धर्मकीर्तिप्रणीता सन्तानान्तरसिद्धिः बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात् । ज्ञायते यदि धीश्चित्तमात्रेऽप्येष नयः समः ॥ आत्मनि चित्तस्पन्दनपूर्वौ क्रियाभिलापौ दृष्ट्वान्यत्र तयोर्दर्शनाद्यदि स्पन्दनमनुमीयेत, चित्तमात्रेऽप्यष नयः समः । अतः चित्तमात्रतावादी अपि परचित्तमनुमातुं शक्नोति । तच्च कायवाग्विज्ञप्तिप्रतिभासि ज्ञानं ज्ञानान्तरस्पन्दनवेशेषेण विना भवत्येवं न मतम् । [१-३] अथ परज्ञानस्य क्रियानुपलम्भात्परधीरनुमातुं न युज्यत इति चेत्? न; तुल्यत्वात्परोऽपि परज्ञानपूर्वौ तौ कदापि न पश्यतिऽतः तेनापि तन्न ज्ञायते । [४-५] आत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इति चेत् । किं न युज्यते? स्वसमुत्थापकचित्तस्य प्रतिसंवेदनाभावात्, आत्मचित्तश्रयिणोश्चात्मनि दर्शनात् । तावपि यदि यथा स्यातां तादृशावुपलभ्येयाताम् । अन्यथा दर्शनादन्यनिमित्तं सिध्यतीति चेत्? अपरस्मिन्नपि समानमेव, स्वसमुत्थापकचित्तस्य संवेदनाभावात् । स्वचित्तस्पन्दननिमित्तके विज्ञप्तिप्रतिभासिनी ज्ञाने चान्तर्मुखप्रतिभासिनी प्रतीतेः बहिर्मुखप्रतिभासिनी अन्यनिमित्तदुत्पद्येते । [६-१२] अनिमित्ते एव बहिर्मुखप्रतिभासिनीति किन्नेष्यते चेत्? अनिमित्तत्वे सर्वस्यानिमित्तत्वं प्रसज्येत । विच्छिन्नाविच्छिन्नप्रतिभासकृतो भेदो न ज्ञानयोः स्पन्दनत्वनिमित्तभेदविभागकृत् । तेनाविच्छिन्नप्रतिभासिनोरप्यनिमित्तत्वं भवेत्, विशेषाभावात् । तथा सति, अविच्छिन्नत्वविशिष्टः प्रतिभासभेद एव स्पन्दनपूर्वको न भवति । किन्तर्हि? विच्छिन्नस्यापि क्रियाविशेषस्य प्रतिभास एव । शरोपलप्रक्षेपणयन्त्रनिर्माणपरप्रचालनादिक्रियाविशेषप्रतिभासिनां विच्छिन्नस्यापि प्रतिभासस्य स्पन्दनपूर्वकत्वात् । परकृतचालनादिनां चाविच्छिन्नस्याप्यतद्पूर्वकत्वात् । [१३-१९] तेन ह्यत्र क्रियाविशेषमात्रेण स्पन्दनस्य प्रतीतिरिती युज्यते । तत्र यदि कस्यचिद्पूर्वकत्वम्, न कोऽपि तत्पूर्वकः स्यात्, विशेषाभावात् । अतः क्रियाविशेषसामान्यं स्पन्दनविशेषसामान्यस्य गमकम् । तत्र यथा क्रियामुपलभ्य, आत्मनि स्पन्दनानुपलम्भादन्यत्र स्पन्दनप्रतीतिः; तथा क्रियाप्रतिभासोपलम्भनेऽपि । समानमेतत्; परोऽपि परक्रियाभिलापयोर्निमित्तं नास्तीति किन्नेच्छति? तेनावश्यं तौ स्पन्दननिमित्तकत्वात्तद्भावे न भवत इति वक्तव्यम् । परोऽपि तयोः प्रतिभासौ तथैव वदेत् । अतः नानयोः परस्परं भेदः । [२०-२६] यदि तत्र प्रतिभासिन्योः स्पन्दननिमित्तकत्वमुच्यते, स्वप्नावस्थायामपि किन्नोच्यते? सर्व समानम् । परोऽपि स्वप्नोपलब्धपरक्रियाभिलापौ स्पन्दननिमित्तकाविति किन्न वदति? तयोरभावादिति चेत् । तथोपलब्धिसाप्यात्किन्न स्तः? अथ मिद्धेनोपहतत्वात्पुरुषस्य अर्थशून्यं विज्ञानं जायत इति चेत् । परमतेऽपि तस्मादेव पराधिपत्यशून्यं विज्ञानमुपजायते । [२७-३२] अथ स्वप्नेऽपि ज्ञानस्यार्थवत्त्वात्तदोपलभ्यमाना अपि परसन्ताना एवेति चेत् । परं प्रतिविग्रहीतुं यदि युक्त्यागमरहितस्तथाविधोऽसद्वादः समाश्रियेत, तदा पराभिमतं तस्य परायत्तत्वं न कोऽपि निवारयेत् । एतत्केषञ्चिन्मत एव सर्वाणि तथाविधानि ज्ञानानि सन्तानान्तरायत्तानि । विषेषस्तु साक्षात्परम्परया च । कदाचित्स्वप्नेऽपि तस्य साक्षात्सन्तानान्तरयत्ता इष्टैव; देवाद्यधिष्ठानतः सत्यस्वप्नदर्शनात् । तस्मादस्य नैतदसद्वादसमाश्रयः । [३३-३८] तावत्तया क्रिययापि तच्चित्तं कथं ज्ञायते? चित्तस्य कार्यत्वात् । तस्य कार्यत्वं तु चित्तान्तरेऽपि तुल्यमिति कथन्न ज्ञायते? अपि च, यदि तत्क्रिया स्वसत्तामात्रेण स्वसन्तानं प्रत्यायेत्, तदानुपलभ्यमानेनापि स्यात्तथा प्रतिपत्तिः । न; ज्ञानापेक्षत्वाल्लिङ्गस्य इति चेत् । तद तत्र किमनया परम्परया - परचित्तात्क्रिया, क्रियातः ज्ञानम्, ज्ञानात्तस्य प्रतिपत्तिरिति । [३९-४४] परचित्तप्रभवधर्मि क्रियाप्रतिभासिज्ञानमेवास्य गमकं भवति । तस्याधिगतिस्तु अन्तशः तदाश्रितत्वात् । स्पन्दनमात्रसामान्यं क्रियाभिलापज्ञानसामान्यस्य कारणत्वात्कार्येण कारणस्य गतिः । तत्र आत्मस्पन्दननिमित्तकस्यान्तर्मुखवृत्तिः, अन्यस्यान्यथा । प्रायेणाधिकृत्यासौ भेदः । एतयोः सः कार्यकारणभावः स्वापाद्यवस्थायामितरस्यामपि च समानः । भ्रान्त्यवस्थायां यथास्वं प्रत्ययविशेषोपाश्रयात्परस्पन्दनदिनिमित्तोद्भूतविज्ञानवासनैव कदाचित्पराभोगादेः व्यवहितादपि वृत्तिं लभते: न त्वत्यन्तासदाभोगात् । तस्मात्सर्वावस्थासु क्रियादिविज्ञप्तेः चित्तस्पन्दनमनुमीयत एव । [४५-५१] क्रियातः स्पन्दनप्रतिपत्तौ स्वाप इतरस्मिञ्च स्यात्प्रतिपत्तिरथ वा नैव कदाचन । परस्पन्दनभावेऽपि क्रियालम्बनोदयात् । भवत्वालम्बनोदयः, न तु क्रिया । क्रियया स्पन्दनं गम्यते । भ्रान्त्यवस्थानां क्रियैव न भवति, अर्थशून्यज्ञानोदयान्न दोषः । सर्वप्रकारव्यपदेशसाम्यात्कदाचिज्ज्ञानमर्थशून्यम्, अन्यदान्यथा इत्येषोऽधिकारः कुतो लब्धः? अथ मिद्धादिनावस्थान्यथाभावश्चेत् । यद्येवं सम्भवेत्, भवतु अविद्योपप्लुतत्वात्तथोदयः । तथा सति अर्थान्तरवादहान्या एतेऽनेकाशक्यनिगूहनदोषप्रसङ्गाः महाकृच्छ्रा उत्तेरेणैकेन निहता भवन्ति । [५२-५८] ननु तयोः दर्शनात्कायवाग्विज्ञप्तिभ्यां स्वमुत्थापकचित्तस्यानुमानमिति न्याय्यम् । न तु सन्तानान्तरसम्बद्धविज्ञप्तिप्रतिभासिज्ञाने परविज्ञप्ती भवितुमर्हतः, तयोरनुपादानोपादेयत्वादिति चेत् । नोच्यते परचित्तसमुत्थितविज्ञप्तिरूपत्वात्तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति । किं तर्हि? तस्य कार्यत्वात् । विज्ञप्तिरिति समुत्थापकचित्तसन्तानाज्जाते क्रियावागाकारके ज्ञाने एव । समुत्थापकचित्तं च तयोरेवोपादानकारणम्, सन्तानान्तरज्ञानयोः त्वधिपतिप्रत्ययः । विज्ञप्तेरुपादानात्ते जनिते । तत्सम्बन्धेनोपचाराद्विज्ञप्ती भवतः । भवतु स्वपरयोः स्वस्वप्रतिभासस्यानुभवः, तैमिरिकद्वयदृष्टद्विचन्द्रवत्; तथाविधविज्ञानस्य हेतुः वासनोत्पादस्वभावबिशेषोऽनादिकालिकैकार्थग्राहाध्यवसायित्वात् । एकहेतुसम्भूतयोः स्वपरवोइज्ञप्तिज्ञानयोः विज्ञप्तिवेनोपचारः । [५९-६४] किञ्च क्रियादिप्रतिभासिविज्ञानात्कार्यलिङ्गाज्जातं यत्परचित्तज्ञानं तत्परचित्तं विषयीक्रियत आहोस्विन्न? विषयीकरणेऽर्थान्तरं स्यात् । अविषयत्वे तु कथं ज्ञानेन परचित्तसत्ता प्रतीयते? तत्स्वरूपाज्ञाने तत्सिद्धैरसम्भवादिति चेत्३? एष प्रसङ्गोऽपि समः । क्रियावाग्भ्यां परचित्तं प्रतिपत्तिमतामपि तत्स्वरूपविषयीकरणे स्वचित्तज्ञानवत्तदाकारस्यापि ज्ञानं प्रसज्येत । तदज्ञाने तु तेन तत्स्वरूपस्य ग्रहणं कथम्? [६५-६७] अथ लिङ्गात्सामान्यधिगतेः नाकारस्य प्रतीतिरिति चेत्? किञ्च तत्सामान्यं परचित्तमेवान्यद्वाहोस्विदवाच्यम् । अन्यत्वावाच्यत्वयोरेकत्वे त्वनेन तत्सामान्यमेव गृह्येत, न परचित्तम् । तत्कथमनेन तद्गम्यते? नापि सामान्यं परचित्तमेव । तथा सति तदाकारस्यापि ज्ञानं प्रसह्येत इत्युक्तम् । [८६-७१] न ह्येषा अनुमानप्रक्रिया । न ह्यनुमानमर्थस्वरूपस्य ग्राहकम् । प्रत्यक्षवत्प्रतिभासाविशिष्टत्वादेः प्रसङ्गात् । तेन नास्य प्रामाण्यम् । तत्स्वरूपाग्रहेऽप्यभिप्रेतार्थाविसंवादात्प्रामाण्यम् । धूमादिलिङ्गाज्जातमपि न वह्नयादिस्वरूपविषयि, दृष्टेनाविशेषप्रसङ्गात् । अनुमानस्यातीतादौ निःस्वभावताया चाप्रवृत्तेः, अर्थक्रियाप्रसङ्गाच्च । [७२-७६] परचित्तानुमानेऽप्यभिप्रेतार्थाविसंवादोऽस्त्येव । तत्प्रवर्तनद्वारेण प्राण्यन्तरसत्तां प्रतिपद्य पुनः पुनर्व्यवहारप्रवृत्तौ तदाधिपत्यादागार्थस्य प्राप्तेः । तन्मात्रफलचिन्तकस्यलोकस्य प्राण्यन्तरानुमाने प्रवृत्तेश्च । उत्तरार्थविशेषप्रतिभासिज्ञानानुभवोदयमात्रेण पुरुषस्य निराकाङ्क्षत्वात् । पूर्वज्ञानेन व्यवहारसमाप्तेः कृतार्थतत्वं प्रमाणत्वेन सिद्धत्वात् । [७७-८१] ननु स्वप्नेऽपि पूर्वज्ञानादुत्तरार्थप्रतिभासिज्ञानमुत्पद्यते । न तन्मात्रेण पूर्वज्ञानस्य प्रामाण्यं युज्यते, तदानीं सर्वेषां ज्ञानानां भ्रान्तत्वात् । तत्र विज्ञप्तिज्ञानं न कदाचिच्चित्तस्पन्दनाधिपत्येन विना उद्भवतीत्यतः ताभ्यां ये अनुमीयते । भ्रान्तिवशात्कदाचिद्व्यवहितेऽपि उदेति, न तु तदाधिपत्यरहितत्वम् । विशेषस्त्वस्ति साक्षात्परम्परया चेत्युक्तम् । तत्र यथा पूर्वविज्ञप्तिज्ञानानां परम्परया स्पन्दनाधिपत्यादुदयः तथा तदुत्तरावस्थाभाविनामपि । विज्ञप्तिज्ञानाश्रयस्पन्दनोत्तरावस्थाचित्तसन्तानादेव परम्परयोत्पादः । तत्रापि यादृगनुमानं तादृगविसंवादो व्यवहारश्चाप्यस्त्येवेति केनापि न गृह्यते । [८२-८६] परचित्तानुमानेन तत्स्वरूपाग्रहेऽप्यविसंवादाद्भवतु तथा प्रामाण्यम् । साक्षात्परचित्तविदां तु कथम्? यदि ते परचित्तस्य स्वरूपं साक्षाज्जानन्ति, तदा तस्यार्थान्तरग्रहणं स्यात् । अथ न जानन्ति, कथं ते साक्षाद्विदः? कथं नाम प्रत्यक्षेणार्थस्वरूपस्य अग्रहणं च भवति । अथ न गृह्यते, कथं तर्हि प्रमाणमिति चेत्? अप्रहीणग्राह्यग्राहक विकल्पयोगिनां परचित्तज्ञानमपि व्यवहारेऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृतेः । योगबलाद्धि तेषां ज्ञानं परचित्ताकारविशेषानुकारि स्फुटाभमुपजायते, कर्मदेवाद्यधिष्ठानबलात्सत्यस्वप्नदर्शनवत् । तेषामपि न परचित्तविषयित्वेन ज्ञानमुदेति, तेऽपि तदाकारसदृशस्वचित्तप्रतिभासमेव जानन्तीत्येवमवधारणाद्परचित्तविद इति व्यवहारः । तदाकारानुकारिस्fउटाभत्वात्तत्प्रत्यक्षम्, अविसंवादित्वाच्च प्रमाणमिति मतम् । अचिन्त्यो हि भगवतः सर्वार्थाधिगमः, सर्वथा ज्ञानभिधानविषयातीतत्वात् ॥ [८७-९३] ॥ आचार्यधर्मकीर्तिप्रणीतं सन्तानान्तरसिद्धिप्रकरणं समाप्तम् ॥