०.१ ... तां मुन तत्त्वोपप्लवसिंहैष विषमो नुनं मय ... ... नास्ति तत्फलं वा स्वर्गादि । सत्यं, तावदात्तस्य कर्मणः सम्भोक्तं च परमार्थविद्भिरपि लौकिको मार्गोऽनुसर्तव्यः अ ... । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ इत्यादि । ०.२ ननु यद्युपप्लवस्तत्त्वानां किमायाथातस्तत्त्वं व्याख्यास्यामः । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञेत्यादि । नान्यार्थत्वात् । किमर्थम्? प्रतिबिम्बनार्थम् । किं पुनरत्र प्रतिबिम्ब्यते? पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि । तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते । किं पुनरन्यानि? ०.३ अथ कथं तानि न सन्ति? तदुच्यते सल्लक्षणनिबन्धनं मानव्यवस्थानम् । माननिबन्धना च मेयस्थितिः । तदभावे तयोः सद्व्यवहारविषयत्वं कथं ... ताम् । अथ ... न ब ... व्यवहारः क्रियते, तदात्मनि रूपास्तितत्वव्यवहारो घटादौ च सुखास्तित्वव्यवहारः प्रवर्तयितव्यः [अध्याय १: एxअमिनतिओनोf थे न्याय देfइनितिओनोf पेर्चेप्तिओन्] १. इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति तल्लक्षणम् । १.१ तच्चाव्यभिचारित्वम् ... किमदुष्टकारकसन्दोहोत्पाद्यत्वेनाहोस्विद्बाधारहितत्वेन प्रवृत्तिसामर्थ्येनान्यथा वा? १.११ तद्यद्यदुष्टकारकसन्दोहोत्पाद्यत्वेनाव्यभिचारित्वं, सैव कारणानामदुष्टता केनावगम्यते? न प्रत्यक्षेण, नयनकुशलादेरतीन्द्रियत्वात् । नाप्यनुमानेन, लिङ्गान्तरानवगतेः । नन्विदमेव ज्ञानं लिन्गं तदुत्थं तस्य विशिष्टतां गमयति । यद्येवमितरेतराश्रयत्वं दुरुत्तरमापनीपद्यते । किं चेन्द्रियाणां गुणदोषाश्रयत्वे तदुत्थे विज्ञाने दोषाशङ्का नातिवर्तते, पुंव्यापारोत्पादितशब्दविज्ञानेव । १.१२ अथ बाधानुत्पत्त्याव्यभिचारित्वं ज्ञायते, बाधानुत्पत्तिर्विज्ञानस्य किं यथार्थगृहीतित्वेनाहोस्विद्बाधकज्ञानोत्पादककारकवैकल्यादिति सन्दिह्मः । दृश्यते हि बाधकज्ञानोत्पादककारकवैकल्याद्बाधानुत्पादः । यथा दूरे मरीचिनिचये जलज्ञाने जाते बाधा न सम्पद्यते,ऽभ्यासदेशावस्थितस्य कारकोपनिपाते सत्युत्पद्यते । सा चोपजायमाना संवत्सरादिकालविकल्पेन सञ्जायते । कदाचिच्च कारकवैकल्यान्नैव सम्पद्यते । न चैतावता तस्य यथार्थतोपपद्यते । अपि च बाधाविरहैव <न> बाधासद्भावावेदकस्, तदुपलब्धत्वेन तत्सद्भावोपलब्धेः । १.१२आन्यच्च बाधाविरहः किं सर्वपुरुषापेक्षयाहोस्वित्प्रतिपत्त्रपेक्षया? तद्यदि सर्वपुरुषापेक्षया तद्विरहोप्य ... सर्वज्ञाः स्युः । भवन्तु नाम सर्वे सर्वज्ञाः, को दोषः? असर्वज्ञव्यवहाराभावप्रसङ्गः । अथ प्रतिपत्त्रपेक्षया बाधानुत्पादः प्रतिपत्तुर्बाधकं विज्ञानं नोत्पद्यते, तेन तदव्यभिचारि । तदयुक्तं, प्रतिपत्तुर्बाधकज्ञानानुत्पादेऽपि देशान्तरगमनमरणादिना मणिमरीच्यादिविपर्ययज्ञानदर्शनात् । अथवा तद्विपर्ययज्ञानं तथाविधमेवोत्पन्नं स्वप्रभवस्वभावानुप्रवेशेन, यद्बाधकविज्ञानोत्पादप्रतिबन्धकृत् । तद्ध्वंसोऽपि तथाभतैव परेष्टसम्यग्ज्ञानवत् । एवं सति यदुक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः सैवासमीचीनः प्रत्ययेत्येतदेवासमीचीनम् । १.१३ अथ प्रवृत्तिसामर्थ्येनाव्यभिचारितां वेत्सि । प्रवृत्तिसामर्थ्यं फलेनाभिसम्बन्धः, फलं च स्रक्चन्दनवनितोदकादि, तेषु सत्यफलनिष्पत्तेस्तेषु फलोपचारस्, तद्देहसम्बन्धः प्रवृत्तिसामर्थ्यम् । प्रवृत्तिः कायस्था क्रिया, तत्सामर्थ्यमव्यभिचारितां गमयति । तत्किमवगतमनवगतं वा? यदि नावगतं, तदस्तीति कथं वेत्सि? अथावगतं, तदवगतेरव्यभिचारिता कथमवगम्यतेति पूर्वोक्तमनुसर्तव्यम् । १.१३ दकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्याव्यभिचारिता व्यवस्थाप्यते । किं तत्प्रतिभातोदकप्राप्त्याहोस्वित्तज्जातीयोदकप्राप्त्या तद्वंशजजलप्राप्त्या वा? १.१३ १ तद्यदि प्रतिभातोदकप्राप्त्या, तदयुक्तम् । प्रतिभातोदकस्यावस्थानं नोपपद्यते, झषमहिषपरिवर्तनाभिघातोपजातावयवक्रियान्यायेन प्रत्यस्तमयसम्भवात् । १.१३ २ अथ तज्जातीयोदकप्राप्त्या, एवं तर्ह्यसत्योदकज्ञानेऽपि जते क्वचित्तोयमासादयन्ति पुमांसः । तदप्यवितथं स्यात् । अथ तद्देशकालसंलग्नमुदकं न प्रापयति मिथ्याज्ञानं, सम्यग्ज्ञानं तु तद्देशकालसंलग्नमुदकं प्रापयति, तेन तदव्यभिचारीति चेद्, यन्न प्रापयति, तद्व्यभिचारि; तर्हि मुमर्षुपदा ज्ञानं चन्द्रार्कग्रहनक्षत्रतारकादिसंवेदनं च व्यभिचारि प्राप्नोति । न च तद्देशकालसंलग्नोदकप्रापकत्वमस्ति, देशस्याप्युदकवद्विनाशसम्भवात् । अ. न च जातेःसम्भवोऽस्ति । सैव कथम्? कथ्यते सोदकव्यक्तिभ्योऽभिन्ना भिन्ना भिन्नाभिन्ना वेति । अ.१ तद्यदि तादात्म्यव्यवस्थिता, तदेह तासां नानात्वेन तस्यापि नानात्वोपपत्तिः । तदेकत्वे च सर्वासामेकतापत्तिः । एकत्वे च निःसामान्यता तादात्म्यविपर्यासो वा । अ.२ अथार्थान्तरभूता सा व्यावृत्ताकारानुगताकारा वा । तद्यदि व्यावृत्ताकारा, न तस्याः सामान्यरूपत्वं व्यावृत्तैकस्वभावत्वात्तोयादिवत् । अथानुस्यूतरूपा, तत्किमात्मरूपानुस्यूता पररूपानुस्यूता वा? तद्यद्यात्मरूपानुस्यूता, तदयुक्तम्, आत्मन्यनुगमाभावात् । अथ पररूपानुस्यूता, केयं पररूपानुस्यूतता किं तत्तादात्म्यं तत्समवायो वा? तद्यदि तादात्म्यं, सामान्यतद्वतोरभेदप्रसङ्गः । अथ पररूपसमवायोऽनुस्यूताकारता, तदयुक्तम् । सामान्याद्भिन्नः समवायः । सामान्यस्यानुगतं रूपमालोचयितुमारब्धं, न ततोऽन्यस्य । अ.२ यदि चोदकजातीयार्थप्राप्त्याव्यभिचारिता पूर्वोदितोदकविज्ञानस्य व्यवस्थाप्यते, तदोदकजातेर्गवादावपि सम्भवोऽस्ति, गवादिप्राप्त्याव्यभिचारितोदकविज्ञानस्य स्यात् । अथोदकत्वस्य गवादावभावेति चेत्, किमितरेतराभावः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो वा? तद्यदीतरेतराभावस्तदोदकादावपि समानमुदकत्वस्याभावप्रसङ्गः । उदकरूपता नोदकत्वस्योदकत्वरूपता च नोदकस्यल् । अथ प्रागभावस्तदोदकेऽप्युदकत्वस्याभावप्रसङ्गः । अथ प्रध्वंसाभावस्तदोदकेऽप्यभावप्रसङ्गः । अथान्यत्रास्ति, नैकत्र प्रत्यस्तमितस्यान्यत्र सम्भवोपपद्यते । अथात्यन्ताभावस्तदोदकेऽपि तस्याभावप्रसङ्गः । अथ सम्बन्धाभावाद्गवादावुदकत्वाभावेति चेत्, तत्रापि किमितरेतराभावः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो वेति पूर्ववद्वक्तव्यम् । निमित्तान्तराभावाद्गवादावुदकत्वाभावेति चेत्, सोऽत्रापि समानः । अ.२ न चोदकव्यक्तीनां नानात्वमुपपादयितुं पार्यते । उदकमनुदकाकारादुदकाकारतया व्यावर्तत, उदकाकारात्तु कथं व्यावर्तते? किमुदकाकारतयाहोस्विदाकारान्तरेण? तद्यद्युदकाकारतया व्यावर्तते, तदान्यासामुदकव्यक्तीनामनुदकाकारता प्राप्नोति रसादेरिव । अथानुदकाकारतयोदकाकारान्निवर्तते, ततो दहनादेरिवानुदकत्वप्रसङ्गः । अथोदकाकाररूपताविशेषेऽप्यवान्तरगणिकाकारभेदपरिकॣप्तिरिति चेत्, सत्यमवान्तरगणिकाकारस्तोयतादात्म्यव्यवस्थितोऽतादात्म्यव्यवस्थितो वा । तद्यदि तादात्म्यव्यवस्थितस्, तदोदकाकारतयोदकान्तराद्भिद्यते । एवं चान्यासामुदकव्यक्तीनामनुदकरूपता प्राप्नोति । पूर्वोदितमेव दूषणम् । अथातादात्म्यव्यवस्थितस्, तर्ह्यनुदकत्वं रसादेरिव । अथोदकत्वव्यावृत्त्यानुदकाकाराद्व्यावर्तते । शृण्वन्त्वमी बाललपितं विपश्चितः । यद्युदकत्वव्यावृत्त्यानुदकाद्व्यावर्तते तोयम्, उदकत्वं चोदकादनुदकाच्च कथं व्यावर्तते? न जात्यन्तरं व्यावर्तकमस्ति । अभ्युपगमे वानिष्ठोपप्लवानुबन्धः स्यात् । तस्मात्स्वेनैव रूपेणेतरेतरात्मना व्यावर्तते, न जात्यादिना व्यावर्तते, जात्यादेरव्यावृत्तिप्रसङ्गात् । तस्मात्स्थितम् एतन्नोदकव्यक्तीनां नानात्वोपपत्तिः । तदनुपपत्तौ नोदकत्वं नाम सामान्यमस्ति स्वत्ववत् । अ.२ इतोऽपि न विद्यते सामान्यं नित्यस्य सतो विज्ञानजनकत्वायोगात् । तदेव कथम्? व्युत्पाद्यते विज्ञानजनकावस्थायां यदेव स्वरूपं सामान्यात्मकं शक्तिमच्छक्तिरूपं च कारकान्तरानपेक्षयाजनकावस्थायां तदेव रूपम्, अतः पूर्वमपि कार्योत्पादप्रसङ्गः । अनुत्पादे वा प्रागिवेदानीमपि न जनयेत् । अथ कारकान्तरमपेक्ष्योत्पादयति कार्यम् । किं तेन कारकान्तरेण तस्य क्रियते कारकत्वं ज्ञाप्यते वा? तद्यद्युत्पाद्यते सुस्थितं नित्यत्वम् । उत ज्ञाप्यते सिद्धं तर्हि कारकत्वं, तदभावेऽपि विद्यमानस्यावद्योतनात् । भवतु नाम कारकत्वं, को दोषः? कार्योत्पत्तिप्रसङ्गः । अथ कारकत्वेऽपि कार्यं न जनयेद्, अहो राजाज्ञा गरीयसी नैयायिकपशोः । अ.२ इतोऽपि नास्ति सामान्यं तदुपपादकमानव्यतिरेकात् । नन्वस्ति प्रमाणमनयोः सादृश्यम्, एषां सारूप्यं, तेन सदृशोऽयम्, असौ वा तेन सदृशेत्यादिज्ञानं सामान्यसत्तावबोधकमप्रतिपन्नसामान्यस्य नोपपद्यते । अस्ति त्विदं विज्ञानं बाधाविकलं जातितनुव्यवस्थापकम् । तदेतदयुक्तम् । किं निमित्तभूतेन तेनैवंविधं ज्ञानमुत्पाद्यते कर्मतापन्नेन वा? तद्यदि निमित्तभूतेनोत्पाद्यते, तदा न सामान्यं कल्पनीयम् । असामान्यात्मकमेव निमित्तम्, इत्थम्भूतसामान्यज्ञानोत्पादनायालं सामान्यकल्पनया । अथ कर्मतापन्नेनोत्पाद्यते, तदसत् । नैवावभाति विज्ञाने सामान्यं धूर्तैरविपर्यासितसंविदाम् । ननु सादृश्यमवभाति । सत्यम्, अवभाति, नापह्नूयते,ऽपि तु द्रव्यगुणकर्मात्मकं सत्पाचकादिभेदेषु यथैषां पाचकत्वम्, एते पाचकास्, तत्पाचकसदृशोऽयम्, असावनेन सदृशेति विशेषादावपि द्रष्टव्यम् । अत्रापि सामान्यपरिज्ञप्तिरिति चेन्, न सूत्रव्याघातात्सामान्यविशेषेषु सामान्यविशेषाभावात्ततैव ज्ञानम् । अनिष्ठा च विशेषेषु सामान्ये परिकल्प्यमाने सति सन्देहः, सति सन्देहे तेषु विशेषान्तरं परिकल्पनीयं, पुनः सामान्यमित्यनिष्ठेत्यलमसद्ग्रहाभिनिवेशेन । अ.३ अथ भिन्नाभिन्नं सामान्यं भवद्भिः प्रतिपाद्यत आकारभेदेन व्यक्तिभ्योपलभ्यतेत्यर्थान्तरं, देशभेदेन तु नैवोपलभ्यतेत्यव्यतिरिक्तम् । तदेतन्महासुभाषितम् । न देशभेदेनैव वस्तूनां भेदो,ऽपि त्वाकारभेदेनैव भावा भेदमुपयान्ति । यथा चाकारभेदो नास्ति तथानन्तरमेव निवेदितम् । ब्. सामान्यं समवायवृत्त्या व्यक्तिषु वर्ततेति न चासौ विद्यते । ब्.१ समवायो हि व्यावृत्तैकस्वभावोऽनुगतैकस्वभावो वा । तद्यदि व्यावृत्तैकस्वभावः, कस्यासौ समवायः सर्वतो व्यावृत्तेर्नीलादिवत्? अथानुगतैकस्वभावः, सामान्यं तर्हि, न समवायो, नित्यस्य सतोऽनेकत्र वृत्तेर्गोत्वादिवत् । ब्.२ उपपादकप्रमाणाभावाच्च । ब्.२१ ननु प्रत्यक्षबुद्ध्यवसेयोऽसौ । तदयुक्तम् । किं सम्बन्धबुद्ध्याध्यवसीयताहोस्विदिहबुद्ध्या समवायबुद्ध्या वोच्यते? ब्.२११ तद्यदि सम्बन्धबुद्ध्या, कोऽयं सम्बन्धः? किं सम्बन्धजातियुक्तः सम्बन्धाहोस्विदनेकोपादानजनितोऽनेकाश्रितो वा सम्बन्धबुद्धिविशेषो वा सम्बन्धबुद्ध्युत्पादको वा सम्बन्धाकारो वा? तद्यदि सम्बन्धजातियुक्तस्ते सम्बन्धः, सोऽनुपपन्नः, समवायासम्बन्धत्वप्रसङ्गः । अथानेकोपादानजनितः सम्बन्धस्, तदा कुम्भादेरपि सम्बन्धत्वप्रसङ्गः । अथानेकाश्रितः सम्बन्धस्, तदा घटजात्यादेः सम्बन्धत्वं प्रसज्यते । अथ सम्बन्धबुद्ध्युत्पादकस्ते सम्बन्धोच्यते, तदा लोचनादेरपि सम्बन्धत्वप्रसङ्गः । अथ सम्बन्धबुद्ध्यवसेयः सम्बन्धोऽभिधीयते, तदा कौलेयककरिकुमारादिष्वपि सम्बन्धशब्दव्युत्पादने सम्बन्धत्वप्रसङ्गः । सम्बन्धेतरयोरेकविज्ञानविषयत्वेतरस्य सम्बन्धरूपता प्राप्ता । अथ सम्बन्धाकारः सम्बन्धः, संयोगाभेदप्रसङ्गः । अवान्तरगणिकाकारस्तु यथा न भेदकस्तथा पुरस्तादुक्तमेव दूषणम् । ब्.२१२ अथेह तन्तुषु पटेतीहबुद्ध्याध्यवसीयते, नेहबुद्धेरधिकरणसंविद्रूपत्वात् । न चान्यस्मिन्नाकारे प्रतीयमानेऽन्यत्परिकल्पयितुं न्याय्यमतिप्रसङ्गात् । ब्.२१३ अथ समवायबुद्ध्यात्मसात्क्रियते । सोऽप्यनुपपन्नैव, समवायबुद्धेरनुपपत्तेः । अयं तन्तुरयं पटोऽयमनयोः समवायेति न जातु जानते जनाः । ब्.२२ अथानुमानेनानुमीयते । द्वेऽनुमाने दृष्टं सामान्यतो दृष्टं च । न दृष्टं, प्रत्यक्षव्यतिरेकात् । सामान्यतो द्र्ष्टमपि नास्ति, तत्प्रभवकार्यानुपलब्धेः । नन्विहबुद्धिरेव समवायज्ञापिका इह तन्तुषु पटेति प्रत्ययः सम्बन्धनिमित्तो,ऽबाधितेहप्रत्ययत्वादिह कुण्डे दधीति प्रत्ययवत् । किमनेनानुमीयते? किं निमित्तमात्रमुत सम्बन्धः? यदि निमित्तमात्रं, ततः सिद्धसाध्यतया सम्बोधयितव्यः । अथ सम्बन्धः, संयोगः समवायो वा । संयोगानुमानोपगमहानिः । समवायानुमाने सम्बन्धव्यतिरेकः । न चान्यस्य सम्बन्धेऽन्यस्य गमकत्वमतिप्रसङ्गात् । न जातु देवदत्तनयनकुटसम्बन्धे यज्ञदत्तेन्द्रियं रूपादिकमर्थं करणत्वसाम्यात्प्रकाशयद्दृष्टम् । एवं सति सामान्यसमवायविरहे कथं द्रव्यादिव्यवस्थेति चिन्त्यते । १.१३ ३ अथ तद्वंशजजलप्राप्त्याव्यभिचारिता ज्ञायते । तदयुक्तम्, अन्त्यावयविद्रव्याणां जनकत्वव्यतिरेकात् । न चोदकव्यक्तीनां नानात्वमस्ति । यथा च न विद्यते तथा निवेदितं पुरस्तात् । १.१३ किं च प्रवृत्तिसामर्थ्येनाव्यभिचारिता पूर्वोदितज्ञानस्य ज्ञाप्यते किं लिङ्गभूतेनाहोऽध्यक्षात्मकेन? तद्यदि लिङ्गभूतेन, तदयुक्तं, तेन साकं सम्बन्धानवगतेः । अवगतौ वालं प्रवृत्तिसामर्थ्येन । अथाध्यक्षात्मकेन, तदयुक्तं, पूर्वोदितप्रत्यस्तमितेन साकं सन्निकर्षाभावात् । तद्विषयविज्ञानं न प्रत्यक्षफलं निरालम्बनत्वात्केशोण्डुकादिसंवेदनवत् । न विज्ञानस्याभावोऽवभाति, न भावस्तदभावात् । अविद्यमानस्य विषयार्थो वक्तव्यः किमाकारार्पकत्वेन वा महत्त्वादिधर्मोपेतत्वेन वा सत्तामात्रेण वा सहोत्पादेन वा? सर्वस्य प्रत्यस्तमितत्वात्कथमसौ विषयः? तद्विषयत्वे केशोण्डुकादिविज्ञानस्यैव मिथ्यात्वे बीजमन्वेषणीयम् । आत्मसत्तामात्रेण मिथ्यात्वे सर्वस्य मिथ्यात्वमापद्यते । ततस्तत्त्वोपप्लवः स्यात् । १.१४ अथान्यथाव्यभिचारित्वं गृह्यतात्मान्तःकरणसम्बन्धेनोत्पन्नं विज्ञानमव्यभिचारिताविशिष्टं प्रद्योत्यते । तदयुक्तम् । तदव्यभिचारित्वं तद्धर्मो वा तत्स्वरूपं वा । १.१४१ तद्यदि तद्धर्मः, स नित्योऽनित्यो वा । यदि नित्यस्, तदा जातिदोषेणापोदितो वेदितव्यः । अथानित्यः, स पूर्वोत्पन्नः सह पश्चाद्वा जातः । तद्यदि पूर्वोत्पन्नस्, तदा कस्यासौ धर्मः? न हि धर्मिणमन्तरेण धर्मो भवितुमर्हति । सर्वतो व्यावृत्तरूपत्वात्कः कस्येति वक्तव्यम् । अथ सहोत्पन्नः, कस्तयोः सम्बन्धेति वक्तव्यम् । तादात्म्यतदुत्पत्तिसमवायसम्बन्धाभावे सति षष्ठ्यर्थो वक्तव्यस्तस्याव्यभिचारित्वमित्यथ पृष्ठोत्पन्नस्तर्हि पूर्वं व्यभिचारिता विज्ञानस्य प्राप्नोति । न चाध्यात्मिकोऽव्यभिचारिरूपो धर्मोऽस्ति सुखादिव्यतिरिक्तस्, तत्प्रतीत्यसम्भवेन स्वयमनभ्युपगमात् । यदि चाव्यभिचारादयो धर्मार्थान्तरभूताभ्युपगम्यन्ते तैरवच्छिन्नं विज्ञानं सामग्र्यावस्थापकमुद्घुष्यते । तच्चानुपपन्नं, प्रत्येकमनेकविशेषणावच्छिन्नविज्ञानप्रतिपत्तिकालावस्थानायोगात् । ज्ञाप्यज्ञापकयोरभावे कर्तृमात्रप्रबन्धि ज्ञानं स्यात् । १.१४२ अथ तत्स्वरूपमव्यभिचारित्वं तत्किं स्वसत्तामात्रानुरोधेनार्थान्तरसत्तानुरोधेन वा? तद्यदि ज्ञानसत्तामात्रतैवाव्यभिचारित्वमुच्यते, तदा केशोण्डुकसंविदोऽप्यव्यभिचारिता स्यात् । न च ज्ञानसत्तामात्रानुरोधेन ज्ञानं व्यभिचार्यव्यभिचारि वोद्गीयते । अथार्थान्तरसत्तानुरोधेनाव्यभिचारित्वं किमनुपकारकार्थान्तरसत्तानुरोधेनाहोस्विदुपकारकार्थान्तरसत्तानुरोधेन? तद्यदि तावदनुपकारकार्थान्तरसत्तानुरोधेन, तदा केशोण्डुकेन्दुद्वयसंविदोऽप्यव्यभिचारिताप्रसङ्गः । अथोपकारकार्थान्तरसत्तानुरोधेनाव्यभिचारिता किं प्रतीयमानार्थान्तरोपकारकसत्तानुरोधेन तद्विपरीतार्थान्तरोपकारकसत्तानुरोधेन वा? तद्यदि पूर्वपक्षाभ्युपगमस्, तदातीतानागतानुमानविज्ञानस्य योगिप्रत्यक्षस्य च चोदनावचनजनितविज्ञानस्य वाव्यभिचारिता न भवेत्, तदवगतोपकारकार्थाभावात् । भावे वा वितानक्रियालोपप्रसङ्गः । अथोत्तरो मतस्, तदा केशोण्डुकेन्दुद्वयसंविदोऽव्यभिचारित्वं प्रसज्यतेत्यसद्गृहीतम् । १.१४ किं च तद्विज्ञानमव्यभिचार्यवगतं सामग्र्या ज्ञापकमनवगतं वा । यद्यवगतं तस्यावगतिरात्मसंविद्रूपा वा ज्ञानान्तरवेद्या वा । तद्यद्यात्मसंवेदनरूपावगतिस्, तदयुक्तं, स्वयमनभ्युपगमात् । अभ्युपगमे वोपगमविरोधः । अथ ज्ञानान्तरवेद्यं वेत्सि, विज्ञानयोर्भेदे बीजमन्वेष्टव्यम् । ज्ञनमज्ञानाकाराज्ज्ञानात्मतया व्यावर्तते, ज्ञानान्तरात्तु कथं व्यावर्तते? किं ज्ञानात्मतया व्यावर्तताहोस्विदाकारान्तरेण? तद्यदि ज्ञानात्मतया व्यावर्तते, तदान्यस्य ज्ञानात्मता निवर्तते तोयादेर्यथा । अथाकारान्तरेण, आकारान्तरस्वीकरणे ज्ञानाकारविरहः स्याद्, आकारयोस्तादात्म्यायोगात् । तादात्म्ये वैकं तद्वस्तु ज्ञानमज्ञानं वा । यदि ज्ञानं, न तर्ह्याकारान्तरेण व्यावर्तते, किं तु ज्ञानात्मतयैव । अन्यस्याज्ञानात्मकत्वप्रसट्गः । अथाज्ञानं सिद्धं नः समीहितम् । अथ ज्ञानत्वं व्यावर्तकं, तत्केन व्यावर्ततेति पूर्वोक्तमनुसर्तव्यम् । विज्ञानान्तरवेद्यमपि न सम्भवति । अथ न वेद्यते, तदस्तीति कथं पुनर्वेत्सि? अनेनैव वर्त्मना सत्येतरविज्ञानयोर्विभागाभावोऽभ्युपगन्तव्यः । अतोऽव्यभिचारिपदमपार्थकम् । १.१ तोऽप्यपार्थकमिन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् । न हि केशोण्डुकविज्ञानस्य नयनार्थसन्निकर्षोद्भूतिरस्ति । नन्वस्ति मरीच्युदकविज्ञानस्य, तदपनोदायाव्यभिचारिपदम् । तन्न, यतोदकं प्रतिभाति, न च तेन सह सम्बन्धोऽस्ति । विद्यमानेन साकं सम्बध्यते, नाविद्यमानेन । तत्सम्बन्धे वा न तद्विषयज्ञानस्य मिथ्यात्वमिहोपपद्यते सत्योदकसंवेदनवत् । ननु यद्यपि प्रतीयमानोदकेन सह सम्बन्धो नास्ति चक्षुषस्, तथाप्यालम्ब्य मरीचि निचयेन साकं सम्बन्धोऽस्ति, तस्यैवालम्बनत्वात्, तद्देशं प्रति प्रवृत्तेः । अतैव मिथ्यात्वमन्यदालम्बनमन्यच्च प्रतिभाति । १.१ १ कोऽयमालम्बनार्थो नाम येनेदमुद्घुष्यतेऽन्यदालम्बनं चान्यत्प्रतिभाति? किं विज्ञानजनकत्वमाकारार्पकत्वं विज्ञानाधिकरणत्वं विज्ञानावभासितता वा? तद्यदि विज्ञानजनकत्वमालम्बनार्थस्, तदा नयनालोकादेरप्यालम्बनत्वं प्रसज्यते । अथाकारार्पकत्वमालम्बनत्वं, तदयुक्तं, नैयायिकसमयेऽनभ्युपगमात् । यथा च विषयाकारो विज्ञाने न युज्यते तथोपरिष्टात्प्रतिपादयिष्यामः । अथ विज्ञानाधिकरणत्वमालम्बनत्वं, न मरीचिचक्रोत्कलितमुदीयते ज्ञानम्, अपि त्वात्मसमवेतमात्मानमासादयते । अथ विज्ञानावभासिततालम्बनत्वं, तदोदकविज्ञानोदकं प्रतीयते, न मरीचयः । अथोदकाकारतया मरीचयैव प्रतीयन्ते, सोदकाकारो मरीचिभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा । तद्यद्यव्यतिरिक्तः, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः कथं तदवगतेर्मिथ्यात्वम्? अथातात्त्विकस्, तद् ।ा मरीचीनामप्यतात्त्विकत्वं प्रसज्यते । अतात्त्विकोदकतादात्म्ये सति तदुदकज्ञानमतथ्यं किमुक्तं भवति? मरीचिविज्ञानमतथ्यम् । एकस्मिंश्चोदकाकारे प्रतीयमाने केनैतदाख्यातं मरीचयः प्रतिभान्ति देवानाम्प्रियस्य? अथार्थान्तरभूतस्, तर्हि न वक्तव्यं मरीचयोदकाकारतया प्रतीयन्त, उदकाकारान्तरिता मरीचयः । अथ केशोण्डुकविज्ञाने किमवभाति? किमालम्बते? केशोण्डुकस्यैवालम्बनत्वं प्रतीयमानत्वं च, तथोदकस्यैवालम्बनत्वं प्रतीयमानत्वं च, नालम्बनान्तरं परिकल्प्यम् । न चोदकज्ञानस्य प्रतीयमानोदकान्यालम्बनत्वेन मिथ्यात्वम्, अपि त्वभावात्तात्त्विकत्वेन । अन्यथा केशोण्डुकसंविदोऽपि मिथ्यात्वं न प्राप्नोत्य्, अन्यालम्बनव्यतिरेकात् । १.१ २ यदप्युक्तं मरीचिदेशं प्रति गमनान्मरीचीनामालम्बनत्वम् । यद्येवं देशस्याप्यालम्बनत्वमनया रीत्योपपद्यते । न चावभातोदकभिन्नार्थसन्निकर्षजत्वमुदकविज्ञानस्योपपद्यते, सत्योदकज्ञानेऽदृष्टत्वात् । अन्यथानुमेयदहनज्ञानस्यापीन्द्रियार्थसन्निकर्षज त्वमापनीपद्येत, आत्ममनःसन्निकर्षजत्वात् । अथ प्रतीयमानदहनेन सह मनसो नास्ति सम्बन्धस्, तदिहापि प्रतीयमानेनाम्भसा सह नास्ति सम्बन्धश्चक्षुषः । तस्मादव्यभिचारिपदं न युक्तमिन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् । १.१ इतोऽप्यनुपपन्नमपोह्यज्ञानासम्भवात् । अथ मरीच्युदकविज्ञानापनिनीषयोपादीयते, तत्कथमपनीयते? अविद्यमानोदकविषयत्वात् । यद्यविद्यमानं, कोऽयं विषयार्थः? पूर्वोदितमनुसरणीयम् । यदि तत्रोदकं प्रतिभाति, कथं नास्ति? सत्यं, प्रतिभाति, किं त्वतथ्यं प्रतिभाति । अतथ्यता का? किं प्रतीयमानस्याभावोत प्रतीयमानैवाभावः? १.१ १ तद्यदि प्रतीयमानस्याभावः, स किं तदैवाहोस्वित्कालान्तरेण? यदि तदैव, स किमवगतोऽनवगतो वा? यद्यवगतः, स केनावगम्यते? किमुदकविज्ञानेन ज्ञानान्तरेण वा? तद्यद्युदकज्ञानेन, तन्न, तस्योदकविषयत्वात् । तद्विषयत्वे वा न तर्ह्युदकज्ञानं भ्रान्तमित्युपपद्यते,ऽभावविषयस्य परमार्थसत्त्वात् । न चोदकाकारावगाहिनि विज्ञाने तोयविनिवृत्तयोऽवभान्त्यतिप्रसङ्गात् । अथ ज्ञानान्तरेण, न, ज्ञानयौगपद्यासम्भवात् । यदि चाभावज्ञानेनाभावव्यवस्था क्रियते भावज्ञानेन च भावव्यवस्था, तदोदकस्य भावाभावावेककालौ स्याताम् । अथ भावज्ञानं भावव्यवस्थां न करोत्यभावज्ञानं चाभावव्यवस्थां करोत्य्, अहो राजाज्ञा नैयायिकपशोः । यदि च भावज्ञानं भावव्यवस्थां न करोति, तदा सर्वभावेष्वनाश्वासप्रसङ्गः । तत्प्रसक्तावभावस्याप्यनवस्थितिः । तदनवस्थितौ च तत्त्वोपप्लवः स्यात् । अथानवगतः, सोऽस्तीति कथं पुनर्वेत्सि? अथ कालान्तरे, तदा न किञ्चिद्बाध्यते, सत्योदकस्यापि कालान्तरेऽभावोपपत्तेः । १.१ २ अथ प्रतीयमानैवाभावः, कथं तद्विषयज्ञानस्य मिथ्यात्वमुपपद्यते, प्रतीयमानस्यैवाभावस्योपपत्तेः? न च भावाकारे प्रतीयमनेऽभावकल्पना न्याय्यातिप्रसङ्गात् । अन्यथा रूपादौ प्रतीयमाने रसादिकल्पना कर्तव्या । न चक्रियते, तथेहाप्युदकं प्रतीयते । ननु प्रतीयते, किं त्वतथ्यम् । यद्येवमुदकप्रपञ्चोऽयं दीर्घोदकं मधुरोदकमिति यथा । नन्वत्र सर्वास्ववस्थासूदकं प्रतीयते, तेन तास्वम्भः प्रकल्प्यते । यद्येवं तदिहाप्यवस्थाद्वयेऽप्युदकं प्रतीयते सत्योदकमसत्योदकं च । सत्योदकज्ञाने सत्योदकमवभाति, नासत्योदकमनुदकं वा । तथासत्योदकज्ञानेऽसत्योदकं प्रतिभाति, न सत्योदकमनुदकं वा, स्वविषयपर्यवसायिन्यो हि बुद्धयः । १.१ आथ बाध्यमानत्वेन मिथ्यात्वमिति चेत्, किं बाध्यतेऽर्थो ज्ञानमुभयं वा? १.१ अ१ यद्यर्थस्य बाधा, स केन बाध्यते? किं स्वयमेवात्मानं बाधताहोऽर्थान्तरेण ज्ञानेन वा? यदि स्वयमेवात्मानं बाधते, तदा बाधा तेन क्रियते ज्ञाप्यते वा । यदि क्रियते,ऽव्यतिरिक्ताव्यतिरिक्ता वा । यद्यव्यतिरिक्ता, तदा बाधा क्रियतेत्यात्मानेनोत्पाद्यते । तच्च न जाघटीति स्वात्मनि क्रियाविरोधात् । अथ व्यतिरिक्ता क्रियते, तथापि विद्यमानस्य कर्तृत्वं, न प्रतीयमानस्यापलापः । अथ बाधा ज्ञाप्यते, साप्यभिन्ना भिन्ना वा । यद्यभिन्ना, तदा बाधा तेन ज्ञाप्यते किमुक्तं भवति? उदकं ज्ञाप्यते । अथ भिन्ना, तदा विद्यमानस्य ज्ञापकत्वं सिद्धं प्रतीयमानस्य चास्तित्वम् । अथार्थान्तरेण बाध्यते, तथापि विद्यमानयोर्बाध्यबाधकभावो भूपालयोरिव, न चैकस्य बाध्यबाधकभावोपपद्यते । बाधापि तेन प्रतीयमानस्य किं क्रियते ज्ञाप्यते वा? यदि क्रियते व्यतिरिक्ता व्यतिरिक्ता वा यद्यव्यतिरिक्ता, तदाव्यतिरिक्ता बाधोत्पाद्यते किमुक्तं भवेत्? उदकमुत्पाद्यते । तदुत्पादने च तत्संविदोऽमिथ्यात्वम् । अथ व्यतिरिक्तोत्पाद्यते, तथापि तोयसम्बन्धितयोपलब्धेरम्भसोपपत्तिः । न जातु देवदत्तस्यासत्त्वे तन्नयनव्यवहारसिद्धिः । अथ ज्ञाप्यते, तदा साव्यतिरिक्ता व्यतिरिक्ता वा । यद्यव्यतिरिक्ता ज्ञाप्यते, तदा बाधा तेन ज्ञाप्यते किमुक्तं भवति? उदकं ज्ञाप्यते । अथ व्यतिरिक्ता सती ज्ञाप्यते, तथाप्युदकस्येयं बाधेत्यन्यतन्त्रतया प्रतिभासनान्नात्यन्ताभावोपपत्तिः । तस्मादर्थान्तरेणापि न बाधोपपत्तिः । अथ ज्ञानेन बाध्यते किं तद्विषयेणान्यविषयेण निर्विषयेण वा? यदि तद्विषयेण, तदा तत्स्वरूपं विधत्ते न तु विपर्यासयति तदाकारपर्यवसितरूपत्वात् अथान्यविषयं बाधकं, तदपि न युज्यते । यद्यद्विषयं तत्तस्यैव सत्तां विधत्ते, न त्वन्यस्य विधायकं प्रतिषेधकं वा । स्वविषयपर्यवसायिन्यो हि बुद्धयः । अथ निर्विषयेण बाध्यते, न किञ्चिद्विदधाति प्रतिषेधति वा निर्विषयत्वादेव । १.१ अ२ अथ ज्ञानं बाध्यते, तस्यापि बाधा का? किं स्वरूपव्यावृत्तिरूपा स्वरूपापह्नवरूपा वा विषयाप्धारलक्षणा वा? तद्यदि स्वरूपव्यावृत्तिरूपा बाधा, तदा सर्वं बाधितं स्याद्, विज्ञानस्य विज्ञानान्तरेण निवर्त्यमानत्वात् । अथ स्वरूपापह्नवरूपा, तदयुक्तं, मिथ्योदकविज्ञानस्याप्यनुभूयमानत्वात् । अथ विषयापहारलक्षणा बाधोच्यते, सापि न युक्ता । यथा च विषयापहारो न शक्यते कर्तुं तथानान्तरमेव निवेदितम् । १.१ आ यदि न बाध्यते किमित्यसावर्थक्रियां न करोति भावः? केयमर्थक्रिया या तेन न सम्पाद्यते पुंसाम्? किं विज्ञानरूपा प्रवृत्तिरूपा प्राप्तिरूपा सुखदुःखोत्पादभोगरूपा वा? तद्यदि विज्ञानलक्षणां न करोति, तदयुक्तं, विज्ञानलक्षणामर्थक्रियां करोत्येव तोयम् । अथ प्रवृत्तिरूपां न करोति, तदयुक्तं, प्रवृत्तिर्हि पुरुषेच्छानुविधायिनी, नार्थस्वरूपभावाभावावनुगमयति । पुरुषो हि कामतः प्रवर्तते वा न वा । न ह्येतावता तदभावसिद्धिः । अथ प्राप्तिरूपामर्थक्रियां न करोति, तेनासत्त्वम् । तदप्ययुक्तं, चन्द्रार्कग्रहनक्षत्रतारकादेः प्राप्त्यभावेऽपि सत्त्वसम्भवात् । अथ सुखदुःखरूपामर्थक्रियां न करोति, किं दर्शनजं सुखं न करोत्याहो देहसम्बन्धजम्? तद्यदि दर्शनजं न करोति, तदयुक्तं, करोत्येव । अथ देहसम्बन्धजं न करोति, तदा चन्द्रार्कग्रहनक्षत्रादौ व्यभिचारस्, तेषां देहसम्बन्धजसुखजनकत्वं नास्त्य्, अथ च सत्त्वम् । न चार्थक्रियाकर्तृत्वेन वस्तूनामसत्त्वं, स्वहेतोरेव विज्ञानजननमात्रस्योत्पत्तेः, सहकारिविरहाद्वा न करोति । १.१ अब्किं चार्थक्रियां न करोति किमेकस्य प्रतिपत्तुः सर्वप्रतिपत्तॄणां वा? तद्यद्येकस्य प्रतिपत्तुरर्थक्रियां न करोति तेनासत्त्वं, तदा चन्द्रार्कग्रहनक्षत्रतारकादौ व्यभिचारो, मुमूर्ष्वर्थे च । अथ सर्वप्रतिपत्तॄणामर्थक्रियां न करोति तेनासत्त्वम्, एवं तर्हि सर्वभावानामसत्त्वप्रसङ्गः । न हि सर्वे भावाः सर्वपुरुषार्थहेतवः । न च सर्वपुरुषार्थक्रियाविहीनमेतदित्यवगन्तुं पार्यतेऽर्वाग्विदा । तस्मात्स्थितमेतदव्यभिचारिपदमनर्थकम् । च्. अन्ये तु मरीच्युदकविज्ञानस्य स्मृतित्वं प्रतिपद्यन्ते, न भ्रान्तिरूपताम् । तस्य कथं स्मृतित्वम्? किमुदकगृहीतित्वेन गृहीतोदकगृहीतित्वेन वोदकग्रहणानन्तरकालभावित्वेन वा निर्विषयत्वेन वा यमहमद्राक्षमित्यनेनाकारेणोपजायमानत्वेन वा? तद्यद्युदकगृहीतित्वेन तदा सर्वोदकविज्ञानानां स्मृतित्वप्रसङ्गः । अथ गृहीतोदकगृहीतित्वेन स्मृतित्वं, तदाद्यस्यापि गृहीतोदकगृहीतित्वे स्मृतित्वं प्रसज्यते गृहीतोदकग्राहित्वाविशेषात् । अथाद्यस्य गृहीतोदकग्राहित्वं नास्ति । तदानीं भिन्नविषयत्वम् । भिन्नविषयत्वे च द्वितीयस्यापि गृहीतग्राहित्वं विहीयते । अथैकविषयत्वम्, आयातं तर्हि प्रथमस्यापि गृहीतग्राहित्वमविशिष्टार्थगृहीतिरूपत्वात्प्रथमोत्तरविज्ञानवत् । यथैकनीलस्वलक्षणग्राहकयुगपदुत्पन्नानेकविज्ञानानां नीलज्ञानरूपता न भिद्यते तथेहापि । तथा धारावाहिविज्ञानानां स्मृतिरूपता प्राप्नोति । तथा प्रत्यभिज्ञानस्य च गृहीतग्राहित्वेन स्मृतित्वं प्रसज्यते । अथ प्रत्यभिज्ञानस्य गृहीतार्थग्राहित्वं न विद्यते, तदा प्रत्यभिज्ञानत्वं निवर्तते । न ह्याद्यं दर्शनं सैवायमित्युपजायते । तथानुमानिकमपि विज्ञानं गृहीतार्थग्राहित्वेन स्मृतित्वमापद्यते । अथोदकग्रहणोत्तरकालभावित्वेन स्मृतित्वं, तदा संस्कारस्य स्मरणरूपता प्राप्नोत्य्, उदकग्रहणोत्तरकालभावित्वेन रससंवेदनस्य च । अथ निर्विषयत्वेन स्मृतिरूपतोच्यते, तदयुक्तं, पूर्वोदितानुभवावेदितार्थाकारावेदकत्वेनोदीयमानायाः कथं निर्विषयत्वम्? अथ पूर्वानुभूतार्थप्रत्यस्तमये सति समानकालार्थाभावान्निर्विषयता, तदा चोदनाजनितवि ज्ञानस्य निर्विषयत्वेन स्मृतित्वमापनीपद्यते, कर्तव्यतारूपार्थस्य तदाभावात् । भावे वा कर्तव्यरूपता नोपपद्यते । तदनुपपत्तौ सप्ततन्तुक्रियाया विलोपप्रसङ्गः । यदि च निर्विषयत्वेन स्मृतित्वं, तदा विद्यमानघटजात्यादेः स्मरणस्यास्मृतित्वप्रसङ्गः । अथाद्राक्षमित्यनेनाकारेणोपजायमानत्वेन स्मृतित्वं, तदयुक्तम् । इहोदकमित्यनेनाकारेणोपजायमानायाः कथमद्राक्षमित्येवंरूपतोपपद्यते? अथ विप्रमुषिततयानया भङ्ग्योपजायते, कोऽयं विप्रमोषो नाम? किमनुभवाकारस्वीकरणं स्मरणाकारप्रध्वंसो वापूर्वार्थगृहीतित्वं वेन्द्रियार्थसन्निकर्षजत्वं वेन्द्रियार्थासन्निकर्षजत्वं वा? तद्यद्यनुभवाकारस्वीकरणं, तदा स्मृतिरूपता नोपपद्यते । अथ स्मृतिरूपता, तदानुभवाकारस्वीकरणं नोपपद्यते, स्मृत्यनुभवाकारयोरितरेतरपरिहारस्थितिलक्षणत्वात् । अथ स्मरणाकारप्रध्वंसस्, तदयुक्तं, विज्ञानस्य स्वयं स्मृतित्वेनाभ्युपगमात् । प्रध्वंसो ह्यविज्ञानात्मकः, कथं स्मृतिरूपतां विधत्ते? अथापूर्वार्थविषयगृहीतित्वं स्मृतिप्रमोषोच्यते, तदात्यन्ताननुभूतकनकपनसादिसंवित्तीनं स्मृतिविप्रमोषत्वमापद्यते । अथेन्द्रियार्थसन्निकर्षजत्वं स्मृतिविप्रल्नोषोच्यते, तदा संवित्तीनां स्मृतिविप्रमोषत्व प्रसङ्गः । अथेन्द्रियासन्निकर्षजत्वं स्मृतिविप्रमोषोच्यते, तदा चोदनाजनितविज्ञानस्यानुमानोपमानविज्ञानस्य च स्मृतिविप्रमोषत्वमापद्यते । तस्माद्यथा यथा विचार्यते स्मृतिविप्रमोषस्तथा तथा न्यायं न विषहतेति । तस्मान्मरीच्युदकविज्ञानस्य न स्मृतिविप्रमोषरूपता, अपि तु विपरीतख्यातित्वं सम्यग्ज्ञानत्वं वा । १.२ तथा व्यवसायात्मकपदमपि नोपादेयमपनेयाभावात् । ननु स्थाण्वादिकेऽर्थेन्द्रियार्थसन्निकर्षात्सामान्यमात्रदर्शनाद्विशेषानुपलब्धौ सन्देहज्ञानमुपजायते । तदपनीयते । तस्मिन् सन्देहज्ञाने जाते किञ्चित्प्रतिभात्याहो न प्रतिभाति । तद्यदि प्रतिभाति, स किं धर्मी धर्मो वा? तद्यदि धर्मी प्रतिभाति, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विको, नापनेयता तद्विषयविज्ञानस्य । अथातात्त्विकस्, तदाव्यभिचारिपदेनापनीतत्वान्न व्यवसायात्मकपदमुपादेयम् । अथ धर्मः प्रतिभाति, स स्थाणुत्वलक्षणः पुरुषत्वलक्षणोभयं वा । तद्यदि स्थाणुत्वलक्षणो धर्मः प्रतिभाति, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः, कथं तद्बुद्धेः सन्देहरूपता, तात्त्विकार्थगृहीतिरूपत्वेन सत्योदकसंवेदनवत्? अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वान्न व्यवसायात्मकपदमुपादेयम् । अथ पुरुषत्वलक्षणो धर्मः प्रतिभात्य्, असावपि तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः, कथं तत्बुद्धेः सन्देहरूपता? अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वाद्व्यवसायात्मकपदं न साधीयः । अथोभयं प्रतिभाति, तदोभयोस्तात्त्विकत्वमतात्त्विकत्वं वाथैकस्य तात्त्विकत्वमन्यस्यातात्त्विकत्वम् । तद्यद्युभयोस्तात्त्विकत्वं, तद तद्विज्ञानस्य तात्त्विकत्वमेव, न सन्देहात्मता । अथोभावप्यतात्त्विकौ, तदा तद्विज्ञानस्य विपर्ययरूपता, न सन्देहात्मता । अथैकस्य तात्त्विकत्वमन्यस्यातात्त्विकत्वं, तदा तदेव ज्ञानं व्यभिचारि तदेवाव्यभिचारि । अतात्त्विकार्थगृहीतिरूपत्वाद्व्यभिचारि, तात्त्विकार्थगृहीतिरूपत्वाद् अव्यभिचारि । एतेन द्विचन्द्रज्ञानमुद्घाटितम् । तत्र हि द्रव्याकारः प्रतिभाति, न गुणाकारः । अथ सन्दिग्धार्थाकारप्रतिभासि सन्देहज्ञानमिति चेत्, ससन्दिग्धोऽर्थो विद्यते वा न वा । तद्यदि विद्यते, कथं तत्संवेदनस्य सन्देहरूपताबाधितार्थगृहीतिरूपत्वात्सत्योदकसंवेदनवत्? अथ न विद्यते, तदाव्यभिचारिपदेनापोदितत्वाद्व्यवसायात्मकपदमपार्थकम् । अथ न किञ्चिदपि प्रतिभाति, न तर्हि तस्येन्द्रियार्थसन्निकर्षजत्वं भ्रान्तोदकविज्ञानवत् । तस्माद्व्यवसायात्मकपदमप्यनुपादेयम् । १.३ अव्यपदेश्यपदं च यथा न साधीयस्तथा लक्षणसारे द्रष्टव्यम् । १.४ तथेन्द्रियार्थसन्निकर्षजत्वमपि नोपपद्यते तद्गत्यभावात् । १.४१ इन्द्रियार्थसन्निकर्षो हि व्यवहितार्थानुपलब्धिलिङ्गो वावरणलिङ्गो वा तदुत्पादितघटादिज्ञानावसेयो वा । तद्यदि व्यवहितार्थानुपलब्धिलिङ्गस्, तदयुक्तं, तेन सह सम्बन्धानुपपत्तेस्तदभावे [प्.१३८]ऽप्यनुपलम्भसद्भावदर्शनात् । यदभावेऽपि यस्य सद्भावः, स कथं तत्सद्भावावेदकः? अथावरणलिङ्गस्, तदयुक्तं, तेन सह सङ्गतेरभावात्, तदभावेऽपि सद्भावदर्शनात् । तद्भावे वावरणानर्थक्यम् । तदभावे तद्गतिः कथम्? अथ तद्भवकुम्भादिज्ञानेनावगम्यते, तदयुक्तं, तदनवगतौ तदुद्भवत्वस्यानवगतेः । पिशाचपरमाणुमहेश्वरकल्पोऽसौ सन्निकर्षः । कथं तदायत्तता वेद्यते ज्ञाने? कथं च तदिन्द्रियार्थसन्निकर्षमावेदयति ज्ञानम्? किं विज्ञानाकारतयाहो कार्याकारतयेन्द्रियार्थसन्निकर्षजन्याकारतया वा? तद्यदि ज्ञानस्वभावतया, तदयुक्तं, तदभावेऽपि ज्ञानाकारस्य सम्भवोपमानादिज्ञाने । अथ कार्यात्मतया गमयति, तदप्ययुक्तम्, उपमानानुमानज्ञानमरीचिनीलजलादौ तस्य सद्भावोपपत्तेः । यो येन विना भवति, स कथं तस्य ज्ञापको नाम? अन्यथा सत्त्वादेरपि गमकत्वं स्यात् । अथेन्द्रियार्थसन्निकर्षजन्याकारतया संसूचयतीति चेद्, असाविन्द्रियार्थसन्निकर्षजन्याकारो ज्ञानाकारादव्यतिरिक्तो व्यतिरिक्तो वा । यद्यव्यतिरिक्तस्, तदा ज्ञानात्मतामात्रं, नाकारातिरेकोऽन्योऽस्ति विभाव्यमानोऽनुमानादिज्ञानेषु यथा । आकारान्तरातिरेके वा जानरूपता हीयते । अथ व्यतिरिक्तस्, तस्यैव तर्हि गमकत्वं, न ज्ञानाकारस्य । तस्याप्यगमकत्वं तदवेदनात् । किं च तदुत्पन्नमिन्द्रियार्थसन्निकर्षाद्विज्ञानं स्वरूपेणावगाहनीयं, ततो व्याप्तिस्मरणं, तदनु परामर्शज्ञानं, ततोऽनुमेयावगतिरिति न चैतावन्तं कालं विज्ञानं स्थितिपदं बध्नात्य्, आशुभावित्वेन प्रत्यस्तमितत्वात् । अथ बुद्ध्यारूढेन धर्मधर्मिन्यायेन परिकल्प्यतेऽनुमानं, तदावास्तवं प्राप्नोति सुगतानुमानवत् । १.४२ तथेन्द्रियोत्पाद्यत्वमपि नोपपद्यतेन्द्रियोत्पाद्यत्वातिरेकानवगतेः । विज्ञानं स्वभावतयैव वेद्यते, नाकारान्तरेण । तज्ज्ञप्तौ वा ज्ञानाकारविरहप्रसङ्गः । न च ज्ञानमिन्द्रियसम्बद्धं दृष्टं, येन तदुपलभ्यमानमिन्द्रियं गमयति । अथ क्रियान्यत्र करणसाध्या दृष्टा । सैव गमिकास्तु, यस्याः करणसम्बन्धोऽवगतः । न चान्यस्य सम्बन्धेऽन्यस्य गमकत्वं किञ्चित्साम्यादुपपद्यते । न जातु देवदत्तनयननीलसम्बन्धे सति यज्ञदत्तेन्द्रियं घटादिकमर्थमसति सम्बन्धे करणत्वसाम्याद्प्रकाशयद्दृष्टम् । तथार्थजन्याकारोऽपि विज्ञानेऽनेनैव प्रकारेण पर्युदस्तो वेदितव्यः । १.४३ तथार्थोऽपि विज्ञानमुत्पादयत्यनुपजातातिशयोपजातातिशयो वाव्यतिरिक्तोपजातातिशयो वा व्यतिरिक्तोपजातातिशयो वा । तद्यद्यनुपजातातिशयः करोति, तदा सर्वदा कुर्यान्न वा । करणमकरणं च नोपपद्येत तत्स्वरूपानतिवृत्तेः । तथाव्यतिरिक्तोपजातातिशयोऽपि न करोत्यकारकाकारस्यानुगतेः । अननुगतौ वा न तर्हि तदव्यतिरिक्तोऽतिशयः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते, तथापि नोपपद्यतेऽकारकाकारानतिवृत्तेः । अतिवृत्तौ वायातं क्षणिकत्वम् । ततश्च नेन्द्रियार्थसन्निकर्षजं विज्ञानं प्रत्यक्षलक्षणम् । [अध्याय २: एxअमिनतिओनोf थे मीमांसा देfइनितिओनोf वलिद्चोग्नितिओन्:] २. अन्ये त्वनधिगतार्थगन्तृत्वेन प्रमाणलक्षणमभिदधति । ते त्वयुक्तवादिनो द्रष्टव्याः । कथमयुक्तवादिता तेषमिति चेद्, उच्यते विभिन्नकारकोत्पादितैकार्थविज्ञानानां यथाव्यवस्थितैकार्थगृहीतिरूपत्वाविशेषेऽ पि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यं नोत्तरस्येत्यत्र नियामकं वक्तव्यम् । २.१ अथ यथाव्यवस्थितार्थगृहीतिरूपत्वाविशेषेऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यमुपपद्यते, न प्रथमोत्तरविज्ञानस्य, तदानेनैव न्यायेन प्रथमस्याप्यप्रामाण्यं प्रसक्तं गृहीतार्थग्राहित्वाविशेषात् । यथैकनीलस्वलक्षणावभासितयुगपदुत्पन्नानेकनीलविज्ञानानां नीलैकार्थगृहीतिरूपता न भिद्यते, तथा पूर्वापरोत्पन्नविज्ञानानामपि गृहीतार्थगृहीतिरूपता न निवर्त्स्यति । अथ नियतविषयत्वं पूर्वोत्तरविज्ञानयोः पूर्वोत्पन्नविज्ञानमनधिगतार्थाकारस्वीकरणमुखेनोपादीयत, उत्तरं त्वधिगतार्थाकारविषयमुपजायते । यदि गृहीतार्थविषयत्वं कथं प्रतिनियतविषयत्वम्? अथ प्रतिनियतविषयत्वं कथं गृहीतार्थग्राहित्वं, नियतविषयत्वगृहीतग्राहित्वयोर्विरोधात्? यदि च नियतविषयत्वं, तदोभयोरपि प्रामाण्यमनधिगतार्थगन्तृत्वाविशेषात् । अथैकविषयत्वं, तदोभयोरपि प्रामाण्यमप्रामाण्यं वा गृहीतग्राहित्वाविशेषात् । सोऽयं गडुप्रवेशाक्षितारकविनिर्गमन्यायोपनिपातः श्रुतिलालसानां दुरुत्तरः । २.११ नन्वधिगतविषयत्वे सत्यपि प्रामाण्याभ्युपगमे स्मृतेरपि प्रामाण्यमनुषज्यते प्रमाणफलता वा । कोऽत्र निवारयिता? स्मृतिरिहोपजायमानाद्यानुभवावेदितार्थाकारविषया वान्यविषया वा निर्विषया वा । तद्यदि पूर्वोदितानुभवावेदितार्थाकारविषया, तदा तस्याः प्रमाणफलता नैव निवारयितुं पार्यते गृहीतार्थग्राहित्वाविशेषादित्युक्तम् । एवं च स्मृतिसञ्ज्ञकं सप्तमं प्रमाणं प्रसक्तं मीमांसकानाम् । अथ पूर्वविज्ञानानवधारितार्थविषया । यद्येवं कथं तस्याः प्रमाणफलत्वमपनेतुं पार्यते? आद्यानुभवस्येव स्मृतिरूपता च न प्राप्नोति । दृष्टश्रुतार्थविषया हि स्मृतिर्नागृहीतार्थविषया । अथ निर्विषयेष्यते, तदा न गृहीतार्थग्राहित्वेन स्मृतेरप्रामाण्यम्, अपि तु केशोण्डुकसंवेदनवन्निर्विषयत्वेन । अपि च यदि निर्विषया, तदा गृहीतार्थग्राहिणी कथम्? गृहीतार्थग्राहिणीति चेन्, निर्विषयेति न वक्तव्यम् । न च निर्विषया । मातरं पितरं शुश्रूषितवानहं, सन्ति मे पञ्चभृत्येति पूर्वानुभवावेदितार्थाकारपर्यवसायिन्यो हि स्मृतयः, स्मृतिज्ञानेन पूर्वानुभवावेदितार्थाकारस्य प्रतिभासनात् । अथ स्मृतिविज्ञानकाले पूर्वप्रबोधविषयीकृतार्थस्य प्रत्यस्तमितत्वान्न तद्विषयत्वम् । एवं च निर्विषयत्वेन स्मृतेरप्रामाण्यं न गृहीतार्थग्राहित्वेनेत्युक्तम् । २.२ यदि चावधारितार्थविषयं प्रमाणमप्रमानमुपपाद्यते, तदानुमानज्ञानस्याप्रामाण्यमापनीपद्येत । तदेव कथम्? कथ्यते यदेवाविनाभावसम्बन्धग्रहणकालावधारितमग्नित्वसामान्यं लिङ्गाजहद्वृत्तित्वेन प्रत्यक्षेण तदेवानुमानादवगच्छत्याहोस्वित्पावकस्वरूपं मत्वर्थं वा लिङ्गव्यापारसमानकालीनास्तित्वं वा लिङ्गोपसर्जनत्वं वाग्निव्यक्तिपारतन्त्र्यं वाग्नित्वसामान्यस्य? २.२१ तद्यदि पूर्वावधारितसामान्यविषयमभ्युपेयते, तदा प्रामाण्यं नैव समासादयति गृहीतार्थग्राहित्वेन स्मृतिवदेव । तदप्रामाण्ये नाग्निमत्त्वव्यवस्थोपपत्तिः । तदनुपपत्तौ च नार्थापत्त्याग्निव्यक्तिसंस्थितिः । ततश्चामुत्राग्निरग्निरानीयतामिति सकललोकव्यवहारविर ।हः स्यात् । अथ मा भूदेतद्व्यवहारहानिरिति चेत्पूर्वावधारितेऽप्यर्थेऽनुमानस्य प्रामाण्यमभ्युपेयते, तदानधिगतार्थगन्तृविशेषणमपार्थकं श्रोत्रियाणामिति । २.२२ अथ पावकस्वरूपमनुमिमीषे, तल्लिङ्गाजहद्वृत्तित्वेन पूर्वमवधारितं वा न वा । यदि पूर्वोपलब्धमधिगतार्थविषयत्वमायातमनुमानस्य । अथ न पूर्वोपलब्धम्, अव्यापकोऽग्निरनुमानात्तर्हि प्रतीयते । तदभ्युपगमे तृणजलादिविषयमप्यनुमानं प्रसज्यते । २.२३ अथ मत्वर्थोऽनुमीयते, स पूर्वावधारितो वा न वा । यद्यवधारितः, कथमनधिगतार्थगन्तृविशेषणमनुमाने सम्भवति? अथ नैवावगतस्, तदानीं जलतृणादिविषयमप्यनुमानं प्रसज्येतेत्युक्तम् । २.२४ अथ लिङ्गव्यापारसमानकालीनास्तित्वमग्नित्वसामान्यस्यानुमीयते, तदनुमानव्यापारसमानकालीनास्तित्वमग्नित्वसामान्याद्व्यतिरिक्तमव्यतिरिक्तं वा । तद्यद्यव्यतिरिक्तं, तदानीं पूर्वोपलब्धास्तित्वविषयमेवानुमानम् । कथमनधिगतार्थगन्तृविशेषणमपार्थकं न भवेत्? अथ व्यतिरिक्तं, तत्किं पूर्वोपलब्धमनुपलब्धं वा? यदि पूर्वोपलब्धं तद्विषयत्वेऽनुमानस्य नानधिगतार्थगन्तृविशेषणमुपपद्यते । अथ नोपलब्धं, तत्कथमनुमीयते जलादिकल्पं धूमेन? २.२५ अथ लिङ्गोपसर्जनत्वमग्नित्वसामान्यस्यानुमानात्प्रतीयते, तल्लिङ्गोपसर्जनत्वमग्नित्वसामान्याद्भिन्नमभिन्नं वा । यद्यभिन्नं पूर्वोपलब्धाग्नित्वसामान्यविषयमेवानुमानं, कथं प्रामाण्यभाग्भवति? अथ भिन्नं, तदविनाभावसम्बन्धग्रहणकाले लिङ्गव्यापकत्वेनावधारितं वा न वा । यद्यवधारितं कथमनधिगतार्थविषयमनुमानम्? अथ लिङ्गव्यापकत्वेनानवगतं, तदा तद्विषयत्वेऽनुमानस्य परिकल्प्यमाने त्रिभुवनावेदकत्वं धूमस्य किं न परिकल्प्यते सम्बन्धाभावाविशेषात्? २.२६ अथाग्निव्यक्तिपार ।तन्त्र्यमनुमीयते धूमेनाग्नित्वसामान्यस्येति चेत्, तत्पारतन्त्र्यमग्नित्वसामान्यस्य धूमव्यापकत्वेनावधारितं वा न वा । यद्यवधारितं, पुनरपि गृहीतग्राहित्वं नातिवर्ततेऽनुमानम् । अथ नावधारितं धूमव्यापकत्वेन पारतन्त्र्यमग्निसामान्यस्येति चेत्, कथमनुमीयतेत्युक्तं पुरस्तात् । २.३ एतेन पूर्वोपलब्धगोत्वादिप्रतिपादकत्वेन गोशब्दादेरप्रामाण्यमुद्घाटितम् । तदेव कथम्? कथ्यते किं सङ्केतग्रहणकालावगतगोत्वार्थवाचकत्वं तद्व्यतिरिक्तार्थवाचकत्वं वा प्रतिपाद्यते गोशब्दस्य? तद्यदि सङ्केतग्रहणकालाधिगतगोत्वस्वरूपावेदकत्वं जेगीयते गोशब्दस्य, तदा विदितार्थाकारावेदकत्वेन न मानत्वमासादयति गोशब्दः । अथ वेदितार्थाकारावेदकत्वेऽपि प्रामाण्यमावहति, तदानधिगतार्थगन्तृविशेषणस्य विषयोवक्तव्यः । अथ तद्व्यतिरिक्तार्थवाचकत्वं, तदानीमसङ्केतितैवार्थः प्रतीयते गोशब्दात् ।ततश्च स्वसिद्धान्तप्रतीतिविरोधो दुमिवारः । अथ गोत्वमेवावगम्यते गोशब्देनेति चेत्, तत्रापि प्रपञ्चितमेवाप्रामाण्यकारणं गृहीतग्राहित्वम् । तदप्रामाण्ये न गोत्वव्यवस्थितिः । तदनवस्थितौ नार्थापत्त्याधिकरणव्यवस्थितिः । २.३१ इतोऽपि नार्थापत्त्याधिकरणव्यवस्थितिरुपपद्यते किमर्थापत्त्या पूर्वावधारिताधिकरणप्रत्यायनं क्रियताहोस्विदपूर्वाधिकरणप्रत्यायनम्? तद्यदि पूर्वावधारिताधिकरणपर्यवसितार्थापत्तिस्, तदा प्रतिपादितार्थप्रतिपादकत्वेन न प्रमाणम् । अथादृष्टपिण्डावेदकत्वं तदा गोत्वान्यथानुपपत्त्या गजवाजिकल्पनापि कार्या । अथ पूर्वावधारितस्येदानीन्तनमस्तित्वमर्थापत्त्यावसीयतेति चेत् तदिदानीन्तनमस्तित्वं पूर्वावधारिताद्व्यतिरिक्तमव्यतिरिक्तं वा । तद्यद्यव्यतिरिक्तं, तदा पूर्वावधारितार्थप्रतिपादकत्वेन कथमर्थापत्तेः प्रामाण्यं वेदविदो वदन्ति? अथार्थान्तरं, कथं गोत्वान्यथानुपपत्त्या प्रतीयते? तत्प्रतीत्यभ्युपगमे वा गजवाजिविषयापि प्रतिपत्तिः स्यादित्यसकृत्प्रतिपादितम् । एवं च सति यदुक्तमिदानीन्तनमस्तित्वं न हि पूर्वधिया गतमिति तद्बालवल्गितम् । २.४ एतेन प्रत्यभिज्ञानस्यापि प्रामाण्यं प्रत्युक्तं वेदितव्यम् । [अध्याय ३: थे बुद्धिस्त्देfइनितिओनोf मेअन्सोf वलिद्चोग्नितिओन्] ३.१ तथा ताथागतानामप्यनधिगतार्थगन्तृविशेषणमपार्थकमपोह्यज्ञानासम्भवात् । न हि पूर्वापरकालभाविनी विज्ञान एकविषये स्तो, न स्वलक्षणैकविषये, न सामान्यैकविषये, ३.११ स्वलक्षणस्याभिन्नैकस्वभावस्य क्रमवृत्त्यनेकविज्ञानजननशक्तिव्यतिरेकात् । अथ युगपदेकविषयोत्पन्नानेकविज्ञानापनोदार्थं, तदप्ययुक्तम् । एकविषयोत्पन्नानेकपुरुषसंवेदनस्याप्रामाण्यमापनीपद्येत । ३.१२ अथ सामान्यैकविषयानेकविज्ञानापनोदार्थं विशेषणमुपादीयते, तदप्ययुक्तम् । न सामान्यैकं विज्ञानमस्ति, नाप्यनेकं विज्ञानं, तस्य स्वयमसम्भवात् । तदाकारविरहे सामान्यविषयं विज्ञानमिति प्रतिकर्मव्यवस्थाहेतुर्वक्तव्यः । तदाकारे वा सामान्यस्य सदात्मता । अतात्त्विकाकारतादात्म्ये वा ज्ञानातात्त्विकत्वप्रसङ्गः । ३.१ किं चैकविषये प्रवर्तमानयोरेकस्याप्रामाण्यं प्रमाणान्तरत्वाभावो वा । ३.१ १ तद्यद्यप्रामाण्यं, तदयुक्तम् । अविशिष्टैकार्थगृही तिरूपत्वोभयोः प्रामाण्यमप्रामाण्यं वा विकल्पानुपपत्तेः । विकल्पे वैकविषयोत्पन्नानेकपुरुषविज्ञानभेदप्रसङ्गः । ३.१ २ अथाप्रमाणान्तरत्वं, तदप्यनुपपन्नम् । किमेकविषयोत्पादितानेकप्रत्यक्षादिज्ञानानां व्यक्तिनानात्वं नोपपद्यताहाकारनानात्वम्? तद्यदि व्यक्तिनानात्वं न जाघटीति, तदसद्, एकनीलोत्पादितानेकनीलालोकविज्ञानानां व्यक्तिनानात्वदर्शनात् । अथानेकाकारता नोपपद्यते, तदयुक्तं, नीलालोकविज्ञानानामनेकाकारत्वदर्शनात् । न च तदुत्पादको नीलप्रपञ्चोऽस्त्य्, एकात्मतया स्वयमभ्युपगमात् । अथैकविटयत्वे प्रत्यक्षानुमानव्यपदेशानुपपत्तिः । तदेतदयुक्तं, भिन्नकरणकार्यत्वेन व्यपदेशोपपत्तेः । यथैकनीलोत्पन्नानेकदेवदत्तादिज्ञानानां भिन्नकर्तृकार्यत्वेन देवदत्तादिज्ञानव्यपदेशस्तथेहापि । ३.२ अन्ये त्वविसंवादि ज्ञानं प्रमाणमभिदधति । कोऽयमविसंवादार्थः? किं यथाव्यवस्थितार्थगृहीतित्वं बाधारहितत्वं वा प्रतीयमानार्थजन्यता वा प्रतीयमानार्थं प्रति प्रवर्तकत्वं वार्थप्रापकत्वं वा? ३.२१ तद्यदि यथाव्यवस्थितार्थगृहीतित्वं, तदनुमानज्ञाने नोपपद्यते । ३.२२ अथ बाधारहितत्वं, तदप्यनुमानज्ञाने नोपपद्यते । ३.२३ अथ प्रतीयमानार्थोत्पाद्यत्वं, तदप्यनुमानज्ञानस्य नोपपद्यते, सामान्याकारस्य जनकत्वव्यावृत्तेः । तथा रागादिसंवेदनस्याप्यवभातार्थोत्पाद्यत्वं नोपपद्यते, स्वात्मोत्पादने सामर्थ्यव्यतिरेकात् । तथा योगिप्रत्यक्षस्य प्रतीयमानार्थजन्यता न सम्भवति व्यतीतानागतयोरजनकत्वात् । जनकत्वे वातीतानागतता हीयते । ३.२४ अथ प्रतीयमानार्थं प्रति प्रवर्तकत्वमविसंवादार्थस्, तद्विपर्ययज्ञानस्यापि प्रवर्तकत्वं विद्यते । विपरीतोत्पन्नोदकबुद्धिः प्रवर्तते, न च तस्याविसंवादोऽस्ति । सत्योदकज्ञानेऽपि जाते न प्रवर्तते केनापि हेतुना, तदपि विसंवादि स्यात् । ३.२५ अथार्थप्रापकत्वमविसंवादस्, तत्र किमर्थमात्रप्रापकत्वमाहोऽवभातार्थप्रापकत्वं तज्जातीयोदकप्रापकत्वं वा स्वोत्पादकार्थप्रापकत्वं वाथ स्वोत्पादककारकाणां ध्रुवभावित्वमविसंवादः? यद्यर्थमात्रप्रापकत्वं, केशोण्डुकेन्दुद्वयसंवेदनस्याप्यविसंवादित्वमापद्यते । अथावभातार्थप्रापकत्वं, तदानुमानज्ञानस्याविसंवादित्वं न लभ्यतेऽवभातार्थाप्रापकत्वात् । अनुमानज्ञाने हि सामान्याकारोऽवभाति, न चासौ प्राप्यते स्वयमसत्त्वात् । तथा योगिज्ञानस्यातीतानागतार्थे समुत्पन्नस्यार्थप्रापकत्वं न विद्यते । तथा रागादिसंवेदनेऽपि जाते नावभातरागादिप्राप्तिरस्ति । तथा प्रत्यक्षे पि विज्ञाने नावभातार्थप्राप्तिरस्ति क्षणिकत्वेनास्तमितत्वात् । अथ तज्जातीयोदकप्रापकत्वेनाविसंवादित्वमुच्यते, तदयुक्तमुदकत्वजातेरभावात् । अथानुदकत्वव्यावृत्तिर्जातिरित्युच्यते, सोदकव्यक्तिभ्योऽव्यतिरिक्ता व्यतिरिक्ता वा । यद्यव्यतिरिक्ता तदा व्यक्तिरेव न जातिः । अथ व्यतिरिक्ता सा वस्तुभूतावस्तुभूता वा । यदि वस्तुभूता तदाभ्युपेतहानिः । अथावस्तुभूता तद्गतिः कथम्? न चोदकव्यक्तीनां नानात्वमुपपद्यते । यथा च नोपपद्यते तथा निवेदितं नैयायिकप्रत्यक्षलक्षणाधिकारे । अथ स्वोत्पादकार्थप्रापकत्वमविसंवादकत्वं, तदयुक्तं, नयनालोकमनस्कारादेः प्रत्यस्तमितत्वात् । अथ स्वोत्पादककारकाणां ध्रुवभावित्वमविसंवादस्, तदभावे तदभावप्रसङ्गात् । यद्येवं केशोण्डुकविज्ञानस्यापि ध्रुवभाविकारणत्वेनाविसंवादोऽस्त्यन्यथाकस्मिकत्वप्रसङ्गात् । एवं चाव्यवस्थिते यदुक्तं न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यतेति तद्बालविलसितम् । ३.३ तथा मानमेयसङ्ख्यापि सौगतमते नोपपद्यते । तदेव कथम्? कथ्यते द्व एव प्रमाणे, न मानान्तरमस्ति । तद्द्वित्वं किं व्यक्तिभेदेनाकारभेदेन विषयभेदेन वा? ३.३१ यदि व्यक्तिभेदेन, तदापरिसङ्ख्येयत्वं ज्ञानव्यक्तीनामानन्त्याद्, द्वित्वानुपपत्तिः । न च ज्ञानानां भेदोऽस्त्यज्ञानाद्धि ज्ञानं ज्ञानात्मतया भिद्यते, ज्ञानान्तरात्तु कथं निवर्तते? किं ज्ञानात्मतयाकारान्तरेण वा? यदि ज्ञानाकारतया भिद्यते, तदान्येषामज्ञानात्मकत्वप्रसङ्गो रसादेरिव । अथाकारान्तरेण व्यावर्तते, तदाज्ञानात्मता तस्योत्पद्यते रसादेरिव । ३.३२ अथाकारभेदेन मानयोर्भेदः, सोऽप्यनुपपन्नैव । ज्ञानाकारव्यतिरेकेण प्रत्यक्षानुमानयोर्नाकारान्तरमस्ति । तदुपगमे वा ज्ञानाकारविरहः स्यात् । न चाकारसमूहात्मकं ज्ञानं तस्याभिन्नात्मकत्वात् । ३.३३ अथ विषयभेदेन द्वैविध्यमुपपाद्यते, ३.३३१ तदानुमानज्ञानस्य विषयार्थो वक्तव्यः किमग्न्यादिस्वलक्षणविषयं विद्यमानसामान्यविषयमपारमार्थिकसामान्यविषयं वा निर्विषयं वा स्वांशविषयं वा? यद्यग्न्यादिस्वलक्षणविषयं, तदा प्रत्यक्षानुमानयोर्भेदानुपपत्तिरभिन्नविषयत्वात् । अथानुमानिके ज्ञानेऽग्निमात्रं प्रतीयते, प्रत्यक्षे तु तार्णादिविशेषात्मतया प्रतीयते । यद्येवं स्वलक्षणविषयत्वं नातिवर्ततेऽनुमानस्य, यदि नाम वह्नेरेव प्रपञ्चता । अथ सत्सामान्यविषयत्वं, तथापि प्रत्यक्षानुमानयोर्न भेदोऽस्ति सामान्यस्य स्वलक्षणरूपत्वात् । न च सत्सामान्यस्य विज्ञानविषयतोपपद्यते नित्यत्वेन जनकत्वाकारार्पकत्वानुपपत्तेः । न च सत्सामान्यविषयत्वे भ्रान्ततोपपद्यते । भ्रान्तिरप्यर्थसम्बन्धतः प्रमेति न वक्तव्यम् । अथासत्सामान्यविषयं, न तर्हि तस्य भ्रान्ततासतः स्वेन रूपेण विद्यमानत्वात् । न चासद्विषयभावं प्रतिपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात् । अव्यतिरेके वा वस्तुत्वप्रसङ्गः । तत्प्रसक्तौ च प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । अथ निर्विषयं, न तर्हि मानयोर्भेदोऽस्त्य्, अनुमानज्ञानस्य विषयासम्भवात् । नापि भ्रान्तता निर्विषयत्वादेव । न च ज्ञानस्य स्वसत्तामात्रेण भ्रान्तताभ्रान्तता चोपपद्यते, किं तु परोपधानवशात् । अथ स्वांशविषयं, तथापि प्रत्यक्षानुमानयोर्न नानात्वम्, उभयोः स्वलक्षणविषयत्वात् । न चानुमानज्ञानस्य भ्रान्तता स्वांशस्यावञ्चनात् । ३.३३२ तथा प्रत्यक्षस्यापि विषयो वक्तव्यः किं रूपादिस्वलक्षणविषयमात्मविषयमुभयविषयं वा? तद्यदि रूपादिमात्रालोचकं, तदयुक्तं तदनवगतावेतद्गत्यभावात् । अथ ज्ञानमात्रकायावगाहकं, तदपि नोपपद्यते, विषयभावस्य जनकत्वाकारार्पकत्वेन व्यवस्थितेः । न च स्वात्मनि जनकत्वमाकारार्पकत्वं चोपपद्यते । विषयिणमपेक्ष्य विषयो भवति, यथा कारणमपेक्ष्य कार्यं कार्यं चापेक्ष्य कारणं तथेहापि । यदि च प्रत्यक्षज्ञानेनात्ममात्रमात्मसात्क्रियते, तदानुमानेऽप्येतदस्ति, प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । अथोभयं विषयीक्रियते, तदप्ययुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारेण व्यवस्थितत्वात् । यदि च रूपगृहीतिरेव ज्ञानगृहीतिस्, तदा रूपस्य ज्ञानरूपता, ज्ञानस्य वा रूपरूपता, रूपगृहीतेर्वा रूपाव्यवस्थापकत्वम् । न चैकस्याकारद्वयं पश्यामः । ३.३ न च द्वित्वावधारणमिहोपपद्यते । प्रत्यक्षं ज्ञानमात्मानं गृह्णदुपजायते, नानुमानं विषययति । तथानुमानमप्यात्मानमात्मसात्कुर्वदुपजायते, न प्रत्यक्षं ज्ञानमवद्योतयति । एवं द्वित्वसङ्ख्याव्यवहारानुपपत्तिः । अथ विकल्पेन द्वयावधारणमिति चेत्, तदयुक्तम्, असावप्यात्मसंवेदनपर्यवसितत्वान्न द्वयं गृह्णाति । ग्रहणे वाभ्युपेतहानम् । तदनुपपत्तौ च द्व एवेति जडचेष्टितम् । [अध्याय ४: एxअमिन्ततिओनोf थे बुद्धिस्त्देfइनितिओनोf पेरेचेप्तिओन्] ४.१ तथा प्रत्यक्षं कल्पनापोढमभ्रान्तमिति न वक्तव्यं कल्पनापोढपदस्यापोह्यार्थासम्भवात् । ननु कल्पनैवापोह्या । केयंकल्पना किं गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पनाहो स्मृत्युत्पादकं विज्ञानं कल्पना स्मृतिरूपं वा स्मृत्युत्पाद्यं वाभिलापसंसर्गनिर्भासो वाभिलापवती प्रतीतिर्वा कल्पनास्पष्टाकारा वातात्त्विकार्थगृहीतिरूपा वा स्वयं वातात्त्विकी त्रिरूपाल्लिङ्गतोऽर्थदृग्वातीतानागतार्थनिर्भासा वा? ४.११ तद्यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, तत्किमविद्यमानगुणचलनजात्यादिविशेषनोत्पाद्यत्वेन कल्पनोत विद्यमानोत्पाद्यत्वेन? तद्यद्यविद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पनात्वं, तदयुक्तमविद्यमानस्य जनकत्वाभावादेवाकल्पनात्वम् । अथ विद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पना, तत्किं सविषयं कल्पनाज्ञानं निर्विषयं वा? तद्यदि सविषयं सत्कल्पनाज्ञानं, तदयुक्तं, गुणचलनजात्यादिजन्यत्वेऽपि न कल्पनात्वमर्थसामर्थ्यसमुद्भवत्वस्यानतिवृत्तेः । अथ निर्विषयं सत्कल्पना, तदा निर्विषयत्वमेव कल्पनात्वे कारणं, न गुणचलनजात्यादिविशेषणजन्यत्वम् । यदि च तन्निर्विषयं, तदा न कल्पनाज्ञानं नाप्यकल्पनाज्ञानं, ज्ञानमात्रता स्यात् । ज्ञानात्मतया च कल्पनात्वे सर्वं ज्ञानं कल्पनाज्ञानं स्यात् । ४.१२ अथ स्मृत्युत्पादकं ज्ञानं कल्पना, तदयुक्तं, रूपादिदर्शनादपि स्मृतिरुत्पद्यते न च कल्पनात्वं, यत्सन्निधाने यो दृष्टस्तद्दृष्टेस्तद्ध्वनौ स्मृतिरिति वचनात् । ४.१३ अथ स्मृतिरूपत्वेन कल्पना, तत्रापि किं गृहीतग्राहित्वेन निर्विषयत्वेनापूर्वार्थगृहीतिरूपत्वेन वा? तद्यदि गृहीतार्थग्राहित्वेन कल्पनात्वं, तदा प्रथमानुभवस्यापि कल्पनात्वमापद्यते गृहीतार्थग्राहित्वाविशेषादित्युक्तं पुरस्तात् । अथ निर्विषयत्वेन, तदा न कल्पनाकारता नाप्यकल्पनाकारता ज्ञानाकारव्यतिरेकेण । अथापूर्वार्थगृहीतित्वेन कल्पनात्वं, तदयुक्तं, न स्मृतेरपूर्वार्थगृहीतित्वमस्ति । तदभावान्न कल्पनात्वम् । यदि चापूर्वार्थगृहीतित्वेन कल्पनात्वं, रूपादिज्ञानानां कल्पनात्वमापद्यते । ४.१४ अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वं, तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वमस्ति, तदस्तु कल्पनाज्ञानम् । अथ न भवति तत्कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितं, कल्पनाज्ञानं तु स्मरणाकारतयोत्पाद्यते । तदिदं मद्विकल्पान्दोलितबुद्धेर्निरुपपत्तिकाभिधानम् । न ह्येकस्य स्वभावद्वयमुपपश्यामः । ४.१५ अथाभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना, स संसर्गः पारमार्थिकोऽपारमार्थिको वा । यदि पारमार्थिको, न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथापारमार्थिकः, कथं तदाभं विज्ञानं नैरात्म्यप्रसङ्गात्? न चातात्त्विके विषयार्थः कश्चिल्लभ्यते जनकत्वाकारार्पकत्वसहोत्पादसत्तामात्रव्यतिरेकात् । यदि चातात्त्विकार्थगृहीतिरूपं, तदा विपर्ययज्ञानम् । तच्चाव्यभिचारिपदेनापोदितं, न कल्पनापोढपदमुपादेयम् । ४.१६ अथाभिलापवाती प्रतीतिः कल्पना, किमभिलापात्मिकाहोऽभिलापोत्पाद्याभिलापगृहीतिर्वा? तद्यद्यभिलापात्मिका, प्रतीतिः कथम्? प्रतीतिश्चेदभिलापात्मिकेति न वक्तव्यं, विरुद्धाकारयोस्तादात्म्यव्यतिरेकात् । अथाभिलापोत्पाद्या, तदा शब्दज्ञानानां कल्पनात्वमापद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अथाभिलापगृहीतित्वेन कल्पनात्वं, तदा सर्वासामभिलापगृहीतीनां कल्पनात्वमापद्यते । तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः । ४.१७ अथास्पष्टाकारा प्रतीतिः कल्पना, अस्पष्टता का? किमविज्ञानात्मकत्वमाहो स्वलक्षणाजन्यत्वमथ प्रतीयमानार्थाजन्यत्वं प्रतीयमानासत्यता वा स्वलकणाप्रतिभासिता वा? तद्यद्यविज्ञानात्मकत्वमस्पष्टता, तदयुक्तं, प्रतीतिरिहास्पष्टाकारा गीयते, सा कथमविज्ञानात्मिका भवितुमर्हति? अथ स्वलक्षणाजन्यतास्पष्टता, तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वं, तदा रागादिसंवेदनस्यास्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वायोगात् । स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्य प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते । तदपि स्प३ष्टाभमुपजायते, न त्वस्पष्टाभं, न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासितेति वचनात् । अथ स्वलक्षणाप्रतिभासित्वमस्पष्टता, तदा निर्विकल्पाभिमतकेशोण्डुकविज्ञानस्यास्पष्टता प्राप्नोति, तत्र स्वलक्षणस्याप्रतिभासनात्, स्पष्टाभं च तद्गीयते । न च ताथागते दर्शने तथाभूतं ज्ञानमस्ति यत्स्वलक्षणाप्रतिभासि, सर्वस्मिन् ज्ञाने ज्ञानकायप्रतिभासनात् । अथ प्रतीयमानासत्यातास्पष्टता, तदा केशोण्डुकेन्दुद्वयविज्ञानस्यास्पष्टता प्राप्नोति । न च प्रतीयमानस्यासत्यता विज्ञानकायस्य प्रतीयमानत्वात् । न च तस्य विसंवादोऽस्ति । ४.१८ अथातात्त्विकार्थगृहीतिरूपा कल्पना, तद केशोण्डुकविज्ञानस्यापि कल्पनात्वमापद्यते । ४.१९ अथ स्वयमतात्त्विकी, तदा प्रतीतिः कथम्? प्रतीतिश्चेद्, अतात्त्विकी कथम्? ४.१(१०) अथ त्रिरूपाल्लिङ्गतोऽर्थदृक्कल्पनेति चेत्, सापि किं लिङ्गजन्यत्वेन कल्पनाहो निर्विषयत्वेन? तद्यदि लिङ्गजन्यत्वेन कल्पनात्वं, तदा लिङ्गावगाहकनिर्विकल्पकविज्ञानस्यापि कल्पनात्वमापद्यते । न चानुमेयज्ञानस्याव्यवधानेन लिङ्गोत्पाद्यत्वमस्ति । अथ निर्विषयत्वेन कल्पनात्वं, तदपि न योयुज्यते, स्वांशविषयत्वादनुमानज्ञानस्य । अथ स्वांशविषयव्यतिरिक्तविषयो नास्ति, निर्विषयत्वेन कल्पनात्वमपदिश्यते । तदा केशोण्डुकविज्ञानस्यापि कल्पनात्वमापद्यते । ४.१(१०)आथ यन्निर्विकल्पकं तद्विस्पष्टतयोपजायत, आनुमानिकं त्वस्पष्टाभं, तेन तत्कल्पनाज्ञानम् । ४.१(१०)अ१ तदयुक्तम् । अस्पष्टता च यथा न सम्भवति, तथा प्रागेवोक्ता । ४.१(१०)अ२ प्रत्यक्षज्ञानस्य च स्पष्टता का? किं स्वलक्षणजन्यताहो स्वलक्षणप्रतिभासिता? ४.१(१०)अ२१ तद्यदि स्वलक्षणजन्यता, किं प्रतीयमानस्वलक्षणजन्यता तद्विपरीतस्वलक्षणजन्यता वा? तद्यदि प्रतीत्यारूढस्वलक्षणजन्यता, प्रतीतौ किमवभाति? किमर्थो ज्ञानमुभयं व ? तद्यद्यर्थस्, तदयुक्तमप्रतीतायां प्रतीतौ तदनवभासनात् । अथ ज्ञानं, न तर्हि तदात्मानमुत्पादयति स्वात्मनि क्रियाव्यतिरेकात् । अथोभयं प्रतिभाति, तदयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वात् । यदि चोभयं प्रतिभाति, तदार्थवज्ज्ञानेनापि ज्ञानमुत्पाद्यतेत्यापद्यते । तच्चायुक्तं स्वात्मनि क्रियाविरोधात् । अथाप्रतीयमानस्वलक्षणजन्यता, तद्गतिः कथम्? न प्रत्यक्षेणाप्रतीयमानत्वादेव । नाप्यनुमानेन, स्वभावकार्यलिङ्गानवगतेः । न स्वभावानुमानं तत्कार्यतादात्म्ये तदनवगतौ तस्यानवगतेः । नापि कार्यानुमानं तद्भूतकार्यानुपलब्धेः । पिशाचपरमाणुमहेश्वरकल्पार्थोत्पादितं कार्यं नेहोपलभ्यते । अथ ज्ञानमेव तस्य लिङ्गं, तदयुक्तं, तेन सह तस्य सम्बन्धानवगतेश्चिन्मात्रतयैव न त्वन्योऽर्थः । न च चिदात्मानं जनयति । समनन्तरज्ञानं तस्य हेतुरिति चेत्, तदयुक्तं, तदवगतौ न मानमस्ति । परसन्तानज्ञानार्थकल्पं तदपि न स्वसंवेद्यं तत्कार्यज्ञानस्य, ततो भिन्नत्वात्परसन्तानज्ञानार्थवत् । नाप्यनुमाटेन, तदायत्ततायानवगतेः । चिन्मात्रतयैवात्मानमवगाहयति, नान्यायत्ततया, ततोऽन्यस्य पिशाचेश्वरतुल्यत्वात् । यदि च समनन्तरविज्ञानोत्पाद्यत्वेन स्पष्टता, तदानुमानज्ञानस्यापि समनन्तरज्ञानोत्पाद्यत्वेन निर्विकल्पकत्वमनुषक्तम् । ४.१(१०)अ२२ अथ स्वलक्षणप्रतिभासिता स्पष्टता, तत्र किं प्रतिभाति किमर्थो ज्ञानमुभयं वा? तद्यद्यर्थस्, तदयुक्तम्, अप्रसिद्धायां प्रसिद्धौ तत्प्रसिद्ध्यभावात् । अथ ज्ञानं, तदनुमानेऽपि प्रतिभाति, तदप्यस्तु निर्विकल्पकम् । तन्निर्विकल्पकत्वे तर्ह्यपोह्यो मृग्योऽधुना कल्पनापोढपदस्य । अथोभयं प्रतिभाति, तदयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वाभ्युपगमात् । ४.१(११) अथातीतानागतार्थगृहीतिरूपा कल्पना, तत्र किमवभात्य् अर्थस्तदभावो वा न किञ्चिद्वा? यद्यतीतोऽर्थः प्रतिभाति, न तर्हि तस्य कल्पनात्वं वर्तमाननीलज्ञानवत् । नाप्यर्थस्यातीतता प्रतीयमानत्वेन नीलजलादिवत् । न हि प्रतीयमानस्यातीतता नाम । यदि च प्रतीयमानस्याप्यतीततोच्यते, तदा सर्वस्य बुद्ध्युपलक्षितस्यातीतता भवेत् । ततश्च वर्तमानव्यवहारविरहः स्यात् । अथ तदभावः प्रतिभाति, तस्याप्यतीतता नास्ति, स्वेन रूपेण विद्यमानत्वात् । नापि तद्विषयविज्ञानस्य कल्पनात्वमुपपद्यतेऽभावार्थसामर्थ्येन समुद्भवात् । असामर्थ्ये वा विषयार्थश्चिन्त्यः । अथ निर्विषयं, न तर्हि तदतीतानागतार्थविज्ञानमतीतानागतार्थोपकाररहितमपदिश्यते । न च निर्विषयत्वे सति सविकल्पकत्वं निर्विकल्पकत्वं वापि तु ज्ञानात्मतयैव तस्य व्यवस्थितिः । न च ज्ञानमात्रतया तस्य सविकल्पकत्वमिष्यते सर्वज्ञानानां सविकल्पकत्वप्रसङ्गात् । यदि च निर्विषयत्वेनातीतानागतार्थविज्ञानस्य सविकल्पकत्वमभ्युपेयते, निर्विकल्पकाभिमतकेशोण्डुकविज्ञानस्यापि सविकल्पकत्वमापद्यते । न चातीतानागतविज्ञानस्य निर्विषयत्वमस्ति स्वांशपर्यवसितत्वात् । नापि स्वांशव्यतिरिक्तोऽर्थोऽन्योऽस्त्येकोपलम्भेनापोहितत्वात् । न च स्वांशस्य वञ्चनोपपद्यते । तदभावात्सर्वं विज्ञानं सविकल्पकं निर्विकल्पकं वा वक्तव्यं भेदानुपपत्तेः । ४.१ यदप्युक्तं कल्पनापोढं प्रत्यक्षमर्थसामर्थ्येन समुद्भवाद्रूपादिस्वलक्षणवदिति तत्र किं प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितमाहोऽर्थमात्रोद्भवत्वम्? तद्यदि प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितं, तदा रागादिसंवेदनस्य योगिप्रत्यक्षस्य च प्रतीयमानस्वलक्षणोद्भवत्वं न लभ्यते । अथेन्द्रियजप्रत्यक्षविवक्षयेदमपदिश्यतेऽर्थसामर्थ्येन समुद्भूतत्वादिति साधनं, तत्रापि ... स्य बाह्यार्थनिराकरणपरत्वात् । अस्तु वा बाह्योऽर्थस्, तथापि किं तेन निमित्तात्मकेनोत्पाद्यताहोपादानात्मकेन? तद्यदि निमित्तभूतेनोत्पाद्यते, तदा तदुत्पादितरूपस्य रूपरूपता न प्राप्नोति निमित्तभूतरूपोत्पादितज्ञानवत् । अथोपादानात्मकेनोत्पाद्यते, तदानया रीत्या रूपरूपतापद्यते ज्ञानस्य रूपोत्पादितरूपस्येव । ततः सर्वमविज्ञानात्मकं जगत्स्यात् । अविज्ञानात्मके च जगति मानमेयव्यवहाराभावप्रसङ्गः । तत्प्रसक्तौ च कस्येदं लक्षणं प्रस्तूयते? अथोपादानभूतेन रूपेण रूपमुत्पाद्यते, निमित्तात्मकेन तु ज्ञानमिति चेत्, तदिदं महानुभवस्य दर्शनम् । न ह्यबालिशैवं वक्तुमुत्सहेत । न ह्येकस्यानेकाकारता नाम । न चानेकनामकरणे मेयाद्यन्यत्वमस्ति । अन्यत्वे वा न तर्हीदं वक्तव्यं स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन मनोविज्ञानं निष्पाद्यते । तदेवमिन्द्रियज्ञानस्य प्रतीयमानार्थसमुद्भवत्वाभावः । दृष्टान्तश्च साधनविकलो न रूपादिस्वलक्षणस्य रूपरूपावभातार्थोद्भवत्वमस्ति । अथाप्रतीयमानस्वलक्ष.णोद्भवत्वं मे विवक्षितं, तदातीतानागतानुमानविकल्पानामप्रतीयमानार्थोद्भवत्वेन निर्विकल्पकत्वम् आपद्यते । ४.१ यदप्यन्यदुक्तमेकोपलम्भसामर्थ्याद्विकल्पिकायाः समुद्भवेदमुपलभेदं नोपलभेति किलैकभूतलोपलम्भे सति विकल्पिका बुद्धिरुत्पद्यतेदमुपलभेदं नोपलभ्यतेत्यादिकैतदपि न युक्तम् । यथा रूपस्वलक्षणस्य सविकल्पकविज्ञानजनकत्वं नास्त्यविकल्पकत्वात्, तथा विज्ञानस्वलक्षणमपि न सविकल्पकविज्ञानोत्पादकत्वमतिवर्ततेऽविचारकत्वाविशेषात् । अथाविचारकत्वाविशेषेऽपि निर्विकल्पकविज्ञानस्य सविकल्पकविज्ञानोदयदानसामर्थ्यं जेगीयते, तदा रूपादिस्वलक्षणस्याप्येतदस्तु । ततश्च प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । ४.१ यदप्यन्यदुक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहः । अथ कोऽयं कल्पनाविरहो नाम? किं ज्ञानकायतादात्म्यव्यवस्थितदेहस्तद्विपरीतो वा? तद्यदि ज्ञानतादात्म्येन व्यवस्थितस्, तदा प्रत्यक्षसाधनः कल्पनाविरहेति किमुक्तं भवति? प्रत्यक्षसाधनो विज्ञानाकारः प्रत्यक्षधियः । न केवलं प्रत्यक्षकल्पनाविरहः प्रत्यक्षसाधनो,ऽनुमानधियोऽपि प्रत्यक्षसाधनैव, ज्ञानाकारस्यानुमानज्ञानेऽपि भावात् । अथानुमानज्ञानस्याप्यात्मसंवित्तौ कल्पनारहितत्वं, बाह्यार्थापेक्षया कल्पनात्मकत्वमिति चेत्, तदेतन्मुग्धाभिधानं दुनोति मानसम् । कथं स्युर्विविधाकारास्तदेकस्य वस्तुनः? अथ भेदेन व्यवस्थितस्, तद्गतिः कथम्? न स्वसंवेद्योऽसौ ज्ञानाकारव्यतिरेकात् । नापि जनकत्वाकारार्पकत्वेन गृह्यते विरहस्य सामर्थ्यव्यतिरेकात् । एवं च सति यदुक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहेति तद्बालवल्गितम् । ४.१ अथ गौरित्यादिज्ञानं कल्पना, कथमस्य कल्पनात्वम्? अर्थेनाजनितत्वाद्यदि गवादेरर्थस्य गौरित्यादिज्ञानोत्पादनसामर्थ्यं स्यात्, तदा प्रथमाक्षसन्निपातवेलायामपि कुर्यात्तदात्मनोऽविशेषात् । तदुक्तं यः प्रागजनको बुद्धेरुपयोगाविशेषतः। स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः॥ अथ शब्दस्मरणमपेक्ष्योत्पादयति, तदेवास्तु तद्देहानन्तरफलत्वाद्गौरित्यादिज्ञानस्य । तदुक्तम् अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम्। अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ तदेतदयुक्तम् । प्राथमिकमपि ज्ञानं गौरिति ज्ञानं, गोपिण्डावगाहिनि विज्ञाने गौरिति ज्ञानसञ्ज्ञा । ततश्च प्रथमाक्षसन्निपातजमपि भवति । एवं च पूर्वापरविज्ञानयोरेकविषयत्वोभयोर्गौरिति ज्ञानसञ्ज्ञाविषयत्वम् । नन्वेकस्य क्रमभाविविज्ञानजनकत्वं किमेकेन स्वरूपेण स्वरूपान्तरेण वा? एकेनैव स्वभावेन जनयतीति ब्रूमः । नन्वेककालीनता पूर्वापरविज्ञानयोरेकस्वभावायत्तत्वे सत्यापद्यते । यद्येवमेकनीलोत्पादितनयनालोकविज्ञानानामेकदेशसम्बन्धित्वमेकाकारतैकव्यक्तित्वमापद्यतैकनीलोत्पाद्यत्वाविशेषात् । अथैवम्भूतं तत्तस्य स्वरूपं यच्चित्रकार्यकरणात्मकम् । यद्येवं ममकेऽपि पक्षे क्रमभाव्यनेककार्यकरणात्मकमेव स्वरूपं स्वहेतुसामर्थ्यनियमितस्योत्पत्तेः । अथवा यथात्वदीये पक्षे मनोज्ञानं स्वलक्षणविषयं न च प्रथमाक्षसन्निपातजम्, अपि त्विन्द्रियज्ञानेन स्वविषयानन्तरविषयसहकारिणोत्पाद्यते, तथा गौरित्यादिकमपि ज्ञानं प्रथमाक्षसन्निपातजेन विज्ञानेन स्वविषयानन्तरविषयसहकारिणा स्मरणाद्युपहितेन चोत्पाद्यतेति निर्विषयत्वाभावो विषयान्तरस्य स्वकारणसामर्थ्यानुरोधेन गौरित्यादिज्ञानजननयोग्यस्योत्पत्तेः । स्मरणमपि समर्थमुत्पन्नं सद्गौरित्युत्पादयति । एवं सति यदुक्तं यः प्रागजनको बुद्धेरित्यादि, तद्स्वपरमतमनालोच्यैव जेगीयते । ४.१ न च ज्ञानाकरव्यतिरेकेण विकल्पाकारोऽन्योऽस्ति । कल्पनाकारो हि ज्ञानतादात्म्येन व्यवस्थितः । ततश्च कल्पनापोढं प्रत्यक्षं किमुक्तं भवति? ज्ञानापोढं प्रत्यक्षम् । यो यत्स्वभावोपनिबद्धः, स निवर्तमानस्तमादाय निवर्तते । ततश्चाज्ञानात्मकं प्रत्यक्षं भिक्षूणां प्रसक्तम् । ४.२ तथाव्यभिचारिपदमपि नोपादेयमपोह्यज्ञानासम्भवात् । ननु मार्तण्डपादसङ्घातोत्पादितं विज्ञानमपोह्यमस्ति कथं तदपोह्यम्? अतथ्योदकविषयत्वात् । यद्यतथ्योदकविषयत्वं, कथं तदपनीयतेऽतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वान्मधुरोदकदीर्घोदकाकारवत्? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात्, तदिहाप्युदकं प्रतीयतोदकं गृह्णामीति व्यवहारदर्शनात् । सत्यं, प्रतिभात्य्, अतथ्यं तु प्रतिभाति । ४.२१ अतथ्यता का? किं प्रतीयमानस्याभावोऽथ प्रतीयमानैवाभावः? ४.२११ यदि प्रतीयमानस्याभावः, सोऽत्र नावाभात्य्, उदकाकारैवावभाति । ४.२१२ अथ प्रतीयमानैवाभावः सोऽप्यनुपपन्नैव । न हि भावाकारे प्रतीयमानेऽभावकल्पना युक्ता । अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश्चालूनविशीर्णं जगत्स्यात् । यदि चाभावः प्रतिभाति, कथं तदुदकज्ञानं मिथ्याज्ञानं चोच्यतेऽभावविषयस्य स्वेन रूपेण विद्यमानत्वात्? ४.२२ तदेतदुदकज्ञानमुदकं विषययत्युदकाभावमात्मानं न किञ्चिद्वा । ४.२२१ तद्यद्युदकं विषययति, तदा न तस्य मिथ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति । किं यत्प्रतिभाति तत्तथ्योदकम्, आहो यत्तथ्यं तत्प्रतिभाति? तद्यदि यत्प्रतिभाति तत्तथ्यम्, इहाप्युदकं प्रतिभाति, प्राप्ता तस्यापि तथ्यता । अथ यत्तथ्यं तत्प्रतिभाति, तस्य तथ्यता कथं ज्ञायते? किं प्रतीत्यान्यथा वा? यदि प्रतीत्या, इहापि प्रतीतिरुत्पद्यते । अस्तु तथ्यता । अथ प्रतीतिमन्तरेण तथ्यतोपपाद्यते, तदा सुस्थितानि वस्तूनि । सर्ववादसिद्धिः स्यात् । अथ प्रतीयते यदि नाम बाध्यते । प्रतीयते बाध्यते चेति चित्रम् । प्रतीयमानत्वं च जनकत्वाकारार्पकत्वेन व्याप्तम् । यच्च न जनयति नाकारमर्पयति तन्नावभाति यथा रूपज्ञाने रसः । प्रतीयते चात्रोदकं, जनकत्वाकारार्पकत्वोपपत्तिः । तदुपपत्तौ च न बाधोपपत्तिर्, जनकत्वाकारार्पकत्वस्य सत्त्वनिबन्धनत्वात् । ४.२२२ अथाभावं विषययति, न तर्ह्युदकज्ञानरूपताभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वमभावविषयस्योपपत्तेः । न च सौगतमतेऽभावे कश्चिद्विषयार्थोपपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात्. उदकाकारो हि प्रतीत्युत्कलितः । तदभावश्चाप्रातीतिकेहोपपाद्यते मुग्धबौद्धैः । ४.२२३ अथात्मविषयं, तथापि व्यभिचारिता नोपपद्यते, स्वांशस्यावञ्चनात् । न हि ज्ञानमात्मानं विसंवदति । नापि तदुदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । न हि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्तम् । ४.२२४ अथ निर्विषयं, न तर्हि तदुदकज्ञानम्, उदकज्ञानतया तु प्रतिभाति, तेन जानीम न निर्विषयम् । यदि च निर्विषयं, कथं तन्मिथ्याज्ञानम्? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनमस्ति स्वांशपर्यवसितत्वात् । ४.२३ विज्ञानस्य व्यभिचारिता किं स्वसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन? ४.२३१ तद्यदि स्वसत्तानुरोधेन, तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति ज्ञानरूपतायाः सर्वत्र भावात् । न किञ्चिद्विज्ञानमव्यभिचारि स्यात् । ४.२३२ अथ परसत्तानुरोधेन व्यभिचारितोच्यते, किमनुपकारकपरसत्तानुरोधेनाहोपकारकपरसत्तानुरोधेन? तद्यद्यनुपकारकपरसत्तानुरोधेन व्यभिचारिता, तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोत्यनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन व्यभिचारिताभिधीयते, किं करणभूतपरोपकारकसत्तानुरोधेनाहो कर्मतापन्नोपकारकपरसत्तानुरोधेन? तद्यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां मिथ्यात्वमापद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वं, तदयुक्तं, न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेणोपक्रियमाणत्वात् । ४.२४ तथा सम्यग्ज्ञानत्वमपि क हम्? किं ज्ञानसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन? ४.२४१ तद्यदि ज्ञानसत्तामात्रानुरोधेन सम्यक्त्वं, तदा सर्वसंवित्तीनां सम्यक्त्वं प्राप्नोति ज्ञानाकारस्योपपत्तेः । ४.२४२ अथ परसत्तानुरोधेन सम्यक्त्वं, तदा किमनुपकारकपरसत्तानुरोधेन किं वोपकारकपरसत्तानुरोधेन? तद्यद्यनुपकारकपरसत्तानुरोधेन सम्यक्त्वं, तदा सर्वासां संवित्तीनां सम्यक्त्वमापद्यतेऽनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन किं करणभूतपरोपकारकसत्तानुवेधेनाहो कर्मतापन्नोपकारकपरसत्तानुवेधेन? तद्यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां सम्यक्त्वमापद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मतापन्नोपकारकपरसत्तानुवेधेन सम्यक्त्वमभिधीयते, तदा रागादिसंवेदनस्य सम्यक्त्वं न प्राप्नोत्य्, अतीतानागतार्थविषयत्वे योगिज्ञानस्य च । ४.२५ यत्तद्व्यभिचारि ज्ञानं, तत्किं व्यभिचारिभूतेनोपादानज्ञानेन जन्यताहोऽव्यभिचारिभूतेनोपादानज्ञानेन जन्यते? ४.२५१ तद्यदि व्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तदपि व्यभिचारिभूतेन, प्राप्ता व्यभिचारिपरम्परा । सङ्ग्राह्यमव्यभिचारि न लभ्यते । ४.२५२ अथाव्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तदुपादानकारणमनुकुर्वद्वोपजायतेऽननुकुर्वद्वा । तद्यद्युपादानकारणानुकारेणोत्पाद्यते, तदा किमाप्नोति? अव्यभिचारिस्वरूपानुकारेणोत्पाद्यते । कथम्? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितेः । न चैकदेशानुकारित्वमस्त्युपादानकारणस्य निरवयवत्वात् । एवं सर्वं विज्ञानमव्यभिचारि प्रसक्तम्, अपोह्यज्ञानानुपपत्तिः । न च व्यभिचाराव्यभिचारौ ज्ञानाद्व्यतिरिक्तौ स्तः । यथा रसाकारो रूपाकारो वा ज्ञानाकाराद्भिन्नो, न तथा व्यभिचाराव्यभिचारौ ज्ञानाद्व्यतिरिक्तौ । ततश्च व्यभिचाराकारोऽत्र निराक्रियते किमुक्तं भवति? ज्ञानाकारोऽत्र निराक्रियते । ततश्चाज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् । ४.२५आपि च यथा रूपेणोपादानभूतेन जन्यते रूपं, तथा ज्ञानमप्युपादानभूतेनैव जन्यते । यैव तस्य रूपोत्पादनात्मा, सैव तस्य ज्ञानोत्पादनेऽपि । न हि तस्य ज्ञानोत्पादनात्मान्यत्वम् । अथ निमित्तभूतेन ज्ञानमुत्पाद्यतोपादानभूतेन रूपमिति चेत्, तत्कथमेकस्यानेकाकारयोगितोपपद्यते? न च सञ्ज्ञान्यत्वे मेयाद्यन्यत्वमुपपद्यते । रूपवद्विज्ञानस्यापि रूपरूपता प्राप्नोति । तत्प्राप्तौ च न परलोक्यात्मा । तदभावान्न परलोकः । इदमेव चेतसि समारोप्याह भगवान् बृहस्पतिः परलोकिनोऽभावात्परलोकाभावः । अथ रूपोपादानजन्यत्वेऽपि ज्ञानरूपतैव, रूपस्यापि ज्ञानरूपता प्राप्ता रूपोपादानजन्यत्वाज्ज्ञानवत् । अथ ज्ञानं ज्ञानेनोपादानभूतेन जन्यते, रूपमपि तेनैव जन्यते । न हि तस्य रूपोत्पादनात्मान्यत्वम् । एवं च तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः। तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम्॥ अथ रूपोपादानजन्यत्वेऽपि विज्ञानस्य न रूपात्मता, तथा ज्ञानोपादानजन्यत्वेऽपि विज्ञानस्य न ज्ञानरूपताटतश्च नैरात्म्यप्रसङ्गः । अथ ज्ञानोपादानजन्यत्वे ज्ञानाकारपरिकल्पना, तथा रूपोपादानजन्यत्वे रूपाकारातालोकोपादानजन्यत्वे चालोकाकारता प्राप्नोति । ततश्चाकारकदम्बात्मकं ज्ञानं प्रसक्तम् । अनिष्टं चैतदद्वयरूपत्वेनाभ्युपगमात् । ४.२५ यत्तद्रूपोत्पाद्यं विज्ञानं, तत्किमेकदेशेन रूपोत्पाद्यत्वेन स्थितं सर्वात्मना वोत्पाद्यत्वेन पर्यवसितम्? तद्यद्येकदेशेन स्थितं, तदयुक्तम्, अखण्डस्यैकदेशविरहात् । अथ सर्वात्मना रूपोत्पाद्यत्वेन पर्यवसितं, तदा विज्नानोत्पाद्यं न प्राप्नोति, यथैककारकसमूहोत्पाद्यत्वेन पर्यवसितस्य कार्यस्य सङ्घातान्तरोत्पाद्यत्वं न दृष्तम् । ततश्च विज्ञानसङ्घातानुपपत्तिः । ४.२५ तथा रूपमपि ज्ञानमेकदेशेन कुर्यात्सर्वात्मना करणपर्यवसितं वा । तद्यद्येकदेशेन करोति, तदयुक्तम्, अखण्डस्यैकदेशायोगात् । अथ सर्वात्मना करोति, तदा रूपं सर्वात्मना विज्ञानकरणे पर्यवसितं न रूपान्तरकरणे प्रवर्तते । यथैककारकसामग्र्येककार्योत्पादनपर्यवसिता कार्यान्तरसवित्री न भवति, तथा रूपमपि रूपान्तरोत्पादकं न भवति । ततश्च रूपान्तरस्याकस्मिकत्वम् । तदाकस्मिकत्वे कार्यानुमानं विलुप्यते सौगतानाम् । अथानेककार्योत्पादकत्वेन पर्यवसितं रूपस्वरूपं, तदा घटसङ्ख्यासामान्यादेरप्यनेकाधिकरणाश्रितात्मकं रूपं, वृत्तिविकल्पदोषानुपपत्तिः । द्.१ इतोऽपि वृत्तिविकल्पदोषानुपपत्तिर् वृत्तिविकल्पदोषेण वृत्तेरेव निराकरणं कृतं, न घटसङ्ख्यासामान्यादेस्, ततोऽन्यत्वात् । न ह्यन्यस्याभावेऽन्यस्याभावोऽस्त्यसम्बन्धात् । न ह्यनुदकः कमण्डलुरित्युक्ते कमण्डलोरभावः प्रतीयते, कपालानां तदुदकस्य वा, अपि तु कमण्डलुना साकमुदकस्य विश्लेषमात्रं प्रतीयते । ननु नैयायिकैर्वृत्तिमद्घटसामान्यमभ्युपेयते । तदभावे कथं तस्य संस्थितिः? यद्येवं रूपरसविज्ञानानामपि वृत्तिरभ्युपेयते नैयायिकैस्, तदभावेऽपि सद्भावोऽभ्युपगम्यते तेषां भवद्भिः । अथ तानि प्रतिभान्ति वृत्त्यभावेऽपि, तेन तेषामभ्युपगमः क्रियते । यद्येवं घटसङ्ख्यासामान्यादेरपि स्वरूपं प्रतिभात्यभिन्नानुगतात्मतया । न चानुभूयमानस्य निह्नवो युक्तः सर्वापलापप्रसङ्गात् । अनुपलब्धौ वा सैव समर्था, अतं वृत्तिविकल्पदोषेण । यद्युपलभ्यते, तदा वृत्तिविकल्पदोषो न वक्तव्यः । अथ नोपलभ्यते, तथापि न वक्तव्यः । द्.२ यदप्युक्तं देशभेदेनाग्रहणाद्घटसामान्यानुपपत्तिस्तदप्ययुक्तम् । न देशभेदेन वस्तूनां भेदो,ऽपि त्वाकारभेदेनाभिन्नानुगतात्मतया तयोः स्वरूपमनुभूयते । न देशभेदाग्रहणेन स्वावयवाधिकरणेन सह तयोस्तादात्म्यं सिध्यत्यसत्त्वं वा । यद्याकारभेदेन ग्रहणं, तदा देशभेदेनाग्रहणस्याप्रयोजकत्वम्, आकारभेदग्रहणेन स्वरूपान्यत्वस्य प्रबोधितत्वात् । अथाकारान्यत्वेन नावबोधोऽस्ति, सैवास्त्वसद्व्यवहारसमर्थत्वात् । किं देशभेदाग्रहणेन? स्वहेतोरेव नियतदेशकालनियमितस्योत्पत्तेर्न देशान्तरादौ ग्रहणम् । अन्यथा रूपादेरसत्त्वं स्यादितरेतरदेशलग्नस्याग्रहणात् । द्.३ यदप्युक्तं नास्ति घटसामान्यं तदग्रहेऽग्रहात् । किमनेन क्रियते? किमवयवाधिकरणाव्यतिरेकप्रतिपादनमाहोऽसत्त्वप्रतिपादनम्? तद्यद्यव्यतिरेकप्रतिपादनं क्रियते, कस्यात्र पक्षीकरणम्? किं घटसामान्यस्याहो तदवयवाधिकरणस्य? तद्यदि घटसामान्यस्य पक्षीकरणं, तत्किमवगतस्यानवगतस्य वा? तद्यद्यनवगतस्य, तदयुक्तम् । न ह्यनवगते धर्मिणि हेतोरुत्थानमस्ति । न चाश्रयवैकल्ये गमकत्वम् । अथावगतस्य, तदा तेनैव भिन्नाकारावगमेनाव्यतिरेकप्रत्यायकसाधनं बाध्यते । अथ तदवयवाधिकरणस्य पक्षीकरणं, तत्रापि किं स्वस्मात्स्वरूपादव्यतिरेकः साध्यताहो परस्मादिति? यदि स्वस्मात्स्वरूपादव्यतिरेकः साध्यते, सिद्धसाध्यतया सम्बोधयितव्याः । अथ परस्मादव्यतिरेकः साध्यते, स परात्मा प्रतिपन्नोऽप्रतिपन्नो वा? यदि प्रतिपन्नः, स किं भिन्नाकारतयावगतोऽभिन्नाकारतया वा? तद्यदि भिन्नाकारतयोपलब्धस्, तदानेनैव भिन्नाकारावगमेनाभेदप्रत्यायकं साधनं बाध्यते । अथाभिन्नाकारतयावगतो, न तर्हि परात्मा । इदानीं स्वस्मात्स्वरूपादव्यतिरेकः साध्यतेति सिद्धसाध्यतया सम्बोधयितव्याः । अथानवगतो, न तर्ह्येकत्वं रथतुरगविषाणयोरिव । अथाभावः साध्यस्, तत्रापि कस्य पक्षीकरणम्? किं घटसामान्यस्याहो तदवयवाधिकरणस्य? तद्यदि घटसामान्यस्य पक्षीकरणं, तत्किमवगतस्यानवगतस्य वा? यद्यवगतस्य, तदा तेनैव सद्भावावगमेनाभावहेतोर्बाध्यमानत्वादगमकत्वम् । अथ नावगतं, कथं तस्य पक्षीकरणं स्वयमनवगतस्य पक्षीकरणायोगात्? अथावयवाधिकरणस्य पक्षीकरणं घटसामान्यं नास्तीति प्रतिज्ञा तदग्रहेऽग्रहादित्यस्य हेतोस्तदभावेन सह सम्बन्धो नास्ति । तादात्म्यतदुत्पत्तिसम्बन्धाभावे सति कथं गमकत्वम्? तदग्रहेऽग्रहादित्यस्य कोऽर्थः? किम् अवयवाधिकरणग्रहणमेव घटसामान्यस्य ग्रहणमाहोऽवयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं किं वा घटसामान्यस्याग्रहणमेव विवक्षितम्? तद्यद्यवयवाधिकरणग्रहणमेव घटसामान्यस्य ग्रहणं विवक्षितं, तदा नानेनाव्यतिरेकोऽन्यतरासत्त्वं वा प्रतिपाद्यते । यथा नीलतद्धियोरेकोपलम्भेऽपि नान्यतराभावोऽव्यतिरेको वा, तथा नीललोहितयोरेकोपलम्भेऽपि नान्यतराभावोऽव्यतिरेको वा । अथावयवाधिकरणग्रहणानन्तरं घटसामान्यग्रहणं विवक्षितं, तदा नानेनाव्यतिरेकः साध्यतेऽन्यतरासत्त्वं वा । यथा रूपग्रहणानन्तरं रससंवेदनं न तयोरेकतां गमयत्य्ऽन्यतरासत्त्वं वा । अथाग्रहणमेव विवक्षितं घटसामान्यस्य, तदा तदग्रहेऽग्रहादित्येतन्न वक्तव्यम् । अग्रहादित्येतावदस्तु । न ह्यन्यस्याग्रहे तदनुपलम्भसिद्धिस्तत्स्वभावविनिवृत्तिनिबन्धनत्वात्तदनुपलम्भस्य । न चायं व्यतिरेकार्थो लभ्यते तदग्रहेऽग्रहादित्यस्य हेतोर्घटसामान्यस्याग्रहणमेव, अपि त्ववयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं लभ्यते । ततश्च विपरीतसाधनाद्विरुद्धो भवति । द्.४ यदप्यभ्यधाय्येकपिण्डग्रहणकालोपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्नास्ति सामान्यम् । कैवमाह नोपलब्धं सामान्यम्? अपि तूपलब्धमेव । कथं ज्ञायते? द्वितीयादिपिण्डदर्शने सति पूर्वे पिण्डे स्मृतिदर्शनाद्, अनेन सदृशोऽसावेवमनुस्मरति । अथवैकपिण्डग्रहणकाले तदुपलब्धिलक्षणप्राप्तं न भवति तेन नोपलभ्यते । उपलब्धिलक्षणप्राप्तिरिहानेकसहकारिपिण्डोपनिपातः । यदि चोपलब्धिलक्षणप्राप्तं, कथं नोपलभ्यते? अथ नोपलभ्यते, न तर्ह्य्.उपलब्धिलक्षणप्राप्तम् । उपलब्धिलक्षणप्राप्तिरिह प्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । एतच्चेद्विद्यते कथमनुपलब्धिः? एवम्भूतस्याप्यनुपलम्भे परिकल्प्यमाने सर्ववस्तूनामनुपलम्भप्रसङ्गः । उपलब्धौ वान्यत्कारणमन्वेष्टव्यम् । अथ प्रत्ययान्तरसाकल्यमात्रं विवक्षितं, न तत्स्वभावविशेषः । यद्येवमदृश्यस्यैवानुपलब्धिर्, न दृश्यानुपलब्धिरस्ति । यदि चान्यकारकसाकल्यमुपलब्धिलक्षणप्राप्तिरभिधीयते, तदाप्युपलब्ध्या भवितव्यं नानुपलब्ध्या । इतरकारकसाकल्यं ह्युपलम्भजननसामर्थ्यम् । तच्चेद्विद्यते, कथमनुपलब्धिः? तस्मादनुपलब्धिलक्षणप्राप्तस्यैवानुपलब्धिर्, नोपलब्धिलक्षणप्राप्तस्य । द्.५ यदप्युवाच क्षीरोदकवद्विवेकेनाग्रहणान्नास्ति सामान्यं तदप्ययुक्तम् । विवेको ह्याकारान्यत्वं व्यक्तीनामननुगमरूपता, सामान्यं त्वनुगताकारमनयोः सारूप्यं तैः सह सारूप्यमस्येति विविक्ताकारावगमदर्शनात् । तथा क्षीरोदकयोरपि विविक्तमेव ग्रहणम् । तत्र क्षीरोदकयोरेकभाजननिक्षेपे सति, किं केवलं क्षीरं प्रतिभात्याहोदकमुभयं वा? तद्यदि क्षीरमेव प्रतिभाति, कथं तदुदकाकारान्न विविक्तं भवति? अथोदकं केवलं प्रतिभाति, तदपि कथं क्षीरान्न विविक्तं भवति? अथोभयं प्रतिभाति, तदोभयोर् इतरेतराकारविविक्तयोर्ग्रहणं तादात्म्यव्यतिरेकात् । द्.६ यदप्यन्यदुक्तमेकत्र दृष्टो भेदो हि क्वचिन्नान्यत्र दृश्यत् न तस्माद्भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः॥ इत्येतदप्ययुक्तम् । एकत्र दृष्टस्य भेदस्यान्यत्र दर्शनमस्त्येव । यथा घटवस्त्रादेरेकावयवोपरिदृष्टस्यावयवान्तरलग्नस्योपलम्भस्, तथा सामान्यमपि भिन्नमस्त्यनुगताकारस्य बुद्धिभेदेनाध्यवसीयमानत्वात् । द्.७ यदप्यन्यदुक्तं नित्यस्य क्रमेतराभ्यामर्थक्रियाकरणसामर्थ्यं नास्तीत्यसत्सामान्यं, तदेतदयुक्तम् । उभयथाप्यर्थक्रियासम्पादनमुपपद्यते युगपत्क्रमेण च । ननु क्रमकर्तृत्वमभिन्नस्य नोपपद्यते, कार्यस्यैककालीनता प्राप्नोति । एतच्चासमीचीनम् । यथा भवतां पक्षैकं नीलस्वलक्षणमनेकाकारकार्यं नियतदेशसम्बन्धि जनयति नयनालोकमनस्कारादिरूपं, न च कार्याणामेकाकारतैकदेशसम्बन्धिता वा विद्यतैकस्वभावसमुद्भवत्वेऽपि, तथेहाप्येवम्भूतम् । तत्सामान्यं यत्क्रमेतराभ्यां कार्योत्पादात्मकम् । ननु यदि क्रमेण कार्यं करोति, तदा तदेव जनकं तदेव चाजनकम् । सत्यं, तदेव जनकं तद् एव चाजनकम् । ननु जनकाजनकयोर्भेदप्रसङ्गः । न प्रसङ्गोऽस्ति । यथा त्वदीये पक्षैकं नीलस्वलक्षणं स्वकार्यापेक्षया जनकं, स्वकारणात्मापेक्षया त्वजनकं, न तस्य स्वरूपभेदोऽस्ति । अथ स्वकारणमात्मानं च जनयति, तदयुक्तम् । तदात्मानं कुर्वदुत्पन्नं वा कुर्यादनुत्पन्नं वा । तद्यद्युत्पन्नं करोति, तदयुक्तं, कृतस्य करणायोगात् । अथानुत्पन्नं करोत्यसतः कः कारकार्थः? तथा स्वकारणमपि न जनयतीतरेतराश्रयत्वदोषप्रसङ्गात् । अतस्तदेव कारकं तदेव चाकारकमिति तथा सामान्यमपि जनकमजनकं च । न चार्थक्रियाकर्तृत्वाभावेऽसत्त्वं सिध्यति । यथा वह्नेरयोगोलकाङ्गारावस्थायां धूमोत्पादकत्वाभावेऽपि न निवर्तते वह्निरूपता, स्वहेतोरेव तथाभूतस्योत्पत्तेर्वह्निस्वभावस्य धूमाजनकात्मकस्य च, तथान्यदपि कार्यं स्वहेतुनोत्पादितं यद्वस्तुस्वभावं कार्याजनकात्मकं च । तथा सामान्यमपि वस्तुभूतं न च कार्यमुत्पादयति । ननु यदि कार्यं नोत्पादयति, तदस्तीति कथं वेत्सि? तदुपलब्ध्या । ननु तदनुत्पाद्या कथं तद्गृहीतिर्भवति? स्वहेतुसामर्थ्यनियमितायास्तद्गृहीत्यात्मतयोत्पत्तेः । न च तदुत्पाद्यत्वेन तद्गृहीतित्वं, चक्षुरादेरपि संवेद्यत्वप्रसङ्गात् । न च विषयाकारयोगित्वेन तद्गृहीतित्वं विज्ञानात्मताव्यतिरेकेण विषयाकारसमावेशायोगात् । योऽसावाकारो विषयार्पितः, स किं ज्ञानाकाराद्भिन्नोऽभिन्नो वा? यदि भिन्नः, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकस्, तद्गतिः कथम्? किं स्वसंवेद्यत्वेनाहो जनकत्वाकारार्पकत्वेन? तद्यदि स्वसंवेद्यत्वेन, तदयुक्तम्, अविज्ञानात्मतया स्वसंवेद्यत्वायोगात् । अथ जनकत्वाकारार्पकत्वेन, तदा प्राप्ताकारपरम्परा । अथातात्त्विकस्, तद्गतिर्नोपपद्यते स्वसंवेद्यत्वजनकत्वव्यतिरेकात् । अथाव्यतिरिक्तः, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः, स जडात्मा तद्विपरीतो वा । यदि जडात्मा, न तर्हि चिता सह तादात्म्यम् । चिदचितोस्तादात्म्यानुपपत्तिः । अथ तद्विपरीतस्, तदा ज्ञानमात्रता स्यात् । ज्ञानरूपता च सर्वज्ञानसाधारणा प्रतिकर्मव्यवस्थानुपपत्तिः । अथातात्त्विकस्, तदा ज्ञानस्याप्यतात्त्विकत्वं प्राप्नोति । यदि च विज्ञानतादात्म्येनाकारोत्पत्तिर्भवति, विज्ञानं सर्वकारकनिष्पाद्यत्वेन साधारणं प्रतिकर्मव्यवस्थानुपपत्तिः । एवं च सति यदुक्तम् अर्थेन घटयत्येनं न हि मुक्त्वार्थरूपताम्। तस्मादर्थाधिगतेः प्रमाणं मेयरूपता॥ तन्मुग्धविलसितं सौगतानाम् । द्.८ तदेवं वृत्तिविकल्पादिदूषणं सामान्यादौ न सम्भवति यथैकं रूपमनेककार्योत्पादकत्वेन साधारणं, तथैकं सामान्यमनेकाधारसाधारणम् । अथैकं रूपं नानेकं कार्यं जनयत्य्, अपि त्वेकमेव, तत्रापि किं रूपमेव केवलमुत्पादयत्युत ज्ञानमेव? तद्यदि रूपमेव केवलमुत्पादयति, तदा रूपस्याग्रहणं प्राप्नोति विज्ञानाजननात् । अथ ज्ञानमेव केवलमुत्पादयति, तथापि मानसं प्रत्यक्षं न प्राप्नोति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन यज्जन्यते, तन्मानसं प्रत्यक्षम् । न च स्वविषयानन्तरभावी विषयोऽस्ति रूपान्तराजननात्६टस्मादेकमेव रूपं विज्ञाननीलादिकार्यसाधारणं प्रतिपत्तव्यम् । चक्षूरूपालोकादीनि कारणानि विज्ञानमुत्पादयन्ति, तानि किमेकस्वभावयुक्तान्याहो नियतस्वभावयुक्तानि? तद्यद्येकस्वभावतयोत्पादयन्ति, तदा कारकैकत्वं प्राप्नोत्यभिन्नस्वभावयोगित्वात् । अथ नियतस्वभावयुक्तानि ज्ञानरूपं कार्यं जनयन्ति, तदा विज्ञानस्याभेदरूपता निवर्तते नियतस्वभावकारकजन्यत्वाद्रूपशब्दादिवत् । अथ विविधादपि कारणादखण्डितरूपं कार्यं भवति । एवं च कार्यभेदाद्भिन्नकारणानुमानं निवर्तते । एकस्वभावादपि विज्ञानादनेकं नयनालोकादिकार्यमुत्पद्यते । अनेकस्मादप्येकं भवति । एवं च सति नियतकार्यदर्शने नियतकारणानुमानं निवर्तते । अथैकस्मादेव कारणादेकं कार्यं भवति न बहूनां सङ्कलितानामेकफलोत्पादकत्वम् । ततश्च नियतकार्यदर्शने नियतकारणानुमानं केन निवार्यते? तदेतदसमीचीनम् । यद्येकं कारणमेकं कार्यं जनयति तदाभ्युपगमविरोधश् चतुर्भ्यश्चित्तचैत्ता भवन्ति बोधाद्बोधरूपता विषयाद्विषयाकारतेत्यादि । एकमेव जनयति, किं समानजातीयत्वेनाहो तदाकारत्वेन किं वा पूर्वापरकालभावित्वेन? तद्यदि समानजातीयत्वेन जनकत्वं, तदा समानजातीयं पश्चादुत्पन्नमपि जनयेत् । अथ तदाकारानुकारित्वेन जनकं, तत्राप्येतदेव दूषणम् । अथ पूर्वापरकालभावित्वेन जनकं, न तर्हीदं वक्तव्यमेकमेव जनकं चक्षूरूपालोकमनस्काराणां पूर्वकालभावित्वाविशेषात् । एवं चानेकोपादानोत्पाद्यत्वेनाकारकदम्बकस्वरूपं विज्ञानं प्रसक्तम् । रूपाद्याकारपरिहारे वा विज्ञानाकारस्याप्यनुपपत्तिः । तदनुपपत्तौ नैरात्म्यप्रसङ्गः । किं च ज्ञानं कार्यैकस्वभावं कारणैकस्वभावमुभयस्वभावं वा । तद्यदि कारणैकस्वभावं, तदा कार्यरूपता न सम्भवति । तदभावे न वस्तुत्वं संस्कृतानां वस्तुत्वाभ्युपगमात् । नापि कारणरूपतोपपद्यतेऽनाधीयमानातिशयत्वेन जनकत्वायोगात् । अथकार्यैकस्वभावं, तथापि न सदात्मकमर्थक्रियाकरणे वस्तुत्वविरहात् । अथोभयात्मकम् । एकमनेकात्मकं भवति । केन त्वं विप्रलम्भितः? न ह्येकस्यानेकनामकरणे नानातोपपद्यते । न चानेकनामकरणमुपपद्यते निमित्तस्याविचित्रत्वात् । एवं विज्ञानस्यासम्भवे सति सन्तानानुपपत्तिरभ्रान्तभ्रान्तद्वैतस्यानुपपत्तिश्च । ए.१ इतोऽपि सन्तानस्यासिद्धिर् विज्ञानस्यैकत्वात् । तदेकत्वं चाकारान्तरस्यानुपपत्तेः । उपपत्तौ वा ज्ञानाकारविरहप्रसङ्गः । तत्प्रसक्तौ च सन्तानानुपपत्तिः । ए.२ इतोऽपि विज्ञानसन्तानानुपपत्तिर् विज्ञानमसद्धर्मात्सदात्मतया निवर्तते, स्वरूपान्तरात्तु कथं व्यावर्तते? किं सदात्मतयाहाकारान्तरेण? तद्यदि सदात्मतया व्यावर्तते, तदा रूपादेरसदाकारता प्राप्नोति वाजिविषाणयोरिव । अथाकारान्तरेण निवर्तते, तदा ज्ञानस्यासत्स्वभावता प्राप्नोति तुरगविषाणवदित्यथ विज्ञानाकारतया निवर्तते रूपादिभ्यो विज्ञानं, सा विज्ञानाकारता सत्स्वभावासत्स्वभावा वा तद्यदि सत्स्वभावा, तदा ज्ञानाकारतया निवर्ततेति किमुक्तं भवति? सदात्मतया निवर्तते विज्ञानसदाकारयोरव्यतिरेकात् । ततश्च रूपादेरसदाकारता प्राप्नोति तुरगविषाणवदिति पूर्वोदितमेव दूषणमापद्यते । अथासत्स्वभावा, तदा खरविषाणवद्विज्ञानरूपतां परित्यजति । त्यागे विज्ञानसन्तानानुपपत्तिः । तदनुपपत्तौ चैत्यवन्दनादिक्रियानर्थक्यम् । ए.३ इतोऽपि विज्ञानसन्तानानुपपत्तिस् तदुत्पादकविज्ञानस्य पूर्वापरसहोत्पन्नविज्ञानं प्रति स्वरूपाविशेषात् । यदेव पूर्वसहोत्पन्नविज्ञानापेक्षया स्वरूपं तदेवापरविज्ञानापेक्षयापि स्वरूपं विज्ञानस्य निरवयवत्वेन । ततश्च यथा पूर्वसहोत्पन्नविज्ञानस्य हेतुर्न भवत्य्, एवमपरविज्ञानस्यापि हेतुर्न भवति तत्स्वरूपव्यतिरिक्तव्यापारातिशयस्यानुपलब्धेः । अथ पूर्वकालभावैवातिशयस्तेन तस्य हेतुत्वमुपपाद्यते । यद्येवं यथा देवदत्तज्ञानपूर्वकालभावि देवदत्तज्ञानं देवदत्तज्ञानकारणं, तथा सर्वपुरुषज्ञानानां देवदत्तज्ञानपूर्वकालोत्पन्नानां देवदत्तज्ञानं प्रति हेतुत्वं प्रसक्तम् । तत्प्रसक्तावनेकद्वीपदेशान्तरितपुरुषानुभूतार्थानुस्मरणं स्यात् । तथा स्वजनभुजङ्गमादावननुभूतेऽप्यर्थेऽनुस्मरणं स्यात् । तथा तथागतावदातज्ञानजन्यत्वे देवदत्तादिज्ञानानामवदातता स्यात् । ततश्च सर्वे सर्वज्ञाः स्युः । अथ नैवावदातता देवदत्तादिज्ञानानां तथागतावदातज्ञानोपादानजन्यत्वेऽपि देवदत्तादिज्ञानेनापि जनितत्वात्, तज्जन्यत्वेनैवतथागतज्ञानस्याप्यवदातरूपता न प्राप्नोति । ततश्चासावप्यवीतरागः स्यादसर्वज्ञश्च । ए.४ इतश्च सन्तानानुपपत्तिर्विज्ञानयोः सहोत्पादे हेतुफलभावानुपपत्तेः । यदैव कारणज्ञानं विनश्यति, तदैव कार्यज्ञानं जायतेति वः सिद्धान्तः । कारणज्ञानस्य च विनाशस्तदुत्पादैव । ततश्च कारणज्ञानविनाशकाले कार्यज्ञानं भवति किमुक्तं भवति? कारणज्ञानोत्पादकालैव भवति । ततश्च सहोत्पन्नयोर्हेतुफलभावानुपपत्तिरेककालोद्गतयोर्गोविषाणयोरिव । कारणज्ञानस्य चानुत्पन्नस्योत्पत्तिवदनुत्पन्नस्य विनाशप्रसङ्गः । ततश्च क्षणमपि नोपलभ्येत । उपलब्धौ वा सततोपलम्भप्रसङ्गस्तदात्मभूतविनाशस्योपलम्भविघाताकर्तृत्वात् । विघातकर्तृत्वे वैकक्षणोपलम्भस्याप्यनुपपत्तिप्रसङ्गः । अथैकक्षणोपलभ्यस्वभावकं सञ्जातं तेन न सततोपलब्धिरनुपलब्धिर्वा । यद्येवं द्वादशाष्टक्षणोपलभ्यस्वभावकं सञ्जातं किं न कल्प्यते? किं चोत्पादविनाशयोरभेदे सति कार्यकारणयोः समं विनाशः स्यात् । ए.५ यदप्यन्यदुक्तं मातुरुदरनिष्क्रमणानन्तरं यदाद्यं ज्ञानं तज्ज्ञानान्तरपूर्वकं ज्ञानत्वाद्द्वितीयज्ञानवत् । नासिद्धत्वाद्दृष्टान्तस्य । द्वितीयादिज्ञानस्यापि यथा ज्ञानपूर्वकत्वं नावगाहयितुं पार्यते, तथा प्रागेवावेदितम् । किं च यदि ज्ञानत्वाज्ज्ञानपूर्वकत्वानुमानं, न किलावबोधात्मककारणमन्तरेण बोधात्मकं कार्यमुपपद्यते । एतच्चावद्यम् । अबोधात्मकादपि नीलालोकलोचनादिकारणादुपजायते । तथा गर्भादौ यदाद्यं विज्ञानं, तद्भूतसङ्घातादेव भविष्यति, न ज्ञानान्तरं परिकल्पनीयम् । यस्यानन्तरं यद्भवति, तत्तस्य कारणं, नापरिदृष्टसामर्थ्यम् । विज्ञानाभावे विज्ञानजन्याकारता निवृत्ता, न तु ज्ञानाकारता । यथेन्द्रियव्यापारमन्तरेणोपजायमाने मनोविज्ञानेन्द्रियजन्याकारता निवर्तते, न तु ज्ञानाकारता । यदि च सदृशात्सदृशस्योत्पत्तिर्नियम्यते, तदा धूमेन दहनानुमानं न प्राप्नोति, दहनस्य धूमसारूप्यमन्तरेणोपादानकारणत्वायोगात् । अथ रूपरूपता सारूप्यमुभयोरिति चेत्, तदिहापि स्वलक्षणरूपता सारूप्यं भूतविज्ञानयोर्, अलं परलोकविज्ञानकल्पनया । अथ विज्ञानरूपता भूतानां न विद्यते तेन तेषामुपादानकारणत्वं नास्ति विज्ञानं प्रतीति चेद्, इहापि धूमरूपता नास्ति दहनस्य, नोपादानकारणत्वम् । तदभावे न दहनानुमानम् । तथानुभवज्ञानादनुभवज्ञानस्यैव निष्पत्तिरभ्युपेयोपादानकारणानुकारित्वेन कार्यस्य निष्पत्त्यभ्युपगमात् । न चैकदेशानुकारित्वमस्ति तद्बीजस्याविचित्रत्वात् । अनुभवाकाराननुकार्.इत्वे च ज्ञानाकारताविरहः स्यात् । अनुकरोति च विज्ञानरूपतां तेन कथं नानुभवात्मकम्? तदुपपत्तौ च प्राप्तानुभवपरम्परेत्य् अलः स्मरणानुपपत्तिः । तदनुपपत्तौ चानुमानज्ञानस्याप्यनुपपत्तिः । ततश्च सर्वव्यवहारविलोपप्रसङ्गः । (४.) एवं च न सन्तानसिद्धिर्, नापि सविकल्पकनिर्विकल्पकज्ञानद्वैराश्यमस्ति, नापि व्यभिचाराव्यभिचारद्वैविध्यमुपपद्यते सौगते मते । [अध्याय ५: एxअमिनतिओनोf मीमांसासूत्र १.१.४] ५. तथा सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं तदपि प्रत्युक्तम् । कथम्? एतत्सूत्रं कदाचिल्लक्षणपरं कदाचिच्च कारकसङ्ख्याप्रतिपादनपरं कदाचिच्चानुवादपरम् । ५.१(१) तद्यदि लक्षणपरं, तदावबोधस्याव्यभिचारित्वं नावगन्तुं पार्यते नादुष्टकारणजन्यत्वेन नापि प्रवृत्तिसामर्थ्येन नापि बाधारहितत्वेन नान्यथा वा । सर्वं पूर्वोदितमनुस्मृत्य वक्तव्यम् । ५.१२ नापीन्द्रियार्थसम्प्रयोगजत्वं विज्ञानस्यावबोधस्य चार्वाग्भागविदावगम्यते तदतीन्द्रियत्वेन तदायत्ततानढिगतेः । नापीन्द्रियजन्यत्वमवगन्तुं पार्यतेन्द्रियाणामतीन्द्रियत्वादेव । अथावबोधान्यथानुपपत्त्या सन्निकर्षपरिकल्पना क्रियते । अवबोधस्यान्यथानुपपत्तिर्न भवति । कानुमा? ५.२ अथ कारकसङ्ख्यार्थं, किं तेन परिसङ्ख्यानेन प्रयोजनम्? आलोकादीनामपि कारकत्वात्तान्यपि परिसङ्ख्येयानि भवन्ति । ५.३ अथानुवादपरता, प्रसिद्धस्यानुवादो नाप्रसिद्धस्य । न चाध्यक्षं क्वचिद्विदितम् । ननु लके विदितम् । न विदितमिति ब्रूमोऽव्यभिचारितयानवगतेः । नापि सत्सम्प्रयोगजत्वं विदितम् । ततश्च प्रत्यक्षानधिगतिः । तदनवगतौ चानुवादानुपपत्तिः । ५.३ तोऽप्यनुवादानुपपत्तिः प्रयोजनाभावात् । न हि प्रयोजनं विनानुवादः प्रवर्तत,ऽनूद्य क्वचित्किञ्चिद्विधीयते प्रतिषिध्यते वा । नन्वत्रापि धर्मं प्रति निमित्तत्वं प्रतिषिध्यते । तदुक्तं धर्मं प्रत्यनिमित्तं प्रत्यक्षं विद्यमानोपलम्भनत्वात्सम्प्रयोगजत्वाच्च । तत्र किमन्यपदार्थावभासोत्पन्नं प्रत्यक्षं धर्मं प्रति निमित्तत्वेन प्रतिषिध्यते किं वा धर्मावभासोत्पन्नमनुत्पन्नं वा? तद्यद्यन्यपदार्थावभासोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदाविप्रतिपत्त्या सम्बोधयितव्या जडमतयः । अथ धर्मावबोधकोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदा विरोधेन प्रत्यवस्थेयो भवति । धर्मावबोधकोत्पन्नं प्रत्यक्षं न च धर्मनिमित्तमिति व्याहतमपदिश्यते । अन्यथा चदनावचनजनितविज्ञानस्यापि धर्मावबोधकत्वेनत्पन्नस्यातन्निमित्तत्वं स्यात् । अथानुत्पन्नस्य धर्मावबोधकत्वं नास्ति, केनात्र प्रतिपद्यते यन्नोत्पन्नं तद्धर्मावबोधकम् ? नापि कमलदलावबोधकं स्वयमसत्त्वात् । यदप्युक्तं सत्सम्प्रयोगजत्वादिति, तदप्ययुक्तम् । सत्सम्प्रयोगजत्वं यथा न भवति तथा प्रागेवोक्तम् । ५.३ यदप्यन्यदुक्तं विद्यमानोपलम्भनत्वात्किल प्रत्यक्षं विज्ञानं विद्यमानमवबोधयति । यद्येवं न केवलं प्रत्यक्षम्, अपि तु सर्वप्रमाणोत्पादितं विज्ञानं विद्यमानावबोधकम् । अथ चदनाजनितं विज्ञानमविद्यमानकर्तव्यार्थावबोधकम् । यद्यविद्यमानं, कथमवबोध्यते? अथावबोध्यते, कथमविद्यमानता? अवबोध्यमानत्वेनैव विद्यमानता प्रत्यक्षप्रमाणावबोधितार्थवदिति नाप्यवबोधनमवबोध्यमन्तरेणोपजायते प्रत्यक्षावबोधनवत् । अपि च चोदनावचनजनितविज्ञानस्य मिथ्यात्वमुपपद्यतेऽविद्यमानविषयत्वात्केशोण्डुकज्ञानवत् । केशोण्डुकविज्ञानस्यापि प्रतीयमानोपकारकार्थाभावे मिथ्यात्वम् । तदिहापि प्रतीयमानोपकारकार्थो नास्त्येव, कथं न मिथ्यात्वम्? तदन्वये वा कर्तव्यार्थविषयत्वं प्रतिहीयेत चोदनावचसः । किं च चोदनाजनितं विज्ञानं कर्तव्यतार्थविषयं वा तदभावविषयं निर्विषयं वा । तद्यदि कर्तव्यतार्थविषयं, तदा तस्य वर्तमानतैव प्रतीत्युत्कलितत्वाद्विद्यमानतोयादिवत् । तोयादेरप्रतीयमानत्वं स्वसत्ताधूमादग्नौ सति जनकत्वादिना निमित्तेन । एतच्चेद्विद्यते, कथमविद्यमानता? अथ तदभावविषयं, तस्यापि स्वेन रूपेण विद्यमानत्वान्न कर्तव्यता । अथ निर्विषयं, न तर्हि चोदना कर्तव्यावबोधिका, अपि तु निर्विषयेत्येवं वक्तव्यम् । एवं स्थिते यथा प्रत्यक्षं विद्यमानोपलम्भकं तथान्यान्यपि प्रमाणानि । ५.अ बुद्धिजन्म प्रत्यक्षं, न च बुद्ध्यवगमे प्रमाणमस्ति । प्रत्यक्षावसेया सा न भवति स्वयमनभ्युपगमात् । अनुमानगम्यापि न भवति तया प्रतिबद्धलिङ्गानवगतेः । अथार्थापत्त्या प्रतीयते, किं घटार्थान्यथानुपपत्त्याहो तदुपादानपरित्यागान्यथानुपपत्त्या घटावबोधान्यथानुपपत्त्या वा? तद्यदि घटार्थान्यथानुपपत्त्या, तदयुक्तम् । न बुद्धिकार्यो घटो,ऽपि तु बुद्धिरिह तत्कार्या । अथ घटोपादानपरित्यागान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तदयुक्तं, बुद्धिस्वरूपस्यानेककालान्तरावस्थानायोगादर्थापत्तेर्निर्विषयत्वम् । केनापि बलवता प्रेरितो बुद्धिमन्तरेण वा तदुपप्लवाद्वा घटोपादानपरित्यागाय घटते तेन सन्दिग्धार्थापत्तिः । न च सम्बन्धग्रहणमन्तरेण नियतायां बुद्धौ प्रतिपत्तिरुपपद्यते । अर्थापत्तितस्तु तदनुपपत्ताविन्द्रियकल्पनापि दुर्घटा । अथावबोधान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तस्यापि बुद्ध्या सह सम्बन्धो नास्ति, कथमवबोधयति? अवबोधे चावगते प्रत्यक्षावगतैव बुद्धिर्नावबोधगम्या । अवबोधबुद्धिविज्ञानशब्दानां पर्यायत्वादवबुध्यते ज्ञायतेत्येकोऽर्थः । ६. तथा श्रोत्रादिवृत्तिरविकल्पिका, एतदपि प्रत्युक्तम् । ६.१ श्रोत्रादिकरणानां शब्दादिविषयाकारतया विपरिणामो वृत्तिशब्देनाभिधीयते । सा चानेकप्रकारा भवति सम्यग्ज्ञानरूपा विपर्ययज्ञानसन्देहरूपा च । तदुक्तं तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रेत्यादि । ६.११ तद्यदि श्रोत्रादिवृत्तेः प्रत्यक्षत्वं, तदा विपर्ययादिवृत्तेरपि प्रत्यक्षत्वं प्राप्नोति । अथाबाधितपदोपादानं क्रियते । तत्सूत्रे न श्रूयते । भवतु वा तस्य कल्पना, तथाप्यव्यभिचारित्वं ज्ञातुं न शक्यते । तच्च नैयायिकप्रत्यक्षलक्षणाधिकारे प्रपञ्चितम् । यदि चाव्यभिचारिपदेन विपर्ययरूपा वृत्तिरपोद्यते, तत्तदात्मतया व्यवस्थिता सम्यग्रूपापि वृत्तिरपोदिता भवति । ततश्च सङ्ग्राह्या न लभ्यते वृत्तिः । अथ सम्यग्रूपा वृत्तिरिह सङ्ग्राह्या, तदापोह्या नलभ्यते वृत्तीनां स्वरूपैकताभ्युपगमात् । भेदाभ्युपगमे वाभ्युपेतहानम् । न हि भवतां पक्षेन्द्रियाद्भिद्यन्ते वृत्तयस्, तच्चेदभिन्नं, कथं वृत्तीनां भेदः? भेदाभ्युपगमेन्द्रियैकत्वं हीयते । इन्द्रियाव्यतिरेकित्वं वा न वक्तव्यम् । ६.१ न्द्रियाव्यतिरेकित्वेऽभ्युपगम्यमाने नीललोहितघटादीनां सर्वदोपलम्भः स्याद्, इन्द्रियावस्थाने तदव्यतिरिक्ताया वृत्तेरवस्थानसम्भवात् । तत्सम्भवे च घटाद्यनुपलम्भानुपपत्तिः । अथ वृत्तिसद्भावेऽप्यनुपलब्धिर्, न कदाचिदुपलब्धिः स्यात् । न हि भवतां पक्षे किञ्चिदपूर्वं जायते पूर्वं वा निरुध्यते । ततश्च सर्वस्यास्तित्वोपलब्ध्यनुपलब्धी किङ्कृते? सदोपलब्धिरनुपलब्धिर्वा । न ह्येवंवादिनो द्वितीया गतिरस्ति । ६.१ किं च शब्दादयोपलभ्यन्ते किमनुपलभ्यस्वभावोपलभ्यन्ताहोस्विदुपलभ्यस्वभावाह्? तद्यद्यनुपलभ्यस्वभावोपलभ्यन्ते, तदोपलब्धिः कथम्? यद्यनुपलभ्यस्वभावाः, कथमुपतभ्येरन्? अन्यथात्मादेरप्युपलब्धिः स्यात् । अथोपलभ्यस्वभावोपलभ्यन्ते,ऽनुपलब्धिः कथम्? किं तेनैवाकारेणाहोस्विदाकारान्तरेण? यदि तेनैवाकारेणानुपलब्धिर्, आत्मादेरप्यनुपलब्धिर्न प्राप्नोति । उपलब्धौ वा बीजान्तरं वचनीयम् । अथाकारान्तरेण नोपलभ्यन्ते, तथाप्युपलभ्यमानानुपलभ्यमानयोर्नैकत्वं शब्दात्माकारयोरिव । न ह्युपलभ्यस्वभावाच्छब्दादनुपतभ्यस्वभावात्माव्यतिरिक्तो दृष्तः । अथ तस्यैवाभिव्यक्तस्योपलब्धिः । तत्स्वरूपवदभिव्यक्तेः सर्वदावस्थानात्सततोपलब्धिप्रसङ्गः । अथ तिरोधाने सत्यनुपलब्धिस्, तदातत्स्वरूपतादात्म्यात्सततानुपतम्भप्रसङ्गः । उभयोर्वावस्थाने सममुपलम्भानुपलम्भौ स्याताम् । ततश्चेदानीमुपतभे पूर्वं नोपलभ३ इति व्यवहारविरहः स्यात् । तथा पूर्वमुपलभेदानीं नोपलभेत्येतदपि न प्राप्नोति । अथावयवोपचये सत्युपलम्भः । तस्य सर्वदा भावात्सर्वदोपलम्भप्रसङ्गः । अथस्वलक्षणपुष्टौ सत्यामुपलम्भः । तस्याः सर्वदा सत्त्वात्सततोपलम्भप्रसङ्गः । अथ संस्थानोत्कर्षे सत्युपलम्भः । तस्यापि सर्वदा विद्यमानत्वात्सततोपलब्धिः स्यात् । तस्माद्येन येन निमित्तेनोपलम्भपरिकल्पना, तस्य तस्य सर्वदा भावात्सततोपलम्भप्रसङ्गः । अथ देशकालकारकापबन्धादनुपलम्भस्, तदा तस्यापबन्धस्य सर्वदा भावादनुपलम्भानुपरमः स्यात् । ६.२ तथेन्द्रियाणामपि करणरूपता नोपलभ्यते फलवैकल्यात् । नन्वस्ति विज्ञानं फलम् । न तस्य सर्वदा विद्यमानत्वात् । सर्वदा विद्यमानयोर्हेतुफलभावो नोपपद्यते, यथा गुणानां परस्परमात्मभेदानां वा । न ह्यात्मात्मान्तरस्य हेतुर्भवति तत्फलं वा, तथेहाप्यनाद्यन्ता सत्ता न फलं हेतुर्वोच्यते । f . किं च भूजलाद्यनेकं कार्यं, तत्किं गुणत्रयाद्व्यतिरिक्तमव्यतिरिक्तं वा? तद्यदि व्यतिरिक्तं, तत्किं तात्त्विकमतात्त्विकं वा? तद्यदि तात्त्विकं, न तर्हि गुणत्रयोपादानपूर्वकं, ततो भिन्नत्वादात्मस्वरूपवत् । न च गुणत्रयेण सहान्यतमोऽपि सम्बन्धोपपद्यते तद्भिन्नकार्यस्य । न मात्रामात्रिकसम्बन्धो नापि सहचरसहचरितभावो नापि निमित्तनैमित्तिकभावोपकार्योपकारकभावो वा । अथातात्त्विकं, कथं तेन गुणत्रयं प्रतीयते गुणत्रयेण सह सम्बन्धानुपपत्तेः? न च सदसतोः सम्बन्धोपपद्यतात्मखरविषाणयोरिव । तदभावान्नानुमानाद्गुणत्रयप्रतिपत्तिः । नापि प्रत्यक्षेण गुणावधारणं स्वयमनभ्युपगमात् । तदुक्तं गुणानां परमं रूपं न दृष्टिपथमृच्छति। यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम्॥ तदनवगमे च न भोग्येन भोक्तुरनुमानम् । ततश्च नात्मा न गुणत्रयम् । अथाव्यतिरिक्तं, तत्किं तात्त्विकमतात्त्विकं वा? यदि तात्त्विकं, तदा कार्याणामपरिसङ्ख्येयत्वे गुणानामप्यपरिसङ्ख्येयता । ततश्च त्रयो गुणेति न वक्तव्यम् । अथ गुणानां त्रित्वं, तदा कार्यस्यापि त्रित्वं प्राप्नोत्य्, आनन्त्यं हीयते । तथा कार्यस्य प्रत्यक्षत्वे गुणानामपि प्रत्यक्षत्वम् । किंविषयं प्रधानानुमानम्? गुण[fइनल्पगे मिस्सिन्ग्] अद्दितिओनल्मतेरिअल्fरों गोस्८७, बरोद १९४० एदितिओनोf सन्घवि । परिखन्दे. fरन्चोऽस्नोतेस्: एxअमिनतिओनोf आत्मानुमान [प्प्ल्{७४}{१०}] [८.१ नैयायिकादिसंमतस्यात्मानुमानस्य निरासः] तथात्मानुमानं सुखद्वेषज्ञानादिना न संभवति, तेन सह सम्बन्धानवगमात्, तदनवगतौ चानुमानानर्थक्यम् । किं चात्र साध्यते ? किं ज्ञानसुखादीनामाश्रितत्वम्, आहोस्विदाश्रयाश्रितं वाळ्ज्ञानस्वरूपम् ? अथाश्रितत्वं साध्यते । तदात्माळ्नैवावबोधितः ततोऽन्यत्वादाश्रितत्वस्य । अथात्माळ्साध्यते । तदेवं भवति अस्त्यात्माळ्विज्ञानात्, न च व्यधिकरणस्य गमकत्वं विद्यते । अथाश्रितं ज्ञानस्वरूपं साध्यते । तच्च प्रत्यक्षेणावगतम् । अन्योऽनुमानस्य विषयो वक्तव्यः । कथं ज्ञानसुखाद्यात्मसम्बन्धित्वेन व्यपदिश्यते किं सत्तामात्रेणाहो तज्जन्यतया तज्जनकत्वन वा तत्समवायित्वेन वा तत्स्वरूपतादात्म्याद्वा ? तद्यदि सत्तामात्रेण सुखं विज्ञानं वात्मनोऽपदिश्यते तदात्मवत्सर्वे भावाश्चेतनाः स्युर्विज्ञानसत्ताविशेषात् । तथा सर्वे सुखिनो भवेयुरानन्दसत्ताविशेषात् । अथ तज्जन्यतयाळ्विज्ञानमात्मनोऽपदिश्यते ; तदा नयनालोकपटाश्चेतनाः स्युस्तैर्जन्यमानाविशेषात् । अथ तज्जनकत्वेन तस्येति चेत्, तदयुक्तं न विज्ञानेनात्मोत्पाद्यते भवतां पक्षे, उत्पादेन वा स्मरणानुपपत्तिः । [प्.७५] अथात्मसमवायित्वेन विज्ञानमात्मनोऽपदिश्यते न तदभावात् । भवतु वा समवायो ह्यखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः । ततः सर्वे चेतनाः स्युः । अथ विज्ञानोपलक्षितस्य नान्यत्र संभवोऽस्ति तदयुक्तं तदुपलक्षितस्यान्यत्र संभवात्तत्संभवश्च तस्यैकत्वात् । असंभवे वा समवायानेकत्वप्रसङ्गः असमवायित्वं वान्येषाम् । तथा विज्ञानसमवायात्मनः समवायः किं सत्तामात्रेणाहोस्विदात्मजनकत्वेन तज्जन्यत्वेन तत्समवायित्वेनात्मस्वरूपतादात्म्याद्वा ? तद्यदि सत्तामात्रेणात्मनः समवायोऽपदिश्यते ; तदा ज्ञानसमवायसत्ताविशेषात्सर्वेषां ज्ञानसमवायित्वप्रसङ्गः । अथ तज्जन्यत्वेन ; तदयुक्तं न ह्यात्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात् । अथ तज्जनकत्वेनात्मनः समवायः ; तदनुपपन्नमात्मनो नित्यत्वात् । अथात्मनि समवेतस्तेनात्मसमवायोऽभिधीयते । तदयुक्तम् । समवायान्तरानभ्युपगमात् । अथात्मतादात्म्येन वर्ततेत्यात्मसमवायः उच्यते । तदात्मा विद्यते नान्यः समवायोऽस्ति तत्स्वभावानुप्रवेशात् । एवं विज्ञानानन्दादीनां समवायसम्बन्धेन न नियतात्मव्यपदेशोपपद्यते । अथात्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकमात्मनोऽपदिश्यते तदा विकारी प्राप्नोत्यनया भङ्ग्यात्मा । ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः । इतोऽप्यात्मा सुखादिकार्याधिकरणोऽवगन्तुं न पार्यते । किं तेनात्मनानुपजातातिशयेन तापादि कार्यां क्रियताहोस्विदुपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशयेन, अव्यतिरिक्तोपजातातिशयेन वा? [प्.७६] तद्यद्यनुपजातातिशयेनोत्पाद्यते तापादि कार्यं, तदा सर्वदा कुर्याद्, अनुपजातबलस्य कार्यकारषाभ्युपगमान्, न तापादिविकलः स्यात्, समं सुखादि कार्यं प्रसज्यते । अथाव्यतिरिक्तोपजातातिशयेनोत्पाद्यते तापादि कार्यं, तदाव्यतिरिक्तोपजातातिशयेति किं भणितं भवति? आत्मोपजायते । ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते तापादि कार्यं, स तेनात्मना सह सम्बद्धो वा, न वा । यदि न सम्बद्धः, स तस्यातिशयः कथम्? अथ सम्बद्धः, किं जनकत्वेनाथ जन्यत्वेन तत्समवायित्वेन वा? तद्यदि जनकत्वेन सम्बद्धस्, तदात्मा तेनातिशयेनोत्पद्यतेति स्मरणानुपपत्तिः । अथ जन्यत्वेन, सोऽपि तेन कथम् उत्पाद्यते? किमनुपजातातिशयेन व्यतिरिक्तोपजातातिशयेन वेति प्राप्ता प्रश्नपरम्परा । अथ तत्समवायित्वेन, न, तस्य सर्वसाधारणत्वात्, तदभावाच्च । अथैककार्यजनकत्वेन सम्बद्धस्, तदेवेदं चिन्तयितुमारब्धं किमिदं जनकत्वं नामेति । किं च यदेवानुपजातेऽतिशयात्मनो रूपं तदेव जातेऽपि, तत्कथं कार्यं कुर्यात्? अथ पूर्वरूपस्यातदवस्थ्यं, सुस्थितं नित्यत्वम्! अथ तादवस्थ्यं, तथापि न करोति कार्यम् । एवं नैयायिकादिमतेनात्मनोपभोगस्मरणादिकं न जाघटीति । [रेfउततिओनोf थे मीमांस इन्fएरेन्चे ओf थे सेल्f] प्प्. ८२.७८३.७: तथा मीमांसकमतेनाप्यात्मानुमानं न प्रवर्तते प्रमाणान्तरानवधारितार्थविषयत्वाभ्युपगमात्प्रमाणानाम् । नियतविषयाणि हि प्रमाणानि प्रतिपद्यन्ते प्रत्यक्षावसेये नानुमानं प्रवर्तत, अनुमानावसेये च न प्रत्यक्षं प्रवर्तते । ततश्चेतरेतरव्यावृत्तिविशेषविषयाणि । तदयुक्तं (रेअद्: उक्तं) ’’विशेषेऽनुगमाभावः । " विशेषो नियतप्रमाणग्राह्योऽर्थः । तथाभूतेऽर्थेऽङ्गीक्रियमाणेऽनुमानस्यानुगमाभावः । अनुगमः सम्बन्धस्, तद्ग्रहणानुपपत्तिः । अर्थे (रेअद्: अथ) प्रत्यक्षाद्यवधारितेऽप्य्ऽर्थेऽनुमानं प्रवर्तते; नन्वेवं प्रत्यक्षानुमानसाधारणो ऽर्थः प्रसक्तः । साधारणता समानता । ’’सामान्ये सिद्धसाध्यता"प्रत्यक्षावगतत्वात् । अनधिगतार्थगन्तृविशेषणं चापार्थकम् । अथवा सामान्ये सिद्धे साधनमित्यन्योऽर्थः । सामान्ययोर्गम्यगमकभावोऽभ्युपगम्यते मीमांसकेन । न च तत् सामान्यं विद्यते । यथा च न विद्यते तथा प्रागेवोदितम् । ततश्च सिद्धस्य साधनं विद्यमानस्य साधनम् । न चाग्नित्वमस्ति । तदभावे कस्येदं ज्ञापकम्? अथवा सिद्धं साधनं सिद्धसाधनमित्यन्योऽर्थः । विद्यमानं साधनम् । न च धूमत्वसामान्यमस्ति । तच्च विद्यमानं (सुख्लल्: तत्त्व; रेअद्: तच्चाविद्यमानं) सामान्यं कथं सामान्यं (रेअद्: सामान्ये) साधनं भवितुमर्हति? अथवा सिद्धसाधनं ज्ञातमनुमानं साधनं भवति । न च धूमत्वं ज्ञातं स्वयमसत्त्वात्, अथवा ग्रहणोपायाभावात्, तस्यानुस्यूतं रूपम् । न च तदात्मन्यनुस्यूतम् । नाप्येकस्यां व्यक्ताव्, अपि तु बह्वीषु व्यक्तिषु । न च बह्व्यो व्यक्तयोपलभ्यन्ते । अपि त्वेकैव धूमव्यक्तिरुपलभते । न चैकस्यां व्यक्तावनुगतात्मतया सामान्यसंवित्तिरस्ति । न चाकारान्तरसामान्यम् (पेर्हप्स्: आकारान्तरं सामान्यस्य) ।  बसेदोन् थे एदितिओन् ब्य्सुखलल्जि सन्घवि अन्द्र्.च्. परिख्, बरोद १९४०. (गएक्wअद्ऽसोरिएन्तल्सेरिएस्; ८७) पर्त्ल्य्रेविसेदिन्: एलि fरन्चो: पेर्चेप्तिओन्, क्नोwलेद्गे अन्द्दिस्बेलिएf अ स्तुद्योf जयरसिऽस्स्चेप्तिचिस्म्. स्तुत्त्गर्त्१९८७ (अल्तुन्द्नेउइन्दिस्छे स्तुदिएन् ; ३५), २ देद्. देल्हि १९९४. इन्पुत्ब्य्सोमदेव वसुदेव, २०००. प्लैन् तेxत्वेर्सिओन् ___________________________________________________________________ थिस्तेxत्fइले इस्fओर्रेfएरेन्चे पुर्पोसेसोन्ल्य्! चोप्य्रिघ्तन्द्तेर्म्सोf उसगे अस्fओर्सोउर्चे fइले. तेxत्चोन्वेर्तेद्तो च्लस्सिचल्सन्स्क्रितेxतेन्देद्(च्स्x) एन्चोदिन्ग्: देस्च्रिप्तिओन् छरच्तेर् =अस्चिइ लोन्ग आ २२४ लोन्ग आ २२६ लोन्गि ई २२७ लोन्गि ई २२८ लोन्गु ऊ २२९ लोन्गु ऊ २३० वोचलिच्र् ऋ २३१ वोचलिच्र् ऋ २३२ लोन्ग्वोचलिच्र् ॠ २३३ वोचलिच्ल् ळ २३५ लोन्ग्वोचलिच्ल् ॡ २३७ वेलर्न् ङ् २३९ वेलर्न् ङ् २४० पलतल्न् ञ् १६४ पलतल्न् ञ् १६५ रेत्रोfलेx त् ट् २४१ रेत्रोfलेx त् ट् २४२ रेत्रोfलेx द् ड् २४३ रेत्रोfलेx द् ड् २४४ रेत्रोfलेx न् ण् २४५ रेत्रोfलेx न् ण् २४६ पलतल्स् श् २४७ पलतल्स् श् २४८ रेत्रोfलेx स् ष् २४९ रेत्रोfलेx स् ष् २५० अनुस्वर ं २५२ चपितलनुस्वर ं २५३ विसर्ग ः २५४ लोन्गे ¹ १८५ लोन्गो º १८६ लुन्देर्बर् × २१५ रुन्देर्बर् Ÿ १५९ नुन्देर्बर् ­ १७३ कुन्देर्बर् É २०१ तुन्देर्बर्  १९४ ओथेर्छरच्तेर्सोf थे च्स्x एन्चोदिन्ग्तब्ले अरे नोतिन्च्लुदेद्. उन्लेस्सिन्दिचतेदोथेर्wइसे, अच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर् तो fअचिलितते wओर्द्सेअर्छ्. fओर चोम्प्रेहेन्सिवे लिस्तोf च्स्x अन्दोथेर्ग्रेतिलेन्चोदिन्ग्स् अन्द्fओर्मत्स्सेए: www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअच्.प्द्f अन्द् www.सुब्.उनि-गोएत्तिन्गेन्.देबेने_१।fइइन्दोलो।ग्रेतिल् ।ग्रेत्दिअस्.प्द्f ___________________________________________________________________ [इन्त्रोदुच्तिओन्] ०.१ . तां मुन तत्त्वोपप्लवसिंहैष विषमो नुनं मय . . नास्ति तत्फलं वा स्वर्गादि । सत्यं, तावदात्तस्य कर्मणः सम्भोक्तं च परमार्थविद्भिरपि लौकिको मार्गोऽनुसर्तव्यः अ . । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ इत्यादि । ०.२ ननु यद्युपप्लवस्तत्त्वानां किमायाथातस्तत्त्वं व्याख्यास्यामः । पृथिव्यापस्तेजो वायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञेत्यादि । नान्यार्थत्वात् । किमर्थम्? प्रतिबिम्बनार्थम् । किं पुनरत्र प्रतिबिम्ब्यते? पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि । तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते । किं पुनरन्यानि? ०.३ अथ कथं तानि न सन्ति? तदुच्यते सल्लक्षणनिबन्धनं मानव्यवस्थानम् । माननिबन्धना च मेयस्थितिः । तदभावे तयोः सद्व्यवहारविषयत्वं कथं . ताम् । अथ . न ब . व्यवहारः क्रियते, तदात्मनि रूपास्तितत्वव्यवहारो घटादौ च सुखास्तित्वव्यवहारः प्रवर्तयितव्यः [अध्याय १: एxअमिनतिओनोf थे न्याय देfइनितिओनोf पेर्चेप्तिओन्] १. इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति तल्लक्षणम् । १.१ तच्चाव्यभिचारित्वम् . किमदुष्टकारकसन्दोहोत्पाद्यत्वेनाहोस्विद्बाधारहितत्वेन प्रवृत्तिसामर्थ्येनान्यथा वा? १.११ तद्यद्यदुष्टकारकसन्दोहोत्पाद्यत्वेनाव्यभिचारित्वं, सैव कारणानामदुष्टता केनावगम्यते? न प्रत्यक्षेण, नयनकुशलादेरतीन्द्रियत्वात् । नाप्यनुमानेन, लिङ्गान्तरानवगतेः । नन्विदमेव ज्ञानं लिन्गं तदुत्थं तस्य विशिष्टतां गमयति । यद्येवमितरेतराश्रयत्वं दुरुत्तरमापनीपद्यते । किं चेन्द्रियाणां गुणदोषाश्रयत्वे तदुत्थे विज्ञाने दोषाशङ्का नातिवर्तते, पुंव्यापारोत्पादितशब्दविज्ञानेव । १.१२ अथ बाधानुत्पत्त्याव्यभिचारित्वं ज्ञायते, बाधानुत्पत्तिर्विज्ञानस्य किं यथार्थगृहीतित्वेनाहोस्विद्बाधकज्ञानोत्पादककारकवैकल्यादिति सन्दिह्मः । दृश्यते हि बाधकज्ञानोत्पादककारकवैकल्याद्बाधानुत्पादः । यथा दूरे मरीचिनिचये जलज्ञाने जाते बाधा न सम्पद्यते,ऽभ्यासदेशावस्थितस्य कारकोपनिपाते सत्युत्पद्यते । सा चोपजायमाना संवत्सरादिकालविकल्पेन सञ्जायते । कदाचिच्च कारकवैकल्यान्नैव सम्पद्यते । न चैतावता तस्य यथार्थतोपपद्यते । अपि च बाधाविरहैव <न> बाधासद्भावावेदकस्, तदुपलब्धत्वेन तत्सद्भावोपलब्धेः । १.१२आन्यच्च बाधाविरहः किं सर्वपुरुषापेक्षयाहोस्वित्प्रतिपत्त्रपेक्षया? तद्यदि सर्वपुरुषापेक्षया तद्विरहोप्य . सर्वज्ञाः स्युः । भवन्तु नाम सर्वे सर्वज्ञाः, को दोषः? असर्वज्ञव्यवहाराभावप्रसङ्गः । अथ प्रतिपत्त्रपेक्षया बाधानुत्पादः प्रतिपत्तुर्बाधकं विज्ञानं नोत्पद्यते, तेन तदव्यभिचारि । तदयुक्तं, प्रतिपत्तुर्बाधकज्ञानानुत्पादेऽपि देशान्तरगमनमरणादिना मणिमरीच्यादिविपर्ययज्ञानदर्शनात् । अथवा तद्विपर्ययज्ञानं तथाविधमेवोत्पन्नं स्वप्रभवस्वभावानुप्रवेशेन, यद्बाधकविज्ञानोत्पादप्रतिबन्धकृत् । तद्ध्वंसोऽपि तथाभतैव परेष्टसम्यग्ज्ञानवत् । एवं सति यदुक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः सैवासमीचीनः प्रत्ययेत्येतदेवासमीचीनम् । १.१३ अथ प्रवृत्तिसामर्थ्येनाव्यभिचारितां वेत्सि । प्रवृत्तिसामर्थ्यं फलेनाभिसम्बन्धः, फलं च स्रक्चन्दनवनितोदकादि, तेषु सत्यफलनिष्पत्तेस्तेषु फलोपचारस्, तद्देहसम्बन्धः प्रवृत्तिसामर्थ्यम् । प्रवृत्तिः कायस्था क्रिया, तत्सामर्थ्यमव्यभिचारितां गमयति । तत्किमवगतमनवगतं वा? यदि नावगतं, तदस्तीति कथं वेत्सि? अथावगतं, तदवगतेरव्यभिचारिता कथमवगम्यतेति पूर्वोक्तमनुसर्तव्यम् । १.१३ दकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्याव्यभिचारिता व्यवस्थाप्यते । किं तत्प्रतिभातोदकप्राप्त्याहोस्वित्तज्जातीयोदकप्राप्त्या तद्वंशजजलप्राप्त्या वा? १.१३ १ तद्यदि प्रतिभातोदकप्राप्त्या, तदयुक्तम् । प्रतिभातोदकस्यावस्थानं नोपपद्यते, झषमहिषपरिवर्तनाभिघातोपजातावयवक्रियान्यायेन प्रत्यस्तमयसम्भवात् । १.१३ २ अथ तज्जातीयोदकप्राप्त्या, एवं तर्ह्यसत्योदकज्ञानेऽपि जते क्वचित्तोयमासादयन्ति पुमांसः । तदप्यवितथं स्यात् । अथ तद्देशकालसंलग्नमुदकं न प्रापयति मिथ्याज्ञानं, सम्यग्ज्ञानं तु तद्देशकालसंलग्नमुदकं प्रापयति, तेन तदव्यभिचारीति चेद्, यन्न प्रापयति, तद्व्यभिचारि; तर्हि मुमर्षुपदा ज्ञानं चन्द्रार्कग्रहनक्षत्रतारकादिसंवेदनं च व्यभिचारि प्राप्नोति । न च तद्देशकालसंलग्नोदकप्रापकत्वमस्ति, देशस्याप्युदकवद्विनाशसम्भवात् । अ. न च जातेःसम्भवोऽस्ति । सैव कथम्? कथ्यते सोदकव्यक्तिभ्योऽभिन्ना भिन्ना भिन्नाभिन्ना वेति । अ.१ तद्यदि तादात्म्यव्यवस्थिता, तदेह तासां नानात्वेन तस्यापि नानात्वोपपत्तिः । तदेकत्वे च सर्वासामेकतापत्तिः । एकत्वे च निःसामान्यता तादात्म्यविपर्यासो वा । अ.२ अथार्थान्तरभूता सा व्यावृत्ताकारानुगताकारा वा । तद्यदि व्यावृत्ताकारा, न तस्याः सामान्यरूपत्वं व्यावृत्तैकस्वभावत्वात्तोयादिवत् । अथानुस्यूतरूपा, तत्किमात्मरूपानुस्यूता पररूपानुस्यूता वा? तद्यद्यात्मरूपानुस्यूता, तदयुक्तम्, आत्मन्यनुगमाभावात् । अथ पररूपानुस्यूता, केयं पररूपानुस्यूतता किं तत्तादात्म्यं तत्समवायो वा? तद्यदि तादात्म्यं, सामान्यतद्वतोरभेदप्रसङ्गः । अथ पररूपसमवायोऽनुस्यूताकारता, तदयुक्तम् । सामान्याद्भिन्नः समवायः । सामान्यस्यानुगतं रूपमालोचयितुमारब्धं, न ततोऽन्यस्य । अ.२ यदि चोदकजातीयार्थप्राप्त्याव्यभिचारिता पूर्वोदितोदकविज्ञानस्य व्यवस्थाप्यते, तदोदकजातेर्गवादावपि सम्भवोऽस्ति, गवादिप्राप्त्याव्यभिचारितोदकविज्ञानस्य स्यात् । अथोदकत्वस्य गवादावभावेति चेत्, किमितरेतराभावः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो वा? तद्यदीतरेतराभावस्तदोदकादावपि समानमुदकत्वस्याभावप्रसङ्गः । उदकरूपता नोदकत्वस्योदकत्वरूपता च नोदकस्यल् । अथ प्रागभावस्तदोदकेऽप्युदकत्वस्याभावप्रसङ्गः । अथ प्रध्वंसाभावस्तदोदकेऽप्यभावप्रसङ्गः । अथान्यत्रास्ति, नैकत्र प्रत्यस्तमितस्यान्यत्र सम्भवोपपद्यते । अथात्यन्ताभावस्तदोदकेऽपि तस्याभावप्रसङ्गः । अथ सम्बन्धाभावाद्गवादावुदकत्वाभावेति चेत्, तत्रापि किमितरेतराभावः प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो वेति पूर्ववद्वक्तव्यम् । निमित्तान्तराभावाद्गवादावुदकत्वाभावेति चेत्, सोऽत्रापि समानः । अ.२ न चोदकव्यक्तीनां नानात्वमुपपादयितुं पार्यते । उदकमनुदकाकारादुदकाकारतया व्यावर्तत, उदकाकारात्तु कथं व्यावर्तते? किमुदकाकारतयाहोस्विदाकारान्तरेण? तद्यद्युदकाकारतया व्यावर्तते, तदान्यासामुदकव्यक्तीनामनुदकाकारता प्राप्नोति रसादेरिव । अथानुदकाकारतयोदकाकारान्निवर्तते, ततो दहनादेरिवानुदकत्वप्रसङ्गः । अथोदकाकाररूपताविशेषेऽप्यवान्तरगणिकाकारभेदपरिकॣप्तिरिति चेत्, सत्यमवान्तरगणिकाकारस्तोयतादात्म्यव्यवस्थितोऽतादात्म्यव्यवस्थितो वा । तद्यदि तादात्म्यव्यवस्थितस्, तदोदकाकारतयोदकान्तराद्भिद्यते । एवं चान्यासामुदकव्यक्तीनामनुदकरूपता प्राप्नोति । पूर्वोदितमेव दूषणम् । अथातादात्म्यव्यवस्थितस्, तर्ह्यनुदकत्वं रसादेरिव । अथोदकत्वव्यावृत्त्यानुदकाकाराद्व्यावर्तते । शृण्वन्त्वमी बाललपितं विपश्चितः । यद्युदकत्वव्यावृत्त्यानुदकाद्व्यावर्तते तोयम्, उदकत्वं चोदकादनुदकाच्च कथं व्यावर्तते? न जात्यन्तरं व्यावर्तकमस्ति । अभ्युपगमे वानिष्ठोपप्लवानुबन्धः स्यात् । तस्मात्स्वेनैव रूपेणेतरेतरात्मना व्यावर्तते, न जात्यादिना व्यावर्तते, जात्यादेरव्यावृत्तिप्रसङ्गात् । तस्मात्स्थितम् एतन्नोदकव्यक्तीनां नानात्वोपपत्तिः । तदनुपपत्तौ नोदकत्वं नाम सामान्यमस्ति स्वत्ववत् । अ.२ इतोऽपि न विद्यते सामान्यं नित्यस्य सतो विज्ञानजनकत्वायोगात् । तदेव कथम्? व्युत्पाद्यते विज्ञानजनकावस्थायां यदेव स्वरूपं सामान्यात्मकं शक्तिमच्छक्तिरूपं च कारकान्तरानपेक्षयाजनकावस्थायां तदेव रूपम्, अतः पूर्वमपि कार्योत्पादप्रसङ्गः । अनुत्पादे वा प्रागिवेदानीमपि न जनयेत् । अथ कारकान्तरमपेक्ष्योत्पादयति कार्यम् । किं तेन कारकान्तरेण तस्य क्रियते कारकत्वं ज्ञाप्यते वा? तद्यद्युत्पाद्यते सुस्थितं नित्यत्वम् । उत ज्ञाप्यते सिद्धं तर्हि कारकत्वं, तदभावेऽपि विद्यमानस्यावद्योतनात् । भवतु नाम कारकत्वं, को दोषः? कार्योत्पत्तिप्रसङ्गः । अथ कारकत्वेऽपि कार्यं न जनयेद्, अहो राजाज्ञा गरीयसी नैयायिकपशोः । अ.२ इतोऽपि नास्ति सामान्यं तदुपपादकमानव्यतिरेकात् । नन्वस्ति प्रमाणमनयोः सादृश्यम्, एषां सारूप्यं, तेन सदृशोऽयम्, असौ वा तेन सदृशेत्यादिज्ञानं सामान्यसत्तावबोधकमप्रतिपन्नसामान्यस्य नोपपद्यते । अस्ति त्विदं विज्ञानं बाधाविकलं जातितनुव्यवस्थापकम् । तदेतदयुक्तम् । किं निमित्तभूतेन तेनैवंविधं ज्ञानमुत्पाद्यते कर्मतापन्नेन वा? तद्यदि निमित्तभूतेनोत्पाद्यते, तदा न सामान्यं कल्पनीयम् । असामान्यात्मकमेव निमित्तम्, इत्थम्भूतसामान्यज्ञानोत्पादनायालं सामान्यकल्पनया । अथ कर्मतापन्नेनोत्पाद्यते, तदसत् । नैवावभाति विज्ञाने सामान्यं धूर्तैरविपर्यासितसंविदाम् । ननु सादृश्यमवभाति । सत्यम्, अवभाति, नापह्नूयते,ऽपि तु द्रव्यगुणकर्मात्मकं सत्पाचकादिभेदेषु यथैषां पाचकत्वम्, एते पाचकास्, तत्पाचकसदृशोऽयम्, असावनेन सदृशेति विशेषादावपि द्रष्टव्यम् । अत्रापि सामान्यपरिज्ञप्तिरिति चेन्, न सूत्रव्याघातात्सामान्यविशेषेषु सामान्यविशेषाभावात्ततैव ज्ञानम् । अनिष्ठा च विशेषेषु सामान्ये परिकल्प्यमाने सति सन्देहः, सति सन्देहे तेषु विशेषान्तरं परिकल्पनीयं, पुनः सामान्यमित्यनिष्ठेत्यलमसद्ग्रहाभिनिवेशेन । अ.३ अथ भिन्नाभिन्नं सामान्यं भवद्भिः प्रतिपाद्यत आकारभेदेन व्यक्तिभ्योपलभ्यतेत्यर्थान्तरं, देशभेदेन तु नैवोपलभ्यतेत्यव्यतिरिक्तम् । तदेतन्महासुभाषितम् । न देशभेदेनैव वस्तूनां भेदो,ऽपि त्वाकारभेदेनैव भावा भेदमुपयान्ति । यथा चाकारभेदो नास्ति तथानन्तरमेव निवेदितम् । ब्. सामान्यं समवायवृत्त्या व्यक्तिषु वर्ततेति न चासौ विद्यते । ब्.१ समवायो हि व्यावृत्तैकस्वभावोऽनुगतैकस्वभावो वा । तद्यदि व्यावृत्तैकस्वभावः, कस्यासौ समवायः सर्वतो व्यावृत्तेर्नीलादिवत्? अथानुगतैकस्वभावः, सामान्यं तर्हि, न समवायो, नित्यस्य सतोऽनेकत्र वृत्तेर्गोत्वादिवत् । ब्.२ उपपादकप्रमाणाभावाच्च । ब्.२१ ननु प्रत्यक्षबुद्ध्यवसेयोऽसौ । तदयुक्तम् । किं सम्बन्धबुद्ध्याध्यवसीयताहोस्विदिहबुद्ध्या समवायबुद्ध्या वोच्यते? ब्.२११ तद्यदि सम्बन्धबुद्ध्या, कोऽयं सम्बन्धः? किं सम्बन्धजातियुक्तः सम्बन्धाहोस्विदनेकोपादानजनितोऽनेकाश्रितो वा सम्बन्धबुद्धिविशेषो वा सम्बन्धबुद्ध्युत्पादको वा सम्बन्धाकारो वा? तद्यदि सम्बन्धजातियुक्तस्ते सम्बन्धः, सोऽनुपपन्नः, समवायासम्बन्धत्वप्रसङ्गः । अथानेकोपादानजनितः सम्बन्धस्, तदा कुम्भादेरपि सम्बन्धत्वप्रसङ्गः । अथानेकाश्रितः सम्बन्धस्, तदा घटजात्यादेः सम्बन्धत्वं प्रसज्यते । अथ सम्बन्धबुद्ध्युत्पादकस्ते सम्बन्धोच्यते, तदा लोचनादेरपि सम्बन्धत्वप्रसङ्गः । अथ सम्बन्धबुद्ध्यवसेयः सम्बन्धोऽभिधीयते, तदा कौलेयककरिकुमारादिष्वपि सम्बन्धशब्दव्युत्पादने सम्बन्धत्वप्रसङ्गः । सम्बन्धेतरयोरेकविज्ञानविषयत्वेतरस्य सम्बन्धरूपता प्राप्ता । अथ सम्बन्धाकारः सम्बन्धः, संयोगाभेदप्रसङ्गः । अवान्तरगणिकाकारस्तु यथा न भेदकस्तथा पुरस्तादुक्तमेव दूषणम् । ब्.२१२ अथेह तन्तुषु पटेतीहबुद्ध्याध्यवसीयते, नेहबुद्धेरधिकरणसंविद्रूपत्वात् । न चान्यस्मिन्नाकारे प्रतीयमानेऽन्यत्परिकल्पयितुं न्याय्यमतिप्रसङ्गात् । ब्.२१३ अथ समवायबुद्ध्यात्मसात्क्रियते । सोऽप्यनुपपन्नैव, समवायबुद्धेरनुपपत्तेः । अयं तन्तुरयं पटोऽयमनयोः समवायेति न जातु जानते जनाः । ब्.२२ अथानुमानेनानुमीयते । द्वेऽनुमाने दृष्टं सामान्यतो दृष्टं च । न दृष्टं, प्रत्यक्षव्यतिरेकात् । सामान्यतो द्र्ष्टमपि नास्ति, तत्प्रभवकार्यानुपलब्धेः । नन्विहबुद्धिरेव समवायज्ञापिका इह तन्तुषु पटेति प्रत्ययः सम्बन्धनिमित्तो,ऽबाधितेहप्रत्ययत्वादिह कुण्डे दधीति प्रत्ययवत् । किमनेनानुमीयते? किं निमित्तमात्रमुत सम्बन्धः? यदि निमित्तमात्रं, ततः सिद्धसाध्यतया सम्बोधयितव्यः । अथ सम्बन्धः, संयोगः समवायो वा । संयोगानुमानोपगमहानिः । समवायानुमाने सम्बन्धव्यतिरेकः । न चान्यस्य सम्बन्धेऽन्यस्य गमकत्वमतिप्रसङ्गात् । न जातु देवदत्तनयनकुटसम्बन्धे यज्ञदत्तेन्द्रियं रूपादिकमर्थं करणत्वसाम्यात्प्रकाशयद्दृष्टम् । एवं सति सामान्यसमवायविरहे कथं द्रव्यादिव्यवस्थेति चिन्त्यते । १.१३ ३ अथ तद्वंशजजलप्राप्त्याव्यभिचारिता ज्ञायते । तदयुक्तम्, अन्त्यावयविद्रव्याणां जनकत्वव्यतिरेकात् । न चोदकव्यक्तीनां नानात्वमस्ति । यथा च न विद्यते तथा निवेदितं पुरस्तात् । १.१३ किं च प्रवृत्तिसामर्थ्येनाव्यभिचारिता पूर्वोदितज्ञानस्य ज्ञाप्यते किं लिङ्गभूतेनाहोऽध्यक्षात्मकेन? तद्यदि लिङ्गभूतेन, तदयुक्तं, तेन साकं सम्बन्धानवगतेः । अवगतौ वालं प्रवृत्तिसामर्थ्येन । अथाध्यक्षात्मकेन, तदयुक्तं, पूर्वोदितप्रत्यस्तमितेन साकं सन्निकर्षाभावात् । तद्विषयविज्ञानं न प्रत्यक्षफलं निरालम्बनत्वात्केशोण्डुकादिसंवेदनवत् । न विज्ञानस्याभावोऽवभाति, न भावस्तदभावात् । अविद्यमानस्य विषयार्थो वक्तव्यः किमाकारार्पकत्वेन वा महत्त्वादिधर्मोपेतत्वेन वा सत्तामात्रेण वा सहोत्पादेन वा? सर्वस्य प्रत्यस्तमितत्वात्कथमसौ विषयः? तद्विषयत्वे केशोण्डुकादिविज्ञानस्यैव मिथ्यात्वे बीजमन्वेषणीयम् । आत्मसत्तामात्रेण मिथ्यात्वे सर्वस्य मिथ्यात्वमापद्यते । ततस्तत्त्वोपप्लवः स्यात् । १.१४ अथान्यथाव्यभिचारित्वं गृह्यतात्मान्तःकरणसम्बन्धेनोत्पन्नं विज्ञानमव्यभिचारिताविशिष्टं प्रद्योत्यते । तदयुक्तम् । तदव्यभिचारित्वं तद्धर्मो वा तत्स्वरूपं वा । १.१४१ तद्यदि तद्धर्मः, स नित्योऽनित्यो वा । यदि नित्यस्, तदा जातिदोषेणापोदितो वेदितव्यः । अथानित्यः, स पूर्वोत्पन्नः सह पश्चाद्वा जातः । तद्यदि पूर्वोत्पन्नस्, तदा कस्यासौ धर्मः? न हि धर्मिणमन्तरेण धर्मो भवितुमर्हति । सर्वतो व्यावृत्तरूपत्वात्कः कस्येति वक्तव्यम् । अथ सहोत्पन्नः, कस्तयोः सम्बन्धेति वक्तव्यम् । तादात्म्यतदुत्पत्तिसमवायसम्बन्धाभावे सति षष्ठ्यर्थो वक्तव्यस्तस्याव्यभिचारित्वमित्यथ पृष्ठोत्पन्नस्तर्हि पूर्वं व्यभिचारिता विज्ञानस्य प्राप्नोति । न चाध्यात्मिकोऽव्यभिचारिरूपो धर्मोऽस्ति सुखादिव्यतिरिक्तस्, तत्प्रतीत्यसम्भवेन स्वयमनभ्युपगमात् । यदि चाव्यभिचारादयो धर्मार्थान्तरभूताभ्युपगम्यन्ते तैरवच्छिन्नं विज्ञानं सामग्र्यावस्थापकमुद्घुष्यते । तच्चानुपपन्नं, प्रत्येकमनेकविशेषणावच्छिन्नविज्ञानप्रतिपत्तिकालावस्थानायोगात् । ज्ञाप्यज्ञापकयोरभावे कर्तृमात्रप्रबन्धि ज्ञानं स्यात् । १.१४२ अथ तत्स्वरूपमव्यभिचारित्वं तत्किं स्वसत्तामात्रानुरोधेनार्थान्तरसत्तानुरोधेन वा? तद्यदि ज्ञानसत्तामात्रतैवाव्यभिचारित्वमुच्यते, तदा केशोण्डुकसंविदोऽप्यव्यभिचारिता स्यात् । न च ज्ञानसत्तामात्रानुरोधेन ज्ञानं व्यभिचार्यव्यभिचारि वोद्गीयते । अथार्थान्तरसत्तानुरोधेनाव्यभिचारित्वं किमनुपकारकार्थान्तरसत्तानुरोधेनाहोस्विदुपकारकार्थान्तरसत्तानुरोधेन? तद्यदि तावदनुपकारकार्थान्तरसत्तानुरोधेन, तदा केशोण्डुकेन्दुद्वयसंविदोऽप्यव्यभिचारिताप्रसङ्गः । अथोपकारकार्थान्तरसत्तानुरोधेनाव्यभिचारिता किं प्रतीयमानार्थान्तरोपकारकसत्तानुरोधेन तद्विपरीतार्थान्तरोपकारकसत्तानुरोधेन वा? तद्यदि पूर्वपक्षाभ्युपगमस्, तदातीतानागतानुमानविज्ञानस्य योगिप्रत्यक्षस्य च चोदनावचनजनितविज्ञानस्य वाव्यभिचारिता न भवेत्, तदवगतोपकारकार्थाभावात् । भावे वा वितानक्रियालोपप्रसङ्गः । अथोत्तरो मतस्, तदा केशोण्डुकेन्दुद्वयसंविदोऽव्यभिचारित्वं प्रसज्यतेत्यसद्गृहीतम् । १.१४ किं च तद्विज्ञानमव्यभिचार्यवगतं सामग्र्या ज्ञापकमनवगतं वा । यद्यवगतं तस्यावगतिरात्मसंविद्रूपा वा ज्ञानान्तरवेद्या वा । तद्यद्यात्मसंवेदनरूपावगतिस्, तदयुक्तं, स्वयमनभ्युपगमात् । अभ्युपगमे वोपगमविरोधः । अथ ज्ञानान्तरवेद्यं वेत्सि, विज्ञानयोर्भेदे बीजमन्वेष्टव्यम् । ज्ञनमज्ञानाकाराज्ज्ञानात्मतया व्यावर्तते, ज्ञानान्तरात्तु कथं व्यावर्तते? किं ज्ञानात्मतया व्यावर्तताहोस्विदाकारान्तरेण? तद्यदि ज्ञानात्मतया व्यावर्तते, तदान्यस्य ज्ञानात्मता निवर्तते तोयादेर्यथा । अथाकारान्तरेण, आकारान्तरस्वीकरणे ज्ञानाकारविरहः स्याद्, आकारयोस्तादात्म्यायोगात् । तादात्म्ये वैकं तद्वस्तु ज्ञानमज्ञानं वा । यदि ज्ञानं, न तर्ह्याकारान्तरेण व्यावर्तते, किं तु ज्ञानात्मतयैव । अन्यस्याज्ञानात्मकत्वप्रसट्गः । अथाज्ञानं सिद्धं नः समीहितम् । अथ ज्ञानत्वं व्यावर्तकं, तत्केन व्यावर्ततेति पूर्वोक्तमनुसर्तव्यम् । विज्ञानान्तरवेद्यमपि न सम्भवति । अथ न वेद्यते, तदस्तीति कथं पुनर्वेत्सि? अनेनैव वर्त्मना सत्येतरविज्ञानयोर्विभागाभावोऽभ्युपगन्तव्यः । अतोऽव्यभिचारिपदमपार्थकम् । १.१ तोऽप्यपार्थकमिन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् । न हि केशोण्डुकविज्ञानस्य नयनार्थसन्निकर्षोद्भूतिरस्ति । नन्वस्ति मरीच्युदकविज्ञानस्य, तदपनोदायाव्यभिचारिपदम् । तन्न, यतोदकं प्रतिभाति, न च तेन सह सम्बन्धोऽस्ति । विद्यमानेन साकं सम्बध्यते, नाविद्यमानेन । तत्सम्बन्धे वा न तद्विषयज्ञानस्य मिथ्यात्वमिहोपपद्यते सत्योदकसंवेदनवत् । ननु यद्यपि प्रतीयमानोदकेन सह सम्बन्धो नास्ति चक्षुषस्, तथाप्यालम्ब्य मरीचि निचयेन साकं सम्बन्धोऽस्ति, तस्यैवालम्बनत्वात्, तद्देशं प्रति प्रवृत्तेः । अतैव मिथ्यात्वमन्यदालम्बनमन्यच्च प्रतिभाति । १.१ १ कोऽयमालम्बनार्थो नाम येनेदमुद्घुष्यतेऽन्यदालम्बनं चान्यत्प्रतिभाति? किं विज्ञानजनकत्वमाकारार्पकत्वं विज्ञानाधिकरणत्वं विज्ञानावभासितता वा? तद्यदि विज्ञानजनकत्वमालम्बनार्थस्, तदा नयनालोकादेरप्यालम्बनत्वं प्रसज्यते । अथाकारार्पकत्वमालम्बनत्वं, तदयुक्तं, नैयायिकसमयेऽनभ्युपगमात् । यथा च विषयाकारो विज्ञाने न युज्यते तथोपरिष्टात्प्रतिपादयिष्यामः । अथ विज्ञानाधिकरणत्वमालम्बनत्वं, न मरीचिचक्रोत्कलितमुदीयते ज्ञानम्, अपि त्वात्मसमवेतमात्मानमासादयते । अथ विज्ञानावभासिततालम्बनत्वं, तदोदकविज्ञानोदकं प्रतीयते, न मरीचयः । अथोदकाकारतया मरीचयैव प्रतीयन्ते, सोदकाकारो मरीचिभ्यो व्यतिरिक्तोऽव्यतिरिक्तो वा । तद्यद्यव्यतिरिक्तः, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः कथं तदवगतेर्मिथ्यात्वम्? अथातात्त्विकस्, तद् ।ा मरीचीनामप्यतात्त्विकत्वं प्रसज्यते । अतात्त्विकोदकतादात्म्ये सति तदुदकज्ञानमतथ्यं किमुक्तं भवति? मरीचिविज्ञानमतथ्यम् । एकस्मिंश्चोदकाकारे प्रतीयमाने केनैतदाख्यातं मरीचयः प्रतिभान्ति देवानाम्प्रियस्य? अथार्थान्तरभूतस्, तर्हि न वक्तव्यं मरीचयोदकाकारतया प्रतीयन्त, उदकाकारान्तरिता मरीचयः । अथ केशोण्डुकविज्ञाने किमवभाति? किमालम्बते? केशोण्डुकस्यैवालम्बनत्वं प्रतीयमानत्वं च, तथोदकस्यैवालम्बनत्वं प्रतीयमानत्वं च, नालम्बनान्तरं परिकल्प्यम् । न चोदकज्ञानस्य प्रतीयमानोदकान्यालम्बनत्वेन मिथ्यात्वम्, अपि त्वभावात्तात्त्विकत्वेन । अन्यथा केशोण्डुकसंविदोऽपि मिथ्यात्वं न प्राप्नोत्य्, अन्यालम्बनव्यतिरेकात् । १.१ २ यदप्युक्तं मरीचिदेशं प्रति गमनान्मरीचीनामालम्बनत्वम् । यद्येवं देशस्याप्यालम्बनत्वमनया रीत्योपपद्यते । न चावभातोदकभिन्नार्थसन्निकर्षजत्वमुदकविज्ञानस्योपपद्यते, सत्योदकज्ञानेऽदृष्टत्वात् । अन्यथानुमेयदहनज्ञानस्यापीन्द्रियार्थसन्निकर्षज त्वमापनीपद्येत, आत्ममनःसन्निकर्षजत्वात् । अथ प्रतीयमानदहनेन सह मनसो नास्ति सम्बन्धस्, तदिहापि प्रतीयमानेनाम्भसा सह नास्ति सम्बन्धश्चक्षुषः । तस्मादव्यभिचारिपदं न युक्तमिन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् । १.१ इतोऽप्यनुपपन्नमपोह्यज्ञानासम्भवात् । अथ मरीच्युदकविज्ञानापनिनीषयोपादीयते, तत्कथमपनीयते? अविद्यमानोदकविषयत्वात् । यद्यविद्यमानं, कोऽयं विषयार्थः? पूर्वोदितमनुसरणीयम् । यदि तत्रोदकं प्रतिभाति, कथं नास्ति? सत्यं, प्रतिभाति, किं त्वतथ्यं प्रतिभाति । अतथ्यता का? किं प्रतीयमानस्याभावोत प्रतीयमानैवाभावः? १.१ १ तद्यदि प्रतीयमानस्याभावः, स किं तदैवाहोस्वित्कालान्तरेण? यदि तदैव, स किमवगतोऽनवगतो वा? यद्यवगतः, स केनावगम्यते? किमुदकविज्ञानेन ज्ञानान्तरेण वा? तद्यद्युदकज्ञानेन, तन्न, तस्योदकविषयत्वात् । तद्विषयत्वे वा न तर्ह्युदकज्ञानं भ्रान्तमित्युपपद्यते,ऽभावविषयस्य परमार्थसत्त्वात् । न चोदकाकारावगाहिनि विज्ञाने तोयविनिवृत्तयोऽवभान्त्यतिप्रसङ्गात् । अथ ज्ञानान्तरेण, न, ज्ञानयौगपद्यासम्भवात् । यदि चाभावज्ञानेनाभावव्यवस्था क्रियते भावज्ञानेन च भावव्यवस्था, तदोदकस्य भावाभावावेककालौ स्याताम् । अथ भावज्ञानं भावव्यवस्थां न करोत्यभावज्ञानं चाभावव्यवस्थां करोत्य्, अहो राजाज्ञा नैयायिकपशोः । यदि च भावज्ञानं भावव्यवस्थां न करोति, तदा सर्वभावेष्वनाश्वासप्रसङ्गः । तत्प्रसक्तावभावस्याप्यनवस्थितिः । तदनवस्थितौ च तत्त्वोपप्लवः स्यात् । अथानवगतः, सोऽस्तीति कथं पुनर्वेत्सि? अथ कालान्तरे, तदा न किञ्चिद्बाध्यते, सत्योदकस्यापि कालान्तरेऽभावोपपत्तेः । १.१ २ अथ प्रतीयमानैवाभावः, कथं तद्विषयज्ञानस्य मिथ्यात्वमुपपद्यते, प्रतीयमानस्यैवाभावस्योपपत्तेः? न च भावाकारे प्रतीयमनेऽभावकल्पना न्याय्यातिप्रसङ्गात् । अन्यथा रूपादौ प्रतीयमाने रसादिकल्पना कर्तव्या । न चक्रियते, तथेहाप्युदकं प्रतीयते । ननु प्रतीयते, किं त्वतथ्यम् । यद्येवमुदकप्रपञ्चोऽयं दीर्घोदकं मधुरोदकमिति यथा । नन्वत्र सर्वास्ववस्थासूदकं प्रतीयते, तेन तास्वम्भः प्रकल्प्यते । यद्येवं तदिहाप्यवस्थाद्वयेऽप्युदकं प्रतीयते सत्योदकमसत्योदकं च । सत्योदकज्ञाने सत्योदकमवभाति, नासत्योदकमनुदकं वा । तथासत्योदकज्ञानेऽसत्योदकं प्रतिभाति, न सत्योदकमनुदकं वा, स्वविषयपर्यवसायिन्यो हि बुद्धयः । १.१ आथ बाध्यमानत्वेन मिथ्यात्वमिति चेत्, किं बाध्यतेऽर्थो ज्ञानमुभयं वा? १.१ अ१ यद्यर्थस्य बाधा, स केन बाध्यते? किं स्वयमेवात्मानं बाधताहोऽर्थान्तरेण ज्ञानेन वा? यदि स्वयमेवात्मानं बाधते, तदा बाधा तेन क्रियते ज्ञाप्यते वा । यदि क्रियते,ऽव्यतिरिक्ताव्यतिरिक्ता वा । यद्यव्यतिरिक्ता, तदा बाधा क्रियतेत्यात्मानेनोत्पाद्यते । तच्च न जाघटीति स्वात्मनि क्रियाविरोधात् । अथ व्यतिरिक्ता क्रियते, तथापि विद्यमानस्य कर्तृत्वं, न प्रतीयमानस्यापलापः । अथ बाधा ज्ञाप्यते, साप्यभिन्ना भिन्ना वा । यद्यभिन्ना, तदा बाधा तेन ज्ञाप्यते किमुक्तं भवति? उदकं ज्ञाप्यते । अथ भिन्ना, तदा विद्यमानस्य ज्ञापकत्वं सिद्धं प्रतीयमानस्य चास्तित्वम् । अथार्थान्तरेण बाध्यते, तथापि विद्यमानयोर्बाध्यबाधकभावो भूपालयोरिव, न चैकस्य बाध्यबाधकभावोपपद्यते । बाधापि तेन प्रतीयमानस्य किं क्रियते ज्ञाप्यते वा? यदि क्रियते व्यतिरिक्ता व्यतिरिक्ता वा यद्यव्यतिरिक्ता, तदाव्यतिरिक्ता बाधोत्पाद्यते किमुक्तं भवेत्? उदकमुत्पाद्यते । तदुत्पादने च तत्संविदोऽमिथ्यात्वम् । अथ व्यतिरिक्तोत्पाद्यते, तथापि तोयसम्बन्धितयोपलब्धेरम्भसोपपत्तिः । न जातु देवदत्तस्यासत्त्वे तन्नयनव्यवहारसिद्धिः । अथ ज्ञाप्यते, तदा साव्यतिरिक्ता व्यतिरिक्ता वा । यद्यव्यतिरिक्ता ज्ञाप्यते, तदा बाधा तेन ज्ञाप्यते किमुक्तं भवति? उदकं ज्ञाप्यते । अथ व्यतिरिक्ता सती ज्ञाप्यते, तथाप्युदकस्येयं बाधेत्यन्यतन्त्रतया प्रतिभासनान्नात्यन्ताभावोपपत्तिः । तस्मादर्थान्तरेणापि न बाधोपपत्तिः । अथ ज्ञानेन बाध्यते किं तद्विषयेणान्यविषयेण निर्विषयेण वा? यदि तद्विषयेण, तदा तत्स्वरूपं विधत्ते न तु विपर्यासयति तदाकारपर्यवसितरूपत्वात् अथान्यविषयं बाधकं, तदपि न युज्यते । यद्यद्विषयं तत्तस्यैव सत्तां विधत्ते, न त्वन्यस्य विधायकं प्रतिषेधकं वा । स्वविषयपर्यवसायिन्यो हि बुद्धयः । अथ निर्विषयेण बाध्यते, न किञ्चिद्विदधाति प्रतिषेधति वा निर्विषयत्वादेव । १.१ अ२ अथ ज्ञानं बाध्यते, तस्यापि बाधा का? किं स्वरूपव्यावृत्तिरूपा स्वरूपापह्नवरूपा वा विषयाप्धारलक्षणा वा? तद्यदि स्वरूपव्यावृत्तिरूपा बाधा, तदा सर्वं बाधितं स्याद्, विज्ञानस्य विज्ञानान्तरेण निवर्त्यमानत्वात् । अथ स्वरूपापह्नवरूपा, तदयुक्तं, मिथ्योदकविज्ञानस्याप्यनुभूयमानत्वात् । अथ विषयापहारलक्षणा बाधोच्यते, सापि न युक्ता । यथा च विषयापहारो न शक्यते कर्तुं तथानान्तरमेव निवेदितम् । १.१ आ यदि न बाध्यते किमित्यसावर्थक्रियां न करोति भावः? केयमर्थक्रिया या तेन न सम्पाद्यते पुंसाम्? किं विज्ञानरूपा प्रवृत्तिरूपा प्राप्तिरूपा सुखदुःखोत्पादभोगरूपा वा? तद्यदि विज्ञानलक्षणां न करोति, तदयुक्तं, विज्ञानलक्षणामर्थक्रियां करोत्येव तोयम् । अथ प्रवृत्तिरूपां न करोति, तदयुक्तं, प्रवृत्तिर्हि पुरुषेच्छानुविधायिनी, नार्थस्वरूपभावाभावावनुगमयति । पुरुषो हि कामतः प्रवर्तते वा न वा । न ह्येतावता तदभावसिद्धिः । अथ प्राप्तिरूपामर्थक्रियां न करोति, तेनासत्त्वम् । तदप्ययुक्तं, चन्द्रार्कग्रहनक्षत्रतारकादेः प्राप्त्यभावेऽपि सत्त्वसम्भवात् । अथ सुखदुःखरूपामर्थक्रियां न करोति, किं दर्शनजं सुखं न करोत्याहो देहसम्बन्धजम्? तद्यदि दर्शनजं न करोति, तदयुक्तं, करोत्येव । अथ देहसम्बन्धजं न करोति, तदा चन्द्रार्कग्रहनक्षत्रादौ व्यभिचारस्, तेषां देहसम्बन्धजसुखजनकत्वं नास्त्य्, अथ च सत्त्वम् । न चार्थक्रियाकर्तृत्वेन वस्तूनामसत्त्वं, स्वहेतोरेव विज्ञानजननमात्रस्योत्पत्तेः, सहकारिविरहाद्वा न करोति । १.१ अब्किं चार्थक्रियां न करोति किमेकस्य प्रतिपत्तुः सर्वप्रतिपत्तॄणां वा? तद्यद्येकस्य प्रतिपत्तुरर्थक्रियां न करोति तेनासत्त्वं, तदा चन्द्रार्कग्रहनक्षत्रतारकादौ व्यभिचारो, मुमूर्ष्वर्थे च । अथ सर्वप्रतिपत्तॄणामर्थक्रियां न करोति तेनासत्त्वम्, एवं तर्हि सर्वभावानामसत्त्वप्रसङ्गः । न हि सर्वे भावाः सर्वपुरुषार्थहेतवः । न च सर्वपुरुषार्थक्रियाविहीनमेतदित्यवगन्तुं पार्यतेऽर्वाग्विदा । तस्मात्स्थितमेतदव्यभिचारिपदमनर्थकम् । च्. अन्ये तु मरीच्युदकविज्ञानस्य स्मृतित्वं प्रतिपद्यन्ते, न भ्रान्तिरूपताम् । तस्य कथं स्मृतित्वम्? किमुदकगृहीतित्वेन गृहीतोदकगृहीतित्वेन वोदकग्रहणानन्तरकालभावित्वेन वा निर्विषयत्वेन वा यमहमद्राक्षमित्यनेनाकारेणोपजायमानत्वेन वा? तद्यद्युदकगृहीतित्वेन तदा सर्वोदकविज्ञानानां स्मृतित्वप्रसङ्गः । अथ गृहीतोदकगृहीतित्वेन स्मृतित्वं, तदाद्यस्यापि गृहीतोदकगृहीतित्वे स्मृतित्वं प्रसज्यते गृहीतोदकग्राहित्वाविशेषात् । अथाद्यस्य गृहीतोदकग्राहित्वं नास्ति । तदानीं भिन्नविषयत्वम् । भिन्नविषयत्वे च द्वितीयस्यापि गृहीतग्राहित्वं विहीयते । अथैकविषयत्वम्, आयातं तर्हि प्रथमस्यापि गृहीतग्राहित्वमविशिष्टार्थगृहीतिरूपत्वात्प्रथमोत्तरविज्ञानवत् । यथैकनीलस्वलक्षणग्राहकयुगपदुत्पन्नानेकविज्ञानानां नीलज्ञानरूपता न भिद्यते तथेहापि । तथा धारावाहिविज्ञानानां स्मृतिरूपता प्राप्नोति । तथा प्रत्यभिज्ञानस्य च गृहीतग्राहित्वेन स्मृतित्वं प्रसज्यते । अथ प्रत्यभिज्ञानस्य गृहीतार्थग्राहित्वं न विद्यते, तदा प्रत्यभिज्ञानत्वं निवर्तते । न ह्याद्यं दर्शनं सैवायमित्युपजायते । तथानुमानिकमपि विज्ञानं गृहीतार्थग्राहित्वेन स्मृतित्वमापद्यते । अथोदकग्रहणोत्तरकालभावित्वेन स्मृतित्वं, तदा संस्कारस्य स्मरणरूपता प्राप्नोत्य्, उदकग्रहणोत्तरकालभावित्वेन रससंवेदनस्य च । अथ निर्विषयत्वेन स्मृतिरूपतोच्यते, तदयुक्तं, पूर्वोदितानुभवावेदितार्थाकारावेदकत्वेनोदीयमानायाः कथं निर्विषयत्वम्? अथ पूर्वानुभूतार्थप्रत्यस्तमये सति समानकालार्थाभावान्निर्विषयता, तदा चोदनाजनितवि ज्ञानस्य निर्विषयत्वेन स्मृतित्वमापनीपद्यते, कर्तव्यतारूपार्थस्य तदाभावात् । भावे वा कर्तव्यरूपता नोपपद्यते । तदनुपपत्तौ सप्ततन्तुक्रियाया विलोपप्रसङ्गः । यदि च निर्विषयत्वेन स्मृतित्वं, तदा विद्यमानघटजात्यादेः स्मरणस्यास्मृतित्वप्रसङ्गः । अथाद्राक्षमित्यनेनाकारेणोपजायमानत्वेन स्मृतित्वं, तदयुक्तम् । इहोदकमित्यनेनाकारेणोपजायमानायाः कथमद्राक्षमित्येवंरूपतोपपद्यते? अथ विप्रमुषिततयानया भङ्ग्योपजायते, कोऽयं विप्रमोषो नाम? किमनुभवाकारस्वीकरणं स्मरणाकारप्रध्वंसो वापूर्वार्थगृहीतित्वं वेन्द्रियार्थसन्निकर्षजत्वं वेन्द्रियार्थासन्निकर्षजत्वं वा? तद्यद्यनुभवाकारस्वीकरणं, तदा स्मृतिरूपता नोपपद्यते । अथ स्मृतिरूपता, तदानुभवाकारस्वीकरणं नोपपद्यते, स्मृत्यनुभवाकारयोरितरेतरपरिहारस्थितिलक्षणत्वात् । अथ स्मरणाकारप्रध्वंसस्, तदयुक्तं, विज्ञानस्य स्वयं स्मृतित्वेनाभ्युपगमात् । प्रध्वंसो ह्यविज्ञानात्मकः, कथं स्मृतिरूपतां विधत्ते? अथापूर्वार्थविषयगृहीतित्वं स्मृतिप्रमोषोच्यते, तदात्यन्ताननुभूतकनकपनसादिसंवित्तीनं स्मृतिविप्रमोषत्वमापद्यते । अथेन्द्रियार्थसन्निकर्षजत्वं स्मृतिविप्रल्नोषोच्यते, तदा संवित्तीनां स्मृतिविप्रमोषत्व प्रसङ्गः । अथेन्द्रियासन्निकर्षजत्वं स्मृतिविप्रमोषोच्यते, तदा चोदनाजनितविज्ञानस्यानुमानोपमानविज्ञानस्य च स्मृतिविप्रमोषत्वमापद्यते । तस्माद्यथा यथा विचार्यते स्मृतिविप्रमोषस्तथा तथा न्यायं न विषहतेति । तस्मान्मरीच्युदकविज्ञानस्य न स्मृतिविप्रमोषरूपता, अपि तु विपरीतख्यातित्वं सम्यग्ज्ञानत्वं वा । १.२ तथा व्यवसायात्मकपदमपि नोपादेयमपनेयाभावात् । ननु स्थाण्वादिकेऽर्थेन्द्रियार्थसन्निकर्षात्सामान्यमात्रदर्शनाद्विशेषानुपलब्धौ सन्देहज्ञानमुपजायते । तदपनीयते । तस्मिन् सन्देहज्ञाने जाते किञ्चित्प्रतिभात्याहो न प्रतिभाति । तद्यदि प्रतिभाति, स किं धर्मी धर्मो वा? तद्यदि धर्मी प्रतिभाति, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विको, नापनेयता तद्विषयविज्ञानस्य । अथातात्त्विकस्, तदाव्यभिचारिपदेनापनीतत्वान्न व्यवसायात्मकपदमुपादेयम् । अथ धर्मः प्रतिभाति, स स्थाणुत्वलक्षणः पुरुषत्वलक्षणोभयं वा । तद्यदि स्थाणुत्वलक्षणो धर्मः प्रतिभाति, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः, कथं तद्बुद्धेः सन्देहरूपता, तात्त्विकार्थगृहीतिरूपत्वेन सत्योदकसंवेदनवत्? अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वान्न व्यवसायात्मकपदमुपादेयम् । अथ पुरुषत्वलक्षणो धर्मः प्रतिभात्य्, असावपि तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः, कथं तत्बुद्धेः सन्देहरूपता? अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वाद्व्यवसायात्मकपदं न साधीयः । अथोभयं प्रतिभाति, तदोभयोस्तात्त्विकत्वमतात्त्विकत्वं वाथैकस्य तात्त्विकत्वमन्यस्यातात्त्विकत्वम् । तद्यद्युभयोस्तात्त्विकत्वं, तद तद्विज्ञानस्य तात्त्विकत्वमेव, न सन्देहात्मता । अथोभावप्यतात्त्विकौ, तदा तद्विज्ञानस्य विपर्ययरूपता, न सन्देहात्मता । अथैकस्य तात्त्विकत्वमन्यस्यातात्त्विकत्वं, तदा तदेव ज्ञानं व्यभिचारि तदेवाव्यभिचारि । अतात्त्विकार्थगृहीतिरूपत्वाद्व्यभिचारि, तात्त्विकार्थगृहीतिरूपत्वाद् अव्यभिचारि । एतेन द्विचन्द्रज्ञानमुद्घाटितम् । तत्र हि द्रव्याकारः प्रतिभाति, न गुणाकारः । अथ सन्दिग्धार्थाकारप्रतिभासि सन्देहज्ञानमिति चेत्, ससन्दिग्धोऽर्थो विद्यते वा न वा । तद्यदि विद्यते, कथं तत्संवेदनस्य सन्देहरूपताबाधितार्थगृहीतिरूपत्वात्सत्योदकसंवेदनवत्? अथ न विद्यते, तदाव्यभिचारिपदेनापोदितत्वाद्व्यवसायात्मकपदमपार्थकम् । अथ न किञ्चिदपि प्रतिभाति, न तर्हि तस्येन्द्रियार्थसन्निकर्षजत्वं भ्रान्तोदकविज्ञानवत् । तस्माद्व्यवसायात्मकपदमप्यनुपादेयम् । १.३ अव्यपदेश्यपदं च यथा न साधीयस्तथा लक्षणसारे द्रष्टव्यम् । १.४ तथेन्द्रियार्थसन्निकर्षजत्वमपि नोपपद्यते तद्गत्यभावात् । १.४१ इन्द्रियार्थसन्निकर्षो हि व्यवहितार्थानुपलब्धिलिङ्गो वावरणलिङ्गो वा तदुत्पादितघटादिज्ञानावसेयो वा । तद्यदि व्यवहितार्थानुपलब्धिलिङ्गस्, तदयुक्तं, तेन सह सम्बन्धानुपपत्तेस्तदभावे [प्.१३८]ऽप्यनुपलम्भसद्भावदर्शनात् । यदभावेऽपि यस्य सद्भावः, स कथं तत्सद्भावावेदकः? अथावरणलिङ्गस्, तदयुक्तं, तेन सह सङ्गतेरभावात्, तदभावेऽपि सद्भावदर्शनात् । तद्भावे वावरणानर्थक्यम् । तदभावे तद्गतिः कथम्? अथ तद्भवकुम्भादिज्ञानेनावगम्यते, तदयुक्तं, तदनवगतौ तदुद्भवत्वस्यानवगतेः । पिशाचपरमाणुमहेश्वरकल्पोऽसौ सन्निकर्षः । कथं तदायत्तता वेद्यते ज्ञाने? कथं च तदिन्द्रियार्थसन्निकर्षमावेदयति ज्ञानम्? किं विज्ञानाकारतयाहो कार्याकारतयेन्द्रियार्थसन्निकर्षजन्याकारतया वा? तद्यदि ज्ञानस्वभावतया, तदयुक्तं, तदभावेऽपि ज्ञानाकारस्य सम्भवोपमानादिज्ञाने । अथ कार्यात्मतया गमयति, तदप्ययुक्तम्, उपमानानुमानज्ञानमरीचिनीलजलादौ तस्य सद्भावोपपत्तेः । यो येन विना भवति, स कथं तस्य ज्ञापको नाम? अन्यथा सत्त्वादेरपि गमकत्वं स्यात् । अथेन्द्रियार्थसन्निकर्षजन्याकारतया संसूचयतीति चेद्, असाविन्द्रियार्थसन्निकर्षजन्याकारो ज्ञानाकारादव्यतिरिक्तो व्यतिरिक्तो वा । यद्यव्यतिरिक्तस्, तदा ज्ञानात्मतामात्रं, नाकारातिरेकोऽन्योऽस्ति विभाव्यमानोऽनुमानादिज्ञानेषु यथा । आकारान्तरातिरेके वा जानरूपता हीयते । अथ व्यतिरिक्तस्, तस्यैव तर्हि गमकत्वं, न ज्ञानाकारस्य । तस्याप्यगमकत्वं तदवेदनात् । किं च तदुत्पन्नमिन्द्रियार्थसन्निकर्षाद्विज्ञानं स्वरूपेणावगाहनीयं, ततो व्याप्तिस्मरणं, तदनु परामर्शज्ञानं, ततोऽनुमेयावगतिरिति न चैतावन्तं कालं विज्ञानं स्थितिपदं बध्नात्य्, आशुभावित्वेन प्रत्यस्तमितत्वात् । अथ बुद्ध्यारूढेन धर्मधर्मिन्यायेन परिकल्प्यतेऽनुमानं, तदावास्तवं प्राप्नोति सुगतानुमानवत् । १.४२ तथेन्द्रियोत्पाद्यत्वमपि नोपपद्यतेन्द्रियोत्पाद्यत्वातिरेकानवगतेः । विज्ञानं स्वभावतयैव वेद्यते, नाकारान्तरेण । तज्ज्ञप्तौ वा ज्ञानाकारविरहप्रसङ्गः । न च ज्ञानमिन्द्रियसम्बद्धं दृष्टं, येन तदुपलभ्यमानमिन्द्रियं गमयति । अथ क्रियान्यत्र करणसाध्या दृष्टा । सैव गमिकास्तु, यस्याः करणसम्बन्धोऽवगतः । न चान्यस्य सम्बन्धेऽन्यस्य गमकत्वं किञ्चित्साम्यादुपपद्यते । न जातु देवदत्तनयननीलसम्बन्धे सति यज्ञदत्तेन्द्रियं घटादिकमर्थमसति सम्बन्धे करणत्वसाम्याद्प्रकाशयद्दृष्टम् । तथार्थजन्याकारोऽपि विज्ञानेऽनेनैव प्रकारेण पर्युदस्तो वेदितव्यः । १.४३ तथार्थोऽपि विज्ञानमुत्पादयत्यनुपजातातिशयोपजातातिशयो वाव्यतिरिक्तोपजातातिशयो वा व्यतिरिक्तोपजातातिशयो वा । तद्यद्यनुपजातातिशयः करोति, तदा सर्वदा कुर्यान्न वा । करणमकरणं च नोपपद्येत तत्स्वरूपानतिवृत्तेः । तथाव्यतिरिक्तोपजातातिशयोऽपि न करोत्यकारकाकारस्यानुगतेः । अननुगतौ वा न तर्हि तदव्यतिरिक्तोऽतिशयः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते, तथापि नोपपद्यतेऽकारकाकारानतिवृत्तेः । अतिवृत्तौ वायातं क्षणिकत्वम् । ततश्च नेन्द्रियार्थसन्निकर्षजं विज्ञानं प्रत्यक्षलक्षणम् । [अध्याय २: एxअमिनतिओनोf थे मीमांसा देfइनितिओनोf वलिद्चोग्नितिओन्:] २. अन्ये त्वनधिगतार्थगन्तृत्वेन प्रमाणलक्षणमभिदधति । ते त्वयुक्तवादिनो द्रष्टव्याः । कथमयुक्तवादिता तेषमिति चेद्, उच्यते विभिन्नकारकोत्पादितैकार्थविज्ञानानां यथाव्यवस्थितैकार्थगृहीतिरूपत्वाविशेषेऽ पि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यं नोत्तरस्येत्यत्र नियामकं वक्तव्यम् । २.१ अथ यथाव्यवस्थितार्थगृहीतिरूपत्वाविशेषेऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यमुपपद्यते, न प्रथमोत्तरविज्ञानस्य, तदानेनैव न्यायेन प्रथमस्याप्यप्रामाण्यं प्रसक्तं गृहीतार्थग्राहित्वाविशेषात् । यथैकनीलस्वलक्षणावभासितयुगपदुत्पन्नानेकनीलविज्ञानानां नीलैकार्थगृहीतिरूपता न भिद्यते, तथा पूर्वापरोत्पन्नविज्ञानानामपि गृहीतार्थगृहीतिरूपता न निवर्त्स्यति । अथ नियतविषयत्वं पूर्वोत्तरविज्ञानयोः पूर्वोत्पन्नविज्ञानमनधिगतार्थाकारस्वीकरणमुखेनोपादीयत, उत्तरं त्वधिगतार्थाकारविषयमुपजायते । यदि गृहीतार्थविषयत्वं कथं प्रतिनियतविषयत्वम्? अथ प्रतिनियतविषयत्वं कथं गृहीतार्थग्राहित्वं, नियतविषयत्वगृहीतग्राहित्वयोर्विरोधात्? यदि च नियतविषयत्वं, तदोभयोरपि प्रामाण्यमनधिगतार्थगन्तृत्वाविशेषात् । अथैकविषयत्वं, तदोभयोरपि प्रामाण्यमप्रामाण्यं वा गृहीतग्राहित्वाविशेषात् । सोऽयं गडुप्रवेशाक्षितारकविनिर्गमन्यायोपनिपातः श्रुतिलालसानां दुरुत्तरः । २.११ नन्वधिगतविषयत्वे सत्यपि प्रामाण्याभ्युपगमे स्मृतेरपि प्रामाण्यमनुषज्यते प्रमाणफलता वा । कोऽत्र निवारयिता? स्मृतिरिहोपजायमानाद्यानुभवावेदितार्थाकारविषया वान्यविषया वा निर्विषया वा । तद्यदि पूर्वोदितानुभवावेदितार्थाकारविषया, तदा तस्याः प्रमाणफलता नैव निवारयितुं पार्यते गृहीतार्थग्राहित्वाविशेषादित्युक्तम् । एवं च स्मृतिसञ्ज्ञकं सप्तमं प्रमाणं प्रसक्तं मीमांसकानाम् । अथ पूर्वविज्ञानानवधारितार्थविषया । यद्येवं कथं तस्याः प्रमाणफलत्वमपनेतुं पार्यते? आद्यानुभवस्येव स्मृतिरूपता च न प्राप्नोति । दृष्टश्रुतार्थविषया हि स्मृतिर्नागृहीतार्थविषया । अथ निर्विषयेष्यते, तदा न गृहीतार्थग्राहित्वेन स्मृतेरप्रामाण्यम्, अपि तु केशोण्डुकसंवेदनवन्निर्विषयत्वेन । अपि च यदि निर्विषया, तदा गृहीतार्थग्राहिणी कथम्? गृहीतार्थग्राहिणीति चेन्, निर्विषयेति न वक्तव्यम् । न च निर्विषया । मातरं पितरं शुश्रूषितवानहं, सन्ति मे पञ्चभृत्येति पूर्वानुभवावेदितार्थाकारपर्यवसायिन्यो हि स्मृतयः, स्मृतिज्ञानेन पूर्वानुभवावेदितार्थाकारस्य प्रतिभासनात् । अथ स्मृतिविज्ञानकाले पूर्वप्रबोधविषयीकृतार्थस्य प्रत्यस्तमितत्वान्न तद्विषयत्वम् । एवं च निर्विषयत्वेन स्मृतेरप्रामाण्यं न गृहीतार्थग्राहित्वेनेत्युक्तम् । २.२ यदि चावधारितार्थविषयं प्रमाणमप्रमानमुपपाद्यते, तदानुमानज्ञानस्याप्रामाण्यमापनीपद्येत । तदेव कथम्? कथ्यते यदेवाविनाभावसम्बन्धग्रहणकालावधारितमग्नित्वसामान्यं लिङ्गाजहद्वृत्तित्वेन प्रत्यक्षेण तदेवानुमानादवगच्छत्याहोस्वित्पावकस्वरूपं मत्वर्थं वा लिङ्गव्यापारसमानकालीनास्तित्वं वा लिङ्गोपसर्जनत्वं वाग्निव्यक्तिपारतन्त्र्यं वाग्नित्वसामान्यस्य? २.२१ तद्यदि पूर्वावधारितसामान्यविषयमभ्युपेयते, तदा प्रामाण्यं नैव समासादयति गृहीतार्थग्राहित्वेन स्मृतिवदेव । तदप्रामाण्ये नाग्निमत्त्वव्यवस्थोपपत्तिः । तदनुपपत्तौ च नार्थापत्त्याग्निव्यक्तिसंस्थितिः । ततश्चामुत्राग्निरग्निरानीयतामिति सकललोकव्यवहारविर ।हः स्यात् । अथ मा भूदेतद्व्यवहारहानिरिति चेत्पूर्वावधारितेऽप्यर्थेऽनुमानस्य प्रामाण्यमभ्युपेयते, तदानधिगतार्थगन्तृविशेषणमपार्थकं श्रोत्रियाणामिति । २.२२ अथ पावकस्वरूपमनुमिमीषे, तल्लिङ्गाजहद्वृत्तित्वेन पूर्वमवधारितं वा न वा । यदि पूर्वोपलब्धमधिगतार्थविषयत्वमायातमनुमानस्य । अथ न पूर्वोपलब्धम्, अव्यापकोऽग्निरनुमानात्तर्हि प्रतीयते । तदभ्युपगमे तृणजलादिविषयमप्यनुमानं प्रसज्यते । २.२३ अथ मत्वर्थोऽनुमीयते, स पूर्वावधारितो वा न वा । यद्यवधारितः, कथमनधिगतार्थगन्तृविशेषणमनुमाने सम्भवति? अथ नैवावगतस्, तदानीं जलतृणादिविषयमप्यनुमानं प्रसज्येतेत्युक्तम् । २.२४ अथ लिङ्गव्यापारसमानकालीनास्तित्वमग्नित्वसामान्यस्यानुमीयते, तदनुमानव्यापारसमानकालीनास्तित्वमग्नित्वसामान्याद्व्यतिरिक्तमव्यतिरिक्तं वा । तद्यद्यव्यतिरिक्तं, तदानीं पूर्वोपलब्धास्तित्वविषयमेवानुमानम् । कथमनधिगतार्थगन्तृविशेषणमपार्थकं न भवेत्? अथ व्यतिरिक्तं, तत्किं पूर्वोपलब्धमनुपलब्धं वा? यदि पूर्वोपलब्धं तद्विषयत्वेऽनुमानस्य नानधिगतार्थगन्तृविशेषणमुपपद्यते । अथ नोपलब्धं, तत्कथमनुमीयते जलादिकल्पं धूमेन? २.२५ अथ लिङ्गोपसर्जनत्वमग्नित्वसामान्यस्यानुमानात्प्रतीयते, तल्लिङ्गोपसर्जनत्वमग्नित्वसामान्याद्भिन्नमभिन्नं वा । यद्यभिन्नं पूर्वोपलब्धाग्नित्वसामान्यविषयमेवानुमानं, कथं प्रामाण्यभाग्भवति? अथ भिन्नं, तदविनाभावसम्बन्धग्रहणकाले लिङ्गव्यापकत्वेनावधारितं वा न वा । यद्यवधारितं कथमनधिगतार्थविषयमनुमानम्? अथ लिङ्गव्यापकत्वेनानवगतं, तदा तद्विषयत्वेऽनुमानस्य परिकल्प्यमाने त्रिभुवनावेदकत्वं धूमस्य किं न परिकल्प्यते सम्बन्धाभावाविशेषात्? २.२६ अथाग्निव्यक्तिपार ।तन्त्र्यमनुमीयते धूमेनाग्नित्वसामान्यस्येति चेत्, तत्पारतन्त्र्यमग्नित्वसामान्यस्य धूमव्यापकत्वेनावधारितं वा न वा । यद्यवधारितं, पुनरपि गृहीतग्राहित्वं नातिवर्ततेऽनुमानम् । अथ नावधारितं धूमव्यापकत्वेन पारतन्त्र्यमग्निसामान्यस्येति चेत्, कथमनुमीयतेत्युक्तं पुरस्तात् । २.३ एतेन पूर्वोपलब्धगोत्वादिप्रतिपादकत्वेन गोशब्दादेरप्रामाण्यमुद्घाटितम् । तदेव कथम्? कथ्यते किं सङ्केतग्रहणकालावगतगोत्वार्थवाचकत्वं तद्व्यतिरिक्तार्थवाचकत्वं वा प्रतिपाद्यते गोशब्दस्य? तद्यदि सङ्केतग्रहणकालाधिगतगोत्वस्वरूपावेदकत्वं जेगीयते गोशब्दस्य, तदा विदितार्थाकारावेदकत्वेन न मानत्वमासादयति गोशब्दः । अथ वेदितार्थाकारावेदकत्वेऽपि प्रामाण्यमावहति, तदानधिगतार्थगन्तृविशेषणस्य विषयोवक्तव्यः । अथ तद्व्यतिरिक्तार्थवाचकत्वं, तदानीमसङ्केतितैवार्थः प्रतीयते गोशब्दात् ।ततश्च स्वसिद्धान्तप्रतीतिविरोधो दुमिवारः । अथ गोत्वमेवावगम्यते गोशब्देनेति चेत्, तत्रापि प्रपञ्चितमेवाप्रामाण्यकारणं गृहीतग्राहित्वम् । तदप्रामाण्ये न गोत्वव्यवस्थितिः । तदनवस्थितौ नार्थापत्त्याधिकरणव्यवस्थितिः । २.३१ इतोऽपि नार्थापत्त्याधिकरणव्यवस्थितिरुपपद्यते किमर्थापत्त्या पूर्वावधारिताधिकरणप्रत्यायनं क्रियताहोस्विदपूर्वाधिकरणप्रत्यायनम्? तद्यदि पूर्वावधारिताधिकरणपर्यवसितार्थापत्तिस्, तदा प्रतिपादितार्थप्रतिपादकत्वेन न प्रमाणम् । अथादृष्टपिण्डावेदकत्वं तदा गोत्वान्यथानुपपत्त्या गजवाजिकल्पनापि कार्या । अथ पूर्वावधारितस्येदानीन्तनमस्तित्वमर्थापत्त्यावसीयतेति चेत् तदिदानीन्तनमस्तित्वं पूर्वावधारिताद्व्यतिरिक्तमव्यतिरिक्तं वा । तद्यद्यव्यतिरिक्तं, तदा पूर्वावधारितार्थप्रतिपादकत्वेन कथमर्थापत्तेः प्रामाण्यं वेदविदो वदन्ति? अथार्थान्तरं, कथं गोत्वान्यथानुपपत्त्या प्रतीयते? तत्प्रतीत्यभ्युपगमे वा गजवाजिविषयापि प्रतिपत्तिः स्यादित्यसकृत्प्रतिपादितम् । एवं च सति यदुक्तमिदानीन्तनमस्तित्वं न हि पूर्वधिया गतमिति तद्बालवल्गितम् । २.४ एतेन प्रत्यभिज्ञानस्यापि प्रामाण्यं प्रत्युक्तं वेदितव्यम् । [अध्याय ३: थे बुद्धिस्त्देfइनितिओनोf मेअन्सोf वलिद्चोग्नितिओन्] ३.१ तथा ताथागतानामप्यनधिगतार्थगन्तृविशेषणमपार्थकमपोह्यज्ञानासम्भवात् । न हि पूर्वापरकालभाविनी विज्ञान एकविषये स्तो, न स्वलक्षणैकविषये, न सामान्यैकविषये, ३.११ स्वलक्षणस्याभिन्नैकस्वभावस्य क्रमवृत्त्यनेकविज्ञानजननशक्तिव्यतिरेकात् । अथ युगपदेकविषयोत्पन्नानेकविज्ञानापनोदार्थं, तदप्ययुक्तम् । एकविषयोत्पन्नानेकपुरुषसंवेदनस्याप्रामाण्यमापनीपद्येत । ३.१२ अथ सामान्यैकविषयानेकविज्ञानापनोदार्थं विशेषणमुपादीयते, तदप्ययुक्तम् । न सामान्यैकं विज्ञानमस्ति, नाप्यनेकं विज्ञानं, तस्य स्वयमसम्भवात् । तदाकारविरहे सामान्यविषयं विज्ञानमिति प्रतिकर्मव्यवस्थाहेतुर्वक्तव्यः । तदाकारे वा सामान्यस्य सदात्मता । अतात्त्विकाकारतादात्म्ये वा ज्ञानातात्त्विकत्वप्रसङ्गः । ३.१ किं चैकविषये प्रवर्तमानयोरेकस्याप्रामाण्यं प्रमाणान्तरत्वाभावो वा । ३.१ १ तद्यद्यप्रामाण्यं, तदयुक्तम् । अविशिष्टैकार्थगृही तिरूपत्वोभयोः प्रामाण्यमप्रामाण्यं वा विकल्पानुपपत्तेः । विकल्पे वैकविषयोत्पन्नानेकपुरुषविज्ञानभेदप्रसङ्गः । ३.१ २ अथाप्रमाणान्तरत्वं, तदप्यनुपपन्नम् । किमेकविषयोत्पादितानेकप्रत्यक्षादिज्ञानानां व्यक्तिनानात्वं नोपपद्यताहाकारनानात्वम्? तद्यदि व्यक्तिनानात्वं न जाघटीति, तदसद्, एकनीलोत्पादितानेकनीलालोकविज्ञानानां व्यक्तिनानात्वदर्शनात् । अथानेकाकारता नोपपद्यते, तदयुक्तं, नीलालोकविज्ञानानामनेकाकारत्वदर्शनात् । न च तदुत्पादको नीलप्रपञ्चोऽस्त्य्, एकात्मतया स्वयमभ्युपगमात् । अथैकविटयत्वे प्रत्यक्षानुमानव्यपदेशानुपपत्तिः । तदेतदयुक्तं, भिन्नकरणकार्यत्वेन व्यपदेशोपपत्तेः । यथैकनीलोत्पन्नानेकदेवदत्तादिज्ञानानां भिन्नकर्तृकार्यत्वेन देवदत्तादिज्ञानव्यपदेशस्तथेहापि । ३.२ अन्ये त्वविसंवादि ज्ञानं प्रमाणमभिदधति । कोऽयमविसंवादार्थः? किं यथाव्यवस्थितार्थगृहीतित्वं बाधारहितत्वं वा प्रतीयमानार्थजन्यता वा प्रतीयमानार्थं प्रति प्रवर्तकत्वं वार्थप्रापकत्वं वा? ३.२१ तद्यदि यथाव्यवस्थितार्थगृहीतित्वं, तदनुमानज्ञाने नोपपद्यते । ३.२२ अथ बाधारहितत्वं, तदप्यनुमानज्ञाने नोपपद्यते । ३.२३ अथ प्रतीयमानार्थोत्पाद्यत्वं, तदप्यनुमानज्ञानस्य नोपपद्यते, सामान्याकारस्य जनकत्वव्यावृत्तेः । तथा रागादिसंवेदनस्याप्यवभातार्थोत्पाद्यत्वं नोपपद्यते, स्वात्मोत्पादने सामर्थ्यव्यतिरेकात् । तथा योगिप्रत्यक्षस्य प्रतीयमानार्थजन्यता न सम्भवति व्यतीतानागतयोरजनकत्वात् । जनकत्वे वातीतानागतता हीयते । ३.२४ अथ प्रतीयमानार्थं प्रति प्रवर्तकत्वमविसंवादार्थस्, तद्विपर्ययज्ञानस्यापि प्रवर्तकत्वं विद्यते । विपरीतोत्पन्नोदकबुद्धिः प्रवर्तते, न च तस्याविसंवादोऽस्ति । सत्योदकज्ञानेऽपि जाते न प्रवर्तते केनापि हेतुना, तदपि विसंवादि स्यात् । ३.२५ अथार्थप्रापकत्वमविसंवादस्, तत्र किमर्थमात्रप्रापकत्वमाहोऽवभातार्थप्रापकत्वं तज्जातीयोदकप्रापकत्वं वा स्वोत्पादकार्थप्रापकत्वं वाथ स्वोत्पादककारकाणां ध्रुवभावित्वमविसंवादः? यद्यर्थमात्रप्रापकत्वं, केशोण्डुकेन्दुद्वयसंवेदनस्याप्यविसंवादित्वमापद्यते । अथावभातार्थप्रापकत्वं, तदानुमानज्ञानस्याविसंवादित्वं न लभ्यतेऽवभातार्थाप्रापकत्वात् । अनुमानज्ञाने हि सामान्याकारोऽवभाति, न चासौ प्राप्यते स्वयमसत्त्वात् । तथा योगिज्ञानस्यातीतानागतार्थे समुत्पन्नस्यार्थप्रापकत्वं न विद्यते । तथा रागादिसंवेदनेऽपि जाते नावभातरागादिप्राप्तिरस्ति । तथा प्रत्यक्षे पि विज्ञाने नावभातार्थप्राप्तिरस्ति क्षणिकत्वेनास्तमितत्वात् । अथ तज्जातीयोदकप्रापकत्वेनाविसंवादित्वमुच्यते, तदयुक्तमुदकत्वजातेरभावात् । अथानुदकत्वव्यावृत्तिर्जातिरित्युच्यते, सोदकव्यक्तिभ्योऽव्यतिरिक्ता व्यतिरिक्ता वा । यद्यव्यतिरिक्ता तदा व्यक्तिरेव न जातिः । अथ व्यतिरिक्ता सा वस्तुभूतावस्तुभूता वा । यदि वस्तुभूता तदाभ्युपेतहानिः । अथावस्तुभूता तद्गतिः कथम्? न चोदकव्यक्तीनां नानात्वमुपपद्यते । यथा च नोपपद्यते तथा निवेदितं नैयायिकप्रत्यक्षलक्षणाधिकारे । अथ स्वोत्पादकार्थप्रापकत्वमविसंवादकत्वं, तदयुक्तं, नयनालोकमनस्कारादेः प्रत्यस्तमितत्वात् । अथ स्वोत्पादककारकाणां ध्रुवभावित्वमविसंवादस्, तदभावे तदभावप्रसङ्गात् । यद्येवं केशोण्डुकविज्ञानस्यापि ध्रुवभाविकारणत्वेनाविसंवादोऽस्त्यन्यथाकस्मिकत्वप्रसङ्गात् । एवं चाव्यवस्थिते यदुक्तं न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यतेति तद्बालविलसितम् । ३.३ तथा मानमेयसङ्ख्यापि सौगतमते नोपपद्यते । तदेव कथम्? कथ्यते द्व एव प्रमाणे, न मानान्तरमस्ति । तद्द्वित्वं किं व्यक्तिभेदेनाकारभेदेन विषयभेदेन वा? ३.३१ यदि व्यक्तिभेदेन, तदापरिसङ्ख्येयत्वं ज्ञानव्यक्तीनामानन्त्याद्, द्वित्वानुपपत्तिः । न च ज्ञानानां भेदोऽस्त्यज्ञानाद्धि ज्ञानं ज्ञानात्मतया भिद्यते, ज्ञानान्तरात्तु कथं निवर्तते? किं ज्ञानात्मतयाकारान्तरेण वा? यदि ज्ञानाकारतया भिद्यते, तदान्येषामज्ञानात्मकत्वप्रसङ्गो रसादेरिव । अथाकारान्तरेण व्यावर्तते, तदाज्ञानात्मता तस्योत्पद्यते रसादेरिव । ३.३२ अथाकारभेदेन मानयोर्भेदः, सोऽप्यनुपपन्नैव । ज्ञानाकारव्यतिरेकेण प्रत्यक्षानुमानयोर्नाकारान्तरमस्ति । तदुपगमे वा ज्ञानाकारविरहः स्यात् । न चाकारसमूहात्मकं ज्ञानं तस्याभिन्नात्मकत्वात् । ३.३३ अथ विषयभेदेन द्वैविध्यमुपपाद्यते, ३.३३१ तदानुमानज्ञानस्य विषयार्थो वक्तव्यः किमग्न्यादिस्वलक्षणविषयं विद्यमानसामान्यविषयमपारमार्थिकसामान्यविषयं वा निर्विषयं वा स्वांशविषयं वा? यद्यग्न्यादिस्वलक्षणविषयं, तदा प्रत्यक्षानुमानयोर्भेदानुपपत्तिरभिन्नविषयत्वात् । अथानुमानिके ज्ञानेऽग्निमात्रं प्रतीयते, प्रत्यक्षे तु तार्णादिविशेषात्मतया प्रतीयते । यद्येवं स्वलक्षणविषयत्वं नातिवर्ततेऽनुमानस्य, यदि नाम वह्नेरेव प्रपञ्चता । अथ सत्सामान्यविषयत्वं, तथापि प्रत्यक्षानुमानयोर्न भेदोऽस्ति सामान्यस्य स्वलक्षणरूपत्वात् । न च सत्सामान्यस्य विज्ञानविषयतोपपद्यते नित्यत्वेन जनकत्वाकारार्पकत्वानुपपत्तेः । न च सत्सामान्यविषयत्वे भ्रान्ततोपपद्यते । भ्रान्तिरप्यर्थसम्बन्धतः प्रमेति न वक्तव्यम् । अथासत्सामान्यविषयं, न तर्हि तस्य भ्रान्ततासतः स्वेन रूपेण विद्यमानत्वात् । न चासद्विषयभावं प्रतिपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात् । अव्यतिरेके वा वस्तुत्वप्रसङ्गः । तत्प्रसक्तौ च प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । अथ निर्विषयं, न तर्हि मानयोर्भेदोऽस्त्य्, अनुमानज्ञानस्य विषयासम्भवात् । नापि भ्रान्तता निर्विषयत्वादेव । न च ज्ञानस्य स्वसत्तामात्रेण भ्रान्तताभ्रान्तता चोपपद्यते, किं तु परोपधानवशात् । अथ स्वांशविषयं, तथापि प्रत्यक्षानुमानयोर्न नानात्वम्, उभयोः स्वलक्षणविषयत्वात् । न चानुमानज्ञानस्य भ्रान्तता स्वांशस्यावञ्चनात् । ३.३३२ तथा प्रत्यक्षस्यापि विषयो वक्तव्यः किं रूपादिस्वलक्षणविषयमात्मविषयमुभयविषयं वा? तद्यदि रूपादिमात्रालोचकं, तदयुक्तं तदनवगतावेतद्गत्यभावात् । अथ ज्ञानमात्रकायावगाहकं, तदपि नोपपद्यते, विषयभावस्य जनकत्वाकारार्पकत्वेन व्यवस्थितेः । न च स्वात्मनि जनकत्वमाकारार्पकत्वं चोपपद्यते । विषयिणमपेक्ष्य विषयो भवति, यथा कारणमपेक्ष्य कार्यं कार्यं चापेक्ष्य कारणं तथेहापि । यदि च प्रत्यक्षज्ञानेनात्ममात्रमात्मसात्क्रियते, तदानुमानेऽप्येतदस्ति, प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । अथोभयं विषयीक्रियते, तदप्ययुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारेण व्यवस्थितत्वात् । यदि च रूपगृहीतिरेव ज्ञानगृहीतिस्, तदा रूपस्य ज्ञानरूपता, ज्ञानस्य वा रूपरूपता, रूपगृहीतेर्वा रूपाव्यवस्थापकत्वम् । न चैकस्याकारद्वयं पश्यामः । ३.३ न च द्वित्वावधारणमिहोपपद्यते । प्रत्यक्षं ज्ञानमात्मानं गृह्णदुपजायते, नानुमानं विषययति । तथानुमानमप्यात्मानमात्मसात्कुर्वदुपजायते, न प्रत्यक्षं ज्ञानमवद्योतयति । एवं द्वित्वसङ्ख्याव्यवहारानुपपत्तिः । अथ विकल्पेन द्वयावधारणमिति चेत्, तदयुक्तम्, असावप्यात्मसंवेदनपर्यवसितत्वान्न द्वयं गृह्णाति । ग्रहणे वाभ्युपेतहानम् । तदनुपपत्तौ च द्व एवेति जडचेष्टितम् । [अध्याय ४: एxअमिन्ततिओनोf थे बुद्धिस्त्देfइनितिओनोf पेरेचेप्तिओन्] ४.१ तथा प्रत्यक्षं कल्पनापोढमभ्रान्तमिति न वक्तव्यं कल्पनापोढपदस्यापोह्यार्थासम्भवात् । ननु कल्पनैवापोह्या । केयंकल्पना किं गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पनाहो स्मृत्युत्पादकं विज्ञानं कल्पना स्मृतिरूपं वा स्मृत्युत्पाद्यं वाभिलापसंसर्गनिर्भासो वाभिलापवती प्रतीतिर्वा कल्पनास्पष्टाकारा वातात्त्विकार्थगृहीतिरूपा वा स्वयं वातात्त्विकी त्रिरूपाल्लिङ्गतोऽर्थदृग्वातीतानागतार्थनिर्भासा वा? ४.११ तद्यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, तत्किमविद्यमानगुणचलनजात्यादिविशेषनोत्पाद्यत्वेन कल्पनोत विद्यमानोत्पाद्यत्वेन? तद्यद्यविद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पनात्वं, तदयुक्तमविद्यमानस्य जनकत्वाभावादेवाकल्पनात्वम् । अथ विद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पना, तत्किं सविषयं कल्पनाज्ञानं निर्विषयं वा? तद्यदि सविषयं सत्कल्पनाज्ञानं, तदयुक्तं, गुणचलनजात्यादिजन्यत्वेऽपि न कल्पनात्वमर्थसामर्थ्यसमुद्भवत्वस्यानतिवृत्तेः । अथ निर्विषयं सत्कल्पना, तदा निर्विषयत्वमेव कल्पनात्वे कारणं, न गुणचलनजात्यादिविशेषणजन्यत्वम् । यदि च तन्निर्विषयं, तदा न कल्पनाज्ञानं नाप्यकल्पनाज्ञानं, ज्ञानमात्रता स्यात् । ज्ञानात्मतया च कल्पनात्वे सर्वं ज्ञानं कल्पनाज्ञानं स्यात् । ४.१२ अथ स्मृत्युत्पादकं ज्ञानं कल्पना, तदयुक्तं, रूपादिदर्शनादपि स्मृतिरुत्पद्यते न च कल्पनात्वं, यत्सन्निधाने यो दृष्टस्तद्दृष्टेस्तद्ध्वनौ स्मृतिरिति वचनात् । ४.१३ अथ स्मृतिरूपत्वेन कल्पना, तत्रापि किं गृहीतग्राहित्वेन निर्विषयत्वेनापूर्वार्थगृहीतिरूपत्वेन वा? तद्यदि गृहीतार्थग्राहित्वेन कल्पनात्वं, तदा प्रथमानुभवस्यापि कल्पनात्वमापद्यते गृहीतार्थग्राहित्वाविशेषादित्युक्तं पुरस्तात् । अथ निर्विषयत्वेन, तदा न कल्पनाकारता नाप्यकल्पनाकारता ज्ञानाकारव्यतिरेकेण । अथापूर्वार्थगृहीतित्वेन कल्पनात्वं, तदयुक्तं, न स्मृतेरपूर्वार्थगृहीतित्वमस्ति । तदभावान्न कल्पनात्वम् । यदि चापूर्वार्थगृहीतित्वेन कल्पनात्वं, रूपादिज्ञानानां कल्पनात्वमापद्यते । ४.१४ अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वं, तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वमस्ति, तदस्तु कल्पनाज्ञानम् । अथ न भवति तत्कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितं, कल्पनाज्ञानं तु स्मरणाकारतयोत्पाद्यते । तदिदं मद्विकल्पान्दोलितबुद्धेर्निरुपपत्तिकाभिधानम् । न ह्येकस्य स्वभावद्वयमुपपश्यामः । ४.१५ अथाभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना, स संसर्गः पारमार्थिकोऽपारमार्थिको वा । यदि पारमार्थिको, न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथापारमार्थिकः, कथं तदाभं विज्ञानं नैरात्म्यप्रसङ्गात्? न चातात्त्विके विषयार्थः कश्चिल्लभ्यते जनकत्वाकारार्पकत्वसहोत्पादसत्तामात्रव्यतिरेकात् । यदि चातात्त्विकार्थगृहीतिरूपं, तदा विपर्ययज्ञानम् । तच्चाव्यभिचारिपदेनापोदितं, न कल्पनापोढपदमुपादेयम् । ४.१६ अथाभिलापवाती प्रतीतिः कल्पना, किमभिलापात्मिकाहोऽभिलापोत्पाद्याभिलापगृहीतिर्वा? तद्यद्यभिलापात्मिका, प्रतीतिः कथम्? प्रतीतिश्चेदभिलापात्मिकेति न वक्तव्यं, विरुद्धाकारयोस्तादात्म्यव्यतिरेकात् । अथाभिलापोत्पाद्या, तदा शब्दज्ञानानां कल्पनात्वमापद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अथाभिलापगृहीतित्वेन कल्पनात्वं, तदा सर्वासामभिलापगृहीतीनां कल्पनात्वमापद्यते । तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः । ४.१७ अथास्पष्टाकारा प्रतीतिः कल्पना, अस्पष्टता का? किमविज्ञानात्मकत्वमाहो स्वलक्षणाजन्यत्वमथ प्रतीयमानार्थाजन्यत्वं प्रतीयमानासत्यता वा स्वलकणाप्रतिभासिता वा? तद्यद्यविज्ञानात्मकत्वमस्पष्टता, तदयुक्तं, प्रतीतिरिहास्पष्टाकारा गीयते, सा कथमविज्ञानात्मिका भवितुमर्हति? अथ स्वलक्षणाजन्यतास्पष्टता, तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वं, तदा रागादिसंवेदनस्यास्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वायोगात् । स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्य प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते । तदपि स्प३ष्टाभमुपजायते, न त्वस्पष्टाभं, न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासितेति वचनात् । अथ स्वलक्षणाप्रतिभासित्वमस्पष्टता, तदा निर्विकल्पाभिमतकेशोण्डुकविज्ञानस्यास्पष्टता प्राप्नोति, तत्र स्वलक्षणस्याप्रतिभासनात्, स्पष्टाभं च तद्गीयते । न च ताथागते दर्शने तथाभूतं ज्ञानमस्ति यत्स्वलक्षणाप्रतिभासि, सर्वस्मिन् ज्ञाने ज्ञानकायप्रतिभासनात् । अथ प्रतीयमानासत्यातास्पष्टता, तदा केशोण्डुकेन्दुद्वयविज्ञानस्यास्पष्टता प्राप्नोति । न च प्रतीयमानस्यासत्यता विज्ञानकायस्य प्रतीयमानत्वात् । न च तस्य विसंवादोऽस्ति । ४.१८ अथातात्त्विकार्थगृहीतिरूपा कल्पना, तद केशोण्डुकविज्ञानस्यापि कल्पनात्वमापद्यते । ४.१९ अथ स्वयमतात्त्विकी, तदा प्रतीतिः कथम्? प्रतीतिश्चेद्, अतात्त्विकी कथम्? ४.१(१०) अथ त्रिरूपाल्लिङ्गतोऽर्थदृक्कल्पनेति चेत्, सापि किं लिङ्गजन्यत्वेन कल्पनाहो निर्विषयत्वेन? तद्यदि लिङ्गजन्यत्वेन कल्पनात्वं, तदा लिङ्गावगाहकनिर्विकल्पकविज्ञानस्यापि कल्पनात्वमापद्यते । न चानुमेयज्ञानस्याव्यवधानेन लिङ्गोत्पाद्यत्वमस्ति । अथ निर्विषयत्वेन कल्पनात्वं, तदपि न योयुज्यते, स्वांशविषयत्वादनुमानज्ञानस्य । अथ स्वांशविषयव्यतिरिक्तविषयो नास्ति, निर्विषयत्वेन कल्पनात्वमपदिश्यते । तदा केशोण्डुकविज्ञानस्यापि कल्पनात्वमापद्यते । ४.१(१०)आथ यन्निर्विकल्पकं तद्विस्पष्टतयोपजायत, आनुमानिकं त्वस्पष्टाभं, तेन तत्कल्पनाज्ञानम् । ४.१(१०)अ१ तदयुक्तम् । अस्पष्टता च यथा न सम्भवति, तथा प्रागेवोक्ता । ४.१(१०)अ२ प्रत्यक्षज्ञानस्य च स्पष्टता का? किं स्वलक्षणजन्यताहो स्वलक्षणप्रतिभासिता? ४.१(१०)अ२१ तद्यदि स्वलक्षणजन्यता, किं प्रतीयमानस्वलक्षणजन्यता तद्विपरीतस्वलक्षणजन्यता वा? तद्यदि प्रतीत्यारूढस्वलक्षणजन्यता, प्रतीतौ किमवभाति? किमर्थो ज्ञानमुभयं व ? तद्यद्यर्थस्, तदयुक्तमप्रतीतायां प्रतीतौ तदनवभासनात् । अथ ज्ञानं, न तर्हि तदात्मानमुत्पादयति स्वात्मनि क्रियाव्यतिरेकात् । अथोभयं प्रतिभाति, तदयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वात् । यदि चोभयं प्रतिभाति, तदार्थवज्ज्ञानेनापि ज्ञानमुत्पाद्यतेत्यापद्यते । तच्चायुक्तं स्वात्मनि क्रियाविरोधात् । अथाप्रतीयमानस्वलक्षणजन्यता, तद्गतिः कथम्? न प्रत्यक्षेणाप्रतीयमानत्वादेव । नाप्यनुमानेन, स्वभावकार्यलिङ्गानवगतेः । न स्वभावानुमानं तत्कार्यतादात्म्ये तदनवगतौ तस्यानवगतेः । नापि कार्यानुमानं तद्भूतकार्यानुपलब्धेः । पिशाचपरमाणुमहेश्वरकल्पार्थोत्पादितं कार्यं नेहोपलभ्यते । अथ ज्ञानमेव तस्य लिङ्गं, तदयुक्तं, तेन सह तस्य सम्बन्धानवगतेश्चिन्मात्रतयैव न त्वन्योऽर्थः । न च चिदात्मानं जनयति । समनन्तरज्ञानं तस्य हेतुरिति चेत्, तदयुक्तं, तदवगतौ न मानमस्ति । परसन्तानज्ञानार्थकल्पं तदपि न स्वसंवेद्यं तत्कार्यज्ञानस्य, ततो भिन्नत्वात्परसन्तानज्ञानार्थवत् । नाप्यनुमाटेन, तदायत्ततायानवगतेः । चिन्मात्रतयैवात्मानमवगाहयति, नान्यायत्ततया, ततोऽन्यस्य पिशाचेश्वरतुल्यत्वात् । यदि च समनन्तरविज्ञानोत्पाद्यत्वेन स्पष्टता, तदानुमानज्ञानस्यापि समनन्तरज्ञानोत्पाद्यत्वेन निर्विकल्पकत्वमनुषक्तम् । ४.१(१०)अ२२ अथ स्वलक्षणप्रतिभासिता स्पष्टता, तत्र किं प्रतिभाति किमर्थो ज्ञानमुभयं वा? तद्यद्यर्थस्, तदयुक्तम्, अप्रसिद्धायां प्रसिद्धौ तत्प्रसिद्ध्यभावात् । अथ ज्ञानं, तदनुमानेऽपि प्रतिभाति, तदप्यस्तु निर्विकल्पकम् । तन्निर्विकल्पकत्वे तर्ह्यपोह्यो मृग्योऽधुना कल्पनापोढपदस्य । अथोभयं प्रतिभाति, तदयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वाभ्युपगमात् । ४.१(११) अथातीतानागतार्थगृहीतिरूपा कल्पना, तत्र किमवभात्य् अर्थस्तदभावो वा न किञ्चिद्वा? यद्यतीतोऽर्थः प्रतिभाति, न तर्हि तस्य कल्पनात्वं वर्तमाननीलज्ञानवत् । नाप्यर्थस्यातीतता प्रतीयमानत्वेन नीलजलादिवत् । न हि प्रतीयमानस्यातीतता नाम । यदि च प्रतीयमानस्याप्यतीततोच्यते, तदा सर्वस्य बुद्ध्युपलक्षितस्यातीतता भवेत् । ततश्च वर्तमानव्यवहारविरहः स्यात् । अथ तदभावः प्रतिभाति, तस्याप्यतीतता नास्ति, स्वेन रूपेण विद्यमानत्वात् । नापि तद्विषयविज्ञानस्य कल्पनात्वमुपपद्यतेऽभावार्थसामर्थ्येन समुद्भवात् । असामर्थ्ये वा विषयार्थश्चिन्त्यः । अथ निर्विषयं, न तर्हि तदतीतानागतार्थविज्ञानमतीतानागतार्थोपकाररहितमपदिश्यते । न च निर्विषयत्वे सति सविकल्पकत्वं निर्विकल्पकत्वं वापि तु ज्ञानात्मतयैव तस्य व्यवस्थितिः । न च ज्ञानमात्रतया तस्य सविकल्पकत्वमिष्यते सर्वज्ञानानां सविकल्पकत्वप्रसङ्गात् । यदि च निर्विषयत्वेनातीतानागतार्थविज्ञानस्य सविकल्पकत्वमभ्युपेयते, निर्विकल्पकाभिमतकेशोण्डुकविज्ञानस्यापि सविकल्पकत्वमापद्यते । न चातीतानागतविज्ञानस्य निर्विषयत्वमस्ति स्वांशपर्यवसितत्वात् । नापि स्वांशव्यतिरिक्तोऽर्थोऽन्योऽस्त्येकोपलम्भेनापोहितत्वात् । न च स्वांशस्य वञ्चनोपपद्यते । तदभावात्सर्वं विज्ञानं सविकल्पकं निर्विकल्पकं वा वक्तव्यं भेदानुपपत्तेः । ४.१ यदप्युक्तं कल्पनापोढं प्रत्यक्षमर्थसामर्थ्येन समुद्भवाद्रूपादिस्वलक्षणवदिति तत्र किं प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितमाहोऽर्थमात्रोद्भवत्वम्? तद्यदि प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितं, तदा रागादिसंवेदनस्य योगिप्रत्यक्षस्य च प्रतीयमानस्वलक्षणोद्भवत्वं न लभ्यते । अथेन्द्रियजप्रत्यक्षविवक्षयेदमपदिश्यतेऽर्थसामर्थ्येन समुद्भूतत्वादिति साधनं, तत्रापि . स्य बाह्यार्थनिराकरणपरत्वात् । अस्तु वा बाह्योऽर्थस्, तथापि किं तेन निमित्तात्मकेनोत्पाद्यताहोपादानात्मकेन? तद्यदि निमित्तभूतेनोत्पाद्यते, तदा तदुत्पादितरूपस्य रूपरूपता न प्राप्नोति निमित्तभूतरूपोत्पादितज्ञानवत् । अथोपादानात्मकेनोत्पाद्यते, तदानया रीत्या रूपरूपतापद्यते ज्ञानस्य रूपोत्पादितरूपस्येव । ततः सर्वमविज्ञानात्मकं जगत्स्यात् । अविज्ञानात्मके च जगति मानमेयव्यवहाराभावप्रसङ्गः । तत्प्रसक्तौ च कस्येदं लक्षणं प्रस्तूयते? अथोपादानभूतेन रूपेण रूपमुत्पाद्यते, निमित्तात्मकेन तु ज्ञानमिति चेत्, तदिदं महानुभवस्य दर्शनम् । न ह्यबालिशैवं वक्तुमुत्सहेत । न ह्येकस्यानेकाकारता नाम । न चानेकनामकरणे मेयाद्यन्यत्वमस्ति । अन्यत्वे वा न तर्हीदं वक्तव्यं स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन मनोविज्ञानं निष्पाद्यते । तदेवमिन्द्रियज्ञानस्य प्रतीयमानार्थसमुद्भवत्वाभावः । दृष्टान्तश्च साधनविकलो न रूपादिस्वलक्षणस्य रूपरूपावभातार्थोद्भवत्वमस्ति । अथाप्रतीयमानस्वलक्ष.णोद्भवत्वं मे विवक्षितं, तदातीतानागतानुमानविकल्पानामप्रतीयमानार्थोद्भवत्वेन निर्विकल्पकत्वम् आपद्यते । ४.१ यदप्यन्यदुक्तमेकोपलम्भसामर्थ्याद्विकल्पिकायाः समुद्भवेदमुपलभेदं नोपलभेति किलैकभूतलोपलम्भे सति विकल्पिका बुद्धिरुत्पद्यतेदमुपलभेदं नोपलभ्यतेत्यादिकैतदपि न युक्तम् । यथा रूपस्वलक्षणस्य सविकल्पकविज्ञानजनकत्वं नास्त्यविकल्पकत्वात्, तथा विज्ञानस्वलक्षणमपि न सविकल्पकविज्ञानोत्पादकत्वमतिवर्ततेऽविचारकत्वाविशेषात् । अथाविचारकत्वाविशेषेऽपि निर्विकल्पकविज्ञानस्य सविकल्पकविज्ञानोदयदानसामर्थ्यं जेगीयते, तदा रूपादिस्वलक्षणस्याप्येतदस्तु । ततश्च प्रत्यक्षानुमानयोर्भेदानुपपत्तिः । ४.१ यदप्यन्यदुक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहः । अथ कोऽयं कल्पनाविरहो नाम? किं ज्ञानकायतादात्म्यव्यवस्थितदेहस्तद्विपरीतो वा? तद्यदि ज्ञानतादात्म्येन व्यवस्थितस्, तदा प्रत्यक्षसाधनः कल्पनाविरहेति किमुक्तं भवति? प्रत्यक्षसाधनो विज्ञानाकारः प्रत्यक्षधियः । न केवलं प्रत्यक्षकल्पनाविरहः प्रत्यक्षसाधनो,ऽनुमानधियोऽपि प्रत्यक्षसाधनैव, ज्ञानाकारस्यानुमानज्ञानेऽपि भावात् । अथानुमानज्ञानस्याप्यात्मसंवित्तौ कल्पनारहितत्वं, बाह्यार्थापेक्षया कल्पनात्मकत्वमिति चेत्, तदेतन्मुग्धाभिधानं दुनोति मानसम् । कथं स्युर्विविधाकारास्तदेकस्य वस्तुनः? अथ भेदेन व्यवस्थितस्, तद्गतिः कथम्? न स्वसंवेद्योऽसौ ज्ञानाकारव्यतिरेकात् । नापि जनकत्वाकारार्पकत्वेन गृह्यते विरहस्य सामर्थ्यव्यतिरेकात् । एवं च सति यदुक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहेति तद्बालवल्गितम् । ४.१ अथ गौरित्यादिज्ञानं कल्पना, कथमस्य कल्पनात्वम्? अर्थेनाजनितत्वाद्यदि गवादेरर्थस्य गौरित्यादिज्ञानोत्पादनसामर्थ्यं स्यात्, तदा प्रथमाक्षसन्निपातवेलायामपि कुर्यात्तदात्मनोऽविशेषात् । तदुक्तं यः प्रागजनको बुद्धेरुपयोगाविशेषतः। स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रधीः॥ अथ शब्दस्मरणमपेक्ष्योत्पादयति, तदेवास्तु तद्देहानन्तरफलत्वाद्गौरित्यादिज्ञानस्य । तदुक्तम् अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम्। अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥ तदेतदयुक्तम् । प्राथमिकमपि ज्ञानं गौरिति ज्ञानं, गोपिण्डावगाहिनि विज्ञाने गौरिति ज्ञानसञ्ज्ञा । ततश्च प्रथमाक्षसन्निपातजमपि भवति । एवं च पूर्वापरविज्ञानयोरेकविषयत्वोभयोर्गौरिति ज्ञानसञ्ज्ञाविषयत्वम् । नन्वेकस्य क्रमभाविविज्ञानजनकत्वं किमेकेन स्वरूपेण स्वरूपान्तरेण वा? एकेनैव स्वभावेन जनयतीति ब्रूमः । नन्वेककालीनता पूर्वापरविज्ञानयोरेकस्वभावायत्तत्वे सत्यापद्यते । यद्येवमेकनीलोत्पादितनयनालोकविज्ञानानामेकदेशसम्बन्धित्वमेकाकारतैकव्यक्तित्वमापद्यतैकनीलोत्पाद्यत्वाविशेषात् । अथैवम्भूतं तत्तस्य स्वरूपं यच्चित्रकार्यकरणात्मकम् । यद्येवं ममकेऽपि पक्षे क्रमभाव्यनेककार्यकरणात्मकमेव स्वरूपं स्वहेतुसामर्थ्यनियमितस्योत्पत्तेः । अथवा यथात्वदीये पक्षे मनोज्ञानं स्वलक्षणविषयं न च प्रथमाक्षसन्निपातजम्, अपि त्विन्द्रियज्ञानेन स्वविषयानन्तरविषयसहकारिणोत्पाद्यते, तथा गौरित्यादिकमपि ज्ञानं प्रथमाक्षसन्निपातजेन विज्ञानेन स्वविषयानन्तरविषयसहकारिणा स्मरणाद्युपहितेन चोत्पाद्यतेति निर्विषयत्वाभावो विषयान्तरस्य स्वकारणसामर्थ्यानुरोधेन गौरित्यादिज्ञानजननयोग्यस्योत्पत्तेः । स्मरणमपि समर्थमुत्पन्नं सद्गौरित्युत्पादयति । एवं सति यदुक्तं यः प्रागजनको बुद्धेरित्यादि, तद्स्वपरमतमनालोच्यैव जेगीयते । ४.१ न च ज्ञानाकरव्यतिरेकेण विकल्पाकारोऽन्योऽस्ति । कल्पनाकारो हि ज्ञानतादात्म्येन व्यवस्थितः । ततश्च कल्पनापोढं प्रत्यक्षं किमुक्तं भवति? ज्ञानापोढं प्रत्यक्षम् । यो यत्स्वभावोपनिबद्धः, स निवर्तमानस्तमादाय निवर्तते । ततश्चाज्ञानात्मकं प्रत्यक्षं भिक्षूणां प्रसक्तम् । ४.२ तथाव्यभिचारिपदमपि नोपादेयमपोह्यज्ञानासम्भवात् । ननु मार्तण्डपादसङ्घातोत्पादितं विज्ञानमपोह्यमस्ति कथं तदपोह्यम्? अतथ्योदकविषयत्वात् । यद्यतथ्योदकविषयत्वं, कथं तदपनीयतेऽतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वान्मधुरोदकदीर्घोदकाकारवत्? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात्, तदिहाप्युदकं प्रतीयतोदकं गृह्णामीति व्यवहारदर्शनात् । सत्यं, प्रतिभात्य्, अतथ्यं तु प्रतिभाति । ४.२१ अतथ्यता का? किं प्रतीयमानस्याभावोऽथ प्रतीयमानैवाभावः? ४.२११ यदि प्रतीयमानस्याभावः, सोऽत्र नावाभात्य्, उदकाकारैवावभाति । ४.२१२ अथ प्रतीयमानैवाभावः सोऽप्यनुपपन्नैव । न हि भावाकारे प्रतीयमानेऽभावकल्पना युक्ता । अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश्चालूनविशीर्णं जगत्स्यात् । यदि चाभावः प्रतिभाति, कथं तदुदकज्ञानं मिथ्याज्ञानं चोच्यतेऽभावविषयस्य स्वेन रूपेण विद्यमानत्वात्? ४.२२ तदेतदुदकज्ञानमुदकं विषययत्युदकाभावमात्मानं न किञ्चिद्वा । ४.२२१ तद्यद्युदकं विषययति, तदा न तस्य मिथ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति । किं यत्प्रतिभाति तत्तथ्योदकम्, आहो यत्तथ्यं तत्प्रतिभाति? तद्यदि यत्प्रतिभाति तत्तथ्यम्, इहाप्युदकं प्रतिभाति, प्राप्ता तस्यापि तथ्यता । अथ यत्तथ्यं तत्प्रतिभाति, तस्य तथ्यता कथं ज्ञायते? किं प्रतीत्यान्यथा वा? यदि प्रतीत्या, इहापि प्रतीतिरुत्पद्यते । अस्तु तथ्यता । अथ प्रतीतिमन्तरेण तथ्यतोपपाद्यते, तदा सुस्थितानि वस्तूनि । सर्ववादसिद्धिः स्यात् । अथ प्रतीयते यदि नाम बाध्यते । प्रतीयते बाध्यते चेति चित्रम् । प्रतीयमानत्वं च जनकत्वाकारार्पकत्वेन व्याप्तम् । यच्च न जनयति नाकारमर्पयति तन्नावभाति यथा रूपज्ञाने रसः । प्रतीयते चात्रोदकं, जनकत्वाकारार्पकत्वोपपत्तिः । तदुपपत्तौ च न बाधोपपत्तिर्, जनकत्वाकारार्पकत्वस्य सत्त्वनिबन्धनत्वात् । ४.२२२ अथाभावं विषययति, न तर्ह्युदकज्ञानरूपताभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वमभावविषयस्योपपत्तेः । न च सौगतमतेऽभावे कश्चिद्विषयार्थोपपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात्. उदकाकारो हि प्रतीत्युत्कलितः । तदभावश्चाप्रातीतिकेहोपपाद्यते मुग्धबौद्धैः । ४.२२३ अथात्मविषयं, तथापि व्यभिचारिता नोपपद्यते, स्वांशस्यावञ्चनात् । न हि ज्ञानमात्मानं विसंवदति । नापि तदुदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । न हि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्तम् । ४.२२४ अथ निर्विषयं, न तर्हि तदुदकज्ञानम्, उदकज्ञानतया तु प्रतिभाति, तेन जानीम न निर्विषयम् । यदि च निर्विषयं, कथं तन्मिथ्याज्ञानम्? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनमस्ति स्वांशपर्यवसितत्वात् । ४.२३ विज्ञानस्य व्यभिचारिता किं स्वसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन? ४.२३१ तद्यदि स्वसत्तानुरोधेन, तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति ज्ञानरूपतायाः सर्वत्र भावात् । न किञ्चिद्विज्ञानमव्यभिचारि स्यात् । ४.२३२ अथ परसत्तानुरोधेन व्यभिचारितोच्यते, किमनुपकारकपरसत्तानुरोधेनाहोपकारकपरसत्तानुरोधेन? तद्यद्यनुपकारकपरसत्तानुरोधेन व्यभिचारिता, तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोत्यनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन व्यभिचारिताभिधीयते, किं करणभूतपरोपकारकसत्तानुरोधेनाहो कर्मतापन्नोपकारकपरसत्तानुरोधेन? तद्यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां मिथ्यात्वमापद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वं, तदयुक्तं, न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेणोपक्रियमाणत्वात् । ४.२४ तथा सम्यग्ज्ञानत्वमपि क हम्? किं ज्ञानसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन? ४.२४१ तद्यदि ज्ञानसत्तामात्रानुरोधेन सम्यक्त्वं, तदा सर्वसंवित्तीनां सम्यक्त्वं प्राप्नोति ज्ञानाकारस्योपपत्तेः । ४.२४२ अथ परसत्तानुरोधेन सम्यक्त्वं, तदा किमनुपकारकपरसत्तानुरोधेन किं वोपकारकपरसत्तानुरोधेन? तद्यद्यनुपकारकपरसत्तानुरोधेन सम्यक्त्वं, तदा सर्वासां संवित्तीनां सम्यक्त्वमापद्यतेऽनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन किं करणभूतपरोपकारकसत्तानुवेधेनाहो कर्मतापन्नोपकारकपरसत्तानुवेधेन? तद्यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां सम्यक्त्वमापद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मतापन्नोपकारकपरसत्तानुवेधेन सम्यक्त्वमभिधीयते, तदा रागादिसंवेदनस्य सम्यक्त्वं न प्राप्नोत्य्, अतीतानागतार्थविषयत्वे योगिज्ञानस्य च । ४.२५ यत्तद्व्यभिचारि ज्ञानं, तत्किं व्यभिचारिभूतेनोपादानज्ञानेन जन्यताहोऽव्यभिचारिभूतेनोपादानज्ञानेन जन्यते? ४.२५१ तद्यदि व्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तदपि व्यभिचारिभूतेन, प्राप्ता व्यभिचारिपरम्परा । सङ्ग्राह्यमव्यभिचारि न लभ्यते । ४.२५२ अथाव्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तदुपादानकारणमनुकुर्वद्वोपजायतेऽननुकुर्वद्वा । तद्यद्युपादानकारणानुकारेणोत्पाद्यते, तदा किमाप्नोति? अव्यभिचारिस्वरूपानुकारेणोत्पाद्यते । कथम्? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितेः । न चैकदेशानुकारित्वमस्त्युपादानकारणस्य निरवयवत्वात् । एवं सर्वं विज्ञानमव्यभिचारि प्रसक्तम्, अपोह्यज्ञानानुपपत्तिः । न च व्यभिचाराव्यभिचारौ ज्ञानाद्व्यतिरिक्तौ स्तः । यथा रसाकारो रूपाकारो वा ज्ञानाकाराद्भिन्नो, न तथा व्यभिचाराव्यभिचारौ ज्ञानाद्व्यतिरिक्तौ । ततश्च व्यभिचाराकारोऽत्र निराक्रियते किमुक्तं भवति? ज्ञानाकारोऽत्र निराक्रियते । ततश्चाज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् । ४.२५आपि च यथा रूपेणोपादानभूतेन जन्यते रूपं, तथा ज्ञानमप्युपादानभूतेनैव जन्यते । यैव तस्य रूपोत्पादनात्मा, सैव तस्य ज्ञानोत्पादनेऽपि । न हि तस्य ज्ञानोत्पादनात्मान्यत्वम् । अथ निमित्तभूतेन ज्ञानमुत्पाद्यतोपादानभूतेन रूपमिति चेत्, तत्कथमेकस्यानेकाकारयोगितोपपद्यते? न च सञ्ज्ञान्यत्वे मेयाद्यन्यत्वमुपपद्यते । रूपवद्विज्ञानस्यापि रूपरूपता प्राप्नोति । तत्प्राप्तौ च न परलोक्यात्मा । तदभावान्न परलोकः । इदमेव चेतसि समारोप्याह भगवान् बृहस्पतिः परलोकिनोऽभावात्परलोकाभावः । अथ रूपोपादानजन्यत्वेऽपि ज्ञानरूपतैव, रूपस्यापि ज्ञानरूपता प्राप्ता रूपोपादानजन्यत्वाज्ज्ञानवत् । अथ ज्ञानं ज्ञानेनोपादानभूतेन जन्यते, रूपमपि तेनैव जन्यते । न हि तस्य रूपोत्पादनात्मान्यत्वम् । एवं च तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः। तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम्॥ अथ रूपोपादानजन्यत्वेऽपि विज्ञानस्य न रूपात्मता, तथा ज्ञानोपादानजन्यत्वेऽपि विज्ञानस्य न ज्ञानरूपताटतश्च नैरात्म्यप्रसङ्गः । अथ ज्ञानोपादानजन्यत्वे ज्ञानाकारपरिकल्पना, तथा रूपोपादानजन्यत्वे रूपाकारातालोकोपादानजन्यत्वे चालोकाकारता प्राप्नोति । ततश्चाकारकदम्बात्मकं ज्ञानं प्रसक्तम् । अनिष्टं चैतदद्वयरूपत्वेनाभ्युपगमात् । ४.२५ यत्तद्रूपोत्पाद्यं विज्ञानं, तत्किमेकदेशेन रूपोत्पाद्यत्वेन स्थितं सर्वात्मना वोत्पाद्यत्वेन पर्यवसितम्? तद्यद्येकदेशेन स्थितं, तदयुक्तम्, अखण्डस्यैकदेशविरहात् । अथ सर्वात्मना रूपोत्पाद्यत्वेन पर्यवसितं, तदा विज्नानोत्पाद्यं न प्राप्नोति, यथैककारकसमूहोत्पाद्यत्वेन पर्यवसितस्य कार्यस्य सङ्घातान्तरोत्पाद्यत्वं न दृष्तम् । ततश्च विज्ञानसङ्घातानुपपत्तिः । ४.२५ तथा रूपमपि ज्ञानमेकदेशेन कुर्यात्सर्वात्मना करणपर्यवसितं वा । तद्यद्येकदेशेन करोति, तदयुक्तम्, अखण्डस्यैकदेशायोगात् । अथ सर्वात्मना करोति, तदा रूपं सर्वात्मना विज्ञानकरणे पर्यवसितं न रूपान्तरकरणे प्रवर्तते । यथैककारकसामग्र्येककार्योत्पादनपर्यवसिता कार्यान्तरसवित्री न भवति, तथा रूपमपि रूपान्तरोत्पादकं न भवति । ततश्च रूपान्तरस्याकस्मिकत्वम् । तदाकस्मिकत्वे कार्यानुमानं विलुप्यते सौगतानाम् । अथानेककार्योत्पादकत्वेन पर्यवसितं रूपस्वरूपं, तदा घटसङ्ख्यासामान्यादेरप्यनेकाधिकरणाश्रितात्मकं रूपं, वृत्तिविकल्पदोषानुपपत्तिः । द्.१ इतोऽपि वृत्तिविकल्पदोषानुपपत्तिर् वृत्तिविकल्पदोषेण वृत्तेरेव निराकरणं कृतं, न घटसङ्ख्यासामान्यादेस्, ततोऽन्यत्वात् । न ह्यन्यस्याभावेऽन्यस्याभावोऽस्त्यसम्बन्धात् । न ह्यनुदकः कमण्डलुरित्युक्ते कमण्डलोरभावः प्रतीयते, कपालानां तदुदकस्य वा, अपि तु कमण्डलुना साकमुदकस्य विश्लेषमात्रं प्रतीयते । ननु नैयायिकैर्वृत्तिमद्घटसामान्यमभ्युपेयते । तदभावे कथं तस्य संस्थितिः? यद्येवं रूपरसविज्ञानानामपि वृत्तिरभ्युपेयते नैयायिकैस्, तदभावेऽपि सद्भावोऽभ्युपगम्यते तेषां भवद्भिः । अथ तानि प्रतिभान्ति वृत्त्यभावेऽपि, तेन तेषामभ्युपगमः क्रियते । यद्येवं घटसङ्ख्यासामान्यादेरपि स्वरूपं प्रतिभात्यभिन्नानुगतात्मतया । न चानुभूयमानस्य निह्नवो युक्तः सर्वापलापप्रसङ्गात् । अनुपलब्धौ वा सैव समर्था, अतं वृत्तिविकल्पदोषेण । यद्युपलभ्यते, तदा वृत्तिविकल्पदोषो न वक्तव्यः । अथ नोपलभ्यते, तथापि न वक्तव्यः । द्.२ यदप्युक्तं देशभेदेनाग्रहणाद्घटसामान्यानुपपत्तिस्तदप्ययुक्तम् । न देशभेदेन वस्तूनां भेदो,ऽपि त्वाकारभेदेनाभिन्नानुगतात्मतया तयोः स्वरूपमनुभूयते । न देशभेदाग्रहणेन स्वावयवाधिकरणेन सह तयोस्तादात्म्यं सिध्यत्यसत्त्वं वा । यद्याकारभेदेन ग्रहणं, तदा देशभेदेनाग्रहणस्याप्रयोजकत्वम्, आकारभेदग्रहणेन स्वरूपान्यत्वस्य प्रबोधितत्वात् । अथाकारान्यत्वेन नावबोधोऽस्ति, सैवास्त्वसद्व्यवहारसमर्थत्वात् । किं देशभेदाग्रहणेन? स्वहेतोरेव नियतदेशकालनियमितस्योत्पत्तेर्न देशान्तरादौ ग्रहणम् । अन्यथा रूपादेरसत्त्वं स्यादितरेतरदेशलग्नस्याग्रहणात् । द्.३ यदप्युक्तं नास्ति घटसामान्यं तदग्रहेऽग्रहात् । किमनेन क्रियते? किमवयवाधिकरणाव्यतिरेकप्रतिपादनमाहोऽसत्त्वप्रतिपादनम्? तद्यद्यव्यतिरेकप्रतिपादनं क्रियते, कस्यात्र पक्षीकरणम्? किं घटसामान्यस्याहो तदवयवाधिकरणस्य? तद्यदि घटसामान्यस्य पक्षीकरणं, तत्किमवगतस्यानवगतस्य वा? तद्यद्यनवगतस्य, तदयुक्तम् । न ह्यनवगते धर्मिणि हेतोरुत्थानमस्ति । न चाश्रयवैकल्ये गमकत्वम् । अथावगतस्य, तदा तेनैव भिन्नाकारावगमेनाव्यतिरेकप्रत्यायकसाधनं बाध्यते । अथ तदवयवाधिकरणस्य पक्षीकरणं, तत्रापि किं स्वस्मात्स्वरूपादव्यतिरेकः साध्यताहो परस्मादिति? यदि स्वस्मात्स्वरूपादव्यतिरेकः साध्यते, सिद्धसाध्यतया सम्बोधयितव्याः । अथ परस्मादव्यतिरेकः साध्यते, स परात्मा प्रतिपन्नोऽप्रतिपन्नो वा? यदि प्रतिपन्नः, स किं भिन्नाकारतयावगतोऽभिन्नाकारतया वा? तद्यदि भिन्नाकारतयोपलब्धस्, तदानेनैव भिन्नाकारावगमेनाभेदप्रत्यायकं साधनं बाध्यते । अथाभिन्नाकारतयावगतो, न तर्हि परात्मा । इदानीं स्वस्मात्स्वरूपादव्यतिरेकः साध्यतेति सिद्धसाध्यतया सम्बोधयितव्याः । अथानवगतो, न तर्ह्येकत्वं रथतुरगविषाणयोरिव । अथाभावः साध्यस्, तत्रापि कस्य पक्षीकरणम्? किं घटसामान्यस्याहो तदवयवाधिकरणस्य? तद्यदि घटसामान्यस्य पक्षीकरणं, तत्किमवगतस्यानवगतस्य वा? यद्यवगतस्य, तदा तेनैव सद्भावावगमेनाभावहेतोर्बाध्यमानत्वादगमकत्वम् । अथ नावगतं, कथं तस्य पक्षीकरणं स्वयमनवगतस्य पक्षीकरणायोगात्? अथावयवाधिकरणस्य पक्षीकरणं घटसामान्यं नास्तीति प्रतिज्ञा तदग्रहेऽग्रहादित्यस्य हेतोस्तदभावेन सह सम्बन्धो नास्ति । तादात्म्यतदुत्पत्तिसम्बन्धाभावे सति कथं गमकत्वम्? तदग्रहेऽग्रहादित्यस्य कोऽर्थः? किम् अवयवाधिकरणग्रहणमेव घटसामान्यस्य ग्रहणमाहोऽवयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं किं वा घटसामान्यस्याग्रहणमेव विवक्षितम्? तद्यद्यवयवाधिकरणग्रहणमेव घटसामान्यस्य ग्रहणं विवक्षितं, तदा नानेनाव्यतिरेकोऽन्यतरासत्त्वं वा प्रतिपाद्यते । यथा नीलतद्धियोरेकोपलम्भेऽपि नान्यतराभावोऽव्यतिरेको वा, तथा नीललोहितयोरेकोपलम्भेऽपि नान्यतराभावोऽव्यतिरेको वा । अथावयवाधिकरणग्रहणानन्तरं घटसामान्यग्रहणं विवक्षितं, तदा नानेनाव्यतिरेकः साध्यतेऽन्यतरासत्त्वं वा । यथा रूपग्रहणानन्तरं रससंवेदनं न तयोरेकतां गमयत्य्ऽन्यतरासत्त्वं वा । अथाग्रहणमेव विवक्षितं घटसामान्यस्य, तदा तदग्रहेऽग्रहादित्येतन्न वक्तव्यम् । अग्रहादित्येतावदस्तु । न ह्यन्यस्याग्रहे तदनुपलम्भसिद्धिस्तत्स्वभावविनिवृत्तिनिबन्धनत्वात्तदनुपलम्भस्य । न चायं व्यतिरेकार्थो लभ्यते तदग्रहेऽग्रहादित्यस्य हेतोर्घटसामान्यस्याग्रहणमेव, अपि त्ववयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं लभ्यते । ततश्च विपरीतसाधनाद्विरुद्धो भवति । द्.४ यदप्यभ्यधाय्येकपिण्डग्रहणकालोपलब्धिलक्षणप्राप्तस्यानुपलब्धेर्नास्ति सामान्यम् । कैवमाह नोपलब्धं सामान्यम्? अपि तूपलब्धमेव । कथं ज्ञायते? द्वितीयादिपिण्डदर्शने सति पूर्वे पिण्डे स्मृतिदर्शनाद्, अनेन सदृशोऽसावेवमनुस्मरति । अथवैकपिण्डग्रहणकाले तदुपलब्धिलक्षणप्राप्तं न भवति तेन नोपलभ्यते । उपलब्धिलक्षणप्राप्तिरिहानेकसहकारिपिण्डोपनिपातः । यदि चोपलब्धिलक्षणप्राप्तं, कथं नोपलभ्यते? अथ नोपलभ्यते, न तर्ह्य्.उपलब्धिलक्षणप्राप्तम् । उपलब्धिलक्षणप्राप्तिरिह प्रत्ययान्तरसाकल्यं स्वभावविशेषश्च । एतच्चेद्विद्यते कथमनुपलब्धिः? एवम्भूतस्याप्यनुपलम्भे परिकल्प्यमाने सर्ववस्तूनामनुपलम्भप्रसङ्गः । उपलब्धौ वान्यत्कारणमन्वेष्टव्यम् । अथ प्रत्ययान्तरसाकल्यमात्रं विवक्षितं, न तत्स्वभावविशेषः । यद्येवमदृश्यस्यैवानुपलब्धिर्, न दृश्यानुपलब्धिरस्ति । यदि चान्यकारकसाकल्यमुपलब्धिलक्षणप्राप्तिरभिधीयते, तदाप्युपलब्ध्या भवितव्यं नानुपलब्ध्या । इतरकारकसाकल्यं ह्युपलम्भजननसामर्थ्यम् । तच्चेद्विद्यते, कथमनुपलब्धिः? तस्मादनुपलब्धिलक्षणप्राप्तस्यैवानुपलब्धिर्, नोपलब्धिलक्षणप्राप्तस्य । द्.५ यदप्युवाच क्षीरोदकवद्विवेकेनाग्रहणान्नास्ति सामान्यं तदप्ययुक्तम् । विवेको ह्याकारान्यत्वं व्यक्तीनामननुगमरूपता, सामान्यं त्वनुगताकारमनयोः सारूप्यं तैः सह सारूप्यमस्येति विविक्ताकारावगमदर्शनात् । तथा क्षीरोदकयोरपि विविक्तमेव ग्रहणम् । तत्र क्षीरोदकयोरेकभाजननिक्षेपे सति, किं केवलं क्षीरं प्रतिभात्याहोदकमुभयं वा? तद्यदि क्षीरमेव प्रतिभाति, कथं तदुदकाकारान्न विविक्तं भवति? अथोदकं केवलं प्रतिभाति, तदपि कथं क्षीरान्न विविक्तं भवति? अथोभयं प्रतिभाति, तदोभयोर् इतरेतराकारविविक्तयोर्ग्रहणं तादात्म्यव्यतिरेकात् । द्.६ यदप्यन्यदुक्तमेकत्र दृष्टो भेदो हि क्वचिन्नान्यत्र दृश्यत् न तस्माद्भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः॥ इत्येतदप्ययुक्तम् । एकत्र दृष्टस्य भेदस्यान्यत्र दर्शनमस्त्येव । यथा घटवस्त्रादेरेकावयवोपरिदृष्टस्यावयवान्तरलग्नस्योपलम्भस्, तथा सामान्यमपि भिन्नमस्त्यनुगताकारस्य बुद्धिभेदेनाध्यवसीयमानत्वात् । द्.७ यदप्यन्यदुक्तं नित्यस्य क्रमेतराभ्यामर्थक्रियाकरणसामर्थ्यं नास्तीत्यसत्सामान्यं, तदेतदयुक्तम् । उभयथाप्यर्थक्रियासम्पादनमुपपद्यते युगपत्क्रमेण च । ननु क्रमकर्तृत्वमभिन्नस्य नोपपद्यते, कार्यस्यैककालीनता प्राप्नोति । एतच्चासमीचीनम् । यथा भवतां पक्षैकं नीलस्वलक्षणमनेकाकारकार्यं नियतदेशसम्बन्धि जनयति नयनालोकमनस्कारादिरूपं, न च कार्याणामेकाकारतैकदेशसम्बन्धिता वा विद्यतैकस्वभावसमुद्भवत्वेऽपि, तथेहाप्येवम्भूतम् । तत्सामान्यं यत्क्रमेतराभ्यां कार्योत्पादात्मकम् । ननु यदि क्रमेण कार्यं करोति, तदा तदेव जनकं तदेव चाजनकम् । सत्यं, तदेव जनकं तद् एव चाजनकम् । ननु जनकाजनकयोर्भेदप्रसङ्गः । न प्रसङ्गोऽस्ति । यथा त्वदीये पक्षैकं नीलस्वलक्षणं स्वकार्यापेक्षया जनकं, स्वकारणात्मापेक्षया त्वजनकं, न तस्य स्वरूपभेदोऽस्ति । अथ स्वकारणमात्मानं च जनयति, तदयुक्तम् । तदात्मानं कुर्वदुत्पन्नं वा कुर्यादनुत्पन्नं वा । तद्यद्युत्पन्नं करोति, तदयुक्तं, कृतस्य करणायोगात् । अथानुत्पन्नं करोत्यसतः कः कारकार्थः? तथा स्वकारणमपि न जनयतीतरेतराश्रयत्वदोषप्रसङ्गात् । अतस्तदेव कारकं तदेव चाकारकमिति तथा सामान्यमपि जनकमजनकं च । न चार्थक्रियाकर्तृत्वाभावेऽसत्त्वं सिध्यति । यथा वह्नेरयोगोलकाङ्गारावस्थायां धूमोत्पादकत्वाभावेऽपि न निवर्तते वह्निरूपता, स्वहेतोरेव तथाभूतस्योत्पत्तेर्वह्निस्वभावस्य धूमाजनकात्मकस्य च, तथान्यदपि कार्यं स्वहेतुनोत्पादितं यद्वस्तुस्वभावं कार्याजनकात्मकं च । तथा सामान्यमपि वस्तुभूतं न च कार्यमुत्पादयति । ननु यदि कार्यं नोत्पादयति, तदस्तीति कथं वेत्सि? तदुपलब्ध्या । ननु तदनुत्पाद्या कथं तद्गृहीतिर्भवति? स्वहेतुसामर्थ्यनियमितायास्तद्गृहीत्यात्मतयोत्पत्तेः । न च तदुत्पाद्यत्वेन तद्गृहीतित्वं, चक्षुरादेरपि संवेद्यत्वप्रसङ्गात् । न च विषयाकारयोगित्वेन तद्गृहीतित्वं विज्ञानात्मताव्यतिरेकेण विषयाकारसमावेशायोगात् । योऽसावाकारो विषयार्पितः, स किं ज्ञानाकाराद्भिन्नोऽभिन्नो वा? यदि भिन्नः, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकस्, तद्गतिः कथम्? किं स्वसंवेद्यत्वेनाहो जनकत्वाकारार्पकत्वेन? तद्यदि स्वसंवेद्यत्वेन, तदयुक्तम्, अविज्ञानात्मतया स्वसंवेद्यत्वायोगात् । अथ जनकत्वाकारार्पकत्वेन, तदा प्राप्ताकारपरम्परा । अथातात्त्विकस्, तद्गतिर्नोपपद्यते स्वसंवेद्यत्वजनकत्वव्यतिरेकात् । अथाव्यतिरिक्तः, स तात्त्विकोऽतात्त्विको वा । यदि तात्त्विकः, स जडात्मा तद्विपरीतो वा । यदि जडात्मा, न तर्हि चिता सह तादात्म्यम् । चिदचितोस्तादात्म्यानुपपत्तिः । अथ तद्विपरीतस्, तदा ज्ञानमात्रता स्यात् । ज्ञानरूपता च सर्वज्ञानसाधारणा प्रतिकर्मव्यवस्थानुपपत्तिः । अथातात्त्विकस्, तदा ज्ञानस्याप्यतात्त्विकत्वं प्राप्नोति । यदि च विज्ञानतादात्म्येनाकारोत्पत्तिर्भवति, विज्ञानं सर्वकारकनिष्पाद्यत्वेन साधारणं प्रतिकर्मव्यवस्थानुपपत्तिः । एवं च सति यदुक्तम् अर्थेन घटयत्येनं न हि मुक्त्वार्थरूपताम्। तस्मादर्थाधिगतेः प्रमाणं मेयरूपता॥ तन्मुग्धविलसितं सौगतानाम् । द्.८ तदेवं वृत्तिविकल्पादिदूषणं सामान्यादौ न सम्भवति यथैकं रूपमनेककार्योत्पादकत्वेन साधारणं, तथैकं सामान्यमनेकाधारसाधारणम् । अथैकं रूपं नानेकं कार्यं जनयत्य्, अपि त्वेकमेव, तत्रापि किं रूपमेव केवलमुत्पादयत्युत ज्ञानमेव? तद्यदि रूपमेव केवलमुत्पादयति, तदा रूपस्याग्रहणं प्राप्नोति विज्ञानाजननात् । अथ ज्ञानमेव केवलमुत्पादयति, तथापि मानसं प्रत्यक्षं न प्राप्नोति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन यज्जन्यते, तन्मानसं प्रत्यक्षम् । न च स्वविषयानन्तरभावी विषयोऽस्ति रूपान्तराजननात्६टस्मादेकमेव रूपं विज्ञाननीलादिकार्यसाधारणं प्रतिपत्तव्यम् । चक्षूरूपालोकादीनि कारणानि विज्ञानमुत्पादयन्ति, तानि किमेकस्वभावयुक्तान्याहो नियतस्वभावयुक्तानि? तद्यद्येकस्वभावतयोत्पादयन्ति, तदा कारकैकत्वं प्राप्नोत्यभिन्नस्वभावयोगित्वात् । अथ नियतस्वभावयुक्तानि ज्ञानरूपं कार्यं जनयन्ति, तदा विज्ञानस्याभेदरूपता निवर्तते नियतस्वभावकारकजन्यत्वाद्रूपशब्दादिवत् । अथ विविधादपि कारणादखण्डितरूपं कार्यं भवति । एवं च कार्यभेदाद्भिन्नकारणानुमानं निवर्तते । एकस्वभावादपि विज्ञानादनेकं नयनालोकादिकार्यमुत्पद्यते । अनेकस्मादप्येकं भवति । एवं च सति नियतकार्यदर्शने नियतकारणानुमानं निवर्तते । अथैकस्मादेव कारणादेकं कार्यं भवति न बहूनां सङ्कलितानामेकफलोत्पादकत्वम् । ततश्च नियतकार्यदर्शने नियतकारणानुमानं केन निवार्यते? तदेतदसमीचीनम् । यद्येकं कारणमेकं कार्यं जनयति तदाभ्युपगमविरोधश् चतुर्भ्यश्चित्तचैत्ता भवन्ति बोधाद्बोधरूपता विषयाद्विषयाकारतेत्यादि । एकमेव जनयति, किं समानजातीयत्वेनाहो तदाकारत्वेन किं वा पूर्वापरकालभावित्वेन? तद्यदि समानजातीयत्वेन जनकत्वं, तदा समानजातीयं पश्चादुत्पन्नमपि जनयेत् । अथ तदाकारानुकारित्वेन जनकं, तत्राप्येतदेव दूषणम् । अथ पूर्वापरकालभावित्वेन जनकं, न तर्हीदं वक्तव्यमेकमेव जनकं चक्षूरूपालोकमनस्काराणां पूर्वकालभावित्वाविशेषात् । एवं चानेकोपादानोत्पाद्यत्वेनाकारकदम्बकस्वरूपं विज्ञानं प्रसक्तम् । रूपाद्याकारपरिहारे वा विज्ञानाकारस्याप्यनुपपत्तिः । तदनुपपत्तौ नैरात्म्यप्रसङ्गः । किं च ज्ञानं कार्यैकस्वभावं कारणैकस्वभावमुभयस्वभावं वा । तद्यदि कारणैकस्वभावं, तदा कार्यरूपता न सम्भवति । तदभावे न वस्तुत्वं संस्कृतानां वस्तुत्वाभ्युपगमात् । नापि कारणरूपतोपपद्यतेऽनाधीयमानातिशयत्वेन जनकत्वायोगात् । अथकार्यैकस्वभावं, तथापि न सदात्मकमर्थक्रियाकरणे वस्तुत्वविरहात् । अथोभयात्मकम् । एकमनेकात्मकं भवति । केन त्वं विप्रलम्भितः? न ह्येकस्यानेकनामकरणे नानातोपपद्यते । न चानेकनामकरणमुपपद्यते निमित्तस्याविचित्रत्वात् । एवं विज्ञानस्यासम्भवे सति सन्तानानुपपत्तिरभ्रान्तभ्रान्तद्वैतस्यानुपपत्तिश्च । ए.१ इतोऽपि सन्तानस्यासिद्धिर् विज्ञानस्यैकत्वात् । तदेकत्वं चाकारान्तरस्यानुपपत्तेः । उपपत्तौ वा ज्ञानाकारविरहप्रसङ्गः । तत्प्रसक्तौ च सन्तानानुपपत्तिः । ए.२ इतोऽपि विज्ञानसन्तानानुपपत्तिर् विज्ञानमसद्धर्मात्सदात्मतया निवर्तते, स्वरूपान्तरात्तु कथं व्यावर्तते? किं सदात्मतयाहाकारान्तरेण? तद्यदि सदात्मतया व्यावर्तते, तदा रूपादेरसदाकारता प्राप्नोति वाजिविषाणयोरिव । अथाकारान्तरेण निवर्तते, तदा ज्ञानस्यासत्स्वभावता प्राप्नोति तुरगविषाणवदित्यथ विज्ञानाकारतया निवर्तते रूपादिभ्यो विज्ञानं, सा विज्ञानाकारता सत्स्वभावासत्स्वभावा वा तद्यदि सत्स्वभावा, तदा ज्ञानाकारतया निवर्ततेति किमुक्तं भवति? सदात्मतया निवर्तते विज्ञानसदाकारयोरव्यतिरेकात् । ततश्च रूपादेरसदाकारता प्राप्नोति तुरगविषाणवदिति पूर्वोदितमेव दूषणमापद्यते । अथासत्स्वभावा, तदा खरविषाणवद्विज्ञानरूपतां परित्यजति । त्यागे विज्ञानसन्तानानुपपत्तिः । तदनुपपत्तौ चैत्यवन्दनादिक्रियानर्थक्यम् । ए.३ इतोऽपि विज्ञानसन्तानानुपपत्तिस् तदुत्पादकविज्ञानस्य पूर्वापरसहोत्पन्नविज्ञानं प्रति स्वरूपाविशेषात् । यदेव पूर्वसहोत्पन्नविज्ञानापेक्षया स्वरूपं तदेवापरविज्ञानापेक्षयापि स्वरूपं विज्ञानस्य निरवयवत्वेन । ततश्च यथा पूर्वसहोत्पन्नविज्ञानस्य हेतुर्न भवत्य्, एवमपरविज्ञानस्यापि हेतुर्न भवति तत्स्वरूपव्यतिरिक्तव्यापारातिशयस्यानुपलब्धेः । अथ पूर्वकालभावैवातिशयस्तेन तस्य हेतुत्वमुपपाद्यते । यद्येवं यथा देवदत्तज्ञानपूर्वकालभावि देवदत्तज्ञानं देवदत्तज्ञानकारणं, तथा सर्वपुरुषज्ञानानां देवदत्तज्ञानपूर्वकालोत्पन्नानां देवदत्तज्ञानं प्रति हेतुत्वं प्रसक्तम् । तत्प्रसक्तावनेकद्वीपदेशान्तरितपुरुषानुभूतार्थानुस्मरणं स्यात् । तथा स्वजनभुजङ्गमादावननुभूतेऽप्यर्थेऽनुस्मरणं स्यात् । तथा तथागतावदातज्ञानजन्यत्वे देवदत्तादिज्ञानानामवदातता स्यात् । ततश्च सर्वे सर्वज्ञाः स्युः । अथ नैवावदातता देवदत्तादिज्ञानानां तथागतावदातज्ञानोपादानजन्यत्वेऽपि देवदत्तादिज्ञानेनापि जनितत्वात्, तज्जन्यत्वेनैवतथागतज्ञानस्याप्यवदातरूपता न प्राप्नोति । ततश्चासावप्यवीतरागः स्यादसर्वज्ञश्च । ए.४ इतश्च सन्तानानुपपत्तिर्विज्ञानयोः सहोत्पादे हेतुफलभावानुपपत्तेः । यदैव कारणज्ञानं विनश्यति, तदैव कार्यज्ञानं जायतेति वः सिद्धान्तः । कारणज्ञानस्य च विनाशस्तदुत्पादैव । ततश्च कारणज्ञानविनाशकाले कार्यज्ञानं भवति किमुक्तं भवति? कारणज्ञानोत्पादकालैव भवति । ततश्च सहोत्पन्नयोर्हेतुफलभावानुपपत्तिरेककालोद्गतयोर्गोविषाणयोरिव । कारणज्ञानस्य चानुत्पन्नस्योत्पत्तिवदनुत्पन्नस्य विनाशप्रसङ्गः । ततश्च क्षणमपि नोपलभ्येत । उपलब्धौ वा सततोपलम्भप्रसङ्गस्तदात्मभूतविनाशस्योपलम्भविघाताकर्तृत्वात् । विघातकर्तृत्वे वैकक्षणोपलम्भस्याप्यनुपपत्तिप्रसङ्गः । अथैकक्षणोपलभ्यस्वभावकं सञ्जातं तेन न सततोपलब्धिरनुपलब्धिर्वा । यद्येवं द्वादशाष्टक्षणोपलभ्यस्वभावकं सञ्जातं किं न कल्प्यते? किं चोत्पादविनाशयोरभेदे सति कार्यकारणयोः समं विनाशः स्यात् । ए.५ यदप्यन्यदुक्तं मातुरुदरनिष्क्रमणानन्तरं यदाद्यं ज्ञानं तज्ज्ञानान्तरपूर्वकं ज्ञानत्वाद्द्वितीयज्ञानवत् । नासिद्धत्वाद्दृष्टान्तस्य । द्वितीयादिज्ञानस्यापि यथा ज्ञानपूर्वकत्वं नावगाहयितुं पार्यते, तथा प्रागेवावेदितम् । किं च यदि ज्ञानत्वाज्ज्ञानपूर्वकत्वानुमानं, न किलावबोधात्मककारणमन्तरेण बोधात्मकं कार्यमुपपद्यते । एतच्चावद्यम् । अबोधात्मकादपि नीलालोकलोचनादिकारणादुपजायते । तथा गर्भादौ यदाद्यं विज्ञानं, तद्भूतसङ्घातादेव भविष्यति, न ज्ञानान्तरं परिकल्पनीयम् । यस्यानन्तरं यद्भवति, तत्तस्य कारणं, नापरिदृष्टसामर्थ्यम् । विज्ञानाभावे विज्ञानजन्याकारता निवृत्ता, न तु ज्ञानाकारता । यथेन्द्रियव्यापारमन्तरेणोपजायमाने मनोविज्ञानेन्द्रियजन्याकारता निवर्तते, न तु ज्ञानाकारता । यदि च सदृशात्सदृशस्योत्पत्तिर्नियम्यते, तदा धूमेन दहनानुमानं न प्राप्नोति, दहनस्य धूमसारूप्यमन्तरेणोपादानकारणत्वायोगात् । अथ रूपरूपता सारूप्यमुभयोरिति चेत्, तदिहापि स्वलक्षणरूपता सारूप्यं भूतविज्ञानयोर्, अलं परलोकविज्ञानकल्पनया । अथ विज्ञानरूपता भूतानां न विद्यते तेन तेषामुपादानकारणत्वं नास्ति विज्ञानं प्रतीति चेद्, इहापि धूमरूपता नास्ति दहनस्य, नोपादानकारणत्वम् । तदभावे न दहनानुमानम् । तथानुभवज्ञानादनुभवज्ञानस्यैव निष्पत्तिरभ्युपेयोपादानकारणानुकारित्वेन कार्यस्य निष्पत्त्यभ्युपगमात् । न चैकदेशानुकारित्वमस्ति तद्बीजस्याविचित्रत्वात् । अनुभवाकाराननुकार्.इत्वे च ज्ञानाकारताविरहः स्यात् । अनुकरोति च विज्ञानरूपतां तेन कथं नानुभवात्मकम्? तदुपपत्तौ च प्राप्तानुभवपरम्परेत्य् अलः स्मरणानुपपत्तिः । तदनुपपत्तौ चानुमानज्ञानस्याप्यनुपपत्तिः । ततश्च सर्वव्यवहारविलोपप्रसङ्गः । (४.) एवं च न सन्तानसिद्धिर्, नापि सविकल्पकनिर्विकल्पकज्ञानद्वैराश्यमस्ति, नापि व्यभिचाराव्यभिचारद्वैविध्यमुपपद्यते सौगते मते । [अध्याय ५: एxअमिनतिओनोf मीमांसासूत्र १.१.४] ५. तथा सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं तदपि प्रत्युक्तम् । कथम्? एतत्सूत्रं कदाचिल्लक्षणपरं कदाचिच्च कारकसङ्ख्याप्रतिपादनपरं कदाचिच्चानुवादपरम् । ५.१(१) तद्यदि लक्षणपरं, तदावबोधस्याव्यभिचारित्वं नावगन्तुं पार्यते नादुष्टकारणजन्यत्वेन नापि प्रवृत्तिसामर्थ्येन नापि बाधारहितत्वेन नान्यथा वा । सर्वं पूर्वोदितमनुस्मृत्य वक्तव्यम् । ५.१२ नापीन्द्रियार्थसम्प्रयोगजत्वं विज्ञानस्यावबोधस्य चार्वाग्भागविदावगम्यते तदतीन्द्रियत्वेन तदायत्ततानढिगतेः । नापीन्द्रियजन्यत्वमवगन्तुं पार्यतेन्द्रियाणामतीन्द्रियत्वादेव । अथावबोधान्यथानुपपत्त्या सन्निकर्षपरिकल्पना क्रियते । अवबोधस्यान्यथानुपपत्तिर्न भवति । कानुमा? ५.२ अथ कारकसङ्ख्यार्थं, किं तेन परिसङ्ख्यानेन प्रयोजनम्? आलोकादीनामपि कारकत्वात्तान्यपि परिसङ्ख्येयानि भवन्ति । ५.३ अथानुवादपरता, प्रसिद्धस्यानुवादो नाप्रसिद्धस्य । न चाध्यक्षं क्वचिद्विदितम् । ननु लके विदितम् । न विदितमिति ब्रूमोऽव्यभिचारितयानवगतेः । नापि सत्सम्प्रयोगजत्वं विदितम् । ततश्च प्रत्यक्षानधिगतिः । तदनवगतौ चानुवादानुपपत्तिः । ५.३ तोऽप्यनुवादानुपपत्तिः प्रयोजनाभावात् । न हि प्रयोजनं विनानुवादः प्रवर्तत,ऽनूद्य क्वचित्किञ्चिद्विधीयते प्रतिषिध्यते वा । नन्वत्रापि धर्मं प्रति निमित्तत्वं प्रतिषिध्यते । तदुक्तं धर्मं प्रत्यनिमित्तं प्रत्यक्षं विद्यमानोपलम्भनत्वात्सम्प्रयोगजत्वाच्च । तत्र किमन्यपदार्थावभासोत्पन्नं प्रत्यक्षं धर्मं प्रति निमित्तत्वेन प्रतिषिध्यते किं वा धर्मावभासोत्पन्नमनुत्पन्नं वा? तद्यद्यन्यपदार्थावभासोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदाविप्रतिपत्त्या सम्बोधयितव्या जडमतयः । अथ धर्मावबोधकोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदा विरोधेन प्रत्यवस्थेयो भवति । धर्मावबोधकोत्पन्नं प्रत्यक्षं न च धर्मनिमित्तमिति व्याहतमपदिश्यते । अन्यथा चदनावचनजनितविज्ञानस्यापि धर्मावबोधकत्वेनत्पन्नस्यातन्निमित्तत्वं स्यात् । अथानुत्पन्नस्य धर्मावबोधकत्वं नास्ति, केनात्र प्रतिपद्यते यन्नोत्पन्नं तद्धर्मावबोधकम् ? नापि कमलदलावबोधकं स्वयमसत्त्वात् । यदप्युक्तं सत्सम्प्रयोगजत्वादिति, तदप्ययुक्तम् । सत्सम्प्रयोगजत्वं यथा न भवति तथा प्रागेवोक्तम् । ५.३ यदप्यन्यदुक्तं विद्यमानोपलम्भनत्वात्किल प्रत्यक्षं विज्ञानं विद्यमानमवबोधयति । यद्येवं न केवलं प्रत्यक्षम्, अपि तु सर्वप्रमाणोत्पादितं विज्ञानं विद्यमानावबोधकम् । अथ चदनाजनितं विज्ञानमविद्यमानकर्तव्यार्थावबोधकम् । यद्यविद्यमानं, कथमवबोध्यते? अथावबोध्यते, कथमविद्यमानता? अवबोध्यमानत्वेनैव विद्यमानता प्रत्यक्षप्रमाणावबोधितार्थवदिति नाप्यवबोधनमवबोध्यमन्तरेणोपजायते प्रत्यक्षावबोधनवत् । अपि च चोदनावचनजनितविज्ञानस्य मिथ्यात्वमुपपद्यतेऽविद्यमानविषयत्वात्केशोण्डुकज्ञानवत् । केशोण्डुकविज्ञानस्यापि प्रतीयमानोपकारकार्थाभावे मिथ्यात्वम् । तदिहापि प्रतीयमानोपकारकार्थो नास्त्येव, कथं न मिथ्यात्वम्? तदन्वये वा कर्तव्यार्थविषयत्वं प्रतिहीयेत चोदनावचसः । किं च चोदनाजनितं विज्ञानं कर्तव्यतार्थविषयं वा तदभावविषयं निर्विषयं वा । तद्यदि कर्तव्यतार्थविषयं, तदा तस्य वर्तमानतैव प्रतीत्युत्कलितत्वाद्विद्यमानतोयादिवत् । तोयादेरप्रतीयमानत्वं स्वसत्ताधूमादग्नौ सति जनकत्वादिना निमित्तेन । एतच्चेद्विद्यते, कथमविद्यमानता? अथ तदभावविषयं, तस्यापि स्वेन रूपेण विद्यमानत्वान्न कर्तव्यता । अथ निर्विषयं, न तर्हि चोदना कर्तव्यावबोधिका, अपि तु निर्विषयेत्येवं वक्तव्यम् । एवं स्थिते यथा प्रत्यक्षं विद्यमानोपलम्भकं तथान्यान्यपि प्रमाणानि । ५.अ बुद्धिजन्म प्रत्यक्षं, न च बुद्ध्यवगमे प्रमाणमस्ति । प्रत्यक्षावसेया सा न भवति स्वयमनभ्युपगमात् । अनुमानगम्यापि न भवति तया प्रतिबद्धलिङ्गानवगतेः । अथार्थापत्त्या प्रतीयते, किं घटार्थान्यथानुपपत्त्याहो तदुपादानपरित्यागान्यथानुपपत्त्या घटावबोधान्यथानुपपत्त्या वा? तद्यदि घटार्थान्यथानुपपत्त्या, तदयुक्तम् । न बुद्धिकार्यो घटो,ऽपि तु बुद्धिरिह तत्कार्या । अथ घटोपादानपरित्यागान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तदयुक्तं, बुद्धिस्वरूपस्यानेककालान्तरावस्थानायोगादर्थापत्तेर्निर्विषयत्वम् । केनापि बलवता प्रेरितो बुद्धिमन्तरेण वा तदुपप्लवाद्वा घटोपादानपरित्यागाय घटते तेन सन्दिग्धार्थापत्तिः । न च सम्बन्धग्रहणमन्तरेण नियतायां बुद्धौ प्रतिपत्तिरुपपद्यते । अर्थापत्तितस्तु तदनुपपत्ताविन्द्रियकल्पनापि दुर्घटा । अथावबोधान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तस्यापि बुद्ध्या सह सम्बन्धो नास्ति, कथमवबोधयति? अवबोधे चावगते प्रत्यक्षावगतैव बुद्धिर्नावबोधगम्या । अवबोधबुद्धिविज्ञानशब्दानां पर्यायत्वादवबुध्यते ज्ञायतेत्येकोऽर्थः । ६. तथा श्रोत्रादिवृत्तिरविकल्पिका, एतदपि प्रत्युक्तम् । ६.१ श्रोत्रादिकरणानां शब्दादिविषयाकारतया विपरिणामो वृत्तिशब्देनाभिधीयते । सा चानेकप्रकारा भवति सम्यग्ज्ञानरूपा विपर्ययज्ञानसन्देहरूपा च । तदुक्तं तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्रेत्यादि । ६.११ तद्यदि श्रोत्रादिवृत्तेः प्रत्यक्षत्वं, तदा विपर्ययादिवृत्तेरपि प्रत्यक्षत्वं प्राप्नोति । अथाबाधितपदोपादानं क्रियते । तत्सूत्रे न श्रूयते । भवतु वा तस्य कल्पना, तथाप्यव्यभिचारित्वं ज्ञातुं न शक्यते । तच्च नैयायिकप्रत्यक्षलक्षणाधिकारे प्रपञ्चितम् । यदि चाव्यभिचारिपदेन विपर्ययरूपा वृत्तिरपोद्यते, तत्तदात्मतया व्यवस्थिता सम्यग्रूपापि वृत्तिरपोदिता भवति । ततश्च सङ्ग्राह्या न लभ्यते वृत्तिः । अथ सम्यग्रूपा वृत्तिरिह सङ्ग्राह्या, तदापोह्या नलभ्यते वृत्तीनां स्वरूपैकताभ्युपगमात् । भेदाभ्युपगमे वाभ्युपेतहानम् । न हि भवतां पक्षेन्द्रियाद्भिद्यन्ते वृत्तयस्, तच्चेदभिन्नं, कथं वृत्तीनां भेदः? भेदाभ्युपगमेन्द्रियैकत्वं हीयते । इन्द्रियाव्यतिरेकित्वं वा न वक्तव्यम् । ६.१ न्द्रियाव्यतिरेकित्वेऽभ्युपगम्यमाने नीललोहितघटादीनां सर्वदोपलम्भः स्याद्, इन्द्रियावस्थाने तदव्यतिरिक्ताया वृत्तेरवस्थानसम्भवात् । तत्सम्भवे च घटाद्यनुपलम्भानुपपत्तिः । अथ वृत्तिसद्भावेऽप्यनुपलब्धिर्, न कदाचिदुपलब्धिः स्यात् । न हि भवतां पक्षे किञ्चिदपूर्वं जायते पूर्वं वा निरुध्यते । ततश्च सर्वस्यास्तित्वोपलब्ध्यनुपलब्धी किङ्कृते? सदोपलब्धिरनुपलब्धिर्वा । न ह्येवंवादिनो द्वितीया गतिरस्ति । ६.१ किं च शब्दादयोपलभ्यन्ते किमनुपलभ्यस्वभावोपलभ्यन्ताहोस्विदुपलभ्यस्वभावाह्? तद्यद्यनुपलभ्यस्वभावोपलभ्यन्ते, तदोपलब्धिः कथम्? यद्यनुपलभ्यस्वभावाः, कथमुपतभ्येरन्? अन्यथात्मादेरप्युपलब्धिः स्यात् । अथोपलभ्यस्वभावोपलभ्यन्ते,ऽनुपलब्धिः कथम्? किं तेनैवाकारेणाहोस्विदाकारान्तरेण? यदि तेनैवाकारेणानुपलब्धिर्, आत्मादेरप्यनुपलब्धिर्न प्राप्नोति । उपलब्धौ वा बीजान्तरं वचनीयम् । अथाकारान्तरेण नोपलभ्यन्ते, तथाप्युपलभ्यमानानुपलभ्यमानयोर्नैकत्वं शब्दात्माकारयोरिव । न ह्युपलभ्यस्वभावाच्छब्दादनुपतभ्यस्वभावात्माव्यतिरिक्तो दृष्तः । अथ तस्यैवाभिव्यक्तस्योपलब्धिः । तत्स्वरूपवदभिव्यक्तेः सर्वदावस्थानात्सततोपलब्धिप्रसङ्गः । अथ तिरोधाने सत्यनुपलब्धिस्, तदातत्स्वरूपतादात्म्यात्सततानुपतम्भप्रसङ्गः । उभयोर्वावस्थाने सममुपलम्भानुपलम्भौ स्याताम् । ततश्चेदानीमुपतभे पूर्वं नोपलभ३ इति व्यवहारविरहः स्यात् । तथा पूर्वमुपलभेदानीं नोपलभेत्येतदपि न प्राप्नोति । अथावयवोपचये सत्युपलम्भः । तस्य सर्वदा भावात्सर्वदोपलम्भप्रसङ्गः । अथस्वलक्षणपुष्टौ सत्यामुपलम्भः । तस्याः सर्वदा सत्त्वात्सततोपलम्भप्रसङ्गः । अथ संस्थानोत्कर्षे सत्युपलम्भः । तस्यापि सर्वदा विद्यमानत्वात्सततोपलब्धिः स्यात् । तस्माद्येन येन निमित्तेनोपलम्भपरिकल्पना, तस्य तस्य सर्वदा भावात्सततोपलम्भप्रसङ्गः । अथ देशकालकारकापबन्धादनुपलम्भस्, तदा तस्यापबन्धस्य सर्वदा भावादनुपलम्भानुपरमः स्यात् । ६.२ तथेन्द्रियाणामपि करणरूपता नोपलभ्यते फलवैकल्यात् । नन्वस्ति विज्ञानं फलम् । न तस्य सर्वदा विद्यमानत्वात् । सर्वदा विद्यमानयोर्हेतुफलभावो नोपपद्यते, यथा गुणानां परस्परमात्मभेदानां वा । न ह्यात्मात्मान्तरस्य हेतुर्भवति तत्फलं वा, तथेहाप्यनाद्यन्ता सत्ता न फलं हेतुर्वोच्यते । f . किं च भूजलाद्यनेकं कार्यं, तत्किं गुणत्रयाद्व्यतिरिक्तमव्यतिरिक्तं वा? तद्यदि व्यतिरिक्तं, तत्किं तात्त्विकमतात्त्विकं वा? तद्यदि तात्त्विकं, न तर्हि गुणत्रयोपादानपूर्वकं, ततो भिन्नत्वादात्मस्वरूपवत् । न च गुणत्रयेण सहान्यतमोऽपि सम्बन्धोपपद्यते तद्भिन्नकार्यस्य । न मात्रामात्रिकसम्बन्धो नापि सहचरसहचरितभावो नापि निमित्तनैमित्तिकभावोपकार्योपकारकभावो वा । अथातात्त्विकं, कथं तेन गुणत्रयं प्रतीयते गुणत्रयेण सह सम्बन्धानुपपत्तेः? न च सदसतोः सम्बन्धोपपद्यतात्मखरविषाणयोरिव । तदभावान्नानुमानाद्गुणत्रयप्रतिपत्तिः । नापि प्रत्यक्षेण गुणावधारणं स्वयमनभ्युपगमात् । तदुक्तं गुणानां परमं रूपं न दृष्टिपथमृच्छति। यत्तु दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम्॥ तदनवगमे च न भोग्येन भोक्तुरनुमानम् । ततश्च नात्मा न गुणत्रयम् । अथाव्यतिरिक्तं, तत्किं तात्त्विकमतात्त्विकं वा? यदि तात्त्विकं, तदा कार्याणामपरिसङ्ख्येयत्वे गुणानामप्यपरिसङ्ख्येयता । ततश्च त्रयो गुणेति न वक्तव्यम् । अथ गुणानां त्रित्वं, तदा कार्यस्यापि त्रित्वं प्राप्नोत्य्, आनन्त्यं हीयते । तथा कार्यस्य प्रत्यक्षत्वे गुणानामपि प्रत्यक्षत्वम् । किंविषयं प्रधानानुमानम्? गुण[fइनल्पगे मिस्सिन्ग्] अद्दितिओनल्मतेरिअल्fरों गोस्८७, बरोद १९४० एदितिओनोf सन्घवि । परिखन्दे. fरन्चोऽस्नोतेस्: एxअमिनतिओनोf आत्मानुमान [प्प्ल्{७४}{१०}] [८.१ नैयायिकादिसंमतस्यात्मानुमानस्य निरासः] तथात्मानुमानं सुखद्वेषज्ञानादिना न संभवति, तेन सह सम्बन्धानवगमात्, तदनवगतौ चानुमानानर्थक्यम् । किं चात्र साध्यते ? किं ज्ञानसुखादीनामाश्रितत्वम्, आहोस्विदाश्रयाश्रितं वाळ्ज्ञानस्वरूपम् ? अथाश्रितत्वं साध्यते । तदात्माळ्नैवावबोधितः ततोऽन्यत्वादाश्रितत्वस्य । अथात्माळ्साध्यते । तदेवं भवति अस्त्यात्माळ्विज्ञानात्, न च व्यधिकरणस्य गमकत्वं विद्यते । अथाश्रितं ज्ञानस्वरूपं साध्यते । तच्च प्रत्यक्षेणावगतम् । अन्योऽनुमानस्य विषयो वक्तव्यः । कथं ज्ञानसुखाद्यात्मसम्बन्धित्वेन व्यपदिश्यते किं सत्तामात्रेणाहो तज्जन्यतया तज्जनकत्वन वा तत्समवायित्वेन वा तत्स्वरूपतादात्म्याद्वा ? तद्यदि सत्तामात्रेण सुखं विज्ञानं वात्मनोऽपदिश्यते तदात्मवत्सर्वे भावाश्चेतनाः स्युर्विज्ञानसत्ताविशेषात् । तथा सर्वे सुखिनो भवेयुरानन्दसत्ताविशेषात् । अथ तज्जन्यतयाळ्विज्ञानमात्मनोऽपदिश्यते ; तदा नयनालोकपटाश्चेतनाः स्युस्तैर्जन्यमानाविशेषात् । अथ तज्जनकत्वेन तस्येति चेत्, तदयुक्तं न विज्ञानेनात्मोत्पाद्यते भवतां पक्षे, उत्पादेन वा स्मरणानुपपत्तिः । [प्.७५] अथात्मसमवायित्वेन विज्ञानमात्मनोऽपदिश्यते न तदभावात् । भवतु वा समवायो ह्यखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः । ततः सर्वे चेतनाः स्युः । अथ विज्ञानोपलक्षितस्य नान्यत्र संभवोऽस्ति तदयुक्तं तदुपलक्षितस्यान्यत्र संभवात्तत्संभवश्च तस्यैकत्वात् । असंभवे वा समवायानेकत्वप्रसङ्गः असमवायित्वं वान्येषाम् । तथा विज्ञानसमवायात्मनः समवायः किं सत्तामात्रेणाहोस्विदात्मजनकत्वेन तज्जन्यत्वेन तत्समवायित्वेनात्मस्वरूपतादात्म्याद्वा ? तद्यदि सत्तामात्रेणात्मनः समवायोऽपदिश्यते ; तदा ज्ञानसमवायसत्ताविशेषात्सर्वेषां ज्ञानसमवायित्वप्रसङ्गः । अथ तज्जन्यत्वेन ; तदयुक्तं न ह्यात्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात् । अथ तज्जनकत्वेनात्मनः समवायः ; तदनुपपन्नमात्मनो नित्यत्वात् । अथात्मनि समवेतस्तेनात्मसमवायोऽभिधीयते । तदयुक्तम् । समवायान्तरानभ्युपगमात् । अथात्मतादात्म्येन वर्ततेत्यात्मसमवायः उच्यते । तदात्मा विद्यते नान्यः समवायोऽस्ति तत्स्वभावानुप्रवेशात् । एवं विज्ञानानन्दादीनां समवायसम्बन्धेन न नियतात्मव्यपदेशोपपद्यते । अथात्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकमात्मनोऽपदिश्यते तदा विकारी प्राप्नोत्यनया भङ्ग्यात्मा । ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः । इतोऽप्यात्मा सुखादिकार्याधिकरणोऽवगन्तुं न पार्यते । किं तेनात्मनानुपजातातिशयेन तापादि कार्यां क्रियताहोस्विदुपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशयेन, अव्यतिरिक्तोपजातातिशयेन वा? [प्.७६] तद्यद्यनुपजातातिशयेनोत्पाद्यते तापादि कार्यं, तदा सर्वदा कुर्याद्, अनुपजातबलस्य कार्यकारषाभ्युपगमान्, न तापादिविकलः स्यात्, समं सुखादि कार्यं प्रसज्यते । अथाव्यतिरिक्तोपजातातिशयेनोत्पाद्यते तापादि कार्यं, तदाव्यतिरिक्तोपजातातिशयेति किं भणितं भवति? आत्मोपजायते । ततश्च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते तापादि कार्यं, स तेनात्मना सह सम्बद्धो वा, न वा । यदि न सम्बद्धः, स तस्यातिशयः कथम्? अथ सम्बद्धः, किं जनकत्वेनाथ जन्यत्वेन तत्समवायित्वेन वा? तद्यदि जनकत्वेन सम्बद्धस्, तदात्मा तेनातिशयेनोत्पद्यतेति स्मरणानुपपत्तिः । अथ जन्यत्वेन, सोऽपि तेन कथम् उत्पाद्यते? किमनुपजातातिशयेन व्यतिरिक्तोपजातातिशयेन वेति प्राप्ता प्रश्नपरम्परा । अथ तत्समवायित्वेन, न, तस्य सर्वसाधारणत्वात्, तदभावाच्च । अथैककार्यजनकत्वेन सम्बद्धस्, तदेवेदं चिन्तयितुमारब्धं किमिदं जनकत्वं नामेति । किं च यदेवानुपजातेऽतिशयात्मनो रूपं तदेव जातेऽपि, तत्कथं कार्यं कुर्यात्? अथ पूर्वरूपस्यातदवस्थ्यं, सुस्थितं नित्यत्वम्! अथ तादवस्थ्यं, तथापि न करोति कार्यम् । एवं नैयायिकादिमतेनात्मनोपभोगस्मरणादिकं न जाघटीति । [रेfउततिओनोf थे मीमांस इन्fएरेन्चे ओf थे सेल्f] प्प्. ८२.७८३.७: तथा मीमांसकमतेनाप्यात्मानुमानं न प्रवर्तते प्रमाणान्तरानवधारितार्थविषयत्वाभ्युपगमात्प्रमाणानाम् । नियतविषयाणि हि प्रमाणानि प्रतिपद्यन्ते प्रत्यक्षावसेये नानुमानं प्रवर्तत, अनुमानावसेये च न प्रत्यक्षं प्रवर्तते । ततश्चेतरेतरव्यावृत्तिविशेषविषयाणि । तदयुक्तं (रेअद्: उक्तं) ’’विशेषेऽनुगमाभावः । " विशेषो नियतप्रमाणग्राह्योऽर्थः । तथाभूतेऽर्थेऽङ्गीक्रियमाणेऽनुमानस्यानुगमाभावः । अनुगमः सम्बन्धस्, तद्ग्रहणानुपपत्तिः । अर्थे (रेअद्: अथ) प्रत्यक्षाद्यवधारितेऽप्य्ऽर्थेऽनुमानं प्रवर्तते; नन्वेवं प्रत्यक्षानुमानसाधारणो ऽर्थः प्रसक्तः । साधारणता समानता । ’’सामान्ये सिद्धसाध्यता"प्रत्यक्षावगतत्वात् । अनधिगतार्थगन्तृविशेषणं चापार्थकम् । अथवा सामान्ये सिद्धे साधनमित्यन्योऽर्थः । सामान्ययोर्गम्यगमकभावोऽभ्युपगम्यते मीमांसकेन । न च तत् सामान्यं विद्यते । यथा च न विद्यते तथा प्रागेवोदितम् । ततश्च सिद्धस्य साधनं विद्यमानस्य साधनम् । न चाग्नित्वमस्ति । तदभावे कस्येदं ज्ञापकम्? अथवा सिद्धं साधनं सिद्धसाधनमित्यन्योऽर्थः । विद्यमानं साधनम् । न च धूमत्वसामान्यमस्ति । तच्च विद्यमानं (सुख्लल्: तत्त्व; रेअद्: तच्चाविद्यमानं) सामान्यं कथं सामान्यं (रेअद्: सामान्ये) साधनं भवितुमर्हति? अथवा सिद्धसाधनं ज्ञातमनुमानं साधनं भवति । न च धूमत्वं ज्ञातं स्वयमसत्त्वात्, अथवा ग्रहणोपायाभावात्, तस्यानुस्यूतं रूपम् । न च तदात्मन्यनुस्यूतम् । नाप्येकस्यां व्यक्ताव्, अपि तु बह्वीषु व्यक्तिषु । न च बह्व्यो व्यक्तयोपलभ्यन्ते । अपि त्वेकैव धूमव्यक्तिरुपलभते । न चैकस्यां व्यक्तावनुगतात्मतया सामान्यसंवित्तिरस्ति । न चाकारान्तरसामान्यम् (पेर्हप्स्: आकारान्तरं सामान्यस्य) ।