ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ शास्त्रमुखं नाम प्रथमं प्रकरणम् प्रकरणार्थप्रतिज्ञा स्वाध्यायविधिवाक्यार्थविचारे प्रयतामहे । प्रभाकरगुरोर्दृष्ट्या मीमांसारम्भसिद्धये ॥ १ ॥ भाट्टमतेन मीमांसाशास्त्रानारम्भपूर्वपक्षः अत्र केचिदाचक्षते न मीमांसाशास्त्रमारम्भणीयमिति । तद्धि वेदवाक्यार्थविचारोपायभूतन्यायनिबन्धनम् । न च वेदवाक्यार्थो विचार्योऽस्ति, यो विचारस्य विषयभूतः । नाप्यसौ विचार्य निर्णीतः प्रयोजनमवकल्पते, अपुरुषार्थत्वात् । पुरुषार्थत्वे हि तस्य चोदनैव प्रमाणं स्यात् । न चाविवक्षितार्था सा प्रमाणं भवितुमर्हति । ननु शब्दानामौत्पत्तिकत्वादर्थपरत्वस्य नाविवक्षितार्थता युक्ता । सत्यमेवम् । वेदेनैव त्वन्यपरतामवगमयताविवक्षितार्थताऽपद्यमाना न शक्या वारयितुम् । तथाहि स्वाध्यायोऽध्येतव्य इत्यत्र परप्रेरणात्मकविध्यवरुद्धाभावना तव्यप्रत्ययवाच्या प्रतीयते । सा च स्वभावतो भाव्यं करणमितिकर्तव्यताञ्चापेक्षते । तत्र१ न तावदध्ययनमेव समानपदोपात्तं भाव्यतया सम्बन्धमर्हति, अपुरुषार्थत्वात् । तस्मिन् हि भाव्यतया स्वीक्रियमाणे पुरुषप्रवृत्त्यनुपपत्तेः परप्रेरणात्मकविधिव्यापारभङ्गप्रसङ्गात् । नाप्येकवाक्यतया समभिव्याह्वियमाणस्य स्वाध्यायस्य भाव्यतया सम्बन्धोऽवकल्पते, विध्यानर्थक्यप्रसङ्गात् । अन्तरेणापि हि विधिं प्रतीयत एवाध्ययनेन स्वाध्यायोऽवाप्यत इति । न च व्रीहीनवहन्तीतिवन्नियमार्थो विधिरिति शक्यते वक्तुम्, अक्रत्वर्थत्वादध्ययनस्य । न खल्वध्ययनस्य हि क्रतावेव नियम्यन्ते, न तण्डुलादिस्वरूपे । अवधातेनैव सम्पादितैस्तण्डुलैः क्रतुफलसिद्धिरिति प्रमाणान्तरस्याविषयत्वात्तेनैव सिद्धिरिति न किञ्चिद्विरुद्धम् । स्वाध्यायस्वरूपग्रहणं त्वध्ययनेनैव सिध्यतीति नियम्यमानं मानान्तरविरुद्धम्, स्वयमनधीयानस्यापि परपुरुषाधीयमानस्वाध्यायग्रहणदर्शनात् । न चाध्ययनस्वीकृतेनैव स्वाध्यायेन क्रतुफलभावनासिद्धिरिति अक्रत्वर्थतया क्रतुसंस्पर्शाभावेन नियमानुपपत्तेरिति । एतेनैवार्थावबोधस्यापि भाव्यतया सम्बन्धो निरस्तो वेदितव्यः । तथा हि यद्यप्यधीतात्स्वाध्यायात्फलवत्कर्मावबोधो दृश्यत इति तस्यैव भाव्यतावसीयते, तथापि विनापि विधिनान्वयव्यतिरेकाभ्यामध्ययनस्यार्थावबोधसाधनत्वावमाद्विधिरनर्थक एव । न चाध्ययनेनैवार्थावबोधो भावयितव्य इति नियमविधेरर्थवत्ता, प्रकारान्तरेणापि तत्संभवान्नियमानुपपत्तेः । न चाध्ययनेनैवार्थमवबुध्यानुतिष्ठतां क्रतुफलभावनासिद्धिरिति नियमः संभवति, अक्रत्वर्थत्वादध्ययनस्य । २ अस्माद्विश्वजिन्न्यायेन स्वर्गे एव भाव्यतया कल्पयितव्ये प्राप्ते फलमात्रेयो३ निर्द्देशादित्यर्थवादिकमधुघृतकुल्यादितृप्तपित्रादिप्रसादलभ्यसव्रकामफपलावाप्तिरेव भाव्यतयावसीयते । नन्वाद्याध्ययने न किञ्चिदार्थवादिकं फलं श्रूयते, तत्रैषामर्थवादानामश्रवणात् । धारणजपयज्ञविध्यर्थवादा ह्येते । तदाहुर्वार्तिककारमिश्राः "४आद्ये त्वध्ययने नैव काचिदस्ति फलश्रुतिः । धारणे जपयज्ञे च या साप्येवं निवारिता" ॥ इति ॥ सत्यमेवम्, तथापि तेषामतिदेशतोऽपि लब्धेर्युक्तैव तदीयफलस्य भाव्यता । तथा हि५ ६ इङादियुक्तेषु वाक्येषु द्वे भावनेऽवगम्येते, शब्दभावनार्थभावना चेति । तत्र शब्दभावना परप्रेरणात्मिका । तस्याः पुरुषप्रवृत्तिर्भाव्यम्७ । तया च प्रेरणया सह यो लिङादीनां वाच्यवाचकभावः सम्बन्धः, स तत्र योग्यतया करणम् । तदाहुर्वार्तिककारमिश्राः "लिङादयो हि प्रेरणां कुर्वन्त्यभिदधति चेति" तन्त्रवा १. २. १.ट । प्रवर्त्यरुच्युत्पादनयोग्यतया चार्थवादिकी स्तुतिरितिकर्तव्यता । तदेवमध्ययनविधौ साक्षादश्रुतार्थवादके शब्दभावनायामितिकर्तव्यताभूतार्थवादाकाङ्क्षिण्यां जपयज्ञाध्ययनादतिदेशेनार्थवादाः स्वीक्रियन्ते । तदाहुर्वार्तिककारमिश्राः "अनुषङ्गानुमानाद्यैर्लभ्यन्तेऽन्येऽतिदेशतः" इति । ते चातिदिष्टा अर्थवादा अर्थभावनायां फलं समर्पयन्ति रात्रिसत्रवत् । एवमार्थवादिके फले भाव्यतयावसितेऽध्ययनं समानपदोपात्तं करणाकाङ्क्षापरिपूरकत्वेन संबध्यते । एवञ्च ८ अदैकस्मादपूर्वं तदेतरत्तदर्थमिति न्यायेन स्वाध्यायशब्दवाच्योऽक्षरराशिरप्यध्ययननिर्वृत्त्यर्थ एवावसीयते । एवञ्चान्यपरत्वादक्षराणां तेभ्योऽर्थप्रतिपत्तिरेवानुपपन्ना, व्युत्पत्तिविरहात् । वृद्धव्यवहारे ह्यनन्यपराण्येवाक्षराण्यर्थावबोधकतया व्युत्पन्नानि । व्युत्पत्त्यपेक्षश्च शब्दोऽर्थावबोधकः । यः पुनरन्यपरेभ्योऽप्यक्षरेभ्योऽर्थावगमः, स सामान्यतोदृष्टनिबन्धनानन्यपरत्वभ्रान्त्या भ्रान्तिरेवेति मन्तव्यम् । अप्रतीयमानश्चार्थो न विचारस्य विषयः, नापि प्रयोजनमिति विचारस्तावन्नारब्धव्यः, तदनारम्भे च तदपायभूतन्यायपरिज्ञानमप्यनुपयोगि । तदनुपयोगे च तन्निबन्धनं मीमांसाशात्रमनारम्भणीयमिति पूर्वः पक्षः ॥ भाट्टमतेन मीमांसारम्भसमर्थनम् राद्धान्तस्तु स्वाध्यायोऽध्येतव्य इति स्वाध्यायस्य ९ अर्मत्वावगमात्स एव भाव्यतयावसीयते । यद्यपि नित्यत्वान्निर्वर्त्त्यकर्मता नास्ति स्वाध्यायस्य, विकार्यकर्मता वा, अध्ययनेन तस्य विकारानुपपत्तेः, तथापि प्राप्यतया तस्य कर्मता नानुपपन्ना । अत एव प्राप्यकर्मोदाहरणं वृत्तिकारस्य वेदाध्ययनम् । यच्च कर्म, तदर्थैव क्रिया युक्ता । सोऽयं श्रौतो विनयोगः । न च स्वाध्यायस्य सक्तुवच्छेषित्वमनुपपन्नम्, फलवदर्थावबोधोपयोगित्वात् । यद्यपि चार्थावबोधोपयोगित्वमध्ययनात्प्राङ्नावगम्यते, तथापि पश्चाद्भाव्यपि भवत्येव प्रयोजनम् । भाविनापि चोपयोगेन शेषित्वं नानुपपन्नम्, अग्निवत् । उत्पन्नानां ह्यग्नीनां विनियोगावगमः, नावगतविनियोगानामुत्पत्तिः । आहवनीयादिशब्दानामलौकिकार्थतया प्राग्व्युत्पत्त्यवगमादर्थानवगतेः होमादिषु विनियोगासंभवात् । तथा चोक्तम् "भूतभाव्युपयोगं हि द्रव्यं संस्कारमर्हति । " [तन्त्रावा २. १. ४.] ननु चार्थावबोधोपयोगितया संस्कारविधिरनर्थक एवेत्युक्तमिति । नानर्थकः, नियमार्थतयार्थवत्त्वात् । ननु च नियमो न सम्भवति, अप्रतुसंस्पर्शित्वादित्क्तम् । तन्न सम्भवति स्वाभाविकार्थपरत्वानुसारेण क्रत्वनुप्रवेशे क्रतुसंस्पर्शिताया एवोचितत्वात् । यदि खल्वध्ययनविधेः क्रत्वनुप्रवेशिता नाश्रीयते, तदा शब्दानां वृद्धव्यवहारव्युत्पन्नानां स्वाभाविकार्थपरता हीयेत । जहत्स्वार्थत्वं च न न्याय्यमिति क्रतुफलभावनानुप्रवेश्येवाध्ययनसंस्कारो युक्तः । तत्र कर्मविधिष्वेवं नियमवर्णना अध्ययनाविर्भावितैरेव कर्मविधिभिरर्थमवबुध्यानुतिष्ठतां क्रतुफलभावनासिद्धिरिति । अर्थवादेषु त्वध्ययनाविर्भावितार्थवादप्ररोचिताः क्रियमाणाः क्रतवः फलभावनाय अलमिति । मन्त्रेषु पुनरध्ययनपरिगृहीतैरेव मन्त्रैः क्रतुषु पदार्थस्मरणं फलभावनाङ्गमिति । अध्ययननियमाश्रितश्च कालनियमो व्रतादिनियमश्च । "श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥ [मनु. अ. २, श्लो. २,४९,११] "भवत्पूर्व चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम्" ॥ [मनु. अ. २, श्लो. २,४९,११] इति । एवञ्चानन्यपरत्वादक्षराणां फलवत्कर्मावबोधोत्पत्तेर्विचारस्य विषयप्रयोजनलाभाच्छास्त्रस्यारम्भणीयत्वम्, विषयप्रयोजनलाभे च विचारस्याध्ययनानन्तरमुपनिपतितत्वाद्गुरुकुलस्थितेरर्थवत्त्वात्तन्निवृत्तिमध्ययनानन्तरप्राप्तां स्मरद्ऽवेदमधीत्य स्नायाद्ऽइति स्मृतिवचनमपन्यायमूलं दर्शयन्नर्थावबोधपरतया स्वाध्यायस्य विवक्षितार्थतां मन्यमानः सूत्रकारो विचारस्य विषयं प्रयोजनं चाह"अथातो धर्मजिज्ञासा" पूमी १.१.१ इति । एतच्च व्याख्यातम् "अथातो धर्मजिज्ञासासूत्रमाद्यमिदं कृतम् । धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" ॥ मीमांसाश्लोकवार्तिकम् १. १. ११. इति बहुरोपि १० अदयुक्तम् । न हि लिङादियुक्तवाक्येषु भावना भाव्यान्तरमपेक्षते, अपूर्वस्य भाव्यस्य स्वशब्देनाभिहितत्वात् । लिङादयो हि भाव्यकोटिनिविष्टप्रधानभूतापूर्वोपसर्जनतापन्नामेव भावनामभिदधतीति ११ इषयकरणीये निपुणतरमुपपादितम् । अतो न पूर्वपक्षे भाव्याकाङ्क्षायामार्थवादिकफलसम्बन्धः । नापि सिद्धान्ते स्वाध्यायस्य साध्यतयान्वयः । कथं तर्हि विश्वजिदादिषु स्वर्गादिफलकल्पनम्? यथा तत्तथा निशम्यताम् यदपूर्व कार्यभूतं प्रतीयते तद्विषयत्वेन सम्बद्धकरणीभूतयागाद्यनुष्ठानाधीनात्मलाभम् । १२ अ च विना कर्त्रा तदनुष्ठानोपपत्तिः । नचाधिकारं विना कर्तृत्वलाभः । नच नियोज्यमन्तरेणाधिकारसिद्धिः । न वाविशिष्टो नियोज्योऽवकल्पत इति विशेषणभावेन स्वर्गकामना परिकल्प्यते । स्वर्गकामना चेन्नियोज्यविशेषणं ततोऽग्निहोत्रादिवत्स्वर्गस्यापि नियोगतः सिद्धिरिति । भवत्वेवम्, अत्रापि तर्हि नियोज्यविशेषणतयैवार्थवादिकं फलं रात्रिसत्रवत्सम्बध्यताम् । न । अन्यतोऽनुष्ठानसिद्धेः । कुतोऽन्यतः? आचार्यकरणविधिप्रयुक्तेः । कः पुनराचार्यकरणविधिः?"उपनीय तु यः शिष्यं वेदमध्यापयेत्द्विजः । सकल्पं सरहस्य च तमाचार्यं प्रचक्षते" ॥ [मनुः २. १४०] इति स्मरणानुमितः शिष्यमुपनीय वेदाध्यापनेनाचार्यकं भावेयदित्येवंरूपः अलौकिकञ्चाहवनीयादिवदाचार्यकमिति तन्निष्पत्त्युपायविधानं युक्तमेव । तत्रार्थादाचार्यीबुभूषत एवाधिकारो धनार्जननियमवत् । तत्र शिष्यं प्रति विहिततद्धिताचरणदक्षिणादानदर्शनात्तल्लिप्सोरेवाचार्यभवनेच्छा । यथा दीक्षणीयया दीक्षितत्वसिद्धिः, तथा वेदाध्यापनेनाचार्यत्वसिद्धिः । उपनयनं च क्त्वाप्रत्ययेनाध्यापनसमानकर्तृकमवगम्यमानमेकप्रयोगतया विना समानकर्तृकत्वासम्भवादङ्गाङ्गिभावेन च विना एकप्रयोगत्वानुपपत्तेराचार्यकभावनाकरणीभूतमध्यापनं प्रत्यङ्गत्वेनावतिष्ठते । तदाश्रितऽश्चाष्टवर्षब्राह्मणमुपनयीतेऽत्यादिनियमः । उपनयनं न स्वभावत उपनेयासत्तिप्रयोजनकमिति तद्द्वारेणैव तस्याङ्गम् । न चाध्यापनं प्रत्यनुपयोगिन उपनेयस्यासत्तिरध्यापनोपयोगिनीत्युपनेयस्य कर्मापेक्षायामुपनयनं प्रक्रम्यऽस्वाध्यायोऽध्येतव्यऽ इत्यध्ययनं विधीयमानमुपनेयस्य कर्मेत्यवगम्यते । अध्ययनं चाध्यापनोपयोगीति । सद्धिमेतत् । १३ एन स्वाध्यायमध्येष्यमाणस्य माणवकस्योपनयनम १४ ह्यापनाङ्गमित्यध्यापनविधिः स्वाङ्गभूतमुपनयनं प्रयुञ्जानस्तस्यान्यत्रानुपपत्त्याध्ययनमपि प्रयुङ्क्ते । तत्प्रयुक्ताध्ययननिष्पत्त्या च लब्धसिद्धिस्स्वाध्यायाध्ययननियोगो नाधिकारान्तरमपेक्षते । अतो नायं विश्वजिन्न्यायस्य विषयः, नापि रात्रिसत्रन्यायस्य, अनन्यप्रयुक्तविषयनियोगगोचरत्वात्तयोः । अत एव प्रयाजादिनियोगेषु तयोरनवतारः । अन्यथा सिद्धान्तेपि कामश्रुतिप्रयुक्तमध्ययनमिति विद्यासाध्येष्वपि कर्मसु शूद्रादीनामधिकारः स्यात् । अतोऽध्यापनविधिप्रयुक्तत्वादध्ययनस्य येषामेवोपनयनं तेषामेव तत्प्रयुक्तमन्त्रलाभाच्छूद्रादीनामनधिकारः । एवञ्च विध्यन्तरप्रयुक्तेऽध्ययने न रात्रिसत्रन्यायेन पूर्वपक्षाशङ्कोचिता । न चातत्प्रयुक्त्या पूर्वः पक्षः, तत्प्रयुक्त्या च राद्धान्त इति युक्तम् । अतत्प्रयुक्तत्वे कारणाभावात् । यच्चोक्तं नियमार्थो विधिरिति । तदयुक्तम् । स्वाध्यायाध्ययनस्य नियोगनिष्पत्त्यर्थतया विधानेन वचनस्यार्थवत्त्वात् । स्वाध्यायोऽध्येतव्य इति तव्यप्रत्ययेन विधिरभिधीयते । न चावहन्त्यादिष्विव क्रतुविषयनियोगानुवादोऽयमवकल्पते, असंनिधानात्क्रतुनियोगानाम् । सन्निधानवशेनैव हि क्रतुनियोगप्रत्यभिज्ञानात्तत्र क्रतुनियोगानुवादोपगमः । न चेह सन्निधानमस्ति । नापिऽपर्णमयी जुजूर्भवतीतिऽवत्पदार्थसम्बन्धमुखेन क्रतुनियोगप्रत्यभिज्ञानम्, स्वाध्यायस्य व्यभिचरितक्रतुसम्बन्धत्वात्, हुमित्येवमादीनामनर्थकानां स्वाध्यायान्तर्गतिदर्शनात् । यत एवात्र नियोगः साध्यतयावगम्यते, अत एव स्वाध्यायस्य नेप्सितकर्मतया सम्बन्धोऽवकल्पते, एकस्मिन् वाक्ये साध्यद्वयविरोधात् । न च स्वर्गादिवत्स्वाध्यायस्य नियोज्यविशेषणतयान्वयादविरोधः, अनियोगफलत्वात्स्वाध्यायग्रहणस्य । यदेव हि नैयोगिकं फलम्, तदेव साध्यतया नियोज्यविशेषणं नान्यदिति तृतीये दर्शितम् १५"अनमिज्ञो भवान्विषयनियोज्यानाम्" इत्यत्र । अतोऽध्ययनविषयनियोगप्रतिपादनेनैव तस्यार्थवत्त्वान्न क्रतुप्रवेशकल्पनया नियमार्थता विधेः । जरत्प्रभाकरमतं तत्खण्डनं च । अन्ये पुनरेवं पूर्वपक्षयन्ति अध्यापनविधिप्रयुक्तमध्ययनमध्यापनाङ्भूतं तन्निष्पत्त्यर्थतया च स्वाध्यायस्यान्यपरत्वादविवक्षितार्थताइति । तदयुक्तम् । प्रयुक्तिमात्रेण तादर्थ्यानुपपत्तेः । स्यान्मतम्यथा १६ रजापतिव्रतेषु स्वतन्त्रकर्त्रवगमात्तद्धेतुभूताधिकारसिद्ध्यर्थं नियोज्यपरिकल्पनं, तथा प्रयुक्तिदर्शनात्तादर्थ्यमिति । तन्न । प्रयुक्तेस्तादर्थ्यव्यभिचारात् । असत्यपि तादर्थ्ये केवलोपकारकतामात्रेणाध्ययनस्य क्रतुविधिभिः प्रयुज्यमानत्वात् । कथं तर्हि १७ अश्वेकत्वादेरङ्गत्वम् । न तावद्विभक्तिरेव क्रतुसम्बन्धितयैकत्वादिकमभिधत्ते येनारुण्यादिवद्वाक्येन विनियोगः स्यात् । विभक्तयो हि प्रातिपदिकार्थगतमेव स्वार्थ श्रुत्याभिदधति । नापि करणभूतस्यैकत्वमुच्यते, संख्यान्वितस्य वा करणत्वम्, करणत्वैकत्वयोर्युगपदभिधानात् । अतो न वैनियोगिकं शेषत्वं विभक्त्यभिहितायाः संख्यायाः । इष्यते च शेषत्वम्, तच्च प्रयुक्तिकृतमेव । मैवम् । न तत्रापि शेषत्वमौपादानिकं किन्तु लैङ्गिकमेव । वस्तुसामर्थ्यमेव लिङ्गमुच्यते । संख्या च स्वभावत एव संख्येयावच्छेदिकेति संख्येयार्थैव, किन्तु संख्येयभूतप्रातिपदिकार्थमात्रसम्बन्धे ग्राहकान्वयव्याघातापत्तेर्ग्राहकीयभूतपश्वादिसम्बन्ध औपादानिकः । सन्निधिसमाम्नानमात्रेण हि विभक्त्यर्थस्यापि ग्राहकं प्रत्यैदमर्थ्येनान्वितस्यैवाभिधानम्, तदन्यथानुपपत्त्या च केवलाभिधाननिबन्धनं स्वरूपसम्बन्धमतिलङ्घ्य साधनीभूतसंख्येयसम्बन्धाध्यवसानमिति नौपादानिकं तत्रापि शेषत्वम् । भवतु तर्हि लिङ्गादेवाध्ययनस्यापि अध्यापने विनियोगः । नैवं भवितुमर्हति, सामान्यसम्बन्धबोधकप्रमाणसापेक्षत्वाल्लिङ्गविनियोगस्य । न चास्य सामान्यसम्बन्धबोधकं किञ्चिदस्ति प्रमाणम् । ननु च णिच्छ्रुतिः प्रकृत्यर्थभूतस्याध्ययनस्य शेषतामापादयतीति । तन्न । प्रयोजकव्यापारस्य प्रयोज्यव्यापारोत्पत्तिहेतुत्वाद्विपरीतशेषत्वापत्तेः । वाक्यप्रकरणस्थानसमाख्यानानि त्वध्ययनस्याध्यापनं प्रति विनियोजकतया नाशङ्कनीयान्येव । १८ इञ्च टीकाग्रन्थविरोधश्चाङ्गत्ववादिनाम् । यत एवमाह भगवान्१९ "प्रयोज्यत्वादनङ्गत्वाच्च२० भवति संशयः" इति ॥ तस्मादनङ्गतयैव पूर्वपक्षणीयम् । कथं पुनरनङ्गतया पूर्वपक्षयितुं शक्यते । उच्यते । सर्वो हि विधिरधिकारपर्यवसायी । नचाध्ययनविधौ कस्यचिदधिकारोऽस्तीत्युक्तमेव साक्षादश्रवणात्, अध्यापनविधिप्रयोज्यतया कल्पनानुपपत्तेः । तत्र य एवासौ प्रयोजकविधावधिकारः स एव प्रयोजनमिति युक्तम्, प्रथमोपनिपातित्वात् । यदपि च यस्यानङ्गं तदपि तस्य प्रयोजनं भवत्येव आधानस्येव होमादय इति । ननु चानन्तरभाविकर्मावबोधफलकतया अध्ययनस्याध्येतुरेवाधिकारोऽध्ययने प्रतीयते इति तत्प्रयोजनतैव स्वाध्यायविधेर्युक्ता अन्तरङ्गत्वात् । न । तस्योत्तरकालभावित्वात् । तुल्यायां हि प्राप्तावन्तरङ्गता बलीयसी । न चानयोरधिकारयोस्तुल्या प्राप्तिः । प्रथमोपनिपातित्वात्प्रयोकविध्याधिकारस्य उत्तरकालभावित्वाच्चार्थावबोधनिबन्धनस्याधिकारस्य । यदा चाध्यापनविध्यधिकारसिद्धिरध्ययनस्य प्रयोजनमित्यध्ययनविधिना बोधितं तदाध्ययननिष्पत्त्यर्थत्वात्स्वाध्यायस्यान्यपरत्वादविवक्षितार्थत्वम् । अविवक्षितश्चार्थो न विचारणीय इति वेदाध्ययनमात्रेणैव गुरुकुलस्थितेः कृतार्थत्वादध्ययनोत्तरकालं गुरुकुलनिवृत्तिरेव युक्तेति मत्वा स्मृतं "वेदमधीत्य स्नायाद्" । [बौ. गृ. सू. ६. १] इति अत्र च न स्नानमदृष्टार्थं विधीयते,किन्तु यो"ब्रह्मचारी न स्नायात्" बौ. गृ. सू. इति अस्नाननियमस्तस्य पर्यवसानमेतदध्ययनाङ्गतया नियमानां तन्निवृत्तौ प्राप्तमुच्यते । अस्नाननियमतुल्यतया च गुरुकुलवासादीनामपि निवृत्तिः प्राप्तैवेति सकलब्रह्मचारिधर्मनिवृत्तिरेवाध्ययनानन्तरमुच्यते । एवं चाध्ययनविधिना विचारस्यानाक्षिप्तत्वात्तुदुपायभूतन्यायनिबन्धनं मीमांसाशास्त्रं नारम्भणीयमिति पूर्वः पक्षः । स्वमतेन सिद्धान्तः । राद्धान्तस्तुयद्यपि प्रयोजकविध्यधिकारः प्रथमभावी, तथापि तन्निष्पत्तिः प्रयोजनमिति न युक्तम् । किन्तु दृष्टार्थावबोधफलकतयाध्ययनोत्तरकालभाव्यप्यध्येतुरेवाधिकारः प्रयोजनतया युक्त आश्रयितुम्, कर्तृसमवायित्वात् । यत्कर्तृकं हि यत्कर्म तस्यैव तत्रैश्वर्यमिति युक्तम्, अन्तरङ्गत्वात् । न च सहसैव विधिदर्शनादत्राधिकारपर्यवसानकल्पनाकारणमस्ति, परप्रयुक्त्यैवानुष्ठानस्य सिद्धत्वात् । यत्र खल्वधिकारपर्यवसानकल्पनामन्तरेण प्रागनुष्ठानं न लभ्यते, तत्रानुष्ठानात्प्रागनवगतोऽधिकारः तदनुप्रवेशात्साध्यः । इह त्वध्यापनविधिप्रयुक्त्यैवाधिकारपर्यवसानकल्पनामन्तरेणानुष्ठानं लब्धमिति प्राथम्यमकिञ्चित्करम् । अन्तरङ्गत्वादध्येतुरेवाधिकारो युक्त इति । तदेवमध्ययनविधेरन्यप्रयुक्त्यैवानुष्ठानसिद्धेर्नियोज्यो नास्ति । अधिकारी तु विद्यत एव । यदथ हि यत्कर्म स तत्राधिकारी । अर्थावबोधोपयोगेन चाध्येत्रर्थताध्ययनस्येति स तत्राधिकारी । स चायमधिकारः प्रागध्ययनान्नावगम्यते, अध्ययनोत्तरकाले चावगम्यते । स्वाध्यायाध्ययनं त्वेवमभिनिर्वर्त्यते"श्रावण्यां प्रौष्ठपद्या वाप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥ " म. ४ अ.९५ ततः२१ परं तु छन्दासि शुक्लेषु नियतः पठेत् । वेदाङ्गानि रहस्यं च कृष्णपक्षेषु सम्पठेत् ॥ " म. ४. अ. श्लो. ९८ इति । इत्थं चाध्ययने क्रियमाणेऽङ्गाध्ययनसंस्कृतस्य वेदवाक्यादर्थावगमो जायते । स चायमध्येता मन्यते मदुपयोगिकर्मावबोधकतया मदर्थमध्ययनमिति । २२ ओऽयं वेदाध्ययनसीमांसाश्रवणयोर्मध्येऽधिकारः, सोऽयं २३ आन्मौलिकः शास्त्रार्थः । इममेव तावदधिकारमालोच्य पित्रादयोऽर्थदानादिना कांश्चिदानमय्य पुत्रादीनुपनाययन्ति । प्रबुद्धाश्च केचन स्वयमेवात्मानम् । अन्यथाध्ययनासंभवात् । अनुपनीतस्याध्ययननिषेधात् । "नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते । २४ अ शूद्रेण समस्तावद्यावद्वेदान्न जायते ॥ " म. अ. २. श्लो. १७२ इति । एवं तावदध्यापनविधिं स्मृत्यनुमितमाश्रित्य राद्धान्तवर्णना कृता । विवरणसिद्धान्तः । २५ न्ये तु साक्षाच्छ्रुताध्यापनविध्यनुसारेणैवमाहुः । यद्यध्यापनविध्यधिकारप्रयोजनता स्वाध्यायाध्ययनविधेः स्यात्, तदाध्यापनविधेरपिस्वाध्यायान्तर्गतत्वादविवक्षितार्थत्वेन तत्प्रयुक्ततापि न सम्भवति । २६ वशाखा हि स्वाध्यायशब्देनोच्यते । साक्षादधीतश्चाध्यापनविधिर्नूनं केषाञ्चिच्छाखिनां स्वशाखान्तर्गतो भवेदिति स्वाध्यायस्याविवक्षितार्थत्वेन तस्याप्यविवक्षितार्थत्वान्न प्रयोजकत्वमवकल्पते इति पश्चाद्भाव्यर्थावबोधोपयोगितयाध्येतुरेवाधिकारोऽध्ययनविधेः प्रयोजनमिति । ननु स्वाध्यायोऽध्येतव्य इति नियोगसिद्धेरवगमात्तन्निष्पत्त्यर्थत्वादध्ययनस्यान्यपरत्वादर्थविवक्षा दुर्भणैव । मैवम् । यदि केवलं नियोगनिष्पत्त्यर्थतैवाध्ययनस्य स्यात्स्यादेतदेवम् । यदा त्वर्थावबोधोऽपि प्रयोजनतया स्वीक्रियते, तदार्थऽपरताप्यस्तीति नाविवक्षितार्थता । कथं पुनरेकस्मिन्वाक्ये प्रयोजनद्वयम् । उच्यते । नियोगनिष्पत्तिरेव शाब्दं प्रयोजनम्, आर्थं त्वर्थावबोधनमिति न विरोधः । यच्च तदर्थावबोधाख्यं प्रयोजनं तन्न केवलाध्ययनसाध्यमिति अध्ययनविधिरेव स्वप्रयोजनसिद्धये विचारमाक्षिपति । विचारस्य च २७ यायनिबन्धनत्वान्न्यायानां मीमांसाज्ञानगम्यत्वान्मीमांसाज्ञानस्य गुर्वायत्तत्वान्न वेदाध्ययनानन्तरं गुरुकुलान्निवर्तितव्यमिति मन्यमानो भगवान्सूत्रकारः पूर्वपक्षनयमूलतां स्मृतेर्दर्शयितुं धर्मजिज्ञासोपदेशमुखेनाध्ययनानन्तरभाविनीं गुरुकुलनिवृत्तिं प्रतिषेधन्निदमाह "अथातो धर्मजिज्ञासा" २८ ति । वेदवाक्यार्थविचारविरोधिनी च गुरुकुलनिवृत्तिरेव केवला निवार्यते, न सकलेतरभिक्षाचरणब्रह्मचर्यादिधर्मनिवृत्तिः । असमाप्तसकलब्रह्मचारिनियमश्च न स्नातक इति न दाराधिगमेनऽधिक्रियते स्नातकस्य दाराधिगमस्मरणात्,"स्नातकः२९ सदृशीं भार्यां विन्देद्" गौ. ध. सू. अ. ४१ इति । तस्माद्गुरुकुले स्थित्वा सकलेतरब्रह्मचारिधर्मान्परित्यज्य वेदार्थो विचारयितव्यः, अविचारितस्यानिर्णीयमानत्वात् । अनिर्णीतवेदार्थश्चेद्गुरुकुलान्निवर्तेत, ततः कृतदारसंग्रहः श्रौताग्निहोत्रादिनित्यनैमित्तिकधर्माधिकारापातात्तदनुष्ठानं कर्तुमसमर्थः प्रत्यवेयात् । तस्मादध्ययनस्यानन्तरमेव वेदार्थो विचारयितव्य इति विचारोपायभूतन्यायनिबन्धनं मीमांसाशास्त्रमारब्धव्यमिति सिद्धम् । शास्त्रमुखं नाम गुरोराविष्कर्तुं गभीरमपि भावम् । शालिकनाथेन कृतं प्रकरणमेतत्प्रसन्नतरम् ॥ २ ॥ इति महामहोपाध्याय श्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां शास्त्रमुखं नाम प्रथमं प्रकरणं समाप्तम् ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ नीतिपथो नाम द्वितीयं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । अर्थासंस्पर्शिताशङ्का यथा शब्दस्य वार्यते । प्रभाकरगुरोः शिष्यैस्तथा यत्नो विधीयते ॥ १ ॥ पूर्वपक्षः । अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः । अर्थासंस्पर्शितां केचिदाहुः शब्दस्य वादिनः ॥ २ ॥ निश्चयोऽर्थस्य संस्पर्शः स चार्थाव्यभिचारिणाः । प्रत्यक्षादेरेव भवेच्छब्दस्तु व्यभिचारवान् ॥ ३ ॥ विनाप्यर्थं हि शब्देन प्रतीतिरुपजायते । अङ्गुल्यग्रेऽस्ति करिणां यूथमित्येवमादिना ॥ ४ ॥ नचात्र शक्यते वक्तुं शुक्तौ रजतबोधवत् । अग्रहाद्भ्रान्तिरेषेति कारणस्याविशेषतः ॥ ५ ॥ दुष्टा हि ३० एतवः कार्यं सम्पूर्णं कर्तुमक्षमाः । तेन भेदाग्रहो युक्तः शुक्तिकारजतादिषु ॥ ६ ॥ इह तु ज्ञानहेतुर्यः शब्दः स न विशिष्यते । विशिष्यते यस्तु वक्ता स ज्ञानस्य न कारणम् ॥ ७ ॥ वक्तापि यदि विज्ञानहेतुः स्यादिन्द्रिनयादिवत् । ततस्तस्यापि दोषेण भवेदग्रहणां तदा ॥ ८ ॥ वक्ता तु केवलं शब्दव्यक्तवेवोपयुज्यते । ज्ञानं तु शब्दमात्रेण निरपेक्षेण जन्यते ॥ ९ ॥ न च तस्येह दुष्टत्वं किञ्चिदप्युपलभ्यते । दोषश्चाग्रहणे हेतुस्तदभावे स्फुटो ग्रहः ॥ १० ॥ तेन शब्दोपजनितं ज्ञानमेवेदमीदृशम् । अर्थं व्यतिक्रामतीति कुतस्तेनार्थनिश्चयः? ॥ ११ ॥ येनापि हि विना यस्य सद्भाव३१ उपपद्यते । निश्चयस्तत्र तेनेति सुभाषितमिदं वचः ॥ १२ ॥ नन्वेवमाप्तवाक्येभ्यः कथं व्यवहृतिर्भवेत्? । व्यवहारो हि लोकस्य कथं स्यान्निश्चयं विना? ॥ १३ ॥ उच्यते व्यवहारो हि संदेहादपि लौकिकः । प्रायशो दृश्यते तेन च किञ्चिदिह दुष्यति ॥ १४ ॥ अपि चाप्तत्वमालोच्य वक्तुस्तत्रार्थनिश्चयः । मानान्तरवशेनापि कथञ्चिदुपपद्यते ॥ १५ ॥ वेदस्त्वलौकिकार्थत्वादभावाद्वक्तुरेव च । अहो बत दशां कष्टामुपनीतो हि पण्डितैः ॥ १६ ॥ सिद्धान्तः । अत्र प्रतिविधानाय यतन्ते मतिशालिनः । ज्ञानस्य व्यभिचारित्वं नयवीथ्यां निवारितम् ॥ १७ ॥ श्रूयतामवधानेन गतिर्नरगिरामपि । अनुमानात्पृथग्भावं तासां नेच्छन्ति सूरयः ॥ १८ ॥ वाक्यं हि पुरुषाधीनरचनं लौकिकं सदा । शङ्क्यमानायथार्थत्वं नार्थनिश्चायकं स्वतः ॥ १९ ॥ अन्योन्यानन्वितार्थानि पदान्यपि हि मानवाः । रचयन्तो विलोक्यन्ते तेन नान्वयनिश्चयः ॥ २० ॥ केचित्तावद्भ्रमेणैव केचिदाशयदोषतः । प्रमादात्केऽप्यशक्तेश्च केऽप्यनन्वितवादिनः ॥ २१ ॥ तदुक्तानां पदार्थानां यद्यप्यन्वययोग्यता । तथाप्यनन्वितस्यापि दृष्टेर्नान्वयनिश्चयः ॥ २२ ॥ तत्र निश्चयशब्देन ज्ञानमेवाभिधीयते । अन्वयानिश्चये तेन ज्ञानमेवास्ति नान्वये ॥ २३ ॥ शङ्क्यमानायथार्थत्वरचनं तेन पुंवचः । श्रुतमात्रकमेवार्थे न तावन्निश्चयावहम् ॥ २४ ॥ यावद्वक्तुरविज्ञातं पूर्वभाविप्रमान्तरम् । विवक्षितार्थविषयमिन्द्रिनयार्थनिबन्धनम् ॥ २५ ॥ तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते । ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः ॥ २६ ॥ तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् । ज्ञानं चार्थाविनाभावि तेनार्थे द्यपि विनिश्चयः ॥ २७ ॥ तत्रार्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते । तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता ॥ २८ ॥ पूर्वं तु३२ लिङ्गभूतं तत्वक्तुर्ज्ञानावधारणे । वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते ॥ २९ ॥ कार्यात्कारणसिद्धिश्च सर्वेषामनुमानतः३३ । पौरुषेयमतो वाक्यं न शास्त्रमभिधीयते ॥ ३० ॥ एवञ्च सति लिङ्गस्य व्यभिचारोऽयमीक्ष्यते । न शास्त्रस्येति तस्य स्यादर्थासंस्पर्शिता कुतः? ॥ ३१ ॥ लिङ्गस्यापि न चैवायं व्यभिचारोऽस्ति किन्तु यः । लिङ्गालिङ्गे न शक्नोति विवेक्तुं मूग्चेतनः ॥ ३२ ॥ तस्यालिङ्गे लिङ्गरूपसाधारण्यनिबन्धनः । लिङ्गसंव्यवहारोऽयं विपरीतः प्रवर्तते ॥ ३३ ॥ श्रुतिलिङ्गाधिकरणे विस्तरेणैतदीरितम् । तेन न व्यभिचारोऽस्ति द्वयोर्लैङ्गिकशास्त्रयोः ॥ ३४ ॥ नन्वर्थ एव प्रथमं पुंवाक्येम्योऽवगम्यते । अन्यथा हि कथं वक्तुर्धीर्विशिष्टानुमीयते? ॥ ३५ ॥ अर्थेनैव विशेषो हि निराकारतया धियाम् । नचाप्रतीतेनार्थेन विशेषश्चावकल्पते ॥ ३६ ॥ अत्र ब्रूमोऽयथार्थत्वशङ्कयार्थो न निश्चितः । अनिश्चितश्च न ज्ञात इति तावद्व्यवस्थितम् ॥ ३७ ॥ किन्त्वज्ञातेऽपि ३४ आक्यार्थे पदजाते श्रुते सति । विमर्शो३५ जायते श्रोतुरीदृशो मतिशालिनः ॥ ३८ ॥ अन्योन्यान्वययोग्यार्थं पदजातं ब्रवीत्ययम् । आप्तस्तेनामुना नूनं ज्ञातस्तेषां समन्वयः ॥ ३९ ॥ न कदाचिदसंबद्धानर्थानेष विवक्षति । न वाप्रतीतसम्बन्धानिति दोषो न कश्चन ॥ ४० ॥ नन्वेवं तुरगारूढस्तुरङ्गं विस्मृतो भवान् । वेदप्रामाण्यसिद्ध्यर्थमुत्थितस्तत्प्रहीणवान् ॥ ४१ ॥ लोकावगतशक्तिर्हि वेदे शब्दोऽवबोधकः । लोके च लिङ्गभावेन प्रतीतिर्भवताऽश्रिता ॥ ४२ ॥ स्वयं त्विह समाधानमाचार्येण३६ प्रदर्शितम् । शब्दस्यार्थेन सम्बन्ध इति दर्शयता सता ॥ ४३ ॥ अन्वितार्थाभिधायित्वे पदानां हि स्थिते सति । विशिष्टा वक्तृधीर्ज्ञातु शक्यते नान्यथा यतः ॥ ४४ ॥ ज्ञातेषु हि पदार्थेषु श्रोता वक्तरि कल्पयेत् । अन्योन्यान्वयविज्ञानं नान्यथेत्युपदर्शितम् ॥ ४५ ॥ पदानां तत्पदार्थेषु शक्तिः स्वाभाविकी स्थिता । पुंवाक्येषु विसंवादशङ्कया सा तिरोहिता ॥ ४६ ॥ वेदेषु त्वस्मर्यमाणकर्तृकेषु स्वरूपतः । प्रमाणान्तरसंस्पर्शरहितार्थावबोधिषु ॥ ४७ ॥ न कर्तुरनुमानं स्याद्वाक्यत्वादिति लिङ्गतः । न कर्ता शक्नुयाद्वाक्यं कर्तुं कार्ये ह्यलौकिके ॥ ४८ ॥ तेन वेदे विसंवादशङ्का नास्ति कथञ्चन । अर्थनिश्चयहेतुत्वादर्थसंस्पर्शिता स्थिता ॥ ४९ ॥ व्यपगतवाङ्मलपङ्कः प्रोद्धृतपरयुक्तिकण्टकप्रकरः । सृष्टः प्रगुणतरोऽयं शालिकनाथेन नीतिपथः ॥ ५० ॥ इति श्रीमहामहोपाध्यायशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां नीतिपथो नाम द्वितीयं प्रकरणं समाप्तम् ॥ २ ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ नयवीथी नाम तृतीयं प्रकरणम् । प्रकरणार्थप्रतिज्ञा यथार्थं३७ सर्वमेवेह विज्ञानमिति सिद्धये । प्रभाकरगुरोर्भावः समीचीनः प्रकाश्यते ॥ १ ॥ तत्र पूर्वपक्षः तत्र तावदिदं केचिदूचिरे चारुचेतसः । भ्रमसन्देहविज्ञाने अयथार्थे उभे इति ॥ २ ॥ इदं रजतमित्येषा य शुक्तिशकले मतिः । सा चेद्यथार्था भ्रान्तित्वं तदा तस्यास्तु कीदृशम् ॥ ३ ॥ यथावस्थितवस्त्वाभमपि ज्ञानं यदा भ्रमः । प्रमाणेषु तदाऽपन्ना सर्वेषुर्भमरूपता ॥ ४ ॥ विवेकाग्रहणं भ्रान्तिरिति चेन्नैतदीदृशम् । सुषुप्तेऽपि भ्रमापत्तेः सर्वभेदापरिग्रहात् ॥ ५ ॥ भूदाग्रहे गृहीते च यदि स्याद्भ्रमरूपता । दूरात्सामान्यमात्रस्य दर्शनं स्यात्भ्रमस्तदा ॥ ६ ॥ यथार्थदर्शनत्वे च बाधकोऽपि न युज्यते । अज्ञातभेदग्रहणैर्न बाधकमतिर्भवेत् ॥ ७ ॥ यथार्थतापि चैतस्याः कथमित्यपि चिन्त्यताम् । एषा हि रजतत्वेन शुक्तिकामध्यवस्यति ॥ ८ ॥ रजतत्वं न शुक्तेश्च रजतस्य न शुक्तिता । तयोरन्योन्यभिन्नत्वं प्रत्यक्षेणावधारितम् ॥ ९ ॥ अथेयं रजतत्वेन न शुक्तिमवलम्बते । सामानाधिकरण्येन प्रतिपत्तिर्विरुध्यते ॥ १० ॥ रूप्यार्थिनः प्रवृत्तिश्च शुक्तौ स्यान्निर्निबन्धना । अग्रहोऽपि न भेदस्य प्रवृत्तौ कारणं यतः ॥ ११ ॥ रजतप्रतिपत्तिश्च नेयमन्धस्य जायते । तेनेयमिन्द्रियाधीना संयुक्ते चेन्द्रियं धियम् ॥ १२ ॥ समर्थमुत्पादयितुं शुक्तिसंयोगि चेन्द्रियम् । तेन सैवेन्द्रियेणेह रजतत्वेन गृह्यते ॥ १३ ॥ स्यान्मतं शुक्तिकामात्रमिन्र्दियेणावसीयते । तदेव सदृशत्वेन रजतस्मृतिकारणम् ॥ १४ ॥ सदृशप्रत्ययेनेह संस्कारोद्बोधहेतुना । तदित्युल्लेखरहिता रजते भवति स्मृतिः ॥ १५ ॥ स्मृतावस्यां मनोदोषात्तदित्यंशोऽवखण्डितः । तेनेन्र्दियानुकारित्वमन्यथासिद्धमित्यसत् ॥ १६ ॥ अनुभूतेऽपि विषये तत्परामर्शवर्जितम् । न बोधं स्मृतिमिच्छन्ति धारावाहिकबोधवत् ॥ १७ ॥ अपरोक्षपुरोवर्तिसामानाधिकरण्यतः । नेयं स्मृतिः, किन्तु शुक्तौ भ्रान्तोऽयं रजतग्रहः ॥ १८ ॥ स्मृत्युद्बोधनिमित्तं च स्वप्ने किञ्चिन्न विद्यते । पीतशङ्खावबोधे च द्विचन्द्रग्रहणे तथा ॥ १९ ॥ दिङ्मोहालातचक्रादिभ्रान्तयश्च कथं पुनः । स्मृतित्वाश्रयणेनैता वर्णनीया यथार्थतः ॥ २० ॥ तेनेन्द्रियादिदोषेण जायन्ते भ्रान्तिबुद्धयः । बुध्यमाना वस्तुरूपमन्यथास्थितमन्यथा ॥ २१ ॥ स्थाणुर्वा पुरुषो वेति सन्देहो योऽपि जायते । अभावात्तदृशोऽर्थस्य स यथार्थः कथं भवेत्? ॥ २२ ॥३८ ॥ सिद्धान्तः अत्र ब्रूमोय एवार्थो यस्यां संविदि भासते । वेद्यः स एव नान्यद्धि ३९ इद्याद्वेद्यस्य लक्षणम् ॥ २३ ॥ इदं रजतमित्यत्र रजतञ्चावभासते । तदेव तेन वेद्यं स्यान्न तु शुक्तिरवेदनात् ॥ २४ ॥ तेनान्यस्यान्यथाभानं प्रतीत्यैव पराहतम् । परस्मिन् भासमाने हि न परं भासते यतः ॥ २५ ॥ नन्वेवं रजताभासः कथमेष ४० हटिष्यति । उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् ॥ २६ ॥ शुक्तिकाया विशेषा ये रजताद्भेदहेतवः । ते न ज्ञाता अभिभवाद्ज्ञाता सामान्यरूपता ॥ २७ ॥ अनन्तरञ्च रजते स्मृतिर्जाता तथापि च । मनोदोषात्४१ अदित्यंशपरामर्शविवर्जितम् ॥ २८ ॥ रजतं विषयीकृत्य नैव शुक्तेर्विवेचितम् । स्मृत्यातो रजताभास उपपन्नो भविष्यति ॥ २९ ॥ धारावाहिकवन्नेयं स्मृतिरित्युदितञ्च यत् । उच्यतेऽनन्यगतितः स्मृतिरत्रावगम्तये ॥ ३० ॥ न ह्यसन्निहितं तावत्प्रत्यक्षं रजतं भवेत् । लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः ॥ ३१ ॥ परिशेषात्स्मृतिरिति निश्चयो जायते ततः । तस्याः कारणसद्भावात्, धारावाहिकधीषु तु ॥ ३२ ॥ प्रत्युत्पन्नेन्द्रियग्रामसामग्रीग्रहकारणम् । ग्रहणस्मरणे चेमे विवेकानवभासिनी ॥ ३३ ॥ सम्यग्रजतबोधात्तु भिन्ने यद्यपि तत्त्वतः । तथापि भिन्ने नाभातो भेदाग्रहसमत्वतः ॥ ३४ ॥ सम्यग्रजतबोधश्च समक्षैकार्थगोचरः । ततो भिन्ने अबुध्वा तु स्मरणग्रहणे इमे ॥ ३५ ॥ समानेनैव रूपेण केवलं मन्यते जनः । अपरोक्षार्थबोधेन समानार्थग्रहेण च ॥ ३६ ॥ अवैलक्षण्यसंवित्तिरिति तावत्समर्थितम् । व्यवहारोऽपि तत्तुल्यस्तत एव प्रवर्तते ॥ ३७ ॥ समत्वेन च संवित्तेर्भेदस्याग्रहणेन च । मिथ्याभावोऽपि तत्तुल्यव्यवहारप्रवर्तनात् ॥ ३८ ॥ रजतव्यवहारांशे विसंवादयतो नरान् । बाधकप्रत्ययस्यापि बान्धकत्वमतो मतम् ॥ ३९ ॥ (४२) प्रसज्यमानरजतव्यवहारनिवारणात् ॥ ४० ॥ सन्निहितरजतशकले रजतमतिर्भवति यादृशी सत्या । भेदानध्यवसायादियमपि तादृक्परिस्फुरति ॥ ४१ ॥ साधारणं हि रूपं तस्या अस्याश्च विद्यते तेन । तन्मात्रप्रतिभानात्समानतामेव मन्यन्ते ॥ ४२ ॥ तत्तुल्यव्यवहारः४३ प्रवृत्तिरपि युज्यते चातः । तद्विनिवारणकरणाद्बाधकता बाधकस्यापि ॥ ४३ ॥ एवं स्वप्नेऽपि वस्तूनि स्मर्यमाणानि सन्त्यपि । अनुभूतांशमोषेण भासन्ते गृह्यमाणवत् ॥ ४४ ॥ ग्रहणस्य विशेषो हि गृहीतग्रहणं स्मृतिः । सा गृहीतांशमोषेण गृहीतिरिव४४ तिष्ठति ॥ ४५ ॥ संस्कारोद्बोधहेतुश्च तत्रादृष्टं प्रकल्प्यते । विपरीतख्यातिपक्षेऽप्येषा तुल्या हि कल्पना ॥ ४६ ॥ अदृष्टस्य च हेतुत्वाज्जाग्रतस्तादृशी न धीः । अवस्थापि ह्यदृष्टस्य सामग्रीफलसम्भवे ॥ ४७ ॥ पीतशङ्खावबोधे च पित्तस्येन्र्दियवर्तिनः । पीतिमा गृह्यते द्रव्यरहितोऽप्स्विव तिग्मता ॥ ४८ ॥ शङ्खस्येन्द्रियदोषेण शुक्लिमा च न गृह्यते । केवलं द्रव्यमात्रन्तु प्रथते रूपवर्जितम् ॥ ४९ ॥ गुणे द्रव्यव्यपेक्ष४५ च द्रव्ये च गुणकाङ्क्षिणि । भासमाने तयोर्बुद्धिरसम्बन्धं न बुध्यते ॥ ५० ॥ सत्यपीतावभासेन समे भातो मती इमे । व्यवहारोऽपि तत्तुल्यः, एवमत्रापि युज्यते ॥ ५१ ॥ यत्तु नेत्रगतस्यापि कज्जलस्य न कालिमा । गृह्यते कारणं तत्र तेनेन्द्रियनिरोधनम् ॥ ५२ ॥ अतसीपुष्पसंकाशं यत्तावन्नेत्रमण्डलम् । तत्रस्थमञ्जनं यत्तत्तेजोवृत्तिनिरोधकम् ॥ ५३ ॥ मण्डलान्तरसंस्थन्तु यन्नाम नयनेऽञ्जनम् । तस्यानार्जवदोषेण नीलिमा नावगम्यते ॥ ५४ ॥ इन्द्रियोपरिभागेऽपि लिप्तेन स्वच्छभावतः । पित्तेन नायनं तेजः काचेनेव न रुद्ध्यते ॥ ५५ ॥ प्रसरन्नायनं तेजो ग्राहकं ४६ आनिन्द्रियस्थितम् । पित्तस्याग्रहणं सौक्ष्म्यात्प्रभायामिव तेजसः ॥ ५६ ॥ मधुरे तिक्तधीरेवं व्याख्याता पित्तवर्जिनः । तैक्त्यस्य रसहीनस्य गुडस्य च परिग्रहात् ॥ ५७ ॥ तथा द्विचन्द्रबोधेऽपि भिन्नं द्वेधैन्द्रियं महः । भिन्ने जनयति प्रख्ये एकस्मिन्नेव शीतगौ ॥ ५८ ॥ सम्वित्ती ते न भिद्येते तद्द्वित्वे सति मन्यते । भिन्नार्थबुद्धितुल्यत्वमत्रापि खलु पूर्ववत् ॥ ५९ ॥ स्मरतोऽप्येकतां तेन भ्रमोऽयमुपपद्यते । न हि स्मृतिप्रमोषेण सर्वत्रैव भ्रमो मतः ॥ ६० ॥ दिङ्मोहेऽदृष्टसामर्थ्याद्दिक्स्वरूपानवग्रहात् । दिगन्तरस्वरूपस्य स्मरणाच्च भ्रमो मतः ॥ ६१ ॥ अलातचक्रेऽलातस्य भ्रमतः सर्वतो ४७ रुतम् । निरन्तरं धियो जाताश्चक्रबुद्धिसमा मताः ॥ ६२ ॥ कालभेदस्तु शीघ्रत्वाद्धियां तासां न लक्ष्यते । चक्रधीव्यवहारश्च तेनास्मिन्नपि युज्यते ॥ ६३ ॥ ४८॥ अनेनैव प्रकारेण सर्वभ्रान्तिषु पण्डितैः । ऊहनीया हेतुभेदा यथार्थज्ञानसिद्धये ॥ ६४ ॥ स्थाणुर्वा पुरुषो वेति सन्देहेऽपि यदा द्वयम् । स्मर्यतेऽन्योन्यनिर्मुक्तं तदार्थविरहः कुतः? ॥ ६९ ॥ यदि चार्थं परित्यज्य काचिद्बुद्धिः प्रवर्तते । व्यभिचारवती स्वार्थे कथं विश्वासकारणम्? ॥ ६६ ॥ नन्वत्राप्यरजतधीतुल्यताशङ्कया समः । अविश्वासस्तत्र दोषविरहाच्चेद्विनिर्णयः ॥ ६७ ॥ सममेतद्विपरीतख्यातिपक्षेऽपि दृश्यते । अहो बत महानेष प्रमादो धीमतामपि ॥ ६८ ॥ ज्ञानस्य व्यभिचारे हि विश्वासः किंनिबन्धनः? । ज्ञानस्य व्यभिचारेऽपि ज्ञातं यत्सत्यमेव तत् ॥ ६९ ॥ अज्ञानमपि किन्त्वस्ति रूपभेदनिबन्धनम् । जिज्ञासा जायते येयं साप्यन्येन निवर्तते ॥ ७० ॥ यत्नेनान्विष्यमाणेऽपि रूपं तच्चेन्न दृश्यते । तदा पूर्वैव संवित्तिस्त४९ त्त्वेनाप्यपदिश्यते ॥ ७१ ॥ ५०॥ अयथार्थत्वपक्षे च ज्ञानं साकारमापतेत् । आकारो भासते यो हि ज्ञान एवावतिष्ठते ॥ ७२ ॥ ५१॥ अयथार्थस्य बोधस्य नोत्पत्तावस्ति कारणम् । दोषाश्चेन्न हि दोषाणां कार्यशक्तिविघातिता ॥ ७३ ॥ ५२॥ भस्मकादिषु कार्यस्य विघातादेव दोषता । अग्नेर्हि रसनिष्पत्तिः कार्यं जठरवर्तिनः ॥ ७४ ॥ विद्यमानवस्तुरूपग्रहणे प्रतिबन्धृता । दोषाणामुपपन्नेति भ्रान्तिरग्रहबन्धना५३ ॥ ७५ ॥ विषयाव्यभिचारित्वं साधयितुं सर्वसंविदामेषा । निरमीयत नीतिविदा शालिकनाथेन नयवीथी ॥ ७६ ॥ मिश्रशालिकनाथेन नयवीथीतिसंज्ञितम् । कृतं लोकहितार्थाय प्रभाकरमतं यथा ॥ ७७ ॥ इति श्रीमहामहोपाध्यायशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां नीतिपथो नाम तृतीयं प्रकरणं समाप्तम् ॥ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ जातिनिर्णयो नाम चतुर्थं प्रकरणम् प्रकरणार्थप्रतिज्ञा बहुधा जातिविषये विवदन्ते विपश्चितः । प्रभाकरमतेनायं तेषां प्रत्यास उच्यते ॥ १ ॥ केचिदाचक्षते जातिरिति विकल्पविलासितमिति । एके तु सत्तीमपि जातिमाश्रयेभ्योऽभिन्नामनुमन्यन्ते । अन्ये तु भिन्नामप्यनुमेयामाहुः । अपरे तु भिन्नाभिन्नामिच्छन्ति । तथा अजातावपि जातिव्यवहारो बहुलमुपलभ्यते केषाञ्चिदिति तन्निराकरणायेदमारभ्यते । ५४ इद्धान्तः जातिराश्रयतो भिन्ना प्रत्यक्षज्ञानगो५५ अरः । पूर्वाकारावमर्शेन प्रभाकरगुरोर्मता ॥ २ ॥ पूर्वपक्षः नन्वाश्रय एव द्रव्यं जातेरसदिति सौगताः । तथाहि न परमाणुषु चतुर्विधेषु पार्थिवाप्यतैजसवायवीयेषु जातिराश्रिताभिमता, अनुवृत्ताकारप्रत्ययवियोगात् । भिन्नेषु यदभिन्ना जातिरुपेयते, तत्रानुवृत्ताकारावभासिनी बुद्धिरेव निबन्धनम् । न कस्यचिज्जन्तोः परमाणुषु करणपथविदूरवर्तिषु निपुणमपि निरूपयोऽनुवृत्ताकारावभासिनो मतिराविर्भवति । यापि चेयं परमाणुरिति मतिः, सापि ५६ आरिमाण्डल्यलक्षणगुणकारणिका मीमांसकैरपि सङ्गीर्यते । पृथिवीत्वादिकमपि न तत्तदसाधारणगन्धादिगुणसमवायमात्रलब्धात्मलाभायां पृथिव्यादिबुद्धौ निबन्धनम् । न च स्थलेषु द्रव्येष जातिः समवेयात्, तेषामेव दुरुपगमत्वात् । न खलु स्थूलद्रव्यारम्भो५७ घटते । तथा हिद्व्यणुकादिक्रमेण स्थूलद्रव्यारम्भोऽभिधीयते, तत्र तावद्द्रव्यारम्भ एव न साधीयानिति मन्यामहे । न खलु तथैवैकः परमाणुरारभते । द्रव्यस्यैकाकिनः स्थूलद्रव्यान्तरारम्भकत्वानुपपत्तेः । न चैकैकद्रव्यव्यतिरिक्तमपरमारम्भकमस्ति । संयोगोऽपि च तयोरनुपपन्न एव । स हि नैकैकद्रव्यसमवेतः, नाप्यनेकद्रव्यसमवेतः । एकैकातिरेकेणानेकस्याभावात् । एवञ्च प्रत्येकमेकद्रव्यसमवेतत्वाभावे, नानेकद्रव्यसमवेतत्वमपि सम्भवति । अनेनैव मार्गेण त्र्यणुकस्य त्रिमिर्द्व्यणुकैरारम्भणीयस्य महिमगुणशालिनः सम्भवो निरस्तः । तदेवं दूरभूता स्थवीयसामवयविनामारम्भसंकथा । अपि चावयविनः किमवयवेषु प्रत्येकं कार्त्स्न्येन वृत्तिः ? व्यासङ्गेन वा ? इति चिन्तनीयम् । न तावत्कार्त्स्न्येन वृत्तिमुपलभामहे, एकैकावयवगतस्य तस्याप्रतिपत्तेः । एकैकावयवगते च कम्पे रागे वा सकलस्यावयविनः कम्परागप्रतीतिप्रसङ्गात् । तथावयवान्तरे च कम्परागविरहे कम्परागविरहसमासक्तेः, अवयवी कम्पेत न कम्पेत, रज्येत न रज्येत चेति विषमां दशामाविशेत् । नापि व्यासङ्गेनावयविनो वृत्तिरवयवान्तरविरहात् । अवयवान्तरशालिनो हि केनचिदवयवेन क्वचन, केनचिदवयवेन क्वचनेति व्यासङ्गिनी वृत्तिरुपपत्तिमती । किञ्चैकैकत्रावृत्तेरवृत्तिरेव, एकैकातिरिक्तानेकाभावात् । किञ्च सकलावयवग्रहणे एव नियमेनावयवी ज्ञायेत, न च तथा सम्भवति, अवयवान्तरेणावयवान्तरतिरस्कारात् । न च प्रकारान्तरेण वृत्तिरिति वदितुं शक्यम्॑ अनुपपत्तेः प्रकारान्तरस्य । अवयवेभ्यश्चावयवी व्यतिरिच्यमानोऽव्यतिरिच्यमानो वा न प्रमाणेन सङ्गच्छते । व्यतिरिक्तो हि दिग्रहेऽपि ग्रहणं कदाचिदनुभवेत् । न खलु भिन्नयोः सहोपलम्भनियमो घटपटयोरिव । तद्वदवयव्यपि भिद्यमानो नावयवैरेव सहोपलभ्येत । कस्याञ्चिदपि दशायामननुभूयमानेष्वप्यवयवेष्वनुभूयेत । न चावयविनमवयवानुभवमन्तरेण केचिदुपलभन्ते । अव्यतिरिच्यमानस्तु नास्त्येवेति वचनभङ्गिमात्रेणोक्तं भवति । तदेवमवयवि द्रव्यमुपपत्तिभिरनुसन्धीयमानमेकान्ततो लीयते । कथं तर्हि स्थूलावभासिनी मनीषा समर्थनीया ? इत्थमुत्तराधरभावेन निरन्तरमुत्पन्नाः परमाणव एव समधिगतैन्द्रियकज्ञानजननयोग्यदशाविशेषाः प्रत्यक्षमीक्ष्यन्ते । तांस्तथाभूताननुसंदधतस्तद्बलभावी मानस एव स्थूलविकल्पो विजृम्भते, दूरादिव तरुषु निरन्तरेषु समनुभूयमानेषु वनमिति मतिः । अतः स्थवीयसां द्रव्याणामाश्रयत्वेनाभिमतानामयोगाज्जातिरपि तदाश्रिता नाभ्युपगममर्हति । अपि च जातिरपि नेन्द्रियज्ञानविषया प्रतीयते, तस्या नित्यत्वेनाभ्युपगमात् । नहि नित्यं कस्मैचित्कार्याय पर्याप्तम्॑ तद्धि न शक्तस्वभावम्, नित्यं कार्योदयप्रसङ्गात् । अशक्तस्वभावं तु नित्यत्वादविचिकित्सयाशक्तिकं नित्यं न किञ्चित्कुर्यात् । न चाजनकमिन्दिरनयज्ञानविषयतामनुभवति । यो हि विषयः स्वस्यान्वयव्यतिरेकज्ञानमनुकारयति, स प्रत्यक्षः । किञ्च समुन्मिषितचक्षुषश्चिराय विषयान्तरानुसन्धानव्यावृत्तचित्तस्य पुरोवर्तिनीं स्वस्तिमतीं कालाक्षीं वा साक्षात्कुर्वाणस्येव न जातिरपरावभासते । अन्यच्च न जातिरसौ पिण्डैः सहोत्पद्यते, विनश्यति वा । तथोपगमे ५८ वरूपहानिप्रसङ्गात् । एका५९ च जातिरनेकाधिष्ठाना प्रतिज्ञायते, उत्पत्तिमती विनाशिनी चान्यान्या स्यात्, विरुद्धधर्माध्यासस्य भेदापादकत्वात् । सेयं नित्या जातिरुदितवत्यां व्यक्तौ प्रतीयमाना नान्यत आगता, निष्क्रियत्वात् । न च तत्रैवासीत्, प्रागप्रतीतेः । न च स्थितिरपि युक्तिमती, व्यक्तिरेव हि तस्या देशो नाकाशादिः, अनुत्पन्ना च व्यक्तिरिति क्वावतिष्ठतामाकृतिः । नचोत्पाद्येऽप्यवतिष्ठते । तदेषा जातिरवतिष्ठते, नावतिष्ठते च, इति सङ्कटमापतितम् । किञ्च व्यक्तेरभिन्ना वा ?भिन्ना वा ? उभयरूपा वा जातिरास्थेया ? । तत्र नाभिन्ना॑ तथाभावे व्यक्त्या सहोत्पादे विनाशे वा स्वरूपहानिप्रसङ्ग इति पुरस्तादुपन्यस्तम् । व्यक्तिमात्राङ्गीकारे च कोऽस्मत्पक्षस्य अस्य च भेद इत्यपि चिन्तयान्तः सीदन्तु भवन्तः । अतो व्यक्तिमात्रमेवव तत्त्वमिति वदतां साहाय्यकमेवाचरितमनतिरेकिणीं जातिमुररीकुर्वाणैः । भिन्नत्वेऽपि पिण्डग्रहणमन्तरेण ग्रहणापत्तिः । उभयप्रतीतौ च सम्बन्धप्रतीतिसमापत्तिः६० । अस्त्येवेति चेत्॑ महदिदं वैयात्यम् । कः खलु इह गवि गोत्वमिति मतिमभ्युपगच्छेत्, अन्यत्र निरस्तत्रपायन्त्रणात्भवतः । भिन्नत्वे च वृत्तिप्रकारो दुर्निरूप एवकिं व्यासङ्गिनी वृत्तिः ? उत प्रत्येकपरिसमाप्तिमतीति । एकत्र च परिसमाप्तावन्यत्र न वर्तेतेति पुनरपि स्वरूपहानिप्रसङ्गः । व्यासङ्गोऽपि कालत्रयवर्तिनीषु व्यक्तिष्वनुपपन्न एव । प्रत्येकञ्च गौः गौरिति प्रत्ययो विकल्पमात्रमित्यङ्गीकृतं स्यात् । न चोभयरूपता, विरोधात् । न चोपलम्भबलेन विरोध एव नास्तीति चतुरस्रम्, तथाविधस्योपलम्भस्यैवासम्भावनीयत्वात् । अभिन्नाकारबुद्धिबोध्यं हि वस्त्वभिन्नमिति लौकिकाः मन्यन्ते, विलक्षणाकारबोधविषयश्च भिन्नमिति । तत्र यदि विलक्षणाकारप्रतीतिसमये द्वे वस्तुनी विलक्षणेनाकारेणावभातस्तदाभेदप्रतीतिदशायामेक आकारोऽनुभवनीयःस जातिभागस्य ? तत्रैकस्य द्विरवभासोऽयं स्यान्न तु जातिजातिमतोरभेदावभासः । अथविलक्षणावप्याकारौ तादात्म्येनावसीयेतेइति मतम् । तत्रापि पर्यनुयोजनीयःकिमिदं तादात्म्यं नामेति ? यद्येकाकारतेति ब्रूयात्॑ तर्हि पूर्वोक्तमेव दूषणमात्मसात्कृतम् । शब्दयोः सामानाधिकरण्यं तादात्म्यमिति चेत्? ६१ युक्तमिदं, गौर्वाहीक इत्यादावतादात्म्येऽपि सामानाधिकरण्यदर्शनात् । उपचारस्तत्रेति चेत् । अत्रापि भिन्नजातिवादिन उपचारमेव मन्यन्ते । वयन्तु विवक्षामात्रपरतान्त्राः शब्दा न वस्तुव्यवस्थापनायेशत इति सर्वत्र मन्यामहे । कथं तर्हि गौर्गौरिति नानाभूतासु व्यक्तिषु बुद्धिरनुवृत्तमाकारमुल्लिखन्ती समुपजायते ? तेनास्या एव बुद्धेर्द्रढिम्नः कारणमनुमास्यामहे । अस्ति तद्विशेषणं यदुपरागवशेनेयं भिन्नेष्वभिन्नाकारानुसन्धायिनी धीरुदीयत इति । तदपि न जातिसाधनसमर्थम् । कार्यभूता हि बुद्धिरेषा कारणमाक्षिपन्ती यदनन्तरमेवोपजायते तदेव कारणं कल्पयति, न पुनरप्रतीतमपरमपि किञ्चिदुपस्थापयति । सा चेयं स्वलक्षणविषयदर्शनसमनन्तरभाविनीति ता एव व्यक्तयः स्वनिर्भासा बुद्धीरुपजनय्य तन्मुखेन तामेकाकारानुभासिनीं धियमाविर्भावयन्ति । नितान्तभेदवतीनां च व्यक्तीनां कासांचिदेष महिमा न सर्वासामिति किमनुपपन्नम् । यथा ह्यत्यन्तभिन्ना अपि चक्षुरालोकमनस्संयोगाः एकसामग्रीसमुपनिपतिता एकविज्ञानोदयलक्षणं कार्यमारभन्ते, तथा व्यक्तयोऽपि किं नारभन्त इति नेदं प्रतिपत्तिकठिनम् । सा चेयं स्वाकारेणाभेदेनात्यन्तिकभेदयोगिनीनामपि व्यक्तीनां भेदं सम्वृणोतीति संवृतिरित्यनुगीयते । एषा च मनीषा न स्वलक्षणं विषयीकरोति, तस्य विशदावभासित्वात्, अस्याश्चाभिलापसंसर्गयोग्यार्थप्रतिभासत्वात् । अभिलापानाञ्च विशदाकारमवभासितुमशक्तेः, अभिलापमात्रेण तथाविधप्रतीत्यभावात्६२ । तेनैषा न स्वच्छाकारावभासिनी । नन्वेतत्प्रतीतिपराहतमुदितम्, गौरयमिति बुद्धौ विशदावभासात् । उच्यतेन विशदावभासित्वमवजानीमहे । तत्तु समानकालभाविनो निर्विकल्पप्रतययस्य स्वलक्षणावलम्बिनः प्रसादात्, तदभावे तथात्वानुपलम्भात् । न चैतद्वाच्यं कथमेकमेव वस्त्विन्द्रियैर्विशदावभासमनुभूयते, शब्दैश्चा६३ इशदावभासमिति । भिद्यमानेऽपि बोधोपाये बोध्याभेदेबोधवैलक्षण्यानुपपत्तेः । नियताकारञ्च स्वलक्षणमनियताकारश्चास्यां बुद्धौ चकास्ति । तदेवं विशदाविशदतया नियतानियततया च स्वलक्षणस्य विकल्पाकारस्य च भेदे सत्यपि विकल्पाः साक्षात्परम्परया वा स्वलक्षणविषयदर्शनप्रभवतया स्वलक्षणग्रहणाभिमानिनो जायन्ते । तत एव तत्र प्रवर्तयन्तः पुरुषं व्यवहाराङ्गभावमनुभवन्ति । पारम्पर्येण वस्तुनि प्रतिबन्धादवस्त्वपि प्रतिबद्धं भवति, मणिप्रभायां मणिबुद्धिवत् । यथा हि खलु मणिप्रभायां मणिदीप्तायां मणिकिरणविषयिणी मणिबुद्धिरयथार्थतया भेदमजुषमाणापि मणिमनु प्रतिबद्धेति मणिसमधिगमनिमित्तं भेवत, तथेयमपि वस्तुतः स्वलक्षणमगृह्णत्यपि स्वलक्षणाद्दर्शनं, दर्शनतो विकल्प इति स्वलक्षणप्रतिबद्धा सती तत्प्राप्तये प्रभवति । निर्विकल्पकप्रत्ययसमधिगतस्वलक्षणप्रापकतया च स्मृतिरियमुच्यते । तत एव च गृहीतग्राहित्वादप्रमाणम्, अन्यथा वस्तुविषयतया वस्तुप्रापकतया चानुमानमिव प्रमाणमेव स्यात् । स चायं तस्याकारः प्रथमानो न ज्ञानस्यैव, बहिष्ट्वेनावभासात् । न चार्थगत एव॑ उक्तेन न्यायेन निरस्तत्वात् । किन्त्वयमसन्नेव ज्ञानमनु भासते शब्दमिव प्रतिशब्दः । एतच्च शास्त्रचिन्तका विवेचयन्ति, प्रतिपत्तारस्तु दृश्यविकल्प्यावर्थावेकीकृत्य बाह्यमेवानुन्यमाना व्यवहारेषु प्रवर्तन्ते, प्रवृत्ताश्चार्थप्रतिलम्भेनाविसंवादं मन्यन्ते । कथं पुनरेकत्वाध्यवसायो दृश्यविकल्प्ययोः, अतद्व्यावृत्ततया तत्सदृशत्वात्, यथा दृश्यस्यातद्व्यावृत्तता, तथा विकल्प्यस्यापि । तस्माज्जातिप्रत्ययो विकल्पमात्रम्, परमार्थतस्तु न जातिर्नाम किञ्चित् । अपि च द्रव्यसमवायिनी जातिरभिमता । न च गन्धादिव्यतिरिक्तं द्रव्यमुपलभामहे, चक्षुरादीनां प्रत्येकं रूपादिष्वेव व्यापारादिति पूर्वपक्षसंक्षेपः । सिद्धान्तः अत्रोच्यतेसंविदेव हि भगवती विषयसत्त्वोपगमे शरणम् । गवादिषु च स्थूलाकारावलम्बिनी संविदुदीयत इति निर्विवादम् । नयवीथ्याञ्च निर्णीतं प्रमाणं स्मृतिश्च नः प्रत्यय इति । ननु तदेवासदिति मन्यते, अवयव्यादीनामेकान्ततोऽनुपपन्नत्वात् । उच्यते । न दृष्टे काचिदनुपपत्तिः । ननूक्तावयविनोऽनुपपत्तिः आरम्भकाभावात् । अनुपपन्नेयमनुपपत्तिः॑ कार्यं प्रतीतं कारणकल्पनायां प्रमाणम् । न पुनः स्फुटावभासिकार्यं कारणानिरूपणेऽपह्नवमर्हति, तेनावयवा एव समासादितसंयोगलक्षणसाधारणगुणा अवयविन उत्पादका भविश्यन्ति । ६४ अंयोगश्चैक एवानेकत्र वर्तते, एकैकत्र संयुक्तप्रत्ययानुदयात्, एकातिरिक्तानेकाभावेऽप्येकैव एव सद्वितीय आश्रयः संयोगस्येति न दोषः । ननु द्रव्यमेव तथोत्पन्ने संयोगविकल्पमाविर्भावयतो न तदतिरेकी संयोगो नाम कश्चिद्गुणविशेषः । तन्न, प्रत्यभिज्ञायेते हि द्रव्ये अनुवृत्ते । कादाचित्की च तयोरपरेयं दशा दृश्यत इति भवत्येव भेदसिद्धिः । स्थापिता च मीमांसाजीवरक्षायां प्रत्यभिज्ञा । अतः संयोगलक्षणसाधारणगुणासमवायिकारणोपगृहीता अवयवा एव समवायिकारणमवयविन उपपद्यन्ते । ६५ अश्चायमवयविनो वृत्तिविकल्पेन दोष उक्तः, सोऽप्यवयविनः प्रतीतौ स्थितायामनुपपन्नः । व्यासक्त एवावयवेष्ववयवी, नैकत्र जातिवत्परिसमाप्तः । अवयवान्तरैरपि च विना स तस्य कोऽपि महिमा, य एक एवानेकावयवानुस्यूत इति किं न कल्प्यते । यद्यपि चावयविन एकैकत्रावृत्तिस्तथापि नावृत्तिदोषः । संयोगसचिवा एवावयवा जनका आश्रयभूता यतः जनकतयैवाश्रयत्वात्समवायिकारणानाम् । अत एव संयोगः सद्वितीयाश्रय इति न दोषः । न च सकलावयवोपलम्भसापेक्षा तदुपलब्धिः, अवयविनस्तेभ्यो भिन्नत्वात् । न चैतावता एकावयवग्रहणेऽपि ग्रहणपर्यनुयोगो युक्तः, कार्यानुगुणत्वात्कारणकल्पनायाः । कार्यसिद्ध्यर्थं हि कारणं परिकल्प्यते न कार्यविनाशाय । तेन यावतामवयवानां ग्रहणे तदुपलम्भस्तावतामेवावगमस्तदवगमनिबन्धनमिति दर्शनबलेनाभ्युपेयते । ६६ हिन्नत्वेऽति तत एव सहोपलम्भनियमः, उपेयोपायभावात् । उपेयभूतोऽवयवी उपायपदवर्तिनश्चावयवाः । प्रत्येकं तु तेषां शक्यत एवासहोपलम्भोऽपि वक्तुम्, अवयवान्तरयोगिनोऽवयविनोऽपि परिग्रहे इतरावयवव्यतिरेकोऽपि सुदर्श एव । इयञ्च भेदसाधने युक्तिःन्वयव्यतिरेकाभ्यां हि वस्त्वन्तरत्वमवसीयते, अवगम्यमानोऽपि चावयवी विलक्षणबुद्धिगोचरतामावहत्येव । अवयवी हि स्थवीयानेको हृदयमागच्छति अवयवास्तु क्षोदीयांसो भूयांसश्च । स चायमवयवी महत्त्वाद्रूपवत्त्वाच्च चाक्षुषः स्पार्शनो वा, पार्थिवो वाम्भसो वा तैजसो वा । वायवीयस्तु महत्त्वात्स्पर्शवत्त्वाच्च स्पार्शन एव । द्व्यणुकस्तु चातुर्भौतिकोऽप्यमहत्त्वादप्रत्यक्ष एव । तस्य चामहत्त्वम्, ६७ वयवबहुत्वमहत्त्वप्रचयविशेषाणां महत्त्वगुणकारणानामभावात् । गगनादीनां तु महतामपि रूपस्पर्शविधुरतया न प्रत्यक्षगोचरतेत्यलमतिविस्तरेण । ननु सकलावयवसमाश्रितत्वादवयविनस्तिरोहितैरवयवैः सहेन्र्दियासन्निकर्षे कथमवयविना समागमः? न चासङ्गतमेव बहिरिन्द्रियमवबोधकमिति प्रतिज्ञा युज्यते, अवयवानामप्यसन्निकृष्टेन्द्रियबोध्यत्वापत्तेरिति । उक्तोत्तरमेतत, भिन्नत्वादवयविनोऽवयवान्तरासंयोगेऽपि संयोगबुद्धेः पटादिषूपपन्न एवेन्द्रियसन्निकर्षोऽवयविनः । तदनया दिशा तावदुपपन्नमाश्रयद्रव्यमाकृतेः पृथुलम् । ननूक्तं रूपादिव्यतिरेकि द्रव्यं नोपलभ्यत इति, किमिदं पश्यतोहरत्वम्प्रतीयते हि महानवयवी रूपादिव्यतिरेकी । अत एव जपाकुसुमसन्निधानाभिभूतरूपमपि स्फटिकद्रव्यं प्रत्यभिज्ञायते । कथं नामागृहीतं प्रत्यभिज्ञायेत । अपि च दर्शनस्पर्शनाभ्यामेकार्थग्रहणाद्रूपस्पर्शव्यतिरेकि द्रव्यं स्फुटतरप्रतीतं तत्नापन्होतुमुचितम् । अत एव वनादिषु बाधकप्रत्ययबलेन तत्कल्पना न प्रसरतीति दूरतयान्तरालाग्रहणनिबन्धनोऽयमभेदव्यवहारः प्रवर्तत इति । अवयविनि तु बाधकज्ञानं नास्तीति पुरस्तादावेदितम् । तेनाश्रयद्रव्याभावाज्जातेरपलापः प्रलापमात्रमिति स्थितम् । यच्चेदमुदितंऽनित्यतया जातेरात्मविज्ञानजननेऽपि न शक्ततेतिऽ तदपि ६८ षणभङ्गनिराकरणपर्वणि विस्तरेण नित्यानामथक्रियाकारित्वसमर्थनेन प्रत्युक्तम् । मा वा स्वविज्ञानमपि जातिरजीजनत् । तथापि कथङ्कारंरसावप्रत्यक्षा । काममप्रत्यक्षा । अथवा न खल्वियमाज्ञा राज्ञः कारणभूतस्यैव प्रत्यक्षेण भवितव्यमिति । यस्तु यतः प्रतीतये स तस्य विषय इति सर्वालौकिकम् । ननु प्रत्यक्षमप्यविसंवाद्येव प्रमाणम् । असंविवादश्च तस्मादात्मलाभातन्यतस्तु भवतो६९ऽतथाभूतस्य वाभावेऽपि भावसम्भवान्नियमेन संवादायोगादिति बालादभ्युपेयं प्रत्यक्षस्य कारणमेव विषय इति । अत एव च प्रत्यक्षमनुमानं च द्वे एव प्रमाणे॑ तयोरेवार्थाविसंवादकत्वात् । प्रत्यक्षं साक्षादर्थेन प्रतिबद्धम्, अनुमानं त्वर्थप्रतिबद्धलिङ्गजन्यतया पारम्पर्येण प्रतिबद्धम् । यस्य तु न साक्षात्, नापि परम्परयार्ऽथप्रतिबन्धः, न तस्य प्रमाण्यमुचितं, तस्य तदविसम्वादनियमाभावात् । अर्थाविसम्वादि च प्रमाणं व्यवजिहीर्षमाणा लौकिका आद्रियन्ते इति । सिद्ध्येदयं मनोरथो यदि ज्ञानान्तरनिबन्धनोऽविसंवादः प्रार्थनीयः । यद्विषयमेव च यज्ज्ञानं, तेनैव तस्मिन् विषये पर्युपस्थापिते नास्ति प्रत्ययान्तरनिबन्धनाविसंवादप्रार्थना । अर्थेनाप्रतिबद्धमपि च ज्ञानं स्वमहिमपर्युपस्थापितार्थमविसंवादकमेव संप्रवर्तते । तेनोत्पत्तिमात्र एव विज्ञानस्य परापेक्षा, न प्रामाण्येर्ऽ७० हाव्यभिचारलक्षणे । अतः सिद्धं शास्त्रादीनामपि अर्थप्रतिबन्धविरहिणां प्रामाण्यम् । एतदर्थमेव नयवीथ्यां"सर्वं ज्ञानं विषयाव्यभिचारि" इति प्रतिपादितम् । अतो नित्यायामपि जातौ भवत्येव प्रत्यक्षस्य प्रामाण्यम् । यत्पुनरुक्तम्ऽएकभावेन मनसा समाकलयतः कालाक्षीं स्वस्तिमतीं वा नास्ति जातिप्रतीतिःऽ इति । तदसिद्धम्, आकारो हि सा, प्रतीते चाकारे यदि परमर्थान्तरानुसन्धानविकलतया तस्यानुवृत्तिर्नावसीयते । अनुवृत्ता च जातिर्नानुवृत्तिः । अग्रहणेऽपि च धर्मस्य धर्मिणो ग्रहणं नानुपपन्नम् । अत एव च पिण्डान्तरसमधिगमे पूर्वाकारपरामर्शिनी मनीषा प्रत्यभिज्ञासमाख्यातोदीयते । यच्चोक्तम्ऽअनाश्रयतया तत्रैव प्रागनवस्थिता निष्क्रियतया चान्यस्मादनागच्छन्ती स्वरूपहानिप्रसङ्गेन व्यक्त्या सहानुपजायमाना कथं सम्बन्धमनुभवति जातिःऽ इति । तदिदं मायामोहजननं यथाजातजनोद्वेजनमात्रम् । संयोगो ह्युभयकर्मजो भवति मल्लयोरिव, अन्यतरकर्मजो वास्थाणुश्येनयोरिव, संयोगजो वा यथा तन्तुतुरीसंयोगादुत्पन्नस्य पटस्य तुरीसंयोगः । स च कर्म, प्राक्संनिधानं वापेक्षते । समवायस्तु संयोगाद्विभिन्नो न कर्म, प्राक्सत्तां वापेक्षते । यत एव तु पिण्डस्योदयः समवायिकारणात्, तत एव जातिसमवायोऽपि तस्य उत्पद्यते । ७१ अमवायञ्च न वयं काश्यपीया इव नित्यमुपेमः । ७२ इनष्टाथामपि व्यक्तौ न जातिरन्यत्र याति, न च तत्रावतिष्ठते, न विनश्यति, केवलं तद्व्यक्तिसमवायस्तस्या निवर्तते तेन तस्यानुपलम्भनम् । तथाहिन याति निष्क्रियत्वात्, नावतिष्ठते व्यक्तिमात्राश्रयत्वात्, तदभावेऽवस्थानांसम्भवात्, न च विनश्यति, पिण्डान्तरेऽपि प्रत्यभिज्ञायमानत्वादिति । विनाशो नामात्यन्तिकोऽनुपलम्भ ७३ त्यमृतकलायां वक्ष्यते । अतो न सङ्कटं किञ्चित् । यच्च पिण्डेभ्यो जातेरभिन्नत्वमुभयरूपत्वञ्च दूषितम्, तदस्माकं साहायकमेवाचरितम् । को हि नाम सचेतनः पदार्थान्तरप्रत्यभिज्ञामभेदाश्रयेण साधयेत् । को वा परस्परविरोधिनी एकस्य द्वे रूपे प्रतिजानीते । भेदवादः पुनरस्माकमपि सम्मत एव । न च तत्र इहप्रत्ययापत्तिर्देषः । प्रतीत्य ह्याधारमाधेयञ्च सम्म्बधं प्रतीयात् । सर्वञ्च रूपं रूपिग्रहणमन्तरेण न प्रतीयते । अतः समानेन्द्रियग्राह्यतया जातिरपि व्यक्तिप्रत्ययानुप्रवेशिनीति, न इह प्रत्ययसम्भवः । कर्मणि त्वनुमेये भवत्येव इहप्रत्ययः । वृत्तिविकल्पे तु कृत्स्नसमाप्तिरेवाङ्गीकरणीया । न चान्यत्रावृत्तिदोषः, प्रत्यक्षावगमाद्वृत्तेः । प्रत्यभिज्ञायाः स्थापितत्वात् । पृथग्ग्रहणं तु जातेरसिद्धमेव । व्यक्त्यन्तरे हि जातिः प्रतीयमाना प्राच्यपिण्डपरिहारेण प्रकाशते । उदीच्यपिण्डपरिहारस्तु प्राक्तनपिण्डसमधिगमसमये सिद्ध एवेति परिहृतनिखिलानुपपतितकमुपपादितं गवादिषु साधारणाकारानुभवसिद्धं जातितत्त्वम् । उपपन्नञ्च प्रत्यक्षवेद्यत्वं जातेः, इन्द्रियव्यापारानुविधानेन प्रतीतेः । संयुक्तसमवायलक्षणश्च सन्निकर्षोऽपि नानुपपन्नः । गौरयमिति च मतिर्विशदतरार्थनिर्भासिनी प्रथत इति चेत् । तन्न, तथाभावे प्रमाणाभावात् । शब्दमात्रेण तु केवलाकारपरिगृहीताकारप्रतीतेः रूपान्तरानवभासाच्चाविशदावभास एव । ऐन्द्रियके तु सम्वेदने प्रचुरतरावयवरूपावभासाद्विशदावगम इति नाबाह्यविषयत्वापत्तिः । नन्वेषा जातिप्रतीतिर्भिन्नामेव व्यक्तिमभेदेनावगमयन्ती जायत इति भ्रान्तिरेषा न प्रत्यक्षं प्रमाणम् । इयन्तु भ्रान्तिर्निर्बीजा न युज्यत इति बीजभावेन जातिरनुमीयते, तत्समवायश्च । दृष्टा हि सन्तापसञ्चारितदहनपरमाणुसंवलितायोगोलके दहनाकारानुकारिणी प्रतीतिरिति । तदिदमुक्तोत्तरमपि पुनः पर्यनुयोज्यामहे विस्मरणापराधादिति मन्यामहे । भिन्ना हि जातिरवगम्यते । न खल्वाकारमाकारिणञ्चैकमेव मन्यामहे । केवलं शब्दप्रयोगे एव समाधिर्वक्तव्यः । तत्र च लौकिकः प्रयोग एव शरणम् । प्रयोगश्च श्रुत्या लक्षणया गौण्या वा वृत्त्या नानुपपन्नः । समवायस्तु भवतु वस्त्वन्तरे सिद्धेऽनुमेयः, प्रत्यक्षेण तदनवगमात् । आकृतिस्तु प्रत्यक्षप्रमाणसिद्धा नानुमेया । नचानुमानमपि शक्यं शाक्येषु प्रतिबन्धुष्वित्यलमतिविस्तरेण । सत्ताजातिनिराकरणम् । अत्र केचिद्गवादितुल्यतया द्रव्यगुणकर्मस्वपि सत्ताजातिमङ्गीकुर्वन्ति, भवति हि सर्वेष्वेव सत्सदिति प्रत्ययानुवृत्तिरिति संवदन्तः । तदिदमपरामृष्टजातितत्त्वानामुपर्युपरि जल्पितम्७४ । पूर्वरूपानुकारिणी यदि धीरुदीयते, ततोऽभ्युपेयेतैव जातिः । न च नानाजातीयेषु द्रव्येषु सर्षपमहीधरादिषु, गुणेषु गन्धरसादिषु वा समानाकारानुभवो भवति । कवेलं तु तत्सदिति शब्दमात्रमेव प्रयुज्यते । भवति च विनापि जात्या पाचकमीमांसकादिशब्दप्रवृत्तिः । नन्वेवं शब्दप्रवृत्तिरपि नैकनिबन्धनमन्तरेणोपपद्यते । सत्यं, अस्त्येवोपाधिरेकः प्रमाणसम्बन्धयोग्यता नाम । ७५ ७६ अत्रान्यः पण्डितम्मन्यो मन्यतेनन्विदमसमञ्जसमुच्यते सर्वत्र ह्युपाधिभेदमवगम्यौपाधिकशब्दानुविद्धः प्रत्ययो भवति, न पुनः प्रागेव, सह वा । इह च प्रमाणमेव जायमानमस्तीत्येवमेव जायते । प्रमाणोदयोत्तरकालं ह्यनया भवितव्यम् । किञ्च सत्यपि प्रमाणयोगे किञ्चिदस्तीति गम्यते, किञ्चिच्चासीदिति, तथान्यद्भविष्यतीति । तत्र प्रमाणसम्बन्धस्य वर्तमानत्वात्सर्वत्र वर्तमानसत्ताप्रतययेन भवितव्यम् । तदतिरेकिणि तु सत्त्वे तस्य त्रेधा व्यवस्थानाद्युक्तस्त्रिधावभासः । अपि च भूमितलनिखातेषु चिरतरकालवर्तिषु प्रलीनज्ञातृपुरुषेषुलिङ्गादिरहितेषु सकलप्रमाणप्रत्यस्तमयेऽपि वर्तमानसत्तासन्देहः । स च प्रमाणसम्बन्धातिरेकिणीं सत्तामन्तरेणानुपपन्न इति । तदिदमनाकलितपरवचनस्य केवलं गलगर्जितम् । उक्तमस्माभिः प्रमाणसम्बन्धयोग्यतोपाधिरिति । यदि हि प्रमाणसम्बन्ध उपाधिरिति वदेम, तत इत्थमुपालम्येमह्यपि । योग्यता तु प्रमाणसम्बन्धातिरिक्ता प्रमाणेनावसीयत इति युक्त एवास्तीति प्रमाणोदयः । तस्याश्च त्रैकाल्यात्त्रैकाल्यावगमोऽपि समर्थित एव । तस्याश्च संशायिततापि युक्तैव । का पुनरियं प्रमाणसम्बन्धयोग्यता नाम । ननु नामान्तरेण महासामान्यमेवेदमुररीकृतम् । नैतदेवम्॑ यो हि महासामान्यं सत्तां सङ्गिरते, सोऽपि स्वरूपसत्तां पदार्थानां मन्यत एव । अन्यथा शशशृङ्गादीनामनुत्पन्नातिवृत्तानाञ्च किमिति महासामान्येन सम्बन्ध एव न स्यादिति पर्यनुयोगे, कः परिहारः ? तेन स्वरूपसत्तैव प्रमाणसम्बन्धयोग्यता । यस्य हि स्वरूपमस्ति, तत्प्रमाणेन परिच्छिद्यते । त्रैकाल्यमपि स्वरूपस्यैव युक्तम्, न च महासामान्यस्य, नित्यत्वात् । तथा संशयिततापि तस्यैव, न पुनरसंशयिते स्वरूपेऽपरः सत्तासन्देहो भवति । अथ नित्याया अपि सत्तायाः कः सम्बन्धो यः स त्रिकालः । तस्यैव त्रैकाल्यं कुतः ? नान्यदत्रोत्तरं स्वरूपत्रैकाल्यादित्यतः । तस्मात्स्वरूपसत्तोपाधिक एव सच्छब्दो न पुनरेक आकारः सत्ता नाम द्रव्यगुणकर्मणाम् । ७७ पि च काश्यपीयानां जातिसमवायविशेषेषु स्वरूपसत्तोपाधिक एव सच्छब्द इत्यभ्युपगमः । तस्य च द्रव्यगुणकर्मस्वपि तथाभावोऽस्त्विति । तदेवमपाकृते पदार्थस्वरूपातिरेकिणि महासामान्ये सत्ताख्ये यत्स्वमनीषानिर्मितकुतर्कबलेन सन्मात्रविषयं प्रत्यक्षमिति साधितं, तदतिदूरोत्सारितम् । एतेनैव न्यायेन शब्दत्वमपि निरस्तं वेदितव्यम् । नहि ककारगकारयोरेकमाकारमनुगतं परामृशन्ती मनीषा समुन्मिषति । योऽपि चायं शब्दशब्दः, सोऽपि श्रोत्रग्रहणोपाधिलब्धप्रवृत्तिरिति न जातु जातिकल्पनायै विभवति । तदिदमपहस्तितम्, यदाहुः ७८"शब्दत्वमेव तत्तदसाधारणाभिव्यञ्जकध्वनिनिबन्धनतया नानावर्णपेण विषयीभवत्तस्य तस्यार्थस्यावगमाय कल्पत" इति । ब्राह्मणत्वादिजातिनिराकरणम् । अनयैव च दिशा ब्राह्मणत्वादिजातिरपि निवारिता । नहि नानास्त्रीपुरुषव्यक्तिषु पुरुषत्वादर्थान्तरभूतमेकमाकारमात्मसात्कुर्वान्ती मतिराविर्भवति । नहि क्षत्रियादिभ्यो व्यावर्तमानं सकलब्राह्मणेष्वनुवर्तमानमेकमाकारमतिचिरमनुसन्दधतोऽपि बुध्यन्ते । यदप्याहुः ७९ अद्यप्यापातसंजातया धिया ब्राह्मण्यं नावसीयते, तथापि ब्राह्मणभूतमातापितृसम्बन्धानुसन्धानप्रभवायां बन्द्धौ तच्चकास्तीति । तदपि च स्वमानसविसंवादि । अनुसन्दधानोऽपि मातापितृसम्बन्धं को जात्वेकमाकारमवबोद्धुं प्रभवति । यच्चोपदर्शितम्यथा विलीनमाज्यं तैलादव्यतिरिच्यमानं गन्धग्रहणसहकारिणा चक्षुषैव भिन्नमवगम्तयैति । तदपि न सुन्दरम् । नहि तदानीं चाक्षुषस्य संवेदनस्य विषयातिरेकः, किन्त्वनुमानमेव तत्र सर्पिषः । यस्तु निपुणदर्शो सूक्ष्ममपि रूपमीक्षितुं क्षमः, स चक्षुषैवाज्यजातिमपि प्रत्येति, न गन्धग्रहणमपेक्षते । नन्वेवं बह्ववहीनम्, किंनिबन्धनो हि तदानीमाहवनीयादिसाध्यकर्मसु केषाञ्चिदधिकारो नान्येषाम्॑ किंनिबन्धना च ब्राह्मणशब्दस्य प्रवृत्तिव्यवस्था इति । ८० त्रोच्यते । अनादौ संसारे जन्यजनकभावेन व्यवस्थितास्तावत्काश्चिदेव स्त्रीपुरुषसन्ततयः सन्ति, तासामन्योन्यव्यतिकरेण जाताः स्त्रीपुंसव्यक्तयो ब्राह्मणशब्दवाच्याः । अनिदम्प्रथमतया च सन्ततेः सर्वेषां तत्सन्ततिपतितत्वात्सिद्धा ब्राह्मणशब्दवाच्यता । तेन सन्ततिविशेषप्रभवत्वमेव ब्राह्मणशब्दप्रवृत्तावुपाधिः । तत्प्रभवानामेव कर्मस्वधिकार इति न किञ्चिदवहीनम् । के पुनस्ते सन्ततिविशेषाः । न ते परिगणय्य निर्देष्टुं शक्यन्ते, किन्तु लोकत एव प्रसिद्धाः प्रत्येतव्याः । तथा च तज्जन्यत्वेऽवगते ब्राह्मणशब्दं प्रयुञ्जते लोकाः । कथं पुनस्तज्जन्यत्मेव शक्यमवगन्तुम्, स्त्रीणामपराधसम्भवात्? संभवन्ति हि पुंश्चल्यो स्त्रियः परिणेतारं व्यभिचरन्त्यः । उच्यते । उक्तमेतत्दृश्यादर्शनमेवाभाव इति । यत्र यावत्युपलब्धिसामग्री, तावत्यां सत्यामपि यासां व्यभिचारो न दृश्यते, तासां नास्त्येव व्यभिचार इति लोकप्रमाणकमेतत् । अपि च अप्रमत्तैः स्त्रियो रक्षणीयास्तासु नास्त्येव व्यभिचारसम्भावनावकाशः । यासु त्वस्ति, माभूत्तदपत्येषु तत्सन्ततिप्रभवत्वनिश्चयः । न चैतावता यत्रापि निश्चयः शक्यस्तत्राप्यनिश्चय इति वक्तुं युक्तमिति । यच्च बह्वीषु ज्वालास्वेकवर्तिवर्तिनीषु ज्वालात्वं सामान्यं प्रत्यभिज्ञागोचरः कैश्चिदिप्यते । तदपि गुरुरस्माकं न मृष्यति । स खल्वेवं निरीक्षञ्चक्रे अनन्यथासिद्धा बुद्धिः सामान्यकल्पनाबीजम् । इयं तु भेदाग्रहणेन शुक्तिकारजतप्रत्ययवदुपपद्यत इति नालं सामान्यमौपस्थापयितुम् । तेन भेदग्रहणपुरस्सरमभेदज्ञानं भिन्नेषु जात्यभ्युपगमे शरणमिति निरवद्यम् । शालिकनाथेन कृतं कृतमतिना जातिनिर्णयाख्यमिदम् । बहुविधविवादहरणं प्रकरणमुरुणावधानेन ॥ इति श्रीमहामहोपाध्यायशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां जातिनिर्णयो नाम चतुर्थं प्रकरणं समाप्तम् । ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अमृतकला नाम पञ्चमं प्रकरणम्८१ । प्रमाणलक्षणम् । ८२ नुभूतिः प्रमाणं सा स्मृतेरन्या स्मृतिः पुनः । पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते ॥ १ ॥ न प्रमाणं स्मृतिः पूर्वप्रतिपत्तेरपेक्षणात् । अन्योन्यनिरपेक्षास्तु धारावाहिकबुद्धयः ॥ २ ॥ प्रभाकरसम्मतं प्रमाणजातम् । तत्र पञ्चविधं मानं प्रत्यक्षमनुमा तथा । शास्त्रं तथोपमानार्थापत्तीमिति गरोर्मतम् ॥ ३ ॥ प्रत्यक्षनिरूपणम् । साक्षात्प्रतीतिः प्रत्यक्षं मेयमातृप्रमासु सा । मेयेष्विन्द्रिययोगोत्था द्रव्यजातिगुणेषु सा ॥ ४ ॥ सविकल्पाविकल्पा च प्रत्यक्षा बुद्धिरिष्यते । आद्या विशिष्टविषया स्वरूपविषयेतरा ॥ ५ ॥ सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा । साक्षात्कर्तृत्वसामान्यात्८३ प्रत्यक्षत्वेन सम्मता ॥ ६ ॥ प्रमाणफलभावनिरूपणम् । मानत्वं संविदां बाह्यं हानादानादिकं फलम् । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी ॥ ७ ॥ आपेक्षिकञ्च करणं मन इन्द्रियमेव वा । तदर्थसन्निकर्षो वा मानञ्चेत्पूर्वकं फलम् ॥ ८ ॥ अनुमाननिरूपणम् । ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात् । एकदेशान्तरे बुद्धिरनुमानमबाधिते ॥ ९ ॥ यः कश्चिद्येन यस्येह सम्बन्धो निरुपाधिकः । प्रत्यक्षादिप्रमासिद्धः स तस्य गमको मतः ॥ १० ॥ प्रमेयमनुमानस्य दृष्टादृष्टस्वलक्षणम् । परप्रत्यायनेच्छूनामनुमोदयसाधनम्८४ ॥ ११ ॥ वचनं दूषणैस्सार्धमर्थादेतेन वर्णितम् । प्रत्यक्षवच्च ८५ अक्तव्या प्रमाणफलवर्णना ॥ १२ ॥ शास्त्रनिरूपणम् । शास्त्रं तु शब्दविज्ञानात्यदसन्निकृष्टार्थविज्ञानम् ॥ १३ ॥ उपमाननिरूपणम् । सादृश्यदर्शनोत्थं ज्ञानं सादृश्यविषयमुपमानम् । ८६ इषयोऽस्य वित्तिसिद्धो भिन्नो द्रव्यादिभावेभ्यः ॥ १४ ॥ सादृश्याद्दृश्यमानाद्यत्प्रतियोगिनि जायते । सादृश्यविषयं ज्ञानमुपमानं तदुच्यते ॥ १५ ॥ अर्थापत्तिनिरूपणम् । विना कल्पनयार्ऽथेन दृष्टेनानुपपन्नताम् । नयता८७ दृष्टमर्थं या सार्ऽथापत्तिस्तु कल्पना ॥ १६ ॥ अभावेन गृहे भावो बहिष्कल्पनया विना । नयतानुपपन्नत्वं कल्प्यमानो८८ बहिर्यथा ॥ १७ ॥ गम्यस्यानुपपन्नत्वमिह कल्पनया विना । मानान्तरविरोधेन सन्देहापत्तिलक्षणम् ॥ १८ ॥ देशेन हि विनाभावो न कदाचन दृश्यते । विनाभावेन सिद्धोऽपि तेन सन्देहमृच्छति ॥ १९ ॥ तत्सन्देहव्युदासाय कल्पना या प्रवर्त्तते । सन्देहापादकादर्थादर्थापत्तिरसौ८९ स्मृता ॥ २० ॥ ९०॥ यत्कल्पनां विना योर्ऽथः प्रतीतोऽप्येति संशयम् । तेन तत्कल्पनामेके त्वर्थापत्तिं प्रचक्षते ॥ २१ ॥ गमकस्यानुमाने तु विपक्षासत्त्वलक्षणम् । गम्यतेऽनुपपन्नत्वं विना गम्येन वस्तुना ॥ २२ ॥ तत्सामग्रीविभेदेन भिन्ने एते परस्परम् । अर्थापत्त्यनुमानाख्ये प्रमाणे इति निश्चितम् ॥ २३ ॥ अनुपलब्धिप्रमाणनिराकरणम् । अभावाख्यं९१ प्रमाणं ये षष्ठमाहुर्मनीषिणः । तेषां प्राभाकरैरेवं प्रत्यादेशोऽयमुच्यते ॥ २४ ॥ प्रमाणं खलु कस्यापि प्रमेयस्यावबोधकम् । ९२ अत्राभावस्य किं तावत्प्रमेयमिति चिन्त्यताम् ॥ २५ ॥ ननु नास्तीति बुद्ध्या९३ तु बोध्यं यदुपकल्पितम् । अभावस्य प्रमाणस्य प्रमेयं तत्भविष्यति ॥ २६ ॥ भूतेलऽत्र घटो नास्तीत्येषा या जायते मतिः । सा न भूतलमात्रे स्यात्प्रसक्तेर्घटवत्यपि ॥ २७ ॥ केवले भूतले चेत्स्यात्कैवल्यं तत्र कीदृशतम् । स्वरूपमात्रं नो तावद्धर्मान्तरमथोच्यते ॥ २८ ॥ प्रमेयान्तरमेवात्र तावताऽङ्गीकृतं भवेत् । तच्च नेन्द्रियविज्ञेयं तद्व्यापारानपेक्षणात् ॥ २९ ॥ स्वरूपमात्रे दृष्टेऽपि भावे दूरगतोऽपि सन् । कथञ्चिज्जातजिज्ञासो नास्तित्वं प्रतिपद्यते ॥ ३० ॥ तेन यत्रापि नास्तित्वं बुध्यते व्यापृतेन्द्रियः । भावांशमात्रे तत्रापि प्रत्यक्षस्य प्रमाणता ॥ ३१ ॥ नास्तित्वं च प्रमाणानामनुत्पत्त्यैव गम्यते । नास्तित्वप्रतिपत्तिर्हि तां विना नास्ति कुत्रचित् ॥ ३२ ॥ योग्यप्रमाणानुत्पत्तेः कारणत्वपरिग्रहात् । अतिप्रसङ्गदोषोऽपि नावकाशमुपाश्नुते ॥ ३३ ॥ अनुत्पत्तिश्च न ज्ञाता सती कारणमक्षवत् । तेन लिङ्गत्वशङ्काऽपि दूरादेव निराकृता ॥ ३४ ॥ अनुत्पत्तिश्च विज्ञाता हेतुश्चेल्लिङ्गवद्भवेत् । अनवस्था प्रसज्येत नास्तित्वं न च सिद्ध्यति ॥ ३५ ॥ किञ्च पादविहारादिव्यवहारश्च भूतले । न भूतलपरिच्छेदमात्रेणैव प्रवर्तते ॥ ३६ ॥ प्रसङ्गस्तत्र दुर्वारः कण्टकाद्यन्वितेऽपि हि । अथ केवलभूभागपरिच्छेदात्प्रवर्तते ॥ ३७ ॥ विकल्प्यं तत्र कैवल्यं ग्राह्यस्य ग्रहणस्य वा । ग्राह्यस्य चेत्पुरैवोक्तो दोषस्तर्हि प्रसज्यते ॥ ३८ ॥ ग्रहस्य चेत्तदा सूक्ष्मजिज्ञासा निष्फलां भवेत् । जाता हि केवला ९४ अंविद्व्यवहारस्य कारणम् ॥ ३९ ॥ तेन भावं परिच्छिद्य व्यवहारे चिकीर्षति । दृश्यादर्शनसिद्ध्यर्थं युक्तं सूक्ष्मनिरीक्षणम्९५ ॥ ४० ॥ अत्रोच्यते द्वयी संविद्वस्तुनो भूतलादिनः । एका संसृष्टविषया तन्मात्रविषया परा ॥ ४१ ॥ तन्मात्रविषया या च द्विधा साऽपि प्रसज्यते । प्रतियोगिन्यदृश्ये च दृश्ये च प्रतियोगिनि ॥ ४२ ॥ तत्र तन्मात्रधीर्येयं दृश्ये च प्रतियोगिनि । नास्तित्वं सैव भूभागे घटादिप्रतियोगिनः ॥ ४३ ॥ ननु संसृष्टबुद्ध्या यः पुरस्तादवधारितः । कथं तन्मात्रधीस्तत्र जाता भावो९६ न तत्र चेत् ॥ ४४ ॥ शक्यते तदभावेऽपि वक्तुं यो यत्र सन्नभूत् । तस्याभावः कथं तत्र ब्रूयाच्चेत्तत्र कारणम् ॥ ४५ ॥ तन्मात्रधिय एवास्तु ९७ अरं तत्कारणं ततः । तस्याः सम्प्रतिपन्नत्वाद्वादिनोरुभयोरपि ॥ ४६ ॥ चक्षुर्वदपरामृष्टं न कारणमदर्शनम् । स्वापावस्थागतस्यापि ९८ रमाणत्वप्रसङ्गतः ॥ ४७ ॥ विशेषापादिका तस्य न निषेधस्य दृश्यता । भावरूपो विशेषो हि नाभावस्योपपद्यते ॥ ४८ ॥ अदर्शने निवृत्तेऽपि पुनर्भावस्व्य कस्यचित् । प्राङ्नास्तित्वं व्यपदिशन्त्यदृष्टस्य पुरा क्वचित् ॥ ४९ ॥ दृश्यस्यादर्शनं तेन ज्ञातं सददबोधकम् । दृश्यादर्शनतस्तस्य ज्ञानं चेदव्य९९ वस्थितिः ॥ ५० ॥ यदि तन्मात्रसंवित्तिरूपं स्यात्तददर्शनम् । तदा तस्याः स्वसंवित्तेरनवस्था निवर्तते ॥ ५१ ॥ तेनावश्याभ्युपेतव्यो विमर्शो दृश्यगोचरः । अदर्शनमभावो हि तन्मात्रानुभवात्मकम् ॥ ५२ ॥ तन्मात्रानुभवश्चायं यददर्शनरूपितः । विमृश्यते भूतलादौ तदभावोऽ१०० अदिश्यते ॥ ५३ ॥ तन्मात्रानुभवश्चायं न मेयः फलभावतः । किञ्च स्वयं प्रकाशोऽसाविति न्यायविदो विदुः ॥ ५४ ॥ नास्तीति शब्दस्तत्रैव स्वसंवेद्ये प्रवर्तते । तेन नास्तीति विज्ञानन्यायेन न समागतम् ॥ ५५ ॥ मेयाभावे ततो मानमभावाख्यं कथं भवेत् । घटसत्ता न लभ्या हि नासत्ता चोदितात्क्रमात् ॥ ५६ ॥ अभावव्यवहारो हि निःशङ्कगमनादिकः । तन्मात्रानुभवेनैव यथोक्तेन प्रवर्तते ॥ ५७ ॥ यदा यस्य च दृश्यत्वे सत्यप्यनुपलम्भनम् । तदभावव्यवहृतिस्तदानीं संप्रवर्तते ॥ ५८ ॥ सूक्ष्मकण्टकजिज्ञासाप्यतः सार्थकतां गता । तां विना न हि दृश्यत्वं सूक्ष्मसत्ताऽधिरोहति ॥ ५९ ॥ व्यवहारप्रवृत्तिश्च दृश्यादृष्टिनिबन्धना । तेन दृश्यत्वसिद्ध्यर्थं १०१ उक्तं तस्मिन्निरीक्षणम् ॥ ६० ॥ नन्वेवं लक्षणग्रन्थस्यार्थस्तर्ह्यस्य कीदृशः । मीमांसार्णवसम्भूतं पीयतां १०२ अमयामृतम् ॥ ६१ ॥ प्रत्यक्षाद्यपरिच्छेद्यमभावाख्यं १०३ अतुर्विधम् । प्रमेयं साधयत्मानमभावाख्यं वदन्ति ये ॥ ६२ ॥ तन्निराकरणार्थोऽयं यत्नो भाष्यकृता कृतः । अभावोऽसंनिकृष्टस्य नास्तीत्यस्यावबोधकः ॥ ६३ ॥ प्रमाणं न भवतीति प्रमाणाभाव १०४ उच्यते । किं निराकरणस्येह फलमित्यथ चेन्मतम् ॥ ६४ ॥ उच्यते लक्षणग्रन्थः प्रत्यक्षादेः समर्थ्यते । प्रमाणं कार्यगम्यं हि सर्वत्रेति विनिश्चितम् ॥ ६५ ॥ निश्चयश्च प्रमाणस्य कार्यमित्यपि संमतम् । निश्चयश्चेयमेवेति संवित्तिः सर्ववस्तुषु ॥ ६६ ॥ सा च वस्त्वन्तराभावसंवित्त्यनुगमे सति । प्रमाणानुदयस्तत्र यत्राभावोऽवसीयते ॥ ६७ ॥ तदा तेन सहैव स्यात्प्रत्यक्षादेः प्रमाणता । लक्षणं क्रियमाणं च तथाभूतस्य युज्यते ॥ ६८ ॥ न कृतं च तथा तेन न कृतं साधुलक्षणम् । इमां शङ्कां निराकर्तु निराकरणमुच्यते ॥ ६९ ॥ कथं पुनरियं शङ्का भवत्यत्र निराकृता । अभावाख्यो न मेयोऽस्ति यदर्थं प्रार्त्यते पुनः ॥ ७० ॥ प्रमाणानामनुत्पादः साधु तल्लक्षणं कृतम् । इति पूर्वप्रमाणानां लक्षणानि समादधत् ॥ ७१ ॥ भाष्यकार इमं ग्रन्थं चक्रे नाऽभावलक्षणम् । नन्वेवमपि १०५ पञ्चाह शब्दं हित्वा कथं पुनः ॥ ७२ ॥ भाष्यकारः प्रमाणानि चित्राक्षेपं समादधत् । उच्यते व्यवहारस्य हेतुभूतप्रसिद्धये ॥ ७३ ॥ एवमाहोभयात्मापि व्यवहारः प्रतिष्ठितः । तत्र भावव्यवहृतिः पञ्चस्वेवोपलभ्यते ॥ ७४ ॥ अभावव्यवहारस्तु दृश्यादृष्टिविमर्शजः । सा हि भूभागसद्भावमात्रावच्छेदबन्धना ॥ ७५ ॥ तदभावव्यवहृतिरिति प्रागेव दर्शितम् । मीमांसाजलराशेरशेषनयरत्ननिकषनिजधाम्नः ॥ ७६ ॥ इति शालिकनाथ इमाममृतस्य कलामुदादहद्धीरः१०६ । इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायाममृतकला नाम पञ्चमं प्रकरणं समाप्तम् ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अमृतकला नाम पञ्चमं प्रकरणम्८१ । प्रमाणलक्षणम् । ८२ नुभूतिः प्रमाणं सा स्मृतेरन्या स्मृतिः पुनः । पूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते ॥ १ ॥ न प्रमाणं स्मृतिः पूर्वप्रतिपत्तेरपेक्षणात् । अन्योन्यनिरपेक्षास्तु धारावाहिकबुद्धयः ॥ २ ॥ प्रभाकरसम्मतं प्रमाणजातम् । तत्र पञ्चविधं मानं प्रत्यक्षमनुमा तथा । शास्त्रं तथोपमानार्थापत्तीमिति गरोर्मतम् ॥ ३ ॥ प्रत्यक्षनिरूपणम् । साक्षात्प्रतीतिः प्रत्यक्षं मेयमातृप्रमासु सा । मेयेष्विन्द्रिययोगोत्था द्रव्यजातिगुणेषु सा ॥ ४ ॥ सविकल्पाविकल्पा च प्रत्यक्षा बुद्धिरिष्यते । आद्या विशिष्टविषया स्वरूपविषयेतरा ॥ ५ ॥ सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा । साक्षात्कर्तृत्वसामान्यात्८३ प्रत्यक्षत्वेन सम्मता ॥ ६ ॥ प्रमाणफलभावनिरूपणम् । मानत्वं संविदां बाह्यं हानादानादिकं फलम् । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी ॥ ७ ॥ आपेक्षिकञ्च करणं मन इन्द्रियमेव वा । तदर्थसन्निकर्षो वा मानञ्चेत्पूर्वकं फलम् ॥ ८ ॥ अनुमाननिरूपणम् । ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात् । एकदेशान्तरे बुद्धिरनुमानमबाधिते ॥ ९ ॥ यः कश्चिद्येन यस्येह सम्बन्धो निरुपाधिकः । प्रत्यक्षादिप्रमासिद्धः स तस्य गमको मतः ॥ १० ॥ प्रमेयमनुमानस्य दृष्टादृष्टस्वलक्षणम् । परप्रत्यायनेच्छूनामनुमोदयसाधनम्८४ ॥ ११ ॥ वचनं दूषणैस्सार्धमर्थादेतेन वर्णितम् । प्रत्यक्षवच्च ८५ अक्तव्या प्रमाणफलवर्णना ॥ १२ ॥ शास्त्रनिरूपणम् । शास्त्रं तु शब्दविज्ञानात्यदसन्निकृष्टार्थविज्ञानम् ॥ १३ ॥ उपमाननिरूपणम् । सादृश्यदर्शनोत्थं ज्ञानं सादृश्यविषयमुपमानम् । ८६ इषयोऽस्य वित्तिसिद्धो भिन्नो द्रव्यादिभावेभ्यः ॥ १४ ॥ सादृश्याद्दृश्यमानाद्यत्प्रतियोगिनि जायते । सादृश्यविषयं ज्ञानमुपमानं तदुच्यते ॥ १५ ॥ अर्थापत्तिनिरूपणम् । विना कल्पनयार्ऽथेन दृष्टेनानुपपन्नताम् । नयता८७ दृष्टमर्थं या सार्ऽथापत्तिस्तु कल्पना ॥ १६ ॥ अभावेन गृहे भावो बहिष्कल्पनया विना । नयतानुपपन्नत्वं कल्प्यमानो८८ बहिर्यथा ॥ १७ ॥ गम्यस्यानुपपन्नत्वमिह कल्पनया विना । मानान्तरविरोधेन सन्देहापत्तिलक्षणम् ॥ १८ ॥ देशेन हि विनाभावो न कदाचन दृश्यते । विनाभावेन सिद्धोऽपि तेन सन्देहमृच्छति ॥ १९ ॥ तत्सन्देहव्युदासाय कल्पना या प्रवर्त्तते । सन्देहापादकादर्थादर्थापत्तिरसौ८९ स्मृता ॥ २० ॥ ९०॥ यत्कल्पनां विना योर्ऽथः प्रतीतोऽप्येति संशयम् । तेन तत्कल्पनामेके त्वर्थापत्तिं प्रचक्षते ॥ २१ ॥ गमकस्यानुमाने तु विपक्षासत्त्वलक्षणम् । गम्यतेऽनुपपन्नत्वं विना गम्येन वस्तुना ॥ २२ ॥ तत्सामग्रीविभेदेन भिन्ने एते परस्परम् । अर्थापत्त्यनुमानाख्ये प्रमाणे इति निश्चितम् ॥ २३ ॥ अनुपलब्धिप्रमाणनिराकरणम् । अभावाख्यं९१ प्रमाणं ये षष्ठमाहुर्मनीषिणः । तेषां प्राभाकरैरेवं प्रत्यादेशोऽयमुच्यते ॥ २४ ॥ प्रमाणं खलु कस्यापि प्रमेयस्यावबोधकम् । ९२ अत्राभावस्य किं तावत्प्रमेयमिति चिन्त्यताम् ॥ २५ ॥ ननु नास्तीति बुद्ध्या९३ तु बोध्यं यदुपकल्पितम् । अभावस्य प्रमाणस्य प्रमेयं तत्भविष्यति ॥ २६ ॥ भूतेलऽत्र घटो नास्तीत्येषा या जायते मतिः । सा न भूतलमात्रे स्यात्प्रसक्तेर्घटवत्यपि ॥ २७ ॥ केवले भूतले चेत्स्यात्कैवल्यं तत्र कीदृशतम् । स्वरूपमात्रं नो तावद्धर्मान्तरमथोच्यते ॥ २८ ॥ प्रमेयान्तरमेवात्र तावताऽङ्गीकृतं भवेत् । तच्च नेन्द्रियविज्ञेयं तद्व्यापारानपेक्षणात् ॥ २९ ॥ स्वरूपमात्रे दृष्टेऽपि भावे दूरगतोऽपि सन् । कथञ्चिज्जातजिज्ञासो नास्तित्वं प्रतिपद्यते ॥ ३० ॥ तेन यत्रापि नास्तित्वं बुध्यते व्यापृतेन्द्रियः । भावांशमात्रे तत्रापि प्रत्यक्षस्य प्रमाणता ॥ ३१ ॥ नास्तित्वं च प्रमाणानामनुत्पत्त्यैव गम्यते । नास्तित्वप्रतिपत्तिर्हि तां विना नास्ति कुत्रचित् ॥ ३२ ॥ योग्यप्रमाणानुत्पत्तेः कारणत्वपरिग्रहात् । अतिप्रसङ्गदोषोऽपि नावकाशमुपाश्नुते ॥ ३३ ॥ अनुत्पत्तिश्च न ज्ञाता सती कारणमक्षवत् । तेन लिङ्गत्वशङ्काऽपि दूरादेव निराकृता ॥ ३४ ॥ अनुत्पत्तिश्च विज्ञाता हेतुश्चेल्लिङ्गवद्भवेत् । अनवस्था प्रसज्येत नास्तित्वं न च सिद्ध्यति ॥ ३५ ॥ किञ्च पादविहारादिव्यवहारश्च भूतले । न भूतलपरिच्छेदमात्रेणैव प्रवर्तते ॥ ३६ ॥ प्रसङ्गस्तत्र दुर्वारः कण्टकाद्यन्वितेऽपि हि । अथ केवलभूभागपरिच्छेदात्प्रवर्तते ॥ ३७ ॥ विकल्प्यं तत्र कैवल्यं ग्राह्यस्य ग्रहणस्य वा । ग्राह्यस्य चेत्पुरैवोक्तो दोषस्तर्हि प्रसज्यते ॥ ३८ ॥ ग्रहस्य चेत्तदा सूक्ष्मजिज्ञासा निष्फलां भवेत् । जाता हि केवला ९४ अंविद्व्यवहारस्य कारणम् ॥ ३९ ॥ तेन भावं परिच्छिद्य व्यवहारे चिकीर्षति । दृश्यादर्शनसिद्ध्यर्थं युक्तं सूक्ष्मनिरीक्षणम्९५ ॥ ४० ॥ अत्रोच्यते द्वयी संविद्वस्तुनो भूतलादिनः । एका संसृष्टविषया तन्मात्रविषया परा ॥ ४१ ॥ तन्मात्रविषया या च द्विधा साऽपि प्रसज्यते । प्रतियोगिन्यदृश्ये च दृश्ये च प्रतियोगिनि ॥ ४२ ॥ तत्र तन्मात्रधीर्येयं दृश्ये च प्रतियोगिनि । नास्तित्वं सैव भूभागे घटादिप्रतियोगिनः ॥ ४३ ॥ ननु संसृष्टबुद्ध्या यः पुरस्तादवधारितः । कथं तन्मात्रधीस्तत्र जाता भावो९६ न तत्र चेत् ॥ ४४ ॥ शक्यते तदभावेऽपि वक्तुं यो यत्र सन्नभूत् । तस्याभावः कथं तत्र ब्रूयाच्चेत्तत्र कारणम् ॥ ४५ ॥ तन्मात्रधिय एवास्तु ९७ अरं तत्कारणं ततः । तस्याः सम्प्रतिपन्नत्वाद्वादिनोरुभयोरपि ॥ ४६ ॥ चक्षुर्वदपरामृष्टं न कारणमदर्शनम् । स्वापावस्थागतस्यापि ९८ रमाणत्वप्रसङ्गतः ॥ ४७ ॥ विशेषापादिका तस्य न निषेधस्य दृश्यता । भावरूपो विशेषो हि नाभावस्योपपद्यते ॥ ४८ ॥ अदर्शने निवृत्तेऽपि पुनर्भावस्व्य कस्यचित् । प्राङ्नास्तित्वं व्यपदिशन्त्यदृष्टस्य पुरा क्वचित् ॥ ४९ ॥ दृश्यस्यादर्शनं तेन ज्ञातं सददबोधकम् । दृश्यादर्शनतस्तस्य ज्ञानं चेदव्य९९ वस्थितिः ॥ ५० ॥ यदि तन्मात्रसंवित्तिरूपं स्यात्तददर्शनम् । तदा तस्याः स्वसंवित्तेरनवस्था निवर्तते ॥ ५१ ॥ तेनावश्याभ्युपेतव्यो विमर्शो दृश्यगोचरः । अदर्शनमभावो हि तन्मात्रानुभवात्मकम् ॥ ५२ ॥ तन्मात्रानुभवश्चायं यददर्शनरूपितः । विमृश्यते भूतलादौ तदभावोऽ१०० अदिश्यते ॥ ५३ ॥ तन्मात्रानुभवश्चायं न मेयः फलभावतः । किञ्च स्वयं प्रकाशोऽसाविति न्यायविदो विदुः ॥ ५४ ॥ नास्तीति शब्दस्तत्रैव स्वसंवेद्ये प्रवर्तते । तेन नास्तीति विज्ञानन्यायेन न समागतम् ॥ ५५ ॥ मेयाभावे ततो मानमभावाख्यं कथं भवेत् । घटसत्ता न लभ्या हि नासत्ता चोदितात्क्रमात् ॥ ५६ ॥ अभावव्यवहारो हि निःशङ्कगमनादिकः । तन्मात्रानुभवेनैव यथोक्तेन प्रवर्तते ॥ ५७ ॥ यदा यस्य च दृश्यत्वे सत्यप्यनुपलम्भनम् । तदभावव्यवहृतिस्तदानीं संप्रवर्तते ॥ ५८ ॥ सूक्ष्मकण्टकजिज्ञासाप्यतः सार्थकतां गता । तां विना न हि दृश्यत्वं सूक्ष्मसत्ताऽधिरोहति ॥ ५९ ॥ व्यवहारप्रवृत्तिश्च दृश्यादृष्टिनिबन्धना । तेन दृश्यत्वसिद्ध्यर्थं १०१ उक्तं तस्मिन्निरीक्षणम् ॥ ६० ॥ नन्वेवं लक्षणग्रन्थस्यार्थस्तर्ह्यस्य कीदृशः । मीमांसार्णवसम्भूतं पीयतां १०२ अमयामृतम् ॥ ६१ ॥ प्रत्यक्षाद्यपरिच्छेद्यमभावाख्यं १०३ अतुर्विधम् । प्रमेयं साधयत्मानमभावाख्यं वदन्ति ये ॥ ६२ ॥ तन्निराकरणार्थोऽयं यत्नो भाष्यकृता कृतः । अभावोऽसंनिकृष्टस्य नास्तीत्यस्यावबोधकः ॥ ६३ ॥ प्रमाणं न भवतीति प्रमाणाभाव १०४ उच्यते । किं निराकरणस्येह फलमित्यथ चेन्मतम् ॥ ६४ ॥ उच्यते लक्षणग्रन्थः प्रत्यक्षादेः समर्थ्यते । प्रमाणं कार्यगम्यं हि सर्वत्रेति विनिश्चितम् ॥ ६५ ॥ निश्चयश्च प्रमाणस्य कार्यमित्यपि संमतम् । निश्चयश्चेयमेवेति संवित्तिः सर्ववस्तुषु ॥ ६६ ॥ सा च वस्त्वन्तराभावसंवित्त्यनुगमे सति । प्रमाणानुदयस्तत्र यत्राभावोऽवसीयते ॥ ६७ ॥ तदा तेन सहैव स्यात्प्रत्यक्षादेः प्रमाणता । लक्षणं क्रियमाणं च तथाभूतस्य युज्यते ॥ ६८ ॥ न कृतं च तथा तेन न कृतं साधुलक्षणम् । इमां शङ्कां निराकर्तु निराकरणमुच्यते ॥ ६९ ॥ कथं पुनरियं शङ्का भवत्यत्र निराकृता । अभावाख्यो न मेयोऽस्ति यदर्थं प्रार्त्यते पुनः ॥ ७० ॥ प्रमाणानामनुत्पादः साधु तल्लक्षणं कृतम् । इति पूर्वप्रमाणानां लक्षणानि समादधत् ॥ ७१ ॥ भाष्यकार इमं ग्रन्थं चक्रे नाऽभावलक्षणम् । नन्वेवमपि १०५ पञ्चाह शब्दं हित्वा कथं पुनः ॥ ७२ ॥ भाष्यकारः प्रमाणानि चित्राक्षेपं समादधत् । उच्यते व्यवहारस्य हेतुभूतप्रसिद्धये ॥ ७३ ॥ एवमाहोभयात्मापि व्यवहारः प्रतिष्ठितः । तत्र भावव्यवहृतिः पञ्चस्वेवोपलभ्यते ॥ ७४ ॥ अभावव्यवहारस्तु दृश्यादृष्टिविमर्शजः । सा हि भूभागसद्भावमात्रावच्छेदबन्धना ॥ ७५ ॥ तदभावव्यवहृतिरिति प्रागेव दर्शितम् । मीमांसाजलराशेरशेषनयरत्ननिकषनिजधाम्नः ॥ ७६ ॥ इति शालिकनाथ इमाममृतस्य कलामुदादहद्धीरः१०६ । इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायाममृतकला नाम पञ्चमं प्रकरणं समाप्तम् ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ १०७ रमाणपारायणं नाम षष्ठं प्रकरणम् । प्रथमः प्रत्यक्षपरिच्छेदः प्रकरणार्थप्रतिज्ञा । स्वरूपसंख्यार्थफलेषु वादिभिः यतो विवादा बहुधा वितेनिरे । ततो वयं तत्प्रतिबोधसिद्धये प्रमाणपारायणमारभामहे ॥ १ ॥ किं पुनरिदं प्रमाणं नाम ? न तावदविसंवादि ज्ञानं प्रमाणम् । स्मृतेरपि तथाभावप्रसक्तेः । अथ स्मृतिर्विकल्परूपतया परमार्थसत्स्वलक्षणमगृह्णान्ती संवृतिसन्तमाकारमवस्तुभूतमुल्लिखन्ती द्विचन्द्रादिबोधवन्नाविसंवादिनीति मतम् । एवमपि नानुमानं प्रमाणं स्यात् । तस्यापि विकल्परूपत्वात् । तर्हि विकल्परूपमनुमानमवस्तुविषयमपि वस्तुविषयमिवाध्यवसीयते, इत्यध्यवसीयमानवस्तुभूतस्वलक्षणाविसंवादितया तत्प्रमाणम् । स्मृतिरपि तथा स्यात् । सापि हि स्वलक्षणाध्यवसायिन्येव जायते । अपि चावस्तुभूतं स्वविषयं वस्तुतयाध्यवस्यच्छुक्तिकारजतबेधवत्कथमनुमानमविसंवादि । किञ्च यद्यनुमानं विकल्परूपतया स्वलक्षणं न गृह्णाति, कथं तर्ह्यध्यवस्यत्यपि । नहि ग्रहणादन्योऽध्यवसायो नाम । यो ह्याकारो न गृह्यते स कथमध्यवसीयेतापि । प्रतीतिविरुद्धं चेदमुच्यते "स्मृतिरनुमानवद्बाह्यं वस्तु न विषयीकुरुते" इति । विकल्पभूतयोरपि तयोः प्रत्यक्षप्रतीतवस्तुग्राहकत्वप्रतीतेः । अथोच्येतन वयं यथावस्थितार्थग्राहकमविसंवादकमभिदध्महे, किन्त्वर्थक्रियासमर्थवस्तुपरिप्रापकम् । यथाभूतं हि येन वस्तूपदर्शितं, प्रवृत्तोऽपि यदि तथाभूतमेव प्रतिलभते॑ तदा तदविसंवादिज्ञानं प्रमाणमुच्यते । तथा चोक्तम्"प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनं .......[प्र. वा. परि. १श्लो. ३.]" इति तथा"न१०८ ह्याभ्यामर्थं परिच्छिद्य प्रवर्त्तमानोर्ऽथक्रियायां विसंवाद्यत" इति च । एवमपि स्मृतेः प्रामाण्यापत्तिः । अथ मतं स्मृत्वार्ऽथ प्रवर्तमानो नियमेनार्ऽथ न प्रतिलभते इति । एवमपि भूतार्थविषयमनुमानमप्रमाणं स्यात् । नहि तदुपदर्शितार्थस्य प्रतिलम्भोऽस्ति । अथ यद्यप्यनुमानप्रतीतस्य भूतस्य वस्तुनः प्राप्तिर्नास्ति, तथापि तत्प्रतिबद्धलिङ्गजन्मतया तस्य प्राप्तियोग्यता तावदस्त्येव, तावता च तस्य प्रामाण्यमिति । एवमपि स्मृतिः प्रमाणमापद्यते । स्मृतिरपि ह्यनुमानवदर्थे पारम्पर्येण प्रतिबद्धैव । यथा वह्निस्वलक्षणाद्धूमस्वलक्षणम्, ततश्च धूमदर्शनम्, ततश्च धूमविकल्पः, तस्माच्चानुमानमित्यनुमानमर्थेन पारम्पर्येण प्रतिबद्धत्वादर्थाविसंवादि अर्थप्रापणसमर्थम्, तथा स्मृतिरपिअर्थादनुभवः, ततः संस्कारः, संस्काराच्च स्मृतिरित्यर्थप्रतिबद्धैवेति तत्प्राप्तियोग्यतया प्रमाणमापद्येत । यदि मन्वीत सत्यामपि प्राप्तियोग्यतायां स्मृतेर्यत्तया प्रापयितव्यं स्वलक्षणं, तदनुभवेनैव प्रापितमिति न प्रमाणं स्मृतिः, अनुमानं त्वप्राप्तस्वलक्षणप्रापकतया प्रमाणमिति । एवमप्यर्थक्रियासमर्थवस्तुपरिप्रापकतामात्रं न प्रमाणलक्षणम्, किन्तु विशेषणमुपादेयम्, १०९ प्राप्तप्रापकमविसंवादिज्ञानं प्रमाणमिति । अथोच्यते प्राप्तं प्रति प्रापकत्वमेवापरस्य नास्तीति । तदसत् । अर्थप्रतिबद्धता हि प्रापकता, सा च ज्ञानान्तरस्यापि नानुपपन्ना । यद्युच्येत न प्रापकतामत्रेण प्रामाण्यम्, अपि तु प्रवर्तकतयापि । तथा सति यत्प्रापयतिप्रवर्तयति, च तत्प्रमाणमिति । एतदपि न किञ्चित् । प्रवर्तकतापि ज्ञानान्तरस्यापि घटत एव । प्रवृत्ति योग्यार्थोपदर्शकत्वमेव प्रवर्तकत्वम् ॑ तच्च भूतार्थविषयानुमानस्येव स्मरणस्याप्यस्ति । प्रवर्तकत्वे च प्रमाणलक्षणा नुप्रवेशिनि निर्विकल्पकज्ञानानामप्रमाणता स्यात्, स्वयं व्यवहारप्रवर्तकत्वाभावात् । तदुत्थास्तु विकल्पा एव प्रापकतया प्रवर्तकतया च प्रमाणभूताः स्युः । धारावाहिकज्ञानेषु च पूर्वज्ञानविषयार्थत्वादुत्तरेषां प्रमितित्वं न स्यात् । अथोच्येत । इष्यत एव तेषामप्रमाणतेति । तदयुक्तम् । लोके तेषु पूर्वस्मादविशिष्टत्वात्प्रमाणभावस्य । लौकिकं च ११० रामाण्यं परीक्षकैरप्यनुसरणीयम् । अथ भिन्नत्वादर्थक्षणानां सर्वेषामप्यप्राप्तप्रापकत्वमस्तीति । तदसत् । क्षणभेदस्यापरामर्शान्न तदपेक्षा प्रमाणतोचितेति । क्षणिकता च १११ ईमांसाजीवरक्षायां प्रतिक्षिप्तैवेति कृतमतिविस्तरेण । भाट्टाभिमतप्रमाणलक्षणखण्डनम् । नापि ११२ ऋग्मविसंवाद्यगृहीतार्थग्राहकं प्रमाणमिति प्रमाणलक्षणमुपपद्यते । धारावाहिकज्ञानानामुत्तरेषां पुरस्तात्तनप्रतीतार्थविषयतया प्रामाण्यापाकरणात् । न च कालभेदावसायितया प्रामाण्योपपत्तिः । सतोऽपि कालभेदस्यातिसौक्ष्म्यादनवग्रहात् । अपि च दृग्मिति किं निवर्त्त्यम् ? संशयज्ञानमिति चेत्, कः पुनरयं संशयः ? साधारणधर्मदर्शनादेकत्र अनेकधर्मावगमाद्वादिनामध्यवसीयमानविशेषाणां विप्रतिपत्तेश्चानध्यवसितविशेषे वस्तुन्यनियतविशेषविषयं विज्ञानं ११३ अंशय इति तार्किकाः । यथा सन्तमसतिरोहितविशेषे वस्तुन्यूर्ध्वतामात्रदर्शनेन किमयं स्थाणुरुत पुरुष इति । तथाप्रत्यक्षो वायुः स्पर्शवत्त्वात्पृथिवीवत् । तथाअप्रत्यक्षो वायुररूपवत्त्वात्गगनवदिति । केचिन्नित्यं शब्दमाहुः, केचिदनित्यमिति वादिनां विवादात्जिज्ञासोस्तत्त्वे संशयो भवति इति । तदसत् । यौ हि धर्मौ संशय्येते, तयोरेकमिदं ज्ञानं नोदीयते, किन्तु द्बे एते विज्ञाने विशेषणस्मरणे । तयोश्च विशेषणयोरेकस्यापि तस्मिन् धर्मिणि निश्चयो नास्तीत्येकान्ततो व्यवहारं प्रतिपत्ता प्रवर्तयितुमशक्नुवन् संशेत इव भवतीति, भवति संशयव्यवहारः । ये च स्मरणे तयोर्गृहीतग्राहितयैव प्रामाण्यं निरस्तमिति किं दृग्ग्रहणेन । ११४ विसंवादिग्रहणमपि सर्वज्ञानानामर्थाव्यभिचारादविशेषकम् । ननु शुक्तिकायां रजतमिदमिति ज्ञानं, प्रतिबिम्बज्ञानं च व्यभिचारि दृश्यते । नैतदेवम् । यदि रजतज्ञानं रजतविषयं न स्यात्, ततो व्यभिचरत्यर्थम् । रजतविषयत्वे तु को व्यभिचारः? ननु नेदं ज्ञानं रजतविषयम्, किन्तु शुक्तिकाविषयमेव । उच्यते । शुक्तिकाविषयमित्यस्य कोऽर्थः ? किं यासौ शुक्तिकाव्यक्तिस्तामेव विषयीकरोति ? उत शुक्तिकात्वमेव । न तावद्शुक्तिव्यक्तिरनेन विषयीकर्तु शक्या । भिन्नत्वादाकारस्याकारिणश्च । न च समीचीनरजव्यक्तिरपि न रजतत्वबुद्ध्या गोचरीभवति, किं पुनः शुक्तिका व्यक्तिः ? शुक्तिकात्वं पुनरभासमानमेव विषय इति नोपपद्यते । अथोच्येत व्यवहारयोग्यतापत्तिर्विषयत्वमिति, तथापि शुक्तिकात्वमविषय एव । न हि तद्व्यवहारयोग्यतामापद्यते । अवभासमानतैव विषयत्वम् । तेन रजतत्वमेव विषयः । तच्च पुरोवर्तिनि न सम्भवतीति तद्विषयिणी स्मृतिरेवेयं कुतोऽस्या व्यभिचारः । प्रतिबिम्बज्ञानं तु मुखाद्यवभावं मुखादिविषयमेव । भास्वरे हि दर्पणादौ नयनरश्मिर्निपतितः प्रतिहतः परावृत्तो मुखादिना संयुक्तस्तदेव मुखादि गृह्णाति । नन्वेवमपि सव्यदक्षिणविपर्यासो, देशविशेषान्यत्वपरिमाणाल्पत्वमहत्त्वप्रतिभासश्च निर्निबन्धनः । अत्राभिधीयते । मुखादेर्देशो न गृह्यते दर्पणादीनां त्वग्रहणमिति मुखादयस्तद्देशा इव भान्ति । अभिमुखेन मुखादिना नयनरश्मिः संयुक्त इति तथैव तदवगमात्सव्यदक्षिणविपर्यासो युक्त एव । अल्पत्वमहत्त्वे च दर्पणादे रश्मिप्रतिघातहेतोरल्पतया महत्तया च दोषभूतया मुखादिपरिमाणाग्रहणाद्दर्पणादिपरिमाणग्रहणाच्च मुखादिष्ववभासेते । तेन नास्ति व्यभिचारः । एवमादि च नयवीथ्यां निपुणतरमुपपादितमित्यनयैव दिशा सर्वत्र११५ व्यभिचारो वर्जनीय इति नेदमपि प्रमाणलक्षणम् । प्राभाकरसम्मतं प्रमाणलक्षणम् । इदानीं स्वाभिमतं प्रत्यक्षलक्षणमाह । "प्रमाणमनुभूतिः"११६ । न च स्मृतेः प्रामाण्यापत्तिरिति दर्शयति"सा स्मृतेरन्या" इति अथ का स्मृतिः । "स्मृतिः पुनःपूर्वविज्ञानसंस्कारमात्रजं ज्ञानमुच्यते" । नचैवं धारावहिकज्ञानानां स्मृतित्वम् । इन्द्रियार्थसन्निकर्षजत्वात्पूर्ववत् । मात्रग्रहणाच्च प्रत्यभिज्ञानस्य न स्मृतित्वम्, इन्द्रिय११७ अचिवसंस्कारजत्वात् । अथ कथं स्मृतिर्न प्रमाणम् । तत्राह "न प्रमाणं स्मृतिः पूर्वप्रतिपत्तेरपेक्षणात्" । स्मृतिर्हि तदित्युपजायमानां प्राचीं प्रतीतिमनुरुद्ध्यमानां न स्वातन्त्र्येणार्थं परिच्छिनत्तीति न प्रमाणम् । स्मृतिप्रमोषस्तर्हि प्रमाणम् । न । सोऽपि पूर्वप्रतीतिसव्यपेक्ष एव । तज्जन्यसंस्कारमात्राधीनजन्मत्वात् । धारावाहिकविज्ञानेषु तर्ह्युत्तरविज्ञानानि स्मृतिप्रमोषादविशिष्टानि कथं प्रमाणानि इत्यत्राह"अन्योन्यनिरपेक्षास्तु धारावाहिकबुद्धयः" । व्याप्रियमाणे हि पूर्वविज्ञानकारणकलापे उत्तरेषामप्युत्पत्तिरिति न उत्पत्तितः प्रतीतितो वा धारावाहिकविज्ञानानि परस्परस्यातिशेरत इति युक्ता सर्वेषामपि प्रमाणता । यद्यनुभूतिमात्रं प्रमाणं, ततो रजतमिदमिति यद्भ्रान्तिविज्ञानं, तदपि प्रमाणं स्यात् । अत्रोच्यते । रजतमिदमिति नेदमेकं विज्ञानम्, किन्तु द्वे एते विज्ञाने ग्रहणस्मरणरूपे । तत्र रजतमिति स्मरणं तस्यानुभवरूपत्वाभावान्न प्रामाण्यप्रसङ्गः । इदमिति विज्ञानमनुभवरूपं प्रमाणमिष्यत एव । भ्रान्तिरूपता रजतज्ञानस्यैव, ग्रहणव्यवहारप्रवर्तकतया ११८ यवहारे विसम्वादकत्वात् । येऽपि चैकमिदं विज्ञानं मिथ्याभूतमित्यास्थिषत॑ तेऽपि बाधकप्रत्ययाधीनं मिथ्यात्वमभ्युपगच्छन्तो नेदमंशस्य मिथ्याभावं वदितुमीशते, तत्र बाधकप्रत्ययाभावात् । बाधकप्रत्ययदशायामपीदमंशस्यानुवृत्तेः । एकमपि विज्ञानमर्थावच्छेदसमाश्रितभेदं प्रमाणमप्रमाणं च युक्तमेव । पीतशङ्खादिज्ञानं तर्हि प्रमाणं प्रसक्तम् । तत्र हि पीतिमा शङ्खस्वरूपञ्च द्वयमनुभूयत एव । नयनगतपित्तद्रव्यवर्त्ती हि पीतिमाप्यनुभूयत एवेति नयवीथ्यां निपुणतरमुपपादितम् । शङ्खस्वरूपे चानुभूतिरविसंवादैव । नायं दोषः । को नाम पीतशङ्खज्ञानमप्रमाणमाह, प्रमाणमेव हि तद्, यथार्थविषयत्वात् । विज्ञानद्वयन्त्वेतदेकविज्ञानसाधारणरूपम्, तत्रैकविज्ञानसाधारणरूपावमर्शादेकविज्ञानसदृशव्यवहारप्रवर्तकतया व्यवहारदशायां विसम्वादमावहत्प्रमाणमपि सद्भ्रान्तमित्युच्यते । यत्र तु व्यवहारविसम्वादो नास्ति, तत्र भ्रान्तिरपि न व्यपदिश्यते । यथोष्णजलज्ञाने । तत्रापि न जलगतमौष्ण्यमनुभूयते, किन्तु वन्ह्न्यवयवगतमेव । जलगतस्यौष्ण्यस्य च वन्हयसंयोगेनोत्पादनानभ्युपगमात् । पाकजो हि गुणः पाकान्तरेणैव निवर्तते । जलगतस्यौष्ण्यस्यानपेक्षितपाकस्यैवाग्निसंयोगविच्छेदेनैव निवृत्तिः । गत्वरा हि तत्र तेजोऽवयवाः सञ्चारितास्तेष्वन्यत्र गतेष्वपरतेजोऽवयवसञ्चरणविच्छेदे युक्तैवापाकजत्वे पाकान्तरानपेक्षा औष्ण्यस्य निवृत्तिरिति, न पीतशङ्खादिज्ञानतुल्यत्वमुष्णजलज्ञानस्य । तस्मात्पीतशङ्खादिज्ञानं प्रमाणमेव भ्रान्तञ्चेत्यनवद्यम् । यस्तु विपरीतख्यातिवादी उष्णजलज्ञानमप्रमाणं भ्रान्तञ्चाह, तस्य सर्वलोकविरोधः । प्रमाणसंख्यानिरूपणम् । कतिविधं पुनः प्रमाणमित्यत्राह"तत्र पञ्चविधं मानम्" । अनेनैकादिसंख्या, षडादिसंख्या च ११९ यवच्छिन्ना । काः पुनस्ता विधा इत्यत्राह शास्त्रं तथोपमानार्थापत्ती इति गुरोर्मतम्" । गौतमोक्तप्रत्यक्षलक्षणस्यानुवादः । किं पुनः प्रत्यक्षस्य लक्षणम् । केचिदाहुः१२० न्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति । इन्द्रियस्यार्थेन सन्निकर्षाद्यदुत्पद्यते ज्ञानं तत्प्रत्यक्षम् । तत्र स च सन्निकर्षः षोढा भिद्यतेसंयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, संयुक्तविशेषणता चेति, । तत्र संयोगात्पार्थिवाप्यतैजसवायवीयानां द्रव्याणां चक्षुःस्पर्शनाभ्यां ग्रहणम् । प्राप्यकारि चक्षुः बहिरिन्द्रियत्वात्त्वगिन्द्रियवत् । तैजसं तद्रूपप्रतीतिहेतुत्वात्दीपवत् । तस्य रश्मयः प्रसरन्तो द्रव्येण संयुज्यन्ते । ते च पृथ्वग्रा इति पृथून्यपि द्रव्याणि १२१ राप्नुवन्ति । नन्वेवं दूरे अर्थ इति सान्तरालग्रहणं न स्यात्, प्राप्तौ सत्यां दूरत्वासंभवात्प्राप्यकारित्वात्स्पर्शनवत् । किञ्च संयोगस्य गतिनिबन्धनत्वाद्गतिमतां च क्रमेणासन्नदूरगमनात्समकालमासेदुषां दवीयसां चार्थानां ग्रहणं नोपपद्यते । उच्यते १२२ होगायतनापेक्षया सान्तरालग्रहणं तावदुपपन्नम् । समसमयसंवेदने तु केचित्परिहारमेवं वर्णयन्ति । सकलानर्थान्प्राप्ययुगपदुपस्थितेन बाह्येन तेजसा सहैकीभूतास्ते चाक्षुषा रश्मयो युगपद्ग्रहणहेतव इति । १२३ अदन्ये दूषयन्तिइत्थं प्राप्तावभ्युपगम्यमानायामतिदूरव्यवहितानामप्यर्थानां ग्रहणं दुर्निवारम् । अन्येत्वाहुःक्षेपीयस्तया तेषां रश्मीनां कालभेदानवग्रहाद्यौगपद्याभिमान इति । तदपरे नानुमन्यन्ते । अतिसन्निकृष्टेषु वस्तुषु गतिकालभेदः पद्मपत्रशतभेदवत्मा नाम अवसायि । १२४ नेकयोजनसहस्त्रान्तरितेषु भूमिष्ठेष्वर्थेषु ध्रुवे च सदैव कालभेदानवसायो न बुद्धिमनुरञ्जयति । १२५ अयन्तु वदामःदृष्टसापेक्षत्वाददोषः । नयनरश्मिभिरेकीभूतेऽपि बाह्ये तेजसि यावानेव तस्य भागोऽदृष्टवशेनोपलब्धिहेतुतयोपात्तः । तावानेवोपलब्धये प्रभवति, न सर्व इति, न सर्वोपलम्भो युगपत्भौमध्रुवादिसिद्धिश्च । ननु प्राप्यकारिणि नायने तेजसि काचाभ्रपटलतिमिरान्तरितेषु कथमुपलब्धिः । तैर्नयनरश्मेरप्रतिघातात् । ये१२६ पुनरप्राप्यकारि चक्षुराहुस्तेषां व्यवहितविप्रकृष्टार्थग्रहणं दुर्निवारम् । सन्निधान इव विप्रकर्षेऽपि स्फुटतरमणीयांसोऽप्यर्था गृह्येरन् । प्राप्य ग्रहणे तु तेजोवयवानामप्रचुरतया युक्तमस्फुटदर्शनं दवीयसाम्, क्षोदिष्ठानामदर्शनम् । अथ कस्मादणु पार्थिवादि आकाशकालदिगात्मानश्च न प्रत्यक्षेण गृह्यन्ते । उच्यतेमहत्वमनेकद्रव्यत्वं रूपविशेषश्च सन्निर्ष इव प्रत्यक्षहेतुः । १२७ नेकद्रव्याभावात्परमाणोरदर्शनम् । अमहत्त्वाद्द्वयणुकस्य । आकाशादीनां त्वरूपत्वादद्द्रव्यद्रव्यत्वाच्चेति वेतितव्यम् । तत्रेदं बोध्यम्त्रिविधं द्रव्यं संयोगाद्दर्शनस्पर्शनाभ्यां गृह्यते । संयुक्तसमवायाच्च तद्गतगुणानां रूपादीनां कर्मणाञ्च ग्रहणम् । संयुक्तसमेवतसमवायाच्च गुणत्वकर्मत्वरूपत्वादीनाम् । समवायात्शब्दग्रहणम् । कर्णशष्कुलोपरिच्छिन्नगगनमेव श्रोत्रम्, तद्गुणश्शब्द इति तत्त्वालोके निपुणतरमुक्तम् । समवेतसमवायाच्च शब्दत्वप्रतीतिः । संयुक्तविशेषणतयाभावग्रहणम्, अफलवती शाखेति । नैयायिकमतखण्डनम् । १२८ अदयुक्तम्यदि महत्त्वानेकद्रव्यतवरूपवत्त्वान्येव प्रत्यक्ष १२९ इमित्तम्, तदा वायोरप्रत्यक्षता स्यात् । न च वाच्यमिष्यत एवेति । स्पर्शनेन तदुपलम्भात् । स्पर्शमात्रं तेनोपलम्भते, न वायुद्रव्यमिति चेत् । शीतोष्णानुष्णाशीतस्पर्शेषूपलभ्यमानेषु प्रत्यभिज्ञायमानत्वाद्द्रव्यस्य । यदा हि तैजसमुष्णत्वं जलगतञ्च शीतत्वं वायोश्चानुष्णाशीतत्वं स्पर्शनेन वायौ वाति सति प्रतीयते, तदा प्रत्यभिज्ञायते द्रव्यं तदेवेदिमिति । तेन न स्पर्शमात्रप्रतीतिः । तस्माद्रूपवत्त्वमिव स्पर्शवत्तापि प्रत्यक्षे हेतुरित्युसंख्यानं कर्तव्यम् । यच्च संयुक्तसमवेतत्वात्कर्मणां प्रत्यक्षत्वमुक्तम्, तदप्ययुक्तम् । तस्य संयोगविभागलक्षणफलानुमेयत्वात्१३० । एतच्च पञ्चिकाद्वये प्रपञ्चितम्, अत्रापि चानुमानपरिच्छेदे वक्ष्यामः । १३१ अच्च संयुक्तसमवेतसमवायाद्गुणत्वादीनां ग्रहणमिष्टं, तदपि तेषामभावादेवायुक्तम् । समवेतसमवायाच्च शब्दत्वग्रहणमप्येवमेवानुपपन्नम् । संयुक्तविशेषणतयाभावग्रहणमत्रैव१३२ १३३ इराकरिष्यामः । अन्यच्च समवायविशेषणता नाम सन्निकर्षान्तरं किमिति नेष्यते । यथा गोरश्वस्य चान्योन्याभावप्रतीतये संयुक्तविशेषणता नाम सन्निकर्षान्तरमाश्रीयते१३४॑ तथा १३५ अकारखकारयोरपीतरेतराभावावगमाय समवेतविशेषणतालक्षणं सन्निकर्षान्तरमभ्युपगन्तुमुचितम् । तस्मार्त्तिविध एव सन्निकर्षः प्रत्यक्षहेतुःसंयोगः, संयुक्तसमवायः, समवायश्चेति । अव्यपदेश्यमिति किमर्थम् ? इन्द्रियार्थसन्निकर्षोत्पन्नस्य शाब्दताशङ्का१३६ इराकरणर्थम् । यदा हिरूपं रूपमिति १३७ आनाति रसं रस इति जानाति तदा शब्दसञ्जल्पसम्भवात्शाब्दताशङ्का कस्यचित्स्यात् । तन्निराकरणायाव्यपदेश्यमित्युक्तम् । न हीन्द्रियार्थसन्निकर्षजे ज्ञाने शब्दस्य व्यापृतिरस्ति, यतश्शाब्दता स्यादिति । १३८ अदिदमसङ्गतम् । लक्षणं हि प्रत्यक्षस्य वक्तव्यम् । येन रूपेण सजातीयविजातीयेभ्यो भेदस्तदेव लक्षणम् । तत्र तावत्शाब्दाद्भेद इन्द्रियार्थसन्निकर्षजत्वेनैव सिद्धः । शब्दसञ्जल्पनानुवद्धिस्य प्रत्यक्षस्य शाब्दत्वाशङ्का शाब्दपरीक्षापर्वणि निराकर्तुमुचिता १३९ नुमानशङ्केव सर्वस्य १४०शाब्दस्य । अव्यभिचारिपदञ्चविपर्ययनिराकरणाय यदुक्तम्, तत्सर्वज्ञानानामव्यभिचारित्वादविशेषकमित्युक्तम् । व्यवसायात्मकतापि संशयनिवृत्यर्थं न वक्तव्या । स्थाणुर्वा पुरुषो वेति हि स्मृतिज्ञानद्वयम्॑ एतच्च नेन्द्रियार्थसन्निकर्षजमिति न तस्य प्रत्यक्षताप्रसक्तिः । किञ्चाव्यभिचारिपदेनैव संशयस्यापि व्यावृत्तिः सिद्धाः । तस्यापि यथाज्ञायमानार्थव्यभिचा रत्वात् । अपि चाव्यभिचारिता व्यवसायात्मकता च न प्रत्यक्षलक्षणम्, किन्तु प्रमाणलक्षणम् । तेन सामान्यतः प्रमाणलक्षणं कृत्वा, तद्विशेषस्य प्रत्यक्षस्य प्रातिस्विकं सजातीयविजातीयव्यावृत्तिसमर्थं लक्षणं वाच्यम्ऽइन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षमिति । अस्मिन्नपि लक्षणेऽनुमानादिप्रमितिः स्वात्मनि, प्रमातरि च न १४१ रत्यक्षा स्यादनिन्द्रियजत्वात् । धर्मकीर्तीयस्य प्रत्यक्षलक्षणस्यानुवादः । १४२ परे पुनराहुःऽकल्पनापोढमभ्रान्तं प्रत्यक्षमिति । कल्पनाजात्यादियोजना, तया रहितं यद्विज्ञानं, तत्प्रत्यक्षम् । तथाभूतमेव तैमिरिकादीनां केशोण्ड्रकादिज्ञानं प्रत्यक्षं मा प्रसाङ्क्षीदित्युक्तमभ्रान्तमिति । १४३ अच्चतुर्विधमिन्द्रियज्ञानम्, सर्वचित्तचैत्तानां स्वसंवेदनम्, मानसम्, योगिज्ञानञ्चेति । यदिन्द्रियाणामर्थेन सन्निकर्षादुपजायते, तदिन्द्रियज्ञानं पञ्चसु रूपादिषु पञ्चविधम् । सर्वज्ञानानां स्वसंवेदनं विकल्पविरहात्प्रत्यक्षम् । सुखादयस्तु १४४ इज्ञानाभिन्नहेतुकतया न तस्माद्भिद्यन्त इति तेऽपि स्वसंविदिता एव । मानसन्त्विन्द्रियज्ञानेन स्वविज्ञेयक्षणानन्तरक्षणसहकारिणा जन्यते । तस्य चेन्द्रियज्ञानग्राह्यस्यानन्तर एव क्षणो ग्राह्यः । ननु जन्यज्ञानसमये जनकस्यार्थक्षणस्यातीतत्वात्कथमर्थस्य१४५ प्रत्यक्षग्राह्यता । उच्यतेएतदेव ग्राह्यतवमर्थानां यदुत्पादकत्वं स्वरूपार्पकत्वञ्चेति । अर्थाकारं प्रत्यक्षं ज्ञानम् । अन्यथा निराकारा संवित्तिः कथं रूपादिसंवित्तिव्यवस्थां लभेत । अत एवार्थसारूप्यं प्रमाणम्, तस्यैव व्यवस्थाहेतुत्वात् । अर्थेन सारूप्यं विज्ञानं घटयति नेन्द्रियादि, इति न तत्प्रमाणम् । नन्वेकस्याकारस्य प्रतीतेस्तस्य च ज्ञान एव १४६ वस्थितत्वात्कथमर्थस्य प्रत्यक्षता । उच्यतेयोर्ऽथो ज्ञानस्याकारमात्मनोऽन्वयव्यतिरेकावनुकारयति, स प्रत्यक्ष इति न दोषः । १४७ इञ्च साकारता ज्ञानस्याश्रयणीया । अन्यथा स्वप्नादिष्वसति बहिरर्थे कस्याकरः प्रकाशेत । प्रकाशात्मकज्ञानाद्बहिर्भूतश्चाकारः कथं प्रकाशेत, जडस्य प्रकाशायोगात् । अपि चार्थस्य वित्तेश्च सहोपलम्भो नियतः । स च भेदादनियमव्याप्ताद्व्यापकविरुद्धोपलब्ध्या१४८ निवृत्तोऽभेदेऽवतिष्ठमानोऽभेदमनुमापयति । १४९ हेदावभासस्तु द्विचन्द्रादिप्रतीतिवदनादिवासनानिबन्धन इति परिकल्पनीयम् । भूतार्थभावनाप्रकर्षपर्यन्तजञ्च योगिज्ञानम् । प्रमाणप्रतीतमर्थं परोक्षमपि भावयतो यद्भावनायाः परमे प्रकर्षे सत्यपरोक्षावभासं ज्ञानं जायते, तत्प्रत्यक्षम् । स्पष्टप्रतिभासत्वेन निर्विकल्पकत्वात् । न हि विकल्पानुविद्धस्य प्रत्ययस्यस्पष्टार्थप्रतिभासतास्तीति । तन्निराकरणम् । १५० तदनुपपन्नम् । सविकल्पकविज्ञानानां१५१ जात्यादियोजनयोदीयमानानामिन्द्रियज्ञानानां प्रत्यक्षतापाकरणात् । अथोच्येत जातिगुणयोर्द्रव्यात्पृथक्त्वेनाग्रहणाद्भेद एव नास्ति । तेन ताभ्यामविद्यमानाभ्यां योजयित्वा जायमानं जातिगुणकल्पनाज्ञानं न प्रत्यक्षमिति । तदप्यसत् । १५२ कैकद्रव्यव्यतिरेकेण द्रव्यान्तरे ग्रहणात्पृथक्त्वेनाग्रहणस्यासिद्धेः । एकस्मिन्नपि द्रव्ये द्रव्यान्तराद्व्यावर्तमाने अनुवर्तमानयोर्जातिगुणयोर्भेदावगमादिति जातिनिर्णये निर्णीतम् । कर्मकल्पना तु न प्रत्यक्षमित्यनुमतमेव, अनुमेयत्वात्कर्मणः । द्रव्यकल्पना तु विषाणी, दण्डीति च न प्रत्यक्षतामतिवर्तते, १५३ न्द्रियव्यापारानुविधायित्वात् । नामकल्पनापि देवदत्तोऽयमिति प्रत्यक्षा, इन्द्रियव्यापारानुविधायित्वात्१ तत्र यद्यपि वर्णात्मकं नाम स्मरणनिविष्टम्॑ तेन सह वाच्यवाचकभावोऽपि स्मृतिसमारूगेव । तथापि १५४ अंज्ञी प्रत्यक्षतां न मुञ्चति । न हि संज्ञा, तत्सम्बन्धो वा तदानीमेकविज्ञाने विशेषणत्वेन प्रतिभातः । किन्तु एतौ स्मृतिसमारूगवेव । संज्ञिनि हि दृश्यमाने प्रागनुभूतौ तौ स्मृतिमारोहतः । अत एवोक्तं संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा ॥ इति अतः नामयोजनया जायमानं ज्ञानं न प्रत्यक्षमिति १५५ ए वदन्ति तेऽप्यनयैव दिशा निराकृताः । ऐन्द्रियके ज्ञाने नामयोजनायाः सम्भवात् । अपि च जातिगुणयोप्रत्यक्षत्वमिच्छतो न किञ्चित्प्रत्यक्षमवकल्पते१५६ । न हि रूपशून्या काचिद्रूपिबुद्धिरस्ति । जातिगुणौ१५७ च रूपिणां रूपे । सर्वा हि प्रतीतिः एवमित्युपजायते, प्रकारश्चैवंशब्दार्थः । जातिगुणौ चार्थानां प्रकारभूतौ । अतस्ताभ्यां योजयन्त्येव सर्वा इन्द्रियप्रतीतिस्समुत्पद्यत इति निर्विषयं कल्पनापोग्पदम् । अभ्रान्तपदमपि सर्वज्ञानानां स्थूलावभासित्वात्ग्राह्यग्राहकसंवित्तिभेदयोगित्वात्सौगतानां निर्विषयमेव । यच्च मानसं नाम प्रत्यक्षमुक्तं १५८ अद्धारावाहिकविज्ञानान्नातिरिक्तं मन्यामहे । स्यान्मतम् । १५९ नुपरते इन्द्रियव्यापारे इन्द्रियज्ञानम्, उपरते त्वनन्तरक्षणप्रभवं मानसमिति । तदयुक्तमिन्द्रियव्यापारोपरमस्याप्यपरोक्षार्थप्रतीतिफलसम्भवे सत्यसिद्धत्वात् । यच्चातीतार्थविषयं मानसमित्युक्तम् । तदप्ययुक्तम् । वर्तमानस्याकारस्य प्रतीतेः । न चायमाकारो वित्तेरेव॑वेद्यतया वित्तेः १६० ऋथगवभासनात्, वित्तिर्हि वित्तितया, वेद्यश्चाकारो वेद्यतयावभाति इति, न तयोस्तदात्मकतोपपद्यते । यच्चोक्तं भेदावभासो भ्रम इति । तदपि कारणाभावादयुक्तम् । न चार्थवित्तिव्यवस्थैव भेदहेतुः, निराकाराणामपि वृत्तीनां स्वभावत एव विशिष्टार्थसम्बन्धितया स्फुरणात् । अर्थसारूप्यञ्च यद्व्यवस्थाकारणमुक्तम् । तदसिद्धम् । स्थूलावभासित्वाज्ज्ञानानाम्, अणुरूपत्वाच्चार्थस्य । किञ्च यदि १६१ अत्सारूप्यं तदुत्पत्तिसंवेद्यतालत्तणम्, ततस्समानाकारस्य समनन्तरप्रत्ययस्यापि वेद्यता स्यात् । स्वप्नादिष्वपि बाह्यस्यवार्थस्याकारः स्मृतौप्रथत इति नयवीथ्यां साधितम् । यच्च जडस्य प्रकाशायोगादित्यभेदकारणमुक्तम् । तदप्ययुक्तम् । जडस्यैव प्रकाशसम्बन्धो घटते । १६२ अदात्मकता तु नेष्यत एव । अपि च यदि ज्ञानानतिरिक्तस्यैव प्रकाशः, तदा ग्राह्यग्राहकवित्तीनां भेदस्य कथं प्रकाशः । तस्यालीकस्य १६३ ञानस्वरूपाननुप्रविष्टत्वात् । यच्च सहोपलम्भनियमादभिन्नत्वमाकारस्य वित्तेश्चोक्तम् । तदप्यसारम् । वित्तेर्भेदेऽप्यर्थस्य नियमोपपत्तेः । यैव हि संवित्तिः, सैव तस्यार्थस्योपलब्धिरिति कथमसौ तां विना प्रकाशेत । यच्च स्वसंवेदनं सर्ववित्तीनां प्रत्यक्षमुक्तम् । तदनुमन्यामहे एव । सुखादीनां यत्तदभिन्नहेतुतया तदभेदात्स्वसंवेदनमिष्टम् । तदनुपपन्नम् । हेत्वभेदस्यासिद्धेः । अर्थस्य ज्ञानहेतुत्वात् । ज्ञानस्य सुखादिनिमित्तत्वात् । असन्निहितेऽप्यर्थे ज्ञानमात्रात्स्वप्नादिषु सुखाद्युपपत्तेः । यच्च योगिज्ञानं प्रत्यक्षमिति मतम् । तदप्यसत् । प्रमाणविशेषो हि प्रत्यक्षम् । न च भूतार्थभावनाप्रकर्षपर्यन्तजस्य योगिज्ञानस्य प्रमाणतैव सम्भवति, स्मृतिरूपत्वात् । प्रमाणेन हि भूतभर्थं परिच्छिद्य या भावना, सा स्मृतिसन्ततिरेव । तत्प्रकर्षजमपि ज्ञानं स्मृतिविशेष एवेति न प्रमाणम्, न वा प्रत्यक्षमित्यलमतिविस्तरेण । वृत्तिकारमतस्यानुवादतन्निरासौ । १६४ अदपि केचिन्मन्यन्ते "तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्" [११४] इति प्रत्यक्षलक्षणम् । तदप्यव्यापकत्वादलक्षणम् । स्वात्मनि लिङ्गादिजापि प्रतीतिः प्रत्यक्षत्वेनेष्यते, सकलप्रतीतीनाञ्च स्वरूपं प्रति प्रत्यक्षताभिमतेति, १६५ इमिदमुच्यतेतत्सम्प्रयोग इति । उच्यतेये शुक्तिकारजतादिज्ञानादिष्वपि प्रत्यक्षतामाहुः, ते निराक्रियन्ते । प्रमेयेषु हि लोके तदेव प्रत्यक्षमित्युच्यते यद्विषयं ज्ञानम्, तेनैवेन्द्रियाणां सम्प्रयोगे पुरुषस्य यद्ज्ञानं जायते । न च शुक्तिकासम्प्रयुक्ते चक्षुषि यद्रजतज्ञानं जायते तदेवंविधतम् । तस्मान्न रजतज्ञानं प्रत्यक्षम् । रजतज्ञानं हि रजतविषयम्, न च रजतेनेन्द्रियं सम्प्रयुक्तम्, रजतस्य तत्रासन्निहितत्वात् । १६६ अस्मान्न रजतज्ञानं प्रत्यक्षम् । किन्तर्हि स्मरणं तत्, इति दर्शयितुं सूत्रमिदमिति वर्णनीयम् । गुरुमतेन प्रत्यक्षलक्षणम् । स्वाभिमतमिदानीं प्रत्यक्षलक्षणमाह "साक्षात्प्रतीतिः प्रत्यक्षमि"ति । ननु भावनाप्रकर्षपर्यन्तजा स्मृतिरपि साक्षात्कारवती प्रत्यक्षं प्रसज्यते । न । प्रमाणाधिकारात् । अनुभूतिः प्रमाणम्, तद्विशेषश्च प्रत्यक्षमिति न १६७ मृतेः प्रत्यक्षत्वापत्तिः । प्रत्यक्षस्य १६८ इषयमाह"मेयमातृप्रमासु सा" । तत्र विभागमाह"मेयेष्विन्द्रिययोगोत्था" द्रव्यजातिगुणेष्विन्द्रियसंयोगोत्था साप्रत्यक्षा प्रतीतिः मेयेष्विन्द्रियसंयोगेन, तत्संयुक्तसमवायेन, समवायेन च जायते । कानि पुननिन्द्रियाणि ? घ्राणरसननयनत्वक्श्रावणानि बाह्यानि, आन्तरञ्च मनः । किं पुनरेषामस्तित्वे, भेदे च प्रमाणम् ? उच्यतेविषयावबोधस्तावत्कादाचित्को दृश्यते, तस्य चात्मा समवायिकारणम्, असमवायिकारणेन विना कार्यं न जायते । तच्चासमवायिकारणं समवायिकारणप्रत्यासन्नं भवति । प्रत्यासत्तिश्च द्विधा दृष्टाकार्यसमवायस्तत्कारणसमवायश्च । अग्निसंयोगो हि पाक्यद्रव्यसमवेतोऽसमवायिकारणभूतस्तत्रैव गन्धादिकमारभते । तन्तुरूपाणि पटकारणभूतेषु तन्तुषु समवेतानि पटरूपारम्भेऽसमवायिकारणानि । तत्र तावदात्मनो नित्यत्वात्तत्कारणसमवेतमसमवायिकारणं न भवतीत्यात्मसमवेतमेव गुणान्तरमसमवायिकारणमाश्रयणीयम् । तत्र नित्यद्रव्यसमवायिनो वैशेषिकगुणस्य द्रव्यान्तरसंयोग एवासमवायिकारणत्वेनावधारितः । पार्थिवपरमाणुषु रूपादयोऽग्निसंयोगमेवासमवायिकारणमाश्रित्योत्पद्यमानाः प्रतीता इत्यात्मनोऽपि बोधाख्यो धर्मो द्रव्यान्तरसंयोगमेवासमवायिकारणमाश्रयते । तस्य च द्रव्यस्याश्रयभूतद्रव्यान्तरसद्भावे प्रमाणाभावादद्रव्यद्रव्यत्वं निश्चीयते१ द्विविधं चाद्रव्यद्रव्यं परममहदाकाशादिकम्, परमाणुरूपञ्च । तत्रास्य द्रव्यान्तरस्य परममहत्त्वोपगमे संयोग एवानुपपन्नः । संयोगकारणाभावात् । यो हि संयोगः साक्षात्प्रतीयते, सोऽन्यतरकर्मजः, उभयकर्मजः, संयोगजो वा । तेन नियतकारणत्वेन संयोगस्यावगतत्वात्, तदभावे संयोग एव नास्तीति निश्चीयते । न च परमहतोः साक्षात्संयोगो १६९ हवति, न वानुमातुं शक्यत इति पारिशेष्यादणुत्वमेव तस्य १७० रव्यस्याश्रीयते । अणुत्वे च तत्कर्मवशादेव संयोगोदयो नानुपपन्नः । तत्कर्मोत्पत्तौ च प्रयत्नवदात्मनः संयोग एव कारणम्, शरीरकर्मवत् । प्रयत्नाभावे१७१ चादृष्टवदात्मसंयोगकारणता वायुतिर्यक्पवनवत् । तदुक्तम् १७२ ग्नेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्म अदृष्टकारित, [वै. द. अ. ५. आ. २. १३.] मिति१ सुखदुःखेछाद्वेषप्रयत्नानुभवे यत्, तत्द्रव्यान्तरं मनश्शद्बाभिधेयं निरपेक्षं कारणम्, सर्वस्मृतिषु१७३ पूर्वग्रहणजनितसंस्कारोद्बोधसहकार्यनुगृहीतमिति १७४ इवेक्ततव्यम् । एतेन १७५ अदाहुः षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः । [अभि. ध. को. स्था.१७] इति, तदपि निराकृतम् । द्रव्यान्तरसंयोगस्यैव नित्यद्रव्यगतवैशेषिकगुणारम्भेऽसमवायिकारणत्वेन दृष्टत्वात् । रूपग्रहणे रूपवदालोकस्य निमित्तत्वदर्शनाद्रूपवदेवेन्द्रियं रूपग्रहणनिमित्तमिति कल्पनीयम् । तथागन्धवदेव गन्धग्रहणे निमित्तम् । तथास्पर्शवच्च स्पर्शग्रहणे निमित्तम् । रसवच्च रसग्रहणे निमित्तम् । शद्बवदेव शद्बग्रहणे निमित्तम्, इति वेदितव्यम् । तेन गन्धवत्पार्थिवं घ्राणं गन्धग्रहणकारणम्, रसवच्चाम्भसं रसनं रसानुभवनिमित्तम् । रूपवच्च तैजसं चक्षूरूपदर्शनहेतुः । वायवीयं स्पर्शवत्त्वगिन्द्रियं१७६ स्पर्शग्रहणहेतुः । शद्बगुणवच्चाकाशं श्रोत्रेन्द्रियं शद्बग्रहणहेतुः । इन्द्रियसम्बन्धापन्नस्यापि१७७ आर्थस्य विषयान्तरासक्तचित्तस्याप्रतिपत्तेः१७८ मनस्संयोगापेक्षा इन्द्रियाणामाश्रहीयते । तेनाभ्यन्तराणां सुखादीनां ग्रहणे सन्निकर्षद्वयं कारणमात्ममनस्संयोगाख्यः१७९ सन्निकर्षः, सुखादिमनस्सन्निकर्षश्च संयुक्तसमवायलक्षणः । बाह्यरूपादिग्रहणे च सन्निकर्षचतुष्ट्यं कारणमात्ममनस्सन्निकर्षः, मन इन्द्रियसन्निकर्षः, द्रव्येन्द्रियसन्निकर्षः रूपेन्द्रियसन्निकर्षश्च । १८० रमेयविभागमाह"द्रव्यजातिगुणेषु सा" इति । साइन्द्रियसंयोगोत्था प्रतीतिः द्रव्यजातिगुणेषु भवति । स्पर्शवन्महत्त्वयुक्तं द्रव्यं पार्थिवम्, आप्यम्, तैजसम्, वायवीयञ्च, चतुर्विधमैन्द्रियकम् । तथाविधद्रव्योदयकारणम्, तत्र प्रमाणञ्च जातिनिर्णये निर्णोतम् । जातिसद्भावोऽपि जातिनिर्णय एवोक्तः । १८१ उणस्तुरूपरसगन्धस्पर्शाः संख्यापरिमाणपृथक्त्वानि संयोगविभागौ परत्वापरत्वे बुद्धिसुखदुःखेच्छाप्रयत्नाश्च प्रत्यक्षग्राह्याः । क्वचिद्द्रव्याग्रहणेऽपि रूपादीनां ग्रहणम्, रूपाद्यग्रहणेऽपि द्रव्यस्येति, नास्ति द्रव्यगुणयोर्ग्रहणं प्रति नियमः । द्विविधा चेयं १८२ रव्यादिप्रतीतिः । "सविकल्पाविकल्पा च प्रत्यक्षा बुद्धिरिष्यते" । इति । १८३ इभजति "आद्या विशिष्टविषया स्वरूपविषयेतरा" । इति । प्रथमं हि स्वरूपमात्रग्रहणं द्रव्यजातिगुणेषूपपद्यते१८४ । तच्च स्वानुभवसिद्धम् । समाहितमनस्को हि विषयान्तरानुसन्धानशून्य इन्द्रियसंयुक्तं वस्तु साक्षादुपलभत इति स्वसंविदेवात्र प्रमाणम् । निर्विकल्पकनिरूपणम् । तस्य न स्वलक्षणमात्रं विषयः । जात्याद्यकारावभासस्य१८५ स्पष्टत्त्वात् । नापि सामान्यमात्रं१८६ विषयः । भेदग्रहणस्य प्रतीतिसिद्धत्वात् । १८७"लब्धरूपे क्वचित्किञ्चिद्[ब्र. सि.] इत्यादि" यदुच्यते, तदितरेतराभावविषयम्, न तु वस्तुभेदविषयम् । १८८ अस्तुभेदप्रतीत्युत्तरकालं हि परस्पराभावोऽवसीयते । घटं घटाकारतया, पटञ्च पटाकारतया विदित्वायं स न भवतीति १८९ अयोरितरेतराभावं प्रतिपद्यते । घटादिविज्ञानञ्च१९० वस्त्वन्तरग्रहणानपेक्षमित्यप्रतीतेऽपि१९१ वस्त्वन्तरे, तद्ग्रहो नानुपपन्नः । तस्मात्सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्यमानं प्रत्यक्षं प्रथममुपपद्यते१९२ । किन्तु वस्त्वन्तरानुसन्धानशून्यतया सामान्यविशेषतया न प्रतीयते । अनुगतं हि सामान्यमुच्यते, व्यावृत्तिश्च विशेषः । न च वस्त्वन्तरानुसन्धानमन्तरेणानुगतिव्यावृत्ती प्रत्येतुं शक्यते । अप्रतिपद्यमानोऽपि च ते, शक्नोत्येव स्वरूपं तयोः प्रतिपत्तुमिति, निर्विकल्पकमसामान्यविशेषविषयम् । सविकल्पकनिरूपणम् । सविकल्पकन्तु तत्पृष्ठभावि त एव वस्तुनी सामान्यविशेषात्मना प्रतिपद्यते । ननु वस्त्वन्तरानुसन्धाने नेन्द्रियं समर्थम् । इन्द्रियसामर्थ्यसमुत्थञ्च प्रत्यक्षमिति, कथं सामान्यविशेषात्मकं प्रत्यक्षस्य विषयः । उच्यतेभवेदेतदेवं यदीन्द्रियाण्येव चेतनानिस्युः॑ ज्ञानानि वा । आत्मा त्वेकः सर्वानुभवितव्यानुभविता संस्कारवशेन वस्त्वन्तरमनुसन्धदिन्द्रियेण१९२ सामान्यविशेषात्मना वस्तु शक्नोत्येव प्रत्येतुम् । तथा निर्विकल्पकेन सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्यमानेनापि तयोर्भेदो गृहीतुं न शक्यते । न हि वस्तुभेदमात्रेण भेदबुद्धिः१९३, किन्तु धर्मान्तरग्रहोऽपि१९४ भेदबुद्धौ सहकारी । तेनानुगतिव्यावृत्ती धर्मान्तरभूतेऽगृह्णतः सत्यपि सामान्यविशेषयोर्भेदे भेदबुद्धिर्नासीत्, उत्तरकाले च वस्त्वन्तरानुसन्धानेन ते प्रतिपद्य भिन्नत्वमवसीयते । भेदे सति विशेषणविशेष्यभावावसाय इति, न निर्विकल्पकदशायां विशिष्टबुद्धिः । १९५ अविकल्पकदशायान्तु विशेषणविशेष्यभावमवगच्छति । गुणप्रतीतावपि निर्विकल्पकं न विशिष्टतया द्रव्यमवच्छिनत्ति, द्रव्यगुणयोर्भेदानवगमात् । अन्वयव्यतिरेकाभ्यां हि गुणजात्योर्द्रव्याद्भेदोऽवगम्यते१९६ । न च निर्विकल्पकेऽन्वयव्यतिरेकाद्यनुसन्धानमस्तीति, तेन न १९७ हेदग्रहः, अगृहीतभेदञ्च तत्न विशिष्टतां ग्रहीतुमीष्टे इति सविकल्पक एव विशिष्टप्रत्ययः । नामकल्पनायामपि शद्बवाच्यतायाः स्मर्यमाणाया एव १९९ इशेषणत्वम् । कर्मकल्पनाप्येवमेव व्याख्येया । २०० रत्ययान्तरोपस्थापितेऽपि विशेषणे विशिष्टप्रत्ययो भवत्येव । आत्मनः प्रमातृत्वान्निर्विकल्पकपृष्ठभाविनश्च सविकल्पकस्य गृहीतग्राहित्वेऽपि धारावाहिकन्यायेन २०१ रमाणत्वं वेदितव्यम् । विशेष्यविशेषणभावातिरेकेणागृहीतग्राहकतापि सम्भवत्येव सविकल्पकस्य । अस्य च बाह्यवस्तुविषयत्वं जातिनिर्णये निर्णोतम् । न चेदमनिन्द्रियजं ज्ञानम्, इन्द्रियाधीनप्रवृत्तित्वात् । अपरोक्षार्थावभासो ह्ययं सविकल्पकप्रत्ययः । स तादृशो नेन्द्रियव्यापारमन्तरेणास्ति । त्रिपुट्या निरूपणम् । सम्प्रति मातरि मितौ च प्रत्यक्षं व्याख्यातुमाह "सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा । साक्षा२०२ कर्तृत्वसामान्यात्प्रत्य२०३ षत्वेन सम्मता" ॥ इति । २०४ आ काचिद्ग्रहणस्मरणरूपार्ऽथप्रतीतिः, तत्र साक्षादात्मा भाति । न ह्यर्थावभासिन्यात्मन्यनवभासमाने विषया भासन्ते । सर्वा हि प्रतीतिरेवमुपजायतेऽहमिदं जानामीति, न पुनर्जानातीत्येवं काचिद्बुद्धिरस्ति । तदा२०५ च स्वपरसंवेद्ययोरनतिशय सङ्गस्सयात् । न च २०६ रत्ययान्तरविषयत्वेन नियमः सम्भवति । एकप्रतीतिविषयत्वे युक्त एव सहोपलम्भनियमः । २०७ अस्मात्सर्वैरेव ज्ञानहेतुभिरात्मनि साक्षात्कारवती धीरुपद्यते । विषयापेक्षया प्रमाणान्तरत्वनिरूपणम् । नन्वेवं तर्हि सर्व प्रत्यक्षं प्रसक्तम् ? यदि मात्रभिप्रायम् । इष्टमेव । प्रमेयाभिप्रायमिति चेत् । न । सर्वत्र प्रमेयस्यापरोक्षत्वनियमाभावात् । स्मृतिष्वनुमानादिषु२०८ च न प्रमेयमपरोक्षम् । तेन २०९ रमेयापेक्षयैव प्रमाणान्तरत्वव्यपदेश इति मन्तव्यम् । सर्वाश्च प्रतीतयः स्वयं प्रत्यक्षाः प्रकाशन्ते । तेन तासां स्वात्मनि युक्तमेव प्रत्यक्षत्वम्, प्रमाणत्वञ्च । ज्ञानस्य स्वप्रकाशत्वनिरूपणम् । मेयमातृप्रमाणानां २१० रतीतौ विशेषः कः ? उच्यते मेये मातरि च व्यतिरिक्ता प्रतीतिः साक्षात्कारवती, मितौ त्वव्यतिरिक्ता । इदमहं गृह्णामीति वा, इदमहं स्मरामीति वा त्रितयमेवावभासते । २११ एयमात्रवभासरूपा संविदेका । न तु २१२ अस्यां संविदन्तरं चकास्ति । न च सा नावभाति ? २१३ अदनवभासे सर्वानवभासप्रसङ्गात् । किञ्चाप्रकाशस्वभावानि मेयानि, माता च प्रकाशमपेक्षन्ताम् । प्रकाशस्तु प्रकाशात्मकत्वान्नान्य२१४ अपेक्षते । जाग्रतो हि मेयानि माता च प्रकाशन्ते । सुषुप्तस्य तदा न तत्द्वयमपि प्रकाशते । न च तदानीं तद्द्वयमपि नास्त्येव, प्रबोधे प्रत्यभिज्ञानात् । तत्र प्रकाशात्मकत्वे तु सुषुप्तिदशायमापि तत्द्वयं प्रकाशेत । तस्मादप्रकाशात्मकं तत्द्वयमप्यङ्गीक्रियते । प्रकाशस्य त्वप्रकाशमानस्य सत्तैव नाभ्युपेयते । तस्मात्स्वयंप्रकाशसमय२१५ एव मेयमातृप्रकाशः । किञ्च स्वत एव यदुपपद्यते, न तत्र परापेक्षा युक्ता । मेयानां मातुश्च स्वयं प्रकाशो न नोपपद्यत इति, युक्ता तयोः परापेक्षा । मितौ च काचिदनु पपत्तिर्नास्तीति स्वयम्प्रकाशैव मितिः । सौत्रानितकमतेन पूर्वपक्षः । तत्राहुः २१६ वयम्प्रकाशा चेन्मितिरभ्युपेयते, तदा निराकारस्य प्रकाशायोगादवश्यमाकारोऽभ्युपगमनीयः । २१७ कश्चायमाकारोऽवभासते, तेन प्रकाश एव तदाकार इति युक्तम् । किञ्च निराकारत्वे प्रकाशस्य प्रतिकर्मव्यवस्था नोपपद्यते, न हि तस्य सर्वार्थेषु कश्चिद्विशेषः । अर्थाकारत्वे तु यस्याकारोऽसौ, तस्येति घटते प्रतिविषयव्यवस्था । तदाहुः"न हि २१८ अंवित्तिसत्तयैव तद्वेदना२१९ युक्ता, तस्याः सर्वत्राविशेषादविशेषप्रसङ्गात्, तान्तु सारूप्यमाविशत्तत्सरूपयद्घटयेत्" इति । अत अर्थसारूप्यमेव प्रमाणमिति युक्तम् । व्यवस्थापकतया हि प्रमाणानां प्रमाणत्वम् । अर्थसारूप्यञ्च व्यवस्थाहेतुः, न चक्षुरादिकम्, तस्यानेकार्थसाधारणत्वात् । किञ्च वित्तिसंवेद्ययोः सहोपलम्भो नियत उपलभ्यते, न कदाचिदपि वित्तिमन्तरेण वेद्यस्योपलब्धिः, नापि वित्तेर्वेद्यरहितायाः । ये च २२० अरस्परं व्यतिभिन्नावभासा भावाः, तेषां न सहोपलम्भनियमः । न घटस्य पटस्य नियमेन महोपलम्भः, तेन भेदादनियमव्याप्तात्नियमो व्यावर्तमानोऽभेद एवावतिष्ठमानोऽभेदं साधयति । तदुक्तम् "सहोपलम्भनियमादभेदो नीलतद्धियोर् । [प्रमाण. वा.] इति" एतेनैवन्यायेनाहमित्याकारकस्यालयविज्ञानस्य२२१ वित्तेश्चाभेदस्समर्थनीयः । २२२ अथं तर्हि २२३ राह्यग्राहकाकारबुद्धयः परस्परं भिन्नाः प्रतिभासन्त इति । तदाहुः "२२४ हेदश्च भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये । " प्र. वा. परि. ३ श्लो. ३८९ । इति तथापरमुक्तम् "२२५ अरिच्छेदोऽन्तरन्योऽयं२२६ भागो बहिरवस्थितः । ज्ञानस्याभेदिनो भिन्नप्रतिभासो ह्युपप्लवः ॥ " प्र.वा.परि. २.श्लो. २१२ । इति । भेदभ्रान्तौ चानादिभेदवासनैव निमित्तम् । एतद्विचारणीयम्येयमाकारविशेषयोगिनी प्रतीतिः, सा किं २२७ आह्यादर्थादुपजायते, किं वा समनन्तरप्रत्ययादिति । तदुक्तम् २२८ अदि बुद्धिस्तदाकारा सास्त्याकारविशेषिणी२२९ । सा बाह्यादन्यतो वेति विचारमिदमर्हति ॥ प्र. वा. परि. ३. श्लो.३३४ । इति । तत्र सौत्रान्तिका मन्यन्तेसमनन्तरप्रत्ययमात्रादाकारविशेष इति न घटते, देशकालप्रतिनियमायोगात् । घटज्ञानानन्तरमपि पटज्ञानं जायते । २३० अत्र च यदा बहिर्देशे घटोऽस्ति, तत्र यदि घटज्ञानमात्रमेव पटज्ञानोत्पत्तौ हेतुः, तर्हि यदा यत्र पटो नास्ति, तत्र तदापि पटज्ञानं स्यात् । न चैवमस्ति । अतोऽस्ति समनन्तरप्रत्ययादप्यधिकोर्ऽथो ज्ञानाकारोऽपत्तिहेतुः । किञ्च यथा मरीचिकाजलज्ञाने जलार्थिनः प्रवृत्तस्यार्थक्रिया न सम्भवति, तथा सम्यग्जलज्ञानेऽपि२३१ न स्यात् । न ह्यर्थशून्यत्वाविशेषे सम्यग्जलज्ञानमिदम्, इदं नेति विभागोऽवकल्पते२३२ तस्माद्बाह्योर्ऽथोप्यङ्गीकर्तुमुचितः२३३ । विज्ञानवादिमतेन सौत्रान्तिकमतस्य निरासः । तदपरे२३४ भ्रान्तमिति मन्यन्ते । तथा हिन तावत्क्वचिदर्थस्याकारवि२३५ शेषाधायकत्वं साक्षादवगतम्, कल्पनीयन्तु तत् । तच्च दृष्टे समनन्तरप्रत्यय एव वरं कल्प्यम् । कार्यभूतज्ञानानां वैलक्षण्ये समनन्तरप्रत्ययवैलक्षण्यं हेतुरस्तु । तेन किञ्चिदेव ज्ञानङ्कस्यचिदेव कुत्रचिदेव कदाचिदेव हेतुरिति प्रतिनियमसिद्धिः । २३६ इज्ञानवादी चार्थक्रियामपि ज्ञानरूपामेव मन्यते । तेन किञ्चिदेव जलज्ञानमर्थक्रियाजननसमर्थं, २३७ इञ्चिच्च न इत्यपि प्रतिनियमसिद्धिः । अवश्यञ्चार्थमन्तरेण विशिष्टाकारज्ञानोत्पत्तौ समनन्तरप्रत्ययस्य सामर्थ्यमास्थेयम् । अन्यथा स्वप्नादिष्वाकारप्रतिभासप्रतिनियमो न स्यात् । न च देशान्तरकालान्तरवर्तिनामेव तत्र सामर्थ्यम्, अविद्यमानस्य सामर्थ्यायोगात् । २३८ थानुभवजनितसंस्कारात्तत्राकारप्रतिभासनियम इति चेत्, अस्तु तावदेवम् । योऽसावनुभवः, सोऽपि तर्ह्यत्रानुभवान्तरजनितसंस्कारादेवास्त्वित्यनया दिशा किमर्थाभ्युपगमेन । २३९ अंस्कारोऽपि च संस्कारादिति, अनुभवपूर्वकमेव विज्ञानं कार्यकारणभावेन प्रवर्तते, तेनार्थानुभवाकारात्ज्ञानात्यदपरं विज्ञानं जायते, तत्विशिष्टस्वभावम्, ततोऽपि यदपरम्, तदपि विज्ञानं विशिष्टस्वभावमेवेति, विज्ञानस्वभावविशेष एव भावना, वासना, संस्कार इत्यादिभश्शब्दैर्व्यपदिश्यते । अर्थक्रियासम्वादयोग्यञ्च ज्ञानं प्रमाणम्, इतरच्च नेति प्रमाणाप्रमाणभेदोप्युपपन्नः । तस्माद्विज्ञानान्याकारविशेषयोगीनि हेतुफलभावेनानादिसन्तानवाहीनि सन्तु॑ तदतिरेकी न कश्चिदर्थो नामेति । विज्ञानवादिमतनिराकरणम् । अत्रोच्यतेयत्तावदुक्तं ज्ञानस्य साकारत्वसिद्धये नार्थसारूप्यमन्तरेण प्रतिकर्मव्यवस्थासिद्धिरिति । तदयुक्तम्॑ न हि २४० अस्यचिदप्यर्थस्य स्वरूपमनुभूतं साकारविज्ञानवादिना । ज्ञानाकारपर्यवसितवृत्तित्वात्सर्वज्ञानानाम् । यस्य च स्वरूपमेव नावसितं, न तेन सह कस्यचित्सारूप्यपरिकल्पनम् । न चापि ज्ञानाकारोदयवशेनार्थो व्यवस्थाप्यमानः सरूपतया परिकल्पयितुं शक्यते । असरूपादपि २४१ आर्यगताकारोपपत्तेः । लाक्षरक्तबीजाङ्कुरावस्थाया विशेषानवगमेपि रक्तकार्यस्योत्पत्तिर्दृश्यते । न हि यदाकारं ज्ञानमुत्पद्यते, तदाकार एवार्थोज्ञानस्योत्पत्तौ निमित्तमित्यत्र २४२ इञ्चित्प्रमाणं प्रक्रमते । अपि च स्थूलाकारं ज्ञानमुत्पद्यते, २४३ अरमाण्वाकारश्चार्थः । साधारणाकारा बुद्धिः, २४४ साधारणाकारश्चार्थः इति, सारूप्यं२४५ किं भवति ? किञ्च सारूप्यमात्रेण वेद्यत्वे २४६ एद्यवेदकभावव्यवस्था नोपपद्यते । एकार्थविषयाणां सन्तत्यन्तरविज्ञानानां वेद्यवेदकत्वानुपपत्तेः । अथोत्पादकम् २४७ वरूपार्पकञ्च वेद्यम्, तथापि धारावाहिकज्ञानं पूर्वं पूर्वमुत्तरस्य उत्तरस्य वेद्यं स्यात् । अथाकारविशेषाधायकं वेद्यम्॑ एवमपि पूर्वपूर्वविज्ञानमात्रं वेद्यमापद्यते । पूर्वं पूर्वं हि विज्ञानमाकारविशेषोदयकारणमित्युक्तम् । अपि च निराकारत्वे संविदा प्रतिकर्मव्यवस्था नानुपपन्ना । अर्थप्रतिबद्धव्यवहारविशेषप्रवृत्त्यनुगुणो हि पुरुषस्य धर्मविशेषःसंवेदनम्, तच्च स्वयम्प्रकाशम् । यतर्थप्रतिबद्धव्यवहारानुगुणतया प्रकाशते, तत्तदर्थसंवेदनमिति व्यवस्थाप्यते । सहोपलम्भनियमश्च भेदेऽप्युपपद्यते । यैव हि नीलधीः, सैव नीलस्योपलम्भः । २४८ अथं नीलोपलम्भमन्तरेण नीलमुपलभ्यते । किञ्चानेनेदमप्यनिष्टमापद्यते । उपलम्भमन्तरेणाप्युपलभ्येतेति । सर्वस्यैव हि वस्तुनो न उपलम्भमन्तरेणोपलम्भ इष्यते । न ह्युपलम्भत एवोपलम्भः । २५० इञ्चोपलम्भोपलभ्ययोर्मेदोऽसहोपलम्भनियमव्याप्त इति, नियमस्ततो निवर्तमानोऽभेदे एवावतिष्ठमानस्तेन व्याप्तस्तं गमयेत् । उपलभ्योपलम्भयोस्तु भेदेऽपि नियम उपपद्यते । उपलभ्यमन्तरे२५१णोपलम्भासम्भवात् । तेन तयोर्भेदेऽपि सहोपलम्भनियमो दृष्टो नाभेदं साधयितुं२५२ षमः । किञ्चवित्तिवेद्ययोर्भेदेनापि सहोपलम्भनियमोऽस्तीति, तस्यापि वित्तिरूपत्वापत्तेर्वित्तेरेकत्वं हीयते, ततश्च भेद एव सहोपलम्भनियम २५३ त्युपपद्यते । किञ्च योऽपि वित्तेर्वेद्यस्याभेदमाह, सोऽपि तावद्वेद्यप्रतिभासं २५४ आवजानीते । तथा सति कथमनुमानमुत्पद्यते२५५ । न हि प्रतितिविपर्ययेणानुमानस्यात्मलाभोऽस्ति । यदपि ज्वालादिष्वभेदानुमानम्, तदपि न प्रतीतिं २५६ वार्थात्प्रच्यावयति, किन्तु सैवेयं ज्वालेति ग्रहणस्मरणरूपे द्वे प्रतीती व्यवस्थितविषये दर्शयति । इह तु भेदप्रतीतिः प्रत्येतव्यादेव व्यावर्तनीयेति, न तद्विरोधेनानुमानमुत्पद्यते । "भेदश्च२५७ भ्रान्तिविज्ञानैर्दृश्येतेन्दाविवाद्वये" । इति चानुपपन्नम् । न हि तत्र भेदो दृश्यते, किन्त्वेकस्मिन्नेव चन्द्रमसि नेत्रवृत्तिभेदेन द्वे प्रतीती जायेते । तयोरिन्द्रियवृत्तिभेदादभिन्नेऽपि चन्द्रमस्यर्थद्वयविषयं२५८ व्यवहारं विमूगः प्रवर्तयन्तीति, तत्र तत्रोक्तम् । यच्चेदमुक्तम्स्वयम्प्रकाशायाः संविदोऽभ्युपगताया नीलाद्याकारोऽस्तीति । तदप्ययुक्तम् । संविदभिन्नतयावभासमानस्याकारस्य २५९ अंविद्रूपत्वानुपपत्तेः । निराकारा संवित्कथं प्रकाशेतेति चेत् । निराकारेति किमुक्तम् ? निःस्वभावेति चेत् । २६० अदसत्, संविदः संवित्स्वभावत्वाभ्युपगमात् । अथ नीलाद्याकारेति चेत् । केयं राजाज्ञा नीलाद्याकारेणैव प्रकाशितव्यम्, नान्येनेति । प्रकाशे तु सति २६१ अद्यथाभूतं प्रतीयते, तत्, तथाभूतमित्यभ्युपगमो युक्तः । यच्चोक्तंस्वप्ने ज्ञानस्याकारोऽवभासत२६२ इति । तदप्ययुक्तम् । तत्रापि २६३ अहिरवभासित्वात्संविदः । न च सा बहिर्विषया न भवति । तस्याः २६४ ऊर्वानुभवाहितसंस्कारोद्बोधवशेन पूर्वानुभूतवस्तुविषयत्वात् । कथं तर्हि पूर्वानुभूतत्वं नानुसन्धीयते, २६५ अथं वानुभूयमानत्वाध्यवसानमिति । उच्यते । संस्कारोद्बोधनिमित्तेयं स्मृतिरिष्यते । संस्कारोद्बोधश्चादृष्टनिबन्धनः । तस्य सुखदुःखहेतुत्वात् । स्वप्नेऽपि सुखदुःखानुभवात् । तेन २६६ आवत्येवांशे तददृष्टं संस्कारमुद्बोधयति, यावत्येव सुखं दुःखं वोपपद्यते । न चानुभूतांशस्मरणे सुखदुःखोदय इति, न च तत्र संस्कारोद्बोधः, नापि स्मृतिः । अत एव च गृहीतांशानवधारणेऽनुभवमात्रमेवाशिष्यत२६७ इत्यनुभवाध्यवसायोऽपि समर्थितः । यत्पुनराहुःजडस्य प्रकाशायोगात्प्रकाशात्मक एवाकार इति । तदपि न चतुरस्रम् । जड इति किमुक्तम् ? अप्रकाशात्मक इति चेत्, न अप्रकाशात्मकस्यैव प्रकाशाद्व्यतिरिक्तस्य एष काश इति प्रकाशादेव सिद्धम् । किञ्च चित्रपटज्ञाने२६८ नानाभूतानामाकाराणामेकप्रकाशात्मकत्वविरोधादसद्भूतत्वमेवाभ्युपगतम् । चत्रावभासेष्वर्थे षु यद्येकत्वं न युज्यते । सवैव तावत्कथं बुद्धिरेका चत्रावभासिनी ॥ [प्र. वा. द्वि. प. श्लो. २०८] इतिऽचोदयित्वा,ऽ उक्तम् २६९ दं वस्तु बलायातं यद्वदन्ति विपश्चितः । यथा यथार्ऽथाश्चिन्त्यन्ते विविच्यन्ते तथा तथा ॥ [प्र. वा. द्वि. प. श्लो. २०५] इति । यथा यथाऽकारा विचार्यन्ते, तथा तथाघटमाना विविच्यन्तेशून्या भवन्तिअसद्भूता भवन्ति इत्यर्थः । पवञ्च ते तावदाकारा असद्भूताः प्रकाशात्मानो न भवन्तीति, कथं प्रकाशन्ते । तथा ग्राह्यग्राहकसंवित्तीनां भेदोऽत्यन्तासद्भूतः प्रकाशाननुप्रवेशी कथं प्रकाशेत ? तथा २७० रमेयविमर्शोत्थास्तु बाह्यार्थापह्नवप्रकारा जातिनिर्णय एव प्रायशो विकल्प्य निराकृता इति, ते नेह प्रस्तूयन्ते । ये पुनर्जाग्रत्प्रत्ययानां स्वप्नप्रत्ययदृष्टान्तेन प्रत्ययत्वादित्यनेन हेतुना बाह्यार्थशून्यत्वं प्रतिपादयन्ति, तेषां बाह्यविषयसकलप्रतीतिविरुद्धः पक्षः । २७१ ऋष्टान्तीकृतस्यापि स्वप्नादिप्रत्ययस्य बाह्यग्राह्यसमर्थनेन हेतोर्विरुद्धत्वं दोषः, दृष्टान्तस्य साध्यविकलत्वञ्चोद्भावनीयम् । तस्मात्स्वयम्प्रकाशत्वेऽपि संविदो न बाह्यग्राह्यापन्हव इति स्थितम् । संविदः स्वयम्प्रकाशत्वे शङ्कानिरासौ । २७१ ए त्वाहुः २७३ ङ्गुल्यगं यथात्मानं नात्मना स्प्रष्टुमर्हति । स्वांशेन ज्ञानमप्येवं नात्मना जातुमर्हति ॥ [बृ.टी] इति । तत्र यदि कर्मकर्तृत्वानुपपत्तिरुच्यते, ततो न किञ्चिदवहीयते । न हि वयं कर्मकर्तृभावमभ्युपेमः । अथार्थप्रकाशरूपायाः स्वयम्प्रकाशता विनिवार्यते, ततः प्रतीतिविरोधः । किञ्च प्रतीतिबलेन २७४ ऐरेकस्यात्मनः कर्तृकर्मभावोऽभ्युपगम्यते, कथमिव ते संविदोऽपह्नुवीरन् । अपि च ज्ञानमनुमेयमिष्यते । तदनुमाने नार्थसत्तामात्रं लिङ्गम्, तस्य तदविनाभावनियमाभावात् । अथार्थज्ञानमित्युच्यते, तदपि नोत्पत्तिमात्रेण लिङ्गम् । अनवभासमाने उत्पन्नानुत्पन्नयोरविशेषात् । न ह्यनवभासमानं लिङ्गं लिङ्गिनमनुमापयति । न चार्थज्ञानस्य ज्ञानन्तराधीनमवभासनम् । न च ज्ञानान्तरादवगमः । ज्ञानान्तरदवगमेन अवगमे चानवस्थाप्रसङ्गात् । तस्मादर्थज्ञानं स्वयम्प्रकाशमेवाभ्युपेतव्यम् । २७५ एतेन ये सुखादिवन्मानसप्रत्यक्षं ज्ञानान्तरमेव ज्ञानसद्भावे प्रमाणमाहुः, तेऽपि निराकृताः । स्वयम्प्रकाशत्वेनाप्युपपत्तौ पराधीनत्वकल्पनानुपपन्नेत्युक्तमेव । किन्तर्ह्यनुमीयते? ज्ञानम् । ननु न तत्संविदः स्वयम्प्रकाशाया भिन्नमुपलभ्यते । सत्यम्, अत एवानुमीयते । ननु किं तदिति न २७६ इद्मः । २७७ अंविदुत्पत्तिकारणमात्ममनःसन्निकर्षाख्यं तदित्यवगम्य परितुष्यतामायुष्मता । प्रमाणुलभावं २७८ इवृणोति "मानत्वे संविदो बाह्यं हानादानादिकं फलम् । ज्ञानस्य तु फलं सैव व्यवहारोपयोगिनी" ॥ इति । यदा प्रमितिः प्रमाणमिति भावसाधनमाश्रीयते, तदा संविदेव २७९ रमाणम् । तस्याश्च व्यवहारानुगुणस्वभावत्वाद्धानोपादानोपेक्षाः फलम् । प्रमीयतेऽनेनेति करणसाधने प्रमाणशब्दे आत्ममनःसन्निकर्षाद्यात्मनो ज्ञानस्य प्रमाणत्वे तद्बलभाविनी संविदेव बाह्यव्यवहारोपयोगिनीसती फलम् । २८०"आपेक्षिकञ्च करणं मन इन्द्रियमेव वा । तदर्थसन्निकर्षो वा मानञ्चेत्पूर्वकं फलम्" ॥ इति । यदा तु साधकतमस्य करणत्वात्तमपश्चातिशयार्थकत्वादतिशयस्य बाह्यापेक्षत्वादालोकाद्यपेक्षमिन्द्रियमेव प्रमाणम्, तस्य विषयसन्निकर्षः, तस्य वा मनःसन्निकर्षः प्रमाणम्, तदापि संविदेव फलम्, तदर्थप्रवृत्तत्वात्साधनानाम् । २८१ ए पुनः प्रमाणादभिन्नं फलमाहुः, तेऽपि वादिनः कार्यकारण्योरैक्याभावादेवोपेक्षणीयाः । इति महामहोपाध्यायश्रीशालिकनाथमिश्रविरचितायां प्रकरणपञ्चिकायां प्रकाणपारायणो प्रथमः प्रत्यक्षपरिच्छेदः समाप्तः । ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ १०७ रमाणपारायणं नाम षष्ठं प्रकरणम् । प्रथमः प्रत्यक्षपरिच्छेदः प्रकरणार्थप्रतिज्ञा । स्वरूपसंख्यार्थफलेषु वादिभिः यतो विवादा बहुधा वितेनिरे । ततो वयं तत्प्रतिबोधसिद्धये प्रमाणपारायणमारभामहे ॥ १ ॥ किं पुनरिदं प्रमाणं नाम ? न तावदविसंवादि ज्ञानं प्रमाणम् । स्मृतेरपि तथाभावप्रसक्तेः । अथ स्मृतिर्विकल्परूपतया परमार्थसत्स्वलक्षणमगृह्णान्ती संवृतिसन्तमाकारमवस्तुभूतमुल्लिखन्ती द्विचन्द्रादिबोधवन्नाविसंवादिनीति मतम् । एवमपि नानुमानं प्रमाणं स्यात् । तस्यापि विकल्परूपत्वात् । तर्हि विकल्परूपमनुमानमवस्तुविषयमपि वस्तुविषयमिवाध्यवसीयते, इत्यध्यवसीयमानवस्तुभूतस्वलक्षणाविसंवादितया तत्प्रमाणम् । स्मृतिरपि तथा स्यात् । सापि हि स्वलक्षणाध्यवसायिन्येव जायते । अपि चावस्तुभूतं स्वविषयं वस्तुतयाध्यवस्यच्छुक्तिकारजतबेधवत्कथमनुमानमविसंवादि । किञ्च यद्यनुमानं विकल्परूपतया स्वलक्षणं न गृह्णाति, कथं तर्ह्यध्यवस्यत्यपि । नहि ग्रहणादन्योऽध्यवसायो नाम । यो ह्याकारो न गृह्यते स कथमध्यवसीयेतापि । प्रतीतिविरुद्धं चेदमुच्यते "स्मृतिरनुमानवद्बाह्यं वस्तु न विषयीकुरुते" इति । विकल्पभूतयोरपि तयोः प्रत्यक्षप्रतीतवस्तुग्राहकत्वप्रतीतेः । अथोच्येतन वयं यथावस्थितार्थग्राहकमविसंवादकमभिदध्महे, किन्त्वर्थक्रियासमर्थवस्तुपरिप्रापकम् । यथाभूतं हि येन वस्तूपदर्शितं, प्रवृत्तोऽपि यदि तथाभूतमेव प्रतिलभते॑ तदा तदविसंवादिज्ञानं प्रमाणमुच्यते । तथा चोक्तम्"प्रमाणमविसंवादिज्ञानमर्थक्रियास्थितिः । अविसंवादनं .......[प्र. वा. परि. १श्लो. ३.]" इति तथा"न१०८ ह्याभ्यामर्थं परिच्छिद्य प्रवर्त्तमानोर्ऽथक्रियायां विसंवाद्यत" इति च । एवमपि स्मृतेः प्रामाण्यापत्तिः । अथ मतं स्मृत्वार्ऽथ प्रवर्तमानो नियमेनार्ऽथ न प्रतिलभते इति । एवमपि भूतार्थविषयमनुमानमप्रमाणं स्यात् । नहि तदुपदर्शितार्थस्य प्रतिलम्भोऽस्ति । अथ यद्यप्यनुमानप्रतीतस्य भूतस्य वस्तुनः प्राप्तिर्नास्ति, तथापि तत्प्रतिबद्धलिङ्गजन्मतया तस्य प्राप्तियोग्यता तावदस्त्येव, तावता च तस्य प्रामाण्यमिति । एवमपि स्मृतिः प्रमाणमापद्यते । स्मृतिरपि ह्यनुमानवदर्थे पारम्पर्येण प्रतिबद्धैव । यथा वह्निस्वलक्षणाद्धूमस्वलक्षणम्, ततश्च धूमदर्शनम्, ततश्च धूमविकल्पः, तस्माच्चानुमानमित्यनुमानमर्थेन पारम्पर्येण प्रतिबद्धत्वादर्थाविसंवादि अर्थप्रापणसमर्थम्, तथा स्मृतिरपिअर्थादनुभवः, ततः संस्कारः, संस्काराच्च स्मृतिरित्यर्थप्रतिबद्धैवेति तत्प्राप्तियोग्यतया प्रमाणमापद्येत । यदि मन्वीत सत्यामपि प्राप्तियोग्यतायां स्मृतेर्यत्तया प्रापयितव्यं स्वलक्षणं, तदनुभवेनैव प्रापितमिति न प्रमाणं स्मृतिः, अनुमानं त्वप्राप्तस्वलक्षणप्रापकतया प्रमाणमिति । एवमप्यर्थक्रियासमर्थवस्तुपरिप्रापकतामात्रं न प्रमाणलक्षणम्, किन्तु विशेषणमुपादेयम्, १०९ प्राप्तप्रापकमविसंवादिज्ञानं प्रमाणमिति । अथोच्यते प्राप्तं प्रति प्रापकत्वमेवापरस्य नास्तीति । तदसत् । अर्थप्रतिबद्धता हि प्रापकता, सा च ज्ञानान्तरस्यापि नानुपपन्ना । यद्युच्येत न प्रापकतामत्रेण प्रामाण्यम्, अपि तु प्रवर्तकतयापि । तथा सति यत्प्रापयतिप्रवर्तयति, च तत्प्रमाणमिति । एतदपि न किञ्चित् । प्रवर्तकतापि ज्ञानान्तरस्यापि घटत एव । प्रवृत्ति योग्यार्थोपदर्शकत्वमेव प्रवर्तकत्वम् ॑ तच्च भूतार्थविषयानुमानस्येव स्मरणस्याप्यस्ति । प्रवर्तकत्वे च प्रमाणलक्षणा नुप्रवेशिनि निर्विकल्पकज्ञानानामप्रमाणता स्यात्, स्वयं व्यवहारप्रवर्तकत्वाभावात् । तदुत्थास्तु विकल्पा एव प्रापकतया प्रवर्तकतया च प्रमाणभूताः स्युः । धारावाहिकज्ञानेषु च पूर्वज्ञानविषयार्थत्वादुत्तरेषां प्रमितित्वं न स्यात् । अथोच्येत । इष्यत एव तेषामप्रमाणतेति । तदयुक्तम् । लोके तेषु पूर्वस्मादविशिष्टत्वात्प्रमाणभावस्य । लौकिकं च ११० रामाण्यं परीक्षकैरप्यनुसरणीयम् । अथ भिन्नत्वादर्थक्षणानां सर्वेषामप्यप्राप्तप्रापकत्वमस्तीति । तदसत् । क्षणभेदस्यापरामर्शान्न तदपेक्षा प्रमाणतोचितेति । क्षणिकता च १११ ईमांसाजीवरक्षायां प्रतिक्षिप्तैवेति कृतमतिविस्तरेण । भाट्टाभिमतप्रमाणलक्षणखण्डनम् । नापि ११२ ऋग्मविसंवाद्यगृहीतार्थग्राहकं प्रमाणमिति प्रमाणलक्षणमुपपद्यते । धारावाहिकज्ञानानामुत्तरेषां पुरस्तात्तनप्रतीतार्थविषयतया प्रामाण्यापाकरणात् । न च कालभेदावसायितया प्रामाण्योपपत्तिः । सतोऽपि कालभेदस्यातिसौक्ष्म्यादनवग्रहात् । ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ ६७७ विमलाञ्जनं नाम सप्तमं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । ६७८ पौरुषेये सम्बन्धे सिद्धे शब्दार्थयोर्द्वयोः । प्रामाण्यं वेदवाक्यानामिति स प्रतिपाद्यते ॥ १ ॥ इति । यदि पौरुषेय एव शब्दानामर्थैस्सह सम्बन्धो भवेत्, तदा प्रमाणान्तरगोचरेष्वेवार्ऽथेषु पुरुषाणां सङ्केतकरणशक्तेः, ६७९ पूर्वकार्यात्मनि च वेदार्थे ६८० रमाणान्तराणामवकाशाभावेन तत्र सङ्केताभावात्, असङ्केतिते ६८१ आवाचकत्वाभ्युपगमात्६८२ दुर्लभमेव वेदवाक्यानां प्रामाण्यमापद्यते६८३ इति, अर्थवानेवायमपौरुषेयशब्दार्थसम्बन्धप्रतिपादनयत्नः । वैशषिकमतेन पूर्वः पक्षः । ६८४ अत्र शब्दार्थसम्बन्धं पोरुषेयं प्रचक्षते । जगदीश्वरनिर्माणां वदन्तो वेदवादिनः ॥ २ ॥ इति । अनादौ हि वृद्धव्यवहारपरम्परायां सत्यां ६८५ ऋद्धव्यवहारसिद्धो वाच्यवाचकभावश्शब्दार्थयोरपौरुषेयः प्रसिध्येत् । तथाहिवृद्धानां स्वार्थेन ६८६ यवहरमाणानां वाक्यमुपशृण्वन्तो बालाश्शब्दश्रवणसमनन्तरभाविना चेष्टाविशेषेणविशिष्टार्थविषयां ६८७ अनीषामाकलयन्तो६८८ आचकतां शब्दस्याध्यवस्यन्ति, तेऽपि वृद्धा यदा बाला आसन्, तदा तेऽप्यनयैव दिशा व्युत्पद्यन्ते स्म । येभ्यश्च वृद्धेभ्यस्ते व्युत्पत्तिमलभन्त, तेऽप्यनयैव दिशा व्युत्पत्तिमलभन्त, तेऽप्यन्येभ्यो वृद्धेभ्य इति, विनापि सङ्केतयितारं पुरुषम्, उपपद्यत एव शब्दार्थयोरनादिवृ६८९ धव्यवहारसिद्धस्सम्बन्धः६९० । वृद्धव्यवहारस्यानादित्वाक्षेपः । नो खल्वनादितैव ६९१ ऋद्धव्यवहारपरम्पराया उपपत्तिमती । तथा हि विदाङ्कुर्वन्तु भवन्तस्तनुभुवनादिकं सर्वं सावयवमवसीयते । यच्च नाम सावयवं, तदवयवव्यतिषङ्गसमासादितात्मलाभम्६९२ । पश्यामो वयं तन्तुव्यतिषङ्गसमासादितात्मलाभं पटम्, कटञ्च वीणासंयोगसम्पादितसत्ताकं सावयवम् । एषा दिकन्त्यावयविभ्योऽवतरन्ती आद्व्यणुकमवतिष्ठते । परमाण्वोश्च परस्परसंयोगो नियतोऽन्यतरकर्मजः, उभयकर्मजो वाभ्युपगमनीयः । कर्म च परमाणुष्वदृष्टवत्क्षेत्रज्ञसंयोगात्प्रतिज्ञायते । तदुक्तं"अणुमनसोश्चाऽद्यं कर्मेत्यदृष्टकारितम्" वै. द. अ. ५. आ. २. सू. १३ इति । अन्यस्य कारणस्याभावात् । न चादृष्टमलब्धस्ववृत्ति कार्याय पर्याप्तम्, अचेतनत्वात्वासीवत् । न च चेतनानधिष्ठितमचेतनं वृत्तिमुपलभते । न खल्वनधिष्ठिता वासी वर्धकिना वर्धनाय प्रवर्तते । तदेवमदृष्टं क्षेत्रासमवायि चेतनाधिष्ठितं कार्याय ६९४ अर्याप्तमिति दर्शनबलेनावश्यमभ्युपगमनीयम६९५ । न चेदमिह चिन्तनीयम्य एव क्षेत्रज्ञाः, त एव तेषामदृष्टानामधिष्ठातारो६९६ भवेयुरिति, तेषामज्ञत्वात् । न हि ते स्वसमवायिनी अपि धर्माधर्मलक्षणेऽदृष्टे स्वरूपतः, कार्यतो वा वेदितुमीशते । य एव च यत्स्वरूपतः, कार्यतो वा वेदितुमीष्टे, स एव तस्याधिष्ठाता । यथातक्षा वास्याः । तस्मादन्यः क्षेत्रज्ञेभ्यस्सकलक्षेत्रज्ञसमवायिधर्माधर्मलक्षणादृष्टसाक्षात्करणगोचराचिन्तनीयशक्तिविभवः कोऽपि चेतनातिशयोऽधिष्ठाता ६९७ इत्यप्रतिष्ठितस्स्वतन्त्रोऽभ्युपगन्तव्यः । न चेदं वाच्यं केन प्रमाणेन तस्य क्षेत्रज्ञेष्वसम्भाविनी धर्माधर्मसाक्षात्करणशक्तिरवगम्यत इति । यत एव प्रमाणात्तस्य सद्भावोऽवगम्यते, तत एव तस्य ज्ञानशक्तिरप्यवगम्यत इति, अन्तर्भावितज्ञानशक्तिरेवासौ सामान्यतोदृष्टानुमानस्य गोचरः । अत एव कथमसावधिष्ठास्यतीत्यस्यापि पर्यनुयोगस्यानवकाशः । किं तस्याधिष्ठाने प्रयोजनमिति योऽयमपि पर्यनुयोगः, स चेतनातिशयानुमानाङ्गीकरणेन पराकृतः । क्षेत्रज्ञो हि चेतनस्स्वप्रयोजनमुद्दिश्य प्रवर्तते । स च क्षेत्रज्ञविलक्षणोऽनपेक्षितप्रयोजन एव स्वतन्त्रः प्रवर्तते । अत एव स्वातन्त्र्यात्६९८ अदाचित्तस्य प्रवृत्तिरुपपत्तिमती । स्वातन्त्र्यमपि तस्य सत्तानुमानसमधिगम्यमेवेति, न ६९९ ऋथक्प्रमाणसव्यपेक्षम् । अतस्सिद्धं तत्प्रभवस्य तनुभुवनादेरादिमत्त्वमुत्पत्तिमत्त्वञ्च, तथाऽदिमत्तया विनाशित्वम् । कृतका हि भावा ध्रुवभाविविनाशाः, तथा दृष्टचरा घटादय इति, नानादित्वं वृद्धव्यवहारपरम्परायाः । तेन ७०० उरुषसङ्केतादेव ७०१शब्दस्यार्ऽथप्रतिपत्तिहेतुत्वमास्थेयम् । सङ्केतनिबन्धनं वाचकत्वमितिशङ्का । अपि च ७०२ एवदत्तादिपदेष्वविवादा तावत्पुरुषसङ्केतनिबन्धना वाचकता । तद्दर्शनाद्गवादिशब्दनामपि तथाविधत्मेवानुमातुमुचितम् । अयमेव हि सामान्यतोदृष्टस्य विषयोयदन्यत्र दृष्टम्, अन्यत्रानुमीयते । अयमेव हि सामान्यतोदृष्टस्य विषयोयदन्यत्र दृष्टम्, अन्यत्रानुमीयते । देवदत्तादिपदेषु स्वाभाविकं स्वार्थबोधकत्बमित्यपि न समीचीनम्, प्रमाणाभावात्, ७०३ उरुषसङ्केतानपेक्षत्वप्रसङ्गाच्च । न च नियमे सङ्केतस्य व्यापारः, प्राक्सङ्केतादनियतार्थप्रत्ययोदयप्रसङ्गात् । क्लेशमात्रफलमिदमुच्यतेगवादिष्वपिनियतार्थप्रतिपत्तिः पुरुषसङ्केतायत्तैव, स्वाभाविकी तु ७०४ वार्थप्रतिपादनशक्तिरुपयोगिन्येव विशिष्टार्थप्रतिपत्तावित्यलममुना प्रतिपन्नार्थविघातिना वादेनातिनिर्बन्धेन । किञ्च यथोदितप्रमाणबलसिद्धे भगवति सकलजगन्निर्माणैकप्रवीणे धर्माधर्मयोस्साक्षात्कर्तरि७०५ तत्कर्तृकत्वेनापि७०६ सिध्यति वेदानामपूर्वेर्ऽथे प्रामाण्यमिति, मीमांसकानां विद्वेषमात्रनिबन्धनोऽयं पौरुषेयत्वपक्षप्रतिक्षेपः, मन्त्रार्थवादानाञ्च भूयसाममुमर्थमज्जसा वदतामन्यथा वर्णनमिति । सिद्धान्तः । ७०७ उत्पत्तिकस्तु सम्बन्धश्शब्दस्यार्ऽथेन ७०८ अम्मतः । वृद्धसंव्यवहारस्य प्रवाहानादिता यतः ॥ ३ ॥ इति ॥ वेदार्थविदामग्रगण्यस्य भगवतस्सकलनयनिधेर्जैमिनेरपौरुषेयश्शब्दस्यार्ऽथेन सम्बन्धोऽभिमतः । स हि मेनेयद्यपि ७०९ एवदत्तादिशब्दानां पुरुषसङ्केतनिबन्धनं वाचकत्वम्, तथापि गवादिपदेष्वनुमानं न शक्यते कर्तुम् । अर्थप्रतिपत्तिलक्षणस्य कार्यस्यान्यथाप्युपपत्तेरनैकान्तिकत्वादिति । वृद्धव्यवहारनिबन्धनाद्धि स्वार्थे वाचकत्वशक्तिज्ञानादपि बालानां शब्दार्थप्रतिपत्तिर्दृश्यते । तेनैकान्ततस्सङ्केत एव कल्पयितुं न शक्यते । अपि च शक्तिज्ञानमात्रनिबन्धना ७१० अवादिशब्दानामर्थप्रतिपत्तिरिति प्रत्यक्षमेवैतत् । न च प्रत्यक्षे सति कारणे कारणान्तरमनुमातुं शक्यते । देवदत्तादिपदेषु तु यस्य सङ्केतनिबन्धनार्ऽथप्रतिपत्तिर्भवति, तस्य सङ्केत एव कारणम् । तेष्वपि ये व्यवहारदर्शनादेव वाचकतामवगम्यार्ऽथं प्रतिपद्यन्ते, तेषामपि व्यवहारदर्शनप्रसूतं शक्तिज्ञानमेवार्ऽथप्रतिपत्तिकारणम्, न सङ्केतः । किन्तु तत्र सङ्केतपूर्वक एव व्यवहारः, अर्थप्रतिपत्तिश्च, तथा तत्पूर्वकमपि वाचकत्वज्ञानम् । गवादिपदेषु तु सर्वेषां शक्तिज्ञानादेव व्यवहारसम्भवादर्थावगतिरिति वैषम्यम् । ननु देवदत्तादिपदेषु ७१ अ१ अङ्केतदर्शनात्, किमिति गवादिपदेष्वपि पूर्वभावी सङ्केत एव न कल्प्यते । न । प्रत्यनुमानग्रस्तत्वात् । शक्यते हि तत्रैवमनुमानं सम्भावयितुम्पूर्वे हि पुमांसो गवादिशब्दानां सास्नादिमत्यर्थे वृद्धव्यवहारसिद्धशक्तिज्ञानादर्थप्रतिपत्तिमन्तो गवादिशब्देभ्यस्सास्नादिमदर्थप्रतिपत्तियोगित्वादधुनातनपुरुषवदिति । तदेवं प्रत्यनुमानेन७१२ निरस्तेऽनुमाने, ७१३ रमाणविरहादपौरुषेयत्वमेव सिध्यति शब्दार्थसम्बन्धस्य७१४ । अत इदमपहस्तितम् । यदाहुर्बाह्याः"यज्जातीयो यतस्सिद्धस्स तस्मादग्निकाष्ठवत् । ७१५ दृष्टहेतुरप्यन्यस्तद्भवस्सम्प्रतीये" ॥ प्र. वा. परि. ३. श्लो. २४३ इति । वृद्धव्यवहारस्यानादित्वसमर्थनम् । ननु सिद्ध्येदयं मनोरथो यदि वृद्धव्यवहारपरम्पराया अनादिता स्यात्, सा तु प्राचीननयनिवारिता इति । अत्र वदामः । भवतु सावयवं सर्वमवयवसंयोगारब्धसत्ताकम्, अवयवसंयोगापाये विनश्वरमिति च । तथाप्येकदैव ७१६ अकलस्य सम्भवः, विनाशश्चेत्यत्र नास्ति७१७ रमाणम् । प्रत्युत यथादर्शनमिदमेव तावदवसातुमुचितम्क्रमेण चोदयः, क्रमेण विलयश्चेति । किञ्च यथाद्यतना जना मातृपितृसंयोगनिबन्धनात्मलाभाः, तथा पूर्वेऽपि जना जनत्वादिति शक्यमेवानुमातुम् । न चायमयोनिजानां केवलेन धर्माधिपत्येन, अधर्माधिपत्येन च संस्वेदजानामिव सम्भवो घटते । जरायुजाण्डजानां तथा तद्दर्शनाभावात्७१८ । दृष्टानुसारि हि सर्वत्रानुमानम् । तेन संस्वेदजेषु नियमेन दृष्टं न जरायुजाण्डजयोरप्ययोनिजत्वं शक्यतेऽनुमातुम् । न हि पाण्डरमात्रेण बाष्पादपि वह्नेरनुमानम् । किन्तु यादृशमेव पाण्डरद्रव्यं नियमेन वह्निनियतं प्रतिपन्नम्, तादृशमेव तस्यानुमापकमुचितम् । ईश्वरनिराकरणम् । यच्चेदमुदितं७१९ धर्माधर्मौ चेतनातिशयाधिष्ठिताविति, तदप्यसिद्धमेव । यस्यैव तौ क्षैत्रज्ञस्य, स एवाधिष्ठातास्तु । अथाज्ञत्वात्तस्याधिष्ठातृत्वं७२० नोपपद्यत इति चेत्, तर्ह्यन्यस्यापि कथमुपपद्यते । न हि तस्यापि परपुरुषवर्ति धर्माधर्मज्ञानमुपपद्यते, कारणाभावात् । न हि तस्येन्द्रियाणि कारणम्, इन्द्रियाणां तत्र ७२१ आमर्थ्यादर्शनात् । न च केवलं मनः, केवलस्य मनसो ७२२ आह्येष्वप्रवृत्तेः । न हि ७२३ हर्माधर्मरहितस्येश्वरस्येन्द्रियमनस्सम्बन्धो भवति, धर्माधर्मनिबन्धनत्वात्तत्सम्बन्धस्य । अथ कारणमन्यदेवेश्वरबुद्धेः । तदयुक्तम् । प्रसिद्धकारणत्वाद्बुद्धेः । प्रसिद्धानि हि कारणानि बुद्धेः । यत्कारणं हि यत्करयं दृष्टम्, तत्कारणकमेव तदिति युक्तम् । अन्यथा चेतनाधिष्ठिता वासी दृष्टेति, कथं धर्माधर्मयोरपि तदधिष्ठितत्वं भविष्यति । अथाकारणा नित्यैवेश्वरबुद्धिरिति चेत् । तदप्यसुन्दरम् । बुद्धितत्त्वस्य नित्यत्वाभावात् । नित्या सती बुद्धिरेव न स्यात् । बुद्धिमता चाधिष्ठानं दृष्टम्, न पुनरन्येन । अथादृष्टमपि बुद्धेर्नित्यत्वमङ्गीक्रियते, तदा चेतनानधिष्ठितत्वमेव किमिति नाङ्गीक्रियते । अथ सिद्धेऽधिष्ठातृत्वे, ज्ञानमपि कल्प्यत इति । ७२४ अदयुक्तम् । ७२५ ञानाद्यननुबद्धस्याधिष्ठातृत्वस्य कारणाभावात्प्रतिक्षिप्ते ज्ञाने सत्यनुमातुमशक्तेः । तेन शक्यज्ञानमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया, तथादर्शनात् । तक्षादयो हि शक्यज्ञानान्येव वास्यादीन्यधितिष्ठन्तो दृश्यन्ते, नान्यानि । अपि चाधिष्ठानार्थोऽपि चिन्तनीयः । न तावत्संयोगः, गुणत्वेन धर्माधर्मयोस्संयोगाभावात् । समवायोऽपि परपुरुषसमवायिनोर्धर्माधर्मयोरीश्वरं प्रत्यनुपपन्नः । वास्यादिषु तु तक्षादीनां करसंयोगादिरेवाधिष्ठानम् । तथा प्रवृत्तिरपि कीदृशी । न तावत्क्रिया, गुणभूतयोर्धर्माधर्मयोः क्रियाभावात् । उत्पत्तिश्चेत्, तर्हि सा क्षेत्रज्ञादेव समवायिकारणात्, आत्ममनस्संयोगाच्चासमवायिकारणादभिसन्ध्यादिनिमित्तकारणोपगृहीतादिति । फलदानमिति चेत् । न देशकालावस्थादिसहकारिसहिताभ्यां ७२६ हर्माधर्माभ्यामेव फलम्, न चेतनव्यापारापेक्षम् । वैशेषिकाभिमतेश्वरनिरासः ॥ यदपि केचिदाहुःपरमाणव एवेश्वरेच्छावशेन प्रवर्तन्त इति । तदपि न युक्तम् । क्वचित्तथाविधस्याधिष्ठानस्यादर्शनात् । शरीरे तथादर्शनमिति चेत् । न । तस्य क्षेत्रज्ञधर्माधर्मपरिगृहीतत्वात्७२७ । न परमाणव एवेश्वरधर्माधर्मपरिगृहीताः, न च तस्येच्छामात्रेण प्रवृत्तिः, किन्तु प्रयत्नवशात् । न चेच्छायामपि हेतुरस्ति । न च नित्यैवेच्छा, ७२८ इत्यं प्रवृत्तिप्रसङ्गात् । अपि च यथाचेतनत्वाच्चेतनाधिष्ठितत्वमनुमीयते, तथा प्रयोजनाभावादप्यनधिष्ठानमिति ज्ञायते । कतरदत्रानुमानं बलीय इति ७२९ इन्तयामः । तेन यत्रैव प्रयोजनं, ७३० अदेवाचेतनं७३१ चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया७३२, तथादर्शनात् । अपि च व्याप्तिग्रहणपूर्वकमनुमानम्, अन्वयव्यतिरेकाभ्याञ्च व्याप्तिरवगम्यते । यथा च चेतनोऽधिष्ठातेति प्रतीयते, तथा विग्रहादिमानपि । तेनानुमानं प्रवर्तमानं तथाविधमेवानुमापयेत् । न च तस्य धर्माधर्मौ, परमाणून् वा प्रत्यधिष्ठातृतोपपद्यत इत्यनधिष्ठानमेव । तेन विग्रहादिमदधिष्ठानयोग्यमेवाचेतनं चेतनाधिष्ठितमिति व्याप्तिराश्रयणीया । नन्वेवं सति प्रसिद्धस्यापि ७३३ हूमाद्यनुमानस्योच्छेदः प्राप्नोति । तथाभूतेन हि महानसादिवर्तिना व्याप्तिरवगता, न तथाविधस्यानुमानम् । यथाविधस्यानुमानम्, न तथाविधस्य व्याप्तिधीसमयेऽनवधारणमिति । तदयुक्तम्देशकालाद्युपाधिपरित्यागेन हि सामान्येन सम्बन्धग्रहणम् । तेनेहापि भवत्येव यद्वास्यादिषु दृष्टम्, तत्धर्माधर्मयोरपीति । यादृशन्तु रूपं व्यापकमुपलभ्यते, तदेवानुमातुं शक्यते, नान्यत् । इह च विग्रहवत्त्वाद्यपि व्याप्त्यनुप्रवेशीति, तदनुमातव्यम् । न च तदनुमातुं शक्यत इति चेत् । वरं चेतनानुमानत्यागः७३४ अदननुबद्धस्य ७३५ अस्यानुमानात् । तेनेश्वरस्य ७३६ अर्वज्ञतानुमाने हेत्वभावेन ज्ञानाभावनिश्चयात् । तेनानादिरेव वृद्धव्यवहारपरम्परा शब्दार्थावगमे हेतुः । न च सृष्ट्यादावीश्वरकृतस्सङ्केतः, सङ्केतस्यैव कर्तुमशक्तेः । न खल्वद्यतना जनाः ७३७ अङ्केतवाक्यस्यार्ऽथमनवबुध्यमानास्सङ्केतं प्रतिपद्यन्ते । तस्मादनादिरेव७३८ वृद्धव्यवहारपरम्पराभ्युपगमनीया । एवं पुरुषस्य धर्मप्रतीतिं प्रति शब्दमन्तरेणोपायाभावान्न पौरुषयत्वे वेदस्या७३९ ऊर्वकार्यात्मके वेदार्थे प्रामाण्योपपत्तिरिति, ७४० एदस्यापौरुषेयत्वाश्रयणम् । वेदानामपौरुषेयत्वनिरूपणम् । कथमपौरुषेयत्वं वेदानाम् । उच्यते ७४१ अर्तुरस्मरणात् । न चानुमानमपि कर्तुरुपपद्यते । प्रमाणान्तरेणाप्रतीतेर्ऽथे७४२ पुरणाणां वाक्यस्य रचनायामशक्तेः । काठकादिसमाख्यापि कर्तृसद्भावं ज ७४३ आधयितुमलम् । ७४४ रवचनेनापि तदुपपत्तेः । मन्त्रार्थवादास्तु न स्वातन्त्र्येणार्ऽथमवगमयितुमीशते, किन्तु विध्युद्देशानुसारेण तदनुगुणमर्थमिति, न सिद्धार्थप्रतिपादने तेषां प्रामाण्यमिति, सिद्धमपौरुषेयत्वं शब्दार्थसम्बन्धस्येति । दुस्तर्कतिमिरं भेत्तुं शिष्याणां दृष्टिरोधकम् । इदं शालिकनाथेन विहितं ७४५ इलाञ्जनम् ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विमलाञ्जनं नाम सप्तमं प्रकरणं समाप्तम् । ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ तत्त्वालोको नामाष्टमं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । ७४६आत्मतत्त्वे ७४७ अहुविधा विवादस्सन्ति वादिनाम् । वयं प्राभाकरास्तत्त्वनिर्णयाय७४८ यतामहे ॥ १ ॥ इति । ७४९ एचिद्बुद्धिमेवाऽत्मानमिच्छन्ति, ७५० न्ये तु ७५१ उनरिन्द्रियाण्येव, ७५२ एहमेवापरे । ७५३ अथैके बुद्धीन्द्रियशरीरव्यतिरेकिणमनुमेयमाहुः, ७५४ एचित्तु मानसप्रत्यक्षगम्यम्, ७५५ वयम्प्रकाशञ्च । केचित्, ७५६ अकलप्रतीतिसिद्धं त्वन्ये मन्यन्ते । ७५७ षणिकञ्च केचिदाहुः, कूटस्थनित्यमित्यपरे । ७५८ णुपरिमाणः, ७५९शरीरपरिमाणः, सर्वगत इत्यादिवादिनो विवदन्ते । तथा ७६१ अर्वक्षेत्रेष्वेकमेके७६२, ७६३ रतिक्षेत्रञ्च नानाभूतमित्यपरे । तत्र तत्त्वनिर्णयार्थमिदमारभ्यते । सिद्धान्तः । ७६४ उद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः । नानाभूतः प्रतिक्षेत्रमर्थवित्तिषु भासते ॥ २ ॥ इति । विज्ञानवादिमतेन शङ्का । ७६५ अनु न बुद्धेर्बोध्दुश्च भेदमुपलभामहे । कथम् । यतो"घटमहं बुध्ये" इति बुद्धेर्बोद्धारो७६६ भिन्नमात्मानं प्रतिपद्यन्ते । सत्यम, ७६७ विचन्द्रादिबोधवत्, बिम्बप्रतिबिम्बज्ञानवच्चायं भ्रम इति प्रामाणिकाः । सहोपलम्भनियमेन च बुद्धेर्बोध्दुश्च भेदो निराक्रियते, भेदस्यानियमव्याप्तत्वात् । ७६८ यापकविरुद्धोपलम्भेन बाध्यमानत्वात् । तदाहुः" । अविभागो हि बुद्ध्यात्मविपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ प्र. वा. परि. २. श्लो. ३५४ इति । ७६९ अथा येऽपि बुद्धेरन्यं बोद्धारमिच्छन्ति, तेऽपि सत्यामेव बुद्धौ तस्य ७७० इषये बोद्धृतामाहुः । एवञ्च सैव परं बोद्ध्री भवतु, कृतमन्येन बोद्ध्रा । बोद्धा चाऽत्मा भवतीति, बुद्धिरेवाऽत्मा । सा च स्वयम्प्रकाशा कार्यकारणभावेनानादिसन्तानवाहिनी स्वापमदमूर्च्छादिष्वभिभूततया पुनः पुनरनुसन्धानपथं ७७१ आऽयाति । वहति त्वसौ तास्वपि दशासु, अन्यथा जाग्रदिदादिषु बुद्ध्युदयासम्भवापत्तेः । स चायमनादिबुद्धिसन्तानोऽनादिवासना७७२ इबन्धनस्संस्कार्यदर्शनाध्यवसितभेदस्समुदयवशवर्ती संसरति । ७७३ आर्गरूपसाक्षात्कारोन्मूलितसकलसत्त्वदृष्टिवासनानुबद्धस्तूच्छिन्नस्समुदयः प्रतिमुच्यते, तथा तायिनां ७७४ आङ्गीकृतसन्तानोच्छेदः । तदाहुः"प्रदीपस्येव निर्वाणं विमोक्ष्स्तस्य ७७५ आयिनः" ॥ इति । देशिकानाञ्चानेकजन्माभ्यासस्वात्मीभूतब्रह्मादिस्तम्बपर्यन्तजगद्व्यापिमहाकरुणानां ७७६ इशुद्धचित्तसन्तानोऽनन्त इति । तन्निरासः । तदिदमसारम् । प्रतीतिसिद्धस्य बुद्धेर्बोद्धुश्च भेदस्य ७७७ इराकरणानर्हत्वात् । सहोपलम्भनियमस्तु यथा भेदेऽप्युपपद्यते, तथात्रैव वक्ष्यामः । ७७८ इराकृतश्चायं बाह्यार्थसिद्धावृजुविमलायाम् । बुद्धिरेव परमस्तु, अलं बोद्ध्रेति यदुक्तम् । तदपि काल्पनिके बोद्धरि युक्तं वक्तुम् । साक्षात्प्रतीतिसिद्धे तु नावकाशोऽस्यासत्प्रलापस्य । स्वापादिष्वपि बुद्धिरनुवर्तत इति यदुक्तम्, तदपि प्रमाणाभावादसारम् । जागरादिषु बुद्धेरत्रैव कारणं वक्ष्यामः । इन्द्रियात्मवादोपन्यासतन्निरासौ । एवं तर्हि भवन्त्विन्द्रियाण्येव७७९ चेतनानि, एवं बुद्धेर्बोद्धुश्च भेदावभासो घटिष्यते । भवेदेतदेवं यदि दर्शनस्पर्शनाभ्यामेकार्थप्रतिसन्धानं७८० न स्यात् । "यदहमद्राक्षं तदहं स्पृशामी"त्यत्र प्रतिसन्धातैकः प्रतीयते । स्मरणञ्चेन्द्रियार्थानां तत्तदिन्द्रियापायेऽपि यदुपलभ्यते, तदिन्द्रियचैतन्ये ७८१ ओपपद्यते । देहात्मवादशङ्कानिराकरणे । ७८२ स्तु तर्हि देह एवाऽत्मा, न तत्रेमौ दोषौ प्रसज्येते । मैवम् । ज्ञाता ह्यात्मा, न च देहस्य ज्ञातृता सम्भवति । ७८३ अथाहिदेहो नाम पार्थिवो द्रव्यविशेषः । ननु पार्थिवत्वे तस्य भूतान्तरगुणानुपलम्भ७८४ आपद्येत । नेति ब्रूमः । भूतान्तरसहितस्य भूतान्तरस्य न७८५ आर्यान्तराम्भकतेति वदामः, न पुनर्मिथोऽपि भूतानि न संयुज्यन्त इतयाचक्ष्महे । ७८६ तस्संयुक्तभूतान्तरगुणोपलम्भो नानुपपन्नः । कथं पुनरारम्भकत्वासम्भवः । उच्यतेन तावत्पञ्चानाम्, चतुर्णां वा सम्भूयाऽरम्भकत्वं सम्भवति । चाक्षुषाचाक्षुषद्रव्यारब्धस्य तत्समवायिनोऽचाक्षुषत्वापत्तेः । यत्खलु चाक्षुषाचाक्षुषद्रव्यारब्धं यत्समवेतम्, तन्न चाक्षुषम्, वायुवनस्पतिसंयोगवत् । चाक्षुषश्च देहः । अतो न ७८७ अञ्चभिः, चतुर्भिर्वा समारब्धः, आकाशानिलयोरचाक्षुषत्वात् । आकाशस्याचाक्षुषत्वनिरूपणम् । कथं पुनरचाक्षुषं नभः ? अचाक्षुषस्य सत्तापि किं प्रामाणिकमित्येतदपि चिन्त्यम् । उच्यतेअचाक्षुषं व्योम द्रव्यत्वे सत्यरूपित्वात्, आत्मवत् । ननु नारूपं गगनम्७८८ । तद्धि धवलम्, उत्पलपलाशश्यामलं ७८९ ओपलभ्यते । ७९० च्यतेधवलिमा हि प्रायेण तैजस एव नीहारे, तौहिनो वा,ओन्तदपगमे तदनुपलम्भात् । यदयं पुनर्निशि नीलिमेवावलोक्यते, नासौ नभसः । कस्य तर्हि ? न कस्यचित् । कथं पुनर्गुणः, न कस्यचित्? सत्यम् ॥ गुण एवायमसिद्धः । ननु प्रतीतिबलेन सिद्ध एव । सत्यम्, सिध्येद्यदि प्रतीतिरेव सिध्येत्, सा तु कारणाभावान्न सिद्धा । ननु चक्षुरेव कारणम् । न । आलोकोपकारानपेक्षस्य चक्षुषोऽप्रकाशकत्वात् । तेनाप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम् । ७९१ तो दिवा तदनुपलम्भः । अन्यथा सौरीभिर्भामिरनुगृहीतं चक्षुस्स्फुटतरं व्योम्नि नीलिमानं प्रकाशयेत् । प्रकाशयेत् । रूपञ्च स्पर्शसहचरितमिति, स्पर्शवत्त्वं नभसस्स्यात् । ततश्च सर्वमूर्तद्रव्यप्रतिघातप्रसङ्गः । केचित्तु तमसो नीलिमा गगनस्येवोपलभ्यत इत्याहुः । तदसदित्येके । तमसो निष्पत्त्यनवकॢप्तेः । रूपवत्त्वेन हि नमो द्रव्यं स्यात्, तच्चानेकद्रव्यारब्धं सच्चाक्षुषं भवेत्, न च तानि द्रव्याणि सन्ति । सन्ति चेत्, दिवऽप्यराभेरन् । अतोऽन्धानामिवासौ नीलिमाभिमाने नभस एवेति युक्तम् । तमसो निराकरणाम् ॥ यच्चेदमुच्यतेछायैव तमः, सा च ७९५ अलत्वाचलत्वमहत्त्वामहत्त्वदूरत्वासन्नत्वादिगुणयोगिनी वस्तुभूतेति । ७९२ अदप्यसारम् । ७९३ इष्पत्त्यनवकॢप्तेरेव । यच्च चलत्वाचलत्वादिकमुपन्यस्तम् । तदपि स्थूलदर्शितया । तथाहिआलोकेऽपवारिते छायेष्यते,७९४ ततोऽपवारितालोकभूभागादिभावव्यतिरेकिणी न रूपान्तरवच्छाया दृश्यते । तेन मन्यामहेअपवारितालोकभूभागादिकमेव छायेति । एतेन चलत्वा७९५ अलत्वमहत्त्वामहत्त्वदूरत्वासन्नत्वादीनि समर्थितानि । यततु तेजसः प्रतिरोधि द्रव्यम्, यत्यथा यथा सञ्चरति, तथा तथा आलोकः प्रतिमुच्यते, प्रतिरुध्यते चेति, चलतीव छाया प्रतिभाति । अन्यथा शरीरे चलति, किमिति छायापि चलेत् । ७९६ अलनहेत्वभावात् । एतेनाचलति शरीरेऽचलत्वं व्याख्यातम् । संख्यापरिमाणयोगि७९७ महत्त्वम्, तदभावे कथमिव ७९८ हायेयमुत्पत्स्यत इत्यलमनया स्थूलदर्शिनः कथयाननुबद्धया । ननु भूभागादेरेव छायात्वे कथं द्रव्यान्तरेण ७९९ यपदेशः"अस्य छायेयमि"ति । उच्यतेअपवारितालोकभूभागादिरेवछायेत्युक्तम् । तत्र येनापवारणम्, ८०० अदपेक्षया युज्यते तद्व्यपदेशः । एवञ्च स्मृतिकाराणामपि "८०१ आऽक्रामेत्कामतश्छायाम्" इत्येवमादिको व्यवहार उपपन्नः ॥ योऽपि च शास्त्रकाराणां व्यवहारः ८०२"छत्रगृहादीनां तुल्यं च्छायालक्षणं कार्यमि"ति स आलोकापवारणाभिप्रायेण वर्णनीयः । ८०३ अनु चाऽलोकापवारणे ८०४ हूभागादेरदर्शनप्रसङ्गः । मैवम् । प्रचुरतरालोकावयवसंयोगस्तत्र वार्यते, ८०५ ल्पास्तु तेजोवयवास्समन्ततस्सञ्चरन्तस्संयुज्यन्त एव । यत्र तु सर्वर्था तेषामसंयोगः, स महानन्धकार इति निरवद्यम् । यच्च विस्फारिताक्षः कूपादिषु जलमध्यस्थ सुषिरमध्यक्षमीक्षत इत्युच्यते, तत्रापि तेजोवयवाः कूपनेमिलब्धावच्छेदास्तथा प्रतीयन्त ८०६ त्युत्तरम् । आकाशस्याकसिद्धिशङ्का । न चैवं सत्याकाशस्यासिद्धिरेव । शब्दलक्षणगुणानुमानसिद्धत्वात् । ननु गुणतैव शब्दस्यासिद्धा, द्रव्यत्वेन वादिभिरभ्युपेतत्वात् । यदाहुः"वर्णात्मकाश्च ये शब्दा नित्यास्सर्वगतास्तथा । पृथग्द्रव्यतया ते तु न गुणाः कस्यचिन्मताः" ॥ स. द. कौ. ९२ पृ. इति । तन्निरासः । ८०८ अदिदसमारम् । एकेन्द्रियप्रत्यक्षतया ८०९ ऊपादिवद्गुणत्वसिद्धेः । न च वायुनानैकान्तिकत्वम् । तस्य वायोरतीन्द्रियतयाभ्युपेतत्वात् । येऽपि चैन्द्रियकं वायुमिच्छन्ति, तेषामपि "स्पर्शविरहे सती"तिविशेषणोपादानाददोषः । एवं सिद्धगुणभावश्शब्दो गुणिनमनुमास्यति८१० । तस्य भूजलादिभावावगमे कारणाभावाद्८११ रव्यान्तरमेव तदवतिष्ठते । अप्रतीतसामानाधिकरण्यगुणभेदेन भेदावगमात् । ननु मुखादिगतश्शब्द उपलभ्यते । नेत्युच्यते । श्रोत्रं प्राप्यकारि बहिरिन्द्रयत्वात्८१२ वगिन्द्रियवत् । ८१३ अत्र न तावच्छोत्रं मुखादिदेशं गच्छति, प्रत्यक्षा हि कर्णशष्कुली स्वदेशस्था दृश्यते । नापि मुखं श्रोत्रदेशमुपसर्पति, तस्यापि स्वदेश एवोपलम्भात् । अतः श्रात्रगत एव शब्दो गृह्यते । भ्रान्तिस्त्वेषा मुखे शब्द इति । न च गुणभूतस्य शब्दस्य संयोगलक्षणा प्राप्तिरुपपद्यत इति । समवायलक्षणैव तस्य प्राप्तिः । एवञ्च शब्दगुणत्वाच्छोत्रस्य, यच्छब्दगुणकं द्रव्यमाकाशपदावेदनीयम्, तदेव श्रोत्रमिति सिद्धम् । ननु पार्थिवो कर्णशष्कुली श्रोत्रमस्तु, संयुक्तसमवायेन चाऽकाशगतं शब्दमुपलभताम् । नैतदेवम् । न हि साक्षात्८१४ राप्तिसम्भवे प्रणालीसमाश्रयणमुपपन्नम् । नापि ८१५ र्यात्मकं शरीरं ८१६ उणान्तरप्रादुर्भावप्रसङ्गात्८१७ । भूजलतेजांसि हि यथाक्रममनुष्णाशीतशीतोष्णस्पर्शानि । तैरारब्धं द्रव्यमेतत्रयविलक्षणस्पर्शमापद्येत, चित्रपटवत् । यथा सितासितादितन्तुसमारब्धः पटस्तन्तुरूपविलक्षणरूपः, तथा शरीरमप्यारम्भकद्रव्यस्पर्शविलक्षणस्पर्शं भवेत् । अनुष्णाशीतस्पर्शञ्चैतदुपलभ्यते । ८१८ तेन द्व्यात्मकतापि निषिद्धा ॥ किञ्च गन्धस्य पार्थिवद्रव्यसमवेतस्यैकाकिनो गन्धान्तरारम्भकत्वानुपपत्तेरगन्धं शरीरं स्यात् । भूतेजसोः, अप्तेजसोर्वाऽरम्भकत्वेऽगन्धवत्वम्, अरसत्वमेवं वेदितव्यम् । अतो ८१९ ऊपरसगन्धस्पर्शयोगि शरीरं पार्थिवमेव । ज्ञानञ्च विशेषणुणः । कार्यद्रव्ये च विशेषगुणः कारणगुणपूर्वक एव, रूपादिवत् । न च कारणभूतेषु पार्थिवपरमाणुषु८२० ज्ञानमस्ति । तदारब्धे द्रव्यान्तरे घटादावदर्शनात् । चार्वाकमतेन शङ्कानिरासौ । स्यादेतत्मदशक्तिवच्चैतन्यमपीति । यथा ८२१ अदशक्तिः पार्थिवेषु परमाणुष्वसत्यपि तदारब्धे कार्यद्रव्ये सुराख्ये निष्पद्यते, तथा चैतन्यमपि निष्पत्स्यत इति । तन्न । शक्तेरविशेषगुणत्वात् । शक्त्याख्यो हि हि गुणः सर्वद्रव्येषु तत्तत्कार्यविषयः कार्यसमधिगम्योऽभ्युपगम्यते । चैतन्यन्तु न८२२ देह्वादन्यत्र विद्यत इति, विशेषगुणोऽसौ । अपि च द्रव्यान्तरसंयोगादकार्यभूतेषु पार्थिवपरमाणुष्वकारणगुणपूर्वकोऽपि मदशक्त्याख्यो गुणो नानुपपन्नः । तदादब्धे कार्यद्रव्ये सुराख्ये कारणगुणपूर्वक एव । चैतन्यन्तु न प्रत्येकं परमाणुष्वभ्युपगम्यते । तस्माच्छरीरादन्यस्य गुणो ज्ञानमिति, देहव्यतिरिक्तपुरुषानुमानं द्रष्टव्यम् । विज्ञानवादिमतेन शङ्कानिरासौ । ८२३ यान्मतम्गुणत्वमेव ८२४ ञानस्या सिद्धमिति । ८२५ अन्न । द्रव्याश्रितत्वात्, निर्गुणतया च संयोगविभागौ प्रति निरपेक्षकारणत्वाभावेन गुणत्वसिद्धेः । न च वाच्यं द्रव्याश्रित८२६ वमेवाप्रसिद्धमिति । कार्यत्वात् । न हि कार्यं ८२७ इञ्चिदद्रव्यारितमात्मानं लभते । एवं सुखादिभ्योऽपि देहातिरिक्तपुरुषानुमानं वेदितव्यम् । अहङ्कारावलम्बनेन पुनर्देहात्मवादप्रत्यवस्थानम् । नैतदेवम् । "घटमहं जानामी"ति ८२८ ञातुरहङ्कारास्पदीभूतत्वात्"अहं गच्छाम्यहं स्थूलः" इत्यादावह्वङ्कारस्य शरीर एव प्रवृत्त्यविवादाच्छरीरमेव प्रत्यक्षं ज्ञातृ प्रतीयते, प्रत्यक्षविरोधे चानुमानमात्मानं न लभत इति । वैशेषिकगुणोऽपि ज्ञानं८२९ अकारणगुणपूर्वकमिति, पार्थिवपरमाणुष्वविद्यमानमपि ज्ञानं शरीरे सम्भविष्यतीति, न शरीरादन्यस्यानुमानम् । ननु शरीरस्य चैतन्ये मृतशरीरेऽपि तत्स्यात् । न । तस्य विगुणत्वात् । मरणेन शरीरं विगुणमित्यविवादम् । ननु ममेदं शरीरमिति देहातिरिक्तेऽह्वङ्कारो निविशते । न । अभेदेऽपि ८३० हेदोपचारोऽयं"शिलापुत्रकस्य शरीरमि"तिवत् । अन्यथा ममाऽत्मेत्यपि ८३१ यवदेशादात्मान्तरमप्याश्रीयेत । येऽपि च सुखादयः, ते"चाहं सुखी"त्यहङ्कारविषयसम्बन्धि८३२ अयावगम्यमानाश्शरीरसमवायिन एव, अतो न तद्व्यतिरेकिणमात्मानमनुमापयितुमीशते । शरीरविकारहेतुत्वाच्च तेषां सुतरां शरीरगुणत्वम्१ ८३३ अ ह्यतद्गुणस्तं गुणिनं विकर्तुमुत्सहते ॥ विक्रियते हि शरीरं ८३४ अयनविकासमुखप्रसादरोमहर्षादिभिः । सुखादिषूत्पन्नेषु तत्र शरीरे विकार्ये विकारं प्रति समवायिकारणभूते, तत्प्रत्यासन्नेनैवासमवायिकारणेनापि भवितु युक्तम् । न च शक्यं वक्तुं सुखादिमदात्मसंयोग एव शरीरसमवेतेषु विकारेष्वसमवायिकारणमस्त्विति, प्रमाणाभावात् । सिद्धे ह्यात्मनि स्यादेषा कल्पना, साध्ये त्वव्यवहितानामेव कारणतोचितेति, न देहातिरिक्तात्मानुमाने सुखादीनां ८३५ आमर्थ्यम् । तन्निरासः । अत्रोच्यतेस्यादेतदेवं यदि देहातिरिक्तो नोपलभ्यते ज्ञाता । "घटमहमुपलभ" इति घटस्यानुभविता शरीरातिरिक्तः प्रतिभासते । शरीरं हि करचरणाद्यवयवयोगि८३६ । न च घटाद्यनुभवसमये तस्यावभासोऽन्वयी । अवश्यञ्च ज्ञातुरवभासो मेयानुभवेष्वनुवर्तत इत्यास्थेयम् । अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात्८३७ । "अहं गच्छामी"ति प्रतिपत्तिसमयेऽपि प्रतिपत्ता शरीरातिरिक्तः ८३८ रतिपत्तृस्वभावो गन्तारं देहं प्रतिपद्यमानः प्रतीयत एव । तत्र लाक्षणिकोऽहंशब्दानुविद्धस्तु शरीरे प्रत्ययः । ममाऽत्मेत्यत्रापि लाक्षणिकश्शरीर एव ममकारः । यसतु चेतनः, तत्रास्मच्छद्वो मुख्यः । न च शरीरं चेतनम्, ८३९ इतिसमवायाभावात् । शरीरातिरिक्तवस्त्वन्तरसमवायिनी हि चेतना चकास्ति । नन्वात्मधर्मभूता चेच्चितिः, तर्हि विषयासंस्पर्शिनी कथं प्रतिविषयं विभज्यते । उच्यतेप्रतिभाससिद्धा तावच्चेतनसमवायिनी चितिः । अनागतातीतसंवेदने च व्यक्तमेव विषयानाश्रितत्वम् । प्रतिकर्मप्रविभागस्तु ८४० यवहारानुगुणस्वभावत्वाच्चितेः । यद्व्यवहारानुगुणाया चितिः, तदीयासौ व्यपदिश्यत इति, न किञ्चिद्धीनम् । प्रत्यभिज्ञोपन्यासः । नन्वेवं प्रथमदर्शनेऽपि देहाद्व्यतिरेके सिद्धे"ऽन्येद्युर्दृष्टेऽपरेद्युरहमिदमद्राक्षमि"ति प्रत्यभिज्ञोपन्यासोऽनर्थकः । उच्यतेव्यतिरेकसिद्धावपि स्थिरतया क्रियावत्त्वसिद्धये । प्रत्यभिज्ञोपन्यस्ता । अस्थिरत्वे हि तत एव कादाचित्ककार्यसिद्धेः,तत्सिद्धये न क्रियानुमानं क्रमते । अक्रियस्य कर्तृतवम्, भेक्तृत्वञ्च ८४१ आल्पनिकं स्यात् । कर्ता भोक्ता च यज्ञायुधिवाक्येनाऽक्षिप्तस्समर्थयितव्य इति, उपयुक्तः प्रत्यभिज्ञोपन्यासः । यदा चायमात्मा प्रत्यभिज्ञायते, तदा ८४२ ओऽसौ चिदात्मा तस्य धर्मः, नासौ तन्मात्रप्रभवः कदाचिदुदियात् । सदा सन्निहितकारणकं हि कार्यं न कादाचित्कं भवेत् । कारणासन्निधाननिबन्धनो हि ८४३ आर्योदयव्याक्षेपः । तस्मादयमात्मा समवायिकारणभूतः किञ्चिदसमवायिकारणभतमपेक्षते । तत्र केचित्८४४ ञानलक्षणं व्यापारान्तरं तत्समवेतमेवासमवायिकारणमाहुः । ८४५ अत्त्वनुपपन्नमिति मन्यामहे । यतस्तस्यापि किञ्चिदसमवायिकारणमनुसरणीयम् । तच्च वरं चितेरेवास्तु, तच्चाऽत्ममनस्सन्निकर्षाख्यम् । तस्य चासमवायिकारणं ८४६ अनस एव परिस्पन्दः । तस्याप्यात्ममनस्सन्निकर्षान्तरमात्मसमवेतं प्रयत्नम्, अदृष्टं वापेक्षमाणमसमवायिकारणम् । प्रयत्नादृष्टयोश्चाऽत्ममनस्सन्निकर्षान्तरमेवेति, अनादिरेषा कार्यकारणपरम्परा बीजाङ्कुरवदिति वेदितव्यम् । मनसस्स्वीकारे प्रमाणोपन्यासः । मनसोऽभ्युपगमे च सकलात्मगुणोदय एव प्रमाणम् । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नादृष्टसंस्काराणां नवानामपि ८४७ ऐशेषिकात्मगुणा७ आ८४८ मात्ममनस्संयोगेनैवोत्पत्तेः । तत्र बुद्धिस्स्वसंवेदनसिद्धा प्रमितिस्मृतिरूपा । सुखदुःखेच्छाद्वेषप्रयत्नास्तु मानसप्रत्यक्षवेद्याः । न च दुःखाभावमात्रं सुखम् । दुःखाभावस्य ८४९ उखानुपलम्भरूपत्वात् । ८५० अद्वियुक्तात्मोपलब्धेरेव दुःखानुपलम्भरूपत्वात्, अत्मोपलम्भातिरिक्तसुखोपलम्भाच्च । संस्कारस्य तु स्मृतिलक्षणमेव कार्यं ८५१ अमकम् । अनुभूतविषय एव स्मृतिर्भवतीत्यनुभवाधीनं८५२ कञ्चिदात्मनोऽतिशयमुपकल्पयति । अदृष्टन्तु धर्माधर्मलक्षणमागमैकगम्यम् । न च केवलादात्ममनस्सन्निकर्षादेव रूपाद्यवगमः, अन्धादीनामभावादिति, चक्षुरादीनि बहिरिन्द्रियाण्यङ्गीक्रियन्ते । पञ्चधा च बाह्यरूपाद्युपलम्भलक्षणकार्यव्यवस्थापनात्पञ्च चक्षुरादीनि कल्प्यन्ते । मनःप्रभृतीनि षडिन्द्रियाणि यस्मिन्नायतन्ते, तदिन्द्रियायतनं शरीरम् । शरीरत्रैविध्यनिरूपणम्, उद्भिज्जशरीरस्य निराकरणञ्च । तच्चजरायुजाण्डजसंस्वेदजभेदभिन्नं त्रिविधम् । उद्भिज्जन्तु शरीरं न भवत्येव । ८५३ होगानुपलम्भात्, तदायतनं हि तत्प्रयोजकम्, वृक्षादिकस्येन्द्रियायतनत्वे प्रमाणाभावात् । ८५४ अदपि" । श्मशाने जायते वृक्षः कङ्कगृध्रनिषेवितः" ॥ इति ८५५ इषिद्धाचरणफलत्वस्मरणादुद्भिज्जं शरीरमवभाति८५६ । तदप्यनुपपन्नम् । ८५७ अस्मिन्नंशे प्रमाणाभावात् । स्मृतेर्निर्मूलतया मुख्यार्थत्वानुपपत्तेः । न च वेद एव मूलमवकल्पते, अकार्यार्थत्वात् । ८५८ अञ्विधेः निषिध्यमानानुष्ठाने प्रत्यवाय इत्यत्रार्ऽऽथेऽगमकत्वाभावात् । यद्यपि शंय्वधिकरण मी. द. ३.४.१०. सिद्धान्तपर्यालोचनया निषिद्धादपि कुतश्चित्प्रत्यवायोदयः, तथापि वृक्षादिरूपशरीरफलतावसातुं न शक्यते, फलतयान्वयायोग्यत्वात् । यस्य ह्यन्वययोग्यत्वमवधारितम्, तस्य वाक्यार्थानुप्रवेशित्वम्, यस्य ८५९ वन्वययोग्यत्वासम्भवः, तस्य ८६० आक्यार्थानुप्रवेशितापि नास्ति,"वह्निना सिञ्चेदि"तिवत् । यस्तु वेदे तथाभूतार्थप्रयोगः, स गौणः, लाक्षणिको वा वर्णनीय इति, अत्रापि गौण्या, लक्षणया वा वृत्त्या वर्णनीयम् । अतस्त्रिविधमेव शरीरम् । ८६१ अत्पुनरपार्थिवमयोनिजं शरीरं केवलधर्माधिपत्यनिबन्धनं कैश्चिदभ्युपगम्यते, तत्सर्वशरीराणां पार्थिवत्वाव्यभिचारान्नानुमातुं शक्यते । मनोनिरूपणम् । सर्वशरीरेषु मनः, त्वक्चाविशिष्टमिन्द्रियद्वयम् । मनश्चान्तश्शरीरं परमाणुपरिमाणम् । तत्खलु द्रव्यभूतं संयोगगुणभागितयेष्यते । द्रव्यञ्च द्विविधमनेकद्रव्यम्, अद्रव्यद्रव्यञ्चेति । तत्र मनसोऽनेकद्रव्यत्वे कल्पनागौरवम्, आरम्यारम्भकद्रव्याभ्युपगमप्रसक्तेः । अद्रव्यद्रव्यत्वेऽपि ८६२ अरममहत्वाभ्युपगम आत्मना सह ८६३ अंयोगासम्भवः । न हि ८६४ अरममहतोरपरिस्पन्दयोरनवयवयोश्च संयोगोपपत्तिः ॥ त्रिविध एव संयोगःन्यतरकर्मजः, उभयकर्मजः, संयोगजश्चेति । तस्मात्८६५ अरमाणुपरिभाणं मनः । तच्च सदकारणत्वान्नित्यम् । आशुतरसञ्चारिचतत्, आशुतरेन्द्रियाधिष्ठानदर्शनात् । न हि तदनधिष्ठितमिन्द्रियं स्वविषयमवसाययितुमलम्, अन्यत्र व्यासक्तचित्तस्य विषयान्तराप्रतीतेः । तस्य मनसोऽनादिर्धर्माधर्मापेक्षः क्षेत्रज्ञेन सह संयोगः, देहान्तरसंयोगश्च तस्माददृष्टापेक्षादात्ममनस्सन्निकर्षादुत्पन्नस्य कर्मणः प्रसादेन । सोऽयमात्मा भोक्ता, भोगायतनंशरीरम्, भोगसाधनानिइन्द्रियाणि, भोग्याःसुखादयः आन्तराः, बाह्याश्च पृथिव्यादयः, भुक्तिश्चवित्तिःसुखदुःखानुभवः, इति पञ्चसु विधासु सर्वं तत्त्वं परिसमाप्यते । आत्मनि प्रमाणनिरूपणम् । केन पुनः प्रमाणेनास्याऽत्मनः प्रमितिः,८६६ अप्रमीयमाणत्वे चास्य सत्तोपगमो निर्निबन्धनः । तते केचिदाहुःमानसं प्रत्यक्षं सुखादिष्विवाऽत्मनि प्रमाणमिति । तदयुक्तमिति प्राभाकराः । न ह्येकस्य कर्तृत्वम्, कर्मत्वञ्च स्वापेक्षमुपपद्यते, स्वात्मनि क्रियावृत्तिविरोधात् । न चाहमिति संविद्वशेनाविरोधः, स्वयम्प्रकाशत्वेन, विषयप्रतीतिगोचरत्वेन वा तदुपपत्तेः । विषयैस्सहोपलम्भनियमश्चैवं सत्युपपन्नः । अन्ये मन्यन्तेस्वप्रकाशाय हि प्रमाणमप्रकाशस्वभावेषु विषयेष्व पेक्ष्यते, प्रकाशस्वरसे स्वात्मनि प्रकाशापेक्षा मुधैव, संवित्तिवत् । संवित्तेस्स्वप्रकाशत्वविचारः । प्रमाणफलभूता हि संविन्त्तिरवश्यं स्वयम्प्रकाशाभ्युपगमनीया । अन्यथोत्पन्नायामपि तस्यामप्रकाशमानायां विषयाणां विदितत्वावेदने विदितत्वव्यवहारो न स्यात्, न च वाच्यं व्यवहारयोग्यतैव विषयेषु पुरुषस्य संवित्, सा व्यवहार उत्पन्ने फलेनानुमीयते । यतो व्यवहारप्रवृत्तेरपि पुरस्ताद्विदितत्वं विषयाणामनुसन्धीयत इति ८६७ अर्वजनसम्मतमेतत् । नापि मानसप्रत्यक्षसमधिगमनीया संवित् । स्वयम्प्रकाशत्वेनाप्युपपत्तौ सत्याम्, तत्कल्पनायां प्रमाणाभावात् । विषयेषु हि स्थायिषु स्वयम्प्रकाशेष्वभ्युपगम्यमानेषु स्वापादिदशाः पुरुषाणामनुपपन्नास्स्युः । संविदि तु स्वयम्प्रकाशायां नैष दोष आपद्यते, स्वापादिषु तस्या एवासत्वात् । विषयास्तु प्रत्यभिज्ञाबललब्धस्थेमानः पुरुषाणां स्वापादिदशायामपि न सन्तीति न शक्यमभिधातुम् । ततस्ते परायत्तप्रकाशाः । संवित्तिस्तु स्वयम्प्रकाशेति, सिद्धो दृष्टान्तः । ८६८ वयम्प्रकाशस्य सत्तोपगमो न प्रमाणान्तरायत्तः । एवञ्च तुरीयेऽपि प्रकाशो नोपरमते । अत एव च मोक्षस्य ८६९ उरुषैर्नेष्येत । एतदपि प्रामाणिकाग्रगण्या न साध्वित्याहुः । स्वरसप्रकाशत्वे पुरुषस्य जाग्रत्स्वप्नतुरीयेष्विव सुषुप्तावपि प्रकाशापत्तेः, स्वापस्तेभ्यो न भिद्येत । न हि स्वारसिकस्योच्छेदः, आवरणं वा सम्भवति । ८७२ अत्विदं केनचित्प्रलप्यतेस्वारसिकमपि पार्थिवानामणूनां श्यामत्वं पाकपदावेदनीयेनाग्निसंयोगेन निवर्तत इति । तदसत् । यदकृतकं तत्सर्वमविनाशि दिगादिवत् । अकृतकश्च श्यामिमा पार्थिवानामणूनामित्यनुमानग्रस्तत्त्वान्नाऽदरणीयम् । स्वारसिकता च पार्थिवानामणूनां श्यामतया न सिद्धा, लौहित्यस्येव तस्यापि पाकजत्वोपगमात् । सदकारणत्वमेव ८७३ इत्यत्वम् । अकारणमपि चेदनित्यम्, न नित्यलक्षणं ८७४ इञ्चिदवकल्पते । स्वमतनिरूपणम् । तत्त्वविदस्त्वाचक्षतेनाऽत्मा विषयाननुविद्धोऽवभासते, न च विषया बोद्धर्यनवभामाने भासन्त इति तावत्सिद्धम् । तत्र यदेतत्विषयेषु प्रामाणम्, तज्जनितैव या संवित्सा पुरुषं, स्वविषयांश्च विषयीकुर्वन्ती समुदीयते । तत्संवित्तिफलभागित्वेऽपि पुरुषस्य न कर्मता, किन्तु कर्तृतैव गन्तृवत् । यथागमनफलसंयोगयोगिनोऽपि८७५ गन्तुर्न कर्मता, किन्तु कर्तृतैव, तथा बोद्धुरपि वेदितव्यम् । परसमवायिक्रियाफलयोगि हि कर्मेति कर्मज्ञाः । अत एव च सहोपलम्भनियमोऽपि ८७६ इषयवेत्तृसंवित्तीनामुपपन्नः । एवञ्च विषयवित्तिगोचरत्बादात्मनो विषयवेदनोपायोपरमात्८७७ स्वापादिष्वप्रकाशो युक्त एव८७८ । तुरीयेऽपि सम्भूतसकलोपलम्भोपाय आत्मा ८७९ अन्मात्रावस्थ एवावतिष्ठते । दुःखनिवृत्तिरेव मोक्ष इति स्वमतवर्णनम् । न च मोक्षस्यापुरुषार्थता, सांसारिकविविधदुःखोपरमरूपत्त्वान्मोक्षस्य । दुःखोपरमो हि पुरुषैरर्थ्यते । न चेदं युक्तम्यथा निखिलदुःखोपरमरूपत्वात्परमपुरुषार्थत्वम्, तथा ८८० अकलसुखोच्छेदरूपत्वादपुरुषार्थतापीति । यतः सांसारिकं सुखं विवेकिनस्साधनपरतन्त्रलक्षणतया, ८८१ षयितालक्षणतया च दुःखकवलितं दुःखमेवेति मन्यमना नाऽत्यन्तमाद्रियन्ते । अत ८८२ व मोक्षायोत्तिष्ठन्ते । एवञ्च ८८३ अरमानन्दाभ्युपगमोऽपि मन्दफल एव । न च प्रमाणमपि ८८४ अत्रावकल्पते, श्रुतीनां सिद्धवस्तुबोधकत्वाभावात्, प्रत्यक्षविरोधश्च । न संसरन्तस्तथाविधमानन्दमनुभवन्ति । न चाभिभूततयाननुभवः । स्वारसिकस्य स्वयम्प्रकाशस्याऽनन्दस्याभिभवायोगात् । न च परमप्रेमास्पदतयाऽत्मन ८८५आनन्दरूपतासिद्धिः, आत्मनि प्रेमासिद्धेः । शरीरोपघाति हि दुःखोदयात्तदुपघातपरिहारं सर्वे प्रार्थयन्त इत्यात्मनि प्रेमाभिमानः । किञ्च संसारिणां स्वारसिकः परमानन्दो नानुभूतपूर्व इति, कथं तन्निबन्धनमात्मनि ८८६ रेम । अतो विषयविशेषसम्भोगज८८७ एवाऽनन्द इति सुन्दरम् । मोक्षस्तु सांसारिकदुःखोपशमात्पुरुषार्थ इति पुष्कलम् । मण्डनमिश्रमतानुवादः । कः पुनरेष मोक्षः ? अविद्यास्तमय इति केचित् । यतेकमेवाद्वितीयमसंसृष्टं सकलोपाधिपरिशुद्धं ब्रह्मतत्त्वम्, ततनाद्यविद्यावशेन शरीरादिसद्वितीयमिवोपाधिकलुषितमिवावभासमानं८८७ लब्धजीवव्यपदेशं सत्, बद्धमिव ८८८ अक्ष्यते । अतोऽनाद्यविद्यैव संसारः, निखिलविकल्पातीतपरिशुद्धविद्योदयात्तदस्तमय एव मोक्ष इति । तन्निरासः । ८८९ अदिदं श्रद्धामात्रविजृम्भितमिति८९० प्रमाणपरतन्त्राः । स्यादेतदेवं यद्यद्वैतं कस्यचित्प्रमाणस्य गोचरः । न चैतदित्थम्, न खल्वद्वैतं कस्य चित्प्रमाणस्य गोचरः । स्यान्मतम्, प्रत्यक्षमेव विधिमात्रोपक्षीणव्यापारमपरिस्पृष्टान्योन्यभेद८९१ अद्वितीयमेकं तत्त्वं साक्षात्करोतीति । तदसत्सत्यं विधायकमेव प्रत्यक्षम् । तच्च विदधदपि ८९२ ऊपं रूपतया, रसञ्च रसतया विदधाति, न पुनस्सर्वमेकता, ८९३ अथा रूपे ८९४ हारावाहिनी बुद्धिः, तथाभूतैव यदि रसेऽपि स्यात्, तदा भवेदेव प्रत्यक्षेण८९५ साक्षात्कृतमद्वैतम् । न त्वेतदेवमिति सर्वप्रतिपत्तृस्वसंविदितम् । यच्च प्रमेयविकल्पेन सामान्यमेव वस्त्विति स्थापयित्वा, सत्ताया महासामान्यरूपत्वात्तावन्मात्रमेव सत्त्वमिति साधितम् । तदपि गगनग्रासकल्पम् । सत्त्वं न विशेषमात्रं वस्तु, सर्वत्रा । नवृत्तप्रतिभासप्रवेदनीयस्य सामान्यस्यापह्वोतुमशक्यत्वात् । नापि सामान्यविशेषात्मकमेकं८९६ वस्तु, एकस्य द्वेरूप्यविरोधात्सामान्यविशेषौ तु परस्परसम्बद्धे द्वे वस्तुनी प्रत्यक्षमवगाहते, तथा च कुतस्सत्ताद्वेतसिद्धिः । ८९७ अथा च सामान्यविशेषयोर्जातिव्यक्त्योरिह प्रत्ययो नास्तीति, तथा जातिनिर्णये प्र.पं.पृ. ५० निर्णीतम् । ८९८ अ चाऽगमादेवाद्वैतसाधनम् । तन्न । आगमस्य कार्यैकविषयतया सिद्धे तत्त्वे प्रामाण्यानुपपत्तेः८९९ । अपि च वाक्यात्माऽगमः प्रमाणमिष्यते । ९०० अच्चानेकपदात्मकमनेकपदार्थात्मनि वाक्यार्थे धियमुपजनयत्, कथमद्वैतमवभासयेत् । अथेदमुच्यते"स एष आदेशो नेति नेती" बृ. उ. अ. ३. ब्रा. मं. ६.टति ९०१ अकलोपाधिनिषेधेन नानाभूतवस्त्वन्तरापाकरणादद्वैतमागमेन साध्यत इति । तदप्यसारम् । यः खल्वेष इति सद्रूपतया प्रत्यवमृष्टः पदार्थः, सोऽसत्त्वापादकेन९०२ नञर्थेन सह सम्बद्धुमयोग्यः, अस्ति नास्तीतिवत् । अन्वयायोग्ययोश्च पदार्थयोरन्वयासम्भवान्न वाक्यार्थीभवनम् । ९०३ वन्तर्हि निराकृतानि सर्वाण्येव निषेधवाक्यानि । मन्द ९०४ ऐवं परिभावय । न हि निषेधवाक्येषु कस्यचिदात्यन्तिको निषेधः, किन्तु क्वचित्किञ्चिन्निषिध्यते । ९०५ रह्माद्वैताभिमानी तु भवानात्यन्तिकमेव निषेधमभिलषति । ९०६ अथा च सोऽयमात्मीय एव बाणो भवन्तं प्रहरति"९०७ अब्धरूपे क्वचित्किञ्चित्तादृगेव निषिध्यते । विधानमन्तरेणातो न निषेधस्य सम्भवः" ॥ [ब्र. सि. त. कां. श्लो. २] इति । अतः प्रत्यक्षादिविरुद्धार्थत्वादद्वैतावबोधक आम्नायो न ९०८ अथाश्रुतो वर्णयितुं न्याय्यः । ९०९ अत्विदं प्रपञ्चेन प्रसाधितं९१० प्रत्यक्षादिविरोधेऽप्यागमस्यैव९११ बलीयस्त्वम्, तद्वशेन प्रत्यक्षादीनामेव भ्रान्तता कल्पनीयेति । ९१२ अदपि मनोरथमात्रम् । प्रत्यक्षादिविदोधे पदार्थानामन्वययोग्यताविरहादागमादर्थबोधस्यैव तद्विरोधेऽनुदयात् । अतः प्रत्यक्षादिविरोधादागमे गौणी, लाक्षणिकी वा वृत्तिराश्रयितव्या९१३ । आनन्दादिश्रुतीनां स्वमतेन व्याख्या । ९१४ अत्राऽनन्दादिश्रुतयस्स्वाभावकिदुःखाभावपरतया वर्णनीयाः, लौकिकानन्दस्याल्पतया, दुःखानुषक्ततया च व्याख्येयाः । एकत्वश्रुतयश्चैकस्मिन्नायतन एकस्यैव स्वामित्वमित्येवम्पराः । "९१५ न्द्रो मायाभिः पुरुरूप ईयते" इति, देहात्माभिमानेन जन्मनि जन्मनि भिन्न इवाऽभातीत्यर्थः । अनेकदेहपरिग्रहेऽप्येक एवाऽत्मेति नानात्वनिषेधस्यार्ऽथः । "स९१६ एष नेत्येष नेती" ति च शरीरादीनामात्मत्वनिषेधस्तद्व्यतिरिक्तप्रतिपत्तिपरः । विज्ञानश्रुतयश्च ९१७ इच्छक्तियोगित्वाद्व्योमादिभ्यो विशेषाभिधानपराः । सर्वात्मश्रुतयश्च सर्वस्याऽत्मार्थत्वात्तादर्थ्यनिमित्तोपचाराः९१८ । ९१९"आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवती" बृ. उ. ४ . मै. ब्रा. ति यदुच्यते, ततात्मज्ञानस्य परमपुरुषार्थमोक्षफलत्वात्, तस्मिन् विज्ञाते सर्वमेव ज्ञानं निष्फलमिति दर्शयितुमित्येषा दिक् । ९२० थोच्येतवित्तेर्भिन्नस्याप्रकाशात्मनः प्रकाश एवानुपपन्न इति । यद्यत्प्रकाशते, तत्तत्प्रकाशादभिन्नम्, प्रकाशात्मकञ्च ब्रह्म । अतो ब्रह्मात्मकं जगदिति सिद्धमद्वैतमिति । ९२१ अदिदं स्वपक्षविरुद्धम् । कथमेवं बुद्धिमन्तोऽभिदधति । एवं हि नानाभूतानामाकाराणां प्रकाशाभेदे प्रकाशस्यापि नानाभावापत्तेरद्वैतं दूरमपास्तम् । ९२२ थोच्येतविविधोऽयमाकारप्रपञ्चोविद्याध्यासवशादवभासत इति । एतदपि स्ववचनविरुद्धम् । सदात्मा प्रकाशः, तेन सहासदात्मान आकारास्तावदभिन्ना इति न घटते । तथा सत्यप्रकाशात्मानस्ते कथमिव प्रकाशेरन् । अपि चाप्रकाशात्मन एव ९२३ रकाशस्सम्भवतीति ९२४ आह्यार्थसिद्धावुक्तम् । अत एषोऽपि माहायानिकपक्षानुप्रवेशात्९२५ ब्रह्मवादिनां मोह एव । अपि चात्यन्तमसन्तं प्रपञ्चं कथमिवाविद्या प्रकाशयितुमलम् । न खल्वसत्ख्यातिरविद्या९२६, किन्त्वग्रहणरूपैवेति९२७ नयवीथ्यां ९२८ आधितम्९२९ । अतो नाविद्यास्तमयो मोक्षः । स्वमतेन मोक्षतत्साधननिरूपणम् । ९३०आत्यन्तिकस्तु देहोच्छेदो निश्शेषधर्माधर्मपरिक्षयनिबन्धनो मोक्ष इति । युक्तम् । धर्माधर्मवशीकृतो हि जीवस्तासु तासु योनिषु संसरति । स तयोरेकान्तोच्छेदे व्यपगतदेहेन्द्रियसम्बन्धस्समुत्खातनिखिलसांसारिकदुःखानुबन्धो मुक्त इत्युच्यते । ९३१ अथं पुनरशेषधर्माधर्मंपरिक्षयः । न तावदुपभोगेनैव । अनादिशरीरसन्ततिसञ्चितानां, भोगसमयेऽपि सञ्चीयमानानामनन्तानां कर्माशयानां क्षेप्तुमशक्तेः । उच्यतेयः खलु सांसारिकेभ्यो दुःखेभ्य उद्विग्नः तदनुषङ्गशबलेभ्यश्च सुखेभ्योऽपि विगतस्पृहो मोक्षायोत्तिष्ठते, स तावद्बन्धहेतुभूतेभ्यो निषिद्धेभ्यः प्रत्यवायहेतुभूतेभ्यः, काम्येभ्योऽभ्युदयसाधनेभ्यश्च निवर्तमानस्सन्नुत्पन्नपूर्वौ धर्माधर्मौ भोगेन क्षयं नयन्, शमदमब्रह्मचर्यादिकाङ्गोपबृंहितेनाऽत्मज्ञानेन९३२ "न स पुनरावर्तते" छा. उ. अ. ८ इत्यपुनरावृत्तये चोदितेन निश्शेषकर्माशयं नाशयनं मुच्यते । न चापुनरावृत्तेरर्थवादतया वर्णनम्, आत्मज्ञानस्यापरार्थत्वात् । परार्थत्वे हि पर्णमयी । न्यायेन फलश्रुतिरर्थवादतया वर्ण्येत । ज्ञानविधेरपारार्थ्ये तु सैवाधिकारिविशेषणं रात्रिसत्रवत् ॥ न च कर्मविधिशेषभूतमात्मज्ञानम्, तस्यापरार्थत्वात्, परार्थत्वे प्रमाणाभावात, ९३३ पकारलक्षणशेषत्वनिराकरणादित्यलमतिविस्तरेण । स्वमतेनाऽत्मपरिमाणनिरूपणम् । ननु मुक्तस्यात्मनस्सकलोपलम्भातीतस्य९३४ सन्मात्रावस्थितौ किं प्रमाणम् ? उच्यतेसदकारणञ्च यत्, तदविनाशि गगनवत् । सदकारणश्चायमात्मेत्यविनाशित्वाद्ध्रुवत्वसिद्धिः९३५ । परममहत्त्वञ्चाऽत्मनः परिमाणं गगनवत् । यत्र यत्राऽत्मनो गुण उपलभ्यते, तत्र तत्र तावदात्म वर्तत इति प्रमाणसिद्धम् । गुणिनमन्तरेण गुणस्यावृत्तेः । तत्र ह्येष संशयःकिमसौ गत्व सन्निधीयते, उत गतिनिरपेक्ष एवेति । तत्र गतिसव्यपेक्षत्वाश्रयणे गतेस्तावत्कल्पना, तस्याश्चासमवायिकारणं कल्पनीयम् । न च तत्र किञ्चन प्रमाणमस्ति । अगच्छतोऽपि सन्निधानोपपत्तेर्गगनवत् । अथोच्येत यत्रापि देहोन वर्तते, तत्रापि चेदात्मा सन्निधीयते, तदा शरीर इव तत्रापि तद्गुणानामुपलब्धिस्स्यादिति । तन्न । यतस्सर्वात्मगुणानामात्ममनस्सन्निकर्षोऽसमवायिकारणम् । स च संयोगो ९३६ विष्ठतया मनो९३७ इरहेणान्यत्र न वर्तते । मनश्च शरीरस्यान्तरवतिष्ठत इत्युक्तम्९३८ । यत्रैव चासमवायिकारणम्, तत्रैव कार्यमिति न बहिरात्मनो गुणोपलम्भः । नन्वेवं शरीरस्यापि गतिकल्पनमप्रमाणकमेव । न । तस्यैकत्र सतोऽन्यत्र दर्शनप्रसङ्गात् । आत्मनस्तु सतोऽपि सकलकरणपथातीतस्य दर्शनप्रसक्तिरापादयितुमशक्येत्यगत्या सर्वसयोगिभिरात्मा संयुज्यते । तत्तु परममहत्त्वमन्तरेण न सम्भवतीति नाणुपरिमाणः, शरीरपरिमाणो वा । शरीरपरिमाणवत्त्वञ्च विना सावयवत्त्वमनुपपन्नम् । तादृशं हि महत्त्वंवयवबहुत्वमहत्त्वप्रचयविशेषाणामन्यतमस्मिन्नायत्तम् । न चावयवकल्पना प्रमाणवती । ननु सर्वगतत्वे पुरुषस्य शरीरान्तरेऽपि भोगप्रसङ्गः । मैवम् । यस्य यच्छरीरं, तस्य तद्भोगायतनम्, यानि च यस्येन्द्रियाणि, तानि तस्य भोगसाधनानीति, नाऽयतनान्तरे भोगप्रसङ्गः । आत्मनो विभुत्वे भोगसाङ्कर्यशङ्कासमाधाने । ननु शरीरेन्द्रियसम्बन्धव्यवस्थैव किन्निबन्धना । उच्यतेधर्माधर्मसम्बन्धनिबन्धनेति भवानवबुद्ध्यताम् । यदीयाभ्यां धर्माधर्माभ्यां यानि शरीरन्द्रियाण्युपात्तानि, तानि तस्यैव भोगसाधनानीति । धर्माधर्मव्यवस्थैव किमायत्तेति चेत्? तदुपायभूतकर्मसम्बन्धायत्ता९३९ । कर्मसम्बन्धव्यवस्था तु तत्समवायिकारणभूतशरीरेन्द्रियसम्बन्धनिबन्धनेत्यनादितया शरीरेन्द्रियधर्माधर्मसन्ततेस्सर्वमुपपन्नम् । आत्मैकत्वशङ्कानिराकरणे ॥ आह्वविभुत्वञ्चेदात्मनः, तदा सर्वशरीरेष्वेक एवाऽत्मास्तु९४० गगनवत् । यथा गगनमेकमेव घटमणिकादितत्तदनेकसम्बन्धि, तथाऽत्मापि किं नाभ्युपेयते, किं प्रतयायतनं भेदाभ्युपगमेन । उच्यतेयस्तावत्प्रतिपत्ता परायतनस्वामिनं स्वप्रयत्नपूर्वकात्मीयशरीरसमवेतकर्मसमानचेष्टादर्शनादनुमानतः प्रत्येति९४२ प्रयत्नवत्तया, नासौ तं ग्राहकैकरसतया, किन्तु ग्राह्यकोटिनिविष्टमनात्मभूतमेव । तेन ९४३ रतीतिसिद्धत्वाद्भेदस्य, अलं भेदाभ्युपगमेनेति वचनमकिञ्चित्करम् । न हि ९४४ अरायतनस्वामिनि स्वमित्येवमनुमानमुदेतुमलम् । यथा मम शरीरे मदीयप्रयत्नपूर्विका चेष्टा, तथा परशरीरेऽपि मत्प्रयत्ननिबन्धनैवेति प्रत्यक्षविरोधात् । प्रत्यक्षेण हि स्वात्मनि समवयन्प्रयत्न उपलभ्यते । न च परशरीरचेष्टानुगुणः प्रयत्नस्स्वात्मनि पुरुषाणां प्रत्यक्षीभवतीति, पर एव प्रयतिता परशरीरेऽनुमीयते । नन्वेवमनुमानेन परात्मप्रतीतौ, कथमिदमुच्यते"अगृह्यो न हि गृह्यते" बृ. उ. अ. ४. ब्रा. २ ख. ४ इति । परेण न गृह्यत इत्येतदभिप्रायमेतद्भवतीत्युच्यतेग्राहकैकरसतया परेण न गृह्यत इति तस्यार्ऽथः, तस्मान्न विरोधः । किञ्च नानाव्यवस्थाना नानाभूताः प्रतिक्षेत्रं पुरुषाः ९४५ हर्माधर्मसुखदुःखादिव्यवस्थादर्शनात् । अन्यथा ह्येकस्य धर्माधर्मादयस्सर्वस्य भवेयुः । ब्रह्मसिद्धिकृतो मतेन शङ्का । ९४६ त्र कश्चित्पण्डितमानी प्राऽहकाल्पनिकी सुखदुःखादिव्यवस्था भविष्यति । यथैकस्मिन्नेव शरीरे पादादिवेदनाव्यवस्था न व्यतिकीर्यते, तथा नानाशरीरेषु न व्यतिकरिष्यत इति । न हि पादगता वेदना शिरसि, न वा शिरोगता वेदना पादे । न च वेदना पादादिष्वेव समवैतीतिशक्यते वक्तुम्, तेषामज्ञत्वात् । ज्ञाता हि वेदनाभिस्सह सम्बध्यते, दुःखविशेषरूपत्वात्तासामिति । तन्निरसनम् । तदिदं बालजनमोहनमिति । वृद्धाः । "पादे मे वेदना,"शिरसि मे वेदने"ति सर्ववेदनास्वेको दुःखी प्रकाशते । पादादिषु तु सन्तापादिकं समवैति । ९४७ अत्र सन्तापस्तेजसा सह संयोगः, शूलस्तु वायुवा सहेति वातपित्तश्लेष्मणां क्षोभजेषु सर्वेषु विकारेषु वेदितव्यम् । अचेतनानामपि पदादीनां पित्तादिसंयोगो न विरुध्यते । ९४३ अज्जन्यं दुःखमात्मन्येव समवैति । अथोच्येतयथा प्रतिबिम्बभाव एकस्यैव ९४९ इम्बस्य मणिकृपाणदर्पणाद्युपाधिवशेन, व्यवस्थितानि च श्यामत्वादीनि, तथैकस्याऽत्मनो नानाशरीरोपाधिवशेन सुखादयो व्यवतिष्ठन्त इति । तदयुक्तम्श्यामत्वादीनामौपाधिकानामुपाधिवशवर्तित्वाद्विम्बसम्बन्धाभावात् । तेनैकधर्मिधर्माणां सतामेषा व्यवस्था सम्भवति । सुखादयस्तु नौपाधिकाः, किन्त्वात्मसमवायिन एवेत्येकात्मवर्तित्वेन९५० व्यवस्थानुपपत्तिः । किञ्च सिद्धे व्यक्तमेकत्वे स्यादप्येषा कल्पना, न९५१ चाऽत्मैकत्वे प्रमाणमस्ति । एकपुरुषश्रुतयश्च प्रागेवोपवर्णितार्था इति, सिद्धं प्रतिक्षेत्रं नानाभूताः पुमांस इति । ९५२ आनाविवादसन्दर्भतमस्सङ्घातभेदनः । एव शालिकानाथेन तत्त्वालोकः प्रवर्तितः ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां तत्त्वालोको नामाष्टमं प्रकरणं समाप्तम् । ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ ९५३ यायिशुद्धिर्नाम नवमं प्रकरणम् । ९५४ पौरुषेये सम्बन्धे शब्दः प्रामाण्यमृच्छति । स च नित्यत्वसिद्धौ स्यादिति तत्प्रतिपाद्यते ॥ १ ॥ यद्युच्चरितमात्रविनाशी शब्दो भवेत्, तदा तस्य वृद्धव्यवहारेण स्वाभाविकी स्वार्थाभिधानशक्तिरवसातुमशक्या । भूयोभूयः प्रयोगदर्शने हि तत्तदस्वार्थपरिहारेण निष्कृष्य स्वार्थाभिधानसामर्थ्यमवधार्यते । न चोच्चरितमात्रापवर्गिणश्शब्दस्य पुनः पुनः प्रयोगदर्शनमुपपद्यते । स्वार्थाभिधानसामर्थ्यानवधारणे च प्रथमश्रुत इव शब्दो नार्ऽथमवबोधयितुमलम्९५५ । अर्थञ्चानवबोधयतः प्रामाण्यमयुक्तमिति, शब्दस्य प्रामाण्यमिच्छता युक्तमभिधानस्य नित्यत्वस्थानमिति सप्रयोजनमिदम् । ननु क्षणिकत्वेऽपि वर्णानां ९५६ अत्वादिविषयवृद्धव्यवहारपूर्वकमेव सम्बन्धाध्यवसानमुपपद्यते, किं नित्यत्वस्थापनयत्नेन । उच्यतेन प्रत्युच्चारणं भिन्नेषु वर्णेषु गत्वादिकं कल्पयितुं शक्यते, भेदाग्रहेणापि शुक्तिकार९५७ अतबोधवदभेदप्रत्ययाभिमानोपपत्तेः । यत्र हि भेदमध्यवस्यत एवाभेदज्ञानम्, तत्रान्यथानुपपत्त्या सामान्याश्रयणं घटते । न चानित्यत्ववादिनोऽपि९५८ वर्णेषु प्रत्युच्चारणं साक्षाद्भेदाध्यवसानं सम्मतम् । ननु च युक्तं शुक्तिकारजतादिषु भेदाग्रहणादभेदव्यवहार इति सामान्यासम्भवः, नेदं रजतमिति बाधकप्रत्ययोदयात्, इह तु सासान्योपपत्तेर्भ्रान्तिकल्पना निष्प्रमाणिकैव, नायं गकार इति बाधकाभावात् । उच्यते । न बाधकमात्रायत्तैव भ्रान्तिकल्पना, किन्तु कारणदोषायत्तापि । दृष्टञ्चातिसादृश्याद्भेदाग्रहणाद्भ्रन्तित्वमिति, साक्षादनुपजातेऽपि बाधके, युक्तमेव भ्रमावधारणम् । अतो न गत्वादिस्तत्र सम्भवति । ९५९ भिव्यञ्जकवैधर्म्यादभिव्यक्तेरसम्भवे । प्रयत्नानन्तरं दृष्टेरभिधानं प्रयत्नजम् ॥ २ ॥ ९६० किञ्च पुरुषप्रयत्नानन्तरं हि श्रवणं शब्दस्य द्वेधावकल्पतेप्रागजातत्वादनुपलब्धः, प्रयत्नेन जनित उपलभ्यतामापद्यते, अनभिव्यक्तत्वाद्वाभिव्यज्यत इति । तत्र न तावत्प्रयत्नस्य शब्दं प्रत्यभिव्यञ्जकत्वं सम्भवति । ९६१आवरणापायेन किञ्चिदभिव्यज्यते,सन्निधानेन ९६२ आ । न च शब्दस्याऽवरणमुपपद्यते । इन्द्रिसम्बन्धप्रतिबन्धेन ह्याऽवरणं कुड्यादिना घटादेरुपलब्धम् । न च शब्दस्येन्द्रियसम्बन्धः प्रतिबन्धुं शक्यते, नित्यत्वात् । उत्पत्तिनिरोधो हि प्रतिबन्धः । न चासौ नित्यस्योपपद्यते । आकाशो ह्वि श्रोत्रेन्द्रियं शब्दवत्त्वात्, शब्दोपलम्भकतया च शब्दवत्त्वं चक्षुर्वत् । यथाचक्षू रूपोपलम्भकं रूपवत्, तथा श्रोत्रमपि शब्दवत् । आकाशश्च शब्दवानिति स एव श्रोत्रम्, तद्गुणश्च शब्दस्तस्मिन्नित्यसमवेत इति, न तस्याऽवरणसम्भवः । अतस्तदपनयेन नाभिव्यक्तिः । अत एव सन्निधानस्यासम्भवः, नित्यसन्निधानादभिव्यङ्यस्य । किञ्चअभिव्यञ्जकास्समानदेशस्थानेकेन्द्रियाग्राह्यान् युगपदेवाभिव्यञ्जयन्ति, रूपादीनिव प्रदीपादयः । रूपम्, परिमाणम्, संख्येति सर्वं सकृदेव प्रदीपादभिरभिव्यज्यते । अतस्सर्वशब्दोपलम्भो दुर्निवार एव । किञ्च आकाशविशेषगुणत्वाच्छब्दस्य, एकत्वादाकाशस्य स्रुघ्नस्थेनाभिव्यक्तः पाटलीपुत्रस्थेनाप्युपलभ्येत । सर्वदा चोपलम्भोपरमो न स्यात् । अथ श्रोत्रेन्द्रियसंसकर एव शब्दस्याभिव्यक्तिरिष्यते, न सोऽपि घटते, कः खल्विन्द्रियस्य संस्कारःन तावदुन्मीलनवदावरणापगमः, पूर्ववदावरणासंभवात् । नाऽप्यालोकेनेवाऽप्यायनं९६३ चाक्षुषस्य रश्मेः कोष्ठ्यानां वायूनाम्, आकाशस्य चावयवसंयोगासम्भवात्९६४ । "सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान् प्रकाशयेत् । घटायोन्मीलितं चक्षुः पटं न हि न ९६५ उध्यते ॥ " श्लो. वा. श. अ. श्लो. ६०. ६१ इति । तस्मादभिव्यञ्जकत्वेऽनुपपन्ने, यदि ९६६ रयत्नकारणकोऽपि न स्यात्, तदा तदपेक्षोपलब्धिर्न सम्भवेत् । तेनेदमनुमानं प्रयोक्तव्यम्शब्दः पुरुषप्रयत्नोत्पाद्यस्तदनभिव्यङ्ग्यत्वे सति तदनन्तरोपलब्धेः, यो यदनभिव्यङ्यस्तदनन्तरोपलभ्यः, स तस्योत्पाद्यः, यथाघटःकपालव्यापारस्येति । केन पुनः प्रकारेण प्रयत्नेन शब्द उत्पाद्यते । तत्र ९६७ एचिदाहुःपुरुषप्रयत्नोदीरितैर्वाय्ववयवैस्स्थानविशेषाभिधात९६८ संस्कारसंस्कृतैस्सर्वतोदिक्कैस्संयोगाख्यासमवायिकारणानुगृहीतैश्च स्वसमवेतः शब्द आरभ्यते । वायोश्च गतिमत्त्वात्, तदारब्धश्शब्दोऽपि गतिमान् कर्णशष्कुलीमण्डलावच्छिन्नेन नभसा श्रोत्रभावमापन्नेव संयुक्तस्सन्नुपलभ्यते । वेगाख्यसंस्कारनिबन्धना च वायोर्गतिरिति, तदपगमे गतिविच्छेदाद्दूरे यच्छोत्रम्, तत्राप्रत्यासन्नत्वाच्छब्दो न श्रूयते । न ९६९ ऐतदुपपद्यतेवायवीयश्चेच्छब्दो भवेत्, स्पर्शनेन बधिरैरुपलभ्येत । स्यान्मतम् ९७० भिभूतत्वात्स्पर्शनेनानुपलब्धिरिति । तन्न । प्रत्यक्षोपलब्ध्यर्हत्वात्९७१ । यदि ह्यसावभिभूतः, तर्हि श्रोत्रेणापि नोपलभ्येत । न च वाच्यं न स्पर्शनेन्द्रियग्राह्योवायुरिति । तदनुविधानेन तदवगतेः । अथ मतम्स्पर्शमात्रं स्पर्शनेन्द्रियेणोपलभ्यते, न वायुद्रव्यमिति । तन्नस्पर्शव्यतिरेकेऽपि९७२ द्रव्यस्य प्रत्यभिज्ञायमानत्वात्९७३ । अन्ये ९७४ वाहुःसंयोगाद्विभागाद्वाऽद्यश्शब्दो निष्पद्यते । यथा ताल्वादिवायुसंयोगानुगृहीताद्वाय्वाकाशसंयोगादाकशे शब्दस्सञ्जायते, तथा ताल्वादिवायुविभागोपकृताद्वाय्वाकाशविभागादाकाश एव शब्दश्शब्दान्तरमारभते, तदपि शब्दान्तरमिति कर्णशष्कुलीमण्डलावच्छिन्ने नभसि श्रोत्रभावमापन्ने निष्पन्नश्शब्दश्श्रूयत इति । ९७५ आनाभावे प्रयत्नस्य नानाभावोपलम्भनात् । वैलक्षण्ये च शब्दस्य वैलक्षण्येन कार्यता ॥ ३ ॥ किञ्चअभिव्यङ्ग्यश्चेत्प्रयत्नेन शब्दो न प्रतियत्नं भेदेनोपलभ्येत । न खल्वभिव्यञ्जकप्रदीपभेदेऽपि नानाभावेन भावानामुपलम्भः । कारकभेदस्तु कार्यभेदहेतुरिति ९७६ अंप्रतीतः । अतश्शब्दस्य प्रयत्नो जनयितेति निश्चीयते । यथा कारकवेकलक्षण्यानुविधायिनी कार्यवैलक्षण्यसिद्धिरविहता, तथा वैलण्येऽपि चाभिव्यञ्जकस्याभिव्यङ्यवैलक्षण्यं न सम्भवति । शब्दस्तु प्रयत्नस्य मृदुत्वे, बलवत्त्वे च मृदुर्बलवांश्चोपलभ्यमानस्तत्कार्यतां न जहातीति । सिद्धान्तः । ९७७शब्दे तत्प्रत्यये स्पष्टे नानाव्यञ्जककल्पनात् । उपलब्धिव्यवस्थानमुपपन्नं भविष्यति ॥ ४ ॥ यदि शक्ष्यामश्शब्दस्य स्पष्टं प्रत्यभिज्ञानमुपदर्शयितुम्, तदा प्रयत्नस्य कारकत्वे निषिद्धे, अभिव्यञ्जकत्वे च स्थिते, उपलब्धिव्यवस्थानं व्यञ्जकबहुत्वेन वर्णयिष्यामः । श्रोत्रमेव संस्क्रियते, तत्संस्कारकता चतदभिव्यज्जकता । कोष्ठ्यो हि वायुः प्रयत्नवदात्मसंयोगादुद्गच्छति९७८ । स ९७९ आभेरुद्गच्छन्नुरः प्रभृतिष्वष्टसु स्थानेष्वभिघातेतन संस्कृतो यावद्वेगमभिप्रतिष्ठमानश्श्रोत्रमनुप्राप्तश्शब्दोपलम्भानुगुणं संस्कारमारभते । तत्संयोग एव श्रोत्रसंस्कारः । वेगवत्त्वाच्च वायोः, कर्मोत्पत्तौ श्रोत्रविभागात्संयोगोपरमे, शब्दस्यानन्तरमुपलम्भविच्छेदः । प्रयत्नभेदाच्च वायुकर्मभेदादुरःप्रभृतिस्थानसंयोगान्यत्वाव्यवस्थया शब्दश्रवणम् । शब्दोत्पत्तिवाद्यप्युत्पादकभेदमनुमन्यत एव, अन्यथा कार्यभेदासम्भावात् । यत्तूपवतिर्णतंयथोन्मीलनसंस्कृतं चक्षुर्न समानदेशस्थानुपलभ्यान् व्यवस्थयोपलम्भयतीति । तदयुक्तम्तत्रैकत्वादभिव्यञ्जकस्य । एकेमेव ह्युन्मीलनं सर्वोपलम्भानुगुणनेत्रसंस्कारारम्भकमिति, कुत उपलब्धिर्व्यवतिष्ठताम् । इहत्वेकत्वं संस्काराणामसिद्धम् । नन्वभिव्यङ्ग्यस्यैकेन्द्रियग्राह्यत्वे, अभिव्यञ्जकस्यैकतैव प्राप्नोति । ये समानेन्द्रियग्राह्याः, तेषामेक एवाद्यभिव्यञ्जकः । यथाआलोको घटादीनाम् । एकत्वे चाभिव्यञ्जकस्योपलब्धिव्यवस्था नोपपद्यते । अतोऽभिव्यञ्जकत्वासम्भवे, कारकत्वे व्यवस्थिते, भेदाग्रहणनिबन्धनैव प्रत्यभिज्ञेति न्याय्या कल्पनाइति । अत्रोच्यते । एकेन्द्रियग्राह्यतापि भवेत्, अभिव्यञ्जकभेदोऽपि भवेदिति, किमनुपपन्नम् । स्वाभाविकी हि यस्य सम्बन्धव्याप्तिः, तस्य लिङ्गत्वम् । ९८०आशङ्क्यमानाशेषोपाधिपरिहारेण हि स्वारसिकसम्बन्धव्याप्तिनिश्चयः । इह तु न शक्यते निर्णेतुंकिमेकेन्द्रियग्राह्यतया घटादीनाम्, तद्गतरूपादीना ञ्चैकोऽभिव्यञ्जकः, उत रूपिद्रव्यत्वात्, तत्समवायित्वाच्चेति । अतोऽनवधारितसम्बन्धव्याप्तिकमेकेन्द्रियग्राह्यत्वं नाभिव्यञ्जकैक्यानुमानसमर्थम् । अतोऽभिव्यज्जकत्वेऽपि प्रयत्नस्योपलब्धिव्यवस्थोपपत्तिः । ननु स्थिरवाय्वपनय एव संस्कारः । अपनीते च तस्मिन्, सर्वशब्दोपलब्धिर्दुर्निवारा । उच्यतेनावरणानयनं ९८१ अस्याभिव्यञ्जकम्, वायुना शब्दावरणासम्भवात्, किं ९८२ वदृष्टसापेक्षेण । एञ्चापनेतृकाष्ठ्यवायुभेदात्९८३ थिरवायुविभागलक्षणसंस्कारभेदादुपपन्नैवोपलब्धिव्यवस्था । अपि च न वयं स्थिरवाय्वपनयं संस्कारमाचक्ष्महे, किन्तु कोष्ठ्यवायुसंयोगमेव, प्रथमभावित्वात् । किमिति तर्हि भाष्यकारेण"स्तिमितानि वाय्वन्तराणी" त्युक्तम् ? कोष्ठ्यस्य वायोर्वेगविनाशार्थम् । ९८४ पर्शवद्द्रव्यसंयोगाद्वि वेगविनाशोऽन्यत्र प्रतीति इति, इहापि तदर्थमेव स्थिरवायुकीर्तनं९८५ भाष्ये । ननु चैकत्वादाकाशस्य, तस्य च श्रोत्रत्वात्तत्संस्कारे, सर्वपुरुषेन्द्रिय संस्कारात्सर्वेऽपि शब्दमुपलभेरन् । नैषदोषः । ९८६ हर्माधर्मोपार्जितकर्णशष्कुलीभेदात् । कर्णशष्कुलीसंस्कारो हि श्रोत्रसंस्कारः, भिन्नाश्च प्रतिपुरुषं कार्णशष्कुल्य इति, असंस्कृतकर्णशष्कुलीको न शब्दमुपलभते । अनुवातञ्च ९८७ ऊरत एव शब्दमुपलभते । बाह्यवायुनोदनानुगृहीतस्य कोष्ठ्यवायुवेगस्य दूरगमनहेतुत्वात् । शब्दाच्छब्दान्तरारम्भपक्षे तु नानुवातस्य कश्चिदुपयोगः । अभिव्यज्जकनानात्वाच्छब्दो नानेव लक्ष्यते । नेत्रवृत्तिविभेदेन चन्द्रस्तैमिरिकैरिव ॥ ५ ॥ स्पष्टे तद्ग्रहे नानाभावोपलम्भश्शब्दे तावदसिद्ध एव । किन्तु परस्परनिरपेक्षैरभिव्यञ्जकैः कोष्ठ्यवायुभिर्नानावक्तृसमुत्थैर्नानाभूतैर्भिन्नं श्रोत्रसंस्कारमारभमाणैर्नानाभूतशब्दबुद्धिं जनयद्भिर्नानेव शब्दो बुध्यते, चन्द्र इव तिमिरविभिन्नाभिर्नेत्रवृत्तिभिः । नानादेशोपलम्भे हि सर्वेषां भ्रान्तिसम्मतिः । कर्णच्छिद्रगतस्यैव शब्दस्य श्रवणं यतः ॥ ६ ॥ यदुच्यतेकार्यत्वे शब्दस्य कारणदेशभेदान्नानादेशोपलम्भ९८८ इति । तदयुक्तम् । यद्यपि कृतकश्शब्दः, तथापि संनिकृष्टविप्रकृष्टयोर्युगपच्छब्दोपलम्भप्रसङ्गेन प्रतिवातानुवातयोश्चाविशेषापत्तेर्नेन्द्रियं प्राप्तस्योपलम्भकम् । प्राप्तावपि नेन्द्रियं शब्ददेशमुपसर्पति, प्रतयक्षत्वाच्छोत्रदेशे कर्णशष्कुल्याः प्रतिवातानुवातयोश्च तुल्योपलम्भापत्तेः । शब्दे तु श्रोत्रपथं प्राप्त उपलभ्यमाने देशभेदः प्रतीयते । अतो भ्रन्तिरेषानानादेशेषु शब्द उपलभ्यत इति । किन्निबन्धना भ्रान्तिः । अभिव्यञ्जकदेशनिबन्धनेति ब्रूमः । ताल्वादिस्थानाघातसापेक्षो९८९ हि कोष्ठ्यो वायुरभिव्यनक्ति । अतो वक्तृदेशोऽपि भवत्यभिव्यञ्जकदेशः । तेन शब्दं शृण्वतस्तदभिव्यज्जकदेशोऽपि तदविनाभावोपकल्पितो बुद्धिस्थो भवति । शब्दाभिव्यक्तिविशेषेण च दूरासन्नत्वे तस्य कल्प्येते । प्रत्यक्षोपलभ्यमानवक्तृविषये च शब्दश्रुतिविशेषे दिग्विशेषो नियतमवधारितः, अतो दिग्विशेषकल्पनापि । यस्तु न तथा विवेक्तुमलम्, तस्याभिव्यञ्जकदेशं प्रति व्यामोहो दृश्यत एव । एवञ्चेन्द्रियाणां स्वानुभवासमर्थत्वाच्छोत्रगतशब्दोपलम्भे तद्देशाग्रहणात्, तदुच्चारणप्रदेशस्य प्रतीयमानत्वात्, तद्गतत्वप्रतिपत्तेश्च, तत्तद्देशगतशब्दप्रतिपत्तिव्यवहारं प्रवर्तयतीति९९० घटत एवेयं भ्रान्तिः । वैलक्षण्यं स्वभावने वर्णानां न च सम्मतम् । नादाल्पत्वमहत्त्वाभ्यां तथात्वभ्रान्तिसम्भवात् ॥ ७ ॥ स्पष्टे तद्ग्रहे प्रयत्नस्तावद्वर्णानां जनको नेति स्थिते, तदनन्तरोपलम्भनियमेन९९१ चाभिव्यञ्जकत्वे निर्णीते, अभिव्यञ्जकवृद्धिह्वासयोश्चाभिव्यङ्ग्यवृद्धिह्वासहेतुत्वाभावान्न शब्दो वर्धते, ह्वसते वा । किन्तु बलवति प्रयत्ने महान् वायुरुत्पद्यते, ९९२ अस्यावयवा भूयांसः कर्णशष्कुलीमण्डलस्य नेमिभागैर्बहुभिस्सम्बध्यन्ते । ततश्चाभिव्यज्जकसंयोगबहुत्वात्, युगपदुपलम्भकबहुत्वात्, तेषाञ्च विच्छेदाग्रहणान्महानिव शब्दोऽवभाति, तरूणामन्तरालाग्रहणादिव महद्वनम् । यदा ते वाय्ववयवास्सहसा, विलम्बेन वा संयुज्यन्ते, तदोपलम्भोऽपि द्रुतः, विलम्बितो वा । यदा त्वेषामुच्चारणे ताल्वादीनां संवृतत्वं भवति, तदा तदनुरोधेन वर्णोपलब्धिरपि एकमात्राकालैव भवतीति, ह्वस्ववर्णव्यवहारसिद्धिः । यदा ९९३ इवृततरत्वम्, असंवृतत्वं वा ताल्वादीनामेव सम्पद्यते, तदा वर्णप्रतीतेरपि मात्राकालवृद्ध्या दीर्घवर्णव्यवहारसिद्धिः, वृद्धव्यवहारे तदनुरोधेनाप्यर्थाभिधानदर्शनात्, तथैव प्रतिपादकत्वमप्याश्रीयते । न चैवमभिधानस्यानित्यत्वदोष, तदुपाधिविशिष्टस्य वर्णस्य वाचकस्यानित्यत्वात्१ अतो वर्णानुपूर्व्यनित्यत्वे न कश्चिद्दोषः । आनुपूर्वीविशेषभाजां वर्णानांवाचकभूतानां नित्यत्वात् । ननु ९९४ षणिका शब्दस्याभिव्यक्तिरिति, कथं तद्ग्रहणसम्भवः । उपलब्धे हि घटादिभावे तद्वशेन पूर्वानुभवाहितसंस्कारप्रबोधेन "स एवायमि"ति प्रत्यभिज्ञोदीयते । शब्दे पुनरुच्चरिततिरोहिते, पुनरुत्तरकाले कथं प्रत्यभिज्ञोदय इति । तत्राह नावश्यं तद्ग्रहेणैव तत्संस्कारप्रबोधनम् । तेन हेत्वन्तरोद्बुद्धात्संस्कारात्तद्ग्रहोदयः ॥ ८ ॥ यदि ह्ययं नियमःतदुपलम्भ एव तत्संस्कारोद्बोधहेतुरिति, ततो नोपपद्यते शब्दे प्रत्यभिज्ञा । संस्कारास्त्वनियतोद्बोधहेतव इति, कारणान्तरवशेनोद्बुद्धात्संस्कारात्प्रथमसमागमसमय एव शब्दे प्रत्यभिज्ञा भविष्यति । ननु"स एवायं गकारः" इति ९९५ रतीतिस्तद्ग्रहः, न पुनर्भेदाग्रहणादिति, कथमेष निर्णयः । दृष्टो हि शुक्तिकायां भेदाग्रहात्"तदेवेदं रजतमि"ति प्रत्ययःिति । तत्राऽह ९९६ हेदे मानं यदा नास्ति शुक्तिकारजतादिवत् । तदा प्रतीतिसंसिद्धस्तद्ग्रहः केन वार्यते ॥ ९ ॥ स्पष्टे हि शुक्तिकारजतयोर्भेदावसायिनि प्रमाणे, सादृश्याद्भेदानवबाधादभेदप्रतीतिरिति कल्प्यते । शब्दे तु न प्रत्यक्षसिद्धः प्रत्युच्चारणं भेदः । कथं न सिद्धः । ननु महत्त्वाल्पत्वाभ्यां विभिन्नो वर्ण उपलभ्यते । नैतदेवम् । महत्त्वाल्पत्वे प्रतियतोऽपि, वर्णप्रतीते महत्त्वाल्पत्वे एव भिन्ने अवभातः, न वर्णाः । न वाऽनुमानेनापि भेदोऽवगन्तुं शक्यत इति प्रागेव निवेदितम् । अतो भेदे प्रमाणाभावात्, अभिन्न एवायं भिन्नावभास इति, साक्षात्प्रतीतिबलनैवावस्थापितम् ॥ ९ ॥ ननु च तद्ग्रहबलेनैवानुमानं निरस्तम् । निरस्ते चानुमाने, तद्ग्रह इतीतरेतराश्रयमिति । तत्राऽह अनुमाननिरासेन ९९७ अद्ग्रहत्वं प्रसाध्यते । स्वयं प्रतीतिसिद्धत्वाद्भ्रान्तिशङ्का तु वार्यते ॥ १० ॥ भेदाग्रहनिबन्धनेयं भ्रान्तिरिति शङ्का केवलानुमाननिरासेनापनीयते । प्रतीतिबलसिद्धस्तु तद्ग्रहो न कारणान्तरमपेक्षत इति, कथमितरेतराश्रयता । ननु किमिति तद्ग्रहबलाज्ज्वालायामपि भेदानुमानं न निराक्रियतैत्यत आह ज्वालाभेदं विना ९९८ हासां विततिर्नोपपद्यते । भेदाज्ञानेन सादृश्यात्प्रत्यभिज्ञा तु युज्यते ॥ ११ ॥ अवयवीज्वाला । सर्वश्चावयवी स्वावयवसंयोगेन जातः, तद्विनाशेन विनश्यति । तन्तुव्यतिषङ्गजनितो हि पटस्तन्तुविभागे विनाशी दृश्यते । ९९९ रभा च गृहोदरादिवर्तिनी तैजसं रूपम् । न च द्रव्याश्रिता रूपादयो द्रव्यं विरहय्य वर्तन्ते । तेन तैजसाः परमाणवो नित्यमभिभूतत्वादनुपलम्भमान अपि, प्रत्यक्षतो यावत्प्रभावितति सन्निधीयन्त इत्यङ्गीकरणीयम् । तेषु च देशान्तरमनुप्राप्तेष्वेतदाश्रयणीयमेतेषां संयोगा विघटन्त इति । विघटितेषु तेषु, तदारब्धे द्रव्येऽपि नाशमुपेयुषि, १००० वालादर्शनं ज्वालान्तरदर्शनमन्तरेण नोपपद्यते । भेदाग्रहणनिबन्धना तु प्रत्यभिज्ञा भ्रान्तिश्शुक्तिरजतादिषु दृष्टत्वादुपपन्ना । विना तु शब्देभेदेन न किञ्चिन्नोपपद्यते । उक्तेन नीतिमार्गेण तद्ग्रहोऽतोऽत्र सम्मतः ॥ १२ ॥ प्रत्युच्चारणं भेदव्यतिरेकेणापि प्रयत्नानन्तरोपलभ्यमानत्वं यथोपपद्यते, तथोक्तमेवेति, अप्रतिपक्षा प्रत्यभिज्ञा । १००१ अदसत्कारणत्वेन तस्माच्छब्दस्य नित्यता । एतदेवव हि नित्यत्वं व्योमादिष्वपि सम्मतम् ॥ १३ ॥ शब्दस्य प्रयत्न एव कारणतया सम्भावितः । स च प्रत्यभिज्ञाबलेनद्विजीयादिदर्शनेष्वभिव्यञ्जकतामापादित इति, प्रथमदर्शंनेऽप्यसावभिव्यञ्जक एव । अतः १००२ आरणरहितत्वे १००३ अति सत्त्वान्नित्यश्शब्दो गगनादिवत् । १००४ एन नास्यानित्यतेति ॥ एषा शालिकनाथेन शब्दनित्यत्वसाधनी । प्रभाकरगुरोर्दृष्ट्या न्यायशुद्धिः १००५ रकीर्तिता ॥ १४ ॥ इति महामहोपाध्यायश्रीशालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां न्यायशुद्धिर्नाम नवमं प्रकरणं समाप्तम्१००६ ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ मीमांसाजीवरक्षा नाम दशमं प्रकरणम् । १००७ रभाकरगुरोर्भावं परिभाव्याभिधीयते । मीमांसाजीवरक्षेयं क्षणिकत्वनिराक्रिया ॥ १ ॥ अत्र सुगतमतानुसारिणःक्षणभङ्गिनस्सर्वानेव भावानभिदधति । किं पुनस्तेषां तत्र प्रमाणम् ? न१००८ तावत्प्रत्यक्षं क्षणिकतामीक्षितुं १००९ षमते, स्तम्भादिभावं१०१० निपुणतरं निरीक्षमाणस्य क्षणिकत्वाध्यवसायाभावात् । स्यादेषा मनीषान क्षणिकता नाम भावस्वभावबहिर्भाविनी, तेन भावानुभवादेव प्रत्यक्षं क्षणिकतामपि साक्षात्करोतीति । तदिदं मनोरथमात्रं मन्यन्ते मतिमन्तः । तथाहि"संविन्निष्ठा विषयव्यवस्थितयः" इति स्थितिरियमविवादा सर्ववादिनाम् । तदियमपि क्षणिकता भावस्य स्वभावभूत सती संवित्तिमधिरोहन्ती तदव्यतिरेकेणव्यवतिष्ठते, नान्यथा । न च तथा संविदमुदीयमानामुदीक्षामाह इति, कुतस्तस्या भावस्वभावान्तर्भाविता ? कुतस्तराञ्च तदवबोधेनावबोधः । अथ मन्वीरन्क्षणिकता प्रत्यक्षमीक्ष्यमाणापि१०११ न निश्चयपथमवतीर्णा तेनागृहीतेवावभाति, तथापि न १०१२ अस्यां प्रत्यक्षं प्रमाणम् । यत्र हि प्रत्यक्षस्य स्वभावतो विकल्पविहरिणस्तत्१०१३ ऋष्ठभाविना सविकल्पकप्रत्ययेन व्यापारोऽनुगम्यते, तत्र प्रत्यक्षं प्रमाणमिति सौगताः । यत्र च दृष्टमेतदिति प्रत्ययो नोदीयते, न १०१४ अत्प्रत्यक्षसमधिगतमिति सिद्धान्तध्वान्ताक्रान्ताशयानां वाङ्मात्रविलसितमिदम्१०१५ । यदपि केचिदूचिरेप्रत्यक्षं ज्ञानं क्षणिकं, स्वकालाकलितवस्तुविषयतया क्षणिकतामवगमयतीति । तदपि बालिशभाषितम् । एकक्षणमात्रवर्त्तिता हि क्षणिकता । न तत्प्रत्यक्षेणेदानीमेवेदं १०१६ अस्त्विति प्रतिपद्यते१०१७, कालान्तरं प्रत्यौदासीन्यात्१०१८ प्रत्यक्षस्य । प्रत्युत प्रत्यभिज्ञालक्षणं प्रत्यक्षमेव क्षणिकतां दूरमुपक्षिपति, पूर्वापरकालाकलितभावावकल्पनात् । अनुमानमपि सम्बन्धानुसन्धाननिबन्धनं क्षणिकतां न पक्षीकर्तुं क्षमते, तया सह कस्यचिल्लिङ्गस्य सम्बन्धबोधविरहात् । न खल्वप्रतीते सम्बन्धिनिसम्बन्धबुद्धिराविर्भवति । न १०१९ एतदुभयातिरेकि प्रमाणं सुगतमतानुसारिणो मन्यन्ते । तदिदमाकाशभ्रान्तमित्यपहसन्ति सौगताः । ते १०२० इ स्वभावहेतुकानुमानसमधिगमनीयां क्षणिकतामाचक्षते । किं पुनस्तदनुमानम् । यत्सत्, तत्क्षणिकम्, सन्तश्च सर्वे भावा इति भावमात्रानुबन्धिनि साध्ये स्वभावहेतुर्भवति । यथाशिंशपात्वं वृक्षत्वे । शिंशपामात्रानुबन्धि हि वृक्षत्वम् । तथेहापि सत्तामात्रानुबन्धिनी १०२१ क्षणिकता । कथं पुनस्तन्मात्रानुबन्धसिद्धिः ? विपक्षे बाधकप्रमाणप्रवृत्तेः । अक्षणिकत्वे हि व्यापकानुपलब्धिस्सत्तां बाधते । अर्थक्रियाकारिता हि सत्ता, नापरा काचिदस्ति । सा च क्रमयौगपद्याभ्यां व्याप्ता, तृतीयकोटिविरहात्१०२२ । अनयोः परस्परप्रतिपक्षतयैकप्रतिषेधस्येतरविधिनान्तरीयकत्वात् । न च क्रमयौगपद्येऽक्षणिकेषु सम्भवतः । ते तु निवर्तमाने सत्तामपि निवर्तयतः, वृक्षत्वं शिंशपात्वमिव । कथमक्षणिकेषु क्रमयौगपद्याभ्यामर्थक्रियाविरहः ? अत्राऽहुः १०२३ क्षणिको हि भावोर्ऽथक्रियाजननस्वभावो वा भवेत्? अतत्स्वभावो वा? नापरः प्रकारोऽस्ति । तत्राग्रिमपक्षपरिग्रहे सर्वासामर्थक्रियाणामेकस्मिन्नेव क्षणे कृतत्वात्, कृतस्य च पुनः करणानुपपत्तेः, अनन्तरक्षणेर्ऽथक्रियासामर्थ्यशून्यत्वात्, असल्लक्षणत्वापत्तेरक्षणिकत्वहानिः । द्वितीयविकल्पावलम्बने तु १०२४ अदाचिदपि ततोर्ऽथक्रिया नोदीयत इति, असल्लक्षणत्वापत्तिरेव । स्यान्मतम्समर्थोऽपि स्वभावतो भावस्सहकारिसमवधानवशेन कदाचित्करोति, तदभावाच्चान्यदा नेति । तदपि विमर्दं न क्षमते । स हि सहकारी किञ्चिदारभते, न वा ? तेनाऽरभ्यमाणमप्यर्थक्रियासाधनत्वाभिमतभावस्वभावभूतम्, उतअतत्स्वभावभूतं वेति विकल्पनीयम् । अनारम्भपक्षेऽपेक्षार्थोऽभिधातव्यः । न खल्वनुपकारकं प्रत्यपेक्षार्ऽथवती । अर्थक्रियासाधनत्वाभिमतभावस्वभावभूतस्याऽरम्भे च भावस्याप्युत्पत्तिरापतति । १०२५ अ ह्यनुत्पद्यमान उत्पद्यमानस्वभावो भवति, विरुद्धधर्माध्यासस्य भेदादादकत्वात्१०२६ । भावोदयाङ्गीकारे चाक्षणिकत्वपक्षपरिक्षयः१०२७ । अतत्स्वभावभूतस्यऽऽरम्भाभ्युपगमे भावस्य प्रागसाधकत्वात्, नाक्षणिकात्क्रमेणार्ऽथक्रियासिद्धिः । तत एव बाह्यादागन्तोरर्थक्रियोदेयः, तद्भावे भावात्, तदभावे चाभावात् । न च तद्व्यतिरेकाव्यतिरेकाभ्यामन्यः प्रकारोऽस्ति । परस्परविरुद्धयोरेकत्र समवायप्रतीतिविरहात् । ननु क्षणिकोऽपि भावःकिकर्मक्रियाजननसमर्थस्वभावः, अतत्स्वभावो ? वेति १०२८ राचीं कल्पनां १०२० आतिवर्तते । तत्रार्ऽथक्रियाजननसमर्थस्वभावस्य सहकारिव्यपेक्षा न स्यात् । न ह्यसमर्थादर्थादर्थक्रियोदीयते । श्रूयतां परमरहस्यं सौगतानाम् १०३० न्त्यक्षणं प्राप्तोर्ऽथक्रियाजननसमर्थस्वभाव एव भावः १०३१ आर्यमप्येकमेवाऽरभते । किमिति तर्हि सहकारिभिर्विनापि न करोति । निरपेक्षस्य जनकत्वे, सहकारितापि तस्य कीदृशीति न करोति । निरपेक्षस्य जनकत्वे, सहकारितापि तस्य कीदृशीति वक्तव्यम् । अत्र वदामःयत्तावदिदमुक्तम्विनापि सहकारिभिः किमिति न करोतीति । तत्तावत्सुगतमतकौशलविरहविजम्भितम् । क्षणिको हि भावो न सहकारिभिव्रिनास्ति । कथमसन् १०३२ अरिष्यति । यस्त्वस्ति, नासौ स इति, न किञ्चित्क्षीणम् । सहकारिभिर्विना किमिति न भवत्येवेति पर्यनुयोगे, हेतुस्वभावैरुत्तरं वाच्यम्ते१०३३ तथा भवन्ति, भावयन्ति चेति । एककार्यकारिता चान्त्यक्षणवर्तिनां सहकारिता । ननु तेऽप्यन्यनिरपेक्षा एव जनकाः किमिति न कार्यान्तरमारभन्ते । अत्रापि वयमनीशाःभावास्तु यदारभन्ते, तदारभन्तामित्यनुमन्तुमेव वयं प्रभवामः । ते चामी जनका अपि १०३४ अन्तस्तदेव जनयन्तीति, पश्यतामस्माकं तावत्येवाभ्युपगमः । नन्वेकेन कृते, अपरः किं करोतीति ? भवेदेतदेवं पर्यायेणार्ऽथक्रियायाम्, सहक्रियायान्तु कृत इत्येव नास्ति । नन्वेवमेकस्मादपि तत्सिद्धेः, किमपरे कृर्वन्ति । नैतदेवम् । न ते प्रेक्षापूर्वकारिणः, येनैवं पर्यालोचयेयुः । अन्योऽपीदं कर्तुमस्माभिरपि विना समर्थः, वयमिह न प्रभवाम इति । ते तु हेत्वधीनसन्निधाना न भवितुं न क्षमन्त इति कानुपपत्तिः । ननु कथमेकं कार्यमनेकस्मादुत्पद्यते । कारणभेद एव हि कार्यस्य भेदे हेतुः, अन्यथाऽकसिमकत्वापत्तेः । उच्यते, न सहकारिकारणभेदाद्भेदः कार्यस्य, किन्तु सामाग्रीभेदादिति, १०३५ एतुबिन्दौ कृतपरिश्रमाणामनायाससमधिगम्यम् । तस्मान्न क्षणिकत्वेऽप्यक्षणिकत्वपक्षसदृक्षपर्यनुयोगावकाशः । बीजादीनां हि क्षणपरम्परापरिणामेन १०३६ आदृशः क्षणस्सञ्जायते । यतोऽनपेक्षितहेत्वन्तरप्रवृत्तेरनन्तरमङ्कुरं प्रादुर्भवति । नन्वेवमपि परापरेषु बीजादिक्षणेषु"तदेवेदमि"ति प्रत्यभिज्ञा नोपपद्यते । अपि च प्रत्यभिज्ञाप्रत्यक्षविरोधे कथमनुमानमात्मानं लभत इत्यपि न वाच्यम् । १०३७आत्मलाभे वा बह्नावपि शैत्यानुमानप्रसङ्गः । समाधिरभिधीयतेये ते क्षणाः, तेषामात्यन्तिकं भेदं सुसदृशतया दृष्टमपि प्रत्याकलायितुमनीशस्य भेदग्रहणनिबन्धनोऽभेदव्यवहारः१०३८ प्रवर्तते, शुक्तिकायामिव रजतव्यवहारः । न चानुमानोदयिविरोधः, अर्थक्रियाया अन्यथानुपपत्तेः । प्रत्यभिज्ञा तु भेदाग्रहणेनाप्युपपद्यत इति निरवद्यम् । अत एव च वृद्धा वदन्ति"भवति च प्रत्यक्षादप्यनुमानं बलीय" इति । युक्तञ्चेदमेव पश्यामः । "तदेवेदमि"त्येकविज्ञानोदये१०३९ कारणाभावात्१०४०, इन्द्रियं सन्निहिते व्याप्रियते, न पुनः पूर्वकालसम्बन्धिता१०४१ ऊपां तत्तमुपस्पृशति, पूर्वानुभवभाविता च भावना नेदन्तामपरकालयोगात्मिकामिति । तदिदं ज्वालाप्रत्यभिज्ञानेन व्याख्यातम् । अपि च कृतकानां भावानामवश्यम्भावी विनाशः प्रतीयते । अतोऽपि शक्या क्षणभङ्गितानुमातुम् । तथाहियद्येषां ध्रुवभाविनी, तत्र तेषां हेत्वन्तरापेक्षा नास्ति । ध्रुवभावी च कृतकानां विनाश इति, विरुद्धव्याप्तोपलब्धलिङ्गकमनुमानं विनाशस्य हेत्वन्तरापेक्षितां प्रतिक्षिपित । ध्रुवभाविता हि निषिध्यमानहेत्वन्तरापेक्षित्वविरुद्धनिरपेक्षत्वव्याप्तोपलब्धा१०४२ विनाशस्य हेत्वन्तरानपेक्षितामुपस्थापयति । सा च स्वविरुद्धं हेत्वनतरापेक्षित्वं निराकरोति । ये हि हेत्वन्तरपेक्षाः, ते ध्रुवभाविनो न भवन्ति । यथा वाससि रागादयः । अतो हेत्वन्तरोपक्षित्वविरुद्धतन्निरपेक्षत्वव्याप्तध्रुवभावित्वस्य योपलब्धिः, सैवाध्रुवभावित्वस्यानुपलब्धिः । अध्रुवभावित्वस्यानुपलब्धेः, विनाशस्य हेत्वन्तरापेक्षा नास्ति । तथा यदि भावा अपि स्वहेतुभ्यो हेत्वन्तरं विनाशं प्रत्यपेक्षेरन्, ततस्तस्य हेत्वन्तरस्य सन्निधाननियमे प्रमाणाभावात्, कश्चित्कृतकोऽपि न विनश्येत् । स्वहेतोस्तु विनश्वरस्योदयेऽनन्तरमेवापवर्ग इति, क्षणभङ्गुरत्वसिद्धिः । अपि चेदं चिन्तनीयम्, किं कृतका भावास्स्वहेतुभ्यस्समुपजायमाना विनश्वरस्वभावा एव जायन्ते ? अविनाश्वरस्वभावा१०४३ वा ? विनश्वरस्वभावा उदयानन्तरमेव लीयन्त इति क्षणभङ्गिनः । अविनश्वरस्वभावास्तु न कदाचिद्विनश्येयुः । न च हेत्वन्तरात्तेषां १०४४ इनाशः, विकल्पासहत्वात् । स हि जायमानो वनाशो भावादव्यतिरेकी ? व्यतिरेकी वा । न तावदव्यतिरेकी, हेतुभेदात् । व्यतिरेकिणि तु जाते, भावस्य प्राग्वदुपलब्ध्यादिप्रसङ्गः । तेन तिरोधीयत इति कल्पनायामपि, तिरोधानं प्रत्येषं विकल्पो वाच्य१०४५ इत्यलमतिप्रसङ्गेन । एकदेशिमतेन क्षणिकत्ववादनिरासः । अत्र१०४६ केचिदेवं समादधति"तदेवेदमि"ति तत्तेदन्ते परस्परं संवलिते समाकलयदेकं प्रत्यभिज्ञासमाख्यातं प्रत्यक्षविज्ञानं क्षणभङ्गानुमानं निरुणद्धिइति । १०४७ अ चेदं समीचीनम् । द्वे एते विज्ञाने ग्रहणस्मरणरूपे यथायथं तत्तामात्रे, इदन्तामात्रे च व्याप्रियमाणे नालमुभयानुभवसम्भवसमयवर्तितामर्थस्यावभासयितुम्, प्रतीतिविरोधात् । यर्थैव खल्वभिन्नदेशकालं वस्त्वेकतया चकास्ति, तथा भिन्नदेशकालमप्येकतयैव परिस्फुरतीति, तथाविधसंवेदनोदयश्च नैकविज्ञानमन्तरेणेति, एकमेवेदं विज्ञानमुररीकरणीयम् । कार्यसद्भावोपपादनायाप्रतीतमपि कारणं परिकल्पनीयम्, न पुनः कारणमुखनिरीक्षणेन स्पष्टदृष्टकार्यविपर्ययः पर्यालोचनीयः । तेन यद्यपि कवलादिन्द्रियात्, केवलात्पूर्वानुभवसमासादितजन्मनो भावनाभिधानात्संस्काराद्वा नैवंविघमिदं विज्ञानुमुदेतुमर्हति । तथापि तयोरन्योन्यसमवधानसमासादितदशान्तरयोरिदं कार्यमित्याचार्या१०४८ मेनिरे ॥ न चेदमप्युचितम् । प्रत्यक्षमेवेवेदं न भवतीति, सत्यपि संस्कारोपयोगे, इन्द्रियव्यापाराधीनजन्मतयास्य प्रथमसमागमसमयभाविनस्सकलवादिनामपहस्तितविवादानां प्रत्यक्षसम्मतादविशेषात् । न चेदं प्रमाणाभासमित्यत्र किञ्चन प्रमाणमस्ति, बाधकारणदोषविषयसंवेदनान्तरविरहात् । न चेदमेवानुमानं बाधकमिति चित्तमनुरज्यते, परस्पराश्रयदोषसमासक्तेः । यावत्खल्वेतद्विज्ञानमबाधितम्, तावदनुमानमेव नोदेतुं प्रभवति, सञ्जाते चानुमाने बाधितामिदं भवतीति, विशदतरमितरेतराश्रयत्वम्१०४९ । अबाधितविषयता१०५० चापि कारणमनुमानोदये, अन्यथा हुतवहे शीतता किमिति नानुमीयते । नन्वेवं तर्हि कथं ज्वालादीनामेकत्वेनावधारितानामनुमानतो भेदसिद्धिः । भाट्टमतेन वस्तुनो द्व्यात्मकतोपन्यासः । अत्र सिद्धान्तसारमुदीरयन्तिसमान्यविशेषात्मकानि सर्ववस्तूनि । तत्र ज्वालादिषु प्रत्यक्षं सामान्यविषयम्, अनुमानन्तु विशेषविषयमिति, भिन्नगोचरप्रचारिणोः प्रत्यक्षानुमानयोर्विरोधाभावात्, न प्रत्यक्षेणानुमानोदयविरोधः । कथं पुनरक्षणिकस्यार्ऽथक्रियाकारिता ? क्रमेणेति वदन्ति । स खलु सहकारिसमवधानोपहितविशेषां भावस्तां तामर्थक्रियां क्रमेणैव समपादयति । ननु विकल्पितंसहकारिभिः किं व्यतिरिक्तः, अव्यतिरिक्ते वा विशेष आधीयत इति, दूषणानि चेह विकल्पयुगले पूर्वमावेदितानि । १०५१ त्रापि त एव प्रक्रियामनुक्रमयन्ति । नेदमस्मन्मतमेकान्ततोभिन्नन्येव सर्ववस्तूनि, अभिन्नानि १०५२ एति, किन्तु सर्वभावेषु भेदाभेदौ सङ्गिरामहे । तत्र भेदमात्रविकल्पसम्भवीनि१०५३ दूषणान्यभेदाश्रयणेन परिहृतानि, अभेदमात्राश्रितानि चभेदावलम्बनेनेति । नन्वेतौ भेदाभेदौ कथमेकत्र विरोधिनौ निविशेते ॥ तत्राऽहुः नेमौ विरोधिनौ, सहदर्शनात् । सहानवस्थानलक्षणो हि विरोधः, अनवस्थानञ्चादर्शननिबन्धनम् । अतो नास्ति विरोधः । तन्निरासः । १०५४ अदिदमविचारितरमणीयमिति १०५५ रभाकरगुरोर्नानुमतम् । स हि ददर्शभेदाभेदावेव तावदेकत्र न सम्भवतः, विरोधात् । न ह्वि तयोस्सहदर्शनमुपपद्यते । एकाकारप्रतीतिरेव खल्वभेददर्शनम्, विलक्षणाकारप्रतीतिश्च भेददर्शनम् । तत्र यद्येकाकारा प्रतीतिः, तदा विलक्षणाकारप्रतीतिर्नास्ति । विलक्षणाकारे च प्रतीते, एकाकारप्रतीतिरेव नास्ति । तेन भिन्नाभिन्नविशेषाश्रयणेनार्ऽथक्रियासमर्थनं न घटत१०५६ इति । न च प्रत्यभिज्ञानेनानुमानविरोधः,१०५७ प्रत्यभिज्ञाया एव परीक्षणीयत्वात् । दृष्टाशुक्तिकायां "तदेवेदं रजतमि"ति मतिः । सा च सादृश्यवशेन भेदाग्रहणनिबन्धनैवेति युक्तात्रापि परीक्षा । तत्र परीक्ष्यमाणस्यार्थक्रियानुपपत्त्या क्षणिकत्वे निर्णीते, १०५८ अदृशपरापरोत्पत्तिविप्रलम्भोऽयमिति निश्चीयते । भवति च विमृशतोऽपि१०५९ दिङ्मोहादिष्वनुमानवशेन जाताया अपि प्रतीतेर्विपर्ययः । हुतवहादिषु चौष्ण्यप्रतीतिरुपजाता परीक्ष्यमाणापि नान्यथोपपद्यते इति, न विपर्ययानुमानोदयः । तस्मादलमनेन १०६० अञ्चनादर्शनेनातिनिर्बन्धेन१०६१ । सिद्धान्तः । १०६२ अम्भीरतरगुरुदर्शनसागरपारदृश्वानस्तु सम्प्रति समाधिमभिधतिस्तम्भादिषु प्रथममनुभूतेषु पुनरन्तरा तिरोधानादिवशेन विच्छिन्नोपलम्भेषु पुनरनुभवतः"स एवायमि"ति तावज्जायते मतिः । तत्र यद्यर्थक्रिया स्थिरादपि कथञ्चिदुपपद्यते, ततो भेदाग्रहणनिबन्धनोऽयमभेदव्यवहार इति किमिति कल्प्यते । उपपद्यते च स्थिरादपि भावात्सहकारिवशोपजातागन्तुकक्रियादिरूपविशेषभाजः क्रमेणार्ऽथक्रिया । स च विशेषो व्यतिरिक्त एव भावादर्थक्रियाकारिणः । न च स एवार्ऽथक्रियाकारी, भावस्तूदास्त इति चतुरस्त्रम् । तथाविधविशेषालीढतैव तस्य साधनता, यदनन्तरमर्थक्रियोदयः, तद्विशेषयोगितयैव भावेषु साधनतवव्यवहारो लौकिकानाम् । कथं पुनरसौ विशेषस्तस्येति व्यपदिश्यते, तदाश्रयतयैवानुमानात् । कथं पुनस्तदाश्रयतैव । स्वहेतुवशेनेति मतवा निवर्ततां भवात्, अलमस्माभिर्दूरमनुयातैः । अथ कस्माद्भावस्यैव भेदो नानुमीयते, प्रत्यभिज्ञानानुगुण्यादिति वदामः । दृष्टानुसारि चानुमानमुचितम्, दृष्टोपपत्तिमुखत्वात् । यथा चार्ऽथक्रिया दृश्ते,१०६२ तथेदमपि दृश्यते स्थावरो भाव इति, तदनुगुणमनुमानमुचितम् । तेन स्थावरेऽप्यर्थक्रियाव्यापकक्रयौगपद्यानिवृत्तेरसिद्धो व्यापकानुपलम्भः, १०६३ अदसिद्धौ च विपर्यये बाधकाभावात्, असिद्धतन्मात्रानुबन्धिनीं क्षणिकतां न सत्ता साधयितुमलम्, अनैकान्तिकत्वादिति । न चार्ऽथक्रियाकारितैव सत्ता, किन्तु १०६४ रमाणसम्बन्धयोग्यता । यतस्स्वरूपसत्ता च प्रमाणसम्बन्धयोग्यता । अतोर्ऽथक्रियामकुर्वन्नपि सन्निति, न किञ्चिदवद्यम् । यत्त्विदमुदितमनपेक्षा भावा विनाशं प्रतिइति । तदपि विमृश्यमानं १०६५ दह्यमानं जातुषमिवाऽभरणं विलीयते१०६६ । कं खलु भवन्तो विनाशमभिमन्यन्ते ? प्रध्वंसाभावो विनाश इति चेत्कः पुनः प्रध्वंसाभावः ?"दध्नि क्षीरं नास्तीस्त्ये" वमादिका भावविषया संविदिति वद्युच्येत, तदामृतकलायामुदिता नीतिरुद्धरणीया१०६७ । न हि नास्ती"ति बुद्धिरस्ति । किन्तु दधिस्वरूपमात्रानुभव एव स्वयम्प्रकाशे नञ्शब्दप्रयोगमात्रमेव, सैव हि पयसो नास्तिता, या दृश्येऽपि तस्मिन् दधिस्वरूपमात्रोपलब्धिः । न च तां प्रति पयस एव निरपेक्षस्य हेतुता, अनुपनिपतिते हेत्वन्तरे, पयस एवोपलब्धे । न चेदं पयोनतरमुपलभ्यत इति शक्यं वक्तुम् । प्रत्यभिज्ञानस्याभेदसाधकत्वात् । ननु च हेत्वन्तरापेक्षित्वे ध्रुवभाविता नोपपद्यते । ध्रुवभाविता नोपपद्यते । ध्रुवभावितैव कुतोऽवगम्यते ? दर्शनादिति चेत्? हेत्वन्तरेणाप्यवश्यं भवितव्यमिति, दर्शनादेवावगम्यताम् । न च बाला वयं१०६८ येनैवंविधवादाद्भीषयामहे । यत्पुनरिदं स्वहेतुभ्यो भावानामपि नश्वराणामुत्पत्तौ, हेत्वन्तरायत्ते विनाशे, व्यतिरेकिणि जातेऽपि पूर्ववत्भावस्योपलब्ध्यादिप्रसङ्ग इति । अत्रोच्यतेउक्तमस्माभिःयथा तन्मात्रोपलब्धिरेव विनाश इति । तेन तस्या हेतुसद्भावात्तयैव भवितव्यम् । अनुपलब्धिरपितस्य सैवेत्यनुपलब्धिरेव तस्य नोपलब्धिः, तन्निबन्धनश्चाभावव्यवहारोऽपीति सर्वमनाकुलम् । सुगताशीविषविषमक्षणभङ्गविषानलावलीढसायाः । मीमांसायां विहिता१०६९ मर्ममयी जीवरक्षेयम् ॥ १ ॥ इति महामहोपाध्यायश्रीशालिकानाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां मीमांसाजीवरक्षा नाम दशमं प्रकरणं समाप्तम् ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ ড়ाऋईCCःEडा १ ११_१ सवृत्तिकाया वाक्यार्थमातृकाया उपोद्घातो नाम प्रथमः परिच्छेदः । १०७० अम्भीरविततमर्थं वाचा संक्षिप्तया निबद्धमपि । न विदन्ति ये समग्रं कृपया तदनुग्रहः क्रियते ॥ १ ॥ १०७१॥ तत्र कार्यवाक्यार्थवादिन एव भावम्, भावनाम्, अपूर्वञ्च वाक्यार्थान् प्रतिजानते । तत्रापूर्वमेव वाक्यार्थ इति साधनीयम् । तस्य मूलं पदानामन्विताभिधायेतेति, तामेव तावदादौ परिशोधयति । १०७२ त्र ये प्रत्यस्तमितपदविभागम्, वाक्यमेव वाक्यार्थस्य वाचकमित्याचक्षते । १०७३ ए च वाक्यान्त्यवर्ण एवेति,१०७४ ये च पदैरनन्विताः पदार्था अभिहिताः पदार्था अभिहिताः परस्परान्वयमात्मनोऽवगमयन्तिइति । तन्निरासाय प्रतिजानीते पदेभ्य एव वाक्यार्थप्रत्ययो जायते यथा । तथा वयं निबध्नीमः प्रभाकरगुरोर्मतम् ॥ १ ॥ पदेभ्य एव, न वाक्यात्, नाप्यन्त्यवर्णात्, नापि पदार्थेभ्य इत्यर्थः ॥ १ ॥ तं प्रकारं वक्तुमुपक्रमते पदेरेवान्वितस्वार्थमात्रोपक्षीणशक्तिभिः । स्वार्थाश्चेद्बोधिता बुद्धो वाक्यार्थोऽपि तथा सति ॥ २ ॥ वाक्यार्थप्रतिपत्तौ हि पदानामनुपायत्वे तदन्यथानुपपत्त्या, वाक्यमेकं तदुपायभूतं कल्प्यते । यद्यपि व्युत्पत्त्यनपेक्षाच्छब्दादर्थो नावगम्यते । यद्यपि चाऽनन्त्याद्वाक्यानाम्, तदर्थानाञ्च, वैदिकस्य चार्ऽथस्यानन्योपायत्वात्व्युत्पत्तिरशक्या । तथापि काल्पनिकपदपदार्थव्युत्पत्तिसंस्कृतात्वाक्याद्वाक्यार्थमवगच्छतीत्याश्रीयते । यदि काल्पनिकत्वे पदपदार्थानां प्रमाणाभावादेकैकवर्णोच्चारणेर्ऽथानवबोधात्, क्रमेणोच्चारितानाञ्च युगपच्छवणासम्भवात्, पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णः प्रत्यायकः, तस्य च पारमार्थिकपदपदार्थव्युत्पत्तिस्सहकारिणीति पक्षस्स्वीक्रियते, यदि वा पदैस्सुकरव्युत्पत्तयोऽनन्विता एव स्वार्था अभिहिता वाक्यार्थमवबोधयन्तीत्यङ्गीक्रियत, यदि तु पदान्येवान्वितान्स्वार्थानभिदधतीति शक्यते साधयितुम्, तदा वाक्यार्थस्यावबुद्धत्वान्नैताः कल्पना आत्मानं लभन्ते ॥ २ ॥ कथं पुनः पदानामन्वितस्वार्थमात्रबोधकत्वे वाक्यार्थावगतिस्सिद्ध्यतीत्यत्राऽह १०७५ रधानगुणभावेन लब्धान्योन्यसमन्वयान् । पदार्थानेव वाक्यार्थान् सङ्गिरन्ते विपश्चितः ॥ ३ ॥ ननु तेषां भूयस्त्वाद्भूयांसो वाक्यार्थाः, वाक्यानि च स्युरित्यत्राऽह भूयांसो यद्यपि स्वार्थाः पदानां ते पृथक्पृथक् । प्रयोजनतया त्वेकवाक्यार्थं सम्प्रचक्षते ॥ ४ ॥ तत्प्रतीत्येककार्यत्वाद्वाक्यमप्येकमुच्यते । कथं पुनरेकप्रयोजनत्वमित्यत्राऽह प्रतिपत्तिर्गुणानां हि प्रधानैकप्रयोजना ॥ ५ ॥ यद्धि प्रधानभूतं, तदेव कथन्नाम विशिष्टं प्रतीयतामित्येवमर्थं गुणानां प्रतिपादनम्, तेन तत्रैव तात्पर्यम्, तदेव प्रमेयम्, तात्पर्यविषय एव शब्दस्य प्रामाण्याभ्युपगमात्, तस्य तथाभूतस्य प्रतिपत्तिर्नैकपदनिबन्धनेति, वाक्यमेव तत्र प्रमाणम् । अत एव च "१०७६षष्ठाद्ये न पदं नाम किञ्चन वाक्ये, न पदार्था नाम केचन वाक्यार्थे" [बृ. टी. ६११] इत्युक्तम् । पृथग्भूतं पदं नाम न किञ्चन प्रमाणमस्ति । पृथग्भूताश्च पदार्थाः, न प्रमेयास्सन्तीत्यर्थः । एतच्च तत्रैव स्पष्टमुक्तम् ॥ ५ ॥ १०७६ ॥ सम्प्रति वाक्यमेव वाचकं वाक्यार्थस्येति ये ब्रुवते, १०७७ ए च वाक्यान्त्यवर्ण एवेति । तन्निराकरणायाऽह व्यवहारेषु वृद्धानां वाक्यश्रवणभाविषु । आवापेद्धारभेदेन पदानां शक्तिनिश्चयः ॥ ६ ॥ यद्यपि वृद्धव्यवहारपूर्विकैव सर्वा शब्दव्युत्पत्तिः, वाक्यैरेव च व्यवहारः । तथापि यत्पदावापे यस्यार्ऽथस्याऽवापः, यदुद्धारे चोद्धारः, तस्मिन्नेवार्ऽथे तस्य पदस्य वाचकशक्तिरवसीयते । न च तथा सति वाक्यार्थप्रतिपत्तिर्नोपपद्यते, वक्ष्यमाणत्वान्न्यायस्य । येन कार्यबलेन वाक्यमेकं प्रत्यक्षपरिदृश्यमानवर्णपदभेदापह्नवेन कल्प्येत । १०७८ इञ्च, "शिशो ! गामानय, शिशो ! गां बधान, वत्स ! गामानय, वत्स ! गां बधान, अर्भक ! गामानय, अर्भक ! गां बधान, डिम्भ ? गामानय, डिम्भ ? गां बधाने"त्यष्टानां वाक्यानामष्टौ वाचकशक्तयः कल्प्याः । पदवादिनस्तु, सप्तानां पदानां सप्तैव शक्तय इति कल्पनालाघवम् । अनयैव दिशा शुक्लामिति पदप्रेक्षेपे वाक्यवादिनोऽष्टावपराः कल्प्याः, १०७९ अदवादिनस्त्वेकैव । अपारमार्थिके च १०८० अदपदार्थविभागे किमाश्रिता व्युत्पत्तिरभ्युपायतामुपैतीत्यपि चिन्तनीयम् । ये पुनःवाक्यान्त्यवर्णस्य वाचकतामाहुः, तन्मतेऽपि तावत्पदार्थविभागस्य पारमार्थिकत्वात्घटेतैव व्युत्पत्तिः । ननु वाच्यवाचकसम्बन्धग्रहणमेव व्युत्पत्तिरित्युच्यते । न च वाक्यान्त्यवर्णवाचकत्ववादिनां पदं पदार्थस्य वाचकम् । अतस्तन्मतेऽपि निर्विषयैव व्युत्पत्तिः । उच्यते । न निर्विषया, निमित्तनैमित्तिकभावस्याभ्युपगतत्वात् । केयमवाचकस्य निमित्तता ? नैष दोषः । वाक्याद्धि यत्पदप्रयोगे१०८१ सति, यत्पदार्थान्वितो वाक्यार्थः प्रतीयते, तत्पदं तस्यार्ऽथस्यावाचकमपि भवति निमित्तम् । किन्तु तन्मतेऽपि शक्तिकल्पनागौरवं पूर्वोक्तन्यायेन तुल्यमेव ॥ येऽप्याहुःवाक्यमेव स्मृत्यारूढं वाक्यार्थं प्रतिपादयतीति, तेषामपि प्राच्यमेव शक्तिकल्पनागौरवलक्षण१०८२ दूषणमशक्यपरिहारम् । १०८३ हाष्यकारवचनञ्च "पूर्ववर्णनितसंस्कारसहितोऽन्त्यो वर्णः प्रत्यायकः" [शा. भा. पृ. ४६] इति निर्विषयम् । अशक्यञ्च महावाक्यस्य सकृत्स्मरणम् । तस्मात्पदानामेव वाचकशक्तिराश्रयणीया । अत्र केचिच्चोदयन्तिननु वृद्धव्यवहारप्रयुक्ते वाक्ये पदानां वाचकशक्त्यवधारणमेव नोपपद्यते । पुरुषवाक्यनामर्थं प्रति लिङ्गभावेन प्रमाणत्वाभ्युपगमात् । वाक्याद्धि कार्यभूतात्प्रतीतस्य वक्तुस्तदर्थविषयं पूर्वविज्ञानं १०८४ आरणभूतमनुमीयते । तस्य व ज्ञानस्य ज्ञेयाव्यभिचारित्वात्ज्ञेयभूतार्थनिश्चय इति, न वाचकशक्त्यवगमः । उच्यते । न नूनं भवान् १०८५ ईतिपथोक्तमर्थं सम्यगाकलयति । परिहृतं हि तत्रेदम्बालो हि व्युत्पद्यमानः प्रयोज्यवृद्धस्य शब्दश्रवणसमनन्तरभाविनीं विशिष्टचेष्टानुमितामर्थप्रतीतिं शब्दकारणिकामवगच्छति । स तथा व्युत्पन्नः कदाचित्कस्यचिदनन्वितार्थपदरचनं वाक्यमुपलभते, तथोपलभमानस्य चैव विमार्शो जायतेसम्भाव्यमानानन्वितार्थपदरचनमिदं वाक्यं कथं प्रयोज्यवृद्धस्य अर्थनिश्चयं कृतवत्? वृद्धस्यापि पुरुषायत्ते वाक्येऽनन्वितार्थपदरचनशङ्का ममेव सम्भवतीति । तस्यैवं विचिकित्सोदये पुनरेष निश्चयो जायते नूनमनेनायं प्रयोक्तेत्थमवधारितो यदन्वितार्थान्येव पदान्ययं प्रयुङ्क्तेइति । तथाविधापदप्रयोगनियमश्चास्यानुपलब्धेऽन्वये नोपपद्यते इत्येवमन्वयोपलम्भमनुमिमानेनान्वयो निश्चीयते । निश्चिते चान्वये वाक्यमेतदनुवादभूत१८६ मर्थस्येति । एवञ्चेदनुवादकतया तस्यार्ऽथस्य तद्वाक्यं वाचकमेवेति, पूर्ववाचकशक्तिज्ञानं नायथार्थमिति मन्यते । यदि परं मया प्रागनुमानपुरस्सरोर्ऽथनिश्चोऽस्येति नावगतम् । यापि चेयमर्थस्यानिश्चितेऽन्वये विशिष्टवक्तृज्ञानानुमा, सापि पदानां स्वरूपमात्रावगमादेव नोपपद्यते, किनतु विशेषावगमात् । न च शक्तेरन्यः पदानां विशेषोऽवगम्यते । ततो मयेवानेनापि पदानां वाचकशक्तिरवधारिता । तेन विशिष्टान्वयवाचकपदप्रयोगात्तद्विषयं वक्तुः पूर्वज्ञानमनुमितवान्, इति गम्भीरोऽयं नीतिमहाह्वदः । अन्विताभिधानानुपपत्तिशङ्का । अत्र १०८७ एचिदाचक्षतेभवतु पदानां पदार्थेषु शक्तिज्ञानम्, तथाप्यन्विताभिधानं न सिध्यतिइति । तथाहिप्रतियोगिनामनन्ततया अन्वयानामानन्त्यात्, तदानन्त्ये चान्वितानामप्यानन्त्यात्सम्बन्धग्रहणं दुष्करम् । अगृहीतसम्बन्धस्य च पदस्य वाचकत्वे, एकस्माच्छब्दात्सर्वार्थप्रतीतिप्रसङ्गः१०८८ । सामान्यान्वयाभिधानञ्च नाऽशङ्कनीयमेव, वाक्येभ्यो विशेषान्वयावगमात् । स्वरूपमात्राभिधानेनापि च वाक्यार्थप्रतिपत्त्युप१०८९ पत्तावन्विताभिधानाश्रयणे शक्तिकल्पनागौरवम्१०९० । तथा१०९१ पदेनान्वितस्स्वार्थोऽभिधीयमानःकिमभिहितेन पदार्र्थान्तरेणान्वितोऽभिधीयते ? उत, अनभिहितेनेति ? विकल्पनीयम् । अनभिहितेन चेत्, १०९२ अदान्तरप्रयोगवैयर्थ्यम् । एकस्माच्च १०९३ अर्वान्वयप्रतीतिप्रसङ्गः । अभिहितेन चेत्, तदपि तर्हि पदमन्विताभिधायितया १०९४ अदान्तरोपात्तमर्थमभिधानायापेक्षतैति, इतरेतराश्रयः प्राप्नोति । तस्मात्पदान्तराभिधानानपेक्षस्वरूपमात्राभिधानमेवार्ऽथानां पदैः क्रियते । ते च तथाभूताः पदैरभिहिताः पदार्था आकाङ्क्षासन्निधियोग्यतावन्तो वाक्यार्थमवगमयन्ति । न तेषां सम्बन्धग्रहणापेक्षा शङ्कनीया । यतः पदधर्मोऽयम्, नायमर्थधर्मः । तदाह भाष्यकारः "१०९५ अदानि हि स्वं स्वमर्थमभिधाय निवृत्तव्यापाराणि । अथेदानीमवगतास्सन्त वाक्यार्थमवगमयन्ती" [पू. मी. १. १. २५.] ति ॥ ६ ॥ तदेतन्निराकर्तुमुपक्रमते ओप्यन्ते, चोद्ध्रियन्ते च स्वार्था अन्वयशालिनः । अन्वितेष्वेव सामर्थ्य पदानां तेन १०९६ अम्यते ॥ ७ ॥ तत्रैव वार्तिकमतेन शङ्का । अत्राऽहसत्यमन्वितपदार्थविषयावेवाऽवापोद्धारौ, तथाप्यन्विताभिधानमशक्यम् । पारम्पर्येणापि तदुपपत्तेः । तथाहिपदैरनन्वितोऽप्यभिहितोर्ऽथोऽन्वितार्थप्रतिपत्तेर्निमित्तं भवतीति, पदानां पारम्पर्येणान्वितेष्वपि हेतुत्वम् । तदाहुर्वार्तिककारभिश्राः "न विमुञ्चनित सामर्थ्यं वाक्यार्थेऽपि पदानि नः । तन्मात्रावसितेष्वेषु पदार्थेभ्यस्स गम्यते" ॥ [श्लो. वा. अधि. ७. श्लो. २२९] इति । पदार्थप्रतिपादनञ्च वाक्यार्थप्रतिपत्तये प्रयुक्तानां पदानामवान्तरव्यापार इति च, तेषामेव व्यवहारः "वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां १०९७ अदार्थप्रतिपादनम्" ॥ [श्लो. वा. अधि. ७. श्लो. ३४३.] इति । एतामाशङ्कामुपेक्ष्यैव तावद्दोषान्तरं परिहरति आकाङ्क्षासन्निधिप्राप्तयोग्यार्थान्तरसङ्गतान् । स्वार्थानहुः पदानीति व्युत्पत्तिस्संश्रिता१०९७ यदा ॥ ८ ॥ आनन्त्यव्यभिचाराभ्यां तदा दोषो न कश्चन । यत्तावदुक्तमानन्त्याच्छब्दशक्त्यवधारणानुपपत्तिः, अगृहीतशक्तेश्च वाचकत्वे व्यभिचारप्रसङ्ग इति । तदनुपपन्नम् । उपलक्षणाश्रयणेनापि १०९८ अम्बन्धबोधः, सौकार्यादाकाङ्क्षितेन योग्येन सन्निहितेन चान्वितं स्वार्थं पदं वक्तीति व्युत्पत्तिराश्रीयते । तेन १०९९ अद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तदन्वितः पदेनार्ऽथस्स्वकीयः प्रतिपाद्यते ॥ इति संग्रहश्लोकः । आकाङ्क्षविषये न्यायमतोपन्यासनिरोसौ । का पुनरियमाकाङ्क्षा ? प्रतिपत्तुर्जिजासा । किन्निबन्धना पुनरसौ ? ११०० विनाभावनिबन्धनेति केचित् । क्रिया हि कारकाविनाभाविनीति तां प्रतीत्य, कारकं जिज्ञासते, एवं कारकमपि बुध्वा, क्रियामिति । ११०१ अदयुक्तमिति मन्यामहे ?, जिज्ञासाविरामानुपपत्तेः । तथाहियदा तावत्कारकजिज्ञासा, तदा तदीयजनकतद्गुणतत्क्रियातत्कारकान्तरादिजिज्ञासाप्यापद्यते । अथ प्रयोजनाभावात्कारकातिरिक्तमन्यन्न जिज्ञास्यते, तर्हि क्रियामात्रावगमेऽपि यत्र कारकज्ञानेन प्रयोजनं नास्ति, तत्र जिज्ञासा न स्यात् । अनुष्ठेय तया हि क्रियायामवगतायां कारकमन्तरेण तदनुष्ठानानुपपत्तेः, कारकज्ञानं न प्रयोजनवत् । वर्तमानापदेशादौ त्वननुष्ठेयतया नास्ति न कारकज्ञानेन प्रयोजनम् । अथ च यत्रापि वाक्यमपरिपूर्णं मन्यन्ते, साकाङ्क्षार्थाभिधायितया चापरिपूर्णता । अत एव तत्राध्याहारमपि कुर्वन्ति । यत्रापि चानुष्ठेयक्रियावगमः, तत्रापि निश्शेषकारकजिज्ञासा स्यात् । यथादेवदत्त ! "गामानये"ति ११०२ अरणानुपादानादपरिपूर्णता स्यात् । अथैककारकज्ञानेनापि तावदनुष्ठानोपपत्तेर्न कारकान्तरजिज्ञासा, तर्हि देवदत्त ! "गामानय दण्डेने"ति प्रयुक्तेऽपि दण्डशब्दे, तदाकाङ्क्षा न स्यात् । ततश्च अनाकाङ्क्षितत्वात्तस्य, तदन्वयो न स्याद्वाक्यार्थे । अथ दण्डपदोच्चारणात्तत्राऽकाङ्क्षा परिकल्प्यते । ११०३ न्यथा दण्डपदार्थस्यानन्वये तत्पदोच्चारणमनर्थकं स्यात् । एवम "प्यरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै. सं. ६.१.९] त्यत्राप्यनन्वयप्रसङ्गः । न हि वेदपदोच्चारणेनानर्थकेन न भवितव्यमिति किञ्चन प्रमाणमस्ति, अतो न तत्राऽकाङ्क्षोदये किञ्चित्कारणमस्तीति, "सोमं क्रीणाती"त्यतोऽधिकस्यानन्वितता स्यात् । अपि च लौकिकत्वात्क्रियाकारकयोः, यत्किञ्चित्क्रियाकारकोपादानेऽपि तत्सिद्धेरविघातान्नऽतीव विशेषजिज्ञासा घटते । अज्ञाते हि ज्ञानेच्छा घटते, न पुनर्ज्ञातेऽपि । स्वमतेनाऽकाङ्क्षाकथनम् । ११०४ त्रोच्यतेअभिधानापर्यवसानम्, अभिधेयापर्यवसानञ्च जिज्ञासोदये निबन्धनम् । एकपदप्रयोगे हि ११०५ वारमित्यादावभिधानमेव न पर्यवस्यति । न ह्यनुच्चरिते प्रतियोगिसन्निधापके११०६ पदेऽन्विताभिधानं शक्यते वक्तुम् । वृद्धव्यवहारवशेनान्वितार्थप्रतिपादनपरता पदानामवधारितेति, तदर्थं युक्तैव प्रतियोगिजिज्ञासा । यस्याप्यभिहितान्वय इति राद्धान्तः, तन्मतेऽपि पदार्थस्य ११०७ अदार्थान्तरमन्तेरणान्वयासामर्थ्यात्, तदुपपत्तये युक्तैव ११०८ रतियोगिजिज्ञासा । तस्याञ्च सत्यामपरिपूर्णवाक्यपरिपूरकतया लोकेऽध्याहारस्य११०९ १११० इदितत्वात्, प्रकरणादिवशेन योग्यप्रतियोग्यध्याहारः क्रियते । "अमावास्यायामपराह्णे पिण्डपितृयज्ञेन चरन्ती" [आ.श्रौ.१.३.७.सू.१.२.] त्यादिष्वनेकपदप्रयोगादन्विताभिधानेऽपि, अभिहितस्नय कार्यस्यापूर्वात्मनोऽनुष्ठानं विना कार्यत्वानुपपत्तेः, कर्त्रा च विना तदसम्भवात्, अधिकारादृते च तदयोगात्, नियोज्यमन्तरेण चतस्यानवकल्पनात्, तदुपपत्तये युक्तैव तदन्वययोग्यनियोज्यजिज्ञासा । तस्यां सत्यामपरिपूर्णत्वावगमात्, लोकवदध्याहारे कर्तव्ये सत्यपि, ११११ ईवनस्याऽवश्यकत्वेऽन्तरङ्गत्वे च १११२ इधेरनुष्ठानाक्षेपो न कल्पेतेति, तत्परित्यागेन काम्ये नियोज्यविशेषणे स्थिते सर्वकामिपुरुषव्यापिस्वर्गस्यैव नियोज्यविशेषणत्वयोग्यत्वात्, स्वर्गकामो नियोज्योऽध्याह्वियते । १११३ अथाध्ययनविधावन्यप्रयुक्तानुष्ठाननिर्वाहितकार्यभावे नियोज्यो नाध्याह्वियते । १११४ लौकिकत्वाच्चापूर्वे कार्ये नियोज्यस्याध्याहारमन्तरेणाऽकाङ्क्षा न निवर्तते । अलौकिकत्वादेव च "सौर्यं चरुं१११५ निर्वपेत्घृते शुक्लानां व्रीहीणां ब्रह्मवर्चसकामः" [मै. सं. २. २. २] इत्यादौ करणोपकारमन्तेरण विधेस्सिद्ध्यसम्भवात्तज्जिज्ञासा, तज्जनकपदार्थजिज्ञासा च । अत एव तदभावे भाष्यकारो वाक्यानां १११६ यूनतामाशङ्क्य परिहृतवान्१११७ । नन्वेवं तर्हि तत्र पदत्रयं प्रयुज्यते"गामानय शुक्लामि"ति लोके, तत्र हि कारकद्वयस्यासम्भवान्नाऽकाङ्क्षास्तीति कथमन्विताभिधानम् । "गामानयेत्ये" तावतैव परिपूर्णत्वाद्वाक्यस्य । सत्यम् । पदान्तरानुच्चारण एवम्, उच्चरिते तु तस्मिन्, तस्याप्यानयतिसन्निधानादेकवाक्यत्वावगमादानयत्यन्वितस्वार्थाभिधायित्वात्, आकाङ्क्षां विना च तदसम्भवात्, आनयतेराकाङ्क्षा परिकल्प्यते । तथा चोक्तं १११८ हाष्यकारेण "भवति च रक्तं प्रत्याकाङ्क्षे" [शा. भा. पृ. ११७.टति । तेनात्राप्यन्विताभिधानसिद्ध्यर्थमेवाऽकाङ्क्षा । यदि परमयं विशेषः, "द्वारमि"त्यादौ तस्यैव पदस्यान्विताभिधानायाऽकाङ्क्षा, "गामानय शुक्लामि"त्यादौ तु १११९ अदान्तरस्येति । अन्वितस्याभिधानार्थमुक्तार्थघटनाय वा । प्रतियोगिनि जिज्ञासा या साऽकाङ्क्षेति गीयते ॥ इति सङ्ग्रहश्लोकः ॥ सा चेयमाकाङ्क्षा ११२० हवन्ती व्युत्पत्तावुपलक्षणमाश्रीयते । किमिति पुनस्सन्निधियोग्यत्व एव ११२१ आऽश्रीयते, निराकाङ्क्षाणामन्विताभिधानादर्शनात् । "अयमेति पुत्रो राज्ञः, पुरुषोऽयमपनीयतामि"त्यादौ पुत्रपदसम्बन्धनिराकाङ्क्षो राजा न पुरुषेणान्वीयते । कस्मात्पुनरनयोः पुत्रपुरुषयोस्सन्निधियोग्यत्वाविशेषेऽपि पुत्रेणैव राज्ञस्सम्बन्धः, न पुरुषेण । उच्यतेवाक्यात्११२२ आक्यार्थप्रतिपत्तेर्न्यायसापेक्षत्वात्, नित्यसापेक्षेण पुत्रेणैव राजा सम्बध्यते, तत्सम्बन्धनिराकाङ्क्षश्च न पुरुषसम्बन्धमनुभवतीत्याकाङ्क्षापि व्युत्पत्त्युपलक्षणमाश्रीयते । परिपूर्णेन योग्यस्य समीपस्याप्यनन्वयः११२३ । व्युत्पत्तौ तेन शब्दानामाकाङ्क्षाप्युपलक्षणम् ॥ इति संग्रहश्लोकः ॥ सा चेयमाकाङ्क्षा प्रतियोगिषु सर्वेषु न सहसैवोपजायते, किन्तु कारणोपनिपातक्रमेण । तथाहिविषयमन्तरेणापूर्वं कार्यं प्रत्येतुमेव न शक्यत इति, प्रतिपत्त्यनुबन्धभूतविषयापेक्षा प्रथमं विधेः । अथ प्रतिपन्ने विषयसम्बन्धिनि विध्यर्थे, नियोज्यमन्तरेण तत्सिद्ध्यसम्भवान्नियोज्याकाङ्क्षा । तथा विषयीभूते भावार्थे करणे लब्धे, वैकृतापूर्वाणां करणोपकाराकाङ्क्षा, लब्धे च तस्मिन्, तज्जनकपदार्थाकाङ्क्षेति । तथा चाऽहु ः "प्रतियोगिषु सर्वेषु नाऽकाङ्क्षोदेति तत्क्षणात् । कारणोपनिपातानुपूर्व्येण तु यथायथम्" ॥ इति ॥ तत्क्रमेणान्विताभिधानमपि क्रमेणैव । श्लोकश्चात्र भवति जिज्ञासा जायते बोद्धुस्सम्बन्धिषु यथा यथा । तथा तथैव शब्दानामन्वितार्थाभिधायिता ॥ सन्निधिनिरूपणम् । अथ ११२४ अन्निधिः कः ? ११२५ अस्यार्ऽथस्य श्रवणानन्तरमाकाङ्क्षायोग्यताभ्यामर्थान्तरे बुद्धि विपरिवृत्तिः । सा च न शब्दनिबन्धनैव केवलमन्विताभिधानव्युत्पत्तावुपलक्षणम् ११२६ अध्याहृतेनापि लोके अन्विताभिधानदर्शनात् । न च वाच्यंशब्द एवाध्याह्वियते, सचार्ऽथमुपस्थापयतिइति, अनुपयोगात्, अप्रमाणकत्वाच्च । यद्यप्यर्थापत्तिप्रमाणकोऽध्याहारः, तथापि शब्दकल्पनमनुपपन्नम् । येन हि विनानुपपत्तिः, तदेवार्ऽथापत्तिप्रमेयम् । न चार्ऽथानां शब्दमन्तरेणानुपपत्तिः । स्यान्मतम् । अर्थकल्पनायैवार्ऽथापत्तिः प्रवर्त्तमानां तस्यार्ऽथस्य सविकल्पकज्ञानवेद्यत्वात्, सविकल्पकज्ञानानाञ्च शब्दपुरस्सरत्वात्पुरोवर्तिति शब्द एव पर्यवस्यतिइति । तदसत् । यथैव शब्दपुरस्सरेऽपि सविकल्पकज्ञाने लिङ्गस्य, इन्द्रियाणाञ्च निर्विकल्पकदशायामर्थ एवावधारितशक्तित्वान्न शब्दमात्रे पर्यवसानम्, तथा दृष्टार्थापत्तौ साक्षादुपपादकेर्ऽथ एवार्ऽथापत्तेः प्रामाण्याभ्युपगमात्, श्रुतार्थापत्तवपि तत्रैव तस्याः प्रामाण्यं युक्तम्, न शब्दे । तस्य साक्षादनुपपत्तिशमनासमर्थत्वात् । किञ्च सर्वत्र सविकल्पकज्ञाने शब्दस्स्मरणविपरिवर्ती न प्रमेयतां प्रतिपत्तुमर्हति । सविकल्पकल्पकज्ञानेषु पूर्वप्रतीयमानता च शब्दस्य नातीव प्रमाणवती, किन्त्वर्थप्रतीतावेव समानकालं शब्दस्मरणमिति प्रतीत्यारूढम् । तेन न श्रुतार्थापत्तिश्शब्दविषया । न च शब्दानुपपत्त्या शब्दकल्पनैवोचिता, तस्य स्वातेऽनुपपत्त्यभावात् । अन्विताभिधानानुपपत्त्या तु कल्पना प्रसरन्ती योग्यप्रतियोग्यर्थविषयैवावतिष्ठते, तस्यैवाऽकाङ्क्षितत्वात्, ११२७ अशमाद्यन्यायेन पदार्थवत्पूर्वप्रतीतस्यापि शब्दस्योपेक्षणीयत्त्वात् । न च "द्वारमि"ति यत्राध्याहारः, तत्राप्याव्रियताम्, संव्रियतामिति वा कल्पयितुमर्थापत्तेः प्रभविष्णुता, सामान्यकल्पनामात्रहेतुत्वात् । तस्मादपरिपूर्णपरिपूरकतया लोकत एवाध्याहारस्याप्युपपत्तिः११२८ । तत्र यौग्यतया, प्रकरणादिवशेन च विशेषावधारणादर्थ एव च परिपूरक इति, अनुपयोगी शब्दस्याध्याहारः । अतो विश्वजिदादौ नियोज्येन, सर्वत्र च करणोपकारेण, विकृतिषु च प्राकृतपदार्थैरशब्दोपस्थापितैरपि सिद्धमन्विताभिधानम् । आकाङ्क्षावच्च सन्निधावपि सन्निधापकक्रमेणैव क्रमो वेदितव्यः, तदनुसारेण चान्विताभिधानमपितथैवैति । सन्निधिश्शब्दजन्मैव व्युत्पत्तौ नोपलक्षणम् । अध्याहृतेनाप्यर्थेन लोके सम्बन्धदर्शनात् ॥ सहसैव न सर्वेषां सन्निधिः प्रतियोगिनाम् । सन्निधापकसामग्रीक्रमेण क्रमवानसौ ॥ यथा यथा सन्निधानं जायते प्रतियोगिनाम् । तथा तथा क्रमेणैव शब्दैरन्वितबोधनम् ॥ इति सङ्ग्रहश्लोकाः । अतो यथोक्ताकाङ्क्षासन्निधिप्राप्तमाकाङ्क्षितं सन्निहितं योग्यञ्च यत्पदार्थान्तरम्, तेन सङ्गतमित्यर्थः । योग्यतानिरूपणम् । किं पुररिदं योग्यत्वं नाम ? उच्यतेयत्११२९ अम्बन्धार्हम् । सम्बन्धार्हमिदमिति कथमवगम्यते, सम्बन्धित्वेन दृष्टत्वात् । नन्वेवं तर्हि कथमपूर्वे कार्येऽन्विताभिधानं वेदे, तेन सह कस्य चित्सम्बन्धस्यादर्शनात् । उच्यतेसामान्यतो योग्यतावधारणं विशैषप्रतित्तावुपाय इत्यदोषः । यदपि तदपूर्वम्, तदपि कार्यमेवेति दृष्टचरकार्यसम्बन्धं यत्, तद्योग्यमित्यवसीयते । सामान्येनैव योग्यत्वं लोके यदवधारितम् । तदन्विताभिधानस्य व्युत्पत्तावुपलक्षणम् ॥ इति सङ्ग्रहश्लोकः । योग्यताविषये मतान्तरोपन्यासनिरासौ । अन्ये तुयदयोग्यतया नावधारितम्, तद्योग्यम् । तेनालौकिकेनापि विध्यर्थेनान्विताभिधानं सिद्ध्यतीत्याहुः । तदिदमसारम् । यथाप्रमाणान्तरावेद्ये वस्तनि कस्यचिद्योग्यतावधारयितुं न शक्यते, तथैवायोग्यतापीति, सर्वस्याप्रतीतेनापि सर्वप्रकारेण तस्मिन्नन्वयस्स्यात् । भावार्थस्यैव विषयत्वेनान्वयः, अनुपादेयविशेषणविशिष्टस्यैव स्वर्गकामादेः नियोज्यतयान्वय इति नियमो नोपपद्यत इत्यलमतिप्रसङ्गेन ॥ ८ ॥ नन्वन्विताभिधानपक्षे व्युत्पत्तावुपलक्षणाश्रयणमेव गौरवमित्यत्राऽह पदार्थेष्वपि चैवैषा सामग्र्यन्वयबोधने ॥ ९ ॥ यस्यापि मते पदार्था एवान्योन्यान्वयमवगमयन्ति, तेनापि प्रतिनियतान्वयबोधसिद्ध्यर्थमिदमाश्रयणीयमेवआकाङ्क्षासन्निधियोग्यतावन्त एव पदार्था ११३३ आकयार्थ बोधयन्ति, नान्य इति, एतदेव कथमिति पर्यनुयुक्तेन वृद्धव्यवहारे तथादर्शनादिति परिहारो वाच्यः । तस्मादुभयपक्षसाधारणत्वान्नेदं दूषणम् ॥ ९ ॥ नन्वेवमपि केन विशेषेणाभिहितान्वयं परित्यज्य, अन्विताभिधानमाश्रितमिति । ११३४ त्राऽह किन्तु तेषामदृष्टैषा शक्तिर्मानान्तराद्गतौ । कल्प्या विशिष्टार्थपरपदसंस्पर्शभाविता ॥ १० ॥ पदार्थानां हि शब्दादन्यतः प्रमाणात्प्रतीयमानानामन्योन्यान्वयबोधकत्वं न प्रतीतमिति, शब्दाभिधेयानां तदवगमशक्तिः कल्पयितव्या । तस्याश्चोत्पत्तौ शब्दसंस्पर्श एव हेतुरित्याश्रयणीयम् । शब्दो हि विशिष्टार्थप्रतिपत्तिपरतया लोकव्यवहारेषु प्रयुज्यमानो दृष्टः । न चोऽसौ साक्षाद्वाक्यार्थप्रतिपादने समर्थ इति, पदार्थानवान्तरव्यापारीकरोति । ते च यद्यन्योन्यान्यान्वयबोधने समर्थास्स्युः, तदा तेषामवान्तरव्यापारता स्यान्नान्यथेति, विशिष्टार्थावबोधपरशब्दसंस्पर्शादेव तेषामेषा शक्तिराविर्भवतीति, शब्दस्यापि पदार्थगतान्वयबोधकत्व११३५ शक्त्याधानशक्तिराश्रयणीया । स्यादेवम्यदि मानान्तरावसेयानां पदार्थानामन्योन्यान्वयावगमे सामर्थ्यं न स्यात् । अस्ति तु तत्श्वैत्यस्यानवधारिताश्रयविशेषस्य प्रत्यक्षदृष्टस्य,अश्वस्याप्रतिपन्नगुणविशेषस्य प्रत्यक्षह्वेषाशब्दानुमितस्य पदनिक्षेपशब्दानुमितस्य, अज्ञातकर्तृभेदस्य धावनस्य, "श्वेतोऽश्वो धावती"त्यन्वयबोधकत्वदर्शनात् । ११३६ अदाहुर्वार्त्तिककारमिश्राः "पश्यतश्श्वेतमारूपं ह्वेषाशब्दञ्च शृण्वतः । खुरनिक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीः ॥ दृष्टावाक्यविनिर्मुक्ता" इति । [श्लो. वा. वा. अधि. श्लो. ३५८] आरूपमव्यक्तरूपमित्यर्थः । तेन गुणविशेषो न प्रत्यक्षमवसीयत इत्यर्थः । अत्रोच्यतेकिं येनैव पुरुषेण श्वैत्यसमानाश्रयौ ह्वेषाध्वनिपदनिक्षेपशब्दाववगतौ, तस्यैवेयं "श्वेतोऽश्वो धावती"ति धीः ? उत यस्यऽपादानानध्यवसायः, तस्यापिइति ? किमतः । यदि तावदप्रत्याकलितह्वेषाध्वतिनपदविहारनिर्धोषापादानस्येत्युच्यते, तदाप्रतीतिविरोधः । स ह्येवं प्रतिपद्यतेभवितव्यमस्मिन् देशे नूनमश्वेन, भवितव्यञ्च केनचिद्धावतेति । अथाश्वसंबन्धिनमेव सुरपुटटङ्काररवमभ्यासपाटववशादवैति, तदासावश्ववर्तिनीमेव वेगवतीं गतिमनुमिनोतीति, न पुनः केवलामेवावगम्य, तस्यान्वयं पदार्थसामर्थ्येनावबुद्ध्यते । योऽपि तस्मिन् देशे नास्त्यन्योऽश्वादिति निश्चित्य, पारिशेष्यादपादानाध्यवसायेऽपि ह्वेषाध्वनेश्श्वैत्यसमानाधिकरणमश्वत्वमप्यध्यवस्यति, । तस्यापि गृहाभावदर्शनमिव बहिर्भावावगतावर्थापत्तिः"योऽयं श्वेतः, स एषोऽश्वः" इत्यत्र प्रमाणम् । यस्तु श्वैत्यसमानाधिकरणौ ह्वेषाध्वनिखुरपुटटङ्कारावध्यवस्यति,तस्याप्यश्वत्वे वेगवति च गमने श्वेतवर्तिन्येवानुमानम्, न स्वतन्त्रयोः । अतः प्रमाणान्तरेणासम्बद्धावभातानां पदार्थानां न क्वचिदन्योन्यसम्बन्धबोधकत्वमनुमानार्थापत्तिव्यतिरेकेण प्रतीतम् । अपि च यदि पदार्थावगतिमात्रादेव परस्परान्वयावगमः, तदा कस्मिन् प्रमाणे तस्यान्तर्भाव इति वाच्यम् ? न तावच्छाब्दे, शब्दाभावात् । पदाथाभिधानावान्तरव्यापारेण हि ११३८ अच्छब्दादन्वयज्ञानम्, तच्छाब्दमित्येष वो राद्धान्तः । ११३९ अस्मान्नास्य शाब्देऽन्तर्भावः । प्रमाणान्तराभ्युपगमे तु शाब्दस्योच्छेदः, शब्दावगतपदार्थविषयेऽपि तस्यैव प्रामाण्यप्रसङ्गात् । तस्माच्छब्दाभिहितानां पदार्थानामन्यत्रादृष्टं वाक्यार्थबोधनसामर्थ्यं कल्पयितव्यम् । तदाधानशक्तिश्च शब्दानामपीति कल्पनालाघवाच्छब्दानामेवान्वितस्वार्थावबोधनशक्तिमात्रं कल्पयितुं न्याय्यम् । तेन पारम्पर्येण पदानामन्वितेषु सामर्थ्यमिति निरस्तम् । ११४० अन्वनन्तप्रतियोग्यन्वितस्वार्थबोधनविषया अनन्ता एव शब्दस्य शक्तयः कल्पयितव्यास्स्युः । अभिहितान्वयवादे त्वेकस्मिन्नर्थे एकस्य शब्दस्यैकैव शक्तिरिति । ११४१ अन्नएकयैवाऽकाङ्क्षितसन्निहित११४२ ओग्यार्थान्वितस्वार्थाभिधानशक्त्या प्रतियोगिभेदेन कार्यभेदोपपत्तेश्चक्षुरादीनामिव । चक्षुर्यथैवैकया दर्शनशक्त्या घटादिप्रतियोगिसहायभेदाज्ज्ञानानि भिन्नानि जनयति, तथा शब्दोऽपि प्रतियोगिभेदादिति मन्तव्यम् । किञ्च पदार्थेष्वपि तुल्यमेतदिति न किञ्चिदेतत् । अन्ये त्वाहुःाकाङ्क्षासन्निधियोग्यतावन्तः पदार्था वाकयार्थीभवन्ति, न पुनर्वाक्यार्थमेव बोधयन्तीति । तदिदमतिमन्दम्वाक्यार्थावगतेः कारणाभावप्रसङ्गात् । अनुपायत्वे पदानामन्वयप्रतीतौ पदार्था अपि चेन्न कारणम्, अकारणिकैवा । द्यपद्येत । स्यान्मतम् । क्रियापदेन, कारकपदेन वा साकाङ्क्षेर्ऽथेऽभिहिते, यदेव पदान्तरेण योग्यप्रतियोगिपदार्थान्तरं सन्निधाप्यते, तदवे तस्य सम्बन्धित्वेनावतिष्ठतेइति । सत्यमेवम् । अवगतिस्तु तत्सम्बन्धस्य किन्निबन्धनेति वाच्यम् । अथ पूर्वपदार्थे साकाङ्क्षे अभिहिते, यत्पदान्तरमुच्चरितम्, तत्तत्सम्बन्धितयैव स्वार्थमुपनयति प्रत्ययवत् । यथा प्रकृत्यर्थे पूर्वप्रतीते प्रत्यय उच्चार्यमाणस्स्वर्थं तद्विशिष्टमेवाभिधत्ते, तथा पदान्तरमपि । तदुक्तं, "प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः" [म. भा.] इति । प्रकृति स्वार्थं प्रत्ययार्थविशैषणत्वेनोपनयतीति, प्रत्ययेन तदर्थमाहेत्यर्थः । तथा चोक्तम् "नित्यं विशिष्ट एवार्ऽथे प्रत्ययो यत्प्रयुज्यते । तत्पूर्वतरविज्ञातप्रकृत्यर्थविशेषणात्" ॥ इति । अङ्गीकृतं तर्हि द्वितीयस्य पदस्यान्विताभिधानम्, प्रथमस्य तथापि नास्तीति चेन्न । वाक्ये पादानां प्रयोगक्रमनियमाभावात् । यदेव कदाचित्प्रथमम्, तदेव कदाचित्द्वितीयमिति, सर्वपदानामेवान्विताभिधानमापतितम् । अभिहितान्वयवादी च प्रकृतिप्रत्यययोरप्यन्वयव्यतिरेकावधारितव्यतिरिक्तशक्तिकयोरभिहितान्वयमेव पदवदिच्छति । तथा च "प्रकृतिप्रत्ययौ ब्रूतः प्रत्ययार्थं सहेति यत् । भेदेनैवाभिधानेऽपि प्राधान्येन तथोच्यते" ॥ "पाकं तु पचिरेवाऽह कर्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कर्ता वाच्यो नैकस्य कस्यचिद्" ॥ ११४३॥ इत्याह । किञ्च प्रतययश्चेदन्विताभिधायी, तदा तदविशेषात्पदानामप्यन्विताभिधायिता किमिति नाभ्युपेयते, किमर्धवैशसेन । यदि प्रकृतिप्रत्यययोरप्यन्विताभिधानमस्ति, न तर्हि द्वारमित्यत्रान्विताभिधानानुपपत्तिनिबन्धयाऽकाङ्क्षया विव्रियतां, संव्रितयां वेत्यध्याहारः । उच्यते । द्वारमिति प्रथमेयं प्रातिपदिकार्थाव्यतिरिक्तार्थाभिधायिनी । तेनात्र केन सहान्वितस्याभिधानम् । व्यतिरिक्तार्थे प्रत्यये प्रविशेत्यादौ योऽध्याहारः, सोऽभिहितार्थानुपपत्त्यैव विश्वजिदादिवदिति न दोषः । वाक्यार्थविषये भट्टपादमतम् । ११४४ आर्तिककारमिश्रास्तुलाक्षणिकान् सर्ववाक्यार्थानिच्छन्तः पदार्थानामन्वयावबोधशक्तिकल्पनां निराकुर्वन्ति । अनन्वितावस्थो हि पदार्थोऽभिहितोऽन्वितावस्थां स्वसम्बन्धिनीं लक्षयति । अवस्थावस्थावतोर्हि सम्बन्धात्, अवस्थावत्यभिहिते, भवत्येवावस्थापि बुद्धिस्था ॥ सर्वत्र च सम्बन्धिनि दृष्टे, सम्बन्ध्यन्तरे बुद्धिर्भवतीति कॢप्तमेव । तेन नास्ति पदानामन्वितबोधने शक्तिकल्पनेति । तदाहुः "वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नस्स्थितिः । " अत्रापरे ब्रुवतेनेयं लक्षणा, स्वार्थापरित्यागात् । स्वार्थपरित्यागेन हि गङ्गादिषु लक्षणा दृष्टाइति । ते तु मीमांसातन्त्रान्तःपातवैकल्येनैवमाहुः । लक्षणीयवशेन हि क्वचित्स्वार्थस्य त्यागः, संग्रहो वा । "सृष्टीरूपदधाती"ति ११४५ अक्षणायास्स्वीकारः, ११४६ उणिनां तद्गणपठितानां सृष्टिशब्दरहितानामपि लक्ष्यमाणत्वात्, तदन्तर्गतत्वाच्च सृष्ट्यर्थस्रू । तथा "पौर्णमासीं यजते" इत्येकवचनानुपपत्त्या पौर्णमासीशब्दो यागवचनो यागसमुदायलक्षणार्थः११४७ । न च समुदायपरिग्रहे समुदायित्यागः, तदाश्रयत्वात्तस्रू । तथैतरेतरयोगद्वन्द्वे द्विवचनबहुवचनानुपपत्तेरर्थान्तरसहितावस्था लक्षणयाऽश्रीयते, न चावस्थावत्परित्यागः । तथा निषादस्थपत्यधिकरण [मी. द. ६. ११०] पूर्वपक्षे षष्ठ्यर्थलक्षणा स्यादित्युच्यते, न तत्र प्रकृत्यर्थस्य त्यागोऽप्यापद्यते । तथा ११४८ अथघोषेणेत्यत्र रथस्यापरित्यागः । तथा "मेधपतये ११४९ एधमि"त्येकवचनान्तस्य मन्त्रस्य लक्षणया प्रकृतौ निवेशः । न च गुणिनोरग्नीषोमयोस्तत्र हानमिति, ११५० वार्थापरित्यागेऽपि युक्तैव लक्षणा । गुरुमतेन लक्षणानिरूपणम् । अत्रोच्यते । कथं पुनरियं लक्षणा ? । वाच्यस्यार्ऽथस्य वाक्यार्थे सम्बन्धानुपपत्तितः । तत्सम्बन्धवशप्राप्तस्यान्वयाल्लक्षणोच्यते ॥ ११५१॥ इति सङ्ग्रहश्लोकः११५२ । "गङ्गायां घाषः," इत्यादिषु श्रौतस्य गङ्गापदार्थस्य वाक्यार्थेऽन्वयासम्भवात्, तं परित्यज्य तत्सम्बन्धाल्लब्धबुद्धिसन्निधेः कूलाद्यर्थस्य वाक्यार्थान्वयिताध्यवसीयते । अत एवाऽहुः "अनुपपत्त्या, सम्बन्धेन च लक्षणा भवती"ति । इह च "गामानये"त्यादौ न श्रौतस्यार्ऽथस्यान्वयायोग्यत्वं, नाप्यन्वितावस्थस्याऽनयनसम्बन्धार्हता११५३ । अन्वितार्थस्यान्वयान्तरासम्भवात् । अथ मा भूदेषा लक्षणा, किनतु क्रियावगत कारकान्वयिनीमात्मनो दशामवगमयति, अविनाभावादिति । उच्यतेशाब्दत्वं तावदित्थमपह्नुतमन्वयावगमस्य, किन्तु सामान्यतोदृषानुमानगोचरताभ्युपगता भवति । तथा विशिष्टान्वयावगतिरनुपपद्यमाना ११५४ इर्मूलाऽपद्यते । अथ विशेषान्वयं विना व्यवहारानवकल्पनादनर्थकं शब्दोच्चारणमिति तदाश्रयणम्, एवमपि प्रेक्षापूर्वकारिणां११६५ सार्थकवाक्यमात्रप्रयोगिणां वचनाद्विशेषान्वयावगमः । वेदे त्वानर्थक्येन न भवितव्यमिति, प्रमाणाभावान्न शक्यते विशेषान्वयोऽवगन्तुम् । न च लोकेऽप्यानर्थक्यमापद्यत इत्येतावता कारणेनोपायाद्विनापि विशेषान्वयाध्यवसानं युक्तम् । न हि दग्धुकामस्योदकोपादानमनर्थकमिति, जलस्य दाहशक्तिराविर्भवति । काममानर्थक्यम् । न पुनस्सामान्यतोदृष्टस्य ११५६ इशेषान्वयावसायिता । अथाऽकाङ्क्षितसन्निहितयोग्यान्यवपरता वृद्धव्यवहारे पदानामवगतेति, व्युत्पत्त्यनुसारेण विशेषान्वयावगमः । तन्न तत्र वृद्धव्यवहार एव तत्परता पदानाम्, पदार्थानां वा उपायाभावेन कथं नाम निर्वहति ?मे चिन्ता सा हि पदानाम्, पदार्थानां वा शक्तिकल्पनां विनानुपपन्नेति मन्यामहे ॥ १० ॥ सा च पदानामेवोचितेत्याह ११५७ राथम्यादभिधातृत्वात्तात्पर्यावगमादपि११५८ । पदानामेव सा शक्तिर्वरमभ्युपगम्यताम् ॥ ११ ॥ प्रथमभावीनि पदान्यतिलङ्घ्य, नार्ऽथेषु वाक्यार्थबोधनशक्तिराश्रयितुं युक्ता । किञ्च पदानि तावदभिधायकानीति निर्विवादम् । तेन तेषामभिधानशक्तिस्सम्प्रतिपन्नैवेति, तस्या एवान्वयपर्यन्ततया कल्पयितुं सुकरा । पदार्थानान्तु बोधनशक्तिरेव कल्प्या । तेन "धर्मिकल्पनातो वरं धर्मकल्पना ११५९ अघीयसी"त्यन्विताभिधानशक्तिः पदानामेव कल्पयितुमुचिता । किञ्च पदान्यभिधायकानीष्यन्ते, तत्र यदि स्वरूपमात्रविषयामेव पदार्थबुद्धिमादध्युः, तदाप्यभिधायकता हीयेत, तस्या बुद्धेस्सम्बन्धग्रहणसमयजातपदार्थबोधकसंस्कारोन्मेषप्रभवत्वात् । अवश्यं हि सम्बन्धस्मरणसिद्ध्यर्थं सम्बन्धिभूतार्थस्मरणसंस्कारोद्बोधोऽङ्गीकरणीयः । तस्मात्सम्बन्धग्रहणसमयानधिगतान्वितार्थप्रतिपादनाभ्युपगम एव शब्दानामभिधायकतेति, तामङ्गीकुर्वता पदानामन्विताभिधायकताऽश्रयणीया । यस्तु "पदमभ्यधिकाभावात्स्मारकान्न विशिष्यते" ॥ [श्लो. वा. अधि. ६. १०७.] इति । तथा "भावनावचनस्तावत्तां स्मारयति लोकवत्" ॥ [श्लो. वा. अधि. ७. श्लो. २४८] इति चाऽचार्यवचनदर्शनात्स्मारकतामेव पदानामभिधायकत्वमाह, तं प्रत्याह "तात्पर्योपगमादपी"ति । येनापि वादिना पदानां स्मारकत्वमेव पदार्थेष्वङ्गीकृतम्११६०, सोऽपि वाक्याथप्रतिपत्तिपरतां पदानामभ्युपैत्येव, अन्यथा वाक्यार्थस्याशाब्दत्वप्रसङ्गः । एवञ्चेत्पदानामेव साक्षाद्वाक्यार्थबोधनशक्तिरस्तु, किं परमपराश्रयणेन११६१ । तेन पदार्थेषु पदानां स्मारकत्वातिरिक्तं येऽभिधायकत्वमाहुः, तेषां शक्तित्रयकल्पना । एका तावत्पदानामभिधायकत्वशक्तिः, अपरा च पदार्थगतान्वयबोधनशक्त्याधानशक्तिः, पदार्थानाञ्चान्वयज्ञापनशक्तिरिति । स्मारकत्ववादिनस्त्वभिधानशक्तिं हित्वा शक्तिद्वयकल्पनालाघवात्, उक्तेनैव न्यायेन पदानामेव शक्तिकल्पनाया ११६२ चितत्वात्, अन्विताभिधायीनि पदानीति स्थापितम् ॥ ११ ॥ सम्प्रति पूर्वोक्तमितरेतराश्रयदोषं परिहर्तुम्, यथा पदेभ्यो वाक्यार्थप्रतिपत्तिः, तथा दर्शयति ११६३ अदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । ११६४ यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम् ॥ १२ ॥ यस्तावदगृहीतसम्बन्धः, यस्य च सम्बन्धग्रहणसंस्कारो नोत्पन्नः, प्रध्वस्तो वा स वाक्यार्थप्रतिपत्तौ नाधिक्रियते । यस्त्वनपभ्रष्टसम्बन्धग्रहणसंस्कारः, स पदं श्रुत्वा नूनं तावदिदं स्मरतिइदमस्याकाङ्क्षितसन्निहितयोग्यप्रतियोग्यन्वितस्य वाचकमिति । एवञ्च स्मरता स्मृतमेव अनन्वितमपि११६५ स्वरूपमनवयभाजाम् । न चैकपदश्रवणे वाक्यार्थावगतिरितिकश्चिन्मन्यते । अभिहितान्वयवादिनोऽपि यावत्पदान्तरमर्थान्तरं नोपस्थापयति, तावदन्वयावगमो नास्ति । पदार्थस्यान्वयावबोधिनः पदार्थान्तरापेक्षत्वात्, प्रतियोगिसापेक्षत्वादन्वयस्य । अतस्तन्मतेऽपि सर्वदैरनन्वितस्वार्था ११६ भिधानीयाः । पश्चात्तेभ्यस्सर्वेभ्यस्स्मृत्यारूढेभ्यो वाक्यार्थप्रतिपत्तिरङ्गीकरणीया । तदाहुर्वार्तिककारमिश्राः "तेऽपि११६५ नेवास्मृता यस्मादृ वाक्यार्थं गमयन्ति नः । तस्मात्तत्स्मरणेष्वेव ११६७ अंहतेषु प्रमाणता" ॥ [ बृहट्टीका ] इति । अत एव तत्रभवत आचार्यस्य वाक्यलक्षणं "संहत्यार्ऽथमभिदधति पदानि वाक्यमि" [शा. भा. बला. अ. प. ८२४.] ति । नन्वन्विताभिधानवादिनां कथं वाक्यार्थपतिपत्तिः । श्रूयमाणेन हि पदेन योर्ऽथो नावबोधितः, स कथमन्तर्हिते तस्मिन्नवभासेत । उच्यतेअभिहितान्वयवादिनोऽपि नायं नियमःश्रूयमाण एव पूर्वपूर्ववर्णजनितसंस्कारसहितोऽन्त्यो वर्णः पदार्थप्रतिपादक इति, बाल्यदशाधीतात्प्रागनवधृतार्थादङ्गपरिज्ञानसंस्कारात्पश्चात्स्मृतादपि वेदादर्थावगमदर्शनात् । तेन स्मृत्यारूढस्यावगमकत्वमदोषः । श्रूयमाणेन हि पदेन प्रतियोगिसापेक्षत्वादन्विताभिधानस्य प्राक्सहकारिविरहादर्थो नाभिहितः, पश्चादभिधीयत इति किमनुपपन्नम् । येऽपि वादिन एवमाहुःेकमेव पदमन्विताभिधायकमस्तु, इतराणि च पदानि प्रतियोगिसन्निधापनमात्र एव व्याप्रियन्ताम् । न चागृह्यमाणविशेषता, प्राथम्येन, प्रधानपदत्वेन वा विशेषग्रहणात् । अत एव चाऽहुः "पदमाद्यं११६८ वा वाक्यम्, प्रधानं पदं वा वाक्यमि" [वा. प. का. २. श्लो. २.] ति । तान्प्रत्याह "सर्वमि"ति । प्रथमस्यैव स्याद्वाक्यता यदि, सर्वपदार्थानां प्रथमपदार्थान्वितता स्यात् । न चायं नियमः । "अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाती" [तै.सं. ६.१.९टति क्रयमात्रान्वयितवादारुण्यस्य । किञ्च११६९ वाक्ये पदानामानुपूर्व्यनियमाभावात्, कदाचित्तदेव प्रथमं सदन्विताभिधायकम्, अन्यदा नेति न युक्तम् । तथा प्रधानपदस्यापि वाक्यत्वमयुक्तम्, सोमपदार्थेन११७० सह सर्वेषामनन्वयात् । यद्यप्यारुण्यादीनां सर्वेषां सोमं प्रत्यैदमर्थ्यमस्ति । तथाप्यस्मिन् वाक्ये क्रय एवाऽरुण्यादीनामैदमर्थ्येन, क्रियाकारकभावेन चान्वयः । क्रयद्वादेण तु सोमं प्रत्यैदमर्थ्यमात्रम् । अथ यत्प्रतिपादनपरं वाक्यम्, तत्प्रधानमित्युच्यते । इह तु क्रय एव सर्वकर्मकरणावच्छिन्नः प्रतिपाद्यते । तेन क्रीणातीत्येतदेव११७१ प्रधानं पदम्, तदन्वयिता च सर्वेषामारुण्यादीनामिति । अत्रोच्यतेवाक्यस्य यत्तावत्तात्पर्यं, ११७२ अन्न व्यवस्थितम् । क्वचिदाख्यातपरत्वमेव"अग्निहोत्रं जुहोती"ति । क्वचिद्गुणविधिपरत्वं, दध्ना जुहोती"ति । तेन प्रधानपदत्वस्यापि सर्वेषां पदानां सम्भवात्, सर्वेषामेव पदानामन्विताभिधानशक्तिराश्रयणीया । तथा सति यत्रापि क्लॄप्तशक्तिकतया तदन्विताभिधायकत्वमविरुद्धम् । पदार्थेष्वपि चैतत्तुल्यमेव । नन्वेवं "गामानये"त्यादौ परस्परपर्यायता सर्वशब्दानां स्यात् । यथा "गामि"त्यनेनाऽनयत्यन्विताभिधानम्, तथा "ऽऽनये"त्यनेनापि गवान्विताभिधानमिति । उच्यतेद्वावेतावर्थौ, यदानयनान्वितं गोत्वम्, गवान्वितञ्चाऽनयनमिति । तेनैकैकेनैकैकस्यार्थस्याभिधानात्कुतः पर्यायत्वप्रसङ्गः । पदार्थेष्वपि चैतत्समानम् । ननु क्रीणात्यर्थस्याऽरुण्याद्यनेकार्थान्विताभिधानादावृत्तिलक्षणो वाक्यभेदस्स्यात् । न । तन्त्रोच्चारणात् । वैरूप्ये च तन्त्रतानुपपत्तेर्वाक्यभेदस्स्यात् । "न्यायसम्पादितव्यक्ती"ति किमिदम्, यावन्न्यायेन वचनव्यक्तिर्नसम्पाद्यते, तावत्पदजातं वाक्यार्थस्यावबोधके न भवति । लोकव्य११७३ अहारवर्तिभिर्न्यायैर्यावतिदं विधेयम्, इदमनुवाद्यम् । इदं प्रधानम्, इदं गुणभूतम् । इदं विवक्षितम्, इदविवक्षितमित्यादि न सम्प्रधार्यते, तावन्न क्वचिद्वेदवाक्यार्थोऽवबुद्ध्यते । तदुक्तं वार्तिककारमिश्रैः "तावदेव हि सन्देहो वेदवाक्ये श्रुते भवेत् । यावन्न वचनव्यक्तिस्तस्य स्पष्टावधार्यते ॥ ज्ञात्वा तु वचनव्यक्तिं मीमांसान्यायकातराः । प्रतीयन्ते समस्ताश्च वेदवाक्यार्थसंशयाः" ॥ इति । अत एव मीमांसाया वेदवाकयार्थप्रतिपत्तावितिकर्त्तव्यतात्वम् । तदुक्तं तैरेव "धर्मे प्रमीयमाणे हि वेदिन करणात्मना । इतिकर्तव्यताभागं ११७४ ईमांसा पूरयिष्यति" ॥ [बृहट्टीका ] इति । ननु लोके द्रागेव वाक्यार्थावगतिर्नेयतीं सामग्रीमपेक्षते । उच्यतेअत्यन्ताभ्यस्तेषु वाक्येषु स्यादेवम्, अदृष्टार्थेषु स्मृत्यादिवाक्येषु, लोकेऽपि नानाविधविवादोत्थानात्कुतो द्रागेवार्ऽथनिश्चयः । अपि च कारणाभावेनापि लोकस्यायंविवेको नास्ति । तदुक्तम् "बहुजातिगुणद्रव्यकर्मभेदावलम्बिनः । प्रत्ययान् सहसा जातान् श्रौतलाक्षणिकात्मकान् ॥ न लोकः कारणाभावान्निर्धारयितुमर्हति । बलाबलादिसिद्ध्यर्थं वाक्यज्ञास्तु ११७५ इचिन्वते" ॥ [ तं. वा. पृ] इति । यच्चेदं सर्वपदानामन्विताभिधायित्वमुच्यते, तत्सर्वेषु श्रौतार्थेषु पदेषु । लाक्षणिकगौणार्थपदप्रयोगे तु यदेव तत्र श्रौतार्थ पदं तदेवान्विताभिधायकम्, इतरत्तु पदं प्रतियोगिसन्निधापनपरमेव । तत्र वाचकत्वशक्त्यनवधारणात्स्वार्थस्यापि तत्तदानीमवाचकम्, अन्वयायोग्यत्वात् । किन्तु तदर्थेन स्मृतेन यत्स्वसम्बन्धि, स्वसदृशं वा स्वयमन्वययोग्यमुपस्थाप्यते, तेनान्वितं श्रौतार्थमेव पदं स्वार्थमभिधत्त इति दर्शनरहस्यमिदम् । न च सर्वपदान्येव लाक्षणिकानि, गौणानि वा वाक्ये सम्भवन्तीति निरवद्यम् । क्वचिदभिधानं निमित्तम्, क्वचिदभिहितोर्ऽथ इति च यदुक्तम्, तच्छब्दोपस्थापिततां दर्शयितुं गौणमभिहितत्वग्रहणम् ॥ १२ ॥ कथं पुनरन्विताभिधायिनां पदेन स्वरूपमात्रं स्मारयितुं शक्यमित्याह अन्वितस्याभिधानेऽपि स्वरूपं विद्यते सदा । तेन स्वरूपमात्रेऽपि शब्दो जनयति स्मृतिम् ॥ १३ ॥ एवं तावत्सम्बन्धग्रहणान्तर्गतं स्वरूपस्मरणमुक्तम् । सम्प्रति स्वरूपमात्रस्मरणमपि पदादेव नानुपपन्नमित्याह यथार्ऽथेनाप्रमाणेन स्वपदं स्मार्यते क्वचित् । पदेनाप्यप्रमाणेन तथार्ऽथस्स्मारयिष्यते ॥ १४ ॥ न हि यत्प्रमाणं, तदेव स्मरणकारणम्, अप्रमाणमेव हि तत् । यस्य तु येन सह कदाचित्प्रत्यासत्तिः प्रतीतपूर्वा, स तत्र संस्कारोद्बोधद्धारेण शक्नोत्येव स्मृतिं जनयितुम् । अस्ति च स्वरूपस्यापि तदभिधेयान्तर्गत्या शब्देन प्रत्यासत्तिरिति, शाक्नोति तत्रापि शब्दस्स्मृतिं जनयितुम्, अर्थवत् । यथा निर्विकल्पकदशाप्रतीतमर्थस्वरूपमात्रमनभिधेमपि शब्दं स्मारयति, तथा शब्दोऽप्यर्थमिति, किमनुपपन्नम् । एतेनपदोच्चारणानन्तरं पदार्थस्वरूपप्रतीतिस्समर्थिता । अभिहितान्वयवादिनोऽपि सा न प्रमाणम्, अभ्यधिकार्थपरिच्छेदाभावात् । "अनधिगतार्थगन्तृ प्रमाणमि"ति सिद्धान्ताभ्युपगमात् । तदुक्तम् "सर्वस्यानुपलब्धेर्ऽथे प्रामाण्यं स्मृतिरन्यथा" [श्लो. वा. औ. सू श्लो. ११.] इति । अत एव स्मृतिरियम्, यदि पुनस्स्मृतिरेषा नाभ्युपेयेत, तदा प्रमाणस्मृतिसंशयविपर्ययेभ्यः प्रतिपत्त्यन्तरानभ्युपगमात्पदात्पदार्थप्रतीतिः क्वान्तर्भाव्यतामिति वाच्यम् । अत एवाभिहितान्वयवादेऽपि स्मारकत्वमेवास्मभ्यं रोचते ॥ १४ ॥ इतरेतराश्रयमिदानीं परिहरति स्मृतिसन्निहितैरवमर्थैरन्वितमात्मनः११७६ । अर्थमाह पदं सर्वमिति ११७७ आन्योन्यसंश्रयः ॥ १५ ॥ स्वार्थस्वरूपमात्रस्मरणे हि न पदं पदान्तरमपेक्षते । स्मृतिसन्निहितमपीदं भवत्येव सन्निहितम् । नास्ति तेनेतरेतराश्रयत्वम् । ननु वृद्धव्यवहारेण व्युत्पत्तिः, अन्वितार्थप्रतिपत्तिनिबन्धनश्च व्यवहारः, अतस्तद्दर्शनातन्वितप्रतिपत्तिरेवानुमातुं शक्या, न त्वनन्वितपदार्थमात्रस्मरणम् । उच्यतेव्यवहारानुमितान्वितप्रतिपत्त्यन्यथानुपपत्तिरेवानन्वितस्वार्थस्मरणसम्भवे प्रमाणम् । दर्शितं ह्येतत्नानन्वितप्रतिपत्तिमन्तरेणान्वितप्रतिपत्तिरुपपद्यत इति । ११७८ त्र कश्चिदाहयदि स्मृतिसन्निहितमाश्रित्यान्विताभिधानं परैः क्रियते, तदा स्मरणस्य प्रत्यासत्तिनिबन्धनत्वात्, अनेकेषाञ्चार्ऽथानां प्रत्यासत्तिसम्भवात्, तेषु स्मृतिसन्निहितेष्वगृह्यमाणविशेषत्वात्, "उरवायां पचती"ति नोखा पचतयर्थान्वितैव केवलाभिधीयेत । सा हि ११७९ उलालाद्यन्वितापि प्रतिपन्नैवेति, स्मरणात्तदन्विताप्युरवाभिधीयेत । तथा पचत्यर्थोऽपि पिष्टकादिकरणकोऽवगत११८० इति तत्स्मरणान्नौदनान्वित एवाभिधीयेत । अभिहितान्वयवादे तु नायं दोषः । एकैकस्यार्ऽथस्याभिधेयत्वादिति । ११८१ त्रोच्यतेपदात्तावत्पदार्थप्रतीतिस्स्मरणाद्भिन्ना वदितुं न शक्यते । तेन स्मृतानामेवान्वयबोधकत्वमित्याश्रयणीयम् । तथा च तुल्यो दोषः । अथ शब्दैस्स्मारितानामन्वयबोधकत्वं११८२ वृद्धव्यवहारे तथादर्शनादित्यदोषः११८३ । मतान्तरेऽपि तुल्यमेतत् । न चायमेकान्तः, वृद्धव्यवहारेऽध्याहृतेनाप्नयर्थेनाऽन्विताभिधानदर्शनादित्युक्तम् । अथ शब्दैर्बहवोर्ऽथास्स्मार्यन्ते, किन्तु तेषां कतमेनान्वयावबोधकत्वमिति न विद्मः११८४ । अभिहितान्वयवादे त्वभिहितेनैवान्वयबोधकत्वं युक्तमेवेति । तदसत् । स्मारकत्वातिरेकिणी११८५ आन्याभिधायकता, या व्यवस्थानिबन्धनम् । अथोच्येतस्मारकत्वं नाम प्रत्यासत्तिनिबन्धनम् । तेन तदतिरेकिण्यभिधेया भिधायकतालक्षणा प्रत्यासत्तिरङ्गीकरणीयेति । नैतदेवम् । स्मारकत्वेनैव वृद्धव्यवहारे दर्शनात्स्मारकत्वोपपत्तेः । ११८६ रत्याय्यप्रत्यायकता हि वाच्यवाचकता, सा च यद्यप्यग्निधूमादीनां सम्बन्धान्तरपूर्विका दृष्टा । तथापि शब्दे तथा नाऽश्रीयते, किन्तु वाचकत्वावगमादेव वाचकत्वम् । एवं स्मारकत्वावगमादेव स्मारकत्वमिति, किं प्रत्यासत्त्यन्तराश्रयणेन । अपि चान्वितार्थवादिन एवेदं प्रतिनियतान्वयित्वमुपपद्यतेयत्पदार्थान्तरान्विताभिधायकतया स्मार्यते, तदन्वितस्यैव वृद्धव्रूवह्वारे वाच्यत्वदर्शनात् । यत्राप्यध्याहारः, तत्रापि सन्निधापकवशेन विशेषान्विताभिधानलाभ इति लोकत एव ज्ञातमिति, न कश्चिद्दोषः । अपि च ज्ञातं तावदेतद्यदनेन पदेनायमर्थोऽन्वितो वाच्य इति, तत्र यद्यन्येनाप्यन्विताभिधानं स्यात्, तदा वाक्यभेदो भवेत् । न चासावेकवाक्यत्वसम्भवे न्याय्यः । तदुक्तम् "सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते" [श्लो. वा. प्र. सू. श्लो. ९.] इति । अत एव यथाकथञ्चिदेकवाक्यत्वोपपत्तौ वाक्यभेदस्यान्याय्यत्वम् । लोके च लक्षणा, गौणी च वृत्तिर्वाक्यभेदभयादेव११८७ । अन्यथा वाक्यं भित्वा किमित्यध्याहृत्य योग्यमर्थान्तरं सर्वपदान्येव मुख्यार्थानि नाऽश्रीयन्ते । वेदेऽप्येकवाक्यत्वबलादेवार्११८८ऽथवादेषु११८९ उणवादाद्याश्रयणम्, ११९० अम्मार्गाधिकरणे [मी. द. २. १. ४.] विभक्तिव्यत्ययवर्णनम् । औदुम्बराधिकरणपूर्वपक्षे च कथञ्चित्पशुफलकत्वाश्रयणम् । चित्राधिकरणे [मी. द. १. ४. २.] रूढिपरित्यागेन "पञ्चदशान्याज्यानि भवन्ती" [तां . व्रा. २०. १. १.] तिकथञ्चिन्नामधेयत्वाश्रयणम् । वाजपेयाधिकरणे [मी. द. १. ४. ५.] च वाक्यभेदभयादेव नामधेयत्वाश्रयणम् । पौर्णमास्यधिकरणे [मी. द. २. २. ३.] चानेकगुणविधाने वाक्यभेदापत्तेस्स्मुदायानुवादकत्वसिद्धिः । प्रकरणान्तराधिकरणे [मी. द. २. ३. ११.] च वाक्यभेददोषादेवाग्निहोत्रपदस्य गौणत्ववर्णनम् । ग्रहाधिकरणे [मी. द. १. ३. ७.] चैकत्वस्याविवक्षितत्वम् । "अर्द्धमन्तर्वेदि मिनोति, अर्द्धं बहिर्वेदी" [मै. सं. ३. ९. ४.] त्यत्र [मी. द. ३. ७. ६.] देशलक्षणापरत्वम् । क्षौमाधिकरणै [मी. द. ६. १. ५.] च पुन्द्वयविधानहानम् । हविरार्त्त्यधिकरणे [मी. द. ६. ४. ६.] चोभयपदस्याविवक्षा । "वारुण्या निष्कासेन तुषैश्चावभृथं यन्ती" [मी. द. ७. ३. ५.] त्यत्र निरपेक्षत्वत्यागः । पर्युदासाधिकरणे [मी. द. १०. ८. ७.] च नञर्थस्य लाक्षणिकत्वमित्याद बहुतरं दृश्यते । तत्र यदि समभिव्याह्वियमाणस्य पदस्याभिधेयं परित्यज्य, अन्येन सहान्वयो लक्ष्यते, ११९१ अदा तदेकवाक्यता हीयेत । ११९२ अदर्थमेवेदमुक्तं, "न्यायसम्पादितव्यक्तीति" । एकवाक्यत्वं हि न्यायः११९३ । तदनुसारेण योर्ऽथः, सोऽत्र वाक्यस्याऽश्रयणीयः । वृद्धव्यवहारच्युत्पत्तिनियन्त्रितायां शब्दार्थावगतौ ये न्यायाः वृद्धव्यवहारे वाक्यार्थावगतिहेतुतया विदिताः, तानपरिजहता वाक्यार्था बोद्धव्या इतिसर्वासामेवानुपपत्तीनामनवकाशः । भवतु तर्हि पदार्थान्तरेण तावदन्विताभिधानमेकवाक्यत्वबलात्तत्स्मारितेन, स्वयं स्मारितेन च तदेकवाक्यत्वानुगुणेनार्ऽथान्तरेणापि किमित्यन्विताभिधानं न भवति । उच्यतेपदद्वयेनैवान्विताभिधानसिद्धेराकाङ्क्षोपशान्तेः । अथ नोपशान्ताऽकाङ्क्षा, तर्हि को नाम तत्रान्विताभिधानं वारयेत् । अत एवैकपदोच्चारणे तदर्थसम्बन्धमुखेन बहुष्वपि स्मृतिसन्निहितेषुयस्यार्ऽथस्य केनचित्प्रकारेण विशेषो गृह्यते, तेनैवान्विताभिधानम्, अगृह्यमाणे तु विशेषेऽनध्यवसायादप्रतीतिरेव । अत एव विकृतिषु तत्सादृश्येन यदपूर्वं स्मर्यमाणं स्वोपकारकं स्मारयति, तदीयेनैवोपकारेण परिपूरण्म् । अतो यत्र बहुतरधर्मसाधरण्यनिबन्धनं सादृश्यमत्यन्तोद्मटम्११९४, तत्रैव शीघ्रं स्मृत्युपपत्तेस्तदीयोपकारपरिग्रह एव । दर्विहोमेषु तु सर्वापूर्वाणामविशेषाद्विशेषो ग्रहीतुमशक्य इत्यनध्यवसाय एव प्राकृतस्योपकारस्यएति, तत्रैवोपकारकल्पना । ११९५ पि च यथावृद्धव्यवहारावगमं वाक्यार्थावबोधः । तत्र तदेव पदेन अनपभ्रष्टसम्बन्धग्रहणसंस्कारस्य पुरुषस्य नियमेन स्मार्यते, तेनैवान्विताभिधानं पदान्तरस्य दृश्यते, नान्येन । सर्वं पदं स्वार्थं हि नियमेन सम्बन्धग्रहणात्११९६ स्मारयति, नार्ऽथान्तरम् । ततश्च ११९७ एनैवान्वितस्वार्थबोधकतेति, न कश्चिद्दोषः । किञ्च यद्यभिहितेनैवान्वितस्वार्थबोधनाभ्युपगम एव प्रतिनियतान्वयबोधो घटते, नान्यथा, तर्हि कल्प्यतां पदानामन्विताभिधानशक्तिरपि । द्विरभिधानमापद्यत इति चेदापद्यताम्, न कश्चिद्दोषः । पूर्वं केवलं पदमनन्वितं स्वार्थमभिधत्ते, प्रतियोगिपदान्तराभिहितवस्त्वन्तरसहायप्राप्त्या तु तत्तदन्वितमर्थमाह, इति न कश्चिद्दोषः । इत्थमपि चास्मन्मते शक्तिकल्पनालाघवमस्ति, पदार्थगतान्वयबोधनशक्त्याधानशक्तिकल्पनात्यागात् । तुल्यायामपि शक्तिकल्पनायाम्, पदानामेवान्वितबोधनशक्तिराश्रयितुमुचिता,११९८ अ पदार्थानाम्, प्रथमावगतत्वात्, वाक्यार्थे च ११९९ तात्पर्यस्योपगमादिति ॥ १५ ॥ कथं तर्हीदं भाष्यम् "पदानि ही"त्यादि । तत्राऽह अन्वितेषु पदैरेवं बोध्यमानेषु शक्तिभिः । अन्वयार्थगृहीतत्वान्नान्यां शक्तिमपेक्षते ॥ १६ ॥ १२००॥ आशङ्कितोत्तरमिदं भाष्यम् । किमाशङ्कितम् ? यद्यन्विताभिधायीनि पदानि, तर्हि नान्वयाभिधायीनि । तत्सिद्ध्यर्थं पदानां शक्त्यन्तरं कल्प्यमिति । अत्रेदमुत्तरम् । यत्पदमन्विताभिधायकम्, तदन्वयाभिधायकमेव । १२०१ न्यथान्वित एवासौ नाभिहितस्स्यादिति, अन्वितरूपेणार्ऽथेनान्वयस्स्वीकृतः । तं विना तदसम्भवादिति, नापरा तद्विषया पदानां शक्तिः कल्पनीया ॥ १६ ॥ कथं पुनरसावर्थगृहीत १२०२ त्यत्राऽह प्रतीयन्नन्वयं यस्मात्प्रतीयादन्वितं पुमान् । व्यक्तिं १२०३ आतिमिवार्ऽथेऽसाविति सम्परिकीर्त्यते ॥ १७ ॥ अन्वयवाने ह्यन्वितः । सोऽन्वयाप्रतीतौ न प्रतीत एव स्यात्, किन्तु स्वरूपमात्रमेव । न च तदन्वितमुच्यते । तस्मादन्वयं प्रतिपद्यमान१२०४ एवाऽन्वितं प्रतिपद्यते । यथा व्यक्तिं प्रतिपद्यमान एव जातिम् । अयन्तु विशेषः । अन्वयवानेवान्वित उच्यत इति, अन्वयोऽप्यभिधानानुप्रवष्टिः । व्यक्तिमत्तैव जातिस्वरूपं न भवति, किन्तु व्यक्तेराकारान्तरभूता जातिस्ततो भिन्ना । साचेदाकृतिश्शब्दाभिधेया, न व्यक्तिरप्यभिधानानुप्रवेशिनी, किन्त्वाकारभूता जातिर्व्यक्तेर्व्यतिरिक्तापि वस्तुस्वभावेन व्यक्तिमन्तरेण न प्रतीतिमनुभवति, एतावता च साम्येन दृष्टान्तः, न सर्वात्मना । नन्वेकविज्ञानारूढा कथं व्यक्तिरनभिधेया । शब्दोत्थापितविज्ञानविषयता ह्यभिधेयता, अस्ति च व्यक्तेरपि तथाभाव इति, कथमनमभिधेयतेति । १२०५श्रूयतामवधानेन सर्वस्वं प्राभाकराणाम् । सत्यमेकसंवित्तिविषयता जातिव्यक्त्योः । तथापि चिन्तनीयमिदम्कथमेषा संवित्तिरुभयविषया जायत इति । किमस्योभयविषयत्वे शब्दमात्रस्यैव व्यापारः ? उत जातिमात्रविषयत्वे शब्दस्स्वरूपमात्रेण व्याप्रियते । व्यक्तिविषयत्वे जात्यनभिधायकतया जातेरन्यथा बोधयितुमशक्यत्वातिति । तत्र तावदनन्तासु व्यक्तिषु सम्बन्घग्रहणाशक्तेः, आकृत्युपलक्षितासु च यद्यपि सम्बन्धग्रहणं सुकरम्, तथापि तद्रूपवत्त्वेनैव शब्दाद्व्यक्त्यवगमात्, उपलक्षणत्वे कारणाभावात्, चिह्नाभावेन च क्रियान्वयासम्भवादाकृतिविषयत्वे शब्दव्यापार इति निश्चीयते । तेनाऽकृतिर्न व्यक्तिं गमयति, किन्तु शब्द एव तदभिधायकतयेत्याकृतितो व्यक्तिरुच्यते । अतोऽन्विताभिधानायान्वयस्यार्ऽथग्रहीतत्वादसावन्वयो नाभिधीयते । तेन व्यतिषक्ताभिधानवन्न व्यतिषङ्गाभिधानं, निष्कृष्टामिधानन्तु न भवति । व्यतिषक्ततोऽवगतेर्व्यतिषङ्गस्य, व्यतिषक्तस्य व्यतिषङ्गं विनाभिधानानुपपत्तेः । १२०६ हाष्याक्षराणामयमर्थःपदान्यन्वितमभिधाय निवृत्तव्यापाराणि नान्वयं पृथगभिदधति । अथेदानीमन्विताः प्रतिपन्ना अन्वयमपि प्रतीतं सम्पादयन्तिइति । लोके च पदार्थानां सम्बन्धग्रहणसमय एव विदितत्वात्, वाक्यान्तरे चान्वयान्तरस्यैव प्रतिपन्नत्वात्, तत्परतैव वाक्यस्येति । वाक्यार्थशब्देन भाष्यकारोऽन्वयमाह । वेदे त्वपूर्वात्मान्वितो वाक्यार्थ इति १२०७ अक्ष्यामः । तस्य च स्वरूपमनवगतमित्यस्यैव वाक्यार्थत्वम् । एवमुक्तेन न्यायेन विशेषेणैवान्विताभिधानं समर्थितम् ॥ १७ ॥ येऽन्विताभिधानवादिन एवमाहुःवृद्धव्यवहारप्रसिद्धसम्बन्धश्शब्दोर्ऽथस्य वाचकः, अन्वयव्यतिरेकाभ्यञ्च सम्बन्धावधारणम् । न च विशेषान्वयविषयौ तौ सम्भवतः । क्रियापदं हि कारकसामान्याव्यभिचारिण्या क्रियया सहान्वयव्यतिरेकौ भजते । १२०८ इशेषान्वयान्तरव्यभिचारात् । एवं कारकपदेऽपि योज्यम् । तन्निराकरणायाऽ सामान्येनान्वितं वाच्यं पदानां ये प्रचक्षते । नियतेन विशेषेण तेषां स्यादन्वयः कथम् ॥ १८ ॥ दर्शितमिदंविशेषान्वयेऽप्याकाङ्क्षासन्निधियोग्यतोपाधिवशेन सम्बन्धग्रहणं सुकरमिति, तदभिधायकतैव युक्ता पदानाम् । यदि चासौ नेष्यते, तदा वाक्यार्थप्रतिपत्तिरेव नोपपद्यते, विशेषान्वयरूपत्वाद्वाक्यार्थस्रू ॥ १८ ॥ ननु च सामान्यान्वयोऽभिहितो विशेषान्वयमाक्षेप्स्यति, निर्विशेषस्य सामान्यस्य १२०९ रत्येतुमशक्तेर्विशेषान्वयप्रतिपत्तिरुपपन्नैवेत्यत्राऽह यद्यप्याक्षिप्यते नाम विशेषो व्यक्तिजातिवत् । निर्धारितविशेषस्तु तद्वदेव न गम्यते ॥ १९ ॥ यथाजातिर्व्यक्तिमाक्षिपन्त्यपि, न प्रतिनियतं विशैषमाक्षिपति, तथात्रापि प्रतिनियतविशेषालाभान्नियतविशेषात्मकवाक्यार्थप्रतिपथ्ततरनुपपन्ना ॥ १९ ॥ अथ विशेषमात्राक्षेपेऽप्याकाङ्क्षितस्सन्निहितो योग्यश्च योगविशेषो यः पदान्तरेण समर्प्यते, स एव गृह्यते । १२१० तदतिक्रमे प्रमाणाभावादित्यत्राऽह यद्यप्याकाङ्क्षितो योग्यो विशेषस्सन्निधौ श्रुतः । सम्बन्धबोधकाभावे१२११ गृह्यते न तथाप्यसौ ॥ २० ॥ सामान्यान्विताभिधानवादिनो मते पदानि तावत्तन्मात्र एव पर्यवसितशक्तीनि, पदार्थानामप्यन्वयबोधनशक्तिर्नाङ्गीक्रियते । न च सामान्याक्षेपोऽपि १२१२ इयतं विशेषमास्कन्दति । तेनाऽकाङ्क्षिते योग्ये च विशेषे पदान्तरेण१२१३ सन्निधापितेऽपि, तदन्वयबोधकप्रमाणाभावात्तदन्वयो न प्रतीयेतैव । अत आकाङ्क्षासन्निधियोग्यत्वान्यनुपयोगीन्येव । विशेषान्वयवादिनस्तु मते सम्बन्धग्रहणं प्रत्युपाधित्वेन प्रविष्टानि तानि १२१४ आक्यार्थप्रतिपत्तावुपयुज्यन्ते ॥ २० ॥ तदाह सम्बन्धबोधे व्युत्पत्तावुपाधित्वे१२१० समविशत् । विशेषान्वयवादे तु योग्यत्वाद्युपकारकम् ॥ २१ ॥ पदानां पदार्थान्तरसम्बद्धस्स्वार्थो बोध्य इत्यस्यां व्युपत्तावुपाधित्वेन योग्यत्वादिकमनुप्रविष्टं१२१५ विशेषान्विताभिधानवादिपक्षे उपकारकम्, न सामान्यान्विताभिधानेइति दर्शितं प्राक् ॥ २१ ॥ दूषणान्तरञ्चाऽह किञ्च वस्तुबलेनैव सिद्धे सामान्यसङ्गमे । तस्य वाच्यत्वमिच्छद्भिर्वृथा शब्दः प्रयासितः ॥ २२ ॥ क्रियाकारकस्वभावालोचनयापि कारकमात्रेण, क्रियामात्रेण चान्वयावगमसिद्धेः, वृथा सामान्यान्वयाभिधायकता शब्दस्याङ्गीक्रियत इति ॥ २२ ॥ १२१६॥ वाक्यमेकं न निर्भाग्र वाक्यान्त्यो वर्ण एव वा । पदवृन्दं स्मृतिस्थं वा प्रथमं पदमेव वा ॥ आख्यातपदमात्रं वा पदार्था वाप्यनन्विताः । १२१७ आमान्यान्वयबोधे वा हेतुर्वाक्यार्थबोधने ॥ पदान्येव समर्थानि वाक्यार्थस्यावबोधने । विशेषान्वयवादीनि भागशो भागशालिनः । इति सङ्ग्रहश्लोकाः । तथा चोक्तम् । अस्ति वा पदस्यार्ऽथः ? बाढमस्ति । कथं तर्हि वाक्यवाक्यार्थयोरौत्पत्तिकत्वम्, वृद्धव्यवहारात् । सत्यम् । सत्ववयवश इत्युक्तम् । इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां सवृत्तिकाया वाक्यार्थमात्रृकाया उपोद्धातो नाम प्रथमः परिच्छेदस्समाप्तः ॥ ************************************************************************** ११_२ ড়ाऋईCCःEडा २ अथ सवृत्तेर्वाक्यार्थमातृकाया द्वितीयः परिच्छेदः । कार्यविषये पूर्वपक्षः । १२१८ पोद्धातभूतमन्विताभिधानं प्रसाध्य, अपूर्वं कार्यं वेदवाक्यानामर्थ इति साधयितुकामः पूर्वपक्षं तावदाह ननु व्युत्पत्त्यपेक्षेषु शब्देष्वर्थाभिधायिषु । कथं मानान्तरावेद्यं कार्यमाहुर्लिङादयः ॥ १ ॥ अपूर्वाधिकरणै [मी. द. २. १. २] लिङाद्यर्थोऽपूर्वमित्युक्तम् । प्रमाणान्तरायोग्यञ्चापूर्वमिष्यते । यच्च प्रमाणान्तरायोग्यम्, तत्र सम्बन्धग्रहणमशक्यम्, सम्बन्धिग्रहणपूर्वकत्वात्तस्य । विशिष्टार्थव्यवहारदर्शनेन हि तद्विषया शब्दशक्तिरनुमीयते, तदेव च सम्बन्धग्रहणम् । यच्च न प्रतीयते, न तद्विषयो व्यवहारोऽवसीयते । तदनवसाये च, न तद्विषया बुद्धिरनुमीयते । तदननुमाने च कुतश्शब्दस्य शक्तिः कल्प्यते । अपूर्वञ्च न प्रमाणान्तरगोचरः । न च शब्दादेव तदवगम्य, सम्बन्धावधारणम्, इतरेतराश्रयप्रसङ्गात्१२१९ । अवसितशक्तेरवबोधकत्वात् । अवबोधकत्वादेव शक्त्यवगमात् । स्यान्मतम् । लिङादेश्शब्दस्यायं महिमा, यदनवसितशक्तिरपि स्वार्थमवगमयतीति । तदिदमप्रमाणम्१२२० । क्रियामात्रावबोधकत्वाङ्गीकारेण लिङादेर्लोकतो व्युत्पत्तिसम्भवे, शब्दान्तरवैलक्षण्येनागृहीतसम्बन्धस्यैव वाचकत्वकल्पनानुपपत्तेः । वेदवाक्यादपूर्वकार्यावगतेरेवं कल्प्यत इति चेत् । न । तस्या एवासिद्धत्वात्, क्रियैव कार्यतया वेदवाक्येभ्योऽवगम्यत इति, व्युत्पत्तिबलेनाप्रामाणिकं मनोरथमात्रविजृम्भितन्त्वपूर्वं कार्यं प्रतीयतेइति । तस्मादगृहीतसम्बन्धो लिङादिः कथमपूर्वं कार्यमभिधत्ते, तथा च कथं १२२१ अद्वाक्यार्थः । अभिधेय एव १२२२ यर्थो भवति वाक्यार्थः ॥ १ ॥ एवञ्च शब्दान्तराण्यपि कथं तेनादृष्टेन कुत्रचिद् । वदिष्यन्त्यन्वितं स्वार्थं व्युत्पत्तिपथदूरगम् ॥ २ ॥ तस्मिन्नप्रतीयमाने तदन्वितस्याप्रतीतेः, तत्र संबन्धावधारणानुपपत्तेर्दूरनिरस्तं शब्दान्तराणां तदन्वितस्वार्थबोधकत्वमिति ॥ २ ॥ सिद्धान्तः । राद्धान्तमुपक्रमते १२२३ त्रोच्यते यदा नाम वृद्धेनैकेन भाषिते । जलं चैत्राऽहरस्वेति चैत्र आहरते जलम् ॥ ३ ॥ तदा व्युत्पित्समानोऽन्यस्तत्रैवमवगच्छति । १२२४ उद्धिपूर्वा १२२५ अमेवास्य प्रवृत्तिरियमीदृशी । लिङादियुक्तवाक्यश्रवणसमनन्तरं वृद्धस्य विशिष्टार्थविषयां प्रवृत्तिं दृष्ट्वा, व्युप्तित्समानो बाल एवमाकलयतियेयं स्वाधीनास्व प्रवृत्तिः, सा मद्वद्बुद्धिपूर्विकेति । पुनश्च तस्यायं विमर्शो जायतेअहं बुद्ध्वा प्रवृत्तो१२२६ यथा, तद्वदेषोऽपि । यस्याः प्रवृत्तेर्हेतुभूता बुद्धिः, सा यद्विषया सती मम प्रवृत्तिहेतुः, तद्विषयैवास्यापीति, पुनर्व्युत्पित्सोरनुमा जायते । तदेवमनुमानद्वयमेततद्वृद्धस्य स्वतन्त्रा प्रवृत्तिःधर्मिणी, बुद्धिपूर्विकाइति साद्ध्यो धर्मः, स्वतन्त्रप्रवृत्तित्वात्मदीयस्वतन्त्रप्रवृत्तिवदिति, तथावृद्धस्य प्रवृत्तिहेतुभूता बुद्धिःधर्मिणी यद्विषया बुद्धिर्मम प्रवृत्तिहेतुभूता तद्विषयैवास्यापीतिसाध्यो धर्मः, प्रवृत्तिहेतुभूतबुद्धित्वात्मदीयप्रवृत्तिहेतुभूतबुद्धिवतिति । पुनश्च तस्यायं विमर्शः प्रवर्त्तते । १२२७ अदस्य तु शब्देन बोध्यते । अनेन मम मानान्तरेण तु यद्विषया सा बुद्धिः प्रवृत्तिहेतुभूता, तद्वस्त्वनेन१२२८ शब्देन बोध्यते । तद्भावे सत्यवगमात्, मम तु मानान्तरेण तद्बोध्यत इतिअयमावयोर्विशेषः । तेन यत्बुद्ध्वा प्रवृत्तिर्मम, तदस्यानेन शब्देन बोद्ध्यत इति शब्दस्य प्रवृत्तिहेतुभूतार्थावबोधकतामवधारयति ॥ ३ १॥ । २ ॥ पुनश्च कोऽसौ प्रवृत्तिहेतुभूतोर्ऽथश्शब्दाभिधेय इति निर्धारयितुम्, स्वात्मनि प्रतिपन्नं प्रवृत्तिहेतुभूतमर्थमनुसन्धत्ते तत्र बुद्ध्वा प्रवृत्तोऽहं किं तावत्स्वयमन्यदा ॥ ४ ॥ शब्दनिरपेक्षस्स्वयमहं प्रवर्त्तमानः किं बुद्ध्वा प्रवृत्त इति जिज्ञासते । अन्यदेत्यनेनव्युत्पत्तितः प्रागवस्थोच्यते । व्युत्पन्नेन बालेन यदात्मनि प्रवृत्तिकारणतया १२२९ रतीतम्, तदेव व्युत्पन्नस्यापीति कल्प्यते, नान्यदित्यर्थः । शब्दव्यापारयोर्भावनात्वनिरासः । १२३० एन शब्द एव प्रवृत्तिहेतुभूतो विधिः, तद्व्यापारो वेति निरस्तं भवति । तयोर्बालेनाऽत्मनि प्रवृत्तिकारणत्वेनादर्शनात् । १२३१ तिमन्दतया चेमौ पक्षौ न साक्षादुपन्यस्य निरस्तौ । तथाहिलिङादिशब्दस्वरूपस्य प्रवर्तकत्वे सर्व एव तच्छाविणो नियमेन प्रवर्त्तेरन्, नचैवं दृश्यते, कस्यचित्कदाचित्प्रवृत्तेः । लिङादिव्यापारस्य तु प्रवृत्तिहेतुत्वाश्रयणं देवाः प्रतिपद्यन्ताम्, पिशितचक्षुषो मानुषा वयं नेयतीं प्रमाणभूमिमवगाहितुं क्षमाः । शाब्दभावनोपन्यासः । केयं शब्दभावना१२३१ १२३१ च्यतेलिङादिव्यापाररूपा पुरूषप्रवृत्तिभवनानुकूला । स्वज्ञानकरणिका, अर्थवादोदितप्राशस्त्यलक्षणेतिकर्त्तव्यतायोगिनी प्रेरणात्मिका कल्प्यते । "स्वाध्यायाध्ययनविधिना हि सर्वे विधायकाः, स्वाध्यायपदोपात्तश्चात्मा नियुज्यन्ते भावयेदि" [तं. वा. पृ. ११४टति । तत्र किमित्यपेक्षायां पुरुषप्रवृत्तिस्सम्बद्ध्यते । केनेत्याकाङ्क्षायां विधिज्ञामेव योग्यतया करणत्वेनाङ्गीक्रियते । ज्ञाता हि शाब्दभावना प्रवृत्तिं प्रसूते, योग्यतयैवार्ऽथवादसमुत्थप्राशस्त्यज्ञानमितिकर्त्तव्यतांशे निविशते । अवसीदन्ती हि विधिशक्तिः प्राशस्त्यज्ञानेनोत्तभ्यते । तस्याश्च पुरुषव्यापाररूपा स्वर्गादिभाव्यावच्छिन्ना भावार्थकरणिका श्रौतस्मार्त्ताचारप्राप्तपदार्थजनितकरणोपकारवत्यार्थभावना समानप्रत्ययवाच्या विषयभूताइति । तन्निरासः । तन्न । लिङादेस्तादृशो व्यापारो विद्यत इत्यत्र न किञ्चन प्रमाणम् । लिङादिशब्दानन्तरभाविनी पुरूषप्रवृत्तिरेव प्रमाणमिति चेत् । न । तन्निबन्धनत्वेन प्रवृत्तेरन्यत्रादृष्टत्वात् । अयन्निबन्धना हि प्रवृत्तिर्दृंष्टा, तदेव तां दृष्ट्वा शक्यमनुमातुम्, न पुनरप्रतिपन्नपूर्वकारणभावश्शब्दव्यापारविशेषः । अथ लिङादिशब्द एव प्रमाणमिति साहसम्, अगृहीतसम्बन्धस्यावाचकत्वात् । अनवधारिते हि सम्बन्धिनि, सम्बन्धबोधवैधुर्यात् । प्र्प्र्कथञ्च तत्र स्वाध्यायाध्ययनविधिना सर्वे विधायकास्स्वात्मा च विनियुज्यन्ते । पुरुषं च्विधिरार्थभावनायां प्रेरयति । यश्च येन ओंप्रेर्यते, स तेन नियुज्यते । न चाचेतनानां ग्विधीनां नियोजकत्वमपि सम्भवति । अथ नच्च्नियोज्यन्ते । तदप्यनुपपन्नम्शाब्दभावनासु सर्वशब्दानां स्वत एव कर्तृत्वात्विनियोगानपेक्षणात् । अथ न अपुरुषाः प्रेरणे विनियुज्यन्ते, किन्त्वर्थावबोधने । तदपि न घटते । तत्रापि नियोज्यानपेक्षायास्तुल्यत्वात् । अध्ययनविधेश्चाक्षरसंस्काररूपाध्ययनविधायकत्वाभ्युपगमाता । तथाचाऽहुः "द्रव्यादीनां पुनः कस्मिन् स्वाध्यायोऽन्तर्गतो भवेत् । त्रेधापि प्रतिभात्यस्मिन् संस्कारत्वस्य निर्णयः ॥ संस्कार्यगणनायाञ्च युक्तैवाक्षरसंस्क्रिया । स्वाध्यायां हि स्फुटं कर्म साक्षात्संस्क्रियते चि सः" ॥ इति । संस्कारविधिश्च न संस्कार्यं विनियुङ्क्ते, प्रमाणान्तरावसितोपयोगस्य शेषित्वात् । संस्कारपर्यवसायी तु संस्कारविधिर्न संस्कार्यस्य कार्यं कल्पयेत् । आत्मा चाध्ययनविधिना विनियुज्यते, न विनियुज्यते वेति प्रतिपत्तिद्वयस्याप्यसम्भवादनुपपन्नम् । पुरुषप्रवृत्तेर्भाव्यत्वप्रक्षेपप्रतिक्षेपौ । कथञ्च पुरुषवृत्तिस्तस्या भाव्यम्, न तावदनन्तरनिष्पत्तेः, विधिज्ञानस्य करणत्वाभावप्रसङ्गात् । क्रियाफलं हि तदा पुरुषप्रवृत्तिस्स्यात् । न च क्रिया स्वफलप्रसवाय करणमपेक्षते । न च गमनं संयोगविभागारम्भे करणापेक्षम् । स्यान्मतम् १२३३ इङादिशब्दो विधिज्ञानं जनयित्वा, १२३४ अरणानुगृहीताः प्रेरणारूपं स्वव्यापारमारभते इति । न च करणत्वाभावः, क्रियानिष्पत्तावेव करणत्वात् । तदिदमलौकिकम् । न हि कस्यचिद्वस्तुनस्स्वज्ञानमुत्पादहेतुः प्रतीतम् । प्राशस्त्यज्ञानस्येतिकर्तव्यतात्वनिरासः । एवमर्थवादोदितप्राशस्त्यस्यापीतिकर्त्तव्यतात्वं विध्यस्तम् । योग्यतया हि तस्य तथाभावः । न च प्रेरणोत्पत्तौ शब्दकर्तृकायां करणीभूतज्ञानानुग्रहयोग्यता तस्य शक्यतेऽवगन्तुम् । पुरूषकर्तृकायान्तु प्रवृत्तौ स्यात्तस्य योग्यतावगमः, प्रशस्ते १२३५ उरुषप्रवृत्तिदर्शनात् । स्यान्मतम् । अप्रशस्ते प्ररुषप्रवृत्त्यसम्भवे प्रेरणैव नोपपद्यते । तदसत् । न फलसम्भवायत्ता क्रियानिष्पत्तिः, क्रियानिष्पत्त्यायत्तैव तु फलसिद्धिरिति लोके प्रतीतम् । अत एव तस्मिन्पक्षे निष्फलेऽपि प्रेरणासिद्धेः प्रवृत्तिस्स्यात् । अथ फलमपीतिकर्त्तव्यतापदनिवेशि, प्राशस्त्यवत्, अतस्तदभावे न प्रेरणा निष्पद्यतेइति । तर्हि फलमेवास्त्वितिकर्त्तव्यतांशपरिपूरकम्, किं प्राशस्त्येन । सत्यमेतद्, अस्ति तावद्तदपीति न त्यज्येत । एवं तर्ह्यश्रुते प्राशस्त्ये तदपेक्षा मा भूत् । ततश्च तदतिदेशादिकल्पनमघटमानं केवलस्य विधेर्दर्विहोमवत्करणेतिकर्त्तव्यताकल्पनापि कल्पनामात्रमेव । दर्विहोमवदिति१२३६ चासिद्धो दृष्टान्तः । तत्रापि श्रौतद्रव्यदेवतास्मृत्याचारप्राप्ताचमनादीतिकर्त्तव्यतामात्रेणोपकारकॢप्तेरभिमतत्वात्१२३७ । नह्येकस्यैव वस्तुनोऽनुग्राहकता, अनुग्राह्यता च स्वात्मन्युपपद्यते । अथ शब्दः प्रेरणां करोत्येव, प्रवृत्तिस्तु न तावन्मात्रेण, किन्तु तज्ज्ञाने सति । एवं तर्हि ज्ञानफलमेव प्रवृत्तिरस्तु, न प्रेरणाफलं, तस्मिन्सति भावात्, असति चाभावात् । तथा च न शाब्दभावना विधिरिति सिद्धम् । १२३८ इञ्च शब्दोऽम्बरगुण इति, १२३८ राप्यकारीन्द्रियवादिनाभ्युपेयम् । अन्यथा नभसश्श्रोत्रभूतस्य, शब्दस्य च प्राप्त्यसम्भवात्संयोगसमवाययोरन्यतरस्य च प्राप्तिरूपत्वात्, संयोगस्यान्यतरकर्मजस्य, उभयकर्मजस्य, संयोगजस्य च द्रव्यत्वे सति शब्दस्य नभसा सहासम्भवात्तस्य च त्रैविध्यनियमात्, पारिशेष्यात्समवायः प्राप्तिरिति, आकाशगुणश्शब्दः । न च तस्य व्यापारसम्भवः, द्रव्याश्रितत्वाद्द्व्यापाराणाम् । कथं तर्हि शब्दस्याभिधानलक्षणो व्यापार आश्रीयते । यथा तत्तथा श्रूयताम्यत्तावदात्मन्यर्थविषयज्ञानं शब्दविषयज्ञानानन्तरं जायते, १२३९ अच्छब्दकर्तृकतया यदा विवक्ष्यते, तदा १२४० अदाभिधानिकमित्युच्यते । परस्थेऽपि व्यापारे भवत्येव कर्तृता, परिस्पन्द इवात्मन इति, न कश्चिद्दोषः । कथञ्चासौ शब्दव्यापारार्थभावनाविषयः, एकप्रत्ययवाच्यत्वातिति१२४१ । तदुक्तम् "१२४२ इधिभावनयोश्चैकप्रत्ययग्राह्यता कृतः । धात्वर्थात्प्रथमं तावत्सम्बन्धोऽध्यवसीयते" ॥ [श्लो. वा. अ. ७. श्लो. ७९ १ । २. ८० १ । २] इति । तन्न । प्रत्ययस्य भावनाभिधानमस्मिन्पक्षे दुर्घटं यतः । आख्यातानां भावनावाचित्वशङ्का । ननु१२४३ च सर्वाख्यातानां भावनावचनता करोतिसामानाधिकरण्यादध्यवसीयते । तथाहिभवत्यर्थस्य कर्तुः प्रयोजकव्यापारो भावना, सैवकृतिः । भाव्यमानस्यैव क्रियमाणत्वात्, तस्य कृतिकर्मत्वात् । किमकार्षीत्? अपाक्षीत्किं करोति ? पचति ? किं करिष्यति, पक्ष्यति,इति प्रश्नोत्तरदर्शनात्, करोत्यर्थस्सर्वाख्यातैरभिधीयत इति गम्यते । अन्यथा करोत्यर्थविषयप्रश्ने तदुत्तरानुपपत्तिः । १२४१ अत्र सत्यामपि प्रकृतौ धञन्तादिषु करोत्यर्थानवबोधात्, आख्यातप्रत्ययसन्निधाने च तदवगमात्, आख्यातानामेव सोर्ऽथ इति निश्चीयते । तन्निरासः । तदसत् । किं करोतीत्यस्य प्रश्नस्य यद्ययमर्थःयत्करोति, तत्किमिति, तत्र चेत्पचतीत्युत्तरं स्यात्, तदा पाकं करोतीत्यस्मिन्नर्थे पचतीति वर्त्तते । तथा च सिद्ध्येदाख्यातानां करोत्यर्थता । न चैतदेवम् । अनवगते हि धातुवाच्ये व्यापारविशेषे, तद्विशेष एवएवंपृच्छ्यते, तत्र पचतीत्युत्तरम् । तथा च न सिद्ध्यति धात्वर्थातिरिक्तकरोत्यर्थवचनताऽख्यातानाम् । सर्वे धात्वर्थाश्च कस्यचिदभूतस्य भवनेऽनुकूलतां भजन्तः करोत्यर्थतामापन्नाः करोतिना प्रष्टुम्, निर्देष्टुञ्च शक्यन्त इति, तद्विशेषप्रश्नोत्तरे एव ते । किञ्च धातुवाच्यव्यापारविशेषविषयत्वेनापि प्रश्नोत्तरयोरुपपत्तौ, तदतिरिक्तकरोत्यर्थवाचकताऽख्यातानां न शक्यते वक्तुम् । अपि च सप्रयत्नक्रियेषु देवत्तादिषु व्यापारभेदसम्भवात्घटेतां प्रश्नोत्तरे । व्यतिरिक्तकरोत्यर्थविषये "किं करोती"ति प्रश्ने, "गच्छती"ति चोत्तरे गमनातिरिक्तव्यापारामावादनुपपत्तिरेव स्यात् । धात्वर्थविशेषविषयत्वे तु तत्राप्युपपत्तिः । अथ तत्रापि संयोगविभागौ धात्वर्थः, परिस्पन्दस्तु विभक्त्यर्थ इति, तत्रापि धात्वर्थव्यतिरिक्तव्यापारसम्भवान्नानुपपत्तिः । तन्न । परिस्पन्दस्यैव गमिवाच्यत्वात् । तथाहिन केवले संयोगे, विभागे वा गमेः प्रयोगः, स्थाणौ श्येनेन वियुक्ते, संयुक्ते वाप्रयोगात् । नापि द्वयोः, उत्पत्यनिपतिते श्येने स्थाणौ प्रयोगप्रसङ्गात् । एकक्रियाक्षणजन्यौ संयोगविभागौ गमिवाच्याविति यद्युच्येत । तर्हि क्रियैवास्तुवाच्या, किमसावुपाधिकोटौ निवेश्यते । एवं ह्युपाधिसमाश्रयगौरवमेव परिहृतं भवति । अपि च वृद्धव्यवहाराच्छब्दार्थनिर्णयः । न चाऽरव्यातानां भावनावचनत्वमन्तरेण कस्यचिद्वृद्धव्यवहारस्यानुपपत्तिः । प्रश्नोत्तरे तु सम्बन्धज्ञानोत्तरकालभाविनी, अतो न तद्वशेन सम्बन्धिनिरूपणा । कर्त्रादिसंख्यामात्रवाचितयाऽख्यातप्रयोगोपपत्तौ, नाधिकं वाच्यं शक्यं कल्पयितुम् । अपि च "पाकं करोति देवदत्तः" इत्यत्र तावत्पच्यर्थं पाकशब्दो ब्रवीति, तदनुगुणन्तु पुरुषप्रयत्नं करोतिराचष्टे, आख्यातन्तु केवलकर्तृसंख्यां वक्तीति, सिद्धं तन्मात्रवाचित्वम् । अतोऽन्यत्रापि तत्रैव वर्त्तत इति युक्तम् । एवं "पचति देवदत्तः" इत्यस्य यद्विवरणंपाकं करोतीति । तदप्यनुपपन्नम् । पचतीत्यत्र यः पुरुषप्रयत्नः यत्सम्बन्धेन पच्यर्थस्साध्यभूतः, तं करोतिना प्रकृतिभूतेनोपादाय विवरणोपपत्तेः । यत्रापि "रथो गमनं करोति"ति न प्रयत्नोऽपरोऽस्ति, तत्रापि गमनस्य साध्यतां दर्शयितुम्, गौणः करोति प्रयोगो द्रष्टव्यः । पक्षद्वयेऽपि तुल्यत्वात् । मण्डनमिश्रमतोपन्यासनिरासौ । यस्तु"देवदत्त ओदनं पचती"त्यादौ वृद्धव्यवहारे एव प्रकृत्यर्थातिरिक्ते प्रयत्ने प्रयोगादारव्यातानां तदर्थतामाह । स इत्थं शिक्षयितव्यः वत्स ! किं न वेत्सि "अनन्यलभ्यश्शब्दार्थः" इति । इह च प्रकृत्यर्थाक्षेपेणापि प्रयत्नप्रतिपत्त्युपपत्तेः, न शक्यते तद्वाचकताऽख्यातानामाश्रयितुमिति । कार्यवाचिनामेव कृतिवाचित्वनिरूपणम् । ननु प्राभाकरा अपि भावनावाचकतां न कथमारव्यातप्रत्ययस्येच्छन्ति । उच्यतेन सर्वाख्यातप्रत्ययानां भावनावचनत्वमभ्युपेमः, किन्तु कार्याभिधायिनो लिङादयः कार्यस्यान्यथानभिधानात्कृत्यभिधायिन इष्यन्ते । कृतिसम्बन्धि हि कार्यं कृत्यनभिधाने नाभिहितं स्यात् । नह्यस्ति सम्भवः, कृतिश्च नाभिधीयते, कार्यञ्चाभिधीयतेइति । अथ मतम् । यथा दण्डीत्यत्र प्रत्ययेन दण्डो नाभिधीयते, अथ च तद्विशिष्टपुरुषप्रतीतिः, एवमिहापि भवेदिति । तन्न । तत्राप्यप्रतीते दण्डे, न तद्वति प्रत्ययः । अस्ति च तत्र प्रकृतिभूतो दण्डशब्दः, स च तस्य प्रत्याययिता । न चेह तथा सम्भवति, प्रकृतीनां १२४४ उरुषव्यापाराभिधानानियमात् । पुरुषो हि चेतनः कार्यं लिङादिभिरवबुध्यते । न चासौ परकृतिसम्बन्धि स्वयं कार्यं बोद्धुमलमिति, तदीयकृत्यभिधानमेषितव्यम् । तस्य च कृतिः प्रयत्नरूपा । न च सर्वथा १२४५ अदननुभवे तदभिधायिन इति, न दण्डिन्यायस्यायं विषयः । स्यान्मतम् । यथा लिङ कर्त्रादिसंख्यामात्रवचनता, क्रियाक्षेपेण च कर्त्रादीनां प्रतीतिः । तथेहापि क्रिया प्रयत्नमाक्षिपति, मा भूत्तस्य लिङ्वाच्यताइति । तदसत् । यद्यपि प्रकृत्यर्थभूतया क्रियया प्रयत्न आक्षिप्यते । तथापि तदायत्तसिद्धिकतया१२४६ कथमपूर्वं गम्यते । प्रयत्नाभिधाने तदवच्छिन्नतया प्रतीयमानं१२४७ तदायत्तसिद्धिकमवगम्यते, नान्यथा । न च कृत्त्यनवच्छिन्नस्वरूपमात्रेणापूर्वमभिहितं कृतिमाक्षेप्तुमलम् । अवगतसम्बन्धं हि वस्त्वाक्षिप्यते । न च शब्दमन्तरेणापूर्वस्य प्रयत्नसम्बन्धावगमे १२४८ आरणमस्ति । अतः कथं तत्प्रयत्नमाक्षिपेत् । तस्मादपूर्वकार्यभिधायिनां प्रयत्नाभिधानमवश्यमाश्रयणीयमिति, विषयकरणीये निपुणतरमुपपादितमित्यलमतिप्रसङ्गेन ॥ ४ ॥ तत्र न क्रियामत्रं तावदहं बुध्वा प्रवृत्तः, नापि फलमात्रम्, न क्रियाफलसम्बन्धमात्रं वा । क्रियाफलयोस्साध्यसाधनतावगमेऽपि न प्रवृत्तिरुपपद्यते । तृप्तिहेतौ भोजनेऽतीते, वर्तमाने वाप्रवृत्तेः, भविष्यत्यपि तत्साधने सामुद्रविदाख्यात इवानुष्ठानाभावात् । पुरुषाशयावगमस्तु प्रबृत्तिहेतुत्वेनाऽशङ्कितोऽपि, स्वतन्त्रप्रवृत्तौ व्युत्पित्सोर्दूरोत्सारितत्वात् । किन्तु कार्यतां बुध्वा प्रवृत्तोऽहम्, ममेदं कार्यथ्मति प्रतीत्यअहं सर्वत्र प्रवृत्तः । तथाहि आस्तां तावत्क्रिया लोके गमनागमनादिका । अन्ततस्स्तन्यपानादिस्तृप्तिकाररिण्यपि१२४९ क्रिया ॥ ५ ॥ सा यावन्मम कार्येयमिति नैवावधार्यते । तावत्कदाऽपि मे तत्र प्रवृत्तिरभवन्न१२५० हि ॥ ६ ॥ ब्रह्मसिद्धिकतो मतेनाऽशङ्का । १२५१ त्रापर आह । सत्यंकार्यावगमादेव प्रवृत्तिः । इष्टसाधनतैव तु कार्यता, न परा काचित्, सैव प्रवृत्तिहेतुर्विधिरुच्यते । तदाह "अपेक्षितोपायतैव विधिरिष्टो मनीषिभिः । अतो ह्यध्यवसायादिर्नाकस्मान्नाभिधानतः" ॥ [ब्र. सि. कां. ३, १०३ १ । २ १०४ १ । २ पृ० ११५] इति । १२५२ अथा "पुंसो नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्त्तकः । प्रवृत्तिहेतुं धर्मञ्च प्रवदन्ति प्रवर्त्तनाम् ॥ [वि. वि. श्लो. २६ पृ० २४३] इति । कर्त्तुरिष्टाभ्युपाये हि कर्त्तव्यमिति लोकधीः । विपरीते त्वकर्तव्यमिति तद्विषये ततः ॥ [वि. वि. श्लो. ३० पृ० ३०२] इति च । तन्निरासः । तत्र तावदिदमेव वक्तव्यम् । अतीतस्य १२५३ अर्तमानस्य चेष्टसाधनताऽस्ति, न च तत्कार्यतयाऽवसीयते । तेनान्या कार्यता, अन्या चेष्टसाधनताइति । तथा प्रवृत्तिरपि तन्मात्रावगमायत्ता न भवतीत्युपेक्ष्यैव तावत्तं, फलसाधनताकार्यतयोर्भेदं विनिर्दिशति १२५४ हलसाधनता नाम या सा नैव च कार्यता । कार्यता कृतिसाध्यत्वं फलसाधनता पुनः ॥ ७ ॥ करणत्वं फलोत्पादे भिद्येते ते परस्परम् । यद्यप्येकवस्तुनिवेशिता द्वयोः, तथापि स्वरूपभेदोऽस्त्येव । तदेव हि वस्तु फलं प्रत्युपायभावात्फलसाधनमित्युच्यते, कृत्यधीनात्मलाभतया च कार्यमिति ॥ ७ ॥ किमितीष्टाभ्युपायेष्वेव कर्त्तव्यतावगमः, अन्यत्र नेत्यत्राऽह । किन्तु स्वयं क्लेशरूपं कर्म यत्कार्यतां व्रजेत् ॥ ८ ॥ फलसाधनता तत्र १२५५ आरणं तेन कार्यता । तद्भावभाविनी नित्यं तदा सैव१२५६ प्रकाशते ॥ ९ ॥ स्वभावेन हि कर्माणि दुखोत्पादहेतुभूतानि । तेषु कार्यत्वावगमः फलसाधनतावगमनिबन्धनः । कार्यता हि न कृत्यधीनसिद्धितामात्ररूपा, किन्तु कृतिं प्रति प्रधानभूतं सत्यत्तदधीनसत्ताकम्, तत्कार्यमुच्यते । तच्च कृतेः प्रधानम्, यदधिकृत्य कृतिः प्रवर्तते । न च दुःखं दुखहेतुंवाधिकृत्यकृतेः प्रवृत्तिरुपपन्ना, नाप्यदुःखम्, अदुःखहेतुं वा । किन्तु सुखं, सुखहेतुं वा । तत्र न तावत्स्वयं सुखरूपं कर्म, सुखसाधनमपि चेन्न स्यात्, न तस्य कृतिं प्रति प्राधान्यावगमो१२५७ घटते । अतः कर्मसु कार्यत्वावगमः फलसाधनतावगमनिबन्धन इति, ज्ञापककोटिनिविष्टा फलसाधनता १२५८ आर्यतामनुरुध्यते, न त्वसौ तदात्मैव । तथा चासाधनस्यापि सुखस्यैवास्ति कार्यता । सुखं हि सर्वः कार्यतयावैति, न तस्य फलसाधनतामपेक्षते । तेन फलसाधनतोत्तीर्णकार्यतावगमेन मे प्रवृत्तिरिति निश्चित्य, व्युत्पित्समानश्चैत्रं प्रवर्त्तमानं दृष्ट्वानुमिनोतिचैत्रोऽपि कार्यबोधात्प्रवर्ततेइति । चैत्रस्य १२५९ रवृत्तिःधर्मिणी, कार्यबोधपूर्विकाइति साध्यो धर्मः, बुद्धिपूर्वकत्वे सति प्रवृत्तित्वान्मदीयप्रवृत्तिवदिति । लिङादयश्च प्रवृत्तिहेतुभूतार्थाभिधायिनः कार्यमेवाभिदधते । तस्यैवावगतस्य प्रवृत्त्यनन्तरकारणत्वात् ॥ ९ ॥ इच्छा यद्यपि प्रवृत्तिहेतुः, तथापि सा लिङादिवाच्या न भवति । तदवगमस्य प्रवृत्तावनपेक्षितत्वात् । उत्पन्ना हि सा प्रवृत्तिकारणम्, नावगता । नन्वेवमपि कथं लिङादीनां कार्ये व्युत्पत्तिरित्यत्राऽह शब्दान्तराणि स्वार्थेषु व्युत्पद्यन्ते यथैव हि । आवापोद्वापभेदेन तथा कार्ये लिङादयः ॥ १० ॥ १२६०॥ लिङादियुक्तवाक्यश्रवणे तद्भावभाविन्या प्रवृत्त्या विशिष्टकार्यावगतिमनुमाय, वाक्यस्य १२६१ एतुतामध्यवस्यति । तत्रापि १२६२ ओर्ऽथः केन १२६३शब्देनाभिहित इति विवेचने, लिङानद्यावापे१२६४ कार्यावगतिदर्शनात्, तदुद्धारे चादर्शनात्, त एव कार्यावगतिं कुर्वन्तीति शब्दान्तरवल्लिङादीनां कार्यवाचकत्वव्युत्पत्तिसिद्धिः ॥ १० ॥ ननु लोकव्यवहारात्लिङादयो वाचकतया व्युत्पाद्यमानां प्रैषादिष्वेववचकतया व्युत्पत्तिमर्हन्ति । तत्रैव तेषां प्रयोगदर्शनादित्यशङ्क्याऽह । कार्यमेव हि १२६५ अक्तृणां ज्यायःसमकनीयसाम् । प्रवर्त्त्यापेक्षया भेदात्प्रैषादिव्यपदेशभाक् ॥ ११ ॥ प्रवर्त्त्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपाद्यमानं कार्यं प्रैष इति व्यपदिश्यते । समेना । द्यऽमन्त्रणं, हीनेनाध्येषणमिति, प्रैषादिप्रतिपादका अपि लिङादयः १२६६ आर्यमेव प्रतिपादन्ति, नार्ऽथान्तरम् ॥ ११ ॥ कथं पुनरवसीयतेकार्यमेव प्रैषादिव्यपदेशभागित्यत्राऽह कार्यमेव हि सर्वत्र प्रवृत्तावेककारणम् । प्रवृत्त्यव्यभिचारित्वाल्लिङाद्यर्थोऽवधार्यते ॥ १२ ॥ प्रवृत्तिर्हि बालेन स्वात्मनि कार्यावगमपूर्विका प्रतिपन्नेति, सर्वपुरुषानपि प्रवर्त्तमानान्दृष्ट्वा कार्यावगममेव बालः कल्पयतीति, प्रैषादीनामपि प्रवृत्तिः कार्यावगमनिबन्धनेति, कार्यमेव प्रैषादिव्यपदेशयोगीति सिद्धम् । वस्तुतस्तु प्रैषादीनामपि १२६७ रवृत्त्यव्यभिचारित्वात्कार्यस्य च प्रवृत्तिषु सर्वासु हेतुभूतत्वात्प्रैषादिष्वपि लिङादीनां कार्यमेवार्ऽथ इति निश्चीयते ॥ १२ ॥ केन पुनः प्रमाणेन बालस्स्व्यं कार्यमवगच्छति । यतः प्रवर्त्तत इत्यत्राऽह कृतिसाध्यं प्रधानं १२६८ अत्तत्कार्यमभिधीयते१२६९ । १२७० अच्च मानान्तरेणापि वेद्यमोदनपाकवत् ॥ १३ ॥ कृतौ सत्यां भावात्, असत्याञ्चाभावादनुमानतः कृतिसाध्यता तावदवगम्यते । यदधित्कृत्य कृतिः प्रवर्त्तते, तत्कृतेः प्रधानम्, प्रयत्नश्च कृतिः । स च मानसप्रत्यक्षवेद्य इति, विशिष्टप्रयोजनतापि प्रयत्नस्य प्रत्यक्षवेद्यैव । तेन प्रत्यक्षानुमानाभ्यां कार्यमवगम्यते । यथा चोदनपाकयोरिति, न किञ्चिदनुपपन्नम् । उपसंहरति एवं कार्यात्मकेऽप्यर्थे व्युत्पद्यन्ते लिङादयः । तदन्वितेषु स्वार्थेषु तथा शब्दान्तराण्यपि ॥ १४ ॥ एवमपि कथं मानान्तरावेद्यकार्यवाचिता लिङादीनामित्याशङ्क्य, मीमांसामवतारयति संप्रधार्यमिदन्त्वत्र तत्कार्यं किं क्रियात्मकम् । यद्वा तद्य्वतिरेकीति ....................... ॥ को नु निर्णय इत्यत्राऽह ................. तत्र लोकानुसारतः ॥ १५ ॥ प्रमाणान्तरविज्ञेया क्रिया कार्येति यद्यपि ॥ लोके हि लिङादियुक्तवाक्यश्रवणे विशिष्टक्रियानुष्ठानदर्शनात्तद्विषया कार्यावगतिर्लिङादिभिः क्रियत इति युक्तम्, अवगतिप्रवृत्त्योरेकबिषयत्वात् । नह्यन्यत्कार्यतयावगम्य, अन्यत्र बालः प्रवर्त्तते । किञ्च क्रियायां कार्यभूतायां लिङादियुक्तवाक्यप्रतिपाद्यायामभ्युपगम्यमानायां१२७१ शक्तिकल्पनालाघवं स्यादेव । तथाहिधातुरेव स्वार्थं ब्रवीतु, तथाभूतार्थवाचिनस्तु धातोः परे लिङादयो भवन्तीत्याश्रीयते । लिङादिश्रवणे तु तथाभूतार्थंपरतया१२७२ धातुः प्रयुक्त इत्यवगम्य, कार्यभूतधात्वर्थावगमस्सम्पद्यते । यथा लडादिभ्यो वर्त्तमानाद्यध्यवसायः, तेष्वपि १२७३ अर्तमानेर्ऽथे वर्त्तमानाद्धातोर्लडित्येव सूत्रार्थः । कर्त्रादिसंख्यामात्रवाचित्वमेव केवलं लडादीनामिव लिङादीनामप्यर्थ इति, क्रियैव कार्यतया वेदेऽप्यवगम्यत इति, यद्यपि विवेकासमर्थानामवगतिर्भवति१२७४ । १२७५ अथापि वेदे षष्ठाद्यसिद्धान्तेऽवस्थिते सति ॥ १६ ॥ स्वर्गकामादयः कार्ये नियोज्यत्वेन १२७६ अम्मताः । १२७७ वर्गकामादिभिश्श्ब्दैर्वक्तव्या इतयवस्थितम् ॥ १७ ॥ षष्ठाद्ये ह्येतदुक्तम्लिङादिप्रयोगे तावत्कार्यावगतिरस्तीति निर्विवादम् । कृतिसाध्यञ्च कार्यं भवति । सति कर्त्तरि तस्याऽत्मलाभः । कर्तृलाभश्च स्वसम्बन्धिकार्यावबोधे सति भवति, नान्यथा । तेन यद्यपि लोकानुसारेण क्रियाया एव कार्यतया बोध्यमानाया वाक्यार्थत्वात्, तदन्वयित्वाच्चेतरेषामपि१२७८ पदार्थानाम्, कारकत्वादृते चान्यस्य क्रियान्वयित्वासम्भवाल्लोहितोष्णीषन्यायेन विशेषणभूतस्वर्गकामनासमर्पणपरतया कर्तृविशेषणत्वेन स्वर्गकामस्यान्वयोऽवगम्यते । तथापि स्वसम्बन्धिकार्यबोद्धृत्वेनैवान्वयो वर्णनीय इति, नियोज्यसमर्पकत्वमेवाऽश्रीयतेइति ॥ १७ ॥ एवमपि किमित्याह नियोज्यस्स च कार्यं यस्स्वकीयत्वेन बुद्ध्यते । तथापि किमित्याह स्वर्गादिः कामयोगाच्च साध्यत्वेनैव गम्यते ॥ १८ ॥ साध्यविषयैव हि सर्वत्र कामना भवति, तेन तत्सम्बन्धात्साध्यभूतं स्वर्गादि काम्यमानतया पुरुषं विशिनष्टि तेन साध्यत्वपर्यन्तस्वर्गादीच्छाविशेषितः । तदेव शक्नुयात्कार्यं बोद्धुं यत्काम्यसाधनम् ॥ १९ ॥ मण्डनमिश्रमतस्योपन्यासः । अत्र कश्चिदाहयद्यपि कामनायोगात्साध्यता स्वर्गादीनामवगम्यते, तथापि प्रकृतकार्यसाध्यत्वावगमो निष्प्रमाणक एव, अन्यसाध्यस्यापि साध्यत्वसम्भवात् । न च यत्काम्यते, तस्यावश्यं साधनमस्ति । मनोरथपरम्पराहृतचेतसो हि तन्नास्ति, यन्न कामनाविषयीभवति । न च तस्य सर्वस्य साधनं भवति, सर्वज्ञत्वमपि केचित्कामयन्ते, न च तस्योपायसम्भवः । अथ तदिच्छावतोऽतत्साधने कर्त्रृता नोपपद्यते । कथ१२७९ नोपपद्येत । दृश्यन्ते हि ग्रामाभिगमनकामा १२८० पि यादृच्छिकीषु क्रियासु प्रवर्त्तमानाः । अपि च सर्वोऽभ्युदयार्थ्येव१२८१ पुरुषः, तथापि प्रायशस्तद्विरोधिष्वेवेन्द्रियार्थेषु प्रवर्त्तमानो दृश्यतेइति । तन्निरासः । अत्रोच्यतेस्वर्गादिकं कामयमानस्य तदेव कार्यतया बबोद्धुमवकल्पते, यदेव तस्य काम्यमानस्य सिद्ध्यनुगुणम् । अन्यथा हि तत्कामिना सता तत्कार्यतयानवबुद्धं स्यात् । अपरित्यक्ततत्कामनासम्बन्धो हि तत्साधनं कार्यतयावबुध्यते । तस्माद्यत्कामिनो यत्कार्यतयोपदिश्यते, तत्तस्नय काम्यस्य १२८२ आधनमिति नियोज्यकार्यान्वयानुपपत्त्यैव गम्यते ॥ १९ ॥ एवं सति किं फलमित्याह लिङादिस्तत्र कार्यञ्चेत्क्रियामेवावबोधयेत् । समन्वयो नियोज्येन तदानीमेव हीयते ॥ २० ॥ कथमित्याह क्रिया हि क्षणिकत्वेन न कालान्तरभाविनाः । स्वर्गादेः १२८३ आम्यमानस्रू १२८४ अमर्था जननं प्रति ॥ २१ ॥ इष्टस्याजनिका सा च नियोज्येन फलार्थिना । कार्यत्वेन न सम्बन्धमर्हति क्षणभङ्गिनी ॥ २२ ॥ कार्यविरोधि कर्मेति प्रमाणान्तरसिद्धम् । परिस्पन्दो ह्युत्तरदेशसंयोगोदयापवर्गीत्याशुतरविनाशी, स्वर्गश्च नियतदेशान्तरकालान्तरभोग्यः । मण्डनमिश्रमतानुवादः । १२८५ अनु प्रीतिमात्रवचनस्स्वर्ग इति षष्ठाद्ये साधितम्, प्रीतिसाधनेषु द्रव्येषु स्वर्गशब्दप्रयोगात् । न च तेषु स्वरूपनिबन्धन एव तत्प्रयोगः, प्रीत्यपगमे तदभावात् । न च तत्साधनवचनता तदनभिधाने घटते, तदभिधानाभ्यूपगमे तद्वाचकतैव । लक्षणया तत्साधने प्रयोगोपपत्तेः, तत्र शक्तिकल्पनापरिक्षयात् । अखण्डशब्दतया च दण्डिन्यायस्यासम्भवात्तदन्तर्गतस्य दण्डशब्दस्य दण्डप्रत्यायकत्वसम्भवात् । प्रीतेश्च कर्मानन्तरभावित्वमपि न सम्भवत्येव । तन्निरासः । उच्यते । न प्रीतिमात्रवचनतया ज्योतिष्टोमादिचोदनासु स्वर्गशब्दस्य प्रयोगोऽवकल्पते१२८६, अर्थवादेषु दुःखासम्भिन्नचिरतरोपभोग्याभिलाषोपनेयप्रीतिश्रवणात् । तत्र यदि विध्युद्देशगतस्स्वर्गशब्दस्तथाविधप्रीतिपरतया न वर्ण्यते, तदातिपरोक्षार्ऽथवादपदानां वृत्तिरादृता न भवेदिति, तदानुगुण्येन तादश्यामेव प्रीतौ स्वर्गशब्दः प्रयुक्त इति निश्चीतते । तथाभूता१२८७ च सा नियतमेव देशान्तरभोग्या । अतो न कर्मानन्तरभाविनीति, न तत्र कर्मण आशुतरविनाशिनस्साधनतावकल्पते । यस्मिन् हि पूर्ववर्त्तिनि यन्निष्पाद्यते, तत्तस्य साधनमितिलोकप्रतीतिः । अत एव च विनष्टस्यापि कर्मणश्शास्त्रेण साधनत्वं बोधत इति ये ब्रुवते, तेऽपि निरस्ताः । एवं चासावाशुतरविनाशिनी क्रिया स्वर्गकामिना नियोज्येन सह कार्यतया सम्बन्धुं नार्ऽहति, स्वर्गं प्रति साधनत्वानुपपत्तेः ॥ २० ॥ २२ ॥ तस्मान्नियोज्यसम्बन्धसमर्थं विधिवाचिभिः । कार्यं कालान्तरस्थायि क्रियातो भिन्नमुच्यते ॥ २३ ॥ ननु क्रियैव कार्यतयोच्यताम्, अस्तु सैव १२८८ हलसाधनम् । तेन तस्या अपि नियोज्यसंबन्धो घटत एव । न त्वसौ क्षणभङ्गिनी देहान्तरोपभोग्यस्वर्गसाधनतां कथमवलम्बिष्यते । उच्यते । वरं तस्या एव तदनुपपत्त्या चिरतरावस्थायिताकल्पना, न पुनरदृष्टस्याश्रुतस्य तदतिरेकिणोर्ऽथस्य कल्पना । यदि १२८९ आ कर्मण एव शक्तिरवस्थायिनीत्यभ्युपगम्यताम् । तदिदमुभयमपि प्रमाणान्तरविरोधान्न कल्पनामर्हति । अविरोधि हि प्रतीतसिद्ध्यर्थ कल्पयितुं शक्यम् । कर्मणश्चाऽशुतरविनाशिनश्चिरतरावस्थायिता प्रमाणान्तरविरुद्धा१२९० । वार्तिकमतोपन्यासनिरासौ । शक्तिमति चातीते शक्तिरप्यतीतेति प्रमाणान्तरसिद्धमिति, न सापि स्थायिनी शक्या कल्पयितुम् । १२९१ पि चाऽश्रये निवृत्ते, किमाश्रया शक्तिरवतिष्ठताम् । आत्माश्रितेति चेत् । नान्यदीया शक्तिरन्यत्र वर्तते, प्रमाणान्तरविरोधादेव । किञ्च शथ्कतमत्यसति,शक्तेः फलं न युक्तम् । शक्मिमद्धि साधनम्, न शक्तिः केवला१२९२, अन्यथा शक्तित्वं न स्यात् । देवताप्रसादस्य फलप्रयोजकत्वशङ्का १२९३ अनु यागादिक्रिया देवताराधनोपायभूता सती कार्यतयोच्यताम्, सा तत्प्रत्त्यासत्तिद्वारेण कालान्तरेऽपि फलं जनयितुमलमेव । देवता फलदानसमर्था कर्मभिराराध्यते, साऽराधिता प्रसीदति, प्रसन्ना च कर्त्रॄन्कालान्तरेऽपि फलेन योजयत्येवैति । तन्निरासः । नैतदेवम् । यागादीनां देवताराधनहेतुत्वे प्रमाणाभावात् । न हि देवताराधनोपायभूतो याग इत्यत्र किञ्चित्प्रमाणमस्ति । ननु देवपूजार्थ एव यजिस्स्मर्यते । पूजो च सर्वा । पूज्यमानाराधनार्थेत्यवगतम् । उच्यते । न स्मृतिः प्रमाणम्, स्मृतित्वादेव । प्रमाणान्तरापेक्षया च स्मृतीनामर्थवर्णनम्, तदनुवर्त्तित्वात्तासाम् । न च प्रमाणान्तरेण देवतासाधनोपायता अयागस्यावगम्यत इत्युक्तम् । अतो देवतोद्देशेन द्रव्यत्यागो याग इति, गौणं देवतापूजात्मकत्वमवगन्तव्यम्, पूजापि पूज्योद्देशेनैव हि प्रवर्त्ततेइति । अप च सा कर्मभिराराध्यते,याऽराधनं प्रतिपद्यते । नानादेशगामिना पुरूषेणानुष्ठीयमानयागात्मकपूजावगमश्च देवताया इति, प्रमाणविरुद्धमेव १२९४ इग्रहवतश्च प्रतिपत्तियोगिता, तस्य च वेदेनानादिनाऽराध्यतया प्रतिपादनमपि प्रमाणान्तरविरुद्धमेव, तस्यानादित्वानुपपत्तेः । देवताधिकरणे [मी. द. ९. १. ४] च प्रपञ्चेनायमर्थो निरस्त इति, नातीवात्र यतितव्यम् । यागस्य पुरुषसंस्कारकत्वशङ्का । अथापि स्यात्पुरुषसंस्कारहेतुभूतैव क्रिया शब्देन कार्यतयोच्यते, तस्याश्च स्वर्गकामादिपुरुषसम्बन्धात्पुरुषसंस्कारादेव कालान्तरे फलं भविष्यतिइति । तन्न । पुरुषसंस्कारकत्वे प्रमाणाभावात् । न हि प्रमाणान्तरतः, शब्दतो वा पुरुषसंस्कारहेतुता यागादीनामवसीयत इति "कर्माण्यारम्भभाव्यत्वादि" [मी. द. अ. ११. पा. १ सू. २०] त्यत्रोक्तम् । क्रियाकार्यत्वशङ्का । ननु क्रियैव कार्यतयोच्यताम्, फलसाधनता च तस्या एवाऽश्रीयताम् । तदन्यथानुपपत्त्या तु किञ्चिदप्यपरं तञ्जन्यं फलोदयानुगुणं कालान्तरस्थाय्यात्माश्रयं परिकल्प्यताम्, मा भूत्तस्य लिङादिवाच्यताइति । कार्यं लिङादिवाच्यमिति स्वमतनिरूपणम् । उच्यतेतद्धि तदनुपपत्त्या कल्प्यते, यद्यस्योपपादकम् । न च क्रियाजन्येनान्येन फलजनकेन कल्पितेन क्रियायाः फलसाधनतोपपादिता भवति । न हि साधनसाधनं तस्य साधनं भवति, अवान्तरव्यापारो वा, शक्तिर्वा तत्साधनतां निर्वाहयति । व्यापारयोगितयैव शक्तिमतां साधनता यतःन चाऽत्मसमवाय्यर्थान्तरं कर्मणामवान्तरव्यापारः, नापि शक्तिरिति, न तस्यार्ऽथापत्तिगम्यता युक्ता । किन्त्वन्विताभिधाने स्थिते, नियोज्यानुगुण्याच्छब्दवाच्यतैवाचितेति सूक्तम् १२९६ इयोज्यसम्बन्धसमर्थं कालान्तरस्थापि कार्यं क्रियातिरिक्तं लिङादिभिरेवोच्यतेइति । गुरुमतसर्वस्ववर्णनम् । १२९७ त्रैषा प्रक्रिया । चोदनासूत्रे कार्यार्थता प्रतिपादिता । षष्ठाद्ये तस्यैव कार्यस्य स्वसम्बन्धितया बोध्यस्स्वर्गकामादिर्नियोज्य इति व्युत्पादितम् । स्वर्गकामना च नियोज्यविशेषणमित्येकादशाद्ये [मी. द. ११. १. १.] व्युत्पादितम् । तस्य च कार्यस्य नियोज्यविशेषणीभूतकाम्योत्पत्तिहेतुत्वमिति बादर्यधिकरणे [मी. द. ३. १. ३] राद्धान्तितम् । तच्च तथाभूतं कार्यं क्रियारूपं न भवति, तस्याः फलसाधनत्वायोगात् । देवताराधनमुखेन तावत्फलसाधनता नास्तीति देवताधिकरणै [मी. द. ९. १. ४] व्युत्पादितम् । पुरुषसंस्कारमुखेन नास्तीति "कर्माण्यारम्भभाव्यत्वादि"त्यत्रोक्तम् । कर्मणः, तच्क्तेर्वा स्थायिता नेति चापूर्वाधिकरणे [मी. द. २. १. २.] प्रतिपादितम् । अतो नियोज्यान्वयमुखेन मानान्तरापूर्वमात्मसमवायि कार्यं लिङादिभिरभिधयत इत्यनेकन्यायसाध्यम् । कार्यञ्च कृतिसाध्यम् । कृतिश्च पुंसां प्रयत्न एव । न च चासौ भावार्थमन्तरेणास्तीति, १२९८ अत्सम्बद्ध एवोच्यतैति भावार्थाधिकरणे [ २. १ . १ ] स्थितम् । स च भावार्थस्सम्बध्यमानस्तमवच्छिनत्तीति, शब्दान्तराधिकरणे [मी. द. २. २. १] निर्णीतम् । विषयभूतश्च भावार्थः करणीभवतीति बादर्यधिकरणे एवोक्तम्, स्वकार्यसाधने भावार्थे पुरुषस्यैश्वर्यमिति च तत्रैवाक्तम् ॥ २३ ॥ कालान्तरावस्थायिनः कार्यस्य नियोज्यान्वययोग्यतामाह तद्धि कालान्तरस्थानाच्छक्तं स्वर्गादिसिद्धये । सम्बन्धोऽप्युपपद्येत नियोज्येनास्य कामिना ॥ २४ ॥ ननु भाष्यकारःप्रत्ययार्थं प्रयत्नमित्याह१२९९, न क्रियादिभिन्नं कार्यमिति यो मन्यते, तं प्रत्याह क्रियादिभन्नं यत्कार्यं वेद्यं मानान्तरैर्न तत् । अतो मानान्तरापूर्वमपूर्वमिति गीयते ॥ २५ ॥ नियोगनिर्वचनम् । नन्वेवमप्यपूर्वं वाक्यार्थस्स्याद्, न नियोगः । नियोगश्च वाक्यार्थैति प्राभाकराणामुल्लाप इत्यत्राऽह १३०० आर्यत्वेन नियोज्यञ्नच स्वात्मनि प्रेरयन्नसौ । नियोग१३०१ इति मीमांसानिष्णातैरभिधीयते ॥ २६ ॥ एवमपि कथं १३०३ अस्य वाक्यार्थत्वमितयाह कार्यस्यैव प्रधानत्वाद्वाक्यार्थत्वञ्च युज्यते । वाक्यं तदेव हि प्राऽह नियोज्यविषयान्वितम् ॥ २७ ॥ उक्तं ह्येतत्यत्प्रधानतया प्रतिपाद्यते, तद्वाक्यार्थःिति । कार्यञ्च प्रधानतयोच्यत इति, तस्यैव वाक्यार्थत्वम् । नियोज्यान्विताभिधाने प्रायिकमिति कथनम् । नियोज्यन्विताभिधानञ्च प्रायिकम्, आधानाध्ययनाङ्गप्रधानोत्पत्तिनियोगानां नियोज्यशून्यानामभिधानाभ्युपगमात् । विवरणकारा ह्याधानविषयमपि नियोगान्तरमिच्छनित, क्रतुनियोगप्रत्यभिज्ञानाभावाद् । असन्निधाने हि तन्नियोगप्रत्यभिज्ञानं नोपपद्यते । नापि १३०३ अणतादिवदव्यभिचरितक्रतुसम्बन्धाग्निमुखेन१३०४ प्रत्यभिज्ञोपपत्तिः । प्रागाधानादाहवनीया१३०५ इशब्दानामर्थापरिज्ञानात्क्रतुसम्बन्धानवगमात् । जुह्वादीनान्त्वाकृतिवचनत्वात्प्रागेव १३०६ इधेर्नियोगप्रत्यभिज्ञासम्भवः । नन्वग्नीनामपि साध्यत्वात्, साध्यद्वयं कथमेकस्मिन्वाक्येऽन्वीयते ? उच्यतेनियोग एवात्रापि प्रधानं साध्यम्, अनीप्सितकर्मतात्वग्नीनाम् । अनीप्सितकर्मत्वेऽपि यत्तदाधानजन्यं फलमग्निसमवायि, तद्योगिन्याहवनी यादिशब्दप्रयोगात्, आहवनीयादीनाञ्च क्रतूपयोगित्वात्तत्सिद्ध्यर्थतयैव पुरुषप्रवृत्त्युपपत्तेरनुष्ठानलाभादलं १३०७ इयोज्यान्विताभिधानेनैति । तथाध्ययनविधावप्याचार्यकरणविधिप्रयुक्त्यैवानुष्ठानलाभान्नियोज्यशून्याभिधानमिति स्थितम् । प्रधानोत्पत्तिनियोगा अप्यधिकारनियोगाक्षिप्तस्वविषयानुष्ठानेनैव लब्धसिद्धय इति, न तत्र नियोज्यान्विताभिधानान्वेषणम् । प्रयाजादिषु नियोगान्तरोपन्न्यासः । अङ्गोत्पत्तिनियोगा अपि विनियुक्तप्रयाजादिविषयत्वादधिकारनियोगाङ्गतयैव सिध्यन्तीति, किं तेषु नियोज्यान्विताभिधानेन । कथं पुनः प्रयाजादिविधीनां विनियुक्तविषयत्वम् ? उच्यतेसाधिकारनियोगसन्निधौ प्रयाजादिवाकयानि श्रुतानि न १३०८ आवत्स्वविषयं नियोगान्तरमवगमयितुमीशते, अवधातादिवदनुवादकत्वसम्भवात् । किन्तु स्वरूपमात्रमव१३०९ योग्यस्वपदार्थविशिष्टमुपस्थापयन्ति१३१० । तच्च प्रयोजनाकङ्क्षितया प्रयोजनीभूतेन साधिकारेण नियोगेनान्वीयत इति, अधिकारवाक्यगत एव लिङ्शब्दस्तदन्वितं स्वार्थमभिधत्ते । स चान्वयः प्रयाजादीनामैदमर्थ्यमात्रेण ग्राहकग्रहणमित्युच्यते । करणोपकारसाकाङ्क्षस्य चापूर्वस्य यत्कर१३११णोपकारपरिकल्पनम्, स प्रकरणव्यापारः । तत्र यत्तेषां १३१२ अरणोपकारजनकतवकल्पनम्, तदौपादानिकमिति । तत्र शङ्कानिरासौ । नास्ति तर्हि प्रयाजादिषु नियोगान्तरम् ? न नास्ति, क्षणिकानां तेषां सम्भूयकरणोपकारकत्वानुपपत्तेर्नियोगान्तरस्यावश्याश्रयणीयत्वात् । योऽसौ लिङादिः प्रागनूद्यमानार्थकतया शङ्कितः, स इदानीं नियोगान्तरमभिधत्ते । अत एव चावघातादिवदेषां यज्यादिशब्दानामेवाङ्गवाक्यगतानामधिकारनियोगान्वितस्वार्थाभिधानं नाभ्युपगम्यते । तथा सत्युत्पत्तावेवाङ्गयागस्वरूपस्यान्यतिरश्चीनस्य नियोगान्तराविषयत्वात्, नियोगान्तरविषयता न स्यात् । उत्पत्तिदशायां १३१३ वनन्यतिरश्चीनतयाभिधानाद्युक्तं नियोगान्तरविषयत्वम् । कस्मात्पुनरन्यतिरश्चीनस्य नियोगान्तराविषयत्वम्, १३१४ आर्यद्वयसम्बन्धावगमानुपपत्तेः । नह्येकं वस्तु युगपत्कार्यद्वयसम्बन्धि शक्यमवगन्तुम् । यच्च तन्नियोगान्तरं प्रयाजादिषु, तत्पश्चादभिधीयमानमधिकारनियोगाङ्गतयैव१३१५ स्वशब्देनाभिधीयते । अन्यथा विषयद्वयविनियोगविरोधादित्यलमतिप्रसङ्गेन ॥ २७ ॥ नियोगस्य गुणत्वशङ्कानिरासौ । ननु नियोगस्य काम्यमानफलसाधनत्वाभ्युपगमात्, फलस्येव प्राधान्यात्, तस्यैव वाक्यार्थत्वं१३१६ युक्तमित्यत आह आत्मसिद्ध्यनुकूलस्नय नियोज्यस्य प्रसिद्धये । कुर्वत्स्वर्गादिकमपि प्रधानं कार्यमेव नः ॥ २८ ॥ यत्तदपूर्वं कार्यम्, तस्य नियोज्यान्वयं विना कार्यत्वानुपपत्तेः, अनुष्ठानं विना तदसम्भवात्, कर्त्रा च विना तदनुपपत्तेः, अधिकारेण१३१७ च विना कर्त्तुरभावात्, नियोज्यत्वं विना तदयोगात्, अकामसाधने च १३१८ आमिनो नियोगानवगमादिति, आत्मसिद्ध्यर्थमेव नियोगः काम्यमानफलसिद्धिहेतुत्वमवलम्बते, स्वामिवत् । यथाऽत्मन एव संविदधानस्स्वामी गर्भदासस्योपकरोति, तथा नियोगोऽपि नियोज्यस्येति, न १३१९ राधान्यप्रच्युतिः ॥ २८ ॥ ननु नियोगस्य फलसाधनत्वात्, तस्य च सेतिकर्त्तव्यताककरणनिबन्धनसिद्धित्वात्, तदनुष्ठानानन्तरं नियोगसिद्धेः फलसिद्धिस्स्यात्, अनन्तरं नियोगो १३२० अ निष्पद्यते, तर्हि क्रियायामतीतायां कुतस्तत्सिद्धिरित्यत्राऽह विषयानुष्ठितौ सत्यां सिद्धो न हि विधिः फलम् । तदानीमेव कुरुते सहकारिव्यपेक्षया ॥ २९ ॥ एषाऽत्र दर्शनस्थितिःप्रधानोत्पत्तिनियोगाः, अङ्गोत्पत्तिनियोगाश्च यथायथं संनिपत्योपकारकाङ्गयुक्तस्वविषयमात्रानुष्ठानेनैव सिद्ध्यन्ति । तत्र यान्यङ्गापूर्वाणि, तानि सम्भूत प्रधानोत्पत्त्यपूर्वेषूपकुर्वन्ति, तस्माच्च परमापूर्वं निष्पद्यते । यान्यपि चाऽङ्गापूर्वाणि दीक्षिणीयादीनाम्, तेषामप्यारादुपकारकातिदेशिकाङ्गमाजामेकमुत्पत्त्यपूर्वम्, अपरमप्यङ्गापूर्वं प्रधानवद्वेदितव्यमिति । अनया दिशान्यत्रापि सकलमूहनीयम् । इत्थं यद्यपि कर्मानुष्ठानानन्तरमेव नियोगसिद्धिः, तथापि यत्फलस्यानन्तराभवनम्, ततुपपत्त्या कल्प्यतेइति ॥ २९ ॥ नन्वेवं सति फलहेतुतापूर्वस्य बाध्येतेत्यत्राऽह सहकारिव्यपेक्षा च कारणत्वं न बाधते । मा१३२१ बाधिष्ठेति सर्वत्र तदनुग्रहकल्पना ॥ ३० ॥ तथेत्यर्थः । "१३२२ तः पुरुषकारश्च दैवञ्च फलसाधनम्" । इत्याचार्याः । दैवमपूर्वम् । अपेक्षणीयं सहकारि च पुरुषकारपदवेफम् । नित्यादिषु नियोगानभिधानशङ्कापरिहारौ । नन्वेवं भवतु काभ्येष्वपूर्वकार्याभिधानं लिङादीनाम्, नित्यनैमित्तिकनिषेधाधिकारेषु कथम् ? १३२३ अ हि तेषु फलोदयं प्राभाकरा अनुमन्यन्ते । न हि फलं फलतयान्वीयते, किन्त्वधिकारिविशेषणतया । लब्धे तु जीवनादावधिकारिविशेषणे, किं फलान्वेषणेन । न च फलमन्तरेण प्रवृत्त्यसम्भवः, स्वसम्बन्धिकार्यावगममात्रायत्तत्वात्प्रवृत्तेः । निरपेक्षाच्छब्दात्फलमन्तरेणा । द्यपि स्वसम्बन्धिकार्यावगमः, तावन्मात्रस्य लोके प्रवृत्तिहेतुत्वावगमात् । कार्यावगमोत्पादनायै फलमुपयुज्यत इत्युक्तम् । ननु यथा शब्दात्कार्यावगतिः, तथा निष्फलत्वादनुमानेनाकार्यताप्रतीतिरपीति, कथं प्रवृत्त्युपपत्तिः ? न । १३२४आगमविरोधेनानुमानस्याऽत्मलाभाभावात् । अन्यथा यदि कश्चित्कल्पिते फले न प्रवर्तते, तदा किं कर्त्तव्यम् ॥ ३० ॥ ननु फलोदयानभ्युपगमे च प्राच्यमार्गासम्भवात्, नित्यादिष्वपूर्वकार्याभिधानमप्रमाणकं स्यात्, तत्राऽह एवं कामाधिकारार्थपर्यालोचनयोत्थिता । व्युत्पत्तिस्सर्ववाक्यार्थप्रतिपत्तिनिबन्धनम् ॥ ३१ ॥ १३२५॥ उक्तमिदमन्याय्यञ्चानेकार्थत्वमिति । तेन कामाधिकारे सिद्धेऽपूर्वकार्याभिधायकत्वे, नित्यादिष्वपि स एवार्ऽथो विरोधाभावादाश्रीयते । नित्याधिकारानुगुण्येन तु क्रियाकार्यत्वाभिधानं काम्येष्वनुपपन्नमिति, सर्वत्रापूर्वमेव१३२७ वाक्यार्थःिति ॥ ३१ ॥ तत्रैतदेव तावद्वक्तव्यम्न केवलं वेदे लोकव्यवहारादेव शब्दार्थावधारणम्, किन्तु प्रसिद्धार्थपदसम्बन्धादपि पदार्थान्तरान्वययोग्यार्थाभिधायकतेति१३२८ स्थिते, तदनुरूपार्थाभिधायकता निर्णीयत एव । एतच्च यववराहाधिकरणे [मी. द. १. ३. ५.] व्युत्पादितम् १३२९ यवहारत एव सम्बन्धावधारणादुभयथापि पदान्तरार्थाध्यवसानं भवत्येव, तेन वैदिकवाक्यशेषान्वयार्हतालोचनेन दीर्घशूकाद्यर्थत्वमेवेति राद्धान्तः । तथा त्रिवृच्छब्दे, यूपाहवनीयादिषु च शक्त्यवधारणात् । लोकेऽपि चायं व्यवहारो बहुलमुपलभ्यते । तथा सति वैदिकनियोज्यान्वययोग्यतया लिङादीनामपूर्वकार्याभिधायकत्वनिर्णयो नानुपपन्नः । अयञ्चापरो विशेषःयल्लिङादियुक्तानां वाक्यानां कार्यार्थत्वम्, तत्तावद्वृद्धव्यवहारादेव सिद्धम्, किन्तु लिङादिप्रत्ययानां यद्वच्यं१३३० कार्यम्, तच्चापूर्वंरूपमित्येतावन्मात्रं वैदिकपदसम्बन्धादवसीयतेइति ॥ ३१ ॥ १३३१॥ एकदेशिमतमधुना निराकर्त्तुमुपन्यस्यति व्यवहारत एवाहुर्व्युत्पत्तिमपरे पुनः । कार्ये मानान्तरावेद्ये क्रियादिव्यतिरेकिणि ॥ ३२ ॥ अस्यार्ऽथःकेचिदेवमाहुःलिङादियुक्तवाक्यश्रवणे प्रवृत्तिदर्शनात्, कार्यावगतिनिबन्धनत्वात्प्रवृत्तेः, कार्यमात्रमेव तेषामर्थः, न १३३२ रिया । वैदिकलिङादेः कार्ये शक्तिनिर्णयः । नन्वेवं वेदादेव व्युत्पत्तिरास्थिता स्यादित्याशङ्क्याऽह व्युत्पत्तिरिप कार्येर्ऽथे व्यवहारानुसारिणी । किन्तु निर्धारणामत्रं वेदवाक्यविमर्शजम् ॥ ३३ ॥ तस्यां शब्दस्य प्रवृत्त्यनुपयोगित्वादिति, क्रियानिष्कृष्टकार्याभिधायिता लौकिकव्यवहारादेव निर्णीयतेइति ॥ ३३ ॥ तदिदमयुक्तमिति प्रतिजानीते सितेतर इव त्वेष पक्षश्चित्तं न कर्षति । चन्द्रातपामलन्यायप्रवासमलिनीकृतः ॥ ३४ ॥ कथमित्याह कार्ये मानान्तरावेद्ये पार्श्वस्थस्तन्निबन्धनम् । व्यवहारं कथङ्कारं शब्दात्प्रागवबुध्यताम् ॥ ३५ ॥ व्यवहारमविज्ञय तन्निबन्धनतद्ग्ता । प्रतिपत्तिः कथं ज्ञेया शब्दशक्तिः कथन्तराम् ॥ २६ ॥ इदमत्राऽकूतम् । यद्यपि कार्यमात्रमेव प्रवृत्त्युपयोगीति तावन्मात्रमेव शब्दार्थः, तथापि तस्य लोके क्रियागतस्यैव प्रवर्त्तकत्वदर्शनाद्, शक्यते क्रियाश्रितता प्रत्येतुम् । यथाऽकृतिमात्रस्य शब्दार्थत्वेऽपि व्यक्त्याश्रिततापि न प्रतिक्षिप्यते, तथा क्रियाश्रितत्वं प्रमाणान्तरप्रमितं न प्रतिक्षेपमर्हति । तेन क्रियातिरिक्तकार्याभिधायकत्वमसिद्धम्१३३३ । यदि परं तन्निबन्धनव्यवहार एव१३३४ स्यात्, तदा तद्दर्शनात्तद्धेतुभूतप्रतिपत्त्यन्यथानुपपत्त्यानुमानेन शब्दस्य वाचकत्वाध्यवसानं भवेत् । न चैतदस्ति,तस्य शब्दादन्यतः प्रागनवगमात्तन्निबन्धनव्यवहाराप्रतिपत्तिः१३३५, तदप्रतिपत्तौ च तद्धेतुभूतप्रतिपत्त्यननुमानान्न शक्तिकल्पनोपपत्तिः ॥ ३४ ॥ ३६ ॥ तत्राऽकूतं विवृणोति कार्यप्रतीतिमात्रञ्च प्रवृत्तेरनुमीयताम् । किन्तु कार्या क्रियैवेति१३३६ लोकदृष्ट्याऽवसीयते ॥ ३७ ॥ लोकप्रतीतं क्रियारूपत्वञ्च न शक्यतेऽपह्नोतुमिति, कार्यमात्रार्थत्वे क्रियैव कार्यतया लिङाद्यर्थ इति निश्चीयते, न पुनः प्रमाणान्तरादपूर्वमिति ॥ ३७ ॥ मतान्तरेण क्रियाकार्यत्वशङ्कानिरासौ । अन्ये पुनर्वेदार्थबोधकाचार्यवचननिबन्धनप्रवृत्तिदर्शनेनातीन्द्रिये१३३७ कार्ये लिङादयो व्युत्पद्यन्त इत्याहुः । यद्याचार्यवचनादपि क्रियैव कार्यतयाऽवगम्यते, तदा तस्यास्स्वयं दुःखरूपत्वात्पुरुषार्थान्तरानुबन्धनं विन प्रवृत्त्यसम्भवान्नियमेन सुखार्थिनः प्रवृत्तिर्न स्यात् । १३३८ अ च सन्ध्योपासनादौ पुरुषार्थोऽस्ति । तस्मात्क्रियातिरिक्तकार्यमाचार्यवचनेभ्योऽवगम्यतेइति । तान्प्रत्याह वेदार्थाचार्यवाक्येषु प्रवृत्तियाऽपि दृश्यते । तत्राप्येषैव सम्बन्धपरिज्ञानविधा भवेत् ॥ ३८ ॥ आचार्यवाक्यश्रवणादपि शिष्याणां या सन्ध्योपासनादौ प्रवृत्तिः, तत्रापि बालस्स्वविषयनिरूपितं क्रियाकार्यत्वावगममेव कारणत्वेन परिकल्पयेत्, फलं विना च तदनुपपत्तेः फलावगममपि सम्भावयेत् । लोकव्युत्पत्त्यनुसारेण १३३९ एदार्थमपि प्रतिपद्यमानो नित्यनैमित्तिकनिषेधाधिकारेष्वपि१३४० फलं कल्पयेत् । स एव वाल्यदशायां व्युत्पन्नस्स्वयमाचार्यपदवीमधिरुढो वेदार्थं प्रतीत्य, शिष्येभ्य उपदिशन् क्रियामेव कार्यतया प्रतिपादयेत्, नापूर्वं कार्यमिति ॥ ३९ ॥ उपसंहरति तस्माल्लोकानुसारेण व्युत्पत्तिः कार्यमात्रके । तस्य त्वपूर्वरूपत्वं वेदवाक्यानुसारतः ॥ ३९ ॥ एवमपूर्वकार्याभिधायित्वे सिद्धे चोदयति ननु लोकविरोधित्वं पक्षेऽस्मिन्नपि दृश्यते । सर्वथैव१३४१ यतो लोके क्रिया कार्यैव गम्यते ॥ ४० ॥ परिहरति भवेदेवं विरुध्येते कायऽपूर्वेऽपि लौकिकौ । प्रतिपत्तिप्रयोगौ चेत्क्रियाकार्यत्वगोचरौ ॥ ४१ ॥ यदि क्रियाकार्यत्वगोचरौ लौकिकौ प्रतिपत्तिप्रयोगावपूर्वकार्याभिधायित्वपक्षाङ्गीकारे विरुध्येते, ततो लोकविरुद्धत्वं स्यादस्मत्पक्षस्य । न चैतदस्तीत्याह अपूर्वं हि क्रियासाध्यं साधिता साधनं क्रिया । तस्मादपूर्वकार्यत्वं१३४२ क्रियाकार्यत्वसङ्गतम्१३४३ ॥ ४२ ॥ प्रमाणान्तरगम्यं हि लोकश्शब्दैर्विवक्षति । क्रियाकार्यत्व एवातः प्रयोगो लक्षणान्वितः ॥ ४३ ॥ प्रतिपत्तिप्रयोगौ हि नावश्यं श्रौतवृत्त्यनुसारिणावेव, लक्षणयापि लोके१३४४ तद्दर्शनात् । तेन यद्यप्युक्तेन न्यायेनापूर्वमेव कार्यं लिङादीनामभिधेयम्, तथापि तस्य क्रियाकार्यत्वाव्यभिचारात्, तत्र लक्षणया तयोर्नानुपपत्तिः । यत्तु श्रौतपदार्थे कार्ये लोके लिङादि न प्रयुज्यत इति । तत्तस्यापूर्वात्मनः प्रमाणान्तराप्रतीतत्वात्, प्रतीतविषयत्वाच्च लौकिकप्रयोगस्य । क्रियासाध्यन्त्वपूर्वम्, साधिता च सती क्रिया साधनं भवतीत्यपूर्वेण सह क्रियाकार्यत्वं१३४५ नित्यसम्बद्धमिति, शक्यते तल्लक्षयितुम् ॥ ४२ ४३ ॥ यद्येषा१३४६ लक्षणा, किमिति तर्हि लोको नावगच्छतीत्याह लक्षणानभिमानस्तु मुख्यार्थानवधारणात् । ये तु१३४७ मुख्यार्थकुशलास्तेषां लाक्षणिकत्वधीः ॥ ४४ ॥ मुख्यमर्थमविदित्वा लाक्षणिकमप्यर्थं श्रौतमिव मन्यन्ते, म्लेच्छा इव यववराहाद्यर्थम् । मुख्यार्थविवेकिनान्तु परीक्षकाणां लाक्षणिकत्वधीःिति ॥ ४४ ॥ उपसंहरति तस्मान्मानान्तरावेद्यं कार्यमर्थान्तरान्वितम् । वेदवाक्यं ब्रवीतीति संक्षेपोऽयमुदाहृतः ॥ ४५ ॥ ग्रन्थस्य, कर्तुश्च संज्ञां, प्रयोजनञ्चाऽह वाक्यार्थमातृकेयं प्रभाकरगुरोर्भतानुसारेण१३४८ । अनसूयुबोधनार्थं शालिकनाथेन सङ्ग्रथिता ॥ ४६ ॥ १३४९॥ रचिता सच्चरितानामनुग्रहं कर्तुकामेन । वाक्यार्थमातृकाया वृत्तिरियं शालिकेनैव ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां सवृत्तौ वाक्यार्थमातृकायां द्वितीयः परिच्छेदस्समाप्तः । समाप्तञ्चेदं प्रकरणपञ्चिकायां सृत्तिर्वाक्यार्थमातृका नामैकादशं प्रकरणम् ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ अथ विषयकरणीयं नाम द्वादशं प्रकरणम् । प्रकरणार्थप्रतिज्ञा । १३५० रभाकरमतं सम्यगालोच्य क्रियते मया । विषयं १३५१ अरणञ्चैव विवेक्तुं युक्तिवर्णना ॥ १ ॥ "ज्योतिष्टोमेन स्वर्गकामो यजेते"त्येवमादिषु स्वर्गकामादिर्नियोज्यत्वेन सम्बध्यमानः, नास्वर्गसाधने कार्ये बोद्धृतयान्वेतुमलम् ॥ क्रिया हि क्षणभङ्गिनी न कालान्तरभाविनस्स्वर्गादेस्साधनायोपपद्यत इति, कालान्तरावस्थायि क्रियातो भिन्नं कार्यमपूर्वं लिङादयो बोधयन्तीति १३५२ थितम् । स्वसिद्धान्तवर्णनम् । कार्यञ्च कृतीप्सितमुच्यते । कृतिःात्मव्यापारःपुरुषप्रयत्न इत्यनर्थान्तरम् । चेतनश्चाऽत्मा कार्ये बोद्धृतयान्वयमुपैति । न चान्यव्यापाराभिनिर्वर्त्यमन्यस्स्वसम्बन्धितया कार्यत्वेन संवेदयितुमलमिति, आत्मनो मानसप्रत्यक्षसमधिगमनीयः प्रयत्नस्स्वव्यापारः । अतस्तन्निर्वर्त्त्यमेवापूर्वं कार्यमात्मा मन्यते । प्रयत्न एव भवितव्येऽपूर्वे प्रयोजकभूतस्य भावयितुरात्मनो व्यापार इति, भावनाशब्देनोच्यते । न च कार्याभिधानं कृतिमनभिदधतां लिङादीनमुपपद्यत इति, ते कृतिमप्यभिदधति, अपूर्वञ्च । न च युगपदनेकाभिधानं दोषः, तथाऽवगमात्, आनुगुण्याच्च । अवगता हि प्रमाणेन लिङादीनां कार्याभिधायिता । आनुगुण्यात् । कृतिर्गुणभूता प्रधानपदवर्तिन्यपूर्वात्मनि कार्ये । अविवादा च कर्त्रादिगतसङ्ख्यावचिता लिङादीनां कार्याभिधायिनामपि । न चाभिधेयतामात्रेण भावनाया एव वाक्यार्थत्वम् । भाव्यमपूर्वं प्रति गुणभावेनाभिधानात्, प्रधानभावेनापूर्वस्याभिधानात्तदेव वाक्यार्थ इति, न किञ्चिदनुपपन्नम् । अत एव भगवतो भाष्यकारस्य तत्र तत्र व्यवहारः"पुरुषप्रयत्नःकरणमपूर्वस्य भावनो"च्यत१३५२ इति । धात्वर्थस्य विषयत्वोपन्यासः । तस्य तथाविधस्य कार्यस्य नूनं केनचिद्भावार्थेनावच्छेदः । न हि प्रयत्नो भावार्थमन्तरेणास्ति । सर्वो हि पुरुषप्रयत्नः कञ्चिद्भावार्थमवश्यमाश्रयते, तेन विना तदभवात् । तेन प्रयत्नाविनाभावी भावार्थः प्रयत्नाभिनिर्वर्त्त्यमपूर्वमवच्छिनत्ति । अवच्छेदकतयैव विषयभावः१३५३ । "यत्रैव१३५४ हि यो भवति नान्यत्र, स तस्य विषय"इति विषयविदः । "१३५५ नन्यत्र भावो विषयशब्दार्थः" इति च । अतो भाव्य एवार्ऽथो विषयः, भाव्यस्यैव पुरुषप्रयत्नगोचरत्वात् । तेन कार्याभिधायिभिस्सह विषयबोधकतयैव भावार्थः कर्मशब्दस्समभिव्याहारं प्रथममर्हति, तस्य १३५६ रतिपत्त्यनुबन्धत्वात् । अविषयं ह्यपूर्वं कार्यं प्रत्येतुमशक्यम् । प्रतीतस्य च कार्यस्य साधनाकाङ्क्षा । तेन न जघन्यया साधनतया भावार्थानामपूर्वेण सहान्वयः । किन्तु प्रतीत्युपायतामेव मन्यमानो १३५७ हगवानेवं ब्रूते"न ह्यविषयान्नियोगान्नियोगज्ञानमुत्पद्यते" [बृ. टी.] इति । धात्वर्थस्य करणत्वनिरूपणम् । स च विषयीभूतभावार्थावच्छिन्नो विध्यर्थः कार्यात्मा प्रतीतः करणम्, इतिकर्तव्यताञ्चापेक्षते, अन्यत्रापि साध्ये तथादर्शनात् । तत्र स एव भावार्थो विषयीभूतः करणमित्यवसीयते, कृतिव्याप्यत्वात् । यो हि यया कृत्यान्यार्थप्रवृत्तया विषयीक्रयते, स एव तत्र करणम् । यथा परशुरुद्यमननिपातनाभ्यां काष्ठगतद्वैधीभवनलक्षणकार्ये प्रवृत्ताभ्यां व्याप्यमानस्तयोरेव द्विधाभवनलक्षणफलावच्छेदलब्धद्वैधीकरणव्यपदेश्ययोश्च्छिदिधातुवाच्ययोः करणम्, तथेहाप्यपूर्वार्थप्रवृत्तपुरुषप्रयत्नव्याप्यमानो भावार्थस्तस्मिन्नेव प्रयत्नेऽपूर्वभावनारूपे करणम् । ननु कथं प्रयत्नलब्धात्मा भावार्थो भावनायां करणम् । भाव्यमानतया हि कर्मैव स्यात् । उच्यते । तत्र धात्वर्थो न कर्म, अपूर्वार्थकृतिविषयत्वात् । सर्वाण्येव हि कारकाणि कर्त्तृव्यतिरिक्तानि तद्व्यापारव्याप्यानि, न चैतावता तानि कर्मतां १३५८ हजन्ते, अनीप्सितत्वात् । क्वचिच्चानीप्सिते कर्मता दृश्यत एव । यथा "अग्निहोत्रं जुहोति" [तै. स. १. ५. ९] इति । करणन्तु यद्यपि स्वरूपनिवृत्तौ न सम्भवति, तथाप्यपूर्वभावनारूपता तदधीनेति नानुपपन्नम् । यथा परशोरेव । न हि परशुः कर्म, करणन्तु भवति, अनीप्सितत्वात् । १३५९ द्यमननिपातनयोर्द्वैधीकरणरूपतायास्तदधीनत्वात् । परशुसम्बन्धप्रभावे ह्युद्यमननिपातने द्वेधाभवनफलनिष्पादकतया द्वेधाभावने कारणतां१३६० भजेते । अतः"उद्भिदा यजेते" [तां. ब्रा. २९. ७. २. ३.] इति तृतीयानिर्देशोपपत्तिः१३६१ । अपूर्वभावनायां करणत्वाद्यागस्य, तन्नामत्वाच्चोद्भिच्छब्दस्य । एवञ्चापूर्वफलयोरेकैव भावना, एकत्वात्पुरुषप्रयत्नस्य । एकमेव च करणम्, तद्भावनाव्याप्यत्वादेकैव भाव्यता । १३६२ त एव च साध्यविवृद्धिरियमिति प्राभाकराः । धात्वर्थस्य विषयत्वकरणत्वयोरुपसंहारः । १३६३ अदि विषयीभूतस्य करणता, हन्त तर्हि "दर्शपूर्णमासाभ्यामि"त्यत्र तन्त्राभिहितानां तन्त्रेणैव प्रतिपत्त्यनुबन्धत्वात्, विषयभावस्यैकत्वादेकमेव करणं स्यात्, ततश्च भेदेनेतिकर्तव्यतासम्बन्धो न स्यात् । उच्यतेन सम्यगवधृतामायुष्मता श्रुतिशालिनांवचः । यदेव विषयीभूतम्, तदेव करणम्, नान्यदिति तस्यार्ऽथः । प्रतीत्यनुबन्धतया । च विषयभावः, स यथामिधानमवकल्पते, प्रतिपत्त्युपायत्वादभिधानस्य । अत स्तन्त्राभिधानात्सहितानां विषयभावः, करणन्तु सिद्ध्यनुबन्धी नियोगस्य, तच्च यथास्वभावं वेदितव्यम् । स्वभावाधीनाहि साधनानां साधकतेति स्वभावभेदे भिन्न साधकता । साधकत्वे च कृतिविषयत्वात्करणतेति भेदेन करणभावः । नन्वेवं प्रत्येकं करणभावाश्रयणे करणान्तरनिरपेक्षाणां किमिति नियोगसिद्धिहेतुता न भवति ? नैवम् । यथाश्रुतकरणाधीनसिद्धित्वान्नियोगस्य । तत्र बहूनि करणानि तस्य श्रूयन्त इति, तथैव तस्य सिद्धिः । १३६४ नेककरणसम्पाद्यताप्येकस्य दृष्टा । यथागमनस्याश्वेन,शिबिकया, रथेन वा गच्छतिइति । भिन्नस्तत्र १३६५ आरणावान्तरव्यापार इति यद्युच्येत । अत्राप्युत्पत्त्यपूर्वाण्यवान्तरव्यापारभूतानि भिन्नानि सङ्गिरामह एव । अत एव तद्भेदेन भिन्नत्वात्करणभावस्१३६७ अरमापूर्वप्रयुक्तत्वेऽप्याज्यौषधसान्नाय्यधर्माणामसङ्करः । अपूर्वसाधननिवेशित्वाद्धर्माणाम्, तस्य च भेदात् । ये पुनर्यागादीनामपूर्वञ्चान्तरा भावनां नानुमन्यन्ते, तेषां यागादीनां करणभावो दुर्घटः । अव्यापाररूपत्वादपूर्वस्य, व्यापारसम्बन्धप्रभवत्वाच्च१३६६ करणभावस्य । गौणं करणत्वमिति चेत्! कथं तर्हितिकर्तव्यतासम्बन्धः । करणं हीतिकर्तव्यतया सम्बध्यते । १३६७ औणञ्च न करणम्, न हि गौणे मुख्यधर्मस्सम्भवति । येऽपि१३६८ सर्वाख्यातेष्वेव भावनाभिधानमाहुः, तेषामपि मतमस्मभ्यं न रोचते । न हि कार्यानभिधायिपु लडादिषु भावनाभिधाने प्रमाणमस्ति । वार्तिकमतनिराकरणम् । १३६९ अदपि किं कराति ? पचतीत्युत्तरदर्शनप्रमाणमुपन्यस्तम् । तदपि न साधकम् । व्यापारविशेषप्रश्नो ह्ययंकिङ्करोतीति१३७० । तत्र पचतीत्युत्तरेणापिप तदेव निर्दिश्यते । यत्तु व्यापारमात्रवाचिधातूच्चारणमात्रं न क्रियते, तत्र तावन्मात्रस्यापभ्रंशत्वात् । प्रत्ययान्तरोच्चारणे च प्रश्नेन सहासम्बन्धः । अत एवाचेतनव्यापारे वर्तमानापदेशादीनां प्रयोगः । लिङादयस्तु चेतनमेवाधिकृत्य प्रयुज्यन्ते । न चाचेतनेषु गौणः प्रयोगः मुख्यत्वेऽप्यविरोधात् । कर्तृसङ्ख्यादिमात्रवचनत्वे च"रथो गच्छती"त्यादिषु मुख्यत्वापत्तेः । न चेदं वाच्यम्संयोगविभागावेव धात्वर्थः, व्यापारस्तु परिस्पन्दात्मा"रथो गच्छती"त्यादिषु लडर्थः, तेनाचेतनेऽपि मुख्य एवलडर्थ इति । धातूनामेव क्रियावाचित्वात्प्रथमोपनिपाती व्यापार एव धात्वर्थो १३७१ उक्तः, न जधन्यौ संयोगविभागौ । किञ्चानेकार्थताप्यापद्येत । केवलस्य संयोगस्यावाच्यत्वात्, संयोगजेऽपि संयोगे गच्छतीत्यप्रयोगात्, विभागजेऽपि विभागे प्रयोगानुपलब्धेः, न केवलस्य संयोगस्य, विभागस्य वा गमिवाच्यतेति, किमनेन मनीषिकानिमित्तेन बालजल्पितेन १३७२ आलजनमनोहारिणा निर्बन्धेन । शालिकनाथेन कृतं कृतिनामुपकारसिद्धये सम्यक । समुदीक्ष्य वा गुरुमतं सम्यग्विषयकरणीयमिदम्१३७३ ॥ २ ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायां विषयकरणीयं नाम द्वादशं प्रकरणं समाप्तम् ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ ড়ाऋईCCःEडा १ १३_१ अथाङ्गपारायणे सन्निपत्त्योपकारकाङ्गनिरुपणपरः प्रथमः परिच्छेदः प्रकणार्थप्रतिज्ञा । १३७४ याख्याविकल्पसम्भवमङ्गान्यधिकृत्य संशयं छेत्तुम् । परमं प्रभाकरगुरोर्गम्भीरं भावमभिधास्ये१३७५ ॥ १ ॥ अङ्गानां चातुर्विध्यम् । इह चतुर्विधमङ्गजातम्जातिगुणद्रव्यभावार्थात्मकम् । तत्र भावार्थात्मकमपि द्विविधम्सन्निपत्त्योपकारकम्, आरादुपकारकञ्चेति । सन्निपातिनां चातुर्विध्यम् । तत्र सन्निपत्त्योपकारकं चतुर्विध्रं, साध्यभूतोत्पत्तिप्राप्तिविकृतिसंस्कृतिभेदात् । १३७६ अथाक्रमं संयवनदोहनविलापनप्रोक्षणादिरूपम् । तत्र संयवनेन प्रागभूतः पिण्ड उत्पद्यते । सदेव क्षीरं दोहनेन प्राप्यते । विलापनेन प्राचीं संहतावस्थामपबाध्य, इतरा द्रवावस्थाऽज्यस्योत्पद्यते । पार्थिवं ह्याज्यं गन्धवत्त्वात्स्वभावतस्संहतरूपमग्निसंयोगेन द्रवीभवति । तदाह भगवान्काश्यपः"सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगात्द्रवत्वमद्भिस्सामान्यम्" [वै. द. अ. २. आ. १. सू. ६] इति । तथा शाब्दैरप्युक्तम्"अग्निसंयोगेनाऽज्यं द्रवीभवतीति च्विप्रत्ययप्रयोगादि"ति । प्रोक्षणन्तु द्रव्यस्य न प्रागवस्थाध्वंसेन दशान्तरमादधातिइति । श्लोकश्चात्र भवतिपूर्वाव्स्थाप्रहाणेन दशान्तरपरिग्रहम्१३७७ । विकारमाहुस्संस्कारं केवलातिशयोदयम्१३७८ ॥ २ ॥ इति । सन्निपातिनामङ्गानां लक्षणम् । किं पुनरेषां चतुर्णामपि सन्निपत्त्योपकारित्वे लक्षणम् ? १३७९ अत्कारकविध्यपेक्षं फलं जनयति, ततसंनिपत्त्योपकारकम् । यथाकर्त्तरि स्नानम्,१३८० कर्मण्यवघातादि, अधिकरणे दध्यानयनमित्याद्यूहनीयम् । भाट्ठमतेनाऽशङ्का । तत्र सन्निपत्त्योपकारकाङ्गवाक्येषु केचित्पृथग्विधीनभ्युपगच्छन्ति । ते हि मन्यन्तेयद्यत्र पृथग्विधयो नाभ्युपगम्येरन्, तदाधिकृताधिकारादङ्गतैवावघातादीनां न स्यात् । न च द्रव्यसम्बन्धमुखेन प्रकृताधिकारापूर्वसम्बन्धादङ्गतासिद्धिः, व्रीह्यादिशब्दानामाकृतिवचनत्वात् । यद्यपि कार्यप्रत्यासन्नतया व्यक्तीनां तल्लक्षणार्थो जातिशब्दः, तथापि व्यक्तिमात्रं लक्ष्यते, नापूर्वविशेषसंबद्धा व्यक्तिः । न च प्रकृततयाऽग्नेयीवत्तदपूर्वसाधनव्यक्तिलक्षणावशेनापूर्वसंबन्धः, यद्यप्याग्नेयीन्यायेन सन्निहितव्यक्तिपरिग्रहः, तथा स्वरूपेणैव तासामप्रकृतव्यक्तिपरिहारेण प्रतीतिः, न पुनरपूर्वविशेषसाधनतया, तस्य स्वरूपस्य लाक्षणिकत्वात् । न च लक्षितलक्षणायां कारणमस्ति१३८१ । तथाहिजात्या व्यक्तिर्लक्ष्यते, व्यक्त्या च साधनविशेष इति लक्षितलक्षणा१३८२ कारणाभावादयुक्ता । अत एव"चाऽग्नेय्याऽग्नीध्रमुपतिष्ठते" झ्र्तै. सं. ३. १. ६.] इति सत्यपि प्रकृतपरिग्रहे, न कृगन्तरेणाग्नीध्र १३८३ पस्थीयते । अत एव च न तत्र विनियुक्तविनियोगविरोधः । कार्यान्तरसाधनतया चाऽग्नीध्रोपस्थानेऽविनियोगात् । एवञ्च स्वरूपमात्रेणैवावधातादीनां सम्बन्धान्नापूर्वविशेषसम्बन्धसिद्धिः, दीक्षणीयावाङ्नियमवत् । यथा स्वावान्तरापूर्वसम्बन्धाद्वाङ्गिनयमो नाधिकारापूर्वानुप्रवेशी, तथावघाताद्यपि स्यात् । ततश्चाधिकारापूर्वं प्रत्यवघातादीनामङ्गता न स्यात् । तदनङ्गत्वे च तत्प्रयुक्त्यभावादवघातादीनामनुष्ठानं न स्यात् । अतीऽवघातादिषूत्पत्तिनियोगोऽङ्गीकरणीयः । तस्मिन् खल्वाश्रिते, अधिकाराभावेन तस्यानुष्ठानानुपपत्तेरधिकारिणि कल्पयितव्ये, प्रकृताधिकारापूर्वेऽधिकृत एव प्रयाजादिष्वप्यधिक्रियत इति, नोपायोपेयभावात्तदङ्गत्वसिद्धिःिति । तन्निरासः । तदिदं तत्रभवानुपाध्यायो१३८४ न मृष्यति । तदाह"अनभिज्ञो भवान्विषयनियोज्यानामि" [बृ. टी. ३. १. ३] त्यत्र । अवघातादिषु शब्दतः, वस्तुस्वभावतश्च तुषकणविमोचनादि दृष्टम्, प्रोक्षणादिषु शब्दत एवादृष्टञ्च कार्यमङ्गीक्रियते । तत्र यदि नियोगोऽप्यपर आश्रीयेत कार्यभूतः, तदा कार्यद्वयमेकस्मिन् वाक्ये नान्वीयते । न च यथा स्वर्गादिकं फलम्, तथाभूतमेतद्भवितुमर्हति । तस्य च नियोज्यविशेषणत्वेनान्वीयमानत्वात्१३८५ । न च तुषकणविमोचनादि नियोज्यविशेषणम्द्व क्रियाफलत्वात् । यदेव नियोगफलम्, तदेव नियोज्यविशेषणतामनुभवति । साध्यविशिष्टो हि नियोज्यस्तदेव कार्यतया प्रतिपत्तुमर्हति, यदेव तस्य साध्यं साधयतीति, नियोज्यविशेषणस्य सिद्धिरवसीयते । यच्च क्रियाफलम्, न तन्नियोगात्सिध्यतीति, न तद्विशिष्टो नियोगे नियोज्यतामश्नुते । न च प्रतीततुषकणविमोचनादिकार्यत्यागो युक्तः, प्रतीतहानादेव । ननु च नियोगाभिधायिलिङादिप्रयोगवशेन नियोगोऽपि प्रतीति एवेति तुल्यो दोषः । उच्यते । सन्निहिते विधौ विधिरवगम्यमानस्स एव तावदवगन्तुमुचितः । तत्र यदि तद्विषयानुप्रवेशिता विषयस्य न स्यात्, तर्हि भवेद्विध्यन्तरम् । अनुप्रविशति चावघातादि प्रकृतविषयम्, तदर्थव्रीह्यादिसम्बन्धात् । १३८६ अन्निहिताधिकारनियोगपरतयैवावहन्त्यादिभिः पदैरवघातादय उच्यन्ते, तथाभूतानां तेषां क्रियाकारकभावोपदेशात् । यदि स्वरूपमात्रावस्थितैर्व्रीह्यादिभिस्सह सम्बन्धस्स्यात्, तदा तदधिकारसम्बन्धा न स्यादिति, तदीयसाधनविशेषलक्षणया व्रीह्यादिभः१३८७ पदैरुपस्थापितोऽवघातादिभिरन्वीयते, न स्वरूपमात्रम् । एवञ्चोपदेशत एव यवेष्वप्यवघातादयस्सिद्धा भवन्ति, साधनभावस्याविशेषात् । अत एव चावघातादयो नियोगसाधनतयाप्राप्ता एव विधीयन्ते । नियमस्तु प्रयोजनम् । यदि नियोगाङ्गतयावधातादयो न विधीयेरन्, तदा पुरोडाशमात्रसिद्ध्यर्थतया नखविदलनाद्यप्याक्षिप्येत । नियोगाङ्गतया त्ववधातादिषु विहितेषु, तैर्विना नियोगसिद्ध्यनुपपत्तेः नियमेन न एवाक्षिप्यन्ते । नियोगाङ्गता तु पक्षेऽप्यप्राप्ता, नियोगस्यालौकिकतया तदङ्गत्वस्यापि शब्दादन्यतोऽनवगमात् । नियोगाङ्गत्वाच्चावघातादीनाम्, नियोगसम्बन्धः प्राप्तस्य लिङादिभिरनूद्यते । अवघातादीनां नियोगविषयत्वशङ्कानिरासौ । ननुयद्यवघातादीनां नियोगसम्बन्धोऽस्ति, कथं तर्हि तेषां नियोगाविषयत्वमुच्यते ? इत्थमुच्यते न नियोगसंबन्धितामात्रमुच्यते, यस्य नियोसिद्धिरेव कार्यम्, स विषयः । अवधातादीनाञ्च तुषकणविमाचनाद्यवान्तरकार्यङ्कुर्वतां नियोगाविषयत्वम् । तेन नियोगाविषयत्वम्, अङ्गता चेति सिद्धम् । विधेयास्त्ववघातादयो नियोगसिद्ध्यर्थतयोपादीयमानत्वात् । तदुक्तम्"यत्तु तत्सिद्ध्यर्थमुपादीयते तद्विधेयमिति तन्त्रे व्यवहारः" [सू. २. वृ. टी. पृ. ३९] इति । तदेवं नियोगप्रत्यभिज्ञोपबृंहितसन्निधानमात्रेणैवावघातादीनां नियोगाङ्गता, न पदार्थान्वयमुखेनेति सिद्धम् । येषां पुनः पदार्थान्वयमुखेनानुप्रवेशोऽभिमतः, तेषां प्रकरणाधीतस्य पाञ्चदश्यस्य, अनारभ्याधीतस्य च साप्तदश्यस्य सामिधेनीसम्बन्धमुखेनानुप्रवेशिनोरविशेषात्, उभयोरपि प्रकृतावेव निवेशः, विकल्पश्च स्यात् । सन्निधानमात्रेण तु प्रकरणाधीतस्य ग्रहणे शीघ्रं पाञ्यचदश्यमधिकारानुप्रविष्टमिति, तदवरुद्धे साप्तदश्यमधिकारविरुद्धं१३८८ नानुप्रविशति । तेन विकृतावेव तस्य निवेशः । यदि सन्निधानतोऽधिकारविधावनुप्रवेशः, तर्हि पर्णतादीनामनारभ्याधीतानां कथमनुप्रवेशः ? उच्यतेजुह्वादयोऽव्यभिचरितक्रतुसम्बन्धा इति, तत्सम्बन्धमुखेन क्रतुसम्बन्धसिद्धिः, तत्सम्बद्धेष्वेव च जुह्वादिषु पर्णतादिसम्बन्धात् । अत एव"हिरण्यं भार्यमि" [तै. ब्रा. २. २. ५. २] ति स्वतन्त्रमेवाधिकारनियोगविषयः, हिरण्यस्य क्रतुसम्बन्धव्यभिचारात् । ये च पदार्थस्वरूपान्वयेऽनर्थकत्वापत्तेः, तत्सम्बन्धावस्थान्वयपूर्वकं ग्राहकान्वयमाहुः, तेषामिदमेव तावत्कथम्, आनर्थक्येन न भवितव्यमिति । वेदवाक्यत्वादिति चेत्? वेदेनानर्थकेन न भवितव्यमिति न राज्ञा१३८९ ज्ञापितम्, यस्यार्ऽथो गम्यते, तस्य मा भूदानर्थक्यम्, अनवसीयमानार्थस्य त्वर्थवत्त्वं मनोरथमात्रविजृम्भितम् । पक्षान्तरालम्बनेनाप्यर्थवत्ता भवत्येवेति, वरं संनिधानवशेन नियोगाङ्गताभ्युपगमः । १३९० अन्निधानमपि सम्बन्धे कारणमिति वाक्यविदः । सम्बन्धञ्च गुणप्रधानभावमन्तरेण न स्यात् । तत्र च"न कार्यमन्यार्थं भवती"ति नियोग एव प्रधानम्, अङ्गमवघातादयः । सन्निधानविषये शङ्कानिरासौ । यदि चानर्थक्येन नियोगसम्बन्धः, तदा च"तृच उत्तमः पर्यासः" इति १३९१ वादशाह एव न निविशते । क्रतुसम्बन्धो ह्यन्तः पर्यास उच्यते । तेन तत्र पदार्थमात्रसम्बन्धेऽप्यानर्थक्यं नास्ति । तथा"हिरण्मय्यस्स्रुचो भवन्ति" [आप. श्रौ. सू. ८. ५. २९] इतिस्रुचामव्यभिचरितक्रतुसम्बन्धानां धर्मविधेरानर्थक्यं नास्तीति, न प्रकृताधिकारसम्बन्धस्स्यात् । किञ्चानर्थक्यपरिहारायऽपूर्वसम्बन्धोऽभ्युपेतः । किमिति न सन्निहितापूर्वसम्बन्धस्समाश्रीयते । यदि सन्निधानमकारणम्, ततश्च"अग्नेस्तृणान्यपचिनोति" [आप. श्रौ. सू. ३. ४. ३.] इति नाग्निहोत्रे एव व्यवतिष्ठेत । अथ सन्निधानविशेषात्तदपूर्वसम्बन्धिनामग्न्यादीनां परिग्रहः, तदा वरं सन्निधानविशेषात्तदपूर्वसम्बन्ध एवास्तु, किं परम्पराश्रयणेन । यथा क्रियाकारकभावेनान्विताभिधानम्, तथा प्रयोजनप्रयोजनिभावेनापि ह्यभिधानं लोके प्रतिपन्नम् । न हि व्रीह्यादयः प्रयोजनतां प्रतिपत्तुमर्हन्तिइति, तत्परित्यागेनापूर्वेणैव सह प्रयोजनप्रयोजनिभावेन सम्बन्धः । अवान्तरापूर्वे शङ्कातन्निरासौ । ये चावघातादिष्ववान्तरापूर्वाणि सङ्गिरन्ते, तेषां मते"प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ती"ति प्रोक्षणं दीक्षणीयावाङ्नियमवदवान्तरापूर्वप्रयुक्तं स्यात् । ततश्च त्रैधातवीयामिव वाङ्नियमः, नखनिर्भिन्ने चरौ प्रोक्षणं न १३९२ स्यात्, तत्प्रयोजकं रूपं तत्र नास्तिइति । न चैतद्वाच्यंतुषकणविमोचनादिकार्यमुखेनाधिकारापूर्वमेव प्रयोजकमिति, वाङ्नियमेऽपि तथा प्रसङ्गात्, दीक्षणीयायामपि क्रत्वपेक्षितत्वोपत्तिरपि१३९३ कार्यमस्तीति, ज्योतिष्टोम एव प्रयोजको वाङ्नियमस्य स्यात् । ततश्च १३९४ ईक्षितत्वोत्पादिकायां त्रैधातवीयायामपि स्यात् । ननु यद्यवघातादिष्ववान्तरविधयो नेष्यन्ते, कथं१३९५ तर्हि"न चाविहितमङ्गं भवति" [शा. भा. अ. ३, पा. ४. अ. १३.] इत्यङ्गेष्वेवान्तरविध्यभ्युपगमो भाष्यकारस्य ? उच्यते । आरादुपकारकेऽनृतवदनप्रतिषेधे चावान्तरविधिरङ्गीकुतः, तद्व्यतिरेकेणाङ्गत्वानुपपत्तेः । स्वरूपेण क्षणिकत्वात्कर्मणाम्, उपकारजननकाले तदनवस्थानादङ्गत्वं न घटत इति, इहैव वक्ष्यामः । अत एव जज्जभ्यमानमन्त्रवचने सन्निपत्त्योपकारिणि "पुरुषप्रयत्नश्रवणमनुवादः" इति वदति भाष्यकारः । यत्र ह्मवान्तरविधिरस्ति, तत्र पुरुषयत्नश्रवणं नानुवादः । यदेव हि तदवान्तरापूर्वम्, तत्कार्यतया लिङादिवाच्यम् । न च कृतिरूपपुरुषप्रयत्नानभिधाने कृत्यवच्छिन्नस्वभावकार्याभिधानोपपत्तिरिति, तदर्थं कृतिरूपपुरुषप्रयत्नाभिधानं युक्तमिति, नाविवक्षितः पुरुषप्रयत्नः । एवं नियोगप्रत्यभिज्ञोपवृंहितसंनिधिसमाम्नानवशादवघातादयोऽवहन्त्यादिपदैरधिकारनियोगैदमर्थ्येनान्वयिनोऽवगता स्सन्तस्तदन्वितावस्थैर्व्रीह्यादिभिस्सह क्रियाकारकभावेनान्वितास्तान् प्रति शेषतां प्रतिपद्यन्ते । स्वमतेन श्रुत्यादीनां विनियोजकत्वकथनम् । किं पुनरवधातस्य व्रीह्यादिशेषत्वे प्रमाणम् ? कार्यमिति ब्रूमः । तथा हिन कार्यमन्यार्थं भवति, कार्यत्वादेव । तेन यत्कार्येण सम्बद्धम्, तत्तावत्तदर्थम् । यदपि च कार्यैदमर्थ्यापन्नेन संबद्धं, तेनापि सह यस्य साध्यसाधनभावः, तदपि तदर्थमेव, कार्यैदमर्थ्यापन्नस्यान्यैदमर्थ्ये प्रमाणाभावात् । एवं १३९६ अर्वेषु शेषशेषित्वं वेदितव्यम् । यदि १३९७ आर्यतयैवैदमर्थ्यावगमः, कथं तर्हि श्रुत्यादीनां विनियोगकारणत्वम् ? द्वारविशेषसमर्पकतया । कार्यविशेषकरतया च शेषश्शेशिणि शेषतामापद्यते, नान्यथा, अकिञ्चित्करस्य शेषत्वानुपपत्तेः । तत्र श्रुतिः"व्रीहीनवहन्ती"ति द्वितीयात्मिका व्रीह्यादिगतन्तुषकणविमोचनादि समभिव्याहृतक्रियासाध्यभूतं समर्पयन्ती १३९८ इयोगकरणतामनुवदति, न पुर्द्वीतीयैव शेषितां व्रीह्यादीनाम्, अवधातस्य च शेषतामाह । "गां ददाती"त्यादिषु व्यभिचारात् । क्रियाजन्यफलभागिता हि सर्वत्राव्यभिचारिणी द्वितीनयावाच्या, न शेषिता, व्यभिचारित्वात् । क्रियाजन्यस्य फलस्य भागि कारकमेव कर्म । तच्च किञ्चिदीप्सितम्, भूतभाव्युपयोगात् । किञ्चिच्चानीप्सितम्, अनुपयोगात् ॥ अनेनैव विशेषेण भगवतः पाणिनेस्सूत्रद्वयम् "कर्तुरीप्सिततमं कर्म" [पा. सू. १. ४. ४९] "तथायुक्तञ्चानीप्सितमि" [पा. सू. १. ४. ५०] ति च । येषां मते शेषितैव द्वितीयार्थः, तेषां मते"सुवर्णं भार्यमि"ति क्रतुधर्म एव स्यात् । श्रुतानुगुणाधिकारानुप्रवेशितैव न्याय्या यतः, न स्वतन्त्राधिकारकल्पना, अवगतसुवर्णशेषित्वत्यागप्रसङ्गात् । क्रियाजन्यफलभागित्वे तु शब्दार्थे, न श्रुतहानिरिति, १३९९ वतन्त्रकर्त्रवगमात्१४०० अत्कारणभूताधिकारकल्पनैव न्याय्या । प्रकृतनियोगाप्रत्यभिज्ञानान्नियोगान्तरे स्थिते प्रजापतिव्रताधिकारकल्पनेवाधिकारकल्पनैवाचिताइति । लिङ्गस्योदाहरणम् । १४०१ नानादिषु वस्तुस्वभावपर्यालोचनया लिङ्गात्कर्तृसंस्काररूपकार्याङ्गीकारः । तेन कर्तरि शेषता स्नानादीनाम्, सामर्थ्यात् । सामर्थ्यमात्रञ्च लिङ्गम्, नाभिधानसामर्थ्यमेव । वाक्यस्योदाहरणम् । "अभिक्रामं जुहोती" [तै. स. २. ६. ६. १] तयादिषु वाक्यादभिक्रमणस्य होमः कार्यतया प्रतीयत इति, वाक्येनायं विनियोगः । १४०२ अन्निपत्त्योपकारकाणान्तु न प्रकरणेन विनियोगस्सम्भवति । येषां प्रकरणं द्वारं कल्पयति, तेषां प्रकरणाधीनो विनियोगः । प्रकरणनिरूपणम् । इतिकर्त्तव्यताकाङ्क्षां प्रकरणम् । तया च करणोपकारः कार्यभूतः कल्प्यते । न चासौ सन्निपत्त्योपकारिणं द्वारमिति, न तेषां प्रकरणेन विनियोगः । स्थानसमाख्ययोस्सन्निपातिषु न विनियोजकत्वम् । स्थानसमाख्ययोरपि सन्निपत्त्योपकारकाणि प्रति न कार्यकल्पकतेति, न विनियोगकारणत्वम्, एवं१४०३ सन्निपत्योपकारकाणां नियोगैदमर्थ्यमभिधानतः, विनियोगतश्च कारकैदमर्थ्यम्, उपादानतश्चाधिकारनियोगकरणीभूतयागाद्यैदमर्थ्यंम् । १४०४ इयोगाक्षेपो ह्युपादानम्, तत्कृतं प्रोक्षणादेः क्रत्वर्थत्वम् । यदि तदियकरणोपकारकता प्रोक्षणादेर्न स्यात्, तदा केनापरेण प्रकारेण तदन्वितनियोगप्रतीतिर्निर्वहतीति, नियोग एव तदन्वितः प्रतिपन्नस्तस्य करणोपकारकतां कल्पयन् करणैदमर्थ्यमाक्षिपतीति, तत्कृतमेव प्रोक्षणादेः क्रत्वर्थत्वम् । विनियोगात्पुनः कारकैदमर्थ्यमेवेति कथं पुनस्तेषां करणोपकारकता ? तुषकणविमोचनादिकार्यपरम्परादानेनोपकार्यविशेषाधायकतया । नन्वेवं सति कारकानुप्रवेशिनामवघातादीनां १४०५ अरणशरीरविशेषाधायकतया करणोपकारकत्वं, प्रयाजादीनान्त्वव्यतिरिक्तकरणानुग्रहजनकतेति, न सर्वैरेक उपकारः क्रियते । ततश्च सर्वैरेकेतिकर्तव्यतेति न स्यात् । उच्यते । उपकार्यविशेषायत्तसिद्धित्वादुपकारसिद्धेरुपकार्यविशेषस्योपकारं१४०६ जनयितुमलम्, नान्यस्येत्यवघातादिविनियोगादवगम्यते । एवञ्चोपपन्नमवघातादेरपि प्रयाजादिभिस्सह करणोपकारजनकत्वम् । सन्निपातिनामारादुपकारकत्वशङ्कानिरासौ । कस्मात्पुनः प्रयाजादिवदवधातादयोऽप्युपकारका नाभ्युपेयन्ते ? प्रकृताधिकारनियोगप्रत्यभिज्ञानात् । सम्भवति चात्र नियोगैक्यं तदीयव्रीहिसंस्कारमुखेनेत्युक्तम्१४०७ । प्रयाजादितुल्यत्वे ह्यवघातादीनामङ्गीक्रियमाणे, उत्पत्तिनियोगान्तरमाश्रयणीयमिति वक्ष्यामः१४०८ । तत्र सङ्ग्रहश्लोकाःसन्निधानवशोत्पन्ना प्रकृतापूर्वगामिनी१४०९ । मा बाधि १४१० रत्यभिज्ञेति तदनुग्रहकाङ्क्षया ॥ ३ ॥ अवहन्त्यादिभिश्शब्दैः कार्यान्वितपदार्थकैः । प्रकृतापूर्वसम्बद्ध१४११ एव स्वार्थोऽभिधीयते ॥ ४ ॥ तथा सति तदीयत्वं तेषां रक्षितुमिच्छता । ब्रीह्यादिभिः पदैर्युक्ता कार्यसाधनलक्षणा ॥ ५ ॥ क्रियाकारकसम्बन्धोऽप्यतस्साधनगोचरः१४१२ । शेषिभावोऽपि१४१३ तस्यैव श्रौतद्वारानुसारतः ॥ ६ ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामङ्गपारायणे सन्निपत्त्योपकारकाङ्गनिरूपणपरः प्रथमः परिच्छेदस्समाप्तः ॥ ********************************************************************************** १३_२ अथाङ्गपारायणे आरादुपकारकाङ्गनिरुपणपरः द्वितीयः परिच्छेदः प्रकरणार्थप्रतिज्ञा । १४१४आरादुपकारकं द्विविधमदृष्टप्रयोजनं, दृष्टादृष्टाप्रयोजनञ्च । तत्रादृष्टप्रयोजनं "समिधो यजति" [श. ब्रा. २. ६. १. १] इत्यादि । अस्य कारकगतं किञ्चित्प्रयोजनं न दृश्यते । आरादुपकारकविषय एकदेशिमतम् । १४१५ अत्र केचित्तावदधिकारापूर्वं प्रत्यङ्गतासिद्ध्यर्थमेषामधिकृताधिकारमिच्छन्ति । ते हि मन्यनतेउत्पत्तिनियोगास्तावत्समिदादिषु निर्विवादं सम्मताः । न च नियोगो नियोज्यमन्तरेणाभिधीयते । तथा सति विश्वजिदादिषु नियोज्यपरिकल्पना न स्यात् । तत्र च नियोज्ये कल्पयितव्ये, यद्यनुषङ्गः फलपदस्य कल्प्येत, यदि वा विश्वजिन्यायेनाधिकारी कल्प्येत, तदाधिकारापूर्वस्येतिकर्तव्यताकाङ्क्षा न १४१६ अरिपूर्यते । न परमापूर्वाधिकृते त्वधिकारिणि सति, उपायोपेयभावो गम्यते । न ह्यन्यथाधिकृताधिकारभाव उपपद्यते । यस्य हि परमापूर्वं साध्यम्, स परमापूर्वाधिकारी, तेन यथा"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यादौ स्वर्गकामे साध्यस्वर्गविशिष्टेऽधिकारिणि स्वर्गयागयोरुपायोपेयभावः, तथैहापि समिदादिपरमापूर्वयोः । तत्र"न च कार्यमन्यार्थमि"ति न्यायेनाधिकारनियोगैदमर्थ्यमेव समिदादीनामवसीयते । तदिदं ग्राहकग्रहणमिति गीयते । तत्रोत्पत्तिशिष्टाग्नेयादिकरणावरुद्धे परमापूर्वे प्रकारान्तरेणैदमर्थ्यानुपपत्तेरितिकर्तव्यतात्वेनैव सम्बन्धःिति । तन्निरासः । तदिदमनुपपन्नमिति प्राभाकराः । १४१७ अथाहियदि सर्वस्य नियोगस्य नियोज्यान्विताभिधानमाश्रीयते, १४१८ अर्हि राजसूयिकानामिज्याविशेषाणामुत्पत्तिनियोगानामपि साधिकारत्वं स्यात् । ततोऽभिषेचनीयतन्त्रमध्ये पठितानां विदेवनादीनामभिषेचनीयावान्तरापूर्वप्रकरणेन तदङ्गतैव स्यात् । अथोच्येतनादृष्टार्थो नियोगो नियोज्यान्वितोऽभिधीयते, किन्त्वनुष्ठानलब्धये । अभिषेचनीयादयश्च परमापूर्वप्रयुक्त्यैव लब्धानुष्ठानाः, परमापूर्वस्यापि तद्विषयत्वात्, तेनैव स्वसिद्ध्यर्थं विषयीभूतास्विज्यासु प्रयुज्यमानासु तद्विषयोत्त्पत्तिनियोगा अपि लब्धसिद्धयो न स्वसिद्धये नियोज्यान्तरमाकाङ्क्षन्तिइति । तर्हि प्रयाजादिनियोग अपि विनियुक्तविषयत्वान्नाधिकारान्तरमपेक्षेरन् । स्यान्मतंविनियोग एव तेषामधिकृताधिकारमन्तरेणानुपपन्नःिति । तदसत्नियोगैदमर्थ्यमात्रेण प्रथमं शब्देनावगताधिकारसम्बन्धानां प्रकरणेनेतिकर्तव्यतात्वेन विनियोगात् । तथाहिअधिकारविधिसन्निधौ "समिधो यजती"त्यादयो निरधिकारा एव तावदाम्नायन्ते । तत्र योऽसावधिकारविधिः, स एव प्रयोजनभूतो निरधिकारस्सैमिदादिभिस्स्वयमप्रयोजनभूतैरन्वितस्स्वशब्देनाभिधीयते१४१९ । समिदादिवाक्यानि च द्रव्यदेवताविशिष्टानि यागस्वरूपाण्येव सन्निधापयन्ति, सन्निधानमात्रेण तैस्सहाधिकारनियोगस्यान्वयः । यदि च सन्निधानं नाऽद्रियेत, तदा समिदाधिकारनियोगस्यान्वयः । यदि च सन्निधानं नाऽद्रियेत, तदा समिदादिष्वपि किमिति परमापूर्वाधिकारी कल्प्यते । तदेवं सन्निधानमात्रतस्सिद्धमधिकारैदमर्थ्यं१४२० कथं भवतीत्यपेक्षा । तथा साध्यभूतस्याधिकारापूर्वस्य च कथमित्याकाङ्क्षा । तेन करणोपकार एव तेषां द्वारमाश्रीयते । तत्र यदैदमर्थ्येनान्विताभिधानम, तद्ग्राहकग्रहणम् । यच्च तेषां करणोपकारद्वारपरिकल्पनम्, स एव प्रकरणविनियोगःिति । अवान्तरापूर्वापह्नवशङ्कापरिहारौ । नन्वेवमवान्तरापूर्वाण्यपह्नुतानि ? नापह्नोष्यामहे । यद्यपि प्रथमं लिङादयो न व्यतिरिक्तं नियोगं प्रतिपादयितुमीशते, "व्रीहीनवहन्तीत्यादि"ष्विवशङ्क्यमानाधिकारनियोगानुवादकत्वात् । तथाप्यधिकारनियोगं प्रत्येषां क्षणभङ्गिनामवान्तरापूर्वाण्यजनयतामङ्गता नोपपद्यत इति, पश्चाद्यदधिकारापूर्वाङ्गभावोपपादनायाऽश्रयणीयान्यवान्तरापूर्वाणि लिङाऽभिघेयान्नयुपेयन्ते । तदेतद्दीक्षणीयावाङ्नियमाधिकरणे [मी. द. ९. १. २.] व्युत्पादितम् । नन्वेमाश्रयिष्ववान्तरापूर्वाभ्युपगमो यथा, तथात्रैव वक्ष्यामः । यानि १४२१ आवान्तरापूर्वाणि, तानि शब्देनाङ्गभूतान्यधिकारापूर्वं प्रत्युपनीयन्ते । दीक्षणीयादिष्ववान्तरापूर्वशङ्कापरिहारौ । नन्वेवं तर्हि दीक्षणीयादिषु वाङ्नियमस्यावान्तरापूर्वप्रयुक्तता न स्यात् । किन्तु"प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ती"तिवत्तदपूर्वप्रयुक्ततैवाऽपद्येत । न । तस्य स्वरूपनिष्पत्त्यर्थत्वात्, यद्यप्यवान्तरापूर्वाणां परमापूर्वाङ्गभावः, तथापि तेषु स्वरूपनिष्पत्त्यर्थ एव वाङ्नियमादिको धर्मः,"दीक्षणीयायामनुब्रूयाद्" [आप. श्रौ. सू. २०. ४. १०] इति दीक्षणीयासम्बद्धावान्तरापूर्वस्वरूपसंबन्धावगमात् । न च तेषां स्वरूपपरित्यागेनाङ्गाङ्गिभावलक्षणा युक्ता, लक्षणैव यतः । न च स्वरूपार्थत्वेनाननुष्ठानम्१४२२ । स्वरूपस्यैवानन्यगम्यसिद्धित्वात् । शब्दैकगम्यसिद्धिकं सर्वमपूर्वम्, अवघातादीनान्तु प्रमाणान्तरावसेयसिद्धीनां विनापि प्रोक्षणं स्वरूपसिद्धेः । स्वरूपार्थत्वे १४२३ उक्तं नियमनियोगस्याननुष्ठानम् । तदेवं स्वयमङ्गत्वाल्लब्धानुष्ठानेषु प्रयाजादिषु नाधिकारकल्पनावकाशः । तेनैव प्रकारेण प्रधानविषयेषूत्पत्तिनियोगेषु करणावान्तरव्यापारो१४२४ वेदितव्यः । यो हि तमवान्तरव्यापारं नाभ्युपगच्छति, तस्य१४२५ करणभेदो न स्याद्दर्शपूर्णमासादिष्फ, तथाऽग्नेयादिधर्मा उपांशुयाजादिषु भवेयुः, परमापूर्वप्रयुक्तत्वात्, तत्प्रति साधनभावाविशेषात् । अवान्तरव्यापारभेदे तु युक्ताव्यवस्था, अन्यथाऽग्नेयस्य करणता, अन्यथोपांशुयाजादीनामिति । यथा बृहद्रथन्तरयोस्स्तुतिसाधनयोरप्यन्यथा साधनतेति धर्मव्यवस्था । तथापार्वणहोमयोरपि । अत एव विकृतिषु बाधः । न हि यथाऽग्नेयस्यापूर्वसाधनता तथा सौर्यस्येति, प्राकृतद्वाराभावेन पार्वणहोमयोर्बाधः । ये च सन्त्यवान्तरापूर्वाणि न साधनरूपाण्याचक्षते, न तेषाम१४२५ वान्तरव्यापारतेति प्राचीनसकलदोषप्रसङ्गः । कार्योत्पत्तिनिमित्तभावेन ह्यवान्तरव्यापारता, १४२६ न्यथा श्रमादेरपि १४२७ ऋषिसमुत्थस्य विलेखनवत्सस्याधिगमेऽवान्तरव्यापारतापत्तेः । नन्वेवमधिकारशून्यत्वे दीक्षणीयादिष्वतिदेशो न स्यात् । उच्यतेनिरधिकाराणामपि कार्यत्वाविशेषात्, अनिर्जातोपायत्वाच्च युक्तैव कथमित्याकाङ्क्षा । भाट्टमतेनावान्तरप्रकरणोपक्षेपः । नन्वेवमङ्गीकृतमवान्तरप्रकरणम् । कर्तव्यस्य हि कथमित्याकाङ्क्षा प्रकरणमिति मीमांसकप्रसिद्धिः । अवान्तरप्रकरणनिरासः । । नावान्तरप्रकरणं नाम प्रमाणमस्ति, प्रमेयाभावे प्रमाणानुपपत्तेः१४२८ । यावदेव तान्यवान्तरापूर्वाणि नावगम्यन्ते, तावदेव सर्वस्याऽरादुपकारकस्य पदार्थजातस्याविशेषेण प्रधानविधिपरिगृहीतत्वात् । पश्चात्तु सर्वेषामधिकारानुप्रवेशाविशेषात्, नान्योन्यं तादर्थ्यमस्तीति, नावान्तरप्रकरणविनियोज्यत्वसम्भवः । यानि तु वाक्यादिभिः, तेष्ववान्तरापूर्वाणि निवेशितानि, तानि १४२९ अत्र प्रतिष्ठितानि न परमापर्वं संक्रमिष्यन्ति । शङ्का नन्वेवं प्रयाजादिषु सौमिकविध्यन्तप्रसङ्गः । नायं दोषः । यदि निरधिकाराणामपि साधिकाराणामिव स्वारसिकाकाङ्क्षा भेवत्, भवेदेवम् । अननुष्ठेयत्वान्न स्वाभाविकीतिकर्तव्यताकाङ्क्षा । कथं पुनः कार्यता, अननुष्ठेयता च । तन्निरासः नूनं भवानश्रुतपूर्वसप्तमाद्यः१४३० । विविक्तं हि तत्रेदं गुरुणायदेव हि पुरुषेण ममेदं कार्यमिति निरपेक्षमेवावगम्यते, तदनुष्ठेयम् । यत्तु तत्सिद्ध्यर्थं प्रागसिद्धं सद्विनियुज्यते, तत्कार्यम् । परमापूर्वञ्च निरपेक्षं कार्यमवगम्यते । कार्यावगमाद्धि फलावगतिः, न फलावगतेः कार्यतेति षष्ठाद्ये क्षुण्णम्१४३१ । अतस्सिद्धोऽनुष्ठेयकार्यविवेकः । प्रयाजादिष्वपूर्वोपपादनम् । यदेव चानुष्ठेयं तत्रैव कथमित्याकाङ्क्षा, न कार्यमात्रे । अवहीनस्तर्हि प्रयाजादीनामिव दीक्षणीयादिष्वाकाङ्क्षापह्नवेनातिदेशः । न सम्यगवगतं मतमस्माकं भवता । अयं हि नो राद्धान्तःस्वारसिकीतिकर्तव्यताकाङ्क्षा निरधिकाराणां नास्ति, कारणान्तरसमुत्था तु नाऽपह्नूयते । तत्र दीक्षणीयादिषु प्रयाजादिदर्शनेनेतिकर्तव्यताकाङ्क्षा कल्प्यते । स्वरसतोऽप्याकाङ्क्षाशून्यस्य कारणान्तरोपनिपातनिबन्धनाऽकाङ्क्षा युज्यते । यथा"पटो भवती" ति निराकाङ्क्षस्यापि पदद्वयस्य रक्तपदोच्चारणात्रक्तं प्रत्याकाङ्क्षा । अन्यथा"रक्तः पटो भवती"त्यनन्वयप्रसङ्गः । एवं प्रयाजादिषु न किञ्चिदाकाङ्क्षोत्थापने १४३२ आरणमस्तीति, न सौमिकधर्मातिदेशः, सिद्धश्च दीक्षणीयादिष्वैष्टिकविध्यन्तलाभःिति । ये त्वधिकृताधिकाराभ्युपगमेन साधिकारतामङ्गनियोगानामाहुः, तेषां प्रयाजादिषु १४३३ आत्रिसत्रन्यायेनार्ऽऽथवादिकफलकाम एवाधिकारी प्राप्नोतीति, नाधिकृताधिकारसम्भवः । स्यान्मतमितिकर्तव्यताकाङ्क्षा प्रधानविधेर्न परिपूर्यतेइति । मा परिपूरि, प्रयोजनन्तु१४३४ अरिपूर्णम्, अर्थवादपदानि प्रमाणांशोपनिपातीनि, तेषां १४३५ अरोक्षा वृत्तिर्मा भूदिति तत्प्रतिपाद्यफलकाम एवाधिकारी युक्तः । साधिकारविधिसन्निधिमात्रेण तु निरधिकारणां प्रतीतेर्तादर्थ्येऽधिकाराकाङ्क्षा नास्तीत्यर्थवादपदान्यर्थवादमात्रपर्यवसायीन्येव । तथा"पयो व्रतं ब्राह्मणस्ये" [तै. आ. २ प्रपा. अनु. ८, तै. सं. ६. २. ५. २] इत्यादिषु भोजनाय प्रवृत्तस्य द्रव्यार्जननियमवत्, स्ववाक्य एवाधिकारिणो लब्धत्वान्न प्रधानप्रवृत्तस्याधिकारश्शक्यते कल्पयितुम्, अन्यथा स्वातन्त्रयं पयोव्रतादीनामापद्यते । तथा"नानृतं वदेदि" झ्र्तै. सं. २. ५. ५. ६] ति प्रकरणाधीतेऽपि निषिध्यमानक्रियाकर्तुरधिकारावगमान्न प्रकरणानुप्रवेशसम्भवः । तथा"भिन्ने जुहोति"ति निमित्तस्याधिकारिविशेषणत्वाद्विना निमित्तकल्पनादधिकारिविशेषालाभान्न होमस्य दर्शपूर्णमासाङ्गत्वलाभः । न वेदमिह समाधानम् । १४३६ हिन्नशब्दस्य यौगिकत्वात्प्रकृतगामित्वे सति, निमित्तवतोऽप्यधिकारेऽधिकृतस्याधिकार इति, प्रकरणे भिन्नस्याविनियोगात् । तद्धि प्रकरणे संनिहितम्, यत्तत्र विनियुक्तम् । न भिन्नस्य विनियोगोऽस्ति । अपि चाधिकाराकाङ्क्षायामधिकारे कल्पयितुमुपक्रान्ते, किमित्यार्थेन सन्निधानेनाधिकारः कल्प्यते । १४३७ हवत्वनुषङ्गः, साक्षाच्छ्रुतस्याधिकारपदस्य, प्रधानवाक्ये तु श्रुतेऽधिकारपदे प्रधानेन सह संबन्धे सति, सन्निहितानामश्रुताधिकाराणां साधिकारैदमर्थ्येनान्वितानामधिकाराकाङ्क्षैव नास्तीत्यनुषङ्गनिराकरणे मूलयुक्तिः । अभ्युच्चयमात्रन्तु वरमनुषङ्गत इतिकर्तव्यताकाङ्क्षापरिपूरणमेवेति । प्रयाजादीनां विकल्पशङ्कापरिहारौ । अपि च प्रत्येकं"समिधो यजती" [श. ब्रा. २. ६. १. १] त्यादिषुप्रधानाधिकृतस्याधिकारावगमात्प्रत्येकमेव समिदादीनां प्रधानोपायभावात्प्रत्येकमितिकर्तव्यताभावस्स्यात् । अवान्तरविधयो हि तदा स्वविषयाणामुपायभावं प्रकल्पयन्ति, करणावरुद्धे परमापूर्वे करणताया असम्भवात्, करणोपकारजनकतयैवोपायभावकल्पनम् । ततश्चानपेक्षोपायभावोपगमात्१४३८ प्रत्येकमेकैककरणोपकारसम्पादकत्वात्विकल्पस्समिदादीनां स्यात् । अधिकारविधिना तु तेषां तादर्थ्यमात्रग्रहणे तस्य तदन्वितस्यान्यथानुपपत्तेः, तादर्थ्यसिद्ध्यर्थं करणोपकारजनकता कल्पनीया, १४३९ आ च यथान्वयम् । अन्वये च सर्वेषां यौगपद्यम् । तत्र यदि प्रत्येकं करणोपकारजनकता स्यात्, तदा विकल्पे सति नित्यवदन्वयो नोपसंह्वियेत । मिलितानान्तु तज्जनकताश्रयणे सर्वथा तदन्वयोपसंहार इति, न प्रत्येकमितिकर्त्तव्यताभावः । उपायोपेयभावे तु तादर्थ्येनान्वये सति वैकल्पिकत्वादुपायभावस्य, तथैवान्वयोऽपीति युक्तम् । प्रयाजादिषु सौमिकधर्मातिदेशशङ्का । किञ्चाधिकृताधिकारेण सर्वेषु साधिकारेषु सत्सु, प्रयाजादेरितिकर्तव्यताकाङड्क्षा स्वारसिकीति, सौमिकधर्मातिदेशस्तेषु स्यात्, १४४० व्यक्तत्वात् । न च वाच्यं सत्यामप्याकाङ्क्षायामितरेतराश्रयतया न तेषु सौमिकधर्मातिदेशः । सोमो हि दीक्षणीयादिभिरङ्गवान् दीक्षणीयादीन्यैष्टिकधर्मग्राहीणि । यदि चेष्टावपि प्रयाजादिषु सौमिकधर्माः प्रवर्त्तेरन्, तदा स्फुटतरमितरेतराश्रयत्वमिति । तन्निरासः । तदिदं बालजनजल्पितम् । यथा सोमे विनाप्यैष्टिकधर्मप्राप्त्या दीक्षणीयादिमात्रनिबन्धन एवोपकारः, तथेष्टावपि सौमिकधर्मनिरपेक्ष एवोपकारः । यदि परं १४४१ वयोरङ्गानि द्वयोरुपकारं गृह्णन्ति, परं तत्र चोपकारक्लॄप्तेरविरोधान्न१४४२ कश्चिद्दोषः । निरधिकारेष्वङ्गेषुन स्वारसिकीतिकर्तव्यताकाङ्क्षा, किन्तु लिङ्बलोत्थापीयेति दर्शितमादौ । तेन लिङ्गरहितेषु नाऽकाङ्क्षोदय इति, न प्रयाजादिषु सौमिकधर्मातिदेशः । शङ्का केचिदाहुःयदि सन्निधिसमाम्नानमात्रेण प्रकृताधिकारानुप्रवेशो न भवति, तदा ज्योतिष्टोमप्रकरणे समाम्नातस्यापि षोडशिनः"उत्तरेऽहन् द्विरात्रस्य गृह्यते" इति वैकृतत्वमेव स्यात् । तन्निरासः । तदसत् । १४४३ रहणचोदनेयं ग्राह्यापेक्षिणी । तत्र प्रकृततया सोमरस एव ग्राह्यत्वेनान्वयं याति । स च ज्योतिष्टोमाधिकारसम्बद्ध इति, तदनुप्रवेशः । पश्चात्तु तस्य वाक्येन पुनर्द्विरात्रसम्बन्ध इति नानुपपन्नं किञ्चित् । तदेवमारादुपकारकेषु प्रथमं तादर्थ्येनाधिकारनियोगं प्रत्यन्वितेषु, साधिकारेण विधिनानुष्ठेयभूतेन १४४४ अरणोपकारक्लॄप्तेरप्रतीतेनाधिकारनियोगेन जनकत्वकल्पनम् । न च क्षणिकानां तेषां परस्परं स्वरूपेणासम्भवतां सम्भूयोपकारजनकतोपपद्यत इत्यवान्तरापूर्वाणि स्वीक्रियन्ते । आश्रयिकर्मविषये भाट्टमतेन शङ्का । १४४३ अन्वेवमाश्रयिषु कर्मसु विनाप्यपूर्वेण द्रव्यदेवतासंस्कारमुखेन करणोपकारजननसिद्धिरिति नापूर्वसमाश्रयणे किञ्चन प्रमाणम् । प्राभाकरमतेन समाधानम् । किं भवानृजुविमलायामनवहितः१४४६ ? दर्शितं हि तत्रेतं हि तत्रेदं १४४६ अतुर्थे न साक्षाद्द्रव्यदेवतोपकारो यागे१४४७, किन्तु स्वाङ्गभूतमन्ताद्यंशमुखेन । न च यागेऽधिकाराननुप्रविष्टे तयोस्तत्र विनियोगोपपत्तिः । न चापूर्वमन्तरेणा यागस्याधिकारानुप्रवेश इत्यवश्याश्रयणीयमवान्तरापूर्वम् । तेषाञ्चादृष्टतया न प्रयोजकत्वम् । दृष्टतया च द्रव्यदेवतासंस्कार एव प्रयोजकः । तत्रापि द्रव्यदेवतासंस्कारयोर्द्रव्यप्रतिपत्तिरेव प्रयोजिका, यागे द्रव्यस्य साक्षाद्व्यापारादिति मन्तव्यम् । द्रव्यस्य तु न श्रुतिविनियोगः । न क्वचिद्द्रव्यस्य द्वारं श्रुतिस्समर्पयति । न च प्राकरणिकोऽपि द्रव्यस्य विनियोगः, साक्षात्करणोपकारजनकत्वाभावात् । तस्य हि लिङ्गेन, वाक्येन, स्थानेन, १४४८ अमाख्यया वा भावार्थ एव जनकतया सम्बन्धः । गुणजात्योस्तु वाक्येन विनियोगः, नानाव्यापारत्वात्करणानाम् । अतस्साधनभूतद्रव्योपादाने तदवच्छेदकतयासत्येव तयोरुपयोग इति, न कारकतया विनियोगो विरुद्ध्यते । उत्पन्नकर्मगतसंख्ययाभ्यासनिरूपणम् । या तु १४४८ अङ्खयोत्पन्नकर्मसमवायिनी । यथा"एकादश प्रयाजान्यजति" [श. ब्रा. ३. ६. ५. १.] इति । सोत्पन्नानां कर्मणां विधानासम्भवात्कर्माश्रितो विधीयते । यद्यपि चोद्देश्यगतं विशेषणं वाक्यभेदभयेन विवक्षां नार्ऽहतीति, प्रयाजादीनां साहित्यं न विवक्षितम्, तथापि तस्याः पृथक्त्वनिवेशित्वान्न प्रत्येकमभिसम्बन्धः, किन्तु समुदायेनैव । न चाभ्यासं विनातस्याः परिपूर्त्तिरिति, अर्थादभ्यासाश्रयणे प्रकृतग्रहणात्स्वस्थानविवृद्ध्यैव१४४९ परिपूरणम् । यः पुनरुत्पद्यमानकर्मसमवेतस्सङ्ख्याख्यो गुणः, नासौ विधेयः । स हि विधीयमानानि कर्माण्यवच्छिनत्ति । न च तस्य विधेयत्वसम्भवः । बहुषु विहितेषु प्रचयो लभ्यत एवेति न पृथग्विधेयत्वमवलम्बते । अविधेयभूतोऽपिचासौ भावार्थं भिन्दन् विधावुपकरोतीति सोऽन्वयी । यस्तु भिन्नप्रतिपदिकाभिधेयः, सोऽरुणिमादिवत्कर्मणि कारकतया विधीयते । पश्वेकत्वस्यौपादानिकशेषत्वनिरूपणम् । १४५० अः पुनरयं विभक्त्यभिधेयः, तस्य यद्यपि शक्त्या प्रातिपदिकार्थसम्बन्धः, तथापि तस्य तन्मात्रसम्बन्धे प्रकरणसमाम्नानापादितो ग्राहकसम्बन्धो नोपपद्यत इति, ग्राहकीयावस्थासम्बन्धितैवौपादानिकीति निर्णीयते । विनियुक्तस्य पश्वादेरुपादानमनवच्छिन्नस्य न सम्भवतीति, अस्ति तदवच्छेदकीभूतसंख्यापेक्षा, सङ्खयायाश्च प्रतीतग्राहकान्वयनिर्वाहायाऽश्रयापेक्षेति, तदवस्थासम्बन्धितां विधिः कल्पयति । सङ्खयान्वितश्च विध्यर्थः प्रतीतस्तदन्वयोपपत्तये ग्राहकीयदशासम्बन्धितामापादयति । उपादानस्य विषयोपन्यासः । १४५१ पादानलक्षणो विधिव्यापार आक्षेपापरपर्यायो मीमांसकैः प्रतिपन्नः, उत्पत्तिविनियोगाधिकारप्रयोगविषयः प्रतिज्ञायते । तस्य च यथाप्रतीतविध्यनुपपत्तिरेव बीजम् । "सौर्यञ्चकं निर्वपेदि"त्यादौ साधिकारो विधिः प्रतिपन्न उत्पत्तिं विनानुपपद्यमान उत्पत्तिमाक्षिपति । न हि क्षणिकं यागमात्रमुत्पत्तिनियोगानपेक्षमधिकारसिद्धिसमर्थमिति बहुधोक्तम्, तदेव विश्वजिदादिष्वधिकारकल्पनाबीजमिति । निमित्तपर्यन्ते चाधिकारे साध्यभूतो विधिरनुष्ठानापरनामानं करणस्य प्रयोगमाक्षिपति । कामाधिकारे तु कामाधिकारे तु कामसिद्धेस्तदायत्तत्वात्, मानसी प्रवृत्तिः प्रागेव फलायत्तानुष्ठानप्रवृत्तावप्यप्रतिहता निमित्तमस्तीति विधिरप्रयोजकः, उभयत्राङ्गेषु क्रतुरेव प्रयोजकः, क्रतूपकारद्वारत्वात्तेषाम् । यदेव हि यस्य कार्यं, तदेव तस्य प्रयोजकम् । क्रतूपकारश्चाङ्गानां कार्यमिति, तदेवानुष्ठाननिमित्तम् । "१४५२ अच्च विधिना स्वसिद्ध्यर्थमाक्षिप्यते, तद्विधेयमिति" तन्त्रे व्यवहारः१४५३ । नन्वेवं विश्वजिदादावधिकारोऽप्याक्षिप्ततया विधेय एव स्यात् । उच्यते । नाधिकारस्य नियोगसिद्धौ व्यापारः, किन्तु कर्तृत्वस्य । तत्प्रतिपत्त्यर्थश्च नियोज्याक्षेपः१४५४ इति । विवरणमतेन क्रमस्यानभिधानोपन्यासः । एवञ्चविधिना स्वसिद्ध्यर्थमनाक्षिप्यमाणत्वान्न क्रमो विधेय इति मीमांसकानामुद्गारः । निबन्धनमतनिरूपणम् १४५५ रमस्य पाञ्चमिकस्य न किञ्चिदमिधानमस्ति । न चानभिहितस्य तस्य वैनियोगिकम्, औपादानिकं वा शेषत्वं घटते, न वाशेषभूतस्य विधिराक्षेपाय प्रभवति । यस्तु १४५४"वषट्कर्त्तुः प्रथमभक्षः" झ्राप. श्रौ. सू. १२. २४.६] इति प्रथमशब्दाभिधेयः क्रमः । स हि विनियोज्यः, विधेयश्चेति निबन्धनकारः । अत एवासौ तृतीये चिन्तितः । पञ्चमे हि यस्तावच्छ्रौतक्रमः"अध्वर्युर्गृहपतिं दीक्षयित्वा" [श. ब्रा. १२. १. १. १०] इत्यादौ, न तस्य किञ्चिदभिधानमस्ति । कथं तर्हि प्रतीयते । क्त्वाप्रत्ययो हि समानकर्तृकेर्ऽथे वर्तमानाद्धातोर्विधीयमानोऽपि, य एव प्रथमं प्रयुज्यते, तत एव विधीयते, तत्र १४५६ त्वाप्रत्त्ययश्रवणात् । प्रथमप्रयोज्यत्वे स्थितेर्ऽथावगतिरपि तथैव, यथाप्रयोगभावित्वादर्थावगतेः, यथावगति चानुष्ठानमिति, तत्क्रमोऽपि तथाविध एवावगम्यते । अर्थादीनां क्रमानभिधाननिरूपणम् । १४५७ र्थादिष्वभिधानशङ्का दूरापास्तैव । अनभिधीयमानस्याप्यवगत्युपायभावस्तत्र तत्र प्रकरणे चिन्तित एव । क्रमस्य चोदनालक्षणत्वाक्षेपसमाधाने । यदि विध्यर्थं प्रति शेषत्वं क्रमस्य नास्ति, कथं तर्हि चोदनालक्षणत्वम् ? न विधेयता चोदनालक्षणत्वे हेतुः, अधिकारस्य तदभावप्रसङ्गात् । १४५८ इध्यर्थस्तदन्वितः प्रतिपाद्यत इति चोदनालक्षणत्वम् । तर्हि क्रमान्वितोऽपि प्रयोगविधिरवसीयत इति, तस्यापि चोदनालक्षणत्वमविरुद्धम् । क्रमविशेषपरिगृहीतप्रयोगावच्छिन्नो हि प्रयोगविधिः प्रतीयते । अत एवानङ्गत्वेऽपि क्रमस्याऽदरः, तदभावे प्रयोगानुपपत्तेः, प्रयोगाविधेश्च विशिष्टप्रयोगसाध्यत्वात् । तदेवं द्विविधमौपदेशिकम्वैनियोगिकम्, औपादानिकञ्च । अधिकारनिरूपणाम् । तत्र न यथाधिकारं विनियुज्यते, अपि तु यथाविनियोगमधिकारः । सामान्यतोऽप्यधिकाराश्रयणेन विनियोगसिद्धेः । यद्यपि प्रतिप्रकरणं व्यवस्थासिद्धये ग्राहक्रहणपूर्वको विनियोगः, यद्यपि च साधिकारस्यैव ग्राहकत्वम्, तथापि सामान्यतोऽपि स्वर्गकामादावधि कारिणि लब्धे साधिकारत्वे सम्पन्ने, ग्राहकग्रहणे संवृत्ते विनियुक्तेष्वङ्गेषु तदवच्छिन्ने विध्यर्थे कार्यात्मनि तदनुष्ठानसमर्थस्य १४६० वर्गकामिनोऽधिकार इति, पश्चादधिकारिविशेषनियमः । १४६१ त एवान्धबधिरपङ्ग्वादीनामवेक्षणाश्रावणाभिक्रमणाद्यङ्गवति, अत्र्यार्षेयाणामार्षेयत्रयवरणलक्षणाङ्गभाजि, आहवनीयादियोगिनि चानाहिताग्नीनामनधिकारः । तेषां तथाविधविध्यर्थसम्पादनेस्वाभाविकशक्त्ययोगादिति स्वयमूहनीयम् । अशक्तानामङ्गवैकल्यसमाधानेन, अद्रव्याणां द्रव्यार्जनेन चाधिकारवर्णम् । येषां पुनस्स्वाभाविकी शक्तिरनपेता,१४६२ तेषामधिकारो भवत्येवाद्रव्याणाम्, १४६३ अमाधेयव्याधिविशेषपरवशेन्द्रियाणाञ्च । ननु तेषामधिकारो न निर्वहत्येव, अपूर्वसिद्धिनिबन्धनत्वात्तस्य, तस्यास्सकलाङ्गग्रामायत्तत्वात् । सत्यम् । कामाधिकारो न भवत्येव । तस्य सेतिकर्तव्यताकफलभावनाकरणविषयत्वात् । फलकामस्य हि फलभावनां प्रत्यकरणीभूतेऽधिकारो नावकल्पयते । सर्वञ्च करणं सेतिकर्तव्यताकं करणतामनुभवतीति सम्मतम् । ततस्साङ्गाननुष्ठाने सेतिकर्तव्यताकत्वव्याघातात्, विषयाभावाद्विषयिणोऽप्यनुपपत्तेरधिकारविलय एव कामिनाम् । नित्येष्वङ्गविषये यथाशक्तिन्यायः । १४६४ इमित्तवतश्च केवलभावार्थविषय एवाधिकार इत्यङ्गानुपसंहारेऽपि विषयाप्रमोषान्नाधिकारावगमः । अनपेतश्चाधिकारो यावदुपसंहरणीयाङ्गसम्पाद्यतामेव तदानीमवगमयति, औत्सर्गिकी तु सकलाङ्गायत्तसिद्धितैव । अनेनैवाभिप्रायेण निमित्ताधिकारे गौणः, मुख्यश्च शास्त्रर्थ इति प्राभाकराणामुल्लापः । नैमित्तिकानामनुष्ठानं कादाचित्कम्, प्रतिनिमित्तमावृत्तिरिति कथनञ्च । अस्ति च किञ्चिदङ्गं निमित्तायत्तविधानम् । तत्सत्येव निमित्तेऽङ्गम् । यथा"भिन्ने जुहोती"ति । तत्र चैष शास्त्रार्थःसति भेदने भेदनहोमसहितोऽङ्गकलापः करणोपकारं जनयति, तदभावे तु केवल एवैति । यावच्च भेदनादिकमावर्तते, तावती होमस्याऽवृत्तिः । एषतावदौपदैशिकोऽङ्गकलापः । कार्यप्रयेयनिरूपणोपक्रमः । कार्यनिबन्धनं १४६५ इञ्चिदङ्गं मीमांसका मन्यन्ते । उपदेशो हि प्रतिप्रकरणमङ्गानां व्यवस्थित एव, अपूर्वग्रहणपूर्वकत्वाद्विनियोगस्य । यदि हि"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते"त्यनेन साधिकारं यागमुद्दिश्य"समिधो यजति"ति समिदादिविधिस्स्यात्, तदानीमुद्दिश्य विधानात्, यावद्यागमेव समिदादिविधिरिति, यजिमत्सु सर्वापूर्वेषु समिदादिविधानादुपदेशो नव्यवतिष्ठेत । न हि तदा स्वर्गकामपदम्, दर्शपूणमासपदं वा विशेषणायालम्, उद्दिश्यमानविशेषणविवक्षायां वाक्यभेदापत्तेः । सन्निधानमात्रेण त्वन्विताभिधानसिद्धेर्दर्शपूर्णमासाभ्यामित्यधिकारवाक्यत्वे सति समिदादीनां तदनुप्रवेशाद्विनियुक्तविषयतयाप्यनुष्ठानसम्पत्तेर्दर्शपूर्णमासाभ्यामित्यधिकारवाक्यमेव१४६६ नोद्देश्यसमर्पकम् । तत्राङ्गानामपूर्वेण सह तादर्थ्येनाप्यन्विताभिधानम्, प्रकरणेन च करणोपकारलक्षणद्वारपरिकल्पनम् । तत्र चोपादानलक्षणेन विधिव्यापारेणाङ्गानां समुदितानामुपकारजनकत्वपरिकल्पनमिति, प्रतिप्रकरणमङ्गव्यवस्था । कार्यप्रमेयनिरूपणम् । क्व पुनः केषां कार्यनिबन्धनमङ्गत्वम् ? प्राकृतानां वैकृतापूर्वेषु, तदीयकरणे च १४६७ अमतिदेशमाचक्षते, प्राकृतानां प्राकृतस्थानपतितेर्ऽथान्तरे, यमूहमभिदधति । द्विविधं शाब्दमुपदेशजम्, १४६८ आर्यजञ्च१४६९ । तत्र च वैकृतापूर्वस्य साध्यभूतस्य सेतिकर्तव्यताककरणाकाङ्क्षस्य विषयीभूते भावार्थे करणेलब्धे, या परेतिकर्त्तव्यताकाङ्क्षा, तस्याञ्च न प्रकृतिवदुपकारान्तरकल्पनोपपद्यते । कॢप्ते ह्युपकारान्तरे तज्जनकद्विविधपदार्थाकाङ्क्षा पश्चात्तनी सा प्रकरणाधीतपदार्थवर्गसम्बन्धेन न परिपूर्यते । प्राकृते तूपकारे स्वीकृते, तन्मुखेन द्विविधप्राकृतपदार्थोपस्थापनादाकाङ्क्षा परिपूर्यत इति, प्राकृतमेवोपकारं स्वीकरोति । भाट्टाभिमतानुमानोपमानयोरतिदेशाहेतुत्वनिरूपणम् । कः पुनर्हेतुस्स्वीकरणे ? नानमानम्, अव्यभिचरितलिङ्गसम्बन्धाभावात् । नोपमानम्, तस्य सादृश्यमात्रविषयत्वात्, सिद्धविषयावगाहिनोश्चानयोः कार्ये प्रामाण्यानवतारात् । लिङादिना प्राकृतोपकारस्याभिधानम् । उच्यते । य एवासौ नियोगाभिधायी लिङादिशब्दः, स एव प्राकृतोपकारान्वितं स्वार्थमभिदधाति । प्रकृतोपकारान्वितं स्वार्थमभिदधाति । प्रकृतावपि विध्यर्थपरिकल्पितोपकारेणान्वितं स्वार्थं लिङादिरेव वक्ति । अन्विताभिधाने चाऽकाङ्क्षायोग्यतासन्निधिश्च कारणम् । इह च प्राकृतस्योपकारस्यैवाऽकाङ्क्षायोग्यता च तावदविवादा । सन्निधानन्तु बुद्धेन प्राकृतेनैवापूर्वेण लिङ्गविशेषण च प्राकृतमपूर्वं बुद्धौ सन्निधीयते, तच्च स्वोपकारं सन्निधापयति । अत एवोपकारसम्बन्ध औपदेशिक इति १४७० अत्त्वविदः । विकृतावुपकारस्यौपदेशिकत्वोपन्यासः । यो हि ग्रन्थेन, विध्यर्थेनवोपस्थापितस्तस्मिन्नन्वयमेति, स औपदेशिकः । यथा प्रकृतावुपकारः, यथा वाविश्वजिदादावधिकारी । तदेवमुपकारस्सम्बन्धमुपेतः केन पदार्थवर्गेण जन्यत इति, पश्चात्तस्यैव वैकृतस्यापूर्वस्याऽकाक्षा भवतिशङ्का । ननु प्रकृतावेवासावुपकारो निर्ज्ञातजनकभूतपदार्थवर्ग इति नाऽकाङ्क्षोदये कारणमस्ति । अत एव पदार्थानामतिदेशो नेति मन्यन्ते । यदि पदार्थेष्वपि पश्चाद्भाविन्याकाङ्क्षा स्यात्, तदा तद्धेतुके प्राकृतानां वैकृतापूर्वसम्बन्धे सति, को नामोपकारस्येव पदार्थानामतिदेशं वारयेत् । अन्यत्रोक्तस्य१४७१ ह्यन्येन सम्बन्धोऽतिदेश इत्यतिदेशविदः । तन्निरासः । अत्र ब्रूमःयदि करणोपकारप्रयुक्ताः प्राकृताः पदार्थास्सयुः, तदा निर्ज्ञातेषु जनकेषु१४७२ प्रधानाकाङ्क्षा नावतरेत् । अपूर्वप्रयुक्तास्तु धर्मा इति मीमांसकाः । तथा सति यदपूर्वप्रयुक्तास्ते धर्माः, तत्सम्बद्धे एवोपकारे तेषां जनकता कल्पिता, नान्यसम्बद्धे । अतो वैकृतापूर्वसम्बन्धस्यानिर्ज्ञातोपायाकाङ्क्षा नानुपपन्ना । तेषां तु१४७३ लॄप्तसाधनभावानां पदार्थानामनुष्ठानमेव केवलम्, तेषामौपदेशिकत्वादुपकारसाधनभावस्योहबाधौ न स्याताम् । आकाङ्क्षानिबन्धने तु विकृत्यपूर्वसम्बन्धे यथोहबोधौ सिद्ध्यतः, तथात्रवक्ष्यामः । एवञ्च सत्यां पदार्थाकाङ्क्षायां पश्चादुपकारेण ये प्राकृताः पदार्था बुद्धिविषयतामापद्यन्ते, तेऽन्वयमासादयन्ति । उपकारस्य प्राकृतपदार्थोपस्थापकत्वोपन्यासः । केन पुनस्सम्बन्धेनोपकारस्तानुपस्थापयति । उच्यते । प्रकृतौ तेषां पदार्थानाम्, तस्य चोपकारस्य जन्यजनकभावः प्रतीति इति, तयापूर्वप्रतीत्या स्मृतिस्तेषु जायते । तेषु स्मृतिसन्निहितेषु लब्धान्वयेषु यथाप्रकरणाधीतेषु पश्चादुपकारसाधनत्वं मिलितानां कल्प्यते । तदाहुः"वैकृतं पदार्थवर्गं प्राकृतमुपकाराढौकितं तथा विधिरुपकारे साधनमेकीकृत्य कल्पयति, उपकारलक्षणकार्योपस्थापितप्राकृतपदार्थान्वयज्ञानञ्च विकृत्यपूर्वकार्यजं शाब्दमुच्यते । न च पदार्थानामपूर्वान्तरसम्बन्धोऽनुपपन्नः । अन्यदीयस्यान्यसम्बन्धाभावाद्" [बृ. टी. १०. १. १] इति । अर्थश्चायमतिक्षुण्णक्रृजुविमलादिषु । ऊहस्य शाब्दत्वनिरूपणम् । तत्र प्राकृतानां संस्काराणां प्राकृतद्रव्यस्थानपतितपदार्थसम्बन्धनिश्चयः ऊहापरनामापि कार्यज १४७४ व शाब्दः । प्रकृतौ यत्कार्यं प्रतीतमवघातादीनाम्,"तदेवेदमि"ति निश्चये सति, १४७५ एषां वैकृतद्रव्यान्तरसम्बन्धनिश्चयः ! यदपूर्वार्था ह्यवघातादयः, तदीयतण्डुलोत्पत्तिप्रकृतिद्रव्यमवघातादिभिस्संस्कार्यमिति प्रकृतौ शास्त्रार्थः । विकृतावपि तादृशा एव नीवारादय इति, १४७६ अद्धर्मोहस्तेषु । बाधनिरूपणम् । एवं कृष्णलादिष्ववधातादिषूहितेषु द्वारभूतकार्याभावेन यो बाधनिश्चयः, सोऽपि कार्यज एव । तदेवमूहितबाधिताभ्युच्चितपदार्थजन्यः प्राकृत उपकारो विकृताविति स्थितम् । तन्त्रावापनिरूपणम् । तेषाञ्चौपदेशिकानां कार्यसम्बद्धानाञ्चाङ्गानामनेकप्रधानसम्बन्धे १४७७ रयुक्ति विशेषस्तन्त्रमनुष्ठानस्य१४७८ । तथा देशकालकार्तृणां प्रयोगानुबन्धभूतानां भेदो नावसीयते कार्यस्यैवाभेदे । भिद्यमाने तु कार्ये कार्यार्थमनुष्ठानमावर्तत एव । देशादिभेदेऽपि प्रयोगभेदावगमादावृत्तिरेवानुष्ठानस्य । प्रसङ्गनिरूपणम् । यस्य च परार्थमनुष्ठितस्यापि कार्यं तन्त्रमित्यवगम्यते, तस्यान्यत्राप्युपकारकत्वमेवेति सकृदनुष्ठानमिति । नानाभ्रमविषयाणां१४७९ इधिसिन्धौ १४८० इमज्जताङ्गानाम् । प्रविततगम्भीराणां पारायणमेतदाचरितम् ॥ १ ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामङ्गपारायणे आरादुपकारकाङ्गनिरूपणपरो नाम द्वितीयः परिच्छेदस्समाप्तः ॥ ________________________________________ ओं श्रीमत्प्रभाकरगुरुतन्त्रधुरन्धरेण महामहोपाध्यायशालिकनाथमिश्रेण प्रणीता प्रकरणपञ्चिका न्यायसिद्ध्याख्यया व्याख्यया विषमस्थलटिप्पराया च समलङ्कृता ________________________________________ ओं श्री श्रीनिवास स्वामि, ओं श्री विनायक स्वामि, ओं श्री सरस्वति देवि अथातिदेशपारायणं नाम चतुर्दशं प्रकरणम् ॥ प्रकरणार्थप्रतिज्ञा । १ इकृतौ ये पदार्थानामतिदेशं न मन्वते । २ रकारस्योपदेशञ्च तेषामुत्तरमुच्यते ॥ १ ॥ स्वसिद्धान्तस्योपन्यासः । प्राकृतेनोपकारेण पदार्थैश्चैव वैकृतैः । प्रयोगविधिना स्वेन विधिरन्वित उच्यते ॥ २ ॥ यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेनान्वितो हि विध्यर्थस्स्वशब्देनैव वर्ण्यते३ ॥ ३ ॥ साध्यभूतश्च विध्यर्थ उपकारमपेक्षते । ४ आक्यादिभिः५ प्राकृतश्च स योग्यस्सन्निधाप्यते ॥ ४ ॥ अन्यथानवगम्यत्वाद्यद्यप्यङ्गपुरस्सरः । उपकारः प्राकृतोऽसौ विकृतौ सन्निधाप्यते ॥ ५ ॥ तथाप्यपेक्षितत्वेन प्रकारं प्रभमं विधिः । स्वीकरोति पदार्थांस्तु प्रतीतानप्युपेक्षते ॥ ६ ॥ पश्चात्तु तैरपि पुनरुपकारप्रसिद्धये । अपेक्षितैस्तद्वशेन प्रोप्तैरन्वयमृच्छति ॥ ७ ॥ गुणप्रधानभावेन सर्वत्रैवान्वयो मतः । ६ रधानञ्च विधिर्धर्मा गुणास्तं प्रति सम्मताः ॥ ८ ॥ अन्वितस्याभिधानञ्च न ७शब्दोपस्थितैः परम् । दर्शनात्पितृयज्ञादौ कल्प्येनाप्यधिकारिणा ॥ ९ ॥ सम्बन्धिना न सर्वेण सहसैवान्विताभिधा । सम्बन्धिनां सन्निधानक्रमेण तु यथायथम् ॥ १० ॥ प्रकृतिविकृत्योर्विशेषोपन्यासः । ८ रकृतौ तु स्वशब्दत्वात्पदार्थानां पुरोऽन्वयः । उपकारस्य कल्प्यस्य पश्चादिति परं भिदा ॥ ११ ॥ अतिदेशलक्षणं व्युत्क्रमेणोपकारेण पदार्थैश्चैव वैकृतैः । प्राकृतैर्विधिरन्वेति सोऽतिदेशश्च सम्मतः ॥ १२ ॥ यस्य देशे विधिर्यस्मिंस्ततोऽन्यत्रापि तद्गतिः । अतिदेशः प्रकारस्य धर्माणाञ्चैव युज्यते ॥ १३ ॥ अन्यत्रत्यो यथान्यत्र प्रकारोऽन्वयमृच्छति । तथा धर्म ९ पीष्यन्ते तेषामप्यतिदेश्यता ॥ १४ ॥ एकदेशिमतेन दशमाद्यविरोधशङ्का । नन्वेयं दशमाद्येन विरोधस्ते प्रसज्यते । नैवं कार्यानपेक्षोऽसावतिदेशो निवारितः ॥ १५ ॥ तद्वद्भावेन सम्बन्धो धर्माणामेव चेद्भवेत् । अनपेक्ष्यप्रकारत्वात्तदा१० बोधो न सिध्यति ॥ २६ ॥ तन्निरासः । प्रकृतौ हि पदार्थानां सम्बन्धेऽवगते यथा । द्वारं दृष्टमदृष्टं वा सम्बन्धार्थं प्रकल्प्यते ॥ १७ ॥ कार्यानपेक्षसम्बन्धे तथैवावगते सति । द्वारं दृष्टमदृष्टं वा कल्प्यं स्याद्विकृतावपि ॥ १८ ॥ ततो न घटते बाधः कार्यलोपनिबन्धनः । दृष्टाभावेऽप्यदृष्टस्य द्वारस्य खलु सम्भवात् ॥ १९ ॥ कार्यापेक्षा यदा धर्मा विकृतौ यान्ति सङ्गतिम् । तदा कार्यावलोपेन तेषां बाधः प्रसिद्ध्यति ॥ २० ॥ प्राप्नुवन्तीति हि कार्येण धर्मा द्वारसमन्विताः । प्राप्नुवन्तीति न द्वारकल्पनावसरस्तदा ॥ २१ ॥ कार्यानपेक्षसम्बन्धो धर्माणामुच्यते यदि । दशमाद्यविरोधस्स्यात्तदानीं न च तत्तथा ॥ २३ ॥ ११॥ तद्वद्भावेन किं धर्माः प्रकारो वापि गृह्यते । इत्येषा दशमाद्ये हि चिन्ता बाधप्रसिद्धये ॥ २४ ॥ स्वमतेन दशमाद्यविरोधोपन्यासः । ११ ऊर्वपक्षी च तत्राऽह पदार्थानां परिग्रहम् । नोपकारे हि धर्मेभ्यो विना शक्यं रिरूपणम् ॥ २५ ॥ यद्यप्याकाङ्क्षति विधिः प्रकारं प्रथमं स्वयम् । तथापि तस्य प्रकृतावपि नैव स्वरूपतः ॥ २६ ॥ परिज्ञानं किन्तु यथाश्रुतैर्धर्मैस्तथैव हि । तस्मात्पदार्थपूर्वैव सदा तस्य निरूपणा ॥ २७ ॥ अतः पूर्वप्रतीतत्वात्पदार्थैरेव वैकृतः । विधिस्सम्बन्धमाप्नोति तान्गृहीत्वा तु स स्वयम् ॥ २८ ॥ उपकारं प्राकृते द्वारेऽलुप्ते बाधन्तु नार्ऽहति ॥ २९ ॥ स्वमतेन दशमाद्यसिद्धान्तवर्णनम् । १२ आद्धान्ती तु वदत्येवं सत्यं धर्माः पुरस्सराः । तथा । द्यपि ते न गृह्यन्ते तदानीमनपेक्षणात् ॥ ३० ॥ प्रकारं हि पुनस्साध्यरूपो विधिरपेक्षते१३ । नपदार्थनिति हि १४ आत्प्रतीतानप्युपेक्षते ॥ ३१ ॥ प्रकारेणैव सम्बन्धं प्रथमं प्रतिपद्यते । प्रकारकल्पितैः पश्चात्पदार्थैरिति दर्शितम् ॥ ३२ ॥ अन्यधर्माणामन्यधर्मत्वशङ्कानिरासौ । धर्माणामन्यदीयानां कथमन्यत्र सङ्गमः । इति चेदुपकारेऽपि तुल्यमेतदथोच्यते ॥ ३३ ॥ नोपकारस्य सम्बन्ध इति हास्यमिदं वचः । यद्यसौ नान्यदीयस्स्यात्कथं तर्ह्यतिदिश्यते ॥ ३४ ॥ अन्यत्र ह्यन्यदीयस्य देहशोऽतिदेश उच्यते । तद्वद्भावेन तत्प्रापौ विरोधश्चेन्न विद्यते ॥ ३५ ॥ तद्वद्भावोपत्त्यर्थं पदार्थेष्वपि तत्समम् । प्रतिपत्तिविरोधोऽयमन्यदीयान्यसङ्गमे ॥ ३६ ॥ मुखान्तरेण१५ सम्बन्धे स च नास्ति कथञ्चन । भाट्टमतेऽनुपपत्त्युपन्यासः । ये तु नेच्छन्ति धर्माणां सम्बन्धं वैकृतैस्सह ॥ ३७ ॥ अपूर्वे प्राकृताङ्गानां१६ ग्रन्थस्तेषां विरुध्यते । सप्तमाष्टमयोस्तेषां१५ प्रकारप्राप्तिचिन्तनम् ॥ ३८ ॥ न युक्तं तत्र चिन्ता हि षट्केऽस्मिन्कार्यबन्धना । नियोगोऽप्यथ कार्यञ्चेत्तदर्थमपि चिन्त्यते ॥ ३९ ॥ चतुर्थाध्यायचिन्तापि१६ षट्केऽस्मिन्नापतेत्तथा । स्वमतेनोपपत्तिप्रदर्शनम् । कार्यतो ह्युपदेशार्थद्विध्यर्थाद्यप्रतीयते ॥ ४० ॥ १७॥ यथा तस्योपदिष्टत्वं तथाऽक्षेपण । वक्ष्यते । तेन विध्यर्थमुत्सृत्य कार्यमन्यत्समाश्रितम् ॥ ४१ ॥ द्वारभूतमियं चिन्ता कार्यषट्के विधीयते । अतिदेशः पदार्थानां तेन षट्केऽत्र चिन्तितः ॥ ४२ ॥ तस्यैव हेतुभतस्स उपकारोऽपि दर्शितः । "षड्भिर्दीक्षयती"त्यत्र प्राकृतानाञ्च वैकृतैः ॥ ४३ ॥ अङ्गभूतैरनङ्गानां बाधश्चैवं प्रसज्यते । प्रधानभावबाह्यत्वादुपकारप्रसिद्धये ॥ ४४ ॥ नैव प्रयुक्तिमात्रेण क्रियते प्राकृतं पुनः । तत्र । कार्यातिदेशोयं सम्मतस्त्वौपदेशिकः ॥ ४५ ॥ १८॥ उपदेशप्रमेयेण विध्यर्थेनोपकल्पितः । प्रकृतावुपकारस्य यदपूर्वेण कल्पना ॥ ४६ ॥ नियोज्यस्य च वृद्धानामुपदेशेन सम्मता । स्वमतेनोपदेशशब्दार्थोपन्यासः । उपदेशो हि । नामात्र ग्रन्थसन्दर्भ उच्यते ॥ ४७ ॥ स च प्रमाणं विध्यर्थे कार्यरूपेऽवधारितः । योर्ऽथः प्रतीयते यस्मात्स परं नौपदेशिकः ॥ ४८ ॥ विध्यर्थस्स्वप्रतीत्यथ यमाक्षिपति सोऽपि च । अपर्यवस्यन्विध्यर्थे यं प्रकल्पयितुं क्षमः ॥ ४९ ॥ औपदेशिकता युक्ता तस्याप्यक्षरबोध्यवत् । उपकारविशेषञ्नच विधिः कल्पयितुं क्षमः ॥ ५० ॥ न पदार्थविशेषन्तु वैकृतं प्राकृतो यथा । उपकारविशेषस्य कल्पनायां क्षमोऽपि यत् ॥ ५१ ॥ प्रकृतेरेव गृह्णाति लाघवं तत्र कारणम् । कॢप्तकल्प्यविरोधे हि लघुः क्लॄप्तपरिग्रहः ॥ ५२ ॥ अस्ववाक्यनामलिङ्गैश्च कॢप्तोऽसौसन्निधाप्यते । पदार्थभेदप्राप्तिस्तु नोपकरं विना भवेत् ॥ ५३ ॥ प्रकृतिविकृत्योर्विशेषकथनम् । तत्प्राप्तेः कार्यतस्तेषां प्रकारश्चोपदेशतः । प्रकृतावुपकारश्च पदार्थश्चोपदेशतः ॥ ५४ ॥ विकृतौ कार्यतो धर्माः प्रकारश्चोपदेशतः ॥ ५५ ॥ स्वमतोपन्यासः । उपदिष्टेऽपि चैतस्मिन्नतिदेशपदाभिधा । न वार्यतेऽस्ति तस्यार्ऽथो देशान्यत्वं निजाद्विधेः ॥ ५६ ॥ उपदेशातिदेशयोर्भिन्नविषयत्ववादिभाट्टमते दोषोद्भावनम् । उपदिष्टातिदिष्टत्वं न त्वेकस्य विरुद्ध्यते । नोपदेशातिदेशौ हि प्रमाण इति सम्मते ॥ ५७ ॥ उपदेशातिदेशौ हि प्रमाणे भवतो यदि । स्वमते पूर्वोक्तदोषाभाववर्णनम् । तदा विरोधो जायेत न चैवमिह सम्मतम् ॥ ५८ ॥ तेनोपदेशमेयत्वादुपदिष्टमितीष्यते । अन्यस्मिन्नन्यतोभावादतिदेशोऽपि युज्यते ॥ ५९ ॥ स्वमतेनोपदेशदेशयोर्विषयनिर्देशः । उपदेशकार्यरूपप्रमाणद्वयसंश्रयौ । षट्कावुभौ नोदेशमतिदेशञ्च संश्रितौ ॥ ६० ॥ अतिदेशाश्रयत्वे हि बाधे तन्त्रे च भूयसी । उपदिष्टार्थविषया चिन्ता नैवोपपद्यते ॥ ६१ ॥ द्वारकार्याश्रयत्वे तु सर्वासामुपपन्नता । चिन्तानामितिचिन्तेह युक्ता कार्यसमाश्रया ॥ ६२ ॥ उपकारवत्पदार्थानामुपदिष्टत्वशङ्का । १९ अन्वेवमुपदिष्टत्वं पदार्थानां प्रसज्यते । कार्यवत्तैरपि यते विध्यर्थोऽन्वित उच्यते ॥ ६३ ॥ तन्निरासः । उच्यते शाब्दतैवं स्यान्नोपदेशप्रमेयता । प्रमाणद्वयभेदोऽयमुपस्थाननिबन्धनः ॥ ६४ ॥ उपदेशोपस्थितो यो वाक्यार्थान्वयमृच्छति । स औपदेशिको ज्ञेयस्स च द्वैधमुपस्थितः ॥ ६५ ॥ ग्रन्थैनोपस्थितश्चैव विध्यर्थोपस्थितस्तथा । २० अथोपकारः प्रकृतौ नियोज्यो वाश्रुतो यथा ॥ ६६ ॥ प्रकारोपस्थितो यश्च द्वेधा नासावुपस्थितः । तेनौपदेशिको नासौ केवलं कार्यबन्धनः ॥ ६७ ॥ पूर्वनिबन्धनिबन्धनमपनेतुं मोहमीहमानेन । शालिकनाथेन कृतः कृतिनामानन्ददो यत्नः ॥ ६८ ॥ इति महामहोपाध्यायश्रीमच्छालिकनाथमिश्रप्रणीतायां प्रकरणपञ्चिकायामतिदेशपारायणं नाम चतुर्दशं प्रकरणं समाप्तम् ॥ समाप्ता चेयं प्रकरणपञ्चिका ॥