००१०१ ओं नमो बुद्धाय । ००१०२ विधूतकल्पनाजालगम्भीरोदारमूर्तये । ००१०३ नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ ००१०४ प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम् । ००१०५ न अनर्थ्येव सुभाषितैः परिगतो विद्वेष्ट्यपि ईर्ष्यामलैः ॥ ००१०६ तेन अयं न परोपकार इति नश्चिन्ता अपि चेतश्चिरम् । ००१०७ सूक्ताभ्यासविवर्धितव्यसनमित्यत्र अनुबद्धस्पृहम् ॥ ००१०८ अर्थानर्थविवेचनस्य अनुमानाश्रयत्वात्तद्विप्रतिपत्तेस्तद्व्यवस्थापनाय ००१०९ आह । ००११० पक्षधर्मस्तद्अंशेन व्याप्तो हेतुस्त्रिधा एव सः । ००१११ अविनाभावनियमाधेत्व्आभासास्ततो अपरे ॥१॥ ००११२ पक्षो धर्मी । अवयवे समुदायोपचारात् । प्रयोजनाभावादनुपचार ००११३ इति चेत् । न । सर्वधर्मिधर्मप्रतिषेधार्थत्वात् । तद्एकदेशत्वात् ००११४ तद्उपचारयोग्यधर्मिधर्मप्रतिपत्त्य्अर्थम् । तथा ००११५ च चाक्षुषत्वादिपरिहारः । धर्मवचनेन अपि धर्म्य्आश्रय ००२०१ सिद्धौ धर्मिग्रहणसामर्थ्यात्प्रत्यासत्त्या साध्यधर्मिसिद्धिर् ००२०२ इति चेत् । न । दृष्टान्तधर्मिणो अपि प्रत्यासत्तेः । तद्अंश ००२०३ व्याप्त्या दृष्टान्तधर्मिणि सत्त्वसिद्धेर्धर्मिवचनात्साध्यधर्मि ००२०४ परिग्रहः । सिद्धे पुनर्वचनं नियमार्थमाशङ्क्येत । ००२०५ सजातीय एव सत्त्वमिति सिद्धे अपि विजातीयव्यतिरेके साध्य ००२०६ अभावे असत्त्ववचनवत् । सामर्थ्यादर्थगतौ प्रतिपत्ति ००२०७ गौरवपरिहारार्थं च पक्षवचनम् । पक्षस्य धर्मत्वे तद् ००२०८ विशेषणापेक्षस्य अन्यत्र अननुवृत्तेरसाधारणता इति चेत् । न । अयोगव्यवच्छेदेन ००२०९ विशेषणात् । यथा चैत्रो धनुर्धरः । न अन्ययोगव्यवच्छेदेन । ००२१० यथा पार्थो धनुर्धर इत्याक्षेप्स्यामः । ००२११ तद्अंशस्तद्धर्मः । वक्तुरभिप्रायवशात् । न तद्एकदेशः । ००२१२ पक्षशब्देन समुदायावचनात् । व्याप्तिर्व्यापकस्य तत्र भाव ००२१३ एव । व्याप्यस्य वा तत्र एव भावः एतेन अवयवव्यतिरेकौ यथास्वं ००२१४ प्रमाणेन निश्चितावुक्तौ पक्षधर्मश्च । त एते कार्य ००२१५ स्वभावानुपलब्धिलक्षणास्त्रयो हेतवः । यथा अग्निरत्र धूमात् । ००२१६ वृक्षो अयं शिंशपात्वात् । प्रदेशविशेषे क्वचिन्न घट उपलब्धि ००२१७ लक्षणप्राप्तस्य अनुपलब्धेः । यदि स्यादुपलब्ध्य्असत्त्व ००२१८ एव स्यान्न अन्यथा । तेन उपलब्धिलक्षणप्राप्तसत्त्वस्य इत्युक्तं ००२१९ भवति । तत्र द्वौ वस्तुसाधनौ एकः प्रतिषेधहेतुः । स्वभावप्रतिबन्धे ००२२० हि सत्यर्थो अर्थं न व्यभिचरति । स च ००२२१ तदात्मत्वात् । तदात्मत्वे साध्यसाधनभेदाभाव इति चेत् । ००२२२ न । धर्मभेदपरिकल्पनादिति वक्ष्यामः । तथा च आह । सर्व ००२२३ एव अयमनुमानानुमेयव्यवहारो बुद्ध्य्आरूढेन धर्मधर्मि ००३०१ भेदेन इति । भेदो धर्मधर्मितया बुद्ध्य्आकारकृतो न अर्थो ००३०२ अपि । विकल्पभेदानां स्वतन्त्राणामनर्थाश्रयत्वात् । तत् ००३०३ कल्पितविषयादर्थप्रतीतावनर्थप्रतिलम्भ एव स्यात् । कार्यस्य ००३०४ अपि स्वभावप्रतिबन्धः । तत्स्वभावस्य तदुत्पत्तेरिति । ००३०५ एतौ द्वावनुमेयप्रत्ययौ साक्षादनुत्पत्तेरतत्प्रतिभासित्वे ००३०६ अपि तदुत्पत्तेस्तद्व्यभिचारिणाविति प्रमाणं प्रत्यक्षवत् । ००३०७ प्रत्यक्षस्य अपि ह्यर्थाव्यभिचार एव प्रामाण्यम् । तद्अभावे ००३०८ भाविनस्तद्विप्रलम्भात् । अव्यभिचारश्च अन्यस्य को अन्यस्तदुत्पत्तेः । ००३०९ अनायत्तरूपाणां सहभावनियमाभावात् । यदि तदुत्पत्तेः ००३१० कार्यं गमकं सर्वथा गम्यगमकभावः सर्वथा ००३११ जन्यजनकभावात् । न । तद्अभावे भवतस्तदुत्पत्ति ००३१२ नियमाभावात् । तस्मात् । ००३१३ कार्यं स्वभावैर्यावद्भिरविनाभावि कारणे । ००३१४ तेषां ००३१५ हेतुः । ००३१६ तत्कार्यत्वनियमात्तैरेव धर्मैर्ये तैर्विना न भवति । ००३१७ अंशेन जन्यजनकत्वप्रसङ्ग इति चेत् । न । तज्जन्यविशेषग्रहणे ००३१८ अभिमतत्वाल्लिङ्गविशेषोपाधीनां च सामान्यानाम् । अविशिष्ट ००३१९ सामान्यविवक्षायां व्यभिचारान्न इष्यते । ००४०१ स्वभावे भावो अपि भावमात्रानुरोधिनि ॥२॥ ००४०२ हेतुरिति वर्तते । तादात्म्यं हि अर्थस्य तन्मात्रानुरोधिनि एव ००४०३ न अन्या आयत्ते । तद्भावे अभूतस्य पश्चाद्भावनियमाभावात् । कारणानां ००४०४ कार्यव्यभिचारात् । ००४०५ अप्रवृत्तिः प्रमाणानाम् । ००४०६ अनुपलब्धिः ००४०७ अप्रवृत्तिफला असति । ००४०८ सज्ज्ञानशब्दव्यवहार प्रतिषेधफला । उपलब्धिपूर्वकत्वात्तेषाम् ००४०९ इति इदं सद्असत्प्रतिषेधविधिहेत्वोस्तुल्यं रूपम् । तथा ००४१० हि सत्त्वमुपलब्धिरेव वस्तुयोग्यतालक्षणा तद्आश्रया वा ००४११ ज्ञानप्रवृत्तिः । ततः सज्ज्ञानशब्दव्यवहारवृत्तेः । असतां ००४१२ च असत्त्वमनुपलब्धिः ००४१३ असज्ज्ञानफला काचिधेतुभेदव्यपेक्षया ॥३॥ ००४१४ हेतुरनुपलब्धिः । भेदो अस्या विशेषणमुपलब्धिलक्षण ००४१५ प्राप्तसत्त्वम् । अत्र अनुपलब्धेर्लिङ्गादसत्तायामुपलब्धेर् ००४१६ अभावो अपि अन्यया अनुपलब्ध्या साध्य इति अनवस्थानाद् अप्रतिपत्तिः ००४१७ स्यात् । अथ उपलब्ध्य्अभावो विना अनुपलब्ध्या स्यात् । तथा ००४१८ सत्ता अभावो अपि स्यात् । अपार्थिकानुपलब्धिः । अथ अन्योपलब्ध्या ००४१९ अनुपलब्धिसिद्धिरिति प्रत्यक्षसिद्धा अनुपलब्धिः । तथा अन्यसत्तया ००४२० असत्ता किं न सिध्यति इति । यदा पुनरेवंविधा अनुपलब्धिर् ००४२१ एव असतामसत्ता तदा सिद्धे अपि विषये मोहाद्विषयिणो ००४२२ असज्ज्ञानशब्दव्यवहारानप्रतिपद्यमानो विषयप्रदर्शनेन ००४२३ समये प्रवर्त्यते । यथा गौरयं सास्नादिसमुदायात्मकत्वाद् ००४२४ इति । तथा च दृष्टान्तासिद्धिचोदना अपि प्रतिव्यूढा ००५०१ विषयप्रतिपत्तावप्यप्रतिपन्नविषयीणां दर्शनात् । ००५०२ एवमनयोरनुपलब्ध्योः स्वविपर्ययहेत्व्अभावभावाभ्यां ००५०३ सद्व्यवहारप्रतिषेधफलत्वं तुल्यम् । एकत्र संशयादन्यत्र ००५०४ विपर्ययात् । तत्र आद्या सद्व्यवहारनिषेधोपयोगात्प्रमाणम् ००५०५ उक्ता । न तु व्यतिरेकदर्शनादावुपयुज्यते । संशयात् । द्वितीया ००५०६ त्वत्र प्रमाणं निश्चयफलत्वात् । सा च प्रयोगभेदात् ००५०७ विरुद्धकार्ययोः सिद्धिरसिद्धिर्हेतुभावयोः । ००५०८ दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥४॥ ००५०९ यावान् कश्चित्प्रतिषेधः स सर्वो अनुपलब्धेः । तथा हि स द्विधा ००५१० क्रियेत कस्यचिद्विधिना निषेधेन वा । विधौ विरुद्धो वा विधीयेत ००५११ अविरुद्धो वा । अविरुद्धस्य विधौ सहभावविरोधाभावाद् ००५१२ अप्रतिषेधः । विरुद्धस्य अप्यनुपलब्ध्य्अभावेन विरोधाप्रतिपत्तिः ००५१३ । तथा ह्यपर्यन्तकारणस्य भवतो अन्यभावे ००५१४ अभावाद्विरोधगतिः । स च अनुपलब्धेः । अन्योन्योपलब्धिपरिहार ००५१५ स्थितलक्षणता वा विरोधो नित्यानित्यत्ववत् । तत्र अप्य् एकोपलब्ध्या ००५१६ अन्यानुपलब्धिरेव उच्यते । अन्यथा अनिषिद्धोपलब्धेरभाव ००५१७ असिद्धेः । एकस्य निषेधेन अन्याभावसाधने सिद्धा एव अनुपलब्धिः । ००५१८ निषेधस्य अनुपलब्धिरूपत्वात् । तत्र अप्यर्थान्तरनिषेधे ००५१९ कार्यकारणयोरनुभवस्य वा । तत्र अनुभवस्य अप्रतिबन्धात्तद् ००५२० अभावे अन्येन न भवितव्यमिति कुत एतत् । कार्यानुपलब्धाव् ००५२१ अपि न अवश्यं कारणा अपि तद्वन्ति भवन्ति इति तद्अभावः कुतः । ००५२२ तस्मात्कारणानुपलब्धिरेव अभावं गमयति इति । स्वभावानुपलब्धिस् ००५२३ तु स्वयमसत्ता एव । तत्र केवलं विषयी साध्यते । ००५२४ अस्यामपि यदा व्यापकधर्मानुपलब्ध्या व्याप्याभावमाह ००५२५ तदा अभावो अपि इति । इयं प्रतिषेधविषयानुपलब्धिः प्रयोग ००६०१ भेदेन चतुर्धा भवति । विरुद्धसिद्ध्या यथा न शीतस्पर्शो ००६०२ अत्र अग्नेः । एतेन व्यापकविरुद्धसिद्धिरुक्ता वेदितव्या यथा ००६०३ न तुषारस्पर्शो अत्र अग्नेः । विरुद्धकार्यसिद्ध्या यथा न शीत ००६०४ स्पर्शो अत्र धूमात् । हेत्व्असिद्ध्या यथा न अत्र धूमो अनग्नेः । ००६०५ स्वभावासिद्ध्या यथा न अत्र धूमो अनुपलब्धेः । एतेन व्यापक ००६०६ स्वभावासिद्धेरुक्ता यथा न अत्र शिंशपा वृक्षाभावात् । ००६०७ सर्वत्र च अस्यामभावसाधन्यामनुपलब्धौ दृश्यात्मनामेव ००६०८ तेषां तद्विरुद्धानां च सिद्धिरसिद्धिश्च वेदितव्या । अन्येषाम् ००६०९ अभावविरोधासिद्धेः । यदि विरुद्धकार्योपलब्ध्या अप्य् अभाव ००६१० सिद्धिः तत्कारणोपलब्ध्या किं न सिध्यति । ००६११ तद्विरुद्धनिमित्तस्य या उपलब्धिः प्रयुज्यते । ००६१२ निमित्तयोर्विरुद्धत्वाभावे सा व्यभिचारिणी ॥५॥ ००६१३ यथा न शीतस्पर्शो अत्र काष्ठादिति । निमित्तयोः पुनर्विरोधे ००६१४ गमिका एव यथा न अस्य रोमहर्षादिविशेषाः सन्ति संनिहितदहन ००६१५ विशेषत्वातेतेन तत्कार्यादपि तद्विरुद्धकार्याभावगतिर् ००६१६ उक्ता वेदितव्या यथा न रोमहर्षादिविशेषयुक्तपुरुषवानयं ००६१७ प्रदेशो धूमात् । इयं च हेत्व्असिद्ध्या एव तद्विरुद्धसिद्धिः ००६१८ प्रागेव निर्दिष्टा इति इयं प्रयोगभेदादष्टधानुपलब्धिः । तत्र ००६१९ या इयं विरुद्धकार्योपलब्धिरुक्ता तत्र ००६२० इष्टं विरुद्धकार्ये अपि देशकालाद्य्अपेक्षणम् । ००६२१ अन्यथा व्यभिचारि स्याद्भस्मा इव अशीतसाधने ॥६॥ ००६२२ यस्तर्हि समग्रेण हेतुना कार्योत्पादो अनुमीयते स कथं ००६२३ त्रिविधे हेतावन्तर्भवति । ००६२४ हेतुना यः समग्रेण कार्योत्पादो अनुमीयते । ००६२५ अर्थान्तरानपेक्षत्वात्स स्वभावो अनुवर्णितः ॥७॥ ००६२६ असावपि यथा असंनिहितान्न अन्यमपेक्षत इति तन्मात्रानुबन्धी ००६२७ स्वभावो भावस्य । तत्र हि केवलं समग्रात्कारणात् कार्योत्पत्ति ००६२८ सम्भवो अनुमीयते समग्राणां कार्योत्पादनयोग्यतानुमानात् । ००६२९ योग्यता च सामग्रीमात्रानुबन्धिनी इति स्वभावभूता एव अनुमीयते । ००७०१ किं पुनः कारणं सामग्र्याः कार्यमेव न अनुमीयते । ००७०३ सामग्रीफलशक्तीनां परिणामानुबन्धिनि । ००७०४ अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥८॥ ००७०५ न हि समग्राणि इत्येव कारणद्रव्याणि स्वकार्यं जनयन्ति सामग्री ००७०६ जन्मनां शक्तीनां परिणामापेक्षत्वात्कार्योत्पादस्य । अत्र ००७०७ अन्तरे च प्रतिबन्धसम्भवान्न कार्यानुमानम् । योग्यतायास् ००७०८ तु द्रव्यान्तरानपेक्षत्वान्न विरुध्यते अनुमानम् । उत्तरोत्तर ००७०९ शक्तिपरिणामेन कार्योत्पादनसमर्था इयं कारणसामग्री ००७१० शक्तिपरिणामप्रत्ययस्य अन्यस्य अपेक्षणीयस्य अभावादिति । पूर्व ००७११ सजातिमात्रहेतुत्वात्शक्तिप्रसूतेः सामग्र्या योग्यता अनन्यापेक्षिणी ००७१२ इत्युच्यते । या तर्ह्यकार्यकारणभूतेन अन्येन रसादिना रूप ००७१३ आदिगतिः सा कथम् । सा अपि ००७१४ एकसामग्र्य्अधीनस्य रूपादेरसतो गतिः । ००७१५ हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥९॥ ००७१६ तत्र हेतुरेव तथाभूतो अनुमीयते । प्रवृत्तशक्तिरूपोपादान ००७१७ कारणसहकारिप्रत्ययो हि रसहेतू रसं जनयति । इन्धनविकार ००७१८ विशेषोपादानहेतुसहकारिप्रत्ययाग्निधूमजननवत् । तथा ००७१९ हि । ००७२० शक्तिप्रवृत्त्या । ००७२१ स्वकारणस्य फलोत्पादनं प्रत्याभिमुख्येन ००८०१ न विना रसः स एव अन्यकारणम् । ००८०२ रूपोपादानहेतूनां प्रवृत्तिकारणम् । सा अपि रसोपादानकारणप्रवृत्ती ००८०३ रूपोपादानकारणप्रवृत्तिसहकारिणी । तस्माद्यथाभूताधेतो ००८०४ रस उत्पन्नस्तथाभूतमनुमापयन् रूपमनुमापयति ००८०५ इत्य् । ००८०६ तत्र अपि ००८०७ अतीतैकैकालानां गतिस्। ००८०८ न अनागतानां व्यभिचारात् ००८०९ तत् । ००८१० तस्मादियम् ००८११ कार्यलिङ्गजा ॥१०॥ ००८१२ तेन न अन्यो हेतुर्गमको अस्ति । अप्रतिबद्धस्वभावस्य अविनाभाव ००८१३ नियमाभावात् । एतेन पिपीलिकोत्सरणमत्स्यविकारादेर् ००८१४ वर्षाद्य्अनुमानमुक्तम् । तत्र अपि भूतपरिणाम एव वर्षहेतुः ००८१५ पिपीलिकादि संक्षोभादिहेतुरिति । ००८१६ हेतुना त्वसमग्रेण यत्कार्यमनुमीयते । ००८१७ शेषवत्तदसामर्थ्याद्देहाद्रागानुमानवत् ॥११॥ ००८१८ समग्राण्येव हि कारणानि योग्यतामप्यनुमापयन्त्यसमग्रस्य ००८१९ एकान्तासामर्थ्यात् । यथा देहेन्द्रियबुद्धिभ्यो रागाद्य्अनुमानम् । ००८२० आत्मात्मीयाभिनिवेशपूर्वका हि रागादयो अयोनिशोमनस्कार ००८२१ पूर्वकत्वात्सर्वदोषोत्पत्तेः । देहादीनां हेतुत्वे अपि ००८२२ न केवलानां सामर्थ्यमस्ति इति । विपक्षवृत्तेरदृष्टावपि ००८२३ शेषवद्अनुमानात्संशयः । तथा ००९०१ विपक्षे अदृष्टिमात्रेण कार्यसामान्यदर्शनात् । ००९०२ हेतुज्ञानं प्रमाणाभं वचनाद्रागितादिवत् ॥१२॥ ००९०३ न हि रागादीनामेव कार्यं स्पन्दनवचनादयः वक्तुकामता ००९०४ सामान्यहेतुत्वात् । स एव राग इति चेतिष्टत्वान्न किंचिद्बाधितं ००९०५ स्यात् । नित्यसुखात्मात्मीयदर्शनाक्षिप्तं सास्रवधर्मविषयं ००९०६ चेतसो अभिष्वङ्गं रागमाहुः । न एवं करुणादयो अन्यथा ००९०७ अपि सम्भवादिति निवेदयिष्यामः । अत्र यथा रक्तो ब्रवीति ००९०८ तथा विरक्तो अपि इति वचनमात्रादप्रतिपत्तिः । न अपि विशेषात् । ००९०९ अभिप्रायस्य दुर्बोधत्वात् । व्यवहारसंकरेण सर्वेषां व्यभिचारात् । ००९१० प्रयोजनाभावादव्याहार इति चेत्न परार्थत्वात् । ००९११ न युक्तो वीतरागत्वादिति चेत्न करुणा अपि वृत्तेः । स एव ००९१२ राग इति चेत् । इष्टम् । अविपर्याससमुद्भवान्न दोषः । असत्य् ००९१३ अप्यात्मग्रहे दुःखविशेषदर्शनमात्रेण अभ्यासबलोत्पादिनी ००९१४ भवत्येव करुणा । तथा हि । सत्त्वधर्माद्य्आलम्बना मैत्र्य्आदय ००९१५ इष्यन्ते । एताश्च सजातीयाभ्यासवृत्तयो न रागापेक्षिण्यः । ००९१६ न एवं रागादयो विपर्यासाभावे अभावात् । कारुणिकस्य अपि ००९१७ निष्फल आरम्भो अविपर्यासादिति चेत् । न । परार्थस्य एव ००९१८ फलत्वेन इष्टत्वात् । इच्छालक्षणत्वात्फलस्य । सर्वथा अभूत ००९१९ असमारोपान्निर्दोषः । तद्अन्येन दोषवत्त्वसाधने न किंचिद् ००९२० अनिष्टम् । वक्तर्यात्मनि रागादिदर्शनेन अन्यत्र तद्अनुमाने ००९२१ अतिप्रसङ्गः । व्यभिचारात् । अनन्यानुमाने इह अव्यभिचार इति ०१००१ को निश्चयः । करणगुणवक्तुकामते हि वचनमनुमापयेत् । ०१००२ रागोत्पादनयोग्यतारहिते वचनादर्शनात्तद्अनुमाने ०१००३ अतिप्रसङ्गः उक्तः । रागस्य अनुपयोगे कथं तच्शक्तिरुपयुज्यते । ०१००४ शक्त्य्उपयोगे हि स एव उपयुक्तः स्यात्तच्च न अस्ति इत्युक्तम् । ०१००५ तस्मान्नान्तरीयकमेव कार्यं कारणमनुमापयति तत् ०१००६ प्रतिबन्धात्न अन्यद्विपक्षे अदर्शने अपि । सर्वदर्शिनो हि दर्शन ०१००७ व्यावृत्तिः सर्वत्र अभावं गमयेत् । क्वचित्तथा दृष्टानाम् ०१००८ अपि देशकालसंस्कारभेदेन अन्यथा अदर्शनाद् । यथा आमलक्यः ०१००९ क्षीरावसेकेन मधुरफला भवन्ति । न च एवं बहुलं दृश्यन्ते । ०१०१० तेन एवं स्याद्युक्तं वक्तुं मादृशो वक्ता रागी इति ०१०११ रागोत्पत्तिप्रत्ययविशेषेण आत्मदर्शनायोनिशोमनस्कारेण योगात् । ०१०१२ तदा अप्यपार्थको वचनोदाहारः । तस्माद्विपक्षे अदृष्टिरहेतुः । ०१०१३ न च अदर्शनमात्रेण विपक्षे अव्यभिचारिता । ०१०१४ सम्भाव्यव्यभिचारत्वात्स्थालीतण्डुलपाकवत् ॥१३॥ ०१०१५ न हि बहुलं पक्वदर्शने अपि स्थाल्य्अन्तर्गमनमात्रेण पाकः ०१०१६ सिध्यति । व्यभिचारदर्शनात् । एवं तु स्यादेवं स्वभावा ०१०१७ एतत्समानपाकहेतवः पक्वा इति । अन्यथा तु शेषवदेतदनुमानं ०१०१८ व्यभिचारि । किं पुनरेतच्शेषवत् । ०१०१९ यस्य अदर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । ०१०२० तस्य संशयहेतुत्वाच्शेषवत्तदुदाहृतम् ॥१४॥ ०१०२१ स तस्य व्यतिरेको न निश्चित इति विपक्षे वृत्तिराशङ्क्येत । व्यतिरेक ०१०२२ साधनस्य अदर्शनमात्रस्य संशयहेतुत्वात् । न सर्वानुपलब्धिर् ०१०२३ गमिका । तस्मादेकनिवृत्त्या अन्यनिवृत्तिमिच्छता तयोः ०१०२४ कश्चित्स्वभावप्रतिबन्धो अप्येष्टव्यः । अन्यथा अगमको ०१०२५ हेतुः स्यात् । ०१०२६ हेतोस्त्रिषु अपि रूपेषु निश्चयस्तेन वर्णितः । ०१०२७ असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥१५॥ ०१०२८ न ह्यसति प्रतिबन्धे अन्वयव्यतिरेकनिश्चयो अस्ति । तेन तम् ०११०१ एव दर्शयन्निश्चयमाह । तत्र अन्वयस्य निश्चयेन विरुद्ध ०११०२ तत्पक्ष्याणां निरासः । व्यतिरेकस्य अनैकान्तिकस्य तत्पक्षस्य च ०११०३ शेषवद्आदेः । द्वयोरित्येकसिद्धप्रतिषेधः । प्रसिद्धवचनेन ०११०४ सन्दिग्धयोः शेषवद्असाधारणयोः सपक्षविपक्षयोर् ०११०५ अपि । अन्यथा ह्यसति प्रतिबन्धे अदर्शनमात्रेण व्यतिरेके । ०११०६ व्यभिचारिविपक्षेण वैधर्म्यवचनं च यत् । ०११०७ यदाह । एष तावन्न्यायो यदुभयं वक्तव्यं विरुद्ध अनैकान्तिक ०११०८ प्रतिपक्षेण इति । वैधर्म्यवचनमनैकान्तिकप्रतिपक्षेण । ०१११० यद्यदृष्टिफलं तच्च । ०११११ यदि तेन विपक्षे अदर्शनं ख्याप्यते । ०१११२ तदनुक्ते अपि गम्यते ॥१६॥ ०१११३ न हि तस्य प्राग्दर्शनभ्रान्तिर्या वचनेन निवर्त्येत । स्मृतिर् ०१२०१ वाचादर्शने क्रियत इति चेत् । दर्शनं खल्वप्रतीयमानम् ०१२०२ अनङ्गमिति युक्तं तत्र स्मरणाधानम् । अदर्शनं तु दर्शन ०१२०३ अभावः । स दर्शनेन बाध्यते । तद्अभावे तु सिद्ध एव इत्यपार्थकं ०१२०४ तत्सिद्धये वचनम् । न वै अनुपलम्भमानस्य ०१२०५ तावता न अस्ति इति भवति तद्अर्थं वचनमिति चेत् । ०१२०६ न च न अस्ति इति वचनात्तन्न अस्त्येव यथा यदि । ०१२०७ न अस्ति स ख्याप्यते न्यायस्तदा न अस्ति इति गम्यते ॥१७॥ ०१२०८ यद्यनुपलभमानो न अस्ति इति न प्रत्येति वचनादपि न एव प्रत्येष्यति । ०१२०९ तदपि ह्यनुपलम्भमेव ख्यापयति । न च एकानुपलम्भो ०१२१० अन्याभावं साधयत्यतिप्रसङ्गात् । न च तेन ०१२११ न अस्ति इति वचनात्तथा भवत्यतिप्रसङ्गात् । तत्कथं वैधर्म्यवचनेन ०१२१२ अनैकान्तिकपरिहारः । तस्माद्व्यावृत्तिमिच्छता ०१२१३ तत्र न्यायो वक्तव्यः यतो अस्य व्यावृत्तमिति भवति । ०१२१४ ननु तद्अभावे अनुपलम्भात्सिद्धा व्यावृत्तिः । ०१२१५ यद्यदृष्ट्या निवृत्तिः स्याच्शेषवद्व्यभिचारि किम् । ०१२१६ यथा पक्वान्येतानि फलान्येवंरसानि वा रूपाविशेषादेकशाखा ०१२१७ प्रभवत्वाद्वा उपयुक्तवदिति । अत्र अपि विवक्षिताशेषपक्षीकरणे ०१२१८ हेतोः साध्याभावे अनुपलम्भो अस्ति इति कथं व्यभिचारः । ०१२१९ प्रत्यक्षबाधाशङ्का व्यभिचार इत्येके । न । पक्षीकृत ०१२२० विषये अभावात् । कदाचिद्भवेदिति चेत् । तथा शङ्कायामतिप्रसङ्गः । ०१२२१ अन्यत्र अप्यभावनियमाभावात् । वृत्तं प्रमाणं बाधकम् । ०१२२२ अवृत्तबाधने सर्वत्र अनाश्वासः । व्यतिरेकस्तु सिद्ध ०१२२३ एव साधनमिति तथा अभावनिश्चयमपेक्षते । अनुपलम्भात्तु ०१२२४ क्वचिदभावसिद्धावप्यप्रतिबद्धस्य तद्अभावे सर्वत्र ०१२२५ अभावासिद्धेः संशयादव्यतिरेको व्यभिचारः शेषवतः । ०१२२६ किं च । ०१३०१ व्यतिरेक्यपि हेतुः स्यान् । ०१३०२ न इदं निरात्मकं जीवच्छरीरमप्राणादिमत्त्वप्रसङ्गादिति । ०१३०३ निरात्मकेषु घटादिषु दृष्टेषु प्राणाद्य्अदर्शनात्तन्निवृत्त्य् ०१३०४ आत्मगतिः स्यात् । अदृश्यानुपलम्भादभावासिद्धौ घटादीनां ०१३०५ नैरात्म्यासिद्धेः प्राणादेरनिवृत्तिः । अभ्युपगमात्सिद्धम् ०१३०६ इति चेत् । कथमिदानीमात्मसिद्धिः । परस्य अप्यप्रमाणिका ०१३०७ कथं नैरात्म्यसिद्धिः । अभ्युपगमेन च सात्मकानात्मकौ ०१३०८ विभज्य तत्र अभावेन गमकत्वं कथयता आगमिकत्वम् ०१३०९ आत्मनि प्रतिपन्नं स्यात् । न अनुमेयत्वम् । तस्माददर्शने अप्य् ०१३१० आत्मनोनिवृत्त्य्असिद्धेः । तन्निवृत्तौ क्वचिन्निवृत्तावपि प्राणादीनाम् ०१३११ अप्रतिबन्धात् । सर्वत्र निवृत्त्य्असिद्धेरगमकत्वम् । ०१३१२ या अप्यसिद्धियोजना तथा सपक्षे सन्नसन्नित्येवम्आदिष्वपि ०१३१३ यथायोगमुदाहर्यमित्येवम्आदिका । सा अपि ०१३१४ न वाच्या असिद्धियोजना ॥१८॥ ०१३१५ अनुपलम्भ एव संशयात् । उपलम्भे तद्अभावात् । अनुपलम्भाच् ०१३१६ च व्यतिरेक इति संशयितो अनिवार्यः स्यात् । यथायोगवचनात् ०१३१७ अनिवारित एव इति चेत् । न । य एव तु उभयनिश्चितवाची इत्यादिवचनात् । ०१३१८ तेन अनुपलम्भे अपि संशयादनिवृत्तिं मन्यमानः तत्प्रतिषेधम् ०१३१९ आह । किं च । ०१४०१ विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् । ०१४०२ श्रावणत्वस्य अपि नित्यानित्ययोरदर्शनाद्व्यावृत्तिरिति तद्व्यवच्छेद ०१४०३ हेतुता स्यात् । न हि तद्व्यावृत्तेरन्यद्व्यवच्छेदनम् । ०१४०४ अव्यवच्छेदस्तु कुतश्चिद्व्यावृत्तेरेव अनिश्चयात् । यो हि यत्र ०१४०५ न अस्ति इति निश्चितः स भवंस्तद्अभावं कथं न गमयेत् । ०१४०६ प्रमाणान्तरबाधा चेन् । ०१४०७ अथ अपि स्यादुभयव्यवच्छेदे प्रमाणान्तरं बाधकमस्ति । ०१४०८ अन्योन्यव्यवच्छेदरूपाणामेकव्यवच्छेदेन अन्यविधानाद् ०१४०९ अप्रतिषेधः । विधिप्रतिषेधयोर्विरोधात् । ०१४१० न इदानीं नास्तिता अदृशः ॥१९॥ ०१४११ न एवमदर्शनं प्रमाणं बाधासम्भवात् । ०१४१२ तथा अन्यत्र अपि सम्भाव्यं प्रमाणान्तरबाधनम् । ०१४१३ लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं स्यादिति ०१४१४ सर्वत्र अनाश्वासः । अनुमानविषये अपि प्रत्यक्षानुमानविरोध ०१४१५ दर्शनादनाश्वासप्रसङ्ग इति चेत् । न । यथोक्ते असम्भवात् । ०१४१६ सम्भविनश्च अतल्लक्षणत्वात् । विरुद्धाव्यभिचार्य्अवचनमिति ०१४१७ चेत् । अनुमानविषये अवचनादिष्टम् । विषयं च अस्य निवेदयिष्यामः । ०१४१८ किं च । ०१४१९ दृष्टा अयुक्तिरदृष्टेश्च स्यात्स्पर्शस्य अविरोधिनी ॥२०॥ ०१४२० यदि ह्यनुपलम्भेन अभावः सिध्येत् । यदाह । यद्यदर्शन ०१४२१ मात्रेण दृष्टेभ्यः प्रतिषेधः क्रियते । न च सो अपि युक्त ०१५०१ इति । कथमयुक्तः । अनुपलम्भादभावसिद्धेः । ननु उपलब्धि ०१५०२ लक्षणप्राप्तेः स्पर्शस्य युक्त एव प्रतिषेधः । न युक्तः । ०१५०३ दृश्यतत्स्वभावविषयमात्राप्रतिषेधात् । पृथिव्य्आदि सामान्येन ०१५०४ गृहीत्वा अयं प्रतिषेधमाह । तत्र च तूलोपलपल्लव ०१५०५ आदिषु तद्भावे अपि स्पर्शभेददर्शनातस्य अपि क्वचिद्विशेषे ०१५०६ सम्भवाशङ्कया भवितव्यमिति सर्वत्र अदर्शनमात्रेण अयुक्तः ०१५०७ प्रतिषेध इति । एवमाचार्यीयः कश्चिदनुपलम्भादभावं ०१५०८ ब्रुवाण उपालब्धः । अपि च । ०१५०९ देशादिभेदाद्दृश्यन्ते भिन्ना द्रव्येषु शक्तयः । ०१५१० तत्र एकदृष्ट्या न अन्यत्र युक्तस्तद्भावनिश्चयः ॥२१॥ ०१५११ यदि कथंचिद्विपक्षे अदर्शनमात्रेण अप्रतिबद्धस्य अपि तद् ०१५१२ अव्यभिचारः । क्वचिद्देशे कानिचिद्द्रव्याणि कथंचिद्दृष्टानि ०१५१३ पुनरन्यथा अन्यत्र दृश्यन्ते । यथा काश्चिदोषधयः क्षेत्र ०१५१४ विशेषे विशिष्टरसवीर्यविपाका भवन्ति । न अन्यत्र । तथा काल ०१५१५ संस्कारभेदात् । न च तद्देशैस्तथा दृष्टा इति सर्वास्तत्त्वेन ०१५१६ तथाभूताः सिध्यन्ति । गुणान्तराणां कारणान्तरापेक्षत्वात् । ०१५१७ विशेषहेत्व्अभावे तु स्यादनुमानम् । यथा अदृष्टकर्तृकमपि ०१५१८ वाक्यं पुरुषसंस्कारपूर्वकमिति । वाक्येषु विशेषाभावात् । ०१५१९ सर्वप्रकाराणां पुरुषैः करणस्य दर्शनात् । न एवमसम्भवद् ०१५२० विशेषहेतवः पुरुषा येन वचनादेः किंचिन्मात्रसाधर्म्यात् ०१५२१ सर्वाकारसाम्यमनुमीयेत । सर्वगुणेषु विशेषदर्शनात् । ०१५२२ संस्कारभेदेन विशेषप्रतिपत्तेः । तद्वदन्यस्य अपि सम्भवाद् । ०१५२३ असम्भवानुमाने च बाधकहेत्व्अभावात्वैराग्यादृष्टेः ०१५२४ अदृष्टेन च बाध्यबाधकभावासिद्धेः । रागाद्य्अव्यभिचारि ०१५२५ कार्याभावात् । सम्भवे अपि विशेषाणां द्रष्टुमशक्यत्वात् । ०१६०१ तादृशां च अप्रतिक्षेपार्थत्वात् । न एवं वाक्यानि दृश्यविशेषत्वात् । ०१६०२ अदृश्यत्वे अप्यदृष्टविशेषाणां विजातीयत्वोपगमविरोधात् । तद् ०१६०३ विशेषाणामन्यत्र अपि शक्यक्रियत्वात् । प्रत्यक्षाणां शब्दानाम् ०१६०४ अप्रत्यक्षस्वभावाभावात् । भ्रान्तिनिमित्ताभावात् । बाधकाभावाद् ०१६०५ भ्रान्त्य्असिद्धेः । पुरुषेषु विशेषदर्शनस्य बाधकत्वाद् ०१६०६ असमानम् । परभावभूतस्य च वाक्यविशेषस्य अतद्विशेषत्वात् । ०१६०७ तदभिन्नस्वभावानां सर्वेषां पुरुषक्रिया न वा कस्यचित् । ०१६०८ किं च । ०१६०९ आत्ममृच्चेतनादीनां यो अभावस्य अप्रसाधकः । ०१६१० स एव अनुपलम्भः किं हेत्व्अभावस्य साधकः ॥२२॥ ०१६११ अनुपलम्भं च अस्य प्रमाणयत आत्मवादो निरालम्बः स्यात् । ०१६१२ अप्रत्यक्षत्वादात्मनस्तत्कार्यासिद्धेः । इन्द्रियादीनां तु ०१६१३ विज्ञानकार्यस्य कादाचित्कत्वात्सापेक्ष्यसिद्ध्या प्रसिद्धिरुच्यते । ०१६१४ किमप्यस्य कारणमस्ति इति । च त्वेवंभूतमिति । ०१६१५ न एवं सुखादिकार्यं प्रसाधितं कंचिदर्थं पुष्णाति । ०१६१६ येन केनचित्कारणवत्त्वाभ्युपगमात् । तथा च अनुपलम्भ ०१६१७ एव आत्मनः स्यात् । तं तेन प्रत्याचक्षाणः किमिति प्रतिव्यूढो ०१६१८ अनुपलम्भस्य असाधनत्वादिति । कथमसाधनं व्यतिरेकं ०१६१९ साधयेत् । मृदः खल्वपि कश्चिच्चैतन्यमनुपलभ्यमानम् ०१६२० अपि इच्छन्नदर्शनाद्वचनादेर्व्यावृत्तिमाह । दध्य्आदिकं ०१६२१ च अपरः क्षीरादिष्वपरार्थेषु संघातत्वादर्शनाद्व्यतिरेकम् । ०१६२२ को ह्यत्र नियमः संहतैरवश्यं परार्थैर्भवितव्यमिति । ०१६२३ अस्त्येव उपलम्भो दध्य्आदीनां क्षीरादिष्वनुमानम् । ०१६२४ अशक्तादनुत्पत्तेः । अथ का इयं शक्तिः स एव भावः ०१६२५ उत अन्यदेव किंचित् । स एव चेत्तथा एव उपलभ्येत विशेषाभावात् । ०१६२६ अन्यच्चेत्कथमन्यभावे तदस्ति । उपचारमात्रं तु स्याद् ०१६२७ इत्ययमेषां परस्परव्याघातः । ०१६२८ तस्मात्तन्मात्रसम्बन्धः स्वभावो भावमेव वा । ०१६२९ निवर्तयेत् । ०१६३० यथा वृक्षः शिंशपाम् । शाखादिमद्विशेषस्य एव कस्यचित्तथा ०१७०१ प्रसिद्धेः स तस्य स्वभावः । स्वं च स्वभावं परित्यज्य ०१७०२ कथं भावो भवेत् । स्वभावस्य एव भावत्वादिति तस्य स्वभावप्रतिबन्धाद् ०१७०३ अव्यभिचारः । ०१७०४ कारणं वा कार्यमव्यभिचारतः ॥२३॥ ०१७०५ कारणं निवर्तमानं कार्यं निवर्तयति । अन्यथा तत्तस्य ०१७०६ कार्यमेव न स्यात् । सिद्धस्तु कार्यकारणभावः स्वभावं ०१७०७ नियमयति इत्युभयथा स्वभावप्रतिबन्धादेव निवृत्तिः । ०१७०८ अन्यथा एकनिवृत्त्या अन्यविनिवृत्तिः कथं भवेत् । ०१७०९ न अश्ववानिति मर्त्येन न भाव्यं गमता अपि किम् ॥२४॥ ०१७१० संनिधानात्तथा एकस्य कथमन्यस्य संनिधिः । ०१७११ गोमानित्येव मर्त्येन भाव्यमश्ववता अपि किम् ॥२५॥ ०१७१२ तस्मात्स्वभावप्रतिबन्धादेव हेतुः साध्यं गमयति । ०१७१३ स च तद्भावलक्षणस्तदुत्पत्तिलक्षणो वा । स एव अविनाभावो ०१७१४ दृष्टान्ताभ्यां प्रदर्श्यते । ०१७१५ तस्माद्वैधर्म्यदृष्टान्ते न इष्टो अवश्यमिह आश्रयः । ०१७१६ तद्अभावे च तन्न इति वचनादपि तद्गतेः ॥२६॥ ०१७१७ यतः । ०१७१८ तद्भावहेतुभावौ हि दृष्टान्ते तद्अवेदिनः । ०१७१९ ख्याप्येते । ०१७२० दृष्टान्ते हि साध्यधर्मस्य तद्भावस्तन्मात्रानुबन्धेन ०१७२१ तत्स्वभावतया ख्याप्यते । यः कृतकं स्वभावं जनयति ०१७२२ सो अनित्यस्वभावं सन्तं जनयति इति प्रमाणं दृष्टान्तेन उपदर्श्यते । ०१७२३ अन्यथा एकधर्मसद्भावात्तद्अन्येन अपि भवितव्यम् ०१७२४ इति नियमाभावात्साधनस्य साध्यव्यभिचाराशङ्का स्यात् । ०१८०१ तेन च प्रमाणेन साध्यधर्मस्य तन्मात्रानुबन्धः ख्याप्यते । ०१८०२ स्वकारणादेव कृतकस्तथाभूतो जातो यो नश्वरः ०१८०३ क्षणस्थितोधर्मा । अन्यतस्तस्य तद्भावनिषेधात् । हेतुभावो ०१८०४ वा तस्मिन् सत्येव भावादिति दृष्टान्तेन प्रदर्श्यते अर्थान्तरस्य ०१८०५ तथा प्रसिद्धे तद्भावे हेतुभावे वा अनित्यत्वाभावे कृतकत्वं ०१८०६ न भवति दहनाभावे च धूमः । तथा हि स तस्य ०१८०७ स्वभावो हेतुर्वा । कथं स्वं स्वभावं हेतुं वा अन्तरेण भवेद् ०१८०८ इत्याश्रयमन्तरेण अपि वैधर्म्यदृष्टान्ते प्रसिध्यति व्यतिरेकः । ०१८०९ येषां पुनः प्रसिद्धावेव तद्भावहेतुभावौ तेषाम् ०१८११ विदुषां वाच्यो हेतुरेव हि केवलः ॥२७॥ ०१८१२ यद्अर्थे दृष्टान्त उच्यते सो अर्थः सिद्ध इति किं तद्वचनेन ०१८१३ तदा । तत्प्रदर्शने अपि किं वैधर्म्यदृष्टान्ताश्रयेण इति मन्यमान ०१८१४ आश्रयं प्रतिक्षिप्ति स्म । ०१८१५ तेन एव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः । ०१८१६ अर्थापत्त्या द्वितीये अपि स्मृतिः समुपजायते ॥२८॥ ०१८१७ यदाह अर्थापत्त्या वा अन्यतरेण उभयप्रदर्शनादिति । तत्र अपि ०१८१८ दृष्टान्तेन तद्भावहेतुभावप्रदर्शनं मन्यमानो अर्थापत्त्या ०१८१९ एकवचनेन द्वितीयसिद्धिमाह । तथा हि यत्कृतकं तद् ०१८२० अनित्यमित्युक्ते अनर्थान्तरभावे व्यक्तमयमस्य स्वभावस् ०१८२१ तन्मात्रानुबन्धी प्रमाणदृष्टस्तद्भावनियमादिति । ज्ञात ०१८२२ तद्भावस्य अर्थापत्त्या अनित्यत्वाभावे कृतकत्वं न भवति इति ०१८२३ भवति । न हि स्वभावस्य अभावे भावो भवत्यभेदात् । अन्यथा ०१८२४ तद्भावे भवति इत्येव न स्यात् । तथा तद्अभावे न भवति ०१८२५ इत्युक्ते । तत एव तद्भावतावेदिनः । तथा ह्ययमस्य ०१८२६ स्वभावो येन तद्अभावे न भवति । अन्यथा अयोगादिति तत् ०१९०१ तत्स्वभावताप्रतिपत्त्या अन्वयस्मृतिर्भवति । तथा यत्र ०१९०२ धूमस्तत्र अग्निरित्युक्ते कार्यं धूमो दहनस्य । येन ०१९०३ धूमे अवश्यमग्निर्भवति । अन्यथा अर्थान्तरस्य तद्अनुबन्ध ०१९०४ नियमाभावात्स्वातन्त्र्यं भावस्य स्यात् । अतस्तद्अभावे ०१९०५ अपि स्वभावावैकल्यान्न अभावः । कार्ये त्ववश्यं कारणं ०१९०६ भवति । इदमेव हि कारणस्य कारणत्वं यदर्थान्तरभावे ०१९०७ स्वभावोपधानम् । कार्यस्य अपि तद्भाव एव भावः ०१९०८ तच्च अस्ति धूमे । तस्मात्कार्यं धूम इत्यन्वयेन विधित ०१९०९ तत्कार्यत्वस्य दहनाभावे धूमो न भवति इत्यर्थाद्व्यतिरेकप्रतिपत्तिर् ०१९१० भवति । तथा असत्यग्नौ धूमो न अस्ति इत्य् ०१९११ उक्ते अग्निर्धूमे भवत्यवश्यमित्यर्थादन्वयप्रतिपत्तिः । ०१९१२ अन्यथा हि तद्अभावे किं न भवेदिति । ननु च नित्यानित्य ०१९१३ अर्थकार्यत्वाभावे अपि श्रवणज्ञानं न भवति तद्अभावे । ०१९१४ न वै न भवति । तयोरेव ततः संशयात् । अन्यथा ०१९१५ अभावेन निश्चितात्कथं तद्भावपरामर्शेन संशयः स्यात् । ०१९१६ केवलं तु भावनिश्चयाभावान्न अस्ति इत्युच्यते । यदा पुनर् ०१९१७ दृष्टान्तेन न अग्निधूमयोः कार्यकारणभावः प्रदर्श्यते । तदा ०१९१८ यत्र धूमस्तत्र अग्निरित्येव न स्यात् । प्रतिबन्धाभावात् । ०१९१९ कुतो अग्न्य्अभावे धूमो न अस्ति इत्यर्थाद्व्यतिरेकसिद्धिः । तथा ०१९२० वैधर्म्येण अभावासिद्धेरन्वयस्मृतिः तस्माद्दृष्टान्तेन अयम् ०१९२१ एव यथोक्तस्वभावप्रतिबन्धः प्रदर्श्यते । एकसद्भावे ०१९२२ अन्यस्य प्रसिद्ध्य्अर्थम् । तद्अभावे असम्भवात् । ०१९२३ हेतुस्वभावाभावो अतः प्रतिषेधे च कस्यचित् । ०१९२४ हेतुर् । ०१९२५ तावेव हि निवर्तमानौ स्वप्रतिबद्धं निवर्तयत इति कस्यचिद् ०१९२६ अर्थस्य प्रतिषेधमपि साधयितुकामेन हेतोर्व्यापकस्य ०२००१ वा स्वभावस्य निवृत्तिर्हेतुत्वेन आख्येया । अप्रतिबन्धे हि कथम् ०२००२ एकस्य निवृत्तिरन्यस्य निवृत्तिं साधयेत् । ०२००३ युक्तोपलभस्य तस्य च अनुपलम्भनम् ॥२९॥ ०२००४ प्रतिषेधहेतुः । प्रतिषेधविषयव्यवहारहेतुस्तद्हेतुरित्य् ०२००५ उक्तः । स्वयं तथाभूतानुपलम्भस्य प्रतिषेधरूपत्वात् । ०२००६ हेतुव्यापकानुपलब्धिरुभयस्य अपि हेतुः । ०२००७ इति इयं त्रिविधा अप्युक्तानुपलब्धिरनेकधा । ०२००८ तत्तद्विरुद्धाद्य्अगतिगतिभेदप्रयोगतः ॥३०॥ ०२००९ त्रिविध एव हि प्रतिषेधहेतुः । उपलभ्यसत्त्वस्य हेतोस्तथाभाव ०२०१० निश्चये व्यापकस्य स्वात्मनश्च अनुपलब्धिरिति । स ०२०११ प्रयोगवशेन तत्तद्विरुद्धाद्य्अगतिगतिभेदप्रयोगतो अनेक ०२०१२ प्रकार उक्तः । तस्य अगत्या तद्विरुद्धगत्या विरुद्धकार्यगत्या ०२०१३ इत्यादिभेदप्रयोगैर्यथोक्तं प्राक् । ०२०१४ कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । ०२०१५ अविनाभावनियमो अदर्शनान्न न दर्शनात् ॥३१॥ ०२०१६ अवश्यंभावनियमः कः परस्य अन्यथा परैः । ०२०१७ अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥३२॥ ०२०१८ इत्यन्तरश्लोकौ । अपि च । ०२०१९ अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः । ०२०२० न हि तस्मिन्निष्पन्ने अनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो ०२०२१ युक्तः । अयमेव खलु भेदो भेदहेतुर्वा भावानां विरुद्धधर्म ०२०२२ अध्यासः कारणभेदश्च । तौ चेन्न भेदकौ तदा ०२०२३ न कस्यचित्कुतश्चिद्भेद इत्येकं द्रव्यं विश्वं स्यात् । ०२०२४ ततश्च सह उत्पत्तिविनाशौ सर्वस्य च सर्वत्र उपयोगः स्यात् । ०२१०१ अन्यथा एकमित्येव न स्यात् । नामान्तरं वा । अर्थभेदमभ्युपगम्य ०२१०२ तथा अभिधानात् । नन्वनर्थान्तरहेतुत्वे अपि भाव ०२१०३ काले अनित्यता अनिष्पत्तेस्तुल्या अतत्स्वभावता । न वै काचिदन्या ०२१०४ अनित्यता नाम या पश्चान्निष्पद्येत । स एव हि भावः क्षण ०२१०५ स्थितिधर्मा अनित्यता । वचनभेदे अपि धर्मिधर्मतया निमित्तं ०२१०६ वक्ष्यामः । तां पुनरस्य क्षणस्थितोधर्मतां स्वभावं ०२१०७ स्वहेतोरेव तथोत्पत्तेः पश्यन्नपि मन्दबुद्धिः सत्ता ०२१०८ उपलम्भेन सर्वदा तद्भावशङ्काविप्रलब्धो न व्यवस्यति ०२१०९ सदृशापरोत्पत्तिविप्रलब्धो वा । अन्त्यक्षणदर्शिनां निश्चयात् । ०२११० पश्चादस्य अनुपलब्ध्या अस्थितोप्रतिपत्तेर्निश्चयकाल इति ०२१११ तदा अनित्यता व्यवस्थाप्यते । कार्योत्पादनशक्तेः कारणस्वभावत्वे ०२११२ अपि अदृष्टतत्कार्यस्य कारणदर्शने अपि अप्रतिपन्न ०२११३ तद्भावस्य कार्यदर्शनात्तत्प्रतिपत्तिवत् । अन्यथा अर्थान्तरम् ०२११४ एव अनित्यता स्यात् । अन्यनिमित्तत्वे अनिमित्तत्वे वा । तथा च भावस् ०२११५ तद्वान्न स्यात् । तद्अनुपयोगात् । उपयोगे वा स एव अस्य ०२११६ स्वात्मभूतो अनित्यता इति किमन्यया । स्वभावेन वा अचलस्य अर्थान्तर ०२११७ योगे अपि तद्भावानुत्पत्तेः । स च अर्थान्तराद्भवन्ननित्यता ०२११८ अन्यो वा धर्मो हेतुः फलं वा स्यात् । अहेतुफलस्य असम्बन्धात् । ०२११९ तत्र भावानुमानस्य असम्भवात् । तत्र । ०२१२० पश्चाद्भावान्न हेतुत्वं फले अप्येकान्तता कुतः ॥३३॥ ०२१२१ स हि निष्पन्ने भावे अर्थान्तरतः पश्चाद्भवन् कथं ०२१२२ तस्य हेतुः स्यात् । फलस्य अपि न अवश्यं हेतौ भाव इति तद् ०२१२३ भावहेतोरनैकान्तिकत्वम् । तन्न अर्थान्तरनिमित्तो धर्मो ०२१२४ भावे अवश्यं भावि इत्यननुमानम् । यदि तर्हि दर्शन अदर्शने ०२१२५ न अन्वयव्यतिरेकगतेराश्रयः कथं धूमो अग्निं न व्यभिचरति ०२१२६ इति गम्यते । यस्मात् । ०२२०१ कार्यं धूमो हुतभुजः कार्यधर्मानुवृत्तितः । ०२२०२ येषामुपलम्भे तल्लक्षणमनुपलब्धं यदुपलभ्यते । ०२२०३ तत्र एकाभावे अपि न उपलभ्यते । तत्तस्य कार्यम् । तच्च धूमे ०२२०४ अस्ति । ०२२०५ स भवंस्तद्अभावे तु हेतुमत्तां विलङ्घयेत् ॥३४॥ ०२२०६ सकृदपि तथा अदर्शनात्कार्यं सिद्धः । अकार्यत्वे अकारणात् ०२२०७ सकृदप्यभावात् । कार्यस्य च स्वकारणमन्तरेण भावे ०२२०८ अहेतुमत्ता एव स्यात् । न हि यस्य यमन्तरेण भावः स तस्य ०२२०९ हेतुर्भवति । भवति च धूमो अग्निमन्तरेण तन्न तद्हेतुः ०२२१० अन्यहेतुकत्वान्न अहेतुकत्वमिति चेत् । न । तत्र अपि ०२२११ तुल्यत्वात् । तद्अभावे अप्यग्नौ भवति इति । कथं वा ततो ०२२१२ अन्यतो वा अतज्जननस्वभावाद्भवेत् । स्वयमतत्स्वभावस्य ०२२१३ अजननात्तस्य अहेतुता स्यात् । न वै स एव भवति तादृशस्य ०२२१४ भावात् । अन्यादृशाद्भवन् कथं तादृशः स्यात् । तादृशाधि ०२२१५ भवन् तादृशः स्यात् । अन्यादृशादपि तादृशो भावे तच्शक्तिनियम ०२२१६ अभावान्न हेतुभेदो भेदक इति अकारणं विश्वस्य वैश्वरूप्यं ०२२१७ स्यात् । सर्वं वा सर्वस्माज्जायेत । तस्मात्कारण ०२२१८ भेदाभेदाभ्यां कार्यभेदाभेदौ । तन्न धूमो अर्थाद्दृष्ट ०२२१९ आकारविजातीयाद्भवत्यहेतुकत्वप्रसङ्गात् । तथा च । ०२२२० नित्यं सत्त्वमसत्त्वं वा अहेतोरन्यानपेक्षणात् । ०२२२१ अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥३५॥ ०२२२२ स हि धूमो अहेतुर्भवन्निरपेक्षत्वान्न कदाचिन्न भवेत् । ०२२२३ तद्भावे वैकल्याभावादिष्टकालवत् । तदा अपि वा न भवेत् । ०२२२४ अभावकालाविशेषात् । अपेक्षया हि भावाः कादाचित्का भवन्ति । ०२३०१ भावाभावकालयोस्तद्भावयोग्यता अयोग्यतायोगात्तुल्ययोग्यता ०२३०२ योग्यतयोर्देशकालयोस्तद्वत्ता इतरयोर्नियमायोगात् । सा च ०२३०३ योग्यता हेतुभावात्किमन्यत् । तस्मादेकदेशकालपरिहारेण अन्य ०२३०४ देशकालयोर्वर्तमानो भावस्तत्सापेक्षो नाम भवति । ०२३०५ तथा हि । तथा वृत्तिरेव अपेक्षा तत्कृतोपकारानपेक्षस्य तन्नियम ०२३०६ अयोगात् । तन्नियतदेशकालत्वाद्धूमो अत्र दृष्टः सकृद् ०२३०७ वैकल्ये च पुनर्न दृष्टः तज्जन्यो अस्य स्वभावः । अन्यथा ०२३०८ सकृदप्यभावात् । स तत्प्रतिनियतो अन्यत्र कथं भवेत् । ०२३०९ भवन् वा न धूमः स्यात् । तज्जनितो हि स्वभावविशेषो धूम ०२३१० इति । तथा हेतुरपि तथाभूतकार्यजननस्वभावः । तस्य अन्यतो ०२३११ अपि भावे न स तस्य स्वभाव इति सकृदपि न जनयेत् । ०२३१२ न वा स धूमो अधूमजननस्वभावाद्भावात् । तत्स्वभावत्वे ०२३१३ च स एव अग्निरित्यव्यभिचारः । ०२३१४ अग्निस्वभावः शक्रस्य मूर्द्धा यद्यग्निरेव सः । ०२३१५ अथ अनग्निस्वभावो असौ धूमस्तत्र कथं भवेत् ॥३६॥ ०२३१६ धूमहेतुस्वभावो हि वह्निस्तच्शक्तिभेदवान् । ०२३१७ अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः ॥३७॥ ०२३१८ इति संग्रहश्लोकौ । कथं तर्हि इदानीं भिन्नात्सहकारिणः कार्य ०२३१९ उत्पत्तेर्यथा चक्षूरूपादेर्विज्ञानस्य । न वै किंचिदेकं ०२३२० जनकं तत्स्वभावम् । किं तु सामग्री जनिका तत्स्वभावा । स एव ०२३२१ अनुमीयते । स एव च सामग्री स्वभावस्थित्य्आश्रयः कार्यस्य । ०२३२२ अत एव सहकारिणामप्यपर्यायेण जननम् । यदपि किंचिद् ०२३२३ विजातीयाद्भवद्दृष्टं गोमयादेः शालुकादि । तत्र अपि तथा अभिधाने ०२३२४ अप्यस्त्येव स्वबीजप्रभवात्स्वभावभेदः । हेतुस्वभावभेदात् । ०२३२५ यथा कदली बीजकन्दोद्भवा । स्फुटमेव ०२३२६ तादृशं लोको विवेचयत्याकारभेदात् । तस्मान्न सुविवेचिताकारं ०२३२७ कार्यं कारणं व्यभिचरति । ०२४०१ अन्वयव्यतिरेकाद्यो यस्य दृष्टो अनुवर्तकः । ०२४०२ स्वभावस्तस्य तद्हेतुरतो भिन्नान्न सम्भवः ॥३८॥ ०२४०३ इति संग्रहश्लोकः । तस्मात्सकृदपि दर्शनादर्शनाभ्यां ०२४०४ कार्यकारणभावसिद्धेर्भवति ततस्तत्प्रतिपत्तिः । न अन्यथा । ०२४०५ अन्वयव्यतिरेकयोर्निःशेषदर्शनादर्शनायत्तत्वात् । क्वचिद् ०२४०६ अमूर्तत्वे नित्यत्वदर्शने अप्यन्यत्र अन्यथा अदृष्टेः । क्वचिन् ०२४०७ नित्यत्वाभावे अप्यदृष्टस्य पुनर्दृष्टेरिति भवतु कार्यस्य ०२४०८ कारणेन अविनाभावस्तदुत्पत्तेः । स्वभाव इदानीं कथमविनाभावः । ०२४१० स्वभावे अप्यविनाभावो भावमात्रानुरोधिनि । ०२४११ यो हि भावमात्रानुरोधी स्वभावस्तत्र अविनाभावो भावस्य इष्यते । ०२४१३ तद्अभावे स्वयं भावस्य अभावः स्यादभेदतः ॥३९॥ ०२४१४ य एव भावो भावमात्रानुरोधी स्वभाव इत्युच्यते । स एव ०२४१५ स्वयं वस्तुतो भावः । स च आत्मानं परित्यज्य कथं भवेत् । ०२४१६ य एव तर्हि कृतकः स एव अनित्यो भेदाभावात् । प्रतिज्ञार्थैकदेशो ०२४१७ हेतुः स्यात् । न एष दोषः । यस्मात् । ०२४१८ सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । ०२४१९ स्वभावपरभावाभ्यां यस्माद्व्यावृत्तिभागिनः ॥४०॥ ०२४२० तस्माद्यतो यतो अर्थानां व्यावृत्तिस्तन्निबन्धनाः । ०२४२१ जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥४१॥ ०२४२२ तस्माद्यो येन धर्मेण विशेषः सम्प्रतीयते । ०२४२३ न स शक्यस्ततो अन्येन तेन भिन्ना व्यवस्थितिः ॥४२॥ ०२४२४ सर्व एव हि भावाः स्वरूपस्थितयः । ते न आत्मानं परेण ०२४२५ मिश्रयन्ति । तस्य अपरत्वप्रसङ्गात् । यदप्येषामभिन्नम् ०२४२६ आत्मभूतं रूपं न तत्तेषाम् । तदानीं तेषामभावात् । ०२५०१ तदेव हि स्यादभिन्नस्य भावात् । तद्व्यतिरिक्तस्य भिन्नस्य ०२५०२ च अभावात् । तस्य एव च पुनर्भेदविरोधात् । तच्च आत्मनि व्यवस्थितम् ०२५०३ अमिश्रमेव । अर्थान्तरमप्यनेकसम्बन्धे अपि ०२५०४ न तत्तेषां सामान्यमतद्रूपत्वात् । द्वित्वादिसंयोगकार्य ०२५०५ द्रव्येष्वपि प्रसङ्गात् । न हि सम्बन्धिना अप्यन्येन अन्ये समाना ०२५०६ नाम । तद्वन्तो नाम स्युः । भूतवत् । कण्ठेगुणेन । ०२५०७ न अभिन्नप्रत्ययविषयाः । भूतवत् । तदात्मानमेव हि बुद्धिः ०२५०८ संसृजन्ती सामान्यविषया प्रतिभासते । न एकसम्बन्धिनाविति ०२५०९ भूतवत् । तद्दर्शिन्याः सा भ्रान्तिरिति चेत् । तद्दर्शिनी इति कुतः । ०२५१० निर्बीजभ्रान्त्य्अयोगादिति चेत् । त एव तद्एककार्या बीजम् । संख्या ०२५११ संयोगकार्यद्रव्यादिमत्सु भूतादिष्वभावाच्च । तन्न तथा ०२५१२ सामान्यबुद्धौ निवेषाभावात्सामान्यमन्यत् । सति वा तस्य अपि ०२५१३ स्वात्मनि व्यवस्थानादमिश्रणमन्येन । तस्मादिमे भावाः ०२५१४ सजातीयाभिमतादन्यस्माच्च व्यतिरिक्ताः स्वभावेन एकरूपत्वात् । ०२५१५ यतो यतो भिन्नास्तद्भेदप्रत्यायनाय कृतसंनिवेशैः ०२५१६ शब्दैस्ततस्ततो भेदमुपादाय स्वभावाभेदे अप्यनेक ०२५१७ धर्माणः प्रतीयन्ते । ते अपि शब्दाः सर्वभेदानाक्षेपे अप्येक ०२५१८ भेदचोदनात्तत्स्वलक्षणनिष्ठा एव भवन्ति । तदेकस्माद् ०२५१९ अपि तस्य भेदो अस्ति इति । तस्मादेकस्य भावस्य यावन्ति पररूपाणि ०२५२० तावत्यस्तद्अपेक्षया व्यावृत्तयः । तद्असम्भविकार्यकारणस्य ०२५२१ तद्भेदात् । यावत्यश्च व्यावृत्तयस्तावत्यः श्रुतयो ०२५२२ अतत्कार्यकारणपरिहारेण व्यवहारार्थाः । यथा प्रयत्नानन्तरीयकः ०२५२३ शब्दः श्रावण इत्यतत्कार्यकारणपरिहारार्थः । ०२५२४ तस्मात्स्वभावाभेदे अपि येन येन धर्मेण नाम्ना यो विशेषो ०२५२५ भेदः प्रतीयते न स शक्यो अन्येन प्रत्याययितुमिति न एकार्थाः ०२५२६ सर्वशब्दाः । तन्न प्रतिज्ञार्थैकदेशो हेतुरिति । कथं ०२५२७ पुनरेतद्गम्यते व्यवच्छेदः शब्दलिङ्गाभ्यां प्रतिपाद्यते ०२५२८ विधिना न वस्तुरूपमेव इति । प्रमाणान्तरस्य शब्द अन्तरस्य ०२६०१ च प्रवृत्तेः । तथा हि । ०२६०२ एकस्य अर्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । ०२६०३ को अन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥४३॥ ०२६०४ एको ह्यर्थात्मा । स प्रत्यक्षः असिद्धे धर्मिणि साधनासम्भवात् । ०२६०५ यथा अनित्यत्वे साध्ये शब्दः । तस्य प्रत्यक्षेण एव सिद्धेः ०२६०६ सर्वाकारसिद्धिः । तद्अन्यस्य असिद्धस्य अभावात् । भावे वा ०२६०७ अतत्स्वभावत्वम् । न हि यो यदेकयोगक्षेमो न भवति स ०२६०८ तत्स्वभावो युक्तः । तन्मात्रनिबन्धनत्वात् । भेदव्यवहारस्य । ०२६०९ अन्यथा अभावप्रसङ्गादित्युक्तम् । तस्मात्प्रत्यक्षे धर्मिणि ०२६१० तत्स्वभावसाकल्यपरिच्छेदात्तत्र अनवकाशा प्रमाणान्तर ०२६११ वृत्तिः स्यात् । ०२६१२ नो चेद्भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । ०२६१३ शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥४४॥ ०२६१४ यदि दृष्टसर्वतत्त्वस्य अपि भावस्य तथा निश्चयप्रतिरोधिना ०२६१५ भ्रान्तिनिमित्तेन गुणान्तरं न संयोज्यते । यथा शुक्तौ रजत ०२६१६ आकारः । न हि शुक्तौ द्वे रूपे समानं विशिष्टं च तथा ०२६१७ प्रतिपत्तिप्रसङ्गात् । अप्रतिपत्तौ वा विवेकेन द्वित्वविकल्पायोगात् । ०२६१८ अतिप्रसङ्गाच्च । तस्मात्पश्यन् शुक्तिरूपं विशिष्टमेव ०२६१९ पश्यति । निश्चयप्रत्ययवैकल्यात्त्वनिश्चिन्वन् तत्सामान्यं ०२६२० पश्यामि इति मन्यते । ततो अस्य रजतसमारोपः । तथा । सदृशापरापर ०२६२१ उत्पत्त्या अलक्षितनानात्वस्य तद्भावसमारोपात्स्थितोभ्रान्तिः । ०२६२२ यावन्तो अस्य परभावास्तावन्त एव यथास्वं निमित्त ०२६२३ भाविनः समारोपा इति तद्व्यवच्छेदकानि भवन्ति प्रमाणानि ०२६२४ सफलानि स्युः । तेषां तु व्यवच्छेदफलानां न अप्रतीतवस्त्व्अंश ०२७०१ प्रत्यायने प्रवृत्तिस्तस्य दृष्टत्वात् । अनंशस्य च एकदेशेन ०२७०२ दर्शनायोगात् । ०२७०३ तस्माद्दृष्टस्य भावस्य दृष्ट एव अखिलो गुणः । ०२७०४ भ्रान्तेर्निश्चीयते न इति साधनं सम्प्रवर्तते ॥४५॥ ०२७०५ इति संग्रहश्लोकः । तस्मान्न अदृष्टग्रहणाय दृष्टे प्रमाणान्तरवृत्तिः । ०२७०७ वस्तुग्रहे अनुमानाच्च धर्मस्य एकस्य निश्चये । ०२७०८ सर्वधर्मग्रहो अपोहे न अयं दोषः प्रसज्यते ॥४६॥ ०२७०९ न केवलं प्रत्यक्षदृष्टे प्रमाणान्तरावृत्तिः क्वचित् । यदा अनुमानम् ०२७१० अपि वस्तु विधिना प्रत्याययति न व्यवच्छेदकृत्तदा एक ०२७११ धर्मनिश्चये तद्अव्यतिरेकात्सर्वधर्मनिश्चय इति प्रमाण ०२७१२ अन्तरावृत्तिः न हि तस्मिन्निश्चिते तदात्मा अनिश्चितो युक्तः । ०२७१३ यदा पुनरनुमानेन समारोपव्यवच्छेदः क्रियते तदा न एक ०२७१४ समारोपव्यवच्छेदादन्यव्यवच्छेदः कृतो भवति इति तद्अर्थम् ०२७१५ अन्यत्प्रवर्तते । ननु न अवश्यं विपर्यासपूर्वक एव अप्रतीत ०२७१६ निश्चयो भवति । यथा अकस्माद्धूमादग्निप्रतिपत्तिः । न हि ०२७१७ तत्र अनग्निसमारोपः सम्भाव्यते । तन्न सर्वत्र व्यवच्छेदः ०२७१८ क्रियते । उक्तमत्र । धर्मिप्रतिपत्तावभेदात्सर्वप्रतिपत्तिः । ०२७१९ भेदे वा असम्बद्धस्य तत्र अप्रतिपत्तिरिति । तस्मात् ०२७२० तत्र अपि तद्दर्शिनस्तत्स्वभावानिश्चयः कुतः विपर्यासात् । स ०२७२१ च तं प्रदेशं तद्विविक्तेन रूपेण निश्चिन्वन्नग्निसत्ताभावना ०२७२२ विमुक्तया बुद्ध्या कथमविपर्यस्तो नाम । तद्आकार ०२८०१ समारोपसंशयरहितश्च तत्प्रतिपत्तौ न लिङ्गमनुसरेत् । ०२८०२ न च तस्य अन्वयव्यतिरेकयोराद्रियेत । ०२८०३ तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम् । ०२८०४ अन्यथा धर्मिणः सिद्धावसिद्धं किमतः परम् ॥४७॥ ०२८०५ इति संग्रहश्लोकः । ०२८०६ क्वचिद्दृष्टे अपि यज्ज्ञानं सामान्यार्थं विकल्पकम् । ०२८०७ असमारोपितान्यांशे तन्मात्रापोहगोचरम् ॥४८॥ ०२८०८ यद्रूपादिदर्शनानन्तरमलिङ्गं निश्चयज्ञानं भवति । ०२८०९ तत्कथमसति समारोपे भवद्व्यवच्छेदविषयं भवति । ०२८१० समारोपविषये तस्य अभावात् । यत्र ह्यस्य समारोपो यथा ०२८११ स्थिरः सात्मक इति वा न तत्र भेदे निश्चयो भवति । ०२८१२ निश्चयारोपमनसोर्बाध्यबाधकभावतः । ०२८१३ न हि सर्वतो भिन्नो दृष्टो अपि भावस्तथा एव प्रत्यभिज्ञायते । ०२८१४ क्वचिद्भेदे व्यवधानसम्भवात् । यथा शुक्तेः शुक्तित्वे । ०२८१५ यत्र तु प्रतिपत्तुर्भ्रान्तिनिमित्तं न अस्ति तत्र एव अस्य तद्दर्शन ०२८१६ अविशेषे अपि स्मार्तो निश्चयो भवति । समारोपनिश्चययोर्बाध्यबाधकभावात् ०२८१७ निश्चयस्य ०२८१८ समारोपविवेके अस्य प्रवृत्तिरिति गम्यते ॥४९॥ ०२८१९ तद्विवेक एव च अन्यापोहः । तस्मात्तदपि तन्मात्रापोहगोचरम् । ०२८२० न वस्तुस्वभावनिश्चयात्मकम् । तथा हि कस्यचिन्निश्चये ०२८२१ अप्यन्यस्य अप्रतिपत्तिदर्शनात् । तत्स्वभावनिश्चये च तस्य अयोगात् । ०२९०१ यावन्तो अंशसमारोपास्तन्निरासे विनिश्चयाः । ०२९०२ तावन्ता एव शब्दाश्च तेन ते भिन्नगोचराः ॥५०॥ ०२९०३ अन्यथा एकेन शब्देन व्याप्त एकत्र वस्तुनि । ०२९०४ बुद्ध्या वा न अन्यविषय इति पर्यायता भवेत् ॥५१॥ ०२९०५ इत्यन्तरश्लोकः । ०२९०६ यस्य अपि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिनः । ०२९०७ यो अपि मन्यते भिन्ना एव उपाधयः परस्परमाश्रयाच्च । ०२९०८ तन्निबन्धनाः श्रुतयस्तद्आधारेषु वर्तन्ते । तत्र एव वा ०२९०९ तदयमप्रसङ्ग इति । तस्य अपि । ०२९१० नानोपाध्य्उपकाराङ्गशक्त्य्अभिन्नात्मनो ग्रहे ॥५२॥ ०२९११ सर्वात्मना उपकारस्य को भेदकः स्यादनिश्चितः । ०२९१२ यद्यप्युपाधयो भिन्ना एव शब्दज्ञानान्तराणां निमित्तम् ०२९१३ अर्थे । स तु तैस्तद्वानेक एव उपलीयते । तस्य नानोपाधीनाम् ०२९१४ उपकाराश्रयशक्तिस्वभावस्य स्वात्मन्यभेदात्सर्वात्मना ०२९१५ ग्रहणे क एव उपाधिभेदो अनिश्चितः स्यात् । सर्वोपाध्य्उपकारकत्वेन ०२९१६ ग्रहणात् । न ह्युपकारकत्वमन्यदेव तस्य स्वरूपेण ०२९१७ गृह्यमाणस्य अगृहीतं नाम । अतो यदेव अस्य स्वभावेन ०२९१८ ग्रहणं तदेव उपकारत्वेन अपि इति । ०२९१९ तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥५३॥ ०२९२० आत्मभूतस्य उपाधितद्वतोरुपकार्योपकारकभावस्य ग्रहणात् ०२९२१ एकज्ञाने द्वयोरपि ग्रहणमिति एकोपाधिविशिष्टे अपि तस्मिन् ०२९२२ गृह्यमाणे सर्वोपाधीनां ग्रहणम् । तद्ग्रहण नान्तरीयकत्वाद् ०२९२३ उपाधिमद्ग्रहणस्य । अन्यथा तथा अपि न गृह्येत । ०२९२४ न ह्यन्य एव अन्योपकारको यो न गृहीतः स्यात् । न च अप्युपकारके ०२९२५ तथा गृहीते उपकार्याग्रहणं तस्य अप्यग्रहणप्रसङ्गात् । ०२९२६ स्वस्वामित्ववत् । तस्मादर्थान्तरोपाधिवादे अपि समानः प्रसङ्गः । ०२९२७ अथ अपि स्याद्भिन्ना एव शक्तयः शक्तिमतो याभिरुपाधीन् ०२९२८ उपकरोति । ततो न अयं प्रसङ्ग इति । ०३००१ धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । ०३००२ न उपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥५४॥ ०३००३ यदि प्रत्युपाध्युपकारकत्वानि तस्य न स्वात्मभूतान्येव ०३००४ न अपि तत उपकारमनुभवन्ति । किं तस्य इति ता उच्यन्ते । उपकारे ०३००५ वा स्वात्मभूताभिरयमेकः शक्तिभिः शक्तीरुपकुर्वन् ०३००६ एक उपाधिना अपि गृह्यमाणः सर्वात्मना गृह्यत एव । तथा ०३००७ हि । एकोपाधिग्रहणे तद्उपकारिण्याः शक्तेर्ग्रहणम् । तद्ग्रहणे ०३००८ तद्उपकारी भावः स्वात्मभूतसकलशक्त्य्उपकारो गृहीतः ०३००९ सर्वाः शक्तीर्ग्राहयति ताश्च स्वोपाधीनिति तद्अवस्थः ०३०१० प्रसङ्गः । अथ ता अपि शक्त्य्उपकारिण्यः शक्तयो भिन्ना एव ०३०११ भावात् । एवमुपाधीनां तच्शक्तीनां च अपरा परास्वेव शक्तिष्व् ०३०१२ अपर्यवसानेन घटनात्स एकस्ताभिः कदाचिदप्यगृहीतस् ०३०१३ तद्उपकारात्मा तद्वत्त्वेन न गृह्यते । यदि पुनः केवलान् ०३०१४ एव उपाधीन् शब्दज्ञानान्युपलीयेरन् । तदा तस्य असमावेषान्न ०३०१५ भवति तत्प्रतिपत्तिमुखेन सर्वप्रतिपत्तिः । तदा अपि तस्य ०३०१६ शब्दैरनाक्षेपान्न स्यात्तत्र प्रवृत्तिरिति व्यर्थः शब्दप्रयोगः ०३०१७ स्यात् । अर्थक्रियाश्रयो हि सर्वो विधिप्रतिषेधाभ्यां व्यवहारः ०३०१८ उपाधयश्च तत्र असमर्थाः समर्थश्च न एव उच्यत ०३०१९ इति किं शब्दप्रयोगैः । ततश्च उपाधयो न उपाधयः स्युः । ०३०२० क्वचित्प्रवृत्तौ हि कस्यचित्प्रधानस्य अङ्गभावात्तद्अपेक्षया ०३०२१ तथा उच्यते । तस्य शब्दैरनाक्षेपान्न ते कस्यचिदङ्ग ०३०२२ भूता इति किमुपाधयः । लक्षितलक्षणाददोष इति चेत्समानः ०३०२३ प्रसङ्गः । स तावत्तैरुपाधिभिर्नान्तरीयकतया उपलक्ष्यमाण ०३०२४ एकेन अप्युपलक्षणे सर्वात्मना उपलक्षित इति तद्अवस्थः ०३०२५ प्रसङ्गः । को ह्यत्र विशेषः शब्दा वा एनमुपलक्षयेयुस्तल्लक्षिता ०३१०१ वा उपाधयः । स तावत्तदानीं निश्चीयते सर्वोपकारकः ०३१०२ इति न किंचिदेतत् । तस्माद् । ०३१०३ एकोपकारके ग्राह्ये न उपकारस्ततो अपरे । ०३१०४ दृष्टे तस्मिन्नदृष्टा ये तद्ग्रहे सकलग्रहः ॥५५॥ ०३१०५ इति संग्रहश्लोकः । ०३१०६ यदि भ्रान्तिनिवृत्त्य्अर्थं गृहीते अप्यन्यदिष्यते । ०३१०७ स्यादेतत्निर्भागस्य वस्तुनो ग्रहणे को अन्यस्तदा न गृहीतो ०३१०८ नाम । स तु भ्रान्त्या न अवधार्यत इति प्रमाणान्तरं प्रवर्तते । ०३१०९ यद्येवम् । ०३११० तद्व्यवच्छेदविषयं सिद्धं तद्वत्ततो अपरम् ॥५६॥ ०३१११ असमारोपविषये वृत्तेर् । ०३११२ तत्तर्हि भ्रान्तिनिवृत्त्य्अर्थं प्रवृत्तं प्रमाणम् । अन्यसमारोप ०३११३ व्यवच्छेदफलमिति सिद्धमन्यापोहविषयम् । तद्वत् ०३११४ अन्यदपि । असमारोपविषये वृत्तेः । यत्र अस्य समारोपो न तत्र ०३११५ निश्चय इति समारोपाभावे वर्तमानो अन्यापोहविषयः सिद्धः । ०३११६ अपि च निश्चयैः । ०३११७ यन्न निश्चीयते रूपं तत्तेषां विषयः कथम् ॥५७॥ ०३११८ इयमेव खलु निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनम् । ०३११९ तच्चेदाकारान्तरवदनिश्चितं कथं तैर्गृहीतम् । ०३१२० कथमिदानीमनिश्चीयमानं प्रत्यक्षेण अपि गृहीतं नाम । ०३१२१ न प्रत्यक्षं कस्यचिन्निश्चायकम् । तदयमपि गृह्णाति तन् ०३१२२ न निश्चयेन । किं तर्हि । तत्प्रतिभासेन । तन्न निश्चयानिश्चय ०३१२३ वशात्प्रत्यक्षस्य ग्रहणाग्रहणे । न एवं निश्चयानां किंचिन् ०३१२४ निश्चिन्वतो अप्यन्यत्र अनिश्चयेन प्रवृत्तिभेदाद्ग्रहण अग्रहणम् । ०३१२५ तस्मात्तदेव अस्य ग्रहणं यो निश्चयः । अन्यथा एकाकारे ०३१२६ अपि तन्न स्यात् । किं पुनः कारणं सर्वतो भिन्ने वस्तुरूपे ०३१२७ अनुभवोत्पत्तावपि तथा एव न स्मार्तो निश्चयो भवति । सहकारि ०३१२८ वैकल्यात्ततश्च । ०३२०१ प्रत्यक्षेण गृहीते अपि विशेषे अंशविवर्जिते । ०३२०२ यद्विशेषावसाये अस्ति प्रत्यक्षः स प्रतीयते ॥५८॥ ०३२०३ यद्यप्यंशरहितः सर्वतो भिन्नस्वभावो भावो अनुभूतस् ०३२०४ तथा अपि न सर्वभेदेषु तावता निश्चयो भवति । कारणान्तर ०३२०५ अपेक्ष्यत्वात् । अनुभवो हि यथा अविकल्पाभ्यासं निश्चयप्रत्ययान् ०३२०६ जनयति । यथा रूपदर्शनाविशेषे अपि कुणपकामिनीभक्ष्य ०३२०७ विकल्पाः । तत्र बुद्धिपाटवं तद्वासनाभ्यासः प्रकरणम् ०३२०८ इत्यादयो अनुभवाद्भेदनिश्चयोत्पत्तिसहकारिणः । तेषाम् ०३२०९ एव च प्रत्यासत्तितारतम्यादिभेदात्पौर्वापर्यम् । यथा ०३२१० जनकत्वाध्यापकत्वाविशेषे अपि पितरमायान्तं दृष्ट्वा पिता मे ०३२११ आगच्छति न उपाध्याय इति । सो अपि भवन्निश्चयो असति भ्रान्ति ०३२१२ कारणे भवति । तस्मान्न अभूत इत्येव सर्वाकारनिश्चयः । ०३२१३ तत्र अपि च अन्यव्यावृत्तिरन्यव्यावृत्त इत्यपि । ०३२१४ शब्दाश्च निश्चयाश्च एव संकेतमनुरुन्धते ॥५९॥ ०३२१५ तत्र अप्यन्यापोहे न व्यावृत्तिरन्या अन्य एव व्यावृत्तस् तद्व्यावृत्तेर् ०३२१६ निवर्तमानस्य तद्भावप्रसङ्गात् । तथा च व्यावृत्तेर् ०३२१७ अभावः । तस्माद्या एव व्यावृत्तिः स एव व्यावृत्तः । शब्द ०३२१८ प्रतिपत्तिभेदस्तु संकेतभेदात् । न वाच्यभेदो अस्ति । ०३२१९ ननु च वाच्यविशेषाभावात्संकेतभेदो अप्ययुक्तो द्वयोर् ०३२२० एकाभिधानात् । तथा च व्यतिरेकिण्या विभक्तेरयोगस्तस्या ०३२२१ भेदाश्रयत्वात् । ०३२२२ द्वयोरेकाभिधाने अपि विभक्तिर्व्यतिरेकिणी । ०३२२३ भिन्नमर्थमिव अन्वेति वाच्ये लेशविशेषतः ॥६०॥ ०३२२४ न वै शब्दानां काचिद्विषयस्वभावायत्ता वृत्तिरिच्छातो वृत्त्य् ०३२२५ अभावप्रसङ्गात् । ते यथा व्यतिरिक्ते अव्यतिरिक्ते वा प्रयोक्तुम् ०३२२६ इष्यन्ते तथा नियुक्तास्तमर्थं प्रतिबन्धेन प्रकाशयन्ति । ०३२२७ तेन गौर्गोत्वमित्येकार्थाभिधाने अपि कस्यचिद् ०३२२८ विशेषस्य प्रत्यायनार्थं कृते संकेतभेदे व्यतिरिक्तार्था ०३३०१ विभक्तिरर्थान्तरमिव अदर्शयन्ती प्रतिभात्यनर्थान्तरे ०३३०२ अपि तथा प्रयोगदर्शनाभ्यासात् । न तावता सर्वत्र भेदः । ०३३०३ अन्यत्र अपि पुरुषेच्छावशात्प्रवृत्तस्य प्रतिबन्धाभावात् । यथा ०३३०४ एकं क्वचिदेकवचनेन ख्याप्यते तद्अविशेषे अपि गौरव ०३३०५ आदिख्यापनार्थं बहुवचनेन । प्रयोजनाभावात्तु संकेत ०३३०६ भेदो न स्यात् । तदप्यस्त्येव । तथा हि । ०३३०७ भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः । ०३३०८ संकेतभेदस्य पदं ज्ञातृवाञ्चानुरोधिनः ॥६१॥ ०३३०९ यदा अयं प्रतिपत्ता तद्अन्यव्यवच्छेदभावानपेक्षः पिण्ड ०३३१० विशेषे अश्वव्यवच्छेदमात्रं जिज्ञासते तथा अभूतज्ञापनार्थं ०३३११ तथा आकृतसंकेतेन शब्देन प्रबोध्यत अनश्वत्वमस्य अस्ति ०३३१२ इति । यदा पुनर्व्यवच्छेदान्तरानिराकाङ्क्षस्तं ज्ञातुमिच्छति ०३३१३ तदा अपरित्यक्तव्यवच्छेदान्तरे तत्र एव अश्वव्यवच्छेदे ०३३१४ तथा अप्रकाशनाय प्रयुञ्जते अनश्वो अयमिति । अत एव पूर्वत्र ०३३१५ प्रतिक्षिप्तभेदान्तरत्वाच्शब्दवृत्तेर्न सामानाधिकरण्यं ०३३१६ विशेषणविशेष्यभावो वा । गोत्वमस्य शुक्लमिति । ०३३१७ तन्मात्रविशेषेण बुद्धेस्तद्आश्रयभूताया एकत्वेन अप्रतिभासनात् । ०३३१८ निराकाङ्क्षत्वाच्च । द्वितीये तु भवति । तथा संकेत ०३३१९ अनुसारेण संहृतसकलव्यवच्छेदधर्मैर्विभागवत एकस्य ०३३२० इव सन्दर्शनेन प्रतिभासनात् । व्यवच्छेदान्तरसाकाङ्क्षत्वाच् ०३३२१ च । ०३३२२ भेदो अयमेव सर्वत्र द्रव्यभावाभिधायिनोः । ०३३२३ शब्दयोर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥६२॥ ०३४०१ तस्मान्न सर्वत्र धर्मधर्मिवाचिनोः शब्दयोर्वाच्ये अर्थे ०३४०२ निश्चयप्रत्ययविषयत्वेन कश्चिद्विशेषः । एकस्तमेव प्रत्याययन् ०३४०३ प्रतिक्षिप्तभेदान्तरः प्रत्याययति । अन्यो प्रतिक्षेपेण ०३४०४ इत्ययं विशेषः । ०३४०५ जिज्ञापयिषुरर्थं तं तद्धितेन कृता अपि वा । ०३४०६ अन्येन वा यदि ब्रूयाद्भेदो न अस्ति ततो अपरः ॥६३ । ०३४०७ एतावन्तमेव च भेदं दर्शयंस्तद्धितेन वा दर्शयेत् ०३४०८ पाचकत्वमिति कृता अपि वा पाक इत्यन्येन वा तथाभूतज्ञापनाय ०३४०९ स्वयं कृतेन समयेन । न पुनस्तथा अभिधानमात्रेण ०३४१० अर्थान्तरमेव तद्भवति । तथाभूतस्य एव ज्ञापनाय ०३४११ शब्दस्य कृतसंकेतत्वात् । ननु च पाचकत्वमिति सम्बन्ध ०३४१२ उच्यते न पाक एव । न वै पाकेन अन्य एव कश्चित्पाचको नाम अभिधीयते ०३४१३ यादृशो वर्ण्यते । यत्पुनरस्य अभिधेयं तत्कथितं ०३४१४ तदेव पाचकत्वेन अपि इत्यलमप्रतिष्ठैर्मिथ्याविकल्पैः । ०३४१५ यथा च न अर्थान्तरभूता क्रिया अस्ति तत्समवायो वा तत् ०३४१६ प्रत्याययिष्यामः । ०३४१७ तेन अन्यापोहविषये तद्वत्पक्षोपवर्णनम् । ०३४१८ प्रत्याख्यातं पृथक्त्वे हि स्याद्दोषो जातितद्वतोः ॥६४॥ ०३४१९ यदाहुः । अन्यापोहे अपि शब्दार्थे तद्विशिष्टस्य अभिधानात्तद्वत् ०३४२० पक्षोदितः सर्वः प्रसङ्गः समान इति तदप्यनेन प्रतिव्यूढम् । ०३४२१ तत्र ह्यर्थान्तरमुपादाय अन्यत्र वर्तमानो ध्वनिर् ०३४२२ अस्वातन्त्र्यादिदोषैरुपद्रूयते । न च अर्थान्तरमन्यस्माद् ०३४२३ व्यावृत्तिर्व्यावृत्ताद्द्वयोरेकाभिधानादित्युक्तम् । कथम् ०३४२४ इदानीमेकस्य व्यावृत्तस्य अन्याननुगमादन्यव्यावृत्तिः ०३४२५ सामान्यम् । तद्बुद्धौ तथा प्रतिभासनात् । न वै किंचित् ०३४२६ सामान्यं नाम अस्ति । शब्दाश्रया बुद्धिरनादिवासनासामर्थ्याद् ०३४२७ असंसृष्टानपि धर्मान् संसृजन्ती जायते । तस्याः प्रतिभास ०३५०१ वशेन सामान्यं सामानाधिकरण्यं च व्यवस्थाप्यते ०३५०२ असद्अर्थो अपि । अर्थानां संसर्गभेदाभावात् । तस्य सर्वस्य ०३५०३ तत्कार्यकारणतया अन्येभ्यो भिद्यमाना अर्थाः समाश्रयो ०३५०४ ध्वनिश्च अनिष्टपरिहारेण प्रवर्तयति इत्यन्यापोहविषय उक्तः । ०३५०५ तत्र अनपेक्षितबाह्यतत्त्वो बुद्धिप्रतिभासवशादेको अनेक ०३५०६ व्यावृत्तः शब्दैर्विषयीक्रियते तद्अनुभवाहितवासनाप्रबोध ०३५०७ जन्मभिर्विकल्पैरध्यवसिततद्भावार्थैः । तत्र एव ०३५०८ च अयं धर्मधर्मिव्यवहारः परस्परं तत्त्वान्यत्वाभ्याम् ०३५०९ अवाच्यः प्रतन्यते । न ह्यन्यो धर्मो धर्मिणो अनर्थ ०३५१० अन्तराभिधानात्न अपि स एव । तद्वाचिनामिव धर्मवाचिनाम् ०३५११ अपि व्यवच्छेदान्तराक्षेपप्रसङ्गात् । तथा च इष्टप्रत्यायनात् ०३५१२ संकेतभेदाकरणमिति । एतच्शब्दार्थे अवाच्यत्वं ०३५१३ धर्मधर्मिणोः । वस्तुनि तु स्वलक्षणे सामान्यलक्षणमवाच्यम् ०३५१४ अभावात् । ननु च धर्मधर्मिणोरभेदे भेदे वा ०३५१५ दृष्टाः षष्ठ्य्आदिविभक्तयो धर्मबहुत्वात्तत्र दृष्टो वचन ०३५१६ भेदश्च धर्मिणि न स्यात् । उक्तमत्र शब्दानां स्वातन्त्र्य ०३५१७ अभावादिति । अपि च । ०३५१८ येषां वस्तुवशा वाचो न विवक्षापराश्रयाः । ०३५१९ षष्ठीवचनभेदादिचोद्यं तान् प्रति युक्तिमत् ॥६५॥ ०३५२० यदि नाम एते शब्दाः पुरुषैः क्वचित्प्रणिनीषिता अपि न शक्यन्ते ०३६०१ प्रणेतुं वस्तुप्रतिबन्धाद्धूमादिवत् । तदा अयमुपालम्भः ०३६०२ स्यात्कथं षष्ठ्य्आदय इति । यदा पुनः । ०३६०३ यद्यथा वाचकत्वेन वक्तृभिर्विनियम्यते । ०३६०४ अनपेक्षितबाह्यार्थं तत्तथा वाचकं वचः ॥६६॥ ०३६०५ न हि व्यतिरेके षष्ठी बाहुल्ये जस्आदय इत्येतदपि पुरुषाभिप्राय ०३६०६ निरपेक्षं वस्तुसंनिधिमात्रेण स्वयं प्रवृत्तम् । ते ०३६०७ तु तत्र तथा प्रयुञ्जत इति ततस्तथा प्रतिपत्तिर्भवति । ०३६०८ एवमन्यत्र अपि कथंचित्तैः प्रयुक्तास्तथा एव प्रतीतिहेतवो ०३६०९ भवन्ति । तत्र वाच्येषु पुरुषायत्तवृत्तीनां शब्दानामवस्तु ०३६१० सन्दर्शिनां यथा अभ्यासं विकल्पप्रबोधहेतूनां प्रवृत्तिचिन्ता ०३६११ तद्वशाद्वस्तुव्यवस्थापनं च केवलं जाड्य ०३६१२ ख्यापनम् । तथाकृतव्यवस्थाः शब्दा धर्मधर्म्य्आदिषु न ०३६१३ पुनर्व्यतिरेकवस्तुभेदादिति कुत एतत् । तथा व्यवहार अयोगात् । ०३६१४ न हि धर्मधर्मिणोर्भेदे तत्त्वरूपत्वे वा सामान्य ०३६१५ तत्सम्बन्धसामानाधिकरण्यविशेषणविशेष्यभावा युज्यन्ते ०३६१६ शब्दानां वा यथावस्तुवृत्ताविति वक्ष्यामः । यश्च अयं सर्वत्र ०३६१७ वस्तुकृतमेव शब्दप्रवृत्तिभेदमिच्छति तस्य ०३६१८ दाराः षण्णगरी इत्यादौ भेदाभेदव्यवस्थितेः । ०३६१९ खस्य स्वभावः खत्वं च इत्यत्र वा किं निबन्धनम् ॥६७ ॥ ०३६२१ यदा एका अपि स्त्री दारा एकमपि सिकताद्रव्यं सिकता इति व्यवहारस् ०३६२२ तत्र किं बाहुल्यं येन एवं भवति । शक्तिभेद इति चेत् । ०३६२३ सर्वत्र उत्सन्नमिदानीमेकवचनमेकशक्तेरभावात् । यत्नश् ०३६२४ च व्यर्थः । वस्त्व्अभेदादन्यत्र एकवचनमिति चेत् । ०३६२५ इह अप्यस्तु । तदयं निर्वस्तुको नियमः क्रियमाणः स्वातन्त्र्यम् ०३६२६ इच्छायाः शब्दप्रयोगे ख्यापयति । षण्णगरी इति च ०३६२७ कथं बहुष्वेकवचनम् । न हि नगराण्येव किंचित् । ०३७०१ कुतस्तेषां समाहारः । प्रासादपुरुषादीनां विजातीयानाम् ०३७०२ अनारम्भात्कुतस्तत्समुदायो द्रव्यम् । असंयोगाश्च । ०३७०३ न संयोगः । प्रासादस्य स्वयं संयोगात्मकस्य परेण असंयोगाच् ०३७०४ च । तत एव संख्याभावः । तत्संयोगपुरुषविशिष्टा ०३७०५ सत्ता नगरमिति चेत् । किमस्या निरतिशयाया विशेषणम् । ०३७०६ सत्तायाश्च एकत्वात् । नगरबहुत्वे अपि नगराणि इति बहुवचनं ०३७०७ न स्यात् । द्वयस्य परस्परसहितता इति चेत् । अनुपकार्योपकारकः ०३७०८ कः सहायीभावः । पुरुषसंयोगसत्तानां च बहुत्वान् ०३७०९ नगरमिति कथमेकवचनम् । तथाभूतानां क्वचिद् ०३७१० अर्थे अभिन्ना शक्तिरस्ति सा निमित्तमिति चेत् । न । शक्तेर्वस्तु ०३७११ रूपाव्यतिरेकात् । व्यतिरेके वा अनुपकार्यस्य पारतन्त्र्यायोगात् । ०३७१२ उपकारे वा शक्त्य्उपकारिण्या अपि शक्तेर्व्यतिरेक इत्यनवस्थितेर् ०३७१३ अप्रतिपत्तिः । तद्अव्यतिरेके वा आद्यायामपि प्रसङ्ग इति यत् ०३७१४ किंचिदेतत् । खस्य स्वभावः खत्वमिति व्यतिरेकाश्रया ०३७१५ षष्ठी न स्यात् । न हि तत्र सामान्यमस्ति न अपि विभुत्वादयो ०३७१६ गुणास्तथा उच्यन्ते । अर्थान्तरस्य तत्स्वभावत्वायोगात् । तेषां ०३७१७ च निःस्वभावत्वप्रसङ्गात् । तस्य अप्यर्थान्तरस्वभावत्वे ०३७१८ अतिप्रसङ्गः । तथा च अप्रतिपत्तिः । एवं षट्पदार्थवर्गादयो ०३७१९ अपि वाच्याः । न हि तत्र सामान्यं संख्या संयोगो वा सम्भवति । ०३७२० कथमिदानीमसत्यतिशये खस्य स्वभाव इति न तु ०३७२१ खमित्येव । खस्य अर्थान्तरसाधारणरूपापरामर्शेन ख ०३७२२ शब्दप्रवृत्तिनिबन्धनं रूपं तथा जिज्ञासायामेवमुच्यते । ०३७२३ ननु सर्वतो व्यावृत्तस्य रूपस्य अभिधानं न सम्भवति । ०३७२४ न वै तदेव रूपं बुद्धौ समर्प्यते । अनतीन्द्रियत्व ०३७२५ प्रसङ्गात् । केवलमयं तथाभूतं प्रत्याययिष्यामि इति शब्देन ०३७२६ श्रोतर्यसंसृष्टतत्स्वभावं विकल्पप्रतिबिम्बमर्पयति । ०३७२७ यदाह । अदृष्टार्थे अर्थविकल्पमात्रमिति । न एवं ०३८०१ प्रतिपाद्यप्रतिपादकाभ्यां स्वलक्षणं प्रतिपन्नं प्रतिपादितं ०३८०२ वा भवति । स्वर्गादिश्रवणे अपि तद्अनुभाविनामिव ०३८०३ प्रतिभासाभेदप्रसङ्गात् । तस्मादयमप्रतिपद्यमानो अपि ०३८०४ भावस्वभावं तथाभूत एव विकल्पप्रतिबिम्बे तद्अध्यवसायी ०३८०५ संतुष्यति । तथाभूतत्वादेव शब्दार्थप्रतिपत्तेस् ०३८०६ तेन एतदेवमुच्यते शब्दः स्वरूपमाह इति । न पुनः स्वरूप ०३८०७ प्रतिभासस्य एव विज्ञानस्य जननात् । कथं तर्हि इदानीमेकान्त ०३८०८ व्यावृत्तरूपेषु भावेषु सामान्यं नाम । तेषामसंसर्गाद् ०३८०९ अन्यस्य च अभावात् । उक्तं यादृशं सामान्यमसंसृष्टानाम् ०३८१० एकासंसर्गस्तद्व्यतिरेकिणां समानता इति । अपि च । ०३८११ पररूपं स्वरूपेण यया संव्रियते धिया॥ ०३८१२ एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥६८ ॥ ०३८१३ तया संवृतनानार्थाः संवृत्या भेदिनः स्वयम् । ०३८१४ अभेदिन इव आभान्ति भावा रूपेण केनचित् ॥६९॥ ०३८१५ तस्या अभिप्रायवशात्सामान्यं सत्प्रकीर्तितम् । ०३८१६ तदसत्परमार्थेन यथा संकल्पितं तया ॥७०॥ ०३८१७ बुद्धिः खलु तद्अन्यव्यतिरेकिणः पदार्थानाश्रित्य उत्पद्यमाना ०३८१८ विकल्पिका स्ववासनाप्रकृतिमनुविदधती भिन्नमेषां ०३८१९ रूपं तिरोधाय प्रतिभासमभिन्नमात्मीयमध्यस्य ०३८२० तान् संसृजन्ती सन्दर्शयति । सा च एकसाध्यसाधनतया अन्य ०३८२१ विवेकिनां भावानां तद्विकल्पवासनायाश्च प्रकृतिर्यदेवम् ०३८२२ एषा प्रतिभाति तद्उद्भवा । सा च संवृतिः संव्रियते अनया ०३८२३ स्वरूपेण पररूपमिति । ते च तया संवृतभेदाः स्वयं ०३८२४ भेदिनो अप्यभेदिन इव केनचिद्रूपेण प्रतिभान्ति । तदेषां ०३८२५ बुद्धिप्रतिभासमनुरुन्धानैः बुद्धिपरिवर्तिनामेव भावानाम् ०३८२६ आकारविशेषपरिग्रहाद्बहिरिव परिस्फुरतां सामान्यम् ०३९०१ इत्युच्यते । कथमिदानीमन्यापोहः सामान्यम् । स एव खल्व् ०३९०२ अन्यापोहस्। तमेव गृह्णती सा प्रकृतिविभ्रमाद्विकल्पानां ०३९०३ वस्तुग्राहिणी इव प्रतिभाति । सा हि तद्अन्यविवेकिष्वेव भावेषु ०३९०४ भवन्ती विवेकविषया इति गम्यते । ननु बाह्या विवेकिनो न च ०३९०५ तेषु विकल्पप्रवृत्तिरिति कथं तेषु भवति । व्याख्यातारः ०३९०६ खल्वेवं विवेचयन्ति न व्यवहर्तारः । ते तु स्वालम्बनम् ०३९०७ एव अर्थक्रियायोग्यं मन्यमाना दृश्यविकल्प्यावर्थावेकीकृत्य ०३९०८ प्रवर्तन्ते । तद्अभिप्रायवशादेवमुच्यते । तत्कारितया ०३९०९ अतत्कारिभ्यो भिन्नांस्तथा शब्देन प्रतिपादयन्ति इति । प्रतिभासभेदादिभ्यस् ०३९१० तु तत्त्वचिन्तका न अभेदमनुमन्यन्ते । ०३९११ यदि प्रतिपत्त्रभिप्रायो अनुविधीयते अन्यापोहो अपि सामान्यं ०३९१२ मा भूत्न ह्येवं प्रतिपत्तिरिति । न वै केवलम् ०३९१३ एवमप्रतिपत्तिः । व्यक्तिव्यतिरिक्ताव्यतिरिक्तैकनित्यव्यापिताद्य् ०३९१४ आकारैरपि न एव प्रतिपत्तिः । केवलमभिन्नाकारा बुद्धिर् ०३९१५ उत्पद्यते । तस्याः क आश्रय इत्यन्यापोह उच्यते । तस्य वस्तुषु ०३९१६ भावात् । अविरोधात् । व्यवहारस्य च शब्दाश्रयस्य तथा ०३९१७ दर्शनात् । न पुनर्वस्तुभूतं किंचित्सामान्यं नाम अस्ति ०३९१८ यथा इयं बुद्धिः प्रतिभाति । यस्मात् । ०३९१९ व्यक्तयो न अनुयन्त्यन्यदनुयायि न भासते ॥ ०३९२० न हि इमा व्यक्तयः परस्परमन्वाविशन्ति । भेदाभावे न सामान्यस्य ०३९२१ एव अभावप्रसङ्गात् । अन्यच्च न ताभ्यो व्यतिरिक्तं ०३९२२ किंचित्तथा बुद्धौ प्रतिभात्यप्रतिभासमानं च कथम् ०३९२३ आत्मना अन्यं ग्राहयेद्व्यपदेशयेद्वा । न च तैः सम्बद्धम् ०३९२४ एकमित्येव सामान्यं भवत्यतिप्रसङ्गादित्युक्तम् । ०३९२५ अभिन्नाभिधानप्रत्ययनिमित्तमेकं सामान्यं न सर्वम् ०३९२६ इति चेत् । कथमन्यतो अन्यत्र प्रत्ययवृत्तिः । तत्सम्बन्धात् । ०३९२७ संख्याकार्यद्रव्यादिष्वपि प्रसङ्गः असामान्य आत्मकत्वान् ०३९२८ न इति चेत् । ननु स एव अयं विचार्यते । को अयं सामान्यात्मा ०३९२९ इति । तत्र सति सम्बन्धे प्रत्ययवृत्तिस्ततः सामान्यमित्य् ०३९३० अत्र उच्यते । अनेकसम्बन्धेभ्यः कार्यद्रव्यादिभ्यो निमित्त ०४००१ सम्भवात्प्रत्ययवृत्तिस्ततश्च सामान्यात्मता । अन्यथा अन्यत्र ०४००२ अपि मा भूत् । विशेषाभावात् । तथा च द्रव्यगुणसामान्यानां ०४००३ रूपसंकर इति । एवं तर्हि बुद्धेरेव प्रतिभासो ज्ञानरूपत्वात् ०४००४ सनेव सामान्यम् । तन्न । यस्मात् ०४००५ ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत् । ७१॥ ०४००६ ज्ञानस्य रूपं कथमर्थानां सामान्यम् । तस्य तेष्वभावात् । ०४००७ तद्भावाध्यवसायात्तथाभ्रान्त्या व्यवहार इति चेत् । तत्र ०४००८ तथाज्ञानोत्पत्तेः किं निबन्धनमनाश्रयस्य च उत्पत्तौ सर्वत्र ०४००९ स्यात् । अथवा ज्ञानादव्यतिरिक्तमेकस्मात्कथमन्यस्य ०४०१० पुनर्ज्ञानस्य रूपं स्यात्व्यक्त्य्अन्तरभाविनः । त तश्च ०४०११ ज्ञानान्तरं व्यक्त्य्अन्तरं वा अव्याप्नुवत्कथं सामान्यं ०४०१२ स्यात् । ०४०१३ तस्मान्मिथ्याविकल्पो अयमर्थेष्वेकात्मताग्रहः । ०४०१४ न ह्यर्था व्यतिरिक्तेन अव्यतिरिक्तेन वा केनचिदात्मना समानाः ०४०१५ तथा एषां ग्रहणं मिथ्याविकल्प एव । ०४०१६ इतरेतरभेदो अस्य बीजं संज्ञा यद्अर्थिका ॥७२॥ ०४०१७ यस्य प्रत्यायनार्थं संकेतः क्रियते अभिन्नसाध्यान् भावान् ०४०१८ अतत्साध्येभ्यो भेदेन ज्ञात्वा तत्परिहारेण प्रवर्तेत इति सो ०४०१९ अयमितरेतरभेदस्तस्य एकात्मताप्रतिभासिनो मिथ्याविकल्पस्य ०४०२० बीजम् । तमेव गृह्णनेष विकल्पः स्ववासनाप्रकृतेरेवं ०४०२१ प्रतिभाति । कथं पुनर्भिन्नानामभिन्नं कार्यं येन ०४०२२ तद्अन्येभ्यो भेदादभेद इत्युच्यते । प्रकृतिरेषा भवानां ०४०२३ यद् ०४०२४ एकप्रत्यवमर्शार्थज्ञानाद्य्एकार्थसाधने । ०४०२५ भेदे अपि नियताः केचित्स्वभावेन इन्द्रियादिवत् ॥७३॥ ०४१०१ यथा इन्द्रियविषयालोकमनस्कारा आत्मा इन्द्रियमनो अर्थतत्संनिकर्षा ०४१०२ वा असत्यपि तद्भावनियते सामान्ये रूपविज्ञानमेकं ०४१०३ जनयन्ति एवं शिंशपादयो अपि भेदाः परस्परानन्वये अपि ०४१०४ प्रकृत्या एव एकमेकाकारं प्रत्यभिज्ञानं जनयन्ति अन्यां वा ०४१०५ यथाप्रत्ययं दहनगृहादिकां काष्ठसाध्यामर्थक्रियाम् ०४१०६ न तु भेदाविशेषे अपि जलादयः श्रोत्रादिवद्रूपादिज्ञाने । ०४१०७ ज्वरादिशमने काश्चित्सह प्रत्येकमेव वा । ०४१०८ दृष्टा यथा वा ओषधयो नानात्वे अपि न च अपराः ॥७४॥ ०४१०९ यथा वा गुडूचीव्यक्त्य्आदयः सह प्रत्येकं वा ज्वरादिशमन ०४११० लक्षणमेकं कार्यं कुर्वन्ति । न च तत्र सामान्यमपेक्षन्ते । ०४१११ भेदे अपि तत्प्रकृतित्वात् । न तद्अविशेषे अपि दधित्रपुसादयः । ०४११२ स्यादेतत्सामान्यमेव किंचित्तासु तथाभूतासु ०४११३ विद्यते तत एव तदेकं कार्यमिति । तदयुक्तम् । ०४११४ अविशेषान् । ०४११५ सामान्यस्य ०४११६ न सामान्यम् । ०४११७ तत्कार्यकृत् । तस्य अपि ०४११८ अविशेषप्रसङ्गतः । ०४११९ तासां क्षेत्रादिभेदे अपि । ०४१२० यदि हि सामान्याज्ज्वरादिशमनं कार्यं स्यात् । तस्य अविशेषाद् ०४१२१ व्यक्तीनां क्षेत्रादिभेदे अपि चिरशीघ्रप्रशमनादयो विशेषा ०४१२२ गुणतारतम्यं च न स्यात् । विशेषे वा सामान्यस्य स्वभाव ०४१२३ भेदात्स्वरूपहानम् । ०४१२४ ध्रौव्याच्च । ०४१२५ सामान्यस्य ०४२०१ अनुपकारतः ॥७५॥ ०४२०२ यदि ह्युपकुर्यादनाधेयविशेषस्य अनन्यापेक्षणात्सकृत्सर्वं ०४२०३ स्वकार्यं जनयेत् । न वा तज्जननस्वभावम् । व्यक्तयस् ०४२०४ तु कालदेशसंस्कारवशेन विशिष्टोत्पत्तयो विशेषवत्कार्यं ०४२०५ कुर्युरित्यविरोधः । तद्वदर्था अपि केचित्स्वभावभेदे अपि ०४२०६ एकप्रत्यभिज्ञानादिकामर्थक्रियां कुर्वन्तस्तद्अकारिभ्यो ०४२०७ भेदादभिन्ना इत्युच्यन्ते एकेन वा अनेको जनितो अतज्जन्येभ्यो ०४२०८ भेदात् । किं पुनरनेन भेदलक्षणेन सामान्येन स्वलक्षणं ०४२०९ समानमिति प्रत्येयमथ अन्यदेव । किं च अतः । यदि ०४२१० स्वलक्षणं कथं विकल्पस्य विषयः । अन्यतो वा कथम् ०४२११ अर्थक्रिया । स्वलक्षणे च अनित्यत्वादिप्रतीतेरताद्रूप्यं तेषां ०४२१२ च अवस्तुधर्मता । न एष दोषः । ज्ञानप्रतिभासिन्य्अर्थे सामान्य ०४२१३ सामानाधिकरण्यधर्मधर्मिव्यवहाराः । यदेतज्ज्ञानं ०४२१४ वस्तुस्वभावग्राहिणानुभवेन आहितां वासनामाश्रित्य ०४२१५ विकल्पकमुत्पद्यते अतद्विषयमपि तद्विषयमिव तद्अनुभव ०४२१६ आहितवासनाप्रभवप्रकृतेरध्यवसिततद्भावस्वरूपम् ०४२१७ अभिन्नकार्यपदार्थप्रसूतेरभिन्नार्थग्राही इव तद्अन्यभेद ०४२१८ परमार्थसमानाकारं तत्र यो अर्थाकारः प्रतिभाति बाह्य ०४२१९ इव एक इव अनर्थक्रियाकार्यपि तत्कारी इव व्यवहारिणां तथा अध्यवसाय ०४२२० प्रवृत्तेः अन्यथा प्रवृत्त्य्अयोगात्तदर्थक्रियाकारितया ०४२२१ प्रतिभासनात्तद्अकारिभ्यो भिन्नमिव न च तत् ०४२२२ तत्त्वं परीक्षानङ्गत्वादिति प्रतिपादयिष्यामः । ते अर्था बुद्धि ०४२२३ निवेशिनस्तेन समाना इति गृह्यन्ते कुतश्चिद्व्यावृत्त्या प्रतिभासनात् ०४२२४ न स्वलक्षणं तत्र अप्रतिभासनात् । त एव च कुतश्चिद् ०४२२५ व्यावृत्ताः पुनरन्यतो अपि व्यावृत्तिमन्तो अभिन्नाश्च प्रतिभान्ति ०४२२६ इति । स्वयमसतामपि तथा बुद्ध्या उपदर्शनान् ०४३०१ मिथ्यार्थ एव सामान्यसामानाधिकरण्यव्यवहारः क्रियते । ०४३०२ सर्वश्च अयं स्वलक्षणानामेव दर्शनाहितवासनाकृतो विप्लव ०४३०३ इति तत्प्रतिबद्धजन्मनां विकल्पानामतत्प्रतिभासित्वे अपि ०४३०४ वस्तुन्यविसंवादो मणिप्रभायामिव मणिभ्रान्तेः न अन्येषाम् ०४३०५ तद्भेदप्रभवे सत्यपि यथा अदृष्टविशेषानुसरणं परित्यज्य ०४३०६ किंचित्सामान्यग्रहणेन विशेषान्तरसमारोपाद्दीप ०४३०७ प्रभायामिव मणिबुद्धेः । तेन न विकल्पविषयेष्वर्थेष्व् ०४३०८ अर्थक्रियाकारित्वम् । न अपि स्वलक्षणस्य अनित्यत्वाद्य्अभावः । यस्मान् ०४३०९ न अनित्यत्वं नाम किंचिदन्यच्चलाद्वस्तुनः । क्षण ०४३१० प्रत्युपस्थानधर्मतया तस्य तथाभूतस्य ग्रहणादेतद् ०४३११ एवं भवत्यनित्यो अयमनित्यत्वमस्य इति वा । तद्धर्मताम् ०४३१२ एव अवतरन्तो विकल्पा नानैकधर्मव्यतिरेकान् सन्दर्शयन्ति । ०४३१३ न च ते निराश्रयास्तद्भेददर्शनाश्रयत्वात् । न अवस्तु ०४३१४ धर्मता तत्स्वभावस्य एव तथा ख्यातेः । वस्तुनस्तु ०४३१५ नानैकव्यतिरेकग्रहो विभ्रमः स्यात् । तस्य एकानेककार्यकारिणस् ०४३१६ तथाभावजिज्ञासासु तथाभावख्यापनाय तथाकृतस्थितित्वात् । ०४३१७ न वस्तुभेदात् । तस्य एकस्य अनेकत्वायोगात् । अनेकस्य च ०४३१८ एकत्वायोगात् । व्यतिरिक्तस्य च निषेधात् । तेषां प्रकृतिभेदाद् ०४३१९ यथावस्तु शब्दार्थाभ्युपगमे सामानाधिकरण्यायोगात् । तद् ०४३२० उपाधेरेकस्य द्वाभ्यामभिधानाददोष इति चेत् । अनुपकारिणि ०४३२१ पारतन्त्र्यायोगादनुपाधिः । पारतन्त्र्ये च जन्यजनक भावात् ०४३२२ सह अनवस्थितेर्द्वयोरनभिधानम् । एकस्य बुद्ध्या ०४३२३ अध्याहारे न वस्तुविषयः शब्दः स्यात् । बुद्धिप्रतिभास ०४३२४ विषयत्वे च सर्वं तथा एव अस्तु । तथा भिन्नोपाधिमत एकस्य ०४३२५ ग्रहणे अप्रतिभासनात् । उपकार्योपकारिणोरप्युपाधितद्वतोः ०४३२६ सह अवस्थानाददोष इति चेत् । न । निष्पन्नस्य पारतन्त्र्याभावाद् ०४३२७ अनुपाधित्वम् । न अनिष्पन्नस्य स्वरूपासिद्धेः । सर्वथा असत् ०४३२८ पारतन्त्र्यमिति कल्पनारोपितं कृत्वा व्यवहारे सर्वथा ०४३२९ स एव किं न बुद्धिरनुविधीयते । एकशब्दप्रमाणेन विषयीकरणे ०४३३० वस्तुबलादशेषाक्षेपात्तद्अन्यवैयर्थ्यं च न स्यात् । ०४४०१ बुद्धिप्रतिभासस्य निर्वस्तुकत्वात्वस्तुसामर्थ्याभाविनाम् ०४४०२ दोषाणामप्रसङ्गः । तदभिन्नमेकाकारविषयीकरणे अप्यनिश्चित ०४४०३ अन्याकारमाकारान्तरसाकाङ्क्षबुद्धिग्राह्यं भिन्नशब्दार्थ ०४४०४ उपसंहारे अप्यभिन्नं बुद्धौ प्रतिभाति इति सामान्य विशेषणविशेष्यभाव ०४४०५ सामानाधिकरण्यानि यथाप्रतीति न विरुध्यन्ते ०४४०६ धर्मधर्मिभेदो अप्यस्य । अनेकार्थभेदसम्भवे ०४४०७ तद्एकार्थभेदविधिप्रतिषेधजिज्ञासायां तदेव वस्तु ०४४०८ प्रतिक्षिप्तभेदान्तरेण धर्मशब्देन संचोद्य बुद्धेस्तथा ०४४०९ प्रतिभासनाद्व्यतिरिक्तं धर्ममिव अविशेषेण अपरमस्य स्वभावं ०४४१० धर्मितया व्यवस्थाप्य प्रदर्श्यते । तावता च अंशेन ०४४११ धर्मधर्मिणोर्भेदाद्भेदवती इव बुद्धिः प्रतिभाति । न ०४४१२ वस्तुभेदात् । यथोक्तदोषात् । तथाभूतभेदबाहुल्यचोदनया ०४४१३ वचनभेदः साध्यसाधनभेदश्च तत्स्वभावसमाश्रयैर् ०४४१४ धर्मप्रतिभासभेदैस्तत्स्वभावप्रतिपत्तये क्रियत इति । ०४४१५ तत्स्वभावग्रहणात्या धीस्तद्अर्था इव अप्यनर्थिका ॥ ०४४१६ विकल्पिका अतत्कार्यार्थभेदनिष्ठा प्रजायते ॥७६॥ ०४४१७ तस्यां यद्रूपमाभाति बाह्यमेकमिव अन्यतः । ०४४१८ व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥७७॥ ०४४१९ अर्था ज्ञाननिविष्टास्ते यतो व्यावृत्तिरूपिणः । ०४४२० तेन अभिन्ना इव आभान्ति व्यावृत्ताः पुनरन्यतः ॥७८॥ ०४४२१ त एव तेषां सामान्यसमानाधारगोचरैः । ०४४२२ ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतन्यते ॥७९॥ ०४४२३ स च सर्वः पदार्थानामन्योन्याभावसंश्रयः । ०४४२४ तेन अन्यापोहविषयो वस्तुलाभस्य च आश्रयः ॥८०॥ ०४४२५ यत्र अस्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथा । ०४४२६ न अन्यत्र भ्रान्तिसाम्ये अपि दीपतेजो मणौ यथा ॥८१॥ ०४४२७ तत्र एककार्यो अनेको अपि तद्अकार्यान्यताश्रयैः । ०४५०१ एकत्वेन अभिधाज्ञानैर्व्यवहारं प्रतार्यते ॥८२॥ ०४५०२ तथा अनेककृदेको अपि तद्भावपरिदीपने । ०४५०३ अतत्कार्यार्थभेदेन नानाधर्मप्रतीयते ॥८३॥ ०४५०४ यथाप्रतीतिकथितः शब्दार्थो असावसन्नपि । ०४५०५ सामानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥८४॥ ०४५०६ धर्मधर्मिव्यवस्थानं भेदो अभेदश्च यादृशः । ०४५०७ असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥८५॥ ०४५०८ तं तथा एव समाश्रित्य साध्यसाधनसंस्थितिः । ०४५०९ परमार्थावताराय विद्वद्भिरवकल्प्यते ॥८६॥ ०४५१० संसृज्यन्ते न भिद्यते स्वतो अर्थाः पारमार्थिकाः । ०४५११ रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥८७॥ ०४५१२ भेदस्ततो अयं बौद्धे अर्थे सामान्यं भेद इत्यपि । ०४५१३ तस्य एव च अन्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥८८॥ ०४५१४ साध्यसाधनसंकल्पे वस्तुदर्शनहानितः । ०४५१५ भेदः सामान्यसंसृष्टो ग्राह्यो न अत्र स्वलक्षणम् ॥८९॥ ०४५१६ समानभिन्नाद्य्आकारैर्न तद्ग्राह्यं कथंचन । ०४५१७ भेदानां बहुभेदानां तत्र एकस्मिन्नयोगतः ॥९०॥ ०४५१८ तद्रूपं सर्वतो भिन्नं तथा तत्प्रतिपादिका । ०४५१९ न श्रुतिः कल्पना वा अस्ति सामान्येन एव वृत्तितः ॥९१॥ ०४५२० इति संग्रहश्लोकाः । किं पुनः कारणं स्वलक्षणे शब्दा न ०४५२१ प्रयुज्यन्ते । यस्मात् । ०४५२२ शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः । ०४५२३ तदा स्वलक्षणं न अस्ति संकेतस्तेन तत्र न ॥९२ ॥ ०४५२४ न हि शब्दा असंकेतितमर्थं प्रकाशयन्ति । संकेतश्च ०४५२५ व्यवहारार्थं क्रियते अपि नाम इतः शब्दात्कृतसंकेताद् ०४५२६ उत्तरकालमिममर्थं प्रतिपद्येत इति । न च प्राक्कृतसम्बन्धस्य ०४५२७ एकत्र स्वलक्षणे शब्दस्य पश्चाद्प्रयोगो युक्तः । ०४५२८ तस्य देशकालव्यक्तिभेदानास्कन्धनात् । तस्मान्न स्वलक्षणे ०४५२९ समयः । सामान्यं तर्हि व्यतिरिक्तमव्यतिरिक्तं वा व्यापि ०४५३० शब्दैरभिधीयते । तन्न व्यवहारकालाभावदोषः । न एतद् ०४५३१ अस्ति । यस्मात् ०४५३२ अपि प्रवर्तेत पुमान् विज्ञायार्थक्रियाक्षमान्॥ ०४६०१ तत्साधनाय इत्यर्थेषु संयोज्यन्ते अभिधायकाः ॥९३॥ ०४६०२ न खलु वै व्यसनमेव एतल्लोकस्य यदयमसंकेतयन्न् ०४६०३ अप्रयुञ्जानो वा शब्दान् दुःखमासीत । किं तर्हि सर्व एव अस्य अवधेय ०४६०४ आरम्भः फलार्थः । निष्फलारम्भस्य उपेक्षनीयत्वात् । ०४६०५ तदयं शब्दानपि क्वचिन्नियुञ्जानः फलमेव किंचिद् ०४६०६ ईहितुं युक्तः । तच्च सर्वं त्यागाप्तिलक्षणमिष्टानिष्टयोः । ०४६०७ तेन अयमिष्टानिष्टयोः साधनमसाधनं च ज्ञात्वा तत्र ०४६०८ प्रवृत्तिनिवृत्ती कुर्यां कारयेयं वा इति शब्दान्नियुञ्जीत नियोगे ०४६०९ वा आद्रियेत । अन्यथा अपेक्षणीयत्वात् । ०४६१० तत्र अनर्थक्रियायोग्या जातिः । ०४६११ न हि जातिः क्वचिद्वाहदोहोपतिष्ठते । न च तादृशं प्रकरणम् ०४६१२ अन्तरेण लोके शब्दप्रयोगो व्यवहारेषु । व्यक्तेरशक्य ०४६१३ चोदनत्वाल्लक्षितलक्षणार्थं जातिचोदना इति चेत् । अशब्दचोदिते ०४६१४ सत्यपि सम्बन्धे कथं प्रवर्तेत । न हि कश्चिद्दण्डं ०४६१५ छिन्धि इत्युक्ते दण्डिनं छिनत्ति । न अप्यसम्भवाद्व्यक्तौ प्रवृत्तिः । ०४६१६ एवं ह्यसम्बद्धप्रलापी स्यात् । न ततो अन्यत्र प्रवृत्तिर् ०४६१७ बलीवर्ददोहचोदनावत् । न च अर्थान्तरचोदनेन अर्थान्तरस्य लक्षणम् । ०४६१८ न हि सम्बन्धे सत्यपि दण्डशब्दाद्दण्डिनि प्रतिपत्तिः । ०४६१९ अनियतसम्बन्धत्वात्तत्र न इति चेत् । तत्तुल्यं जाताव् ०४६२० अपि । व्यक्तीनामपाये केवलाया जातेरवस्थानात् । भ्रात्रादि ०४६२१ शब्दास्तु सम्बन्धिशब्दत्वादाक्षिपेयुः परम् । न तथा ०४६२२ गोत्वादिश्रुतयः सम्बन्धिवाचिन्यः । अपेतव्यक्तीनामपि जातीनां ०४६२३ तच्श्रुतिभ्यो नित्यमनुगमनप्रसङ्गात् । सर्वदा तत्सम्बन्ध ०४६२४ योग्यताप्रतीतेरिष्टमेव इति चेत् । सर्वदा तर्हि गोशब्दाद् ०४६२५ अप्रवृत्तिः । सहितासहितावस्थयोर्विशेषेण अनाक्षेपात् । व्यक्ति ०४६२६ सम्बन्धिन्या जातेश्चोदनाददोष इति चेत् । सर्वदा तर्हि तद्विशेषणत्वेन ०४६२७ अवस्थिता व्यक्तिराक्षिप्ता एव इति तद्वानभिधेयः स्यात् । ०४६२८ न च जातिव्यक्त्योः कश्चित्सम्बन्धो अन्योन्यमजन्यजनकत्वेन ०४६२९ अनुपकारात् । ततो लक्षणमप्ययुक्तम् । तस्मान्न जातौ ०४६३० शब्दनिवेशनं फलाभावात् । एवं तर्हि । ०४६३१ तद्वानलं ०४७०१ अर्थक्रियास्विति तत्र शब्दो नियोज्यते । ०४७०२ स च । ०४७०३ साक्षान्न योज्यते कस्माद् । ०४७०४ यदि व्यक्तौ शब्दनिवेशनं फलवत् । स च शब्दः कस्मात्साक्षाद् ०४७०५ व्यक्तिष्वेव न नियुज्यते । किं तत्र अन्येन व्यवधिना । ०४७०६ आनन्त्याच्चेदिदं समम् ॥९४॥ ०४७०७ स्यादेतदानन्त्याद्व्यक्तीनामशक्यः शब्देन सम्बन्धः ०४७०८ कर्तुम् । एवं सति इदमानन्त्यं तद्वत्यपि समानम् । जात्या अपि ०४७०९ हि व्यक्तस्य एव वक्तव्या इत्यकृतसम्बन्धस्य अनभिधानाद् ०४७१० अवश्यं तत्र सम्बन्धः करणीयः । स च न शक्यते । ०४७११ तत्सम्बन्धिनि करणात्तत्र अपि कृत एव इति चेत् । उक्तम् ०४७१२ अत्र सम्बन्धे अप्येकत्र कृतादन्यत्र अप्रतीतिः न च सम्बन्धो ०४७१३ अस्ति इति । अपि च । ०४७१४ तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः । ०४७१५ यामर्थक्रियामधिकृत्य अयमर्थेषु शब्दान्नियुङ्क्ते तत् ०४७१६ कारिणामर्थानामन्येभ्यो भेदात्तत्र एव च एषामभेदे किं ०४७१७ न शब्दः प्रयुज्यते । ०४७१८ तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥९५॥ ०४७१९ स्यादेततन्यव्यावृत्ते अपि शब्दार्थे व्यावृत्तिविशिष्टस्य तद्वतो ०४७२० अभिधानान्न तद्वत्पक्षाद्विशेषः । को ह्यत्र विशेषो व्यावृत्तिर् ०४८०१ जातिर्व्यावृत्तिमान् जातिमानिति । अस्तु नाम तद्वद्दोषः । जातिर् ०४८०२ अन्या मा भूत् । जातिमपि ह्यभ्युपगच्छता अवश्यं भावानां ०४८०३ भेदो अभ्युपगन्तव्यः । तद्अभावे तस्या अप्यभाव ०४८०४ प्रसङ्गात्स च एकस्माद्भेदस्तद्अन्येषामभेदस्तद्विशिष्टेष्व् ०४८०५ अर्थेषु प्रतिपत्तिरस्तु । सर्वथा दोषपरिहारस्य कर्तुम् ०४८०६ अशक्यत्वात् । अर्थान्तराभ्युपगमे प्रयोजनाभावात् । तद् ०४८०७ अर्थस्य अन्येन साधनात् । तद्अभ्युपगमस्य च अवश्यं भावित्वात् । ०४८०८ अपि च । ०४८०९ तद्अन्यपरिहारेण प्रवर्तेत इति च ध्वनिः । ०४८१० उच्यते तेन तेभ्यो अस्य अव्यवच्छेदे कथं च सः ॥९६॥ ०४८११ शब्दं ह्येष प्रयुञ्जानो अर्थेष्वनिष्टपरिहारेण प्रवर्तेत इति ०४८१२ च प्रयुङ्क्ते । तत्र अन्यत्र च प्रवृत्त्य्अनुज्ञायां तन् नामग्रहण ०४८१३ वैयर्थ्यात्प्रवृत्तिनिवृत्त्य्अनुज्ञायां च एकचोदना अनादराद् ०४८१४ अवचनमेव स्यादन्यव्यावृत्त्य्अनभिधाने । तस्मादवश्यं ०४८१५ शब्देन व्यवच्छेदश्चोदनीयः । स च अभिन्नस्तद्अन्येष्व् ०४८१६ इति जातिधर्मो अप्यस्ति । तन्नियताभ्युपगमं नियतचोदनं ०४८१७ जात्य्अर्थप्रसाधनं च परित्यज्यार्थान्तरकल्पनं केवलम् ०४८१८ अनर्थनिर्बन्ध एव । यथाकल्पनमस्य अयोगात् । न वै व्यवच्छेदो ०४८१९ न क्रियते । प्रवृत्तिविषयं तु कथयद्भिर्जातिरुक्ता । ०४८२० व्यवच्छेदो अस्ति चेदस्य नन्वेतावत्प्रयोजनम् । ०४८२१ शब्दानामिति किं तत्र सामान्येन अपरेण वः ॥९७॥ ०४८२२ ननु उक्तं प्रवृत्तिविषयः प्रदर्श्यते इति । उक्तमिदम् । अयुक्तं ०४८२३ तु उक्तम् । तथा हि न सा प्रवृत्तियोग्या इति निवेदितमेतत् । ०४८२४ तद्द्वारेण अचोदिते प्रवृत्तिरपि प्रत्युक्ता । तद्वच्चोदने च ०४८२५ व्यवधानम् । जातितद्वतोः प्रवृत्तिविषयत्वे व्यावृत्तितद्वन्तौ ०४८२६ किं न इष्येते । व्यावृत्तेरवस्तुत्वेन असाधनत्वाच्चेत् । तत् ०४८२७ तुल्यं जातेः । तद्वतः साधनाददोष इति चेत् । तुल्यं तद्व्यावृत्तिमतः । ०४८२८ अवस्तुग्राही च व्यावृत्तिवादिनां शाब्दः प्रत्ययः । ०४९०१ स विभ्रमवशादकारके अपि कारकाध्यवसायी प्रवर्तयति । ०४९०२ वस्तुसंवादस्तु वस्तूत्पत्त्या तत्प्रतिबन्धे सति भवति । ०४९०३ अन्यथा न एव अस्ति । वस्तूत्पत्तेरभ्रान्तिरिति चेत् । न । अतत्प्रतिभासिनस् ०४९०४ तद्अध्यवसायात् । मणिप्रभायां मणिभ्रान्तिदर्शनेन ०४९०५ व्यभिचाराच्च । भ्रान्तेरवस्तुसंवाद इति चेत् । न । ०४९०६ यथोक्तेन एव व्यभिचारात् । वितथप्रतिभासो हि भ्रान्ति लक्षणम् । ०४९०७ तन्नान्तरीयकतया तु संवादो न प्रतिभासापेक्षी । वस्तुनि ०४९०८ तु यथाभावमर्पितचेतसः प्रवृत्तौ ग्राह्यस्य सामान्यस्य ०४९०९ अनर्थक्रियायोग्यत्वादप्रवृत्तिः । अन्यत्र च प्रवृत्ताव् ०४९१० अतिप्रसङ्गः । तद्वद्ग्रहणे च सामान्यवैयर्थ्यादयः प्रोक्ताः । ०४९११ जातिग्रहणे अपि सम्बन्धाच्श्लिष्टाभासा बुद्धिः प्रवर्तयति ०४९१२ इति चेत् । तदा न जातिर्न तद्वानेकस्य अपि स्वभावस्थितेर् ०४९१३ अग्रहणादिति परवाद एव आश्रितः स्यात् । एवं तर्ह्यन्वयिनः ०४९१४ कस्यचिदर्थस्य अभावात्प्रकृतिभिन्नेष्वर्थेषु तदेव इदमिति ०४९१५ प्रत्यभिज्ञानं न स्यात् । न एष दोषः । यस्मात् । ०४९१६ ज्ञानाद्य्अर्थक्रियां तां तां दृष्ट्वा भेदे अपि कुर्वतः । ०४९१७ अर्थांस्तद्अन्यविश्लेषविषयैर्ध्वनिभिः सह ॥९८॥ ०४९१८ संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने । ०४९१९ उक्तमेतत्भेदे अपि भावास्तुल्यार्थक्रियाकारिणश्चक्षुर्आदिवद् ०४९२० इति । तामेकां ज्ञानादिकामर्थक्रियां तेषु पश्यतो वस्तुधर्मतया ०४९२१ एव अन्येभ्यो भिद्यमाना भावास्तद्व्यावृत्तिविषयध्वनि ०४९२२ संसृष्टं तदेव इदमिति स्वानुभववासनाप्रबोधेन संसृष्ट ०४९२३ भेदं मिथ्याप्रत्ययं जनयन्ति । अन्यथा न भेद ०४९२४ संसर्गवती बुद्धिः स्यात् । यथा दण्डिषु । न हि तत्र एकदण्ड ०४९२५ योगे अप्यन्यत्र स एव अयमिति भवति । किं तर्हि । तदिह इति । ०४९२६ न च एवं प्रत्यभिज्ञानम् । किं तर्हि । तदेव इदमिति । तन्न ०४९२७ तदेकमनेकत्र पश्यतो अपि भेदसंसर्गवद्युक्तम् । विभ्रम ०५००१ बलात्तु तथा ज्ञाने न विरोधः । निमित्ताभावाद्विभ्रमो ०५००२ अयुक्त इति चेत् । त एव भावस्तद्एकार्थकारिणो अनुभव द्वारेण ०५००३ प्रकृत्या विभ्रमफलाया विकल्पवासनाया हेतुत्वान्निमित्तम् । ०५००४ मरीचिकादिष्वपि हि जलादिभ्रान्तेस्तावेकाभिन्न आकारपरामर्श ०५००५ प्रत्ययनिमित्तानुभवजननौ भावौ कारणं भिन्नाव् ०५००६ अपि । न हि तत्र अन्यदेव किंचित्सामान्यमस्ति यत्तथा ०५००७ प्रतीयेत । सत्त्वे वा सद्अर्थग्राहिणी बुद्धिर्भ्रान्तिर्न स्यात् । ०५००८ अभूताकारसमारोपाद्भ्रान्तिरिति चेत् । न तर्हि सा तत्सामान्य ०५००९ ग्राहिणी । यमेव खल्वाकारमियमारोपयति स एव अस्या ०५०१० विषय इति । अविषयीकृतस्य अशक्यसमारोपात् । आकारान्तरवत् । स ०५०११ च तत्र न अस्ति इत्यसामान्यम् । सति सामान्यग्रहणे तद्आरोपो ०५०१२ न अन्यथा अतिप्रसङ्गादिति चेत् । सत्येककार्यकारिग्रहण इति ०५०१३ किं न इष्यते । अवश्यं च इच्छता अपि सामान्यं व्यक्तीनामेक ०५०१४ कार्यजननशक्तिरेष्टव्या । ततस्त एव अन्येभ्यो भिद्यमानास् ०५०१५ तादृशं प्रत्ययं जनयन्ति इति किमत्र सामान्येन । यथाभावम् ०५०१६ एव असंसृष्टभेदं किं न प्रत्येति इति चेत् । अशक्तिरेषा ०५०१७ विकल्पानामविद्याप्रभवाद् । न वै बाह्यापेक्षा एव भ्रान्तयो ०५०१८ भवन्ति । किं तु विप्लवादान्तरादपि केशादिविभ्रमवत् । अविद्या ०५०१९ उद्भवाद्विप्लवत्वे चक्षुर्विज्ञानादिष्वपि प्रसङ्गः । न । ०५०२० तस्या विकल्पलक्षणत्वात् । विकल्प एव ह्यविद्या । सा स्वभावेन ०५१०१ एव विपर्यस्यति । न एवमिन्द्रियज्ञानानि विकल्पकानि । न ०५१०२ वा तेष्वप्येष दोषो अद्वयानां द्वयनिर्भासादिति वक्ष्यामः । ०५१०३ सर्वेषां विप्लवे अपि प्रमाणतद्आभासव्यवस्था आ आश्रयपरावृत्तेर् ०५१०४ अर्थक्रियायोग्याभिमतसंवादनात् । मिथ्यात्वे अपि ०५१०५ प्रशमानुकूलत्वान्मातृसंज्ञादिवत् । मरीचिकायां जलज्ञानस्य अन्यस्य ०५१०६ च भिन्नभावोत्पत्तेर्विभ्रमस्य च अविशेषे अप्यभिमत ०५१०७ अर्थक्रियायोग्यायोग्योत्पत्तेरर्थसंवादा इतरौ । अयोग्यात् । ०५१०८ कथमुत्पत्तिरिति चेत् । विकल्पानामर्थप्रतिबन्धनियमाभावात् । ०५१०९ न हि विकल्पा यथार्थमेव जायन्ते । सति मरीचिकादर्शने ०५११० जलभ्रान्तिरिति तद्उद्भवा इत्युच्यते न तु यथास्वभावम् ०५१११ अजलविवेकिनार्थेन स्वभावानुकारप्रत्यर्पणेन जननात् । ०५११२ सा तु विशेषलक्षणापाटवात्प्रत्ययापेक्षिणा स्ववासना ०५११३ प्रबोधेन जन्यते । तस्माद्भिन्नभावजन्मनो । विकल्पविभ्रमात् ०५११४ तदेव इदमिति प्रत्यभिज्ञानं न व्यतिरिक्तस्य सामान्यस्य ०५११५ दर्शनात्न अव्यतिरिक्तस्य व्यक्तिवदनन्वयात् । अपि ०५११६ च । ०५११७ परस्य अपि न सा बुद्धिः सामान्यादेव केवलात् ॥९९॥ ०५११८ न हि परो अपि एनां बुद्धिं केवलसामान्यभाविनीं वक्तुम् ०५११९ अर्हति । ०५१२० नित्यं तन्मात्रविज्ञाने व्यक्त्य्अज्ञानप्रसङ्गतः । ०५१२१ यदि हि नित्यमनया बुद्ध्या सामान्यमेव गृह्येत अप्रतीता ०५१२२ एव व्यक्तिः स्यादनेन ज्ञानेन । ०५१२३ तदा कदाचित्सम्बद्धस्य अगृहीतस्य तद्वतः ॥१००॥ ०५१२४ तद्वत्ता अनिश्चयो न स्याद्व्यवहारस्ततः कथम् । ०५१२५ यदा सामान्यग्राहिणो विज्ञानस्य न भेद आलम्बनभावेन उपयुज्यते ०५२०१ तदा न तौ कदाचिदपि श्लिष्टौ गृहीताव् इति इदमस्य ०५२०२ सामान्यमयं वा तद्वानिति न स्यात् । तथा च तत्प्रतिपत्त्या ०५२०३ तद्वति प्रतिपत्तिर्न स्यादर्थान्तरवत् । ०५२०४ एकवस्तुसहायाश्चेद्व्यक्तयो ज्ञानकारणम् ॥१०१॥ ०५२०५ स्यादेतद्भवन्ति व्यक्तयस्तस्य आलम्बनभावेन कारणं न ०५२०६ तु केवलाः । यदा पुनरासामेकं सहकार्यस्ति तदा तत्सहिता ०५२०७ गृह्यन्त इति । ०५२०८ तदेकं वस्तु किं तासां नानात्वं समपोहति । ०५२०९ नानात्वाच्च एकविज्ञानहेतुता तासु न इष्यते ॥१०२॥ ०५२१० किं वै तेषां भेदानां तेन एकेन नानात्वं निराक्रियते । ०५२११ नानात्वं हि तेष्वेकविज्ञानाकारणत्वे कारणमुच्यते । ०५२१२ अनेकमपि यद्येकमपेक्ष्याभिन्नबुद्धिकृत् । ०५२१३ न ब्रूमो अनेकमेकं प्रत्ययं न जनयति भेदादिति । ०५२१४ न भेदो जननविरोधी । किं तर्हि । कैवल्यम् । तेन एकेन ०५२१५ सहिता जनयन्त्येव । एवं तर्हि । ०५२१६ ताभिर्विना अपि प्रत्येकं क्रियमाणां धियं प्रति ॥१०३॥ ०५२१७ तेन एकेन अपि सामर्थ्यं तासां न इत्यग्रहो धिया । ०५२१८ कथमिदानीं व्यक्तीनां तत्र ज्ञाने सामर्थ्यगतिः । प्रत्येकं ०५२१९ तासामभावे अपि तद्भावात् । असति सामान्ये अभावादितरथा ०५२२० च भावात् । न एष दोषः । यथा नीलादिष्वेकापाये अपि चक्षुर्विज्ञानं ०५२२१ भवति इति । न समूहे अपि तेषामसामर्थ्यम् । ०५२२२ तथा इह अपि प्रत्येकमेकापाये अपि भवति इति न सर्वदा सामर्थ्यम् । ०५२२३ विषम उपन्यासः । तथा हि । ०५३०१ नीलादेर्नेत्रविज्ञाने पृथक्सामर्थ्यदर्शनात् ॥१०४॥ ०५३०२ शक्तिसिद्धिः समूहे अपि न एवं व्यक्तेः कथंचन । ०५३०३ नीलादीनां हि चक्षुर्विज्ञाने प्रत्येकमपि सामर्थ्यं दृष्टम् ०५३०४ इति समूहे अपि शक्तिरविरुद्धा । तथा न कदाचिद्व्यक्तयः ०५३०५ सामान्यनिरपेक्षा अन्वयि विज्ञानं जनयन्ति । तस्मादसमर्था ०५३०६ एव व्यक्तयस्तत्र इति न तेन गृह्येरन् । ०५३०७ तासामन्यतमापेक्षं तच्चेच्शक्तं न केवलम् ॥१०५॥ ०५३०८ अथ अपि स्यात्न वेमरहितः कुविन्दः पटं करोति प्रत्येकम् । ०५३०९ वेमाभावे अपि कुविन्दः करोति इति न तत एव पटोत्पत्तिः । तथा ०५३१० न केवलमेकैकव्यक्त्य्अपाये विज्ञानोत्पत्तावपि सामान्यं ०५३११ तद्हेतुः । किं तर्हि । व्यक्तीनामेकां कांचिदपेक्ष्य विज्ञानम् ०५३१२ उत्पादयति । एवं सति । ०५३१३ तदेकमुपकुर्युस्ताः कथमेकां धियं च न । ०५३१४ भिन्नानां ह्यर्थानामेकार्थोपक्रिया विरोधिनी इति सर्वो अयम् ०५३१५ आरम्भः । ताश्चेद्व्यक्तयो भिन्ना अप्येकं सामान्यमुपकुर्वन्ति ०५३१६ कः पुनरासां विज्ञानेन अपराधः कृतो यत्तन्न उपकुर्वन्ति । ०५३१७ किमन्तर्गडुना सामान्येन । यथा असम्भिन्नानाम् ०५३१८ अप्येकसामान्योपकरणशक्तिः एवं तदेव एकं विज्ञानं कुर्वन्तु । ०५३१९ किं च । ०५३२० कार्यश्च तासां प्राप्तो असौ जननं यदुपक्रिया ॥१०६॥ ०५३२१ न ह्यनतिशयमात्मानमस्य पूर्ववद्बिभ्रतः कश्चिद् ०५३२२ उपकारको नाम । अतिप्रसङ्गात् । अर्थान्तरजनने अपि तस्य ०५३२३ किं तेन । तस्य तद्आश्रयत्वे अनुपकारिणः को अयमाश्रयाश्रयिभावः । ०५३२४ अतिप्रसङ्गो वा । उपकारे अपि तत्र एव तत्प्रतिबन्ध ०५३२५ इति किमन्यस्तत्करणात्तद्उपकारी । तद्अपेक्षस्य आश्रयस्य ०५३२६ तद्उपयोगे अनुपकार्यत्वे का इयमपेक्षा नाम । तदुत्पत्तिधर्मा ०५३२७ धर्मा भावः स्वभावप्रतिबन्धादपेक्षते नाम अनाधेयातिशय ०५४०१ आत्मा परैरपेक्षते च इति व्याहतमेतत् । तस्माद्यः ०५४०२ कश्चित्कस्यचित्क्वचित्प्रतिबन्धः स सर्वो जन्यतायामेव अन्तर्भवति । ०५४०३ परभावोत्पादने तद्अनुपकारात् । अकिंचित्करस्य ०५४०४ च अनुपकारात् । तस्माद्व्यक्त्य्उपकृतस्य सामान्यस्य विज्ञानजनने ०५४०५ जनने व्यक्तमस्य तत्कार्यतानुयुज्यते । केवलस्य सामर्थ्ये ०५४०६ अपि व्यक्तीनां क्वचिदप्यत्र सामर्थ्यासिद्धेः अग्राह्यत्वम् । ०५४०७ समर्था व्यक्तयो विज्ञाने प्रतिभासनादिति चेत् । ०५४०८ कथमसिद्धोपकाराणां प्रतिभास इति स एव सामान्याभ्युपगमे ०५४०९ चिन्त्यते । यस्मान्न अनुपकारको विषयो अतिप्रसङ्गात् । ०५४१० न अविषयस्य विज्ञाने प्रतिभासः । अनुपकारकस्य अविषयत्वे ०५४११ अतीतानागतादीनामविषयत्वमसतामुपकारासामर्थ्याद् ०५४१२ इति चेत् । भवन्तु नाम तद्विषयाणि निर्विषयाणि । निर्विषयत्वे ०५४१३ अपि तद्अनुकारी प्रतिभासस्तद्रूपानुभवाहितवासनोत्पत्तेर् ०५४१४ आत्मभूत एव विज्ञानस्य । भावाभावानुविधानाच्च सामर्थ्यं ०५४१५ न प्रतिभासनात् । अप्रतिभासिनो अपि व्यक्तिव्यतिरेकेण सामान्यस्य ०५४१६ भावात् । प्रतिभासिनामपि केशादिविप्लवानामभावात् । ०५४१७ अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् । ०५४१८ न ब्रूमो अनेकमेककार्यकृन्न भवति इति । किं तर्हि । न ०५४१९ भिन्नेष्वर्थेष्वर्पिततद्आकारा बुद्धिरभिन्नप्रतिभासिनी ०५४२० स्यात् । न वै सामान्यग्राहिणीषु स्वलक्षणप्रतिभासः तद्अभावे ०५४२१ अपि तासां भावाताकारान्तरेण च स्वज्ञाने प्रतिभासनात् ०५५०१ अनेकाकारायोगादेकस्य अतिप्रसङ्गाच्च । तस्मान्न इयं भिन्नार्थ ०५५०२ ग्राहिण्यभिन्ना प्रतिभाति तद्उद्भवा । अतत्प्रतिभासिन्य् ०५५०३ अप्यध्यवसायविभ्रमाद्व्यवहारयति लोकम् । स तु ०५५०४ तस्यां प्रतिभासमान आकारो न अर्थेष्वस्ति । अन्यत्र भेदादभेदिनः । ०५५०५ स च अरूपः । तमेव एषा गृह्णती तथा विप्लवत इत्य् ०५५०६ उक्तं प्राक् । अपि च । वस्तुसामान्यवादिनो अपि हि भिन्ना एव व्यक्तयः । ०५५०७ कथं तास्वभिन्नाकारा बुद्धिरिति तुल्यं चोद्यम् । ०५५०८ न तुल्यं तत्र अभिन्नस्य सामान्यस्य सद्भावात् । ननु तत्र ०५५०९ तस्य आभासः सतो अपि न लक्ष्यते । सा हि वर्णसंस्थानप्रतिभासवती ०५५१० विभाव्यते । न च ईदृशं सामान्यम् । न च ततो व्यतिरिक्तः ०५५११ कश्चिदभिन्न आकारो अस्ति । आकृतिसामान्यवादिनो अपि विशेषवत् ०५५१२ तस्य अव्यतिरेकादर्थान्तरे अवृत्तिरिति भेदान्न अभिन्नप्रतिभासो ०५५१३ युज्यते । अथवा अस्तु ०५५१४ प्रतिभासो धियं भिन्नः समाना इति तद्ग्रहात् ॥१०७॥ ०५५१५ न एव तास्वभिन्नः प्रतिभासो अस्ति समाना इति ग्रहात् । न ह्य् ०५५१६ एकस्मिन् प्रतिभासे समाना इति युक्तम् । किं तर्हि । तदेव इति । ०५५१७ द्वयस्य ग्रहणाददोष इति चेत् । तथा अपि तदिह इति स्यात् । न समान ०५५१८ इति । तदेव तासां साम्यमिति चेत् । कथमन्योन्यस्य ०५५१९ साम्यम् । तत्सम्बन्धादिति चेत् । न । प्रतिबद्धस्य सम्बन्ध ०५५२० अयोगात् । अतिप्रसङ्गाच्च । ०५५२१ कथं ता भिन्नधीग्राह्याः समाश्चेद् । ०५६०१ ननु समाना इति ग्रहणादेव आस्वभिन्नप्रतिभासः । न वै ०५६०२ तद्दर्शने भिन्नाभिन्नयोः प्रतिभासनात्समाना इति प्रतीतिः । ०५६०३ किं तर्हि । ०५६०४ एककार्यता । ०५६०५ सादृश्यम् । ०५६०६ न हि वयमर्थज्ञाने द्वावाकारौ पश्यामः । अपश्यन्तश्च ०५६०७ कथमर्थद्वयकल्पनेन आत्मानमेव विप्रलभामहे । एक ०५६०८ कार्यास्तु व्यक्तयः कल्पनाविषयतामुपयान्त्यस्तथा अनया ०५६०९ विभ्रमान्मिश्रीक्रियन्त इत्यनवद्यमेतत् । ०५६१० ननु धीः कार्यं तासां सा च विभिद्यते ॥१०८॥ ०५६११ प्रतिभावम् । तद्वत्तत्प्रतिभासिनो विज्ञानस्य अपि भेदात् । कथम् ०५६१२ एककार्याः । तधि तासां कार्यं तच्च भिद्यते । यद् ०५६१३ अप्युदकाहरणादिकमेकं घटादिकार्यं तदपि प्रतिद्रव्यं ०५६१४ भेदाद्भिद्यत एव इति न एकं भेदानां कार्यमस्ति । ०५६१५ न एष दोषः । यस्मात् । ०५६१६ एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी । ०५६१७ एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥१०९॥ ०५६१८ निवेदितमेतद्यथा न भावानां स्वभावसंसर्गो अस्ति इति । ०५६१९ तत्र संसृष्टाकारा बुद्धिर्भ्रान्तिरेव । तां तु भेदिनः ०५६२० पदार्थाः क्रमेण विकल्पहेतवो भवन्तो जनयन्ति स्वभावत ०५६२१ इति च । स त्वेषामभिन्नो भेद इत्युच्यते ज्ञानादेः ०५७०१ कस्यचिदेकस्य करणाततत्कारिस्वभावविवेकः । तदपि ०५७०२ प्रतिद्रव्यं भिद्यमानमपि प्रकृत्या एकप्रत्यवमर्शस्य अभेद ०५७०३ अवस्कन्दिनो हेतुर्भवदभिन्नं ख्याति । तथाभूतप्रत्यवमर्शहेतोर् ०५७०४ अभेदावभासिनो ज्ञानादेरर्थस्य हेतुत्वाद् ०५७०५ व्यक्तयो अपि संसृष्टाकारं स्वभावभेदपरमार्थं स्वभावत ०५७०६ एकं प्रत्ययं जनयन्ति इत्यसकृदुक्तमेतत् । तस्माद् ०५७०७ एककार्यता एव भावानामभेदः । ०५७०८ सा च अतत्कार्यविश्लेषस्। ०५७०९ एव ०५७१० तद्अन्यस्य अनुवर्तिनः । ०५७११ वस्तुनः ०५७१२ अदृष्टेः प्रतिषेधाच्च । ०५७१३ न हि दृश्यं विभागेन अप्रतिभासमानमस्ति इत्युक्तमेतत् ०५७१४ सति वा क्वचिदनाश्रितं कथं ज्ञानहेतुरिति । प्रतिषेधस्य ०५७१५ च विधानात्तत्कल्पना अयुक्ता इति । तस्मात् ०५७१६ संकेतस्। ०५७१७ अपि ०५७१८ तद्विद्अर्थिकः ॥११०॥ ०५७१९ एव युक्तः । यो अयमन्योन्यं विवेको भावानां तत्प्रतीतय ०५७२० एव संकेतो अपि क्रियमाणः शोभेत अतत्कारिविवेकेन प्रवृत्त्य्अर्थतया । ०५७२१ यदि हि न तत्प्रतीत्य्अर्थः संकेतस्तस्य व्यवहार ०५७२२ काले अप्यसंस्पर्शान्न अन्यपरिहारेण प्रवर्तेत । न हि स ०५७२३ तेषां तेभ्यो विवेकः शब्देन चोदित इति । सा च श्रुतिः । ०५८०१ अकार्यकृतितत्कारितुल्यरूपावभासिनीम् । ०५८०२ धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् ॥१११॥ ०५८०३ जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः । ०५८०४ वस्तुभेदाश्रयाच्च अर्थे न विसंवादिका मता ॥११२॥ ०५८०५ ततो अन्यापोहविषया तत्कर्त्राश्रितभावतः । ०५८०६ एकस्वभावरहितेष्वर्थेषु तमध्यारोप्योत्पद्यमानां मिथ्या ०५८०७ प्रतिभासित्वादकार्यकारिणमपि तत्कार्यकारिणमिव अध्यवस्यन्तीं ०५८०८ वस्तुपृथग्भावमात्रबीजां समानाध्यवसायां ०५८०९ मिथ्याबुद्धिं श्रुतिर्जनयन्त्यपि तद्अन्यपरिहाराङ्गाभावात् ०५८१० परमार्थतस्तद्व्यतिरेकिषु पदार्थेषु न विसंवादिका इत्युच्यते । ०५८११ तथा हि स तेषु व्यतिरेको भूतः । सर्वथा अव्यतिक्रमणीयत्वात् । ०५८१२ न एको व्यतिरिक्तो अव्यतिरिक्तो वा सर्वथा अयोगात् । तस्य ०५८१३ समावेशने वस्तुनि दूरोत्सृष्टमेव वस्तु स्याच्शब्दज्ञानाभ्याम् । ०५८१४ तद्विषयाभिमतस्य तस्य अभावात् । अन्यस्य च वस्तु ०५८१५ धर्मस्य कस्यचिदसंस्पर्शात् । तत एव च सा श्रुतिरन्यापोह ०५८१६ विषयया इत्युच्यते । अन्यव्यावृत्तेष्वर्थेषु व्यावृत्तिभेदम् ०५८१७ उपादाय अविशेषेण निवेशनात् । व्यवहारे अप्यन्यपरिहारेण ०५८१८ प्रवर्तनात् । ०५८१९ अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् ॥११३॥ ०५८२० अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः । ०५८२१ संकेतासम्भवस्तस्मादिति केचित्प्रचक्षते ॥११४॥ ०५८२२ यद्यवृक्षेभ्यो भेदो वृक्षस्तस्य अवृक्षग्रहणमन्तरेण ०५८२३ तथा ग्रहीतुमशक्यत्वातविज्ञातवृक्षेण अवृक्षस्य अपि तद्व्यवच्छेद ०५८२४ रूपस्य अपरिज्ञानात्बुद्धावनारूढे अर्थे न संकेतः ०५८२५ शक्यत इत्येके । ०५९०१ तेषामवृक्षाः संकेते व्यवच्छिन्ना न वा । ०५९०२ य एवमेकं वस्तुसामान्यमभ्युपगम्य इतरेतराश्रयम् ०५९०३ अन्यव्यवच्छेदेन संकेते चोदयन्ति । तेषां तत्र अपि संकेत ०५९०४ करणे अवृक्षा व्यवच्छिन्ना न वा ०५९०५ यदि । ०५९०६ व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते ॥११५॥ ०५९०७ न हि तदा प्रतिपत्ता वृक्षं वेत्ति न अवृक्षं तज्ज्ञानाय एव ०५९०८ तद्अर्थितया उपगमात् । सो अजानानः कथमवृक्षव्यवच्छेदं ०५९०९ प्रतिपद्येत संकेते । अप्रतिपत्तौ च अपरिहृततद्अन्य ०५९१० निवेशिनः शब्दाद् ०५९११ अनिराकरणे तेषां संकेते व्यवहारिणाम् । ०५९१२ न स्यात्तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत् ॥११६॥ ०५९१३ न हि संकेते पराव्यवच्छेदेन निवेशिताच्शब्दाद्व्यवहारे ०५९१४ तत्परिहारेण प्रवृत्तिर्युक्ता । शिंशपादिभेदवत् । अथ अपि स्यात् । ०५९१५ अविधाय निषिध्यान्यत्प्रदर्श्य एकं पुरः स्थितम् । ०५९१६ वृक्षो अयमिति संकेतः क्रियते तत्प्रपद्यते ॥११७॥ ०५९१७ व्यवहारे अपि तेन अयमदोष इति चेत् । ०५९१८ न वै वस्तुसत्सामान्यवादिना कस्यचिद्व्यवच्छेदेन किंचिद् ०५९१९ विधीयते । किं तर्हि । एकमग्रतो व्यवस्थितं वस्तु सन्दर्श्य ०५९२० वृक्षो अयमिति संकेतः क्रियते । संकेतकाले तथादृष्टम् ०५९२१ एव अयमर्थं तत्सम्बन्धिनं वा व्यवहारे अपि प्रतिपद्यत ०६००१ इति न समानः प्रसङ्गः । न समानः । यस्मात्तत्र अपि । ०६००२ तरुः । ०६००३ अयमप्ययमेव इति प्रसङ्गो न निवर्तते ॥११८॥ ०६००४ एकं प्रदर्श्य अयं वृक्ष इत्यपि ब्रुवाणो अयमप्ययमेव इत्य् ०६००५ उभयीं गतिं न अतिवर्तते । तयोश्च स एव दोषः । न दोषः ०६००६ दृष्टविपरीतस्य सुज्ञानत्वात् । एकं हि किंचित्पश्यतो अन्यत्र ०६००७ तद्आकारविवेकिनीं बुद्धिमनुभवतस्ततो अन्यदिति यथानुभवं ०६००८ तद्विवेचनो वैधर्म्यनिश्चय उत्पद्यते । स ह्य् ०६००९ अयमेव वृक्ष इति प्रदर्श्य व्युत्पादितः । यत्र एव तं न ०६०१० पश्यति तमेव अवृक्षं स्वयमेव प्रतिपद्यते । न इदं व्यवच्छेद ०६०११ वादिनः सम्भवति । एकत्र दृष्टस्य रूपस्य क्वचिद् ०६०१२ अनन्वयाद्दर्शनेन प्रतिपत्तौ व्यक्त्य्अन्तरे अपि न स्यात्तथा ०६०१३ प्रतीतिः । एवं तर्हि तत्र अपि तुल्यमेतत् । यस्मात् । ०६०१४ एकप्रत्यवमर्शाख्ये ज्ञान एकत्र हि स्थितः । ०६०१५ प्रपत्ता तद्अतद्हेतूनर्थान् विभजते स्वयम् ॥११९॥ ०६०१६ निवेदितमेतत्प्राग्यथा एते भावाः प्रकृतिभेदिनो अपि ज्ञानादिकम् ०६०१७ एकं कार्यं केचित्कुर्वन्ति न अन्य इति । तानयं तत्र स्वयम् ०६०१८ एव तद्हेतूनतद्हेतूंश्च विभज्य प्रत्येति । तस्य । ०६०१९ तद्बुद्धिवर्तिनो भावान् भातो हेतुतया धियः । ०६०२० अहेतुरूपविकलानेकरूपानिव स्वयम् ॥१२०॥ ०६०२१ भेदेन प्रतिपद्येत इत्युक्तिर्भेदे नियुज्यते । ०६०२२ तं तस्याः प्रतियती धीर्भ्रान्त्या एकं वस्त्विव ईक्ष्यते ॥१२१॥ ०६०२३ तेषां प्रकृत्या एव प्रत्ययवशात्तथाभूतविकल्पकारणानाम् ०६०२४ अन्वयात्तद्द्रष्टुर्बुद्धौ विपरिवर्तमानान् तज्ज्ञान ०६०२५ हेतुतया तद्अन्यव्यावृत्त्या च अतथाभूतानपि तथाध्यवसितान् ०६०२६ अविभक्तबाह्याध्यात्मिकभेदान् प्रतिपत्ता प्रतिपत्तिमनुसृत्य ०६०२७ एते वृक्षा इति स्वपरविकल्पेष्वेकप्रतिभासानादर्श्य विकल्प ०६०२८ विज्ञाने व्यवस्थितस्तद्विज्ञानहेतून् भेदेन प्रतिपद्येत ०६१०१ इत्युक्तिमतद्हेतुभ्यो भेदे नियुङ्क्ते । तं तस्याः प्रतिपद्यमाना ०६१०२ बुद्धिर्विकल्पिका भ्रान्तिवशादेव एकवस्तुग्रहिणी इव ०६१०३ प्रतिभाति । न पुनरेकं वस्तु तत्र दृश्यमस्ति यस्य दर्शन ०६१०४ अदर्शनाभ्यां भिन्नदर्शने अप्येष वृक्षावृक्षविभागं ०६१०५ कुर्वीत । तस्य शाखादिप्रतिभासविभागेन दण्डवद्दण्डिन्य् ०६१०६ अग्रहणात् । अगृहीतस्य च अपरप्रविभागेन अनुपलक्षणात् । आकृतेर् ०६१०७ अप्येकत्र दृष्टाया अन्यत्र द्रष्टुमशक्यत्वात् । तद्अतद्वतोर् ०६१०८ वृक्षावृक्षत्वे व्यक्तिरेक एव वृक्षः स्यात् । भवतु नाम घटादि ०६१०९ शब्देष्वर्थान्तरव्यवच्छेदः । अथ ज्ञेयादिपदेषु कथम् । ०६११० न ह्यज्ञेयं किंचिदस्ति यतो भेदः स्यात् । ततो भेदेन ०६१११ विषयीकरण एव तस्य ज्ञेयत्वात् । न एष दोषः । यस्मात् । ०६११२ क्वचिन्निवेशनाय अर्थे विनिवर्त्य कुतश्चन । ०६११३ बुद्धेः प्रयुज्यते शब्दस्तद्अर्थस्य अवधारणात् ॥१२२॥ ०६११४ व्यर्थो अन्यथा प्रयोगः स्यात्तज्ज्ञेयादिपदेष्वपि । ०६११५ व्यवहारोपनीतेषु व्यवच्छेद्यो अस्ति कश्चन ॥१२३॥ ०६११६ शब्दं हि प्रयुञ्जानः सर्वो अन्वयव्यतिरेकौ न अतिवर्तते । ०६११७ तस्य प्रवृत्तिनिवृत्त्य्अर्थत्वात् । यदि ह्ययं न कस्यचित् कुतश्चिन् ०६११८ निवर्तयेत्प्रवर्तयेद्वा बुद्धिं यथाभूतानुज्ञानात् ०६११९ सर्वव्यवहारेषु न किंचिद्व्याहरेत् । व्याहारस्य अवधारण ०६१२० नान्तरीयकत्वात् । यथा घटेन उदकमानयेति । यदि घटेन अञ्जलिना ०६१२१ वा उदकानयनं यथाकथंचिदभिमतं स्यातुदकम् ०६१२२ आनयेत्येव वक्तव्यं स्यात् । न घटेन इति । तथा पंशुना ०६१२३ वा अनेन वा येन केनचिदानीतेन अर्थ आनयेत्येव स्याद् अनाक्षिप्त ०६१२४ करणकर्मकम् । एवमानयनमन्यद्वा यत्किंचिद् ०६१२५ अनुष्ठानं वा अभिमतं तदा आनयेत्यपि न ०६१२६ ब्रूयात् । व्यर्थत्वाद्वचनस्य । तथा व्यवहारोपनीतानां ज्ञेयादि ०६२०१ पदानामपि केनचिद्व्यवच्छेद्येन भवितव्यम् । अनन्याशङ्कायां ०६२०२ प्रयोगायोगात्तत्र हि यदेव मूढमतेराशङ्कास्थानं ०६२०३ तदेव निवर्त्यम् । अनाशङ्कमानो वा किं परस्माद् ०६२०४ उपदेशमपेक्षते । अश्रोतृसंस्कारं च ब्रुवाणः कथं ०६२०५ न उन्मत्तः । तत्संस्काराय एव शब्दानां कृतसंकेतत्वात् । अव्यवहार ०६२०६ उपनीतश्च न एव कश्चित्ज्ञेयादिशब्दो अस्ति । वाक्यगतस्य ०६२०७ पदस्य अर्थचिन्तनात् । क्व पुनरेते शब्दाः प्रयुज्यन्त इति ०६२०८ प्रयोगविषयचिन्तायामन्यापोह उच्यते । अनिर्दिष्टप्रयोगं तु ०६२०९ ज्ञेयशब्दस्य को अर्थ इति प्रश्ने न कश्चिदर्थः । ततः क्वचिद् ०६२१० अप्रतिपत्तेः । तथा घटादिशब्दानामपि । या अपि क्वचित्प्रकरणे ०६२११ केवलशब्दश्रवणात्प्रतिपत्तिर्दृष्टप्रयोगानुसारेण साकाङ्क्षत्वात् ०६२१२ सा अपरिसमाप्ततद्विप्लव एव घटादिशब्देषु । ०६२१३ तादृशो ज्ञेयादिशब्देष्वपि यथादर्शनमस्त्येव । तस्मात् ०६२१४ सर्व एव शब्दप्रयोगः कुतश्चिद्बुद्धिं निवर्त्य क्वचिन्निवेशन ०६२१५ अर्थः । तत्साफल्यात् । ०६२१६ निवेशनं च यो यस्माद्भिद्यते विनिवर्त्य तम् । ०६२१७ तद्भेदे भिद्यमानानां समानाकारभासिनि ॥१२४॥ ०६२१८ स च अयमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः । ०६२१९ कश्चिद्भाग इति प्रोक्तो रूपं न अस्य अपि किंचन ॥१२५॥ ०६२२० तद्गतावेव शब्देभ्यो गम्यते अन्यनिवर्तनम् । ०६२२१ न तत्र गम्यते कश्चिद्विशिष्टः केनचित्परः ॥१२६॥ ०६२२२ न च अपि शब्दो द्वयकृदन्योन्याभाव इत्यसन् । ०६२२३ अरूपो रूपवत्त्वेन दर्शनं बुद्धिविप्लवः ॥१२७॥ ०६२२४ निवेश्यमानो अप्येष शब्दो यस्माद्भिद्यते तं विनिवर्त्य ०६२२५ भिद्यमानानां भेदे समानरूपप्रतिभासिन्याक्षिप्ततद्अन्यव्यावृत्तिर् ०६२२६ निवेश्यत इति । स एव अयमर्थान्तरव्यावृत्त्या ०६२२७ तस्य वस्तुनः कश्चिद्भागो गम्यते शब्दो अर्थान्तरनिवृत्ति ०६३०१ विशिष्टानेव भावानाह इत्यादिना निर्दिष्टः । स हि तं भेदं ०६३०२ कथयन्नर्थान्तरव्यवच्छेदमाक्षिपनेव वर्तते । ०६३०३ एकगतभेदचोदनायास्तद्अन्यव्यावृत्त्य्आक्षेपनान्तरीयकत्वात् । ०६३०४ स एव भेदस्तद्व्यावृत्त्या गतो भागस्तद्गतेस्तद्उपाधित्वात् ०६३०५ तद्विशिष्टो गत इत्युच्यते । न पुनरर्थान्तरनिवृत्तिर्विशेषण ०६३०६ भूता केषांचिदर्थानां यया विशिष्टाः शब्दैश्चोद्यन्ते । दण्डिवत् । ०६३०७ द्वयोर्हि भिद्यमानयोर्भेदस्य उभयगतत्वाद् ०६३०८ एकभेदाभिधाने अपि नान्तरीयकस्तद्अन्याक्षेपो भवति इति तयोर् ०६३०९ न विशेषणविशेष्यभावः । एकभेदाभिधाने अप्यन्यव्यावृत्ति ०६३१० गतेरन्वयव्यतिरेकचोदनया व्यवहाराङ्गतां शब्दानां ०६३११ दर्शयंस्तद्व्यावृत्त्या गम्यते तद्विशिष्टो वा इत्याह । अत ०६३१२ एव च शब्दस्य न द्वौ व्यापारौ तद्अन्यव्यावर्तनं स्वार्थ ०६३१३ अभिधानं च । स्वार्थाभिधानादेव तद्अन्यव्यावृत्तिगतेः । ०६३१४ स्वार्थस्य भेदरूपत्वात् । न ह्यन्वयो अव्यतिरेको अनन्वयो ०६३१५ वा व्यतिरेकः । एकान्वयस्य परिहार्याभावे निष्फलचोदनत्वात् ०६३१६ तथा एकपरिहारस्य क्वचित्स्थित्य्अभावे । स च अयं भेदो अरूपः । ०६३१७ रूपवत्त्वेन त्वस्य दर्शनं केवलं बुद्धिविप्लव ०६३१८ एव । ०६४०१ तेन एव अपरमार्थो असावन्यथा न हि वस्तुनः । ०६४०२ व्यावृत्तिर्वस्तु भवति भेदो अस्य अस्मादिति ईरणात् ॥१२८॥ ०६४०३ रूपं हि परमार्थः । भेदश्चेद्रूपं स्यात् । तद्रूपं वा ०६४०४ स्यादतद्रूपं वा । ताद्रूप्ये तदेव इति न अन्यस्ततो भिद्येत । ०६४०५ न हि तस्य रूपमन्यस्य स्यात् । न तदेव भेदस्य रूपम् । ०६४०६ रूपं च अन्यदेव स्यात् । ततश्च भावस्तस्माद्व्यावर्तेत । ०६४०७ ततो अस्मात्तस्य भेद इति न स्यात् । यत्खलु यद्भेदाद्व्यावर्तते ०६४०८ तदेव तद्भवति इति सो अस्य भेद इति च न स्यात् । न ०६४०९ ह्यन्योन्यस्य भेदो भवति । सम्बन्धाभावात् । सति वा स ०६४१० कार्यकारणभाव इति रूपं तज्जनितं भेद इत्यविशेषात् । ०६४११ सर्वकार्याणि स्वकारणानां व्यावृत्तयः स्युः । रूपान्तरत्वे ०६४१२ च भेदस्य ततो अप्यस्य भेद इति भेदोपाधित्वात्द्रव्यान्तरवन् ०६४१३ न भेदः स्यात् । न हि भेदोपाधिरेव भेदो अयमत ०६४१४ इति विशेषनिर्देशात् । ततश्च उपाध्य्अभावे भेदस्य एव अभावः स्यात् । ०६४१५ तस्मान्न व्यतिरिक्तः । तद्अन्यगत्य्अभावाच्च वस्तुनो न परमार्थः । ०६४१६ कथं तर्ह्यभिन्नस्य वस्तुनः शब्देन चोदने ०६४१७ तस्य एव अन्यतो अपि भेदादनंशयैकभेदचोदने सर्वभेद ०६४१८ गतेस्तत्र शब्दप्रमाणान्तराणि व्यर्थानि न स्युः । यस्मात् । ०६४१९ एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः । ०६४२० लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किंचन ॥१२९॥ ०६४२१ यस्य अभिधानतो वस्तुसामर्थ्यादखिले गतिः । ०६४२२ भवेन्नानाफलः शब्द एकाधारो भवत्यतः ॥१३०॥ ०६४२३ उक्तं प्राग्यथा संसृष्टबाह्याध्यात्मिकभेदा बुद्धिः स्वम् ०६४२४ एव आभासं व्यवहारविषयमर्थक्रियायोग्यमध्यवसाय ०६४२५ शब्दार्थमुपनयति इति । तत्र एव च ते शब्दास्तैस्तैर्भ्रान्ति ०६४२६ कारणैः संसृष्टरूप इव आभाति यथासंकेतं विच्छेदाय व्याप्रियन्त् ०६४२७ न च एकसाध्यं व्यवच्छेदमन्यः करोति । संकेत ०६५०१ प्रतिनियमात्न च विच्छिन्नं किंचिद्वस्त्वाक्षिप्यते ०६५०२ यस्य अभिधानाद्वस्तुबलेन अखिले गतिः स्यात् । शब्दानां बुद्धि ०६५०३ विप्लवविषयत्वात् । तत्र च अवस्तुनि वस्तुसामर्थ्याभावात् । तथाभूत ०६५०४ अर्थदर्शनद्वारेण अयं नानैकधर्मभेदाभेदप्रतिभास ०६५०५ विप्लवानुसारी व्यवहार इति तस्य तत्प्रतिबन्धे सति ०६५०६ तद्अव्यभिचारः । ततो वितथादप्यन्ते तथाभूत एव वस्तुनि ०६५०७ ज्ञानसंवादात् । न पुनर्भिन्नाकारग्राहिणां ज्ञानशब्दानां ०६५०८ एकवस्तुविषयत्वात्नानाफलः शब्द एकाधारो व्याघातात् । यथा वर्णिते ०६५०९ तु बुद्धिप्रतिभासाश्रये न दोष इति । ०६५१० विच्छेदं सूचयनेकमप्रतिक्षिप्य वर्तते । ०६५११ यदा अन्यं तेन स व्याप्त एकत्वेन च भासते ॥१३१॥ ०६५१२ सामानाधिकरण्यं स्यात्तदा बुद्ध्य्अनुरोधतः । ०६५१३ वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः ॥१३२॥ ०६५१४ स्यात्सत्यं स हि तत्र इति न एकवस्त्व्अभिधायिनि । ०६५१५ बुद्धावभासमानस्य दृश्यस्य अभावनिश्चयात् ॥१३३॥ ०६५१६ इत्यन्तरश्लोकाः । ०६५१७ तेन अन्यापोहविषयाः प्रोक्ताः सामान्यगोचराः । ०६५१८ शब्दाश्च बुद्धयश्च एव वस्तुन्येषामसम्भवात् ॥१३४॥ ०६५१९ यदि हि विधिरूपेण वस्त्वेव शब्दैर्विकल्पैर्वा अपि विषयीक्रियेत ०६५२० सो अयं सर्वार्थसर्वाकारप्रतीतिप्रसङ्गो असामानाधिकरण्य ०६५२१ आदयश्च इति मन्यमानः प्रणेता न्यायशास्त्रस्य अन्यापोह ०६५२२ विषयावेतौ प्राह । तथा हि । ०६५२३ एकत्वाद्वस्तुरूपस्य भिन्नरूपा मतिः कुतः । ०६५२४ अन्वयव्यतिरेकौ वा न एकस्य एकार्थगोचरौ ॥१३५॥ ०६५२५ तदेकमनंशं वस्तु कथं भिन्नाकाराभिर्बुद्धिभिर् ०६५२६ विषयीक्रियते । आकारभेदाश्रयत्वाद्भेदस्य । तस्य च अभेदात् । ०६५२७ तदात्मनो अपि सामान्यस्य तद्एकयोगक्षेमत्वात् । तदयम् ०६५२८ अन्योन्यार्थपरिहारेण एकविषययोर्वृत्त्य्अभावात्सामानाधिकरण्य ०६६०१ आदिर्न च वस्त्व्आत्मन एकस्य तत्र एव वृत्तिर् ०६६०२ अवृत्तिश्च युक्ता व्याघातात् । न च अन्यत्र अवर्तमानं सामान्यं ०६६०३ स्यात् । सामान्यस्य वृत्तिर्न विशेषस्य इति चेत् । न । भेदाभावात् । तद् ०६६०४ हि एकरूपं सामान्यं वा भवेत्विशेषो वा । न ह्यसति रूपभेदे ०६६०५ अयं प्रविभागो युक्तः सति वा अव्यतिरेको न स्यादित्युक्तम् । ०६६०६ तदयमविभागो अन्वियाद्वा न वा । न पुनरनन्वयो अन्वयी ०६६०७ च । यो अपि भिन्नमेव सामान्यमाह । तस्य अपि । ०६६०८ अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः । ०६६०९ यथास्वं शब्दा भिन्नमर्थमभिदधानाः कथमेकार्थ ०६६१० बुद्ध्य्आश्रयाः स्युः । अर्थान्तराभिधायिनश्च अनाक्षेपकाः ०६६११ निराकाङ्क्षत्वात्कथं विशेषणविशेष्यभावाश्रयाः । ०६६१२ सर्वत्र भावाद्व्यावृत्तेर्न एते दोषाः प्रसङ्गिनः ॥१३६॥ ०६६१३ यथा ह्येकस्तस्माद्भिन्नस्तथा अन्यो अपि इति भेदस्य असामान्य ०६६१४ दोषो अपि न अस्ति । परिशिष्टाभावस्तु प्रागेव उक्तः । अपि च । ०६६१५ एककार्येषु भेदेषु तत्कार्यपरिचोदने । ०६६१६ गौरवाशक्तिवैफल्याद्भेदाख्यायाः समा श्रुतिः ॥१३७॥ ०६६१७ कृता वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना । ०६६१८ न भावे सर्वभावानां स्वभावस्य व्यवस्थितेः ॥१३८॥ ०६६१९ यद्रूपं शाबलेयस्य बाहुलेयस्य न अस्ति तत् । ०६६२० अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते ॥१३९॥ ०६६२१ अर्थाभेदेन च विना शब्दाभेदो न युज्यते । ०६६२२ तस्मात्तत्कार्यता अपि इष्टा अतत्कार्यादेव भिन्नता ॥१४०॥ ०६६२३ चक्षुर्आदौ यथा रूपविज्ञानैकफले क्वचित् ॥ ०६६२४ अविशेषेण तत्कार्यचोदनासम्भवे सति ॥१४१॥ ०६६२५ सकृत्सर्वप्रतीत्य्अर्थं कश्चित्सांकेतिकीं श्रुतिम् । ०६६२६ कुर्यादृते अपि तद्रूपसामान्याद्व्यतिरेकिणः ॥१४२॥ ०६७०१ यो अपि मन्यते कथमभिन्नमर्थमन्तरेण बहुष्वेका ०६७०२ श्रुतिः तेषामसाम्यातेकवृत्तेरन्यत्र प्रत्ययाजननात् ०६७०३ अप्रत्यासत्तिके च प्रत्ययोत्पादे अतिप्रसङ्गात्तेषु च एक ०६७०४ शब्दनिवेशनवैफल्यादेकार्थनियोगाभावात्भिन्न स्वभावानां ०६७०५ पृथङ्नियोगे च तथाचोदितानां विभागापरिज्ञानाद् ०६७०६ इति । तस्य अप्येकमस्ति इत्येव लोकेन शब्दो निवेशनीयः तद् ०६७०७ वा एकमेनां श्रुतिं वस्तुशक्त्या एव ध्वनयति इति । न अस्त्येतत् । ०६७०८ किं तर्हि केनचित्प्रयोजनेन केचिच्शब्दाः क्वचिन्निवेश्यन्ते । ०६७०९ तत्र यद्यनेकमेकत्र उपयुज्येत तदवश्यं तत्र चोदनीयम् । ०६७१० तस्य पृथक्पृथक्चोदने अतिगौरवं स्यात् । न च अस्य अनन्य ०६७११ साधारणं रूपं शक्यं चोदयितुम् । न अप्यस्य आयास अस्य ०६७१२ किंचित्साफल्यम् । केवलमनेन तत्र योग्यास्ते अर्थाश् चोदनीयाः । ०६७१३ त एकेन वा शब्देन चोद्येरन् बहुभिर्वा इति स्वातन्त्र्यम् ०६७१४ अत्र वक्तुः । तदियमेका श्रुतिर्बहुषु वक्त्रभिप्राय ०६७१५ वशात्प्रवर्तमाना न उपालम्भमर्हति । न च इयमशक्य ०६७१६ प्रवर्तना । इच्छाधीनत्वात् । यदि हि न प्रयोक्तुरिच्छा कथम् ०६७१७ इयमेकत्र अपि प्रवर्तेत । इच्छायां वा क एनां बहुष्वपि ०६७१८ प्रतिबन्धुं समर्थः । प्रयोजनाभावाद् । एव अप्रवर्तनमिति ०६७१९ चेत् । उक्तं प्रयोजनम् । भिन्नेष्वेकस्मात्प्रतीतिरतत्प्रयोजन ०६७२० भेदेन इत्युक्तम् । न पुनः स्वभावस्य एकत्वात् । यथास्वं ०६७२१ व्यवस्थितस्वभावानामन्योन्यरूपाश्लेषात्कथमेकस्वभावनिमित्तः ०६७२२ शब्दो भिन्नेषु भवेदित्युक्तं प्राक् । अतत्प्रयोजनव्यावृत्तिस् ०६७२३ तु भिन्नानामविरुद्धा इति स एव अर्थाभेदः शब्दाभेदस्य ०६७२४ कारणं भवतु । तेन इमे तत्प्रयोजना इत्यतत्प्रयोजनेभ्यो ०६७२५ भिन्ना एव उक्ताः । न पुनरेषामन्या तत्कार्यता अन्यत्र अन्यतो ०६७२६ भेदात् । यथा चक्षूरूपालोकमनस्कारेस्वात्मेन्द्रियमनो अर्थ ०६८०१ तत्संनिकर्षेषु वा रूपविज्ञानैककार्येषु तत् कार्यसामान्यचोदना ०६८०२ सम्भवे कुतो रूपविज्ञानमिति व्यवहारलाघवार्थं कश्चित् ०६८०३ सांकेतिकीं श्रुतिं निवेशयेत्यरो रूपविज्ञानहेतुः शसो ०६८०४ वा इति । अपि नाम सर्वेषां तद्हेतूनां सकृत्प्रतीतिर्यथा स्याद् ०६८०५ इति । न च अत्र अनुगामि किंचिद्रूपमस्ति । केवलं तद्अर्थतया ०६८०६ ते भावा अतद्अर्थेभ्यो भिन्ना इति भेद एव एषामभेदः । एवंजातीयाश् ०६८०७ च सर्वे समूहसन्तानावस्थाविशेषशब्दा ये समस्ताः ०६८०८ किंचिदेकं कार्यं कुर्वन्ति तेषां तत्र विशेषाभावादपार्थिका ०६८०९ विशेषचोदना इति सकृत्सर्वेषां नियोजनार्थमेकमयं ०६८१० लोकः शब्दं तेषु नियुङ्क्ते घट इति । ते अपि सजातीयादन्यतश्च ०६८११ भेदाविशेषे अपि तत्प्रयोजनाङ्गतया तद्अन्येभ्यो भिद्यन्त ०६८१२ इत्यभेदात्ततो अविशेषेण प्रतीयन्ते । तत्र घटस्य रूपादयो ०६८१३ इत्यपि घटस्वभावा रूपादय उदकधारणविशेषादिकार्यसमर्था ०६८१४ इति यावत् । सामान्यकार्यसाधनप्रसिद्धेन आत्मना रूप ०६८१५ आदिशब्दैः प्रसिद्धा विशिष्टकार्यसाधनाख्येन विशेषेण विशिष्टास् ०६८१६ त एवमुच्यन्ते । न पुनरत्र अन्यत्किंचिद्यथावर्णितलक्षणं ०६८१७ द्रव्यमस्ति तस्य तादृशस्य अनुपलम्भात् । एकवचनम् ०६८१८ अपि तद्एकशक्तिसूचनार्थं संकेतपरतन्त्रं वा । तथा ०६८१९ ये हेतुफलविशेषभूताः किंचिदेकं साधयन्ति साध्यन्ते ०६८२० वा ते अपि सकृत्प्रत्ययार्थं व्रीह्य्आदिशब्दैः कृतसंकेताः ०६८२१ कथ्यन्त इति पूर्ववद्वाच्यम् । ये अपि पृथक्समस्ता वा क्वचिद् ०६८२२ उपयुज्यन्ते त अवस्थाविशेषवाचिभिः सकृदेव शब्दैः प्रत्यय ०६८२३ अर्थं ख्याप्यन्ते सनिदर्शनाः सप्रतिघा वा इति तद्अन्येभ्यो ०६८२४ भेदसामान्येन । यथा एककार्यास्तत्कार्यचोदनायां ०६८२५ तद्अन्यभेदेन घटादिशब्दैः कृतसमयाः । तथा कारणापेक्षया ०६९०१ अप्यनेक एकेन व्यवहारार्थमेव । यथा शाबलेयो ०६९०२ बाहुलेयः प्रयत्नानन्तरीयकः शब्दः कृतको वा इति । तथा ०६९०३ तत्कार्यप्रतिषेधेन अप्यचाक्षुषः शब्दो अनित्यो अनात्म इति । ०६९०४ तत्कारणप्रतिषेधेन अप्यस्वामिकः शून्य इति । एवं यथायोगम् ०६९०५ अन्यदपि वाच्यम् । शून्यानित्यादिशब्देषु यथाकल्पनं समीहित ०६९०६ आकारं बुद्धावारोप्य तद्व्यवच्छेदेन व्यपदेशः क्रियते । ०६९०७ बुद्धिसमीहा सन्दर्शितविभागत्वात्सर्वस्य शब्दार्थस्य । ०६९०८ अप्रतिपक्षदोषोपक्षेपादयो दुर्मतिविस्पन्दितानि इत्य् उपेक्षनीयाः । ०६९०९ अथ ०६९१० एकवृत्तेरनेको अपि यद्येकश्रुतिमान् भवेत् । ०६९११ न केवलमेककार्यास्तद्अन्यभेदाविशेषादेकशब्देन उच्यन्ते ०६९१२ अपि त्वेकवृत्त्या अप्यनेक एकशब्देन उच्येत । को विरोधः स्यात् । ०६९१३ उक्तमत्र । तस्य उपलभ्याभिमतस्य अनुपलब्धेरभावात् ०६९१४ अनुपलभ्यतायां वा तद्दर्शनाश्रया व्यपदेश प्रत्यभिज्ञान ०६९१५ आदयो न भवेयुरित्यादि । अपि च । ०६९१६ वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते ॥१४३॥ ०६९१७ यदेतदेकमनेकत्र वर्तमानमेकां श्रुतिं वर्तयति ०६९१८ तस्य का इयं वृत्तिः । आधेयता वा स्यात् । यथा कुण्डे बदराणि ०६९१९ वर्तन्त इति । व्यक्तिर्वा तैरभिव्यक्तेर् । यद्याधेयता । ०६९२० नित्यस्य अनुपकार्यत्वान्न आधारः । ०६९२१ नित्यं हि सामान्यमिष्यते । अनित्यत्वे अपरापरोत्पत्तेर् अनेकत्वाद् ०६९२२ भेदवदेकप्रत्ययायोगात् । नित्यस्य च किं कुर्वाण ०६९२३ आधारः स्यात् । तस्य तत्र समवायादाधार इति चेत्को ०७००१ अयं समवायो नाम । अपृथक्सिद्धानामाश्रयाश्रयिभावः । ०७००२ तदेव इदमनुपकारकस्य आश्रयत्वं न सम्भावयामः । ०७००३ अतिप्रसङ्गभयात् । तस्मात्समवायसंयोगावेकार्थसमवाय ०७००४ आदयो अपि वस्तुसम्बन्धाः कार्यकारणभावान्न व्यतिरिच्यन्ते । ०७००५ परस्परमन्यतो वा अनुपकारिणामप्रतिबन्धात् । अप्रतिबद्धस्य ०७००६ च असम्बन्धात् । यद्यप्येकार्थसमवायिनां परस्परम् ०७००७ अनुपकारः । तत एकस्मादुपकारेण भाव्यम् । अभावे ०७००८ यथोक्तदोषप्रसङ्गात् । अतः स्वोपकारद्वारेण एव परमपि ०७००९ बुद्ध्या संघटय्य ख्याप्यते । तस्मात्तत्र अपि कार्यकारणभाव ०७०१० कृत एव प्रतिबन्धः । तदयमाश्रयः सामान्यस्य ०७०११ स्वात्मन्यनुपकुर्वाणो अनपेक्षस्य आधार इति याचितकमण्डनम् ०७०१२ एतत् । कथं तर्हि इदानीमजनकं कुण्डं बदराणाम् ०७०१३ आधारः । ०७०१४ प्रविसर्पतः । ०७०१५ शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु ॥१४४॥ ०७०१६ प्रकृत्या एव गुरुणो द्रव्यस्य असमानदेशकार्योत्पादन धर्मणः ०७०१७ समानदेशकार्योत्पादनभाव आधारकृतः । तस्मात्तत्पूर्व ०७०१८ क्षणसहकारि कुण्डं तत्र एव बदरकार्यं जनयदाधार ०७०१९ इत्युच्यते । अन्यथा इह कुण्डे बदराणि इत्यपि न स्यात् । न वै ०७०२० तद्उपकारकृतो अयं व्यपदेशः । किं तर्हि । संयोगकृतः । ०७०२१ किं पुनः स तयोरेव संयोगः । ताभ्यां जननात्समवायाद् ०७०२२ वा । स किमेकत्र एव न समवैति जन्यते वा । तस्य असामर्थ्यात् । ०७०२३ तदसमर्थं पृथक्तत्सहितमपि तादृशमेव इत्यनुपकारकत्वान् ०७०२४ न संयोगेन तद्वत्स्यात् । सहितस्य तद्अन्योपकाराद् ०७०२५ विशेषोत्पत्तेः सामर्थ्यम् । को अयमजन्यजनकभूतानाम् ०७०२६ उपकारः । स्वरूपस्य सिद्धेरकार्यत्वात्पररूपक्रियायाम् ०७१०१ अपि तत्र अनुपकारात् । उभयथा कारकस्य अकिंचित्करत्वेन ०७१०२ अनुपकारकत्वादित्युक्तप्रायम् । तस्मात्सर्व एव वस्तु ०७१०३ सम्बन्धा जनकस्य एव उपयोगविशेषवशात्प्रविभागेन कार्यकारणभावाद् ०७१०४ व्यवस्थाप्यन्ते । तदयं कुण्डादीनामप्य् ०७१०५ आधारभावो बदरादिषु जननशक्तिरेव ०७१०६ न सम्भवति सा अप्यत्र । ०७१०७ न ह्ययं जननविशेषलक्षण आधारभावः सामान्ये सामान्य ०७१०८ आश्रयस्य सम्भवति । तस्य अजन्यत्वात् ०७१०९ तद्अभावे अप्यवस्थितेः । ०७११० न स्थितिः । ०७१११ अथ अपि स्यात्स्थापक आश्रयः सामान्यस्य ततः स्थितिहेतुत्वाद् ०७११२ आधारो न जननादिति । तदयुक्तम् । तस्य तद्अभावे अपि स्थानात् । ०७११३ पतनधर्माणां हि भावानां पातप्रतिबन्धादजनको अपि ०७११४ स्थापको भवेत् । अत्र अपि यदि कश्चित्प्रतिबन्धं न पर्यनुयुञ्जीत । ०७११५ स हि पातप्रतिबन्धो न अर्थान्तरमेव यः स्थापयित्रा ०७११६ क्रियेत । अर्थान्तरत्वे तत्र एव अस्य उपयोग इति कः पततः प्रतिबन्धः । ०७११७ प्रतिबन्धादपाते अपि तुल्यः पर्यनुयोगो अनवस्था ०७११८ वा । तस्मात्पाताभावः पातप्रतिबन्धः स कथं केनचित् ०७११९ क्रियते । अभावं करोति इति हि न अभावो नाम कश्चित्कार्यः । तस्य ०७१२० कथंचित्कार्यरूपत्वे अभावायोगात् । तस्माद्भाव क्रियाप्रतिषेध ०७१२१ निर्देश एष भावं न करोति इति यावत् । तथा च अयं न ०७१२२ किंचित्करोति इत्यकिंचित्करश्च कः कस्य स्थापको नाम । तेन ०७१२३ अयं केनचिदप्रतिबद्ध इति न कदाचित्तिष्ठेत् । तस्मात्पात ०७१२४ प्रतिबन्ध इत्यपि क्षणिकानां भावानामुपादानसमान ०७१२५ देशोत्पादनमुच्यते । अस्तु नाम अजननं पातिनां तत्प्रतिबद्धः । ०७१२६ तत्करणाद्गतिमतो द्रव्यस्य कश्चित्स्थापको अप्यस्तु । ०७१२७ सामान्यस्य अक्रियस्य किंलक्षणां स्थितिं कुर्वाणः स्थापकः ०७१२८ स्यात् । स्थितिर्हि तस्य स्वरूपाप्रच्युतिरेव । सा च न आश्रयायत्ता ०७१२९ नित्यत्वात् । ०७१३० सा अप्ययुक्ता एव भेदाभेदविवेचने ॥१४५॥ ०७२०१ अस्तु नाम आश्रयहेतुका स्थितिः सामान्यस्य । सा सामान्यादन्या ०७२०२ वा स्यादनन्या वा । सा अन्या चेत्तामेव स आश्रयः करोति । सा ०७२०३ च अप्रतिबद्धा सामान्य इति किं सामान्यस्य आश्रयेण । प्रतिबद्धे ०७२०४ वा कः प्रतिबन्ध इति वाच्यम् । स्थितिकरणं चेत्तत्र अपि तुल्यः ०७२०५ प्रसङ्गो अनवस्था च । तत उपकारानवधारणादस्य इयं ०७२०६ स्थितिरित्यप्रतीतिः । जननं चेत्किमाश्रयेण अपेक्षितेन अनुपकारिणा । ०७२०७ अपेक्षा इति हि तत्प्रतिबन्धः स च अनाधेयविशेषस्य सामान्यस्य ०७२०८ अयुक्त इति । केवलं जनयेदिति । न अस्त्यन्यः स्थितिहेतुः । ०७२०९ अभेदे वा स्थितेः सामान्यात्स्वरूपमेव तत्तस्य । तच्च ०७२१० नित्यमस्ति इति । न स्थितिरस्य केनचित्क्रियते । तस्मान्न सामान्यस्य ०७२११ आधारो अस्ति । तन्न आधेयता अस्य वृत्तिः । अथ पुनः सतो अपि ०७२१२ सामान्यस्य अव्यक्तस्य व्यक्त्या ज्ञानकारणत्वात्तद्व्यक्तिस्तत्र ०७२१३ वृत्तिः स्यात् । न युक्तमेवं भवितुम् । यस्मात् । ०७२१४ विज्ञानोत्पत्तियोग्यत्वाय आत्मन्यन्यानुरोधि यत् । ०७२१५ तद्व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् ॥१४६॥ ०७२१७ प्रागेव अस्य च योग्यत्वे तद्अपेक्षा न युज्यते । ०७२१८ सामान्यस्य अविकार्यस्य तत्सामान्यवतः कुतः ॥१४७॥ ०७२१९ न खलु वै कारकाद्व्यञ्जकस्य कश्चिद्भेदः । स्वविषयविज्ञान ०७२२० उत्पादनसमर्थमपरं सजातीयोपादानापेक्षमनपेक्षं ०७२२१ वा जनयन् भावमेव व्यञ्जक उच्यते । परत्र तु ज्ञान ०७२२२ जननशक्तिरनाक्षिप्ता जन्यस्य इति जननमात्रेण कारकत्वम् । ०७२२३ यो हि यतो विज्ञानोत्पादनयोग्यतां प्रतिलभते स चेन् ०७२२४ न तस्य जन्यः स्यात् । सा अस्य स्वभावभूता योग्यता प्रागेव अस्ति ०७२२५ इति न विज्ञानजनने तमपेक्षेत । परभूतायां च अस्यां ०७२२६ स एव ततो भवति इति स्थितिवत्प्रसङ्गः । तस्माद्व्यञ्जको न ०७२२७ तं करोति न अप्यन्यमित्यकिंचित्करश्च अपेक्ष्यत इति व्याहतम् ०७३०१ एतत् । नन्वजनका अपि कार्यत्वाद्धूमादयो व्यञ्जकाः । ०७३०२ सत्यं व्यञ्जका न तु धूममपेक्ष्य अग्निरात्मनि ज्ञानं ०७३०३ जनयति । तथाभूतस्य अग्नेः साक्षादजनकत्वात् । केवलम् ०७३०४ उपादानबलेन एव तत्र ज्ञानमुत्पद्यते न विषयबलेन असत्य् ०७३०५ अपि तस्मिन् भावात्परंपरया लिङ्गानुसारेण । न अपि सामान्यलक्षण ०७३०६ अवभासिनां प्रत्ययानां संनिहितविषयता विषय ०७३०७ बलेन उत्पत्तिर्वा इति निवेदितमेतत् । निवेदयिष्यते च । तस्माद्ये ०७३०८ विषयाः साक्षादुपयोगेन विज्ञानं जनयन्तस्तत्र परम् ०७३०९ अपेक्षन्ते ते अवश्यं तत आत्मानं प्रतिलभन्ते । न च अयम् ०७३१० आत्मप्रतिलम्भः सामान्यस्य नित्यस्य कुतश्चित्सम्भवति । ०७३११ तस्मान्न तत्केनचित्व्यङ्ग्यम् । न वै योग्यताप्रतिलम्भं ०७३१२ सामान्यस्य व्यक्तिं ब्रूमः । किं तर्हि । स्वाश्रयसमवायम् । ०७३१३ स्वाश्रयसमवेतं हि तदात्मन्यन्यत्र वा विज्ञानहेतुरिति । ०७३१४ उक्तमत्र अजन्यजनकयोः को अयमाश्रयाश्रयिभावलक्षणः ०७३१५ समवाय इति । स्वाश्रयसमवायापेक्षो विज्ञानहेतुस्तेन जन्य ०७३१६ एव स्यात् । तद्हेतोः स्वभावस्य प्राग्अभावात्पश्चाच्च ततो ०७३१७ भावात् । नित्यं तत्स्वभावसद्भावे प्रागपि समवायाद्विज्ञान ०७३१८ उदयप्रसङ्गात् । न वै व्यक्तिः सामान्यस्य संस्काराद् ०७३१९ व्यञ्जिका । किं तर्हि । तद्ग्राहिण इन्द्रियस्य । सो अपि । ०७३२० अञ्जनादेरिव व्यक्तेः संस्कारो न इन्द्रियस्य च । ०७३२१ प्रतिपत्तेरभिन्नत्वात्तद्भावाभावकालयोः ॥१४८॥ ०७३२२ संस्कृतमञ्जनादिभिरिन्द्रियं प्रतिपत्तौ किंचिदतिशयम् ०७३२३ आसादयति । स्पष्टास्पष्टभेदात् । अतत्कारिणश्च अतत्संस्कारकत्वात् । ०७३२४ न एवं व्यक्तेरिन्द्रियस्य कश्चित्संस्कारस्तद्भावाभाव ०७४०१ कालयोः प्रतिपत्तिं प्रत्यविशेषात् । विषयसंस्कारस्त्विन्द्रिय ०७४०२ अविशेषे अपि तद्विशेषाधानादुपकारी स्यात् । न इन्द्रियसंस्कारः । ०७४०३ प्रागदृश्ये दर्शनशक्त्य्आधानादुपकारक इति चेत् । सो अतीन्द्रियम् ०७४०४ अर्थं दर्शयन् कथं न प्रतिपत्तेर्भेदकः । एकप्रतिनियमे ०७४०५ च सामान्यान्तरस्य दर्शको न स्यात् । व्यक्त्या च इन्द्रिय ०७४०६ संस्कारात्तद्दर्शने तद्व्यङ्ग्येषु सामान्येषु कदाचितनिश्चयो ०७४०७ न स्यादेकनिश्चयो वा । तस्या अविभागायास्तेषु विशेषाभावात् । ०७४०८ व्यक्तेर्यदि इन्द्रियसंस्कारो यदि न इन्द्रियसंस्कारः सामान्यस्य ०७४०९ विज्ञानजननस्वभाव इति स्वभावादप्रच्युतेरनपेक्ष्य एव ०७४१० इन्द्रियसंस्कारं विज्ञानं जनयेत् । संस्कृतेन्द्रियसहकारित्वात् ०७४११ केवलमसमर्थमिति चेत् । को अयमनाधेयातिशयस्य ०७४१२ सहकारार्थः । अनित्या हि भावाः सहकारिणो विशिष्टात्मलाभात् ०७४१३ तमपेक्षेरन् । यो ह्येषां जनक आत्मा स तदा एव ततो भवति ०७४१४ इति जन्यता एव एषां परस्परतो अपेक्षा । सामान्यं पुनरनासाद्य ०७४१५ परं नित्यं तत्स्वभावं किमिति इन्द्रियमपेक्षते । ०७४१६ हि तस्य केवलस्य यो न तत्स्वभावः स पुनः कथंचिद् ०७४१७ भावी व्यक्तेरिन्द्रियसंस्कारः । तत्सहकारि सामान्यं विज्ञान ०७४१८ हेतुरित्यपि पारंपर्येण व्यक्तेः कार्यमेव सामान्यम् ०७४१९ उक्तं स्यात् । अपि च । ०७४२० व्यञ्जकस्य च जातीनां जातिमत्ता यदि इष्यते । ०७४२१ प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः ॥१४९॥ ०७४२२ यो हि यद्विषयविज्ञानहेतुः स तस्य व्यञ्जकः । विज्ञानहेतुत्वं ०७४२३ गोत्वादिषु प्रदीपादेरप्यस्ति । तेजःसंस्कारापेक्षिणः ०७४२४ चक्षुषो अर्थप्रतिपत्तेः । ततः प्रदीपादयो गोत्वादिना तद्वन्तः ०७५०१ स्युः । न हि व्यक्तेरपि ज्ञानहेतुतां मुक्त्वा अन्या काचिदस्त्य् ०७५०२ अभिव्यक्तिः सामान्यस्य स्वभावातिशयस्य आधातुमशक्यत्वात् । ०७५०३ समवायो अभिव्यक्तिरिति चेत् । उक्ता उत्तरमेतत् । तस्य समवायायोगाद् ०७५०४ इति । समवायमात्रं हि व्यक्त्या सह अस्य जातं न अन्यः ०७५०५ कश्चिद्विशेष इति । पूर्ववत्पश्चादपि न ज्ञानहेतुः स्यात् । ०७५०६ समवायादेव ज्ञानहेतुत्वे स्वाश्रयसमवायिनामन्येषामपि ०७५०७ दृश्यतापत्तिः । तस्माज्ज्ञानहेतुता एव व्यञ्जकत्वम् । तच्च ०७५०८ तुल्यं प्रदीपादाविति स एव प्रसङ्गः । तन्न आधेयता न व्यक्तिर् ०७५०९ वृत्तिः सामान्यस्य इति । अवृत्तेर्न अनेकत्र ज्ञानहेतुः । अत एव । ०७५१० व्यक्तेरन्या अथवा अनन्या येषां जातिस्तु विद्यते । ०७५११ तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः ॥१५०॥ ०७५१२ विद्यत एव इत्यवधारणार्थस्तुशब्दः । विद्यमानो हि पदार्थः ०७५१३ स्वसामर्थ्येन अन्यत्र बुद्धिं जनयन् स्वरूपानुकारिणीं ०७५१४ तत्सम्बन्धमपेक्षते । अन्यथा अतिप्रसङ्गात् । स च सामान्यस्य ०७५१५ सतस्तत्त्वान्यत्त्वपक्षयोर्न सम्भवति । ०७५१६ एकत्र दृष्टस्य अन्यत्र दर्शनासम्भवात् । ०७५१७ सा हि बुद्धिरेकभाविनी व्यक्त्य्अन्तरमेवमास्कन्देद्भूत ०७५१८ ग्राहिणी यदि तत्र दृष्टं किंचिदन्यत्र पश्येत् । तच्च ०७५१९ सतः । ०७५२० अनन्यत्वे अन्वयाभावादन्यत्वे अप्यनपाश्रयात् ॥१५१॥ ०७५२१ न सम्भवति । स्वभावो हि स्वभावान्न तत्त्वमन्यत्वं ०७५२२ वा लङ्घयति । रूपस्य अतद्भूतस्य अन्यत्वाव्यतिक्रमात् । इदम् ०७५२३ एव खलु रूपस्य अन्यत्वं यन्न तदाकारान्तरवदविशेषात् । ०७५२४ तच्चेत्सामान्यस्य रूपमनन्यत्तदेव तद्भवति । अतत्त्वे ०७५२५ वस्त्व्अन्तरवदन्यत्वप्रसङ्गात् । न च एकव्यक्त्य्आत्मनो व्यक्त्य् ०७५२६ अन्तरान्वावेशो अव्यक्त्य्अन्तरत्वप्रसङ्गात् । ततो न अव्यतिरेकिणः ०७५२७ सामान्यादन्वयिनी बुद्धिः स्यात् । न अपि व्यतिरेकिणस्तस्य ०७६०१ क्वचिदनाश्रयादन्यस्य अपि व्यङ्ग्यव्यञ्जकभावादेः सम्बन्धस्य ०७६०२ केनचिदनुपकार्यस्य अप्रतिबन्धेन अभावात् । असम्बन्धाच् ०७६०३ च ज्ञानोत्पत्तावपि प्रसङ्गात् । तदयमेकवस्तु ०७६०४ दर्शनेन एकवृत्तेः प्रत्ययस्य अन्यत्र वृत्तिमिच्छंस्तत्त्वान्यत्त्वे ०७६०५ न अतिक्रामति इत्ययुक्तमेतत् । तस्मादियमर्थेष्वेकरूपा ०७६०६ प्रतीतिर्विकल्पवासनासमुत्थिता भ्रान्तिरेव । भावभेदो वासना ०७६०७ प्रकृतिश्च तस्य आश्रय इति निर्लोठितमेतत् । कथं तर्हि इदानीं ०७६०८ प्रधानेश्वरादिकार्यशब्दा भावेष्वतद्भूतभेदेष्व् ०७६०९ अभेदेन वर्तन्ते । ते अपि यथासंकेताहितवासनोपस्कृतत्वाद् ०७६१० विज्ञानसन्ततेः सर्वार्थदर्शनेष्वनपेक्ष्य अपि तद्भेदं तथा ०७६११ अध्यवसायादतथाभूतकल्पितव्यवच्छेदेन विकल्पविज्ञान ०७६१२ प्रतिभासिन्यर्थ उपादानबलप्रभवविकल्पसमुत्थिताः ०७६१३ प्रवर्तन्ते । न हि तेष्वतथाभूतेषु किंचिद्व्यतिरिक्तम् अव्यतिरिक्तं ०७६१४ वा सामान्यमस्ति । तथाभावकल्पनया तु तद्अन्य ०७६१५ भेदः प्रतिपत्त्रभिप्रायवशात्स्यात् । तद्अभिप्रायादेव सामान्यं ०७६१६ किं न इति चेत् । तेन अवश्यं हि तत्र भेदो नान्तरीयकत्वाद् ०७६१७ एष्टव्यः । स एव सामान्यकार्ये पर्याप्त इति निःप्रयोजना ०७६१८ सामान्यकल्पना । यदि सत्स्वसत्सु वा भावेषु सामान्यबुद्धिर् ०७६१९ न इयमर्थवती केवलं विप्लव एव इति न अस्माकमस्या विषय ०७६२० निरूपणं प्रति कश्चिदादरः क्वचिदविसंवादो अस्या वस्तुनि ०७६२१ कार्यकारणभावप्रतिबन्धान्न तथाभूतग्राह्यसमावेशात् ०७६२२ प्रत्यक्षवदतथाभावे अपि भावादिति निवेदयिष्यामो निवेदितं ०७६२३ च । भेदविषयत्वं पुनरस्या बहुलं भिन्नपदार्थ ०७६२४ दर्शनबलेन तेषु भावाध्यवसायात् । तथा भावकल्पनायाम् ०७६२५ एव अपरत्र भावात् । अपि च अयं सामान्यमर्थान्तरं कल्पयन् ०७७०१ स्वाश्रयमात्रगतं वा कल्पयेत्सर्वगतं वा आकाशादिवत् । ०७७०२ तत्र यदि स्वाश्रयमात्रगतं घटत्वादिशून्येषु प्रदेशेषु ०७७०३ घटाद्य्उत्पत्तौ कथं तेषु भिन्नदेशद्रव्यवर्तिनः सामान्यस्य ०७७०४ सम्भवः । यस्मात्तत्पूर्वद्रव्यादुत्पित्सु द्रव्यं ०७७०५ न याति । ०७७०६ निष्क्रियत्वोपगमात् । न ह्यन्यद्रव्यवृत्तेर्भावस्य ततो अविचलतो ०७७०७ भिन्नदेशेन भावेन तद्उभयान्तरालाव्यापिनो योगो ०७७०८ युक्तः । प्राक्स ०७७०९ न च तत्र आसीतस्ति पश्चान् । ०७७१० न च तत्र उत्पन्नो न कुतश्चिदायात इति क इमं व्याघातभारम् ०७७११ उद्वोढुं समर्थो अन्यत्र जाड्यात् । अपि च ०७७१२ न च अंशवत् । ०७७१३ जहाति पूर्वं न आधारम् । ०७७१४ उत्पित्सुदेशाद्भिन्नदेशम् । तयोश्च वर्तत इति । ०७७१५ अहो व्यसनसन्ततिः ॥१५२॥ ०७७१६ भिन्नदेशयोर्हि भावयोः सम्बन्धो द्विधा भवेत् । नानावयव ०७७१७ आत्मतया अन्योन्याभ्यामवयवाभ्यां तत्सम्बन्धाद् आलोक ०७७१८ रज्जुवंशदण्डादिवत् । न हि स अवयवत्वमन्तरेण भिन्न ०७७१९ देशाभ्यां युगपत्कस्यचिद्योगो युक्तः । तस्य द्वितीय आत्माभावात् । ०७७२० एकात्मनश्च तत्प्रदेशवर्तिसम्बन्धिरूपत्वात् । अन्यथा ०७७२१ तत्सम्बन्धायोगात् । एकस्य आधेयस्य तत्र स्थानं तदा एव ०७७२२ तत्र तेन एव आत्मना अस्थानमिति तत्स्थितास्थितात्मनोरेकस्य ०७८०१ विरोधादयुक्तमेतत् । सर्वत्र सर्वदा सर्वाकारस्थितात्मा इति ०७८०२ चेत् । तत्स्वभावदर्शनाश्रयः प्रत्ययः सर्वत्र सर्वाकारः ०७८०३ स्यात् । तथा च गामप्यश्व इति प्रतीयात् । अश्वस्थितात्मना द्रव्यत्वेन ०७८०४ सम्बन्धात्तत्स्वभावप्रतिपत्त्या च तथा निश्चयात् ०७८०५ तस्य च एकस्य अदृष्टाकारान्तराभावात् । तस्मान्न अनवयवमनेक ०७८०६ देशे युगपदाधीयते । पूर्वाधारत्यागे तु भिन्नदेशे अपि ०७८०७ वर्तेत । स च न अभिमतः । ०७८०८ अन्यत्र वर्तमानस्य ततो अन्यस्थानजन्मनि । ०७८०९ स्वस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तिमत् ॥१५३॥ ०७८१० यत्र असौ वर्तते भावस्तेन सम्बध्यते अपि न । ०७८११ तद्देशिनं च व्याप्नोति किमप्येतन्महाद्भुतम् ॥१५४॥ ०७८१२ इत्यन्तरश्लोकौ । यस्य तु सर्वगतं सामान्यं तस्य अपि ०७८१३ व्यक्ता एव एकत्र सा व्यक्त्या अभेदात्सर्वत्रगा यदि । ०७८१४ जातिर्दृश्येत सर्वत्र । ०७८१५ न जातेर्नित्यायाः काचिद्व्यक्तिरिति निषिद्धमेतत् । तस्मान्नित्यम् ०७८१६ अनपेक्षितपरोपस्कारा दृश्येत वा न वा कदाचित्तस्मिन् स्वभावे ०७८१७ व्यवस्थानात् । स्वभावान्तरस्य कुतश्चिदनुत्पत्तेः । अभ्युपगम्य ०७८१८ अपि व्यक्तिं व्यापिन्येकत्र व्यक्त्या भेदाभावाद्व्यक्ता ०७८१९ एव सर्वत्र इति व्यक्तिशून्येष्वपि प्रदेशेषु दृश्येत । ०७८२० न च सा व्यक्त्य्अपेक्षिणी ॥१५५॥ ०७८२१ यदि हि व्यक्त्य्अपेक्षिणी स्यात् । ०७८२२ व्यञ्जकाप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते । ०७८२३ विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः ॥१५६॥ ०७८२४ यो अपि हि स्वाश्रयेन्द्रियसंयोगापेक्षप्रतिपत्तिकं सामान्यम् ०७८२५ आश्रयशून्येषु प्रदेशेषु न दृश्यत इति प्रतिसमादधीत तस्य अप्य् ०७८२६ अस्त्येव आश्रयेन्द्रियसंयोग उपकारक इति ततस्तद्दर्शी यथा ०७८२७ स्थितां पश्येत् । न हि तस्यां दृश्यमानायामदृष्टं तदीयं ०७९०१ युक्तम् । व्यक्तिव्यङ्ग्यत्वात्सामान्यस्य व्यञ्जकरहितेषु ०७९०२ प्रदेशेष्वदर्शनमित्यपि मिथ्या । तथाभूतस्य व्यङ्ग्यव्यञ्जकभावस्य ०७९०३ तत्र अभावात् । स्वप्रतिपत्त्या अपरप्रतिपत्तिहेतुर् ०७९०४ हि व्यञ्जकः प्रदीपादिः स्वरूपशून्ये देशे स्वव्यङ्ग्यं न ०७९०५ दर्शयत् । न एवं व्यक्तिर्विपर्ययात् । कथं हि सा व्यञ्जिका ०७९०६ च स्यात्सामान्यस्य । तत्प्रतिपत्तिद्वारेण च दृश्या स्यात् । व्यङ्ग्या ०७९०७ च सा एव प्रसज्यते प्रदीपघटवत् । कथंचित्तत्प्रतिपत्तिम् ०७९०८ अन्तरेण अदृश्यरूपत्वात् । अपि च अनेन किमसम्भवद् अभिसमीक्ष्य ०७९०९ एवं बह्व्आयासः सामान्यवाद आश्रितः । परस्परतो भेदाद् ०७९१० व्यतिरेकिणीषु व्यक्तिष्वन्वयिनः प्रत्ययस्य अयोगात् । कथम् ०७९११ इदानीम् ०७९१२ पाचकादिष्वभिन्नेन विना अप्यर्थेन वाचकः । ०७९१३ पाचकपाठकादिष्वन्योन्यमनन्वयिष्वपि शब्दप्रत्ययानुवृत्तिर् ०७९१४ अस्ति । पाचकः पाठक इति । न हि तेष्वन्यदेकमभिन्नम् ०७९१५ अस्ति येन भिन्नास्तथा प्रतीयेरन् । कर्म अस्ति चेत् । व्यक्तिभ्य ०७९१६ एव तर्हि स प्रत्ययो अस्तु । किमिदानीं कर्मणा अन्येन वा । भिन्नम् ०७९१७ अभिन्नप्रत्ययहेतुर्न भवति इत्येकं सामान्यमिष्टम् । ०७९१८ तद्यदि भिन्नमपि कर्माभिन्नं प्रत्ययं जनयेत् । व्यक्तिभिः ०७९१९ को अपराधः कृतो येन तास्तथा न इष्यन्ते । तासामेकरूपत्वात् । ०७९२० अस्य इदमिति व्यतिरेकप्रतीतिरतद्आकारविशेषवती च न ०७९२१ स्यादिति चेत् । उक्तमत्र यथा व्यतिरेको विशेषप्रत्ययाश्च ०७९२२ यथास्वमर्थान्तरविवेकादिति । तस्माद्व्यक्तिवत् ०७९२३ भेदान्न हेतुः कर्म अस्य । ०७९२४ पाचकाद्य्अभेदप्रत्ययस्य । तत्कर्म जातिरभेदाधेतुर् ०७९२५ इति चेत् । ०७९२६ न जातिः कर्मसंश्रयात् ॥१५७॥ ०८००१ न ह्यर्थान्तरसम्बन्धिनी जातिरर्थान्तरे प्रत्ययहेतुर् ०८००२ गोत्वमिव कर्कादिषु । पाचककर्मसु च कर्मजातिर्न च तानि ०८००३ कर्माणि पाचकशब्देन अभिधीयन्ते । किं तर्हि । तत्कर्माश्रयो ०८००४ द्रव्यम् । तस्य कर्मसामान्यस्य ०८००५ श्रुत्य्अन्तरनिमित्तत्वात् । ०८००६ च पाकः पाक इति हि ततः स्यान्न पुनः पाचक इति । तस्य कर्म ०८००७ निमित्तत्वे प्रोक्तम् । किं च ०८००८ स्थित्य्अभावाच्च कर्मणः । ०८००९ न ह्यनित्यं कर्म सर्वदा अस्ति । तस्य च प्रत्ययस्य कर्मनिमित्तत्वे ०८०१० निरुद्धे कर्मणि न पाचक इत्युच्येत । पचत एव कर्म ०८०११ सद्भावात् । तत एव ०८०१२ असम्बन्धान्न सामान्यं न अयुक्तं शब्दकारणम् ॥१५८॥ ०८०१३ अतिप्रसङ्गात् । ०८०१४ विनष्टे हि कर्मणि तत्सामान्यं न कर्मणि न कर्तरि इति सम्बद्ध ०८०१५ सम्बन्धे अप्यस्य न अस्ति इत्यसम्बन्धान्न शब्दज्ञान ०८०१६ हेतुः । अन्यथा ह्यतिप्रसङ्गः स्यात् । अतीतमनागतं वा ०८०१७ निमित्तीकृत्य तयोः प्रवृत्तिरिति चेत् । ०८०१८ कर्म अपि न असज्ज्ञानाभिधानयोः । ०८०१९ निमित्तम् । तयोः ०८०२० अनैमित्तिकतापत्तेः । ०८०२१ असधि निरुपाख्यं कथं निमित्तं स्यात् । कार्यकरण ०८१०१ लक्षणत्वाद् वस्तुत्वस्य । तत्प्रच्युतासम्प्राप्तरूपमतीतानागतं ०८१०२ कर्मनिमित्तम् । अन्यच्च व्यक्त्य्आदिकं न इष्टमित्य् ०८१०३ अनिमित्ते ते स्याताम् । तथा च न जातिसिद्धिस्तस्या ज्ञानाभिधानयोः । ०८१०४ निमित्तत्वे न इष्टत्वात् । शक्तिः पाचकादिशब्दनिमित्तं ०८१०५ न कर्म न सामान्यमिति चेत् ०८१०६ न च शक्तिरनन्वयात् ॥१५९॥ ०८१०७ न हि शक्तिर्नाम किंचिदन्यदेव पाचकादीनाम् । तस्या एव ०८१०८ पाचकाद्य्अर्थक्रियोपयोगेन द्रव्यस्य अनुपयोगित्वप्रसङ्गात् । तस्यां ०८१०९ तस्य उपयोग इति चेत्किमिदानीं शक्त्या । शक्त्य्उपयोगाय ०८११० शक्त्य्अन्तरस्य व्यतिरेकिणो अभ्युपगमे अतिप्रसङ्गाद्द्रव्यम् ०८१११ एव उपयुज्यत इति वाच्यम् । तस्य उपयोगे शक्तावर्थक्रियायाम् ०८११२ एव उपयुज्यत इति किं न इष्यत इति किमन्तराले अनर्थिकया शक्त्या । ०८११३ तस्माच्शक्तिरिति द्रव्यमेव तत्कार्यं तच्च न अन्वेति इति । ततो ०८११४ अन्वयी शब्दो न स्यात् । ०८११५ सामान्यं पाचकत्वादि यदि प्रागेव तद्भवेत् । ०८११६ व्यक्तं सत्तादिवन्नो चेन्न पश्चादविशेषतः ॥१६०॥ ०८११७ अथ अपि पाचकत्वमिति सामान्यमेव किंचिद्भवेत् । सत्यर्थे ०८११८ तत्समवायस्य अकादाचित्कत्वात्सत्तादिवत् । प्रागेव व्यक्तं ०८११९ स्यात् । यावन्ति हि सामान्यान्यर्थे समवायधर्माणि तानि सह ०८१२० उत्पादेन अस्य समवयन्ति इति समयः । तद्व्यतिक्रमे तस्य ०८१२१ पश्चादप्यविशेषान्न तत्समवायः स्यात् । तत्सम्बन्धिस्वभाव ०८१२२ वैगुण्याधि स तस्य प्राङ्न आसीत्तत्र एव च अस्य स्वभावे ०८१२३ स्थितस्य पश्चाद्भवति इति दुरन्वयमेतत् । ०८१२४ क्रियोपकारापेक्षस्य व्यञ्जकत्वे अविकारिणः । ०८१२५ न अपेक्षातिशये अप्यस्य क्षणिकत्वात्क्रिया कुतः ॥१६१॥ ०८१२६ कर्मोपकारमपेक्ष्य पाचकत्वं द्रव्येण व्यज्यत इति चेत् । ०८२०१ स्थिरस्वभावस्य अनतिशयादविशेषाधायिनि का अपेक्षा । अतिशये ०८२०२ वा क्षणिकत्वात्कर्मणः प्रतिक्षणं स्वभावभूतस्य अन्यान्यस्य ०८२०३ अतिशयस्य उत्पत्तेस्तदपि क्षणिकं स्यात् । ततः स्वोत्पत्तिस्थानविनाशिनः ०८२०४ क्रिया कुतः यद्अपेक्षं व्यञ्जकं स्यात् । कथं ०८२०५ तर्हि इदानीमस्त्यभिन्ने वस्तुनि ज्ञानशब्दयोरन्वयिनोर्वृत्तिः । ०८२०६ यथा पाचकादिषु । ननु तदेव इदं चिन्त्यते कथं तेष्व् ०८२०७ अपि इति । चिन्तितमेतद्यथा न तेषु सम्भवति । तत्किमिदानीम् ०८२०८ अनिमित्ते ते स्याताम् । न अनिमित्ते । किं तर्हि । न बाह्यतत्त्वनिमित्ते । ०८२०९ यथास्वं वासनाप्रबोधाद्विकल्पोत्पत्तिः । ततः शब्दाः । ०८२१० न पुनर्विकल्पाभिधानयोर्वस्तुसत्ता समाश्रय इत्युक्तप्रायम् ०८२११ एतत् । यथास्वं समयवासनावशाद्विरोधिरूपसमावेशेन ०८२१२ अपरापरदर्शने अप्यन्वयिनोस्तयोर्दर्शनात् । न च तत्र ०८२१३ तन्निबन्धनः कश्चित्स्वभावो अस्ति परस्परविरोधिनोर्युगपद् ०८२१४ एकत्र समावेशायोगात् । अनियमेन तर्हि स्यात् । न ह्यनिमित्तं ०८२१५ भवत्क्वचिद्भवति क्वचिन्न भवति इति नियमम् ०८२१६ अर्हति । न खलु वै तदनिमित्तं वासनाविशेषनिमित्तत्वात् । ०८२१७ बाह्यं तु तथाभूतं दृश्यं न अस्ति इति ब्रूमः । न च असति तस्मिन् ०८२१८ न भवितव्यम् । सुप्ततैमिरिकोपलब्धेष्वर्थेष्वभावेषु ०८२१९ समयवासनारोपितरूपविशेषेषु च तथा विकल्पोत्पत्तेः । न ०८२२० च ते असत्सु उत्पद्यन्त इति सर्वत्र सर्वाकारः । विभागे न एव तथोपलब्धानां ०८२२१ विकल्पनात् । उक्तं च अत्र किंचिदस्माभिः प्रकृत्या ०८२२२ अपि केचिदेकज्ञानकार्याः स्वभावभेदादिति । अपि च । ०८२२३ तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति । ०८२२४ क्वचिन्न अन्यत्र स एव अस्तु शब्दज्ञाननिबन्धनम् ॥१६२॥ ०८२२५ इत्यन्तरश्लोकः । ०८२२६ न निवृत्तिं विहाय अस्ति यदि भावान्वयो अपरः । ०८२२७ एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः ॥१६३॥ ०८२२८ यद्येते भावा व्यावृत्तिं मुक्त्वा स्वभावेन केनचिदन्वयिना ०८३०१ शून्याः । न एषां बहूनामेकं कार्यं स्यात् । यो हि तस्य स्वभावो ०८३०२ जनकः । न हि सो अन्यस्य अस्ति । यो अस्ति स न जनको व्यतिरेकस्य ०८३०३ निःस्वभावत्वात् । यज्जनकं तदेव वस्तु तज्जनकं ०८३०४ च अपरत्र न अस्ति इति न अपरं जनयेत् । स हि तस्य स्वभावो यो जनकः ०८३०५ सो अन्यस्य अपि यदि स्यात् । स तेन स्वभावेन ततो अभिन्नः ०८३०६ स्यादिति अस्ति स्वभावान्वयः । ०८३०७ यद्येकात्मतया अनेकः कार्यस्य एकस्य कारकः । ०८३०८ आत्मा एकत्र अपि सो अस्ति इति व्यर्थाः स्युः सहकारिणः ॥१६४॥ ०८३०९ यद्येकस्वभावत्वादनेक एकस्य कारकः स तेषामभिन्नः ०८३१० स्वभावः । एकसंनिधाने अप्यस्ति इति । अवैकल्यात्कारणस्य एको ०८३११ अपि जनकः स्यात् । यस्मात् । ०८३१२ न अपैत्यभिन्नं तद्रूपं विशेषाः खल्वपायिनः । ०८३१३ न हि तस्य अभिन्नस्वभावस्य अर्थान्तरे विशेषो अस्ति । विशेषो अभेद ०८३१४ हानेः । स च तत्र अप्यस्ति इति न एकस्थितावपि तस्य अपायो अस्ति । ये ०८३१५ विशेषास्तेषां सहस्थितिनियमाभावात्स्यादपायः । न च ते ०८३१६ जनका इष्टाः । सहकारिणामेकस्वभावतया जनकत्वाभ्युपगमात् । ०८३१७ ततो जनकस्य स्थानात् । अस्थायिनश्च अजनकत्वाद् ०८३१८ एकस्थितावपि कार्योत्पत्तिः स्यात् । न च भवति । अतः ०८३१९ एकापाये फलाभावाद्विशेषेभ्यस्तद्उद्भवः ॥१६५॥ ०८३२० तत्कार्यमनेकसहकारिसाधारणमेकविशेषापाये अपि न भवति । ०८३२१ पुनरप्यविकलेषु सर्वेषु विशेषेषु भवति । न त्वविकले ०८३२२ अप्यभिन्ने रूपे । कार्यं हि कुतश्चिद्भावधर्मि यन्न भवति ०८३२३ तत्तस्य एव वैकल्यात् । न च अभिन्नस्य रूपस्य एकस्थिताव् ०८३२४ अपि वैकल्यमस्ति । अविकले अपि तस्मिन्नभवत्तस्य अजनकात्मतां ०८३२५ सूचयति । यत्साकल्यवैकल्याभ्यां च कार्यं भावाभाववत् ०८४०१ तत एव उत्पत्तिः । तस्मिन् सति नियमेन भवतस्तद्अन्यस्माद् उत्पत्ति ०८४०२ कल्पनायामतिप्रसङ्गात् । तस्माद्विशेषा एव जनका न ०८४०३ सामान्यम् । ततस्त एव वस्तु । यस्मात् । ०८४०४ स पारमार्थिको भावो य एव अर्थक्रियाक्षमः । ०८४०५ इदमेव हि वस्त्व्अवस्तुनोर्लक्षणं यदर्थक्रियायोग्यता अयोग्यता ०८४०६ च इति वक्ष्यामः । ०८४०७ स च । ०८४०८ अर्थक्रियायोग्यो अर्थः ०८४०९ न अन्वेति यो अन्वेति न तस्मात्कार्यसम्भवः ॥१६६॥ ०८४१० तस्मात्सर्वं सामान्यमनर्थक्रियायोग्यत्वादवस्तु । वस्तु ०८४११ तु विशेष एव तत एव तन्निष्पत्तेः । स्वभावानन्वयात्तर्ह्य् ०८४१२ एकस्य जनकं रूपमन्यस्य न अस्ति इत्यजनकः स्यात् । जनकत्वे ०८४१३ वा भेदाविशेषात्सर्वो जनकः स्यात् । न एतदस्ति । यस्मात् । ०८४१४ तेन आत्मना हि भेदे अपि हेतुः कश्चिन्न च अपरः । ०८४१५ स्वभावो अयम् । ०८४१६ एकस्य जनकादात्मनो भिद्यमानाः सर्वे समं जनका न वा ०८४१७ अविशेषे कश्चिदिति स्यादेतद्यद्येषां न विशेषः सम्भवेत् । ततो भेद ०८४१८ अपि कुतश्चिदात्मातिशयात्कश्चिज्जनको न अपरः । स हि ०८४१९ तस्य स्वभावो न अपरस्य । न हि स्वभावा भावानां पर्यनुयोगम् ०८४२० अर्हन्ति किमग्निर्दहत्युष्णो वा न उदकमिति । एतावत्तु ०८४२१ स्यात्कुतो अयं स्वभाव इति । निर्हेतुकत्वे अनपेक्षिणो नियमाभावेन ०८४२२ अतिप्रसङ्गात् । तस्मात्स्वभावो अस्य स्वहेतोरित्युच्यते । ०८४२३ तस्य अपि तज्जननात्मता तद्अन्यस्मादित्यनादिर्हेतुपरंपरा ०८५०१ भिन्नानां हि कश्चिधेतुर्न अन्यः स्वभावादित्यत्र न किंचिद् ०८५०२ बाधकम् । ०८५०३ अभेदे तु स्यातां नाशोद्भवौ सकृत् ॥१६७॥ ०८५०४ अभेदात् । स्वभावेन एव विश्वस्य स्वात्मवद्विभागोत्पत्तिस्थिति ०८५०५ निरोधादयो न स्युः तथा उपलक्षणादभेदस्य । इदमेव हि ०८५०६ भेदाभेदलक्षणमेकाकारस्य अपि व्यतिरेको अव्यतिरेकश्च । ०८५०७ विरोधिनोरेकात्मन्यसम्भवात् । ०८५०८ भेदो अपि तेन न एवं चेद् । ०८५०९ न वै सर्वाकाराव्यतिरेकं ब्रूमो येन एवं स्यात् । कश्चिदस्य आत्मा ०८५१० भिन्नो न अन्य इति भेदान्न सहोत्पत्त्य्आदयः । एवं तर्हि ०८५११ य एकस्मिन् विनश्यति । ०८५१२ तिष्ठत्यात्मा न तस्य । ०८५१३ भेदः । स्थानास्थानयोरेकात्माश्रयत्वे को अन्यो धर्मो भेदक ०८५१४ इति नानात्वमेव क्वचिन्न स्यात् । सर्वाकारविवेक अविवेकिनोर्वा अर्थयोर् ०८५१५ अभ्युपगमान्नाम केवलं न इष्टं स्यान्न वस्त्व् ०८५१६ इत्युक्तम् । तदिमे न एकयोगक्षेमा भावाः भिन्ना एव ०८५१७ अतो न स्यात्सामान्यभेदधीः ॥१६८॥ ०८५१८ तदिदमर्थान्तरमनायत्तमजन्यत्वादस्य इदं सामान्यं ०८५१९ भेदो वा इति व्यपदेशं न अर्हति । अन्यापोहे अप्येष तुल्यः प्रसङ्ग ०८५२० इति चेत् । न तुल्यः । यतः । ०८५२१ निवृत्तेर्निःस्वभावत्वान्न स्थानास्थानकल्पना । ०८५२२ न ह्यन्यापोहो नाम किंचित्तस्य च स्वभावानुषङ्गिण्यः ०८५२३ स्वभावस्थितिप्रच्युतिकल्पना न कल्पन्ते । ०८५२४ उपप्लवश्च सामान्यधियस्तेन अप्यदूषणा ॥१६९॥ ०८५२५ निर्विषयमेव खल्विदं मिथ्याज्ञानं यदनेकत्र एकाकारम् ०८६०१ इति न तद्विषयस्य अभावात्स्थितिरस्थितिर्वा । यत्पुनरेतदुक्तं ०८६०२ तज्जनको हि स तस्य स्वभावः ०८६०३ यत्तस्य जनकं रूपं ततो अन्यो जनकः कथम् । ०८६०४ तत्र न ब्रूमो अन्यस्य तज्जनकं रूपं न अस्ति इति । किं तर्हि । ०८६०५ यदेकस्य तज्जनकं तदन्यस्य न इत्यन्यो अपि स्वरूपेण एव ०८६०६ जनको न पररूपेण अतत्त्वात् । ते यथास्वं भिन्नाश्च तज्जनकाश् ०८६०७ च स्वभावेन इति को अत्र विरोधः । एकरूपविकलस्तद्रूपो ०८६०८ न स्यात्न अतत्कार्यः । तेन एव च तत्कार्यं कर्तव्यमिति को ०८६०९ अत्र न्यायः । अपि च । ०८६१० भिन्ना विशेषा जनका । ०८६११ इत्युक्तम् । न च ते विशेषास्तेन आत्मना परस्परमनुयन्ति । ०८६१२ यदेकस्य जनकं रूपमन्यस्य तन्न अस्ति । न च तावता ०८६१३ अजनकाः । ०८६१४ अप्यभेदो अपि तेषु चेत् ॥१७०॥ ०८६१५ स्यादेतत्सत्यं विशेषा जनकाः न पुनस्तेषां विशिष्टमेव ०८६१६ रूपं किं त्वभिन्नमपि तद्एकशक्तियोगाज्जनकाः । ०८६१७ तेन ते अजनकाः प्रोक्ताः । ०८६१८ सत्यपि सामान्ये रूपे न तेन ते जनकास्तस्य अनपायाद् एकस्थिताव् ०८६१९ अपि कार्योत्पत्तिप्रसङ्गादित्युक्तं प्राक् । किं च । ०८६२० प्रतिभासो अपि भेदकः । ०८६२१ अनन्यभाक् । ०८६२२ उत्पत्तिस्थितिविनाशादिभेदश्न इत्यपिशब्दात् । यो अयमभिन्नान् ०८६२३ सर्वार्थान्मन्यते तस्य अयमर्थेषु बुद्धिप्रतिभासभेदो ०८६२४ विरुद्धधर्माध्यासश्च न स्यात् । सति वा तस्मिन्नभेदे अपि ०८६२५ न कश्चिद्भेदः स्यात् । तथा च अयं प्रविभागो न स्यादेकात्मवत् । ०८६२६ तस्मादयं भिन्नप्रतिभासादिर्विशेष एव । न च अत्र अपरम् ०८६२७ अभिन्नं प्रतिभासं पश्यामो यद्बलेन अभेदप्रतीतिः ०८६२८ स्यात् । अतो विशेष एव । ०८७०१ स एव अर्थस्तस्य व्यावृत्तयो अपरे ॥१७०॥ ०८७०२ तत्कार्यं कारणं च उक्तं तत्स्वलक्षणमिष्यते । ०८७०३ तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः ॥१७२॥ ०८७०४ यदर्थक्रियाकारि तदेव वस्त्वित्युक्तम् । स च विशेष एव । ०८७०५ यत्पुनरेतत्सामान्यं नाम तत्तस्य एव अपरस्माद्भेदः । ०८७०६ न हि तस्य अर्थत्वे दृश्यस्य रूपानुपलक्षणं युक्तम् । तद् ०८७०७ उपलक्षणकृतत्वाद्भेदेष्वभिन्नप्रत्ययस्य । अपि च । ०८७०८ यथा अभेदाविशेषे अपि न सर्वं सर्वसाधनम् । ०८७०९ तथा भेदाविशेषे अपि न सर्वं सर्वसाधनम् ॥१७३॥ ०८७१० यदुक्तम् । कथं तज्जनकस्वभावाद्भिन्नो अस्य जनकः ०८७११ स्यात् । जनकत्वे वा अविशेषात्सर्वो जनकः स्यादिति । उक्तम् ०८७१२ अत्र । यद्यविशेषः स्यात्स्यादेतदिति । यथा च अस्य स्वयम् ०८७१३ अभेदवादिनो अभेदाविशेषे अपि न सर्वः सर्वस्य जनक इति तथा ०८७१४ भेदाविशेषे अपि भविष्यति । अथवा । ०८७१५ भेदे हि कारकं किंचिद्वस्तुधर्मतया भवेत् । ०८७१६ अभेदे तु विरुध्येते तस्य एकस्य क्रियाक्रिये ॥१७४॥ ०८७१७ भेदमात्राविशेषे अपि स्वहेतुप्रत्ययनियमितस्वभावत्वात्केचिद् ०८७१८ एव कारकाः स्युः न अन्ये अतत्स्वभावत्वादित्यत्र न एव किंचिद् ०८७१९ विरुद्धमस्ति । एकत्वे तु तस्य तत्र एव तथा कारकत्वमकारकत्वं ०८७२० च इति व्याहतमेतत् । ०८७२१ भेदो अप्यस्त्यक्रियातश्चेन्न कुर्युः सहकारिणः । ०८७२२ न वै सर्वाकाराविवेकं ब्रूमो भेदस्य अपि भावात् । तस्मात् ०८७२३ कश्चिदकारको अपि इति । तथा अपि कथंचिद्भेदात्सहकारिणो ०८७२४ अकारकाः स्युः । ०८७२५ पर्यायेण अथ कर्तृत्वं स किं तस्य एव वस्तुनः ॥१७५॥ ०८७२६ अथ अपि स्यान्न एव कश्चिदकारको अस्ति । सर्वेषां सर्वत्र पर्यायेण ०८७२७ उपयोगात् । शक्तेर्वा विपरिणतायास्तन्निवेशिन्या रूपान्तरेण ०८७२८ उपयोगात् । स एव खल्वयं पर्यायो भेदाश्रय एकस्य कथम् । ०८८०१ परिणामो वा अव्यतिरेकिण्याः । विशेषे वा कथंचिदेकत्व ०८८०२ हानिरिति यत्किंचिदेतत् । किं च । ०८८०३ अत्यन्तभेदाभेदौ च स्यातां तद्वति वस्तुनि । ०८८०४ अन्योन्यं वा तयोर्भेदः सदृशासदृशात्मनोः ॥१७६॥ ०८८०५ भावाश्चेदभिन्नेन आत्मना स्वात्मभूतेन भेदिनस्तद्वन्तः ०८८०६ स्युः तद्अभिन्नस्वभावात्मत्वाद्भेदस्य अपि कुतः परस्परं ०८८०७ भेदः । अथ न स तस्य समान आत्मा । तथा सति तदात्मना ०८८०८ तेन अपि न युक्तं तथा भवितुम् । तथा अभावे ह्यतद् ०८८०९ धर्मा स्यात् । न ह्ययं प्रवृत्तिनिवृत्तिमान् स्वभाव एको युक्तः । ०८८१० न सर्वात्मना अभेद एव । ०८८११ तयोरपि भवेद्भेदो यदि । ०८८१२ न हि क्वचिदस्य एकान्तिको भेदो अभेदो वा विवेकेन व्यवस्थापनात् । ०८८१३ सामान्यं विशेष इति । ०८८१४ येन आत्मना तयोः । ०८८१५ भेदः सामान्यमित्येतद्यदि भेदस्तदात्मना ॥१७७॥ ०८८१६ भेद एव । ०८८१७ यदि सामान्यविशेषयोर्यमात्मानमाश्रित्य सामान्यं विशेष ०८८१८ इति स्थितिस्तेन आत्मना भेदस्तदा भेद एव । यस्मात्तौ हि ०८८१९ तयोः स्वात्मानौ तौ चेद्व्यतिरेकिणौ व्यतिरेक एव सामान्य ०८८२० विशेषयोः स्वभावभेदात् । स्वभावो हि भाव इति । ०८८२१ तथा च स्यान्निःसामान्यविशेषता । ०८८२२ भेदसामान्ययोर्यद्वद्घटादीनां परस्परम् ॥१७८॥ ०८८२३ व्यतिरेके च भेदसामान्ययोर्न भेदः सामान्यान्न सामान्यं ०८८२४ भेदवत्सम्बन्धाभावात्परस्परं घटादिवद् ०८८२५ इत्युक्तम् । अपि च । ०८८२६ यमात्मानं पुरस्कृत्य पुरुषो अयं प्रवर्तते । ०८८२७ तत्साध्यफलवाञ्छावान् भेदाभेदौ तद्आश्रयौ ॥१७९॥ ०८८२८ चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता । ०८९०१ अस्त्येव वस्तु न अन्वेति प्रवृत्त्य्आदिप्रसङ्गतः ॥१८० । ०८९०२ सर्व एव गौरश्वाद्भिन्नो अभिन्नो वा इति भेदमभेदं वा ०८९०३ पृच्छन् विशेषमेव भावस्य स्वभावाख्यमधिकृत्य प्रवर्तते । ०८९०४ स एव हि तथा उच्यते । द्रव्यत्वादयस्तु न तत्र शब्दचोदिताः ०८९०५ यथास्वं पृथग्अभिधानात् । अर्थस्य तद्अव्यभिचारात् ०८९०६ ततो गतिः स्यात् । निर्लोठितं च एतदाचार्येण । तदयं गवादिशब्द ०८९०७ प्रत्युपस्थापितमर्थं भिन्नमभिन्नं वा पृच्छन्न् ०८९०८ अर्थान्तरोपक्षेपेण तत्र किमिति द्विमुखबुद्धिः क्रियते । ०८९०९ तस्माद्यो अस्य आत्मा अनन्यसाधारणो यं पुरस्कृत्य पुरुषो ०८९१० विशिष्टार्थक्रियार्थी प्रवर्तते यथा गोर्वाहदोहादौ न अन्य ०८९११ सम्भविनो अर्थस्य यथा युद्धप्रवेशे स एव स्वभावो ०८९१२ यथास्वं शब्दचोदितो न द्रव्यत्वादि सामान्यम् । तच्चोदनया ०८९१३ तदा प्राप्तुमनभिप्रेतत्वात् । गवादिसमावेशात्तदात्मभूतानां ०८९१४ च अनन्वयेन तत्र अनुभयरूपत्वात् । तमेव च अयं भावं ०८९१५ प्रकारैः पर्यनुयुङ्क्ते । तस्य भेदे द्रव्यत्वाद्य्अभेदो ०८९१६ अस्य अबाधक एव । सर्वत्र स्वभावेन भेदस्य अभ्युपगमात् ०८९१७ सामान्यस्य च व्यावृत्तिलक्षणस्य स्वभावभूतस्य च सामान्यस्य ०८९१८ अभेदे अप्युक्तम् । स्वात्मना एव अभेदे तु तत्स्वभावनिबन्धन ०८९१९ अर्थक्रियार्थी समं द्वयोरपि प्रवर्तेत । एको अपि ०८९२० तामर्थक्रियां तत्स्वभावत्वादेव करोति । तद्अन्यस्य अपि ०८९२१ तत्तुल्यमिति सो अपि किं न करोति । ०८९२२ एतेन एव यदह्रीकाः किमप्यश्लीलमाकुलम् । ०८९२३ प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् ॥१८१॥ ०८९२४ यदयमह्रीकः स्यादुष्ट्रो दधि स्यान्न इति किमप्यश्लीलम् ०८९२५ अयुक्तमहेयोपादेयमपरिनिष्ठानादाकुलं प्रलपन्ति । तद् ०८९२६ अप्यनेन निरस्तं स्वभावेन एकान्तभेदात् । तद्अन्वये वा । ०८९२७ सर्वस्य उभयरूपत्वे तद्विशेषनिराकृतेः । ०८९२८ चोदितो दधि खादेति किमुष्ट्रं न अभिधावति ॥१८२॥ ०९००१ तथा ह्युष्ट्रो अपि स्याद्दधि न अपि स एव उष्ट्रः ये न अन्यो अपि स्याद् ०९००२ उष्ट्रः । तथा दध्यपि स्यादुष्ट्रः न अपि तदेव दधि येन अन्यद् ०९००३ अपि स्याद्दधि । तदनयोरेकस्य अपि कस्यचित्तद्रूपाभावस्य ०९००४ अभावात्स्वरूपस्य वा अतद्भाविनः स्वनियतस्य अभावात् ०९००५ न कश्चिद्विशेष इति । दधि खादेति चोदित उष्ट्रमपि खादेत् । ०९००६ अथ अस्त्यतिशयः कश्चिद्येन भेदेन वर्तते । ०९००७ स एव दधि सो अन्यत्र न अस्ति इत्यनुभयं परम् ॥१८३॥ ०९००८ अथ अनयोः कश्चिदतिशयो अस्ति येन अयं तथा चोदितः क्षीरविकार ०९००९ एव प्रवर्तते न अन्यत्र । स एव अतिशयो अर्थक्रियार्थिप्रवृत्तिविषयो ०९०१० दधि । तत्फलोपादानभावलक्षितस्वभावं हि ०९०११ वस्तु दधि इति । स च तादृशः स्वभावो अन्यत्र न अस्ति इति । प्रवृत्त्य्अभावाद् ०९०१२ अर्थिनः । तस्मात्तन्न उभयरूपमित्येकान्तवादः । ०९०१३ अपि च । ०९०१४ सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी । ०९०१५ भेदसंहारवादस्य तद्अभावादसम्भवः ॥१८४॥ ०९०१६ सो अयमह्रीकः क्वचिदप्येकमाकारं प्रतिनियतमपश्यन् ०९०१७ विभागाभावाद्भावानां कथमसंसृष्टान्याकारवत्या बुद्ध्य् ०९०१८ आधिमुच्येत अर्थानभिलपेद्वा । ततो भेदाग्रहात्तत्संहार ०९०१९ वादो न स्यात्स्यादुष्ट्रो दधि स्यान्न इति । अथ पुनरसंसृष्टाव् ०९०२० आकारौ प्रतिपद्य संहरेत् । एकरूपसंसर्गिण्याः बुद्धेः ०९०२१ क्वचित्प्रतिनियमात्तत्प्रतिभासभेदकृत एव तयो रूपयोः ०९०२२ स्वभावभेदो अपि स्यात् । एकानेकव्यवस्थितेः प्रतिभासविषयत्वात् । ०९०२३ तथा च न एकस्तद्उभयरूपः स्यादिति मिथ्यावाद ०९०२४ एषः । स्थितमेतत्न भावानां कश्चित्स्वभावान्वयो अस्ति ०९०२५ भेदलक्षणमेव तु सामान्यम् । अथ च प्रकृत्या केचिद् एकज्ञान ०९०२६ आदिफलाः केचिन्न इति । भवतु नाम भावानां स्वभाव ०९१०१ भेदः सामान्यम् । येषां तु निरुपाख्यानां स्वभाव एव न अस्ति ०९१०२ तत्र कथं स्वभावभेदविषयाः शब्दाः । तेष्ववश्यं ०९१०३ शब्दप्रवृत्त्या भाव्यम् । कथंचिदव्यवस्थापितेषु विधिप्रतिषेध ०९१०४ अयोगात् । तथा च सर्वत्र अयमन्वयव्यतिरेकाश्रयो व्यवहारो ०९१०५ न स्यातुष्णस्वभावो अग्निर्न अनुष्ण इत्यपि । स्वभावान्तरस्य ०९१०६ असतः कथंचिदव्यवस्थापनात् । सर्वथा अप्रतिपत्तेर् ०९१०७ अग्निस्वभावस्य अप्रतिपत्तिरिति व्यामूढं जगत्स्यात् । स्यादेतत् ०९१०८ न तत्र कस्यचिदसतो निषेधः अनुष्णं सदेव अर्थान्तरं ०९१०९ निषिध्यत इति । कथमिदानीं सदसन्नाम । न ब्रूमः सर्वत्र ०९११० असत्तत्र न अस्ति इति देशकालधर्मनिषेध एव सर्वभावेषु ०९१११ क्रियते न धर्मिणः तन्निषेधे तद्विषयशब्दप्रवृत्त्य्अभावात् ०९११२ अनिर्दिष्टविषयस्य नञो अप्रयोगात् । सो अपि तर्हि देशादि ०९११३ प्रतिषेधः कथम् । यस्मान्न तत्र अपि देशादीनां प्रतिषेधो ०९११४ न अप्यर्थस्य । सम्बन्धो निषेध्यत इति चेत् । ननु तन्निषेधे ०९११५ अपि तुल्यो दोषो निषेधादसति शब्दाप्रवृत्तिरित्यादि । असतो वा अस्य ०९११६ निषेधे तद्वद्धर्मिणो अपि निषेधः । न वै सम्बन्धस्य ०९११७ न अस्ति इति निषेधः । किं तर्हि । न इह घटो न इदानीं न एवमित्युक्तौ ०९११८ न अनेन सम्बन्धो अस्ति न एतद्धर्मा वा इति प्रतीतिः । तथा ०९११९ च सम्बन्धो निषिद्धो भवति इति । तथा अपि कथं निषिद्धो यावद् ०९१२० अस्य सम्बन्धो धर्मो वा न अस्ति इति मतिर्न भवति । न च अस्याः ०९१२१ कथंचिद्भावे सम्भवो अभावेषु तथा अभावात् । तस्मात्सम्बन्ध ०९१२२ अभावप्रतीतेर्न अयमिह इत्याद्या प्रतीतिः । स तद्अभावे ०९२०१ न स्यात् । प्रतीतौ वा तद्अभावस्य । यथा प्रतीतिमतस्तत्प्रभवाः ०९२०२ शब्दाः केन निवार्यन्ते । स एव हि शब्दानां न विषयो ०९२०३ यो न वितर्काणाम् । ते चेत्प्रवृत्ताः को वचनस्य निषेद्धा । ०९२०४ न ह्यवाच्यमर्थं बुद्धयः समीहन्ते । सम्बन्धस्य ०९२०५ तु स्वरूपेण अनभिधानमुक्तम् । अभिधाने सम्बन्धित्वेन ०९२०६ बुद्धावुपस्थानात् । यथाभिप्रायमप्रतीतिः । तदयं प्रतीयमानो ०९२०७ अपि सम्बन्धिरूप एव इति स्वरूपेण न अभिधीयते । तस्मान् ०९२०८ न अभाववत्सम्बन्धे अपि प्रसङ्गः । अपि च । अयम् ०९२०९ अभावमभिधेयं ब्रुवाणं प्रति प्रतिविदधदब्रुवाणः ०९२१० कथं प्रतिविदध्यात् । वचने वा अस्य कथमभावो अनुक्तः । ०९२११ अथ अभावमेव न इच्छेत् । तेन अवचनम् । तदेव इदानीं कथम् ०९२१२ अभावो न अस्ति इति । यत्पुनरेतदर्थनिषेधे अनर्थकशब्दाप्रयोगान् ०९२१३ निर्विषयस्य नञो अप्रयोग इत्यत्र उत्तरं वक्ष्यते । तस्मात् ०९२१४ सन्त्यभावेषु शब्दाः । तेषु कथं स्वभावभेद इति । ०९२१५ तत्र अपि । ०९२१६ रूपाभावादभावस्य शब्दा रूपाभिधायिनः । ०९२१७ न आशङ्क्या एव सिद्धास्ते व्यवच्छेदस्य वाचकाः ॥१८५॥ ०९२१८ वस्तुवृत्तीनां शब्दानां किं रूपमभिधेयमाहोस्विद्भेद ०९२१९ इति शङ्का स्यात् । अभावस्तु विवेकलक्षण एव निमित्तीकर्तव्यस्य ०९२२० कस्यचिद्रूपस्य अभावात्तद्भावे अभावायोगात् । तद्भावलक्षणत्वाद् ०९२२१ भावस्य । तस्मादयमेव स मुख्यो विवेकः । ०९२२२ तस्य तथा अभावख्यापिनः शब्दाः किं विवेकविषया इत्यस्थानम् ०९२२३ एव एतदाशङ्कायाः । तस्मात्सिद्धमेतत्सर्वे शब्दा विवेकविषया ०९३०१ विकल्पाश्च । त एते एकवस्तुप्रतिशरणा अपि यथास्वम् ०९३०२ अवधिभेदोपकल्पितैर्भेदैर्भिन्नेष्विव प्रतिभात्सु बुद्धौ ०९३०३ विवेकेषु उपलयनाद्भिन्नविषया एव । तेन स्वभावस्य एव साध्यसाधनभावे ०९३०४ अपि न साध्यसाधनसंसर्गः । तौ न प्रतिज्ञार्थैकदेशो ०९३०५ हेतुरिति । स च अयं हेतुत्वेन अपदिश्यमानः । ०९३०६ उपाधिभेदापेक्षो वा स्वभावः केवलो अथवा । ०९३०७ उच्यते साध्यसिद्ध्य्अर्थं नाशे कार्यत्वसत्त्ववत् ॥१८६॥ ०९३०८ अपेक्षितपरव्यापारो हि स्वभावनिष्पत्तौ भावः कृतकः । ०९३०९ तेन इयं कृतकश्रुतिः स्वभावाभिधायिन्यपि परोपाधिमेनम् ०९३१० आक्षिपति । एतेन प्रत्ययभेदभेदित्वादयो व्याख्याताः । एवम् ०९३११ उपाधिभेदापेक्षः क्वचित्स्वभावो हेतुरुच्यते क्वचिदनपेक्षः ०९३१२ सामान्येन यथा अनित्यत्व एव सत्त्वं क्वचित्स्वभावभूत ०९३१३ धर्मविशेषपरिग्रहेण यथा तत्र एव उत्पत्तिः । अनया ०९३१४ दिशा अन्ये अपि स्वभावहेतुप्रविभागा द्रष्टव्याः । ०९३१५ सत्तास्वभावो हेतुश्चेन्न सत्ता साध्यते कथम् । ०९३१६ अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोः ॥१८७॥ ०९३१७ यदि सत्त्वमनित्यत्वे अन्यत्र वा हेतुः स्यात्साध्यमपि कस्मात् ०९३१८ न इष्यते । तत्किल एवं प्रसाध्यमानं विशेषीभवति । ०९३१९ न च विशेषः साधायितुं शक्यते अनन्वयात् । यथा आह प्रमाण ०९३२० विशेषया अज्ञानादिति । सो अयं विशेषो न साध्य एव व्याहन्यते । ०९३२१ किं तर्हि । हेतावपि तुल्यदोषत्वात् । न हि हेतुरनन्वयः सिद्धेर् ०९३२२ अङ्गं ततः संशयात् । न एष दोषः । यस्मात् । ०९४०१ भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि । ०९४०२ न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् ॥१८८॥ ०९४०३ न सर्वथा सत्तासाधने विशेषः साधितो भवति । भावमात्र ०९४०४ विशेषणो अस्ति कश्चिद्धर्मी इति प्रसाधयतो अनिर्दिष्टस्वभावविशेषस्य ०९४०५ कस्यचित्सत्तामात्रे विरोधाभावात्न इह सत्तासाधन ०९४०६ प्रतिषेधः किं तु स तथा अस्ति कश्चिदिति कंचन अस्य भेदम् ०९४०७ अपरामृशन् ब्रुवाणः कं स्वार्थं पुष्णाति । तस्मादनेन उपात्त ०९४०८ भेद एव साध्यः । ०९४०९ उपात्तभेदे साध्ये अस्मिन् भवधेतुरनन्वयः । ०९४१० सत्तायां तेन साध्यायां विशेषः साधितो भवेत् ॥१८९॥ ०९४११ स हि धर्मी प्रधानलक्षण एको नित्यः सुखाद्य्आत्मको अन्यो ०९४१२ वा इति यथाकथंचिदपि विशेषितस्तत्स्वभावः प्रसाधितो भवति । ०९४१३ स च तथा न अन्वेति । यदपि सत्तामात्रमन्वेति न तेन ०९४१४ सिद्धेन किंचित् । नन्वेवमग्न्य्आदिष्वपि प्रसङ्गः । तत्र अपि ०९४१५ न अग्निसत्तामात्रे कश्चिद्विवादः । विशिष्टाधारविशेषस्य त्वभिमतस्य ०९४१६ अनन्वयादसिद्धिः । न वै स आधारस्तं विशेषीकरोति । ०९४१७ तद्अयोगव्यवच्छेदेन विशेषणादित्युक्तं वक्ष्यते च । तस्मात् ०९४१८ तत्र सामान्यमेव साध्यते तद्अयोगव्यवच्छेदेन । ०९४१९ न तथा इह अपि क्वचित्सत्तायाः साधनम् । प्रधानादिशब्दवाच्यस्य ०९४२० एव अर्थस्य क्वचिदभावान्निर्विशेषणा एव सा । कथमभावो ०९४२१ ज्ञेयाभिधेयप्रमेयत्वैः सो अपि सिद्ध एव । तत्किमिदानीं ०९४२२ ज्ञेयमस्ति इति सिद्धिरस्तु । तथा अपि किं सिद्धं स्यात् । अन्यत्र ०९४२३ तु तदेव अग्निसामान्यं तत्र असिद्धमिति साध्यते । ननु तत्र अपि ०९४२४ तद्अयोगविरहिणा सामान्येन अन्वयो न सिद्ध एव । न वै कश्चित् ०९४२५ तथा अभूतेन अन्वयं करोति । प्रतिपादयता हि परं धूमो ०९४२६ अग्निनान्तरीयको दर्शनीयो यत्र धूमस्तत्र अग्निरिति । स तथा अग्नि ०९४२७ मात्रेण व्याप्तः सिद्धो यत्र एव स्वयं दृश्यते तत्र एव अग्नि ०९५०१ बुद्धिं जनयति । तत्र च साध्यनिर्देशेन न किंचित् । तत्र ०९५०२ दर्शनसम्बन्धाख्यानमात्रादिष्टसिद्धेः । तद्अनिर्देशे च ०९५०३ कथं तद्विशिष्टेन अन्वयः । तदयमग्निना अविनाभावी ०९५०४ सिद्धः । अर्थादेव अग्नेस्तत्प्रदेशायोगं व्यवच्छिनत्ति इति स ०९५०५ तथा साध्य उच्यते । न पुनस्तथा अस्य उपन्यासपूर्वको अन्वयः ०९५०६ साध्योक्तेरिह अनङ्गत्वात् । तत्पूर्वकत्वे वा कः प्रतिज्ञां ०९५०७ साधनादपाकरोति । तथा च आह । ०९५०८ लिङ्गस्य अव्यभिचारस्तु धर्मेण अन्यत्र दर्श्यते । ०९५०९ तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति । ०९५१० तस्मान्न अग्न्य्आदिसाधनवत्सत्तासाधनमप्यनवद्यमिति । ०९५११ अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने । ०९५१२ तन्मात्रव्यापिनः साध्यस्य अन्वयो न विहन्यते ॥१९०॥ ०९५१३ साधने पुनः सत्त्वे स्वभावविशेषापरिग्रहेण वस्तुमात्र ०९५१४ व्यापिनि साध्यधर्मे न अन्वयव्याघातः । न हि तत्र अवश्यं ०९५१५ विशेषपरिग्रहः कार्यः । सन्मात्राश्रये अपि साधनसामर्थ्यात् । ०९५१६ न साध्यत्वे । वैफल्यात् । अपि च । ०९५१७ न असिद्धे भावधर्मो अस्ति व्यभिचार्य्उभयाश्रयः । ०९५१८ धर्मो विरुद्धो अभावस्य सा सत्ता साध्यते कथम् ॥१९१॥ ०९५१९ सत्तायां हि साध्यायाम् । सर्वस्तद्हेतुर्न त्रयीं दोषजातिम् ०९५२० अतिपतति । असिद्धिं व्यभिचारं विरोधं च । तत्र यदि भाव ०९६०१ धर्मो हेतुरुच्यते । स कथमसिद्धसत्ताके स्यात् । यो हि ०९६०२ भावधर्मं तत्र इच्छति । स कथं भावं न इच्छेत् । स्वभाव ०९६०३ एव हि कयाचिदपेक्षया धर्म इति व्यतिरेकी इव धर्मिणो ०९६०४ निर्दिश्यते । न हि धर्मधर्मिवाचिनोः शब्दयोर्वाच्ये कश्चिद् ०९६०५ विशेषो अस्ति इत्युक्तमेतत् । अथ पुनरुभयधर्मं ब्रूयात् । ०९६०६ अनाश्रितवस्तुनो अपर्युदासेन व्यतिरेकमात्रस्य अभावे अप्यविरोधात् । ०९६०७ यथा न भवति मूर्त इति अमूर्तत्वं निरुपाख्ये अपि ०९६०८ स्यात् । निरुपाख्यस्य अभावाद्न प्रतिषेधविषयता इति चेत् । तत्किम् ०९६०९ इदानीं विधिविषयो अस्तु । तदपि न इति चेत् । कथमिदानीं न ०९६१० प्रतिषेधविषयः । विधिनिवृत्तिरूपत्वात्प्रतिषेधस्य । तद् ०९६११ एतद्व्यवच्छेदमात्रं द्वयोरपि सम्भवद्विपक्षप्रचार ०९६१२ शङ्काव्यवच्छेदेन लभ्यं गमकत्वं कथमात्मसात् ०९६१३ कुर्यात् । स च स्वयं स्ववाचोभयधर्मतां ब्रुवाणः सतो ०९६१४ अन्यत्र अप्यस्य वृत्तिं भाषते सत्तायां च अव्यभिचारमिति ०९६१५ कथं न उन्मत्तः । अभावधर्मं तु भावमात्रव्यापिनो ०९६१६ अर्थस्य व्यवच्छेदं हेतुं सत्तायां वदतो अस्य विरुद्धो ०९६१७ हेतुः स्यात् । तस्य भावे क्वचिदसम्भवातभावे च भाव ०९६१८ व्यवच्छेदस्य भावात् । तदयं त्रिप्रकारो अपि धर्मः सत्ता ०९६१९ साधने न हेतुलक्षणभाक्न च अन्या गतिरस्ति । तस्मान्न ०९६२० सत्ता साध्यते । साधनत्वे पुनरस्याः सामान्येन तन्मात्रव्यापिनि ०९६२१ वस्तुधर्मे सिद्धसत्ताके धर्मिणि न असिद्धिः । तेन च ०९६२२ साध्यधर्मेण व्याप्तिर्यदि कथंचिन्निश्चीयते न विरोध ०९६२३ व्यभिचाराविति न अयं प्रसङ्गः । अनिश्चितायां तु व्याप्तौ धर्मि ०९६२४ समाश्रये वा तत्स्वभावतया गमको न कश्चिद्गमकः । ०९६२५ अत एव स्वधर्मेण व्याप्तः ०९६२६ सिद्धः स्वभावो गमको । ०९७०१ वाच्यः । न हि प्रकाशतया प्रकाशयन् प्रदीपस्तद्रूपाप्रतिपत्तौ ०९७०२ स्वामर्थक्रियां करोति । ०९७०३ व्यापकस्तस्य निश्चितः । ०९७०४ गम्यः स्वभावस्। ०९७०५ तद्धर्मनिश्चयादेव निश्चितो व्यापकत्वेन तस्य धर्मिणो ०९७०६ धर्मो गम्यः । ०९७०७ तस्य अयं निवृत्तौ वा निवर्तकः ॥१९२॥ ०९७०८ तस्य व्याप्यस्य धर्मस्य अयं निवर्तको व्यापको धर्मः ०९७०९ स्वयं निर्वर्तमानः । एवं ह्ययमस्य व्यापकः सिद्धो ०९७१० भवति यद्यस्य अभावे न भवेत् । तदनेन द्विविधस्य अपि ०९७११ साधनप्रयोगस्य गमकतालक्षणमुक्तं वेदितव्यम् । द्विविधो ०९७१२ हि प्रयोगः साधर्म्येण वैधर्म्येण च । यथा आहुर् ०९७१३ एके अन्वयी व्यतिरेकी च इति । न अनयोर्वस्तुतः कश्चिद्भेदो अन्यत्र ०९७१४ प्रयोगभेदात् । साधर्म्येण अपि हि प्रयोगे अर्थाद्वैधर्म्य ०९७१५ गतिः असति तस्मिन् साध्येन हेतोरन्वयाभावात् । तथा ०९७१६ वैधर्म्ये अप्यन्वयगतिः असति तस्मिन् साध्याभावे हेत्व्अभावस्य ०९७१७ सन्देहादिति विस्तरेण वक्ष्यामः । ०९७१८ अनित्यत्वे यथा कार्यमकार्यं वा अविनाशिनि । ०९७१९ अनेन उदाहरणमनयोर्दर्शयति । तत्र अन्वयी यत्किंचित्कृतकं ०९७२० तत्सर्वमनित्यं यथा घटादयः शब्दश्च कृतक ०९७२१ इति कृतकत्वस्य अप्यनित्यत्वेन व्याप्तिं प्रदर्श्य शब्दस्य ०९७२२ कृतकत्वे कथिते सामर्थ्यादेव अनित्यः शब्द इति । तस्मान् ०९७२३ न अवश्यमिह पक्षनिर्देश इति । अयमन्वयिनः प्रयोगः । ०९७२४ व्यतिरेके अपि न अनित्यत्वाभावे कृतकत्वं भवति शब्दश्च ०९७२५ कृतक इति । सिद्धतत्स्वभावतया तद्अभावे न भवतः । ०९७२६ कृतकत्वस्य शब्दे च भावख्यातौ तदात्मनः सतो भाव इति ०९७२७ सामर्थ्यात्सिद्धेः पूर्ववान्न प्रतिज्ञावचनम् । अन्वयस्त्व् ०९८०१ अर्थापत्त्या सिद्धः । न ह्यतदात्मनियतस्य तन्निवृत्तौ ०९८०२ निवृत्तिः । तस्मात्तन्नियमं प्रसाध्य निवृत्तिर्वक्तव्या । ०९८०३ सा चेत्सिध्यति तदात्मनियममर्थात्सूचयति इति सिद्धो अन्वयः । ०९८०४ कथमिदानीं कृतको अवश्यमनित्य इति प्रत्येतव्यो ०९८०५ येन एवमुच्यते । यस्मात् । ०९८०६ अहेतुत्वाद्विनाशस्य स्वभावादनुबन्धिता ॥१९३॥ ०९८०७ न हि भावा विनश्यन्तस्तद्भावे हेतुमपेक्षन्ते । स्वहेतोर् ०९८०८ एव विनश्वराणां भावात् । तस्माद्यः कश्चित्कृतकः स प्रकृत्या ०९८०९ एव नश्वरः । तथा हि । ०९८१० सापेक्षाणां हि भावानां न अवश्यंभाविता ईक्ष्यते । ०९८११ निरपेक्षो भावो विनाशे । सापेक्षत्वे हि घटादीनां केषांचिन् ०९८१२ नित्यता अपि स्यात् । येन ०९८१३ बाहुल्ये अपि हि तद्हेतोर्भवेत्क्वचिदसम्भवः ॥१९४॥ ०९८१४ यद्यपि बहुलं विनाशकारणानि सन्ति तेषामपि स्वप्रत्यय ०९८१५ अधीनसंनिधित्वान्न अवश्यं संनिधानमिति कश्चिन्न विनश्येद् ०९८१६ अपि । न ह्यवश्यं हेतवः फलवन्तो वैकल्यप्रतिबन्ध ०९८१७ सम्भवात् । ०९८१८ एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः । ०९८१९ सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् ॥१९५॥ ०९८२० इत्यन्तरश्लोकः । तदयं भावो अनपेक्षस्तद्भावं प्रति ०९८२१ तद्भावनियतो असम्भवत्प्रतिबन्धा इव कारणसामग्री सकला ०९८२२ कार्योत्पादने । नन्वनपेक्षाणामपि केषांचित्क्वचिन्न अवश्यं ०९८२३ तद्भावो भूमिबीजोदकसामग्र्यामपि कदाचिदङ्कुरानुत्पत्तेः । ०९८२४ न तत्र अपि सन्तानपरिणामापेक्षत्वात् । न एवं भावस्य काचिद् ०९८२५ अपेक्षा । तत्र अप्यन्त्या कारणसामग्री या अव्यवहिता कार्योत्पत्तेः ०९८२६ सा फलवत्येव । स एव च तत्र अङ्कुरहेतुः । अन्यस्तु पूर्वः परिणामस् ०९९०१ तद्अर्थ एव । न च तां तत्र कश्चित्प्रतिबन्धुं समर्थः । ०९९०२ एकत्र भावे विकारानुत्पत्तेः । उत्पत्तौ वा एकत्वहानेः । ०९९०३ तदात्मनश्च अप्रच्युतस्य तद्उत्पादनं प्रति वैगुण्यं कारणस्य ०९९०४ अकुर्वाणस्य प्रतिबन्धहेतोरप्रतिबन्धकत्वात् । ननु ०९९०५ यवबीजादयो अपि शाल्य्अङ्कुरे जन्ये न सापेक्षाः । तदुत्पत्तिप्रत्ययानां ०९९०६ कदाचित्तत्र अपि संनिधानात् । कथं न सापेक्षाः । ०९९०७ यावता स एव एषां स्वभावो न अस्ति यस्तद्उत्पादनः शालिबीजस्य ०९९०८ इति तत्स्वभावापेक्षाः । एवं तर्हि कृतकानामपि केषांचित् ०९९०९ सतां वा स एव स्वभावो न अस्ति यो विनश्वरः । तस्मात्तत्स्वभावापेक्षत्वान् ०९९१० न विनश्वराः । शालिबीजादीनामपि स स्वभावः ०९९११ स्वहेतोरिति यो न तद्हेतुः सो अतत्स्वभावः स्यात् । नियतशक्तिश् ०९९१२ च स हेतुः स्वरूपेण प्रतीत एव । न च स्वभावनियमो ०९९१३ अर्थानामाकस्मिको युक्तः । अनपेक्षस्य देशकालद्रव्यनियम ०९९१४ अयोगात्तथा अत्र अपि नियमहेतुर्वक्तव्यो यत इमे केचिन् ०९९१५ नश्वरात्मनो जाता न च अत्र कश्चिन्नियामकः स्वभावस्य अस्ति ०९९१६ सर्वजन्मिनां विनाशसिद्धेः । जन्मिस्वभावो नाशी इति चेत् । न वै ०९९१७ जन्म नाशिस्वभावस्य हेतुः न च अहेतोः स्वभावनियमः । ०९९१८ तस्मान्न अत्र कश्चिधेतोः स्वभावप्रविभागः । तद्अभावात् ०९९१९ फलस्य अपि न अस्ति इत्यसमानम् । सा इयं निरपेक्षता विनाशस्य ०९९२० क्वचित्कदाचिच्च भावविरोधिनी तद्अभावं स्वभावेन ०९९२१ साधयति । यो हि स्वभावो निरपेक्षः स यदि कदाचिद् ०९९२२ भवेत्क्वचिद्वा तत्कालद्रव्यापेक्ष इति निरपेक्ष एव न ०९९२३ स्यादित्युक्तम् । स तर्हि नश्वरः स्वभावो निरपेक्ष इति अहेतुकः ०९९२४ स्यात् । न अहेतुकः सत्ताहेतोरेव भावात्तथोत्पत्तेः । सतो ०९९२५ हि भवतस्तादृशस्य एव भावात् । न अवश्यं सतः कुतश्चिद् ०९९२६ भाव इति चेत् । आकस्मिकी तर्हि सत्ता इति । न इयं कस्यचित्कदाचित् ०९९२७ क्वचित्विरमेत् । तधि किंचिदुपलीयेत न वा यस्य यत्र किंचित् ०९९२८ प्रतिबद्धमप्रतिबद्धं वा । सा इयं सत्ता अप्रतिबन्धिनी चेत् । १०००१ नियमवती न स्यात् । तस्मान्न इयमाकस्मिकी क्वचित् । कथं १०००२ तर्हि इदानीमहेतुको विनाश उक्तः । जातस्य तद्भावे अन्यानपेक्षणात् । १०००३ उक्तं च अत्र न विनाशो नाम अन्य एव कश्चिद्भावात्स्वभाव १०००४ एव हि नाशः स एव ह्येकक्षणस्थायी जात इति । तमस्य १०००५ मन्दाः स्वभावमूर्ध्वं व्यवस्यन्ति न प्राक्दर्शने अपि १०००६ पाटवाभावादिति तद्वशेन पश्चाद्व्यवस्थाप्यते विकारदर्शनेन १०००७ इव विषमज्ञैः । तदयं सत्ताव्यतिरेकेण न अन्यत्किंचिद् १०००८ विनाशो अपेक्षत इति तद्व्यापी । कथं पुनरेतद्गम्यते १०००९ निरपेक्षो विनाश इति । १००१० असामर्थ्याच्च तद्हेतोर् । १००११ अभावकारिणः क्रियाप्रतिषेधाच्च इति चशब्दात् । कथमसामर्थ्यम् । १००१२ सिद्धे हि भावे कारको न तं करोति । न अप्यन्यक्रियायां १००१३ तस्य किंचिदिति । तद्अतद्रूपाकरणाच्च अकिंचित्करो न अपेक्ष्यत १००१४ इति । कथं क्रियाप्रतिषेधो विनाश इति हि ते भावाभावं मन्यन्ते । १००१५ तदयं विनाशहेतुरभावं करोति इति प्राप्तम् । तत्र १००१६ यद्यभावो नाम कश्चित्कार्यः स्यात्स्वभावः स एव भाव इति १००१७ न अभावः स्यात् । तस्मादभावं करोति इति भावं न करोति इति १००१८ क्रियाप्रतिषेधो अस्य कृतः स्यात् । तथा अप्ययमकिंचित्करः १००१९ किमिति अपेक्ष्यत इति सिद्धा विनाशं प्रत्यनपेक्षया भावस्य । १००२० तस्मात् १००२१ भवत्येष स्वभावतः । १००२२ यत्र नाम भवत्यस्मादन्यत्र अपि स्वभावतः ॥१९६॥ १००२३ सो अयं क्वचिद्भवन् दृष्टो अनपेक्षत्वात्स्वभावत एव भवति । १००२४ तथा अन्यत्र अपि स्वभावभावी विशेषाभावादिति । १००२५ या काचिद्भावविषया द्विधा एव अनुमितिस्ततः । १००२६ स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात्तयोः ॥१९७॥ १००२८ तस्मात्द्विप्रकारा एव वस्तुविषयानुमितिः कार्यलिङ्गा स्वभाव १०१०१ लिङ्गा च । यथास्वं व्यापिनि साध्ये तयोरेव प्रतिबन्धात्लिङ्गयोर् १०१०२ लिङ्गिनि । यथोक्तं प्राक् । १०१०३ प्रवृत्तेर्बुद्धिपूर्वत्वात्तद्भावानुपलम्भने । १०१०४ प्रवर्तितव्यं न इत्युक्तानुपलब्धेः प्रमाणता ॥१९८॥ १०१०५ तृतीयस्तु हेतुरनुपलब्धिरविशेषेण क्वचिदर्थे गमक इत्य् १०१०६ उच्यते । सन्निश्चयशब्दव्यवहारप्रतिषेधे हि सर्वा एव अनुपलब्धिर् १०१०७ लिङ्गम् । सन्निश्चयाधि शब्दव्यवहाराः प्रवर्तन्ते । १०१०८ ते प्रवृत्तिरित्युक्ताः । तथा ह्यनुपलब्धिरेव असत्त्वम् १०१०९ इत्युक्तं प्राक् । तच्च प्रतिपत्तृवशान्न वस्तुवशात् । तावधि १०११० स भावो अस्य न अस्ति यावदत्र अप्रतिपत्तिः । सता अपि ते न तद्अर्थाकरणात् । १०१११ वस्तुतस्त्वनुपलभ्यमानो न सन्न असन् । सताम् १०११२ अपि स्वभावादिविप्रकर्षात्कदाचिदनुपलम्भात्तस्य असत्स्वपि १०११३ तुल्यत्वात् । तदेतत्प्रतिपत्तुः प्रमाणाभावान्निवृत्तं सत्त्वम् १०११४ अनुपलब्धिलक्षणं स्वनिमित्तान् शब्दव्यवहारान्निवर्तयति । १०११५ तेन या अपि इयमनुपलब्धिरुपलब्धिलक्षणप्राप्तानां १०११६ वस्तुतो अप्यसत्त्वरूपा अप्रवृत्तियोग्यत्वात् । तस्या अप्येतत्तुल्यं १०११७ प्रामाण्यमत्र विषये । असन्निश्चयफला अपि सा । असत्तायामपि इयं १०११८ प्रमाणमेव । न ह्यस्ति सम्भवो यदुपलब्धियोग्यः १०११९ सकलेष्वन्येषु कारणेषु सन्न उपलभ्येत । न पुनः पूर्वा १०१२० असत्तासाधानी । यस्मात् १०१२१ शास्त्राधिकारासम्बद्धा बहवो अर्था अतीन्द्रियाः । १०१२२ अलिङ्गाश्च कथं तेषामभावो अनुपलब्धितः ॥१९९॥ १०१२३ सो अयमसत्तां साधयन्ननुपलब्धिमात्रेण सर्वार्थानां १०२०१ प्रमाणत्रयनिवृत्त्या साधयेत् । तत्र न शास्त्रनिवृत्तिरभावसाधनी । १०२०२ तस्य क्वचिदनधिकारे अप्रवृत्तेः । शास्त्रं हि प्रवर्तमानं १०२०३ कंचित्पुरुषार्थसाधनमुपायमाश्रित्य प्रवर्तते । १०२०४ अन्यथा अबद्धप्रलापस्य अप्रामाण्यात् । तत्र च प्रकरणे १०२०५ बहवो अर्था न अवश्यं निर्देश्याः । यथा प्रत्यात्मनियताः १०२०६ काश्चन पुरुषाणां चेतोवृत्तयो अनियतनिमित्तभाविन्यः देश १०२०७ कालव्यवहिता वा प्रकरणानुपयोगिनो द्रव्यविशेषा न तान् १०२०८ शास्त्रं विषयीकरोति । न च तथा विप्रकृष्टेषु स्वसामर्थ्योपधानाव् १०२०९ ज्ञानोत्पादनशक्तिरस्ति । न च अवश्यमेषां कार्योपलम्भो १०२१० येन अनुमीयेरन् । न च ते प्रमाणत्रयनिवृत्तावपि १०२११ न सन्ति इति शक्यन्ते व्यवसातुम् । तस्मान्न सर्वानुपलब्धिः १०२१२ साधनी निवृत्तिनिश्चयस्य । तदियम् । १०२१३ सद्असन्निश्चयफला न इति स्याद्वा अप्रमाणता । १०२१४ न एव वा इयमनुपलब्धिः प्रमाणं व्यवसायफलत्वात्प्रमाणानाम् । १०२१५ न हि प्रवृत्तिनिषेधे अपि इयं निःशङ्कपरिच्छेदं १०२१६ चेतः करोति । संशयादपि क्वचिल्लोकस्य प्रवृत्तेः । तथात्वे १०२१७ तन्निरवद्यं यदि निश्चयपूर्वं व्यवहरेदिति सा इयमप्रवृत्ति १०२१८ फला प्रोक्ता । १०२१९ प्रमाणमपि काचित्स्याल्लिङ्गातिशयभाविनी ॥२००॥ १०२२० अत्र न सर्वानुपलब्धिरप्रमाणम् । प्रमाणमपि काचिल्लिङ्ग १०२२१ विशेषभाविनी यथोदाहृता प्राक् । यत्पुनरुक्तमप्रमाणमनुपलब्धिरिति १०२२३ स्वभावज्ञापकाज्ञानस्य अयं न्याय उदाहृतः । १०३०१ यस्य कस्यचित्स्वभावो न उपलभ्यते देशादिविप्रकर्षात्न १०३०२ स तद्अनुपलम्भमात्रेण असन्नाम यथोक्तं प्राक् । यो अपि १०३०३ ज्ञापकस्य लिङ्गस्य अभावादतीन्द्रियः प्रतिक्षिप्यते अर्थः स्वभाव १०३०४ विशेषो वा यथा न अस्ति विरक्तं चेतो देवताविशेषो वा १०३०५ न अस्ति दानहिंसाविरतिचेतनानामभ्युदयहेतुता इति प्रत्यक्षे १०३०६ अप्यर्थे फलस्य आनन्तर्याभावादतत्फलसाधर्म्याद्विपर्यस्तो १०३०७ अपवदेत अपि न तावता तद्अभाव एव व्यवहितानाम् १०३०८ अपि हेतोः फलानामुत्पत्तिदर्शनात्मूषिकालर्कविषविकारवत् । १०३०९ तद्भावे विरोधाभावादत्र अनुपलब्धिमात्रमप्रमाणम् । १०३१० भावे किं प्रमाणमिति चेत् । अत एव संशयो अस्तु भवेद् १०३११ वा प्रमाणमित्यप्रतिक्षेपः । तदत्र केषांचिदर्थानां १०३१२ स्वभावानां वा दर्शनपाटवाभावात्कारणानां कार्योत्पादन १०३१३ नियमाभावाच्च भवेज्ज्ञापकासिद्धिः । नेयता तद्अभावः । १०३१४ पुनः पर्यायेण केषांचिदभिव्यक्तेः । १०३१५ कार्ये तु कारकाज्ञानमभावस्य एव साधकम् ॥२०१॥ १०३१६ स्वभावाभावे साध्ये तद्अनुपलम्भ एव अप्रमाणमुच्यते । १०३१७ कारकानुपलम्भस्तु प्रमाणमेव । न ह्यस्ति सम्भवो यद् १०३१८ असति कारणे कार्यं स्यात् । ननु कदाचित्कारणनाशे अपि कार्यस्थितिर् १०३१९ दृष्टा । न ब्रूमः कारणस्थितिकालभावी कार्यमिति । हेतुरहिता १०३२० तु भावोत्पत्तिर्न अस्ति इत्युच्यते । न च तथा स्थायी भावस्तद्उपादानः । १०३२१ पारंपर्येण तु सन्तानोपकारात्तत्कार्यव्यपदेशः । १०३२२ यद्यस्य कथंचिदभावः सिध्येत्तत्फलं न अस्ति इति निश्चीयते । १०३२३ स्वभावानुपलम्भश्च स्वभावे अर्थस्य लिङ्गिनि । १०३२४ स्वभावाभाव एव लिङ्गिनि स्वभावानुपलम्भो अपि कश्चित्प्रमाणमेव । १०३२५ एव यद्यनुपलभ्यमानो व्यापकः स्वभावो अस्य १०३२६ सिद्धिः स्यात् । यथा वृक्षत्वं शिंशपायाः । १०३२७ तद्अभावः प्रतीयेत हेतुना यदि केनचित् ॥२०२॥ १०४०१ यद्यस्य कारणस्य स्वभावस्य व्यापकस्य वा अभावः कुतश्चिद् १०४०२ गमकाधेतोः सिध्येत् । सो अयमसनेव स्वकार्यं १०४०३ व्याप्यं वा निवर्तयति । तद्अभावासिद्धौ निवर्त्ये अपि संशयात् । १०४०४ कथमिदानीं भावस्य स्वयमनुपलब्धेरभाव १०४०५ सिद्धिः । १०४०६ दृश्यस्य दर्शनाभावकारणासम्भवे सति । १०४०७ भावस्य अनुपलब्धस्य भावाभावः प्रतीयते ॥२०३॥ १०४०८ भावो हि यदि भवेद्यथास्वं ग्राहकेण करणेन उपलभ्य १०४०९ एव भवेत् । स दर्शनप्रतिबन्धिषु व्यवधानादिष्वसत्सु उपलभ्य १०४१० एव । अनुपलब्धस्त्वसन्निति निश्चीयते । तादृशः सत १०४११ उपलम्भाव्यभिचारात् । अयमेव हेतुर्हेतुव्यापकयोरभावे १०४१२ अपि वेदितव्यः । १०४१३ विरुद्धस्य च भावस्य भावे तद्भावबाधनात् । १०४१४ तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः ॥२०४॥ १०४१५ यो हि भावो येन सह न अवतिष्ठते तद्उपादानयोरन्योन्यवैगुण्य १०४१६ आश्रयत्वेन आरम्भविरोधात्तयोर्विरुद्धयोरेकस्य भावे १०४१७ अप्यन्याभावगतिर्भवति यथोक्तं प्राक् । इदमनुपलब्धेर् १०४१८ न पृथग्व्यवस्थाप्यते । तत एव विरोधगतेर्विरोधाच्च अभाव १०४१९ साधनात् । भवतु नाम एवंविधाया अनुपलब्धेरभाव १०४२० गतिः । सा पुनः कथमनुमानम् । कथं च न स्यात् । १०४२१ दृष्टान्तानपेक्षणात् । न ह्यस्यां कश्चिद्दृष्टान्तो अस्ति । किं १०४२२ न निरुपाख्यं व्योमकुसुमादि दृष्टान्तः । तदसत्कथम् १०४२३ अवगन्तव्यं येन एवं स्यात् । अनुपलब्धेरेव इति चेत् । तत्र १०४२४ कथमदृष्टान्तिका असत्तासिद्धिः सदृष्टान्तत्वे वा अनवस्थाप्रसङ्गः । १०४२५ तथा च अप्रतिपत्तिः । तस्मान्निरुपाख्याभावसिद्धिवद् १०४२६ अन्यत्र अपि दृष्टान्तानपेक्षणादननुमानम् । शृण्वन्नपि देवानांप्रियो १०४२७ न अवधारणपटुः । निमित्तं ह्यसच्शब्दव्यवहाराणाम् १०४२८ उपलभ्यानुपलब्धिः । सा स्वसंनिधानात्स्वनिमित्तान् १०४२९ एतान् साधयति इति स्वनिमित्तसामग्रीयोग्यसंनिधानः सर्वो अत्र १०५०१ दृष्टान्तः । असत्ता पुनरत्र अनुपलब्धिरेव । अत एव इयं कारणात् १०५०२ कार्यानुमानलक्षणत्वात् । स्वभावहेतावन्तर्भवति इति वक्ष्यामः । १०५०३ सच्शब्दव्यवहारप्रतिषेधे अपि प्रमाणनिवृत्त्या १०५०४ निमित्तवैकल्याभाविनो अङ्कुरादयो दृष्टान्तः न केवलं निरुपाख्यम् । १०५०५ निरुपाख्ये अपि इयमेव प्रवृत्तिर्निषिध्यते । अनुपलब्धि १०५०६ लक्षणा असत्ता सिद्धा एव । सो अयं मूढो निमित्तं तद्अभावं १०५०७ वा अभ्युपगम्य प्रवृत्तिनिवृत्ती विलोमयन् यथा अभ्युपगमं १०५०८ प्रतिपाद्यते निरुपाख्यवदन्यवद्वा इति । स एव तावद् १०५०९ उपलब्ध्य्अभावः कथं सिद्ध इति चेत् । एतदुत्तरत्र वक्ष्यामः । १०५१० अन्यत्र अप्यनुमाने साध्यधर्मेण व्याप्तं साधनम् १०५११ इच्छन् किमिति दृष्टान्तेन प्रत्याय्यो व्याप्यनिर्देशादेव १०५१२ व्याप्नुवतः सिद्धेः । निश्चितार्थस्य अपि स्मृत्य्अर्थो दृष्टान्त इति १०५१३ चेत् । तदितरत्र अपि समानम् । सो अयमन्यत्र अनुपलम्भमात्राद् १०५१४ असद्व्यवहारं प्रतिपद्यमानो अपि इह व्यामूढ इति १०५१५ स्मार्यते । अथ यदिदं न सन्ति प्रधानादयो अनुपलब्धेर् १०५१६ इति । तत्र कथमसद्व्यवहारविधिः सद्व्यवहारनिषेधो १०५१७ वा । कथं च न स्यात् । तद्अर्थप्रतिषेधे धर्मिवाचिनो अप्रयोगाद् १०५१८ अभिधानस्य निर्विषयस्य च प्रतिषेधस्य अयोगात् । न एष १०५१९ दोषः । यस्मात् । १०५२० अनादिवासनोद्भूतविकल्पपरिनिष्ठितः । १०५२१ शब्दार्थस्त्रिविधो धर्मो भावाभावोभयाश्रयः ॥२०५ ॥ १०५२२ तस्मिन् भावानुपादाने साध्ये अस्य अनुपलम्भनम् । १०५२३ तथा हेतुर्न तस्य एव अभावः शब्दप्रयोगतः ॥२०६॥ १०५२४ निवेदितमेतत्यथा न एते शब्दाः स्वलक्षणविषया अनादि १०५२५ वासनाप्रभवविकल्पप्रतिभासिनमर्थं विषयत्वेन आत्मसात् १०५२६ कुर्वन्ति वक्तुः श्रोतुस्च तद्विकल्पभाजो यथाप्रतिभासि १०५२७ वस्तुप्रतिपादनसमीहाप्रयोगात्तद्आकारविकल्पजननाच्च । १०६०१ न च उपादानकार्यप्रत्ययाप्रतिभासि रूपं शक्यं तद्विषयत्वेन १०६०२ अध्यवसातुम् । स तु विकल्पः सद्असद्उभयप्रत्ययाहित १०६०३ वासनाप्रभव इति तत्प्रतिभास्य्आकाराध्यवसायवशेन १०६०४ च भावाभावोभयधर्म इत्युच्यते । तदत्र धर्मिणि व्यवस्थिताः १०६०५ सदसत्त्वं चिन्तयन्ति किमयं प्रधानशब्दप्रतिभास्य् १०६०६ अर्थो भावोपादानो न वा इति । तस्य भावानुपादानत्वे १०६०७ साध्ये स एव प्रत्यात्मवेद्यत्वादप्रतिक्षेपार्हो अर्थो धर्मी । १०६०८ न च स एव अर्थः स्वलक्षणमिति शक्यं वक्तुम् । असम्प्राप्तनिरुद्धयोर् १०६०९ अप्यर्थयोस्तस्य अनपायात् । वस्तुविपरीताकारनिवेशिष्व् १०६१० अपि तीर्थानन्तरीयप्रत्ययेषु भावात् । १०६११ परमार्थैकतानत्वे शब्दानामनिबन्धना । १०६१२ न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु ॥२०७॥ १०६१३ अतीताजातयोर्वा अपि न च स्यादनृतार्थता । १०६१४ वाचः कस्याश्चिदित्येषा बौद्धार्थविषया मता ॥२०८॥ १०६१५ इति संग्रहश्लोकौ । तस्य च यथा समीहितरूपानुपादानत्वे १०६१६ साध्ये तथा अनुपलम्भो अस्य धर्मो अस्ति इति न साधनधर्मासिद्धिः । १०६१७ न पुनरत्र अयमेव शब्दविकल्पप्रतिभास्यर्थो अपह्नूयते । १०६१८ तस्य बुद्धावुपस्थापनाय शब्दप्रयोगात् । तद्अभावे १०६१९ तद्अयोगात् । अपि च । १०६२० शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः । १०६२१ न साध्यः समुदायः स्यात्सिद्धो धर्मश्च केवलः ॥२०९॥ १०६२३ यदि हि शब्दार्थ एव अपोह्येत प्रधानशब्दवाच्यस्य धर्मिण १०६२४ एव निराकरणान्निराधारः साध्यधर्मः स्यात् । तदयम् १०६२५ आधारव्यवच्छेदानपेक्षो न विवादाश्रय इति न उपन्यसनीय १०६२६ एव स्यात् । किं च । १०६२७ सद्असत्पक्षभेदेन शब्दार्थानपवादिभिः । १०६२८ वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ॥२१०॥ १०६२९ अर्थक्रियासमर्थस्य विचारैः किं तद्अर्थिनाम् । १०६३० षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ॥२११॥ १०७०१ न हि शब्दार्थो असन् सन् वा कंचित्पुरुषार्थमुपरुणद्धि १०७०२ समादधाति वा । यथा अभिनिवेशमतत्त्वात् । यथा अतत्त्वं च असमीहितत्वात् । १०७०३ तदयं प्रवर्तमानः सर्वदा सद्असच्चिन्तायाम् १०७०४ अवधीरितविकल्पप्रतिभासो वस्त्वेव अधिष्ठानीकरोति यत्र अयं १०७०५ पुरुषार्थः प्रतिबद्धो यथा अग्नौ शीतप्रतीकारादिः । न ह्य् १०७०६ अत्र शब्दार्थः समर्थस्तद्अनुभवाप्तावपि तद्अभावात् । १०७०७ तदयमर्थक्रियार्थी तद्असमर्थं प्रति दत्तानुयोगो भवितुं १०७०८ न युक्तः । न हि वृषस्यन्ती षण्ढस्य रूपवैरूप्यपरीक्षायाम् १०७०९ अवधत्ते । यत्पुनरेतदुक्तं कल्पितस्य अनुपलब्धिर् १०७१० धर्म इति तस्य को अर्थः । १०७११ शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः । १०७१२ धर्मो वस्त्व्आश्रयासिद्धिरस्य उक्तो न्यायवादिना ॥२१२॥ १०७१३ कल्पनाविषयत्वाच्शब्दार्थ एव कल्पितः । तस्य वस्त्व्आश्रयानुपलम्भो १०७१४ धर्म इत्यभिप्रायः । यदुक्तं न प्रमाण १०७१५ त्रयनिवृत्तावपि भावाभावसिद्धिरिति । तन्मा भूदन्यप्रमाण १०७१६ अनिवृत्तौ निवृत्तिः । तयोरसकलविषयत्वादागमः पुनर् १०७१७ न किंचिन्न व्याप्नोति । तन्निवृत्तिः कथं न गमिका इति । उक्तम् १०७१८ अत्र न आगमेषु सर्वार्था उपनिबध्यन्ते अप्रकरणापन्नत्वाद् १०७१९ इति । अपि च । १०७२० नान्तरीयकता अभावाच्शब्दानां वस्तुभिः सह । १०७२१ न अर्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः ॥२१३॥ १०७२२ न हि शब्दा यथाभावं वर्तन्ते यतस्तेभ्यो अर्थप्रकृतिर् १०७२३ निश्चीयेत । ते हि वक्तुर्विवक्षावृत्तय इति तन्नान्तरीयकास् १०७२४ तामेव गमयेयुः । न च पुरुषेच्छाः सर्वा यथार्थभाविन्यः । १०७२५ न च तद्अप्रतिबद्धस्वभावो भावो अन्यं गमयति । १०८०१ यत्तर्हि इदमाप्तवादाविसंवादसामान्यादनुमानता इत्यागमस्य १०८०२ प्रामाण्यमनुमानत्वमुक्तं तत्कथम् । न अयं पुरुषो अनाश्रित्य आगम १०८०३ आसितुं समर्थः । अत्यक्षफलानां केषांचित् १०८०४ प्रवृत्तिनिवृत्त्योर्महानुशंसापापश्रवणात्तद्भावे विरोध १०८०५ अदर्शनाच्च । तत्सति प्रवर्तितव्ये वरमेवं प्रवृत्त १०८०६ इति परीक्षया प्रामाण्यमाह । तच्च । १०८०७ सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् । १०८०८ परीक्षाधिकृतं वाक्यमतो अनधिकृतं परम् ॥२१४॥ १०८०९ सम्बद्धो वाक्यानामेकार्थोपसंहारोपकारः । न दशदाडिमादि १०८१० वाक्यानामिव अनुपसंहार एव । अन्यथा वक्तुर्वैगुण्यम् १०८११ उद्भावयेत् । अशक्योपायफलानि च शास्त्राणि फलार्थी न आद्रियेत १०८१२ विचारयितुमपुरुषार्थफलानि च । विषशमनाय तक्षक १०८१३ फणरत्नालंकारोपदेशवत्काकदन्तपरीक्षावच्च । तद्विपर्ययेण १०८१४ उपसंहारवत्शक्योपायं पुरुषार्थाभिधायि च १०८१५ शास्त्रं परीक्ष्येत अन्यत्र अवधानस्य एव अयुक्तत्वात् । तद्यदि न १०८१६ परीक्षायां विसंवादभाक्प्रवर्तमानः शोभेत । कः पुनर् १०८१७ अस्य अविसंवादः । १०८१८ प्रत्यक्षेण अनुमानेन द्विविधेन अप्यबाधकम् । १०८१९ दृष्टादृष्टार्थयोरस्य अविसंवादस्तद्अर्थयोः ॥२१५॥ १०८२० प्रत्यक्षेण अबाधनं प्रत्यक्षाभिमतानामर्थानां तथाभावः १०८२१ यथा नीलादिसुखदुःखनिमित्तोपलक्षणरागादिबुद्धीनाम् । १०८२२ अतथाभिमतानां च अप्रत्यक्षता यथा शब्दादिरूप १०८२३ संनिवेशिनां सुखादीनां द्रव्यकर्मसामान्यसंयोगादीनां १०८२४ च । तथा अनागमापेक्षानुमानविषयाभिमतानां तथाभावः १०८२५ यथा चतूर्णामार्यसत्यानाम् । अननुमेयानां तथाभावो १०९०१ यथा आत्मादीनाम् । आगमापेक्षानुमाने अपि यथा रागादि १०९०२ रूपं तत्प्रभवं च अधर्ममभ्युपगम्य तत्प्रहाणाय १०९०३ स्नानाग्निहोत्रादेरनुपदेशः । स इयं शक्यपरिच्छेदाशेषविषय १०९०४ विशुद्धिरविसंवादः । १०९०५ आप्तवादाविसंवादसामान्यादनुमानता । १०९०६ बुद्धेरगत्या अभिहिता परोक्षे अप्यस्य गोचरे ॥२१६॥ १०९०७ तस्य च अस्य एवंभूतस्य आप्तभूतस्य अविसंवादसामान्याददृष्ट १०९०८ व्यभिचारस्य प्रत्यक्षानुमानागम्ये अप्यर्थे प्रतिपत्तेस् १०९०९ तद्आश्रयत्वात्तद्अन्यप्रतिपत्तिवदविसंवादो अनुमीयते । १०९१० ततः शब्दप्रभवा अपि सती न शाब्दवदभिप्रायं निवेदयत्य् १०९११ एव इत्यर्थाविसंवादादनुमानमपि । अथवा अन्यथा आप्तवादस्य १०९१२ अविसंवादादनुमानत्वमुच्यते । १०९१३ हेयोपादेयतत्त्वस्य स उपायस्य प्रसिद्धितः । १०९१४ प्रधानार्थाविसंवादादनुमानं परत्र वा ॥२१७॥ १०९१५ हेयोपादेयतद्उपायानां तद्उपदिष्टानामवैपरीत्यमविसंवादः । १०९१६ यथा चतूर्णामार्यसत्यानां वक्ष्यमाणनीत्या । तस्य अस्य १०९१७ पुरुषार्थोपयोगिनो अभियोगार्थस्य अविसंवादाद्विषयान्तरे १०९१८ अपि तथात्वोपगमो न विप्रलम्भाय अनुपरोधात्निष्प्रयोजन १०९१९ वितथाभिधानवैफल्याच्च वक्तुः । तदेतदगत्या उभयथा १०९२० अप्यनुमानत्वमागमस्य उपवर्णितम् । वरमागमात् १०९२१ प्रवृत्तावेवं प्रवृत्तिरिति । न खल्वेवमनुमानमनपायम् १०९२२ अनान्तरीयकत्वादर्थेषु शब्दानामिति निवेदितमेतत् । १०९२३ पुरुषातिशयापेक्षं यथार्थमपरे विदुः । १०९२४ यथार्थदर्शनादिगुणयुक्तः पुरुष आप्तस्तत्प्रणयनमविसंवाद ११००१ इत्यन्ये । ११००२ इष्टो अयमर्थः शक्येत ज्ञातुं सो अतिशयो यदि ॥२१८॥ ११००३ सर्वे एव आगममनागमं वा प्रवृत्तिकामो अन्वेषते प्रेक्षा ११००४ पूर्वकारी न व्यसनेन । अपि नाम अनुष्ठेयमतो ज्ञात्वा प्रवृत्तो ११००५ अर्थवान् स्यामिति । स शक्यदर्शनाविसंवादप्रत्ययेन अन्यत्र अपि ११००६ प्रवर्तते । एवंप्रायत्वाल्लोकव्यवहारस्य । पुरुषपरीक्षया ११००७ तु प्रवृत्तावप्रवृत्तिरेव । तस्य तथाभूतस्य ज्ञातुम् ११००८ अशक्यत्वात्न अनिष्टेः । तादृशामवितथाभिधानात् । तथा हि । ११००९ अयमेवं न वा इत्यन्यदोषानिर्दोषता अपि वा । ११०१० दुर्लभत्वात्प्रमाणानां दुर्बोधा इत्यपरे विदुः ॥२१९॥ ११०११ चैतस्येभ्यो हि गुणदोषेभ्यः पुरुषाः सम्यङ्मिथ्याप्रवृत्तः ११०१२ ते च अतीन्द्रियाः स्वप्रभवकायवाग्व्यवहारानुमेयाः ११०१३ स्युः । व्यवहाराश्च प्रायशो बुद्धिपूर्वमन्यथा अपि कर्तुं ११०१४ शक्यन्ते पुरुषेच्छावृत्तित्वात्तेषां च चित्राभिसन्धित्वात् । ११०१५ तदयं लिङ्गसंकरात्कथमनिश्चिन्वन् प्रतिपद्येत । अथ ११०१६ किं न एव स तादृशः पुरुषो अस्ति यो निर्दोषः । ११०१७ सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम् । ११०१८ स आत्मीभावात्तद्अभ्यासाद्धीयेरनाश्रवाः क्वचित् ॥२२० ॥ ११०१९ स तु प्रहीणाश्रवो दुर्ज्ञानः । दोषा हि निर्ह्रासातिशयधर्मणो ११०२० विपक्षाभिभवोत्कर्षापकर्षं साधयन्ति ज्वालादिवत् । ते हि ११०२१ विकल्पप्रभवाः सत्यप्युपादाने कस्यचिन्मनोगुणस्य अभ्यासाद् ११०२२ अपकर्षिणः । तत्पाटवे निरन्वयविनाशधर्माणः ११०२३ स्युः । ज्वालादिवदेव । तेन स्यादपि निर्दोषः । कथं निर्दोषो ११०२४ नाम । यावता दोषविपक्षसात्मत्वे अपि दोषसात्मनो विपक्षोत्पत्तिवद् ११०२५ यथाप्रत्ययं दोषोत्पत्तिरपि । न अयं दोषः । यस्मात् । ११०२७ निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः॥ ११०२८ न बाधा यत्नवत्त्वे अपि बुद्धेस्तत्पक्षपाततः ॥२२१ । १११०१ न हि स्वभावो अयत्नेन विनिवर्तयितुं शक्यः । श्रोत्रिय १११०२ कापालिकघृणावत् । यत्नश्च प्राप्यनिवर्त्ययोः स्वभावयोर् १११०३ गुणदोषदर्शनेन क्रियेत । तच्च विपक्षसात्मनः पुरुषस्य १११०४ दोषेषु न सम्भवति । तस्य निरुपद्रवत्वात् । अशेषदोषहानेः १११०५ पर्यवस्थानजन्मप्रतिबद्धदुःखविवेकात्प्रशमसुख १११०६ रसस्य अनुद्वेजनाच्च । अभूतार्थं खल्वप्युपादान बलभावि १११०७ सन्तानस्य विपर्ययोपादानान्न स्यात् । न तु भूतार्थं वस्तु १११०८ बलोत्पत्तेः । अभूतार्थाश्च दोषा न प्रतिपक्षसात्म्यबाधिनः । १११०९ तस्मान्न पुनर्दोषोत्पत्तिः । यत्ने अपि बुद्धेर्गुणपक्ष ११११० पातेन प्रतिपक्ष एव यत्नाधानात्परीक्षावतो विशेषेण अदुष्ट १११११ आत्मनः । कः पुनरेषां दोषाणां प्रभवो यत्प्रतिपक्ष ११११२ अभ्यासात्प्रहीयन्ते । ११११३ सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् ॥ ११११४ सा अविद्या तत्र तत्स्नेहस्तस्माद्द्वेषादिसम्भवः ॥२२२ ॥ ११११५ न हि न अहं न मम इति पश्यतं परिग्रहमन्तरेण क्वचित् ११११६ स्नेहः । न च अननुरागिणः क्वचिद्द्वेषः । आत्मात्मीयानुपरोधिन्य् ११११७ उपरोधप्रतिघातिनि च तद्अभावात् । तस्मात्समानजातीयाभ्यासजम् ११११८ आत्मदर्शनमात्मीयग्रहं प्रसूते । तौ च तत्स्नेहं ११११९ स च द्वेषादीनि इति सत्कायदर्शनजाः सर्वदोषाः । तदेव च अज्ञानम् १११२० इत्युच्यते । १११२१ मोहो निदानं दोषाणामत एव अभिधीयत् । १११२२ सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः ॥२२३ ॥ १११२३ मोहं दोषनिदानमाहुः अमूढस्य दोषानुत्पत्तेः पुनर् १११२४ अन्यत्र सत्कायदृष्टिम् । तच्च एतत्प्रधाननिर्देशे सति स्याद् १११२५ अनेकजन्मनां दोषाणामेकोत्पत्तिविरोधात् । न च द्वयोः प्राधान्ये ११२०१ एकैकनिर्देशः परभागभाक् । उभयथा अप्येकस्य ११२०२ निर्देशे न विरोधः । प्राधान्यं पुनस्तद्उपादानत्वेन । ११२०३ तत्प्रहाणे दोषाणां प्रहाणात् । तस्मात्सम्भवति सत्कायदर्शन ११२०४ जन्मनां दोषाणां तत्प्रतिपक्षनैरात्म्यदर्शनाभ्यासात् ११२०५ प्रहाणम् । स तु क्षीणदोषो दुरन्वयो यद्उपदेशादयं प्रतिपद्येत । ११२०६ मा भूत्पुरुषाश्रयं वचनमागमः प्रणेतुर् ११२०७ दुरन्वयत्वात् । ११२०८ गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् ॥ ११२०९ अपौरुषेयं सत्यार्थमिति केचित्प्रचक्षते ॥२२४ ॥ ११२१० न खलु सर्व एव आगमः सम्भाव्यविप्रलम्भः । विप्रलम्भ ११२११ हेतूनां दोषाणां पुरुषाश्रयादपौरुषेयं सत्यार्थमित्य् ११२१२ एके । कारणाभावो हि कार्याभावं साधयति इति । य एवंवादिनस् ११२१३ तानेव प्रति । ११२१४ गिरां सत्यार्थहेतूनां गुणानां पुरुषाश्रयात् ॥ ११२१५ अपौरुषेयं मिथ्यार्थं किं न इत्यन्ये प्रचक्षते ॥२२५ ॥ ११२१६ यथा रागादिपरीतः पुरुषो मृषावादी दृष्टस्तथा दयाधर्मता ११२१७ आदियुक्तः सत्यवाक् । तद्यथा वचनस्य पुरुषाश्रयान्मिथ्यार्थता ११२१८ तथा सत्यार्थता अपि इति । स निवर्तमानस्तामपि निवर्तयति ११२१९ इत्यानर्थक्यं स्याद्विपर्ययो वा । न हि शब्दाः प्रकृत्या अर्थवन्तः । ११२२० समयात्ततो अर्थख्यातेः कायसंज्ञादिवत् । अप्रातिकूल्यं ११२२१ तु योग्यता समये तद्इच्छाप्रणयनात् । निसर्गसिद्धेष्व् ११२२२ इच्छावशात्प्रतिपादनायोगात् । ते अनर्थकाः पुरुषसंस्काराद् ११२२३ अर्थवन्तः स्युः । तत्संस्कार्यता एव च एषां पौरुषेयता युक्ता ११२२४ न उत्पत्तिः । तत एव अर्थविप्रलम्भात् । उत्पन्नो अप्यन्यथा समितो ११२२५ न उपरोधी तद्अन्यपुरुषधर्मवत् । तदयं निवर्तमानः ११२२६ स्वकृतसमयसम्भवामर्थप्रतिभां निवर्तयति । ११२२७ तत्कुतस्तन्निवृत्त्या सत्यार्थता । अथ पुनरुत्पत्तिरेव पौरुषेयता । ११३०१ न समयाख्यानम् । ११३०२ अर्थज्ञापनहेतुर्हि संकेतः पुरुषाश्रयः॥ ११३०३ गिरामपौरुषेयत्वे अप्यतो मिथ्यात्वसम्भवः ॥२२६ ॥ ११३०४ किं ह्यस्य अपौरुषेयतया यतो हि समयादर्थप्रतिपत्तिः ११३०५ स पौरुषेयो वितथो अपि स्यात् । शीलसाधनस्वर्गवचनं तदन्यथा ११३०६ समयेन विपर्यासयेत् । तेन अयथार्थमपि प्रकाशनसम्भवात् ११३०७ स एव दोषः । ११३०८ सम्बन्धापौरुषेयत्वे स्यात्प्रतीतिरसंविदः॥ ११३०९ स्यादेतदकार्यसम्बन्धा एव शब्दाः । न ते अर्थेषु पुरुषैर् ११३१० अन्यथा विपर्यस्यन्ते । तेन अदोष इति । किमिदानीं संकेतेन । ११३११ स हि सम्बन्धो यतो अर्थप्रतीतिः । स चेदपौरुषेयो न अयं ११३१२ समयमपेक्षेत । अप्रतीत्य्आश्रयो वा कथं सम्बन्धः । ११३१३ संकेतात्तद्अभिव्यक्तावसमर्थान्यकल्पना ॥२२७ ॥ ११३१४ न वै सम्बन्धो विद्यमानो अप्यनभिव्यक्तः प्रतीतिहेतुः । ११३१५ संकेतस्त्वेनमभिव्यनक्ति । स तर्हि सिद्धोपस्थायी किम् ११३१६ अकारणं पोष्यते । नन्वियान् सम्बन्धस्य व्यापारो यदर्थ ११३१७ प्रतीतिजननम् । तत्समयेन एव कृतमिति । न अयोग्ये समयः ११३१८ समर्थ इति योग्यता तत्सम्बन्धश्चेत् । तत्किं वै शब्दः ११३१९ सम्बन्धो अस्तु । समर्थं हि रूपं शब्दस्य योग्यता कार्य ११३२० कारणयोग्यतावत् । सा चेदर्थान्तरं किं शब्दस्य इति सम्बन्धो ११३२१ वाच्यः । योग्यतोपकार इति चेत् । न । नित्यायाः निरतिशयत्वात् । ११३२२ तत्र अप्यतिप्रसङ्गातुपकारासिद्धेः । योग्यतायां च स्वतो योग्यत्वे ११३२३ अर्थ एव किं न इष्यते । समयस्तर्हि कथं शब्दार्थ ११३२४ सम्बन्धाः । पुरुषेषु वृत्तेः । न अमिश्राणां सिद्धानां कश्चित् ११३२५ सम्बन्धो अभेदप्रसङ्गातनपेक्षणाच्च । अर्थविशेषसमीह ११३२६ अप्रेरिता वागत इदमिति विदुषः स्वनिदानाभासिनमर्थं ११३२७ सूचयति इति बुद्धिरूपवाग्विज्ञप्त्योर्जन्यजनकभावः सम्बन्धः ११४०१ ततः शब्दात्प्रतिपत्तिरविनाभावात् । तद्आख्यानं ११४०२ समयः । ततः प्रत्यायकसम्बन्धसिद्धेः सम्बन्धाख्यानात् । ११४०३ न तु स एव सम्बन्धः । अस्तु वा अन्य एव नित्यः सम्बन्धः । ११४०४ तेन ११४०५ गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः॥ ११४०६ न हि तेन सम्बन्धेन असम्बद्धे अर्थे प्रतीतिर्युक्ता । तस्य ११४०७ वैफल्यप्रसङ्गात् । दृष्टश्च इच्छावशात्कृतसमयः सर्वः ११४०८ सर्वस्य दीपकः । ११४०९ अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥२२८ ॥ ११४१० अथ मा भूद्दृष्टविरोध इति सर्वे सर्वस्य वाचकाः । तथा न ११४११ सर्वः सर्वसाधनो असंकरात्कार्यकारणतायाः । तत्र प्रतिनियत ११४१२ साधने अभिमते अर्थे सर्वसाध्यसाधनसाधारणस्य ११४१३ शब्दस्येष्टव्यक्तिमेव समयकारः करोति इति कुत एतत्सो अनियतो ११४१४ नियमं पुरुषात्प्रतिपद्यते । तदा । ११४१५ अपौरुषेयतायाश्च व्यर्था स्यात्परिकल्पना॥ ११४१६ अपि नाम असंकीर्णमर्थं जानीयामिति संकरहेतुः पुरुषोपाकीर्णः । ११४१७ तत्र यादृशाः पुरुषैः क्वचित्प्रयुक्ताः संकीर्यन्ते ११४१८ तादृशा एव सर्वसाधारणाः सन्तः क्वचित्तैर्विनियमितास् ११४१९ तत्त्वापरिज्ञानात् । प्रकृत्या एव वैदिका नियता इति चेत् । न उपदेशम् ११४२० अपेक्षेरन्न अन्यथा संकेतेन प्रकाशयेयुः व्याख्याविकल्पश् ११४२१ च न स्यात् । उपदेशस्य च इष्टसंवादः शक्यविकल्पे न अस्ति इति ११४२२ व्यर्था एव अपौरुषेयता । ११४२३ वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥२२९ ॥ ११४२५ अर्था हि बाह्या न रूपं शब्दस्य न शब्दो अर्थानाम् । येन अभिन्न ११४२६ आत्मतया व्यवस्थाभेदे अपि नान्तरीयकता स्यात् । कृतकत्व ११४२७ अनित्यत्ववत् । न अप्येते विवक्षाजन्मानो ध्वनयो अजन्मानो ११४२८ वा विवक्षाव्यङ्ग्याः न अर्थायत्ताः । ततः कथमिदानीं ११५०१ तत्प्रतिनियमसंसाध्यं तद्अन्वयं साधयेयुः । न ह्य् ११५०२ अप्रतिबद्धस्तत्साधन इति । ११५०३ असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता॥ ११५०४ संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत् ॥२३०॥ ११५०५ इति संग्रहश्लोकः । अपि च । शब्दार्थयोः सम्बन्धो नित्यो वा ११५०६ स्यादनित्यो वा । यद्यनित्यः पुरुषेच्छा वृत्तिरवृत्तिर्वा । अपुरुष ११५०७ अधीनत्वे पुरुषाणां यथा अभिप्रायं देशादिपरावृत्त्या तेन ११५०८ प्रतिपादनं न स्यात् । इच्छायामप्यनायत्तस्य कदाचिदयोगात् । ११५०९ पर्वतादिवत् । अयमेव नित्यत्वे अपि दोषस्तस्य स्थिररूपस्य ११५१० परावृत्त्य्अयोगादिति समं सर्वावस्थाने अपि इष्टप्रतिनियमाभावात् । ११५११ ततो विशेषप्रतिपत्तिर्न स्यादिति पूर्ववत्प्रसङ्गः । ११५१२ इच्छावृत्तौ च पौरुषेयत्वमिति विप्रलम्भाशङ्का । अपि च । ११५१३ सम्बन्धिनामनित्यत्वान्न सम्बन्धे अस्ति नित्यता । ११५१४ पराश्रयो हि सम्बन्धो अप्रतिबन्धे तयोः सम्बन्धिता अयोगात् । ११५१५ स च आश्रयो अनित्यः । अपाये अस्य सम्बन्धस्य अप्यपायः अन्यथा अनाश्रितः ११५१६ स्यात् । ततो न नित्यः । तद्आश्रयार्थश्च वक्तव्यः । ११५१७ नित्यस्य अनुपकार्यत्वात् । अनुपकुर्वाणश्च अनाश्रयः । जातेर्वाच्यत्वाद् ११५१८ अदोष इति चेत् । न । तद्वचने प्रयोजनाभावादिति निर्लोठितम् ११५१९ एतत् । सर्वत्र च जात्य्असम्भवादयोगो यादृच्छिकेषु व्यक्ति ११५२० वाचिषु सर्वदा जातिचोदने विशेषान्तरव्युदासेन प्रवृत्त्य्अयोगाच् ११५२१ च । तस्मादन्वयव्यतिरेकिणो भावस्य भावाभावौ सम्बन्धः । ११५२३ अर्थैरतः स शब्दानां संस्कार्यः पुरुषैर्धिया ॥२३१ । ११५२४ तावेव भावाभावावाश्रित्यासंसृष्टावपि संसृष्टाविव पुरुषस्य ११६०१ व्यवहारभावनातः प्रतिभात इति पौरुषेयो भावानां ११६०२ संश्लेषः । किं च आश्रयविनाशान्नष्टे सम्बन्धे स शब्दः पुनर् ११६०३ असम्बन्धत्वान्न अपूर्वेण योज्येत । उत्पन्नोत्पन्नाश्च भावाः ११६०४ स्थितसम्बन्धाभावादसम्बन्धिनो अवाच्याः स्युः । तत्र ११६०५ अपि । ११६०६ अर्थैरेव सह उत्पादे । ११६०७ कल्प्यमाने ११६०८ न स्वभावविपर्ययः । ११६०९ शब्देषु युक्तः । ११६१० अथ मा भून्नष्टसम्बन्धस्य शब्दस्य अर्थान्तरे वैगुण्यं ११६११ अर्थानां च अवाच्यता इत्युत्पन्नो अर्थः सम्बन्धवान् यद्युत्पद्येत ११६१२ स सम्बन्ध उत्पन्नो अपि न शब्दे स्यात् । तस्य तेन असम्बन्धि ११६१३ स्वभावस्य स्वभावविपर्ययमन्तरेण तद्भावायोगात् । ११६१४ अर्थेन सह उत्पन्नस्य अन्यतः सिद्धस्य अनुपकारिणि शब्दे ११६१५ असमाश्रयाच्च । तस्य अपि तदुत्पत्तिसहकारित्वे समर्थस्य नित्योत्पादन ११६१६ प्रसङ्गः । अनपेक्षत्वान्नित्यस्य अनुपकारात् । असामर्थ्ये ११६१७ अपि पश्चादपि स्वभावात्यागादशक्तिः । ११६१८ सम्बन्धे न अयं दोषो विकल्पिते ॥२३२॥ ११६१९ न हि भावश्लेषापेक्षी पुरुषभावनाप्रतिभासी तद्अपेक्षालक्षणः ११६२० सम्बन्धः । सो अयं नित्यानामप्यपरावर्तयन् स्वभावं ११६२१ कुतश्चित्स्वयमुत्प्रेक्ष्य घटयेदिति ते अपि तथा ११६२२ स्युः । न च च्यवनधर्माणः । यदुक्तमाश्रयापायेन आश्रित ११६२३ सम्बन्धविनाशादनित्यः स इति तत्र । ११६२४ नित्यत्वादाश्रयापाये अप्यनाशो यदि जातिवत् । ११६२५ नित्येष्वाश्रयसामर्थ्यं किं येन इष्टः स आश्रयः ॥२३३॥ ११६२६ श्रूयत एतन्नित्या जातिराश्रयिता च न अप्याश्रयेण सह नश्यति इति । ११६२७ केवलं नित्येष्वाश्रयसामर्थ्यं न पश्यामः येन असावाश्रयः । ११६२८ कृतस्य करणाभावादकारकस्य च अनपेक्षत्वात् । व्यक्तिर् ११६२९ उपकारो जातेः सम्बन्धस्य च आश्रयात्तेन आश्रय इति चेत् ११७०१ ज्ञानोत्पादनहेतूनां सम्बन्धात्सहकारिणाम् । ११७०२ तद्उत्पादनयोग्यत्वेन उत्पत्तिर्व्यक्तिरिष्यते ॥२३४॥ ११७०३ घटादिष्वपि युक्तिज्ञैरविशेषे अविकारिणाम् । ११७०४ व्यञ्जकैः स्वैः कुतः को अर्थो व्यक्तास्तैस्ते यतो मताः ॥२३५ ॥ ११७०६ सहकारिणः सकाशादुपादानापेक्षाद्ज्ञानजननयोग्यक्षणान्तर ११७०७ उत्पत्तिरेव घटादीनामभिव्यक्तिः । अन्यथा अनपेक्ष्य तद्उपकारं ११७०८ ज्ञानोत्पादनप्रसङ्गात् । सामर्थ्यकारिणश्च जनकत्वात् । ११७०९ तस्य च तदात्मकत्वात् । अर्थान्तरत्वे च भावानुपकार ११७१० प्रसङ्गात्सामर्थ्याच्च ज्ञानोत्पत्तेर्नित्यं घटादीनाम् ११७११ अग्रहणापत्तेरनालोकापेक्षग्रहणप्रसङ्गादनपेक्षात्मानुपकारात् । ११७१२ तदिमे स्वविषयज्ञानजनने परमपेक्षमाणास् ११७१३ ततः स्वभावातिशयं स्वीकुर्वन्ति । तेन अस्य ते जन्याः । ज्ञेय ११७१४ रूपासाधनात्तु ज्ञानवशेन कार्यातिशयवाचिना शब्देन विशेष ११७१५ ख्यात्य्अर्थं व्यङ्ग्याः ख्याप्यन्ते । न एवं जातिसम्बन्धादयः ११७१६ कथंचिदप्यनुपकार्यत्वादनुपकारिणा व्यक्ता युज्यते । ११७१७ सम्बन्धस्य च वस्तुत्वे स्याद्भेदाद्बुद्धिचित्रता । ११७१८ स च अयं सम्बन्धो वस्तु भवन्नियमेन शब्दार्थाभ्यां ११७१९ भेदाभेदौ न अतिवर्तते । रूपं हि वस्तु । तस्य अतत्त्वमेव अन्यत्त्वम् ११७२० इत्युक्तम् । स च अयमैन्द्रियः सन् स्वबुद्धौ तद्अन्यविवेकिन ११७२१ अप्रतिभासमानो रूपेण कथं तथा स्यात् । दृश्य अविवेकादर्शनयोर् ११७२२ विवेकसत्ताविपर्ययाश्रयत्वात् । अन्यथा तत्स्थितेर् ११७२३ अभावप्रसङ्गात् । अतीन्द्रियत्वादप्रतिभासे अपि इन्द्रियादिष्विव अदोष ११७२४ इति चेत् । न । ततो अप्रतिपत्तिप्रसङ्गातप्रसिद्धस्य अज्ञापकत्वात् । ११७२५ संनिधिमात्रेण ज्ञापने अव्युत्पन्नानामपि स्यात् । ११७२६ न अनुमानात्प्रतिपत्तिर्लिङ्गाभावात्दृष्टान्तासिद्धेश्च तत्र अप्य् ११८०१ अतीन्द्रियत्वेन साधनापेक्षणात् । तुल्यमिन्द्रियादिष्वपि इति चेत् । न । ११८०२ तेषामन्यथानुमानात् । ज्ञानं हि केषुचित्सत्सु व्यतिरेकान्वयवत् ११८०३ तन्मात्रासम्भवं तद्व्यतिरिक्तापेक्षां च साधयति । ११८०४ ततः कार्यद्वारेण इन्द्रियसिद्धिः । न एवं सम्बन्धस्य । तस्य असिद्धौ ११८०५ तत्कार्यस्य एव ज्ञानस्य अभावात् । न हि तत्र शब्दरूपम् ११८०६ अर्थो वा लिङ्गं तयोः सर्वत्र योग्यत्वात् । विशेषप्रतीतिसमाश्रयस्य ११८०७ अप्रत्यायनादप्रतीतिरस्य । न ह्यसति सम्बन्धविशेषे ११८०८ सा युक्ता । तस्यां वा अनिमित्तायां तद्विशेषप्रतीतिनियमवद् ११८०९ अर्थप्रतिपादनमपि शब्दानामनिमित्तं किं न इष्यते । तस्मात् ११८१० तत्सदृशं लिङ्गं सर्वसम्बन्धे ततो अविशेषेण गमयेत् । ११८११ ततो अविशेषेण एव प्रतीतिः स्यात्सर्वस्य च । तस्मात्सम्बन्ध ११८१२ सिद्ध्य्अर्थप्रतीतेर्न कश्चित्सम्प्रदायमपेक्षेत । सम्प्रदाय ११८१३ सहितस्य लिङ्गत्वमिति चेत् । तत्किमनया परंपरया । ११८१४ स एव सम्प्रदायापेक्षो अर्थज्ञापनं किं न करोति । स च शब्दो ११८१५ यदभिप्रायैः प्रयुज्यमानो दृष्टो अन्यथा न दृष्टो दर्शन ११८१६ अदर्शनाभ्यां धूमादिवत्तत्प्रतीतिं जनयति इति स एव ११८१७ सम्बन्धो अविनाभावाख्यः । न च अत्र अन्यस्य सामर्थ्यं पश्यामः । ११८१८ न अपि सिद्ध्य्उपायम् । अथ पुनर्न शब्दार्थयोरन्य एव ११८१९ सम्बन्धः । ११८२० ताभ्यामभेदे तावेव न अतो अन्या वस्तुनो गतिः ॥२३६॥ ११८२१ रूपभेदनिबन्धनत्वाद्व्यवस्थान्तरस्य तद्रूपं तदेव ११८२२ स्यात् । धर्मभेदस्तु स्यात्पूर्वोक्तक्रमेण । स च अविरुद्ध ११८२३ एव न वस्तुभेदः । न च भेदाभेदौ मुक्त्वा वस्तुनो अन्या ११८२४ गतिः । तस्य रूपलक्षणत्वाद् । रूपस्य च एतद्विकल्पानतिवृत्तेः । ११८२५ अपि च । ११८२६ भिन्नत्वाद्वस्तुरूपस्य सम्बन्धः कल्पनाकृतः । ११८२७ इत्युक्तं प्राक् । न हि श्लेषलक्षणः सम्बन्धो अश्लिष्टेषु पदार्थेषु ११८२८ सम्भवति । न च अर्थान्तरमेषां सम्बन्धः । यस्मात् ११९०१ सद्द्रव्यं स्यात्पराधीनं सम्बन्धो अन्यस्य वा कथम् ॥२३७ ॥ ११९०३ न हि सिद्धं सत्परमपेक्षते । न अनपेक्षः स्वतन्त्रः सम्बन्धः । ११९०४ द्रव्यमिति च स्वभाव उच्यते । स कथं परभावस्य ११९०५ श्लेषः स्यात् । न हि स्वभावान्तरसत्तया अन्यः श्लिष्टो नाम । ११९०६ मा भूदश्लिष्टेन श्लिष्टेन तु स्यादिति चेत् । न । तस्य एव ११९०७ ताभ्यां श्लेषासिद्धेः स एव असिद्धो यस्तौ श्लेषयेत् । तदयम् ११९०८ अतिप्रसङ्गो यद्यर्थावर्थान्तरेण श्लिष्यतो विशेषाभावात् । किं ११९०९ च । ११९१० वर्णा निरर्थकाः सन्तः पदादि परिकल्पितम् । ११९११ अवस्तुनि कथं वृत्तिः सम्बन्धस्य अस्य वस्तुनः ॥२३८॥ ११९१२ वाचको हि वचनाङ्गेन तद्वान् स्यात् । सन्तो अप्यवाचका वर्णाः । ११९१३ तन्न तेषु वाच्यवाचकसम्बन्धः । तद्वृत्तौ स्वरूपहानि ११९१४ प्रसङ्गात् । क्रमविशेषेण वाचका वर्णा इति चेत् । न । क्रमस्य अनर्थ ११९१५ अन्तरत्वेन अभेदकत्वात् । तद्रूपस्य क्रमान्तरे अप्यविशेषात् ११९१६ तुल्या स्यात्प्रतिपत्तिः । अर्थान्तरत्वमपि क्रमस्य निषेत्स्यामः । ११९१७ तदसति वर्णानां वाचकत्वे पदादि वाचकं स्यात् । ११९१८ तच्च न किंचिद्व्यतिरेकाव्यतिरेकविरोधात् । तस्मादिन्द्रिय ११९१९ विज्ञानविशेषानुबन्धी सभागवासनोपादान विकल्पप्रतिभासविभ्रमः ११९२० पदम् । वाक्यं च एकावभासि मिथ्या एव । एकानेकत्व ११९२१ अयोगात् । न ह्येकम् । अनेकया बुद्ध्या क्रमेण ग्रहणायोगात् । ११९२२ न च तदेकया ग्राह्यं वर्णानुक्रमग्रहणात् । एकवर्ण ११९२३ ग्रहणकाले च अनेकबुद्धिव्यतिक्रमात् । क्षणिकत्वात्बुद्धीनाम् । ११९२४ क्षणस्य एकपरमाणुव्यतिक्रमकालत्वात् । आधिक्ये विभागवतः ११९२५ पर्यवसानायोगात् । अनेकाणुव्यत्ययनिमेषतुल्यकालत्वाद् ११९२६ अन्त्यवर्णपरिसमाप्तेः । यथानुभवं स्मरणात् ११९२७ स्मृतिरपि तत्काल एव । अनुभवस्मरणानुक्रमयोर्विशेषानुपलक्षणत्वाच् ११९२८ च । न अप्यनेकं पदादि । अभेदप्रतिभासनाद्बुद्धेस् ११९२९ तद्अनेकत्वस्य निषेत्स्यमानत्वाच्च । तन्न वस्तु । तस्य ११९३० एतद्विकल्पानतिक्रमात् । वस्तु च सम्बन्धः । स कथं १२००१ तद्आश्रयः स्यात् । आश्रयनीयायोगात् । अनाश्रितो ह्येवं स्यात् । १२००२ तथा च असम्बन्धः । तस्मान्न स्वाभाविकः शब्दार्थयोः १२००३ सम्बन्धः । तद्अभिप्रायस्य प्रयोगादुत्पन्नो अभिव्यक्तो १२००४ वा शब्दो तद्अव्यभिचारी इति तत्त्वमस्य सम्बन्धः । सा च उत्पत्तिर् १२००५ अभिव्यक्तिर्वा अव्यभिचाराश्रयः पौरुषेयी इति पौरुषेय एव १२००६ सम्बन्धस्तद्द्वारेण च अर्थप्रत्यायने अनियमः शब्दानाम् १२००७ इत्यपौरुषेयत्वे अपि स एव विप्रलम्भः । १२००८ अपौरुषेयता अपि इष्टा कर्तृऋणामस्मृतेः किल । १२००९ या अपि इयमपौरुषेयता वेदवाक्यानां कर्तुरस्मरणाद्वर्ण्यते । १२०११ सन्त्यस्य अप्यनुवक्तार इति धिग्व्यापकं तमः ॥२३९॥ १२०१२ तस्य एव तावदीदृशं प्रज्ञास्खलितं कथं वृत्तमिति सविस्मय १२०१३ अनुकम्पं नश्चेतः । तदपरे अप्यनुवदन्ति इति निर्दय १२०१४ आक्रान्तभुवनं धिग्व्यापकं तमः । कः प्राणिनो हितेप्सा १२०१५ विप्रलब्धस्य अपराधः । तथा हि स्मरन्ति सौगता मन्त्राणां १२०१६ कर्तृऋनष्टकादीन् । हिरण्यगर्भं च काणादाः । तेषां १२०१७ स मिथ्यावाद इति चेत् । क इदानीमेवं पौरुषेयो अन्यो अपि । १२०१८ कुमारसम्भवादिष्वात्मानमन्यं वा प्रणेतारमुपदिशन्तो १२०१९ यदेवं प्रतिव्यूह्येरन् । तत्र प्रतिवहने अभ्युपेत १२०२० बाधा इति चेत् । नन्विदमेव अभ्युपगमाङ्गमिति कस्य बाधा । १२०२१ तत्परस्य अपि तुल्यमेव । तस्य इष्टत्वाददोष इति चेत् । कुतो अस्य इयम् १२०२२ इष्टिरप्रमाणिका प्रागासीत् । अकस्माद्ग्राही च अयं किं पुनः १२०२३ क्वचित्साधनमपेक्षते । यत्पौरुषेयापौरुषेयचिन्तया १२०२४ आत्मानमायासयति । तत एव इष्टेरनभ्युपेतबाधायां तद्अन्यस्य १२०२५ अपि तुल्यमित्यनुपालम्भः । अनतिशयदर्शी च अयं १२०२६ वाक्येष्वेवंप्रकाराणामपौरुषेयत्वसाधनानां कार्यधर्माणां १२१०१ वा क्वचिदतिशयमभ्युपेत इत्यप्रत्यय एव अस्य वृत्तिः । १२१०२ दृश्यन्ते च विच्छिन्नक्रियासम्प्रदायाः कृतकाश्च । तान् यत्नवन्त १२१०३ उपलभन्त इति चेत् । न । नियमाभावात् । अन्यत्र अनुपलम्भस्य १२१०४ उपलम्भस्य वा परोपदेशादप्रत्ययादनिश्चयार्थत्वात् । १२१०५ स्वयंकृतानामप्यपह्नोतृदर्शनात् । निष्ठागमनस्य १२१०६ अशक्यत्वात् । १२१०७ यथा अयमन्यतो अश्रुत्वा न इमं वर्णपदक्रमम् । १२१०८ वक्तुं समर्थः पुरुषस्तथा अन्यो अपि इति कश्चन ॥२४०॥ १२१०९ तस्य अपि तदेव उत्तरमेवमपौरुषेयत्वे अपि किमिदानीं पौरुषेयम् १२११० इत्यादि । तथा हि । १२१११ अन्यो वा रचितो ग्रन्थः सम्प्रदायादृते परैः । १२११२ दृष्टः को अभिहितो येन सो अप्येवं न अनुमीयते ॥२४१॥ १२११३ न खलु किंचिदन्यदपौरुषेयत्वाश्रयो अन्यत्र इदानीन्तनानाम् १२११४ अनुपदेशपाठाशक्तेः । सा च अन्यत्र अप्येकेन रचिते ग्रन्थे अन्यस्य १२११५ तुल्या । तद्अनुसारिणा सर्वस्तथा उन्नेयो न वा कश्चित् । तस्य १२११६ तथा अनिष्टत्वादित्यादावप्युक्तमिष्टेस्तद्आश्रयत्वादित्यादि । १२११७ अपि च । १२११८ यज्जातीयो यतः सिद्धः स तस्मादग्निकाष्ठवत् । १२११९ अदृष्टहेतुरन्यो अप्यविशिष्टः सम्प्रतीयते ॥२४२॥ १२१२० न अदर्शनाधेतुरहेतुको नाम । अदृष्टहेतवो अपि हि भावास् १२१२१ तद्अन्यैः स्वभावाभेदमनुभवन्तस्तथाविधाः समुन्नीयन्ते । १२१२२ हेतुरूपनिवृत्तावपि तद्रूपमनिवृत्तं कार्यधर्म १२१२३ व्यतिक्रमान्न ततः स्यादिति न कश्चित्तथा वचनीयः । १२१२४ रूपविशेषो वा तथा दर्शनीयो य एनं हेतुमनुविदध्यात् । येन इष्ट १२१२५ अनिष्टयोरिष्टविपर्ययो न स्यात् । स्वभावनिवृत्तेश्च हेतोर् १२१२६ अभेदने भावानां भेदः स्यादाकस्मिक इति न क्वचिद्विनिवर्तेत । १२१२७ तस्माद्यः स्वभावो यज्जन्मा दृष्टः सो अन्यत्र अप्यविभज्यमानः १२१२८ स्वात्मना तत्कार्यधर्मतां न अतिवर्तते अग्नीन्धनवत् । १२२०१ तत्र अप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् । १२२०२ हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः ॥२४३॥ १२२०३ यथाद्यो अपि पथिककृतो अग्निर्ज्वालान्तरपूर्वको न अरणिनिर्मथन १२२०४ पूर्वकः । पथिकाग्नित्वात् । अनन्तराग्निवदिति । कथं १२२०५ पुनः पथिकाग्नेर्व्यभिचारः । ज्वालोद्भवसामर्थ्यं ह्य् १२२०६ आश्रित्य दहनस्य हेत्व्अन्तरं प्रतिक्षिप्यते । यदि हि विना ज्वालया १२२०७ स्यादन्यत्र अपि स्यादिति । तत्र ज्वालेतरजन्मनोरबाध्यबाधकत्वे १२२०८ ज्वालाप्रभवत्वमन्यथा अपि स्यादिति धर्मयोर् १२२०९ एकत्र अर्थे सम्भवात्स पथिकाग्निरन्यो वा अर्थ एकप्रतिनियतो १२२१० न स्यादित्याशङ्क्यते व्यभिचारः । सो अप्यन्योन्यव्यतिरेकी १२२११ धर्मद्वयावतारो वस्तुसामान्ये अविरुद्ध इत्युच्यते न अवस्था १२२१२ भेदिनि विशेषे । निष्कलस्य आत्मनस्तद्अतत्त्वविरोधात् । न च १२२१३ ज्वालेतरजन्मनोर्बाध्यबाधकता पथिकाग्नौ । तस्य ज्वालाप्रभव १२२१४ व्यतिरेकेण असम्भवाभावात् । एवंभूतः पथिकाग्निर् १२२१५ ज्वालाप्रभव इति स्यात् । न सर्वः । तत्र विशेषप्रतिक्षेपस्य १२२१६ कर्तुमशक्यत्वात् । सम्भवद्विशेषस्य च तादवस्थ्यानियमात् । १२२१७ यदपि विना ज्वालया स्यादन्यत्र अपि स्यादिति । भवत्येव । १२२१८ यया सामग्र्या सम्भवति सा यदि स्यातस्याः सम्भवं प्रदर्श्य १२२१९ तद्अभावं प्रदर्शयेत्तत्र वा ज्वालां स्यादेतत् । १२२२० तस्मान्न एकस्य परपूर्वकमध्ययनं सर्वस्य तथाभावं १२२२१ साधयति । तस्य अन्यथा असम्भवाभावात् । तथाविधस्य १२२२२ तु तत्क्रियाप्रतिभारहितस्य तथा स्यादिति । तथाभूतम् १२२२३ एवं वाच्यं स्यात्तदविशेषेण सम्भवद्विशेषमुच्यमानं १२२२४ छायां न पुष्णाति । कथं विशेषस्य सम्भवो यावता १२२२५ तेषामपि पुरुषाणामशक्तिरेव इदानीन्तनपुरुषवत् । अत्र अपि १२२२६ शक्तिपुरुषयोर्न किंचिद्विरोधदर्शनमिति न अविरुद्धविधिर् १२२२७ अनुपलब्धिप्रयोगो गमकः । न ह्यतीन्द्रियेषु विरोधगतिर् १२२२८ अस्ति इत्युक्तम् । न च अयं पूर्वप्रयोगाद्भिद्यते । यदि पुरुषाः १२२२९ शक्ताः स्युरिदानीन्तना अपि इति । विशेषासम्भव एतत्स्यात् । १२३०१ स च दुःसाधः । यत्र एकस्य अशक्तिस्तत्र सर्वपुरुषाणामित्यपि १२३०२ पूर्ववद्व्यभिचारि । भारतादिष्विदानीन्तनानामशक्ताव् १२३०३ अपि कस्यचित्शक्तिसिद्धेः । तस्मात्कारणानि विवेचयत अर्थेष्व् १२३०४ अपि तद्अतत्प्रतिभवेषु स्वभावभेदो दर्शनीयः । तद्अभावे १२३०५ सर्वस्तदात्मा न वा कश्चित् । न च अत्र लौकिकवैदिकयोः स्वभाव १२३०६ भेदं पश्यामः । असति तस्मिंस्तयोः सामान्यस्य एव १२३०७ दृष्टेरेकस्य कश्चिद्धर्मं विवेचयन् तत्स्वभावसम्भविना १२३०८ तेन आशङ्क्यव्यभिचारवादः क्रियते । ननु वेदावेदयोस् १२३०९ तत्त्वलक्षणो अस्त्येव विशेषः । सत्यमस्ति । न केवलं १२३१० तयोरेव । किं तर्हि । डिण्डिकपुराणेतरयोरपि । न च स्वप्रक्रिया १२३११ भेददीपनो नामभेदः पुरुषकृतिं बाधते । अन्यत्र १२३१२ अपि प्रसङ्गात् । यदि तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः १२३१३ कृतां वा अकृतसंकेतो विवेचयेत्व्यक्तमपौरुषेयो १२३१४ वेदः । ननु न शक्नुवन्त्येव पुरुषा मन्त्रान् कर्तुम् । एतद् १२३१५ उत्तरत्र विचारयिष्यामः । अपि च । न मन्त्रो नाम अन्यदेव १२३१६ किंचित् । किं तर्हि । सत्यतपःप्रभाववतां समीहितार्थसाधनं १२३१७ वचनम् । तदद्यत्वे अपि पुरुषेषु दृश्यत एव । यथास्वं १२३१८ सत्याधिष्ठानबला विषदहनादिस्तम्भनदर्शनात् । १२३१९ शबराणां च केषांचिदद्य अपि मन्त्रकरणात् । अवैदिकानां १२३२० च बौद्धादीनां मन्त्रकल्पानां दर्शनात् । तेषां च पुरुष १२३२१ कृतेः । तत्र अप्यपौरुषेयत्वे कथमिदानीमपौरुषेयम् १२३२२ अवितथम् । तथा हि बौद्धेतरयोर्मन्त्रकल्पयोर्हिंसा १२३२३ मैथुनात्मदर्शनादयो अनभ्युदयहेतवो अन्यथा च वर्ण्यते । १२३२४ तत्कथमेकत्र विरुद्धाभिधायि द्वयं सत्यं १२३२५ स्यात् । तत्र अर्थान्तरकल्पने तदन्यत्र अपि तुल्यमित्यर्थानिर्णयात् १२३२६ क्वचिदप्रतिपत्तिः । तथा च सदप्यनुपयोगमपौरुषेयम् । १२३२७ बौद्धादीनाममन्त्रत्वे तद्अन्यत्र अपि कोषपानं १२३२८ स्यात्करणीयम् । विषकर्माधिकृतो बौद्धा अपि दृश्यन्ते । तत्र अमन्त्रत्वम् १२४०१ अपि विप्रतिषिद्धम् । मुद्रामण्डलध्यानैरप्य् १२४०२ अनक्षरैः कर्माणि क्रियन्ते । न च तान्यपौरुषेयाणि नित्यानि १२४०३ युज्यते । तेषां क्रियासम्भवे अक्षररचनायां कः प्रतिघातः १२४०४ पुरुषाणाम् । तस्मान्न किंचिदशक्यक्रियमेषाम् । कथम् १२४०५ इदानीं सत्यप्रभवौ मन्त्रकल्पौ परस्परविरोधिनौ । न १२४०६ वै सर्वत्र तौ सत्यप्रभवौ । प्रभावयुक्तपुरुषप्रतिज्ञा १२४०७ लक्षणावपि तौ स्तः । स प्रभावो गतिसिद्धिविशेषाभ्यामपि १२४०८ स्यात् । यदि पौरुषेया मन्त्राः किं न सर्वे पुरुषा मन्त्रकारिणः । १२४०९ तत्क्रियासाधनवैकल्यात् । यदि तादृशैः सत्यतपःप्रभृतिभिर् १२४१० युक्ताः स्युः कुर्वन्त्येव । अपि च काव्यानि पुरुषः करोति इति १२४११ सर्वः पुरुषः काव्यकृत्स्यात् । अकरणे वा न एव कश्चित्तद्वद् १२४१२ इत्यपूर्वा एषा वाचोयुक्तिः । सत्यं मन्त्रक्रियासाधनविकला १२४१३ मन्त्रान्न कुर्वते । तत्तु कस्यचित्साकल्यं न पश्यामः । १२४१४ पुरुषाणां समानधर्मत्वात् । उक्तमत्र न मन्त्रो नाम अन्यद् १२४१५ एव किंचित्सत्यादिमतां वचनसमयादिति । तानि च क्वचित् १२४१६ पुरुषेषु दृश्यन्ते । सर्वपुरुषास्तद्रहिता इत्यपि तत्सम्भव १२४१७ विरोधाभावादनिर्णयः । न च अत्यक्षस्वभावेष्वनुपलब्धिर् १२४१८ निश्चयहेतुः । न च स्मृतिमतिप्रतिवेधसत्यशक्तयः १२४१९ सर्वभाविन्यः । तत्साधनसम्प्रदायभेदवद्गुणान्तर १२४२० साधनान्यपि स्युः । न अपि सन्नपि सर्वो द्रष्टुं शक्यः । अत १२४२१ एव अदृष्टस्य अनपह्नवः । न अपि पुरुषेषु उत्पित्सोः कस्यचिद्गुणस्य १२४२२ प्रतिरोद्धा । बाध्यादृष्टेर्बाध्यबाधकभावासिद्धेः । एतेन १२४२३ सर्वज्ञानप्रतिषेधादयो अपि निर्वर्णितोत्तराः । तत्र अप्येवंभूतो १२४२४ यादृशो अयमसम्भवत्तत्साधनसम्प्रदायो न इति न्यायः । १२४२५ न अदृष्टज्ञापको अतत्स्वभाव इत्यपि । सतामपि कार्यानारम्भ १२४२६ सम्भवात् । स्वभावविप्रकर्षेण द्रष्टुमशक्यत्वाच्च । १२४२७ तस्मादध्ययनमध्ययनान्तरपूर्वकमध्ययनादिति १२४२८ भारताध्ययने अपि भावाद्व्यभिचारि । ननु वेदने विशेषणाद् १२४२९ अदोषः । कः पुनरतिशयो वेदाध्ययनस्य यदन्यथा अध्येतुं १२४३० न शक्यते । न हि विशेषणमविरुद्धं विपक्षेण अस्माद् १२४३१ हेतुं व्यावर्तयति । अविरुद्धयोरेकत्र सम्भवात् । इदानीन्तनानाम् १२५०१ अध्ययनादिति चेत् । उक्तोत्तरमेतत् । अदर्शनाद् १२५०२ इति चेत् । इदमपि प्रतिव्यूढम् । न अप्यदर्शनमात्रमभावं १२५०३ गमयति इति व्यभिचार एव । तस्मान्न विशेषणमतिशय १२५०४ भागित्यनुपात्तसमम् । यत्किंचिद्वेदाध्ययनं सर्वं १२५०५ तद्अध्ययनान्तरपूर्वकमित्यपि व्याप्तिर्न सिध्यति । १२५०६ सर्वस्य तथाभावासिद्धेः । यादृशं तु तन्निमित्तं दृष्टं १२५०७ तत्तथा इति स्यात् । दृष्टे विशेषे तन्निमित्ततया तत्त्यागेन सामान्य १२५०८ ग्रहणं व्यभिचार्येव । हुताशनसंसिद्धौ पाण्डुद्रव्यत्ववत् । १२५०९ एतेन वचनादयो रागादिसाधने प्रत्युक्ताः । अस्तु १२५१० वेदमध्ययनमध्ययनपूर्वतासाधनम् । १२५११ सर्वथा अनादिता सिध्येदेवं न अपुरुषाश्रयः । १२५१२ तस्मादपौरुषेयत्वे स्यादन्यो अप्यनराश्रयः ॥२४४॥ १२५१३ पुरुष एव हि स्वयमभ्यूह्य परतो वा आधीयते । न एषामव्यापृत १२५१४ करणानां स्वयं शब्दा ध्वनन्ति येन अपौरुषेयाः स्युः । १२५१५ अपि स्युरपौरुषेया यदि पुरुषाणामादिः स्यात् । तदा अप्यन्य १२५१६ पूर्वकं न सिध्यति । अध्यापयितुरभावात् । तत्प्रथमो १२५१७ अध्येता कर्ता एव स्यात् । तदयमनादिः पूर्वपूर्वदर्शन १२५१८ प्रवृत्तो डिम्भकपांसुक्रीडादिवत्पुरुषव्यवहार इति स्यात् । १२५१९ न अपौरुषेय इति । अनादित्वादपौरुषेयत्वे बहुतरमिदानीम् १२५२० अपौरुषेयम् । तथा हि । १२५२१ म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामपि । १२५२२ अनादित्वात्तथाभावः पूर्वसंस्कारसन्ततेः ॥२४५॥ १२५२३ म्लेच्छव्यवहारा अपि केचिन्मातृविवाहादयो मदनोत्सवादयश् १२५२४ च अनादयः । नास्तिक्यवचांसि च अपूर्वपरलोकाद्य्अपवादीनि । न १२५२५ हि तान्यनाहितसंस्काराः परैः प्रवर्तयन्ति । स्व प्रतिभारचित १२५२६ समयानामपि यथा अश्रुतार्थविकल्पसंहारेण एव प्रवृत्तेः । १२५२७ तत्किंचित्कुतश्चिदागतमित्येकस्य उपदेष्टुः प्रबन्धेन अभावाद् १२५२८ अपरपूर्वकमित्युच्यते । प्रागेव यथादर्शन १२५२९ प्रवृत्तयः सम्यङ्मिथ्याप्रवृत्तयो लोकव्यवहाराः । नन्व् १२५३० आदिकल्पिकेष्वदृष्टा एव व्यवहाराः पश्चात्प्रवृत्ता इष्यन्ते । १२६०१ न । तेषामप्यन्यसंस्काराहितानां यथाप्रत्ययं प्रबोधात् । १२६०२ भवतु सर्वेषामपौरुषेयत्वमिति चेत् । १२६०३ तादृशे अपौरुषेयत्वे कः सिद्धे अपि गुणो भवेत् । १२६०४ काममविसंवादकमित्यपौरुषेयत्वमिष्टम् । तद्विसंवादकानाम् १२६०५ अपि केषांचिदनादित्वादस्ति इति किमपौरुषेयत्वेन । १२६०६ सति वा वेदवाक्यानामेव अपौरुषेयत्वे । १२६०७ अर्थसंस्कारभेदानां दर्शनात्संशयः पुनः ॥२४६॥ १२६०८ यदि अपौरुषेयत्वे अपि प्रतिनियतामेव तद्अर्थप्रतिभां १२६०९ जनयेदाश्वासनं स्यात् । यथेष्टं तु समारोपापवादाभ्यां १२६१० नैरुक्तमीमांसकादयो वेदवाक्यानि विशसन्तो दृश्यन्ते । न १२६११ च ते अर्थास्तेषां न संघटन्ते । समयप्राधान्यादर्थनिवेशस्य १२६१२ एकस्य अपि वाक्यस्य अनेकविकल्पसम्भवात् । प्रकृतिप्रत्ययानाम् १२६१३ अनेकार्थपाठात् । रूढेरप्येकान्तेन अननुमतेः । अरूढ १२६१४ शब्दबाहुल्यात् । तद्अर्थस्य पुरुषोपदेशापेक्षणात् । तद्उपदेशस्य १२६१५ तद्इच्छानुवृत्तेरनिर्णय एव वेदवाक्यार्थेषु । १२६१६ अपि च । अयमपौरुषेयत्वं साधयन् वर्णानां वा साधयेद् १२६१७ वाक्यस्य वा । तत्र । १२६१८ अन्याविशेषाद्वर्णानां साधने किं फलं भवेत् । १२६१९ न हि लोकवेदयोर्नाना वर्णाः । भेदे अपि च प्रत्यभिज्ञानाविशेषात् १२६२० तत एकत्वासिद्धिप्रसङ्गाद्भेदानुपलक्षणाच्च वैदिक १२६२१ वर्णासिद्धिः प्रत्यभिज्ञानादप्रतिपत्तिप्रसङ्गात् । अनभ्युपगमाच् १२६२२ च । तेषां च अपौरुषेयत्वसाधने ते तुल्याः सर्वत्र १२६२३ इति किमनेन परिशेषितम् । तथा च सर्वो व्यवहारो अपौरुषेयः । १२६२४ न च सर्वो अवितथ इति व्यर्थः परिश्रमः । अथ वाक्यम् १२६२५ अपौरुषेयमिष्टम् । १२७०१ वाक्यं न भिन्नं वर्णेभ्यो विद्यते अनुपलम्भनात् ॥२४७॥ १२७०३ न हि वयं देवदत्तादिपदवाक्येषु दकारादिप्रतिभासं मुक्त्वा १२७०४ अन्यं प्रतिभासं बुद्धेः पश्यामः । द्वितीयवर्णप्रतिभासवत् । १२७०५ न च अप्रतिभासमानं ग्रहणे ग्राह्यतया इष्टमस्त्य् १२७०६ अन्यद्वा इति शक्यमवसातुम् । आकारान्तरवत् । अन्यासम्भवि १२७०७ कार्यं गमकमिति चेत् । स्यादेतत्यदि तेषु वर्णेषु सत्सु अपि १२७०८ तत्कार्यं न स्यात् । न भवति तेषामविशेषे अपि पदवाक्यान्तरे १२७०९ अभावादिति चेत् । न । तेषामविशेषासिद्धेः । अविशेषः प्रत्यभिज्ञानात् १२७१० सिद्ध इति चेत् । न । तस्य व्यभिचारादनिदर्शनत्वाच् १२७११ च । वर्णाविशेषे अपि वाक्यभेदात्प्रतिपत्तिभेदः कार्यभेदः १२७१२ स्यात् । सा च वाक्यात् । तच्च अतीन्द्रियमिति कुतः स्यात् । संनिधान १२७१३ मात्रेण जनने अव्युत्पन्नस्य अपि स्यात् । तस्मान्न वाक्यं १२७१४ नाम किंचिदर्थान्तरं वर्णेभ्यो यस्य अपौरुषेयत्वं साध्येत । १२७१५ तद्अभावाद्वेदाविशिष्टवर्णापौरुषेयत्वमपि प्रथम १२७१६ पक्षे प्रत्युक्तम् । अपि च अस्त्वर्थान्तरं वाक्यम् । १२७१७ तदनेकावयवात्मकं वा स्यादनवयवं वा । १२७१८ अनेकावयवात्मत्वे पृथक्तेषां निरर्थता । १२७१९ ते अपि तस्य बहवो अवयवाः पृथक्प्रकृत्या यद्यनर्थकाः । १२७२० अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् ॥२४८॥ १२७२१ अर्थवानेव आत्मा वाक्यम् । ते च अवयवाः स्वयमनर्थकाः । १२७२२ तेषु स आत्मा कल्पनासमारोपितः स्यात् । सिंहतादिवन्माणवक १२७२३ आदिष्विति पौरुषेय एव । अथ मा भूदेष दोष इति प्रत्येकं १२७२४ ते अवयवाः सा अर्थका इष्यन्ते । १२८०१ प्रत्येकं सा अर्थकत्वे अपि मिथ्यानेकत्वकल्पना । १२८०२ एकावयवगत्या च वाक्यार्थप्रतिपद्भवेत् ॥२४९॥ १२८०३ परिसमाप्तार्थं हि शब्दरूपं वाक्यम् । ते च अवयवास्तथाविधाः १२८०४ पृथक्पृथगिति प्रत्येकं ते वाक्यम् । तथा च न अनेक १२८०५ अवयवं वाक्यम् । एकावयवप्रतिपत्त्या च वाक्यार्थप्रतिपत्तेर् १२८०६ अवयवान्तरापेक्षा कालक्षेपश्च न स्यात् । तस्य निष्कल १२८०७ आत्मनः क्षणेन प्रतिपत्तेरेकज्ञानोत्पत्तौ निःशेषावगमात् । १२८०८ अन्यथा च एकत्वविरोधात् । १२८०९ सकृच्श्रुतौ च सर्वेषां कालभेदो न युज्यते । १२८१० अथ मा भूदवयवान्तराप्रतीक्षणेन एकस्मादेव अवयवाद् १२८११ वाक्यार्थसिद्धेरनेकावयवत्वहानिर्वाक्यस्य इति सकृत्सर्व १२८१२ अवयवानां श्रवणमिष्यते । तदा अपि कालक्षेपो न युक्त एव । १२८१३ एकावयवप्रतिपत्तिकाल एव सर्वेषां श्रवणात् । क्रमश्रवणे १२८१४ च पृथगर्थवतामेकस्मादेव तद्अर्थसिद्धेरन्यस्य १२८१५ वैयर्थ्यात् । सकृच्श्रुतौ च पृथगर्थेष्वदृष्टसामर्थ्यानाम् १२८१६ अर्थवत्ता च न सिध्यति । सहितेष्वर्थदर्शनाददोषः । १२८१७ न । पृथगसतो रूपस्य संघाते अप्यसम्भवात् । अर्थान्तरानुत्पत्तेश् १२८१८ च । शब्दोत्पादवादिनस्तावदयमदोष एव । पृथग् १२८१९ असमर्थानामप्यवयवानामुपकारविशेषादतिशयवतां १२८२० कार्यविशेषोपयोगात् । प्रत्येकं त्ववयवेषु समर्थेषु व्यर्था १२८२१ स्यादन्यकल्पना । अथ पुनरेकमेव अनवयवं वाक्यम् । १२८२२ तत्र । १२८२३ एकत्वे अपि ह्यभिन्नस्य क्रमशो गत्य्असम्भवात् ॥२५०॥ १२८२४ कालभेद एव न युज्यते । न ह्येकस्य क्रमेण प्रतिपत्तिर् १२८२५ युक्ता । गृहीतागृहीतयोरभेदात् । क्रमेण च वाक्यप्रतिपत्तिर् १२८२६ दृष्टा । सर्ववाक्यव्याहारश्रवणस्मरणकालस्य अनेकक्षणनिमेष १२८२७ अनुक्रमपरिसमाप्तेः । वर्णरूपासंस्पर्शिनश्च एकबुद्धिप्रतिभासिनः १२८२८ शब्दात्मनो अप्रतिभासनात् । वर्णानुक्रमप्रतीतेः । १२८२९ तद्अविशेषे अप्यनुक्रमकृतत्वाद्वाक्यभेदस्य अनुक्रमवती १२९०१ वाक्यप्रतीतिः । वर्णानुक्रमोपकारानपेक्षणे तैर्यथा कथंचित् १२९०२ प्रयुक्तैरपि यत्किंचिद्वाक्यं प्रतीयेत विना वा १२९०३ वर्णैः । तैरनुक्रमवद्भिरक्रमस्य उपकारायोगात् । अक्रमेण १२९०४ च व्याहर्तुमशक्यत्वात् । गत्य्अन्तराभावाच्च । न एव १२९०५ वाक्ये वर्णाः सन्ति तदेकमेव शब्दरूपं व्यञ्जकानुक्रम १२९०६ वशादनुक्रमवद्वर्णविभागवच्च प्रतिभाति इति चेत् । १२९०७ अनुक्रमवता व्यञ्जकेन अक्रमस्य व्यक्तिः प्रत्युक्ता । व्यक्त १२९०८ अव्यक्तविरोधादवर्णभागे च वाक्ये असकलश्राविणो असकलवाक्य १२९०९ गतिर्न स्यातेकस्य शकलाभावात्सकलश्रुतिर्न वा कस्यचित् । १२९१० समस्तवर्णसंस्कारवत्या अन्त्यया बुद्ध्या वाक्यावधारणम् १२९११ इत्यपि मिथ्या । तस्य अवर्णरूपसंस्पर्शिनः कस्यचित्कदाचिद् १२९१२ अप्रतिपत्तेः । वर्णानां च अक्रमेण अप्रतिपत्तेः कुतो अक्रमम् १२९१३ एकबुद्धिग्राह्यं वाक्यं नाम । न च अन्त्यवर्णप्रतिपत्तेर् १२९१४ ऊर्ध्वमन्यमशकलं शब्दात्मानमुपलक्षयामः । न अपि १२९१५ स्वयमयं वक्ता विभावयति । केवलमेवं यदि स्यात्साधु १२९१६ मे स्यादिति कल्याणकामतामूढमतिरन्त्यायां बुद्धौ समाप्तकलः १२९१७ शब्दो भाति इति स्वप्नायते । न हि स्मर्यमाणायोर् १२९१८ अपि पदवाक्ययोर्वर्णाः क्रमविशेषमन्तरेण विभाव्यन्ते । १२९१९ अक्रमायां बुद्धौ पौर्वापर्याभावात् । तेषां तत्कृतः पद १२९२० वाक्यभेदानां भेदो न स्यात् । न अप्यवर्णक्रममन्यच् १२९२१ शब्दरूपं पश्याम इत्युक्तम् । सति वा तदनित्यं वा स्यान् १२९२२ नित्यं वा । यदि । १२९२३ अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् । १२९२४ अवश्यं ह्यनित्यमुत्पत्तिमत्कुतश्चिद्भवति । तथा ह्याकस्मिकत्वे १२९२५ सत्त्वस्य देशादिनियमो न स्यादित्युक्तम् । तच्च यत्न १२९२६ प्रेरिताविगुणकरणानां दृष्टमन्यथा न इति । कारणधर्म १३००१ दर्शनात्पुरुषव्यापार एव कारणम् । अतः पौरुषेयं स्यात् । १३००२ नित्योपलब्धिर्नित्यत्वे अप्यनावरणसम्भवात् ॥२५१॥ १३००३ अथ तच्शब्दरूपं नित्यं स्यादुपलभ्यस्वभावं च । १३००४ स च तस्य स्वभावः कदाचिन्न अपैति इति नित्यमुपलभ्येत । १३००५ एवं हि स नित्यः स्याद्यदि न कुतश्चित्सामर्थ्यात्प्रच्यवेत् । १३००६ ज्ञानजननसामर्थ्यस्य तदात्मकत्वात् । अर्थान्तरत्वस्य च १३००७ प्रागेव निषिद्धत्वात् । न अपि तस्य उपलभ्यात्मनः किंचिदुपलम्भ १३००८ आवरणं सम्भवति । तस्य सतो अपि तदात्मनमखण्डयतः १३००९ सामर्थ्यतिरस्कारायोगात् । न हि तत्र अतिशयमनुत्पादयन् १३०१० किंचित्करो नाम । अकिंचित्करश्च कः कस्य आवरणमन्यद् १३०११ वा इति निर्लोठितप्रायमेतत् । कुड्यादयो घटादीनां कमतिशयम् १३०१२ उत्पादयन्ति खण्डयन्ति वा येन आवरणमिष्यन्ते । न ब्रूमस् १३०१३ ते कंचिदतिशाययन्ति इति । अपि तु न सर्वे घटक्षणाः सर्वस्य इन्द्रिय १३०१४ विज्ञानहेतवः परस्परसहितास्तु विषयेन्द्रियालोकाः १३०१५ परस्परतो विशिष्टक्षणान्तरोत्पादाद्विज्ञानहेतवः । अनुपकार्यस्य १३०१६ अपेक्षायोगात् । शक्तस्वभावस्य नित्यं जननमजननं १३०१७ वा अन्यस्य सर्वदा स्यादित्युक्तम् । ते च अव्यवहिताः प्रतिघातिना १३०१८ अन्येन अन्योन्यस्य उपकारिणः । अव्यवधानदेशयोग्यतासहकारित्वात् १३०१९ तेषामन्योन्यातिशयोत्पत्तेः । व्यवधाने तु हेत्व्अभावात् १३०२० समर्थक्षणान्तरानुत्पत्तेर्ज्ञानानुत्पत्तिः । तस्मात्पूर्वोत्पन्न १३०२१ समर्थनिरोधात्सति कुड्ये अन्यस्य उत्पित्सोः कारणाभावेन अनुत्पत्तेः १३०२२ कारणवैकल्याज्ज्ञानानुत्पत्तिरिति कुड्यादय आवरणम् १३०२३ उच्यन्ते । न प्राग्योग्यस्य प्रतिबन्धात् । तस्य स्वभावादप्रच्युतेः । १३०२४ अथवा सम्भवत्यपि भावानां क्षणिकानामन्योन्योपकारो १३०२५ अचिन्त्यत्वाधेतुप्रत्ययसामर्थ्यस्य असर्वविदा । तेन १३०२६ यदिन्द्रियविषयमध्यस्थितमावरणं तत्तौ विज्ञानोत्पत्ति १३०२७ वैगुण्यतारतम्यभेदेन अतिशययेदपि । आवरणभेदे न शब्द १३०२८ आदौ श्रुतिमान्द्यपाटवदर्शनात् । अन्यथा क्वचिदप्यकिंचित्करस्य १३१०१ संनिधानस्य अप्यसंनिधानतुल्यत्वात्तस्य इदमित्य् । १३१०२ उपसंहारो विकल्पनिर्मित एव स्यात् । न वस्त्व्आश्रयः । न च १३१०३ समारोपानुविधायिनो अर्थक्रियाः । न हि माणवको दहनोपचाराद् १३१०४ आधीयते पाके । तस्मात्सत्यामपि कल्पनायामतत्परावृत्तयो १३१०५ भावा यथास्वभाववृत्तय एव स्युः । तत्सत्यप्य् १३१०६ आवरणे विज्ञापयेयुरेव इन्द्रियादयः । न च तथा । तस्मात्तेन आधेयविशेषा १३१०७ इति गम्यन्ते । न खल्वेवं नित्यानां शब्दानां १३१०८ कस्मिंश्चित्सत्यतिशयहानिरुत्पत्तिर्वा । तद्यदि तेषां ज्ञानजननः १३१०९ स्वभावः सर्वस्य सर्वदा सर्वाणि स्वविषयज्ञानानि सकृज् १३११० जनयेयुः । नो चेन्न कदाचित्कस्यचित्किंचिदित्येकान्त एषः । १३१११ अश्रुतिर्विकलत्वाच्चेत्कस्यचित्सहकारिणः । १३११२ स्यादेतत् । न आवरणान्नित्यं सर्वे शब्दा न श्रूयन्ते । अपि तु १३११३ किंचित्तेषां प्रतिपत्तौ सहकारि प्रतिनियतमस्ति । तत्कदाचित् १३११४ कस्यचिद्भवति इति तत्कृतमेषां कदाचित्क्वचिच्श्रवणमिति । १३११५ काममन्यप्रतीक्षा अस्तु नियमस्तु विरुध्यते ॥२५२॥ १३११६ न वै वयं कारणानां सहकारीणि प्रतिक्षिपामः । किं त्व् १३११७ अपेक्षन्त एव कारणानि तद्अवस्थोपकारिणम् । ततो लभ्यस्य अतिशयस्य १३११८ कार्योपयोगात् । तथा शब्दो अपि यदि किंचिदपेक्ष्य १३११९ कार्यं कुर्यात्करोतु पूर्वस्वभावनियत इत्येतन्न स्यात् । १३१२० तस्य प्रच्युतेः । अपेक्ष्याच्च स्वभावान्तरप्रतिलम्भात् । १३१२१ न ह्यनुपकार्यपेक्ष्यत इत्युक्तमेतत् । तद्उपकारस्य १३१२२ च अर्थान्तरत्वे तस्य इति सम्बन्धाभावादयो अप्युक्ताः । तस्य १३१२३ च अज्ञेयत्वम् । उपकारादेव ज्ञानोत्पत्तेः । तस्मादेव शब्दो न इन्द्रियं १३१२४ न संनिकर्षं न आत्मानमन्यद्वा किंचिज्ज्ञानोत्पत्तिसमाश्रयं १३१२५ स्वविज्ञानजनने अपेक्षते । सर्वस्य तत्र अकिंचित्करत्वाद् । १३१२६ अपि च । एते शब्दा व्यापिनो वा स्युरव्यापिनो वा । १३१२७ सर्वत्र अनुपलम्भः स्यात्तेषामव्यापिता यदि । १३१२८ कथमेकदेशवर्तितं तच्शून्यदेशस्थित उपलब्धेत । अप्राप्त १३२०१ ग्रहणपक्षे अदोष इति चेत् । न । तत्र अपि योग्यदेशस्थितितारतम्य १३२०२ अपेक्षणादयस्कान्तादिवत् । अन्यथा स्पष्टास्पष्टश्रुति १३२०३ भेदो न स्यात् । सति च उपलम्भप्रत्यये सर्वत्र देशे तुल्यम् १३२०४ उपलभ्येरन् । तस्मान्न अव्यापिनः । १३२०५ सर्वेषामुपलम्भः स्याद्युगपद्व्यापिता यदि ॥२५३॥ १३२०६ न हि कश्चिच्शब्द क्वचिन्न अस्ति इति सर्वे युगपदुपलभ्येरन् १३२०७ सर्वदेशस्थितैश्च । योग्येन्द्रियत्वाद्विषयसंनिधानादप्रतिबन्धाच् १३२०८ च । १३२०९ संस्कृतस्य उपलम्भे च कः संस्कर्ता अविकारिणः । १३२१० स्यादेतत् । सन्नपि न सर्वः शब्द उपलभ्यते सर्वेण । संस्कृतस्य १३२११ संस्कृतेन एव उपलम्भादिति । तत्र न संस्कृतस्य उपलम्भो १३२१२ अनाधेयविकारस्य संस्कारायोगात् । १३२१३ इन्द्रियस्य हि संस्कारः शृणुयान्निखिलं च तत् ॥२५४॥ १३२१४ तत्र यदि संस्कृतेन उपलम्भ इत्यसंस्कृतेन इन्द्रियो न उपलभते । १३२१५ यस्य संस्कार इन्द्रियस्य कृतः स सर्वशब्दान् युगपच्शृणुयाद् १३२१६ इति प्रसङ्गो अनिवृत्त एव । १३२१७ संस्कारभेदाद्भिन्नत्वादेकार्थनियमो यदि । १३२१८ अनेकशब्दसंघाते श्रुतिः कलकले कथम् ॥२५५॥ १३२१९ अथ अपि स्यात् । प्रतिनियताः ते संस्काराः शब्दानाम् । तत्र केनचित् १३२२० संस्कृतमिन्द्रियं कस्यचिदेव ग्राहकमिति न युगपत्सर्व १३२२१ शब्दश्रुतिरिति । संस्कारविशेषाच्श्रुतिनियमे इन्द्रियाणामनेक १३२२२ शब्दसंघातस्य कलकलस्य श्रुतिर्न स्यात् । न ह्येकः १३२२३ शब्दः कलकलो नाम । भिन्नस्वभावानां युगपच्श्रवणात् । १३२२४ स्वभावभेदाश्रयत्वाच्च भेदव्यवस्थितेः । लघुवृत्तेः १३२२५ सकृच्श्रुतिर्भ्रान्तिरिति चेत् । वंशादिस्वरधारायां गमकावयव १३२२६ संहारात्संकुला प्रतिपत्तिः स्यात् । वक्ष्यते च अत्र प्रतिषेधः । १३२२७ तस्मादेकगतिशक्तिप्रतिनियमादिन्द्रियस्य अनेकात्मा १३२२८ कलकलो न श्रूयेत । १३२२९ ध्वनयः केवलं तत्र श्रूयन्ते चेन्न वाचकाः । १३३०१ न वै कलकले वर्णपदवाक्यानि श्रूयन्ते । ध्वनीनामेव १३३०२ केवलानां श्रवणात् । वाचके च प्रतिनियतशक्तीन्द्रियं न १३३०३ ध्वनिषु । तत्र । १३३०४ ध्वनिभ्यो भिन्नमस्ति इति श्रद्धा इयमतिबह्विदम् ॥२५६॥ १३३०५ न हि वयं ध्वनिं शब्दं च वाचकं पृथग्रूपमुपलक्षयामः । १३३०६ एकमेव एकदा वर्णानुक्रमश्रवणे शब्दात्मानं १३३०७ व्यवस्यामः । तत्कथं व्यवसायपूर्वकं व्यवहारम् १३३०८ अव्यवस्यन्तः प्रवर्तयामः । तस्माद्ध्वनिविशेष एव इयं १३३०९ वर्णाद्य्आख्यः । अपि च । १३३१० स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् । १३३११ न ध्वनिरतो भिन्नस्तेन सह पृथग्वा । न हि प्रत्यक्षे १३३१२ अर्थे परोपदेशो गरीयान् । तदयं स्थितेष्वन्येषु व्याहर्तृषु १३३१३ केवलमेव शब्दं शृण्वंस्तद्उपलम्भप्रत्ययानां तद्अन्य १३३१४ निष्पादने सामर्थ्याभावं प्रत्येति । यदि हि समर्थाः स्युस् १३३१५ तत्साधितं तदुपलभ्येत । तत्स्वभावा एव पुनः प्रत्ययाः १३३१६ कथं कलकले अर्थान्तरमारभेरन् । न हि कारणाभेदे १३३१७ कार्यभेदो युक्तः । भेदस्य अहेतुकत्वप्रसङ्गादित्युक्तम् । १३३१८ न च कलकले वाचको न श्रूयते । पदवाक्यविच्छेदानामुपलक्षणात् । १३३२० कथं वा शक्तिनियमाद्भिन्नध्वनिगतिर्भवेत् ॥२५७॥ १३३२१ तानि प्रतिनियतशक्तीन्यपि इन्द्रियाणि नानारूपान् प्रतिशब्दनियतान् १३३२२ ध्वनीन् शृण्वन्ति न त्वेवं शब्दानिति कः शब्देष्वेषां १३४०१ निर्वेदः । यदुक्तं न ध्वनयो भेदेन वाचकेभ्यः सिद्धा १३४०२ इति कथं न सिद्धाः । वचनादर्थप्रतिपत्तेः । न हि ध्वनि १३४०३ भागादल्पीयसः शब्दार्थप्रतीतिः । न च सो अन्यं सम इति । १३४०४ तदियं समस्तपदवाक्यरूपसाध्यार्थप्रतीतिरसमस्त १३४०५ भागेषु ध्वनिषु न सम्भवति इति सिद्धमक्रमसत्त्वं १३४०६ शब्दरूपम् । क्रमवद्भागश्च ध्वनिरिति । तन्न । अक्रमस्य १३४०७ क्रमवद्व्यतिरेकिणः प्रागेव निषिद्धत्वात् । अतिप्रसङ्गश्च एवम् । १३४०८ कर्मभागानां पूर्वेण अपरस्य अप्रतिसन्धानातेकांशाच् १३४०९ च अप्रतिपत्तेः तद्व्यतिरेकी हस्तसंज्ञादिष्वर्थप्रतिपत्ति १३४१० हेतुः समस्तरूपः कर्मात्माभ्युपगन्तव्यः स्यात् । शब्दवद् १३४११ एव । क्रमभाविन एव यथास्वं करणप्रयोगाद्भिन्ना १३४१२ वर्णभागाः कर्मभागा वा क्रमेण विकल्पविषया यथा १३४१३ संकेतमेव अर्थप्रतीतिं जनयन्ति इति न्याय्यम् । किं च । १३४१४ ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः । १३४१५ ध्वनिभिर्व्यज्यमाने अस्मिन् वाचके अपि कथं न ते ॥२५८॥ १३४१६ क्रमोत्पादिभिर्ध्वनिभागैर्व्यक्तः किल वाचको वक्ति । तम् १३४१७ अपि ते न एव सकृत्प्रकाशयन्ति । क्रमभावात् । न अप्येक एव १३४१८ भागः शब्दं व्यनक्ति । तद्अन्यवैयर्थ्यप्रसङ्गात् । एकवर्ण १३४१९ भागकाले च समस्तरूपानुपलक्षणात् । तदयमप्रतिसंहित १३४२० सकलोपलम्भो ध्वनिवदुपलम्भसाकल्यसंनिधान १३४२१ अर्थं कथं साधयेत् । को हि विशेषो अत्यन्तानुपलम्भे १३४२२ सद्असतोरुपलम्भसाध्येष्वर्थेषु । न च संनिधिमात्रेण १३४२३ साधनः । व्यक्त्य्अपेक्षणात् । सा च इयं क्रमभाविनी सद्असतोस् १३४२४ तुल्योपयोग इति ध्वनिभिरशक्यसाधनं कार्यम् । तत्र अपि १३४२५ तथा इत्यलमन्येन । तस्मान्न वर्णेषु वाक्ये वा अपौरुषेयता । १३४२६ वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः । १३५०१ न अर्थान्तरमेव शब्दरूपं वाक्यमपौरुषेयम् । किं तर्हि । १३५०२ वर्णानुक्रमलक्षणं हि नो वाक्यम् । तदपौरुषेयं साध्यम् १३५०३ इति चेत् । न । वर्णानामानुपूर्व्या अभेदात् । न इयमर्थान्तरं १३५०४ वर्णेभ्यः । दृश्यायां विभागोपलम्भात् । अदृश्यायां ततो १३५०५ अप्रतिपत्तेर्लिङ्गाभावात् । भेदवत्याश्च आनुपूर्व्या अभावे वर्ण १३५०६ मात्रमवशिष्टं सर्वत्र इति पूर्ववत्प्रसङ्गः । १३५०७ तेषां च न व्यवस्थानं क्रमान्तरविरोधतः ॥२५९॥ १३५०८ यद्यकृतकानुपूर्वी वर्णानां ते च न बहवः समानजातीयाः १३५०९ येन केचिद्व्यवस्थितक्रमाः स्युः अन्ये यथा इष्टपरावृत्तयः १३५१० किं तर्हि एक एव त्रैलोक्ये अकारस्तथा गकारः तदा अग्निरित्य् १३५११ एव स्यात्न गगनमिति अकारगकारयोः पूर्वापरभावस्य १३५१२ व्यवस्थितत्वात् । कृतकानामपि हेतुपरिणामनियमवताम् १३५१३ अशक्यः क्रमविपर्ययः कर्तुम् । यथा बीजाङ्कुरपत्रादीनाम् १३५१४ ऋतुसंवत्सरादीनां च । किं पुनरचलितावस्थास्वभावानाम् १३५१५ अकृतकानां कथंचित्स्थितानां पूर्वावस्थात्यागमन्तरेण १३५१६ अन्यथा अभावायोगात् । त्यागे वा विनाशप्रसङ्गात् । विशेषेण नित्यायाम् १३५१७ आनुपूर्व्याम् । तदेतत्प्रतिपदं क्रमान्यत्वं वर्ण १३५१८ अन्यत्वे अपूर्वोत्पादात्वर्णबाहुल्याद्वा स्यात् । तच्च अनभिमतम् । १३५१९ अपि च । १३५२० देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् । १३५२१ सा च इयमानुपूर्वी वार्णानां देशकृता वा स्यात् । यथा पिपीलिकानां १३५२२ पङ्क्तौ । कालकृता वा यथा बीजाङ्कुरादीनाम् । सा द्विविधा अपि १३५२३ वर्णेषु न सम्भवति । व्याप्तेर्नित्यत्वाच्च । अन्योन्यदेश १३६०१ परिहारेण वृत्तिर्हि देशपौर्वापर्यम् । तत्सर्वस्य सर्वेण १३६०२ तुल्यदेशत्वाद्वर्णेषु न सम्भवति । वातातपवदात्मादिवच् १३६०३ च । तथा कालपरिहारेण वृत्तिः कालपौर्वापर्यम् । यदा एको १३६०४ न अस्ति तदा अन्यस्य भावात् । तदपि नित्येषु न सम्भवति । सर्वदा १३६०५ सर्वस्य भावात् । न च अन्या गतिरस्ति । तत्कथं वर्णपौर्वापर्यं १३६०६ वाक्यं यदपौरुषेयं साध्येत । १३६०७ अनित्याव्यापितायां च दोषः प्रागेव कीर्तितः ॥२६०॥ १३६०८ अथ मा भूदयं दोष इत्यनित्यानव्यापिनश्च वर्णानिच्छेत् । १३६०९ तावपि पक्षौ प्रागेव निराकृतावित्यपरिहारः । १३६१० व्यक्तिक्रमो अपि वाक्यं न नित्यव्यक्तिनिराकृतः । १३६११ न वर्णानां रूपानुपूर्वी वाक्यम् । किं तर्हि । तद्व्यक्तेः । सा १३६१२ यथा स्ववर्णाभिव्यक्तिप्रत्ययक्रमाद्भवन्ती क्रमयोगिनी १३६१३ इति तदा अनुपूर्वी वाक्यमित्यपि मिथ्या । तस्या नित्येषु प्रागेव १३६१४ निषिद्धत्वात् । कार्यताविशेष एव साक्षाच्शक्त्य्उपधानेन ज्ञान १३६१५ जनकानां व्यक्तिरित्याख्यातमेतत् । १३६१६ व्यापारादेव तत्सिद्धेः करणानां च कार्यता ॥२६१॥ १३६१७ यत्खलु रूपं यत एव उपलभ्यते तस्य तद्उपलब्धिनान्तरीयकाम् १३६१८ उपलब्धिमेव आश्रित्य लोकः कार्यतां प्रज्ञापयति । सा १३६१९ वर्णेष्वप्यस्ति । स एव च अन्यत्र अपि तद्आश्रयः । न विशेषः । तत् १३६२० कथं तुल्ये अभ्युपगमनिबन्धने न वर्णाः कार्याः । न १३६२१ च एतदुपलब्ध्य्आश्रया कार्यतास्थितिः । किं तर्हि । यत्सत्येव १३६२२ भवति इति सत्ताश्रया । सा सत्ता कुतः सिद्धा ये न कार्यतां साधयेत् । १३६२३ न ह्यसिद्धायामस्यामेवं भवति इति । तस्मात्सत्ता १३६२४ सिद्धिस्तत्साधनी । सा च उपलब्धिरेव । सत्यमेवं यदि तस्य १३६२५ प्राङ्न सत्ता सिद्धा स्यात् । सा हि सत्तासिद्धिर्या असिद्धिपूर्विका । १३७०१ ननु तद्रूपमसिद्धमेव यत्तथाभूतविज्ञानाव्यवधान १३७०२ उपयोगि । सिद्धमेव तदन्यवैकल्यान्न उपयुक्तमिति १३७०३ चेत् । कथमिदानीमुपयुक्तानुपयुक्तयोरभेदः । न अपि भेदः १३७०४ शब्दस्वभावासंस्पर्शी तस्य एव अतिशयस्य उपयोगसिद्धेस्तस्या १३७०५ कारणत्वप्रसङ्गात् । यस्य एव भावे साध्यसिद्धिस्तदेव हि १३७०६ तत्र उपयोगि युक्तम् । तद्अतिशयोपयोगे अप्यस्य तद्वत्प्रसङ्गः । १३७०७ तस्मादतिशेत एव अव्यवहितसामर्थ्योपयोगो अवस्था १३७०८ भेदस्तद्अन्यम् । अनतिशयस्य अपेक्षा च प्रागेव निषिद्धा । १३७०९ स च करणव्यापारादेव सिद्ध इति सर्वकार्यतुल्यधर्मा । १३७१० तस्य तादृशस्य व्यक्तौ सर्वं व्यङ्ग्यं न वा किंचिदप्य् १३७११ अविशेषात् । तथा हि । १३७१२ स्वज्ञानेन अन्यधीहेतुः सिद्धे अर्थे व्यञ्जको मतः । १३७१३ यथा दीपो अन्यथा वा अपि को विशेषो अस्य कारकात् ॥२६२॥ १३७१४ स्वप्रतिपत्तिद्वारेण अन्यप्रतिपत्तिहेतुर्लोके व्यञ्जकः सिद्धः १३७१५ दीपादिवत्स चेत्प्राक्सिद्धः स्यात्समानजातीयोपादानक्षणसिद्धेः । १३७१६ न तस्य एव अतिशयस्य ज्ञानहेतोः तस्य तत्सामग्रीप्रत्ययत्वात् । १३७१७ ये पुनरसिद्धोपलम्भनाः कारका एव कुलालादिवद् १३७१८ घटादौ । प्रत्यभिज्ञानादयो अपि सिद्धिहेतवो न हेतुलक्षणं १३७१९ पुष्णन्ति । यदपि किंचिदुत्तरा अकारप्रतीतिरकारप्रतीतेः पूर्वाभिन्न १३७२० विषया तद्वदित्यादि । तदपि न स्वलक्षणयोरभेद १३७२१ साधने समर्थम् । तत्स्वभावसिद्धेः । सामान्येन वचने १३८०१ भिन्नविषयत्वस्य अप्यविरोधः । एकविषययोश्च प्रतीत्योः १३८०२ पूर्वापरभावायोगात्संनिहितासंनिहितकारणत्वेन उत्पादानुत्पादात् १३८०३ संनिधाने अप्यनुत्पन्नस्य अतत्कारणत्वात्तयोर् १३८०४ भिन्नाखिलकारणत्वम् । तत्र एकाभेदे अपि शक्तस्य अप्रतीक्षणाद् १३८०५ युक्तिविरुद्धं पूर्वापरयोः प्रतीत्योरेकविषयत्वम् । प्रतीति १३८०६ प्रतिभासस्वभावभेदे अपि नामसाम्यादेकविषयत्वमप्य् १३८०७ अयुक्तम् । घटादिष्वपि प्रसङ्गात् । तत्र दृष्टविरोधादसाधनत्वम् १३८०८ इति चेत् । इह अपि विरोधाभावः केन सिद्धः । यावत्तथा अभिधेयता १३८०९ अर्थभेदेन व्याप्ता न साध्यते तावत्सन्दिग्धो १३८१० व्यतिरेकः । प्रतिकरणभेदं च भिन्नस्वभावः शब्दः १३८११ श्रुतौ निविशमानो यदा एकः साध्यते किं न घटादयः । तत्र १३८१२ अपि शक्यमेवं व्यञ्जकभेदात्प्रतिभासभेद इति प्रत्यवस्थातुम् । १३८१३ अपि च । १३८१४ करणानां समग्राणां व्यापारादुपलब्धितः । १३८१५ नियमेन च कार्यत्वं व्यञ्जके तद्असम्भवात् ॥२६३॥ १३८१६ न हि कदाचिद्व्यापृतेषु करणेषु शब्दानुपलब्धिः । न च अवश्यं १३८१७ व्यञ्जकव्यापारो अर्थमुपलम्भयति । क्वचित्प्रकाशे १३८१८ अपि घटाद्य्अनुपलब्धेः । सा इयं नियमेन उपलब्धिस् तद्व्यापाराच् १३८१९ शब्दस्य तद्उद्भवे स्यात् । अकर्तुर्व्यापारे अपि तत्सिद्ध्य्अयोगात् । १३८२० व्यापिनित्यत्वादुपलम्भ इति चेत् । क इदानीं घटादिषु १३८२१ समाश्वासः । तेषां तथा अनिष्टेरिति चेत् । शब्दः किमिष्टस्तत्समान १३८२२ धर्मा । न च अस्य कश्चिदतिशय इत्युक्तम् । प्रतिषिद्धे च १३८२३ व्यापिनित्यत्वे । घटादीनां व्यञ्जकान्तरसम्भवाददोषः । १३८२४ प्रकाशो ह्येषां व्यञ्जकः सिद्धः । कुलालादीनां व्यञ्जकत्वे १३८२५ तादृशा एव स्युः । अतिशेरते च । ततो व्यञ्जकातिशयात्कारका एव । १३८२६ उपकारकस्य गत्य्अन्तराभावात् । तदेतच्शब्देष्वपि तुल्यम् । १३८२७ तत्र अपि इन्द्रिययोग्यदेशतादिभ्यः करणानामतिशयात् । घटादि १३८२८ कारकधर्मस्य च करणेषु दृष्टेः । तस्य एव प्रदीपादेर् १३८२९ विषयान्तरस्य च कस्यचिद्व्यञ्जकान्तराभावात् । तत् कारणानि १३८३० तेषां व्यञ्जकानि स्युः । तस्मान्न व्यक्तिः शब्दस्य । भवन्ती १३९०१ वा करणेभ्यो अतिशयत्ता वा शब्दस्य व्यक्तिरावरणविगमो १३९०२ विज्ञानं वा गत्य्अन्तराभावात् । तत्र न अतिशयोत्पत्तिरनित्यता १३९०३ प्रसङ्गात् । तस्याः पूर्वापररूपहान्य्उपजननलक्षणत्वात् । १३९०४ अथ १३९०५ तद्रूपावरणानां च व्यक्तिस्ते विगमो यदि । १३९०६ अभावे करणग्रामसामर्थ्यं किं नु तद्भवेत् ॥२६४॥ १३९०७ न ह्यावरणस्य अकिंचित्कराणि करणानि समर्थानि नाम । विगमश् १३९०८ च अभावः । न च अभावः कार्यमिति निवेदितमेतत् । न अपि शब्दस्य १३९०९ नित्यस्य किंचिदावरणमसामर्थ्यादित्यप्युक्तम् । १३९१० तस्मान्न आवरणे करणोपक्षेपः । न अप्येषामसामर्थ्यम् । तद् १३९११ व्यापाराभावे शब्दानुपलब्धेः । अतो युक्तमेते यच्शब्दान् १३९१२ कुर्युः । अन्यथा । १३९१३ शब्दाविशेषादन्येषामपि व्यक्तिः प्रसज्यते । १३९१४ तथा अभ्युपगमे सर्वकारणानां निरर्थता ॥२६५॥ १३९१५ यदि सर्वकारणसमानधर्माण्यपि करणानि व्यञ्जकानि न १३९१६ किंचिदिदानीं कार्यं स्यात् । न च एतद्युक्तम् । सर्वकारणानाम् १३९१७ आनर्थक्यप्रसङ्गात् । वस्तुनो अनाधेयविशेषत्वात् । आवरणाभावस्य १३९१८ अकार्यत्वात् । वस्तुवदेव ज्ञानस्य अपि सिद्धत्वात् । ज्ञानं १३९१९ प्रति कारकत्वे कस्यचित्तथाभूतानामन्येषामपि तथाभाव १३९२० प्रसङ्गेन सर्वस्य कार्यताप्रसङ्गात् । तस्मादयं १३९२१ कारकाभिमतो अर्थकलापो न व्यक्तौ न क्रियायामिति व्यर्थ १३९२२ एव स्यात् । तथा च इदमनुपकार्योपकारकं निरीहं जगत्स्यात् । १३९२३ शब्दनित्यत्वे च । १३९२४ साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् । १३९२५ अनुदाहरणं सर्वभावानां क्षणभङ्गतः ॥२६६॥ १४००१ क्षणभङ्गिनो हि सर्वभावा विनाशस्य अकारणत्वादित्युक्तं १४००२ वक्ष्यते च । उत्पत्तिमन्तश्च परतः । सत्ताया आकस्मिकत्वायोगात् । १४००३ तन्न इदं प्रत्यभिज्ञानं सत्प्रयोगादिकं क्वचिदन्वेति १४००४ स्थिरैकरूपे । अपरापरस्वभावपरावृत्तिष्वेव दीपादिषु १४००५ दृष्टमिति विरुद्धमेव । न । अभिन्नजन्मनः साधर्म्यविप्रलम्भाद् १४००६ भ्रान्त्या दीपादिषु भावात् । अभिन्नजन्म इति केन अवष्टम्भेन १४००७ उच्यते । तस्य एव अभेदस्य सर्वत्र पौर्वापर्येण १४००८ चिन्त्यत्वात् । तथा भेदस्य अपि इति चेत् । तेन एव संशयो अस्तु । न च १४००९ संशयितात्सिद्धिः । विवेकादर्शनादेकत्वमिति चेत् । न । ज्ञान १४०१० पौर्वापर्येण सदसत्त्वसिद्धेः । स्वभावविवेकसद्भावात् । १४०११ यद्यपराणि ज्ञानानि प्राक्संनिहितकारणानि पूर्वज्ञानवज्जातानि १४०१२ एव स्युः । अजातानि तु कारणवैकल्यं सूचयन्ति । समर्थस्य १४०१३ जननादसमर्थस्य अपि पुनः सामर्थ्याप्रतिलम्भात् । १४०१४ प्रतिलम्भे वा स्थैर्यायोगात् । तदयं सत्प्रयोग इत्यपि जननम् १४०१५ एव प्रयोक्तुः सामर्थ्यात् । स्वयं समर्थे तस्य अनुपयोगात् । १४०१६ प्रयोग इत्यपि इष्टसाधनसमर्थोत्पादनमेव समान १४०१७ जातीयोपादानापेक्षमनपेक्षं वा वास्य्आदिप्रयोगवत्कर्म १४०१८ आदिप्रयोगवच्च कथ्यते । यो अपि मन्यते समक्षे प्रत्यभिज्ञानं १४०१९ प्रत्यक्षमेव ततः प्रत्यक्षादेव स्थैर्यसिद्धिर् १४०२० इति । तदप्युत्तरत्र निषेत्स्यामः । १४०२१ दूष्यः कुहेतुरन्यो अपि । १४०२२ न एव कश्चिद्धर्मो यः समानजातीयमन्वेति । सर्वधर्माणाम् १४०२३ एतद्अवस्थत्वात् । सर्वस्थैर्यप्रतिज्ञायाश्च यथा अभिधानं १४०२४ युक्तिविरोधादन्ये अपि नित्यहेतवो वाच्यदोषाः । १४०२५ बुद्धेरपुरुषाश्रये । १४०२६ बाधा अभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् ॥२६७॥ १४०२७ यदि व्यक्तिर्बुद्धिस्तदा आनुपूर्वी वाद्यम् । तस्या अपौरुषेयत्व १४१०१ प्रसाधने बुद्धीनां पुरुषगुणत्वाभ्युपगमात्सम यो १४१०२ अस्य बाध्यते । प्रत्यक्षं खल्वप्येतद्यदिमा बुद्धयः १४१०३ पुरुषसंख्यातेभ्यः पुरुषगुणेभ्यो वा मनस्कारादिभ्यो १४१०४ भवन्ति इति । न च कार्यता नाम अन्या भावाभावविशेषाभ्याम् । १४१०५ स च भावः प्रत्यक्षो अभावो अप्यनुपलब्धिलक्षणः प्रत्यक्ष १४१०६ सामर्थ्यसिद्ध इति वक्ष्यामः । तत एव पुरुषकार्यता १४१०७ बुद्धीनामनुमेयान्वयव्यतिरेकलिङ्गत्वादस्याः । किं च । १४१०८ आनुपूर्व्याश्च वर्णेभ्यो भेदः स्फोटेन चिन्तितः । १४१०९ कल्पनारोपिता सा स्यात्कथं वा अपुरुषाश्रया ॥२६८॥ १४११० वर्णव्यतिरेकिण्यानुपूर्वी स्फोटविचारानुक्रमेण एव प्रतिविहिता । १४१११ न अपि सा वर्णस्वभावा । वस्तुस्वभावस्य एतद्विकल्प अनतिक्रमात् । १४११२ अतद्रूपेषु तद्रूपसमारोपप्रतिभासिन्या बुद्धेर् १४११३ अयं विभ्रमः स्यादानुपूर्वी इति । सा च कथमपौरुषेयी । बुद्धि १४११४ विठपनप्रत्युपस्थापनात् । अपि च । आत्यन्तिकस्य कस्यचित् १४११५ स्वभावस्य अभावाद्भवता ध्वनिना अनात्यन्तिकेन भवितव्यम् । १४११६ स च अहेतुको अन्यहेतुको वा नित्यं भवेन्न च पुरुष १४११७ व्यापारात् । तस्मान्न अपौरुषेयः । कथमिदं गम्यते अनात्यन्तिको १४११८ ध्वनिरन्यो वा भाव इति । १४११९ सत्तामात्रानुबन्धित्वान्नाशस्य अनित्यता ध्वनेः । १४१२० न हि नाशो भावानां कुतश्चिद्भवति । तद्भावस्वभावो भवेत् । १४१२१ भावस्य एव स्वहेतुभ्यस्तद्धर्मणो भावात् । न च भाव १४१२२ विशेषस्वभावः । तस्य निषेत्स्यमानत्वात् । तस्माद्भाव १४१२३ मात्रस्वभावः स्यात् । तेन शब्दो अन्यो वा सत्ताभाजनः सर्व १४१२४ एव भावो अनात्यन्तिक इति सिद्धम् । न सिद्धम् । तस्य एव विनाशस्य १४१२५ अपरजन्मासिद्धेः । तथा ह्यग्निना काष्ठं दण्डेन १४२०१ घट इति विनाशहेतवो भावानां दृश्यन्ते । अन्वयव्यतिरेकानुविधानं १४२०२ हेतुतद्वतोर्लक्षणमाहुः । न । पूर्वस्य स्वरस १४२०३ निरोधे अन्यस्य विशिष्टप्रत्ययाश्रयेण विकृतस्य उत्पत्तेः । १४२०४ अस्तु वा अग्निः काष्ठविनाशहेतुः । स विनाशो अग्निजन्मा किं काष्ठम् १४२०५ एव आहोस्विदर्थान्तरम् । १४२०६ अग्नेरर्थान्तरोत्पत्तौ भवेत्काष्ठस्य दर्शनम् ॥२६९॥ १४२०७ अविनाशात् । १४२०८ किमित्यर्थान्तरादर्थान्तरजन्मनि काष्ठमभूतं नाम १४२०९ न दृश्यते वा । अतिप्रसङ्गो ह्येवं स्यात् । १४२१० स एव अस्य विनाश इति चेत् । १४२११ यदि स एव अर्थो अग्निजन्मा अभावस्तदिदमभूतत्वान्न दृश्यत १४२१२ इति । भवतु तस्य इदं नाम अभाव इति । तथा अपि १४२१३ कथम् । १४२१४ अन्यो अन्यस्य विनाशः । न हि कस्यचिदर्थस्य नामकरणमात्रेण १४२१५ काष्ठं न दृश्यत इति युक्तम् । न च अन्यो अन्यस्य विनाशः । १४२१६ अतिप्रसङ्गात् । विशेषाभावात्तस्य अर्थान्तरत्वेन वस्तुभूतस्य १४२१७ तद्अन्येभ्यः । काष्ठे अग्निकृतः स्वभावो विनाशो न सर्व इति १४२१८ चेत् । काष्ठा इति कः सम्बन्धः । आश्रयाश्रयि सम्बन्धश्चेत् । १४२१९ न । तस्य निषेत्स्यमानत्वात् । जन्यजनकभावाश्चेत् । अग्नेरिति १४२२० किम् । काष्ठादेव भावात् । तद्अपेक्षादुत्पत्तेरदोष इति चेत् । १४२२१ अनतिशयलाभिनः का अपेक्षा । लाभे वा अपरकाष्ठजन्म स्यात् । १४२२२ पूर्वं त्वप्रच्युतिकारणम् । तथा एव दृश्यत । तत एव अग्नेः १४२२३ पूर्वविनाश इति चेत् । पूर्वेण अस्य कः सम्बन्ध इति स एव प्रसङ्गो १४२२४ अपर्यवसानश्च । तदवश्यं विनाशसम्बन्धयोग्यमुत्तरम् १४२२५ अतिशयं प्रत्युपकुर्वाणो अग्निरपूर्वमेव जनयति इति १४२२६ पूर्वं तद्अवस्थं दृश्येत । काष्ठविनाश इति च काष्ठाभाव १४३०१ उच्यते । न च अभावः कार्यः । तत्कारी च अकारक एव इत्यनपेक्षणीय १४३०२ इत्युक्तम् । स्वभावाभावस्य च ततो भेदे ततो निवर्तमानस्य १४३०३ भावस्य स्वभाव एव समर्थितः स्यादिति कथम् १४३०४ अभूतो नाम । तस्मान्न १४३०५ अन्यो अन्यस्य विनाशो अस्तु काष्ठं कस्मान्न दृश्यते ॥२७०॥ १४३०६ को अयमर्थान्तरभावकाष्ठदर्शनयोर्विरोधः । १४३०७ तत्परिग्रहतश्चेन्न तेन अनावरणं यतः । १४३०८ यदि तेन अर्थान्तरेण परिगृहीतमिति काष्ठं न दृश्येत तत् १४३०९ काष्ठस्य आवरणमित्यापन्नम् । न च एतद्युक्तम् । आवरणं १४३१० हि दर्शनं बिबध्नीयान्न अभिघाटादीनि द्रव्यसामर्थ्यानि । १४३११ सर्वप्रतिबन्धे च नन्वनेन एव द्रव्यं विनाशितं स्यात् । १४३१२ सर्वशक्तिप्रच्यावनात् । पुनस्तत्र अप्यग्नाविव प्रसङ्गाद् १४३१३ अनवस्था । अप्रच्युतेषु वा अस्य अभिघाटसामर्थ्यादिषु सता वा १४३१४ तेन अन्येन किं विनाशितम् । यदि च अग्निसमुद्भवस्य विनाशाख्यस्य १४३१५ अर्थस्य परिग्रहात्काष्ठं न दृष्टम् । १४३१६ विनाशस्य विनाशित्वं स्यादुत्पत्तेस्ततः पुनः ॥२७१॥ १४३१७ काष्ठस्य दर्शनम् । १४३१८ अवश्यं ह्युत्पत्तिमता विनाशेन विनष्टव्यम् । तस्मिन् विनष्टे १४३१९ पुनः काष्ठादीनामुन्मज्जनं स्यात् । १४३२० हन्तृघाते चैत्रापुनर्भवः । १४३२१ यथा अत्र अप्येवमिति चेद्धन्तुर्न अमरणत्वतः ॥२७२॥ १४३२२ विनाशविनाशे अपि च वस्तुनः प्रत्यापत्तिः । न हि हन्तरि हते अपि १४३२३ तद्वतः प्रत्युज्जीवति इति चेत् । न । हन्तुस्तद्घातहेतुत्वात् । १४३२४ न ब्रूमो विनाशहेतोरग्निदण्डादेर्निवृत्तौ भावेन भवितव्यम् १४३२५ इति । किं तर्हि । भावाभावस्य अत्यन्तानुपलब्धिलक्षणस्य । १४३२६ तन्निवृत्तौ कान्या गतिः स्वभावस्थितेः । हन्ता हि चैत्रस्य १४३२७ न नाशकल्पः । किं तर्हि । दण्डादिकल्पः । नाशकल्पं १४४०१ ह्यस्य मरणम् । तन्निवृत्तौ च स्यादेव अस्य पुनर्भावः । १४४०२ अनन्यत्वे अपि नाशस्य स्यान्नाशः काष्ठमेव तु । १४४०३ तस्य सत्त्वादहेतुत्वं न अतो अन्या विद्यते गतिः ॥२७३ । १४४०४ अनर्थान्तरभूतो विनाशः काष्ठात् । तदेव तद्भवति । तच् १४४०५ च प्रागेव अस्ति इति किमत्र सामर्थ्यं वह्न्य्आदीनाम् । तस्मात् १४४०६ तद्अनुपकारात्तेन न अपेक्ष्यन्ते कथंचित् । न अप्यस्य इदमिति १४४०७ सम्बन्धमर्हति । तस्य उपकारनिबन्धनत्वात् । अन्यथा अतिप्रसङ्गात् । १४४०८ पारंपर्येण उपकारे अप्यवश्यमयं विकल्पो अन्वेति १४४०९ स किमुपकारो अर्थान्तरमाहोस्वित्तदेव इति । तद्अर्थान्तरत्वे १४४१० अपि तस्य इति पुनरुपकारत्वादिपर्यनुयोगस्तद्अवस्था १४४११ एव । तथा अनन्यत्वे । तस्मात्सतो रूपस्य तत्त्वान्यत्त्वाव्यतिक्रमात् । १४४१२ उपकारोत्पादनस्य च रूपनिष्पादनलक्षणत्वात् । १४४१३ तद्अतत्क्रियाविकलो न कर्ता एव इति न कस्यचिधेतुरहेतुश्च १४४१४ न अपेक्षते । तस्मात्स्वयमयं भावस्तत्स्वभाव इति सिद्धम् । १४४१५ अहेतुत्वे अपि नाशस्य नित्यत्वाद्भावनाशयोः॥ १४४१६ सहभावप्रसङ्गश्चेदसतो नित्यता कुतः ॥२७४॥ १४४१७ स्यादेतद्यस्य अपि विनाशो अहेतुकः सो अवश्यं नित्य इति भावस् १४४१८ तद्अभावलक्षणो विनाशश्च सह स्यातामिति । न । तस्य नित्यानित्य १४४१९ धर्मायोगात् । न ह्यसत्ययं विकल्पः सम्भवति । १४४२० तयोर्वस्तुधर्मत्वात् । विनाशस्य च अकिंचित्वात् । भवतो हि १४४२१ केनचित्सहभावः स्यात् । न च विनाशो भवति । तस्माददोषः । १४४२२ असत्त्वे अभावनाशित्वप्रसङ्गो अपि न युज्यते । १४४२३ यस्माद्भावस्य नाशेन न विनाशनमिष्यते ॥२७५॥ १४४२४ कथमसन् विनाशो भावं नाशयेत् । अतो अविनाशी भावः स्याद् १४४२५ इत्यप्रसङ्ग एव । विनाशाद्भावनाशानभ्युपगमात् । यो हि १४५०१ विनाश इति किंचिन्न इत्याह स कथं ततो भावनाशमिच्छेत् । १४५०२ कथमिदानीमसति विनाशे भावो नष्टो नाम । न ह्यसद्विनाशा १४५०३ नष्टा गण्यन्ते प्रत्युत्पन्नावस्थायाम् । न हि यो येन अतद्वान् १४५०४ स तेन तथा व्यपदिश्यते प्रतीयते वा । यथा अश्वो विषाणेन । १४५०५ न वै विनाशो न अस्त्येव । स तु न अस्ति यो भावस्य भवन्ति । भाव १४५०६ एव तु क्षणस्थितिधर्मा विनाशः । तमस्य स्वभावमुत्तर १४५०७ कालं विभावयन्तो विनाशो अस्य भूत इति यथाप्रतीति व्यपदिशन्ति १४५०८ इत्युक्तम् । न हि भावस्य किंचित्कदाचिद्भवति । स एव १४५०९ केवलं स्वहेतुभ्यस्तथाभूतो भवति । तन्न केनचिद्भवता १४५१० स नष्टः । किं तर्हि । स्वभाव एव अस्य येन स नष्टो नाम । १४५११ कथं तर्हि इदानीमहेतुको विनाशो भवति इत्युच्यते । १४५१२ नश्यन् भावो अपरापेक्ष इति तज्ज्ञापनाय सा । १४५१३ अवस्था अहेतुरुक्ता अस्या भेदमारोप्य चेतसा ॥२७६॥ १४५१४ न भावो जातो अपरस्मान्नाशं प्रतिलभते तथाभूतस्य एव १४५१५ स्वयं जातेरित्यपरापेक्षधर्मान्तरप्रतिषेधार्थं तत् १४५१६ स्वभावज्ञापनेन अर्थान्तरमिव धर्मिणो धर्मं चेतसा १४५१७ विभज्य तन्मात्रजिज्ञासायां स्वभाव एव तथा उच्यते । तदेतन् १४५१८ मन्दबुद्धयः क्वचित्तथा दर्शनाद्घोषमात्रविप्रलब्धा १४५१९ नाशं गुणं तस्य च भावमारोप्य सहेतुकमहेतुकं १४५२० वा अप्रतिष्ठिततत्त्वया भावचिन्तया आत्मानमाकुलयन्ति । १४५२१ स्वतो अपि भावे अभावस्य विकल्पश्चेदयं समः । १४५२२ नन्वपरभावित्वे अपि विनाशस्य स्वत एव भावस्य भवतो १४५२३ अयं तत्त्वान्यत्त्वविकल्पस्तुल्यः । तदा किमर्थान्तरभावे १४५२४ भावो न दृश्यते अनर्थान्तरत्वे अपि तदेव तद्भवति । १४५२५ तन्न किंचिदस्य जातमिति कथं विनष्टो नाम । नन्वत्र । १४५२६ न तस्य किंचिद्भवति न भवत्येव केवलम् ॥२७७॥ १४५२७ इत्युक्तम् । न ह्ययं विनाशो अन्यो वा कश्चिद्भावस्य भवति इत्य् १४५२८ आह । किं तर्हि । स एव भावो न भवति इति । यदि हि कस्यचिद्भावं १४५२९ ब्रूयात्न भावो अनेन निवर्तितः स्यात् । तथा च भावनिवृत्तौ १४५३० प्रस्तुतायामप्रस्तुतमेव उक्तं स्यात् । न हि कस्यचिद् १४५३१ भावेन भावो न भूतो नाम । तदा न भूतो यदि स्वयं न १४६०१ भवेत् । न भवति इति च प्रसज्यप्रतिषेध एष न पर्युदासः । १४६०२ अन्यथा इह अपि कस्यचिद्भावे न प्रतिषेधपर्युदासयो रूप १४६०३ भेदः स्यादुभयत्र विधेः प्राधान्यात् । एवं च अप्रतिषेधात् १४६०४ कस्यचित्पर्युदासो अपि क्वचिन्न स्यात् । यदि हि किंचित्कुतश्चिन् १४६०५ निवर्तेत तदा तद्व्यतिरेकि संस्पृश्येत । तत्पर्युदासेन । तच् १४६०६ च न अस्ति । सर्वत्र निवृत्तिर्भवति इत्युक्ते कस्यचिद्भावस्य एव १४६०७ प्रतीतिः । तथा च अनेन अर्थान्तरभाव एव उक्तः स्यात् । न तयोः १४६०८ परस्परं विवेकः । अविवेके च न पर्युदासः । तदेवं व्यतिरेक १४६०९ अभावादन्वयो अपि न स्यात् । तस्य एकस्वभावस्थितिलक्षणत्वात् । १४६१० तत्स्थितिश्च तद्अन्यव्यतिरेके सति स्यात् । स च न अस्ति इत्य् अप्रवृत्ति १४६११ निवृत्तिकं जगत्स्यात् । तस्माद्यस्य नाशो भवति इत्युच्यते स १४६१२ स्वयमेव न भवति इत्युक्तं स्यात् । न वै घोषसाम्याद्विषय १४६१३ अन्तरदृष्टो विधिः सर्वत्र योजनामर्हति । न हि गर्दभ इति १४६१४ नामकरणाद्बालेयधर्मा मनुष्ये अपि संयोज्याः । तथा न १४६१५ चैत्रस्य पुत्रो भवति इत्यत्र दृष्टो विधिर्नाशे अपि विरोधात् । १४६१६ एवं च अभिधाने अपि प्रयोजनमावेदितमेव । अतः १४६१७ भावे ह्येष विकल्पः स्याद्विधेर्वस्त्व्अनुरोधतः । १४६१८ भावो अवश्यं भवन्तमपेक्षते । स च स्वभाव एव । निःस्वभावस्य १४६१९ क्वचिद्व्यापारे समावेशाभावात् । व्यापार इति हि १४६२० तथाभूतस्वभावोत्पत्तिः । सा निःस्वभावस्य कथं स्यात् । १४६२१ कथमिदानीं भवत्यभावः शशविषाणमित्यादिव्यवहारः । १४६२२ न वै शशविषाणं किंचिद्भवति इत्युच्यते । अपि त्वेवम् १४६२३ अस्य न भवति इति भावप्रतिषेध एव क्रियते । अपि च । व्यवहर्तार १४६२४ एव एतदेवं व्यापारवदिव समारोप्य आदर्शयन्ति १४६२५ प्रकरणेन केनचित् । न तु तत्तथा । सर्वार्थविवेचनं हि १४६२६ तत्र तत्त्वं न कस्यचित्समावेशः । न खल्वेवं विनाशो वस्तुनि १४६२७ तद्भावात् । असावपि यदि वक्तृभिरेवं ख्याप्यते न १४६२८ तु स्वयं तथा तदा न किंचिद्भवति इति इष्टमेव । तस्मात्स्वयं १४७०१ भवन् स्वभावो विकल्पद्वयं न अतिवर्तते तत्त्वमन्यत्त्वम् १४७०२ इति । अतत्त्वमेव स्वभावस्य अन्यत्त्वम् । न हि रूपरसयोर् १४७०३ अप्यन्यदेव परस्परमन्यत्त्वम् । स्वभावाप्रतिबन्धो १४७०४ अन्यत्त्वमिति चेत् । को अयं प्रतिबन्धो नाम येन स च न १४७०५ स्यात् । न अन्यस्वभावश्च । जन्म इति चेत् । सर्वकारणानां परस्परम् १४७०६ अवाच्यता स्यात् । तथा च सर्वः सर्वस्य कथंचिदुपयोगि १४७०७ इति न कश्चित्कुतश्चिदन्यः स्यात् । एवं च अवाच्यता इत्यपि कार्यकारणभाव १४७०८ एव शब्दान्तरेण उक्तः स्यात् । न अर्थभेदः । स्वभावाननुगमनं १४७०९ त्वन्यत्त्वं ब्रूमः । स च स्वभाववतां परस्परम् १४७१० अस्त्येव इत्यन्यत्त्वमेव । न च तज्जन्मलक्षणात् १४७११ स्वभावप्रतिबन्धादन्यः प्रतिबन्धो नाम । अनायत्तस्य १४७१२ व्यभिचाराविरोधात् । ततो धर्मभेदाच्च अन्यत्त्वम् । ज्ञानकृतः १४७१३ प्रतिबन्ध इति चेत् । स्यादेतत् । यत्प्रतिपत्तिनान्तरीयकं १४७१४ यज्ज्ञानं तद्गतौ नियमेन तत्प्रतिभासनात्तदतद्रूपम् १४७१५ अप्यवाच्यमिति । न । तस्य निःस्वभावत्वात्स्वयम् । स एव हि १४७१६ तस्य स्वभावो यः प्रतिभाति । स्वभाववत्त्वे अस्य तद्वत्प्रतिभास १४७१७ प्रसङ्गात् । अप्रतिभासमानस्य च दृश्याभावात् । अदृश्यत्वे १४७१८ अपि न तद्रूपं ज्ञानमिति कस्य किमायत्ता प्रतिपत्तिः । न १४७१९ च यद्यदायत्ताप्रतीतिकं तस्य स्वभावप्रतिभास एव नश्यति । १४७२० प्रकाशायत्तप्रतीतीनामिव नीलादीनाम् । का वा तस्य प्रत्यासत्तिः । १४७२१ तत्र यत्तस्मिन्ननात्मरूपे प्रतीयमाने स स्वयं १४७२२ प्रत्युपतिष्ठते । अतिप्रसङ्गो ह्येवं स्यात् । प्रतीयमानस्य १४७२३ तद्उपादानता इति चेत् । को अयमुपादानार्थः । न कार्यकारणभावो १४७२४ अनभ्युपगमात् । अभ्युपगमे वा न कार्यकारणे अन्योन्य १४७२५ प्रतीतिप्रत्युपस्थापने । प्रतीतेरेव तन्नान्तरीयकता १४७२६ प्रत्यासत्तिरिति चेत् । ननु स एव असति प्रतिबन्धे न युक्ता इत्युच्यते । १४८०१ न अकार्यकारणयोः कश्चित्प्रतिबन्ध इति च उक्तम् । यत्प्रतिपत्ति १४८०२ नान्तरीयकं यज्ज्ञानमित्यपि तज्ज्ञाने सति स्यात् । न हि यो १४८०३ विज्ञाने स्वरूपेण अस्वरूपासंसर्गेण न प्रतिभासते तस्य किंचिज् १४८०४ ज्ञानम् । तद्अभावान्न सिध्यति अवाच्यतालक्षणमर्थ १४८०५ रूपस्य । तद्भवता वस्तुतस्तत्त्वान्यत्त्वभाजा भवितव्यम् । १४८०६ यस्य तु विनश्यतो भावस्य न किंचिद्भवति । तेन १४८०७ न भावो भवति इत्युक्तमभावो भवति इत्यपि ॥२७८॥ १४८०८ यदप्ययं भावस्य अभावो भवति इत्याह । तदपि भावो १४८०९ न भवति इत्येव उक्तं भवति । एवं हि स निवर्तितो भवति । १४८१० प्रतिषेधे विधेरसम्भवात् । तत एव अस्य विनाशे न कश्चिधेतुः । १४८११ तथा हि । १४८१२ अपेक्ष्येत परः कार्यं यदि विद्यत किंचन । १४८१३ यदकिंचित्करं वस्तु किं केनचिदपेक्ष्यते ॥२७९॥ १४८१४ सति हि कार्ये कारणं भवति । न च नश्यतो भावस्य किंचित् १४८१५ कार्यमित्युक्तम् । तस्माद्यो नाम नाशहेतुः स भावे न १४८१६ किंचित्करोति इत्यकिंचित्करो न अपेक्ष्यणीयः । तत्कथमिदानीम् १४८१७ अनुत्पन्नातिशयस्तद्अवस्थ एव भावो नष्टो नाम । १४८१८ नन्वतिशयोत्पत्तावपि स एव तस्य अतिशय उत्पन्न इति कथं १४८१९ स नष्टो नाम । तेन न अयं तद्अवस्थो नष्टो नाम । येन स्वयं १४८२० न भवति तेन नष्टः । न अर्थान्तरोत्पादादित्युक्तम् । न ह्य् १४८२१ अतिशयोत्पत्त्या स्वयं न भूतो नाम । अभावस्य सर्वातिशयोपाख्या १४८२२ निवृत्त्या सर्वभावधर्मविवेकलक्षणत्वात् । भावस्य १४८२३ च उत्पत्तिसमावेशलक्षणत्वात् । तस्मान्न अभावे कस्यचिद्भावोपक्षेपो १४८२४ अन्यस्य । १४८२५ एतेन अहेतुकत्वे अपि ह्यभूत्वा नाशभावतः । १४८२६ सत्तानाशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् ॥२८०॥ १४८२७ यो अपि मन्यते अहेतुके अपि विनाशे अभूत्वा अस्य भावात्सत्तानित्यत्वं १४९०१ च दुर्निवारम् । अभूत्वा भवन्नहेतुको भवति इत्यपि १४९०२ विरुद्धमिति । सो अप्यनेन एव प्रत्याख्यातः । कस्यचिद्भावानभ्युपगमात् । १४९०४ यथा केषांचिदेव इष्टः प्रतिघो जन्मिनां तथा । १४९०५ नाशः स्वभावो भावानां न अनुत्पत्तिमतां यदि ॥२८१॥ १४९०६ अथ अपि स्याद् । भवतु नाम स्वभाव एष भावानां य इमे क्षण १४९०७ स्थितिधर्माणाः । स तु उत्पत्तिमतामेव भविष्यति । न हि स्वभाव १४९०८ इति सर्वः सर्वस्य स्वभावो भवति प्रतिघात्मतावत् । १४९०९ सत्यमेतत् । तथा अपि । १४९१० स्वभावनियमाधेतोः स्वभावनियमः फले । १४९११ न अनित्ये रूपभेदो अस्ति भेदकानामभावतः ॥२८२॥ १४९१२ न वै प्रतिघो अन्यो वा स्वभावो अकस्मात्प्रतिनियमवान् । यादृशी १४९१३ तु स्वहेतोः शक्तिस्थितिस्तादृशं फलं भवति इति हेतुस्वभाव १४९१४ नियमात्फलस्वभावनियमः । आकस्मिकत्वे अप्यस्य उक्तो १४९१५ दोषः । प्रतिघातात्मताहेतुस्वभावप्रतिनियमवन्न नश्वर १४९१६ जननप्रतिनियतस्वभावं भावं पश्यामः । येन तज्जन्मा १४९१७ तथा स्यान्न अन्यः । सर्वाकारजन्मनां विनाशदर्शनात् । १४९१८ नन्विदमप्यनिश्चेयमेव सर्वाकारजन्मानो नश्यन्ति इति । १४९१९ तासामनिःशेषदर्शनात् । विचित्रशक्तयो हि सामग्र्यो दृश्यन्ते । १४९२० तत्र काचित्स्यादपि या अनश्वरात्मानं जनयेत् । न । ज्ञेयाधिकारात् । १४९२१ ये कदाचित्क्वचित्केनचिज्ज्ञाताः सन्तो न ज्ञायन्ते १४९२२ तेषां सत्तानुबन्धी नाश इति ब्रूमः । त एव कृतका अनित्याः १४९२३ साध्यन्ते । न ह्ययं सम्भवो अस्ति यत्ते ज्ञानजनन १४९२४ स्वभावाः पुनरनष्टा न जनयेयुरपेक्षेरन् वा परम् । १४९२५ तज्जननस्वभावस्य निष्पत्तेः । न च तेष्वनपेक्षेषु कस्यचित् १४९२६ कदाचित्किंचिज्ज्ञानं निवर्तेत । न च एवंभूतं किंचिदस्ति । १४९२७ सर्वस्य केनचित्कदाचित्ज्ञानात् । ज्ञानमात्रार्थक्रियायामप्य् १५००१ असामर्थ्ये वस्त्वेव न स्यात् । तथा हि तल्लक्षणं वस्त्विति १५००२ वक्ष्यामः । तस्य च विनाशाव्यभिचारात्स सत्तानुबन्धी । १५००३ प्रत्याख्येया अत एव एषां सम्बन्धस्य अपि नित्यता । १५००४ अत एव यथा उक्ताद्वस्तुमात्रानुबन्धाद्विनाशस्य शब्दवत् १५००५ सम्बन्धनित्यता अपि प्रत्याख्येया । या च शब्दशक्तिर्योग्यताख्या १५००६ अर्थप्रतिपत्त्या आश्रयो जैमिनीयैर्वर्ण्यते स अर्थान्तरम् १५००७ एव न भवति । तथा हि । योग्यता इति रूपातिशय एव भावानामित्य् १५००८ आवेदितं प्राक् । अस्तु वा अर्थान्तरम् । तथा अपि १५००९ सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता ॥२८३॥ १५०१० उक्तो हि सम्बन्धार्थान्तरवादे अनेकप्रकारो दोषः । तेन एव १५०११ सा शब्दशक्तिर्दूषिता इति न पुनरुच्यते । अपि च । १५०१२ न अपौरुषेयमित्येव यथा अर्थज्ञानसाधनम् । १५०१३ दृष्टो अन्यथा अपि वह्न्य्आदिरदुष्टः पुरुषागसा ॥२८४॥ १५०१४ भवन्तु नाम अपौरुषेया वैदिकाः शब्दाः तथा अपि सम्भाव्यम् १५०१५ एव एषामयथार्थज्ञानहेतुत्वम् । न हि पुरुषदोषोपधानाद् १५०१६ एव अर्थेषु ज्ञानविभ्रमः । तद्रहितानामपि प्रदीपादीनां नीलोत्पल १५०१७ आदिषु वितथज्ञानजननात् । तदिमे शब्दाः संस्कारनिरपेक्षाः १५०१८ प्रकृत्या च अर्थेषु प्रतिभानहेतवः स्युः । स्वभावविशेषाद् १५०१९ वह्न्य्आदिवत् । वितथव्यक्तयश्च नियमेन एव नियम १५०२० कारणाभावादयुक्तमिति चेत् । अवितथव्यक्तिनियमे किं १५०२१ कारणम् । तस्माद्यथार्थव्यक्तिनियमवत्प्रकृत्या अयथार्थ १५०२२ व्यक्तिनियमः किं न कल्प्यते । अथवा वह्न्य्आदिवदेव अर्थेषु १५०२३ उभयज्ञानहेतुत्वं स्यात् । न ह्यपौरुषेया अपि वह्न्य्आदय १५०२४ एकत्र यथार्थज्ञानहेतवो अपि सर्वत्र तथा भवन्ति इति । १५०२५ तथा शब्दानामप्यपौरुषेयत्वे अप्युभयं स्यादिति । भवतु १५०२६ वह्न्य्आदीनां कृतकत्वाद्यथाप्रत्ययमन्यत्र अन्यथात्वम् १५०२७ न पुनर्नित्येषु शब्देष्वेतदस्ति । नन्वेवंविधो अन्यत्र १५०२८ अप्यस्त्येव धर्मस्तेषामपि संकेतबलादन्यथावृत्तेः १५०२९ कार्यजननस्वभावस्थितौ च एषां समयादेरपेक्षणीयस्य अभावात् । १५१०१ ततः प्रतीतिरर्थेषु सर्वस्य सर्वदा स्यात् । न च अस्ति १५१०२ तस्मान्न शब्दाः स्थितस्वभावा इति । अपि च । १५१०३ न ज्ञानहेतुता एव स्यात्तस्मिन्नकृतके मते । १५१०४ नित्येभ्यो अवस्तुसामर्थ्यान्न हि जन्म अस्ति कस्यचित् ॥२८५॥ १५१०५ यद्यकृतकः शब्दो न तस्मादर्थेषु प्रतीतिरेव स्यात् । प्रतीति १५१०६ जन्मेतरकालयोस्तुल्यरूपस्य प्रतीतिजन्मनि सामर्थ्य १५१०७ सम्भावनायोगात् । एवमयं जनको न एवमिति विवेचनीयस्य १५१०८ रूपभेदस्य अभावात् । न यादृशो अस्य अजनकस्तादृश एव जनको १५१०९ युक्तः । अन्यापेक्षा अपि निषिद्धा एव । तस्मान्न नित्यानां क्वचिद् १५११० विज्ञानजननसामर्थ्यम् । कदाचिदजनने नित्यमजनन प्रसङ्गात् । १५१११ कार्यसातत्यादर्शनाच्च न ते कथंचित्कर्तार इत्य् १५११२ उक्तप्रायम् । या अप्येता नित्याभिमतेष्वाकाशादिषु प्रतिपत्तयस् १५११३ ता अपि न तत्स्वभावभाविन्यः । तथा हि । १५११४ विकल्पवासनोद्भूताः समारोपितगोचराः । १५११५ जायन्ते बुद्धयस्तत्र केवलं न अर्थगोचराः ॥२८६॥ १५११६ स्वलक्षणविषया हि बुद्धिर्नियमेन तद्योग्यतोपस्थापनानुविधायिनी १५११७ इति तस्मिन् सत्यस्याः कारणे योग्ये सा भवत्येव । १५११८ तद्यदि नित्यानां पदार्थानां स्वलक्षणे कस्यचित्ज्ञानं स्यात् १५११९ सर्वस्य सर्वदा स्यात् । कार्यविशेषा हि व्यक्तयः कथंचित् १५१२० क्वचिदुपयुज्यमानास्तद्उपजननयोग्यातिशयप्रतिलम्भहेतुम् १५१२१ वस्तुविशेषमपेक्षन्त इति युक्तम् । तथा अकार्यविशेषो नित्यो १५१२२ भावः केनचिद्गृह्यमाणस्तत्कारणापेक्षो यदि ग्रहणमस्य १५१२३ जनयेत्युक्तं यत्तेन एव गृह्येत । तच्च स्थितस्वभावत्वान् १५१२४ न सम्भवति इति । सर्वेण समं गृह्येत न वा केनचिदिति १५१२५ सन् केनचिद्दृष्टो न नित्यः कश्चिदतीन्द्रियः स्यात् । न च एतदस्ति । १५१२६ तस्मादर्थसामर्थ्यानपेक्षाः समारोपितगोचरा आन्तरमेव उपादानं १५१२७ विकल्पवासनाप्रबोधमाश्रित्य बाह्यार्थशून्या भ्रान्तय १५१२८ एव आकाशादिषु सर्वस्य सम्भवन्ति इति । तस्मान्न अपरावृत्ति १५२०१ धर्माः शब्दाः । तत्त्वे वा कुत एतदवितथार्थप्रतीतय १५२०२ एव इति । न ह्यग्निर्हिमस्य भेषजमित्यादिषु शीतप्रतिघात १५२०३ सामर्थ्यं लोकप्रसिद्धमग्नेः ख्याप्यत इति सर्वं तथा १५२०४ भवति । लोकस्य स्वेच्छाकृतसंकेतानुव्यवहारात्किमयं १५२०५ लोकः स्वसंकेतमनुविदधदेवं प्रत्येति आहोस्विच्शब्द १५२०६ स्वभावस्थितेरिति सन्देहः । लोकेच्छया अपि परावर्त्यमानाः १५२०७ शब्दाः पुनरन्यत्र अन्यथा दृश्यन्त इति लोकप्रसिद्ध्य्अनुविधाने १५२०८ अपि सम्भवत्येषामन्यथाभावः । तस्मात्कस्यचिदवैपरीत्य १५२०९ दर्शने अपि सर्वेषां तथाभावो न सिध्यति । अकृतकस्वभावत्वे १५२१० अपि ह्येषां कश्चिन्मिथ्यार्थनियतो अपि स्यादिति स्वभाव १५२११ अपरिज्ञानात्सर्वत्र संशयः स्यात् । १५२१२ मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः । १५२१३ सत्यार्थं व्यतिरेकस्य विरोधिव्यापनाद्यदि ॥२८७॥ १५२१४ अथ यन्मिथ्यार्थं वचनं तदखिलं कृतकमिति हेतुव्यतिरेकेण १५२१५ साध्यव्यतिरेकस्य व्याप्तेरन्यत्र असम्भवादकृतकं १५२१६ सत्यार्थमिति स्याद्विना अप्यन्वयेन । यो हि येन अव्याप्तस् १५२१७ तत्र तद्व्यतिरेकः शङ्क्येत । न च विरुद्धयोरेकत्र सम्भवो १५२१८ अस्ति । असम्भवे च विजातीयस्य गत्य्अन्तराभावादिष्टार्थसिद्धेस् १५२१९ तत्साधनत्वाच्च लिङ्गस्य व्यर्थमन्वयदर्शनं १५२२० व्यतिरेकमात्रेण एव सिद्धेरिति । सत्यमेतत्यदि विपक्षयोर् १५२२१ व्याप्यव्यापकभावः सिध्येत् । स तु न सिद्धः । यस्मात् १५२२२ हेतावसम्भवे अनुक्ते भावस्तस्य अपि शङ्क्यते । १५२२३ विरुद्धानां पदार्थानामपि व्यापकदर्शनात् ॥२८८॥ १५२२४ यदि हेतोः साध्यविपक्षे अभावः सिध्येत्तदा साध्यव्यतिरेकं १५२२५ हेतुव्यतिरेको व्याप्नुयात् । न च तत्र तस्य असम्भवे १५२२६ प्रमाणं पश्यामः । न च अविरुद्धविधिः प्रतिषेधसाधनो १५२२७ युक्तः । अतिप्रसङ्गात् । न च एकत्र दृष्टस्य अन्यत्र असम्भव १५२२८ एव पृथग्विरुद्धसहभाविनामपि दर्शनात् । अनित्यत्ववत् १५२२९ प्रयत्नानन्तरीयकेतरयोर् । न च तथाविधस्य अदर्शनादसत्त्वम् १५२३० एव । यस्मात् । १५३०१ न असत्तासिद्धिरित्युक्तं सर्वतो अनुपलम्भनात् । १५३०२ असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता ॥२८९॥ १५३०३ न ह्ययं पुरुषमात्रकः सर्वं द्रष्टुं समर्थो येन अस्य १५३०४ दर्शननिवृत्त्या न तथा स्यात् । यस्य हि ज्ञानं ज्ञेयसत्तां १५३०५ न व्यभिचरति स एवं ब्रुवाणः शोभेत अदर्शनान्न अस्ति इति । १५३०६ तदिमे स्वभावदेशकालविप्रकर्षेण सन्तो अप्यनुपलक्ष्याः १५३०७ स्युः । तथा हि । को अत्यन्तपरोक्षे अर्थे संवादनमितरद् १५३०८ वा सर्वदर्शी वचनस्य अकृतकस्य इतरस्य वा विभावयितुं समर्थः । १५३०९ प्रतिपादितं च एतत्क्वचित्तथा दृष्टानामप्यर्थानां १५३१० पुनः कथंचिदन्यथाभावः यथा क्वचिद्देशे मधुराणि १५३११ निम्बफलानि संस्कारविशेषादामलकीफलानि च न १५३१२ च इदानीमतद्दर्शिना तानि प्रतिक्षेप्तव्यान्येव इति । तस्मादकृतकं १५३१३ च स्याद्स्यान्मिथ्यार्थं च इति न विरोधं पश्यामः । न १५३१४ हि इयमनुपलब्धिरदृश्यात्मस्वभावसाधिका इत्युक्तम् । तेन १५३१५ यत्किंचिन्मिथ्यार्थं तत्सर्वं पौरुषेयमित्यनिश्चयाद् १५३१६ अव्याप्तिः । तथा हि । १५३१७ अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि । १५३१८ तन्निश्चयफलैर्ज्ञानैः सिध्यन्ति यदि साधनम् ॥२९०॥ १५३१९ तथा च उक्तम् । य एव तु उभयनिश्चितवाची स साधनं दूषणम् १५३२० वा न अन्यतरप्रसिद्धसन्दिग्धवाची पुनः साधनापेक्षत्वाद् १५३२१ इति । को ह्यदृष्टविरोधस्य सम्भवं प्रत्याचक्षीत । तदयं १५३२२ व्यतिरेकः संशयादसाधनम् । अपि च । १५३२३ यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता । १५३२४ स एव अस्य सपक्षः स्यात्सर्वो हेतुरतो अन्वयी ॥२९१॥ १५४०१ यत्किंचिन्मिथ्यार्थं तत्सर्वं पौरुषेयमिति हेतुविपक्षेण १५४०२ साध्यविपक्षस्य व्याप्तिस्तद्अभावे अभावसिद्धौ स्यात् । तद्अभावे १५४०३ भवतस्तेन व्याप्त्य्अयोगात् । या एव च विजातीययोर्व्यावृत्तिसिद्धिः १५४०४ सा एव अन्वयस्थितिर्विपक्षव्यवच्छेदलक्षणत्वात्साध्यस्य । १५४०५ प्रतिषेधद्वयाच्च विधिसिद्धिरिति का अनन्वयाव्यतिरेकव्याप्ति १५४०६ सिद्धिः । तन्न कश्चिधेतुरनन्वयो नाम । एकव्यवच्छेदस्य १५४०७ तद्विजातीयसिद्धिनान्तरीयकत्वात् । अनित्यनिरात्मतादिव्यवच्छेदे १५४०८ अपि तथा स्यात् । न । व्यतिरेकव्यवच्छेदस्य भावरूपत्वात् । १५४०९ न भावरूपव्यवच्छेदे भावानुषङ्गः । अभावव्यवच्छेदस् १५४१० तु नियमेन भावोपस्थापनः । भावाभावयोरन्योन्यविवेक १५४११ रूपत्वात् । अभावरूपस्तु व्यतिरेकः स च व्यतिरिच्यमानो १५४१२ भावमुपस्थापयति न एवं नैरात्म्यादयः स्वभावविशेषात् । १५४१३ क्रियाभोगाधिष्ठानास्वतन्त्रो ह्यात्मा निरात्मा । तत्स्वातन्त्र्य १५४१४ लक्षणत्वादात्मनः । तद्रूपं नैरात्म्यं न आत्मनिवृत्ति १५४१५ मात्रमन्यथा निरुपाख्ये कृतकत्वाद्य्अयोगान्न ततो नैरात्म्य १५४१६ सिद्धिः स्यात् । आत्मव्यवच्छेदेन निरात्मनो भावस्य परामर्शाद् १५४१७ अदोष इति चेत् । पर्युदासेन वस्तुसंस्पर्शाद्तदेव १५४१८ वस्तुरूपं नैरात्म्यमायातम् । यस्य अपि न अभावरूपो व्यतिरेकस् १५४१९ तस्य भावरूपव्यवच्छेदे न भावसिद्धिः स्यादिति १५४२० न अन्वयानुषङ्गः । तथा अनैरात्म्ये अपि न भावसिद्धिः । यथा १५४२१ न इदं निरात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति विपक्षयोर् १५४२२ व्याप्यव्यापकभावचिन्तायामप्राणादिमत्त्व एव नैरात्म्यं १५४२३ दृष्टम् । तद्अभावे च न अस्ति इति स्वयं न भवदपि प्राणादीनां १५४२४ न आत्मनि सिद्धिमुपस्थापयति । तथा साध्ये अपि प्राणादिभिर् १५४२५ व्युदस्यमानं स्यात्केवलम् । नैरात्म्ये अभावात्प्राण १५४२६ आदयस्तन्निरसना न आत्मोपस्थापनाः । तत्र भावासिद्धेः । १५४२७ न च नैरात्म्यनिवृत्त्या आत्मसिद्धिः स्यात् । विपक्षव्यतिरेकदर्शने १५४२८ अपि प्रसङ्गात् । तन्न विपर्ययव्याप्तिर्व्यतिरेकासिद्धौ । १५४२९ तत्सिद्धिरेव च अन्वयसिद्धिः । असिद्धौ वा तद्व्यतिरेकनिवृत्ति १५४३० सिद्धावपि तद्असिद्धिरिति साध्ये अपि प्रसङ्गः । तन्न अनन्वया १५४३१ व्यतिरेकव्याप्तिः । मिथ्यार्थतायास्तु पौरुषेयत्वेन व्याप्त्या १५५०१ अपौरुषेयान्निवृत्तावपि न सत्यार्थत्वम् । प्रकारान्तरसम्भवात् । १५५०२ द्वैराश्ये तु शब्दानामेतत्स्यादेकनिवृत्तौ गत्य्अन्तर १५५०३ अभावात् । ते त्वनर्थका अपि स्युरिति न इष्टसिद्धिः । अर्थप्रतीतेर् १५५०४ न अनर्थका इति चेत् । एष पुरुषव्यापारः स्यात् । अर्थान्तरविकल्पवत् । १५५०५ यथा अतद्अर्थत्वे अपि भरतोर्वश्य्आदिचरितादिकमर्थम् १५५०६ अन्ये अन्यथा व्याचक्षते । तद्अनुसारेण च केषांचित्प्रतीतिः । १५५०७ तथा अयमनर्थकेष्वर्थविकल्पः पुरुषकृतः न तु शब्द १५५०८ स्वभावकृतः पुरुषोपदेशापेक्षणातर्थान्तरवदेव । १५५०९ न हि प्रकृत्या प्रकाशनास्तमपेक्षन्ते वह्न्य्आदयः । पुरुषस् १५५१० तु स्वसमयव्यापारमाचक्षाण उपदिशति इति न्याय्यम् । १५५११ पुरुषसमितनिसर्गसिद्धयोरुपदेशापेक्षणाविशेषादन्यविशेषाभावाच् १५५१२ च एको नैसर्गिको अन्यस्तु पौरुषेय इति दुरवसानम् । अस्ति १५५१३ विशेषः प्रमाणसंवाद इति चेत् । एतदुत्तरत्र निषेत्स्यामः न अस्त्य् १५५१४ अत्यन्तपरोक्षे अर्थे प्रमाणान्तरवृत्तिरिति । समानधर्मिणोर् १५५१५ अर्थयोः प्रमाणसंवादमात्रविशेषादेकत्र अपौरुषेयत्वे बहुतरम् १५५१६ इदानीमपौरुषेयम् । सन्ति पुरुषकृतान्यपि वाक्यानि कानिचिद् १५५१७ एवंविधानि इति तेष्वपि प्रसङ्गः । तद्वदेषामप्यभिमत १५५१८ अर्थवत्ता पौरुषेयी च स्यात्प्रमाणानुरोधिनी च । अपि १५५१९ च इदं मन्त्रा अपौरुषेयाश्च इति व्याहतं पश्यामः । तथा हि । १५५२० समयत्वे हि मन्त्राणां कस्यचित्कार्यसाधनम् । १५५२१ युक्तम् । यद्येते मन्त्राः कस्यचित्समयो यथा मत्प्रणीतम् । १५५२२ एतदभिमतार्थोपनिबन्धनं वाक्यमेवं नियुञ्जानम् १५५२३ अनेन अर्थेन योजयामि इति परार्थपरतानुरोधेन अन्यतो वा कुतश्चिद् १५५२४ हेतोः कृतः स्यात्तदा मन्त्रप्रयोगात्कदाचितर्थ १५५२५ निष्पत्तिर्युक्ता कविसमयादिव पाठकानाम् । १५५२६ अथ अपि भावशक्तिः स्यादन्यत्र अप्यविशेषतः ॥२९२॥ १५५२७ न वै पुरुषसमयान्मन्त्रेभ्यो अर्थसिद्धिः । किं तर्हि । भाव १५५२८ स्वभाव एष यदिमे कथंचिन्नियुक्ताः फलदाः । तत्तर्हि १५६०१ रूपं वर्णानां सर्वत्र अविशिष्टमिति यथाकथंचित्प्रयुक्ताद् १५६०२ अपि फलं स्यात् । वर्णा एव हि मन्त्रो न अन्यत्किंचित् । तत्क्रमो १५६०३ मन्त्र इति चेत् । १५६०४ क्रमस्य अर्थान्तरत्वं च पूर्वमेव निराकृतम् । १५६०५ न वर्णव्यतिरिक्तो अन्यः क्रम इति निवेदितमेतत् । अव्यतिरेके १५६०६ च वर्णा एव मन्त्रस्। ते च अविशिष्टाः सर्वत्र इति सर्वदा फलदाः १५६०७ स्युः । उपप्लवस्त्वल्पीयसो अपि क्रमस्य भ्रंशाद्दृष्टः । १५६०८ कस्यचिदनुष्ठानाद्देवतासंनिधेरसाकल्येन विराधनाच् १५६०९ च । सर्वभ्रंशे तु कस्यचिदेव समयस्य अननुष्ठानादसंनिधेर् १५६१० न अर्थानर्थौ । किं च क्रमस्य अर्थान्तरत्वे अनर्थान्तरत्वे १५६११ वा वर्णात्मनस्तत्क्रमात्मनो वा मन्त्रस्य अर्थहेतोर् १५६१२ अकृतकत्वान्नित्यस्य नित्यं संनिधानमिति १५६१३ नित्यं तद्अर्थसिद्धिः स्याद् । १५६१४ यतो हि भावशक्तेः फलोत्पत्तिः सा अविकला इति न फलवैकल्यं १५६१५ स्यात् । न हि कारणसाकल्ये कार्यवैकल्यं युक्तम् । तस्य १५६१६ अकारणत्वप्रसङ्गात् । न केवलान्मन्त्रप्रयोगादिष्टसिद्धिस् १५६१७ तस्य विधानापेक्षत्वादिति चेत् । १५६१८ असामर्थ्यमपेक्षणे ॥२९३॥ १५६१९ यदि मन्त्रा विधानादन्यतो वा कंचित्स्वभावातिशयमासादयेयुः १५६२० स तत्र समर्थो अपेक्ष्यः स्यात् । न च नित्येष्वेतद् १५६२१ अस्ति इत्युक्तम् । तत्किमयमसमर्थो अपेक्ष्यत इत्यनपेक्षाः १५६२२ सदा कुर्युर्न वा कदाचिदनतिशयात् । १५६२३ सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी । १५६२४ प्रयोक्तृभेदापेक्षा च न असंस्कार्यस्य युज्यते ॥२९४॥ १५६२५ यदि भावशक्तया एव मन्त्राः सिद्धिप्रदा न ते कंचित्परिहरेयुर् १५६२६ यजमानमन्यं वा । न ह्यन्यं प्रति स्वभावो अतद्भावो १५६२७ भवति । तस्य तेन अनपकर्षणादन्येन च अनुत्कर्षणात् । १५७०१ केनचित्सह कार्यकारणभावायोगात् । प्रत्यासत्तिविप्रकर्ष १५७०२ अभावात् । अत एव अस्य असंस्कार्यत्वात्प्रयोक्ता अपि न अस्ति । अतः १५७०३ प्रयोक्ता फलमश्नुवीत । १५७०४ संस्कार्यस्य अपि भावस्य वस्तुभेदो हि भेदकः । १५७०५ प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् ॥२९५॥ १५७०६ आधेयविशेषा ह्यनित्या भावाः । तद्हेतोः स्वभावभेदे ततः १५७०७ समासादितातिशयत्वादन्यत्र अन्यथा स्युः । न अभेदे । कारणाविशेषे १५७०८ कार्याविशेषात् । विशेषे तस्य अहेतुकत्वप्रसङ्गादित्युक्त १५७०९ प्रायम् । तदिमे मन्त्राः स्वभावातिशयात्फलदायिनः कार्या १५७१० अपि न शूद्रादिप्रयोगे अप्यन्यथा स्युः । शूद्रविप्राभिधानयोः १५७११ पुरुषयोः स्वभावाभेदात् । न हि पुरुषेच्छानुविधायिनो १५७१२ नामव्यवहारभेदात्स्वभावभेदानुबन्धिनामर्थानामन्यथात्वम् १५७१३ अस्ति । तयोर्जातिभेद इति चेत् । स खल्वाकृतिगुणशक्ति १५७१४ भेदे दृष्टो गवाश्ववत् । अनुपदेशं च एनं लोकः प्रतिपद्यते । १५७१५ न तद्वदनयोः कंचिदपि गुणं विनियतं पश्यामः । अपश्यन्तश् १५७१६ च कथं भेदं प्रतिपद्येमहि । यो अप्ययं नाम १५७१७ भेदान्वयो लोके प्रतीतिभेदः सो असत्यपि जातिभेदे व्यापार १५७१८ विशेषानुष्ठानादन्वयाच्च स्याद्वैद्यवणिग्व्यपदेशादिवत् । १५७१९ तदिमे अविशिष्टेन प्रयुज्यमाना मन्त्रास्ततो अविशिष्टमेव १५७२० स्वभावमासादयन्ति । तेन अविशेषेण एव फलदाः स्युः । यदा १५७२१ तु समयादेभ्यः फलं तदा अयमदोषः । समयकारस्य १५७२२ रुचेः फलोत्पत्तिनियमात् । स्वभाववृत्तयो हि भावास्तन्मुखेन १५७२३ प्रसङ्गमर्हन्ति । न पुरुषेच्छावृत्तयस्तेषां १५७२४ यथाकथंचिद्वृत्तेः । यदपि प्रयोक्ता फलमश्नुत इति १५७२५ प्रयोगं समीहितार्थयोग्यस्य उत्पादनं सन्तानपरिणामनं १५७२६ वा पश्यामः । तदुभयं विशेषजन्मनि स्यात् । अन्यथा । १५७२७ अनाधेयविशेषाणां किं कुर्वाणः प्रयोजकः । १५७२८ येन ततः कश्चित्फलमश्नुते अन्यो न । १५७२९ प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता ॥२९६॥ १५८०१ न हि नित्यानां काचिदभिव्यक्तिरित्युक्तं यतो अभिव्यञ्जकः १५८०२ प्रयोक्ता स्यात् । १५८०३ व्यक्तिश्च बुद्धिः सा यस्मात्स फलैर्यदि युज्यते । १५८०४ स्याच्श्रोतः फलसम्बन्धो वक्ता हि व्यक्तिकारणम् ॥२९७॥ १५८०६ न हि शब्दस्य अन्यतः स्वरूपपरिणामो व्यक्तिर्न अप्यावरणविगमनम् । १५८०७ किं तु तद्विषया प्रतीतिरश्रूयमाणे अव्यक्तव्यपदेशात् । १५८०८ तत्र यदि बुद्धिहेतुर्वक्ता स्यात्तत्तुल्यं श्रोतर्यपि इति १५८०९ सो अपि फलं वक्तृवदश्नुवीत । न हि वक्तुः कश्चिदन्यस् १५८१० तद्भावो अन्यत्र तद्बुद्धिहेतुत्वात् । परोपाधिबुद्धिः श्रोतुर् १५८११ न वक्तुरिति विशेष इति चेत् । कः पुनरुपयोगो वक्तुः श्रोतरि १५८१२ येन उपाधिरिष्यते । ततः शब्दश्रुतिरिति चेत् । ननु तदेव इदं १५८१३ पर्यनुयुज्यते कथं तत इति । असम्बन्धात् । विषयोपनयनाद् १५८१४ अयमस्य श्रावकः स्यात् । तच्च न शक्यं तस्य कथंचिद् १५८१५ अप्यपरिणामात् । इन्द्रियसंस्कारादयो अप्युक्ताः । मां १५८१६ श्रावयत्यहं श्रावयामि इति तयोः प्रत्ययाद्वक्तृश्रोतृभेद १५८१७ इति चेत् । अनुपकार्योपकारकाद्भ्रान्तिमात्रात्तद्भावे अतिप्रसङ्गात् । १५८१८ अन्यत्र अपि भ्रान्त्या प्रत्ययदर्शनात् । सर्वथा उपकाराभावे १५८१९ च तथा प्रत्ययो न युक्तः । सर्वेषां परस्परमेवं १५८२० प्रसङ्गात् । भ्रान्तिरपि कुतश्चिदुपकारे सति कयाचित् प्रत्यासत्त्या १५८२१ अन्यत्र भवति । स अप्यत्यन्तानुपकारे न स्यात् । तस्माद् १५८२२ वक्तृश्रोत्रोर्व्यक्तिहेतुत्वे अविशेषात्तुल्यः फलसम्बन्धः १५८२३ स्यात् । अपि च । १५८२४ अनभिव्यक्तशब्दानां करणानां प्रयोजनम् । १५८२५ मनोजपो वा व्यर्थः स्याच्शब्दो हि श्रोत्रगोचरः ॥२९८॥ १५८२६ श्रोत्रग्रहणलक्षणः शब्दः । तद्अतिक्रमे अतिप्रसङ्गात् । नन्व् १५८२७ एवं सामान्ये अपि प्रसङ्गः । न ब्रूमः शब्द एव इति । शब्दस्त्व् १५८२८ अवश्यं तल्लक्षणस्तस्य लक्षणान्तराभावात् । तत्र यदि १५८२९ शब्दात्मनां मन्त्राणां व्यक्तिहेतुः प्रयोक्ता अनभिव्यक्त १५९०१ श्रुतिविषयाणां करणानां प्रयोक्ता जापी न मन्त्रफलेन १५९०२ युज्यते न अपि मनसा जपन् । न हि तदा श्रोत्रेण कंचिदर्थं १५९०३ विभावयामः । न च अशब्दात्मा मन्त्रः । १५९०४ पारंपर्येण तज्जत्वात्तद्व्यक्तिः सा अपि चेन्मतिः । १५९०५ न हि मनसा ध्यायतो अपि मन्त्राभासा बुद्धिः शब्दश्रवणाद् १५९०६ ऋते । ततः शब्दप्रभवात्सा अपि शब्दव्यक्तिरेव । अनवस्था एवं १५९०७ स्यात् । शब्दार्थविकल्पानामपि परंपरया प्रसूतिरस्ति इति । १५९०८ ते । १५९०९ अपि १५९१० तथा स्युस्तद्अर्था चेदसिद्धं कल्पनान्वयात् ॥२९९॥ १५९११ न ब्रूमः सर्वा शब्दप्रभवा बुद्धिस्तद्व्यक्तिरिति । या तु १५९१२ तद्विषया सा तस्य व्यक्तिरिति । मनोविकल्पस्य तद्विषयत्वम् १५९१३ असिद्धम् । न हि स्वलक्षणे विकल्पानां वृत्तिरिति निवेदयिष्यामः । १५९१४ ते हि यथास्वमान्तराद्विकल्पवासनाप्रबोधादनपेक्षित १५९१५ बाह्यार्थोपनिधयो भवन्ति । बाह्यापायानागमे अपि भावात् । १५९१६ न हि यो यस्य सत्तोपधानं न अपेक्षते स तस्य हेतुः । अहेतुश् १५९१७ च कथं विषयः । तस्मान्न मनोविकल्पः शब्दव्यक्तिर् १५९१८ यतस्तद्वान् प्रयोक्ता स्यात् । तत्प्रसूता तद्विषया बुद्धिस्तद्व्यक्तिः । १५९१९ तद्आश्रयः प्रयोक्ता इति । अत्र अप्युक्तं श्रोतर्यपि प्रसङ्ग १५९२० इति । तज्ज्ञाने च प्रयोगे शब्दः पुरुषे व्याप्रियते । तस्य ज्ञान १५९२१ जननात् । न पुरुषः शब्दे । तदात्मन्यनुपकारात् । अथ च १५९२२ पुरुषः शब्दानां प्रयोक्ता इत्यलौकिको अयं व्यवहारः । १५९२३ सर्वथा शब्दस्वभावानां मन्त्राणां प्रयोगात्फलावाप्तौ १५९२४ व्यर्थो मनोजपो विकल्पस्य शब्दरूपासंस्पर्शात् । १५९२५ स्वसामान्यस्वभावानामेकभावविवक्षया । १५९२६ उक्तेः समयकाराणामविरोधो न वस्तुनि ॥३००॥ १५९२७ समयकारस्तु स्वलक्षणमिन्द्रियविषयं सामान्यलक्षणं १५९२८ च विकल्पप्रतिभासं यथाव्यवहारं संवृत्या संकलय्य १५९२९ समयमारोचयेत्यथासमयं च अर्थं निष्पादयेदिति १६००१ न मनोजपादाउ दोषः । वस्तुस्वभावात्तु फलावाप्तावतत् १६००२ स्वभावसंस्पर्शे न स्यात् । यदुक्तं न वर्णेभ्यो अन्या काचिद् १६००३ आनुपूर्वी इति तत्र । १६००४ आनुपूर्व्यामसत्यां स्यात्सरो रस इति श्रुतौ । १६००५ न कार्यभेद इति चेद् । १६००६ न हि सरो रस इत्यादिपादेषु कश्चिद्वर्णभेदो न च वर्णव्यतिरिक्तम् १६००७ अन्यद्यतः कार्यभेदः स्यात् । भिन्नां च तयोः १६००८ प्रतिभां पश्यामः आनुपूर्वीमेव च अतुल्याम् । न च कारणाभेदे १६००९ कार्यभेदो युक्तः । तस्मादस्ति सा भेदवती यतो अयम् १६०१० प्रतीतिभेदः । सत्यम् १६०११ अस्ति सा पुरुषाश्रया ॥३०१॥ १६०१२ तथा हि । १६०१३ यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः । १६०१४ जायते तद्उपाधिः स श्रुत्या समवसीयते ॥३०२॥ १६०१५ तज्ज्ञानजनितज्ञानः स श्रुतावपटुश्रुतिः । १६०१६ अपेक्ष्य तत्स्मृतिं पश्चादाधत्ते स्मृतिमात्मनि ॥३०३॥ १६०१७ इत्येषा पौरुषेय्येव तद्हेतुग्राहिचेतसाम् । १६०१८ कार्यकारणता वर्णेष्वानुपूर्वी इति कथ्यत् ॥३०४॥ १६०१९ चित्तसमुत्थाना हि वाग्विज्ञप्तिर्वर्णपदवाक्याभिधाना । तत्र १६०२० सकारसमुत्थापनचेतसा समनन्तरप्रत्ययेन अकरोत्थापन १६०२१ चित्तमुत्थाप्यते । तथा रेफाकारविसर्जनीयोत्थापनानि पूर्व १६०२२ पूर्वप्रत्ययानि । तदिमे अन्यान्यहेतवो वर्णाः स्वकारण १६१०१ आनुपूर्वीजन्मानः । श्रुतिकाले अपि यदा मन्दचारिणः पूर्व १६१०२ वर्णज्ञानसहकारिप्रत्ययापेक्षाः स्वज्ञानं जनयन्ति तदा १६१०३ पूर्ववर्णस्मरणापेक्षा एव स्मृतिमुपलीयन्ते । स एष वर्णानां १६१०४ भिन्नकार्यकारणभावप्रत्ययनिर्वृत्तिधर्मा भिन्न १६१०५ निर्वर्तनधर्मा च स्वभावः पुरुषसंस्कारभेदभिन्नः १६१०६ क्रम इत्युच्यते । १६१०७ अन्यदेव ततो रूपं तद्वर्णानां पदं पदम् । १६१०८ कर्तृसंस्कारतो भिन्नं सहितं कार्यभेदकृत् ॥३०५॥ १६१०९ तस्मान्न खल्वेक एव पदेषु वर्णानां स्वभावः कर्तृचित्त १६११० संस्कारभेदेन भेदात् । स च परस्परसहितः कार्यभेद १६१११ हेतुः । १६११२ सा च आनुपूर्वी वर्णानां प्रवृत्ता रचनाकृतः । १६११३ इच्छा अविरुद्धसिद्धीनां स्थितक्रमविरोधतः ॥३०६॥ १६११४ कार्यकारणभूतप्रत्ययोत्पन्नस्वभावविशेषो वर्णानामानुपूर्वी १६११५ इत्युक्तम् । सा च पुरुषवितर्कविचारकृता इति न स्थितक्रमा १६११६ वर्णाः । इच्छा अविरुद्धसिद्धिक्रमत्वात् । क्रमविशेषानुक्रमवत् । १६११७ न हि स्थितक्रमाणां देशकालयोर्हिमवद्विन्ध्यमलय १६११८ आदीनां बीजाङ्कुरादीनां च स्वेच्छया क्रमरचना शक्यते १६११९ कर्तुम् । तत एव पुरुषधर्मसंख्याते विकल्पानुक्रमे सति १६१२० भावादसति च अभावात् । १६१२१ कार्यकारणतासिद्धेः पुंसां वर्णक्रमस्य च । १६१२२ सर्वो वर्णक्रमः पुम्भ्यो दहनेन्धनयुक्तिवत् ॥३०७॥ १६१२३ सति इन्धने दाहवृत्तेरसत्यभावाददृष्टेन्धनो अपि दहनो १६१२४ न अनिन्धनस्तस्य देशकालनियमायोगात् । नियमे च तस्य एव इन्धनत्वाद् १६१२५ दहनोपादानलक्षणत्वादिन्धनस्य । तथा अयम् १६२०१ अपि वर्णानुक्रमः पुरुषविकल्पं यदि न अपेक्षेत निरालम्बनः १६२०२ स्वयं प्रकाशेत । यत्ने अपि न शक्येत । अतत्प्रभवात् । १६२०३ क्वचिच्शक्तौ सर्वस्तथा स्यात् । विशेषाभावात् । तद्भावभाविनो १६२०४ अतद्विशिष्टस्य च अतत्कृतौ सर्वत्र कार्यकारणभावश्च १६२०५ निराकृतः स्यात् । अन्वयव्यतिरेकलक्षणत्वात्तस्य । लक्षणान्तरं १६२०६ वा वक्तव्यम् । सर्वे अपि घटादयो भावाः कृत्रिमा अकृत्रिमा १६२०७ प्रसजन्ति । तत्र अप्येवं विकल्पनायाः सम्भवात् । विशेषाभावाच् १६२०८ च । तानपि हि परक्रियादर्शनपूर्वकमेव अन्यः करोत्यविदित १६२०९ कर्तारश्च केचिदिति सर्वेषां केषांचिद्वा अक्रियाभिनिवेशो अस्तु । १६२१० तस्मात्सर्वा एव इयं वर्णानुपूर्वी प्रसिद्धकार्यकारणभाव १६२११ वस्तुधर्मानतिक्रमात्पुरुषकृता । अत एव । १६२१२ असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम् । १६२१३ पुंसां ज्ञानप्रभावाभ्यामन्येषां तद्अभावतः ॥३०८॥ १६२१४ अयं क्रमो वर्णानां विषनिर्घातादिसमर्थो न अन्य इति यद्य् १६२१५ अन्यो अपि जानीयत्तं तथा एव प्रतिपद्येत । न च एवम् । तस्माद् १६२१६ अयमनुक्रमः स्वभावतो अपि कार्यकृत्कैश्चिदेव विज्ञात इत्य् १६२१७ अस्ति परोक्षार्थदर्शी पुरुषः । न ह्ययमर्थः समर्थो १६२१८ न अयमिति शक्यमुन्नेतुमसंकीर्णस्य लिङ्गविशेषस्य असिद्धेः । १६२१९ प्रत्यक्षयोरप्यनुपदिष्टयोर्मन्त्रामन्त्रयोरपरिज्ञानात् । १६२२० उपदेशे अपि कथंचित्स्वभावविवेकाप्रतीतेरन्यत्र कार्य १६२२१ संवादात्तस्य च करणात्प्राग्द्रष्टुमशक्यत्वात् । न १६२२२ च अयमनुक्रमः स्वभावतः कारकः कस्यचिदाशुसिद्धेर् १६२२३ अन्यस्य चिरादपरस्य व्रतचरणाद्य्अपेक्षणात् । एकस्मादपि १६२२४ कर्मणः कयोश्चिदर्थानर्थसन्दर्शनात् । वहतामपि १६२२५ मन्त्राणां पुनः क्वचिद्विसंवादात् । न ह्ययं प्रकारः १६२२६ स्वभावे युक्तः । स्वभावस्य सर्वत्र अविशेषात् । पुरुषस् १६२२७ तु स्वेच्छाप्रवृत्तिः सत्त्वसभागतादिवशात्सा इव अविशेषाद्वा १६३०१ कंचिदनुगृह्णाति न अपरमिति युक्तम् । व्रतचर्याभ्रंश १६३०२ आदिना धर्माधर्मोपचये धर्माधर्मात्मनोर्वा प्रकृत्या १६३०३ सिद्ध्य्असिद्धी इति चेत् । न । धर्मविरुद्धानामपि क्रौर्य १६३०४ स्तेयमैथुनहीनकर्मादिबहुलानां व्रतानां डाकिनीभगिनी १६३०५ तन्त्रादिषु दर्शनात् । तैश्च सिद्धिविशेषात् । न च एवंविधो १६३०६ धर्मस्वभाव इति च यथावसरं निवेदयिष्यामः । मैत्री १६३०७ शौचधर्मपरायणानां च तन्निमित्तमेव कस्याश्चिद्सिद्धेर् १६३०८ असिद्धेर्विपर्यये च पुनः सिद्धेः । न च एकरूपात्कर्मणः १६३०९ स तद्विरोधी धर्मो युक्तो अधर्मश्च । कथमिदानीं धर्म १६३१० फलमिष्टमधर्मात्मनो व्रतादेरश्नुते । न वै तस्य एव १६३११ तदिष्टं फलं व्रतादेर्विपाको अपि तु पूर्वस्य कर्मणः । १६३१२ ब्रह्महत्य्आदेशानुष्ठानाद्ग्रामप्रतिलम्भवत् । तस्य त्व् १६३१३ अधर्मात्मनो व्रतस्य आगामि फलमनिष्टम् । स तु मन्त्रादि १६३१४ प्रयोगस्तस्य इष्टफलस्य कर्मणः कथंचिदुपकारात्पाचकश् १६३१५ चित्रत्वादुपकारकशक्तेः । पुरुषविशेषाश्रयविपाक १६३१६ धर्मा स धर्मस्तेन कृतः स तथा तद्आराधनेन फलति इति । १६३१७ तत्प्रयोगोपकारविपाकधर्मणः कृतत्वात्तत्फलस्य कर्मणः । १६३१८ विना अपि पुरुषेण तद्उपकारात्फलमिति चेत् । न । पुरुषाकार १६३१९ स्वभावचर्याधिमुक्तिवैयर्थ्यप्रसङ्गात् । तस्य अप्युपकारत्वे १६३२० सिद्धः पुरुषविशेषो असाधारणगुणः । तद्अधिमुक्तेर् १६३२१ एव हि विषकर्मादिकरणात् । तस्मात्च मन्त्राः पुरुषप्रनीता १६३२२ अपि तद्उपयोगनिरपेक्षाः स्वभावेन फलदाः । १६३२३ ये अपि तन्त्रविदः केचिन्मन्त्रान् कांश्चन कुर्वते । १६३२४ प्रभुप्रभावस्तेषां स तद्उक्तन्यायवृत्तितः ॥३०९॥ १६३२५ रथ्यापुरुषा अपि केचन तन्त्रज्ञाः स्वयंकृतैर्मन्त्रैः १६३२६ किंचित्कर्म कुर्वन्ति । तथा अन्यो अप्यनतिशयश्च कर्ता च १६३२७ मन्त्राणामिति । न । तेषां प्रभाववता एव अधिष्ठानात् । तत्कृतं १६३२८ हि ते समयमनुपालयन्तस्तद्उपदेशेन च वर्तमानाः समर्थाः । १६३२९ तत्समयोपदेशनिरपेक्षाणामसामर्थ्यात् । तत्र अपि १६४०१ तद्आकारध्यानादेरेव प्रयोगात् । तस्मात्तद्अधिष्ठानमेव १६४०२ तत्तादृशमित्युन्नेयम् । अपि च । सो अपि तादृशः प्रभाववान् १६४०३ एव अनन्यसाधारणशक्तित्वादिति पुरुषविशेष एव समर्थितः १६४०४ कृतकाः पौरुषेयाश्च वाच्या मन्त्राः फलेप्सुना । १६४०५ न ह्यकृतकानां प्रयोगः सम्भवति न च अप्रयुक्तेभ्यः १६४०६ फलमिति प्रयोगात्फलमिच्छता कृतका मन्त्रा वाच्याः पौरुषेयाश् १६४०७ च । पुरुषाधिष्ठानमन्तरेण अन्यतो असम्भवत्फलानां १६४०८ फलदर्शनात् । कृतसमयकाव्यादिवत् । १६४०९ अशक्तिसाधनं पुंसामनेन एव निराकृतम् ॥३१०॥ १६४१० प्रतिपादिता हि पुरुषकृतास्तद्अधिष्ठानाच्च फलदा मन्त्राः । १६४११ तदस्ति कश्चिदतिशयवानिति तत्प्रतिक्षेपसाधनान्यपि प्रतिव्यूढानि । १६४१३ बुद्धीन्द्रियोक्तिपुंस्त्वादि साधनं यत्तु वर्ण्यते । १६४१४ प्रमाणाभं यथार्था अस्ति न हि शेषवतो गतिः ॥३११॥ १६४१५ यत्तु बुद्धीन्द्रियवचनयोगात्पुंस्त्वादिति पुरुषातिशयप्रतिक्षेप १६४१६ साधनं तत्त्वगमकमेव । प्रतिक्षेपसामान्य १६४१७ साधनयोरसम्भवात् । न ह्यतीन्द्रियेष्वतद्दर्शिनः प्रतिक्षेपः १६४१८ सम्भवति । सतामप्येषामज्ञानात् । अत एव विरोधासिद्धेः । १६४१९ अविरोधिना च सह सम्भवाविरोधादित्यप्युक्तम् । १६४२० न अपि इतरसामान्यसिद्धिर्विशेषासम्भवस्य ज्ञातुमशक्यत्वात् । १६४२१ ईदृशेषु च अनुपलब्धेर्हेतुत्वप्रतिक्षेपात् । पुंस्त्वादिसाम्ये १६४२२ अपि कस्यचिद्विशेषस्य दर्शनात् । सम्भवद्विशेषे च साम्यासिद्धिर् १६४२३ इत्युक्तम् । तस्माच्शेषवदनुमानमेतत् । व्यतिरेकस्य १६४२४ सन्देहादसमर्थमदर्शने अपि विपक्षवृत्तेः । अपि १६४२५ च एवंवादिनो जैमिनीयाः स्वमेव वादं स्ववाचा विधुरयन्ति । १६४२६ तथा हि । १६५०१ अर्थो अयं न अयमर्थो न इति शब्दा वदन्ति न । १६५०२ कल्प्यो अयमर्थः पुरुषैस्ते च रागादिसंयुताः ॥३१२॥ १६५०३ तत्र एकस्तत्त्वविन्न अन्य इति भेदश्च किंकृतः । १६५०४ तद्वत्पुंस्त्वे कथमपि ज्ञानी कश्चित्कथं न वः ॥३१३॥ १६५०६ न खल्वेते वैदिकाः शब्दा एवं विक्रोशन्ति एत भवन्तो ब्राह्मणा १६५०७ अयमस्माकमर्थो ग्राह्यो न अन्य इति केवलमनभिव्यक्त १६५०८ अर्थविशेषसंसर्गाः श्रुतिमभिपतन्ति । तत्र एकः पुरुषः १६५०९ कंचिदर्थं कल्पयत्यन्यो अपरम् । न च शब्दानां १६५१० कश्चित्स्वभावप्रतिनियमो येन एकमर्थमनुरुन्धते न अपरम् । १६५११ केवलं समयवशात्तं तमाविशन्तो दृश्यन्ते । तेषाम् १६५१२ अविदितार्थनियमानामत्यक्षावेशादविद्वानेव दोषोपप्लवः १६५१३ कश्चित्तत्त्वं व्याचष्टे न अपर इति न न्याय्यम् । अथ १६५१४ कुतश्चिदतिशयाद्बुद्धीन्द्रियादीनां स एव वेत्ति न अपरः । तस्य १६५१५ कुतो अयमतीन्द्रियज्ञानातिशयः । तथा अन्यो अपि द्रष्टा देशकाल १६५१६ स्वभावविप्रकृष्टानामर्थानां किमसम्भवी दृष्टः । न १६५१७ हि तत्प्रतिक्षेपसाधनानि कानिचिद्यानि न एनमुपलीयन्ते । १६५१८ यथा अयं तत्साधनसम्भवे अप्यस्य विशेषस्तथा अन्यस्य अपि १६५१९ स्यादित्यनभिनिवेश एव युक्तः । १६५२० यस्य प्रमाणसंवादि वचनं सो अर्थविद्यदि । १६५२१ न ह्यत्यन्तपरोक्षेषु प्रमाणस्य अस्ति सम्भवः ॥३१४॥ १६५२२ स्यादेतन्न वयं पुरुषप्रामाण्यात्कस्यचिद्व्याख्यानम् १६५२३ अभिनिविष्टाः । किं तर्हि । प्रमाणान्तरसंवादाद् । बहुष्वपि १६५२४ व्याख्यातृषु यः प्रमाणं प्रत्यक्षादिकं संस्यन्दयति सो १६५२५ अनुमन्यते । तन्न । अतीन्द्रियेष्वदृष्टादिषु प्रमाणान्तरावृत्तेः । १६५२६ तद्असम्भवादेव ह्यागमस्तत्प्रतिपत्त्य्अर्थमुपयाच्यते । १६५२७ अन्यथा सत्यपि तस्मिन् प्रमाणान्तरावृत्तावप्रतिपत्तेः । ततश् १६६०१ च केवलादर्थप्रतिपत्तेरसाधनमेव आगमः स्यात् । केवलादन्यतो १६६०२ अप्यतीन्द्रियेष्वप्रतिपत्तिरिति चेत् । कथमतीन्द्रियश्च नाम १६६०३ प्रत्यक्षादिविषयश्च । ते पुनः स्वविषये अप्यागममपेक्ष्य एव १६६०४ साधकाश्चेत् । अनागमाद्धूमादेरग्न्य्आदिप्रत्ययो न स्यात् । १६६०५ न वै प्रवृत्त आगमे प्रमाणान्तरमन्विष्यते किं तर्हि १६६०६ स एव आगमप्रवृत्तिर्न ज्ञायत इति चेत् । स्वयं समर्थस्य प्रसाधने १६६०७ अस्य तद्आगमोपधानं कमतिशयं पुष्णाति । असमर्थं १६६०८ त्वागमप्रवृत्तिमपि न एव साधयिष्यति । सा च अतीन्द्रिय १६६०९ अर्थसम्बद्धा आगमप्रवृत्तिरतीन्द्रिया कथमन्येन १६६१० सिद्धा । अन्यच्च एवमागमलक्षणं स्यात् । तथा हि । १६६११ यस्य प्रमाणसंवादि वचनं तत्कृतं वचः । १६६१२ स आगम इति प्राप्तं निरर्था अपौरुषेयता ॥३१५॥ १६६१३ तुल्ये अप्यागमवादे प्रमाणबलादागमस्य क्वचिदागमत्वे १६६१४ प्रमाणसंवादो वचनानामागमलक्षणं स्यात् । न अपुरुष १६६१५ क्रिया । तस्याः सर्वार्थेषु तुल्यत्वे अपि प्रमाणाबाधनात्प्रतिपत्तेः । १६५१६ तद्भावे अप्यन्यत्र प्रमाणासंवादिन्यनिष्टत्वात् । १६६१७ किं च । १६६१८ यद्यत्यन्तपरोक्षे अर्थे अनागमज्ञानसम्भवः । १६६१९ अतीन्द्रियार्थवित्कश्चिदस्ति इत्यभिमतं भवेत् ॥३१६॥ १६६२० यद्यागमानपेक्षं ज्ञानायाथातथ्यं पुरुषस्य इष्यते परोक्षे १६६२१ अर्थे सन्ति पुरुषा अतीन्द्रियार्थदृश इति इष्टं स्यात् । प्रत्यक्ष १६६२२ पूर्वकानां प्रमाणानामतद्दर्शने असम्भवात् । प्रत्यक्ष १६६२४ प्रमाणमागमः । प्रमाणान्तरवृत्तिस्तु प्रत्यक्षम् १६६२५ अन्वाकर्षति इति न पुरुषातिशयो निवार्यः स्यात् । तस्मान्न अस्त्यतीन्द्रियेषु १६६२६ प्रमाणान्तरवृत्तिः । अत एव आगमस्य अर्थविशेषवृत्तेर् १६६२७ अपरिज्ञानादयं जैमिनिरन्यो वा १६६२८ स्वयं रागादिमान्न अर्थं वेत्ति वेदस्य न अन्यतः । १६७०१ न वेदयति वेदो अपि वेदार्थस्य कुतो गतिः ॥३१७॥ १६७०२ सर्व एव हि पुरुषो अनतिक्रान्तदोषविप्लवस्तमतीन्द्रियम् १६७०३ अर्थविशेषप्रतिनियमं व्याख्याता न स्वयं वेत्ति । न अप्येनम् १६७०४ अन्यो वेदयति । तस्य अपि तुल्यप्रसङ्गत्वात् । न ह्यन्धेन आकृश्यमाणो १६७०५ अन्धः पन्थानं प्रतिपद्यते । न अपि स्वयं वेदः १६७०६ स्वार्थं विवृणोति । उपदेशवैयर्थ्यप्रसङ्गात् । तदयमपरिज्ञात १६७०७ अर्थः शब्दगडुरेवं शल्यभूतो असद्दर्शनस्नायु १६७०८ विनिबद्धो दुरुद्धरो दुःखमासयति । १६७०९ तेन अग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ । १६७१० खादेच्श्वमांसमित्येष न अर्थ इत्यत्र का प्रमा ॥३१८॥ १६७११ क्वचिदप्यर्थे प्रत्यासत्तिविप्रकर्षरहितस्य अग्निहोत्रं जुहुयात् १६७१२ स्वर्गकाम इत्यादिवाक्यस्य भूतविशेषे यथाभिमतं १६७१३ घृतादि प्रक्षिपेदित्ययमर्थः न पुनः श्वमांसं खादेद् १६७१४ इति न अतिशयं पश्यामः । नन्वयं सर्वत्र समानः प्रसङ्गः १६७१५ परोक्षदैशिकानां वचनानामर्थं यथाभिप्रायमिदानीन्तनाः १६७१६ किं समनुयन्ति आहोस्विद्विपर्ययमिति । न । उपदेष्टुः १६७१७ स्वाभिप्रायप्रकाशनेन सम्प्रदायसम्भवात् । न ह्य् १६७१८ अयमदैशिकानां शब्दानां सम्भवति । लोकप्रत्यायनाभिप्रायश् १६७१९ च ब्रुवाणो लोकसंकेतप्रसिद्धिमनुपालयति इति ततो अपि १६७२० तद्अर्थसिद्धिः स्यात्न अपौरुषेयाणां शब्दानाम् । तत्र कस्यचित् १६७२१ समीहाभावात् । अपि च न्यायमेव अनुपालयन्तः पण्डिता हेयोपादेय १६७२२ तद्आश्रयेषु संघटन्ते न तु प्रवादमात्रेण इति न समानः १६७२३ प्रसङ्गः । तच्च यथावसरं प्रतिपादयिष्यामः । ननु १६७२४ कश्चिल्लोकसंनिवेशादिरयुक्तिविषयो अपि सम्भावनीयपुरुष १६७२५ वचनादर्थः प्रतिपद्यते । न । अप्रत्ययात् । न हि क्वचिद् १६७२६ अस्खलित इति सर्वं तथा । व्यभिचारदर्शनात् । तत्प्रवृत्तेर् १६८०१ अविसंवादेन व्याप्त्य्असिद्धेश्च । अगत्या च इदमागमलक्षणम् १६८०२ इष्टम् । न अतो निश्चयः । तन्न प्रमाणमागम इत्यप्युक्तम् । १६८०३ अपौरुषेयानां शब्दानामर्थज्ञानं न सम्प्रदायान् १६८०४ न युक्तेर्न लोकादिति तत्र अप्रतिपत्तिर्न्याय्या । तत्र अपि । १६८०५ प्रसिद्धो लोकवादश्चेत् । १६८०६ प्रतिपत्तिहेतुः । १६८०७ तत्र को अतीन्द्रियार्थदृक् । १६८०८ अनेकार्थेषु शब्देषु येन अर्थो अयं विवेचितः ॥३१९॥ १६८०९ न ह्ययं लोकव्यवहारो अपौरुषेयाच्शब्दार्थसम्बन्धात् । १६८१० किं तर्हि । समयात् । स्वशास्त्रकारसमयात्पाणिनीयादिव्यवहारवत् । १६८११ उपदेशापेक्षणात् । न ह्यपौरुषेये तस्मिन्नुपदेशो १६८१२ युक्तः । तस्य केनचिदज्ञानात् । अतीन्द्रियत्वात् । ऐन्द्रियकत्वे १६८१३ स्वयं प्रतिपत्तिप्रसङ्गात् । रूपादिवत् । उपदेशे च पुरुषाणां १६८१४ स्वतन्त्राणां यथातत्त्वमुपदेशेन अविसंवादस्य असिद्धेरनाश्वासः । १६८१५ वेदवत्तद्व्याख्यानमप्यपौरुषेयं सम्प्रदायाविच्छेदाद् १६८१६ आगतं ततो अर्थसिद्धिरिति चेत् । तस्य अपि शब्दात्मकत्वे १६८१७ तुल्यः पर्यनुयोगः कथमस्य अर्थो विदित इति । पुरुषो १६८१८ हि स्वयं समितानां शब्दानामर्थं शृङ्गग्राहिकया अपि तावद् १६८१९ अबुधं बोधयेदित्यस्ति पौरुषेयानां शब्दानामर्थगताव् १६८२० उपायः । अपौरुषेयस्तु शब्दो न एवं करोति । न च अस्य कश्चित् १६८२१ क्वचित्सम्बन्धनियमं ज्ञातुमीश इत्यप्रतिपत्तिरेव १६८२२ तद्अर्थस्य । अपि च वेदस्तद्व्याख्यानं वा पुरुषेण पुरुषाय उपदिश्यमानम् १६८२३ अनष्टसम्प्रदायमेव अनुवर्तत इत्यत्र अपि समयः १६८२४ शरणम् । आगमभ्रंशकारिणामाहोपुरुषिकया तद्दर्शन १६८२५ विद्वेषेण वा तत्प्रतिपन्नखलीकाराय धूर्तव्यसनेन अन्यतो १६८२६ वा कुतश्चित्कारणादन्यथा रचनादर्शनात् । अपि च अत्र १६८२७ भवान् स्वमेव मुखवर्णं स्ववादानुरागान्नूनं विस्मृतवान् १६९०१ पुरुषो रागादिभिरुपप्लुतो अनृतमपि ब्रूयादिति न अस्य १६९०२ वचनं प्रमाणमिति । तदिह अपि किं न प्रत्यवेक्ष्यते १६९०३ सम्भवति न वा इति । स एव उपदिशन्नुपप्लवाद्वेदं वेदार्थं १६९०४ वा अन्यथा अप्युपदिशेदिति । श्रूयन्ते हि कैश्चित्पुरुषैरुत्सन्नोद्धृतानि १६९०५ शाखान्तराणि । इदानीमपि कानिचिद्विरलाध्येतृकाणि । १६९०६ तद्वत्प्रचुराध्येतृकाणामपि कस्मिंश्चित्काले कथंचित् १६९०७ संहारसम्भवात् । पुनः सम्भावितपुरुषप्रत्ययात्प्रचुरता १६९०८ उपगमनसम्भावनासम्भवात् । तेषां च पुनः प्रतानयितृऋणां १६९०९ कदाचिदधीतविस्मृताध्यनानामन्येषां वा सम्भावना १६९१० भ्रंशभयादिना अन्यथा उपदेशसम्भवात् । तत्प्रत्ययाच् १६९११ च तद्भक्तानामविचारेण प्रतिपत्तेर्बहुष्वध्येतृषु १६९१२ सम्भावितात्पुरुषाद्बहुलं प्रतिपत्तिदर्शनात् । ततो अपि कथंचिद् १६९१३ विप्रलम्भसम्भवात् । किं च । परिमितव्याख्यातृ १६९१४ पुरुषपरंपरामेव च अत्र भवतामपि शृणुमः । तत्र १६९१५ कश्चिद्द्विष्टाज्ञधूर्तानामन्यतमः स्यादपि इत्यनाश्वासः । १६९१६ तस्मान्न अपौरुषेयाद्व्याख्यानान्न अपि सामयिकाल्लोकव्यवहाराद् १६९१७ वेदार्थसिद्धिः । असामयिकत्वे अपि नानार्थानां शब्दानां १६९१८ व्यवहारे दर्शनात्कस्यचिदप्रसिद्धार्थस्य अप्रसिद्धस्य वा १६९१९ पुनर्व्युत्पत्तिदर्शनेन सर्वत्र तद्आशङ्कानिवृत्तेः । सर्वेषां १६९२० यथार्थनियोगे अप्यवैगुण्येन यथासमयं प्रतीति १६९२१ जननात् । इष्टानिष्टयोरविशेषात् । अविशिष्टानां सर्वार्थेष्वेकमर्थम् १६९२२ अत्यक्षसंयोगमनत्यक्षदर्शिनि पुरुषसामान्ये को विवेचयेद् १६९२३ यतो लोकात्प्रतीतिः स्यात् । अपि च । स्वयमप्ययं न १६९२४ सर्वत्र प्रसिद्धिमनुसरति । यस्मात् । १६९२५ स्वर्गोर्वश्य्आदिशब्दश्च दृष्टो अरूढार्थवाचकः । १६९२६ अनेन एव निर्वर्ण्यमानः । मनुष्यातिशायिपुरुषविशेषनिकेतो अतिमानुष १६९२७ सुखाधिष्ठानो नानोपकरणः स्वर्गः तन्निवासिन्य् १६९२८ अप्सरा उर्वशी नाम इति लोकवादः । तमनादृत्यान्यामेव अर्थकल्पनाम् १६९२९ अयं कुर्वाणः शब्दान्तरेषु कथं प्रसिद्धिं प्रमाणयेत् । १६९३० तत्र अविरोधादभ्युपगम इति चेत् । न । अत्र अप्यतीन्द्रिये १६९३१ विरोधासिद्धेः । अन्यत्र अप्यविरोधस्य दुरन्वयत्वात् । विरुद्धाम् १६९३२ अप्यग्निहोत्रात्स्वर्गावाप्तिं मान्द्यादयं न लक्षयेद् १६९३३ अपि । विरोधाविरोधौ च बाधकसाधकप्रमाणवृत्ती । ते च अत्यक्षे १७००१ न अभिमते । तत्कथं तद्वशात्प्रतीतिः । न च वचन १७००२ वृत्तेरेव अविरोधो अन्यत्र अपि प्रसङ्गात् । अपौरुषेय आगमस्तस्य १७००३ प्रवादादर्थसिद्धिः । तत्र पुनर्विरोधचिन्तायामनाश्वास १७००४ आगमे स्यात् । सत्यपि तस्मिन्नतथाभावादर्थस्य अप्रमाण १७००५ वृत्तेरन्यस्य अपि शङ्कनीयत्वात् । यदुक्तमग्निहोत्रं १७००६ जुहुयात्स्वर्गकाम इत्यत्र श्वमांसभक्षणदेशनाविकल्पो १७००७ भवत्विति स न भवति । प्रदेशान्तरेषु तथा तस्य चर्चनात् । १७००८ न । तस्य अर्थापरिज्ञानात् । प्रदेशान्तरेष्वपि तथाविधार्थ १७००९ कल्पनाया अनिवार्यत्वात् । यदि हि क्वचिद्विदितार्थो अयमपौरुषेयः १७०१० शब्दराशिः स्यात्तदा ततो अर्थप्रतीतिः स्यात् । ते तु बाहुल्ये १७०११ अप्यन्धा एव सर्व इति यथेष्टं प्रणीयन्ते । तस्मात् । १७०१२ शब्दान्तरेषु तादृक्षु तादृश्येव अस्तु कल्पना ॥३२०॥ १७०१३ यादृश्यग्निहोत्रं जुहुयात्स्वर्गकाम इत्यस्य वाक्यस्य । अपि १७०१४ च १७०१५ प्रसिद्धिश्च नृणां वादः प्रमाणं स च न इष्यते । १७०१६ ततश्च भूयो अर्थगतिः किमेतद्द्विष्टकामितम् ॥३२१॥ १७०१७ न प्रसिद्धिर्नाम अन्या अन्यत्र जनप्रवादात् । ते च सर्वे जना १७०१८ रागाद्य्अविद्यापरीतत्वादसम्भावनीययाथातथ्यवचनाः । १७०१९ तदेषां प्रवादो न प्रमाणम् । न हि कस्यचिदपि सम्यक्प्रतिपत्तेर् १७०२० अभावे बाहुल्यमर्थवद्भवति । पारशीकमातृमिथ्या १७०२१ चारवत् । तेषामेव पुरुषाणां वचनात्पुनः परोक्षार्थसम्प्रतिपत्तिर् १७१०१ इति कथं तदेव युगपद्द्वेष्यं च काम्यं च । १७१०२ अथ प्रसिद्धिमुल्लङ्घ्य कल्पने न निबन्धनम् । १७१०३ प्रसिद्धेरप्रमाणत्वात्तत्ग्रहे किं निबन्धनम् ॥३२२॥ १७१०५ प्राप्तप्रतिलोमनेन अन्यत्र प्रवृत्तिर्गुणदोषसन्दर्शनेन युक्ता १७१०६ इति प्रसिद्धेरन्वय इति चेत् । न । प्राप्तेः प्रमाणवृत्तिलक्षणत्वात् । १७१०७ यत्किंचन ग्रहणं हि प्रसिद्धिमप्रमाणयतस् १७१०८ तन्मुखेन प्रतीतिः । न्यायात्प्राप्तिप्रतिषेधात् । तुल्या स्वपर १७१०९ विकल्पयोरुभयथा अपि वृत्तिरिति कः प्रसिद्धावनुरोधः । १७११० अपि च इयम् १७१११ उत्पादिता प्रसिद्ध्या एव शङ्का शब्दार्थनिश्चये । १७११२ यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते ॥३२३॥ १७११३ न प्रसिद्धेरेकार्थनिश्चयः शब्दानां तत एव शङ्कोत्पत्तेः । १७११४ नानार्था हि शब्दा लोके दृश्यन्ते । लोकवादश्च प्रतीतिः । अत एव १७११५ नानार्था इति तत एकार्थनियमो न युक्तः । १७११६ अन्यथा असम्भवाभावान्नानाशक्तेः स्वयं ध्वनेः । १७११७ अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ॥३२४॥ १७११८ इत्यन्तरश्लोकः । तस्मादविदितार्थविभागेषु शब्देष्वेकम् १७११९ अर्थमत्यक्षसंयोगमनालम्बनसमारोपं विनिश्चित्य व्याचक्षाणो १७१२० जैमिनिस्तद्व्याजेन स्वमेव मतमाह इति न तीर्थकर १७१२१ अन्तरादस्य विशेषं पश्यामः । तथा हि । तद्अर्थवचनव्यापार १७१२२ शून्यस्य तत्समारोपेण अभिधानं न स्ववचनमतिशेते । १७१२३ तत्कारिणा केवलं मिथ्याविनीतता एव आत्मनः समुद्द्योतिता स्यात् १७१२४ तथा हि । १७१२५ एष स्थाणुरयं मार्ग इति वक्ति इति कश्चन । १७१२६ अन्यः स्वयं ब्रवीमि इति तयोर्भेदः परिक्ष्यताम् ॥३२५॥ १७२०१ निरभिप्रायव्यापारवचने स्थाणौ समारोप्योपदिशतः स्वतन्त्रस्य १७२०२ वा स्वयं वचनोपगमे न कश्चिद्विशेषो अन्यत्र जडस्य १७२०३ प्रतिपत्तिमान्द्यात् । अपि च एकार्थनियमे सत्येनं जैमिनिर् १७२०४ जानीयात् । स एव शब्दस्य १७२०५ सर्वत्र योग्यस्य एकार्थद्योतने नियमः कुतः । १७२०६ न हि शब्दस्य कश्चिदर्थः स्वभावनियतः सर्वत्र योग्यत्वात् । १७२०७ अयोग्यत्वे च तद्अप्रच्युतेरविधेयस्य पुरुषाणां क्वचिद् १७२०८ उपनयनापनयनासम्भवात् । १७२०९ ज्ञाता वा अतीन्द्रियाः केन विवक्षावचनादृते ॥३२६॥ १७२१० पुरुषप्रणीते हि शब्दे कयाचिद्विवक्षया स तां कदाचित्क्वचिन् १७२११ निवेदयेदपि इति विवक्षापूर्वकानां शब्दानामर्थनियमः १७२१२ प्रतीयेत अपि । अपौरुषेये तु विद्यमानो अप्यर्थनियमः कथं १७२१३ विज्ञेयः । स्वभावभेदस्य अभावात् । सति वा प्रत्यक्षस्य स्वयं १७२१४ प्रतीतिप्रसङ्गात् । अप्रत्यक्षे अपि केनचिज्ज्ञातुमशक्यत्वात् । १७२१५ न च अस्ति कश्चिद्विशेषः । सर्वशब्दा हि सर्वार्थ प्रत्यासत्तिविप्रकर्ष १७२१६ रहिताः । ततस्तेषाम् १७२१७ विवक्षा नियमे हेतुः संकेतस्तत्प्रकाशनः । १७२१८ अपौरुषेये सा न अस्ति तस्य सा एकार्थता कुतः ॥३२७॥ १७२१९ विवक्षया हि शब्दो अर्थे नियम्यते न स्वभावतः तस्य १७२२० क्वचिदप्रतिबन्धेन सर्वत्र तुल्यत्वात् । यत्र अपि प्रतिबन्धस् १७२२१ तद्अभिधाननियमाभावात् । सर्वशब्दैः करणानामभिधान १७२२२ प्रसङ्गात् । तस्माद्विवक्षाप्रकाशनाय अभिप्राय निवेदनलक्षणः १७२२३ संकेतः क्रियते । अपौरुषेये तु न विवक्षा न संकेतः १७२२४ कस्यचिदभिप्रायाभावादिति न नियमो न तज्ज्ञानम् । १७२२५ स्वभावनियमे अन्यत्र न योज्येत तया पुनः । १७२२६ यदि संकेतनिरपेक्षः स्वभावत एव अर्थेषु शब्दो निलीनः १७२२७ स्यातुक्तमत्र अप्रतिबन्धादनियम इति । अपि च । स्वाभाविके १७२२८ वाच्यवाचकभावे न पुनर्विवक्षया यथेष्टं नियुज्येत । १७३०१ संकेतश्च निरर्थः स्याद् । १७३०२ न हि स्वभावभेद इन्द्रियगम्यः स्वप्रतीतौ परिभाषादिकम् १७३०३ अपेक्षते । नीलादिभेदवत् । तद्अपेक्षप्रतीतयस्तु न वस्तुस्वभावाः । १७३०४ किं तर्हि । सामयिका राजचिह्नादिवत् । यश्च सामयिकः १७३०५ स स्वभावनियतो अयुक्तस्तस्य इच्छावृत्तेः । अत एव संकेतात् १७३०६ स्वभावविशेषस्य १७३०७ व्यक्तौ च नियमः कुतः ॥३२८॥ १७३०८ स्वेच्छावृत्तिः संकेतः स इह एव कर्तुं शक्यते न अन्यत्र इति १७३०९ न उपरोधो अस्ति । स च पुरुषैः स्वेच्छया क्रियमाणस्तमेव १७३१० स्वभावं व्यनक्ति न अन्यमिति न नियमो अस्ति । १७३११ यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः । १७३१२ द्योतयेत्तेन संकेतो न इष्टामेव अस्य योग्यताम् ॥३२९॥ १७३१३ इति अन्तरश्लोकः । १७३१४ यस्मात्किल ईदृशं सत्यं यथा अग्निः शीतनोदनः । १७३१५ वाक्यं वेदैकदेशत्वादन्यदप्यपरो अब्रवीत् ॥३३०॥ १७३१६ अन्यस्त्वपौरुषेयमागमलक्षणं परित्यज्य अन्यथा प्रामाण्यं १७३१७ वेदस्य साधयितुकामः प्राह अवितथानि वेदवाक्यानि १७३१८ यत्र अप्रतिपत्तिर्वेदैकदेशत्वात्यथा अग्निर्हिमस्य १७३१९ भेषजमित्यादिवाक्यमिति । तस्य इदम् । १७३२० रसवत्तुल्यरूपत्वादेकभाण्डे च पाकवत् । १७३२१ शेषवद्व्यभिचारित्वात्क्षिप्तं न्यायविदा ईदृशम् ॥३३१॥ १७३२२ स्वयमीदृशमाचार्येण अनुमानं नैयायिकशेषवद्अनुमान १७३२३ व्यभिचारमुद्भावयता तुल्यरूपतया फलानां तुल्यरस १७३२४ साधनवदेकस्थाल्य्अन्तर्गमाद्दृष्टवददृष्टतण्डुलपाक १७३२५ साधनवच्च असाधनमुक्तम् । तद्असाधनत्वन्यायश्च १७३२६ पूर्वमेव उक्तः । उक्तं च इदमागमलक्षणमस्माभिः तत्तु १७३२७ सर्वस्य शक्यविचारस्य विषयस्य यथास्वं प्रमाणेन विधि १७३२८ प्रतिषेधविशुद्धौ नान्तरीयकत्वाभावे अपि शब्दानामर्थेषु १७४०१ वरं संशयितस्य वृत्तिः तत्र कदाचिदविसंवादसम्भवात् १७४०२ न त्वन्यत्र दृष्टप्रमाणोपरोधस्य पुरुषस्य प्रवृत्तिरिति । १७४०३ यः पुनः प्राकृतविषयस्य वह्नेः शीतप्रतिघातसामर्थ्यस्य १७४०४ अभिधानं सत्यार्थमुपदर्श्य सर्वं सत्यार्थमाह १७४०५ शास्त्रं शक्यपरिच्छेदे अपि विषये प्रमाणविरोधाद्बहुतरम् १७४०६ अयुक्तमपि । १७४०७ नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान् । १७४०८ ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम् ॥३३२॥ १७४०९ निवृत्तिं च प्रमाणाभ्यामन्यद्वा व्यस्तगोचरम् । १७४१० विरुद्धमागमापेक्षेण अनुमानेन वा वदत् ॥३३३॥ १७४११ विरोधमसमाधाय शास्त्रार्थं च अप्रदर्श्य सः । १७४१२ सत्यार्थं प्रतिजानानो जयेद्धार्ष्ट्येन बन्धकीम् ॥३३४॥ १७४१४ अप्रच्युतानुत्पन्नपूर्वापररूपः पुमान् कर्ता क्रमेण कर्मणां १७४१५ कर्मफलानां च भोक्ता समवायिकारणाधिष्ठानभावादिना १७४१६ इत्याह वेदः तच्च अयुक्तमित्यावेदितप्रायं नित्यत्वं च १७४१७ केषांचिद्भावानामक्षणिकस्य वस्तुधर्मातिक्रमादयुक्तम् १७४१८ अप्रत्यक्षान्येव हि सामान्यादीनि प्रत्यक्षानि जन्मस्थिति १७४१९ निवृत्तीश्च विषमाः पदार्थानामनाधेयविशेषस्य प्रागकर्तुः १७४२० परापेक्षया जनकत्वं निष्पत्तेरकार्यरूपस्य आश्रयवशेन १७४२१ स्थानं कारणाच्च विनाश इत्यादिकमन्यदपि प्रत्यक्ष १७४२२ अनुमानाभ्यां प्रसिद्धिविपर्ययमागमाश्रयेण च अनुमानेन १७४२३ बाधितमग्निहोत्रादेः पापशोधनसामर्थ्यादिकम् । तस्य १७४२४ एवंवादिनो वेदस्य सर्वत्र शास्त्रशरीरे प्रमाणविरोधम् १७४२५ अप्रतिसमाधाय सम्बन्धानुगुणोपायपुरुषार्थाभिधानानि च १७४२६ शास्त्रधर्मानप्रदर्श्यात्यन्तप्रसिद्धविषयसत्याभिधान १७४२७ मात्रेण प्रज्ञाप्रकर्षदुरवगहगहने अपि निरत्ययतां साधयितुकामो १७४२८ बन्धकीमपि प्रागल्भ्येन विजयते । काचित्किल १७४२९ बन्धकी स्वयं स्वामिना विप्रतिपत्तिस्थाने दृष्ट्वा उपालब्धा । सा १७४३० तं प्रत्युवाच । पश्यत मातः पुरुषस्य वैपरीत्यम् । मयि १७४३१ धर्मपत्न्यां प्रत्ययमकृत्वा आत्मीययोर्न इतराभिधानयोर् १७४३२ जलबुद्बुदयोः । करोति । तेन जरत्काणेन ग्राम्यकाष्ठहारकेण १७५०१ प्रार्थिता अपि न संगता । रूपगुणानुरागेन किल मन्त्रिमुख्य १७५०२ दारकं कामये अहमिति । एवंजातीयकमेतदपि वह्नेः १७५०३ शीतप्रतीकारवचनेन दृष्टप्रमाणविरोधस्य अप्यत्यन्तपरोक्षे १७५०४ अर्थे अविसंवादानुमानम् । १७५०५ सिध्येद्प्रमाणं यद्येवमप्रमाणमथ इह किम् । १७५०६ न ह्येकं न अस्ति सत्यार्थं पुरुषे बहुभाषिणि ॥३३५॥ १७५०७ यथा इदमतिदुष्करमत्यन्तसत्याभिधानं तथा अत्यन्तासत्य १७५०८ अभिधानमपि । तत्र एकस्य वचनस्य कथंचित्संवादेन अविशिष्टस्य १७५०९ तद्वचनराशेस्तथाभावे न कश्चित्पुरुषो अनाप्तः १७५१० स्यात् । अपि च । १७५११ न अयं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः । १७५१२ न च तद्व्यतिरिक्तस्य विद्यते अव्यभिचारिता ॥३३६॥ १७५१३ न तावदेतद्वचनं वाच्यानां स्वभावः । न अप्येषां कार्यम् १७५१४ तद्अभावे अपि वक्तुर्विवक्षामात्रेण भावात् । न च अन्यः १७५१५ कश्चित्कस्यचिदव्यभिचारी । व्यभिचारे च ततो अन्यथा अपि १७५१६ तत्सम्भवात्तद्भावात्तत्प्रतीतिरयुक्ता । १७५१७ प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृता इति चेत् । १७५१८ स्यादेतत्कार्यमेव वचनं वाचकस्य वाच्यदर्शनवृत्तेर् । १७५१९ एवं सति । १७५२० परस्परविरुद्धार्था कथमेकत्र सा भवेत् ॥३३७॥ १७५२१ यद्येष प्रतिनियमो वाच्यं वस्त्वन्तरेण शब्दो न प्रवर्तत १७५२२ इति । भिन्नेषु प्रवादेष्वेकत्र वस्तुनि विरुद्धस्वभावोपसंहारेण १७५२३ वचनवृत्तिर्न स्यात् । न ह्ययं सम्भवो अस्ति एकः १७५२४ शब्दो निष्पर्यायं नित्यश्च स्यादनित्यश्च इति । १७५२५ वस्तुभिर्न आगमास्तेन कथंचिन्नान्तरीयकाः । १७५२६ प्रतिपत्तुः प्रसिध्यन्ति कुतस्तेभ्यो अर्थनिश्चयः ॥३३८॥ १७५२७ आगमं प्रमाणं तद्आदर्शितार्थप्रतिपत्तये अज्ञो जनः समन्वेषते १७५२८ समधिगतयाथातथ्यानामुपदेशानपेक्षणात् । अज्ञस्य १७५२९ च अतीन्द्रियगुणपुरुषविवेचने असामर्थ्यात् । वचनानां १७६०१ समीहितार्थसत्तामन्तरेण अपि वृत्तिं पश्यतो भवितव्यमेव अदृष्ट १७६०२ व्यभिचारवचसामपि पुरुषाणां वाचि शङ्कया किं यथार्था १७६०३ न वा इति । तेन न युक्तमनेन कस्यचिद्वचनेन किंचिन् १७६०४ निश्चेतुम् । १७६०५ तस्मान्न तन्निवृत्त्या अपि भावाभावः प्रसिध्यति । १७६०६ यदुक्तं सर्वविषयत्वादागमस्य सति वस्तुन्यविसंवादेन १७६०७ अस्य वृत्तेस्तन्निवृत्तिलक्षणानुपलब्धिरभावं साधयति १७६०८ इति तदस्य सर्वविषयत्वे अपि वस्त्व्अन्तरेण आवृत्तौ स्यात् । तच् १७६०९ च न अस्ति । ततः प्रतिपत्तुकामस्य असिद्धिरित्युक्तम् । १७६१० तेन असंनिश्चयफला अनुपलब्धिर्न सिध्यते ॥३३९॥ १७६११ तस्मान्न प्रमाणत्रयनिवृत्तावपि विप्रकृष्टेष्वभावनिश्चयः । १७६१३ वेदप्रामाण्यं कस्यचित्कर्तृवादः । १७६१४ स्नाने धर्मेच्छा जातिवादावलेपः । १७६१५ सन्तापारम्भः पापहानाय च इति । १७६१६ ध्वस्तप्रज्ञाने पञ्च लिङ्गानि जाड्ये ॥३४०॥ १७६१७ इति प्रमाणवार्त्तिके प्रथमः परिच्छेदः ॥ ॥