प्रमाणवार्तिकम् प्रथमः परिच्छेदः प्रमाणसिद्धिः विधूतकल्पनाजालगम्भीरोदारमूर्तये । नमः समन्तभद्राय समन्तस्फरणत्विषे ॥ १.१ ॥ प्रायः प्राकृतसक्तिरप्रतिबलप्रज्ञो जनः केवलम् । नानर्थ्येव सुभाषितैः परिगतो विद्वेष्ट्यपीर्ष्यामलैः । तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरं सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम् ॥ १.२ ॥ प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः । अविसंवादनं शाब्देऽप्यभिप्रायनिवेदनात् ॥ १.३ ॥ वक्तृव्याअपारविषयो योऽर्थो बुद्धौ प्रकाशते । प्रामाण्यं तत्र शब्दस्य नाथतत्त्वनिबन्धनम् ॥ १.४ ॥ गृहीतग्रहणान्नेष्टं सांवृतं धीप्रमाणता । प्रवृत्तेस्तत्प्रधानत्वाथेयोपादेयवस्तुनि ॥ १.५ ॥ विषयाकारभेदाच्च धियोऽधिगमभेदतः । भावादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः ॥ १.६ ॥ प्रामाण्यं व्यवहारेण शास्त्रं मोहनिर्वतनम् । अज्ञातार्थप्रकाशो वा स्वरूपाधिगतेः परम् ॥ १.७ ॥ प्राप्तं सामान्यविज्ञानमविज्ञाते स्वलक्षणे । यज्ज्ञानमित्यभिप्रायात्स्वलक्षणविचारतः ॥ १.८ ॥ तद्वत्प्रमाणं भगवानभूतविनिवृत्तये । भूतोक्तिः साधनापेक्षा ततो युक्ता प्रमाणता ॥ १.९ ॥ नित्यं प्रमाणं नैवास्ति प्रामाण्याद्वस्तुसद्गतेः । ज्ञेयानित्यतया तस्या अध्रौव्यात्क्रमजन्मनाम् ॥ १.१० ॥ नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगतः । कथञ्चिन्नोपर्कायत्वातनित्येऽप्यप्रमाणता ॥ १.११ ॥ स्थित्वाप्रवृत्तिः संस्थानविशेषार्थक्रियादिषु । इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥ १.१२ ॥ सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् । सन्निवेशादि तद्युक्तं तस्माद्यदनुमीयते ॥ १.१३ ॥ वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः । न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥ १.१४ ॥ अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादेः करणात्सिध्येद्वल्मीकस्यापि तत्कृतिः ॥ १.१५ ॥ साध्येनानुगमात्कार्ये सामान्येनापि साधने । सम्बन्धिभेदाद्भेदोक्तिदोषः कार्यसमो मतः ॥ १.१६ ॥ जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात् । न युक्तं साधनं गोत्वाद्वागादीनां विषाणवत् ॥ १.१७ ॥ विवक्षापरतन्त्रत्वान्न शब्दाः सन्ति कुत्र वा । तद्भावादर्थसिद्धौ तु सर्व सर्वस्य सिध्यति ॥ १.१८ ॥ एतेन कापिलादीनामचैतन्यादि चिन्तितम् । अनित्यादेश्च चैतन्यं मरणात्त्वगपोहतः ॥ १.१९ ॥ वस्तुस्वरूपे सिद्धेऽयं न्यायः सिद्धे विशेषणम् । अबाधकमसिद्धावप्याकाशाश्रयवद्ध्वनेः ॥ १.२० ॥ असिद्धावपि शब्दस्य शिद्धे वस्तुनि सिध्यति । औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्यादिसाधनम् ॥ १.२१ ॥ तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिण । दोषवत्साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः ॥ १.२२ ॥ यथा तत्कारणं वस्तु तथैव तदकारणम् । यदा तत्कारणं केन मतं नेष्टमकारणम् ॥ १.२३ ॥ शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे । असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ॥ १.२४ ॥ स्वभावभेदेन विना व्यापारोऽपि न युज्यते । नित्यस्याव्यतिरेकित्वात्सामर्थ्य च दुरन्वयम् ॥ १.२५ ॥ येषु सत्सु भवत्येव यत्तेभ्योऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः ॥ १.२६ ॥ स्वभावपरिणामेन हेतुरङ्कुरजन्मनि । भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात् ॥ १.२७ ॥ यथा विशेषेण विना विषयेन्द्रियसंहतिः । बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषतः ॥ १.२८ ॥ पृथक्पृथगशक्तानां स्वभावातिशयेऽसति । संहतावप्यसामर्थ्य स्यात्सिद्धोऽतिशयस्ततः ॥ १.२९ ॥ तस्मात्पृथगशक्तेषु येषु सम्भाव्यते गुणः । संहतौ हेतुता तेषां नेश्वरादेरभेदतः ॥ १.३० ॥ प्रामाण्यञ्च परोक्षार्थज्ञानं यत्साधनस्य च । अभावान्नास्त्यनुष्ठानमिति केचित्प्रचक्षते ॥ १.३१ ॥ ज्ञानवान्मृग्यते कश्चित्तदुक्तप्रतिपत्तये । अज्ञोपदेशकरणे विप्रलम्भनशङ्किभिः ॥ १.३२ ॥ तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ॥ १.३३ ॥ हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः । यः प्रमाणमसाविष्टो न तु सवस्य वेदकः ॥ १.३४ ॥ दूरं पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे ॥ १.३५ ॥ साधनं करुणाभ्यासात्सा बुद्धेर्देहसंश्रयात् । असिद्धिऽभ्यास इति चेन्नाश्रयप्रतिषेधतः ॥ १.३६ ॥ प्राणापानेन्द्रियधियां देहादेव न केवलात् । सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे ॥ १.३७ ॥ अतिप्रसङ्गात्य द्दृष्टं प्रतिसन्धानशक्तिमत् । किमासीत्तस्य यन्नास्ति पश्याद्येन न सन्धिमत् ॥ १.३८ ॥ न स कश्चित्पृथिव्यादेरंशो यत्र न जन्तवः । संस्वेदजाद्या जायन्ते सर्व बीजात्मकं ततः ॥ १.३९ ॥ तत्सजात्यनपेक्षाणामक्षादीनां समुद्भवे । परिणमो यथैकस्य स्यात्सर्वस्याविशेषतः ॥ १.४० ॥ प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमतेः । उपघातोऽस्ति भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते ॥ १.४१ ॥ तस्मात्स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रितः । कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धितः ॥ १.४२ ॥ यादृश्याक्षेपिका सासीत्पश्चादप्यस्तु तादृशी । तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मनः ॥ १.४३ ॥ यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना । तथाप्यन्योऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके ॥ १.४४ ॥ नाक्रमात्क्रमिणो भावो नाप्यपेक्ष्याविशेषिणः । क्रमाद्भवन्ती धीः कायात्क्रमं तस्यापि शंसति ॥ १.४५ ॥ प्रतिक्षणमपूर्वस्य पूर्वः पूर्वः क्षणो भवेत् । तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा ॥ १.४६ ॥ चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतसः । तद्वदप्यर्हतश्चित्तसन्धानं कुतो मतम् ॥ १.४७ ॥ असिद्धार्थः प्रमाअणेन किं सिद्धान्तोऽनुगम्यते । हेतोर्वैकल्यतस्तच्चेत्किं तदेवात्र नोदितम् ॥ १.४८ ॥ तद्धीवद्ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात् । ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि ॥ १.४९ ॥ अचेतनत्वान्नान्यस्माधेत्वभेदात्सहस्थितिः । अक्षवद्रूपरसवदर्थद्वारेण विक्रिया ॥ १.५० ॥ सत्तोपकारिणी यस्य नित्यं तदनुबन्धतः । स हेतुः सप्तमी तस्मादुत्पादादिति चोच्यते ॥ १.५१ ॥ अस्तूपकारको वापि कदाचिच्चित्तसन्ततेः । वह्नयादिवद्घटादिनां विनिवृत्तिर्न तावता ॥ १.५२ ॥ अनिवृत्तिप्रसङ्श्च देहे तिष्ठति चेतसः । तद्भावभावाद्वश्यत्वात्प्राणापानौ ततो न तत् ॥ १.५३ ॥ प्रेरणाकर्षणे वायोः प्रयत्नेन विना कुतः । निर्ह्रासाअतिशयापत्तिर्निर्ह्रासातिशयात्तयोः ॥ १.५४ ॥ तुल्यः प्रसङ्गोऽपि तयोः न तुल्यं चित्तकारणे । स्थित्यावेधकमन्यच्च यतः कारणमिष्यते ॥ १.५५ ॥ न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद्यदि । मृते शमीकृते दोषे पुनरुज्जीवनं भवेत् ॥ १.५६ ॥ निवृत्तेऽप्यनले काष्ठविकाराविनिवृत्तिवत् । तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगतः ॥ १.५७ ॥ अपुनर्भावतः किञ्चद्विकारजननं क्वचित् । चिञ्चिद्विपर्ययादग्निर्यथा काष्ठसुवर्णयोः ॥ १.५८ ॥ आद्यस्याल्पोऽप्यसंहार्यः प्रत्यानेयस्तु यत्कृतः । विकारः स्यात्पुनर्भावः तस्य हेम्निखरत्ववत् ॥ १.५९ ॥ दुर्लभत्वात्समाधातुरसाध्यं किञ्चिदीरितम् । आयुःक्षयाद्वा दोषे तु केवले नास्त्यसाध्यता ॥ १.६० ॥ मृते विषादिसंहारात्तंद्दशच्छेदतोऽपि वा । विकारहेतोर्विगमे स नोच्छवसिति स नोच्छ्वसिति किं पुनः ॥ १.६१ ॥ उपादानाविकारेण नोपादेयस्य विक्रिया । कर्तु शक्याविकारेण मृदः कुण्डादिके यथा ॥ १.६२ ॥ अविकृत्य हि यद्वस्तु यः पदार्थो विकार्यते । उपादानं न तत्तस्य युक्तं गोगवयादिवत् ॥ १.६३ ॥ चेतःशरीरयोरेवं तद्धेतोः कार्यजन्मनः । सहकारात्सहस्थानमग्निताम्रद्रवत्ववत् ॥ १.६४ ॥ अनाश्रयात्सदसतोर्नाश्रयः स्थितिकारणम् । सतश्चेदाश्रयो नास्याः स्थातुरव्यतिरेकतः ॥ १.६५ ॥ व्यतिरेकेऽपि तद्धेतुस्तेन भावस्य किं कृतम् । अबिनाशप्रसङ्गः स नाशहेतोर्मतो यदि ॥ १.६६ ॥ तुल्यः प्रसङ्गस्तत्रापि किं पुनः स्थितिहेतुना । आ नाशकागमात्स्थानं ततश्चेद्वस्तुधर्मता ॥ १.६७ ॥ नाशस्य सत्यबाधोऽसाविति कि स्थितिहेतुना । यथा जलादेराधार इति चेत्तुल्यमत्र च ॥ १.६८ ॥ प्रतिक्षणविनाशे हि भवानां भावसन्ततेः । तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥ १.६९ ॥ स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥ १.७० ॥ एतेन समवायश्च समवायि च कारणम् । व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात् ॥ १.७१ ॥ परतो भावानाशश्चेत्तस्य किं स्थितिहेतुना । स विनश्येद्विनाप्यन्यैरशक्ताः स्थितिहेतवः ॥ १.७२ ॥ स्थितिमान्नाश्रयः सर्वः सर्वोत्पत्तै च साश्रयः । तस्मात्सर्वस्य भावस्य न विनाशः कदाचन ॥ १.७३ ॥ स्वयं विनश्वरात्मा चेत्तस्य कः स्थापकः परः । स्वयं न नश्वरात्मा चेत्तस्य कः स्थापकः परः ॥ १.७४ ॥ बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि । प्रज्ञादेर्भवतो देहनिर्ह्रासतिशयौ विना ॥ १.७५ ॥ इदं दीपप्रभादीनामाश्रितानां न विद्यते । स्यात्ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिण ॥ १.७६ ॥ रागादिवृद्धिः पुष्ट्यादेः कदाचित्सुखदुःखजा । तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधेः ॥ १.७७ ॥ एतेन सन्निपातादेः स्मृतिभ्रंशादयो गताः । विकारयति धीरेव ह्यन्तरर्थविशेषजा ॥ १.७८ ॥ शार्दू लशोणितादीनां सन्तानातिशये क्वचित् । मोहादयः सम्भवन्ति श्रवणेक्षणतो यथा ॥ १.७९ ॥ तस्मात्स्वस्यैव संस्कारं नियमेनानुवर्तते । तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम् ॥ १.८० ॥ यथा श्रुतादिसंस्कारः कृतश्चेतसि चेतसि । कालेन व्यज्यतेऽभेदात्स्याद्देहेऽपि ततो गुणः ॥ १.८१ ॥ अनन्यसत्त्वनेयस्य हीनस्थानपरिग्रहः । आत्मस्नेहवतो दुःखसुखत्यागाप्तिवाञ्छया ॥ १.८२ ॥ दुःखे विपर्यासमतिः तृष्णा चाबन्धकारणम् ॥ जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥ १.८३ ॥ गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात् । अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा ॥ १.८४ ॥ तनुत्वान्मूर्तमपि तु किञ्चित्क्वचिदशक्तिमत् । जलवत्सूतवद्धेम्नि नादृष्टेनासदेव वा ॥ १.८५ ॥ पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिनः । एकस्मिन् कर्मणोऽयोगात्स्यात्पृथक्सिद्धिरन्यथा ॥ १.८६ ॥ एकस्य चावृतौ सर्वस्यावृतिः स्यादनावृतौ । दृश्येत रक्ते चैकस्मिन् रागोऽरक्तस्य वागतिः ॥ १.८७ ॥ नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत् । अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति ॥ १.८८ ॥ अविशेषो विशिष्टानामैन्द्रियत्वमतोऽनणुः । एतेनावरणादीनामभावश्च निराकृतः ॥ १.८९ ॥ कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा । दृश्यं पृथगशक्तानामक्षादीनां गतिः कथम् ॥ १.९० ॥ संयोगाच्चेत्समानोऽत्र प्रसङ्गो हेमसूतयोः । दृश्यः संयोग इति चेत्कुतोऽदृश्याश्रये गतिः ॥ १.९१ ॥ रसरूपादियोगश्च संयोग उपचारतः । इष्टश्चेद्बुद्धिभेदोऽस्तु पंक्तिर्दिर्घेति वा कथम् ॥ १.९२ ॥ संख्यासंयोगकर्मादेरपि तद्वत्स्वरूपतः । अभिलापाच्च भेदेन रूपं बुद्धौ न भासते ॥ १.९३ ॥ शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा । गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा ॥ १.९४ ॥ मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धनः । स एव सर्वभावेषु हेतुः कि नेष्यते तयोः ॥ १.९५ ॥ उपचारो न सर्वत्र यदि भिन्नविशेषणम् । मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत् ॥ १.९६ ॥ अनर्थान्तरहेतुत्वेऽप्यपर्यायः सितादिषु । संख्यादियोगिनः शब्दास्तत्राप्यर्थान्तरं यदि ॥ १.९७ ॥ गुणद्रव्याविशेषः स्याद्भिन्नो व्यावृत्तिभेदतः । स्यादनर्थान्तरार्थत्वेऽप्यकर्माद्रव्यशब्दवत् ॥ १.९८ ॥ व्यतिरेकीव यच्चापि सूच्यते भाववाचिभिः । संख्यादितद्वतः शब्दैस्तद्धर्मान्तरभेदकम् ॥ १.९९ ॥ श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा । भिन्नं धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित् ॥ १.१०० ॥ युक्ताङ्गुलीति सर्वेषामाक्षेपाद्धर्मिवाचिनी । ख्यातैकार्थाभिधानेऽपि तथा बिहितसंस्थितिः ॥ १.१०१ ॥ रूपादिशक्तिभेदानामनाक्षेपेण वर्तते । तत्समानफलाहेतुव्यवच्छेदे घटश्रुतिः ॥ १.१०२ ॥ अतो न रूपं घट इत्येकाधिकररण श्रुतिः । भेदोऽयमीदृशो जातिसमुदायाभिधायिनोः ॥ १.१०३ ॥ रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया ॥ १.१०४ ॥ हेतुत्वे च समस्तानामेकाङ्गविकलेऽपि न । प्रत्येकमपि सामर्थ्ये युगपद्बहुसम्भवः ॥ १.१०५ ॥ नानेकत्वस्य तुल्यत्वात्प्राणापानौ नियामकौ । एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधेः ॥ १.१०६ ॥ नानेकहेतुरिति चेन्नाविशेषात्क्रमादपि । नैकप्राणेऽप्यनेकार्थग्रहणन्नियमस्ततः ॥ १.१०७ ॥ एकयानेकविज्ञाने बुद्ध्यास्तु सकृदेव तत् । अविरोधात्क्रमेणापि माभूत्तदविशेषतः ॥ १.१०८ ॥ बहवः क्षणिकाः प्राणा अस्वजातीयकालिकाः । तादृशामेव चित्तानां कल्प्यन्ते यदि कारणम् ॥ १.१०९ ॥ क्रमवन्तः कथं ते स्युः क्रमवद्धेतुना विना । पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भवः ॥ १.११० ॥ तद्धेतुस्तादृशो नास्ति सति वानेकता ध्रुवम् । प्राणानां भिन्नदेशत्वात्सकृज्जन्म धियामतः ॥ १.१११ ॥ यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम् । एकस्यापि व वैकल्ये स्यान्मन्दश्वसितादिषु ॥ १.११२ ॥ अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद्विशिष्टता । न हि तत्तस्य कार्य यद्यस्य भेदान्न्न भिद्यते ॥ १.११३ ॥ विज्ञानं शक्तिनियमादेकमेकस्य कारणम् । अन्यार्थासक्तिविगुणे ज्ञाने चार्थान्तराग्रहात् ॥ १.११४ ॥ शरीरात्सकृदुत्पन्ना धीः स्वजात्या नियम्यते । परतश्चेत्समर्थस्य देहस्य विरतिः कुतः ॥ १.११५ ॥ अनाश्रयान्निवृत्ते स्याच्छरीरे चेतसः स्थितिः । केवलस्येति चेच्चित्तसन्तानस्थितिकारणम् ॥ १.११६ ॥ तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति । हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम् ॥ १.११७ ॥ तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम् । अनिश्चयकरं प्रोक्तमिन्द्रियाद्यपि शेषवत् ॥ १.११८ ॥ दृष्टा च सक्तिः पूर्वेषामिन्द्रियाणां स्वजातिषु । विकारदर्शनात्सिद्धमपरापरजन्म च ॥ १.११९ ॥ शरीराद्यदि तज्जन्म प्रसङ्गः पूर्ववद्भवेत् । चित्ताच्चेत्तत एवास्तु जन्म देहान्तरस्य च ॥ १.१२० ॥ तस्मान्न हेतुवैकल्यात्सर्वेषामन्त्यचेतसाम् । असन्धिरीदृशं तेन शेषवत्साधनं मतम् ॥ १.१२१ ॥ अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत् । स्वभावातिक्रमो मा भूदिति चेदाहितः स चेत् ॥ १.१२२ ॥ पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिताश्रयः । विशेषो नैव वर्धेत स्वभावश्च न तादृशः ॥ १.१२३ ॥ तत्रोपयुक्तशक्तीनां विशेषानुत्तरान् प्रति । साधनानामसामार्थ्यान्नित्यं चानाश्रयस्थितेः ॥ १.१२४ ॥ विशेषस्यास्वभावत्वाद्वृद्धावप्याहितो यदा । नापेक्षेत पुनर्यत्नं यत्नोऽन्यः स्याद्विशेषकृत् ॥ १.१२५ ॥ काष्ठपारदहेमादेरग्न्यादेरिव चेत्तसः । अभ्यासजाः प्रवर्त्तन्ते स्वरसेन कृपादयः ॥ १.१२६ ॥ तस्मात्स तेषामुत्पन्नः स्वभावो जायते गुणः । तदुत्तरोत्तरो यत्नो विशेषस्य विधायकः ॥ १.१२७ ॥ यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धयः । कृपादिबुद्धयस्तासां सत्यभ्यासे कुतः स्थितिः ॥ १.१२८ ॥ न चैवं लङ्घनादेव लङ्घनं बलयत्नयोः । तद्धेत्वोः स्थितशक्तित्वाल्लङ्घनस्य स्थितात्मता ॥ १.१२९ ॥ तस्यादौ देहवैगुण्यात्पश्चाद्वदविलङ्घनम् । शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थितिः ॥ १.१३० ॥ कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत् । विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम् ॥ १.१३१ ॥ तथा हि मूलमभ्यासः पूर्वः पूर्वः परस्य तु । कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे ॥ १.१३२ ॥ कृपात्मकत्वमभ्यासाद्घृणावैराग्यरागवृत् । निष्पन्नः करुणोत्कर्षः परदुःखाक्षमेरितः ॥ १.१३३ ॥ दयावान् दुःखहानार्थमुपायेष्वभियुज्यते । परोक्षोपेयतद्धेतोस्तदाख्यानं हि दुष्करम् ॥ १.१३४ ॥ युक्त्यागमाभ्यां विमृशन् दुःखहेतु परीक्षते । तस्यानित्यादिरूपं च दुःखस्यैव विशेषणैः ॥ १.१३५ ॥ यतस्तथा स्थिते हेतौ निवृत्तिर्ने ति पश्यति । फलस्य हेतोर्हानार्थ तद्विपक्षं परीक्षते ॥ १.१३६ ॥ साध्यते तद्विपक्षोऽपो हेतो रूपावबोधतः । आत्मात्मीयग्रहकृतः स्नेहः संस्कारगोचरः ॥ १.१३७ ॥ हेतुर्विरोधि नैरात्म्दर्शनं तस्य बाधकम् । बहुशो बहुधोपायं कालेन बहुनास्य च ॥ १.१३८ ॥ गच्छन्त्यभ्यस्यतस्तत्र गुणदोषाः प्रकाशताम् । बुद्धेश्च पाटवाद्धेतोर्वासनातः प्रहीयते ॥ १.१३९ ॥ परार्थवृत्तैः खड्गादेर्विशेषोऽयं महामुनेः । उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम् ॥ १.१४० ॥ निष्पत्तेः प्रथमं भावाद्धेतुरुक्तमिदं द्वयम् । हेतोः प्रहाणं त्रिगुणं सुगतत्वमनिःश्रयात् ॥ १.१४९ ॥ दुःखस्य शस्तं नैरात्म्यदृष्टेश्च युक्तितोऽपि वा । पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ ॥ १.१४२ ॥ आत्मदर्शनबीजस्य हानादपुनरागमः । तद्भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम् ॥ १.१४३ ॥ कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा । अशेषहानमभ्यासादुक्त्यादेर्दोषसंक्षयः ॥ १.१४४ ॥ नेत्येके व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यतः । अक्षयित्वं च दोषाणां नित्यत्वादनुपायतः ॥ १.१४५ ॥ उपायस्यापरिज्ञानादपि वा परिकल्पयेत् । हेतुमत्त्वाद्विरुद्धस्य हेतोरभ्यासतः क्षयात् ॥ १.१४६ ॥ हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते । तायः स्वदृष्टमार्गोक्तिः वैफल्याद्वक्ति नानृतम् ॥ १.१४७ ॥ दयालुत्वात्परार्थञ्च सर्वारम्भाभियोगतः । तस्मात्प्रमाणं तायो वा चतुःसत्यप्रकाशनम् ॥ १.१४८ ॥ दुःखं संसारिणः स्कन्धाः रागादेः पाटवेक्षणात् । अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधतः ॥ १.१४९ ॥ व्यभिचारान्न वातादिधिर्मः प्रकृतिसङ्करात् । अदोषश्चेत्तदन्योऽपि धर्मः किं तस्य नेक्ष्यते ॥ १.१५० ॥ न सर्वधर्मः सर्वेषां समरागप्रसङ्गता । रूपादिवददोषश्चेत्तुल्यं तत्रापि चोदनम् ॥ १.१५१ ॥ आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम् । विशेषेऽपि च दोषाणामविशेषादसिद्धता ॥ १.१५२ ॥ न विकाराद्विकारेण सर्वेषां न च सर्वजाः । कारणे वर्धमाने च कार्यहानिर्न युज्यते ॥ १.१५३ ॥ तापादिष्विव रागादेर्विकारोऽपोइ सुखादिजः । वैषम्यजेन दुःखेन रागस्यानुद्भवो यदि ॥ १.१५४ ॥ वाच्यं केनोद्भवः साम्यान्मदवृद्धिः स्मरस्ततः । रागी विषमदोषोऽपि दृष्टः साम्येऽपि नापरः ॥ १.१५५ ॥ क्षयादसृक्स्रु तोऽप्यन्ये नैकस्त्रीनियतो मदः । तेनैकस्यां न तीव्रः स्यादङ्ग रूपाद्यपीति चेत् ॥ १.१५६ ॥ न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत् । अगुणग्राहिणोऽपि स्यातङ्गं सोऽपि गुणग्रहः ॥ १.१५७ ॥ यदि सर्वो गुणग्राही स्याधेतोरविशेषतः । यदवस्थो मतो रागी न द्वेषी स्याच्च तादृशः ॥ १.१५८ ॥ तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते । सजातिवासनाभेदप्रतिबद्धप्रवृत्तयः ॥ १.१५९ ॥ यस्य रागादयस्तस्य नैते दोषाः प्रसङ्गिनः । एतेन भूतधर्मत्वं निषिद्धं निःश्रयस्य च ॥ १.१६० ॥ निषेधान्न पृथिव्यादिनिःश्रिता धवलादयः । तदुपादायशब्दश्च हेत्वर्थः स्वाश्रयेण च ॥ १.१६१ ॥ अविनिर्भागवर्तित्वाद्रूपादेराश्रयोऽपि वा । मदादिशक्तेरिव चेद्विनिर्भागः न वस्तुनः ॥ १.१६२ ॥ शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितामाश्रये । तिष्ठत्यविकले याति तत्तुल्यं चेन्न भेदतः ॥ १.१६३ ॥ भूतचेतनयोः भिन्नप्रतिभासावबोधतः । आविकारञ्च कायस्य तुल्यरूपं भवेन्मनः ॥ १.१६४ ॥ रूपादिवत्विकल्पस्य कैवार्थपरतन्त्रता । अनपेक्ष्य यदा कायं वासनाबोधकारणम् ॥ १.१६५ ॥ ज्ञानं स्यात्कस्यचित्किञ्चित्कुतश्चित्तेन किञ्चिन । अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति ॥ १.१६६ ॥ विज्ञानशक्तिसम्बन्धादिष्टं चेत्सर्ववस्तुनः । एतत्सांख्यपशोः कोऽन्यः सलज्जो वक्तुमीहते १६७ ॥ अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम् । यद्रूपं दृश्यतां यातं तद्रूपं प्राङ्न दृश्यते ॥ १.१६८ ॥ शतधा विप्रकीर्णेऽपि हेतौ तद्विद्यते कथम् । रागाद्यनियमोऽपूर्वप्रादुर्भावे प्रसज्यते ॥ १.१६९ ॥ भूतात्मतानतिक्रान्तः सर्वो रागादिमान् यदि । सर्वः समानरागः स्याद्भूतातिशयतो न चेत् ॥ १.१७० ॥ भूतानां प्राणताभेदेऽप्ययं भेदो यदाश्रयः । तन्निर्ह्रासातिशयवत्तद्भावात्तानि हापयेत् ॥ १.१७१ ॥ न चेद्भेदेऽपि रागादिहेतुतुल्यात्मताक्षयः । सर्वत्र रागः सदृशः स्याद्धेतोस्सदृशात्मनः ॥ १.१७२ ॥ न हि गोप्रत्ययस्यास्ति समानात्मभुवः क्वचित् । तारतभ्यं पृथिव्यादौ प्राणितादेरिहापि वा ॥ १.१७३ ॥ औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्निः कदाचन । तथेहापीति चेन्नाग्नेरौष्ण्याद्भेदनिषेधतः ॥ १.१७४ ॥ तारतम्यानुभविनो यस्यान्यस्य सतो गुणाः । ते क्वचित्प्रतिहन्यन्ते तद्भेदे धवलादिवत् ॥ १.१७५ ॥ रूपादिवन्न नियमस्तेषां भूताविभागतः । तत्तुल्यं चेन्न रागादेः सहोत्पत्तिप्रसङ्गतः ॥ १.१७६ ॥ विकल्प्यविषयत्वाच्च विषया न नियामकाः । सभागहेतुविरहाद्रागादेर्नियमो न वा ॥ १.१७७ ॥ सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधेः । कदाचिदुपलम्भात्तदध्रु वं दोषनिःश्रयात् ॥ १.१७८ ॥ दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् । नाकारणमधिष्ठाता नित्यं वा कारणं कथम् ॥ १.१७९ ॥ तस्मादनेकमेकस्मादू भिन्नकालं न जायते । कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु ॥ १.१८० ॥ हेत्वन्तरानुमानं स्यान्नैतन्नित्येषु विद्यते । कादाचित्कतया सिद्धा दुःखस्यास्य सहेतुता ॥ १.१८१ ॥ नित्यं सत्त्वमसत्त्वं वा हेतोर्बाह्यानपेक्षणात् । तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु ॥ १.१८२ ॥ तथा कारणमेतत्स्यादिति केचित्प्रचक्षते । सत्येव यस्मिन् यज्जन्म विकारे वापि विक्रिया ॥ १.१८३ ॥ तत्तस्य कारणं प्राहुस्तत्तेषामपि विद्यते । स्पर्शस्य रूपहेतुत्वाद्दर्शनेऽस्ति निमित्तता ॥ १.१८४ ॥ नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भवः । असामर्थ्यादतो हेतुर्भववाञ्छापरिग्रहः ॥ १.१८५ ॥ यस्माद्देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम् । सा भवेच्छाप्त्यनाप्तीच्छोः प्रवृत्तिः सुखदुःखयोः ॥ १.१८६ ॥ यतोऽपि प्राणिनः कामविभवेच्छे च त मते । सर्वत्र चात्मस्नेहस्य हेतुत्वात्सम्प्रवर्तते ॥ १.१८७ ॥ असुखे सुखसंज्ञस्य तस्मात्तृष्णा भवाश्रयः । विरक्तजन्मादृष्टेरित्याचार्याः सम्प्रचक्षते ॥ १.१८८ ॥ अदेहरागादृष्टेश्च देहाद्रागसमुद्भवः । निमित्तोपगमादिष्टमुपादानं तु वार्यते ॥ १.१८९ ॥ इमां तु युक्तिमन्विच्छन् वाधते स्वमतं स्वयम् । जन्मना सहभावश्चेत्जातानां रागदर्शनात् ॥ १.१९० ॥ सभागजातेः प्राक्सिद्धिः कारणत्वेऽपि नोदितम् । अज्ञानमुक्ता तृष्णैव सन्तानप्रेरणाद्भवे ॥ १.१९१ ॥ आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात् । तदनात्यन्तिकं हेतोः प्रतिबन्धादिसम्भवात् ॥ १.१९२ ॥ संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धितः । यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति ॥ १.१९३ ॥ तावद्दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते । मिथ्याध्यारोपहानार्थ यत्नोऽसत्यपि मोक्तरि ॥ १.१९४ ॥ अवस्था वीतारागाणां दयया कर्मणापि वा । आक्षिप्तेऽविनिवृत्तीष्टेः सहकारिक्षयादलम् ॥ १.१९५ ॥ नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम् । दुःखज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी ॥ १.१९६ ॥ वस्तुधर्मो दयोत्पत्तिर्न सा सत्वानुरोधिनी । आत्मान्तरसमारोपद्रागो धर्मेऽतदात्मके ॥ १.१९७ ॥ दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः । मोहश्च मूलं दोषाणां स च सत्त्वग्रहो विना ॥ १.१९८ ॥ तनाद्यहेतौ न द्वेषो न दोषोऽतः कृपा मता । नामुक्तिः पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धितः ॥ १.१९९ ॥ अक्षीणशक्तिः संस्कारो येषां तिष्ठन्ति तेऽनघाः । मन्दत्वात्करुणायाश्च न यत्नः स्थापने महान् ॥ १.२०० ॥ तिष्ठन्त्येव पराधीना येषां तु महती कृपा । सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत् ॥ १.२०१ ॥ मार्गे चेत्सहजाहानेर्न हानौ वा भवः कुतः । सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ॥ १.२०२ ॥ यैवाहमिति धीः सैव सहजं सत्त्वदर्शनम् । न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति ॥ १.२०३ ॥ न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति । दुःखस्योत्पादहेतुत्वं बन्धो नित्यस्य तत्कुतः ॥ १.२०४ ॥ अदुःखोत्पादहेतुत्वं मोक्षो नित्यस्य तत्कुतः । अनित्यत्वेन योऽवाच्यः स हेतुर्न हि कस्यचित् ॥ १.२०५ ॥ बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन । नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ॥ १.२०६ ॥ त्यक्त्वेमां ह्रेपणीं दृष्टमतोऽनित्यः स उच्यताम् । उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तते ॥ १.२०७ ॥ सात्म्येऽपि दोषभावश्चेन्मार्गवत्नाविभुत्वतः । विषयग्रहणं धर्मो विज्ञानस्य यथास्ति सः ॥ १.२०८ ॥ गृह्यते सोऽस्य जनको विद्यमानात्मनेति च । एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥ १.२०९ ॥ व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः ॥ १.२१० ॥ तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क्व तन्मये । नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद्भुवि ॥ १.२११ ॥ बाधकोत्पत्तिसामर्थ्यगर्भे शक्तोऽपि वस्तुनि । निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ॥ १.२१२ ॥ न बाधा यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः । आत्मग्रहैकयोनित्वात्कार्यकारणभावतः ॥ १.२१३ ॥ रागप्रतिघयिर्बाधा भेदेऽपि न परस्परम् । मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रहः ॥ १.२१४ ॥ तन्मूलाश्च मलाः सर्वे स च सत्कायदर्शनम् । विद्यायाः प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धितः ॥ १.२१५ ॥ मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत् । व्याख्येयोऽत्र विरोधो यः तद्विरोधाच्च तन्मयैः ॥ १.२१६ ॥ विरोधः शून्यतादृष्टेः सत्वदोषैः प्रसिध्यति । नाक्षयः प्राणिधर्मत्वाद्रूपादिवदसिद्धितः ॥ १.२१७ ॥ सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि । न काठिन्यवदुत्पत्तिः पुनर्दोषविरोधिनः । सात्मत्वेनानपायत्वातनेकान्ताच्च भस्मवत् ॥ १.२१८ ॥ यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात्सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ १.२१९ ॥ गुणदर्शी परितृष्यन्ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत्स संसारे ॥ १.२२० ॥ आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥ १.२२१ ॥ नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते ॥ १.२२२ ॥ न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम् । स्नेहः सदोष इति चेत्ततः किं तस्य वर्जनम् ॥ १.२२३ ॥ अदूषितेऽस्य विषये न शक्यं तस्य वजनम् । प्रहाणितिच्छद्वेषादेर्गुणदोषानुबन्धिनः ॥ १.२२४ ॥ तयोरदृष्टिर्विषये न तु बाह्येषु यः क्रमः । न हि स्नेहगुणात्स्नेहः किन्त्वर्थगुणदर्शनात् ॥ १.२२५ ॥ कारणेऽविकले तस्मिन् कार्य केन निर्वार्यते । का वा सदोषता दृष्टा स्नेहे दुःखसमाश्रयः ॥ १.२२६ ॥ तथापि न विरागोऽत्र स्वत्वदृष्टेर्यथात्मनि । न तैर्विना दुःखहेतुरात्मा चेत्तेऽपि तादृशाः ॥ १.२२७ ॥ निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्ततः । दुःखभावनया स्याच्चेदहिदष्टाङ्गहानिवत् ॥ १.२२८ ॥ आत्मीयबुद्धीहान्यात्र त्यागो न तु विपर्यये । उपभोगाश्रयत्वेन गृहीतेष्वन्द्रियादिषु ॥ १.२२९ ॥ स्वत्वधीः केन वार्येत वैराग्यं तत्र तत्कुतः । प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात् ॥ १.२३० ॥ च्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा । समवायादिसम्बन्धजनिता तत्र हि स्वधीः ॥ १.२३१ ॥ स तथैवेति सा दोषदृष्टावपि न हीयते । समवायाद्यभावेऽपि सर्वत्रास्त्युपकारिता ॥ १.२३२ ॥ दुःखोपकारान्न भवेदंगुल्यामिव चेत्स्वधीः । न ह्येकान्तेन तद्दुःखं भूयसा सविषान्नवत् ॥ १.२३३ ॥ विशिष्टसुखसङ्गात्स्यात्तद्विरुद्वे विरागिता । किञ्चित्परित्यजेत्सौख्यं विशिष्टसुखतृष्णया ॥ १.२३४ ॥ नैरात्म्ये तु यथालाभमात्मस्नेहात्प्रवर्तते । अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता ॥ १.२३५ ॥ यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छिति । निवृत्तसर्वानुभवव्यवहारगुणाश्रयम् ॥ १.२३६ ॥ इच्छेत्प्रेम कथं प्रेम्णः प्रकृतिर्न हि तादृशी । सर्वथात्मग्रहः स्नेहमात्मनि द्रढयत्यलम् ॥ १.२३७ ॥ आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम् । यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात् ॥ १.२३८ ॥ वृत्तिमान् प्रतिबध्नाति तद्दोषान् संवृणोति च । आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते ॥ १.२३९ ॥ त्यजत्यसौ यथात्मानं व्यर्थातो दुःखभावना । दुःखभावनयाप्येष दुःखमेव विभावयेत् ॥ १.२४० ॥ प्रत्यक्षं पूर्वमपि तत्तथापि न विरागवान् । यद्यप्येकत्र दोषेण तत्क्षणं चलिता मतिः ॥ १.२४१ ॥ विरक्तो नैव तत्रापि कामीव वनितान्तरे । त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी ॥ १.२४२ ॥ सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे । निर्दोषविषयः स्नेहो निर्दोषः साधनानि च ॥ १.२४३ ॥ एतावदेव च जगत्क्वेदानीं स विरज्यते । सदोषतापि चेत्तस्य तत्रात्मन्यपि सा समा ॥ १.२४४ ॥ तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते । गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक् ॥ १.२४५ ॥ स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात् । दोषवत्यपि सद्भावातभावाद्गुणवत्यपि ॥ १.२४६ ॥ अन्यत्रात्मीयतायां वाप्यतीतादौ विहानितः । तत एव च नात्मीयबुद्धेरपि गुणेक्षणम् ॥ १.२४७ ॥ कारणं हीयते सापि तस्मान्नागुणदर्शनात् । अपि चासद्गुणारोपः स्नेहात्तत्र हि दृश्यते ॥ १.२४८ ॥ तस्मात्तत्कारणाबाधी बिधिस्तं बाधते कथम् । परापरप्रार्थनातो विनाशोत्पादबुद्धितः ॥ १.२४९ ॥ इन्द्रियादौ पृथग्भूतमात्मानं वेत्ययं जनः । तस्मान्नैकत्वदृष्ट्यापि स्नेहः स्निह्यन् स आत्मनि ॥ १.२५० ॥ उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते । प्रत्युत्पन्नात्तु यो दुःखान्निर्वेदो द्वेष ईदृशः ॥ १.२५१ ॥ न वैराग्यं तदाप्यस्य स्नेहोऽवस्थान्तरेषणात् । द्वेषस्य दुःखयोनित्वात्स तावन्मात्रसंस्थितिः ॥ १.२५२ ॥ तस्मिन्निवृत्ते प्रकृतिं स्वामेव भजते पुनः । औदासीन्यं तु सर्वत्र त्यागोपादानहानितः ॥ १.२५३ ॥ वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते । संस्कारदुःखतां मत्वा कथिता दुःखभावना ॥ १.२५४ ॥ सा च नः प्रत्ययोत्पत्तिः सा नैरात्म्यदृगाश्रयः । मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥ १.२५५ ॥ अनित्यात्प्राह तेनैव दुःखं दुःखान्निरात्मताम् । अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥ १.२५६ ॥ सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः । आत्मीयमेव यो नेच्छेद्भोक्ताप्यस्य न विद्यते ॥ १.२५७ ॥ आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम् । तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥ १.२५८ ॥ उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः । आगमस्य तथाभावनिबन्धनमपश्यताम् ॥ १.२५९ ॥ मुक्तिमागममात्रेण वदन्न परितोषकृत् । नालं वीजादिसंसिद्धो विधिः पुंसामजन्मने ॥ १.२६० ॥ तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः । प्राग्गुरोर्लाघवात्पश्चान्न पापहरणं कृतम् ॥ १.२६१ ॥ मा भूद्गौरवमेवास्य न पापं गुर्वमूर्त्तितः । मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥ १.२६२ ॥ हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते । तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः ॥ १.२६३ ॥ ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम् । गतिप्रतीत्योः करणान्याश्रयास्तान्यदृष्टतः ॥ १.२६४ ॥ अदृष्टनाशादगतिः तत्संस्कारो न चेतना । सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः ॥ १.२६५ ॥ दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम् । धारणप्रेरणक्षोभनिरोधाश्चेतनावशाः ॥ १.२६६ ॥ न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम् । अथ बुद्धेस्तदाभावान्न स्युः सन्धीयते मलैः ॥ १.२६७ ॥ बुद्धस्तेषामसामर्थ्ये जीवतोऽपि स्युरक्षमाः । निर्ह्रासातिशयात्पुष्टौ प्रतिपक्षस्वपक्षयोः ॥ १.२६८ ॥ दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः । नित्यस्य निरपेक्षत्वात्क्रमोत्पत्तिर्विरुध्यते ॥ १.२६९ ॥ क्रियायामक्रियायाञ्च क्रिययोः सदृशात्मनः । ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः ॥ १.२७० ॥ कृर्तृ भोक्तृत्वहानिः स्यात्सामर्थ्य च न सिध्यति । अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः ॥ १.२७१ ॥ अस्मृतेः कस्यचित्तेन ह्यनुभूतेः स्मृतोद्भवः । स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये ॥ १.२७२ ॥ अभूतान् षोडशाकारानारोप्य परितृष्यति । तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥ १.२७३ ॥ हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता । त्रिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि ॥ १.२७४ ॥ एकाभावाद्विना बीजं नांकुरस्येव सम्भवः । असम्भवाद्विपक्षस्य न हानिः कर्मदेहयो ॥ १.२७५ ॥ अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् । द्वयक्षयार्थ यत्ने च व्यर्थः कर्मक्षये श्रमः ॥ १.२७६ ॥ फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते । कर्मणां तापसंक्लेशात्नैकरूपात्ततः क्षयः ॥ १.२७७ ॥ फलं कथञ्चित्तज्जन्यमल्पं स्यान्न विजातिमत् । अथापि तपसः शक्त्या शक्तिसङ्करसंक्षयैः ॥ १.२७८ ॥ क्लेशात्कुतश्चिद्धीयेताशेषमक्लेशलेशतः । यदीष्टमपरं क्लेशात्तत्तपः क्लेश एव चेत् ॥ १.२७९ ॥ तत्कर्मफलमित्यस्मान्न शक्तेः सङ्करादिकम् । उत्पत्सुदोषनिर्घाताद्येऽपि दोषविरोधिनः ॥ १.२८० ॥ तज्जे कर्मणि शक्ताः स्युः कृतिहानिः कथं भवेत् । दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥ १.२८१ ॥ मिथ्याविकल्पेन विना नाभिलाषः सुखादपि । तायत्तत्वस्थिराशेषविशेषज्ञाबसाधनम् ॥ १.२८२ ॥ बोधार्थत्वाद्गमेः बाह्यशैक्षाशैक्षाधिकस्ततः । परार्थज्ञानघटनं तस्मात्तच्छासनं ततः ॥ १.२८३ ॥ दयापरार्थतन्त्रत्वं सिद्धार्थस्याविरामतः । दयया श्रेय आचष्टे ज्ञानात्सत्यं ससाधनम् ॥ १.२८४ ॥ तच्चभियोगवान् वक्तुं यतस्तस्मात्प्रमाणता । उपदेशतथाभावस्तुतिस्तदुपदेशतः ॥ १.२८५ ॥ प्रमाणतत्त्वसिद्ध्यर्थमनुमानेऽप्यवारणात् । प्रयोगदर्शनाद्वास्य यत्किञ्चिदुदयात्मकम् ॥ १.२८६ ॥ निरोधधर्मकं सर्व तदित्यादावनेकधा । अनुमानाश्रयो लिङ्गमविनाभावलक्षणम् । व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत्स्फुटम् ॥ १.२८७ ॥ द्वितीयः परिच्छेदः प्रत्यक्षम् मानं द्विविधं विषयद्वै विध्यात्शक्त्यशक्तितः । अथंक्रियायां केशादिर्नार्थोऽनर्थाधिमोक्षतः ॥ २.१ ॥ सदृशासदृशत्वाच्च विषयाविषयत्वतः । शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वतः ॥ २.२ ॥ अर्थक्रियासमर्थ यत्तदत्र परमार्थसत् । अन्यत्संवृतैसत्प्रोक्तं ते स्वसामान्यलक्षणे ॥ २.३ ॥ अशक्तं सर्वमिति चेद्बीजादेरङ्कुरादिषु । दृष्टा शक्तिः मता सा चेत्संवृत्या अस्तु यथा तथा ॥ २.४ ॥ सास्ति सर्वत्र चेद्बुद्धेर्नान्वयव्यतिरेकयोः । सामान्यलक्षणेऽदृष्टेः चक्षूरूपादिबुद्धिवत् ॥ २.५ ॥ एतेन समयाभोगाद्यन्तरङ्गानुरोधतः । घटोत्क्षेपणसमान्यसंख्यादिषु धियो गताः ॥ २.६ ॥ केशादयो न सामान्यमनर्थाभिनिवेशतः । ज्ञेयत्वेन ग्रहाद्दोषो नभावेषु प्रसज्यते ॥ २.७ ॥ तेषामपि तथाभावेऽप्रतिषेधात्स्fउटाभता । ज्ञानरूपतयार्थत्वात्केशादीति मतिः पुनः ॥ २.८ ॥ सामान्यविषया केशप्रतिभासमनर्थकम् । ज्ञानरूपतयार्थत्वे सामान्ये चेत्प्रसज्यते ॥ २.९ ॥ तथेष्टत्वाददोषः अर्थरूपत्वेन समानता । सर्वत्र समरूपत्वात्तद्व्यावृत्तिसमाश्रयात् ॥ २.१० ॥ न तद्वस्त्वभिद्येयत्वात्साफल्यादक्षसंहतेः । नामादिवचने वस्तृश्रोतृवाच्यानुबन्धिनि ॥ २.११ ॥ असम्बन्धिनि नामादावर्थे स्यासप्रवर्त्तनम् । सारूप्याद्भ्रान्तितो वृत्तिरर्थेचेत्स्यान्न सर्वदा ॥ २.१२ ॥ देशभ्रान्तिश्च न ज्ञाने तुल्यमुत्पत्तितो धियः । तथाविधाया अन्यत्र तत्रानुपसमाद्धियः ॥ २.१३ ॥ बाह्यार्थप्रतिभासाया उपाये वाप्रमाणता । विज्ञानव्यतिरिक्तस्य व्यतिरेकाप्रसिद्धितः ॥ २.१४ ॥ सर्वज्ञानार्थवत्वाच्चेत्स्वप्नादावन्यथेक्षणात् । अयुक्तं न च संस्कारान्नीलादिप्रतिभासतः ॥ २.१५ ॥ नीलाद्यप्रतिघातान्न ज्ञानं तद्योग्यदेशकैः । अज्ञातस्य स्वयं ज्ञानात्नामाद्येतेन वर्णितम् ॥ २.१६ ॥ सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता । अर्थसामर्थ्यदृष्तेश्चेदन्यत्प्राप्तमनर्थकम् ॥ २.१७ ॥ प्रवृत्तिः स्यादसम्बन्धेऽप्यर्थसम्बन्धवद्यदि । अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥ २.१८ ॥ सामान्यग्रहणाच्छब्दादप्रसङ्गो मतो यदि । तन्न केवलसामान्याग्रहणाद्ग्रहणेऽपि वा ॥ २.१९ ॥ अतत्समानताव्यक्ती तेन नित्योपलम्भनम् । नित्यत्वाच्च यदि व्यक्तिर्व्यक्तेः प्रत्यक्षतां प्रति ॥ २.२० ॥ आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥ २.२१ ॥ तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥ २.२२ ॥ तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते । नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः ॥ २.२३ ॥ प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् । सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः ॥ २.२४ ॥ न जातिर्जातिमद्व्यक्तिरूपं येनापराश्रयम् । सिद्धं पृथक्चेत्कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥ २.२५ ॥ निष्पत्तेरपराधीनमपि कार्य स्वहेतुतः । सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ २.२६ ॥ अन्यत्वे तदसम्बद्धं सिद्धातो निःस्वभावता । जातिप्रसङ्गोऽभावस्य न अपेक्षाभावतस्तयोः ॥ २.२७ ॥ तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता । तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते ॥ २.२८ ॥ तस्यां रूपावभासो यस्तत्त्वेनार्थस्य वा ग्रहः । भ्रान्तिः सानादिकालीनदर्शनाभ्यासनिर्मिता ॥ २.२९ ॥ अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥ २.३० ॥ सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् । अर्थभ्रान्तिरपीष्येत सामान्यं सापि अभिप्लवात् ॥ २.३१ ॥ अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी । निःस्वभावतयावाच्यं कुतश्चिद्वचनान्मतम् ॥ २.३२ ॥ यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन । नैव वाच्यमुपादानभेदाद्भेदोपचारतः ॥ २.३३ ॥ अतीतानागतेऽप्यर्थे सामान्यविनिवन्धनाः । श्रुतयो निविशन्ते सदसद्धर्मः कथं भवेत् ॥ २.३४ ॥ उपचारात्तदिष्टं चेद्वर्त्तमानघटस्य का । प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥ २.३५ ॥ बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयोः सदा । सिंहे माणवके तद्वद्घोषणाप्यस्ति लौकिकी ॥ २.३६ ॥ यत्र रूढ्यासदर्थोऽपि जनैः शब्दो निवेशितः । स मुख्यस्तत्र तत्साम्यादू गौणोऽन्यत्र स्खलद्गतिः ॥ २.३७ ॥ यथा भावेऽप्यभावाख्यां यथाकल्पनमेव वा । कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः ॥ २.३८ ॥ शब्दोभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते । तादृश्येव सदर्थानां नैतच्छ्रोत्रादिचेतसाम् ॥ २.३९ ॥ सामान्यमात्रग्रहणात्सामान्यं चेतसोर्द्धयोः । तस्यापि केवलस्य प्राग्ग्रहणं विनिवारितम् ॥ २.४० ॥ परस्परविशिष्टानामविशिष्टं कथं भवेत् । तथा द्विरूपतायां वा तद्वस्त्वेकं कथं भवेत् ॥ २.४१ ॥ ताभ्यां तदन्यदेव स्याद्यदि रूपं समं तयोः । तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥ २.४२ ॥ तस्मात्समानतैवास्मिन् सामान्तेऽवस्तुलक्षणम् । कार्य चेत्तदनेकं स्यान्नश्चरं च न तन्मतम् ॥ २.४३ ॥ वस्तुमात्रानुबन्धित्वाद्विनाशस्य न नित्यता । असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥ २.४४ ॥ यच्च वस्तुबलाज्ज्ञानं जायते तसपेक्षते । न संकेत स सामान्यबुद्धुष्वेतद्विभाव्यते ॥ २.४५ ॥ याप्यभेदानुगा बुद्धिः काचिद्वस्तुद्वयेक्षणे । संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना ॥ २.४६ ॥ प्रत्यससत्तिर्विना जात्या यथेष्ता चक्षुरादिषु । ज्ञानकार्येषु जातिर्वा यथान्वेति विभागतः ॥ २.४७ ॥ कर्थाञ्चदपि विज्ञाने तद्रुपानवभासतः । यदि नामेन्द्रियाणां स्याद्द्रष्टा भासेत तद्वपुः ॥ २.४८ ॥ रूपवत्वात्न जातीनां केवलानामदर्शनात् । व्यक्तिग्रहे च तच्छब्दरुपादन्यन्न दृश्यते ॥ २.४९ ॥ ज्ञानमात्रार्थकरणेऽप्ययोग्यमत एव तत् । तदयोग्यतयारूपं तद्ध्यवस्तुषु लक्षणम् ॥ २.५० ॥ २.॥ यथोक्तविपरीतं यत्तत्स्वलक्षणमिष्यते । सामान्यं त्रिविधं तच्च भावाभावोभयाश्रयात् ॥ २.५१ ॥ यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः । नोक्तोत्तरत्वाद्दृष्टत्वादतीतादिषु चान्यथा ॥ २.५२ ॥ भावधर्मत्वहानिश्चेत्भावग्रहणपूर्वकम् । तज्ज्ञानमित्यदोषोऽयं मेयं त्वेकं स्वलक्षरणम् ॥ २.५३ ॥ तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् । तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥ २.५४ ॥ अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते । गतिश्चेत्पररूपेण न च भ्रान्तेः प्रमाणता ॥ २.५५ ॥ अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता । गतिरप्यन्यथा दृष्टा पक्षश्चायं कृतोत्तरः ॥ २.५६ ॥ मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति ॥ २.५७ ॥ यथा तथायथार्थत्वेऽप्यनुमानतदाभयोः । अर्थक्रियानुरोधेन प्रमाणत्वं व्ययस्थितम् ॥ २.५८ ॥ बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी । तस्य स्वतब्त्रं ग्रहणमतोऽन्यद्वस्त्वतीन्द्रियम् ॥ २.५९ ॥ तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रयः । तदाश्रयेण सम्बन्धी यदि स्याद्गमकस्तदा ॥ २.६० ॥ गमकानुगसामान्यरूपेणैव तदा गतिः । तस्मात्सर्वः परोक्षोऽर्थो विशेषेण न गम्यते ॥ २.६१ ॥ या च सम्बन्धिनो धर्माद्भूतिर्धर्मिणि ज्ञायते । सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥ २.६२ ॥ न प्रत्यक्षरपरिक्षाभ्यां मेयस्यान्यस्य सम्भवः । तस्मात्प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥ २.६३ ॥ त्र्येकसंख्यानिरासो वा प्रमेयद्वयसर्शनात् । एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः ॥ २.६४ ॥ अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य निश्चयः । तन्निश्च्यप्रमारणं वा द्वितीयं नाक्षजा मतिः ॥ २.६५ ॥ अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे । व्यवधानादिभावेऽपि जायेतेन्द्रियजा मतिः ॥ २.६६ ॥ अभावे विनिवृत्तिश्चेत्प्रत्यक्षस्यैव निश्चयः । विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ॥ २.६७ ॥ शिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् । व्यवहारादौ प्रवृत्तश्च सिद्धस्तद्भावनिश्चः ॥ २.६८ ॥ प्रमाणमविसंवादात्तत्क्वचिद्व्यभिचारतः । नाश्वास इति चेल्लिङ्गदुर्दृष्टिरेतदीदृशम् ॥ २.६९ ॥ यतः कदाचित्सिद्धास्य प्रतीतिर्वस्तुनः क्वचित् । तद्वश्य ततो जातं तत्स्वभावोऽपि वा भवेत् ॥ २.७० ॥ स्वनिमित्तात्स्वभावाद्वा विना नार्थस्य सम्भवः । यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम् ॥ २.७१ ॥ स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु । अन्येषु सत्स्वदृश्ये च सत्त वा तद्वतः कथम् ॥ २.७२ ॥ अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः । प्रेत्यभाववदक्षैस्तत्पर्यायेण प्रतीयते ॥ २.७३ ॥ तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात् । अभावप्रतिपत्तौ स्याद्बुद्धेर्जन्मानित्तिकम् ॥ २.७४ ॥ स्वलक्षणे च प्रत्यक्षमविकल्पतया विना । विकल्पेन न सामान्यग्रहस्तस्मिस्ततोऽनुमा ॥ २.७५ ॥ प्रमेयनियमे वर्णानित्यता न प्रतीयते । प्रमाणमन्यत्तद्बुद्धुर्विना लिङ्गेन सम्भवात् ॥ २.७६ ॥ विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः । तत्प्रमाणान्तरं मेयबहुत्वाद्बहुतापि वा ॥ २.७७ ॥ प्रमाणानामनेकस्य वृत्तेरेकत्र वा तथा । विशेषददृष्टेरेकत्रिसंख्यापोहो न वा भवेत् ॥ २.७८ ॥ विषयानियमादन्यप्रमेयस्य च सम्भवात् । योजनाद्वर्णसामान्ये नायं दोषः प्रसज्यते ॥ २.७९ ॥ नावस्तुरूपं तस्यैव तथा सिद्धेः प्रसाधनात् । अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः ॥ २.८० ॥ यो हि भावो यथाभूतो स तदृग्लिङ्गचेतसः । हेतुस्तज्जा तथाभूते तस्माद्वस्तुनि लिङिगधीः ॥ २.८१ ॥ लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिवब्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥ २.८२ ॥ तद्री पाध्यवसायाच्च तयोस्तद्रूपशून्ययोः । तद्रूपावञ्चकत्वेऽपि कृता भ्रान्तिव्यवस्थितिः ॥ २.८३ ॥ तस्माद्वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः । निमित्तं तत्स्वभावो वा कारणं तच्च तद्धियः ॥ २.८४ ॥ प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भतः । सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात् ॥ २.८५ ॥ दृष्टा विरिद्धधर्मोक्तिस्तस्य तत्कारणस्य वा । निषेधे यापि तस्यैव साप्रमाणत्वसूचना ॥ २.८६ ॥ अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत् । नास्तित्वं केन गम्येत विरोधाच्चेदसावपि ॥ २.८७ ॥ सिद्धः केनासहस्थानादिति चेत्तत्कुतो मतम् । दृश्यस्य दर्शनाभावाहिति चेत्साप्रमाणता ॥ २.८८ ॥ तस्मात्स्वशब्देनोक्तापि साभावस्य प्रसाधिका । यस्याप्रमाणं सावाच्यो निषेधस्तेन सर्वथा ॥ २.८९ ॥ एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णता । प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ २.९० ॥ विरुद्धं तच्च सोपायमविधायापिधाय च । प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥ २.९१ ॥ उक्त्यादेः सर्ववित्प्रेत्यभावादिप्रतिषेधवत् । अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धितः ॥ २.९२ ॥ बाध्यवाधकभावः कः स्यातां यद्युक्तिसंविदौ । तादृशोऽनुपलब्धेश्चेदुच्यतां सैव साधनम् ॥ २.९३ ॥ अनिश्चकरं प्रोक्तमीदृक्चानुपलम्भनम् । तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ ॥ २.९४ ॥ भिन्नोऽभिन्नोऽपि वा धर्मः स विरुद्धः प्रयुज्जते । यथाग्निरहिमे साध्ये सत्ता वा जन्मबाधनी ॥ २.९५ ॥ यथा वस्त्वेव वस्तूनां साधने साधनं मतम् । तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥ २.९६ ॥ एतेन कल्पनान्यस्तो यत्र क्वचन सम्भवात् । धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः ॥ २.९७ ॥ तत्रापि व्यापको धर्मो निवृत्तेर्गमको मतः । व्यापकस्वनिवृत्तिश्चेत्परिच्छिन्ना कथञ्चन ॥ २.९८ ॥ यदप्रमाणताभावे लिङ्गं तस्यैव कथ्यते । तदत्यन्तविमूढार्थमागोपालमसंवृतेः ॥ २.९९ ॥ एतावन्निश्चयफलमभावेऽनुपलम्भनम् । तच्च हेतौ स्वभावे वा दृश्ये दृश्यता मते ॥ २.१०० ॥ अनुमानादनित्यादेर्ग्रहणेऽयं क्रमो मतः । प्रामाण्यमेव नान्यत्र गृहीतघणान्मतम् ॥ २.१०१ ॥ नान्यास्यानित्यता भावात्पूर्व सिद्धः स चेनिद्रियात् । नानेकरूपो वाच्योऽसौ वाच्यो धर्मो विकल्पजः ॥ २.१०२ ॥ सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत् । तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते ॥ २.१०३ ॥ क्वचित्तदपरिज्ञानं सदृशापरसम्भवात् । भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत् ॥ २.१०४ ॥ तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् । पश्यन् परिच्छिनत्त्येव दीपादि नाशिनं जनः ॥ २.१०५ ॥ भावस्वभावभूतायामपि शक्तौ फले दृशः । अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात् ॥ २.१०६ ॥ तस्यव विनिवृत्त्यर्थमनुमानोपवर्णनम् । व्यस्यन्तीक्षणादेव सर्वाकारान्महाधियः ॥ २.१०७ ॥ व्यावृत्ते सर्वतस्तस्मिन् व्यावृत्तिविनिव्बन्धनाः । बुद्धयोऽर्थे प्रवर्त्तन्ते भिन्ने भिन्नाश्रया इव ॥ २.१०८ ॥ यथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे । प्रतिभाः प्रतिसन्धत्ते स्वानुरूपाः स्वभावतः ॥ २.१०९ ॥ सिद्धोऽत्राप्यथवा ध्वंसो लिङ्गादनुपलम्भनात् । प्राग्भूत्वा ह्यभवन् भावोऽनित्य इत्यभिधीयते ॥ २.११० ॥ यस्योभयान्तव्यवधिसत्तासम्बन्धवा चिनी । अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ ॥ २.१११ ॥ प्राक्पश्चादप्यभावश्चेत्स एवानित्यता न किम् । षष्ठयाद्ययोगादिति चेदू अन्तयोः स कथं भवेत् ॥ २.११२ ॥ सत्तासम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम् । अविशेषणमेव स्यादन्तौ चेत्कार्यकारणे ॥ २.११३ ॥ असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति । तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यतः ॥ २.११४ ॥ सत्ता स्वकारणाश्लेषकरणात्कारणं किल । सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम् ॥ २.११५ ॥ यस्याभावः क्रियेतासौ न भावः प्रागभाववान् । सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं ततः ॥ २.११६ ॥ तस्मादनर्थास्कन्दिन्योऽभिन्नार्थाभिमतेष्वपि । शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धियः ॥ २.११७ ॥ विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदतः । न वा विशेषविषयं दॄष्टसाम्येन तद्ग्रहात् ॥ २.११८ ॥ निदर्शनं तदेवेति सामान्याग्रहणं यदि । निदर्शनत्वात्सिद्धस्य प्रमाणेनास्य किं पुनः ॥ २.११९ ॥ विस्मृतत्वाददोषश्चेत्तत एवानिदर्शनम् । दृष्टे तद्भावसिद्धिश्चेत्प्रमाणादन्यवस्तुनि ॥ २.१२० ॥ तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता । प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि ॥ २.१२१ ॥ सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः । तल्लिङ्गापेक्षणान्नो चेत्स्मृतिर्न व्यभिचारतः ॥ २.१२२ ॥ प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ २.१२३ ॥ संहृत्य सर्वताश्चिन्तां स्तिमितेनान्तरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ २.१२४ ॥ पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी । वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद्गतौ ॥ २.१२५ ॥ एकत्र दृष्टौ भेदो हि क्वचिन्नान्यत्र दृश्यते । न तस्माद्भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः ॥ २.१२६ ॥ तस्माद्विशेषविषया सर्वै वेन्द्रियजा मतिः । न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भवः ॥ २.१२७ ॥ अनन्वयाद्विशेषाणां सङ्केतस्याप्रवृत्तितः । विषयो यश्च शब्दानां संयोज्येत स एव तैः ॥ २.१२८ ॥ अस्येदमिति सम्बन्धे यावर्थौ प्रतिभासिनौ । तयोरेव हि सम्बन्धो न तदेन्द्रियगोचरः ॥ २.१२९ ॥ विशदप्रतिभासस्य तदार्थस्याविभावनात् । विज्ञानाभासभेदो हि पदार्थानां विशेषकः ॥ २.१३० ॥ चक्षुषार्थावभासेऽपि यं परोऽस्येति शंसति । स एव योज्यते शब्दैर्न खल्विन्द्रियगोचरः ॥ २.१३१ ॥ अव्यापृतेन्द्रियस्यान्यवाङ्मात्रेणाविभावनात् । न चानुदितसम्बन्धः स्वयं ज्ञानप्रसङ्गतः ॥ २.१३२ ॥ मनसो युगपद्वृत्तेः सविकल्पाविकल्पयोः । विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥ २.१३३ ॥ विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत् । इति चेद्भिन्नजातीयविकल्पेऽन्यस्य वा कथम् ॥ २.१३४ ॥ अलातदृष्टिवद्भावपक्षश्चेद्बलवान्मतः । अन्यत्रापि समानं तद्वर्णयोर्वा सकृच्छुतिः ॥ २.१३५ ॥ सकृत्सङ्गतसर्वार्थेष्विन्द्रियेष्विह सत्स्वपि । पञ्चभिर्व्यवधानेऽपि भात्यव्यवहितेव या ॥ २.१३६ ॥ सा मतिर्मामपर्यन्तक्षणिकज्ञानमिश्रणात् । विच्छिन्नाभेति तच्चित्रं तस्मात्सन्तु सकृद्धियः ॥ २.१३७ ॥ प्रतिभासाविशेषश्च सान्तरानन्तरे कथम् । शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत् ॥ २.१३८ ॥ योऽग्रहः सङ्गतेऽप्यर्थे क्वचिदासक्तचेतसः । सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद्द्वयोरपि ॥ २.१३९ ॥ शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी । चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा ॥ २.१४० ॥ केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम् । आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम् ॥ २.१४१ ॥ तेषां प्रत्यक्षमेव स्याद्बालानामविकल्पनात् । संकेतोपायविगमात्पश्चादपि भवेन्न सः ॥ २.१४२ ॥ मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मतः । एवमिन्द्रियजेऽपि स्याद्शेषवच्चेदमीदृशम् ॥ २.१४३ ॥ यदेव साधनं बाले तदेवात्रापि कथ्यताम् । साम्यादक्षधियामुक्तमनेनानुभवादिकम् ॥ २.१४४ ॥ विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम् । गृहीत्वा सङ्कलययैतत्तथा प्रत्येति नान्यथा ॥ २.१४५ ॥ यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात् । तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यतः ॥ २.१४६ ॥ यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत् । वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते ॥ २.१४७ ॥ समानत्वेऽपि तस्यैव नेअणं नेत्रगोचरे । प्रतिभासद्वयाभावात्बुद्धेर्भेदश्च दुर्लभः ॥ २.१४८ ॥ समवायाग्रहादक्षैः सम्बन्धादर्शनं स्थितम् । पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृताः ॥ २.१४९ ॥ शृङ्गं गवीति लोके स्यात्शृंगे गौरित्यलौकिकम् । गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात् ॥ २.१५० ॥ तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते । तन्तुसंस्कारसम्भूतं नैककालं कथञ्चन ॥ २.१५१ ॥ कारणारोपतः कश्चिदेकापोद्धारारोऽपि वा । तन्त्वाख्यां वर्तयेत्कार्ये दर्शयन्नाश्रयं श्रुतेः ॥ २.१५२ ॥ उपकार्योपकारित्वं विच्छेदाद्दृष्टिरेव वा । मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचरः ॥ २.१५३ ॥ अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि । सर्वत्र व्यपदेशो हि दण्डादेर्नापि सांवृतात् ॥ २.१५४ ॥ वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिणः । गेहो यद्यपि संयोगस्तन्माला किन्नु तद्भवेत् ॥ २.१५५ ॥ जातिश्चेद्गेह एकापि मालेत्युच्येत वृक्षवत् । मालाबहुत्वे तच्छब्दः कथं जातेरजातितः ॥ २.१५६ ॥ मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः । मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥ २.१५७ अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि । पदार्थशब्दः कं हेतुमन्यं षट्सु समीक्षते ॥ २.१५८ ॥ यो यथा रूढितः सिद्धस्तत्साम्याद्यस्तथोच्यते । मुख्यो गौणश्च भावेष्वप्यभावस्योपचारतः ॥ २.१५९ ॥ संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च सः । क्रियते व्यवहारार्थ छन्दःशब्दांशनामवत् ॥ २.१६० ॥ वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम् । भेदेऽपि यत्र तज्ज्ञानं तांस्तथा प्रतिपद्यते ॥ २.१६१ ॥ ज्ञानान्यपि तथा भेदे भेदप्रत्यवमर्शने । इत्यतत्कार्यविश्लेषस्यान्ब्वयो नैकवस्तुनः ॥ २.१६२ ॥ वस्तूनां विद्यते तस्मात्तन्निष्ठा वस्तुनि श्रुतिः । बह्यशक्तिव्यवच्छेदनिष्ठाभावेऽपि तच्छ्रुतिः ॥ २.१६३ ॥ विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते । ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत्श्रुतिः ॥ २.१६४ ॥ व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम् । शब्दात्तदपि नार्थात्मा भ्रान्तिः सा वासनोद्भवा ॥ २.१६५ ॥ तस्याभिधाने श्रुतिभिरर्थे कोंऽशोऽवगम्यते । तस्यागतो च संकेतक्रिया व्यर्था तदर्थिका ॥ २.१६६ ॥ शब्दोऽर्थांशं कमाहेति तत्रान्यापोह उच्यते । आकारः स च नार्थेऽस्ति तं वदन्नर्थभाक्कथम् ॥ २.१६७ ॥ शब्दस्यान्वयिनः कार्यमर्थेनान्वयिना स च । अनन्वयी धियोऽभेदाद्दर्शनाभ्यासनिर्मितः ॥ २.१६८ ॥ तद्रूपारोपगत्यान्यव्यावृत्ताधिगतेः पुनः । शब्दार्थोऽर्थः स एवेति वचने न विरुध्यते ॥ २.१६९ ॥ मिथ्यावभासिनो वैते प्रत्ययाः शब्दनिर्मिताः । अनुयान्तीममर्थाशमिति चापोहकृत्श्रुतिः ॥ २.१७० ॥ तस्मात्संकेतकालेऽपि निर्दिष्टार्थेन संयुतः । स्वप्रतीतिफलेनान्यापोहः सम्बध्यते श्रुतौ ॥ २.१७१ ॥ अन्यत्रादृष्ट्यपेक्षत्वात्क्वचित्तद्दृष्ट्यपेक्षणात् । श्रुतौ सम्बध्यतेऽपोहो नैतद्वस्तुनि युज्यते ॥ २.१७२ ॥ तस्माद्जात्यादितद्योगा नार्थे तेषु च न श्रुतिः । संयुज्यतेऽन्यव्यावृत्तौ शब्दानामेव योजनात् ॥ २.१७३ ॥ संकेतस्मरणोपायं दृष्टसंकलनात्मकम् । पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम् ॥ २.१७४ ॥ अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते । तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना ॥ २.१७५ ॥ जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशितः । तेनेच्छातः प्रवर्त्तेरन्नेक्षेरन् बाह्यामक्षजाः ॥ २.१७६ ॥ रूपं रूपमितीक्षेत तद्धियं किमितीक्षते । अस्ति चानुभवस्तस्याः सोऽविकल्पः कथं भवेत् ॥ २.१७७ ॥ तयैवानुभवे दृष्टं न विउकल्पद्वयं सकृत् । एतेन तुल्यकालान्यविज्ञानानुभवो गतः ॥ २.१७८ ॥ स्मृतिर्भवेदतीते च सागृहीते कथं भवेत् । स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधीः ॥ २.१७९ ॥ अतीतमपदृष्टाब्तमलिङ्गञ्चार्थवेदनम् । सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ २.१८० ॥ तत्स्वरूपावभासिन्या बुद्धयानन्तरया यदि । रूपादिरिव गृह्येत न स्यात्तत्पूर्वधीग्रहः ॥ २.१८१ ॥ सोऽविकल्पः स्वविषयो विज्ञानानुभवो यथा । अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ २.१८२ ॥ सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना । अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ २.१८३ ॥ अस्ति चेन्निर्विकल्पं च किञ्चित्तत्तुल्यहेतुकम् । सर्व तथैव हेतोर्हि भेदाद्भेदः फलात्मनाम् ॥ २.१८४ ॥ अनपेक्षितबाह्यार्था योजना समयस्मृतेः । तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ २.१८५ ॥ संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि । अनपेक्ष्य न चेच्छक्तं स्यात्स्मृतावेव लिंगवत् ॥ २.१८६ ॥ तस्यास्तत्संगमोत्पत्तेरक्षधीः स्यात्स्मृतेर्न वा । ततः कालान्तरेऽपि स्यात्क्वचिद्व्याक्षेपसम्भवात् ॥ २.१८७ ॥ क्रमेणोभयहेतुश्चेत्प्रागेव स्यादभेदतः । अन्योऽक्षबुद्धिहेतुश्चेत्स्मृतिस्तत्राप्यनर्थिका ॥ २.१८८ ॥ यथासमितासिद्ध्यर्थमिष्यते समयस्मृतिः । भेदश्चासमितो ग्राह्यः स्मृतिस्तत्र किमर्थिका ॥ २.१८९ ॥ सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते । तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधीः ॥ २.१९० ॥ साक्षाच्च ज्ञानजनने समर्थो विषयोऽक्षवत् । अथ कस्माद्द्वयाधीनजन्म तत्तेन नोच्यते ॥ २.१९१ ॥ समीक्ष्य गमकत्वं हि व्यपदेशो नियुज्यते । तच्चाक्षव्यपदेशेऽस्ति तद्धर्मश्च नियोज्यताम् ॥ २.१९२ ॥ ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम् । निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ २.१९३ ॥ सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः । सामान्यबुद्धुश्चावश्यं विकल्पेनानुबद्द्यते ॥ २.१९४ ॥ अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे । उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ २.१९५ ॥ अणू नां स विशेषश्च नान्तरेणापरनणीन् । तदेकानियमज्ज्ञानमुक्तं सामान्यगोचरम् ॥ २.१९६ ॥ अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत् । सकृद्ग्रहावभासः कि वियुक्तेषु तिलादिषु ॥ २.१९७ ॥ प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु । किं नाक्रमग्रहस्तुल्यकालाः सर्वाश्य बुद्धयः ॥ २.१९८ ॥ काश्चित्तास्वक्रमाभासाः क्रमवत्योऽपराश्च किम् । सर्वार्थग्रहणे तस्मासक्रमोऽयं प्रसज्यते ॥ २.१९९ ॥ नै कं चित्रपतंगादि रूपं वा दृश्यते कथम् । चित्रं तदेकामिति चेदिदं चित्रतरं ततः ॥ २.२०० ॥ नैकस्वभावं चित्रं हि मणिरूपं यथैव तत् । नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु ॥ २.२०१ ॥ तत्रावयवरूपं चेत्केवलं दृश्यते तथा । नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे ॥ २.२०२ ॥ तुल्यार्थाकारकालत्वेनोपलक्षितयर्द्वयोः । नानार्था क्रमवत्येका किमेकार्थाक्रमापरा ॥ २.२०३ ॥ वैश्वरूप्याद्धियामेव भावानां विश्वरूपता । तच्चेदनङ्ग केनेयं सिद्धा भेदव्यवस्थितिः ॥ २.२०४ ॥ विजातीनामनारम्भादालेख्यादौ न चित्रधीः । अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रयः ॥ २.२०५ ॥ प्रत्येकमविचित्रत्वाद्गृहीतेषु क्रमेण च । न चित्रधीसङ्कलनमनेकस्यैकयाग्रहात् ॥ २.२०६ ॥ नानार्थैका भवेत्तस्मात्सिद्धातोऽप्यविकल्पिका । विकल्पयन्नेकमर्थ यतोऽन्यदपि पश्यति ॥ २.२०७ ॥ चित्रावभासेष्वथषु यद्येकत्वं न युज्यते । सैव तावत्कथं बुद्धिरेका चित्रावभासिनी ॥ २.२०८ ॥ इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ २.२०९ ॥ किं स्यात्सा चित्रतैकस्यां न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ २.२१० ॥ तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मनः । एकत्र प्रतिषिद्धित्वाद्बहुष्वपि न सम्भवः ॥ २.२११ ॥ परिच्छेदोऽन्तरन्योऽयं भागो बहिरिव स्थितः । ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह्युपप्लवः ॥ २.२१२ ॥ तत्रैकस्याप्यभावेन द्वयमप्यवहीयते । तस्मात्तदेव तस्यापि तत्त्वं या द्वयशून्यता ॥ २.२१३ ॥ तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थितिः । तदुपल्पवभावे च तेषां भेदोऽप्युपप्लवः ॥ २.२१४ ॥ न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम् । अतो लक्षणशून्यत्वान्निःस्वभावाः प्रकाशिताः ॥ २.२१५ ॥ व्यापारोपधिकं सर्व स्कन्धादीनां विशेषतः । लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणाः ॥ २.२१६ ॥ यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम् । विज्ञप्तिर्वितथाकारा जायते तिमिरदिवत् ॥ २.२१७ ॥ असंविदिततत्वा च सा सर्वापरदर्शनैः । असम्भवाद्विना तेषां ग्राह्यग्राहकविप्लवैः ॥ २.२१८ ॥ तदुपेक्षिततत्त्वार्थैः कृत्वा गजनिमीलनम् । केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते ॥ २.२१९ ॥ नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक् । अशक्यदर्शनः तं हि पतत्यर्थे विवेचयन् ॥ २.२२० ॥ यद्यथा भासते ज्ञानं तत्तथैव प्रकाशते । इति नामैकभावः स्याच्चित्राकारस्य चेतसि ॥ २.२२१ ॥ पटादिरूपस्यैकत्वे तथा स्यादविवेकिता । विवेकीनि निरस्यान्यदा विवेकि च नेक्षते ॥ २.२२२ ॥ को वा विरोधो बहवः सञ्जातातिशयाः पृथक् । भवेयुः कारणं बुद्धेर्यदि नात्मेन्द्रियादिवत् ॥ २.२२३ ॥ हेतुभावादृते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर्यदाकारा तस्यास्तद्ग्राह्यमुच्यते ॥ २.२२४ ॥ कथं वावयवी ग्राह्या सकृत्स्वावयवैः सह । न हि गोप्रत्ययो दृष्टः सास्नादीनामदर्शने ॥ २.२२५ ॥ गुणप्रधानाधिगमः सहाप्यभिमतो यदि । सम्पूर्णाङ्गो न गृह्येत सकृन्नापि गुणादिमान् ॥ २.२२६ ॥ विवक्षापरतन्त्रत्वाद्विशेषणविशेषययोः । यद्ङ्गभावेनोपात्तं तत्तेनैव हि गृह्यते ॥ २.२२७ ॥ स्वतो वस्त्वन्तराभेदाद्गुणादेर्भेदकस्य च । अग्रहादेकबुद्धिः स्यात्पश्यतोऽपि परापरम् ॥ २.२२८ ॥ गुणादिभेदग्रणान्नानात्वप्रतिपद्यदि । अस्तु नाम तथाप्येषां भवेत्सम्बन्धिसङ्करः ॥ २.२२९ ॥ शब्दादीनामनेकत्वात्सिद्धोऽनेकग्रहः सकृत् । सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम् ॥ २.२३० ॥ सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यतः । तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता ॥ २.२३१ ॥ ते कल्पिता रूपभेदाद्निर्विकल्पस्य चेतसः । न विचित्रस्य चित्राभाः कादाचित्कस्य गोचरः ॥ २.२३२ ॥ यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचरः । न सोऽभिधीयते शब्दैर्जानयो रूपभेदतः ॥ २.२३३ ॥ एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत् । श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत्कुतः ॥ २.२३४ ॥ जातो नामाश्रयोन्योऽन्यः चेतसां तस्य वस्तुनः । एकस्यैव कुतो रूपं भिन्नाकारावभासि तत् ॥ २.२३५ ॥ वृत्तेर्दृ श्यपरामर्शेनाभिधानविकल्पयोः । दर्शनात्प्रत्यभिज्ञानं गवादीनां निवारितम् ॥ २.२३६ ॥ अन्वयाच्चानुमानं यदभिधानविकल्पयोः । दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम् ॥ २.२३७ ॥ दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम् । प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम् ॥ २.२३८ ॥ पूर्वानुभूतग्रहणे मानसस्याप्रमाणता । अदृष्टग्रहणेऽन्धादेरपि स्यादर्थदर्शनम् ॥ २.२३९ ॥ क्षणकत्वादतीतस्य दर्शनस्य न सम्भवः । वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम् ॥ २.२४० ॥ निष्पादितक्रिये कञ्चिद्विशेषमसमादधत् । कर्मण्यैन्द्रियमन्यद्वा साधनं किमितीष्यते ॥ २.२४१ ॥ सकृद्भावश्च सर्वासां धियां तद्भावजन्मनाम् । अन्यैरकार्यभेदस्य तदपेक्षाविरोधतः ॥ २.२४२ ॥ तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम् । मनोऽन्यमेव गृह्णाति विषयं नान्धदृक्ततः ॥ २.२४३ ॥ स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मतिः । ततोऽन्यग्रहणेस्य नियतग्राह्यता मता ॥ २.२४४ ॥ तदतुल्यक्रियाकालः कथं स्वज्ञानकालिकः । सहकारी भवेदर्थ इति चेदक्षचेतसः ॥ २.२४५ ॥ असतः प्रागसामर्थ्यात्पश्चाच्चानुपयोगतः । प्राग्भावः सर्वहेतूनां नातिऽर्थ स्वधिया सह ॥ २.२४६ ॥ भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यातां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ २.२४७ ॥ कार्य ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत् । तत्तेनाप्यत्र तद्रूपं गृहीतमिति चोच्यते ॥ २.२४८ ॥ अशक्यसमयो ह्यात्मा रागादीनामन्नन्यभाक् । तेषामतः स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी ॥ २.२४९ ॥ अवेदकाः परस्यापि ते स्वरूपं कथं विदुः । एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन ॥ २.२५० ॥ तदतद्रू पिणो भावास्तदतद्रू पहेतुजाः । तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ २.२५१ ॥ सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि । दृष्टं जन्म सुखादीनां तत्तुल्यं मनसामपि ॥ २.२५२ ॥ असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् । दृष्टं सुखादेर्बुद्धेर्वा तत्ततो नान्यश्च ते ॥ २.२५३ ॥ सुखदुःखादिभेदश्च तेसामेव विशेषतः । तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रयाः ॥ २.२५४ ॥ यस्यार्थस्य निपातेन ते जाता धीसुखादयः । मुल्त्वा तं प्रतिपद्येत सुखादीनेव सा कथन् ॥ २.२५५ ॥ अविच्छिन्ना न भासेत तत्संवित्तिः क्रमग्रहे । तल्लाघवाच्चेत्तत्तुल्यमित्यसंवेदनं न किम् ॥ २.२५६ ॥ न चैकया द्वयज्ञानं नियमादक्षचेतसः । सुखाद्यभावेऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धितः ॥ २.२५७ ॥ पृथक्पृथक्च सामर्थ्ये द्वयोर्नीलादिवत्सुखम् । गृह्येत केवलं तस्य तद्धेत्वर्थमगृह्णतः ॥ २.२५८ ॥ न हि संवेदनं युक्तमर्थेनैव सह ग्रहे । किं सामर्थ्य सुखादीनां नेष्टा धीर्यत्तदुद्भवा ॥ २.२५९ ॥ विनार्थेन सुखादीनां वेदने चक्षुरादिभिः । रूपादिः स्त्र्यादिभेदोऽक्ष्रणा न गृह्येत कदाचन ॥ २.२६० ॥ न हि सत्यन्तरङ्गेऽर्थे शक्ते धीर्बाह्यदर्शनी । अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम् ॥ २.२६१ ॥ धियोर्यु गपदुत्पत्तौ तत्तद्विषयसम्भवात् । सुखदुःखविदौ स्यातां सकृदर्थस्य सम्भवे ॥ २.२६२ ॥ सत्यान्तरेऽप्युपादाने ज्ञाने दुःखादिसम्भवः । नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम् ॥ २.२६३ ॥ तदज्ञानस्य विज्ञानं केनोपादानकारणम् । आधिपत्यं तु कुर्वीत तद्विरुद्वेऽपि दृश्यते ॥ २.२६४ ॥ अक्ष्रणोर्यथैक आलोको नक्तञ्चरतदन्ययोः । रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत् ॥ २.२६५ ॥ तस्मात्सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम् । वेदकाः स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम् ॥ २.२६६ ॥ अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते । तेनार्थानुभवख्यातिरालम्बस्तु तदाभता ॥ २.२६७ ॥ कश्चिद्बहिःस्थितानेव सुखादीनप्रचेतनान् । ग्राह्यानाह न तस्यापि सकृद्युक्तो द्वयग्रहः ॥ २.२६८ ॥ सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत्सकृद्ग्रहः । भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम् ॥ २.२६९ ॥ तस्याविशेषे बाह्यस्य भावनातारतम्यतः । तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयोः ॥ २.२७० ॥ सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता । स इदानीं कथं बाह्याः सुखाद्यात्मेति गम्यते ॥ २.२७१ ॥ अग्राह्यग्राहकत्वाच्चेद्भिन्नजातीययोः पुमान् । अग्राहकः स्यात्सर्वस्य ततो हीयेत भोक्तृता ॥ २.२७२ ॥ कार्यकारणतानेन प्रत्युक्ताकार्यकारणे । ग्राह्यग्राहकताभावाद्भावेऽन्यत्रापि सा भवेत् ॥ २.२७३ ॥ तस्मात्त आन्तरा एव संवेद्यत्वाच्च चेतनाः । संवेदनं न यद्रूपं न हि तत्तस्य वेदनम् ॥ २.२७४ ॥ अतत्स्वभावोऽनुभवो बैद्धांस्तान् सन्नवैति चेत् । मुक्त्वाध्यक्षस्मृताकारां संवितिं बुद्धिरत्र का ॥ २.२७५ ॥ तांस्तानर्थानुपादाय सुखदुःखादिवेदनम् । एकमाविर्भवद्दृष्टं न दृष्टं त्वन्यदन्तरा ॥ २.२७६ ॥ संसर्गादविभागश्चेदयोगोलकवह्निवत् । भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु ॥ २.२७७ ॥ अभिन्नवेदनस्यैक्यं यन्नैवं तद्विभेदवत् । सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥ २.२७८ ॥ भिन्नाभः सितदुःखादिरभिन्नो भुद्धिवेदने । अभिन्नाभे विभिन्ने चेद्भेदाभेदौ किमाश्रयौ ॥ २.२७९ ॥ तिरस्कृतानां पटुनाप्येकदाभेददर्शनात् । प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थितिः ॥ २.२८० ॥ प्रागुक्तं योगिनां ज्ञानं तेषां तद्भावनामयम् । विधूतकल्पनाजालं स्पष्टमेवावभासते ॥ २.२८१ ॥ कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥ २.२८२ ॥ न विकल्पानुबद्धस्यास्ति स्युटार्थावभासिता । स्वप्नेऽपि स्मर्यते स्मार्त न च तत्तादृगर्थवत् ॥ २.२८३ ॥ अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते । स्पष्टाभं निर्विकल्पञ्च भावानाबलनिर्मितम् ॥ २.२८४ ॥ तस्माद्भूतमभूतं वा यद्यदेवातिभाव्यते । भावनापरिनिष्पत्तौ तत्स्fउटाकल्पधीफलम् ॥ २.२८५ ॥ तत्र प्रमाणं संवादि यत्प्राङ्निर्णीतवस्तुवत् । तद्भावानाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥ २.२८६ ॥ शब्दार्थग्राहि यद्यत्र तज्ज्ञानं तत्र कल्पना । स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम् ॥ २.२८७ ॥ त्रिविधं कल्पमाज्ञानमाश्रयोपप्लवोद्भवम् । अविकल्पलमेकं च प्रत्यक्षाभं चतुर्विधम् ॥ २.२८८ ॥ अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात् । सिद्धानुमादिवचनं साधनायैव पूर्वयोः ॥ २.२८९ ॥ संकेतसंश्रयान्यार्थसमारोपविकल्पे । न प्रत्यक्षानुवृत्तित्वात्कदाचिद्भ्रान्तिकारणम् ॥ २.२९० ॥ यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका । समयापेक्षीणी नार्थ प्रत्यक्षमध्यवस्यपि ॥ २.२९१ ॥ तथानुभूतस्मरणमन्तरेण घटादिषु । न प्रत्ययोऽनुयंस्तच्च प्रत्यक्षात्परिहीयते ॥ २.२९२ ॥ अपवादश्चतुर्थोऽत्र तेनोक्तमुपघातजम् । केवलं तत्र तिमिरमुपघातोपलक्षणम् ॥ २.२९३ ॥ मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते । नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम् २९४ ॥ पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे । विचार्यमाणे प्रस्तावो मानसस्येह कीदृशः ॥ २.२९५ ॥ कि वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । तत्तुल्यं विक्रियावच्चेत्सैवेयं किं निषिध्यते ॥ २.२९६ ॥ सर्पादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि । निवृत्तिर्न निवर्तेत निवृत्तेऽप्यक्षविप्लवे ॥ २.२९७ ॥ कदाचिदन्यसन्ताने तथैवार्प्येत वाचकैः । दृष्टस्मृतिमपेक्षेत न भासेत परिस्fउटम् ॥ २.२९८ ॥ सुप्तस्य जाग्रतो वापि यैव धीः स्फुटभासिनी । सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका ॥ २.२९९ ॥ तस्मात्तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते । विसंवादात्तदर्थ च प्रत्यक्षाभं द्विधोदितम् ॥ २.३०० ॥ क्रियासाधनमित्येव सर्व सर्वस्य कर्मणः । साधनं न हि तस्य साधनं या क्रिया यतः ॥ २.३०१ ॥ तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्नमा येन प्रतिकर्म विभज्यते ॥ २.३०२ ॥ अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु । भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामकः ॥ २.३०३ ॥ तस्माद्यतोऽस्यात्मभेदादस्याधिगतिरित्ययम् । क्रियायाः कर्मनियमः सिद्धा सा तत्प्रसाधना ॥ २.३०४ ॥ अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । अन्यः स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन ॥ २.३०५ ॥ तस्मात्प्रमेयाधिगतेः साधनं मेयरूपता । साधनेऽन्यत्र तत्कर्मसम्बन्धो न प्रसिद्धयति ॥ २.३०६ ॥ सा च तस्यात्मभूतैव तेन नार्थान्तरं फलम् । दधानं तच्च तामात्मन्यर्थाधिगमनात्मना ॥ २.३०७ ॥ सव्यापारमिवाभाति व्यापारेण स्वकर्मणि । तद्वशात्तदव्यवस्थानादकारकमपि स्वयम् ॥ २.३०८ ॥ यथा फलस्य हेतूनां सदृशात्मतयोद्भवात् । हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि कथ्यते ॥ २.३०९ ॥ आलोचनाक्षसम्बन्धविशेषणधियामतः । नेष्टं प्रामाण्यमेतेषां व्यवधानात्क्रियां प्रति ॥ २.३१० ॥ सर्वेषामुपयोगेऽपि कारकाणां क्रियां प्रति । यदन्त्यं भेदकं तस्यास्तत्साधकतमं मतम् ॥ २.३११ ॥ सर्वसामान्यहेतुत्वासक्षाणामस्ति नेदृशम् । तद्भेदेऽपि ह्यतद्रूपस्यास्येदमिति तत्कुतः ॥ २.३१२ ॥ एतेन शेषं व्याख्यातं विशेषणधियां पुनः । अताद्रू प्ये न भेदोऽपि तद्वदन्यधियोऽपि वा ॥ २.३१३ ॥ नेष्टो विषयभेदोऽपि क्रियासाधनयोर्द्वयोः । एकार्थत्वे द्वयं व्यर्थ न च स्यात्क्रमभाविता ॥ २.३१४ ॥ साध्यसाधनताभावः सकृद्भावे धियोंऽशयोः । तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः ॥ २.३१५ ॥ सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते । धर्मेः स नियमो न स्यात्सम्बन्धस्याविशेषतः ॥ २.३१६ ॥ तदभेदेऽपि भेदोऽयं यस्मात्तस्य प्रमाणता । संस्काराच्चेदताद्रू प्ये न तस्याप्यव्यवस्थितेः ॥ २.३१७ ॥ क्रियाकरणयोरैक्यविरोध इति चेदसत् । धर्मभेदाभ्युपगमाद्वस्त्वभिन्नमितीष्यते ॥ २.३१८ ॥ एवम्प्रकारा सर्वैव क्रियाकारकसंस्थितिः । भावस्य भिन्नानभिमतेष्वप्यारोपेण वृत्तितः ॥ २.३१९ ॥ कार्थसंविद्यदेवेदं प्रत्येक्षं प्रतिवेदनम् । तदर्थवेदनं केन ताद्रू प्याद्व्यभिचारि तत् ॥ २.३२० ॥ अथ सोऽनुभवः क्वास्य तदेवेदं विचार्यते । सरूपयन्ति तत्केन स्थूलाभासं च तेऽणवः ॥ २.३२१ ॥ तन्नार्थरूपता तस्य सत्यां सा व्यभिचारिणी । तत्संवेदनभावस्य न समर्था प्रसाधने ॥ २.३२२ ॥ तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्य स्यात्समानार्थ विज्ञानं समनन्तरम् ॥ २.३२३ ॥ इदं दृष्टं श्रुतं वेदमिति यत्रावसायधीः । न तस्यानुभवः सैव प्रत्यासत्तिर्विचार्यते ॥ २.३२४ ॥ दृश्यदर्शनयोर्येन तस्य तद्दर्शनं मतम् । तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः ॥ २.३२५ ॥ आत्मा स तस्यानुभवः स्च नान्यस्य कस्यचित् । प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता ॥ २.३२६ ॥ नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपरः । तस्यापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते ॥ २.३२७ ॥ नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च सः । नीलाद्यनुभवात्ख्यातः स्वरूपानुभवोऽपि सन् ॥ २.३२८ ॥ प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः । यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी ॥ २.३२९ ॥ तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ । अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते ॥ २.३३० ॥ विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा । तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ॥ २.३३१ ॥ यदा तदा न सञ्चोद्यग्राह्यग्राहकलक्षणा । तदान्यसंविदोऽभावात्स्वसंवित्फलमिष्यते ॥ २.३३२ ॥ यदि बह्योऽनुभूयेत को दोषो नैव कश्चन । इदमेव किमुक्तं स्यात्स बाह्योऽर्थोऽनुभूयते ॥ २.३३३ ॥ यदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी । सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ २.३३४ ॥ दर्शनोपाधिरहितस्याग्रहात तद्ग्रहे ग्रहात् । दर्शनं नीलनिर्भासं नार्थो बाह्योऽस्ति केवलम् ॥ २.३३५ ॥ कस्यचित्किञ्चिदेवान्तर्वासनायाः प्रबोधकम् । ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥ २.३३६ ॥ तस्माद्द्विरूपमस्त्येकं यदेवमनुभूयते । स्मर्यते चोभयाकारस्यास्य संवेदनं फलम् ॥ २.३३७ ॥ यदा नुष्पन्नत्द्भाव इष्टोऽनिष्टोऽपि वा परः । विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा ॥ २.३३८ ॥ यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थितेः । तदा य आत्मानुभवः स एवार्थविनिश्चयः ॥ २.३३९ ॥ यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते । इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थः प्रवेदितः ॥ २.३४० ॥ विद्यमानेऽपि बाह्येऽर्थे यथानुभवमेव सः । निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ॥ २.३४१ ॥ यदि बाह्यं न विद्येत क्स्य संवेदनं भवेत् । यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम् ॥ २.३४२ ॥ अभ्युपायेऽपि भेदेन न स्यादनुभवो द्वयोः । अदृष्टावरणात्स्यात्चेन्न नामार्थावशो गतिः ॥ २.३४३ ॥ तमनेकात्मकं भावमेकात्मत्वेन दर्शयत् । तददृष्टं कथं नाम भवेदर्थस्य दर्शकम् ॥ २.३४४ ॥ इष्टानिष्टावभासिन्यः कल्पना नाक्षधीर्यदि । अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम् ॥ २.३४५ ॥ तस्मात्प्रमेये बाह्येऽपि युक्तं स्वानुभवः फलम् । यतः स्वभावोऽस्य यथा तथैवार्थविनिश्चयः ॥ २.३४६ ॥ तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि । ग्राहकात्मापरार्थत्वाद्बाह्येष्वर्थेषपेक्षते ॥ २.३४७ ॥ यस्माद्यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा । निश्चीयते निविष्टोऽसावेवमित्यात्मसंविदः ॥ २.३४८ ॥ इत्यर्थसंवित्सैवेष्टा यतोऽर्थात्मा न दृश्यते । तस्माद्बुद्धिनिवेश्यार्थः साधनं तस्य सा क्रिया ॥ २.३४९ ॥ यथा निविशते सोऽर्थो यतः सा प्रथते तथा । अर्थस्थितेस्तदात्मत्वात्स्वविदप्यर्थविन्मता ॥ २.३५० ॥ तस्माद्विषयभेदोऽपि न स्वसंवेदनं फलम् । उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविदः ॥ २.३५१ ॥ तथावभासमानस्य तादृशोऽन्यादृशोऽपि वा । ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा प्रमेयता ॥ २.३५२ ॥ यथाकथञ्चित्तस्यार्थरूपं मुक्त्वावभासिनः । अर्थग्रहः कथं सत्यं न जानेऽहमपीदृशम् ॥ २.३५३ ॥ अविभागोऽपि बुद्ध्यात्मविपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ २.३५४ ॥ मन्त्राद्यु पप्लुताक्षाणां यथा मृच्छकलादयः । अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥ २.३५५ ॥ तथैव दर्शनात्तेषामनुपप्लुतचक्षुषा । दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते ॥ २.३५६ ॥ यथानुदर्ह्सनं चेयं मेयमानफलस्थितिः । क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥ २.३५७ ॥ अन्यथैकस्य भावस्य नानारूपावभासिनः । सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः ॥ २.३५८ ॥ अन्यस्यान्यत्वहानेश्च नाभेदो रूपदर्शनात् । रूपाभेदं च पश्यन्तो धीरभेदं व्यवस्यति ॥ २.३५९ ॥ भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ २.३६० ॥ साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते । अतदात्मनि तादात्म्यव्यवसायेन नेह तत् ॥ २.३६१ ॥ अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मनः । अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा ॥ २.३६२ ॥ दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी । अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत् ॥ २.३६३ ॥ तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः । तादात्म्यादात्मवित्तस्य स तस्य साधनं ततः ॥ २.३६४ ॥ तत्रात्मविषये माने यथारागादि वेदनम् । इयं सर्वत्र संयोज्या मानमेयफलस्थितिः ॥ २.३६५ ॥ तत्राप्यनुभवात्मत्वात्ते योग्या स्वात्मसंविदि । इति सा योग्यता मानमात्मा मेयः फलं स्ववित् ॥ २.३६६ ॥ ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि । सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम् ॥ २.३६७ ॥ सर्वमेव हि विज्ञानं विषयेभ्यः समुद्भवद् । तदन्यास्यापि हेतुत्वे कथञ्चिद्विषयाकृति ॥ २.३६८ ॥ यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि । पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् ॥ २.३६९ ॥ तद्धेतुत्वेन तुल्येऽपि तदन्यैर्विषये मतम् । विषयत्वं तदंशेन तदभावे न तद्भवेत् ॥ २.३७० ॥ अनर्थाकारशङ्का स्यादप्यर्थवति चेतसि । अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने ॥ २.३७१ ॥ नीलाद्याभासभेदित्वान्नर्थो जातिराद्वती । सा चानित्या न जातिः स्यान्नित्या चा जनिका कथम् ॥ २.३७२ ॥ नामादिकं निषिद्धं प्राङ्नायमर्थवतां क्रमः । इच्छमात्रानुरोधित्वादर्थशक्तिर्न सिध्यति ॥ २.३७३ ॥ स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद्भवः । स चार्थाकाररहितः सेदानीं तद्वती कथम् ॥ २.३७४ ॥ नार्थाद्भावस्तदाभावात्स्यात्तथानुभवेऽपि सः । आकारः स च नार्थस्य स्पष्टकारविवेकतः ॥ २.३७५ ॥ व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा । नित्यमात्मनि सम्बन्धे प्रतीयात्कथितं च न ॥ २.३७६ ॥ एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते । एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसोः ॥ २.३७७ ॥ तदेकव्यवहारश्चेत्सादृश्यादतदाभयोः । भिन्नात्मार्थ कथं ग्राह्यस्तदा स्याद्धीरनर्थिका ॥ २.३७८ ॥ तच्चानुभवविज्ञानेनोभयांशावलम्बिना । एकाकारविशेषेण तज्ज्ञानेनानुबध्यते ॥ २.३७९ ॥ अन्यथा ह्यतथारूपं कथं ज्ञानेऽधिरोहति । एकाकारोत्तरं ज्ञानं तथा ह्युक्तरमुक्तरम् ॥ २.३८० ॥ तस्यार्थरूपेणाकारावात्माकारश्च कश्चन । द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते ॥ २.३८१ ॥ अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि । भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारे च सा भवेत् ॥ २.३८२ ॥ सर्वेषामपि कार्याणां कारणैः स्यात्तथा ग्रहः । कुलालादिविवेकेन न स्मर्येत घटस्ततः ॥ २.३८३ ॥ यस्मादतिशयाज्ज्ञानमर्थसंसर्गभाजनम् । सारूप्यात्तत्किमन्यत्स्याद्दृष्टेश्च यमलादिषु ॥ २.३८४ ॥ आद्यानुभयरूपत्वे ह्ये करूपे व्यवस्थितम् । द्वितीयं व्यतिरिच्येत्न परामर्शचेतसा ॥ २.३८५ ॥ अर्थसंकलनाश्लेषा ंधीर्द्वितीयावलम्बते । नीलादिरूपेण धियं भासमानां पुरस्ततः ॥ २.३८६ ॥ अन्यथा याद्यमेवैकं संयोज्येतार्थसम्भवात् । ज्ञानं नदृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम् ॥ २.३८७ ॥ सकृत्संवेद्यमानस्य नियमेन धिया सह । विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥ २.३८८ ॥ भेदश्च भ्रान्तविज्ञानैर्दृ श्येतेन्दाविवाद्वये । संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयोः ॥ २.३८९ ॥ नार्थासंवेदनः कश्चिदनर्थ वापि वेदनम् । दृष्टं संवेद्यमानं तत्तयोर्नास्ति विवेकिता ॥ २.३९० ॥ तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिनः । ज्ञानदव्यतिरेकित्वं हेतुभेदानुमा भवेत् ॥ २.३९१ ॥ अभावाद्क्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु । नियमं यदि न ब्रु यात्प्रत्ययात्समनन्तरात् ॥ २.३९२ ॥ बीजादङ्कुरजन्माग्नेर्धूमात्सिद्धिरितीदृशी । बह्यार्थाश्रयिणी यपि कारकज्ञापकस्थितिः ॥ २.३९३ ॥ सापि तद्रु पनिर्भासा तथा नियतसङ्गमाः । बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥ २.३९४ ॥ अनग्निजन्यो धूमः स्यात्तत्कार्यात्कारणे गतिः । न स्यात्कारणतायां वा कुत एकान्ततो गतिः ॥ २.३९५ ॥ तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् । गमयेदग्निनिर्भासां धियमेव न पावकम् ॥ २.३९६ ॥ तद्योग्यवासनागर्भ एव धूमावभासिनीम् । व्यनक्ति चित्तसन्तानि धियं धूमोऽनितस्ततः ॥ २.३९७ ॥ अस्त्येष विदुषां वादो बाह्यां त्वाश्रित्य वर्ण्यते । द्वैरूप्यं सहसंवित्तिनियमात्तच्च सिध्यति ॥ २.३९८ ॥ ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम् । प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते ॥ २.३९९ ॥ अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मनः । सर्वै तदर्थमर्थाच्चेत्तस्य नास्ति तदाभता ॥ २.४०० ॥ अर्थाश्रयेणोद्भवतस्तद्रूपमनुकुर्वतः । तस्य केनचिदंशेन परतोऽपि भिदा भवेत् ॥ २.४०१ ॥ तथा ह्याश्रित्य पितरं तद्रूपोऽपि सुतः पितुः । भेदं केनचिदंशेन कुतश्चिदवलम्बते ॥ २.४०२ ॥ मयूरचन्द्रकाकारं नीललोहितभास्वरम् । सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः ॥ २.४०३ ॥ तस्य तद्बाह्यारूपत्वे का प्रसन्नेक्षणेऽक्षमा । भूतं पश्यंश्च तद्दर्शी कथं चोपहतेन्द्रियः ॥ २.४०४ ॥ शोधितं तिमिरेणास्य व्यक्तं चक्षुरतीन्द्रियम् । पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुनः ॥ २.४०५ ॥ आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते । शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषयः कथम् ॥ २.४०६ ॥ स एव यदि धीहेतुः कि प्रदीपमपेक्षते । दीपमात्रेण धीभावादुभयं नापि कारणम् ॥ २.४०७ ॥ दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते । तत्स्यादालोकभेदाच्चेत्तप्तिधानापिधानयोः ॥ २.४०८ ॥ तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मोंऽशस्तस्य कश्चन् । आलोकन न मन्देन दृश्यतेऽतो भिदा यदि ॥ २.४०९ ॥ एकत्वेऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुतः । अनेकत्वेऽणुशो भिन्ने दृश्यादृश्याभिदा कुतः ॥ २.४१० ॥ मान्द्यपाटवभेदेन भासो बुद्धभिदा यदि । भिन्नेऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम् ॥ २.४११ ॥ मन्दं तदपि तेजः किमावृतेरिह सा न किम् । तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम् ॥ २.४१२ ॥ अत्यासन्ने च सुव्यक्तं तेजस्तत्स्याद्तिस्fउटम् । तत्राप्यदृष्टमाश्रित्य भवेद्रूपान्तरं यदि ॥ २.४१३ ॥ अन्योन्यावरणात्तेषां स्यात्तेजोविहतिस्ततः । तत्रैकमेव दृश्येत्तस्यानावरणे सकृत् ॥ २.४१४ ॥ पश्येत्स्fउटास्fउटं रूपमेकोऽदृष्टेन वारणे । अर्थानर्थौ न येन स्तस्तददृष्टं करोति किम् ॥ २.४१५ ॥ तस्मात्संविद्यथाहेतु जायमानार्थसंश्रयात् । प्रतिभासभिदां धत्ते शेषाः कुमतिदुर्नयाः ॥ २.४१६ ॥ ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा । जनकत्वेन पूर्वेषां क्षणिकानां विनाशतः ॥ २.४१७ ॥ व्यक्तिः कुतोऽसता ज्ञानादन्यस्यानुपकारिणः । व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि ॥ २.४१८ ॥ नषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासतः । तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम् ॥ २.४१९ ॥ नाकारयति चान्योऽर्थोऽनुपकारात्सहोदितः । व्यक्तोऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत् ॥ २.४२० ॥ वज्रोपलादिरप्यर्थः स्थिरः सोऽन्यानपेक्षणात् । सकृत्सर्वस्य जनयेज्ज्ञानानि जगतः समम् ॥ २.४२१ ॥ क्रमाद्भवन्ति तान्यस्य सहकार्यु पकार्यतः । आहुः प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत् ॥ २.४२२ ॥ संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित् । तस्यार्थरूपतासिद्धा सापि सिध्यति संस्मृतेः ॥ २.४२३ ॥ भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरैः । एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी ॥ २.४२४ ॥ न चानुभवमात्रेण कश्चिद्भेदो विवेचकः । विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत् ॥ २.४२५ ॥ द्वैरूप्यसाधनेनापि प्रायः सिद्धं स्ववेदनम् । स्वरूपभूताभासस्य तदा संवेदनेक्षणात् ॥ २.४२६ ॥ धियातद्रू पया ज्ञाने निरुद्धेऽनुभवः कथम् । स्वं च रूपं न सा वेत्तीत्युत्सन्नोऽनुभवोऽखिलः ॥ २.४२७ ॥ बहिर्मु खं च तज्ज्ञानं भात्यर्थप्रतिभासवत् । बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि ॥ २.४२८ ॥ यो यस्य विषयाभासस्तं वेत्ति न तदिप्यपि । प्राप्तं संवेदनं सर्वसदृशानां परस्परम् । बुद्धिः सरूपा तद्विच्चेत्नेदानीं वित्सरूपिका ॥ २.४३० ॥ स्वयं सोऽनुभवस्तस्या न स सारूप्यकारणः । क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम् ॥ २.४३१ ॥ स्वभावभूततद्रु पसंविदारोपविप्लवात् । नीलदेरनुभूताख्या नानुभूतेः परात्मनः ॥ २.४३२ ॥ धियो नीलादिरूपत्वे बाद्योऽर्थः किम्प्रमाणकः । धियोऽनीलादिरूपत्वे स तस्यानुभवः कथम् ॥ २.४३३ ॥ यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम् । सिद्धं तत्स्वतेवास्य किमर्थेनोपनीयते ॥ २.४३४ ॥ न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः । न च केनचिदंशेन सर्व सर्वस्य वेदनम् ॥ २.४३५ ॥ यथा नीलादिरूपत्वान्नीलाद्यनुभवो मतः । तथानुभवरूपत्वात्तस्याप्यनुभवो भवेत् ॥ २.४३६ ॥ नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चयः । तस्माददोष इति चेत्नार्थेऽप्यस्त्येष सर्वदा ॥ २.४३७ ॥ कस्माद्वानुभवे नास्ति सति सत्तानिबन्धने । अपि चेदं यदाभाति दृश्यमाने सितादिके ॥ २.४३८ ॥ पुं सः सिताद्यभिव्यक्तिरूपं संवेदनं स्fउटम् । तत्कि सिताद्यभिवयक्तेः पररूपमथात्मनः ॥ २.४३९ ॥ पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम् । ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत् ॥ २.४४० ॥ व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गतः । दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम् ॥ २.४४१ ॥ यस्माद्द्वयोरेकगतौ न द्वितीयस्य दर्शनम् । द्वयोः संसृष्टयोर्दृष्टौ स्याद्दृष्टमिति निश्चयः ॥ २.४४२ ॥ सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा । दृष्टाख्या तत्र चेत्सिद्धं सारूप्येस्य स्ववेदनम् ॥ २.४४३ ॥ अथात्मरूपं नो वेत्ति पररूपस्य वित्कथम् । सारूप्याद्वेदनाख्या च प्रागेव प्रतिवर्णिता ॥ २.४४४ ॥ दृष्टयोरेव सारूप्यग्रहोऽर्थ च न दृष्टवान् । प्राक्कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति ॥ २.४४५ ॥ सारूप्यमपि नेच्छेद्यस्तस्य नोभयदर्शनम् । तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा ॥ २.४४६ ॥ अथ स्वरूपं सा तर्हि स्वयमेव प्रकाशते । यत्तस्यामप्रकाशायामर्थः स्यादप्रकाशितः ॥ २.४४७ ॥ एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये । अप्रत्यक्षां धियं प्राहुस्तेऽपि निर्वर्णितोत्तराः ॥ २.४४८ ॥ आश्रयालम्बनाभ्यासभेदाद्भिन्नप्रवृत्तयः । सुखदुःखाभिलाषादिभेदा बुद्धय एव ताः ॥ २.४४९ ॥ प्रत्यक्षाः तद्विविक्तं च नान्यत्किञ्चिद्विभाव्यते । यत्तज्ज्ञानं परोऽप्येतान् भुञ्जीतान्येन विद्यदि ॥ २.४५० ॥ तज्जा तत्प्रतिभासा व यदि धीर्वेत्ति नापरा । आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयम् ॥ २.४५१ ॥ अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी । सा धीर्निर्विषया प्राप्ता सामान्यं च तदग्रहे ॥ २.४५२ ॥ न गृह्यतिति प्रोक्तं न च तद्वस्तु किञ्चन । तस्मादर्थावभासोऽसौ नान्यस्तस्या धियस्ततः ॥ २.४५३ ॥ सिद्धे प्रत्यक्षभावात्मविदौ गृह्णाति तान् पुनः । नाध्यक्षमिति चेदेष कुतो भेदः समार्थयोः ॥ २.४५४ ॥ अदृष्टैकार्थयोगादेः संविदो नियमो यदि । सर्वथान्यो न गृह्णीयात्संविद्भेदोऽप्यपोदितः ॥ २.४५५ ॥ येषां च योगिनोऽन्यस्य प्रत्यक्षेण सुखादिकम् । विदन्ति तुल्यानुभवास्तद्वत्तेऽपि स्युरातुराः ॥ २.४५६ ॥ विषयेम्द्रियसम्पाताभावात्तेषां तदुद्भवम् । नोदेति दुःखमिति चेत्न वै दुःखसमुद्भवः ॥ २.४५७ ॥ दुःखस्य वेदनं किन्तु दुःखज्ञानसमुद्भवः । न हि दुःखाद्यसंवेद्यं पीडानुग्रहकारणम् ॥ २.४५८ ॥ भासमानं स्वरूपेण पीडा दुःखं स्वयं यदा । न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते ॥ २.४५९ ॥ भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने । अर्थसारूप्यमालम्ब आत्मा वित्तिः स्वयं स्fउटा ॥ २.४६० ॥ अपि चाध्यक्षताभावे धियः स्याल्लिङ्गतो गतिः । तच्चाक्षमर्थो धीः पूर्वो मनस्कारोऽपि वा भवेत् ॥ २.४६१ ॥ कार्यकारणसामग्र्यामस्यां सम्बन्धि नापरम् । सामर्थ्यादर्शनात्तत्र नेन्द्रियं व्यभिचारतः ॥ २.४६२ ॥ तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यतः । नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चिन्मता ॥ २.४६३ ॥ लिङ्गं सैव ननु ज्ञानं व्यक्तोऽर्थोऽनेन वर्णितः । व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात् ॥ २.४६४ ॥ अथार्थस्यैव कश्चित्स विशेषो व्यक्तिरिष्यते । नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन ॥ २.४६५ ॥ तदिष्टौ वा प्रतिज्ञानं क्षणभङ्गः प्रसज्यते । स च ज्ञातोऽथ वाज्ञातो भवेज्ज्ञातस्य लिङ्गता ॥ २.४६६ ॥ यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत्कुतः । ज्ञातत्वेनापरिच्छिन्नमपि तद्गमकं कथम् ॥ २.४६७ ॥ अदृष्टदृष्टयोऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित् । विशेषः सोऽन्यदृष्टावप्यस्तीति स्यात्स्वधीगतिः ॥ २.४६८ ॥ तस्मादनुमितिर्बुद्धेः स्वधर्मनिरपेक्षिणः । केवलान्नार्थधर्मात्कः स्वधर्मः स्वधियोऽपरः ॥ २.४६९ ॥ प्रत्यक्षाधिगतो हेतुः तुल्यारणजन्मनः । तस्य भेदः कुतो बुद्धे र्व्यभिचार्यन्यजश्च सः ॥ २.४७० ॥ रूपादीन् पञ्च विषयानिन्द्रियाण्युपलम्भनम् । मुक्त्वा न कार्यमपरं तस्याः समुपलभ्यते ॥ २.४७१ ॥ तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते । रूपदर्शनतो जातो योऽन्यथा व्यस्तसम्भवः ॥ २.४७२ ॥ यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम् । विद्यमानेऽपि लिङ्गे तां तेन सार्धमपश्यतः ॥ २.४७३ ॥ कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम् । तत एवास्य लिङ्गात्प्राक्प्रसिद्धेरुपवर्णने ॥ २.४७४ ॥ दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थितिः । इत्यर्थस्य धियः सिद्धिः नार्थात्तस्याः कथञ्चन ॥ २.४७५ ॥ तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धितः । प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम् ॥ २.४७६ ॥ परचित्तानुमानं च न स्यादात्मन्यदर्शनात् । सम्बन्धस्य्मनोबुद्धवर्थलिङ्गाप्रसिद्धितः ॥ २.४७७ ॥ प्रकाशिता कथं वा स्यात्बुद्धिर्बुद्ध्यन्तरेण वः । अप्रकाशात्मनोः साम्याद्व्यङ्ग्यव्यञ्जकता कुतः ॥ २.४७८ ॥ विषयस्य कथं व्यक्तिः प्रकाशे रूपसंक्रमात् । स च प्रकाशस्तद्रूपः स्वयमेव प्रकाशते ॥ २.४७९ ॥ तथाभ्युपगमे बुद्धेर्बुद्धौ बुद्धिः स्ववेदिका । सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह ॥ २.४८० ॥ इति प्रकाशरूपा नः स्वयं धीः सम्प्रकाशते । अन्योऽस्यां रूपसंक्रान्त्या प्रकाशः सन् प्रकाशते ॥ २.४८१ ॥ सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता । स्वयं प्रकाशमानार्थस्तद्रू पेण प्रकाशते ॥ २.४८२ ॥ यथा प्रदीपयोर्दीपघटयोश्च तदाश्रयः । व्यङ्ग्यव्यञ्जकभेदेन व्यवहारः प्रतन्यते ॥ २.४८३ ॥ विषयेन्द्रियमात्रेण न दृष्टमिति निश्चयः । तस्माद्यतोऽयं तस्यापि वाच्यमन्यस्य दशनम् ॥ २.४८४ ॥ स्मृतेरप्यात्मवित्सिद्धा ज्ञानस्यान्येन वेदने । दीर्घादिग्रहणं न स्याद्बहुमात्रानवस्थितेः ॥ २.४८५ ॥ अवस्थितावक्रमायां सकृदाभासनान्मतौ । वर्णः स्याद्क्रमोऽदीर्घः क्रमवानक्रमां कथम् ॥ २.४८६ ॥ उपकुर्यादसंश्लिष्यन् वर्णभागः परस्परम् । आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत् ॥ २.४८७ ॥ अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत् । धियः स्वयं च न स्थानं तदूर्ध्वविषयास्थितेः ॥ २.४८८ ॥ स्थाने स्वयं न नश्येत्सा पश्चादप्यविशेषतः । दोषोऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि ॥ २.४८९ ॥ सकृद्यत्नोद्भवाद्व्यर्थः स्याद्यत्नश्चोत्तरोत्तरः । व्यक्तावप्येष वर्णानां दोषः समनुषज्यते ॥ २.४९० ॥ अनेकया तद्ग्रहणे यान्त्या धीः सानुभूयते । न दीर्घग्राहिका सा च तन्न स्याद्दीर्घधीस्मृतिः ॥ २.४९१ ॥ पृथक्पृथक्च बुद्धीनां संवित्तौ तद्ध्वनिश्रुतेः । अविच्छिन्नाभता न स्याद्घटनं च निराकृतम् ॥ २.४९२ ॥ विच्छिन्नं शृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रमः । ह्रस्वद्वयोच्चारणेऽपि स्यादविच्छिन्नविभ्रमः ॥ २.४९३ ॥ विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम् । नाक्षात्सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गतः ॥ २.४९४ ॥ सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलितस्थितिः । स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति ॥ २.४९५ ॥ एकाण्वत्ययकालश्च कालोऽल्पीयान् क्षणो मतः । बुद्धिश्च क्षणिका तस्मात्क्रमाद्वर्णान् प्रपद्यते ॥ २.४९६ ॥ इति वर्णेऽपि रुपादावविच्छिन्नावभासिनी । विच्छिन्नाप्यन्यथा बुद्धिः सर्वा स्याद्वितथार्थिका ॥ २.४९७ ॥ घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात् । भेदालक्षणविभ्रान्तं स्मरणं तद्विकल्पकम् ॥ २.४९८ ॥ तस्य स्पष्टावभासित्वं जल्पसंसर्गिणः कुतः । नाक्षग्राह्येऽस्ति शब्दानां योजनेति विवेचितम् ॥ २.४९९ ॥ विच्छिन्नं पश्यतोऽप्यक्षैर्घटयेद्यदि कल्पना । अर्थस्य तत्संवित्तेश्च सततं भासमानयोः ॥ २.५०० ॥ बाधके सति सन्न्याये विच्छिन्न इति तत्कुतः । बुद्धीनां शक्तिनियमादिति चेत्स कुतो भतः ॥ २.५०१ ॥ युगपद्बुद्ध्यदृष्टेश्चेत्तदेवेदं विचार्यते । तासां समानजातीये सामर्थ्यनियमो भवेत् ॥ २.५०२ ॥ तथा हि सम्यग्लक्ष्यन्ते विकल्पाः क्रमभाविनः । एतेन यः समक्षेऽर्थे प्रत्यभि&॰२८९;यानकल्पनाम् ॥ २.५०३ ॥ स्पष्टावभासां प्रत्यक्षां कल्पयेत्सोऽपि वारितः । केशगोलकदीपादावपि स्पष्टावभासनात् ॥ २.५०४ ॥ प्रतीतभेदेऽप्यध्यक्षा धीः कथं तादृशी भवेत् । तस्मान्न प्रत्यभिज्ञानाद्वर्णाद्येकत्वनिश्चयः ॥ २.५०५ ॥ पूर्वानुभूतस्मरणात्तद्धर्मारोपणाद्विना । स एवायमिति ज्ञानं नास्ति तच्छक्षजे कुतः ॥ २.५०६ ॥ न चार्थज्ञानसंवित्त्योर्युगपत्सम्भवो यतः । लक्ष्येते प्रतिभासो दौ नार्थार्थज्ञानयोः पृथक् ॥ २.५०७ ॥ न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवलः । एकाकारमतिग्राह्ये भेदभावप्रसङ्गतः ॥ २.५०८ ॥ सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ । अर्थार्थप्रत्ययो पश्चात्स्मर्येते तौ पृथक्कथम् ॥ २.५०९ ॥ क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम् । प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धरः ॥ २.५१० ॥ अर्थसंवेदनं तावत्ततोऽर्थाभासवेदनम् । न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम् ॥ २.५११ ॥ तथा हि नीलाद्याकार एक एकं च वेदनम् । लक्ष्यते न तु नीलाभे वेदने वेदनं परम् ॥ २.५१२ ॥ ज्ञानान्तरेणानुभवो भवेत्तत्रापि हि स्मृतिः । दृष्टा तद्वेदनं केन तस्याप्यन्येन चेदिमाम् ॥ २.५१३ ॥ मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् । पूर्वा धीः सैव चेन्न स्यात्सञ्चारो विषयान्तरे ॥ २.५१४ ॥ तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् । अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम् ॥ २.५१५ ॥ आत्मनि ज्ञानजनने स्वभावे नियतां च ताम् । को नामान्यो विबध्नीयाद्बहिरंगेऽन्तरङ्गिकाम् ॥ २.५१६ ॥ बाह्याः सन्निहितोऽप्यर्थस्तां विबध्नन् हि न प्रभुः । धियं नानुभवेत्कश्चिदन्यथार्थस्य सन्निधौ ॥ २.५१७ ॥ न चासन्निहितार्थास्ति दशा काचिदतो धियः । उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥ २.५१८ ॥ अतीतादिविकल्पानां येषां नार्थस्य सन्निधिः । सञ्चारकरणाभावादुत्सीदेदथचिन्तनम् ॥ २.५१९ ॥ आत्मविज्ञानजनने शक्तिसंक्षयतः शनैः । विषयान्तरसञ्चारो यदि सैवार्थधीः कुतः ॥ २.५२० ॥ शक्तिक्षये पूर्वाधियो न हि धीः प्राग्धिया विना । अन्यार्थासक्तिविगुणे ज्ञाने ज्ञानोदयागतेः ॥ २.५२१ ॥ सकृद्विजातीयजातावप्येकेन पटीयसा । चित्तेनाहितवैगुण्यादालायान्नान्यसम्भवः ॥ २.५२२ ॥ नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोऽन्तरम् । मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी ॥ २.५२३ ॥ एकत्वान्मनसोऽन्यम्मिन् सक्तस्यान्यागतेर्यदि । ज्ञानान्तरस्यानुदयो न कदाचित्सहोदयात् ॥ २.५२४ ॥ समवृत्तौ च तुल्यत्वात्सर्वदान्यागतिर्भवेत् । जन्म वात्ममनोयोगमात्रजानां सकृद्भवेत् ॥ २.५२५ ॥ एकैव चेत्क्रियैकः स्यात्किं दीपोऽनेकदर्शनः । क्रमेणापि न शक्तं स्यात्पश्चादप्यविशेषतः ॥ २.५२६ ॥ अनेन देहपुरुषाबुक्तौ संस्कारतो यदि । नियमः स कुतः पश्चात्बुद्धेश्चेदस्तु सम्मतम् ॥ २.५२७ ॥ न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम् । अग्राह्यं न हि तेजोऽस्ति न च सौक्षम्याद्यनंशके ॥ २.५२८ ॥ ग्राह्यताशक्तिहानिई स्यात्नान्यस्य जननात्मनः । ग्राह्याताया न खल्वन्यज्जननं ग्राह्यलक्षणे ॥ २.५२९ ॥ साक्षान्न ह्यन्यथा बुद्धे रूपादिरूपकारकः । ग्राह्यातालक्षनादन्यस्तभावनियमोऽस्य कः ॥ २.५३० ॥ बुद्धेरपि तदस्तीति सापि सत्त्वे व्यव्स्थिता । ग्राह्युपादानसंवित्ती चेतसो ग्राह्यलक्षणम् ॥ २.५३१ ॥ रूपादेश्चेतसश्चैवम्विशुद्धधियं प्रति । ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥ २.५३२ ॥ तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत् । रूपादि बुद्धेः किं जातं पश्चाद्यत्प्राङ्न विद्यते ॥ २.५३३ ॥ सति स्वधीग्रहे तस्माद्यैवानन्तरहेतुता । चेतसो ग्राह्यता सैव ततो नार्थान्तरे गतिः ॥ २.५३४ ॥ नानेकशक्त्यभावेऽपि भावो नानेककार्यकृत् । प्रकृत्यैवेति गदितं नानेकस्मान्न चेद्भवेत् ॥ २.५३५ ॥ न किञ्चिदेकस्मात्सामग्रयाः सर्वसम्भवः । एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत् ॥ २.५३६ ॥ अर्थ पूर्वञ्च विज्ञानं गृह्णीयद्यदि धीः परा । अभिलापद्वयं नित्यं स्याद्दृष्टक्रममक्रमम् ॥ २.५३७ ॥ पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि । द्विर्द्विरेकं च भासेत भासनादात्मतद्धियोः ॥ २.५३८ ॥ विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते । परानुभूतवत्सर्वाननुभूतिः प्रसज्यते ॥ २.५३९ ॥ आत्मानुभूत प्रत्यक्षं नानुभूतं परैर्यदि । आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ २.५४० ॥ व्यक्तिहेत्वप्रसिद्धिः स्यात्न व्यक्तेर्व्यक्तमिच्छतः । व्यक्त्यसिद्धवपि व्यक्तं यदि व्यक्तमिदं जगत् ॥ २.५४१ ॥ तृतीयः स्वार्थानुमानपरिच्छेदः स्वोपज्ञवृत्तिसहितः पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद्धेत्वाभासास्ततोऽपरे ॥ ३.१ ॥ कार्य स्वभावैर्यावद्भिरविनाभावि कारणे । हेतुः स्वभावे भावोऽपि भावमात्रानुरोधिनि ॥ ३.२ ॥ अप्रवृत्तिः प्रमाणानामप्रवृत्तिफलासति । असज्ज्ञानफला काचिधेतुभेदव्यपेक्षया ॥ ३.३ ॥ विरुद्धकार्योः सिद्धिरसिद्धिर्हेतुभावयोः । दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा ॥ ३.४ ॥ तद्विरुद्धिनिमित्तस्य योपलब्धिः प्रयुज्यते । निमित्तयोर्विरुद्धत्वाभावे सा व्यभिचारिणी ॥ ३.५ ॥ इष्टं विरुद्धकार्येऽपि देशकालाअद्यपेक्षणम् । अन्यथा व्यभिचारि स्यात्भस्मेवाशीतसाधने ॥ ३.६ ॥ हेतुना यः समग्रेण कायात्पादोऽनुमीयते । अर्थान्तरानपेक्षत्वात्स स्वभावोऽनुवर्नितः ॥ ३.७ ॥ सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात् ॥ ३.८ ॥ एकसामग्र्यधीनस्य रूपादे रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ ३.९ ॥ शक्तिप्रवृत्त्या न विना रसः सैवान्यकारणम् । इत्यतीतैककालानां गतिस्तस्तत्कार्यलिङ्गजा ॥ ३.१० ॥ हेतुना योऽसमग्रेण कार्योत्पादोऽनुमीयते । तच्छेषवदसामर्थ्याद्देहाद्रागानुमानवत् ॥ ३.११ ॥ विपक्षेऽदृष्टिमात्रेण कार्यसामान्यदर्शनात् । हेतुज्ञानं प्रमाणाभं वचनाद्रागितादिवत् ॥ ३.१२ ॥ न चादर्शनमात्रेण विपक्षेऽव्यभिचारिता । सम्भाव्यव्यभिचारित्वात्स्थालीतण्डुलपाकवत् ॥ ३.१३ ॥ यस्यादर्शनमात्रेण व्यतिरेकः प्रदर्श्यते । तस्य संशयहेतुत्वाच्छेषवत्तदुदाहृतम् ॥ ३.१४ ॥ हेतोस्त्रिष्वपि रूपेषु निश्चयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः ॥ ३.१५ ॥ व्यभिचारिविपक्षेण वधर्म्यवचनं च यत् । यद्यदृष्टिफलं तच्च तदनुक्तेऽपि गम्यते ॥ ३.१६ ॥ न च नास्तीति वचनात्तन्नास्त्येव यथा यदि । नास्ति स ख्याप्यते न्यायस्तदा नास्तीति गम्यते ॥ ३.१७ ॥ यद्यदृष्टौ निवृत्तिः स्याच्छेषवद्व्यभिचारि किम् । व्यतिरेक्यपि हेतुः स्यान्न वाच्याअसिद्धियोजना ॥ ३.१८ ॥ विशेषस्य व्यवच्छेदहेतुता स्याददर्शनात् । प्रमाणान्तरबाधा चेन्नेदानीं नास्तितादृशः ॥ ३.१९ ॥ तथान्यत्रापि सम्भाव्यं प्रमाणान्तरबाधनम् । दृष्टायुक्तिरदृष्टेश्च स्यात्स्पर्शस्यविरोधिनी ॥ ३.२० ॥ देशादिभेदाद्दृश्यन्ते भिन्ना द्रव्येषु शक्तयः । तत्रैकदृष्ट्या नान्यत्र युक्तस्तद्भावनिश्चयः ॥ ३.२१ ॥ आत्ममृच्चेतनादीनां योऽभावस्याप्रसाधकः । स एवानुपलम्भः किं हेत्वभावस्य साधकः ॥ ३.२२ ॥ तस्मात्तन्मात्रसम्बद्धः स्वभावो भावमेव वा । निर्वतयेत्कारणं वा कायमव्यभिचारतः ॥ ३.२३ ॥ अन्यथकनिवृत्तयान्यविनिवृत्तिः कथं भवेत् । नाश्चवानिति मर्त्येन न भाव्यं गोमतापि किम् ॥ ३.२४ ॥ सन्निधानात्तथैकस्य कथमन्यस्य सन्निधिः । गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम् ॥ ३.२५ ॥ तस्माद्वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रयः । तदभावे च तन्नेति वचनादपि तद्गतिः ॥ ३.२६ ॥ तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ ३.२७ ॥ तेनैव ज्ञातसम्बन्धे द्वयोरन्यतरोक्तितः । अर्थापत्त्या द्वितीयेऽपि स्मृतिः समुपजायते ॥ ३.२८ ॥ हेतुस्वभावाभावोऽतः प्रतिषेधे च कस्यचित् । हेतुः, युक्तोपलम्भस्य तस्य चानुपलम्भनम् ॥ ३.२९ ॥ इतीयं त्रिविधोक्तऽप्यनुपलब्धिरनेकधा । तत्तद्विरिद्धाद्यगतिभेदप्रयोगतः ॥ ३.३० ॥ कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ ३.३१ ॥ अवश्यंभावनियमः कः परस्यान्यथा परैः । अर्थान्तरनिमित्ते वा धर्मे वाससि रागवत् ॥ ३.३२ ॥ अर्थान्तरनिमित्तो हि धर्मः स्यादन्य एव सः । पश्याद्भावान्न हेतुत्वं फलेऽप्येकान्तता कुतः ॥ ३.३३ ॥ कार्य धूमो हुतभुजः कायधर्मानुवृत्तितः । तस्याभावे तु स भवन् हेतुमतां विलङ्घयेत् ॥ ३.३४ ॥ नित्यं सत्त्वमसत्त्वं वाहेतोरन्यानपेक्षणात् । अपेक्षातश्च भावानां कादाचित्कस्य सम्भवः ॥ ३.३५ ॥ अग्निस्वभावः शक्रम्य मूर्धा यद्यग्निरेव सः । अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेत् ॥ ३.३६ ॥ धूमहेतुस्वभावो हि वह्निस्तच्छक्तिभेदवान् । अधूमहेतोर्धूमस्य भावे स स्यादहेतुकः ॥ ३.३७ ॥ अन्वयव्यतिरेकाद्यो यस्य दृष्टोऽनुवर्तकः । स्वभावस्तस्य तद्धेतुरतो भिन्नान्न सम्भवः ॥ ३.३८ ॥ स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनि । तद्भावे स्वयम्भावस्याभावः स्यादभेदतः ॥ ३.३९ ॥ सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थितेः । स्वभावपरभावाभ्यां यस्माद्व्यावृत्तिभागिनः ॥ ३.४० ॥ तस्माद्यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धनाः । जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ॥ ३.४१ ॥ तस्माद्विशेषो यो येन धर्मेण सम्प्रतीयते । न द शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः ॥ ३.४२ ॥ एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो भागो न दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ॥ ३.४३ ॥ नो चेद्भ्रान्तिनिमित्तेन संयोज्येत गुणान्तरम् । शुक्तौ वा रजताकारो रूपसाधर्म्यदर्शनात् ॥ ३.४४ ॥ तस्माद्दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः । भ्रान्तेर्निश्चीयते नेति साधनं सम्प्रवर्तते ॥ ३.४५ ॥ वस्तुग्रहेऽमनुमानाच्च धर्मस्यैकस्य निश्चये । सर्वग्रहो ह्यपोहे तु नायं दोषः प्रसज्यते ॥ ३.४६ ॥ तस्मादपोहविषयमिति लिङ्गं प्रकीर्तितम् । अन्यथा धर्मिणः सिद्धवसिद्धं किमतः परम् ॥ ३.४७ ॥ क्वचित्सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम् । कथमन्योपोहविषयं तन्मात्रापोहगोचरम् ॥ ३.४८ ॥ निश्चयारोपमनसिर्बाध्यबाधकभावतः । समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते ॥ ३.४९ ॥ यावन्तोंऽशसमारोपास्तन्निरासे विनिश्चयाः । तावन्त एव शब्दाश्च तेन ते भिन्नगोचराः ॥ ३.५० ॥ अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि । बुद्ध्या वा नान्यविसय इति पर्यायता भवेत् ॥ ३.५१ ॥ यस्यापि नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिनः । नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ॥ ३.५२ ॥ सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः । तयोरात्मनि सम्बन्धादेकज्ञाने द्वयग्रहः ॥ ३.५३ ॥ धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि । नोपकारस्ततस्तासां तदा स्यादनवस्थितिः ॥ ३.५४ ॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे । दृष्टे तस्मिन्नदृष्टाश्च तद्ग्रहे सकलग्रहः ॥ ३.५५ ॥ यदि भ्रान्तिनिवृत्त्यर्थ गृहीतेऽप्यन्यदिष्यते । तद्व्यवच्छेदविषयं सिद्धं तद्वत्ततोऽपरम् ॥ ३.५६ ॥ असमारोपविषये वृत्ते रपि च निश्चयैः । यन्न निश्चीयते रूपं तत्तेषां विषयः कथम् ॥ ३.५७ ॥ प्रत्यक्षेण गृहीतेऽपि विशेर्षेऽशविबर्जिते । यद्विशेषावसायेऽस्ति प्रत्ययः स प्रतीयते ॥ ३.५८ ॥ तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त इत्यपि । शब्दाश्च निश्चयाश्चैव निमित्तमनुरिन्धते ॥ ३.५९ ॥ द्वयोरेकाभिधानेऽपि बिभक्तिर्व्यतिरेकिणी । भिन्नमर्थमिवान्वेति वाच्यलेशविशेषतः ॥ ३.६० ॥ भेदान्तरप्रतिक्षे पाप्रतिक्षेपौ तयोर्द्वयोः । पदं संकेतभेदस्य ज्ञातृवाञ्छानुरिधिनः ॥ ३.६१ ॥ भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः । शब्दयोओर्न तयोर्वाच्ये विशेषस्तेन कश्चन ॥ ३.६२ ॥ जिज्ञापयिषुरर्थ तं तद्धितेन तं तद्धितेन कृतापि वा । अन्तेन वा यदि ब्रू यात्भेदो नास्ति ततः परः ॥ ३.६३ ॥ तेनान्यापोहविषये तद्वत्पक्षोपवर्णनम् । प्रत्याख्यातं पृथक्त्वे हि स्याद्दोषो जातितद्वतोः ॥ ३.६४ ॥ येषां वस्तुवशा वाचो न वोइवक्षापराश्रयाः । षष्ठीवचनभेदादि चोद्यं तान् प्रति युक्तिमत् ॥ ३.६५ ॥ यद्यथा वाचकत्वेन वक्तृभिर्विनियम्यते । अनपेक्षितवाह्यार्थ तत्तथा वाचकं वचः ॥ ३.६६ ॥ दाराः षण्णगरीत्यादौ भेदाभेदव्यवस्थितेः । खस्य स्वभावः खत्वं चेत्यत्र वा किं निबन्धनम् ॥ ३.६७ ॥ पररूपं स्वरूपेण यया संव्रियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥ ३.६८ ॥ तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥ ३.६९ ॥ तस्या अभिप्रायवशात्सामान्यं सत्प्रकीर्तितम् । तदसत्परमार्थेन यथा सङ्कल्पितं तया ॥ ३.७० ॥ व्यक्तयो नानुयन्त्यन्यसनुयायि न भासते । ज्ञानादव्यतिरिक्तं वा कथमर्थान्तरं व्रजेत् ॥ ३.७१ ॥ तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रहः । इतरेतरभेदोऽस्य बीजं संज्ञा यदर्थिका ॥ ३.७२ ॥ एकप्रत्यवमर्शार्थज्ञानाद्ये काथसाधने । भेदेऽपि नियताः केचित्स्वभावेनेन्द्रियादिवत् ॥ ३.७३ ॥ ज्वरादिशमने काश्चित्सह प्रत्येकमेव वा । दृष्टा यथा वौषधयो नानात्वेऽपि न चापराः ॥ ३.७४ ॥ अविशेषान्न सामान्यमविशेषप्रसङ्गतः । तासां क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारतः ॥ ३.७५ ॥ तत्स्वभावग्रहाद्या धीस्तदर्थे वाप्यनर्थिका । विकल्पिकातत्कार्यार्थभेदनिष्ठा प्रजायते ॥ ३.७६ ॥ तस्यां यद्रू पमाभाति बाह्यमेकमिवान्यतः । व्यावृत्तमिव निस्तत्त्वं परीक्षानङ्गभावतः ॥ ३.७७ ॥ अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः । अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः ॥ ३.७८ ॥ त एव तेषां सामान्यसमानाधारगोचरैः । ज्ञानाभिधानैर्मिथ्यार्थो व्यवहारः प्रतन्यते ॥ ३.७९ ॥ स च सर्वः पदार्थानामन्योन्याभावसंश्रयः । तेनान्यापोहविषयो वस्तुमाभस्य चाश्रयः ॥ ३.८० ॥ यत्रास्ति वस्तुसम्बन्धो यथोक्तानुमितौ यथा । नान्यत्र भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा ॥ ३.८१ ॥ तत्रैककार्योऽनेकोऽपि तदकार्यान्यताश्रयः । एकत्वेनाभिधाज्ञानैर्व्यवहारः प्रतार्यते ॥ ३.८२ ॥ ततोऽनेककृदेकोऽपि तद्भावपरिदीपने । अतत्कार्यार्थभेदेन नानाधर्मा प्रतीयते ॥ ३.८३ ॥ यथाप्रतीति कथितः शब्दार्थोऽसावसन्नपि । समानाधिकरण्यं च वस्तुन्यस्य न सम्भवः ॥ ३.८४ ॥ धर्मधर्मिव्यस्थानं भेदोऽभेदश्च यादृशः । असमीक्षिततत्त्वार्थो यथा लोके प्रतीयते ॥ ३.८५ ॥ तं तथैव समाश्रित्य साध्यसाधनंसंस्थितिः । परमार्थावताराय विद्वद्भिरवकल्प्यते ॥ ३.८६ ॥ संसृज्यन्ते न भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः । रूपमेकमनेकं च तेषु बुद्धेरुपप्लवः ॥ ३.८७ ॥ भेदस्ततोऽयं बौद्धेऽर्थे सामान्यं भेद इत्यपि । तस्यैव चान्यव्यावृत्त्या धर्मभेदः प्रकल्प्यते ॥ ३.८८ ॥ साध्यसाधनसंकल्पे वस्तुदर्शनहानितः । भेदः सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम् ॥ ३.८९ ॥ समानभिन्नाद्याकारैर्न तद्ग्राह्यं कथंचन । भेदानां बहुभेदानां तत्रैकस्मिन्नयोगतः ॥ ३.९० ॥ तद्रू पं सर्वतो भिन्नं तथा तत्प्रतिपादिका । न श्रुतिः कल्पना वास्ति समान्येनैव वृत्तितः ॥ ३.९१ ॥ शब्दाः संकेतितं प्राहुर्व्यवहाराय स स्मृतः । तदा स्वलक्षणं नास्ति संकेतस्तेन तत्र न ॥ ३.९२ ॥ अपि प्रवर्त्तेत पुमान् विज्ञायार्थक्रियाक्षमान् । तत्साधनायेत्यर्थेषु संयोज्यन्तेऽभिधाक्रियाः ॥ ३.९३ ॥ तत्रानर्थक्रियायोग्या जातिस्तद्वानलं स च । साक्षान्न योज्यते कस्मादानन्त्याच्चेदिदं समम् ॥ ३.९४ ॥ तत्कारिणामतत्कारिभेदसाम्ये न किं कृतः । तद्वद्दोषस्य साम्याच्चेदस्तु जातिरलं परा ॥ ३.९५ ॥ तदन्यपरिहारेण प्रवर्तेतेति च ध्वनिः । उच्यते तेन तेभ्योऽस्याव्यवच्छेदे कथं च सः ॥ ३.९६ ॥ व्यवच्छेदोऽस्ति चेदस्य नन्वेतावत्प्रयोजनम् । शब्दानामिति किं तत्र सामान्येनापरेण वः ॥ ३.९७ ॥ ज्ञानाद्यर्थक्रियां तां तां दृष्ट्वा भेदेऽपि कुवतः । अर्थां स्तदन्यविश्लेषविषयैर्ध्वनिभिः सह ॥ ३.९८ ॥ संयोज्य प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने । परस्यापि न सा बुद्धिः सामान्यादेव केवलात् ॥ ३.९९ ॥ नित्यं तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गतः । तदा कदाचित्सम्बद्धस्यागृहीतस्य तद्वतः ॥ ३.१०० ॥ तद्वत्तानिश्चयो न स्याद्व्यवहारस्ततः कथम् । एकवस्तुसहायाश्चेद्व्यक्तयो ज्ञानकारणम् ॥ ३.१०१ ॥ तदेकं वस्तु किं तासां नानात्वं समपोहति । नानात्वाच्चैकविज्ञानहेतुता तासु नेष्यते ॥ ३.१०२ ॥ अनेकमपि यद्ये कमपेक्ष्याभिन्नबुद्धिकृत् । ताभिर्विनापि प्रत्यकं क्रियमाणां धियं प्रति ॥ ३.१०३ ॥ तेनैकेनापि सामर्थ्य तासां नेत्यग्रहो धिया । नीलादेर्नेत्रविज्ञाने पृथक्सामर्थ्यदर्शनात् ॥ ३.१०४ ॥ शक्तिसिद्धिः समूहेऽपि नैवं व्यक्तेः कथञ्चन । तासामन्यतामापेक्ष्यं तच्चेच्छक्तं न केवलम् ॥ ३.१०५ ॥ तदेकमुपकुर्युस्ताः कथमेकां धियं च न । कार्य च तासां प्राप्तोऽसौ जननं यदुपक्रिया ॥ ३.१०६ ॥ अभिन्नप्रतिभासा धीर्न भिन्नेष्विति चेन्मतम् । प्रतिभासो धिया भिन्नः समाना इति तद्ग्रहात् ॥ ३.१०७ ॥ कथं ता भिन्नधीग्राह्याः समाश्चेदेककार्यता । सादृश्यं ननु धीः कार्य तासां सा च विभिद्यते ॥ ३.१०८ ॥ एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी । एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ ३.१०९ ॥ सा चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिनः । अदृष्टेः प्रतिषेधाच्च संकेतस्तद्विदर्थिकः ॥ ३.११० ॥ अतत्कारिविवेकेन प्रवृत्त्यर्थतया श्रुतिः । अकार्यकृति तत्कारितुल्यरूपावभासिनीम् ॥ ३.१११ ॥ धियं वस्तुपृथग्भावमात्रबीजामनर्थिकाम् । जनयन्त्यप्यतत्कारिपरिहाराङ्गभावतः ॥ ३.११२ ॥ वस्तुभेदाश्रयाच्चार्थे न विसंवादिका मता । ततोऽन्यापोहविषया तत्कर्त्राश्रितभावतः ॥ ३.११३ ॥ अवृक्षव्यतिरेकेण वृक्षार्थग्रहणे द्वयम् । अन्योन्याश्रयमित्येकग्रहाभावे द्वयाग्रहः ॥ ३.११४ ॥ सङ्केतासम्भवस्तस्मादिति केचित्प्रचक्षते । तेषामवृक्षाः संङ्केते व्यवच्छिन्ना न वा यदि ॥ ३.११५ ॥ व्यवच्छिन्नाः कथं ज्ञाताः प्राग्वृक्षग्रहणादृते । अनिराकरणे तेषां संकेते व्यवहारिणाम् ॥ ३.११६ ॥ न स्यात्तत्परिहारेण प्रवृत्तिर्वृ क्षभेदवत् । अविधाय निषिध्यान्यत्प्रदर्श्यैकं पुरः स्थितम् ॥ ३.११७ ॥ वृक्षोऽयमिति संकेतः क्रियते तत्प्रपद्यते । व्यवहारेऽपि तेनायमदोष इति चेत्तरुः ॥ ३.११८ ॥ अयमप्ययमेवेति प्रसङ्गो न निवर्तते । एकप्रत्यवमर्शाख्ये ज्ञाने एकत्र हि स्थितः ॥ ३.११९ ॥ प्रपत्ता तदतद्धेतूनर्थान् विभजते स्वयम् । तद्बुद्धिवर्तिनो भावान् भातो हेतुतया धियः ॥ ३.१२० ॥ अहेतुरूपविकलानेकरूपानिव स्वयम् । भेदेन प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते ॥ ३.१२१ ॥ तं तस्या प्रतियती धीः भ्रान्त्यैकं वस्त्विवेक्षते । क्वचिन्निवेशनायार्थे विनिवर्त्य कुतश्चन ॥ ३.१२२ ॥ बुद्धेः प्रयुज्यते शब्दस्तदर्थस्यावधारणात् । व्यर्थोऽन्यथा प्रयोगः स्यात्तज्ज्ञेयादिपदेष्वपि ॥ ३.१२३ ॥ व्यवहारोपनीतेषु व्यवच्छेद्योऽस्ति कश्चन । निवेशनं च यो यस्माद्भिद्यते विनिवर्त्य तम् ॥ ३.१२४ ॥ तद्भेदे भिद्यमानानां समानाकारभासिनि । स चायमन्यव्यावृत्त्या गम्यते तस्य वस्तुनः ॥ ३.१२५ ॥ कश्चिद्भाग इति प्रोक्तो रूपं नास्यापि किञ्चिन । तद्गतावेव शब्देभ्यो गम्यतेऽन्यनिवर्तनम् ॥ ३.१२६ ॥ न तत्र गम्यते कश्चिद्विशिष्टः केनचित्परः । न चापि शब्दो द्वयकृदन्योन्याभाव इत्यसौ ॥ ३.१२७ ॥ अरूपो रूपत्त्वेन दर्शनं बुद्धिविप्लवः । तेनैवापरमार्थोऽसावन्यथा न हि वस्तुनः ॥ ३.१२८ ॥ व्यावृत्तिर्वस्तु भवति भेदोऽस्यास्मादितिरणात् । एकार्थश्लेषविच्छेद एको व्याप्रियते ध्वनिः ॥ ३.१२९ ॥ लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किञ्चन । यस्याभिधानतो वस्तुसामर्थ्यादखिले गतिः ॥ ३.१३० ॥ भवेन्नानाफलः शब्द एकाधारो भवत्यतः । विच्छेदं सूचयन्नेकमप्रतिक्षिप्य वर्तते ॥ ३.१३१ ॥ यदान्यत्तेन स व्याप्त एकत्वेन च भासते । सामानधिकरण्यं स्यात्तदा बुद्धयनुरोधतः ॥ ३.१३२ ॥ वस्तुधर्मस्य संस्पर्शो विच्छेदकरणे ध्वनेः । स्यात्सत्यं स हि तत्रेति नैकवस्त्वभिधायिनि ॥ ३.१३३ ॥ बुद्धावभासमानस्य दृश्यस्याभावनिश्चयात् । तेनान्यापोहविषयाः प्रोक्ताः सामान्यागोचराः ॥ ३.१३४ ॥ शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसम्भवात् । एकत्वाद्वस्तुरूपस्य भिन्नरूपा मतिः कुतः ॥ ३.१३५ ॥ अन्वयव्यतिरेकौ वा नैकस्यैकार्थगोचरौ । अभेदव्यवहाराश्च भेदे स्युरनिबन्धनाः ॥ ३.१३६ ॥ सर्वत्र भावद्व्यावृत्तेर्नैते दोषाः प्रसङ्गिनः । एकाकार्येषु भावेषु तत्कार्यपरिचोदने ॥ ३.१३७ ॥ गौरवाशक्तिवैफल्याद्भेदाख्यायाः समा श्रुतिः । कृता बृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना ॥ ३.१३८ ॥ न भावे सर्वभावानां स्वस्वभावव्यवस्थितेः । यद्रूपं शाबलेयस्य बाहुलेयस्य नास्ति तत् ॥ ३.१३९ ॥ अतत्कार्यपरावृत्तिर्द्वयोरपि च विद्यते । अर्थाभेदेन च विना शब्दाभेदो न युज्यते ॥ ३.१४० ॥ तस्मात्तत्कार्यतापीष्टा तत्कार्यादेव भिन्नता । चक्षु रादौ यथा रूपविज्ञानैकफले क्वचित् ॥ ३.१४१ ॥ अविशेषेरेण तत्कार्यचोदनसम्भवे सति । सकृत्सर्वप्रतीत्यर्थ कश्चित्सांकेतिकीं श्रुतिम् ॥ ३.१४२ ॥ कुर्यादृतेऽपि तद्रू पसामान्याद्व्यतिरेकिणः । एकवृत्तेरनेकोऽपि यद्येकश्रुतिमान् भवेत् ॥ ३.१४३ ॥ वृत्तिराधेयता व्यक्तिरिति तस्मिन्न युज्यते । नित्यस्यानुपकार्यस्वान्नाधारः प्रविसर्पतः ॥ ३.१४४ ॥ शक्तिस्तद्देशजननं कुण्डादेर्बदरादिषु । न सम्भवति साप्यत्र तदभावेऽप्यवस्थितेः ॥ ३.१४५ ॥ न स्थितिः साप्ययुक्तैव भेदाभेदविवेचने । विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि यत् ॥ ३.१४६ ॥ तद्व्यङ्ग्यं योग्यतायाश्च कारणं कारकं मतम् । प्रागेवास्य च योग्यत्वे तदपेक्षा न युज्यते ॥ ३.१४७ ॥ सामान्यस्याविकार्यस्य तत्सामान्यवतः कुतः । अञ्जनादेरिव व्यक्तेः संस्कारो नेन्द्रियस्य च ॥ ३.१४८ ॥ प्रतिपत्तेरभिन्नत्वात्तद्भावाभावकालयोः । व्यञ्जकस्य च जातीनां जातिमत्ता यदीष्यते ॥ ३.१४९ ॥ प्राप्तो गोत्वादिना तद्वान् प्रदीपादिः प्रकाशकः । व्यक्तेरन्याथ वानन्या येषां जातिस्तु विद्यते ॥ ३.१५० ॥ तेषां व्यक्तिष्वपूर्वासु कथं सामान्यबुद्धयः । एकत्र तत्सतोऽन्यत्र दर्शनासम्भवात्सतः ॥ ३.१५१ ॥ अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात् । न याति न च तत्रासीदस्ति पश्चान्न चांशवत् ॥ ३.१५२ ॥ जहाति पूर्व नाधारमहो व्यसनसन्ततिः । अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ॥ ३.१५३ ॥ स्वस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तिमत् । यत्रासौ वर्त्तते भावस्तेन सम्बध्यतेऽपि न ॥ ३.१५४ ॥ तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् । व्यक्त्यैवैकत्र सा व्यक्ताअभेदात्सर्वत्रगा यदि ॥ ३.१५५ ॥ सर्वत्र दृश्येताभेदात्सापि न व्यक्तपेक्षिणी । ब्यञ्जकस्याप्रतीतौ न व्यङ्ग्यं सम्यक्प्रतीयते ॥ ३.१५६ ॥ विपर्ययः पुनः कस्मादिष्टः सामान्यतद्वतोः । पाचकादिष्वभिन्नेन विनाप्यर्थेन वाचकः ॥ ३.१५७ ॥ भेदान्न हेतुः कर्मास्य न जातिः कर्मसंश्रयात् । श्रुत्यन्तरनिमित्तत्वात्स्थित्यभावाच्चकर्मणः ॥ ३.१५८ ॥ असम्बन्धान्न सामान्यं नायुक्तं शब्दकारणात् । अतिप्रसंगात्कर्मापि नासत्ज्ञानाभिधानयोः ॥ ३.१५९ ॥ अनैमित्तिकतापत्तेः न च शक्तिरनन्वयात् । सामान्यं पाचकत्वादि यदि प्रागेव तद्भवेत् ॥ ३.१६० ॥ व्यक्तं सत्तदिवन्नो चेन्न पश्चादविशेषतः । क्रियोपकारापेक्षस्य व्यञ्जकत्वेऽविकारिणः ॥ ३.१६१ ॥ नापेक्षातिशयेऽप्यस्य क्षणिकत्वात्क्रिया कुतः । तुल्ये भेदे यया जाति प्रत्यासत्त्या प्रसर्पति ॥ ३.१६२ ॥ क्वचिन्नान्यत्र सैवास्तु शब्दज्ञाननिबन्धनम् । न निवृत्तिं विहायास्ति यदि भावान्वयोऽपरः ॥ ३.१६३ ॥ एकस्य कार्यमन्यस्य न स्यादत्यन्तभेदतः । यद्येकात्मतयानेकः कार्यस्यैकस्य कारकः ॥ ३.१६४ ॥ आत्मैकत्रापि वा सोऽस्तीति व्यर्थाः स्युः सहकारिणः । नपैत्यभिन्नं तद्रूपं विशेषाः खल्वपायिनः ॥ ३.१६५ ॥ एकापाये फलाभावाद्विशेषेभ्यस्तदुद्भवः । स पारमार्थिको भावो य एवार्थक्रियाक्षमः ॥ ३.१६६ ॥ स च नान्वेति योन्वेति न तस्मात्कार्यसम्भवः । तेनात्मनापि भेदे हि हेतुः कश्चिन्न चापरः ॥ ३.१६७ ॥ स्वभावोऽयमभेदे तु स्यातां नोशोद्भवौ सकृत् । भेदोऽपि तेन नैवं चेत्य एकस्मिन् विनश्यति ॥ ३.१६८ ॥ तिष्ठत्यात्मा न तस्यातो न स्यात्सामान्यभेदधीः । निवृत्तेर्निःस्वभावत्वात्नास्थानस्थानकल्पना ॥ ३.१६९ ॥ उपप्लवश्च सामान्यधियस्तेनाप्यदूषणा । यत्तस्य जनकं रूपं ततोऽन्यो जनकः कथम् ॥ ३.१७० ॥ भिन्ना विशेषा जनकाः अस्त्यभेदोऽपि तेषु चेत् । तेन तेऽजनकाः प्रोक्ताः प्रतिभासोऽपि भेदकः ॥ ३.१७१ ॥ अनन्यभाक्स एवार्थस्तस्य व्यावृत्तयोऽपरे । तत्कार्यकारणं चोक्तं तत्स्वलक्षणमिष्यते ॥ ३.१७२ ॥ तत्त्यागाप्तिफलाः सर्वाः पुरुषाणां प्रवृत्तयः । यथा भेदाविशेषेऽपि न सर्व सर्वसाधनम् ॥ ३.१७३ ॥ तथा भेदाविशेषेऽपि न सर्व सर्वसाधनम् । भेदे हि कारकं किञ्चिद्वस्तुधर्मतया भवेत् ॥ ३.१७४ ॥ अभेदे तु विरुध्यते तस्यैकस्य क्रियाक्रिये । भेदोऽप्यस्त्यक्रियातश्चेद्न कुर्युः सहकारिणः ॥ ३.१७५ ॥ पर्यायेणाथ कर्तृत्वं स किं तस्यैव वस्तुनः । अत्यन्तभेदाभेदौ तु स्यातां तद्वति वस्तुनि ॥ ३.१७६ ॥ अन्योन्यं वा तयोर्भेद्ः सदृशासदृशात्मनोः । तयोरपि भवेद्भेदो यदि येनात्मना तयोः ॥ ३.१७७ ॥ भेदः सामान्यमित्येतद्यदि भेदस्तदात्मना । भेद एव तथा च स्यान्निःसामान्यविशेषता ॥ ३.१७८ ॥ भेदसामान्ययोर्यद्वद्घटादीनां परस्परम् । यमात्मानं पुरस्कृत्य पुरुषोऽयं प्रवर्तते ॥ ३.१७९ ॥ तत्साध्यफलवाञ्छावान् भेदाभेदौ तदाश्रयौ । चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता ॥ ३.१८० ॥ अस्त्येव वस्तु नान्वेति प्रवृत्त्यादिप्रसङ्गतः । एतेनैव यदह्रीकाः किमप्यश्लीलमाकुलम् ॥ ३.१८१ ॥ प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम्भवात् । सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः ॥ ३.१८२ ॥ चोदितो दधि खादेति किमुष्ट्रं नाभिधावति । अथास्त्यतिशयः कश्चिद्येन भेदेन वर्त्तते ॥ ३.१८३ ॥ स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् । सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥ ३.१८४ ॥ भेदसंहारवादस्य तदभेदादसम्भवः । रूपाभावादभावस्य शब्दा रूपाभिधायिनः ॥ ३.१८५ ॥ नाशंक्या एव सिद्धास्तेऽतो व्यवच्छेदवाचकाः । उपाधिभेदापेक्षो वा स्वभावः केवलोऽथ वा ॥ ३.१८६ ॥ उच्यते साध्यसिद्ध्यर्थ नाशे कार्यत्वसत्त्ववत् । सत्तास्वभावो हेतुश्चेत्सा सत्ता साध्यते कथम् ॥ ३.१८७ ॥ अनन्वयो हि भेदानां व्याहतो हेतुसाध्ययोःः । भावोपादानमात्रे तु साध्ये सामान्यधर्मिणि ॥ ३.१८८ ॥ न कश्चिदर्थः सिद्धः स्यादनिषिद्धं च तादृशम् । उपात्तभेदे साध्येऽस्मिन् भवेद्धेतुरनन्वयः ॥ ३.१८९ ॥ सत्तायां तेन साध्यायां विशेषः साधितो भवेत् । अपरामृष्टतद्भेदे वस्तुमात्रे तु साधने ॥ ३.१९० ॥ तन्मात्रव्यापिनः साध्यस्यान्वयो न विहन्यते । नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः ॥ ३.१९१ ॥ धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् । सिद्धः स्वभावो गमको व्यापकस्तस्य निश्चितः ॥ ३.१९२ ॥ गम्यः स्वभावस्तस्यायं निवृत्तौ वा निवर्तकः । अनित्यत्वे यथा कार्यमकार्य वाविनाशिनि ॥ ३.१९३ ॥ अहेतुत्वाद्विनाशस्य स्वभावादनुबन्धिता । सापेक्षाणां हि भावानां नावश्यम्भावितेक्ष्यते ॥ ३.१९४ ॥ बाहुल्येऽपि हि तद्धेतोर्भवेत्क्वचिदसम्भवः । एतेन व्यभिचारित्वमुक्तं कार्याव्यवस्थितेः ॥ ३.१९५ ॥ सर्वेषां नाशहेतूनां हेतुमन्नाशवादिनाम् । असामर्थ्याच्च तद्धेतोर्भवत्येव स्वभावतः ॥ ३.१९६ ॥ यत्र नाम भवत्यस्मादन्यत्रापि स्वभावतः । या काचिद्भावविषयानुमितिर्द्विविधैव सा ॥ ३.१९७ ॥ स्वसाध्ये कार्यभावाभ्यां सम्बन्धनियमात्तयोः । प्रवृत्तेर्बुद्धिपूर्वत्वात्तद्भावानुपलम्भने ॥ ३.१९८ ॥ प्रवर्त्तितव्यं नेत्युक्तानुपलब्धेः प्रमाणता । शास्त्राधिकारेऽसम्बद्धा बहवोऽर्था अतीन्द्रियाः ॥ ३.१९९ ॥ अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धितः । सदसन्निश्चयफला नेति स्याद्वाप्रमाणता ॥ ३.२०० ॥ प्रमाणमपि काचित्स्याद्लिङ्गातिशयभाविनी । स्वभावज्ञापकाज्ञानस्यायं न्याय उदाहृतः ॥ ३.२०१ ॥ कार्ये तु कारकाज्ञानम्भावस्यैव साधकम् । स्वभावानुपलम्भश्च स्वभावेऽर्थस्य लिङ्गिनि ॥ ३.२०२ ॥ तदभावः प्रतीयेत हेतुना यदि केनचित् । दृश्यस्य दर्शनाभावकारणासम्भवे सति ॥ ३.२०३ ॥ भावस्यानुपलब्धस्य भावाभावः प्रतीयते । विरुद्धस्य च भावस्य भावे तद्भावबाधनात् ॥ ३.२०४ ॥ तद्विरुद्धोपलब्धौ स्यादसत्ताया विनिश्चयः । अनादिवासनोद्भूतविकल्पपरिनिष्ठितः ॥ ३.२०५ ॥ शब्दार्थस्त्रिविधो धर्मी भावाभावोभयाश्रयः । तस्मिन् भावानुपादाने साध्येऽस्यानुपलम्भनम् ॥ ३.२०६ ॥ तथा हेतुर्न तस्यवाभावः शब्दप्रयोगतः । परमार्थैकतानत्वे शब्दानामनिबन्धना ॥ ३.२०७ ॥ न स्यात्प्रवृत्तिरर्थेषु दर्शनान्तरभेदिषु । अतीताजातयोर्वापि न च स्यादनृतार्थता ॥ ३.२०८ ॥ वाचः कस्याश्चिदित्येषा बैद्धार्थविषया मता । शब्दार्थापह्नवे साध्ये धर्माधारनिराकृतेः ॥ ३.२०९ ॥ न साध्यः समुदायः स्यात्सिद्धौ धर्मश्च केवलः । सदसत्पक्षभेदेन शब्दार्थानपवादिभिः ॥ ३.२१० ॥ वस्त्वेव चित्यते ह्यत्र प्रतिबद्धः फलोदयः । अर्थक्रियासमर्थस्य विचारैः किं परीक्षया ॥ ३.२११ ॥ षण्ढस्य रूपे वैरूप्ये कामिन्याः किं परीक्षया । शब्दार्थः कल्पनाज्ञानविषयत्वेन कल्पितः ॥ ३.२१२ ॥ धर्मो वस्त्वाश्रयासिद्धिरस्योक्तो न्यायवादिना । नान्तरीयकताभावाच्छब्दानां वस्तुभिस्सह ॥ ३.२१३ ॥ नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः । आप्तवादाविसंवादसामान्यादनुमानता ॥ ३.२१४ ॥ सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम् । परीक्षाधिकृतं वाक्यमतोऽनधिकृतं परम् ॥ ३.२१५ ॥ प्रतक्षेणानुमानेन द्विविधेनाप्यबाधनम् । दृष्टादृष्टाथैरोरस्याविसंवादस्तदर्थयोः ॥ ३.२१६ ॥ आप्तवादाविसंवादसामान्यादनुमानता । बुद्धेरगत्याभिहिता निषिद्धाप्यस्य गोचरे ॥ ३.२१७ ॥ हेयोपादेयतत्त्वस्य सोपायस्य प्रसिद्धितः । प्रधानार्थाविसंवादादनुमानं परत्र वा ॥ ३.२१८ ॥ पुरुषातिशयापेक्षं यथार्थमपरे बिदुः । इष्टोऽयमर्थः प्रत्येतुं शक्यः सोऽतिशयो यदि ॥ ३.२१९ ॥ अयमेवं न वेत्यन्यदोषा निर्दोषतापि वा । दुर्लभत्वात्प्रमाणानां दुर्बोधेत्यपरे विदुः ॥ ३.२२० ॥ सर्वेषां सविपक्षत्वान्निर्ह्रासातिशयश्रिताम् । सात्मीभावात्तदभ्यासाद्दीयेरन्नास्रवाः क्वचित् ॥ ३.२२१ ॥ निरुपद्रवभूताथस्वभावस्य विपर्ययैः । न बाधा यत्नवप्वेऽपि बुद्धेस्तस्पक्षपाततः ॥ ३.२२२ ॥ सर्वासां दोषजातीनां जातिः सत्कायदर्शनात् । साविद्या तत्र तत्स्नेहस्तस्माद्द्वेषादिसम्भवः ॥ ३.२२३ ॥ मोहो निदानं दोषाणामत एवाभिधीयते । सत्कायदृष्टिरन्यत्र तत्प्रहाणे प्रहाणतः ॥ ३.२२४ ॥ गिरां मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात् । अपौरुषेयं सत्यार्थमिति केचित्प्रचक्षते ॥ ३.२२५ ॥ गिरां सत्यत्वहेतूनां गुणानां पुरुषाश्रयात् । अपौरुषेयं मिथ्यार्थ किं नेत्यन्ये प्रचक्षते ॥ ३.२२६ ॥ अर्थज्ञानपनहेतुर्हि संकेतः पुरुषाश्रयः । गिरामपौरुषेयत्वेऽप्यतो मिथ्यात्वसम्भवः ॥ ३.२२७ ॥ सम्बन्धापौरुषेयत्वे स्यात्प्रतीतिरसंविदः । संकेतात्तदभिव्यक्तावसमर्थान्यकल्पना ॥ ३.२२८ ॥ गिरामेकार्थनियमे न स्यादर्थान्तरे गतिः । अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥ ३.२२९ ॥ अपौरुषेयतायाश्च व्यर्था स्यात्परिकल्पना । वाच्यश्च हेतुर्भिन्नानां सम्बन्धस्य व्यवस्थितेः ॥ ३.२३० ॥ असंस्कार्यतया पुम्भिः सर्वथा स्यान्निरर्थता । संस्कारोपगमे मुख्यं गजस्नानमिदं भवेत् ॥ ३.२३१ ॥ सम्बन्धिनामनित्यत्वान्न सम्बन्धेऽस्ति नित्यता । नित्यस्यानुपकार्यत्वादकुर्वाणश्च नाश्रयः ॥ ३.२३२ ॥ अर्थेरतः स शब्दानां संस्कार्यः पुरुषैर्धिया । अर्थैरेव सहोत्पादे न स्वभावविपर्ययः ॥ ३.२३३ ॥ शब्देषु युक्तः सम्बन्धे नायं दोषो विकल्पिते । नित्यत्वादाश्रयापायेऽप्यनाशो यदि जातिवत् ॥ ३.२३४ ॥ नित्येष्वाश्रयसामथ्र्य किं येनेष्टः स चाश्रयः । ज्ञानोत्पादनहेतूनां सम्बन्धात्सहकारिणाम् ॥ ३.२३५ ॥ तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते । घटादिष्वपि युक्तिज्ञैः अविशेषेऽविकारिणाम् ॥ ३.२३६ ॥ व्यञ्जकैः स्वैः कृतः कोऽर्थो व्यक्तास्तैस्ते यतो मताः । सम्बन्धस्य च वस्तुत्वे स्याद्भेदाद्बुद्धिचित्रता ॥ ३.२३७ ॥ ताभ्यामभेदे तावेव नातोऽन्या वस्तुनो गतिः । भिन्नात्वाद्वस्तुरूपस्य सबन्धः कल्पनाकृतः ॥ ३.२३८ ॥ सद्द्रव्यं स्यात्पराधीनं सम्बन्धोऽन्यस्य वा कथम् । वर्णा निरर्थकाः सन्तः पदादि परिकल्पितम् ॥ ३.२३९ ॥ अवस्तुनि कथं वृत्तिः सम्बन्धस्यास्य वस्तुनः । अपौरुषेयतापीष्टा कर्तृणामस्मृतेः किल ॥ ३.२४० ॥ सन्त्यस्याप्यनुवक्तार इति धिग्व्यापकं तमः । यथायमन्यतोऽश्रुत्वा नेमं वर्णपदक्रमम् ॥ ३.२४१ ॥ वस्तुं समर्थः पुरुषस्तथान्योऽपीति कश्चन । अन्यो वा रचितो ग्रन्थः सम्प्रदायादृते परैः ॥ ३.२४२ ॥ दृष्टः कोऽभिहितो येन सोऽप्येवं नानुमीयते । यज्जातीयो यतः सिद्धः सोऽविशिष्टोऽग्निकाष्ठवत् ॥ ३.२४३ ॥ अदृष्टहेतुरप्यन्यस्तद्भवः सम्प्रतीयते । तत्राप्रदर्श्य ये भेदं कार्यसामान्यदर्शनात् ॥ ३.२४४ ॥ हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः । सर्वथानादिता सिध्येदेवं नापुरुषाश्रयः ॥ ३.२४५ ॥ तस्मादपौरुषेयत्वे स्यादन्योऽप्यनराश्रयः । म्लेच्छदिव्यवहाराणां नास्तिक्यवचसामपि ॥ ३.२४६ ॥ अनादित्वाद्तथाभावः पूर्वसंस्कारसन्ततेः । तादृशेऽपौरुषेयत्वे कः सिद्धेऽपि गुणो भवेत् ॥ ३.२४७ ॥ अर्थसंस्कारभेदानां दर्शनात्संशयः पुनः । अन्याविशेषाद्वर्णानां साधने कि फलं भवेत् ॥ ३.२४८ ॥ वाक्यं भिन्नं न वर्णेभ्यो विद्यतेऽनुपलम्भतः । अनेकावयवात्मत्वे पृथक्तेषां निरर्थता ॥ ३.२४९ ॥ अतद्रूपे च ताद्रूप्यं कल्पितं सिंहतादिवत् । प्रत्येकं सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना ॥ ३.२५० ॥ एकावयवगत्या च वाक्यार्थप्रतिपद्भवेत् । सकृच्छ्रुतौ च सर्वेषा कालभेदो न युज्यते ॥ ३.२५१ ॥ एकत्वेऽपि ह्यभिन्नस्य क्रमशो गत्यसम्भवात् । अनित्यं यत्नसम्भूतं पौरुषेयं कथं न तत् ॥ ३.२५२ ॥ नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात् । अश्रुतिर्विकलत्वाच्चेत्कस्यचित्सहकारिणः ॥ ३.२५३ ॥ काममन्यप्रतीक्षास्तु नियमस्तु विरुध्यते । सर्वत्रानुपलम्भः स्यात्तेषामव्यापिता यदि ॥ ३.२५४ ॥ सर्वेषामुपलम्भः स्यात्युगपद्व्यापिता यदि । संस्कृतस्योपलम्भे च कः संस्कर्त्ताविकारिणः ॥ ३.२५५ ॥ इन्द्रियस्य स्यात्संस्कारः श्रृणुयान्निखिलं च तत् । संस्कारभेदभिन्नत्वादेकार्थनियमो यदि ॥ ३.२५६ ॥ अनेकशब्दसंधाते श्रुतिः कलकले कथम् । ध्वनथः केवलं तत्र श्रू यन्ते चेन्न वाचकाः ॥ ३.२५७ ॥ ध्वनिभ्यो भिन्नमस्तीति श्रद्धेयमतिबह्विदम् । स्थितेष्वन्येषु शब्देषु श्रूयते वाचकः कथम् ॥ ३.२५८ ॥ कथं वा शक्तिनियमाद्भिन्नध्वनिगतिर्भवेत् । ध्वनयः सम्मता यैस्ते दोषैः कैरप्यवाचकाः ॥ ३.२५९ ॥ ध्वनिभिर्व्यज्यमानेऽस्मिन् वाचकेऽपि कथं न ते । वर्णानुपूर्वी वाक्यं चेन्न वर्णानामभेदतः ॥ ३.२६० ॥ तेषां च न व्यवस्थानं क्रमान्तरविरोधतः । देशकालक्रमाभावो व्याप्तिनित्यत्ववर्णनात् ॥ ३.२६१ ॥ अनित्याव्यापितायां च दोषः प्रागेव कीर्तितः । व्यक्तिक्रमोऽपि वाक्यं न नित्यव्यक्तिनिराकृतेः ॥ ३.२६२ ॥ व्यापारदेव तत्सिद्धे कारणानां च कार्यता । स्वज्ञानेनान्यधीहेतुः सिद्धेऽर्थे व्यञ्जको मतः ॥ ३.२६३ ॥ यथा दीपोऽन्यथा वापि को विशेषोऽस्य कारकात् । करणानां समग्राणां व्यापारादुपलब्धितः ॥ ३.२६४ ॥ नियमेन च कार्यत्वं व्यञ्जके तदसम्भवात् । तद्रू पावरणानां च व्यक्तिस्ते विगमो यदि ॥ ३.२६५ ॥ अभावे करणग्रामसामर्थ्य किं नु तद्भवेत् । शब्दविशेषादन्येषामपि व्यक्तिः प्रसज्यते ॥ ३.२६६ ॥ तथाम्युपगमे सर्वकारणानां निरर्थता । साधनं प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम् ॥ ३.२६७ ॥ अनुदाहरणं सर्वभावानां क्षणभङ्गतः । दूष्यः कुहेतुरन्योऽपि बुद्धेरपुरुषाश्रये ॥ ३.२६८ ॥ बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितैः समम् । आनुपूर्व्याश्च वर्णेभ्यो भेदः स्fओटेन चिन्तितः ॥ ३.२६९ ॥ कल्पनारोपिता सा स्यात्कथं वापुरुषाश्रया । सत्तामात्रानुबन्धित्वात्नाशस्यानित्यता ध्वनेः ॥ ३.२७० ॥ अग्नेरर्थान्तरोत्पत्तौ भवेत्काष्ठस्य दर्शनम् । अविनाशात्स एवास्य विनाश इति चेत्कथम् ॥ ३.२७१ ॥ अन्योऽन्यस्य विनाशोऽस्तु काष्ठं कस्मान्न दृश्यते । तत्परिग्रहतश्चेन्न तेनानावरणं यतः ॥ ३.२७२ ॥ विनाशस्य विनाशित्वं स्यादुत्पत्तेस्ततः पुनः । काष्ठस्य दर्शनं हन्तृघाते चैत्रापुनर्भवः ॥ ३.२७३ ॥ यथात्राप्येवमिति चेथन्तुर्नामरणत्वतः । अनन्यत्वे विनाशस्य स्यान्नाशः काष्ठमेव तु ॥ ३.२७४ ॥ तस्य तत्त्वादहेतुत्वं नातोऽन्या विद्यते गतिः । अहेतुत्वेऽपि नाशस्य नित्यत्वाद्भावनाशयोः ॥ ३.२७५ ॥ सहभावप्रसङ्गश्चेदसतो नित्यता कुतः । असत्त्वेऽभावनाशित्वप्रसङ्गोऽपि न युज्यते ॥ ३.२७६ ॥ नाशेन यस्माद्भावस्य न विनाशनमिष्यते । नश्यन् भावोऽपरापेक्ष इति तज्ज्ञापनाय सा ॥ ३.२७७ ॥ अवस्था हेतुरुक्तास्या भेदमारोप्य चेतसा । स्वतोऽपि भावेऽभावस्य विकल्पश्चेदयं समः ॥ ३.२७८ ॥ न तस्य किञ्चिद्भवति न भवत्येव केवलम् । भावे ह्येष विकल्पः स्याद्विद्येर्वस्त्वनुरिधतः ॥ ३.२७९ ॥ न भावो भवतीत्युक्तमभावो भवतीति न । अपेक्ष्येत परः कार्य यदि विद्येत किञ्चन ॥ ३.२८० ॥ यदकिञ्चित्करं वस्तु किं केनचिदपेक्ष्यते । एतेनाहेतुकत्वेऽपि ह्यभूत्वा नाशभावतः ॥ ३.२८१ ॥ सत्तानाअशित्वदोषस्य प्रत्याख्यातं प्रसञ्जनम् । यथा केषाञ्चिदेवेष्टः प्रतिघो जन्मिनां यथा ॥ ३.२८२ ॥ नाशः स्वभावो भावानां नानुत्पत्तिमतां यदि । स्वभावनियमाद्धेतोः स्वभावनियमः फले ॥ ३.२८३ ॥ नानित्ये रूपभेदोऽस्ति भेदकानामभावतः । प्रत्याख्येयात एवैषां सम्बन्धस्यापि नित्यता ॥ ३.२८४ ॥ सम्बन्धदोषैः प्रागुक्तैः शब्दशक्तिश्च दूषिता । नापौरुषेयमित्येव यथार्थज्ञानसाधनम् ॥ ३.२८५ ॥ दृष्टोऽन्यथापि वह्न्यादिरदुष्टः पुरुषागसा । न ज्ञानहेतुतैव स्यात्तस्मिन्नकृतके मते ॥ ३.२८६ ॥ नित्येभ्यो वस्तुसामर्थ्यात्न हि जन्मास्ति कस्यचित् । विकल्पवासनोद्भूताः समारोपितगोचराः ॥ ३.२८७ ॥ जायन्ते बुद्धयस्तत्र केवलं नार्थगोचराः । मिथ्यात्वं कृतकेष्वेव दृष्टमित्यकृतं वचः ॥ ३.२८८ ॥ सत्यार्थ व्यतिरेकस्य विरोधिव्यापनाद्यदि । हेतावसम्भवेऽनुक्ते भावस्तस्यापि शङ्क्यते ॥ ३.२८९ ॥ विरुद्धानां पदार्थानामपि व्यापकदर्शनात् । नासत्तासिद्धिरित्युक्तं सर्वतोऽनुपलम्भनात् ॥ ३.२९० ॥ असिद्धायामसत्तायां सन्दिग्धा व्यतिरेकिता । अन्वयो व्यतिरेको वा सत्त्वं वा साध्यधर्मिणि ॥ ३.२९१ ॥ तन्निश्चयफलैर्जानैः सिद्ध्यन्ति यदि साधनम् । यत्र साध्यविपक्षस्य वर्ण्यते व्यतिरेकिता ॥ ३.२९२ ॥ स एवास्य सपक्षः स्यात्सर्वो हेतुरतोन्वयी । समयत्वे हि मन्त्राणां कस्यचित्कार्यसाधनम् ॥ ३.२९३ ॥ अथापि भावशक्तिः स्यादन्यथाप्यविशेषतः । क्रमस्यार्थान्तरत्वं च पूर्वमेव निराकृतम् ॥ ३.२९४ ॥ नित्यं तदर्थसिद्धिः स्यादसामर्थ्यमपेक्षणे । सर्वस्य साधनं ते स्युर्भावशक्तिर्यदीदृशी ॥ ३.२९५ ॥ प्रयोक्तृभेदापेक्षा च नासंस्कार्यस्य युज्यते । संस्कार्यस्यापि भावस्य वस्तुभेदो हि भेदकः ॥ ३.२९६ ॥ प्रयोक्तृभेदान्नियमः शक्तौ न समये भवेत् । अनाधेयविशेषाणां कि कुर्वाणः प्रयोजकः ॥ ३.२९७ ॥ प्रयोगो यद्यभिव्यक्तिः सा प्रागेव निराकृता । व्यक्तिश्च बुद्धिः सा यस्मात्स फलैर्यदि युज्जते ॥ ३.२९८ ॥ स्याच्छ्रोतुः फलसम्बन्धो वक्ता हि व्यक्तिकारणम् । अनभिव्यक्तशब्दानां करणानां प्रयोजनम् ॥ ३.२९९ ॥ मनोजपो वा व्यर्थः स्याच्छब्दो हि श्रोत्रगोचरः । पारम्पर्येण तज्जत्वात्तद्व्यक्तिः सापि चेन्मतिः ॥ ३.३०० ॥ तेऽपि तथा स्युस्तदर्था चेदसिद्धं कल्पनान्वयात् । स्वसामान्यस्वभावानामेकभावविवक्षया ॥ ३.३०१ ॥ उक्तेः समयकाराणामविरोधो न वस्तुनि । आनुपूर्व्यामसत्यां स्यात्सरो रस इति श्रुतो ॥ ३.३०२ ॥ न कार्यभेद इति चेदस्ति सा पुरुषाश्रया । यो यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनिः ॥ ३.३०३ ॥ जायते तदुपाधिः स श्रु त्या समवसीयते । तज्ज्ञानजनितज्ञानः स श्रु तावपटुश्रुतिः ॥ ३.३०४ ॥ अपेक्ष्य तस्मृतिं पश्चात्स्मृतिमाधत्त आत्मनि । इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम् ॥ ३.३०५ ॥ कार्यकारणता वर्णेष्वानुपूर्वीति कथ्यते । अन्यदेव ततो रूपं तद्वर्णानां पदे पदे ॥ ३.३०६ ॥ कर्तृ संस्कारतो भिन्नं सहितं कार्यभेदकृत् । सा चानुपूर्वी वर्णानां प्रवृत्ता रचनाकृतः ॥ ३.३०७ ॥ इच्छाविरुद्धसिद्धीनां स्थितक्रमविरोधतः । कार्यकारणतासिद्धेः पुम्भ्यो वर्णक्रमस्य च ॥ ३.३०८ ॥ सर्वो वर्णक्रमः पुभ्यो दहनेन्धनयुक्तिवत् । असाधारणता सिद्धा मन्त्राख्यक्रमकारिणाम् ॥ ३.३०९ ॥ पुंसां ज्ञानप्रभावाभ्यामन्येषां तदभावतः । येऽपि तन्त्रविदः केचिद्मन्त्रान् कांश्चन कुवंते ॥ ३.३१० ॥ प्रभोः प्रभावस्तेषां स तदुक्तन्यायवृत्तितः । कृतकाः पौरुषेयाश्च मन्त्रा वाच्याः फलेप्सुना ॥ ३.३११ ॥ अशक्तिसाधनं पुंसामनेनैव निराकृतम् । बुद्धीन्द्रियोक्तिपुं स्त्वादिसाधनं यत्तु वर्ण्यते ॥ ३.३१२ ॥ प्रमाणाभं यथार्थास्ति न हि शेषवतो गतिः । अर्थोऽयं नायमर्थो न इति शब्दा वदन्ति न ॥ ३.३१३ ॥ कल्प्योऽयमर्थः पुरुषैस्ते च रागादिसंयुताः । तत्रैकस्तत्त्वविन्नान्य इति भेदश्च किंकृतः ॥ ३.३१४ ॥ तद्व्त्पुंस्त्वे कथमपि ज्ञानी कश्चित्कथ न वः । यस्य प्रमाणमविसंवादि वचनं सोऽर्थविद्यदि ॥ ३.३१५ ॥ न ह्यत्यन्तपरोक्षेषु प्रामाणस्यास्ति सम्भवः । यस्य प्रामाणसंवादि वचनं तत्कृतं वचः ॥ ३.३१६ ॥ स आगमिति प्राप्तं निरर्थापौरुषेयता । यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भवः ॥ ३.३१७ ॥ अतीन्द्रियार्थवित्कश्चिदस्तीत्यभिमतं भवेत् । स्वयं रागादिमान्नार्थ वेत्ति वेदस्य नान्यतः ॥ ३.३१८ ॥ न वेदयति वदोऽपि वेदार्थस्य कुतो गतिः । तेनाग्निहोत्रं जुहुयात्स्वर्गकाम इति श्रुतौ ॥ ३.३१९ ॥ खादेत्श्वमांसमित्येष नार्थ इत्यत्र का प्रमा । प्रसिद्धो लोकवादश्चेत्तत्र कोऽतीन्द्रियार्थदृक् ॥ ३.३२० ॥ अनेकार्थेषु शब्देषु येनार्थोऽयं विवेचितः । स्वर्गोर्वश्यादिशब्दश्च दृष्टोऽरूढार्थवाचकः ॥ ३.३२१ ॥ शब्दान्तरेषु तादृक्षु तादृश्येवास्तु कल्पना । प्रसिद्धिश्च नृणां वादः प्रमाणं स च नेष्यते ॥ ३.३२२ ॥ ततश्च भूयोऽर्थगतिः किमेतद्द्विष्ठकामितम् । अथ प्रसिद्धिमुल्लंध्य कल्पने न निबन्धनम् ॥ ३.३२३ ॥ प्रसिद्धेरप्रमाणत्वात्तद्ग्रहे किं निबन्धनम् । उत्पादिता प्रसिद्ध्यैव शंका शब्दार्थनिश्चये ॥ ३.३२४ ॥ यस्मान्नानार्थवृत्तित्वं शब्दानां तत्र दृश्यते । अन्यथासम्भवाभवात्नानाशक्तेः स्वयं ध्वनेः ॥ ३.३२५ ॥ अवश्यं शंकया भाव्यं नियामकमपश्यताम् । एष स्थाणुरयं मार्ग इति वक्तीति कश्चन ॥ ३.३२६ ॥ अन्यः स्वयं ब्रवीमीति तयोर्भेदः परीक्ष्यताम् । सर्वत्र योग्यस्यैकार्थद्योतने नियमः कुतः ॥ ३.३२७ ॥ ज्ञाता वातीन्द्रियाः केन विवक्षावचनादृते । विवक्षानियमे हेतुः संकेतस्तत्प्रकाशनः ॥ ३.३२८ ॥ अपौरुषेयै सा नास्ति तस्य सैकार्थता कुतः । स्वभावनियमेऽन्यत्र न योज्येत तया पुनः ॥ ३.३२९ ॥ संकेतश्च निरर्थः स्याद्व्यक्तौ च नियमः कुतः । यत्र स्वातन्त्र्यमिच्छाया नियमो नाम तत्र कः ॥ ३.३३० ॥ द्योतयेत्तेन संकेतो नेष्टामेवास्य योग्यताम् । यस्मात्किलेदृशं सत्यं यथाग्निः शीतनोदनः ॥ ३.३३१ ॥ वाक्यं वेदैकदेशत्वादन्यदप्यपरो ब्रवीत् । रसवत्तुल्यरूपत्वादेकभाण्डे च पाकवत् ॥ ३.३३२ ॥ शेषवद्व्यभिचारित्वात्क्षिप्तं न्यायविदेदृशम् । नित्यस्य पुंसः कर्तृत्वं नित्यान् भावानतीन्द्रियान् ॥ ३.३३३ ॥ एब्न्रियान् विषमं हेतुं भावानां विषमां स्थितिम् । निवृत्तिं च प्रमाणाभ्यामन्यद्वा व्यस्तगोचरम् ॥ ३.३३४ ॥ विरुद्धमागमापेक्षेणानुमानेन वा वदत् । विरोधमसमाधाय शास्त्रार्थ चाप्रदर्श्य सः ॥ ३.३३५ ॥ सत्यार्थ प्रतिजानानो जयेद्धार्ष्ट्येन बन्धकीम् । सिध्येत्प्रमाणं यद्येवमप्रमाणमथेह किम् ॥ ३.३३६ ॥ न ह्योकं नास्ति सत्यार्थ पुरुषे बहुभाषीणि । नायं स्वभावः कार्य वा वस्तूनां वक्तरि ध्वनिः ॥ ३.३३७ ॥ न च तद्व्यतिरिक्तस्य विद्यतेऽव्यभिचारिता । प्रवृत्तिर्वाचकानां च वाच्यदृष्टिकृतेति चेत् ॥ ३.३३८ ॥ परस्परविरुद्धार्था कथमेकत्र सा भवेत् । वस्तुभिर्नागमास्तेन कर्थाञ्चान्नान्तरीयकाः ॥ ३.३३९ ॥ प्रतिपत्तुर्न सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चयः । तस्मान्न तन्निवृत्त्यापि भावाभावः प्रसिध्यति ॥ ३.३४० ॥ तेनासन्निश्चयफलानुपलब्धिर्नसिध्यति । परार्थानुमाननामा चतुर्थः परिच्छेदः परस्य प्रतिपाद्यत्वातदृष्टोऽपि स्वयं परैः । दृष्टसाधनमित्येके तत्क्षेपायात्मदृग्वचः ॥ ४.१ ॥ अनुमाविषये नेष्टं परीक्षितपरिग्रहात् । वाचः प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते ॥ ४.२ ॥ बाधनायागमस्योक्तेः साधनस्य परं प्रति । सोऽप्रमाणं तदासिद्धं तत्सिद्धमखिलं ततः ॥ ४.३ ॥ तदागमवतः सिद्धं यदि कस्य क आगमः । बाध्यमानः प्रमाणेन स सिद्धः कथामागमः ॥ ४.४ ॥ तद्विरुद्धाभ्युपगमस्तेनैव च कथं भवेत् । तदन्योपगमे तस्य त्यागांस्याप्रमाणाता ॥ ४.५ ॥ तत्कस्मात्साधनं नोक्तं स्वप्रतीतिर्यदुद्भवा । युक्त्या ययागमो ग्राह्यः परस्यापि च सा न किम् ॥ ४.६ ॥ प्राकृतस्य सतः प्राग्यैः प्रतिपत्त्यक्षसम्भवो । साधनैः साधनान्यर्थसक्तिज्ञानेऽस्य तान्यलम् ॥ ४.७ ॥ विच्छिन्नानुगमा येऽपि सामान्येनाप्यगोचराः । साध्यसाधनचिन्तास्ति न तेष्वर्थेषु काचन ॥ ४.८ ॥ पुंसामभिप्रायवशात्तत्त्वातत्त्वव्यवस्थितौ । लुप्तौ हेतुतदाभासौ तस्य वस्त्वसमाश्रयात् ॥ ४.९ ॥ सन्नर्थो ज्ञानसापेक्षो नासन् ज्ञानेन साधकः । सतोऽपि वस्त्वसंश्लिष्टासंगत्या सदृशी गतिः ॥ ४.१० ॥ लिङ्गं स्वभावः कार्य वा दृश्यादर्शनमेव वा । सम्बद्धं वस्तुतस्सिद्धं तदसिद्धं किमात्मनः ॥ ४.११ ॥ परेणाप्यन्यतो गन्तुमयुक्तं परकल्पितैः । प्रसङ्गो द्वयसम्बन्धादेकापायेऽन्यहानये ॥ ४.१२ ॥ तदर्थग्रहणं शब्दकल्पनारोपितात्मनाम् । अलिङ्गत्वप्रसिद्धयर्थमर्थादर्थस्य सिद्धितः ॥ ४.१३ ॥ कल्पनागमयोः कर्तु रिच्छमात्रानुवृत्तितः । वस्तुनश्चान्यथाभावात्तत्कृता व्यभिचारिणः ॥ ४.१४ ॥ अर्थादर्थगतेः शक्तिः पक्षहेत्वभिधानयोः । नार्थे तेन तयोर्नास्ति स्वतः साधनसंस्थितिः ॥ ४.१५ ॥ तत्पक्षवचनं वक्तुरभिप्रायनिवेदने । प्रमाणं संशयोत्पत्तेस्ततः साक्षान्न साधनम् ॥ ४.१६ ॥ साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम् । शक्तस्य सूचकं हेतुवचोऽशक्तमपि स्वयम् ॥ ४.१७ ॥ हेत्वर्थविषयत्वेन तदशक्तोक्तिरीरिता । शक्तिस्तस्यापि चेद्धेतुवचनस्य प्रवर्त्तनात् ॥ ४.१८ ॥ तत्संशयेन जिज्ञासोर्भवेत्प्रकरणाश्रयः । विपक्षोपगमेऽयेतत्तुल्यमित्यनवस्थिनिः ॥ ४.१९ ॥ अन्तरङ्गं तु सामर्थ्य त्रिषु रूपेषु संस्थितम् । तत्र स्मृतिसमाधानं तदेअचस्येव संस्थितम् ॥ ४.२० ॥ अख्यापिते हि विषये हेतुवृत्तेरसम्भवात् । विषयख्यापनादेव सिद्धौ चेत्तस्य शक्तता ॥ ४.२१ ॥ उक्तमत्र विनाप्यस्मात्कृतकः शब्द ईदृशाः । सर्वेऽनित्या इत्प्रोक्तेऽप्यर्थात्तन्नाशधीर्भवेत् ॥ ४.२२ ॥ अनुक्तावपि पक्षस्य सिद्धेप्रतिबन्धतः । त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यू नतोदिता ॥ ४.२३ ॥ साध्योक्तिं वा प्रतिज्ञां स वदन् दोषैर्न युज्यते । साधनाधिकृतेरेव हेत्वाभासाप्रसङ्गतः ॥ ४.२४ ॥ अविशेषोक्तिरप्येकजातीये संशयावहा । अन्यथा सर्वसाध्योक्तेः प्रतिज्ञात्वं प्रसज्यते ॥ ४.२५ ॥ सिद्धोक्तेः साधनत्वाच्च परस्यापि न दुष्यति । इदानीं साध्यनिर्देशः साधनावयवः कथम् ॥ ४.२६ ॥ साभासोक्त्याद्युपक्षेपपरिहारविडम्बना । असम्बद्धा तथा ह्येष न न्याय्य इति वर्णितम् ॥ ४.२७ ॥ गम्यार्थत्वेऽपि साध्योक्तेरसम्मोहाय लक्षणम् । तच्चुतुर्लक्षणं रूपनिपातेषु स्वयंपदैः ॥ ४.२८ ॥ असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रहः । अनुक्तोऽपीच्छया व्याप्तः साध्य आत्मार्थवन्मतः ॥ ४.२९ ॥ सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम् । वृत्तो स्वयंश्रुतेनाह कृता चैषा तदर्थिका ॥ ४.३० ॥ विशेषस्तद्व्यपेक्षत्वात्कथितो धर्मधर्मिणोः । अनुक्तावपि वाञ्छाया भवेत्प्रकरणाद्गतिः ॥ ४.३१ ॥ अनन्वयोऽपि दृष्टान्ते दोषस्तस्य यथोदितम् । आत्मा परश्चेत्सोऽसिद्धः इति तत्रेष्टघातकृत् ॥ ४.३२ ॥ साधनं यद्विवादे न न्यस्तं तच्चेन्न साध्यते । किं साध्यमन्यथानिष्टं भवेद्वैफल्यमेव वा ॥ ४.३३ ॥ सद्वितीयप्रयोगेषु निरन्वयविरुद्धते । एतेन कथिते साध्यं सामान्येनाथ सम्मतम् ॥ ४.३४ ॥ तदेवार्थान्तराभावाद्देहानाप्तौ न सिध्यति । वाच्यशून्यं प्रलपतां तदेतज्जाड्यवर्णितम् ॥ ४.३५ ॥ तुल्यं नाशेऽपि चेच्छब्दघटभेदेन कल्पने । न सिद्धेन विनाशेन तद्वतः साधनाद्ध्वनेः ॥ ४.३६ ॥ तथार्थान्तरभावे स्यात्तद्वान् कुम्भोऽप्यनित्यता । विशिष्टा ध्वनिनान्वेति नो चेन्नायोगवारणात् ॥ ४.३७ ॥ द्विविधो हि व्यवच्छेदो वियोगापरयोगयोः । व्यव्छेदादयोगे तु वार्ये नानन्वयागमः ॥ ४.३८ ॥ सामान्यमेव तत्साध्यं न च सिद्धप्रसाधनम् । विशिष्टं धर्मिणा तच्च न निरन्वयदोषवत् ॥ ४.३९ ॥ एतेन धर्मिधर्माभ्यां विशिष्टौ धर्मधर्मिणौ । प्रत्याख्यातो निराकुर्वन् धर्मिण्येवमसाधनात् ॥ ४.४० ॥ समुदायापवाहो हि न धर्मिणि विरुध्यते । साध्यं यतस्तथा नेष्टं साध्यो धर्मोऽत्र केवलः ॥ ४.४१ ॥ एकस्य धर्मिणः शास्त्रे नानाधर्मस्थितावपि । साध्यः स्यादात्मनैवेष्ट इत्युपात्ता स्वयंश्रुतिः ॥ ४.४२ ॥ शास्त्राभ्युपगमादेव सर्वादानात्प्रबाधने । तत्रैकस्यापि दोषः स्याद्यदि हेतुप्रतिज्ञ्योः ॥ ४.४३ ॥ शब्दानाशे प्रसाध्ये स्याद्गन्धभूगुणताक्षतेः । हेतुर्विरिद्धोऽप्रकृतेर्नो चेदन्यत्र सा समा ॥ ४.४४ ॥ अथात्र धर्मी प्रकृतस्तत्र शास्त्रार्थबाधनम् । अथ वादीष्टतां ब्रुयाद्धर्मिधर्मादिसाधनैः ॥ ४.४५ ॥ कैश्चित्प्रकरणैरिच्छ भवेत्सा गम्यते च तैः । वलात्तवेच्छेयमिति व्यक्तमीश्वरचेष्टितम् ॥ ४.४६ ॥ वदन्नकार्यलिङ्गां तां व्यभिचारेण बाध्यते । अनान्तरीयके चार्थे बाधितेऽन्यस्य का क्षति ॥ ४.४७ ॥ उक्तं च नागमापेक्षमनुमानं स्वगोचरे । सिद्धं तेन सुसिद्धं तन्न तदा शास्त्रमीक्ष्यते ॥ ४.४८ ॥ वादत्यागस्तदा स्याच्चेन्न तदानभ्युपायतः । उपायो ह्यभ्युपायेऽयमनङ्गं स तदापि सन् ॥ ४.४९ ॥ तदा विशुद्धे विषयद्वये शास्त्रपरिग्रहम् । चिकिर्षोः स हि कालः स्यात्तदा शास्त्रेण बाधनम् ॥ ४.५० ॥ तद्विरोधेन चिन्तायास्तत्सिद्धर्थेष्वयोगतः । तृतीयस्थानसंक्रान्तौ न्याय्यः शास्त्रपरिग्रहः ॥ ४.५१ ॥ तत्रापि साध्यधर्मस्य नान्तरीकबाधनम् । परिहार्य न चान्येषामनवस्थाप्रसङ्गतः ॥ ४.५२ ॥ केनेयं सर्वचिन्ताषु शास्त्रं ग्राह्यमिति स्थितिः । कृतेदानीमसिद्धान्तैर्ग्राह्यो धूमेन नानलः ॥ ४.५३ ॥ रिक्तस्य जन्तोर्ज्जातस्य गुणदोषमपश्यतः । विलब्धा वत केनेमो सिद्धान्तविषमग्र्हाः ॥ ४.५४ ॥ यदि साधन एकत्र सर्वशास्त्रं निदर्शने । दर्शयेत्साधनं स्यादित्येषा लोकोत्तरा स्थितिः ॥ ४.५५ ॥ असम्बद्धस्य धर्मस्य किमसिद्धो न सिध्यति । हेतुस्तत्साधनायोक्तः किं दुष्टस्तत्र सिध्यति ॥ ४.५६ ॥ धर्मननुपनीयैव दृष्टान्ते धर्मिणोऽखिलान् । वाग्धूमादेजंनोऽन्वेति चैतन्यदहनादिकम् ॥ ४.५७ ॥ स्वभावं कारणं चार्थो व्यभिचारेण साधयन् । कस्यचिद्वादबाधायां स्वभावान्न निवर्तते ॥ ४.५८ ॥ प्रपद्यमानश्चान्यस्तं नान्तरीयकमीप्सितैः । साध्यार्थैर्हेतुना तेन कथमप्रतिपादितः ॥ ४.५९ ॥ उक्तोऽनुक्तोऽपि तेन कथमप्रतिपादितः ॥ ४.५९ ॥ उक्तोऽनुक्तोऽपि वा हेतुर्विरोद्धा वादिनोऽत्र किम् । न हि तस्योक्तिदोषेण स जातः शास्त्रबाधनः ॥ ४.६० ॥ बाधकस्याभिधानाच्चेद्दोषो यदि वदेन्न सः । किन्न बाधेत सोऽकुर्वन्नयुक्तं केन दुष्यति ॥ ४.६१ ॥ अन्येषु हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात् । दुष्येद्व्यर्थाभिधानेन नात्र तस्य प्रसाधनात् ॥ ४.६२ ॥ यदि किञ्चित्क्वचिच्छस्त्रेन युक्तं प्रतिषिध्यते । ब्रुवाणो युक्तमप्यन्यदिति राजकुलस्थितिः ॥ ४.६३ ॥ सर्वानर्थान् समीकृत्य वक्तुं शक्यं न साधनम् । सर्वत्र तेनोत्सन्नेयं साध्यसाधनसंस्थितिः ॥ ४.६४ ॥ विरुद्धयोरेकधर्मिण्ययोगादस्तु बाधनम् । विरुद्धैकान्तिके नात्र तद्वदस्ति विरोधिता ॥ ४.६५ ॥ अबाध्यबाधकत्वेऽपि तयोः शास्त्रार्थविप्लवात् । असभ्बद्देऽपि बाधा चेत्स्यात्सर्व सर्वबाधनम् ॥ ४.६६ ॥ सम्बन्धस्तेन तत्रैव बाधनादस्ति चेदसत् । हेतोः सर्वस्य चिन्त्यत्वात्स्वसाध्ये गुणदोषयोः ॥ ४.६७ ॥ नान्तरीयकता साध्ये सम्बन्धः सेह नेक्ष्यते । केवलं शास्त्रपीडेति दोषः सान्यकृते समा ॥ ४.६८ ॥ शास्त्राभ्युपगमात्साध्यः सास्त्रदृष्टोऽखिलो यदि । प्रतिज्ञा सिद्धदृष्टान्तहेतुवाद्ः प्रसज्यते ॥ ४.६९ ॥ उक्तयोः साधनत्वेन नो चेदीप्सितवादतः । न्यायप्राप्तं न साध्यत्वं वचनाद्विनिवर्त्तते ॥ ४.७० ॥ अनीप्सितमसाध्यं चेद्वादिनान्योऽप्यनीप्सितः । धर्मोऽसाध्यस्तदासाध्यं बाधमानं विरोधि किम् ॥ ४.७१ ॥ पक्षलक्षणबाह्यार्थः स्वयंशब्दोऽप्यनर्थकः । शास्त्रे ष्विच्छप्रवृत्त्यर्थो यदि शङ्काकुतोन्वियम् ॥ ४.७२ ॥ सोऽनिषिद्धः प्रमाणेन गृह्णान् केन निवार्यते । निषिद्धश्चेत्प्रमाणेन वाचा केन प्रवर्त्यते ॥ ४.७३ ॥ पूर्वमप्येष सिद्धन्तं स्वेच्छयैव गृहीतवान् । किञ्चिदन्यं सतु पुनर्ग्रहीतुं लभते न किम् ॥ ४.७४ ॥ दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत्स्वयंश्रुतिम् । इष्टाक्षतिमसाध्यत्वमनवस्थां च दर्शयन् ॥ ४.७५ ॥ समयाहितभेदस्य परिहारेण धर्मिणः । प्रसिद्धस्य गृहीत्यर्था जगादन्यः स्वयंश्रुतिम् ॥ ४.७६ ॥ विचारप्रस्तुतेरेव प्रसिद्धः सिद्ध आश्रयः । स्वेच्छाकल्पितभेदेषु पदार्थेष्वविवादतः ॥ ४.७७ ॥ असाध्यतामथ प्राह सिद्धदेशेन धर्मिणः । स्वरूपेणैव निर्देश्य इत्यनेनैव तद्गतम् ॥ ४.७८ ॥ सिद्धसाधनरूपेण निर्देशस्य हि सम्भवे । साध्यत्वेनैव निर्देश्य इतीदं फलवद्भवेत् ॥ ४.७९ ॥ अनुमानस्य सामान्यविषयत्वं च वर्णीतम् । इहैवं न ह्यनुक्तेऽपि किञ्चित्पक्षे विरुध्यते ॥ ४.८० ॥ कुर्याच्चेद्धर्मिणं साध्यं ततः किं तन्न शक्त्यते । कस्माद्धेत्वन्वयाभावान्न च दोषस्तयोरपि ॥ ४.८१ ॥ उक्तरावयवापेक्षो न दोषः पक्ष इष्यते । तथा हेत्वादिदोषोऽपि पक्षदोषः प्रसज्यते ॥ ४.८२ ॥ सर्वैः पक्षस्य बाधातस्तस्मात्तन्मात्रसङ्गिनः । पक्षदोषा मता नान्ये प्रत्यक्षादिविरोधवत् ॥ ४.८३ ॥ हेत्वादिलक्षणैर्वाध्यं मुक्त्वा पक्षस्य लक्षणम् । उच्यते परिहारार्थमव्याप्तिव्यतिरेकयोः ॥ ४.८४ ॥ स्वयन्निपातरूपाख्या व्यतिरेकस्य बाधिकाः । सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी ॥ ४.८५ ॥ साध्याभ्युपगमः पक्षलक्षणं तेष्वपक्षता । निराकृते बाधनतः शेषेऽलक्षणवृत्तितः ॥ ४.८६ ॥ स्वयमिष्टाभिधानेन गतार्थेऽप्यवधारणे । कृत्यान्तेनाभिसम्बन्धादुक्तं कालान्तरच्छिदे ॥ ४.८७ ॥ इहानङ्गमिषेर्निष्ठा तेनेप्सितपदे पुनः । अङ्गमेव तयासिद्धहेत्वादि प्रतिषिध्यते ॥ ४.८८ ॥ अवाचकत्वाच्चायुक्तं तेनेष्टं स्वयमात्मना । अनपेक्ष्याखिलं शास्त्रं तद्वादीष्टस्य साध्यता ॥ ४.८९ ॥ तेनानभीष्टसंसृष्टस्येस्यापि हि बाधने । यथासाध्यमबाधातः पक्षहेतू न दुष्यतः ॥ ४.९० ॥ अनिषिद्धः प्रमाणाभ्यां स चोपगम इष्यते । सन्दिग्धे हेतुवचनाद्व्यस्तो हेतोरनाश्रयः ॥ ४.९१ ॥ अनुमानस्य भेदेन सा बाधोक्ता चतुर्विधा । तत्राभ्युपायः कार्याङ्गं स्वभावाङ्गं जगत्स्थितिः ॥ ४.९२ ॥ आत्मापरोधाभिमतो भूतनिश्चययुक्तवाक् । आप्तः स्ववचनं शस्त्रं चैकमुक्तं समत्वतः ॥ ४.९३ ॥ यथात्मनोऽप्रमाणत्वे वचनं न प्रवर्त्तते । शास्त्रसिद्धे तथा नार्थे विचारस्तदनाश्रये ॥ ४.९४ ॥ तत्प्रस्तावाश्रयत्वे हि शास्त्रं बाधकमित्यमुम् । वक्तुमर्थ स्ववाचास्य सहोक्तिः साम्यदृष्टये ॥ ४.९५ ॥ उदाहरणमप्यत्र सदृशं तेन वर्णितम् । प्रमाणानामभावे हि शास्त्रवाचोरयोगतः ॥ ४.९६ ॥ स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे । दिङ्मात्रदर्शनं तत्र प्रेत्यधर्मोऽसुखप्रदः ॥ ४.९७ ॥ शास्त्रिणोऽप्यतदालम्बे विरुद्धोक्तौ तु वस्तुनि । न बाधा प्रतिबन्धः स्यात्तुल्यकक्षतया तयोः ॥ ४.९८ ॥ यथा स्ववाचि तच्चास्य तदा स्ववचनात्मकम् । तयोः प्रमाणं यस्यास्ति तत्स्यादन्यस्य बाधकम् ॥ ४.९९ ॥ प्रतिज्ञामनुमानं वा प्रतिज्ञापेतयुक्तिका । यथार्थ वा बाधेत कथमन्यथा ॥ ४.१०० ॥ प्रामाण्यमागमानां च प्रागेव विनिवारितम् । अभ्युपायविचारेषु तस्माद्दोषोऽयमिष्यते ॥ ४.१०१ ॥ तस्माद्विषयभेदस्य दर्शनार्थ पृथक्कृतः । अनुमानाबहिर्भूतोऽप्यभ्युपायः प्रबाधनात् ॥ ४.१०२ ॥ अन्यथातिप्रसङ्गः स्याद्व्यर्थता वा पृथक्कृतेः । भेदो वाङ्मात्रवचने प्रतिबन्धः स्ववाच्यपि ॥ ४.१०३ ॥ तेनाभ्युपगमाच्छास्त्र प्रमाणं सर्ववस्तुषु । बाधकं यदि नेच्छेत्स बाधकं किं पुनर्भवेत् ॥ ४.१०४ ॥ स्ववाग्विरोधेअभेदः स्यात्स्ववाक्शास्त्रविरोधयोः । पुरुषेच्छाकृता चास्य परिपूर्णा प्रमाणता ॥ ४.१०५ ॥ तस्मात्प्रसिद्धेष्वर्थेषु शास्त्रत्यागेऽपि न क्षतिः । परोइक्षेष्वागमानिष्टो न चिन्तैव प्रवर्त्तते ॥ ४.१०६ ॥ विरोधोद्भावनप्राया परीक्षाप्यत्र तद्यथा । अधर्ममूलं रागादि स्नानं चाधर्मनाशनाम् ॥ ४.१०७ ॥ शास्त्रं यत्सिद्धया युक्त्या स्ववाचा च न बाध्यते । दृष्टेऽदृष्टेऽपि तद्ग्राह्यमिति चिन्ता प्रवर्त्यते ॥ ४.१०८ ॥ अर्थेष्वप्रतिषिद्धत्वात्पुरुषेच्छानुरोधिनः । इष्टशब्दाभिधेयस्याप्तोऽत्राक्षतवाग्जनः ॥ ४.१०९ ॥ उक्तः प्रसिद्धशब्देन धर्मस्तद्व्यवहारजः । प्रत्यक्षादिमिता मानश्रुत्यारोपेण सुचिताः ॥ ४.११० ॥ तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम् । कृतानामकृतानां च योग्यं विश्वं स्वभावतः ॥ ४.१११ ॥ अर्थमात्रानुरोधिन्या भाविन्या भूतयापि वा । बाध्यते प्रतिरुन्धानः शब्दयोग्यतयातया ॥ ४.११२ ॥ तद्योग्यताबलादेव वस्तुतो घटितो ध्वनिः । सर्वोऽस्यामप्रतीतेऽपि तस्मिंस्तत्सिद्धता ततः ॥ ४.११३ ॥ असाधरणता न स्यात्बाधाहेतोरिहान्यथा । तन्निषेधोऽनुमानात्स्याच्छब्दार्थेऽनक्षवृत्तितः ॥ ४.११४ ॥ असाधारणता तत्र हेतूनां यत्र नान्वयि । सत्त्वमित्यप्युदाहारो हेतोरेवं कुतो मतः ॥ ४.११५ ॥ संकेतसंश्रयाः शब्दाः स चेच्छामात्रसंश्रयः । नासिद्धिः शब्दसिद्धनामिति शाब्दप्रसिद्धिवाक् ॥ ४.११६ ॥ अनुमानप्रसिद्धेषु विरुद्धाव्यभिचारिणः । अभावं दर्शयत्येवं प्रतीरेरनुमात्वतः ॥ ४.११७ ॥ अथ वा ब्रु वतो लोकस्यानुमाभाव उच्यते । किं तेन भिन्नविषया प्रतीतिरनुमानतः ॥ ४.११८ ॥ तेनानुमानाद्वस्तूनां सदसतानुरोधिनः । भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति सूचितम् ॥ ४.११९ ॥ चन्द्रतां शशिनोऽनिच्छन् कां प्रतीतिं स वाञ्छति । इति तं प्रत्यदृष्टान्तं तदसाधारणं मतम् ॥ ४.१२० ॥ नोदाहरणमेवेकमधिकृत्येदमुच्यते । लक्षणत्वात्तथा वृक्षो धात्रीत्युक्तौ च बाधनात् ॥ ४.१२१ ॥ अत्रापि लोके दृष्टत्वात्कर्पूररजतादिषु । समयाद्वर्तमानस्य कासाधारणतापि वा ॥ ४.१२२ ॥ यदि तस्य क्वचित्सिध्येत्सिद्धं वस्तुबलेन तत् । प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम् ॥ ४.१२३ ॥ तस्य बस्तुनि सिद्धस्य शशिन्यप्यनिवारणम् । तद्वस्त्वभावे शशिनि वारणेऽपि न दुष्यति ॥ ४.१२४ ॥ तस्मादवस्तुनियतसंकेतबलभाविनाम् । योग्याः पदार्था धर्माणामिच्छाया अनिरिधनात् ॥ ४.१२५ ॥ तां योग्यतां विरुन्धानं संकेताप्रतिषेधजा । प्रतिहन्ति प्रतीत्याख्या योग्यताविषयेऽनुमा ॥ ४.१२६ ॥ शब्दानामर्थमियमः संकेतानुविधायिनाम् । नेत्यनेनोक्तमत्रैषां प्रतिषेधो विरुध्यते ॥ ४.१२७ ॥ नैमित्तिक्याः श्रुतेरर्थमर्थ वा पारमार्थिकम् । शब्दानां प्रतिरुन्धानोऽबाधनार्हो हि वर्णितः ॥ ४.१२८ ॥ तस्माद्विषयभेदस्य दर्शानाय पृथक्कृता । अनुमानाबहिर्भू ता प्रतीतिरपि पूर्ववत् ॥ ४.१२९ ॥ सिद्धयोः पृथगाख्याने दर्शयंश्च प्रयोजनम् । एते सहेतुके प्राह नानुमाध्यक्षबाधने ॥ ४.१३० ॥ अत्राप्यध्यक्षबाधायां नानारूपतया ध्वनौ । प्रसिद्धस्य श्रुतौ रूपं यदेव प्रतिभासते ॥ ४.१३१ ॥ अद्वयं शबलाभासस्यादृष्तेर्बुद्धिजन्मनः । तदर्थार्थोक्तिरस्येव क्षेपेऽध्यक्षेण बाधनम् ॥ ४.१३२ ॥ तदेव रूपं तत्रार्थः शेष व्यावृत्तिलक्षणम् । अवस्तुभूतं सामान्यमतस्तन्नाक्षगोचरः ॥ ४.१३३ ॥ तेन सामान्यधर्माणामप्रत्यक्षत्वसिद्धितः । प्रतिक्षेपेऽप्यबाधेति श्रावणोक्त्या प्रकाशितम् ॥ ४.१३४ ॥ सर्वथावाच्यरूपत्वात्सिद्ध्या तस्य समाश्रयात् । बाधनात्तद्बलेनोक्तः श्रावणेनाक्षगोचरः ॥ ४.१३५ ॥ सर्वत्र वादिनो धर्मो यः स्वसाध्यतयेप्सितः । तद्धर्मवति बाधा स्यान्नान्यधर्मेण धर्मिणि ॥ ४.१३६ ॥ अन्यथास्योपरोधः को बाधितेऽन्यत्र धर्मिणि । गतार्थे लक्षणेनास्मिन् स्वधर्मिवचनं पुनः ॥ ४.१३७ ॥ बाधायां धर्मिणोऽपि स्याद्बाधेत्यस्य प्रसिद्धये । आश्रयस्य विरोधन तदाश्रिताविरोधनात् ॥ ४.१३८ ॥ अन्यथैवंविधो धर्मः साध्य इत्यभिधानतः । तद्बाधामेव मन्येत स्वधर्मिग्रहणं ततः ॥ ४.१३९ ॥ नन्वेतदप्यर्थशिद्धं सत्यं केचित्तु धर्मिणः । केवलस्योपरोधेऽपि दोषवत्तमुपागताः ॥ ४.१४० ॥ यथा परैरनुत्पाद्यापूर्वरूपं न खादिकम् । सकृच्छब्दाद्यहेतुत्वादित्युक्ते प्राह दूषकः ॥ ४.१४१ ॥ तद्वद्वस्तुस्वभावोऽसन् धर्मी व्योमादिरित्यपि । नैवमिष्टस्य साध्यस्य बाधा काचन विद्यते ॥ ४.१४२ ॥ द्वयस्यापि हि साध्यत्वे साध्यधर्मोपरोधि यत् । बाधनं धर्मिणास्तत्र बाधेत्येतेन वर्णितम् ॥ ४.१४३ ॥ तथैव धर्मिणोऽप्यत्र साध्यत्वात्केवलस्य न । यद्येवमत्र बाधा स्यात्नान्यानुत्पाद्यशक्तिकः ॥ ४.१४४ ॥ सकृच्छब्दाद्यहेतुत्वात्सुखादिरिति पूर्ववत् । विरोधिता भवेदत्र हेतुरैकान्तिको यदि ॥ ४.१४५ ॥ क्रमक्रीयनित्यतयोरविरोधाद्विपक्षतः । व्यावृत्तेः संशयान्नायं शेषवद्भेद इष्यते ॥ ४.१४६ ॥ स्वयमिष्टो यतो धर्मः साध्यस्तस्मात्तदाश्रयः । बाध्यो न केवलो नान्यसंश्रयो वेति सूचितम् ॥ ४.१४७ ॥ स्वयं श्रुत्यान्यधर्माणां बाधा बाधेति कथ्यते । तथा स्वधर्मिणान्यस्तधर्मिणोऽपीति कथ्यते ॥ ४.१४८ ॥ सर्वसाधनदोषेण पक्ष एवोपरोध्यते । तथापि पक्षदोषत्वं प्रतिज्ञामात्रभाविनः ॥ ४.१४९ ॥ उत्तरावयापेक्षो यो दोषः सोऽनुबध्यते । तेनेत्युक्तमतो पक्षदोषोऽसिद्धाश्रयादिकः ॥ ४.१५० ॥ धर्मिधर्मविशेषाणां स्वरूपस्य च धर्मिणः । बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता ॥ ४.१५१ ॥ तत्रोदाहृतिदिङ्मात्रमुच्यतेऽर्थस्य दृष्टये । द्रव्यलक्षणयुक्तोऽन्यः संयोगेऽर्थोऽस्ति दृष्टिभाक् ॥ ४.१५२ ॥ अदृश्यस्य विशिष्टस्य प्रतिज्ञा निष्प्रयोजना । इष्टो ह्यवयवी कार्य दृष्ट्वादृश्येष्वसम्भवि ॥ ४.१५३ ॥ अविशिष्टस्य चान्यस्य साधने सिद्धसाधनम् ॥ गुरुत्वाधोगती स्यातां यद्यस्य स्यात्तुलानतिः ॥ ४.१५४ ॥ तन्निर्गुणक्रियस्तस्मात्समवायि न कारणम् । तत एव न दृश्योऽसावदृष्टेः कार्यरूपयोः ॥ ४.१५५ ॥ तद्बाधान्यविशेषस्य नान्तरीयकभाविनः । आसूक्ष्माद्द्रव्यमालायास्तोल्यत्वादंशुपातवत् ॥ ४.१५६ ॥ द्रव्यान्तरगुरुत्वस्य गतिर्नेत्यपरोऽब्रवीत् । तस्य क्रमेणं संयुक्ते पांशुराशौ सकृद्युते ॥ ४.१५७ ॥ भेदः स्याद्गौरवे तस्मात्पृथक्सह च तोलिते । सुवर्नमाषकादीनां संख्यासाम्यं न युज्यते ॥ ४.१५८ ॥ सर्षपादा महाराशेरुत्तरोत्तरवृद्धिमत् । गौरवं कार्यमालाया यदि नैवोपलभ्यते ॥ ४.१५९ ॥ आ सर्षपाद्गौरवं तु दुर्लक्षितमनल्पकम् । तोल्यं तत्कारणं कार्यगौरवानुपलक्षणात् ॥ ४.१६० ॥ नन्वदृष्टोंऽशुवत्सोऽर्थो न च तत्कार्यमीक्ष्यते । गुरुत्वागतिवत्सर्वतद्गुणानुपलक्षणात् ॥ ४.१६१ ॥ माषकादेरनाधिक्यमनतिः सोपलक्षणम् । यथास्वमक्षेणादृष्टे रूपादावधिकाधिके ॥ ४.१६२ ॥ अभ्युपायः स्ववागाद्यबाधायाः सम्भवेन तु । उदाहरणमप्यन्यदिशा गम्यं यथोक्त्या ॥ ४.१६३ ॥ त्रिकालविषयत्वात्तु कृत्यानामतथात्मकम् । तथा परं प्रति न्यस्तं साध्यं नेष्टं तदापि तत् ॥ ४.१६४ ॥ प्रत्ययनाधिकारे तु सर्वासिद्धवरोधिनी । यस्मात्साध्यश्रुतिर्नेष्टं विशेषमवलम्बते ॥ ४.१६५ ॥ तेनाप्रसिद्धदृष्टान्तहेतुदाहरणं कृतम् । अन्यथा शशश्रृङ्गादौ सर्वासिद्धेऽपि साध्यता ॥ ४.१६६ ॥ सर्वस्य चाप्रसिद्धत्वात्कथञ्चित्तेन न क्षमाः । कर्मादिभेदोपक्षेपपरिहारविवेचने ॥ ४.१६७ ॥ प्रागसिद्धस्वभावत्वात्साध्योऽवयव इत्यसत् । तुल्या सिद्धान्तता ते हि येनोपगमलक्षणाः ॥ ४.१६८ ॥ समुदायस्य साध्यत्वेऽप्यन्योन्यस्य विशेषणम् । साध्यं द्वयं तदासिद्धं हेतुदृष्टान्तलक्षणम् ॥ ४.१६९ ॥ असम्भवात्साध्यशब्दो धर्मिवृत्तिर्यदीष्यते । शास्त्रेणालं यथायोगं लोक एव प्रवर्त्तताम् ॥ ४.१७० ॥ साधनाख्यानसामर्थ्यात्तदर्थे साध्यता मता । हेत्वादिवचनैर्व्याप्तेरनाशंक्यं च साधनम् ॥ ४.१७१ ॥ पूर्वावधारणे तेन प्रतिज्ञालक्षणाभिधा । ब्यर्था व्यप्तिफला सोक्तिः सामर्थ्याद्गम्यते ततः ॥ ४.१७२ ॥ विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थिती । एवं सर्वाङ्गदोषाणां प्रतिज्ञादोषता भवेत् ॥ ४.१७३ ॥ पक्षदोषः परापेक्षो नेति च प्रतिपादितम् । इष्टासम्भव्यसिद्धश्च स एव स्यान्निराकृतः ॥ ४.१७४ ॥ अनित्यत्वसहेतुत्वे शब्द एवं प्रकीर्त्तयेत् । दष्टान्ताख्यानतोऽन्यत्किमस्त्यत्रार्थानुदर्शनम् ॥ ४.१७५ ॥ विशेषभिन्नामाख्याय सामान्यस्यानुवर्तने । न तद्व्याप्तिः फलं वा किं सामान्येनानुवर्तने ॥ ४.१७६ ॥ स्यान्निराकरणं शब्दे स्थितेनैवेत्यतोऽब्रवीत् । विरुद्धविषयेऽन्यस्मिन् वदन्नाहान्यतां श्रुतेः ॥ ४.१७७ ॥ स च भेदाप्रतिक्षेपात्सामान्यानां न विद्यते । वृक्षो न शिंशपैवेति यथा प्रकरणे क्वचित् ॥ ४.१७८ ॥ सर्वश्रुतेरेकवृत्तिनिषेधः स्यान्न चेयता । सोऽसवः सर्वभेदानामतत्त्वे तदसम्भवात् ॥ ४.१७९ ॥ ज्ञाप्यज्ञापकयोर्भेदात्धर्मिणो हेतुभाविनः । असिद्धेर्जापकत्वस्य धर्म्यसिद्धः स्वसाधने ॥ ४.१८० ॥ धर्मधर्मिविवेकस्य सर्वभावेष्वसिद्धितः । सर्वत्र दोषस्तुल्यश्चेन्न संवृत्त्या विशेषतः ॥ ४.१८१ ॥ परमार्थविचारेषु तथाभूताप्रसिद्धितः । तत्त्वान्यत्वं पदार्थेषु सांवृतेषु निषिध्यते ॥ ४.१८२ ॥ अनुमानानुमेयार्थव्यहारस्थितिस्त्वियम् । भेदं प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते ॥ ४.१८३ ॥ यथास्वं भेदनिष्ठेषू प्रत्ययेषू विवेकिनः । धर्मी धर्माश्च भासन्ते व्यवहारस्तदाश्रयः ॥ ४.१८४ ॥ व्यवहारोपनीतोऽत्र स एवाश्लिष्टभेदधीः । साध्यः साधनतां नीतस्तेनासिद्धः प्रकाशितः ॥ ४.१८५ ॥ भेदसामान्ययोर्धर्मभेदादंगांगिता ततः । यथानित्यः प्रयत्नोत्थः प्रत्यत्नोत्थतया ध्वनिः ॥ ४.१८६ ॥ पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि । यथाश्वो न विषाणित्वादेष पिण्डो विषाणवान् ॥ ४.१८७ ॥ साध्यकालाङ्गता वा न निवृत्तेरुपलक्ष्य तत् । विशेषोऽपि प्रतिज्ञार्थो धर्मभेदान्न युज्यते ॥ ४.१८८ ॥ पक्षधर्मप्रभेदेन सुखग्रहणसिद्धये । हेतुप्रकरणार्थस्य सूत्रसंक्षेप उच्यते ॥ ४.१८९ ॥ अयोगं योगमपरैरत्यन्तायोगमेव च । व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेचकः ॥ ४.१९० ॥ विशेषणविशेष्याभ्यां क्रियया च सहोदितः । विवक्षातोऽप्रयोगेऽपि सर्वोऽर्थोऽयं प्रतीयते ॥ ४.१९१ ॥ व्यवच्छेदफलं वाक्यं यतश्चैत्रो धनुर्धरः । पार्थो धनुर्धरो नीलं सरोजमिति वा यथा ॥ ४.१९२ ॥ प्रतियोगिव्यच्छेदस्तत्राप्यर्थेषु गम्यते । तथा प्रसिद्धेः समार्थ्यास्विवक्षानुगमाद्ध्वनेः ॥ ४.१९३ ॥ तदयोगव्यवच्छेदाद्धर्मी धर्मविशेषणम् । तद्विशिष्टतया धर्मो न निरन्वयदोषभाक् ॥ ४.१९४ ॥ स्वभावकार्यसिद्ध्यर्थ द्वौ द्वौ हेतुविपर्ययौ । विवादाद्भेदसामान्ये शेषो व्यावृत्तिसाधनः ॥ ४.१९५ ॥ न हि स्वभावादन्येन व्याप्तिर्गम्यस्य कारणे । सम्भवाद्व्यभिचारस्य द्विधावृतिफलं ततः ॥ ४.१९६ ॥ प्रयत्नानन्तरं ज्ञानं प्राक्सतो नियमेन न । तस्यावृत्यक्षशब्देषु सर्वथानुपयोगतः ॥ ४.१९७ ॥ कदाचिन्तिरपेक्षस्य कार्याकृतिविरोधतः । कादाचित्कफलं सिद्धं तल्लिङ्गं ज्ञानमीदृशम् ॥ ४.१९८ ॥ एतावतैव सिद्धेऽपि स्वभावस्य पृथक्कृतिः । कार्येण सह निर्देशे मा ज्ञासीत्सर्वमीदृशम् ॥ ४.१९९ ॥ व्युत्पत्त्यर्था च हेतूक्तिरुक्तार्थानुमितौ कृता । अत्र प्रभेद आख्यातः लक्षणं तु न भिद्यते ॥ ४.२०० ॥ तेनात्र कार्यलिङ्गेन स्वभावोऽप्येकदेशभाक् । सदृशोदाहृतिश्चातः प्रत्यत्नाद्व्यक्तिजन्मनः ॥ ४.२०१ ॥ यन्नान्तरीका सत्ता यो वात्मन्यविभागवान् । स तेनाव्यभिचारी स्यादित्यर्थ तत्प्रभेदनम् ॥ ४.२०२ ॥ संयोग्यादिषु येष्वस्ति प्रतोइबन्धो न तादृशः । न ते हेतव इत्युक्तं व्यभिचारस्य सम्भवात् ॥ ४.२०३ ॥ सति वा प्रतिबन्धेऽस्तु स एव गतिसाधनः । नियमो ह्यविनाभावो नियतश्च न साधनम् ॥ ४.२०४ ॥ एकान्तिकत्वं व्यावृत्तेरविनाभाव उच्यते । तच्च नाप्रतिबद्धेषु तत एवान्वयस्थितिः ॥ ४.२०५ ॥ स्वात्मत्वे हेतुभावे वा सिद्धे हि व्यतिरेकिता । सिध्येदतोऽविशेषे न व्यतिरेका न वान्वयः ॥ ४.२०६ ॥ अदृष्टिमात्रमादाय केवलं व्यतिरेकिता । उक्तोऽनैकान्तिकस्तस्मादन्यथा गमको भवेत ॥ ४.२०७ ॥ प्राणाद्यभावो नैरात्म्यव्यापीति विनिवर्त्तने । आत्मनो विनिवर्त्तेत प्राणादिर्यदि तच्च न ॥ ४.२०८ ॥ अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगतः । तदात्मा तत्प्रसूतिश्चेत्नतदात्मोपलम्भने ॥ ४.२०९ ॥ तस्योपलब्धावगतावगतौ च प्रसिध्यति । ते चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यतः ॥ ४.२१० ॥ अन्यत्रादृष्टरूपस्य घटादौ नेति वा कुतः । अज्ञातव्यतिरेकस्य व्यावृत्तेर्व्यापिता कुतः ॥ ४.२११ ॥ प्राणादेश्च क्वचिद्दृष्ट्या सत्त्वासत्त्वं प्रतीयते । तथात्मा यदि दृश्येत सत्त्वासत्त्वं प्रतीयते ॥ ४.२१२ ॥ यस्य हेतोरभावेन घटे प्राणो दृश्यते । देहेऽपि यद्यसौ न स्याद्युक्तो देहे न सम्भवः ॥ ४.२१३ ॥ भिन्नेऽपि किञ्चित्साधर्म्याद्यदि तत्त्वं प्रतीयते । प्रमेयत्वाद्घटादीनां सात्मत्वं किन्न मीयते ॥ ४.२१४ ॥ अनिष्टेश्चेत्प्रमाणं हि सर्वेष्टीनां निबन्धनम् । भावाभावव्यवस्थां कः कर्तु तेन विना प्रभुः ॥ ४.२१५ ॥ स्मृतीच्छायत्नजः प्राणनिमेषादिस्तदुद्भवः । विषयेन्द्रियचित्तेभ्यः ताः स्वजातिसमुद्भवाः ॥ ४.२१६ ॥ अन्योन्यप्रत्ययापेक्षा अन्वयव्यतिरेकभाक् । एतावत्याभावोऽयमनवस्थान्यकल्पने ॥ ४.२१७ ॥ श्रावणत्वेन तत्तुल्यं प्राणादि व्यभिचारतः । न तस्य व्यभिचारित्वाद्व्यतिरेकेऽपि चेत्कथम् ॥ ४.२१८ ॥ नासाध्यादेव विश्लेषस्तस्य नन्वेवमुच्यते । साध्येऽनुवृत्त्यभावोऽर्थात्तस्यान्यत्राप्यसौ समः ॥ ४.२१९ ॥ असाध्यादेव विच्छेद इति साध्येऽस्तितोच्यते । अर्थापत्त्यात एवोक्तमेकेनोभयदर्शनम् ॥ ४.२२० ॥ ईदृगव्यभिचारोऽतोऽनन्वयिषु न सिध्यति । प्रतिषेधनिषेधश्च विधानात्कीदृशोऽपरः ॥ ४.२२१ ॥ निवृत्तिर्नासतः साध्यादसाध्येष्वेव नो ततः । नेति सैव निवृत्तिः किं निवृत्तेरसतो मता ॥ ४.२२२ ॥ निवृत्त्यभावस्तु बिधिर्वस्तुभावोऽसतोऽपि सन् । वस्त्वभावस्तु नास्तीति पश्य बान्ध्यविजृम्भितम् ॥ ४.२२३ ॥ निवृत्तिर्यदि तस्मिन्न हेतोर्वृत्तिः किमिष्यते । सापि न प्रतिषेधोऽयं निवृत्तिः किं निषिध्यते ॥ ४.२२४ ॥ विधानं प्रतिषेधं च मुक्त्वा शाब्दोऽस्ति नापरः । व्यवहारः स चासत्सु नेति प्राप्तात्र मूकता ॥ ४.२२५ ॥ सतां च न निषेधोऽस्ति सोऽसत्सु च न विद्यते । जगत्यनेन न्यायेन नञर्थः प्रलयं गतः ॥ ४.२२६ ॥ देशकालनिषेधश्चेद्यथास्ति स निषिध्यते । न था न यथा सोऽस्ति तथापि न निषिध्यते ॥ ४.२२७ ॥ तस्मादाश्रित्य शब्दार्थ भावाभावसमाश्रम् । अबाह्याश्रयमत्रेष्टं सर्व विधिनिषेधनम् ॥ ४.२२८ ॥ ताभ्यां स धर्मि सम्बद्धः ख्यात्यभवोऽपि तादृशः । शब्दप्रवृत्तेरस्तीति सोऽपीष्टो व्यवहारभाक् ॥ ४.२२९ ॥ अन्यथा स्यात्पदार्थानां विधानप्रतिषेधने । एकधर्मस्य सर्वात्मविधानप्ररिषेधनम् ॥ ४.२३० ॥ अनानात्मतया भेदे नानाविधिनिषेधवत् । एकधर्मिण्यसंहारो विधानप्रतिषेधयोः ॥ ४.२३१ ॥ एकधर्मिणमुद्दिश्य नानाधर्मसमाश्रयम् । विधावेकस्य तद्भाजामिवान्येषामुपेक्षकम् ॥ ४.२३२ ॥ निषेधे तद्विविक्तं च तदन्येषामपेक्षकम् । व्यवहारमसत्यार्थ प्रकल्पयति धीर्यथा ॥ ४.२३३ ॥ तं तथैवाविकल्पार्थभेदाश्रयमुपागताः । अनादिवासनोद्भूतं बाधन्तेऽर्थ न लौकिकम् ॥ ४.२३४ ॥ तत्फलोऽतत्फलश्चार्थे भिन्न एकस्ततस्ततः । तैस्तैरुपप्लवैर्नीतः सञ्चयापचयैरिव ॥ ४.२३५ ॥ अतद्वानपि सम्बन्धात्कुतश्चिदुपनीयते । दृष्टिं भेदाश्रयैस्तेऽपि तस्मादज्ञातविप्लवाः ॥ ४.२३६ ॥ सत्तासाधनवृत्तेश्च सन्दिग्धः स्यादसन्न सः । असत्वं चाभ्युपगमादप्रमानं न युज्यते ॥ ४.२३७ ॥ असतो व्यतिरेकेऽपि सपक्षाद्विनिवर्त्तनम् । सन्दिग्घं तस्य सन्देहाद्विपक्षाद्विनिवर्त्तनम् ॥ ४.२३८ ॥ एकत्र नियमे सिद्धे सिध्यत्यन्यनिवर्त्तनम् । द्वैराश्ये सति दृष्टेषु स्याद्दृष्टेऽपि संशयः ॥ ४.२३९ ॥ अव्यक्तिव्यापिनोऽप्यर्थाः सन्ति तज्जातिभाविनः । क्वचिन्न नियमोऽदृष्ट्या पार्थिवालोहलेख्यवत् ॥ ४.२४० ॥ भावे विरोधस्यादृष्टे कः सन्देहं निवारयेत् । क्वचिद्विनियमात्कोऽन्यस्तत्कार्यात्मतया स च ॥ ४.२४१ ॥ नरात्म्यादपि तेनास्य सन्दिग्धं विनिवर्तनम् । अस्तु नाम तथाप्यात्मा नानैरात्म्यात्प्रसिध्यति ॥ ४.२४२ ॥ येनासौ व्यतिरेकस्य नाभावं भावमिच्छति । यथा नाव्यतिरेकेऽपि प्राणादिर्न सपक्षतः ॥ ४.२४३ ॥ सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोन्वयी । नान्व्य्यव्यतिरेकी चेदनैरात्म्यं न सात्मकम् ॥ ४.२४४ ॥ यन्नान्तरीयकः स्वात्मा यस्य सिद्धः प्रवृत्तिषु । निवर्त्तकः स एवातः प्रवृत्तौ च प्रवर्तकः ॥ ४.२४५ ॥ नान्तरीयकता सा च साधनं सधपेक्षते । कार्येदृष्टिरदृष्टिश्च कार्यकारणता हि सा ॥ ४.२४६ ॥ अर्थान्तरस्य तद्भावे भावानियमतोऽगतिः । अभावासम्भवात्तेषामभावे नित्यभाविनः ॥ ४.२४७ ॥ कार्यस्वभावभेदानां कारणेभ्यः समुद्भवात् । तैर्विना भवतोऽन्यस्मात्तज्जं रूपं कथं भवेत् ॥ ४.२४८ ॥ सामग्रीशक्तिभेदाद्धि वस्तूनां विश्वरूपता । सा चेन्न भेदिका प्राप्तमेकरूपमिदं जगत् ॥ ४.२४९ ॥ भेदकाभेदकत्वे स्याद्व्याहता भिन्नरूपता । एकस्य नानारूपत्वे द्वे रूपे पावकेतरौ ॥ ४.२५० ॥ तत्तस्या जननं रूपमन्यस्य यदि सैव सा । न तस्या जननं रूपं तदस्याः सम्भवेत्कथम् ॥ ४.२५१ ॥ ततः स्वभावौ नियतावन्योन्यं हेतुकार्ययोः । तस्मात्स्वदृष्टाविव तद्दृष्टे कार्येऽपि गम्यते ॥ ४.२५२ ॥ एकं कथमनेकस्मात्क्लेदवद्दुग्धवारिणः । द्रवशक्तेः यतः क्लेदः सा त्वेकैव द्वयोरपि ॥ ४.२५३ ॥ भिन्नाभिन्नः किमस्यात्मा भिन्नोऽथ द्रवता कथम् । अभिन्नेत्युच्यते बुद्धेस्तद्रूपाया अभेदतः ॥ ४.२५४ ॥ तद्वद्भेदेऽपि दहनो दहनप्रत्ययाश्रयः । येनांशेनादधद्धूमं तेनांशेन तथा गतिः ॥ ४.२५५ ॥ दहनप्रत्ययाङ्गादेवान्यापेक्षात्समुद्भवात् । धूमोऽतद्व्यभिचारीति तद्वत्कार्य तथापरम् ॥ ४.२५६ ॥ धूमेन्धनविकाराङ्गतापदे दहनस्थितेः । अनग्निचेदधूमोऽसौ स धूमश्चेत्स पावकः ॥ ४.२५७ ॥ नान्तरीयकता ज्ञेया यथास्वं हेत्वपेक्षया । स्वभावस्य यथोक्तं प्राग्विनाशकृतकत्वयोः ॥ ४.२५८ ॥ अहेतुत्वगतिन्यायः सर्वोऽयं व्यतिरेकिणः । अभ्यूह्यः श्रावणात्वोक्तेः कृतायाः साम्यदृष्टये ॥ ४.२५९ ॥ हेतुस्वभावनुवृत्यैवार्थनिवृत्तिवर्णनात् । सन्देहहेतुताख्यात्या दृश्येऽर्थे सेति सूचितम् ॥ ४.२६१ ॥ अनङ्गीकृतवस्त्वंशो निषेधः साध्यतेऽनया । वस्तुन्यपि तु पूर्वाभ्यां पर्युदासो विधानतः ॥ ४.२६२ ॥ तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न चापरम् । इत्यज्ञ्ज्ञापनायैकानुपाख्योदाहृतिर्मता ॥ ४.२६३ ॥ विषयासत्त्वतस्त्र विषयि प्रतिषिध्यते । ज्ञानाभिधानसन्देहं यथा दाहादपावकः ॥ ४.२६४ ॥ तथान्या नोपलभ्येषु नास्तितानुपलम्भभनात् । तज्ज्ञानशब्दाः साध्यन्ते तद्भावात्तन्निबन्धनाः ॥ ४.२६५ ॥ सिद्धो हि व्यवहारोऽयं दृश्यादृष्टावसन्निति । तस्याः सिद्धावसन्दिग्धौ तत्कायत्वेऽपि धीध्वनी ॥ ४.२६६ ॥ विद्यमानेऽपि विषये मोहादत्राननुब्रुवन् । केवलं सिद्धसाधर्म्यात्स्मार्यते समयं परः ॥ ४.२६७ ॥ कार्यकारणता यद्वत्साध्यते दृष्ट्यदृष्टितः । कार्यादिशब्दा हि तयोर्व्यवहाराय कल्पिताः ॥ ४.२६८ ॥ कारणात्कार्यसंसिद्धिः स्वभावान्तर्गमादियम् । हेतुप्रेभेदाख्याने न दर्शितोदाहृतिः पृथक् ॥ ४.२६९ ॥ एकोपलम्भानुभवादिदं नोपलभे इति । बुद्धेरुपलभे वेति कल्पिकायाः समुद्भवः ॥ ४.२७० ॥ विशेषो गम्यतेऽर्थानां विशिष्टादेव वेदनात् । स्तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य च ॥ ४.२७१ ॥ तस्मात्स्वतो धियोर्भेदसिद्धिस्ताभ्यां तदर्थयोः । अन्यथा ह्यनवस्थातो भेदः सिघ्येन्न कस्यचित् ॥ ४.२७२ ॥ विशिष्टरूपानुभवादन्यथान्यनिराक्रिया । तद्विशिष्टोपलम्भोऽतः तस्याप्यनुपलम्भनम् ॥ ४.२७३ ॥ तस्मादनुपलम्भोऽयं स्वयं प्रत्यक्षतो गतः । स्वमात्रवृत्तेर्गमकस्तभावव्यवस्थितेः ॥ ४.२७४ ॥ अन्यथार्थस्य नास्तित्वं गम्यतेऽनुपलम्भतः । उपलम्भस्य नास्तित्वमन्येनेत्यनबस्थितिः ॥ ४.२७५ ॥ अदृश्ये निश्चयायोगात्स्थितिरन्यत्र बाध्यते । यथालिङ्गोऽन्यसत्त्वेषु विकल्पादिर्न सिध्यति ॥ ४.२७६ ॥ अनिश्चयफला ह्येषा नालं व्यावृत्तिसाधने । आद्याधिक्रियते हेतोर्निश्चितेनैव साधने ॥ ४.२७७ ॥ तस्याः स्वयं प्रयोगेषु स्वरूपं वा प्रयुज्यते । अर्थबाधनरूपं वा भावे भावादभावतः ॥ ४.२७८ ॥ अन्योन्यभेदसिद्धेर्वा ध्रू वभावबिमाशवत् । प्रमाणान्तरबाधाद्वा सापेक्षध्रु वभाववत् ॥ ४.२७९ ॥ हेत्वन्तरसमुत्थस्य सन्निधौ नियतः कुतः । भावहेतुभवत्वे किं पारम्पर्यपरिश्रमैः ॥ ४.२८० ॥ नाशनं जनयित्वान्यं स हेतुस्तस्य नाशकः । तमेव नश्वरं भावं जनयेद्यदि किं भवेत् ॥ ४.२८१ ॥ आत्मोपकारकः कः स्यात्तस्य सिद्धत्मनः सतः । नात्मोपकारकः कः स्यात्तेन यः समपेक्ष्यते ॥ ४.२८२ ॥ अनपेक्षश्च किं भावोऽतथाभूतः कदाचन । यथा न क्षेपभागिष्टः स एवोद्भूतनाशकः ॥ ४.२८३ ॥ क्षणमप्यनपेक्षत्वे भावो भावस्य नेति चेत् । भावो हि स तथा भूतोऽभाव भावस्तथा कथम् ॥ ४.२८४ ॥ येऽपरापेक्षतद्भावास्तद्भावनियता हि ते । असम्भवद्विबन्धा च समग्री कार्यकर्मणि ॥ ४.२८५ ॥