नमो बोधिसत्त्वाय मञ्जुश्रिये कुमारभूताय । कालत्रयाखिलजिनांश्च तदीयधर्मान् सङ्घान्महादरतया प्रणिपत्य चापि । बोधिप्रभेण कथितो विशदीकरोमि शिष्योत्तमेन खलु बोधिपथप्रदिपम् ॥ १ ॥ पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः । लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः ॥ २ ॥ उपायेन तु केनापि केवलं संसृतेः सुखम् । स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषोऽधमः ॥ ३ ॥ पापकर्मनिवृत्तात्मा भवसुखात्पराङ्मुखः । आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः ॥ ४ ॥ स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा । सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः ॥ ५ ॥ काङ्क्षन्तो हि वरां बोधिं सत्त्वानामुत्तमास्तथा । दर्शितान् गुरुभिस्तेभ्यः सदुपायां प्रचक्ष्महे ॥ ६ ॥ सम्बुद्धचित्रमूर्त्यादिस्तूपसद्धर्मसम्मुखः । पुष्पैधुपैः पदार्थैश्च यथाप्राप्तैः सुपूजयेत् ॥ ७ ॥ समन्तभद्रचर्योक्ता पूजा सप्तविधापि च । बोधिसारस्य पर्यन्तमवैवर्तिकचित्ततः ॥ ८ ॥ सुश्रद्धया त्रिरत्नेयः भुमौ संस्थाप्य जानुनी । भूत्वा कृताञ्जलिश्चापि त्रिश्चादौ शरणं व्रजेत् ॥ ९ ॥ ततः समस्तसत्त्वेषु मैत्रीचित्त पुरस्कृतः । दुर्गतित्रयाजन्मादिसङ्क्रान्तिमरणादिभिः ॥ १० ॥ दृष्ट्वाशेषं जगद्दुखं दुःखेन दुखितायाश्च । दुःखहेतोस्तथा दुःखात्जगतां मुक्तिकाङ्क्षया ॥ ११ ॥ बोधिचित्तं समुत्पाद्यमनापायिप्रतिज्ञया । एवं प्रणिधिचित्तानामुत्पादेतु गुणाश्च ये ॥ १२ ॥ ते गण्डव्यूहसूत्रेषु मैत्रेयेण प्रभाषिताः । सूत्रस्य तस्य पठनाच्छ्रवणाद्गुरोर्वा सम्बोधिचित्तगुणकानि निरन्तकानि ॥ १३ ॥ विज्ञाय तस्य खलु संस्थितारर्णान । चित्तं तथा समुदयेत मुहुर्मुहश्च । वीरदत्तपरीपृच्छासूत्रे पुण्यं प्रदर्शितम् ॥ १४ ॥ यत्तच्श्लोकत्रयेणैव समासेनात्रलिख्यते । बोधिचित्ताद्धि यत्पुण्यं तच्च रुपि भवेद्यदि ॥ १५ ॥ आकाशधातुं सम्पूर्य भुयश्चोत्तरि तद्भवेत् । गङ्गावालिकसङ्ख्यानि बुद्धक्षेत्राणि यो नरः ॥ १६ ॥ दद्यात्सद्रत्न पूर्णानि लोकनाथेभ्य एव हि । यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत् ॥ १७ ॥ इयं विशेष्यते पूजा यस्यान्तोऽपि न विद्यते । उत्पाद्यबोधिप्रणिधानचित्तं नैकप्रयत्नैः परिवर्धितव्यम् ॥ १८ ॥ जन्मान्तरेऽपि स्मरणार्थमस्य शिक्षा यथोक्ता परिपालनीया । प्रस्थानचित्ते स्वयमातिरिक्तं सम्यग्भवेन्न प्रणिधानवृद्धिः ॥ १९ ॥ सम्बोधिसंवार विवृद्धिकामः तस्माद्ध्रुवं चैनमवाप्नुयात । सप्तधाप्रातिमोक्षैश्च सदान्यसंवरान्वितः ॥ २० ॥ भाग्यं बोधिसत्त्वानां संवरस्य न चान्यथा । सप्तधा प्रातिमोक्षेषु भाषितेषु तथागतैः ॥ २१ ॥ ब्रह्मचर्यश्रियः श्रेष्ठाः भिक्षुसंवर इष्यते । शीलाध्यायोक्तविधिना बोधिसत्त्वस्य भुमिषु ॥ २२ ॥ संवरः सद्गुरोर्ग्राह्यः सम्यग्लक्षणयुक्ततः । यः संवरविधौ दक्षः स्वयं च संवरे स्थितः ॥ २३ ॥ कृपालुः संवरे शक्तः ज्ञातव्यः सद्गुरुस्तु सः । तत्र यत्नेन न प्राप्तो गुरुश्चैतादृशो यदि ॥ २४ ॥ संवरग्रहणस्यान्यो विधिः तस्मात्समुयच्ते । अम्बरराजभुतेन पूर्वं मञ्जुश्रिया यथा ॥ २५ ॥ बोधिचित्तं समुत्पादि सुस्पष्टं चात्र लिख्यते । मञ्जुश्रिबुद्धक्षेत्रालङ्कारसूत्रोक्तिवत्तथा ॥ २६ ॥ उत्पादयामि सम्बोधौ चित्तं नाथस्य सम्मुखम् । निमन्त्रये जगत्सर्वं दारिद्यान्मोचितास्मि तत् ॥ २७ ॥ व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यमेव व । अध्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता ॥ २८ ॥ ब्रह्मचर्यं चरिष्यामि कामांस्त्यक्ष्यामि पापकान् । बुद्धानामानुशिक्षिष्ये शीलसंवर संयमे ॥ २९ ॥ नाहं त्वरितरुपेण बोधिं प्राप्तुमिहोत्सहे । परान्तकोटिं स्थास्यामि सत्त्वस्यैकस्य कारणात् ॥ ३० ॥ क्षेत्रं विशोधिष्यामि अप्रमेयमचिन्तिम् । नामधेयं करिष्यामि दशदिक्षु च विश्रुतम् ॥ ३१ ॥ कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः । शोधयिष्ये मनस्कर्म कर्तास्मि नाशभम् ॥ ३२ ॥ स्वकायवाकचित्तविशुद्धिहेतु, प्रस्थानचित्तात्मयमस्थितेन । त्रिशीलशिक्षापरिशियेत चेत्, त्रिशीलशिक्षासु महादरस्यात् ॥ ३३ ॥ शुद्धसम्बोधिसत्त्वानां तस्मात्संवरसंवृतौ । यत्नात्सम्बोधिसम्भारः परिपूर्णो भविष्यति ॥ ३४ ॥ पुण्यज्ञानस्वभावस्य सम्भारस्य तु पूर्तये । सर्वबुद्धमतोहेतुरभिज्ञोत्पाद एव हि ॥ ३५ ॥ पक्षवृद्धिं विना पक्षी खे नोडडेतुं यथा क्षमः । तथाभिज्ञाबलैर्हीनः सत्त्वार्थकरणेऽक्षमः ॥ ३६ ॥ अभिज्ञस्य दिवारात्रौ यानि पुण्यानि सन्ति वै । अभिज्ञायाश्च राहित्ये नैव जन्मशतेषु च ॥ ३७ ॥ शीघ्रं सम्बोधिसम्भारं सम्पूरयितुमिच्छति । निरालस्येन यत्नेनाभिज्ञां संसाधयेत्तु सं ॥ ३८ ॥ शमथसिद्धयभावेऽभिज्ञानं न जायते । अतः शमथसिद्धयर्थं यतितव्यं पुनः पुनः ॥ ३९ ॥ शमथङ्गप्रहीणत्वे तद्यत्नैर्भावितेऽपि च । संवत्सरसहस्रैश्च समाधिर्नैव सेत्स्यति ॥ ४० ॥ अतः समाधिसम्भाराध्यायोक्ताङ्गसमाश्रितः । कस्मिंश्चितलम्बनेऽपि पुण्ये संस्थापयेन्मनः ॥ ४१ ॥ योगिनः शमथे सिद्धेऽभिज्ञानं चापि सेत्स्यति । प्रज्ञापारमितायोगं विना नावरणक्षयः ॥ ४२ ॥ क्लेशज्ञेयावृतेस्तस्मात्प्रहाणार्थमशेषतः । प्रज्ञापारमितां योगी सोपायं भावयेत्सदा ॥ ४३ ॥ उपायरहिता प्रज्ञाप्युपायः प्रज्ञया विना । यतो बन्ध इति प्रोक्तौ प्रहेयं नोभयं ततः ॥ ४४ ॥ का प्रज्ञा क उपायश्च शङ्कामिति निरासितुम् । उपायस्य च प्रज्ञायाः भेदः सम्यक्प्रकाश्यते ॥ ४५ ॥ प्रज्ञापारमितां त्यक्त्वा दानपारमितादयः । सर्वे हि कुशलाः धर्माः उपायाः जिनभाषिताः ॥ ४६ ॥ उपायाभ्यासवश्यात्मा यो हि प्रज्ञां विभावयेत् । शीघ्रं स लभते बोधिं न नैरात्म्यैकभावनात् ॥ ४७ ॥ स्कन्धायतनधातूनामनुत्पादावबोधिनाम् । स्वभावशून्यताज्ञानं प्रज्ञेति परिकीर्तिता ॥ ४८ ॥ सदुत्पत्तिरयुक्तास्ति असच्चापि खपुष्पवत् । द्वयोर्दोषप्रसङ्गत्वातुद्भावो न द्वयोरपि ॥ ४९ ॥ अनुत्पन्नः स्वतो भावो परतो नोभयोरपि । अहेतुतेश्च नो तस्मात्निःस्वभावः स्वरुपतः ॥ ५० ॥ अथवा सर्वधर्माणां चैकानेकविचारणे । स्वरुपाप्राप्यमाणत्वात्निःस्वभावत्वनिश्चयः ॥ ५१ ॥ शुन्यतासप्तौ युक्तौ मूलमध्यमकादिषु । सिद्धो भावस्वभावस्तु शुन्यतायां भाषितः ॥ ५२ ॥ ग्रन्थस्य गौरवो यस्मातत्र तस्मान्न विस्तरः । सिद्धसिद्धान्तमात्रैकं भावनार्थं प्रभाषितम् ॥ ५३ ॥ तस्मादशेषधर्माणां स्वभावनामलाभतः । नैरात्म्यभावना या हि सा प्रज्ञायास्तु भावना ॥ ५४ ॥ प्रज्ञया सर्वधर्मणां यत्स्वभावो न दृष्टवत् । युक्तया परीक्ष्य तां प्रज्ञां सोऽविकल्पेन भावयेत् ॥ ५५ ॥ भवो विकल्पोभूतोऽयं तद्विकल्पात्मकस्ततः । सर्वकल्पपरित्यागः निवार्णः परमोऽस्ति हि ॥ ५६ ॥ एवमप्युक्तं भगवता - - महाविद्या विकल्पो हि संसारार्णवपातकः । निर्विकल्पसमाधिस्थेऽविकल्पो भासते खवत् ॥ ५७ ॥ अविकल्पप्रवेशधारण्यामपि उक्तम् - - चिन्तितेनिर्विकल्पेऽस्मिन् सद्धर्मे जिनपुत्रकैः । विकल्पं दुर्गमं तीर्त्वाविकल्पो प्राप्स्यते क्रमात् ॥ ५८ ॥ निश्चयीयागमयुक्तिभ्यां स्वभाव रहितान् तथा । सर्वान् धर्मानुत्पन्नानविकल्पं भावयेत् ॥ ५९ ॥ भावयन्निदमेवेत्थं प्राप्योष्णत्वादिकं क्रमात् । लभते प्रमुदित्वादिं बुद्धबोधिर्न लम्बिता ॥ ६० ॥ साधितैर्मन्त्रशक्तया हि शान्तिविस्तरकर्मभिः । भद्रकुम्भादिसिद्धाष्टमहासिद्धिबलेन च ॥ ६१ ॥ अभीष्टा बोधिसम्भारपरिपूर्तिः सुखेन चेत् । क्रियाचर्यादि तन्त्रोकं गुह्याचरणभिष्यते ॥ ६२ ॥ तदाचार्यभिषेकार्थं महारत्नादिदानतः । सद्गुरुं प्रीणयेद्भक्तया सर्वाञ्ज्ञादिपालनैः ॥ ६३ ॥ प्रसन्ने च गुरौ भूते पूर्णाचार्याभिषेकतः । सर्वपापविशुद्धात्मा सिद्धिभागी भविष्यति ॥ ६४ ॥ आदिबुद्धमहातन्त्रे प्रयत्नेन निषेधतः । गुह्यप्रज्ञाभिषेकस्तु न ग्रह्या ब्रह्मचाररिणा ॥ ६५ ॥ सोऽभिषेको गृहीतश्चेत्ब्रह्यचर्यतपः स्थितैः । निषिद्धाचरणत्वात्तत्तपः सम्वरक्षयः ॥ ६६ ॥ जायन्ते व्रतिनस्तस्य पाराजिकविपत्तयः । सः पतेद्दुर्गतौ नूनं सिद्धिर्नैव कदाचन ॥ ६७ ॥ सर्वतन्त्रश्रुतौ भाष्ये होमयज्ञादिकर्मासु । लब्धाचार्याभिषेकश्च तत्त्वविद नैव दुष्यति ॥ ६८ ॥ दीपङ्करश्रिया बोधिपथः प्रोक्तः समासतः । दृअष्ट्वा सूत्रादिधर्मोक्तिं बोधिप्रभनिवेदनात् ॥ ६९ ॥