धर्मकीर्ति: न्यायबिन्दु प्रकरणकारिका सूत्रपाठः १ प्रथमः प्रत्यक्षपरिच्छेदः १।१ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिरिति तद्वयुत्पादयते । १।२ द्विविधं सम्यग्ज्ञानम् । १।३ प्रत्यक्षम्, अनुमानं चेति । १।४ तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम् । १।५ अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना १।६ तया रहितं तिमिराशुभ्रमणनौयानसम्भ्रमाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम् । १।७ तच्चतुर्विधम् । १।८ इन्द्रियज्ञानम् । (१) १।९ स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् । (२) १।१० सर्वचित्तचैत्तानामात्मसंवेदनम् । (३) १।११ भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । (४) १।१२ तस्य विषयः स्वलक्षणम् । १।१३ यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदस्तत्स्वलक्षणम् । १।१४ तदेव परमार्थसत् । १।१५ अर्थक्रियासामर्थ्यलक्षणत्वाद्वस्तुनः । १।१६ अन्यत्सामान्यलक्षणम् १।१७ सोऽनुमानस्य विषयः । १।१८ अत्देव च प्रत्यक्षं ज्ञानं प्रमाणफलम् । १।१९ अर्थप्रतीतिरूपत्वात् । १।२० अर्थसारूप्यमस्य प्रमाणम् । १।२१ तद्वशादर्थप्रतीतिसिद्धरेति । इति प्रथमः प्रत्यक्षपरिच्छेदः ॥ ______________________________________________________________ द्वितीयः स्वार्थानुमानपरिच्छेदः २।१ अनुमानं द्विधा । २।२ स्वार्थ परार्थ च । २।३ तत्र स्वार्थ त्रिरूपाल्लिङ्गाद्यदनुमेये ज्ञानं तदनुमानम् । २।४ प्रमाणलक्षणव्यवस्थात्रापि पूर्ववत् । २।५ त्रैरूप्यं पुनर्लिङ्गस्यानुमेये सत्त्वमेव, सपक्ष एव सत्त्वम्, असपक्षे चासत्त्वमेव निश्चितम् । २।६ अनुमेयोऽत्र जिज्ञासितविशेषो धर्मी । २।७ साध्यधर्मसामान्येन समानोऽर्थः सपक्ष । २।८ न सपक्षोऽसपक्षः । २।९ ततोऽन्यस्तद्विरुद्धस्तदभावश्चेति २।१० त्रिरूपाणि च त्रीण्येव लिङ्गानि । २।११ अनुपलब्धिः स्वभावः कार्य चेति । २।१२ तत्रानुपलब्धिर्यथा- न प्रदेशविशेषे क्वचिद्घटः, उपलब्धिक्षणप्राप्तस्यानुपलब्धेरिति । २।१३ उपलब्धिलक्षणप्राप्तिरूपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । २।१४ यः स्वभावः सत्स्वन्येषूषलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति, स स्वभावविशेषः । २।१५ स्वभावः स्वसत्तामात्रप्रभाविनि साध्यधर्मे हेतुः । २।१६ यथा- वृक्षोऽयं शिशपात्वादिति । २।१७ कार्य यथा- बह्निरत्र धूमादिति । २।१८ अत्र द्वौ वस्तुसाधनौ । एकः प्रतिषेधहेतुः । २।१९ स्वभावप्रतिबन्धे हि सत्यर्थोऽर्थ गमयेत् । २।२० तदप्रतिबद्धस्य तदव्यभिचारनियमाभावात् । २।२१ स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य । २।२२ वस्तुतस्तादात्म्यात्तदुत्पत्तेश्च । २।२३ अतत्स्वभावस्यातदुत्पत्तेश्च तत्राप्रतिबद्धस्वभावत्वात् । २।२४ ते च तादात्म्यतदुत्पत्ती स्वभावकार्ययोरेवेति ताभ्यामेव वस्तुसिद्धिः । २।२५ प्रतिषेधसिद्धिरपि यथोक्ताया एवानुपलब्धेः । २।२६ सति वस्तुनि तस्या असम्भवात् । २।२७ अन्यथा चानुपलब्धिलक्षणप्राप्तेषु देशकालस्वभावविप्रकृष्टेष्वर्थेष्वात्मप्रत्यक्षनिवृत्तेरभवनिश्चयाभावात् । २।२८ अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृप्रत्यक्षस्य निवृत्तिरभावव्यवहारप्रसाधनी । २।२९ तस्या एवाभावनिश्चयात् । २।३० सा च प्रयोगभेदादेकादशप्रकारा । २।३१ स्वभावानुपलब्धिर्यथा- नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति । (१) २।३२ कार्यानुपलब्धिर्यथा- नात्राप्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावादिति । (२) २।३३ व्यापकानुपलब्धिर्यथा- नात्र शिशपा, वृक्षाभावादिति । (३) २।३४ स्वभावविरुद्धोपलब्धिर्यथा- नात्र शीतस्पर्शो वह्नेरिति । (४) २।३५ विरुद्धकार्योपलब्धिर्यथा- नात्र शीतस्पर्शो धूमादिति । (५) २।३६ विरुद्धव्याप्तोपलब्धिर्यथा- न ध्रुवभावी भूतस्यापि भावस्य विनाशः, हेत्वन्तरापेक्षणादिति । (६) २।३७ कार्यविरुद्धोपलब्धिर्यथा- नेहाप्रतिल्बद्धसामर्थ्यानि शीतकारणानि सन्ति, वह्नेरिति । (७) २।३८ व्यापकविरुद्धोपलब्धिर्यथा- नात्र तुषारस्पशो वह्नेरिति । (८) २।३९ कारणानुपलब्धिर्यथा- नात्र धूमो वह्न्यभावादिति । (९) २।४० कारणविरुद्धोपलब्धिर्यथा- नास्य रोमहर्षादिविशेषाः, सन्निहितदहनविशेषत्वादिति । (१०) २।४१ कारणविरुद्धकायपिलब्धिर्यथा- न रोमहर्षादिविशेषयुक्तपुरुषावानयं प्रदेशः, धूमादिति । (११) २।४२ इमे सर्वे कार्यानुपलब्ध्यादयो दशानुपलब्धिप्रयोगाः स्वभावानुपलब्धौ संग्रहमुपयान्ति । २।४३ पारम्पर्येणार्थान्तरविधिप्रतिषेधाभ्यां प्रयोगभेदेऽपि । २।४४ प्रयोगदर्शनाभ्यासात्स्वयमप्येवं व्यवच्छेदप्रतीतिर्भवति स्वार्थेऽप्यनुमानेऽस्याः प्रयोगनिर्देशः । २।४५ सर्वत्र चास्यामभावव्यवहारसाधन्यामनुपलब्धौ येषां स्वभावविरुद्धदीनामुपलब्ध्या कारणादीनामनुपलब्ध्या च प्रतिषेध उक्तस्तेषामुपलब्धिलक्षणप्राप्तानामेविपलब्धिश्च वेदितव्या । २।४६ अन्येषां विरोधकार्यकारणभावासिद्धेः । २।४७ विप्रकृष्टविषया पुनरनुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा संशयहेतुः । २।४८ प्रमाणनिवृत्तावप्यर्थाभावासिद्धेरिति । इति द्वितीयः स्वार्थानुमानपरिच्छेदः ॥ ______________________________________________________________ तृतीयः परार्थानुमानपरिच्छेदः ३।१ त्रिरूपलिङ्गाख्यानं परार्थमनुमानम् । ३।२ कारणे कार्योपचारात् । ३।३ तद्द्विविधम् । ३।४ प्रयोगभेदात् । ३।५ साधम्यवद्वैधम्यवच्च । ३।६ नानायोरर्थतः कश्चिद्भेदः । ३।७ अन्यत्र प्रयोगभेदात् । ३।८ तत्र साधर्म्यवत्प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते सोऽसद्व्यवहारविषयः सिद्धः । यथा- अन्यो दृष्टः कश्चिद्शशविषाणादिः । नोपलभ्यते च क्वचित्प्रदेशविशेषे उपलब्धिलक्षणप्रापो घट इत्यनुपलब्धिप्रयोगः । ३।९ तथा स्वभावहेतोः प्रयोगः- यत्सत्तत्सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः । ३।१० यदुत्पत्तिमत्तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । ३।११ यत्कृतकं तदनित्यमित्युपाधिभेदेन । ३।१२ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति । ३।१३ एवं प्रयत्नान्तरीयक- प्रत्ययभेदभेदित्वादयोऽपि द्रष्टव्याः । ३।१४ सन्नुत्पत्तिमान् कृतको वा शब्द इति पक्षधर्मोपदर्शनम् । ३।१५ सर्व एते साधनधर्मा यथास्वं प्रमाणैः सिद्धसाधनधर्ममात्रानुबन्धे एव साध्यधर्मेऽवगन्तव्याः । ३।१६ तस्यैव तत्स्वभावत्वात् । ३।१७ स्वभावस्य च हेतुत्वात् । ३।१८ वस्तुतस्तयोस्तादात्म्यम् । ३।१९ तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात् । ३।२० व्यभिचारसम्भवाच्च । ३।२१ कार्यहेतोः प्रयोगः - यत्र धूमस्तत्राग्निः । यथा महानसादौ । अस्ति चेह धूम इति । ३।२२ इहापि सिद्धे एव कार्यकारणभावे कारणे साध्ये कार्यहेतुर्वक्तव्यः । ३।२३ वैधर्म्यवतः प्रयोगः- यत्सदुपलब्धिलक्षणप्राप्तं तदुपलभ्यत एव । यथा नीलादिविशेषः । न चैवमिहोपलब्धिलक्षणप्राप्तस्य सत उपलब्धिर्घटस्येत्यनुपलब्धिप्रयोगः । ३।२४ असत्यनित्यत्वे, नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा । संश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः । ३।२५ असत्यग्नौ न भवत्येव धूमः । अत्र चास्ति धूम इति कार्यहेतोः प्रयोगः । ३।२६ साधर्म्येणापि हि प्रयोगेऽर्थाद्वैधर्म्यगतिरिति । ३।२७ असति तस्मिन् साध्येन हेतोरन्वयाभावात् । ३।२८ तथा वैधर्म्येणाप्यन्वयगतिः । ३।२९ असति तस्मिन् साध्याभावे हेत्वभावस्यासिद्धेः । ३।३० नहि स्वभावप्रतिबन्धेऽसत्येकस्य निवृत्तावपरस्य नियमेन निवृत्तिः । ३।३१ स च द्विप्रकारः- सर्वस्य तादात्म्यलक्षणस्तदुत्पतिलक्षणश्चेत्युक्तम् । ३।३२ तेन हि निवृत्ति कथयता प्रतिबन्धो दर्शनीयः । तस्मात्निवृत्तिवचनमाक्षिप्तप्रतिबन्धोपदर्शनमेव भवति । यच्च प्रतिबन्धोपदर्शनं तदेवान्वयवचनमित्येकेनापि वाक्येनान्वयमुखेन व्यतिरेकमुखेन वा प्रयुक्तेन सपक्षासपक्षयोर्लिङ्गस्य सदसत्त्वख्यापनं कृतं भवतीति नावशयं वाक्यद्वयप्रयोगः । ३।३३ अनुपलब्धावपि - यत्सदुपलब्धिलक्षणप्राप्तंतदुपलभ्यत एवेत्युक्ते, अनुपलभ्यमानं तादृशमसदिति प्रतीरेरन्वयसिद्धिः । ३।३४ द्वयोरप्यनयोः प्रयोगयोर्नावश्यं पक्षनिर्देशः । ३।३५ यस्मात्साधर्म्यवत्प्रयोगेऽपि यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते, सोऽसद्वयवहारविषयः । नोपलभ्यते चात्रोपलब्धिलक्षणप्राप्तो घट इत्युक्ते सामर्थ्यादेव नेह घट इति भवति । ३।३६ तथा वैधर्म्यवत्प्रयोगेऽपि- यः सद्व्यवहारविषय उपलब्धिलक्षणप्राप्तः स उपलभ्यत एव । न तथात्र तादृशो घट उपलभ्यते- इत्युक्ते सामर्थ्यादेव नेह सद्वयवहारविषय इति भवति । ३।३७ कीदृशः पुनः पक्ष इति निर्देश्यः? ३।३८ स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्ष इति । ३।३९ स्वरूपेणेति साध्यत्वेनेष्टः । ३।४० स्वरूपेणैवेति साध्यत्वेनैवेष्टो न साधनत्वेनापि । ३।४१ यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः, शब्देऽसिद्धत्वात्साध्यं भवतीति न पुनस्तदिह साध्यत्वेनैवेष्टम्, साधनत्वेनाप्यभिधानात् । ३।४२ स्वयमिति वादिना । ३।४३ यस्तदा साधनमाह । ३।४४ एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह, तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः स्वयं साधयितु मिष्टः स एव साध्यो नेतर इत्युक्तं भवति । ३।४५ इष्ट इति यत्रार्थे विवादेन साधनमुपन्यस्तं तस्य सिद्धिमिच्छता सोऽनुक्तोऽपि वचनेन साध्यो भवति । ३।४६ तदधिकरणत्वाद्विवादस्य । ३।४७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्छयनासनाद्यङ्गवदिति । अत्रात्मार्था इत्यनुक्तावप्यात्मार्थतैव साध्या । तेन नोक्तमात्रमेव साध्यम्- इत्युक्तं भवति । ३।४८ अनिराकृत इति- एतल्लक्षणयोगेऽपि यः साधयितुमिष्टोऽप्यर्थः प्रत्यक्षानुमानप्रतीतिस्ववचनैर्निराक्रियते, न स पक्ष इति प्रदर्शनार्थम् । ३।४९ तत्र प्रत्यक्षनिराकृतो यथा- अश्रावणः शब्द इति । (१) ३।५० अनुमाननिराकृतो यथा- नित्यः शब्द इति । (२) ३।५१ प्रतीतिनिराकृतो यथा- अचन्द्रः शशीति । (३) ३।५२ स्ववचननिराकृतो यथा- नानुमानं प्रमाणमिति । (४) ३।५३ इति चत्वारः पक्षाभास निराकृता भवन्ति । ३।५४ एवं सिद्धस्य असिद्धस्यापि साधनत्वेनाभिमतस्य, स्वयं वादिना तदा साधयितुमनिष्टस्य, उक्तमात्रस्य, निराकृतस्य च विपर्येण साध्य इति । तेनैव स्वरूपेणाभिमतो वादिन इष्टोऽनिराकृतः पक्ष इति पक्षलक्षणमनवद्यं दर्शितं भवति । ३।५५ त्रिरूपलिङ्गाख्यानं परार्थानुमानमित्युक्तम् । तत्र त्रयाणां रूपाणामेकस्यापि रूपस्यानुक्तो साधनाभासः । ३।५६ उक्तावप्यसिद्धौ सन्देहे वा प्रतिपाद्यप्रतिपादकयो । ३।५७ एकस्य रूपस्य धर्मिसम्बन्धस्यासिद्धो सन्देहे वासिद्धो हेत्वाभासः । ३।५८ यथा -ऽअनित्यः शब्दःऽ इति साध्ये चाक्षुषत्वमुभयासिद्धम् । ३।५९ऽचेतनास्तरवःऽ इति साध्ये सर्वत्वगपहरणे मरणं प्रतिवाद्यसिद्धम्, विज्ञानेन्द्रियायुर्निरोधलक्षणस्य मरणस्यानेनाभ्युपगमात्, तस्य च तरुष्वसम्भवात् । ३।६०ऽअचेतनाः सुखादयऽ इति साध्ये उत्पत्तिमत्त्वम्, अनित्यत्वं व सांख्यस्य स्वयं वादिनोऽसिद्धम् । ३।६१ तथा स्वयं तदाश्रयणस्य वा सन्देहेऽसिद्धिः । ३।६२ यथा वाष्पादिभावेन सन्दिह्यमानो भूतसङ्घातोऽग्निसिद्धावुपदिश्यमानः सन्दिग्धासिद्धः । ३।६३ यथेह निकुञ्जे मयूरः केकायितादिति । ३।६४ तदापातदेशभ्रमे । ३।६५ धर्म्यसिद्धावप्यसिद्धः- यथा सर्वगत आत्मेति साध्ये सर्वत्रोपलभ्यमानगुणत्वम् । ३।६६ तथैकस्य रूपस्यासपक्षेऽसत्त्वस्यसिद्धावनैकान्तिको हेत्वाभासः । ३।६७ यथा शब्दस्यानित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिको धर्मः सपक्षविपक्षयोः सर्वत्रैकदेशे वा वर्तमानः । ३।६८ तथा- अस्यैव रूपस्य सन्देहेऽप्यनैकान्तिक एव । ३।६९ यथासर्वज्ञः कश्चिद्विवक्षितः पुरुषो राजादिमान् वेति साध्ये वक्तृत्वादिको धर्मः सन्दिग्धविपक्षव्यावृत्तिकः । ३।७०ऽसर्वज्ञो वक्ता नोपलभ्यतेऽ इत्येवम्प्रकारस्यानुपलम्भस्यादृश्यात्मविषयत्वेन सन्देहहेतुत्वात् । ततोऽसर्वज्ञविपर्याद्वक्तृत्वादेर्व्यावृत्तिः सन्दिग्धा । ३।७१ वक्तृत्वसर्वज्ञत्वयोर्विरोधाभावाच्च यः सर्वज्ञः स वक्ता न भवतीत्यदर्शनेऽपि व्यतिरेको न सिध्यन्ति, सन्देहात् । ३।७२ द्विविधो हि पदार्थानां विरोध । ३।७३ अविकलकारणस्य भवतोऽन्यभावेऽभावाद्विरोधगतिः ३।७४ शीतोष्णस्पर्शवत् । ३।७५ परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् । ३।७६ स च द्विविधोऽपि विरोधो वक्तृत्वसर्वज्ञत्वयोर्न सम्भवति । ३।७७ न चाविरुद्धविधेरनुपलब्धावप्यभावगतिः । ३।७८ रागादीनां वचनादेश्च कार्यकारणभावासिद्धेः । ३।७९ अर्थान्तरस्य चाकारणस्य निवृत्तौ न वचनादेर्निवृत्तिः । ३।८० इति सन्दिग्धव्यतिरेकोऽनैकान्तिको वचनादिः । ३।८१ द्वयो रूपयोर्विपर्ययसिद्धौ विरुद्धः । ३।८२ कयोर्द्वयोः? ३।८३ सपक्षे सत्त्वस्य, असपक्षे चासत्त्वस्य । यथा कृतत्वं प्रयत्नानन्तरीय कत्वं च नित्यत्वे साध्ये विरुद्धो हेत्वाभासः । ३।८४ अनयोः सपक्षेऽसत्त्वम्, असपक्षे च सत्त्वमिति विपर्ययसिद्धिः । ३।८५ एतौ च साध्यविपर्ययसाधनाद्विरुद्धौ । ३।८६ ननु च तृतीयोऽपीष्टविघातकृद्विरुद्धः । ३।८७ यथा परार्थाश्चक्षुरादयः सङ्घातत्वाच्चयनासनाद्यङ्गवदिति । ३।८८ तदिष्टासंहतपारार्थ्यविपर्ययसाधनाद्विरुद्धः । ३।८९ स इह कस्मान्नोक्तः? ३।९० अनयोरेवान्तर्भावात् । ३।९१ नह्ययमाभ्यां साध्याविपर्ययसाधनत्वेन भिद्यते । ३।९२ नहीष्टोक्तयोः साध्यत्वेन कश्चिद्विशेष इति । ३।९३ द्वयो रूपयोरेकस्यासिद्धावपरस्य च सन्देहेऽनैकान्तिक । ३।९४ यथा वीतरागः कश्चित्सर्वज्ञो वा, वक्तृत्वादिति । व्यतिरेकोऽत्रासिद्धः । सन्दिग्धोऽन्वयः । ३।९५ सर्वज्ञवीतरागयोर्विप्रकर्षाद्वचनादेस्तत्र सत्त्वमसत्त्वं वा सन्दिग्धम् ३।९६ अनयोरेव द्वयो रूपयोः सन्देहेऽनैकान्तिकः । ३।९७ यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वादिति । ३।९८ न हि सात्मकनिरात्मकाभ्यामन्यो राशिरस्ति यत्रायं प्राणादिर्वर्तेत । ३।९९ आत्मनो वृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् । ३।१०० नाप्यनयोरेकत्र वृत्तिनिश्चयः । ३।१०१ सात्मकत्वेनानात्मकत्वेन वा प्रसिद्धे प्राणादेरसिद्धेः । ३।१०२ तस्माज्जीवच्छरीरसम्बन्धी प्राणादिः सात्मकादनात्मकाच्च सर्वस्माद्व्यावृत्तत्वेनासिद्धेस्ताभ्यां न व्यतिरिच्यते । ३।१०३ न तत्रान्वेति । ३।१०४ एकात्मन्यप्यसिद्धेः । ३।१०५ नापि सात्मकादनात्मकाच्च तस्यान्वयव्यतिरेकयोरभावनिश्चयः । ३।१०६ एकाभावनिश्चयस्यापरभावनिश्चयनान्तरीयकत्वात् । ३।१०७ अन्वयव्यतिरेकयोरन्योन्यव्यवछेदरूपत्वात्, तत एवान्वयव्यतिरेकयोः सन्देहादनैकान्तिकः । ३।१०८ साध्येतरयोरतो निश्चयाभावात् । ३।१०९ एवमेषां त्रयाणां रूपाणामेकैकस्य द्वयोर्द्वयोर्वा रूपयोरसिद्धौ सन्देहे वा यथायोगमसिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः । ३।११० विरुद्धाव्यभिचार्यपि संशयहेतुरुक्तः । स इह कस्मान्नोक्तः? ३।१११ अनुमानविषयेऽसम्भवात् । ३।११२ न हि सम्भवोऽस्ति कार्यस्वस्वभावयोरुक्तलक्षणयोरनुपलम्भस्य च विरुद्धतायाः । ३।११३ न चान्योऽव्यभिचारी । ३।११४ तस्मादवस्तुदर्शनबलप्रवृत्तमागमश्रयमनुमानमाश्रित्व तदर्थविचारेषु विरुद्धाव्यभिचारी साधनदोष उक्तः । ३।११५ शास्त्रकाराणामर्थेषु भ्रान्त्या विपरीतस्वभावोपसंहारसम्भवात् । ३।११६ न ह्यस्य सम्भवो यथावस्थितवस्तुस्थितिष्वात्मकार्यानुपलम्भेषु । ३।११७ तत्रोदाहरणम्- यत्सर्वदेशस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत्सर्वगतम् । यथाकाशम् । अभिसम्बध्यते च सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत्सामान्यमिति । ३।११८ तत्सम्बन्धिस्वभावमात्रानुबन्धिनी तद्देशसन्निहितस्वभावता । ३।११९ न हि यो यत्र नास्ति स तद्देशमात्मना व्याप्नोतीति स्वभावहेतुप्रयोगः । ३।१२० द्वितीयोऽपि प्रयोगः- यदुपलब्धिलक्षणप्राप्तं सन्नोपलभ्यते न तत्तत्रास्ति । तद्यथा- क्वचिदविद्यमाना घटः । नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भः स्वभावश्च परस्परविरुद्धार्थसाधनादेकत्र संशयं जनयतः । ३।१२१ त्रिरूपो हेतुरुक्तः । तावता नार्थप्रतीतिरिति नपृथग्दृष्टान्तो नाम साधनावयव कश्चित् । तेन नास्य लक्षणं पृथगुच्यतेः गतार्थत्वात् । ३।१२२ हेतोः सपक्षः एव सत्त्वमसपक्षाच्च सर्वतो व्यावृत्तो रूपमुक्तमभदेन । पुनर्विशेषेण कार्यस्वभावयोरुक्तलक्षणयोर्जन्मतन्मात्रनुबन्धो दशनीयावुक्तौ । तच्च दर्शयता- यत्र धूमस्तत्राग्निः, असत्यग्नौ न क्वचिद्धूमा यथा महानसेतरयोः । यत्र कृतकत्वं तत्रानित्यत्वम्, अनित्यत्वाभावे कृतकत्वासम्भवो यथा घटाकाशयोरिति दर्शनीयम् । न ह्यन्यथा सपक्षविपक्षयाः सदसत्त्वे यथोक्तप्रकारे शक्ये दशयितुम् । तत्कार्यतानियमः कार्यलिङ्गस्य, स्वभावलिङ्गस्य च स्वभावेन व्याप्तिः । अस्मिश्चार्थे दर्शिते दर्शित एव दृष्टान्ता भवतिः, एतावन्मात्ररूपत्वान् तस्येति । ३।१२३ एतेनैव दृष्टान्तदोषा अपि निरस्ता भवन्ति । ३।१२४ यथा नित्यः शब्दोऽमूर्तत्वात्, कर्मवत्परमाणुवद्घटवदिति । एते दृष्टान्ताभासाः साध्यसाधनधर्मोभयाविकलाः । ३।१२५ तथा सन्दिग्धसाध्यधर्मादयश्च । यथा- रागादिमानयं वचनाद्रथ्यापुरुषवत् । मरणधर्मायं पुरुषो रागादिमत्त्वाद्रथ्यापुरुषवत् । असर्वज्ञोऽयं(पुरुषो) रागादिमत्त्वाद्रथ्यापुरुषवदिति । ३।१२६ तथानन्वयोऽप्रदर्शितान्वयश्च । यथा- यो वक्ता स रागादिमान्, इष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद्घटवदिति । ३।१२७ तथा विपरीतान्वयः- यदनित्यं तत्कृतकमिति । ३।१२८ साधर्म्येण दृष्टान्तदोषाः । ३।१२९ वैधर्म्येणापि- परमाणुवत्कर्मवदाकाशवदिति साध्याद्यव्यतिरेकिणः । ३।१३० तथा सन्दिग्धसाध्यव्यतिरेकादयः । यथा- असर्वज्ञाः कपिलादयोऽनाप्ता वा अविद्यमानसर्वज्ञताप्ततालिङ्गभुतप्रमाणातिशयशासनत्वादिति । अत्र वैधर्म्योदाहरणम्- यः सर्वज्ञ आप्तो वा स ज्योतिर्ज्ञानादिकमु पदिष्टवान् । यथा- ऋषभवर्धमानादिरिति । तत्रासर्वज्ञतानाप्ततयोः साध्यधर्मयोः सन्दिग्धो व्यतिरेकः । ३।१३१ सन्दिग्धसाधनवतिरेको यथा- न त्रयिविदा ब्राह्मणे ग्राह्यवचन कश्चिद्विविक्षितः पुरुषो रागादिमत्त्वादिति । अत्र वेधर्म्योदाहरणम्- ये ग्राह्यवचना न ते रागादिमन्तः, तद्यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति । गौतमादिभ्यो रागादिमत्त्वस्य साधनधर्मस्य व्यावृत्तिः सन्दिग्धा । ३।१३२ सन्दिग्धोभयव्यतिरेको यथा- अवितरागाः कपिलादयः, परिग्रहाग्रहयोगादिति । अत्र वैधर्म्यणोदाहरनम्- यो वीतरागो न तस्य परिग्रहाग्रह, यथर्षभादेरिति । ऋषभादेरवीतरागत्वपरिग्रहाग्रहयोगयोः साध्यसाधनधर्मयोः सन्दिग्धो व्यतिरैकः । ३।१३३ अव्यतिरेको यथा- अवीतरागोऽयं वक्तृत्वात् । वैधर्म्येणोदाहरणम् - यत्रावीतरागत्वं नास्ति, न स वक्ता । यथा - उपलखण्ड इति । यद्यप्युपलखण्डादुभयं व्यावृत्त तथापि सर्वो वीतरागो न वक्तेति व्याप्त्या व्यतिरैकासिद्धेरव्यतिरकः । ३।१३४ अप्रदर्शितव्यतिरेको यथा- अनित्यः शब्दः कृतकत्वादाकाशवदिति वैधर्म्येण । ३।१३५ विपरीतव्यतिरेको यथा- यदकृतक तन्नित्यं भवतीति ३।१३६ न ह्येभिर्दृष्टान्ताभासैर्हेतोः सामान्यलक्षणं सपक्ष एव सत्त्वं विपक्षो च सर्वत्रासत्त्वमेव निश्चयेन शक्यं दर्शयितुं विशेषलक्षणं वा । तदर्थापत्त्यैषां निरासो द्रष्टव्यः । ३।१३७ दूषणा न्यूनताद्युक्तिः । ३।१३८ ये पूर्वं न्यूनतादयः साधनदोषा उक्तास्तेषामुद्भावनं दूषणम् । तेन परेष्टार्थसिद्धिप्रतिबन्धात् । ३।१३९ दूषणाभासास्तु जातयः । ३।१४० अभूतदोषोद्भावनानि जात्युत्तरणीति । इति तृतीयः परार्थानुमानपरिच्छेदः ॥ न्यायबिन्दुप्रकरणं समाप्तम्