, स दुर्गतीनां प्रथमाग्रमेव । विहाय तं दुःखसहस्त्रयोनिं, प्रयान्ति बुद्धा भवपारग्रयम् ॥ ६.१९२ ॥ ॥ इति अप्रमादवर्गः षष्ठः ॥ (७) कामजुगुप्सावर्गः कामस्य नरकहेतुत्वम् न कामेषु रतिं कुर्यात्कामाः परमवञ्चकाः । संसारबन्धना घोराः सर्वे नरकहेतवः ॥ ७.१ ॥ यः संरक्षति कामेषु तस्य दुःखमनन्तकम् । न कामोरगदष्टस्य सुखमस्ति कथञ्चन ॥ ७.२ ॥ रागादिवशगानां चेष्टितम् वरं निशितधारेण क्षुरेण स्वयमात्मनः । संक्षोदिता भवेज्जिह्वा न चोक्तं कामगंव(चः) ॥ ७.३ ॥ रागेण वञ्चिताः सत्त्वा द्वेषेण परिपीडिताः । मोहस्य वशमापन्ना भाषन्तेऽमधुरं वचः ॥ ७.४ ॥ रागवशगः सदा दुःखतममनुभवति अल्परागान्निरुद्धो यः कुरुते दुष्कृतं बहु । स रागवशगो मूढो दुःखाद्दुःखमवाप्नुयात् ॥ ७.५ ॥ कामपरिणतिमाह अतृप्तिरस्मात्कामास्ते न सुखा नापि शाश्वताः । परिणामे महातीव्रास्तस्मात्तान् परिवर्जयेत् ॥ ७.६ ॥ रागाभिभूताः पुरुषा नरकालयवर्तिनः । न रागवशगा ये तु न तेषां नरकाद्भयम् ॥ ७.७ ॥ कामविषं परित्याज्यम् चण्डाचण्डिसमुत्थाश्च चण्डाश्च परिणामतः । कामा विषाग्निप्रतिमाः परिवर्ज्याः प्रयत्नतः ॥ ७.८ ॥ परिवर्जितकामस्य नित्यं मोक्षरतस्य च । नश्यन्त्यकुशला धर्मास्तमः सूर्योदये तथा ॥ ७.९ ॥ कामानलः नरके पातयति इन्द्रियाणीन्द्रियार्थज्ञो मोहयित्वा पृथग्विधाः । नरके पातयन्त्येते कामाः बालमनोहराः ॥ ७.१० ॥ रागाग्नेः महिमा पञ्चेन्द्रियप्रसक्तस्य विषयैः पञ्चभिस्तथा । मुहूर्तमपि रागाग्निर्विषयैर्नैव तृप्यति ॥ ७.११ ॥ संश्लेषाज्जायते वह्निर्विश्लेषान्नैव जायते । संश्लेषादपि विश्लेषो (रागा) ग्निर्जीर्यते नृणाम् ॥ ७.१२ ॥ दूरान्न दाहको वह्निर्विषयस्तस्य नास्ति सः । दूरान्तिकसमो घोरो रागाग्निरतिदाहकः ॥ ७.१३ ॥ सङ्कल्पकाष्ठप्रभवः स्पृहाकुटिलवेगवान् । तृष्णा घृतप्रसक्तोऽयं रागाग्निरपि दाहकः ॥ ७.१४ ॥ दग्ध्वा शरीरमेतद्धि ज्वलनः सम्प्रशाम्यते । नामरूपविनिर्मुक्तो रागाग्निर्नैव शाम्यते ॥ ७.१५ ॥ उद्वेजयति भूतानि वह्निः परमदाहकः । रागाग्निरतितीक्ष्णोऽपि नोद्वेगं कुरुते नृणाम् ॥ ७.१६ ॥ पञ्चेन्द्रियसमुत्थोऽयं विषयैः पञ्चभिर्वृतः । तृष्णासमीरणबलाद्रागाग्नि(र्दहति) प्रजाः ॥ ७.१७ ॥ वितर्कारणिसम्भूतो विषयैः परिवर्धितः । काष्ठवद्दह्यते तेन न च दृश्यो जनस्य सः ॥ ७.१८ ॥ यथा यथा हि प्रबलो रागाग्निस्तप्यते महान् । तथा तथा (च) रागान्धैः स्वसुखं परिसेव्यते ॥ ७.१९ ॥ अग्निः प्रकाशको भवति रागाग्निस्तमसावृतः । तस्माच्छिशिरवद्धीमान् रागाग्निं परिवर्जयेत् ॥ ७.२० ॥ विषयपरिणाममाह विषयाभिरतो जन्तुर्न सुखी स्यात्कथञ्चन । विषयाः विषयैर्दष्टाः परिणामे च दारुणाः ॥ ७.२१ ॥ नाद्ये नान्ते न मध्ये च नास्मिंल्लोके न चापरे । सुखदा विषया कामं भवन्तीह कथञ्चन ॥ ७.२२ ॥ बालिशस्य हि सर्वस्य तृष्णाक्रीडनसंभवैः । न तृप्तो विषयैरग्निर्ज्वलनस्य यथेन्धनैः ॥ ७.२३ ॥ अतृप्तोः विषयैः सर्वो जनोऽयं परिवञ्चितः । मृत्युनाभ्यासनिरत एतैर्दोषैर्विदह्यते ॥ ७.२४ ॥ काममोहान्धानां स्थितिमाह सुखानां कामचाराणां मोहस्य खलु चेष्टितम् । तदेव यदि देवानां खगैः स्युस्ते समाः सुराः ॥ ७.२५ ॥ कल्पान्तेष्वभिसन्तप्तः शस्यते सरितां पतिः । न दृष्टिस्तृप्यते रूपैः कल्पकोटिशतैरपि ॥ ७.२६ ॥ स्यात्समुद्रस्य चर्याप्तिः सलिलैर्वशगादिभिः । न तु दृष्टिः समुद्रस्य रूपार्थैस्तृप्तिरस्ति हि ॥ ७.२७ ॥ अवितृप्तस्य कामेभ्यः किं सुखं परिकल्प्यते । तृप्तिर्यास्ति वितृष्णस्य गतशोकस्य देहिनः ॥ ७.२८ ॥ माद्यन्ते बहुमोहान्धा न च बुद्धयन्ति बालिशाः । मन्देन क्षणिका यद्वत्मलयेन्धनपादपाः ॥ ७.२९ ॥ कामा असाराः वञ्चकाश्च भवन्ति स्वप्नप्रमोषधर्माणो गन्धर्वनगरोपमाः । रिक्तास्तुच्छा असाराश्च कामाः परमवञ्चकाः ॥ ७.३० ॥ (का) मा मोहेन (च) समाः किं पाकसदृशोपमाः । कामा लोकहितकरा वह्निवत्परिकीर्तिताः ॥ ७.३१ ॥ कामस्यादीनवं ज्ञात्वा येन तत्फलमोहिताः । तेन तद्दर्शकाः प्रीता गतकांक्षस्य (देहिनः) ॥ ७.३२ ॥ (अ)न्यथा चिन्त्यमानानां यथा प्राप्ता पुनस्तथा । सर्वतः पापकर्तारः कामा लोके विषोपमाः ॥ ७.३३ ॥ कामैरतृप्तमनसस्ते ते देवाश्च्युताः पुनः । पतन्ति नरके मूढाः कामेन परिवञ्चिताः ॥ ७.३४ ॥ नारीं निन्दयति नदीतरङ्गचपला विद्युल्लेखसमाश्च ते । मीनावर्तबला नार्यः कामलोकविषास्पदाः ॥ ७.३५ ॥ विचिन्तिता विवर्धन्ते वर्द्धिता वह्निसन्निभाः । आदौ चान्ते तथा कामास्तस्मात्कामान् विवर्जयेत् ॥ ७.३६ ॥ कामसेवनफलम् यथा यथा हि सेव्यन्ते विवर्धन्ते तथा तथा । वह्निज्वालासमासृष्टाः कामाः कटुविपाकिनः ॥ ७.३७ ॥ कामवर्जनफलमाह एवं दोषं सदा ज्ञात्वा धीरः कामान् विवर्जयेत् । परिवर्तितकामस्य सुखं भवति नैष्ठिकम् ॥ ७.३८ ॥ कामाग्निः देवान्नपि पातयति असङ्ख्यानि सहस्राणि देवानां नियुतानि च । पतन्ति कामदहनं नरकं वह्निभैरवम् ॥ ७.३९ ॥ यथाग्निविषशस्त्राणि वर्जयन्ति सुखार्थिनः । तथा कामाः सदा वर्ज्या हेतवो नरकस्य ते ॥ ७.४० ॥ न दृष्टो न श्रुतः कश्चिद्यः कामवशगः पुमान् । न कामैर्विप्रलब्धः स्यान्न च दुःखेन पीडितः ॥ ७.४१ ॥ तस्मादलमलं कामैर्मा चैतेषु मनः कृथाः । सर्वे सर्वास्ववस्थासु कामा वह्निविषोपमाः ॥ ७.४२ ॥ अनादिर्मति संसारे शत्रवश्चित्तसम्भवाः । अहन्त्वात्तु भवेत्प्रीतिर्न सा कामैः कथञ्चन ॥ ७.४३ ॥ सकल्मषा कटुफला दुःखात्कामोद्भवा रतिः । या तु कामविनिर्मुक्ता सा रतिः परि(भाषिता) ॥ ७.४४ ॥ योगिनः परमा गतिः तां समाश्रित्य गच्छन्ति योगिनः परमां गतिम् । न तु कामकृता प्रीतिर्नयते पदमच्युतम् ॥ ७.४५ ॥ कामजरतिं निन्दति आपातमधुरा रम्या विपाके ज्वलनोपमा । रतिर्भवति कामाग्निजन्या नरकगामिनी ॥ ७.४६ ॥ आपातरम्या मधुरा मध्ये रम्या च सर्वदा । शान्तमन्ते च विमलं नयते पदमच्युतम् ॥ ७.४७ ॥ आद्यन्तमध्यकल्याणी नित्यं मातेव शोभना । तां व्युदस्य कथं बाला रक्षन्ते (कामजां रतिम्) ॥ ७.४८ ॥ कामकृता रतिः निरतं तपति मध्यादिनिधने दुःखा नित्यं दोषादिभिर्वृता । कथं सा सेव्यते बालैर्या न दृष्टा सुखावहा ॥ ७.४९ ॥ विषमञ्जरिवद्रम्या स्पर्शे ज्वलनसम्भवा । तथा कामकृता प्रीतिः परिणामे विषोपमा ॥ ७.५० ॥ हूयमानो यथा वह्निर्ज्वलनेन प्रशाम्यति । दाहेन च प्ररोहः स्यात्तद्वत्कामकृता रतिः ॥ ७.५१ ॥ पतङ्गः पश्यति ह्यग्नि दाहदोषं न पश्यति । तथा कामकृतां प्रीतिं पश्यन्त्यकृतबुद्धयः ॥ ७.५२ ॥ यस्तु रागकृतो दाहः पच्यते कामिनां सदा । पतङ्गसदृशं दाहं सर्वथा नै(व) पश्यति ॥ ७.५३ ॥ कामप्रमादात्पतनं ध्रुवमेव तस्मात्काम(विषं) त्यक्त्वा नित्यं जीवथ हे सुराः । भवन्तु मा वृथा जन्मप्रमादेन प्रपातनम् ॥ ७.५४ ॥ संक्षीणशुभकर्माणो नित्यं कामैर्विमोहिताः । तं हित्वा नरकं यान्ति काममोहेन वञ्चिताः ॥ ७.५५ ॥ काममोहितः विषवृक्षमयं पुष्पं पिबति विषवृक्षमयं पुष्पं पीयते भ्रमरैर्यथा । तथा विषात्मकमिदं सुखं भुङ्क्ते हि मोहितः ॥ ७.५६ ॥ जीवेयुः पामराः केचित्विषं पीत्वापि दुर्भगाः । न कामविषपीतस्य जीवितं दुर्लभं भवेत् ॥ ७.५७ ॥ यथा हि नरके वह्निर्ज्वलयत्य विचारिणम् । तथा काममयो वह्निर्दहतीह दिवौकसः ॥ ७.५८ ॥ कामाग्निः हिंसक एव श्रुतिपाशमयो वह्निः प्रेतानेष दहत्यति । दहने हिंसको वह्निर्नृणां पर्येषणात्मकः ॥ ७.५९ ॥ एवमग्निसमं तावत्परिहार्य समन्ततः । सर्वलोकमशेषेण दह्यते काममोहितः ॥ ७.६० ॥ विषयासक्तं मनः व्यसने पातयति विषयेषु सदाचित्तं धावन्तं चञ्चलं महत् । न त्याज्यं व्यसने मूढ यद्पश्यसि भविष्यति ॥ ७.६१ ॥ कामेषु रक्ष ते चित्तं व्यसनेनावबुध्यते । व्यसनौघे समुत्पन्ने तत्पश्चात्परितप्यते ॥ ७.६२ ॥ काममोहिताः महद्भयमपि न पश्यन्ति वृथा काममदैर्मत्ता देवाः प्रकृतिदुर्बलाः । भ्रमन्ति भ्रमिताः कामैर्न पश्यन्ति महद्भयम् ॥ ७.६३ ॥ विश्वसन्ति हि ये देवाः कामेष्वहितकारिषु । व्यतिरेकेषु ते पश्चात्प्रतिबुध्यन्त्यमेधसः ॥ ७.६४ ॥ कामाः परमवञ्चका भवन्ति न च पश्यन्ति (वि)बुधाश्चित्तेन परिवञ्चिताः । क्षणिका मधुरा जाताः कामाः परमवञ्चकाः ॥ ७.६५ ॥ काम प्रति न विश्वसेत् शतशश्च सहस्त्रैश्च कोटिशः पद्मशस्तथा । लब्धा नष्टा पुनः कामा न तेषां विश्चसेत्पुमान् ॥ ७.६६ ॥ कामैर्मोहितः पतङ्गसमो नरकाग्निना दह्यते विषयाद्बन्धनं तीव्रं सर्वे नरकहेतवः । तस्मादत्यन्ततस्त्यक्त्वा श्रेयसे क्रियतां मनः ॥ ७.६७ ॥ रागेण रञ्जिताः पूर्वं द्वेषेण च तिरस्कृताः । मोहेन मोहिताश्चैव तेऽश्रुताकृतकारिणः ॥ ७.६८ ॥ कामार्थैरेष्यते बालः पुनः कामैर्विमोहितः । स पतङ्गसमो मूढः दह्यते नरकाग्निना ॥ ७.६९ ॥ कामवशगाः सुरलोकादपि पतन्ति अवश्यम्भावि पतनं सुरलोकात्समन्ततः । न ज्ञात्वा कामवशगो स्यादिह कथञ्चन ॥ ७.७० ॥ कामेन वञ्चिताः सत्त्वाः कामेन च विमोहिताः । कामपाशापकृष्टास्ते पतन्ति नरके सदा ॥ ७.७१ ॥ कामं त्यक्त्व स्वहिते मनः कर्त्तव्यम् तदेतद्व्यसनं सत्त्वाः स्वहिते क्रियतां मनः । मनसापि स्वदान्तेन नानुतप्यन्ति देहिनः ॥ ७.७२ ॥ मनोविषेण ये दष्टाः कामवेगेन सर्वदा । ते मूढा मृत्युवशगाः कामानलहता नराः ॥ ७.७३ ॥ न तृप्तिरस्ति कामानां तृष्णया हितकारिणाम् । तृष्णापि तृप्तिजनिका मनो नैव हि तृप्यति ॥ ७.७४ ॥ ज्ञानदीपेनैजेन्द्रियाणां विषयेभ्यस्तृप्तिर्जायते न जातु विषयैस्तृप्तिरिन्द्रियाणां भविष्यति । यदि न ज्ञानदीपेन क्षपयिष्यन्ति (ते नराः) ॥ ७.७५ ॥ नारीसेवनेन नाशः सुनिश्चितः योषितः सेव्यमाना हि वितर्कशतमालिकाः । प्रवर्धति यथा वह्निर्वायुना समुदीरितः ॥ ७.७६ ॥ कामाग्निदीप्ताः कदापि शान्तिं नाप्नुवन्ति तं मत्वा वेगरभसा नित्यं कामोऽग्निदीपितः । कामान् हापयति ज्ञानी बुद्धतत्त्वविचिन्तकः ॥ ७.७७ ॥ ये नित्यं भ्रान्तमनसो नित्यं विषयतत्पराः । रमन्ते विबुधाः सर्वे तत्सर्वं मोहचेष्टितम् ॥ ७.७८ ॥ सेव्यमानो हि विबुधैर्विषयाग्निर्विवर्धते । पाशेनानेन संयुक्तो वह्निर्वायुसमीरितः ॥ ७.७९ ॥ रागविवशा अमरा अपि पतन्ति अमराः रागविवशा नित्यं विषयतत्पराः । देवलोकात्पतन्त्येते मोहरागेण वञ्चिताः ॥ ७.८० ॥ रमन्ते विषयैरेते तत्र तल्लीनमानसाः । न च विन्दन्ति यद्दुःखं विप्रयोगो भविष्यति ॥ ७.८१ ॥ वियोगजं दुःखं कष्टप्रदमेव यदेतत्सुखमेवादौ दिव्यं पञ्चगुणान्वितम् । वियोगजस्य दुःखस्य कलां नार्हतिषोडशीम् ॥ ७.८२ ॥ कामानां तद्विघातो हि जनेनैवोपयुज्यते । सतृष्णस्य तथा तृप्तिः कामेभ्यो नैव जायते ॥ ७.८३ ॥ कामानुसेविनः दुःखं कदापि शान्तिं नाधिगच्छति अनपेक्षितचित्तस्य नित्यं कामानुसेविनः । दीर्घरात्रानुशयिकं दुःखं नैव प्रशाम्यते ॥ ७.८४ ॥ त्वरितं रक्ष्यते मूढो व्यसनेनैव बुध्यते । पश्चात्तु व्यसने प्राप्ते जानीते यस्य तत्फलम् ॥ ७.८५ ॥ आस्वादभद्रका ह्येते कामाः परमदारुणाः । दूतकान्नरकस्यैतान् चरन्त्यहितकारिणः ॥ ७.८६ ॥ विषयाग्निदग्धाः नरकं यान्ति यस्तेषां विश्वसेत्मर्त्यो ज्ञानचक्षुर्विगर्हितः । विषयाग्निरभ्रतुल्यः स याति नरकं नरः ॥ ७.८७ ॥ अल्पास्वादाल्पहृदया नित्यं पुरुषवञ्चकाः । गन्धर्वनगरप्रख्याः कामा आस्वादभद्रकाः ॥ ७.८८ ॥ विषयमोहिताः देवा अपि दुर्गति यान्ति (यथा) दीपप्रभा(भस्म) सञ्छन्नेव पुनः पुनः । न च बिन्दत्यमनसो देवा विषयमोहिताः ॥ ७.८९ ॥ विषयेणातिरभसा नित्यं कामवशानुगाः । न विदन्ति महद्दुःखं यदवश्यं भविष्यति ॥ ७.९० ॥ रमणीयानि कामानि यस्यैवं जायते मतिः । स पश्चाद्व्यसने प्राप्ते मूढोऽसौ विप्रलप्यते ॥ ७.९१ ॥ न कामेन मदान्धस्य विषयैर्मोहितस्य च । नैत्यिकं भवति शर्म्म यत्सुखानामनुत्तमम् ॥ ७.९२ ॥ आध्यात्मिकसुखापेक्षया कामसुखं हीनतमम् यच्च कामसुखं लोके यच्च तृष्णोद्भवं सुखम् । एकस्याध्यात्मिकस्येदं कलां नार्हतिषोडशीम् ॥ ७.९३ ॥ कामी कदापि सुखं नाश्नुते न सुखी वर्तते तावद्य यस्य कामो हृदि स्थितः । स सर्वदुःखभागार्हो नरकानुपधावति ॥ ७.९४ ॥ न तृप्तिर्विद्यते कामैरपि (भोगः) शतं नृणाम् । यत्र सौख्यं न तत्रास्ति तृप्तिर्विषयसेविनाम् ॥ ७.९५ ॥ सेव्यमानाः सदा कामा वर्धन्ते च मुहुर्मुहुः । ते वर्धिता विषसमा भवन्ति विनिपातिनः ॥ ७.९६ ॥ विपत्तिकुशला घोरा नित्यं पतनहेतवः । न च तेषां परित्यागं कुर्वन्ति विषयोत्सवाः ॥ ७.९७ ॥ यस्य दृष्टिसमुद्रस्य रूपैस्तृप्तिर्न विद्यते । तथा शर्ममनोज्ञैश्च रसतृप्तिर्न विद्यते ॥ ७.९८ ॥ गन्धैरपि सदा घ्राणं न तृप्तिमधिगच्छति । स्पर्शाः सम्मुखसंस्पर्शाः सेव्यन्ते नैव तृप्यते ॥ ७.९९ ॥ शब्दैः कान्तैः सुमधुरैः श्रोत्रमेति न तर्पणम् । मनोऽपि तृप्तिविश्वस्तं वर्धमानं न तृप्यति ॥ ७.१०० ॥ इन्द्रियाणि कामभूमिषु पातयन्ति षडेन्द्रियाणि चपलान्याधृतानि रतौ पुनः । भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः ॥ ७.१०१ ॥ न तृप्तिरस्ति देवानां गजानां वै तृणैर्यथा । अनलस्य स्वभावोऽयं तस्य तृप्तिर्न विद्यते ॥ ७.१०२ ॥ षडेते वह्नयस्तीव्रा वितर्कानिलमूर्छिताः । भ्रमन्ति मुषिता नित्यं कामभूमिष्वनेकशः ॥ ७.१०३ ॥ इन्द्रियदग्धा नरकं यान्ति तैरयं दह्यते लोको न च विन्दत्यबुद्धिमान् । आस्वादभद्रका हयेते नरकस्य च हेतवः ॥ ७.१०४ ॥ काममोहितः सुखवञ्चितो भवति कामा विषयलोभास्ते लेलिहाना यथोरगाः । विलोचनवरो हयेष न च कामैर्विमोहितः ॥ ७.१०५ ॥ कामवशीनरः नेत्रहीना मूढतरः सुखानुसारिणः कामो नरकानुपधावति । न नेत्रहीनो नरके पात्यते सत्क्रियान्वितः ॥ ७.१०६ ॥ तस्माद्वरं विचक्षुः स्यान्न तु कामवशो नरः । अशक्यवञ्चिता मूढाः कामैरहितकारिभिः ॥ ७.१०७ ॥ कामचारिणां ज्ञानादिकं दुर्लभम् अनिर्विद्यन्ति कामेभ्यो मोहिताः स्वेन चेतसा । न ज्ञानं नापि विज्ञानं विद्यते कामचारिणाम् ॥ ७.१०८ ॥ कामः मृत्युभवनं नयति यद्दुःखकामजं हत्वा पुनः कामवशानुगाः । मित्ररूपा च ये कामाः किम्पाकफलसन्निभाः । नयन्ति मृत्युभवनं दुर्गतीश्च पुनः पुनः ॥ ७.१०९ ॥ अनिवर्त्त्य यथा तोयमापगानामनेकशः । तथा सौख्यगतं नृणां सर्वथा न विवर्तते ॥ ७.११० ॥ वनोपवनभोगेषु सुखप्राप्तेष्वनेकशः । यो न तृप्यति कामेषु स नरोऽधमगामिकः ॥ ७.१११ ॥ प्रमादो पहतो जन्तुः कामास्वादेषु तत्परः । रूपेषु रक्ष्यते नित्यं परिणामे च विद्यते ॥ ७.११२ ॥ घनच्छायास्वरूपाणि कर्ममिश्राणि यानि वै । तानि चैव कथं देवाः शक्ष्यन्ते कामगोचरे ॥ ७.११३ ॥ कामाः कदापि न सेव्याः यदि नित्या भवेयुर्न कामास्ते स्युर्विषोपमाः ॥ ७.११४ ॥ कामतृष्णादुःखकरी तथापि कामतृष्णा या न सा जाति विलक्षणा । प्रागेव नित्यं दुःखाय शून्यमात्मानमेव च ॥ ७.११५ ॥ तेषु दुःखविपाकेषु कथं रक्षन्त्यबुद्धयः । कामास्वादेषु रक्ष्यन्ते बालिशाः मन्दबुद्धयः । आदीनवं न बुद्धयन्ते किम्पाकफलसन्निभम् ॥ ७.११६ ॥ रूपशब्दादिबद्धोऽयं तृष्णाविप्रकृतो जनः । दीप्यते विवशो नित्यं, कुकर्मफलमोहितम् ॥ ७.११७ ॥ आस्वादयित्वा पुरुषाः कामान् विषफलोपमान् । तृष्णया तृप्तमनसः पतन्ति नरके पुनः ॥ ७.११८ ॥ यथाभिवर्षते तोयं वर्धन्ते सरितो यथा । तथा कामाभिवर्षेण देवानां वर्धतेऽनलः ॥ ७.११९ ॥ कामसुखस्य नान्तो विद्यते जलसम्भवमीनोऽपि दृश्यते तृष्णयातुरः । एवं सुखाभिवृद्धा च न वितृप्यति देवता ॥ ७.१२० ॥ आकाशस्य यथा नान्तो विद्यते नापि संशयः । एवं कामेषु नास्त्यन्तः कामिनां नास्ति संक्षयः ॥ ७.१२१ ॥ सलिलादिभिरतृप्तस्य सागरस्योर्मिमालिनः । न तु कामैरतृप्तस्य तृप्तिरस्ति कथञ्चन ॥ ७.१२२ ॥ अप्राप्तैर्विषयैर्देवा न वितृप्यन्ति बालिशाः । विषयैर्नैव तृप्यन्ति सुखलालसतत्पराः ॥ ७.१२३ ॥ कामस्तापाय, न तु शान्त्यै संप्राप्ते व्यसने तीव्रे च्यवमानेप्यनेकशः । तप्यते विषये तस्मात्परं कामो न शक्यते ॥ ७.१२४ ॥ विलोक्य पुरुषानेते कामविश्वासघातिनः । त्यजन्ति व्यसने प्राप्ता विपद्यन्ते हि ते नराः ॥ ७.१२५ ॥ अतृप्तस्य सुखं नास्ति विषयैश्चापि तृप्यते । ये वा तृइप्तिकरा दृष्टास्तान् बुद्ध्वा (तु) विवर्जयेत् ॥ ७.१२६ ॥ विषयान्परित्यज्य शान्तिः सेव्या सुखमूला सदा शान्तिरसुखा विषया मताः । तस्माच्छान्तिसुखा देवा वर्जयित्वा विषयोरगान् ॥ ७.१२७ ॥ बधबन्धनरोगादि विषयेभ्यो महद्भयम् । सम्भ्रान्तिरिह संसारे विषयैरेव जायते ॥ ७.१२८ ॥ संयोगा विप्रयोगान्ताः शतशोऽथ सहस्त्रशः । जातौ जातौ सदा दृष्टाः सौगतैस्तत्त्वदर्शिभिः ॥ ७.१२९ ॥ अनेक सुखसंसारः विषयात्मक एव अनेकसुखसंसारो विषयेषु हि विद्यते । विषयैश्च भवेत्सर्व जातौ जातौ प्रजायते ॥ ७.१३० ॥ कष्टैर्यैरनकामैर्न शक्यतेऽमूढचेतसा । पुनस्तानेव मोहान्धाः सेवन्तेऽकृतबुद्धयः ॥ ७.१३१ ॥ विषयशत्रुसेविनः बालिशाः भवन्ति वर्जते हि सदा शत्रुवञ्चनाशङ्कया नरः । विषयाः शत्रुभूता हि न वश्यन्ते कथञ्चन ॥ ७.१३२ ॥ कामबद्धाः सदा मोहबालिशा वा भवन्ति ते । न त्यजन्ति कथं मूढा मोहिताः स्वेन कर्मणा ॥ ७.१३३ ॥ यथा बह्निभयात्कश्चिद्वह्निमेवोपसेवते । तथा विषयसंमूढो विषयानुपसेवते ॥ ७.१३४ ॥ स्नायुसङ्ग्रथितः पाशो दृष्टिरम्यो यथा भवेत् । तथा विषयरम्योऽयं पाशः परमदारुणः ॥ ७.१३५ ॥ कामसुखं नाशाय भवति किंपाकस्य यथास्वादो मधुराग्रो महोदयः । पश्चाद्भवति नाशाय सुखं तद्वदिदं नृणाम् ॥ ७.१३६ ॥ प्रदीपस्य शिखां यावत्पतङ्गो मोहमूर्छितः । पतते दह्यते चैव तथेदं सुखमिष्यते ॥ ७.१३७ ॥ अज्ञात्वा हि तथा बाला रम्यदेहसुखेच्छया । स्पृशन्ति ज्वलनं तद्वत्सुखमेतद्भविष्यति ॥ ७.१३८ ॥ तृष्णाविघात एव सुखाय जायते यथा रम्यो वनमृगस्तृष्णार्त उपधावति । न च तृष्णाविघातोऽस्य तदिदं सुखमिष्यते ॥ ७.१३९ ॥ न तृप्ता न च तृप्यन्ति न च तृप्तिर्भविष्यति । विषयैः सर्वदेवानां तस्मात्कामो न शान्तये ॥ ७.१४० ॥ विषयैः प्रमत्ताः दुःखमनुभवन्ति प्रत्युत्पन्नसुखाः कामा नान्तकल्याणकारकाः । रञ्जिता विषयैर्देवा विक्षिप्तमनसः सदा ॥ ७.१४१ ॥ नानासौख्यप्रमत्तस्य विषयैर्वञ्चितस्य च । सम्प्राप्ते मृत्युकाले च न शमायास्य विद्यते ॥ ७.१४२ ॥ अनुक्रमेण मरणमभ्येति तच्च विद्यते । विषयापहतैर्देवैः कामव्यासक्तबुद्धिभिः ॥ ७.१४३ ॥ कामा अहितकारिणो भवन्ति जानीयादद्य मे देवा यद्दुःखं विप्रयोगजम् । मुहूर्तमपि कामेषु न कुर्यात्तत्र संस्थितिम् ॥ ७.१४४ ॥ रागाग्निना दग्धो विमोहितो जायते अनित्यात्मभयाः कामा नित्यं चाहितकारिणः । तथा विमोहितान् कालः पुनस्ताननुसेवते ॥ ७.१४५ ॥ रागाग्निना प्रदहयन्ते नित्यं देवाः प्रमोहिताः । दह्यमानाः पुनस्तत्त्वं प्रशंसन्ति पुनः पुनः ॥ ७.१४६ ॥ रथचक्रवत्सदा भ्रान्ता विषयविमोहिताः भवन्ति विषयेषु न रक्ष्यन्ते तेषां दुःखमिव स्थितम् । त्रैधातुकमिदं सर्व भ्राम्यते रथचक्रवत् ॥ ७.१४७ ॥ गन्धर्वनगरसदृशाः कामाः भवन्ति सत्त्वा अविद्यया मुग्धा नित्यं दुःखस्य भोगिनः । विद्युदालातचक्रेण समाः कामाः प्रकीर्तिताः । स्वप्ने गन्धर्वनगरसदृशा विप्रलम्भिनः ॥ ७.१४८ ॥ पञ्चस्कन्धमतिर्दुःखितस्तिष्ठति अनित्यदुःखशून्येषु न कुर्यान्मतिमात्मवान् । पञ्चस्कन्धासुरैः प्रोक्तः शुभै रिक्तः स्वभावतः ॥ ७.१४९ ॥ अन्यथा विषवद्विज्ञः कामेषु च प्रसह्यते । स बुधः पारगः शान्तः सत्त्वानामनुकम्पकः ॥ ७.१५० ॥ निर्वाणोन्मुख एव दोषाच्छान्तिमधिगच्छति हित्वा क्लेशमयं पाशं निर्वाणस्यान्तिके स्थितः ॥ ७.१५१ ॥ कामविभ्रान्तस्य शान्तिकथा वृथा प्रभवेन्न च दोषेषु कामचर्यारतस्य च । विभ्रान्तमनसस्तस्य कुतः शान्तिर्भविष्यति? ॥ ७.१५२ ॥ विभ्रान्तं पश्यतु मनो विषयेषु प्रधावति । सद्धर्मपथविभ्रान्तो नरकेषूपपद्यते ॥ ७.१५३ ॥ अशक्तप्राप्तविभ्रष्टे किं कामैर्विद्युतोपमैः । किंपाकविषशस्त्राग्निसन्निभैर्दुःखहेतुभिः? ॥ ७.१५४ ॥ कामाग्निः विषयसेवनेन वर्धते यथा यथा हि सेव्यन्ते वर्धन्ते ते तथा तथा । अवितृप्तिकरा ह्येते वह्निदाहस्य हेतवः ॥ ७.१५५ ॥ कामान् वर्जयित्वैव सुखमश्नुवते जनाः दाहदोषेण सम्भ्रान्ताः ये सुराः सुखकाङ्क्षिणः । वर्जयित्वाशिवान् कामास्ततः सौख्यं भविष्यति ॥ ७.१५६ ॥ कामाः विद्युद्गुणोपमाः चञ्चलाः वञ्चयित्वा जनं मूढं शाटी कृत्येव बन्धनम् । प्रत्ययो नेत्रचपलः कामा विद्युद्गुणोपमाः ॥ ७.१५७ ॥ उपर्युपरि कामा यैः सेव्यन्ते कामतृष्णया । ते रागवह्निना दग्धा दाहाद्दाहमवाप्नुयात् ॥ ७.१५८ ॥ अतिमूढतमा ह्येते ये सुराः काममोहिताः । अथवा ये न गच्छन्ति यत्सुखात्सुखमुत्तमम् ॥ ७.१५९ ॥ निर्वाणगामिनो नास्ति विना मुक्त्या कुतः सुखम्? । तस्मात्कामान्न सेवेत कष्टः कामसमागमः ॥ ७.१६० ॥ इन्द्रियाणि न तृप्यन्ते विषयै रागसेविनः । अतृप्तौ च कुतः शर्म सर्वथा सम्प्रवेशते ॥ ७.१६१ ॥ तस्याग्रमुभयाद्वेत्ति संसाराद्दुःखसागरात् । कामान् तृष्णाविषयगान् परित्यजति पापकान् ॥ ७.१६२ ॥ कामोदयव्ययौ सम्यगवधेयौ एतानि गिरिकूटानि रम्याणि विविधैर्द्रुमैः । ध्यायन्ते तानि संश्रित्य कामानामुदयव्ययौ ॥ ७.१६३ ॥ शीलेन श्रद्धया च इष्टसाधनं कर्त्तव्यम् न कामबन्धनेस्तृप्ताः कामजं निधनं हि तत् । न शीलश्रद्धे येनेष्टे लभ्यतेऽशिवकारणम् । कामजं निधनं ह्येतत्संसाराटविदेशकम् ॥ ७.१६४ ॥ पापानि परित्यज्य सुखावहः शान्तिमार्गः सेवनीयः यत्र कामविसंयुक्तं बन्धनं वनमुच्यते । यत्र भासयते पापाद्यत्र शान्तिः सुखावहा । तत्केवलं महाज्ञानं कथ्यते निधनं धनम् ॥ ७.१६५ ॥ कामतृष्णाभ्यां विमुक्तः शिवमाप्नोति ये प्रसक्ता न कामेषु तृष्णया न प्रलोभिताः । ते शिवं स्थानमापन्ना न कामाग्निप्रवेशकाः ॥ ७.१६६ ॥ अवितृप्ताः नराः नश्यन्त्येव तृप्तिर्नास्ति सदा कामैर्न कामाः शान्तये स्मृताः । तृष्णासहायसंयुक्ता ज्वलन्ति ज्वलनोपमाः ॥ ७.१६७ ॥ अवितृप्ता विनश्यन्ति नरा देवास्तथोरगाः । ते केवलं प्रणष्टा हि नरकाग्नि प्रदर्शकाः ॥ ७.१६८ ॥ तृष्णामोहितस्य मृत्युरधिपतिः वितर्कापहतस्यास्य विषयैर्वञ्चितस्य च । तृष्णया मोहितस्यैष मृत्यू राजा भविष्यति ॥ ७.१६९ ॥ कामासक्ताः पथ्यापथ्यं न विजानन्ति संसक्तकामभोगेषु पथ्यापथ्यं न विद्यते । जना विमोहिताः सर्वैविषयैः कामसंज्ञकैः ॥ ७.१७० ॥ कामवशानुगाः विषयैरेव बध्यन्ते विषयैरेव कृष्यन्ते ये सुरा मूढचेतसः । ये (तु) बुद्धगुणैर्युक्ता न ते कामवशानुगाः ॥ ७.१७१ ॥ ऽधीरऽ परिभाषा प्रत्युत्पन्नेषु कामेषु सदोषेषु विशेषतः । यो न मुह्यति सौख्येषु सऽधीरऽ इति कथ्यते ॥ ७.१७२ ॥ कामपतितानां सुराणां स्थितिमाह स्वप्नकायविचित्रेषु ज्वालामालोपमेषु च । गन्धर्वपुरतुल्येषु कामेषु पतिताः सुराः ॥ ७.१७३ ॥ तृष्णाजनकभूतेषु विनाशान्तकरेषु च । कान्तारेषु विशालेषु कामेषु पतिताः सुराः ॥ ७.१७४ ॥ इत्त्वरेषु त्रिछिद्रेषु नदीवेगोपमेषु च । चञ्चलेष्वतिदुर्गेषु (कामेषु) पतिताः सुराः ॥ ७.१७५ ॥ पवनोद्धृतवेगोर्मिजलचन्द्रे चलेषु च । अतातचक्रलोकेषु कामेषु पतिताः सुराः ॥ ७.१७६ ॥ समं विद्युल्लताचक्रमृगतृष्णोपमेषु च । फेनवच्चाप्यसारेषु कामेषु पतिताः सुराः ॥ ७.१७७ ॥ कदलीगर्भतुल्येषु गजकर्णोपमेषु च । नदीतरङ्गवेगेषु कामेषु पतिताः सुराः ॥ ७.१७८ ॥ किंपाकफलतुल्येषु वह्निसन्निभजातिषु । मायारश्मिनिभेष्वेषु कामेषु पतिताः सुराः ॥ ७.१७९ ॥ ज्ञानाङ्कुशेन कामो वर्जनीयः ज्ञानाङ्कुशेन वार्यन्ते विषयास्तत्त्वदर्शिभिः । येऽमुक्ताश्चपलास्तीव्राः सर्वानर्थकरा मताः ॥ ७.१८० ॥ विषया एव नरकपातहेतवः विषयाशा च मूढानां सङ्कल्पहृतचेतसाम् । मृत्युपाशोऽयमभ्येति जीविताशा(वि)बन्धकः ॥ ७.१८१ ॥ पचन्ति निरये कामाः प्राणिनं लघुचेतसम् । न च विन्दन्ति मूढा ये मोहेन परिवञ्चिताः ॥ ७.१८२ ॥ विषयाश्चपलाः सर्वे गन्धर्वनगरोपमाः । दुःखसंवर्तका ह्येते नरकाः पञ्चहेतवः ॥ ७.१८३ ॥ सङ्कल्पजो रागः नरकं पातयति सङ्कल्पाज्जायते रागः रागात्क्रोधः प्रवर्तते । क्रोधाभिभूतः पुरुषो नरकानुपसेवते ॥ ७.१८४ ॥ कामपरित्यागपूर्वकं निर्वाणप्राप्तये यतेत तस्मात्कामं परित्यज्य क्रोधं निर्वास्य पण्डितः । मोहं चापि परित्यज्य निर्वाणाभिमुखो भवेत् ॥ ७.१८५ ॥ निर्वाणपथिकानां कृते शत्रुवदेव कामः परिवर्जनीयः शत्रुवद्विषया ज्ञेया निर्वाणं चैव मित्रवत् । पुमान् विश्रान्तविषयो निर्वाणमधिगच्छति ॥ ७.१८६ ॥ काममलैरलिप्त एव विमलप्रकाशमाप्नोति अलोलुपः काममलैरलिप्तः प्रहीणदोषो हतवाणतृष्णः । संक्षीणदोषो विमलप्रकाशः प्रयाति शान्तिं स्वफलोपभोगी ॥ ७.१८७ ॥ सुखार्थी कामं परित्यज्यैव शान्तिमधिगच्छति यः कामपङ्कोद्धृतवानदोषः सर्वेषु सत्त्वेषु सदा सुखार्थी । स निर्मलोऽशान्तमनोविमुक्तः प्राप्नोति निर्वाणसुखं प्रसह्य ॥ ७.१८८ ॥ इति कामजुगुप्सावर्गः सप्तमः । (८) तृष्णावर्गः तृष्णाग्निरेव नरकभूतः भवोताराय तृष्णाग्निर्ज्वलनः शीत उच्यते । नरके नारके योऽग्निस्तृष्णाग्निस्त्रिषु धातुषु ॥ ८.१ ॥ कल्पभूतो ह्ययं वह्निः योऽयं नरकसम्भवः । बहुज्वालाकुलो वह्निः तृष्णाहेतुसमुद्भवः ॥ ८.२ ॥ कर्मक्षयाद्विमुच्यन्ते नरकात्पापकारिणः । त्रिषु धातुषु दह्यन्ते नरास्तृष्णावशानुगाः ॥ ८.३ ॥ अनादिमति संसारे तृष्णाग्निरतिबन्धकः । तृष्णाग्निर्नरकं तस्मान्नाग्निर्नरकसम्भवः ॥ ८.४ ॥ तृष्णाग्निः शरीरं मनश्च दहति गात्रदाहं परं कुर्यान्नारकेयो हुताशनः । शारीरं मानसं दाहं तृष्णाग्निः कुरुते नृणाम् ॥ ८.५ ॥ तृष्णाग्निः सामान्याग्निना विशिष्यते तस्माद्विशिष्यते वह्निः तृष्णाहेतुसमुद्भवः । नारकेयोऽसमश्चैव तृष्णाग्निर्नितरां स्मृतः ॥ ८.६ ॥ अयमग्निः त्रिकालसम्भवः त्रिस्थानगः त्रिहेतुश्च त्रिकर्मपरिदीपकः । त्रिकालसम्भवो ज्ञेयस्तृष्णाग्निपरकस्तथा ॥ ८.७ ॥ तृष्णाग्निः सदैव सर्वत्र दाहकः रागाग्निर्दह्यते स्वर्गे द्वेषाग्निस्तिर्यगे तथा । मोहाग्निर्दह्यते पापे तृष्णाग्निः सर्वदा स्थितः ॥ ८.८ ॥ तृष्णाग्नेः स्वरूपनिरूपणम् मानेर्ष्याधूमविशिखः सङ्कल्पे धनसम्भवः । लोभाग्निर्दहते लोकं नाग्निः कामसमुद्भवः ॥ ८.९ ॥ तृष्णाग्निर्विषयसेवनेनैव वर्धते लोभाशीविषदष्टा ये तेषां शर्म न विद्यते । सेवितो भावितो लोभो भूय एवाभिवर्धते ॥ ८.१० ॥ लोभसमो रिपुर्भुवि नास्ति यथा यथेन्धनं प्राप्यानलो वर्धत्यनेकशः । शक्यः पालयितुं(वह्नि) र्लोभवह्निर्न(शक्यते) ॥ ८.११ ॥ चक्रवद्भ्रमते लोको लोभेन परिवञ्चितः । अनादिनिधने लोके नास्ति लोभसमो रिपुः ॥ ८.१२ ॥ विशन्ति सागरजले लोभेन परिवञ्चिताः । शस्त्रसङ्घातगहनं युद्धं संप्रविशन्ति च ॥ ८.१३ ॥ लोभहेतोर्हि भूपाला नाशयन्ति परस्परम् । शस्त्रासिभैरवप्रोता युद्धयन्ते धनतृष्णया ॥ ८.१४ ॥ तृष्णाविषविनिर्मुक्ता लोभाङ्गारविवर्जिता । समलोष्टकाञ्चना ये निर्वाणस्यान्तिके हि ते ॥ ८.१५ ॥ लोभाग्निः सर्वापेक्षया विषमः अतीवानुपपन्नस्य धनलोभेन दह्यते । न वह्निर्विषमस्तत्र लोभाग्निर्यत्र वर्तते ॥ ८.१६ ॥ लोभशान्तिं विना निर्वाणकथा वृथा लोभाधारप्रयत्नेन हन्यात्तान् रभसा बुधः । अनिर्वापितलोभस्य निर्वाणं दूरतः स्थितम् ॥ ८.१७ ॥ भवसुखपरित्यागी भवजं दुःखं नाप्नोति भवाभिलाषिणीं नान्दीं नाभिनन्दन्ति ये नराः । न तेषां भवजं दुःखं स्वप्ने समुपविद्यते ॥ ८.१८ ॥ तृष्णाबद्धान् जनान्मृत्युः शम्बूक इव कर्षति मत्स्यान् यथा जालबद्धान् शम्बूकः परिकर्षति । तृष्णाबद्धांस्तथा सत्त्वान्मृत्युः समुपकर्षति ॥ ८.१९ ॥ तृष्णाविषं कुत्रापि न मुञ्चति सविषैः सायकैर्विद्धो मृगो यत्र (प्र)धावति । तत्र तत्र विषं याति तथा तृष्णाविषं नृणाम् ॥ ८.२० ॥ प्रवाहप्रवहन्नद्या गतिर्गत्यऽनुधाविनी । यथा निर्दहते बालान् शुष्केन्धनमिवानलः ॥ ८.२१ ॥ आपातरम्या(विषया) विपाकज्वलनोपमाः । तस्मात्तृष्णा विमोक्तव्या यदि सौख्यं हि रोचते ॥ ८.२२ ॥ यथा हि वडिशग्रस्ता मीना मृत्युवशानुगाः । तथा प्रतप्ता विषयान् परिधावन्ति दुःखिताः ॥ ८.२३ ॥ तृष्णाग्निः नरकादपि महान् नरकं नारकेयं च तृष्णानिहितं महत् । पतन्ति निधना मर्त्याः परदारोपजीविनः ॥ ८.२४ ॥ तृष्णाप्रेरितो मुनिरपि दुःखमनुभवति न चेष्टितमनोपापतृष्णया प्रेरितो मुनिः । षडिन्द्रियसमुद्भूतो विषयेन्धनदाहकः ॥ ८.२५ ॥ देवानपि तृष्णाग्निर्दहत्येव तृष्णाग्निर्दहते देवं कायाग्निर्न कथञ्चन । सुखावृताः सुखरताः सुखे(न) परिवञ्चिताः ॥ ८.२६ ॥ तृष्णापरिवञ्चितः पतनमपि नावगच्छति पतनं नावगच्छन्ति तृष्णया परिवञ्चिताः । ज्वालामालाकुलः सर्वः संसारस्तृष्णयावृतः ॥ ८.२७ ॥ तृष्णाग्निना वशीभूता जना गच्छन्ति दुर्गतिम् । तृष्णाग्निभिः परिवृतः सुरलोकः समन्ततः ॥ ८.२८ ॥ तृष्णाग्निः सदैव वर्धते दह्यते विवशो रक्तः कामभोगवशीकृतः । यथा यथेन्धनं प्राप्य ज्वलनं संप्रवर्धते ॥ ८.२९ ॥ तथा तथा सुखं प्राप्य तृष्णाग्निर्वर्धते नृणाम् । परिवर्तयते पुंसः काष्ठाग्निर्दाहदीपकः ॥ ८.३० ॥ तृष्णाग्निर्दहते लोकं परिहातुं न शक्यते । ये विशालां नदीं तीर्णा सङ्कल्पकृतभैरवीम् ॥ ८.३१ ॥ तृष्णापाशशून्यः परमां शान्तिमाप्नोति ते गताः परमां शान्तिं यान् हि तृष्णा न बाधते । तृष्णापाशविमुक्ता ये सङ्गदोषविवर्जिताः ॥ ८.३२ ॥ निर्मुक्तपापकल्माषा वीतशोका हि ते बुधाः । कल्पकोटिसहस्राणि तृष्णया वञ्चिता नराः ॥ ८.३३ ॥ तृष्णया वञ्चितो लोकस्तृष्णामेवोपास्ते (न)ते त्यजन्ति(विषयान्) मायामोहवशंगताः । तृष्णया वञ्चितो लोकस्तृष्णामेवोपसेवते ॥ ८.३४ ॥ लवणोदं तृषातोयं यथा पिबति नारिकः । न तेन (तुष्यति) जन्तुर्मुहुश्च परिशुष्यति ॥ ८.३५ ॥ दुःखकरीं तृष्णां न सेवेत विषयेष्वेव तृष्णार्तश्चेष्टते पुरुषोऽधमः । तस्मात्तृष्णां न सेवेत सा हि तृष्णा दुरासदा ॥ ८.३६ ॥ तृष्णावशो नैव प्रमुच्यते तृष्णावशो हि पुरुषः संसारान्नैव मुच्यते । अनुत्तमानि सौख्यानि भुक्त्वा देवेषु जन्तवः ॥ ८.३७ ॥ तृष्णापाशविकृष्टाः नरकं पतन्ति तृष्णापाशविकृष्टास्ते पतन्ति नरकं पुनः । अस्वतन्त्रादिकल्याणं नित्यदुःखमयं कटु ॥ ८.३८ ॥ तृष्णया कदापि तुष्टिर्न भवति तृष्णायाः सेवनान्मुक्तः सन्मार्गमधिगच्छति । सतृष्णस्य कुतस्तुष्टिर्विषयेषु भविष्यति ॥ ८.३९ ॥ सा तृप्तिर्या वितृष्णस्य वीतशोकस्य देहिनः । एवं वितर्कविहिताः प्रमादेन च वञ्चिताः ॥ ८.४० ॥ तृष्णया देवानपि नरकं यान्ति तृष्णयाः तोषिता देवाः पतन्ति नरकं पुनः । विडम्बनेयं परमा यत्सुरा नरकं गताः ॥ ८.४१ ॥ क्रीडकाः परमा भूत्वा कामस्य वशमागताः । न चोद्विजन्ति संसारान् प्राणिनश्चित्तमोहिताः ॥ ८.४२ ॥ तृष्णया दुःखतरं पदमाप्नोति दुःखाद्दुःखतरं यान्ति तृष्णया परिवञ्चिताः । यथा यथा सुखस्याप्तिर्वर्धते जालिनी तथा ॥ ८.४३ ॥ जालिनीवह्निदग्धस्य नरकानुपकर्षति । सतृष्णस्य वितर्का ये तेषां संख्या न विद्यते ॥ ८.४४ ॥ विषयगामिनः तृष्णया मृत्युमुखमेव प्रविशन्ति अवितर्कवितर्कन्तु मृत्युराजो विकर्षति । वितर्ककामवशगास्तृष्णाविषयगामिनः ॥ ८.४५ ॥ कामास्वादप्रमत्ताः विषयिणो दुःखिनस्तिष्ठन्ति सुखस्य भोगिनं दृष्ट्वा न विद्वद्भिस्तथेष्यते । कामास्वादप्रमत्तानां प्राणिनां विषयार्थिनाम् ॥ ८.४६ ॥ देहिनः तृष्णया दहयन्ते जालिनी बाधते नित्यं यथा बध्नन्ति देहिनः । पञ्चालम्बनमेतत्तु तृष्णया नैव दहयते ॥ ८.४७ ॥ तृष्णाविमुक्ता विमला भवन्ति तृष्णाविमुक्तविमला न पापपुरगामिनः । सङ्कल्पदोषा कुटिला त्रिदोषरजसोद्भवाः ॥ ८.४८ ॥ तृष्णया संसारसागरे परिवर्ते पतन्ति जनाः प्रमादजलगम्भीराः स्त्रीरागकृतसेवनाः । गीततूर्यस्वराः शीघ्रं सुरापानाच्च चञ्चलाः ॥ ८.४९ ॥ सञ्छन्नविषया सर्वे मनः क्षिप्ततरङ्गिणः । तृष्णानदीषु विषमे वहन्ति न च गोचरे ॥ ८.५० ॥ गाहन्ते ते च सम्मूढाः सुरा रागेण वञ्चिताः । त्रिदोषकाष्ठसंभूताः प्रमादानिलवेगतः ॥ ८.५१ ॥ तृष्णानलः सुरगणान् दहते न च ते विदुः । न क्षणो नापि हि लवो न मुहूर्त कथञ्चन ॥ ८.५२ ॥ या न तृष्णावशगतैः सुरैः समुपभुज्यते । तृष्णाभूमिरियं काष्ठा वितर्कजलसम्भृता ॥ ८.५३ ॥ तृष्णासर्पदग्धः कालवशीकृतो भवति यस्मिन् क्रीडन्ति विवशाः देवाः कामवशानुगाः । चित्तादिना प्रचण्डेन तृष्णाविषविसर्पिणा ॥ ८.५४ ॥ दष्टानुपञ्चशीर्षेण किं वृथा विलपस्यथ । तृष्णानदी विशालेयं पञ्चतीर्थसमुद्भवा ॥ ८.५५ ॥ तृष्णामोहेन्द्रजालेन विप्रकीर्णेन सर्वदा । तथा प्रपञ्चिता देवा यथा न शुभभागिनः ॥ ८.५६ ॥ तृष्णाविषयघृतसिक्तो वर्धत एव नेन्द्रियाणि सदा कामैस्तृप्यन्ति हि कथञ्चन । संवर्धते तथा तृष्णा घृतसिक्तो यथानलः ॥ ८.५७ ॥ तृष्णया विविधासु योनिषु जनाः भ्रमन्ति नानाविधैः सुखैरेषा जालिनी लोकनाशिनी । नरकप्रेततिर्यक्षु भ्रामयन्ती नरान् सदा ॥ ८.५८ ॥ वीततृष्णः निर्मुक्तबन्धनः परमां गतिमाप्नोति मृत्यूपपत्तिदोलायां श्लिष्यन्ते बालिशाः जनाः । सुशीलावीततृष्णाश्च गतास्ते परमां गतिम् ॥ ८.५९ ॥ निर्मुक्तबन्धना धीरा गतशोका गतव्यथाः । सुखं प्राप्नुवन्ति नित्यं ये न तृष्णावशानुगाः । जन्मदुःखमयैः पाशैर्न ते विध्यन्ति सूरयः ॥ ८.६० ॥ तृष्णाविसृष्टिः ज्ञानाय प्रवर्तयति येषां सर्वास्ववस्थासु ज्ञानेषु विहितं मनः । अनिमित्ते मनो येषां विसृष्टा ये च तृष्णया । ते वीतमलकान्ताराः पारं प्राप्ताः सुखोदयम् ॥ ८.६१ ॥ तृष्णामोहप्रमत्ताः भवे भवे भ्रमन्ति तृष्णामोहप्रमत्ता ये रतिसौख्यास्तथैव च । मोहितास्ते देवगणा भ्रमिष्यन्ति भवे भवे ॥ ८.६२ ॥ अहर्निशं तृष्णा तापयति कुट्टनव्यवहारा ये परिचित्तापहारिणः । अविद्याबहुला ये वा नित्यं दाहाभिकाङ्क्षिणः । न रात्रौ न दिवा तेषां हृदयं सुप्रसीदति ॥ ८.६३ ॥ लोभाभिभूताः तुषाग्निकल्पा भवन्ति लोभाभिभूतमनसां परिवित्ताभिकाङ्क्षिणाम् । तेषां तुषाग्निकल्पानां विश्वसेन्न स्वभावतः ॥ ८.६४ ॥ विषयेन्धन सर्पाद्भयमेवोचितम् बिभेति हि नरः सर्वः सर्पादिव विषेन्धनात् । लोभेन विषयेणैवाभिभूतास्ते नरा भृशम् ॥ ८.६५ ॥ तृष्णावशगाः विविधां योनिं लभन्ते ते मृता नरकं यान्ति प्रेतयोनिं तथैव च । तस्मादपि विनिर्मुक्ता नरकाद्वह्निसम्मुखात् ॥ ८.६६ ॥ आकाङ्क्षिणः नित्यं दुःखभागिनो भवन्ति पञ्चजन्मशतान्येते भवन्ति परिकाङ्क्षिणः । विवर्णा दीनवदना नित्यं दुःखस्य भागिनः । भवन्ति मनुजाः सर्वे लोभोपहतचेतसः ॥ ८.६७ ॥ विवेकसम्पन्नाः परमां गतिं लभन्ते प्रहीणलोभा ये सन्ति नित्यं ज्ञानाभिकाङ्क्षिणः । बुद्धिमन्तः सदा सन्तः ते गताः परमां गतिम् । निर्वाणहृदया वीतलोभमोहाः सदा नराः ॥ ८.६८ ॥ लोभाकृष्टस्य विनिपातः लोभाशीविषदष्टस्य विनिपातो ध्रुवं स्थितः । क्रियमाणो ध्रुवं लोको वर्धते स मुहुर्मुहुः ॥ ८.६९ ॥ शुष्केन्धनं समादाय यथा वह्निः प्रवर्धते । धनतृष्णारताः सत्त्वाः धनोपार्जनतत्पराः ॥ ८.७० ॥ मृत्युकाले समुत्पन्ने त्यजन्ति विवशा धनम् । यच्च तत्सम्भवं योगात्तत्सर्व न विनश्यति ॥ ८.७१ ॥ लोभात्मा घोरं नरकं याति तेन वित्तेन लोभात्मा नीयते नरकं भृशम् । अन्यैस्तद्भुज्यते वित्तं स तु पापेन लिप्यते ॥ ८.७२ ॥ प्रयान्ति नरकं घोरं पश्चात्तापेन दह्यते । अनर्थो ह्यर्थरूपेण सुखरूपेण वा सुखम् ॥ ८.७३ ॥ लोभत्यागं प्राज्ञः कुर्यात् अमित्रं मित्ररूपेण लोभोऽयं हृदि वर्तते । न लोभं संश्रयेत्प्राज्ञो लोभाग्निर्दह्यते सदा ॥ ८.७४ ॥ लोभदग्धाः नरकगामिनो भवन्ति तेन दग्धा भृशं सत्त्वाः पश्चान्नरकगामिनः । लोकसाधारणा ह्येते विभवाः सुखवर्जिताः ॥ ८.७५ ॥ तृष्णाभयविमुक्तिरेव श्रेयस्करी तेषामर्थे कथं पाप क्रियते मन्दबुद्धिभिः । तृष्णाभयविमुक्तस्य निराशस्य हि सर्वतः ॥ ८.७६ ॥ वीतकाङ्क्षस्य धीरस्य नित्यं पदमवस्थितम् । सम्पत्तौ धाबते लोको विपत्तौ नावबुध्यते ॥ ८.७७ ॥ सम्पत्तिः क्षयान्ता विपदन्ता हि सम्पत्तिः क्षयान्तं दिवसं यथा । यथा तिष्ठति सम्पत्तिः विपत्तिः पापिका तथा ॥ ८.७८ ॥ कामभोगैर्देवा अपि नरकं यान्ति अवितृप्तस्य कामेभ्यस्तृष्णया परिदह्यते । यस्येष्टाः सम्पदो नित्यं सुखं चाभिमतं सदा ॥ ८.७९ ॥ जनि नाशयते तासां तृष्णा नष्टा सुखावहा । ते देवा नरकं यान्ति कामभोगैस्तथार्पिताः ॥ ८.८० ॥ अनलाचेष्टितं सर्व तद्वदन्ति तथागताः । मनुष्या यच्च नरकं प्रया(न्ति) शतशस्तथा ॥ ८.८१ ॥ विमुग्धाः यति जीवनं नावगच्छन्ति चेष्टितं तद्विशालायाः योषिकाया विदुर्बुधाः । विमोहिता न विन्दन्ति त्वरितं स्वल्पजीवितम् ॥ ८.८२ ॥ तृष्णया सुकृतानि विनश्यन्ति सुकृतानि च नश्यन्ति तृष्णा नैव विनश्यति । भवे भवे गता सत्वाः न विन्दन्ति शुभाशुभम् ॥ ८.८३ ॥ शुभस्य फलमेवेष्टं यत्सुराः परिभुञ्जते । अशुभस्य तथा दृष्टमसुखं विनिपातजम् ॥ ८.८४ ॥ शुभाशुभप्रहीणा एव जरामरणरहिता भवन्ति शुभाशुभप्रहीणा ये सङ्गदोषविवर्जिताः । ते गताः परमं स्थानं जरामरणवर्जितम् ॥ ८.८५ ॥ तृष्णानदीपरिक्षिप्तः जनः किमपि नावगच्छति पञ्चारं भवचक्रं तत्तृष्णानाभिपुरःसरम् । नदीरागपरिक्षिप्तं न च लोकोऽवबुध्यते ॥ ८.८६ ॥ दोषावर्ततरा ज्ञेया सङ्कल्पमकराकुलाः । तृष्णानदी विशालेयं न च लोकोऽवबुध्यते ॥ ८.८७ ॥ तृष्णा त्रिषु कालेषु वञ्चिका त्रिकाले वञ्चनी तृष्णा नित्यमज्ञानकारिणी । न तस्यां विश्वसेद्धीमान् संसारबन्धना हि सा ॥ ८.८८ ॥ तृष्णा लोकबन्धनभूता मित्रवद्दृश्यते काले शत्रुवच्च निकृन्तति । न तस्यां विश्वसेत्प्राज्ञः सा हि लोकस्य बन्धनम् ॥ ८.८९ ॥ शक्यं हि बन्धनं छेत्तुमायसं दारुवत्तथा । न तृष्णाबन्धनं छेत्तुं नित्यं कामगवेषिभिः ॥ ८.९० ॥ यस्येष्टो बन्धभेदोऽयं यस्येष्टं सुखमव्ययम् । स तृष्णया विमुक्तः (स्यात्)प्रज्ञाशो (धनकृद्) भवेत् ॥ ८.९१ ॥ ज्ञानेन तृष्णावृक्षस्य छेदनं कर्त्तव्यम् ज्ञानालोकः सुखालोको दुःखं तृष्णातमःस्मृतम् । तस्मादालोकमास्थाय तमो नुदति पण्डितः ॥ ८.९२ ॥ ज्ञानखड्गेन तीक्ष्णेन तृष्णावृक्षं निकृन्तति । निकृत्तवृक्षः (स) नरः सुखं प्राप्नोत्यनुत्तमम् ॥ ८.९३ ॥ दोषेण बहुला ह्येषा नदी प्रस्रवणाकुला । दोषा नेतानहित्वा (न) भवान्मुञ्चति पण्डितः ॥ ८.९४ ॥ प्रज्ञानावमाश्रित्य तृष्णानद्याः पारं गच्छति तृष्णानदीं त्रिपथगां प्रमादावर्तदुस्तराम् । प्रज्ञानावं समाश्रित्य पारं गच्छन्त्यनामयम् ॥ ८.९५ ॥ महेच्छतामहच्छत्रं येन चायान्ति बालिशाः । तस्मान्महेच्छता बध्या त्वयेयं ज्ञानचक्षुषा ॥ ८.९६ ॥ महेच्छैव हृदयव्रणभूता महेच्छताव्रणस्तीव्रो हृदये यस्य जायते । न रात्रौ न दिवा तस्य सुखं भवति लोभिनः ॥ ८.९७ ॥ सङ्कल्पे तु न सम्भूतः तृष्णावायुसमीरितः । महेच्छतामयो वह्निर्दहते हृदयं नृणाम् ॥ ८.९८ ॥ लोभेनात्मनोऽहितं कुर्वन्ति जनाः लोभेनावेष्टितमनाः पुरुषो लघुचेतसा । जीवितान्यपि साराणि जहाति धनतृष्णया ॥ ८.९९ ॥ पापानि हि च कर्माणि कुर्वन्ति पुरुषाः क्षितौ । धनलाभेन तत्सर्व प्रवदन्ति मनीषिणः ॥ ८.१०० ॥ ये साहसं न कुर्वन्ति विशन्ति ज्वलनं च यत् । तत्सर्व लोभदोषेण कुर्वन्त्यहितमात्मनः ॥ ८.१०१ ॥ शस्त्रानिलानि दुःखानि विविधानि च (सर्वतः) । विशन्ति (वै) नरा मूढा लोभस्तत्र हि कारणम् ॥ ८.१०२ ॥ हृदयस्थो मनोवह्निर्नित्यं बह्विच्छतां नृणाम् । अल्पेच्छतया (हि) हृच्छान्तिर्भवतिलाभिनः ॥ ८.१०३ ॥ यथाग्निरिन्धनेनैव प्रशान्तिमधिगच्छति । तथा वह्विच्छतां नृणां धनैर्वृद्धिः प्रजायते ॥ ८.१०४ ॥ अल्पेच्छतैव सुखम् भूपाला (हि) धनैस्तृप्ताः कोटिशो निधनं गताः । यास्यन्ति चान्ये निधनं तस्मादल्पेच्छता सुखम् ॥ ८.१०५ ॥ तृष्णाविहीन एव सुखमाप्नोति दुःखं वह्विच्छता नृणां लक्षणं सुखदुःखयोः । (हेया सर्वप्रयत्नेन) इदमुक्तं परीक्षकैः । एष पन्थाः शिवः श्रेष्ठो येन तृष्णा वशीकृता ॥ ८.१०६ ॥ ॥ इति तृष्णावर्गोऽष्टमः ॥ (९) स्त्रीजुगुप्सावर्गः स्त्रिय एवानर्थमूलम् स्त्रियो मूलं (हि) पापस्य धननाशस्य सर्वथा । स्वहिते ये न निरताः कुतस्तेषां भवेत्सुखम् ॥ ९.१ ॥ अनर्थकर्मरतयः शाठ्येर्ष्याबहुलास्त्रियः । लोकद्वयविनाशाय पुरुषाणामवस्थिताः ॥ ९.२ ॥ नित्यं सरागकुशला नित्यं तद्वचनाः पराः । अन्यच्च हृदये तासां कथयन्त्यन्यदेव वा ॥ ९.३ ॥ आपातमधुराः सूक्ष्माः विपाके वज्रचेतसः । नोपकारेण सत्कारं स्मरन्ति लघुचेतसः ॥ ९.४ ॥ स्त्रियो विद्युत्स्वभावहृदया अतिचञ्चलाः नाशयित्वा प्रियशतं स्मरन्त्येकं हि विप्रियम् । विद्युत्स्वभावहृदयाः स्त्रियः पापस्य भूमयः ॥ ९.५ ॥ स्त्रीणां नाशसाधकत्वप्रदर्शनम् स्त्रीहेतुनाशमिच्छन्ति पुरुषा वक्रचेतसः । स्त्रीविनाशो विनाशो द्रागिह लोके परत्र च ॥ ९.६ ॥ स्त्रीदर्शनमेवाग्निवद्दहति एवं तु सर्वविषयाः स्त्रीदर्शनमिहैकजम् । अभिभूय सर्वविषयान्नार्यग्निज्वलनं महत् ॥ ९.७ ॥ स्त्रीदोषप्रदर्शनपूर्वकं नारीजुगुप्सासमीक्षणम् संश्लेषादपि विश्लेषः स्मरणात्कथनादपि । स्त्रीणां दाहसमुत्थोऽयं वह्निरन्तर्जहासकः ॥ ९.८ ॥ रागेण सह जायन्ते नित्यं वै दारुणाः स्त्रियः । दानेन सह जायन्ते यथा लोके हुताशनाः ॥ ९.९ ॥ न भवेत्तादृशो दाहो योऽयं वह्निसमुद्भवः । यादृशः स्त्रीमदो ह्यस्ति देहिनां हृदयोद्भवः ॥ ९.१० ॥ सर्वलोकविनाशाय सर्वधर्मक्षयाय च । हेतवो नरकस्यैताः स्त्रियः प्रोक्ता महर्षिभिः ॥ ९.११ ॥ मुखतो मधुरामर्षा हृदयेन विषोपमाः । अनवस्थितसौहार्दा नासां कश्चित्प्रियो नरः ॥ ९.१२ ॥ मुहूर्तेन प्रियस्तासां मुहूर्तेन तथाप्रियः । अनवस्थितसौहार्दाश्चञ्चला क्षणिकोपमाः ॥ ९.१३ ॥ वञ्चनाहेतुकुशला नित्यं कार्यपरायणाः । नित्यं संयोगमनसो नित्यं मानपरायणाः ॥ ९.१४ ॥ देवानां च मनुष्याणां पिशाचोरगराक्षसाः । न बन्धभूता यादृश्यः स्त्रियः कालविषोपमाः ॥ ९.१५ ॥ नोपकारं स्मरन्त्येता न कुशलं नापि विक्रमम् । अनवस्थितचित्ताश्च वायुवेगसमाः स्त्रियः ॥ ९.१६ ॥ भवन्ति सम्पदो यत्र रक्ष्यन्ते यत्र योषितः । व्यसनेषु विरक्तास्तु त्यजन्ति पुरुषं ध्रुवम् ॥ ९.१७ ॥ यं यं गच्छन्ति पुरुषं रक्ष्यन्ते तत्र योषितः । शीघ्रं शीघ्रं नरं ह्येतास्त्यजन्ति पुरुषं स्थितम् ॥ ९.१८ ॥ यथा हि भ्रमरी पुष्पं शुष्कं त्यजति सर्वदा । तथा वित्तेन रहितं पुरुषं त्यजति प्रिया ॥ ९.१९ ॥ निस्त्रिंशहृदयाः क्रूराश्चञ्चलास्तमसावृताः । स्त्रियः पुरुषनाशाय जाताः केनापि हेतुना ॥ ९.२० ॥ देवानां बन्धनं नाम यथा स्त्रीबन्धनं मतम् । स्त्रीबन्धननिबद्धास्तु पतन्ति नरकं पुनः ॥ ९.२१ ॥ एतदग्रं हि रागाणां यो रागः स्त्रीसमुद्भवः । स्त्रीरागदग्धमनसं पश्चाद्दहति पावकः ॥ ९.२२ ॥ प्रत्यक्षाण्यपि कर्माणि रागैश्चापहतः पुमान् । न वेत्ति मूढहृदयः स्त्रीरागेण विमोहितः ॥ ९.२३ ॥ विश्वास्य विषये पुरुषं बद्ध्वा प्रियमनेकशः । त्यजन्ति वित्तनाशेन त्वचं यद्वद्भुजङ्गमाः ॥ ९.२४ ॥ सर्वोपायभृता नार्यः सर्वशः परिपालिताः । न शक्याः स्ववशीकर्त्तुं स्त्रियः परमदारुणाः ॥ ९.२५ ॥ आसां सर्वस्वभावानां नारीणां चलचेतसाम् । न यायाज्जातु विश्वासं पुमान् धीरेण चेतसा ॥ ९.२६ ॥ स्त्रीविधेयास्तु ये मर्त्या नित्यं कामगवेषिणः । पश्चिमदर्शनं तेषां सुरलोके भविष्यति ॥ ९.२७ ॥ पञ्चाङ्गिकेन तूर्येण विप्रलुब्धाः समन्ततः । विन्दन्ति व्यसने दुःखं यदवश्यं भविष्यति ॥ ९.२८ ॥ इमास्ताश्चञ्चला नार्यो यासां रागः कृतस्त्वया । ता भवन्तं परित्यज्य पुनरन्यं ततो गताः ॥ ९.२९ ॥ द्विधा हि प्रकृतिर्यासां (योषितां) सहचारिणी । भूयोऽभियन्ति पुरुषं व्यसनेषु त्यजन्ति च ॥ ९.३० ॥ मृगवन्मोहयन्त्येताः पुरुषं रागमोहितम् । पश्चात्(तु) व्यसने प्राप्ते त्यजन्ति लघुचेतसः ॥ ९.३१ ॥ नोपकारं न सत्कारं न प्रियाणि न सन्ततिम् । स्मरन्ति योषितस्तीव्रा व्यसने समुपस्थिते ॥ ९.३२ ॥ म्लानं पुष्पं यथा त्यक्त्वा भ्रमरोऽन्यत्र धावति । तथा हि व्यसने प्राप्ते त्यजन्ति खलु योषितः ॥ ९.३३ ॥ अनपेक्षितसौहार्दाश्चञ्चलाश्च रणप्रियाः । भवन्ति योषितः सर्वा विषमिश्रं यथा मधु ॥ ९.३४ ॥ मोहयन्ति नरान् कामैर्वाक्यैश्चापि विशेषतः । न तेषां विश्वसेद्धीमान् पुरुषो धीरमानसः ॥ ९.३५ ॥ आभिर्विमोहिताः किं वा रंजिताः पुरुषाः स्वतः । न कुर्वन्ति हितं वाक्यं यथा मुष्णिकगामिकम् ॥ ९.३६ ॥ देवासुरनरान् यक्षान् पिशाचोरगराक्षसान् । इन्द्रजालमया नार्यो वञ्चयन्ति विशेषतः ॥ ९.३७ ॥ एतदग्रञ्च पाशानां यदिदं स्त्रीमयं दृढम् । अनेन बद्धाः पुरुषा भ्रमन्ति भवचारके ॥ ९.३८ ॥ न कश्चित्पाशपाशोऽयं हृत्पाशो योषितः परम् । हृत्पाशबन्धनैर्बद्धाः पुरुषा दुःखमोहिताः ॥ ९.३९ ॥ दहयते छिद्यते पाशस्स्त्रीमयस्तु न दहयते । नरकप्रेततिर्यक्षु गच्छन्तमनुगच्छति ॥ ९.४० ॥ मूर्तिमान् बध्यते कायः पाशेन महता तथा । अमूर्तिगं चित्तमिदं स्त्रीपाशेन तु बध्यते ॥ ९.४१ ॥ (न) दृश्यते पाशमन्यं येन बध्नन्ति योषितः । अभिज्ञेयमप्रमाणं स्त्रीमयं बन्धनं महत् ॥ ९.४२ ॥ अनेनापातरम्येण (दुःख) मोक्षेण सर्वदा । पाशेन बद्धाः पुरुषा न मुच्यन्ते भवार्णवात् ॥ ९.४३ ॥ षडिन्द्रियाणि बध्नाति पाशो यः स्त्रीमयो महान् । पाशस्तु कायमेवैकं कश्चित्बध्नाति वा न वा ॥ ९.४४ ॥ बन्धनं न दृढं हीदं मोक्षवार्य षडायसम् । संरक्तचित्तभोगे हि मन्दबुद्धेर्नरस्य च ॥ ९.४५ ॥ स्नायुयन्त्रेण बद्धासु विस्तृतकर्मभूमिषु । तीक्ष्णरक्तासिना युक्तो मरणार्थमिहागतः ॥ ९.४६ ॥ स्त्रीणां दौर्गुण्यम् वञ्चनाच्छलकूटासु रभसा नु विशेषतः । चञ्चलो भ्रान्तचित्तासु भ्रान्तस्त्वङ्गक्षणारिषु ॥ ९.४७ ॥ विभ्रान्तो भ्रान्तकथितैर्भूषणानां तथा स्वनैः । हरन्ति पुरुषं क्षिप्रं वञ्चनाकुशलाः स्त्रियः ॥ ९.४८ ॥ नानाविधेषु पुष्पेषु यथा चरति षट्पदः । नानाविधेषु मर्त्येषु तथेमाश्चञ्चलाः स्त्रियः ॥ ९.४९ ॥ यथा मधुरिका पीत्वा पुष्पमन्यत्र गच्छति । तथा पुरुषमापीयः प्रयान्ति रभसं स्त्रियः ॥ ९.५० ॥ अर्थादानेषु कुशलाः क्रुद्धा नित्यं दुरासदाः । वञ्चयित्वा नरं शीघ्रमन्यत्र संप्रयान्ति ताः ॥ ९.५१ ॥ साध्यमायाप्रहरणाः कालकूटविषोपमाः । स्त्रियः पुरुषघातिन्यश्चातुर्येषु व्यवस्थिताः ॥ ९.५२ ॥ वाय्वाकाशानला यद्वन्न शक्ता ग्रथितुं नरैः । तथोपायशतैर्नार्यो (न) शक्ता रक्षितुं नरैः ॥ ९.५३ ॥ अनर्थव्याधिमृत्यूनां दुष्कृतानाञ्च कर्मणाम् । हेतुभूताः परं नार्यो मोक्षचर्याबधस्य च ॥ ९.५४ ॥ यदनेकप्रकारेषु शठेषु पापकर्मसु । (पतन्ति) मनुजा लोके तत्र हेतुः परस्त्रियः ॥ ९.५५ ॥ न बालयौवनेनैव वार्धक्येनैव शाम्यति । चापल्यं सहजं स्त्रीणां भास्करस्य यथा प्रभा ॥ ९.५६ ॥ अनित्यं सौहृदं तासां दीप्तानामर्चिषां कणैः । वैरञ्च शाश्वतं तासामश्मनां च यथा व्रणैः ॥ ९.५७ ॥ धनहीने विरज्यन्ते धनयुक्ता भवन्ति च । यावदर्थ स्त्रियस्तावदर्थहीने कुतः स्त्रियः? ॥ ९.५८ ॥ न सेवाभिश्चदानेन नोपकारैः पृथग्विधैः । स्वीकर्त्तुं न स्त्रियः शक्याः ज्वलनोपमचेतसः ॥ ९.५९ ॥ यथा नरोऽनुकूलश्च छन्दकर्त्ता यथा यथा । तथा तथा स्त्रियस्तस्य वञ्चनाकुशलाः परम् ॥ ९.६० ॥ पुष्पच्छत्रो यथा सर्पो भस्मच्छत्रो यथा नलः । रूपच्छन्नं तथा चित्तमासां भवति योषिताम् ॥ ९.६१ ॥ विषवृक्षे यथा पुष्पं दृष्टिरम्यं न शान्तये । विषवृक्ष (समा) नार्यः परिवर्ज्याः समन्ततः ॥ ९.६२ ॥ नारीणां दर्शनाकांक्षी विषयेसु च तत्परः । नरो न सुखभोगाय (हय) स्मिल्लोके न चापरे ॥ ९.६३ ॥ नाग्निना न च शस्त्रेण न बलेन न जन्तुभिः । स्त्रीमयं बन्धनं हेतुः शक्यते न दुरासदम् ॥ ९.६४ ॥ दोषजालमिदं (सूत्रं)स्त्रीमयं चरते भुवि । यस्त्रीविवर्जितो धीमानस्मिल्लोके महीयते ॥ ९.६५ ॥ यथा भूतैर्मनुष्याणां स्वकर्मोत्थापने न च । तथा स्त्रियो हि रक्षन्ति विषमार्थ त्यजन्ति च ॥ ९.६६ ॥ गतार्थविभवं भूयो वर्जितं स्वेन कर्मणा । देवं समीक्ष्य चपलाः स्त्रियो नैव प्रभाविकाः ॥ ९.६७ ॥ स्त्रीसुखं क्षणभङ्गुरम् क्षणभङ्गमिदं सौख्यमधिगतमवस्थितम् । चत्वार्येतानि दुःखानि सेवितानि नृभिः सदा ॥ ९.६८ ॥ स्त्री विषाग्निसदृशा तस्मात्तानि विवर्ज्यानि विषाग्निसदृशानि हि । यः कश्चिच्चपलो जन्तुर्यश्च दोषोद्भवः सदा ॥ ९.६९ ॥ तस्मात्परिसमाविष्टाः स्त्रियः कारणवत्सलाः । न सूर्यस्तमसो हेतुर्नाग्निः शीतस्य कारणम् ॥ ९.७० ॥ न स्त्रीणां सौहृदं चित्ते स्वल्पमप्यवतिष्ठते । यथा स्थिरा भूमिरियं यथा वायुः सदा चलः ॥ ९.७१ ॥ स्त्रियः दोषमेव स्मरन्ति तथा स्त्रीणां कृतं नास्ति दोषमय्यः सदा स्मृताः । चिरप्रयत्नाः पुरुषैः लोभिता बहुशः स्त्रियः ॥ ९.७२ ॥ त्यजन्ति व्यसने प्राप्ते शुष्कं सर इवाशुगाः । नोर्ध्वगाः सरितो दृष्टा नाश्मनो गतिरिष्यते ॥ ९.७३ ॥ गिरीणां गमनं नास्ति स्त्रीणां नैवास्ति सौहृदम् । वपुकर्ति सदा नृणां धर्मार्थयशसां तथा ॥ ९.७४ ॥ योनिश्चानर्थजालस्य दोषाणामुद्भवस्य च । भवेद्वज्रमयी मृद्वी त्यजेद्(रात्रौ यथा) रविम् ॥ ९.७५ ॥ न स्त्री त्यजेदसाध्यानि जन्मापेक्षा विशेषतः । नोपचारक्रिया दानप्रियवाक्यापलापनैः ॥ ९.७६ ॥ स्वीकर्तुं न स्त्रियः शक्या ज्वलनोपमचेतसः । सुखेषु समतां यान्ति व्यसनेषु त्यजन्ति च ॥ ९.७७ ॥ उपकारांश्च विस्मृत्य दोषमेकं स्मरन्ति ताः । वनोपवनशैलेषु भुक्त्वा सुखमनेकशः ॥ ९.७८ ॥ स्त्री लोकस्य बन्धनम् संप्राप्ते व्यसने तीव्रे स्त्रिय परिभवन्ति हि । लोकस्य बन्धनं नार्यो वञ्चनाकृतिवर्धिकाः ॥ ९.७९ ॥ अधमाः विनिपातानां दोषाणां चास्पदं (बहु) । सर्वलोकविनाशाय वशीकुर्वन्ति तृष्णया ॥ ९.८० ॥ यथा स्त्रीबन्धनमिदं दुर्विषह्यं कृतं महत् । यदिदं बन्धनं लोके कामरागमयं महत् ॥ ९.८१ ॥ स्त्रीवर्जनमेव श्रेयष्करम् तथा चान्यप्रयत्नेन विचार्य उपलभ्यते । वशीकुर्वन्ति ता (नार्यः) कामवाणैरनेकशः ॥ ९.८२ ॥ स्वल्पैः पराजितं कृत्वा कामस्य वशगाः स्त्रियः । रागेर्ष्याशाठ्यभूमीनां विद्युच्चञ्चलचेतसाम् ॥ ९.८३ ॥ लोभाहङ्कारयोनीनां न विश्वास्याः कथञ्चन । शस्त्राग्निसदृशास्तीक्ष्णाः कामपाशपरात्मनः ॥ ९.८४ ॥ स्वभ्रप्रपातविषमं गंभीरसमचेतसाम् । पराभिद्रोहमायेन्द्रजालतद्गतमानसान् ॥ ९.८५ ॥ अकालमृत्युवज्राग्निकालकूटसमात्मनाम् । अनेकदोषसम्भारनन्दितानामनेकशः ॥ ९.८६ ॥ यदि शीललवः कश्चित्स्त्रीणां मनसि वर्तते । चिरेण दहते वह्निः स स्पृष्टाः पवनेरितः ॥ ९.८७ ॥ स्त्रीदर्शनसमुच्छ्रेयमात्रं दहति पावकः । तस्मात्स्त्रियो विवर्ज्याः स्युः यदिच्छेत्सुखमुत्तमम् ॥ ९.८८ ॥ एतत्सर्व परं लोके नारीणां वर्जनं सदा । यदृच्छाजालिनीहेतुं यः इच्छेद्भूतिमात्मनः ॥ ९.८९ ॥ य इच्छति निवृत्तिं तु स नरः स्त्रीं विवर्जयेत् । सुखासक्तस्तथार्थो (च) कुसीदश्चञ्चलः शठः ॥ ९.९० ॥ पापसेवी सुमृष्टाशी नरो भद्रं न पश्यति । उद्युक्तो वीर्यवान् धीरो धार्मिकः स्त्रीं विवर्जयेत् । दक्षो हेतुफलश्रद्धो नरः कल्याणवान् भवेत् ॥ ९.९१ ॥ ॥ इति स्त्रीजुगुप्सावर्गो नवमः ॥ (१०) मद्यजुगुप्सावर्गः मद्यपानवर्णनसाधनप्रदर्शनम् मद्यपानं न सेवेत मद्यं हि विषमुत्तमम् । नश्यन्ति कुशला धर्मा मद्यपाननिषेवणात् ॥ १०.१ ॥ यः सेवते सदा मद्यं तस्य बुद्धिरसंस्थिता । बलबुद्धी न धर्मोऽस्ति तस्मान्मद्यं विवर्जयेत् ॥ १०.२ ॥ नाशानामुत्तमं नाशं मद्यमुक्तं मनीषिभिः । तस्मान्मद्यं न सेवेत (मद्यं) नाशयते नरम् ॥ १०.३ ॥ अनिष्टाः पापका धर्मा मद्यपाननिषेवणात् । भवन्ति तस्माद्विषवन्मद्यपानं विवर्जयेत् ॥ १०.४ ॥ धनक्षयं पापकरं कौसीद्यकरमुत्तमम् । मद्यपानस्थिता दोषाः तस्मात्तत्परिवर्जयेत् ॥ १०.५ ॥ रागस्योद्दीपनं मद्यं क्रोधस्यापि तथैव च । मोहस्योद्दीपकं भूयस्तस्मान्मद्यं विवर्जयेत् ॥ १०.६ ॥ मद्यमूलमनर्थस्य हासस्य नरकस्य च । सर्वेन्द्रियविनाशानां हेतुभूतं ह्यनर्थकम् ॥ १०.७ ॥ अतिहर्षाभिधानस्य शोकस्य च भयस्य च । वाग्दोषस्यातिदम्यस्य पारुष्यस्यास्पदं हि तत् ॥ १०.८ ॥ मद्येनाक्षिप्तमनसः पुरुषाः पशुभिः समाः । कार्याकार्य न विन्दन्ति तस्मान्मद्यं विवर्जयेत् ॥ १०.९ ॥ मद्यक्षिप्तो हि पुरुषो जीवन्नपि मृतो मतः । य इच्छेज्जीवितं सौख्यं स मद्यं वर्जयेत्सदा ॥ १०.१० ॥ मद्यं सर्वदोषास्पदम् सर्वदोषास्पदं मद्यं सर्वानर्थकरं सदा । सर्वपापेषु सोपानं तमसामालयो महान् ॥ १०.११ ॥ मद्येन प्रेतलोके नरके वा पतनम् मद्येन नरकं यान्ति प्रेतलोकं तथैव च । तिर्यक्षु यान्ति पुरुषा मद्यदोषेण वञ्चिताः ॥ १०.१२ ॥ विषादपि विषं मद्यं नरकान्नरकं तथा । व्याधीनां च परं व्याधिर्मद्यमुक्तं मनीषिभिः ॥ १०.१३ ॥ मद्येन हानिप्रदर्शनम् बुद्धीन्द्रियविनाशाय धर्मरत्नं क्षयाय च । योऽतिरेकपरं मद्यं ब्रह्मचर्यबधाय च ॥ १०.१४ ॥ मद्येन लघुतां यान्ति पार्थिवा शास्त्रचक्षुषः । किं पुनः प्राकृता मर्त्या मद्यपानविलम्बिताः ॥ १०.१५ ॥ मद्यस्य विनाशकरत्वम् कुठारः सर्वधर्माणां ह्रीविनाशकरं परम् । मद्यं निषेवितं मर्त्यैर्विनाशायोपकल्प्यते ॥ १०.१६ ॥ मद्येन ज्ञानाज्ञानविवेकशून्यप्रदर्शनम् न ज्ञानं नापि विज्ञानं न कार्याणि न च क्रियाम् । जानीते पुरुषः सर्व मद्येन हृतचेतसा ॥ १०.१७ ॥ मद्यसेवनस्य परितापसाधनम् अकस्मात्तप्यते जन्तुरकस्मात्परितप्यते । भवत्यकस्मात्पापी (च) यो मद्यमनुसेवते ॥ १०.१८ ॥ मद्यस्य बुद्धिसम्मोहजनकत्वम् बुद्धिसम्मोहजनकं लोकद्वयविनाशकम् । वह्निश्च मोक्षधर्माणां मद्यमेकं व्यवस्थितम् ॥ १०.१९ ॥ मद्यस्य किम्पाकत्वम् अभ्यासे मधुरं मद्यं विपाके परमं कटु । किम्पाकादपि किम्पाकं मद्यमुक्तं परीक्षकैः ॥ १०.२० ॥ नरकस्य साधनं मद्यम् न मद्ये विश्वसेद्धीमान्नरं वक्ष्यति मामिति । शीतस्पर्श विपाकोष्णं मद्यं नरकगामिकम् ॥ १०.२१ ॥ सम्पत्तौ व्यसनं मद्यं देवानां तु विशेषतः । यथा यथा सुखा प्रीतिस्तन्नाशे व्यसनं तथा ॥ १०.२२ ॥ मद्यपानमदोन्मत्ताः सत्त्वा मोहवशानुगाः । साक्ष्यमोहमयं पानं पिबन्ति रसतृष्णया ॥ १०.२३ ॥ मद्यं मोहमयं पान पीत्वा कालेन चोदिताः । नाकात्प्रत्यक्षनरकं तस्मात्मद्यं न संस्पृशेत् ॥ १०.२४ ॥ दर्शनात्पानाच्च मद्यपानं मोहजनकम् दर्शनात्स्पर्शनात्पानात मद्यं मोहयते नरम् । तस्मात्स मद्यपानं च दूरतः परिवर्जयेत् ॥ १०.२५ ॥ दर्शनाज्जायते लोभः स्पर्शनाद्गन्धसम्भवः । गन्धाद्रसाभिलाषश्च रसनादधमा मतिः ॥ १०.२६ ॥ मनीषिणः मद्यसेवनात्पतन्ति नैकसर्वाधमं न्यासं कथयन्ति मनीषिणः । नामरूपनिषेधाय यथा मद्यं निषेवितम् ॥ १०.२७ ॥ मद्यपानफलसूचनम् वाग्भ्रामयति मस्तिष्कं चक्षुषीध्वनिरेव च । सम्भ्रान्तिविमतिर्मूढो न किञ्चित्प्रतिपद्यते ॥ १०.२८ ॥ स्त्रियोऽपि मद्यपायिनमुपहसन्ति स्त्रियोऽप्युपहसन्तीमं पुरुषं पतितं भुवि । निश्चेष्टं काष्ठसदृशं निश्चलं पतितं भुवि ॥ १०.२९ ॥ मद्यपानं मरणादपि निकृष्टतरम् सम्भावितस्य मरणं मद्यपानं प्रकीर्त्यते । हालाहलादभ्यधिकं कारावासाधिकं च तत् ॥ १०.३० ॥ मद्यपानवर्जनं श्रेयस्करम् आदीनवाश्च षट्त्रिंशन्मद्यपानादवस्थिताः । तस्मादादीनवो ज्ञेयः स हि तद्वर्जयेत्सदा ॥ १०.३१ ॥ मद्यपानं विदुषोऽपि जन्तोः मलिनीकरणाय भवति अतिजातस्य विदुषो मलिनीकरणं महत् । काशपुष्पसमं जन्तुं कुरुते लघुसत्त्वरम् ॥ १०.३२ ॥ विषयानलदग्धः कार्याकार्यशून्यो भवति प्रमादौह्यति मग्नानां विषयैरपहृष्यते । मद्यपानेन भूयश्च मनोव्यामोहकारिणा ॥ १०.३३ ॥ विषयानलदग्धस्य कार्याकार्यमजानतः । वनोपवनलब्धस्य मद्यपानस्य किं पुनः ॥ १०.३४ ॥ मद्यपानं मोहाय पापाय जायते रसेन शोभनं मद्यं परिणामेन दारुणम् । परिणामफलं पापं नरकेषूपपद्यते ॥ १०.३५ ॥ पीतं जनयते मोहं मोहात्पापेषु रक्ष्यते । संरक्तहृदयो बालो नरकानुपधावति ॥ १०.३६ ॥ मद्यपानमधमत्वसाधनम् प्रकर्ष जनयत्यादौ विपाके दैन्यमुत्तमम् । तृट्छेदं कुरुते चासौ पश्चाद्दाहं सुदारुणम् ॥ १०.३७ ॥ तद्बुद्धिं नाशयत्यादौ पश्चान्नाशयते सुखम् । तस्मात्स पुरुषो धीरो यो मद्यं नानुसेवते ॥ १०.३८ ॥ मद्यनिषेविणो विहगसदृशा भवन्ति विहगैः सदृशं यान्ति पुरुषा मद्यसेविनः । तुल्यं व्यामोहजनकं मद्यं मोहमहाविषम् ॥ १०.३९ ॥ विमोहिता दुर्गतिमधिगच्छन्ति यैर्मद्यं विषवद्दृष्टं तैर्दृष्टं पदमुत्तमम् । यैस्तु तद्विरसं पीतं पीतं ताम्र (क) लोहितम् ॥ १०.४० ॥ निष्प्रतीकारकर्माणि यः करोति विमोहितः । मद्यपानसमाविष्टः सोऽन्ते गच्छति दुर्गतिम् ॥ १०.४१ ॥ मद्यपानसेविनां नाशो भवति एकत्र सर्वपापानि मद्यपान (निषेवणम्) । यस्मान्नाशयते (मद्यं) चित्तमूलश्च संवरः ॥ १०.४२ ॥ मद्यपायी नष्टधर्मो भवति नैकाङ्गिता हि चित्तस्य न धर्माणां विचारणा । यः पा(प)निरतो भिक्षुर्भवेन्मद्यनिषेवणात् ॥ १०.४३ ॥ मद्येनाक्षिप्तमनसो कुशलस्य च घातकः । नष्टधर्मस्य सत्त्वस्य नायं लोको न चापरः ॥ १०.४४ ॥ ईर्य्यापथं न जानाति न कालं नापि देशनाम् । सद्धर्मतो विरुद्धश्च तुच्छं किमपि भाषते ॥ १०.४५ ॥ स्वयं तावन्न जानाति किमिदं कथ्यते मया । वाक्पारुष्यं कथं चान्यं परिज्ञास्यत्यशोभनम् ॥ १०.४६ ॥ लाघवं याति लोकस्य धर्माच्च परिहीयते । निधन पुरुषैर्दृष्टं मद्यज्वलनसेवनात् ॥ १०.४७ ॥ मद्यपानं कुत्सां सम्पादयति नाशो भवत्यतीते हि वर्तमाने सुहृज्जने । अनागते कुत्सितानां मद्यं त्रैकाल्यनाशकम् ॥ १०.४८ ॥ मद्यं धर्मप्रदूषकमेव नामरूपविनाशाय चित्तनाशाय देहिनाम् । उत्पन्नदोषजनकं मद्यं धर्मप्रदूषकम् ॥ १०.४९ ॥ मद्यवर्जनं धर्माय पानञ्च मृत्युर्न भवति समाहिता धर्मशीलाः पुरुषा मद्यवर्जकाः । ते यान्ति परमं स्थानं यत्र मृत्युर्न विद्यते ॥ १०.५० ॥ ॥ इति मद्यजुगुप्सावर्गो दशमः ॥ अथ द्वितीयमुदानम् (चित्तञ्च वाक्तथा कर्म संयोजनन्तु पापकम् । नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश ॥ ) (११) चित्तवर्गः चित्तं राजवत्प्रवर्तते अगाधं विषमं तीव्रं सर्वसत्त्वगतं महत् । चित्तं सर्वस्य जगतो राजवत्सम्प्रवर्तते ॥ ११.१ ॥ चित्तधारिणस्तज्ज्ञाः परमां गतिं प्राप्नुवन्ति अदृश्यं सम्प्रति भयं कर्म नारकचञ्चलाः । ये चित्तधारिणस्तज्ज्ञास्ते गताः परमां गतिम् ॥ ११.२ ॥ एतन्नयति व्युत्थानमेतन्नयति दुर्गतिम् । तदेवाद्यन्तममलं निर्वाणमधिगच्छति ॥ ११.३ ॥ मनः पूर्वमङ्गमा धर्मा मनः श्रेष्ठा मनोमयाः । मनसा सुप्रसन्नेन भाषते वा करोति वा ॥ ११.४ ॥ चित्तवशगस्य चित्तमनुधावति यो न चित्तस्य वशगश्चित्तं तस्यान्तगं सदा । स निर्णाशयति क्लेशान् तमः सूर्योदयो यथा ॥ ११.५ ॥ चित्तदग्धाः नाशं यान्ति चित्तं शत्रुः परं शत्रुर्न शत्रुरपरः स्मृतः । चित्तदग्धाः सदा सत्त्वाः कालदग्धा यथा जडाः ॥ ११.६ ॥ यश्चित्तवशमापन्नो बालो मूढोऽजितेन्द्रियः । तेन दुःखे समो नास्ति निर्वाणं तस्य दूरतः ॥ ११.७ ॥ चित्तवशगः नरः नरकमधिगच्छति आवर्ज्यः शत्रुरपरो न चित्तानि (निगूहते) । एष बध्नाति पुरुषो नृपतेर्यमशासने ॥ ११.८ ॥ विषयेषु रता नित्यं न स धर्मः कथञ्चन । सद्धर्मपथसम्मूढो नरकं नयते महत् ॥ ११.९ ॥ दुर्दमानां परं चित्तमनीनामग्निरुत्तमः । दुर्दान्तं शीघ्रगन्तृ च नरकं नयते ध्रुवम् ॥ ११.१० ॥ ये चित्तस्य वशं याता यातास्ते नरकं पुरा । यैस्तु तद्वार्यते शीघ्रं न ते दुःखानुगामिनः ॥ ११.११ ॥ चित्तानुरूपं सुखं दुःखञ्च भवति यथा यथा (नृणां) चित्तं परिणामस्तथा तथा । कल्पानां शुभकर्त्तुश्च पापकर्त्तुश्च पापकम् ॥ ११.१२ ॥ चित्तायत्तं भवेत्कर्म कर्मायत्तं मनो भवेत् । चित्तकर्म समुत्थाय संसारः परिकीर्तितः ॥ ११.१३ ॥ दुष्टेन चेतसा कर्म यः करोति पुमानिह । पच्यते नरके तेन जालिन्या स विडम्बितः ॥ ११.१४ ॥ चित्तकर्म एवं संसारः चित्ताधीनं भवेत्पापं संसारः परिकीर्तितः । चित्तप्रत्ययजं ह्येतथेतुप्रत्ययसम्भवम् ॥ ११.१५ ॥ चित्तेन वञ्चिताः सत्त्वा पापस्य वशमागताः । गच्छन्ति नरकं पापात्कारणाग्रमहाभया(त्) ॥ ११.१६ ॥ न भवेत्चित्तवशगोऽपि तु धर्मवशो भवेत् न गच्छेत्चित्तवशतां गच्छेद्धर्मवशे सदा । धर्मचारी सुखी नित्यं पापचारी न शर्मभाक् ॥ ११.१७ ॥ चित्तायत्तं सर्व फलम् चित्तायत्ता क्रिया सर्वा चित्तायत्तं फलं स्मृतम् । विचित्तं हि फलं चित्तं तथा फलमधिस्मृतम् ॥ ११.१८ ॥ चित्तेन चिन्तितं सर्व लोकश्चित्तभवानुगः । न हि तद्विद्यते स्थानं यन्न चित्तवशानुगम् ॥ ११.१९ ॥ शुभस्य निर्वाणसाधनत्वम् मोक्ष बन्धनयोर्मूलं हेतुभूतं परं मतम् । शुभेन मुच्यते जन्तुरशुभेनाशु बध्यते ॥ ११.२० ॥ चित्तवशगाः कदापि निर्वाणं नाधिगच्छन्ति जालिन्या मोहिताः सत्त्वाश्चित्तस्य वशमागताः । निर्वाणं नापि गच्छन्ति जात्यन्धा इव सत्पथम् ॥ ११.२१ ॥ पञ्चेन्द्रियाणि जितवान् पापं भुङ्क्ते न कर्हिचित् । एकचित्तं तथा कर्म कुरुते विविधे भवे ॥ ११.२२ ॥ पञ्चरङ्गोज्ज्वलं चित्तं यथा दृश्यं प्रशस्यते । पञ्चेन्द्रियविचित्रं हि तथा कर्म भवे भवेत् ॥ ११.२३ ॥ चित्तकर्त्तानेकधा भवति चित्तकर्ता हि पुरुषो दृश्यैर्भवति नैकधा । चित्तं चित्तकरं शून्यं सर्वथा नैव दृश्यते ॥ ११.२४ ॥ चित्तं शोभनमशोभनं च कर्म करोति शोभनाशोभनं चित्रं यथा भित्तिः कृतिस्तथा । शोभनाशोभनं कर्म तथा चित्तं करोति हि ॥ ११.२५ ॥ चित्तानुगं कर्म दिवारात्रौ यथा चित्तं स्थितं भवति चित्रगम् । दिवारात्रौ तथा कर्म भवे समनुवर्तते ॥ ११.२६ ॥ अकृत्वा सुकृतं कर्म चित्तवृत्त्यनुगा नराः । पतन्ति विवशाः पापे चित्तारिपरिवञ्चिताः ॥ ११.२७ ॥ कर्मचित्तकरो ह्येष यत्र यत्र नियुज्यते । चरचित्तेन महता तच्चित्तं च करोत्ययम् ॥ ११.२८ ॥ परिणामविशेषेण यत्र यत्र नियोक्ष्यते । प्रेष्यन्ते तत्र चित्तेन त्रिधा तु गतिचारिणः ॥ ११.२९ ॥ चित्तस्य दमनं सुखावहम् चित्ताधिनानि वर्तन्ते सर्वकर्माणि देहिनाम् । तस्माच्चित्तं सदा दान्तं नयते पदमच्युतम् ॥ ११.३० ॥ दुर्विषह्यस्य लघुना यत्र यत्र निपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ ११.३१ ॥ येन चित्तं सदा दान्तं तेन दोषाः सदा जिताः । जितदोषस्य धीरस्य दुःखं नैव प्रपद्यते ॥ ११.३२ ॥ चित्तस्य लघुचेष्टितमेव दुःखम् यच्च स्वकं भवेद्दुःखं यच्च दुःखं परत्र च । तत्सर्वमविषह्यस्य चित्तस्य लघुचेष्टितम् ॥ ११.३३ ॥ चित्तमेव सर्वेषां प्रभुः ससुरासुरनागानां पिशाचोरगरक्षसाम् । प्रभुरेकः परं चित्तं राजा(हि)त्रिभवस्य तत् ॥ ११.३४ ॥ चित्तभ्रान्तदुःखमश्नुते चित्तं नयति देवेषु चित्तञ्च नरभूमिषु । चित्तं नयत्यपाये(षु) चित्तं भ्रामयति प्रजाः ॥ ११.३५ ॥ चित्ताद्भ्रान्तस्य नष्टस्य विषयैर्मोहितस्य च । तृष्णया दह्यमानस्य स्थितं दुःखमनुत्तमम् ॥ ११.३६ ॥ चित्तस्य दमनात्सुखानुभूतिर्भवति एकचारि सदामूढं दुर्विषह्यं महाबलम् । सम्प्रदारि सदादृश्यं चपलं शीघ्रगामिनम् ॥ ११.३७ ॥ एवं विधं हि ये चित्तं दमयन्ति मनीषिणः । ते मारबन्धनातीताः पारं प्राप्ताः सुखोदयम् ॥ ११.३८ ॥ चपलं चित्तं नरकायोपकल्प्यते सङ्कल्पकुटिलं तीव्रमगाधं चपलं हि तत् । चित्तं तमःश्रितं शुभ्रं नरकायोपकल्प्यते ॥ ११.३९ ॥ दोषनिर्मुक्तोऽच्युतं पदं प्राप्नोति तदेवं दोषनिर्मुक्तं नेन्द्रियार्थवशानुगम् । अलिप्तं पापकैर्धर्मैर्नयते पदमच्युतम् ॥ ११.४० ॥ शुद्धं चित्तं शुद्धे कर्मणि प्रवर्तते हेतुप्रत्ययजं चित्तं योगवाहि परं च तत् । परिणामवशाच्छीघ्रं तथा तत्सम्प्रवर्तते ॥ ११.४१ ॥ चित्तानधीनत्वे कर्म चञ्चलं भवति एकं करोति कर्माणि विविधानि चलं च तत् । एकानेकं चरं सूक्ष्मं क्षणादूर्ध्व न तिष्ठति ॥ ११.४२ ॥ संसारस्य मायोपमत्वप्रतिपादनम् दुर्विज्ञेयः सदा तस्य निःशरीरस्य सर्वदा । कोऽसौ नयति लोकान्तमथ केन च गच्छति ॥ ११.४३ ॥ गतश्च तिष्ठति कुत्र शरीरकर्मकारकम् । दृश्यानि तस्य कर्माणि सञ्चयो न च दृश्यते ॥ ११.४४ ॥ दमनं दुष्करं तस्य यस्य भूतिर्न विद्यते । सर्वसत्त्वगतं घोरं लघुकारि च चाक्षुषम् ॥ ११.४५ ॥ पापात्पापतरं दृष्टं मायोपममिदं भवेत् । पुण्यात्पुण्यतरं दृष्टं सम्यग्मार्गसमाश्रितम् ॥ ११.४६ ॥ मायोपमत्वसमर्थनम् न गतिर्ज्ञायते तस्य गमनं नैव दृश्यते । नीयते च क्षतं सर्व जात्युत्तरसमानि च ॥ ११.४७ ॥ शस्त्रेण छिद्यते नेदं ज्वलनेन च दहयते । छिद्यते दह्यते चैव जनः सर्वमचक्षुषा ॥ ११.४८ ॥ दृढं यत्कर्मरज्ज्वादि नरं बध्नाति दुःखितम् । जात्यन्तरसहस्त्राणि नयते न च दृश्यते ॥ ११.४९ ॥ दान्तमेव चित्तं सुखावहम् मुहूर्तेन शुभं भूतं मुहूर्तेनाशुभं च तत् । शुभाशुभाभ्यां रचितं(चित्तं) दान्तं सुखावहम् ॥ ११.५० ॥ षड्भिर्द्वारैः प्रसूतेषु विषयेष्वतिलोलुपम् । चित्तं नयति लोकान्तं व्यसनं न च बुध्यते ॥ ११.५१ ॥ विप्रसन्नचित्तस्य श्रेयस्करत्वेऽनुत्तमं सुखं भवति विप्रसन्नं यथा तोयं विप्रसन्नं यथा नभः । विप्रसन्नं तथा चित्तं नीयते सुखमुत्तमम् ॥ ११.५२ ॥ जनाः सातिशया (दृष्टा) वितर्कविषयोद्भवात् । पौरवाश्चित्तराज्ञस्ते भवन्ति सहचारिणः ॥ ११.५३ ॥ चञ्चलं मनः संसारे गतिं कारयति धावति यत्र च मनस्तत्र धावन्त्यज्ञानिनः । परस्परबलान्नी (ता) भ्रमन्ति त्रिभवार्ण(व)म् ॥ ११.५४ ॥ विशेषचित्तेनोत्तमा गतिर्भवति चित्तवैशद्य भावानां विशेषः कर्मणास्तथा । न कर्मगुणहीनस्य विशेष उपलभ्यते ॥ ११.५५ ॥ सुसमाहितचित्तस्य प्रशंसा सुसमाहितचित्तः स नित्यं धर्मानुदर्शकः । न दोषवशमायाति यथा दिव्यस्तमोनुदः ॥ ११.५६ ॥ गृहस्थस्य सम्यग्दृष्टित्वे निर्वाणप्राप्तिर्भवति सम्यग्दृष्टेश्चाधिमात्रा यस्य चेतसि वर्तते । गृहस्थोऽपि स मे ज्ञेयो मुक्तः संसारबन्धनात् ॥ ११.५७ ॥ विज्ञा देवलोकं गच्छन्ति कल्याणनिर्मलं यच्च ततो दोषेण बाध्यते । विज्ञो (न) मलमाप्नोति देवलोके स जायते ॥ ११.५८ ॥ विनीतचित्ताः सुखगामिनो भवन्ति विषयद्वारचपलं नदीकुटिलगामिनम् । यैर्विनीतमिदं चित्तं ते सुराः शुभभागिनः ॥ ११.५९ ॥ अधर्ममार्गः कल्याणाय न भवति अधर्मपथमाश्रित्य जनाः पापवशानुगाः । चिरं भ्रमन्ति संसारे चित्तेन परिखेदिताः ॥ ११.६० ॥ चित्तं क्षणे क्षणे परिवर्तते क्षणे क्षणे चित्तमिदं नैकशः परिवर्तते । लघुस्वभावचपलं मायागन्धर्वसन्निभम् ॥ ११.६१ ॥ चञ्चलचित्तो बद्धो भवति तस्य बन्धनमेवेष्टं ज्ञानविज्ञानसम्मतम् । दूरवृत्तिर्महावेगः परिधावत्यनेकधा ॥ ११.६२ ॥ धृत्या चित्तधारिणः सुखमश्नुते ह्रियमाणं सदा चित्तमिन्द्रियार्थे दुरासदम् । सन्धारयति यो धृत्या स धीरः पारगामिकः ॥ ११.६३ ॥ धृतिमज्ञानमोहं च विषयोत्तानमानसम् । सन्धारयति यो धीमान् स लोके पण्डितो नरः ॥ ११.६४ ॥ शुभचित्तं कामावरोधकं भवति यो यथा कुरुते चित्तं तथा कामान् स पश्यति । शुभेन कामशमनं नाशुभेन प्रवर्धनम् ॥ ११.६५ ॥ अप्रशान्तमतिर्दुःखमाप्नोति शान्तचित्तंमनाः कामानस्यतीह विषास्त्रवत् । अप्रशान्तमतिः सर्पमणिवत्तान् स पश्यति ॥ ११.६६ ॥ चित्तवशगो न शुभां गतिमाप्नोति इन्द्रियाणीन्द्रियार्थाश्च चित्ताधीना भवन्त्यमी । चित्त संश्लेषयोगेन परिणामः प्रवर्तते ॥ ११.६७ ॥ धीरप्रशंसा तस्यैव व्यवधानेन धीरश्च प्रतिबुध्यते । रूपसामान्यतो दृष्टं परिणामः कथं पृथक् ॥ ११.६८ ॥ चित्तस्वरूपनिरूपणम् यथा रूपं तथा सर्व विषयाश्चित्तहेतवः । चित्तं दान्तं सदा शान्तं दोषमिश्रविगर्हितम् ॥ ११.६९ ॥ एकमेकं यथा शालि गन्धरूपे पृथग्विधे । संश्लेषो याति नानात्वं तथाचित्तं प्रवर्तते ॥ ११.७० ॥ क्रियां हि तत्र कुरुते यत्र (चित्तं) प्रधावति । चित्तसंवाहनं तद्वाक्यं लोकोऽयं सम्प्रवर्तते ॥ ११.७१ ॥ विषयाद्भ्रान्तमनसश्(चा)तिवेगो महाबलः । चित्तं(शान्त)करं दान्तं शिवं भवति देहिनाम् ॥ ११.७२ ॥ दान्तेन चेतसा तत्त्वदर्शनं भवति तेनादान्तेन शीघ्रेण सर्वपापविहारिणा । भ्राम्यते त्रिभवः सर्वः न च तत्त्वं स पश्यति ॥ ११.७३ ॥ समीरणरणोद्भ्रान्तो लोकः संसारे भ्रमति समीरणरणोद्भ्रान्तो यथा भ्रमति सागरः । चित्तेश्वरसमायुक्तो लोकोऽयं भ्राम्यते सदा ॥ ११.७४ ॥ चित्तं शुभं सुखमेधीत शुभोपनीतं चित्तं(हि) शुभेष्वेवापनीयते । तथा शुभानुचरितमश्नुते तेषु धावति ॥ ११.७५ ॥ योगवाहिचित्तं प्रत्ययं लभते योगवाहि नृणां चित्तं वाय्वम्बुसममेव च । प्रत्ययश्च यथा लभ्यस्तथा तत्परिधावति ॥ ११.७६ ॥ चित्तं प्रधावति परिवर्तते च शीघ्रं प्रधावते चित्तं शीघ्रञ्च परिवर्तते । शीघ्रं नयति देवेश (भुवने) दायभूमिषु ॥ ११.७७ ॥ चित्तस्य कर्त्तृत्वम् कर्त्तृत्वं सर्वधर्माणां भर्त्तृत्वं सर्वकर्मणाम् । नेतृत्वं सर्वकर्माणां चित्तत्वमिति लक्ष्यते ॥ ११.७८ ॥ चित्तं न विश्वसेत् न विश्वसेद्धि चित्तस्य नित्यं छिद्रप्रहारिणः । दुर्लभस्यापि वश्यस्य चपलस्य विशेषतः ॥ ११.७९ ॥ चित्तगतिवर्णनम् मुहूर्तेन शुभं याति मुहूर्तेन तथाशुभम् । भवत्यव्याकृतं शीघ्रं गतिरस्य न विद्यते ॥ ११.८० ॥ नायतिर्ज्ञायते तस्य गमनं नैव विद्यते । अभूतः सम्भवस्तस्य भूत्वा च प्रतिगच्छति ॥ ११.८१ ॥ रूपरहितं चित्तम् नाकारो विद्यते तस्य सञ्चयोऽपि न विद्यते । ग्रहणं तस्य नैवास्ति निःशरीरस्य सर्वतः ॥ ११.८२ ॥ प्रत्ययसाधनवर्णनम् हेतुप्रत्ययसामग्रया प्राप्तः सञ्जायते पुनः । मणिसोमप्रत्ययो (हि) प्रत्ययो ज्ञायतेऽनलः ॥ ११.८३ ॥ चित्तमिन्द्रियरूपादीन् प्रति धावति तथैवेन्द्रियरूपादीन् प्रतिविज्ञानसम्भवः । नैकस्य ज्ञायते चित्तं समवाय्यनुलक्ष्यते ॥ ११.८४ ॥ चित्तं दुर्निवार्यम् तदेवं विषयं मत्वा दुर्निवार्य च सर्वतः । सद्धर्ममतिरास्थेया न कामेषु कथञ्चन ॥ ११.८५ ॥ चित्तमति चपलम् चण्डातिचपलं तीव्रमविषह्यं महावलम् । चित्तं करोति कर्माणि यन्न पश्यन्ति बालिशाः ॥ ११.८६ ॥ दुःखप्रवर्तकं चित्तम् सर्वस्य कर्मणश्चित्तं हेतुभूतं भवे भवे । भवेत्प्रवर्तकं दुःखं येन धावति बालिशः ॥ ११.८७ ॥ चित्तदोषो महादोष एव वातादयो न दोषाः स्युर्दोषा रागादयो मताः । वातादिभिरपायेषु मानवो नोपपद्यते ॥ ११.८८ ॥ चित्तदोषो महादोषो नित्यं(पाप) विदर्शकः । तस्मात्तेषां समाश्रेयो न वातादिगमादिह ॥ ११.८९ ॥ रागानुगं चित्तं दुष्टं भवति वातादयः प्रणश्यन्ति देहनाशाच्छरीरिणाम् । (रागादयो) न तस्य स्युर्जन्मान्तरशतैरपि ॥ ११.९० ॥ तस्माद्रागस्य वशगं न विधेयं कदाचन । आभ्यन्तिकं परं श्रेयः प्राप्यते रागसङ्क्रमात् ॥ ११.९१ ॥ मन एव चिकित्सको भवति यश्चित्तवैद्यः स भिषग्न शरीरभिषग्भृशम् । मनश्चिकित्सको ज्ञेयो न तथा लौकिको मतः ॥ ११.९२ ॥ स्वचित्तकर्मणा दग्धो नरके पतति कर्मचिन्त्यं समं चिन्त्यं न चित्तेन प्रपद्यते । स्वचित्तकर्मणा दग्धो नरकानुपधावति ॥ ११.९३ ॥ ध्यानादेव चित्तं शुद्धं भवति यच्छ्रेयः समचित्तस्य न तत्(क्वाप्युप)पद्यते । संरक्ष्यं हृदयं मूढः प्रयातमनुधावति ॥ ११.९४ ॥ चित्तवशगो दुःखमाप्नोति ध्यानाद्ध्येयेन कूटेन यः पुमान् वनमाश्रितः । तं मुक्त्वा चित्तकः सोऽयं संप्रहृष्यति बालिशः ॥ ११.९५ ॥ ये बालाश्चित्तपाशेन चित्तकर्मविचारिणः । नीयन्ते ह्यवशा घोरं नरकं कर्ममोहिता ॥ ११.९६ ॥ चित्तवैविध्यनिरूपणम् सुचित्तमपि यच्चितं न तच्चित्तं सतां मतम् । कर्मचित्तं महाचित्तं त्रिधातुगतचित्रितम् ॥ ११.९७ ॥ सत्त्वा चित्रैरुपायैर्हि भ्रमन्ति गतिपञ्चके । तत्सर्व कर्मसाचिव्यं चित्रकर्तृ विचित्रितम् ॥ ११.९८ ॥ चित्तवशगो बद्धो भवति चित्तचित्रकरेणेदं कर्मजातं विचित्रितम् । येन सर्वमिदं बद्धं जगद्भ्रमति मोहितम् ॥ ११.९९ ॥ वर्षातपरजोधूमैश्चित्तं नश्यति भूभुजैः । कल्पकोटिसहस्त्रेण चित्रं चित्तं विनश्यति ॥ ११.१०० ॥ नाशं प्रयाति बसुधा सागरश्चापि शुष्यति । चित्तेनापि कृतं चित्रं तस्यानुभवने स्थिते ॥ ११.१०१ ॥ प्रमत्ते चित्ते नानागतिर्भवति नानागतिसमावृत्ता नानाकर्मसमानुगाः । नानाचित्तवशाः सत्त्वा भ्रमन्ति गतिपञ्चके ॥ ११.१०२ ॥ बालिशा (नां)नृणां चित्तं विषयं(प्रति)धावति । न चिनोत्यशुभं कर्म येन धावति दुर्गतिम् ॥ ११.१०३ ॥ चञ्चलं चित्तं सदा विषमं भवति तस्माच्चित्तं सदा रक्ष्यं चञ्चलं विषमं खरम् । नित्यं विषयसंसक्तं तृष्णाविषसमावृत्तम् ॥ ११.१०४ ॥ विषयानुरक्तं चित्तं व्यसने पातयति धावते विषयं चैतद्व्यसनं नावबुध्यते । पश्चात्तु व्यसने प्राप्ते फलं विन्दति कर्मणः ॥ ११.१०५ ॥ समाहितचित्तः सुखमश्नुते अपायभीरुता तस्य तस्य चित्तं समाहितम् । समाहितेन चित्तेन सुखात्सुखमवाप्नुते ॥ ११.१०६ ॥ निर्जितचित्तः सुखमाप्नोति विषमं चपलं तीव्रमविषह्यं महाबलम् । यैश्चित्तं निर्जितं धीरैस्ते लोके सुखिनो मताः ॥ ११.१०७ ॥ ॥ इति चित्तवर्ग एकादशः ॥ (१२) वाग्वर्गः निर्वाणाभिलाषुकः पारुष्यं वर्जयेत् पारुष्यं वर्जयेत्धीमान् सम्यग्वाग्भीरतो भवेत् । माधुर्याभिरतो जर्न्तुनिर्वाणस्यान्तिके स्थितः ॥ १२.१ ॥ वाचं पश्यन् सदाभाषेन्मलिनां च विवर्जयेत् । वाङ्मनेनाभिभूता ये ते यान्ति नरकं नराः ॥ १२.२ ॥ एकधर्मव्यतीतस्य मृषावादस्य देहिनः । प्रतीर्णप्रतिलोकस्य नाकार्य पापमस्तिह ॥ १२.३ ॥ मृषावाग्न प्रयोक्तव्या मृषावाचं न भाषेत सर्वा प्रत्ययकारिकाम् । यथा बध्यति संसारे सुगतिं नैव पश्यति ॥ १२.४ ॥ साधुप्रत्ययतेनीहा सर्वविद्वेषकारिका । कान्तारः सर्वाधर्माणां मृषावाच प्रवर्तते ॥ १२.५ ॥ जातमात्रस्य मर्त्यस्य कठारी जायते मुखे । पश्चात्छिनत्त्यात्मानं वाचा दुर्भाषितं वदन् ॥ १२.६ ॥ सर्वा कार्यपताका सा सर्वपापप्रसूतिका । तमसां योनिरेका सा यां वाचं भाषते मृषा ॥ १२.७ ॥ सत्येन हीनाः पुरुषाः सर्वसाधुविवर्जिताः । तृणवद्यान्ति लोकेऽस्मिन् प्रत्यपायेषु दुःखिताः ॥ १२.८ ॥ न वदेदनृतं धीरः कष्टा ह्यनृतवादिता । पूतिगन्ध्यसुखी चापि पश्चात्तापेन तप्यते ॥ १२.९ ॥ सत्यमहिमा सत्यं च न विवर्जेत तस्य धर्मो न विद्यते । विनिवर्तितधर्मस्य स्थितं दुःखमनेकजम् ॥ १२.१० ॥ सत्यं सर्वधर्माणां प्रदीपभूतम् प्रदीपः सर्वधर्माणां साधूनां रत्नवत्प्रियम् । स्वर्गस्य च परं वर्त्म सत्यमुक्तं गतज्वरैः ॥ १२.११ ॥ सत्यं न हि दिवं याति मोक्षस्यासत्यवादिनः । सत्यहीना हि पुरुषाः पशुतुल्याः प्रकीर्तिताः ॥ १२.१२ ॥ जघन्यानां जघान्यास्ते येषां न विद्यते । सत्यं धर्मस्य सोपानं ज्योतिषामाकरो महान् ॥ १२.१३ ॥ पन्थाश्च मोक्षधर्माणां धनानां धनमुत्तमम् । पापकैश्च (परि)त्राणां सत्यमुक्तं मनीषिभिः ॥ १२.१४ ॥ सत्यभूषितं वाग्भूषणस्यापि भूषणम् ज्योतिषां परमं ज्योतिश्चक्षुश्चक्षुष्मतामपि । द्रविणेन विना सत्यं भूषणस्यापि भूषणम् ॥ १२.१५ ॥ निधानमतुलं सत्यमहार्य (सर्वसाधकम्) । गच्छन्ति (सत्या यिणः) पुरुषाः परमां गतिम् ॥ १२.१६ ॥ न तथा भासते राजा नानालङ्कारभूषितः । सत्येन भूषितो धीमान् शोभते देववद्यथा ॥ १२.१७ ॥ न माता न पिता चाथ मित्राणि न च बान्धवाः । त्राणमेवं यथा श्रुत्वा तस्मात्सत्यपरो भवेत् ॥ १२.१८ ॥ अनृतनिन्दा वह्नीनां परमो वह्निर्विषाणां परमं विषम् । दुर्गतीनां च सोपानमनृतं परिकीर्तितम् ॥ १२.१९ ॥ विषाग्नितुल्यसंस्पर्श वर्तयेदनृतं पुमान् । अनृतेन हि यो देव दग्धैत्यभिधीयते ॥ १२.२० ॥ सत्यासत्ययोः परस्परविरोधित्वम् तस्मात्सर्वाभिसारेण (न वदेद) नृतं पुमान् । सर्व भयादिकं कष्टमनृतं कीर्तितं बुधैः ॥ १२.२१ ॥ वह्नीनां परमो वह्निर्निर्दहेदपि सागरम् । किं पुनर्यो मृषावादी काष्ठलोष्ठसमाकृतिः ॥ १२.२२ ॥ सत्यं त्यक्त्वा मृषावादं यो नरः प्रतिपद्यते । रत्नं त्यक्त्वा स पापात्मा पाषाणं प्रतिपद्यते ॥ १२.२३ ॥ यस्यात्मा न भवेत्द्विष्टो यस्य वा नरकं प्रियम् । मृषावादं स्वदेहाग्निमबुद्धिः स निषेवते ॥ १२.२४ ॥ सदेदं सत्यवचनं भूषणं सर्वदेहिनाम् । सत्यं त्यक्त्वा मृषावादे कस्माद्यान्ति कुबुद्धयः ॥ १२.२५ ॥ सत्यं गुणानामग्र्यं वै दोषाणामनृतं स्मृतम् । गुणांस्त्यक्त्वा कथं मूढो दोषेषु परिधावति ॥ १२.२६ ॥ बीजं सर्वस्य दुःखस्य मृषावादः प्रकीर्तितः । तथा सत्यं सुखस्यैव तस्मान्नानृतको भवेत् ॥ १२.२७ ॥ सत्यवादी हि पुरुषः प्रियः सर्वस्य देहिनः । चक्षुर्दोषैमृषावादी तस्मान्नानृतको भवेत् ॥ १२.२८ ॥ देवकल्पाः सदा कृष्टाः पुरुषाः सत्यवादिनः । नारकेयास्तथा मूढा जना ह्यनृतचेतसः ॥ १२.२९ ॥ कल्याणानां परं सत्यं दोषाणामनृतं तथा । दोषवर्जी गुणद्वेषी पुरुषः पुरुषोत्तमः ॥ १२.३० ॥ सुखोदयं सुखोदर्कं सुखेन परिपच्यते । सुखेन लभते सत्यं(सत्यं) निर्वाणगामिकम् ॥ १२.३१ ॥ दुःखोदयं कटुफलं दुःखेन सह पच्यते । अनृतं सर्वदुःखान्तं कः पुमान्न विवर्जयेत् ॥ १२.३२ ॥ नान्यदेशागतं सत्यं नान्यस्मात्प्रार्थ्यते हि तत् । सर्वतीर्थोत्तमं सत्यं न तीर्थसलिलावृतम् ॥ १२.३३ ॥ दीपानां च परो दीपः सत्यं बुद्धेन देशितम् । औषधानां परं तच्च सदा दुःखनिषूदनम् ॥ १२.३४ ॥ अमृतञ्च विषञ्चैव जिह्वापाशे स्थितं नृणाम् । अमृतं सत्यमित्युक्तं विषं तूक्तं मृषावचः ॥ १२.३५ ॥ यस्यानृतमभिप्रेतं तस्य सत्यं ध्रुवं स्थितम् । विषन्तु यस्याभिमतं तस्येष्टं स्यान्मृषावचः ॥ १२.३६ ॥ विषेण निश्चितं नाशो मृषावादेन निश्चितः । मृतवत्स पुमानस्ति यो मिथ्यात्वभिभाषते ॥ १२.३७ ॥ नात्मनो हि हितं पथ्यं (पर)स्य न कथञ्चन । पश्चात्तु परदुःखाय तत्कथं सेव्यते नृभिः ॥ १२.३८ ॥ देशे देशे मया दृष्टं जन्ममृत्युसहस्रकम् । परः सहस्त्रं जनयेन्नाशयेदनृतं वचः ॥ १२.३९ ॥ अभिजातस निष्कर्षो द्विजातीनां च भूषणम् । दर्शनं मोक्षमार्गस्य सत्यमित्यभिधीयते ॥ १२.४० ॥ तृष्णानदी हयमाराणां सतां सत्येन कर्मणाम् । पूर्ववत्सत्यमित्युक्तं परं सुगतदेशिकम् ॥ १२.४१ ॥ अनादिनिधने लोके तृष्णापारङ्गता (नराः) । नास्त्यत्राणं यथा सत्यमिति धर्मविदो विदुः ॥ १२.४२ ॥ अभिध्यापाशो न सेवनीयः सत्यवध्या सदा क्लेशा वज्रवध्या यथा नगाः । हता(स्ते) पुरुषा (ज्ञेया येऽ) भिध्या परिवञ्चिताः ॥ १२.४३ ॥ परचित्तसमेनेदं रूपाद्यैः परिवञ्च्यते । अभिध्यामानसं पाशं सेवितं न विचक्षणैः ॥ १२.४४ ॥ दह्यतेऽविकृत आत्मा तैलदीप्तिरिवानलः । अभिध्यादग्धमनसः कारणं नोपलभ्यते ॥ १२.४५ ॥ व्यापादः सत्त्वान्मोहयत्येव यस्मात्तत्सर्वदा वर्ज्यं कटुकाशाविषोदयम् । व्यापादमोहिताः सत्त्वा नित्यं तद्गतमानसाः ॥ १२.४६ ॥ न शान्तिमधिगच्छन्ति सर्पा इव बिलेशयाः । अथ कूरस्वभावा ये व्यापादपरमा नराः ॥ १२.४७ ॥ न तेषां विद्यते सौख्यमादित्येन यथा तमः । न धर्मे नार्थनिकरो न धर्मा न च बान्धवाः ॥ १२.४८ ॥ रक्षन्ति पुरुषान् सर्वान् व्यापादाहतचेतसः । तमसामाकरो ह्येष व्यापाद इह कथ्यते ॥ १२.४९ ॥ व्यापादयति जनकं व्यापादः परिकीर्तितः । अव्यापादः परं श्रेयो न व्यापादः कथञ्चन ॥ १२.५० ॥ अव्यापादपरा ये तु ते यान्ति पदमच्युतम् । नियतातथवादी योऽधर्मवादी न धार्मिकः ॥ १२.५१ ॥ स चौरः सर्वलोकस्य न चौरः प्राकृतः स्मृतः । धर्मवादी नरो यस्तु चरते धर्ममेव यः ॥ १२.५२ ॥ स याति शाश्वतं स्थानं यत्र गत्वा न शोच्यते । मिथ्यावचोहत (पुमान्) लौकिकः सम्प्रकीर्त्यते ॥ १२.५३ ॥ लोकोत्तरैः कल्पशतैः कदाचित्कथ्यते न वा । तस्मात्लोकोत्तरं वाक्यं लौकिकं न कथञ्चन ॥ १२.५४ ॥ संसारबन्धनं दृष्टं लौकिकं विषवद्वचः । तृष्णारतः सदा पुण्यान्मुच्यतेति सुनिश्चितम् ॥ १२.५५ ॥ लोकोत्तरो (नरो) धन्यो विद्वद्भिः समुदाहृतः । हितं तत्त्वं च यो मूढो न गृह्णाति गुरोर्वचः ॥ १२.५६ ॥ सत्यवादी सदा देवताभिः पुरस्कृतः स पश्चाद्व्यसने प्राप्ते तप्यते स्वेन चेतसा । सत्यवादी सदा दान्तो देवताभिः पुरस्कृतः ॥ १२.५७ ॥ प्रियो भवति लोकस्य पश्चाद्देवेषु मोदति । प्रियो भवति लोकस्य पश्चाद्स्वान्तेन(वर्धते) । दर्शनीयं मुखं चास्य देवलोकेषु जायते ॥ १२.५८ ॥ अभूतवादी पुरुषः सर्वसत्त्वोपपातकः । तमोनिचयसङ्काशो जीवन्नपि मृतः समः ॥ १२.५९ ॥ कथं न जिह्वा पतिता वाक्यसंस्तुतिकत्तृका । मृषा वदति यो वाचं सद्भूतगुणनाशिकाम् ॥ १२.६० ॥ मुखे सन्निहितो ब्यालो मुखे सन्निहितोऽफलः । (मुखे)सञ्ज्वलितो वह्निर्यो वाचा भाषते मृषा ॥ १२.६१ ॥ जिह्वा सङ्ग्रथितैः पाशैः नरकस्याग्रहेतुकैः । छेत्ता च धर्महेतूनां मृषावादः प्रवर्तते ॥ १२.६२ ॥ न तस्य माता न पिता बुद्धो नापि सम्वरः । यः पापबुद्धिः पतितो मृषावादं प्रभाषतेः ॥ १२.६३ ॥ अकस्माल्लघुतां याति षड्भिश्च परिवर्तते । मुच्यते देवताभिश्च यो वाचं भाषते मृषा ॥ १२.६४ ॥ असङ्गृहीतवाक्यस्याविचार्य क्रोधनस्य च । चपलस्याल्पभाग्यस्य स्थितं दुःखमनन्तकम् ॥ १२.६५ ॥ परस्य दुःखं दृष्ट्वापि सत्त्वः सत्त्वोपपातकः । परव्यसनवत्तज्ज्ञः पुमान्नरकगामिकः ॥ १२.६६ ॥ ये यथावादिनो मर्त्त्या न च तत्कारिणः सदा ॥ १२.६७ ॥ सत्यमेव स्वर्गस्य निर्वाणस्य च सोपानम् सत्यं स्वर्गस्य सोपानं निर्वाणद्वारमेव तत् । तस्मात्सत्यपरो नित्यं नित्यं धर्मगतिः स्मृतिः ॥ १२.६८ ॥ अनृतं न वदेत् अशोकमजरं स्थानं प्रयाति पुरुषोत्तमः । वर्जयेदनृतं धीमान्निन्दितं तत्त्वदर्शिभिः ॥ १२.६९ ॥ ॥ इति वाग्वर्गो द्वादशः ॥ (१३) कर्मवर्गः शुभाशुभकर्मणां फलभोगः शुभानामशुभानां च कर्मणां फलनिश्चयः । भुज्यते सुकृतं सर्व कर्मबद्धा हि देहिनः ॥ १३.१ ॥ (यदङ्गी)क्रियते कर्म तत्कृद्भिरनुभूयते । चित्तमानेन मूढेन तृष्णानगरवासिना ॥ १३.२ ॥ स्वयमेव फलं भुङ्क्ते सहायैर्बहुभिः सार्ध कुरुते कर्म दुष्कृतम् । एकाकी कर्मणस्तस्य फलं भुङ्क्ते भवे भवे ॥ १३.३ ॥ कर्मणामविसंयोगः सर्वैः स्वजनबान्धवैः । शुभाशुभं परं लोके गच्छन्तमनुगच्छति ॥ १३.४ ॥ यत्र प्रयान्ति पुण्यानि गन्धस्तत्रानुधावति । तथा शुभाशुभं कर्म गच्छन्तमनुगच्छति । स्वकर्मफलदायादा प्राणेन कर्मयोजिनः ॥ १३.५ ॥ सुकृतैः सुरलोकं गच्छन्ति सुकृतैः सुरलोकेषु दुष्कृतैश्च तथाप्यधः । यद्दुःखं कर्मफलजं जायते कटुकोदयम् ॥ १३.६ ॥ तस्योपमानमसुरं त्रिषु धातुषु जायते । त्रिदोषजं त्रिचित्तोत्थं त्रिषु धातुषु पच्यते ॥ १३.७ ॥ तस्य कर्मविपाकस्य त्रिषु धातुषु लक्ष्यते । हेतुप्रत्ययसामग्रीसमुत्थं च प्रमेव तत् ॥ १३.८ ॥ अन्यकृतकर्मणः फलं नान्यो भुङ्क्ते न ह्यन्येन कृतं पापमन्येन परिपच्यते । सुकर्मफलदायादः प्राणिनां सर्व एव हि ॥ १३.९ ॥ पूर्वोक्तानां त्रिविधानां स्वस्य कृत एव विपाको भवति कर्मणस्त्रिविधस्यास्य न चाप्यन्यस्य पच्यते । चत्वारिंशद्विपाकस्य घोरं भवति चेष्टितम् ॥ १३.१० ॥ कर्मफलवर्णनम् एकः करोति कर्माणि एकश्च फलमश्नुते । एकस्तरति दुर्गाणि सहायो जायतेऽपरः ॥ १३.११ ॥ जलापेक्षी जनो यस्तु कुरुते कर्म दुष्कृतम् । न जनो जनशतानां भुङ्क्ते हि व्यञ्जनं (क्वचित्) ॥ १३.१२ ॥ न ह्यन्येन कृतं कर्म सङ्क्रामत्यपरस्य तत् । न मन्येऽनादिनिधनमस्मिंल्लोके न चापरैः ॥ १३.१३ ॥ दुःखास्वादं सुखोद्भूतं येन दुश्चरितं कृतम् । तेन चरति संसारे प्रेरिते कर्मवायुना ॥ १३.१४ ॥ कस्य धर्मो वर्धते? अनपेक्षिततत्त्वस्य व्याकुलीकृतचेतसः । वर्धते सकलो (धर्मः) धर्मावृतमनोहरः ॥ १३.१५ ॥ के नरकं गच्छन्ति? मनसा वञ्चिताः सत्त्वा मनसा विप्रमोहिताः । गच्छन्ति नरकं पापास्तमस्तमपरायणाः ॥ १३.१६ ॥ तमोवृते हि संसारे दुर्लभं बुद्धशासनम् । दुःखाद्दुःखतरं यान्ति येभ्यः धर्मो न रोचते ॥ १३.१७ ॥ अनादिमति संसारे कर्मजालावृता प्रजा । जायते भ्रियते चै(व) स्वकर्मफलहेतुना ॥ १३.१८ ॥ जायन्ते नरके देवा नारकेयास्तथाविधाः । मनुष्याः प्रेतविषये नरकं वा प्रयान्ति हि ॥ १३.१९ ॥ सुकर्मणैव सुखम् अन्योन्यप्रभवं दृष्टं दुःखं वा यदि वा सुखम् । क्लेशधर्मोद्भवे जन्मन्यपरादिकृतं च तत् ॥ १३.२० ॥ असङ्ख्येयकृतं कर्म संसारे प्राणिभिः सदा । तत्र शक्यं बुधैर्गन्तुं वर्जयित्वा तथागतैः ॥ १३.२१ ॥ नाधर्मस्य फलं साधु विपरीतं न पच्यते । हेतोः सदृशता दृष्टा जलस्य विविधस्य वै ॥ १३.२२ ॥ सादृश्यस्य हेतुफलं विपरीतं न जातु हि । संस्कृतानामरूपाणां हेतुः प्रत्ययसम्भवः ॥ १३.२३ ॥ सहेतुकं सर्व कर्मफलम् नाहेतुकं फलं दृष्टं नरके तु विशेषतः । हेतुसङ्घातसंसक्तं नरकेषु विपच्यते ॥ १३.२४ ॥ कृतोपरतगाढानां नियतं पापगामिनाम् । कर्मणा फलसम्बन्धो नरकेषु विपच्यते ॥ १३.२५ ॥ देशानां प्रति कालं तु यत्कर्म (वि)निवर्तते । तस्य नेष्टं फलं दृष्टं तत्त्वमार्गविदर्शकैः ॥ १३.२६ ॥ उदाहरणप्रदर्शनपूर्वकं फलस्य कर्माधीनत्वमेवेति दीपाधीना प्रभा यद्वत्कर्माधीनं फलं तथा । अन्योऽन्यफलसम्भूतः संस्कृतः सर्व एव हि ॥ १३.२७ ॥ प्रतीत्यसमुत्पादसमर्थनम् अन्योन्यहेतुका दृष्टा ह्यन्योन्यवशवर्तिनः । सादृश्यस्यानुबन्धेन दृश्यन्ते तत्त्वदर्शकैः ॥ १३.२८ ॥ नाहेतुफलसन्धानमीश्वरादिभिरास्थितम् । भवन्ति संस्कृता धर्मा देशितास्तत्त्वदर्शिभिः ॥ १३.२९ ॥ अनादिमतिसंसारे हेतुप्रत्ययसम्भवे । सादृश्यं कर्मणा दृष्टं विपरीतं न कल्प्यते ॥ १३.३० ॥ बुद्धस्य स्वरूपम् तत्स्थेषु कर्मवशगाः प्राणिनः कर्महेतुजाः । स कर्मफलतत्त्वज्ञो (बुद्ध) इत्यभिधीयते ॥ १३.३१ ॥ केषां शान्तिः न विद्यते? मार्गामार्गविरुद्धा ये मूढा बुद्धस्य शासने । (न) तेषां विद्यते शान्तिरादित्यस्य तमो यथा ॥ १३.३२ ॥ कर्मायत्तं सुखम् कर्मायत्तं सुखं दृष्टं सुखायत्तं मनस्तथा । मनोऽवबोद्धया(स्ते)धर्मा ये व्युत्पत्तिविचारिणः ॥ १३.३३ ॥ सुचरितस्य कर्मणः फलम् अनित्याः सर्वसंस्कारा जलबुद्बुदसन्निभाः । तस्मात्सुचरितं कर्म लोके मर्त्य परत्र च ॥ १३.३४ ॥ दृष्टं कर्मफलं लोके दृष्टा एव विचित्रता । यः प्रमादपरः पुंसास्तस्यात्मा ध्रुवमप्रियः ॥ १३.३५ ॥ कर्मरज्ज्वातिदृढया दुष्प्रमोक्षसुगाढया । बद्धा बाला न गच्छन्ति निर्वाणपुरमुत्तमम् ॥ १३.३६ ॥ ॥ इति कर्मवर्गस्त्रयोदशः ॥ (१४) संयोजनवर्गः ज्ञानेन निर्वाणाधिगमः ज्ञानशस्त्रे(ण)तां छित्वा निर्मुक्ता विगतज्वरा । प्रयान्ति निर्वृत्तिं धन्या यत्र ज्ञान्येव विद्यते ॥ १४.१ ॥ सदृशं हि फलं हेतोः कथयन्ति मनीषिणः । हेतोरसदृशं नैव फलं पचति देहिनाम् ॥ १४.२ ॥ हेतुप्रत्ययसम्बद्धजन्मप्रत्ययसङ्गताः । यथा बद्धा हि संसारे प्रमुच्यन्ते (न)देहिनः ॥ १४.३ ॥ परमशान्तेरूपायः तां विश्लिष्य सुसम्बद्धां गाढां दुर्विषेहां पराम् । गच्छन्ति परमां शान्ति यत्र दुःखं न विद्यते ॥ १४.४ ॥ कर्मणा नियतं जन्तुः कर्मणा परिपच्यते । सूपगं (ननु) संसारे सुखं नैवोपलभ्यते ॥ १४.५ ॥ दुःखे दुःखाभिषक्तानां जन्तूनां मूढचेतसाम् । सन्मार्गदेशिको नास्ति योऽस्माद्दुःखात्प्रमोचयेत् ॥ १४.६ ॥ ये न धर्मपरा नित्यं ये न सत्यपराः सदा । ये च योनिरता नित्यं तेषां दुःखं न हीयते ॥ १४.७ ॥ धर्म इह परत्र च सुखावहः मातृवत्पितृवच्चैव (मित्रवद्) बन्धुवत्सदा । धर्मो वै देशितो बुद्धैरिह लोके परत्र च ॥ १४.८ ॥ त्रिगत्यवस्थिताः सत्त्वास्त्रिदोषवशमागताः । त्रिधातुगतिका नित्यं त्रिलोक्यां पतिताः (जनाः) ॥ १४.९ ॥ त्रिकर्मोपान्तवशगाः स्त्रीपानादिपराश्च ये । न भवान्मुक्तिगतिकाः स्युर्भूमौ विचरन्ति ते ॥ १४.१० ॥ केषां दुःखं न विद्यते? त्रिरत्ने (न) प्रमाद्यन्ति त्रिबोधिवशगाश्च ये । त्रिदृष्टिवर्जका ये तु तेषां दुःखं न विद्यते ॥ १४.११ ॥ त्रिकालस्थितिसंलग्ना विज्वरास्तत्त्वदर्शिनः । त्रिभागकृतिसन्तुष्टा वीतशोका निवृत्तिगाः ॥ १४.१२ ॥ त्रिराशिसमवेता ये त्रिकर्मप्रविचारिणः । न ते वत्स्यन्ति संसारे वीतदोषा गतज्वराः ॥ १४.१३ ॥ मार्गामार्गविधिज्ञा ये भावाभावविचिन्तकाः । मैत्रीभावविविक्ता ये ते यान्ति परमां गतिम् ॥ १४.१४ ॥ नरः कान् भजेत्? अनाविलेन(मनसा) विप्रसन्नेन (चेतसा) । सर्वदा धर्मवशगान् धीरान् विप्रान् भजेन्नरः ॥ १४.१५ ॥ सत्यमेव प्रपन्ना ये स्मृत्या (हित्वा) मनोमलम् । भावाभिलाषाद्विरता मुक्ता निःसंशयं हि ते ॥ १४.१६ ॥ नित्यं दुःखसुखैर्बद्धा विप्रलब्धा ह्यनेकशः । नरा निधनतां यान्ति प्राणिनो मोहवञ्चिताः ॥ १४.१७ ॥ कैर्दुर्गुणैः स्वर्गो न लभ्यते? नाह्रीक्यमनपत्राप्यं कौसीद्यं पापमित्रता । नैतानि नाकबीजानि तेभ्यो रज्येन्न पण्डितः ॥ १४.१८ ॥ आह्रीक्यमनपत्राप्यं नित्यं पापानुचारिणः । नरः प्रपातात्पतति स पश्चात्प्रतिबुध्यते ॥ १४.१९ ॥ क्रोधेर्ष्यादिभयग्रस्ताः स्वर्ग न गच्छन्ति क्रोधेर्ष्यास्त्यानमिद्धं हि त्वश्रद्धं यन्मनस्तथा । मोहशोकभयग्रस्ता न स्वर्ग प्रभवन्ति ते ॥ १४.२० ॥ अमृतं मद्यपानं च मिथ्यादृष्टिश्च लुब्धता । कारणानि करणस्य व्यापादक्रूरकर्मता ॥ १४.२१ ॥ कुदृष्टेः कुफलम् अदर्शनं परं श्रेयो न कुदृष्टिः कथञ्चन । कुदर्शनेन संमूढाः प्रयान्ति नरकं नराः ॥ १४.२२ ॥ अहेतुं हेतुमापश्यन्त्य (नित्यं) नित्यवन्नराः । प्रयान्ति नरकं तीव्रं मिथ्यावादेन वञ्चिताः ॥ १४.२३ ॥ कष्टेन तेजसा तेषां मिथ्यादर्शनतत्पराः । प्रज्ञाभिमानिनो भूता मोहयन्त्यपरान् जनान् ॥ १४.२४ ॥ मोहान्धकारगहने पतन्त्येव महार्णवे । लोके प्रकृतिदुःखेऽस्मिन् हेतुभूता हि ते जनाः ॥ १४.२५ ॥ शराणां तापनं क्षेपं कथयन्ति मनीषिणः । चित्तता या तुदत्यन्ते सर्वतः क्लेशपर्वतः ॥ १४.२६ ॥ क्लेशनागाद्विमोक्षो यो यस्य ज्ञानपुरः सरः । प्राप्यते वीतकै रूपैः पुरुषैस्तत्त्वदर्शिभिः ॥ १४.२७ ॥ अन्योऽन्यमतिभिः सर्वा लोकोऽयं विप्रलोभितः । न याति परमां शान्तिं यत्र मिथ्या न कथ्यते ॥ १४.२८ ॥ नरकहेतवः औद्धत्यपापसंसर्गः कौसीद्यं लुब्धता तथा । हेतवो नरकस्यैते शीलस्य हि विवर्जनम् ॥ १४.२९ ॥ मद्यपानं सदा हिंसा परदाराभिदर्शनम् । लोभः कूरा मतिश्चैव हेतवो नरकस्य ते ॥ १४.३० ॥ नाशहेतवः पैशुन्यं पापसंसर्गो मिथ्यादृष्टिरसंयमः । चापल्यं मनसश्चैव नाशयन्ति नरं सदा ॥ १४.३१ ॥ अविद्यया सह पारुष्यैः मिथ्यावागभिमानिता । न सुखाय भवन्त्येते अस्मिंल्लोके न चापरे ॥ १४.३२ ॥ के परिवर्जनीयाः? यद्यसौ भ्रमति प्रायो लोकेस्मिन् किन्न चापरे । यद्यसम्भ्रामिते लोके ये च दुःखे निमज्जति ॥ १४.३३ ॥ तच्चेष्टितमविद्यायाः कथयन्ति तथागताः । मिथ्यामानोऽतिमानी च सर्वथा (परिवर्ज्यताम्) । परिवर्ज्याः सदा ह्येते दुःखवृक्षस्य हेतवः ॥ १४.३४ ॥ ज्ञानिनः परमोदारा नित्यं क्लेशवधे रताः । छित्वा (तद्) बन्धनं सर्व गच्छन्ति पदमच्युतम् । आदिमध्यान्तकल्याणमस्मिंल्लोके न चापरे ॥ १४.३५ ॥ दोषसेवनैः नाशो भवति दोषाणां सेवनं दृष्टमविद्यासम्प्रवर्तकम् । वर्जनीयाः सदा क्लेशाः सेव्यं ज्ञानमनुत्तमम् ॥ १४.३६ ॥ ज्ञानेन मुक्तिर्भवति ज्ञानेन मुक्तिर्भवति न च क्लेशैरिहोच्यते । ज्ञानाग्निना हि दहयन्ते क्लेशकाष्ठा न शेषतः ॥ १४.३७ ॥ काममयज्ञानं क्लेशजनकम् क्लेशैः किमर्थ संरुद्धा जालिनी विष(यै) रता । पुनः काममयं ज्ञानं चक्षुःपटलबाधकम् ॥ १४.३८ ॥ रागनिन्दा निर्वाणयति सम्बुद्धवाक्यभैषज्यभोजनैः । सद्धर्मसेनापतिना रागसेना विगर्हिताः ॥ १४.३९ ॥ शुभा वाणी प्रयोक्तव्या उदीरिता शुभा वाणी निश्चेतव्या प्रयत्नतः । चत्वारो हि विपर्यासा बुद्बुदवच्चकासते । लोकधर्मास्तथा चाष्टौ नाशयन्त्यखिलं जगत् ॥ १४.४० ॥ ज्ञानप्लवः सन्तरणसमर्थः जालिनीप्रभवा नद्यो वितर्कशतदुस्तराः । ज्ञानप्लवं समारुह्य तरन्ति मुनयः शिवाः ॥ १४.४१ ॥ केषां मुक्तिर्न विद्यते? मूढा ये भूतमनसो नराः कामस्य सेविनः । सदा च पञ्चभिः स्थानैर्मुक्तिस्तेषां न विद्यते ॥ १४.४२ ॥ अयोनिशोमनस्कारैर्यो वह्निः समुदीर्यते । स योनिशोमनस्कारवर्षणैः प्रतिकल्पते ॥ १४.४३ ॥ अविद्यासंभवमन्धत्वं कथं दूरीभवेत्? अन्धत्वं चिरकालोत्थमविद्यासम्भवं नृणाम् । तदल्पकाले जातेन प्रदीपेन न पश्यति ॥ १४.४४ ॥ ज्ञानलोकेन त्रयो दोषाः विनश्यन्ति रागमूढा विपच्यन्ते नरके मन्दमेधसः । ज्ञानिनस्तु न नश्यन्ति निर्वाणगमना यथा । त्रयो दो(षा) विनश्यन्ति ज्ञानलोकेन देहिनाम् ॥ १४.४५ ॥ तस्मादशेषविज्ञानशीलक्षान्तिरतो भवेत् । अमूढानां प्रणश्यन्ति त्रयो दोषाः शरीरिणाम् ॥ १४.४६ ॥ ज्ञानानलेन मन्दश्च क्लेशेन्धन महात्त्विषः । व्याधिनिर्मग्नतनवः शय्यावेष्टनगोचराः ॥ १४.४७ ॥ यत्र याति परं वेदं मनोमोहमयं फलम् । यानि दुःखान्यनेकान्यनेका भुज्यते गतिः ॥ १४.४८ ॥ पञ्चकैः प्राणिभिनित्यमेतन्मोहस्य चेष्टितम् । त्रयो वा निर्जिता दोषा यैरिदं दह्यते जगत् ॥ १४.४९ ॥ ज्ञानयोगेन सुखं भवति तमग्निं ज्ञानयोगेन निर्वाप्य सुखितो भवेत् । तस्माज्ज्ञानाग्निना नित्यं निर्दहेत्क्लेशपर्वतम् । क्लेशपर्वतदग्धस्य सुखं पदमवस्थितम् ॥ १४.५० ॥ ॥ इति संयोजनवर्गश्चतुर्दशः ॥ (१५) पापवर्गः पापफलस्य अज्ञाता परितापं लभते क्रियमाणस्य पापस्य विज्ञेयं कटुकं फलम् । यो न जानाति मूढात्मा पश्चात्स परितप्यते ॥ १५.१ ॥ (फलं च) लभते पुरुषः सर्वपापस्य कर्मणः । तस्मात्पापं न सेवेत यदीच्छेत्सुखमात्मनः ॥ १५.२ ॥ अल्पादपि महाघोरात्नरकात्पापचेतसः । मुक्त्यर्थ (तानि) पापानि भूयो मोहवशं गताः ॥ १५.३ ॥ न विश्वसेद्धि पापस्या(ल्पतां) नरकगामिकाम् । अल्पेन वह्निना शैले दहयन्ते सर्वतो द्रुमाः ॥ १५.४ ॥ नास्ति पापसमो शत्रुः पापेन नरकं याति पापेन परिदह्यते । पापेन नैति निर्वाणं नास्ति पापसमो रिपुः ॥ १५.५ ॥ पापाचारो हि पुरुषो न क्वचित्सुखमेधते । (पापं) तस्मान्न सेवेत यदीच्छेत्सुखमात्मनः ॥ १५.६ ॥ साधुकारं च साधूनां पापमार्गस्य दुष्करम् । कुर्वन्तः पापकान् सत्त्वा मोदन्ते(लघुचेतसः) ॥ १५.७ ॥ विपाककटुकः पश्चात्परितापोऽल्पचेतसः । कुतोऽपचितगात्रस्य कर्मणो दृश्यते फलम् ॥ १५.८ ॥ तस्मात्पापं न कुर्वीत कष्टा पापस्य वेदना । पापं पापविपाकं च पापिनां पच्यते ध्रुवम् ॥ १५.९ ॥ न हि पापं न पापस्य तस्मात्पापं विवर्जयेत् । परिवर्जितपापस्य न पापाद्भयमस्ति हि ॥ १५.१० ॥ स्वकृतं बाधते पापं परीक्ष्यं नैव भुज्यते । कल्याणस्य फलं साधु कष्टं पापस्य पच्यते ॥ १५.११ ॥ कृत्वा तु पुरुषः पापं कल्याणं नानुसेवते । न शस्त्राग्निप्रपातेभ्यो दुःखं स्यात्तादृशं नृणाम् ॥ १५.१२ ॥ यथा निषेवितं मिथ्यापापं पापेषु कल्प्यते । विनिवर्जितपापस्य नित्यं च शुभचेतसः ॥ १५.१३ ॥ शान्तस्य भिक्षोर्निर्वाणं नातिदूरम् (देहिनो) शान्तवक्त्रस्य निर्वाणं नातिदूरतः । तीव्रात्तीव्रतरं यान्ति नराः कुकृतकारिणः ॥ १५.१४ ॥ सुखात्सुखतरं यान्ति नराः सुकृतकारिणः । न हि तीव्रस्य पापस्य सुखं फलमवाप्यते ॥ १५.१५ ॥ सुखस्य वा फल तीव्रं विपरीतं न पच्यते । अनादिमति संसारे सुकृतानां फलं सुखम् ॥ १५.१६ ॥ कर्मणां सुकृतानां च तथा दुःखफलं स्मृतम् । पापं पापानुगं दृष्टं शुभस्य च शुभं तथा ॥ १५.१७ ॥ पापी नरकेषुपपद्यते पापाचारः शुभद्वेषी नरकेषूपपद्यते । परिवर्जितपापस्य नित्यं च शुभचेतसः ॥ १५.१८ ॥ हस्तावलम्बि निर्वाणमदृष्टं तदनाविलम् । आदिमध्यान्तकल्याणा धर्मा नित्यं सुखोदयाः ॥ १५.१९ ॥ तस्मात्पापं विवर्जयेत् आदिमध्यान्तकटुकं फलं पापस्य कर्मणः । तस्मात्पापं सदा वर्ज्यमालम्ब्यञ्च शुभं सदा ॥ १५.२० ॥ परिवर्जितपापस्य नित्यं सुखमवस्थितम् । अनादिमति संसारे दग्धाः पापैः पुनर्नराः । खेदं कस्मान्न गच्छन्ति बाला मोहवशानुगाः ॥ १५.२१ ॥ आपातमधुरं पापं परिणामेऽग्निसन्निभम् । पापकारी तु पुरुषः सर्वलोके विगर्हितः । शुभकारी सदा शान्तस्तस्मात्पापं विवर्जयेत् ॥ १५.२२ ॥ धीरैस्तत्त्वनिदर्शकैः पापविवर्जनम् अनिष्टमहितं दृष्टं विपाके कटुवेदनम् । पापं पापविपाकं च तस्माद्धीमान् विवर्जयेत् ॥ १५.२३ ॥ अस्ति पापं ध्रुवं पापे पापमस्ति न पातकम् । पापाचेष्टा क्षयापेक्षा कृपा चित्तसुगामिता ॥ १५.२४ ॥ पापं पापाश्रितं नित्यं धर्मो धर्माश्रितस्तथा । उन्नयत्युक्तमेतद्धि धीरैस्तत्त्वनिदर्शकैः ॥ १५.२५ ॥ पापविरहिताः परमं सुखं प्राप्नुवन्ति अचेतना ध्रुवं बाला येषां दुश्चरितं प्रियम् । विनिवर्जितपापास्तु गच्छन्ति परमां गतिम् ॥ १५.२६ ॥ अतीव वञ्चनाघोरा नियता पापगामिनी । मानुष्यं दुर्लभं प्राप्य यस्य पापं प्रियं बहु ॥ १५.२७ ॥ शुभाशुभफलयोः परिणामभेदः पापाद्विरज्यते यस्तु शुभे वातीव रज्यते । स सुखात्सुखमाप्नोति निवृत्तिं वा प्रयाति हि ॥ १५.२८ ॥ नरो भवति धन्योऽयं यः शुभान्युपसेवते । स त्वधन्यतमो लोके यः पापमुपसेवते ॥ १५.२९ ॥ आदिमध्यान्तनिधनं सद्भिरेव विगर्हितम् । पापं पापानुगं दृष्टं नरकायोपकल्प्यते ॥ १५.३० ॥ शुभकर्मा सुखमाप्नोति देवलोकं च गच्छति अतीव शोभते लोके शुभकर्मा जितेन्द्रियः । कायस्य भेदात्सततं देवलोके स जायते ॥ १५.३१ ॥ पापस्य परिणामः सुदारुणः दुष्कृतस्यानुबद्धं हि दुष्कृतं फलमुच्यते सुकृतस्य तथा दृष्टं फलं सुखविपाकजम् । बीजस्याशुविभीतस्य परिणामः सुदारुणः ॥ १५.३२ ॥ निमित्तं सदृशं दृष्टं फलं पापस्य कर्मणः । पापेनाकृष्यते जन्तुः दुर्गतौ बडिशैरिव ॥ १५.३३ ॥ बडिशैर्मुच्यते मीनः पापं पापान्न मुच्यते । दिन पीडापि पापस्य सर्वथा दुःखकारिका ॥ १५.३४ ॥ अमेध्यस्य यथा गन्धः प्रतिकूलो हि देहिनाम् । शुभस्य वासना रम्या विप्रणष्टस्य दुर्गतौ ॥ १५.३५ ॥ विलेषु वासनं यद्वत्पुष्पे नष्टे प्रदृश्यते । चलत्ययं पापकारी नित्यं कामवशानुगः ॥ १५.३६ ॥ के शुभचारिणः? आलस्यानृतिको नित्यं नासौ कल्याणमर्हति । अनन्ता रजनी तेषां (येषां) पापे स्थितं मनः ॥ १५.३७ ॥ प्रभातं रजनी तेषां येषां पापे स्थिरा मतिः । अनीर्ष्यकाः सकल्याणाः पुरुषाः शुभचारिणः ॥ १५.३८ ॥ अल्पपापी सुखमाप्नुते ये न पापात्मनो भूतास्ते नित्यं कोटचारिणः । अल्पभारा यथा नावा प्लवते न निमज्जति ॥ १५.३९ ॥ पापीमित्रेण दुःखं भवति तथाल्पपापपुरुषः प्लवते न निमज्जति । न पापमित्रसंसर्गात्पुरुषः सुखवान् भवेत् ॥ १५.४० ॥ पापमित्रं समासाद्य सर्वानलपरो भवेत् । कर्मारम्भ विधिज्ञो यो नित्यं सूक्ष्मार्थ (दर्शकः) ॥ १५.४१ ॥ नासौ लिम्पति पापेन पङ्केन गगनं यथा । अश्रुतं पुरुषः शृण्वन् श्रुतञ्चापि भवेद्दृढम् ॥ १५.४२ ॥ पण्डितलक्षणम् पापं च वर्जयेद्धीमान् प्रेत्य देवेषु जायते । गुणदोषपरिज्ञानम्मेतत्पण्डितलक्षणम् ॥ १५.४३ ॥ मूढलक्षणम् गुणदोषापरिज्ञानमेतन्मूढस्य लक्षणम् । गुणेषु गुणसञ्चारो दोषेषु च तथैव च ॥ १५.४४ ॥ मूढामूढयोर्लक्षणम् सदोषगुणतत्त्वज्ञो नित्यं भवति शोकभाक् । पापकर्त्ता (तु) पुरुषः शत्रुवच्चात्मनः स्थितः ॥ १५.४५ ॥ शुभकर्त्ता तथा पुंसो मित्रवत्प्रतिपद्यते । तमोनिरयभूमिष्वमृतोऽयं प्रतिपद्यते ॥ १५.४६ ॥ यस्य पापरता बुद्धिर्नित्यं विषयतत्परा । विषयारामचपला नित्यं रागानुचारिणी ॥ १५.४७ ॥ यस्य बुद्धिर्न धर्मेषु नरस्य दुःखभागिनः । हेतुतश्च महादुःखान्तहेतोर्वह्निसंयुतात् ॥ १५.४८ ॥ क्षीणपापा वयं सर्वे भूयो लोकमिहागताः । सुकृतस्य फलं साधु ह्यनेकगुणमण्डितम् ॥ १५.४९ ॥ दुष्कृतस्य फलं दुःखं विसंवादकमिष्यते । ते वयं सुखदुःखाभ्यां भूयाम भवसङ्कटे ॥ १५.५० ॥ कर्मवायुसमुद्भ्रान्ताः समुद्रस्य यथोर्मयः । कृतं पापेष्वमनसः पापैः रक्षन्ति ये जनाः ॥ १५.५१ ॥ ते तस्य हेतोर्नरकं प्रयान्त्यशुभचारिणः । तस्मात्तु नरकान्मुक्ताः ते गच्छन्ति त्रिविष्टपम् ॥ १५.५२ ॥ ते हि दुःखं (न)संस्मृत्य पुनः कामवशानुगाः । खरीभूतमिदं चित्तं दोलादोलैः सुखासुखैः ॥ १५.५३ ॥ वियोगोऽयं परीघातो न च दुःखैर्न विद्यते । अपारदारसंयुक्त इन्द्रियैः परिवञ्चितः ॥ १५.५४ ॥ तृष्णापाशवशगः संसारे भ्रमति जनो भ्रमति संसारे तृष्णापाशवशानुगः । नरकात्प्रेतभुवनं तिर्यग्योनिषु प्रेततः ॥ १५.५५ ॥ तिर्यग्भ्यो नाकभुवनं नाकाद्भूयो नृजातिषु । एककर्मपरिभ्रान्तो जगद्भ्रमति चक्रवत् ॥ १५.५६ ॥ सर्व दुःखम् न च खेदवशं यान्ति(ह्यभ्यास) वशमागताः । रक्षन्ति नाकभुवनं विरज्यन्ते तथा सुखैः ॥ १५.५७ ॥ सुखात्सुखपरिभ्रान्ता भ्रमन्ति भ्रमचारिणः । दुःखं पद्मसहस्राणि पद्मकोटिशतानि च ॥ १५.५८ ॥ (तानि) दुःखानि भुङ्क्तानि न च क्लिश्यन्ति बालिशाः । न सुखं विद्यते लोके सर्वदुःखैः परिप्लुतम् ॥ १५.५९ ॥ दुःखस्य हेतुः भवति उद्वेगं नैव गच्छन्ति प्राणिनो मोहपीडिताः । दुःखेन खिद्यते बालो दुःखहेतौ च वर्तते ॥ १५.६० ॥ हेतौ शतफलं दृष्टं बीजं प्रति यथा फलैः । सुखदुःखकशाबद्धाः प्राणिनस्त्रिभवानुगाः ॥ १५.६१ ॥ न यान्ति परमं क्षेमं सर्वदुःखविवर्जितम् । स्मर्यते (हि) यदा दुःखं तदा विध्यति देहिनम् ॥ १५.६२ ॥ विस्मृते च पुनर्दुःखे चरन्ति विगतज्वराः । नारकं तु सदा दुःखं स्मृतं भवति देहिभिः ॥ १५.६३ ॥ तदा कृष्णमिदं सौख्यमनुमानेन तिष्ठति । तदेव विदितं मत्वा जगत्सर्व समन्वितम् ॥ १५.६४ ॥ श्रेयसि क्रियतां बुद्धिर्दोषेभ्यो विनिवार्यते । क्षणाधिकारचपलं जीवितं वेति वर्तते ॥ १५.६५ ॥ क्षीयन्ते चापि कर्माणि तस्माच्छ्रेयःपरो भवेत् । चित्तवेगं मनः सर्व जीवितं वेति वर्तते ॥ १५.६६ ॥ अनागताद्दुःखात्ज्ञानी न बिभेति तस्मान्न जीविकाहेतौ पापं कुर्याद्विचक्षणः । अनागतस्य दुःखस्य न विभेति महाजनः ॥ १५.६७ ॥ येना(स्य) पच्यते पापं मोहपापवशङ्गतम् । मोहितः पापकैर्धमैरशुभैः शुक्लवर्जितैः ॥ १५.६८ ॥ मूढः पापवशाद्नरकं गच्छति नीयते नरकं मूढो यत्र पापं विपच्यते । यस्य पापाद्भयं नास्ति स पापं कुरुते बहु ॥ १५.६९ ॥ स पापानन्तसन्दग्धः पश्चान्नरकमाप्नुते । (अपि) सूक्ष्माग्निकणिका यथा दाहाय कल्पते ॥ १५.७० ॥ पापविरहिताः सुखमिच्छन्ति अन्यैरपि तथा पापैर्नरकं यान्त्यबुद्धयः । अपापभीरुता तस्मात्कर्तव्या सुखमिच्छता ॥ १५.७१ ॥ हिंसा मिथ्यावचोऽब्रह्मचर्य भूयः सुखोदयम् । आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता ॥ १५.७२ ॥ विषाग्निसदृशं पापम् विषाग्निसदृशा हयेते तेभ्यो रक्षेत्प्रयत्नतः । दुःखं हि मारधर्मोऽयं सुखं धर्मसमन्ततः ॥ १५.७३ ॥ सुखदुःखयोर्लक्षणम् लक्षणं(सुख) दुःखानां विदुस्तत्त्वविदो जनाः । सत्यं दानं तथा क्षान्तिः सदा चापापमित्रता । मैत्री सदाभिभूतेषु प्रस्थानं त्रिदिवस्य (हि) ॥ १५.७४ ॥ ॥ इति पापवर्गः पञ्चदशः ॥ (१६) नरकवर्गः अष्टौ नरकाग्नयः कृत्वा दुष्कृतकर्माणि सत्त्वा विषमजीविनः । या गतिः प्रेत्य गच्छन्ती तानपायान् (हि मे) शृणु ॥ १६.१ ॥ सञ्जीवं कामसूत्रं च सम्पातं द्वौ च रौरवौ । तमोपरं महाचित्रपतनं च प्रतापनम् ॥ १६.२ ॥ इत्येते नरका अष्टावाख्याता दुरतिक्रमाः । रौद्रकर्माभिसङ्कीर्णाः प्रत्येकं क्षोभदा (मताः) ॥ १६.३ ॥ नरकाग्नीनां भयानकत्वम् चतुःस्कन्धाश्चतुर्द्वारा विभक्ता भागशो मिताः । अयः प्राकारपर्यन्ता अयसा प्रतिदुःखिताः ॥ १६.४ ॥ तप्तायोमयसं भूमिर्ज्वलन्ती तेजसोद्गता । अनेकयोजनशतं दहति स्वचिंषा(भृशम्) ॥ १६.५ ॥ कन्दर्पदमना घोरा अर्चिष्मन्तो दुरासदाः । रोमहर्षणरूपास्तेऽप्याहुर्दुःखा भयानकाः ॥ १६.६ ॥ नरके पतिता भृशं तप्यन्ते एते पतन्ति नरके ऊर्ध्वपादा अवाङ्मुखाः । ऋषीणामतिवक्तारः संयतानां तपस्विनाम् ॥ १६.७ ॥ ते पुनस्तत्र पच्यन्ते तप्ताम्भसि कृता इव । क्रन्दमाना दिवारात्रौ, नगा वातेरिता इव ॥ १६.८ ॥ प्रणदन्ति महानादं तीव्रदुःखैः प्रतापिताः । सर्वा दिशश्च धावन्ति नारकैः पुरुषैर्द्रुताः ॥ १६.९ ॥ कुदृष्ट्या मोहयित्वार्थे मोहपाशावृतो जनः । प्राप्नोति नरकं घोरं कारणोदधिसंवृतः ॥ १६.१० ॥ कुदृष्ट्या दग्धसर्वस्वो मनुष्यः पुरुषाधमः । तथा बद्धोऽस्ति नरके मानिनां घोरकारणम् ॥ १६.११ ॥ ये मिथ्यावशमापन्नाः पुरुषा मन्दमेधसः । ते सर्वे नरकं यान्ति चित्तैर्हि परिवञ्चिताः ॥ १६.१२ ॥ कुकृतफलम् यस्त्वया दुष्कृतं पूर्व कृतं चित्तानुवर्तिना । तस्य भुङ्क्तफलं मूढ विपाकोत्तम (माप्स्यसि) ॥ १६.१३ ॥ हार्याणि परिचित्तानि, संसेव्याः परयोषितः । ह्रस्वा (हि) जन्तवो नित्यं स्वचित्तपरिवञ्चिताः ॥ १६.१४ ॥ तस्य कर्मविपाकस्य वश एव त्वमागतः । किं क्रन्दसि स्वयं कृत्वा कुकर्म पुरुषाधम! ॥ १६.१५ ॥ ये नराः कुकृतं कृत्वा पञ्चत्वं यान्त्यमेधसः । येषां तु निष्फलं जन्म बीजमुप्तं यथोषरे ॥ १६.१६ ॥ अल्पमाधुर्यसंयुक्तान् कामान् कटुविपाकिनः । सेवते यस्त्वसौ मूढः स याति तमसो तमः ॥ १६.१७ ॥ किं कृतं मूढ भवता पुत्रदारसुखार्थिना । दहस्ये नरके चैकः स्वकर्मफलवञ्चितः ॥ १६.१८ ॥ केषां दुष्करं जीवनम्? यः पुत्रदारवशगः सेवते दुष्करं नरः । स याति नरकत्वं (च) पापं तदनुभूयते ॥ १६.१९ ॥ न दारा न सुता नार्थ न मित्राणि कथञ्चन । मृत्युकाले समुत्पन्ने रक्षन्ति समुपस्थिताः ॥ १६.२० ॥ येषां सांक्लेशिकं चित्तं तृष्णया परिवञ्चितम् । सहायता कुतस्तेषां कस्मात्(त्वं) परितप्यसे? ॥ १६.२१ ॥ हृतोऽसि पूर्वविषयैस्तृष्णया परिवञ्चितः । किं क्रन्दसि स्वयं कृत्वा कुकृतं मूढचेतनः ॥ १६.२२ ॥ न तथाग्निर्न शस्त्राणि न विषं नारयः स्थिताः । बाधते पुरुषं लोके यथा दुष्कृत्यमात्मजम् ॥ १६.२३ ॥ पक्षिणां नीडवासवत्भवचक्रम् दिग्भागे हि यथा गत्वा संश्रयन्ते वनस्पतीन् । विहगाः कालमुत्थाय तथा प्राणिसमागमः ॥ १६.२४ ॥ नाशयित्वा परं द्रव्यं कृत्वा लोकव्यतिक्रमम् । किं करोत्यशुभं कर्म मोहेन परिवञ्चितः ॥ १६.२५ ॥ येन याति परां शान्तिं येन यात्यसुरालयम् । तत्र हेतुः परं मोहस्तमसामपि यत्तमः ॥ १६.२६ ॥ कुटुम्बाय कृतं पापं नरके पातयति पुत्रदारमयैः पाशैश्चानीता नरकालयम् । यदर्थ क्रियते पापं युष्माभिश्चित्तवञ्चितैः ॥ १६.२७ ॥ मित्राणि पुत्राः (पितरौ किं) बन्धुजनबान्धवाः । येषामर्थे कृतं पापं भवद्भिर्मन्दबुद्धिभिः ॥ १६.२८ ॥ नूनमात्मा न ते कान्तो बभूव नरभूमिषु । येन त्वया कृतं पापं पुत्रार्थेन नराधमः ॥ १६.२९ ॥ येन पूर्वकृतं पापं पश्चान्न परितप्यते । स याति नरकं घोरं पुत्रकारणवञ्चितः ॥ १६.३० ॥ पापकर्मफलम् किं करिष्यन्ति पुत्रास्ते किं दाराः किं च बान्धवाः । दहस्यनादिनरके वह्निः कर्म दुनोत्यसौ ॥ १६.३१ ॥ स्वयं कृत्वाशुभं कर्मासुखोदयमनिन्दितः । तप्यसेऽपि वृथाधानः पश्चान्मोहेन वञ्चिकः ॥ १६.३२ ॥ रागद्वेषानुगाः पापं मोहेन परिवञ्चिताः । अघं प्रयान्ति ते सर्वे पुत्रदारसुखार्थिनः ॥ १६.३३ ॥ अन्तर्गतेन च पुनर्बहिःस्थेन च वह्निना । दह्यमानो(हि)दुःखेन नरके पापकर्मणा ॥ १६.३४ ॥ वशं प्राप्ताः स्वचित्तस्य सर्व एव विडम्बिताः । किं क्रन्दसि वृथा नादे वह्निना परितापितः ॥ १६.३५ ॥ पापानुगफलं दृष्टम् अथ पापानि कर्माणि कृतवानसि मन्यसे । दुर्मते तत्र मा क्रन्द किं वृथा परिदेवसे ॥ १६.३६ ॥ पापेषु रक्ष्यते मूढः कारणाशुचि रक्ष्यते । पापानुगफलं दृष्टं हेतुप्रत्ययसम्भवम् ॥ १६.३७ ॥ कस्मान्न सेवितो धर्मः पापञ्च नहि वर्जितम् । पापाद्बहिश्च पुरुषो नरकं नैव पश्यति ॥ १६.३८ ॥ यो न विन्दन्ति मूढात्मा फलं पापस्य कर्त्तृकम् । सोऽवश्यं लभते दोषान् कथं भोक्ष्यसि दुर्मते ॥ १६.३९ ॥ पापेन वञ्चित पूर्वं पापेन परिदह्यते । न करिष्यसि पापानि त्वदुःखेनैव यास्यसि ॥ १६.४० ॥ कृतवानसि पापानि शुभानि न कथञ्चन । पापेन दह्यते तस्मादशुभे न मनः कृथाः ॥ १६.४१ ॥ किं दुःखादपि दुःखम्? नास्ति दुःखादतो दुःखं यः पापमनुसेवते । तस्मात्पापं न सेवेत यदि दुःखं न वाञ्छसि ॥ १६.४२ ॥ कुटुम्बिजनानां स्पष्टोक्तिः तस्यान्तर्हृदये बिम्बं किन्तु शान्तिर्न विद्यते । कारुण्यास्पदभूताः स्मो नास्माकं करुणाहृदि ॥ १६.४३ ॥ यथा कृतं भवद्भिश्च पापं मोहावृतैर्बहु । तद्वः प्रधावते गाढं न च ये तत्र हेतवः ॥ १६.४४ ॥ शीलं न रक्षितं मूढ पापं च बहु सञ्चितम् । सम्भूतस्य च पापस्य फलमेतदुपस्थितम् ॥ १६.४५ ॥ न वयं कारणं तत्र यूयमेव हि कारणम् । यः पापं कुरुते कर्म स हेतुस्तस्य कर्मणः ॥ १६.४६ ॥ भवद्भिर्यत्कृतं पापं तृष्णाशापविडम्बितैः । तद्वो प्रपद्यते घोरं किमस्मान् परिभाषत ॥ १६.४७ ॥ नाकृतं पच्यते पापं न पापं स्यादहेतुकम् । येन यद्धि कृतं पापं तस्य तत्परिपच्यते ॥ १६.४८ ॥ पापी नरकं याति तद्भवन्तः क्रियाहीना मद्यपानेन वञ्चिताः । पतिता नरके तीव्रे किं वृथा परितप्यथ ॥ १६.४९ ॥ ते यूयं कामपरमाः घोरं नरकमागताः । कारणेष्वपि तीव्रेषु किं तथा परितप्यथ ॥ १६.५० ॥ यदा कृतानि पापानि भवद्भिः काममोहितैः । तदा कस्मान्न निकृष्टं किमद्य परितप्यथ ॥ १६.५१ ॥ हेतुभूतो हि नरको मृषावादस्य देशितः । हेतुर्वै सेवितं पूर्व निष्फलं परिदेवथ ॥ १६.५२ ॥ नार्थेन लभते सत्यं न कृच्छ्रेणोपपद्यते । तस्मात्सत्यं परित्यज्य मृषावादेषु रज्यसे ॥ १६.५३ ॥ पूर्वेषु पापमहितं भवता मूढचेतसा । कृतं भवद्भिः कुकृतं (दुष्कृत्यं) परिपच्यते ॥ १६.५४ ॥ पापक्षयाद्विनिर्मुक्तो नरकं नोपलभ्यते । नाक्रन्दमानाः पुरुषाः विमुच्यन्ते कथञ्चन ॥ १६.५५ ॥ पापकर्तृ फलं स्वयमेव भुङ्क्ते किं क्रन्दथ वृथा मूढा वञ्चिताः स्वेन कर्मणा । मुञ्चिता वञ्चिता बाला वृथा क्रन्दन्त्यबुद्धयः ॥ १६.५६ ॥ अहितैर्हितरूपैस्त्वं मित्ररूपैश्च शत्रुभिः । विप्रलब्धोऽसि भो मर्त्य! गच्छन्नसि महत्तमः ॥ १६.५७ ॥ नान्यः शत्रुर्यथा कर्म दुष्कृतं तव पापकम् । कर्मणा त्रिविधेनाथ नीयसे यमसाधनम् ॥ १६.५८ ॥ कस्मादसि ततो मूढ, वञ्चितः पुत्रसंज्ञकैः । न दानादिषु बुद्धिस्तैः कृता (ते) मोहवञ्चिता ॥ १६.५९ ॥ अस्मांल्लोकात्परं लोकं शत्रुपृष्ठोरगो यथा । शत्रूणां प्रथमः शत्रुः सर्वपापनिदर्शकः ॥ १६.६० ॥ विषाग्निशस्त्रप्रतिम! स्वयं हि दुष्कृतं कृतम् । त्वया कृतानि कर्माणि त्वमेवमनुभोक्ष्यसे ॥ १६.६१ ॥ यस्य शान्तं सदा चित्तं विषयैर्यो न हन्यते । न ह्यवस्थामिमां यान्ति तथात्वमनुपश्यसि ॥ १६.६२ ॥ नरकस्य ध्वनिं श्रुत्वा कथं क्रन्दसि दुर्मते! । किं पुनर्यत्र वह्निस्त्वां धक्ष्यति शुष्ककाष्ठवत् ॥ १६.६३ ॥ न दग्धा वह्निना ये च दग्धास्ते कुकृतैः स्वकैः । वह्निस्तु शाम्यते क्वापि दुष्कृताग्निर्न शाम्यति ॥ १६.६४ ॥ नाग्निर्निर्याति लोकान्तं नाग्निस्पृष्टो नरो (मृतः) । कुकृताग्निमयं पापं यद्धक्ष्यति हि तत्त्वतः ॥ १६.६५ ॥ कुकृताग्निविदग्धा ये ते दग्धा नरके नराः । पापाग्निवर्जिता ये तु न तेषां नरकोदयः । यद्यात्मनः प्रियो नित्यं विभेषि नरकाद्यदि ॥ १६.६६ ॥ विवर्जय स्वपापानि ततो दुःखं न यास्यसि । यान्ति पापमये नित्यं(नरा) मोहवशानुगाः ॥ १६.६७ ॥ प्राप्नोषि नरकं घोरं किमश्रूणि विमुञ्चसि? । दुःखं दुःखविपाकं च दुःखान्तगमनं तथा ॥ १६.६८ ॥ सुकृतं नादिमध्यान्तशोभनं परिपच्यते । नात्र लोके त्वयापापं यत्कृतं सुकृतं (मुहुः) ॥ १६.६९ ॥ तस्य तीव्रविपाकस्य फलमद्योपभोक्ष्यसे । हेतुप्रत्ययसादृश्यं विपरीतं न कल्प्यते ॥ १६.७० ॥ हेतुः कृतो यथा पूर्व तथा फलमवाप्स्यसि । यथा तव तथान्येषां प्राणरक्षा प्रयत्नतः ॥ १६.७१ ॥ कस्मात्प्राणातिपातास्ते कृताः पापानुवर्तिना । प्राणत्यागेन पुरुषैर्यद्धनं समुपार्जितम् ॥ १६.७२ ॥ कर्मोदयकृतं तत्ते यत्त्वया समुपार्जितम् । सर्वेषां दयिता दाराः प्राणेभ्योऽपि गरीयसः ॥ १६.७३ ॥ तत्त्वया रागरक्तेन कस्मादपकृतावनात् । बुद्धेर्व्यामोहजनकं धर्माणां दूषणं परम् ॥ १६.७४ ॥ धर्मपानं त्वया कार्य कर्मानुपरिवर्जितम् । जिह्वाविषसमुत्थं यत्सर्वाप्रत्ययकारकम् ॥ १६.७५ ॥ मृषावादं त्वया पापं कर्मानुपरिवर्जितम् । एवं पञ्चविधेयेषु यस्मात्त्वमनुरक्तवान् ॥ १६.७६ ॥ तस्मात्संमुक्ष्य मा रोदि किं वृथा परिदेवसे । विषयं पापका धर्मा यस्मान्नु परिवञ्चितः ॥ १६.७७ ॥ तस्मात्प्राप्नोषि नरकं ज्वालामालाकुलं महत् । एतत्तृष्णाग्निना सर्व प्रदीप्तं भुवनत्रयम् ॥ १६.७८ ॥ धर्माचरणे सावहितेन भवितव्यम् दृष्ट्वा नाचरितो धर्मः किमद्य परितप्यसे । (श्रुत्वा) ते मधुरं चित्तं काममन्दिरकं वचः ॥ १६.७९ ॥ उदीरिते महापापे तस्मै तत्फलमागतम् । स कृत्वा पापकं कर्म नियता पापवेदना ॥ १६.८० ॥ करुणं विकलं दीनं किमद्य परितप्यसे । कर्मक्षयेण नरकात्मुच्यन्ते पापकारिणः ॥ १६.८१ ॥ विक्रोशमग्ना बहुशो न मुच्यन्ते कथञ्चन । अनिष्टं पापकं कर्म कृत्वा रोगवशे स्थिताः ॥ १६.८२ ॥ अज्ञानिनोऽशुभमाचरन्ति परिदेवति यो मूढो वृथा स परिदेवति । अनागतफलज्ञो यः प्रत्युत्पन्नशुभे रतः ॥ १६.८३ ॥ क्रोशते नरके नासौ यथा त्वमनुतप्यसे । मया कृतानि कर्माणि फलदानि ममैव हि ॥ १६.८४ ॥ रोगेण शत्रुणा दग्धः पश्चान्नरकमागतः । प्रमादभूमिरशुभा रागदग्धस्य देहिनः ॥ १६.८५ ॥ तेन पाशेन बद्धोऽहं गतोऽवस्थामिमां भृशम् । दुराचाररतानां तु नृणामस्य फलं कटु ॥ १६.८६ ॥ अज्ञानबाधितोऽस्मीति स्वकृतं भुज्यते मया । निर्दयानां सुघोराणां पापानां वशमागतः ॥ १६.८७ ॥ मुक्तिः कथं स्यात्? मुक्तिरस्मात्कथं स्याद्वै दुःखसंसारसागरात् । दुःखाद्दुःखतरं कर्म मयेदं परिपच्यते ॥ १६.८८ ॥ सुखावाप्तिं न पश्यामि क्षेमं वा नरकस्य मे । जीवलोकादहं भ्रष्टो अबुद्ध इव मार्गतः ॥ १६.८९ ॥ जीवोऽयं विवशो भूत्वा विकृतैः परिवारितः । ज्वालामालाकुलं सर्वमन्तरिक्षं निरन्तरम् ॥ १६.९० ॥ दिशश्च त्रिदिशश्चैव पृथि(वी) च निरन्तरा । कृपणोऽज्ञानगो दुःखी निवासं नोपलक्षये ॥ १६.९१ ॥ क्षुरधारावितप्तस्य नृपस्यास्यातिभीषणम् । कान्तारे बाह्यमानस्य निः सहायस्य सर्वतः । त्रातारं नावगच्छामि योऽस्माद्दुःखात्प्रमोचयेत् ॥ १६.९२ ॥ निःशक्तिरवशो दुःखी वह्निना परितापितः । नीयेऽहं विवशः क्वापि बाहुबन्धनयन्त्रितः ॥ १६.९३ ॥ न वार्था नापि मित्राणि न पुत्रा न च योषितः । त्रायन्ते व्यसनादस्मात्कृतघ्ना बत ते मम ॥ १६.९४ ॥ अधर्मचारिणो न क्वापि शरणम् निरानन्दस्य न सुखं दुःखं (गृह्णामि सर्वशः) । मृत्युपाशेन बद्धस्य शरणं नोपलक्ष्यते ॥ १६.९५ ॥ संक्रुद्धा इव ते, क्रूरा भविष्यन्ति समन्ततः । निरानन्दा दिशः सर्वा व्यालैश्च परिवारिता ॥ १६.९६ ॥ नरकं पातकस्यैव पतेयं धृतिभावतः । यच्च यच्चेहं पश्यामि जङ्गमं स्थावरं तथा । तत्सर्व व्याकुलं चैव वह्निना परिदीपितम् ॥ १६.९७ ॥ नाधिगच्छामि शरणं निःसहायोऽस्मि सर्वतः । घोरे तमसि मज्जासि सागरे च हृतप्लवः ॥ १६.९८ ॥ गगनं नैव पश्यामि नक्षत्रग्रहतारकम् । विपरीतमिदं सर्व तमसा परिवारितम् ॥ १६.९९ ॥ पञ्चेन्द्रियाणि सर्वाणि विरतानि हि सर्वतः । क्रकचैस्तु तदा सर्व शरीरं परिपाटयते ॥ १६.१०० ॥ नाधिगच्छामि शरणं कामं बन्धो भविष्यति । वर्धन्ते दुःखनिकरा सर्वतः परिवारतः ॥ १६.१०१ ॥ मुहुर्मुहुश्च वर्धन्ते वेदनाञ्चितदेहजाः । दुःखैश्च (परिवर्धन्ते) निस्सहायं च सर्वतः ॥ १६.१०२ ॥ समीक्ष्य कर्मजं नित्यं ध्येयो हेतुः पुनः पुनः । कथयन्ति सुखं वृद्धाः स्वकर्मफलजैर्दृढम् ॥ १६.१०३ ॥ यत्पूर्व करणीयं ते तत्पश्चात्परिचिन्त्यसे । मोहेन वञ्चितः पूर्वं किमद्य परितप्यसे । किं पुनः पापकर्त्तुर्यः कटुकं परिपच्यते ॥ १६.१०४ ॥ अनेकदुःखहेतूत्थं तव दुःखं भविष्यति । त्राणं नैव (च) यत्रास्ति विना कर्मपरिक्षयात् ॥ १६.१०५ ॥ एवं सत्यस्य नाशेन यमदूतैरनेकशः । नीयते नरकं घोरं कर्मपाशवशङ्गतः ॥ १६.१०६ ॥ चतुष्कोणश्चतुर्द्वारो विभक्तो भागशो मितः । पच्यते यत्र विवशा नारकेया ह्यनेकशः ॥ १६.१०७ ॥ भेदप्रायेण बहुशो यत्त्वया कथितं बहु । कल्मषं भूतधर्माणां तस्यैतत्फलमागतम् ॥ १६.१०८ ॥ पैशुन्यसेविनो नरकं यान्ति भस्मीभवन्ति ते नित्यं मित्रस्वजनबान्धवैः । एषामभिमतं दुष्टं पैशुन्यं सद्विगर्हितम् ॥ १६.१०९ ॥ तस्मान्न चरितो धर्मः पैशुन्यं च न वर्जितम् । पैशुन्यं सफलं भुक्त्वा किमद्य परितप्यसे ॥ १६.११० ॥ जिह्वाधनविनिर्मुक्तं तीक्ष्णं विषममुच्छ्रितम् । पारुष्यमिति सन्दृष्टमहो! तत्फलमीदृशम् ॥ १६.१११ ॥ सत्त्वं पारुष्यपरमं घोरं नरकमागतम् । जिह्वायातं तवाकृत्यै किमद्य परिदेवसे ॥ १६.११२ ॥ सहस्त्रगुणपर्यन्तः स्वतो हृदयसम्भवः । क्षुत्पिपासामयो वह्निः समादहति मारुतम् ॥ १६.११३ ॥ परुषवाचो नरकस्य चान्तरम् यदन्तरं हिमाग्न्योर्हि मेरुसर्षपयोश्च यत् । तदन्तरं जिह्वयोक्त्या नरके ज्वलनस्य च ॥ १६.११४ ॥ नरकप्रभवो वह्निर्न क्वाप्यन्यत्र प्राप्यते । क्षुत्पिपासामयो वह्निर्देवेष्वप्युपलभ्यते ॥ १६.११५ ॥ यो ह्यतः कारणात्तीक्ष्णो वह्निर्भवति नारकः । न तथा स प्रभवति यथा वह्निस्तदुद्भवः ॥ १६.११६ ॥ पूर्वोत्तरा बद्धपदं निरर्थकमसङ्गतम् । विस्त्रब्ध यत्त्वया प्रोक्तं तस्यैतत्फलमागतम् ॥ १६.११७ ॥ परेषां सम्पदं दृष्ट्वा मम स्यादिति चिन्तितम् । तमोऽभिख्यासमुत्थस्य विषस्य फलमागतम् ॥ १६.११८ ॥ व्यापारानलदग्धोऽसि मानुष्यं पुरुषाधम! । दहनाद्दहनं प्राप्तो तप्यसे च विकत्थ्यसे ॥ १६.११९ ॥ व्यापारपरमोहे तु नरकायोपपत्तये । रज्ज्वैतयैव बद्धोऽसि पुरुषः परिक्रन्दसे ॥ १६.१२० ॥ व्यापादेनाकृष्टोऽसि घोरं नरकमागतः । कर्मक्षयाद्भवेन्मोक्षो नरकाच्च विमोक्ष्यसे ॥ १६.१२१ ॥ अधर्मकथनं दहत्येव अधर्मो धर्मरूपेण साधुरूपेण पापकम् । यत्त्वया कथितं पूर्व तत्त्वां दहति नानलः ॥ १६.१२२ ॥ कथं तत्त्वविनष्टानां धर्माधर्मनिच्छताम् । देशितं विवरं पापं नियतं पापगामिकम् ॥ १६.१२३ ॥ (यस्)त्वया वर्जितो धर्मः साधवश्चापि निन्दिताः । यत्त्वयोपार्जितं कृष्टं तत्त्वयाद्य विपच्यते ॥ १६.१२४ ॥ तृष्णाविषययुक्तेन मोहवेगेन सर्वदा । यतः सधर्मविनयैः किं तथा परिदेवसे ॥ १६.१२५ ॥ स भवेत्पापकृन्नित्यं मोहपाशवशङ्गतः । कि तप्यसे रोदिषि च कर्म कृत्वा सुदारुणम् ॥ १६.१२६ ॥ हेतुप्रत्ययमूढस्य धर्माधर्मेषु सर्वदा । प्राप्तोऽसि नरकं घोरं नारकाग्रं सुदारुणम् ॥ १६.१२७ ॥ कामवशानुगा नरकं यान्ति कामैः क्रमति संयुक्तैर्यन्न भवति चेष्टितम् । सुकृतं कर्मविरसं फलमेतदुपस्थितम् ॥ १६.१२८ ॥ क्षपयित्वा प्रमादेन सुखासक्तेन चेतसा । सुकृत नरकं यान्ति देवाः कामवशानुगाः ॥ १६.१२९ ॥ आर्यापवादका नरकं यान्ति आर्यापवादका ये च ये च कर्मफलद्विषः । ते मृत्वा नरकं यान्ति ये च मिथ्याविनीतकाः ॥ १६.१३० ॥ धर्मवञ्चका एव नरकगामिनः जननीगृहपापीया ये चान्ये धर्मवञ्चकाः । तेषामिष्टकरा लोके नरकस्य च गामिनः ॥ १६.१३१ ॥ पापरता दुःखमनुभवन्ति ये चान्ये सुखसंसक्ता नित्यं पापरता नराः । दुःखाद्दुःखं तु ते यान्ति चित्तेन परिवञ्चिताः ॥ १६.१३२ ॥ अवद्यकार्याणि नरके पातयन्ति तस्मादवद्यकार्ये न मतिं (कुर्यात्कथञ्चन) । हीनान्यवद्यकार्याणि नरके पातयन्ति च ॥ १६.१३३ ॥ अतः कुशलकर्माणि कर्त्तव्यानि (कर्माणि) कुर्यात्कुशलानि नित्यं परार्थबद्धेन मनोरथेन । (हितः सदैवं नरकस्य रोधी) । सेव्योऽपवर्गो दशधर्म एषः ॥ १६.१३४ ॥ ॥ इति नरकवर्गः षोडशः ॥ (१७) प्रेतवर्गः अदानस्य कुतः सुखम्? अदान्तस्य कुतः शान्तिरनुप्तस्य कुतः फलम्? । अदीपिका प्रभा नास्ति अदानस्य कुतः सुखम् ॥ १७.१ ॥ हृच्छान्तिर्हि तथा नास्ति नयनार्थस्य देहिनः । दानेन विरहात्तद्वत्सुखं प्रेतैर्न लभ्यते ॥ १७.२ ॥ कुकर्मी प्रेतलोकं गच्छति यं प्रेत्य प्रेतलोकस्य त्रिलोके च यथाधमाः । भ्रमेण परमोद्विग्नास्तन्मात्सर्यकृतं फलम् ॥ १७.३ ॥ न दात्रा लभ्यते किञ्चित्कृतनाशो न विद्यते । स्वकर्मफलभोक्तारः प्राणिनः कर्मभोगिनः ॥ १७.४ ॥ तव यत्कुकृतं दग्धाः प्रेत्यलोकेष्ववस्थिताः । क्षुत्पिपासामयेनेह वह्निना परिदीपिताः ॥ १७.५ ॥ कदा तु विषयोऽस्माकं भविष्यति सुखोदयः । परिदाहात्कदा चास्मात्परिमोक्षो भविष्यति ॥ १७.६ ॥ मार्गामार्गविहीनो दुःखित एव जीवति मार्गामार्गविविक्तोऽहं न ज्ञातं कर्मणः फलम् । क्षुत्पिपासामयो वह्निरज्ञातः प्रकटोदयः ॥ १७.७ ॥ क्लेशान्धकारवदना निराशास्त्यक्तजीविकाः । त्वक्स्नायुजालबद्धाः स्म जीवामो बत दुःखिताः ॥ १७.८ ॥ न त्राता सर्वतोऽस्माकं हन्त कृच्छ्रगता वयम् । उत्पन्नेषु मनुष्येषु खण्डिताः स्वेन कर्मणा ॥ १७.९ ॥ कस्मान्न चरितो धर्मो रत्नदीपेषु सञ्चितः । यः करोति शुभं नित्यमशुभं न च सर्वदा ॥ १७.१० ॥ समदृष्टिपथेनैति स्वर्गसोपानमाश्रितः । येषामर्थे कृतं पापं क्लेशयन्मानसं बहु ॥ १७.११ ॥ अनेन ते गताः सर्वे भवानां त्रासने स्थितः । बद्धोऽसि बन्धनैस्तीव्रैर्यमदत्तैरधिष्ठितः ॥ १७.१२ ॥ पापरज्ज्वाकृष्यमाणः स्वकृतं भुनक्ति प्राप्तोऽसि तमसो घोरं यमलोकं दुरासदम् । इहोपभोक्ष्यसे कर्म यत्त्वया कुकृतं कृतम् ॥ १७.१३ ॥ स्वकृतं भुज्यते बाल! परेषां नैव भुज्यते । आकृष्यमाण एषोऽत्र पापरज्ज्वा सुघोरया ॥ १७.१४ ॥ अनलः प्रेतलोकस्य क्षुत्पिपासामयो महान् नाग्निशस्त्रविषाणां हि निपातस्तादृशः कटुः ॥ १७.१५ ॥ क्षुत्पिपासामयाग्नेश्च निपातो यादृशः (कटुः) । न क्षणो नापि हि लवो न मुहूर्तो न शर्वरी ॥ १७.१६ ॥ दुःखान्विता वयम् यत्र सौख्यं भवेन्मृत्युर्नित्यं दुःखावृता वयम् । दुःखाद्दुःखतरं प्राप्तो दुःखहेतुर्निषेवितः ॥ १७.१७ ॥ दुःखात्कदाचिन्मोक्षः स्याद्भविष्यति सुखोदयः । नोत्सवे दृश्यते तोयं तडागेषु च शुष्यति ॥ १७.१८ ॥ कर्मफलस्वरूपनिरूपणम् सरितो नाशमायासुः कथं धावामहे चयम् । ते वयं शुष्कसलिलाः सशैलवनकाननाः ॥ १७.१९ ॥ परिधावामहे भूमौ नित्यं सलिलकांक्षिणः । ते वयं दग्धतनवः क्षुत्पिपासाहता नराः ॥ १७.२० ॥ शरणं नाधिगच्छामः कष्टं व्यसनमागताः । वज्रदंष्ट्रैर्महातीक्ष्णैः काकोलूकैश्च सम्मतः ॥ १७.२१ ॥ अभिद्रुतो न पश्यामि शरणं सौख्यदायकम् । प्रतिबिम्बमिदं तस्य कर्मणः समुपस्थितम् ॥ १७.२२ ॥ कृतं कर्म यथास्माभिस्तथेदं फलमागतम् । कर्मवायुरगा बद्धाः कर्मसूत्रेण पाचिताः ॥ १७.२३ ॥ कर्मक्षयादृते न मुक्तिः पलायनं न पश्याम ऋते कर्मक्षयादिति । यस्य पापान्यनिष्टानि वह्निवत्तानि पश्यति ॥ १७.२४ ॥ कीदृशं प्रेतभवनम्? स नैति प्रेतभवनं क्षुत्पिपासानलावृतम् । मुहुर्मुहुः प्रवर्धन्ते वेदना नरकोद्भवाः ॥ १७.२५ ॥ ज्वालामालाकुलस्यैव शैलस्य सदृशा वयम् । ज्वलितः शाम्यते शैलः सलिलेनैव सर्वथा ॥ १७.२६ ॥ स समुद्रोपमो वह्निरम्माकं नैव शाम्यति । कस्मिन् क्षणे समुद्भूतस्तृष्णावायुसहायवान् ॥ १७.२७ ॥ कर्माग्निर्निर्दहत्यस्मान् परिवार्यसमन्ततः । ते वयं पापकर्माणः शुक्लधर्मविवर्जिताः ॥ १७.२८ ॥ प्रेतलोकमिमं प्राप्ताः स्वर्गस्य फलमोहिताः । क्षुत्पिपासामयो वह्निर्द्वितीयश्चाग्निसम्भवः ॥ १७.२९ ॥ कुकर्मणैव मुद्गराशिमया जनाः प्रेतभवनं गच्छन्ति मुद्गराशिमया(दाराः) न पुत्राः न च बान्धवाः । वञ्चितोऽस्मि स्वचित्तेन कर्मणा परिवञ्चिता ॥ १७.३० ॥ प्राप्तोऽस्मि प्रेतभवनं मित्रज्ञातिनिराकृतः । न दाराः नापि मित्राणि न पुत्राः नापि बान्धवाः ॥ १७.३१ ॥ कुकृतफलनिरूपणम् त्रायते कर्मपाशेन नीयमानं बलीयसा । नान्यस्त्राता यथा कर्म त्रिविधं भुज्यते मया ॥ १७.३२ ॥ दानं शीलं श्रुतं चापि त्रिविधं परिकीर्तितम् । मोहजालवृतेनेह यन्मया कुकृतं कृतम् ॥ १७.३३ ॥ शुभकर्मणैव प्रेतलोकात्मुक्तिर्भवति कर्मणो हेतुभूतस्य यत्कृतं फलमागतम् । यदि मुच्यामहे पापात्प्रेतलोकाद्दुरासदात् ॥ १७.३४ ॥ अशुभानि कुकर्माणि विवर्जयेत् न भूयः पापकं कर्म करिष्यामि कथञ्चन । उष्णान्युष्णविपाकानि महापीडाकराणि च । कुकर्माण्यशुभानीह तस्मात्तानि विवर्जयेत् ॥ १७.३५ ॥ ॥ इति प्रेतवर्गः सप्तदशः ॥ (१८) तिर्यग्वर्गः परद्रोहं कदापि न कुर्यात् भक्षणं भवदन्योन्यवधबन्धावरोधनम् । तिर्यग्योनिं समासाद्य तस्माद्द्रोहं विवर्जयेत् ॥ १८.१ ॥ मोहोपहतचित्ताश्च शीलदानविवर्जिताः । तिर्यग्योनौ व जायन्ते बालास्तृष्णाविडम्बिताः ॥ १८.२ ॥ गम्यागम्यं न विन्दन्ति भक्ष्याभक्ष्यं तथैव च । कार्याकार्यबहिर्भूता धर्माधर्मतिरस्कृताः ॥ १८.३ ॥ पञ्चेन्द्रियजरामूढास्तृष्णापाशवशानुगाः । क्रोधेर्ष्यामतिसंग्रस्तास्तिर्यग्योन्युपगा नराः ॥ १८.४ ॥ पर्येष्ट्युपहता मर्त्याः प्रमादोपहताः सुराः । क्षुत्तर्षव्यसनाः प्रेताः कारणात्ते च नारकाः ॥ १८.५ ॥ के तिर्यग्योनिपरायणाः? परस्परबधात्युक्तास्तिर्यग्योनिपरायणाः एवं बहुविधैस्तैस्तैर्व्यसनैराकुलं जगत् ॥ १८.६ ॥ मात्सर्योपहतो दुष्कृत न कुर्यात् न कुर्याद दुष्कृतं कर्म मात्सर्योपहतः परम् । मात्सर्योपहता यान्ति प्रेतास्तिर्यक्षु जन्तवः ॥ १८.७ ॥ केषां सफलं जन्म? तेषां हि सफलं जन्म तेषां बुद्धिरवञ्चिता । ते च पूज्याः सदा सद्भिर्येषां धर्मे सदा मतिः ॥ १८.८ ॥ ज्ञानरथावरूढैर्मुक्तिर्भवति एवं त्रिदोषाकृतकर्मसारं जगद्भ्रमत्येव दुरावगाधम् । करोति यस्तस्य च शुद्धसत्त्वोऽवमाननां ज्ञानरथावरूढः ॥ १८.९ ॥ ॥ इति तिर्यग्वर्गोऽष्टादशः ॥ (१९) क्षधावर्गः क्षुधापीडिता नरा अशुभं कुर्वन्ति संसारे प्रायशो दुःखं त्रैधातुकक्षुधामयम् । येनेमे पीडिताः सत्त्वाः कुर्वन्त्यशुभमात्मनः ॥ १९.१ ॥ स्वदेहे युक्तितो वह्निर्बुभुक्षेत्यधीयते । शेषो दहति लोकान् वै कल्पानल इव द्रुमान् ॥ १९.२ ॥ लोकोत्तरमिमं वह्निं गच्छन्तमनुगच्छति । नात्मनिर्वाणसन्दृष्टं कल्पान्तरशतैरपि ॥ १९.३ ॥ नानलस्य हि तद्वीर्य क्षुधाया यादृशं बलम् । त्रैधातुकमिदं कृत्स्नमाहारं प्रति वर्तते ॥ १९.४ ॥ मोहयेद्विविधा चिन्ता लोके मनुजसम्भवाः । ताः सर्वा भोजनार्थाय भवन्ति त्रिभवार्णवे ॥ १९.५ ॥ दुःखमनिर्वचनीयम् अन्तराभवसंस्थस्य कृष्यमाणस्य कर्मभिः । दीर्घागमस्य यद्दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.६ ॥ अविद्येन्धनमग्नस्य दह्यमानस्य चोष्मणा । गर्भस्थस्य हि यद्दुःख न तद्वर्णयितुं क्षमम् ॥ १९.७ ॥ आहाररसगृद्धस्य नित्यं तद्गतचेतसः । यद्दुःखं परगृद्धस्य न च वर्णयितुं क्षमम् ॥ १९.८ ॥ दृढा विदग्धमनसः कामे वा तप्तचेतसः । यद्भवत्यधिकं दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.९ ॥ अप्रियैः सह संसर्गो विषयास्तस्य नित्यशः । प्रणष्टे हृदि यद्दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.१० ॥ तृष्णाविषविदग्धस्य नित्यं पर्येषणात्मकम् । आमृत्यु यद्भवे दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.११ ॥ अव्युच्छिन्नं बहुविधं यद्दुःखं पापमित्रजम् । अपायजनकं यस्य न तद्वर्णयितुं क्षमम् ॥ १९.१२ ॥ व्यसनं पुत्रदाराणां यद्दृष्ट्(वा) हृदि जायते । नरकाणां महामार्गो न तद्वर्णयितुं क्षमम् ॥ १९.१३ ॥ क्षुत्पिपासाविदग्धस्य दीप्यमानस्य वह्निना । यद्दुःखं नष्टमनसो न तद्वर्णयितुं क्षमम् ॥ १९.१४ ॥ अजस्त्रं परिभूतस्य मित्रज्ञातिसुहृज्जनैः । यद्भवेच्छोकजं दुःखं न तद्वर्णयितुं क्षमम् ॥ १९.१५ ॥ दारप्रलम्बनगतं दुश्चलं प्रियचेतसः । यद्दुःखं जीर्णकायस्य न तद्वर्णयितुं क्षमम् ॥ १९.१६ ॥ मृत्युना ह्रियमाणस्य तस्मांल्लोकात्मनो रसात् । यद्दुःखं जायते वृत्तौ न तद्वर्णयितुं क्षमम् ॥ १९.१७ ॥ दानैरशुभनाशः यत्कुर्वन्त्यशुभं बाला यच्च गच्छति दुर्गतिम् । तदाहरति दानेन कथयन्ति मनीषिणः ॥ १९.१८ ॥ अतः सुकृतेषु मनः कार्यम् प्रतिदुष्कृतकर्माणि वर्जनीयानि सर्वदा । सुकृतेषु मनः कार्य दानशीलविभूषितम् ॥ १९.१९ ॥ ॥ इति क्षुधावर्ग एकोनविंशः ॥ (२०) कौसीद्यवर्गः कौसीद्येन ज्ञानहानिः कौसीद्यमतिमाया च दम्भः पारुष्यमेव च । नियातभूमयो दृष्टा ज्ञानस्य च विवर्जनम् ॥ २०.१ ॥ संश्लेषश्चाप्यसाधूनां साधूनां वर्जनं तथा । नाशस्य हेतवः शक्ता मिथ्यादर्शनमेव च ॥ २०.२ ॥ अदेशकालसंरंभो वाच्यावाच्यमजानतः । अनर्थभूमयो ह्येता विस्रम्भश्चापि तन्मयः ॥ २०.३ ॥ अनर्थभूमयः येन तेन च सम्प्रीतिः यत्र तत्र च भोजनम् । लाघवं जनयत्यन्तेऽप्रशंसा चात्मनस्तथा ॥ २०.४ ॥ धैर्यनाशः स्मृतिभ्रंशो विरोधः पार्थिवेन च । अक्रान्तमृत्यवो ह्येते क्रूरता मनसि स्थिता ॥ २०.५ ॥ अकर्माफलतत्त्वज्ञो धर्माधर्मवहिष्कृतः । पुरुषः साधुनिर्मुक्तः प्रपातगमनाशयः ॥ २०.६ ॥ कौसीद्यमतिनिद्रा च रसना गृह्यते तथा । पुंद्वेषयोनयः प्रोक्ताः पारुष्यवचनं तथा ॥ २०.७ ॥ लोभोऽपमानस्य कारणम् अतिलोभोऽपमानश्च अतिमानश्च चापलम् । धर्मवर्ज्या कामसेवा मोहस्य परिदीपिकाः ॥ २०.८ ॥ दोषाणां मूलं कौसीद्यम् त्रयाणामिह दोषाणां कौसीद्यं मूलमुच्यते । वीर्यारम्भेण दुष्यन्ते दोषा मनसि सम्भवाः ॥ २०.९ ॥ वीर्यारम्भेण हि फलं ह्यवश्यमुपभुज्यते । न्यायेनारब्धतत्त्वस्य कर्मणो दृश्यते फलम् ॥ २०.१० ॥ कर्मणस्त्रिविधस्यास्य फलं त्रिविधमुच्यते । त्रिराशिनियतं तच्च त्रिशूलं त्रिभवानुगम् ॥ २०.११ ॥ कौसीद्यसेविनो दुर्गतिः पापसेवी प्रचण्डो यः कौसीद्यमपि सेवते । धर्मविद्वेषकः क्रूरोऽनुत्पथानुपधावति ॥ २०.१२ ॥ यस्य तस्य च सन्तुष्टो यस्य तस्य प्रकुप्यति । यत्र तत्र च संसक्तो स मूढ इति कथ्यते ॥ २०.१३ ॥ कौसीद्यं (यत्) स्वमनसः प्रमादविषमूर्च्छितम् । प्रपातं तं च संरब्धमविसंवादकं परम् ॥ २०.१४ ॥ वीर्यारम्भे महापापकौसीद्यमलवर्जिताः । विमुक्तेरुपभोक्तारस्ते जनाः सुखभागिनः ॥ २०.१५ ॥ कौसीद्यं सर्वधर्माणामजरामरकारकम् । तेन दोषेण महता नरा दुःखस्य भागिनः ॥ २०.१६ ॥ सहायश्च सुखावेशी तस्मात्तत्परिवर्जयेत् । तेन विद्धो हि पुरुषः स्वधिस्तुत्यः समन्ततः ॥ २०.१७ ॥ कुसीदस्याल्पभागस्य मोहापहृतचेतसः । कुत्सितः स्वजनैः सर्वैर्न गतिर्विद्यते शिवा ॥ २०.१८ ॥ कौसीद्यरतः पापीभवति कौसीद्यपापसंसर्गीस्त्यानमिद्धं तथैव च । मोक्षद्वारविघाताय भवन्त्येते महाभयाः ॥ २०.१९ ॥ दुःखस्यैतानि हर्म्याणि आह्रीक्यमनपत्राप्यमौद्धत्यं पापमित्रता । दुःखस्यैतानि हर्म्याणि तेभ्यो रक्षेन्नु पण्डितः ॥ २०.२० ॥ कौसीद्येनाभिभूता ये निरारम्भा गतित्विषः । सोच्छ्वासमरणं तेषां जीवितं चापि निष्फलम् ॥ २०.२१ ॥ जीवमाना न जीवन्ति कौसीद्योपहता नराः । मृत्योरत्यधिकं ह्येतत्कौसीद्यमिति मन्यते ॥ २०.२२ ॥ आरब्धवीर्या एव भवसागरं तरन्ति कौसीद्यपङ्कमग्ना ये मग्नास्ते दुःखसंस्तरे । आरब्धवीर्या ये पुंसस्ते तीर्णा भवसागरात् ॥ २०.२३ ॥ कौसीद्यान्मन्दवीर्यो यः सदा पापरतश्च यः । स जीवमानोऽपि मृतो मृतस्तु नरकाय सः ॥ २०.२४ ॥ मानवानां निर्धनत्वे कौसीद्यं कारणम् निर्धनाः पशुभिस्तुल्यास्ते नरा दुःखभागिनः । परपिण्डाशिनो दीनाः कौसीद्यं तत्र कारणम् ॥ २०.२५ ॥ प्रायशस्तु कुसीदानां परदारोपजीविनाम् । रताभिलाषोऽत्यधिको मैथुने च सदा रतिः ॥ २०.२६ ॥ ते तत्त्वकारिका रिक्ताः केवलाहारतत्पराः । मृत्युकाले समुत्पन्ने दह्यन्ते स्वेन चेतसा ॥ २०.२७ ॥ शीतोष्णं च सहन्त्येते क्षुत्पिपासे तथैव च । गात्रान्ता च क्रिया कार्या यात्रा धर्माय सर्वदा ॥ २०.२८ ॥ अतः कौसीद्ये न मतिः कार्या न कौसीद्ये मतिं कुर्यात्कुशीले शीलकामुकः । संसारे सीदति नित्यं न च दुःखात्प्रमुच्यते ॥ २०.२९ ॥ कुदीदान्वितः लोकवञ्चितो भवति परिभूय सतां मध्ये कुसीदाल्लोकवञ्चितः । वञ्चितश्च भवत्यन्ते शर्मणो वा विमुच्यते ॥ २०.३० ॥ धर्मेण विमुक्तिर्भवति वीर्यवान् स्मृतिसंलब्ध एकान्तनिरतः सदा । विमुक्तपापकैधर्मैर्मोक्षं प्राप्नोति यत्नतः ॥ २०.३१ ॥ कुकर्मेषु मतिः न कार्या एवंविधा दुःखपरम्परा हि, सत्त्वः कुकर्मेषु (मतिं) न कुर्यात् । लोके त्रिदोषानलसम्प्रदीप्ते, कुर्यात्परां शान्तिकृपा मृते न ॥ २०.३२ ॥ ॥ इति कौसीद्यवर्गो विंशः ॥ चित्तञ्च वाक्तथा कर्म संयोजनन्तु पापकम् । नरकप्रेततिर्यक्क्षुत्कौसीद्यानि विदुर्दश ॥ ॥ इति द्वितीयमुदानम् ॥ अथ तृतीयमुदानम् (करुणादानशीलानि क्षान्तिर्वीर्यमथापि च । ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश ॥ ) (२१) करुणावर्गः करुणा मातेव हितकारिणी भवति कृपा सर्वेषु भूतेषु मातेव हितकारिणी । यां समाश्रित्य पुरुषाः प्रयान्ति सुखमुत्तमम् ॥ २१.१ ॥ दयान्वेषीह पुरुषः सर्वसत्त्वहिते रतः । पूजनीयः सतां याति प्रेत्य स्वर्गे च मोदते ॥ २१.२ ॥ दयावन्तः सदावर्त सर्वभूतहिते रतम् । तमेवं पुरुषं नित्यं प्रणमन्ति दिवौकसः ॥ २१.३ ॥ करुणान्वितो देवलोकं गच्छति प्रयाति देवलोकं च शीलवान् करुणान्वितः । कृपान्वितः स पुरुषो चन्द्रमा इव शोभते ॥ २१.४ ॥ सुखार्थिना करुणा सेवितव्या आश्रयन्ति च भूतानि गतशोका गतव्यथा । तस्माद्दयाप्रयत्नेन सेवितव्या सुखार्थिना ॥ २१.५ ॥ कारुण्येन यशवृद्धिर्भवति यस्य वाक्कायचित्ते (च) कारुण्येन विभूषिते । तस्य मित्रमया लोका भवन्ति यशसा वृताः ॥ २१.६ ॥ कारुण्यार्द्रस्य विदुषो निर्वाणं याति कारुण्यार्द्रस्य विदुषो नित्यं मृद्विन्द्रियस्य च । सम्यग्दृष्टिप्रयत्नस्य निर्वाणं नाति दूरतः ॥ २१.७ ॥ कारुण्यविभूषिता मनुष्यलोकं देववद्भूषयन्ति मनुष्यलोके ते देवा ये कारुण्येन विभूषिताः । कारुण्येन दरिद्रा ये ते दरिद्राः सतां मताः ॥ २१.८ ॥ मृद्वाशया मर्त्याः साधवः मृद्वाशया हि ये मर्त्याः साधुवत्काञ्चनोपमाः । कारुण्यमक्षयं येषां सदा मनसि वर्तते ॥ २१.९ ॥ के धर्मपरायणा भवन्ति? ते च सत्त्वाः सदोद्युक्ता नित्यं धर्मपरायणाः । येषां कारुण्यदीपेन हृदयं सम्प्रकाशितम् ॥ २१.१० ॥ न रात्रौ न दिवा तेषां धर्मो हि विनिवर्तते । येषां सर्वास्ववस्थासु करुणाभिरतं मतम् ॥ २१.११ ॥ कारुण्यं शीतलं चित्तम् कारुण्यशीतलं चित्तं सर्वसत्त्वहिते रतम् । भुक्त्वा सौख्यं निरुपमं पश्चाद्गच्छति निर्वृतिम् ॥ २१.१२ ॥ कारुण्यमविनाशि धनम् कारुण्यं मुनिभिः शस्तं कारुण्यं निर्मलं सरः । कारुण्यं दोषनिर्घाति कारुण्यं धनमव्ययम् ॥ २१.१३ ॥ गुणानां भूषणं चाग्रं सर्वदोषविघातकम् । कारुण्यार्द्रा हि परमं प्रयान्ति धनमच्युतम् ॥ २१.१४ ॥ कारुण्यं (वै) धनं यस्मान्माधुर्यपयसा युतम् । न दाहः क्रोधजस्तस्य हृदये सम्प्रवर्तते ॥ २१.१५ ॥ कारुण्यनावमारुह्य जना भवसागरं तरन्ति कारुण्यनावमारुह्य प्रीतिर्धैर्यपरायणः । त्रिदोषोर्मिमहावेगे भ्राम्यते भवसागरे ॥ २१.१६ ॥ करुणायाः परिभाषा गुणानामद्वयं श्रेष्ठं विना चित्तेन भूषणम् । साधूनां दयितं नित्यं कारुण्यमिति कथ्यते ॥ २१.१७ ॥ मार्दवं यस्य हृदये विलीनमिव काञ्चनम् । स जनो हि तु कल्पान्ते दुःखादाशु विमुच्यते ॥ २१.१८ ॥ दयालोः श्रेयांसि रोहन्ति यस्य पात्रीकृतं चित्तं मार्दवेण समन्ततः । श्रेयांसि तस्य रोहन्ति केदार इव शालयः ॥ २१.१९ ॥ चेतोगृहे निधानं तदव्ययं (सर्व)देहिनः । निर्वासयति दारिद्रयं नृणामध्याशयं महत् ॥ २१.२० ॥ तीक्ष्णेन्द्रियस्याशान्तस्य निध्यानस्य विचारिणः । विषयेषु प्रमत्तस्य दुःखं नैव प्रधावति ॥ २१.२१ ॥ मैत्रेण चेतसा नित्यमनुकम्पादया पराः । ते हेतुफलतत्त्वज्ञा दुःखपाशाद्विनिर्गताः ॥ २१.२२ ॥ न सङ्कल्पे मनो येषां रमते दोषवर्जितम् । ते दोषभयनिर्मुक्ताः पदं गच्छन्त्यनुत्तरम् ॥ २१.२३ ॥ क्षान्तिक्रियासमायुक्ते मित्रवानकुतोभयः । प्रियो भवति लोकेऽस्मिन् पश्चाद्देवेषु मोदते ॥ २१.२४ ॥ दयारत्नं सदा सेव्यम् मातृवत्पितृवच्चैव सर्वलोकस्य ते जनाः । दयारत्नं सदा येषां मनसि स्थितमुत्तमम् ॥ २१.२५ ॥ कृपैव सुखस्य मूलमस्ति सुखस्य च परं मूलं कृपैव परिकीर्तिता । (हृदि) यस्य कृपा नास्ति स दुःखी परिकीर्त्यते ॥ २१.२६ ॥ मैत्री एव सुखावहा एकसत्योत्तरं ब्रह्म एकस्यानुत्तरं शिवम् । एकविद्या परं माता मैत्री चैका सुखावहा ॥ २१.२७ ॥ अहिंसका एव धन्याः अहिंसकाः सदा धन्याः सद्दृष्टिः परमा शुभा । एतदृजु सदा सत्यं पापानां चापि वर्जनम् ॥ २१.२८ ॥ करुणाया माहात्म्यम् कर्त्तव्यः पुरुषैस्तस्मात्कृपासंवेगमानसैः । दानशीलक्षमामैत्रीज्ञानाभ्यासश्च निर्मलः ॥ २१.२९ ॥ ॥ इति करुणावर्ग एकविंशः ॥ (२२) दानवर्गः शुद्धाशुद्धदानपरिभाषा गुणद्वादशसंयुक्तं मलैर्द्वादशभिर्विना । दानं भवति शुद्धं तद्विपरीतं सकल्मषम् ॥ २२.१ ॥ दानरहिता एव पुरुषाधमाः देवानामथ (वा) नृणां धनस्य बलमुत्तमम् । दानेन रहिता पादे पतन्ति पुरुषाधमाः ॥ २२.२ ॥ लोभमात्सर्यमलिनाः पुत्रदारवशानुगाः । मनुजा निधनं यान्ति केवलाहारकांक्षिणः ॥ २२.३ ॥ लोभग्रन्थिविमोक्षाय याञ्चावृक्षक्षयाय च । तमोनिचयनाशाय प्रदानमिह दीयते ॥ २२.४ ॥ दाता परलोकं गच्छति अघतां चरते दानं दातापि तदनन्तरम् । मार्गसन्दर्शवद्दानं परलोकं समृच्छति ॥ २२.५ ॥ दानाम्भसि नराः स्नात्वा शीलोर्मिपरिभाविते । ज्ञानविस्तीर्ण(विमलं) पारं दुःखस्य यान्ति वै ॥ २२.६ ॥ दोषनाशकाः त्रयो दीपाः पुरुषेण त्रयो दीपाः प्रज्वाल्या हितमिच्छता । दानं शीलं तथा ज्ञानमेते दोषविनाशकाः ॥ २२.७ ॥ तृष्णाविवर्णा दुर्गन्धिवितर्कोर्मिझषाकुले । दुःखार्णवे प्लुता ह्येते ज्ञानशीलेषु रक्षिताः ॥ २२.८ ॥ क्लेशस्य भेषजं दानं, शीलं, ज्ञानम् क्लेशव्याधिनिहन्तारस्त्रयो वै भेषजाः स्मृताः । दानं शीलं तथा ज्ञानमेते नित्यं सुखावहाः ॥ २२.९ ॥ प्रमादविषमं (चित्तं) संकल्पकुटिलं लघु । वध्यते बन्धनैरेतैस्त्रिभिर्ज्ञानादिभिर्नृणाम् ॥ २२.१० ॥ दोषाग्निभिः (सदा) प्लुष्टो यैरिदं दह्यते तदा । दानादिज्ञानयोगेन हत्वा गच्छति निर्वृतिम् ॥ २२.११ ॥ न दानज्ञान शीलेषु येषां सम्मिश्रिता मतिः । ते नित्यदुःखिताः सत्त्वाः सुखं तेषां न विद्यते ॥ २२.१२ ॥ दातारो मात्सर्यमलवर्जिता भवन्ति अदानव्रीडितसुखाश्चित्तदोषेण वञ्चिताः । भवन्ति विबुधाः हित्वा तस्माद्दानपरो भवेत् ॥ २२.१३ ॥ दानोत्कर्षक्रमैर्युक्ताः मात्सर्यमलवर्जिताः । भवन्ति हृष्टमनसो देवाः क्रीडापरायणाः ॥ २२.१४ ॥ क्षुत्पिपासामयो वह्निर्य प्रधानं प्रधावति । मात्सर्य वै फलं सर्व तदुक्तं तत्त्वबुद्धिभिः ॥ २२.१५ ॥ दानप्रशंसा यो ददाति सुखं तस्य नीयते जायते सुखम् । सुखं भवति दानाद्धि तस्माद्दानं प्रशस्यते ॥ २२.१६ ॥ लोकालोककरं दानं गच्छन्तमनुगच्छति । गतं च मन्त्रदानेन युज्यते भद्रवत्सलैः ॥ २२.१७ ॥ अविसंवादकं स्थानमेतदुक्तं तथागतैः । अविसंवादकत्वाच्च नित्यं दानपरो भवेत् ॥ २२.१८ ॥ दानी भवार्णवं तरति मात्सर्यारिं विनिर्जित्य कृत्वा चित्तं शुभान्वितम् । ये प्रयच्छन्ति दानानि ते तरन्ति भवार्णवम् ॥ २२.१९ ॥ क्षयैस्तु त्रिविधैर्दानं त्रिषुकारं त्रिधार्जितम् । तस्य क्षतान्वितस्यैवं फलं दृष्टं त्रिचक्षुषा ॥ २२.२० ॥ कः मार्गः सुखावहः? दानमादौ सदा देयं शीलं लभ्यं प्रयत्नतः । तृष्णा ज्ञानेन हन्तव्या मार्ग एष सुखावहः ॥ २२.२१ ॥ अनित्या पापिका तृष्णा लोकस्याहितकारिका । न शक्यं तद्विना श्रेयः प्राप्तुं पदमनुत्तमम् ॥ २२.२२ ॥ अदानस्य परिणामः अदाने न मनः कार्य नित्यं दानरतो भवेत् । अदानात्क्षुत्पिपासाभ्यां दह्यते प्रेतभूमिषु ॥ २२.२३ ॥ दानेन शीलरक्षा सदा कार्या राजा भवति दानेन चक्रवर्ती सुधार्मिकः । दानभूमिं समाश्रित्य शीलं रक्षन्ति पण्डिताः ॥ २२.२४ ॥ शीलवानपि कालज्ञोऽज्ञानाद्(वै) परिमुच्यते । दुःखनैर्याणिको मार्गः शस्तोऽयं मुनिपुंगवैः ॥ २२.२५ ॥ तं विदित्वा महावीरो नित्यं दानरतो भवेत् । अदा(ना)दपि देवेषु देवा हि न सुखा मताः ॥ २२.२६ ॥ दानी यत्र कुत्रापि वसन् सुखी भवति आजन्मविपिने मर्त्या भवन्ति सुखभागिनः । दानस्य तत्फलं सर्वचेतनाभावितस्य हि ॥ २२.२७ ॥ तिर्यक्ष्वपि समुत्पन्ना भवन्ति सुखभागिनः । तत्सर्व दानजं सौख्यं कथयन्ति मनीषिणः ॥ २२.२८ ॥ यत्प्रेताः प्रेतभवने भवत्याकारभोजिनः । स्वयं कृतस्य दानस्य फलं भवति तादृशम् ॥ २२.२९ ॥ दानविरहितस्य दुर्दशा भवति (न)दद्यात्क्षुत्पिपासे च दह्यन्ते येन देहिनः । सर्वदा न तपस्ताभ्यां फलं भवति शीतलम् ॥ २२.३० ॥ प्रमादी मृत्युसमये दाहं प्राप्नोति पूर्व प्रमादचारी यो न दानादिषु वर्तते । स पश्चान्मृत्युसमये दह्यते स्वेन चेतसा ॥ २२.३१ ॥ दानस्य फलम् प्रियो भवति दानेन चेतसामपि तुष्यति । पश्चाद्भवति स श्रीमान् दानस्य फलमीदृशम् ॥ २२.३२ ॥ यत्र दानादि चित्तस्यास्त्युपभोगाय सर्वदा । तत्र निर्धनतैषा वा दयया परिरक्षितम् ॥ २२.३३ ॥ यद्भुज्यते सदा चित्तं गुरुभ्यश्चापि दीयते । यद्वनं शोभनं दृष्टं विपरीतं यथा तृणम् ॥ २२.३४ ॥ दुर्बलानां सदार्तानां सत्त्वानां चक्षुरन्वितम् । दानं निःकल्पसंयन्त्रमस्मिंल्लोके परत्र च ॥ २२.३५ ॥ मनुष्यभूमौ दानस्य फलम् मनुष्यभूमौ दानानि दत्त्वा यान्ति शुभां गतिम् । न देवा दानपतयः फलभूमिरसौ मता ॥ २२.३६ ॥ कर्ममाहात्म्यम् कर्मभूमिर्मनुष्याणां फलभूमिः सुरालयः । कर्मायत्तं फलं सर्व न फलं स्यादहेतुकम् ॥ २२.३७ ॥ को मृतैः समः? ध्यानाध्ययननिर्मुक्तो दानशीलविवर्जितः । सुवर्णकंकणैर्युक्तो जीवन्नपि मृतैः समः ॥ २२.३८ ॥ स जीवति हि लोकेऽस्मिन् यो धर्ममनुवर्तते । धर्ममूढः सदा मूढो जीवन्नपि मृतैः समः ॥ २२.३९ ॥ अज्ञानी तु बालिश एव मनुष्यचर्मणा छन्नस्तिर्यग्भवति बालिशः । यस्य ज्ञानप्रदीपेन हृदयं नावभासितम् ॥ २२.४० ॥ भवत्येतावता पुरुषः यः शीलमनुवर्तते । शीलभ्रष्टः पुमान् सर्वश्चाभिस्तुत्योऽपराक्रमः ॥ २२.४१ ॥ दानहीनः प्रेतविग्रहवान् दानहीनः प्रमादी (च) पापचारी चलेन्द्रियः । नासौ मर्त्य इति ज्ञेयः प्रेतो विग्रहवानयम् ॥ २२.४२ ॥ ज्ञानेन हीनो मृत एव ज्ञानशीलविनिर्मुक्तो दानरत्नविवर्जितः । जीवमानोऽपि पुरुषो मृत इत्यभिधीयते ॥ २२.४३ ॥ को देवः? दानशीलतपोध्यानाद्वीर्यस्मृतिसमाधिमान् । पुरुषः पुरुषैरेजे देवैरपि स वन्द्यते ॥ २२.४४ ॥ गुणवांस्तु नरो वन्द्यः निर्गुणः पशुभिः समः । गुणागुणविधिज्ञो यः स देव इति कथ्यते ॥ २२.४५ ॥ केषां सफलं जीवनम्? सुजीवितं भवेत्तस्य यस्य त्यागे स्थितं मनः । नहि त्यागविनिर्मुक्तं जीवितं जीवनं मतम् ॥ २२.४६ ॥ दानं नित्यं सुखावहम् पञ्चगत्युपपन्नानां सत्त्वानां स्वेन कर्मणा । मातृवत्पितृवद्दृष्टं दानं नित्यं सुखावहम् ॥ २२.४७ ॥ दानरता भवसङ्कटान्मुच्यन्ते एतां भूमिमवस्थाप्य सत्त्वो दानरतो भवेत् । दानशीलरता नित्यं मुच्यन्ते भवसङ्कटात् ॥ २२.४८ ॥ ॥ इति दानवर्गो द्वाविंशः ॥ (२३) शीलवर्गः शीलं सूर्य इव शोभते धनानामुत्तमं शीलं सूर्यो ज्योतिष्मतामिव । विहाय गच्छति धनं शीलं स्थितमिवाग्रतः ॥ २३.१ ॥ शीलेन त्रिदशान् याति ध्यानगोचरमेव वा । नास्ति शीलसमं ज्योतिरस्मिंल्लोके परत्र च ॥ २३.२ ॥ अल्पेन हेतुना स्वर्ग प्राप्नोति स्वर्गकामिकः । तस्माद्दुश्चरितं हित्वा नित्यं सुचरितो भवेत् ॥ २३.३ ॥ चेतनाभावितं दानं शीलं च परिरक्षितम् । नीयते देवसन्दत्तं पञ्चकामगुणान्वितम् ॥ २३.४ ॥ सुरक्षितेन शीलेनैव सुखं प्राप्तुं शक्यते न माता न पिता नार्था दयिता नापि बान्धवाः । न सुखा (स्ते) तथा दृष्टा यथा शीलं सुरक्षितम् ॥ २३.५ ॥ शीलवान् पुरुषो सुखमवाप्नुते शीलं त्राणमिहामुत्र शीलं गतिरिहोत्तमम् । शीलवान् पुरुषो नित्यं सुखात्सुखमवाप्नुते ॥ २३.६ ॥ दानशीलसमाचारा ये नरा शुभचारिणः । ते यान्ति देवसदनं रचिताः स्वेन कर्मणा ॥ २३.७ ॥ निधानमव्ययं शीलं शीलसौख्यमतर्कितम् । शीलाधिका हि पुरुषा नित्यं सुखविहारिणः ॥ २३.८ ॥ शीलं रक्षतु मेधावी यथा यानं सुखत्रयम् । प्रशंसावृत्तलाभं च प्रेत्य स्वर्गे च मोदते ॥ २३.९ ॥ शीलवान्निर्वाणं प्राप्नोति शीलवान् यो हि पुरुषः शीलमेवाति सेवते । ससुखो निर्वृत्तिं याति यत्र मृत्युर्न विद्यते ॥ २३.१० ॥ अनादिमति संसारे तृष्णामोहादिभिर्वृते । ज्योतिर्भूत सदाशीलं तस्माच्छीलमनाविलम् ॥ २३.११ ॥ शीलं धनमसंहार्य राजचौरोदकादिभिः । तस्माच्छीलं सदा सेव्यं दौःशील्यं च विगर्हितम् ॥ २३.१२ ॥ शीलाभिरतपुरुषः निर्वाणं ह्यन्तिके स्थितम् । शीलवान् पुरुषो धन्यः शीलवांश्चापि सेव्यते ॥ २३.१३ ॥ रविवद्भ्राजते शीलं दौःशील्यं चैव गर्हितम् । निर्मलं वीतकान्तारं निर्ज्वरं वीतकाङ्क्षि च ॥ २३.१४ ॥ शीलप्रशस्तसम्बुद्धैर्निर्वाणपुरगामिकम् । आयुर्याति ध्रुवं धीमान्नित्यं शीलेनं वृंहितम् ॥ २३.१५ ॥ शीलरहिताः पशुभिः समाः न बिभेन्मृत्युकाले च शीलेन परिरक्षितः । शीलमाद्यन्तकल्याणं सर्वसौख्यप्रवर्तकम् । शीलवान् पुरुषो धन्यो दौःशील्याभिरतः पशुः ॥ २३.१६ ॥ तीरं नैव समायान्ति पुरुषाः शीलवर्जिताः । कार्याकार्य न विन्दन्ति तस्माच्छीलं समाचरेत् ॥ २३.१७ ॥ शीलवस्त्रेण ये छन्नास्ते छन्नाः पुरुषा मताः । शीलेन वर्जिता ये तु नग्नास्ते पशुभिः समाः ॥ २३.१८ ॥ शीलवान् पुरुषः स्वर्ग गच्छति शीलवान् पुरुषः स्वगमुद्यानमिव गच्छति । बन्धुवन्मन्यते तत्र शीलवान् (सु) प्रमागतः ॥ २३.१९ ॥ शुचिशीलसमाचाराः शुभधर्मसमन्विताः । देवलोकोपगास्तेषु जनाः सुकृतकारिणः ॥ २३.२० ॥ शीलेन परिबृंहिता गुणा वर्धन्ते यो न प्रार्थयते कामान् शीलवान् पुरुषः सदा । गुणास्तस्य प्रवर्धन्ते शीलेन परिबृंहिताः ॥ २३.२१ ॥ शीलं स्वर्गस्य सोपानम् महार्घमुत्तमं शीलमस्मिंल्लोके परत्र च । तस्मात्प्रहाय त्रैगुण्यं शीलमेव सदा चरेत् ॥ २३.२२ ॥ देवेभ्यो रोचते तद्धि त्राणं शीलं शुभान्वितम् । भावितं परमं धन्यं परलोकोपगामिकम् ॥ २३.२३ ॥ शीलवान् यदि जानीयात्फलं शीलस्य यादृशम् ॥ २३.२४ ॥ शस्त्रं सुतीक्ष्णमादाय वाणं छिन्द्यादिहात्मनः । अस्त्रोपमस्य निन्द्यस्य अभिसौख्यसमन्वितम् ॥ २३.२५ ॥ शीलस्य फलं सुगतेन प्रदर्शितम् फलं शीलस्य विमलं सुगतेन प्रदर्शितम् । आदौ शस्तं तथा मध्ये निधने शस्तमेव तत् ॥ २३.२६ ॥ फलं शीलस्य विपुलं सुखात्सुखमुत्तमम् । शीलचर्या परं सौख्यं धनचर्या न तादृशी ॥ २३.२७ ॥ नरा धनेन हीयन्ते शीलेन न कथञ्चन । शोचते पुरुषस्तेन पृथक्वा तद्विराजते ॥ २३.२८ ॥ शुभं तस्मान्मुनिवरैः प्रशस्तं सार्वगामिकम् । उद्यानमिव गच्छन्ति पुरुषाः शुभचारिणः । देवलोकसमं तेषां सौख्यानामाकरं (परम्) ॥ २३.२९ ॥ स्वर्गगमनार्थ शीलं समाचरेत् सुशीलितस्य शीलस्य भक्षितस्याप्यनेकशः । फलं विपच्यते स्वर्गस्तस्माच्छीलं समाचरेत् ॥ २३.३० ॥ शीलं स्वर्गस्य सोपानमाकरं सुखनिर्वृते । शीलवर्जी हि पुरुषो न क्वचित्सुखमेधते ॥ २३.३१ ॥ शीलवानसंख्यानि सौख्यानि लभते शीलाम्भसा प्रसन्नेन विप्रकीर्णेन सर्वदा । स्नात्वा गच्छन्ति पुरुषा देवलोके च निर्वृते । यद्दिव्यमाल्याभरणैर्दिव्यैः सौख्यैः समन्विताः ॥ २३.३२ ॥ रमते देवभवने तत्सर्व शुभहेतुकम् । असंख्यानि च सौख्यानि वर्धमानानि सर्वदा ॥ २३.३३ ॥ लभते पुरुषः सर्व यः शीलमनुवर्तते । शुभचारी सदा सत्यः पूज्यते सोऽपराजितः ॥ २३.३४ ॥ अनेकसौख्यदायकं शीलमाचरणीयम् शुभेन शोभते मर्त्यः पूज्यते राजभिः सदा । शुभेन शोभते मर्त्यस्तस्माच्छीलं समाचरेत् ॥ २३.३५ ॥ अनेकसौख्यजनकं सर्वमाश्वासकारकम् । शीलं सुचरितं कार्य दुष्कृतं च विवर्जयेत् ॥ २३.३६ ॥ ये दानशीलकर्त्तारः स्वर्गतद्गतमानसाः । तेषां सकल्मषं शीलं विषमिश्रं यथौदनम् ॥ २३.३७ ॥ नानाविधस्य शीलस्य रक्षितस्याप्यनेकशः । शुभकार्यविपाकाय देवेषु परिपच्यते ॥ २३.३८ ॥ शीलाम्भसा प्रसन्नेषु सङ्कीर्णेषु च सर्वदा । स्नात्वा गच्छन्ति मनुजा देवांश्चात्यन्तिकं सुखम् ॥ २३.३९ ॥ दानशीलाः सदा दान्ताः सर्वभूतहिते रताः । ज्ञानयुक्ता मैत्रचिता गतास्ते देवसम्मितिम् ॥ २३.४० ॥ हतदोषाः क्रियावन्तः शीलरत्नेन भूषिताः । सर्वसत्त्वदयावन्तः सुरलोकेषु ते बुधाः ॥ २३.४१ ॥ विशुद्धकाञ्चनप्रख्या निर्ध्मातमलकल्मषाः । सम्यक्कर्म सुसंलग्ना देवलोकेषु ते बुधाः ॥ २३.४२ ॥ सर्वसत्त्वदयावन्तः सर्वसत्त्वहितैषिणः । सर्वपापविरक्ता ये तेषां वासः सुरालये ॥ २३.४३ ॥ अहन्यहनि ये शीलं रक्षन्ति सुपरीक्षकाः । अहन्यहनि तेषां हि सुखं भवति नैकशः ॥ २३.४४ ॥ शीलवाजिनमारूढा देवभवनं प्रयान्ति शीलवाजिनमारूढाः पुरुषास्तत्त्वचिन्तकाः । प्रयान्ति देवभवनं क्रीडायुक्तमनेकशः ॥ २३.४५ ॥ या क्रीडा देवभवने यच्च सौख्यमनुत्तमम् । तत्समग्रस्य शीलस्य फलमुक्तं तथागतैः ॥ २३.४६ ॥ देवसुखं शीलजमेव यद्दिव्यमाल्याभरणा दिव्याम्बरविभूषिताः । क्रीडन्ति विबुधाः सर्वे तत्सर्व शुभहेतुकम् ॥ २३.४७ ॥ पद्मोत्पलवने रम्ये वनोपवनभूषिते । स्वर्गे रमन्ति ये देवास्तत्सर्व शुभजं फलम् ॥ २३.४८ ॥ यदाकाश इवातस्थुर्दिव्यरत्नविभूषिताः । विराजन्तेऽमला देवास्तच्छीलस्य महत्फलम् ॥ २३.४९ ॥ यत्काननेषु रम्येषु चित्रेषु पुष्पितेषु च । रमन्ति गिरिपृष्ठेषु सुरास्तच्छीलजं फलम् ॥ २३.५० ॥ स्वगृहं हि यथा मर्त्याः प्रविशन्ति गतव्यथाः । तथा शीलसमाचाराः प्रयान्ति त्रिदिवं नराः ॥ २३.५१ ॥ एतत्सुजीवितं श्रेष्ठं यच्छीलपरिरक्षणम् । मरणानां परं मृत्युः यच्छीलपरिवर्जनम् ॥ २३.५२ ॥ शीलमनुपमं कार्यम् एतान् गुणान् सदा मत्वा प्रियत्वमपि चात्मनः । शीलं सुरक्षितं कार्य दौःशील्यं च विवर्जयेत् ॥ २३.५३ ॥ शीलचारी सदा दान्तः क्षमावांश्च सुदर्शनः । सोपानमिव चारूढं प्रयात्यानन्दसन्निधिम् ॥ २३.५४ ॥ शीलेन प्लवभूतेन संसारोत्तरणम् फलं शीलस्य तु सुखं देवलोकेषु पच्यते । शीलेन प्लवभूतेन संसारादुत्तरन्ति च ॥ २३.५५ ॥ शीलाम्भसा विशुद्धा ये स्वायत्ता धीरचेतसः । जाम्बूनदमयैः पुष्पैस्तेऽत्रार्चन्ति दिवौकसः ॥ २३.५६ ॥ ये नवादातमनसो नित्यं शीलेन भूषिताः । ते यान्ति देवसदनं यत्र सौख्यमनन्तकम् ॥ २३.५७ ॥ सौख्यात्सौख्यतरं यान्ति नराः सुकृतकारिणः । क्रीडन्ति देवसदने शीलेन परिबृंहिताः ॥ २३.५८ ॥ शीलसोपानमारूढाः सुगतिं प्रयान्ति शीलसोपानमारुह्य ज्ञानेन परिबृंहिताः । नराः प्रयान्ति सुगतिं ज्ञानेन च परायणा ॥ २३.५९ ॥ सुप्रसन्नेन मनसाशीलं यदभिरक्षितम् । तस्य शीलस्य शीतस्व सुखमेतदुपस्थितम् ॥ २३.६० ॥ शीलस्य परिणामो सुखदायकः सुरक्षितस्य शीलस्य भावितस्याप्यनेकशः । परिणामे सुखीभूत्वा निर्वाणं चाधिगच्छति ॥ २३.६१ ॥ शीलं रक्षत्युपायेन शीलं नयति सङ्गतिम् । तस्माच्छीलं सदा रक्ष्यं परिणामोऽस्य शीतलः ॥ २३.६२ ॥ मृत्युकाले समुत्पन्ने शीलवानकुतोभयः । न मे दुर्गतिना त्राणं शीलं हि त्राणमुत्तमम् ॥ २३.६३ ॥ कुत्सितशीलस्य कुत्सितः परिणामः काचाभ्रपटलं यस्य शीलं भवति कुत्सितम् । स कुत्सितेन शीलेन कुत्सितो जायते नरः ॥ २३.६४ ॥ शीलविरहितः मूढो भवति स्वर्गमपि न याति शीलमूलेन लब्ध्वेदं सुखं स्वर्गेषु देहिभिः । तृष्णाक्षयो न भवति स पश्चात्परितप्यते ॥ २३.६५ ॥ तस्माच्छीलवता नित्यं शीलमेव विशिष्यते । निःशीलः पुरुषो मूढो न स्वर्गमधिरोहति ॥ २३.६६ ॥ पञ्चकामोपमं दिव्यं यदिदं भुज्यते सुखम् । तच्छीलस्य विशुद्धस्य प्राप्यते हि फलं महत् ॥ २३.६७ ॥ यत्तेजः काञ्चनस्यास्य मेरुपर्वतशालिनः । तच्छीलतेजसस्तेजः कलां नार्हति षोडशीम् ॥ २३.६८ ॥ दीप्यमानैः सदा शीलैः निर्धातुकनकत्विषा । संयुक्तास्त्रिदिवं यान्ति पण्डिता स्वेन कर्मणा ॥ २३.६९ ॥ त्रिविधशीलस्य त्रिविधं फलम् हीनमध्यविशिष्टस्य शीलस्य त्रिविधस्य वै । फलं हि त्रिविधं दृष्टं हीनमध्योत्तमं तथा ॥ २३.७० ॥ प्रमादरहितं शीलमप्रमादोपबृंहितम् । नित्यं तत्सुखदं दृष्टं धर्मतेयं व्यवस्थिता ॥ २३.७१ ॥ शीलप्रभया सूर्यसहस्त्रस्यादि पराभवः शीलोद्भवा या विमला प्रभा भवति देहिनाम् । न सा सूर्यसहस्त्रस्य संयुक्तस्य भविष्यति ॥ २३.७२ ॥ शीलं सप्तविधं रम्यं यो रक्षति नरोत्तमः । स कामं भुञ्जति फलं सुगतेन च देशितम् ॥ २३.७३ ॥ शीलचर्या विना स्वर्ग न यान्ति शीलचर्या समाश्रित्य सम्यग्दर्शनतत्परः । मर्त्यलोकाद्दिवं यान्ति न कष्टं तपचारिणः ॥ २३.७४ ॥ यच्छीलं शीलसंस्पर्श परिणामेऽपि शीतलम् । निषेवते सदामूढः स पश्चात्परितप्यते ॥ २३.७५ ॥ सप्तविधेन शीलेन देवसान्निध्यं प्राप्यते शीलं सप्तविधं धन्यमविसंवादकं पदम् । शीलेन रक्षितः पुरुषो देवानामन्तिकं गतः ॥ २३.७६ ॥ शीलेन शोभनं फलं मिलति यथा पक्षैर्दृढैः पक्षी स्वेदच्छत्रं निहन्ति (वै) । तथा नरो दृढः शीलैर्देवलोकाय कल्प्यते ॥ २३.७७ ॥ श्रुतिमात्रं च (तच्छीलं) रम्याद्रम्यतरं च तत् । लभते पुरुषः कर्ता फलं शीलस्य शोभनम् ॥ २३.७८ ॥ दानशीलतपोरत्नं हृदयैश्च समाश्रितम् । देवता वा मनुष्यो वा लभते परमं पदम् ॥ २३.७९ ॥ अन्तर्बहिश्च निःसाराः पुरुषा धर्मवर्जिताः । संसारात्फलकाङ्क्षिभ्यः सद्धर्मो न (च) रोचते ॥ २३.८० ॥ अन्तर्बहिश्च ये सारास्ते नरा वस्तुतो दृढाः । ये धर्मचारिणः शान्ताः परसत्त्वहितैषिणः ॥ २३.८१ ॥ अनुत्तरः शीलवतां सुगन्धः न केतकी चम्पकपुष्पगन्धा, तमालके नागरुचश्च गन्धः । प्रयान्ति गन्धा हिं यथा सुरेण, अनुत्तरः शीलवतां सुगन्धः ॥ २३.८२ ॥ दौःशील्यं सदा वर्ज्यम् तस्माच्छीलं सदा कार्य दानज्ञानतपोधनैः । दौःशील्यं च सदा वर्ज्यविषशस्त्रानलोपनम् ॥ २३.८३ ॥ शीलेन एव सुखमवाप्नुते एवं सुरक्षितं शीलं नरान्नयति सङ्गतिम् । न हि शीलादृते कश्चित्पदं सुखमवाप्नुते ॥ २३.८४ ॥ देवगुणसदृशं शीलं सदाचरेत् तस्माद्देवगुणं मत्वा शीलमेव सदाचरेत् । न शीलसदृशं किञ्चिदन्यत्त्राणमिहास्ति वै ॥ २३.८५ ॥ ॥ इति शीलवर्गस्त्रयोविंशः ॥ (२४) क्षान्तिवर्गः क्षमाभूषणेनैव भूषितो भवति पुमान् क्षान्त्या विभूषितः जीव भूषितो नेतरैर्धनैः । धनं विना समायाति क्षान्तिं नैव कथञ्चन ॥ २४.१ ॥ क्षमावान् पुरुषः सर्वप्रियो भवति देहिनाम् । पूज्यते दैवतैर्नित्यं तस्मात्क्षान्तिः परन्तप ! ॥ २४.२ ॥ क्षमावान् पुरुषः सर्वत्र पूज्यते क्षमावान् पुरुषः सर्वैः क्रोधदोषैर्विवर्जितः । यशसा पूज्यते नित्यमिह लोके परत्र च ॥ २४.३ ॥ क्षान्तिधनं सर्वोत्तमम् क्षान्तिर्धनं धनं शीलप्रज्ञावर्धनमेव च । धनान्यन्यानि शस्तानि न हितस्य कथञ्चन ॥ २४.४ ॥ सद्भिः क्षमावानेव पूज्यते पूज्यते सततं सद्भिर्यशसा चैव पूज्यते । क्षमावान् पुरुषः सर्वस्तमात्क्षान्तिपरो भवेत् ॥ २४.५ ॥ क्रोधविषस्य क्षमैव भेषजम् क्षान्तिः क्रोधविषस्यास्य भेषजं परमं मतम् । क्षान्त्याविनाशितः क्रोधोऽनर्थायोपजायते ॥ २४.६ ॥ ज्ञानशीलाभिभूतानां बालिशानां विशेषतः । प्रतीपकार्य कुरुते क्षान्तिर्मार्गनिदर्शिका ॥ २४.७ ॥ क्षमावन्त एव लोके धनिनः स धर्मधनहीनानां भ्रमतां गतिपञ्चके । येषां क्षान्तिमयं द्रव्यं ते लोके धनिनः स्मृताः ॥ २४.८ ॥ तमोनिचयकान्तारे दृढक्रोधेन दुस्तरे । क्षान्त्या यथा स्मृताः सद्भिस्तरन्ति खुल मानवाः ॥ २४.९ ॥ सद्धर्मपाठनष्टानां देशिका क्षान्तिरुत्तमा । अपायभयभीतानां न भयं क्षान्तिरुच्यते ॥ २४.१० ॥ नृणां क्षान्तिः सुखावहा सुखावहा सदा नृणां दुःखस्य च विघातिका । क्षेमसम्प्रापिका नित्यं विश्वासगुणकारिका ॥ २४.११ ॥ शुभास्ति नायिका धन्या ह्यशुभेभ्यो विवर्जिता । मोक्षसंदेशिका पुंसां संसारभयनाशिका ॥ २४.१२ ॥ क्षान्तिः नरकाग्निविनाशिका स्वर्गसोपानभूता च स्वर्गसोपानभूता सा नरकाग्निविनाशिका । त्रायते प्रेतलोकात्सा तिर्यग्योनौ तथैव च ॥ २४.१३ ॥ क्षान्तिः सन्मार्गामृतदीपिका सा गुणौधैः सदा पूर्णा शिवा भवति देहिनाम् । सा प्रशस्ते सुखे प्राप्ते क्षान्तिः कार्या प्रयत्नतः । सर्वलोकस्य मातेव सन्मार्गामृतदीपिका ॥ २४.१४ ॥ ॥ इति क्षान्तिवर्गश्चतुर्विंशः ॥ (२५) वीर्यवर्गः देशक्रियायुक्तानि कार्याणि सिद्धयन्ति देशकालोपपन्नस्य क्रियातिथ्योचितस्य च । न्यायेनारभ्यमाणस्य वीर्यस्य सकलं फलम् ॥ २५.१ ॥ न्यायदेशक्रियाहीना अधर्मेण विवर्जिताः । सीदन्ति कार्यनिकरा वीर्येण परिवर्जिताः ॥ २५.२ ॥ आरब्धवीर्या मोक्षं प्राप्नुवन्ति ध्यानेनारब्धवीर्येण मोक्षं गच्छन्ति पण्डिताः । भवक्षिप्त इवाकारो देवलोके प्रयान्ति च ॥ २५.३ ॥ यान्यारब्धानि कार्याणि वीर्यवद्बलिना नृणा । तानि तानि प्रसिद्धानि विपुलानि भवन्ति च ॥ २५.४ ॥ येऽर्था लोकोत्तरे सिद्धा ये च लोकेषु सम्मताः । ते वीर्येण प्रसाध्यन्ते वीर्यहीना न जातु वै ॥ २५.५ ॥ मन्दवीर्य चिरोत्साहं सद्धर्मेण विवर्जितम् । नरो विशति लोकं (च) शशाङ्कमिव कल्मषम् ॥ २५.६ ॥ वीर्यवत्ता परमां गतिं प्रददाति आर्याष्टाङ्गेन मार्गेण न ज्ञानपरिपालितः । वीर्यवत्तामहोत्साहो प्रयाति परमां गतिम् ॥ २५.७ ॥ बोधिः वीर्येणावाप्यते वीर्यणावाप्यते बोधिः स्ववीर्येण तथा मही । अर्हत्त्वं वीर्यवद्भिश्च तस्मान्नाग्निसमा गतिः ॥ २५.८ ॥ उत्तमस्थानप्राप्त्यर्थ वीर्यारम्भे मतिः कार्या तस्माद्देवान् गुणान्मत्वा वीर्यवान्नियतेन्द्रियः । वीर्यारम्भे मतिं कुर्यार्न्नास्ति वीर्यसमर्थनम् ॥ २५.९ ॥ वीर्यार्थी स्मृतिमान् यश्च नरो ज्ञानपरायणः । प्रयात्यनुत्तमं स्थानं जरामरणवर्जितम् ॥ २५.१० ॥ ॥ इति वीर्यवर्गः पञ्चविंशः ॥ (२६) ध्यानवर्गः स्वस्थः कः? असंसक्तमतेर्नित्यं नित्यं ध्यानविहारिणः । विशुद्धमनसो नित्यमेकाग्रभिरतस्य च ॥ २६.१ ॥ यस्यैकाग्रकरं चित्तं तस्य दोषा न बाधकाः । स दोषभयनिर्मुक्तः स्वस्थ इत्यभिधीयते ॥ २६.२ ॥ एकाग्राभिरतञ्चेतो विवेकमनुधावति । सर्वतर्कविनिर्मुक्तः स्वस्थ इत्यभिधीयते ॥ २६.३ ॥ चित्तस्यैकाग्रतां वर्णयति यस्य चित्तं ध्रुवं शान्तं निर्वाणाभिरतं सदा । न तस्येन्द्रियजा दोषा भवस्य शुभहेतवः ॥ २६.४ ॥ यच्च ध्यानकृतं सौख्यं यच्च (चित्तं) समाधिजम् । चित्तं तत्सर्वमेकाग्रमते भवति देहिनः ॥ २६.५ ॥ यतिः अलौकिकं सुखं भुङ्क्ते एकारामस्य यतिनो यत्सुखं जायते हृदि । यत्सौख्यमतिविज्ञेयं न सौख्यं लौकिकं मतम् ॥ २६.६ ॥ कीदृशं चित्तं शान्तिं समधिगच्छति? एकाग्राभिरतं चित्तं विशुद्धाकृतमेव च । दोषजालविनिर्मुक्तं शान्तिं समधिगच्छति ॥ २६.७ ॥ ज्ञानाम्भसा तृष्णाग्निं हन्ति एकान्तमनसा नित्यं संक्षिप्तेन्द्रियपञ्चकैः । तृष्णाग्निनातिवृद्धं च हन्ति ज्ञानाम्भसा बुधः ॥ २६.८ ॥ तस्य तृष्णाविमुक्तस्य विशुद्धस्य सुखैषिणः । अक्षयं चाव्ययं चैव पदं हि स्थितमग्रतः ॥ २६.९ ॥ निर्वाणपुरगामि वर्त्म वितर्ककुटिलं चेतो यत्र यत्रोपपद्यते । एकालम्बनयुक्तेन धार्य तेन समाधिना । तस्मादेतत्परं वर्त्म निर्वाणपुरगामिकम् ॥ २६.१० ॥ मनोनिग्रहफलम् एतदग्रं मनः क्षुत्वा हन्यादरिसमूहकम् । मनो हीदं विनिर्गृह्य (स) वेत्ति ध्यानजैर्दृढैः ॥ २६.११ ॥ निरुपमं ध्यानजं सुखम् (तत्र स्थिताः नराः श्रेष्ठाः श्रद्धावन्तो मनीषिणः) । प्रयान्ति परमं स्थानमशोकं हतकिल्विषम् ॥ २६.१२ ॥ निर्विषस्कस्य तुष्टस्य निरागस्यापि धीमतः यत्सुखं ध्यानजं भाति कुतस्तस्योपमा परा ॥ २६.१३ ॥ ध्यानैः परमं पदं प्राप्यते एतत्सारं सुधीराणां योगिनां पारगामिनाम् । यदेवेदं मनः श्रुत्वा प्रयान्ति पदमच्युतम् ॥ २६.१४ ॥ ॥ इति ध्यानवर्गः षड्विंशः ॥ (२७) प्रज्ञावर्गः प्रज्ञा मातेव हितकारिणी धर्मानुसारिणी प्रज्ञा वीर्येण परिवृंहिता । समाधिबलसंयुक्ता मातेव हितकारिणी ॥ २७.१ ॥ प्रज्ञा गतिपञ्चकात्त्रायते सा हि सन्त्रायते सर्वान् पुरुषान् गतिपञ्चकात् । न माता न पिता तत्र गच्छन्तमनुगच्छति ॥ २७.२ ॥ प्रज्ञाशिखरमारुह्य शीलकन्दरशोभनम् । भवदोषमिदं सर्व पश्यति (ज्ञान) भूषणः ॥ २७.३ ॥ समाधिना भवार्णवं तरति इन्द्रियाणीन्द्रियार्थेभ्यो यदा विन्दन्ति तत्पदम् । तदा समाधिना ज्ञान भवसागरमुत्तरेत् ॥ २७.४ ॥ दानशीलतपोध्यानैर्ज्ञानमेवाग्रमुच्यते । अपवर्गाद्यदा ज्ञानं ज्ञानशीले सुखावहे ॥ २७.५ ॥ प्रज्ञा अष्टमो मार्गस्तथागतेनोपदिष्टः चक्षुषां च परा दृष्टा प्रज्ञोक्ता (या)सुनिर्मला । मार्गाणां चाष्टमो मार्गः शिवः प्रोक्तस्तथागतैः ॥ २७.६ ॥ प्रज्ञाबलं सर्वोत्तमम् चतुर्णा चैव सत्यानामग्रे द्वे तु प्रकीर्तिते । बालानां च सदा दृष्टं प्रज्ञाबलमिहोत्तमम् ॥ २७.७ ॥ जन्मपद्वतिर्ज्ञानशस्त्रेण छेत्तव्या ज्ञानशस्त्रेण तिक्ष्णेन लता छेद्या दुरासदा । हन्तव्या दोषनिवहाश्छेत्तव्या जन्मपद्धतिः ॥ २७.८ ॥ न ज्ञानात्परो बन्धुः अमृतानां परं ज्ञानं श्रेयसां निधिरुत्तमम् । न ज्ञानाच्च परं बन्धुर्न ज्ञानाद्धनमुत्तमम् ॥ २७.९ ॥ ज्ञानशीलयुता प्रज्ञा सेवितव्या ज्ञानशीलयुतावृद्धा वीतरागा गतस्पृहाः । सेवितव्याः सदा सन्तस्तत्त्वमार्गनिदर्शकाः ॥ २७.१० ॥ क्लेशादीन् प्रज्ञाशस्त्रेण विदारयेत् प्रज्ञावज्रेण तीक्ष्णेन महोदयवसेन च । महायोगरथारूढः क्लेशादीन् प्रविदारयेत् ॥ २७.११ ॥ ॥ इति प्रज्ञावर्गः सप्तविंशः ॥ (२८) निर्वाणवर्गः क्लेशक्षय एव निर्वाणमार्गः क्लेशक्षयात्परं सौख्यं कथयन्ति मनीषिणः । एष निर्वाणगो मार्गः कथितस्तत्त्वदर्शकैः ॥ २८.१ ॥ तत्पदं शाश्वतं जुष्टं कथयन्ति तथागताः । यत्र जन्म न मृत्युर्न विद्यते दुःखसम्भवः ॥ २८.२ ॥ विभूतस्याप्रमत्तस्य शान्तस्य वनचारिणः । अलोलुपस्य वीरस्य निर्वाणस्य विभूतयः ॥ २८.३ ॥ विषयेष्वप्रमत्तो निर्वाणं नातिचिरं प्राप्नोति मित्रामित्रप्रहीणस्य भवरागविवर्जिनः । विषयेष्वप्रमत्तस्य निर्वाणं नातिदूरतः ॥ २८.४ ॥ शुभकर्त्तृ निर्वाणं प्राप्नोति शुभकार्येषु सक्तस्य मैत्रीकारुण्यभाविनः । संसारभयभीतस्य निर्वाणं नातिदूरतः ॥ २८.५ ॥ कौसीद्यविरहितः त्वरितं निर्वाणं याति क्लेशक्षयविधिज्ञस्य नैरात्म्यस्यापि तस्य च । कौसीद्याच्चैव मुक्तस्य निर्वाणं नातिदूरतः ॥ २८.६ ॥ वश्येन्द्रियस्य शान्तस्य निर्वाणं समीपतरम् चतुःसत्यविधिज्ञस्य त्रिदोषवधसेविनः । वश्येन्द्रियस्य शान्तस्य निर्वाणं नातिदूरतः ॥ २८.७ ॥ सुखदुःखपाशैर्मुक्तो मुनिः पारग उच्यते सुखदुःखमयैः पाशैर्यस्य चेतो न हन्यते । स दोषभयनिर्मुक्तः पारगो मुनिरुच्यते ॥ २८.८ ॥ शुभान्वेषी निर्वाणमधिगच्छति पुरुषोऽपायभीरुश्च प्रमादबलवर्जकः । शुभकारी शुभान्वेषी निर्वाणमधिगच्छति ॥ २८.९ ॥ ॥ इति निर्वाणवर्गोऽष्टाविंशः ॥ (२९) मार्गवर्गः आर्यचतुष्टयोपासकः पारं गच्छति सत्यानि चत्वारि शिवानि तानि, सुभावितान्येव समीक्ष्य विद्वान् । सुचिन्तको जातिजराभयेभ्यः, प्रमुच्यये पारमुपैति शान्तः ॥ २९.१ ॥ कामेषु सक्तः भवभोगबद्धः भवति अचिन्तको यस्तु विभूतबुद्धिः कामेषु सक्तो भवभोगबद्धः । स बन्धनैः काममयैर्निबद्धो, न मुच्यते जातिजराभयेभ्यः ॥ २९.२ ॥ भवार्णवे सुखद्रष्टा अन्ते नरकं याति विचिन्त्य यो दुःखमिदं विशालं, न खेदमायाति भवार्णवेभ्यः । स कामवाणैर्निहतो हि मूढः, कष्टामवस्थां नरकेऽपि याति ॥ २९.३ ॥ आभ्यन्तरं क्षेमसुखं च हित्वा, किं कामभोगाभिरता हि बालाः । नैते बिजानन्ति भयं च तीव्रमभ्येति मृत्युर्ज्वलनप्रकाशः ॥ २९.४ ॥ तत्त्वमार्गप्रदर्शकैः किमुक्तम्? अनित्यदुःखशून्योऽयमात्मा कारकवर्जितः । संसारः कथितो बुद्धैः तत्त्वमार्गप्रदर्शकैः ॥ २९.५ ॥ तेन सर्वमिदं तत्त्वज्ञानं ज्ञेयं समासतः । ज्ञानज्ञेयविनिर्मुक्तं तृतीयं नोपलभ्यते ॥ २९.६ ॥ कः तत्त्वविधिज्ञः? अन्तपारविधिज्ञो यः षोडशाकारतत्त्ववित् । ऊर्ध्वगतिविधिज्ञो हि क्षान्तितत्त्वविचक्षणः ॥ २९.७ ॥ तत्त्वविदेव धर्मतामनुविशति अग्रलोकैकधर्मज्ञः समनन्तरतत्त्ववित् । स धर्मतामनुविशेद्यथा (च) न विकम्पते ॥ २९.८ ॥ द्वयोपायविनिर्मुक्तो नष्टान्नाशयते मुहुः । नष्टपापगतिर्वीरः स्त्रोतापन्नो निरुच्यते ॥ २९.९ ॥ स्रोतांस्य कुशला धर्मा जीर्यन्ते पापगामिनः । मोक्षाग्निना प्रतप्यन्ते स्रोतापन्नो भवत्यतः ॥ २९.१० ॥ प्रस्रब्धिजं महोदर्कमुक्तं संसारमोक्षकम् । तृष्णाक्षयसुखं दृष्टं सत्यतः सुखकारकम् ॥ २९.११ ॥ कः सदैव सुखी भवति? नावबध्नाति यं तृष्णा न वितर्कैर्विहस्यते । सम्प्राप्तभवपारस्तु सुखी भवति सर्वदा ॥ २९.१२ ॥ आर्य मार्गचतुष्टयमन्योन्यफलसम्भूतम् अन्योन्यफलसम्भूत सर्वतः सम्प्रवर्तते । तदेव कारणं ज्ञेयमार्यमार्गचतुष्टयम् ॥ २९.१३ ॥ आर्यसत्येषु विदितः पुरुषो विद्यते ध्रुवम् । विषयेषु हि संघुष्टं जगद्भ्रमति चक्रवत् ॥ २९.१४ ॥ कः श्रेष्ठो मार्गः? स मार्गो देशकः श्रेष्ठो यो मार्गो भाषितः शिवः । येन मार्गेण प्राचीना (ध्रुवं) याता मनीषिणः ॥ २९.१५ ॥ त्रिशरणगत एव सुखं जीवति सुजीवितं भवेत्तस्य यस्य बुद्धौ स्थितं मनः । नहि बुद्धिविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१६ ॥ सुजीवितं भवेत्तस्य यस्य धर्मे स्थितं मनः । नहि धर्मविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१७ ॥ सुजीवितं भवेत्तस्य यस्य सङ्घे स्थितं मनः । नहि सङ्घविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१८ ॥ केषां सुजीवितं जीवनम्? सुजीवितं भवेत्तस्य यस्य सत्ये स्थितं मनः । नहि सत्यविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.१९ ॥ सुजीवितं भवेत्तस्य यस्य मार्गे स्थितं मनः । नहि मार्गविनिर्मुक्तं जीवितं जीवितं भवेत् ॥ २९.२० ॥ निर्वाणगमने यस्य नित्यं बुद्धिरवस्थिता । स दोषादेव निर्मुक्तो न देवः क्रीडति स्वयम् ॥ २९.२१ ॥ कीदृशी क्रीडा सुखोद्भाविका? या भवव्यापिनी क्रीडा नित्यमेकाग्रचेतसः । सा सुखोद्भाविका क्रीडा न क्रीडा रागकारिका ॥ २९.२२ ॥ केन मार्गेण शिवं स्थानं मिलति? सुखादीनिह सत्यानि यथा दान्तेन विन्दति । तदा क्षेमं शिवं स्थानं प्राप्नोति पुरुषोत्तमः ॥ २९.२३ ॥ ॥ इति मार्गवर्ग एकोनत्रिंशः ॥ (३०) भिक्षुवर्गः आदर्शो भिक्षुः लोकमार्गदर्शकः यो हिनस्ति न भूतानि मित्रवेत्ता सदाक्षयः । पितृवत्सर्वभूतानि लोकस्तमनुपश्यति ॥ ३०.१ ॥ अदत्तादानविरतो नित्यं ज्ञानी जितेन्द्रियः । प्रशान्तदेहकर्मा (च) तीर्णसम्भवसङ्क्रमः ॥ ३०.२ ॥ नाप्यालेख्यगता नापि चक्षुषा सा निरीक्ष्यते । हतकामो दृष्टसत्यो मुक्तस्तादृश उच्यते ॥ ३०.३ ॥ समलोष्टाश्मकनकः वीतशोकः समाहितः । न क्लेशोरगसम्पृक्तः स सौख्यं ध्रुवमाप्नुयात् ॥ ३०.४ ॥ कः भिक्षुर्विद्यते? अर्थानर्थसमो यस्य लाभालाभौ तथैव च । सुखदुःखसमायुक्तः भिक्षुः स खलु कथ्यते ॥ ३०.५ ॥ मित्रामित्रप्रहीणो यः समचेता जितेन्द्रियः । विभेति यो न विषयैः विज्ञेयस्तादृशो यतिः ॥ ३०.६ ॥ विषयद्वेषी निर्वाणमधिगच्छति विषमत्वाद्धि विषयान् द्वेष्टि धीरो गतव्यथः । न तस्य दूरे निर्वाणं सम्यक्सम्बुद्धदेशितम् ॥ ३०.७ ॥ उदयव्ययतत्त्वज्ञः सम्यग्दृष्टिरलोलुपः । हिमवानिव निष्क्रम्य संसारान्मुक्तहेतुकः ॥ ३०.८ ॥ तृणचन्दनतुल्यो हि समतृष्णाम्बराशिनः । स कौशेयसङ्घटिततृष्णया नैव बाधते ॥ ३०.९ ॥ लाभसत्कारसन्तुष्टः सन्तुष्टस्तृणसंस्तरैः । वह्निवल्लाभसत्कारं यः पश्यति स पश्यति ॥ ३०.१० ॥ बुद्धदेशिताः भिक्षुधर्माः वाह्यते यो न विषयैस्तृणनद्या न वाहयते । स्वकर्मफलतत्त्वज्ञः स भिक्षुर्बुद्धदेशितः ॥ ३०.११ ॥ नातीतं शोचते यो हि बुद्धया (चैव) गतस्पृहः । प्रत्युत्पन्नक्रियायोगी न बुद्धिस्तस्य लिप्यते ॥ ३०.१२ ॥ निर्वाणे (च) मतिर्यस्य धर्मे नित्यं स्थिता भवेत् । न वर्तते स संसारे शुक्लधर्मसमावृतः ॥ ३०.१३ ॥ नाविलं क्रियते यस्य चित्तं विद्याग्निकल्पया । दारुवद्विषया यस्य तस्य दुःखं न विद्यते ॥ ३०.१४ ॥ इन्द्रियाणि वशे यस्य चेन्द्रियेषु वशानुगः । ह्रियते यः पुमर्थैनो निकषस्तादृशो मुनिः ॥ ३०.१५ ॥ साधुवद्धिमनो यस्य क्षमावान् प्रियदर्शनः । प्रह्लादयति चेतांसि स नृणां शशिवन्मुनिः ॥ ३०.१६ ॥ अरुणाभिरतो यस्तु हर्म्याग्रेषु न रज्यति । सन्तुष्टः पांशुकूलेन भिक्षुर्भिक्षारतो भवेत् ॥ ३०.१७ ॥ शान्तो दान्तः सुधीरर्थात्तत्त्ववित्सुखदुःखयोः । स यात्युत्तममध्वानं यत्र गत्वा न शोचति ॥ ३०.१८ ॥ ऋजुमत्पातकान्यस्य नित्यं ध्यानपरायणः । प्राकृतैश्च मलै(र्हीनः) स योगी सत्यवर्त्मनि ॥ ३०.१९ ॥ सर्वेन्द्रियविघाती यः सर्वभूतहिते रतः । शान्तो दान्तेन्द्रियः स्वस्थो भिक्षुर्भवति तादृशः ॥ ३०.२० ॥ षडिन्द्रियरथारूढो रागशत्रुनिवारकः । प्रज्ञाधीरः क्रियावान् यः स शान्तिपदमश्नुते ॥ ३०.२१ ॥ अरण्यवासी सन्तुष्टो भूमिवासी समाहितः । धुनाति पापको धर्मश्चायुर्मेघानिवाम्बरः ॥ ३०.२२ ॥ शुभं वा देहकर्मान्तः शुभचर्यासु संरतः । तत्त्वदृष्टिः क्रियादक्षो नाशयन्मारसाधनम् ॥ ३०.२३ ॥ दयालुर्भिक्षुर्निर्वाणमार्गे स्थितो भवति रागात्यये न बाधेत शुभचित्तं गतालयम् । मैत्र्या कारुण्यबहुलो भिक्षुर्नैर्य्याणिके स्थितः ॥ ३०.२४ ॥ यस्य रूपादयो नेष्टा विषया बन्धहेतवे । स याति परमां शान्तिं यत्र गत्वा न शोच्यते ॥ ३०.२५ ॥ हेतुप्रत्ययतत्त्वज्ञः सूक्ष्मार्थे कृतनिश्चयः । मोक्षस्रोतस्यभिरतस्तृष्णया नैव रज्यते ॥ ३०.२६ ॥ यो नादत्तेऽशुभं कर्म शुभकर्मरतः सदा । चन्द्रांशुनिर्मलगतिर्योगी भवति तादृशः ॥ ३०.२७ ॥ प्रदहन् पापकान् धर्मान् शुष्केन्धनमिवानलः । विभ्राजते त्रिभुवने मुक्तपायो गतव्यथः ॥ ३०.२८ ॥ मोक्षेऽस्ति यस्य तु मनो न संसारे कथञ्चन । नासौ बध्नाति संसारे मुक्तः पक्षी यथाम्बरे ॥ ३०.२९ ॥ वेदनोदयतत्त्वज्ञो वेदनाफलनिश्चयः । स मुक्त इति विज्ञेयस्तत्त्वविदृतवांश्च सः ॥ ३०.३० ॥ तथाप्येते सुखदुःखे मृष्टामृष्टैर्न लिप्यते । दीप्तं पश्यति संसारं यः स योगी सतां मतः ॥ ३०.३१ ॥ भिक्षुर्भवति कीदृशः? अथामूढमतिर्नित्यं नित्यं धर्मपरायणः । भिक्षुवृत्तावभिरतो भिक्षुर्भवति तादृशः ॥ ३०.३२ ॥ न तृप्तिर्दर्शनारामैः साधूनां दर्शने रतिः । निष्क्रान्तगृहकल्माषो भिक्षुर्भवति तादृशः ॥ ३०.३३ ॥ न नृत्यगीतसन्दर्शी (सत्यं) च पुनरीक्षते । संरक्षितो श्मशानेषु भिक्षुर्भवति तादृशः ॥ ३०.३४ ॥ एकाहं परमं पिण्डमादत्तेऽन्यत्र काङ्क्षति । त्रिभागकुक्षिसन्तुष्टो भिक्षुर्भवति तादृशः ॥ ३०.३५ ॥ वस्त्रोत्तमविवर्जी यः पांसुकूलेषु रज्यते । मुक्ताहारविहारो यो भिक्षुर्भवति तादृशः ॥ ३०.३६ ॥ कर्माण्यारभते यो न निराशः स च कर्मसु । निरुद्धको नोपरतो भिक्षुर्भवति तादृशः ॥ ३०.३७ ॥ कायकोटिविनिर्मुक्तो मोहध्वान्तविवर्जितः । अलिप्तः पापकैर्धर्मैभिक्षुर्भवति तादृशः ॥ ३०.३८ ॥ सर्वाशयजनानीतः सर्वाशयविवर्जितः । सर्वाशयविनिर्मुक्तो भिक्षुर्भवति तादृशः ॥ ३०.३९ ॥ आर्याष्टाङ्गेन मार्गेण निर्वाणपुरतः स्थितः । सर्वार्थधर्मता ह्येषा भिक्षुर्भवति तादृशः ॥ ३०.४० ॥ शान्तेन्द्रियो दृढमतिः कामपाकविवर्जितः । एकाग्रसंस्थितमना भिक्षुर्भवति तादृशः ॥ ३०.४१ ॥ भूमिसङ्क्रमणज्ञो यो भूमितत्त्वनिदर्शकः । भूमेः परापरज्ञो यो भिक्षुर्भवति तादृशः ॥ ३०.४२ ॥ सम्भवासम्भवान् धर्मान् हेतुप्रत्ययसम्भवान् । जानीते विधिवत्सर्वान् भिक्षुर्भवति तादृशः ॥ ३०.४३ ॥ ब्रह्मचारी ऋतुज्ञानी स्त्यानमिद्धविवर्जितः । कल्पोदग्रोऽवनौ दक्षो भिक्षुर्भवति तादृशः ॥ ३०.४४ ॥ शमस्थोविपश्यनाश्च चतुर्ध्यानरतश्च यः । आलये मुदितारामो भिक्षुर्भवति तादृशः ॥ ३०.४५ ॥ पक्षिणो गगनस्थस्य छायेवानुगतः सदा । सद्धर्मस्यानुजीवी स भिक्षुर्भवति तादृशः ॥ ३०.४६ ॥ क्लेशोपक्लेशबधकः समदर्शी शुभान्वितः । अनापानविधिज्ञो यो भिक्षुर्भवति तादृशः ॥ ३०.४७ ॥ अनुक्रमविधिज्ञो यो योगवित्तत्त्वदर्शकः । पारापारविधिज्ञो यो भिक्षुर्भवति तादृशः ॥ ३०.४८ ॥ यो न हृष्यति हर्षेषु भयेषु न बिभेति च । मुक्तो हर्षभयोद्वेगैर्भिक्षुर्भवति तादृशः ॥ ३०.४९ ॥ जन्ममरणतत्त्वज्ञः सुरासुरनमस्कृतः । परावरज्ञः सत्त्वानां भिक्षुर्भवति तादृशः ॥ ३०.५० ॥ सङ्घाटिमात्रसंहृष्टः सञ्चयेषु न रज्यते । अल्पेच्छो ब्रह्मचारी यो भिक्षुर्भवति तादृशः ॥ ३०.५१ ॥ एकाशी वृक्षमूले यः सदा ध्यानं समीहते । लाभसत्कारविरतो भिक्षुर्भवति तादृशः ॥ ३०.५२ ॥ उपेक्षाकरुणारागो मोक्षदोषविवर्जितः । निर्दग्धदोषसर्वस्वो भिक्षुर्भवति तादृशः ॥ ३०.५३ ॥ मन्दवीर्यकुसीदानां भिक्षूणां दर्शनाय च । नान्ययोगाभिरक्तो यो भिक्षुर्भवति तादृशः ॥ ३०.५४ ॥ कौसीद्याभिरतो भिक्षुः नहि कल्याणमर्हति न शय्यासनसम्भोगी भिक्षुर्बुद्धेन भाषितः । कौसीद्यभिरतो यस्तु नासौ कल्याणमर्हति ॥ ३०.५५ ॥ क्लेशानां मूलपाकं हि कौसीद्यं यस्य विद्यते । तस्य दुःखं महाघोरं संसारे सम्प्रवर्तते ॥ ३०.५६ ॥ कौसीद्यमेव यस्यास्ति तस्य धर्मो न विद्यते । केवलं वस्त्रमात्रेणऽभिक्षुःऽ स इति कथ्यते ॥ ३०.५७ ॥ भिक्षुर्भवति न तादृशः नाध्यापने रतिर्यस्य न ध्यानेनाशु रक्षति । केवलं वस्तुमात्रेण भिक्षुर्भवति तादृशः ॥ ३०.५८ ॥ विहाराभिरतो यस्तु न रतो धर्मगोचरे । स्त्रीमद्यलोलुपमतिभिक्षुरस्ति न तादृशः ॥ ३०.५९ ॥ (भवेन्मतिर्यस्य नित्यं विविधे) पापकर्मणि । स भिक्षुर्देशितो बुद्धैः न भोक्ता स्वकगोचरे ॥ ३०.६० ॥ वरमाशीविषविषं कथितं ताम्रमेव च । भुक्तस्यात्यन्तदुःशीलैरधिकं पापभोजनम् ॥ ३०.६१ ॥ यो हि नार्हति पिण्डाय नासौ पिण्डाय कल्पते । यस्य पिण्डिकृताः क्लेशाः सर्पा इव विलेशयाः ॥ ३०.६२ ॥ स भिक्षुः पिण्डभोजी स्यान्न स्त्रीदर्शनतत्परः । बन्धकं यदि चात्मानं कृत्वा परशुभक्षतिम् ॥ ३०.६३ ॥ भिक्षुर्दुर्गुणानां स्वरूपम् कथं स भिक्षुर्विज्ञेयः सङ्घरत्नप्रदूषकः । यस्येष्टा लाभसत्कारा विषया यस्य सम्मताः ॥ ३०.६४ ॥ नारिदर्शनसाकाङ्क्षी न भिक्षुर्न गृहीव सः । राजसेविषु सृष्टाशो मद्यपः क्रोधनस्तथा ॥ ३०.६५ ॥ सदा भिक्षुर्बञ्चयते दायकान्ननु चेतसा । उपायनान्युपादाय राजद्वाराश्रिता हि ये । संरब्धा गृहिभिः सार्ध यथा नागा वनाश्रिताः ॥ ३०.६६ ॥ तस्मात्तानेव पुष्णन्ति वातेर्ष्यास्ते समागताः । पुत्रदारान् परित्यज्य ये शान्ता रत्नमाश्रिताः ॥ ३०.६७ ॥ भिक्षोर्गुणानां माहात्म्यम् प्रहाय दोषान् यो भिक्षुरस्ति दर्शनतत्त्ववित् । रूपादिस्कन्धतत्त्वज्ञो मोक्षाय यतते सदा ॥ ३०.६८ ॥ धर्मावबोधाभिरतो ध्यानारामविहारवान् तत्त्वलक्षणसम्बोधात्प्राप्नुयात्पदमव्ययम् ॥ ३०.६९ ॥ मैत्र्यारामो हि सततमुद्युक्तो धर्मगोचरे । तत्त्वलक्षणतत्त्वज्ञो भिक्षुर्भवति तादृशः ॥ ३०.७० ॥ योनिशस्तु मतिर्यस्य कामक्रोधैर्न हन्यते । स भिक्षुरिति विज्ञेयो विपरीतस्ततोऽन्यथा ॥ ३०.७१ ॥ सर्वभूतदृढः शान्तः सर्वसङ्गतिवर्जितः । सर्वबन्धननिर्मुक्तो भिक्षुर्भवति तत्त्ववित् ॥ ३०.७२ ॥ कर्मणि यस्य विज्ञानविषयैर्यो न हन्यते । निर्मलः स्यात्कनकवत्सन्तुष्टो भिक्षुरुच्यते ॥ ३०.७३ ॥ प्रियाप्रिये मनो यस्य न लेपमनुगच्छति । सङ्कल्पानां विधिज्ञो यः सर्वपापविवर्जितः ॥ ३०.७४ ॥ अन्यसंदुष्टचरितो धर्मशीलो जितेन्द्रियः । अहीनसत्वो मतिमान् भिक्षुर्भवति तादृशः ॥ ३०.७५ ॥ शास्त्रे शास्त्रार्थविज्ञाने मतिर्यस्य सदा रता । न पानभोजनरतः स भिक्षुः शान्तमानसः ॥ ३०.७६ ॥ भिक्षोः स्वरूपनिरूपणम् वनारण्यविहारेषु श्मशाने तृणसंस्तरे । रमते यस्य तु मनो भिक्षुर्भवति तादृशः ॥ ३०.७७ ॥ दोषाणां कर्मतत्त्वज्ञः फलवित्परिशेषतः । हेतुप्रत्ययतत्त्वज्ञो भिक्षुः स्याद्वीतकल्मषः ॥ ३०.७८ ॥ (हत) किल्विषकान्तारो हतदोषो जितेन्द्रियः । पुनर्भवविधिज्ञो यो भिक्षुः शान्तमनाः (स्मृत) ॥ ३०.७९ ॥ नोत्कर्षो हृष्टहृदये निन्दया नैव रूष्यति । समुद्रतुल्यगाम्भीर्यो योगवान् भिक्षुरुच्यते ॥ ३०.८० ॥ आवेणिको दृढमतिः सूक्ष्मवादी न लोलुपः । कामवादी समो दक्षः स भिक्षुः शान्त उच्यते ॥ ३०.८१ ॥ कामधातूपगान् हेतून् रूपधातौ तथैव च । आरुष्येषु च तत्त्वज्ञः शास्त्रा भिक्षुः स उच्यते ॥ ३०.८२ ॥ न लौकिककथासक्तः शत्रुदोषबधे सदा । विषवद्यस्य विषयाः स भिक्षुर्देशितो बुधैः ॥ ३०.८३ ॥ शुद्धा यस्य (हि)कामेषु मतिर्भवति नित्यशः । स निर्मुक्तमतिर्भिक्षुर्मुक्तः संसारबन्धनात् ॥ ३०.८४ ॥ ध्यानाध्ययनकर्मण्यः कौसीद्यं यस्य दूरतः । हितकारी च सत्त्वानामारण्यो भिक्षुरुच्यते ॥ ३०.८५ ॥ प्रश्नोत्तरमतिर्यस्य प्रतिभावन् जितेन्द्रियः । स धर्मः कथितो ज्ञेयो विपरीतस्तृणैः समः ॥ ३०.८६ ॥ बुद्धशासने कीदृग्भिक्षुः शस्तः? कायमानसभीर्यस्य सर्वदा नैव खिद्यते । सर्वकृत्यकरो ज्ञेयो यः सङ्घाय च तत्परः ॥ ३०.८७ ॥ न परार्थ न लोभार्थ यशोऽर्थ कुरुते न तु । सङ्घकार्ये मतिर्यस्य स मुक्तः सर्वबन्धनैः ॥ ३०.८८ ॥ न स्वर्गार्थ मतिर्यस्य लाभार्थ यशसे न वा । निर्वाणार्थ क्रिया सर्वा स भिक्षुः स्रोत उच्यते ॥ ३०.८९ ॥ पापेभ्यो नित्यविरतः सत्कृत्येषु रतः सदा । न पापमित्रसंसर्गी भिक्षुः स्याद्बुद्धशासने ॥ ३०.९० ॥ मैत्र्या भावितचित्तस्य दक्षस्य ऋजुचेतसः । शिक्षापदेषु रक्तस्य निर्वाणं नातिदूरतः ॥ ३०.९१ ॥ जरामरणशीलस्य संसारविमुखस्य च । ध्यानेऽपि न प्रमत्तस्य निर्वाणं नातिदूरतः ॥ ३०.९२ ॥ अनित्यताविधिज्ञस्य शून्यतावत्क्रियावतः । ध्यानोत्कर्षविधिज्ञस्य निर्वाणं नातिदूरतः ॥ ३०.९३ ॥ धीरोऽयमग्रचोरोऽयं योऽयं भिक्षुरसंवृतः । अन्तःपुरीवरस्रावी बहिश्चीवरसंवृतः ॥ ३०.९४ ॥ धर्मविनयाद्रिक्तो भिक्षुर्दुःखभागी भवेदेव यथा यत्नमयो राशिः सर्वोऽसारश्च दुर्बलः । एवं सञ्चरति रिक्तो वितथो भिक्षुवादिकः ॥ ३०.९५ ॥ स नारकेयो दुःशीलः सङ्घरत्नबहिष्कृतः । कायस्य भेदान्नरकं नीयते चित्तवञ्चितः ॥ ३०.९६ ॥ वञ्चितो धर्मविनयाद्याति तत्स्वेन कर्मणा । मलिनस्तमसा बद्धो दुःखभागी भविष्यति ॥ ३०.९७ ॥ अप्रावृतः शुभधमन्नग्नः साधुजुगुप्सितः । नयते नरकं घोरं यथा धर्मबहिष्कृतः ॥ ३०.९८ ॥ अशोभनस्य निचयो दुःखद्वारमनावृतम् । संसारबन्धनं तीव्रं दौःशील्यमिति कथ्यते ॥ ३०.९९ ॥ असंवरेण यो दग्धः स दग्धो वह्निना भृशम् । तस्य संवरक्षीणस्य विनिपातो ध्रुवं स्थितः ॥ ३०.१०० ॥ कुकर्तृभिक्षुरपि नरकं याति मनसा संवरस्थेन स्वाचारैः संवरायते । समूढचर्यामारुह्य नरकायोपकल्पते ॥ ३०.१०१ ॥ अशुभं वर्धते तस्य दिवारात्रौ च सर्वतः । यस्य शीलमयं रत्नं दौःशील्येन निवारितम् ॥ ३०.१०२ ॥ धर्मशून्यस्य रिक्तस्य तमसा संवृतस्य च । विद्यतेऽसंवरस्तस्य यो न शौचाय कल्पते ॥ ३०.१०३ ॥ असंवरमयः पाशो मलिनः साधुवर्जितः । आकर्षति स दुःशीलान् पापिष्ठान् शीलवर्जितान् ॥ ३०.१०४ ॥ असंवरैश्च दौःशील्यैः पापैश्च सह सङ्गतिः । दूतका नरकस्यैते कामानामपि सेवकाः ॥ ३०.१०५ ॥ असंवृतप्रसूतस्य चपलस्य विशेषतः । पापकर्माभियुक्तस्य नरकं नातिदूरतः ॥ ३०.१०६ ॥ किमेते नावगच्छन्ति कर्मणां सदृशं फलम् । अक्षिपाताय मूढाय दुर्मतौ (ये) विमोहिताः ॥ ३०.१०७ ॥ अहन्यहनि वर्धन्ते पापनद्यो दुरासदाः । दुःखोर्मिमालाश्चपलाः पापिष्ठजनहारिणः ॥ ३०.१०८ ॥ न तेषां सुकरं जन्म न तेषां सुकरं मनः । अशीलाः पुरुषा ये वा शुक्लधर्मविवर्जिताः ॥ ३०.१०९ ॥ धर्मोऽत्युच्चः शुभो मार्गः अत्युच्चश्च शुभो मार्गः सऽधर्मऽ इति कथ्यते । तं प्राप्यमनुजः शीघ्रं प्रयाति पदमच्युतम् ॥ ३०.११० ॥ ततोऽपवादाः साध्यन्ते शक्तिमन्तः सुखास्तु ये । संवरस्य सदा दासास्तेषां दुःखं न विद्यते । दौःशील्यपरमो ह्येष मलिनीकुरुते नृणाम् ॥ ३०.१११ ॥ ये शैक्ष्यपदविभ्रष्टा भागिनो नरकस्य ते । एवं ज्ञात्वा नरः सर्व संवरं प्रतिपद्यते ॥ ३०.११२ ॥ शुभधर्मी भिक्षुर्निर्वाणं नातिचिरं प्राप्नोति भवार्णस्य सर्वस्य सेतुभूतो हि संवरः । शुद्धाजीवविशुद्धस्य शान्तवक्त्रस्य कर्मणः ॥ ३०.११३ ॥ ध्यायिनो विप्रमुक्तस्य निर्वाणं नातिदूरतः । धूर्धरस्याप्रमत्तस्य श्मशानवनसेविनः ॥ ३०.११४ ॥ शायिनो भूतले नित्यं निर्वाणं नातिदूरतः । पांशुशय्यावलम्बांसपातमेकं सजर्जरम् ॥ ३०.११५ ॥ सन्तोषः फलमूलैश्च स सुखी बुद्धसम्भवः । विप्रमुक्तस्य कामेभ्यः सन्तोषो हीतरस्य च ॥ ३०.११६ ॥ सविमुक्तकचित्तस्य निर्वाणं नातिदूरतः । कुहकामलमुक्तस्य रजो वा तस्य तायिनः ॥ ३०.११७ ॥ आकाशसमचित्तस्य निर्वाणं नातिदूरतः । बहुबद्धपदैर्युक्ता विज्ञेया (भव)चारिका ॥ ३०.११८ ॥ नाशिका ब्रह्मचर्यस्य निर्वाणगतिदुःखिका । सेव्यते या जनैर्नित्यं प्राकृतैः शीलवर्जितैः ॥ ३०.११९ ॥ अजस्त्रं परिवर्ज्या सा ध्यायिभिस्तत्त्वदर्शिभिः । दौर्बल्यमूलमेका सा मनस्कारप्रणाशिका ॥ ३०.१२० ॥ नाशिनी ब्रह्मचर्यस्य नरकस्य प्रदर्शिका । भ्रंशिका स्वर्गमार्गस्य दुःखसागरशोषिका ॥ ३०.१२१ ॥ दूतिका प्रेतलोकस्य तिर्यग्योनिनिपातिका । नाम्ना सङ्गणिका सेवा संसारे बन्धमातृका ॥ ३०.१२२ ॥ ध्यानाध्ययनशक्तैव वर्ज्या नित्यं हि भिक्षुभिः । ध्यानाध्ययननिर्मुक्तो निमित्ताभिरतः सदा ॥ ३०.१२३ ॥ परधर्मो भयावहः विवर्जितः शुभैर्धर्मैरपापगमनाय सः । स्वधर्म यः परित्यज्य परधर्मेषु रज्यते ॥ ३०.१२४ ॥ धर्मद्वयपरिभ्रष्टो विनिपाताय कल्पते । स्वगृहं यः परित्यज्य परवेश्यानि तिष्ठति ॥ ३०.१२५ ॥ सदायं लाघवं याति निधनं चाशु गच्छति । तथा यो विमतिर्भूतो विद्वन्मानी जनेच्छया ॥ ३०.१२६ ॥ स्वधर्मविरतिं कृत्वा परधर्मेषु वर्तते । अधर्मे चाशयस्तस्य परलिङ्गोपजीविनः ॥ ३०.१२७ ॥ तृणविद्याभिलिप्तोऽयं प्रेतः पापेषु पच्यते । यशोऽन्तं पदमास्थाय पापकर्मणि वर्तते ॥ ३०.१२८ ॥ नासौ भिक्षुरिहोच्यते शश्वत्स पतितो दृष्टः शासनान्तात्प्रवर्तते । निस्पृहः कामचर्यासु निरामोदः प्रवर्जितः ॥ आरब्धवीर्यः सन्तुष्टो ध्यायी भिक्षुरिहोच्यते ॥ ३०.१२९ ॥ न च कामेषु संसक्तो नित्याहारविहारवान् । काषायसंवृतः क्षौरो नासौ भिक्षुरिहोच्यते ॥ ३०.१३० ॥ निमित्तबोधको (यस्तु) नक्षत्रगतिचिन्तकः । राजसेवाप्रमत्तश्च न स भिक्षुरिहोच्यते ॥ ३०.१३१ ॥ वैद्यकर्माणि कुर्वश्च श्रुति सङ्ग्रथनं तथा । सङ्कीर्णा दिनचर्या च कुर्वन् भिक्षुः प्रणश्यति ॥ ३०.१३२ ॥ ध्यानाध्ययनविद्वेषी रतः सङ्गणिकासु च । लोभसत्कारलाभं च कुर्वन् भिक्षुः प्रणश्यति ॥ ३०.१३३ ॥ सुवर्णधातुसंसक्तो बहुमित्ररतिश्च यः । अन्यलाभाभिलाषितो भिक्षुः पतति शासनात् ॥ ३०.१३४ ॥ तपसः सङ्गनिर्मुक्तो न पापगणसेवकः । सक्तूदकेन सन्तुष्टः स भिक्षुर्निष्ठुरः स्मृतः ॥ ३०.१३५ ॥ कः शुद्धो भिक्षुः? आगतान् विषयान् सर्वान् त्यजति ज्वलनोपमान् । विशुद्धदोषो मणिवच्छुद्धो भिक्षुरिहोच्यते ॥ ३०.१३६ ॥ अन्तर्बहिर्विशुद्धात्मा ज्ञानादिभिरलङ्कृतः । श्रद्धया शीलवस्त्रेण क्रियावान् भिक्षुरुच्यते ॥ ३०.१३७ ॥ लोभधर्मव्यतीतो यः स्थितो मेरुरिवाचलः । सर्वलोकप्रियः शान्तः पारगो भिक्षुरुच्यते ॥ ३०.१३८ ॥ त्रिरात्रिवासी कुत्रापि कुशासनविधारकः । गिरिगह्वरसेवी च विमुक्तो भिक्षुरुच्यते ॥ ३०.१३९ ॥ पापभीरुरसंस्पर्शी संवृतः च सुसंवृतः । ज्ञानसेवी स्थिरः शान्त एकाकी भिक्षुरुच्यते ॥ ३०.१४० ॥ अचलः प्रियवादी च पापमित्रविवर्जितः । अशक्तः सर्वकृत्येषु मुक्तो भिक्षुरिहोच्यते ॥ ३०.१४१ ॥ राजसेवा कुकषायोक्तिसेवा राजसेवा विगर्ह्यास्ति भिक्षोश्चारण्यवासिनः । कुकषायोक्तिसेवासौ मृत्युतस्करजीविका ॥ ३०.१४२ ॥ न हि राजसेवको भिक्षुर्यः सेव्यो देवतैरपि । न हिंसासवसंसृष्टो महतेऽशुचिसेवकः ॥ ३०.१४३ ॥ भिक्षोः राजसेवा न शोभते निर्मलस्य निरामस्य निस्पृहस्य च देहिनः । संसारभयभीतस्य राजसेवा न शोभते ॥ ३०.१४४ ॥ वनारण्यश्मशानेषु पल्वलो गिरिभूमिषु । प्रान्तभूमिषु ग्रामस्य स्थितः भिक्षुः प्रशोभते ॥ ३०.१४५ ॥ वनारण्यश्मशानेषु भिक्षुर्न राजसेवया । ध्यानाध्ययननिर्मुक्तः कवलाहारभोजिता । न भिक्षुरिति विज्ञेयः पिशाचसममानसः ॥ ३०.१४६ ॥ ध्यानाद्धि विमलं सौख्यं प्रवदन्ति मनीषिणः । न तत्सुखात्सुखं चान्यदस्ति लोके कथञ्चन ॥ ३०.१४७ ॥ तदुत्तमध्यानसुखं मुक्त्वा यः पुरुषाधमः । रसेषु रमते बालस्तेन मूढो विहन्यते ॥ ३०.१४८ ॥ विषयैर्भ्रामितस्यास्य नित्यं तद्गतचेतसः । वर्धन्तेऽकुशला धर्माः परलोकापकर्षकाः ॥ ३०.१४९ ॥ आत्मज्ञो भिक्षुर्निर्वाणमधिगच्छति आत्मनो यानहीनश्च गुरुपृच्छनकस्तथा । भिक्षुरुद्युक्तवीर्यश्च निर्वाणमधिगच्छति ॥ ३०.१५० ॥ श्रुतं यावद्भवत्येव तावदेव प्रभाषते । आत्मज्ञो मानहीनश्च भिक्षुर्भवति तत्त्वविद् ॥ ३०.१५१ ॥ मानापमानहीनो यो मार्गामार्गविचक्षणः । स्वपरार्थविधिज्ञो यः स तुष्टो भिक्षुरुच्यते ॥ ३०.१५२ ॥ मानिनः कुतः शान्तिः? मानिनः क्रूरमनसश्चपलस्याल्पमेधसः । लाभसत्कारयातस्य कुतः शान्तिर्भविष्यति? ॥ ३०.१५३ ॥ प्रसन्नाचारयुक्तस्य ज्ञानगोचरसेविनः । संसारदोषभीतस्य प्रव्रज्या सफला मता ॥ ३०.१५४ ॥ स्वभावपरभावेषु यस्य बुद्धिर्नमुञ्चति । न कर्मण्यविपाके च मार्गामार्गे तथैव च ॥ ३०.१५५ ॥ निवासोपहतो भिक्षुः सुखं न विन्दति सदाचारवियुक्तस्य सुखदुःखाभयस्य च । निवासोपहतो भिक्षुर्बालवद्दृश्यते परैः ॥ ३०.१५६ ॥ तृणवल्लघुतां याति स्वार्थाच्च परिहीयते । निवासोपहतो भिक्षुः परिहीणवने स्थितः ॥ ३०.१५७ ॥ ध्यानाध्ययनकृत्येषु मनो नैव प्रवर्तते । निवासोपहतो भिक्षुर्जनसञ्चयतत्परः ॥ ३०.१५८ ॥ सञ्चयव्यग्रमनसा जीवितं परिहीयते । क्षिणोति रेतसं स्वस्य जीवितं नैव गच्छति ॥ ३०.१५९ ॥ कः दुर्गतिं याति? न च विन्दति यत्कृत्वा सुखमन्यत्र भुज्यते । निवासोपहतो भिक्षुर्जनसञ्चयतत्परः । पापानि याति नित्यं स तेन गच्छति दुर्गतिम् ॥ ३०.१६० ॥ श्रामण्यधर्मस्य महत्त्वम् अनभिप्रेतमनसो निराशस्य च देहिनः । सर्वसङ्गविमुक्तस्य श्रामण्यं सफलं मतम् ॥ ३०.१६१ ॥ गिरिगह्वरवृक्षेषु नित्यं ध्यानविहारिणः । प्रसीदति शुभं ज्ञानं दौःशील्यपरिवर्जितम् ॥ ३०.१६२ ॥ केषां सफलं जीवनम्? सर्वसङ्गविनिर्मुक्तो विषयैर्न च वञ्चितः । (स) भिक्षु निष्फलो ज्ञेयः शुष्केन्धनमिवानलः ॥ ३०.१६३ ॥ निर्वाणाभिरतस्य भिक्षोः प्रशंसा निर्वाणाभिरतो यो हि भीतस्य विभवार्णवात् । भिक्षुर्भवति शुद्धात्मा न निवासेन कर्हिचित् ॥ ३०.१६४ ॥ तृष्णा एव अनर्थकरी लोभमोहेषु ये शक्तास्ते शक्ता तृष्णया सदा । तृष्णाबन्धनबद्धानां नायं लोको न चापरः ॥ ३०.१६५ ॥ धर्मज्ञो दुर्गति न लभते असंशक्ता मतिर्यस्य मिथ्याकर्मसु सर्वदा । अपक्षपाती धर्मज्ञो न स गच्छति दुर्गतिम् ॥ ३०.१६६ ॥ कः मुनिरुच्यते? दोषपङ्केमनो यस्य न लिम्पति कथञ्चन । एकारामविहारीयो निराशो मुनिरुच्यते ॥ ३०.१६७ ॥ निर्मुक्तो विमलाचारो निवृत्तमलकल्मषः । मुक्तो यो विषयैः सर्वैरारण्यो मुनिरुच्यते ॥ ३०.१६८ ॥ लोकधर्मैर्न निर्वेदं समायाति कथञ्चन । सुखदुःखसमप्रज्ञो निर्मलो मुनिरुच्यते ॥ ३०.१६९ ॥ सन्तोषः परमो(धर्मो) नित्यं कामविवर्जितः । निरामयः कृच्छ्रजीवी शुचिर्मुनिरिहोच्यते ॥ ३०.१७० ॥ नयेन्न तेन संश्लेषं यत्र यत्रानुगच्छति । एकचारी दृढमतिः क्रियावान्मुनिरुच्यते ॥ ३०.१७१ ॥ शुभाशुभानां सर्वेषां कर्मणां फलतत्त्ववित् । शुभाशुभपरित्यागी लोकेऽसौ मुनिरुच्यते ॥ ३०.१७२ ॥ उद्युक्तो दोषनाशाय नित्यकामगतिः स्मृतः । उदयव्ययतत्त्वज्ञो बुद्धिमान्मुनिरुच्यते ॥ ३०.१७३ ॥ देशकालविदां श्रेष्ठोऽद्वयवादी जितेन्द्रियः । संसारभयभीतोऽयं प्रशान्तो मुनिरुच्यते ॥ ३०.१७४ ॥ कः भिक्षुः निर्वाणमधिगच्छति? एकारामगतो भिक्षुः संक्षिप्तेन्द्रियपञ्चकः । देहलक्षणतत्त्वज्ञो निर्वाणमधिगच्छति ॥ ३०.१७५ ॥ वीर्यवान् (सत्यवाक्) भिक्षुर्नित्यं दोषविवर्जितः । उद्यानमिव क्रीडाया निर्वाणमधिगच्छति ॥ ३०.१७६ ॥ कल्याणधर्मी भव दग्धे क्लेशे वयं दग्धा वनं दग्धं यथाग्निना । कल्याणधर्मे संरक्ता न रक्ता कामभोजने ॥ ३०.१७७ ॥ मायया जनाः वञ्चकाः भवन्ति नित्यं प्राप्त्युत्सुका ये (हि) नित्यं स्वजनसंरताः । मायया वञ्चका (ये तु) मूढास्ते धर्मवर्त्मनि ॥ ३०.१७८ ॥ शुभकर्मणि मनः कार्यः रमणीयान्यरण्यानि तत्रैव रमते मनः । रमन्ते वीतरागास्ते न तु कामगवेषिणः ॥ ३०.१७९ ॥ स कथाभिरतो यस्तु रतो विषयतृष्णयोः । न यास्यति पुरं शान्तं यो च मृत्युं न विन्दति ॥ ३०.१८० ॥ अद्वयवादी भव योऽत्यन्तशान्तमनसा नित्यं ध्यानपरायणः । आदिमध्यान्तकल्याणो नित्यमद्वयगोचरः ॥ ३०.१८१ ॥ ॥ इति भिक्षुवर्गस्त्रिंशः ॥ करुणादानशीलानिक्षान्तिर्वीर्यमथापि च । ध्यानं प्रज्ञाथ निर्वाणो मनो भिक्षुश्च ते दश ॥ ॥ इति तृतीयमुदानम् ॥ अथ चतुर्थमुदानम् (पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः । सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः ॥ ) ॥ (३१) पुण्यवर्गः पुण्यप्रशंसा रमणीयानि पुण्यानि फलं तेषां परं शुभम् । तस्मात्कुरुत पुण्यानि नास्ति पुण्यसमं धनम् ॥ ३१.१ ॥ पुण्यं निधानमक्षय्यं पुण्यं रत्नमनुत्तमम् । प्रदीपसदृशं पुण्यं मातृवत्पितृवत्सदा ॥ ३१.२ ॥ पुण्यं कृत्वा गता देवाः पुण्यं नयति सद्गतिम् । पुण्यं कृत्वा नरा लोके मोदन्ते त्रिदिवे हि (ते) ॥ ३१.३ ॥ पुण्यं परं सुखम् पुण्याधिका हि पुरुषा भवन्ति सुखिनः सदा । तस्मात्कुरुत पुण्यानि नास्ति पुण्यसमं सुखम् ॥ ३१.४ ॥ पुण्यं कृत्वा गता देवाः पुण्यप्रियधनस्य च । हेतुभूतं सदा दृष्टं तस्मात्पुण्यं परं सुखम् ॥ ३१.५ ॥ पुण्यादृते सुखमसंभवम् पुण्यं नित्योत्तमं दृष्टं छायावदनुगामिकम् । तस्मात्सुखं परं पुण्यं नास्ति पुण्यादृते सुखम् ॥ ३१.६ ॥ पुण्यापुण्यफलयोरन्तरम् पुण्योत्तीर्णाः पुनर्देवा पतन्ति सुकृतानुगाः । पुण्यापुण्यफलो लोकस्तस्मात्पुण्यं समाचरेत् ॥ ३१.७ ॥ अपुण्यनिन्दा ये पुण्यहीना दुर्दान्ता नित्यं कुगतिगामिनः । कुतस्तेषां सुखं दृष्टं सिकतासु यथा घृतम् ॥ ३१.८ ॥ वित्तेन वञ्चिता मूढाः पुण्येन परिवञ्चिताः । न तेषां विद्यते शर्म दुःखं तेषामनुत्तरम् ॥ ३१.९ ॥ पुण्यवशाद्देवलोकं गच्छति मानुष्यं सुकृतं ह्येतत्कृते भवति देहिनः । तेन कर्मविपाकेन स्वर्गलोकेषु जायते ॥ ३१.१० ॥ प्रियो भवति यस्यात्मा यस्य सौख्ये स्थिता मतिः । स करोतु महत्पुण्यं देवलोकोपपत्तये ॥ ३१.११ ॥ धर्मचारी पुरुष एव सुखमवाप्नुते धर्मचारी हि पुरुषः सुखात्सुखमवाप्नुते । निर्मलश्च परां शान्तिं क्षिप्रमेवाधिगच्छति । तस्मात्कुरुत पुण्यानि (यन्नित्यं) सांप्रचायिकम् ॥ ३१.१२ ॥ पुण्यकर्त्तृ अव्ययं सुखमश्नुते पुण्यकारी सदा दान्तो पदं गच्छति चाव्ययम् । रमणीयानि पुण्यानि करणीयान्यनेकशः ॥ ३१.१३ ॥ पुण्यस्य वैचित्र्यं धर्मस्य उपादेयता च विचित्रं हि कृतं पुण्यं विचित्रं परिपच्यते । धर्माधर्मप्रधानस्य जीवलोकस्य सर्वतः । शमत्राणो यथा धर्मस्तस्माद्धर्मरतो भवेत् ॥ ३१.१४ ॥ अधर्मी दुःखं प्राप्नोति यो (हि) धर्म परित्यज्य रमते कुकृते नरः । तस्य दुष्कृतदग्धस्य दुःखं भवति नित्यशः ॥ ३१.१५ ॥ धर्मे एव मनः कार्यम् यावन्नाभ्येति मरणं यावत्सकलचिन्तनम् । तावद्धर्मे मनः कार्यमुपशान्तिर्भविष्यति ॥ ३१.१६ ॥ परोपकर्तृ निर्वाणपुरं याति यो हि देशयते धर्म परेषां हितकाङ्क्षया । स माता स पिता चैव निर्वाणपुरदेशकः ॥ ३१.१७ ॥ शास्तुः सुभाषितममूल्यम् शुभाधिकपरश्चैकः यो देशयति देशिकः । स गत्यन्तरमार्गज्ञो नाथो भवति देहिनाम् । न मूल्यं विद्यते शास्तुः सुभाषितपदस्य वै ॥ ३१.१८ ॥ साधारणद्रव्याद्धर्मद्रव्यस्य वैलक्षण्यम् न पदं लभते शान्तं यद्धनैरुपलभ्यते । द्रव्यं साधारणं दृष्टं न धर्मो बुद्धिबन्धनम् ॥ ३१.१९ ॥ धर्मद्रव्यमक्षुण्णमस्ति द्रव्यं विनश्यति नृणां धर्मद्रव्यं न जातु वै । आभ्यन्तरसहस्त्राणि धर्म एकोऽनुगच्छति ॥ ३१.२० ॥ न धनं पदमप्येकं गच्छन्तमनुगच्छति । हीयते द्रविणं तेषां राजचौरोकाग्निभिः । धर्मवित्तं न तच्छक्यमपहर्तु कथञ्चन ॥ ३१.२१ ॥ अतो धर्मपरो भवेत् अचिरेणापि कालेन भुक्त्वा सौख्यमनेकशः । भवत्यवश्यं पतनं तस्माद्धर्मपरो भवेत् ॥ ३१.२२ ॥ धर्म एकः परं त्राणं धर्म एकः परा गतिः । धर्मेण पूर्ववर्त्येष मरणं चाप्यधर्मतः ॥ ३१.२३ ॥ धर्मचारिणः प्रशंसा वरं धर्मो धर्मचारी धर्ममेव निषेवते । स सुखात्सुखमाप्नोति न दुःखमनुपश्यति ॥ ३१.२४ ॥ अधर्मचारिणो निन्दा अधर्मचारी पुरुषो यदाधर्म निषेवते । स तदा दुःखमाप्नोति नरकेषु पुनः पुनः ॥ ३१.२५ ॥ निर्वाणमहत्त्वम् रत्नत्रयप्रसादस्य भावितस्याप्यनेकशः । फलं भवति निर्वाणं पूर्वस्वर्गोपजीविनः ॥ ३१.२६ ॥ आत्मनैव पुण्यमाचरणीयम् आत्मना क्रियते पुण्यमात्मना प्रतिपद्यते । सुखं वा यदि वा दुःखमात्मनैवोपभुज्यते ॥ ३१.२७ ॥ शीलवतः पुण्यप्रभावो विपुलः नदीस्त्रोत इवाजस्त्रं पुरुषस्य प्रवर्तते । पुण्यप्रभावो विपुलो यस्य शीले रतं मनः ॥ ३१.२८ ॥ भवजन्यं फलं यस्य (यस्मै) धर्मो न रोचते । धर्मो हि नयति स्वर्ग धर्मचारी सुखान्वितः ॥ ३१.२९ ॥ धर्मादृते पुरुषः नरकं याति एतदेव हि पर्याप्तं यद्धर्मपरिपालनम् । धर्मादृते हि पुरुषो नरकानुपधावति ॥ ३१.३० ॥ धर्मविगर्हणान्मरणं श्रेयः श्रेयो भवेद्धि मरणं न तु धर्मविगर्हणम् । धर्मेण वर्जितो लोकः संसारे सर्वदा भ्रमेत् ॥ ३१.३१ ॥ धर्मविरहितस्य दुःखमयं जीवनम् धर्मचक्षुर्विमुक्तस्य मोहेनाक्रान्तचेतसः । वृथा सौख्यमिदं दृष्टं दृष्ट्वा यातो यथापरः ॥ ३१.३२ ॥ धर्माङ्कुरो मनः क्षेत्रे नैव रोहत्यचेतसः । यस्य शीलप्रदा बुद्धिः धर्माचरणतत्परा ॥ ३१.३३ ॥ शुभेन सविशुद्धेन भावितेन प्रयत्नतः । प्रयान्ति तत्पदं शान्तं यत्र दुःखं न विद्यते ॥ ३१.३४ ॥ इन्द्रियवशी मारं नातिवर्तते इन्द्रियाणां वशे यस्तु विषयेषु तथैव च । स सर्वबन्धनैर्बद्धः स मारं नातिवर्तते ॥ ३१.३५ ॥ पापकैर्धर्मैरलिप्त एव स्वस्थः अलिप्तपापकैर्धर्मैः निर्धनात्कनकद्युतिः । स मुक्तभवकान्तारः स्वस्थो भवति सर्वतः ॥ ३१.३६ ॥ बुद्धादीनां पूजया निर्वाणलाभः बुद्धो येषां बहुमतो नित्यं धर्मश्च गोचरः । शुश्रूषाचार्यपादानां श्रद्दधानश्च कर्मणाम् ॥ ३१.३७ ॥ त्रिरत्नपूजया नित्यं सद्बुद्धिश्च (सु) निर्मला । मातापितृणां पूजातः निर्वाणपुरगामिनाम् ॥ ३१.३८ ॥ प्रव्रज्याभावधर्माश्च समेषां सम्प्रकीर्तिताः । ब्रह्मचर्यात्तचर्याणां सर्वसौख्याग्रकारकाः ॥ ३१.३९ ॥ धर्मदानं सर्वोत्तमम् दानानामुत्तमं दानं धर्मदानं प्रकथ्यते । उद्योगानां सदा ध्यानं येन गच्छति निर्वृतिम् ॥ ३१.४० ॥ अग्रयस्तथागतः प्रोक्तः ऊर्ध्वाधस्तिर्यगुक्तस्य लोकस्यानेककर्मणः । अग्रयस्तथागतः प्रोक्तो धर्माणां तत्त्वदर्शकः ॥ ३१.४१ ॥ वर्गाणां चार्थसङ्घोरे प्रवरः शान्त उच्यते । क्षेत्राणां त्रिविधं पुण्यं गुणदुःखोभयं ततः ॥ ३१.४२ ॥ माता पितृसमः पूज्य उपाध्यायः सदा भवेत् । स उन्मीलयते चक्षुर्वशगोचरतां प्रति ॥ ३१.४३ ॥ निःसुखा विषया मताः अग्राह्या वा सदा दृष्टा मुनिना तत्त्वदर्शिना । सुखस्य भूमयो ह्येता निःसुखा विषया मताः ॥ ३१.४४ ॥ यद्येवं कुरुते धर्म निर्मलं मार्गदर्शिनम् । सौख्यं तस्य भवेन्नित्यं न सौख्यं देवभूमिषु ॥ ३१.४५ ॥ भवान्तरेषु सुकृतं पृष्ठतो देहिनां स्थितम् । स आहूय प्रयत्नेन सेवितव्यः सदा नरैः ॥ ३१.४६ ॥ अनागते भयं यो हि पश्यति बुद्धचक्षुषा । स पण्डितः सदा धीरो मूर्खत्वादतिभीरुकः ॥ ३१.४७ ॥ विपत्तिजं भयं दृष्ट्वा (मार्ग) पश्यति बुद्धिमान् । स हि विघ्ने तु सम्प्राप्ते न विषादेन बाध्यते ॥ ३१.४८ ॥ अथ मूढमतिर्नित्यं विषयानेव सेवते । विमोहितः स विषयैः पश्चात्तापेन दह्यते ॥ ३१.४९ ॥ समग्रं जन्म पुण्यानि करणीयानि यावत्समग्रं जन्मेदं ज्ञानं याति विनाविलम् । तावत्कुरुत पुण्यानि दुःखं हयकृतपुण्यता ॥ ३१.५० ॥ क्षयं प्रयान्ति पुण्यानि त्वरितं याति जीवितम् । धर्मसङ्ग्रहणे यत्नः कर्त्तव्यस्तुषिते सुरैः ॥ ३१.५१ ॥ यो हि धर्म परित्यज्य प्रमादोपहतो नरः । न सञ्चिनोति पुण्यानि स पश्चादपि तप्यते ॥ ३१.५२ ॥ न यावदायाति जरा न व्याधिः सह मृत्युना । तावत्कार्याणि पुण्यानि मा पश्चात्परितप्यथ ॥ ३१.५३ ॥ असङ्गृहीतपुण्यस्य प्रमादोपहतस्य च । नरके कारणं दुःखं प्रमादस्त्वां हनिष्यति ॥ ३१.५४ ॥ किं तस्य जीवितेनार्थः किं भाग्यैः किं च बान्धवैः । सबलेन्द्रियतां प्राप्य यो न धर्मरतः सदा ॥ ३१.५५ ॥ अहन्यहनि कर्त्तव्यं धर्मसङ्ग्रहणे मनः । विरतिश्चापि पापेभ्यः साधूनां दर्शने न च ॥ ३१.५६ ॥ शीलेन यः सुरो जन्म लब्ध्वेदं काममोहितः । न सञ्चिनोति पुण्यानि स भवं नातिवर्तते ॥ ३१.५७ ॥ धर्मरताः सदा वन्द्याः ज्ञानारम्भाभिरतयः शीलरत्नविभूषिताः । कामरागाद्धि ये भीता देवानां देवसम्मताः ॥ ३१.५८ ॥ देवास्ते हि सदा वन्द्या ये धर्मे निरताः सदा । ये तु नित्यं भवासक्तास्ते सर्वे निधनं गताः ॥ ३१.५९ ॥ धर्मसेतुमिमं प्राप्य पारावारगतं महत् । न सञ्चरति यस्तूर्ण भवान्नैव प्रमुच्यते ॥ ३१.६० ॥ शुभं नैव प्रणश्यति शुभानुचारिधर्मैश्च शुभं भवति सर्वदा । कल्पकोटिसहस्त्रेण शुभं नैव प्रणश्यति ॥ ३१.६१ ॥ पुण्यप्राप्त्यर्थे करणीयानि कर्त्तव्यानि सङ्गृहीतं सदा शीलं ज्ञानं च परिवर्तितम् । दानं चाभिक्षया दत्तं भवति स्वरसात्मकम् ॥ ३१.६२ ॥ सदैव गुणाः सेव्याः दोषास्त्रयः प्रणश्यन्ति त्रिभिर्दानादिभिर्नृणाम् । तस्माद्दोषान् परित्यज्य गुणाः सेव्याः प्रयत्नतः ॥ ३१.६३ ॥ ज्ञानेन लौकिकं दुःखं नश्यति संसर्गो धर्मशीलानां ज्ञानारम्भः प्रयत्नतः । नश्यति भवजं दुःखमर्कपादैर्यथा तमः ॥ ३१.६४ ॥ अभ्युपेयो देवरतो देवताभिश्च वन्द्यते । प्राप्य जन्मान्तर चापि निर्वृतिं चाशु गच्छति ॥ ३१.६५ ॥ ॥ इति पुण्यवर्ग एकत्रिंशः ॥ (३२) देववर्गः सौगतमार्गे चरन्तः पुरुषा देवतुल्याः पन्थानो मुनिना शास्त्रे उक्ता ये तत्त्वदर्शिना । तैस्तु सम्प्रस्थितास्ते (हि) पुरुषा देवसम्मताः ॥ ३२.१ ॥ सुगतोक्तो मार्गः सत्यं हि दानं च तथैव मैत्री सत्त्वेषु रक्षा प्रियवादिता च । सम्यक्त्वदृष्टिर्विमलं मनश्च पन्थानमाहुस्त्रिदिवस्य बुद्धाः ॥ ३२.२ ॥ शुक्लधर्मसमायुक्तः शुक्लचित्तसमन्वितः । सुखात्सुखतरं याति ज्योतिर्ज्योतिःपरायणः ॥ ३२.३ ॥ ज्योति(हि)र्ज्योतिषा पूर्ण दीपो दीपान्तराद्यथा । तस्माद्धि परमांल्लोकान् प्रयाता सम्प्रपद्यते ॥ ३२.४ ॥ आचारवान् देवानामन्तिकं व्रजेत् यस्य शुद्धं सदा चित्तं निर्मलं मणिवत्सदा । स शान्तो निर्ममो धीमान् देवानामन्तिकं व्रजेत् ॥ ३२.५ ॥ ध्यानशीलसमाधिभ्यो यस्य चित्तं शुभान्वितम् । स धीमान् काञ्चनप्रख्यो देवानामन्तिकं व्रजेत् ॥ ३२.६ ॥ प्राणातिपाताद्विरतः सर्वसत्त्वदयापरः । ऋतुस्रोतोऽनुकम्पाश्च देवानामन्तिकं व्रजेत् ॥ ३२.७ ॥ श्रुतवान् सर्वलोकस्य क्रूरकर्मविवर्जितः । अलिप्तः पापकैर्धर्मैर्देवानामन्तिकं व्रजेत् ॥ ३२.८ ॥ तृणवत्काञ्चनं यस्य कामा यस्य विषोपमाः । स कामवर्जको धीमान् देवानामन्तिकं व्रजेत् ॥ ३२.९ ॥ नाकृष्यते मनः कामैर्विषयै रागहेतुभिः । समन्तात्भवकान्तारैर्देवानामन्तिकं व्रजेत् ॥ ३२.१० ॥ भिन्नाः परम्परा आदौ मित्रवान् धनबान्धवः । यः करोति सुसंश्लिष्टा देवानामन्तिकं व्रजेत् ॥ ३२.११ ॥ यस्य बुद्धिस्थितं वेश्म न बुद्धिः क्वापि रागिणी । स जितारिर्विशुद्धात्मा देवानामन्तिकं व्रजेत् ॥ ३२.१२ ॥ प्रशस्तकायकर्मान्तो यः पापविरतः सुखी । स कामविरतो ध्यायी देवानामन्तिकं व्रजेत् ॥ ३२.१३ ॥ पापमित्रविनिर्मुक्तस्तृष्णाविषविवर्जितः । न बद्धः स्त्रीभयैः पाशैर्देवानामन्तिकं व्रजेत् ॥ ३२.१४ ॥ प्रयत्नवादी यो धर्मे दानशीलसमाधिमान् । नित्योद्युक्तो दृढमतिर्देवानामन्तिकं व्रजेत् ॥ ३२.१५ ॥ सम्यग्बन्धनो येन पाशश्छिन्नो यथासिना । सच्छिन्नपाशः स्ववशी देवानामन्तिकं व्रजेत् ॥ ३२.१६ ॥ शुभकर्मविपाकेन देवलोके उद्भवः मनुष्यभूता ये सत्त्वाश्चरन्ति सुकृतावहाः । तेन कर्मविपाकेन सुरलोके प्रसूयते ॥ ३२.१७ ॥ धर्मपथाश्रिता एव बलिनः मनुष्याणां बलाद्देवा देवानां बलिनो नराः । अन्योन्यबलिनो ते ये सद्धर्मपथमास्थिताः ॥ ३२.१८ ॥ तिस्त्रोऽपायभूमयः देवानां सुगतिर्मर्त्याः मर्त्यानां सुगतिः सुराः । अपायभूमयस्तिस्रः शुभकर्मविवर्जिताः ॥ ३२.१९ ॥ सर्व सुखं धर्माधीनम् धर्माधीनं सुखं सर्व धर्माधीना हि निर्वृतिः । धर्मः सुप्तेषु जागर्ति धर्मो हि परमा गतिः ॥ ३२.२० ॥ देवैरसुरा जिताः धर्मेण निर्जितोऽधर्मः सत्येनानृतिको जितः । ज्ञानेन वर्जितो मोहो देवैस्तु ह्यसुरा जिताः ॥ ३२.२१ ॥ देवलोकं सुखोदयम् सोपानभूता ये तानि कर्माणि त्रिदिवस्य हि । योनिं त्यक्त्वा नरा यान्ति देवलोकं सुखोदयम् ॥ ३२.२२ ॥ वाक्संयमेन बुधास्त्रिदिवं सुखं भुञ्जन्ति चतुर्विधो वाङ्नियमः कोऽपि त्रिविधपञ्चधा । सप्तसोपानमारूप्यं गच्छन्ति त्रिदिवं बुधाः ॥ ३२.२३ ॥ प्रभया ते च दिव्यन्तः स्वशरीरेण जातया । रमन्ते स्वर्गभुवने रञ्जिताः स्वेन कर्मणा ॥ ३२.२४ ॥ शीलमेव शुभस्य कारणम् नित्यामोदविहारा(ये) नित्यं सौख्यविहारिणः । यद्देवा देवभवने शीलं तत्र हि कारणम् ॥ ३२.२५ ॥ यदप्सरः परिवृता यत्सूर्यशशिसन्निभाः । देवाः समन्ताद्देवेषु तत्सर्वशुभहेतुकम् ॥ ३२.२६ ॥ यदीप्सितं सम्भवति सम्भूतं च न हीयते । वर्तते च शुभं नित्यं तत्सर्व शुभहेतुकम् ॥ ३२.२७ ॥ शुभचारी देवानां समतां व्रजेत् शुभचारी सदा दानी सर्वभूतदयारतः । दानमैत्र्या सदा युक्तो देवानां समतां व्रजेत् ॥ ३२.२८ ॥ प्राणातिपाताद्विरतः सर्वसत्त्वदयापरः । सम्यगाजीवकर्मान्तो देवानां सङ्गतिं व्रजेत् ॥ ३२.२९ ॥ अदत्ते न रतिः किञ्चिद्दाने चास्य सदामतिः । शान्तेन्द्रियमतिर्धीमान् देवसङ्गतिमश्नुते ॥ ३२.३० ॥ मिथ्याकामैर्विमुक्तो यः सत्पथाभिरतः सदा । निर्वाणकांक्षी विमलो देवानामन्तिकं व्रजेत् ॥ ३२.३१ ॥ विमनस्कं हि यत्प्रीते पुरुषे कुरुते लघु । मद्यवर्जी परं धीरो देवानामन्तिकं व्रजेत् ॥ ३२.३२ ॥ प्रमादविरहितः सुखमाप्नोति सुख (प्राणो) हि यो देवः प्रमादं नानुसेवते । सुखात्सुखमवाप्नोति निर्वृत्तिं चाधिगच्छति ॥ ३२.३३ ॥ क्षयावसानं तत्सौख्यं निर्वाणमिति शाश्वतम् । तत्सप्राप्यविमानेषु राजन्ते पुरुषोत्तमाः ॥ ३२.३४ ॥ उच्चादुच्चरो मेरुस्तस्मादुच्चं सदा सुखम् । शुभेन नियतो जन्तुरकनिष्ठान् सुरान् (जयेत्) ॥ ३२.३५ ॥ निरवद्ये कुतस्तृप्तिर्देवलोके विशेषतः । अतीव सौख्यं लभते कस्माद्देवेषु सर्वदा ॥ ३२.३६ ॥ कः सौख्यमुपलभ्यते? तृष्णाग्निपरिदग्धेन न सौख्यमुपलभ्यते । एवं सुकृतदग्धेन न सौख्यमुपलभ्यते ॥ ३२.३७ ॥ त्रिविधं सुकृतं कृत्वा त्रिप्रकारं त्रिहेतुकम् । एतदग्र्यं त्रिभूमिष्ठं (त्रिगुणं च) फलं महत् ॥ ३२.३८ ॥ अहिंसादानपरमा ये सद्धर्मपरायणाः । सत्यक्षान्तिदमैर्युक्ताः त्रिदिवं(ते) समागताः ॥ ३२.३९ ॥ दिव्याभरणसम्पन्ना दिव्यमाल्यविभूषिताः । यद्देवा दिव्यमतयः (कुर्वन्ति) शुभमेव तत् ॥ ३२.४० ॥ देवानां यन्महत्सौख्यं(न)न्यूनाधिक्यमास्थितम् । न्यूनमध्यं तु यस्यैतत्फलं पुण्यस्य दृश्यते ॥ ३२.४१ ॥ पुण्यकर्ता देवलोकं गच्छति येन यावद्धि यत्पुण्यं कृतं भवति देहिना । तस्य तावद्धि तत्सौख्यं देवलोकेषु पच्यते ॥ ३२.४२ ॥ शीलसंरक्षणमावश्यकम् स्वागतं तव भो भद्र! सुकृतं कृतवानसि । सप्तधा रक्षितं शीलं तस्यैतत्फलमागतम् ॥ ३२.४३ ॥ रमस्व सह दैवतैः वनोपवनशैलेषु पद्माकरवनेषु च । हर्म्याग्रेषु रमस्व (त्वं काञ्चनेषु) सदैवतः ॥ ३२.४४ ॥ वनोपवनशैलेषु वैदूर्यशिखरेषु च । वनाद्रिषु च नैकेषु रमस्व सह दैवतैः ॥ ३२.४५ ॥ कल्पवृक्षेषु रम्येषु नदीप्रस्त्रवणेषु च । सरित्सु च विशालासु (रमस्व) सह दैवतैः ॥ ३२.४६ ॥ स्त्रोतस्विन्यादियुक्तेषु पर्वतेषु नदीषु च । नगरेषु महार्थेषु रमस्व सह दैवतैः ॥ ३२.४७ ॥ मदगन्धिप्ररोहेषु नीलोत्पलवनेषु च । यक्षसद्मसु रम्येषु रमस्व सह दैवतैः ॥ ३२.४८ ॥ भूमिभागेषु चान्तेषु रत्नाकरवनेषु च । विमानेषु च रम्येषु रमस्व सह दैवतैः ॥ ३२.४९ ॥ पञ्चाङ्गिकेन तूर्येण मनःप्रह्लादकारिणा । नृत्यमानः सुखी नित्यं रमस्व सह दैवतैः ॥ ३२.५० ॥ शीलबीजं शोधयित्वा शीलेषु विविधेषु च । क्रीड त्वं विविधैर्दिव्यैर्यथार्थमनुसेवसे ॥ ३२.५१ ॥ यत्प्रभामालिनो देवा रमन्ते विविधैः सुखैः । तच्छुभस्य फलं दृष्टं निर्मलस्य विशेषतः ॥ ३२.५२ ॥ यदेतैर्विविधैः सौख्यैर्देवाः क्रीडन्त्यनेकशः । न वयं हेतवस्तत्र (तत्र हेतुः) पुराकृतम् ॥ ३२.५३ ॥ कूटागाराणि सर्वाणि कर्मचित्राणि सर्वदा । भुनक्ति देवो देवेषु सत्कृतेनोपबृंहितः ॥ ३२.५४ ॥ पाशत्रयविमुक्तस्य पञ्चभिः पालितस्य वै । एकधर्मव्यतीतस्य देवलोको महीयते ॥ ३२.५५ ॥ प्रमुद्यच्चेतसां पुंसां स्पष्टचेष्टा समाहिता । आगता देवसदनं स्वकर्मफलसाक्षिणी ॥ ३२.५६ ॥ सुकृतफलम् उपर्युपरि सौख्यानि (तथा च) सुकृतस्य वै । भुञ्जन्ति विबुधाः स्वर्ग यद्धि पूर्वकृतानुगम् ॥ ३२.५७ ॥ साक्षिभूता इमे सर्वकर्मणां विविधा द्रुमाः । निरन्तरं सुसदृशं कथयन्ति मनीषिणः ॥ ३२.५८ ॥ भाग्यं फलति सर्वत्र येन येन विपाकेन यत्र यत्रोपपद्यते । पुरुषो लभते स्वस्य प्रारब्धस्य शुभाशुभम् ॥ ३२.५९ ॥ शुभकर्मणा प्राणी नित्यं देवेषु जायते शुभेन कर्मणा जन्तुर्नित्यं देवेषु जायते । तथाशुभेन नरके पतन्ति पुरुषाधमाः ॥ ३२.६० ॥ कामिनो मरणं नावगच्छन्ति शुभाशुभाभ्यां संरक्ताः कामिनः काममोहिताः । नावगच्छन्ति मरणं यदवश्यं भविष्यति ॥ ३२.६१ ॥ शुभाशुभविपाकोऽयं यो वृक्षेषूपलभ्यते । न सौख्याद्विरमन्त्येते मनः सौख्येन मोहिताः ॥ ३२.६२ ॥ सुकृतं कृत्वा मानवाः देवेषु यान्ति त्रिविधं सुकृतं कृत्वा भावयित्वा च सप्तधा । त्रिसंख्याकान् रिपून् हत्वा यान्ति देवेषु मानवाः ॥ ३२.६३ ॥ कः देवानामन्तिकं व्रजेत्? नासूयति क्रियाक्लेशान्न च नन्दीमसूयति । स नन्द्यसूयकः शुद्धो देवानामन्तिकं गतः ॥ ३२.६४ ॥ विनिन्द्य मात्सर्यमिदं दुःखस्यायतनं महत् । समं च त्रिविधं दत्त्वा देवानामन्तिकं गतः ॥ ३२.६५ ॥ प्राणिनां प्रणयं नित्यं रक्षयित्वानुकम्पया । मैत्रचित्तः सदा दान्तो देवानामन्तिकं गतः ॥ ३२.६६ ॥ अदत्तं च धनं दत्त्वा दत्त्वानन्दं च सर्वतः । चेतनाभावितमतिर्देवानामन्तिकं व्रजेत् ॥ ३२.६७ ॥ मातृवत्परदारांश्च दृष्ट्वा तत्त्वार्थचिन्तकः । अलिप्तो पापकैर्धर्मैर्देवानामन्तिकं व्रजेत् ॥ ३२.६८ ॥ (कृतः) स्वचित्तप्रीत्यर्थ जिह्वारणिसमुद्भवः । कथ्यते स मृषावादस्तं हित्वा सुगतिं व्रजेत् ॥ ३२.६९ ॥ पैशून्यं च सदा हित्वा मैत्र्यनर्थकरं पदम् । श्लक्ष्णप्रभः श्लक्ष्णमतिः देवानामन्तिकं व्रजेत् ॥ ३२.७० ॥ पारुष्यं शत्रुवद्धीरो वर्जयत्येव सर्वदा । श्लक्ष्णप्रभामतिर्नित्यं सर्वेषु गतिगामिकः ॥ ३२.७१ ॥ अधर्मो यस्य जिह्वाग्रे न भूतो न भविष्यति । सदा दुष्कालतत्त्वज्ञो देवानामन्तिकं व्रजेत् ॥ ३२.७२ ॥ येनेदं रक्षितं शीलं सप्तधा बुद्धदेशितम् । स धीरः शीलतत्त्वज्ञो देवानामन्तिकं व्रजेत् ॥ ३२.७३ ॥ कः सफलः धर्मज्ञः? विविधकर्मवशगं जन्मेदं लभते सुरैः । तत्प्राप्य यो न धर्मज्ञः स पश्चात्परितप्यते ॥ ३२.७४ ॥ सुकर्मणा शुभजं फलम् वनोपवनरम्योऽयं लतावेदिकमण्डपः । यद्विचित्रमयो लोकस्तत्सर्व शुभजं फलम् ॥ ३२.७५ ॥ येन येन यथा कर्म कृतं भवति शोभनम् । तस्य तस्य तथा दृष्टं फलं तदनुगामिकम् ॥ ३२.७६ ॥ प्रत्यक्षं दृश्यते देवैर्हीनमध्योत्तमं सुखम् । येन येन यथा चीर्णं तस्य तस्य तथा फलम् ॥ ३२.७७ ॥ कुकर्मणा दुःखजं फलम् विचित्रवेषाः संमूढा देवा मोहवशानुगाः । तन्नाशान्मनसा मूढा न पश्यन्ति महद्भयम् ॥ ३२.७८ ॥ विचित्रकामरतयो विचित्रफलकाङ्क्षिणः । न वा कुर्वन्ति कर्माणि तेऽसुरा मूढचेतसः ॥ ३२.७९ ॥ के प्रेमपरायणाः? फलं येषां प्रियं चित्तं न च शीले रता मतिः । ते प्रदीपं परित्यज्य प्रेमालोकपरायणाः ॥ ३२.८० ॥ हेतुफलतत्त्वज्ञाः सुखिनो भवन्ति ये हेतुफलसादृश्येनेच्छन्ति सुरसत्तमान् । ते हेतुफलतत्त्वज्ञा भवन्ति सुखभागिनः ॥ ३२.८१ ॥ ज्ञानादेव मुक्तिः विनाबीजं फलं नास्ति विना दीपं कुतः प्रभा? । विना शीलैः कुतः स्वर्गो मुक्तिर्ज्ञानं विना कुतः? ॥ ३२.८२ ॥ कः धीमतः? तत्सुखं तद्विमुक्तस्य गतकाङ्क्षस्य तायिनः । विमुक्तकामतृष्णस्य निर्ममस्य च धीमतः ॥ ३२.८३ ॥ सुकर्मैः सुखं भवत्येव यदिदं कर्मजं सौख्यं सर्व (तज्ज्ञेय) कल्मषम् । यं नेष्टकं भवत्येव तत्सर्वममलं स्मृतम् ॥ ३२.८४ ॥ देवलोकस्य वर्णनम् यो मनोरथकृत्स्नस्य बहिरन्तश्च (सर्वतः) । सर्वालोकः सदालोको देवतागणसेवितः ॥ ३२.८५ ॥ विराजते गिरिवरो रत्नमाणिक्यसन्निभः । प्रभूतसलिलो यश्च पद्मिनीभिः समावृतः ॥ ३२.८६ ॥ वनोपवनरम्योऽयं मृगपक्षिनिषेवितः । कन्दरोदरसंरम्भो भित्वा गगनमुत्थितः ॥ ३२.८७ ॥ कुत्र देवतैः सेव्यते? सेव्यते देवतैर्नित्यं दिव्यमाल्यविभूषितैः । नृत्यगीतप्रकृष्टाभिर्देवताभिश्च सर्वतः ॥ ३२.८८ ॥ पञ्चाङ्गिकेन तूर्येण प्रेरित इव लक्ष्यते । शिरोभूतो महारम्यः प्रभामाली समन्ततः ॥ ३२.८९ ॥ सुकृतेन शुभेनायं कर्मणाधिगुणेन वै । यं समाश्रित्य क्रीडन्ति देववृन्दानि सर्वतः ॥ ३२.९० ॥ के स्वर्ग गच्छन्ति? दानशीलयुता वृद्धा नित्यं तद्गतमानसाः । ये भवन्ति सदा दान्तास्ते जनाःस्वर्गगामिनः ॥ ३२.९१ ॥ संक्षिप्तमनसः शान्तास्ते जनाः स्वर्गगामिनः । वैरिणां विषयो नित्यं प्रशान्तमनसस्तु ये ॥ ३२.९२ ॥ (वीतरागा वीतमोहास्ते जनाः) स्वर्गगामिनः । भवाभवेन तीव्रेण बाधते (यत्र) साधनम् । सुदान्तमानसां धीरास्ते जनाः स्वर्गगामिनः ॥ ३२.९३ ॥ सत्यमार्गविलम्बेन हयतीव सुखभागिनः । सारासारविधिज्ञाश्च ते जनाः स्वर्गगामिनः ॥ ३२.९४ ॥ संसारे ये न रक्षन्ति स्वमनो (ननु) देहिनः । निर्वाणाभिरता नित्यं ते जनाः स्वर्गगामिनः ॥ ३२.९५ ॥ वृक्षमूले श्मशाने वा तथा च गिरिकन्दरे । ध्यायिनः सत्त्वमनसस्ते जनाः स्वर्गगामिनः ॥ ३२.९६ ॥ मात्रज्ञा देशकालज्ञाः पापमित्र(वि)वर्जिताः । मैत्रेण चेतसा ये तु ते जनाः स्वर्गगामिनः ॥ ३२.९७ ॥ न स्नानदर्शनरता नराः मन्मथवारिणा । एकान्तगामिनः शान्तास्ते जनाः स्वर्गगामिनः ॥ ३२.९८ ॥ क्षणे क्षणे सदा कायं पश्यन्त्यशुचिसम्भवम् । कार्याकार्यविधिज्ञा ये ते जनाः स्वर्गगामिनः ॥ ३२.९९ ॥ धर्माणां धर्मतां ये च पश्यन्ति विविधा समाः । न च रक्षन्ति संसारे ते जनाः स्वर्गगामिनः ॥ ३२.१०० ॥ वेदना मध्यतत्त्वान्तमनेकविधसम्भवम् । पश्यन्ति च न रक्षन्ति ते जनाः स्वर्गगामिनः ॥ ३२.१०१ ॥ मायोपमं च क्षणिकं गन्धर्वनगरोपमम् । ये जानन्ति (सदा) चित्ताः ते जनाः स्वर्गगामिनः ॥ ३२.१०२ ॥ एकलक्षणतत्त्वज्ञा विलक्षणविदः स्वयम् । निर्वाणरागमनसस्ते जनाः स्वर्गगामिनः ॥ ३२.१०३ ॥ मातृवत्परदारान् ये पितृवत्सर्वदेहिनः । पश्यन्ति ये भयं लोके ते जनाः स्वर्गगामिनः ॥ ३२.१०४ ॥ शून्यवर्गगतो नित्यं सत्त्वानां प्रियवादिनः । अक्रूरा ऋद्धिमनसस्ते जनाः स्वर्गगामिनः ॥ ३२.१०५ ॥ काष्ठवल्लोष्ठवत्सर्व परवित्तसमीक्षकाः । संतुष्टाः स्वेन चित्तेन ते जनाः स्वर्गगामिनः ॥ ३२.१०६ ॥ न रात्रौ न दिवा येषां कौसीद्यद्युतिरिष्यते । नित्योद्युक्तविहारा ये ते जनाः स्वर्गगामिनः ॥ ३२.१०७ ॥ कौकृत्यं स्त्यानमिद्धं च कौसीद्यं च विशेषतः । वर्जयन्ति सदा धन्यास्ते जनाः स्वर्गगामिनः ॥ ३२.१०८ ॥ दौःशील्यं पञ्चरन्ध्रेभ्यः परिशुद्धमनेकधा । संक्षिपन्ति सदा दुःखं ते जनाः स्वर्गगामिनः ॥ ३२.१०९ ॥ उपादानचतुष्ट्वज्ञाः सत्यानि च तथैव च । ये पश्यन्ति बुधाः प्रज्ञां ते जनाः स्वर्गगामिनः ॥ ३२.११० ॥ दुःखं दुःखविपाकश्च दुःखेषु च मनश्च यत् । पश्यन्ति ये सदा तत्त्वं ते जनाः स्वर्गगामिनः ॥ ३२.१११ ॥ तीव्रव्यसनमापन्ना ये (च) धर्माविमुञ्चकाः । शान्ताश्च धर्ममतयस्ते जनाः स्वर्गगामिनः ॥ ३२.११२ ॥ शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च । पिण्डपातरता नित्यं ते जनाः स्वर्गगामिनः ॥ ३२.११३ ॥ अदण्डाः शान्तमनसो नित्यं ध्यानविहारिणः । नैष्कर्म्यनिरताः सर्वे ते जनाः स्वर्गगामिनः ॥ ३२.११४ ॥ मृष्टं च यदि वाङ्मृष्टं यथेच्छाविधिमागतम् । सन्तुष्यन्ति न कुप्यन्ति ते जनाः स्वर्गगामिनः ॥ ३२.११५ ॥ शुक्लावदातं ये वस्त्रं पांसुकूलं तथैव च । संवृतौ चैव संतुष्टास्ते जनाः स्वर्गगामिनः ॥ ३२.११६ ॥ शय्यातले यथा भूमौ हर्म्याग्रे वा तथापरे । न दुष्यन्ति (न हृष्यन्ति) ते जनाः स्वर्गगामिनः ॥ ३२.११७ ॥ चक्षुर्विषयमापन्नं यत्कर्म साम्परायिकम् । तत्त्वतो ये प्रपश्यन्ति ते जनाः स्वर्गगामिनः ॥ ३२.११८ ॥ अप्रियं वा प्रियं वापि ये श्रुत्वा तीव्रसम्भ्रमात् । अक्षुब्धमतयो मुक्तास्ते जनाः स्वर्गगामिनः ॥ ३२.११९ ॥ षडिन्द्रियाणि सर्वाणि विषयांस्तु तथैव च । संक्षिपन्ति न रक्षन्ति ते जनाः स्वर्गगामिनः ॥ ३२.१२० ॥ यथा कर्म कृतं सर्वमविशेषेण तत्त्वतः । पश्यन्त्यमनसो धन्यास्ते जनाः स्वर्गगामिनः ॥ ३२.१२१ ॥ कर्मणां च विपाकं च कृतं (ये धीरचेतसा) । बिभ्यतीह सदा दुःखेते जनाः स्वर्गगामिनः ॥ ३२.१२२ ॥ इत्येतानि महार्थानि नित्यं दुःखकराणि च । कुर्वन्ति विधिवत्सर्व ते जनाः स्वर्गगामिनः ॥ ३२.१२३ ॥ ॥ इति देववर्गो द्वात्रिंशः ॥ (३३) सुखवर्गः सुखस्वरूपनिरूपणम् अनुत्तरेषु सौख्येषु ध्यानोपात्तेषु ये रताः । तेषां सुखं यथावत्स्यात्निर्वाणपुरदर्शकम् ॥ ३३.१ ॥ नवेन सुखदुःखेन पुराणमभिहन्यते । देवस्यैतन्नवेनैव पुराणमभिहन्यते ॥ ३३.२ ॥ धू(म) मिश्रं यथा काष्ठं वि(ष्ठा) मिश्रं यथोदनम् । तथा सुखमिदं सर्वमस्वत्वं नावगम्यते ॥ ३३.३ ॥ निर्वाणपुरगामिनां सुखम् तत्सुखं यद्वितृष्णानामेकान्तसुखचारिणाम् । निर्मोहिणामरागाणां निर्वाणपुरगामिनाम् ॥ ३३.४ ॥ तेषां विमलमाद्यन्तं सौख्यानामपि तत्सुखम् । येषां तृष्णानुगा चाशा सर्वथा नैव चेतसि ॥ ३३.५ ॥ सङ्गृहीतस्य चित्तस्य निरात्मस्य च सर्वतः । कार्याकार्येषु मूढस्य सुखं नित्यमुपस्थितम् ॥ ३३.६ ॥ कः श्रेष्ठः सुखी? सा बहिर्निहता येन नन्दिसंसारहेतुकी । स धीरः पारगः श्रेष्ठः सुखी निर्वाणमाश्रितः ॥ ३३.७ ॥ नैतत्सुखेन तृष्णानां यद्रागद्वेषसंयुतम् । यत्र रागादिनिर्मुक्तं तत्सुखं निर्मलं मतम् ॥ ३३.८ ॥ कुत्र तृष्णा न बाधते? देवलोके समासाद्य यः सुरो नावमन्यते । स सुखात्सुखतां याति यत्र तृष्णा न बाधते ॥ ३३.९ ॥ तदन्त्यसुखि श्रेयो यत्र मृत्युर्न विद्यते । मृत्युपाशैर्न बद्धस्य न सुखं विद्यते क्वचित् । यत्सुखं कामजनकं न तत्सौख्यं सतां मतम् ॥ ३३.१० ॥ यत्र कामविनिर्मुक्तस्तत्सुखात्सुखमुत्तमम् । यत्सुखं जनयेत्श्रेयः (पयोमिश्रं) यथोदनम् ॥ ३३.११ ॥ यत्र तृष्णाविनिर्मुक्तिः पयोमिश्रं यथोदनम् । यथा पद्मवने गृद्धा यान्ति(ते) क्रव्यभक्षिणः ॥ ३३.१२ ॥ एवं शान्तेष्वरण्येषु न भान्त्यशुभचारिणः । क्वचिच्छान्तं वनं रम्यं क्वचिद्देवाः प्रमादिनः ॥ ३३.१३ ॥ कः परमं सुखं प्राप्नोति? विपरीतं न सदृशं भानोः शीता यथा प्रभा । गततृष्णस्य यत्सौख्यं मुक्तदुःखस्य तायिनः ॥ ३३.१४ ॥ तस्यान्तरेण सौख्यस्य सुखमेतन्न गण्यते । ध्यायिनस्त्वप्रमत्तस्य मुक्तपापस्य सर्वदा ॥ ३३.१५ ॥ तत्सुखं तत्परं सौख्यं नेदं तृष्णाविदां मतम् । मुनिसेव्यं वनमिदं सेवितं च सुभाषितैः ॥ ३३.१६ ॥ नार्हा (यूयं) रागगणं सेवितुं भो सुरोत्तमाः । यदेतद्भवतां सौख्यमेतन्न खलु शाश्वतम् ॥ ३३.१७ ॥ तत्सुखं परमं शान्तं वीततृष्णै निषेव्यते । निःसेवितं वनमिदं ये गताः परमं पदम् ॥ ३३.१८ ॥ यत्प्राप्य सर्वदुःखस्यच्छेदो भवति सर्वथा । ब्रह्मचर्यादनिर्मुष्टाः शीलालापेन वञ्चिताः ॥ ३३.१९ ॥ भिक्षूणां वने वास एव सुखावहः नार्हन्ति सेवितुं रम्यं वनं शान्तं सुभाषितम् । शान्तं च भावितं (चैव) रमते शुभगोचरे ॥ ३३.२० ॥ न रागचारिणां चित्तं रमते वनगोचरे । न रागव्याकुलं चित्तं वनेषु लभते धृतिम् ॥ ३३.२१ ॥ कः पुरुषोत्तमः? श्रव्यामूढा मतिर्यस्य नित्यं त्रिभुवनं करे । स रतिं लभते शान्तिं वने पुरुषसत्तमः ॥ ३३.२२ ॥ सुखाय वनं सेव्यम् स कल्परागकुटिलो नित्यं रागादिभिर्वृतः । स शान्तिं नैव लभते वने शान्ते सुखावहे ॥ ३३.२३ ॥ येषां तु मनसा नित्यं वने ध्याननियोगिनाम् । वनं तेषां सदारम्यं न तु रागगवेषिणाम् ॥ ३३.२४ ॥ वनेषु भावितं चित्तं नगरेषु न कुप्यते । तस्माद्वनं सदा सेव्यं नगरं नैव शस्यते ॥ ३३.२५ ॥ विक्षिप्यते हि नगरे नृणां रागादिभिर्वृतः । विक्षिप्त मोहकुटिलं वनं भूयः प्रसीदति ॥ ३३.२६ ॥ तस्माद्वनं परं शान्तं योगिनामालयं महत् । संसेव्यं वीतमनसा यस्य तद्वीतकल्मषम् ॥ ३३.२७ ॥ रतिं मा कृथा प्रशान्तेन्द्रियचित्तस्य या रतिर्योगिनो हृदि । नासौ शक्तिः सहस्रस्य (मानवानां) भविष्यति ॥ ३३.२८ ॥ या ध्यायिनो रतिर्दृष्टा व्यवदानाय सर्वदा । न यामेष्वपि सा दृष्टा नित्यं रागानुरागिणी ॥ ३३.२९ ॥ रतिर्या कामवशगा सा नित्यं दुःखसम्भवा । या तु क्लेशवशात्प्रीतिः (सा प्रीतिः) शाश्वता नहि ॥ ३३.३० ॥ कः श्रेयस्पदं प्राप्नोति? श्रेयो वनेषु चरितं तत्तदुच्चरितं नृभिः । यस्मात्तत्प्रतिबद्धं हि श्रेयसां पदमुच्यते ॥ ३३.३१ ॥ सुसम्भृतेन धर्मेण रक्षितेनेव चेतसा । सुदृष्टं लभते स्थानं यत्र दोषो न विद्यते ॥ ३३.३२ ॥ यः क्षिप्तमनसा नित्यं न च धर्मपरायणः । तेषां वृथा सुखमिदं गच्छति न निवर्तते ॥ ३३.३३ ॥ तत्त्वज्ञा दुःखं न पश्यन्ति ये तु तत्त्वविदो धीराः पश्यन्ति जगतः स्थितिम् । अनित्यदुःखशून्यानां तेषां दुःखं न विद्यते ॥ ३३.३४ ॥ सुखधर्मस्य चरणं ज्ञानस्य च निषेवणम् । अहिंसा सत्यवचनं तदप्येकान्ततः स्थितम् ॥ ३३.३५ ॥ कः स्वर्ग याति? एकधर्मव्यतीता ये येऽधर्मपरिवञ्चकाः । त्रिस्थानलक्षणाविष्टास्ते जनाः स्वर्गगामिनः ॥ ३३.३६ ॥ सुखस्य स्वरूपम् उदयव्ययधर्माणामनित्यं कर्मजं हि तत् । तत्सुखं सास्त्रवं नित्यं न भूतं न भविष्यति ॥ ३३.३७ ॥ तत्सुखं तद्वितृष्णस्य नीरागस्य हि देहिनः । मुक्तिर्भवति दोषस्य पारस्थस्य हि तापिनः ॥ ३३.३८ ॥ तत्किञ्चित्सास्रवं सौख्यं तत्सर्व क्षणिकं मतम् । रागबन्धाद्विनिर्मुक्तं तत्सर्व निश्चलं सुखम् ॥ ३३.३९ ॥ ये न क्षिपन्ति दुःखेन सुखे येषां न सङ्गतिः । ते दुःखसुखनिर्मुक्ता निर्वाणसुखगामिनः ॥ ३३.४० ॥ अनुपायेन ये मूढाः प्रार्थयन्ति सुखं सदा । बालुकाभिर्यथा तैलं यल्लभ्यं नित्यमेव तत् ॥ ३३.४१ ॥ न चेतसा नरः प्राज्ञो मनोरथशतैरपि । शक्रोऽपि तत्सुखं कर्तु यथा कर्म कृतं महत् ॥ ३३.४२ ॥ सुखाय धर्ममाचरेत् ससुखं यस्य तु मनः सद्धर्मानुचरो भवेत् । दुःखैर्मुक्त्यभिलाषोऽयं स धर्मे कुरुते मतिम् ॥ ३३.४३ ॥ नाहेतुकं सुखं दृष्टं दुःखं वा त्रिविधात्मकम् । सुखे दुःखे पृथग्भावे तस्मान्नु सुकृत चरेत् ॥ ३३.४४ ॥ नेदं सौख्यं सदा शस्तमध्रुवं विप्रलोपि च । तृष्णाविषेण सम्मिश्रं विषमिश्रं यथोदनम् ॥ ३३.४५ ॥ तत्सौख्यं (हि)सतां शस्तं यत्र मृत्युर्न विद्यते । न च प्रियेण विश्लेषो नाप्रियेण समागमः ॥ ३३.४६ ॥ कीदृशं सुखं दुःखजनकम्? यदेतत्स्त्रीमयं सौख्यमेतद्दुःखाय कल्प्यते । तद्बीजवर्तका दृष्टा नरकेषूपपत्तये ॥ ३३.४७ ॥ यत्सुखं दुःखजनकं कथं तत्सुखमिष्यते? दुःखाद्दुःखतरं ज्ञेयं परिणामवशेन तत् ॥ ३३.४८ ॥ यदेतद्भुज्यते सौख्यमेतत्कालेन नश्यति । सूर्यस्तास्तङ्गतस्यैवं रश्मयः सह चारिणः ॥ ३३.४९ ॥ विकृतिं यस्य (च) मनः सुखदुःखैर्न गच्छति । स धीमान् सुरलोके च गत्वान्यल्लभते सुखम् ॥ ३३.५० ॥ भुक्तं सुखं पुराणं तु हीनकर्म करोति च । पुराणं सुकृतं शीर्ण मृत्युकाले न बुध्यते ॥ ३३.५१ ॥ सर्व सुखमनित्यं भवति यदिदं दृश्यते सौख्यं मनोवाक्कामजंभृशम् । अनित्यं तद्विनाशत्वमचिरेण भविष्यति ॥ ३३.५२ ॥ फेनबुद्बुदसङ्काशं मरीच्युदकसन्निभम् । चञ्चलोर्मि सुखं सर्व विनिपातो भवार्णवे ॥ ३३.५३ ॥ निष्प्रतीकारविषमः सर्वभूतभयावहः । चक्रवातप्रवेगो (वै) मृत्युराजैष धावति ॥ ३३.५४ ॥ नाशयित्वा सुखं सर्व नाशयित्वा च जीवितम् । कर्मसङ्कल्पवाह्येषु लोकमन्यत्र नेष्यति ॥ ३३.५५ ॥ यदतीव सुखं नृणां तद्धि सौख्याय कल्प्यते । यन्नैष्यति सुखं किञ्चित्तद्धि नैव विगण्यते ॥ ३३.५६ ॥ वर्तमानं तु यत्सौख्यं तृष्णाविषविवर्जितम् । सर्व ह्यनात्मजं दुःखमनित्यं संस्कृतं बलम् ॥ ३३.५७ ॥ लौकिकं सुखं न सुखम् यद्सुखं त्रिषु लोकेषु न शस्तं तत्त्वदर्शिभिः । तेन मत्वा कथं देवा भवन्ति विगतज्वराः? ॥ ३३.५८ ॥ अविष्टोवतकालोऽयं भैरवो याति सत्त्वरम् । यो भोक्ष्यते सुरान् सर्वान् शुष्केन्धनमिवानलः ॥ ३३.५९ ॥ अतियाति सुखं सर्व क्रियतां श्रैयसं मनः । मा पश्चात्संभवो योगे मृत्युकालो भविष्यति ॥ ३३.६० ॥ सुखमस्थिरं भवति जन्मान्तरसहस्रेषु यद्मुक्तं कर्मजं सुखम् । तरङ्गसन्निभः क्वायं(जानीयाद्) बालिशोऽस्थिरम् ॥ ३३.६१ ॥ कः सुखेन प्रसीदति? न सुखैस्तृप्यते बालस्तथा काष्ठैर्यथानलः । तस्मान्न (सुख) सक्तस्य सुखं भवति नैष्ठिकम् ॥ ३३.६२ ॥ विषस्य दोषमुक्तस्य कामदोषानुदर्शिनः । ध्यायिनश्चाप्रमतस्य तत्सुखं यदनाविलम् ॥ ३३.६३ ॥ सुखी भवति तत्प्राप्य न सुखं भवजन्मनः । बन्धमिश्रं विषं यद्वद्धर्मसौख्योदयस्तथा ॥ ३३.६४ ॥ कामविरहितः सुखमश्नुवते तस्मात्तत्सुखसक्तानां नित्यं कामगवेषिणाम् । भवन्त्यनेकसौख्या(नि)तस्मात्कामो न जायते ॥ ३३.६५ ॥ ज्ञानेनैवेन्द्रियाणि स्वगोचरे निवर्तन्ते नेन्द्रियाणां जयः शक्यः कर्त्तु विषयगोचरे । ज्ञानेन हि निवर्तन्ते इन्द्रियाणि स्वगोचरे ॥ ३३.६६ ॥ बाला एव गतिपञ्चके भ्रमन्ति दुःखे सुखाभिसंसक्ता नित्यं बाला (हय)मेधसः । विपर्यया परिभ्रान्ता भ्रमन्ति गतिपञ्चके ॥ ३३.६७ ॥ कुत्र सुखं दुःखसदृशं भवति? यदत्यन्तसुखं दृष्टं तत्सुखं सत्यमुच्यते । यत्र दुःखं विपाकं स्यात्तत्सुखं दुःखमेव तत् ॥ ३३.६८ ॥ पापस्याकरणमेव सुखम् अन्यागतस्य दुःखस्य प्रतिघातयते बुधः । पापस्य हेतुजं दुःखं पापस्याकरणं सुखम् ॥ ३३.६९ ॥ ॥ इति सुखवर्गो त्रयस्त्रिंशः ॥ (३४) मित्रवर्गः कः पापान्निवारयति? तन्मित्रं मित्रमित्युक्तं यन्मित्रं साम्परायिकम् । निवर्तयति यः पापाद्व्यसनाच्चापि रक्षति ॥ ३४.१ ॥ प्रवेशयति यन्नित्यं तद्धितं साम्परायिकम् । मित्रं भवति तन्नृणां न मित्रं पापकारकम् ॥ ३४.२ ॥ संसर्गजा दोषगुणा भवन्ति अपूतिः पूतिसंश्लेषात्पूतिरेवोपजायते । न पूतिः पूतसंश्लेषमपूतिं कर्त्तुमर्हति ॥ ३४.३ ॥ यादृशेन (हि) संश्लेषं कुरुते पुरुषः सदा । तद्दोषात्सदृशो दृष्टः शुभो वा यदि वाशुभः ॥ ३४.४ ॥ न शुभं दुःखकारकम् शुभार्थी पुरुषः सर्वानशुभान्नैव सेवते । तेनासौ दुःखमाप्नोति न शुभं दुःखकारणम् ॥ ३४.५ ॥ गुणदोषयोर्लक्षणम् संश्लेषजा गुणाः दृष्टा दोषाः संश्लेषजातयः । लक्षणं गुणदोषाणामिदमुक्तं स्वभावजम् ॥ ३४.६ ॥ यशसा युज्यते यो हि नित्यं साधुसमागमात् । असाधुऽसङ्गमाच्छ्रीघ्रं प्रयाति पुरुषाधमः ॥ ३४.७ ॥ सत्सङ्गतिफलम् एतत्सारं सदा कार्य यदसाधुविवर्जनम् । साधुभिश्च सदा वासो दुष्टाणां च विवर्जनम् ॥ ३४.८ ॥ दोषान् समुद्धरेद्धीमान् गुणवृद्धिं समाचरेत् । (साधु) मित्रं प्रकुर्वीत कौसीद्यविमुखो भवेत् ॥ ३४.९ ॥ न मानिनं कुसीदं वा नित्यं सर्वानुशङ्किनम् । लिप्तपापमतिक्रूरं मित्रं कुर्यान्न पण्डितः ॥ ३४.१० ॥ उद्युक्तं मृदुजातीयं धर्मिष्ठं दोषवर्जितम् । सम्यग्दृष्टिरचपलं मित्रं सेवेत पण्डितः ॥ ३४.११ ॥ न पापकं भवेन्मित्रं भवेदुत्तमपौरुषः । उत्तमं भजमानस्य न दोषेभ्यो भयं भवेत् ॥ ३४.१२ ॥ कः लघुतां याति? रूपैश्वर्यकुलादीनि भिद्यन्ते (यस्य) देहिनः । भयप्रदं तं मातङ्गः प्रयान्तं नैव पश्यति ॥ ३४.१३ ॥ उद्वृत्तः पुरुषो नित्यं प्रमादाकुलितेन्द्रियः । लघुतां याति लोकेऽस्मिन् प्रेत्यपापेषु पच्यते ॥ ३४.१४ ॥ रूपैश्वर्यमदार्था ये ते नराः पापकारिणः । तेषां न सुशमं (कर्म) प्रेत्यपापेषु पच्यते ॥ ३४.१५ ॥ रूपैश्वर्यकुलार्था ये न ते तत्त्वस्य भागिनः । अतत्त्वबुद्धयो बाला न तरन्ति भवार्णवम् ॥ ३४.१६ ॥ ज्ञानशीलादियुतं कुलं श्रेष्ठम् एतत्कुलं ये विभवा यच्चान्यत्सुखमिष्यते । सर्वाण्येतान्यनित्यानि तस्मात्तेषु न विश्रमेत् ॥ ३४.१७ ॥ न ज्ञानशीलनिर्मुक्तं कुशलं यान्ति पण्डिताः । येषां ज्ञानं च शीलं च ते कुले महति स्थिताः ॥ ३४.१८ ॥ चरितुं चामलं शीलं शीलमेव महाद्भुतम् । महाकुलप्रसूतास्ते (पण्डिताः) वशमानिनः ॥ ३४.१९ ॥ दानशीलतपोध्यानसत्यैश्वर्यपराक्रमैः । संयुक्ता ये कुलीनास्ते ये न धर्मविवर्जिताः ॥ ३४.२० ॥ नैश्वर्यज्ञानहीनस्य न कुलं नापि सङ्गतिः । तस्मात्कुलं ज्ञानमयं ज्ञानहीनं न तत्कुलम् ॥ ३४.२१ ॥ ॥ इति मित्रवर्गश्चतुस्त्रिंशः ॥ (३५) राजाववादवर्गः धार्मिको राजा स्वर्ग याति भुवं परिजनो पश्यन् धर्मचारी जितेन्द्रियः । स राजा धार्मिको धीमान् स्वर्गलोकोपपत्तये ॥ ३५.१ ॥ कः लोभनिर्मुक्तो राजा? नियतं यः करं काले धर्मेण परिभुज्यते । स राजा लोभनिर्मुक्तो यामानामधिपो भवेत् ॥ ३५.२ ॥ राज्ञः स्वरूपम् क्षमावान् प्रियवाक्यो यः क्रोधहर्षादिधारकः । स महीं पालयेत्त्वेनां लोके हि श्रेष्ठतां गतः ॥ ३५.३ ॥ अपक्षपातिनः श्रद्धा मित्रेण च (वि)हन्यते । स राजन्यसभाजेता देवलोकाय कल्प्यते ॥ ३५.४ ॥ बद्धदर्शी महात्मा यो गुरुपूजक एव च । अलोलो यो दृढमतिर्देवानामन्तिकं व्रजेत् ॥ ३५.५ ॥ पूर्वे यत्पितृभिर्दत्तं देवानुपदिशन्ति च । न च हिंसति भूतानि स देवेषूपपद्यते ॥ ३५.६ ॥ दानशीले सदा दक्षो धर्मवादी जितेन्द्रियः । स मत्वार्यां महीं कृत्स्नां देवलोकं महीयते ॥ ३५.७ ॥ नाधार्मिकं धारयति धार्मिकेषु च रक्षति । स धर्मशीलसंशुद्धो देवानामन्तिकं व्रजेत् ॥ ३५.८ ॥ न स्त्रीणां वशगो राजा साधूनां च वसेत्सदा । स निर्मलमतिर्धीरः सुरलोकोपपत्तये ॥ ३५.९ ॥ न सर्वस्य वचोग्राही प्रियः साधुजनस्य तु । सोऽमृतस्तत्त्वदर्शीवा नाकृष्ट इव रोहति ॥ ३५.१० ॥ को यामानामधिपो? यो धर्मलोभमायाति द्रविणं नैव लप्स्यते । स लोभमलनिर्मुक्तो यामानामधिपो भवेत् ॥ ३५.११ ॥ न मिथ्यादर्शनेनापि स्त्रीत्वदर्शनतत्परः । स शुद्ध एव विमलो यामानामधिपो भवेत् ॥ ३५.१२ ॥ कः राजा देवप्रियो भवति? प्राज्ञः शीले सदायुक्तो दानेनाभीक्ष्णतां गतः । प्रविजित्य महीं कृत्स्नां प्रेत्य देवप्रियो भवेत् ॥ ३५.१३ ॥ प्रियस्य तु भवेद्वाक्यं स्तोत्रोत्सवकरं परम् । आह्लादयित्वा वसुधामन्ते देवोपपत्तये ॥ ३५.१४ ॥ अविसंवादकं वाक्यं यस्य मेरुरिवाचलम् । सत्यसोपानमारुह्य देवानामन्तिके गतः ॥ ३५.१५ ॥ ह्रासवृद्धी च भूतानामकस्मात्कुरुते हि यः । स राजा वै परो देवैर्देवलोके च तिष्ठति ॥ ३५.१६ ॥ मनुष्यान्तरतत्त्वज्ञो यो वेत्ति हि बलाबलम् । स धीबलाभ्यां संयुक्तो यामानामधिपो भवेत् ॥ ३५.१७ ॥ त्रैधातुकपदं यच्च रत्नत्रयमिहोच्यते । यस्तत्पूजयते राजा स देवेषूपजायते ॥ ३५.१८ ॥ कालं नियतदर्शी यः प्रजानां च हिते रतः । सर्वतो भद्रकान्तारो देवानामधिपः स्मृतः ॥ ३५.१९ ॥ निन्दामलविनिर्मुक्तः सङ्गदोषविवर्जितः । ज्ञानगोचरसम्पूज्यो नियतं देव एव सः ॥ ३५.२० ॥ कः स्वर्ग याति? कौसीद्यदोषरहितो नित्यं दृढपराक्रमः । नाशयित्वा स दोषौघान् प्रेत्य स्वर्गेषु जायते ॥ ३५.२१ ॥ सन्मित्रैः परिवारितो राजा देवाधिपो भवति हितानि यस्य मित्राणि कर्मकर्तृणि नित्यशः । स मित्रैः सम्परिवृतो नृपो देवाधिपो भवेत् ॥ ३५.२२ ॥ नानुसेवेत दुर्वृत्तान् वाक्क्षेपेण च वर्जितः । स सद्यो विषनिर्मुक्तः सुराणामधिपो भवेत् ॥ ३५.२३ ॥ क्रोधहर्षविघाताय न च पापेषु रक्ष्यते । स पापपङ्कनिधौतः सुरलोकाधिपः सदा ॥ ३५.२४ ॥ न शक्तः पानभोज्येषु संसक्तस्तु शुभे सदा । स शुद्धधर्मसन्दर्शी विबुधोऽधिकतां व्रजेत् ॥ ३५.२५ ॥ कः पदमुत्तमं प्राप्नोति? सुचिन्तितं चिन्तयति (यो) धर्मेषु च वर्तते । धर्मोदयेन दृष्टेन यथा याति त्रिविष्टपम् ॥ ३५.२६ ॥ संसाराद्दीर्घसूत्राद्यस्त्वरितं धर्ममाचरेत् । स दीर्घसूत्रनिर्मुक्तः प्रयाति पदमुत्तमम् ॥ ३५.२७ ॥ धर्मेण प्रजापालकः स्वर्गसुखं याति धर्मेणैव प्रजा नित्यं प्रपालयति (यो) नृपः । स धार्मिकः प्रशस्तात्मा सुरलोके महीयते ॥ ३५.२८ ॥ दशेमे कुशला धर्मा इहोक्तास्तत्त्वदर्शिना । यस्ते प्रकुरुते धर्मान् स सुराधिपतां व्रजेत् ॥ ३५.२९ ॥ हेतुप्रत्ययसन्दर्शी मार्गामार्गौ तथैव च । स दृष्टिमलनिर्मुक्तो विबुधोऽधिकतां गतः ॥ ३५.३० ॥ कीदृशैर्गुणयुतैः राजा देवानामधिपो भवति यो देवतां पूजयति यथा चाह्नि महीपतिः । स देवपूजितो भूयो देवानामधिपो भवेत् ॥ ३५.३१ ॥ अनाविलेन मनसा प्रसन्नश्चाधिदारकः । स्वस्वदारैश्च सन्तुष्टो देवानामधिपो भवेत् ॥ ३५.३२ ॥ कः शीलवान्? हीयते यो न विषयैः सर्वबालापहारिभिः । स शीलवान् दिवं याति नित्यं शीलेन रक्षितः ॥ ३५.३३ ॥ अविद्यावर्जकान्नित्यं सेवते यः सुधार्मिकान् । सद्धर्मचिन्तकः सौख्यं कल्पते सुर(सं)सदि ॥ ३५.३४ ॥ (व्यापारैः स्वस्थचित्तो यः) पार्षदालापहारिभिः । स शीलवान् दिवं याति नित्यं शीलेन रक्षितः ॥ ३५.३५ ॥ सद्धर्मी राजा एव वसुधाधिपतिः सद्व्यापाराद्धर्ममिमं पालयन् वसुधाधिपः । प्रशास्ति च महीं कृत्स्नां यामानामधिपो भवेत् ॥ ३५.३६ ॥ सत्कर्मनिरतस्य राज्ञो भृत्योऽपि शोभते सत्कर्मनिरतो भृत्यो नृपे सद्गुणशालिनि । जनो निर्मलतां याति शरच्चन्द्र इवाम्बरे ॥ ३५.३७ ॥ कः राजा देवतुल्यो भवति? हेतुलक्ष्यविधिज्ञा ये अविरुद्धाः परस्परम् । सम्यक्स्वाम्यर्थकर्त्तारः देवानां वशमागताः ॥ ३५.३८ ॥ ॥ इति राजाववादवर्गः पञ्चत्रिंशः ॥ (३६) स्तुतिवर्गः बुद्धस्तुतिः समसत्त्वाग्रवेदाय सर्वसत्त्वेषु बन्धवे । सन्मार्गसार्थवाहाय भवबन्धनभेदिने ॥ ३६.१ ॥ (ना)नादृष्टिविभेदाय सर्वसंशयमोचिने । सम्यग्दृष्टिनिवेशाय नमः सञ्ज्ञानचक्षुषे ॥ ३६.२ ॥ सर्वसङ्कटभेदाय त्रिदोषमलशोधिने । नमो नक्षत्रभूताय सर्वबीजफलोरुहे ॥ ३६.३ ॥ सर्वप्रज्ञाकराग्राय सर्वध्यानाग्रवेदिने । सर्वरत्नोत्तमार्याय नमोऽलानाग्रदर्शिने ॥ ३६.४ ॥ इयं सा लोकनाशस्य विप्रयुक्तस्य तापिनः । प्रतिमा दृश्यते शान्ता मोक्षमुद्घाट्यकारिका ॥ ३६.५ ॥ समर्चतीमां नित्यं (यः) पुरुषः शान्तमानसः । स मुच्यते भवभयान्निवृत्तिं चाधिगच्छति ॥ ३६.६ ॥ एतच्छान्तपदं रम्यमेतन्नैष्ठिकमुच्यते । यदयं भाषते धर्म निर्वाणपुरदेशिकः ॥ ३६.७ ॥ अस्य वाक्यं समालम्ब्य पुरुषाधीनविक्रमाः । आकर्षन्ति पदं नित्यं यदनन्तसुखावहम् ॥ ३६.८ ॥ एतत्पूर्व समारुहय पुरुषास्तत्त्वचिन्तकाः । त्रिलोकौघार्णवं घोरं तरन्ति भवसागरम् ॥ ३६.९ ॥ अयं स चक्षुर्लोकस्य समन्ताद्धि विचक्षुषः । अयं ज्योतिः परं ज्योतिर्यज्ज्योतिःकाष्ठसम्भवम् ॥ ३६.१० ॥ कल्पान्तं प्राणिनां चित्ते नृणां रागादिभिर्मलैः । ज्ञानतोयेन महता शोधयत्येव वाङ्नृपः ॥ ३६.११ ॥ यन्न दृष्टं पदं सर्वैस्तीर्थिकैर्ज्ञानपाणिभिः । तत्पदं विमलैर्वाक्यैस्त्वया नृणां प्रदर्शितम् ॥ ३६.१२ ॥ प्रमादपरमोऽनाथो जनोऽयं तारितस्त्वया । तीर्णः पारगतो नाथस्तारयत्यघनाशनात् ॥ ३६.१३ ॥ हितार्थ सर्वजगतस्त्वमेवैको व्यवस्थितः । अहितानां हितायैव त्वमेव पुरुषोत्तमः ॥ ३६.१४ ॥ अनादिमति संसारे नृणां क्लेशापहारकैः । त्वया विशोधितो वाक्यैस्तमः सूर्योदये यथा ॥ ३६.१५ ॥ अक्षयः सर्वधर्माणां ज्ञानलोककरो महान् । त्वमेवैको जगन्नाथ लोकोत्तरगुणार्णवः ॥ ३६.१६ ॥ ॥ इति स्तुतिवर्गः षट्त्रिंशः ॥ पुण्यदेवसुखैर्मित्रराजस्तुतिभिरन्विताः । सद्धर्मस्मृतिवैपुल्यै गृहीतोऽयं समुच्चयः ॥ ॥ इति चतुर्थमुदानम् ॥ ये च धर्मा हेतुभवा तेषां तथागतोऽवदत् । तेषां च यो निरोधश्चैवंवादीमहाश्रमणः ॥ पुण्यमवाप्तमन्त्रक्लेशं विभिद्याजनवलाश्रीकम् । यावज्जगद्व्याकुलं तर्कनिष्ठैः समाकुलं वेत्ति सत्यवचनैः ॥ वैपुल्यमहागम्भीरोदधिसूत्रवराद्भिक्षु(णा)अवलोकितसिंहेनोद्धृतमिति । मोहाशिवादिरहितस्य वाक्यविद्यस्य विपुलार्जनस्यऽधर्मसमुच्चयोऽ नाम धर्मपर्यायः समाप्तः । ॥ इति शुभम् ॥