आचार्यधर्मकीर्तिविरचिता सम्बन्धपरीक्षा (प्रभाचन्द्रकृतव्याख्योपेता) ननु चाणू नामयःशलाकाकल्पत्वेनान्योन्यं सम्बन्धाभावतः स्थूलादिप्रतीतेर्भ्रान्तत्वात्कथं तद्वशात्तत्स्वभावो भावः स्यात्? तथा हि - सम्बन्धोऽर्थानां पारतन्त्र्यलक्षणो वा स्यात्, रूपश्लेषलक्षणो वा स्यात्? प्रथमपक्षे किमसौ निष्पन्नयोः सम्बन्धिनोः स्यात्, अनिष्पन्नयोर्वा? न तावदनिष्पन्नयोः; स्वरूपस्यैवासत्त्वात्शशाश्वविषाणवत् । निष्पन्नयोश्च पारतन्त्र्याभावादसम्बन्ध एव । उक्तञ्च- पारतन्त्र्यं हि सम्बन्धः सिद्धे का परतन्त्रता । तस्मात्सर्वस्य भावस्य सम्बन्धो नास्ति तत्त्वतः ॥ १ ॥ नापि रूपश्लेषलक्षणोऽसौ; सम्बन्धिनोर्द्वित्वे रूपश्लेषविरोधात् । तयोरैक्ये वा सुतरां सम्बन्धाभावः, सम्बन्धिनोरभावे सम्बन्धायोगात्; द्विष्ठत्वात्तस्य । अथ नैरन्तर्यं तयो रूपश्लेषः? न; अस्यान्तरालभावरूपत्वेनातात्त्विकत्वात्सम्बन्धरूपत्वायोगः । निरन्तरतायाश्च सम्बन्धरूपत्वे सान्तरतापि कथं सम्बन्धो न स्यात्? किञ्च- असौ रूपश्लेषः सर्वात्मना, एकदेशेन वा स्यात्? सर्वात्मना रूपश्लेषे अणूनां पिण्डः अणुमात्रः स्यात् । एकदेशेन तच्छलेषे किमेकदेशास्तस्यात्मभूताः, परभूता वा? आत्मभूताश्चेत्; न एकदेशेन रूपश्लेषस्तदभावात् । परभूताश्चेत्; तैरप्यणूनां सर्वात्मनैकदेशेन वा रूपश्लेषे स एव पर्यनुयोगः, अनवस्था च स्यात् । तदुक्तम्- रूपश्लेषो हि सम्बधो द्वित्वे स च कथं भवेत् । तस्मात्प्रकृतिभिन्नानां सम्बन्धो नास्ति तत्त्वतः ॥ २ ॥ किञ्च- परापक्षैव सम्बन्धः, तस्य द्विष्ठत्वात् । तं चापेक्षते भावः स्वयं सन्, असन् वा? न तावदसन्; अपेक्षाधर्माश्रयत्वविरोधात्खरशृङ्गवत् । नापि सन्; सर्वनिराशंसत्वात्, अन्यथा सत्त्वविरोधात् । तन्न परापेक्षा नाम यद्रूपः सम्बन्धः सिद्ध्येत् । उक्तञ्च- परापेक्षा हि सम्बन्धः सोऽसन् कथमपेक्षते । संश्च सर्वनिराशंसो भावः कथमपेक्षते ॥ ३ ॥ किञ्च- असौ सम्बन्धः सम्बन्धिभ्यां भिन्नः, अभिन्नो वा? यद्यभिन्नः; तदा सम्बन्धिनावेव, न सम्बन्धः कश्चित्, स एव वा, न ताविति? भिन्नश्चेत्; सम्बन्धिनौ केवलौ कथं सम्बद्धौ स्याताम्? भवतु वा सम्बन्धोऽर्थान्तरम्; तथापि तेनैकेन सम्बन्धेन सह द्वयोः सम्बन्धिनोः कः सम्बन्धः? यथा सम्बन्धिनोर्यथोक्तदोषान्न कश्चित्सम्बन्धः, तथात्रापि । तेनानयोः सम्बन्धान्तराभ्युपगमे चानवस्था स्यात्; तत्रापि सम्बन्धान्तरानुषङ्गात् । तन्न सम्बन्धिनोः सम्बन्धबुद्धिर्वास्तवी; तवद्यतिरेकेणान्यस्य सम्बन्धस्यासम्भवात् । तदुक्तम्- द्वयोरेकाभिसम्बन्धात्सम्बन्धो यदि तद्द्वयोः । कः सम्बन्धोऽनवस्था च न सम्बन्धमतिस्तथा ॥ ४ ॥ ततः- तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः । इत्यमिश्राः स्वयं भावास्तान्मिश्रयति कल्पना ॥ ५ ॥ तौ च भावौ सम्बन्धिनौ ताभ्यामन्यश्च सम्बन्धः, सर्वे ते स्वात्मनि स्वस्वरूपे स्थिताः । तेनामिश्रा व्यावृत्तस्वरूपाः स्वयं भावाः, तथापि तान्मिश्रयति योजयति कल्पना ॥ ५ ॥ अत एव तद्वास्तवसम्बन्धाभावेऽपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृभिर्भावानां भेदोऽन्यापोहः, तस्य प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः प्रयोज्यन्ते-ऽदेवदत्त गामभ्याज शुक्लां दण्डेन इत्यादयः । न खलु कारकाणां क्रियया सम्बन्धोऽस्ति; क्षणिकत्वेन क्रियाकाले कारकाणामसम्भवात् । उक्तञ्च- तामेव चानुरुन्धानैः क्रियाकारकवाचिनः । भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधायकाः ॥ ६ ॥ कार्यकारणभावोपि तयोरसहभावतः । प्रसिद्ध्यति कथं द्विष्ठोऽद्विष्ठे सम्बन्धता कथम् ॥ ७ ॥ कार्यकारणभावस्तर्हि सम्बधो भविष्यति- इत्यप्यसमीचीनम्, कार्यकारणयोरसहभावतस्तस्यापि द्विष्ठस्यासम्भवात् । न खलु कारणकाले कार्यं तत्काले वा कारणमस्ति, तुल्यकालं कार्यकारणभावनुपपत्तेः, सव्येतरगोविषाणवत् । तन्न सम्बन्धिनौ सहभाविनौ विद्येते येंनानयोर्वर्तमानोऽसौ सम्बन्धः स्यात् । अद्विष्ठे च भावे सम्बन्धतानुपपन्नैव ॥ ७ ॥ क्रमेण भाव एकत्र वर्त्तमानोऽन्यनिस्पृहः । तद्भावेऽपि तद्भावात्सम्बन्धो नैकवृत्तिमान् ॥ ८ ॥ कार्ये कारणे वा क्रमेणासौ सम्बन्धो वर्तते- इत्यप्यसाम्प्रतम्; यतः क्रमेणापि भावः सम्बन्धाख्य एकत्र कारणे कार्ये वा वर्त्तमानोऽन्यनिस्पृहः कार्यकारणयोरन्यतरानपेक्षो नैकवृत्तिमान् सम्बन्धो युक्तः; तदभावेपि कार्यकारणयोरभावेऽपि तद्भावात् ॥ ८ ॥ यद्यपेक्ष्य तयोरेकमन्यत्रासौ प्रवर्तते । उपकारी ह्यपेक्ष्यः स्यात्कथं चोपकरोत्यसन् ॥ ९ ॥ यदि पुनः कार्यकारणयोरेकं कार्यं कारणं वापेक्ष्यान्यत्र कार्ये कारणे वासौ सम्बन्धः क्रमेण वर्त्तत इति सस्पृहत्वेन द्विष्ठ एवेष्यते; तदानेनापेक्ष्यमाणेनोपकारिणा भवितव्यम्, यस्मादुपकार्यपेक्ष्यः स्यात्, नान्यः । कथं चोपकरोत्यसन्? यदा कारणकाले कार्याख्यो भावोऽसन् तत्काले वा कारणाख्यस्तदा नैवोपकुर्याद्; असामर्थ्यात् ॥ ९ ॥ यद्येकार्थाभिसम्बन्धात्कार्यकारणता तयोः । प्राप्ता द्वित्वादिसम्बन्धात्सव्येतरविषाणयोः ॥ १० ॥ किञ्च- यद्येकार्थाभिसम्बन्धात्कार्यकारणता तयोः कार्यकारणभावत्वेनाभिमतयोः; तर्हि द्वित्वसंख्यापरत्वापरत्वविभागादिसम्बन्धात्प्राप्ता सा सव्येतरगोविषाणयोरपि ॥ १० ॥ द्विष्ठो हि कश्चित्सम्बन्धो नातोऽन्यत्तस्य लक्षणम् । भावाभावोपधिर्योगः कार्यकारणता यदि ॥ ११ ॥ न येन केनचिदेकेन सम्बन्धात्सेष्यते; किं तर्हि? सम्बन्धलक्षणेनैवेति चेत्; तन्न, द्विष्ठो हि कश्चित्पदार्थः सम्बन्धः, नातोऽर्थद्वयाभिसम्बन्धादन्यत्तस्य लक्षणम्, येनास्य संख्यादेर्विशेषो व्यवस्थाप्येत ॥ ११ ॥ योगोपाधि न तावेव कर्यकारणतात्र किम् । भेदाच्चेन्नन्वयं शब्दो नियोक्तारं समाश्रितः ॥ १२ ॥ कस्यचिद्भावे भावोऽभावे चाभावः, तावुपाधी विशेषणं यस्य योगस्य=सम्बन्धस्य स कार्यकारणता यदि न सर्वसम्बन्धः; तदा तावेव योगोपाधी भावाभावौ कार्यकारणतास्तु, किमसत्सम्बन्धकल्पनया? भेदाच्चेत्ऽभावे हि भावोऽभावे चाभावःऽ इति बहवोऽभिधेयाः कथं कार्यकारणतेत्येकार्थाभिधायिना शब्देनोच्यन्ते? नन्वयं शब्दो नियोक्तारं समाश्रितः । नियोक्ता हि यं शब्दं यथा प्रयुङ्क्ते तथा प्राह, इत्यनेकत्राप्येका श्रुतिर्न विरुध्यते इति तावेव कार्यकारणता ॥ १२ ॥ पश्यन्नेक मदृष्टस्य दर्शने तददर्शने । अपश्यत्कार्यमन्वेति विना व्याख्यातृभिर्जनः ॥ १३ ॥ यस्मात्पश्यन्नेकं कारणाभिमतमुपलब्धिलक्षणप्राप्तस्यादृष्टस्य कार्याख्यस्य दर्शने सति तददर्शने च सत्यपश्यत्कार्यमन्वेतिऽइदमतो भवतिऽ इति प्रतिपद्यते जनःऽअत इदं जातम्ऽ इत्याख्यातृभिर्विनापि ॥ १३ ॥ दर्शनादर्शने मुक्त्वा कार्यबुद्धेरसम्भवात् । कार्यादिश्रुतिरप्यत्र लाघवार्थ निवेशिता ॥ १४ ॥ तस्माद्दर्शनादर्शने विषयिणि विषयोपचारात्- भावाभावौ मुक्त्वा कार्यबुद्धेरसम्भवात्कार्यादिश्रुतिरप्यत्रऽभावाभावयोर्मा लोकः प्रतिपदमियतीं शब्दमालामभिदध्यात्ऽ इति व्यवहारलाघवार्थं निवेशितेति ॥ १४ ॥ तद्भावाभावात्तत्कार्यगतिर्याप्यनुवर्ण्यते । सङ्केतविषयाख्या सा सास्नादेर्गोगतिर्यथा ॥ १५ ॥ अन्वयव्यतिरेकाभ्यां कार्यकारणता नान्या चेत्कथं भावाभावाभ्यां सा प्रसाध्यते? तदभावाभावात्लिङ्गात्तत्कार्यतागतिर्याप्यनुवर्ण्यते-ऽअस्येदं कार्यं कारणं चऽ इति; सङ्केतविषयाख्या सा । यथाऽगौरयं सास्नादिमत्त्वात्ऽ इत्यनेन गोव्यवहारस्य विषयः प्रदर्श्यते ॥ १५ ॥ भावे भाविनि तद्भावो भाव एव च भाविता । प्रसिद्धे हेतुफलते प्रत्यक्षानुपलम्भतः ॥ १६ ॥ यतश्चऽभावे भाविनि=भवनधर्मिणि तद्भावः=कारणाभिमतस्य भाव एव कारणत्वम्, भावे एव कारणाभिमतस्य भाविता कार्याभिमतस्य कार्यत्वम्ऽ इति प्रसिद्धे प्रत्यक्षानुपलम्भतो हेतुफलते । ततो भावाभावावेव कार्यकारणता, नान्या ॥ १६ ॥ एतावन्मात्रतत्त्वार्थाः कार्यकारणगोचराः । विकल्पा दर्शयन्त्यर्थान्मिथ्यार्था घटितानिव ॥ १७ ॥ तेनैतावन्मात्रं=भावाभावौ तावेव तत्त्वंऽयस्यार्थस्यासावेतावन्मात्रतत्त्वः, सोऽर्थो येषां विकल्पानां ते एतावन्मात्रतत्त्वार्थाः=एतावन्मात्रबीजाः कार्यकारणगोचराः, दर्शयन्ति घटितानिव=सम्बद्धानिवासम्बद्धानप्यर्थान् । एवं घटनाच्च मिथ्यार्थाः ॥ १७ ॥ भिन्ने का घटनाभिन्ने कार्यकारणतापि का । भावेह्यन्यस्य विश्लिष्टौ श्लिष्टौ स्यातां कथं च तौ ॥ १८ ॥ किञ्च, असौ कार्यकारणभूतोऽर्थो भिन्नः, अभिन्नो वा स्यात्? यदि भिन्नः;, तर्हि भिन्ने का घटना स्वस्वभावव्यवस्थितेः? अथाभिन्नः; तदाभिन्ने कार्यकारणतापि का? नैव स्यात् । स्यादेतत्, न भिन्नस्याभिन्नस्य वा सम्बन्धः । किं तर्हि? सम्बन्धाख्येनैकेन सम्बन्धात्; इत्यत्रापि भावे सत्तायामन्यस्य सम्बन्धस्य विश्लिष्टौ कार्यकारणाभिमतौ श्लिष्टौ स्याताम्, कथं च तौ संयोगिसमवायिनौ? आदिग्रहणात्स्वस्वाम्यादिकम् ॥ १८ ॥ संयोगिसमवाय्यादि सर्वमेतेन चिन्तितम् । अन्योन्यानुपकाराच्च न सम्बन्धी च तादृशः ॥ १९ ॥ सर्वमेतेनान्तन्तरोक्तेन सामान्यसम्बन्धप्रतिषेधेन चिन्तितं संयोग्यादीनामन्योन्यमनुपकाराच्चाजन्यजनकभावाच्च न सम्बन्धी च तादृशोऽनुपकार्योपकारकभूतः ॥ १९ ॥ जननेऽपि हि कार्यस्य केनचित्समवायिना । समवायी तदा नासौ न ततोऽतिप्रसङ्गतः ॥ २० ॥ अथास्ति कश्चित्समवायी योऽवयविरूपं कार्यं जनयति, अतो नानुपकारादसम्बन्धितेति; तन्न; यतो जननेऽपि कार्यस्य केनचित्समवायिनाभ्युपगम्यमाने समवायी, नासौ तदा; जननकाले कार्यस्यानिष्पत्तेः । न च ततो जननात्समवायित्वं सिद्ध्यति; कुम्भकारादेरपि घटे समवायित्वप्रसङ्गात् ॥ २० ॥ तयोरनुपकारेऽपि समवाये परत्र वा । सम्बन्धो यदि विश्वं स्यात्समवायि परस्परम् ॥ २१ ॥ तयोः समवायिनोः परस्परमनुपकारेऽपि ताभ्यां वा समवायस्य नित्यतया समवायेन वा तयोः परत्र वा क्वचिदनुपकारेऽपि सम्बन्धो यदीष्यते; तदा विश्वं परस्परासम्बद्धं समवायि परस्परं स्यात् ॥ २१ ॥ संयोगजननेऽपिष्टौ ततः संयोगिनौ न तौ । कर्मादियोगितापत्तेः स्थितिश्च प्रतिवर्णिता ॥ २२ ॥ इत्याचार्यधर्मकीर्तिविरचिता सम्बन्धपरीक्षा समाप्ता । यदि च संयोगस्य कार्यत्वात्तस्य ताभ्यां जननात्संयोगिता तयोः तदा संयोगजननेऽपिष्टौ, ततः संयोगजननान्न तौ संयोगिनौ, कर्मणोऽपि संयोगितापत्तेः । संयोगो ह्यन्यतरकर्मजः उभयकर्मजश्चेष्यते । आदिग्रहणात्संयोगस्यापि संयोगिता स्यात् । न संयोगजननात्संयोगिता, किन्तर्हि? स्थापनादिति चेत्; न स्थितिश्च प्रतिवर्णिता=ग्रन्थान्तरे प्रतिक्षिप्ता, स्थाप्यस्थापकयोर्जन्यजनकत्वाभावान्नान्या स्थितिरिति ॥ २२ ॥ इति प्रभाचन्द्रकृता सम्बन्धपरीक्षाव्याख्या समाप्ता ।