शास्त्रदीपिका । प्रथमाध्याये प्रथमस्तर्कपादः । लक्ष्मीकौस्तुभवक्षसं मुररिपुं शङ्खासिकौमोदकीहस्तं पद्मपलाशताम्रनयनं पीताम्बर शार्ङ्गिणम् । मेधश्याममुदारपीवरचतुर्बाहुं प्रधानात्परं श्रीवत्साङ्कमनाथनाथममृतं वन्दे मुकुन्दं मुदा ॥१ ॥ न्यायाभासतमश्छन्नशास्त्रतत्त्वार्थदर्शिकाम् । कुमारिलमतेनाहं करिष्ये शास्त्रदीपिकाम् ॥२ ॥ अथातो धर्मजिज्ञासा ॥ १,१.१ ॥ अनेन सूत्रेण प्रारीप्सितस्य शास्त्रस्य श्रोतृप्रवृत्तिसिद्धये धर्मज्ञानं प्रयोजनं कथ्यते । यदा हि धर्मजिज्ञासा कर्तव्येत्युक्ते शास्त्रमारभ्यमाणं दृश्यते तदा नूनमिदं शास्त्रं धर्मज्ञानप्रयोजनमित्यवगम्यते ॥*॥ विदितं तावत्प्रयोजनम् । संबन्धोऽपि शास्त्रस्य प्रस्तावहेतुर्वक्तव्यः । यथा शस्त्रान्तरेषु शिष्यप्रश्नानन्तर्यादिसंबन्धः प्रस्तावको वर्ण्यते तथेहापि शास्त्रारम्भे शिष्यप्रश्नानन्तर्यादिसंबन्धः प्रस्तावको वर्ण्यते तथेहापि शास्त्रारम्भे प्रयोजकानां संबन्धानामन्यतमो वक्तव्यः अनेन संबन्धेनेदं शास्त्रमायातमिति । अन्यथा ह्यसंबद्धप्रलपितं स्यात् । सत्यम् । इहतु य एवायं प्रयोजनेन सह शास्त्रस्य साध्यसाधनत्वसंबन्धः स एव शास्त्रस्य प्रस्तावको नान्यः । भवति हि साधनत्वमेव साध्यार्थिनः साधने प्रवृत्तिहेतुः । सचायं संबन्धः प्रयोजनोक्त्यैवार्थज्ज्ञायत इति न सूत्रकारेण पृथगुक्त इत्यदोषः ॥*॥ अत्रेदं चिन्त्यते किमध्ययनानन्तरं धर्मजिज्ञासया गुरुगृहेऽस्थातव्यम्, उत गुरुगृहात्समावर्तितव्यमिति । यदि हि स्वाध्यायाध्ययनविधिना धर्ममात्रार्थमध्ययनं स्वर्दाद्यर्थेन विधीयते ततस्मान्मात्रेणैव शास्त्रार्थस्य समाप्तत्वात्ऽअधीत्यस्नायात्ऽ इति स्मृतिवचनबलेन च समावर्तितव्यमिति । अध्ययनविधिविचारः । अथाक्षरग्रहणादिपरम्परोपजायमानवाक्यार्थज्ञानार्थमध्ययनं विधीयते । ततस्तस्य विचारमन्तरेणासंभवादध्ययनविधिनैवार्थाद्विचारो विहित इति गुरुगृह एवावस्थाय विचारयितव्यो धर्मः । तत्रऽविनापि विधिना ज्ञानलाभान्नहि तदर्थता ॥ कल्प्यस्तु विघिसामर्थ्यात्स्वर्गो विश्वजिदादिवत्ऽ ॥*॥ स्वाध्यायसंस्कारद्वारेणाध्ययनस्यार्थज्ञानहेतुत्वं विनैव विधिना प्रमाणान्तरेण सिद्धमेवेति तादर्ध्ये विध्यानर्थक्यम् । नचावघातादिविधिवन्नियमार्थत्वम् । अवधातो हि दर्शपूर्णमासपूर्वे नियम्यते । अवघातनिष्पन्नैरेव तण्डुलैरपूर्वं सिध्यतीति न तण्डुलस्वरूपे, प्रमाणान्तरविरोधात् । तद्वदिहापि ज्ञानस्याध्ययनमन्तरेणापि दर्शनात्तत्स्वरूपे नियमासंभवात्क्रत्वपूर्वेष्वेवाध्ययननियमो विधातव्यः । अधीतैरेव वेदैरवगतानि कर्माणि फलदानीति । नचैवं युक्तम् । अक्रत्वर्थत्वादध्ययनस्य अनारभ्याधीतत्वात्, श्रुत्याद्यभावाच्चाक्रत्वर्थत्वम् । तस्माददृष्टार्थमेव स्वाध्यायाध्ययनमित्यध्ययनमात्रेण समाप्ते शास्त्रार्थे गुरुगृहात्समावर्तितव्यमिति प्राप्तेऽभिधीयतेऽलभ्यमाने फले दृष्टे नादृष्टपरिकल्पना ॥ विधेश्च नियमार्थत्वान्नानर्थक्यं भविष्यति ॥*॥ तथाहि असत्यध्ययनविधावग्निहोत्रादिशास्त्राणि विद्वांसमलभमानान्यविद्वांसमेवाधिकृत्य विद्यामन्तरेणानुष्ठानासंभवाद्विद्यामाक्षिपत्यविशेषाच्चतुरो वर्णानधिकुर्युः । सतित्वध्ययनविधौ त्रैवर्णिकानामेव विदुषामधिकारो भवति न तुरीयादेः ॥*॥ तथाहि वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदिवैश्यम्ऽ इति द्वितीयानिर्देशादुपनयनसंस्कृतास्त्रैवर्णिकाः किमस्माभिः कर्तव्यमित्यपेक्षन्ते । तत्संनिधौ चाध्ययनमनिर्दिष्टकर्तृकं विधीयमानं कर्तारमपेक्षते । तत्रापेक्षासंनिधियोग्यत्वैरेवं विज्ञायते त्रैवर्णिकैरेवोपनीतैरक्षरग्रहणेनाध्ययनादिपरम्परयार्थज्ञानं कर्तव्यमिति । एवञ्च फलवदध्ययनकर्कतृभूतमाणवसंस्कारत्वादुपनयनमध्ययनीङ्गं, अध्ययनमपि दृष्टार्थज्ञानार्थम्, अर्थज्ञानं त्वनुष्ठानौपयिकत्वात्प्रसिद्धफलकमेवेति सर्वेषां फलवत्त्वम् । अध्ययनाधिकारनियमः । एवञ्च त्रैवर्णिकेषु विद्वसु लब्धेषु नाग्निहोत्रादिविधयश्चतुर्थवर्णस्य विद्यामाक्षिपन्ति, किन्तु त्रैवार्णिकानेव विदुषोऽधिकुर्वन्ति । सोऽयमधिकारनियमोऽपशूद्राधिकरणे वक्ष्यमाणोऽध्ययनविधिप्रसादलभ्य इति फलवानेव विधिः । तेनार्थज्ञानावसानमध्ययनमध्ययनविधिना विधीयत इति विचारमन्तरेण तदनुपपत्तेरध्ययनविधिरेव विचारमाक्षिपंस्तद्विरुद्धं स्मार्ता स्नानं बाधयत इति सिद्धमध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति ॥*॥ केचित्पुनराचार्यकरणविधिप्रयुक्तत्वमध्ययनस्याङ्गीकृत्य किमाचार्यकसिद्धिरेवाध्ययनस्य प्रयोजनमुतार्थज्ञानमिति विचार्य अन्तरङ्गत्वादर्थज्ञानमित्याहुः । किं पुनः कारणमाचार्यकरणविधिप्रयुक्तत्वेऽध्ययनस्य, अध्ययनविधेरधिकारिशून्यत्वादाचार्यकरणविधिप्रयुक्त्या चात्मलाभे विश्वजिदादिवत्फलकल्पनानुपपत्तिः । कः पुनराचार्यकरणविधिः, कथं वा तेनाध्ययनस्य प्रयुक्तिः । उच्यते उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः ॥ सकल्पं सहहस्यं च तमाचार्य प्रचक्षते ॥ इति स्मृत्यनुमितः । उपनीयाध्यापनेनाचार्यकं कुर्याद्ऽ इत्याचार्यकरणविधिः । अत्र चाध्यापनमाचार्यत्वसाधनम् । उपनयनं तु क्त्वाप्रत्ययात्तस्यैवाङ्गम् । तच्च केन द्वारेणाध्यापलस्योपकरोतीत्यपेक्षायामुपनेयासत्तिरेवाज्य द्वारमङ्गीक्रियते लिङ्गात् । तदुपनेयोऽपि नाकिञ्चित्करोऽङ्गमिति तद्व्यापारत्वेनाध्यवसीयते । तदेवं स्वाङ्गभूतमुपनयनं प्रयुञ्जानोऽध्यापनविधिस्तद्द्वारेणाध्ययनं प्रयुङ्क्ते ॥*॥ तदेतदनुपपन्नम् । तथाहि नियोगार्थस्याध्ययनस्याचार्यकप्रयोजनार्थज्ञानप्रयोजनता वा न शक्यते शास्त्रेण बोधयितुं साध्यद्वयस्यैकत्रासंभवात् । नियोगार्थतैव शास्त्रेण बोध्यते अर्थज्ञानार्थतायां त्वनुज्ञामात्रमितिचेत्तथाप्यर्थद्वयं स्यादेव ॥*॥ किञ्चैवं सकृदुच्चरितस्य लिङ्प्रत्ययस्य विध्यर्थत्वमनुज्ञार्थत्वं चेति वैरूप्यमपि स्यात्तेन संशय एवानुपपन्नः । तथा सिद्धान्तोऽप्यनुपपन्न एव प्रमाणान्तरसिद्धत्वादर्थज्ञानार्थत्वं न शास्त्रगोचरतामनुभवतीति । तत्र यदेवास्मदभिप्रेतं विधेर्नियमार्थत्वं महता प्रयत्नेन भवद्भिर्दूषितं तदेव भवद्भिरपि मुक्तलज्जैरनन्यगतिकत्वादाश्रयणीयमापन्नम् । नियमानङ्गीकारे च पूर्वपक्ष एव श्रेयानापद्यते । आचार्यत्वस्यादृष्टत्वेन प्रयोजनतोपपत्तेः । अर्थज्ञानार्थत्वे चाध्ययनं स्वाध्यायसंस्कारो नियोगार्थत्वे तु प्रधानकर्मेति वैरूप्यमपि स्यात् ॥*॥ अर्थाज्जातमर्थज्ञानं प्रयोजनं न शास्त्रत इतिचेत्, आचार्यत्वमपि प्रयोजनं न स्यात्तस्याप्यर्थाज्जातत्वात् । स्मृतिबाधेन च स्नानोत्कर्षो न स्यादशास्त्रस्वीकृतत्वाद्विचारस्य । अध्ययनविधौ नियोज्यकल्पना । किञ्च नियोज्यः कल्पनीयोऽत्र विध्यर्थानुपपत्तिः । नचोपनयनस्याङ्गभावोऽस्त्यध्यापनं प्रति । द्वितीयाश्रुतिसामर्थ्यात्सा माणवकसंस्क्रिया ॥ तथासत्यन्तरङ्गत्वादङ्गमध्ययनस्य तत् ॥*॥ यत्तावन्नियोज्याभावादप्रयोजकत्वमध्ययनविरोधेरिति, तदयुक्तं, अभावासिद्धेः, अश्रुतस्यापि विश्वजितादिवत्कल्पनात् । कार्यं हि विध्यर्थः, संबन्धिशब्दश्चायं कार्यमिति, कस्यचिद्धि किञ्चित्कार्यं भवति न सर्वं सर्वस्य, अतः कस्येदं कार्यमित्यस्ति संबन्ध्यपेक्षा, सावश्यमध्याहृतेन केनचिन्निवर्तनीया अस्येदं कार्यमिति, यस्येदं कार्यं स एव नियोज्य इत्युच्यते ॥*॥ यद्यपि कथञ्चित्परप्रयुक्तानुष्ठानादेवात्मलाभः स्यात्, तथापि न तावता कार्यत्वं सिध्यति । नहि कृतिसाध्यतामात्रं कार्यत्वम् । किं तर्हि, यत्कृतिसाध्यं कृतिंप्रति प्रधानभूतं तत्कार्यमित्युच्यते । प्राधान्यं च कृतेस्तदुद्देशेन प्रवृत्तिः, ततश्चाध्ययननियोगेन कार्येण भवतावश्यं पुरुषव्यापारोद्देश्येन भवितव्यम् ॥*॥ नचासति नियोज्ये तदुद्देशेन कश्चित्प्रवर्तेत । अध्यापनविधिना हि प्रवर्त्यमानो माणवकः कथञ्चिदध्ययनमात्रमनुतिष्ठन्नत्वपूर्वमुद्दिशेत् । नहि तस्य तदुद्देश्यं प्रमाणाभावात् । प्रयाजाद्यपूर्वाणि दर्शपूर्णमासापूर्वोपकारित्वात्तधिकृतेन पुरुषेण तत्सिद्ध्यर्थमुद्दिश्य क्रियमाणानीति युक्तं यदसत्यपि साक्षान्नियोज्योपादाने कार्यत्वं लभन्ते, अध्ययननियोगस्य तु नान्यौपयिकत्वं यतस्तद्रूपेणोद्देश्यता स्यात् । अर्थज्ञानस्य च नियामफलत्वेन नियोगापेक्षत्वात् । तस्मादस्य कार्यत्वसिद्धयेऽवश्यं नियोज्यः कल्पनीयः ॥*॥ यच्चाध्यापनविधेरुपनयनद्वारमध्ययप्रयोजकत्वमुक्तम्, तदप्ययुक्तमुपनयनप्रयुक्तेरेवाभावात्, तद्द्वारेणाध्ययनप्रयुक्तिर्दूरापास्ता । क्त्वाप्रत्ययेन हि समानकर्तृकत्वमेवोच्यते तेन चैकप्रयोगता कल्प्यते, अङ्गाङ्गिभावस्त्वेकप्रयोगतावशात्कल्पनीयः, द्वितीयया तु साक्षादङ्गित्वमेवोच्यते, अतो यथा त्रिवृता यूपपरिव्याणां यूपार्थं नोपाकरणार्थमेवमुपनयनमपि माणवकसंस्कारार्थं नाध्यापनार्थम् । स्मृतिगतश्च क्त्वा प्रत्ययः, प्रत्यक्षवेदगता तु वसन्ते ब्राह्मणम्ऽ इति द्वतीया, अतोऽपि मणवकार्थत्वम् ॥*॥ भवतु माणवकसंस्कारस्तद्द्वारेण त्वध्यारनाङ्गं नाध्ययनाङ्गमितिचेत्, मैवं, अन्तरङ्गत्वादध्ययनस्य तदर्थ्यमेव संस्कारस्य युक्तम् । अध्ययनमपि फलवदध्यापनमपि तयोः कस्यायं माणवकसंस्कारोऽङ्गं भवत्वित्यपेक्षायामध्यापनस्य पुरुषान्तरगामित्वेन बहिरङ्गत्वान्माणवकगताध्ययनार्थत्वमेव युक्तम् । यथैव ह्यध्ययनस्याचार्यकसिद्धिप्रयोजनतामनाहृत्य वेदमधीत्य स्नायाद्ऽ इति स्मृतिं बाधित्वान्तरङ्गत्वादर्थज्ञानार्थतैवाश्रीयते, तथोपनयनस्याप्यध्ययनार्थता वेदितव्या । व्याकरणादपि पाणिनीयादध्ययनाङ्गतैवोपनयनस्यानगम्यते । अध्ययनाङ्गता हि स्मरन्नाचार्यकरणे नयतेरात्मनेपदं विधत्ते, अध्यापनाङ्गत्वे हि कर्त्रभिप्रायत्वात्क्रियाफलस्य त्रित्वादेवात्मनेपदं सिध्येत् । ऽउपनीय तु यः शिष्यम्ऽ इति क्त्वाप्रत्ययो हि कथञ्चित्ऽदर्शपूर्णमासाभ्यामिष्ट्वेतिवदसत्यप्यङ्गाङ्गिभावेऽवकल्प्यते पुनर्विधानं चात्मनेपदस्यात्यन्तानर्थकम्, तस्मादध्ययनाङ्गमुपनयनं स्यात् ॥*॥ न स्यात् । तज्जन्यः संस्कारो हि माणवकसमवायी । सत्यम्, माणवकसमवेतोऽपि न तदर्थः, कर्त्रर्थत्वं च फलस्य कर्त्रभिप्रायत्वं नतु तत्समवायः, अन्यथाहिऽअग्नीनादधीतेत्यात्मनेपदं न स्याताधानफलस्याहवनीयत्वादेरग्निसमवेतत्वेन कर्तृसमवायाभावात् । इयं च स्मृतिःऽउपनीय तु यः शिष्यम्ऽ इति, अतो बलीयसी द्वितीया श्रुतिः, तस्मान्नाध्यापनाङ्गमुपनयनमिति न तद्द्वारेणाध्यापनस्य प्रयुक्तिः ॥ प्राभाकरमतखण्डनम् । यच्चऽउपनीतस्य व्यापारापेक्षायामुपनयनं प्रक्रम्य विहितमध्ययनं तद्व्यापारत्वेनाध्यवसीयतऽ इति, तदप्यबुद्धिपूर्वकमेवं हि वदताध्यापनाङ्गमध्ययनमित्युपपादितं भवति । यदाह्यध्यापनार्थत्वेनोपनीतस्य माणवकस्य तदुपयोगिव्यापारापेक्षायामध्ययनविधिरध्ययनं तदुपयोगिव्यापारतया विधत्ते त्रैवर्णिकैरुपनीतैरध्यापनौपयिकव्यापारापेक्षैरध्ययनव्यापारः कर्तव्य इति तदापि स्पष्टमेवाध्ययनमर्थज्ञानार्थतया विधत्ते नाध्यापनौपयिकतया, तदाह्यध्ययनस्य तदौपयिकत्वं केन प्रमाणेन गम्यते, नह्यत्र प्रत्यक्षादीनि क्रमन्ते । संनिधानादिति चेत्, न संनिधानं नाम स्वयं प्रमाणं शब्दस्य त्वर्थं प्रतिपादयतः संनिध्यपेक्षायोग्यत्वानीतिकर्मतव्यता नेत्रस्येवोन्मीलनम् । शब्दश्चेदध्यापनौपयिकतया विदध्यात्नार्थज्ञानार्थता सिध्येत् । अतो नोपनयनसंनिधौऽस्वाध्यायोऽध्येतव्यऽ इति विहितस्याध्ययनस्योपनयनद्वाराध्यापनविधिना प्रयुक्तिसंभवः ॥*॥ यदि परमध्यापनस्याध्ययनमन्तरेणासंभवात्तदर्थाध्ययनमाक्षिप्यते, तथासत्यविहितेन लौकिकेनाध्ययनेन तत्संभवान्न विहितस्याध्ययनस्य नियोगतस्तत्प्रयुक्तिः । नच प्रयुक्तिलाघवादपि विहितोपजीवनम् । तदुपजीवनेऽपि प्रयुक्त्यनवलोपात् । विहितमप्यध्ययनमध्यापनविधिनैव त्वन्मते प्रयुज्यते न स्वविधिना । तस्माल्लौकिकमेवाध्ययनमुपनीतानामध्यापनविधिराक्षिपेत् । विधिविहितमध्ययनं परप्रयुक्त्यभावादधिकारं प्रकल्पयेत् ॥*॥ किञ्च यद्युपनयनमध्यापनाङ्गं ततोऽध्ययनविधिरर्थज्ञानार्थः सन्नाध्यापनार्थतयोपनीतैस्त्रैवर्णिकैः संबध्येत, येऽध्यापनार्थतयोपनीतस्त्रैवर्णिकास्तदुपयोगिव्यापारमपेक्षन्ते तेऽर्थज्ञानार्थमधीयीरनित्यसंबद्धमेव स्यात् । ततश्चोपनीतैरसंबध्यमानोऽध्ययनविधिश्चतुर्णामपि वर्णानां स्यादिति शूद्राधिकारप्रसङ्गः । तस्मादुपनीतानां प्रयोजनापेक्षिणामध्ययनकरणिकार्थज्ञानभावना विधीयत इत्यध्ययनाङ्गमेवोपनयनं, स्वविधिप्रयुक्तं चाध्ययनम् । प्रपञ्चेनायं पक्षोन्यायरत्नमालायामेव निरस्त इत्यपरम्यते । तस्मात्पूर्वोक्त एव विचारः किमदृष्टार्थमध्ययनमुताक्षरग्रहणादिपरम्परयार्थज्ञानार्थमिति ॥ अध्ययनविध्युपसंहारः । अथवा नात्र किञ्चिद्विचार्येत, नावमिकन्यायेनैवाध्ययनस्याक्षरसंस्कारादिपरम्परयार्थज्ञानार्थत्वसिद्धेः । नवमे हि साम्नामृगक्षराभिव्यक्तिद्वारेण स्तुत्युपयोगित्वदर्शनात्तादर्थ्यमेव नादृष्टार्थत्वमिति वक्ष्यते । तेनैव न्यायेनाध्ययनस्यार्थज्ञानार्थत्वसिद्धेरध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति सिद्धमेवैतत्प्रयोजनविवक्षया सूत्रकारेणोच्यते । यदाहुः "धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" इति । नन्वत्र कश्चिद्वेदवाक्यार्थो विचार्यते । तदप्याहुः"नचात्र चोदनाव्याख्या गौरवं तत्र चोदितम्" इति तत्सिद्धमध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति । सा चतुर्विधा धर्मस्वरूप प्रमाण साधन फलैः ॥ नन्वध्ययनविधिना वेदवाक्यार्थविचारमात्राक्षेपाद्धर्मस्वरूपप्रमाणजिज्ञासयोः कः प्रसङ्गः । उच्यते उपोद्धातत्वात्प्रसङ्गः । यदि हि वेदवाक्यार्थो धर्मः स्याद्वेदश्च प्रमाणं ततोऽसौ विचारः कर्तव्यो भवति । इतरथा काकदन्तपरीक्षावत्स्यात्, तदध्ययनविधिरेव प्रमाणादिविचारमाक्षिपति । धर्मग्रहणं चोपलक्षणार्थमधर्मस्यापि हानाय जिज्ञास्यत्वात् । अकारप्रश्लेषणे वा सूत्रमधर्मजिज्ञासायामपि व्याख्येयमिति निरवद्यम् ॥ चोदनालक्षणोऽर्थो धर्मः ॥ १,१.२ ॥ प्रथमं तावत्को धर्मः कथंलक्षणकः इत्येतद्वयमनेन सूत्रेण श्रुत्यर्थाभ्यां निरूप्यते यो धर्मः स योदनालक्षणः चोदनैव तस्य लक्षणं प्रमाणम् । चोदना च तस्य लक्षणमेवेति श्रुत्या प्रमाणविधावर्थाच्चोदनागम्य एवाग्निहोत्रादिधर्मो नातल्लक्षणश्चैत्यवन्दनादिरिति स्वरूपमपि सिद्ध्यति । तथा यश्चोदनालक्षणः स धर्म इति स्वरूपविधावर्थत्प्रमाणसिद्धिर्वेदितव्या ॥ कश्चित्वाह कार्यरूपो वेदार्थो न सिद्धरूप इत्येतदनेन सूत्रेणोच्यते, चोदनालक्षणशब्देन कार्यमुच्यते, धर्मशब्देन वेदार्थ इति । तदयुक्तं यानि तावद्विधिवाक्यानि तेषां विधावेव प्रामाण्यं वस्तुस्वरूपं चाप्रामाण्यं विस्पष्टमेवेति न तत्र किञ्चिद्वक्तव्यम् । क्षेपिष्टादिवाक्यानामपि विध्येकवाक्यतया तत्रैव प्रामाण्यम् । मन्त्राणामपि प्रकरणेन प्रधानविधिशेषत्वं द्वितीयपादे वक्ष्यत इति न तत्रापि वक्तव्यमस्ति । तेन कस्यात्र सिद्धार्थतां निरस्य कार्यार्थतोच्यते । ऽअविनाशी वा अरे अयमात्मेऽत्यादीनामुपनिषद्वाक्यानामितिचेत् । न । तेषामपि यदि विध्येकवाक्यत्वमस्ति ततोर्ऽथवादाधिकरणेन गतम्, अथ नास्ति कथं तेषां कार्यार्थता स्यात् ॥*॥ अथ तेषां विध्यश्रवणादिविध्यन्तरेणैकवाक्यत्वाभावाच्च कार्यार्थत्वानुपपत्तेर्व्युत्पत्तिविरहाच्च सिगद्ध्यर्थे प्रामाण्ययोगादप्रामाण्यमेवाभिमतम् । किमिदानीमात्मादिवाक्यानामप्रामाण्यप्रतिपादनपरमिदं सूत्रं, सुव्याहृतं तर्हि शास्त्रारम्भे प्रथमं तावत्सूत्रकारोऽप्रामाण्यमेव वेदवाक्यानां प्रतिपादयतीति ॥*॥ कथं च कार्यमेव प्रामाण्यम् । तत्रैव व्युत्पत्तेः प्रवृत्त्यधीना हि व्युत्पत्तिः, सा च कार्यावगमाधीनेति व्युत्पत्तिरपि तत्रैव भवतीति चेत् । अवश्यं प्रवृत्त्यधीनैव व्युत्पत्तिः काष्ठैः स्थाल्यामोदनं पचतीत्यादिवर्तमानापदेशेष्वपि प्रसिद्धतृतीयार्थनामप्रसिद्धकाष्ठप्रातिपदिकार्थानां च पुरुषाणां काष्ठार्थे व्युत्पत्तिद्रशनात् । प्रथमव्युत्पत्तिः । अथ प्रथमव्युत्पत्तिः कार्यविशेषयैव नहि तदा शब्दान्तरवशेन शब्दान्तरस्यार्थे व्युत्पत्तिः संभवति सर्वस्य धर्मस्याप्रसिद्धत्वादिति चेत् । अस्त्वेवम् । तथापि पश्चाद्बहुशः सिद्धार्थे शब्दप्रयोगदर्शनात्ऽकोऽयं राजाऽऽपाञ्चालःऽ इत्यादिषु प्रश्नप्रतिवचनादिषु कार्यस्य व्यभिचारादव्यभिचार्यार्थमात्रं वाच्यमिति सुज्ञानम् । यथैव हि कस्याञ्चिद्व्यक्तौ प्रथमं गोशब्दस्य प्रयोगदर्शनात्सैव वाच्येत्यवगमे सत्यपि पश्चाद्वक्त्यन्तरे प्रयोगं पूर्वव्यक्तिव्यभितारादव्यभिचारिसामान्यमेवार्थमित्यध्यवसीयते तथा कार्यपरतामवगतामपि पश्चात्सिद्धार्थप्रयोगदर्शनेन बाधितत्वार्थमात्रमेवाव्यभिचाराद्वाच्यमिति युक्तम् । किञ्च प्रथमव्युत्पत्तौ कतिपयानामेव शब्दानां कार्यार्थत्वमवगतं न सर्वशब्दानां पौर्वापर्यनियमोऽस्ति, अतः सर्वे शब्दाः पश्चाद्व्युत्पाद्यमानाः कैश्चित्सिद्धार्था भवन्ति । सर्वेषां तु कार्यार्थत्वे सिद्धार्थपरेषु लौकिकवाक्येषु सर्वशब्दानां लाक्षणिकत्वान्न कश्चिदन्विताभिधायी स्यात् । तत्रान्वितप्रतीतिः कथं सिद्ध्येत् । वक्तृज्ञानमनुमातव्यम् । नचान्वितप्रतिपादकं वाक्यमुच्चारितमिति कथमन्वितज्ञानानुमानम् ॥*॥ अथार्थस्वरूपस्मारकैः पदैरन्वितज्ञानमनमीयते, ततः कार्यवाचकेऽप्यसिद्धेरन्विताभिधानं न स्यात् । किञ्च प्रथममेव कार्यव्यभिचारः शक्योऽनगन्तुम् । यदा हि पुत्रस्ते जात इत्युक्तस्य कस्याचिन्मुखविकासं पार्श्वस्थः पश्यति तदा हर्षहेतुरनेन शब्देन प्रतिपादित इति हर्षहेतुभूतसिद्धार्थप्रतिपादने शब्दस्य सामर्थ्यं कल्पयति । यद्यपि च तदानीमर्थविशेषो न ज्ञायते हर्षहेतूनां बहूनां संभवात्तथापि सिद्धार्थता तावदवगता, तावतापि कार्ये व्यभिचारः सिद्धः । किञ्च बहुशः पुत्रजनने सति एवं शब्दप्रयोगादन्येषु हर्षहेतुष्वप्रयोगात्पुत्रजननरूपार्थविशेषोऽपि सुज्ञान एव ॥*॥ किञ्च प्रवृत्त्यधीनापि व्युत्पत्तिर्नावश्यं कार्यविषयैव भवति, तथाहि यदा कश्चित्प्रवृत्तावत्यन्तासमर्थं वृद्धमातुरं वा प्रतिविनोदार्थं वाक्यं प्रयुङ्क्तेऽनद्यास्तीरे पञ्च फलानि सन्तीऽति तत्रान्यो दैवसंगतः कश्चिदर्थी तद्वाक्यमर्थाच्छ्रुत्वा नदीतीरं गत्वा फलान्याहरति, एतत्सर्वं पश्यन्नन्यो व्युत्पित्सुः फलसद्भावप्रतिपादने शब्दस्य सामर्थ्यं व्युत्पद्यते, तस्मान्नैकान्ततः कार्यार्थता शब्दानाम् । प्राभाकरक्तद्वितीयसूत्रार्थस्य खण्डनम् । का चास्य सूत्रस्य वचनव्यक्तिः, यदि तावत्ऽयत्कार्यं तद्वेदार्थ एवेऽति कार्यमुद्दिश्य वेदार्थता विधीयते, तथा सत्युद्देश्यस्योपादेयेन स्वरनियमात्सर्वस्य लोकिकस्यापि गवानयनादिकार्यस्य वेदार्थता स्यात् । किञ्च उपादेयस्य वेदार्थस्योद्देशेन धूमेनाव्याप्तेरकार्येऽपि वेदस्य प्रामाण्यनिरस्तं स्यात् ॥*॥ अथऽवेदार्थः स कार्यरूप एवेऽति, ततोऽयो धर्मः स चोदनालक्षणःऽ इति वतनव्यक्तिः स्यात्, तत्रार्थशब्दोऽभ्युदयवाची कस्य विशेषणं, यद्युपादेयस्य चोदनालक्षणपदार्थस्य, ततः सर्वस्य वेदार्थस्य कार्यत्वमर्थत्वं च विधीयते इति श्येनादिनियोगानामप्यर्थत्वं स्यात् ॥*॥ अथोद्देश्यवेदार्थविशेषणं, ततोऽयमर्थो भवति योर्ऽथात्मकोऽभ्युदयात्मको वेदार्थः स कार्यरूपः, ततश्च श्येनादिनियोगानां निषिद्धफलत्वेनानभ्युदयरूपाणां कार्यता न स्यात् । माभूदिति चेत् । तेषामपि लिङ्ग कार्यतावगमात् । श्येनयागस्य कार्यता निवारयितुं शक्यते न नियोगस्य । तस्य कार्यैकस्वभावत्वात् । असति च कार्यत्वे श्येनवाक्यस्य कार्यार्थत्वाभावात्सिद्धार्थतैव वक्तव्या स्यात्, नच तथा संभवति विधिप्रत्यययोगात् । सिद्धे चार्थे व्यत्पत्तिविरहादप्रमाणाण्यमेव श्येनादिवाक्यानां स्यात् ॥*॥ अथ पूर्वसूत्राद्वेदार्थपरं धर्मपदमनुयुज्य चोदनालक्षणो वेदार्थः इत्येकं वाक्यम्, अर्थो धर्मः इत्यपरं वाक्यम् । तदिदं स्वप्रज्ञाविलसितमात्रम्, अनुषङ्गवाक्यभेदयोर्विनाफलमाश्रयणात् । अप्रतिज्ञातस्य च धर्मस्य लक्षणमसंगतम् ॥*॥ अथ प्रतिज्ञातस्यैव वेदार्थस्य कार्यत्वसिद्धये धर्मत्वमुच्यते । किं कार्यं एव धर्मरूपो वेदार्थः स एव जिज्ञास्यो नान्यः, तथाचेत्य एव जिज्ञास्यो धर्मस्तस्यैव सूत्राक्षरविनाशेन जिज्ञासा प्रतिज्ञास्येति वेदार्थप्रतिज्ञावचनार्थकम् ॥*॥ अथ त्वर्थशब्दमनादृश्य यो वेदार्थः स कार्यरूप इत्युच्यते ततोर्ऽथपदमनर्थकं वस्तुमात्रपर्यायमनुवादकं स्यात् । अनर्थव्युदासार्थता चास्य भाष्यकारेणोक्ता, तस्माद्विशेषणमेवैतत् । विशेषणत्वे चाभ्युदयरूपस्य वेदार्थस्य कार्यत्वाभिधानादनभ्युदयरूपस्य वादार्थस्य कार्यत्वं न स्यादिति सर्वस्य वेदस्य एव प्रामाण्यमिति नियोगो न स्यात् । ततश्च अविनाशी वा अरे अयमात्मेत्यादीनामात्मस्वरूपपरत्वं न निराकर्तव्यमित्यस्तां तावत् । तस्माद्धर्मस्वरूपप्रमाणप्रतिपादनार्थमेवेदं सूत्रम् ॥*॥ तदिह धर्मं विषयीकृत्य चिन्त्यते किमस्य न किञ्चित्प्रमाणमस्ति, किं वा प्रत्यक्षादिकमेव प्रमाणम्, उत चोदनैव, अथवा विकल्पः, अथवा समुच्चयः इति । तत्र शब्दस्य प्रमाणान्तरप्राप्तप्रापकत्वेन स्वयप्रमाणत्वाप्रत्यक्षादीनां चासामर्थ्यादप्रमाणको धर्म इत्येकः पक्षः, प्रत्यक्षादिगम्य एवेत्येकः पक्षः, योगिनां प्रत्यक्षगम्यः, अर्वाचीनानां तु चोदनागम्य इत्यपरः, जगद्वैचित्र्यार्थापत्या किमप्यदृष्टमस्तीति सामान्येन प्रसिद्धो धर्मश्चोदनयाग्निहोत्रादिविशेषरूपेण गम्यते तस्मात्समुच्चय इत पक्षान्तरम्, चोदनैव साच प्रमाणमेवेति सिद्धान्तः । तदिह चोदनैव प्रमाणं साच प्रमाणमेवेत्यवधारणद्वयं प्रतिज्ञायते ॥ प्रथमपादप्रतिपाद्यार्थसंग्रहः । निमित्तसूत्रे तु प्रथमद्वितीयसूत्रमात्रालोचनया वेदो धर्ममूलमित्यादिवदुपदेशशास्त्रताशङ्का मा भूदिति परीक्षाशास्त्रमेवदमिति ज्ञापयितुं परीक्षाप्रतिज्ञानम् । यद्यपि चोपरितनव्यापारादेव परीक्षाशास्त्रत्वं गम्यते तथापि वक्ष्यमाणमेव श्रोतृबुद्धिसमाधानाय कीर्तितम् ॥*॥ प्रत्यक्षसूत्रे तु प्रत्यक्षस्य विद्यमानोपलम्भनत्वाद्भविष्यति धर्मे प्रामाण्यासंभवात्तत्पूर्वकत्वेनेतरेषामप्यप्रामाण्यात्प्रमाणान्तरनियमविकल्पसमुच्चयनिराकरणाच्चोदनैवेत्ययमर्थः सिद्ध्यति ॥*॥ औत्पत्तिकसूत्रे तु स्वतःप्रामाण्यमर्थान्यथात्वकारणदोषज्ञानाभ्यामप्रामाण्यमित्याश्रित्याग्निहोत्रादिचोदनाभ्योऽसंदिग्धज्ञानोत्पत्तेः स्वतः प्रामाण्यं प्राप्तम् । नचापवादकमर्थान्यथात्वज्ञानं साक्षादस्ति, नापि कारणदोषज्ञानं, पुरुषाश्रयत्वाच्छब्ददोषाणाम् । पदपदार्थसंबन्धस्याकृत्रिमत्वान्तद्द्वारेण पुरुषानुप्रवेशाभावाच्चोदनानामिति स्थिते समाहिते, माभूत्पदार्थसंबन्धद्वारेण पुरुषानुप्रवेशः, वाक्यवाक्यार्थयोस्तु लोके संबन्धादर्शनान्निर्मूलोऽग्निहोत्रादिवाक्यार्थप्रत्यय इत्यतो व्यामोहः । सामयिको वा, अतो न वाक्यार्थे वेदस्य प्रामाण्यमित्याशङ्क्य, पदार्थानां संबन्धग्रहणं समयं चानपेक्षमाणानामेव वाक्यार्थे प्रामाण्यं संभवतीति तद्भूताधिकरणेन प्रतिपादिते ॥*॥ पुनर्वेदानां वाक्यात्मकत्वात्काठकादिसमाख्यानाच्च पौरुषेयत्वात्तद्द्वारेण दोषसंस्पर्शमाशङ्क्य स्मर्तव्यत्वे सत्यस्मरणाद्योग्योनुपलब्धिनिरस्तस्य कर्तुरनुमानासंभवात्समाख्यायाश्च प्रवचननिमित्तत्वादपौरुषेया वेदाः इति तदेकदेशानां चोदनानां सिद्धं प्रामाण्यमित्येवं समस्तः प्रथमः पादश्चोदनासूत्रप्रतिज्ञातार्थोपपादेन तस्यैव परिकरः । सोऽयं भाष्यकारानुसारेण पादार्थोऽनुक्रान्तः । वृत्तिकारमतं तु पश्चादनुक्रमिष्यामः । धर्मस्य प्रत्यक्षादिप्रमाणगम्यत्वम् । प्रकृतमनुसरामः प्रतिज्ञातं तावच्चोदनैव प्रमाणं सा च प्रमाणमेवेति । ननु प्रत्यक्षादेरन्यानपेक्षं प्रामाण्यं संभवतीति तस्यैव धर्मे प्रामाण्यं, शब्दस्य तु सर्वदैव प्रमाणान्तरप्रमितविषयत्वान्न तदनपेक्षं प्रामाण्यं संभवतीति । उच्यते । प्रत्यक्षं तावत्संयुक्तविषयत्वेन विद्यमानोपलम्भनत्वाद्भविष्यति धर्मे न समर्थम् ॥*॥ यद्यपि गोदोहनादिद्रव्यं, यागादिक्रिया, नीचैस्त्वादिगुणश्च, फलसाधनत्वाद्धर्मशब्देनोच्यते नापूर्वादय इति श्रेयस्करभाष्ये वक्ष्यते, तथापि तेषां फलसाधनरूपेण धर्मत्वात्फलस्य च जन्मान्तरादिभावित्वाद्धर्मस्वरूपेण प्रत्यक्षविषयत्वं न संभवति, तत्पूर्वकत्वाच्चानुमानादिकमपि न प्रमाणम् ॥*॥ भावनाबलजं तु योगिप्रत्यक्षं भविष्यत्यपि धर्मे समर्थमिति मनोरथमात्रम् । भावना ह्यनुभूतगोचरनियतानुबूतेष्वेव निश्चयरूपां स्मृतिं जनयेत् । नच सात्र प्रमाणं स्मृतित्वादेव, नितरां प्रत्यक्षमनिन्द्रियजत्वात् । नेन्द्रियजत्वं प्रत्यक्षलक्षणमपितु कल्पनापोढत्वमितिचेत्, सुतरां धर्मस्याप्रत्यक्षत्वं फलसाधनरूपस्याविकल्पग्रहणसंभवात् । तस्मादनिमित्तं प्रत्यक्षम् । तत्पूर्वकत्वाच्चानुमानाद्यपि ॥*॥ काश्यपीयाः पुनः प्रातिभज्ञानमृषीणां धर्मो प्रवर्तत इत्याहुः, तत्तु लिङ्गाद्यभासजत्वात्प्रमाणमेव न भवति किं पुनर्धर्मे । शब्दस्य तु बुद्धिजनकत्वीदसत्यपवादे युक्तं प्रामाण्यम् ॥*॥ ननु न बुद्धिजननमात्रात्प्रामाण्यं युक्तमयथार्थेष्वपि वाक्येषु बुद्धिजननाविशेषात् । सत्यम् । तत्र तु कारणदोषबाधकप्रत्ययाभ्यां युक्तमप्रामाण्यं, वेदेतु तद्भावात्सतःप्राप्तं प्रामाण्यमनपोदितं भवति ॥ अथ प्रामाण्यविचारः ॥ कथं पुनः प्रमाणस्य स्वतःप्राप्ति, तदर्थमिदं सर्वज्ञानान्यधिकृत्य चिन्त्यते किं प्रामाण्यमप्रामाण्यं चोभयं स्वत एवावगम्यते, अथवान्यतरदपि स्वभावेनानिरुपितं कारणगुणदोषप्रत्ययाभ्यामवगम्यते, आहोस्विदप्रामाण्यं स्वतोऽवगम्यते, प्रामाण्यं स्वतःप्राप्तं सदर्थान्यथात्वकारणदोषज्ञानाभ्यामवगम्यमानेनाप्रामाण्येनापोद्यते इति । तत्र सर्वकारणानां स्वकार्यशक्तेः स्वभाविकत्वादुभयमपि ज्ञानस्य स्वरसादेवावगम्यत इति केचित् । तदयुक्तम् । नहि ज्ञानं स्वविषयस्य तथात्वमतथात्वं च युगपच्छक्नोति वेदयितुं विरोधात् ॥*॥ अथ कापि ज्ञानव्यक्तिः स्वप्रामाण्यं स्वतो बोधयति काप्यप्रामाण्यमित्युच्यते, तथापि न युक्तम् । कारणान्तरनिरपेक्षस्य ज्ञानस्यैवोपलम्भहेतुत्वे किं क्व ज्ञाने भवतीति न शक्यं विवेक्तुम् । अतो द्वयमपि स्वस्वभावेनानिरूपितं कारणगुणदोषज्ञानाभ्यामवगम्य इत्यपरे । तदप्यपेशलम् । एवं हि गुणदोषावधारणात्प्रागन्यतरेणाप्याकारेणार्थमनवगमयद्विज्ञानं निःस्वभावं स्यात् । तस्मादप्रामाण्यं स्वतः, प्रामाण्यं तु संवादज्ञानादिभिरित्येददेव युक्तम् ॥ युक्तिदर्शनम् । तथाहि न ज्ञानमुत्पन्नमित्येतावतार्थतथात्वावधारणं युक्तं व्यभिचारादनिश्चयाच्च अप्रामाण्यमेव तस्यां वेलायां प्राप्तं, पश्चात्कारणगुणज्ञानादर्थक्रियाज्ञानाद्वा प्रामाण्यावगमादपोद्यते । शब्दे चाप्तप्रणीतत्वं गुणः । नच वेदे तदस्यपौरुषेयत्वाभ्युपगमात् । वलस्पतयः सत्रमासत शृणोत ग्रावाणःऽ इत्येवमादीनामुन्मत्तप्रलपितकल्पत्वात्, अप्रत्ययिततरप्रणीतत्वादप्रामाण्यमेव वेदानामिति प्राप्तेऽभिधीयते परापेक्षं प्रमाणत्वं नात्मानं लभते क्वचित् । मूलोच्छेदकरं पक्षं को हि नामाध्यवस्यति यदि हि सर्वमेव ज्ञानं सिवविषयतथात्वावधारणे स्वयमसमर्थं विज्ञानान्तरमपेक्षेत ततः कारणगुणसंवादार्थक्रियाज्ञानान्यपि स्वविषयभूतगुणाद्यवधारणे परमपेक्षेरन्, अपरमपि तथेति न कश्चिदर्थो जन्मसहस्रेणाप्यध्यवसीयेतेति प्रामाण्यमेवोत्सीदेत् । अथ अर्थक्रियाज्ञानं स्वतःप्रमाणमितिचेत्को विशेषः, अव्यभिचार इति चेत्, न, स्वप्नावस्थायामसत्यप्युदकाहरणेर्ऽथक्रियाविज्ञानदर्शनात् ॥*॥ अथ सुखज्ञानमेवार्थक्रिया तच्चाव्यभिचार्येव नहि क्वचिदप्यसति सुखे सुखज्ञानमस्ति । सत्यमेतत् । नतु तेन पूर्वज्ञानस्य प्रामाण्याध्यवसानं संभवति, अप्रमाणेनापि प्रियासंगमविज्ञानेन स्वप्नावस्थायां सुखदर्शनात् । तस्मात्स्वतःप्रामाण्यं प्राप्तमर्थान्यथात्वकारणदोषज्ञानाभ्यामपोद्यत इत्यवश्यमङ्गीकरणीयम् । एवञ्च शब्देनाप्तपुरुषस्पर्शकृतत्वाद्दोषाणामपौरुषेये वेदे तदभावात्साक्षाच्चार्थान्यथात्वज्ञानाभावदपोदितं प्रामाण्यं भवति । पौरुषेयवचनानि तु पुरुषबुद्धिप्रभवत्वाद्भ्रान्त्या विप्रलिप्सया वा प्रयुक्तानि मूलदोषेण दुष्टत्वादयथार्थानि भवन्तीति वैषम्यम् । केचित्बाहुः न लोकेऽपि शब्दस्यायथार्थात्वमस्ति तदभावात्, न हि लोके शाब्दं प्रमाणमस्ति वक्रभिप्रायानुमापकत्वात्पुरुषवचसाम्, तेनानुमानस्यैवायं व्यभिचारो न शब्दस्य । नवा तस्यापि विवेकाग्रहणादलिङ्गे लिङ्गव्यवहारप्रवृत्तिः । यदि तु शब्दस्यैवायं व्यभिचारोऽभ्युपेयते । स्वाभाविकमेवाप्रमाणं स्यात्, न हि पुरुषदोषेण शब्दस्य दोषो भवति यथावस्थितशब्दाभिव्यक्तिमात्रे पुरुषस्य व्यापारात् ॥*॥ तदिदमसारम् । यदि लोके शाब्दं नास्ति तदा वेदेऽपि कथं तत्स्यात् । नह्यभिप्रायानुमानक्षीणस्य शब्दस्यार्थं प्रति वाचकत्वे प्रमाणमस्तीत्युक्तं न्यायरत्नमालायाम् ॥*॥ यच्च व्यभिचाराभ्युपगमे स्वाभाविकमप्रामाण्यं भवति पुरुषदोषस्य शब्देऽनवतारादिति । स्यादेतदेवं यदि यदीयं यद्वाक्यं तत्स पुरुषोऽभिव्यञ्ज्यात् । तत्तु तेनैव क्रियते वर्णा नित्याः पदानि च, वाक्यानि तु पुरुषैरेव क्रियन्ते पौरुषेयत्वादेव । यथावस्थितानि व्यज्यमानानि वेदवाक्यवदपौरुषेयाण्येव स्युः । ततश्च वक्त्रभिप्रायानुमापकत्वमपि न स्यात्, तद्यथाध्येतृभिरभिव्यज्यमानानि वेदवाक्यानि नाध्येतॄणामभिप्रायं सूचयन्ति तथा पुरुषवाक्यान्यपि न सूचयेयुः । यदि हि व्यभिचारशङ्क्या लोके शब्दस्य प्रामाण्यं न संभवतीत्युच्यते, तर्हि तद्वक्त्रभिप्रायानुमानेऽपि तुल्यम् । अन्यथासंविदानस्याप्यन्यथावाक्यरचनादर्शनात् । किं च शब्दस्य चक्षुरादेरिव स्वसामर्थ्येन बोधकत्वाद्व्यभिचारेऽपि न बोधकत्वहानिः । लिङ्गस्याव्यभिचारिण एव गमकत्वमिति व्यभिचारिणोऽलिङ्गत्वमुपपन्नम् ॥*॥ अथ वक्तुमाप्तत्वाद्व्यभिचारशङ्कां निर्वर्त्यनुमानं, तथासति शब्दमेवार्थे प्रमाणमस्तु प्रतिबन्धकायाः शङ्काया निरस्तत्वात् । अवश्यं हि बुद्धिविशेषमनुमित्सता प्रथमं पदार्थास्तेषां चान्वययोग्यतालोचयितव्या, ते आलोच्यमाना द्रागेव वाक्यार्थं बोधयन्तीति नानुमानं प्रतीक्षन्ते ॥*॥ किञ्चानुमिते बुद्धिविशेषे पश्चादनुवादभूतं वाक्यं वाक्यार्थमवबोधयतीति वः सिद्धान्तः, ततश्च यो नामानाप्त एवाबुद्ध्या गृहीतस्तद्वाक्यादयथार्थमेव ज्ञानमुत्पन्नमित्यभ्युपगन्तव्यम्, ततश्च दोषाधीनत्वादप्रमाण्यस्य वक्तृदोषाणां च शब्दे संक्रान्त्यनभ्युपगमात्स्वारसिकमेव शब्दे दुष्टत्वमापन्नमिति बलादप्रमाण्यं वेदस्य प्रसज्यत इत्यास्तां तावत् । तस्मादनाप्तावचसां सत्येवाप्रामाण्ये वक्तृदोषाधीनत्वाद्वेदे च तदभावात्प्रामाण्यमेव वक्तव्यम् । तस्माच्चोदनालक्षण एव धर्मः श्रेयस्करः इत्यर्थः । यदेव श्रेयःसाधनरूपं यागहोमादि तदेव धर्म इत्युच्यते लोके, नापूर्वमन्तःकरणप्रवृत्त्यादि वा लोकप्रसिद्धिविरहात् ॥ धर्मलक्षणविचारः ॥ नन्वपूर्वमेव श्रेयःसाधनम् । न । अवान्तरव्यापारामात्रत्वात् । तस्माद्यागादिरेव श्रेयःसाधनरूपेण धर्मः । तद्रूपाभावाच्च न शूद्रकृतस्य धर्मतापत्तिः । चोदनालक्षणमात्रस्य धर्मत्वं माभूदित्यर्थशब्देन विशेष्यते ॥*॥ चोदनाशब्देन च प्रवर्तकं निवर्तकं च वाक्यमुच्यते ततश्च निषेधवाक्यैः न हिंस्यातित्यादिभिरनर्थत्वेन लक्ष्यमाणानां हिंसादीनामपि धर्मत्वं स्यात्तद्व्यावृत्त्यर्थं य एवार्थरूपेण प्रवर्तकवाक्यैर्लक्ष्यते तस्यैव धर्मत्वं वक्तुमर्थग्रहणम् ॥*॥ भाष्ये च श्येनादिग्रहणं तत्साध्यहिंसादिलक्षणार्थम् । उपरिष्टाथिंसा हि सा, सा च प्रतिषिद्धा इति विवरणात् । केचित्तु लक्षणां परिहरन्तः श्येनादिस्वरूपमेवार्थपदस्य व्यावर्त्य मन्यन्ते, तेषामेव श्येनादयः कर्तव्या विज्ञायन्ते, इति विधेयत्वनिराकरणेन प्रतिषेधविषयत्वसमर्थनात् । कथं पुनस्तेषां विधेयत्वं निराक्रियते, तत्राहुः यस्य हि विधिः स्वसिद्ध्यन्यथानुपपत्त्यानुष्ठानमाक्षिपति तद्विधेयमित्युच्यते, काम्येषु च कर्मसु कामनावशादेव प्रवृत्तिसिद्धेस्तत एव विधिः सिद्ध्यन्नन्यथानुपपत्त्यभावान्न स्वयमनुष्ठानमाक्षिपति ॥*॥ ननु कर्तव्यताबोधनमेव प्रवर्तनम्, कर्तव्यता च वेदे यागस्य विनैव बोधितेति कथमविधेयत्वम् । सत्यम् । नतु यागस्य कर्तव्यता लिङा(?)भिधीयते, स्वार्थस्य कर्तव्यतां लिङा(?)भिधत्ते, यागश्च तस्य विषयः करणं च, सोऽयं कर्तव्यतात्मा नियोगार्थोऽन्यथानुपपत्त्या स्वविषयस्य कर्तव्यतां बोधयन्ननुष्ठापक इत्युच्यते । श्येनादीनां तु रागादेवानुष्ठानसिद्धेर्न नियोगस्तेषामनुष्ठानमाक्षिपतीति न तेषां विधेयत्वम् । असति च विधेयत्वे तेषां निषेधविषयत्वादनर्थत्वमिति तद्व्यावृत्त्यर्थमर्थपदमिति ॥*॥ तत्रेदं वक्तव्यं कस्मिन्नंशे तेषां व्यावृत्तिरिति । धर्मत्व इति चेत् । न । तत्स्वरूपानभिधानात् । इदं हि सूत्रं वेदार्थस्य कार्यत्वप्रतिपादनार्थं न कर्मस्वरूपलक्षणार्थम् । यतः श्येनादीनां धर्मत्वं मा प्रसाङ्क्षीदित्यर्थपदेन व्यावृत्तिः क्रियेत ॥*॥ यदि परं कार्यत्वव्यावृत्तिः स्यात्सा चायुक्तेत्युक्तं प्राक् । भवतु वा वाक्यभेदाङ्गीकारेण धर्मलक्षणार्थमपि सूत्रम् । तथापि चोदनालक्षणापदेन कार्यात्मकमपूर्वमुद्दिश्य तस्य धर्मत्वमुच्यत इति वो मतम्, तत्र श्येनादियागस्य कः प्रसङ्गो यद्व्यावृत्त्यर्थमर्थपदं स्यात् । नहि ज्योतिष्टोमादियैगस्यापि धर्मत्वमस्ति, अपूर्वस्य धर्मत्वाभ्युपगमात् ॥*॥ अथ श्येनाद्यपूर्वस्यैव धर्मत्वमर्थपदेन व्यावर्त्यते ततो भाष्ये श्येनादिशब्देन कर्मनामधेयेन तत्साध्यमपूर्वं लक्ष्यत इत्यविशिष्टा लक्षणा स्यात् । यदि चापूर्वमेव प्रत्युदाहरणं ततो हिंसा हि सा सा च प्रतिषिद्धेति भाष्यमसंगतं स्यात् । श्येनयागो वा तत्फलं वा हिंसा, नन्वपूर्वं कथञ्चिदपि हिंसापदास्पदम् । अस्मिंश्च कल्पे कथं पुनरसावनर्थः कर्तव्यतयोपदिश्यत इति चोद्यम् । नैव श्येनादयः कर्तव्या विज्ञायन्ते इति चोत्तरमपूर्वविषयं स्यात् । न च तस्य कर्तव्यत्वं शक्यते वारयितुं कार्यस्वभावत्वात् ॥*॥ एवञ्च यागकर्तव्यतानिषेधार्थमिदं भाष्यमङ्गीकृत्ययत्तत्समाधानाय प्रयत्यते कर्तव्यताविषयो हि नियोगो न पुनस्तस्य कर्तव्यतामाहेति तदपार्थकम् । काम्येष्वपि विधिरेव प्रवर्तको न फलं, तस्य विध्यधीनोत्पत्तिकत्वेन यागापेक्षाभावात् । विधिस्तु यागाधीननिष्पत्तित्वाद्यागमनुष्ठांपयतीति युक्तम् ॥ काम्येष्वपि कर्मसु विधेरेव प्रवर्तकत्वम् । यदि च विधिरप्रवर्तकः काम्येषु स्यादितिकर्तव्यताप्यविधेया स्यात्, तस्यामपि फलत एव प्रवृत्तिसिद्धेः साङ्गप्रधानसाध्यत्वात्फलस्य । वक्ष्यति हि तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षेति । ततश्चाग्नीषोमीयहिंसाया अपि विध्यभावेन निषेधविषयत्वात्तद्युक्तस्य ज्योतिष्टोमस्याप्यनर्थत्वापत्तेः कोर्ऽथो यो निःश्रेयसाय ज्योतिष्टोमादिरिति भाष्यानुपपत्तिः ॥ ननु न हिंस्यादिति निषेधो नारभ्याधीतत्वात्पुरुषार्थः तेनानेन पुरुषार्थो एव हिंसाः प्रतिषेद्धव्याः, क्रत्वर्थनिषेधे हि सोऽपि क्रत्वर्थः स्यात् । अविशेषे त्वेकस्य प्रतिषेधविधेः क्रत्वर्थत्वपुरुषार्थत्वापत्त्या वैरुप्यं स्यात् । तस्मात्पुरुषार्थानामेव हिंसानामिह प्रतिषेधो न क्रत्वर्थानामिति ॥*॥ तदिदं बालसंमोहनम् । नह्यविशेषणापि प्रतिषेधे वैरूप्यम् । यदि हि क्रत्वर्थत्वपुरुषार्थत्वरूपं विशेषेणोद्दिश्य प्रतिषेधः क्रियेत ततः स्यादपि वैरूप्यं प्रतिषेध्योपस्थापितक्रतुपुरुषगोचरत्वात्प्रतिषेधस्य । यदातु हिंसामात्रमुद्दिश्य प्रतिषेधः क्रियते तदास्य किं वैरूप्यम् । तद्यथा या भोजनार्थं मांसोत्पादने हिंसा, या च वैरिनिर्यातनार्थतया साक्षात्पुरुषार्था तस्यामुभय्यामविशेषेण प्रतिषिध्यमानायामपि नास्ति वैरूप्यमेवमिहापि । इतरथा तत्रापि भोजनाङ्गता पुरुषार्थता च प्रतिषेधस्य स्यादिति वैरूप्यं स्यात् । तस्माद्यैव काचिद्येन केनापि प्रकारेण प्रसक्ता हिंसा सा सर्वा सामान्येन प्रतिषिध्यते । पुरुषार्थश्च प्रतिषेधोऽनारभ्याधीतत्वात् । तस्मादग्नीषोमीयहिंसाप्यसति विधेयत्वे प्रतिषेधगोचरः स्यात् । विधेयत्वे तु विधेर्विशेषविषयत्वात्सामान्यविषयो निषेधस्तद्विरोधाद्धिसान्तराण्यवलम्बते ॥ हिंसायां सांख्यमतं तत्खण्डनं च । ननु सत्यपि विधेयत्वे विधेः क्रत्वर्थात्प्रतिषेधस्य च पुरुषार्थत्वाद्विषयभेदेनाविरोधान्न बाधः । नहीदं विरुद्धं क्रतोर्हिंसया भवितव्यं पुरुषस्य तु तद्वर्जनेनेति । सत्यम् । अङ्गविधिमात्रालोचनायां नास्ति विरोधः । ज्योतिष्टोमविधिस्तु साङ्गं प्रधानं पुरुषस्य विदधत्पुरुषार्थाहिंसानिषेधमग्नीषोमीयहिंसायामवतरन्तं निरुणद्धिः । नह्यग्नीषोमीयहिंसां वर्जयता ज्योतिष्टोमः शक्यतेऽनुष्ठातुम् । तस्मादस्ति विरोध इति सामान्यस्य बाधः । विधौ त्वप्रवर्तके सत्यग्नीषोमीयहिंसापि प्रतिषिध्येत ॥*॥ किमर्थं च श्येनस्य विधेयत्वं निराक्रियते, प्रतिषेधसिद्ध्यर्थमिति चेत्, कः प्रतिषेधः न हिंस्यात्सर्वभूतानि इति । नायं निषेधः श्येने प्रवर्तते हिंसाविषयत्वात् । श्येनफलं च हिंसा न श्येनः । तथा चोक्तम्, यो हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेश इति ॥*॥ कश्चित्वाह श्येनस्य कर्तव्यत्वे सति बलात्तत्फलमपि हिंसा कर्तव्या भवतीति न निषेद्धुं शक्यते । अतः फलकर्तव्यतानिरासार्थं श्येनकर्तव्यता बलान्निरस्यत इति । तदिदमसंबद्धम् । यथैव हि श्येनापूर्वस्य कर्तव्यतायां सत्यामपि तत्साध्यफलस्य कर्तव्यता न प्रसज्यते तथा यागस्य कर्तव्यत्वे सत्यपि रागप्राप्तस्य फलस्य नास्ति कर्तव्यतापत्तिः । तस्मादनर्थकं श्येनकर्तव्यतानिराकरणम् । तस्माद्धिसैवात्र प्रत्युदाहरणम् ॥*॥ इदञ्चापरमेकदेशिनः प्रष्टव्याः अर्थशब्देन किमुच्यते इति । यदि श्रेयःसाधनं, नित्यानां धर्मत्वं न स्यात् । अथ यन्निषिद्धफलं न भवति तदर्थशब्देनोच्यते, तथासति नञर्थविषयस्यापूर्वस्य धर्मत्वप्रसङ्गः, चोदनालक्षणत्वान्निषिद्धफलत्वाभाच्च । भवत्वितिचेत् । न । लोकविरोधात् । यो हि हिंसायामुद्युक्तः प्रतिषेधवशान्निवर्तते न तं धार्मिक इत्याचक्षते किन्त्वधर्मान्निवृत्त इत्येतावत् । तदाहुः लोकसिद्धस्य लक्षणं परीक्षकैर्वक्तव्यं न वृद्ध्यादिवत्परिभाषणमित्यास्तां तावत् । इति चोदनासूत्रम् ॥ धर्मप्रमाणपरीक्षाधिकरणम् ॥३ ॥ तस्य निमित्तपरीष्टिः ॥ १,१.३ ॥ अनेन सूत्रेण चोदनाख्यस्य निमित्तस्य परीक्षणमस्मिन्पादे वक्ष्यमाणमथातः शेषलक्षणम्ऽ, अथ विशेषलक्षणम्ऽ इतिवत्सुखग्रहणार्थमनुकीर्त्यते ॥*॥ चोदनैवेत्यर्थस्य साधनाय प्रत्यक्षादीनामनिमित्तत्त्वमुच्यते धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम् ॥४ ॥ सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ॥ १,१.४ ॥ प्रत्यक्षं तावदिन्द्रियार्थसंप्रयोगजन्यत्वेन विद्यमानोपलम्भनत्वाद्भविष्यति धर्मे न निमित्तम् । सत्संप्रयोगजन्यत्वमाभासेऽपि तुल्यत्वादलक्षणमिति नैयायिका दूषयन्ति, तत्तु लक्षणानभिधानाददूषषणम् । नहीदं लक्षणं प्रत्यक्षस्य, किन्त्वनिमित्तत्लकथनमात्रम् । तत्र हेतुर्विद्यमानोपलम्भनत्वं तत्साधनं च सत्संप्रयोगजत्वम् । नहि सत्संप्रयोगजमविद्यमानोपलम्भनं संभवति ॥*॥ इन्द्रियार्थसंप्रयोगजत्वं सुखादिज्ञानेष्वव्याप्तेरहेतुरितिचेत् । न । तेषामपि मनःसंज्ञकेन्द्रियसंप्रयोगजत्वात् । मनःसद्भावे च सुखादिज्ञानमेव प्रमाणम्, अपरोक्षावभासज्ञानस्येन्द्रियाधीनतया रूपादिज्ञानेषु व्याप्तिदर्शनात्सुखादिविषयमपरोक्षज्ञानमिन्द्रियमनुमापयति । तत्र चक्षुरादीनामसंभावात्तेभ्योऽन्यदवतिष्ठते ॥*॥ अत्र कश्चित्नित्यद्रव्यगतविशेषगुणत्वात्सुखादीनां द्रव्यान्तरसंयोगजत्वम्, पार्थिवपरमाणुगतरूपादीनामग्निसंयोगजत्वदर्शनात्, यच्च द्रव्यान्तरं तन्मन इत्याह तन्न युक्तम् । शरीरं हि भोगायतनम् । किञ्च तस्य भोगायतनत्वमन्यत्तत्संयोगापेक्षसुखाद्युत्पत्तेः, अशितपीताद्याधारत्वाच्च न बहिः शरीरात्सुखाद्युत्पत्तिः । अतः शरीरसंयोगादेव सिद्धेर्न द्रव्यान्तरानुमानम् । किञ्च पार्थिवगुणानामेव द्रव्यान्तरसंयोगापेक्षा दृष्टा न द्रव्यमात्रगुणानाम् । तेजःसंयोग एव च कतारणतया दृष्टो न द्रव्यमात्रसंयोगस्तस्मान्नैवं मनःसिद्धिरिति सुखाद्यपरोक्षज्ञानमेव मनसो लिङ्गम् ॥ इन्द्रियलक्षणम् । किंपुनरिन्द्रियलक्षणं चक्षुरादिषु मनसि चानुस्यूतम् । उच्यते यत्संप्रयुक्ते विशदवभासं विज्ञानं जनयति तदिन्द्रियमित्युच्यते, तच्च द्विविधम्, बाह्यमाभ्यन्तरं च, बाह्यं पञ्चविधं घ्राणरसनचक्षुस्त्वक्श्रोत्रात्मकम् । आन्तरं त्वेकं मनः । तत्राद्यानि चत्वारि च पृथिव्यप्तेजोवायुप्रकृतीनीत्यक्षुपाददर्शनवदभ्युपगम्यते । श्रोत्रं त्वाकाशात्मकं तैरभ्युपगतम् । वयं तु दिशः श्रोत्रमिति दर्शनाद्दिग्भागमेव कर्णशष्कुल्यवच्छिन्नं श्रोत्रमाचक्ष्महे । मनस्तु पृथिव्यादीनामेवान्यतमात्मकं तेभ्योऽन्यद्वा सर्वथा तावदस्ति मनः । तच्चात्मतद्गुणेष्वेव स्वतन्त्रं प्रवर्तते न बाह्येषु रूपादिष्वित्यान्तरमित्युच्यते । रूपादिज्ञानेष्वपि तच्चक्षुरादिसहायं प्रवर्तते, एवमनुमानादिष्वपि लिङ्गादिसहायं, अन्यमनस्कस्य संप्रयुक्तेष्वपि रूपादिषु ज्ञानानुत्पत्तेः । स्मृतावपि संस्कारपरतन्त्रं प्रवर्तते स्वतन्त्रम् ॥*॥ नन्वनुमानादीनां मनोजन्यत्वात्तेषां च भूतभविष्यतोरपि प्रवृत्तेरिन्द्रियजन्यत्वं विद्यमानोपलम्भनत्वेनानैकान्तिकं स्यात् । न स्यात् । नहीन्द्रियजन्यत्वं हेतुः किन्त्विन्द्रियसंप्रयोगजत्वम् । नचानुमानेऽतीताया भविष्यन्त्या वा वृष्टेरनुमीयमानाया मनसा संप्रयोगोऽस्तीत्यव्यभिचारः । अथ प्रत्यक्षम् । तदेवं प्रत्यक्षं तावदनिमित्तं तत्पूर्वकत्वाच्चानुमानाद्यपि । नह्यगृहीते धर्मे तेन सह कस्यचित्संबन्धग्रहणं संभवति । सादृश्यविषयकत्वाच्चोपमानं दूरभ्रष्टम् । अर्थापत्तिरपि धर्मेण विनानुपपद्यमानस्य कस्यचिददर्शनादसमर्था ॥*॥ ननु जगद्वैचत्र्यमनुपपन्नम् । न । स्वाभाविकत्वेनोपपत्तेः । यद्यपि तदनुपपत्त्या किञ्चिददृष्टं कल्प्येत तथापि को धर्मः को वाधर्म इति विवेकाभावादवश्यं चोदनैवार्थनीया । सा चेदङ्गीकृता कृमर्थापत्त्या, सामान्यतो दृष्टेन वा ॥*॥ ननु विकल्पनिमित्तं संबन्धग्रहणं तत्कथं प्रत्यक्षपूर्वकत्वम् । सविकल्पकमप्यनुपरतेन्द्रियव्यापारस्य जायमानमपरोक्षावभासत्वात्प्रत्यक्षमेवेत्यदोषः ॥ प्रत्यक्षबौद्धमतम् । विकल्पपश्चापरोक्षावभासश्चेति चित्रम् । अपरोक्षमिति हि स्वलक्षणमुच्यते तद्विषयोऽवभासतोऽपरोक्षावभासः । विकल्पस्त्वभिलापसंयोग्यप्रतिभासत्वान्न स्वलक्षणं स्पृशति, नह्यभिलापः स्वलक्षणं स्पृशति, यदि स्पृशेदभिलापमात्रेणापि विनाक्षव्यापारमपरोक्षावभासः स्यात्, नचासावस्ति, तदुक्तमन्यथैवाग्निसंयोगाद्दाहं दग्धो हि मन्यते ॥ अन्यथा दाहशब्देन दाहार्थः संप्रकाशते इति । यस्त्वयं विस्फारिताक्षस्य गौरयमिति विकल्पो विशदावभासः स समानकालविशदवभासनिर्विकल्पकसंसर्गकृतः, तदभावेऽभिलापमात्रेऽनुमाने च विकल्पाकारप्रतिभासे वैशाद्याभावात् । तस्मान्निर्विकल्पकमेव प्रत्यक्षम् । तत्रैव हि विशदस्य स्वलक्षणस्यावभासः । बौद्धमतखण्डनम् । मैवम् । उन्मीलितनेत्रस्य विकल्पोऽपि गौरयमित्यपरोक्षावभास एव प्रतीयते नचासावन्यसंसर्गकृतः प्रमाणाभावात् । अभिलापसंसर्गयोग्यस्यापि सामान्याकारस्याभिलापलिङ्गादिभिरवैशद्यमिन्द्रियैश्च वैशाद्यमुपपद्यत एव । नह्ययं परोक्षापरोक्षविभागो विषयकृतः, यदि हि तथा स्यात्सर्वदैव सामान्यं परोक्षं स्यात्, नचैवमस्ति, सामान्याकारस्यापि परोक्षापरोक्षविभागदर्शनात् । तथाहि दूराच्छ्वेतं स्वलक्षणं पश्यन्ननिर्धारितगवाश्वजातिविशेषो हेषाविशेषो हेषाशब्दश्रवणादश्वत्वं तस्मिन्नेव स्वलक्षणेऽनुमिमानोऽपि परोक्षं बुध्यते । वदन्ति हि अश्वोऽप्ययं न चक्षुषा तथावभासत इति । प्रत्यासन्नस्तु वदति संप्रत्यश्वत्वमप्यस्य चक्षुषा पश्यामि न पूर्वमिति । स्वलक्षणं तु प्रागपि विशदमेवेति सामान्यांशगत एवायं दूरसमीपवर्तिनः परोक्षापरोक्षविभागः, तस्मात्कारणकृतोऽयं विभागः ॥*॥ एकस्मिन्नपि हि विषयेऽक्षैर्जायमानं विज्ञानमापरोक्ष्यं जनयति लिङ्गादिजं तु नेति किं नोपपद्यते । ज्ञानजन्यो विषयगतः फलविशेषोऽयमापरोक्ष्यं नाम सर्वस्य संवेद्यः । यद्भावाभावाभ्यां लिङ्गाभ्यामक्षैः पश्यामि न पश्यामीति विस्फारिताक्षाणामेव व्यवहारः प्रवर्तते । अतोऽस्ति विकल्पस्यापि विशदावभासित्वमिति प्रत्यक्षत्वोपपत्तिः । ज्ञानस्य सविकल्पकत्वनियमस्तत्खण्डनं च । केचित्तु सविकल्पकमेव सर्वं ज्ञानं न निर्विकल्पकं नाम किञ्चिदस्तीति मन्यन्ते । तत्तु प्रतीति विरुद्धं प्रतीमो हि वयमक्षसंनिपातानन्तरमविवविक्तसामान्यविशेषविभागं संमुग्धवस्तुमात्रहगोचरमालोचनज्ञीनम् । तदभावे तु विकल्प एव न जायेत । विकल्पतया हि पूर्वानुभूतं जातिविशेषं संज्ञाविशेषं चानुस्मृत्य तेन पुरःस्थितं वस्तु विकल्पयितव्यम् । नचार्थमदृष्टवतस्तत्स्मरणमाकस्मिकमेवोत्पद्यते । तस्मादस्ति निर्विकल्पकमपि ज्ञानम् । अद्वैतमतेन निर्विकल्पकस्य सन्मात्रविषयत्वात् । तच्च सन्मात्रविषयमिति केचित् । भेदस्य विकल्पवेद्यत्वादगृहीते च भेदे विशेषाणामग्रहणात् । किञ्चेतराभावो भेदो प्रत्यक्षेण ग्रहीतुं शक्यते नतरामविकल्पेन । अतश्च नेह नानास्ति किञ्चनेत्यादिनिषेधानां प्रत्यक्षविरोधाभावातेकमेवाद्वितीयमित्यादिश्रुतिभिरद्वितीयं ब्रह्म सिद्धम् । अद्वैतमतखण्डनम् । तदिदमतिसाहसं किं भवतो नीलपीतयोस्तिक्तमधुरयोः शीतोष्णयोः सुखदुःखयोश्चाविलक्षणा बुद्धिः । यद्येवं नात्रोत्तरं वक्तव्यम् । नच सत्स्वरूपे सविकल्पेन विशेषग्रहणमिति वाच्यम्, अविकल्पेन विकल्पस्यापि विलक्षणस्योत्पत्त्यसंभवात् ॥*॥ यच्चावश्यमिदमस्माद्भिन्नमित्येवं विकल्पेनैव भेदो ग्रहीतव्यो नाविकल्पेन तस्य संभवतीति । न ब्रूमो भेदस्य ग्रहणं किन्तु भिन्नानाम् । तेषामपि न भिन्नतया किन्तु स्वरूपेण यदन्यस्माद्भिन्नं नीलं पीतं वा तद्गृह्यत इति ब्रूमः । नहि नीलं पीतं वा भेदः, तयोर्हि धर्मो भेदः, तदग्रहेऽपि धर्मिणां ग्रहणं नानुपपन्नम् ॥*॥ यदिच सन्मात्रं प्रत्यक्षेण गृह्यते न नीलं पीतं वा ततो विकल्पेनापीदमस्माद्भिन्नमिति कथं भेदो गृह्येत । न हि सदेव सतो भिन्नमिति संभवति । तस्मान्नीलादिगुणानां पृथिव्यादिद्रव्याणां च प्रत्यक्षेण ग्रहणात्प्रपञ्चापलापः प्रत्यक्षविरुद्ध एव ॥*॥ यदि तु पृथिव्यादिप्रपञ्चं नापह्नुमहे तद्धर्मं तु भेदमेवेति ब्रूयात्, तदप्यशक्यम्, नीलपीतयोरितरेतराभावस्य प्रत्यक्षानुपलब्धिसिद्धस्यापह्नवासंभवात् । प्रत्यक्षाभावोऽपि हि प्रत्यक्षवदेव प्रमाणान्तरेभ्यो बलीयान्, इतरथा शशे चतुष्पात्त्वाद्विषाणित्वमनुमीयते, अतो भेदापलापो न संभवति ॥*॥ यदि त्वितरेतराश्रयतया इतरेतराभावग्रहणस्यानवकॢप्तेरविद्यामात्रनिमित्तं तदित्युच्यते, तदपि यदि भिन्नतया प्रतियोगिनमाश्रयं च गृहीत्वा तत इतरेतराभावो गृह्येत ततः स्यात्, नीलपीतयोस्त्वितरेतराभावानादरेण स्वरूपेण गृहीतयोः पश्चादतरेतराभावग्रहणे किमितरेतराश्रयत्वम् ॥*॥ यदि तु द्वित्वमपह्नूयते न पृथिव्यादयस्तेषां च मिथो भेदः तदपि प्रत्यक्षविरुद्धम् । संख्यायाः प्रत्यक्षत्वात् । सत्यपि प्रत्यक्षविरोधे तदपमर्देन प्रवर्तमानस्तद्बाधेनावागमोऽद्वैतमवगमयतीतिचेत् । न । प्रवृत्त्यसंभवात् । प्रत्यक्षं हि निरपेक्षं शीघ्रं जायमानं स्वविरुद्धस्यागमिकज्ञानस्य पदपदार्थसंनिध्यपेक्षायोग्यत्वन्यायालोचनसापेक्षतया विलम्बितप्रवृत्तेः प्रवृत्तिमेव निरुणद्धि ॥*॥ किञ्चाशक्यमेव श्रुत्या प्रपञ्चस्यासत्यत्वं बोद्धुम् । बुध्यमाने हि श्रुतिरपि प्रपञ्चान्तर्गतत्वादसती बोद्धव्या स्यात् । कथं च श्रुत्यैव श्रुतेरसत्वं बुध्येत । असत्वेन हि प्रतीयमाना न प्रमाणं स्यात् । प्रमाणत्वे त्ववस्थिते सत्तया प्रतीयमानायाः श्रुतेर्न मिथ्यात्वं शक्यं वक्तुम् । नह्येकस्यैव वस्तुनो युगपदेव सत्त्वमसत्वं च समुच्चित्य बोद्धुं शक्यम्, अन्यतरोपमर्देन ह्यन्यतरद्बुद्धावारोहति । ततश्च श्रुतिरस्तीतिचेत्, न प्रपञ्चापलापः संभवति ॥*॥ ननु स्वयंप्रकाशं ब्रह्म किमस्यान्येन प्रमाणेन । भवतु ब्रह्म स्वयंप्रकाशं प्रापञ्चाभावस्य किमायातं, स हि प्रमाणमपेक्षत एव ॥*॥ कथं चाविद्यमानस्य प्रपञ्चस्य प्रतिभासः । अविद्ययेतिचेत्, कस्य पुनरियमविद्या । जीवानामितिचेत्, न, तेषामभावात् । भावे वा द्वैतप्रसङ्गः । ब्रह्मणि तु विशुद्धविज्ञानात्मके निरवकाशैवाविद्या । विद्यात्मकमपि ब्रह्मविद्याशबलमिव भ्रान्त्यावगम्यत इति चेत्, कस्येयं भ्रान्तिः, यदि न कस्यचित्सूक्तम् । जीवानामिति चेत्, न, तदभावात् । यदि ब्राह्मणः, नास्य भ्रान्तिः संभवतीत्युक्तम् । यदि च विद्यारूपेऽप्यविद्या स्यात्केनासावुच्छिद्येत । ध्यानादिभिरितिचेत् । न, तेषामप्यभावात्, भावे तु द्वैतापत्तिः । ब्रह्मणि तु सहावस्थानादविरुद्धाविद्या न तेनोच्छेत्तुं सा शक्या । ततश्चानिर्मोक्षप्रसङ्गः । तस्माद्ब्रह्मणः प्रशंसार्थैरस्थायित्वेन प्रपञ्चस्यासत्त्वमुपचरद्भिरौपनिषदैर्वादैस्तदनुसारिभिश्चेतिहासपुराणैर्भ्रान्तानां वाक्यतात्पर्यमजानानानां न्यायाभियोगशून्यानां प्रलापोमद्वैतवाद इत्युपेक्षणीयः । तत्सिद्धमविकल्पस्य प्रत्यक्षस्य विशेषविषयत्वम् । निर्विकल्पकविषयकबौद्धमतखण्डनम् । अपरे तु स्वलक्षणमात्रगोचरं निर्विकल्पकमिच्छन्ति । तदपि प्रतीतिविरुद्धम् । प्रतीयते हि संमुग्धाकारं वस्तु सहसैव यत्पञ्चाज्जातिद्रव्यगुणक्रियानामभिः पञ्चधा सविकल्पकेन विकल्प्यते गौरयम्, दण्डयम्, शक्लोऽयम्,गच्छत्ययम्, डित्थोऽयमिति । तत्र निर्विकल्पकमनेकाकारं वस्तु संमुग्धं गृह्णाति, सविकल्पं त्वेकैकाकारं जात्यादिकं विविच्य विषयीकरोति । ननु षष्ठोऽपि विकल्पोऽस्ति तदेवेदमिति तत्कथं पञ्चधा विकल्प इत्युच्यते । नत्वयं जातिविकल्पो व्यक्तिप्रत्यभिज्ञा हीयम् । न संज्ञाविकल्पः । अनवगतसंज्ञानामपि भावात् । तिर्यञ्चोऽपि ह्यद्यजाताः स्वमातरं प्रथममुपलभ्य क्षणान्तरे पुनरुपलभमानाः सैवेयमिति शब्दानुवेधशून्यमेव प्रत्यभिजानन्ति, तस्मादियं षष्ठी कल्पनेतिप्ठचविधत्वानुपपत्तिः ॥*॥ उच्यते इयमेवास्माभिर्नामकल्पनेत्युच्यते । तथाहि डित्थोऽयमिति तावद्गौरयमितिवद्भावात्मना डित्थात्मना वस्तु विकल्प्यते, नदण्डीतिवत्तत्संबन्धितया मत्वर्थानुपादानात् । तत्र न डित्थशब्देन जातिवदर्थस्यात्मा अत्यन्तभिन्नत्वात्यतस्तेनैवार्थोऽनुरज्येत । तदेतदेवं विज्ञेयं डित्थशब्देन तद्वाच्यं पूर्वावगतं डित्थमुपस्थाप्य तदात्मना पुरःस्थितोर्ऽथो विकल्प्यते डित्थोऽयमिति । किमुक्तं भवति, योऽसावस्माकं डित्थः सोऽयं पुरःस्थितो नान्य इति । सेयं व्यक्तिप्रत्यभिज्ञैव पञ्चमीकल्पना । साच शब्दविदां नामरूषितैव भवतीति नाम विकल्पेनेति व्यवह्रियते । एतेन यदाहुः डित्थोऽयमित्यशब्दाकारस्यार्थस्य शब्दाकारेण विकल्पनादप्रमाणं सविकल्पम्, इति तदपि निरस्तम् । नह्यत्र शब्दाकारेणार्थः प्रतीयते किन्तु पूर्वावगतार्थस्मरणमात्रे शब्दस्य व्यापारः, तेन च स्मृतेनार्थेन तादात्म्येन पुरःस्थितार्थविकल्पनात् । आहच यदा तु यादृशः पिण्डः पूर्वं शब्दात्प्रतीयते । तादृशस्मरणे हेतुः शब्दस्तत्र यथार्थतेति । तस्मान्नामविकल्पेऽपि जात्यादिवन्नास्त्यतद्रूपारोपः । किं पुनर्जात्यादिभिर्विकल्प्यते, द्रव्यं, किं पुनरिदं द्रव्यं नाम, पृथिव्युदकतेजोवायुप्रभृति ॥ द्रव्याभावे बौद्धमतेन पूर्वपक्षः । ननु रूपादिव्यतिरिक्तं द्रव्यं नाम न किञ्चिदुपलभामहे । न च तस्योपलम्भकमस्ति, चक्षुरादीनां पञ्चानां रूपादिष्वेवोपक्षीणत्वात् । गन्धरूपरसस्पर्शसंघातः पृथिवी । रसरूपस्पर्शसंघात आपः । रूपस्पर्शसंघातस्तेजः । शब्दस्पर्शसंघातो वायुः । एव रूपादिसंघातभेदावेव पृथिव्यादिविभागो न द्रव्यं नाम किञ्चिदिति सौगताः । तदयुक्तमागमापायिषु रूपादिषु यदनुयायिप्रत्यभिज्ञा जायते तद्द्रव्यम् । दर्शनस्पर्शनाभ्यां चास्य ग्रहणम् । प्रत्यभिज्ञा च यथा बदरफलं श्यामावस्थायां रक्तावस्थायां च यथा वा घटपिण्डकपालावस्थासु मृद्द्रव्यम् । अस्ति हि तत्र पिण्डावस्थाभेदे श्यामरक्तरूपभेदेऽपि द्रव्यप्रत्यभिज्ञा मृदियं पिण्डावस्थामपहाय घचावस्था संजाता श्यामिमानं च त्यक्त्वा पक्वा सत्यरुणिमानं गृहीतवती । अनन्तरं घटावस्थामपहाय कपालिका जातेति । एवं तन्तुपटाद्यवस्थास्वपि द्रष्टव्यम् । तर्कमतेनावयवेष्ववयव्युत्पत्तिः । ननु तन्तुपटादिषु द्रव्यान्तरोत्पत्तिरेवाभिमता, अन्यथा ह्यवयव्यपलापः स्यात् । नावयविनमपह्नुमहे, द्रव्यान्तरोत्पत्तिं तु नेच्छामः प्रतिपत्त्यभावात् । तन्तव एव हि संयोगविशेषादेकद्रव्यतामापद्यन्ते, अवयवी च भवन्ति तादृशाश्च पटजातिं स्थौल्यं च बिभ्रत एकपटस्थूलबुद्ध्या गृह्यन्त इति लौकिकी प्रतिपत्तिः । अतो न द्रव्यस्य कदाचिदागमोऽपायो वा, घटपटगवाश्वशुक्लरक्ताद्यवस्थानामेवागमापायौ ॥*॥ आहच आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ॥ तद्धर्मि यत्र च ज्ञानं प्राग्धर्मग्रहणाद्भवेदिति । तथा यादृशमस्माभिरभिहितं द्रव्यं तादृशस्यैव हि सर्वस्य गुण एव भिद्यते न स्वरूपमिति । तत्सिद्धं द्रव्यम् । तच्च जात्यादिभिः पञ्चधा सविकल्पेन विभज्यते । अतः सविकल्पकमपि प्रत्यक्षं, तत्पूर्वकं चानुमानादीति सिद्धं तेषामप्यनिमित्तत्वमिति प्रत्यक्षसूत्रम् । धर्मे वेदप्रामाण्याधिकरणम् ॥५ ॥ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः, तस्य ज्ञानमुपदेशोऽन्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमामाणं बादरायणस्यानपेक्षत्वात् ॥ १,१.५ ॥ उक्तं प्रत्यक्षादीनामनिमित्तत्वम् । तत एव । तन्मूलपुरुषवचनस्याप्यनिमित्तत्वम् । एवं तर्हि शब्दस्य सर्वत्र प्रमाणान्तरापेक्षयैव प्रामाण्यदर्शनात्तदभावे तस्याप्यप्रामाण्यादभावगम्यत्वमेवायातं धर्मस्येत्याशङ्कानिराकरणाय चोदनायाः प्रामाण्यमुच्यते । सत्यम् । लोके प्रमाणान्तरमूलानां प्रामाण्यमतन्मूलानां चाप्रामाण्यं दृश्यते, नन्वेमपि सापेक्षं प्रामाण्यं किन्तु स्वत एव । अनाप्तवाक्यस्य त्वप्रामाण्यं न मूलविरहात्किन्तु दुष्टमूलतया शब्दस्य दुष्टत्वात्स्वाभीविकस्य प्रामाण्यस्यापवादात् । वेदस्यापौरुषेयत्वात् । अपौरुषेये तु वेदे यद्यप्याप्तप्रणीतत्वं नास्ति प्रामाण्यस्य तदपेक्षाभावादनाप्तस्पर्शनिमित्तदोषाभावाच्चानपोदितं प्रामाण्यं भवति । त्रेधा ह्यत्र पुरुषानुप्रवेशः पदपदार्थसंबन्धद्वारेण वाक्यवाक्यार्थसंबन्धद्वारेण ग्रन्धस्यैव वा भारतादिवत्पौरुषेयत्वात् । नत्वेतन्नयमप्यस्ति, पदपदार्थसंबन्धस्य नित्यत्वमत्रौत्पत्तिकशब्देनोक्तं, वाक्यार्थस्य च पदार्थमूलत्वं वेदस्य चापौरुषेयत्वमुपरिष्टाद्वक्ष्यते ॥ सामान्यतः प्रमाणलक्षणम् । नच साक्षाद्बाधकमस्तीत्यव्यतिरेकशब्देनोच्यते । अनुपलब्धार्थत्वाच्च नानुवादलक्षणमप्रामाण्यमस्तीति अर्थेऽनुपलब्धे इत्यनेनोक्तम् । एतच्च विशेषणत्रयमुपागददानेन सूत्रकारेण कारणदोषबाधकज्ञानरहितमगृहीतग्राहिज्ञानं प्रमाणमिति प्रमाणलक्षणं सूचितम् । प्रभाकरमतेन प्रमाणलक्षणम् । नन्वेवं धारावाहिकेषुत्तरेषां पूर्वगृहीतार्थविषयकत्वादप्रामाण्यं स्यात्तस्मादनुभूतिः प्रमाणमितिप्रमाणलक्षणम्, स्मृतिव्यतिरिक्ता च प्रतीतिरनुभूतिः । स्मृतिश्च संस्कारमात्रजं ज्ञानमभिधीयते । मात्रग्रहणं च संस्कारसघ्रीचीनेन्द्रियजस्य प्रत्यभिज्ञानस्य स्मृतित्वप्रसङ्गेनाप्रामाण्यं माप्रसांक्षीदित्येलमर्थम् । तदेवं संस्कारातिरिक्तकारणजन्यं ज्ञानं प्रमाणमित्युक्तं भवति, तदिदं स्वप्नदर्शने तावदव्यापकम्, संस्कारमात्रजस्यापि ज्ञानस्य स्वरूपे कर्तरि च प्रामाण्यमिष्टं भवताम् ॥*॥ अथ स्मर्तव्यापेक्षयैव स्मृतेः स्मृतित्वं तद्विषयसंस्कारजत्वात्, स्वरूपकर्त्रपेक्षया त्वनुभूतिरेव, अतः सिद्ध्यति प्रामाण्यमित्युच्यते । एवं तर्हि मात्रग्रहणमनर्थकम्, प्रत्यभिज्ञानस्यापि पूर्वानुभूतांशापेक्षयैव स्मृतित्वात्तत्र चाप्रामाण्यमिष्टमेव, यत्र त्वंशे प्रामाण्यं तत्रानुभूतिरेव सा ॥*॥ किञ्चानुवादानां य एवं विद्वान्पौर्णमासीमित्यादीनामपि संस्कारमात्रजत्वाभावात्प्रामाण्यं स्यात् । भवत्वितिचेत् । न । लोकविरोधात् । तथा लौकिकमपि वाक्यं वक्तृज्ञानानुमितेर्थेऽनुवादकतया प्रवर्तमानं प्रमाणं स्यात् । नचैतदिष्ठं भवताम् । असंनिकृष्टग्रहणमनुवादानां शास्त्रत्वनिवृत्त्यर्थमित्यङ्गीकरणात् ॥*॥ अथानपेक्षं प्रमाणं यत्स्वविषये प्रमाणान्तरं नापेक्षते तत्प्रमाणम् । अनुवादानां तु पुरोवादसापेक्षत्वादप्रामाण्यमिति । एवं तर्हि लौकिकं वाक्यमप्यनुमितेर्ऽथे प्रवर्तमानमनुमानस्य शङ्कानिराकरणमात्रौपयिकत्वादर्थप्रतिपादने तदपेक्षाभावात्प्रमाणं स्यात् ॥*॥ तथानुमानस्य प्रामाण्यं न स्यात्, तद्धि नियमग्रहणमपेक्षते । न च गृहीतमर्थं मात्रयाप्यधिकं गृह्णातीति भवतां दर्शनम् । पीतशङ्खज्ञानमप्यनुभूतित्वात्प्रमाणं स्यात् । इष्टमेवेति वदतो लोकविरोधः । तस्माद्यथार्थमागृहीतग्राहिज्ञानं प्रमाणमिति वक्तव्यम् । धारावाहिकेष्वप्युत्तरोत्तरेषां कालान्तरसंबन्धस्यागृहीतस्य ग्रहणाद्युक्तं प्रामाण्यम् ॥ कालप्रत्यक्षनिरूपणम् । सन्नापि कालभेदोऽतिसूक्ष्मत्वान्न परामृष्यत इति चेत्, अहो सूक्ष्मदर्शी देवानांप्रियः । यो हि समानविषयया विज्ञानधारया चिरमवस्थायोपरतः सोऽनन्तरक्षणसंबन्धितयार्थं स्मरति । तथाहि किमत्र घटोऽवस्थित इति षष्ठः कथयति अस्मिन्क्षणे मयोपलब्ध इति । तथा प्रातरारभ्यैतावत्कालं मयोपलब्ध इति । कालभेदे त्वगृहीते कथमेवं वदेत् । तस्मादस्ति कालभेदपरामर्शः । तदाधिक्याच्च सिद्धमुत्तरेषां प्रामाण्यम् ॥*॥ ननु यथार्थतामपि चेत्प्रामाणलक्षणम्, उष्णजलज्ञानप्रमाणं स्यात् । इष्टमेवैतत् । ननु लोकविरोधः स्यात् । स्यात्यद्ययथार्थतां जानन्त एव लौकिकाः प्रामाण्यं मन्वीरन् । ते तु यथार्थतामेवैतस्य मन्वानः प्रामाण्यमभ्रान्तत्वं च मन्यन्ते । येत्वयथार्थतां जानन्ति ते नैव प्रामाण्यं मन्यन्ते, नाप्यभ्रान्तताम्, तस्मान्नास्ति विरोधः ॥*॥ पीतशङ्खज्ञानस्यापि स्मृतित्वाभिमानादनुभूतित्वापरिज्ञानादप्रामाण्यं मन्यन्ते, अतोऽस्माकमपि नास्ति विरोध इति चेत्, तदयुक्तम् । नहि लौकिकाः शुक्तिरजतज्ञानेऽपि स्मृतित्वं मन्यन्ते, नतरां पीतशङ्खज्ञाने । तस्मात्सूक्तमर्थेऽनुपलब्धे इति । वृत्तिकारस्त्वन्यथेदं वर्णयाञ्चकारेत्येवमादिनोपवर्षमतेन । तस्य निमित्तपरीष्टिरित्येवमादिसूत्रत्रयमन्यथाकृत्वा व्याचष्टे भाष्यकारः, तत्र निमित्तसूत्रेण तावत्प्रतिज्ञातस्य चोदनाप्रामाण्यस्य परीक्षापदेशेन स्वतःप्रामाण्यं हेतुरित्युच्यते ॥ प्रामाणानां स्वतःप्रामाण्यम् । प्रसिद्धानि हि प्रत्यक्षादीनि प्रमाणानि तदन्तर्गतं च शास्त्रं, अतस्तदपि प्रसिद्धमेव । न च प्रसिद्धस्य प्रमाणस्य प्रामाण्यमन्येन परीक्षितव्यम्, स्वत एव तस्य स्वविषयोपस्थापनसामर्थ्यात् । यदि च परीक्ष्येत, ततो येन परीक्ष्येत तस्याप्यन्येनेत्यवस्था स्यात् । तस्मात्प्रसिद्धत्वात्प्रमाणस्य चोदनापि प्रमाणमिति ॥*॥ ननु न ज्ञानमुत्पन्नमित्येवार्थतथात्वमध्यवसातुं शक्यं प्रसिद्धतरस्यापि प्रत्यक्षस्यायथार्थस्योत्पत्तिदर्शनात्, यथा शुक्तिकायां रजतमिति प्रत्यक्षमेवायथार्थं न शुक्तिकायां रजतज्ञानस्य, प्रत्यक्षाभासात्वात् ॥ प्रत्यक्षलक्षणं, प्रत्यक्षखण्डः । किंपुनराभासंकीर्णं प्रत्यक्षलक्षणम् । तद्दर्शयति तत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्मसत्प्रत्यक्षं यदाभासं विज्ञानं तेनेन्द्रियाणां संप्रयोगे यद्विज्ञानं तत्सत्प्रत्यक्षम् । तत्सतोर्व्यत्ययादाभासासंकरसिद्धिः । तदिति चाव्ययं तृतीयान्तं तेनेत्यर्थे । नन्वसत्यपि व्यत्यये नास्ति संकरः इन्द्रियसंप्रयोगजं ज्ञानं प्रत्यक्षमित्येतावदेव वक्तव्यम् । नहि शुक्तिकायां रजतज्ञानमिन्द्रियसंप्रयोगजं, किं तर्हि, इन्द्रियसंप्रयोगच्छुक्तिशकलं रजतसाधारणेन भास्वरत्वादिरूपेण गृहीतम्, असाधारणं तु शुक्तिकात्वमिन्द्रियदौर्बल्याद्गृहीतम्, अनन्तरं च संस्काराद्बोधाद्रजतं स्मृतं, ततः स्मृतरजतात्मना शुक्तिव्यक्तिर्देषवशाद्गृह्यते, अतो नेन्द्रियसंप्रयोगजं रजतविज्ञानमिति नातिप्रसङ्गः ॥*॥ प्रणाड्यास्तीन्द्रियसंप्रयोगजत्वमिति तद्व्यावृत्त्यर्थं तत्संप्रयोगजत्वमिति । विशेषणं वक्तव्यमिति चेत्, तन्न । नहीह यथाकथञ्चित्संप्रयोगजन्यत्वं लक्षणं, किन्तु साक्षात्तज्जन्यत्वम् । यदिच यथाकथञ्चिदित्याश्रीयेत ततो विशेषणे सत्यप्यतिव्याप्तिमल्लक्षणं स्यातारादिग्निमध्यक्षयतो यदौष्ण्यविषयमनुमानं तदपि प्रत्यक्षं स्यात्, प्रणाड्येन्द्रियसंप्रयोगजत्वात्संप्रयुक्त विषयत्वाच्च, अस्तिह्यौष्ण्यस्येन्द्रियसंप्रयोगः संयुक्तसमवायलक्षणः । तस्मादवश्यं साक्षात्संप्रयोगजत्वं लक्षणमित्यङ्गीकर्तव्यम्, अतः शुक्तिरजतवेदनेऽपि व्यभिचाराभावनर्थकस्तत्सतोर्व्यत्ययः ॥*॥ सत्यं साक्षात्संप्रयोगजत्वं लक्षणम् । सत्यं च शुक्तिरजतज्ञानेऽपि व्यभिचाराभावादनर्थकस्तत्सतोर्व्यत्ययः ॥*॥ सत्यं साक्षात्संप्रयोगजत्वं लक्षणम् । सत्यं च शुक्तिरजतज्ञानेऽपि नातिप्रसङ्गः, पीतशङ्खद्विचन्द्रादिज्ञानेष्वतिव्याप्तिः स्यात्साक्षात्संप्रयोगजत्वात् । अपि च स्मृतेन रजताकारेण यत्संनिहितस्य शुक्तिशकलस्य तादात्म्यग्रहणं तदनुपरतेन्द्रियव्यापारस्य भवत्साक्षात्संप्रयोगजमेवापरोक्षत्वात् । तस्मादाभासनिवृत्त्यर्थत्यय इति सूक्तम् । भाष्ये त्वाभासप्रदर्शनार्थं शुक्तिकारजतज्ञानोदाहरणमित्यनवद्यम् ॥*॥ तत्संप्रयोगजत्वे कथं विवच्येते । उच्यते ज्ञानस्वरसादेव विषयस्य तथात्वमध्यवसीयते, तदन्यथात्वं तु कारणदोषज्ञानादर्थान्यथात्वज्ञानाद्वावगन्दव्यम् । अतो यत्र प्रयत्नेनान्विष्यमाणोऽपि कारणदोषो बाधकज्ञानं वा नोपलभ्यते तत्प्रमाणम्, इतरच्चाप्रमाणम् । चोदनार्थज्ञानस्य तूभयाभावात्सिद्धं टप्रामाण्यम् । इत्यौत्पत्तिकसूत्रम् ॥*॥ ननु सर्व एव निरालम्बनःऽ इत्यादिना पूर्वोक्तहेतुद्वयाक्षेपनिमित्तमिथ्यात्वाक्षेपेण शून्यवादी प्रत्यवतिष्ठते । तथाहि यत्र कारणदोषज्ञानं बाधकज्ञानं वा तत्र मिथ्यात्वम्, अन्यत्र सत्यत्वमिति व्यवस्था नोपपद्यते, सर्वज्ञानानां मिथ्यात्वात् ॥ बाह्यार्थशून्यवादेनाक्षेपः । सर्वमेव हि ज्ञानमात्मांशपर्यवसितमनादिवासनावशादात्मानमेव बाह्यतयाध्यवस्यन्मिथ्यैव । कथं पुनरात्मांशपर्यवसा यित्वं गम्यते, अनुमानात्, बाह्ये च प्रवृत्त्यसामर्थ्यात् । यथाचासामार्थ्ये तथा वक्ष्यामः । संप्रत्यनुमानमुच्यते स्तम्भादिप्रत्ययाः स्वांशमेव बाह्यतयाध्यवस्यन्तो मिथ्याभूताः प्रत्ययत्वात्स्वप्नप्रत्ययवत्शुक्तकारजतादिप्रत्ययवच्च । स्वप्नादिप्रत्यया हि यथावगम्यमानबाह्यार्थाभावाद्देशान्तरकालान्तरवर्तिनां च संनिहितदेशकालतया प्रतिभाससंभवात्क्वचित्कदाचिदप्यसंभवतां स्वशिरश्छेदादीनां स्वप्ने प्रतिभासादवश्यं स्वात्मानमेव बहिर्वद्गृह्णन्तीत्यभ्युपगन्तव्यम् । अतस्तत्सामान्याज्जाग्रज्ज्ञानानामपि स्वांशपर्यवसायित्वान्मिथ्यात्वमिति प्राप्ते ॥*॥ अभिधीयते । न तावत्स्वप्नादिप्रत्ययाः स्वांशावलम्बनाः, तेऽपि बाह्यार्थमेवान्यथासन्तमेवान्यथा गृह्णन्तीति वक्ष्यामः । भवतु वा तत्रात्मख्यानं, नैतावता नीलादिप्रत्ययास्तथा भवितुमर्हन्ति, तत्र हि नीलमिदं पीतमिदं स्तम्भोऽयं घटोऽयमित्येवमिदमाकारास्पदीभूतं बाह्यं नीलादि प्रत्यक्षेणावगम्यमानं न शक्यमनुमानेनापह्नोतुम् । आत्मग्राहित्वे ह्यहं नीलमिति स्यात् ॥*॥ तदेवं प्रत्यक्षमेव बाह्यार्थमुपस्थाप्य तदपह्नवप्रवृत्तस्यानुमानस्योदयं निरुणद्धि । स्वप्नादिषु तु बाधकेन ज्ञानान्तरेण बाह्यसद्भावनिराकरणाद्युज्येतात्मख्यातिः । नत्विह तथा बाधकमस्त्यन्यत्भवदुक्तादनुमानात् । नचानुमानमलं बाधितुमित्युक्तम् । दूषणसहस्रं चास्यानुमानस्य वार्तिके प्रपञ्चितमित्युपरम्यते ॥ योगाचारसौत्रान्तिकयोः कलहः ॥ एवमनुमाने प्रत्यक्षविरोधेन निराकृते प्रत्यक्षस्य बहिःप्रवृत्तौ सामर्थ्ये नास्तीत्येवं पूर्वोक्ताक्षेपेण शून्यस्त्वित्यादिना स एव शून्यवादी पुनः प्रत्यक्षवतिष्ठते । तदिहैवं चिन्त्यते यदिदं नीलमिदं पीतमिदमिति नीलाद्याकारं वस्तु प्रथते तत्किं विज्ञानमेव तथा प्रथते किंवा बाह्यं वस्त्विति । तदर्थमिदं विचार्यते किं विज्ञानं प्रत्यक्षमुतानुमेयमिति, प्रत्यक्षत्वे सति निराकारस्य प्रत्यक्षग्रहणयोगात्, आकारस्य चैकस्यैव ग्रहणात्गृह्यमाण आकारो ज्ञान एवावतिष्ठत इत्यर्थस्यागृह्यमाणत्वादसत्त्वमेव भवति । अनुमेयत्वे तु बाह्यार्थं विनानुमानासंभवाद्बाह्यार्थसिद्धिः । तत्र ज्ञानमेवैवमाकारमात्मना प्रथते कुतः ॥ नाप्रत्यक्षस्य तस्यास्ति प्रमाणान्तरतो गतिः ॥ संवेद्यत्वाच्च नीलादेर्ज्ञानाकारत्वनिश्चयः ॥ अर्थान्तरस्य च ग्राह्यलक्षणं नहि युज्यते ॥*॥ यो हि विज्ञानप्रत्यक्षमिच्छति तस्य ज्ञानमेव न सिध्येत्प्रमाणान्तरसंभवात् । अनुमानमिति चेत् । न लिङ्गाभावात् । न तावदर्थो लिङ्गम्, विनापि तेन सुषुप्त्याद्यवस्थायामर्थसद्भावाभ्युपगमात् । अर्थव्यवहारो लिङ्गं स हि कादाचित्कं कारणं कल्पयतीतिचेत्, एवन्तु प्राग्व्यवहाराज्ज्ञानप्रतिभासो न स्यात् । अव्यवहारन्नपि घटं पश्यन् जानेऽहं घटमिति ज्ञानमनुसंधत्ते इति प्रतीतिसाक्षिकम् । अर्थधर्मो ज्ञानजन्मा लिङ्गमितिचेत् । न । तत्सद्भावे प्रमाणाभावात् । अतीतानागतयोश्चार्थयोर्धर्मासंभवादतीताद्यनुमाने ज्ञानसिद्धिर्न स्यात्, तस्मादवश्यं विज्ञानं प्रत्यक्षमेषितव्यम् । एवं च तस्यैवायमाकार इति निष्प्रमाणकोर्ऽथः ॥*॥ किञ्च वेद्यत्वादपि नीलादेर्ज्ञानाकारत्वं, नह्यनात्मनो नीलस्य पीतवद्वेद्यता संभवति । यदि चार्थान्तरं नीलं ततोऽस्य किं लक्षणं वेद्यत्वम् । यद्यर्थत्वलक्षणं स्यात्, सर्वं सर्वस्य वेद्यं स्यात्व्यवस्थाहेतुत्वभावात् । अथ व्यवस्थापकं य एवार्थो ज्ञानस्य हेतुः, स एव वेद्यो नान्य इति चेत् । न । नेत्रादेरपि वेद्यत्वप्रसङ्गात् । सादृश्यं हेतुत्वं च विषयत्वम्, नीलार्थश्च नीलज्ञानेन सदृशो न नेत्रमितिचेत्, एवमपि समनन्तरप्रत्ययस्य हेतुत्वात्विज्ञानत्वेन च सादृश्याद्विषयत्वं स्यात् ॥*॥ अथासाधारणत्वेन विषयाकारेण सादृश्यं विषयलक्षणं ज्ञानत्वं हि सर्वज्ञानसाधारणं नीलाद्याकारस्तु केषाञ्चिदेवासाधरणस्तेन तदाकारेण सादृश्यं विषयत्वम् । एवमपि धारावाहिकेषु पूर्वमुत्तरस्य विषयः स्यातुभयोर्नीलरूपत्वाद्धेतुत्वाच्च ॥*॥ स्यान्मतं न सादृश्यं विषयत्वं किन्तु यो ज्ञाने नीलाद्याकारविशेषसमर्थको हेतुः स विषयः, समनन्तरप्रत्ययस्तु न नीलाद्याकाराणां समर्पकः । तथासति नीलज्ञानान्तरं सर्वदैव नीलविज्ञानं स्यात् । तत्रैकस्मिन्संताने नीलपीतादिविचित्रार्थसंनिधिविशेषकृतश्चायं विचित्राकारोदय इत्यर्थस्यैव ग्राह्यत्वम् ॥ पुनर्योगाचारशङ्का । ननु कार्यभूतसमये कारणभूतस्यार्थस्य क्षणिकत्वेनातीतत्वात्कथं प्रत्यक्षग्राह्यत्वम्, एतदेवार्थस्य ग्राह्यत्वं यज्ज्ञानाकारर्पणक्षमहेतुत्वम् । यथाहुः भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः ॥ हेतुत्वमेव तद्युक्तं ज्ञानाकारार्पणक्षममिति । यद्येवं कस्यायमाकारो यो वर्तमानः प्रथते, यदि ज्ञानस्यैव तर्हि अर्थस्याप्रथमानस्य सद्भावे ज्ञानं प्रति हेतुत्वे च कं प्रमाणम् । ज्ञानवैचित्र्यमेव, न हि तत्समनन्तरप्रत्ययमात्रात्संभवतीत्युक्तम् । एवं तर्ह्यनुमेयोर्ऽथः कथं प्रत्यक्षग्राह्य इत्युच्यते । एतदेव हि प्रत्यक्षग्राह्यत्वमर्थस्य यत्साक्षादाकारसमर्पणेन हेतुत्वम्, यस्तु परंपरया ज्ञानाकारसमर्पको हेतुश्च सोऽनुमेयः । तद्यथा वह्निस्वलक्षणं धूमस्वलक्षणतद्दर्शनतद्विकल्पप्रणाड्या वह्निज्ञानं जनयदनुमेयम् । अत एव प्रत्यक्षमनुमानं च द्वे एव प्रमाणे ज्ञानार्थयोर्भिन्नत्वात् । असति तादात्म्ये तदुत्पत्तिनिबन्धन एव ज्ञानादर्थनिश्चयः । तत्र साक्षादुत्पत्तौ प्रत्यक्षं प्रणाड्यौ त्वनुमानमिति द्वे एव विधे । एत एव विषयसादृश्यमेव प्रामाण्यं तदधीनत्वादर्थविशेषव्यवस्थापनस्य । न हि ज्ञानमित्येव नीलवेदनं भवति पीतादावपि तुल्यत्वात् । नीलिम्ना तु नीलवेदनसिद्धिः । यथाहुः नहि संवित्तिसत्तयैव तद्वेदना युक्ता तस्याः सर्वत्राविशेषादविशेषप्रसङ्गात्, तां तु सारूप्यमाविशत्सरूपयितुं घटयेदिति । तस्मात्साकारे विज्ञाने सिद्धमर्थस्य सत्त्वं ग्राह्यलक्षणं चेति सौत्रान्तिकाः ॥ अत्र वदामः स्यादिदं ग्राह्यलक्षणं यद्यर्थस्याकारसमर्पकत्वे हेतुत्वे वा प्रमाणं स्यात्, नतु तदस्ति, समनन्तरप्रत्ययविशेषादेव विचित्राकारोदयसंभवात् । तथाहि त्वयापि हि स्वप्नावस्थायामसत्यप्यर्थसंनिधौ ज्ञानवैचित्र्यदर्शनादवश्यं समनन्तरप्रत्ययकृतत्वमङ्गीकर्तव्यम् । एवञ्चेज्जाग्रत्प्रत्ययानामपि तथैवास्तु किमर्थग्रहणेन, अतो न हेतुत्वं ग्राह्यलक्षणम् ॥*॥ अथ ज्ञानिनिबन्धनो यत्रोपादानादिव्यवहारः स विषय इत्युच्यते, तथासति नीलज्ञानस्य नीलान्तर्गताः परमाणवो रसादयश्च विषयभावमश्रुवीरन्, उपादीयंमानत्वात् ॥*॥ अथ द्रव्यस्यैवोपादानं न गुणानां रसादीनाम् । एवं तर्हि रूपस्यापि विषयत्वं न स्यात् । किञ्च सुखार्थः सर्वो व्यवहारोऽतोऽनुभूते सुखे न कश्चित्सुखविषयो व्यवहारोऽस्ति न च संभवति, यतः सुखप्रतिबद्धव्यवहारोऽस्तीति कथं तस्य विषयत्वम् ॥*॥ ननु नोपादानमेव व्यवहारः शब्दप्रयोगस्यापि व्यवहारत्वात्, अतो नीलज्ञाननिबन्धनशब्दप्रयोगगोचरत्वान्नीलिम्नो विषयत्वम्, एवं सुखादेरपि । एवमप्युपादानस्यापि व्यवहारत्वात्तगद्विषयभूतानां परमाणूनां विषयत्त्वापत्तिस्तदवस्थैव ॥*॥ किञ्च न शब्दप्रयोगवशेन ज्ञानस्य विषयनिरूपणं शक्यं विपरीतत्वात् । अर्थसंबद्धशब्दप्रयोगो हि लक्षणं न शब्दमात्रप्रयोगः, प्रत्याय्यप्रत्यायकत्वमेव हि शब्दार्थयोः संबन्धोऽतो यदर्थविषयं ज्ञानं यः शब्दो जनयति स तस्य वाच्यः, अतो ज्ञानविषयनिरूपणपूर्वकं शब्दविषयनिरूपणं, तदधीने तु तस्मिन् दुरुत्तरमितरेतराश्रयमापद्येत ॥*॥ ज्ञानजन्यातिशयभाक्त्वमेव ग्राह्यत्वमिति चेत्, नासावुपलभ्यते, न च संभवति भूतभविष्यतोरित्युक्तम् । अथ संप्रयुक्तेन्द्रियजं ज्ञानं यत्व्याप्तलिङ्गजं वा स विषय इति मतम् । ततो नेत्रजन्यस्य नीलज्ञानस्य स्पर्शो विषयः स्यात्, अस्ति च स्पर्शस्यापि रूपस्यैव संयुक्तसमवायलक्षणः संबन्धो नेत्रेण । तथा गन्धलिङ्गस्य रसानुमानस्य रूपमपि विषयः स्यात्, रूपेणापि रसेनेव तस्य व्याप्तत्वात् । तस्मात्ज्ञानात्मकत्वमेव नीलादेर्विषयलक्षणमिति सिद्धं तादात्म्यम् ॥*॥ सहोपलम्भनियमोऽपि ज्ञानार्थयोरनियमव्याप्तं भेदं व्यापकविरुद्धोपलब्ध्या प्रतिषेधन्न भेदमुपस्थापयति, भिन्नानां घटपटादीनामनियतसहोपलम्भत्वात् । न चासिद्धौ वेद्योपलम्भसमये वित्तेरुपलम्भ इति वाच्यम् । उत्तरकालं सहैव ज्ञानेन विषयस्मरणदर्शनात्ज्ञातो घट इति । नचानुभूतस्य स्मरणं संभवति, तस्मादुत्पत्तिवेलायामेव ज्ञानस्य प्रकाशनमङ्गीकर्तव्यम् । न च निराकारस्योपलब्धिरस्तीति सिद्धं ज्ञानात्मकत्वं नीलादेः । अवश्यं च स्वप्नादिबोधे बन्ध्यासुतो याति, अङ्गुल्यग्रे हस्तियूथशतमित्यादौ चात्यन्तासंभवाद्बाह्यस्य ज्ञानात्मकत्वमेवाकारणामभ्युपगन्तव्यम् । तथान्यत्राप्यस्तु, तस्मान्न बाह्यमस्तीति प्राप्ते । योगाचारमतखण्डनम् । अभिधीयते नीलादिवित्तेरात्मांशग्राहित्वं केन गृह्यते । नात्मना नान्यसंवित्त्या सापि ह्यात्मावसायिनी ॥ अज्ञानस्थिरचित्रत्वबाह्यत्वादेरनात्मनः ॥ असतो वा सतो वापि कथं विज्ञानवेद्यता ॥ विज्ञानवादी हि सर्वमेव विज्ञानमात्मनमेव गृह्णाति नान्यत्, अत्मनैव च गृह्यते नान्येन, तस्याप्यन्यस्य स्वात्मपर्यवसायित्वादिति वदति । यथोक्तं नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः ॥ ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते इति तमेवंवादिनं प्रत्युच्यते नीलज्ञानस्यात्मावसायित्वं नीलस्य च विज्ञानकारणत्वं केन ज्ञानेन गृह्यते । न तावदात्मनैव नहि नीलमिदमित्यत्र स्वात्मपर्यवसायित्वं नीलाकारस्य च ज्ञानात्मकत्वं प्रकाशते नीममात्रप्रकाशनात् । संवेद्यत्वग्राह्यलक्षणयोगसहोपलम्भनियमादिलिङ्गनिमित्तकेन त्वनुमानेनैव तदवगन्तव्यं तदपि त्वनुमानमात्मांशग्राहि चेत्, न ज्ञानान्तरस्य स्वात्मपर्यवसायितां ग्रहीतुमलम् ॥*॥ अथानुमानं न स्वात्मांशग्राहि, ततो नीलादिविज्ञानैः किमपराद्धं, येन तानीदङ्कारास्पदीभूतबाह्यनीलादिप्रकाशकत्वेनावभासमानान्यपि स्वात्मन्येवावरुध्यन्ते । न हि तदैतद्वक्तुं शक्यं नानात्मनः संवेदनं ग्राह्यलक्षणं सहोपलम्भनियमो वा संभवतीति । तेषां सर्वेषामेवातस्मिन्नैव भवदीयेऽनुमाने व्यभिचारात् । तत्खल्वात्मानमतिक्रम्य नीलादिवित्तेर्नीलाद्यात्मभूतस्वात्मांशावसायितां गृह्णातीत्यभ्युपगन्तव्यम् । तस्यापि स्वात्मपर्यवसायित्वे नीलबुद्धेस्तद्वशेन स्वात्मांशग्राहिता न सिद्ध्येत् । आहच चैत्रादिप्रत्ययानां च निरालम्बनता यदि । धर्मभूता न गृह्येत साधनोत्थितया धिया ॥ ततो विषयनानात्वात्प्रतियोग्यनिराकृता । रूपात्सालम्बनप्राप्तिः सती केन निचार्यते इति ॥*॥ किञ्चाज्ञानमित्यस्य ज्ञानस्य ज्ञानाभावो ग्राह्यः, न च ज्ञानाभावस्य ज्ञानात्मता संभवति, अत्यन्तविपरीतत्वात् । तथा तदेवेगदमिति ज्ञाने पूर्वापरकालावस्थायित्वं प्रकाशते, नच क्षणिकस्य ज्ञानस्य स्थायित्वमात्मा संभवति । तथा चित्रबुद्धौ नानाकारणामवभासः । नचैकस्य ज्ञानस्य नानाकारता संभवति ॥*॥ नन्वर्थस्यापि स्थायित्वमेकस्य च नानाकारणत्वं न संभवत्येव, संभवतु वा मा वा, ज्ञानात्मता तावन्न संभवति । तदसंभवे चार्थाकारौ वा स्थायित्वचित्रत्वे स्याताम्, अत्यन्तासद्रूपे वा, द्वैधापि ज्ञानानात्मकयोर्ज्ञानेन ग्रहणात्सिद्धं नः समीहितम् ॥*॥ तथा बाह्यं नास्तीति निषेधयतावश्यं बुद्धावारोपयितव्यम्, ज्ञानातिरिक्तं च बाह्यम् । न च ज्ञानाकारता तस्य संभवति, तस्मादेवमादिसिद्ध्यर्थमवश्यं विज्ञानानामनात्मग्राहित्वं बलादभ्युपगन्तव्यम्, भवदीयानुमानार्थं च । तदेवं संविद्बलसिद्धस्य बाह्यस्य संभवे वेद्यत्वादिभिर्नापह्नवः संभवति, बाह्यस्यैव हि तदा संवेद्यत्वं दर्शनबलादभ्युपगम्यते । प्रत्युतात्मन एव संवेद्यत्वं न संभवति नीलादिवित्तीनामिदं नीलमिदं पीतमित्यनात्मावभासित्वातात्मावभासित्वाभावात् ॥*॥ अहंप्रत्ययस्तर्हि ज्ञानावलम्बनो भवतु । सोऽपि कर्त्रवलम्बनो न ज्ञानावलम्बन इत्यात्मवादे वक्ष्यामः । तथा ग्राह्यलक्षणमपि बाह्यस्यैव किञ्चिदेष्टव्यम् । अन्यथा नीलादिवित्तीनां स्वांशपर्यवसायित्वसाधनार्थस्य तदीयानुमानस्य नीलादिवित्तिगतं स्वांशविषयत्वं ग्राह्यं न स्यात्, स्थायित्वादयश्च तद्बुद्धीनाम् ॥ ज्ञानानुमेयत्वस्थापनम् । तल्लक्षणं चेतरेषामुक्तदोषत्वात्ज्ञानजन्यफलभागित्वमेवाश्रियतव्यम् । ज्ञानक्रिया हि सकर्मिका कर्मभूतेर्ऽथे फलं जनयति पाकादिवत्, तच्च फलमिन्द्रियकज्ञानजन्यमापरोक्ष्यम्, लिङ्गादिज्ञानजन्यं तु पारोक्ष्यमित्युच्यते । अस्ति हि विषयाविषयविभागः विषयेष्वपि परोक्षापरोक्षविभागः सार्वजनीनः । न च फलमन्तरेणायं विभागः संभवतीति तदाश्रीयते । तदेव च फलं कार्यभूतं कारणभूतं विज्ञानमुपकल्पयतीति सिद्ध्यत्यप्रत्यक्षमपि ज्ञानम् ॥*॥ अथवा ज्ञानक्रियाद्वारको यः कर्तृभूतस्यात्मनः कर्ममभूतस्य चार्थस्य परस्परं संबन्धो व्याप्तृव्याप्यत्वलक्षणः स मानसप्रत्यक्षावगतो विज्ञानं क्लपयति, नह्यागन्तुककारणमन्तरेणात्मनोर्ऽथं प्रति व्याप्तृत्वत्वमुत्पत्तुमर्हति । तच्च कारणं लोके ज्ञानशब्देनाभिधीयते । येऽपि स्वप्रकाशं संविदमातिष्ठन्ते तैरप्ययं संबन्धो मानसप्रत्यक्षगम्योऽवश्यमभ्युपगमनीयः । अन्यथा ज्ञातो मया घटः इति ज्ञानज्ञेयसंबन्धो वा न व्यवहर्तुं शक्यते । यन्मात्रं हि प्रकाशितं तन्मात्रमेव व्यवहर्तुं शक्यते नान्यत् ॥*॥ इहच संविन्मात्रं स्वयंप्रकाशितं, अर्थोऽपि तद्वशात्, ज्ञानसंबन्धस्तु केन प्रकाशितः । सोऽपि तयैव संविदा प्रकाशत इति चेत् । न । तदुत्पत्त्यवस्थायां संबन्धस्यानिष्पन्नत्वात् । प्रकाशकत्वमेव हि संविदा विषयेण संबन्धो नान्यः, तेन जातायां संविदि विषये च प्रकाशिते निष्पद्यमानः संबन्धो न तया संविदा शक्यते विषयीकर्तुम्, विरम्यव्यापारासंभवात् । नहि प्रथममर्थं प्रकाश्य पुनःसंबन्धं प्रकाशयितुमर्हति क्षणिकत्वात् ॥*॥ अथ संबन्धोऽपि स्वयंप्रकाशत इति मन्येथाः, नात्र प्रमाणमस्ति । तस्मान्मानसप्रत्यक्षगम्योर्ऽथेन सहात्मनः संबन्धो ज्ञानं कल्पयतीति रमणीयम् । अस्ति हि कोऽपि संबन्धोर्ऽथेन सहात्मनो मानसप्रत्यक्षगम्यः सर्वजनीनः स ज्ञानस्य कल्पकः । अर्थगतो वा ज्ञानजन्योऽतिशयः कल्पयति ज्ञानम्, अवश्यमङ्गीकरणीयश्चायमतिशयस्त्रितयप्रतिभासवादिभिरपि । त्रितयं प्रतिभासत इति वदता ज्ञानज्ञेयज्ञातृषु त्रिष्वप्यनुगतं प्रकाशनपदवाच्यमवश्यमङ्गीकर्तव्यम् । तत्र ज्ञानत्वं तावन्नानुगतं तद्धि ज्ञाने एव न ज्ञातृज्ञेययोः । ज्ञेयत्वमपि ज्ञेय एव न ज्ञातृज्ञानयोः । ज्ञातृत्वं ज्ञानज्ञेययोः ॥*॥ व्यवहारविषयत्वं प्रकाशमानत्वमितचेत्, न, संविदि व्यवहाराभावाद्विनष्टत्वात् । शब्दप्रयोगो व्यवहार इति चेत्, न, उक्तदोषत्वात् । तदवश्यं प्रकाशनभासनादिपर्यायो धर्मविशेषस्त्रिष्वप्यनुवृत्तो गोत्वमिव गोव्यक्तिष्वस्ति । सच धर्मो ज्ञातरि ज्ञेये च ज्ञानवशाज्ज्ञायते, ज्ञानस्य तु स्वाभाविकोऽग्नेरिवौष्ण्यौमिति स्वप्रकाशं ज्ञानम् । इतरौ परप्रकाश्यावित्याश्रयणीयम् । तन्निमित्तं च विषयस्य विषयत्वम् । व्यवहारादीनां हि विषयलक्षणत्वं प्रागेव दूषितम् । एकदेशिनां तु व्यवहारनिबन्धनविषयताङ्गीकरणे रजतवित्तेः शक्तिका विषयः स्यात्, नचैवमिच्छन्ति । तदेवविवादसिद्धेर्ऽथगतेऽतिशये तेनैव ज्ञानस्यानुमानं पूर्वोक्तेन वा मानसप्रत्यक्षगम्येन संबन्धेन संभवति । अतिक्रान्तदिवसगतदशत्वादिसंख्यावच्चासतोर्भूतभविष्यतोरविद्यमानत्वेऽपि धर्मिणः प्रकाशनधर्मो जायत इति प्रमाणबलादब्युपगम्यते । अतो न प्रत्यक्षत्वं संविदोऽभ्युपगन्तव्यम् । पुनर्विज्ञानवादखण्डनम् । न च प्रतीतिबलादपि प्रत्यक्षत्वमर्थाऊ(?)अससमये संविदः प्रतिभास एव नास्ति, नतरामापरोक्ष्यम् । एवं च सहोपलम्भस्यैवाभावात्तन्नियमो य उक्तः स दूरापास्त इति प्रत्युक्तमेतत्सहोपलम्भनियमादभेदो नीलतद्धितयोः इति । यत्तु पश्चात्स्मरणस्य दर्शनज्ज्ञानमपि प्रागनुभूतमिति । तदप्यसिद्धम् । अर्थ एव हि तदा स्मर्यते, तत्तत्स्मरणाच्च तदैवार्थव्याप्तिरात्मनो मनसावगम्यते, तद्धशाच्च तदार्थे तावज्ज्ञानं कल्पयति । तस्य ज्ञानस्येन्द्रियादिकारणाभावात्स्मृतित्वं निश्चित्य स्मृतिकारणभूतं पूर्वज्ञानं तदैव कल्पयतीति नास्य स्मरणम् ॥*॥ इतश्च न नीलादेर्ज्ञानात्मकत्वम्, अनुमानादिषु विषयाकाराणां परोक्षत्वात्, ज्ञानस्य च सर्वत्र प्रत्यक्षत्वाब्युपगमात्, नहि परोक्षापरोक्षयोरेकत्वं संभवति । एवमत्यन्तासद्रूपत्वेनाभिमतस्य स्थायित्वादेः सद्रूपज्ञानात्मकत्वमत्यन्तांसंभाव्यम् । तथा भूतानुमानेषु भूतत्वमवभासते । न च वर्तमानस्य ज्ञानस्य भूतत्वमात्मा संभवति ॥*॥ भिन्नत्वेऽपि ग्राहकाद्ग्राह्यस्य ज्ञानमेवातीतमुत्तरस्य ग्राह्यं नार्थ इति चेत्, न, प्रमाणाभावात् । अत्र चातीतं त्रेधा विकल्प्य अतीतं यच्च विज्ञानमित्यादिना दूषणमित्युक्तम् । उत्तरमपि त्रेधैव विकल्प्य द्व्याकारक्लपनायां च इत्यादिना दूषणमित्युक्तमिति विवेचनीयम् । तस्मादिदमपि वैभाषिकमतमयुक्तमेव । तस्माद्बाह्यार्थाकार एव नीलादिर्न ज्ञानाकारः ॥*॥ कथं तर्हि स्वप्ने, तत्रापि बाह्यमेव देशकालान्तरगतमदृष्टोद्बोधितसंस्कारवशात्स्मर्यमाणं निद्रा दूषितमनस्कतया भ्रान्त्या संनिहितदेशकालमिव मन्यते । विस्पष्टं चैतदनन्तरदिवसानुभूतस्य स्वप्ने वर्तमानवभासदर्शनात्, अन्यत्रापि स्वप्ने तथाङ्गीकर्तुं युक्तम् । शिरश्छेदोऽप्यन्यत्रावगतः स्वसंबन्धितया दोषवशादवगम्यते । सर्वत्र संसर्गमात्रमसदेवावभासते । संसर्गिणस्तु सन्त एव । सेयं विपरीतख्यातिरुच्यते मीमांसकैः । असत्ख्यातिवादिनस्यैव शुक्तिकाशकलस्यानात्मभूतैवात्मतयावगम्यते । तथा वन्ध्यासुतादिष्वपि विद्यमान एव सुतशब्दार्थो वन्ध्यान्विततया तत्पदसंनिधिदोषादवगम्यते ॥ स्वीयविपरीतख्यातिमतोपन्यासः । यत्तु कैश्चिदेवमादिषु तदाकारावभासमपह्नुत्य भ्रान्तिरित्युक्तं, तत्संविद्विरोधादेवोपेक्षणीयम् । को हि नामाङ्गुलिनिपीडितदृष्टिश्चन्द्रद्वित्वं न प्रकाशत इति ब्रूयात् । किञ्चैकमेवायं चन्द्रो न द्वाविवेकं चन्द्रस्य विस्पष्टमनुसंदधानस्य चक्षुषा द्वित्वभ्रमो जायमानः कथं विवेकाग्रहणनिमित्तः स्यात् । एवमवगतदिक्कस्य दिग्भ्रमो नाग्रहनिमित्तः संभवति ॥*॥ कथं पुनर्द्वित्वस्यावगमः, न स्मरणम् । तद्धेत्वभावात्, न ग्रहणम्, अप्राप्तस्य चक्षुषा ग्रहणसंभवात् । उच्यते देशद्वयं नेत्रेण प्राप्तं चन्द्रश्च, तयोश्च संसर्गो दोषवशादवगम्यते, देशद्वये चन्द्रंप्रतीत्यदेशगतं द्वित्वं दोषवशाच्चन्द्रेऽध्यवस्यति । तथा पित्तवर्तिपीतत्वं शङ्खस्वरूपं च चक्षुषा गृह्णन्दोषवशात्संबन्धं बुध्यत इत्यवगन्तव्यम् ॥*॥ किञ्च यदि सम्यग्रजतबोधे तादात्म्यवभासते न शुक्तिरजतवेदने ततोऽवभास्यभेदादवभासस्य वैलक्षण्यं प्रागेव बाधकादनुसंधातुं शक्नुयात् । वैलक्षण्यवगमाच्च न प्रवर्तेत । किञ्च यदि रजतार्थी शुक्तेरुपादानं कार्यतयावगच्छेत्, ततोऽकार्यस्य कार्यतया भानागद्विपरीतख्यात्यापत्तिः । अथ नावगच्छेत्, न प्रवर्तेत तत्कार्यावगमाधीनत्वात्प्रवृत्तेः ॥*॥ अथ कार्यत्वानवगमेऽपि तत्कार्यावगतिसादृश्यात्प्रवृत्तिः, ततस्तत्कार्यावगतिसादृश्यमप्यस्तीति निवृत्तिरपि स्यात्सादृश्ययोरविशेषात् । नचासति कारणे कारणसदृशं तत्कार्यं साधयितुमर्हति मासीषधच्छुक्तिकारजतकार्यमाभरणम् ॥*॥ ननु व्रीहिकार्यमपूर्वं नीवारः साधयन्ति । नैवम् । व्रीह्यंशा एव तत्र कार्यं कुर्वन्ति, तेच विकलाः सन्तोऽप्यशक्त्यवस्थायां तत्साधनत्वेन यथाशक्तिप्रयोगविधानादवगता इति नाकारणात्तत्सदृशात्कार्योत्पत्तिः ॥*॥ अथ त्वकार्यानवगतिरेव प्रवृत्तेः कारणं, ततो बाह्या अपि वेदार्थे प्रवर्तेरनकार्यत्वानवगमात् । अथ त्वकार्यमेव तेऽवगच्छेयुः, ततः कार्यस्याकार्यतयावगमाद्विपरीतख्यातिरित्यास्तां तावत् । तस्मात्स्वप्नादिष्वपि बाह्यस्यैवान्यथाभूतस्यैवान्यथावभासात्सिद्धं सर्वत्र बाह्यालम्बनत्वम् । योगाचारमतखण्डनम् । ५९ । अथ स्वप्नप्रत्ययत्वात्स्तम्भादिविज्ञानमन्यथाभूतमित्यनुमीयते, तदसत्, तथासति प्रत्ययत्वाविशेषात्त्वदीयमप्यनुमानं मिथ्या स्यात् । मिथ्यात्वग्राहिणोऽनुमानस्यामिथ्यात्वे वा तत्रैव हेतोर्व्यभिचारः । तस्मात्सूक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः प्रत्ययो नान्यः शाभा इति । तस्मादव्यभिचारात्प्रत्यक्षं न परीक्षितव्यम् । इति शून्यवादः ॥ अनुमानपरिच्छेदः । प्रत्यक्षस्य सत्संप्रयोगजन्यत्वलक्षणेन लोकसिद्धेनाव्यभिचारमुक्त्वा, इदानीमनुमानादेरव्यभिचारार्थे लोकसिद्धमेव लक्षणमाह अनुमानं ज्ञातसंबन्धस्यैकदेशदर्शनीदेकदेशान्तरेऽसंनिकृष्टेर्थे बुद्धिः शा भा । यस्य यादृशस्य येन यादृशेन सह साक्षाद्वा प्रणाड्या वा यादृशः संबन्धः संयोगः समवाय एकार्थसमवायः कार्यकारणत्वमन्यो वा दृष्टान्तधर्मिषु नियतो ज्ञातस्तं तादृशं साध्यधर्मिषु दृष्टवतस्तस्मिंस्तादृशे तादृशसंबन्धसंबन अधिनि प्रबलेन प्रमाणेन ताद्रूप्यतद्विपर्ययाभ्यामपरिच्छिन्ने या बुद्धिः सानुमानम् । यथा धूमस्यानुपरतोर्ध्वगमनस्याग्निसाहित्यं महानसादिषु नियतमुपलब्धवतः पर्वते तद्दर्शनादग्निज्ञानम् ॥*॥ अनुमाने प्राभाकरमतम् । ननु नियमावधारणाधीनत्वे कथं ताद्रूप्येणापरिच्छिन्ने प्रवृत्तिः, ईदृशो हि नियमः यत्र यत्र धामस्तत्रतत्राग्निः, यद्यद्रसवत्तत्तद्रूपवदिति । एवञ्चेद्यावद्धूममग्निसद्भावोऽवगत एवेति नापरिच्छिन्नविषयत्वमनुमानस्य संभवतीति । अत एव चोद्याद्बिभ्यतः केचिदसंनिकृष्टग्रहणं स्मरणाभिमाननिरासार्थं व्याचक्षते गृहीतग्राहित्वमेवानुमानस्य स्वीकुर्वाणः । तथापि नाप्रामाण्यम् । नह्यग्रहीतग्रहणं प्रमाणलक्षणम् । अनुभूतिर्हि तल्लक्षणम् । अनुमानं च गृहीतग्राहित्वेऽपि प्रत्युत्पन्नलिङ्गकारणजन्यत्वेन संस्कारमात्रजन्यत्वाभावादनुभूतिरेवेति युक्तमस्य प्रामाण्यम् ॥*॥ अथ स्मृतिप्रमोषः कस्मान्नाश्रीयते, प्रत्युत्पन्नकारणसद्भावात्, संस्कारतिरिक्तकारणसद्भावेन हि इदं रजतम्, इत्यत्रानुभवरूपस्यापि रजतज्ञानस्य बलात्स्मृतित्वमाश्रित्य प्रमोषोऽङ्गीकृतः । अत्रतु लिङ्गस्यानुभवकारणस्य सद्भालादयुक्तं प्रतीतिसिद्धस्यानुभवरूपस्यापह्नवेन स्मृतिप्रमोषाङ्गीकरणमिति । सोऽयमेषामकारणकस्त्रासः । तथाहि यदि यावद्व्याप्यव्यापकसद्भावोऽवगतः स्यात्ततो गृहीतग्राहित्वमाशङ्क्येतापि, नत्वेवमस्ति, महानसादिष्वेव हि दृष्टान्तधर्मिषु प्रागनुमानाद्धूमस्याग्निसाहित्यमवगतं न सर्वत्र, प्रमाणसंभवात् । यथाचासंभवस्तथा न्यायरत्नमालायामेव प्रपञ्चितम् ॥*॥ दृष्टान्तधर्मिष्वेव बहुशोऽग्निसाहित्यमुपलब्धवतोऽनग्नौ च क्वचिदपि प्रयत्नेनान्विष्यमाणे धूमदृष्टवतः साध्यधर्मिष्वग्निमत्ताज्ञानमुत्पद्यते । आह च साहित्ये मितदेशत्वात्प्रसिद्धे वह्निधूमयोः ॥ व्यतिरेकस्य चादृष्टेर्गमकत्वं प्रकल्प्यते इति । ममत्वदृष्टिमात्रेण गमकः सहाचारिणः इथि च । ततश्चानुमित्सता न सर्वेषां धूमवतामग्निमत्तावगन्तव्या । नापि सर्वत्रानग्नौ धूमस्याभावः । भूयोऽग्निसाहित्यं व्यभिचारादर्शनमित्येतावदेवानुमानार्थिभिरभ्यर्थनीयं नाधिकं किञ्चित् । यत्त्विदं यत्र यत्र धूमस्तत्रतत्राग्निरिति ज्ञानं तदनुमानमेवेति तत्रैवोक्तम् ॥ गृहीतग्राहित्वखण्डनम् । नन्वेवमप्यनेनैव सामान्यानुमानेन सर्वधूमवतामग्निमत्तावगतेति यत्पुनः पर्वतादिदेशविशेषेषु धूमदर्शनादग्न्यनुमानं तस्य गृहीतग्राहित्वं तदवस्थमेव स्यात् । मैवम् । सामान्यविशेषभेदात् । सामान्येन हि धूमवतामग्निमत्तावगता, पर्वतादेस्तु देशविशेषस्य स्वरूपमपि प्रागमवगतं, नतरामग्निमत्त्वम् । यस्त्ववगतमेवेति मन्यते, तेन पर्वतस्वरूपमेव तावदप्राप्तं पर्वतसमीपस्थैः केन प्रमाणेनावगतमिति वक्तव्यम्, नप्रत्यक्षेण, नान्येन प्रमाणेन । नचानवगतपर्वतस्तस्याग्निमत्तामवधारयितुमलम् । यदि चेदानीन्तनं पर्वतस्याग्निमत्त्वं प्रागेवावगतं स्यात्ततोऽग्न्यर्थी विनैव धूमदर्शनेनाग्नये पर्वतमारोहेत् । नह्यग्न्यर्थिनोऽवगतेग्नौ धूमदर्शनेनार्थः कश्चित् ॥*॥ किञ्च धूनोपलक्षितस्य पर्वतादिदेशविशेषस्याग्निसंबन्धोऽवगत इति वदता धूमसंबन्धोऽप्यवगत इति वक्तव्यम् । नह्यज्ञातसंबन्धमुपलक्ष्यमुपलक्षयितुं क्षणम् ॥*॥ अथ देशमात्रस्य धूमेनोपलक्षणं न देशविशेषस्य, ततोऽग्निमत्त्वमपि तन्मात्रस्यावगतं न देशविशेषस्य, अतो लिङ्गलिङ्गिनोरविशेषात्लिङ्गस्यैव देशकालातिरेको न लिङ्गिनः इति प्रलापमात्रम् । अपि च यत्राग्नीन्धनसंयोगस्तत्र धूम इत्यनेन धूमोऽप्यवगत एवेति न किञ्चिदप्यवगन्तव्यमवशिष्यते धूमज्ञानेनेत्यलं बालजल्पितेन ॥*॥ यदि चावगतमेवानुमानेनावगम्यते ततः स्मरणमेव प्रमुषिततद्भावमनुमानज्ञानं स्यात् । नच प्रत्युत्पन्नकारणजत्वादस्मृतित्वम्, संस्कारश्चोद्बोधितः स्मृतिं जनयतीत्यविवादम्, स्मृतेश्च प्रमोषः शुक्तिकारजतादिवेदनेषु कॢप्त एव । तदेवं कॢप्तेनैव मार्गेण धूमादग्निज्ञानोत्पत्तौ कोनामाकॢप्तं लिङ्गस्य लिङ्गज्ञानहेतुत्वं कल्पयेत् । क्लपनायां वा शुक्तावपि रजतवेदनस्यानुभवरूपत्वात्तदुपपत्तये दोषस्यैवानुभवहेतुत्वं कल्पनीयम् । नन्वग्निविशेषस्यागृहीतसंबन्धस्यैमननुमेयत्वात्सामान्यमेवानुमेयं तच्च प्रागवगतमेवेति कथमगृहीतग्राहित्वम् । यथाहुः विशेषेऽनुगमाभावः सामान्ये सिद्धसाध्यता । अनुमाभङ्गपङ्केऽस्मिन्निमग्ना वादिदन्तिनः इति । नैष दोषः । अवगतस्यापि सामान्यस्य देशान्तरकालान्तरसंबन्धस्यागृहीतस्यग्रहणादुपपन्नं प्रमेयत्वम् ॥*॥ इदञ्चापरमेकदेशिना वक्तव्यं केन प्रमाणेन धूमदर्शनस्याग्निज्ञानहेतुत्वमवगम्यत इति । तदानन्तर्यादितिचेत् । न । तस्य संस्कारद्वारेणाप्युपपत्तेः । अनुभवरूपत्वमनुपपन्नमितिचेत् । न । स्मरणस्यापि तत्परामर्शप्रमोषेणानुभवाभिमानोपपत्तेः । वस्तुतोऽनुभवत्वं त्वसिद्धमेव प्रमाणाभावात् । नह्यग्निज्ञानस्यानुभवत्वे प्रत्यक्षमन्यद्वा प्रमाणमस्ति । अस्ति तु स्मृतिप्रमोषत्वे ॥*॥ अथ स्मृतिप्रमोषस्याप्यबाधदर्शनात् । मणिप्रभादर्शिनो मणिबुद्धिस्तावदत्स्मृतिप्रमोष एव, अन्यथा विपरीतख्यातिप्रसङ्गात् । अथ च प्रवृत्तस्य मणिलाभान्न बाधकमस्ति, तस्मात्स्मृतिरेवानुमानमित्यप्रमाण्यापत्तिः ॥*॥ कथं च गृहीतग्राहित्वमनुमास्य, अत्यन्तापरिदृष्टे देशे काले चाग्निरनुमीयते स केन प्रमाणेन प्रागवगतः । न प्रत्यक्षेण । तस्य विद्यमानोपलम्भनत्वात् । नचान्येन केनचित् । किञ्चाग्निधूमयोर्मिथः संबन्धो देशकालानवच्छिन्नः प्रत्यक्षेणावगत इत्येतावदेव भवान्ब्रवीति, नचैतावता देशान्तरकालान्तरसंबन्धोऽग्नेरवगतो भवति, तस्मादगृहीतग्राह्येवानुमानम् ॥*॥ किमत्रागृहीतम्, अग्निसामान्यं तावद्गृहीतमेव, पर्वतोऽपि प्रत्यक्षेणावगतः, अग्निविशिष्टस्तु पर्वतो न केनाप्यवगत इति सोऽनुमेयो भविष्यति । तत्र च प्राप्ताप्राप्तविवेकेन संबन्धमात्रं प्रमेयमवशिष्यते । यथा दध्ना जुहोतीति विशिष्टविषयोऽपि विधिर्विशेषणपरो भवति तथेहापि, विशिष्टविषयमेवानुमानम्, विशेषणविशेष्ययोस्तु प्राप्तत्वात्यजुर्युक्तं रथमध्वर्यवे ददातीतिवत्संबन्धविषयं भवतीति । अनुमानावयवनिरूपणम् । यस्तु प्रतिपन्नमर्थं परमनुमानेन प्रतिपादयिषति तेन साधनं प्रयोक्तव्यम् । येन वाक्येन यस्यानुमानबुद्धिरुत्पद्यते । तच्च केचिद्द्वयमन्ये वयं त्रयम् । उदाहरणपर्यन्तं यद्वोदाहरणादिकम् ॥*॥ अक्षपादीयस्तावत्प्रतिज्ञाहेतूदाहरणोपनयननिगमनैः पञ्चावयवं साधनं मन्यन्ते । अनित्यः शब्द इति प्रतिज्ञा, कृतकत्वादिति हेतुः यत्कृतकं तदनित्यं दृष्टं यथा घटादीत्युजाहरणम्, कृतकश्च शब्द इत्युपनयः, तस्मादनित्य इति निगमनम् ॥*॥ अयं त्वतिविस्तरो गतार्थख इति मन्वानः सौगता द्व्यायवमुदाहरणोपनयात्मकं मन्यन्ते । स्मर्यमाणनियमं हि लिङ्गं साध्यधर्मिण्यनुसंधानस्य स्वयमेव लिङ्गबुद्धिरुत्पद्यते । तेन यत्कृतकं तदनित्यमिति कृतकत्वस्यानित्यत्वेन व्याप्तिनियमं स्मारयित्वा कृतकश्च शब्द इत्युपनयमात्रे कृते शब्दस्यानित्यत्वमवगम्यत एवेति कृतमवयवान्तरैः ॥*॥ एवं त्वत्यन्तसाकाङ्क्षमेव वाक्यं क्लेशगम्यार्थं भवतीति त्र्यवयवमेव युक्तमनित्यः शब्दः कृतकत्वात्यत्कृतकं तदनित्यं यथा घटादीत्येवमुदाहरणान्तं साधनं सर्वत्र वार्तिककारः प्रयुङ्क्ते । अथवा यत्कृतकं तदनित्यं यथा घटादि, कृतकश्च शब्दस्तस्मादिनित्यः इत्युदाहरणप्रभृति प्रयोक्तव्यम् । एवमप्यन्यूनाधिकमेव साधनम् । तथा च यत्कर्म तत्फलवथोमोऽपि कर्म तेनापि तत्फलवता भवितव्यमित्येव सर्वत्र भाष्यकारः प्रयुङ्क्ते । प्रतिज्ञादोषाः प्रत्यक्षविरोधादयोऽप्रसिद्धविशेषणत्वादयश्च वार्तिके प्रपञ्चिताः । हेत्वाभासनिरूपणम् । असिद्धिः, अनैकान्तिकत्वं, बाधकत्वं, चेति त्रयो हेतुदोषाः पञ्चधा बुद्धो धर्माधर्मवेदी सर्वज्ञत्वादिति स्वरूपासिद्धिः, नहि सर्वज्ञत्वस्वरूपं क्वचिदस्ति? । वह्निरदाहकः शीतत्वादिति संबन्धासिद्धिः, शैत्यस्य वह्निसंबन्धाभावात्२ ॥*॥ नन्वेवं समुद्रवृद्धौ चन्द्रोदयस्य हेतुत्वं न स्यात्, उदयस्य समुद्रसंबन्धाभावात्, एककालसंबन्धादुभयोरदोषः । यदा तर्हि चन्द्रस्य नभोमध्ये स्थितिं दृष्ट्वा पञ्चदशनाडिकातिक्रान्ता समुद्रवृद्धिरनुमीयते तदा कथं, तत्रापि परम्परासंबन्धादुभयोरदोषः । नहि साक्षात्संबन्ध एव सर्वत्राश्रीयते, यद्धि येन साक्षात्प्रणाड्या वा केनापि संबन्धेन नियतं तत्तस्य तथैवानुमापकं भवतीति दर्शितमेवैतत् । तेन यादृशः संबन्धो हेतोर्वादिना दर्शितस्तदसिद्धौ दोषो भवति नान्यथा । गोशब्दः सास्नादिमद्वचनो गोशब्दत्वादिति व्यतिरेकासिद्धिः । नहि धर्मिव्यतिरेकेण गोशब्दत्वं नाम किञ्चिदस्ति३ । नित्यमाकाशमनवयवद्रव्यादिति व्यप्त्यसिद्धिः मूर्तत्वस्याकाशे व्यप्त्यभावादिति५ ॥*॥ अनैकन्तिकत्वं द्विविधं सव्यभिचारं सप्रतिसाधनं च । नित्यः शब्दो मूर्तत्वादिति कर्मादिष्वनित्येष्वप्यमूर्तत्वस्य संभवाद्व्यभिचार्यमूर्तत्वम् । अप्रत्यक्षो वायुर्द्रव्यत्वे सत्यरूपत्वात्प्रत्यक्षो वायुर्महत्त्वे सति स्पर्शवत्त्वादिति संप्रतिसाधनत्वादुभयमप्यनिर्णायकं संधयहेतुः, अगृह्यमाणबलाबलत्वादुभयोः ॥*॥ कश्चित्त्वाह न विरुद्धार्थं हेतुद्वयं तुल्यबलमेकत्र संभवति, तद्भावे वस्तुनि नित्यंसशयापत्तेः । द्रव्यत्वे सत्यरूपत्वस्यापरोक्षावभासीविरोधादप्रत्यक्षत्वमनुमापयितुमसामथ्र्याद्दौर्बल्यम् । स्पार्शनानुमानं त्वविरुद्धं बलवदिति न द्वयोस्तुल्यबलवत्त्वं, अतो नास्ति सप्रतिसाधनो हेतुरिति । स वक्तव्यः सव्यभाचारोऽपि तर्हि न संशयहेतुः स्यान्नित्यसंशयापत्तिप्रसङ्गादेव ॥*॥ सत्यपि तस्य संशयहेतुत्वे प्रमाणान्तरेण निर्णयसंभवान्न नित्यसंशयापत्तिरिति चेत्, तर्हीहापि प्रमाणान्तरेण निर्णयसंभवाददोषः । तथासति यत्प्रमाणान्तरविरुद्धं तस्य दुर्बलत्वादितरस्य बलीयस्त्वादतुल्यबलत्वमितचेत्, केन चोक्तमुभयं तुल्यबलमिति, किन्त्वगृह्यमाणबलाबलत्वमात्रम् ॥*॥ तथाहि यः स्थाणुत्वं पुरुषत्वं वा नावधारयति तस्योर्ध्वत्वं संशयहेतुर्भवति, निर्णीते त्वन्यतरस्मिन्रूपे संशयो निवर्तते । तथा यो वायोरपरोक्षावभासं नावधारितवान् तस्य पृथिव्यादिषु प्रत्यक्षत्वव्याप्तं स्पर्शवत्त्वं व्योमादिषु चाप्रत्यक्षत्वव्याप्तमरुपत्वं वायावुपलभमानस्य भवत्येव संशयः । सतु प्रमाणान्तरेण निर्णये सति निवर्तत इत्यास्तां तावत् । तस्मात्सप्रतिसाधनमपि सव्यभिचारवत्संशयहेतुः । तथा च भाष्यकारः यत्कर्म तत्फलवथोमोऽपि कर्म तेनापि फलवता भवितव्यमित्यस्य उपरते कर्मणि द्रव्याणां तत्संयोगानां च द्रव्यान्तरं फलं दृष्टमिति द्रव्यमपि फलवत्स्यातिति प्रतिसाधनं ब्रुवन्सप्रतिसाधनत्वमपि दूषणमिति दर्शयति, तस्मात्सोऽपि संशयहेतुः ॥*॥ असाधरणं तु गन्धवत्वं पृथिव्यां दृष्टं न क्वचिदपि बुद्धिमादधातीति न संशयहेतुः । साधारणं हि द्वयोः साध्यतदभावयोर्दृष्टत्वादुभयत्राप्यनवस्थया बुद्धिमादधत्संशयहेतुरिति युक्तम् । तथा विरुद्धार्थव्याप्तमपि हेतुद्वयमेकत्र दृश्यमानं स्वव्यापकमेकस्मिन्धर्मिण्युपसंहरदेकस्य विरुद्धोभयरूपधर्मत्वासंभवात्संशयं जनयति । नचैवं भावोऽसाधारणस्य संभवतीति नायं संशयहेतुः ॥*॥ तथा बाधको नाम हेत्वाभासो यो विरुद्ध इति तार्किकैरभिधीयते । सच षड्विधि इति केचित्, धर्मधर्म्युभयेषां स्वरूपस्य विशेषस्य च बाधात् । चतुधति केचित् । उभयबाधस्य धर्मधर्मिबाधान्तर्गतत्वात् । एकधेत्यपरे सर्वधा समीहितधर्मविपर्ययसाधनत्वात्, इदमेव च युक्तम्, अवान्तरभेदस्यानुपयोगात् । यद्यवश्यमवान्तरभेदो वक्तव्यस्तर्हि द्वैविध्यमेव वक्तव्यं धर्मस्वरूपबाधनं चेति । नहि धर्मितद्विशेषबाधकत्वं नाम हेतोर्दूषणं संभवतीति स्वयमेव वार्तिककारेण धर्मिस्वरूपबाधेन विरुद्धो योऽभिधीयत इत्यादिना दर्शितम् ॥*॥ तथा हि द्रव्यातिरिक्तः समावाय इह प्रत्ययहेतुत्वात्संयोगवदिति अत्रेह प्रत्ययहेतुत्वसमवायत्वेन भेदेन च व्याप्तं संयोगे दृष्टम्, समवायस्यासमवायत्वं भेदं चापादयत्समवायधर्मिस्वरूपं तद्विशेषणं चैकत्वं बाधत इत्युदाहृतम् । तदयुक्तम् । इह प्रत्ययहेतुत्वं हि समवाये धर्मिणि दृष्टं न वा, यद्यदृष्टं ततोऽसिद्धत्वान्न कस्यचिदपि साधकं बाधकं वा भवति, यदि दृष्टं तत्कथं तत्रैव दृश्यमानं तस्यैव बाधनं कुर्यात्, विरोधे हि सति बाधेत, नचतद्धर्मतया दृश्यमानस्य कथञ्चिदपि तेन विरोधः संभवति ॥ समवायत्वबाधे प्रश्नः । ननु समवायत्वं बाधत इत्युक्तम् । यदि समवायत्वं नाम समवायधर्मिणोऽतिरिक्तं तद्बाधेऽपि न धर्मिस्वरूपं बाधितं स्यात् । अथ धर्म्येव तन्न तस्य बाधकं संभवतीत्युक्तम् । तस्मान्न धर्मिस्वरूपबाधनं नाम हेतुदोषः क्वचित्संभवति बाधो नत्वेतद्दूषणम् । यदि खल्विह प्रत्ययहेतुत्वं समवायस्यैकत्वं विरुन्ध्यात्ततो द्रव्यातिरेकं साधयतः किं हीयते । न हि द्रव्यातिरेकसाधनकृतमेकत्वसाधनं, यतस्तस्य दूषणत्वेन संभाव्येत । तस्माद्धर्मस्वरूपस्य तद्विशेषस्य च बाधनाद्द्विविधमेव बाधकम् । तत्र नित्यः शब्दः कृतकत्वादिति कृतकत्वमनित्यत्वेन व्याप्तत्वान्नित्यस्वरूपमेव बाधते ॥*॥ यस्तु स्वरूपमेव शब्दानामभिधेयं नार्थान्तरमित्येतमर्थं प्रतिपिपादयिषुस्तत्सिद्ध्यर्थमेवं प्रयुङ्क्ते अगृहीतसंबन्धावस्थोऽपि शब्दः स्वाभिधेयमर्थं प्रतिपादयति विभक्तिमत्त्वात्गृहीतसंबन्धवदिति, तस्य धर्मविशेषविपर्ययसाधनो हेतुः, पश्चाद्धि संबन्धग्रहणादस्वरूपप्रतिपादनं दृष्टमिति तद्वदेव प्रागस्वरूपार्थत्वं तेनाव हेतुना प्रसज्येत, स्वरूपप्रतिपादने च बाधितेर्ऽथप्रतिपादनमपि तद्धर्मस्वरूपं बाधितमेव । नहि प्राक्संबन्धग्रहादर्थान्तरप्रतिपत्तिः शक्यते वक्तुं प्रतीतिविरोधादेव ॥*॥ सर्वत्र यो हेतुर्यादृग्विशेषविशेष्टेन साध्येन दृष्टान्तधर्मिषु नियतः स तादृग्विशेषविशिष्टस्य साध्यस्य धर्मिणि प्रमाणान्तरविरोधात्साधनासमभवेन विपरीतं विशेषं नियमबलात्स्वयमेव बाधमानो निर्विशेषस्य च साध्यस्यासंभवात्साध्यमेव न साधयति । यथा शरीरिचेतनकर्तृकत्वेन घटादिषु व्याप्तमुत्पत्तिमत्त्वं देहाङ्कुरादीनां चेतनकर्तृकत्वसाधनायोच्यमानं शरीरिणश्चेतनस्यानुपलब्धिविरोधेन साधयितुमशक्यत्वादशरीरस्य तेनैव हेतुना घटादिवन्निवारणाद्विधाद्वयशून्यस्य चेतनस्यासंभवाच्चेतनकर्तृकत्वमेवाङ्कुरादीनां न साधयति । तेन धर्मविशेषविरोधो हेतोः साध्यसिद्धिमेव निरुणद्धीति भवति दूषणम् । धर्मिविशेषविरोधस्तु साध्याविरोधित्वान्न दूषणं, प्रत्युत सिद्धान्तान्तरदूषणत्वात्प्रतिवादिन एव निग्रहस्थानत्वाद्दूषणं तद्भवति न वादिनः ॥*॥ यस्तु दृष्टान्तपरिदृष्टसाध्यविशेषविरोधसंभवेऽपि तद्रहितं साध्यमात्रं हेतुः साधयत्येव, तच्च विशेषान्तरमाक्षिप्य सिद्ध्यतीति वदति, तस्य उष्णाग्निनियतस्तृणादिविकारो हिमे दृश्यमानः शैत्यप्रत्यक्षविरोधादौष्ण्यसंभवेऽप्यनुष्णमेवाग्निं साधयेत्, तस्माद्धर्मिविशेषविपर्ययसाधनत्वं हेतोरदूषणमेव । अनुमाने दृष्टान्तनिरूपणम् । उदाहरणं द्विविधं साधर्म्योदाहरणं, वैधर्म्योदाहरणं च । साधर्म्यं लिङ्गमुद्दिश्य लिङ्गेन उपादानं यो यो धीमवान्महानसादिः स सर्वोऽग्निमान् दृष्ट इति, सम्यगुक्ते च साधर्म्येन न वैधर्म्यं वक्तव्यं गतार्थत्वात् । यदा वक्तव्यमापतति तदा लिङ्ग्यभावमुद्दिश्य लिङ्गाभावोपादानं यत्राग्निर्नास्ति तत्र धूमोऽपि नास्ति यथा तोयादिष्विति । यत भावेन भावः साध्यते तत्रैव विधिरूपं साधर्म्यं तत्प्रतिषेधरूपं च वैधर्म्यम् । यत्र तु मेधाभावादिना वृष्ट्याद्यभावः साध्यते तत्र साधर्म्यमेव प्रतिषेधरूपं यथा यदा यत्र मेघोत्पत्तिर्नास्ति तदा तत्र वृष्टिर्नास्तीति । वैधर्म्ये तु विधिरूपं यत्र वृष्टिरस्ति तत्र मेघोत्पत्तिरस्तीति । तेन यद्भिक्षुणोक्तं प्रसज्यप्रतिषेधात्मकमेव इति तदनादरणीयम् ॥*॥ साधर्म्याभासाश्च साध्यविकलत्वादयः, वैधर्म्याभासाश्च साध्याभाववैकल्यादयो वार्तिक एव द्रष्यव्या इति ॥ अनुमाने प्राभाकरानुवादः ॥ तत्तु द्विविधमिति दृष्टस्वलक्षणविषयमेवानुमानमिति मन्वानान्निराकर्तुमदृष्टस्वलक्षणविषयमप्यनुमानं क्रियादिविषयमस्तीति दर्शयितुं द्वैविध्याभिधानम् । नहि क्रिया स्वलक्षणं प्रत्यक्षेण कदाचिद्गृह्यते पूर्वोत्तरदेशसंयोगविभागमात्रस्य प्रत्यक्षेण ग्रहणम्, याभ्यामेवागन्तुकाभ्यामागन्तुकं कारणमनुमीयते, तच्च क्रियेत्युच्यते ॥*॥ ननु द्रव्यमेव कारणं स्यात्, न । तस्य प्रागपि सद्भावात् । ननु क्षणान्तरेऽन्यद्द्रव्यं सर्वसंस्काराणां क्षणिकत्वात्, सादृश्यात्तु प्रत्यभिज्ञानम् । तद्यदा समानदेशे पूर्वपूर्वमुत्तरोत्तरमारभते तदा तिष्ठतीति लक्ष्यते । यदा त्वनन्तरदेशे पूर्वपूर्वमुत्तरोत्तरमरभते तदा गच्छतीति लक्ष्यते । दीपगमनवच्छायागमनवच्च सदृशापरापरक्षणानामुत्तरोत्तरदेशप्रारब्धानां गमनाभासनिमित्तत्वात्कृतं क्रियया । किञ्चानुत्पन्नस्य क्षणस्य क्रियाश्रयत्वायोगात्, उत्पन्नस्य च विनाशग्रस्तत्वात्कथं क्रियारम्भकत्वम् । यथाहुः क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया इति । तदिदं शब्दाधिकरणे निराकरिष्यामः । ततः स्थिरत्वे सति तन्मात्रेणानुपपत्तेः क्रियानुमानं युक्तमिति । न युक्तम् । कार्यं हि कारणमात्रमपेक्षते तच्चेह दृष्टमेवास्ति । प्रयत्नविशेषानन्तरं हि शरीरे देशसंयोगविभागाख्यं फलमुत्पद्यमानमुपलभ्यते ततः स एव निमित्तम् । तद्वदात्मशरीरसंयोगश्चासमवायिशरीरं च समवायीति किमत्रादृष्टकारणानुमानेन ॥ परमुखेन प्राभाकरखण्डनम् । नन्वसमवायिकारणभूतस्य संयोगस्य स्वाश्रये स्वाश्रयसमवेते वा कार्यं नान्यत्र, तन्तुसंयोगानामिव स्वाश्रयेषु तन्तुषु पटः, तन्तुतुरीसंयोगस्य वा पटतुरीयसंयोगः । प्रयत्नवदात्मसंयोगस्त्वनेवंविधे व्योम्नि कथं संयोगमारभते । अतः कारणान्तरं कल्पनीयमितिचेत् । न । तन्तुसंयोगान्नोदनाख्याद्युगपदेव पटस्य बहुतन्तुव्यापितत्वात्, संयोगानां च द्वयोर्द्वयोरेव वृत्तेः । किञ्च शरज्यासंयोगान्नोदनाख्याद्युगपदेव शरे शरावयवेषु च सर्वेष्वन्तर्बहिर्विर्तिषु बहूनिकर्माण्युत्पद्यते, तत्र येषामवयवानां ज्योसंयोगो नास्ति तेष्वाश्रयेषु स्वाश्रयासमवेतेषु च ज्यासंयोगः कर्मारभत इति व्यभिचारः । नहि ते संयोगाश्रयीभूते शरे समवेताः शरस्यैव तेषु समवायात् ॥*॥ किं च प्रयत्नवगात्मसंयोगानन्तरं युगपदेव हस्ते प्रयत्नवदात्मसंयुक्ते तत्संयुक्तेचाङ्गदेऽअङ्गुलीयके च तल्लग्ने मणौ च कर्मोत्पद्यते, अथैवमादिषु न चोदनात्न प्रयत्नवदात्मसंयोगाच्च तदनन्तरे । तथात्मसंयोगाद्धस्ते, तत्संयोगादङ्गदे, तत्संयोगान्मणावपीति । एवं तर्ह्यत्रापि शक्यते वक्तुम् । प्रयत्नवदात्मसंयुक्तशरीराकाशसंयोगाच्छरीराकाशदेशविभागस्तत्संयोगाच्च तदनन्तरदेशसंयोग इति दृष्टेनैव संयोगेन संयोगविभागसिद्धेर्न कर्मकल्पनावकल्पते ॥*॥ किञ्च न संयोगस्यैवायं धर्मः, सर्वाण्येवासमवायिकारणानि स्वाश्रये स्वाश्रयमवेते वा कार्यमारभते नान्यत्र । ततश्च कर्माप्यसमवायिकारणत्वेनानुमीयमानं वियति विहङ्गमे चोभयत्रानुमीयेत । न हि विहगकर्मणा वियति कार्यं संभवति, ततश्च वियत्यपि चलतीति बुद्धिः स्यात्, अतो नानुमेयं कर्म । किमिदानीं नास्त्येव क्रियातत्वम् । अस्ति प्रत्यक्षावगमात् ॥*॥ ननु संयोगविभागागिरिक्तं न किञ्चिदत्र । दृश्यते हि सर्पति सर्पे भूमेः सर्पस्य च द्वयोर्मिथः संयोगविभागाविशेषेऽपि सर्पमेव चलतीति बुद्धिरालम्बतेल न भूमिम् । अतोऽस्या बुद्धेरालम्बनमस्ति सर्पे चलनं नाम तत्वम् । तद्भावाभावाभ्यां सर्पभूम्योश्चलतीति बुद्धेर्भावावित्यङ्गीकार्यम् । नचेयमानुमानिकी संभवतीत्युक्तम्, तस्मान्नैवमभिप्रायमिदं भाष्यं, किन्तु विशेषविषयं सामान्यविषयं सिद्धसाध्यता इति, तेऽनेन निराक्रियन्ते । उभयोरपि विशेषत्वोपपत्तेः । यत्र विशेषस्यैवानुगमस्तत्र विशेषविषयत्वं, सामान्यानुगमेतु सामान्यविषयत्वम् । न च सिद्धसाध्यत्वं देशान्तरकालान्तरसेबन्धस्यागृहीतस्य ग्रहणादिति प्रागेव वर्णितमित्यनुमानवादः । शास्त्रं शब्दविज्ञानादसंनिकृष्टेर्ऽथे तच्छाब्दं नाम प्रमाणम् । तल्लोकसिद्धत्वान्न परीक्षितव्यम् । तच्च द्वविधं पौरुषेयमपौरुषेयं चेति । तत्र पौरुषेयमाप्तवाक्यम् । अपौरुषेयं च वेदवाक्यम् । उभयमप्यनाप्तप्रणीतत्वदोषविरहात्स्वतश्च शब्दस्यादुष्टत्वात्प्रमाणम् । तच्च पुनर्द्विविधं सिद्धार्थे विधायकञ्चेति द्विविधमुपदेशकमतिदेशकं च । इत्थमिदं कर्तव्यमित्युपदेशः । यथा लोके दधिघृतसूपशाल्यादिभिर्देवदत्तो भोजयितव्या इति । वेदेपि प्रयाजावघातादिप्रकारेण दर्शपूर्णमासाभ्यां स्वर्गं कुर्यादिति तद्वदिदं कर्तव्यमित्यतिदेशः । यथा लोके देवदत्तवद्ययज्ञदत्तो भोजयितव्या इति । वेदेपि सौर्येण कुर्याद्यथाग्नेयेनेति । शब्दान्तरादिभिः श्रुतिलिङ्गादिभिः श्रुत्यर्थादिभिश्च विचित्रोऽयमुपदेशो भेदविनियोगक्रमानवबोधयति । वचनानामधेयचोदनालिङ्गैश्चातिदेशोषऽन्यत्र विहितस्यनानापदार्थविशष्टस्य प्रकारस्य तत्प्रतिपादकस्य वा शास्त्रस्य विध्यन्तापरनामधेयस्यान्तेन संबन्धं विकारं बाधं वा बोधयतीत्यूहनीयम् । असंनिकृष्टग्रहणं च पूर्ववत्ताद्द्रूप्यपर्ययपरिच्छेदनिरासार्थमा । एतदेशिनां तु तदनर्थकमेव स्यात् । विपरीतपरिच्छिन्ने तावन्नास्त्येव शब्दाज्ज्ञानम् । यदि स्यात्पुरुषदोषाणां शब्दे संक्रान्त्यनभ्युपगमात्स्वाभाविकमेव शब्दस्याप्रामाण्यं स्यादिति वेदाप्रामाण्यं स्यात् । यदि परं तद्रूपपरिच्छिन्नविषयस्यानुवादस्य निरासः स्यात् । तच्चायुक्तम् । तस्यापि शास्त्रत्वात् । नहि तस्याप्यप्रामाण्यम् । अनुभूतित्वात् । प्रत्यक्षाद्यन्तर्भावाभावाच्च शास्त्रत्वमेवेत्यास्तां तावत् ॥ औलुक्यमतानुवादः । इदं च अस्येदं कारणं संबध्येकार्थसमवायिविरोधि चेति लैङ्गिकमित्युनुमानलक्षणमभिधाय एतेनैव शाब्दं व्याख्यातमिति काश्यपीयाः प्रत्यक्षानुमानं च द्वे एव प्रमाणे इति ब्रुवाणः सौगताश्चानुमानादभिन्नमिति मन्यन्ते । तत्र यत्तावत्पदार्थज्ञानं तदवगतार्थविषयत्वात्प्रमाणमेव न भवतीति किं तस्य भेदाभेदपरीक्षया । यत्तु वाक्यार्थज्ञानं तदगृहीतसंबन्धैरेव पदार्थैरुपजायमानं नानुमानशङ्कामर्हति । नहि सर्वैर्वाक्यार्थविशेषैः संबन्धग्रहणमस्ति । नच संभवत्यनन्तैः संबन्धग्रहणम् । अत्यन्तापूर्वोऽपि वाक्यार्थविशेषः पदार्थैरवगम्यते दूरदेशवार्तास्विति सर्वजनीनमेतत् । यत्त्वाप्तवाक्यत्वादविसंवादानुमानं तद्वाक्यार्थावगमोत्तरकालत्वान्न तस्यानुमानत्वमापादयति । वाक्यश्रवणानन्तरमेव ह्याप्तानाप्रज्ञानानपेक्षैरेव पदार्थैर्वाक्यार्थोऽवगम्यते । अत्यान्तादृष्टपुरुषप्रणीतेऽपि वाक्येऽवगते तु वाक्यार्थे सत्यासत्यत्वसंशये प्रणेतुराप्तत्वावगमे सति सत्यत्वमनुमीयमानं न वाक्यार्थावगतेराप्तत्वावधारणानपेक्षजन्मनोऽनुमानत्वमापादयति । तस्मात्प्रमाणान्तरमेव लोके शाब्दमित्यपौरुषेयस्यापि वेदस्य सिद्धं प्रामाण्यम् । एकदेशिनां तु लोकवचसामनुमानत्वमङ्गीकुर्वतां यथा वेदप्रामाण्यं न सिद्ध्यतितथोक्तम् । इति शब्दप्रमाणवादः । अथोपमानपरिच्छेदः । उपमानमपि सादृश्यमसंनिकृष्टेर्ऽथे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्य पूर्वदृष्टे स्मर्यमाणेर्ऽथे दृश्यमानार्थसादृश्यज्ञानमुपमानम् । या सावस्माभिर्नगरे दृष्ट्वा गौः सानेन गमयेन सदृशीति । किं पुनः सादृश्यम् । अर्थान्तरयोगिभिः संबन्धिसामान्यैरर्थान्तरस्य तादृशयोगः सादृश्यम् । यथा गोजातियोगिभिः कर्माद्यवयवसामान्यैर्गवयजातेर्योगो गवयस्य गोसादृश्यं गवयसंयोगिभिश्च गोर्योगस्तत्सादृश्यम् । अत एव च सामान्ययोगातिरिक्तमन्यदेव तत्वं सादृश्यं तेषां प्रकर्षाप्रकर्षभेदः किंनिमित्त इति चिन्तनीयम् । न च तत्त्वान्तरत्वे प्रमाणमपि किञ्चिदस्तीत्यास्तां तावत् । नचेदमुपमानं प्रत्यक्षान्तर्गतम् । अनिन्द्रियसंनिकृष्टत्वान्नगरस्थस्य गोः । नचानुमानमगृहीतसंबन्धस्याप्युपजायमानत्वात् । एवं किलानुमीयेत गौर्गवयसदृशो गवयसादृश्यप्रतियोगि तत्तत्सदृशं दृष्टं युगपन्न दृष्टवानेकमेव तु गामुपलभ्य नगरे वने गवयं पश्यति सोऽपि गां गवयसादृश्यविशिष्टामुपमिनोत्येव तस्मान्नानुमानम् । शाब्दत्वं तु न शङ्क्यमेव । अतः प्रमाणान्तरम्, प्रसिद्धत्वाच्च न परीक्षितव्यम् । इत्युपमानवादः ॥ अर्थापत्तिनिरूपणम् । अर्थापत्तिरिति दृष्टः वार्ऽथोऽन्यथा नोपपद्यत इत्यर्थकल्पना । यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना । प्रमितस्यार्थान्तरेण विनानुपपन्नादुपपादकल्पना सा अर्थापत्तिः, अनुमानमेव तर्हि, तत्रापि वह्निमन्तरेणानुपपन्नाद्धूमाह्निः कल्प्यते । स्यादेवम् । यद्यनुपपन्नं गमकं स्यात् । इह तु यन्नोपपद्यते तदेव गम्यम् । गृहाभावेन हि विनाबहिर्भावो नोपपद्यते । किमिदानीमुपपादकादनुपपन्ने बुद्धिरर्थापत्तिः । को दोषः । न खलु कश्चिद्दोषः । किं त्वसौ नैवास्ति । न ह्युपपादकदर्शनादनुपपन्नार्थे बुद्धिर्भवति । यदि स्यात्, वृक्षत्वदर्शनाच्छिंशपात्वं कल्प्येत । वृक्षत्वेन विना शिंशपात्वस्यानुपपत्तेः । तस्मादनुपपन्नमेव गमकं नोपपादकम् ॥*॥ अथोच्यते । नाविनाभावेनानुपपत्तिरित्युच्यते किं तु संशयापत्तिः । यस्य हि जीवनं गृहसंबन्ध्येव प्रायशोऽवगतं तस्य गृहाभावे दृष्टे जीवनं सांशयिकं भवद्बहिर्भावकल्पनया समाधीयते । ततश्च प्राग्बहिर्भावकल्पनाया जीवनस्य संदिग्धत्वान्न लिङ्गत्वम् । न हि सन्दिग्धं लिङ्गं भवति । जीवनरहितञ्च गृहाभावमात्रं मृतेऽपि सद्भावादनैकान्तिकं न बहिर्भावमनुमापयितुमलम् । अतोऽनुमानासंभवात्प्रमाणान्तरमेवेदम् । यथा चानुमाने निश्चितं गमकम् । एवमर्थापत्तौ सन्दिग्धं गमकमिति दर्शनहलादभ्युपगम्यते । संशयश्चात्र पूर्वदृष्टरूपविसंवादात् ॥ अर्थापत्तिसमाधानम् । तदिदमसंबद्धम् । न हि संदिग्धे जीवने बहिर्भावः शक्यते कल्पयितुम् । कथं हि जीवति वा मृतो देवदत्तः इति संदिहानस्तस्य बहिर्भावं कल्पयेत् । न हि भावाभावसंशयस्य बहिर्भावकल्पनयापनोदः संभवति । सर्वत्र हि संशयस्य निदानोच्छेदादुच्छेदो भवति । अन्यतरपक्षावधारणाद्वा । न च बहिर्भावकल्पनया तावन्निदानोच्छेदः । जीवनस्य प्रायेण गृहसंबन्धित्वात्तद्विपर्ययोऽत्र संशयहेतुत्वेनोपन्यस्तः । नचासौ बहिर्भावे कल्पिते समुच्छिद्यते । प्रत्युत विपर्यय एव दृढमवस्थाप्यते । नचान्यतरपक्षावधारणमपि विद्यते जीवनभावाभावौ ह्यत्र संदिह्यते । नचानयोरन्यतरस्यापि बहिर्भावकल्पनया निर्णयो भवति । अन्यद्धि जीवनमन्यश्च बहिर्देशसंबन्धः । नच गृहाभावनिबन्धनार्थापत्तिर्जीवननिर्णयायालं भवति । नह्येवं संभवति यस्माद्देवदत्तो गृहे नास्ति तस्माज्जीवतीति, प्रत्युत पूर्वनिश्चितमेव जीवनं गृहाभावादेव संदिग्धं कथं तत एव निर्णीयते । न हि संशयहेतुरेव निर्णयहेतुर्भवति । तस्माज्जीवनं संदिग्धं तत्तावदन्यतो निश्चित्य पश्चाद्बहिःसंबन्धः कल्पयितव्यः । यस्माद्देवदत्तो जीवति गृहे च नास्ति तस्मान्नूनं बहिरवस्थित इति । न तु संदिह्यमाने जीवने तत्कल्पनं संभवति । यस्मादविद्यमानो गृहे जीवति वा नवा तस्माद्बहिः स्थित इत्यसंबद्धमेव स्यात् । तस्माद्बहिर्भावनियतं गृहाभावसहितं जीवनं निश्चित्य बहिर्भावः कल्प्यत इत्यनुमानमेवेदं न प्रमाणान्तरमिति ॥ सिद्धान्तेन तर्कमतनिराकरणम् । अत्राभिधीयते न तावद्गृहाभावमात्रं लिङ्गं मृतेऽपि संभवात् । न जीवनमात्रं गृहेऽपि सद्भावात् । अतो जीवनसंसृष्टो गृहाभावो लिङ्गमिति वक्तव्यम् । प्रथमं च लिङ्गमवगम्य पश्चाल्लिङ्ग्यनुमानेन भवितव्यम् । न तु लिङ्गावगमसमय एव लिङ्ग्यवगमः । अत्र च न बहिर्भावावगममन्तरेण गृहाभावो जीवनं च संसृष्टं प्रत्येतुं शक्यते विरोधात् । जीवता ह्यवश्यं गृहे वा बहिर्वा स्थातव्यमित्यसंदिग्धम् । अतश्च बहिर्भावमनन्तर्भाव्य जीवनगृहाभावौ समुच्चित्य प्रतिपद्यमानस्येदृशी प्रतिपत्तिरापद्यते देवदत्तो गृहेऽनवस्थितो गृहे वा बहिर्वावस्थित इति । नचैवं संभवति भावाभावयोरेकत्र देशे समुच्चेतमशक्यत्वात् । अतोऽवश्यं देशभेदेनैव देवदत्तस्य भावाभावौ समुच्चेतव्यौ । तेन भावाभावसंसर्गबुद्ध्यैव बहुर्भावस्य बुद्धत्वान्न पश्चात्किञ्चित्प्रमेयमस्ति । आह च विद्यमानत्वसंसृष्टगेहाभावधियानया ॥ गेहादुत्कालिता सत्ता बहिरेवावतिष्ठते इति । ननु प्रमाणान्तरत्वेपि जीवनमात्रस्य गृहाभावमात्रस्य वावगमकत्वाभावात्संसृष्टमुभयं गमकमित्यङ्गीकर्तव्यम् । संसृष्टधियैव च बहिर्भावस्य बुद्धत्वान्न पश्चात्किञ्चुत्प्रमेयमवशिष्यत इति तुल्योऽयं दोषः । उच्यते इयमेव संसृष्टधीरर्थापत्तिरित्यवगम्य शाम्यतु भवान् किं पुनस्तस्याः कारणम् । द्वयोर्गृहाभावदजीवनयोः परस्परप्रतिघात इति ब्रूमः । यथा खल्वेकेन नद्यास्तीरे फलानि सन्तीत्युक्ते परेण च न सन्तीत्युक्ते परेण न सन्तीत्युक्ते बलाबलविशेषमजानानः श्रोता मिथः प्रतिहतमुभयं बुद्ध्यते । नचान्यतरदपि त्युक्तुं गृहीतुं वा शक्नोति । तथापि तु न सत्वासत्वे समुच्चिनोति विरोधात् । एवमिहापि गृहे वा बहिर्वावस्थितो देवदत्त इति केनचित्प्रमाणेन प्रतीतम् । अन्येन च गृहे नास्तीति तदुभयं समुच्चितं परस्परप्रतिघाति प्रतीयते सोऽयं प्रतिघातो न फलसद्भाववदसमाधेयः किन्तु बहिर्भावकल्पनया समाधातुं शक्यत इत्येतावान्विशेषः । तेन प्रमाणसिद्धयोर्द्वयोरर्थयोः परस्परं प्रतिघातोर्ऽथान्तरकल्पनया समाधेयत्वेनालोच्यमानोर्ऽथापत्तेः कारणम् । तत्समाधानाय चार्थान्तरकल्पनार्थापत्तिः प्रमाणान्तरमनुमानात् । यश्चायं प्रतीतस्य प्रमाणान्तरेण प्रतिघातः स एवार्थानुपपत्तिरित्युच्यते ॥ अर्थापत्तावनुमानस्यान्तर्भावशङ्का । भवत्वर्थापत्तिः प्रमाणमनुमानं त्वर्थापत्तावेवान्तर्भवति । तथाहि यत्र यत्र धूमस्तत्रतत्राग्निरित्यवगतम् । पर्वतस्य च धूमवत्तावगता । यदि पर्वतेऽग्निर्न स्यात्तदी धूमवत्ता वा मिथ्या स्यात् । सर्वधूमवतां वागिमत्त्वं मिथ्या स्यात्कथं तदुभयमप्यमिथ्या स्यादित्यग्निमत्वं कल्प्यत इत्यर्थापत्तिरेषा । स्यादेवं यदि सर्वधूमवतामग्निमत्त्वमनुमानादन्येनावगतं स्यात् । नत्वेवमस्ति । दृष्टान्तधर्मिष्वेव हि धूमस्याग्निनियमोऽवगतो न सर्वत्र । अनुमानस्तु सर्वधूमवतामग्निमत्तावगतिरित्युक्तम् । न च दृष्टान्तधर्मिष्वेवावगतस्याग्निनियमस्य सर्वधूमवदग्निमत्तां विना कश्चिद्विरोधो येनार्थापत्तिः स्यात् । तस्मादसंकीर्णविषयत्वादनुमानेनावगतं तस्य पर्वतादिषु धूमदर्शनाद्यदाग्निविज्ञानं तदद्द्वेधापि संभवति दृष्टान्तपरिदृष्टनियमस्मरणाद्वानुमानम् । प्रतिघातलोचनयावार्थापत्तिः । तस्मादर्थापत्तिः प्रमाणान्तरम् । यापि क्वचिदवस्थितस्य देवदत्तस्यान्यत्र सर्वत्राभावप्रतिपत्तिः साप्यर्थापत्तिः । तथाहि मूर्तस्यार्थस्य युगपत्कार्स्न्येनानेकदेशसंबन्धो न घटत इति स्वशरीरेऽवगतम् । स्वशरीरस्य हि क्वचिदवस्थितस्य ततोऽन्यत्र सर्वत्राभावो दृश्यादर्शनेनावगतः, अतोऽन्यस्यापि देवदत्तादेर्युगुपदनेकदेशसंबन्धो नास्तीत्यनुमीयते । ततो देवदत्तं क्वचित्प्रत्यक्षेणावगच्छन्युगपदनेकदेशासंबन्धं चानुमानेनावधारयन्नुभयोपपत्तये देशान्तरेषु सर्वेष्वभावं कल्पयति । नन्वनुमानमेवेदं संभवति देवदत्तोऽधुना सर्वत्र नास्ति गृहेऽवस्थितत्वान्मद्वदिति । सत्यम् । देवदत्तेन सहैकदेशावस्थितस्य संभवति, यस्तु क्वचिद्गृहेऽवस्थितस्तदनन्तरं गृहमप्यतीत्य तृतीये गृहे देवदत्तं केनचित्प्रमाणेनावगतवान् स तद्गृहातिरिक्ते मध्यगृहे देशान्तरेषु च सर्वेष्वभावं देवदत्तस्य केन लिङ्गेन प्रतीयात् । अथ क्वचिद्देवदत्तं पश्यन् तद्देशव्यतिरिक्ते च प्रत्यासन्ने देशे तदभावमवगच्छन्नन्येषामपि सर्वदेशानां प्रत्यासन्नदेवदत्तद्देशव्यतिरिक्तत्वात्तच्छून्यतामनुमिमीते । तत्रापि विरुद्धाव्यभिचारित्वं तद्वदेव हि गम्यते । समीपदेशभिन्नत्वाच्चैत्राधिष्ठितदेशवत् । इति वार्तिक एव दूषणमुक्तं तस्मादर्थापत्तिरेवेयम् । एतेन बीजादिष्वङ्कुरजननशक्तिकल्पना व्याख्याता ॥ ८० ॥ किं पुनः शक्तिकल्पनां विना नोपपद्यते बीजादिषु सत्स्वङ्गुराद्युपपत्तिदर्शनातसत्सु चादर्शनात् । बीजादीनामङ्कुरादिकारणत्वमवगम्यते । सत्स्वपि बीजेषु मूषिकाघ्रातेष्वङ्कुरानुत्पत्तेरकारणत्वं प्रतिभासते । सोऽयं कारणत्वाकारणत्वयोर्विरोधः शक्तिकल्पनया समाधीयते नूनमस्त्यतीन्द्रियमपि रूपं यद्भावात्कदाचिदङ्कुरोत्पत्तिः यस्य च मूषिकाऽघ्राणेन नाशात्कदाचिदनुत्पत्तिरिति कल्प्यते घ्राणाभावोऽप्यङ्कुरस्य कारणम् । घ्राणो च सति तदभावादेवानुत्पत्त्युपपत्तेरलं शक्तिकल्पनयेति चेत् । न । घ्राणक्रियायाः क्षणिकत्वादुत्तरकालं तदभावे सत्यप्यङ्कुरानुत्पत्तेः । प्रागभावः कारणं न प्रध्वंसाभाव इति चेत् । न । अभावत्वाविशेषात् । न हि प्रागभावप्रध्वंसाभावयोः प्रागूर्ध्वकालभेदं मुक्त्वा किञ्चिदपि रूपवैलक्षण्यमस्ति, नचाविलक्षणे कारणे कार्यवैलक्षण्यं संभवति । प्रागभावस्य प्रध्वंसाभावाद्विलक्षणमस्ति रूपमिति चेत्कल्प्यमेवं सति किञ्चित् । तच्चाभावे कल्प्यतां बीजस्वरूपे वेति बीजस्य साक्षादङ्कुकारणत्वात्तत्रैव कल्पयितुं युक्तम् । एवं यागादेरपूर्वस्वर्गादिसाधनशक्तिकल्पनमूहनीयम् । कथं पुनः शक्तिमति यागे विनष्टे निराधारा शक्तिरवतिष्ठते, न निराधारा भविष्यति । आत्माधारत्वात् । कथमन्यशक्तिरन्यत्र स्यात्तथावगमात् । नावश्यं स्वाश्रयैव शक्तिरिति नियमोऽस्ति, सा हि कार्यतः कल्प्यमाना यत्रैव कार्याय कल्पते तद्गतैव कल्प्या । साचेयंपूर्वाख्यातिर्यागाश्रया सती यागविनाशान्न स्वर्गनिष्पत्तये पर्याप्तयादित्यात्माश्रया कल्प्यते । यथाह शक्तिः कार्यानुमेयत्वाद्यद्गतैवोपयुज्यते ॥ तत्रैव साभ्युपेतव्या स्वाश्रयान्याश्रयापि वेति ॥ कथमात्माश्रया सती यागशक्तिरिति व्यपदिश्यते । तस्य हि फलसाधनत्वमुपपापादयितुं सा कल्प्यते तावता तच्छक्तित्वम् । लोकेऽपि प्रसिद्धमेतत्तैलपानसामर्थ्याच्चिरवृत्तेऽपि तस्मिन्बलपुष्ट्यादिकमद्य मे जातमिति लौकिका व्यवहरन्ति तस्मादनवद्यम् ॥ दृष्चग्रहणेनैव प्रतीतिमात्रग्रहाच्छौतस्यापि ग्रहणे सिद्धे श्रुतार्थापत्तेः प्रमाणग्राहिणीत्वेन दृष्टार्थापत्तितो वैलक्षण्यमुपपादयितुं श्रुतग्रहणण् । तथाहि लोके तावत्द्वारं द्वारमित्यादिषु संपूर्णार्थप्रतिपादनाय संव्रियतामित्यादिशब्दान्तरं श्रुतशब्दैकवाक्थत्वेन कल्प्यते ॥*॥ तथा वेदेऽपि विश्वजिता याजेतेत्यत्र स्वर्गकाम इति वा स्वर्गार्थमिति वा येनैव शब्देन श्रुतिशब्दैकवाक्यभूतेन परिपूर्णार्थाभिधानं संपद्यते तदेव हृदयमानीय श्रुतेन सह मेलयित्वा परिपूरणाद्वाक्याद्वाक्यार्थः प्रतीयते, यथा सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकामः इत्यादिषु विधिष्वितिकर्तव्यताप्रतिपादकशब्दाश्रवणादपूर्णेषु तत्प्रतिपादकशब्दानपेक्षया चोदनालिङ्गोपस्थापितस्याग्नेयविधेख्यंशस्य साध्यसाधनांशप्रतिपादकभागावनपेक्षितत्वादनादृत्य यस्तृतीयोंऽश इत्थंभावोऽग्न्यत्वाधानादिर्विध्यन्तत्वेन परिकल्पितस्तस्य दिवच्छब्देन कल्पितेन, किन्तु य एवायमाग्नेयविध्यन्तस्तस्यैव व्यवहितस्यापि चोदनालिङ्गबलोपस्थापितस्य विकृतिविधिना सहैकवाक्यतामात्रमर्थापत्त्या कल्प्यते । नह्ययमनुषङ्गो येन व्यवहितस्य न स्यादिति । अतिदेशस्त्वयं व्यवहितस्यापि कथञ्चिदुपस्थानादुपपन्न एव । तथा च वक्ष्यति विध्यंन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेति विध्यन्त इति प्रधानविधिवर्जितं समस्तमेव पौरोडाशिकं काण्डमभिधीयत इति भाष्यकारः ॥ नन्वेवं शास्त्रातिदेशाङ्गीकरणे दशमाद्यविरोधः स्यात्, ऊहबाधयोश्चासिद्धिः । भवेदेवं यदि यथाश्रुतरूपमेव व्रीहिनवहन्तीति वाक्यं विकृतिं नीत्वा तस्य यथासंभवं विकृतिविधिना सहैकवाक्यता परिकल्प्येत । यदि तथा क्रियते तत्र कृष्णलचरौ व्रीहिशब्दस्य हविर्लणार्थत्वायोगादवधातस्य बाधः स्यात् । एवं नीवारादिष्वपि व्रीहय एवावहन्तव्याः इति न नीवारादिष्ववहन्तिरूह्येत । नत्वेवमस्माभिरुच्यते किन्तु प्रकृतौ प्रधानेन सहैकवाक्यतयावगतस्यास्य यावन्परिकरो तादृगतिदिश्यते प्रकृतौ हविष्ट्वात्, तल्लक्षणार्थो, अवघातस्य च तेषु दृष्टं प्रयोजनं तुषविमोचनं संभवतीति तद्द्वारेणास्य प्रधानैकवाक्यता । ततश्च अवघातवितुषीकृतैर्व्रीहिभिः पुरोडाशं कृत्वा तेन यजेतेतीदृशः प्रकृतिविधिः, तस्य साक्षादवघातो विशेषणम्, अवघातविशेषितवितुषीकरणविशिष्टं हि हविर्यागस्य विशेषणं प्रकृतौ, अतस्तदेव विकृतावाकृष्यते । कृष्णलयागे च कृष्णलशब्दस्य हविर्वाचिनः प्रत्यक्षश्रवणात्तद्विरोधात्पुरोडाशशब्दो निवर्तते, तन्निवृत्त्या च व्रीहीणामपि निवृत्तिः । न हि ते कृष्णलानां प्रकृतित्वेन संभवन्ति । वितुषीकरणशब्दोऽपि यो द्वारप्रतिपादकः सोऽपि कृष्णलेषु तदसंभवादनिवृत्तोऽवघात इत्यूहस्यापि सिद्धिः । दशमाद्ये च यावच्छ्रुतानामङ्गशास्त्राणामतिदेशमाशङ्क्या प्रकृत्यन्वितानां तेन रूपेणातिदेशः । नार्थमात्रेण इत्यलमतिप्रसङ्गेन ॥*॥ नन्वर्थमेवाध्याहृत्य वाक्यं पूर्यतां किं शब्दकल्पनया । नार्थमात्रेण पूरणं संभवति, एकवाक्यभूतपदद्वयप्रतिपादिता हि पदार्था वाक्यार्थं प्रतिपादयन्ति नान्यथा । न हि आनय इत्येतावत्युक्ते गामित्यनुक्ते प्रत्यक्षप्रतिपन्नेऽपि गवि गवा सहानयनमन्वीयते । एवं च विकृतिषु सौर्यादिष्वसमवेतार्थाग्र्यादिपदनिवृत्तेर्न्यूनसाकाङ्क्षमन्त्रवाक्यपूरणाय सूर्यादिपदाप्रक्षेपादूहसिद्धिः ॥ अर्थाध्याहारपक्षखण्डनम् ॥ अर्थाध्याहारवादिनां तु सूर्यार्थेनाध्याहृतेन विशिष्टं निर्वपामिपदमेव प्रकाशयतीति नोहः सिध्येत् । तथा यत्राधिकारवाक्येर्ऽथवादमात्रं श्रुतं प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीति तत्रापि भवन्मते विध्यर्थमेवाध्याहार्यो न विधिशब्दः, ततश्च प्राकृतस्योपकारस्य पदार्थानां च नापूर्वैदमर्थ्यं सिध्येत् । सत्स्वपि ह्यर्थानामाकाङ्क्षासंनिधियोग्यत्वेषु नाभिधानमन्तरेणान्वयसिद्धिः । नचेहापूर्वाभिधायी शब्दोऽस्ति योऽपूर्वं प्राकृतैरन्वितस्तेषामन्वयः नाप्युत्पत्त्यपूर्वेणान्वय एव स्यात् ॥*॥ एवं प्रकृतावपि सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ इत्यत्र विधिशब्दस्यानाम्नानादनध्याहाराच्च विध्यर्थस्यैव स्वर्गकामाधिकारापूर्वादाग्नेयाद्युत्पत्त्यपूर्वेभ्यश्च पृथग्भूतस्याध्याहारान्न समिदादीनामैदमर्थ्यं सिध्येत् । न हि समिदादियजतयोऽवघातादिवदधिकारापूर्वान्वितं स्वार्थामभिधातुमलं स्वापूर्वविषयत्वव्याघातात् । तस्मादीदृदृशेष्वधिकारविधिषु विधिशब्द एवाध्याहार्यो नार्थः ॥*॥ कथं च विध्यर्थस्यात्यन्तालौकिकतया प्रमाणेन तदाभासेन वा बुद्धावारोपयितुमशक्यत्वेनाभिमतस्य बुद्धिसंनिधानत्मकोऽध्याहारोऽश्रुतविधिशब्दकेष्वधिकारवाक्येषु वा उत्पत्तिवाक्येषु यदाग्नेयोऽकपालोऽमावास्यायामित्यादिषु वा शक्यते, इत्यकामेनापि शब्दाध्याहारोऽङ्गीकर्तव्य इत्यास्तां तावत् ॥ इत्यर्थापत्तिवादः ॥ अभाव(अनुपलब्धि) परिच्छेदः । अभावोऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्यासंनिकृष्टस्येति । कथं पुनः प्रमाणाभावः प्रमाणलक्षणं विपरीतत्वात् । पूर्वोक्तसदुपलम्भकप्रत्यक्षादिप्रमाणपञ्चकाभिप्रायोऽयं प्रमाणशब्दः । तदभावश्च षष्ठस्य लक्षणमिति नानुपपत्तिः । किमस्य प्रमेयम् । उक्तं नास्तीत्यर्थस्य इति । सर्वं हि वस्तु सदसदात्मना द्वविधं, तद्यदा यत्र सद्रूपेण बोधकानां प्रत्यक्षादीनां सद्रूपबोधनायोत्पत्तुं योग्यत्वे सत्यपि योऽनुत्पादोद्दश्यादर्शनयोग्यनुपलम्भादिपर्यायो भाष्ये प्रमाणाभावशब्देनोक्तस्येनैवेन्द्रियशब्दादिस्थानीयेन नास्तीति प्रतीयते भूतलेऽत्र घटो नास्तीति ॥*॥ यस्तु नास्तित्वमपह्नुत्य प्रमेयाभावात्षष्ठं प्रमाणं नास्तीत्याह तस्य दृश्यादर्शनानन्तरं नास्तीह भूतले घट इत्येवमुपजायमानस्य ज्ञानस्य किमालम्बनम् । न भूतलम् । सत्यपि घटे प्रसङ्गात् । तथा गवि योऽश्वो न भवतीति प्रत्ययो रूपे च रसो न भवतीति तस्य किमालम्बनम् । न गोरूपम् । तस्य प्रतियोग्यनपेक्षप्रतीतिकत्वात् । अश्वो न भवतीति ज्ञानस्य प्रतियोग्यपेक्षत्वात् । गोरूपालम्बनत्वे सिंहादावश्वोऽयं न भवतीति प्रत्ययो न स्यात्गोरूपस्य तत्राभावात् ॥*॥ अथ योऽश्वाद्भेदो गवादिष्वनुस्यूतः सोऽस्यालम्बनमित्युच्यते । कोऽयं भेदो नाम, यदीतरेतराभावः समाश्रितस्तर्ह्यभावः । अथ पृथक्त्वं नाम गुणविशेषो भेद इत्युच्यते, ततस्तस्य द्रव्यगतत्वाद्गुणेषु रूपादिषुऽरसो न भवति रूपंऽऽरूपं न भवति रसःऽ इतीतरेतराभावप्रत्ययो न स्यात् ॥ प्रभाकरमतखण्डनम् । यस्तु वैयात्यात्भूतलप्रतीतिव्यतिरेकेण घटो नास्तीत्येवंविधा घटो नास्तीत्येवंविधा प्रतीतिरेव नास्ति इति वदति, स भूतलादिप्रतीतिमप्यपह्नुवीत, अविशेषात्, घटोऽत्र भूतले नास्तीति व्यवहारस्य किं कारणं, दृश्ये घटे यद्भूतलमात्रविषयं ज्ञानं तदस्य कारणमितिचेत्, तथासति पटवद्भूतलोपलम्भे घटो नास्तीति व्यवहारो न स्यात् । भूतलमात्रोपलम्भाभावात् । घटविविक्तभूतलोपलम्भ इति चेत्, कोऽयं घटविवेकः, यदि भूतलरूपमेव, घटवत्यपि प्रसङ्गः । घटसंयोगाभावश्चेत्, अङ्गीकृतस्तर्ह्यभावः ॥*॥ स्यान्मतम्, यदभाववादिनोऽभावज्ञानस्य कारणं तदेवास्माकं व्यवहारकारणं भवत्विति । नैवं वक्तुं शक्यम् । मम हि दृश्यादर्शनमभावज्ञानकारणम्, अदर्शनं च दर्शनाभावो नचासौ भवताङ्गीकृतः, अभावाभ्युपगमप्रसङ्गात् । प्रमाणाभावाङ्गीकारे वा किमपराद्धं प्रमेयाभावेन ॥*॥ ननु प्रथमं प्रत्यक्षेण भूतलं गृहीत्वा पश्चादभावो बोद्धव्यस्तत्राभावत्रानात्प्राक्यादृशं भूतलज्ञानं तादृशादेव व्यवहारो भवतु । तदिदमुक्तोत्तरम्, तथाहि यस्यामवस्थायां भूतलस्वरूपज्ञानं घटतदभावयोश्चाज्ञानं ज्ञानाभावस्तेन घटतदभावज्ञानशून्यं भूतलज्ञानं तस्यामवस्थायामस्माभिरुपेयते तदेव भूतलमात्रवेदनमित्युच्यते ॥*॥ स्वरूपमात्रं दृष्ट्वाचेत्यादिषु मात्रशब्देन हि घटतदभाववेदनयोरभाव उच्यते, भूतलमात्रं ज्ञायते न घटस्तदभावो वेत्यर्थः । तेन यदि भवानपि घटादिज्ञानाभावयुक्तं भूतलज्ञानमङ्गीकुर्यात्ततो ज्ञानाभावाङ्गीकर्तव्य इत्युक्तमेव । तेन नैवं भ्रमितव्यमभाववादिनापि स्वरूपमात्रं दृष्ट्वा च पश्चात्किञ्चित्स्मरणन्नपीति वदता भावज्ञानातिरेकेण तन्मात्रवेदनमङ्गीकृतम्, तदेव दृश्ये प्रतियोगिनि नास्तीति व्यवहारकारणत्वान्नास्तीति शब्दस्यार्थाभावाद्भूतलवेदनमेव कारणमिति वक्तव्यम् । ततश्च घटवत्यपि प्रसङ्ग इति स्थितं दूषणम् ॥*॥ अथ भावे देशान्तरस्थे देशान्तरग्रहणं कारणमिति मतं, ततः शाबलेयस्थितं गोत्वं धावलेये नास्तीति व्यवह्रियेत, स्थूणान्तरस्थितश्च वंशः स्थूणान्तरेऽनुस्यूतोऽपि तत्र नास्तीति व्यवहर्तव्यः स्यात्, अतोऽत्राभाव एव नास्तीति व्यवहारकारणम्, नान्यत्र सद्भावः । स्मर्यमाणे घटे भूतलवेदनं नास्तीति व्यवहारकारणमितिचेत् । न । गृह्यमाणस्यापि पार्श्वदेशेष्वभावव्यवहारात् । संप्रत्यानीतस्य च घटस्य गृह्यमाणस्यैव प्रागयमिह नासीतिति प्राक्कालीनाभावव्यवहारात् ॥ प्रभाकरमतानुवादः ॥ ननु भवन्मते प्रमीयमानस्य घटस्य प्राक्कालीनाभावज्ञानं भावप्रमाणभावो ह्यभावज्ञानकारणम् । न च प्रमायमाणोऽपि घटः प्राक्कालसंबन्धितया न प्रमीयते अतः प्राक्कालसंबन्धगोचरप्रमाणानुदयात्तत्कालीनाभावज्ञानं युक्तमेवेति चेत् । न । अयोग्यत्वात् । न हि प्राक्कालसंबन्धोऽधुना प्रमातुं योग्यः, योग्यप्रमाणाभावश्चाभावज्ञानकारणं न प्रमाणाभावमात्रम् । प्राक्काले तु योग्यस्यैव प्रामाणस्यानुदय आसीत्, न हि तदानीं घटाभावः सन्नपि प्रमितः प्रतियोगिनो घटस्यापरामर्शात्तदपेक्षत्वाच्चाभावज्ञानस्य, अत एव घटाभावोऽधुना स्मर्यत इति न युक्तम् । अप्रमितस्य स्मरणयोगात् । यश्चायं प्राक्कालीनः प्रमाणानुदयः सोऽधुना प्रमाणोदयेन नष्टो नाभावज्ञानमुत्पादयितुमर्हति, उद्धृतमिव नेत्रं रूपबुद्धिम् ॥*॥ अथ नष्टोऽपि प्रमाणानुदयः संप्रति स्मर्यमाणो ह्यस्तनाग्निज्ञानम् । स्यादेवं यदि प्रमाणाभावो ज्ञायमानतया मेयाभावं बोधयेत्लिङ्गमिव लिङ्गिनम् । न च तथा संभवति अनवस्थाप्रसङ्गात् । प्रमेयाभावं बोधयेत्ज्ञातव्यः । सोपिचाभावत्वादन्येनाभावज्ञानेन ज्ञातव्यः, सोऽप्यन्येनेति न जन्मसहस्रेणापि घटाभावोऽवधार्येत । तस्मात्सत्तामात्रेणैव प्रमाणाभावोऽभावज्ञानमुत्पादयति नेत्रादिवदित्यङ्गीकर्तव्यम्, अतः प्रमीयमाणस्य घटस्य कथं प्राक्कालाभावप्रमितिरिति वक्तव्यम् ॥*॥ उच्यते सत्तामात्रेण ज्ञानाभावो ज्ञायाभावं बोधयतीति सम्यगुक्तम्, अस्त्येव त्वधुना दृश्यमानस्यापि घटस्य प्राक्कालसंबन्धगोचरयोग्यज्ञानानुदयः, सहि प्राक्कालिसंबन्धितया स्मर्तुं योग्यः सन्नपि न स्मर्यते, नचावश्यंप्रमाणाबाव एवाभावस्य बोधकः स्मरणज्ञानस्यापि योग्यत्वे सत्यनुदयो भावं बोधयत्येव, तेन संप्रति दृश्यमानोऽपि घटो यदि प्रागप्यासीत्ततोऽवश्यं तत्र स्थितेन प्रमितः स्यात्, प्रमितश्चाधुना स्मर्तव्यः स्यात्, एवं सत्यपि न स्मर्यते सोऽयं स्मर्तव्यविषयस्मरणानुदयः संप्रति विद्यमानः संप्रतितनं प्राक्कालीनाभावविषयं विज्ञानं जनयतीति न किञ्चिदनुपपन्नम् । भाष्ये च प्रमाणाभावशब्दः स्मरणाभावस्याप्युपलक्षणार्थः, तथा वार्तिकेऽपि । यद्वा प्रमाणस्य स्मरणफलत्वात्तदभावोऽपि फलतः प्रमाणाबाव एवेति शक्यते वक्तुम् ॥ उक्तप्रभाकरखण्डनम् । ननु न सत्तामात्रेण योग्यानुपलब्धेरभावबोधकत्वं युक्तं, सत्यामपि तस्यां कदाचिदभावबुद्ध्यनुदयात्, असत्यामपि कदाचिदुदयात् । तथाहि योऽङ्गुलीयकबुभुत्सया ससन्तमसावपवरकदेशं हस्ताभ्यां सर्वतः परामृष्टवान् तस्य तावत्सर्वदेशपरामर्शात्वस्तुतो योग्यानुपलब्धिर्जातैव, अथ च किं सर्वो देशः परामृष्टः किं वा कश्चिद्देशो स्यादिति संदिहानो योग्यानुपलब्धेरनिश्चयात्सत्यापि तस्यां नाङ्गुलीयकस्याभावमवधारयति । कदाचित्तु सर्वतोऽपरामृश्यापि सर्वतः परामृष्टमिति भ्रान्त्या योग्यानुपलब्धिं निश्चित्यासत्यामेव तस्यां भ्रान्त्याङ्गुलीयकस्याभावमवधारयति । तस्माज्ज्ञाततयैव योग्यानुपलब्धिरभावज्ञानकारणमित्यभ्युपगन्तव्यम् । तथाचानवस्थाप्रसङ्गः । तस्मात्स्वसंवेद्या तन्मात्रसंविदेव दृश्यस्य प्रतियोगिनोऽभावो न तत्वान्तरम् । । ननु चाभावलङ्गीकारे तन्मात्रधीरपि न कदाचिन्निरूपयितुं शक्यते, न च भूतलधीरेव तन्मात्रधीः, संसृष्टधियोऽपि तन्मात्रतापातात् । तत्रापि भूतलावभासात् । अतो घटादिवेदनाभावे सति या भूतलधीः सा तन्मात्रधीः । एवं च ज्ञानाभावाङ्गीकारादभावपह्नवोऽनर्थकः । कथं तर्ह्येतन्निरूपयितव्म्, तदभिधीयते घटाद्यभावोऽस्ति प्रमेयम् । योग्यप्रमाणानुदयश्च तस्य सत्तामात्रेणैव नेत्रादिवद्बोधको न ज्ञाततया, यतो अनवस्था स्यात् ॥*॥ यत्तु सत्यापि योग्यानुपलम्भो हि कारणं तत्र योग्यत्वं ज्ञाततयैव कारणं न सत्तामात्रेण, ततः योग्यत्वं कदाचिदज्ञातं नाभावमवधारयति कदाचित्त्वविद्यमानमेव योग्यत्वं भ्रान्त्या निश्चित्याभावमवधारयति । उपलब्ध्यभावस्तु सन्मात्रतया कारणं न ज्ञाततया, तेन नानवस्थापत्तिरिति सर्वमवदातम् । अतोऽस्त्यभावाख्यं प्रमेयम् ॥ अभावस्यानुपलब्धिगम्यत्वम् ॥ न च तदैन्द्रियकम्, इन्द्रियव्यापाराभावेऽपि तज्ज्ञानोत्पत्तिदर्शनात् । योऽहनि प्रातःकाले गृहेऽवस्थितो मध्यन्दिनसमये पृच्छ्यते किमस्मिन्गृहे प्रातःकाले माथुरः किश्चित्पुरुषः शुक्लवासा दीर्घतमो लोहितवर्णः समागतः इति स तदानीमेव योग्यस्मरणानुदयात्तस्याभावं प्रातःकालीनमवधारयति विनैवेन्द्रियव्यापारेण । न च प्रातरवगतोऽबावस्तदा स्मर्यत इति वाच्यम् । प्रतियोगिनो माथुरस्य तदानीं कथञ्चिदपि बुद्धावनारोहात्, अबुद्धिस्थे च प्रतियोगिनि भावे तदभावज्ञानसंभवात् । एवं च यत्रापीदानीमेवानुपरतेन्द्रियव्यापारेण संनिहितदेशकालवर्त्त्यभावः प्रतीयते तत्रापि योग्यज्ञानानुदयस्यैव कॢप्तसामर्थ्यस्य कारणत्वसंभवान्नेन्द्रियस्य कारणत्वं कल्पयितुं शक्यम् । तस्मान्न प्रत्यक्षोऽभावः । नाप्यनुमेयः, अज्ञातेन तेन कस्यचिल्लिङ्गस्य संबन्धग्रहणसंभवात् ॥*॥ यदत्र कैश्चिदुच्यते दृश्यस्य सत्तादर्शनव्याप्ता तेन व्यापकीभूतदर्शननिवृत्त्या व्याप्यस्य दृश्यस्य निवृत्तिरवसीयत इति तन्निरस्तम् । व्यापकनिवृत्त्या व्याप्यनिवृत्तिमनुमिमानेनावश्यं दृष्टान्तधर्मिषु निवृत्तिद्वयमवगम्य ततो दृश्यनिवृत्तिरनुमातव्या, निवृत्तेश्चाभावात्मिकयै न प्रत्यक्षेण ग्रहणं संभवति, निवृत्त्यन्तरेण तदनुमाने तदपि निवृत्तिरूपत्वान्निवृत्त्यन्तरेणानुमातव्यं तदपि तथेत्यनवस्थापत्तिः । अतोऽवश्यं क्वचित्प्रमाणान्तरभूतयानुपलब्ध्याभावः प्रत्येतव्यः । प्रमितेच तस्मिन्पश्चाद्भवत्वनुमानम् । सिद्धं तावदभावस्य प्रमाणान्तरत्वं शब्दोपमानार्थापत्तयस्तु नाशङ्गनीया एव । अतः सिद्धं षष्ठं प्रमाणम् । एतावन्त्येव च प्रमाणानि ॥*॥ यत्त्वधिकं संभवाख्यं प्रमाणं सहस्रादिसंख्ययावयवभूतशतादिसंख्यावगतिः आढकप्रमाणेनावयवकुडवपरिमाणावगतिः कैश्चिदिष्यते, तदविनाभावनिमित्तत्वादनुमानमेव । वटेवटे वैश्रवणः इत्यादिकं चैतिह्यं प्रमाणमेव न भवति निर्णयाभावात् । प्रामाण्येपि वाऽगमेऽन्तर्गतत्वान्न प्रमाणान्तरम् । प्रातिभाख्यमपि प्रमाणं कैश्चिदिष्टं श्वस्ते भ्रातागन्तेत्यादिकं, तत्तु लिङ्गाद्याभासजं, अनिश्चायकत्वादेवाप्रमाणम् । अतो यत्काश्यपीयैः प्रतिभागम्यमृषीणां धर्माधर्मत्वमाश्रितं तदसारम् । लोकप्रसिद्धिरपि प्रत्यक्षान्तर्गतैवेति न प्रमाणान्तरम् । अतः षडेव प्रमाणानि । तथा च भगवद्रामायणे राम षड्युक्तयो लोके याभिः सर्वोऽनुदृश्यते इति । इत्याभाववादः ॥ चित्राद्यैहिकफलचोदनास्वाक्षेपः ॥ लोकप्रसिद्धस्वतःप्रामाण्यदर्शनेन प्रत्यक्षादीनां तदन्तर्गतस्यापि च शास्त्रस्य स्वतःप्रामाण्यात्चोदनालक्षणोर्ऽथो धर्मः इति प्रतिज्ञातेर्ऽथे साधिते संप्रति अनिमित्तं विद्यमानोपलम्भनत्वातित्यनेन चित्रादिचोदनानामैहिकफलानां प्रत्यक्षादिभिरसंवादेन विसंवादेन च प्रामाण्यमाक्षिप्यते, पूर्वोक्तस्तु नन्वतथाभूतमित्याक्षेपः परलोकफलस्वर्गकामादिचोदनाविषय इति विषयभेदादपौनरुक्त्यम् ॥*॥ ननु च नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदनेति चोदनामात्रपरिग्रहादविशेषेणैवासावाक्षेपः तथेहापि यदा तावदसौ विद्यमानासीत्तदा फलं न दत्तवती । यदा फलमुत्पद्यते तदासौ नास्ति कथमसती फलं दास्यतीत्याक्षेपस्य स्वर्गकामचोदनास्वपि तुल्यत्वादविशेषत्वमिति नास्ति विषयभेदः । उच्यते पूर्वाक्षेपस्तावत्परलोकफलविषय एव । तत्र हि प्रमाणान्तरापेक्षः शब्दो न स्वातन्त्र्येण प्रमाणम् । न च चोदनार्थे प्रमाणान्तरमस्ति अतोऽप्रमाणं चोदनेत्ययमाक्षेपः, स चायं परलोकफलविषय एव भवति । पशुकामचोदनासु हि यदि तावत्कर्मानन्तरमेव पश्वादीन्युपलभ्यन्ते ततोऽपेक्षितमूलप्रमाणलाभात्सिद्ध्यति चोदनायाः प्रामाण्यम् । अथ नोपलभ्यते ततः प्रमाणान्तरबाधेनैव सुखप्रामाण्यमभिधातुं शक्यत इति किमाक्षेपसारूप्यप्रतिपादनव्यसनेन । तस्मात्स तावत्परलोकफलविषय एव । अयं त्वैहिकफलविषय । न हि पारलौकिकस्य फलस्यानन्तरकालानुपलब्ध्या निरासः संभवति । न हि तेनानन्तरं भवितव्यम्, जन्मान्तरभावितत्वात् ॥*॥ ननु असती कथं फलं दास्यतीतीदं तुल्यम् । नेति ब्रूमः अपूर्वद्वारेण संभवात् । स्वर्गो हि स्वभावाद्देहान्तरानुभवनीयत्वादनन्तरासंभवित्वेन शास्त्रार्थावधारणवेलायामेव कालान्तरे निश्चीयत इत्यपूर्वमन्तर्भाव्यैव तत्र शास्त्रार्थोऽवधार्यते, तच्च चिरस्थायीति कारणस्याविनाशात्संभवति कालान्तरे स्वर्गस्योत्पत्तिः । पश्चादयस्त्वनन्तरमपि संभवन्तीति तत्साधनत्वेन चोद्यमानानां चित्रादीनां शास्त्रार्थावधारणसमयेऽपूर्वप्रणाडीसमाश्रयणे कारणं न किञ्चिदस्तीति स्वरूपेणैव फलसाधनत्वं शास्त्रार्थोऽवधार्यते । तथाचानन्तरमेव पलेन बवितव्यम् । कालान्तरे कर्मस्वरूपस्य विनष्टत्वात्कारणत्वाभावात्, अनन्तरं च फलमनुपलब्ध्यैव निरस्तमित्यप्रामाण्यं चित्रादिचोदनानाम् ॥ चित्रादीचोदनास्वाक्षेपपरिहारौ । नचानुष्ठानानन्तरं फलानुपलब्ध्यैव शास्त्रार्थेऽपूर्वमन्तर्भावयितुं शक्यते शास्त्रार्थावधारणपूर्वकं ह्यनुष्ठानं नानुष्ठानपूर्वकं शास्त्रम्, तस्मादैहिकानामत्राक्षेप इति युक्तो विषयभेदः । विषयभेदाच्च न्यायोपि भिद्यते । परलोकफलासु प्रमाणापेक्षितत्वामाक्षेपन्यायः । अत्रतु प्रमाणान्तरविरोध इति न्यायभेदादपौनरुक्त्यम् । अथवा पूर्वोक्तं स्वमते सूत्राणि व्याचक्षणो सूत्रितमेवाक्षेपं दर्शितवान् । इदानीं तु वृत्तिकारमतेन सूत्रेणैवाक्षेपः क्रियते ॥*॥ तदिह । चित्रादिवाक्यानि प्रमाणान्यप्रमाणानि वेति विचार्यते । तदर्थं च किं तेषां प्रमाणान्तरविरोधोऽस्ति न वेति । तत्र फलानामनन्तरमुपलब्धव्यानामनुपलम्भादतत्साधनत्वं चित्रादीनामवगम्यते । तदिदं प्रत्यक्षाविसंवादेऽवश्यंभाविनि सति तदभावादप्रामाण्यम् ॥*॥ क्वचित्तु प्रत्यक्षविरोधादप्रमाण्यं स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं यातीति यज्ञायुधीति हि यज्ञायुधसंयोगाच्छरीरमुच्यते, यजमानशब्दोऽपि हि कर्तृवचनस्तस्यैव वाचको नात्मनः, तस्य सर्वगतत्वेनाभिमतस्य क्रियोविरहिणः कर्तृत्वायोगाद्यज्ञायुधसंयोगाभावाच्च, संयोगाभिप्रायश्चायं यज्ञायुधीति शब्दः पात्रचयनस्तुत्यर्थत्वात्, न स्वस्वामिसंबन्धाभिप्रायः । प्रागपि पात्रचयनात्तत्संभवात्शरीरस्य च प्रत्यक्षविरुद्धं स्वर्गमनम् । न च कालान्तरेऽपि संभवति । यातीति वर्तमानापदेशात्, भस्मीभूतस्य च कालान्तरेऽपि तदसंभवात् । न च शरीरव्यतिरिक्तः कश्चिदात्मास्ति तस्मादप्रमाणम् । एवमपौरुषेयस्याप्यप्रामाण्ये स्वर्गकामचोदनायामपि नाश्वसितुं युक्तमित्यप्रमाण्यमेवायातम् ॥*॥ एवं प्रत्यक्षानुपलब्धिविरोधेन प्रत्यक्षविरोधेन चाक्षिप्ते प्रामाण्ये विरोधपरिहारमुपेक्ष्यैव कारणदोषनिराकरणेन पूर्वोक्तमेव स्वतःप्रामाण्यं स्वपक्षसाधनत्वेन सिद्धान्तवादी दर्शयति औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेश इति । पूर्वं हि प्रत्यक्षादीनां स्वतःप्रामाण्यस्य लोकसिद्धात्वात्तदन्तर्गतत्वाच्च शास्त्रमपि पुरुषानुप्रवेशाभावात्पुरुषाश्रयत्वाच्च शब्ददोषस्यादुष्टेमेव शास्त्रमतः प्रमाणमित्युक्तम् । इति चित्राक्षेपवादः ॥ शब्दार्थयोः संबन्धाक्षेपः । एवं संबन्धनित्यतयाप्रामाण्यं निराकृत्य स्वतःप्रामाण्ये स्थापिते, परः पुनराह स्यादेतत्नैव शब्दस्यार्थेनास्ति संबन्धः कुतोऽस्य पौरुषेयतापौरुषेयतावेति । तथाहि न तावत्संयोगोऽस्ति तद्भावे हि क्षुरादिशब्दोच्चारणे मुख्यस्य पाटनापि स्यात् । न च कार्यकारणभावः, द्वयोरपि नित्यत्वात् । ननु वर्णस्फोटजात्यादिविकल्पेन व्यक्त्याकृतिसंबन्धादिविकल्पेन च बाह्ययोः शब्दार्थयोर्दुर्निरूपत्वाद्गकाराद्याकारं विज्ञानमेव शब्दः, तज्जनितं च गवाद्याकारविज्ञानमेवार्थमिति कार्यकारणत्वमेव शब्दार्थयोः संबन्धः । नैवम् । निरालम्बनज्ञानानुत्पत्तेः, संबन्धान्तरं तु नाशङ्गनीयमेव ॥*॥ प्रत्याय्यप्रत्यायकत्वं संबन्ध इति चेत्न । असति संबन्धे प्रत्यायकत्वासंभवात् । केन संबन्धेन शब्दोर्ऽथं प्रत्याययतीत्येतदेव हि निरूप्यते । तत्र प्रत्यायकत्वादेव प्रत्यायकत्वमित्यात्माश्रयदोषापत्तिः, तस्मान्नास्ति संबन्धः । असति च संबन्धे वस्त्वन्तरस्य वस्त्वन्तरबोधकत्वासंभवादनिरूपितहेतुविशेषं स्वप्नज्ञानवद्यादृच्छिकं शब्दार्थज्ञानं न प्रमाणं भवितुमर्हति । लौकिकस्तु व्यवहारोऽसत्यपि शब्दप्रामाण्ये प्रमाणान्तरवशात्कथञ्चित्संगच्छेतापि । वैदिकस्तु व्यवहारः शब्दैकशरणत्वादनादर्तव्यः स्यान्निर्मूलत्वात् ॥*॥ स्यादेवं यद्यसंबन्धः शब्दार्थयोः, अस्ति तु संबन्धः प्रत्याय्य इत्ययमेव संबन्धो भविष्यति । यच्चेन्द्रियलिङ्गादिवत्संनिकर्षव्याप्त्यादिसंबन्धानपेक्षमर्थप्रतिपादनमिदमेवाभिधानमित्युच्यते, तदेव च संज्ञासंज्ञित्वं, तेनोच्यते संज्ञासंज्ञिलक्षणः संबन्ध इति ॥*॥ किं पुनः शब्दस्यार्थप्रतिपादने प्रमाणम्, शब्दानन्तरमर्थप्रतिपत्तिरेव । नन्वियमभिप्रायानुमानद्वारेणैवोपपन्ना, नेति ब्रूमः । अर्थाभिप्रायशून्येनापि स्वापाद्यवस्थायां परवशप्रयुक्तैरपि शब्दैरर्थप्रतिपत्तिदर्शनात् । तथा पुरुषान्तरकृतमपौरुषेयं वा वेदवाक्यमनर्थज्ञैरपि प्रयुज्यमानं व्युत्पन्नानामर्थबुद्धिं जनयत्येव, तस्मात्प्रत्यायकः शब्दः । किमिति तर्हि प्रथमश्रवणे न प्रत्याययति, सहकारिविरहात्संज्ञात्वग्रहणमपि शब्दस्यार्थे प्रत्ययतोऽङ्गं नेत्रस्येवालोकः, तेन यः पुरुषान्तरेभ्यो अयं पुरुषान्तरेभ्यो अयं शब्दोऽस्य संज्ञेति ज्ञातवान् तस्यैव प्रत्याययति नान्यस्येति न दोषः ॥ शब्दार्थसंबन्धानित्यत्वे आक्षेपः । नन्वेमस्तु नाम संबन्धः, स तु पौरुषेय इति त्वदुक्त्यैवापन्नम् । तथाहि न हि शब्दस्यार्थेन संयोगगादात्म्यादिसंबन्धः किन्तु प्रत्यायकत्वम् । तच्च पुरुषाधीनमित्युक्तम्, अतो देवदत्तादिशब्दस्येव अस्यार्थस्येयं संज्ञेत्येवं संबन्धे कृते पश्चाच्छब्दस्यार्थप्रतिपादनमिति सिद्धं पौरुषेयत्वम् ॥*॥ इति संबन्धाक्षेपः पूर्वाक्षिप्तं संबन्धनित्यत्वमसमाधायेदानीमथ गौरित्यत्र कः शब्दः इति कया संगत्या केन वा प्रयोजनेन शब्दस्वरूपं निरूप्यते, संगतिस्तावत्प्रासङ्गीका संबन्धप्रस्तावात्संबन्धिनोरपि शब्दार्थयोः प्रस्तुतत्वात्स्वरूपं निरूप्यते । प्रयोजनमपि तदवयवाश्रितानामूहादीनां सत्यत्वं, निरवयवे हि वाक्ये पदे वा वाचकेऽवयवानां मृषात्वात्तदाश्रितान्यपि कार्याणि मृषा भवेयुः ॥*॥ किञ्च संबन्घसिद्ध्यर्थमवश्यं वर्णानां वाचकत्वं समर्थनीयम्, अन्यथा हि तेषां संगत्याभावाद्वाचकभावो निराधारत्वान्न स्यान्नतरां नित्यत्वमिति तत्सिद्ध्यर्थं वाचकत्वं समर्थयितुं शब्दस्वरूपं निरूप्यते । कि गौरित्यत्र वर्णा एव शब्दः, उत तेभ्योर्ऽथान्तरमित्येतत्प्राधान्येन निरूप्यते । वर्णावयवगत्वगोशब्दावयविजातिनिराकरणं तु प्रासङ्गिकम् । वर्णा एव शब्द इत्यवधारणसमर्थनार्थम् ॥*॥ तत्र वर्णानामपि पुद्गलाख्यानवयवानार्हताः संगिरन्ते तत्त्ववयवानुपलम्भादयुक्तम् । प्रत्यक्षेण तावदवयवा नोपलभ्यन्ते, वर्णेषु साकल्यवैकल्यग्रहणाभावात् । नानुमानेन, तैः सह कस्यचिल्लिङ्गस्य संबन्धाग्रहणात् । न च सामान्यतो दृष्टम्, नहि यद्यद्वस्तु तस्य तस्यावश्यमवयवैर्भवितव्यम्, परमाणूनां निरवयवत्वात् । तेऽपि सावयवा इति चेत्, तदवयवा अपि तथा स्युस्ततः परमपि तथेत्येकस्यैव माषावयविनोऽनन्तावयवित्वं स्यात्, ततश्चैकेनैव माषेण तिलेन वा सर्वं जगद्व्याप्येत, अनन्तैरवयवैर्मूर्तैरन्योन्यस्यावरकाशमप्रयच्छद्भिरनन्तदेशव्याप्तेः । तस्मान्निरवयवाः परमाणवो वर्णाश्च । तथा गत्वजातिरौत्वजातिश्च निष्प्रामाणिकैव ॥*॥ ननु द्रुतविलम्बितमध्येषूदात्तानुदात्तस्वरितेषु सानुनासिकनिरनुनासिकयोर्ह्रस्वदीर्घप्लुतेषु च प्रत्यभिज्ञायमाना जातिः कथं नास्तीति शक्यतेऽभिधातुम् । सत्यम् । प्रत्यभिज्ञा, सातु प्रत्यभिज्ञा, सातु व्यक्तेकत्वादेवोपपन्ना । द्रुतादिभेदाभासस्तु द्रुताद्यवस्थाभेदालम्बनो न व्यक्तिभेदमापादयितुमलं भवति । गत्वादिजातिनिराकरणम् । भेदाभेदावभासोऽपि द्वेधा भवति । क्वचिद्भेदो धर्मिविषयो यथा शाबलेयादिष्वयं गौरयं गौरयमिति जातेरात्मलाभः । क्वचित्तु भेदाभावभासो धर्मादभेदावभासश्च धर्मिणमालम्बतेएकस्मिन्नेव देवदत्ते युवायं वृद्धोऽयं कृशोऽयमिति न तत्र जातिरङ्गीक्रियते । तदिह द्रुतादिषु धर्मिविषयोऽभेदो धर्मिविषयस्तु भेदः तथाहि ईदृशोऽत्रावभासः अनेनायमकारो द्रुतमुच्चारितोऽनेन विलम्बितमिति न तु अयमकारो द्रुतोऽयं तु विलम्बित इति येन धर्मिभेदो जातिश्चाङ्गीक्रियेताम् ॥*॥ ननु कार्श्यादीनां क्रमवर्तित्वादेकस्मिन्देवदत्ते युक्तः समावेशः, अनुनासिकादीनान्तु धर्माणां युगपदनेकवक्त्रुच्चारिते वर्णे समवेतानां कथमेकवर्णविषयत्वम् । न हि विरुद्धधर्मानेको धर्मी युगपद्बिभर्ति । सत्यम् । नत्वेते परमार्थतो वर्णधर्मा ध्वनिधर्मास्त्वेते वर्णे केवलमाभासन्ते, यथाल्पे महति च दर्पणे युगपद्दृश्यमाने मुखेऽल्पत्वं महत्वं चेति । तस्माद्वर्णस्य व्यक्त्येकत्वेऽपि न विरोध इत्यप्रामाणिकी गत्वादिजातिः ॥*॥ एवं गोशब्दावयव्यपि गकारादीनामयौगपद्यात्सर्वगतत्वाच्चावयव्यारम्भासामर्थ्यात् । सर्वत्र हि कारणपरिमाणादधिकं कार्यपरिमाणं तन्तुपटयोरिव न च विभुभ्यो वर्णेभ्यः परिमाणाधिक्यं कस्यचिद्भवति, अतो नास्यवयवी । तदभावे च तदाधारं गोशब्दत्वं दूरापास्तम् । तस्माद्वर्ण एव शब्दः ॥*॥ आह गृह्णीम एततवयवावयविगद्वादिकं नास्तीति । नतु वर्णा एव शब्दा इति । अर्थप्रत्ययानुपपत्तेः । तथाहि नह्येकाक्षरविज्ञानादर्थधीरुपजायते ॥ वाचश्च क्रमवर्तित्वात्साहित्यं नावकल्पते ॥ उच्यते यथाग्नेयादिकर्माणि क्रमवर्तिनि सन्त्यपि ॥ संहत्य कुर्वते कार्यमेकं वर्णास्तथैव नः ॥ वर्णानामर्थप्रत्यायकत्वम् । ननु क्रमवर्तिनामप्युत्पत्त्यपूर्ववशेन युक्तं साहित्यम्, वर्णानां तु कथम् । तेषामपि संस्कारेण भविष्यति तत्सद्भावे किं प्रमाणम्, यदेवाग्नेयादिषु । यथाहि तेषां शास्त्रेण संहत्यकारितावगमात्स्वरूपतश्च तदसंभवादपूर्वं द्वारं कल्प्यते, तथा वर्णानामप्येकैकशोऽभिधानादर्शनात्सकलोच्चारणे चावगमात्संहत्यकारित्वे निश्चिते स्वरूपेणासंभवात्संस्कारकल्पनं युक्तमेव, तद्वदेव चैककर्तृत्वं क्रमविशेषश्चाद्रियते विपर्ययेणार्थाभिधानादर्शनात् ॥ स्फोटवादखण्डनम् । नन्वेवं प्रतिवर्णं संस्कारकल्पनादेककल्पना स्यात्तद्वरमेकमेव शब्दत्वं कल्पितम् । नैवम् । दृश्यादर्शनेन निरस्तवत् । शब्दो हि प्रत्यक्षग्राह्योऽभ्युपगम्यते, न च प्रत्यक्षेण किञ्चित्प्रकाशते । तेन नास्तीत्यवगच्छामः । त्वयापि हि शब्दत्वं कल्पयित्वा पुनः संस्कारकल्पनावश्यं कर्तव्या । ध्वनयो हि न प्रत्येकं स्फोटमभिव्यञ्जति, साहित्यं च क्रमवर्तिनां संस्कारद्वारमेवेति तुल्यं तत्कल्पनम् ॥*॥ स्यान्मतम् । प्रत्येकमेव नादाः शब्दमभिव्यञ्जन्ति, नचैवमुत्तरनादवैयर्थ्यम्, पूर्वे हि नादाः शब्दस्फुटमभिव्यञ्जन्ति उत्तरोत्तरे स्फुटं स्फुटतरं च व्यञ्जन्तीति नोत्तरेषामानर्थक्यम् । यद्येवं ततो य एवोत्तरे नादाः स्फुटाभिव्यक्तिसमर्थास्तैरेव भवितव्यमलं पूर्वेः ॥*॥ ननु न कश्चिदपि नादः स्वतोऽस्य स्फुटाभिव्यक्तिं करोति किन्तु सर्वे ते प्रत्येकं व्यञ्जकाः । स तु न द्रागेव स्फुटमवभासते प्रथममस्फुटावभासितः सन् पुनः पुनः श्रूयमाणः स्फुटः भवति, तद्यथा दूरादवस्थितः सहकारः प्रथमं हस्तिपलालकूटादिसाधारणरूपेण प्रतिभातः पुनरालोच्यमानो वृक्षात्मना प्रकाशते पुनःसहकारात्मना स्फटो भवति तद्वदेव द्रष्टव्यम् ॥*॥ यद्येवं य एव ते पूर्वै नादास्तैरेवाभ्यस्यमानैरीदृशी स्फुटाभिव्यक्तिः स्यात् । उत्तरैर्वा केवलैरभ्यस्यमानैः, तत्र विजातीयनादाश्रयणमनर्थकम् ॥*॥ तथा प्रत्येकं हि व्यञ्जकत्वे सत्युत्तरैरस्फुटाभिव्यक्तिः पूर्वैश्च स्फुटाभिव्यक्तिः स्यादिति व्युत्क्रमेणाप्युच्चारणं स्यात्, अतोऽपेक्षितक्रमविशेषानेकविजातीयनादसमुच्चयाश्रयणादवश्यं पूर्वनादाहितसंस्कारसहितान्तिमनादाभिव्यङ्ग्यः स्फोट इत्यवश्याङ्गीकर्तव्यमिति तुल्या संस्कारकल्पना । यद्वा तवैवेयं संस्कारान्तकल्पना, मत्पक्षे तु स्मृतिहेतुभिरेव संस्कारैः सिद्ध्यत्यर्थावगतिरिति न संस्कारान्तरं कल्पयितव्यम ॥*॥ ननु ममापि त एव भविष्यन्ति । न । तेषां स्मृतेरन्यत्राव्यापारात् । मत्पक्षे तु स्मृतिरेव जनयन्तोर्ऽथप्रतिपत्तिं संस्कारा जनयन्ति । तथाहि प्रत्येकवर्णानुभवभावितैः संस्कारैः संहत्य सर्ववर्णगोचरैका स्मृतिर्जन्यते । तस्यां च युगपदवभासमाना वर्णा विनैव संस्कारान्तरेण संहत्यार्थप्रत्ययं जनयन्ति ॥*॥ त्वत्पक्षे तु नैवं संभवति, तथाहि नादा हि न ज्ञायमानतया स्फोटं व्यञ्जयन्ति, न च युगपत्सत्तास्ति क्रमवर्तित्वात्, अतः संस्कारद्वारमेव साहित्यमित्यवर्जनीयं संस्कारान्तरकल्पनम् ॥*॥ अथ मतम् । सत्यं न स्मृतिहेतुभिः स्फोटाभिव्यक्तिः, ये तु वर्णोपलब्धिहेतवो नादजन्याः श्रोत्रगताः संस्कारास्तैरेव वर्णानामिव स्फोटाभिव्यक्तिर्भविष्यति किं संस्कारान्तरकल्पनयेति । तदयुक्तम् । तेषां क्षणिकत्वात् । नह्यद्यवर्णोपलब्धिहेतुः संस्कारोऽन्त्यवर्णश्रवणवेलायामवतिष्ठते । यद्यवतिष्ठते ततो विसर्जनीयश्रवणवेलायामपि गकारश्रवणमनुवर्तेत, तस्मात्क्षणभङ्गिनस्ते, अतो न तेषां संहत्य स्फोटाभिव्यञ्जकत्वं भवति । प्रत्येकाभिव्यक्तौ चोत्तरोत्तरेषामनर्थकत्वमित्युक्तम् ॥*॥ अथवा ध्वनियोग एव श्रोत्रसंस्कारो नान्यः, तस्य च विस्पष्टमेव भङ्गुकत्वमित्युक्तम् ॥*॥ अथवा ध्वनिसंयोग एव श्रोत्रसंस्कारो नान्यः, तस्य च विस्पष्टमेव भङ्गुरत्वं गत्वरत्वाद्घवनीनाम् । तस्मादन्ये स्थायिनः संस्काराः कल्प्याः, तथा वर्णातिरिक्तः शब्दः कल्प्य इति बह्वप्रमाणकमापन्नम् । मत्पक्षे तु दृढस्मृतिविपरिवर्तिनां वर्णानां वाचकत्वान्न किञ्चिदूनम् ॥*॥ ननु युगपत्स्मर्यमाणानां वाचकत्वे व्युत्क्रमेणाप्युच्चारिता वर्णा वाचकाः स्युः, न, तत्क्रमस्याप्यङ्गत्वात् । कः पुनः क्रमोऽङ्गम्, न हि वर्णानां विभूनां नित्यानां च स्वरूपतः क्रमवत्त्वम् । न प्रतीतिक्रमः, तस्याः स्मृतिरूपाया एकत्वात् । एवं तर्हि ध्वनिक्रमो यो वर्मेष्वारोपितः प्रतिभासते सोऽङ्गमित्यदोषः । तस्माद्व्यञ्जकानां ध्वनीनां क्रमेण व्यङ्ग्येषु वर्णेषु समारोपितेन तद्वन्तः स्मर्यमाणा वर्णा वाचकाः नान्यः शब्दोऽस्तीति सिद्धम् ॥ इति स्फोटवादः ॥ पदार्थनिरूपणोपक्रमः । अथ गौरित्यस्य शब्दस्य कोर्ऽथः इति वाच्यनिरूपणोपक्रमव्याजेनाकृतिसद्भावं प्रतिपादयति संबन्धनित्यत्वसिद्धये । नह्यसत्यामाकृतो व्यक्तिभिः शब्दस्यापौरुषेयः संबन्धः तासामनित्यत्वात्, उपलक्षणस्यापि नित्यस्याभावादाकृत्यभावे, तस्मादाकृतिरस्ति नास्तीति विचार्यते । साधिते तु तत्सद्भावे सैव शब्दाभिधेयेत्याकृत्यधिकरणे वक्ष्यते ॥ बौद्धमतेन जातिखण्डनम् । तत्र सौगताः स्वलक्षणमेव परमार्थं मन्यमाना नाकृतिसद्भावं मन्यन्ते । तथाहि पृथक्त्वे व्यक्तितो जातिर्दृश्येत पृथगेव सा । अभेदे व्यक्तिमात्रं स्याद्वेधा चेन्न विरोधतः ॥ न हि सैव ततोन्या चानन्या च संभवति विरुद्धत्वाद्भेदाभेदयोः । यदि च भिन्ना जातिः सा सर्वगता व्यक्तिष्वेव वा, न तावत्सर्वगतत्वम्, अन्तरालेऽनुपलब्धेः । व्यक्तिस्था चेद्व्यक्तावुत्पन्नायां तस्मिन्देशे प्रागसती कथं तस्यामुपलभ्यते, न तावत्तत्रोत्पद्यते । नित्याया उत्पत्त्ययोगात् । न च व्यक्त्यन्तरादागच्छति अमूर्तत्वात्, तस्मिंश्च व्यक्त्यन्तरेऽनुपलब्धिप्रसङ्गात् । नचांशेनागतांशेन च तत्रैव स्थितेति शक्यं नित्यत्वात् । नचान्येत्र याति अमूर्तत्वात् । व्यक्त्यन्तरे च पूर्वमेवानस्थिता जातिरिति पुनःप्रवेशे द्विगुणोपलभ्येत । यथाहुः नायाति न च तत्रासीदति पश्चान्न चांशवत् ॥ जहाति पूर्वं नाधारमहो व्यसनसंतति इति ॥*॥ व्यक्तौ च वर्तमानां यद्येकस्यां व्यक्तौ कार्त्स्न्येन वर्तेत व्यक्त्यन्तरेषु न स्यात् । नह्येका मती युगपदनेकत्र कार्त्स्न्येन वर्तेत व्यक्त्यन्तरेषु न स्यात् । नह्येका सती युगपदनेकत्र कार्त्स्न्येन वर्तितुं शक्नोति । नचावयवशो वर्तते निरवयवत्वात् । कथं च नानाविधास्वतीतानागतवर्तमानासु व्यक्तिष्ववयवशो वृत्तिः संभाव्येत । व्यक्तौ च वर्तमानेहप्रत्ययमनुभवेत् । धास्वतीतानागतवर्तमानासु व्यक्तिष्ववयवशो वृत्तिः संभाव्येत । व्यक्तौ च वर्तमानेहप्रत्ययमनुभवेत् । नचेह गोत्वमिति कस्यचित्प्रतीतिरस्ति किं त्वियं गौरिति ॥ । अथ व्यक्तेरात्मैव जातिर्न तदाधारं वस्त्वन्तरमिति चेत्, नैवं युक्तम्, कथं हि नानाभूतानामनित्यनां व्यावृत्तस्वभावानामेकरूपा नित्यानुवृत्तस्वभावा च जातिरात्मा स्यात्त्रैलोक्यसंकरप्रसङ्गात् ॥*॥ न च प्रमाणमपि किञ्चिदाकृतिसद्भावे संभवति, न तावत्प्रत्यक्षम् । न हि जातिः स्वविषयं ज्ञानं जनयति नित्यत्वाभ्युपगमात् । नित्यानां च सर्वार्थक्रियास्वसामर्थ्यात् । न हि जातिः स्वविषयं ज्ञानं जनयति नित्यत्वाभ्युपगमात् । नित्यानां च सर्वार्थक्रियास्वसामर्थ्यात् । नचाजनकस्य विषयत्वं संभवति तल्लक्षणत्वाद्विषयत्वस्य । तस्मद्विकल्पाकारमात्रं सामान्यम्, अलीकं वा ॥*॥ ननु यथा ज्ञानवैचित्र्योपपत्तेः ॥*॥ अर्थशून्या अपि विकल्पा विचित्रार्थक्रियासमर्थस्वलक्षणाभिमानिनो जायमानास्तत्र व्यवहारार्थिनं प्रवर्तयन्तः परम्परया तत्प्रभवतया तत्प्रापयन्तो मणिमिव मणिप्रभाविषयमणिबुद्धिर्व्यवहाराविसंवादिनो भवन्तीति न लोकयात्रास्थितेः कश्चिद्विरोधः तस्मान्नास्ति जातिः ॥*॥ एतेनावयविद्रव्यं प्रत्यूढम्, तस्याप्यवयवभेदादिविकल्पाक्षमत्वात् । स्थूलावभासस्तु संचितानेकरूपादिपरमाणुवशादेव केशोण्ड्र्कावभासवदुपपन्नो नावयविकल्पनायालम् । तदभावे च निराधारत्वाद्दूरापास्तं गोत्वादिसामान्यम् ॥*॥ कथमसत्येकरूपे सामान्येऽत्यन्तविलक्षणानि स्वलक्षणान्यविलक्षणरूपं विकल्पं जनयन्ति । जनयन्ति चेत्किमिति कानिचिदेव गोविकल्पं जनयन्ति कानिचिदेवाश्वविकल्पम्, नर्वाणि सर्वम् ॥*॥ सामान्यवादिनो वा कथं विलक्षणरूपा व्यक्तयो विलक्षणसामान्यात्मकत्वं तदाश्रयत्वं तदभिव्यञ्जकत्वं वा भजन्ते । भजन्तिचेत्किमिति काश्चिदेव व्यक्तयः केनचिदेव सामान्येन संबध्यन्ते न सर्वाः सर्वैः । स्वभावादिति चेत्, अस्माकमपि तुल्यमिदमुत्तरम् ॥ स्वमतेन जातिस्थापनम् । अथ व्यक्तीनामप्यविलक्षणरूपसामान्यसंबन्धसिद्ध्यर्थं परमविलक्षणरूपमभ्युपगम्यते ततस्तेनापि संबन्धसिद्ध्यर्थमपरापरासामान्यापेक्षयामनवस्था स्यात् । तस्माद्विकल्पमात्रमेवेदम्, न परमार्थतः सामान्यं नाम किञ्चित् ॥*॥ अत्राभिधीयते प्रत्यक्षबलसिद्धस्य सामान्यस्य कुतर्कतः ॥ न शक्योऽपह्नवः कर्तुं सर्वं विजयते हि तत् ॥ सर्वेष्वपि वस्तुषु इयमपि गौरियमपि गौः, अयमपि वृक्षोऽयमपीति व्यावृत्तानुवृत्ताकारं प्रत्यक्षं देशकालावस्थान्तरेष्वविपर्यस्तमुदीयमानं सर्वमेव तर्काभासं विजित्य द्व्याकारं वस्तु व्यवस्थापयत्केनान्येन शक्यते बाधितुम्, न हि ततोऽन्यद्बलवत्तरमस्ति प्रमाणम्, तन्मूलत्वात्प्रमाणान्तराणां तद्बाधसामर्थ्याभावात् । किञ्चानुमानान्यपि सामान्यापेक्षत्वात्सुतरां सामान्यं समर्थयन्ते न तु बाधितुं शक्नुवन्ति, नहि यद्यपेक्षं तत्तस्य बाधं शक्नोति कर्तुम् । तद्बाधे हि स्वात्मापि न सिद्ध्येत्तदपेक्षत्वात् ॥*॥ तथाहि भेदाभेदविकल्पेन सामान्यं निराकुर्वतावश्यमेवं वक्तव्यं यद्वस्तु तद्भिन्नमभिन्नं वा भवति सामान्यमपि यदि वस्तु स्यात्ततोऽनेनापि भिन्नेनाभिन्नेन वा भवितव्यम् । न च द्वेधापि संभवति तस्मादवस्तु इति । एवं च वदता वस्तुत्वं सामान्यमङ्गीकार्यम्, अन्यथा कथं वस्तुत्वस्य भेदाभेदाभ्यां व्याप्तत्वाद्व्यापकानुपलब्ध्या सामान्यस्य वस्तुत्वं न संभवतीति भणितुं शक्यम् ॥ । नन्वौलपाधिको वस्तुशब्दो न जातिनिमित्तकस्तत्कथमनेन जात्यापत्तिः । उच्यते जातिर्वा भवतूपाधिर्वा सर्वथा तावत्सामान्यरूपमपेक्षितव्यम् । औपाधिकानामपि मूलोपलक्षणमेकमन्तरेणात्मलाभाभावात् । न च व्यावृत्तैकरसं सर्वं वस्तुजाममभ्युपगच्छतः सौगतस्य क्वचिदपि किञ्चिदप्यनुवृत्तं रूपं संभवतीत्यौपाधिको व्यवहारो दुर्घट एव, तस्मात्सर्वप्रमाणसिद्धं सामान्यं न शक्यमपह्नोतुम् ॥*॥ कः पुनर्विकल्पानां परिहारः, न तावदपरिहृता अपि शक्नुवन्ति सामान्यमपह्नोतुं, तेषामपि तदपेक्षत्वादित्युक्तं तथापि परिहारोऽभिधीयते ॥ जातिव्यक्त्योर्भेदाभेदविचारः ॥ भेदाभेदविकल्पे तावत्केचिदाहुः भिन्नमेव सामान्यं व्यक्तिभ्यः । न च पृथगुपलब्धिप्रसङ्गो व्यक्तिसंबन्धित्वात् । कः पुनः संबन्धः, समवायः । कः पुनरसौ, अयुतसिद्धानामिहप्रत्ययहेतुः संबन्ध इति केचित् । तत्त्वयुक्तम् । इहप्रत्ययासिद्धेः । इयं गौरिति हि सर्वदा सर्वेषां प्रतीतिर्नेहगोत्वमिति । काचेयमयुतसिद्धिः, युतसिद्ध्यभावः । का पुनर्युतसिद्धिः, पृथग्गतिमत्वं पृथगाश्रयाश्रितत्वं वा, तदभावोऽयुतसिद्धिः ॥*॥ यद्येवमवयवावयविनोः संबन्धः समवायो न स्यात्, विनाप्यवयविचलनेनावयवानां चलनात्, अवयविनोऽवयवानां च स्वावयवाश्रयत्वात् । तथा सामान्यस्य व्यक्त्याश्रयत्वात्व्यक्तेश्च स्वावयवाश्रितत्वादस्ति पृथगाश्रयाश्रयित्वमिति समवायानुपपत्तिः । तस्मादेवं वक्तव्यं येन संबन्धेनाधेयमाधारे स्वानुरूपां बुद्धिं जनयति, स्वाकारेण बोधयतीत्यर्थः । स संबन्धः समवाय इति ॥*॥ यदि जात्यात्मना व्यक्तिः प्रतीयते ततो जातिव्यक्त्योरभेद एव प्रतीतिबलादापद्यते कथं भेदाभ्युपगमः । उच्यते गौरयं शावलेयो गौरयं बाहुलेय इत्युभयत्र गवाकारोऽनुवर्तमानो दृश्यते, शावलेयबाहुलेयाकारौ तु व्यावर्तेते, तद्यपि तयोः शाबलेयगवाकारयोरभेदः स्यादेकानुवृत्तावितरोऽप्यनुवर्तेत, तद्व्यावृत्तौ वा गवाकारोऽपि व्यावर्तेत । किं च तस्यामेव व्यक्तावियं गौरिति गवात्मना प्रतीयमानायामपि नेयंबुद्धिगोबुद्ध्योर्गौरिर्गौरितिवत्पर्यायत्वं प्रतीयते तस्मान्नाभेदः ॥*॥ कथं तर्हि ताद्रूप्यं व्यक्तेः प्रतीयते । इदमेव हि ताद्रूप्यं व्यक्तेर्यत्तत्समवायः संबन्धः, तस्यैष महिमा येनाधारमाधेयं स्वबुद्ध्यानुरञ्जयति तस्माददोषः । अथवा तादात्म्यप्रतीतेरभेदोप्यस्तु, पूर्वोक्तन्यायेन भेदोऽपि, तस्मात्प्रमाणबलेन भिन्नाभिन्नत्वमेव युक्तम् ॥*॥ ननु विरुद्धौ भेदाभेदौ कथमेकत्र स्यातां न विरोधः सहदर्शनात् । यदि हि इदं रजतं नेदं रजतमितिवत्परस्परोपमर्देन भेदाभेदौ प्रतीयेयातां ततो विरुद्ध्येयातां, न तु तयोः परस्परोपमर्देन प्रतीतिः इयं गौरितिबुद्धिद्वयमपर्यायेण प्रतिभासमानमेकं वस्तु द्व्यात्मकं व्यवस्थापयति सामानाधिकरण्यं ह्यभेदमापादयति अपर्यायत्वं च भेदम्, अतः प्रतीतिबलादविरोधः ॥*॥ अपेक्षाभेदाच्च । तथाहि गोरूपेण निरूप्यमाणया जात्या व्यक्तिरभेदेन प्रतीयते गौरयं शाबलेय इति । यदा तु जातिर्वयक्त्यन्तरात्मना निरूप्यते तदेयं व्यक्तिसतो भिन्नरूपावसीयते योऽसौ बाहुलेय गौः सोऽयं शाबलेयो न भवतीति । एवं धर्मिणो द्रव्यस्य रसादिधर्मान्तररूपेण रूपादिभ्यां भेदो द्रव्यरूपेण चाभेदः । तथावयविनः स्वरूपेणावयवैरभेदोऽवयवान्तररूपेण त्ववयवान्तरैर्भेद इत्यूहनीयम् । तत्र यथा दीर्घह्रस्वादीनां विरुद्धस्वभावामामप्यपेक्षाभेदादेकत्राप्यविरुद्धं प्रतीतिबलादङ्गीक्रियते तथा भेदाभेदयोरपि द्रष्यव्यं प्रतीत्यविशेषात् ॥ प्राभाकरमतेन भेदाभेदासमानाधिकरण्ये आक्षेपः । कश्चित्पुनराह प्रतीतिरेव भेदाभेदभासिनी न संभवतीति विलक्षणरूपा प्रतीतिर्हि भेदावभासः तद्येन भेदप्रतिभाससमये जातिरूपं व्यक्तिरूपं च प्रतीतम्, तेनाभेदप्रतीतिवेलायां तयोरन्यतरत्प्रत्येतव्यम्, तत्रैकस्य द्विरवभासोऽयं भवेत्, न पुनरितरेणाभेदः प्रतीतो भवति, तस्मान्नास्ति भेदाभेदयोरेकत्र प्रतीतिः ॥*॥ तदिदमसारम् । न हि वस्तुद्वयप्रतीतिरेव भेदप्रतीतिः तद्भावेऽप्यभावात् । प्रथमं व्यक्तिदर्शनेऽपि ह्यस्ति जातिव्यक्त्योर्द्वयोः प्रतीतिर्नच तदा तयोर्भेदः प्रतीयते व्यक्त्यन्तरदर्शनेन तु जातेरन्वयात्पूर्वव्यक्तेश्च व्यतिरेकादन्वयव्यतिरेकाभ्यां जातिव्यक्त्योर्भेदोऽवधार्यत इति भवतोऽपि सिद्धान्तः । तथा देवदत्तमुपलभ्य कालान्तरे तत्सदृशं यज्ञदत्तं दूरात्पश्यन् पूर्वोपलब्धं च देवदत्तं स्मरन् वस्तुतस्तद्विलक्षणमेव पुरुषगद्वयं प्रत्येति तथापि न भेदमवधारयति संशेते हि किं स एवायं देवदत्तः किं वान्य इति । तस्माद्वस्तुद्वयप्रतीतिरेव बेदप्रतीतिरित्युक्तम् ॥*॥ तथा तमेव देवदत्तं किं वान्यः इति । तस्माद्वस्तुद्वयप्रतीतिरेव भेदप्रतीतिरित्युक्तम् ॥*॥ तथा तमेव देवदत्तं कालान्तरे दूरात्पश्यन्नपि किं स एवायमुतान्य इति । संदिहानो वस्तुगत्यैकमेव प्रतियन्नपि नाभेदमवधारययितुमलं भवति, तस्मान्न वस्तुद्वयप्रतीतिरेव भेदप्रतीतिः । नाप्येकवस्तुप्रतीतिरेवाभेदप्रतीतिः, किन्त्वन्योऽयमिति बुद्धिर्भेदावभासः अनन्योऽयमिति चाभेदावभासः । अस्ति च शाबलेयबाहुलेयावुपलभ्यमानस्य अयं गौरयमिति गौः इत्यभेदावभासः । अन्यः शाबलेयाद्बाहुलेय इति च भेदावभासः । तस्मादुपपन्नं भिन्नाभिन्नत्वम् ॥*॥ नन्वनुवृत्ता नित्यानुत्पत्तिविनाशधर्मा च जातिः, विपरीतस्वभावा च व्यक्तिः, कथं तयौरैक्यम् । नह्येकमेव वस्त्वनुवृत्तं व्यावृत्तं नित्यमनित्यमुत्पत्तिविनाशधर्मकमतद्धर्मकं च संभवति त्रैलोक्यसंकरप्रसङ्गात्, जातिरप्येवमनित्यत्वादिधर्मा स्यात्, व्यक्तिरपि नित्यत्वादिधर्मा । नैष दोषः । नानाकारं हि तद्वस्तु केनचिदाकारेण नित्यत्वादिकं केनचिच्चानित्यत्वादिकं बिभ्रन्न विरोत्स्यते । जातिरपि व्यक्तिरूपेणानित्या व्यक्तिरपि जात्यात्मना नित्येति नात्र काचिदनिष्टापत्तिः ॥ जातेः सर्वगतत्वाद्याक्षेपतत्परिहारौ ॥ यत्तु सर्वगता व्यक्तिगता वा जातिरिति विकल्पितं, तदपि व्यक्त्यात्मत्वाभिधानादेव परिहृतम् । व्यक्तेर्ह्यसावात्मा कथमन्यत्र स्यात् । नन्वेवं व्यक्तिदेशे व्यक्त्युत्पत्तेः प्रागविद्यमाना जातिः कथं तत्र पश्चाद्भवति, स्वकारणान्निष्पद्यमाना व्यक्तिर्जातिविशेषात्मना संबद्धैवोत्पद्यते नित्यत्वात् । नचान्यत्र आगच्छति अमूर्तत्वात् । उच्यते योऽपि देशान्तरादागत्यानेन देशेन संयुज्यते सोऽपि प्रागस्मिन्देशेऽविद्यमान एव कथमनेन देशेन संयोगमनुभवति कारणवशादिति व्यक्तम्, एवं जातिरपि कारणवशादेव व्यक्तिसंबन्धमनुभवति । इयास्तु विशेषः संयुज्यमानः पूर्वत्रावस्थितोऽनन्तरदेशेन प्रथमं संयुज्यते ततस्तदनन्तरदेशेनेति क्रमेण देशान्तरलसंयोगं गच्छति । तादात्म्यसमवाययोस्त्वनन्तरदेशमनपेक्ष्यैव स्वकारणतो निष्पत्तिः । न हि संयोगस्य स्वभावः स एव तादात्म्यस्य समवायस्य वाङ्गीकर्तव्यः । प्रमाणाभावात्, विलक्षणस्वभावत्वाद्भावानाम् । तस्माददोषः ॥*॥ यद्वास्तु सर्वगतं सामान्यम्, न च सर्वत्रोपलब्धिप्रसङ्गः व्यक्तीनामभिव्यञ्जकत्वात् । सर्वगतमपि सामान्यं व्यक्तेरेवात्मा तत्समवेतं वा । संयुक्तसमवायसंनिकर्षेण च सामान्यस्योपलम्भः, तेन च संनिकर्षो व्यक्तिदेशे एव संभवति नान्यत्रेति न सर्वत्रोपलब्धिः । अभेदेऽपि जातिव्यक्त्योर्भेदस्यापि विद्यमानत्वान्नित्यत्वान्नित्यत्वादिवत्सर्वगतत्वास्रवगतत्वमपि नानुपपन्नम् ॥*॥ यत्तु कार्त्स्न्येन वा अवयवशो वा वृत्तिरिति विकल्पितम्, तदप्ययुक्तम् । भेदापेक्षं हि कार्त्स्न्यं न च सामान्यस्य स्वरूपतोऽवयवतो वा भेदोस्ति एकत्वादनवयवत्वाच्च । निरवयवत्वादेवावयववशोऽपि वृत्तिरभाव्यैव । तस्माद्व्यक्तिषु जातिर्वर्तत इत्येतावदेवात्र वक्तुं शक्यते प्रमाणतोऽवगमात्, न कार्त्स्न्यभागविभागः प्रमाणाभावादसंभावाच्च । तथावयविनोऽप्यवयवेषु न कार्त्स्न्यं संभवति बहुत्वाभावात्तदेपक्षत्वाच्च कृत्स्नत्वव्यवहारस्य । अवयवशो वृत्तिरप्यवयवान्तराभावादयुक्तैव । किमिदानीमेकरूपैव सामान्यस्य व्यक्तिष्ववयवेषु चावयविनो वृत्तिः । नेत्युच्यते । सामान्यं प्रत्येकं वर्तत, अवयवीं तु व्यासज्येत्येवं विशेषः । व्यक्त्यन्तरमनपेक्ष्यैव व्यक्त्यन्तरे वर्तमाना स्वानुरूपां बुद्धिं जनयन्ती जातिः प्रत्येकमित्युच्यते न तु कात्स्न्येन वृत्तिः । अवयवी त्ववयवान्तराण्यपेक्ष्यावान्तरे वर्तमानः स्वाकारं बुद्धिं जनयन् व्यासज्य वर्तत इति व्यपदिश्यते । नह्येकस्यामेव व्यक्तौ गोबुद्धिवदेकस्मिन्नेव तन्तौ पटबुद्धिरुत्पद्यते ॥ संयोगविचारः ॥ संयोगस्येदानीं कथं संयोगिषु वृत्तिः किं जातिवत्किंवावयविवत् । उभयविलक्षणेति ब्रूमः । स हि संयोग्यन्तरमपेक्ष्य संयोग्यन्तरे वर्तते नानपेक्ष्येति न जातितुल्यत्वम् । एकत्रैव च स्वानुरूपां जनयति बुद्धिमिदमनेन संयुक्तमिदमनेन इति, तेनावयविनापि नातीव तुल्यत्वमित्युभयवैलक्षण्यम् ॥*॥ अथ संयोगः किमेक एव द्वयोः संयोगिनोरुत प्रतिसंयोगि भिन्नावेव संयोगौ । काश्यपीयास्तावत्संयोगमुभयोर्व्यासक्तमेकं मन्यन्ते वयं तु यथा इदमनेन सदृशमिदमनेनेति प्रतियोगिनमपेक्ष्येतरत्रेतरस्यावगम्यमानं सादृश्यं प्रतिधर्मिभिन्नं भवति तथा संयोगस्य तादृशबुद्धिविषयत्वाद्भेदमेव रोचयामहे । प्रकृतमनुसरामः तस्मान्न वृत्तिविकल्पादपि जात्यपह्नवः । यत्तु नित्यत्वाज्जातेः स्वविषयज्ञानजननासामर्थ्यान्न ग्राह्यत्वमिति । तदसत् । नित्यानामप्यर्थक्रियासामर्थ्यं क्षणभङ्गनिराकरणे वक्ष्यामः । न च हेतुलक्षणं ग्राह्यत्वम् । ज्ञानजन्यफलभागित्वलक्षणं हि तदिति शून्यवादे वर्णितम् । तस्मादयमप्यदोषः ॥*॥ यत्तु स्वलक्षणैरेव स्वानुभवद्वारेण गवादिविकल्पोदयसंभवादप्रामाणिकी जातिविकल्पनेति तदप्यसारम् । न हि जातिर्न दृश्यते येनैवमुपालम्भः स्यात् । उपजायमानं तु ज्ञानं स्वविषयभूतां जातिमुपस्थापयतीति नेदृशानां प्रलापनामवसरः ॥*॥ कथञ्चात्यन्तविलक्षणानि स्वलक्षणान्येकरूपं विज्ञानं जनयन्ति तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः इति स्थितेः । भवतो वा कथं विलक्षणानां विशेषाणामेकरूपसामान्यसंबन्धकारणत्वमितिचेत्, दात्म्यं समवायं वा भजन्ते ॥*॥ ननु हेतवो विलक्षणः कथमेकविधसामर्थ्ययुक्तानि स्वलक्षणानि जनयन्ति । न जनयेयुर्यदि विलक्षणाः स्युस्तेऽपि त्वेकजातीया एव ॥ नन्वेवं तत्संबन्धसिध्यर्थपरापरजात्यपेक्षायामनवस्था । नैष दोषः, यथा तालबीजमेकजातीयं परिणामपरंपरया तालजातीसंबद्धां व्यक्तिमुपजनयति, सापि तथैव स्वकारणभूतबीजसमानजातीयं बीजान्तरम् । तथैकजातीयच्छुक्राद्गोजातीयव्यक्तिनिष्पत्तिः, तस्यां च तज्जातीयशुक्रनिष्पत्तिरिति नात्यन्तं तादात्म्यापत्तिः । तस्मादस्त्येकमाकृतिजातिसामान्यशब्दाभिलपनीयं शाबलेयादिष्वनुगतम् ॥ इत्याकृतिवादः । सादृश्यादीनां सामान्यत्वखण्डनम् । नच सादृश्यमेव सामान्यं तद्बुद्ध्यभावात, स एवायमिति प्रतीतिर्न तत्तत्सदृश इति । न च सर्वसामान्यापह्नववादिनः सादृश्यमपि संभवति भूयोवयवसामान्यात्मकत्वात्तस्य ॥ ॥ न चातद्व्यावृत्तिरूपमपि समान्यमनङ्गीकृतविधिरूपसामान्येन शक्यते प्रत्येतुम् । अगोव्यावृत्तिं हि प्रतीयतावश्यं प्रथममेव गौः प्रत्येतव्यः । न हि तेभ्यो व्यतिरेकरूपमपहायाश्वादिव्यक्तीनां प्रातिस्विकेन रूपेण संभवति । तेषामनन्तानां बुद्धावनारोहात्, अनारूढेषु च तेषु तद्व्यावृत्तिरूपस्य गोः प्रत्येतुमशक्यत्वात् । गौर्गौरिति च विधिरूपं सामान्यमवगम्यमानं कथं निवृत्तिरूपं शक्यमङ्गीकर्तुम् । तस्मादिदमतिपेलवं दर्शनम् । तस्मादस्ति जातिः । इत्यपोहवादः ॥ अवयवविचारः । एतेनावयवि व्याख्यातः । तस्याप्यवयवेभ्यो भेदोऽभेदो वेति विकल्पे भेदं समवायसंबन्धमवयवगुणेभ्यश्च तत्र विशेषगुणानामुत्पत्तिमचक्षते वैशेषिकाः । ये च स्वसमवेतविशेषणविशिष्टाः स्वाश्रयस्यैकजातीयस्य परिच्छेदकास्ते विशेषगुणा इत्याहुः । वयं तु भिन्नाभिन्नत्वम् । नहितन्तुभ्यः शिरःपाण्यादिभ्यो नावयेभ्यो निष्कृष्टः पटो देवदत्तो वा प्रतीयते । तन्तुपाण्यादयोऽवयवा एव पटाद्यात्मना प्रतीयन्ते । विद्यते च देवदत्ते अस्य हस्तः शिर इत्यादिः कियानपि भेदावभास इत्युपपन्नमुभयात्मकत्वम् । तस्मादवयवानामेवावस्थान्तरमवयवी न द्राव्यान्तरम् । त एव हि संयोगविशेषवशादकद्रव्यतामापद्यतेस तदात्मना च महत्वं पटजातिं च विभ्रतः पटबुद्ध्या गृह्यन्ते । तेन पटात्मना तेषामेकत्वमवयवात्मना तु नानात्वमुपपन्नम् ॥*॥ यदपि रूपादयः कार्ये गुणमारभते इत्युक्तं तदपरि गुणद्वयप्रतीत्यभावीन्नातीतवास्मभ्यं रोचते । यदि हि द्वौ गुणौ प्रतीयेयातां तन्तुष्वेकः पटे चापरस्ततः कार्यकारणभावं प्रतिपद्येयाताम् । यत्रापि नानारूपैः शुक्लकृष्णरक्तपीतैस्तन्तुभिरारभ्यते पटस्तस्त्रापि त एव वर्णाः पटगताः प्रतीयन्ते न रूपान्तरम् ॥ चित्रैकरूपनिराकरणम् । ननु चित्रः पट इति प्रतीयते न तु शुक्लः पूत इति वा, तस्माच्चित्राख्यं रूपान्तरमत्रोत्पन्नम् । नैवम् । चित्रं लोकविरोधादेवायुक्तमङ्गीकर्तुम् । नानारूपाणामपि चावयवभेदद्वारेणैकस्मिन्नपि पटे समवायो नानुपपन्नः । एतेन संयोगजसंयोगो निरस्तो वेदितव्यः । यथा देवदत्तसंयोग एव तस्मिन्कुण्डलिसंयोगो भवति तथा तन्तुतुरीसंयोग एव तन्तौ पटभावमापन्ने पटतुरीसंयोगो भवति न संयोगान्तरं प्रतीत्यभावादित्यलमतिविस्तरेण । तस्मादस्त्येवावयवी । वृत्तिः स्वावयवेष्वस्य व्यासज्येति प्रदर्शितम् ॥ तेनास्यवयविद्रव्यं सामान्यं चास्ति सर्वगम् ॥ इत्यवयविवादः ॥ वर्णानामभिधातृत्वमाकृतेश्चाभिधेयताम् ॥ कथयित्वाथ संबन्धकथैव प्रकृतोच्यते ॥ ज्ञाप्यज्ञापकभावश्च संबन्धः प्रागुदीरितः ॥ तन्नित्यत्वं यदाक्षिप्तं तत्समाधीयतेऽधुना ॥ एवं हि पूर्वमुक्तं यस्मात्प्रथमश्रवणे शब्दोर्ऽथं न प्रत्याययति तस्मान्नास्य स्वाभाविकमिन्द्रियवत्प्रत्यायकत्वम् । अस्यायमर्थः । इति पुरुषेण कथिते प्रत्याययति ततो नूनमस्य पुरुषकृतं प्रत्यायकत्वमिति पौरुषेय एव संबन्ध इति ॥*॥ तत्राभिधीयते नह्यस्यायमर्थ इति संबन्धकरणमिदम्, प्रसिद्धसंबन्धकथनं ह्येतत् । कथमवगम्यते अर्थान्तरकथने बहुभिर्निवारणात् । यो हि कश्चित्कस्मैचित्गोशब्दस्याश्वं गवयं वार्थमाह तमन्ये निवारयन्ति नायमस्यार्थः सास्नादिमानस्यार्थ इति, संबन्धक्रियापक्षे च देवदत्तादिवद्येनैव संबन्धः क्रियते स एवार्थ इति निवारणं नोपपद्यते । तस्मान्न तावदर्वाचीनः पुरुषा अस्य शब्दस्यायमर्थ इति वदन्तोपि तत्संबन्धकर्तृत्वेनाशङ्कनीयाः । यदिपरमेवं स्यात्सर्गादिकाले भगवता प्रजापतिना सर्वमेव स्थावरजङ्गमं धर्माधर्मौ त सृष्ट्वा संव्यवहाराय च शब्दानामर्थैः संबन्धं कृत्वा धर्माधर्मप्रतिपादनाय च कृतसंबन्धैः पदैर्वेदान्कृत्वात्मजेभ्यो मरीच्यादिभ्यः शब्दार्थसंबन्धो वेदाश्च प्रतिपादितास्तैरप्यन्येभ्यस्तैरप्यन्येभ्य इत्येवं पूर्वपूर्वेभ्यः प्रतिपद्योत्तरोत्तरेषां शब्दार्थप्रतिपत्तिर्व्यवहारश्चेति ॥*॥ तदप्ययुक्तम् । इत्थंभावे प्रमाणाभावात्प्रथमश्रुतावप्रतीतिरेव प्रमाणं सामयिकत्वे ह्यप्रतिपन्नसमयानामप्रतीतिः प्रतिपन्नसमयानां च प्रतीतिर्देवदत्तादिशब्दवदुपपन्ना भवति, स्वाभाविके तु प्रत्यायकत्वे प्रथमश्रवणेऽपि प्रतीतिः स्यादितिचेन्न । स्वाभाविकमपि प्रत्यायकत्वमवगतं सदर्थप्रतिपत्तौ निमित्तं नाप्रतिपन्नमिति युक्तैव प्रथमश्रवणेर्ऽथस्याप्रतीतिः । न च सर्गादिर्नाम कश्चित्कालोऽस्ति, सर्वदाहीदृशमेव जगदिति दृष्टानुसारादवगन्तुमुचितम् । न तु स कालोऽभूत्यदा सर्वमिदं नासीदिति । प्रमाणाभावात् । मन्त्रार्थवादेतिहासपुराणादिः प्रमाणमिति चेत् । न । वेदानां पौरुषेयसंबन्धापेक्षाणां स्वयं च पौरुषेयाणां शाक्यादिग्रन्थवदतीन्द्रियार्थे प्रामाण्यासंभवात् । तदप्रामाम्ये च तन्मूलानां धर्मशास्त्रीदीनां दूरनिरस्तमेव प्रामाण्यम् । सर्वाभावे च सृष्टिरपि न संभवति । मृत्ततन्त्वाद्युपादानेन हि घटादीन्युपादीयन्ते । सर्वाभावे हि केनोपादेन सर्वमिदमुपादेयम् ॥ अद्वैतमतेन पूर्वपक्षः । स्यान्मतम् । आत्मैवैको जगदादावासीत्स एव स्वेच्छया व्योमादि परिणमति बीजमिव वृक्षरूपेण, चिदेकरसं ब्रह्म कथं जडरूपेण परिणमतीति चेत् । न परमार्थतः परिणामं ब्रूमः किन्त्वपरिणमते परिणतवदेकमेव सदनेकधा मुखमिवादर्शादिष्वविद्यावशाद्विवर्तमानमात्मैवात्मानं चिद्रूपं जडरूपमिवाद्वितीयं सद्वितीयमिव पश्यति । सेयमविद्योपादाना स्वप्नप्रपञ्चवन्महदादिप्रपञ्चसृष्टिः । तथाच सर्वं खल्विदं ब्रह्म, आत्मैवेदं सर्वं नैह नानास्ति किञ्चने इत्यादयो बहवोऽद्वेतवादाः । तथा इन्द्रो मायाभिः पुरुरूप ईयते इति भेदावगतेर्व्यक्तमेव मायानिबन्धनत्वं दर्शितम् । तथा लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्विदेत्यादिनानात्मदर्शने निन्दा मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतीति च नानात्वदर्शननिन्दा सर्वमिदमद्वितीयमेव ब्रह्म पारमार्थिकं भेददृष्टिश्चाविद्योपादानेत्येतमर्थं प्रकटयतीति ॥ उक्ताद्वैतमतखण्डनम् । किमिदानीमसन्नेवायं प्रपञ्चः । ओमितिचेत् । न । प्रत्यक्षविरोधात् । तथा च प्रत्यक्षं प्रपञ्चसद्भावग्राहकं प्रत्यक्षसूत्रे । नचागमे प्रत्यक्षबाधः संभवति प्रत्यक्षस्य शीघ्रप्रवृत्तत्वेन सर्वेभ्यो बलीयस्त्वात् । न च पौर्वापर्यन्यायेन प्रवृत्तमेव प्रत्यक्षमागमेन पश्चाद्बाध्यत इति वाच्यम् । आगमस्य प्रत्यक्षेण प्रवृत्तिविरोधात् । आगमप्रवृत्तिसमयेऽपि हि बेदप्रपञ्चमुपदर्शयत्प्रत्यक्षमागमप्रवृत्तिमेव निरुणद्धि । यथा खलूत्पत्तुमुपक्रममाण एव घटो दण्डेनाहन्यमानो नोत्पत्तुं प्रभवति तथागमोपि । किञ्च प्रपञ्चाभावं प्रतियतावश्यमागमोपि प्रपञ्चान्तर्गतत्वादसद्रूपतया प्रत्येतव्यः । कथं चागमेनैवागमस्याभावः प्रतीयेत, असद्रूपतया हि प्रतीयमानो न कस्यचिदप्यर्थस्य प्रमाणं स्यात्, प्रामाण्ये वा नासत्वम् ॥ ॥ कश्चित्पुनराह प्रपञ्चस्य नासत्वं ब्रूमः । प्रत्यश्रक्षादि प्रमाणतः सिद्धत्वात् । नापि परमार्थतः सत्वमात्मज्ञानेन बाध्यमानत्वात् । तस्मात्सदसद्भावनिर्वाच्योऽयं प्रपञ्च इति ॥ ॥ तदिदमसारम् । सतोऽन्यत्वमेवासत्वम्, तद्यदि प्रपञ्चः सन्न भवति व्यक्तमसन्नेवायम्, असत्वाभावे वासत्वापत्तिः, सदसत्वयोरेकनिषेधस्येतरविधिनान्तरीयकत्वात् । न च विधाद्वयरहिते विधान्तरं सम्भवति अथापि यन्न कदाचित्प्रतीयते तदसत्, यथा शशविषाणम्,यत्प्रतीतं कदाचिद्बाध्यते तत्सत्यथात्मतत्वं, प्रपञ्चस्तु प्रतीयमानत्वाद्बाध्यमानत्वाच्च भावाभावाभ्यासनिर्वाच्च इति मतम् । तदनुपपन्नम्, लोकविरोधात् । यद्धि प्रतीतं बाध्यते मृगतोयपज्जुसर्पादि तदसदेवेति हि लौकिकी प्रसिद्धिः । न हि शशविषाणादीनां मृगतोयादीनां च कश्चिद्विशेषो लोके, सोयं प्रपञ्चोपि बाद्यते चेतसन्नेवेति नानिर्वाचितत्वम् । अथापि लोकप्रसिद्धिमनादृत्य वृद्धयादिवत्परिभाषारूपेणानिर्वाच्य इत्युच्यते, तथाप्ययुक्तम् प्रपञ्चस्य बाध्यत्वाभावात्, न तावत्संसारावस्थायामागमेन बाधः सम्भवतीत्युक्तम् । मुक्तस्य तु बाधकज्ञानं नाशङ्कनीयमेव प्रलीनसर्वकरणत्वात्, करणाभावे च ज्ञानासम्भवात् । नचास्मर्यमाणस्य प्रपञ्चस्याभावः शक्यते प्रत्येतुम् । नच तस्यामवस्थायां सम्भवति स्मरणमं सर्वसंस्काराणामुच्छिन्नत्वात्तस्मान्न बाधसम्भवः ॥ ॥ यच्चाविद्याकृतोऽयं प्रपञ्च इति, सा कस्य न ब्रह्मणस्तस्य स्वच्छविद्यारूपत्वात् । नहि भास्करे तिमिरस्यावकाशः सम्भवति । नच जीवानाम् । तेषां ब्रह्मातिरेकेणाबावात्भ्रान्त्यभावादेव च तत्कारणभूतं वस्त्वन्तरमप्यनुपपन्नमेव । ब्रह्मातिरेकेण भ्रान्तिज्ञानं तत्कारणं चाप्युपगच्छतामद्वैतहानिः ॥*॥ तत्किङ्कृता च ब्रह्मणो विद्या, न हि कारणान्तरमस्ति । स्वाभाविकीतिचेत्कथं विद्यास्वभावमविद्यास्वभावं स्यात् । स्वाभाविकत्वे चास्याः केन विनाशः स्यात् । आगमिकं ध्यानादि तज्जन्यं वा स्वरूपज्ञानं ब्रह्माविद्यां नाशयतीति चेत्, न, नह्यागमो वा ध्यानादयो वा तज्जन्यं वा ज्ञानं नित्यज्ञानात्मकब्रह्मातिरिक्तमस्ति यदविद्यां नाशयेत् । तद्वरमस्मान्मायावादान्माहायानिकवादः । यत्र नीलपीतादिवैचित्र्यं कार्यकारणभावो बद्धमुक्तादिव्यवस्था च संतानभेदेन समर्थ्यते । नित्यमेकरसं निष्प्रपञ्चमात्मानमुपेयुषां तु समस्तलोकवेदजव्यवहारोच्छित्तिरेव स्यात् ॥*॥ यदप्याहुः अज्ञानजन्यः प्रपञ्चो ज्ञानेन विनाश्यते मृगतोयवत्स्वप्नप्रपञ्चवच्चेति । तदप्ययुक्तं यदि कुलालादिव्यापारस्थानीयेनाज्ञानेन घटवदुत्पन्नः प्रपञ्चो मुसलस्थानीयेन ज्ञानेन नाश्यते, तथापि नासत्वं प्रपञ्चस्य स्यात्, उत्पत्तिविनाशयोगादिनित्यतामात्रं स्यान्नात्यन्ताभावः ॥*॥ केन च ज्ञानेन नाशः, नात्मज्ञानेन, विरोधाभावात् । निष्प्रपञ्चात्मज्ञानेनेतिचेत्, न, तत्रात्मज्ञानांशस्याविरोधात् । निष्प्रपञ्चत्वज्ञानं विनाशकमिति पारिशेष्यादापन्नं प्रपञ्चाभावश्च निष्प्रपञ्चत्वं, न च विद्यमानं प्रपञ्चे तदभावज्ञानमुत्पत्तुमर्हति । ज्ञानेन ह्युत्पन्नेन प्रपञ्चो नाशयितव्यः प्राक्च ज्ञानात्सद्रूप एव प्रपञ्चस्तिस्मिन्सद्रूपेऽवस्थिते कथं तदभावविषयस्य ज्ञानस्योत्पत्तिः । तत्र ज्ञानोत्पत्तौ सत्यां प्रपञ्चस्य नाशः, तद्विनाशे च सति तदभावविषयज्ञानोत्पत्तिरितीतरेतराश्रयत्वम् ॥*॥ एतेन मृगतृष्णिकाजलस्य ज्ञानविनाश्यत्वं प्रत्यूढम् । न हि तज्जलं सत्पश्चान्नाश्यते प्रागपि हि तत्र नैव जलं, अजलमेव हि रश्मिप्रतप्तमूषरं भ्रान्त्या जलात्मनावगतं पश्चाद्बाधकेन यथावस्थितरूपमवगम्यत इत्यलमनेन बालजल्पितेन ॥ इत्यद्वैतमतनिरासः ॥ अर्धजरतीयाद्वैतवादेन पूर्वपक्षः ॥ केचित्त्वौपनिषदाः परमार्थत एवात्मा प्रपञ्चरूपेण स्वेच्छया परिणमतीति मन्यन्ते,तथा च सा सदेव सोम्येदमग्र आसीदेकमेवाद्वितीय तदैक्षत बहुस्यां प्रजायेय इत्येकस्यैव सन्मात्ररूपतया प्रागवस्थितात्मनोऽनेकव्योमादिभेदभिन्नप्रपञ्चरूपेण बीजस्येव परिणामो दर्शितः, तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यौपनिषदां वादाः पुराणवादाश्चास्मिन्नर्थे शतशो दृश्यन्ते । पुरुष एवेदं सर्वं नेह नानास्ति किञ्चन इत्यादि तु धर्मिभेदाबावाभिप्रायम्, तद्यथैको वृक्षः प्रादेशमात्रादूर्ध्वं नानाशाखोऽवस्थितो दूरस्थैर्नानावृक्षा इति, तथा नामरूपप्रपञ्चं नानारूपं पश्यतां, मूलकारणस्यैकस्यात्मनोऽयं नानारूपः परिणाम इत्येवमजानतां तत्त्वकथनार्था एवंविधा वादाः । सर्वमेकस्यैव विस्तारो न किञ्चिदत्र नानास्तीति ॥*॥ ये च पुनरसत्त्ववादाः प्रपञ्चविषया अविद्यावादा भ्रान्तिवादा मायावादाश्च ते सर्वे प्रपञ्चस्यानित्यत्वादौपचारिकाः । यथा मृगतोयरज्जुसर्पस्वप्नप्रपञ्चादयः किञ्चित्कालमाविर्भूय पश्चाद्विलीयन्ते तथा भेदप्रपञ्चरूपो ब्रह्मपरिणामोऽप्याविर्भवति विलीयते चेत्याविर्भावतिरोभावधर्मकत्वसाम्यादसन्नित्युपचर्यते, तस्य चासत्कल्पत्वे तद्विषयस्य ज्ञानस्यापि सिद्ध्यत्यौपचारिकं भ्रान्तित्वम् । मायानिबन्धनत्वं च इन्द्रो मायाभिः पुरुरूप ईयते इत्यादिषु युक्तमुपचारेण वक्तुम् । आत्मैवैकः सत्यः इचि च तस्यैव नित्यत्वादुच्यते, यथा गो अश्वा एव पशवोऽन्येत्वपशव इति तदेवं द्रष्टव्यम् ॥*॥ यस्त्वेवंविधान्वादान्यथाश्रुतार्थान्गृह्णाति स पश्वन्तरेष्वपशुत्ववादमादित्यो यूपः इत्यादि च यथाश्रुतं गृह्णीयात् । अथ तत्र प्रमाणान्तरविरोधः सोऽत्रापि समानः । अथार्थवादत्वात्तत्र न यथाश्रुतार्थग्रहणं, तदपि समानम् । प्रपञ्चस्याप्यसत्यत्वं वैराग्यजननार्थम्, आत्मनश्च परमार्थत्वं मुमुक्षूणामुत्साहजननार्थम् । विस्पष्टं चैतन्मृत्पिण्डविकारदृष्टान्तदर्शनात् । ततश्च यथा कारणभूतमृत्पिण्डज्ञानेन मृन्मयो विकारः सर्वो विज्ञातो भवति शरावादिविकारो हि वाचारम्भणं नामधेयमात्रं मृत्तिकस्यैव सत्यं, एवं प्रपञ्चस्येव सत्यं, एवं प्रपञ्चोपि सद्विज्ञानेन विज्ञातो भवति विकारो हि वाचारम्भणं नामधेयमात्रं सदित्येव सत्यमित्युक्ते ज्ञायत एतत्यथाविर्भावतिरोभावधर्मा नानाविधो विकारः शरावादिः प्रपञ्चो मृत्तिका च सर्वत्रानपायिनी तेषां कारणं कार्यकारणयोश्चावस्थामात्रभेदात्स्वरूपभेदाभावात्कारणज्ञानेन तत्सर्वं कार्यमवस्थाभेदेनाज्ञातमपि स्वरूपेण ज्ञातं भवति । तथा प्रपञ्चोप्याविर्भावतिरोभावधर्मानवस्थायी तत्कारणं चात्मा सद्रूपः सर्वानुयायी नापायधर्मा । तस्मिन्विज्ञाते सर्वं तदात्मकमविज्ञातमपि व्यासरूपेण समासेन ज्ञातं भवतीत्येतदत्र विवक्षितमिति, तस्मादेकस्यैवात्मनः परिणामोऽयं भेदप्रपञ्चो नन्वसन्नेव । असत्वे हि कथं सद्विज्ञानेन विज्ञातः स्याच्छशविषाणवत् । न हि मृत्पिण्डे विज्ञाते सति शशविषाणं विज्ञातं भवति तथा प्रपञ्चोपि स्यात्, ततस्तु प्रस्तुतहानिरेव स्यातेकोप्यात्मान्तःकरणोपाधिभेदाद्भिन्नो जीव इत्युच्यते जीवभेदाच्च बन्धमुक्तिव्यवस्थाप्युपपन्नेति ॥*॥ तदिदमयुक्तम् । चिद्रूपस्यात्मनो जडरूपपरिणामासंभवात् । एकत्वे चात्मनः सर्वशरीरे मे दुःखमिति, पादे मे मुखं शिरसि मे वेदनेतिवत्सर्वसुखदुःखोपलब्धिश्च स्यात् । अन्तःकरणोपाधिभेदादभिन्नो जीव इत्युच्यते जीवभेदाच्च बन्धमुक्तिव्यवस्थाप्युपपन्नेति ॥*॥ तदिदमयुक्तम् । चिद्रूपस्यात्मनो जडरूपपरिणामासंभवात् । एकत्वे चात्मनः सर्वशरीरेषु प्रतसंधानं स्यात्देवदत्तोऽहं यज्ञदत्तोऽहमेवेति, तथा देवदत्तशरीरे मे सुखं यज्ञदत्तशरीरे मे दुःखमिति, पादे मे सुखं शिरसि मे वेदनेतिवत्सर्वसुखदुःखोपलब्धिश्च स्यात् । अन्तःकरणभेदाद्व्यवस्थेतिचेत् । अचेतनत्वात् । नह्यन्तःकरणं सुखदुःखे अनुभवति अचेतनत्वात्, आत्मा त्वनुभविता स च सर्वत्रैक इति कः प्रतिसंधानं वारयेत्, तस्मादिदमपि नातीव सुन्दरमिति ॥ इत्यात्मपरिणामवादनिरासः ॥ सांख्यमतेन पूर्वपक्षः । आत्मभेदं प्रकृतिपरिणामं च जगत्सांख्या मन्यन्ते । द्विविधं च सांख्यं निरीश्वरं सेश्वरं च । नीरीश्वरवादिस्तावगदाहुः प्रकृतिरचेतना त्रिगुणात्मिका प्रधानशब्दाभिधेय महदादिविशेषपर्यन्तेन प्रपञ्चरूपेण चेतनानामुपभोगाय परिणामतीति । सेश्वरवादिनोऽप्येवमाहुः, इयांस्तु विशेषः पुरुषशब्दाभिधेयमीश्वरं क्लेशकर्मविपाकाशयैरपरामृष्टमाश्रित्य प्रकृतिर्जगत्सृजतीति । यथा हि संस्कृतं क्षेत्रमधिष्ठाय तत्संपर्कवशाद्बीजमङ्कुरादिक्रमेण महान्तं वृक्षमारभते तथा सर्वव्यापिनी प्रकृतिस्तत्संपर्कवशान्महदहङ्कारतन्मात्रादिक्रमेण परिणमन्ती विशेषान्तं प्रपञ्चमारभच इति । इतिहासपुराणेष्वपि प्रायेणैतदेव मतम् । सेयं प्रकृत्युपादाना सृष्टिः, ईश्वरस्तु निमित्तमात्रम् । क्षेत्रज्ञास्तु भोक्तारः, प्रकृतिरेव तु सर्वकार्याणां कर्त्रीति भोग्या । सा च सर्वत्रैका भोक्तॄणां च भेदाद्बद्धमुक्तव्यवस्थोपपत्तिः । तथा च अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजा जनयन्तीं सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगमजोऽन्यः इति व्यक्तमेव भोग्यायाः दास्तर्ह्यैपनिषदाः कथं, अवैलक्षण्येनेति ब्रूमः भेदशब्दो हि वैलक्षण्यवचनो लोके प्रसिद्धः । तथाहि सुसदृशेषु वक्तारो भवन्ति, नास्यास्य च कश्चिद्भेदोऽस्तीति, तथात्मनामपि नरपशुतिर्यग्भेदभिन्नशरीरवर्तिनां शरीरसंबन्धमपोह्य केवलं नैजरूपेण निरूप्यमाणानां पद्मरजःपरमाणुद्वयवन्न किञ्चिदपि वैलक्षण्यमस्तीत्यनेनाभिप्रायेणैकत्ववादा नानात्वनिषेधवादाश्च । एतदभिप्रायमेव चैतदपि भदवद्वासुदेववचनं विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः इति । तथैव इन्द्रो मायाभिः पुरुरूप ईर्यते इति स्वयमविलक्षणोऽप्यात्मा नरपश्वादिविचित्रशरीरसंपर्कवशाद्भ्रान्त्या स्वयमपि विलक्षणरूपः प्रतीयत इत्यर्थः । ये च भुक्तानां क्षेत्रज्ञानामीश्वरेण सहैकत्वादास्तेप्यत्यन्तसाम्याद्वैलक्षण्याभावाच्च । तथा च श्रुत्यन्तरम्, यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ॥ तदा विद्वान्पुण्यपापे विधूय निरञ्चनः परमं साम्यमुपैति इतीश्वरसादृश्यापत्तिमेव मुक्तस्य दर्शयति । तथा भगवता वासुदेवेनाप्युक्तमिदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ॥ सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति ॥*॥ यत्तु ममैवांशो जीवलोके जीवभूतः सनातनः इति भगवद्वचनं तत्स्वामिभृत्यभावपरं यथा खल्वमात्या राज्ञोंशा व्यपदिश्यन्ते तथा जीवोपीश्वरांश इत्युच्यते । अन्यथा जीवत्वनाशात्सनातनत्वानुपपत्तिः ॥*॥ यान्यपि विभेदजनके ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति इत्यादीनि पुराणवचनानि तेषायमेवार्थः वैलक्षण्यमात्मनो ब्रह्मणश्चान्यत्वमत्यन्तमविद्यमानमेवाज्ञाननिमित्तमज्ञाने विनष्टे स्वयमेव विलीयत इति । विस्पष्टं हि परापरपुरुषयोर्भेदे गीतादिपूपदर्शितः उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । उपद्रशष्टानुमन्ता च कर्ता भोक्ता महेश्वरः ॥ परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषःपरः इति । अलमतिदूरं गत्वा । तस्मात्प्रकृत्युपादानेयं प्रपञ्चसृष्टिरिति नानुपादानोपालम्भः ॥ सांख्यमतखण्डनम् । अत्राभिधीयते कथं खल्वेकरूपा प्रकृतिर्नरपशुतिर्यग्भेदभिन्नं प्रपञ्चमारभते नह्यविलक्षणं कारणं विलक्षणं कार्यं निर्मातुमर्हति । क्षेत्रज्ञगतधर्माधर्मसहायवैचित्र्याद्वैचित्र्यमितचेत् । न । अन्तःकरणवृत्तित्वाद्धर्मादर्मयोः, अन्तकरणस्य च कार्यवर्गान्तःपातित्वात्सर्वस्य महदादेः कार्यस्य प्राकृतप्रतिसंचारे प्रकृतौ विलीनत्वाद्धर्माधर्मावपि तस्यामवस्थायामविद्यमानावेवेति न तद्बलेन वैचित्र्यम् । महदादिविकारारम्भे चास्याः किं कारणं, स्वरूपमेवेतिचेत् सर्वदाऽरम्भप्रसङ्गस्ततः प्रलयानुपपत्तिः । ईश्वरेच्छया विक्रियत इचिचेत् । न । ईश्वरस्य समस्तक्लेशरहितस्यापास्तसमस्तकामस्येच्छासंभावात्, इच्छायाश्चाप्यन्तःकरणधर्मत्वात्तस्मिन्काले तदसंभवात् ॥*॥ किञ्च प्राकृते प्रलये प्रकृतमात्रमात्मानश्च केवलमवतिष्ठन्ते, सर्वे चात्मानो निर्विशेषाः सर्वेषां चैतन्यमात्ररूपत्वात् । नच धर्माधर्मकृतमपि वैलक्षण्यमात्मानां संभवति, तयोरात्मधर्मत्वाभावात्, अन्तःकरणवृत्तित्वात्तस्य च तदानीमभावादित्युक्तम् । एवं च धर्माधर्मरहितेषु निर्विशेशेषु पुरुषेष्ववस्थितेषु सर्गकाले प्रकृतिः शरीरारम्भेणात्मनो बध्नातीति चेत्, ये पूर्वसृष्टौ स्थिताः, ये च ब्रह्महत्याकारिणस्तेषां सर्वेषामैकविध्यमेव स्यात्पूर्वकृतयोर्धर्माधर्मयोर्नष्टत्वत् ॥*॥ ननु नाशो नाम नात्यन्ताभावः किन्तु कारणे कार्याणां तिरोभावमात्रं विनाशः, उत्पत्तिरपि विद्यमानानमेव कारणे कार्याणामाविर्भवमात्रं सर्वं कार्याणां न स्यात्, तन्तुभ्यः पटो मृत्तो घट इति । यथाहुः असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच्च सत्कार्यमिति । तथा नासतो विद्यते भावो नाभावो विद्यते सतः इति भगवद्वासुदेववचनम् । तस्मात्प्रलये धर्मादेः शक्त्यात्मनवस्थितत्वात्तद्वशेन युक्तं सृष्टिवैचित्र्यम् । नैतदेवं न हि मृत्पिण्डावस्थायां वा कपालावस्थायां वा घटरूपमस्ति दृश्यादर्शनविरोधात् ॥*॥ यत्तु नासतो विद्यते भावः इति वचनं तदात्माभिप्रायं, पूर्वत्र हि नत्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ॥ नचैव नभविष्यामः सर्वे वयमतः परम्, इत्यात्मनित्यत्वं प्रतिपादयितुमुपक्रान्तमेवानेनोच्यते नाविद्यमानस्यात्मन उत्पत्तिर्न विद्यमानस्य विनाशः सर्वे एवात्मनोऽनुत्पत्तिविनाशधर्माणो नित्या इति, न पुनः कार्यजातस्य सर्वस्य नित्यत्वाभिप्रायम्, असर्वगतत्वादनुपलब्धिविरोधाच्चेत्युक्तम् ॥*॥ यदि परमुपादानोपादेययोरभेदमाश्रित्य मृदात्मनादौ घटो व्यवस्थित इत्युच्यते, न च तावता कार्यसिद्धिः । नहि मृदवस्थेन घटे नोदकाहरणं क्रियते । तथा धर्माधर्मावपि स्वरूपेणाविद्यमानौ प्रकृत्यात्मना स्थितावपि न स्वकार्याय पर्याप्याविति न तद्वशेन वैचित्र्यसंभवः । प्रमाणमपि महदादिक्रमेण प्रकृतिपरिणामे किञ्चिन्नास्ति पुरुषवचसां प्रमाणान्तरगोचरार्थे प्रमाणत्वासंभवात्, वेदानामपि पोरुषेयत्वादितरपुरुषवचनवदप्रमाण्यात् ॥*॥ यदि चु सृष्टिप्रलयपरम्परामनादिमङ्गीकृत्य प्रतिसृष्टि सर्वेषां चैव नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे इत्यादिवचनैः ऋतुलिङ्गन्यायेन नामप्रभावव्यवहारवस्तूत्पत्त्या शब्दानामनाद्यर्थसंबद्धानां वेदानां च नित्यत्वमाश्रित्य प्रामाण्यमङ्गीक्रियते, तथाप्येकस्य प्रजापतेः संप्रदायप्रवर्तकत्वे कृतकाशङ्का स्यादेव । अथ पुनः अष्टाशीतिसहस्राणि संप्रदायप्रवर्तकाः इत्यादिवचनानुरोधेन बहूनां महर्षीणां सृष्ट्यन्तराधीतं वेदं स्मरतां सुप्तप्रतिबुद्धन्यायेन संप्रदायप्रवर्तकत्वमाश्रित्य कृतकाशङ्कां निरस्य नित्यता समर्थ्येत, तथाप्यनुपादानां जगन्निर्माणमशक्यमभ्युपगन्तुं, (प्रकृत्यादीनां ह्युपादानत्वं निरस्तम् ।) औपनिषदास्तु सृष्टिप्रलयवादाः पौराणिकाश्चार्थवादतया नेतव्याः । भवतु चैवं तथापि नास्माकं काचित्क्षतिः । संबन्धनित्यत्ववेदप्रामाण्ययोरविघातात् ॥ इति सांख्यमतनिरासः ॥ वैशेषिकमतेन पूर्वपक्षः । वैशेषिकास्तु पौरुषेयत्वमेव शब्दार्थसंबन्धानां वेदानां चाङ्गीकुर्वन्तोऽनुमानेन सृष्टिप्रलयावीश्वरं च सिषाधयिषन्तः प्रयोगमारचयन्ति त्रिविधं हि वस्तुजातं संप्रतिपन्नचेतनकर्तृकं घटादि, संप्रतिपन्नातत्कर्तृकं व्योमादि, विप्रतिपन्नतत्कर्तृकं महीमहीधरदूर्वाङ्कुरादि, तत्रान्तिममधिकृत्योच्यते क्षित्यादिकं बुद्धिमत्कर्तृकं कार्यत्वात्घटादिवत् । कार्यत्वं च क्षित्यादेः सावयवत्वात्घटादिवत् ॥*॥ किं पुनः पृथिव्यादेः समवायिकारणम्, पार्थिवाप्यतैजसवायीयपरमाणुजातं यथास्वं पृथिव्यप्तेजोवायूनां समवायिकारणं, न हि प्रलये परमाणूनां प्रलयोऽस्माकमस्ति सांख्यादिवत् । कार्यद्रव्याणि तु द्व्यणुकादीनि सर्वाण्येवेश्वरेच्छया विश्लिष्टावयवानि प्रलीयन्ते, परमाणवस्तु मिथोऽसंयुक्तास्तिष्ठन्ति व्योमादयश्च क्षेत्रज्ञाश्चात्मीयधर्माधर्मयुक्ता एवावतिष्ठन्ते । सर्गकाले पुनरीश्वरेच्छां क्षेत्रज्ञादृष्टं च निमित्तमासाद्य परमाणुषु कर्माण्युत्पद्यन्ते तद्वशाच्च मिथः संयुक्ताश्चतुष्टयेपि परमाणलो द्व्यणुकादिक्रमेण यथास्वं पृथिव्यादिकं भूतचतुष्टयमारभन्ते । निमितभूतक्षेत्रज्ञादृष्टवैचित्र्याच्च जरायुजाण्डजोद्भिज्जस्वेदजभिन्नं शरीरभेदमीश्वरेच्छाकारितसंयोगविशेषवशात्परमाणव आरभन्ते ॥ वैशेषिकमतखण्डनम् । नन्वेदपि युक्तं नहीच्छामात्रेण प्रयत्नमन्तरेण परमाणुषु स्पन्दोत्पत्तिः संभवति, इच्छाकारितप्रयत्नवशेन शरीरस्पन्दोत्पत्तिरद्यत्वेऽपि दृश्यते । ईश्वरोऽपि प्रयतत इति चेत् । न । अशरीरस्य प्रयत्नासंभवात् । सर्वगता अपि ह्यात्मानः शरीरप्रदेश एव प्रयत्नमारभन्ते न बहिः, अतः शरीरापेक्षः प्रयत्नः । प्रलयकाले च सर्वकार्याणां प्रलयादीश्वरशरीरमपि प्रलीनमिति कथमशरीरः प्रयतेत । नचाशरीरस्येच्छापि संभवति मुक्तात्मनामिव । नापि ज्ञानं संभवति इन्द्रियादेरभावात् ॥*॥ नित्यमस्य ज्ञानं नित्या चेच्छा नित्यश्च प्रयत्न इति चेत्, न, सर्वज्ञानेच्छाप्रयत्नानामनित्यत्वव्याप्तेः । शक्यते हि प्रयोक्तुं क्षित्यादिकं नाशरीरिचेतनकर्तृकं न नित्यप्रयत्ननित्येच्छानित्यज्ञानकर्तृकं कार्यत्वात्घटवदिति ॥*॥ ननु घटस्यापीश्वरकर्तृकत्वमस्त्येवेति साध्यहीनो दृष्टान्तः । तथापि कुलालस्यापि कर्तृत्वान्न केवलेश्वरकर्तृकत्वं घटस्य, ततश्चैवं प्रयोक्तव्यं क्षित्यादिकं न केवलाशरीर्यात्मादिकर्तृकं घटावदिति, वस्तुत्वाद्व्योमादिवदिति हेतुदृशष्टान्तौ सर्वथापि निर्देषौ । तथा क्षित्यादिकं न बुद्धिमत्कर्तृकं शरीरिकर्तृकत्वविरहात्व्योमवदिति साक्षादेव प्रतिसाधनं कर्तव्यम् । अथेश्वरशरीरं नित्यमङ्गीकृत्य प्रलयेऽपि सशरीरमेवेश्वरमभ्युपगच्छेत्, ततः सावयवत्वमीश्वरशरीरे नैकान्तिकं न क्षित्यादेः कार्यत्वं साधयेत्, सशरीरकर्तृकत्वं च दूर्वाङ्कुरादीनामनुपपन्नमनुपलब्धिविरोधात् ॥*॥ किञ्च प्रतिकार्यं प्रयत्नभेदेन भवितव्यम्, अन्यो हि पादसंचरणे प्रयत्नः अन्यश्च बाहूद्धरणे, तथा सति यद्यपीश्वरे प्रयत्नो नित्यः स्यात्तथापि तस्यैकत्वान्न विचित्रकार्योदयहेतुत्वं संभवतीति व्यर्थ एवासौ । यदि त्वनन्तकार्यानुरूपा अनन्ता सर्गकालेऽप्यवस्थानात्, संयोजकस्य च सर्गहेतोः प्रलयकालेप्यवस्थानातुभयोः परस्परविधातान्न सृष्टिः स्यात्न प्रलयः । यच्च क्षेत्रज्ञादृष्टवैचित्र्योपपत्तिरिति, तदप्ययुक्तं नहि दृष्टकारणवैलक्षण्यन्तरेणादृष्टवैलक्षण्यमात्रात्कार्यवैलक्षण्यं सिद्ध्यति । नह्यदृष्टशतेनापि तालबीजमन्तरेण तालवृक्षो निष्पद्यते । विनापि बीजमीश्वरमहिम्ना सर्वं सिद्ध्यतीति चेत् । न । तत्रैव प्रमाणाभावात् । नित्यत्वे हि वेदानामवसिते तत्प्रामाण्यबलेनेश्वरस्यापरिच्छेद्यो महिमा, सृष्टिप्रलयौ ऋतुलिङ्गन्यायमाश्रित्य सिध्येयुर्न वा । वेदांस्त्वनादृत्य दृष्टानुसारेण पर्वते इवानुमानमत्यन्तालौकिकेर्ऽथे प्रवर्तयतामुपेक्षैवोत्तरमित्युपरम्यते । तस्मान्न सर्गादिकालेऽपि संबन्धकारणम् ॥ शब्दार्थसंबन्धस्य नित्यत्वम् । अशक्यं च कर्तुं सर्वशब्दानां संबन्धकरणं यदा न कश्चिदपि शब्दः केनाप्यर्थेन संबद्धमासीत्तदा कथं संबन्धः क्रियेत संबन्धं हि कुर्वतावश्यं केनचिद्वाक्येन स कर्तव्यः गौः सास्नादिमानित्यादिना । नचाप्रसिद्धमर्थप्रतिपादकत्वेन सास्नादिशब्दमर्थप्रतिपादनाय शक्नोति कर्तोच्चारयितुं, तथा हस्तसंज्ञादयोपि, प्रतिपादकत्वासिद्धेः ॥*॥ नन्वेवमप्रसिद्धसंबन्धस्य कथमनप्यनुपपन्नं यद्यपि हि तदा वक्तुः प्रसिद्धसंबन्धत्वात्संबन्धकथनाय वाक्योच्चारणं संभवति तथापि श्रोतारोऽप्रसिद्धसमस्तपदार्था बालाः कथं वाक्येन संबधं प्रतिपद्येरन्, तस्मात्करणवत्कथनमप्यनुपपन्नम् । नैष दोषः । कथयितुस्तावन्न कर्तुरिवाशक्तिः उपायसंभवात्, प्रतिपत्तारस्तूपायाभावान्न प्रतिपद्यन्त इति दृष्टविरुद्धम्, दृश्यन्ते ह्यप्रसिद्धसमस्तशब्दार्था बाला वृद्धेभ्यः संबन्धं प्रतिपद्यमानाः ॥*॥ किञ्चास्त्युपायो बालानां नावश्यं संबन्धकथनावाक्येनैव वृद्धेभ्यो बालाः संबन्धं प्रतिपद्यन्ते, किन्तु यदा वृद्धाः प्रसिद्धसंबन्धाः स्वकार्यार्थेन व्यवहरन्ति तदा तेषामुपशृण्वन्तो बालाः संबन्धं प्रतिपद्यन्ते । यदा हि केनचिद्गामानयेत्युक्तः कश्चित्सास्नादिमन्तमानयति तदा समीपस्थो बालोऽवगच्छति यस्मादयमेतद्वाक्यश्रवणानन्तरमस्मिन्नर्थे प्रवर्तते तस्मादस्माद्वाक्यादयमर्थः प्रत्यायित इत्येवं संमुग्धरूपेणावगतं प्रत्यायकत्वं पश्चाद्बहुषु प्रयोगेष्वन्वयव्यतिरेकाभ्यां वाक्यभागानां पदानां पदभागानां च प्रकृतिप्रत्ययानां वाक्यार्थभागेषु पादर्थेषु विवच्यते, तस्मान्न पौरुषेयः संबन्ध इति न तद्वशेन पुरुषापेक्षास्तीति सिद्धमनपेक्षं वेदानां प्रामाण्यम् ॥ इति संबन्धाक्षेपपरिहारः ॥ यच्चान्नन्तरफलानुपलब्ध्या चित्रादीनां न पश्चादिफलत्वमिति स्यादेवम् । यदि प्रत्यक्षादिपञ्चकमेव प्रमाणं स्यात्तदा ह्यनन्तरफलोपलम्भादेव तत्साधनत्वं स्यात्नान्यथा, शब्दस्यापि तु प्रमितिजनकतया प्रत्यक्षादिवत्प्रमाणत्वात्तेनच चित्रादीनां पशुसाधनत्वावगमादसत्यप्यनन्तरोपलम्भे सिद्ध्यति तत्साधनत्वम् ॥ चित्रादिविषयकाक्षेपपरिहाराः । ननु प्रमाणान्तरविरोधादप्रमाण्यमित्युक्तं, न, तदभावात्, नहि शब्दोऽनन्तरमेव चित्राफलसाधनमिति ब्रूते येन विरोधः स्यात्, साधनत्वमेव प्रतिपन्नं तन्मात्रवचनात्, तस्य चापूर्वद्वारेण कालान्तरेऽपि तैलपानादिवत्फलसाधनत्वोपपत्तेः ॥*॥ यत्तु प्रागनुष्ठानाच्छास्त्रार्थावधारणवेलायां नापूर्वमन्तर्भावितामित्युक्तं, यद्यप्येवं तथापि पश्चादेवमवगच्छति साधनत्वमात्रेऽपि शब्देनोक्ते भ्रान्त्या मया साक्षात्साधनत्वमेव प्रतिपन्नं तच्चेदानीमन्यथा जातम्, अतो नूनमस्य केनापि द्वारेण कालान्तरे फलमिति ॥*॥ प्रागपि च शक्यमेवापूर्वमवगन्तुमनेकेषामङ्गप्रधानकर्मणां क्षणिकानामपूर्वमन्तरेण यौगपद्यासंभवात्, पश्वादीनां च दृष्टकारणापेक्षत्वान्न क्षणमात्रेणोत्पत्तिः संभवतीत्यवश्यंभाव्यपूर्वम् । न च पश्चाद्युत्पत्तिमात्रं फलमुपभोगस्य तु चिरकालत्वात्यावदुपभोगमवस्थास्यमानेन केनचिद्भवितव्यम् । न च क्रियायास्तावन्कालमवस्थानं संभवतीत्यपूर्वमङ्गीकर्तव्यमिति तद्द्वारेण युक्तं कर्म कालान्तरे फलदमिति नानन्तरानुपलब्ध्या शास्त्रस्य बाधः ॥ इति चित्राक्षेपपरिहारः । । आत्मवादारम्भः । यत्तु प्रत्यक्षविरुद्धं वचनमुपन्यस्तं स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीत्येतच्छब्देन प्रत्यक्षं शरीरं यज्ञायुधसंयुक्तमुपदिशतीति । तदभिधीयते अर्थवादत्वादस्यान्यपरत्वान्न स्वार्थे प्रमाणान्तरविरोधो दोषः । न च विरोधोऽपि विद्यते । नह्यनेन शरीरस्य स्वर्गगमनमुच्यते किन्तर्ह्यात्मनो यस्यैतच्छरीरं , सोऽपि हि शरीरशरीरिणोरभेदोपचारेण शरीरस्थेन यज्ञायुधित्वेन प्रत्यक्षत्वेन च व्यपिदिश्यते । आत्मनो वा स्वर्गगमनं शरीरे उपचर्यत इति नास्ति विरोधः ॥*॥ यजमानशब्दोऽपि तस्यैव यागस्वामित्वात्कर्तृत्वाच्च वाचकः । न च शक्यते तस्य कापिलवदकर्तृत्वं वक्तुं श्रुतिविरोधात्, सर्वत्र हि कर्तृभोक्तृशब्दयोः सामानाधिकरण्यं दृश्यते । यथात्रैव यजमानः स्वर्गं लोकं यातीति । तथा य एवं विद्वानग्निं चिनुते ऋध्नोत्येव य एवं विद्वान्द्विरात्रेण यजते स्वर्गकामेव संकल्पं प्रति कर्तृत्वमुक्तम् ॥*॥ संभवति च स्वर्गगतस्याप्यात्मनो यागज्ञानप्रयत्नसंकल्पादिषु साक्षादेव कर्तृत्वं, न हि वयं स्पन्दमेव क्रियामुपगच्छामो वैशेषिकवत्, येनात्मनः कर्तृत्वं न स्यात्, धात्वर्थमात्रस्य क्रियात्वात् । स्पन्देष्वपि प्रयोजकत्वेनास्यैष कर्तृत्वं संभवति, प्रयत्नेन ह्यसौ शरीरं स्पन्दे प्रयोजयति । साक्षात्तु न संभवति, सर्वगते स्पन्दस्यासंभवातित्यनेनाभिप्रायेण पुराणेषूपनिषत्सु चाकर्तृत्ववादाः ॥ शरीराकिरिक्तात्मसाधनम् । किंपुनः शरीरव्यतिरिक्तात्मसद्भावे प्रमाणं प्राणनादिलिङ्गं सुखादयश्च प्राणनादिशब्देन कोष्ठ्यस्य वायोरूर्ध्वधोगमनवृत्तिविशेषस्य प्राणनादिशब्दवाच्यस्य हेतुभूतः प्रयत्न उच्यते सच सुखादयश्च न शरीरधर्माः संभवन्ति, अयावच्छरीरभावित्वात् । ये हि कार्यद्रव्यवर्तिनो विशेषगुणा रूपादयस्ते विरोधिगुणान्तराद्वा द्रव्यविनाशाद्वा विनश्यन्ति, प्राणनादयस्तु तद्भावेपि नश्यन्ति मृतावस्थायामिति न शरीरगुणाः । तथा ज्ञानमप्ययावच्छरीरभावित्वादेव न शरीरधर्मः । तथा ये प्रत्यक्षिविषयाः न शरीरगुणस्ते स्वयमिव परैरपि यथा गृह्यन्ते यथ रूपादयः, सुखादयस्तु प्रत्यक्षा अपि सन्तो न परप्रत्यक्षग्राह्याः तस्मान्न शरीरगुणाः, तदिदमपि द्वयं सुखादीनां शरीरगुणत्वं निवारयदन्यगुणतां सूचयति । योऽसावन्यः स आत्मा । किञ्च सर्वमेव विशेषगुणाः करणेऽपि वर्तमाना एव कार्यद्रव्यगुणतां भजन्ते, न च शरीरकारणभूतेषु पार्थिवपरमाणुषु चैतन्यमस्तीति कथं शरीरगुणता चैतन्यस्य स्यात् । तस्मादन्यश्चेतनः ॥ देहाभिन्नात्मसाधनम् । कश्चित्पुनराह सर्वथा वित्तिषु तावद्वेत्तावभासते अन्यथा स्वपरवेद्ययोरनतिशयप्रसङ्गात् । न च शरीरस्य करचरणाद्यवयवसंनिवेशविशिष्टस्यास्ति तथावभासः, अतोऽन्यः शरीरादात्मेति । तत्त्वयुक्तं संनिवेशप्रतिभासेऽपि शरीरप्रतिभाससंभवात् । नहि संनिवेश एव शरीरं, शरीरधर्मो हि संनिवेशः संभवति च धर्माप्रतिभासोऽपि धर्मिणः प्रतिभासः, अन्यथा आत्मनोपि प्रतिभासो न स्यात्तद्धर्माणां सर्वगतत्वादीनामर्थवित्तिष्वप्रतिभानात् । नचैकान्तिकमर्थवित्तिषु वेत्तृभानं, अर्थ एव हि तदा भासते न वेत्ता ॥*॥ न च स्वपरवेद्ययोरनतिशयः । न हि वेदित्तृभासनकृतोऽयमतिशयः किन्तु कस्यचिदेव किञ्चिदाभासते नान्यस्य इत्येतावानतिशयो नान्यः, तस्मान्न ज्ञातृप्रतिभासेन शरीरविवेकसिद्धिः, किन्तु पूर्वोक्तादेव कारणात्ज्ञानसुखादीनां शरीरगुणत्वासंभवात्ततोऽन्य एतेषामाश्रयः स एवात्मा ॥ बौद्धमतेन विज्ञानात्मवादः ॥ सौगतास्त्वाहुः सिद्धे ज्ञानसुखादीनां गुणत्वे गुणकल्पना । न तु तत्सिद्धमस्माकं तावन्मात्रोपपत्तितः । नह्याश्रयमन्तरेण ज्ञानमात्रमनुपपन्नं स्वतन्त्रमेव ज्ञानं किं नेष्यते सुखादयोऽपि ज्ञानविषयाः स्वतन्त्रा एव अन्यस्याश्रयस्यानुपलब्धेः । ज्ञानमेव च नीलमहं जानामीति ज्ञातृत्वेन विपर्यासितदर्शनैरध्यवसीयते नान्यः प्रमाणाभावात् ॥*॥ ननु ज्ञानस्यापि क्षणिकत्वात्कथं पूर्वेद्युरुपलब्धे परेद्युःस्मरणमिच्छा प्रत्यभिज्ञा च । नहि स्वयमनुपलब्धे तानि संभवन्ति नहि देवदत्तेनोपलब्धेर्ऽथे यज्ञदत्तस्य स्मरणादीनि संभवन्ति । सत्यं न संभवन्ति संतानभेदे समानायां तु संततावेकेनोपलब्धेऽन्यस्य स्मरणाद्युपपन्नं दृष्टत्वात्, नह्युपलब्धुः स्मर्तुश्चैकत्वं क्वचिदपि दृष्टं, एकस्य स्थास्नोः पुरुषस्य क्वचिदप्यनुपलब्धत्वात्, तस्माज्ज्ञानमेव ज्ञातृ नान्यो ज्ञातास्तीति ॥*॥ अत्रोच्यते प्रत्यभिज्ञायते कर्ता यः पूर्वापरकालयोः ॥ तस्य स्थास्नोः भेदो विज्ञानात्क्षणभङ्गुरात् । विषयप्रत्यभिज्ञानानुपपत्तेर्ज्ञातुरेकत्वकल्पनायां स्यादप्येतदुत्तरं संतानैकत्वादेवोपपद्यत इति । यदा तु ज्ञातैवैकः पूर्वापरकालयोः प्रत्यभिज्ञायते योऽहं पूर्वमद्राक्षं स एवाहमनुपश्यामीति तदा प्रत्यभिज्ञयैव ज्ञातुरेकत्वावगमात्, विज्ञानस्य च क्षणिकत्वात्ततोऽन्यो ज्ञाता सिद्धो भवतीति ॥*॥ किमहंप्रत्ययगोचरो ज्ञाता स्यात्, तथा सति शरीरमेव जानामि कृशोऽहं गच्छाम्यहमिति कार्श्यादिबुद्धिसामानाधिकरण्यादहंबुद्धेर्गोचरः, आत्मनश्च सर्वगतस्य कार्श्याद्यनुपपत्तेः ॥*॥ उच्यते ज्ञातृविशयस्तावदहंप्रत्यय इत्यविवादम्, यो हि परामृशति स स्वात्मानमहमिति परामृशति परानिदमिति । तेन निःसंशयमस्य ज्ञातृगोचरत्वं शरीरस्य च ज्ञातृत्वं निराकृतं, अतोऽत्यन्तसंसृष्टयोरेकत्वभ्रान्त्या सामानाधिकरण्यप्रतीतिरुष्णतोयप्रतीतिवत्भास्वरायःपिण्डप्रतीतिवच्च ॥ शरीरात्मनोर्भेदोपपादनम् । तथा व्यतिर्कबुद्धिरपि दृश्यते ममेदं शरीरं कृशमिति षष्ठ्यास्मदर्थस्य शरीरव्यतिरेकात्, शरीरस्य च परविषयेदङ्कारास्पदत्वात्, ततोऽस्माद्विवेकावभासात्पूर्वोक्तन्यायेन च शरीरस्याज्ञातृत्वात्, अभेदावगमस्य च संसर्गदोषवशेन भ्रान्त्याप्युपपत्तेः, पूर्वाभ्यस्तस्मृत्यनुबन्धेन च विना जातस्य हर्षभयशोकप्रतिपत्त्यनुपपत्तेः । जातिस्मराश्च केचिदद्यत्वेऽपि देहान्तररहोवृत्तं वृत्तान्तं संबोधयन्त उपलभ्यन्त इत्युपलब्धिसिद्धः शरीरात्मनभेदः । यद्यपि चानेन प्रकारेण शरीरात्मनोर्विस्पष्टो भेदो न सिद्ध्येत्तथापि तावदभेदोऽपि न विस्पष्टः मम शरीरमिति विवेकस्यापि प्रतिभासात् । तत्र संमुग्धे तत्त्वे श्रुतार्थापत्त्या साक्षाच्छ्रुत्या वा निर्णयः । स्वर्गकामादिश्रुतयो हि शरीरातिरिक्तं परलोकफलोपभोगयोग्यं कर्तारमन्तरेणानुपपद्यमानास्तमाक्षिपन्ति ताभिश्चाक्षिप्तं साक्षादेवोपनिषदः समर्थयन्ति अवनाशि वा अरेऽयमात्मा इत्येवमादय इति सिद्धः शरीरातिरिक्तो मानसप्रत्यक्षरूपोऽहंप्रत्ययगम्यो ज्ञाता । कथं पुनर्ज्ञातुर्ज्ञेयत्वं, नह्येकस्य कर्तृत्वं कर्मत्वं च स्वात्मनि क्रियाविरोधात्संभवचि, तस्मान्नाहंवित्तिर्नाम घटादिवित्तिव्यतिरेकेण काचिदस्ति, घटादिवित्तावेव तु विषयवदात्मा भासत इत्युक्तम् । आत्मनो मानसाहंप्रत्ययगम्यत्वम् । कः पुनरयं स्वात्मनि क्रियाविरोधो नाम, यस्यां क्रियायां यः कर्ता न सा तस्मिन्नेव स्वफलं जनयतीत्यर्थः । किं पुनः संवित्तिक्रियायाः फलं, भासनं, किमिदं कर्तरि न भवति । ओमितिचेत्, कथं तर्ह्यसौ भासते । नह्यसति भासते भासत इति शक्यते वक्तुं, तस्मादर्थवित्तिष्वप्यात्मनो भासनाभ्युपगमेऽपि स्वात्मनि क्रियाविरोधस्तुल्य एव । व्यवहारयोग्यतामात्रं संवित्ते पलं नान्यदितिचेत्भवत्वेवम् । अस्ति तावत्फलम् । तच्च विषयेष्विवात्मन्यपि संवित्तितो जायत इत्यङ्गीकृतं भवद्भिः । अतस्तुल्यो विरोधः ॥*॥ यदि परमार्थविरोधमुद्भाव्य सत्यप्यात्मनः क्रियाजन्यफलभागित्वे कर्मसंज्ञा कर्मविभक्तिंश्च न भवतीत्युच्यते परसमवायिक्रियाफलभागित्वं कर्मत्वमित्यभिधानात्तच्चायुक्तम् । शब्दसाधुत्वं हि प्रयोगतोऽवगन्तव्यम् । अस्ति चात्मनः स्वकर्तृकायामेव क्रियायां कर्मव्यवहारो लोके वेदे च यधा तावद्भाष्य एव स्वसंवेद्यः संभवतीति कर्मवाची कृत्यप्रत्ययप्रयोगः वेदेपि आत्मानमुपासीत आत्मानं वेद आत्मा ज्ञातव्यः इत्यनेकशः प्रयोगः ॥ न च गन्तुर्गमने कर्मत्वं प्रयोगाभावात्शब्दसाधुत्वे हि प्रयोगपरवशा वयं न स्वयमीश्महे । यथाहि चलनार्थत्वे समाने गच्छतिः सकर्मकः चलतिश्चाकर्मकः प्रयोगस्य तथा दर्शनात् । एव ज्ञातुः कर्मत्वं गन्तुश्चाकर्मत्वं भविष्यति । तस्मान्मानसाहंप्रत्ययगम्य आत्मा । तथा च श्रुतिः स मानसीन आत्मा जनानाम्, इति । तेन यद्यपि विषयवित्तिवेलायामेवात्मावभासस्तथापि न विषयवित्तिकर्तृतयावभासस्तथापि न विषयवित्तिकर्तृतयावभासः किन्तु मानसाहंप्रत्ययकर्मतयावभासो न तद्वित्तिकर्मतयाव्याप्तेः । ननु शरीरवदात्मन्यप्यहमभिमानो भ्रान्तरेव, न, बाधाभावात् । योगिनामस्ति बाध इति चेत्, नप्रमाणाभावात् । तथा च योऽपि योगस्य परां काष्ठामुपगताः । योगेश्वरास्तेऽपि कुर्वन्त्यात्मन्यहंमतीम् ॥ अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप । यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । एवमादावहंशब्दः परस्मिन्पुंसि हि ध्रुवम् । न हि महद्विकारोऽहङ्कारः कृत्स्नस्य प्रभवः, नापि क्षराक्षराभ्यामुत्तमः, नापि ब्रह्मशब्दवाच्ये प्रधाने गर्भं दधाति, पुरुषसंपर्ककृतत्वात्प्रकृतिक्षोभस्य । तथोपनिषत्स्वपि ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मि इति मन्त्रवर्णोपि अहं मनुरभवं सूर्यश्च इति । तस्मादहंप्रत्ययगम्यत्वामात्मनोऽनिच्छिन्तः श्रुतिविरोधादेवोपेक्षणीयाः ॥*॥ यत्तु निर्मुक्ताहङ्कारममकारवचनं तदपि पौर्वापर्येण परामृष्यमाणं नाहङ्कारस्वरूपनिषेधार्थ भवति, एवं हि तद्वचनं नास्य कश्चिन्नायं कस्यचित्निर्मुक्ताहङ्कारममकार एवायमिति । तदयमर्थः यस्मान्नास्य कश्चित्तस्मान्निर्मुक्तममकारः, यस्मान्नायं कस्यचित्तस्मान्निर्मुक्ताहङ्कार इति । यद्यहङ्कारस्वरूपनिषेधः स्यात्, न पूर्वेण संबध्येत यस्मान्नायं कस्यचित्तस्मादस्मिन्नहंभावो भ्रान्तिरिति किं केन संगतम्, तस्मान्नायमहन्तास्वरूपनिषेधः किं तर्हि जन्मंसंबन्धितयात्मन्यहंमतिः अहमस्य पिताहमस्य पुत्र इत्यादिः स भ्रम इत्येवं संगतं भवति ॥*॥ अयमात्मा न कस्यचिदपि पुत्रादिरूपेण संबन्धी, जन्यजनकभावस्य शरीरविषयत्वात्, शरीरं हि शरीराज्जायते नत्वात्मात्मान्तरात्, तस्मादन्यसंबन अधितयात्मन्यहंमतिः कृशादिमतिच्छरीराद्विवेकमबुध्यमानानां भ्रान्तिरिति । तदिदमस्यान्यसंबन्धिनिषेधेन पुत्रादिविषयस्नेहनिवर्तनेन वैराग्यजननार्थमुच्यते, नाहङ्कारस्वरूपस्यायं निषेधोऽनुपयोगादसंगतत्वात्प्रमाणान्तरविरोधातहं ब्रह्मास्ति इति वचनविरोधाच्च । तस्मादहंप्रत्ययगम्यो ज्ञाता शरीरातिरिक्त इन्द्रियव्यतिरिक्तश्च ॥ इन्द्रियात्मनोर्भेदः ॥ कथमिन्द्रियभेदः, इन्द्रियाभावेऽपि ज्ञातुरेकस्य प्रत्यभिज्ञानात्योऽहं रूपमद्राक्षं सोऽहं स्पृशामीति, योऽहमग्रहीषं सोऽहं स्मरामीति । मनस्तु प्रत्यक्षसिद्धस्य ज्ञातू रूपादिज्ञानेषु व्यतिरिक्तकरणाधीनत्वात्सुखादिज्ञानेषु भवितव्यं करणेनेत्येवं कल्प्यत इति नास्य ज्ञातृत्वमाशङ्कनीयम् ॥*॥ येतु कर्तृतयैवात्मसिद्धिर्नस कर्मतयेत्याहुस्तेषामात्मनि स्मरणप्रत्यभिज्ञाने नोपपद्येयाताम्, तत्रापि हि पूर्वकालसंबन्धित्वेनात्मनः प्रतिभासोऽङ्गीकरणीयः, न च सांपर्ते स्मरणे पूर्वकालसंबन्धिनः कर्तृत्वं संभवतीति कथं कर्तृतया सिद्ध्येत्, तस्मादहंप्रत्ययकर्मतयैवात्मनः सिद्धिरिति रमणीयम् ॥*॥ अथ स्वप्रकाशत्वमात्मनः सुखादीनां च किं नेष्यते, स्वप्रकाशस्य कस्यचिदप्यदर्शनात्सर्वस्यैव हि वस्तुनः परप्रकाश्यत्वनियमात् । स्वप्रकाशत्वे चात्मा सुषुप्तावपि प्रकाशेत, न च प्रकाशते, यथोक्तमचेतनयन्नेव सुषुप्त इत्युच्यते इति ॥*॥ न तु सुषुप्तावपि प्रकाशत एवात्मा स्वाभाविकपरमानन्दयुक्तः, अन्यथा कथं सुखमहमस्वाप्समिति प्रबोधे प्रतिसंधानं स्यात्, अर्थान्तरं तु न किञ्चिच्छरीरमिन्द्रियमन्यद्वा वस्तु प्रकाशत इत्येतावान् स्वप्रदागकाभ्यां सुषुप्तेर्भेदः । नैतदेवं संविद्विरोधात्, न हि सुप्तानामात्मा सुखं वा प्रकाशते, नह्यभासमानं व्यवहारमात्रेण प्रकाशत इति शक्यमङ्गीकर्तुम् ॥*॥ कि च सुष्वापादुत्थिताश्चैवं निर्विद्यन्ते हि कामुकाः । वृथेयमन्तरेणैव कामिनीं यामिनी गता । आश्लिष्टामप्यबुद्ध्वैनां निर्विद्यन्ते मया । भुक्त्वा च परमानन्दं तस्य च स्मरणादयम् । स्वल्पाल्पसुखहान्यैवं निर्वेदो नावकल्पते ॥ तत्सुखं विस्मृतं चेत्स्यात्सुखमस्वाप्यमित्ययम् । व्यवहारो न युज्येत, दुःखाननुभवे त्वियम् । सुखव्यवहृतिस्तस्माद्गुणवृत्त्येति निश्चयः । प्रबुद्धा हि सुषुप्ताववगतं किचिदपि दुःखमसंस्मरन्तः स्मरणानुत्पत्त्यैव सुषुप्त्यवस्थायां मे न किञ्चिदपि दुःखमासीदित्यवगम्य तत्रैव सुखव्यवहारं गुणवृत्त्या कुर्वन्ति, तथा च व्यवहरन्ति एतावन्तं कालमहमात्मानमप्यबुद्ध्वा शयितोऽस्मीति । तस्मात्सुषुप्तावप्रकाशात्मनः स्वप्रकाशत्वम्, अतो मानसप्रत्यक्षगम्य एवायमिति स्थितम् ॥ आत्मनो व्यापकत्वम् । स पुनरयमात्मा अणुः शरीरपरमाणो विभुर्वेति चिन्तनीयम् । तत्राणुपरिमाणत्वे युगपच्छिरःपादयोर्वेदनानुपपत्तिः । अयौगपद्येऽप्यतिशैघ्य्याद्यौगपद्यावगतिरिति चेत्, स्यादेवं यद्यणुत्वं कुतश्चित्सिद्धं स्यात्, तदसिद्धौ दृष्टानुसारादनणुत्वमेव युक्तम् । तत्र शरीरपरिमाणत्वे सावयवः स्यात्, तत्र द्विविधमेव हि निरवयवद्रव्यमणु विभु वा, तदसौ शरीरसंमितः सन् सावयवः स्यात्, तत्र बह्ववयवकल्पना तावतां चान्यूननधिकानामवयवानां पुत्तिकाहस्तिदेहयोरतिसंकोचविस्तारकल्पनं नातीव हृदयमनुरञ्जयति, तस्माद्विभुत्वमेव युक्तम् । तथा च श्रुतिः अनन्तमपारमिति । भगवद्गीतासु च वचनं नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः इति । ये चोपनिषत्स्वणुत्ववादाः पुराणेषु च अङ्गुष्ठमात्रं पुरुषमित्यादयस्ते सूक्ष्मग्रहणगोचरत्वाभिप्रायाः ॥*॥ ननु विभुत्वे सर्वशरीरेष्वेक एवात्मास्तु किं नानात्मभिरभ्युपगतैः,नैवमेकत्वे सति यथा परणभेदेऽपि कर्तुरेकत्वाच्चक्षुषा दृष्टमर्थं यज्ञदत्तः प्रत्यभिजानाति यमहमदर्शं तमहं स्पृशामीति, तथा देवदत्तशरीरस्थेनात्मना दृष्टमर्थं यज्ञदत्तः प्रत्यभिजानीयात्, शरीरभेदेऽप्यात्मनसः, शरीरभेदेऽप्यात्मनः प्रत्यभिज्ञातुरेकत्वात् । कर्तुरेकत्वेऽपि मनोभेदाद्व्यवस्थेति चेत्, न, करणत्वान्मनसः, करणभेदस्य चक्षुरादेर्भेदव्यवस्थापकत्वायोगादित्युक्तम् ॥*॥ चक्षुरादिकरणानामव्यवस्थापकत्वेऽपि मनः करणं व्यवस्थापकमिति चेत्न, करणत्वाविशेषात् । स्यादप्येषा कल्पना यद्येकात्मत्वे दृढं प्रमामं स्यात् । न तु तदस्ति । येत्वात्मैकत्ववादाः श्रुतिषु स्मृतिषु पुराणेषु वा ते निरञ्जनः परमं साम्यमुपैति मम साधर्म्यमागताः उत्तमः पुरुषस्त्वन्यः इत्यादिभिरात्मबेदवचनैः प्रत्यक्षादिभिश्च विरोधान्नैकान्ततः शक्नुवन्त्यात्मैकत्वं निश्चाययितुम् ॥*॥ वचनानां हि मिथो विरोधे सिद्धवस्तुविषयत्वेन च विकल्पासंभवे प्रमाणान्तरान्निर्णयः स्यात्, तच्च प्रमाणान्तरं भेद एव समर्थमित्यैकात्म्यवादानामवैलक्षण्यपरत्वं पूर्वोक्तन्यायेनावगन्तव्यम् ॥*॥ विस्पष्टं चैतद्वायुदृष्टान्तोपादानात्वेणुरन्ध्रादिभेदेन भेदः षड्जातिसंज्ञितः ॥ अभेदव्यापिनो वायोस्तथा तस्य महात्मनः इति । न हि वायुद्रव्यं सर्वत्रैकं व्यक्तिभेदस्य स्पष्टत्वात्, अविलक्षणस्वभावस्य तु वायोर्वेणुरन्ध्राकृतं षड्जादिवैलक्षण्यं, एवात्मनोऽपि पशुमनुष्यादिवैलक्षण्यं देहसंबन्धकृतं न स्वाभाविकमित्ययमेवार्थः । वायोरिति तस्येति चैकवचनं सामान्याभिप्रायम्, तस्मात्प्रतिशरीरं भिन्ना एवात्मानः नित्याः सर्वगता एवं च बद्धमुक्तादिव्यवस्थापि युक्ततरा भवति ॥ इत्यात्मवादः ॥ मोक्षवादारम्भः । कः पुनरयं मोक्षो नाम, विचित्रवासनावशेन विचित्रनीलपीतादिरूपेण प्रवहतो ज्ञानसंतानस्य निःशेषवासनोच्छेदान्नीलपीतादिवैचित्र्यं हित्वा केवलं संविन्मात्रेणावस्थानमिति केचित् । अपरेतु दीपसंतानस्येव ज्ञानसंतापनस्योपरमम् । उभयमप्येतद्बाह्यार्थाभावमूलमिति तत्सद्भावप्रतिपादनेनैव निराकृतम् ॥*॥ अपरे तु प्रपञ्चविलयमपवर्गमाहुः । अविद्यानिर्मितो हि प्रपञ्चः स्वप्नप्रपञ्चवत्प्रबोधेनैव ब्रह्मविद्यया अविद्यायां विलीनायां स्वयमेव विलीयते । तथाहि श्रुतिः यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वामात्मैवाभूत्तत्केन कं पश्येत् इति ॥*॥ तदिदमपि प्रपञ्चस्याविद्यानिर्मितत्वनिरारणेन परमार्थत्वप्रतिपादनान्निरस्तमेवेति आत्मैवेदं सर्वमिति सर्वस्यात्मा भोक्तेत्यर्थः । यथा यः कामयेत राष्ट्रं स्यामिति राष्ट्रस्य भोक्तेत्यर्थः । यथा कामयेत सर्वमिदं भवेयमिति सर्वस्य भोक्ता भवेयमित्यर्थः । तथा आत्मा सर्वमिति सर्वस्यात्मा भोक्तेत्यर्थः । यत्तु यत्र हि द्वैतमिव भवतीति द्वैतभावस्य भ्रान्तित्ववचनं तदौपचारिकं यथा खलु स्वप्नप्रपञ्चेन्द्रजालमृगतोयादिः कियन्तञ्चित्कालं दृष्टिपथमापन्नः पश्चाद्विलीनो भोग्यतामतिवर्तते तथायं शरीरेन्द्रियविषयरूपप्रपञ्चोऽप्यस्यात्मनः कियन्तञ्चित्कालमुपभोग्यः सन् पश्चाद्विनाशादनुपभोग्यो भवतीत्यनेन सादृश्येन भ्रान्तिरित्युपचारेणोच्यते पुरुषाणां विषयभोगेष्वास्थानिवर्तनेन मुक्तावभिरुचिं जनयितुं, यदपि यत्र त्वस्य सर्वमात्मैवाभूदिति मुक्तावात्मनोऽद्वितीयत्वचनं तदपि न प्रपञ्चस्वरूपनिषेधार्थं कितु सत एव प्रपञ्चस्यात्मसंबन्धनिषेधार्थं, अस्येतिवचनात्, नह्यत्रैतावदुच्यते यत्र सर्वमात्मैवाभूदिति, किं तर्हि, यत्र त्वस्य सर्वमात्मैवेति । तेनास्यायमर्थः यत्र यस्यामवस्थायां मुक्तावित्यर्थः । अस्य आत्मनो दृश्यत्वेन दर्शनसाधनत्वेन दर्शनायतनत्वेन वा न किञ्चिदन्यसंबन्धि विद्यते किन्त्वात्मैवास्य सर्वं नान्यकिञ्चित्तदा केन कं पश्येदिति । यथा लोके यस्य न किञ्चिदपि बान्धवो वित्तं वास्ति स एवं वदति न मे कञ्चिदस्ति अहमेव सर्वं तत्र संबन्ध्यन्तरं न किञ्चिदस्तीत्येतावद्विवक्षितम्, एवं मुक्तावात्मैवात्मनः सर्वमिति संबन्ध्यन्तराभावमात्रं विवक्षितं न प्रपञ्चस्वरूपभावः, तस्मान्न प्रपञ्चविलयो मोक्षः किन्तु प्रपञ्चसंबन्धविलयः । त्रेधा हि प्रपञ्चः पुरुषं बध्नाति भोगायतनं शरीरं भोगसाधनानीन्द्रियाणि भोग्याः शब्दादयो विषयाः । भोग इति च सुखदुःखविषयोऽपरोक्षानुभव उच्यते तदस्य त्रिविधस्यापि बन्धस्यात्यन्तिको विलयो मोक्षः ॥*॥ किमिदमात्यन्तिकत्वं पूर्वोत्पन्नानां शरीरेन्द्रियविषयाणां विनाशः, अनुत्पन्नानां चात्यन्तिकोऽनुत्पादः । कथमत्यन्तानुत्पत्तिः, उत्पादकयोर्धर्माधर्मयोर्निःशेषयोः परिक्षायात् । सोऽयं प्रपञ्चसंबन्धो बन्धस्यद्विमोक्षश्च मोक्षः । आनन्दमोक्षवादः । नन्वेवमशेषधर्मक्षयान्मुक्तस्य न किचिद्सुखं स्यात् । ततश्चापुरुषार्थो मोक्षः स्यात् । नैष दोषः न हि धर्मजन्यो मुक्तस्यात्मनः तथा सत्युत्पत्तिमत्त्वात्विनाशी स्यात्तत्रापुनरावृत्तिश्रुतेर्विरोधः स्यात् । स्वाभाविकस्त्वात्मानन्दः संसारेणाभिभूतः सन्निर्मुक्तसंसारस्याभिव्यक्तौ भोग्यो भवति स्वाभाविकत्वे चानन्दस्य आनन्दं ब्रह्मे त्यादिश्रुतिसहस्रं प्रमाणम् ॥*॥ ननु सुखाभावेऽपि श्रुतिरस्ति अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति । सत्यं विषयसुखाभिप्रायं त्वेवञ्जातीयकम्, अन्यथानन्दश्रुतिविरोधात् । अथ सुखाभाववचनबलेनानन्दवचनमेव दुःखाभावाभिप्रायं किमिति न व्याख्यायते सुखाभाववचनानामत्यल्पत्वात्तेषामेवान्यथाकरणं युक्तं न भूयसामानन्दवचनानाम् । किञ्चानन्दशब्दस्य दुःखाभावपरत्वेऽत्यन्तस्वार्थहानिः स्यात्, सुखशब्दस्य तु सामान्यवचनस्य विशेषेऽपि व्याख्याने नातीव स्वार्थहानिरिति तदेव युक्तम् ॥*॥ ननु विद्यमानोऽप्यानन्दोऽननुभूयमानोऽकिञ्चित्कर एव, न च मुक्तस्य सर्वकरणहीनस्यानन्दानुभवः संभवति । स्वप्रकाशऽयमानन्द इति चेन्न, संसारावस्थायामप्रकाशात् । ननु तत्राप्यानन्दस्वभावः पुरुषः प्रकाशत एव आत्मनि प्रेमोत्पत्तेः, सत्यमिति ब्रुवाणस्यातिसाहसिकस्य नोत्तरं वाच्यम् । यदि संसारिणोऽपि परमानन्दमनुभवेयुस्ततो मुक्तस्य न कश्चिदतिशय इति तदेवापुरुषार्थत्वं मोक्षस्यापद्येत, अतो बलादसुखरूपस्यायमभिभूतो न प्रकाशते । कोऽयं प्रकाशमानस्याभिभवो नाम, प्रकाशनिवारणं ह्यभिभवः । न च प्रकाशमानस्याप्रकाशनं संभवति, यदि तु नैव प्रकाशते संसारावस्थायां तस्यामवस्थायामसतः प्रकाशस्य मुक्तावस्थायामुत्पद्यमानस्य कारणं वक्तव्यम्, विज्ञानमेव च प्रकाशाख्यस्य फलस्य कारणं तच्चेन्द्रियाधीनम्, न च मुक्तस्येन्द्रियाणि संभवन्तीति कथमानन्दानुभवः स्यात् ॥*॥ उच्यते बाह्येन्द्रियाण्येव मुक्तस्य निवर्तन्ते मनस्तु तस्यामवस्थायामनुवर्तते इत्यानन्दश्रुतिबलादेवाध्यवसीयते । एवं ज्ञानं च न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति श्रुतेः, विज्ञानघनश्रुतेश्च, तस्मान्मुक्तावस्थायां मानसप्रत्यक्षेण परमानन्दमनुभवन्नात्मावतिष्ठते । तदुक्तं निजं यत्त्वात्मचैतन्यमानन्दश्चेष्यते च यः । यच्च नित्यविभुत्वादि तैरात्मा नैव मुच्यते इति । यत्तु तस्मात्कर्ममक्षयादेव हेत्वभावेन मुच्यते । नह्यभावात्मकं मुक्त्वा मोक्षनित्यत्वकारणम्, इति वार्तिकं तत्परमतमित्येवमानन्दमोक्षवादिनो मतम् ॥*॥ अपरे त्वाहुः अभावात्मकत्ववचनमेव स्वमतमुपपत्त्यभिधानातानन्दवचनं तूपन्यासमात्रत्वा परमतम् । न हि मुक्तस्यानन्दानुभवः संभवति करणाभावाच् । मनः स्यादितिचेत्, न, अमनस्कत्वश्रुतेः अमनोषडवागिति ॥ मोक्षावस्थायां ज्ञानाभावोपपादनम् । यत्तु न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते इति तज्ज्ञानशक्त्यभिप्रायम्, अन्यथा हि सुषुप्तावपि ज्ञानानुवृत्तिरुक्ता स्यात्सा च संविद्धिरुद्धेत्युक्तम् । विस्पष्टं चास्य शक्त्यभिप्रायत्वम् । एवं हि श्रूयते यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते, अविनाशित्वात्न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येतेवमन्यान्यपि वाक्यानि जिघ्रन्वै तन्न जिघ्रति न हि घ्रातुघ्रातेर्विपरिलोपो विद्यते, न श्रोतुः श्रुतेर्विपरिलोपो विद्यते, न स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते, न ज्ञातुर्ज्ञातेर्विपरिलोपो विद्यते तत्र तत्र दृष्टिघ्रातिश्रुतिस्पृष्टिशब्दाश्चक्षुर्घ्राणश्रोत्रत्वगिन्द्रियजन्यानां रूपगन्धशब्दस्पर्शविषयाणां वाचकाः नार्थान्तरविषयाणां नापि विज्ञानसामान्यस्य, नचैषां ज्ञानविशेषाणां वाचकाः नार्थान्तरविषयाणां नापि विज्ञानसामान्यस्य, नचैषां ज्ञानविशेषाणां सुषुप्तौ मुक्तौ वा कथञ्चिदप्यपरिलोपः संभवति, नहि तदानीमिन्द्रियाणि सन्ति नापि गन्धादयो ज्ञायन्ते तदुभयाभावे च न श्रुत्यादिशब्दवाच्यज्ञानविशेषाः संभवन्ति ॥*॥ ननु यथा प्रकाश्यासन्निधावपि सवितुः प्रकाशकत्वं नित्यम्, एवमिन्द्रियाभावेऽपि नित्यैव दृष्टिरितिचेत्, सयादेवं यदि ज्ञानमात्रं दृष्ट्यादिशब्दानां वाच्यं स्यात्, न तु तथास्ति, लोकप्रसिद्ध्यभावात् । यथा लोकं च शब्दार्थावधारणं न यथेच्छम् । न हि लोके गन्धादन्यद्घ्राणं जिघ्रतीत्युच्यते, गन्धमपि यदा घ्राणादन्येनानुमानादिना जानाति तदा न जिघ्रतीत्युच्यते, तस्माद्घ्राणादीयजन्यगन्धादिविषयज्ञानविशेषवाचिनो घ्रात्यादिशब्दाः, न च तेषां सुषुप्तौ मुक्तौ वा संभवत्यपरिलोपः, तस्माद्घ्राणादिशक्तावेव प्ररोचनार्थं घ्राणाद्युपचारः, यथा तेम ह्यन्नं क्रियते इति शक्तिवर्तमानत्वेन प्ररोचनार्थं क्रियते इति वर्तमानत्वोपचारः, तस्मात्न ज्ञातुज्ञातेर्विपरिलोपो विद्यत इत्येदपि शक्त्यभिप्रायमेव ॥*॥ यत्त्वादित्यप्रकाशकत्ववदिति, किं तस्य प्रकाशकत्वमभिप्रेतं, यदि तिमिरोत्सारणं, तन्नित्यमस्येव सर्वदा ह्यसावव्यवहितेषु देशेषु तिमिरमुत्सादयत्येव, नन्वेवमात्मा सर्वदा शृणोति सुषुप्तावश्रवणात् । अथ ज्ञानजनकत्वमादित्य देशेषु तिमिरमुत्सादयत्येव, नत्वेवमात्मा सर्वदा शृणोति सुषुप्तावश्रवणात् । अथ ज्ञानजनकत्वमादित्यस्य प्रकाशकत्वं न तन्नित्यं, तस्मात्सामर्थ्यमेव तत्रापि नित्यं, तस्माज्ज्ञानशक्त्यभिप्रायमिदं नित्यत्वाभिधानम् ॥*॥ एषा ह्यत्र वचनव्यक्तिः यदेतत्सुषुप्तौ मुक्तौ वात्मा न पश्यति पश्यन्नेव द्रष्टुं शक्नुवन्नेव न पश्यति । न हि द्रष्चुरात्मनो या दर्शनशक्तिस्तस्याः कदाचिदपि लोपो विद्यते साह्यविनाशिनीति न द्रष्टुर्द्वितीयमन्यद्दर्शनसाधनं चक्षुर्व्यापाररूपं दृश्यं वा तस्यामवस्थायासमस्ति यतो दर्शनं स्यात्, यद्यपि दृश्यं रूपादिकं स्वरूपतस्तस्यामवस्थायामस्ति तथापि दृश्यता दर्शनयोग्यता तस्यामवस्थायां नास्तीति तेन रूपेणाभावाद्दृश्यं नास्तीत्युच्यते, तस्मात्साधनान्तरवैकल्यात्तस्यामवस्थायां न पश्यति न शक्तिवैकल्यात्, शक्तिस्तु न कदाचिदपि लुप्यत इति । एवमन्येषामपि वाक्यानां योजना । तथा ज्ञानशक्त्यपरिलोप एव ज्ञत्रानापरिलोप उच्यते, ज्ञातिशब्दश्चात्रानुमानादिज्ञानपरः चक्षुरादिज्ञानानां स्वशब्दैरुक्तत्वात् ॥*॥ एवं विज्ञानं ब्रह्म विज्ञानघन इत्यादीनामपि शक्तिपरत्वं वेदितव्यम् । स्वयमेव श्रुत्या शक्तिपरत्वं व्याख्यातं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थायतान्येवानु विनश्यतीति भूतेन्द्रियनाशादात्मापि प्रमाणागोचरत्वमापन्नो विनष्ट इव भवतीति । न तस्येतः प्रेतस्य मुक्तस्य संज्ञास्तीति । एवं याज्ञवल्क्येमनोक्ते मैत्रेयी चोदयतिस्म अत्रैव ङगवान्(?)मामोहितवान् विज्ञानघन इति न चास्ति संज्ञेति विरुद्धाभिधानातिति । षष्ठाध्याये तु विनाशाविनाशविरोधश्चोदयिष्यत इति विवेकः । एवं चोदितो याज्ञवल्क्यः परिहारमाह न वा अरे अहंमोह परस्परविरुद्धं ब्रवीमि, अलं वा अरे इदं विज्ञानाय अत्रात्मतत्त्वं सर्वास्ववस्थासु विज्ञानाय समर्थमित्यर्थस्तेन विज्ञानघनत्वाभिधानं सामर्थ्याभिप्रायमिति व्याख्यातं भवति । संभवति च शक्तस्यापि ज्ञानाभाव इति नास्ति विरोध इत्यभिप्रायः । अनया च श्रुत्या सर्वविज्ञानश्रुतयः शक्त्यभिप्राया व्याख्याताः ॥*॥ यदि शक्तिरस्ति ततस्तस्यावस्थायां ततः केन ज्ञानानुत्पत्तिः ज्ञानसाधनानामिन्द्रियाणां ज्ञेयानां च विषयाणामभावात् । तदाह यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येतित्यादि, तदेतत्प्रागेव व्याख्यातम् । एवमर्थान्तरज्ञाने साधनाभावान्निराकृते सति आत्मानमेव मुक्तावस्थायां जानात्वित्याशङ्क्याह विज्ञातारमरे केन विजानीयातिति नह्यात्मापि विनासाधनेन ज्ञातुं शक्यते मनसा खल्वसौ संसारावस्थायां ज्ञायते न च मुक्तस्य मनःसंबन्घोऽस्ति अतः केनात्मानं जानात्विति व्यक्त एव मुक्तस्यात्मज्ञानस्याभावे ज्ञानशक्तिमात्रस्यावस्थानं श्रुत्या दर्शितं, तस्मान्निःसंबन्धो निरानन्दश्च मोक्षः ॥ आत्मनो ज्ञानानन्दस्वरूपत्वस्य खण्डनम् ॥ ननु नात्मनोऽन्यद्विज्ञानमानन्दो वा किन्त्वात्मैव ज्ञानमानन्दश्च विज्ञानं ब्रह्म आनन्दं ब्रह्म इति श्रुतेः, आत्मा च सुषुप्तितुरीययोरपि भवतीति कथं विज्ञानस्य चानन्दस्य चाभावः । नैतदेवं, यद्धि वस्त्वन्तरप्रकाशजननस्वभावं वस्तु यस्मिन्सति किमप्यर्थान्तरं प्रकाशत एव तल्लोके विज्ञानशब्देनोच्यते, नचात्मनि सति किञ्चिदन्यत्प्रकाशत एव, विद्यमानेऽपि तस्मिन्सुषुप्त्यवस्थायामर्थान्तरस्य कस्यचिदप्यदर्शनाततो न ज्ञानमात्मा ॥*॥ ननु प्रकाशजननस्वभावोऽपि सहकारिवैकल्यान्न जनयेत् । सत्यं न जनयति । यस्मिंस्तु सहकारिसंनिधाने तत्कृते वान्यस्मिन्नागन्तुके सति नियमेन प्रकाशत एवार्थान्तरं तज्ज्ञानशब्दवाच्यम् । तथा गीतिश्रवणप्रियालिङ्गनचन्द्रदर्शनमधुरास्वादसुरभिघ्राणादिजन्यमाह्लादमानन्दसुखशब्दावभिदधाते, नचैवंरूपत्वमात्मानोऽस्ति, यथा ह्यन्यसुखेषु सुखरूपं प्रत्यभिज्ञायते नैवमात्मनि प्रत्यभिजानीमो येनानन्दमिति च संज्ञेत्युच्यते न सा लौकिकी नापि वैदिकी । यदि परं वृद्ध्यादिवत्परिभाष्येत तदस्तु यथाकामम् । यत्तु विज्ञानं ब्रह्म आनन्दं ब्रह्म इति च सामानाधिकरण्यं तद्धर्ममात्रवचनत्वेन वर्तन्ते, सत्यं, न बाहुल्येन वर्तन्ते, कदाचित्तु गुणमात्रवचनानामपि गुणिनि प्रयोगो भवति यथा शीतो मधुरो रसः स्निग्धो गुरुश्चेति रसशब्दो द्रव्ये प्रयुज्यते, अन्यथा शीतादिशब्दसामानाधिकरण्यायोगात् । किं च रसं ह्येवायं विद्वान्, स एको ब्रह्मण आनन्द, इति षष्ठ्यानन्दाद्ब्रह्म व्यतिरिच्यते ॥*॥ किं च न मे सांप्रतं किञ्चिदपि सुखं दुःखमेव तु सर्वात्मना ममेति सुखाभावे दुःखानुभवे चानुसंधीयमानस्यात्मनः कथमानन्दरूपता स्यात् । किं च स्वप्रकाशानन्दरूपमात्मानमभ्युपगच्छतामस्माकं चैतावदविवादं सुषुप्तितुल्या मुक्तिरिति । संसारानुवृत्त्यनुवृत्तिमात्रं भिद्यते अन्यत्सर्वं तुल्यम् । तथा च श्रुतिरपि ता एताः प्रजा अहरहर्ब्रह्मलोकं यन्ति । अहरहरागच्छन्ति इति सुषुप्तिं ब्रह्मलोकशब्देन वदन्ती तुल्यत्वमेतयोर्दर्शयति, सुषुप्तिश्चास्माकमपि गोचरो न च तत्रानन्दानुभवोऽस्तीति व्यक्तमेतत्, तस्मान्निरानन्दो मोक्षः, दुःखपरिलोपाच्च पुरुषार्थन्त्वम् ॥*॥ सुखलोपादपुरुषार्थत्वमपीतिचेत्नैवमल्पं हि संसारे सुखं तदपि सूरयः ॥ बहुप्रयाससाध्यत्वाद्दुःखमेवानुजानते ॥ जन्ममृत्युजराव्याधिदुःखान्यनुदिनं नृणम् ॥ स्वयमेव विनायत्नान्निपतन्ति सहस्रधा । विहिताकरणान्नित्यं प्रतिषिद्धनिषेवणात् । महदामुष्मिकं दुःखं यत्नैर्नाव गम्यते ॥ बहुदुःखपरिष्विक्तं यन्नाम खल्पकं सुखम् ॥ सुरापानादिसुखवद्वर्जनीयं विविकिनाम् ॥ एवंभूतेऽपि संसारे ये रक्ताः सुखतृष्णया ॥ न तेषामधिकारोऽस्ति मुक्तिशास्त्रे कथञ्चन ॥ संसासाद्विजन्ते ये दृष्टलोकपरावराः । त एव खलु मुच्यन्ते न तु यः प्राकृतो जनः ॥ तेषामेवापर्गाख्यः पुरुषार्थो महात्मनाम् ॥ तेषामेवाधिकारश्च मुक्तिषाश्त्रे मनीषिणाम् । तेनाभावात्मकत्वेऽपि मुक्तेर्नापुरुषार्थता ॥ सुखदुःखोपभोगो हि संसार इति शब्द्यते ॥ तयोरनुपभोगं तु मोक्षं मोक्षविदो विदुः ॥ श्रुतिरप्येतमेवाह भेदं संसारमोक्षयोः ॥ न ह वै सशरीरस्य प्रियाप्रियविहीनता ॥ अशरीरं वा वसन्तं स्मपृशतो न प्रियाप्रिये ॥ आनन्दात्मकमात्मानं ये वदन्ति स्वप्रभम् ॥ तन्मतेऽपि च संसारान्मुक्तेरेतावती भिदा ॥ आत्मा ह्यानन्दरूपोऽसौ संसारेऽपि प्रकाशते ॥ तावेव(?) स मोक्षेऽपि नाधिक्यं तस्य किञ्चन ॥ अथ संसारवेलायामानन्दो न प्रकाशते ॥ नह्यप्रकाशनं युक्तं स्वप्रकाशस्य वस्तुनः ॥ यद्यसौ न प्रकाशेत किन्तर्ह्यन्यत्प्रकाशते । आत्मस्वरूपमिति चेन्ननु चानन्द एव तत् ॥ तच्चेत्प्रकाशते नूनमानन्दोऽपि प्रकाशते । तेन शब्दादिविषयजन्ययोः सुखदुःखयोः ॥ निवृत्तिरेव संसारादपवर्ग इतीर्यते । ततश्च सुखलोपेन मुक्तेर्न पुरुषार्थता ॥ यद्यस्माकं पुरुषार्थता । यद्यस्माकं भवेत्तर्हि तुल्यैषा भवतामपि । सुखदुःखहानिमसतस्तस्य भूयो दुःखविवर्जनात् ॥ मोक्षस्य पुरुषार्थत्वमावयोरुभयोः समम् ॥ सुखदुःखविहीनोऽतो मुक्तः स्वस्थोऽवतिष्ठते ॥ इति ॥ मुक्तिस्वरूपकथनम् ॥ किमिदं स्वस्थ इति, ये ह्यागममापायिनो धर्मा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माघर्मासंस्कारस्तानपहाय यदस्य स्वं नैजं ज्ञानशक्तिसत्ताद्रव्यत्वादि तस्मिन्नवतिष्ठत इत्यर्थः । यदि तु संसारावस्थायामविद्यमानोऽप्यानन्दो मुक्तावस्थायां जन्यत इत्युच्यते ततो जनिमत्त्वादनित्यो मोक्षः स्यात् । केन चासावनुभाव्यः । न हि स्वप्रकाशत्वं कस्यचित्संभवीत्युक्तम् । न च मनसानुभवः संभवतीति मुक्तस्य मनसोऽभावातमनलस्कत्वश्रुतेरित्युक्तम् । अत एव नित्योऽप्यानन्दः संसारदशायामबिभूतत्वादनुभूतोपि मुक्तावभिभवे निवृत्ते मनसानुभूयते इत्येदपि निरस्तम् ॥*॥ किं च सुखविशिष्चात्मानुभवः पुरुषार्थो न सुखमात्रानुभवः, न च मुक्तावात्मानुभवः संभवति विज्ञातारमरे केन विजानीयातिति कण्ठेनैव श्रुत्या निषिद्धत्वातलं वा अरे इदं विज्ञानाय इति च श्रुत्या विज्ञानशब्दस्य मुक्तस्य विज्ञानमशक्यमभ्युपगन्तुम् । नह्यस्याः श्रुतेः प्रियाप्रियास्पर्शश्रुतेश्च तत्त्वकथनं मुक्त्वा कथञ्चिदन्यपरत्वं संभवति । विज्ञानाश्रुतयस्तु शक्तावेव विज्ञानोपचारं कुर्वन्ति प्ररोचनार्थतयेत्युपपन्नम् । एवमानन्दश्रुतयोऽपि पुरुषार्थत्वसामान्यात्सुखत्वोपचारेण प्ररोचनार्थतया प्रवृत्ताः । युक्तं चैतत्वचनयोर्विरोधेऽन्यतो निर्णयः इति । विरोधश्चात्रानन्दप्रियाभाववचनयोः । न चाभाववचनं वैषयिकाभिप्रायम्, इतरत्तु स्वाभाविकाभिप्रायमिति शक्यं वक्तुम् । उभयत्रापि सामान्योपादानादत्यन्तसमानविषयत्वात् । अतः प्रमाणान्तरवशादानन्दवचनं दुःखाभावपरम्, इतरत्तु यथाश्रुतमिति न्याय्यम् । तस्मात्सुखदुःखादिसमस्तवैशेषिकात्मगुणोच्छेदो मोक्षः । सुखदुःखोच्छेदश्च धर्माधर्मयोरुच्छेदात्, धर्माधर्मयोरुच्छेदश्चोत्पन्नानां धर्माधर्माणामुपभोगेन नित्यनैमित्तिककर्मानुष्ठानेनात्मज्ञानेन च विरोधात्, उत्पाद्यानां च काम्यानुष्ठाननिमित्तानां धर्माणां तदनुष्ठानेनानुत्पादात्, विहिताकरणप्रतिषिद्धानुष्ठाननिमित्तानां चाधर्माणां विहितानुष्ठानेन प्रतिषिद्धाकरणेन च परिहारात्, असति शरीरारम्भे पूर्वशरीरनिपाते चाशरीरोऽवस्थितो मुक्तो भवति ॥ आत्मज्ञानस्य क्रतुमोक्षोभयोपयोगित्वम् । नन्वात्मज्ञानं क्रत्वर्थम् । सत्यम् । पुरुषार्थमपि च तत्संयोगभेदात् । यत्तावतविनाशी वा अरेऽयमात्मा इत्यादिना शरीराद्व्यतिरिक्तनित्यात्मस्वरूपसद्भावज्ञानं तत्पारलौकिकफलकर्मानुष्ठानौपयिकत्वात्कर्मज्ञानवदेव सामर्थ्यतः क्रतुसंयोगात्क्रत्वर्थम् । यथाहि ज्योतिष्टोमोदिवाक्याध्ययनं दृष्टेनैवानुष्ठानौपयिकत्वं ज्ञानं जनयतीति तदर्थतयाध्ययनविधिना विधीयते तथा अविनाशी वा अरेयमात्मा इत्यादिवाक्यानामप्यध्ययनविधिरेव कर्मानुष्ठानोपयोग्यात्मज्ञानार्थतां विधत्ते । तद्यदि प्रमाणान्तरेणात्मनः शरीरादिविवेको नैकान्ततः सिद्ध्यति ततो दृढविवेकप्रतिपादकानामुपनिषद्वाक्यानां विस्पष्टमेव फलम् । यथोक्तमित्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदत्र युक्त्या ॥ दृढत्वमेतद्विषयः प्रबोधः प्रयाति वेदान्तनिषेवणेन इति । अथ त्वन्यतोऽपि सिद्ध्यति, ततो यथैवान्यथापि क्रतुज्ञानसंभवेऽध्ययनोपात्तवेदवाक्यावगतकर्मरूपाणामेव पुंसां कर्मस्वधिकारः तथैवाध्यायनोपात्तोपनिषद्वाक्यावगतात्मतत्त्वानामेवाधिकार इत्यध्ययनविधिबलादेव कल्प्यते ॥*॥ यत्त्वात्मसद्भावप्रतिपादनोपक्रमे विधिसरूपं वाक्यमात्मा वा अरे द्रष्टव्यः इत्यादि तद्वक्ष्यमाणस्यार्थस्यातिगहनत्वान्महोपयोगत्वाच्च कथं हि नामालस्यं हित्वा श्रद्धाविशेषेण वक्ष्यमाणमर्थं प्रतिपद्येतेत्यातावन्मात्रार्थम् । तस्मादेतज्ज्ञानं दृष्टोपयोगित्वात्क्रत्वर्थम् ॥*॥ यानि पुनरितिकर्तव्यताविशेषयुक्तान्युपासनात्मकानि विधीयन्ते तेषां क्रतौ दृष्टोपयोगाभावाददृष्टफलत्वम् । अदृष्टं च फलं वाक्यशेषाद्द्विविधमभ्युदयरूपं निःश्रेयसरूपं च, सर्वन्कामानाप्नोति सोऽश्नुते सर्वान्कामानित्याद्यभ्युदयफलम् । न स पुनरावर्तते इत्यादि निःश्रेयसफलमिति विवेकः ॥ आत्मनित्यत्वेनाधिकरणोपसंहारः ॥ यत्तु विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इत्यनेन ब्राह्मणेन भूतचैतन्यमुक्तमित्याशङ्क्यते तत्स्वयमेव ब्राह्मणेनात्रेव मा भगवन्मोहान्तं प्रापितवान्पूर्वमजरामृत्वमभिधायाधुना विनाशीत्यभिधानादिति पूर्वपक्षं चोद्याख्यमुक्त्वा सिद्धान्तपरिहार उक्तः । अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा इत्युक्त्वा कथं तर्हि विनाशवचनमित्याशङ्क्य मात्रासंसर्गत्वस्य भवतीत्युक्तम् । मात्राशब्देन भूतेन्द्रियाणि धर्माधर्मौ च विकारशब्दवाच्या उच्यन्ते ॥*॥ एतदुक्तं भवति विज्ञानघनशब्देन ज्ञानशक्तिस्वभावस्यात्मनोऽभिधानम्, स ह्येतेभ्यो भूतेभ्यः समुत्थाय मुक्तो भूत्वा तान्येवानुविनश्यति भूतविनाशात्सोऽपि विनष्ट इव भवतीति, भूतस्थो ह्यसौ स्वयं प्रत्यक्षेण विनश्यतीत्युच्यते, तदनेन प्रकारेण मात्राणामेव विनाश इत्युच्यते नात्मन इत्यविरोधःष । तदुक्तमविनाशी स्वरूपेण पुरुषो या तु नाशिता ॥ मात्राणां साधिकाराणां भूतादीनामसंज्ञिता इति । किमिदं भूतादीनामसंज्ञितेति । यदि तावत्न प्रेत्य संज्ञास्तीत्यस्य व्याख्यानं, तदयुक्तम् । न हि न प्रेत्य संज्ञास्तीत्यनेन भूतादीनामसंज्ञित्वमुच्यते । किन्तर्ह्यात्मन एव मुक्तस्य संज्ञाभावोऽनेनोच्यते, तस्यैवोपायाभावेन तत्केन कं पश्येदित्यादिना विज्ञानारमरे केन विजानीयादित्यन्तेन विज्ञानाभावोपपादनात् । सत्यम् । नेदमस्य व्याख्यानं, प्रकरणार्थोपसंहारस्त्वयं यत एवं पूर्वोक्तेन न्यायेन भूतचैतन्यं न संभवति ब्राह्मणेनापि तथैवोक्तम्, तस्माद्भूतेन्द्रियाणामसंज्ञित्वमचैतन्यम्, अन्यस्तु नित्यश्चेतनः तस्य स्वर्गगमनसंभववान्न स्वर्गं लोकं यातीत्यस्य प्रत्यक्षविरोधः ॥ शब्दानित्यताधिकरणम् ॥६ ॥ कर्मैके तत्र दर्शनात् ॥ १,१.६ ॥ अस्थानात् ॥ १,१.७ ॥ करोति शब्दात् ॥ १,१.८ ॥ सत्त्वान्तरे च यौगपद्यात् ॥ १,१.९ ॥ प्रकृतिविकृत्योश्च ॥ १,१.१० ॥ वृद्धिश्च कर्तृभूम्नास्य ॥ १,१.११ ॥ समं तु तत्र दर्शनम् ॥ १,१.१२ ॥ सतः परमदर्शनं विषयानागमात् ॥ १,१.१२ ॥ प्रयोगस्य परम् ॥ १,१.१४ ॥ आदित्यवद्यौगपद्यम् ॥ १,१.१५ ॥ वर्णान्तरमविकारः ॥ १,१.१६ ॥ नादवृद्धिपरा ॥ १,१.१७ ॥ नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् ॥ १,१.१८ ॥ सर्वत्र यौगपद्यात् ॥ १,१.१९ ॥ संख्याभावात् ॥ १,१.२० ॥ अनपेक्षत्वात् ॥ १,१.२१ ॥ प्रख्याभावाच्च योगस्य ॥ १,१.२२ ॥ लिङ्गदर्शनाच्च ॥ १,१.२३ ॥ लिङ्गदर्शनाच्च ॥ १,१.२३ ॥ शब्दस्यार्थप्रत्याययकत्वं स्वाभाविकमिति यदक्तं तदाक्षिप्यते शब्दस्यानित्यत्वात्, न ह्यभिनवस्य शब्दस्य वृद्धव्यवहारपरम्परया स्वाभाविकं प्रत्यायकत्वं शक्यते गृहीतुम्, अगृहीतमपिचेत्स्वभावतश्चक्षुरादिवत्प्रत्याययेत्प्रथमश्रवणेऽपि प्रत्याययेत्, तस्मादनित्यत्वे शब्दस्य देवदत्तादिशब्दवत्पुरुषकृतमेव प्रत्यायकत्वमापद्यते । कथं पुनरित्यत्वं शब्दस्य, प्रयत्नानभिव्यङ्ग्यत्वे सति तदनन्तरमुपलब्धेर्घटादिवत्तज्जन्यत्वमध्यवसीयते । अन्यथा किमिति तदनन्तरमेवोपलभ्यते न पूर्वं, उपलब्धस्य च द्रागेव तिरोभावाद्विनाशित्वमध्यवसीयतेष नचासिद्धमनभिव्यङ्ग्यत्वम्, अभिव्यक्त्ययोगात् । सा हि प्रतिबन्धकनिरासेन वा संस्कारविशेषानेन वा । न तावत्प्रतिबन्धनिरासः प्रतिबन्धकानुपलब्धेः । स्तिमिता वायवः श्रोत्रमाच्छाद्यावस्थिताः शब्दोपलब्धिं प्रतिबध्नन्ति, तेषु प्रयत्नोत्थापितैः कौष्ठ्यैर्वायुभिरुत्सारितेषूपलभ्यते शब्द इति चेत् । एवं तर्हि सर्वे शब्दाः श्रोत्रं प्राप्यावस्थिताः प्रतिबन्धकेषूत्सरितेषु युगपच्छ्रूयेरन् ॥*॥ अथ संस्काराधानं तत्रापि त्रैविध्यं शब्दस्य वा संस्कारमादध्युः कौष्ठ्या वायवः श्रोत्रस्य वा उभयोर्वा । शब्दस्य चेत्तस्यैकत्वात्सर्वगतत्वादनवयवसंस्कारायोगात्स्रुध्नस्थैर्वायुभिः संस्कृतः शब्दः पाटलिपुत्रेप्युपलभ्येत, तदिदमुक्तं तत्र सर्वैः प्रतीयेत इत्यादिना । श्रोत्रसंस्कारपक्षेऽप्ययमेवदोषः ॥*॥ यदि काणादकापिलवैदिकमतेनाकाशमहङ्कारो दिग्वा श्रोत्रं तस्यैकत्वात्सर्वगतत्वादनवयवत्वाच्च सर्वपंसामेकमेव श्रोत्रं स्यात्तच्चैकदेशस्थैरपि ध्वानाभिः संस्कतमिति कः सर्वेषां शब्दोपलब्धिं वारयेत् । तदिदमाकाशश्रोत्रपक्षेचेत्यादिना श्रोत्रादेरियमेव दिगित्यन्तेन दर्शितम् । अस्मिंश्च पक्षे श्रोत्रस्य सर्वशब्दसाधरणत्वादेकशब्दोपलब्ध्यर्थमपि संस्कृतं श्रोत्रं प्रसङ्गात्सर्वान्शब्दान्घटार्थोन्मीलितमिव नेत्रं समानदेशस्थान्पटादीनवबोधयेत् । तदिदं सकृच्च संस्कृतं श्रोत्रमित्यादिना दर्शितम् ॥*॥ अयं च दोषः पूर्वोपक्षिप्तेऽपि शब्दसंस्कारपक्षे दर्शयितव्यः सर्वे हि शब्दाः श्रोत्रदेशेऽवस्थितास्तत्रैकस्मिन्संक्रियमाणे बलादन्येषामपि संस्कारः स्यादेव । न हि समानदेशानां समानेन्द्रियग्राह्याणां कस्यचित्संस्कारः कस्यचिच्चासंस्कार इति व्यवस्था संभवति घटादावदर्शनात्, तदिदमुक्तमेतदेव प्रसंक्तव्यमित्यादिना ॥*॥ उभयसंस्कारपक्षे तूभयेऽपि दोषाः समुच्चित्य दर्शयितव्याः, तथा सति हि कैश्चिदेव कश्चिदेव शब्दः श्रूयत इत्युपपद्यते, अन्यथा श्रोत्रव्यवस्था चोभयमपि न स्यात् । किच नानादेशस्थैश्च वक्तृभिरुच्चारितः शब्दो युगपन्नानादेशेषूपलभ्यते तदेकस्य नित्यस्यानुपपन्नमिति शा० भाष्यम् । तत्र नित्यस्यानुपपन्नमिति प्रतिज्ञा, एकस्येति हेतुः, नित्यो ह्यसेवकः स्यातेकस्यानुपपन्नं नानादेशेषूपलम्भनमिति ॥*॥ ननु नावश्यत्वं नित्यत्वे सत्येकत्वं भवति, अनेकान्येव हि गकारादीनि नित्यानि भवन्त्वित्यत आह असति विशेषे नित्यस्य नानेकत्वम्(शाभा) इति । एतदुक्तं भवति प्रत्यभिज्ञाख्यविशेष्यप्रत्ययबलेन ह्यस्तनाद्यतनगकारयोरेकत्वावगमान्नित्यत्वमाश्रीयते । अस्तिचासावविशेषप्रत्ययो युगपन्नानावक्तृभिरुच्चारितेऽपि गकारे नहि तत्रापि प्रत्ययविशेषोऽस्ति, असति च विशेषे नित्यस्य नानेकत्वं संभवति । अनेकत्वे हि प्रत्यभिज्ञाया अप्रामाण्यमस्माकमिव भवतोऽपि स्यात्तदप्रामाण्येच नित्यत्वानुपपत्तिः, तस्मान्नित्यत्वे सत्येकत्वमङ्गीकर्तव्यम्, एकस्य चानुपपन्नं नानादेशोपलम्भनमिति ॥*॥ वार्तिकेऽपि यौगपद्योपलम्भाद्वा भेदो भेदाच्च कार्यतेति द्वयमुपक्षिप्य यथायौगपद्योपलम्भाद्भेदो भवति तथा दर्शितमविभुत्वे हि युगपदित्यादिना तथा दर्शितं नित्यत्वे त्वेकबुद्धिः स्यादिति । न हि नित्यत्ववादिना प्रत्यभिज्ञाया भ्रान्तित्वमिष्यते । तथा च वक्ष्यते अपि चैकरूप्ये सति देशभेदेन कामं देशा एव भिन्नाः स्युर्नतु शब्दः इति । न हि तदप्रामाण्ये नित्यत्वं सिद्ध्यति प्रमाणान्तराभावात्, अतो नित्यत्वे सत्येकत्वं स्यात्तच्च नानादेशोपलम्भेन विरुध्यत इति, ततश्च यौगपद्योपलम्भाद्भेदो भेदे च प्रत्यभिज्ञाया अप्रामाण्यं तदप्रामाण्ये च नित्यत्वाभावात्कार्यत्वं तदेतदानुपूर्व्यं स्वतन्त्रसिद्धम् । दृढे चानित्यत्वे जीपवत्सादृश्यात्प्रत्यभिज्ञा भवति तस्मादनित्यः शब्द इति प्राप्ते ॥ शब्दनित्यत्वोपपादम् । अभिधीयते प्रयत्नानन्तरं दृष्टैर्नैकान्त्यात्कार्यता ध्वनेः । तदभिव्यङ्ग्यपक्षेऽपि युज्यते तत्र दर्शनम् । यत्तु कथमभिव्यङ्ग्यत्वमिति, श्रोत्रसंस्कारेणेति ब्रूमः । यत्त्वाकाशस्याहङ्कारस्य वा श्रोत्रत्वे तत्संस्कारत्वे च सर्वत्र पुंसामुपलब्धिः स्यादित्युक्तं तत्र ब्रूमः यदि तयोः श्रोत्रत्वे भवेदयं दोषः । तत्कर्णशष्कुलीभवतु श्रोत्रं सा च प्रतिपुरुषं भिन्नेति नातिप्रसङ्गः । यद्यपि चाकाशमेव श्रोत्रं तत्तु न साक्षात्संस्क्रियते किन्त्वधिष्ठानद्वारेण, ततश्च यद्यपि श्रोत्रं सर्वेषामेकं तथाप्यधिष्ठानं भिन्नत्वात्संस्कारव्यवस्थया श्रवणस्य व्यवस्था भविष्यति ॥*॥ नन्वेकत्वेसतीन्द्रियस्य यद्यप्यधिष्ठानानि भिन्नानि तथाप्येकेनाप्यधिष्ठानेन संस्कृतेनेन्द्रियस्य संस्कृतत्वात्सर्वपुंसामिन्द्रियं संस्कृतमिति सर्वेषामुपलब्धिः स्यादेव । तदुक्तं नन्वेकस्मिन्नधिष्ठाने लब्धसंस्कारमिन्द्रियम् ॥ बोधकं सर्वहेतुषु स्यादेकेन्द्रियवादिनः इति । सर्वदेहवर्तिनां पुंसामित्यर्थः । अत्रोत्तरं पुंसां देहप्रदेशेषु स्यादेकेन्द्रियवादिनः इति । सर्वदेहवर्तिनां पुंसामित्यर्थः । अत्रोत्तरं पुंसां देहप्रदेशेषु विज्ञानोत्पत्तिरिष्यते । तेन प्रधानवैदेश्याद्विगुणा सा तु संस्कृतिः इति । अयमर्थः स्वशरीर एव भोग्यायतने सर्वपुंसामपि ज्ञानमुत्पद्यते नान्यत्र, शब्दज्ञानाङ्गं चायमधिष्ठानसंस्कारः प्रधानसमानदेशत्वं चाङ्गानां गुणस्तेन देहन्तरवर्तिनः पुरुषस्य यस्त्वदेहे निष्पादयितव्यं विज्ञानं तस्य तद्देहगत एव संस्कारो निष्पादको भवति न देहान्तरगतः । सा हि तत्प्रधानभूतेन ज्ञानेन विदेशत्वाद्विगुणः ॥*॥ ननु संस्कार्यस्यैकत्वात्तद्दूरत्वाच्च संस्काराङ्गभावस्य देशभेदोऽकिञ्चित्कर एव, यथा बर्हिरेकत्वात्तत्संस्काराणामतिथ्याकालानामप्युपसदग्रीषोमीयाङ्गात्वं न विहन्यते तद्वदत्रापि स्यात् । न । अदर्शनात् । नह्येकस्मिन्नधिष्ठाने सर्वेषां ज्ञानमुपलभ्यते, अतः साधारणमपीन्द्रियं विज्ञानसमानदेससंस्कारसचिवमेव ज्ञानमुकत्पादयति नान्यथेति दर्शनबलादध्यवसीयते ततो नातिप्रसङ्गः ॥*॥ नचावश्यमेकमेवेन्द्रियं यद्यप्याकाशमेकमनवयवं च तथापि तस्य प्रादेशिकैर्घटादिभिर्ये संयोगास्तेऽपि प्रादेशिकास्ततश्च कर्णशष्कुलीसंयोगानां प्रतिपुरुषं भिन्नत्वात्तदवच्छिन्नस्य चाकाशस्य श्रोत्रत्वात्सत्यपि स्वरूपैकत्वेऽवच्छिन्नरूपाणां श्रोत्राणां भेदाद्व्यवस्थासिद्धिः । एवमहङ्कारभागे दिग्भागे वा श्रोत्रे द्रष्टव्यम् ॥*॥ यत्तु सकृच्च संस्कृतं श्रोत्रं सर्वशब्दान्प्रकाशयेदित्युक्तं, तत्रोच्यते ध्वनयो हि ताल्वादिस्थानविशेषसंपर्काद्विजातीया विलक्षणसामर्थ्यान्निष्पद्यन्ते, ततश्च कश्चिदेव ध्वनिः कस्यचिच्छब्दस्यानुगुणं संस्कारमाधत्ते न सर्वसाधारणमित्युपलब्धिव्यवस्था कल्प्यते शब्दसंस्कारपक्षेऽपि कश्चिदेव ध्वनिः कञ्चिच्छब्दं संस्करोति न सर्वः सर्वमिति युक्ततरैव व्यवस्था । दृष्टाच समानेन्द्रियग्राह्याणामप्यभिव्यञ्जकव्यवस्था सावित्रं हि तेजो घटादीनामेवाभिव्यञ्जकं न नक्षत्राणां, निम्बत्वक्चन्दनगन्धस्यैवाभिव्यञ्जिका न गन्धान्तराणां, तस्माददोषः ॥*॥ न च शब्दसंस्कारे सर्वपुंसामुपलब्दिप्रसङ्गः ध्वनीनां प्रादेशिकत्वात्तद्देशे शब्दः संस्क्रियते न सर्वत्र, अतः संस्कृतेन शब्देन यस्येन्द्रियं संनिकृष्टं स एव शृणोति नान्य इत्युपपन्नम् ॥ शब्दस्यानेकदेशोपलम्भः ॥ युगपद्देशभेदश्च स्यादेकस्य सूर्यवत् ॥ ये विन्ध्यनिलया ये च कामरूपे व्यवस्थिताः ॥ प्राग्भागे ह्यात्मनः सर्वैरुद्यन्भास्वान्निरीक्ष्यते ॥ प्रत्यग्भावे तथास्तं यन्मध्याह्ने चोपरि स्थितः ॥ भिन्नाश्च तेषां प्राग्भागास्तथा प्रत्यक्तथोपरि ॥ तेष्वस्य दृश्यमानस्य विस्पष्टा भिन्नदेशता ॥ तथा यस्मिन्यावद्दूरे देशे कैश्चित्सूर्योदयो दृश्यते तद्देशवर्तिनोऽन्येपि ततः परस्तात्तावति पश्यन्ति ततोऽप्यस्ति भेदाभेदः । न च सूर्यनानात्वमाशङ्कनीयम्, न हि केचिद्भिन्नं सूर्यं पश्यन्ति ॥*॥ कि पुनरेकदेशस्थस्यैव सवितुर्नानादेशोपलम्भे कारणम्, उच्यते अतिदूरवर्तिनोऽस्य यथावद्देशमजानन्तः स्वसंनिधिमध्यस्यन्तो देशभेदं मन्यन्ते । विस्पष्टं चैतत् । तथाहि योऽपराह्ने यस्मिन्यावद्दूरे देशे सूर्यं पश्यति अस्मिन्क्षेत्रेऽस्मिन्पर्वते सूर्यः इति, स सवितारमीक्षमाण एव तद्देशे गतस्ततः परस्तात्तथैव तं पश्यति तेनावगम्यते सर्वेषां देशानामग्रतः स्थितोऽसौ संनिहितवदवभासत इति । ये चादित्यापेक्षया स्तोकदेशाः पर्वतास्तेऽपि द्वियोजनस्थितानां त्रियोजनस्थितानां च पुरुषाणां तुल्यवदवभासन्ते, तस्मादेकत्वेऽपि संभवति नानादेशोपलम्भः । तथैकमेव मुखं भिन्नेष्वादर्शेषु युगपद्दृश्यते ॥*॥ ननु प्रतिबिम्बं नामार्थान्तरं तत्र दृश्यते । न । तस्याभावादनुपलम्भाच्च, न हि मूर्तमध्ये मूर्तान्तरं संभवति । किं च शरावस्थमुदकं भूमेरुपरि नाभिदध्ने धारयित्वा तस्योपरिष्टादरत्रिदध्ने स्वमुखं कुर्वन्नुदकस्याधस्तादरत्रिमात्रे मुखप्रतिबिम्बं पश्यति, तस्मिंश्च देशे पार्श्वस्थाः पुरुषा न कञ्चिदपि पश्यन्ति तेन दृश्यादर्शननिरस्तः प्रतिबिम्बाख्योर्ऽथो न शक्योऽभ्युपगन्तुम् । तस्मादादर्शतेजसा जलेन च प्रतिहतं नायनं तेजः परावृत्त्या गृह्णातीति युक्तम् । तस्मादनैकान्तिको नानादेशोपलम्भो न नानात्वं शब्दस्य साधयति ॥*॥ ननु सवितुः सांनिध्याध्यासाद्युक्ता नानादेशावगतिः शब्दे तु कथम् । सर्वगतत्वात्सर्वगतो हि शब्दो भिन्नदेशैर्ध्वनिभिः स्वेस्वे देशेऽभिव्यज्यमानो भिन्नदेशोऽवभासते, ध्वनयो हि श्रोत्रदेशमागत्यापि शब्दं व्यञ्जयन्तः स्वोत्पत्तिदेसमिव शब्दं भासयन्तीति दर्शनबलादभ्युपगम्यते ॥*॥ ननु प्राप्यकारि श्रोत्रं, न च ध्वन्युत्पत्तिदेशः श्रोत्रेण प्राप्यत इति कथं तस्य श्रोत्रेण ग्रहणम्, तदग्रहे च कथं तद्विशिष्टशब्दग्रहः । उच्यते नायं श्रोत्रतस्तद्विशिष्टशब्दप्रत्ययः, किं तु श्रोत्रं गि स्वदेशस्थितं शब्दं बोधयदपि न देशविशिष्टं बोधयति किन्तु स्वरूपमात्रेण, यतस्तु दिश आगता ध्वनयस्तया विशिष्टं शब्दं बोदयन्ति, सा हि दिक्श्रोत्रप्राप्ता शक्यते श्रोत्रेण ग्रहीतुम्, यद्यपि न स्वातन्त्र्येण दिशः श्रोत्रग्राह्यत्वं तथापि रावे गृह्यमाणे तद्विशेषणतया अथ च विषयेषु स्वेषु गृह्यमाणेषु तद्विशेषणतया सर्वैरपीन्द्रियैर्गृह्यते तद्वत् । ततश्चास्यां दिशि शब्द इति विशिष्टग्रहणं तावत्सिद्धम् । ...