ओं तत्सद्ब्रह्मणै नमः श्रीमाधवप्रणीतो जैमिनीयन्यायमालाविस्तरः । वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १.०.१ ॥ युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभागाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्री बुक्कणक्ष्मापतिः ॥ १.०.२ ॥ यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितरदं सार्वज्ञमुद्द्योतते ॥ १.०.३ ॥ इन्द्रस्याऽङ्गिरसो नलस्य सुमतिः शैब्यस्य मेधातिथिर्धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ १.०.४ ॥ स खलु प्राज्ञजीवातुः सर्वशास्त्रविशारदः । अकरोज्जैमिनिमते न्यायमालां गरीयसीम् ॥ १.०.५ ॥ तां प्रशस्य सभामध्ये वीरश्रीबुक्कभूपतिः । कुरु विस्तरयस्यास्त्वमिति माधवमादिशत् ॥ १.०.६ ॥ स भव्याद्भारतीतीर्थयतीन्द्रचतुराननात् । कृपामव्याहतां लब्ध्वा परार्ध्यप्रतिमोऽभवत् ॥ १.०.७ ॥ निर्माय माधवाचार्यो विद्वदानन्ददायिनीम् । जैमिनीयन्यायमालां व्याचष्टे बालबुद्धये ॥ १.०.८ ॥ न्यायमालाया आदौ स्वकीयग्रन्थत्वद्योतनाय स्वमुद्रारूपमनेकार्थगर्भे देवतानमस्कारप्रतिपादकं श्लोकं पठति ____________________________________________________ १,१.१ वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे । यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥ १,१.१ ॥ ____________________________________________________ १,१.२ इष्टदेवतां नमस्कृत्य चिकीर्षितार्थपरिपालनाय पालके स्वामिनि विद्यमानं महिमानमनुस्मरति युक्तिं मानवतीं विदन्स्थिरधृतिर्भेदे विशेषार्थभागाप्तोहः क्रमकृत्प्रयुक्तिनिपुणः श्लाध्यातिदेशोन्नतिः । नित्यस्फूर्त्यधिकारवान्गतसदाबाधः स्वतन्त्रेश्वरो जागर्ति श्रुतिमत्प्रसङ्गचरितः श्रीबुक्कणक्ष्मापतिः ॥ १,१.२ ॥ अत्र चिकीर्षिते धर्मशास्त्रे वर्तमानानां द्वादशानामध्यायानां ये प्रतिपाद्या अर्थाः, ये च नीतिशास्त्रोक्ता राजधर्माः, ते सर्वेऽप्यस्मिन्भूपतावुपलभ्यन्ते । नीतिपक्षे युक्तिर्योगः संधिः । सा च युक्तिर्मानवती । मानः सत्कारश्चतुर्षु सामभेददानदण्डेषूपायेषु प्रथम उपायः । वैरिणो बुद्धिभेदो द्वितीयः । एताभ्यां दानदण्डावप्युपलक्ष्येते । एतैश्चतुर्भिरूपायैर्विशेषेणार्थं धनं भजति प्राप्नोति । एतावता शत्रुक्षयः कथितः । अवशिष्टेन स्वराज्यप्रतिपालनप्रकारः प्रतिपद्यते आप्तेष्वमात्यप्रभृतिषु पुरुषेषुऽअयमीदृशस्य व्यापारस्य योग्यो नान्यस्यऽ इत्येवमूहापोहकुशलः । ऽराजसभायामेते तपस्विनः पूज्या विप्रा दक्षिणभाग उपवेशनीयाः, एते च भृत्या वामभागेऽ इति क्रमं करोति तत्तद्ग्रामेष्वधिकृतान्पुरुषानुचितबुद्धिप्रदानेन प्रयोक्तुं निपुणः । समुद्रपर्यन्तत्वेनातिबहलस्य देशस्योन्नतिः समस्तवस्तुसंपत्तिः । सा च परराष्ट्रनिवासिभिः सकलप्रणिभिः श्लाघ्यते । ऽइदं कर्तव्यम्, इदं नऽ इत्येवं कार्याकार्यविषया स्फूर्तिस्तस्यामधिकारोऽस्य राज्ञो नित्यः सर्वत्राप्रतिहतबुद्धित्वात् । गतो निवारितः सतां तपस्विनामाबाधो विघ्नो येनासौ गतसदाबाधः । देशान्तराधिपतीनां राज्ञामेतदधीनत्वेनापरप्रेष्यत्वादयं स्वतन्त्रः । जगदीश्वरस्य विद्यातीर्थमुनेर्भोगमूर्तित्वेनायमीश्वरः । यस्य सभायां गोष्ठीरूपः प्रसङ्गो वेदार्थविषयत्वेन श्रुतिमान् । यदीयं चरितमपि निरन्तरं वेदोक्तरहस्यार्थन्ध्यानरूपत्वेन श्रुतिमद्भवति सोऽयं श्रुतिमत्प्रसङ्ग्चरितः । एवंविधो बुक्कभूपतिरन्तः परमेश्वरध्याने, बहिः प्रजापालने च नित्यं जागर्ति । यथा नीतिशास्त्रोक्तेषु सामभेदादिष्वयं कुशलस्तथा सर्वज्ञावतारत्वाद्धर्मशास्त्रोक्तेषु प्रमाणादिप्रसङ्गान्तेष्वध्यायार्थेषु कुशलः । ते चाध्यायार्था उपरिष्टात्प्रदर्श्यन्ते ॥ १,१.२ ॥ ____________________________________________________ १,१.३ राज्ञः सर्वज्ञत्वं सोपपत्तिकं प्रकटयति यद्ब्रह्म प्रतिपाद्यते प्रगुणयत्तत्पञ्चमूर्तिप्रथां तत्रायं स्थितिमूर्तिमाकलयति श्री बुक्कणक्ष्मापतिः । विद्यातीर्थमुनिस्तदात्मनि लसन्मूर्तिस्त्वनुग्राहिका तेनास्य स्वगुणैरखण्डितपदं सार्व मुद्द्योतते ॥ १,१.३ ॥ सर्वासूपनिषत्सु प्रतीयमानं यत्परं ब्रह्म तदेव शैवागमेषु सृष्टिस्थितिसंहारनिरोधनानुग्रहलक्षणपञ्चकृत्य सिद्ध्यर्थमीशानतत्पुरुषाघोरवामदेवसद्योजातलक्षणानां पञ्चानां मूर्तीनां प्रथां प्रसिद्धिं विस्तारं वा प्रगुणयति प्रकटी करोतीति प्रतिपाद्यते । तत्र तासु मूर्तिष्वयं भूपालः स्थितिमूर्तिं धत्ते । तस्या मूर्तेरात्मनि लसन्विद्यातीर्थमुनिः कृत्स्नस्य जगतोऽनुग्राहिका मूर्तिरित्युच्यते । यस्मादयं भूपो वेदान्तोक्तं परं ब्रह्म, यस्माच्चाऽगमोक्ता महेश्वरस्य स्थितिमूर्तिः, यस्माच्च श्रीविद्यातीर्थमुनिस्तदात्मनि संनिधाय प्रकाशते, तस्मात्सर्वज्ञत्वमस्य राज्ञ उत्कर्षेणाऽविद्व दङ्गनागोपालमविवादेन प्रतिभासते ॥ १,१.३ ॥ ____________________________________________________ १,१.४ उक्तगुणोपेतस्य राज्ञो मन्त्रिणं नानापुराणप्रसिद्धदृष्टान्तैर्हितकारितया प्रशंसति इन्द्रस्याङ्गिरसो नलस्य सुमतिः शैव्यस्य मेधातिथिर्धौम्यो धर्मसुतस्य वैन्यनृपतेः स्वौजा निमेर्गौतमिः । प्रत्यग्दृष्टिररुन्धतीसहचरो रामस्य पुण्यात्मनो यद्वत्तस्य विभोरभूत्कुलगुरुर्मन्त्री तथा माधवः ॥ १,१.४ ॥ ____________________________________________________ १,१.५ चिकीर्षितग्रन्थे श्रद्धातिशयमुत्पादयितुं कर्तृगौरवं प्रकटयति श्रुतिस्मृतिसदाचारपालको माधवो बुधः । स्मार्तं व्याख्याय सर्वार्थं द्विजार्थं श्रौत उद्यतः ॥ १,१.५ ॥ सर्ववर्णाश्रमानुग्रहाय पुराणसारपाराशरस्मृतिव्याख्यादिना स्मार्तो धर्मः पूर्वेव्याख्यातः । इदानीं द्विजानां विशेषानु ग्रहाय श्रौतधर्मव्याख्यानाय प्रवृत्तः ॥ १,१.५ ॥ ____________________________________________________ १,१.६ ग्रन्थमारिप्सुर्गुरुमूर्त्युपाधिकं सकलवेदशास्त्रप्रवर्तकत्वेनात्रोचितेष्टदेवतारूपं परमेश्वरमादौ नमस्कृत्य श्रोतृप्रवृत्तिसिद्ध्यर्थं विषयप्रयोजने दर्शयंस्तं ग्रन्थं प्रतिजानीते प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । जैमिनीयन्यायमाला श्लोकैः संगृह्यते स्फुटम् ॥ १,१.६ ॥ जैमिनीप्रोक्तानि धर्मनिर्णायकान्यधिकरणानि न्यायाः । तेऽस्य ग्रन्थस्य विषयः । पठितुं सुशकैः कतिपयैरेव श्लोकैस्तेषां स्फुटीभावः प्रयोजनम् । न्यायमाला संगृह्यत इति ग्रन्थनामनिर्देशपूर्विका प्रतिज्ञा ॥ १,१.६ ॥ ____________________________________________________ १,१.७८ करिष्यमाणस्य ग्रन्थस्य प्रकारं दर्शयति एको विषयसंदेहपूर्वपक्षावभासकः । श्लोकोऽपरस्तु सिद्धान्तवादी प्रायेण कथ्यते ॥ १,१.७ ॥ चत्वारोऽवयवा एकश्लोकेनोक्ताः क्वचित्क्वचित् । यत्र क्वापि बहुश्लोकैरुच्यन्तेऽतो न विस्तरः ॥ १,१.८ ॥ एकैकस्याधिकरणस्य विषयः, संदेहः, संगतिः, पूर्वपक्षः, सिद्धान्तश्चेति पश्चावयवाः । तत्र संगतिरनन्तरमेव व्युत्पादयिष्यमाणेन प्रकारेण प्रत्यधिकरणं स्वयमेवोहितुं शक्यते । अवशिष्टानां चतुर्णामवयवानां संग्राहकाः क्वचिद्भहवः श्लोकाः, क्वचिदेक इत्यावापोद्वापाभ्यामन्ततः प्रत्यधिकरणं श्लोकद्वित्वे संख्या पर्यवस्यति । अतो बहुत्वाद्बिभ्यता ग्रन्थगौरवशङ्का न कर्तव्या ॥ १,१.७ ॥ ____________________________________________________ १,१.९ तमेव ग्रन्थागौवरभावं स्फुटीकुर्वन्रूपकव्याजेन सुबोधत्वं दर्शयति सर्वथापि सहस्रे द्वे नातिक्रामति संग्रहः । मीमांसासागरस्तेन क्रीडापुष्करिणी भवेत् ॥ १,१.९ ॥ श्लोकेन श्लोकाभ्यां श्लोकैर्वा यथासंभवं न्यायः संगृह्यताम् । सर्वथापिसहस्रन्यायसंग्रहरूपो ग्रन्थः श्लोकसहस्रद्वयपूर्तेरर्वागेव समांप्स्यते, न तु सहस्रद्वयमत्तिक्रामति । भाष्यटीकादीनां बहुत्वाद्दुरवगाहत्वाच्च मीमांसा सागरसभा पूर्वमासीत् । क्रियमाणेनानेन ग्रन्थेन दोषद्वयरहितेन राजपुत्राणां बालानां क्रीडार्थं निर्मितया नाभिदघ्न्या पुष्करिण्या समा भविष्यति । यद्यपि शास्त्रदीपिकादौ क्वचित्क्वचित्संग्रहश्लोकोऽस्ति, तथापि न सर्वत्र विद्यते । यत्रास्ति तत्रापि विषयसंशययोरेसंग्रहान्न श्लोकपाठमात्रेणाधिकरणमुपन्यसितुं शक्यते । अतो न क्वापि गतार्थत्वं शङ्कनीयम् ॥ १,१.९ ॥ ____________________________________________________ १,१.१० संगतिं व्युत्पादयति शास्त्रेऽध्याये तथा पादे न्यायसंगतयस्त्रिधा । शास्त्रादिविषये ज्ञाते तत्तत्संगतिरूह्यताम् ॥ १,१.१० ॥ शास्त्रसंगितः, अध्यायसंगतिः, पादसंगतिश्चेति त्रिधा संगतिः । सा च शास्त्रादीनां त्रयाणामसाधरणे विषये ज्ञाते सति स्वयमेप्वोहितुं शक्या ॥ १,१.१० ॥ ____________________________________________________ १,१.१११२ शास्त्रस्याध्यायानां चासाधारणं विषयं दर्शयति धर्मो द्वादशलक्षण्या व्युत्पाद्यस्तत्र लक्षणैः । प्रमाणभेदशेषत्वप्रयुक्तिक्रमसंज्ञकाः ॥ १,१.११ ॥ अधिकारोऽतिदेशश्च सामान्येन विशेषतः । ऊहो बाधश्च तन्त्रं च प्रसङ्गश्चोदिताः क्रमात् ॥ १,१.१२ ॥ लक्षणान्यध्यायाः । द्वादशानां लक्षणानां समाहारो द्वादशलक्षणी । तादृशस्य द्वादशलक्षणोपेतस्य शास्त्रस्य धर्मो विषयः । प्रमाणादयः प्रसङ्गान्ता द्वादश पदार्थाः क्रमाद्द्वादशानामध्यायानां विषयाः । प्रथमेऽध्याये विध्यर्थवादादिरूपं प्रमाणं निरूपितम् । द्वितीयेयागदानादि कर्मभेदः । तृतीये प्रयाजादीनां दर्शपूर्णमासाद्यर्थत्वेन तच्छेषत्वम् । चतुर्थे ऽगोदोहनस्य पुरुषार्थत्वप्रयुक्त्यानुष्ठानम्, न तु क्रत्वर्थत्वप्रयुक्त्याऽ इत्येवमादयः । पञ्चमे क्रमनियतिविधेयत्वादयः । षष्ठे ऽकर्तुरधिकारो नान्धादेःऽ इत्यादयः । सप्तमे "समानषितरच्छयेनेन"इत्यादिप्रत्यक्षवचनेन, अग्निहोत्रादिनाम्नानुमितवचनेन च सांमान्यतोऽतिदेशः । अष्टमे "सौर्ये चरुं निर्वपेत्"इत्यत्र निर्वापस्तद्धितेन देवतानिर्देश एकदेवतात्वमौषधद्रव्यकत्वमिति लिङ्गेनाऽग्नेयपुरोडाशेतिकर्तव्यतैव, नान्यस्येत्येवमादिर्विशेषतोऽतिदेशः । नवमे प्रकृतौ"अग्नये जुष्टं निर्वपामि"इति पठिते मन्त्रे विकृतौ सौर्यचरावग्निपदपरित्यागेन सूर्यपदप्रक्षेपेणऽसूर्याय जुष्टं निर्वपामिऽ इत्येवमाद्यूहः । दशमे कृष्णलेषु चोदकप्राप्तस्यावघातस्य वितुषीकरणासंभवेन लोप इत्येवमादिर्बाधः । एकादशे बहूनामग्नेयादीनां प्रधानानां सकृदनुष्ठितेन प्रयाजाद्यङ्गेनोपकार इति तन्त्रम् । द्वादशे प्रधानस्य पशोरुपकारायानुष्ठितेन प्रयाजाद्यङ्गेन पश्वङ्गपुरोडाषेऽप्युपकार इत्यादिप्रसङ्गः ॥ १,१.१११२ ॥ ____________________________________________________ १,१.१३ पादानामसाधारणं विषयं दर्शयति विध्यर्थवादस्मृतयो नाम चेति चतुर्विधम् । प्रथमाध्यायगैः पादैश्चतुर्भिर्मानमीरितम् ॥ १,१.१३ ॥ प्रथमे पादे विधिरूपं मानमीरितम् । द्वितीये अर्थवादरूपम् । अर्थवादो मन्त्रस्याप्युपलक्षकः । तृतीये स्मृतिरूपम् । स्मृतिराचारमप्युपलक्षयति । चतुर्थे उभ्दिञ्चित्रादिनामरूपम् ॥ १,१.१३ ॥ ____________________________________________________ १,१.१४ उपोद्धातः कर्मभेदमानं तस्यापवादगीः । प्रयोगभेद इत्येते द्वितीयाध्यायपादगाः ॥ १,१.१४ ॥ द्वितीयाध्यायस्य प्रथमे पादे आख्यातमेवापूर्वबोधकम्, अपूर्वसभ्दावश्चेत्यादिकः कर्मभेदचिन्तोपयुक्त उपोद्घातो वर्णितः । द्वितीये धातुभेदपुनरुक्त्यादिभिः कर्मभेदः । तृतीये रथन्तरादीनां कर्मभेदप्रामाण्यापवादः । चतुर्थे नित्यकाम्ययोः प्रयोगयोर्भेदः ॥ १,१.१४ ॥ ____________________________________________________ १,१.१५ श्रुतिर्लिङ्गं च वाक्यादिविरोधप्रतिपत्तयः । अनारभ्योक्तिबह्वर्थस्वाम्यर्था अष्टपादगाः ॥ १,१.१५ ॥ तृतीयाध्यायस्य प्रथमे पादे शेषत्वबोधकानां श्रुतिलिङ्गादीनां मध्ये श्रुतिर्विचारिता । द्वितीये लिङ्गम् । तृतीये वाक्यप्रकरणादि । चतुर्थे निवीतोपवीतादिष्वर्थवादत्वविधित्वादिनिर्णयहेतुः श्रुत्यादेः परस्परविरोधसदसभ्दावः । पञ्चमे प्रतिपत्तिकर्माणि । षष्ठे अनारभ्याधीतानि । सप्तमे बहुप्रधानोपकारकप्रयाजादीनि । अष्टमे याजमानानि ॥ १,१.१५ ॥ ____________________________________________________ १,१.१६ प्रधानस्य प्रयोक्तृत्वमप्रधानप्रयोक्तृता । फलचिन्ता जघन्याङ्गचिन्तेत्येते चतुर्थगाः ॥ १,१.१६ ॥ चतुर्थाध्यायस्य प्रथमे पादे प्रधानभूताऽमिक्षा दध्यानयनस्य प्रयोजिकेस्यादि प्रधानप्रयोक्तृत्वं विचारितम् । द्वितीये तु अप्रधानं वत्सापाकरणं शाखाछेदे प्रयोदकमित्याद्यप्रधानप्रयोक्तृत्वम् । तृतीये जुहूपर्णमयीत्वादेरपापश्लोकश्रवणादिफलभावाभावचिन्ता । चतुर्थे राजसूयगतजघन्याङ्गाक्षद्यूतादिचिन्ता ॥ १,१.१६ ॥ ____________________________________________________ १,१.१७ श्रुत्यादिभिः क्रमस्तस्य विशेषो वृद्ध्यवर्धने । श्रुत्यादेर्बलिता चेति पञ्चमाध्यायपादगाः ॥ १,१.१७ ॥ पञ्चमाध्यायस्य प्रथमे पादे श्रुत्यर्थपाठादिभिः क्रमो निरूपितः । द्वितीये वाजपेयगतेषु सप्तदशसु पशुष्वेकैकधर्मसमापनमित्यादिक्रमविशेषः । तृतीये पञ्चप्रयाजादीनामावर्तनेनैकादश्यमित्यादिवृद्धिः, अदाभ्यग्रहचित्रिण्योरनावृत्तिरित्यादिवृद्ध्यभावः । चतुर्थे क्रमनियामकानां श्रुत्यर्थपाठादीनां प्रबलदुर्बलभावः ॥ १,१.१७ ॥ ____________________________________________________ १,१.१८ अधिकारी तस्य धर्माः प्रतिनिध्यर्थलोपने । दीक्षा सत्रं देयुह्नी षष्ठे पादेष्वमी स्थिताः ॥ १,१.१८ ॥ षष्ठाध्यायस्य प्रथमे पादे कर्माधिकारः कर्तुरस्ति, अन्धादेर्नास्ति, स्त्रिया अस्ति, स च पत्या सह, इत्येवमादिनाधिकारी निरूपितः । द्वितीये तत्राधिकारिणां प्रत्येकं कृत्स्न्नं फलम्, दर्शपूर्णमासयोः कर्त्रैक्यनियमः, काम्यं कर्म समापनीयम्, इत्येवमादयोऽधिकारिधर्मा उक्ताः । तृतीये द्रव्यस्य प्रतिनिधिरस्ति, देवादीनामग्न्यादीनामधिकारिणश्च स नास्ति, इत्यादिनिरूपणम् । चतुर्थे पदार्थलोपनं विचारितम्,ऽअवत्तनाशे तत्याज्येन यजेत्, इडाज्यस्य नाशे सति शेषान्नं ग्राह्यम्ऽ इत्यादिकम् । पञ्चमे कालापराधेन चन्द्रोदये सत्यभ्युदयेष्टिः प्रायश्चित्तम् , ज्योतिष्टोमस्यैकादयो दीक्षाः, द्वादशाहस्य द्वादश दीक्षाः, इत्यादि निरूपितम् । षष्ठे तत्राधिकारिणस्तुल्यकल्पा एव, सत्रं विप्रस्यैव, इत्येवमादिकं चिन्तितम् । सप्तमे पित्रादिकं न देयम्, महाभूमिर्न देया, इत्येवमादिर्देयविचारः । अष्टमे लौकिकाग्ना वुपनयनहोमः, स्थपतीष्टिस्तथैव, इत्येवमाद्यग्निविचारः कृतः ॥ १,१.१८ ॥ ____________________________________________________ १,१.१९ प्रत्यक्षोक्त्यातिदेशोऽस्य शेषः सामनिरूपणम् । नामलिङ्गातिदेशौ द्वौ सप्तमाध्यायपादगाः ॥ १,१.१९ ॥ सप्तमाध्यायस्य प्रथमे पादे ऽसमानमितरच्छ्येनेनऽ इत्यादिप्रत्यक्षवचनातिदेशः । द्वितीये रथन्तरशब्देन गानमात्राभिधायिना गानस्यैवातिदेश्यत्वमित्येतादृशः पूर्वोक्तातिदेशस्य शेषो विचारितः । तृतीये अग्निहोत्रनाम्नातिदेशः । चतुर्थे निर्वापौषधद्रव्यादिलिङ्गातिदेशः ॥ १,१.१९ ॥ ____________________________________________________ १,१.२० स्पष्टलिङ्गादथास्पष्टात्प्रबलादपवादतः । अतिदेशविशेषाः स्युरष्टमाध्यायपादगाः ॥ १,१.२० ॥ अष्टमाध्यायस्य प्रथमे पादे स्पष्टेन लिङ्गेनातिदेशविशेषः । तद्यथा सौर्यचरार्वतिदेशकानि निर्वापः, तद्धितेन देवतानिर्देशः, एकदेवतत्वम्, औषधद्रव्यकत्वम्, इत्यादीनि स्पष्टान्यग्नियलिङ्गानि । द्वितीये तुअस्पष्टैर्लिङ्गरतिदेशः । तद्यथा वाजिने हविः सामान्येन लिङ्गेन पयोविध्यन्तोऽतिदिश्यते । तत्र लिङ्गमस्पष्टम् । शीघ्रं तद्बुद्ध्यनुत्पादनात् । तृतीये प्रबलेन लिङ्गेनातिदेशः । तद्यथा आभिचारिकष्टावाग्नावैष्णवसारस्वतबार्हस्पत्येषु हविःषु त्रित्वेन लिङ्गेन यथाक्रममाग्नेयादिविध्यन्ते प्राप्ते द्विदैवत्यत्वेन लिङ्गेन प्रथम आग्नावैष्णवे तृतीयसायाग्नीषोमीयस्य विध्यन्तोऽतिदिष्टः । प्रबलं च द्विदैवत्यत्वम् । शब्दोच्चारणमात्रेण सहसा प्रतिभासात् । क्रमस्तु विलम्बितप्रतीत्या दुर्बलः । चतुर्थे दर्विहोमेष्वतिदेशोऽपोद्यते ॥ १,१.२० ॥ ____________________________________________________ १,१.२१ ऊहारम्भोऽथ सामोहो मन्त्रोहस्तत्प्रसङ्गतः । नवमाध्यायपादेषु चतुर्ष्वेते प्रकीर्तिताः ॥ १,१.२१ ॥ नवमाध्यायस्य प्रथमे पादे उपोद्घातपूर्वकमूहविचारप्रारम्भः । तत्र प्रयाजादयो धर्मा अपूर्वप्रयुक्ताः । अवधातमन्त्रादिष्वविवक्षितं व्रीह्यग्न्यादिस्वरूपं साधनविशेषत्वमात्रं विवक्षितमित्यादिरूपोद्धातः । सवित्रश्विपूषशब्दानां विकृतिषु नास्त्यूहः । अग्निशब्दस्यास्त्यूह इत्यादिक ऊहविचारारम्भः । द्वितीये सपरिकरः सामोहः । तृतीये मन्त्रोहः । चतुर्थे मन्त्रोहप्रसङ्गापतितो विचारः ॥ १,१.२१ ॥ ____________________________________________________ १,१.२२ द्वारलोपोऽस्य विस्तारः कार्यैकत्वं समुच्चयः । ग्रहसामप्रकीर्णानि नञर्थश्चाष्टपादगाः ॥ १,१.२२ ॥ दशमाध्यायस्य प्रथमे पादे बाधहेतुर्द्वारलोपो निरूपितः । तद्यथा ऽस्वयङ्कृता वेदिर्भवतिऽइत्यत्र वेदिनिष्पादनरूपस्य द्वारस्य लोपेन निष्पादकानामुद्धननादीनां बाधः । कृष्णलेषु वितुषीकरणरूपस्य द्वारस्य लोपेनावघातस्य बाधः । द्वितीये संक्षेपेणोक्तस्य द्वारलोपस्य बहुभिरुदाहरणैर्विस्तारः । तृतीये बाधकारणं कार्यैकत्वम् । तद्यथा प्रकृतौ गवाश्वादिदक्षिणाया ऋत्विक्परिक्रयः कार्यम् । तथा विकृतिरूपे भूनाम्न्येकाहे धेनुरूपाया दक्षिणायास्तदेव कार्यम् । ततो धेन्वागवाश्वादिदक्षिणा विकृतौ चोदकप्रप्ता बाध्यते । चतुर्थे नक्षत्रेष्टिविहिता उपहोमाश्चोदकप्राप्तैर्नारिष्ठहोमैः सह समुच्चीयन्ते, इत्यादिः समुच्चयः । पञ्चमे षोडशिग्रहः प्रकृतिगामी । स चाऽग्रयणपात्रादेव ग्रहीतव्यः, इत्यादिर्बाधप्रसङ्गागतो ग्रहादिविचारः । षष्ठे ऽसाम तृचे गेयम्ऽ इत्यादिर्बाधप्रसङ्गागतः सामविचारः । सप्तमे पश्वङ्गेषु प्रत्यङ्गं हविर्भेदः, न कृत्स्नः पशुर्हविर्भेदः । गृहमेधीयमपूर्वे कर्मेत्यादिर्बाधप्रसङ्गागतः प्रकीर्णविचारः । अष्टमे ऽनानुयाजेषुऽ इति पर्युदासः ,ऽ न सोमे इत्यर्थवादः,ऽनातिरात्रेऽ इति प्रतिषेधःऽ इत्यादिर्बाधोपयुक्तो नञर्थविचारः ॥ १,१.२२ ॥ ____________________________________________________ १,१.२३ उपोद्घातस्तथा तन्त्रावापौ तन्त्रस्य विस्तृतिः । आवापविस्तृतिश्चैकादशाध्यायस्य पादगाः ॥ १,१.२३ ॥ एकादशाध्यायस्य प्रथमे पादे तन्त्रस्योपोद्घातो वर्णितः । द्वितीये तन्त्रावापौ संक्षेपेणोक्तौ । तृतीये तन्त्रमुदाहरणबाहुल्येन प्रपञ्चितम् । चतुर्थे तथैवाऽवापः प्रपञ्चितः ॥ १,१.२३ ॥ ____________________________________________________ १,१.२४ प्रसङ्गस्तन्त्रिनिर्णीतिः समुच्चयविकल्पने । द्वादशाध्यायपादार्था इति पादार्थसंग्रहः ॥ १,१.२४ ॥ द्वादशाध्यायस्य प्रथमे पादे पशुधर्माणां पशुपुरोडाशे प्रसङ्गः, सौमिकवेदेरुत्तरकालीमकर्मसु प्रसङ्गः, इत्यादिविचारः । द्वितीये सवनीयपशोस्तन्त्रित्वम् , न तु सवनीयपुरोडाशानाम् । विकृतिस्तन्त्रिणी, न प्रकृतिः, अन्वारम्भणीया विकयतिष्वपि स्यात्, न तु प्रकृतावेवेत्यादिविचारः । तृतीये त्वग्वाससोः समुच्चयः । आदारगतानामृजुत्वसमततत्वादीनां समुच्चय इत्यादिकं प्राधान्येन, यवव्रीह्योर्विकल्प इत्यादिकं समुच्चयापवादत्वेन, इत्युभयं चिन्तितम् । चतुर्थे च ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । चतुर्थे च ऐन्द्राबार्हस्पत्ययाज्यानुवाक्यायुगलयोर्विकल्प इत्यादिकं प्राधान्येन, प्राज्यानुवाक्ययोः समुच्चय इत्यादिकं विकल्पापदादत्वेनेत्युभयं चिन्तितम् । तदेवं द्वादशाध्यायगतेषु षष्टिसंख्याकेषु पादेषु प्रतिपाह्या अर्था संगृहीताः ॥ १,१.२४ ॥ ____________________________________________________ १,१.२५ ननु यथोक्तेभ्यः पादार्थेभ्योऽप्यर्था बहवस्तत्तत्पादेषु विचार्यन्ते, तेषां कथं तत्तत्पादान्तर्भाव इत्याशङ्क्याऽह उपोद्घातापवादाभ्यां प्रसङ्गानुप्रसङ्गतः । तत्तत्पादगतत्वेन विचारान्तरमुन्नयेत् ॥ १,१.२५ ॥ यथोक्तपादप्रतिपाद्यदन्येष्वर्थेषु यथोचितं कश्चिदुपोद्धातः, कश्चिदपवादः , कश्चित्प्रसङ्गपतितः, कश्चिदनुप्रसङ्गपतितः, इत्येवं पादान्तर्भाव उन्नेयः ॥ १,१.२५ ॥ ____________________________________________________ १,१.२६ ननु सन्त्वेवमध्यायानां पादानां च व्यवस्थिता अर्थाः । तदीयस्तु क्रमः कथमनगन्तव्य इत्यत आह शास्त्रे पूर्वोत्तरीभावोऽध्यायानामभिधास्यते । पादानां तु तमत्रैव लेशाद्व्यत्पादयामहे ॥ १,१.२६ ॥ एकस्मिन्नध्याये समाप्ति रस्ति , अध्यायान्तरारम्भे, तयोरध्याययोः पूर्वोपरी भावो वक्ष्यते ॥ १,१.२६ ॥ ____________________________________________________ १,१.२७ प्रथमाध्या गतामां पादानां पूर्वोत्तरीभाव उधृते सति तद्व्युत्पत्या पादान्तरेष्वपि तस्योत्पेक्षितु शक्यतया तमुदाहरति विधिः माक्षामितिर्धर्मे तस्य शेषोर्ऽथवादगीः । वेदमूला स्मृतिर्नाम वाक्यांशोऽमीप्वतः क्रमः ॥ १,१.२७ ॥ जिज्ञास्य वम प्रतिज्ञात धर्मे विविवाक्यं साक्षात्प्रमाणमिति तद्विचारः प्रथमे पादे युक्तः । अर्थवादवाक्य विविद्वारा प्रामण्यद्विध्यनन्तरभावित्वं स्मृति वाक्यस्य सार्थवादविधिरूपवेदमूलतया प्रामाण्यादर्थवादोत्तरभावित्वम् । नामधेयस्य वाक्यैकदेशत्वेन पूर्वोक्तत्रिविधवाक्यविचारोत्तरकालीनत्वम् । अनेन न्यायेनोत्तराध्यायगतपादानां परस्परं क्रम उन्नेयः ॥ १,१.२७ ॥ ____________________________________________________ १,१.२७* इत्थं शास्त्रस्याध्यायानां पादानां च क्रमविशेषविशिष्टानामसाधारणप्रतिपाद्यमर्थे निरूप्य तन्निर्णयफलं दर्शयति ऊहित्वा संगतीस्तिस्त्रस्तथावान्तरसंगतिम् । ऊहेताऽक्षेपदृष्टान्तप्रत्युदाहरणादिकम् ॥ १,१.२७* ॥ शास्त्रादिप्रतिपाद्यार्थसंबन्धितयाधिकरणे योजिते सति तस्याधिकरणस्य शास्त्रसंगतिः, अध्यायसंगतिः, पादसंगतिश्चेति तिस्त्र ऊहिता भवन्ति । तद्यथा प्रथमाध्यायस्य प्रथमपादस्य द्वितीयधिकरणे धर्मस्य लक्षणप्रमाणराहित्यं पूर्वपक्षीकृत्य तत्सद्भावः प्रतिपादितः । तस्याधिकरणस्य धर्मसंबन्धितया धर्मविचारशास्त्रे संगितः । प्रमाणविचाररूपत्वात्प्रथमाध्याये संगतिः । विधिवाक्यस्य प्रमाणत्वेनोपन्यासात्प्रथमपादे संगतिः । यथैतत्संगतित्रयमूहितम्, तथा पूर्वोत्तराधिकरणयोः परस्परमवान्तरसंगतिरूहनीया । सा चानेकरूपा आक्षेपसंगतिः, दृष्टान्तसंगतिः, प्रत्युदाहरणसंगतिः, प्रासङ्गिकसंगितः, उपोद्घातसंगतिः, अपवादसंगति श्चेत्येवमादिरूपा ॥ १,१.२७* ॥ ____________________________________________________ १,१.२८ तासामाक्षेपादिसंगतीनामूहं व्युत्पादयति पूर्वन्यायस्य सिद्धान्तयुक्तिं वीक्ष्य परे नये । पूर्वपक्षोक्तयुक्तिं च तत्राऽक्षेपादि योजयेत् ॥ १,१.२८ ॥ तदेतत्सर्वे योजयित्वा प्रदर्श्यते प्रथमेऽध्याये प्रथमपादस्य प्रथमाधिकरणगतोऽधर्मविचारशास्त्र वैधम्ऽ इति सिद्धान्तः । ऽ अर्थज्ञानपेतावध्ययने नियमविधेः संभवात्ऽ इति तद्युक्तिः । द्वितीयाधिकरणे ऽधर्मे लक्षणं प्रमाणं च नास्तिऽ इति पूर्वपक्षः । ऽलौकिकाकारहीनत्वात्, प्रत्यक्षाद्यप्रवृत्तेश्चऽ इति तद्युक्तिः । तया युक्त्या धर्मस्य लक्षणप्रमाणरहितत्वे सति नरविषाणसमो धर्म इति तद्विचारशास्त्रस्य विधेयत्वममुपपन्नमित्याक्षेपसंगतिः । यथा प्रथमाधिकरणे नियमविधिसंभवेन हेतुना विचारशास्त्रस्य विधेयत्वमुक्तम्, तथा द्वितीयाधिकरणे लौकिकाकारहीनत्वप्रत्यक्षाद्यप्रवृत्तिरूपेण हतुना धर्मे लक्षणप्रमाणे न स्त इति दृष्टान्तसंगतिः । यथा प्रथमाधिकरणसिद्धान्ते पूर्वोक्तयुक्तिरवलोक्यते, तथा द्वितीयाधिकरणे काञ्चिदपि युक्तिं न पश्याम इति प्रत्युदाहरणसंगतिः । एते दृष्टान्तप्रत्युदाहरणसंगती मन्दबुद्धिभिरपि सर्वत्रोत्प्रेक्षितुं शक्येते । पञ्चमाधिकरणे विधिवाक्यस्य निरपेक्षत्वात्प्रामाण्यं वर्णितम् । तस्य च वाक्यस्य शब्दर्थयोर्मध्ये शब्दकोटिनिविष्टत्वाद्वाक्य प्रसङ्गेन शब्दनित्यत्वं षष्ठाधिकरणे वर्ण्यत इति प्रासङ्गिकसंगतिः । सप्तमाध्यायस्य चतुर्थे पादे द्वितीयाधिकरणेन सौर्यादिविकृतिषु वैदिकमङ्गजातमुपदेष्टुं तदुपयोगित्वेन प्रथमाधिकरणे धर्मसापक्षत्वं साधितम् । तत्र प्रथमाधिकरणमुपोद्घातः । सेयमुत्तराधिकरणेन सह पूर्वाधिकरणस्योपोद्घातसंगतिः । प्रथमाध्यायस्य तृतीयपादस्य प्रथमाधिकरणे अष्टकादिस्मृतेः प्रामाण्यमुक्तम् । द्वितीयाधिकरणे सर्ववेष्टनस्मृतेः पूर्ववत्प्राप्तप्रामाण्यमपोद्यते । सेयमपवादसंगतिः । अनया दिशी सर्वत्र संगतिरूहनीया ॥ १,१.२८ ॥ (प्रथमे धर्मशास्त्रारम्भप्रतिज्ञाधिकरणे सूत्रम् ) अथातो धर्मजिज्ञासा । १,१.१ । ____________________________________________________ १,१.२९३१ इत्थं संगतीर्व्युत्पाद्याथ प्रत्यधिकरणं विषयसंशयपूर्वपक्षसिद्धान्तांश्चतुरोऽवयवान्तञ्जिघृक्षुः प्रथमाध्यायस्य प्रथमे पादे प्रथमाधिकरणं भट्टमतेनाऽरचयति स्वाध्यायोऽध्येय इत्यस्य विधानस्य प्रयुक्तितः । विचारशास्त्रं नाऽरभ्यमारभ्यं वेति संशयः ॥ १,१.२९ ॥ अर्थधीहेतुताधीतेलोकसिद्धावघातवत् । नियामकं न चैवातो वैधारम्भो न संभवी ॥ १,१.३० ॥ दर्शापूर्ववदस्त्यत्र क्रत्वपूर्वे नियामकम् । अर्थनिर्णायकं शास्त्रमत आरभ्यतां विधेः ॥ १,१.३१ ॥ ऽऽचोदनालक्षणोर्ऽथो धर्मः"इत्यारभ्य"अन्वाहार्ये च दर्शनात्"इत्येतदन्तं जैमिनिप्रोक्तं सूत्रजातं धर्मविचारशास्त्रम् । तदेतस्य प्रथमाधिकरणस्य विषयःऽस्वाध्यायोऽध्येतव्यःऽ इत्यध्ययमविधिरक्षरग्रहणमात्रपर्यवसायीति केचिन्मन्यन्ते । अपरे त्वेवमाहुः ऽअर्थज्ञानरूपदृष्टप्रयोजनायेदमध्ययनं विधीयते । अर्थज्ञानं विचारमन्तरेण न संभवति । ततो विधिर्विचारशास्त्रस्य प्रयोजकःऽ इति । तत्रैवं संशयः ऽइदं विचारशास्त्रं विधिप्रयुक्त्या नाऽरम्भणीयम् , उताऽरम्भणीयम्ऽ इति । तत्रऽ अर्थज्ञानायाध्ययनस्य विधिःऽ इति वदन्वादी प्रष्टव्यः किमन्त्यन्तमप्राप्तमध्ययनं विधीयते, किंवा पक्षेऽप्राप्तमवघातवन्नियम्यते, इति । नाऽद्यः ऽ विमतं वेदाध्ययनमर्थज्ञानहेतुः, अध्ययनत्वात्, भारताध्ययमवत्, इत्यनुमानेनैव विधिनिरपेक्षेण प्राप्तत्वात् । तर्ह्यस्तु द्वितीयः पक्षः । अवघातवन्नियमविधित्वसंभवात् । यथा नखैरवधातेन वा तण्डुलीनष्पत्तिसंभवात्पक्षेऽप्राप्तोऽवधातो विधिनावश्यं कर्तव्य इति नियम्यते, तथा लिखितपाठेन गुरुपूर्वकाध्ययनेन वार्ऽथज्ञानसंभवात्पक्षेऽप्राप्तमध्ययनं विधिना नियम्यत इति चेत् । न । वैषम्यात् । अवघातनिष्पनैरेव तण्डुलैखान्तरापूर्वद्वारेण दर्शपूर्णमासौ परमापूर्वे जनयतः, नान्यथा । ततो दर्शपूर्णमासापूर्वमवघातस्य नियमहेतुः । अत्र तु लिखितपाठजन्येनैवार्थज्ञानेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुर्नास्ति । अतो द्विविधविध्यसंभवादर्थज्ञानहेतुविचारशास्त्रारम्भस्य वैधत्वं नास्ति । तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्, स्वर्गयाक्षरग्रहणमात्रं विधेयमिति वदामः । अश्रुतोऽपि स्वर्गो विश्वजिन्न्यायेन कल्पनीयः । "स स्वर्गःस्यात्सर्वान्प्रत्यविशेषात्" [पू . मी. सू. ४.३.१५ ] इति सूत्रेण विश्वजित्यश्रूयमाणमप्यधिकारिणं संपादयितुं तद्विशेषणं स्वर्गफलं युक्त्या स्थावितम् । तद्वदध्ययनेऽप्यस्तु । एतदेवाभिप्रेत्योक्तम् "विनापि विधिना दृष्टलाभान्नहि तदर्थता । कल्प्यस्तु विधिसामर्थ्यात्स्वर्गो विश्वजिदादिवत्"॥ इति । एवं च सतिऽवेदमधीत्य स्नायात्ऽ इति शास्त्रमनुगृह्यते । अस्मिञ्शास्त्रेवेदाध्ययनतमावर्तनयोर्नैरन्तर्ये प्रतीयते । त्वत्पक्षे तु अधीतेऽपि वेदे धर्मविचारणाय गुरुकुल एवाधिवासः कर्तव्यः । तथा सति तन्नैपन्तर्ये बाध्यते । तस्माद्विचारशास्त्रस्यं वैधत्वाभावात्पाठमात्रेण धर्मसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते यदुक्तम् ऽलोकसिद्धत्वान्नाप्रप्तविधिःऽ इति । ततथैवास्तु । नियमविधित्वं तु न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमवाचाता नियमविधित्वं तृ न वारयितुं शक्यम् । यथा दर्शपूर्णमासजन्यं परमापूर्वमववातानियमजन्यस्यावान्तरापूर्वस्य कल्पकं भविष्यति । नियमादृष्टानङ्गीकारे च श्रूयमाणे विधिरनर्थकः स्यात् । न च विश्वजिन्न्यायेन स्वर्गार्थत्वं युक्तम् । दृष्टफलेर्ऽथज्ञाने संभवत्यदृष्टस्य कल्पयितुमशक्यत्वात् । अत एवोक्तम् "लभ्यमाने फले दृष्टे नादृष्टपरिकल्पना । विधेस्तु नियमार्थत्वान्नाऽनर्थक्यं भविष्यति" ॥ इति ॥ नन्वेवमपि श्रुतव्याकरणाद्यङ्गस्याधीतवेदस्य पुरुषस्यार्थज्ञानसंभवाद्विचारशास्त्रस्य वैयर्थ्यमिति चेत् । न । ज्ञानमात्रसंभवेऽपि निर्णयस्य विचाराधीनत्वात् । ऽअक्ताः शर्करा उपदधातिऽ इत्यत्रऽघृतेनैव, न तैलादिनाऽ इत्ययं निर्णयो व्याकरणेन निरुक्तेन निगमेन वा न सिध्यति । विचारशास्त्रं तुऽ तेजो वै घृतम्ऽ इति वाक्यशेषादर्थे निर्णेष्यति । अतो विचारो वैधः । ऽ वेदमधीत्य स्नायात्ऽ इति शास्त्रं त्वध्ययनसमावर्तनयोः पूर्वापरीभावसमानकर्तृकत्वे एवाचष्टे, न त्वानन्तर्यम् । तस्माद्विधिवशादेव विचारशास्त्रमापम्भणीयमिति सिद्धान्तः ॥ १,१.२९३१ ॥ ____________________________________________________ १,१.३२३४ अस्मिन्नेवाधिकरणे गुरुमतमाह अथवाध्यापनात्सिद्धेर्नैवास्त्यध्ययने विधिः । तेन पूर्वोत्तरौ पक्षौ प्रसाध्यावन्यहेतुभिः ॥ १,१.३२ ॥ विधेयाध्यापनं सिध्येद्वालस्यार्थधियं विना । तेन निर्विषयं शास्त्रं निष्फलं चेत्युपेक्ष्यताम् ॥ १,१.३३ ॥ स्वतः प्राप्तार्थबोधस्य विवक्षानपनोपनात् । विषयादि सुसंपादं शास्त्रमारभ्यते ततः ॥ १,१.३४ ॥ ऽअष्टवर्षे ब्राह्मंमुपनयीत, तमध्यापयीतऽ इत्यध्यापनं विहितम् । न चात्र नियोज्याभावः । आचार्यत्वकामिनो नियोज्यत्वात् । ऽ उपनयीतऽ इत्यनेनाऽचार्यकरणे"संमाननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः" [पा. सू. १.३.३६ ] इति पाणिनिसूत्रेण विहितेनाऽत्मनेपदेन नियोज्यविशेषणमाचार्यत्वं प्रतीयते । उपनयने यो नियोज्यः । स एवाध्यापनेऽपि । तयोरेकप्रयोजनत्वात् । एवं सत्याचार्यकर्तृकमध्यापनं माणवककर्तृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविश्विप्रत्युक्त्यैवाध्ययनानुष्ठानतिद्धेर्न विधिरभ्युपगन्तव्यः । श्रूयमाणं विधिवाक्यं नित्यानुवादत्वेनाप्युपपद्यते । ततोऽध्ययन विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षावन्यथा वर्णनीयौ । विषयसंशययोस्तु नास्ति विप्रतिपत्तिः । विचारशास्त्रं विषयः । अवैधं वैधं वेति संशयः । तत्र वैधत्ववादी प्रष्टव्यः विधेयमाचार्यकर्तृकमध्यापनं किं माणवकस्यार्थज्ञानमपि प्रयुञ्जीत किंवा पाठमात्रम् । नाऽद्यः । अन्तरेणाप्यर्थज्ञानमध्यापनसिद्धेः । पाठमात्रे तु विचारस्य विषयो न भवति । आपाततः प्रतीतः संदिग्धोर्ऽथो विषयः । तथा सति यत्रार्थप्रतीतिरेव नास्ति तत्र संदेहस्य का कथा । निर्णयो विचारस्य फलम । सोऽपि विषयवद्दूरापेतः । अतो विषयप्रयोजनाभावाद्विचारशास्त्रं नाऽरम्भणीयमिति पूर्वः पक्षः । अत्रोच्यते मा नामाध्यापनेनार्थावबोधः प्रयुज्यताम् । तथापि साङ्गवेदाध्यायिनो निगमनिरुक्तव्याकरणैर्व्युत्पन्नस्य पौरुषेयग्रन्थेष्विव वेदेऽप्यर्थावबोधः स्वत एव प्राप्नोति । ननु यथाऽविषं भुङ्क्ष्वऽइत्यत्र प्रतीयमामनोऽप्यर्थो न विवक्षितः, तथा वेदार्थस्याविषयाद्यभावस्तदवस्थ इति चेत । न । विवक्षाया अमनोदितुमषक्यत्वात् । विषभोजनवाकायस्याऽप्तप्रणीतत्वेन बाधो मा भ्रूदिति मुख्यार्थस्तत्र परित्यक्तः । वेदे तु कुतो न विवक्षितार्थत्वम् । विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वोऽपि विचारशास्त्रस्य विषयः । तन्निर्णयः प्रयोजनम् । ततोऽध्यापनविधिप्रयुक्तेनाध्ययनेन बुध्यमानस्यार्थस्य विचार्थत्वाद्विचारशास्त्रस्य वैधत्वं सिद्धम् ॥ १,१.३२३४ ॥ (द्वितीये धर्मलक्षणाधिकरणे सूत्रम् ) चोदनालक्षणोऽर्थो धर्मः । १,१.२ । ____________________________________________________ १,१.३५३७ द्वितीयाधिकरणं भट्टमतेनारचयति विचारविषयो धर्मो लक्षणेन विवर्जितः । मानेनं वाथवोपेतस्वाभ्यामिति विचिन्त्यते ॥ १,१.३५ ॥ लौकिकाकारहीनस्य तस्य किं नाम लक्षणम् । मानशङ्का तु दूरेऽत्र प्रत्यक्षाद्यप्रवर्तनात् ॥ १,१.३६ ॥ चोदमागस्य आकारो ह्यर्थत्वे सति लक्षणम् । अत एव प्रमाणं च चोदनैवात्र नो कुतः ॥ १,१.३७ ॥ लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिः । अत एवाऽहुः "मानाधीना मेयसिद्धिर्मानसिद्धिश्च लक्षणात्"इति । सजातीयविजातीयव्यावर्तको लक्ष्यगतः कश्चिल्लोकप्रसिद्ध आकारो लक्षणम् । तेन च लक्षणेन लक्ष्ये वस्तुनि संभावनाबुद्धौ जातायां प्रमातुमुद्युक्तः प्रमाणेन तदवगच्छति । तद्यथा ऽ सास्नादिमती गौःऽ इत्युपश्रुत्य चतुष्पात्सु जीवेषु तल्लक्षणलक्षितपदार्थमन्विष्यऽइत्थ गौःऽ इति चक्षुषावगच्छति । एवं च सत्यलौकिकत्वाद्धर्मस्य नास्ति लक्षणम् । तत्र कुतः प्रमातुमुद्योगः । कथञ्चित्तदुपयोगेऽपि न तत्र प्रमाणसभ्दावः शाङ्कितुमपि शक्यः । न तावदत्र प्रत्यक्ष क्रमते । धर्मस्य रूपादिरहितत्वात् । अत एव व्याप्तिग्रहणाभावार्न्नानुमानम् । प्रत्यक्षाद्यनुमानमूलश्च शब्दस्य संगतिग्रहः । ततो व्युत्पत्त्यभावान्नाऽगमोऽपि तत्र प्रवर्तते । तस्माद्धर्मो लक्षणप्रमाणरहित इति प्राप्ते ब्रूमः मा भूच्चक्षुरादिगम्यो लौकिक आकारः । तथापि चोदनागम्यः स्वर्गफलसाधनत्वादिलक्षण आकारोऽस्ति । ऽ तेन अर्थत्वे सति चोदनागम्यो धर्मःऽ इति लक्षणं भवति । ऽअर्थो धर्मःऽ इत्युक्ते ब्रह्मणि चैत्यवन्दनादौ घटादौ चातिव्याप्तिः । तद्व्यवच्छेदायऽचोदनागम्यःऽ इत्युक्तम् । तावत्येवोक्ते विधिगम्येऽनर्थफलत्वेनानर्थरूपे श्येनाद्यभिचारकर्मण्यतिव्याप्तिः । तद्व्यवच्छेदायऽअर्थःऽ इत्युक्तम् । यद्यपि श्येनस्य शत्रुवधः फलम्, नतु नरकः, तथापि तस्य वधस्य नरकहेतुत्वाद्वधद्वारा श्येनोऽनर्थः । न चैवमग्नीषोमीयपशुहिंसाया अपि वधत्वेन नरकहेतुत्वं स्यादिति शङ्कनीयम् । तस्याः क्रत्वङ्गत्वेन क्रतुफलस्वर्गव्यतिरेकेण फलान्तराभावात् । यतश्चोदनागम्यत्वे सत्यर्थत्वं धर्मलक्षणम् । अत एव गर्मे धर्मे गमकं विधिवाक्यं प्रमाणम् । यद्यपि प्रत्यक्षानुमानयोरविषयो धर्मः, तथापि प्रसिद्धेपदसमभिव्याहारेण व्युत्पत्तिः संभवति । तस्माल्लक्षणप्रमाणाभ्यामुपेतो धर्मः ॥ १,१.३५३७ ॥ ____________________________________________________ १,१.३८४० अस्मिन्नेवाधिकरणे गुरुतममाह यद्वा जिज्ञास्यवेदार्थः किं मन्त्राद्यवबोधितः । सिद्धार्थोऽप्यथ विध्येकगम्यः कार्यार्थ एव वा ॥ १,१.३८ ॥ सिद्धेऽपि पुत्रजन्मादौ व्युत्पत्तेरूपपत्तितः । मन्त्रादिगम्यसिद्धस्य वेदार्थत्वेऽपि का क्षतिः ॥ १,१.३९ ॥ हर्षहेतुबहुत्वेन व्युत्पत्तिः पुत्रजन्मनि । दुर्लभा सुलभा कार्ये वेदार्थोऽतः स एव हि ॥ १,१.४० ॥ "अथातो धर्मजिज्ञासा" [पू.मी.सू.१.१.१ ] इत्यत्राथशब्देन कृत्स्न वेदाध्ययनानन्तर्यमुच्यते । अतःशब्देन कृत्स्नस्य वेदस्य विवक्षितार्थत्वं हेतू"क्रियते । उक्तशब्दद्वयानुसारेण धर्मशब्दोऽपि कृत्स्नं वेदार्थमाचष्टे । ततः सूत्रेऽवेदार्थो जिज्ञास्यःऽ इति प्रतिज्ञा कृता । तत्र संशयः किं मन्त्रार्थवादप्रतीतः सिद्धार्थोऽपि वेदार्थो भवति, किंवा विधिवाक्यप्रतीतः कार्यार्थमेव वेदार्थः, इति । तत्र "लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः" इति ज्ञायेन व्युत्पत्त्यनुसारी वेदार्थो वर्णनीयः । व्युत्पत्तिश्च सिद्धार्थेऽप्यस्ति । ऽपुत्रस्ते जातःऽ इति वार्ताहरव्याहारजन्यं श्रोतुर्हर्षमनुमाय हर्षहेतौ पुत्रजन्मनि संगतिं प्रतिपद्यते । अतो मन्त्रार्थवादप्रतीतोऽप्यर्थो वेदार्थ इति प्राप्ते ब्रूमः पुत्रजन्मवद्धर्षहेतूनां धनलाभादीनां बहुत्वादस्य वाक्यस्कय पुत्रजन्मैवार्थ इति निर्णयो दुर्लभः । ऽगामानयऽ इति वाक्ये तु गवानयनरूपां मध्यमबृद्धप्रवत्तिमवलोक्य संगतिग्रहणं सुलभम् । तस्मात्कार्यरूप एव वैदार्थ इति ॥ १,१.३८४० ॥ (तृतीये धर्मप्रमाणपरीक्षाधिकरणे सूत्रम् ) तस्य निमित्तपरीष्टिः । १,१.३ । ____________________________________________________ १,१.४१४२ तृतीयाधिकरणं भट्टमतेनारचयति धर्मस्य ज्ञापकं मानं यदुक्तं चोदनात्मकम् । एतत्किं न परीक्ष्यं स्यात्किंवा सम्यक्परीक्ष्यताम् ॥ १,१.४१ ॥ मानोपदेशान्मेयस्य सिद्धत्वात्किं परीक्षया । मैवं विचारशास्त्रेऽस्मिन्परीक्षोपेक्षते कुतः ॥ १,१.४२ ॥ स्पष्टोर्थः ॥ १,१.४१४२ ॥ ____________________________________________________ १,१.४३४४ अस्मिन्नेवाधिकरणे गुरूमतमाह आदौ परीक्ष्यो वेदार्थश्चोदनामानताथवा । वेदार्थस्य प्रधानत्वात्प्रथमं तत्परीक्ष्यताम् ॥ १,१.४३ ॥ चोदनामानतैवात्र प्रथमं साध्यतां गता । अनपेक्षतया तस्य यतो मुख्यत्वमाश्रितम् ॥ १,१.४४ ॥ द्वितीयाध्यायाद्यैः कर्मभेदशेषशेषित्वादिरूपो वेदार्थः सूत्रकारेण परीक्षिष्यते । चोजनाप्रामाण्यं तु प्रथमाध्याये परीक्ष्यते । तदैतदयुक्तम् । कुतः । वेदार्थस्य प्रधानत्वेनाऽदौ परीक्ष्ययीत्वात् । प्रधानभागे हि वेदः । पुरूषार्थत्वेनानुष्ठेयत्वात् । प्रधाणं तु तद्वेवनाय प्रवृत्तं सत्तच्छेषतयान प्रधानमिति प्राप्ते ब्रूमः अस्त्वनुष्ठानोपायो वेदार्थप्रमाणयोः प्रधानोत्सर्जतभावः । प्रमाणप्रमेयभावोपायौ तु प्रमाणस्यैव मुख्यत्वं निरपेक्षत्वात् । नहि स्वतः प्रमाण्यवादिनां मते सापेक्षया प्रमाणस्यास्ति । प्रमेयं तु सारेक्षम् । ऽमानावीना मेथसिद्धिःऽ इत्युक्तत्वात् । तदेतन्मुख्यत्वमाश्रित्य सूत्रकारः प्रमाणपरीक्षामादौ चकारेति यज्यते । अयान्वत्प्रा अथान्यत्प्राधान्यमाश्रित्य धर्मविचार एवादौ कस्मान्न कृतः? । न कृतः अपरीक्षितेन प्रमाणेन धर्मस्यासिद्धौ तद्विचारस्याऽश्रयासिद्धेः ॥ तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उपन्यस्तः ॥ १,१.४३४४ ॥ अथ प्रायेण भट्टमतमेवोपन्यस्यते (चतुर्थे धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणे सूत्रम् ॥) सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् । १,१.४ । ____________________________________________________ १,१.४५४६ चतुर्थाधिकरणमारचयति प्रत्यक्षादिभिरप्येष गम्यते विधिनैव वा । अक्षादीनां प्रमाणत्वान्मेयधर्मावभासिता ॥ १,१.४५ ॥ वर्तमानैकविषयमक्षं धर्मस्तु भाव्यसौ । अक्षमूलोऽनुमानादिस्तेन विध्येकमेयता ॥ १,१.४६ ॥ अक्षं प्रत्यक्षम् । प्रत्यक्षादीनां प्रमाणत्वात्प्रमेयावभासकत्वं तावदविवादम् । धर्मश्च प्रमेयः, असंदिग्धाविपर्यस्तत्वे सति बुध्यमानत्वात्, घटादिवत् । तस्मात्प्रत्यक्षादिभिरप्येष धर्मो गम्यत इति प्राप्ते ब्रूमः धर्मस्य प्रमेयत्वेऽपि प्रत्यक्षयोग्यता नास्ति, प्रत्यक्षस्य वर्तमानमात्रविषयत्वात् । यस्तु प्रत्यक्षस्यात्यन्तमविषयः, तत्रानुमानादीनां कैव कथा । क्वचित्प्रत्यक्षेण गृहीते व्याप्त्यादौ पश्चादनुमानादीनां प्रवृत्तिः । तस्माद्विधिनैव धर्मो गम्यते ॥ १,१.४५४६ ॥ (पञ्चमे धर्मे विधिप्रामाण्याधिकरणे सूत्रम् ॥) औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । १,१.५ । ____________________________________________________ १,१.४७४८ पञ्चमाधिकरणमारचयति अबोधको बोधको वा न तावद्बोधको विधिः । शक्तेरलौकिके धर्मे ग्रहणं दुर्घटं यतः ॥ १,१.४७ ॥ समभिव्याहृते धर्मे शक्तिग्रहणसंभवात् । बोधकस्य विधेर्मात्वमनपेक्षतया स्थितम् ॥ १,१.४८ ॥ यथा धर्मे प्रत्यक्षादीनां प्रामाण्यं नास्ति, तथा विधेरपि नास्ति प्रामाण्यम् । शक्तिग्रहणपूर्वकं हि प्रामाण्यमाप्तवाक्यस्य लोके दृष्टम् । शक्तिश्च लोकप्रसिद्धे गवादौ गृह्यते । धर्मस्त्वलौकिकः । अतस्तत्र शक्तिग्रहणं दुर्घटम् । तस्माद्विधेरबोधकत्वान्न धर्मे प्रामाण्यमिति प्राप्ते ब्रूमः यथाऽप्रभिन्नकमलोदरे मधूनि मधुकरः पिबतिऽ इत्यत्र मधुकरपदस्यार्थमजानन्नन्यपदार्थमवगत्य तत्यमभिव्याहारात्कमलस्य मध्यगते मधुपानं कुर्वति दृश्यमानभ्रमरे मधुकरशब्दस्य सङ्गतिं गृहीत्वा वाक्यार्थं प्रतिपद्यते, तथाऽकारीर्या वृष्टिकामो यजेतऽ इत्यत्र लोकप्रसिद्धार्थवृष्ट्यादिपदसमभिव्याहारादलौकिकभावनायां विधेः सङ्गतिं गृहीत्वा विधिवाक्यार्थं पुरुषो बुध्यते । तस्मादबोधकत्वलक्षणमप्रामाण्यं नास्ति । न च संवादाभावादप्रामाण्यम्, समनन्तरभाविप्रतिनियतफले वृष्ट्यादौ संवादस्यापि संभवात् । अनियतदृष्टफले चित्रयागादौ, प्रतिनियतजन्मान्तरफले ज्योतिष्टोमादौ च संवादः कथमिति चेत्, एवं तर्हि स्वतःप्रामण्याभ्युपगमान्नास्ति क्वापि संवादाद्यपेक्षा । तस्मादबोधकत्वसापेक्षत्वयोरप्रामाण्यकारणयोरभावाद्विधेः स्वतःसिद्धं प्रामाण्यं नापह्नोतुं शक्यम् ॥ १,१.४७४८ ॥ (षष्ठे शब्दनित्यताधिकरणे सूत्राणि ६२३) कर्मैके तत्र दर्शनात् । १,१.६ । अस्थानात् । १,१.७ । करोति शब्दात् । १,१.८ । सत्त्वान्तरे च यौगपद्यात् । १,१.९ । प्रकृति विकृत्योश्च । १,१.१० । वृद्धिश्च कर्तृभूम्नास्य । १,१.११ । समं तु तत्र दर्शनम् । १,१.१२ । सतः परमदर्शनं विषयानागमात् । १,१.१३ । प्रयोगस्य परम् । १,१.१४ । आदित्त्यवद्यौगपद्यम् । १,१.१५ । वर्णान्तरमविकारः । १,१.१६ । नादवृद्धिपरा । १,१.१७ । नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् । १,१.१८ । सर्वत्र यौगपद्यात् । १,१.१९ । संख्याभावात् । १,१.२० । अनपेक्षत्वात् । १,१.२१ । प्रख्याभावाच्च योगस्य । १,१.२२ । लिङ्गदर्शनाच्च । १,१.२३ । ____________________________________________________ १,१.४९५० षष्ठाधिकरणमारचयति विध्यादिरूपो यः शब्दः सोऽनित्योऽथाविनश्वरः । अनित्यो वर्णरूपत्वाद्वर्णे जन्मोपलम्भनात् ॥ १,१.४९ ॥ अबाधितप्रत्यभिज्ञाबलाद्वर्णस्य नित्यता । उच्चारणप्रयत्नेन व्यज्यतेऽसौ न जन्यते ॥ १,१.५० ॥ शब्दनित्यत्ववादिनो वैयाकरणास्तावदेवं मन्यन्ते वर्णसमूहश्रवणानन्तरंऽइदमेकं पदम्ऽ इति प्रत्ययो मानसप्रत्यक्षेणोत्पद्यते । तस्य च प्रत्ययस्य वर्णव्यतिरिक्तः कश्चित्स्फोटनामकः पदार्थो विषयः । स च नित्यः । स एव शब्दः, न तु वर्णा इति । तदेतन्नैयायिकादयो न सहन्ते । वर्णेष्वेवैकार्थावच्छेदोपाधिना पदैक्यबुद्धेरुपपत्तौ वर्णातिरिक्तस्फोटकल्पना निरर्थिका । तस्माद्वर्णानामेव शब्दत्वम् । वर्णाश्च प्रतिपुरुषं प्रत्युच्चारणं च जन्मविनाशवन्त उपलभ्यन्ते । तस्मादनित्यः शब्दः । तस्य च कारणदोषसंभवाद्विधेरप्रामाण्यमिति पूर्वः पक्षः ॥ बहुभिः पुरुषैः प्रत्येकं बहुकृत्व उच्चारिते गोशब्देऽत एवेमे गकारादयो वर्णाःऽ इत्यबाधितप्रत्यभिज्ञा जायते । तद्बलान्नित्या वर्णाः । न च वर्णानां जन्माभावे बहुकृत्व उच्चारणप्रयत्नो व्यर्थ इति शङ्कनीयम्, तत्प्रयत्नस्य व्यञ्जकत्वाङ्गीकारात् । एवं सति पुरुषभेदादुच्चारणभेदाश्च यथायोगमुदात्तादिभेदैः पटुमृदुत्वादिभेदैश्चोपेतान्ध्वनिविशेषानुत्पाद्य चरितार्था भविष्यन्ति । तस्मान्नित्ये शब्दे कारणदोषाभावान्नास्त्यप्रामाण्यम् ॥ १,१.४९५० ॥ (सप्तमे वेदप्रत्यायकत्वाधिकरणे सूत्राणि २४२६) उत्त्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात् । १,१.२४ । तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् । १,१.२५ । लोके सन्नियमात्प्रयोगसन्निकर्षः स्यात् । १,१.२६ । ____________________________________________________ १,१.५१५२ सप्तमाधिकरणमारचयति वेदवाक्यममानं स्यान्मानं वा नास्य मानता । पृथक्सङ्गत्यपेक्षायामनपेक्षत्ववर्जनात् ॥ १,१.५१ ॥ वेदेऽपि लोकवन्नैव वाक्यार्थे सङ्गतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः ॥ १,१.५२ ॥ यद्यपि वर्णानां नित्यत्वादेकार्थावच्छेदकस्य पदस्यापि वर्णरूपतयानित्यत्वाद्वर्णपदद्वारा वेदस्य कारणसापेक्षत्वं नास्ति, तथापिऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यादिवाक्यस्य वाक्यार्थे सङ्गतिग्रहणमपेक्षितम् । तस्मान्नैरपेक्ष्याभावात्प्रामाण्यं नास्तीति प्राप्ते ब्रूमः लोकेऽगामानयऽ इत्यादिवृद्धप्रयोगे पदपदार्थयोरेव सङ्गतिर्गृह्यते । वाक्यं त्वाकाङ्क्षायोग्यतासन्निधिवशात्स्वार्थं प्रतिपादयतीत्यविवादम् । तथा वेदवाक्यस्यापि प्रत्यायकत्वादनपेक्षत्वेन प्रामाण्यमविरुद्धम् ॥ १,१.५१५२ ॥ (अष्टमे वेदापौरुषेयत्वाधिकरणे सूत्राणि २७३२) वेदांश्चैके सन्निकर्षं पुरुषाख्याः । १,१.२७ । अनित्यदर्शनाच्च । १,१.२८ । उक्तं तु शब्दपूर्वत्वम् । १,१.२९ । आख्या प्रवचनात् । १,१.३० । परन्तु श्रुतिसामान्यमात्रम् । १,१.३१ । कृते वा विनियोगः स्यात्कर्मणः संबन्धात् । १,१.३२ । ____________________________________________________ १,१.५३५४ अष्टमाधिकरणमारचयति पौरुष्यं न वा वेदवाक्यं स्यात्पौरुष्यता । काठकादिसमाख्यानाद्वाक्यत्वाच्चान्यवाक्यवत् ॥ १,१.५३ ॥ समाख्याध्यापकत्वेन वाक्यत्वं तु पराहतम् । तत्कर्त्रनुपलम्भेन स्यात्ततोऽपौरुषेयता ॥ १,१.५४ ॥ ऽकाठकम्, कौथुमम्, तैत्तिरीयकम्ऽ इत्यादिसमाख्या तत्तद्वेदविषया लोके दृष्टा । तद्धितप्रत्ययश्चऽतेन प्रोक्तम्ऽ [पाणि. सू. ४.३.१०१] इत्यर्थे वर्तते । तथा सतिऽव्यासेन प्रोक्तं वैयासिकं भारतम्ऽ इत्यादाविव पौरुषेयत्वं प्रतीयते । किञ्चऽविमतं वेदवाक्यं पौरुषेयम्, वाक्यत्वात्, कालिदासादिवाक्यवत्ऽ इति प्राप्ते ब्रूमः अध्ययनसंप्रदायप्रवर्तकत्वेन समाख्योपपद्यते । कालिदासादिग्रन्थेषु तत्तत्सर्गावसाने कर्तार उपलभ्यन्ते । तथा वेदस्यापि पौरुषेयत्वे तत्कर्तोपलभ्येत । न चोपलभ्यते । अतो वाक्यत्वहेतुः प्रतिकूलतर्कपराहतः । तस्मादपौरुषेयो वेदः । तथा सति पुरुषबुद्धिदोषकृतस्याप्रामाण्यस्यानाशङ्कनीयत्वाद्विधिवाक्यस्य धर्मे प्रामाण्यं सुस्थितम् ॥ १,१.५३५४ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य प्रथमः पादः ॥ _________________________________________________________________________ (अथ द्वितीयः पादः) (प्रथमेऽर्थवादाधिकरणे सूत्राणि ११८) आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते । १,२.१ । शास्त्रदृष्टाविरोधाच्च । १,२.२ । तथाफलाभावात् । १,२.३ । अन्यानर्थक्यात् । १,२.४ । अभागिप्रतिषेधाच्च । १,२.५ । अनित्यसंयोगात् । १,२.६ । विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः । १,२.७ । तुल्यं च साम्प्रदायिकम् । १,२.८ । अप्राप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत । १,२.९ । गुणवादस्तु । १,२.१० । रूपात्प्रायात् । १,२.११ । दूरभूयस्त्वात् । १,२.१२ । अपराधात्कर्तुश्च पुत्रदर्शनम् । १,२.१३ । आकालिकेप्सा । १,२.१४ । विद्याप्रशंसा । १,२.१५ । सर्वत्वमाधिकारिकम् । १,२.१६ । फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् । १,२.१७ । अन्त्ययोर्यथोक्तम् । १,२.१८ । द्वितीयपादस्य प्रथमाधिकरणमारचयति ____________________________________________________ १,२.१३ वायुर्वा इत्येवमादेरर्थवादस्य मानता । न विधेयेऽस्ति धर्मे किं किंवासौ तत्र विद्यते ॥ १,२.१ ॥ विध्यर्थवादशब्दानां मिथोपेक्षापरिक्षयात् । नास्त्येकवाक्यता धर्मे प्रामाण्यं संभवेत्कुतः ॥ १,२.२ ॥ विध्यर्थवादौ साकाङ्क्षौ प्राशस्त्यपुरुषार्थयोः । तेनैकवाक्यता तस्माद्वादानां धर्ममानता ॥ १,२.३ ॥ काम्यपशुकाण्डे विध्यर्थवादौ श्रूयेते । ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति विधिः । ऽवायुर्वै क्षेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवैनं भूतिं गमयतिऽ इत्यर्थवादः । तत्र विधिवाक्यगता वायव्यादिशब्दा अर्थवादशब्दनैरपेक्ष्येणैव विशिष्टमर्थं विदधति । अर्थवादशब्दश्चेतरनैरपेक्ष्येणैव भूतार्थमन्वाचक्षते । ऽक्षिप्रगामी वायुः स्वोचितेन भागेन तोषितो भागप्रदायैश्वर्यं प्रयच्छतिऽ इत्युक्ते रामायणभारतादाविव वृत्तान्तः कश्चित्प्रतीयते, न त्वनुष्ठेयं किञ्चित् । अत एकवाक्यत्वाभावान्नास्त्यर्थवादस्य धर्मे प्रामाण्यमिति प्राप्ते ब्रूमः मा भूत्पदैकवाक्यता । वाक्यैकवाक्यता तु विद्यते । विधिवाक्यं तावत्पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते । अर्थवादवाक्यं च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते । तत्र पुरुषार्थपर्यवसितविध्यपेक्षितं प्राशस्त्यं लक्षणावृत्त्या समर्पयदर्थवादवाक्यं विधिवाक्येन सहैकवाक्यतामापद्यते । ऽयतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता, ततः प्रशस्तमिमं वायव्यं पशुमालभेतऽ इति वाक्ययोरन्वयः । तस्मादर्थवादा धर्मे प्रमाणम् ॥ १,२.१३ ॥ ____________________________________________________ १,२.४ अस्मिन्नेवाधिकरणेमतान्तरमनुसृत्य पूर्वोत्तरपक्षावाह वादोक्तहेत्वपेक्षत्वान्न विधेर्मानतेति चेत् । सत्यन्वये स्तुतिद्वारा नापेक्षेति गुरुर्जगौ ॥ १,२.४ ॥ ऽयतो वायुः क्षिप्रमेव फलप्रदः, अतो वायव्यमालभेतऽ इत्येवमर्थवादोक्तं हेतुमपेक्ष्य विधिः पुरुषं नियुङ्क्ते । ततः सापेक्षत्वादप्रमाणमिति पूर्वपक्षः ॥ ऽविमतं कर्मानुष्ठेयम्, फलप्रददेवतोपेतत्वात्, राजसेवादिवत्ऽ इत्यनुमानं यद्यर्थवादे विवक्ष्यते, तदानीमागमप्रमाणस्य विधिवाक्यस्य प्रमाणान्तरसापेक्षत्वं स्यात् । न त्वेवं विवक्षितम् । किन्तु फलप्रददेवतातोषकत्वोपन्यासमुखेन कर्मप्राशस्त्यमुपलक्ष्यते । तथा सतिऽप्रशस्तं कर्मानुष्ठेयम्ऽ इत्यस्मिन्नर्थे सार्थवादस्य विदेः पर्यवसानादेकवाक्यता लभ्यते । तत्र कुतः सापेक्षत्वम् । तस्मात्विधिः प्रमाणमिति सिद्धान्तः ॥ १,२.४ ॥ (द्वितीये विधिवन्निगदाधिकरणे सूत्राणि १९२५) विधिर्वा स्यादपूर्वत्वाद्वादमात्रम ह्यनर्थकम् । १,२.१९ । लोकवदिति चेत् । १,२.२० । न पूर्वत्वात् । १,२.२१ । उक्तं तु वाक्यशेषत्वम् । १,२.२२ । विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् । १,२.२३ । प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति । १,२.२४ । विधौ च वाक्यभेदः स्यात् । १,२.२५ । ____________________________________________________ १,२.५७ द्वितीयाधिकरणमारचयति ऊर्जोऽवरुध्या इत्येष विधिवन्निगदो न किम् । यूपौदुम्बरतां स्तौति स्तौति वा तद्विधित्सया ॥ १,२.५ ॥ चतुर्थ्या फलतालाभाद्यूपौदुम्बरता फलम् । ऊर्जोऽवरोधं कथयन्कथं स्तुतिपरो भवेत् ॥ १,२.६ ॥ अस्तुतौदुम्बरत्वस्याविधानात्कस्य तत्फलम् । अर्थद्वैधे वाक्यभेदस्तेन स्तावक एव सः ॥ १,२.७ ॥ इदमाम्नायते ऽऔदुम्बरो यूपो भवति, ऊर्ग्वा उदुम्बरः, ऊर्क्पशवः, ऊर्जैवास्मा ऊर्जं पशूनाप्नोति, ऊर्जोऽवरुध्यैऽ इति । अमृतशब्दाभिधेयोऽत्यन्तसारभूतः सूक्ष्मोऽन्नरसः ऊर्गुच्यते । उदुम्बररूपयोर्जा यजमानार्थमध्वर्युः पशुरूपामूर्जमाप्नोति । ततो यूपस्यौदुम्बरत्वमूर्जः सम्पादनाय भवतीत्यर्थः । अत्रऽअवरुध्यैऽ इति तादर्थ्ये चतुर्थी । तया फलत्वं गम्यते । ऽधनलाभाय राजसेवाऽ इत्यादौ तद्दर्शनात् । न च फलपरस्य वचनस्य स्तावकत्वं युज्यते । अन्यथा स्वर्गकाम इत्यत्र स्वर्गशब्दस्यापि ज्योतिष्टोमस्तावकत्वप्रसङ्गादिति प्राप्ते ब्रूमः अयमूर्जोऽवरोधः कस्य फलं स्यात् किमविहितस्यौदुम्बरत्वस्य, उत विहितस्य । नाऽद्यः, अनुष्ठानमन्तरेण द्रव्यमात्रात्फलानुत्पत्तेः । द्वितीये किमत्र विधिः प्रत्यक्षः, उतोन्नेयः । नाऽद्यः,ऽऔदुम्बरो यूपो भवतिऽ इत्यत्र लिङ्प्रत्ययाश्रवणात् । द्वितीये स्तुत्या स उन्नेयः । न चात्र स्तुतिमङ्गीकरोषि । अथोच्येत ऽविधानायौदुम्बरत्वं स्तूयते तत्फलं चावबोध्यतेऽ इति । तर्हि वाक्यं भिद्येत । ततः फलविधिवन्निगद्यमानमप्येतद्वाक्यं स्तावकमेव ॥ १,२.५७ ॥ ____________________________________________________ १,२.८ अत्रैवगुरुमतेनपूर्वोत्तरपक्षावाह आप्नोतीति विधित्वस्य वादत्वस्याप्यनिर्णयात् । न प्रमा चोदनेत्येतन् वादो ह्येकवाक्यतः ॥ १,२.८ ॥ ऊर्जं पशूनाप्नोति इत्यपूर्वार्थत्वाद्विधित्वं प्रतिभासते, लिङ्ङाद्यभावादर्थवादत्वम् । अतः सन्दिग्धत्वान्न प्रामाण्यं चोदनाया इति पूर्वपक्षः ॥ एकवाक्यत्वलाभेनार्थवादत्वं निर्णीयते । अतः प्रमाणं चोदना इति राद्धान्तः ॥ १,२.८ ॥ (तृतीये हेतुवन्निगदाधिकरणे सूत्राणि २६ ३० ) हेतुर्वा स्यादर्थवत्वोपपत्तिभ्याम् । १,२.२६ । स्तुतिस्तु शब्दपूर्वत्वादचोदना तस्य । १,२.२७ । अर्थे स्तुतिरन्याय्येति चेत् । १,२.२८ । अर्थस्तु विधिशेषत्वाद्यथा लोके । १,२.२९ । यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदवस्था विधीनां स्यात् । १,२.३० । तृतीयाधिकरणमारचयति ____________________________________________________ १,२.९१० तेन ह्यन्नमिति प्रोक्तो वादो हेतुरुत स्तुतिः । हिना श्रुता हेतुतातः शूर्पमन्यच्च साधनम् ॥ १,२.९ ॥ शूर्पसाधनता श्रौती नाश्रौतैः सा विकल्प्यते । अतो निरर्थको हेतुः स्तुतिस्तस्मात्प्रवर्तिका ॥ १,२.१० ॥ इदमाम्नायेत ऽशूर्पेण जुहोति तेन ह्यन्नं क्रियतेऽ अयमर्थवादो विधेये शूर्पे हेतुत्वेनान्वेति । हिशब्दस्य हेतुवायित्वात् । ऽ यस्मादन्नसाधनं, तस्माच्छूर्पेण होतव्यम्ऽ इत्युक्तेऽ यद्यदन्नसाधनं दर्वीपिठरादिकं तेन सर्वेण होतव्यम्ऽ इति लभ्यते । ततःऽ पिठरादयः शूर्पेण सह विकल्प्यन्तेऽ इति प्राप्ते ब्रूमः शूर्पस्य होमसाधनत्वं श्रौतम्, तृतीयया तदवगमात् । पिठरादीनां त्वानुमानिकम् । अतोऽसमानबलत्वान्न विकल्पो युक्तः । ततो हेतुर्व्यर्थः । स्तुत्रिः प्ररोचनायोपयुक्ता, तस्मात्स्तुतित्वेनान्वयः ॥ १,२.९१० ॥ (चतुर्थे मन्त्रलिङ्गाधिकरणे सूत्राणि ३१ ५३ ) तदर्थशास्त्रात् । १,२.३१ । वाक्यनियमात् । १,२.३२ । बुद्धिशास्त्रात् । १,२.३३ । अविद्यमानवचनात् । १,२.३४ । अचेतनेऽर्थबन्धनात् । १,२.३५ । अर्थविप्रतिषेधात् । १,२.३६ । स्वाध्यायवद्वचनात् । १,२.३७ । अविज्ञेयात् । १,२.३८ । अनित्यसंयोगान्मन्त्रार्थानर्थक्यम् । १,२.३९ । अविशिष्टस्तु वाक्यार्थः । १,२.४० । गुणार्थेन पुनः श्रुतिः । १,२.४१ । परिसंख्या । १,२.४२ । अर्थवादो वा । १,२.४३ । अविरुद्धं परम् । १,२.४४ । संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् । १,२.४५ । अभिधानेऽर्थवादः । १,२.४६ । गुणादप्रतिषेधः स्यात् । १,२.४७ । विद्यावचनमसंयोगात् । १,२.४८ । सतः परमविज्ञानम् । १,२.४९ । उक्तश्चानित्यसंयोगः । १,२.५० । लिङ्गोपदेशश्च तदर्थवत् । १,२.५१ । ऊहः । १,२.५२ । विधिशब्दाश्च । १,२.५३ । चतुर्थाधिकरणमारचयति ____________________________________________________ १,२.१११२ मन्त्रा उरु प्रथस्वेति किमदृष्टैकहेतवः । यागेषूत पुरोडाशप्रथनादेश्च भासकाः ॥ १,२.११ ॥ ब्राह्मणेनापि तद्भानान्मन्त्राः पुण्यैकहेतवः । न तद्भानस्य दृष्टत्वाद्दृष्टं वरमदृष्टतः ॥ १,२.१२ ॥ ऽउरु प्रथस्वऽ इत्ययं कश्चिन्मन्त्रः । तस्यायमर्थः भोः पुरोडाश, स्वमुरुविपुलता यथा भवति तथा प्रसरऽ इति । एवमादयो मन्त्रा यागप्रयोगेपूच्चार्यमाणा अदृष्टमेव जनयन्ति । नत्वर्थप्रकाशनाय तदुच्चारणम् । पुरोडाशप्रथन लक्षणस्यार्थस्य व्राह्मणवाक्येनापि भासनात्थऽउरु प्रथस्वेति पुरोडाशं प्रथयतिऽ इति हि ब्राह्मणवाक्यम् ,[इति चेत्ट । नैतद्युक्तम् । अर्थप्रत्यायनस्य दृष्टप्रयोजनस्कय संभवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् । तस्माद्दृष्टमर्थानुस्मपणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम् । ब्राह्मणवाक्येनाप्यर्थानुस्मरणसंभवेऽमन्त्रेणैवानुस्मपणीयम्ऽ इति यो नियमः, तस्य दृष्टासंभवाददृष्टं प्रयोजनमस्तु ॥ १,२.१११२ ॥ ____________________________________________________ १,२.१३ अत्रैव मतान्तरेण पूर्वोत्तरपक्षावाह मन्त्रब्राह्मणयोर्यद्वा कलहो विनियोजने । न मन्त्रलिङ्गसिद्धार्थमनुवक्तीतरद्यतः ॥ १,२.१३ ॥ अस्य मन्त्रस्य लिङ्गेन विनियोगे ब्राह्मणवाक्यमविवक्षितार्थे स्यात् । वाक्येन विनियोग मन्त्रलिङ्गं न विवक्ष्येत । इत्युभयोर्विरोधादप्रामाण्यं चोदनाया इति पूर्वेः पक्षः । नायं विरोधः, प्रबलेन हि लिङ्गेन विनियोगसिद्धौ वाक्यस्यानुवादकत्वादिति राद्धान्तः ॥ १,२.१३ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ तृतीयः पादः (प्रथमे स्मृतिप्रामाण्याधिकरणे सूत्रे १२) धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् । १,३.१ । अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् । १,३.२ । ____________________________________________________ १,३.१२ तृतीयपादस्य प्रथमाधिकरणमारचयति अष्टकादिस्मृतेर्धर्मे न मात्वं मानताथवा । निर्मूलत्वान्न मानं सा वेदार्थोक्तौ निरर्थता ॥ १,३.१ ॥ वैदिकैः स्मर्यमाणत्वात्संभाव्या वेदमूलता । विप्रकीर्णार्थसेक्षेपात्सार्थत्वादस्ति मानता ॥ १,३.२ ॥ "अष्टकाः कर्तव्याः"इत्यादि स्मृतिवाक्यं न धर्मे प्रमाणम , पौरुषेयवाक्यत्वे सति मूलप्रमाणरहितत्वात्, विप्रलम्भकवाक्यत्वात् । अथ मूलप्रमाणवत्त्वाय वेदार्थ एव स्मृतिरनर्था स्यात् । तदानीमनुवादकत्वादप्रामाण्यमिति प्राप्ते ब्रूमः ऽ विमता स्मृतिर्वेदमूला, वैदिकमन्वादिप्रणीतस्मृतित्वात्, उपनयानाध्ययनादिस्मृतिवत्ऽ । न च वैयर्थ्ये शङ्कनीयम् । अस्मदादीनां प्रत्यक्षेषु परोक्षेषु चं नानावेदेषु विप्रकीर्णस्यानुष्ठेयार्थस्यैकत्र संक्षिप्यमाणत्वात् । तस्मादियं स्मृतिधर्मे प्रमाणम् ॥ १,२.१२ ॥ ____________________________________________________ १,३.३ अस्मिन्नेव मतान्तरेण पूर्वोत्तरपक्षावाह न मा स्मार्ताष्टङ्काङ्गत्वाद्यां जना इति मन्त्रगीः । तन्न स्मृतेर्मूलवेदेऽनुमिते मात्वसंभवात् ॥ १,३.३ ॥ ऽयां जनाः प्रतिनन्दतिऽ इत्ययं मन्त्रोष्टकाश्राद्धस्याङ्गम् । तेच्च श्राद्धं स्मार्तम् । न हि तस्य प्रतिपादकं वेदवाक्यमुपलभामहे । तस्मादिदं मन्त्रवाक्यं न धर्मे प्रमाणमिति चेत् । न । तन्मूलस्य वेदस्यानुमेयत्वात् । अनुमानं च दर्शितम् । तस्मादसौ मन्त्रो धर्मे प्रमाणम् ॥ १,२.३ ॥ (द्वितीये श्रुतिप्राबल्याधिकरणे सूत्रम्) विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् । १,३.३ । ____________________________________________________ १,३.४५ द्वितीयाधिकरणमारचयति औदुम्बरी वेष्टनीया सर्वेत्येषा स्मृतिर्मितिः । अमितिर्वेति संदेहे मितिः स्यादष्टकादिवत् ॥ १,३.४ ॥ औदुम्बरीं स्पृशन्गायेदिति प्रत्यक्षवेदतः । विरोधान्मूलवेदस्याननुमानादमानता ॥ १,३.५ ॥ ज्योतिष्टोमे सदोनामकस्य मण्डपस्य मध्ये काचिदौदुम्बरी शाखा निखन्यते । तस्याश्र्च वाससा वेष्टनं स्मर्यतेऽ औदुम्बरी सर्वा वेष्टयितव्याऽ इति । सा स्मृतिः प्रमाणम्, अष्टकादिस्मृतिष्विव मूलवेदस्यानुमातुं शक्यत्वादिति प्राप्ते ब्रूमः ऽ औदुम्बरीं स्पृष्ट्वोद्गायेत्ऽ इति प्रत्यक्षेवदवचनेन स्पर्शो विधीयते । न च सर्ववेष्टने स्पर्शः संभवति । अतो मूलवेदानुमानं कालात्ययापदिष्टम । अतो विप्रलम्भकवाक्यवन्निर्मूला स्मृतिरप्रमाणम् ॥ १,२.४५ ॥ ____________________________________________________ १,३.६७ अस्मिन्नेवाधिकरणे मतान्तरमाह प्रत्यक्षानुमितश्रुत्योर्यद्वा व्याघातदर्शनात् । अमात्वे शङ्किते बाधोऽनुमानस्यात्र वर्ण्यते ॥ १,३.६ ॥ परप्रत्यक्षवेदोऽत्र मूलं चेद्वेष्टनस्य तत् । अस्त्वेवमप्यनुष्ठानं स्वप्रत्यक्षानुरोधतः ॥ १,३.७ ॥ स्पर्शसर्ववेष्टनविषययोः प्रत्यक्षानुमितश्रुत्योः परस्परविरोधादुभयोरप्यप्रामाण्यमिति पूर्वपक्षः । अनुमानस्य कालात्ययापदिष्टतया विरुद्धश्रुत्यभावेन स्पर्शश्रुतिः स्वार्थे प्रमाणम् । यदि पुरुषान्तरप्रत्यक्षवेदः सर्ववेष्टनस्मृतेर्मूलमित्युच्यते, तर्हि मा भूत्तस्या अप्रामाण्यम् । तथापि परप्रत्यक्षात्स्वप्रत्यक्षस्याभ्यर्हितत्वेन स्पर्श एवात्रानुष्ठेयो नतु सर्ववेष्टनम् ॥ १,२.६७ ॥ (तृतीये दृष्टमूलकस्मृत्यप्रामाण्याधिकरणे सूत्रम् ) । हेतुदर्शनाच्च । १,३.४ । ____________________________________________________ १,३.८९ तृतीयाधिकरणमारचयति वैसर्जनाख्यहोमीयनाससो ग्रहणस्मृतिः । प्रमा न वा श्रुत्यबाधात्प्रमा स्यादष्टकादिवत् ॥ १,३.८ ॥ दृष्टलोभैकमूलत्वसंभवे श्रुत्यकल्पनात् । सर्ववेष्टनवद्वाधहीनाप्येषा न हि प्रमा ॥ १,३.९ ॥ ज्योतिष्टोम्ऽग्नीषोमीयस्य पशोस्तन्त्रे प्रक्रान्ते वैसर्जनहोमो विहितः । तत्र यजमानं पत्नीं पुत्रांश्र्च भ्रातॄंश्र्चाहतेन वाससा प्रच्छाद्य वाससोऽन्ते स्त्रुग्दण्डमुपनिबध्य जुहोति । तस्मिन्वासस्येवं स्मर्यते ऽ वैसर्जनहोमीयं वासोऽध्वर्युर्गृह्णातिऽ इति । सेयं स्मृतिः सर्ववेष्टनस्मृतिवत्प्रत्यक्षश्रुत्या न बाध्यते । ततोऽष्टकादिस्मृतिवत्प्रमाणमिति प्राप्ते ब्रूमः कदाचित्कश्र्चिदध्वर्युर्लोभादतद्वासो जग्राह । तन्मूलैवैषा स्मृतिरित्यपि कल्पना संभवति । दृष्टामुसारिणी चैषां कल्पना । दक्षिणया परिक्रीतानामृत्विजां लोभदर्शनात् । तथा सत्यस्याः स्मृतेरन्यथाप्युपपत्तावष्टकादिश्रुतिवन्न मूलश्रुतिः कल्पयितुं शक्यते । अतो बाधाभावेऽपि मूलभेदाभावान्नेयं स्मृतिः प्रमाणम् ॥ १,२.८९ ॥ (चतुर्थे पदार्थप्रबल्याधिकरणे सूत्राणि ५ ७) शिष्टाकोपेऽविरुद्धमिति चेत् । १,३.५ । न शास्त्रपरिमाणत्वात् । १,३.६ । अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् । १,३.७ । ____________________________________________________ १,३.१०११ चतुर्थाधिकरणं भाष्यमतेनाऽरचयति आचान्तेनेत्यमा मा वा स्मृतिरेषा न मा भवेत् । वेदं कृत्वेति यः श्रौतः क्रमस्तेन विरोधतः ॥ १,३.१० ॥ आचान्त्यादिः पदार्थोऽत्र क्रमो धर्मः पदार्थगः । धर्मस्य धर्म्यपेक्षत्वादबाधादस्ति मानता ॥ १,३.११ ॥ ऽक्षुत आचामेत्ऽ इति विहितं पुरुषार्थमाचमनम् । यदा तु क्रतुमध्ये क्षुतादि निमित्तं प्रप्नोति तदा नैमित्तिकमाचमनं क्रत्वङ्गत्वेन स्मृत्या विधीयते । ऽ आचान्तेन कर्तव्यम्ऽ इति । सेयं स्मृतिर्न प्रमाणम् । कुतः । विरूद्धत्वात् । ऽवेदं कृत्वा वेदिं करोतिऽ इति श्रुतौ पूर्वकालवाचिना त्वाप्रत्ययेन क्रमः प्रतीयते । वेदो नाम दर्भमयं संमार्जनसाधनम् । वेदिराहवनीयगार्हपत्यमध्यवर्तिनी चतुरङ्गुलखाता भूमिः । तयोर्मध्ये यदि क्षुतादिनिमित्तमाचमनं कुर्यात्, तदा श्रुत्युक्तं नैरन्तर्यं विरूध्येत । तस्माद्वेष्टनस्मृतिवदाचमनस्मृतिर्न प्रमाणमिति प्रप्ते ब्रूमः वेदवेद्यादिश्रुत्युक्तपदार्थवदाचमनादयः स्मृत्युक्ता अनुष्ठेयपदार्थाः । क्रमस्तु पदार्थनिष्ठो धर्मः । स च पदार्थानुपजीवति । तत उपजीव्यविरोधात्क्रम एव बाध्यते । नतु क्रमेणाऽचमनस्य बाधोऽस्ति । तस्मादियं स्मृतिः प्रमाणम् । अस्मिन्नेव वार्तिककारः प्रकारान्तरेण विचारद्वयं चकार ॥ १,२.१०११ ॥ ____________________________________________________ १,३.१२ तत्र प्रथमं विचारं दर्शयति शाक्योक्ताहिंसनं धर्मो न वा धर्मः श्रुतत्वतः । न धर्मो नहि पूतं स्याद्गोक्षीरं श्र्वदृतौ धृतम् ॥ १,३.१२ ॥ ऽब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत्ऽ इति श्रुतावहिंसादिर्धर्मत्वेनोक्तः । स एव धर्मः शाक्येनाप्युक्तः । तस्माच्छाक्यस्मृतिर्धर्मे प्रमाणमिति चेत् । न । स्वरूपेण धर्मस्यापि गोक्षीरन्यायेन शाक्यसंबन्धे सत्यधर्मत्वप्रसङ्गात् । तदीयग्रन्थेनाहिंसादिर्नावगन्तव्यः । तस्मान्न सा स्मुतिर्धर्मे प्रमाणम् ॥ १,२.१२ ॥ ____________________________________________________ १,३.१३ विचारान्तरं दर्शयति सदाचारोऽप्रमा मा वा निर्मूलत्वादमानता । अष्टकादेरिवैतस्य समूलत्वात्प्रमाणता ॥ १,३.१३ ॥ होलाकोत्सवादिसदाचारस्य मूलभूतवेदाभावादप्रामाण्यमिति चेत् । न । वैदिकैः शिष्टैः परिगृहीतत्वेनाष्टकादिवद्वेदमूलत्वात् । अत एव मन्वादिभिर्ग्रन्थगौरवभयाद्विशेषाकारेणानुपदिष्टोऽपि सदाचारः सामान्याकारेणोपदिष्टः । "श्रुतिः स्मृतिः सदाचारः"इत्येवं धर्मे प्रमाणोपन्यासात् । तस्माच्छिष्टचार प्रमाणम् ॥ १,२.१३ ॥ (पञ्चमेशास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे[आर्यम्लेच्छाधिकरणेटसूत्रे ८ ९) तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । १,३.८ । शास्त्रस्था वा तन्निमित्तत्वात् । १,३.९ । ____________________________________________________ १,३.१४१५ पञ्चमाधिकरणमारचयति यंवान्दिशब्दाः किं द्व्यर्था नो वार्ऽऽयम्लेच्छसाम्यतः । दीर्घशूकप्रियङ्ग्वाद्या द्वयेऽप्यर्था विकल्पिताः ॥ १,३.१४ ॥ यत्रान्या इति शास्त्रस्था प्रसिद्धिस्तु बलीयसी । शास्त्रीयधर्मे तेनात्र प्रियङ्ग्वादि न गृह्यते ॥ १,३.१५ ॥ ऽयवमयश्र्चरुर्भवतिऽऽवाराही उपानहावुपमुञ्चतेऽ इति श्रूयते । तत्र यव शब्दमार्या दीर्घशूकेषु प्रयुञ्जते वराहशब्दं च सूकरे । म्लेच्छास्तु यवशब्दं प्रियङ्गुषु , वराहशब्दं च कृष्णशकुनौ । तथा सति लोकव्यवहारेण निश्र्चेतव्येषु शब्दार्थेष्वार्यम्लेच्छप्रसिद्ध्योः समानबलत्वादुभयविधा अष्यर्था विकल्पेन स्वीकार्या इति प्रप्ते ब्रूमः शास्त्रीयधर्मावबोधे शास्त्रप्रसिद्धिर्बलीयसी । प्रत्यासन्नत्वादविच्छिन्नपारम्पर्यागतत्वाच्च । शास्त्रे यवविध्यर्थवाद एवं श्रूयते ऽ यत्रान्या ओषधयो म्लायन्ते, अथैते मोदमाना इवोतिष्ठन्तिऽ इति । इतरौषधिविनाशकालेऽभिवृद्धिर्घशूकेषु दृश्यते, न तु प्रियङ्गुषु । तेषामितरौषधिपरिपाकात्पूर्वे पच्यमानत्वात् । वाराहोपानद्विध्यर्थवादश्र्चैवं भवति ऽ वराहं गावोऽनुधावन्तिऽ इति । गवामनुधावनं शूकरे संभवति न तु कृष्णशकुनौ । तस्माद्दीर्घशूक्दिर्यवादिशब्दार्थः । अत्र वार्तिककारः पीलुशब्दमुदाजहार । तं च म्लेच्छा हस्तिनि प्रयुञ्जते, आर्यास्तु वृक्षे । तत्राविप्लुतव्यवहारस्यार्ऽऽयेषु संभवाद्वृक्ष एव पीलुशब्दार्थः ॥ १,२.१४१५ ॥ ____________________________________________________ १,३.१६ अस्मिन्नेवाधिकरणे गुरुमतमाह यवाद्यर्थानिर्णयेन तद्वाक्यं न प्रमेति चेत् । न शास्त्रस्य बलित्वेन तत्प्रसिद्ध्यार्ऽथनिर्णयात् ॥ १,३.१६ ॥ स्पष्टोऽर्थः ॥ १,२.१६ ॥ ____________________________________________________ १,३.१७१८ अस्मिन्नेवाधिकरणे वार्तिककारमतेन वर्णकान्तरमारचयति यो मातुलविवाहादौ शिष्टाचारः स मा न वा । इतराचारवन्मात्वममात्वं स्मर्तबाधनात ॥ १,३.१७ ॥ स्मृतिमूलो हि सर्वत्र शिष्टाचारस्ततोऽत्र च । अनुमेया स्मृतिः स्मृत्या बाध्या प्रत्यक्षया तु सा ॥ १,३.१८ ॥ केषुचिद्दक्षिणदेशेषु मातुलस्य दुहितरं शिष्टाः परिणयन्ति । सोऽयमायारः प्रमाणं, शिष्टाचारत्वात्, होलाकाद्याचारवत्, इति चेत् । न । स्मृतिविरुद्धत्वेन कालात्ययापदिष्टत्वात् । तथा च स्मृतिः "मातुलस्य सुतामूढ्वा मातृगोत्रां तथैव च । समानप्रवरां चैव त्यक्त्वा चान्द्रायणं चरेत्" ॥ इति । न च स्मृत्याचारयोर्मूलवैदानुमापकसाम्यात्समबलत्वमिति शङ्कनीयम् । होलाकादिसदाचारस्य मन्वादिस्मृतिवद्वेदानुमापकत्वायोगात् । नहीदानीन्तनाः शिष्टा मन्वादिवद्देशकालविप्रकृष्टं वेदं दिव्यज्ञानेन साक्षात्कर्तु शक्नुवन्ति । येन शिष्टचारो मूलवेदमनुमापयेत् । शक्नोति च यः कोपि शिष्टो यत्र क्वापि देशविशेषे कालविशेषे च यं कञ्चनापि होलाकाद्याचरस्य मूलभूतं स्मृतिग्रन्थमवलोकयितुम् । तस्माच्छिष्टाचारेण स्मृतिरेवानुमातुं शक्यते, नतु श्रुतिः । अनुमिता च स्मृतिर्विरूद्धया प्रत्यक्षया स्मृत्या बाध्यते । अत एवाऽहुः "आचारात्तु स्मृतिं ज्ञात्वा स्मृतिश्र्च श्रुतिकल्पमम् । तेन द्वयन्तरितं तेषां प्रामाण्यं विप्रकष्यते" ॥ इति । तस्मादीदृशस्याऽचारस्याप्रामाण्यमभ्युपेयम् ॥ १,२.१७१८ ॥ ____________________________________________________ १,३.१९ तत्रैवापरं वर्णकमारचयति लौकिको वाक्यगो वार्ऽथस्त्रिवृदादेः समत्वतः । उभौ विध्यर्थवादैकवाक्यत्वादस्त्विहान्तिमः ॥ १,३.१९ ॥ ऽत्रिवृद्वहिष्पवमानम्ऽ इति श्रुतौ विवृच्छब्दस्य त्रैगुण्यं लोकसिद्धोर्ऽथः । वाक्यशेषादृक्त्रयात्मकेषु त्रिषु सूक्तेष्ववस्थितानां बहिष्पवमानात्मकस्तोत्रनिष्पादनक्षमाणाम्ऽ उपास्मै गायता नरःऽ इत्यादीनामृचां नवकमर्थः । तत्र धर्मनिणये वेदस्य प्रबलत्वेऽपि पदपदार्थनिर्णये लोकवेदयोः समानबलत्वादुभावप्यर्थौ विकल्पेव ग्रहीतव्याविति चेत् । मैवम् । लौकिकार्थस्वीकारपक्षे विधिवाक्येर्ऽथस्त्रैगुण्यम्, अर्थवादवाक्ये स्तोत्रियाणामृचां नवकम् , इत्येवं विध्यर्थवादयोर्वैयधिकरण्यादेकवाक्यत्वं न स्यात् । अत एकवाक्यत्वाय स्तोत्रियाणां नवकमित्येव विधिवाक्ये नियतोर्ऽथः ॥ १,२.१९ ॥ (षष्ठे म्लेच्छप्रसिद्धार्थप्रामाण्याधिकरणे सूत्रम्) चोदितं तु प्रतीयेताविरोधात्प्रमाणेन । १,३.१० । ____________________________________________________ १,३.२०२१ षष्ठाधिकरणमारचयति कल्प्यः पिकादिशब्दार्थो ग्राह्यो वा म्लेच्छरूढितः । कल्प्य आर्योष्वसिद्धत्वादनार्याणानमादरात् ॥ १,३.२० ॥ ग्राह्य म्लोच्छप्रसिद्धिस्तु विरोधादर्शने सति । पिकनेमादिशब्दानां कोकिलाद्यर्थता ततः ॥ १,३.२१ ॥ आर्याः पिकादिशब्दं न क्वाप्यर्थे प्रयुञ्जते, म्लेच्छाश्र्च न प्रमाणभूताः । तस्मान्निगमनिरूक्तव्याकरणैः पिकनेमादिशब्दानामर्थः कल्पनीय इति चेत् । मैवम् । आर्यप्रसिद्धिविरोधस्यादृष्टत्वेनेदृशे विशय म्लेच्छप्रसिद्धेरप्यादरणीयत्वात् । कल्प्यमानादब्यवस्थितादर्थाद्वरे म्लेच्छरूढिः । यत्रेदृश्या अपि रूढेरभावस्तत्र निरूक्तादयश्र्चरितार्थाः । तस्मादनार्य प्रसिद्ध्या पिकः कोकिलः, नेमशब्दोर्ऽधवाची , तामरसशब्दः पद्मवाची, इत्येवं द्रष्टव्यम् ॥ १,२.२०२१ ॥ ____________________________________________________ १,३.२२ अस्मिन्नेवाधिकरणे गुरुमतमाह अर्थाबोधादप्रमाणं पिकालम्भनचोदना । मैवं म्लेच्छप्रसिद्ध्यापि तब्दोधादविरुद्धया ॥ १,३.२२ ॥ स्पष्टोऽर्थः ॥ १,२.२२ ॥ (सप्तमे कल्पसूत्रास्वतः प्रामाण्याधिकरणे सूत्राणि ११ १४ ) । प्रयोगशास्त्रमिति चेत् । १,३.११ । नासंनियमात् । १,३.१२ । अवाक्यशेषाच्च । १,३.१३ । सर्वत्र च प्रयोगात्संनिधानशास्त्राच्च । १,३.१४ । ____________________________________________________ १,३.२३२४ सप्तमाधिकरणमारचयति अपौरुषेयाः कल्पाद्याः कृत्रिमा वा न कृत्रिमाः । श्रुतिस्मत्योर्धर्मबुद्धेः स्वतो मात्वं यतः समम् ॥ १,३.२३ ॥ पुंनामोक्तेः पौरुषेयाः काठकाद्यसमत्वतः । तत्रोपलेभिरे केचिदापस्तम्बादिकर्तृताम् ॥ १,३.२४ ॥ बौधायनापस्तम्बा श्र्वलायनकात्यायनादिनामाङ्किताः कल्पर्सूत्रग्रन्थाः, निगमनिरुक्तादिषडङ्गग्रन्थाः, मन्वादिस्मृतयश्र्चाषौरुषेयाः, धर्मबुद्धिजनकत्वात्, वेदवत् । न च मूलप्रमाणसापेक्षत्वेन वेदवैषम्यमिति शङ्कनीयम् । उत्पन्नाया बुद्धेः स्वतः प्रामाण्याङ्गीकारेण निरपेक्षत्वात् । मैवम् । उक्तानुमानस्य कालात्ययापदिष्टत्वात् । बौधायनसूत्रम् , आपस्तम्बसूत्रम्, इत्येवं पुरुषनाम्ना ते ग्रन्था उच्यन्ते । न च काठकादिसमाख्यवत्प्रवचननिमित्तत्वं युक्तम् । तद्ग्रन्थनिर्माणकाले तदानीन्तनैः कैश्र्चिदुपलब्धत्वात् । तच्चाविच्छिन्नपारम्पर्येणानुवर्तते । ततः कालिदासादिग्रन्थवत्पौरुषेयाः । तथापि वेदमूलत्वात्प्रमाणम् ॥ १,२.२३२४ ॥ ____________________________________________________ १,३.२५ अत्रैव गुरुमतमाह कल्पे सर्वतिथौ दर्शकार्यतोक्तेः श्रुतिर्न मा । न कल्पे साध्यवेदत्वप्रहाणाद्दुर्बलत्वतः ॥ १,३.२५ ॥ सर्वतिथौ दर्शयागकर्तव्यतां कल्पसूत्रकार आह "सर्वासु तिथिष्वमावास्या कर्तव्या"इति । श्रुतिस्त्वमावास्यायामेव तिथौ कर्तव्यतां ब्रूते । ततः कल्पसूत्ररूपेंण वेदेन विरुद्धत्वादियं श्रुतिर्न मानमिति चेत् । मैवम् । कल्पस्य वेदत्वं नाद्यापि सिद्धम् । किन्तु यत्नेन साध्यम् । न च तत्साधयितुं शक्यम् । पौरुषेयत्वस्य समाख्यया तत्कर्तुरुपलम्भेन च साधितत्वात् । अतः कल्पसूत्रस्य दुर्बलतया न श्रुतेरप्रामाण्यम् ॥ १,२.२५ ॥ (अष्टमे होलाकाधिकरणे सूत्राणि १४ २३) अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् । १,३.१५ । अपि वा सर्वधर्मः स्यात्तन्न्यायत्वाद्विधानस्य । १,३.१६ । दर्शनाद्विनियोगः स्यात् । १,३.१७ । लिङ्गाभावाच्च नित्यस्य । १,३.१८ । आख्या हि देशसंयोगात् । १,३.१९ । न स्याद्देशान्तरेष्विति चेत् । १,३.२० । स्याद्योगाख्या हि माथुरवत् । १,३.२१ । कर्मधर्मो वा प्रवणवत् । १,३.२२ । तुल्यं तु कर्तृधर्मेण । १,३.२३ । ____________________________________________________ १,३.२६ अष्टमाधिकरणमाचरयति होलाकादेर्व्यवस्था स्यात्साधारण्यमुताग्रिमः । देशभेदेन दृष्टत्वात्साम्यं मूलसमत्वतः ॥ १,३.२६ ॥ होलाकादिशिष्टाचाराणां हारीतादिस्मृतिविशेषाणां चानुष्ठातृपुरुषभेदेन व्यवस्थितं प्रामाण्यम् । कुतः । देशविशेषे तेषां दृष्टत्वात् । होलाकादयः प्राच्यैरेव क्रियन्ते । वसन्तोत्सवो होलाका । आह्नीनैबुकादयो दाक्षिणात्यै स्वस्वकुलागतं करञ्जार्कादिस्थावरदेवतापूजादिकमाह्नीनैबुकशब्देनोच्यते । उद्वृषभयज्ञादय उदीच्यैः । ज्येष्ठमासस्य पौर्णमास्यां बलीवर्दानभ्यर्च्य धावयन्ति सोऽयमुद्वृषभयज्ञः । एवं हारीतादिस्मृतिः काचित्क्वचिद्देशविशेषे दृश्यते । तस्माद्व्यवस्थितं प्रामाण्यमिति चेत् । मैवम् । तन्मूलत्वेनानुमितस्य वेदस्य सर्वसाधारणत्वेन तेषामपि सर्वसाधारणत्वात् ॥ १,२.२६ ॥ ____________________________________________________ १,३.२७ अत्रैव गुरुमतमाह प्राच्यादिपदयुक्तायाः श्रुतेरनुमितौ पदे । अर्थाबोधादमात्वं चेन्न सामान्यामुमानतः ॥ १,३.२७ ॥ प्राच्यादिभिर्व्यवस्थया होलाकादिष्वनुष्ठीयमानेषु तन्मूलश्रुतिरपि प्राच्यादिपदयुक्तैवानुमातव्या । तत्र प्राच्यादिपदस्यार्थो न बुध्यते । ये पुरुषाः कञ्चित्कालं प्राच्यां निवसन्ति , त एव कालान्तरे प्रतीच्यां निवसन्त उपलभ्यन्ते । तत्र श्रौतप्राच्यादिपदस्यार्थाबोधादप्रमाणं श्रुतिरिति चेत् । मैवम् । अनुष्ठानसामान्यस्य मूलश्रुतिकल्पकत्वात् । अतः प्राच्यादिपदराहित्ये सत्यर्थबोधादनुमिता श्रुतिः प्रमाणम् ॥ १,२.२७ ॥ (नवमे साधुपदप्रयुक्त्यधिकरणे सूत्राणि २४ २९ ) प्रयोगोत्पत्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् । १,३.२४ । शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् । १,३.२५ । अन्यायश्चानेकशब्दत्वम् । १,३.२६ । तत्र तत्त्वमभियोगविशेषात्स्यात् । १,३.२७ । तदशक्तिश्चानुरूपत्वात् । १,३.२८ । एक देशत्वाच्च विभाक्तिव्यत्यये स्यात् । १,३.२९ । ____________________________________________________ १,३.२८२९ नवमाधिकरणमारचयति गोगाव्यादिषु साधुत्वे प्रयोगे वा न कश्र्चन । नियमोऽत्रास्ति बा नास्ति व्याकृतेर्मूलवर्जनात् ॥ १,३.२८ ॥ साधूनेव प्रयुञ्जीत गवाद्या एव साधवः । इत्यस्ति नियमः पूर्वपूर्वव्याकृतिमूलतः ॥ १,३.२९ ॥ व्याकरणाभिज्ञैः सास्नादिमद्वस्तुनिऽगौःऽ इत्येष शब्दः प्रयुज्यते । तदनभिज्ञैस्तु स्वस्वदेशीयभाषामनुसृत्य गावी, गोणी, गोपोतलिका, इत्येवमादयः शब्दः प्रयुज्यन्ते । तत्र ऽईदृष एव शब्दः साधुः, नेदृशःऽ इत्यस्मिन्नर्थे नियामकं नास्ति । तथा योगेऽपि तन्नास्ति ऽ ईदृश एव शब्दः प्रयोक्तव्यः , नेदृशःऽ इति न तावद्वृद्धव्यवहारो नियामकः । तस्य सर्वेषु शब्देषु समानत्वात् । नापि व्याकरणस्मृतिर्नियामिका । तस्या निर्मूलत्वेनाप्रमाणत्वात् । न ह्यभियुक्तप्रयोगस्तन्मूलम । अन्योन्याश्रयत्वप्रसङ्गात् । व्याकरणस्मृतेः प्रामाण्यसिद्धौ तदनुसारेण प्रयोक्तॄणाममियुक्तत्वसिद्धिः । तत्सिद्धौ तत्प्रयोगमूलतया व्याकरणस्य प्रामाण्यम् । तस्मान्नास्ति साधुत्वप्रयोगयोर्नियमः , इति प्राप्ते ब्रूमः ऽ साधूनेव प्रयुञ्जति, न त्वपभ्रंशान्ऽ इत्यस्ति नियमः । उभयत्र क्रमेण दोषगुणवादिनोर्वेदवाक्ययोः श्रवणात् । "एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति"इति गुणवाक्यम् । "तस्माद्ब्राह्मणेन न म्लेच्छितवैऽ नापभाषितवै , म्लेच्छो ह वा एष यदपशब्दः"इति दोषवाक्यम् । यथा प्रयोगे नियमस्तथा साधुत्वेऽपि नियमो द्रष्टव्यः ऽगवाद्या एव साधवः, न तु गाव्यादयःऽ इति । अस्मिन्नर्थे व्याकरणस्य नियामकत्वात् । न च निर्मूलत्वम् , पूर्वपूर्वव्याकरणस्य तन्मूलत्वात् । एतदेवाभिप्रेत्योक्तम् ऽ तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादनुपालम्भःऽ इति व्याकरण प्रामाण्यं वेदेनैव साक्षादुपन्यस्तम् । तथाऽचार्थवणिका आमनन्ति "द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति परा चैवापरा च । तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम"इति । तैत्तिरीयकब्राह्मणेऽपि व्याकरणस्योपादेयता श्रूयते ऽवाग्वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमब्रुवन् ऽइमां नो वाचं व्याकुरु, इति तामिन्द्रो मध्यतोऽपक्रम्य व्याकरोत् । तस्मादियं व्याकृता वागुद्यतेऽ इति । व्याकर्तारश्र्च पाणिनिकात्यायनपतञ्जलयो मन्वादिसमानाः । तस्मात्साधूनामेव प्रयोगे गवादीनामेव साधुत्वे व्याकरणस्मृतिः प्रमाणम् ॥ १,२.२८२९ ॥ ____________________________________________________ १,३.३० अत्रैव गुरुमतमाह अश्र्वालम्भनशास्त्रस्य दन्त्यतालव्यसंशयात् । अमात्वेऽदन्त्यनिर्णीतिराप्तोक्तव्याकृतेर्बलात् ॥ १,३.३० ॥ "अश्र्वमालभेत"इत्यत्राकारवकारयोर्मध्यवर्तिनो वर्णस्य दन्त्यत्वेऽ स्वं धनम् , तद्रहितं दरिद्रमालभेतऽ इत्यर्थो भवति । तालव्यत्वे तुरङ्गमवाचित्वम् । ततः संशयादप्रामाण्यमिति चेत् । न । व्याकरणानुसारेण"अशू व्याप्तौ"इत्यस्माद्धातोरौणादिके वप्रत्यये सति तालव्यत्वनिर्णयात् । तस्मादश्र्वालम्भनशास्त्रं प्रमाणम् ॥ १,२.३० ॥ (दशमे लोकवेदयोः शब्दैक्याधिकरण आकृत्यधिकरणे वा सूत्राणि ३० ३५) । प्रयोगचोदनाभावादर्थैकत्वमविभागात् । १,३.३० । अद्रव्यशब्दत्वात् । १,३.३१ । अन्यदर्शनाच्च । १,३.३२ । आकृतिस्तु क्रियार्थत्वात् । १,३.३३ । न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् । १,३.३४ । तदर्थत्वात्प्रयोगस्याविभागः । १,३.३५ । ____________________________________________________ १,३.३१३२ दशमाधिकरणे प्रथमं वर्णकमाचरयति लोके पदापदार्थौ यौ न तौ वेदेऽथवात्र तौ । रूपभेदात्पदं भिन्नमुत्तानादिभिदा स्फुटा ॥ १,३.३१ ॥ वर्णैकत्वात्पदैकत्वं क्वाचित्की रूपभिन्नता । प्रायिकेण पदैक्येन तदर्थैक्यं तथाविधम् ॥ १,३.३२ ॥ वैदिकौ पदपदार्थौ लौकिकाभ्यां पदपदार्थाभ्यामन्यौ । कुतः । रूपभेदात् । पदे तावद्रूपभेदो दृश्यते । आत्मशब्द आकारादित्वेन लोके नियतः । वेदे तु क्वचिदाकाररहितः पठ्यते "प्रयतं पुरूषं त्मना"इति । ऽब्राह्मणाःऽ इति लोके । वेदे त्वन्यथा पठ्यते "ब्राह्मणासः पितरः सोम्यासः"इति । अर्थभेदोऽपि स्फुटः । उत्ताना वै देवगवा वहन्ति"इति श्रूयते देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम्"इति । तस्मात्ऽ लोकवेदयोः पदपदार्थावन्यौऽ इति प्राप्ते ब्रूमः य एव लौकिकाः पदार्थाः, त एव वैदिकाः । तथा हि वर्णानां तावन्नित्यत्वं प्रथमपादे साधितम् । यथा प्रयोक्तॄणां पुरुषाणां भेदेऽप्येकैकस्य पुरुषस्य बहुकृत्व उच्चारणभेदेऽपिऽ त एवामी वर्णाःऽ इति प्रत्यभिज्ञानाद्वर्णैक्यम् । तथाऽ यानि लोके गवादिपदानि , तान्येव वेदेऽधीयमानानिऽ इत्यवाधितप्रत्यभिज्ञया पदैकत्वमभ्युपेयम् । ऽ त्मना, देवासःऽ इत्यादिपदभेदस्तु क्वाचित्कः । नैतावता बहुतरप्रत्यभिज्ञावगतं पदैक्यमपोढुं शक्यम् । अन्यथाऽसोऽयं देवदत्तःऽ इति प्रत्यभिज्ञातं देवदत्तैक्यमपि देशादिभेदमात्रेणापोद्येत । पदैक्ये चार्थैकत्वमवश्यंभावि । अन्यथा वेदे पृथग्व्युत्पत्त्यभावादबोधकत्वं प्रसज्येत । एतदेवाभिप्रेत्योक्तम् "लोकावगतसामर्थ्थः शब्दे वेदेऽपि बोधकः"इति । स्वरुयूपाहवनीयान्दिशब्दानां तदर्थानां चालौकिकत्वेऽपि प्रसिद्धपदसमभिव्याहाराद्व युप्तत्तिः संभवति । उत्तानवहनादिकं त्वर्थवादः । अस्तु वा तथावहनम् , तथाप्युत्तानादिशाब्दास्तदर्थाश्र्च लोकप्रसिद्धा एव । तस्माद्य एव लौकिकाः पदपदार्थास्त एव वैदिकाः ॥ १,२.३१३२ ॥ ____________________________________________________ १,३.३३३४ द्वितीयवर्णकमारचयति व्यक्तिर्ंव्रीह्यादिशब्दार्थ आकृतिर्वा क्रियान्वयात् । व्यक्तिर्व्युत्पत्तिवेलायामाकृत्या सोपलक्ष्यते ॥ १,३.३३ ॥ शक्तिग्रहादियुक्तिभ्य आकृतेरर्थतोचिता । क्तियापर्यवसानाय व्यक्तिस्तत्रोपलक्ष्यताम् ॥ १,३.३४ ॥ "व्रीहीनवहन्ति" "पशुमालभेत" "गामानया" "ब्राह्मणो न हन्तव्यः"इत्यादिप्रयोगेषु व्रीह्यादिशब्दानां व्यक्तिरर्थः । कुतः । अवहननादिक्रियाभिर्व्यक्तेरन्वेतुं शक्यत्वात् । नह्याकृतिरवहन्तुमालब्धुमानेतुं वा योग्या । नन्वानन्त्यव्यभिचाराभ्यां न व्यक्तौ व्युत्पत्तिः संभवति । अनन्ता हि व्यक्तयः । अतीतानागतानामनेकदेशवर्तिनां गवामियत्ताया अनवधारणात् । किञ्च शुल्लव्यक्तौ व्युत्पन्नो गोशब्दः कृष्णव्यक्तौ प्रयुज्यमानः स्वार्थे व्यभिचरेत् । तत्र कथं व्युत्पत्तिरिति चेत् । एवं तर्हि व्युत्पत्तिकाले सा व्यक्तिराकृत्योपलक्ष्यतामिति प्राप्ते ब्रूमः अन्वयव्यतिरेकाभ्यामाकृतेः शक्तिग्रहणनिमित्तत्वाच्छाब्दार्थत्वं तस्या एवोचितम् । किञ्च गोशब्द उच्चारिते व्यक्तिवादिनः संशयो भवेत् । तस्मादाकृतेरेवाभिधेयत्वम् । यद्याकृताववहननादिक्रिया न पर्यवस्येत्तर्हि व्यक्तिस्तत्रोपलक्षणीया । किञ्च"श्योनर्चित्तं चिन्वीत"इत्यादावाकृतेरेव सादृश्यप्रतियोगितया कार्यान्वयो दृश्यते । तस्मात् आकृतिः शब्दार्थः ॥ १,२.३३३४ ॥ ____________________________________________________ १,३.३५ अत्रैव गुरुमतमाह गवादिचोदना नो मा जातिव्यक्त्योरनिर्णयात् । आनन्त्यव्यभिचाराभ्यां न व्यक्तिरिति निर्णयः ॥ १,३.३५ ॥ स्पष्टोऽर्थः ॥ १,२.३५ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाध्यायस्य तृतीयः पादः _________________________________________________________________________ (अथ चतुर्थः पादः) (प्रथम उद्भिदादिशब्दानां यागनामतया प्रामाण्याधिकरणे सूत्रम्) उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् । १,४.१ । ____________________________________________________ १,४.१२ चतुर्थपादस्य प्रथमाधिकरणम् । वार्तिककारोन्नीतमारचयति उद्भिदादिपदं धर्मे किममानमुत प्रमा । विध्यर्थवादमन्त्रांशेष्वनन्तर्भावतो न मा ॥ १,४.१ ॥ अन्तर्भावो विधावुद्भिदा यजेतेति दृश्यते । नामत्वेनान्वयो वाक्ये वक्ष्यतेऽतः प्रमैव तत् ॥ १,४.२ ॥ "उद्भिदा यदेत" "बलभिदा यजेत" "विश्वजिता यजेत"इत्येवं समाम्नायते । तत्रोद्भिदादिपदं न धर्मे प्रमाणम् । कुतः । प्रमाणत्वनोभिमतेषु त्रिषु वेदवेभागेष्वनन्तर्भावात् । तथा हि विधिः साक्षात्प्रमाणम् । अर्थवादमन्त्रौ तु विध्यन्वयेन । तत्र न तावदुद्भिदादिपदं विधावन्तर्भवति । विध्यर्थरूपाया भावनाया अंशेषु भाव्यकरणेतिकर्तव्यतारूपेषु कस्याप्यवाचकत्वात् । नाप्यर्थवादत्वम् । स्तुतिबुद्धेरभावात् । नापि मन्त्रत्वम् । उत्तमपुरुषादीनां मन्त्रलिङ्गानामभावात् । तथा चोक्तम् "उत्तमामन्त्रणास्यन्तत्वान्तरूपाद्यभावतः । मन्त्रप्रसिद्ध्यभावाच्च मन्त्रतैषां न युज्यते" ॥ इति । "अग्नये जुष्टं निर्वपामि"इत्युत्तमपुरुषः । "अग्ने यशस्विन्यशसे समर्पय"इत्यामन्त्रणम् । "उर्वी चासि, वस्वी चासि"इत्यस्यन्तरूपम् । "इषे त्वा, ऊर्जे त्वा"इति त्वान्तरूपम् । आदिशब्देव आशीर्देवताप्रतिपादनादयः । एवमाद्यनन्तर्भावादमानमिति चेत् । न । विध्यंशे करणेऽन्तर्भावात् । यद्यपि लिङ्प्रत्ययेन समानपदोपात्तो यजिधात्वर्थः करणं तथापि तस्य यजेर्नामत्वेनोद्भिदादिपदमन्वेति । तस्मात्प्रमाणम् ॥ १,४.१२ ॥ ____________________________________________________ १,४.३४ (द्वितीय उद्भिदादिशब्दानां यागनामधेयताधिकरणे सूत्रम् ) अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् । १,४.२ । द्वितीयाधिकारणमारचयति गुणोऽयं नामधेयं वा खनित्रेऽस्य निरुक्तितः । ज्योतिष्टोमं समाश्रित्य पश्वर्थे गुणचोदना ॥ १,४.३ ॥ फलोद्भेदात्समानैषा निरुक्तिर्यागनाम्न्यपि । नामत्वमुचितं यागसामानाधिकरण्यतः ॥ १,४.४ ॥ "उद्भिदा यजेत पशुकामः"इत्यत्र तृतीयान्तेनोद्भित्पदेन योर्ऽथो विवक्षितः सोऽयं यागे कश्चिद्गुणः स्यात् । "दघ्नाजुहोति"इत्यनेन गुणविधिना समानत्वात् । अथोच्येत ऽ दधिशब्दार्थो लोकप्रसिद्धः, उद्भिच्छब्दार्थस्त्वप्रसिद्धःऽ इति । तन्न । रूढ्यभावेऽप्यवयवार्थनिरुक्त्या तत्प्रसिद्धेः । ऽ उद्भिद्यते भूमिरनेनऽ इति व्युत्पत्त्या खनित्रवाच्यसौ शब्दः । न चात्र पशुफलकः कश्चिद्यागो विधीयत इति वाच्यम् । पशूनां गुणफलत्वात् । यथा"गोदोहनेन पशुकामस्य"इत्यत्र पशवो गोदोहनगुणस्य फलम् । तथेह खनित्रगुणस्य फलमस्तु । यदि"चमसेनापः प्रणयेत्"इति विहितं प्रकृतमपां प्रणयनमाश्रित्य गोदोहनं विधीयते, तर्ह्यत्रापि"ज्योतिष्टोमेन यजेतऽ इति विहितं प्रकृतं ज्योतिष्टोममाश्रित्य खनित्रं विधीयताम् । तस्माद्गुणविधिरिति प्राप्ते , ब्रूमः "पशुकामो यजेत"इत्यस्य पदद्वयस्यायमर्थःऽ पशुरुपं फलं यागेन कुर्यात्ऽ इति । तत्रऽकेन यागेनऽ इत्यपेक्षायाम्ऽ उद्भिदाऽ इति तृतीयान्तं पदं यागनामत्वेनान्वेति । ऽउद्भिद्यते पशुफलमनेन यागेनऽ इति निरुक्त्या नामत्वमुद्भित्पदस्योपपद्यते । एवमपि गुणविधिनामधेयत्वयोः शब्दनिर्वचनसाम्यान्न निर्णय इति चेत् । मैवम् । सामानाधिकरण्यस्य निर्णायकत्वात् । ऽउद्भिन्नामकेन यागेन फलं कुर्यात्ऽ इत्युक्ते सामानाधिकरण्यं लभ्यते । गुणत्वे तुऽ खनित्रेण साध्यो यो यागः, तेनऽ इत्येवं वैयधिकरण्यं स्यात् । यदिऽखनित्रवता यागेनऽ इति सामानाधिकरण्यं योज्येत तदा मत्वर्थलक्षणा प्रसज्येत । तस्मादुद्भिदादिपदं नामधेयम् । ऽ दध्ना जुहोति"व्रीहिभिर्यजेतऽ इत्यादिषु द्रव्यविशेषे दध्यादिशब्दानामत्यन्तरूढतया यागनामत्वासंभवादगत्या गुणत्वमाश्रितम् । ऽ सोमेन यजेतऽ इत्यत्रापिऽ अप्रसिद्धार्थनामधेयत्वकल्पनातो वरं प्रसिद्धार्थद्वारेण लक्षणाश्रयणम्ऽ इत्यभिप्रेत्यऽ सोमद्रव्यवता यागेनऽ इति मत्वर्थलक्षणा स्वीकृता । उद्भिच्छब्दस्य तु लोकप्रसिद्धार्थाभावादुक्तरीत्या नामत्वं युक्तम् । प्रयोजनं तु नाम्नः सर्वत्र व्यवहार एव । न ह्यन्तरेण नामधेयमृत्विग्वरणादिषुऽ अनेनाहं यक्ष्येऽ इत्याख्यानोपायो लघुः कश्चिदस्ति । तस्मात् उद्भिदादीकं नामधेयम् ॥ १,४.३४ ॥ ____________________________________________________ १,४.५ अत्रैव गुरुमतमाह लौकिके गणयागेऽस्य विधेः सापेक्षतेति चेत् । निरुक्त्या श्रौतयागस्य नामत्वान्निरपेक्षता ॥ १,४.५ ॥ ऽउद्भिदा यजेतऽ इत्ययं गुणविधिः । न चास्य कश्चिच्छ्रौत आश्रयो लभ्यते । ततो लौकिको मातृगणयागादिराश्रयत्वेनापेक्षणीयः । तस्मिन्योगे मैवम् । पूर्वोक्तनिरुक्त्या श्रौतयागनामत्वे सति निरपेक्षत्वात् ॥ १,४.५ ॥ ____________________________________________________ १,४.६७ (तृतीये चित्रादिशब्दानां यागनामधेयताधिकरणे सूत्रम्) यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः । १,४.३ । तृतीयाधिकरणमारचयति यच्चित्रया यजेतेति तद्गुणो नाम वा भवेत् । चित्रस्त्रीत्वगुणो रूढेरग्नीषोमीयके पशौ ॥ १,४.६ ॥ द्वयोर्विधौ वाक्यभेदो वैशिष्ट्ये गौरवं ततः । स्यान्नाम पृष्ठाज्यबहिष्पवमानेषु तत्तथा ॥ १,४.७ ॥ "चित्रया यजेत पशुकामः"इत्याम्नायते । तत्र चित्राशब्दो नोद्भिच्छब्दवद्यौगिकः, किन्तु रूढ्या चित्रत्वं स्त्रीत्वं चाभिधत्ते । ततो न पूर्वन्यायेन नामत्वम् । तथा सति"अग्नीषोमीयं पशुमालभेत"इति विहितं पशुयागमात्रंऽ यजेतऽ इत्यनेन पदेनानूद्य तस्मिन्पशौ चित्रत्वस्त्रीत्वे गुणौ विधीयेते इति प्राप्ते ब्रूमः चित्रत्वं स्त्रीत्वं चेति द्वावेतौ गुणौ । तयोर्द्वयोर्विधाने वाक्यं भिद्येत । तथा चोक्तम् "प्राप्ते कर्मणि नानेको बिधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः" ॥ इति । अथ वाक्यभेदपिरहाराय गुणद्वयावीशीष्ट पशुद्रव्यरूपं कारकं विधीयते तदा गौरवं स्यात् । तस्माच्चित्राशब्दः पूर्ववद्यजिसामानाधिकरण्येन यागनामधेयं भवति । चित्रत्वं तु तस्य विलक्षणद्रव्यद्वारेणोपपद्यते । ऽ दधि, मधु, घृतम् , आपः, धानाः, तण्डुलाः, तत्संसृष्टं प्राजापत्यम्ऽ इति दध्यादीनि विचित्राणि प्रदेयद्रव्याणि षडाम्नातानि । त्रदेतच्चित्रानामकस्य यागस्योत्पत्तिवाक्यम् । यागस्वरूपभूतयोर्दध्यादिद्रव्यप्रजापतिदेवतयोरत्रोपदिश्यमानत्वात् । उत्पन्नस्य तस्य यागस्यऽ चित्रया यजेत पशुकामःऽ इत्येतत्फलवाक्यम् । एवं सति प्रकृतार्थो लभ्यते । अग्नीषोमीयपश्वनुवादेन गुणविधाने प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । लिङ्प्रत्ययस्यानुवादकत्वाङ्गीकारान्मुख्यो विध्यर्थो बाध्येत । तस्माच्चित्रापदं नामधेयम् । यथा चित्राशब्दे नामधेयत्वम् । तथा बहिष्पवमानशब्दे, आज्यशब्दे, पृष्ठशब्दे च तन्नामधेयत्वं योजनीयम् । एवं हि श्रूयते "त्रिवृद्धहिष्पवमानम्" "पञ्चदशान्याज्यानि" "सप्तदशानि पृष्ठानि"इति । अस्य वाक्यत्रयस्यार्थो विव्रियते सामगानामुत्तराग्रन्थे तृचात्मकानि सूक्तान्याम्नातानि । तत्र"उपास्मै गायता नरः"इत्याद्यं सूत्रम् । "दविद्युतत्या रुचा"इति द्वितीयम् । "पावमानस्य ते कवे"इति तृतीयम् । ज्योतिष्टोमस्य प्रातः सवनानुष्ठाने तेषु त्रिषुं सूक्तेषु गायत्रं साम गातव्यम् । तदिदं सूक्तत्रयगानसाध्यं स्तोत्रं बहिष्पवमानमित्युच्यते तत्रावस्थितानामृचां पवमानार्थत्वात् । बहिः संबन्धाच्च । न खल्बिदं स्तोत्रमितरस्तोत्रवत्सदोनामकस्य मण्डपस्य मध्य औदुम्बर्याः स्तम्बशाखायाः संनिधौ प्रयुज्यते, किन्तु सदसो बहिः प्रसर्पद्भिः प्रयुज्यते । तस्य च बहिष्पवमानस्य त्रिवृन्नामकः स्तोमो भवति । तस्य च स्तोमस्य विधायकं ब्राह्मणवाक्कयमेवमाम्नायते "तिसृभ्यो हिं करोति स प्रथमया, तिसृम्यो हिं करोति स मध्यमया तिसृभ्यो हिं करोति स उत्तमया, उह्यती त्रिवृतो विष्टुतिः"इति । अयमर्थः ऽ सूक्तत्रयपठितानां नवानामृचां गानान्त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथमे पर्याये त्रिषु सूक्तेष्वाद्यास्तुस्त्र क्रचः , द्वितीये पर्याये मध्यमाः, तृतीये पर्याये चोत्तमाः । तिसृभ्य इति तृतीयार्थे पञ्चमी । हिं करोति गायतिऽ इत्यर्थः । सेयं यथोक्तप्रकारोपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः स्तुतिप्रकारविशेषः । तस्या विष्टुतेरुद्यती नाम, इति । एवं परिवर्तिनी कुलायिनीति द्वे विष्टुती । तयोः परिवर्तिन्येवमाम्नायते "तिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचीभिः , तिसृभ्यो हिं करोति स पराचीभिः, परिवर्तिनी त्रिवृतो विष्टुतिः"इति । पराचीभिरनुक्रमेणाऽम्नाताभिरित्यर्थः । कुलायिन्येवमाम्नायते "तिसृभ्यो हिं करोति स पराचीभिस्तिसृभ्यो हिं करोति, या मध्यमा सा प्रथमा, पोत्तमा सा मध्यमा, या प्रथमा सोत्तमा, तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा, सा मध्यमा या मध्यमा सोत्तमा, कुलायिनी त्रिवृत्तो विष्टुतिः"इति । अत्र प्रथमसूक्ते पाठक्रम एव । द्वितीये मध्यमोत्तमप्रथमाः । तृतीयेतूत्तमप्रथममध्यमा इत्येवं व्यत्ययेन मन्त्रा गातव्याः । तदिदं विष्टुतित्रयं विकल्पितम् । त्रिवृच्छब्दस्येदृशं स्तोमस्वरूपमर्थो, न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् । उत्तराग्रन्थे बहिष्पवमानसूक्तेभ्यस्त्रिभ्य ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि "अग्न आ याहि वीतये"इत्याद्यं सूक्तम् । "आ नो मित्रावरुण" इति द्वितीयम् । "आ याहि सुषुमा हि ते" इति तृतीयम् । "इन्द्राग्नी आ गतं सुतम्" इति चतुर्थम् । तान्येतानि प्रातः सवने गायत्रसाम्ना गीयमानानि चत्वार्याज्यस्तोत्राणीत्युच्यन्ते । तन्निर्वचनं च श्रूयते "यदाजिमीयुः, तदाज्यानामाज्यत्वम्"इति । तेष्वाज्यस्तोत्रेषु पञ्चदशनामकः स्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते "पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिसृभिः"इति । एकं सूक्तं त्रिरावर्तनीयम् । तत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः । द्वितीयावृत्तौ मध्यमायाः । तृतीयावृत्तावृत्तमायाः । सोऽयं पञ्चदशस्तोमः । उक्तेभ्यश्चतुर्भ्यः सूक्तेभ्य ऊर्ध्वमुत्तराग्रन्थे त्रीणि माध्यन्दिनपवमानसूक्तान्याम्नाय तत ऊर्ध्वे चत्वारि सूक्तान्याम्नातानि तेषु"अभि त्वा शूर नोनुम" इत्याद्यम् ,"कया नश्चित्र आभुवत्"इति द्वितीयम् । "तं वो दस्ममृतीषहम्"इति तृतीयम् । "तरोभिर्वो विदद्वसुम्"इति चतुर्थम् । एतानि क्रमें रथन्तरवामदेव्यनौधसकालेयसामभिर्माध्यन्दिनसवने गीयमानानि पृष्ठस्तोत्राणीत्युच्यन्ते । "स्पर्शनात्पृष्ठानि"इत्येव निरुक्तिर्द्रष्टव्या । तेषु स्तोत्रेषु सप्तदशस्तोमो भवति । तस्य स्तोमस्य विष्टुतिरेवमाम्नायते "पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिसृभिः स तिसृभिः"इति । अत्र प्रथमावृत्तौ प्रथमाया ऋचस्त्रिरभ्यासः, द्वितीयावृत्तौ मध्यमायाः , तृतीयावृत्तौ मध्यमोत्तमयोः सोऽयं सप्तदशस्तोमः । अत्र त्रिष्वपि वाक्येषु त्रिवृत्पञ्चदशसप्तदशशब्दा गुणविधायकत्वेन संमताः । यदि बहिष्पवमानाज्यपृष्ठशब्दा अपि गुणविधायकाः स्युस्तदा प्रत्युदाहरणम् । गुणद्वयीवधानाद्वाक्यभेदः स्यात् । तस्माद्वहिष्पवमानादिशब्दाः स्तोत्रनामधेयानि । तैर्नामभिः कर्माण्यनूद्य त्रिवृदादिगुणा विधीयन्ते ॥ १,४.६७ ॥ ____________________________________________________ १,४.८१२ (चतुर्थेऽग्निहोत्रादिशब्दानां यागनामधेयताधिकरणे (मत्प्रख्यन्याये) सूत्रम्) तत्प्रख्यं चान्यशास्त्रम् । १,४.४ । चतुर्थाधिकरणमारचयति अग्निहोत्रं जुहोत्याघारमाघारयतीत्यमू । विधेयौ गुणसंस्कारावाहोस्वित्कर्मनामनी ॥ १,४.८ ॥ अग्नये होत्रमत्रेति बहुव्रीहिगतोऽनलः । गुणो विधेयो नामत्वे रुपं न स्यात्क्षरद्घृते ॥ १,४.९ ॥ संस्क्रियाऽघारमाघारयतीत्युक्ता द्वितीयया । आघारेत्यग्निहोत्रेति यौगिके कर्मनामनी ॥ १,४.१० ॥ अग्निर्ज्योतिरिति प्राप्तो मन्त्राद्देवस्तथा घृतम् । चतुर्गृहीतवाक्योक्तं द्वितीयायास्त्वियं गतिः ॥ १,४.११ ॥ नासाधिते हि धात्वर्थे करणत्वं ततोऽस्य सा । साध्यतां वक्ति संस्कारो नैवाऽशङ्क्यः क्रियात्वतः ॥ १,४.१२ ॥ "अग्निहोत्रं जुहोति" "आघारमाघारयति"इत्यत्राग्निहोत्रशब्दस्य कमनामत्वे द्रव्यदेवतयोरभावाद्यागस्य स्वरुपमेव न सिध्येत् । तस्मादग्निदेवतारूपोगुणोऽनेन दर्विहोमे विधीयते । आघारशब्दश्च"घृ क्षरणदीप्त्योः"इत्यस्माद्धातोरुत्पन्नः क्षरद्घृतमातष्टे । तस्मिंश्च घृते द्वितीयाविभक्त्वा संस्कार्यत्वं प्रतीयते । तच्च संस्कृतं घृतमुपांशुयाजे (गे) द्रव्यं भवति । तस्मात्ऽ अग्निहोत्राघारशब्दौ गुणसंस्कारयोर्विधायकौऽ इति प्राप्ते ब्रूमः"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति, सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः"इति विहितेन मन्त्रेण प्राप्तत्वाद्देवता न विधेया । ततोऽग्निसूर्यदेवताकस्य सायंप्रातः कालयोर्नियमेनानुष्ठेयस्य कर्मणःऽ अग्निहोत्रम्ऽ इति यौगिकं नामधेयम् । योगश्च बहुव्रीहिणा दर्शितः । "चतुर्गृहीतं वा एतदभूत्तस्याऽघारमाघार्यः"इत्यनेनैवाऽज्यद्रव्यस्य प्रप्ततया क्षरद्धृतसंस्कारस्याविधेयत्वादाघारशब्दोऽपि यौगिकं कर्मनामधेयम् । ऽयस्मिन्कर्माणि नैरृतीं दिशमारभ्यैशानीं दिशमवधिं कृत्वा संतत्या घृतं क्षार्यतेऽ तस्य कर्मण एतंन्नाम । ननु नामधेयत्वे सति"उद्भिदा यजेत" "ज्योतिष्टोमेन यजेत"इत्यादाविव धात्वर्थेन करणेन सामानाधिकरण्यायऽअग्निहोत्रेण जुहोतिऽऽआघारेणाऽघारयतिऽ इति तृतीयया भवितव्यम् । नैष दोषः । अनुष्ठानादूर्ध्वे चात्वर्थस्य सिद्धत्वाकारेण करणत्वेऽपि ततः पूर्वे साध्यत्वाकारं वक्तुम्ऽअग्निहोत्रम्"आघारम्ऽ इति द्वितीयाया युक्तत्वात् । न चात्र द्वितीयानुसारेणऽव्रीहीन्प्रोक्षतिऽ इत्रयदाविद्य संस्कारः शङ्कनीयः । व्रीहिशब्दवदग्निहोत्राघारशब्दयोः प्रसिद्धद्रव्यवाचकत्वाभावेन क्रियावाचित्वाभ्युपगमात् । तस्मात् अग्निहोत्राघारशब्दौ दर्विहोमोपांशुयाजयोर्गुणसंस्कारविधायिनौ न भवतः, किन्तु कर्मान्तरयोर्नामनी ॥ १,४.८१२ ॥ ____________________________________________________ १,४.१३१५ (पञ्चमे श्येनादिशब्दानां यागनामधेयताधिकरणे (तद्व्यपदेशन्याये) सूत्रम्) तद्व्यपदेशं च । १,४.५ । पञ्चमाधिकरणमारचयति श्येनेनाभिचरन्मर्त्यो यजेतेति श्रुतौ गुणः । विधीयते पक्षिरूपो नाम वा तस्य कर्मणः ॥ १,४.१३ ॥ श्योनेनेति गुणः काम्यः सौमिकः सोमबाधया । न चित्रावद्वाक्यभेदो रूढोश्चैवमनुग्रहः ॥ १,४.१४ ॥ यथा वै श्येन इत्युक्ता ह्युपमानोपमेयता । नैकस्मिंस्तेन गैंण्यास्य वृत्त्या स्यात्कर्मनामता ॥ १,४.१५ ॥ "श्येनेनाभिचरन्यजेत"इत्यत्र कर्मनामत्वे द्रव्यदेवतयोरभावाद्यागस्वरूपमपि न सिध्येत् । ततः सोमयागे नित्यं सोमद्रव्यं बाधित्वा सोमस्य स्थाने पक्षिद्रव्यरूपो गुणः काम्यो विधीयते । तथा सति श्येन शब्दस्य पक्षिणि लोकसिद्धा रूढिरनुगृह्यते । न च गुणविधित्वे चित्रायामिव वाक्यभेद आपादयितुं शक्यः । चित्रत्वस्त्रीत्ववद्गुणद्वयाभावादिति प्राप्ते ब्रूमः"यथा वै श्योनो निपत्याऽदत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्याऽदत्ते यमभिचरति श्येनेन"इति वाक्येनोक्त उपमानोपमेयभावः पक्षिण्येकस्मिन्न युज्यते । तस्मात्पक्षिण उपमानस्य गुण उपमेये कर्मण्यस्तीति श्येवशब्दस्याभिचारकर्मनामत्वम् । "संदंशेवनाभिचन्यजेत" " । गवाभिचर्यमाणो यजेत"इत्यत्र संदंशगोशब्दयोर्नामत्वं श्येनशब्दवद्द्रष्टव्यम् । "यथा संदंशेन दुरादानमादत्ते" "यथा गावो गोपायन्ति"इति वाक्यशेषाभ्यामुपमानोपमेयभावाभिधानात् ॥ १,४.१३१५ ॥ ____________________________________________________ १,४.१५*१८ (षष्ठे वाजपेयादिशब्दानां नामधेयताधिकरणे सूत्राणि) । नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् । १,४.६ । तुल्यत्वात्क्रिययोर्न । १,४.७ । ऐकशब्द्ये परार्थवत् । १,४.८ । षष्ठाधिकरणमारचयति यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः । नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥ १,४.१५* ॥ साधारणयजेः कर्मकरणत्वेन तन्त्रता । त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥ १,४.१६ ॥ उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः । उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ॥ १,४.१७ ॥ त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्यते तेन सः । वाजपेयेतिशब्दोऽपि कर्मनामाग्निहोत्रवत् ॥ १,४.१८ ॥ "वाजपेयेन स्वाराज्यकामो यजेत"इत्यत्र वाजपेयशब्देन गुणो विधीयते । अन्नवाची वाजशब्दः । तच्चान्नं पेयं सुराद्रव्यम् । तच्चात्र गुणः । सुराग्रहाणामनुष्ठेयत्वात् । ननु गुणत्वेऽ वाजपेयगुणवता यागेन स्वाराजं भावयेत्ऽ इति मत्वर्थलक्षणा प्रसज्येत । मैवम् । सकृदुच्चरितस्य, यजेत, इत्वाख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण संबन्धाङ्गीकारात् । वाजपेयेन द्रव्येण स्वाराज्याय यजेत, इत्येवमुभयसंबन्धः । ननु गुणसंबन्धे सति वाजपेयगुणेन यागं कुर्यात्, इति यजेः कर्मकारकत्वं भवति, फलसंबन्धे तुऽ यागेन स्वाराज्यं संपादयेत्ऽ इति करणकारकत्वम् । तत्कथं तदुभयसंबन्ध इति चेत् । नायं दोषः । यजेः साधारणत्वेन द्विरूपत्वसंभवात् । ऽ यजेत ऽ इत्यत्र प्रकृत्या याग उक्तः, प्रत्ययेन भावनोक्ता, तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते । तच्च कर्मत्वकरणत्वयोः साधारणम् । न खलु तत्र कर्मत्वस्य करणत्वस्य वा साक्षादभिधायिका काचिदसाधारणी विभक्तिः श्रूयते । अतः साधारणस्य यजेरुभाभ्यां युगपत्संबन्धे सित यथोचितसंबन्धविशेषः पर्यवस्यति । एवं तन्त्रेण संबन्धाङ्गीकारेऽ वाजपेयद्रव्येण यागं कुर्यात्ऽ इत्यर्थस्य लम्यमानत्वाद्गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा । यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्, तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य तदीयः सिद्धान्तः पुनराक्षिप्यतामिति प्राप्ते ब्रूमः यजेस्तन्त्रेणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं, विधेयत्वं, गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वम्, अनुवाद्यत्वं, मुख्यत्वं चेत्यपरं त्रिकम् । तत्रोद्देश्यत्वादयस्त्रयः स्वाराज्यफलनिष्ठा धर्माः । उपादेयत्वादयस्त्रयः साधनभूतयजिनिष्ठा धर्माः । फलमुद्दिश्य यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम मानतापेक्षो विषयत्वाकारः । यजेरुपादेयत्वं नामानुष्ठीयमानताकारः । तावुभौ मनः शरीरोपाधिकौ धर्मौ । अनुवाद्यत्वविधेयत्वधर्मौ तु शब्दोपाधिकौ । ज्ञातस्य कथनमनुवादः । अज्ञातस्यानुष्ठेयत्वकथनं विधिः । फलयागयोः साध्यसाधनत्वरूपतया प्रधानत्वोपसर्जनत्वे । एवं सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां यथा फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते तथा यागस्य वाजपेयस्य च साध्यसाधनभावापर्यालोचनायां यागस्योद्देशत्वादित्रिकम्, वाजपेयद्रयस्योपादेयत्वादित्रिकं च पर्यवस्यति । ततो यागस्य फलद्रव्याभ्यां युगपत्संबन्धे सति विरुद्धं त्रिकद्वयमापद्यते । ननु तर्हि मा भूत्तन्त्रेणोभयसंबन्धः, पृथक्संबन्धाय यजिरावर्त्यतामिति चेत् । वाक्यभेदप्रसङ्गात् । ऽ द्रव्येण यागं कुर्यात्ऽ इत्येकं वाक्यम् । ऽ यागेन फलं कुर्यात्ऽ इत्यपरम् । तस्माद्वाजपेयशब्दो न गुणविधायकः, किन्तु यथेक्तं द्रव्यं निमित्तीकृत्याग्निहोत्रशब्दवत्कर्मनामधेयम् ॥ १,४.१५*१८ ॥ ____________________________________________________ १,४.१९२० (सप्तम आग्नेयादीनामनामताधिकरणे सूत्रम्) तद्गुणास्तु विधायेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः । १,४.९ । सप्तमाधिकरणमारचयति यदाग्नेयोऽष्टाकपाल इति नाम गुणोऽथवा । नामाग्निहोत्रवन्मैवं नामत्वे देवता नहि ॥ १,४.१९ ॥ मन्त्रोऽपि नेह प्रत्यक्षस्तद्धिताद्देवताविधिः । देवद्रव्यविशिष्टस्य विधानादेकवाक्यता ॥ १,४.२० ॥ दर्शपूर्णमासयोः श्रूयते "यदाग्नेयोऽष्टाकपालोऽमावास्यायाम्, पौर्णमास्यां चाच्युतो भवति"इति । तत्र यथाग्निहोत्रशब्दःऽ अग्नये होत्रमत्रऽ इत्यमुपर्थे निमित्तीकृत्य कर्मनामधेयम्, तथाऽग्नेयशब्दोऽग्निसंबन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेत् । मैवम् । नामत्वे देवताराहित्यप्रसङ्गात् । अग्निहोत्रे तु"अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति"इत्यनेन वचनेन विहितो मन्त्रः प्रत्यक्षविहित इति मान्त्रवर्णिकी देवता लभ्यते । इह तु न तादृशो मन्त्रोऽस्ति । आग्नेयशब्दस्तु देवतां विधातुं शक्नोति । ऽ अग्निर्देवतास्यऽ इत्रयस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्यदेवतयोरुभयोर्गुणविधानाद्वाक्यभेद इति शङ्कनीयम् । कर्मणोऽप्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् । तस्मात् आग्नेयशब्देन देवतागुणो विधीयते ॥ १,४.१९२० ॥ ____________________________________________________ १,४.२१ अत्र गुरुपतमाह यदाग्नेय इति प्रोक्तं न मानं विध्यसंभवात् । इति चेन्न विशिष्टार्थविधौ सत्यप्रमा कुतः ॥ १,४.२१ ॥ उदाहृतवाक्ये देवताराहित्यप्रसङ्गेन नामत्वाभावाद्गुणयोर्विधौ वाक्कयभेदाञ्च विध्यसंभवादप्रामाण्यमिति पूर्वपक्षः । गुणद्वयविशिष्टकर्मविधिसंभवात्प्रामाण्यमिति सिद्धान्तः ॥ १,४.२१ ॥ ____________________________________________________ १,४.२२२३ (अष्टमे बर्हिरादिशब्दानां जातिवाचिताधिकरणे सूत्रम्) बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः । १,४.१० । अष्टमाधिकरणमारचयति वर्हिराज्यपुरोडाशशब्दाः संस्कारवाचिनः । जात्यर्था वा शास्त्ररूढेस्ते स्युः संस्कारवाचिनः ॥ १,४.२२ ॥ जातिं त्यक्त्वा न संस्कारे प्रयुक्ता लोकवेदयोः । विनापि संस्कृतिं लोके दृष्टत्वाज्जातिवाचिनः ॥ १,४.२३ ॥ दर्शपूर्णमासयोः श्रूयते "बर्हिर्लुनाति" "आज्यं विलापयति" "पुरोडाशं पर्याग्नि करोति" इति । अत्र बर्हिरादिशब्दानां शास्त्रे सर्वर्त्र संस्कृतेषु तृणादिषु प्रयोगात्, पील्वादिशब्देषु शास्त्रीयरूढिप्राबल्यस्योक्तत्वात्, यूपाहवनीयादिशब्दवत्संस्कारवाचिनो बर्हिरादिशब्दा इति चेत् । मैवम् । अन्वयव्यतिरेकाभ्यां जातिवाचित्वात् । यत्र यत्र बर्हिरादिशब्दप्रयोगः, तत्र तत्र जातिःऽ इत्यस्या व्याप्तेर्लोके वेदे च नास्ति व्यभिचारः । संस्कारव्याप्तेर्लौकिकप्रयोगे व्यभिचारो दृश्यते । क्वचिद्देशविशेषे लौकिकव्यवहारो जातिमात्रमुपजीव्य विना संस्कारं ते शब्दाः प्रयुज्यन्ते ऽ बर्हिरादाय गावो गताःऽ इति,ऽ क्तय्यमाज्यम्ऽ इति,ऽ पुरोडाशेन मे माता प्रहेलकं ददातिऽ इति च । तस्माज्जातिवाचिनः । प्रयोजनं तु"बर्हिषा यूपावटमवस्तृणाति"इत्यत्र विना संस्कारेण स्तरणसिद्धिः ॥ १,४.२२२३ ॥ ____________________________________________________ १,४.२४ अत्र गुरुमतमाह बर्हिरादौ निमित्तस्कय दुर्वचत्वान्न मेति चेत् । जातेस्तत्र निमित्तत्वात्तद्युक्ता चोदना प्रमा ॥ १,४.२४ ॥ स्पष्टोर्ऽथः ॥ १,४.२४ ॥ ____________________________________________________ १,४.२५२६ (नवमे प्रोक्षण्यादिशब्दानां यौगिकताधिकरणे सूत्रम्) प्रोक्षणीष्वर्थसंयोगात् । १,४.११ । नवमाधिकरणमारचयति प्रोक्षणीः संस्कृतिर्जातिर्योगो वा सर्वभूमिषु । तथोक्तेः संस्कृतिर्जातिः स्याद्रूढेः प्रबलत्वतः ॥ १,४.२५ ॥ अन्योन्याश्रयतो नाऽद्यो न जातिः कल्प्यशक्तितः । योगः स्यात्कॢप्तशक्तित्वात्कॢप्तर्व्याकरणाद्भवेत् ॥ १,४.२६ ॥ दर्शपूर्णमासयोः श्रूयते "प्रोक्षणीरासादय"इति । तत्र प्रोक्षणीशब्दस्याभिमन्त्रणासादमादिसंस्कृतिः प्रवृत्तिनिमितम् । कुतः सर्वेषु वैदिकप्रयोगप्रदेशेषु संस्कृतानामेवापां प्रोक्षणीशब्देनोच्यमानत्वादित्येकः पक्षः । लोके जलक्रीडायांऽ प्रोक्षणीभिरुद्वेजिताः स्मःऽ इत्यसंस्कृतास्वप्सु प्रयोगाद्वर्हिरादिशब्दवज्जातौ रूढत्वादुदकत्वजातिः प्रवृत्तिनिमित्तम् । न चऽ प्रकर्षेणोक्ष्यत आभिःऽ इति योगोऽत्र शङ्कनीयः । रूढेः प्रबलत्वादिति पक्षान्तरम् । तत्र न तावत्संस्कारो युक्तः । अन्योन्याश्रयत्वात् । विहितेष्वभिमन्त्रणादिषु संस्कारेष्वनुष्ठितेषु पश्चात्संस्कृतास्वप्सु प्रोक्षणीशब्दप्रवृत्तिः । तत्प्रवृत्तौ सत्यां प्रोक्षणीशब्देनापोऽमूद्याभिमन्त्रणसिद्धिरिति । नापि जातिपक्षो युक्तः । उदकजातौ प्रोक्षणी शब्दस्य वृद्धव्य वहारे पूर्वमकॢप्तत्वेनेतः परं शक्तेः कल्पनीयत्वात् । ततो गोशब्दवदश्वकर्णशब्दवच्च रूढो न भवति । योगस्तु व्याकरणेन कॢप्तः । सोपसर्गाद्धातोः करणे ल्युट्प्रत्ययेन व्युत्पादनात् । तस्मात् प्रोक्षणीशब्दो यौगिकः । घृतादेः प्रोक्षणत्वं प्रयोजनम् ॥ १,४.२५२६ ॥ ____________________________________________________ १,४.२७ (दशमे निर्मन्थ्यशब्दस्य यौगिकताधिकरणे सूत्रम्) तथा निर्मन्थ्ये । १,४.१२ । दशमाधिकरणमारचयति रूढिर्योगो योगरूढिर्वा निर्मन्थ्यस्य वर्तनम् । आद्यौ पूर्ववदन्त्त्योऽचिरजातेर्नावनीतवत् ॥ १,४.२७ ॥ अग्निचयने श्रूयते "निर्मन्थ्येनेष्टकाः पचन्ति"इति । तत्र निर्मन्थ्यशब्दस्य स्वार्थे कीदृशी वृत्तिः, इति संशये बर्हिरादिशब्दवल्लौकिकवैदिकसाधारण्यादूवह्निजातौ रूढिरित्येकः पक्षः । प्रोक्षणीशब्दवद्गूढेरकॢप्तत्वादरणिनिर्मन्थनजन्यसाच्च योग इति पक्षान्तरम् । लौकिकनिर्मन्थनेन चिरनिर्मन्थनेन च जन्यं वारयितुं योगरूढिः पङ्कजादिवदाश्रयणीया । आधानकाले निर्मथ्य गार्हपत्ये नित्यं धृतोऽग्निश्चिरनिर्मथितः । चयनकाले निर्मथ्योखासु धृतोऽग्निरचिरनिर्मथितः । सद्य एव लौकिकमथनेन जातोऽग्निरचिरनिर्मथितः । तेनेष्टकाः पच्यन्ते । यथा पुराणमूतमयोर्घृतयोर्नवनीतजन्यत्वे समानेऽपि योगरूढ्या नूतनमेवऽ नावनीतम्ऽ इति व्यवह्रियते तद्वत् ॥ १,४.२७ ॥ ____________________________________________________ १,४.२८३१ (एकादशे वैश्वदेवादिशब्दानां नामधेयताधिकरणे सूत्राणि १३ १६) वैश्वदेवे विकल्प इति चेत् । १,४.१३ । न वा प्रकरणात्प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य । १,४.१४ । मिथश्चानर्थसंबन्धः । १,४.१५ । परार्थत्वाद्गुणानाम् । १,४.१६ । एकादशाधिकरणमारचयति चातुर्मास्याद्यपर्वप्रोक्ताग्नेयाद्यष्टकान्तिके । वैश्वदेवेति शब्दोक्तो गुणः संघस्य नाम वा ॥ १,४.२८ ॥ नामत्वे रूपराहित्यादविधिर्गुणता सतः । अग्न्यादिभिर्विकल्प्यन्ते विश्वदेवास्तु सप्तसु ॥ १,४.२९ ॥ अनूद्याष्टौ यजेतेति तत्संघे नाम वर्णितम् । अविधित्वेऽप्यर्थवत्स्यान्नाम प्राक्प्रवणादिषु ॥ १,४.३० ॥ इज्यन्तेऽत्र यजन्ते वा विश्वे देवा इतीदृशी । निरुक्तिर्न विकल्पः स्यादुत्पत्त्युत्पन्नशिष्टतः ॥ १,४.३१ ॥ चातुर्मास्ययागस्य चत्वारि पर्वाणि वैश्वदेवः , वरुणप्रघासः , साकमेधः , शुनासारीयश्चेति । तेषु प्रथमे पर्वण्यष्टौ यागा विहिताः आग्नेयमष्टाकपालं निर्वपति, सौम्यं चरुम्, सावित्रं द्वादशकपालम्, सारस्वतं चरुम्, पौष्णं चरुम् , मारुतं सप्तकपालकम्, वैश्वदेवीमामिक्षाम्, द्यावापृथिव्यमेककपालम्, इति । तेषामष्ठानां यागानां संनिधाविदमाम्नायते "वैश्वदेवेन यजेत"इति । तत्राऽग्नेयादीन्यागान्ऽ यजेतऽ इत्यनूद्य वैश्वदेवशब्देन देवतारूपो गुणस्तेषु विधीयते । यद्यपि वैश्वदेव्यामिक्षायां विश्वे देवाः प्राप्ताः, तथाप्याग्नेयादिषु सप्तसु यागेष्वप्राप्तस्वाद्विधीयन्ते । तेष्वप्यग्न्यादिदेवताः सन्तीति चेत्, तर्हि गत्यभावात्तेषु देवता विकल्प्यन्ताम् । नामधेयत्वे तु नाममात्रस्याभिधेयत्वाद्द्रव्यदेवतयोरभावेन यागस्यात्र स्वरूपासंभवाच्छूयमाणो विधिरनर्थकः स्यात् तस्मात्ऽ गुणविधिःऽ इति प्राप्ते ऽ ब्रूमः उत्पत्तिवाक्यैर्विहितानाग्नेयादीनष्टौ यागान्ऽयजेतऽ इत्यनूद्याष्टानां संघे वैश्वदेवशब्दो नामत्वेनोपवर्ण्यते । न च विधित्वासंभवेऽपि नामोपदेशवैयर्थ्यम्,ऽप्राचीनप्रवणे वैश्वदेवेन यजेतऽ इत्यादिषु वैश्वदेवशब्देनैकेनैवाष्टानां संघस्य व्यवहर्तव्यत्वात् । नामप्रवृत्तिनिमित्तभूता निरुक्तिर्द्विधा आमिक्षायागे विश्वेषां देवानामिज्यमानतया तत्सहचरितार्थानां सर्वेषां छत्रिन्यायेन वैश्वदेवत्वम् । अथवाऽ विश्वे देवा अष्टानां कर्तारःऽ इति वैश्वदेवत्वम् । तथा च ब्राह्मणम् "यद्विश्वे देवाः समयजन्त, तद्वैश्वदेवस्य वैश्वदेवत्वम्"इति । देवताविकल्पस्तु समानबलत्वाभावान्न युज्यते । आग्न्यादय उत्पत्तिशिष्टत्वात्प्रबलाः, विश्वे देवा उत्पन्नशिष्टत्वाददुर्बलाः । तस्मात् वैश्वदेवशब्दः कर्मनामधेयम् ॥ १,४.२८३१ ॥ ____________________________________________________ १,४.३२ अत्र गुरुमतमाह गुणनामत्वसंदेहादप्रमा चोदनेति चेत् । नोक्तन्यायेन संघस्य नामधेयत्वनिर्णयात् ॥ १,४.३२ ॥ स्पष्टोर्ऽथः ॥ १,४.३२ ॥ ____________________________________________________ १,४.३३३५ (द्वादशे वैश्वानरेऽष्टत्वाद्यर्थवादताधिकरणे सूत्राणि १७ २२ ) पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये । १,४.१७ । गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्तास्ति । १,४.१८ । तच्छेषो नोपपद्यते । १,४.१९ । अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन् । १,४.२० । कारणं स्यादिति चेत् । १,४.२१ । आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयते । १,४.२२ । द्वादशाधिकरणमारचयति यद्द्वादशकपालेष्टेर्वैश्वानयामनन्तरम् । श्रुतमष्टाकपालादि तद्गुणो नाम वा स्तुतिः ॥ १,४.३३ ॥ अन्तर्भावादष्टतादेर्नाम स्यादग्निहोत्रवत् । द्रव्यं द्रव्यान्तरे नो चेद्गुणस्तर्हि फले त्वसौ ॥ १,४.३४ ॥ वाक्यैक्यमुपसंहाराद्विस्पष्टं तत्तु बाध्यते । नानागुणविधौ तस्मादंशद्वारांशिसंस्तुतिः ॥ १,४.३५ ॥ काम्येष्टिकाण्डे श्रूयते "वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते" "यदष्टाकपालो भवति गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति, यन्नवकपालस्त्रिवृतैवास्मिंस्तेजो दधाति, यद्दशकपालो विराजैवास्मिन्नन्नाद्यं दधाति, यदेकादशकपालस्त्रिष्टुमैवास्मिन्निन्द्रियं दधाति, यद्द्वादशकपालो जगत्यैवास्मिन्पशून्दधाति, यस्मिञ्जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रीयावी पशुमान्भवति"इति । अत्राष्टत्वादिसंख्यासामान्यात्पुरोडाशादीनां गायत्र्यादिरूपत्वकल्पना कृता । इष्टि विधायके वाक्ये येयं द्वादशसंख्या तस्यामष्टत्वादिसंख्यानामन्तर्भावात्ताः संख्या निमित्तीकृत्याग्निहोत्रशब्दवदष्टाकपालादिशब्दाः कर्मनामधेयानीत्येकः पक्षः । नात्र द्वादशकपालशब्दः संख्यापरः , किन्तु पुरोडोशद्रव्यपरः । ऽ द्वादशसु कपालेषु संस्कृतःऽ इति व्युत्पत्तेः । एवमष्टाकपालादिशब्दा अपि । तथा सति द्रव्यस्य द्रव्यान्तरेऽनन्तर्भावान्नामधेयस्य निमित्तं नास्तीति चेत्, एवं तर्हि पुरोडाशब्दव्यरूपो गुणो विधीयताम् । न चोत्पत्तिशिष्टद्वादशकपालपुरोडाशावरुद्धत्वादष्टकपालाद्रनवकाश इति वाच्यम् । ब्रह्मवर्चसादिफलाय तद्विध्युपपत्तेरित्यपरः पक्षः । अयमप्युपपन्नः । बहूनां गुणानां विधौ वाक्यभेदापत्तेः । न च भिन्नान्येवैतानि वाक्यानीति वाच्यम् । "वैश्वानरं द्वादशकपालं निर्वपेत्"इति विहितस्य"यस्मिञ्जात एताम्" इत्युपसंहारेण वाक्यैकत्वावगमात् । तस्मादंशैरष्टाकपालादिभिरंशी द्वादशकपालः स्तूयते ॥ १,४.३३३५ ॥ ____________________________________________________ १,४.३६ अत्र गुरुमतमाह अगुणत्वादनामत्वादमन्त्रत्वादनन्वये । अष्टत्वाद्यप्रमाणं चेन्नार्थवादतयान्वयात् ॥ १,४.३६ ॥ उक्तरीत्या गुणत्वं नामत्वं च न संभवति । उत्तमपुरुषामन्त्रणाद्यभावान्नमन्त्रत्वम् । अतोऽष्टाकपालदीनामनन्वयादप्रामाण्यं वाक्यस्येति चेत् । मैवम् । स्तावकत्वेनान्वयस्योक्तत्वात् ॥ १,४.३६ ॥ ____________________________________________________ १,४.३७३९ (त्रयोदशे यजमानशब्दस्य प्रस्तरादिस्तुत्यर्थत्वाधिकरणे सूत्रम्) तत्सिद्धिः । १,४.२३ । त्रयोदशाधिकरणमारचयति यजमानः प्रस्तरोऽत्र गुणो वा नाम वा स्तुतिः । सामानाधिकरण्येन स्यादेकस्यान्यनामता ॥ १,४.३७ ॥ गुणो वा यजमानोऽस्तु कार्ये प्रस्तरलक्षिते । अंशांशित्वाद्यभावेन पूर्ववन्नात्र संस्तुतिः ॥ १,४.३८ ॥ अर्थभेदादनामत्वं गुणश्वेत्प्रह्रियेत सः । यागसाधकताद्वारा विधेयप्रस्तरस्तुतिः ॥ १,४.३९ ॥ इदमाम्नायते "यजमानः प्रस्तरः"इति । तत्र यजमानस्य प्रस्तरशब्दो नामधेयम्, प्रस्तरस्य वा यजमानशब्दो नामधेयम् । कुतः ऽ उद्भिदा यानेनऽ इत्यादाविव सामानाधिकरण्यादित्येकः पक्षः । गुणविधिरित्यपरः पक्षः । तदापि यजमानकार्ये जपादौ प्रस्तरस्याचेतनस्य सामर्थ्याभावाद्गुणत्वं नास्ति । प्रस्तरकार्ये स्त्रुग्धारणादौ यजमानस्य शक्तत्वाद्यजमानरूपो गुणो विधीयते । एवं सति पश्चाच्छ्रुतस्य प्रस्तरशब्दस्य कार्यलक्षकत्वेऽपि प्रथमश्रुतो यजमानशब्दो मुख्यवृत्तिर्भवति । न चात्र पूर्वन्यायेन स्तुतिः संभवति । अष्टाकपालद्वादशकपालयोरिव प्रस्तरयजमानयोरंशांशित्वाभावात् । "वायुर्वै क्षेपिष्ठा देवता"ऊर्जोऽवरुध्यै"इत्यादिवत्स्तुतिरिति चेत् । न । क्षिप्रत्वादिधर्मवत्कस्यचिदुत्कर्षस्याप्रतीतेः । तस्मात्ऽ नामगुणयोरन्यतरत्वम्"इति प्राप्ते , ब्रूमः गोमहिषयोरिवार्थभेदस्यात्यन्तप्रसिद्धत्वान्नामत्वं न युक्तम् । गुणपक्षे तु अग्नौ प्रहरणस्य प्रस्तरकार्यत्वाद्यजमाने प्रहृते सति कर्मलोपः स्यात् । तस्मात् विधेयः प्रस्तरो यजमानशब्देन स्तूयते । यथाऽ सिंहो देवदत्तःऽ इत्यत्र सिंहगुणेन शौर्यादिनोपेतो देवदत्तः सिंहशब्देन स्तूयते, तथा यजमानगुणेन यागसाधनत्वेन युक्तः प्रस्तरो यजमानशब्देन स्तूयते । एवं"यजमान एककपालः"इत्यादिषु द्रष्टव्यम् ॥ १,४.३७३९ ॥ ____________________________________________________ १,४.४० (चतुर्दश आग्नेयादिशब्दानां ब्राह्मणादिस्तुत्यर्थताधिकरणे सूत्रम्) जातिः । १,४.२४ । चतुर्दशाधिकरणमारचयति आग्नेयो ब्राह्यणोऽत्रापि पूर्ववत्सर्वनिर्णयः । द्वारं तु मुखजन्यत्वसाग्नेयत्वेन संस्तवे ॥ १,४.४० ॥ इदमाम्नायते "आग्नेयो वै ब्राह्मणः"इति । अत्रात्यन्तप्रसिद्धार्थभेदादाग्नेयशब्दो न ब्राह्यणस्य नामधेयम् । नाप्यग्निदेवतारूपो गुणो विधीयते । ऽ आग्नेयं सूक्तम्"आग्नेयं हविः, इत्येवं देवतातद्धितस्य सूक्तहविर्विषयत्वात् । नहि ब्राह्मणः सूक्तम्, नापि हविः । अतः संबन्धवाचितद्धितान्ताग्नेयशब्देन ब्राह्मणः स्तूयते । यद्यपि ब्राह्मणे नाग्निसंबन्धः, तथाप्यग्निसंबन्धो मुखजन्यत्वगुणो ब्राह्मणे विद्यते । तथा चाग्निब्राह्मणयोर्मुखजन्यत्वं क्वचिदर्थवादे समाम्नायते "प्रजापतिरकामयत, प्रजाः सृजेत, इति । स मुखतस्त्रिवृतं निरमिमीत, तमग्निर्देवतान्वयुज्यत, गायत्री छन्दः, रथन्तरं साम, ब्राह्मणो मनुष्याणाम्, अजः पशूनाम्, तस्मात्ते मुख्या मुखतो ह्यसृज्यन्त"इति । तस्मात् आग्नेयशब्दः स्तावकः । एवम्"ऐन्द्रो राजन्यः" "वैश्यो वैश्वदेवः"इत्यादिषु द्रष्टव्यम् ॥ १,४.४० ॥ ____________________________________________________ १,४.४१ (पञ्चदशे यूपादिशब्दानां यजमानस्तुत्यर्थताधिकरणे सूत्रम्) सारूप्यात् । १,४.२५ । पञ्चदशाधिकरणमारचयति आदित्यो यूप इत्यत्र स्तुतिरादित्यशब्दतः । द्वारं चाक्षुषसारूप्यं घृताक्ते तैजसेऽस्ति तत् ॥ १,४.४१ ॥ आदित्ये यच्चक्षुर्गम्यं तेजस्वित्वं तद्यूपेऽप्यस्ति । घृताक्तस्य यूपस्य तेजस्वित्वाध्यवसायात् । ततः आदित्यशब्देन यूपः स्तूयते । एवं"यजमानो यूपः"इत्यत्र चक्षुर्गम्यस्योर्ध्वत्वस्य समानत्वाद्यजमानशब्देन यूपः स्तूयते ॥ १,४.४१ ॥ ____________________________________________________ १,४.४२४४ (षोडशेऽपश्वादिशब्दानां गवादिप्रशंसार्थत्वाधिकरणे सूत्रम्) प्रशंसा । १,४.२६ । षोडशाधिकरणमारचयति पशवोऽन्ये गवाश्वेभ्योऽपशवो वा इति श्रुतम् । अजादिष्वपशुत्वं यद्गुणो वादोऽथवास्तु तत् ॥ १,४.४२ ॥ स्तुत्यभावाद्गुणस्तेषु पशुकार्यनिषेधनम् । अशक्यत्वान्निषेधस्य घटाद्यर्थाभिधायिना ॥ १,४.४३ ॥ पशवोऽपशुशब्देन प्राशस्त्याभावसाम्यतः । लक्ष्यास्तत्र निमित्तं तु प्रशंसैव गवाश्वयोः ॥ १,४.४४ ॥ इदमाम्नायते "अपशवो वा अन्ये गोश्वेभ्यः, पशवो गोअश्वाः"इति । तत्राजादिषु श्रूयमाणं यदपशुत्वं तस्यार्थवादत्वं न संभवति । पशुत्वनिषेधमात्रेण स्तुतेरप्रतिभानात् । ततः पशुकार्यनिषेधरुमो गुणो विधीयत इति चेत् । मैवम् । अजादिपशुविधिवैयर्थ्थप्रसङ्गेन निषेद्धुमशक्यत्वात् । अपशुशब्दः पशुव्यतिरिक्तं घटादिपदार्थजातमभिदधाति । तस्मिन्घटादौ गवाश्ववत्प्राशस्त्यं नास्ति । सोऽयं प्राशस्त्याभावोऽजादिषु पशुष्वस्तीत्यनेनाभिप्रायेण पशव एव सन्तोऽप्यजादयो घटादिसाम्यादपशुशब्देन लक्ष्यन्ते । पूर्वत्र यजमानादिशब्दानां प्रस्तराद्यर्थेषु प्रवृत्तिनिमित्तम् । तत्प्रवृत्तिफलं प्रस्तरादिप्रशंसा । इह त्वपशुशब्दस्याजादिषु मवृत्तौ गवाश्वयोः प्रशंसैव निमित्तं फलं च । द्विप्रकारा प्रशंसा वस्तूनिविद्यमानगुणोत्कर्ष एकः प्रकारः । स्तावकेन शब्देन संपादितो गुणोत्कर्षोऽपरः प्रकारः । गवाश्वयोरजादिभ्य उत्कर्षो लोकसिद्धो यः सोऽत्र निमित्तम् । ऽ अजादयः स्वभावतः पशवोऽपि सन्तो गवाश्वौ प्रत्यपशवः संपन्नाः । ईदृशो गवाश्वयोर्महिमाऽ इति स्तुतिफलम् । तस्मात्"अपशवो वै"इत्ययमर्थवादः । अयमेव न्याय उदाहरणान्तरेऽपि योजनीयः"अयज्ञो वा एष योऽसाम"इत्येकमुदाहरणम् । "असत्रं वा एतद्यच्छन्दोगम्"इत्यपरमुदाहरणम् । "अग्निहोत्रदर्शपूर्णमासादिर्यज्ञोऽपि सामहीनत्वादयज्ञो भवति । ईदृशः साम्नो महिमा । छन्दोगशब्देन चतुर्विशः, चतुश्चत्वारिंशः, अष्टचत्वारिंश इत्येते त्रयः स्तोमा उच्यन्ते । अक्षरसंख्यासाम्येन गायत्रीत्रिष्टुब्जगरीछन्दोभिर्गीयमानत्वात् । तेषां च विष्टुतिः सामब्राह्मणे द्रष्टव्या । अतः सत्रमपि चतुर्दशरात्रादिकं छन्दोगरहितत्वादसत्रं भवति । ईदृशश्छन्दोगानां महिमा । इत्येवं स्तावकत्वादर्थवादत्वम् ॥ १,४.४२४४ ॥ ____________________________________________________ १,४.४५४८ (सप्तदशे भूमाधिकरणे बाहुल्येन सृष्टिव्यपदेशाधिकरणे सूत्रम्) भूमा । १,४.२७ । सप्तादशाधिकरणमारचयति सृष्टीरुपदधातीति ये मन्त्राः सृष्टिलिङ्गकाः । विधेयास्ते गुणत्वेन वादो वात्र गुणे विधिः ॥ १,४.४५ ॥ आख्यातेनाभिसंबन्धादविध्यन्तरयोगतः । लिङ्गप्रकरणप्राप्तेर्मन्त्राणां विध्यसंभवात् ॥ १,४.४६ ॥ ताननूद्येष्टकाधानं विदध्यात्स्तोष्यते यतः । यथासृष्टेत्यनेनातः सृष्टीरित्यर्थवादगीः ॥ १,४.४७ ॥ एकयास्तुवतेत्यादौ मन्त्रसंघे क्वचिन्नहि । सृष्टिशब्दस्तथाप्युक्तिः सृष्टिशब्देन भूमतः ॥ १,४.४८ ॥ अग्निचयने श्रूयते "सृष्टीरुपदधाति"इति । सृष्टिशब्दोपेता मन्त्रा यासामिष्टकानामुपधाने विद्यन्ते ता इष्टकाः सृष्टय उच्यन्ते । ऽ सृष्टिमानासामुपधानो मन्त्रःऽ इति विगृह्य"तद्वामासामुपधानः" [पा. सू. ४.४.१२५] इत्यादिव्याकरणसूत्रसिद्धप्रक्रियया तन्निष्पादनात् । सृष्टिशब्दोपेताश्चोपधानमन्त्राः"एकयास्तुवत"इत्यस्मिन्ननुवाके समाम्नाताः । "ब्रह्मासृज्यत, भूतान्यसृज्यन्त"इत्यादिना सृजतिधातोस्तेषु प्रयुक्तत्वात् । ते मन्त्रा अत्र सृष्टिशब्देनोपधाने गुणत्वेन विधीयन्ते । कुतःऽ उपदधातिऽ इत्यनेनाऽख्यातेनाभिसंबन्धात् । न चार्थवादत्वमस्य संभवति । विध्यन्तरेण सहैकवाक्यत्वाभावादिति प्राप्ते, ब्रूमः अग्निचयनप्रकरणे पठितत्वात्तेषां मन्त्राणां सामान्यतश्चयनसंबन्धोऽवगन्यते । विशेषसंबन्धः सृजतिलिङ्गादवगन्तव्यः । तथासति प्राप्तत्वान्न ते मन्त्रा अत्र विधीयन्ते, किन्तु तान्मन्त्राननूद्येष्टकोपधानं विधीयते । सृष्टिशब्देनानुवादस्तु वक्ष्यमाणार्थवादोपपत्त्यर्थः । "यथासृष्टमेवावरून्धे"इति हि वक्ष्यर्माणोर्ऽथवादः । यदि विधिवाक्ये मन्त्राणामनुवादकः सृष्टिशब्दो न स्यात्, तदानीमर्थवादे सृष्टिशब्दप्रयोगाद्विध्यर्थवादयोर्वैयधिकरण्यभ्रमः स्यात् । तस्मान्मन्त्रानुवादी सृष्टीशब्दो न गुणविधायकः , किन्त्वर्थवादः । ननु प्रथममन्त्रे सृजतिधातुर्न प्रयुक्तः , किन्तु दधातिधातुः प्रयुक्तः । "एकयास्तुवत" "प्रजाअधीयन्त"इति तत्पाठात् । बाढम् । तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजतिधातुप्रयोगाद्धूमरूपं सादृश्यमस्ति । यत्र सर्वाणि वाक्यानि सृष्टिशब्दोपेतानि तत्र यथा सृष्टिशब्दप्रयोगः ॥ १,४.४५४८ ॥ ____________________________________________________ १,४.४९ (अष्टादशे लिङ्गसमवायन्याये (प्राणभृदादिशब्दानां स्तुत्यर्थत्वाधिकरणे ) सूत्रम्) लिङ्गसमवायात् । १,४.२८ । अष्टादशाधिकरणमारचयति सृष्टिवत्प्राणभृत्तत्र सादृश्यं लिङ्गभूमतः । अत्रैकमन्त्रगो लिङ्गसमवायो विशिष्यते ॥ १,४.४९ ॥ "प्राणभृत उपदधाति"इत्यत्रापि सृष्टिन्यायेन मन्त्रविधिरिति पूर्वपक्षः । लिङ्गप्रकरणप्राप्तमन्त्रानुवादेनेष्टकोपधानविधिः । "एतस्यैव प्राणान्दधाति"इत्यस्य वक्ष्यमाणार्थवादस्योपपत्तये प्राणभृच्छब्देन मन्त्रानुवादः । पूर्वत्र द्वितीया दिमन्त्रेषु सृष्टिलिङ्गानां बाहुल्यम् । इह तु प्रथममन्त्र एव प्राणभृल्लिङ्गमाम्नायते "अयं पुरोभुवस्तस्य प्राणो भौवायनः"इति । एकस्यैव मन्त्रस्य प्राणभृत्त्वेऽपिऽ छत्रिणो गच्छन्तिऽ इतिवत्तत्सहचरिताः सर्वे मन्त्राः प्राणभृच्छब्देन लक्ष्यन्ते । तदेवं यजमानकार्यसिद्ध्यादयो गुणवृत्तिहेतवो निर्णीताः । तथा चोक्तम् "तत्सिद्धिजातिसारूप्यप्रशंसालिङ्गभूमभिः । षड्भिः सर्वत्र शब्दानां गौणी वृत्तिः प्रकल्पिता" ॥ इति । ॥ १,४.४९ ॥ ____________________________________________________ १,४.५०५३ (एकोनविंशे वाक्यशेषेण संदिग्धार्थनिरूपणाधिकरणे सूत्रम्) संदिग्धेषु वाक्यशेषात् । १,४.२९ । एकोनविंशाधिकरणमारचयति शर्करा उपधत्तेऽक्तास्तेजो वै घृतमत्र किम् । तैलादिनाञ्जिता अक्ता घृतेनैवाथवाञ्जनम् ॥ १,४.५० ॥ तैलादिनापि मुख्यत्वादसंजातविरोधनात् । अप्राप्तार्थत्वतश्चास्य विधेर्वादाद्बलित्वतः ॥ १,४.५१ ॥ सामान्यमननुष्ठेयं विशेषस्तु विधौ नहि । घृतेनैवाञ्जनं वाक्यशेषात्संदिग्धनिर्णयात् ॥ १,४.५२ ॥ अर्थवादगता चेयं स्तुतिर्घृतमुपेयुषी । बोधयन्ती विधेयत्वं घृतस्य गमयेद्विधिम् ॥ १,४.५३ ॥ "अक्ताः शर्करा उपदधाति" "तेजो वै घृतम्"इति श्रूयते । मृत्तिकामिश्राः क्षुदापाषाणाः शर्कराः । ताश्च घृततैलवसादीनामन्यतमेन द्रव्येणाञ्जनीयाः । कुतः । अञ्जनसामान्यबोधकस्य विधिवाक्यस्य घृतविशेषबोधकादर्थबादात्प्रबलत्वात् । तत्प्राबल्ये च मुख्यत्वादयस्त्रयो हेतवः । स्वार्थतया विधेर्मुख्यत्वम् , प्रथमश्रुतत्वाच्चासंजातविरोधित्वम् , अनधिगतार्थबोधकत्वादप्राप्तार्थत्वम्, अर्थवादस्तु विधिस्तावकत्वान्न मुख्यः, चरमश्रुतत्वात्संजातविरोधी, ज्ञातार्थानुवादित्वात्प्राप्तार्थः । तस्मात्ऽ येन केनाप्यञ्जनम्ऽ इति प्राप्ते, ब्रूमः विधिवाक्येन किमञ्जनसाधनसामान्यं विधीयते, तद्विशेषो वा । नाऽद्यः । सामान्यस्याननुष्ठेयत्वात् । न द्वितीयः । घृततैलादिविशेषवाचकशब्दाभावात् । तत उक्तरीत्या प्रबलमपि विधिवाक्यमनुष्ठानयोग्ये विशेषे संदेहजनकतया निर्णयहेतुमर्थवादमपेक्षते, न तु तेन सह विरुध्यते । अर्थवादेऽपि घृतस्य विधिर्नास्तीति चेत् । न । विधेरुन्नेयत्वात् । ऽ तेजो वै घृतम्ऽ इत्येवं तेजस्त्वेन घृतस्य स्तूयमानत्वाद्विधेयत्वं गम्यते । "स्तूयते स विधीयते"इति न्यायात् । तेन च विधेयत्वेन विधायकः शब्दः कल्प्यते घृतेनाक्ता इति । तस्मात् घृतेनैवाञ्जनम् ॥ १,४.५०५३ ॥ ____________________________________________________ १,४.५४५५ (विंशे सामर्थ्येनाव्यवस्थितानां व्यवस्थाधिकरणे सूत्रम्) अर्थाद्वा कल्पनैकदेशत्वात् । १,४.३० । विंशाधिकरणमारचयति स्त्रुवेणाथ स्वधितिना हस्तेनावद्यतीत्यमी । आज्ये मांसे पुरोडाशे संकीर्णा वा व्यवस्थिताः ॥ १,४.५४ ॥ व्यवस्थापकराहित्यात्स्त्रूवाद्या अव्यवस्थिताः । व्यवस्थापकताशक्तेस्तद्वशेन व्यवस्थितिः ॥ १,४.५५ ॥ "स्त्रुवेणावद्यति" "स्वधितिनाद्यति" "हस्तेनावद्यति"इति श्रूयते । तत्रावदेयेष्वाज्यमांसपुरोडाशेषु हविःष्वमी स्त्रुवाद्या अवदानहेतवः संकीर्णाः । कुतः । व्यवस्थापकस्य शब्दस्याभावादिति चेत् । मैवम् । शक्तेर्व्यवस्थापकत्वात् । "आख्यातानामर्थे ब्रुवतां शक्तिः सहकारिणी" इति न्यायात् । ऽ कटे भुङ्क्ते"कांस्यपात्र्यां भुङ्क्तेऽ इत्यत्र लौकिकास्तत्तद्वस्तुशक्त्यनुसारेण व्यवस्थां कल्पयन्तिऽ कट आसीनः ,ऽ कांस्यपात्र्यामोदनं निधायऽ इति । वेदेऽपि "अञ्जलिना सक्तून्प्रदाय जुहुयात्"इत्यत्र यद्यपि द्विहस्तसंयोगोऽञ्जलिः, तथापि गुरुदेवतादिप्रसादनार्थाञ्जलिवन्निश्छिद्रसंयोगो न भवति । तादृशेऽञ्जलौ सक्तूनामवकाशाभावात् । अतः सापर्थ्यात्संयुक्तप्रसृतिद्वयात्मको मध्यगतावकाशोपेतोऽञ्जलिर्गृहीतः । एवमत्रापि द्रवद्रव्यस्याऽज्यस्य स्त्रुवो योग्यः, छेदनीयमांसस्य शस्त्रविशेषः स्वधितिः । संहतस्य पुरोडाशस्य हस्तः, इत्येनेन प्रकारेण स्त्रुवाद्या व्यवस्थिताः ॥ १,४.५४५५ ॥ इति श्री माधवीये जैमिनीयन्यायमालाविस्तरे प्रथमाधायायस्य चतुर्थः पादः समाप्तश्च प्रथमोऽध्यायः श्रीः अथ द्वितीयोऽध्यायः । (तत्र प्रथमः पादः) ____________________________________________________ २,१.१ प्रमाणमुपजीव्यत्वात्प्रथमेऽध्याय ईरितम् । मानाधीनस्य धर्मस्य द्बितीये भेद उच्यते ॥ २,१.१ ॥ अनेन प्रथमद्वितीययोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ १ ॥ (प्रथमेऽपूर्वस्याऽख्यातप्रितिपाद्यत्वाधिकरणे सूत्राणि १ ४) भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेत एष ह्यर्थो विधीयते । २,१.१ । सर्वेषां भावोऽर्थ इति चेत् । २,१.२ । येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगै । २,१.३ । येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य । २,१.४ । ____________________________________________________ २,१.२३ द्वितीयाध्यायस्य प्रथमे पादे प्रथमाधिकरणे प्रथमं वर्णकमारचयति विधिवाक्ये पदैः सर्वैरपूर्वे प्रतिपाद्यते । प्रत्येकमथवैक्येन सर्वैस्तत्प्रतिपादनम् ॥ २,१.२ ॥ फलान्वयित्वात्सर्वेषां प्रधानान्वयलाभतः । लाघवादेकबोध्यत्वं तच्छेषस्तु पदान्तरम् ॥ २,१.३ ॥ विधिवाक्यमदृष्टार्थमखिलमत्रोदाहरणम । विधिवाक्ये यावन्ति पदानि सन्ति तानि सर्वाणि क्रियाकारकसंबन्धमनादृत्य प्रत्येकमपूर्वस्य प्रतिपादकानि । कुतः । अपूर्वस्य फलत्वेन सर्वेषां पदानां फलान्वयित्वात । अपूर्वप्रतिपादनाभावेऽपि क्रियाकारकयोः परस्परान्वयोऽस्त्येवेति चेत् । सत्यम् । तथापि प्रधानान्वयो लभ्येत । फलं हि प्रधानम् । पुरूषार्थतया साध्यमानत्वादिति प्राप्ते , ब्रूमः अपूर्वस्यान्त्यन्तमदृष्टत्वादेककल्पनयैव वाक्यस्योपपत्तावनेककल्पने गौरवं स्यात् । तस्मादेकमपूर्वमेकेन शब्देन प्रतिपाद्यते । पदान्तरं तु तच्छेषतयान्वेति । ननु यस्य पदस्यार्थोऽपूर्वस्य कल्पकस्तत्पदार्थस्य फलसाधनतया फलं प्रत्युपादेयत्वविधेयत्वगुणत्वान्यभ्युपगन्तव्यानि । तथा तस्यैव शेषभूतपदान्तरार्थे प्रत्युद्देश्यत्वानुवाद्यत्वप्रधानत्वानामपि प्राप्तत्वाद्विरुद्धत्रिकद्वयापत्तिरिति चेत् । मेवम् । "उद्भिदा यजेत पशुकामः" "श्येनेनाभिचरन्यजेत"इत्यादावुद्भिदादिशब्दानां नामत्वेनात्वये सति यागसाधनवाचित्वाभावेन यजतावुद्देश्यत्वादित्रिकापादकत्वाभावात् । तस्मादेकमेव पदमपूर्वप्रतिपादकम् । न च धर्मभेदचिन्तां प्रस्तुता परित्यज्य किमित्यपूर्वे चिन्त्यत इति वाच्यम् । अपूर्वस्यैव धर्मत्वात् ॥ २,१.२३ ॥ द्वितीयं वर्णकमारचयति ____________________________________________________ २,१.४७ द्रव्यादिशब्दतोऽपूर्वधीर्भावार्थपदादुत । द्रव्यादीनां फलार्थत्वात्तच्छब्देन ह्यपूर्वधीः ॥ २,१.४ ॥ क्रियाद्वारमृते द्रव्यं फलेन नहि युज्यते । भावनावाचिनोऽपूर्वमाख्यातादवगम्यते ॥ २,१.५ ॥ धात्वर्थव्यतिरेकेण भावना नेति चेन्न तत् । सर्वधात्वर्थसंबद्धः करोत्यर्थो हि भावना ॥ २,१.६ ॥ धात्वर्थः करणं तस्यां समानपदवर्णितः । द्रव्याद्युपकृतिर्दृष्टा धात्वर्थोत्पादनात्मिका ॥ २,१.७ ॥ इदमाम्नायते "सोमेन यजेत" "हिरण्यमात्रेयाय ददाति" "तस्मात्सुवर्णे हिरण्यं धार्यम्" "श्येनेनाभिचरन्यजेत" "चित्रया यजेत पशुकामः"इत्यादि । तत्र सोमहिरण्यशब्दौ द्रव्यवाचिनौ, सुवर्णशब्दो गुणवाची, श्येनचित्राशब्दौ कर्मवाचिनौ । तैरेतैर्द्रव्यादिशब्दैरपूर्वे प्रत्येति कुतः । द्रव्यादीनां सिद्धरूपाणां साध्यं फलं प्रति साधनत्वसंभवात् । यागदानादिरूपस्तु भावार्थः स्वयमपि फलवत्साध्यरूपत्वान्न साधनं भवितुमर्हप्ति । ततो द्रव्यादीनां फलं प्रति करणत्वाद्द्रव्यादिशब्दा अपूर्वप्रत्यायका इति प्राप्ते ब्रूमः क्रियां विना द्रव्याणि फलं साधयितुं न क्षमन्ते । पचिक्रीयामन्तरेण काष्ठस्थाल्यादीनामोदनसाधकत्वादर्शनात् । अतो भावनावाचिना यजति ददातीत्याख्यातेनापूर्वे प्रतीयते । ननु धात्वर्थ एव भावना, तदन्या वा । न तावद्धात्वर्थः । तस्य तां प्रति करणत्वोक्तेः । न द्वितीयः । धात्वर्थव्यतिरिक्तायाः क्रियायादुर्लक्ष्यत्वादिति चेत् । मैवम् । सर्वधात्वर्थसंबद्धस्य करोतिरूपस्य लक्षयितुं शक्यत्वात् । तदुक्तमाचार्यैः "धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते । तथापि सर्वसामान्यरूपेणैवावगम्यते"इति । अन्यैरप्युक्तम् "सिद्धसाध्यस्वभावाभ्यां धात्वर्थो द्विविधस्तयोः । अन्योत्पादानुकूलात्मा भावना साध्यरूपिणी"इति । ऽ पचतिऽ इत्युक्तेऽ पाकं करोत्रिऽ इत्येतमर्थे सर्वे जनाः प्रतियन्ति । तत्र पाकः, पक्तिः पचनम्, इत्येतैः शब्दैर्व्यवह्रियमाणो लिङ्गकारकसंख्यायोग्यो धात्वर्थः सिद्धस्वभावः । ऽ करोतिऽ इत्यनेन व्यवह्रियमाणो लिङ्गाद्यपेतः साध्यस्वभावद्योतनायाऽख्यातप्रत्ययविधिः । स चाऽख्यातप्रत्ययार्थ ओदनोत्पत्तेरनुकूलः । ततो भवितुरोदनस्य प्रयोजकव्यापारत्वाण्णिजन्तेन भावनाशब्देनोच्यते इति । अन्ये भावनापक्षा अयुक्ताः । प्रयत्नो भावनेति चेत् । न । ऽरथो गच्छतिऽ इत्यत्र तदभावप्रसङ्गात् । स्पन्द इति चेत् । न । मानसत्यागरूपे यजतावव्याप्तेः । उभयसाधारणमुदासीनत्वविच्छेदसामान्यं भावनेति चेत् । न । शब्दभावनायामव्याप्तिः न हि शब्दस्य विभोरचेतनस्य स्पन्दः प्रयत्नो वास्ति । लिङ् लेट् लोट्तव्यप्रत्ययमात्रगता शब्दभावना । सर्वाख्यातगतार्ऽथभावना । तदुक्तम् "अभिधां भावनामाहुरन्यामेव लिङ्ङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते"इति ॥ किंच स्पन्दादिवादिनोऽपि न स्वरूपेण स्पन्दादीनां भावनात्वमाहुः, किंत्वन्योत्पादानुकूलं स्वरूपम् । तस्मादस्मदुक्तैव भावना । यथाऽ पचति, इत्यत्रौदनफलोत्पत्त्यनुकूला, तथाऽयजतिऽ इत्यत्र स्वर्गादिफलोत्पत्त्यनुकूला । तस्यां च फलभावनायां प्रत्ययवाच्यायामेकपदोपात्तत्वेन प्रत्यासन्नत्वात्प्रकृत्यर्थः करणम् , न तु द्रव्यादि । तस्य पदान्तरोपात्तत्वेन विप्रकृष्टत्वात् । साध्यरूपोऽपि प्रकृत्यर्थः स्वसाधननिष्पादितः सञ्शक्नोति फलं साधयितुम् । द्रव्यादीनां तु प्रकृत्यर्थोत्पादनेन दृष्ट एवोपकारः । द्रव्यादिनिष्पादितेन धातुवाच्येन यागादिकरणेन स्वर्गादिफलोत्पत्तौ सत्यां येयमनुकूलव्यापारात्मा कृतिशब्दाभिधेया फलोत्पादना सेयं यज्यादिधातूनामन्यतमेव केनापि नाभिधीयते । सर्वधात्वर्थानुयायिस्वात् । अतो न भावनायाः प्रकृत्यर्थत्वमाशङ्कितुं शक्यम् । अस्तु तर्हि धात्वर्थसामान्यमेव भावनेति चेत् । न । प्रतिधात्वर्थे विलक्षणरूपत्वात् । अन्यद्धि पाकस्यौदनं प्रत्यानुकूल्यम् । अन्यच्च चलनस्य संयोगविभागौ प्रति । अन्यथा फलविभागानुपपत्तेः । भिन्नासु भावनाव्यक्तिषु भावनात्वसामान्यमनुवर्ततां नाम । नैतावताप्रकृत्यर्थसामान्यं तद्भवति । तस्माद्विशेषरूपात्सामान्यरूपाच्च यज्यादिधातुवाच्यादन्यैवाऽख्यातप्रत्ययवाच्या भावना । तथासतिऽयजेतऽ इत्यत्राऽख्यातस्यऽभावयेत्ऽ इत्यर्थो भवति । तत्रऽ किं भावयेत्, केन भावयेत्, कथं भावयेत्, इत्यकाङ्क्षायांऽ स्वर्गे भावयेत्ऽ यागेन भावयेम्, अग्न्यन्वाधानप्रयाजावघातादिभिरुपकारं संपाद्य भावयेत्, इत्येवं भाज्यकरणेतिकर्तव्यतासमर्पणेनाऽकाङ्क्षापूरणात्प्रकरणाम्नातः सकलः शब्दसंदर्भो भावनावाचिन आख्यातस्यैव प्रपञ्चः । भाव्याद्यंशत्रयवती सेयमार्थी भावनेत्युच्यते । सा सर्वापि शब्दभावनाया भाव्या, विधायको लिङ्ङादिः करणम् । अर्थवादसंपादिता स्तुतिरितिकर्तव्यता । सेयं शब्दभावना लिङ्ङादिभिरेव गम्यते । ऽ अर्थभावनां सर्वैराख्यातप्रत्यैयर्गम्यत इत्युक्तम् । तस्यां चार्थभावनायां स्वर्गस्य भाव्यत्वं कमियोगादवगम्यते । प्रकृत्यर्थस्य करणत्वं तृतीयाश्रुत्या । तथा च श्रूयते "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"ऽ चित्रया यजेत पशुकामःऽ इति । तच्च करणत्वमपूर्वकल्पनामन्तरेण न संभवतीत्यभिधास्यते । तस्मादाख्यातप्रत्ययान्ताद्भावार्थपदादपूर्वे गन्यते । चिन्ताप्रयोजनं तु ऽपूर्वपक्षे द्रव्याद्यपचारे प्रतिनिध्यभावः । सिद्धान्ते तु तत्सद्भावःऽ इति ॥ २,१.४७ ॥ (द्वितीयेऽपूर्वस्यास्तित्वाधिकरणे सूत्रम्) चोदना पुनरारम्भः । २,१.५ । ____________________________________________________ २,१.८१० द्वितीयाधिकरणमारचयति अपूर्वसदसद्भावसंशये सति नास्ति तत् । मानाभावात्फलं यागात्सिध्येच्छास्त्रप्रमाणतः ॥ २,१.८ ॥ क्षणिकस्य विनष्टस्य स्वर्गहेतुत्वकल्पनम् । विरुद्धं मान्तरेणातः श्रेयोऽपूर्वस्य कल्पनम् ॥ २,१.९ ॥ अवान्तरव्यापृतिर्वा शक्तिर्वा यागजोच्यते । अपूर्वमिति तद्भेदः प्रक्रियातोऽवगम्यताम् ॥ २,१.१० ॥ पूर्वाधिकरणे वर्णकाभ्यां यदिदमुक्तम् ऽअपूर्वस्यैकमेव पदं प्रत्यायकम्ऽ तच्चऽयजेतऽ इत्याख्यातान्तभावार्थपदम्, इति । तदनुपन्नम् । अपूर्वसद्भावेमानाभावात् । ऽ यजेतऽ इत्याभ्यां प्रकृतिप्रत्ययाभ्यां करणभावनयोरभिधानात् । अपूर्वाभावे कालान्तरभाविस्वर्गसाधनत्वं विनश्वरस्य यागस्यानुपपन्नमिति चेत् । न । शास्त्रप्रामाण्येन तदुपपत्तेरिति प्राप्ते ब्रूमःऽ दर्शपूर्णमासाभ्याम्ऽ इति तृतीयाश्रुत्या तावद्यागस्य स्वर्गसाधनत्वं प्रमितम् । तद्यथोपपद्यते तथावश्यं भवतापि कल्पनीयम् । तत्र किं यावत्फलं यागस्यावस्थानं कल्प्यते, किंवा विनष्टस्यापि स्वर्गोत्पादनम् । नाऽद्यः । यागे क्षणिकत्वस्य प्रत्यक्षसिद्धत्वात् । न द्वितीयः । मृतयोर्दंपत्योः पुत्रोत्पत्त्यदर्शनात् । अतो मानान्तरविरुद्धाद्भवदीयकल्पनादस्मदीयमविरूद्धमपूर्वकल्पनं ज्यायः । कल्पितेऽप्यपूर्वे तस्यैव स्वर्गसाधनत्वाद्यागस्य स्वर्गसाधनत्वश्रुतिर्विरूध्येतेति चेत् । न । ऽ यागावान्तरव्यापारोऽपूर्वम्ऽ इत्यङ्गीकारात् । न ह्युद्यमननिपतनयोरवान्तरव्यापारयोः सत्त्वे कुठारस्य साधनत्वमपैति । यदि व्यापारवतो यागस्य नाशे व्यापारे न तिष्ठेत्तर्हि यागजन्या काचिच्छक्तिरपूर्वमस्तु । शक्तिव्यवधानेऽपि यागस्य साधनत्वमविरूद्धम् । औष्ण्यव्यवहितेऽप्यग्नौ दाहकत्वाङ्गीकारात् । यथाङ्गारजन्यमौष्ण्यं शान्तेष्यप्यङ्गारेषु जलेऽनुवर्तते, तथा यागजन्यमपूर्वे नष्टेऽपि यागे कर्र्तयात्मन्यवनुवर्तताम् । तस्मादस्त्यर्पूवम् । तद्विशेषस्तु संप्रदायसिद्धयागप्रक्रिययावगन्तव्यः । तथा हि प्रक्रिया पूर्वाचार्यैरित्थं दर्शिता "प्रथमं तावत्फलवाक्येन कर्मणः फलसाधनता बोद्यते ऽ यागेन स्वर्गे कुर्यात्ऽ इति । ऽकथं विनश्वरेण फलं कर्तव्यम्ऽ इत्यपेक्षायाम्ऽ अपूर्वे कृत्वाऽ इत्युच्यते । ऽ कथमपूर्वे क्रियतेऽ इत्यपेक्षायांऽ यागानुष्ठानप्रकारेणऽ इति । तच्चापूर्वे दर्शपूर्णमासयोरनेकविधम् फलापूर्वम् । समुदायापूर्वं ष उत्पत्त्यपूर्वम्, अङ्गापूर्वे चेति । येन स्वर्ग आरभ्यते तत्फलापूर्वम् । अमावास्यायां त्रयाणां यागानामेकः समुदायः, पौर्णमास्यामपरः, तयोर्भिन्नकालवर्तिनोः संहत्य फलापूर्वारम्भायोगात्तदारम्भाय समुदायद्वयजन्यमपूर्वद्वयं कल्पनीयम् । तयोरेकैकस्याऽ रम्भायैकैकसमुदायवर्तिनां त्रयाणां यागामां भिन्नक्षणवर्तित्वेन संघातापत्त्यभावाद्यागत्रयणन्यानि त्रीण्युत्पत्त्यपूर्वाणि कल्पनीयानि । तेषां चाङ्गेपकारमन्तरेणानिष्पत्तेरङ्गानां चानेकक्षणवर्तिनां संघातासंभवादङ्गापूर्वाणि कल्पनीयानि । तत्र त्वयं विभागः संविपत्योपकारकाण्यवघातादीनि द्रव्यदेवतासंस्कारद्वारेण यागस्वरूपस्यैवातिशयाधानेन तदत्पत्त्यपूर्वनिष्पत्तौ व्याप्रियन्ते । तद्द्वारेण फलापूर्वे । आरादुपकारकाणि तु प्रयाजादीन्युत्पत्त्युपूर्वेभ्यः फलापूर्वनिष्पत्तौ साक्षादेव व्याप्रियन्ते । एवं प्रकारभेदे सत्यपि सर्वाण्यङ्गान्यपूर्वनिष्पत्तावनुग्राहकाणि इत्येकरूपेणेत्थंभावेन स्वी क्रियन्ते । अनयैव दिशा सर्वत्रापूर्वप्रक्रियावगन्तव्या ॥ २,१.८१० ॥ ____________________________________________________ २,१.१११२ अत्र गुरुमतमाह यागक्रिया सूक्ष्मरूपा परमाण्वात्मसंश्रिता । यावत्फलं नियोगाख्यं नापूर्वमिति चेन्न तत् ॥ २,१.११ ॥ मानहीनं क्रियासौक्ष्म्यं नियोगस्तु लिङादिना । अभिधेयः पृथग्यागादपूर्वे कार्यमस्त्यतः ॥ २,१.१२ ॥ गुरुणा यन्नियोगाख्यमपूर्वमभिप्रेयते तन्नास्ति । कुतः । अन्तरेणैव तदपूर्वे फलनिष्पत्तेः । न च यागनाशात्कथं फलसिद्धिरिति वाच्यम् । न हि यागक्रिया सर्वात्मना नश्यति, किंतु सूक्ष्मरूषत्वेनादृश्या सती स्वर्गदेहारम्भकेषु यागसंबन्धिद्रव्यगतपरमाणुषु यागकर्र्तयात्मनि वावस्थाय फलमारभत इति पूर्वपक्षः । नैतद्युक्तम् । उक्तेर्ऽथे प्रमाणाभावात् । न च नियोगेऽपि प्रमाणाभावः शङ्कनीयः । वैदिकलिङादीनां तदभिधायकत्वात् । ततो धात्वर्थातिरिक्तं कालान्तरभाव्यकाम्यफलसाधनमपूर्वमत्वित ॥ २,१.१११२ ॥ (तृतीये कर्मणां गुणप्रधानभावविभागाधिकरणे सूत्राणि ६ ८) तानि द्वैधं गुणप्रधानभूतानि । २,१.६ । यैर्द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् । २,१.७ । यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् । २,१.८ । ____________________________________________________ २,१.१३१४ तृतीयाधिकरणमारचयति अवघातादिनापूर्वमुत्पाद्यं विद्यते न वा । यजत्यादिवदस्त्येव वाक्यवैयर्थ्यमन्यथा ॥ २,१.१३ ॥ दृष्टे तुषविमोके तु नापूर्वे द्रव्यतन्त्रतः । स्याद्यजत्यादिवैषम्यं नियमापूर्वकृद्वचः ॥ २,१.१४ ॥ दर्शपूर्णमासयोः श्रूयते "व्रीहीनवहन्ति" "तण्डुलान्पिनष्टि"इति । तत्र अक्धातपेषणे अपूर्वजनके, विहितधात्वर्थत्वात्, यजत्यादिघात्वर्थवत्ऽ । विपक्षे विधिवाक्यवैयर्थ्यरूपो बाधकस्तर्कोऽवगन्तव्यः । तुषविमोकचूर्णत्वयोर्दृष्टप्रयोजनयोर्लोकसिद्धत्वेन तादर्थ्येऽवघातपेषणयोर्विधिर्र्व्यथः स्यात् । तस्मात् अस्त्यपूर्वमिति प्राप्ते, ब्रूमः दृष्टफले संभवत्यपूर्वे न कल्पनीयम् । यजत्यादिदृष्टान्तस्तु विषमः । तत्र हि क्रियाप्राधान्येन द्रव्यपारतन्त्र्याभावादपूर्वसाधनत्वं क्रियाया युक्तम् । इह तुऽ व्रीहीन्ऽ इति कर्मकारकविभक्त्या व्रीहीणामीप्सिततमत्वेन प्राधान्यावगमाद्द्रव्यपरतन्त्रोऽवघातो द्रव्य एवातिशयं कुर्यात्, न त्वपूर्वे जनयति । न च विधिवैयर्थ्यम् । नखनिर्भेदनादिना तुषविमोकसंभवेऽपिऽअवघातेनैवासौ कर्तव्यःऽ इति यो नियमस्तस्य नियमस्यापूर्वहेतुत्वेन विधेयत्वात् । तस्मान्नास्त्यववातादिजन्यमपूर्नम् ॥ २,१.१३१४ ॥ अत्र गुरुमतमाह ____________________________________________________ २,१.१५ द्वितीयां सक्तुवद्भङ्क्त्वा नियोगेऽन्वयितां क्रीया । साक्षादिति न मन्तव्यं दृष्टस्यात्रोपपत्तितः ॥ २,१.१५ ॥ "सक्तूञ्जुहोति"इत्यत्र द्रव्यप्राधान्यं परित्यज्य द्वितीयाया भङ्गं कृत्वा क्रियाप्राधान्याय"सक्तुभिर्जुहोति"इति तृतीयात्वेन विपरिणामो वक्ष्यते । तथा"व्रीहिभिरवहन्ति"इति विपरिणामेन प्रधानभूता क्रिया द्रव्यव्यवधानमन्तरेण साक्षादेव नियोगेऽन्वेतव्येति चेत् । मैवम् । वैषम्यात् । तत्र"होमेन सक्तुषु संस्कारो न भवति"भस्मीभूतानामन्यत्र विनियोगासंभवात्, इत्यभिप्रेत्य संस्कारकर्मत्वं परित्यक्तम् । इह दृष्टस्तुषविमाकेसंस्कार उपपद्यते । वितुषाणां तेषां पुरोडाशे विनियोगसंभवात् ॥ २,१.१५ ॥ (चतुर्थे संमार्जनादीनामप्रधानताधिकरणे सूत्राणि ९ १२) धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत् । २,१.९ । तुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यात् । २,१.१० । द्रव्योपदेश इति चेत् । २,१.११ । न तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात् । २,१.१२ । ____________________________________________________ २,१.१६१७ चतुर्थाधिकरणमारचयति संमार्ष्ट स्त्रुच इत्यत्र किं प्रधानाख्यकर्मता । गुणकर्मत्वमथवा दृष्टाभावेऽवघातवत् ॥ २,१.१६ ॥ गुणत्वं नहि संभाव्यं प्राधान्यं तु प्रयाजवत् । अदृष्टकल्पनेनापि गुणत्वं स्याद्द्वितीयया ॥ २,१.१७ ॥ दर्शपूर्णमासयोर्जुह्वादीनां दर्भैः संमार्जनमाम्नातम् "स्त्रुचः संमार्ष्टि"इति । तत्र संमार्जनं प्रधानकर्म । कुतः । गुणकर्मलक्षणरहितत्वात्, प्रधानकर्मलक्षणयुक्तत्वाच्च । सूत्रकारो हि कर्मणां राशिद्वयं प्रतिज्ञाय तयोर्लक्षणं पृथक्सूत्रयामास"तानि द्वैधं गुणप्रधानभूतानि""यैस्तु द्रव्यं चिकीर्ष्यते, गुणस्तत्र प्रतीयेत, तस्य द्रव्यप्रधानत्वात्""यैस्तु द्रव्यं न चिकीर्ष्यते, तानि प्रधानभूतानि, द्रव्यस्य गुणभूतत्वात्"च्च्पू.मी.सू. २ । १ । ६ ८ छ्तैति । यैः कर्मभिर्द्रव्यमुत्पादयितुं संस्कर्तु वेष्यते, तेषु कर्मसु गुणत्वम् । कुतः । तस्य कर्मणो द्रव्यप्रधानत्वात् । द्रव्यं प्रधानमस्य, इति बहुव्रीहिः । "यूपं तक्षति"आहवनीयमादघाति" इत्यादौ यूपाहवनीयादिद्रव्यमुत्पादयितुमिष्यते । "व्रीहीनवहन्ति" "तण्डुलान्पिनष्टि"इत्यादौ व्रीह्यादिद्रव्यं संस्कर्तुमिष्टम् । प्रयाजादिषूक्तवैपरीत्यात्प्रधानकर्मत्वम् । एवं सत्यवघातेन यथा व्रीहीणां तुषविमोको दृष्टः संस्कारः, तथा संमार्जनेन जुह्वादिषु कंचिदतिशयं न पश्यामः । अतोऽवघातवद्गुणकर्मत्वाभावात्प्रयाजादिवत्प्रधानकर्मत्वमिति प्राप्ते ब्रूमःऽस्त्रुचऽ इति द्वितीया कर्मकारके विहिता । कर्मत्वं चेप्सिततमत्वेसति भवति । "कर्तुरीप्सिततमं कर्म"च्च्पा.सू. १ । ४ । ४९ छ्तैति कर्मसंज्ञाविधानात् । क्रतुसाधनत्वेन च स्त्रुचां युक्तमीप्सिततमत्वम् । अतः प्रधानभूताः स्त्रुचः । तथासति संमार्जनक्रियाया गुणकर्मत्वमवघातवद्भविष्यति । यदि स्त्रुक्षुदृष्टोऽतिशयो न स्यात्, तर्ह्यपूर्वे कल्पनीयम् ॥ २,१.१६१७ ॥ (पञ्चमे स्तोत्रादिप्राधान्याधिकरणे सूत्राणि १३ २९) स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् । २,१.१३ । अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् । २,१.१४ । वशावद्वा गुणार्थं स्यात् । २,१.१५ । न श्रुतिसमवायित्वात् । २,१.१६ । व्यपदेशभेदाच्च । २,१.१७ । गुणश्चानर्थकः स्यात् । २,१.१८ । तथा याज्यापुरोरुचोः । २,१.१९ । वशायामर्थसमवायात् । २,१.२० । यत्रेति वार्थवत्त्वात्स्यात् । २,१.२१ । न त्वाम्नातेषु । २,१.२२ । दृश्यते । २,१.२३ । अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् । २,१.२४ । शब्दपृथक्त्वाच्च । २,१.२५ । अनर्थकं च तद्वचनम् । २,१.२६ । अन्यश्चार्थः प्रतीयते । २,१.२७ । अभिधानं च कर्मवत् । २,१.२८ । फलनिर्वृत्तिश्च । २,१.२९ । ____________________________________________________ २,१.१८१९ पञ्चमाधिकरणमारचयति प्रौगं शंसतीत्यादौ गुणतोत प्रधानता । दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ॥ २,१.१८ ॥ स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् । तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ॥ २,१.१९ ॥ ज्योतिष्टोमे श्रूयते "प्रौगं शंसति" "निष्केवल्यं शंसति" "आज्यैः स्तुवते" "पृष्टैः स्तुवते"प्रौगनिष्केवल्यशब्दौ शस्त्रविशेषनामनी । आज्यपृष्टशब्दौ तु व्याख्यातौ । अप्रगीतमन्त्रसाध्या स्तुतिः शस्त्रम् । प्रगीतमन्त्रसाध्यास्तुतिः स्तोत्रम् । तयोः स्तुतशस्त्रयोर्गुणकर्मत्वं युक्तम् । कुतः । तुषविमोकवद्दृष्टार्थलाभात् । षठ्यमानेषु मन्त्रेष्वनुस्मरणेन देवता संस्क्रियत इति प्राप्ते ब्रूमः स्तोतव्याया देवतायाः स्तावकैर्गुणैः संबन्धकीर्तनं स्तौतिशंसतिधात्वोर्वाच्योर्ऽथः । यदि मन्त्रवाक्यानि गुणसंबन्धाभिधानपराणि , तदा धात्वोर्मुख्यार्थलाभाच्छ्रतिरनुगृहीता भविष्यति । यदा तु गुणद्वारेणानुस्मरणीयदेवतास्वरूप प्रकाशनपराणि मन्त्रवाक्यानि स्युः, तदा धात्वोर्मुख्योर्ऽथो न स्यात् । लोके हिऽ देवदत्तश्चतुर्वेदाभिज्ञःऽ इत्युक्ते स्तुतिः प्रतीयते । तस्य वाक्यस्य गुणसंबन्धपरत्वाभावात् । यदा तु देवदत्तरूपपरताऽ यश्चतुर्वेदी तमानय, इत्यादौ, तत्र न स्तुतिप्रतीतिः । तस्य चतुर्वेदसंबन्धद्वारेण देवदत्तस्वरूपोपलक्षणपरत्वेन गुणसंबन्धपरत्वाभावात् । ततश्च ऽ आज्यैर्देवं प्रकाशयेत्,ऽ पृष्टैर्देवं प्रकाशयेत्, इत्येवं विध्यर्थपर्यवसानाद्धात्वोर्मुख्यार्थो बाध्येत । ततो धातुश्रुतिमबाधितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीति चेत् । तर्ह्यपूर्वमस्तु ॥ २,१.१८१९ ॥ (षष्ठे मन्त्राविधायकत्वाधिकरणे सूत्रे ३० ३१) विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् । २,१.३० । अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात् । २,१.३१ । ____________________________________________________ २,१.२०२१ षष्ठाधिकरणमारचयति देवांश्च याभिर्यजत इत्याख्यातं तु मन्त्रगम् । विधायकं न वान्येन समत्वात्तद्विधायकम् ॥ २,१.२० ॥ यच्छब्दादेः क्षीणशक्तिर्न विधिस्त्रिविधं ततः । आख्यातमभिधानं च प्रधानगुणकर्मणी ॥ २,१.२१ ॥ अयं मन्त्र आम्नायते "देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह"इति । अयमर्थः गोपतिर्यजमानो याभिर्गोभिर्देवान्यजते याश्च गा ब्राह्मणेभ्यो ददाति चिरमेव ताभिः सह परलोकेऽवतिष्ठते इति । तत्र यथा ब्राह्मणगतमाख्यातपदं प्रधानगुणकर्मणोरन्यन्तरस्य विधायकम्, तथा मन्त्रगतमपीति चेत् । मैवम् । यच्छब्दादिना विधिशक्तेः क्षीणत्वात् । सति हि यच्छब्दे तस्य वाक्यस्यानुवादकत्वं प्रतीयते, न तु विधायकत्वम् । ऽयच्छब्दादेःऽ इत्यादिशब्देनोत्तमपुरुषामन्त्रणादयः । ऽ बर्हिर्देवसदनं दामिऽ इत्युत्तमपुरूमः । ऽअग्नीदग्नीन्विहरऽ इत्यामन्त्रणम् । एवं ब्रह्मणेऽपि ऽ यस्योभयं हविरार्तिमार्च्छत्ऽ इत्युदाहरणीयम् । तस्मात्ऽ आख्यातस्य प्रधानकर्मविधायत्वं, गुणविधायकत्वं वाऽ इत्येवं द्वावेव प्रकारौ न भवतः, किंतु ऽ अभिधायकत्वम्ऽ इत्यप्यस्ति तृतीयः प्रकारः । ततो न मन्त्रगताख्यातस्य विधायकत्वम् ॥ २,१.२०२१ ॥ (सप्तमे मन्त्रनिर्वचनाधिकरणे सूत्रम्) तच्चोदकेषु मन्त्राख्या । २,१.३२ । ____________________________________________________ २,१.२२२३ सप्तमाधिकरणमारचयति अहे बुधिण्य मन्त्रं म इति मन्त्रस्य लक्षणम् । नास्त्यस्ति वास्य नास्त्येतदव्याप्त्यादेरवारणात् ॥ २,१.२२ ॥ याज्ञिकानां समाख्यानं लक्षणं दोषवर्जितम् । तेऽनुष्ठानस्मारकादौ मन्त्रशब्दं प्रयुञ्जते ॥ २,१.२३ ॥ आधान इदमाम्नायते "अहे बुधिण्य मन्त्रं मे गोपाय"इति । तत्र मन्त्रस्य लक्षणं नास्ति, अव्याप्त्यतिव्याप्त्योर्वारयितुमशक्यत्वात् । ऽविहितार्थाभिधाय को मन्त्रःऽ इत्युक्तेऽ वसन्ताय कपिञ्जलानालभेतऽ इत्यस्य मन्त्रस्य विधिरूपत्वादव्याप्तिः । ऽ मननहेतुर्मन्त्रःऽ इत्युक्ते ब्राह्मणेऽतिव्याप्तिः । एवम् ऽ असिपदान्तो मन्त्रः"उत्तमपुरुषान्तो मन्त्रःऽ इत्यादिलक्षणानां परस्परमव्याप्तिरिति चेत् । मैवम् । याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वात् । तच्च समाख्यानमनुष्ठानस्मारकादीनां मन्त्रत्वं गमयति । ऽ उरु प्रथस्वऽ इत्यादयोऽनुष्ठानस्मारकाः । ऽअग्निमीले पुरोहितम्ऽ इत्यादयः स्तुतिरूपाः । ऽइषे त्वाऽ इत्यादयस्त्वान्ताः । ऽअग्न आ याहि वीतयेऽ इत्यादय आमन्त्रणोपेताः । ऽ अग्नीदग्नीन्विहरऽ इत्यादयः प्रैषरूपाः । ऽ अधः स्विदासीदुपरि स्विदासीत्ऽ इत्यादयो विचाररूपाः । ऽ अम्बे अम्बिके अम्बालिके न मानयति कश्र्चनऽ इत्यादयः परिदेवनरूपाः । ऽ पृच्छामि त्वा परमन्तं पृथिव्याःऽ इत्यादयः प्रश्नरूपाः । ऽवेदिमाहुः परमन्तं पृथिव्याःऽ इत्यादय उत्तररूपाः । एवमन्यदप्युदाहर्तव्यर्म् । इदृशेष्वत्यन्तविजातीयेषु समाख्यानमन्तरेण नान्यः कश्चिदनुगतो धर्मोऽस्ति, यस्य लक्षणत्वमुच्येत । लक्षणस्योपयोगश्च पूर्वाचार्यैर्दर्शितः "ऋषयोऽपि पदार्थानां नान्तं यान्ति पृथक्त्वशः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः" ॥ इति । तस्मात् अभियुक्तानाम्ऽ मन्त्रोऽयम्ऽ इति समाख्यानं लक्षणम् ॥ २,१.२२ः२३ ॥ (अष्टमे ब्राह्मणनिर्वचनाधिकरणे सूत्रम्) शेषे ब्राह्मणशब्दः । २,१.३३ । ____________________________________________________ २,१.२४२५ अष्टमाधिकरणमारचयति नास्त्येतद्ब्रह्मणेत्यत्र लक्षणं विद्यतेऽथवा । नास्तीयन्तो वेदभागा इति कॢप्तेरभावतः ॥ २,१.२४ ॥ मन्त्रश्च ब्राह्मणं चेति द्वौ भागौ तेन मन्त्रतः । अन्यद्ब्राह्मणमित्येतद्भवेद्ब्राह्मणलक्षणम् ॥ २,१.२५ ॥ चातुर्मास्येष्विदमाम्नायते ऽ एतद्ब्राह्मणान्येव पञ्च हर्वीषिऽ इति । तत्र ब्राह्मणस्य लक्षणं नास्ति । कुतः । वेदभागानामियत्तानवधारणेन ब्राह्मणभागेष्वन्यभागेषु च लक्षणस्याव्याप्त्यतिव्याप्त्योः शोधयितुमशक्यत्वात् । पूर्वोक्तो मन्त्रभाग एकः । भागान्तराणि च कानिचित्पूर्वैरुदाहर्तु संगृहीतानि "हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परक्रिया पुराकल्पो व्यवधारणकल्फना । "इति । ऽ तेन ह्मन्नं क्रियतेऽ इति हेतुः । ऽ तद्दधणे दधित्वम्ऽ इति निर्वचनम् । ऽ अमाध्या वै माषाःऽ इति निन्दा । ऽवायुर्वै क्षेपिष्ठा देवताऽ इति प्रशंसा । ऽ तद्व्यचिकित्सज्जुहवानि , मा हौषम्ऽ इति संशयः । ऽ यजमानेन संमितौदुम्बरी भवतिऽ इति विधिः । ऽ भाषानेव मह्यं पचतऽ इति परकृतिः । ऽ पुरा ब्राह्मणा अभैषुःऽ इति पुराकल्पः । ऽ यावतोऽश्चान्प्रतिगृह्णीयात्, तावतो वारुणांश्चतुष्कपालन्निर्वपेत्ऽ इति विशेषावधारणकल्पना । एवमन्यदप्युदाहार्यम् । न चऽ हेत्वादीनामन्यतमं ब्राह्मणम्ऽइति लक्षणम् । मन्त्रेष्वपि हेत्वादिसद्भावात् । तथा हि ऽ इन्दवोवामुशन्ति हिऽ इति हेतुः । ऽ उदानिषुर्महीरीति तस्मादुदकमुच्यतेऽ इति निर्वचनम् । ऽमोघमन्नं विन्दते अप्रचेताःऽ इति निन्दा । ऽ अग्निर्मूर्धा दिवः ककुत्पतिःऽ इति प्रशंसा । ऽ अधः स्विदासीदुपरि स्विदासीत्ऽ इति संशयः । ऽ कपिञ्जलानालभेतऽ इति विधिः । ऽ सहस्त्रमंयुतं ददत्ऽ इति परकृतिः । ऽ यज्ञेन यज्ञमयजन्त देवाःऽ इति पुराकल्पः । ऽ इतिकरणबहुलं ब्राह्मणम्ऽ इति चेत् । न । ऽ इत्यददा इत्ययजथा इत्यपच इति ब्राह्मणो गायेत्ऽ इत्यस्मिन्ब्रह्मणेन गातव्ये मन्त्रे अतिव्याप्तेः । ऽ इत्याहेत्यनेन वाक्येनोपनिबद्धं ब्राह्मणम्ऽ इति चेत् । न । ऽ राजा चिद्यं भगं भक्षीत्याह"यो वा रक्षाः शुचिरस्मीत्याहऽ इत्यनयोर्मन्त्रयोरतिव्याप्तेः । ऽ आख्यायिकारूपं ब्राह्मणम्ऽ इति चेत् । न । यमयमीसंवादसूक्तादावतिव्याप्तेः । तस्मात्ऽ नास्ति ब्राह्मणस्य लक्षणम्ऽ इति प्राप्ते ब्रूमःऽ मन्त्रब्राह्मणरूपौ द्वावेव वेदभागौऽ इत्यङ्गीकारान्मन्त्रलक्षणस्य पूर्वमभिहितत्वात्ऽ अवशिष्टो वेदभागो ब्राह्मणम्ऽ इत्येतल्लक्षणं भवति इति ॥ २,१.२४२५ ॥ (नवम ऊहाद्यमन्त्रताधिकरणे सूत्रम्) अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः । २,१.३४ । ____________________________________________________ २,१.२६ नवमाधिकरणमारचयति ऊहप्रवरनाम्नां किं मन्त्रतास्त्यथवा न हि । मन्त्रास्तदेकवाक्यत्वान्न तल्लक्षणवर्जनात् ॥ २,१.२६ ॥ "अग्नये जुष्टं निर्वपामि"इत्यस्य सौर्ये चरौऽ सूर्याय जुष्टं निर्वपामिऽ इत्येवं पदान्तरप्रक्षेप ऊहः । ऽ अदीक्षिष्टायं ब्राह्मणःऽ इत्यस्य मन्त्रस्य शेषत्वेन प्रयोगकाले ब्राह्मणनामधेयविशेषं तदीयप्रवरं चैवं पठन्ति "असौ देवदत्तोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य नप्तामुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ताऽ इति । ऽ आङ्गिरसबार्हस्पत्यभारद्वाजगोत्रःऽ इति च । एतेषामूहप्रवरनामधेयानां मन्त्रत्वमस्ति । कुतः । मन्त्रेण सहैकवाक्यत्वादिति चेत् । मैवम् । याज्ञिकप्रसिद्धिरूपस्य मन्त्रलक्षणस्यैतेष्वभावात् । न ह्यध्येतार ऊहादीन्मन्त्रकाण्डेऽवीयते । तस्मात् नास्ति मन्त्रत्वम् ॥ २,१.२६ ॥ (दशम ऋग्लक्षणाधिकरणे सूत्रम्) तेषामृग्यत्रार्थवशेन पादव्यवस्था । २,१.३५ । (एकादशे सामलक्षणाधिकरणे सूत्रम्) गीतिषु समाख्या । २,१.३६ । (द्वादशे यजुर्लक्षणाधिकरणे सूत्रम्) शेषे यजुः शब्दाः । २,१.३७ । ____________________________________________________ २,१.२७ दशमैकादशद्वादशाधिकरणमारचयति नर्क्सामयजुषां लक्ष्म सांकर्यादिति शङ्किते । पादश्च गीतिः प्रश्लिष्टपाठ इत्यस्त्वसंकरः ॥ २,१.२७ ॥ इदमाम्नायते ऽ अहे बुधिण्य मन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः । ऋचः सामानि, यजूंषिऽ इति । "त्रीन्वेदान्विदन्ति"इति त्रिविदः, त्रिविदां संबन्धिनोऽध्येतारस्त्रैविदाः । ते च यं मन्त्रभागमृगादिरूपेण त्रिविधमाहुः, तं गोपाय, इति योजना । तत्र त्रिविधानामृक्समयजुषां व्यवस्थितं लक्षणं नास्ति । कुतः । सांकर्यस्य दुष्परिहरत्वात् । ऽअध्यापकप्रसिद्धेर्ह्यृग्वेदादिषु पठितो मन्त्र ऋगादिःऽ इति हि लक्षणं वक्तव्यम् । तच्च संकीर्णम् । ऽदेवो वः सवितोत्पूनात्वच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिःऽ इत्ययं मम्त्रो यजुर्वेदे संप्रतिपन्नयजुषां मध्ये पठितः । न च तस्य यजुष्ट्वमास्ति । तद्ब्राह्मणेऽ सावित्र्यर्चाऽ इत्यृक्त्वेन व्यवहृतत्वात् । ऽ एतत्साम गायन्नास्तेऽ इति प्रतिज्ञाय किंचित्साम यजुर्वेदे गीतम् । ऽ अक्षितमसि"अच्युतमसि"प्राणसंशितमसिऽ इति त्रीणि यजूंषि सामवेदे समाम्नातानि । तथा गीयमानस्य साम्ना आश्रयभूता ऋचः सामवेदे समाम्नायन्ते । तस्मात् नास्ति लक्षणम् इति चेत् । न । पादादीनामसंकीर्णलक्षणत्वात् । ऽ पादेनार्थेन चोपेता वृत्तबद्धामन्त्रा ऋचः । गीतिरूपा मन्त्राः सामानि । वृत्तगीतिवर्जितत्वेन प्रश्लिष्टपठिता मन्त्रा यजूंषिऽ इत्युक्ते न क्वापि संकरः ॥ २,१.२७ ॥ (त्रयोदशे निगदानां यजुष्ट्रवाधिकरणे सूत्राणि ३८ ४५) निगदो वा चतुर्थं स्याद्धर्मविशेषात् । २,१.३८ । व्यपदेशाच्च । २,१.३९ । यजूंषि वा तद्रूपत्वात् । २,१.४० । वचनाद्धर्मविशेषः । २,१.४१ । अर्थाच्च । २,१.४२ । गुणार्थो व्यपदेशः । २,१.४३ । सर्वेषामिति चेत् । २,१.४४ । न ऋग्व्यपदेशात् । २,१.४५ । ____________________________________________________ २,१.२८२९ त्रयोदशाधिकरणमारचयति प्रोक्षणीरासादयेति निगदस्त्रिविधाद्बहिः । यजुर्वोच्चैस्त्वधर्मस्य भेदादस्य चतुर्थता ॥ २,१.२८ ॥ परप्रत्यायनार्थत्वादुच्चैस्त्वं यजुरेव सः । तल्लक्षणेन युक्तत्वात्रैविध्यमिति सुस्थितम् ॥ २,१.२९ ॥ ऽ प्रोक्षणीरासादय"इध्मं बर्हिरुपसादय"अग्नीदग्नीन्विहर"बर्हिः स्तृणीहिऽऽइन्द्र आगच्छऽऽहरिव आगच्छऽ इत्यादयो निगदा आम्नाताः । परप्रत्यायनार्था मन्त्रा निगदः । एते च पूर्वोक्तेभ्य ऋग्यजुःसामभ्यो बहिर्भूताश्चतुर्थप्रकाराः । कुतः । पादगीत्कयोरृक्सामलक्षणयोरभावात् । प्रश्लिष्टपाठस्य यजुर्लक्षणस्य सत्त्वेऽपि धर्मभेदेन यजुष्यन्तर्भावानुपपत्तेः । ऽ उपांशुयजुषा"उच्चैर्निगदेनऽ इति हि धर्मभेदः इति प्राप्ते ब्रूमःऽ वहिर्ब्राह्मणा भोज्यन्ताम्"पिरव्राजकास्त्वन्तःऽ इत्यत्र सत्येव परिव्राजकानां ब्राह्मण्ये पूजानिमित्तो विशेषो यथा तथा निगदानां यजुर्लक्षणोपेतत्वेन यजुषामेव सतां परप्रत्यायननिमित्तमुच्चैस्त्वधर्मः । ततो मन्त्राणां त्रैविध्यं सुस्थितम् ॥ २,१.२८२९ ॥ (चतुर्दश एकवाक्यत्वलक्षणाधिकरणे सूत्रम्) अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात् । २,१.४६ । ____________________________________________________ २,१.३०३१ चतुर्दशाधिकरणमारचयति देवस्य त्वेति वाक्यस्य भिन्नत्वमथवैकता । ऐक्यप्रयोजकस्यात्र दुर्बोधत्वेन भिन्नता ॥ २,१.३० ॥ विभागे सति साकाङ्क्षस्यैकार्थत्वं प्रयोजकम् । तस्माद्वाक्यैक्यमेतेन यजुरन्तोऽवर्धायते ॥ २,१.३१ ॥ दर्शपूर्णमासयोराम्नायते "देवस्य त्वा सवितुः प्रसवे, अश्विनोर्बाहुभ्याम् , पूष्णो हस्ताभ्याम्, अग्नये जुष्टं र्निवपामि"इति । तत्र वाक्यानि भिन्नानि भवितुमर्हन्ति । कुतः । एकत्वनियामकस्य दुर्वोधत्वात् । अर्थैक्यं वाक्यैक्ये प्रयोजकमिति चेत् । न । एकस्मिन्पदेऽतिव्याप्तेः । पदसमूहस्य वाक्यत्वे, समूहानामत्र बहूनां संभवाद्वाक्यभेदः स्यात् इति चेत् । मैवम् । ऽ यद्विभागे साकाङ्क्षमविभागे चैकार्थम्, तदेकं वाक्यम्ऽ इति प्रयोजकस्य बोद्धुं शक्यत्वात् । ऽविभागे साकाङ्क्षम्ऽ इत्युक्तेऽतिव्याप्तिः स्यात् । "स्योनं ते सदनं कृणोमि घृतस्य धारया सुसेवं कल्पयामि, तस्मिन्सीदामृते प्रतितिठ व्रीहीणां मेध सुमनस्यमानः"इत्यत्रऽतस्मिन्ऽ इत्यादिपदसमूहस्य विभागे सति प्रकृतवाचितच्छब्दार्थनिर्णयाय पूर्वपदसमूहसाकाङ्कत्वमस्ति, अतस्तद्व्यवच्छेत्तुम्ऽएकार्थम्ऽ इत्युच्यते । नहि तत्रैकार्थत्वमस्ति । पूर्वसमूहस्य सदनकरणमर्थः, उत्तरसमूहस्य पुरोडाशप्रतिष्ठापनम् । स्योनं समीचीनम् । सुसेवं सुष्ठु सेवितुं योग्यम् । मेध सारभूतपुरोडाशेत्यर्थः । अत्र द्वयोः समृहयोर्वाक्यद्वयमुभयवादिसिद्धम् । तत्ऽ एकार्थम्ऽ इत्यनेन व्यावर्त्यते । ऽ एकार्थम्ऽ इत्युक्तेऽतिव्याप्तिः स्यात् । "भगो वां विभजतु, पूषा वां विभजतु"इत्यनयोर्विभजनमन्त्रत्वेन संमतयोः पदसमूबयोस्तात्पर्यविषयस्य द्रव्यविभागरूपस्यार्थस्यैकत्वात्, तद्रव्यवच्छेत्तुंऽ विभागे साकाङ्क्षम्ऽ इत्युक्तम् । प्रकृते तुऽ अग्नये जुष्टम्ऽ इत्यादिसमूहे पृथक्कृते पूर्वोऽ देवस्य त्वाऽइति समूहः साकाङ्क्षो भवति । एकीकृते तु कृत्स्नस्यैक एव निर्वापोर्ऽथः । एतेनैकवाक्यत्वनिर्णयेनानियतपरिमाणस्य यजुषोऽवसानं निश्चेतुं शक्यम् ॥ २,१.३०३१ ॥ (पञ्चदशे वाक्यभेदाधिकरणे सूत्रम्) समेषु वाक्यभेदः स्यात् । २,१.४७ । ____________________________________________________ २,१.३२३३ पञ्चदशाधिकरणमारचयति इषे त्वादिर्मन्त्र एको भिन्नो वैकः क्रियापदे । असत्यर्थास्मारकत्वादेकादृष्टस्य कल्पनात् ॥ २,१.३२ ॥ छेदने मार्जने चैतौ विनियुक्तौ क्रियापदे । अध्याहृते स्मारकत्वान्मन्त्रभेदोर्ऽथभेदतः ॥ २,१.३३ ॥ "इषे त्वोर्जे त्वा"इति श्रूयते । सोऽयं पदसमुदाय एको मन्त्रः । कुतः । अस्य मन्त्रस्यादृष्टत्वे त्वेकस्यैवादृष्टस्य कल्पने लाघवात् । न च"उरु प्रथस्व"इत्यादिमन्त्रवदनुष्ठेयार्थस्मारकत्वं संभवति । क्रियापदाभावेन तदर्थप्रतीत्यभावात् इति प्राप्ते, ब्रूमःऽ इषे त्वेति च्छिनत्ति, ऊर्जे त्वेत्यनुमार्ष्टिऽ इति पलाशशाखायाश्छेदनमार्जनयोरेतौ विनियुक्तौ । ततस्तदमनुसारेण"छिनद्मि"इति क्रियापदेऽध्याहृते सत्यनुष्ठेयार्थस्मारकत्वादर्थभेदेन वाक्यभेदाद्यजुर्मन्त्रभेदः । इष्यमाणायान्नाय भोः पलाशशाखे त्वा छिनद्मि"ऊर्जे रसाय बलाय वा त्वामनुमार्ज्मिऽ इत्यर्थभेदः । एवम्"आयुर्यज्ञेन कल्पताम्" "प्राणो यज्ञेन कल्पताम्"इत्यादौ कॢप्तिसामान्यरूपस्यार्थस्यैकत्वेऽप्यायुरादिभिर्भिन्नत्वादर्थभेदवाक्य भेदयोः स्पष्टत्वात्,ऽ कॢप्तीर्वाचयतिऽ इति कॢप्तिबहुत्वस्य चोदितत्वाच्च यजुर्भेदो द्रष्टव्यः ॥ २,१.३२३३ ॥ (षोडशे (सप्तदशे च) अनुषङ्गाधिकरणे सूत्रम्) अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् । २,१.४८ । ____________________________________________________ २,१.३४३५ षोडशाधिकरणमारचयति या ते अग्ने रजेत्यध्याहारो यद्वानुषञ्जनम् । तनूरित्यन्यशेषत्वादध्याहारोऽत्र लौकिकः ॥ २,१.३४ ॥ वेदाकाङ्क्षा पूरणीया वेदेनेत्यनुषञ्जनम् । अन्यशेषोऽपिर्बुद्धस्थो लौकिकस्तु न तादृशः ॥ २,१.३५ ॥ ज्योतिष्टोमे उपसद्धोमेष्वेवमाम्नायते "या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठा । उग्रं वचो अपावधीत्वेषं वचो अपावधीत्स्वाहा । या ते अग्ने रजाशया, या ते अग्ने हराशया"इति । अयमर्थःऽ अयसा रजतेन हिरण्ये न च निर्मिता अग्नेस्तिस्त्रस्तनवः, तास्वाद्या येयमुक्ता तनुः सातिशयेन वृद्धं, गह्वरे तीक्ष्णे द्रव्ये लोहेऽवस्थिता तया तन्वा क्षुत्पिपासे उपपातकम्, वीरहत्यादि महापतकं च हतवानस्मिऽ इति । तथा च ब्राह्मणम्,"यदुग्रं वचो अपावधीत्त्वेषं वचो अपावधीत्स्वाहेति । अशनायापिपासे हवा उग्रं वचः । एनश्च वैरहत्यं च त्वेषं वचः"इति । तत्र स्वाहान्तः प्रथमो मन्त्रः संपूर्णवाक्यत्वान्निशेषोऽध्याहर्तव्यः । न हिऽ तनूर्वर्षिष्ठाऽ इत्यादिभागस्तयोरन्वेतुं योग्यः । तस्य प्रथममन्त्रशेषत्वात्, इति प्राप्ते, ब्रूमः वैदिकयोर्मन्त्रयोराकाङ्क्षा वैदिकेनैव वाक्यशेषेण पूरणीया । ततःऽ तनूर्वर्षिष्ठाऽ इत्यादिभाग उत्तरयोर्मन्त्रयोरनुषज्यते । यद्यप्यसावन्यशेषः, तथापिर्बुद्धस्थः सन्कल्पनीयादध्याहारात्संनिकृष्यते । तस्मात् अनुषङ्गः कर्तव्यः ॥ २,१.३४३५ ॥ ____________________________________________________ २,१.३६३७ सप्तदशाधिकरणमारचयति नानुषङ्गोऽनुषङ्गो वाच्छिद्रोणोत्यस्य शेषिणौ । चित्पतिस्त्वेत्यनाकाङ्क्षावतो नात्रानुषज्यते ॥ २,१.३६ ॥ करणत्वं क्रियापेक्षं क्रिया चैका पुनात्विति । मन्त्रत्रयेऽतस्तद्द्वारा सर्वशेषोऽनुषज्यते ॥ २,१.३७ ॥ ज्योतिष्टोमे दीक्षाप्रकरणे पठ्यते "चित्पतिस्त्वा पुनातु" "वाक्पतिस्त्वा पुनातु" "देवस्त्वा सविता पुनात्वाच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः"इति । तत्र तृतीयमन्त्रशेषःऽ अच्छिद्रेणऽ इत्यादिभागः प्रथमद्वितीययोर्मन्त्रयोर्नानुषज्यते । कुतः । निराकाङ्क्षत्वात् । न हि"चित्पतिस्त्वा पुनातु""वाक्पतिस्त्वा पुनातु"इत्यनयोः शेषिणोः संपूर्णवाक्ययोः काचिच्छेषाकाङ्क्षास्ति इति प्राप्ते ब्रूमःऽ मा भूच्छेषिणोराकाङ्क्षा, तथापि शेषस्याऽकाङ्क्षास्तिऽ इति । ऽ पवित्रेण रश्मिभिःऽ इत्युक्तं करणत्वं हि क्रियामपेक्षते । क्रिया चऽ पुनातुऽ इत्येषा त्रिष्वपि मन्त्रेष्वेका । तया क्रियया संबद्धः शेषः क्रियाद्वारा तृतीयमन्त्रे निरपेक्षेऽपि यथान्वेति, तथा पूर्वयोरप्यन्वेतुमर्हति । तस्मात् अस्त्यनुषङ्गः ॥ २,१.३६३७ ॥ (अष्टादशे (सप्तदशे) व्यवेताननुषङ्गाधिकरणे सूत्रम्) व्यवायान्नानुषज्येत । २,१.४९ । ____________________________________________________ २,१.३८३९ अष्टादशा(सप्तदशा) धिकरणमारचयति गच्छतामितिशब्दस्यामुषङ्गोऽस्ति न वोपरि । सं यज्ञपतिरित्यत्र योग्यत्वात्सोऽस्ति पूर्वबत् ॥ २,१.३८ ॥ तदेकवचनं मध्यमन्त्रेऽङ्गानीत्यनेन हि । नान्वेति तद्व्यवायेन नोपर्यप्यनुषज्यते ॥ २,१.३९ ॥ अग्नीषोमीयपशौ श्रूयते "सं ते अप्राणो वातेन गच्छताम्, समङ्गानि यजत्रैः, सं यज्ञपतिराशिषा"इति । अयमर्थःऽ भोः पशो तव प्राणोऽ वातेन बाह्येन वायुना संगच्छताम्, तव हृदयाद्यङ्गानि यागविशेषैः संयुज्यन्ताम्, यज्ञपतिराशिषा संयुज्यताम्ऽ इति । तत्र"यज्ञपतिः"इत्यस्मिंस्तृतीये मन्त्रेऽसम्ऽ इत्युपसर्गस्य क्रियापदाकाङ्क्षत्वात्प्रथममन्त्रगतस्यऽ गच्छताम्ऽ इति पदस्यैकवचनान्तस्य यज्ञपतिशब्देनान्वेतुं योग्यत्वात्पूर्ववद्बुद्धिस्थत्वेन संनिहितत्वादाकाङ्क्षासंनिधियोग्यतानां सद्भावेन क्रियापदमनुषज्यते इति प्राप्ते , ब्रूमः मध्यममन्त्रे बहुवचनान्तेनऽ अङ्गानिऽ इत्यनेनान्वेतुमयोग्यत्वात्तद्व्यवायेन बुद्धिसंनिध्यभावान्नास्त्यनुषङ्गः । ततो द्वितीयतृतीयमन्त्रयोर्यथोचितं वाक्यशेषोऽध्याहर्तव्यः ॥ २,१.३८३९ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य प्रथमः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य द्वितीयः पादः) (प्रथमेऽङ्गापूर्वभेदाधिकरणे सूत्रम्) शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । २,२.१ । ____________________________________________________ २,२.१२ द्वितीयपादस्य प्रथमाधिकरणमाचरयति ददाति यजतीत्यादौ भावनैक्यमुतान्यता । आख्यातैक्यात्तदेकत्वं धातुभेदोऽप्रयोजकः ॥ २,२.१ ॥ धातुभेदेन भिन्नत्वमाख्याते श्रूयते ततः । उत्पत्त्येकानुरक्तत्वाद्भिद्यन्ते भावना मिथः ॥ २,२.२ ॥ इहैकप्रकरणगतान्यपर्यायधातुनिष्पन्नान्याख्यातानि यजति, ददाति, जुहोति, इत्यादीन्युदाहरणम् । तानि चैवं श्रूयते "सोमेन यजेत""हिरण्यमात्रेयाय ददाति" "दाक्षिणानि जुहोति"इति । तेषु भावनावाचिन आख्यातस्यैकत्वाद्भावनाया एकत्वं युक्तम् । न च धातुभेदाद्भावनाभेदः । तद्वाचित्वाभावेन धातोस्तस्यामप्रयोजकत्वात् इति प्राप्ते , ब्रूमः अस्त्वाख्यातमेव भावनायाः प्रयोजकम् । तच्चाख्यार्त प्रतिधातु भिन्नम् । न हि बहूनां धातूनामुपर्येक आख्यातप्रत्ययः श्रूयते । नापि व्याकरणे धातुसमूहादेकमाख्यातं विहितम् । तत आख्यातानां बहूनामेकैकधातुविशेषामुरक्तत्वेनैवोत्पन्नानां भावनावाचित्वेन यागदानहोमभावनाः परस्परं भिद्यन्ते ॥ १२ ॥ ____________________________________________________ २,२.३ अत्र गुरुमतमाह नियोगैकत्वतः शास्त्रमभिन्नमिति चेन्न तत् । धातुभेदाच्छास्त्रभेदे नियोगो भिद्यते बलात् ॥ २,२.३ ॥ ऽ कर्मभेदचिन्ता नाध्यायार्थः, किंतु शास्त्रभेदचिन्ताऽ इति गुरोर्मतम् । तत्रऽ यजेत, दद्यात्, जुहुयात्ऽ इत्येतेषु लिङ्प्रत्ययबाच्यस्य नियोगस्यैकत्वाधातूनां नियोगवाचकत्वाभावेनाप्रयोजकत्वादेकनियोगार्थे कृत्स्नं शास्त्रमेकम् इति पूर्वपक्षः । प्रतिधातु लिङ्प्रत्ययस्य भिन्नत्वाद्धात्वर्थानुबन्धभेदेन तद्विशिष्टे नियोगेऽपि भेदस्य वारयितुमशक्यतया नियोगानुसारि शास्त्रं भिन्नम् इति सिद्धान्तः ॥ २,२.३ ॥ (द्वितीये समिदाद्यपूर्वभेदाधिकरणे सूत्रम्) एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं हि स्यात् । २,२.२ । ____________________________________________________ २,२.४५ द्वितीयाधिकरणमारचयति समिधो यजतीत्यादावेकत्वमुत भिन्नता । धातुप्रत्यययोरैक्यादेकत्वं भिन्नता कुतः ॥ २,२.४ ॥ अभ्यासात्कर्मभेदोऽत्र नामत्वान्न विधिर्गुणे । विधित्वं श्रुतितो भाति संनिधेरनुवादता ॥ २,२.५ ॥ दर्शपूर्णमासयोः श्रूयते "समिधो यजति"ऽतनूनपातं यजति"इडो यजतिऽ"बर्हिर्यजति""स्वाहाकारं यजति"इति । तत्र पञ्चकृत्वः श्रूयमाणे यजतिपदे पूर्वोक्तेषुऽ यजति ददातिऽ इत्यादिपदेष्विव धातुभेदो नास्ति, येन भावनाभेद आशङ्क्येत । तस्मादाख्यातैक्यप्रयुक्तं भावनैक्यमनिवार्यमिति चेत् । मैवम् । यजतिपदाभ्यासेन कर्मभेदावगमात् । कर्मैकत्वेऽभ्यासो निरर्थकः स्यात् । अथोच्येत ऽ समिघो यजतिऽ इत्यनेन प्रथमश्रुतेन वाक्येन विहितं समिन्नामकं यागमुपरितनैश्र्चतुर्भिर्यजतिपदैरनूद्य तनूनपादादयो देवतारूपा द्रव्यरूपा वा गुणाश्चत्वारो विकल्पिता विधीयन्ते, ततोऽनुवादार्थत्वान्नाभ्यासवैयर्थ्यम् इति । तन्न । तनूनपादादिशब्दानां यागनामत्वेन गुणविधित्वाभावात् । न तावदत्र देवताविधिः । चतुर्थीतद्धितयोरश्रवणात् । नापि द्रव्यविधिः, तृतीयान्तत्वाभावात् । ततःऽ अग्निहोत्रं जुहोतिऽ इत्यादाविन द्वितीयान्तानां युक्तं नामत्वम् । यत्तु चतुर्णामुपरितानां यजतिपदानामनुवादत्वम् । तदसत् । तेषां विधायकत्वात् । यथाऽ समिधो यजतिऽ इत्यत्र यजतिपदे विधित्वं श्रुत्या प्रतीयते, तथान्येष्वपि चतुर्षु पदेषु विधित्वं श्रौतम् । अनुवादत्वं तु पुरोवादरूपस्यऽ समिधो यजतिऽ इत्यस्य संनिधिनावगम्यते । संनिधिश्च श्रुतेर्दुर्बलः । विधित्वे च पूर्ववाक्यविहितस्य समिन्नामकस्य यागस्य पुनर्विधानायोगात्तनूनपादादिनामकानि यागान्तराणि विधीयन्ते । नन्वेवं सति संज्ञाभेदात्कर्मभेदः संपद्यते, नत्वभ्यासात् । तथासति वक्ष्यमाणेनाधिकरणेन संकीर्यते । मैवम् । वैषम्यात् । ऽ अथैष ज्योतिःऽ इत्यस्मिन्वक्ष्यमाणोदाहरणे यागावगप्तात्प्रागेन संज्ञात्वावगमात्संज्ञायाः कर्मभेदहेतुत्वम् । इह तु विधायकैर्यजतिपदैर्यागेष्ववगतेषु, भेदे चाभ्यासादवगते, भिन्नानां यागानां समित्संज्ञाया अन्याः संज्ञा अपेक्षितः । इति तनूनपादादीनां संज्ञात्वं पश्चादवगम्यते । तस्मात् अभ्यास एवात्र भेदहेतुः ॥ २,२.४५ ॥ (तृतीय आघाराद्यग्नेयादीनामङ्गाङ्गिभावाधिकरणे सूत्राणि ३८) प्रकरणं तु पौर्णमास्यां रूपावचनात् । २,२.३ । विशेषदर्शनाच्च सर्वेषां समेषु ह्यप्रवृत्तिः स्यात् । २,२.४ । गुणस्तु श्रुतिसंयोगात् । २,२.५ । चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्य तस्योपदिश्येत । २,२.६ । व्यपदेशश्च तद्वत् । २,२.७ । लिङ्गदर्शनाच्च । २,२.८ । ____________________________________________________ २,२.६१० तृतीयाधिकरणमारचयति एवं विद्वान्पौर्णमासीममावास्यामितीरितम् । कर्मान्यदुत पूर्वोक्तसमुदायानुवादकम् ॥ २,२.६ ॥ कर्मान्तरं स्यादभ्यासाद्ध्रौवं द्रव्यं हि देवता । वार्त्रघणीत्यादितो लभ्यानुवादस्तु न युज्यते ॥ २,२.७ ॥ वार्त्रघणीत्याज्यभागाङ्गव्यवस्थोक्तेर्न देवता । पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा ॥ २,२.८ ॥ अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम् । सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके ॥ २,२.९ ॥ विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना । विहितस्य फलित्वेन प्राधान्यमितरे गुणाः ॥ २,२.१० ॥ इदमाम्नायते ऽ य एवं विद्वान्पौर्णमासीं यजते"य एवं विद्वानमावास्यां यजतेऽ इति । अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्यागा अनूद्यन्ते । आग्नेयादयश्च कालसंयुक्तास्तस्मिन्प्रकरण एवमाम्नायन्ते ऽ यदाग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाच्युतो भवतिऽ इति,ऽ तावब्रूतामग्नीषोमावाज्यस्यैव अनावुपांशु पौर्णमास्यां यजन्ऽ इति , ताभ्यामेतमग्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्ऽ इति,ऽ ऐन्द्रं दध्यमावास्यायाम्"इति,ऽ ऐन्द्रं पयोऽमावास्यायाम्ऽ इति । एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्यविहितस्य, कर्मणोऽन्यत्वे सति पूर्वाधिकरणन्यायेन विध्यभ्यास उपपद्यते । न च कर्मान्तरे द्रव्यदेवतयोरभावः, ध्रौवाज्यसद्भावात् । अत एवोक्तम् "ध्रौवं साधारणं द्रव्यं देवता मान्त्रवर्णिकी । रूपवन्तौ ततो यागौ विधीयेते पृथक्तया"इति । "सर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्"इति ध्रौवस्य साधारणत्वं श्रुतम् । देवताया मान्त्रवर्णिकत्वमित्थमुन्नेतव्यम् "तस्माद्वार्त्रघणी पौर्णमास्यामनूच्येते, वृधन्वती अमावास्यायाम्"एति वार्त्रघ्न्यौ वृधन्वत्यौ चर्चौ क्रमेण कालद्वयोपेते कर्मणि विधीयेते । तत्र "अग्निर्वृत्राणि जङ्घनत्"इत्येको वार्त्रघ्रो मन्त्रः । ऽ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहाऽ इत्यपरः । तयोरुक्तावग्नीषोमौ पौर्णमासदेवते । एवमन्तराम्नातयोर्वृधिधातुयुक्तयोर्मन्त्रयोरुक्तावग्नीषोमावमावस्यादेवते । आभ्यां द्रव्यदेवताभ्यां रूपवत्त्वाद्यागान्तरमत्र विधीयते । षड्यागानुवादत्वे तदनुवादेव विधेयान्तरस्य कस्यचिददर्शनाद्विद्वद्वाक्यमनर्थकं स्यात् । न केवलं तदानर्थक्यम्, किंतु"पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाममावास्यया यजेतऽ इत्येतदपि व्यर्थ स्यात् । न चैतत्कालविधायकम्,"यदाग्नेयः" इत्याद्युत्पत्तिवाक्यैरेव तद्विधानात् । कर्मान्तरत्वे तु कालं विधास्यति । तस्मात्कर्मान्तरविधिः इति प्राप्ते , ब्रूमः आस्तां तावद्द्रव्यम् । देवता तु विधित्सितस्य कर्मान्तरस्य सर्वथा न लभ्यते । वार्त्रघ्न्योर्वृधन्वत्योश्चाऽज्यभागदेवताप्रतिपादकत्वात् । हौत्रे मन्त्रकाण्डे सानिधेनीरावाहननिगदं प्रयाजमन्त्रांश्चाऽम्नाय प्रयाजानन्तरभाविनोराज्यभागयोः क्रमे वार्त्रघ्न्यौ वृधन्वत्यौ चाऽम्नाते लिङ्गं चाग्निविषयं सोमविषयं च तत्रोपलभ्यते । ततो लिङ्गक्रमाभ्यामाज्यभागविषयत्वमवगम्यते । यत्तु "वार्त्रघ्नी पौर्णमास्याम्" इत्यादि वाक्यम्, तल्लिङ्गक्रमकॢप्तयोराज्यभागाघ्गयोर्मन्त्रयुगलयोः कालद्वये व्यवस्थामाचष्टे । न तु नूतनकर्माङ्गतामनयोर्विदधाति । अतो रूपराहित्याद्विद्वद्वाक्यं कर्मान्तरविधायकं न भवति , किं तर्हि पूर्वप्रकृतेष्वाग्नेयादिषु षट्सु त्रिकरूपौ द्वौ समुदायावनुवदति । न च कालवाचिभ्यां पौर्णमास्यमावास्याशब्दाभ्यां यागानुवादानुपपत्तिः । तत्कालविहितयोर्यागत्रिकयोरुपलक्षितत्वात् । न चानुवादो व्यर्थः । समुदायद्वित्वसिद्धेस्तत्प्रयोजनत्वात् । तत्सिद्धौ च"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"इत्यस्मिन्फलवाक्ये षड्यागविवक्षया द्विवचननिर्देश उपपद्यते । यदप्युक्तम् अनुवादपक्षे"पौर्णमास्याम्"इत्यादिवाक्यवैर्थ्यम् इति । तदयुक्तम् । कालविधाना संभवेऽप्येकस्य त्रिकस्य सहप्रयोगविधानात् । आग्नेयोपांशुयाजाग्नीषोमीयाणां त्रयाणां पौर्णमासीकालविहितानां सहप्रयोगःऽ पोर्णमास्याऽ इत्यनेन तृतीयैकवचनान्तेन विधीयते । एवमितरत्रापि । ननु विद्वद्वाक्यस्य कर्मान्तरविधायकत्वाभावेऽपि नानुवादकत्वम् । तस्य यागाविधायकत्वाभ्युपगमात् । "आग्नेयोऽष्टाकपालः"इत्यादिवाक्यानि तु विहितयागानुवादेन द्रव्यदेवतालक्षणगुणविधायकानि इति चेत् । न । तथासत्येकेन वाक्येनानेकगुणविध्यसंभवात् । प्रतिगुणं पृथग्विधौ विध्यावृत्तिः प्रसज्येत । आग्नेयादिवाक्यानां विधायकत्वे तु विशिष्टविधित्वान्नास्ति विध्यावृत्तिदोषः । तस्मादाग्नेयादिवाक्यविहितानां विद्वद्वाक्यमनुवादकम् । किंचानुवादत्वमभ्युपगम्य कर्मान्तरविधिं वदतः प्रयोजादीनामाग्नेयादीनां च गुणप्रधानभावो न सिध्येत् । तथा हि ऽ समिधो यजति"आघारमाघारयतिऽ इत्यादयः कालयोगरहिताः केचिद्विधय आम्नाताः । ऽ यदाग्नेयोऽष्टाकपालोऽमावास्यायां च पौर्णमास्यां चऽ इत्यादयः कालयुक्ता अपरे । तेषामुभयेषां प्रकृतत्वात्"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत"इति वाक्ये सर्वेषां फलसंबन्धो बोधनीयः । ऽदर्शपूर्णमासाभ्याम्, इति द्विवचनं बहुवचनत्वेन परिणेतव्यम् । विद्वद्वाक्यविहिते द्वे कर्मान्तरे प्रयाजादय आग्नेयादयश्चेति । एतेषु द्वित्वासंभवात् । सर्वेषां च फलसंबन्धे राजसूयगतेष्टिपशुसोमवत्समप्राधान्यात्प्रयाजादीनां गुणभावो न स्यात् । तदभावे चानङ्गत्वात्सौर्यादिविकृतिष्वाग्नेयादीनामिवातिदेशो न स्यात् । अनुवादपक्षे तु त्रिकयोः कालयोगेन दर्शपूर्णमासशब्दार्हत्वात् । समुदायद्वित्वेन द्विवचनार्हत्वाच्चाऽग्नेयादीनामेव फलसंबन्धेन प्राधान्यम् । प्रयाजादीनां तु गुणभाव इति न कोऽपि दोषः । तस्मात् विद्वद्वाक्यमनुवादकम् ॥ २,२.६१० ॥ (चतुर्थ उपांशुयाजापूर्वताधिकरणे सूत्राणि ९ १२) पौर्णमासीवदुपांशुयाजः स्यात् । २,२.९ । चोदना वाप्रकृतत्वात् । २,२.१० । गुणोपबन्धात् । २,२.११ । प्राये वचनाच्च । २,२.१२ । ____________________________________________________ २,२.१११२ चतुर्थाधिकरणमारचयति उपांशुयाजमित्येषोऽनुवादोऽत्राथवा विधिः । विष्ण्वादिवाक्ये विस्पष्टविधेरस्यानुवादता ॥ २,२.११ ॥ जामित्वोक्तेरन्तराल उपांशुगुणके विधौ । सत्यर्थवादो विष्ण्वादिस्तद्रूपं ध्रौवमन्त्रतः ॥ २,२.१२ ॥ इदमाम्नायते ऽ जामि वा एतद्यज्ञस्य क्रियते । यदन्वञ्चौ पुरोडाशावपांशुयाजमन्तरा यजति । विष्णुरुपांशु यष्टव्योऽजामित्वाय । प्रजापतिरुपांशु यष्टव्योऽजीमत्वाय । अग्नीषोमावुपांशु यष्टव्यावजामित्वाय"इति । तत्र विष्ण्वादिवाक्येषु विहितस्य यागत्रयसमुदायस्यानुवादः इति चेत् । मैवम् । आग्नेयाग्नीषोमीयपुरोडाशद्वयनैरवन्तर्यकृतस्य जामित्वदोषस्य वाक्योपक्रम उपन्यासात्परोडाशयोरन्तराले किंचिद्विधित्सितम् । न ह्यन्तरालगुणविशिष्टं विधेयं विष्ण्वादिवाक्येषु प्रतीयते । पूर्ववाक्ये तु तत्प्रतीयत इति विधायकं तद्वाक्यम् । न चात्रऽयजतिऽ इति वर्तमानापदेशः शङ्कनीयः । पञ्चमलकारस्याऽश्रयणात् । अन्तरालकालवदुपांशुत्वगुणस्यापि विशेषणत्वात्तद्विशिष्टकर्मण उपांशुयाजनाप्रकत्वम् । सत्येवं गुणद्वयविशिष्टकर्मण्याद्येन वाक्येन विहिते विष्ण्वादिवाक्यमर्थवादः स्यात् । न चात्र विहितयागानुवादेन देवताविधिः शङ्कनीयः । समाधातव्येन जामित्वदोषेणोपक्रमात्, आजामित्वेन समाधानेनोपसंहाराच्चऽ जामि वैऽ इत्यादेःऽ अजामित्वायऽ इत्यन्तस्य सर्वस्य महावाक्यस्यैकत्वप्रतीतेः । न खल्वेकस्मिन्वाक्ये विधेयबाहुल्यं संभवति । न चात्र विधित्सितस्योपांशुयाजस्य द्रव्याभावः । ध्रौवस्य तद्रद्रव्यत्वात् । नापि देवताया अभावः । नानाशाखासूपांशुयाजक्रमे पठितैर्वैष्णवप्राजापत्याग्नीषोमीयमन्त्रैर्विकल्पेन देवतात्रयस्य प्रतीयमानत्वात् । तस्मात् यजतीत्येतद्विधायकम् ॥ २,२.१११२ ॥ (पञ्चम आघाराद्यपूर्वताधिकरणे सूत्राणि १३१६) आघाराग्निहोत्रमरूपत्वात् । २,२.१३ । संज्ञोपबन्धात् । २,२.१४ । अप्रकृतत्वाच्च । २,२.१५ । चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्तत्सन्निधेर्गुणार्थेन पुनः श्रुतिः । २,२.१६ । ____________________________________________________ २,२.१३१४ पञ्चमाधिकरणमारचयति अग्निहोत्राघारवाक्यमनुवादोऽथवा विधिः । अरूपत्वात्तु दध्यूर्ध्ववाक्येनोक्तमनूद्यते ॥ २,२.१३ ॥ गुण्यसिद्धौ न दध्यादिर्गुणो दुष्टा विशिष्टता । रूपं दध्यादिमन्त्राभ्यामतोऽसौ गुणिनो विधिः ॥ २,२.१४ ॥ इदमाम्नायते ऽ अग्निहोत्रं जुहोतिऽऽदधण जुहोतिऽऽपयसा जुहोतिऽ इति च । इदमपरमाम्नायत्ऽआधारमाघारयतिऽऽऊर्ध्वमाघारयति"ऋजुमाघारयतिऽ इति च । तत्राग्निहोत्रवाक्यं दध्यादिवाक्यविहितस्य कर्मसमुदायस्यानुवादः । आघारवाक्यं चोर्ध्वादिवाक्यविहितस्य । न त्वेद्वाक्यद्वयं कर्मविधायकम् । कुतः । द्रव्यदेवतालक्षणस्य यागरूपस्याभावात् इति चेत् । तत्र वक्तव्यम् किं दध्यादिवाक्येन गुणामात्रं विधीयते, किंवा गुणविशिष्टकर्म । नाऽद्यः । अग्निहोत्रादिवाक्यस्य त्वन्मते कर्मविधायकत्वाभावेन गुणिनः कस्यचिदसिद्धौ गुण्यनुवादपुरःसरस्य गुणमात्रविधानस्यासंभवात् । द्वितीये विधिगौरवं स्यात् । तच्च सत्यां गतावयुक्तम् । अतोऽग्निहोत्रादिवाक्यं कर्मविधायकम् । तत्र द्रव्यं दध्यादिवाक्यैर्लभ्यते । देवता तु मान्त्रवर्णिकी । आघारेऽप्येवं द्रव्यदेवते उन्नेतव्ये ॥ २,२.१३१४ ॥ (षष्ठे पशुसोमापूर्वताधिकरणे सूत्राणि १७२०) द्रव्यचोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन । २,२.१७ । अचोदकाश्च संस्काराः । २,२.१८ । तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदो द्रव्यगुणीभावात् । २,२.१९ । संस्कारस्तु न भिद्येत परार्थत्वाद्द्रव्यस्य गुणभूतत्वात् । २,२.२० । ____________________________________________________ २,२.१५१६ षष्ठाधिकरणमारचयति यजत्यालभतीत्येतावनुवादौ विधी उत । गृह्णात्यवद्यतीत्याभ्यां विहितेर्ऽथेऽनुवादिनौ ॥ २,२.१५ ॥ नानुवादोऽपुरोवादे यज्यालभ्योरतो विधिः । ब्रह्मणे सोमसंस्कारोऽवदाने पशुसंस्क्रिया ॥ २,२.१६ ॥ ऽ सोमेन यजेतऽ इति श्रूयते । तत्रऽ ऐन्द्रवायवं गृह्रणाति, मैत्रावरूणं गृह्रणातिऽ इत्यादीन्यपि श्रुतानि । एवम्ऽ अग्निषोमीयं पशुमालभेतऽ इति श्रूयते । तत्रऽ हृदयस्याग्रेऽवद्यति । अथ जिह्वायाः । अथ वक्षसःऽ इत्यादीन्यपि श्रुतानि । तत्रैन्द्रवाय्वादिवाक्यैर्यागा विधीयन्ते । इन्द्रवाय्वादिप्रातिपदिकैर्देवतानार्ं, तद्धतेन सोमरसद्रव्यस्य च प्रतीयमानत्वात् । एतेषां ग्रहणवाक्यविहितानां यागानां समुदायःऽ सोमेन यजेतऽ इत्यनेनानूद्यते । तथावदानवाक्येषु हृदयादिद्रव्यं श्रुतम् । ततो द्रव्यविशिष्टा यागास्तत्र विधीयन्ते । तदनुवादेन पश्वालम्भवाक्येऽग्नीषोमरूपा देवता विधीयते । तस्मात् अवदानवाक्यविहितानां यागानां समुदायः"पशुमालभेत"इत्यनेनानूद्यते इति प्राप्ते ब्रूमः सति हि पुरोवादेऽनुवादो भवति । न चात्र पुरोवादोऽस्ति । ऽसोमेन यजेतऽ इत्यनेन प्रतीतस्यार्थस्य ग्रहणवाक्येष्वप्रतीतेः । नहि ग्रहणं यजनं भवति । नापि तद्धितप्रत्ययोक्तो रसः सोमलता । न च तद्धितप्रत्ययः सर्वनामार्थे विहितः प्रकृतं ब्रूते, न तु रसम् इति शङ्कनीयम् । ऽ धारया गृह्रातिऽ इति रसस्यैव प्रकृतत्वात् । तथा"पशुमालभेत"इत्यनेन प्रतीतोर्ऽथो नावदानवाक्येषु प्रतीयते । ततः पुरोवादाभावेनानुवादासंभवाद्यजत्यालभतिभ्यां कर्मणी विधीयेते । ग्रहणवाक्यैस्तु देवताविशिष्टः सोमसंस्कारो विधीयते । अवदानवाक्यैश्च पशुसंस्कारः ॥ २,२.१४१६ ॥ (सप्तमे संख्याकृतकर्मभेदाधिकरणे सूत्रम्) पृथक्त्त्वनिवेशात्संख्यया कर्मभेदः स्यात् । २,२.२१ । ____________________________________________________ २,२.१७२१ सप्तमाधिकरणमारचयति आहुतीस्तिस्त्र इत्यत्र कर्मैक्यमुत भिन्नता । एकत्वं सकृदाख्यातात्संख्यावृत्त्या प्रयाजवत् ॥ २,२.१७ ॥ आख्यातमात्रं नो मानं संख्यया बहुकर्मता । आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥ २,२.१८ ॥ पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् । विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥ २,२.१९ ॥ बहुत्वोपेतपशुभिर्देवयोगादभिन्नता । रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥ २,२.२० ॥ देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः । बहुत्वसंगमो रूपसंख्यया तत्क्रियाभिदा ॥ २,२.२१ ॥ ऽ तिस्त्र आहुतीर्जुहोतिऽ इति श्रूयते । तत्रऽ जुहोतिऽ इत्येतदाख्यातंऽ समिधो यजतिऽ इत्यादिवन्नाभ्यस्तम्, किंतु सकृदेवाऽम्नातम् । तत एकमिदं कर्म । त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता, तद्वत् इति प्राप्ते ब्रूमः किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत पदान्तरान्वितम् । नाऽद्यः । वाक्यांशस्य पदमात्रस्य प्रमितिजनकत्वाभावात् । द्वितीये त्रि त्वसंख्यया विशेषितेनाऽख्यातेन कर्मबहुत्वं गम्यते । प्रयोजानां तु पूर्वमेव पञ्चसंख्यावरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वेतद्विधितः पूर्व कर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् । तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते । कर्मवाचिन आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया पूर्वपक्षानुत्थानात् । इदं त्वत्रोदाहरणम् ऽ सप्तदश प्राजापत्यान्पशूनालभतेऽ इति । अत्रऽ प्रजापत्तिर्देवता येषां पशूनां ते प्राजापत्याःऽ इति तद्धितव्युत्पत्तौ बहुत्वोपोताः पशव एकं द्रव्यम् । ततो द्रव्यैक्याद्देवतैक्याच्च यागस्य रूपमभिन्नमित्येकमिदं कर्म । या तुऽसप्तदशऽ इति संख्या, सा पशुद्रव्यगता, न तु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मात्ऽन कर्मभेदमापादयतिऽ इति प्राप्ते ब्रूमः अत्रऽ प्रजापतिर्देवता यस्य पशोः स प्राजापत्यःऽ इति तद्धितान्तं प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपादिकार्थस्य प्रजापतिदेवताविशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्तिबहुवचने । तत्र प्रथमभाविन्या द्वितीयाविभक्तेरेव तद्धितोत्पत्तिवेलायामन्वयो नास्ति, कुतः पश्चाद्भाविनो बहुवचनस्यान्वयः । एवं सतिऽ प्राजापत्यःऽ इत्यनेन तद्धितान्तप्रातिपदिकनैकपशुद्रव्यमेकदेवतोपेतं यागस्य रूपं समर्प्यते । तादृशानां रूपाणां बहुत्वाय बहुवचनम् । बहुत्वविशेषश्चऽ सप्तदशःऽ इति निर्दिश्यते । तस्मात् अत्र संख्यया कर्मभेदः । एवं च सति, अष्टमे वक्ष्यमाणं सप्तदशपशूनामैकादशिनपशुगणविकृतित्वमुपपद्यते ॥ २,२.१७२१ ॥ (अष्टमे संज्ञाकृतकर्मभेदाधिकरणे सूत्रम्) संज्ञा चोत्पत्तिसंयोगात् । २,२.२२ । ____________________________________________________ २,२.२२२३ अष्टमाधिकरणमारचयति अथैष ज्योतिरित्यत्र गुणो वा कर्म वा पृथक् । गुणः सहस्त्रदानात्मा ज्योतिष्टोमे ह्यनूदिते ॥ २,२.२२ ॥ अथेति प्रकृते छिन्न एतच्छब्दोऽग्रगं वदेत् । संख्ययेवान्यकर्मत्वमिह नूतनसंज्ञया ॥ २,२.२३ ॥ "अथैष ज्योतिः, अथैष विश्वज्योतिः, अथैष सर्वज्योतिः, अनेन सहस्त्रदक्षिणेन यजेतऽ इति श्रूयते । अत्र प्रकृतं ज्योतिष्टोपम्ऽएष ज्योतिःऽ इत्यनूद्य तस्मिन्सहस्त्रदानलक्षणो गुणो विधीयते इति चेत् । न । प्रकृतस्य ज्योतिष्टोमस्यऽ अथऽ इत्यनेन विच्छिन्नत्वात् । न चैवं सतिऽ अयैष ज्योतिःऽ इत्युक्त एतच्छब्दोऽनुपपन्न इति वाच्यम् । संनिहितवाचिनैतच्छब्देनातीतसंनिहितस्येवाऽगामिसंनिहितस्यापि परामर्शसंभवात् । आगामिसंनिहितश्च ज्योतिः शब्दार्थः । स च ज्योतिः शब्दोऽती मपरामृशन्नपूर्वसंज्ञारूपत्वान्नूतनं किंचित्कर्माभिधत्ते । ततो यथा पूर्वत्र संख्यया कर्मभेदः, तथात्रापि संज्ञया कर्म भिद्यते । विश्वज्योतिः सर्वज्योतिः शब्दयोरप्ययं न्यायो द्रष्टव्यः ॥ २,२.२२२३ ॥ (नवमे देवताभेदकृतकर्मभेदाधिकरणे सूत्रम्) गुणाश्चापूर्वसंयोगे वाक्योः समत्वात् । २,२.२३ । ____________________________________________________ २,२.२४२५ नवमाधिकरणमारचयति गुणः कर्मान्तरं वा स्याद्वाजिभ्यो वाजिनं त्विति । गुणो देवाननूद्योक्तसमुच्चयविकल्पतः ॥ २,२.२४ ॥ आमिक्षोत्पत्तिशिष्टत्वात्प्रबला तत्र वाजिनम् । गुणोऽप्रविश्य कर्मान्यत्कल्पयेद्वाजिदेवकम् ॥ २,२.२५ ॥ ऽतप्ते पयसि दध्यानयति , सा वैश्वदेव्यामिक्षा, वाजिभ्यो वाजिनम्ऽ इति श्रूयते । घनीभूतः पयःपिण्ड आमिक्षा, जलं वाजिनम् । तत्र आमिक्षाद्रव्यभाजो ये विश्वे देवा उक्ताः, तेऽवाजिभ्यःऽ इत्यनेनानूद्यन्ते । ऽवाजोऽन्नमामिक्षारूपमेषामस्तिऽ इति तन्निष्पत्तेः । ताननूद्य वाजिनद्रव्यरूपो गुणो विधीयते । तच्च द्रव्यमामिक्षाद्रव्येण सह समुच्चीनतां विकल्प्यतां वा, इति प्राप्ते ब्रूमः उत्पत्तिशिष्टेनाऽमिक्षाद्रव्येणावरुद्धेवैश्वदेवयागे वाजिनद्रव्यस्योत्पन्नशिष्टस्य प्रवेशाभावाद्वाजिनं वाजिशब्दार्थस्य देवतान्तरमापादयति । ततो द्रव्यदेवतालक्षणस्य रूपस्य भिन्नत्वात्कर्मान्तरम् ॥ २,२.२४२५ ॥ (दशं द्रव्यविशेषानुक्तिकृतकर्मैक्याधिकरणे सूत्रम्) अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत । २,२.२४ । ____________________________________________________ २,२.२६ दशमाधिकरणमारचयति दधिहोमेऽन्यकर्मत्वं गुणो वान्यत्तु पूर्ववत् । निर्गुणत्वादग्निहोत्रे युक्तो दध्यादिको गुणः ॥ २,२.२६ ॥ "दधण जुहोति"इति श्रूयते । तत्र "अग्निहोत्रं जुहोति"इत्येतस्मात्प्रकृतात्कर्मणोऽन्यद्दधिहोमरूपं कर्म इति पूर्वन्यायेनावगम्यते । यथा पूर्वत्र वाजिनद्रव्येण कर्म भिद्यते, तथा दधिद्रव्येणेति चेत् । न । वैषम्यात् । यथा वैश्वदेवो याग आमिक्षागुणावरुद्धः, तथाग्निहोत्रं न गुणान्तरावरुद्धम् । प्रत्युत निर्गुणत्वाद्गुणमाकाङ्क्षति । तस्मादयं गुणविधिः । एवं"पयसा जुहोति"इत्यादिषु द्रष्टव्यम् । पयोदध्यादीनां सर्वेषामुत्पन्नशिष्टतयां समबलत्वादेकैकेन द्रव्येणाग्निहोत्रनिष्पत्तेश्च व्रीहीयववद्विकल्पः ॥ २,२.२६ ॥ (एकादशे दध्यादिद्रव्यसफलत्वाधिकरणे सूत्रे २५ २६ ) फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात् । २,२.२५ । अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत । २,२.२६ । एकादशाधिकरणमारचयति ____________________________________________________ २,२.२७२८ यद्दघ्नेन्द्रियकामस्य जुहुयादिति तत्पृथक् । गुणो वा भिद्यते कर्म धात्वर्थस्य फलित्वतः ॥ २,२.२७ ॥ मत्वर्थगौरवादिभ्यो नान्यत्कर्म फलाय तु । गुणे विधेये धात्वर्थो विहितत्वादनूद्यते ॥ २,२.२८ ॥ "दघ्नेद्रियकामस्य जुहुयात्"इति श्रूयते । तदिदं मकृतादग्निहोत्रादन्यत्कर्म । म त्वत्र विधिः । कुतः । ऽइन्द्रियकामस्यऽ इत्यक्तस्य फलस्य धात्वर्थ मन्तरेण द्रव्यमात्रादनिष्पत्तेः इति चेत् । नैवम् । कर्मान्तरविधौऽदधमता होमेनोन्द्रियं भावयेत्ऽ इति मत्वर्थलक्षणा प्रसङ्गात् । गुणविशिष्टक्रियाविधौ, गौरवात् । प्रकृतहानामकृतप्रक्रियाप्रसङ्गाच्च । गुणमात्रं तु फलाय विधीयते । यद्यपिऽदधण जुहोतिऽ इति प्राप्तम्, तथापि फलसंबन्धो न प्रप्तः । धात्वरथाभाते फलासंभव इति चेत् । न । ऽअग्निहोत्रं जुहोतिऽइति विहितस्य धात्वर्थस्यानूद्यमानत्वात् ॥ २,२.२७२८ ॥ (द्वादशे वारवन्तीयादीनां कर्मान्तरताधिकरणे सूत्रम्) समेषु कर्मयुक्तं स्यात् । २,२.२७ । ____________________________________________________ २,२.२९३१ द्वादशाधिकरणमारचयति उक्त्वाग्निष्टुतमेतस्य वारवन्तीयसाम हि । रेवतीष्वृक्षु कृत्वेति श्रुतं पशुफलाप्तये ॥ २,२.२९ ॥ रेवत्यादिगुणः कर्म पृथग्वा पूर्ववद्गुणः । रेवतीवारवन्तीयसंबन्धाख्यः पशुप्रदः ॥ २,२.३० ॥ साम्नोऽत्र फलकर्मभ्यां संबन्धे वाक्यभिन्नता । तेनोक्तगुणसंयुक्तमन्यत्कर्मोच्यते फले ॥ २,२.३१ ॥ ऽ त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वृक्ष्वेकविंशमग्निष्टोमसाम कृत्वा ब्रह्मवचसकामो यजेतऽ इत्यस्य संनिधौ श्रूयते ऽ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेतऽ इति । अस्यायमर्थः ऽ अग्निष्टोमस्य विकृतिरूपः कश्चिदेकाहोऽग्निष्टुन्नामकः । स च पृष्ठस्तोत्रे त्रिवृत्सोमयुक्ततयाऽत्रिवृत्ऽ इत्युच्यते । अग्निष्टोमोक्थादीनां सप्तानां सोमसंस्थानां मध्येऽग्निष्टोमसंस्थारूपत्वात्ऽ अग्निष्टोमःऽ इत्यप्युच्यते । प्रकृतौ तृतीयसवन आर्भवपवमानस्योपरि यज्ञायज्ञीयं साम गीयते । तेन च साम्नाग्निष्टोमयागस्य समाप्यमानत्वात्ऽ अग्निष्टोमसामऽ इत्युच्यते । तच्च प्रकृतौऽयज्ञायज्ञा वो अग्नयःऽ इत्याद्याग्नेयीष्वृक्षु गीयते । अस्मिंस्त्वग्निष्टुति ब्रह्मवर्चसकामेन वायव्यास्वृक्षु तत्साम गातव्यम् । तञ्च प्रकृताविवैकविंशस्तोमयुक्तम् । पशुकामत्य तुऽ रेवतीर्नः सधमादःऽ इत्यादिषु रेवतीष्वक्षु वारवन्तीयं साम गायेत्, इति । तत्र रेवतीनामृचां वारवन्तीयनामकेन साम्ना यः संबन्धः, सोऽयं पशुफलायाग्निष्टुति विधीयते । ऽएतस्यैवऽ इति प्रकृतपरामर्शकेनैतच्छब्देन, अन्यव्यावर्तकेनैवकारेण चाग्निष्टुतः समर्प्यमाणत्वात् । यथा पूर्वाधिकरण इन्द्रियफलाय प्रकृतेऽग्निहोत्रे दधिगुणो विहितः,तद्वत् । इति प्राप्ते, ब्रूमः विषमो दृष्टान्तः । दधणे होमजनकत्वं न शास्त्रेण बोधनीयम् । तस्य लोकतोऽवगन्तुं शक्यत्वात् । फलसंबन्ध एक एव शास्त्रबोध्य इति न तत्र वाक्यभेदः । इह तु रेवत्युगाधारकवारवन्तीयसाम्नोऽग्निष्टुत्कर्मसाधनत्वं फलसाधनत्वं चेत्युभयस्य शास्त्रैकबोध्यत्वाद्दुर्वारो वाक्यभेदः । तेन पशुफलकं यथोक्तगुणविशिष्टं कर्मान्तरमत्र विधीयते । एतच्छब्द एवकारश्च विधीयमानकर्मान्तरविषयतया योजनीयौ ॥ २,२.२९३१ ॥ (त्रयोदशे सौभरनिधनयोः कामैक्याधिकरणे सूत्रे २८ २९ ) सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः । २,२.२८ । सर्वस्य वोक्तकामत्वात्तस्मिन् कामश्रुतिः स्यान्निधनार्था पुनः श्रुतिः । २,२.२९ । ____________________________________________________ २,२.३२३५ त्रयोदशाधिकरणमारचयति वृष्टन्नस्वर्गकामानां सौभरं स्तोत्रमीरितम् । निधनान्यपि हीषूर्गू इति वृष्ट्यादिकाभिनाम् ॥ २,२.३२ ॥ फलान्तरं किं वृष्ट्यादि हीशादीनामुतोदिते । सौभरे फलसंभिन्ने निधनं विनियम्यते ॥ २,२.३३ ॥ फलान्तरं चतुर्थ्योक्तं वृष्टिकामाय हीषिति । सौभरस्य फलं वृष्टिहीषियुक्त्या विवर्धते ॥ २,२.३४ ॥ नोक्तवृष्ट्यन्नकामानामन्यत्वं प्रत्यभिज्ञया । नियमेऽपि चतुर्थ्येषा तादर्थ्यादुपपद्यते ॥ २,२.३५ ॥ ऽ यो वृष्टिकामो योऽन्नाद्यकामो यः स्वर्गकामः स सौभरेण स्तुवीत, सर्वे वै कामाः सौभरेऽ इति समाम्नाय पुनः समाम्नातम् हीषित वृष्टिकामाय निधनं कुर्यात्, ऊर्गित्यन्नाद्यकामाय, ऊ इति स्वर्गकामायऽ इति । सौभरं नाम सामविशेषः । निधनं नाम पञ्चभिः सप्तभिर्वा भागैरुपेतस्य साम्नोऽन्तिमो भागः । तस्मिन्निधने हीषादयो विशेषाः सौभरसामसाध्यस्तोत्रफलेभ्यो वृष्ट्यादिभ्योऽन्यानि वृष्ट्र्यादिफलानि जनयितुं विधीयन्ते । कुतः । हीषादिविधिवाक्येऽवृष्टिकामायऽ इत्यादिना चतुर्थीश्रवणात् । तादर्थ्ये ब्रुवती [चतुर्थी] हीषादीनां वृष्ट्यादिकामपुरुषशेषत्वं गमयति । तच्छेषत्वं च पुरुषाभिलवितफलसाधनत्वे सत्युपपद्यते । ततः सौभरस्य हीषितिनिधनविशेषस्य च फलभूते द्वे वृष्टी भवतः । तदुभयमेलनान्महती वृष्टिः इति प्राप्ते, ब्रूमः सौभरविधौ यो वृष्ट्यादिकामः स एव हीषादिविधौ प्रत्यभिज्ञायते । ततः सौभरस्य फलभूता ये वृष्ट्यादयः, त एव हीषादिवाक्येष्वनूद्यन्ते, इति न फलान्तरम् । अथोच्येत नूतनफलान्तराभावात्, हीषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थकोऽयं विधिः इति । तन्न । फलत्रयकामाणां त्रयाणामनियमेनैव हीषादिषु मध्ये यस्य कस्यचिन्निधनस्य प्राप्तौ विधेर्नियमार्थत्वात् । तादर्थ्य तु फलान्तराभावेऽपि सौभरवाक्योक्तवृष्ट्यादिफलसाधने सौभरे हीषादीनां नियम्यमानत्वादुपपद्यते । तस्मात् अयं निधनविशेषनियमनाविधिः ॥ २,२.३२३५ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य द्वितीयः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य तृतीयः पादः) (प्रथमे ग्रहाग्रताया ज्योतिष्टोमाङ्गताधिकरणे सूत्रे १२) गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूत्वात् । २,३.१ । एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् । २,३.२ । ____________________________________________________ २,३.१३ तृतीयपादस्य प्रथमाधिकरणमारचयति रथंतरं साम सोमे भवेत्तद्वद्बृहज्जगत् । ऐन्द्रवायवशुक्राग्रयणाग्राश्च ग्रहाः श्रुताः ॥ २,३.१ ॥ रथंतरादिसंयुक्तमन्यत्कर्माथवा गुणः । गायत्रादियुतात्पूर्वादन्यद्व्यावृत्तितो गुणैः ॥ २,३.२ ॥ सोमशब्दप्रकरणे ज्योतिष्टोमसमर्पके । ग्रहाग्रत्वं गुणस्तत्र व्यावृत्तिस्तु परस्परम् ॥ २,३.३ ॥ ज्योतिष्टोमप्रकरणे श्रूयते "यदि रथंतरसामा सोमः स्यादैन्द्रवायबाग्रान्ग्रहान्गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि जगत्सामाऽग्रयणाग्रान्"इति । तत्र सोमशब्देन सोमलतासाधनको यागोऽऽभिधीयते । तस्मिंश्च यागे बाध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि । "अभि त्वा शूर" इत्येतस्यां योनावुत्पन्नं रथंतरम् । "त्वामिद्धि हवामहे" इत्येतस्यामुत्पन्नं बृहत् । जगतीछन्दस्कायामृच्युत्पन्नं जगत् । ऐन्द्रमायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थ्याग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते । दारुपात्रेषु सोमरतस्य ग्रहणाद्ग्रहा भवन्ति । सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः । बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिकः इति विषयवाक्यार्थः । तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते । तस्मात् ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते इति प्राप्ते, ब्रूमः"यदि रथंतरसामा सोमः स्यात्"इत्युक्तो यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते । समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते । न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति । तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वेऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि सद्भावात् । किं तर्हि व्यावर्त्यत इति चेत् । रथंतरबृहज्जगतां परस्परव्यावृत्तिः इति वदामः । रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः । तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते । एवमितरत्रापि । तस्मात् गुणविधिः । ननु यः प्रकृतो ज्योतिष्टोमः सोऽन्येषां सोऽन्येषां सोमयागानां प्रकृतिः । नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति । अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके"यदि जगत्तामा"इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्येऽहनि व्यवस्थापितम् । षाढम्, तथापि नात्र कश्चिद्विरोधः । आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतुऽअन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम् ऽ इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात् ॥ २,३.१३ ॥ (द्वितीयेऽवेष्टेः क्रत्वन्तरताधिकारताधिकरणे सूत्रम्) अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते । २,३.३ । ____________________________________________________ २,३.४६ द्वितीयाधिकरणमारचयति राजसूयं प्रकृत्येष्टिरवेष्ट्याख्या श्रुतात्र तु । विप्रक्षत्त्रियविड्भेदाद्धविषां व्यत्ययः क्रमे ॥ २,३.४ ॥ विप्रादेरनुवादः स्यात्प्रापणं वानुवादगीः । व्यत्ययाय त्रयाणां च राजत्वाप्राप्तिरस्ति हि ॥ २,३.५ ॥ न राज्ययोगाद्राजत्वं क्षत्रियत्वं तु तत्त्वतः । अप्राप्तप्रापणं तस्मान्न रथंतरतुल्यता ॥ २,३.६ ॥ राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते "आग्नेयमष्टाकपालं निर्वपेत्, हिरण्यं दक्षिणा । ऐन्द्रमाकादशकपालम्, ऋषभो दक्षिणा । वैश्वदेवं चरुम् , पिशङ्गी प्रष्ठौही दाक्षिणा । मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा । बार्हस्पत्यं चरुम्, शितिपृष्ठो दिक्षणां"इति । तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते "यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽहुतिं हुत्वा तमभिघारयेत् । यदि राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवम्"इति । तत्र यथा पूर्वाधिकरणे ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुंऽयदि रादन्यःऽ इत्यनुवादः । वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यामुवादः । ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः इति चेत् । न । तयोरपि राज्ययोगहेतुराजशब्दार्थत्वात्, इति प्राप्ते, ब्रूमः राजशब्दः क्षत्त्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् । प्रत्युत राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् । ऽराज्ञः कर्मऽ इति विगृह्य राजप्रातिपदिकस्योपरि । प्रत्ययविशेषविधानात् । ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः । तस्मात् अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते । ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम् इति चेत् । मैवम् । अन्तरवेष्टौ तदसंभवेऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् । तस्मात् अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम् । यदिशब्दस्तु निपातत्वादनर्थकोर्ऽथान्तरवाची वेत्युन्नेयम् ॥ २,३.४६ ॥ (तृतीय आधानस्य विधेयत्वाधिकरणे सूत्रम्) आधाने सर्वशेषत्वात् । २,३.४ । ____________________________________________________ २,३.७९ तृतीयाधिकरणमारचयति वसन्ते विप्र आदध्यात्तत्रैवोपनयीत तम् । अनुवादः प्रापणं वानुवादः कालसिद्धये ॥ २,३.७ ॥ अन्तरेणाग्निविद्याभ्यां कर्मानुष्ठित्यसंभवात् । कॢप्ते आधानोपनीती प्राप्ता विप्रादयस्ततः ॥ २,३.८ ॥ लौकिकाग्नेः पुस्तकाञ्च तत्सिद्धेर्नास्ति कल्पनम् । कालविप्रादिसंयुक्तमतोऽप्राप्तं विधीयते ॥ २,३.९ ॥ "वसन्ते ब्राह्मणोऽग्नीनादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः"इति श्रूयते । "वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्"इति च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयोऽनूद्यन्ते । न च तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या कॢप्तत्वात् । न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणा संभवन्ती ब्राह्मणाद्युपनयनं कल्पयति इति तत्र प्राप्तिः इति चेत् । मैवम् । लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्मात् वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते ॥ २,३.७९ ॥ (चतुर्थे दाक्षयणादीनां गुणताधिकरणे सूत्राणि ५११) अयनेषु चोदनान्तरं संज्ञोपबन्धात् । २,३.५ । अगुणाच्च कर्मचोदना । २,३.६ । समाप्तं च फले वाक्यम् । २,३.७ । विकारो वा प्रकरणात् । २,३.८ । लिङ्गदर्शनाच्च । २,३.९ । गुणात्संज्ञोपबन्धः । २,३.१० । समाप्तिरविशिष्टा । २,३.११ । ____________________________________________________ २,३.१०११ चतुर्थाधिकरणमारचयति यद्दाक्षायणयज्ञेन स्वर्गकामो यजेत तत् । कर्मान्तरं गुणो वोक्तदर्शादौ फलसिद्धये ॥ २,३.१० ॥ गुणस्यास्याप्रसिद्धत्वात्कर्मभेदोऽत्र संज्ञया । गुणो व्युत्पत्तिशेषाभ्यामावृत्त्याख्यो न नाम तत् ॥ २,३.११ ॥ दर्शपूर्णमासप्रकरणे श्रूयते "दाक्षायणयज्ञेन स्वर्गकामो यजेत"इति । तत्र दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यणिसामानाधिकरण्येन कर्मनामत्वात् । "अथैष ज्योतिः"इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः इति चेत् । न । दाक्षायणशब्दस्याऽवृत्तिवाचकत्वात् । तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वावगम्यते । तथा हि ऽअयनम्ऽ इत्यावृत्तिरुच्यते । ऽदक्षस्येमे दाक्षाः, तेषामयनम्ऽ इति तन्निर्वचनम् । दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः । तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः । तथा चाऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः । आवृत्तिप्रकारस्तु"द्वे पौर्णमास्यौ यजेत । द्वे अमावास्ये"इत्यादिवाक्यशेषादवगम्यते । ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्द्यर्थमावृत्त्याख्यगुणविधिः, न तूद्भिदादिवत्कर्मनामधेयम् । एवं"साकंप्रस्थाप्येन यजेत पशुकामः"इत्यत्रापि द्रष्टव्यम् । अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्थाप्यः । तद्युक्तो यागः साकंप्रस्थाप्यः । तथासति प्रकृते दर्शयागो पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते ॥ २,३.१०११ ॥ (पञ्चमे द्रव्यदेवतायुक्तानां यागान्तरताधिकरणे सूत्राणि १२ १५) संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् । २,३.१२ । यावदुक्तं वा कर्मणः श्रुतिमूलत्वात् । २,३.१३ । यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसम्बन्धात् । २,३.१४ । लिङ्गदर्शनाच्च । २,३.१५ । ____________________________________________________ २,३.१२१४ पञ्चमाधिकरणमारचयति वायव्यः श्वेत आलभ्यो भूत्यै सौर्ये चरुं तथा । निर्वपेद्बह्मतेजोर्थमीषामुष्टिनिरुप्तयोः ॥ २,३.१२ ॥ गुणौ श्वेतं चरुं किंवा यावत्कथितकर्मणी । फलार्थे अथवा यागे विशिष्टौ विहिताविह ॥ २,३.१३ ॥ श्वैत्यं वायुस्पृगीषायामाग्नेये च रविप्रभे । चरुर्गुणश्चरुः स्थाली निर्वापस्तु तदाश्रितः ॥ २,३.१४ ॥ फलाहानेर्न तत्किं तु यावच्चोदितकर्म तत् । द्रव्यादिरूपसंपत्तेरवार्या यागताऽर्थिकी ॥ २,३.१५ ॥ अनारभ्येदमाम्नायत्ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति,ऽसौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामःऽ इति च । तथा दर्शपूर्णमासयोरिदमाम्नायतेर्"इषामालभेत"इति,"चतुरो मुष्टीन्निर्वपति"इति चर् । इषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः । तस्या आलम्भः स्पर्शः । तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते । तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति । तथा चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते । चरुः स्थाली । सा च निर्वापस्याऽश्रयः । निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यवत् । भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते । तस्मात् गुणविधी इत्येकः पूर्वपक्षः । नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम् । तस्मात्गुणफलविशिष्टे कर्मान्तरे विधीयेते । तदापि यागस्याश्रवणादीलम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः इति द्वितीयः पूर्वपक्षः । श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः । ऽभूतिकामो वायव्येन श्वेतेन पशुना यजेतऽऽब्रह्मवर्चसकामः सौर्येण चरुणा यजेतऽ इत्येवंविधोर्ऽथसिद्धो विधिः । द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः इति चेत् । ऽअनुवादःऽ इति ब्रूमः इति सिद्धान्तः ॥ २,३.१२१५ ॥ (षष्ठे वत्सालम्भादीनां संस्कारताधिकरणे सूत्रे १६१७) विषये प्रायदर्शनात् । २,३.१६ । अर्थवादोपपत्तेश्च । २,३.१७ । ____________________________________________________ २,३.१६ षष्ठाधिकरणमारचयति षत्सालम्भो यजिः स्पर्शो वा वायव्यादिवद्यजिः । स्पर्शः स्याद्देवराहित्यात्संस्कारः प्रायपाठतः ॥ २,३.१६ ॥ अग्निहोत्रदोहाधिकारे श्रूयते "वत्समालभेत"इति । तत्रऽविमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्ऽ इति चेत् । न । देवताराहित्येन तद्वैषम्यात् । किंच ऽअयं वत्सालम्भोऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्ऽ । तस्मात् अये स्पर्शमात्रविधिः ॥ २,३.१६ ॥ (सप्तमे नैवारचरोराधानार्थताधिकरणे सूत्रम्) संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् । २,३.१८ । ____________________________________________________ २,३.१७१८ सप्तमाधिकरणमारचयति चरुर्भवति नैवार उपधत्ते चरुं त्विति । यागः स्यादुपधानं वा यागः शेषोक्तदैवतः ॥ २,३.१७ ॥ यागत्वानिश्चये शेषो नापेक्ष्योऽतो यजिः कुतः । किंतूपधानमात्रत्वं यावदुक्तं चरौ स्थितम् ॥ २,३.१८ ॥ अग्नौ श्रूयते ऽनैवारश्चरुर्भवतिऽ इति,ऽचरुमुपदधातिऽ इति च । तत्र नीवारचरुद्रव्यको यागो विधीयते । न चात्र देवताया अभावः । ऽबृहस्पतेवामेतदन्नं यद्मीवाराःऽ इति वाक्यशेषेण देवतासिद्धेः । उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत् इति प्राप्ते, ब्रूमःऽयागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताकॢष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः । इत्यन्योन्याश्रयः । तस्मात् इहोपधानमात्रं विधीयते ॥ २,३.१७१८ ॥ (अष्टमे पात्नीवतस्य पर्यग्निकरणगुणकत्वाधिकरणे सूत्रम्) पात्नीवते तु पूर्वत्वादवच्छेदः । २,३.१९ । ____________________________________________________ २,३.१९२१ अष्टमाधिकरणमारचयति पर्यग्निकृतः पात्नीवत उत्सृज्यत इत्यसौ । यागौ गुणो वा यागः स्यादन्वयाव्यवधानतः ॥ २,३.१९ ॥ प्रत्यभिज्ञातमालभ्यमनूद्योत्सर्गशब्दतः । गुणं पर्यग्निकृत्याख्यं वक्त्युत्तरनिवृत्तये ॥ २,३.२० ॥ न दुष्टा परिसंख्यात्र चोदकात्प्राग्विधौ सति । पर्यग्निकरणान्ताङ्गरीतिः कॢप्तोपकारतः ॥ २,३.२१ ॥ ऽत्वाष्ट्रं पात्नीवतमालभेतऽ इति प्रकृत्येदमाम्नातम्ऽपर्याग्निकृतं पात्नीवतमुत्सृजन्तिऽ इति । तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादमं यागविधिः । एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते । सिद्धान्ते तुऽपर्यग्निकृतमुत्सृजन्तिऽ इत्यन्वयं वाञ्छन्ति । तदा व्यवहितान्वयो दुर्वारः । तस्मात्षायव्यपशुवद्यागविधिः इति प्राप्ते, ब्रूमः अनारभ्याधीतत्वान्नास्ति सयव्ये प्रकृतप्रत्यभिज्ञा । इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते । तमनूद्य पर्यग्निकृतशब्दान्वितेनऽउत्सृजन्तिऽ इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते । न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थकोऽयं विधिरिधिवाच्यम् । उपरितनाङ्गाननुवृत्तेर्दिधिप्रयोजनत्वात् । नन्वेवं सति परिसंख्या स्यात् । सा च दोषत्रयदुष्टा । स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तवाधश्चेति त्रयो दोषाः । पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वी क्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन् । मैवम् । ऽपर्यग्निकरणोत्तरमावीन्यङ्गानि नानुष्ठेयानिऽ इत्येतस्याः परिसंख्याया अनङ्गीकारात् । कथं तर्हि तन्निवृत्तिःऽआर्थिकीऽ इति ब्रूमः । चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् । तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते । न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्य प्राप्तिरिति वाच्यम् । विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात् । प्रकृतौ च प्राचीनाङ्गनन्तरमादिन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति । एवं च सतिऽउत्सृजन्तिऽ इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते । तदेग्मत्र गुणविधिः ॥ २,३.१९२१ ॥ (नवमे, अदाभ्यादीनां ग्रहनामताधिकरणे सूत्रम्) अद्रव्यत्वात्कवेले कर्मशेषः स्यात् । २,३.२० । ____________________________________________________ २,३.२२२३ नवमाधिकरणमारचयति यददाभ्यं गृहीत्वेति गृह्णात्यंशुमिति द्वयम् । तद्यागो वा गुणो यागः स्याददाभ्यांशुनामतः ॥ २,३.२२ ॥ ग्रहयोरेव नाम स्यादानन्तर्याद्विधिस्तयोः । गुणोऽस्तस्य वाक्येन ज्योतिष्टोमाभिगामिना ॥ २,३.२३ ॥ अमारभ्य श्रूयते ऽएष वै द्दविषा हविर्यजते, योऽदाभ्यं गृहीत्वा सोमाय यजतेऽ इतिऽपरा वा एतस्याऽयुः प्राण एति, योंऽशुं गृह्णातिऽ इति च । तत्र अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागोऽयजतेऽ इत्याख्यातेन विधीयते । ऽअंशुमऽ इत्यत्र यजतेरवश्रवणेऽपि नामविशेषबलादेवापूर्वयागविधिः । न चात्र द्रव्यदेवतयोरभावः । ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वादगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः इति प्राप्ते, ब्रूमः भवत्वदाभ्यांशुशब्दयोर्नामत्वम् । ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः । ऽगृहीत्वाऽ इतिशब्दस्यानन्तरमेव पाठात् । यजतिस्तु व्यवहितः । तादृशोऽपि यजिरंशुवाक्ये नास्ति । तस्माद्ग्रहयोरेवात्र विधिः । ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् । यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथापि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोभगामित्वम् । अत एवऽसोमायादाभ्यं गृहीत्वाऽ इति निर्दिश्यते । अथवातैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम् । तस्मात्ज्योतिष्टोमे गुणविधिः ॥ २,३.२२२३ ॥ (दशमे अग्निचयनस्य संस्कारताधिकरणे सूत्राणि २१२३) अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत । २,३.२१ । द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात् । २,३.२२ । तत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि । २,३.२३ । ____________________________________________________ २,३.२४२५ दशमाधिकरणमारचयति अग्निं चिनुत इत्यत्र यागो वा संस्कृतियंजिः । लिङ्गेन यागनामत्वाद्यजिमा चानुवादतः ॥ २,३.२४ ॥ रूढ्या द्रव्यस्य नामैतद्वहनेराधानवच्चितिः । संस्कारः संस्कृते वह्नावग्निष्टोमो विधीयते ॥ २,३.२५ ॥ ऽय एवं विद्वानग्निं चिनुतेऽ इत्येवं विधाय श्रूयतेऽअथातोऽग्निमाग्निष्टोमेनानुयजति,तमुक्थ्येनऽतं षोडशिना, तमतिरात्रेण, इत्यादि । अत्र अग्निशब्दो यागवाची । स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् । तच्च लिङ्गमेवं श्रूयतेऽअग्नेः स्तोत्रं,अग्नेः शस्त्रम्ऽ इति,ऽषडुपसदोऽग्निश्रित्यस्य भवन्तिऽ इति च । यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापकेऽस्तु । अग्निमग्निष्टोमेनानुयजतिऽ इत्यतेस्मिन्वाक्येऽअग्निं यजतिऽ इति यजिसामानाधिकरण्यात्ऽउपांशु यजतिऽ इतिवद्यागनामत्वम् । अथोच्येत अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयोऽग्निष्टोमस्य, इति । तथाप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति । ऽदेवदत्तमनुगच्छति यज्ञदत्तःऽ इत्यत्र देवदत्ते पुरोगमनदर्शनात् । तस्मात्ऽअग्निं चिनुतेऽ इत्यत्राग्निनामको याग आख्यातेन विधीयते । चिनोतिस्तुऽइष्टकाभिरग्निं चिनुतेऽ इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः इति प्राप्ते, ब्रूमः अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे । रूढिश्च कॢप्ततया लिङ्गादिकल्प्याद्यागवाचित्वा द्बलीयसीति न यागनामत्वम् । न चात्र षागरुपमस्ति । द्रव्यदेतयोरसिद्धेः । अतःऽअग्निमादधीतऽ इत्युक्ताधानत्वात्ऽअग्निं चिनुतेऽ इत्युक्तं चयनमग्निद्रव्यसंस्कारः । न च संस्कृतस्य विनियोगाभावः । ऽअग्निमग्निष्टोमेन यजतेऽ इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् । तस्मात्संस्कारविधिः ॥ २,३.२४२५ ॥ (एकादशे मासाग्निहोत्रादीनां क्रत्वन्तरताधिकरणे सूत्रम्) प्रकरणान्तरे प्रयोजनान्यत्वम् । २,३.२४ । ____________________________________________________ २,३.२६२७ एकादशाधिकरणमारचयति मासं जुहोत्यग्निहोत्रं गुणोऽन्यत्कर्म वा गुणः । अनूद्य प्राप्तकर्मात्र मासोऽप्राप्तो विधीयते ॥ २,३.२६ ॥ उपसद्भिश्चरित्वेति नित्ये तासामसंभवात् । अनेकस्याविधेश्चान्यत्कर्म प्रकरणान्तरात् ॥ २,३.२७ ॥ कुण्डपायिनामयने श्रूयतेऽउपसद्भिश्चरित्वाऽऽमासमग्निहोत्रं जुहोतिऽऽमासं दर्शपूर्णमासाभ्यां यजेतऽ इति । अत्र प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणोऽप्राप्तत्वाद्विधीयते इति चेत् । मैवम् । किं मास एव विधीयते,ऽउपसद्भिश्चरित्वाऽ इत्युक्तोपसदोऽपि । नाऽद्यः । उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् । न द्वितीयः । प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः । ननु मा भूत्तर्हि गुणविधिः । कर्मान्तरत्वे किं प्रमाणम् इति चेत् । ऽप्रकरणान्तरम्ऽ इति ब्रूमः । न सेतग्नित्याग्निहोत्रस्य प्रकरणम् । असंनिहितत्वात् । अयनस्य ह्येतत्प्रकरणम् । अयनमारभ्याधीतत्वात् । का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का इति चेत् । प्रकरणस्यासमर्पकत्वेऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति । सा च वाक्यभेदापत्त्या निराकृता । तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरूद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति । अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते । ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते । ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत् । न । वैषम्यात् । ऽउपादेयतया विधेयो गुणो वाजिनम् । मासो न तथा इत्यपरं वैषम्यम् । परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति । ततः प्रकरणान्तरमेवात्र भेदहेतुः ॥ २,३.२६२७ ॥ (द्वादशे, आग्नेयादिकाम्येष्ट्यधिकरणे सूत्रम्) फलं चाकर्मसंनिधौ । २,३.२५ । ____________________________________________________ २,३.२८२९ द्वादशाधिकरणमारचयति अष्टाकपालमाग्नेयं रुक्कामः प्राकृते फलम् । कर्मान्यद्वा फलं भानात्पूर्वन्यायाप्रवेशनात् ॥ २,३.२८ ॥ मा भूद्भिन्नं प्रकरणं कर्मान्तरमसंनिधेः । अनारभ्याधीतमेतद्रूपं त्वन्यूनमीक्षते ॥ २,३.२९ ॥ अनारभ्य श्रूयतेऽआग्नेयमष्टाकपालं निर्वपेद्रुक्कामःऽ इति । रुक्कामस्तेजस्कामः । अत्र इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते । कुतः । वाक्येनाऽग्नेयफलसंबन्धस्य मासमानत्वात् । न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् । वैषम्यात् । तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम् । इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतोऽत्र प्रकरणान्तरत्वम् । किंच मासोऽनुपादेयः । अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात् । फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् । तस्मात्फलविधिः इति प्राप्ते, ब्रूमः प्रकरणान्तरत्वाभावेऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव । स एवात्र कर्म भिनत्ति । न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात् । यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चोऽस्तु । फलं च मासवदनुपादेयम् । अन्यथा साधनवदफलत्वप्रसङ्गात् । कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते । न तु विधिश्रवणात्संपद्यते । यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् । सर्वथा तेजस्कामेष्टिः कर्मान्तरम् । काम्येष्टिकाण्डपठितेषुऽऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामःऽ इत्यादिष्वयमेव न्यायो द्रष्टव्यः ॥ २,३.२८२९ ॥ (त्रयोदशे अवेष्टेरन्नाद्यफलकत्वाधिकरणे सूत्रम्) संनिधौ त्वविभागात्फलार्थेन पुनः श्रुतिः । २,३.२६ । ____________________________________________________ २,३.३०३२ त्रयोदशाधिकरणमारचयति यजोत्समे पौर्णमास्यां यावज्जीवं तथैतया । अन्नाद्यकाम इत्यादौ कर्मभेदौऽथवा गुणः ॥ २,३.३० ॥ विध्युपादानयोरैक्याद्देशादेरनुत्र्व्पत्तितः । आवश्यके कर्मविधौ तद्भेदः पुनरुक्तितः ॥ २,३.३१ ॥ देशादियोगस्याप्राप्तेर्विधिर्न ह्येकता तयोः । पुंशब्दयोर्व्यापृतित्वात्पुनरुक्त्वा त्वनूद्यते ॥ २,३.३२ ॥ दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्तेऽसमे यजेतऽ पौर्णमास्यां यजेतऽऽयावज्जीवं दर्शपूर्णमासाभ्यां यजेतऽ इति । अवेष्टिप्रकरणे फलमाम्नातम्ऽएतयान्नाद्यकामं याजयंत्ऽ इति । आदिशब्देन संस्कारो गृहीतः । स च दर्शपूर्णमासप्रकरणे समाम्नातःऽशेषं स्विष्टकृते समवद्यतिऽ इति । तत्रदेशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः । अत एव न विधेयाः । उपादानविधिशब्दयोः पर्यायत्वात् । ततःकर्मविधिः इत्यवश्यमभ्युपेयम् । तत्रप्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधानेऽसमिधो यजतिऽ इत्यादिवदभ्यासादेव कर्मभेदः इति प्राप्ते, ब्रूमः देशादीनामविधेयत्वेऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् । स च कर्मवत्पूर्वे न विहित इत्यप्राप्तत्वाद्विधिमर्हति । यदुक्तम उपादानविधिशब्दौ पर्यायौ इति । तदसत् । ऽअप्रवृत्तप्रवर्तनं विधानम, तच्च पुरुषविषयः शब्दव्यापारः । अननुष्ठितस्यानुष्ठानमुपादानम, तच्च कर्माविषयः पुरुषव्यापारःऽ इति महान्भेदः । योऽपिदर्शादीनां पुनर्विधिः सोऽपि देशादिसंबन्धं विधातुं कर्मानुवादः इति न कर्मभेदमावहति । समिधोऽयजतिऽ इत्यादौ विधेयगुणान्तराभावेनानुवादांसभवात्पुनर्विधानं भेदहोतुः इति वैषम्यम् ॥ २,३.३०३२ ॥ (चतुर्दशे,आग्नेयद्विरुक्तेः स्तुत्यर्थताधिकरणे सूत्राणि २७२९) आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयेत । २,३.२७ । अविभागात्तु कर्मणां द्विरुक्तेर्न विधीयते । २,३.२८ । अन्यार्था वा पुनः श्रुतिः । २,३.२९ । ____________________________________________________ २,३.३३३४ चतुर्दशाधिकरणमारचयति दर्शपूर्णमासप्रोक्त आग्नेयः केवलोऽप्यसौ । दर्शे यदिति वाक्याभ्यां कर्मान्यद्वानुवादगीः ॥ २,३.३३ ॥ अभ्यासादन्यकर्मत्वं दर्शेष्टौ द्विः प्रयुज्यताम् । एकत्वप्रत्यभिज्ञानादनूक्त्यैन्द्राग्नसंस्तुतिः ॥ २,३.३४ ॥ यदाग्नेयोऽष्टाकपालोऽमावस्यायां पौर्णमास्यां चाच्युतो भवति । इति कालद्वये विहितम् । ऽयदाग्नेयोऽष्टाकपालोऽमावास्यायां भवतिऽ इत्येकस्मिन्काले पुनर्विहितम् । तत्र अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः । तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः इति चेत् । न । प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् । न चानुवादो व्यर्थः । विधेयैन्द्राग्नस्तुत्यर्थत्वात् । यद्यप्याग्नेयोऽष्टाकपालोऽमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति । इन्द्रसहितोऽग्निः समीचीनतरः । तस्मात् ऽऐन्द्राग्नः कर्तव्यःऽ इति विधेयस्तुतिः । प्रयाजवैषम्यं तूक्तमेवानुसंधेयम् ॥ २,३.३३३४ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालविस्तरे द्वितीयाध्यायस्य तृतीयः पादः _________________________________________________________________________ (अथ द्वितीयाध्यायस्य चतुर्थः पादः) (प्रथमे यावज्जीविकाग्निहोत्राधिकरणे सूत्राणि १ ७) यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् । २,४.१ । कर्तुर्वा श्रुतिसंयोगात् । २,४.२ । लिङ्गदर्शनाच्च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत्स्यात् । २,४.३ । अपवर्गे च दर्शयति कालश्चेत्कर्मभेदः स्यात् । २,४.४ । अनित्यत्वात्तु नैवं स्यात् । २,४.५ । विरोधश्चापि पूर्ववत् । २,४.६ । कर्तुस्तु नियमात्कालशास्त्रं निमित्तं स्यात् । २,४.७ । ____________________________________________________ २,४.१२ चतुर्थपादस्य प्रथमाधिकरणमारचयति यावज्जीवं जुहोतीति धर्मः कर्मणि पुंसि वा । कालत्वात्कर्मधार्मोऽतः काम्य एकः प्रयुज्यताम् ॥ २,४.१ ॥ न कालो जीवनं तेन निमित्तप्रविभागतः । काम्यप्रयोगो भिन्नः स्याद्यावज्जीवप्रयोगतः ॥ २,४.२ ॥ बह्वृचब्राह्मणे श्रूयतेऽयावज्जीवमाग्निहोत्रं जुहोतिऽ इति । तत्रं यावज्जीवशब्दो मरणावधिकालपरः । तत्कालसंबन्धश्च प्रकृते काम्याग्निहोत्रे पूर्वमप्राप्तत्वात्ऽजुहोतिऽ इत्यनूदिते कर्मणि विधीयते । तथा सत्यस्य वाक्यस्य नित्यप्रयोगविधायकत्वाभावेन वाक्यान्तरविहितः काम्यप्रयोग एक एवाग्निहोत्रस्य पर्यवस्यति । स च काम्यप्रयोगोऽभ्यसितव्यः । सकृदनुष्ठानस्यऽअग्निहोत्रं जुहुयात्स्वर्गकामःऽ इत्यनेनैव सिद्धत्वात् । ऽयावज्जीवम्ऽ इत्यस्य कालविधेर्वैयर्थ्यप्रसङ्गात् । तस्मातयं काम्यकर्मणोऽभ्याससिद्धये कालरूपधर्मविधिः । इति प्राप्ते, ब्रूमः यावज्जीवशब्दो न कालस्य वाचकः, किंतु लक्षकः । वाच्यार्थस्तुकृत्स्नजीवनम् । न चजीवनं कर्मधर्मत्वेन विधातुं शक्यम् । तस्य पुरुषधर्मत्वात् । तं च पुरुषधर्मे निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते । न च अत्र कर्मभेदः । तद्धेतूनां शब्दान्तरादीनामभावात् । न चअभ्यासस्तद्धेतुः । निमित्तविशेषसद्भावेनाविशेषपुनःश्रुतेरभावात् । अतः प्रयोगभेदः पर्यवस्यति । जीवनस्यात्र निमित्तत्वात् । सति निमित्ते नैमित्तिकस्य त्यागायोगान्नित्यत्वमर्थसिद्धम् । न चजीवननिमित्तनैरन्तर्येण प्रयोगनैरन्तर्यापत्तिः । सायंप्रातःकालयोर्विहितत्वात् । तस्मात्जीवनस्य पुरूषधर्मत्वान्नीत्यकाम्यप्रयोगौ भिन्नौ ॥ २,४.१२ ॥ (द्वितीये सर्वशाखाप्रत्ययैककर्मताधिकरणे सूत्राणि ८ ३२) नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात् । २,४.८ । एकं वा संयोगरूपचोदनाख्याविशेषात् । २,४.९ । न नाम्ना स्यादचोदनाभिधानत्वात् । २,४.१० । सर्वेषां चैककर्म्यं स्यात् । २,४.११ । कृतकं चाभिधानम् । २,४.१२ । एकत्वेऽपि परम् । २,४.१३ । विद्यायां धर्मशास्त्रम् । २,४.१४ । अग्नेयवत्पुनर्वचनम् । २,४.१५ । अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् । २,४.१६ । अर्थासन्निधेश्च । २,४.१७ । न चैकं प्रतिशिष्यते । २,४.१८ । समाप्तिवच्च संप्रेक्षा । २,४.१९ । एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि । २,४.२० । प्रायश्चित्तं निमित्तेन । २,४.२१ । प्रक्रमाद्वा नियोगेन । २,४.२२ । समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत । २,४.२३ । लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्माद्द्वादशाहस्याहारव्यपदेशः स्यात् । २,४.२४ । द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद्व्यतिष्ठेत तस्मान्नित्यानुवादः स्यात् । २,४.२५ । विहितप्रतिषेधात्पक्षेऽतिरेकः स्यात् । २,४.२६ । सारस्वते विप्रतिषेधाद्यदेति स्यात् । २,४.२७ । उपहव्येऽप्रतिप्रसवः । २,४.२८ । गुणार्था वा पुनः श्रुतिः । २,४.२९ । प्रत्ययं चापि दर्शयति । २,४.३० । अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत । २,४.३१ । विरोधिना त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात् । २,४.३२ । ____________________________________________________ २,४.३४ द्वितीयाधिकरणमारचयति शाखाभेदात्कर्मभेदो न वा, कर्मात्र भिद्यते । दृष्टं काठकनामादि बहु भेदस्य कारणम् ॥ २,४.३ ॥ ग्रन्थद्वारादिना ह्येते युज्यन्ते भेदहेतवः । रूपादिप्रत्यभिज्ञानादभिन्नं कर्म गम्यते ॥ २,४.४ ॥ काठककाण्वमाध्यंदिनतैत्तिरीयादिशाखासु दर्शपूर्णमासाख्यं कर्माऽन्नातम् । तत्र शाखाभेदात्कर्म भिद्यते । कुतः । भेदकारणानां नामभेदादीनां बहूनामुपलम्भात् । काठककाण्वादिको नामभेदः । कारीरीवाक्यान्यधीयानाः केचिच्छाखिनो भूमौ भोजनमाचरन्ति, शाखान्तरध्यायिनो नाऽचरन्ति, इति धर्मभेदः । एकस्यां शाखायामधीताःऽइषे त्वाऽ इत्यादयो मन्त्राः, पलाशशाखाच्छेदादयः क्रियाश्च, शाखान्तरेऽप्यधीयन्त इति पुनरुक्तिः । एवमशक्त्यादयो भेदहेतव उदाहार्याः । न ह्यल्पायुवा मनुष्येण सर्वशाखाध्ययनपूर्वकं कर्मानुष्ठानं कर्तु शक्यम् । तस्मात्शाखाभेदेन कर्मभेदः । इति प्राप्ते ब्रूमः रूपाद्यभेदादेकं कर्म । आग्नेयाष्टाकपालादियागरूपं षदेवैकस्यां शाखायाम्, तदेवान्यत्राप्युपलभ्यते । ऽदर्शपूर्णमासाभ्यां यजेतऽ इति यागरूपः पुरूषव्यापारश्चैकविधः । ऽदर्शपूर्णमासौऽ इति कर्मनामाप्येकम् । ऽस्वर्गकामःऽ इति फलसंबधोऽप्येकः । तस्मातभिन्नं कर्म । पूर्वपक्षहेतवस्त्वन्यथा संगच्छन्ते । काठकादिकं ज्योतिरादिवन्न कर्मसाम,ऽकाठकेन यजेतऽ इत्यश्रवणात् । ऽकाठकवधीतेऽ इति प्रयोगाद्ग्रन्थनोमत्यवगन्तव्यम् । भूभोजनादिरध्ययनधर्मः । पुनरुक्तिरध्येतृभेदान्न दुष्यतिऽ । अल्पायुवापि शाखान्तरस्थोपसंहारन्यायेन कर्मानुष्ठातुं शक्यते । तस्मातनन्यथासिद्धरूपप्रत्यभिज्ञानाच्छाखाभेदेऽपि कर्म न भिद्यते ॥ २,४.३४ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे द्वितीयाध्यायस्य चतुर्थः पादः द्वितीयोऽध्यायस्य समाप्तः अथ तृतीयाध्यायस्य प्रथमः पादः । ____________________________________________________ ३,१.१ द्वितीये कर्मणां भेदे सिद्धेभिन्नक्रियास्वयम् । बुभुत्सितः शेषशेषिभावोऽतोऽत्राभिधीयते ॥ ३,१.१ ॥ अनेन द्वितीयतृतीययोरध्याययोः पौर्वापर्ये निरूपितम् ॥ ३,१.१ ॥ (प्रथमे प्रतिज्ञाधिकरणे सूत्रम् ) अथातः शेषलक्षणम् । ३,१.१ । ____________________________________________________ ३,१.२३ तृतीयाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति अशाब्दी शेषता शाब्दी वा न शाब्द्यप्रतीतितः । क्रियाकारकसंसर्गमात्रे व्युत्पत्तिसंभवात् ॥ ३,१.२ ॥ गुणप्रधानभावेन संसर्गेऽन्तर्भवत्यसौ । व्युत्पत्तिसंभवात्तत्र शाब्दता स्यात्क्रियादिवत् ॥ ३,१.३ ॥ यदिदमस्मिंस्तृतीयाध्याये प्रतिपाद्यं शेषत्वम्, न तच्छाब्दम् । कुतः । केनापि शब्देन शेषत्वस्याप्रतीयमानत्वात् । व्युत्पन्नो हि शब्दः प्रत्यायकः । व्युत्पतिश्च न शेषशेषिभावे क्वचिद्दृष्टा । लोके सर्वत्र क्रियाकारकान्वयस्यैव व्युत्पत्तिप्रयोजकत्वदर्शनात् । अतः शेषताया अशब्दत्वान्नायमध्याय आरम्भणीय इति चेत् । मैवम् । अन्वये शेषशेषिभावस्यान्तर्भावात् । न हि गुणप्रधानभावमन्तरेणान्वयः संभवति । द्वयोर्गुणयोः परस्पराकाङ्क्षारहितत्वेनान्वययोग्यत्वाभावात् । एवं द्वयोः प्रधानयोरपि । अतो व्युत्पत्तिसंभवात्क्रियाकारकतदन्वया यथा शाब्दाः, तथा तदन्वयान्तर्गतः शेषशेषिभावोऽपि शाब्दः । तस्मादयमध्याय आरम्भणीयः ॥ ३,१.२३ ॥ ( द्वितीये शेषलक्षणाधिकरणे सूत्रम् ) शेषः परार्थत्वात् । ३,१.२ । ____________________________________________________ ३,१.४ द्वितीयाधिकरणमारचयति स्वरूपहेतू न स्तोऽत्र स्तो वा नैवानिरूपणात् । पारार्थ्ये शेषताहेतू रूपं तेनोपलक्षितम् ॥ ३,१.४ ॥ न तावदत्र शेषत्वस्य स्वरूपं निरूपयितुं शक्यते । तथा हिशेषत्वं नाम किमविनाभूतत्वम्, प्रयोज्यत्वं वा, विध्यन्तविहितत्वं वा । नाऽद्यः । षडद्यागानामविनाभूतानां परस्परशेषत्वप्रसङ्गात् । न द्वितीयः । ऽपुरोडाशकपालेन तुषानुपवपतिऽ इत्यत्र तुषोपवापं प्रति शेषस्यापि कपालस्य तत्प्रयोज्यत्वाभावात् । न तृतीयः । बिध्यादिविहितस्य पलाशशाखाच्छेदस्य सत्यपि शेषत्वे विध्यन्तविहितत्वाभावात् । तस्मान्नास्ति शेषतायाः स्वरूपम् । नापि हेतुरस्ति । ऽविमतः शेषः, एवंत्वात्, इति कस्यचिद्धेतोरनिरूपणातिति प्राप्ते, ब्रूमःऽविमतः प्रयाजादिः शेषः, परार्थत्वात्, भृत्यादिवत्ऽ इति हेतुः सुनिरूपः । अविनाभूतत्वादीनां लक्षणानां दुष्टत्वेऽपिऽपरार्थः शेषःऽ इति लक्षणस्यादुष्टत्वात् । तेन लक्षित आकारः स्वरूपम् । न च पारार्थ्यस्यैव हेतुत्वे लक्षणत्वे च सांकर्यम् । आकारभेदेन तद्भेदात् । दृष्टान्ते गृहीतव्याप्तिं सहायीकृत्य बोधक आकारो हेतुः । इतख्यावृत्त्या बोधक आकारो लक्षणम् । तस्माच्छेषताया हेतुस्वरूपे विद्येते ॥ ३,१.४ ॥ (तृतीये शेषलक्ष्याधिकरणे सूत्राणि ३६) द्रव्यगुणसंस्कारेषु बादरिः । ३,१.३ । कर्माण्यपि जैमिनिः फलार्थत्वात् । ३,१.४ । फलं च पुरुषार्थत्वात् । ३,१.५ । पुरुषश्च कर्मार्थत्वात् । ३,१.६ । ____________________________________________________ ३,१.५६ तृतीयाधिकरणमारचयति किं द्रव्यगुणसंस्कारमात्रं शेषोऽथवा फलम् । पुमान्कर्म च पक्षो द्वावादेयौ मतभेदतः ॥ ३,१.५ ॥ शेषत्वमुपकारित्वं द्रव्यादावाह बादरिः । पारार्थ्ये शेषता तच्च सर्वेष्वस्तीति जैमिनिः ॥ ३,१.६ ॥ स्फ्यकपालादिकं द्रव्यम्, अरूणिमादिको गुणः, अवघातप्रोक्षणादिकः संस्कारः । एतेषु त्रिष्वेव शेषत्वम् । स्वर्गः फलम्, तत्कामी पुरुषः, दर्शपूर्णमासौ कर्म । न हि फलादीनां त्रयाणां शेषत्वमस्ति । उपकारित्वस्य शेषत्वलक्षणस्य फलादिष्वभावात् इति बादरेर्मतम् । पारार्थ्ये लक्षणमभिप्रेत्यऽफलादयोऽपि शेषाःऽ इति जैमिनेर्मतम् । तथा च त्रीणि सूत्राणि पठ्यन्तेऽकर्माण्यपि जैमिनिः फलार्थत्वात्ऽऽफलं च पुरुषार्थत्वात्ऽऽपुरुषश्च कर्मार्थत्वात्ऽ इति । तत्रोपकारित्वमतिव्याप्तम् । प्रधानभूतेऽपि स्वामिनि गर्भदासोपकारित्वदर्शनात् । तस्माज्जैमिनिमतमेव मुख्यः सिद्धान्तः ॥ ३,१.५६ ॥ (चतुर्थे निर्वपणादीनां व्यवस्थितविषयताधिकरणे सूत्राणि ७ १०) तेषामर्थेन संबन्धः । ३,१.७ । विहितस्तु सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च । ३,१.८ । अर्थलोपादकर्मे स्यात् । ३,१.९ । फलं तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात् । ३,१.१० । चतुर्थाधिकरणमारचयति ____________________________________________________ ३,१.७८ श्रुता व्रीह्याज्यसांनाय्यधर्माः सांकर्यगामिनः । व्यवस्थिता वा सांकर्ये फलापूर्वेण संगतेः ॥ ३,१.७ ॥ अवान्तरापूर्वसत्त्वात्साक्षात्तेनैव संगतौ । श्रुत्या व्यवस्थापितास्ते सा हि प्रकरणोत्तमा ॥ ३,१.८ ॥ व्रीहिधर्मा अवघातप्रोक्षणादयः, आज्यधर्मा उत्पवनावेक्षणादयः, सांनाय्यधर्मा दोहनातञ्चनादयः । ते सर्वे फलहेतुतया दर्शपूर्णमासापूर्वेण संगच्छन्ते । अवान्तरापूर्वस्य कस्यचिदभावात् । एकेनैवापूर्वेण फलसिद्धावपूर्वान्तरस्य कल्पकाभावात् । फलापूर्वप्रयुक्त्या चानुष्ठीयमाना धर्मा यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठिताः फलापूर्वे जनयन्त्येव इति सांकर्ये प्राप्ते, ब्रूमः आग्नेयादयः षड्यागा भिन्नक्षणवर्तिनो विनश्वराः संभूय फलापूर्वे जनयितुं न शक्नवन्ति । ततस्तज्जननसमर्थान्याग्नेयादिजन्यानि षडवान्तरापूर्वाणि कल्प्यानि । तेषु पुरोडाशद्रव्यकयागजन्यापूर्वे व्रीहिधर्माणां प्रयोजकं, प्रत्यासन्नत्वात् । फलापूर्वे तु तेन व्यवहितम् । एवमाज्यधर्माणां सांनाय्यधर्माणां च तत्तद्द्रव्यकयागजन्यावान्तरापूर्वेणैव साक्षात्संगतिः । तथासति तत्तदपूर्वप्रयुक्ताः संस्कारास्तत्तदपूर्वसाधनप्रकृतिद्रव्येष्वेव व्यवतिष्ठन्ते । ननु दर्शपूर्णमासप्रकरणमत्र संस्काराणां विनियोजकम् । तच्च सर्वप्रकृतिद्रव्यसाधारणमिति तदवस्थमेव सांकर्यम् । अथोच्येतऽतुषविमोकस्य व्रीहिष्वेव संभवात्तेष्ववाववातः, न त्वाज्यसांनाय्ययोः । एवं विलापनमाज्य एव । दोहनादिकं सांनाय्य एवऽ इति । बाढम् । दृष्टार्थानां धर्माणां व्यवस्थितत्वेऽप्यदृष्टार्थाः प्रोक्षणादयः संकीर्येरनैति चेत् । मैवम् । ऽव्रीहीन्प्रोक्षतिऽऽआज्यमवेक्षतेऽ इत्यादिद्वितीयाश्रुत्या व्यवस्थापितत्वात् । श्रुतिश्च प्रकरणाद्बलीयसी । तस्माद्व्यवस्थिता धर्माः ॥ ३,१.७८ ॥ (पञ्चमे स्फ्यादीनां संयोगानुसारेण व्यवस्थितत्वाधिकरणे सूत्रम्) द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत । ३,१.११ । ____________________________________________________ ३,१.९१० पञ्चमाधिकरणमारचयति द्रव्यस्य स्फ्यकपालादेः सांकर्ये वा व्यवस्थितिः । यज्ञायुधत्वं सर्वेषां समं तेनात्र संकरः ॥ ३,१.९ ॥ वाक्यस्योद्धननादेः स्याद्वैयर्थ्ये संकरे सति । अनुवादो ह्यायुधोक्तिर्व्यवस्था तेन पूर्ववत् ॥ ३,१.१० ॥ दर्शपूर्णमासयोः श्रूयते ऽस्फ्यश्च कपालानि चाग्निहोत्रहवणी च शूर्पे च कृष्णाजिनं च शम्या चोल्खलं च मुसलं च दृषच्चोषला चैतानि वै दश यज्ञायुधानिऽ इति । स्फ्यशब्देन खड्गाकारं काष्ठमुच्यते । तत्रव्रीह्यादिद्रव्येष्ववघातादिसंस्काराणां सांकर्ये निराकृतेऽपि स्फ्यकपालादिद्रव्याणा मुद्धननपुरोडाशश्रवणाद्यङ्गक्रियासु सांकर्ये निराकर्तुमशक्यम् । येन केनापि द्रव्येण यस्यां कस्यांचित्क्रियायां कृतायामपि श्रूयमाणस्य यज्ञायुधत्वस्याविरोधात् । नह्यव्यवस्थामात्रेण यज्ञसाधनत्वमपैति इति प्राप्ते, ब्रूमःऽस्फ्येनोद्धन्तिऽऽकपालेषु श्रपयतिऽऽअग्निहोत्रहवण्या हवींषि निर्वपतिऽऽशूर्पेंण विविनक्तिऽऽकृष्णाजिनमधस्तादुलूखलस्यावस्तृणातिऽऽशम्यया । दृषदमुपदधातिऽऽउलूखलमुसलाभ्यामवहन्तिऽऽदृषदुपलाभ्यां पिनष्टिऽ इत्येतेषां विशेषसंयोगबोधकानां वाक्यानां वैयर्थ्ये सांकर्यपक्षे प्रसज्येत । व्यवस्थापक्षेऽपि संबन्धसामान्यबोधकं यज्ञायुधवाक्यमनर्थकम् इति चेत् । न । उद्धननादिवाक्यसिद्धार्थानुवादत्वात् । न च वैपरीत्येनोद्धननादिवाक्यानामेवानुवादत्वमिति वाच्यम् । बहुवैयर्थ्यस्य जघन्यत्वात् । न चात्यन्तं यज्ञायुधानुवादस्य वैयर्थ्यम् । ऽयज्ञायुधानि संभरन्तिऽ इत्यासादनबिधानायोपयुक्तत्वात् । तस्मात् अवघातादिसंस्कार इव स्फ्यकपालादिद्रव्याणि व्यवस्थितानि ॥ ३,१.९१० ॥ (षष्ठे, आरुण्यादिगुणानामसंकीर्णताधिकरणे सूत्रम् ) अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात् । ३,१.१२ । ____________________________________________________ ३,१.१११२ षष्ठाधिकरणमारचयति क्रीणात्यरुणयेत्येतत्संकीर्णे वा क्रयैकभाक् । क्रमेणानन्वयात्कीर्णः सर्वद्रव्येषु रक्तिमा ॥ ३,१.११ ॥ द्रव्यद्वारा क्रये योगात्तद्भागे चान्वयः पुनः । साक्षात्क्रये गुणस्यार्थाद्द्रव्यं संनिहिते त्वसौ ॥ ३,१.१२ ॥ ज्योतिष्टोमे श्रूयते ऽअरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणातिऽ इति । तत्र अरुणाशब्दोऽरुणिमानं गुणमाचष्टे । गुणिविषयतया प्रयुज्यमानस्यापिऽनागृहीतविशेषण विशिष्टेर्बुद्धःऽ इति न्यायेन गुणबोधकत्वात् । अन्वयव्यतिरेकाभ्यां गुणमात्रे तद्व्युत्पत्तेश्च । तस्य चारुणिमगुणस्य तृतीयाश्रुत्या सोमक्रयसाधनत्वं प्रतीयते तच्चानुपपन्नम् । अमूर्तस्य गुणस्य वासोहिण्याजिवत्क्रयसाधनत्वासंभवात् । ततस्तृतीयाश्रुतेर्विनियोजकत्वाभावेन प्रकरणस्यात्र विनियोजकत्वं वक्तव्यम् । प्रकरणं च ग्रहचमसाद्यखिलद्रव्येष्वरुणिमानं निवेशयति । न चानेन न्यायेन पिङ्गाक्ष्येकहायनीशब्दार्थयोरपि सर्वद्रव्यगामित्वं शङ्कनीयम् । तयोः शब्दयोर्द्रव्यवाचित्वात् । पिङ्गलवर्णे अक्षिणी यस्याः सा गौः पिङ्गाक्षी । एवमेकहायनी । यद्यप्येकगोवाचिनौ शब्दौ, तथापि विशेषणभूतधर्मभेदाच्छब्दद्वयम् । तच्च युगपत्प्रवृत्तं सद्धर्मद्वयविशिष्टं गोद्रव्यं क्रयसाधनत्वेन विदधाति । न चेतरद्द्रव्यमितरद्रव्ये निवेशयितुं शक्यम् । अरुणिमगुणस्तु द्रव्येषु विशेषणत्वेनान्वेतुं योग्यत्वात्तेषु निवेश्यते । तत्रैषाक्षरयोजना ऽअरुणयाऽ इत्येतत्पृथग्वाक्यम् । तत्र तृतीयाश्रुत्या प्राकरणिकानि साधनद्रव्याणि सर्वाण्यनूद्य प्रातिपदिकेन गुणो विधीयतेऽयानि ज्योतिष्टों साधनद्रव्याणि, तानि सर्वाण्यरुणानि कर्तव्यानिऽ इति । तस्मात् गुणः संकीर्णः इति प्राप्ते, ब्रूमः यद्यप्यमूर्ते गुणः, तथापि हायनवदक्षिवच्च गोद्रव्यमवच्छिनत्ति । तच्च द्रव्यं साधनमिति तद्द्वारा गुणस्य क्रयेणान्वयो भवति । एवं सति वाक्यभेदो न भविष्यति । ननु वाक्यभेदाभावेऽपि लक्षणा दुर्वारा । गुणवाचिनः शब्दस्य गुणिद्रव्यपरत्वाङ्गीकारात् । मैवम् । गुस्यैवात्र तृतीयाश्रुत्या साधनत्वमुच्यते । तच्च द्रव्यद्वारमन्तरेण न संभवतीत्यर्थापत्त्या द्रव्यावच्छेदकत्वं कल्प्यते । तर्हि ग्रहचमसादिद्रव्यमप्यवच्छिद्यताम् इति चेत् । न । तस्य द्रव्यस्य क्रयसाधनत्वाभावेन तदवच्छेदे गुणस्य श्रूयमाणक्रयसाधनत्वासिद्धेः । तर्हि ऽवाससा क्रीणातिऽऽअजया क्रीणातिऽ इति वस्त्रादीनां क्रयसाधनत्वात्तदवच्छेदोऽस्तु इति चेत् । न । तेषां क्रयान्तरसाधनत्वात् । न हि तत्राग्निहोत्रे पयोदध्यादिविकल्पवत्क्रयानुवादेन वस्त्रादिद्रव्यविकल्पो विधीयते । अनुवाद्यस्य क्रयमात्रस्याग्निहोत्रवदन्यत्राविधानात् । ततो वस्त्रादिद्रव्यविशिष्टाः क्रयान्तरविधयः । नहि स्ववाक्यगतमेकहायनीद्रव्यमुपेक्ष्य वस्त्राद्यवच्छेदो युक्तः । तस्मात्क्रयेण साक्षादन्वितयोर्द्रव्यगुणयोः पश्चादर्थापत्त्या परस्परवच्छेदकत्वेनान्वयः । तथा सतिऽआरुण्यविशिष्टैकहायन्या क्रीणातिऽ इत्यर्थः पर्यवस्यति । तस्मात् आरुण्यगुणः क्रयहेतुमेकहायनीमेव भजते ॥ ३,१.१११२ ॥ (सप्तमे ग्रहसंमार्जनाधिकरणे (ग्रहैकत्वन्याये) सूत्राणि १३ १५) एकत्वयुक्तमेकस्य श्रुतिसंयोगात् । ३,१.१३ । सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम् । ३,१.१४ । चोदिते तु परार्थत्वाद्यथाश्रुति प्रतीयेता । ३,१.१५ । ____________________________________________________ ३,१.१३१४ सप्तमाधिकरणमारचयति संमार्ष्टि ग्रहमित्येको ग्रहः शोध्य उताखिलः । एक उद्देश्यसंख्याया उपादेयवदादरात् ॥ ३,१.१३ ॥ प्राधान्यात्तद्गुणावृत्तेरेकत्वमनपेक्षितम् । तद्विधौ वाक्यभेदोऽतो द्रव्योक्त्या सर्वशोधनम् ॥ ३,१.१४ ॥ सोमे श्रूयतेऽदशापवित्रेण ग्रहं संमार्ष्टिऽ इति । दशापत्रित्रं वासःखण्डः । तत्र यथाऽपशुना यजेतऽ इत्यश्चोपादेयपशुगतमेकत्वं विवक्षितम्, तद्वद्द्देश्यग्रहगतमप्येकत्वं विवक्षितव्यम् । किंच ग्रहशब्दस्य जातिवाचित्वेन जातेः संस्कायत्वे सति तदाश्रयभूते यस्मिन्कस्मिन्नपि द्रव्येऽनुष्ठितेन संस्कारेण जातिः संस्कृता भवति । तस्मात् एक एव ग्रहः शोधनीयःिति प्राप्ते, ब्रूमःऽग्रहम्ऽ इति द्वितीयया ग्रहस्योद्देश्यतया प्रयोजनवत्तया च प्राधान्यं गम्यते । ग्रहं प्रति गुणः संमार्गः । ऽप्रतिप्रधानं च गुण आवर्तनीयःऽ इति न्यायेन यावन्तो ग्रहाः सन्ति, ते संमार्जनीयाः । एवं निश्चये सति संमार्जयितव्यग्रहेयत्ताया अवुभुत्सितत्वादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । अथोच्येत नेदमुद्देश्यगतम्, किंतु द्वयं विधेयमिति । तन्न । वाक्यभेदापत्तेः । ऽग्रहं संसृज्यात्, तं चैकम्ऽ इत्येवं विधेयार्थभेदाद्वाक्यभेदः । ऽ पशुना यजेतऽ इत्यत्र तु यागं प्रति गुणभूतः पशुः । न हिऽप्रतिगुणं प्रधानस्याऽवृत्तिःऽ इति कश्चिन्यायोऽस्ति । तत इयत्ताया बुभुत्सितत्वाच्छ्रूयमाणमेकत्वं विवक्ष्यत इति वैषम्यम् । न च जातिः संस्कार्या । तस्या अभूर्तत्वात् । ततो जातिद्वारा द्रव्यलक्षको गुणशब्दः । तत्र चाऽवृत्तिरुक्ता । तस्मात्सर्वे ग्रहाः संमार्जनीयाः ॥ ३,१.१३१४ ॥ (अष्टमे चमसादौ संमार्गाद्यप्रयोगाधिकरणे सूत्रे १६ १७) संस्काराद्वा गुणानामव्यवस्था स्यात् । ३,१.१६ । व्यवस्था वार्थस्य श्रुतिसंयोगात्तस्य शब्दप्रमाणत्वात् । ३,१.१७ । ____________________________________________________ ३,१.१५१६ अष्टमाधिकरणमारचयति चमसादि च संसृज्यान्नो वा तस्यास्ति मार्जनम् । एकत्ववद्ग्रहत्वस्याप्यनादरणसंभवात् ॥ ३,१.१५ ॥ अबाधोऽत्राऽदरे हेतुर्वाक्यभेदस्तु नैव हि । चमसादौ न संमार्गः श्रुत्या तद्विषयार्पणात् ॥ ३,१.१६ ॥ ऽग्रहम्ऽ इत्यत्र प्रत्ययार्थभूतमेकत्वं यथा न विवक्षितम्, तथा प्रातिदिकार्थस्य ग्रहत्वस्याप्यविवक्षा संभाव्यते । ततो ग्रहशब्दस्य सोमपात्रोपलक्षकत्वाद्ग्रहाणामिव चमसानामपि संमार्गेण सोमावसेकनिर्हरणप्रयोजनसंभवाच्यमसादयोऽपि मार्जनीयाः इति प्राप्ते, ब्रूमः एकत्वं वाक्यभेदेन दुष्टत्वादविवक्षितम् । अदुष्टं तु ग्रहत्वं कुतो न विवक्ष्येत । ततः सत्यपि प्रयोजने प्रमाणाभावाच्चमसादौ नास्ति संमार्गः । न च विपयापेक्षया तत्कल्पनम् । ग्रहश्रुत्यैव तद्विषयसमर्पणात् । तस्मान्नास्ति संमार्गः ॥ ३,१.१५१६ ॥ (नवमे सप्तदशारत्नितायाः पशुधर्मताधिकरणे सूत्रम्) आनर्थक्यात्तदङ्गेषु । ३,१.१८ । ____________________________________________________ ३,१.१७१९ नवमाधिकरणमारचयति भवेत्सप्तदशारत्निर्वाजपेयस्य यूपकः । उन्मानं द्रव्यगं वाजपेयस्याङ्गं पशोरुत ॥ ३,१.१७ ॥ आनन्तर्यात्प्रकरणात्कर्माङ्गं षोडशिन्यदः । ऊर्ध्वपात्रे खादिरेऽग्ने संयुज्यान्वेति कर्मणा ॥ ३,१.१८ ॥ यूपद्वारा पशोरङ्गं पशुद्वारा च कर्मणः । सौमिकत्वाद्वाजपेये यूपो नास्ति पशुं विना ॥ ३,१.१९ ॥ वाजपेयप्रकरणे श्रूयते ऽ सप्तदशारत्निर्वाजपेयस्य यूपो भवतिऽ इति । तत्र यूपद्रव्यगतं सप्तदशारत्निशब्दोदितं यदूर्ध्वमानं तद्वाजपेयकर्मणोऽङ्गम् । सप्तदशारत्निशब्दवाजपेयशब्दयोरानन्तर्यात् । प्रकरणं चैवमनुगृह्यते । यदि कर्मणः साक्षादूर्ध्वमानं न संभवेत्, तर्हि वाजपेयगतं खादिरमूर्ध्वे यत्षोडशिपात्रं तस्मिन्नद उन्मानं प्रथमं संबध्य तद्द्वारा कर्मणान्वेति इति प्राप्ते, ब्रूमःऽसप्तदशारत्निर्यूपःऽ इति सामानाधिकरण्याद्यूपेन साक्षात्संबध्यते । तस्य यूपस्य पश्वङ्गत्वादुन्मानं यूपद्वारा पशोरङ्गं भवति । तस्यापि पशोर्वाजपेयाङ्गत्वात्पशुद्वारा कर्मणोऽङ्गम् । यद्यपि वाजपेययूपशब्दयोरानन्तर्यमस्ति, तथापि वाजपेयस्य सोमयागतया साक्षाद्यूपसंबन्धाभावा त्पशुव्यवधानमभ्युपेयम् । ऽवाजपेयस्यऽ इति षष्ठ्याः संबन्धमात्रवाचित्वेन व्यवहितसंबन्धमप्यसावभिधत्ते । ऽदेवदत्तस्य नप्ताऽ इति प्रयोगात् । यत्तुसप्तदशारत्निवाजपेयशब्दयोरानन्तर्यम्, पञ्च प्रकरणम्ऽ तदुभयमप्यविरुद्धम् । पश्वङ्गत्वेऽप्यन्ततो वाजपेयाङ्गत्वाङ्गीकारात् । किंच पूर्वपक्षे यूपशब्देन षोडाशिपात्रं लक्षणीयम् । सिद्धान्ते तु नासौ देषः ॥ ३,१.१७१९ ॥ (दशमे, अभिक्रमणादीनां प्रयाजमात्राङ्गताधिकरणे सूत्रे १९ २०) कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात् । ३,१.१९ । साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण । ३,१.२० । ____________________________________________________ ३,१.२०२२ दशमाधिकरणमारचयति अभिक्रामं जुहोतीति युक्तं कर्त्राखिलस्य तत् । किंवा प्रयाजमात्रस्य कृत्स्नकर्तृयुतं भवेत् ॥ ३,१.२० ॥ प्रयाजाभिक्रमणयोः क्रियात्वादुभयोरपि । मिथः संबन्धराहित्यान्मैवं तेऽपि समत्वतः ॥ ३,१.२१ ॥ कर्तृयोगाददोषश्चोत्समानेयं समाहितिः । ततः प्रयाजसांनिध्यात्तत्कर्त्रैवास्य संयुतिः ॥ ३,१.२२ ॥ दर्शपूर्णमासयोः प्रयाजसमीपे श्रूयतेऽअभिक्रामं जुहोतिऽ इति । तत्र होमकाले यदेतदाहवनीयमभितः संचरणं, तत्कृत्स्नदर्शपूर्णमासकर्त्रा संबध्यते, न तु प्रयाजमात्रकर्त्रा । कुतः । अभिक्रमणस्य क्रियारूपस्य कारकत्वाभावेन प्रयाञक्रियया संबन्धासंभवात् इति चेत् । मैवम् । क्रियारूपत्वादेव दर्शपूर्णमासक्रिययापि संबन्धासंभवात् । अथोच्येतअभिक्रमणं कर्तृकारकेण साक्षात्संबध्यते, तद्द्वारा कृत्स्नदर्शपूर्णमासकर्मणा संबध्यते इति । तदेतत्समाधानं प्रयाजसंबन्धेऽपि समानम् । अतः संनिधिबलात्प्रयाजकर्त्रा संबध्यते ॥ ३,१.२०२२ ॥ ____________________________________________________ ३,१.२३२४ एतदेवाधिकरणं वार्तिककारमतेनाऽचरयति यद्वा बलित्वं सांनिध्यादस्ति प्रकरणे ततः । दर्शादिप्रक्रियाधीते क्रमणे स्यात्तदङ्गता ॥ ३,१.२३ ॥ अवान्तरप्रकरणं समिधो यजतीत्यतः । तन्मध्यपांठात्तस्याङ्गं तद्द्वारा दर्शशेषता ॥ ३,१.२४ ॥ अस्मिन्नपि मते तावेव विषयसंशयौ । पूर्वोत्तरपक्षहेतुमात्रमन्यत् । प्रयाजसंनिधितोऽपि दर्शपूर्णमासप्रकरणस्य प्रबलत्वात्प्राकरणिकेषु कृत्स्नेष्वप्यभिक्रमणं निविशते इति पूर्वःपक्षः । "समिधो यजति"इत्यारंभ्याऽम्नातमवान्तरप्रयाजप्रकरणम् । तन्मध्येऽभिक्रमणमाम्नातम् । तस्य चाभिक्रमणविधेरुभयतः प्रयाजविषयैर्वाक्यैः संदृष्टत्वादभिक्रमणं प्रयाजमात्रे निविशते इति राद्धान्तः । अस्मिन्नपि पक्षे महाप्रकरणं न विरुध्यते । प्रयाजद्वारा दर्शपूर्णमासयोर्निवेशात् ॥ ३,१.२३२४ ॥ (एकादशे, उपवीतस्य प्राकरणिकाङ्गताधिकरणे सूत्रम्) संदिग्धे तु व्यवायाद्वाक्यभेदः स्यात् । ३,१.२१ । ____________________________________________________ ३,१.२५२६ एकादशाधिकरणमारचयति उपव्ययत इत्यस्य सामिधेन्यङ्गताथवा । दर्शाङ्गता प्रक्रियैषावान्तरातोऽस्त्विहाग्रिमः ॥ ३,१.२५ ॥ लिङ्गादग्नेरङ्गभूतैर्निवित्संज्ञकमन्त्रकैः । विच्छेदे सति दर्शाङ्गं महाप्रकरणोक्तितः ॥ ३,१.२६ ॥ दर्शपूर्णमासप्रकरणेऽविश्वरूपो वै त्वाष्ट्रः" इत्यस्मिन्प्रपाठके सप्तमाष्टमयोरनुवाकयोः सामिधेनीब्राह्मणमाम्नातम् । नवमे निवित्संज्ञकानाम्"अग्ने महामसि ब्राह्मणभारतऽ इत्यादीनां मन्त्राणां ब्राह्मणम् । दशमे काम्याः सामिधेनीपक्षाः । एकादशे तु उपवीतमेवं विहितम् ऽनिवीतं मनुष्याणाम्, प्राचीनावीतं पितॄणाम्, उपवीतं देवानाम्, उपव्ययते देवलक्ष्ममेव तत्कुरुते"इति । तत्र पूर्वन्यायेन सामिधेनीप्रकरणस्यावान्तरस्याङ्गीकारात्सामिधेन्यङ्गमुपवीतम् इति चेत् । न । निविद्ब्राह्मणेन सामिधेनीप्रकरणस्य विच्छेदितत्वात् । न च निविदामपि सामिधेन्यङ्गतया तत्प्रकरणपाठादविच्छेदकत्वम् इति वाच्यम् । लिङ्गेन निविदामग्न्यङ्गत्वावगमात् । आहुत्यधिकरणभूतमग्निं संबोध्य"महानसि"इत्यादिभिर्निविद्वाक्यैरग्नेरुत्साहजननाय तद्गुणा आवेद्यन्ते । अत एव निर्वचनमेवं श्रूयते "निविद्भर्न्यवेदयेत्, तन्निविदां निवित्त्वम्"इति । ननु ऽसम्यगिध्यतेऽग्निर्याभिऋग्भिस्ताः सामिधेन्यःऽ इति व्युत्पत्त्या ता अप्यत्र ज्वलनद्वारेणाग्न्यर्था एव इति चेत् । सन्तु नाम । नैतावता परस्परमङ्गाङ्गिभावः । ननु विच्छिद्यतां सामिधेनीप्रकरणम्, निवित्प्रकरणेनोपवीतस्य निबिदङ्गत्वं स्यात् इति चेत् । न । पूर्वोत्तरानुवाकयोर्निविदामश्रवणेन प्रकरणाभावात् । संनिधिना तदङ्गत्वम् इति चेत् । न । काम्यसामिधेनीभिर्व्यवधानात् । न च काम्यसामिधेन्यङ्गता शङ्कनीया । संनिधितः प्रकरणस्य प्रबलत्वात् । तस्मात् इह प्रयाजन्यायाभावान्महाप्रकरणेन दर्शपूर्णमासाङ्गमुपवीतम् ॥ ३,१.२५२६ ॥ (द्वादशे गुणानां मिथोऽसंबन्धाधिकरणे सूत्रम्) । गुणानां च परार्थत्त्वादसम्बन्धः समत्वात्स्यात् । ३,१.२२ । ____________________________________________________ ३,१.२७२८ द्वादशाधिकरणमारचयति वैकङ्कतादिकं पात्रं पवमानहविःष्वथ । यज्ञेऽखिले प्रकरणादाधानेऽन्वितमत्र तत् ॥ ३,१.२७ ॥ अनर्थकं तदङ्गेषु हविःष्वेवावतिष्ठते । नाऽधानहविषां साम्याद्वाक्याद्यज्ञेऽखिले भवेत् ॥ ३,१.२८ ॥ आधानप्रकरणे दारुपात्रं होमार्थे यज्ञार्थे च श्रूयते "तस्माद्वारणो यज्ञावचरः स्यान्नत्वेतेन जुहुयात्, वैकङ्कतो यज्ञावचरः स्याज्जुहुयादेवैतेन"इति । यज्ञावचरो यज्ञप्रचारहेतुः । तत्र वारणवैकङ्कतादिपात्रं प्रकरणबलादाधाने प्रथममन्वेति । एतेन पात्रेणाऽधाने प्रयोजनाभावादाधानाङ्गेषु पवमानहविःष्वेव तत्पात्रं निविशते । अस्ति हि पवमानहविषामाधानाङ्गत्वम् । तत्प्रकरणे पाठात् । ऽकृत्तिकास्वग्निमादधीतऽ इत्यस्मिन्प्रकरणेऽप्रजापतिर्वाचः सत्यमपश्यत्ऽ इत्यस्मिन्ननुवाकेऽत्रीणि हवींषि निर्वपतिऽ इत्यादिना तानि विहितानि । ततो यथा सप्तदशारत्नित्वं वाजपेये साक्षादसंभवत्तदङ्गपशोरङ्गे निविशते, तद्वदिदमपि इति प्रापते, ब्रूमः अग्निमुद्दिश्याऽधानं यथा विहितं, तथा पवमानहवींष्यपि । ऽयदाहवनीये जुह्वति तेन सोऽस्वाभीष्टः प्रीतःऽ इत्याहवनीयोद्देशेन पवमानहविर्होमविधानात् । तस्मादग्निसंस्कारत्वेन समाम्नातानाप्राधानहविषां नास्ति परस्परमङ्गाङ्गिभावः । तथा सति प्रकरणस्य पात्रं प्रति विनियोजकत्वाभावात् । ऽवैकङ्कतो यज्ञावचरःऽ इति वाक्येन दर्शपूर्णमासादिसर्वयज्ञेषु तद्विनियुज्यते ॥ ३,१.२७२८ ॥ (त्रयोदशे वार्त्रघ्न्यधिकरणे सूत्रम् ) मिथश्चानर्थसंबन्धात् । ३,१.२३ । ____________________________________________________ ३,१.२९३१ त्रयोदशाधिकरणमारचयति वार्त्रघ्न्यौ पूर्णमासे स्तो वृधन्वत्यौ तु दर्शगे । इति प्रधानशेषत्वमुक्तं किंवा व्यवस्थितिः ॥ ३,१.२९ ॥ क्रमेण प्रापिता मन्त्राश्चत्वारोऽप्याज्यभागयोः । क्रमाद्वाक्यं बलीयोऽत एषां दर्शादिशेषता ॥ ३,१.३० ॥ न मुख्ये सोम एकोऽस्ति नाऽधारत्वादिकालयोः । दर्शादेरव्यवस्थित्याप्राप्तौ वाक्याद्व्यवस्थितिः ॥ ३,१.३१ ॥ दर्शपूर्णमासप्रकरणे श्रूयते ऽवार्त्रघ्नीऽ पूर्णमासेऽनूच्येते, वृधन्वती अमावायायाम्ऽ इति । तत्र इदं वार्त्रघ्नीयुगलं वृधन्वतीयुगलं च हौत्रकाण्ड आज्यभागयोः क्रमेऽअग्निर्वृत्राणि जङ्घनम्ऽ इत्यनुवाकेनाऽम्नातम् । उदाहृतेन तु ब्राह्मणवाक्येन दर्शपूर्णमासयागयोस्तद्विधिरवगम्यते । तत्र वाक्यस्य प्रबलत्वादेषां मन्त्राणां दर्शपूर्णमासयागाङ्गत्वम्, न त्वाज्यभागाङ्गत्वम् इति प्राप्ते, ब्रूमःऽअग्निर्वृत्राणि जङ्गनत्ऽ इत्याग्नेयी प्रथमा वार्त्रघ्नी,ऽत्वं सोमासि सत्पतिःऽ इति सौम्या द्वितीया वार्त्रघ्नी । ऽअग्निः प्रत्नेन जन्मनाऽ इत्याग्नेयी प्रथमा बृधन्वती,ऽसोम गीर्भिष्ट्वा वयम्ऽ इति सौम्या द्वितीया वृधन्वती । तत्र मुख्ययोर्दर्शपूर्णमासयागयोराग्नेयपुरोडाशसद्भावादाग्नेयीद्वयस्य विकल्पेन पुरोनुवाक्यात्वं कथंचिद्भवतु । सौम्ययोस्तु तन्न संभवति । सोमदेवताया अभावात् । नह्यग्नीषोमीयेऽपि केवलः सोमो विद्यते । किंचऽपूर्णमासे, अमावास्यायाम्ऽ इति सप्तमीभ्यामाधारत्वं गम्यते । तच्च यागवाचित्वे यागस्य मुख्यत्वान्न संभवति । कालस्य तूपसर्जनत्वात्तद्वाचित्वं युक्तम् । किंच प्रयाजमन्त्रानुवादकस्यानन्तरमेवायमनुवाकः पठितः । स चाऽज्यभागयोरङ्गयोः क्रमः । न तु मुख्ययोदर्श पूर्णमासयोः । तस्मान्न मन्त्रचतुष्टयस्य मुख्ययागाङ्गत्वम, किं त्वाज्यभागाङ्गत्वम् । ननु एतत्क्रमेणैव लब्धम् । तत्रापिऽआग्नेये प्रथमाज्यभागे मन्त्रोऽप्याग्नेयः । सौम्ये द्वितीये सौम्यःऽ इत्येषा व्यवस्था लिङ्गेनैव लभ्यते । बाढम् । तथापिऽवार्त्रघ्नीयुगलं पौर्णमासीकाले, वृधन्वतीयुगलममावास्यायाम्ऽ इत्येषा व्यवस्था पूर्वनप्राप्ता ब्राह्मणवाक्येनाभिधीयते इति न वैयर्थ्यम् ॥ ३,१.२९३१ ॥ (चतुर्दशे हस्तावनेजनादीनां कृत्स्नप्राकरणिकाङ्गताधिकरणे सूत्रे २४ २५ ) आनन्तर्यमचोदना । ३,१.२४ । वाक्यानां च समाप्तत्वात् । ३,१.२५ । ____________________________________________________ ३,१.३२३३ चतुर्गशाधिकरणमारचयति हस्तौ द्वाववनेनिक्ते स्तृणात्युलपराजिकाम् । दर्भास्तरण एवाङ्गं हस्तर्शुद्धरुताखिले ॥ ३,१.३२ ॥ तन्मात्राङ्गत्वमत्र स्यादानन्तर्यात्मकात्क्रमात् । लिङ्गप्रकरणाभ्यां तु सर्वानुष्ठानशेषता ॥ ३,१.३३ ॥ दर्शपूर्णमासप्रकरणे श्रूयते ऽहस्ताववनेनिक्ते,ऽऽउलपराजिं स्तृणातिऽ इति । वेद्यामास्तरितुं संपादितस्तृणस्तम्ब उलपराजिः । तत्र हस्तर्शुद्धदर्भास्तरणवाक्ययोर्नैरन्तर्येण पठितत्वात्क्रमप्रमाणेन हस्तर्शुद्धरास्तरणमात्रस्याङ्गम् इति चेत् । मैवम् । अवनेजनं हस्तसंस्कारः । ऽसंस्कृतौ च हस्तौ सर्वानुष्ठानयोग्यौऽ इत्येतादृशं सामर्थ्यो लिङ्गम् । प्रकरणं च दर्शपूर्णमासयोः स्फुटम् । अतः प्रबलाभ्यां लिङ्गप्रकरणाभ्यां क्रमबाधात्सर्वशेषो हस्तर्शुद्धः । अयं न्यायो वाग्यमेऽपि द्रष्टव्यः । स च वाग्यमो ज्योतिष्टोमप्रकरणे श्रुतःऽमुष्टी करोतिऽऽवाचं यच्छतिऽ इति । तदनन्तरमेवेदं श्रुतम् ऽदीक्षितमावेदयतिऽ इति । आवेदनप्रकारश्चैवं श्रुतःऽअदीक्षिष्टायं ब्राह्मण इति त्रिरुपांश्वाह देवेभ्य एवैनं प्राह, त्रिरुच्चैरुभयेभ्य एवैनं देवमनुष्येभ्यः प्राहऽ इति । अत्र मुष्टीकरणवाङ्नियमाभ्यां हस्तजिह्वागतचापले निवारिते सति मनस एकाग्रस्य सर्वकर्मस्तु योग्यत्वं लिङ्गम् । तेन क्रमो बाध्यते ॥ ३,१.३२३३ ॥ (पञ्चदशे चतुर्धाकरणादीनामाग्नेयमात्राङ्गताधिकरणे सूत्रे २६२७) । शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसंबन्धात् । ३,१.२६ । व्यवस्था वार्थसंयोगाल्लिङ्गस्यार्थेन संबन्धाल्लक्षणार्था गुणश्रुतिः । ३,१.२७ । ____________________________________________________ ३,१.३४३६ पञ्चदशाधिकरणमारचयति चतुर्धा कार्य आग्नेयः पुरोडाश इतीरितम् । चतुर्धाकरणं सर्वशेषो वाऽग्नेयमात्रगम् ॥ ३,१.३४ ॥ उपलक्षणताऽग्नेये युक्तातः सर्वशेषता । अग्नीषोमीय ऐन्द्राग्ने यतोऽस्त्वाग्नेयता ततः ॥ ३,१.३५ ॥ नाऽग्नेयत्वं तयोर्मुख्यं केवलाग्न्यनुपाश्रयात् । तेनैकस्मिन्पुरोडाशे चतुर्धाकरणस्थितिः ॥ ३,१.३६ ॥ दर्शपूर्णमासयोः श्रूयते ऽआग्नेयं चतुर्धा करोतिऽ इति । तत्र आग्नेयवदैन्द्राग्नाग्नीषोमीययोरपि पुरोडाशयोरग्निसंबन्धादाग्नेयशब्देन पुरोडाशत्रययुपलक्ष्यते । ततस्त्रयाणां शेषः इति चेत् । मैवम् । नहिऽआग्नेयःऽ इत्ययर्ं तद्धतः संबन्धमात्रे विहितः, किंतु द्देवतासंबन्धे । आग्निश्च केवलो द्विदैवत्ययोः पुरोडाशयोर्न देवता । ततो द्देवतैकदेशेन कृत्स्नदेवतोपलक्षणत्वादाग्नेयत्वं तयोर्न मुख्यमिति मुख्य एवाऽग्नेये चतुर्धाकरणं व्यवतिष्ठते ॥ ३,१.३४३६ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य प्रथमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य द्वितीयः पादः । अर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात् । ३,२.१ । संस्कारकत्वादचोदितेन स्यात् । ३,२.२ । ____________________________________________________ ३,२.१२ द्वितीयपादे प्रथमाधिकरणमारचयति देवोपसदनं बर्हिर्दामिगीर्मुख्यगौणयोः । तल्लिङ्गमर्थयोर्मन्त्रं नियुङ्क्ते मुख्य एव वा ॥ ३,२.१ ॥ शब्दार्थत्वाद्द्वयोस्तत्र युज्यते विनियोजनम् । प्रथमावगतत्वेन मुख्ये तद्विनियम्यते ॥ ३,२.२ ॥ "बर्हिर्देवसदनं दामिऽ इति लवनप्रकाशको मन्त्र आम्नातः । तत्र लवनप्रकाशनसामर्थ्यलक्षणेन लिङ्गेनायं मन्त्रो लवनक्रियायां विनियुज्यते । लवितव्यं च बर्हिर्द्विविधम् मुख्यं गौणं च । मुख्यं कुशकाशादिदशविधदर्भरूपम् । गौणं तु तत्सदृशं तृणान्तरम् । तस्मिन्बर्हिःशब्दस्य माणवकेऽग्निशब्दवद्गुणयोगेन प्रवृत्तत्वात् । तथा सति मुख्यवद्गौणस्यापि शब्दार्थत्वेन दर्भस्य तृणान्तरस्य च लवने मन्त्रविनियोगः इति प्राप्ते ब्रूमः मुख्यस्य शीघ्रप्रतीतत्वेन मुख्ये मन्त्रं विनियुज्य चरितार्थ लिङ्गं विलम्बप्रतीततया गौणप्रतीक्षां न करोति । तस्मात् मुख्यस्यैव लवने मन्त्रो नियम्यते ॥ ३,२.१२ ॥ (द्वितीये (ऐन्द्रीन्याये) ऐन्द्र्या गार्हपत्ये विनियोगाधिकरणे सूत्रे ३४) । वचनात्त्वयथार्थमैन्द्री स्यात् । ३,२.३ । गुणाद्वाप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वात् । ३,२.४ । द्वतीयाधिकरणमारचयति ____________________________________________________ ३,२.३४ ऐन्द्र्या निवेशनेत्यग्निं गार्हपत्यं भजेदिति । प्रकाश्ये मुख्य इन्द्रे वा गौणे मुख्येऽस्तु पूर्ववत् ॥ ३,२.३ ॥ एकस्य गौणताध्नौव्ये मन्त्रस्यैवानुवादतः । गौणतातोऽग्न्युपस्थाने मन्त्रः श्रुत्या नियुज्यते ॥ ३,२.४ ॥ अग्निचयने ऽनिवेशनः संगमनःऽ इत्यादिका काचिदैन्द्री समाम्नाता । तस्या उत्तरार्धेऽइन्द्रो न तस्थौऽ इति पठ्यमानत्वात् । तन्मन्त्रविषयं ब्राह्मणं चैवमाम्नायते ऽनिवेशनः संगमनो वसूनामित्यैन्द्या गार्हपत्यमुपतिष्ठतेऽ इति । एतेन ब्राह्मणेन गार्हपत्योपस्थाने विनियुज्यमानो मन्त्रोर्ऽथे प्रकाशयन्मुख्यमिन्द्रं प्रकाशयति । मुख्यश्चेन्द्रः स्वर्गाधिपतिः सहस्त्राक्षः । तत्रेन्द्रशब्दस्य रूढत्वात् । गौणस्त्विन्द्रो गार्हपत्यः । तस्यैश्वर्ये गुणयोगन यज्ञसाधनत्वेन वा मुख्येन्द्रसदृशत्वात् । तत्र पूर्वान्यायेन शीघ्रप्रतीत्या मुख्येन्द्र मन्त्रेण प्रकाशिते सति मन्त्रब्राह्मणयोर्विसंवादं वारयितुं गार्हपत्यशब्देन मुख्येन्द्रो गार्हपत्यसमीपदेशो वा लक्षणीयः इति प्राप्ते, ब्रूमः इन्द्रगाहर्पत्यशब्दयोरन्यतस्य गौणत्वेऽवश्यंभाविनि सति ब्राह्मणवाक्यस्य विधायकत्वादप्राप्तार्थत्वेन विधौ लक्षणाया अन्याय्यत्वात्प्राप्तार्थत्वेनानुवादको मन्त्र एवेन्द्रशब्देन वह्निं लक्षयिष्यति । ततो गार्हपत्यप्रकाशने समर्थमेव मन्त्रम्ऽऐन्द्र्याऽ इति तृतीयाश्रुतिर्गार्हपत्योपस्थाने विनियुङ्क्ते ॥ ३,२.३४ ॥ (तृतीये, आह्वानविनियोगाधिकरणे सूत्राणि ४९) । तथाहवानमपीति चेत् । ३,२.५ । नकालविधिश्चोदितत्वात् । ३,२.६ । गुणाभावात् । ३,२.७ । लिङ्गाच्च । ३,२.८ । विधिकोपश्चोपदेशे स्यात् । ३,२.९ । ____________________________________________________ ३,२.५८ तृतीयाधिकरणमारचयति हविष्कृदेहीत्यामन्त्र्य त्रिरवघ्नन्समाह्वयेत् । विनियोगोऽवघाते स्यादाह्वाने वावघातके ॥ ३,२.५ ॥ ऐन्द्रीवन्मान्त्रमाह्वानं गौणं हन्तिर्वृथान्यथा । पाठेन प्रापितं त्रित्वं ह्वयतेरुपचारगीः ॥ ३,२.६ ॥ त्रिरभ्यासो विधातव्यो नित्यप्राप्तेरभावतः । हन्तिना लक्ष्यते कालः प्राप्तोऽसौ ह्वयतिस्तथा ॥ ३,२.७ ॥ विनियोगे वाक्यभेदो लिङ्गादाह्वानशेषता । नैन्द्रीन्यायः श्रुत्यभावाद्बर्हिर्न्यायेन मुख्यगः ॥ ३,२.८ ॥ दर्शपूर्णमासयोः श्रूयते ऽहविष्कृदेहीति त्रिरवघ्नन्नाह्वयतिऽ इति । देवानामर्थे या हविः संपादयति सा हविष्कृत् । तामेनां संबोध्याध्वर्युःऽएहिऽ इति ब्रूते । तथा चायं मन्त्रो ब्राह्मणेन व्याख्यायते ऽहविष्कृदेहीत्याह या एव देवानां हविष्कृतस्तानाह्वयतिऽ इति । तमिमं मन्त्रमुच्चार्याध्वर्युस्त्रिवारमवघातं कुर्वन्नाह्वयतीत्यर्थः । अनेन वाक्येन मन्त्रोऽवघाते विनियुज्यते । ननु आह्वाने समर्थः, न त्ववघाते इति चेत् । न । तस्यावघातलक्षकत्वात् । यथा पूर्वोदाष्ट्ताया मैच्यामुचीन्द्वशब्दो गौणः, तद्वत्ऽएहिऽ इति पदं मन्त्रगतत्वेनावघाते गौणं भविव्यति । अन्यथा मन्त्रब्राह्मणयोराह्वानपरत्वाच्छ्रूयमाणम्ऽअवघ्नन्ऽ इति पदमनर्थकं स्यात् । प्राप्तमवघातमुद्दिश्य मन्त्रस्य त्रित्वस्य च विधौ वाक्यभेदः इति चेत् । न । त्रित्वस्य प्राप्तत्वेनानुवादकत्वात् । कस्यांचिच्छाखायामयं मन्त्रो मन्त्रकाण्डे त्रिवारमभ्यस्याऽम्नातः । आह्वयतिपदं तुऽएहिऽ इतिवदवघातपरतयोपचरणीयमिति प्राप्ते ब्रूमः त्रिरभ्यासस्य नित्यवत्प्राप्तिः पाठमात्रेण न सिध्यति । कस्यांचिच्छालायां द्विःपाठात् । कस्यांचित्सकृत्पाठात् । अतोऽसौ नित्यवद्विधीयते । न चऽअवत्रन्ऽ इत्यस्य वैयर्थ्यम् । तस्य काललक्षकत्वात् । कालस्यापि विधौ वाक्यभेदः इति चेत् । न । प्राप्तत्वात् । न ह्यवघाते सहायह्वानमन्यस्मिन्काले भवति । ततोर्ऽथप्राप्तः कालः । आह्वानमपि मन्त्रसामर्थ्यादेव प्राप्तत्वान्न विधेयम् । न हिऽएहिऽ इति मन्त्रपाठ आह्वानमन्तरेणोपपद्यते । मन्त्रव्याख्यानं चोदहृतम् । तत्रायं वाक्यार्थः संपन्नःऽअवघातकाले यदाह्वानं तस्य त्रिरभ्यासः कर्तव्यःऽ इति । अत एव शाखान्तरे विस्पष्टमाह्वानानुवादेनाभ्यासो विधीयते । ऽत्रिराह्वयति त्रिःसत्या हि देवाःऽ इति । एवंसति मन्त्रस्यापि विनियोगे वाक्यभेदः स्यात् । लिङ्गेन त्वाह्वाने विनियुज्यते, नावघाते । न चैन्द्रीन्यायोऽत्र प्रसरति । तृतीयाश्रुत्यभावात् । ऽबर्हिद्देवसदनं दामिऽ इत्यत्रोक्तेन तु न्यायेन मुख्य एवाऽह्वाने लिङ्गेन मन्त्रविनियोगः, न त्वववातरूपे गौणाह्वाने । तस्मात् आह्वानशेषोऽयं मन्त्रः ॥ ३,२.५८ ॥ (चतुर्थे अग्निविहरणादिप्रकाशकमन्त्रविनियोगाधिकरणे सूत्रम्) । तथोत्थानविसर्जने । ३,२.१० । ____________________________________________________ ३,२.९११ चतुर्थाधिकरणमारचयति उत्तिष्ठन्प्रवदेदग्नदिग्नीनित्यादिकं तथा । कृणुत व्रतमित्येवं पठन्वाचं विमुञ्चति ॥ ३,२.९ ॥ मन्त्रौ विधेयौ कालो वा मन्त्रावुत्थानमोकयोः । विनियोज्यौ न कालस्य लक्षणा युज्यते विधौ ॥ ३,२.१० ॥ मन्त्रार्थानन्वयात्तत्र तद्विधिर्नैव शक्यते । अगत्या लक्षणाप्यस्तु तेन कालो विधीयते ॥ ३,२.११ ॥ ज्योतिष्टोमे समामनन्ति ऽउत्तिष्ठन्नन्वाहाग्नीदग्नीन्विहरऽ इति । तथा ऽव्रतं कृणुतेति वाचं विसृजतिऽ इति । तत्र आग्नीध्रं संबोध्याग्निविहरणादिप्रैषरूपो मन्त्रोऽनेन वाक्येनोत्थानशेषतया विनियुज्यते । तथा मुष्टिं कृत्वा नियमितवाचो दीक्षितस्य वाग्विमोकेऽव्रतं कृणुतऽ इति मन्त्रो विनियुज्यते । न चात्र पूर्वोक्तावघातशब्दवदुत्थानविमोकशब्दौ काललक्षकौ । तत्कालयोरवघातकालवदर्थप्राप्त्यभावेन विधेयत्वे सति लक्षणाया अन्याय्यत्वात् इति प्राप्ते, ब्रूमः अग्निविहरणप्रैषे पयःपानरूपव्रतसंपादनप्रैषे चान्वितावेतौ मन्त्रौ, न तूत्थाने वाग्विमोके च । अतोऽसमर्थयोर्विनियोगासंभवादगत्या लक्षणामप्यङ्गीकृत्य कालो विधीयते ॥ ३,२.९११ ॥ (पञ्चमे सूक्तवाकस्य प्रस्तरप्रहरणाङ्गताधिकरणं (प्रस्तरप्रहरणन्याये) सूत्राणि १११४) । सूक्तवाके च कालविधिः परार्थत्वात् । ३,२.११ । उपदेशो वा याज्याशब्दो हि नाकस्मात् । ३,२.१२ । सदेवतार्थस्तत्संयोगात् । ३,२.१३ । प्रतिपत्तिरिति चेत्स्विष्टकृद्वदुभयसंस्कारः स्यात् । ३,२.१४ । ____________________________________________________ ३,२.१२१३ पञ्चमाधिकरणमारचयति प्रस्तरं सूक्तवाकेन प्रहरेदिति कालधीः । अङ्गाङ्गिता वा स्यात्कालोऽजुपतेत्याद्यनन्वयात् ॥ ३,२.१२ ॥ प्रहृतेरिष्टदेवार्थसंस्कारत्वात्तदन्वयः । संपाद्यो देवताद्वारा तृतीयाश्रुतितोऽङ्गता ॥ ३,२.१३ ॥ दर्शपूर्णमासयोराम्नायते ऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इति । ऽइदं द्यावापृथिवी भद्रमभूत्ऽ इत्यादिको मन्त्रः सूक्तवाकः । तस्मिन्मन्त्रेऽग्निं संबोध्यऽत्वं सूक्तवागसिऽ इत्याम्नानात् । प्रस्तरो दर्भमुष्टिः, तस्य प्रहरणमग्नौ प्रक्षेपः । तत्र ऽसूक्तवाकेनऽ इत्येतत्पदं कालं लक्षयति । होत्रा मन्त्रेऽस्मिन्पठ्यमाने तत्पाठकालेऽध्वर्युः प्रस्तरं प्रहेरत् । न त्वत्र प्रहरणे मन्त्रोऽयं विनियोक्तुं शक्यः । पूर्वोक्तप्रैषमन्त्रवदत्रान्वयाभावात् । ऽअग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृतऽ इत्यादिकं मन्त्रे पठ्यते । ऽपुरोडाशसेवया वृद्धोऽग्निस्तस्मिन्यजपाने तेजोबाहुल्यं कृतवान्ऽ इति तस्यार्थः । न चासौ प्रस्तरप्रहरणेऽन्वेतुं शक्यः इति प्राप्ते, ब्रूमःऽसूक्तवाकेनऽ इति तृतीयाश्रुत्या प्रहरणे मन्त्रो विनियुज्यते । न चात्यन्तमन्वयाभावः । मन्त्रो ह्ययं पूर्वमिष्टानग्न्यादिदेवाननुस्मारयति । प्रस्तपप्रहरणं चेष्टदेवतासंस्कारः । अतो देवताद्वारा मन्त्रप्रहरणयोरन्वयान्मन्त्रो विनियुज्यते । ननु प्रहरणं नाम प्रक्षेपमात्रम्, न तु देवतोद्देशेन प्रक्षेपः । यजिधातोरश्रवणात् । तथा सति देवतानामात्राभावात्तद्वारापि नान्वयः इति चेत् । मैवम् । देवतानां सद्भावात् । अग्न्यादिदेवताप्रकाशकस्य सूक्तवाकस्य तृतीयाश्रुत्या प्रहरणाङ्गत्वं बोध्यते । यदि प्रकरणेऽग्न्यादयो देवता भवेयुः, तदा तत्प्रकाशनेन दृष्टोर्ऽथो मन्त्रस्य लभ्येत । ततो देवताकल्पनेन तदुद्देशपूर्वकस्य प्रक्षेपस्य यागत्वं सिध्यति । तस्मात् देवताद्वारास्त्येवान्वयः ॥ ३,२.१२१३ ॥ षष्ठे द्गसूक्तवाकानामर्थानुसारेण विनिद्घसूत्राणि १५१८) । योगाधिकरणे (सूक्तवाकन्याये) कृत्स्नोपदेशादुभयत्र सर्ववचनम् । ३,२.१५ । यथार्थं वा शेषभूतसंस्कारात् । ३,२.१६ । वचनादिति चेत् । ३,२.१७ । प्रकरणाविभागादुभे प्रति कृत्स्नशब्दः । ३,२.१८ । ____________________________________________________ ३,२.१४१५ षष्ठाधिकरणमारचयति प्रहृतेरखिलः सूक्तवाकोऽङ्गं स्याद्विभज्य वा । समाख्या कृत्स्नगा तेन विभक्तस्याङ्गता नहि ॥ ३,२.१४ ॥ दर्शपूर्णिमयोर्देवाननुसृत्य विभज्यताम् । आख्यां लिङ्गेन बाधित्वा भागे नाम निरुच्यते ॥ ३,२.१५ ॥ पूर्वोदाहृते मन्त्रे सूक्तवाकसमाख्या कृत्स्नमन्त्रविषया । याज्ञिकः कृत्स्ने तच्छब्दप्रयोगात् । ततः सर्वोऽपि प्रहरणाङ्गम् इति चेत् । न । लिङ्गेन समाख्याया बाधितत्वात् । तस्मिन्मत्रे पूर्णमासदेवताम्नानं कस्मिंश्चिद्भागे दृश्यतेऽअग्नीषोमाविदं हविरजुषेताम्ऽ इति । भागान्तरे तु दर्शदेवताम्नानम्ऽइन्द्राग्नी इदं हविरजुषेताम्ऽ इति,ऽइन्द्र इदं हविरजुवतऽ इति,ऽमहेन्द्र इदं हविरजुषतऽ इति च । इम्द्राग्नीन्द्रमहेन्द्राः पुरुषभेदेन दर्शे व्यवस्थिताः । तथा सति मन्त्रलिङ्गेन तत्तद्भागवत्तत्तत्काले व्यवतिष्ठते । सूक्तवाकशब्दश्च भागे यौगिकः । ऽसूक्तं वक्तिऽ इति तद्व्युत्पत्तेः । यागकाले तत्तन्मन्त्रेण सम्यगुक्तं देवं वक्तीत्यर्थः । अत एव ब्राह्मणेन व्याख्यातम्ऽअग्निरिदं हविरजुवतेत्याह, यो आयाक्ष्म देवतास्ता अरीरधामेति बावैतदाहऽ इति । अरीरधामाऽराधितांस्तुष्टानकुर्मेत्यर्थः । तस्मादयं विभज्य विनियुज्यते ॥ ३,२.१४१५ ॥ (सप्तप्ते काम्ययाज्यानुवाक्यानां काम्यमात्राङ्गताधिकरणे सूत्रम्) । लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समाम्नातम् । ३,२.१९ । ____________________________________________________ ३,२.१६१८ सप्तमाधिकरणमारचयति ऐन्द्राग्नादीष्टयः काम्या याज्या अप्युदिताः क्रमात् । काण्डयोस्ता यथालिङ्गं संचार्या नियमोऽथवा ॥ ३,२.१६ ॥ लिङ्गं क्रमसमाख्याभ्यां प्रबलं तद्वशादमूः । अकाम्यास्वपि संचार्या याज्याः सर्वत्र का क्षतिः ॥ ३,२.१७ ॥ समाख्यानात्काण्डयोगः क्रमादिष्टिषु योजनम् । अपेक्षते देवमात्रं शक्तिः काम्यैकगास्ततः ॥ ३,२.१८ ॥ काम्येष्टयस्तत्काण्डे क्रमेणाऽम्नाताःऽऐन्द्राग्नमेकादशकपालं निर्वपेत्, यस्य सजाता वीयुःऽ इत्यादिना । सजाता ज्ञातयः । वीयुर्विगता विप्रतिपन्ना इत्यर्थः । ऽइद्राग्नी रोचनऽ इत्यादिके मन्त्रकाण्डे याज्यानुवाक्याः क्रमेणाऽम्नाताः । तत्रऽइदं काम्ययाज्यानुवाक्याकाण्डम्ऽ इति याज्ञिकानां समाख्ययोऽवगम्यते । तयोरिष्टिकाण्डमन्त्रकाण्डयोः प्रथमायामिष्टौ प्रथमपठिते याज्यानुवाक्ये इत्यादिव्यवस्था क्रमेण क्रियते । मन्त्रगतं त्वैन्द्राग्नलिङ्गं काम्यायां नित्यायां चैन्द्राग्नेष्टौ ते याज्यानुवाक्ये विनियुङ्क्ते । लिङ्गं च प्रबलमिति सर्वत्र तयोर्विनियोगः इति प्राप्ते, ब्रूमः नात्र लिङ्गेन क्रमसमाख्ये बाधितुं शक्येते । उपजीव्यत्वात । इन्द्राग्निदेवतारूपमात्रप्रकाशनं लिङ्गम् । न च तावन्मात्रेण मन्त्रकर्मणोरङ्गाङ्गिभावः । ततः समाख्याबलान्मन्त्रकाण्डकर्मकाण्डयोः संबन्धावगतौ सामान्येन मन्त्रकर्मणोः संबन्धोऽवगम्यते । विशेषतस्तुऽअस्मिन्प्रथमे कर्मण्ययं मन्त्रः प्रथमःऽ इति क्रमादवगम्यते । ननु ऽऐन्द्राग्नेष्टावैन्द्राग्नमन्त्रः, वैश्वानरेष्टौ वैश्वानरमन्त्रःऽ इत्येतादृशी विशेषो लिङ्गेनैवावगम्यते इति चेत् । न । लिङ्गसाधारण्ये क्रमापेक्षणात् । "ऐन्द्राग्नमेकादशकपालं निर्वपेद्भ्रातृव्यवान्"इति द्वितीयेष्टिरपि । तत्रैन्द्राग्नी पठितौ । मन्त्रकाण्डेऽपि"इन्द्राग्नी नवतिम्"इत्यादिकमपरमैन्द्राग्नं याज्यानुवाक्यायुगलमाम्नातम् । न हि तत्र क्रममन्तरेण निर्णेतुं शक्यम् । न च क्रमेणैव तत्सिद्धेर्लिङ्गमप्रयोजकमिति वाच्यम् । क्वचिल्लिङ्गस्यैव व्यवस्थापकत्वात् । ऐन्द्राबार्हस्पत्येष्टिरकैवाऽम्नाताऽयं कामयेत राजन्यमनयोद्धो जायेत वृत्रान्घ्नंश्चरेतिति तस्मा एनमैन्द्राबार्हस्पत्यं चरुं निर्वपेत्ऽ इति । यं राजपुत्रं जायमानं प्रति राज्ञः पुरोहितस्य च काम एवं भवतिऽअयं मातृगर्भे देवकृतविघ्नेन केनाप्यप्रतिबद्धो जायताम् । जातश्च शत्रून्मारयन्संचरेत्ऽ इति । तद्राजपुत्रार्थेयमिष्टिः । मन्त्रकाण्डे तदिष्टिक्रमे याज्यापुरोनुवाक्ये इन्द्राबृहस्पतिदेवताके द्विविधे आम्नाते । ऽइदं वामास्ये हविःऽ इत्येकं युगलम् । ऽअस्मे इन्द्राबृहस्पतीऽ इत्यादिकमपरम् । तयोः प्रथमयुगलस्य क्रमेण विनियोगेऽपि द्वितीययुगलं लिङ्गेनैव विनियोक्तव्यम् । तस्मात्क्रमसमाख्यासहकृतेन काम्येष्टिष्वेवैता याज्यानियम्यन्ते ॥ ३,२.१६१८ ॥ (अष्टमे, आग्नीध्नोपस्थाने प्राकृतानां मन्त्राणां विनियोगाधिकरणे सूत्राणि २०२३) । अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात् । ३,२.२० । तदाख्यो वा प्रकरणोपपत्तिभ्याम् । ३,२.२१ । अनर्थकश्चोपदेशः स्यादसम्बन्धात्फलवता । ३,२.२२ । सर्वेषां चोपदिष्टत्वात् । ३,२.२३ । ____________________________________________________ ३,२.१९२० अष्टमाधिकरणमारचयति आग्नेय्याऽग्नीध्रमित्यग्निदेवताका ऋचोऽखिलाः । उपस्थाने प्रयोक्तव्याः प्रकृता एव ता उत ॥ ३,२.१९ ॥ साधारण्येन शब्दोक्तेः सर्वाभिस्तदुपस्थितिः । विशेषे विधिसंक्रान्त्या प्रकृताभिरितीष्यताम् ॥ ३,२.२० ॥ ज्योतिष्टोमे श्रूयते ऽआग्नेय्याऽग्नीध्रमुपतिष्ठतेऽ इति । तत्र आग्नीधनामकस्य मण्डपस्य यदुपस्थानं तत्, यया च कयाचिदृचा दाशतयीगतयाग्निसंबन्धिन्या कर्तव्यम् । ऽअग्निर्देवता यस्या ऋचः साऽग्नेयीऽ इति साधारणोक्तावृग्विशेषस्याप्रतीतेः इति चेत् । मैवम् । क्रतुप्रकरणपठितानामाग्नेयीनामृचां क्रतुप्रयुक्तव्यापारसाधनत्वं प्रकरणादेवावगतम् । ऽकोऽसौ व्यापारःऽ इति विशेषबुभुत्सायाम्ऽआग्नीध्रोपस्यानरूपोऽयम्, इति बोधयन्नयं विधिर्विशेषमात्रे संक्रामतीति लाघवम् । अप्रकृतानां क्रतूपयुक्तव्यापारसाधनत्वं तद्व्यापारविशेषष्चेत्युभयमनेन बोध्यत इति गौरवम् । तस्मात्प्रकृताभिराग्नेपीभिस्तदुपस्थानम् । एवम्ऽऐन्द्या सदो वैष्णव्या हविर्धानम्ऽ इत्यत्र सदोहविर्धाननामकयोर्मण्डपयोरुपस्थाने प्रकृतानामेवैन्द्रीणां वष्णैवीनां च प्रयोग इति द्रष्टव्यम् ॥ ३,२.१९२० ॥ (नवमे भक्षमन्त्राणां यथालिङ्गं ग्रहणादौ विनियोगाधिकरणे सूत्रे २४२५) । लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य । ३,२.२४ । तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात् । ३,२.२५ । नवमाधिकरणमारचयति भक्षेहीत्यनुवाकोऽयं सर्वो भक्षणगाम्युत । ग्रहणादौ यथायोगं विभज्य व्यवतिष्ठते ॥ ३,२.२१ ॥ अविधेर्ग्रहणादीनां भक्षणे निखिलोऽस्तु सः । अर्थाक्षिप्तेषु तेष्वेव यथालिङ्गं विभज्यते ॥ ३,२.२२ ॥ ज्योतिष्टोमे हुतस्य सोमस्य शेषभक्षणं विहितम् । अत एवाऽम्नातम् ऽअभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि सोमं भक्षयन्तिऽ इति । तस्मिन्मक्षणे ग्रहणावेक्षणनिगरणसम्यग्जरणरूपाश्चत्वारो व्यापाराः सन्ति । मन्त्रच्चऽभक्षेहिऽ इत्याद्यनुवाके समाम्नातः । तत्र भक्षणं यथा साक्षाच्चोदितं, न तथा ग्रहणावेक्षणनिगरणसम्यग्जरणानि चोदितानि । न चाविहितेषु मन्त्रो विनियोगमर्हति । समाख्या तुऽभक्षानुवाकःऽ इत्येवंरूपा भक्षणमात्रविषया । तस्मात्कृत्स्नस्याप्यनुवाकस्य भक्षण एव विनियोगः इति प्राप्ते, ब्रूमः अविहितान्यपि ग्रहणादीन्यर्थाक्षिप्तानि । तद्व्यतिरेकेण भक्षणासंभवात् । अतस्तेष्वनुवाको यथालिङ्गं विभज्य विनियोक्तव्यः । तत्रऽभक्षेहिऽ इत्यारभ्यऽअश्विनोस्त्वा बाहुभ्यां साध्यासम्ऽ । इत्यन्तो ग्रहणं प्रकाशयति । ऽएहिऽ इत्याह्वानस्य बाहुभ्यां स्वीकरवाणिऽ इत्येतस्य च दर्शनात् । ऽनृचक्षसंत्वा देव सोम सुचक्षा अवख्येषम्ऽ इत्ययं भागोऽवेक्षणं प्रकाशयति । ऽशोभनचक्षुरहं मनुष्येषु मख्यातं त्वामवेक्षिषीयऽ इत्यभिधानात् । ऽहिन्व मे गात्राऽ इत्यादिःऽमा मेऽवाङ्नाभिमतिगाःऽऐत्यन्तः सम्यग्जरणं प्रकाशयति । गात्रप्रीणनेनाधोभागे नाम्यतिक्रमणनिषेधेन च तदवगमात् । जरणं नार्थाक्षिप्तम्, तेन विनापि भक्षसिद्धेः इति सेत् । न । जरणपर्यन्तस्यैव सार्थकभक्षणत्वात् । न च जरणे पुरुषव्यापाराभावः । सम्यगुपवेशनादेर्जरणार्थत्वात् । ऽमन्द्राभिभूतिःऽ इत्यादिःऽभक्षयामिऽ इत्यन्तो भक्षणं प्रकाशयति । तस्मात्लिङ्गेन समाख्यां बाधित्वा विनियोगः कर्तव्यः ॥ ३,२.२१२२ ॥ (दशमे मन्द्राभिभूतिरित्यादेरेकमन्त्रताधिकरणे सूत्रम् ) गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगात् । ३,२.२६ । ____________________________________________________ ३,२.२३२४ दशमाधिकरणमारचयति मन्द्रेति वसुमद्वेति द्वयं तर्पणभक्षयोः । विभक्तव्यमुताशेषं तृप्तिसंयुक्तभक्षणे ॥ ३,२.२३ ॥ लिङ्गाद्विभागो मैवं नो तृप्तिर्भक्षणतोऽन्यतः । लिङ्गस्यासंभवे वाक्यशेषात्सर्वेऽस्तु भक्षणे ॥ ३,२.२४ ॥ ऽमन्द्राभिभूतिःऽ इत्यादिःऽजुषाणा सोमस्य तृप्यतुऽ इत्यन्तो भागो हृष्टाया अरुचिमभिभवन्त्याः सोमं सेवमानाया जिह्वायास्तृप्तिं प्रकाशयति । ऽवसुमद्गणस्यऽ इत्यादिःऽभक्षयामिऽ इत्यन्तो भागो भक्षणप्रकाशकः । तत्र पूर्वबल्लिङ्गेन विभज्य विनियोगः इति चेत् । मैवम् । न खलु तृप्तिर्भक्षणादन्येन व्यापारेण जायते । किं तर्हिभक्षणामुनिष्पादिनी हि सा । तथा सति कस्मिन्व्यापारे तृप्तिप्रकाशको भागो विनियुज्येत । ततो लिङ्गेन विनियोगासंभवाद्भक्षणवाक्यस्य शेषस्तृप्तिप्रकाशकभागो भविष्यति । उपयुक्तश्च तत्रायं भागः । तृप्तिसहितभक्षणप्रकाशनेन पुरुषोत्साहजननात् । तस्मान्मन्द्रादिः सर्वो भक्षणे विनियुज्यते ॥ ३,२.२३२४ ॥ (एकादशे, इन्द्रपीतस्येत्यादिमन्त्राणां विनियोगाधिकरणे सूत्रे २७ २८) । लिङ्गविशेषनिर्देशात्समानविधानेष्वनैन्द्राणाममन्त्रत्वम् । ३,२.२७ । यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति । ३,२.२८ । ____________________________________________________ ३,२.२५२७ एकादशाधिकरणमारचयति इन्द्रपीतस्येति मक्षमन्त्रांशः किमिहैन्द्रके । केवलेऽन्यत्र वोहाच्च सर्वत्रोत यर्थाश्रुतम् ॥ ३,२.२५ ॥ ऐन्द्र एव समर्थत्वात्तूष्णीमेवान्यभक्षणम् । ऊहो वान्येषु कर्मैक्येऽप्यस्त्यूहो भक्षभेदतः ॥ ३,२.२६ ॥ इन्द्रेण यस्मिन्सवने सोमः पीत इतीरणात् । सवनस्थेषु सर्वेषु मन्त्रोऽनूहेन पठ्यताम् ॥ ३,२.२७ ॥ भक्षमन्त्रे कश्चिदंशःऽइन्द्रपीतस्यऽ इत्येवंविधः श्रूयते । तत्रऽइन्द्रेण पूतस्य सोमस्य शेषं भक्षयामिऽ इत्यर्थो भवति । तथा सत्यस्य मन्त्रस्येन्द्रप्रदानशेषभक्षण एव समर्थत्वात्तत्रैवायं मन्त्रो विनियुज्यते, न तु मैत्रावरुणादिशेषभक्षणे । तस्मादमन्त्रकमेव तद्भक्षणम्, इत्येकः पूर्वपक्षः । ऽइन्द्रपीतस्यऽ इति पदस्यासमर्थत्वेऽपिऽमित्रावरुणपीतस्यऽ इत्येषमूहे सति सामर्थ्ये भविष्यति । ननुआग्नेययागस्य प्रकृतित्वात्तद्वतस्यऽअग्नये जुष्टम्ऽ । इति मन्त्रस्य विकृतौ सौर्ये चरौऽसूर्याय जुष्टम्ऽ इत्येवमूहः क्रियते । इह तु कर्मैक्यान्नोहः इति चेत् । न । कर्मभेद इव भक्षभेदेऽप्यूहितुं शक्यत्वात् । इति द्वितीयः पूर्वपक्षः । ऽइन्द्रपीतस्यऽ इत्यत्र बहुव्रीहिर्द्रष्टव्यः । तत्पुरूषत्वेऽसमासस्यऽ (पा.सू. ६.१.१२३) इति सूत्रेणान्तोदात्तत्वप्रसङ्गात् । आद्युदात्तं ह्येतत्पदमाम्नातम् । इन्द्रप्रतिपादिकं तु स्वत आद्युदात्तम् । तथा सतिऽबहुव्रीहौ प्रकृत्या पूर्वपदम्ऽ[पा.सू. ६.२.१] इति सूत्रेण पूर्वपदप्रकृतिस्वरविधानात्समस्तपदमप्याद्युदात्तमेव संपद्यते । ऽइन्द्रेण पीतः सोमो यस्मिन्सवनेऽ इति विग्रहात्सवनपरत्वे सतिऽऐन्द्रभक्षण एवऽ इति नियन्तुमसमर्थत्वात्सर्वभक्षणेष्वनूहेनैवायं मन्त्रः प्रयोक्तव्य इति राद्धान्तः ॥ ३,२.२५२७ ॥ (द्वादशे, अभ्युन्नीतसोमभक्षणाधिकरणे सूत्राणि २९३१) । पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात् । ३,२.२९ । अपनयाद्वा पूर्वस्यानुपलक्षणम् । ३,२.३० । ग्रहणाद्वापनयः स्यात् । ३,२.३१ । ____________________________________________________ ३,२.२८३० द्वादशाधिकरणमारचयति ऊहपक्षे यदूह्यं तच्चिन्त्यते न्यायपञ्चके । इन्द्रे हुतेऽथ तच्छेषे होत्रकैश्चमसस्थिते ॥ ३,२.२८ ॥ सोमोऽभ्युन्नीय देवेभ्यो हुत्वा संभक्ष्यते तदा । इन्द्रो न लक्ष्यो लक्ष्यो वा न शेषेऽन्यार्थता यतः ॥ ३,२.२९ ॥ उन्नीत एव संबद्धो न पूर्वो देवतान्तरैः । अत इन्द्रस्य सिद्ध्यर्थे लक्ष्योऽसावितरैः सह ॥ ३,२.३० ॥ पूर्वाधिकरणे योऽयमूहरूपो द्वितीयः पूर्वपक्षः, तत्प्रसंङ्गात्कृत्वाचिन्तारूपेण न्यायपञ्चकेनोहविषयश्चिन्त्यते । मैत्रावरुणब्राह्मणाच्छंसिपोत्रादय ऋत्विजो होत्रकाः । तेषां च सन्ति चमसाः । पात्रविशेषस्थिताः सोमरसाश्चमसाः । तैर्वषट्कारानुवषट्कारयोर्होतव्यम् । चमसानामैन्द्रत्वाद्धोतुर्वषट्कारे प्रथममिन्द्रो हुतः । अनन्तरं चमसस्थिते हुतशेषे पुनः सोमान्तरमभ्युन्नीय देवतान्तरेभ्यो होत्रका अनुवषट्कारे जुह्वति । तत्र मैत्रावरुणःऽमित्रं वयं हवामहेऽ इति मन्त्रेण मित्रावरुणौ यजति । ब्राह्मणाच्छंसीऽइन्द्र त्वा वृषभं वयम्ऽ इति मन्त्रेणेन्द्रं यजति । पोताऽमरुतो यस्य हि क्षयेऽ इति मन्त्रेण मरुतो यजति । एवं हुत्वा पश्चात्सोमो भक्ष्यते । तस्मिन्भक्षणेऽमित्रावरुणपीतस्यऽ इति मन्त्र ऊहनीयः । तदानीम्ऽइन्द्रमित्रावरुणपीतस्यऽ इत्येवं मित्रावरुणाभ्यां सह नेन्द्र उपलक्षणीयः । कुतः । इन्द्रशेषे पुनरभ्युन्नीतस्य तेन सह मित्रावरुणाद्यर्थत्वे सति तस्य शेषस्येन्द्रसंबन्धराहित्यात् । पुनरुन्नीतस्यैवान्यार्थत्वम्, न पूर्वस्य इति चेत् । न । उन्नयनकालेऽमित्रावरुणाद्यर्थोऽयम्ऽ इति संकल्पाभावात् । प्रदानकाले तु पूर्वशेषेण सहैव मित्रावरुणादिभ्यः प्रदीयते । तस्मातिन्द्रसंबन्धराहित्यान्नेन्द्रो लक्षणीयः इति प्राप्ते ब्रूमः मा भूत्संकल्पः, तथाप्युन्नयनं करिष्यमाणं मैत्रावरुणादियागार्थमेव । न तु तस्य पूर्वानुष्ठितेन्द्रयागार्श्चत्वं संभवति । तस्मादुन्नीतो मित्रावरुणादिसंबद्धशेष इन्द्रसंबद्ध एवेत्युभयभक्षणे मित्रावरुणादिभिः सहेन्द्रोऽप्युपलक्षणीयः ॥ ३,२.२८३० ॥ (त्रयोदशे पात्नीवतमक्षण इन्द्रादीनामनुपलक्षणाधिकरणे सूत्रे ३२३३) । पात्नीवते तु पूर्ववत् । ३,२.३२ । ग्रहणाद्वापनीतं स्यात् । ३,२.३३ । ____________________________________________________ ३,२.३१३३ त्रयोदशाधिकरणमारचयति द्विदेवशेष आदित्यस्थाल्या आग्रयणाभिधाम् । स्थालीं प्राप्तस्ततः पात्नीवतस्य ग्रहणे सति ॥ ३,२.३१ ॥ तद्भक्षणे द्विदेवाः किं सार्धे पात्नीवतेन ते । उपलक्ष्या न वा पूर्वन्यायेनास्तूपलक्षणम् ॥ ३,२.३२ ॥ अन्य आग्रयणात्पात्नीवतो नैतस्य विद्यते । आकाङ्क्षा पूर्वदेवेषु पत्नीवानेव लक्ष्यते ॥ ३,२.३३ ॥ ऐन्द्रवायवादयो द्विदेवत्याः । तेषां शेष आदित्यस्थालीमागच्छति, पुनरपि तस्याः स्थाल्या आग्रयणस्थालीमागच्छति । तस्या आग्रयणस्थाल्याः पात्नीवतो गृह्यते । तस्य पात्नीवतस्य भक्षण इन्द्रवाय्वादय उपलक्षणीयाः । पूर्वाधिकरणे यथा मित्रावरुणादिभिः सहेन्द्र उपलक्षितः, तद्वत् इति प्राप्ते, ब्रूमःऽयदुपांशु पात्रेण पात्नीवतमाग्रयणाद्गृह्णातिऽ इत्याग्रयणपात्रस्यापादानत्वश्रवणात्ततो निःसृतसोमरसस्य तत्संबन्धेऽपेते सति पश्चात्पत्नीवद्देवतायै ग्रहणं भवति । तथा सत्यत्यन्तभिन्नस्य पात्नीवतस्य पूर्वदेवेष्वाकाङ्क्षा नास्ति । पुनरभ्यन्नीतस्तु सोम ऐन्द्रशेषेण संसृष्टः । तस्य संसृष्टस्य भक्षणे मैत्रावरुणादीनामिवेन्द्रस्यापि संबन्धो नापैतीति वैषम्यम् । तस्मात्पात्नीवतभक्षण इन्द्रवाध्वादयो नोपलक्षणीयाः ॥ ३,२.३१३३ ॥ (चतुर्दशे पात्नीवतशेषभक्षे त्वष्टुरनुपलक्षणीयताधिकरणे सूत्रे ३४३५) । त्वष्टारं तूपलक्षयेत् । ३,२.३४ । अतुल्यत्वात्तु नैवं स्यात् । ३,२.३५ । ____________________________________________________ ३,२.३४३५ चतुदर्शाधिकरणमारचयति सह पत्नीवता त्वष्टा तद्ग्रहे लक्ष्यते न वा । सह त्वष्ट्रा पिबेत्युक्तेर्देवत्वात्सोऽपि लक्ष्यते ॥ ३,२.३४ ॥ सहत्वमात्रं त्वष्टुः स्यान्न पातृत्वमशब्दनात् । चोदनाया अभावाच्च न देवोऽतो न लक्ष्यते ॥ ३,२.३५ ॥ तस्मिन्नेव पात्नीवतग्रहे शेषभक्षणमन्त्रे पत्नीवता सह त्वष्टाप्युपलक्षणीयः । कुतः । त्वष्टुरपि तद्देवत्वात् । तच्च होममन्त्रादवगतम् । ऽअग्नी ३ इ पत्नीबन्त्सजूर्देवेन त्वष्ट्रा सोमं पिब स्वाहाऽ इत्यस्मिन्मन्त्रे पत्नीवन्तमग्निं प्लुतान्तेन संबोध्यऽत्वष्ट्रा देवेन सह पिबऽ इत्यभिधानात्पातृत्वेन पत्नीवत इव त्वष्टुस्तद्देवत्वम् । ततःऽपत्नीवत्त्वष्टृपीतस्यऽ इत्युपलक्षणमिति प्राप्ते ब्रूमः पानकाले सहावस्थानमात्रं त्वष्टुःऽसजूःऽ इत्यनेन पदेन प्रतीयते, न तु पातृत्वम् । असंबोधितस्य त्वष्टुःऽपिबऽ इत्यनेन शब्देन सामानाधिकरण्याभावात् । न च पातृसहभावमात्रेण पातृत्वम् "सहैव दशभिः पुत्रैर्भारं वहति गर्दग्री" । इत्यत्र पुत्राणां वोढृत्वादर्शनात् । आस्तां मन्त्रः । विधिबलात्वष्टुर्देवत्वम् इति चेत् । न । ऽपात्नीवतमाग्रयणाद्गृह्णाति"इत्यत्र त्वष्टुरप्रतीतेः । तस्मात् अदेवत्वात्त्वष्टा नोपलक्षणीयः ॥ ३,२.३४३५ ॥ (पञ्चदशे पात्नीवतशेषभक्षे त्रिंशतामनुपलक्षणाधिकरणे सूत्रम्) । त्रिंशच्च परार्थत्वात् । ३,२.३६ । ____________________________________________________ ३,२.३६३७ पञ्चदशाधिकरणमारचयति पत्नीवन्तस्त्रयस्त्रिंशद्देवास्तान्मादयेत्यमी । लक्ष्या न वा याज्ययाक्तेर्देवत्वादुपलक्षणम् ॥ ३,२.३६ ॥ एकोऽग्निर्यजमानेन मादितोऽन्ये तु वह्निना । अतोऽग्नेरेव देवत्वान्नान्येषामुपलक्षणम् ॥ ३,२.३७ ॥ तस्यैव पात्नीवतग्रहस्य याज्यायामग्निं संबोध्यऽपत्नीवन्नामधारिणस्त्रयस्त्रिंशद्देवान्मादयऽ इत्यभिधीयते ऽपत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमावह मादयस्वऽ इति । अनुष्वधमनुप्रदानम् । अत्र हूयमानेन सोमरसेन मादनीयत्वात्रयस्त्रिंशतां तद्देवत्वम् । अत्तस्तेऽपि भक्षणे लक्षणीयाः इति चेत् । न । यजमानेन मादनीयस्याग्नेरेव तद्देवत्वात् । त्रयस्त्रिंशद्देवास्तु वह्निना माद्यन्त इति न तेषामत्र देवत्वम् । तस्मान्नोपलक्षणम् ॥ ३,२.३६३७ ॥ (षोडशे भक्षणेऽनुवषट्कारदेवताया अनुपलक्षणाधिकरणे सूत्रम्) । वषट्कारश्च पूर्ववत् । ३,२.३७ । ____________________________________________________ ३,२.३८३९ षोडशाधिकरणमारचयति सोमस्याग्न इति प्रोक्तानुवषट्कारदेवता । लक्ष्या न वा देवतात्वाल्लक्ष्या त्रिंशद्विलक्षणा ॥ ३,२.३८ ॥ प्रकृतौ विद्यमानोऽग्निरनुद्देशदिलक्षितः । उद्देश्येन्द्रो लक्षितोऽत्तो विकृतावपि तत्तथा ॥ ३,२.३९ ॥ "सोमस्याग्ने वीही । त्यनुयजति"इति श्रूयते । तत्रअनुवषट्कारस्य मान्त्रवर्णिकोऽग्निर्देवता । न च त्रयस्त्रिंशतामिव वह्नेरदेवतात्वम् । मन्त्रे वह्निं संबोध्य सोमपातृत्वामिधानात् । तस्मातग्निर्लक्षणीयः इति चेत् । न । प्रकृतावलक्षितत्वात् । ऐन्द्रश्वमसः प्रकृतिः । इतरे विकृतिरूपाः । तथा हिऐन्द्रश्च सोमो गृह्यते मीयते च । तेनैन्द्रोष्वेव सोमः, अनैन्द्रेषु सोम एव नास्तीति सर्वे सोमधर्मा ऐन्द्रेष्वेव । अनैन्द्रा अधर्मकाः । धर्मताकाङ्क्षाश्चोदकेन सधर्मका इति विकृतित्वम् । गृह्यमाणस्य मीयमानस्य च सोमस्यैन्द्रत्वम्ऽइन्द्राय त्वा वसुमतेऽ इत्यादिग्रहणमन्त्रादवगम्यते । तस्य प्रकृतिभूतस्येन्द्रचमसस्य भक्षणेऽग्निरनुवषट्कारदेवो नोपलक्षितः । कुतः । ग्रहणे तदुद्देशाभावात् । इन्द्रस्तूद्देश्यत्वादुपलक्षितः । एवं विकृतावप्युद्देश्यदेवानामेवोलक्षणं न्याय्यम् । तस्मातग्निर्नोपलक्ष्यः ॥ ३,२.३८३९ ॥ (सप्तदशे(कृत्वाचिन्तारूपे)अनैन्द्राणाममन्त्रकभक्षणाधि करणे सूत्रम्) । छन्दः प्रतिषेधस्तु सर्वगामित्वात् । ३,२.३८ । ____________________________________________________ ३,२.४०४१ सप्तदशाधिकरणमारचयति अमन्त्रपक्षमाश्रित्य कृत्वाचिन्तान्तरत्रयम् । ऊहोऽस्ति नो वा सोऽस्त्यत्र विकृतौ तस्य संभवात् ॥ ३,२.४० ॥ सोमेनेति विधेः सर्वप्रदानेषु समत्वतः । अविकारेऽप्यनूहोऽतो नैन्द्रो निर्मन्त्रभक्षणम् ॥ ३,२.४१ ॥ उक्ताभ्यः पञ्चम्यः कृत्वाचिन्ताभ्यः पूर्वस्मिन्नेवाधिकरणे योऽयम्ऽअनैन्द्रेष्वमन्त्रकं भक्षणम्ऽ इत्येवंरूपः प्रथमः पूर्वपक्षः, तमेव मनसि निधाय पुनः कृत्वाचिन्तानां त्रयमभिधीयते अनैन्द्रपूक्तरीत्या विकृतित्वेनोहसंभवादरत्यूहः इति चेत् । न । अनैन्द्रणां विकृतित्वासंभवात् । ऽसोमेन यजेतऽ इत्युत्पत्तिश्रुतः सोमः कर्मणोऽङ्गम्, न तु प्रदानविशेषस्य कस्यचिदङ्गम् । स एव सोमः सर्वप्रदानेष्वभ्यस्यत इति सर्वाणि समप्रधानानि । अत ऐन्द्राणामनैन्द्रणां च प्रकृतिविकृतिभावासंभवान्नास्त्यत्रोहः । ऽइन्द्राय त्वा वसुमतेऽ इत्यादिमन्त्रो लिङ्गादैन्द्रविषयोऽस्तु । नैतावता प्रकृतिविकृतिभावः सिध्यति । तस्मादुक्तमन्त्रस्य लिङ्गादैन्द्रविषयत्वादनैन्द्रेष्वमन्त्रकं भक्षणम् ॥ ३,२.४०४१ ॥ (अष्टादशे, ऐन्द्राग्नभक्षस्यामन्त्रकताधिकरणे सूत्रे ३९ ४०) ऐन्द्राग्ने तु लिङ्गभावात्स्यात् । ३,२.३९ । एकस्मिन् वा देवतान्तराद्विभागवत् । ३,२.४० । ____________________________________________________ ३,२.४२४३ अष्टादशाधिकरणमारचयति समन्त्रकममन्त्रं वा स्यादैन्द्राग्नादिभक्षणम् । ऐन्द्राग्नेऽतीन्द्रपीतत्वसंभवात्तत्समन्त्रकम् ॥ ३,२.४२ ॥ न पानमशरीरस्य युक्तं दानं तु मिश्रगम् । मन्त्रोऽयं तु न मिश्रार्हस्तस्मादेतदमन्त्रकम् ॥ ३,२.४३ ॥ यदेतत्ऽऐन्द्राग्नं गृह्णातिऽ इति विहितं शेषभक्षणम्, तत्र इन्द्राग्निभ्यां पीतः सोम इन्द्रेणापि पीतो भवतिऽ इति लेङ्गेनैव विनियोगात्समन्त्रकं भक्षणम् इति चेत् । मैवम् । नवमाध्याये वक्ष्यमाणदेवताधिकरणन्यायेनाशरीरस्येन्द्रस्य पानासंभवात् । अथ पतिशब्देन दानं विवक्ष्येत, तदानीम्ऽइन्द्राय दत्तः सोमःऽ इति मन्त्रार्थो भवति । न चात्र यजमान इन्द्रमुद्दिश्य ददौ, किंत्विन्द्राग्नी उद्दीश्य । तस्मात्ऽदानं मिश्रविषयम् । मन्त्रस्तु न मिश्रविषयःऽ इत्यमन्त्रकं भक्षणम् ॥ ३,२.४२४३ ॥ (एकोनविंशेऽगायत्रच्छन्दसःऽ इत्यादिमन्त्रविनियोगाधिकरणे सूत्राणि ४१४३) । छन्दश्च देवतावत् । ३,२.४१ । सर्वेषु वाभावादेकच्छन्दसः । ३,२.४२ । सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपावनत्वात्सवनाधिकारो हि । ३,२.४३ । ____________________________________________________ ३,२.४४४६ एकोनविंशाधिकरणमारचयति ऐन्द्रदानेऽपि गायत्रमात्रयुक्तेऽथवेतरैः । छन्दोभिरपि युक्ते स्यादाद्यो मन्त्रे तथोक्तितः ॥ ३,२.४४ ॥ द्वयोः समो बहुव्रीहिरेकच्छन्दास्तु न क्वचित् । नानाच्छन्दस्यैन्द्र एव कृत्वाचिन्तेयमीरिता ॥ ३,२.४५ ॥ सवनार्थेन्द्रपीतोक्तिरित्युद्घटनमीरितम् । तेन सर्वप्रदानेषु मन्त्रपाठो यथा स्थितः ॥ ३,२.४६ ॥ तस्मिन्नेव भक्षमन्त्रेऽगायत्रच्छन्दस इन्द्रपीतस्यऽ इति श्रूयते । ऽगायत्रमेव छन्दो यस्यऽ इति मन्त्रपदे समासाभिधानादेकच्छन्दोयुक्त ऐन्द्रे सोमे भक्षमन्त्रः इति चेत् । मैवम् । बहुच्छन्दोयुक्तेऽपि बहुव्रीहेः समानत्वात् । एवकारं परित्यज्यऽगायत्रं छन्दो यस्यऽ इति विग्रहसंभवात् । एकच्छन्दस्कस्तु सोमो न क्वाप्यस्ति । तस्मान्नानाछन्दस्के सोम ऐन्द्रप्रदान एव मन्त्रः, नान्यत्र । तदेवं कृत्वाचिन्तात्रयं समाप्तम् । द्विविधकृत्वाचिन्तोद्घाटना तु प्रागेव सिद्धान्तिना दर्शिता ॥ ३,२.४४४६ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य तृतीयः पादः । (प्रथमे उच्चैस्त्वादीनां वेदधर्मताधिकरणे सूत्राणि १८) । श्रुतेर्जाताधिकारः स्यात् । ३,३.१ । वेदो वा प्रायदर्शनात् । ३,३.२ । लिङ्गाच्च । ३,३.३ । धर्मोपदेशाच्च न हि द्रव्येण संबन्धः । ३,३.४ । त्रयीविद्याख्या च तद्विद्धि । ३,३.५ । व्यक्तिक्रमे यथाश्रुतीति चेत् । ३,३.६ । न सर्वस्मिन्निवेशात् । ३,३.७ । वेदसंयोगान्न प्रकरणेन बाध्यते । ३,३.८ । ____________________________________________________ ३,३.१३ तृतीयपादे प्रथमाधिकरणमारचयति कर्तव्यमुच्चैः सामगर्भ्यामुपांशु यजुषेत्यमी । मन्त्राणां वाथ वेदानां धर्मा मन्त्रगता यतः ॥ ३,३.१ ॥ विध्युद्देशे मन्त्रवाचिशब्दाः प्रोक्ता ऋगादयः । ऋग्वेदोऽग्नेः समुत्पन्न इत्युपक्रमवेदगीः ॥ ३,३.२ ॥ असंजातविरोधातस्तद्वशादुपसंहृतेः । नयने सति वाक्येन धर्माणां वेदगामिता ॥ ३,३.३ ॥ ज्योतिष्टोमे श्रूयतेऽउच्चैऋचा क्रियते । उपांशु यजुषा । उच्चैः साम्नाऽ इति । तत्र विधिवाक्ये मन्त्रवाचिनामृगादिशब्दानां प्रयोगान्मन्त्रधर्मा उच्चैस्त्वादयः । तथा सति यजुर्वेदोत्पन्ना अध्वर्युणा प्रयुज्यमाना अप्यृच उच्चैरेव पठितव्याः इति चेत् । मैवम् । असंजातविरोधित्वेन प्रबलमुपक्रममनुसृत्य तद्वशेनोपसंहारस्य नैतव्यत्वात् । उपक्रमे हि वेदशब्दः श्रुतःऽत्रयो वेदा असृज्यन्त । अग्नेऋग्वेदः । वायोर्यजुर्वेदः । आदित्यात्सामवेदःऽ इति । अत उपक्रमगतवेदानुसारेण विध्युद्देशगतानामप्यृगादिशब्दानां वेदपरत्वे सत्यृचोऽपि यजुर्वेदोत्पन्ना उपांशु पठनीयाः । ननु उपक्रमोऽत्रार्थवादत्वाद्दुर्बलः । उपसंहारो विध्युद्देशत्वात्प्रबलः इति चेत् । बाढम् । लब्धात्मनो हि विध्युद्देशस्य प्राबल्यम् । इह तु प्रथमतो बुद्ध्यींत्पादक उपक्रमः । तदानीमलब्धात्मत्वान्न तस्य बाधकत्वम् । पश्चात्तु वाक्यैकत्वाय तदविरोधेनैवाऽत्मानं लप्स्यते । तदेवमुपक्रमोपसंहारैकवाक्यताबलेन निर्णयाद्वाक्यविनियोगोऽयम् ॥ ३,१.१३ ॥ (द्वितीयेआधाने गानस्योपांशुताधिकरणे सूत्रम्) । गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । ३,३.९ । ____________________________________________________ ३,३.४६ द्वितीयाधिकरणमारचयति यजुर्वेदस्थमाधानं तदङ्गं साम तत्र किम् । उच्चैरुपांशु वा गानमुच्चैः शीघ्रप्रतीतितः ॥ ३,३.४ ॥ उत्पत्तेर्विनियोगोऽत्र प्रबलोऽनुसृतिर्यतः । मुख्यस्याङ्गेन कर्तव्या तस्माद्गान उपांशुता ॥ ३,३.५ ॥ आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर्गुणतास्त्विह ॥ ३,३.६ ॥ आधाने वामदेव्यादिसामान्यङ्गत्वेन विहितानि । तत्र यद्यप्येतानि यजुर्वेदगतस्याऽधानस्याङ्गानि, तथापि सामवेदे तेषामुत्पन्नत्वात्, उत्पत्तेश्च शीघ्रबुद्धिहेतुत्वात्सामवेदधर्मेण गेयानि इति चेत् । न । विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतःऽय एवं विद्वान्वामदेव्यं गायतिऽ इति । गुणेन हि मुख्यस्यानुसरणं न्याय्यम् । को गुणः, किं मुख्यमिति चेत् । अत्राङ्गित्वादाधानं मुख्यम्, सामगानमङ्गत्वेन गुणः । तथा सातिऽधर्मः शिरःऽ इत्यादय आधानाङ्गभूता मन्त्रा यथोपांशु पठ्यन्ते, तथा सामान्यप्याधानानुसारेणोपांशु गेयानि । अथवा विनियोगोऽनुष्ठापकविधित्वान्मुख्यः । उत्पत्तिविधिरतथाविधत्वाद्गुणः । तस्मातत्र विनियोगवेदानुसारेणोपांशुगेयानि ॥ ३,१.४६ ॥ (तृतीये ज्योतिष्टोमस्य याजुर्वेदिकताधिकरणे सूत्रम् ) । भूयस्त्वेनोभयश्रुति । ३,३.१० । ____________________________________________________ ३,३.७८ तृतीयाधिकरणमारचयति ज्योतिष्टोमो यजुःसामवेदयोरस्ति तत्र किम् । उच्चैस्त्वमुत नीचैस्त्वं हेत्वभावादनिर्णयः ॥ ३,३.७ ॥ यजुष्यधिगते द्रव्यदेवते तत्र तद्विधिः । तद्वशात्स्वरनिर्णीतेरुपांशु स्यादनुष्ठितिः ॥ ३,३.८ ॥ ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्येतद्वाक्यं वेदद्वये समाम्नातम् । तत्रऽको विधिः, कश्च गुणविधानायानुवादः, इति जिज्ञासायां नियामकहेतोरप्रतिमानात्ऽएतस्य वेदस्य धर्मोऽनुष्ठेयःऽ इत्यनिर्णयः इति चेत् । न । सोमद्रव्यस्य, इन्द्रवाय्वादिदेवतायाश्च यजुर्वेदेऽधिगतत्वादङ्गबाहुल्यश्रवणाच्च तत्रैव विधिः, इति उपांशुप्रयोगः ॥ ३,१.७८ ॥ (चतुर्थे प्रकरणस्य विनियोजकताधिकरणे सूत्रम् ) असंयुक्तं प्रकरणादिति कर्तव्यतार्थित्वात् । ३,३.११ । ____________________________________________________ ३,३.९१० चतुर्थाधिकरणमारचयति न क्रत्वङ्गं प्रयाजादि क्रत्वङ्गं वा न चाङ्गता । प्रक्रियाया अमानत्वान्नैराकाङ्क्ष्येण वाक्ययोः ॥ ३,३.९ ॥ प्रयाजादेः फलेऽपेक्षा कथंभावेऽपि च क्रतोः । तेन प्रकरणाम्नानं तस्मादङ्गाङ्गिता तयोः ॥ ३,३.१० ॥ सार्धपादद्वये विनियोजकत्वेनोक्तानि यानि श्रुतिलिङ्गवाक्यानि, तेभ्योऽतिरिक्तं प्रकरणनामकं किंचित्प्रमाणं न वेदे पश्यामः । नहि पदतत्सामर्थ्यान्वयैरसंतृष्टः कश्चिद्वेदभागः केनचिदाम्नायते । एकवाक्यतामापन्नो वाक्यसमूहः प्रकरणमैति चेत् । न । वाक्ययोः सतोः पश्चादेकताक्यताया अभावात् । न हिऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽऽसमिधो यजतिऽ इत्यनयोर्वाक्ययोः परस्पराकाङ्क्षास्ति, येन वाक्यैकवाक्यता कल्प्येत । तस्मात् न प्रयाजादीनां दर्शपूर्णमासाङ्गत्वमिति प्राप्ते, ब्रूमः प्रयोजादयः फलहेतवः, पुरुषप्रवृत्तिरूपत्वात्, सेवादिवत् । दर्शपूर्णमासावुपकरणैरुपकार्यौ, करणत्वात्, प्रदीपोपकृतचक्षुर्वत् । तथा सतिऽकिं प्रयाजादेः फलम्, किंवा दर्शपूर्णमासयोरुपकरणम्ऽ इत्याकाङ्क्षायां संपन्नवाक्यैकवाक्यतारूपं प्रकरणम् । तेन च प्रयाजादीनामङ्गत्वं प्रतीयते ॥ ३,१.९१० ॥ (पञ्चमे क्रमस्य विनियोजकत्वाधिकरणे सूत्रम् ) । क्रमश्च देशसामान्यात् । ३,३.१२ । ____________________________________________________ ३,३.१११४ पञ्चमाधिकरणमारचयति दब्धिर्नामेति मन्त्रोऽङ्गमुपांशुयजतेर्न वा । साधारणत्वाल्लिङ्गादेर्मानाभावादनङ्गता ॥ ३,३.११ ॥ मन्त्राणां कर्मणां चात्र क्रमेणाऽम्नानमीक्ष्यते । प्रक्रियावत्क्रमो मानं यथासंख्यं ततोऽङ्गता ॥ ३,३.१२ ॥ क्रमः समानदेशत्वं पाठादर्थाच्च पाठतः । यथासंख्यं संनिधिश्च यथासंख्यमुदाहृतम् ॥ ३,३.१३ ॥ शुन्धत्वमिति सांनाय्यपात्राङ्गं संनिधेर्मतम् । पशुधर्मोर्ऽथसादेश्यादग्नीषोमीयतो भवेत् ॥ ३,३.१४ ॥ दर्शपूर्णमासयोर्याजमाने मन्त्रकाण्डे कश्चिन्मन्त्र आम्नायतेऽदब्धिरस्यदब्धो भूयासम्, अमुं दभेयम्ऽ इति । अस्य मन्त्रस्योपांशुयाजाङ्गतायां श्रुतिवाक्ये न विद्येते । ब्राह्मणे विनियोगमनाम्नायार्थविवरणस्यैवाऽभ्नानात् । ऽएतया वै दब्ध्या देवा असुरानदभ्नुवन् । तयैव भ्रातृव्यं दभ्नोतिऽ इति ब्राह्मणम् । दब्धिर्धातुकमायुधम् । आग्नेयाग्नीषोमीययोरप्यनिष्टनिवारकत्वाल्लिङ्गं साधारणम् । प्रकरणं च त्रयाणामेकमेव । ततो मानाभावादयं मन्त्रो नोपांशुयाजाङ्गम् इति प्राप्ते, ब्रूमः आध्वर्यवे काण्ड आग्नेयोपांशुयाजाग्नीषोमीयकर्माणि क्रमेणाऽम्नातानि । याजमाने च काण्डे तद्विषया मन्त्राः क्रमेणाऽम्नाताःऽअग्नेरहं देवयज्ययान्नादो भूयासम्ऽ,ऽदब्धिरस्यदब्धो भूयासममुं दभेयम्ऽ,ऽअग्निषोमयारेहं देवयज्यया वृत्रहा भूयासम्ऽ इति । तत्र यथा वाक्यद्वयानुसंधान संपन्नं प्रकरणं पृथक्प्रमाणम्, तथा प्रकरणद्वयानुसंधानसंपन्नः क्रमः कुतो न मानं स्यात् । न चास्य प्रकरणेऽन्तर्भावः । द्वयोर्वाक्ययोरिव प्रकरणयोरेकवाक्यत्वाभावात् । तस्मात्क्रमप्रमाणेन मध्यवर्तिन उपांशुयाजस्य मध्यवर्ती मन्त्रोऽङ्गम् । ऽसमानदेशत्वं क्रमःऽ इति क्रमस्य स्वरूपम् । तच्च द्विविधं पाठकृतमर्थकृतं च । तत्र पाठकृतमपि द्विविधं यथासंख्यं संनिधिश्चेति । तयोराद्यस्य दब्धिमन्त्र उदाहरणम् । "शुन्धध्वं दैव्याय कर्मणे"इत्ययं मन्त्रः शोधनीयेषु वस्तुषु साधारणोभासते । तत्र सांनाय्यपात्राणि कुम्भीशाखापवित्रादीन्यनन्तरेषुऽमातरिश्वनःऽ इत्यादिमन्त्रेष्ववभासन्त इति संनिधिना तत्पात्रप्रोक्षणेऽशुन्धध्वम्ऽ इति मन्त्रो विनियुज्यते । अनुष्ठानसादेश्यान्पशुधर्माणामग्नीषो मीयाङ्गत्वम् । तदेवं क्रमस्य त्रैविध्यं द्रष्टव्यम् ॥ ३,१.१११४ ॥ (षष्ठे समाख्याया विनियोजकताधिकरणे सूत्रम् । ) आख्या चैवं तदर्थत्वात् । ३,३.१३ । ____________________________________________________ ३,३.१५१६ षष्ठाधिकरणमारचयति वेदत्रयोक्तधर्माणामृत्विग्भिः संगतिस्त्रिभिः । अनियत्या नियत्या वा नियतिर्नानिरूपणात् ॥ ३,३.१५ ॥ हौत्रत्वादिसमाख्यानं नियतेर्गमकं स्वतः । निर्बाधं चान्यवत्तच्च तेनात्र विनियोजकम् ॥ ३,३.१६ ॥ याज्यापुरोनुवाक्यंपाठादयो धर्मा ऋग्वेदे प्रोक्ताः । दोहननिर्वापादयो यजुर्वेदे । आज्यस्तोत्रपृष्ठस्तोत्रादयः सामवेदे । तत्रऽअस्यैवैते धर्माःऽ इति नियामकस्य दुर्निरूपत्वाद्येन केनाप्यृत्विजा यः कोऽपि धर्मैच्छयासंगच्छते इति चेत् । मैवम् । ऽहौत्रम्, आध्वर्यवम्, औद्रात्रम्ऽ इति समाख्यानेन नियतिर्बोध्यते । न च समाख्यानस्य बाधकं किंचित्पश्यामः । तस्मादबोधकत्वबाधितत्वयोरप्रामाण्यकारणयोरभावाच्छ्रुति लिङ्गादिपञ्चकवत्प्रमाणेन समाख्यानेन धर्मा व्यवस्थाप्यन्ते ॥ ३,१.१५१६ ॥ (श्रुत्यादीनां पूर्वपूर्वबलीयस्त्वाधिकरणेषु [७१२] सूत्रम्) । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् । ३,३.१४ । ____________________________________________________ ३,३.१७१९ सप्तमा(श्रुतिप्राबल्या)धिकरणमारचयति ऐन्द्र्योपस्थीयतां वह्निरितीन्द्राग्न्योर्विकल्पनम् । समुच्चयो वोते शक्र एवाग्निः केवलोऽथवा ॥ ३,३.१७ ॥ विकल्पः श्रुतिलिङ्गाभ्यां गुणावृत्त्या समुच्चयः । श्रतिः शक्त्यनुसारेति शक्र एकोऽत्र लिङ्गतः ॥ ३,३.१८ ॥ शक्तिरुक्ता श्रुतिः शीघ्रा लिङ्गं क्षुत्यनुमापकम् । नैराकाङ्क्ष्यात्मके बोधे श्रुत्याग्नौ केवले स्थितिः ॥ ३,३.१९ ॥ ऽऐन्द्या गार्हपत्यमुपतिष्ठतेऽ इति श्रूयते । ऽकदाचन स्तरीरसि नेन्द्र सश्चसि दाशुषेऽ इत्यसावृगैन्द्री । तत्रेन्द्रस्य प्रकाशनात् । ऽभो इन्द्र, कदाचिदपि घातको न भवसि । किंत्वाहुतिं दत्तवते यजमानाय प्रीयसेऽ इत्यर्थः । तत्रैन्द्रप्रकाशनसामर्थ्यरूपाल्लिङ्गान्मन्त्रस्येन्द्रविषयक्रिया साधनत्वं गम्यते । यद्यसौ मन्त्र इन्द्रप्रधानकक्रियायाः साधको न भवेत्, तदानीमनेन मन्त्रेणेन्द्रप्रकाशनं व्यर्थे स्यात् । तस्मात्ऽएतन्मन्त्रकरणकक्रियां प्रतीन्द्रः प्रधानम्ऽ इत्येतादृशबुद्ध्यीं त्पादनं लिङ्गविनियोगः । ऽकासौ क्रियाऽ इति विशेषजिज्ञासायाम्ऽऐन्द्योपतिष्ठतेऽ इत्यनेनाविरुद्धपद द्वयरूपेण वाक्येनोपस्थानक्रियायां पर्यवसानं क्रियते । तथासतिऽऐन्द्रमन्त्रेणेन्द्रमुपतिष्ठेतऽ इत्ययमर्थः पर्यवस्यति । तथाऽगार्हपत्यम्ऽ इति द्वितीयान्तपदरूपया श्रुत्या गार्हपत्यस्य प्राधान्यं गम्यते । तच्च गुणभूतां यत्किंचित्करणकक्रियामन्तरेण न संभवति । ततःऽतादृशीं कांचित्क्रियां प्रति गार्ह्यत्यः प्रधानम्ऽ इत्येतादृशबुद्ध्यींत्पादनं श्रुतिविनियोगः । ऽऐन्द्या, उपतिष्ठतेऽ इति पदद्वयेन मन्त्रविशेषक्रियाविशेषयोः पर्यवसानं भवति । तथा सतिऽऐन्द्रेण मन्त्रेण गार्हपत्यमुपतिष्ठतेऽ इत्यर्थो भवति । तदेवं श्रुतिलिङ्गयोर्विरोधे सति प्रमाणत्वाविशेषाद्ब्रीहियववद्विकल्पः इत्येकः पूर्वपक्षः । इन्द्रगार्हपत्ययोः प्रधानत्वाविशेषदुपस्थानस्य च गुणत्वात्ऽप्रतिप्रधानं गुणःऽ इति न्यायेनोपस्थानावृत्या श्रुतिलिङ्गयोः समुच्चयः इति द्वितीयः पूर्वपक्षः । श्रुतिर्विनियुञ्जाना वस्तुसामथ्यमनुकृत्यैव विनियुङ्क्ते । अन्यथाऽवह्निना सिञ्चेत्ऽऽवारिणा दहेत्ऽ इत्यपि विनियुज्येत । तत उपजीव्यत्वेन लिङ्गस्य प्रबलत्वादिन्द्र एव मन्त्रेणोपस्थेयः इति तृतीयः पूर्वपक्षः । ऐन्द्रमन्त्रस्य गार्हपत्ये मुख्यवृत्त्या शक्त्यभावेऽपि गौणवृत्त्या शक्तिरस्तीतिऽनिवेशनःऽ इत्यस्मिन्नुदाहरणे पूर्वमेव दर्शितम् । तथा सति सामर्थ्याभावकृतप्रतिबन्धाभावान्निर्विघ्ना श्रुतिः शीघ्रं विनियुङ्क्ते, लिङ्गं तु विलम्बते । मन्त्रपदान्यादौ स्वाभिधेयमर्थे प्रतिपादयन्ति । तत ऊर्ध्व मन्त्रस्य सामर्थ्ये निरूप्यते । पश्चात्सामर्थ्यवशात्साधनत्ववाचिनी प्राधान्यवाचिनी च श्रुतिः कल्पते । सा च श्रुतिःऽमन्त्रेणेन्द्रमुपतिष्ठेतऽ इति विनियुङ्क्ते । तथा सति प्रत्यक्षश्रुतौ स्वाभिधेयप्रतिपादनविनियोगयो र्मध्यवर्तिनौ सामर्थ्यनिरूपण श्रुतिकल्पनव्यापारौ न स्त इति प्राबल्यात्तया लिङ्गं बाध्यते । न च प्रत्यक्षश्रुतिविनियोगवेलायामलब्धात्मकत्वेनाप्राप्तं लिङ्गं कथं बाध्येत इति शङ्कनीयम् । भविष्यत्प्रप्तिमतिबन्धस्यैवात्र बाधत्वात् । श्रुत्या विनियुक्तस्य मन्त्रस्य पुनर्विनियोगाकाङ्क्षाया अनुदयात्कथं विनियोजकं लिङ्गं प्राप्स्यति । तस्मात् गार्हपत्योपस्थाने मन्त्रः प्रत्यक्षश्रुत्या विनियुज्यते ॥ ३,१.१८१९ ॥ ____________________________________________________ ३,३.२०२२ अष्टमा (वाक्याद्यपेक्षया लिङ्गस्य प्राबल्या) धिकरणमारचयति स्योनं त इति पूर्वार्ध तस्मिन्सीदेति चोत्तरम् । सदने सादने चायं सर्वै वार्ऽधे व्यवस्थिते ॥ ३,३.२० ॥ तच्छब्दादेकवाक्यत्वे भवेदाद्यः श्रुतिं प्रति । लिङ्गस्य संनिकृष्टत्वाद्वाक्यबाधे व्यवस्थितिः ॥ ३,३.२१ ॥ उदाहृतिरियं वाक्यबाधे न त्वैन्द्रियेत्यसौ । बाधादूर्ध्व निरर्थत्वादप्रामाण्यप्रसङ्गतः ॥ ३,३.२२ ॥ दर्शपूर्णमासयोः श्रूयतेऽस्योनं ते सदनं कृणोमि घृतस्य धारया सुपेवं कल्पयामि । तस्मिन्सीदामृते प्रतितिष्ठ व्रीहीणां मेघ सुमनस्यमानःऽ इति । ऽभोः पुरोडाश, तव समीचीनं स्थानं करोमि । तच्च स्थानं घृतस्य धारया सुष्ठु सेवितुं योग्यं कल्पयामि । भो व्रीहिसारभूत, त्वं समाहितमनस्कस्तस्मिन्समीचीने स्थान उपविश । तत्र स्थिरो भवऽ इत्यर्थः । तत्रऽतस्मिन्ऽ इत्यनेन तच्छब्देन प्रकृतवाचिना पूर्वोत्तरार्धयोरेकवाक्यत्वे सति मन्त्रद्वयाभावात्सर्वोऽप्ययं मन्त्रः स्थानकरणेऽङ्गं स्यात् । मन्त्रविनियोजिका श्रुतिरेवं कल्पनीयाऽसर्वेणानेन मन्त्रेण स्थानं कर्तव्यम्ऽ इति । तथाऽसर्वेण मन्त्रेण पुरोडाशः स्थापनीयः, इत्यपि कल्पनीया । सदनाङ्गत्ववत्प्रतिष्ठापनाङ्गत्वस्यापि तद्वाक्यबोधितत्वात् । तथा सति सदनस्थापनयोरस्य मन्त्रस्य विकल्पः समुच्चयो वा निजेच्छया भविष्यति इति प्राप्ते, ब्रूमः यदेतत्पूर्वोत्तरार्धयोः परस्परान्वयेन संपन्नमेकं वाक्यम्, तदेतदुत्तराधस्य सदनकरणे शक्तिमकल्पयित्वा कृत्स्नं मन्त्रं सदने विनियोक्तुं नार्हति । तथा पूर्वार्धस्य स्थापने शक्तिमकल्पयित्वा न तत्र प्रभवति । अतो लिङ्गकल्पनव्यवधानेन वाक्यं श्रुतिं प्रति विप्रकृष्यते । प्रत्यक्षं तु लिङ्गद्वयं संनिकृष्यते । तथा सति लिङ्गेन वाक्यबाधादर्थद्वयमुभयोर्व्यवस्थितम् । ननुऽऐन्द्या गार्हपत्यम् । इत्यत्रापि पदद्वयान्वयरूपस्य वाक्यस्य विनियोजकत्वप्रतीतेर्लिङ्गवाक्यविरोधाय तदेवोदाह्नियतामिति चेत् । न । तत्र लिङ्गेन वाक्ये बाधिते सत्येकैकपदस्यार्थप्रत्यायकत्वाभावेन श्रुतिकृतविनियोगस्याप्यसिद्धेरप्रामाण्यमेवोदाहृतस्य प्रसज्येत । इह तु महावाक्ये बाधितेऽप्यवान्तरवाक्ययोरर्थप्रतीतौ लिङ्गविनियोगः सिध्यतीत्येतदेवोदाहरणम् ॥ ३,१.२०२२ ॥ ____________________________________________________ ३,३.२३२४ नवमा(वाक्यस्य प्रकरणाद्यपेक्षया प्राबल्या)धिकरणमारचयति अग्नीषोमाविदं हव्यमजुषेतामितीरितात् । अपच्छिद्येदमित्यादिः सर्वशेषो भवेन्न वा ॥ ३,३.२३ ॥ प्रक्रियातो मवेन्मैवं प्रक्रियान्तरिता त्रिभिः । वाक्यं द्वयन्तरितं तेन भवेत्प्रकरणाद्बलि ॥ ३,३.२४ ॥ सूक्तवाके श्रूयतेऽअग्निषोमाविदं हविरजुषेताम्, अवीवृधेताम्, महोज्यायोऽक्राताम् । इन्द्राग्नी इदं हविरजुषेताम्, अवीवृघेताम्,ऽमहो ज्यायोऽक्राताम्ऽ इति । तत्रदेवतावाचकमग्नीषोमादिपदं पौर्णमास्यादिकाले यथादेवतं विभज्य प्रयोक्तव्यमिति पूर्वपादे निर्णीतम् । यत्तुऽइदं हविःऽ इत्यादिकमवशिष्टं पदजातं, तदग्नीषोममन्त्रगतमप्यमावास्यायामग्नीषोमपदपरित्यागेन पठनीयम् । एवमिन्द्राग्निमन्त्रगतमपि पौर्णमास्यामिन्द्राग्निपदपरित्यागेन पठनीयम् । तथा सत्येषां मन्त्रभागाणां सर्वशेषत्वबोधको दर्शपूर्णमासप्रकरणपाठोऽनुगृह्यते इति प्राप्ते, ब्रूमः अग्नीषोममन्त्रशेषस्येन्द्राग्निपदान्वयाश्रवणात् । प्रकरणेन प्रथमे तदन्वयरूपं वाक्यं कल्पनीयम् । तेन च वाक्येनेन्द्रादिप्रकाशनसामर्थ्यरूपं लिङ्गं कल्प्यते । तच्च लिङ्गम्ऽअनेन मन्त्रभागेणेन्द्राग्निविषयक्रियानुष्ठेयाऽ इति विनियोजिकां तृतीयाश्रुतिं कल्पयति । ततः प्रकरणविनियोगयोर्मध्ये त्रिभिर्व्यवधानं भवति । अग्नीषोमपदान्वयरूपं तु वाक्यं श्रूयमाणत्वाल्लिङ्गश्रुतिभ्यामेव व्यवधीयते । तस्माद्वाक्येन प्रकरणस्य बाधितत्वात्तच्छेषस्तत्रैव व्यवतिष्ठते ॥ ३,१.२३२४ ॥ ____________________________________________________ ३,३.२५२६ दशमा(प्रकरणस्य क्रमाद्यपेक्षया प्राबल्या)धिकरणमारचयति राजसूयेऽभिषेच्याख्ययागे ये देवनादयः । तच्छेषास्तेऽखिलार्था वा तच्छेषास्तस्य संनिधेः ॥ ३,३.२५ ॥ राजसूयकथंभावानुवृत्तेः सर्वशेषता । कल्प्याकाङ्क्षाभिषेच्यस्य प्रक्रिया प्रबला ततः ॥ ३,३.२६ ॥ राजसूये पश्विष्ठिसोमयागा बहवः प्रधानभूताः । तत्राभिषेचनीयाख्यः कश्चित्सोमयागः । तस्य संनिधौ देवनादयः श्रूयन्तेऽअक्षैर्दीव्यति । राजन्यं जिनाति । शौनःशेपमाख्यापयतिऽ इति । जिनाति जयति । बह्वृचब्राह्मणे समाम्नातं शुनः शेपविषयमुपाख्यानं शौनःशेपम् । तत्र संनिधिबलाद्देवनादयोऽभिषेचनीयाङ्गमिति चेत् । मैवम् । राजसूयस्य कथंभावाकाङ्क्षायामनुवृत्तायां विहिता देवनादयः प्रकरणेन राजसूयशेषाः । राजसूयश्च बहुयागात्मक इति तत्रत्यसर्वयागशेषत्वम् । न चाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति । ज्योतिष्टोमविकृतित्वेनातिदिष्टैः प्राकृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः । संनिहितविधिबलादाकाङ्क्षोत्थाप्यते इति चेत् । अत एवाऽकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य तद्द्वारा वाक्यलिङ्गश्रुतीकल्पनया संनिधिर्विप्रकृष्यते । राजसूयाकाङ्क्षारूपं तु महाप्रकरणं कॢप्तत्वादेकर्या कक्षया संनिकृष्यते । तस्मात्प्रकरणेन संनिधिबाधात्सर्वशेषा देवनादयः ॥ ३,१.२५२६ ॥ ____________________________________________________ ३,३.२७२८ एकादशा(क्रमस्य समाख्यापेक्षया प्राबल्या)धिकरणमारचयति शुन्धध्वमिति मन्त्रोऽङ्गं पौरोडाशिकशोधने । सांनाय्यपात्रशुद्धौ वा प्रथमोऽस्तु समाख्यया ॥ ३,३.२७ ॥ पौरोडाशिकमित्यत्र प्रकृत्या तद्धितेन वा । संनिध्यनुक्तितः कल्प्यः कॢप्तत्वाच्चरमः क्रमात् ॥ ३,३.२८ ॥ ऽशुधध्वं दैव्याय कर्मणेऽ इत्ययं मन्त्रःऽपौरोडाशिकम्ऽ इति याज्ञिकैःसमाख्याते काण्डे पठितत्वात्समाख्यया पुरोडाशकाण्डोक्तानामुलूखलजुह्वादीनामपि शोधनेऽङ्गमिति चेत् । मैवम् । ऽपौरोडाशिकम्ऽ इति समाख्यायां प्रकृतिः पुरोडाशमात्रमभिधत्ते । तद्धितप्रत्ययश्च काण्डम् । न चैतावता कृत्स्नपुरोडाशपात्राणां मन्त्रसंनिधिः प्रत्यक्षो भवति, किंत्वर्थापत्त्या कल्प्यते । यद्युक्तसंनिधिर्न स्यात्, तदा मन्त्रप्रतिपादकग्रन्थस्य पौरोडाशिकसमाख्या न स्यात् । न ह्यग्न्यसंनिहितानाम्ऽइषे त्वाऽ दिमन्त्राणामाग्नेयकाण्डसमाख्या भवति । संनिहितानां तुऽयुञ्जानः प्रथमं मनःऽ इत्यादिमन्त्राणां भवत्येषा समाख्या । तस्मात्काण्डसमाख्यया संनिधिं परिकल्प्य तत्संनिध्यन्यथानुपपत्त्या परस्पराकाङ्क्षारूपं कृत्स्नं पात्रप्रकरणं कल्पयित्वा तद्द्वारा वाक्यलिङ्गश्रुतीः कल्पयित्वा तया श्रुत्या विनियोग इति समाख्याया विप्रकर्षः । सांनाय्यपात्राणां शोधने मन्त्रसंनिधिस्तु प्रत्यक्षः । इध्माबर्हिः संपादनस्य मुष्टिनिर्वापस्य चान्तरालं सांनाय्यपात्राणां देश उक्तः । मन्त्रश्वेध्माबर्हिर्निर्वापविषययोर्मन्त्रानुवाकयोमध्योमऽनुवाके पठ्यते । तेन च प्रत्यक्षसंनिधिना प्रकरणादीनां चतुर्णामेव कल्पनात्संनिधिः संनिकृष्यते । तस्मात्क्रमेण समाख्यां बाधित्वाऽसांनाय्यपात्रशोधनशेषो मन्त्रःऽ इत्ययं चरमः पक्षोऽभ्युपेयः ॥ ३,१.२७२८ ॥ ____________________________________________________ ३,३.२९३० द्वादशा(बाधयोग्यता)धिकरणमारचयति बाधो न युक्तो युक्तो वा प्राप्त्यप्राप्त्योर्न युज्यते । अप्रवृत्तं प्रसक्तं यद्धिया तस्यास्तु बाध्यता ॥ ३,३.२९ ॥ प्रमाणतः प्रसक्तस्य बाधो दाशमिकोऽत्र तु । विभ्रमेण प्रसक्तस्य तस्मादप्रप्तबाधनम् ॥ ३,३.३० ॥ प्राप्तस्य प्रवृत्तिरस्तीति न तन्निवारणं शक्यम् । अप्राप्तस्य बाधविषयत्वेनावस्थानमेव नास्ति । तस्मात्न युक्तो बाधः इति चेत् । मैवम् । बुद्ध्याविषयीकृतस्य वारयितुं शक्यत्वात् । न चैतदत्यन्तं प्रवृत्तम् । अनुष्ठानरूपफलपर्यवसानाभावात् । नाप्यत्यन्तमप्रवृत्तम् । तद्बुद्धेरुत्पन्नत्वात् । अतो नोक्तदोषद्वयम् । दशमे चोदकप्रमाणेनावबुद्धोर्ऽथो बाध्यत इति प्राप्तबाधः । इह तु पूर्वपूर्वप्रमाणविरुद्धैरुत्तरोत्तरैः प्रमाणाभासैरवबुद्धस्येत्यप्राप्तबाधः ॥ ३,१.२९३० ॥ (त्रयोदशे द्वादशोपसत्ताया अहीनाङ्गताधिकरणे(अहीनन्याये) सूत्रे१५१६) । अहीनो वा प्रकरणाद्गौणः । ३,३.१५ । असंयोगात्तु मुख्यस्य तस्मादपकृष्येत । ३,३.१६ । ____________________________________________________ ३,३.३१३३ त्रयोदशाधिकरणमारचयति तिस्त्र एव हि साह्ने स्युरहीने द्वादशेत्यतः । ज्योतिष्टोमे द्वादशत्वमथवाहगणे भवेत् ॥ ३,३.३१ ॥ अस्तु प्रकरणादाद्यो नाहीमत्वं विरुध्यते । प्रकृतित्वान्न केनापि हीनोऽतोऽत्र विकल्प्यताम् ॥ ३,३.३२ ॥ साह्लाद्भिन्नाहीनसंज्ञा रूढैपाहर्गणे भवेत् । षष्ठीश्रुत्या द्वादशत्वं प्रक्रियातोऽपकृष्यताम् ॥ ३,३.३३ ॥ ज्योतिष्टोमप्रकरणे श्रूयतेऽतिस्त्र एव साह्नस्योपसदो द्वादशाहीनस्यऽ इति । एकेनाह्ना निष्पाद्यत्वात्साह्नो ज्योतिष्टोमः । दीक्षादिवसादूर्ध्वे सोमाभिषवदिवसात्पूर्व कर्तव्या होमा उपसदः । तासां द्वादशत्वं प्रकरणबलाज्ज्योतिष्टोमे निविशते । अहीनशब्दश्च तस्मिन्नेव कल्पते । ज्योतिष्टोमस्य निखिलसोमयागप्रकृतित्वेन सर्वेषामङ्गानां तत्रोपदेशे सति तदुपदेशविकलविकृतीनामिव हीनत्वाभावात् । अतो द्वादशत्वत्रित्वयोर्विकल्पः इति प्राप्ते, ब्रूमः आवृत्तसोमयागरूपो द्विरात्रत्रिरात्रादिरहर्गणः । तस्मिन्नहीनशब्दो रूढः । यौगिकत्वे तुऽन हीनःऽ इति विगृह्य समासे कृते सत्ययज्ञादिशब्दबदाद्युदात्तः स्यात् । मध्योदात्तस्त्वाम्नायते । रूढिश्च विग्रहनिरपेक्षत्वाच्छीप्रबुद्धिहेतुः । अतो ज्योतिष्टोमवाचिनः साह्नशब्दाद्भिन्नेयमहीनसंज्ञा ज्योतिष्टोमाद्भिन्नमहर्गणमभिधत्ते । तस्मिन्नहर्गणे षष्ठीश्रुत्या तदुक्तं द्वादशत्वं निवेश्यते । तत्सिद्धये प्रकरणादिदमपनेतव्यम् ॥ ३,१.३१३३ ॥ (चतुर्दशे कुलायादौ प्रतिपदौरुत्कर्षाधिकरणे सूत्राणि १७१९) । द्वित्वबहुत्वयुक्तं वा चोदनात्तस्य । ३,३.१७ । पक्षेणार्थकृतस्येति चेत् । ३,३.१८ । न प्रकृतेरेकसंयोगात् । ३,३.१९ । ____________________________________________________ ३,३.३४३६ चतुर्दशाधिकरणमारचयति युवं हीति द्वयोः कर्त्रोर्बहूनां चैत इत्यमूम् । कुर्यात्प्रतिपदं ज्योतिष्टोमे साहर्गणेऽथवा ॥ ३,३.३४ ॥ एकस्य शक्तिराहित्ये द्वाभ्यां बहुभिरेव वा । ज्योतिष्टोमस्य कार्यत्वात्प्रकृतेऽत्रैव सा भवेत् ॥ ३,३.३५ ॥ यजमानस्य नानात्वं साक्षाद्विकृतिषु श्रुतम् । उत्कृष्य प्रतिपत्तेन कुलायादिषु नीयताम् ॥ ३,३.३६ ॥ ज्योतिष्टोमे श्रूयतेऽयुवं हि स्थः स्वर्पतीऽ इति द्वयोर्यजमानयोः प्रतिपदं कुर्यात् । एते असृग्रमिन्दवःऽ इति बहुभ्यो यजमानेभ्यःऽ इति । स्तोत्रस्योपक्रमे पठनीयामृचं प्रतिपच्छब्दोऽभिधत्ते । सा चोदाहृता प्रतिपत्प्रकरणाज्ज्योतिष्टोमे निविशते । न च तत्र यजमासद्वित्वबहुत्वयोरसंभवः । एकस्य यजमानस्य द्रव्यलाभादिना तदशक्तौ नित्यकर्मणः परित्यागासंभवेन द्वाभ्यां बहुभिर्वा तस्यावश्यकर्तव्यत्वातिति प्राप्ते, ब्रूमः यजमानद्वित्वं कुलायनामके यज्ञे साक्षादाम्नातम्ऽएतेन राजपुरोहितौ सायुज्यकामौ यजेयाताम्ऽ इति । यजमानबहुत्वं सत्रेष्वाम्नातम्ऽचतुर्विंशतिपरमाः सत्त्रमासीरन्ऽ इति । ततो द्विशब्दबहुशब्दरूपाभ्यां श्रुतिभ्यां प्रकरणं बाधित्वा कुलायादिषु यथोक्तप्रतिपदोरुत्कर्षः कर्तव्यः । न चाशक्तावपि यजमानद्वित्वबहुत्वे संभवतः । अशक्तेन स्वीकृतस्य पुरुषान्तरस्य प्रतिविधित्वे यजमानत्वाभावात् । ऽयजमानस्य प्रतिनिधिर्नास्तिऽ इति वक्ष्यते । यद्यन्यः पुरुषः स्वयमेव प्रवर्तते तदानीं स्वकीयमेव प्रयोगं कुर्यात्, नत्वशक्तस्य साहाय्यमाचरेत् । तस्मात्श्रूयमाणस्य यजमानैकत्वस्य कालादिवदनुपादेयाङ्गत्वेन त्यक्तुमशक्यत्वान्न ज्योतिष्टोमे यजमानस्य द्वित्वबहुत्वे संभवतः ॥ ३,१.३४३६ ॥ (पञ्चदशे जाघन्या अनुत्कषार्धिकरणे सूत्राणि २०२३) । जाघनी चैकदेशत्वात् । ३,३.२० । चोदना वापूर्वत्वात् । ३,३.२१ । एकदेश इति चेत् । ३,३.२२ । न प्रकृतेरशास्त्रनिष्पत्तेः । ३,३.२३ । ____________________________________________________ ३,३.३७३८ पञ्चदशाधिकरणमारचयति संयाजयन्ति जाघन्या पत्नीरेतत्पशावुत । दर्शादौ तत्पशौ युक्तं जाघन्याः समवायतः ॥ ३,३.३७ ॥ जाघनी नाम भागोऽसौ दर्शादौ समवैति हि । नोत्क्रष्टव्यं न संस्कार्या साधनत्वात्तृतीयया ॥ ३,३.३८ ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽजाघन्या पत्नीः संयाजयन्तिऽ इति । जाघनी पशोः पुच्छम् । पत्नीशब्दोऽत्राऽहुतिचतुष्टयात्मकस्य कर्मणो नामधेयैकदेशः । अत एव श्रूयतेऽपञ्च प्रयाजा इज्यन्ते, चत्वारः पत्नीसंयाजाःऽ इति । तत्र तृतीयाहुतौ देवपत्नीनां देवतात्वात्तद्द्वारा कर्मनाम्नः पत्नीसंयाजशब्दस्य प्रवृत्तिः । तत्र जाघनीमुद्दिश्य पत्नीसंयाजसंस्कारो विधीयते । जाघनी च पशौ समवेता न तु दर्शपूर्णमासयोः । अतः प्रकरणादुत्कृष्य पशौ निवेशनमिति प्राप्ते, ब्रूमः जाघनीशब्देन पशोर्भामोऽभिधीयते । स च दर्शपूर्णमासयोः पशुयागत्वाभावेऽपि क्रयादिना संपादयितुं शक्यते । न चात्र पशौ विद्यमानायां जाघन्यां पत्नीसंयाजैः संस्कार्यत्वम् । तृतीयया साधनत्वावगमात् । तस्मात्न प्रकरणादुत्कर्षः ॥ ३,१.३७३८ ॥ (षोडशे संतर्दनस्य संस्थानिवेशाधिकरणे सूत्राणि २४३१) । संतर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात् । ३,३.२४ । उत्कर्षो वा ग्रहणाद्विशेषस्य । ३,३.२५ । कर्तृतो वा विशेषस्य तन्निमित्तत्वात् । ३,३.२६ । क्रतुतो वार्थवादानुपपत्तेः स्यात् । ३,३.२७ । संस्थाश्च कर्तृवद्धारणार्थाविशेषात् । ३,३.२८ । उक्थ्यादिषु वार्थस्य विद्यमानत्वात् । ३,३.२९ । अविशेषात्स्तुतिर्व्यर्थेति चेत् । ३,३.३० । स्यादनित्यत्वात् । ३,३.३१ । ____________________________________________________ ३,३.३९४० षोडशाधिकरणमारचयति संतृद्येद्दीर्घसोमे तत्प्रकृतौ विकृताबुत । दीर्घस्य सोम इत्युक्ते प्रकृतावस्तु तर्दनम् ॥ ३,३.३९ ॥ सामानाधिकरण्यस्य षष्ठीतो बलवत्त्वतः । दैर्ध्ययुक्तौक्थ्यसंस्थादावुत्कर्षोऽन्यत्र बाधनात् ॥ ३,३.४० ॥ ज्योतिष्टोमे श्रूयतेऽदीर्घसोमे संतृद्येद्धृत्यैऽ इति । सोमयागविशेषो दीर्घसोमः । तस्मिन्सोमाभिषवाधारयोरधिषवणफलकयोः संतर्दनं कार्यम् । अन्योन्यवियोगेन शैथिल्यं मा भूदिति दृढसंश्लेषः संतर्दनम् । तदेतत्प्रकरणबलात्प्रकृतौ निविशते । न च तत्र दीर्घसोमत्वानुपपत्तिः । ऽदीर्घस्य सोमःऽ इत्येवं दीर्घशब्दस्य यजमानविशेषणत्वेनाप्युपपत्तेः इति प्राप्ते ब्रूमःऽषष्ठीसमासात्कर्मधारयो बलीयान्ऽ इति (निषादस्थपत्यधिकरणे) वक्ष्यते । तथा सति दीर्घत्वं सोमस्य धर्मः, न तु यजमानस्य । नन्वेवमपि प्रकृतिभूतस्य सोमस्येष्टिपश्वपेक्षया दीर्घत्वमस्त्येव इति चेत् । न । सोमशब्देनैव तदवगतौ दीर्घशब्दस्य वैयर्थ्यात् । न हीष्टिपश्वपेक्षया ह्रस्वः कश्चित्सोमोऽस्ति, यस्य व्यावृत्तये दीर्घशब्दः प्रयुज्येत । तस्मात्प्रकृतिरूपं ह्रस्वं सोयं व्यावर्तयितुमयं दीर्घशब्दः । विकृतिषूक्थ्यादिषु ग्रहाधिक्याद्दीर्घत्वम् । द्विरात्रादिषु चाऽवृत्त्या दीर्घत्वम् । तस्माद्वाक्येन प्रकरणं बाधित्वा विकृतिषु तन्निवेशः । प्रकृतौ तु दीर्घशब्दस्य बाधः पूर्वमुक्तः । संतर्दनबाधश्च साक्षाच्छ्रूयतेऽहनू वा एते यज्ञस्य यदधिषवणे न संतृणत्ति, असंतृष्णे हि हन्ऽ इति । तस्मात्न प्रकृतौ निवेशः ॥ ३,१.३९४० ॥ (सप्तदशे प्रवर्ग्यनिषेधाधिकरणे सूत्रे ३२३३) । संख्यायुक्तं क्रतोः प्रकरणात्स्यात् । ३,३.३२ । नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वात् । ३,३.३३ । ____________________________________________________ ३,३.४१४१ सप्तदशाधिकरणमारचयति न प्रवृञ्ज्यादाद्ययज्ञे क्रतौ सोऽनुष्ठितावुत । प्रतिषेधः क्रतौ युक्त उक्ता ह्यस्याऽद्ययज्ञता ॥ ३,३.४१ ॥ प्रवृणक्त्युपसद्भ्यः प्रागिति वाक्यात्क्रतौ विधेः । आद्यप्रयोगे प्राथम्यान्निषेधः क्वचिदेव सः ॥ ३,३.४२ ॥ ज्योतिष्टोमे प्रवर्ग्याख्यं कर्म प्रकृत्य श्रूयतेऽन प्रथमयज्ञे प्रवृञ्ज्यात्ऽ इति । सोऽयं प्रतिषेधो ज्योतिष्टोमक्रतौ द्रष्टव्यःऽ न तु तदीयप्रथमप्रयोगे । कुतः । ऽएववाव प्रथमोऽ यज्ञो यज्ञानां यज्ज्योतिष्टोमःऽ इति तस्य प्रथमयज्ञत्वामिधानातिति चेत्मैवम् । ऽपुरस्तादुपसदां प्रवर्ग्ये प्रवृणक्तिऽ इति वाक्येन क्ततौ प्रवर्ग्यस्य विहितत्वात् । न च विधिनिषेधवाक्ययोः समानबलत्वादनिर्णयः । निषेधवाक्ये प्रथमशब्देन निषेधस्य प्रयोगपरत्वनिर्णयात् । प्रथमद्वितीयादिशब्दाः क्रियाया आवृत्तौ मुख्याः, तत्संबन्धाद्वस्तुषूपचर्यन्ते । प्रथममध्येतव्यत्वात्प्रथमं काण्डम्, तदनन्तरमध्येतव्यत्वाद्द्वितीयं काण्डम् । एवमादावुत्पन्नत्वात्प्रथमः पुत्रः, तदनन्तरमुत्पन्नत्वाद्द्वितीयः । तथा सति प्रयोगक्रियाया आवृत्तिविशेषे प्रथमशब्दो मुख्यः । तदावृत्तिविषयतया यज्ञे लाक्षणिकः । त्वत्पक्षेऽपि क्रतौ मुख्यो यज्ञशब्दः, प्रयोगे लाक्षणिकः स्यातिति चेत् । बाढम् । तथाप्यसंजातविरोधिनिलाक्षणिकत्वकल्पनाद्वरमुत्तर पदे तत्कल्पनम् । तस्माज्ज्योतिष्टोमस्य प्रथमप्रयोगे प्रवर्ग्यनिषेधः । ननुसप्तसंस्थायुक्तस्य ज्योतिष्टोमस्य प्रथमसंस्थारूपोऽग्निष्टोमः, तत्रायं निषेधः पर्यवस्यति । विधिश्च तत्र श्रूयते अग्निष्टोमे प्रवृणक्तिऽ इति । एवं तर्ह्यधिकारिभेदेन विधिनिषेधयोर्व्यवस्थास्तु । तथा हि श्रूयतेऽकामं तु योऽनूचानः स्यात्, तस्य प्रवञ्ज्यात्ऽ इति । तस्मातनूचानव्यतिरिक्तकर्तृकेऽग्निष्टोमप्रथमप्रयोग एवायं निषेधः ॥ ३,१.४१४२ ॥ (अष्टादशे पौष्णपेषणस्य विकृतौ विनियोगाधिकरणे सूत्रम्) । पौष्णं पेषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ । ३,३.३४ । ____________________________________________________ ३,३.४३४४ अष्टादशाधिकरणमारचयति प्रपिष्टभागः पूषेति प्रकृतौ विकृतावुत । इष्टिप्रकरणादेव प्रकृताविति युज्यते ॥ ३,३.४३ ॥ संतर्दनादिवद्वाक्याद्विकृतौ पूषसंभवात् । सिद्धस्य पुनरप्युक्तिरधिकस्य विवक्षया ॥ ३,३.४४ ॥ दर्शपूर्णमासप्रकरणे श्रूयत्ऽतस्मात्पूषा प्रपिष्टभागोऽदन्तको हिऽ इति । तत्र दन्तरहितस्य पूष्णः पिष्टभागत्वं संतर्दनप्रतिपदादिवत्सिद्धम् । तथाप्युत्तरा । धिकरणे तस्मिन्नेव विषये विशेषं वक्तुमिह प्रस्तूयते ॥ ३,१.४३४४ ॥ (एकोनविंशे पौष्णपेषणस्य चरावेव निवेशाधिकरणेसूत्राणि ३५३८) । तत्सर्वार्थमविशेषात् । ३,३.३५ । चरौ वार्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ न स्यात् । ३,३.३६ । चरावपीति चेत् । ३,३.३७ । न पक्तिनामत्वात् । ३,३.३८ । ____________________________________________________ ३,३.४५४६ एकोनविंशाधिकरणमारचयति चरौ पशौ पुरोडाशे चरावेवोत पेषणम् । विशेषादर्शनादेतत्सर्वेष्वपि विधीयते ॥ ३,३.४५ ॥ प्राप्तत्वान्न पुरोडाशे हृदाद्याकारनाशनात् । न पशौ पारिशेष्येण चरावेव हि पेषणम् ॥ ३,३.४६ ॥ ऽपौष्णं चरुमनुनिर्वपेत्ऽ इति चरुर्विहितः । ऽपौष्णं श्याममालमेतान्नकामःऽ इति पशुविधिः । ऽपशुमालभ्य पुरोडाशं निर्वपतिऽ इत्येतच्चोदकेन पौष्णपशौ प्राप्तम् । तत्रऽयद्देवत्यः पशुस्तद्देवत्यः पुरोडाशःऽ इति न्यायेन पुरोडाशस्य पूषा देवता । तत्र पूर्वोक्तं पेषणं विषयीकृत्योच्यमानाः संशयपूर्वोत्तरपक्षा विस्पष्टाः ॥ ३,१.४५४६ ॥ (विंशे पौष्णपेषणस्यैकदेवत्ये निवेशाधिकरणे सूत्राणि ३९४६) । एकस्मिन्नेकसंयोगात् । ३,३.३९ । धर्मविप्रतिषेधाच्च । ३,३.४० । अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात् । ३,३.४१ । लिङ्गदर्शनाच्च । ३,३.४२ । वचनात्सर्वपेषणं तं प्रति शास्त्रवत्वादर्थाभावाद्विचरावपेषणं भवति । ३,३.४३ । एकस्मिन् वार्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात् । ३,३.४४ । हेतुमात्रमदन्तत्वम् । ३,३.४५ । वचनं परम् । ३,३.४६ । ____________________________________________________ ३,३.४७४८ विंशाधिकरणमारचयति द्विदेवकेऽपि किं पिंष्यादुत पूषैकदैवके । द्विदेवकेऽपि तत्पूष्णः सत्त्वात्पेषणभागिनः ॥ ३,३.४७ ॥ देवता विफलत्वेन पेषणं न प्रयोजयेत् । यागस्य तत्त्वे भागोक्तेर्न यागान्तरगामि तत् ॥ ३,३.४८ ॥ राजसूये श्रूयतेऽसौमापौष्णं चरुं निर्वपति, ऐन्द्रापौष्णं चरुम्ऽ इति । तत्र द्विदेवकेऽपि चरौ पिष्टभाजः पूष्णः सत्त्वात्तत्पेषणं पूषार्थे कर्तव्यमिति चेत् । तत्र वक्तव्यं किं पेषणस्य देवता प्रयोजिका, किंवा यागः । नाऽद्यः । यागमन्तरेण केवलदेवता फलजनकत्वाभावेन पेषणं प्रयोक्तुं न प्रभवति । पौष्णस्य यागस्य पेषणप्रयोजकत्वे तु तत्पेषणं द्विदेवके यागान्तरे गन्तुं नार्हति । ऽपूषा प्रपिष्टभागःऽ इत्यत्र यागौ न श्रुतः इति चेत् । मैवम् । भागशब्दान्यथानुपपत्त्या यागस्य कल्प्यत्वात् । नहि देवतात्वमन्तरेण पिष्टद्रव्यभाक्त्वं सिध्यति । सति च देवतात्वे द्रव्यदेवतयोर्लाभाद्यागः कल्प्यते । तस्मातेकदेवक्रयागस्य पेषणप्रयोजकत्वात्, न द्विदेवकयागे पेषणमस्ति ॥ ३,१.४७४८ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य तृतीयः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य चतुर्थः पादः । (प्रथमे निवीतस्यार्थवादत्वाधिकरणे सूत्राणि १९) निवीतामिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् । ३,४.१ । अपदेशो वार्थस्य विद्यमानतत्त्वात् । ३,४.२ । विधिस्त्वपूर्वत्वात्स्यात् । ३,४.३ । स प्रायात्कर्मधर्मः स्यात् । ३,४.४ । वाक्यशेषत्वात् । ३,४.५ । तत्प्रकरणे यत्तत्संयुक्तमविप्रतिषेधात् । ३,४.६ । तत्प्रधाने वा तुल्यवत्प्रसंख्यानादितरस्य तदर्थत्वात् । ३,४.७ । अर्थवादो वा प्रकरणात् । ३,४.८ । विधिना चैकवाक्यत्वात् । ३,४.९ । ____________________________________________________ ३,४.१२ चतुर्थपादस्य प्रथमाधिकरणमारचयति निवीतं तु मनुष्याणां विधिर्वैषोर्ऽथवादकः । अपूर्वत्वात्प्रकरणान्नुः क्रतोर्वा विधीयते ॥ ३,४.१ ॥ प्राप्तं निवीतं मर्त्येषु प्रायेणैतस्य दर्शनात् । उपवीतविधावेकवाक्यत्वादर्थवादता ॥ ३,४.२ ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽनिवीतं मनुष्याणाम् । प्राचीनापीतं पितॄणाम् । उपवीतं देवानाम् । उपव्ययते देवलक्ष्ममेव तत्कुरुतेऽ इति । तत्र निवीतस्य पूर्वे मानान्तरेणाप्राहत्वा द्विधेयत्वमभ्युपेतव्यम् । तच्च निवीतंऽमनुष्याणाम्ऽ इति षष्ठ्या पुरुषार्थत्वेन विधीयते इत्येकः पूर्वपक्षः । अस्मिन्पक्षे मनुष्यसंबन्धो द्विविधः सुवर्णधारणवत्सर्वपुरुषस्यबन्धः, इत्येकः प्रकारः । ऽउपवीतप्राचीनावीतयोः क्रतुप्रवेशरहितयोः स्वतन्त्रदैविकपैतृककर्मणोरपि दर्शनात्तत्साहचर्येण स्वतन्त्र आचार्यातिथ्यादिमनुष्यविषये कर्मणि निवीतम्ऽ इत्यपरः प्रकारः । प्रकरणबलात्प्रयाजादिवद्यागधर्षः इति द्वितीयः पूर्वपक्षः । अस्मिन्पक्षे मनुष्यग्रहणं कर्तृसंबन्धानुवादः । ऽषष्ठीश्रुतिप्रकरणयोरविरोधादुभयावलम्बनेन क्रतुसंबन्धिमनुष्यधर्मःऽ इति पक्षान्तरमुदेति । तच्च द्विविधम्ऽलोहितोष्णीपादिवदृत्विग्धर्मः, इत्येकः प्रकारः । ऽक्रतावेव यन्मनुष्यप्रधानं कर्मान्वाहार्यदानादि, तद्धर्मत्वे सत्युपवीतसाहचर्यमप्यनुगृह्यतेऽ इत्यपरः । सर्वथापि निवीतं नार्थवादः इति प्राप्ते, ब्रूमः अत्र प्रतीयमानं निवीतादिकं वासोविषयम्, न तु त्रिवृत्सूत्रविषयम् । ऽअजिनं वासो वा दक्षिणत उपवीयऽ इत्यनेन सदृशत्वात् । वस्त्रस्य च निवीतं सौकर्याय प्राप्तम् । चीनावीतोपवीतयोरवश्यमेकमेकस्मिन्पार्श्वे वस्त्रमधः पतेत् । अतः प्राप्तेर्ऽथेऽमनुष्याणाम्ऽ इति षष्ठीश्रुतिर्न विधायिका । न च प्रकरणात्क्रत्वङ्गत्वेन विधिः । वाक्यभेदप्रसङ्गात् । उपवीतं तावद्विधीयते । अन्यथाऽदेवलक्ष्ममेव तत्कुरुतेऽ इति प्रशंसाबैयर्थ्यापत्तेः । तस्मिंश्चोपवीत विधावर्थवादत्वेन निवीतप्राचीनावीतयोरेकवाक्यत्वसंभवे पृथग्विधानमयुक्तम् । नवीत प्राचीनावीते मनुष्यपितृविषयवत्त्वाद्दैविके कर्मण्ययोग्ये, उपवीतं तु योग्यमिति व्यतिरेक मुखेण स्तावकं निवीतम् । तस्मातर्थवादः ॥ ३,१.१२ ॥ (द्वितीये, उपवीतस्य दर्शपूर्णमासाङ्गताधिकरणे सूत्रे १०११) उपवीतं लिङ्गदर्शनात्सर्वधर्मः स्यात् । ३,४.१० । न वा प्रकरणात्तस्य दर्शनम् । ३,४.११ । ____________________________________________________ ३,४.३४ द्वितीयाधिकरणमारचयति सर्वार्थमुत दर्शार्थमुपव्ययत इत्यदः । सर्वार्थमग्निहोत्रे स्यादुपवीतीति लिङ्गतः ॥ ३,४.३ ॥ दर्शाद्यर्थे प्रकरणाल्लिङ्गे स्यात्सिद्धिरन्यथा । दोहं मृताग्निहोत्रस्य स्तोतुमेतदनूदितम् ॥ ३,४.४ ॥ ऽयज्ञोपवीती हि देवेभ्यो दोहयतिऽ इत्येवमग्निहोत्रे यज्ञोपवीतस्य सिद्धवदनुवादेन लिङ्गेन सर्वकर्मार्थमुपवीतमिति चेत् । न । लिङ्गस्यान्यथोपपत्तेः । मृताग्निहोत्रं तस्मिन्दिनेऽन्येन हूयते । तत्रऽप्राचीनावीती दोहयेत्ऽ इति विधाय तस्य स्तुतयेऽयज्ञेपवीतीऽ इत्याद्यनूदितम् । अतो लिङ्गाभासेन बाधासंभवात्प्रकरणाद्दर्शपूर्णमाक्षाङ्गमुपवीत्रम् ॥ ३,१.३४ ॥ (तृतीये, उपवीतस्य विधित्वाधिकरणे सूत्रम्) विधिर्वा स्यादपूर्वत्वात् । ३,४.१२ । ____________________________________________________ ३,४.५ तृतीयाधिकरणमारचयति उपव्यानेऽनुवादो वा विधिर्वाऽद्यो यतः स्मृतौ । प्राप्तं मैवमपूर्वत्वात्क्रतौ लेटा विधीयते ॥ ३,४.५ ॥ ऽनित्योदकी नित्ययज्ञोपवीतीऽ इति स्मृत्या प्राप्तस्यऽउपध्ययतेऽ इत्यवमनुवादः इति चत् । मैवम् । पुरुषार्थस्य प्राप्तावपि क्रत्वर्थस्य प्राप्त्यभावात्पञ्चमलकारेण दर्शपूर्णमासाङ्गतया विधीयते ॥ ३,१.५ ॥ (चतुर्थेउपवीतोदगग्रत्वयोरनुवादताधिकरणे सूत्रे १३१४) उदक्त्वं चापूर्वत्वात् । ३,४.१३ । सतो वा लिङ्गदर्शनम् । ३,४.१४ । ____________________________________________________ ३,४.६७ चतुर्थाधिकरणमारचयति उपवीती हि देवेभ्यः पुरोदञ्चो द्वयं विधिः । वादो वास्यान्यतोऽप्राप्तेरपूर्वार्थो विधीयते ॥ ३,४.६ ॥ हियच्छब्दद्वयाद्वादः स्मृत्युपव्यानतो द्वयम् । संप्राप्तं दक्षिणाग्रत्वप्राचीनावीतयोः स्तुतिः ॥ ३,४.७ ॥ प्रेताग्निहोत्रे श्रूयतेऽप्राचीनावीती दोहयेद्यज्ञोपवीती हि देवेभ्यो दोहयतिऽ इति । ऽये पुरोदञ्चो दर्भाः, तान्दक्षिणाग्रान्स्तृणीयात्ऽ इति । तत्र मृतस्याग्निहोत्रे दोहने प्राचीनावीतम्, दर्भास्तरणे दक्षिणाग्रत्वं च यथा विधीयते, तथा मरणात्पूर्वे जीवतोऽग्निहोत्रे दोहनाङ्गमुपवीतम्, दर्भास्तरणाङ्गमुत्तराग्रत्वं विधातव्यम् । ऽदेषेभ्यो यज्ञोपवीती दोहयेत्ऽऽमरणात्पुरा ये दर्भास्त उदञ्चः कार्याःऽ इति वचनव्यक्तिः । नह्येतदुभयमन्यतः प्राप्तम् । तस्मातपूर्वार्थो विधीयतामिति चेत् । मैवम् । हिशब्देन यच्छब्देन चोभयत्रानुवादत्वप्रतीतेः । अस्ति च तयोः प्राप्तिः । ऽअग्रवन्त्युदगग्राणिऽ इति स्मृत्या सर्वस्मिन्दैविके कर्मणि प्राप्तमुत्तराग्रत्वमनूद्य विधेयं दक्षिणाग्रत्वं स्तूयते । तथा दर्शपूर्णमासयोःऽउपव्ययतेऽ इत्यनेन विधिना प्राप्तं दैविकमुपवीतमनूद्य विधेयं प्राचीनावीतं स्तूयते । तस्मादनुवादः ॥ ३,१.६७ ॥ (पञ्चमे समिद्धारणस्य विधिताधिकरणे सूत्रम्) विधिस्तु धारणेऽपूर्वत्वात् । ३,४.१५ । ____________________________________________________ ३,४.८९ पञ्चमाधिकरणमारचयति धारयत्युपरिष्टाद्धि देवेभ्य इति संस्तवः । विधिर्वाऽद्यो धृतेः पित्र्ये प्रोक्तायाः पूर्ववत्स्तुतिः ॥ ३,४.८ ॥ ऊर्ध्व विधारणं प्राप्तं समिधो नान्यमानतः । अतो हि शब्दसंत्यागादपूर्वार्थो विधीयते ॥ ३,४.९ ॥ प्रेताग्निहोत्र एवं श्रूयतेऽअधस्तात्समिधं धारयन्ननुद्रवेत्, उपरि हि देवेभ्यो धारयतिऽ इति । अत्रऽपित्र्यं हविर्होतुं हस्ते धारयन्यदा मन्त्रं पठति, तदानीं स्त्रुग्दण्डस्याधस्तात्समिधं धारयेतिति यद्विधीयते, तदेतद्दैविकेनोपरिधारणेन स्तूयते । हिशब्देन पूर्वाधिकरण इवानुवादत्वप्रतीतेः इति चेत् । मैवम् । दैविके हविषि स्त्रुग्दण्डस्योपरि समिद्धारणस्यापूर्वार्थत्वेन विधातव्यत्वात् । अनुवादत्वगमको हिशब्दऽसंभवादुपेक्षणीयः ॥ ३,१.८९ ॥ (षष्ठे दिग्विभागस्यार्थवादताधिकरणे सूत्रम्) दिग्विभागश्च तद्वत्संबन्धस्यार्थहेतुत्वात् । ३,४.१६ । ____________________________________________________ ३,४.१०११ षष्ठाधिकरणमारचयति दिशं प्रतीचीं मनुजा व्यभजन्तेत्यसौ विधिः । वादो वात्र पुराकल्पस्तुत्यर्थो विधिमर्हति ॥ ३,४.१० ॥ प्राचीनवंशवाक्योक्तेर्विधावस्यैकवाक्यतः । दिग्विभागोर्ऽथवादोऽयमुपवीते निवीतवत् ॥ ३,४.११ ॥ ज्योतिष्टोमे श्रूयतेऽप्राचीनवंशं करोति । देवमनुष्या दिशो व्यभजन्तप्राचीं देवाः, दक्षिणां पितरः, प्रतीचीं मनुष्याः, उदीचीं रुद्राः, यत्प्राचीनवंशं करोति देवलोकमेव तद्यजमान उपावर्ततेऽ इति । तत्र देवादीनां कर्मानधिकारान्न तत्र विधिशङ्का । ऽमनुष्याः प्रतीचीं विभजोयुःऽ इत्येवं विधिः स्यात् । कुतः । पुराकल्परूपेणार्थवादेन स्तूयमानत्वात् । पूर्वपुरुषाचरितत्वाभिधानं पुराकल्पः । ऽव्यभजन्तऽ इत्यनेन भूतार्थवाचिना तदभिधीयते । तस्मात्विधिः इति पूर्वपक्षः । यस्य मण्डपविशेषस्योपरिवंशाः प्रागग्रा भवन्ति स प्राचीनवंशः । तद्विध्येकवाक्यत्वावगमादर्थवादः । सायंकालीनाप्त्यांदौ प्रतीची प्राप्ता ॥ ३,४.१०११ ॥ (सप्तमे परुषि दितादीनामनुवादताधिकरणे सूत्रम्) परुषि दितपूर्णघृतविदग्धं च तद्वत् । ३,४.१७ । ____________________________________________________ ३,४.१२१३ सप्तमाधिकरणमारचयति परुषि च्छिन्नमित्युक्त्या बर्हिषस्तु समूलताम् । घृतं दैवं मस्तु पित्र्यमित्युक्त्या नवनीतकम् ॥ ३,४.१२ ॥ यो विदग्धः स इत्युक्त्या पुरोडाशस्य पक्वताम् । स्तौति पूर्वोत्तरौ पक्षौ योजनीयौ निवीतवत् ॥ ३,४.१३ ॥ दर्शपूर्णमासयोः पिण्डपितृयज्ञे श्रूयतेऽयत्परुषि दितं तद्देवानाम्, यदन्तरा तन्मनुष्याणाम्, यत्समूलं तत्पितॄणाम्, समूलं बर्हिर्भवति व्यावृत्यैऽ इति । परुः पर्व । दितं खण्डितम् । तथा ज्योतिष्टोमे दीक्षार्थाभ्यङ्गे श्रूयतेऽघृतं देवानां, मस्तु पितॄणाम्, निष्पक्वं मनुष्याणाम्, तद्वा एतत्सर्वदेवत्यं यन्नवनीतम्, यन्नवनीतनाभ्यङ्क्ते सर्वा एव देवताः प्रीणातिऽ इति । मस्तु दधिभवं मण्डम् । निष्पक्वं शिरसिप्रक्षेप्तुमीषद्विलीनं नवनीतं तक्रं वा । दर्शपूर्णमासयोः पुरोडाशश्रपणे श्रूयते"यो विदग्धः स नैऋतः, योऽशृतः स रौद्रः, यः शतः स दैवः, तस्मादविदहता श्रपयितव्यः स दैवत्वाय"इति । विदग्धोऽत्यन्तपक्वः । अशृतोऽपक्वः । तत्र वर्हिषि समूलच्छेदस्य, अभ्यङ्गे नवनीतस्य पुरोडाशे यथोचितपाकस्य च विधेयतया सर्वमवशिष्टं स्तावकम् । निवीतविचारस्यैवायं प्रपञ्चः । एवम्ऽयत्पूर्णे तन्मनुष्याणाम्ऽ इत्यत्रापि द्रष्टव्यम् । तच्च चातुर्मास्येषु महापितृयज्ञेऽपितृभ्योऽग्निष्वात्तेभ्योऽभिवान्या गोर्दुग्धे मन्थम्ऽइत्यत्र वत्सरहिताया अभिदानीशब्दाभिधेयाया धेन्वा दुग्धे पिष्टं प्रक्षिप्य क्रियमाणे मन्थने श्रूयतेऽयत्पूर्णे तन्मनुष्याणामुपरि, अर्धो देवानाम् , अर्धः पितृणाम, अर्ध उपमन्थति, अर्थो हि पितॄणाम्ऽ इति । तत्र पात्रस्याधोभागरूपेणार्धेन परिमिते दुग्धे मन्थनस्य कर्तव्यत्वात्सोर्ऽधो विधीयते । स च पूर्णादिवाक्येन स्तूयते ॥ ३,४.१२ ॥ १३ ॥ (अष्टमेअनृतवदननिषेधस्य क्रतुधर्मताधिकरणे सूत्रे) अकर्म क्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात् । ३,४.१८ । विधिर्वा संयोगान्तरात् । ३,४.१९ । ____________________________________________________ ३,४.१४१६ अष्टमाधिकरणमारचयति अनृतं न वदेद्वैधः पुंधर्मो वानुवैदगीः । सक्रतौ पुंसि शुद्धेवा क्रतौ यद्वा विधिः क्रतौ ॥ ३,४.१४ ॥ अनृतोक्तैः पुमर्थत्वात्तन्निषेधस्तथाबिधः । स्मार्तानुबादः पुंस्क्रत्वोःश्रुतिप्रक्रिययोवंशात् ॥ ३,४.१५ ॥ नाऽख्याते पुरुषानुक्तिः क्रतावेव प्रयाजवत् । सत्योक्तिनियमादन्यः संयोगोऽतः क्रतौ विधिः ॥ ३,४.१६ ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽनानृतं वदेत्ऽ इति । तत्रपुरुषधर्मत्वेनायं प्रतिषेधो विधीयते । कुतः । प्रतियोगिनोऽनृतवदनस्य पुरुषधर्मतया तन्निषेधस्यापि पुरुषधर्मत्वेनैव विधातव्यत्वात् । ऽवदेत्ऽ इत्याख्यातं तावत्कर्तृवाचकम् । तेनाऽख्यातेन कर्तृः प्रतीयमानत्वात् । पुरुषस्याऽख्यातप्रत्ययवाच्यत्वे सति प्रकृत्यर्थस्य वदनस्य पुरुषधर्मत्वं युक्तम् । ऽप्रकृतिप्रत्ययौ प्रत्ययार्थे सह ब्रूतः, तयोस्तु प्रत्ययः प्राधान्येनऽ इति शाब्दिकैरुद्धोषणात् । वदनस्य पुरुषधर्मत्वे तन्निषेधस्यापि पुरुषधर्मत्वं युक्तम् । अन्यथा भिन्नविषयत्वे बाधकत्वं न स्यात् । तस्मात्पुरूषवाचकाख्यातश्रुत्या प्रकरणं बाधित्वा पुरुषार्थोऽयं प्रतिषेधो विधीयते । अस्त्येव स्मार्तः प्रतिषेधः इति चेत् । तर्हि तस्यैतच्छ्रुतिवाक्यं मूलमस्तु । तस्मात्पुरुषार्थः इत्येकः पूर्वपक्षः । आख्यातश्रुतेः प्रकरणस्य चाविरोधाय क्रतुयुक्तपुरुषधर्मोऽस्तु । नह्येतद्वाक्यं स्मृतेर्मूलम् । भिन्नविषयत्वात् । स्मृतिश्चोपनयनमारभ्याऽमरणं पुरुषस्यानृतं प्रतिषेधति । तन्मध्यपतितत्वात्क्रतावपि स्मार्तो निषेधः प्राप्त एव । तत उभयार्थोऽप्ययं प्रतिषेधो न विधीयते, किंत्वनूद्यते इति द्वितीयः पूर्वपक्षः । आख्यातेन भावनाभिधीयते । कर्ता तु तदविनाभूतोर्ऽथात्प्रतीयते । अतः श्रुत्यभावात्केवलेन प्रकरणेन प्रयाजादिवदारादुपकारकः क्रतावेव निविशते । न च तत्रापि विधीयते, किंतु सार्वत्रिकस्य निषेधस्य क्रतावपि प्राप्तत्वादनूद्यते इति तृतीयः पूर्वपक्षः । ऽसत्यमेव वदेत्, नत्वनृतम्ऽ इति योऽयं स्मार्तानियमरूपः पुरुषार्थः संयोगः, तस्मादयमन्यः क्रत्वर्थः संयोगः । अतोऽप्राप्तत्वाद्विधीयते । एतद्व्यतिक्रमे क्रतोरेव वैगुण्यम्, न तु पुरुषस्य प्रत्यवायः । अतोऽत्र क्रतुगामि प्रायश्चित्तम् । पुरुषार्थनियमातिक्रमे तु पुरुषस्यैव प्रत्यवायो न क्रतोर्वैगुण्यम् । तत्र स्मार्ते प्रायश्चितमिति विशेषः ॥ ३,४.१४१६ ॥ (नवमे जञ्जभ्यमानधर्माणां प्रकरणे निवेशाधिकरणे सूत्राणि २०२२) अहीनवत्पुरुषस्तदर्थत्वात् । ३,४.२० । प्रकरणविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत् । ३,४.२१ । व्यपदेशादपकृष्येत । ३,४.२२ । ____________________________________________________ ३,४.१७ नवमाधिकरणमारचयति जञ्जभ्यमानमन्त्रोक्तिः पुंसो धर्मः क्रतोरुत । वाक्यादाद्यः प्रक्रियया द्वितीयोऽस्त्वविरुद्धया ॥ ३,४.१७ ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽप्राणो वै दक्षः । अपानः क्रतुः । तस्माज्जञ्जन्यमानो ब्रूयात्मयि दक्षक्रतूइति, प्राणापानावेवाऽस्मन्यधत्तऽ इति । गात्रविनामेन विदारितमुखः पुरुषो जञ्जभ्यमानः । तस्य वाक्यान्मन्त्रोक्तिः प्रतीयते । वाक्यं च प्रकरणाद्बलीयः । तस्मात्केवलं पुंधर्मः इति चेत् । मैवम् । क्रतावपि जञ्जभ्यमानपुरुषसंभवेन वाक्यप्रकरणयोर्विरोधाभावे सत्युभाभ्यां क्रतुयुक्तपुरुषसंस्कारत्वावगमात् ॥ ३,४.१७ ॥ (दशमेअवगोरणादीनां पुमर्थताधिकरणे सूत्रम्) शंयौ च सर्वपरिदानात् । ३,४.२३ । ____________________________________________________ ३,४.१८१९ दशमाधिकरणमारचयति विप्रायावगुरेन्नेति क्रत्वर्थो वा पुमर्थता । फलवत्क्रतुसांनिध्यात्क्रत्वर्थः पूर्वमन्त्रवत् ॥ ३,४.१८ ॥ यातनापरिहारस्य निषेधफलतोचिता । निषेधोऽयं पुमर्थत्वात्प्रक्रियातोऽपकृष्यताम् ॥ ३,४.१९ ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽयो ब्राह्मणायावगुरेत्तं शतेन यातयेत् । तस्माद्ब्राह्मणाय नावगुरेतऽ इति । तत्र यथा पूर्वाधिकरणे मन्त्रपाठस्य फलरहितस्य फलवति क्रतावङ्गत्वं प्रकरणेनावगम्यते, एवमत्रापि ब्राह्मणावज्ञानिषेधस्य क्रत्वङ्गत्वमिति चेत् । न । वैषम्यात् । पूर्वत्र हि आत्मनि माणापानधारणं मन्त्रोच्चारणफलं न संभवति । तस्य प्रागेव सिद्धत्वात् । इह तु अवगोरणे शतसंवत्सरयातनामुपन्यस्यावगोरणनिषेधा द्यातनापरिहारस्य निषेधफलत्वमुचितम् । तस्मात्निषेधस्य केवलपुरुषार्थतया प्रकरणा दुत्कर्षो युक्तः ॥ ३,४.१८१९ ॥ (एकादशे मलवद्वासः संवादनिषेधाधिकरणे सूत्रे २४२५) प्रागपरोधान्मलवद्वाससः । ३,४.२४ । अन्नप्रतिषेधाच्च । ३,४.२५ । ____________________________________________________ ३,४.२० एकादशाधिकरणमारचयति न संवदेत मलवद्वाससेत्यपि पूर्ववत् । पुमर्थः स्यात्क्रतौ क्वापि संवादस्याप्रसक्तितः ॥ ३,४.२० ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽमलवद्वासत्ता न संवेदतऽ इति । अस्य निषेधस्य प्रकरणा त्क्रत्वङ्गत्वमिति चेत् । मैवम् । अप्रसक्तप्रतिषेधप्रसङ्गात् । यस्य व्रत्येऽहनि पत्न्वनालम्भुका भवति, तामपरुध्य यजेतऽ इति रजस्वलाया निःसारणेन क्रतौ तत्संवादस्याप्रसक्तिः । तस्मात्केवलपुरुषार्थस्यास्य प्रकरणादुत्कर्षः ॥ ३,४.२० ॥ (द्वादशे सुवर्णधारणादीनां पुरुषधर्मताधिकरणे सूत्राणि २६३०) अप्रकरणे तु तद्धर्मस्ततो विशेषात् । ३,४.२६ । अद्रव्यत्वात्तु शेषः स्यात् । ३,४.२७ । वेदसंयोगात् । ३,४.२८ । द्रव्यसंयोगाच्च । ३,४.२९ । स्याद्वास्य संयोगवत्फलेन संबन्धस्तस्मात्कर्मैतिशायनः । ३,४.३० । ____________________________________________________ ३,४.२१२३ द्वादशाधिकरणमारचयति हिरण्यं वर्णवद्भार्ये क्रत्वङ्गं भरणं भवेत् । हिरण्यसंस्कृतिर्वात्र वर्णो वोत पुमर्थता ॥ ३,४.२१ ॥ वैदिकत्वात्क्रतुस्मृत्या तदङ्गं कर्मकारके । प्राधान्यात्संस्कृतिवर्णो गुणोऽस्तु विधिलाघवात् ॥ ३,४.२२ ॥ अनारभ्य श्रुतत्वेन नियता न क्रतुस्मृतिः । अतः पुमर्थता स्वर्गः कल्प्योऽन्यद्वास्तु रात्रिवत् ॥ ३,४.२३ ॥ अनारभ्य श्रूयतेऽतस्मात्सुवर्णे हिरण्यं भार्यम् । सुवर्ण एव भवति । दुवर्णोऽस्य भ्रातृव्यो भवतिऽ इति । तत्रयदेतच्छोभनवर्णोपेतहिरण्यधारणं तस्य वैदिकक्रियारूपत्वेन क्रतुस्मारकत्वात्क्रत्वङ्गं धारणमित्येकः पक्षः । क्रत्वङ्गत्वेऽपि नाऽरादुपकारकम्, किंतु क्रतृगतं हिरण्यं धारणेन संस्क्रियते । ऽभार्यम्ऽ इत्यत्र ण्यत्प्रत्ययस्य कर्मणि विहितत्वेन कर्मकारकस्य हिरण्यस्य प्राधान्यावगमात् इति द्वितीयः पक्षः । वर्णविशिष्टधारणविधाने गौरवाद्धारणसहितं हिरण्यमनूद्य शोभनवर्णमात्रं विधेयमिति तृतीयः पक्षः । त्रेधापि क्रत्वर्थो विधिः, न तु पुरुषार्थः इति प्राप्ते ब्रूमः यद्धिक्रतुप्रकरणे श्रुतम्, तस्यास्ति नियमेन क्रतुस्मारकत्वम् । इदं त्वनारभ्याधीतम् । न चात्र हिरण्यं जुह्वादिवत्क्रतावव्यभिचरितम्, येन क्रतुस्मृतिर्नियम्येत । ननु संस्कार्यत्वान्यथानुपपत्त्या क्रतुप्रवेशः स्यात् । नहि धारणेन संस्कृतस्य हिरण्यस्य लौकिकः कश्चिदुपयोगोऽस्ति इति चेत् । न । क्रतावप्युपयोगाभावात् । क्रतूपयोगोऽपि कल्प्यते इति चेत् । न । ऽक्रतूपयोगित्वेन संस्कार्यत्वम्, तेन च क्रतूपयोगःऽ इत्यन्योन्याश्रयत्वात् । अतः क्रतौ नियन्तुमशक्यत्वात्पुरुषार्थमिदं धारणम् । न चात्र फलाभावः । विश्वजिन्न्यायेन स्वर्गस्य कल्प्यत्वात् । अथवा रात्रिसन्ने यथा वाक्यशेषेणार्थवादेन श्रुता प्रतिष्ठा कलत्वेन कल्पिता तथात्रापिऽसुवर्ण एव भवति, दुर्र्वणोऽस्य भ्रातृव्यःऽ इत्यर्थवादगतं फलमस्तु । तस्मात्पुरुषार्थो धारणविधिः ॥ ३,४.२१२३ ॥ (त्रयोदशे जयादीनां वैदिककर्माङ्गताधिकरणे सूत्राणि ३१३३) शेषाः प्रकरणेऽविशेषात्सर्वकर्मणाम् । ३,४.३१ । होमास्तु व्यवतिष्ठेरन्नाहवनीयसंयोगात् । ३,४.३२ । शेषश्च समाख्यानात् । ३,४.३३ । ____________________________________________________ ३,४.२४२५ त्रयोदशाधिकरणमारचयति येनेर्त्सेत्कर्मणा तत्र जयाहोमेऽखिलार्थता । वैदिकेष्वेव वा सर्वशेषोऽसंकोचकत्वतः ॥ ३,४.२४ ॥ होम आहवनीये स्यात्कृष्यादिषु न सोऽस्ति हि । तेनानारभ्यपाठेऽपि वैदिकेष्वेव ते जयाः ॥ ३,४.२५ ॥ अनारभ्य श्रूयतेऽयेन कर्मणेर्त्सेत् । तत्र जयां जुहुयात् । राष्ट्रभृतो जुहोति । अभ्यातानाञ्जुहोतिऽ इति । ईर्त्सेदृद्धिमिच्छेत् । ऽचित्तं च स्वाहाऽ इत्यादयो जयाःऽऋताषाड्ऽ इत्यादयो राष्ट्रभृतः । ऽअग्निर्भूतानाम्ऽ इत्यादयोऽभ्यातानाः । तत्र वैदिककर्मणेव लौकिककृष्यादिकर्मणाप्यृद्धेरिष्यमाणत्वात्, संकोचे कारणामावाज्जयादिहोमः सर्वशेषः इति चेत् । मैवम् । ऽयदाहवनीये जुह्वति तेन सोऽस्याभीष्टः प्रीतःऽ इति वाक्येन होममुद्दिश्याऽ हवनीयविधानात् । कृष्यादौ तदभावाद्वैदिकेष्वेव जयादिहोमः ॥ ३,४.२४२५ ॥ (चतुर्दशे वैदिकाश्वप्रतिग्रह इष्टिकर्तव्यताधिकरणे सूत्रे ३४३५) दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिक न दोषः स्यात् । ३,४.३४ । अर्थवादो वानुपपातत्तस्माद्यज्ञे प्रतीयेत । ३,४.३५ । ____________________________________________________ ३,४.२६२८ चतुर्दशाधिकरणमारचयति अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते । दानद्वये लौकिके वा वैदिके वा भवेदियम् ॥ ३,४.२६ ॥ अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः । निषेधाल्लौकिकात्तत्र प्रायश्चित्तिरियं भवेत् ॥ ३,४.२७ ॥ न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित् । वैदिके तु श्रुतं तस्मात्तत्प्रायश्चित्तयेऽत्र सा ॥ ३,४.२८ ॥ इदमाम्नायतेऽयावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्ऽ इति । तत्रऽप्रतिग्रहशब्दो दानपरःऽ इत्यनन्तरमेव वक्ष्यते । तत्रविशेषाश्रवणाल्लौकिकवैदिकदानयोरुभयो रप्यसाविष्टिः इत्येकः पक्षः । ऽन केतरिणो ददातिऽ इति स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणं लोकिकमश्वदानं निषिद्धम् । तदनुष्ठाने प्रायश्चित्तरूपेयामिष्टिः इति द्वितीयः पक्षः । ऽवरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णातिऽ इत्यश्वदाने जलोदख्याधिरूपो दृष्टदोषो वरुणग्रहवाक्येनोच्यते । न च लौकिकस्याश्वदानस्य तद्धेतुत्वं प्रमितम् । वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम् । अतो वैदिकदाने सेष्टिः प्रायश्चित्तम् । अस्ति हि वैदिकमश्वदानम् । ऽवडवा दक्षिणाऽ इत्यादिश्रवणात् ॥ ३,४.२६२८ ॥ (पञ्चादशे दातुर्वारुणीष्ट्यधिकरणे सूत्रे ३६३७) अचोदितं च कर्मभेदात् । ३,४.३६ । सा लिङ्गादार्त्विजे स्यात् । ३,४.३७ । ____________________________________________________ ३,४.२९३० पञ्चदशाधिकरणमारचयति यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः । प्रतिग्रहीतुर्दातुर्वा स्यादाद्योऽस्तु यथाविधि ॥ ३,४.२९ ॥ असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः । इष्टिः श्रुता ततो दातुर्णिजर्थेऽपि विधिं नयेत् ॥ ३,४.३० ॥ पूर्वोदाहृते वाक्येऽप्रतिगृह्णीयात्ऽ इति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिः इति चेत् । न । उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः । उपक्रमश्चैवं श्रूयतेऽप्रजापतिवरुणायाश्वमनयत्, स स्वां देवतामार्छत् । स पर्यदीर्यत, स एतं वारुणं चतुष्कपालमपश्यत्, तं निरवपत्, ततो वै स वरुणपाशादमुच्यतऽ इति । अनयद्वत्तवान् । स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान । तेन च रोगेण ग्रस्तः स प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यत, इत्यत्र दातुरिष्टिः इत्यवगम्यते । असंजातविरोध्युपक्रमानुसारेण विधावकपदमपिऽप्रतिग्राहयेत्ऽ इत्येवमन्तर्भावितणिजर्थपरतया व्याख्यैयम् ॥ ३,४.२९३० ॥ (षोडशे वैदिकपानव्यापदधिकरणे सूत्रे ३८३९) पानव्यापच्च तद्वत् । ३,४.३८ । दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् । ३,४.३९ । ____________________________________________________ ३,४.३१३२ षोडशाधिकरणमारचयति सोमवामिचरुर्लोके वेदे वेन्द्रियसंक्षयः । दृष्टदोषो लोकिकेऽतो वमने विहितश्चरुः ॥ ३,४.३१ ॥ अदोषो वमनायैव लोके पानं श्रुतौ पुनः । जरणाय ततो वान्तिदोषशान्त्यै भवेच्चरुः ॥ ३,४.३२ ॥ इदमाम्नायतेऽसौमेन्द्रं चरुं निर्वपेच्छ्यामाकं सोमवामिनः"इति । तत्रलौकिके सोमवमने विहितोऽयं चरुः । कुतः । ऽवि वा एष इन्द्रियेण वीर्येण व्यृध्यवे यः सोमं वमतिऽ इति दृष्टदोषमुपन्यस्य तच्छान्तये चरुविधानात् इति चेत् । मैवम् । लोके धातुसाम्यार्थिनो वमनायैव सोमस्य पाने सति वमनस्य दोषहेतुस्वाभावात् । वेदे तुऽहिन्व मे गात्रा हरिवःऽ इत्यनेन मन्त्रेण जरयितुं सोमः पीयते । तत्र वमनप्रायश्चित्तार्थोऽयं चरुः ॥ ३,४.३१३२ ॥ (सप्तदशे सौमेन्द्रचरोर्यजमानपानव्यापद्विषयताधिकरणे सूत्राणि ४०४२) तत्सर्वत्राविशेषात् । ३,४.४० । स्वामिनो वा तदर्थत्वात् । ३,४.४१ । लिङ्गदर्शनाच्च । ३,४.४२ । ____________________________________________________ ३,४.३३ सप्तशाधिकरणमारचयति ऋत्विजां वमनेऽप्येष कर्तुरेवोत वर्जनात् । विशेषस्याग्रिमो मैवं कर्तुरेव निरुप्तितः ॥ ३,४.३३ ॥ ऽईदृशस्य सोमस्य वमने चरुःऽ इति विशेषस्याभावादृत्विजां यजमानस्य च वमने सर्वत्रासौ चरुः इति चेत् । मैवम् । ऽयो वमति स निर्वपतिऽ इति निर्वप्तुर्वमनं चरुनिमित्तम् । निर्वप्ता च यजमानः । ऋत्वियो निर्वप्तृत्वेऽधिकार्यन्तरत्वप्रसङ्गात् । तस्मात्यजमानस्यैव वमने चरुविधिः ॥ ३,४.३३ ॥ (अष्टादशे आग्नेयाष्टाकपालचरोर्द्व्यवदानमा त्रस्य होतव्यताधिकरणे सूत्राणि ४३४७) सर्वप्रदानं हविषस्तदर्थत्वात् । ३,४.४३ । निरवदानात्तु शेषः स्यात् । ३,४.४४ । उपायो वा तदर्थत्वात् । ३,४.४५ । कृतत्वात्तु कर्मणः सकृत्स्याद्द्रव्यस्य गुणभूतत्वात् । ३,४.४६ । शेषदर्शनाच्च । ३,४.४७ । ____________________________________________________ ३,४.३४ अष्टादशाधिकरणमारचयति यागे हविस्त्यजेत्कृत्स्नं कोऽप्यंशः शिष्यतेऽपि वा । देवार्थत्वाद्यजेत्सर्वे शिष्यते द्विरवत्ततः ॥ ३,४.३४ ॥ ऽआग्नेयोऽष्टाकपालःऽ इत्यत्र कृत्स्नोऽपि पुरोडाशोऽग्नये त्यक्तव्यः । तद्धितेन कृत्स्नस्याग्निदेवतासंबन्धावगतेः । त्यागमन्तरेणैतदनुपपत्तिः इति चेत् । मैवम् । ऽद्विर्हविषोऽवद्यतिऽ इत्यवदानद्वयं श्रूयते । अवदेयं चाङ्गुष्ठपर्वमावम् । तथा च कल्पसूत्रकारःऽआग्नेयस्य पुरोडाशस्य मध्यादङ्गुष्ठपर्वमात्रमवदानं तिरश्चीनमवद्यतिऽ इति । ततो हविषः सकाशादङ्गुष्ठपर्वद्वयमात्रं खण्डयित्वा त्यक्तव्यम् । इतरच्छेषणीयम् । देवतासंबन्धश्चांशद्वारेणाप्युपयुज्यते ॥ ३,४.३४ ॥ अप्रयोजकत्वादेकस्मात्क्रियेरञ्शेषस्य गुणभूतत्वात् । ३,४.४८ । संस्कृतत्वाच्च । ३,४.४९ । सर्वेभ्यो वा कारणाविशेषात्संस्कारस्य तदर्थत्वात् । ३,४.५० । लिङ्गदर्शनाच्च । ३,४.५१ । ____________________________________________________ ३,४.३५ एकोनविंशाधिकरणमारचयति शेषात्स्विष्टकृदेकस्मात्सर्वेभ्यो वैकतः कृते । शास्त्रार्थसिद्धिःसर्वेभ्यः कार्यः संस्कारसाम्यतः ॥ ३,४.३५ ॥ दर्शपूर्णमासयोः श्रूयतेऽशेषात्स्विष्टकृते समवद्यतिऽ इति । तत्रआग्नेयादीनां त्रयाणां हविषां मध्ये यस्य कस्यचिदेकस्य हविषः शेषादवदातव्यम् । तावतैव शास्त्रार्थानुष्ठानसिद्धः इति चेत् । मैवम् । उपयुक्तं हविः संस्कर्तुमिदमवदीयते । संस्कारश्च सर्वेष्वपि हविःषु समानः । तस्मात्सर्वेभ्यो हविःशेषेभ्यः स्विष्टकृदनुष्ठेयः ॥ ३,४.३५ ॥ (विंशे प्राथमिकशेषात्स्विष्टकृदनुष्ठानाधिकरणे सूत्रे ५२५३) एकस्माच्चेद्यथाकाम्यमविशेषात् । ३,४.५२ । मुख्याद्वा पूर्वकालत्वात् । ३,४.५३ । ____________________________________________________ ३,४.३६ विंशाधिकरणमारचयति यदैकस्मात्तदा मुख्यनियातिर्नोत विद्यते । नाश्रुतेरस्ति मुख्यातिक्रमणे हेत्वभावतः ॥ ३,४.३६ ॥ ऽएकस्मादेव हविःशेषात्स्विष्टकृत्ऽ इति यः पूर्वाधिकरणे पूर्वपक्षः, तस्मिन्पक्षे नियामकस्याश्रुतत्वात् यस्मात्कस्माच्चिद्धविःशेषातिति प्राप्ते, ब्रूमः प्रथमातिक्रमे मानाभावात्प्रथमहविःशेषेणैव संस्कारासिद्धावितरत्र प्राप्त्यभावादस्ति नियतिः ॥ ३,४.३६ ॥ (एकविंशे पुरोडाशविभागस्य भक्षार्थताधिकरणे सूत्राणि ५४५७) भक्षाश्रवणाद्दानशब्दः परिक्रये । ३,४.५४ । तत्संस्तवाच्च । ३,४.५५ । भक्षार्थो वा द्रव्ये समत्वात् । ३,४.५६ । व्यादेशाद्दानसंस्तुतिः । ३,४.५७ । ____________________________________________________ ३,४.३७३८ एकविंशाधिकरणमारचयति इदं ब्रह्मण इत्यक्तिः क्रयार्था भक्षणाय वा । भक्षाश्रुतेः क्रयार्थातो यथेष्टं तैर्नियुज्यताम् ॥ ३,४.३७ ॥ देवताय समस्तस्य कॢप्तत्वात्स्वामिता न हि । शेषस्य प्रतिपत्त्यर्थे भक्षणं तत्र युज्यते ॥ ३,४.३८ ॥ चतुर्धाकृतपुरोडाशस्य भागान्यजमान एवं निर्दिशेत्ऽइदं ब्रह्मणः, इदं होतुः, इदमध्वर्योः, इदमग्नीधः, इति । सोऽयं निर्देश न भक्षणार्थः । भक्षणस्याश्रुतत्वात् । ततो भृतिदानेन तानृत्विजः परिक्रेतुमयं निर्देशः कृतः । क्रयश्च तदङ्गीकारानुसारेण स्वल्पेनाप्युपपद्यते । तस्मात्स्वकीया भागास्तैरिच्छयोपयोक्तुं शक्याः इति प्राप्ते, ब्रूमःऽअग्नेय जुष्टं निर्वपामिऽ इति कृत्स्नस्य हविषो देवतार्थे संकल्पितत्वेन तत्र यजमानस्य स्वामित्वाभावान्न युक्तः परिक्रयः । भक्षणं तु प्रतिपत्त्यर्थत्वाद्युक्तम् । अवशिष्टस्य यः कोऽप्युपयोगः प्रतिपत्तिः । पुरोडाशस्य भक्षणाहत्वाद्भक्षणेन कर्मकराणामृत्साहजननाच्च भक्षणार्थोऽयं निर्देशो युज्यते ॥ ३,४.३७३८ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य चतुर्थः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य पञ्चमः पादः । (प्रथमे प्रवाज्यादिभिः स्विष्टकृदादिशेषाननुष्ठानाधिकरणे सूत्राणि ११२ ) आज्याच्च सर्वसंयोगात् । ३,५.१ । कारणाच्च । ३,५.२ । एकस्मिन् समवत्तशब्दात् । ३,५.३ । आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य । ३,५.४ । अशेषत्वात्तु नैवं स्यात्सर्वादानादशेषता । ३,५.५ । साधारण्यान्न ध्रुवायां स्यात् । ३,५.६ । अक्तत्वाच्च जुह्वां तस्य च होमसंयोगात् । ३,५.७ । चमसवदिति चेत् । ३,५.८ । न चोदनाविरोधाद्धविः प्रकल्पनाच्च । ३,५.९ । उत्पन्नाधिकारात्सति सर्ववचनम् । ३,५.१० । जातिविशेषात्परम् । ३,५.११ । अन्त्यमरेकार्थे । ३,५.१२ । ____________________________________________________ ३,५.१२ पञ्चमपादस्य प्रथमाधिकरणमारचयति उपांशुयाजद्रव्येण शेषकार्ये भवेन्न वा । भवेद्धविर्भ्यः सर्वेभ्य इत्युक्त्या प्रापितत्वतः ॥ ३,५.१ ॥ उक्ताज्यद्रव्यशेषस्तु भाव्युपस्तरणादिकृत् । अतो न प्रतिपत्त्यर्हः शेषकार्ये ततः कथम् ॥ ३,५.२ ॥ ध्रौवादाज्याजुपांशुयाजार्थमवदाने कृते तच्छेषेण ध्रौवेण द्रव्येण स्विष्टकृदादिकं शेषकार्य कर्तव्यम् । कुतः । ऽतद्यत्सर्वेभ्यो हविर्भ्यः समवद्यतिऽ इति वाक्येन प्रापितत्वातिति चेत् । मैवम् । कृतार्थद्रव्यशेषो ह्युपयोगापेक्षः प्रतिपत्तिमर्हति । ध्रौवं त्वाज्यं न कृतार्थम् । तेन कर्तव्यानामुपस्तरणादीनां सद्भावात् । तस्मात् न तेन शेषकार्ये भवति ॥ ३,५.१२ ॥ (द्वितीये साकंप्रस्थाय्ये शेषकर्माननुष्ठानाधिकरणे सूत्रम् ) साकंप्रस्थाय्ये स्विष्टकृदिडं च तद्वत् । ३,५.१३ । ____________________________________________________ ३,५.३४ द्वितीयाधिकरणमारचयति आक्रामन्सह कुम्भीभिरस्ति शेषक्रिया न वा । जुह्वावदानात्प्रकृताविव शेषक्रियोचिता ॥ ३,५.३ ॥ कुम्भीषु शेषासंसिद्धःसाकंप्रस्थाय्यकर्मणि । न स्विष्टकृदिडं कार्यमग्नीधः स्त्रुक्प्रदानतः ॥ ३,५.४ ॥ ऽसाकंप्रस्थायीयेन यजेत पशुकामःऽ इति विहिते कर्मणि श्रूयतेऽसह कुम्भीभिरभिक्रामन्नाहऽ इति । तत्र चतसृभिर्दधिपयःकुम्भीभिः सहाऽहवनीयदेशेऽभिक्रमण मात्रं श्रुतम् । न तु तत्र कुम्भीभिर्होमः श्रुतः । तथा सत्यस्य कर्मणः सांनाय्यविकृत्तित्वाज्जुह्वा कुम्भीभ्योऽवदाय होतव्यम् । हुतशेषेण च स्विष्टकृदादिकं सांनाय्यशेषेणैव कर्तव्यमिति प्राप्ते, ब्रूमः नात्र कुम्भीषु हुतशेषः सिध्यति । सांनाय्यवज्जुह्वा तदवदानाभावात् । ऽअग्नीधे स्त्रुचौ प्रदाय सह कुम्भीभिरभिक्रामन्ऽ इत्युक्त्या जुहूपभृतोः प्रत्तत्वादभिक्रमणस्य होमार्थत्वाच्च कुम्भीभिरेव दधिपयसोर्होमे सति कुम्भीमात्रामवशिष्यते, न तु हविःशेषः । तत्र कुतः शेषकार्यम् ॥ ३,५.३४ ॥ (तृतीये सौत्रामण्यां शेषकर्माननुष्ठानाधिकरणे सूत्रे १४१५) सौत्रामण्यां च ग्रहेषु । ३,५.१४ । तद्वच्च शेषवचनम् । ३,५.१५ । ____________________________________________________ ३,५.५ तृतीयाधिकरणमारचयति सौत्रामण्यां ग्रहे स्विष्टकृदाद्यस्ति न वास्ति तत् । शेषणान्न सुराक्षीरयोरन्यत्रोपयोगतः ॥ ३,५.५ ॥ सौत्रामणिनामके यागे श्रूयते ऽपयोग्रहाः सुराग्रहाश्च गृह्यन्तेऽ इति । तत्र प्रकृतिगत सोमद्यहेष्विव शेषकार्ये स्विष्टकृदादिकमस्ति । न चात्र पूर्ववच्छेषाभावः । ऽउच्छिनष्टि, न सर्वे जुहोतिऽ इत्यवशेषयितव्यत्वश्रवणातिति चेत् । मैवम् । अवशिष्टस्यान्यत्रोपयोगश्रवणात् । ऽब्राह्मणं परिक्रीणीयादुच्छेषणस्य पातारम्ऽ इति श्रूयते । ऽयदि ब्राह्मणं न विन्देत, वल्मीकवपायामवनयेत्ऽ इति च । ऽशतातृणायामवनेयत्ऽ इति च । शतच्छिद्रा कुम्भी शतातृणा । तस्मात्नास्ति स्विष्टकृदादिकम् ॥ ३,५.५ ॥ (चतुर्थे सर्वपृष्ठेष्टौ स्विष्टकृदिडादीनां सकृदनुष्ठानाधिकरणे सूत्रे १६१७) द्रव्यैकत्वे कर्मभेदात्प्रतिकर्म क्रियेरन् । ३,५.१६ । अविभागाच्च शेषस्य सर्वान् प्रत्यविशिष्टत्वात् । ३,५.१७ । ____________________________________________________ ३,५.६७ चतुर्थाधिकरणमारचयति रथंतरादिभिर्मिन्ना इन्द्रास्तेषां न भिद्यते । पुरोडाशस्तत्र शेषकार्ये किं भिद्यते न वा ॥ ३,५.६ ॥ भिद्यते कर्मणां भेदाच्चौद्दकैः पृथगुक्तितः । शेषस्य सर्वतुल्यत्वात्तत्कार्ये सकृदिष्यताम् ॥ ३,५.७ ॥ ऽय इन्द्रियकामो वीर्यकामः स्यात्, तमेतया सर्वपृष्ठया याजयेत्ऽ इति विहितायामिष्टौ षडिन्द्रा एवं श्रूयन्तेऽइन्द्राय राथंतराय, इन्द्राय बार्हताय, इन्द्राय वैराजाय, इन्द्रायशाक्वराय, इन्द्राय रैवतायऽ इति । तत्र स्वरूपेणैकोऽपीन्द्रः पृष्ठस्तोत्रेषु षट्सु विहितानां षण्णां रथंतरादि साम्नां संबन्धेन विशेष्यमाणः षोठा भिद्यते । तासां सर्वासामिन्द्रदेवतानामेक एव पुरोडाशो विधीयतेऽद्वादशकपालः पुरोडाशो भवति । वैश्वदेवत्वायऽ इति । तस्मिंश्च पुरोडाशे प्रोक्तदेवताभ्यः पृथक्पृथक्प्रदानाय बहुभ्यः प्रदेशेभ्योऽवदानं श्रूयतेऽसमन्तं पर्यवद्यतिऽ इति । तत्र देवताभेदेन प्रदानभेदेन च कर्मणां भेदे सति पृथगतिदेशात्स्विष्टकृदिडादि शेषकार्ये षट्कृत्वः पृथक्कर्तव्यम् इति चेत् । मैवम् । शेषस्यैकत्वेन तत्प्रतिपत्तेः पृथक्त्वासंभवात् । तस्मात्सकृदेव कार्यम् ॥ ३,५.६७ ॥ (पञ्चमे ऐन्द्रवायवग्रहे द्विःशेषमक्षणाधिकरणे सूत्रम्) ऐन्द्रवायवे तु वचनात्प्रतिकर्म भक्षः स्यात् । ३,५.१८ । ____________________________________________________ ३,५.८ पञ्चमाधिकरणमारचयति ऐन्द्रवायवशेषस्य सकृद्भक्ष उतासकृत् । पूर्वन्यायात्सकृत्प्राप्तौ द्विर्भक्षो वचनाद्भवेत् ॥ ३,५.८ ॥ ज्योतिष्टोमे योऽयमैन्द्रवायवग्रहःऽ तत्र संस्कार्यस्य सोमस्यैकत्वात्सकृदेव शेषकार्यमिति चेत् । मैवम् । ऽद्विरैन्द्रवायवस्य भक्षयति, द्विर्ह्येतस्य वषट्करोतिऽ इति वचनाद्विर्भक्षणम् ॥ ३,५.८ ॥ (षष्ठे सोमे शेषभक्षणाधिकरणे सूत्राणि १९२१) सोमेऽवचनाद्भक्षो न विद्यते । ३,५.१९ । स्याद्वान्यार्थदर्शनात् । ३,५.२० । वचनानि त्वपूर्वत्वात्तस्माद्यथोपदेशं स्युः । ३,५.२१ । ____________________________________________________ ३,५.९ षष्ठाधिकरणमारचयति सोमेष्वभक्षो भक्षो वा न भक्षो ग्रहहोमतः । अल्पोक्तेरस्ति शेषोऽस्य भक्षोऽपूर्ववचोबलात् ॥ ३,५.९ ॥ सोमयागेषु शेषभक्षो नास्ति,ऽयद्ग्रहाञ्जुहोतिऽ इति कृत्स्नग्रहेणाऽहुति श्रवणात्कुम्भीष्विव शेषाभावातिति चेत् । मैवम् । ऽअल्पं जुहोतिऽ इति विशेषवचनाच्छेषः सिध्यति । तद्भक्षणं त्वपूर्वार्थ प्रतिपादकवचनेभ्योऽवगम्यते । ऽआश्विनं भक्षयन्तिऽ द्विरैन्द्रवायवस्य भक्षयन्तिऽऽसदसि भक्षयन्तिऽ इत्यादीनि वचनान्यपूर्वार्थ प्रतिपादयन्ति । ततो भक्षविधानादस्ति सोमेषु भक्षः ॥ ३,५.९ ॥ (सप्तमे चमसिनां शेषभक्षाधिकरणे सूत्रम्) चमसेषु समाख्यानात्संयोगस्य तन्निमित्तत्त्वात् । ३,५.२२ । ____________________________________________________ ३,५.१० सप्तमाधिकरणमारचयति किं प्रैतु होतुश्र्चमस इत्यभक्षोऽथ भक्षणम् । अभक्षोऽनुक्तितो होतुश्र्वमसेत्याख्ययास्तु तत् ॥ ३,५.१० ॥ ज्योतिष्टोमे श्रूयतेऽप्रैतु होतुश्र्वमसः, प्र ब्रह्मणः, प्रोद्वातॄणां, प्र यजमानस्य, प्रयन्तु सदस्यानाम्ऽ इति । तत्र वचनामावादभक्षः इति चेत् । मैवम् । समाख्यागते चमसशब्दे भक्षणस्य प्रतीयमानत्वात् । ऽचम्वते भक्ष्यते सोमोऽस्मिन्पात्रविशेषेऽ इति हि तद्व्युत्पत्तिः । तस्मात्ःस्ति तद्भक्षणम् ॥ ३,५.१० ॥ (अष्टमे उद्वातॄणां सह सुब्रह्मण्येन भक्षाधिकरणे सूत्राणि २३२६) उद्गातृचमसमेकः श्रुतिसंयोगात् । ३,५.२३ । सर्वे वा सर्वसंयोगात् । ३,५.२४ । स्तोत्रकारिणां वा तत्संयोगाद्बहुश्रुतेः । ३,५.२५ । सर्वे तु वेदसंयोगात्कारणादेकदेशे स्यात् । ३,५.२६ । ____________________________________________________ ३,५.१११३ अष्टमाधिकरणमारचयति प्रोद्वातॄणामिति ह्येक उद्गाता भक्षयेदुत । सर्वेऽपि किंवा सुब्रह्मण्येनोक्ताः सामगायिनः ॥ ३,५.११ ॥ सहितास्तेन ते वाऽद्य उद्गातृश्रुतितोऽखिलाः । बहुत्वाद्गानयोगेन तृतीयो रूढिबाधिते ॥ ३,५.१२ ॥ योगे समाख्यया दण्डिन्यायादन्त्योऽत्र भाष्यगः । सदसि स्थित्यभावेन तृतीयो वातिंकोदितः ॥ ३,५.१३ ॥ पूर्वोदाहृतवाक्येऽप्रोद्वातॄणाम्ऽ इत्यत्रैकस्यैव भक्षः । उद्वीथशब्दाभिधेयायाः सामभक्तेरु द्गातर्युद्गातृप्रातिपदिकस्य रूढत्वात् इत्येकः पूर्वपक्षः । ऽउद्गातॄणाम्ऽ इत्यस्य बहुत्वस्यैकस्मि न्नसंभवादुद्गात्रोपलक्षिताः षोडशर्त्विजः सर्वेऽपि भक्षयेयुः इति द्वितीयः । उद्गीथप्रस्तावप्रति हारान्तामभागानुद्वातृप्रस्तोतृप्रतिहर्तारः प्रयोगकाले गायन्ति । ऽउदुत्कर्षेण गायन्तिऽ इति योगेनोद्वातारस्त्रयो भक्षयेयुः इति तृतीयः पक्षः । ऽरूढिर्योगमपहरतिऽ इति न्यायादेक एवोद्गाता । तेन च बहुवचनोपपत्तये प्रत्यासन्ना उपलक्ष्यन्ते । प्रत्यासत्तिश्च प्रस्तोतृप्रतिहर्त्रोरिव सुब्रह्मण्यस्याप्यस्ति । सामवेदाध्यायित्वेन सुब्रह्मण्याह्वानरूपे तदीयकर्मण्यप्यौद्गात्रसमाख्यायाः सत्त्वात् । तस्मात्ऽसुब्रह्मण्येन सहिताश्चत्वारः सामगा भक्षयेयुःऽ इत्ययमन्त्यः पक्षो भाष्यकारस्याभिमतः । वार्तिककारस्तु सदसो भक्षणस्थानत्वात्सुब्रह्मण्यस्य सदस्यप्रवेशात्तेन विरहिता अवशिष्टाः सामगा भक्षयन्ति इति तृतीयं पक्षमङ्गीचकार ॥ ३,५.१११३ ॥ (नवमे प्रावस्तुतोऽपि सोमभक्षणाधिकरणे सूत्राणि २७३०) ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात् । ३,५.२७ । हारियोजने वा सर्वसंयोगात् । ३,५.२८ । चमसिनां वा संनिधानात् । ३,५.२९ । सर्वेषां तु विधित्वात्तदर्था चमसिश्रुतिः । ३,५.३० । ____________________________________________________ ३,५.१४१५ नवमाधिकरणमारचयति किं स्याच्चमसिनामेव हारियोजनभक्षणम् । सर्वेषां वाग्रिमस्तेषां पूर्ववाक्येण संनिधेः ॥ ३,५.१४ ॥ लिप्सन्ते सर्व एवेति हारियोजनवाक्यतः । प्रावस्तुतोऽप्यस्ति भक्षश्चमसित्वमकारणम् ॥ ३,५.१५ ॥ ऽहरिरसि हारियोजनःऽ इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः । होतृब्रह्मादय श्चमसिमः । यस्तु चतुर्णो होतॄणां मध्ये चतुर्थो ग्रावस्तुन्नामकेऽस्ति, नासौ चमसी । तत्र चमसिनामेव हारियोजनभक्षणम् । कुतः"यथाचमसमन्यांश्चमसांश्चमसिनो भक्षयन्ति, अथैतस्य हारियोजनस्य सर्व एव लिप्सन्तेऽ इत्यत्र पूर्ववाक्ये चमसिनां संनिहित्वेनोत्तरवाक्ये सर्वशब्देन तेषामेवाभिधातव्यत्वात् । अतो नास्ति ग्रावस्तुतस्तत्र भक्षः इति प्राप्ते ब्रूमः अथशब्देनैवकारेण च चमसिमात्रशङ्कामपोद्य वाक्येन विहितस्य सर्वमक्षणस्य संनिधिमात्रेण संकोचायोगादस्ति ग्रावस्तुतोऽपि भक्षः । तस्मात्चमसित्वं न भक्षणे कारणम् ॥ ३,५.१४१५ ॥ (दशमे वषट्करणस्यभक्षनिमित्तताधिकरणे सूत्रम् ) वषट्काराच्च भक्षयेत् । ३,५.३१ । ____________________________________________________ ३,५.१६१७ दशमाधिकरणमारचयति आद्यमक्षो वषट्कर्तुर्विधिः प्राथम्य एव किम् । किंवा तद्युक्तभक्षे स्याद्वषट्कारनिमित्तके ॥ ३,५.१६ ॥ अप्राप्तेरग्रिमो मैवं समासस्थित्यसंभवात् । विशिष्टस्य विधिस्तस्माद्वषट्कारोऽपि कारणम् ॥ ३,५.१७ ॥ ऽवषट्कर्तुः प्रथमभक्षःऽ इत्येवं श्रूयते । वषट्कर्ता होता । तस्य भक्षणं समाख्याया प्राप्तम् । प्राथम्यं त्वप्राप्तमिति तदेवात्र विधियते इति चेत् । मैवम् । ऽप्रथमभक्षःऽ इत्यस्य समस्तपदत्वेनऽयो भक्षः, स प्रथमःऽ इत्येयं विच्छिद्यान्वे तुमयोग्यत्वात्प्राथम्पविशिष्टभक्षणमत्र विधीयते । तस्मिन्भक्षणे वषट्कारः कारणम् ॥ ३,५.१६१७ ॥ (एकादशे होमाभिषवयोरपि भक्षनिमित्तताधिकरणे सूत्रम्) होमाभिषवाभ्यां च । ३,५.३२ । ____________________________________________________ ३,५.१८१९ एकादशाधिकरणमारचयति आख्यावचोवषट्कारा एव किं भक्षहेतवः । किंवाभिषवहोमौ च तत्राऽद्योऽस्तूक्तया दिशा ॥ ३,५.१८ ॥ हविर्धानेऽभिषुत्याथ हुत्वा सदसि भक्षयेत् । इति श्रुतत्वतस्तौ च भक्षहेतू यथेत्तरे ॥ ३,५.१९ ॥ ऽप्रैतु होतुश्चमसःऽ इत्यत्र समाख्या भक्षहेतुः । हारियोजने वाक्यम् । ऽवषट्कर्तुः प्रथमभक्षःऽ इत्यत्र वषट्कारः । इत्येवमुक्तत्वात्रय एव भक्षहेतवः इति चेत् । मैवम् । ऽहविर्धाने ग्रावभिरभिषुत्याऽहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षान्भक्षयन्तिऽ इति श्रूयते । उत्तरवेद्याः प्रतीचीने सदसः प्राचीने मण्डलेऽमिषवः । उत्तरवेद्यां होमः । सदसि भक्षणम् । तत्र अभिषवहोमयोर्वचनान्तरप्राप्तयोरविधेयतया तौ निमित्तत्वेनानूद्य भक्षणं विधीयते । तस्मात्समाख्यादिवदेतयोरपि भक्षणहेतुत्वमस्ति ॥ ३,५.१८१९ ॥ (द्वादशे वषट्कर्त्रादीनां चमसे सोमभक्षाधिकरणे सूत्राणि ३३३५) प्रत्यक्षोपदेशाच्चमसानामव्यक्तः शेषे । ३,५.३३ । स्याद्वा कारणभावादनिर्देशश्चमसानां कर्तुस्तद्वचनत्वात् । ३,५.३४ । चमसे चान्यदर्शनात् । ३,५.३५ । ____________________________________________________ ३,५.२०२१ द्वादशाधिकरणमारचयति हेतुसंघे विकल्पः किं बाधो वाथ समुच्चयः । साम्याद्विकल्पो बाध्यन्तां सावकाशाः समाख्यया ॥ ३,५.२० ॥ नैव वाचनिकं बाध्यं भक्षणेऽत्र विभागशः । सिद्धेविकल्पो नो युक्तः स्वीकार्योऽतः समुच्चयः ॥ ३,५.२१ ॥ ऽप्रैतु होतुश्चमसः, प्र ब्रह्मणःऽ इत्यत्र चिमसिषु समाख्या भक्षणे हेतुः । ऽवषट्कर्तुः प्रथमभक्षःऽ इत्यत्र वषट्कारो होतुर्भक्षहेतुः । ऽहविर्धाने ग्रावमिरभषुत्याऽहवनीये हुत्वा सदसि भक्षयन्तिऽ इत्यत्राभिषवसहितो होमोऽध्वर्योर्भक्षहेतुः । तत्र चमसवषट्कारयोः संघो होतरि प्राप्तः । चमसाभिषवसंघोऽध्वर्यौ प्राप्तः । तत्र हेतुद्वयस्य समानबलत्वाद्विकल्पे सत्यन्यतर निमित्तकृतमेवं भक्षणमित्याद्यः पक्षः । वषट्कारादिहेतोश्चमसेतरग्रहे सावकाशत्वान्निरवकाशया चमसिसमाख्यया तद्बाधे सति चमसिषु पाक्षिकमपि वषट्कारादि हेतुकं भक्षणं नास्ति इति द्वितीयः पक्षः । ऽवषट्कर्तुःऽ इत्यादिवाक्यस्य प्रबलत्वात्समाख्यया बाधो न युक्तः । मिरवकाशतया सापि प्रबला इति चेत् । तर्हि प्रमाणद्वयेन पृथग्भक्षणे विहिते समुच्चयोऽभ्युपेयः, न च व्रीहियववद्विकल्पः । तत्र पुरोडाशानिष्पादनस्य दृष्टप्रयोजनस्यैकत्वात् । इह तु नियमादृष्टार्थे भक्षणम् । तच्चादृष्टं यथावचनं द्विविधम् । तस्मात्समुच्चयः ॥ ३,५.२०२१ ॥ (त्रयोदशे होतुः प्रथमभक्षाधिकरणे सूत्राणि ३६३९) एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत् । ३,५.३६ । होता वा मन्त्रवर्णात् । ३,५.३७ । वचनाच्च । ३,५.३८ । कारणानुपूर्व्याच्च । ३,५.३९ । ____________________________________________________ ३,५.२२२३ त्रयोदशाधिकरणमारचयति एकपात्रे किमध्वर्युरद्यात्पूर्वप्रुतेतरः । तद्धस्ते पात्रसंस्थानात्तस्य प्रथमभक्षणम् ॥ ३,५.२२ ॥ पाहि होतेव नः पूर्वमिति मन्त्रेण पूर्वता । वषट्कर्तुस्तदुक्तेश्च न्यायबाध्यं वचो नहि ॥ ३,५.२३ ॥ एकस्मिन्पात्रे वहनां क्वचिद्विहितं भक्षणं तत्र अध्वर्युः प्रथमं भक्षयेत्पात्रसंनिधानात् इति चेत् । मैवम् । लिङ्गवाक्याभ्यां होतुः प्रथममक्षावगमात् । ऽहोतेव नः प्रथमः पाहिऽ इति ऋत्विजोऽध्वर्यु संबोध्यैवं प्रार्थयन्तेऽयथा होतास्मत्तः पूर्वे भक्षयित्वा शेषप्रदानेनास्मान्पालितवान्, तथा त्वमपि वाहिऽ इति । तदेतद्धोतुः प्रथमभक्षे लिङ्गम् । वाक्यं चैवमाम्नातम्ऽवषट्कर्तुः प्रथमभक्षःऽ इति । तत्र विशिष्टविधानात्प्राथम्यमिप सिध्यति । न चैतद्वचनं पात्रसंनिधिरूपेण न्यायमात्रेण बाधितुं शक्यम् । तस्मात् होता प्रथमं भक्षयेत् ॥ ३,५.२२२३ ॥ (चतुर्दशे भक्षस्यानुज्ञापूर्वकत्वाधिकरणे सूत्रम् ) वचनादनुज्ञातभक्षणम् । ३,५.४० । ____________________________________________________ ३,५.२४ चतुर्दशाधिकरणमारचयति नानुज्ञापूर्वको भक्षस्तत्पूर्वो वात्र लाघवात् । आद्यो नानुपहूतेन पेय इत्युक्तितोऽन्तिमः ॥ ३,५.२४ ॥ अनुज्ञाभक्षयोर्द्वयोरनुष्ठितौ गौरवाद्भक्षमात्रम् इति चेत् । मैवम् । ऽतस्मात्सोमां नानुपहूतेन पेयःऽ इति वचनेनानुज्ञाया आवश्यकत्वात् ॥ ३,५.२४ ॥ (पञ्चदशे वैदिकवचनेनानुज्ञापनाधिकरणे सूत्रम्) तदुपहूत उपह्वयस्वेत्यनेनानुज्ञापयेल्लिङ्गात् । ३,५.४१ । ____________________________________________________ ३,५.२५ पञ्चदशाधिकरणमारचयति किमनुज्ञा लौकिकोक्त्या वेदोक्त्या वा यथा तथा । अविशेषादुपह्वानमन्त्रलिङ्गात्तु वैदिकी ॥ ३,५.२५ ॥ ऽउपहूत उपह्वयस्यऽ इत्ययं मन्त्रो लिङ्गेन मन्त्रमनुज्ञायां विनियुङ्क्ते । तस्मात्वैदिकोक्त्या तदनुज्ञानम् ॥ ३,५.२५ ॥ (षोडशे वैदिकवाक्येन प्रतिवचनाधिकरणे सूत्रम्) तत्रार्थात्प्रतिवचनम् । ३,५.४२ । ____________________________________________________ ३,५.२६२७ षोष्ठशाधिकरणमारचयति उपह्वयस्वोपहूत इत्यशेषो द्वयोर्भवेत् । अनुज्ञानुज्ञापनयोरथवासौ विभज्यते ॥ ३,५.२६ ॥ विभागकरणाभावादशेषश्र्चेन्न लिङ्गतः । उपह्वयेत्वनुज्ञप्तावनुज्ञाने तथेतरः ॥ ३,५.२७ ॥ ऽउपहूत उपहूवयस्वऽ इत्यस्मिन्मन्त्रे मध्यमपुरुषेकवचनान्तो भागः पश्चात्पठितोऽपि प्रश्चसमत्वात्प्रथमभाविन्यनुज्ञापने समर्थः । प्रथमैकवचनान्तस्तु प्रथमपठितोऽप्युत्तरसमानत्वा त्पश्चाद्भाविन्यामनुज्ञायां समर्थः । तस्मात्लिङ्गेन विभज्य विनियुज्यते ॥ ३,५.२६२७ ॥ (सप्तदशे एकपात्राणामनुज्ञापनाधिकरणे सूत्रम् ) तदेकपात्राणां समवायात् । ३,५.४३ । ____________________________________________________ ३,५.२८ सप्तदशाधिकरणमारचयति उपह्वानमशेषाणामुत स्यादेकपात्रिणाम् । अदृष्टहेतोराद्यः स्याद्दृष्टाधिक्यादितोऽन्तिमः ॥ ३,५.२८ ॥ अनुज्ञापनस्यादृष्टं प्रयोजनम् । तच्च विभिन्नपात्रेष्वपि समानमिति चेत् । न । दृष्टप्रयोजनस्य सद्भावात् । साधारणे वस्तुनि कथंचिद्भागाधिक्येऽपराधो भवति । अतो न्यूनाधिकत्वपरिहारनिमित्तमनुज्ञापनमेकपात्रिणामेव ॥ ३,५.२८ ॥ (अष्टादशे स्वयंयष्टुर्भक्षास्तित्वाधिकरणे सूत्राणि ४४४५) याज्यापनयेनापनीतो भक्षः प्रवरवत् । ३,५.४४ । यष्टुर्वा कारणागमात् । ३,५.४५ । प्रवृत्तत्वात्प्रवरस्यानपायः । ३,५.४६ । ____________________________________________________ ३,५.२९३० अष्टादशाधिकरणमारचयति होतुर्याज्यापनीतौ किं न वषट्कारभक्षयोः । अपनीतिरुतापायो नापनीतिर्विभेदतः ॥ ३,५.२९ ॥ यजमानेन यष्टव्यं न विनेष्टिर्वषट्कृतिम् । वषट्कारो याज्ययातः सहापैत्यदनं तथा ॥ ३,५.३० ॥ ज्योतिष्टोम ऋतुयाजनामकेषु यागेष्वाम्नायते"यजमानस्य याज्या सोऽभिप्रेष्यति होतरेतद्यज इति, स्वयं वां निषद्य यजति"इति । हौत्रे काण्डे समाम्नाता याज्याः समाख्यया होतुः प्राप्ताः । तासु काचिद्याज्या होतुरपनीय यजमानस्य विधीयते । ततो यजमानः स्वेच्छया होतारं वा प्रेष्यति, स्वयं वा याज्यां पठति । तत्र त्वपाठपक्षे याज्या होतुरपनीयते, न तु वषट्कारभक्षावपनीयेते । तयोर्याज्यायामनन्तर्भावात् । अतो होता वषट्करोति भक्षयति च इति प्राप्ते, ब्रूमःऽस्वयं वा निषद्य यजतिऽ इति पक्षस्वीकाराद्यजमानेन स्वयं यागः कर्तव्यः । स च यागो वषट्कारमन्तरेण न संभवति । ऽयाज्याया अधि वषट्करोतिऽ इति तद्विधानात् । ननु यजमानो याज्यां पठतु, होता वषट्करोतु इति चेत् । मैवम् । ऽअनवानं यजतिऽ इति याज्यावषट्कारयोर्मध्ये श्वासनिषेधेनैककर्तृकत्वावगमात् । अतो याज्यया सह वषट्कारो होतुरपैति । तदपाये वषट्कारनिमित्तो भक्षश्च होतुरपेत्य यजमाने निविशते ॥ ३,५.२९३० ॥ (एकोनविंशे फलचमसस्येज्याविकारताधिकरणे सूत्राणि ४७५१) फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् । ३,५.४७ । इज्याविकारो वा संस्कारस्य तदर्थत्वात् । ३,५.४८ । होमात् । ३,५.४९ । चमसैश्च तुल्यकालत्वात् । ३,५.५० । लिङ्गदर्शनाच्च । ३,५.५१ । ____________________________________________________ ३,५.३१३३ एकोनविंशाधिकरणमारचयति न्यप्रोधपिष्टं सोमस्य स्थाने क्षत्रियवैश्ययोः । भक्षमात्रे विकुर्यात्तत्सोमयागेऽपि वा तथा ॥ ३,५.३१ ॥ बिभक्षयिषया वाक्यमुपक्रम्योपसंहृतम् । भक्षं यच्छेदिति ततो विकारो भक्षमात्रगः ॥ ३,५.३२ ॥ फलाख्यचमसेनासौ यजेतेति श्रुतत्वतः । इज्यायां च विकारोऽस्ति यागार्था भक्षसंस्कृतिः ॥ ३,५.३३ ॥ ज्योतिष्टोमे श्रूयतेऽयदि राजन्यं वैश्यं वा याजयेत्, स यदि सोमं बिभक्षयिपेत्, न्यग्रोधस्तिभिनीराहृत्य ताः संपिष्य दधन्युन्मृज्य तमस्यै भक्षं प्रयच्छेत्, न सोमम्ऽ इति । स्तिभिन्यो मुकुलानि । तत्र उपक्रमोपसंहारयोर्भक्षविषयत्वाद्भक्षमात्रे सोमः पिष्टेन विक्रियते इति चेत् । मैवम् । ऽयदान्याश्चमसाञ्जुह्वति, अथैतस्य दर्भतरुणकेनोषहत्य जुहोतिऽ इति श्रुतम् । तत्र फलचमसरूपेण यथोक्तपिष्टेन यागमङ्गीकृत्य तरुणकगुणो विधीयते । किंच इष्टद्रव्य संस्कारो हि भक्षः । स च यागमन्तरेणानुपपन्नः । तस्मात्यागेऽपि विकारः ॥ ३,५.३१३३ ॥ (विंशे ब्राह्मणानामेव राजन्यचमसानुप्रसर्पणाधिकरणे सूत्रे ५२५३) अनुप्रसर्पिषु सामान्यात् । ३,५.५२ । ब्रह्मणा वा तुल्यशब्दत्वात् । ३,५.५३ । ____________________________________________________ ३,५.३४३५ विंशाधिकरणमारचयति राजसूये क्वचित्कर्तुश्चमसो दशभिर्जनैः । मक्ष्यः किं तत्र राजन्या भक्षका ब्राह्मणा उत ॥ ३,५.३४ ॥ आद्यो भानात्संख्ययैकजैतेर्विप्राः शतं दश । चमसानद्युरित्युक्त्या राजपात्रं च विप्रगम् ॥ ३,५.३५ ॥ राजसूये दशपेयनामके यागे श्रूयतेऽदश दशैकैकं चमसमनुप्रसर्पन्तिऽ इति । तत्र यजमानस्य राजन्यस्य यश्चमसः, सोऽयं राजन्यैरेव दशभिर्भक्षणीयः । कुतः । ऽदशऽ इति संख्याया जात्येकत्वप्रतिभानात् । तथा हि दशपोयस्य ज्योतिष्टोमविकृत्वात्प्राकृतं धर्मजातं चोदकेन प्राप्तम् । प्रकृतौ च यजमानचमसस्य भिन्नजातिभिर्भक्षणं नास्ति, इत्यत्रापि तथैव प्रप्तम् । यदि अत्रऽदशऽ इति विशेषो विधीयते, तर्हि प्राकृतं भक्षसंख्यामात्रं निवर्तताम्, नत्वेकजातित्वम् । तस्मात्राजन्यो यजमानोऽन्यै राजन्यैर्नवभिः सह भक्षयेतिति प्राप्ते, ब्रूमः प्रकृतितः प्राप्तेषु दशसु चमसेषु भक्षणायामुप्रसर्पतां पुरुषाणांऽदश, दश, इति वीप्सया प्रतिचमसं दशसंख्यां विधायार्थसिद्धां शतसंख्यामनूद्य संख्येयानां सर्वेषां ब्राह्मण्यं विधीयतेऽङ्घ शतं ब्राह्मणाः पिबन्तिऽ इति । तथा सति यजमानस्यापि राजन्यस्य यत्र चमसभक्षो नास्ति, तत्र कुतोऽन्ये राजन्या भक्षयेयुः । तस्मात् ब्राह्मणा एव भक्षकाः ॥ ३,५.३४३५ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य पञ्चमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य षष्ठः पादः । (प्रथमे स्त्रुवादिषु खादिरतादिविधैः प्रकृतिगामिताधिकरणे सूत्राणि १८ ) सर्वार्थमप्रकरणात् । ३,६.१ । प्रकृतौ वाद्विरुक्तत्वात् । ३,६.२ । तद्वर्जं तु वचनप्राप्ते । ३,६.३ । दर्शनादिति चेत् । ३,६.४ । न चोदनैकार्थ्यात् । ३,६.५ । उत्पत्तिरिति चेत् । ३,६.६ । न तुल्यत्वात् । ३,६.७ । चोदनार्थकार्त्स्न्यात्तु मुख्यविप्रतिषेधात्प्रकृत्यर्थः । ३,६.८ । ____________________________________________________ ३,६.१२ षष्ठपादस्य प्रथमाधिकरणमारचयति प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः । प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ ॥ ३,६.१ ॥ जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः । चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम् ॥ ३,६.२ ॥ अनारभ्य श्रूयतेऽयस्य पर्णमयी जूहूर्भवति, न स पापं श्लोकं शृणोतिऽ इति । तत्र अव्यभिचरितक्रतुसंबन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्णवृक्षो वाक्येन विधीयतेऽया जुहूः सा पर्णमयीऽ इति । वाक्यं च प्रकृतिविकृत्योस्तुल्यमेव प्रवर्तते । उभयत्राऽश्रयभूताया जुह्वाः सत्वात् । तस्मात्प्रकृतिविकृत्योरूमयोरप्ययं विधिः इति प्राप्ते, ब्रूमः किमयं विधिर्विकृतौ चोदकात्पूर्वे निविशते, पश्चाद्वा । नाऽद्यः । आश्रयभूताया जुह्वाश्चोदकमन्तरेणासंभवात् । द्वितीये तु पर्णत्वमपि जुह्वा सहैव चोदकेनातिदिश्यते । तत्र पुनर्विधिवैयर्थ्यादयं विधिः प्रकृतिमात्रगः । एवंऽयस्य स्वादिरः स्त्रुबो भवतिऽ इत्युदाहरणीयम् ॥ ३,६.१२ ॥ (द्वितीये सामिधेनीनां सप्तदशसंख्याया विकृतिगामिताधिकरणे सूत्रम्) प्रकरणविशेषात्तु विकृतौ विरोधि स्यात् । ३,६.९ । ____________________________________________________ ३,६.३४ द्वितीयाधिकरणमारचयति सामिधेनीः सप्तदश प्रकृतौ विकृतावुत । पूर्ववत्प्रकृतौ पाञ्चदश्येनैतद्विकल्प्यते ॥ ३,६.३ ॥ विकृतौ साप्तदश्यं स्यात्प्रकृतौ प्रक्रियाबलात् । पाञ्चदश्यावरुद्धत्वादाकाङ्क्षाया निवृत्तितः ॥ ३,६.४ ॥ अनारभ्य श्रूयतेऽसप्तदश सामिधेनीरनुब्रूयात्ऽ इति । ऽप्रवो वाजा अभिद्यवऽ इत्याद्या अग्निसमिन्धनार्था ऋचः सामिधेन्यः । तासां साप्तदश्यं पूर्वभ्यायेन प्रकृतिगतम् । यदि प्रकृतौऽपञ्चदश सामिधेनीरन्वाहऽ इति विधिः स्यात्, तर्हि पाञ्चदश्यसाप्तदश्ये विकल्पेयातामिति प्राप्ते, ब्रूमः विकृतावेव साप्तदश्यं निविशते । प्रकृतौ पाञ्चदश्येनावरुद्धानां सामिधेनीनां संख्याकाङ्क्षाया अभावात् । न च प्राञ्चदश्यसाप्तदश्यवाक्ययोः समानबलत्वादवरोधा भावः इति शङ्कनीयम् । पाञ्चदश्ये प्रकरणानुग्रहस्याधिकत्वात् । तस्मात्मित्रविन्दाध्वर कल्पादिविकृतौ साप्तदश्यमवतिष्ठते । न चात्र पूर्वन्यायोऽस्ति । साप्तदश्यस्य चोदकप्राप्त्यभावेन पुनर्विधाने दोषाभावात् ॥ ३,६.३४ ॥ (तृतीये नैमित्तिकसाप्तदश्यस्य प्रकृतिगामिताधिकरणे सूत्रम्) नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् । ३,६.१० । ____________________________________________________ ३,६.५६ तृतीयाधिकरणमारचयति साप्तदश्यं तु वैश्यस्य विकृतौ प्रकृतावुत । पूर्ववच्चेन्न संकोचान्नित्ये नैमित्तिकोक्तितः ॥ ३,६.५ ॥ गोदोहनेन प्रणयेत्कामीत्येतदुदाहरत् । भाष्यकारस्तदप्यस्तु न्यायस्यात्र समत्वतः ॥ ३,६.६ ॥ ऽसप्तदशानुब्रूयाद्वैश्यस्यऽ इति विहितं वैश्यनिमित्तं साप्तदश्यं पूर्वन्यायेन विकृतिगतमिति चेत् । मैवम् । नैमित्तिकेनानेन वचनेन प्रकृतिगतस्य नित्यस्य पाञ्चदश्यस्य वैश्यव्यतिरिक्त विषयतया संकोचनीयत्वात् । नित्यं सामान्यरूपतया सावकाशत्वेन च दुर्बलम् । नैमित्तिकं तु विशेषरूपत्वनिरवकाशत्वाभ्यां प्रबलम् । तस्मात्वैश्यनिमित्तकं साप्तदश्यं प्रकृताववतिष्ठते । अत्र भाष्यकारोऽन्यदुदाजहारऽचमसेनापः प्रणयेव्गोदोहनेन पशुकामस्यऽ इति । तत्र प्रकृतेश्चमसेनावरुद्धत्वाद्गोदोहनं विकृतौ इति पूर्वपक्षः । कामनानिमित्तकेन गोदोहनेन नित्यस्य चमसस्य निष्कामविषयतया संकोचनीयत्वात्प्रकृतावेव गोदोहनमिति राद्धान्तः ॥ ३,६.५६ ॥ (चतुर्थे, आधानस्य पवमानेष्ट्यनङ्गताधिकरणे सूत्राणि १११३) इष्ट्यर्थमग्न्याधेयं प्रकरणात् । ३,६.११ । न वा तासां तदर्थत्वात् । ३,६.१२ । लिङ्गदर्शनाच्च । ३,६.१३ । ____________________________________________________ ३,६.७८ चतुर्थाधिकरणमारचयति आधानं पवमानादेरिष्टेरङ्गं न वा भवेत् । अग्नीनामिष्टिशेषत्वात्तद्द्वारास्य तदङ्गता ॥ ३,६.७ ॥ अनारभ्य विधामात्तु नाङ्गं कस्यचिदाहितिः । अग्न्यर्थत्वात्तत्समेष्टिरग्नयस्त्वग्निहोत्रगाः ॥ ३,६.८ ॥ इदमाम्नायतेऽअग्नये पवमानायाष्टादशकपालं निर्वपत्, अग्नये पावकाय, अग्नये शुचयेऽ इति । ऽवसन्ते ब्राह्मणोऽग्नीनादधीतऽ इति च । तत्र आधानं पवमानादीष्टीनामङ्गं भवेत् । कुतः । दर्शपूर्णमासविकृतिषु पवमानादीष्टिषु चोदकप्राप्तानामाहवमनीयाद्यग्नीनामिष्ट्यङ्गत्वे सत्यग्निद्वारा तत्संस्काररूपस्याऽधानस्यापि तदङ्गताया अनिवार्यत्वात् इति चेत् । मैवम् । न ह्येतदाधानं कस्यचित्क्रतोः प्रकरणे पठितम् । किंतु अनारभ्याधीतम् । अतो न कस्याप्येतदङ्गम्, किंत्वाधानवदिष्टीनामप्यग्निसंस्कारार्थत्वात्परस्परं नास्त्यङ्गाङ्गिभावशङ्का । ननु पवमानेष्ठ्यङ्गत्वाभावेऽग्निसंस्कारवैयर्थ्यादग्निद्वारा तदङ्गत्वं युक्तमिति चेत् । न । संस्कृनामग्नीनामग्निहोत्राद्युत्तरक्रतुषु तत्तद्वाक्यैर्विनियोगावगमात् । तस्मात्नाऽधानमङ्गम् ॥ ३,६.७८ ॥ (पञ्चमे, आधानस्य सर्वार्थताधिकरणे सूत्रे १४१५) तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः । ३,६.१४ । सर्वार्थं वाधानस्य स्वकालत्वात् । ३,६.१५ । ____________________________________________________ ३,६.९१० पञ्चमाधिकरणमारचयति आधानं किं प्रकृत्यर्थे वह्निमात्रेण वा युतम् । संस्कृताग्निप्रनाड्यैतत्पर्णवत्प्रकृतौ स्थितम् ॥ ३,६.९ ॥ लौकिकाकारमात्रत्वे विफलत्वात्क्रतौ युतिः । पर्णस्याऽहवनीयादौ शास्त्रीयेऽस्तु स्वतन्त्रता ॥ ३,६.१० ॥ अनारभ्याधीतं पर्णमयीत्वं यथा जुहूप्रनाड्या प्रकृतौ निविष्टम्, तथैवाग्निप्रनाड्या तत्संस्काररूपमाधानं प्रकृतौ निविशते इति चेत् । मैवम् । वैषम्यात् । द्विविधो हि जुह्वा आकारः लौकिकः शास्त्रीयश्च । अरत्निमात्रदैर्घ्य हसमुखत्वत्वग्बिलत्वादिरूपो दृश्यमानो लौकिकः । अपूर्वीयत्वाकारस्तु शास्त्रीयः । तयोरपूर्वीयत्वं क्रतुप्रवेशमन्तरेण नास्ति । तत्र यदि लौकिकाकारमात्रे पर्यवस्यति, तदा पर्णमयीत्वं विफलं भवेत् । काष्ठान्तरेणापि तदाकारस्य सुसंपादत्वात् । अचोऽपूर्वीयत्वाय पर्णः क्रतौ प्रविष्टः । आहवनीयादीनां त्वेक एव शास्त्रीयाकारः । स च विङिबलादाधानेनैव जन्यते, नान्यथा । तस्मादाधानस्य क्रतुप्रवेशं विनैव शास्त्रीवाहवनीयाद्याकारसंपादनसमर्थ त्वादग्निहोत्रेण तत्संयुज्यते । तथा सति पर्णवैषम्यात्प्रकृतावप्रविश्याग्नीनुत्पाद्य क्रतुवत्स्वात त्र्येणावतिष्ठते । ततो लौकिकोपायसंपादितसुवर्णव्रीह्यादिवदाधानसंपादितानां स्वतन्त्राणा मेवाऽहवनीयाद्यग्नीनां पश्चाद्वाक्यैः क्रतुषु विनियोगोऽस्तु ॥ ३,६.९१० ॥ (षष्ठे पवमानेष्टीनामसंस्कृतेऽग्नौ कर्तव्यताधिकरणे सूत्रे १६१७) तासामग्निः प्रकृतितः प्रयाजवत्स्यात् । ३,६.१६ । न वा तासां तदर्थत्वात् । ३,६.१७ । ____________________________________________________ ३,६.१११२ षष्ठाधिकरणमारचयति संस्कृते पवमानेष्ट्या वह्नौ सेष्टिर्न वेष्टयः । वह्नौ तत्संस्कृते कार्याश्चोदकस्यानुरोधतः ॥ ३,६.११ ॥ चोदकः पवमानेष्टौ न तां प्रापयितुं प्रभुः । अनङ्गत्वेष्ट्यसिद्धिभ्यामिष्टयस्यदसंस्कृते ॥ ३,६.१२ ॥ पावमानादीष्टिभिराहवनीयाद्यग्नयः संस्क्रियन्ते । संस्कृतेष्वग्निष्वग्निहोत्रदर्शपूर्णमासादि क्रतवःप्रवर्तन्ते । तथा सति विमताः पवमानेष्टयस्ताभिरिष्टिभिः संस्कृते बह्नौ कर्तव्याः, इष्टित्वात्, इतरेष्टिवत् । चोदकोऽप्येवम् । सत्यनुगृहीतो भवति । एताभिरिष्टिभिः संस्कृते बह्नौ प्रकृत्यनुष्ठानातिति प्राप्ते ब्रूमः यद्यपि पवमानेष्टिर्विकृतिः, तथापि चोदको न तस्यां पवमानेष्टौ पवमानेष्टि मतिदेष्टुं प्रभवति । प्रकृतौ प्रयाजादिवत्पवमानेष्टेरङ्गत्वाभावात् । किंचऽएतस्याः पवमानेष्टेः संस्कृताग्निसिद्ध्यर्थ पवमानेष्ट्यन्तराङ्गीकारे तत्रापि तथाऽ इत्यनवस्थायामिष्टिरेव न सिध्येत् । तस्मात्ताभिरिष्टिभिरसंस्कृते वह्नौ पवमानेष्टयः कर्तव्याः ॥ ३,६.१११२ ॥ (सप्तमे उपाकरणादीनामग्नीषोमीयधर्मताधिकरणे सूत्राणि १८२७) तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् । ३,६.१८ । स्थानाच्च पूर्वस्य । ३,६.१९ । श्वस्त्वेकेषां तत्र प्राक्श्रुतिर्गुणार्था । ३,६.२० । तेनोत्कृष्टस्य कालविधिरिति चेत् । ३,६.२१ । नैकदेशत्वात् । ३,६.२२ । अर्थेनेति चेत् । ३,६.२३ । न श्रुतिविप्रतिषेधात् । ३,६.२४ । स्थानात्तु पूर्वस्य संस्कारस्य तदर्थत्वात् । ३,६.२५ । लिङ्गदर्शनाच्च । ३,६.२६ । अचोदना वा गुणार्थेन । ३,६.२७ । ____________________________________________________ ३,६.१३१५ सप्तमाधिकरणमारचयति अग्नीषोमीयसवनीयानुबन्ध्यपशुष्वमी । उपाकरणमुख्यास्तु धर्माः साधारण न वा ॥ ३,६.१३ ॥ ज्योतिष्टोमप्रकरणे पाठात्साधारण अमी । पशुधर्माग्रहात्सोमयागे ते स्युर्निरर्थकाः ॥ ३,६.१४ ॥ अग्नीषोमीयधर्मत्वं तेषां स्थानात्प्रसिध्यति । द्वयोरितरयोः पश्र्वोः प्राप्यन्ते चोदकेन ते ॥ ३,६.१५ ॥ अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्च, इत्येते त्रयः पशवो ज्योतिष्टोमप्रकरणे समाम्नाताः । पशुधर्माश्चोपाकरणपर्यग्निकरणादयस्तत्राऽम्नाताः । ऽप्रजापतेर्जायमानाःऽऽइमं पशुम्ऽ इत्याभ्यामृग्भ्यां पशोरुपस्पर्शनमुपाकरणम् । दर्भज्वालया त्रिः प्रदक्षिणीकरणं पर्यग्निकरणम् । त एते धर्मास्त्रिष्वपि पशुषु साधारण्येन विधीयन्ते । त्रयाणामपि ज्योतिष्टोमप्रकरणपाठसाम्यात् । ननु ज्योतिष्ठोमस्य प्रकरणे पठितानेतान्धर्मान्स एव ग्रहीष्यति, न तु पशवः इति चेत् । न । तस्य सोमयागत्वात् । सोमो ह्यभिषवादीन्धर्मानाका ङ्क्षति, न तु यूपनियोजनविशसनादीन् । तस्मातङ्गिन्यनर्थकाः सन्तोऽङ्गेषु निविशमाना अविशेषतस्त्रिष्वपि पशुष्ववतिष्ठन्ते इति प्राप्ते ब्रूमः अस्त्यत्र विशेषः संनिधिलक्षणः । सौत्यनामकादह्नः प्राचीन औपवसथ्यनामकेऽह्नि धिष्ण्यनिर्माणादूर्ध्वमेते धर्मा आम्नाताः । अग्नीषोमीयस्यापि तदेव स्थानम् । सवनीयस्तु सौत्येऽहनि श्रूयतेऽआश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सवनीयं पशुमुपाकरोतिऽ इति । अनुबन्ध्यस्त्ववभृथान्ते समाम्नातः । ततः संनिधिना ते धर्मा अग्नीषोमीये संबध्यन्ते, सवनीयानुबन्ध्ययोस्तु चोदकादतिदिश्यन्ते ॥ ३,६.१३१५ ॥ (अष्टमे शाखाहरणादीनामुभयदोहधर्मताधिकरणे सूत्रे २८२९) दोहयोः कालभेदादसंयुक्तं शृतं स्यात् । ३,६.२८ । प्रकरणविभागाद्वा तत्संयुक्तस्य कालशास्त्रम् । ३,६.२९ । ____________________________________________________ ३,६.१६१७ अष्टमाधिकरणमारचयति शाखाछेदादयो दोहे धर्माः सायं व्यवस्थिताः । प्रातश्च सन्ति वा सायं स्थानात्ते पूर्ववत्स्थिताः ॥ ३,६.१६ ॥ आनर्थक्यप्रतिहतिः पूर्ववन्नेह विद्यते । बलिनोऽतः प्रकरणात्प्रातर्दोहेऽपि सन्ति ते ॥ ३,६.१७ ॥ दर्शपूर्णमासंप्रकरणे पलाशशाखाछेदनम्, तया शाखया वत्सापाकरणम्, इत्यादयो दोहधर्माः समाम्नाताः । दोहौ च द्वौ विद्येतेअमावास्यायां रात्रावेको दोहः । प्रतिपदि प्रातरपरो दोहः । तत्र पूर्वन्यायेन प्राथमिके सायंदोहे प्रथमश्रुतास्ते धर्मा व्यवतिष्ठन्ते इति चेत् । मैवम् । वेषम्यात् । पूर्वत्र हि सोमे विशसनादिधर्माणामनन्वयात्प्रकरणमानर्थक्यप्रति हतम् । इह तु नास्त्यानर्थक्यप्रतिहतिः । ततः प्रकरणेन स्थानं बाधित्वा द्वयोर्दोहयोस्ते धर्मा अभ्युपेयाः ॥ ३,६.१६१७ ॥ (नवमे सादनादीनां सवनत्रयधर्मताधिकरणे सूत्रम् ) तद्वत्सवनान्तरे ग्रहाम्नानम् । ३,६.३० । ____________________________________________________ ३,६.१८ नवमाधिकरणमारचयति ग्रहधर्माः सादनाद्याः प्रातःसवन एव ते । त्रिषु वा निश्चितस्थानादाद्यः पूर्ववदुत्तरः ॥ ३,६.१८ ॥ ज्योतिष्टोमे प्रातःसवने सन्त्यैन्द्रवायवादयो ग्रहाः, माध्यंदिने सवने मरुत्वतीयादयः, तृतीयसवन आदित्यादयः । तत्र सादनसंमार्गादयो धर्माः प्रातःसवनीयग्रहसंनिधावाम्नायन्ते ऽउपोप्तेऽन्ये ग्रहाः साद्यन्ते, अनुपोप्ते ध्रुवःऽ इति । ऽदशापवित्रेण ग्रहं संमार्ष्टिऽ इति च । ध्रुवव्यतिरिक्तानां ग्रहाणामधस्तान्मृत्तिकोपवेशनं कृत्वा तत्र सादनम्, ध्रुवस्य तु न तथा । पूर्वाधिकरणे शाशाहरणादयः प्रधानयोर्दधिपयसोर्र्धमाः समाम्नाताः । तच्च दधि पूर्वोद्युः सायंदोहमन्तरेण न सिध्यतीति तत्सिद्ध्यर्थे केवलं सायं दुह्यते, न तु सायंदोहस्यासाधारण त्वेन धर्मैः सहैकस्मिन्देशे पाठोऽस्तीति स्थानं न निश्चितम्, इह तु तन्निश्चितमिति प्रातःसवन एव ते धर्मा इति चेत् । मैवम् । सादनादीनां वाक्येन ग्रहधर्मत्वं, प्रकरणेन ज्योतिष्टोमधर्मत्वं चावगम्यते । तस्मिन्निश्चितमपि स्थानं वाक्यप्रकरणाभ्यां बाधित्वा त्रिषु सबनेषु सादनादयोऽवतिष्ठन्ते ॥ ३,६.१८ ॥ (दशमे रशनात्रिवृत्त्वादीनां सर्वपशुधर्मताधिकरणे सूत्रम्) रशना च लिङ्गदर्शनात् । ३,६.३१ । दशमाधिकरणमारचयति ____________________________________________________ ३,६.१९१८* एकत्रैवोत सर्वत्र रशनावेष्टनादयः । अग्नीषोमीय एवैते क्रमाल्लिङ्गादितोऽन्तिमः ॥ ३,६.१८* ॥ अग्नीषोमीयपशुसंनिधौ रशनया यूपस्य वेष्टनम्, रशनायास्त्रिवृत्त्वं दर्भमयत्वं च, इत्यादयो धर्मा आम्नाताःऽपरिव्ययति, ऊर्ग्वै रशनाऽ इति,ऽत्रिषृद्भवतिऽ इति,ऽदर्भमयी भवितिऽ इति च । तत्र येयं रशना, ये च वेष्टनादयः, ते सर्वे संनिधेरवान्तरप्रकरणा द्वाग्नीषोमीय एव स्युः इति चेत् । मैवम् । सवनीयपशावपि तत्सद्भावो लिङ्गादवगम्यते । ऽत्रिवृता यूपं परिनीयाऽग्नेयं सवनीयं पशुमुपाकरोतिऽ इति त्रिवृत्त्वपरिव्याणयोः सिद्धवदनुवादोलिङ्गम् । किंच तृतीयाश्रुत्या वाक्येन च परिव्याणस्य यूपधर्मता, न तु पशुधर्मता । यूपश्च त्रयाणां पशूनां तन्त्रम्, इति वक्ष्यते । तस्मात्सर्वेषु पशुध्वेते धर्माः स्युः ॥ ३,१.१८* ॥ (एकादशे, अंश्वदाभ्ययोरपि सादनादिधर्मवत्त्वाधिकरणे सूत्राणि ३२३४) आराच्छिष्टमसंयुक्तमितरैः संनिधानात् । ३,६.३२ । संयुक्तं वा तदर्थत्वाच्छेषस्य तन्निमित्तत्वात् । ३,६.३३ । निर्देशाद्व्यवतिष्ठेत । ३,६.३४ । ____________________________________________________ ३,६.१९ एकादशाधिकरणमारचयति ग्रहधर्मा अनारभ्योक्तांश्वदाभ्यद्वयेन हि । विद्यन्ते वा प्रकरणादाद्यो वाक्यादिहान्तिमः ॥ ३,६.१९ ॥ अनारभ्य द्वौ ग्रहौ श्रुतौऽअंशुं गृह्णातिऽ इति,ऽअदाभ्यं गृह्णातिऽ इति च । तयोः सादनसंमार्गादयो ग्रहधर्मा न विद्यन्ते । कुतः । आरभ्याधीतेष्वैन्द्रवायवादिष्वेव प्रकरणेन व्यवस्थापितत्वात् इति चेत् । मैवम् । ऽग्रहाः साद्यन्तेऽ इत्यादिवाक्येन ग्रहधर्मत्वावगमे तयोरपि ग्रहयोरनिवार्य त्वात् । न चैन्द्रवायवादयः प्रकरणिनः । ज्योतिष्ठोमो हि प्रकरणी । तस्मात्सन्ति तयोर्र्धमाः ॥ ३,६.१९ ॥ (द्वादशे चित्रिण्यादीष्टकानामग्न्यङ्गताधिकरणे सूत्रम्) अग्न्यङ्गमप्रकरणे तद्वत् । ३,६.३५ । ____________________________________________________ ३,६.२०२१ द्वादशाधिकरणमारचयति अखण्डादीष्टकाधर्माश्चित्रिण्यादिषु नोचिताः । सन्ति वा वाक्यमप्यत्रानारभ्योक्तं ततो न ते ॥ ३,६.२० ॥ प्रकृतापूर्वसंबन्धात्तादृशादपि वाक्यतः । अखण्डत्वादयोऽग्न्यर्थचित्रिण्यादिषु सन्ति ते ॥ ३,६.२१ ॥ अनारभ्य श्रूयतेऽचित्रिणीरुपदधातिऽ इति । अग्निप्रकरणे चेष्टकानां धर्माः श्रुताःऽअखण्डामकृष्णां कुर्यात्ऽ इति । पूर्वत्र अंश्वदाभ्ययोरुत्पत्तिवाक्यस्यानारभ्याधीतत्वेऽपि विनियोजकवाक्यं प्रकरणाधीतम् । चित्रिण्यादिनामकानां त्विष्टकाविशेषाणां विनियोजकं वाक्यमप्यनारभ्याघीतम् । तच्च चित्यन्तरे ताश्चित्रिणीर्विनियुङ्क्ते । अखण्डत्वादिधर्मास्तु षण्णां चितीनां मध्ये प्रथमचितावाम्नाताः । तस्मात्ते चित्रिण्यादिषु नोचिताः इति प्राप्ते, ब्रूमः यद्यप्युत्पत्तिविनियोजकवाक्ययोरन्यतरस्यापि प्रकरणपाठो नास्ति, तथापिऽय एवं विद्वानग्निं चिनुतेऽ इति प्रकृतं यदेतदग्न्यपूर्वे तत्संबन्धित्वेनैवचित्रिण्यादयोऽप्यप्रकरण पठितेनापि वाक्येन विनियुज्यन्ते । अखण्डत्वादयञ्चाग्निसाधनभूतेष्टकाधर्माः, न तु प्रथमचिति धर्माः । तस्मातग्निसाधनभूतासु चित्रिण्यादीष्टकास्वपि ते सन्ति ॥ ३,६.२०२१ ॥ (त्रयोदशे अभिषवादीनां सोममात्रधर्मताधिकरणे सूत्रम्) नैमित्तिकमतुल्यत्वादसमानविधानं स्यात् । ३,६.३६ । ____________________________________________________ ३,६.२२२३ त्रयोदशाधिकरणमारचयति विधयोऽभिषवाद्याः स्युः फलाख्ये चमसे न वा । नैमित्तिकस्य नित्येन तुल्यत्वादस्ति तद्विधिः ॥ ३,६.२२ ॥ नित्ये कृतार्थाः संस्काराः पश्चाद्भाविनिमित्तजे । न विधेयाः किंतु तत्र प्राप्यन्तामतिदेशतः ॥ ३,६.२३ ॥ न्यग्रोधमुकुलरूपस्य फलस्य पिष्टं चम्यते यत्र स फलचमसः । स च नैमित्तिकः । राजन्यवैश्यौ निमित्तीकृत्य विहितत्वात् । सोमस्तु नित्यः । उपाधिक्रममप्यनुपजीव्यैवऽसोमेन यजेतऽ इति विहितत्वात् । तस्य च नित्वस्य सोमस्य यथा यागसाधनत्वम्, तथा फलचमसस्यापि तदस्ति । तस्मात्ऽसोममभिपुणोतिऽऽसोमं क्रीणातिऽ इत्यादयो यागद्रव्य संस्कारविधयः सोम इव फलचमसेऽपि प्रवर्तन्ते इति प्राप्ते, ब्रूमः नित्या अभिक्वादिसंस्कारा नित्यं सोमं संस्कार्य लब्ध्वा चरितार्थाः सन्तो नान्यं संस्कार्यमपेक्षन्ते । फलचमसस्तु सोयविकारत्वात्पश्चाद्भावी । ततो निरपेक्षाः संस्कारविधयो न तत्र प्रवर्तन्ते । न चैतावता संस्काराभावः । चोदकेन तत्सिद्धः । तस्मात्सोममात्रसंबन्धिनो विधयः ॥ ३,६.२२२३ ॥ (चतुर्दशे प्रतिनिधिष्वपि मुख्यधर्मानुष्ठानाधिकरणे सूत्राणि ३७३९) प्रतिनिधिश्च तद्वत् । ३,६.३७ । तद्वत्प्रयोजनैकत्वात् । ३,६.३८ । अशास्त्रलक्षणत्वाच्च । ३,६.३९ । ____________________________________________________ ३,६.२४ चतुर्दशाधिकरणमारचयति नीवारादिप्रतिनिधेरतुल्यो वा विधिः समः । पुरेवातुल्यता साम्यमाकाराद्ब्रीहिता यतः ॥ ३,६.२४ ॥ ऽव्रीहिभिर्यजेतऽ इति विहितानां व्रीहीणामसंभवे नीबाराः प्रतिनिधित्वेन स्वीकार्या इति वक्ष्यते । तत्र पूर्वन्यायेनावघातादिविधयो व्रीहिषु कृतार्थाः पश्चाद्भाविनि नीवारादौ न प्रवर्तन्ते इति चेत् । मैवम् । व्रीहिशब्दो हि जातिविशेषेणाऽकारविशेषेण वोपेतं द्रव्यमाचष्टे । नीवारेषु जातितो व्रीहिशब्दार्थत्वाभावेऽप्याकारतो व्रीहिशब्दार्थत्वेनऽव्रीहीनवहन्तिऽ इति विधिः प्रवर्तते । यथा व्रीहिजातावेव समीचीनानां व्रीहीणामभावे जलवह्न्याद्युपघातेन सारविकलेष्वपि विधिः, तथा जातिविकलेष्वपि ब्रीहिषु मुख्यैकदेशरूपत्वाद्विधिरस्तु ॥ ३,६.२४ ॥ (पञ्चदशे श्रुतेष्वपि प्रतिनिधिषु मुख्यधर्मानुष्ठानाधिकरणे सूत्रम्) नियमार्था गुणश्रुतिः । ३,६.४० । ____________________________________________________ ३,६.२५ पञ्चदशाधिकरणमारचयति पूतीकाभिषवोऽतुल्यस्तुल्यो वा सोमतुल्यता । नास्ति नैमित्तिकत्वेन तुल्यः प्रतिनिधित्वतः ॥ ३,६.२५ ॥ ऽयदि सोमं न विन्देत, पूति(ती) कानभिषुणुयात्ऽ इति श्रूयते । तत्र सोमाभावं निमित्तीकृत्य पूतीकलताखण्डानां विहितत्वात्फलचमसवन्नैमित्तिकत्वेन सोमाभिषवक्रयादिविधिः पूतीकेषु न तुल्यः इति चेत् । मैवम् । नीवारबत्प्रतिनिधित्वात् । ननु प्रतिनिधित्वे स्वयमेवोपादित्सितत्वाद्विधिर्नापेक्षितः । अत एव नीवारेषु विधिर्न श्रुतः इति चेत् । न । विधेर्नियमार्थत्वस्य षष्ठे वक्ष्यमाणत्वात् । तस्मातभिषवक्रयादिविधिः सोमपूतीकयोस्तुल्यः ॥ ३,६.२५ ॥ (षोडशे दीक्षणीयादिधर्माणामग्निष्टोमाङ्गताधिकरणे सूत्राणि ४१४७) संस्थास्तु समानविधानाः प्रकरणाविशेषात् । ३,६.४१ । व्यपदेशश्च तुल्यवत् । ३,६.४२ । विकारास्तु कामसंयोगे नित्यस्य समत्वात् । ३,६.४३ । अपि वा द्विरुक्तत्वात्प्रकृतेर्भविष्यन्तीति । ३,६.४४ । वचनात्तु समुच्चयः । ३,६.४५ । प्रतिषेधाच्च पूर्वलिङ्गानाम् । ३,६.४६ । गुणविशेषादेकस्य व्यपदेशः । ३,६.४७ । ____________________________________________________ ३,६.२६२७ षोडशाधिकरणमारचयति उक्थ्यादिषु समो दीक्षणीयाद्यङ्गविधिर्न वा । एकप्रकरणत्वेन फलवत्त्वाच्च तुल्यता ॥ ३,६.२६ ॥ उक्थ्यादयः कामयोगाद्विकाराः प्रक्रिया ततः । अग्निष्टोमात्मके ज्योतिष्टोममात्रे च तद्विधिः ॥ ३,६.२७ ॥ ज्योतिष्टोमः स्वयमेकोऽपि समाप्तिभेदाद्भिद्यते । यज्ञायज्ञियस्तोत्रेण समाप्तौऽअग्निष्टोमःऽ इत्युच्यते । तस्मादपि स्तोत्रादूर्ध्वमुक्थ्यस्तोत्रेण समाप्तौऽउक्थ्यःऽ इत्युच्यते । एवं षोडश्यादयोऽपि । तादृशस्य सप्तसंस्थावतो ज्योतिष्टोमस्य प्रकरणे दीक्षणीयेष्टिप्रायणीयेष्ट्यादीनामङ्गानां विधिराम्नातः । स च विधिर्ज्योतिष्टोमस्य प्रथमसंस्थाविशेषेऽग्निष्टोमे यथा प्रवृत्तः, तथैवोक्थ्यादिष्वपि प्रवर्तते । कुतः । प्रकरणसंबन्धस्य समानत्वात् । किंच यथाग्निष्टोमः फलत्वादङ्गविधिभिः संयुज्यते, एवमुक्थ्यादयोऽपि । तेषां च फलमेवमाम्नायतेऽपशुकाम उक्थ्यं गृह्णीयात्ऽऽषोडशिना वीर्यकामः स्तुवीतऽऽअतिरात्रेण प्रजाकामं याजयेत्ऽ इति । तस्मात् सप्तस्वपि संस्थासु समानोऽङ्गविधिः इति प्राप्ते, ब्रूमः यदेतदुक्थ्यादीनां फलमुदाहृतम्, तत्तु तेषां विकारत्वं गमयति । ऽकाम्यो गुणः श्रूयमाणो नित्यमर्थ विकृत्य निविशतेऽ इति न्यायाद्यथा गोदोहनगुणो नित्यं चमससाधनकमपां प्रणयनं विकृत्य निविशते,एवमुक्थ्यगुणो नित्यामग्निष्टोमस्य संस्थां विकृत्य संस्थान्तरत्वं गमयति । ततोऽग्निष्टोमस्य गुणविकारा उक्थ्यादय इति न सर्वसंस्थासाधारणं प्रकरणम्, किंतु अग्निष्टोमस्यै वासाधारणम । ननुऽज्योतिष्टोमेन यजेतऽ इत्युक्तत्वाज्ज्योतिष्टोमस्येदं प्रकरणम्, न त्वग्निष्टोमसंस्थायाः इति चेत् । बाढम् । असा ज्योतिष्टोमो न कदाचिदप्यग्निष्टोमं व्यभिचरति । उक्थ्यादीनामप्यन्तर्भाविताग्निष्टोमकत्वात् । उक्थ्यादींस्तु व्यभिचरति । विनापि तैरग्निष्टोमश्शायां ज्योतिष्टोमत्वसंभवात् । अतोऽग्निष्टोमसंस्थस्य ज्योतिष्टोमस्येदं प्रकरणं सत्तत्रैव दीक्षणीयाद्यङ्गविधिं निवेशयति । उक्थ्यादिषु चोदकादङ्गान्यतिदिश्यन्ते ॥ ३,६.२६२७ ॥ इति श्रीमाधवीये जौमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्य षष्ठ पादः _________________________________________________________________________ अथ तृतीयाध्यायस्य सप्तमः पादः । (प्रथमे बर्हिरादीनां दर्शपौर्णमासतदङ्गोभयाङ्गताधिकरणे सूत्राणि १५) प्रकरणविशेषादसंयुक्तं प्रधानस्य । ३,७.१ । सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् । ३,७.२ । आरादपीति चेत् । ३,७.३ । न तद्वाक्यं हि तदर्थत्वात् । ३,७.४ । लिङ्गदर्शनाच्च । ३,७.५ । सप्तमपादस्य प्रथमाधिकरणमारचयति ____________________________________________________ ३,७.१२ मुख्याङ्गतैव वेद्यादेः प्रयाजाद्यङ्गतोऽपि वा । तद्वाक्यं प्रक्रियायुक्तं मुख्याङ्गत्वस्य बोधकम् ॥ ३,७.१ ॥ मुख्याङ्गस्यापि वेद्यादेः प्रयाजादिषु चाङ्गता । मुख्यार्थत्वात्प्रयाजादेः स्वापूर्वव्यवधानतः ॥ ३,७.२ ॥ दर्शपूर्णमासयोः श्रूयतेऽवेद्यां हवींष्यासादयतिऽऽबर्हिषि हवींष्यासादयतिऽ इति । तथा तद्धर्माः श्रूयन्तेऽवेदिं खनतिऽऽबर्हिर्लुनातिऽ इत्यादयः । मुख्यहवींष्याग्नेयपुरोडाशादीनि, अमुख्यहवींषि तु प्रयाजाद्यर्थानि । तत्रस्वस्वधर्मसहितानि वेद्यादीनि प्रकरणबलान्मुख्यहविषा मेवाङ्गानिऽवेद्यां हवींष्यासादयतिऽ इति वाक्यात्सर्वहविरङ्गता इति चेत् । न । प्रकरणेन वाक्यस्य संकोचनीयत्वात् । यदि वाक्यं प्रकरणनैरपेक्ष्येण स्वतन्त्रं स्यात्, तदा सादनमात्रपर्यवसानेन यागाभावे वैयर्थ्य स्यात् । सौमिकहीवषामप्येतद्वेद्यासादनं प्रसज्येत । तस्मात्मुख्यहविरङ्गं वेद्यादिकमिति प्राप्ते ब्रूमः अस्तु वैयर्थ्यातिप्रसङ्गपरिहारेण प्रकृतापूर्वसाधनभूतहविःषु वेद्यादेरङ्गत्वम् । प्रयाजादिहवींष्यपि स्वकीयावान्तरापूर्वद्वारा मुख्यापूर्वसाधनान्येवेति तदङ्गत्वमपि वेद्यादेर्युक्तम् । एवं सति वाक्यस्यात्यन्तसंकोचो न भविष्यति ॥ ३,७.१२ ॥ (द्वितीये स्वामिसंस्काराणां प्रधानार्थताधिकरणे सूत्रम्) फलसंयोगात्तु स्वामियुक्तं प्रधानस्य । ३,७.६ । द्वितीयाधिकरणमारचयति वपनाद्युपकारः किं द्वयोर्मुखाङ्गयोरुत । मुख्य एव द्वयोरस्तु कृत्स्नकर्तृगतत्वतः ॥ ३,७.३ ॥ युक्तः शास्त्रीयसंस्कारो मुख्यस्य फलभोजिनः । विनापि संसकृतिं दृष्टं कर्तृत्वं तत्र नास्ति सः ॥ ३,७.४ ॥ ज्योतिष्टोमे केशश्मश्रुवपनपयोव्रतादयो यजमानसंस्कारा आम्नाताः । ग्रहैः सोमहोमो ज्योतिष्टोमे मुख्यः । अग्नीषोमीयपश्वादिकमङ्गम् । तत्रद्वयोर्मुख्याङ्गयोरेते वपनादय उपकुर्वन्ति । कुतः । कर्तृधर्मत्वात् । यजमानो हि कर्तृतया वपनादिभिः संस्क्रियते । कर्तृत्वं च यथा मुख्यं प्रति तस्य विद्यते, तथाङ्गं प्रत्यप्यस्ति । तस्मातुभयोरुपकारः इति चेत् । मैवम् । द्वौ हि यजमानस्याऽकारौ क्रियाकर्तृत्वम्, फलभोक्तृत्वं चेति । तयोरदृष्टः फलभोगः, क्रियानिष्पत्तिश्च दृष्टा । तथा सति वपनादिकृतोपकारत्याप्यदृष्टत्वाद्भोक्तृशेषा वपनादयः फलभोगसाधने मुख्य एव पर्यवस्यन्ति । वपनादिसंस्काररहितैरप्यृत्विग्भिः कृषीवलादिभिश्च क्रिया निष्पाद्यमाना दृश्यते । ततस्तत्र कर्तृत्वाकारे वपनादिकृतः स उपकारो नास्ति । तस्मातदृष्ट फलभोजिनोऽस्य यजमानस्य योऽयमदृष्टरूपः शास्त्रीयः संस्कारः सोऽयं मुख्ये कर्मणि युक्तो नाङ्गेषु । नात्र पूर्ववद्वाक्यमस्ति, येन परम्पराफलसाधनेष्वङ्गेषु वपनाद्युपकारः शङ्कयेत । प्रकरणं तु मुख्यस्यैव, न त्वङ्गानाम् । तस्मात्न तेषूपकारः ॥ ३,७.३४ ॥ (तृतीये सौमिकवेद्यादीनामङ्गप्रधानोभयाङ्गताधिकरणे सूत्रे ७ । ९) चिकीर्षया च संयोगात् । ३,७.७ । तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षा स्यात् । ३,७.९ । ____________________________________________________ ३,७.५६ तृतीयाधिकरणमारचयति मुख्यार्था सौमिकी वेदिरुभयार्थोत मुख्यगा । चिकीर्षितत्वान्मुख्यस्य वेद्या तत्कृतिसंभवात् ॥ ३,७.५ ॥ मुख्यपौष्कल्यहेतुत्वात्तदङ्गं च चिकीर्षितम् । मुख्यवत्तेन तद्वेदिरङ्गेष्वप्युपकारिणी ॥ ३,७.६ ॥ दार्शिकीं वेदिं मध्येऽन्तर्भाव्य प्राचीनवंशो मण्डपोऽवस्थितः । ततः पूर्वस्यां दिशि सदोहविर्धानादीनां पर्याप्तो भूभागविशेषः । तैः सदःप्रभृतिभिः सह सौमिकी वेदिरित्युच्यते । सेयं मुख्यस्य सोमयागस्यैवोपकारं करोति, न त्वमुख्यानामग्नीषोमीयाद्यङ्गानाम् । कुतः । मुख्यस्य चिकीर्षितत्वात् । न च अङ्गान्यपि चिकीर्षितानि इति वाच्यम् । चिकीर्षास्वरूपस्य वेदेनैवाभिहितत्वात् । एवं श्रूयतेऽषट्त्रिंशत्प्रक्रमा प्राची, चतुर्विंशतिरग्रेण, त्रिंशज्जघनेन, इयति शक्ष्यामहेऽ इति । अस्यायमर्थः श्रूयमाणेनानेन दैर्ध्यप्रमाणेन तिर्यक्प्रमाणद्वयेन च प्रमिते भूभागे फलहेतुसोमयागं कर्तु शक्ष्यामहेऽ इति निश्चित्य तथैव कुर्यात इति । सेयं चिकीर्षा मुख्यविषया । ऽइयति शक्ष्यामहेऽ इति परिमाणस्य शक्तेश्चोपन्यासात् । अङ्गानां तु पशूनामिष्टीनां च सदोहविर्धानादि मण्टपनिरपेक्षाणां यथोक्तपरिमाणमन्तरेणाप्यनुष्ठातुं शक्यत्वात्स उपन्यासस्तत्र निरर्थकः । सोमस्य त्वनुष्ठानं यथोक्तवेद्यामेव संभवति, नत्वन्यत्र । तस्मात्सा वेदिर्मुख्यस्यैवोपकरोति इति प्राप्ते, ब्रूमःऽइयति शक्ष्यामहेऽ इत्यत्र साङ्गप्रधानानुष्ठाने शक्तिरुक्ता । तादृशस्यैव फलं प्रति पुष्कलहेतुत्वात् । अतो मुख्याङ्गयोश्चिकीर्षायास्तुल्यत्वाद्वेदिरुभयार्था । न च अत्र वपनादिसाम्यं शङ्कनीयम् । दृष्टोपयोगाभावस्य तत्रोक्तत्वात् । इह तु हविरासादनादिर्दृष्ट उपयोगः । स च मुख्याङ्गयोः सम इत्युभयार्थत्वम् ॥ ३,७.६ ॥ (चतुर्थेअमिमर्शनस्याङ्गप्रधानोभयाङ्गताधिकरणे सूत्र ८ । १०) तथाभिधानेन । ३,७.८ । गुणाभिधानात्सर्वार्थमभिधानम् । ३,७.१० । ____________________________________________________ ३,७.७८ चतुर्थाधिकरणमारचयति चतुर्होत्रा पौर्णमासीं मृशेदाज्यादिमर्शने । मन्त्रो मुख्य उताङ्गेऽपि मुख्ये तद्वाचिशब्दतः ॥ ३,७.७ ॥ शब्दस्य कर्मवाचित्वात्तत्र मर्शनवर्जनात् । विभक्तिव्यत्यये मन्त्रो मुख्याङ्गहविषोर्द्वयोः ॥ ३,७.८ ॥ दर्शपूर्णमासयोः श्रूयतेऽचतुर्होत्रा पौर्णमासीमभिमृशेत्, पञ्चहोत्राभावास्याम्ऽ इति । पृथिवी होताऽ इत्यादिको मन्त्रश्चतुर्होता । तस्मिन्मन्त्रे यज्ञाङ्गानां चतुर्णा श्रुतत्वात् । अथवा तस्य मन्त्रस्याभिमानित्वेनाऽत्मभूतः कश्चित्पुरुषः प्रजापतिना चतुर्थारमामन्त्रितः प्रत्वुत्तरमुवाचेति स पुरुषश्चतुर्हूतः । तदीयनाम्ना मन्त्रोऽपिऽचतुर्हूतःऽ इत्युच्यते । ऽपूज्यानां प्रत्यक्षनामग्रहणमयुक्तम्ऽ इत्यभिप्रायेण हूतशब्दस्थाने होतृशब्दः पठ्यते । अयमर्थः सर्वोऽपि तैत्तिरीयब्राह्मणे श्रूयते "आत्मन्नात्मन्नित्यामन्त्रयत । तस्मै चतुर्हूतः प्रत्यशृणोत् । स चतुर्हूतोऽभवत् । चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतं सन्तंऽचतुर्होताऽ इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवः"इति । ऽअग्निर्होताऽ इत्यादिको मन्त्रः पञ्चहोता । तत्राप्युक्तप्रकारो द्रष्टव्यः । अत्रयोऽयमाज्यादिहविष उपस्पर्शनार्थो मन्त्रः, असौ मुख्य एव हविषि निविशते । पौर्णमास्यमावास्याशब्दयोर्मुख्यहविर्विषय त्वातिति प्राप्ते, ब्रूमः पौर्णमास्यभावास्यशब्दौ कर्मवाचिनौ, न तु हविर्वाचिनौ । न च कर्मणोरुपस्पर्शन संभवः । अथ कालविवक्षायां विभक्तिव्यत्ययेन सप्तम्यर्थो व्याख्यायेत, तदा कालसंबन्धस्य मुख्याङ्ग योरुभयोस्तुल्यत्वादुभयविधहविरुपस्पर्शने मन्त्रो विनियुज्यते ॥ ३,७.७८ ॥ (पञ्चमे दीक्षादक्षिणयोः प्रधानार्थताधिकरणे सूत्रे १११२) दीक्षादक्षिणं तु वचनात्प्रधानस्य । ३,७.११ । निवृत्तिदर्शनाच्च । ३,७.१२ । ____________________________________________________ ३,७.९१० पञ्चमाधिकरणमारचयति दण्डदीक्षा दक्षिणा तु शतं द्वादशमिर्युतम् । द्वयार्थमुत मुख्यार्थे सोमस्येत्युक्तिसंभवात् ॥ ३,७.९ ॥ मुख्याङ्गद्वयगं मैवं पारम्पर्यविडम्बना । वचनस्य न युक्तातः प्रधानार्थमिदं स्थितम् ॥ ३,७.१० ॥ ज्योतिष्टोमे दीक्षादक्षिणं श्रूयतेऽदण्डेन दक्षियतिऽ इति,ऽतस्य द्वादशशतं दक्षिणाऽ इति च । तत्र दीक्षा मुख्याङ्गयोरुपकरोति, तथा दक्षिणापि । न च दीक्षा सोमस्य, दक्षिणा सोमस्यऽ इति वाक्ये षष्ठ्या मुख्यसंबन्ध एवावगम्यते, न त्वङ्गसंबन्धः इति वाच्यम् । दीक्षादक्षिणे सोमनैव साक्षात्संबध्नीताम्, स सोमः पुनरङ्गैः संबद्धैति परम्परया दीक्षादक्षिणयोरङ्गैरपि संबन्धोऽस्ति । तस्मातुभयार्थे दीक्षादिकमिति प्राप्ते, ब्रूमः अव्यवहितसंबन्ध एव षष्ठ्या अभिधेयोर्ऽथः । तदसंभवे तु परम्परासंबन्धः कथंचिद्गृह्यते । इह तु तत्संभवात्पारम्पर्य न युक्तम् । तस्मात्प्रधानार्थ दीक्षादिकम् ॥ ३,७.९१० ॥ (षष्ठे अन्तवैदेर्यूपानङ्गताधिकरणे सूत्रे १३१४) तथा यूपस्य वेदिः । ३,७.१३ । देशमात्रं वा शिष्येनैकवाक्यत्वात् । ३,७.१४ । ____________________________________________________ ३,७.१११२ षष्ठाधिकरणमारचयति अन्तर्वेदि मिनोत्यर्ध यूपाङ्गमुत लक्षयेत् । देशं यूपाङ्गमावेन वेदिभागोऽत्र चोद्यते ॥ ३,७.११ ॥ बहिर्वेद्यर्धमित्येतद्वाक्यं भिद्येत तद्विधौ । मीयमानस्य यूपस्य तावान्देशोऽत्र लक्ष्यते ॥ ३,७.१२ ॥ अग्नीषोमीयपशौऽयूपं मिनोतिऽ इति प्रकृत्य श्रूयतेऽअर्धमन्तर्वेदि मिनोति, अर्ध बहिर्वेदिऽ इति । ऽयूपं स्थापयितुं कियद्विस्तारवानवटोऽपेक्षितःऽ इति बुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमङ्गुल्यादिभिर्मातव्यम् । तस्य च पीयमानस्य यूपस्य वेद्यभ्यन्तरभागोऽलङ्गत्वेनं विधीयते इति चेत् । मैवम् । यथा संस्कृतो वेद्यभ्यन्तरभागःऽअर्धमन्तर्वेदिऽ इत्यनेन वाक्येन विधीयते, तद्वद संस्कृतो बहिर्भागोऽबहिर्वेदिऽ इत्यनेन वाक्येन विधातव्यः । ततो वाक्यं भिद्येत । यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतोऽ लौकिकदेश एवात्र यूपाङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः ॥ ३,७.१११२ ॥ (सप्तमे हविर्धानस्य सामिधेन्यनङ्गताधिकरणे सूत्राणि १५१७) सामिधेनीस्तदन्वाहुरिति हविर्धानयोर्वचनात्सामिधेनीनाम् । ३,७.१५ । देशमात्रं वा प्रत्यक्षं ह्यर्थकर्म सोमस्य । ३,७.१६ । समाख्यानं च तद्वत् । ३,७.१७ । ____________________________________________________ ३,७.१३१४ सप्तमाधिकरणमारचयति हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाङ्गता । हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते ॥ ३,७.१३ ॥ वाक्यात्स्यादङ्गता मैवं प्रकृत्या पश्चिमेऽग्नितः । देशः प्राप्तो लाघवेन लक्ष्यः शकटसंनिधिः ॥ ३,७.१४ ॥ ज्योतिष्टोमे श्रूयतेऽउत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुःऽ इति । हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्या मभिधीयते । तस्य समीपे सोमस्याभिषवः । ऽउतऽ इत्ययं शब्दोऽथब्दार्थे वर्तते । ऽअथ यस्मिन्हविर्धाने सोममभिषुण्वन्ति, तस्मिन्सामिधेनीरनुब्रूयुःऽ । ऐह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते । न चात्र पूर्ववद्वाक्यभेददोषः शङ्क्यः । अकवाक्यतायाः स्पष्टं प्रतिभासातिति प्राप्ते ब्रूमः सामिधेनीनामिष्ट्यङ्गतया दर्शपूर्णमासावत्र प्रकृतिः । प्रकृतौ चाऽहवनीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम् । इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया हविर्धानस्य पश्चिमदेशावस्थानात् । स देशश्चोदकेन प्राप्तः इति न देशस्य सामिधेन्यङ्गत्वं विधातव्यम् । किंतु दक्षिणोत्तरहविर्धानसमीप देशयोरनियमेन प्राप्तौ दक्षिणस्यैव हविर्धानस्य समीपदेशः इति नियन्तुं हविर्धानेन संनिधिर्लक्ष्यते । तथा सति नियममात्रविधानाल्लाघवं भवति । त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्या त्यन्तमप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम् । तस्माद्देशलक्षणा ॥ ३,७.१३१४ ॥ (अष्टमे अङ्गानामन्यद्वारानुष्ठानाधिकरणे सूत्राणि १८२०) शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात् । ३,७.१८ । उत्सर्गे तु प्रधानत्वाच्छेषकारी प्रधानस्य तस्मादन्यः स्वयं वा स्यात् । ३,७.१९ । अन्यो वा स्यात्परिक्रयाम्नानाद्विप्रतिषेधात्प्रत्यगात्मनि । ३,७.२० । ____________________________________________________ ३,७.१५१६ अष्टमाधिकरणमारचयति यजमानेन कर्तव्यं निखिलं त्याग एव वा । कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता ॥ ३,७.१५ ॥ प्रयोजकेऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा । कार्ये तेन त्यागमात्रमृत्विजोऽन्यत्र कर्तृता ॥ ३,७.१६ ॥ ऽस्वर्गकामो यजेतऽ इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते । पाणिनिश्चऽस्वरितञितः कर्त्रभिप्राये क्रिमाफलेऽ[पा.सू.१.३.७२ ]इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति । अतः साङ्गकर्मानुष्ठानमन्तरेण फलासंभवान्निखिलं यजमानेन कर्तव्यमिति प्राप्ते ब्रूमः निखिलानुष्ठानाभावेऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति । ऽषहूभिर्हलैः कर्षतिऽ इत्यत्र तथादर्शनात् । यदि स्वेनैव सर्वमनुष्ठीयेत, तदानीमृत्विणां परिक्रयो वृथा स्यात् । तस्मात्यजमानेन त्यागमात्रं कार्यम् । अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजोऽनुष्ठानम् । तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने संभवात्तस्य फलं न विरुध्यते ॥ ३,७.१५१६ ॥ (नवमे परिक्रीतानामृत्विजां संख्याविशेषनियमाधिकरणे सूत्राणि २१२४) तत्रार्थात्कर्तृपरिमाणं स्यादनियमोऽविशेषात् । ३,७.२१ । अपि वा श्रुतिभेदात्प्रतिनामधेयं स्युः । ३,७.२२ । एकस्य कर्मभेदादिति चेत् । ३,७.२३ । नोत्पत्तौ हि । ३,७.२४ । ____________________________________________________ ३,७.१७ नवमाधिकरणमारचयति न क्रीतकर्तृसंख्याया नियमोऽसत्यस्ति वा न हि । अविशेषादस्ति यावत्कार्य तावन्त एव हि ॥ ३,७.१७ ॥ ये यजमानेन क्रीताः कर्तार ऋत्विजः, तेषां संख्याविशेषो यद्यपि न श्रुतः । तथापि कार्यानुसारेण सोऽवगन्तव्यः । ते च कार्यविशेषाः कर्तृसंयुक्ता एवं श्रूयन्तेऽपुरोऽध्वर्युर्विभजति, प्रतिप्रस्थाता मन्थिनं जुहोति, नेष्ठा पत्नीमुदानयति, उन्नेता चमसानुन्नयति, प्रस्तोता प्रस्तौति, उद्गातोद्गायति, प्रतिहर्ता प्रतिहरति, सुब्रह्मण्यः सुब्रह्मण्यामाह्वयति, होता प्रातरनुवाकमनुब्रूते, मैत्रावरूणः प्रेष्यति, अच्छावाको यजति, ग्रावस्तुद्ग्रावस्तोत्रीयमन्वाहऽ इति । एवं ब्रह्मब्राह्मणाच्छं स्याग्नीध्रपोतॄणां चतुर्णा कर्माण्युदाहार्याणि । तस्मात् यावन्ति कर्याणि तावन्त ऋत्विजो वरीतव्याः ॥ ३,७.१७ ॥ (दशमे चमसाध्वर्यूणां पृथक्त्वाधिकरणे सूत्रम्) चमसाध्वर्यवश्च तैर्व्यपदेशात् । ३,७.२५ । ____________________________________________________ ३,७.१८ दशमाधिकरणमारचयति चमसाध्वर्यवो नान्य ऋत्विभ्योऽन्येऽथवाग्निमः । यौगिक्या संज्ञया मैवं षष्ठ्या तेभ्यो विभेदनात् ॥ ३,७.१८ ॥ ज्योतिष्टोमे श्रूयतेऽचमसाध्वर्यून्वृणीतेऽ इति । ये पूर्वत्र कार्यानुसारेणाध्वर्युप्रमुखा ऋत्विज उक्ताः, तेभ्यो न व्यतिरिक्ताश्चमसाध्वर्यवः । कुतः । यौगिकसंज्ञया तदभेदप्रतीतेः । त(य)था देवदत्त एव पचिक्रियायोगात्पाचको भवति, तथाध्वर्युप्रमुखा एव चमसयोगाच्चमसाध्वर्यवः इति चेत् । मैवम् । मध्यतःकारिणां चमसाध्वर्यवः, होत्रकाणां, चमसाध्वर्यव इति अपठ्या भेदावभासात् । मध्यतःकारिणोर्ऽध्वयुहोत्रादयः । होत्रकाः प्रतिप्रस्थातृमौत्रावरुणादयः । तस्मादृत्विग्भ्योऽन्ये ॥ ३,७.१८ ॥ (एकादशे चमसाध्वर्यूणां बहुत्वनियमाधिकरणे सूत्रम्) उत्पत्तौ तु बहुश्रुतेः । ३,७.२६ । ____________________________________________________ ३,७.१९ एकादशाधिकरणमारचयति तान्वृणीतेति बहुता नास्ति वास्ति ग्रहैक्यवत् । नेति चेन्नात्र वैषम्यादुत्पत्तौ बहुताश्रुतेः ॥ ३,७.१९ ॥ ऽचमसाध्वर्यून्वृणीतऽ इति यद्बहुत्वं श्रुतम्, तन्न विवक्षितम् । ग्रहैकत्ववदुद्देश्यगतत्वातिति चेत् । मैवम् । ग्रहवैषम्यात् । ऽग्रहं संमार्ष्टिऽ इत्येतद्ग्रहाणां नोत्पत्तिवाक्यम् । चमसाध्वर्यूणां त्वेतदेवोत्पत्तिवाक्यम् । ततस्तेषामुपादेयत्वात्तद्गतं बहुत्वं विवक्षितम् ॥ ३,७.१९ ॥ (द्वादशे चमसाध्वर्यूणां दशसंख्यानियमाधिकरणे सूत्रम्) दशत्वं लिङ्गदर्शनात् । ३,७.२७ । ____________________________________________________ ३,७.२० द्वादशाधिकरणमारचयति नेयत्तास्त्यस्ति वा तेषां न नियामकवर्जनात् । चमसानां दशत्वेन चमसाध्वर्यवो दश ॥ ३,७.२० ॥ स्पष्टोर्ऽथः ॥ ३,७.२० ॥ (त्रयोदशे शमितुरपृथक्त्वाधिकरणे सूत्रे २८२९) शमिता च शब्दभेदात् । ३,७.२८ । प्रकरणाद्वोत्पत्त्यसंयोगात् । ३,७.२९ । ____________________________________________________ ३,७.२१ त्रयोदशाधिकरणमारचयति तेभ्योऽन्यः शमितानन्यो वान्यः संज्ञापृथक्त्वतः । वरणाभावतो नान्यः संज्ञाभेदस्तु यौगिकः ॥ ३,७.२१ ॥ ऽशमितार उपेत न यज्ञम्ऽ इत्यस्मिन्मन्त्रे श्रुतायाः शमितृसंज्ञायाः पृथक्त्यादुक्तेभ्योऽन्यः शमिता इति चेत् । मैवम् । पृथग्वरणाभावात् । संज्ञाभेदस्तु पशुसंज्ञपनयोगादुपपद्यते । यद्यप्ययं मन्त्रोऽध्वर्यु काण्डे पठितः, तथाप्यध्वर्योः परावृत्तिश्रवणादध्वर्युपुरुषाः प्रतिप्रस्थात्रादयः शमितारः । अत एव श्रूयतेऽपरावर्ततेऽध्वर्युः पशोः संज्ञप्यमानात्ऽ इति ॥ ३,७.२१ ॥ (चतुर्दशे उपगस्यापृथक्त्वाधिकरणे सूत्रम्) उपगाश्च लिङ्गदर्शनात् । ३,७.३० । ____________________________________________________ ३,७.२२ चतुर्दशाधिकरणमारचयति अन्ये स्युरुपगातार उदितेभ्यो न वा यथा । लोकेऽत्रापि तथा मैवं नाध्वर्युरितिलिङ्गतः ॥ ३,७.२२ ॥ यथा लोके मुख्येभ्यो गायकनायकादिभ्योऽन्ये पार्श्वस्था उपगातारः, तथात्रापि इति चेत् । मैवम् । यद्युक्तेभ्यः पुरुषेभ्य उपगातारोऽन्ये भवेयुः, तदानीमध्वर्योः प्रसक्त्यभावात्ऽनाध्वर्युरुपगायेत्ऽ इति प्रतिषेधोऽनर्थकः स्यात् । तस्मादुक्तेष्वेव यौगिकः संज्ञाभेदः ॥ ३,७.२२ ॥ (पञ्चदशे सोमविक्रेतुः पृथक्त्वाधिकरणे सूत्रम्) विक्रयी त्वन्यः कर्मणोऽचोदितत्वात् । ३,७.३१ । ____________________________________________________ ३,७.२३ पञ्चदशाधिकरणमारचयति सोमविक्रय्येक एषु न वा वरणवर्जनात् । एकः क्रत्वर्थता नास्ति विक्रयस्येति भिद्यते ॥ ३,७.२३ ॥ क्रय एव ज्योतिष्टोमाङ्गत्वेन श्रुतः, न विक्रयः । न चाविहितमृत्विजः कुर्वन्ति । तस्मादन्यो विक्रेता ॥ ३,७.२३ ॥ (षोडशेऽऋत्विक्ऽ इति नाम्नोऽसर्वगामिताधिकरणे सूत्राणि ३२३५) कर्मकार्यात्सर्वेषामृत्विक्त्वमविशेषात् । ३,७.३२ । न वा परिसंख्यानात् । ३,७.३३ । पक्षेणेति चेत् । ३,७.३४ । न सर्वेषामधिकारः । ३,७.३५ । ____________________________________________________ ३,७.२४२५ षोडशाधिकरणमारचयति किमृत्विग्नाम सर्वेषु समानमुत केषुचित् । ऋतौ यजनमेतिषां तुल्यमित्यस्ति नाम तत् ॥ ३,७.२४ ॥ सौम्याध्वरस्य सप्त स्युर्दश चेत्यादिसंख्यया । न सर्वेषां समं नाम केषांचिद्योगरूढितः ॥ ३,७.२५ ॥ ऋत्विक्शब्दस्य प्रवृत्तिनिमित्तमृतौ यजनम । तच्च ब्रह्मादिष्विव चनसाध्वर्युप्वप्यस्ति । तस्मात्सर्वेषामृत्विग्नाम समानमिति चेत् । मैवम् । संख्याश्रुतिविरोधात् । ऽसौम्यस्याध्वरस्य यज्ञक्रतोः सप्तदशर्त्विजः, इति श्रूयते । तस्मात्योगमनतिक्रम्य शास्त्रीयरूढिमप्याश्रित्य केषुचिदेवैतम्नानेत्यवगन्तव्यम् ॥ ३,७.२४२५ ॥ (सप्तदशेद्गदीक्षादक्षिणावाक्योक्तब्रह्मादीनामेव सप्तदशर्त्विक्त्वाधिकरणेद्घसूत्रे ३६३७) नियमस्तु दक्षिणाभिः श्रुतिसंयोगात् । ३,७.३६ । उक्त्वा च यजमानत्वं तेषां दीक्षाविधानात् । ३,७.३७ । ____________________________________________________ ३,७.२६ सप्तदशाधिकरणमारचयति संख्याता अपि ये केचिन्नियता वाविशेषतः । आद्यो न दक्षिणादाने दीक्षायां च विशेषतः ॥ ३,७.२६ ॥ ये सप्तदश संख्याताः, ते ब्रह्मादिषु चमसाध्वर्युषु च ये केचिदिच्छया ग्रहीतव्याः । विशेषस्याश्रवणातिति चेत् । मैवम् । दक्षिणावाक्ये दीक्षावाक्ये च विशेषश्रवणात् । ऽऋत्विग्भ्यो दक्षिणां ददातिऽ इत्युक्त्वा तद्विशेषः श्रूयतेऽअग्नीधे ददाति"ब्रह्मणे ददातिऽ इत्यादिना । दीक्षावाक्यं च तत्र प्रकरणेऽये यजमानास्त ऋत्विजःऽ इत्युक्त्वानन्तरमेव माम्नाद्यतेऽअध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति, तत उद्वातारम्, ततो होतारम्, ततस्तं प्रतिप्रस्थाता दीक्षयित्वार्धिनो दीक्षयति ब्राह्मणाच्छंसिनं ब्रह्मणः, प्रस्तोतारमुद्गातुः, मैत्रावरुणं होतुः । ततस्तं नेष्टा दीक्षयित्वा तृतीयिनो दीक्षयति अग्नीधं ब्रह्मणः, प्रतिहर्तारमुद्गातुः, अच्छावाकं होतुः । ततस्तमुन्नेता दीक्षयित्वा पादिनो दीक्षयति पोतारं ब्रह्मणः, सुब्रह्मण्यमुद्गातुः, ग्रावस्तुतं होतुः । ततस्तमन्यो ब्राह्मणो दीक्षयतिऽ इति अस्यायमर्थःऽअध्वर्युर्यजुर्वेदप्रोक्तं करोति, तस्य पुरुषास्त्रयःब्राह्मणाच्छंसी, अग्नीत्, पोता चेति । उद्गातोद्गानं करोति, तस्य पुरुषास्त्रयः प्रस्तोता, प्रतिहर्ता, सुब्रह्मण्यश्चेति । होता शंसनं करोति, तस्य पुरुषास्त्रयः मैत्रावरुणः अच्छावाकः, ग्रावस्तुदिति । चतुर्षु वर्गेषु ये प्रथमास्ते दक्षिणां संपूर्णा प्राप्नुवन्ति । ये द्वितीयास्ते तदर्ध प्राप्नुवन्ति इत्यर्धिनः । ये तृतीयास्ते तृतीयांशं प्राप्नुवन्ति इति तृतीयिनः । ये चतुर्थास्ते चतुर्थमंशं प्राप्नुवन्ति इति पादिनः । तामेतानुक्तक्रमेण स स पुरुषः संस्करोतिऽ इति । अत्र दीक्षावाक्ये निर्दिष्टा अध्वर्युप्रभृतय ऋत्विजः षोडश, न तु चमसाध्वर्यवः इति नियमो द्रष्टव्यः ॥ ३,७.२६ ॥ (अष्टादशे ऋत्विजां स्वामिसप्तदशत्वाधिकरणे सूत्रम्) स्वामिसप्तदशाः कर्मसामान्यात् । ३,७.३८ । ____________________________________________________ ३,७.२७ अष्टादशाधिकरणमारचयति सदस्ये यजमाने वा साप्तदश्यं वृतत्वतः । सदस्ये कुरुते किंचिन्नासौ स्वामिनि तत्त्वतः ॥ ३,७.२७ ॥ अध्वर्युब्रह्मादिषु षोडशसु व्यवस्थितेषु सप्तदशसंख्यापूरकः कश्चिदृत्विगवैक्षितः । सोऽत्र सदस्यो भविष्यति । सदस्यवस्थितः सदस्यः । न च तस्य वरणाभावः । केषांचिच्छाखायां तद्वरणस्याऽम्नातत्वात् । ततः साप्तदश्यं सदस्ये पर्यवसितमिति चेत् । मैवम् । असौ सदस्यः किंचिदपि न करोति । ऽसदस्य इदं कुर्यात्ऽ इति विध्यभावात् । न च विना क्रियामृतुयजननिमित्त ऋत्विक्शब्दस्तस्मिन्नवकल्पते । यजमानस्तु त्यागं करोतीति तस्मिन्नुपपद्यते । तस्मात्साप्तदश्यं यजमाने युक्तम् ॥ ३,७.२७ ॥ (एकोनविंशे आध्वर्यवादिष्वध्वर्य्वादीनां कर्तृतानियमाधिकरणे, (विंशे अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे, च सूत्राणि ३९ ३,७.४२) ते सर्वार्थाः प्रयुक्तत्वादग्नयश्च स्वकालत्वात् । ३,७.३९ । तत्संयोगात्कर्मणो व्यवस्था स्यात्संयोगस्यार्थवत्त्वात् । ३,७.४० । तस्योपदेशसमाख्यानेन निर्देशः । ३,७.४१ । तद्वच्च लिङ्गदर्शम् । ३,७.४२ । ____________________________________________________ ३,७.२८ एकोनविंशाधिकरणमारचयति न कार्य नियतं तेषां नियतं वाग्रिमो यतः । शक्ताः केन किमित्यत्र नियतिः स्यात्समाख्यया ॥ ३,७.२८ ॥ तेषामध्वर्युप्रभृतीनां कार्य न नियतम् । यतः सर्वे सर्वत्र शक्ताः । प्रकरणं च सर्वसाधारणत्वान्न नियामकमिति चेत् मैवम् । समाख्याया नियामकत्वात् । यस्मिन्कर्मणिऽआध्वर्यवम्ऽ इति समाख्या तत्कर्माध्वर्योः । एवमितरत्रापि ॥ ३,७.२८ ॥ (विंशे अग्नेः प्रकृतिविकृतिसर्वार्थताधिकरणे उक्तसूत्रैकदेशः ) अग्नयश्च (सर्वार्थाः) स्वकालत्वात् ॥ ३,७.३१ ॥ विशाधिकरणमारचयति ____________________________________________________ ३,७.२९ प्रकृत्यर्थोऽथ सर्वार्थो वह्निराद्योऽस्तु पर्णवत् । पर्णन्यायोऽतिदिष्टे स्यादुपदिष्टे तु सर्वगः ॥ ३,७.२९ ॥ यथाऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽ इत्यसौ पर्णविधिः प्रकृत्यर्थः । एवमाधानस्याप्यनारभ्या धीतत्वादाहित आहवनीयाद्यग्निः प्रकृत्यर्थः इति चेत् मैवम् । वैषम्यात् । पर्णवाक्यात्पर्णताया यावत्क्रतुप्रवेशे जुहूर्द्वारम् । सा च जुहूः प्रकृतावेव विहिता विकृतिषु सर्वत्रातिदिश्यते । आहवनीयाद्यग्नेस्तु क्रप्तुप्रदेशे द्वारं होमः । स च क्वचित्प्रकृतावेव विहितः सन्विकृतावतिदिश्यते । तद्यथाप्रयाणनारिष्ठादिहोमाः । तादृशे विषयेऽयदाहवनीये जुह्वतिऽ इति वाक्येनाग्निः प्रकृतावेव विधीयते । विकृतौ तु होमेन सहातिदिश्यते । तस्मासत्र पर्णन्यायः । यस्तु होमो विकृतावुपदिश्यते । तद्यथा सांग्रहण्यामिष्टावामनहोमः । तत्र द्वाररभूतस्य होमस्य विकृतावुपदिश्यमानतया द्वारिणोऽपि प्रकृताविव विकृतावपि वाक्येन विधिर्धारयितुमशक्यः । तस्मात्सर्वार्थो वह्निः ॥ ३,७.२९ ॥ (एकविंशे समाख्याबाधनाधिकरणे सूत्राणि ४३४५) प्रैषानुवचनं मैत्रावरुणस्योपदेशात् । ३,७.४३ । पुरोऽनुवाक्याधिकारो वा प्रैषसंनिधानात् । ३,७.४४ । प्रातरनुवाके च होतृदर्शनात् । ३,७.४५ । ____________________________________________________ ३,७.३०३१ एकविंशाधिकरणमारचयति यन्मैत्रावरुणः प्रेष्यत्यनु चाऽहेति बाधनम् । हौत्रादिकसमाख्यायास्तत्सर्वत्रोत कुत्रचित् ॥ ३,७.३० ॥ आद्योऽस्तु वचनान्मैवं साहित्योक्त्युपलम्भनात् । प्रैषानुवचने यत्र सहिते तत्र बाधनम् ॥ ३,७.३१ ॥ अग्नीषोमीयपशौ श्रूयतेऽमैत्रावरुणः प्रेष्यति चानु चाऽहऽ इति । तदेतद्वाक्यं प्रैषानुवचनयोर्मैत्रावरुणकर्तृकतां विदधाति । तेन च वाक्येन समाख्या बाध्यते । ऽअग्नये समिध्यमानायानुब्रूहिऽऽयूपायाज्यमानायानुब्रूहिऽ इत्यादिप्रैषाणामध्वर्यु कर्तृकत्वदर्शनात्ऽआध्वर्यवाः प्रैषाःऽ इत्यस्ति याज्ञिकानां समाख्या । तथा । ऽप्रवो बाजा अभिद्यवःऽऽअञ्जन्ति त्वामध्वरे देवयन्तःऽ इत्याद्यनुवचनानां होतृकर्तृकत्वदर्शनात् । ऽअनुवचनानि हौत्राणिऽ इति याज्ञिकसमाख्या । प्रैषानुवचने च द्विविधे समस्ते व्यस्ते च । पूर्वोदाहृते व्यस्ते । ऽहोतापक्षदग्निं समिधम्ऽ इत्याद्यनुवचनमन्त्रस्यान्तेऽहोतर्यजऽ इति प्रैष आम्नातः । एते प्रैषानुवचने समस्ते । तेषु च व्यस्तसमस्तप्रैषानुवचनेषु सर्वत्र प्रबलेन वाक्येन समाख्यां बाधित्वा होतृकर्तृकत्वमध्वर्युकर्तृकत्वं च परित्यज्य मैत्रावरुणकर्तृकत्वमेवाभ्युपयेमिति प्राप्ते अभिधीयतेऽप्रेष्यति चानु चाऽहऽ इति चकारद्वयेन प्रैषानुवचनयोः समुच्चयो वाक्येऽस्मिन्नुपलभ्यते । ततः समुच्चित्रयोरेव समाख्याबाधनम् । व्यस्तयोस्तु यथासमाख्यं होत्रादिकर्तृकत्वमेवाभ्युपेयम् ॥ ३,७.३०३१ ॥ (द्वाविंशे चमसहोमेऽध्वर्युचमसाध्वर्युकतृकताधिकरणे सूत्राणि ४६ ४९) चमसांश्चमसाध्वर्यवः समाख्यानात् । ३,७.४६ । अध्वर्युर्वा तन्न्यायत्वात् । ३,७.४७ । चमसे चान्यदर्शनात् । ३,७.४८ । अशक्तौ ते प्रतीयेरन् । ३,७.४९ । ____________________________________________________ ३,७.३२३३ द्वाविंशाधिकरणमारचयति चमसैश्चमसाध्वर्युर्जुहोत्यध्वर्युरेव वा । संज्ञाविशेषादाद्योऽस्तु मैवमध्वर्युसंज्ञया ॥ ३,७.३२ ॥ विशेषस्यानपेक्षत्वात्तेनान्यस्या अपेक्षणात् । अध्वर्युर्जुहुयाच्छक्तेस्तदशक्तौ परोऽपि वा ॥ ३,७.३३ ॥ ऽचमसाध्वर्युःऽ इत्येवंविधसंज्ञाविशेषाच्चमसाध्वर्यव एव चमसैर्जुहुयुः इति चेत् । मैवम् । अध्वर्युसंज्ञाया निरपेक्षत्वेन प्रबलत्वात् । केवलाध्वर्यौ चमसाध्वर्युषु चानुगतोऽध्वर्युशब्दः सामान्यरूपः । चमसशब्दस्तु चमसाध्वर्युष्वेवेति विशेषरूपः । तं च विशेषमनपेक्ष्यैवाध्वर्युशब्द ऋत्विक्संज्ञारूपेण वर्तितुं प्रभवति । चमसशब्दस्तु सामान्यवाचिनमध्वर्युशब्दमपेक्ष्यैव पुरुषेषु संज्ञा भवति । तथा सतिऽआध्वर्यवो होमःऽ इत्यनयां निरपेक्षयां प्रबलया समाख्ययाध्वर्युरेव सत्यां शक्तौ चमसैर्जुहुयात् । ग्रहहोमव्यापृतत्वेन कदाचिदशक्तौ चमसाध्वर्यवो जुहुयुः ॥ ३,७.३२३३ ॥ (त्रयोविंशे श्येनवाजपेययोरनेककर्तृकताधिकरणे सूत्रे ५०५१) वेदोपदेशात्पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः । ३,७.५० । तद्गुणाद्वा स्वधर्मः स्यादधिकारसामर्थ्यात्सहाङ्गैरव्यक्तः शेषे । ३,७.५१ । ____________________________________________________ ३,७.३४३५ त्रयोविंशाधिकरणमारचयति श्येन उद्गातृवेदोक्तो वाजपेयो यजुष्यम् । उद्गात्राध्वर्युणा कार्यौ यथाप्रकृति वाग्रिमः ॥ ३,७.३४ ॥ आख्याविशेषादाख्यायाः पूर्वभावी हि चोदकः । प्रकृताविव कर्तारस्तत्तद्धर्मे व्यवस्थिताः ॥ ३,७.३५ ॥ श्येनयागः सामवेदे समाम्नात इति तत्रत्याः सर्वे पदार्था उद्गात्रानुष्ठेयाः, बहिष्पवमानाज्यपृष्ठादिस्तोत्रेष्विवोद्गात्रत्व समाख्यायाः श्योनेऽपि समत्वात् । तथा यजुर्वेदे समाम्नातो वाजपेयः सर्वोऽप्यध्वर्युणैवानुष्ठेयः । समाख्यावशातिति प्राप्ते ब्रूमः श्येनवाजपेयौ हि ज्योतिष्टोमविकारौ । तत्र चोदकस्तत्तत्पदार्थेस्तैस्तैः पुरुषैरनुष्ठेयतया समर्पयति । अङ्गेष्वतिदिष्टेषु पष्चात्साङ्गप्रधानानुष्ठापकस्य प्रयोगवचनसाय प्रवृत्तिः । प्रयोगवचनाधीना तु समाख्यात्यन्तजघन्या । ततः प्रबलचोदकवशात्प्रकृताविव नानाविधाः कर्तारः स्वस्वधर्मेषु व्यवतिष्ठन्ते ॥ ३,७.३४३५ ॥ इति श्रीमाधवीय जैमिनीयन्यायमालविस्तरे तृतीयाध्यायस्य सप्तमः पादः _________________________________________________________________________ अथ तृतीयाध्यायस्याष्टमः पादः । (प्रथमे क्रयस्य स्वामिकर्मताधिकरणे सूत्रम् ) स्वामिकर्म परिक्रयः कर्मणस्तदर्थत्वात् । ३,८.१ । ____________________________________________________ ३,८.१२ अष्टमपादे प्रथमाधिकरणमारचयति दक्षिणादिपरिक्रीतिऋत्विजः स्वामिनोऽथवा । परिक्रयः समाख्यानादृत्विजः स्याद्यथेतरत् ॥ ३,८.१ ॥ परिक्रयात्पुराध्वर्युहोत्रादीनामभावतः । परिक्रयणकर्तृत्वं यजमानस्य नर्त्विजः ॥ ३,८.२ ॥ दक्षिणादानेन कर्मकराः परिक्रेतव्याः । तत्र हविस्त्यागव्यतिरिक्तं सर्वमार्त्विव्यमिति निर्णीतम् । दक्षिणा च द्वादशशतरूपाध्वर्युवेद उद्गातृवेदे च समाम्नातै । अन्वाहार्यदक्षिणाध्वर्युवेदे । ततः समाख्यया परिक्रतृत्वमृत्विजः इति चेत् । मैवम् । ऋत्विजां परिक्रयणोत्तरकालीनानां तत्कर्तृत्वासंभवेन यजमानस्यैव तत्कर्तृत्वात् ॥ ३,८.१२ ॥ (द्वितीये वरदानस्याध्वर्युकर्मताधिकरणे सूत्रम्) वचनादितरेषां स्यात् । ३,८.२ । ____________________________________________________ ३,८.३ द्वितीयाधिकरणमारचयति इष्टकावरदानं किं स्वामिनः स्यादुतर्त्विजः । स्वामिनः पूर्ववन्मैवमध्वर्योर्वचनादयम् ॥ ३,८.३ ॥ ऽय एतामिष्टकामुपदध्यात्, स त्रीन्वारान्दद्यात्ऽ इत्युपधातुरध्वर्योर्गोत्रयदानं वाचनिकम् । नह्वस्ति वचनस्यातिभारः ॥ ३,८.३ ॥ (तृतीये वपनादिसंस्काराणां याजमानताधिकरणे सूत्राणि ३ ८) संस्कारास्तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् । ३,८.३ । याजमानास्तु तत्प्रधानत्वात्कर्मवत् । ३,८.४ । व्यपदेशाच्च । ३,८.५ । गुणत्वेन तस्य निर्देशः । ३,८.६ । चोदनां प्रति भावाच्च । ३,८.७ । अतुल्यत्वादसमानविधानाः स्युः । ३,८.८ । ____________________________________________________ ३,८.४५ तृतीयाधिकरणमारचयति संस्कारा वपनाद्याः किमध्वर्योः स्वामिनोऽथवा । अध्वर्योस्तत्र शक्तत्वात्तद्वेदोक्तेश्च तस्य ते ॥ ३,८.४ ॥ संस्कारैर्योग्यतां प्राप्य स्वकार्य कर्तुमृत्विजः । क्रीणात्यतः क्रिया तेषां संस्क्रिया यजमानगा ॥ ३,८.५ ॥ ऽआप उन्दन्तु जीवसेऽ इत्याद्याः संस्कारमन्त्राः । तद्विधयश्चाध्वर्युवेदे समाम्नाताःऽकेशश्मश्रु वपतेऽ,ऽनखानि निकृन्ततेऽ इति । शक्तश्चाध्वर्युर्वपनादौ । तस्मात्तस्याध्वर्योस्ते वपनादिसंस्काराः इति चेत् । मैवम् । वपनादिसंस्कारा यजमानगतमालिन्यमपनीय यागयोग्यतामुत्पादयितुं क्रियन्ते । तथा च ब्राह्मणम्ऽकेशश्मश्रु वपते । मृता वा एषा त्वगमेध्या यत्केशश्मश्रु । मुतामेव त्वचममेध्यामपहत्य यज्ञियो भूत्वा मेधमुपैतिऽ इति । नह्यध्वयुवपनेन यजमानगता मृता त्वगपैति । योग्यस्य हि कर्माधिकार सति पश्चात्प्रयासरूपेषु व्यापारेषु स्वयमशक्तः सन्कर्मकरानृत्विजः परिक्रीणाति । लोकेऽपि रोगिणः स्वामिन औषधाद्यानयन एव भृत्यो जीवितदानेन परिक्रीयते । न तु तदौषधं भृत्यः सेवते । तस्मातितरक्रियर्त्विजाम्, संस्कारस्तु यजमानस्य । क्वचित्तु । वचनादृत्विजामपि संस्कारोऽस्तु ॥ ३,८.४५ ॥ (चतुर्थे तपसो याजमानताधिकरणे सूत्राणि ९११) तपश्च फलसिद्धित्वाल्लोकवत् । ३,८.९ । वाक्यशेषश्च तद्वत् । ३,८.१० । वचनादितरेषां स्यात् । ३,८.११ । ____________________________________________________ ३,८.५*६ चतुर्थाधिकरणमारचयति नाश्नाति द्वयहमित्येतत्तपः कस्य तयोर्द्वयोः । दुःखत्वाद्भोक्तृसंस्कारादध्वर्योर्युज्यते तपः ॥ ३,८.५* ॥ फलान्तरायपापस्य नाशकत्वेन संस्कृतिः । लिङ्गात्तपः स्वामिगामि संस्कारान्तरवत्ततः ॥ ३,८.६ ॥ ज्योतिष्ठोमेऽद्व्यहं नाश्नातिऽऽत्र्यहं नाश्नातिऽइत्यादिनोक्तं तपोऽघ्वर्योर्युक्तम् । तस्य दुःखात्मकत्वेन परिक्रीतपुरुषैः कर्तुमुचितत्वात् । दुःखत्वादेव फलभोक्तृसंस्कारत्वाभावाद्यजमानस्य न युक्तमिति चेत् । मैवम् । भाविनः सुखरूपस्य फलस्य प्रतिबन्धकं दुःखजनकं यत्पापं तस्य नाशकत्वेन दुःखरूपस्यापि तपसः स्वामिसंस्कारत्वसंभवात् । अस्मिन्नर्थे वाक्यशेषगतं लिङ्गं कल्पसूत्रकारेणैवमुदाहृतम्ऽयदा वै दीक्षितः कृशो भवति, अथ मेध्यो भवति । यदास्मिन्नन्तर्न किंचन भवति, अथ मेध्यो भवति । यदास्य कृष्णं चक्षुषोर्नश्यति, अथ मेध्यो भवति । यदास्य त्वचास्थि संधीयते, अथ मेध्यो भवति । पीत्वा दीक्षते, कृशो यजते । यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायतेऽ इति । न हि दुःखरूपं तपो विना दुःखप्रदं पापं नश्यति । यथा पाटनमन्तरेण विषव्रणानां नोपशान्तिः, तद्वत् । तस्मात्वपनादिसंस्कारवत्तपोऽपि यजमानस्यैव ॥ ३,८.५६ ॥ (पञ्चमे लोहितोष्णीषतादीनां सर्वर्त्विर्ग्धमताधिकरणे सूत्रम्) गुणत्वाच्च वेदेन न व्यवस्था स्यात् । ३,८.१२ । ____________________________________________________ ३,८.७८ पञ्चमाधिकरणमारचयति हिरण्यमालिताद्यास्तु संस्कारा वचनान्मताः । ऋत्विजां ते यथाख्यानं कर्तव्या निखिलैरुत ॥ ३,८.७ ॥ आद्य आख्यावशान्मैवं सर्वसंनिधिपाठतः । प्रतिमुख्यं गुणावृत्तेः कर्तव्या निखिलैरपि ॥ ३,८.८ ॥ वाजपेये श्रूयतेऽहिरण्यमालिन ऋत्विजः प्रचरन्तिऽ इति । श्येने श्रूयतेऽलोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्तिऽ इति । यद्यपि हिरण्यमालित्वादीनां संस्कारत्वाद्यजमानविषयत्वं पूर्वन्यायेन प्राप्तम्, तथापि वचनादय मृत्विक्संस्कारः । तत्र हिरण्यमालित्वं यजुर्वेदोक्तत्वादध्वर्यूणामेव, लोहितोष्णीषादिकं सामवेदोक्तत्वादुद्गातॄणामेव इति समाख्यावशादभ्युपेयमिति चेत् । मैवम् । ऽहिरण्यमालिन ऋत्विजः प्रचरन्तिऽ इति सर्वेषामृत्विजां संनिधौ पठ्यमानो हिरण्यमालित्वसंस्कारः संनिधिना समाख्यां बाधित्वा सर्वैरप्यृत्विग्भिः संबध्यते । किंच संरकार्यत्वादृत्विजां प्राधान्ये सति प्रतिप्रधानं गुणावृत्त्या सर्वेषामप्यृत्विजां हिरण्यमालित्वादिसंस्कारोऽभ्युपतेव्यः ॥ ३,८.७८ ॥ (षष्ठे वृष्टिकामनाया याजमानताधिकरणे सूत्रे १३१४) तथा कामोऽर्थसंयोगात् । ३,८.१३ । व्यपदेशादितरेषां स्यात् । ३,८.१४ । ____________________________________________________ ३,८.९१० षष्ठाधिकरणमारचयति वृष्टिकामी सदो नीचैर्मिनुयादिति कामना । अध्वर्योः स्वामिनो वाऽद्यो वाक्यान्मातुस्तदुच्यते ॥ ३,८.९ ॥ परस्मैपदतोऽध्वर्युव्यापारस्य परार्थता । प्रतीतातो वाक्यबाधे तपोवत्स्वामिनोऽस्तु तत् ॥ ३,८.१० ॥ ज्योतिष्ठोमे श्रूयतेऽयदि कामयेत वर्षुकः पर्जन्यः स्यातिति नीचैः सदो मिनुयात्ऽ इति । यथा पुरस्तात्पश्चाच्चावस्थितौ हविर्धानप्राचीनवंशावुच्चैः, तथा सदो नोच्चं, किंतु नीचैः कार्यमित्यर्थः । अत्र वृष्टिकामनाध्वर्योर्युक्ता । ऽयः कामयेत्, स मिनुयात्ऽ इति वाक्येन कामयितृमात्रोरेकत्वावगमात् । मातृत्वं चाध्वर्योरित्यबिवादम् । तस्मात्स कामयिता इति चेत् । मैवम् । ऽमिनुयात्ऽ इति परस्मैपदेनाध्वर्युव्यापारफलस्य परगामिता प्रतीयते । ततो वृष्टिलक्षणफलस्य यजमानगामित्वात्परस्मैपदश्रुत्या वाक्यं बाधित्वा कामस्य यजमानकर्तृकत्वं द्रष्टव्यम् । ऽयजमानकामितां वृष्टिं पर्जन्यः संपादयतुऽ इत्येव योऽध्वर्युः कामयते, स नीचैर्मिनुयात्, इति वाक्यं व्याख्येयम् । ऽएवंविदुद्वाताऽत्मने वा यजमानाय वा यं कामं कामयते, तमागायतिऽ इति ऋत्विजोऽपि कामः इति चेत् । तर्हि तस्मिन्नुद्गीथोपासने वचनादृत्विजोऽपि फलमस्तु ॥ ३,८.९१० ॥ (सप्तमे, आयुर्दा इत्यादिमन्त्राणां याजमानताधिकरणे सूत्रे १५१६) मन्त्राश्चाकर्मकरणास्तद्वत् । ३,८.१५ । विप्रयोगे च दर्शनात् । ३,८.१६ । ____________________________________________________ ३,८.११ सप्तमाधिकरणमारचयति आयुर्दा इति मन्त्रोक्तिः कस्याध्वर्योः समाख्यया । तद्बाधे लिङ्गतः स्वामिगामिता कामबन्मता ॥ ३,८.११ ॥ इदमाम्नायतेऽआयुर्दा अग्नेऽस्यायुर्मे देहिऽ इति । तस्यैतस्य मन्त्रस्य पाठोऽध्वर्योर्यजमानस्य वा इत्ययं संशयःऽकस्यऽ इत्यनेन पदेन सूचितः । अस्मिन्मन्त्रेऽआयुर्मे देहिऽ इति फलस्य स्वात्मसंबन्धः प्रतीयते । स च यजमानस्य युक्तः, नाध्वर्योः । तस्मात्कामवन्मन्त्रोऽपि याजमानः ॥ ३,८.११ ॥ (अष्टमे द्व्याम्नातस्योभयप्रयोज्यताधिकरणे सूत्रम्) द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् । ३,८.१७ । ____________________________________________________ ३,८.१२ अष्ठमाधिकरणमारचयति वाजस्य मेत्यमुं ब्रूयादेको द्वौ वा कृतार्थतः । एकः काण्डद्वये पाठादध्वर्युस्वामिनावुभौ ॥ ३,८.१२ ॥ दर्शपूर्णमासयोःऽवाजस्य मा प्रसवेनऽ इत्ययं मन्त्रोऽध्वर्युकाण्डे यजमानकाण्डे चाऽम्नातः । तत्रैकेन पठिते सति मन्त्रस्य चरितार्थत्वादितरस्तं न पठेतिति चेत् । मैवम् । काण्डान्तरपाठवैयर्य्थप्रसङ्गात् । तस्मादुभाभ्यां पठनीयः । तयोः पठतोराशयभेदोऽस्ति । ऽअनेन मन्त्रेण प्रकाशितमर्थमनुष्ठास्यामिऽ इत्यध्वर्युर्मनुते । ऽअत्र न प्रमदिष्यामिऽ इति यजमानः ॥ ३,८.१२ ॥ (नवमे अभिज्ञस्यैव वाचयितव्यताधिकरणे सूत्रम्) ज्ञाते च वाचनं न ह्यविद्वान् विहितोऽस्ति । ३,८.१८ । ____________________________________________________ ३,८.१३ नवमाधिकरणमारचयति वाचयेत्स्वामिनं ज्ञाज्ञौ वाचमीयौ ज्ञ एव वा । अविशेषादुभौ ज्ञस्य स्वामित्वाद्वाचयेदमुम् ॥ ३,८.१३ ॥ वाजपेये श्रूयतेऽकॢप्तीर्यजमानं वाचयतिऽ इति । ऽआर्युयज्ञेन कल्पताम्ऽ इत्यादयो मन्त्राः कॢप्तयः । तत्र मन्त्रतदर्थाभिज्ञमनभिज्ञं चोभावपि वाचयेत् । ऽविद्वासं वाचयेत्ऽ इत्येवं विशेषस्याश्रवणात् । अनभिज्ञं तदैव शिक्षयित्वापि वाचयितुं शक्यत्वातिति चेत् । मैवम् । अध्ययनविधिबलादधीतवेदस्य विदितवेदार्थस्यैव यजमानत्वात् । तस्मातभिज्ञमेव वाचयेतु ॥ ३,८.१३ ॥ (दशमे द्वादशद्वंद्वानामाध्वर्यवत्वाधिकरणे सूत्रे १९२०) याजमाने समाख्यानात्कर्माणि याजमानं स्युः । ३,८.१९ । अध्वर्युर्वा तदर्थो हि न्यायपूर्वे समाख्यानम् । ३,८.२० । ____________________________________________________ ३,८.१४१५ दशमाधिकरणमारचयति वत्सं चोपसृजेत्तद्वदुखां चाधिश्रयोदिति । द्वादशद्वंद्वकर्मैतत्स्वामिनो वेतरस्य वा ॥ ३,८.१४ ॥ आद्यः पाठात्स्वामिकाण्डे तादर्थ्येन परिक्रयात् । महाकाण्डोक्तितोऽन्त्योऽस्तु द्वंद्वतैवात्र कीर्त्यते ॥ ३,८.१५ ॥ दर्शपूर्णमासयोर्याजमाने काण्डे श्रूयतेऽद्वादश द्वंद्वानि दर्शपूर्णमासयोस्तानि संपाद्यानि इत्याहुः वत्सं चोपावसृजति, उखां चाधिश्रयतिऽ अयं च हन्ति, दृषदौ च समाहन्तिऽ इत्यादि । तत्र पलाशशाखया वत्सापाकरणमेकं कर्म, दोहनेन संपादितं क्षीरं धारयितुं पिठरस्थापनमपरं कर्म, तदेतदुभवमेकं द्वंद्वम् । तथा व्रीहीणामवघातः, दृषदुपलयोः पाषाणान्तरेण समाघातः, इत्येतदुभयं द्वितीयं द्वंद्वम् । एवं द्वादश कर्मद्वंद्वान्यनुष्ठेयान्याम्नातानि । तेषां याजमाने काण्डे पठितत्वात्समाख्यया यजमानेन तान्यनुष्ठेयानि इति प्राप्ते ब्रूमः यजमानस्य यानि कार्याणि, तान्यनुष्ठातुमेव परिक्रीता ऋत्विजः । किंच यजुर्वेदे याजमानमिदमवान्तर काण्डम्, महाकाण्डं त्वाध्वर्यवमेव । तत्रैवैते वत्सापाकरणादयो धर्मा आम्नाताः । तस्मादर्ध्वयुरेव ताननुतिष्ठेत् । याजमाने तु काण्डे न येवामनुष्ठानप्रकारश्चोदितः, किंतु परिगणनया द्वंद्वतासंपादनमात्रमाम्नातम् । तेन यजमानस्तामानुपूर्वी मनसि निधायाध्वर्योरनुष्ठाने प्रमादराहित्यमनुसंधातुं प्रभवति । तस्मादध्वर्योरेवानुष्ठानम् ॥ ३,८.१४१५ ॥ (एकादशे होतुराध्वर्यवकरणानुष्ठातृत्वाधिकरणे सूत्रम् ) विप्रतिषेधे करणः समवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात् । ३,८.२१ । ____________________________________________________ ३,८.१६१७ एकादशाधिकरणमारचयति यो होताध्वर्युरेव स्यादित्याध्वर्यवमाचरन् । हौत्रं कुर्यान्न वा त्यागहेत्वमावात्करोति तत् ॥ ३,८.१६ ॥ होतैको युगपत्कर्मद्वयं कर्तु नहि प्रभुः । त्यजोच्चोदकतः प्राप्तं हौत्रं वाचनिकार्यकृत् ॥ ३,८.१७ ॥ अग्नीषोमीयवशौऽपरिवीरसिऽ इत्यनेन करणमन्त्रेणाध्वर्युर्यूपस्य रशनया परिष्याणं करोति । तदानीं क्रियमाणं तत्परिव्यणं होताऽयुवा सुवासाःऽ इत्यनेन मन्त्रेणानुवदति । तदेतदुभयं चोदकपरम्परया कुण्डपायिनामयने प्राप्तम् । तत्राध्वर्योर्होतुश्च समास आम्नातःऽयो होता सोऽध्वर्युःऽ इति । होतारमनूष्ठा ध्वर्युत्वविधानादध्वर्युकार्ये होत्रानुष्ठेयम् । ततःऽपरिवीरसिऽ इत्यनेन करणमन्त्रेण होता यूपपरिव्याणं कुर्वीत । तदानीं स्वस्य चोदकतः प्राप्तं हौत्रमपि होता न त्यजेत् । नहि त्यागहेतुं कंचिन्निषेधं पश्यामः । तस्मात्क्रियमाणं तत्परिव्याणंऽयुवा स्त्रुषासाःऽ इत्यनेन मन्त्रेण होतानुवदेतिति प्राप्ते ब्रूमः द्वयोरध्वर्युहोत्रोरुचितं कर्मद्वयमेको होता युगपत्कर्तु न शक्नोति । ततोऽन्यतरस्यावश्यंभाविनि त्यागे चोदकतः प्राप्तं हौत्रमेव त्यजेत् । आद्वयव तुऽयो होता सोऽध्वर्युःऽ इत्यनेन प्रापितत्वादनुष्ठेयम् ॥ ३,८.१६१७ ॥ (द्वादशे प्रोक्षण्यासादनादीनामनाध्वर्यवताधिकरणे सूत्रम् ) प्रैषेषु च पराधिकारात् । ३,८.२२ । ____________________________________________________ ३,८.१८ द्वादशाधिकरणमारचयति प्रोक्षण्यासादनं कुर्यादध्वर्युरितरोऽथवा । आख्ययाऽद्यः सादयेति प्रेषितोऽन्योऽस्तु लिङ्गतः ॥ ३,८.१८ ॥ दर्शपूर्णमासयोः प्रोक्षणीनां केनचित्पात्रेण वेद्यामातादनं श्रुतम् । तदेतद्यजुर्वेदोक्तत्वादाध्वर्यमिति चेत् । मैवम् । प्रैषमन्त्रविरोधप्रसङ्गात् । ऽप्रोक्षणीरासादय । इद्मावर्हिरुपतादव । अग्नीदग्नीन्विहर । वर्हिः स्तृणीहिऽ इत्यादिष्वाध्वर्यवेषु प्रैषमन्त्रेषु श्रूयमाणमाग्नींप्रसंबोधनं मध्यमपुरुषश्चान्येन तदनुष्ठाने सत्युपपद्यते । तस्मात्नाऽध्वर्थवम् ॥ ३,८.१८ ॥ (त्रयोदशे प्रैषमन्त्राणामाध्वर्यवत्वाधिकरणे सूत्रे २३२४) अध्वर्युस्तु दर्शनात् । ३,८.२३ । गौणो वा कर्मसामान्यात् । ३,८.२४ । ____________________________________________________ ३,८.१९ त्रयोदशाधिकरणमारचयति अग्नीत्प्रेष्यदुताध्वर्युरग्नीदस्त्वविरोधतः । आख्याविरोधादध्वर्युः प्रैषद्वारार्ऽथकृद्यतः ॥ ३,८.१९ ॥ यथा प्रोक्षणीराग्नीध्र आसादयति, तथा प्रैषमन्त्रमप्याग्नीध्र एव पठतु । विरोधाभावात् इति चेत् । मैवम् । आध्वर्यवसमाख्यायाः पूर्वोदाहृतसंबोधनमध्यमपुरुषयोश्च विरोधात् । न च प्रोक्षण्यासादनादीनाम ध्वर्युकर्तृकत्वाभावेऽपि समाख्याविरोधस्तदवस्थः इति वाच्यम् । प्रैषद्वारा प्रयोजककर्तृत्वेऽपि तदविरोधात् । तस्मात् अध्वर्योरेव प्रैषमन्त्रः ॥ ३,८.१९ ॥ (चतुर्दशे द्गकरणमन्त्रेषु स्वामिफलस्याऽशासितव्यताधिकरणे (वर्चोन्याये)द्घसूत्राणि २५२७) ऋत्विक्फलं करणेष्वर्थत्वात् । ३,८.२५ । स्वामिनो वा तदर्थत्वात् । ३,८.२६ । लिङ्गदर्शनाच्च । ३,८.२७ । ____________________________________________________ ३,८.२० चतुर्दशाधिकरणमारचयति ममाग्न इति कस्यात्र फलं लिङ्गेन वक्तृगम् । श्रुत्या स्वामिनि न क्रीते लिङ्गं तत्रोपचर्यताम् ॥ ३,८.२० ॥ ऽममाग्ने वर्चो विहवेष्वस्तुऽ इत्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रोऽध्व । र्पुणा पठ्यते । ऽविशिष्टं हवनं येषां यज्ञानां ते विहवास्तेषु वर्चस्तेजसोपलक्षितं यत्फलं तन्ममास्तुऽ इत्यनेन लिङ्गेन मन्त्रमुच्चारयितुरध्वर्योस्तत्फलमिति चेत् । मैवम् । ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इत्यात्मनेपदश्रुत्या साङ्गप्रधानफलस्य यजमानगामित्वं प्रतीयते । न च परिक्रीतस्याध्वर्योर्दक्षिणातिक्तफलसंबन्धो न्याय्यः । तस्मात्श्रुतिन्यायाभ्यां विरुद्धं तल्लिङ्गं यजमानपरत्वेनोपचरणीयम् । ऽमदीययजमानस्य तद्वर्चोऽस्तुऽ इति ह्युपचारः । तस्मात्यजमानेन पाठ्येषुऽआयुर्दा अग्नेऽस्यायुर्मे देहिऽ इत्यादिषु क्रियमाणानुवादिषु प्रत्यगाशीर्मन्त्रेषु श्रुतं फलं यथा याजमानम्, तथैवाध्वर्युणा पाठ्येषु करणमन्त्रेषु श्रुतमपि फलं याजमानमेव ॥ ३,८.२० ॥ (पञ्चदशे करणमन्त्रेषु कर्मार्थफलस्यर्त्विग्धर्मताधिकरणे सूत्रम् ) कर्मार्थं तु फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् । ३,८.२८ । ____________________________________________________ ३,८.२१ पञ्चदशाधिकरणमारचयति मा मा संताप्तमित्येतत्कस्मिन्स्वामिनि पूर्ववत् । अध्वर्यावस्तु तत्तेन स्वामिकर्मोपयोगतः ॥ ३,८.२१ ॥ दर्शपूर्णमासयोराघारहोमार्थमाज्यपूर्णौ स्त्रुक्स्त्रुवौ गृहीत्वा नाभिसमीपे हस्तेन धारयते । तत्रायं करणमन्त्रोऽध्वर्युणा पठ्यते ऽअग्नाविष्णू मा वामवक्रमिवं विजिहाथां मा मा संताप्तं लोकं मे लोककृतौ कुणुतम्ऽ इति । ऽभो स्त्रुक्स्त्रुवरूपावग्नाविष्णू युवां नाभिदेशे धारयन्नहमध्वर्युर्मा वामवक्रमिषं युवयोरतिक्रमं न कृतवानस्मि । युवां च मत्तो वियुक्तौ मा भवतम् । ततो मां देहधारिणं मा संताप्तं मम देहे संतापं ज्वरादिरूपं मा कुरुतम् । स्थानकृतौ युवामाघारहोमाय स्थानं कुरुतम्ऽ इत्यर्थः । तत्र पूर्वोक्तवर्चोन्यायेन संतापाभावोऽपि यजमानस्यैव, न त्वध्वर्योः इति चेत् । मैवम् । अध्वर्यावसंतप्ते सत्यविघ्नेन स्वामिनः कर्म समाप्यते । तस्मात् अध्वयुर्गतोऽपि संतापाभावो यजमानस्यैव फलम् इति नात्र मच्छब्दस्योपचारः ॥ ३,८.२१ ॥ (षोडशे भद्रमित्यस्योभयगामिताधिकरणे सूत्रम् ) व्यपदेशाच्च । ३,८.२९ । ____________________________________________________ ३,८.२२ षोडशाधिकरणमारचयति भद्रं तन्नौ सहेत्येतत्कस्मिन्स्वामिनि युज्यते । द्वित्वश्रुत्या द्वयोरेतदध्वर्युयजमानयोः ॥ ३,८.२२ ॥ ज्योतिष्टोमे हविर्धानमण्डपे सोमाभिषवाधारयोः फलकयोरधस्ताच्चतसृष्वाग्नेय्यादिविदिक्षु चत्वार उपरवनामका गर्ता अरत्निमात्रखाता अधोभागे परस्परं मिलिता ऊर्ध्वभागे परस्परं प्रादेशमात्रव्यवहिता वर्तन्ते । तेष्वेकस्मिन्नुपरवे यजमानो दक्षिणहस्तं प्रसारयति, तथैवाध्वर्युरन्यस्मिन्स्वहस्तं प्रसार्याधस्ताद्यजमानहस्तं गृह्णाति । तदा यजमानःऽकिमत्रऽ इत्यनेन मन्त्रेण फलं पृच्छति । अध्वर्युश्चऽभद्रम्ऽ इत्यनेन मन्त्रेणोत्तरं ब्रूते । ततो यजमानःऽतन्नौ सह ऽ इत्यनेन मन्त्रेण तत्फलं स्वकीयत्वेन स्वी करोति । तस्मात्यजमानस्यैव तत् इति चेत् । मैवम् । ऽनौऽ इत्यनेन द्विवचनेन,ऽसहऽ इत्यनेन चोभयगामितयैव स्वीकारात् ॥ ३,८.२२ ॥ (सप्तदशे द्रव्यसंस्कारस्याङ्गप्रधानार्थताधिकरणे सूत्रे ३०३१) द्रव्यसंस्कारः प्रकारणाविशेषात्सर्वकर्मणाम् । ३,८.३० । निर्देशात्तु विकृतावपूर्वस्यानधिकारः । ३,८.३१ । ____________________________________________________ ३,८.२३२४ सप्तदशाधिकरणमारचयति धर्माणां प्रकृतिस्थानां विकृतावतिदेशतः । प्राप्तिर्विशेषतो वाऽद्यो विशेषस्यानिरूपणात् ॥ ३,८.२३ ॥ प्रकृतौ कार्यकृद्धर्मा विकृतौ स्युर्न चेतरे । यूपावटास्तृतिः कार्य न हि प्राकृतबर्हिषः ॥ ३,८.२४ ॥ दर्शपूर्णमासयोर्वेदिधर्मा बर्हिर्र्धमाश्च हविरासादनादयोऽङ्गप्रधानार्था इति पूर्वत्र निर्णीतम् । ते च धर्मा विकृतावतिद्दिश्यमाना नियामकाभावात्सर्वेऽप्यतिदिश्यन्तामिति प्राप्ते, ब्रूमः कार्यमत्र नियामकम् । प्रकृतौ हि हविरासादनं वेदिकार्यम् । तच्च विकृतावपि प्राप्यमाणं स्वसिद्धयेखननादीन्वेदिधर्मान्प्रापयति । यूपावटास्तरणरूपं तु कार्य न प्रकृतावस्ति । दर्शपूर्णमासयोर्यूपावटाभावात् । तर्च्चऽऽस्तरणकार्ये विकृतौ विधीयमानमप्यप्राकृतकार्यतया प्राकृताल्लंवनादीन्वर्हिः संस्कारान्न प्रापयन्ति । तस्मात्प्रकृतिगताः कार्यकृद्धर्मा एव विकृतौ प्राप्यन्ते ॥ ३,८.२३२४ ॥ (अष्टादशे पवित्रस्य परिभोजनीयबर्हिषा कर्तव्यताधिकरणे सूत्रम्) विरोधे च श्रुतिविशेषादव्यक्तः शेषे । ३,८.३२ । ____________________________________________________ ३,८.२५ अष्टादशाधिकरणमारचयति यद्वर्हिस्तत्पवित्रार्थ न वाऽद्यस्तस्य संभवात् । संस्कृतं स्तरणे क्षीणं पवित्रं त्वन्यतो भवेत् ॥ ३,८.२५ ॥ दर्शपूर्णमासयोरामनन्तिऽसमावप्रच्छिन्नाग्नौ दर्मौ प्रादेशमात्रौ पवित्रे करोतिऽ इति । तत्र यदेतद्वेदिस्तरणार्थ लवनसंस्कृतं बर्हिः, तेन पवित्रसंभवादास्तरणवत्पवित्रमपि बर्हिपः कार्यम् इति चेत् । मैवम् । आस्तरण एव संस्कृतस्य सर्वस्य बर्हिष उपक्षीणत्वात् । न हिऽवेदिं स्तृणातिऽ इति विहितस्य स्तरणस्याकस्माद्बर्हिरेकदेशे संकोचो युक्तः । तस्मात्यथा यूपावटमसंस्कृतेन बर्हिषा स्तृणाति, तथा पवित्रनिष्पत्तिरपि शास्त्रीयलवनादिसंस्काररहितैः परिभोजनीयनामकैर्दर्भेः संपादनीया ॥ ३,८.२५ ॥ (एकोनविंशे प्राकृतपुरोडाशादीनां निधानाधिकरणे सूत्रम्) अपनयस्त्वेकदेशस्य विद्यमानसंयोगात् । ३,८.३३ । ____________________________________________________ ३,८.२६२७ एकोनविंशाधिकरणमारचयति पुरोडाशस्य शकलमैन्द्रवायवपात्रके । अवदध्यात्पुरोडाशो नवोऽथ सवनीयकः ॥ ३,८.२६ ॥ सिद्धस्य यजनार्तत्वान्नवं संपाद्य तत्क्रिया । सवनीयेन तत्कार्ये संस्कार्यत्वाद्द्वितीयया ॥ ३,८.२७ ॥ ज्योतिष्टोमे श्रूयते ऽपुरोडाशशकलमैन्द्रवायवस्य पात्रे निदधातिऽ इति । तत्र स्त्रवनीयपुरोडाशस्य शकलं यद्यपि निष्पन्नम्, तथापि तस्य यजमार्थत्वेन संस्कृतबर्हिर्बदुपक्षयान्नूतनं कंचित्पुरोडाशं संपाद्य तदीयशफलस्यैन्द्रवायवपात्रप्रक्षेपक्रिया कर्तव्या इति चेत् । मैवम् । सवनीयपुरोडाशशकलेनैतन्निधानं कर्तव्यम् । कुतः । संस्कार्यत्वात् । ऽशकलं निदधातिऽ इति द्वितीयया संस्कार्यत्वं गम्यते । इष्टशिष्टस्य हि प्रतिपत्तिरूपः संस्कारः । न चात्र कृत्स्नं यजनार्थम् । अवदानस्येयत्तपापुरोडाशभागस्यावशेषितत्वात् । यथात्र पूर्वसिद्धपुरोडाशशकलम्, तथाऽधाना आश्चिनपात्रेऽऽपयस्यां मैत्रावरुणपात्रेऽ इत्यत्रापि पूर्वशेषस्यैव प्रक्षेपः ॥ ३,८.२६२७ ॥ (विंशे ताम्येष्टिपूपांशुत्वधर्मस्य प्रधानार्थताधिकरणे सूत्रे ३४३५) विकृतौ सर्वार्थः शेषः प्रकृतित्वात् । ३,८.३४ । मुख्यार्थो वाङ्गस्याचोदितत्वात् । ३,८.३५ । ____________________________________________________ ३,८.२८२९ विंशाधिकरणमारचयति काम्या उपांशु यष्ठव्याः किं तदङ्गप्रधानयोः । प्रधान एव वा नात्र विशेषोक्तिरतो द्वयोः ॥ ३,८.२८ ॥ मुख्यानामेव काम्यत्वात्तेष्वेव परिचोदना । अङ्गानामतथाभावादुपांशुत्वं प्रधानगम् ॥ ३,८.२९ ॥ इदमाम्नायते ऽयज्ञाथर्वणं वै काम्या इष्टयः, ता उपांशु षष्टव्याःऽ इति । अथर्ववेदोक्तकर्मवद्यज्ञेषु काम्या इष्टयो गोम्याः । तस्मात्तासामुपांशुत्वं युक्तमित्यर्थः । यथा वेदिधर्माणां बर्हिर्र्धमाणां चाङ्गप्रधानयोः समानो विधिः, तथोपांशुत्वस्यापि । नह्यत्र कश्चिद्विशेष आम्नातः इति चेत् । मैवम् । काम्यत्वस्यैवात्र विशेषनियामेकत्वात् । न त्वङ्गानां काम्यत्वमस्ति । करणपौष्कल्यसंपादकानां तेषां फले साक्षात्संबन्धाभावात् । ततः साक्षात्फलसाधने प्रधान एवोपांशुत्वम् । अङ्गेषु तु तत्तद्वेदानुसारेण ध्वनिविशेषः ॥ ३,८.२८२९ ॥ (एकविंशे श्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि ३६३८) संनिधानाविशेषादसंभवे तदङ्गानाम् । ३,८.३६ । आधानेऽपि तथेति चेत् । ३,८.३७ । नाप्रकरणत्वादङ्गस्यातन्निमित्तत्वात् । ३,८.३८ । ____________________________________________________ ३,८.३०३१ एकविंशाधिकरणमारचयति नवनीतं श्येन आज्यं मुख्येऽङ्गे वास्तु मुख्यगम् । विधेयमाज्यमप्रप्तं दृतिस्थनवनीतकम् ॥ ३,८.३० ॥ मुख्यः सोमविकारोऽङ्गे चोदकप्राप्तमाज्यकम् । अनूद्य दृतिसंस्थानं नवनीतगुणो विधिः ॥ ३,८.३१ ॥ श्येने श्रूयते ऽदृतिनवनीतमाज्यं भवतिऽ इति । दृतौ चिरं संगृहीतं नवनीतं यस्याऽज्यस्य प्रकृतिद्रव्यं तदेतदीदृशमाज्यं मानान्तरेण पूर्वमप्राप्तत्वात्प्रधानकर्मणि विधेयमिति चेत् । मैवम् । प्रधानश्येनस्य सोमयागविकारत्वेनाऽज्यापेक्षाया अभावात् । अङ्गेष्विष्टिविशेषेषु चोदकप्राप्तस्याऽज्यस्य प्रकृतिद्रव्यत्वेन यथोक्तनवनीतगुणो विधीयते ॥ ३,८.३०३१ ॥ (द्वाविंशे सर्वश्येनाङ्गानां नवनीताज्यताधिकरणे सूत्राणि ३९४१) तत्काले वा लिङ्गदर्शनात् । ३,८.३९ । सर्वेषां वाविशेषात् । ३,८.४० । न्यायोक्ते लिङ्गदर्शनम् । ३,८.४१ । ____________________________________________________ ३,८.३२ द्वाविंशाधिकरणमारचयति सुत्याकालगताङ्गेषु गुणः सर्वेषु वोदितः । आद्यो वैशेषिकाङ्गत्वाद्वाक्यात्सर्वाङ्गसंगतिः ॥ ३,८.३२ ॥ योऽयं श्येनस्याङ्गेषु दृतिनवनीतत्वगुणो विहितः सोऽयं सुत्याकालीनेष्वेव सवनीयपशुतत्पुरोडाशरूपेष्वङ्गेषु, न तु कालान्तरवर्तिदीक्षणीयाद्यङ्गेषु । विमतो गुणः सुत्याकालीनाङ्गमात्रगः, श्येनवैशेषिकत्वात्, पशुसाहित्यवत् । यथाऽसह पशूनालभतेऽ इति विहितं पशुसाहित्यं श्येन एव विशेषत्वेनोच्यमानं सुत्याकालीनेष्वेव सवनीयपशुष्ववस्थितम्, तथा नवनीतमपि इति प्राप्ते ब्रूमःऽयदाज्यं तद्दृतिनवनीतम्ऽ इतिवाक्येन सर्वाङ्गताज्यविषयत्वप्रतीतावनुमानं कालात्ययापदिष्टम् । तस्मात्सर्वेष्वङ्गेषु तन्नवनीतम् ॥ ३,८.३२ ॥ (त्रयोविंशे सवनीयानां मांसमयताधिकरणे सूत्राणि ४२४४) मांसं तु सवनीयानां चोदनाविशेषात् । ३,८.४२ । भक्तिरसंनिधावन्याय्येति चेत् । ३,८.४३ । स्यात्प्रकृतिलिङ्गाद्वैराजवत् । ३,८.४४ । ____________________________________________________ ३,८.३३३४ त्रयोविंशाधिकरणमारचयति शाक्यायने पुरोडाशास्तरसा इति मांसता । सर्वत्र सवनीये वा सर्वत्र नवनीतवत् ॥ ३,८.३३ ॥ तरसाः सवनीयाः स्युरिति तत्संनिधिः श्रुतः । पुरोडाशस्य मांसत्वं तेष्वेवातो नियम्यते ॥ ३,८.३४ ॥ षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् । तत्र श्रूयते संस्थितोऽहनि गृहपतिर्मृगयां याति, स यान्मृगान्हन्ति, तेषां तरसाः सवमीयाः पुरोडाशा भवन्तिऽ इति । तत्र यथा नवनीतं सर्वेष्वङ्गेषु निविष्टम्, तथा मांसत्वमपि सर्वेषु पुरोडाशेषु निविशते इति चेत् । मैवम् । तदा हिऽये पुरोडाशास्ते तरसाःऽ इति वचनव्यक्तौ व्यवहितान्वयः स्यात् । तरसशब्दपुरोडाशशब्दयोर्मध्ये सवनीयशब्देन व्यवधानात् । इह तुऽतरसाः सवनीयाःऽ इत्यनयोः संनिधिः श्रूयते । तथा सतिऽये सवनीयास्ते तरसाःऽ इत्यनेन संनिध्यनुगृहीतेन वाक्येन मांसत्वं सवनीयपुरोडाशेष्वेव नियम्यते ॥ ३,८.३३३४ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे तृतीयाध्यायस्याष्टमः पादः समाप्तश्चायं तृतीयोऽध्यायः अथ चतुर्थाध्यायस्य प्रथमः पादः । ____________________________________________________ ४,१.१ शेषशेषित्वसिद्धौ किं प्रयोज्यं किं प्रयोजकम् । इत्यपेक्षोदयाद्वक्ति चतुर्थ तप्रत्युक्तये ॥ ४,१.१ ॥ अनेन तृतीय चतुर्थयोरध्याययोः पूर्वोत्तरभाव उपपादितः ॥ ४,१.१ ॥ (प्रथमे प्रतिज्ञाधिकरणे सूत्रम्) अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा । ४,१.१ । ____________________________________________________ ४,१.२३ चतुर्थाध्यायस्य प्रथमपादे प्रथमाधिकरणमारचयति चिन्ता न कार्या कार्या वा क्रत्वर्थपुरुषार्थयोः । अफलत्वान्न कर्तव्या प्रयुक्तौक्रियतामियम् ॥ ४,१.२ ॥ क्वचिदेतद्विचारेण क्वचित्फलविधेर्वशात् । क्वचित्साक्षादिहाध्याये प्रयुक्तिर्बहुधोच्यते ॥ ४,१.३ ॥ ऽक्रत्वर्थोऽयम्, पुरुषार्थोऽयम्ऽ इति विवेकस्य प्रयोजनं किमपि न पश्यामः । तस्मात्काकदन्तविचारवदयं विचार उपेक्षणीयः इति चेत् । मैवम् । तेन विचारेण प्रयुक्तेर्ज्ञातुं शक्यत्वात् । साक्षाद्वा परम्परया वा प्रयुक्तिनिर्णयोपयुक्तं सर्वमिह चिन्तनीयम् ॥ ४,१.२३ ॥ (द्वितीये क्रत्वर्थपुरुषार्थलक्षणाधिकरणे सूत्रम्) यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् । ४,१.२ । ____________________________________________________ ४,१.४ द्वितीयाधिकरणे प्रथमवर्णकमारचयति क्रत्वर्थादेर्नास्ति वास्ति लक्ष्म नास्त्यनिरूपणात् । क्रतवे यस्तदर्थोऽसाविति तस्य निरूपणम् ॥ ४,१.४ ॥ ऽक्रतावनुष्ठेयः क्रत्वर्थःऽ इत्युक्ते गोदोहनादावतिव्याप्तिः । ऽपुरुषेणार्थ्यमानः पुरुषार्थःऽ इत्युक्ते प्रयाजादीनामप्यनुष्ठेयतया पुरुषेणार्थ्यमानत्वादतिव्याप्तिः । तस्मात्तयोरद्रुष्टं लक्षणं दुर्निरूपम इति चेत् । मैवम् । ऋतुस्वरूपपौष्कल्यायैव यो विधीयते स क्रत्वर्थः । प्रयाजादयस्तादृशाः । नहि प्रयाजादिमिः पुरुषस्य कश्चित्प्रीतिविशेष उत्पद्यते, येनैते पुरुषार्था भवेयुः । दर्शपूर्णमासक्रतुस्तु तैः प्रयाजादिभिः फलजननसामर्थ्यलक्षणं पौष्कल्यं प्राप्नोति । तस्मात्ते क्रत्वर्थाः । पुरुषप्रीतये विधीयमानः पुरुषार्थः । दर्शपूर्णमासादयो गोदोहनादयश्च तादृशाः । न हि दर्शपूर्णमासाभ्या कस्यचित्क्रतोः पौष्कस्यं भवति । त्रयोरेव क्रतुत्वात् । नापि गोदोहनं क्रत्वर्थम् । तदभावेऽपि चमसेन क्रतुपौष्कल्यसिद्धिः । तस्मात्सुनिरूपणं तदुभयलक्षणम् ॥ ४,१.४ ॥ ____________________________________________________ ४,१.५ द्वितीयवर्णकमारचयति फलं विधेयं नो वाऽद्यो भावनांशत्वतोऽन्यवत् । न भाव्यांशो विधेयः स्याद्रागात्तत्र प्रवर्तनात् ॥ ४,१.५ ॥ ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति स्वर्गः फलत्वेन श्रूयते । तत्रविमतं फलं विधेयम्, भावनांशत्वात्, करणवत्, इतिकर्तव्यतावच्च इति चेत् । मैवम् । अप्रवृत्तप्रवर्तनं हि विधानम् । फलं तु पुरुषः सौन्दर्य जामन्स्वयं रागादेव प्रवृत्तः इति व्यर्थस्तत्र विधिः ॥ ४,१.५ ॥ ____________________________________________________ ४,१.६ तृतीयवर्णकमारचयति गोदोहनं द्वयार्थ स्याम्न वा भानाद्द्वयार्थता । अन्यथापि क्रतोः सिद्धिःकेवलं पुरुषाय तत् ॥ ४,१.६ ॥ दर्शपूर्णमासयोः श्रूयतेऽचमसेनापः प्रणयेद्गोदोहनेन पशुकामस्यऽ इति । तत्र गोदोहनस्य क्रत्वर्थत्वं पुरुषार्थत्वं च, इत्याकारद्वयमस्ति पशुफलजनमेन पुरुषप्रीतिर्भाति, अपां प्रणयनेन क्रतुपौष्कल्यमपि भाति इति चेत् । मैवम् । गोदोहनमन्तरेण फलासिद्धिर्भवतु पुरुषार्थत्वम् । क्रतुस्तु तदभावेऽपि चमसेन सिध्यतीति न क्रत्वर्थता ॥ ४,१.६ ॥ ____________________________________________________ ४,१.७ चतुर्थवर्णकमारचयति द्रव्यार्णनं स्यात्क्रत्वर्थ पुमर्थ वा क्रताविदम् । नियतत्वात्पुमर्थत्वं दृष्टं क्रत्वर्थताऽर्थिकी ॥ ४,१.७ ॥ ब्राह्मणस्य द्रव्यार्जने प्रतिग्रहयाजनाध्यापनान्येव नियतानि तत्र तत्र श्रुतानि, राजन्यस्य जयादिकम्, वैश्यस्य कृष्यादिकम्, शूद्रस्य सेवादिकम् । तच्च यदेतद्द्रव्यसंपादनं तदेतत्क्रत्वर्थम् । कुतः । अर्जनोपायानां नियतत्वात् । पुरुषप्रीतेस्तु येन केनापि द्रव्येण सिद्धत्वादर्जनोपायनियमस्तत्र निरर्थकः । क्रतौ तु नियमापूर्व परमापूर्वापयोगीति सार्थको नियमः इति प्राप्ते । ब्रूमः द्रव्यार्जने रागः प्रवर्तको दृष्ट इति न विधिरपेक्ष्यते । फलं च क्षुन्निवृत्त्यादिरूपं दृष्टमेव । अत एव स्मर्यते ऽषण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ इत । क्रत्वर्थत्वे तु जीवनाभावात्क्रतुरेव न सिध्येत् । पुरुषार्थतायां स्वैहिकप्रीतिकारिभोजनादिवत्क्रतोरामुष्मिकप्रीतिकारितया पुरुषार्थष्वन्तर्भावात्क्रत्वर्थताप्यार्थिकी सिध्यति । उपायनियमस्तूपायान्तरेषु प्रत्यवायविवक्षयोपपद्यते । तस्मात्द्रव्यार्जनं पुरुषार्थम् ॥ ४,१.७ ॥ (तृतीये प्रजापतिव्रतानां पुरुषार्थताधिकरणे सूत्राणि ३६) तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान्न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात्क्रियायां पुरुषश्रुतिः । ४,१.३ । अविशेषात्तु शास्त्रस्य यथाश्रुति फलानि स्युः । ४,१.४ । अपि वा कारणाग्रहणे तदर्थमर्थस्यानभिसंबन्धात् । ४,१.५ । तथा च लोकभूतेषु । ४,१.६ । ____________________________________________________ ४,१.८९ तृतीयाधिकरणमारचयति नेक्षेतोद्यन्तमादित्यं क्रत्वर्थ तन्न वाग्रिमः । फलस्याकल्पनीयत्वात्क्रतौ प्राप्तं निषिध्यते ॥ ४,१.८ ॥ व्रतोक्त्या पर्युदासत्वे संकल्पोऽनीक्षणेऽत्र सः । न क्रत्वङ्गसमानत्वात्पुमर्थः पापहानये ॥ ४,१.९ ॥ अनारभ्य श्रूयतेऽनेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचनऽ इति । अत्र नञ्पदमभिधावृत्त्या प्रतिषेधं ब्रूते, न तु पर्युदासम् । प्रतिषेधश्च प्राप्तिपूर्वकः । प्राप्तिश्च वैदिकस्य निपेधस्य वैदिकी प्रत्यासन्ना । तथा सति क्रतौ यत्राऽदित्येक्षणं विहितम्, तत्रायं निषेध उदयास्तमयोद्देशेन प्रवर्तते । एवं च सति फलं न कल्पनीयम् । पर्युदासमाश्रित्य पुरुषार्थत्वाङ्गीकारेऽधिकारसिद्धये फलं कल्पनीयं स्यात् । तस्मात्क्रत्वर्थो निषेधः इति प्राप्ते ब्रूमःऽतस्य व्रतम्ऽ इत्युपक्तम्यऽनेक्षेतोद्यन्तमादित्यम्ऽ इत्याम्नातत्वादनीक्षणरूपं किंचिदनुष्ठेयम् । तच्च पर्युदासत्वे सत्यवकल्पते । ईक्षणस्याभावः प्रतिषेधपक्षे नञर्थः । पर्युदासपक्षे त्वीक्षणादितरः संकल्पो नञ्पदेन लक्ष्यते । स च संकल्पोऽत्रानुष्ठेयव्रतत्वेन विधीयते । यद्यपीक्षणादितरे बहवो व्यापारा अनुष्ठानयोग्याः सन्ति, तथापि कायिकवाचिकव्यापारविशेषस्याप्रतीयमानत्वात्, मानसव्यापारस्यावर्जनीयत्वाच्च संकल्प एव परिशिष्यते । संकल्पनीयश्चार्थः प्रत्यासत्त्या धात्वर्थनिषेधः । तथा सतिऽउद्यन्तम्, अस्तं यन्तं चाऽदित्यं नेक्षिष्येऽ इत्येवंरूपः संकल्पोऽत्रानुष्ठेयत्वेन विधीयते । न च तस्य संकल्पस्य क्रत्वङ्गत्वम् । तद्बोधकश्रुतिलिङ्गादिप्रमाणाभावात् । न च पुरुषार्थत्वेऽपि प्रमाणाभावः । ऽएतावता हैनसा मुक्तो भवतिऽ इत्यनेन वाक्येनेक्षितुः पुरुषस्य प्रत्यवायसंबन्धमुपन्यस्य तत्प्रत्यवायनिवारणफलकस्यानीक्षणसंकल्पस्य विधानेन पुरुषार्थत्वावगमात् । क्रत्वङ्गत्वविवक्षायां तु क्रतुवैकल्यरूपो विपक्षबाध उपन्यस्येत । तस्मातनीक्षणसंकल्पादीनि प्रजापतिव्रतानि पुरुषार्थानि ॥ ४,१.८९ ॥ (चतुर्थे यज्ञायुधानामनुवादताधिकरणे सूत्राणि ७१०) द्रव्याणि त्वविशेषेणानर्थक्यात्प्रदीयेरन् । ४,१.७ । स्वेन त्वर्थेन सम्बन्धो द्रव्याणां पृथगर्थत्वात्तस्माद्यथाश्रुति स्युः । ४,१.८ । चोद्यन्ते चार्थकथासु । ४,१.९ । लिङ्गदर्शनाच्च । ४,१.१० । ____________________________________________________ ४,१.१०११ चतुर्थाधिकरणमारचयति दश यज्ञायुधानीति हविष्ट्वेन विधिर्न वा । आद्योऽप्राप्तेः पुरोडाशे समुच्चयविकल्पते ॥ ४,१.१० ॥ सार्धमुत्पत्तिशिष्टेन विकल्पादिर्न युज्यते । स्फ्येनोद्धन्तीति यत्प्राप्तं तदत्रानूद्य संस्तवः ॥ ४,१.११ ॥ दर्शपूर्णमासयोःऽस्फ्यश्च कपालानि चऽ इत्याद्युपक्रम्यऽएतानि वै दशयज्ञायुधानिऽ इत्याम्नातम् । तानि चात्र हविष्ट्वेन विधीयन्ते । कुतः । मानान्तरैरप्राप्तत्वेनापूर्वार्थत्वात् । यदि तत्र पुरोडाशो हविर्भवत्, तदा तेन सहैतेषां समुच्चयो विकल्पो वास्तु इति प्राप्ते, । ब्रूमःऽआग्नेयोऽष्टाकपालःऽ इत्युत्पत्तिशिष्टेन पुरोडाशेन सह पश्चाच्छिष्टानामायुधानां विकल्पः समुच्चयो वा न संभवति । आयुधत्वं यज्ञसाधनत्वम् । तच्चऽस्फ्येनोद्धन्ति, कपालेषु श्रपयतिऽ इत्यादिशास्त्रसिद्धमेवात्रानूद्यऽयज्ञायुधानि संभरतिऽ इत्येष संभरणविधिः स्तूयते । तस्मात्नास्ति हविष्ट्वम् ॥ ४,१.१०११ ॥ (पञ्चमे पश्वेकत्वाधिकरणे सूत्राणि १११६) तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात् । ४,१.११ । एकश्रुतित्वाच्च । ४,१.१२ । प्रतीयत इति चेत् । ४,१.१३ । नाशब्दं तत्प्रमाणत्वात्पूर्ववत् । ४,१.१४ । शब्दवत्तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् । ४,१.१५ । तद्वच्च लिङ्गदर्शनम् । ४,१.१६ । ____________________________________________________ ४,१.१२१३ पञ्चमाधिकरणमारचयति पशुरालभ्य इत्यत्र पश्वैक्ये यजनाङ्गता । नास्त्यस्ति वाऽद्यः स्वपदे श्रुत्या पश्वङ्गतागतेः ॥ ४,१.१२ ॥ आदौ स्वप्रत्ययोपात्त आसन्नतरकारके । योगः क्रतौ पशौ चेति क्रमे यागाङ्गतोचिता ॥ ४,१.१३ ॥ ऽअग्नीषोमीयं पशुमालभेतऽ इत्यत्र पशोरेकत्वं यजनाङ्गं न भवति । तस्य श्रुत्या पशुसंबन्धावगमात् । ऽपशुम्ऽ इत्येतस्मिन्नेव पदे पशुतदेकत्वयोः श्रवणात्पदान्तरनैरपेक्ष्येण परस्परसंबन्धोऽवगम्यते । यागस्तुऽआलभेतऽ इत्यनेन पदान्तरेणोपात्तः । तत्र वाक्येन संबन्धावगतिः । वाक्याच्च श्रुतिर्बलीयसी । तत एकत्वस्य यागाङ्गत्वाभावाद्द्वाभ्यां बहुभिर्वा यागोऽनुष्ठातुं शक्यते इति प्राप्ते, ब्रूमःऽपशुम्ऽ इति पदं यद्यप्येकम्, तथापि प्रकृत्या पशुर्मिर्दिष्टः । प्रत्ययेन कारकत्वम्, एकत्वं च, इत्युभयं निर्दिष्टम् । तत एकत्वस्याऽसन्नतरे कारके प्रथमं संबन्धो भवति । कारकत्वं नाम क्रियाहेतुत्वम् । तथा सति कारकद्वारा क्रियायामपि संबन्धः प्रत्ययेनैवावगतः । क्रियाविशेषश्च संनिहितपदान्तरोपात्तो याग इति यजनाङ्गत्वमेकत्वस्य सिध्यति । तच्चैकत्वं स्वयममूर्ततया यागक्रियां निष्पादयितुमसमर्थ सत्तत्र समर्थे पशुद्रव्यं पश्चादवच्छिनत्ति । तत एकत्वस्य यागाङ्गत्वान्न द्वाभ्यां त्रिभिर्वा यागसिद्धिः । एवम्ऽअनड्वाहौ युनक्तिऽऽवसन्ताय कपिञ्जलानालभतेऽ इत्यत्र द्वित्वबहुत्वयोर्विवक्षितत्वं द्रष्टव्यम् ॥ ४,१.१२१३ ॥ (षष्ठे पशुलिङ्गविवक्षाधिकरणे सूत्रम्) तथा च लिङ्गम् । ४,१.१७ । ____________________________________________________ ४,१.१४ षष्ठाधिकरणमारचयति न पुंलिङ्गे विवक्षा वा विवक्षानुपयोगतः । आद्योऽनुष्ठित्यपेक्षत्वात्संख्यावत्तद्विवक्ष्यताम् ॥ ४,१.१४ ॥ ऽपशुमालभेतऽ इत्यत्र पशुपदे पुंलिङ्गमविवक्षितम् । कुतः । शब्दार्थविचारेऽनुष्ठानविचारे च तदुपयोगादर्शनात् । अलिङ्गेऽपि वृक्षपदार्थे पुंलिङ्गो वृक्षशब्दः प्रयुज्यते । तथा पुंव्यक्तावपि स्त्रीलिङ्गो मक्षिकाशब्दः प्रयुक्तः । ततो न लिङ्गस्य शब्दार्थत्वेन विवक्षास्ति । अनुष्ठानमपि पुंव्यक्तिस्त्रीव्यक्त्योः समानम् । एकत्वावच्छिन्नपशुत्वे वैषम्याभावात् । तस्मातविवक्षितं लिङ्गमिति प्राप्ते, ब्रूमः यथा पशुत्वजातिः, यथा वा तदेकत्वम्, वृद्धव्यवहारेऽन्वयव्यतिरेकाभ्यामनन्यथासिद्धाभ्यां शब्दार्थः, तथा लिङ्गस्यापि कुतः शब्दार्थता न स्यात् । वृक्षमक्षिकाशब्दयोस्तु न वयमर्थतः साधुतां ब्रूमः, किंत्वभियुक्तप्रयोगमात्रबलेन साधुत्वम् । न चानुष्ठाने साम्यम् । अपुंस्पशौ विशेषसद्भावात् । ऽवाक्त आप्यायताम्ऽ इत्यादिभिर्मन्त्रैस्तत्तदवयवानामाप्यायमनकालेऽमेढ्रं तु आध्यायताम्ऽ इति मन्त्रेण तदवयवस्याऽप्यायनश्रवणात् । तस्मातेकत्ववत्पुंलिङ्गमपि विवक्षितम् ॥ ४,१.१४ ॥ (सप्तमे आश्रयिणामदृष्टार्थताधिकरणे सूत्राणि १८२०) आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत । ४,१.१८ । चोदनायां त्वनारम्भो विभक्तत्वान्न ह्यन्येन विधीयते । ४,१.१९ । स्याद्वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतत्वाश्रयाद्विगुणीभावः । ४,१.२० । ____________________________________________________ ४,१.१५१६ सप्तमाधिकरणमारचयति स्विष्टकृत्संस्कृतौ क्षीण उतापूर्वोपयोग्यपि । प्रयोजनैक्यमेकस्मिन्युक्तं कर्मण्यतः क्षयः ॥ ४,१.१५ ॥ मन्त्रेण देवसंस्कारः प्रक्षेपाठ्द्रव्यसंस्कृतिः । त्यागादपूर्वमुत्पन्नं प्रधानापूर्वगं च तत् ॥ ४,१.१६ ॥ योऽयं स्विष्टकृद्यागः सोऽयमुपयुक्तहविःसंस्कारः इत्यविवादम् । तत्र संस्कारस्य दृष्टप्रयोजनत्वेनावश्यंभावे सति तावतैवोपक्षीणः स्विष्टकृद्यागो नापूर्वस्योपकरोति । न ह्येकस्मिन्कर्मणि प्रयोजनद्वयं युक्तमिति प्राप्ते, ब्रूमः कर्मण एकत्वेऽप्यंशभेदात्प्रयोजनभेदो न विरुध्यते । मन्त्रपाठः, द्रव्यप्रक्षेपः, देवतोद्देशेन त्यागश्च, इति त्रयोंऽशाः । तत्र त्यागेन परमापूर्वोपयुक्तमवान्तरापूर्वमुत्पद्यते । तस्मात्स्विष्टकृदुभयार्थः । एवमन्त्यप्रयाजपशुपुरोडाशावप्युदहार्यै ॥ ४,१.१५१६ ॥ (अष्टमे प्रयुक्तिविचारप्रतिज्ञाधिकरणे सूत्रम्) अर्थे समवैषम्यतो द्रव्यकर्मणाम् । ४,१.२१ । ____________________________________________________ ४,१.१७ अष्टमाधिकरणमारचयति शेषत्वमुपरिग्रन्थे चिन्तनीयमुतेतरत् । शेषो मानान्न तस्यात्र प्रयुक्त्याख्यफलेरणात् ॥ ४,१.१७ ॥ वक्ष्यमाणेष्वधिकरणेषु शेषत्वमेव चिन्ताविषयः । यथा अतीतेष्वधिकरणेषु क्रतुशेषोऽयम्, पुरुषशेषोऽयम्, इति चिन्तितम्, तद्वत् । कुतः । उपरितनग्रन्थेन तत्र तत्र पर्णादीनां शेषत्वविचारस्य भासमानत्वातिति चेत् । मैवम् । शेषत्वस्य यत्प्रयुक्तिरूपं फलं तदेव प्राधान्येन विचार्यते । शेषत्वं तु तदुपयोगित्वेनेति न तद्विचारः प्रधानभूतः ॥ ४,१.१७ ॥ (नवमे आमिक्षाप्रयुक्तताधिकरणे (वाजिनन्याये) सूत्राणि २२२४) एकनिष्पत्तेः सर्वं समं स्यात् । ४,१.२२ । संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् । ४,१.२३ । मुख्यशब्दाभिसंस्तवाच्च । ४,१.२४ । ____________________________________________________ ४,१.१८१९ नवमाधिकरणमारचयति आमिक्षा वाजिनं च स्याद्दध्यानीतेः प्रयोजकम् । उताऽमिक्षैव सामर्थ्य द्वयोस्तुल्यं ततोऽग्निमः ॥ ४,१.१८ ॥ आमक्षी पय एवात्र तच्छब्दान्मन्त्रतो रसात् । प्रयोजिकैका प्रधान्यादनुनिष्पादि वाजिनम् ॥ ४,१.१९ ॥ इदमाम्नायतेऽतप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्ऽ इति । तत्रपयसि दधिप्रक्षेपादामिक्षाद्रव्यं यथा निष्पद्यते, तथा वाजिनद्रव्यमपिऽ इति दध्यानयनस्य जनकत्वसामर्थ्यमुभयद्रव्यविषयं तुल्यमेव । तस्मातुभयमपि प्रयोजकमिति प्राप्ते, ब्रूमःऽन द्रव्यान्तरमामिक्षा, किं तु पय एवऽ इति तच्छब्दादिभिरवगम्यते । ऽयस्मिन्पयसि दधिप्रक्षेपः, साऽमिक्षाऽ इति तच्छब्देन पयः परामृश्यते । आमिक्षायागस्य पुरोनुवाक्यायामेवमाम्नातम्ऽजुपन्तां युज्यं पयःऽ इति । पयोरसश्च मधुर आमिक्षायामनुवर्तते, न तु वाजिने । ततः प्राधान्येन पयसो वनीभावावस्थां जनयितुं दध्यानीतमित्यामिक्षैव प्रयोजिका । अनुनिष्पाद्येव वाजिनम्, न तु प्रयोजकम् ॥ ४,१.१८१९ ॥ (दशमे गवानयनस्य पदकर्माप्रयुक्तताधिकरणे सूत्रम्) पदकर्माप्रयोजकं नयनस्य परार्थत्वात् । ४,१.२५ । ____________________________________________________ ४,१.२०२१ दशमाधिकरणमारचयति सोमक्रयण्यानयने पदकर्म प्रयोजकम् । न वाऽद्योऽक्षाञ्जनस्यापि क्रयवत्संनिकर्षतः ॥ ४,१.२० ॥ तृतीयया क्रयार्था गौस्तद्द्वाराऽनयनस्य च । तादर्थ्यत्तत्प्रयुक्तं तन्न प्रयोजकता पदे ॥ ४,१.२१ ॥ ज्योतिष्टोमे सोमक्रय आघ्नायतेऽएकहायन्या क्रीणातिऽ इति । सेवमेकहायनी गौर्यदा सोमं क्रेतुमानीयते, तदाध्वर्युस्तस्याः पृष्ठतोऽनुगच्छति । तदप्याम्नातम्ऽषट्पदान्यनुनिष्क्रामतिऽ इति । ततः सप्तमे पदे हिरण्यं निधाय हुत्वा तत्पदगतं रजो गृह्णीयात् । एतदपि श्रूयतेऽसप्तमं पदमध्वर्युरञ्जलिना गृह्णातिऽ इति । तदेतद्रजः संगृह्य हविर्धानयोः शकटयोरक्षे तेन रजसां संयुक्तमञ्जनं प्रक्षिपेत् । एतदपि श्रुतम्ऽयज्ञं वा एतत्संभरन्ति यत्सोमक्रयण्यै पदम्ऽ इति प्रस्तुत्यऽयर्हि हविर्धाने प्राची प्रवर्तयेयुः, तर्हि तेनाक्षमुपाञ्ज्यात्ऽ इति । तत्र यथा क्रयः संनिकृष्टः, तथैव पदकर्माप्यक्षाञ्जनं संनिकृष्टम् । अथोच्येत दध्यानयनमामिक्षया यथा संयुक्तम्, न तथाक्षाञ्जनं सोमक्रयण्यानयनेन संयुक्तमिति । तन्न । क्रयेऽपि तदसंयोगस्य तुल्यत्वात् । अथ असंयुक्तोऽपि क्रयो गवानयनेन निष्पद्यते । तर्ह्यक्षाञ्जनमपि तेन निष्पद्यते इति समानत्वात् । क्रयवत्पदकर्मापि सोमक्रयण्यानयनस्य प्रयोजकमिति प्राप्ते, ब्रूमःऽएकहायन्या क्रीणातिऽ इति तृतीयाश्रुत्या गोः क्रयार्थता गम्यते । गोद्वारा तदानयनमपि क्रयार्थमेवेति क्रय एवाऽनयने प्रयोजकः । न च पदकर्मार्थत्वं गोर्वा तदानयनस्य वा क्वचिच्छ्रुतम् । तस्मात्तदप्रयोजकम् ॥ ४,१.२०२१ ॥ (एकादशे कपालानां तुषोपवापाप्रयुक्तताधिकरणे सूत्रम् । ) अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात्तदर्थो हि विधीयते । ४,१.२६ । ____________________________________________________ ४,१.२२२३ एकादशाधिकरणमारचयति श्रपणं तुषवापश्च कपालस्य प्रयोजकौ । उत श्चपणमेवाऽद्यो वापार्थत्वात्तृतीयया ॥ ४,१.२२ ॥ पुरोडाशकपालेतिनाम्ना स्याच्छ्रपणार्थता । प्रयुक्तस्य प्रयुक्तिर्नो तस्य वापे प्रसञ्जनम् ॥ ४,१.२३ ॥ ऽकपालेषु श्रपयतिऽ इति श्रपणं पुरोडाशस्य श्रुतम् । तथाऽपुरोडाशकपालेन तुषानुपवपतिऽ इति कपाले तुषधारणं श्रुतम् । ते च तुषाः सकपालाःऽरक्षसां भागोऽसिऽ इति मन्त्रेण नैऋत्यां दिश्यवस्थापनीयाः । तत्र श्रपणं यथा कपालसंपादस्य प्रयोजकम्, तथा तुषवापोऽपि प्रयोजकः । ऽएकहायम्याऽ इति तृतीययैकहायनीनयनस्य यथा क्रयार्थत्वावगमः तथाऽकपालेनऽ इति तृतीयया कपालस्य तुषवापार्थत्वावगमात् इति चेत् । मैवम् । नात्र कपालमात्रस्य तुषोपवापसाधनत्वं श्रुतम् । किं तर्हि यत्कपालं पुरोडाशश्रपणायोपात्तमासादितं च, तस्य कपालस्य साधनत्वम् । एतच्चऽपुरोडाशकपालेनऽ इति सविशेषणनाम्ना तद्विधानादवगम्यते । तथा सति प्रथं श्रपणेन कपालं प्रयुज्यने । न च प्रयुक्तस्य पुनस्तुषवापेन प्रयुक्तिः संभवति । तस्मात्श्रपणेनैव प्रयुक्तं कपालं तुषोपवापेऽपि प्रसङ्गात्सिध्यति । ईदृशमेवाङ्गत्वं तृतीयाश्रुत्या बोध्यते ॥ ४,१.२२२३ ॥ (द्वादशे शकृल्लोहितयोः पशावप्रयोक्तृताधिकरणे सूत्रम्) पशावनालम्भाल्लोहितशकृतोरकर्मत्वम् । ४,१.२७ । ____________________________________________________ ४,१.२४२५ द्वादशाधिकरणमारचयति हृदादिः शकृदादिश्च पश्वालम्भप्रयोजकः । हृदादिरेव वाऽद्योऽस्तु प्रकृतत्वेन साम्यतः ॥ ४,१.२४ ॥ हविषो वागशेषत्वाद्धृदादेर्हविरात्मनः । प्रयोजकत्वं तस्यैव नेतरस्यातथात्वतः ॥ ४,१.२५ ॥ अग्नीषोमीयपशौ श्रुतम्"हृदयस्याग्रेऽवद्यति, अथ जिह्वायाः, अथ वक्षसः,"इति । तथान्यदपि श्रुतम्ऽशकृत्संप्रविध्यतिऽऽलोहितं निरस्यतिऽ इति । तत्र हृदयादीनां शकृदादीनां च प्रकरणपाठसाम्यात्पशुसाध्यत्वसाम्याञ्च हृदयादिवच्छकृदादिकमपि पश्वालम्भस्य प्रयोजकमिति चेत् । मैवम् । पशुयागो हि हविःसाध्यः । हविष्ट्वं चात्तुं योग्यत्वाद्धृदयादीनामेव, नत्वयोग्ययोः शकृल्लोहितयोः । तस्माथृदयादिरेव प्रयोजकः । शकृत्संप्रबेधो लोहितनिरसनं चेत्येतदुभयं शेषप्रतिपत्तिमात्रम् ॥ ४,१.२४२५ ॥ (त्रयोदशे पुरोडाशस्य स्विष्टकृदप्रयुक्तताधिकरणे सुत्राणि २८३२) एकदेशद्रव्यश्चोत्पत्तौ विद्यमानसंयोगात् । ४,१.२८ । निर्देशात्तस्यान्यदर्थादिति चेत् । ४,१.२९ । न शेषसंनिधानात् । ४,१.३० । कर्मकार्यात् । ४,१.३१ । लिङ्गदर्शनाच्च । ४,१.३२ । ____________________________________________________ ४,१.२६२७ त्रयोदशाधिकरणमारचयति प्रयोजकः स्विष्टकृत्किं पुरोडाशोत्तरार्धयोः । यद्वा प्रयुक्तोपजीवी स्यादाद्यः स्वस्य सिद्धये ॥ ४,१.२६ ॥ उत्तरार्धेतिशब्दस्य प्रकृताकाङ्क्षणे सति । अग्न्याद्यर्थ पुरोडाशमुपजीव्यैष वर्तताम् ॥ ४,१.२७ ॥ दर्शपूर्णमासयोः श्रूयतेऽउत्तरार्धात्स्विष्टकृते समवद्यतिऽ इति । सोऽयं स्विष्टकृद्यागः कस्यचिन्नूतनस्य तदुत्तरार्धस्य च प्रयोजकः । तदुभयाभावे स्वसिद्ध्यभावातिति चेत् । मैवम् । उत्तरशब्दोर्ऽधशब्दश्च सर्वनामत्वाद्भागवाचित्वाच्च प्रकृतं कंचिद्भाणिनमाराभ्क्षकः । अग्न्यादिदेवतार्थः पुरोडाशः प्रकृता भागवांश्च । तस्मात्तमेवोपजीव्य स्विष्टकृद्यागः प्रवर्तते । न त्वन्यस्य प्रयोजकः ॥ ४,१.२६२७ ॥ (चतुर्दशे अभिघारणे शेषधारणतत्पात्रयोरननुष्ठानाधिकरणे सूत्राणि ३३३९) अभिघारणे विप्रकर्षादनुयाजवत्पात्रभेदः स्यात् । ४,१.३३ । न वापात्रत्वादपात्रत्वं त्वेकदेशत्वात् । ४,१.३४ । हेतुत्वाच्च सहप्रयोगस्य । ४,१.३५ । अभावदर्शनाच्च । ४,१.३६ । सति सव्यवचनम् । ४,१.३७ । न तस्येति चेत् । ४,१.३८ । स्यात्तस्य मुख्यत्वात् । ४,१.३९ । ____________________________________________________ ४,१.२८२९ चतुर्दशाधिकरणमारचयति अभिघार्य प्रयाजानां शेषेण हविरत्र किम् । शेषधारणतत्पात्रे कार्ये नो वाभिघारणम् ॥ ४,१.२८ ॥ नान्यथा तेन ते कार्ये न कार्ये प्रतिपत्तितः । प्राजापत्यवपायाश्च न कोऽप्यर्थोऽभिधारणात् ॥ ४,१.२९ ॥ प्रकृतौ श्रुतम्ऽप्रयाजशेषेण हवींष्यभिधारयतिऽ इति । तदेतद्विकृतावतिदिष्टम् । विकृतयश्च वाजपेयगताः पशवः । ते च द्विविधाः क्रतुपशवः प्राजापत्यपशवश्चेति । ऽआग्नेयं पशुमालभतेऽ इत्यादिना विहिताः क्रतुपशवः । इतरे तुऽसप्तदश प्राजापत्यान्पशूनालभतेऽ इति विहिताः । एते चोभयविधाः पशवः प्रातःसवने सहैवोपक्रम्यन्ते । ततः सर्वेषामर्थे सकृदेव प्रयाजा अनुष्ठीयन्ते । तत्र क्रतुपशूनां प्रातःसवन एवाऽलब्धव्यत्वात्तदीयहविषां प्रयाजशेषेणाभिधारणं निर्विघ्नमेव सिध्यति । प्राजापत्यपशूनां पर्यग्निकरणपर्यन्तमेव तदानीमनुष्ठानम् । आलम्भस्तु माध्यंदिने सवने, तत्कालविशेषस्यऽब्रह्मसाम्न्यालभतेऽ इति विधानात् । तेषां च प्राजापत्यादीनां हविषामभिधारणार्थ प्रातःकालीनः प्रयाजशेषो धारयितव्यः । न चात्र जुह्वां तद्धारणं संभवति । क्रतुपश्वनुष्ठाने जुह्वाया व्यापृतत्वात् । अतः पात्रान्तरं संताद्य तस्मिन्नयं शेषो धारयितव्यः । अन्यथा प्राजापत्यहविषां प्रयाजशेषेणाभिधारणात्सिद्धिः । तस्मात्शेषधारणतत्पात्रे संपादनीये इति प्राप्ते ब्रूमः ते उभे न कर्तव्ये । कुतः । अभिधारणस्य शेषप्रतिपत्तिरूपत्वेन हविःसंस्कारकत्वाभावत्त् । न हि दृष्टे प्रतिपादने सत्यदृष्टार्थः संस्कारो युक्तः । दृष्टं च जुह्वा रिक्तीकरणम् । अन्यथा प्रयाजशेषोपेतायां जुह्वामाज्यभागार्थतया गृह्यमाणं संकीर्येत । ततो रिक्तीकरणरूपपप्रतिपत्त्यर्थमेव प्रकृतौ शेषेणाभिधारणम् । अस्तु वा तत्र हविःसंस्कारोऽपि तथापि प्राजापत्यवपायामभिधारणं व्यर्थम् । रूक्षत्वनिवारणाय ह्यभिधार्यते । न च प्राजापत्यवपाया रूक्षतास्ति । ब्रह्मसाम्नैवतद्रूक्षताया निवारितत्वात् । अत एव श्रूयतेऽशम्या वा एतर्हि वपा यर्ह्यनभिधृता । ब्रह्म वै ब्रह्मसाम यद्ब्रह्मसाम्न्यालभते । तेनाशम्यास्तेनाभिधृताः इति । शम्या रूक्षैत्यर्थः । तस्मात्शेषधारणतत्प्रात्रे न कर्तव्ये ॥ ४,१.२८२९ ॥ (पञ्चदशे समानयनस्याऽज्यधर्मप्रयोजकताधिकरणे सूत्रे ४०४१) समानयनं तु मुख्यं स्याल्लिङ्गदर्शनात् । ४,१.४० । वचने हि हेत्वसामर्थ्ये । ४,१.४१ । ____________________________________________________ ४,१.३०३२ पञ्चदशाधिकरणमारचयति चतुर्थस्य प्रयाजस्य होमायौपभृतं घृतम् । जुह्वामानयतीत्यौपभृतं नैषां प्रयोजयेत् ॥ ४,१.३० ॥ प्रयोजयेदुताऽनीतिः प्रयाजाद्यखिलार्थता । श्रुतौपभृत आज्येऽतो जौहवेन विकल्पनात् ॥ ४,१.३१ ॥ न प्रयोजकता मैवं नियतार्थ तु जौहवम् । अतिहायेड इत्युक्ते चतुर्थे सा प्रयोजयेत् ॥ ४,१.३२ ॥ दर्शपूर्णमासयोः श्रूयतेऽअतिहायेडो बर्हिः प्रतिसमानयति जुह्वामौपभृतम्ऽ इति । अस्यायमर्थःऽपञ्चामां प्रयाजानां मध्ये तृतीयः प्रयाज इट्शब्देन बहुवचनान्तेनाभिधीयते । तं तृतीयं प्रयोजमतिक्रम्य बर्हिर्नामकं चतुर्थ प्रयाजं होतुमुपभृत्संज्ञकायां स्त्रुचि स्थितं घृतं जुह्वामानेतव्यम्ऽ इति । तदेतदानयनमुपभृत्याज्यग्रहणस्य न प्रयोजकम् । तथा हि जुहूपभृद्ध्रुवासु तिसृषु स्त्रुक्ष्वाज्यग्रहणप्रकारस्तद्विनियोगश्चैवमाम्नायते चतुर्जुह्वां गृह्णाति, अष्टावुपभृति,ऽऽचतुघ्रुवायां,ऽ यज्जुह्वां गृह्णाति, प्रयाजेभ्यस्तत्"यदुपभृति प्रयाजामुयाजेभ्यस्तत्ऽऽसर्वस्मै वा एतद्यज्ञाय गृह्यते यद्ध्रुवायामाज्यम्ऽ इति । तत्र जौहवं केवलप्रयाजार्थम् । औपभृतं तु प्रयाजानुयाजार्थामिति प्रयाजेषु जौहवमौपभृतं च विकल्पते । तथा सति यदा जौहवेन प्रयाजा इज्यन्ते तदानीमौपभृतस्याऽनयनमेव मास्ति, कुत आनयनस्य प्रयोजकत्वम् । यदा त्वौपभृतेन प्रयाजहोमः, तदानीमौपभृतस्यर्ध पञ्चप्रयाजार्थम्, इतरदनुयाजार्थम् । तयोः प्रयाजसाधनमर्थ प्रथमप्रयाजकाल एव जुह्वामानीतमिति न तस्य चतुर्थप्रयाजं प्रति समानयनं विधीयते । यत्त्वनुयाजार्थमितरदर्धमुपभृत्यवशिष्टम्, तन्मध्ये किंचिच्चतुर्थप्रयाजं प्रति समानेतव्यम् । तत्त्वनुयाजैरेव प्रयुक्तमिति न तस्याऽनयनं प्रयोजकमिति प्राप्ते ब्रूमःऽयज्जौहवं तत्प्रयाजत्रितयार्थम्, यत्त्वौपभृतं तदवशिष्टप्रयाजद्वयार्थमनुयाजार्थ चऽ इत्येवं वाक्यद्वयस्य व्यवस्थायां संभवन्त्यामष्टदोषग्रस्तो विकल्पो नाऽश्रयितुं शक्यः । यदा जौहवस्वीकारः, तदानीमौपभृतवाक्यस्य प्राप्तं प्रामाण्यं परित्यज्येत, अप्राप्तमप्रामाण्यं स्वी क्रियेत, पुनरपि कदाचिदौपभृतस्वीकारे त्यक्तं प्रामाण्यं स्वीक्रियेत, स्वीकृतमप्रामाण्यं परित्यज्येत, इत्यौपभृतवाक्ये चत्वारो दोषः । जौहववाक्येऽप्येवं चत्वारः, इत्यष्टौ दोषाः । यथोक्तव्यवस्था चऽअतिहायेडऽ इतिवाक्यादध्यवसीयते । तथा सत्यौपभृतस्यानुयाजा यथा प्रयोजकाः, तथैव चतुर्थपञ्चमप्रयाजनिष्पादकमानयनमपि प्रयोजकमेव ॥ ४,१.३०३२ ॥ (षोडशे औपभृतजौहवयोः क्रमेणोभयानुभयार्थताधिकरणे सूत्राणि ४२४५) तत्रोत्पत्तिरविभक्ता स्यात् । ४,१.४२ । तत्र जौहवमनुयाजप्रतिषेधार्थम् । ४,१.४३ । औपभृतं तथेति चेत् । ४,१.४४ । स्याज्जुहूप्रतिषेधान्नित्यानुवादः । ४,१.४५ । ____________________________________________________ ४,१.३३३४ षोडशाधिकरणमारचयति जुहूपभृद्ध्रुवास्वाज्यं सर्वार्थ वा व्यवस्थितिः । सर्वार्थमविशेषात्स्यत्प्रयाजार्थ हि जौहवम् ॥ ४,१.३३ ॥ प्रयाजानुयाजहेतुः स्यादौपभृतभाज्यकम् । ध्रौवमग्न्यार्थमित्येषा व्यवस्था वचनैर्मता ॥ ४,१.३४ ॥ ऽचतुर्जुह्वां गृह्णातिऽ इत्यादिषु ग्रहणवाक्येषुऽएतदर्थम्ऽ इति विशेषनियामकस्याश्रवणात्पात्रत्रयगतमाज्यं सर्वार्थमिति चेत् । मैवम् । ऽयज्जुह्वां गृह्णाति प्रयाजेभ्यस्तत्ऽ इत्यादिभिर्वाक्यैर्व्यवस्थावगमात् ॥ ४,१.३३३४ ॥ (सप्तदशे उपभृति द्विचतुर्गृहीताचरणाधिकरणे सूत्राणि ४६४८) तदष्टसंख्यं श्रवणात् । ४,१.४६ । अनुग्रहाच्च जौहवस्य । ४,१.४७ । द्वयोस्तु हेतुसामर्थयं श्रवणं च समानयने । ४,१.४८ । ____________________________________________________ ४,१.३५३६ सप्तदशाधिकरणमारचयति अष्टावुपभृतीत्यत्र किमष्टैकग्रहे विधिः । चतुर्द्वयग्रहे वाऽद्यः स्यादष्टश्रुतिमुख्यतः ॥ ४,१.३५ ॥ चतुर्गृहीतं होमाङ्गं फलवत्त्वान्न बाध्यते । चतुर्द्वित्वं लक्ष्यतेऽतः सहानीत्यर्थयष्टता ॥ ४,१.३६ ॥ ग्रहणवाक्येऽचतुर्जुह्वां गृह्णातिऽ इत्यत्र यथा चतुःसंख्याविशिष्टमेकं हविर्ग्रहणं विहितम्, तथैवऽअष्टावुपभृतिऽ इत्यत्राप्यष्टसंख्याविशिष्टमेकं हविग्रहणं विधातव्यम्ऽ न तु चतुर्गृहीतद्वयम् । तथा सत्यष्टश्रुतेर्मुख्यत्वावगमात् । अष्टसंख्यावयवभूतयोर्द्वयोश्चतुःसंख्ययोर्विधाने सत्यष्टशब्दस्यावयवलक्षणा प्रसज्येत इति प्राप्ते ब्रूमः प्रसज्यतां नाम लक्षण । मुख्यार्थस्वीकारे होमवाक्यविरोधापत्तेः । ऽचतुर्गृहीतं जुह्रोतिऽ इत्यनारभ्य श्रुतं वाक्यं होममात्रोद्देशेन चतुर्गृहीतं विदधाति । यद्यप्येतत्सर्वहोमविषयतया सामान्यरूपम्, औपभृतं तु प्रयाजानुयाजविषयतया विशेषरूपम्, तथापि होमस्य फलवत्त्वेन प्राधान्यात्, ग्रहणस्य होमार्थत्वेनोपसर्जनत्वात्, प्रधानानुसारेण चतुर्गृहीतमेव युक्तम्, न तूपसर्जनानुसारेणाष्टगृहीतम् । तस्मातुपभृति चतुर्गृहीतद्वयं विधीयते । तत्रैकं चतुर्गृहीतं हविश्चतुर्थपञ्चमप्रयाजार्थम् । अपरं त्वनुयाजार्थम् । नन्वेवं तर्हि चतुर्गृहीतस्यैव हविष्ट्वात्ऽचतुरुपभृतिऽ इत्येव विधातव्यम्, न तुऽअष्टावुपभृतिऽ इति विधिर्युक्तः इति चेत् । मैवम् । तथा सत्यनुयाजार्थ द्वितीयं चतुर्गृहीतं न सिध्येत् । अथ तदपि वाक्यान्तरेण विधीयते, तदानीमुपभृतः प्रथमेन चतुर्गृहीतेनावरुद्धत्वाद्द्वितीयस्मै पात्रान्तरमन्विष्येत । यदिऽउपभृतिऽ इत्येव द्वितीयमपि चतुर्गृहीतं विधीयते, तदा चतुर्गृहीतद्वयस्य पृथगेवानुष्ठानादुपभृत्येकप्रयत्नेनाऽनयनं न सिध्येत् । अत उभयस्य समीपभूम्यानयनार्थम्ऽअष्टावुपभृतिऽ इत्युच्यते । तस्मात्साहित्यार्थमष्टशब्दप्रयोगेऽपि इविष्ट्वसिद्धये चतुर्गृहीते अत्र विधीयेते ॥ ४,१.३५३६ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य प्रथमः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः । (प्रथमे स्वरोश्र्छेदनाद्यप्रयोजकताधिकरणे सूत्राणि १६) स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात् । ४,२.१ । जात्यन्तराच्च शङ्कते । ४,२.२ । तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् । ४,२.३ । शकलश्रुतेश्च । ४,२.४ । प्रतियूपं च दर्शनात् । ४,२.५ । आदाने करोतिशब्दः । ४,२.६ । ____________________________________________________ ४,२.१२ द्वितीये पादे प्रथमाधिकरणमारचयति स्वरुं कुरुत इत्यत्र स्वरुर्यूपात्पृथक्छिदाम् । प्रयोजयोन्न वाऽद्योऽस्तु विशिष्टस्य विधानतः ॥ ४,२.१ ॥ आद्यस्य यूपखण्डस्य स्वरुत्वाख्यविशेषणे । विहिते लाघवं तस्मादनुनिष्पन्न एव सः ॥ ४,२.२ ॥ अग्नीषोमीयपशौ श्रूयतेऽयूपस्य स्वरुं करोतिऽ इति । तत्र यूपो यथा छेदनस्य प्रयोजकः, तथा स्वरुरपि च्छेदनं प्रयोजयति । कुतःऽकरोतिऽ इत्यनेन विशिष्टविधिप्रतीतेः । करोतिधातोर्हि भावना मुख्योर्ऽथः । तत्र यूपशब्दोपलक्षितः स्वादिरवृक्षः करणम् । छेदनादिरितिकर्तव्यता,ऽछिम्नेन वृक्षेण स्वरुरुत्पादनीयःऽ इति विशिष्टविधिः । उत्पन्नस्य स्वरोर्विनियोग एवमाम्नातःऽस्वरुणा पशुमनक्तिऽ इति । तस्मात्स्वरुश्छेदनस्य प्रयोजकः इति प्राप्ते ब्रूमःऽछिद्यमानस्य यूपस्य यः प्रथमं पत्तितः शकलः स स्वरुःऽ इति स्वरुत्वनाममात्रविधौ लाघवाद्यूपवत्स्वरुर्नच्छेदनस्य प्रयोजकः । किंतु यूपप्रयुक्ते छेदने स्वयमनुनिष्पद्यते ॥ ४,२.१२ ॥ (द्वितीये शाखाया आहार्यताधिकरणे सूत्रम् ) शाखायां तत्प्रधानत्वात् । ४,२.७ । ____________________________________________________ ४,२.३ द्वितीयाधिकरणमारचयति प्राचीमाहरतीत्यत्र दिक्शाखा वास्तु दिक्श्रुतैः । आहार्यत्वं दिशो नास्ति शाखा तेनोपलक्ष्यते ॥ ४,२.३ ॥ दर्शपूर्णमासयोःऽयत्पलाशशाखया वत्सानवाकरोतिऽ इति पलाशशाखां प्रकृत्य श्रूयतेऽयत्प्राचीमाहरेत्, देवलोकमभिजयेत्ऽ इति । तत्र प्राचीशब्दस्य दिग्वाचित्वाद्दिगाहरणं विधीयत इति चेत् । मैवम् । अशक्यत्वात् । अतो वृक्षस्य प्राची शाखात्रोपलक्ष्यते । तथा सति प्रकृतानुग्रहो भवति ॥ ४,२.३ ॥ (तृतीये छेदनस्य शाखाप्रयुक्तताधिकरणे सूत्रे ८९) शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद्वैषम्यं तत् । ४,२.८ । श्रुत्यपायाच्च । ४,२.९ । ____________________________________________________ ४,२.४६ तृतीयाधिकरणमारचयति शाखां छित्त्वोपवेषं च मूले कुर्वीत शाखया । नुदेद्वत्साम्कपालानि स्थापयेदुपवेषतः ॥ ४,२.४ ॥ द्वयं प्रयोजकं छित्तेर्वत्सापाकृतिरेव वा । आद्योऽग्रमूलयोरत्र विभज्य विनियोगतः ॥ ४,२.५ ॥ उपवेषं करोतीति साकाङ्क्षोऽन्यार्थमूलतः । पूर्यतेऽतोऽनुनिष्पादी स तस्माद्युज्यतेऽन्तिमः ॥ ४,२.६ ॥ दर्शपूर्णमासयोः श्रूयतेऽमूलतः शाखां परिवास्योपवेषं करोतिऽ इति । येयं पलाशशाखां छित्त्वा वक्षादाहृता, तां पुनश्छित्त्वा मूलभागः प्रादेशपरिमित उपवेषः कार्यः । तयोरग्रमूलयोः शाखाभागयोः पृथग्विनियोग आम्नातःऽशाखया वत्सानपाकरोति । उपवेषेण कपालान्युपदधातिऽ इति । तदिदं कार्यद्वयं वृक्षच्छेदेन समाहृतया शाखया निष्पद्यते । तस्मातुभयमपि च्छेदनाहरणादेः प्रयोजकमिति चेत् । मैवम् । ऽउपवेषं करोतिऽ इत्युक्तेऽकेन द्रव्येण इत्याकाङ्क्षायांऽमूलतःऽ इति वक्तव्यम् । पुनरपिऽकस्य मूलम्ऽ इत्याकाङ्क्षायांऽवत्सापाकरणार्थ छिन्नायाः पलाशशाखाया मूलम्ऽ इत्याकाङ्क्षा पूरणीया । तस्माच्छेदने वत्सापाकरणमेव प्रयोजकम् । उपवेषस्त्वनुनिष्पादी । ननुआद्यच्छेदने तथास्तु, द्वितीयच्छेदनस्योपवेषः प्रयोजकः । परिवासनसंपन्नेन मूलेनोपवेषकर्तव्यताविधानात् । अन्यथाऽपरिवास्योपवेषं करोतिऽ इति समानकर्तृत्वपूर्वकालत्ववाचिनो स्थप्प्रत्ययस्यानुपपत्तेः, इति चेत् । मैवम् । परिवासनस्योपवेषसंबन्धो वाक्येन प्रतीयते । शाखासंबन्धस्तुऽशाखाम्ऽ इति द्वितीयाश्रुत्या । पूर्वच्छिन्नाया अपि शाखायाः पुनर्मूलापादानकचश्छेदोऽपेक्षितः । अन्यथा समूलां शाखां हस्तेनोद्यम्य वत्सापाकरणं दुःशकं स्यात् । अत एवऽमूलतःऽ इत्यपादाने पञ्चमौ श्रुता । तथा सति प्रथमच्छेदनापादानभूतो वृक्षोऽसंस्कृतत्वाद्यथा लौकिकः, तथा द्वितीयच्छेदनापादानभूतं मूलमपि लौकिककाष्ठम् । अवश्यमङ्गारेषु कपालोपधाने कस्यचित्काष्ठस्योपादानमर्थात्प्राप्तं तदेवात्रऽउपवेषं करोतिऽ इत्यनूद्यते । शाखां परिवास्य परित्यक्ते मूले संनिहिते सति कपालोपधानार्थ काष्ठान्तरान्वेषणप्रयासो न कर्तव्यः इति वाक्यार्थः । एवं च सति दोहनरहितायां पौर्णमास्यां वत्सापाकरणार्थायाः शाखाया अभावादुपवेषाय शाखाछेदो न कर्तव्यः ॥ ४,२.४६ ॥ (चतुर्थे शाखाप्रहरणस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि १०१३) हरणे तु जुहोतिर्योगसामान्याद्द्रव्याणां चार्थशेषत्वात् । ४,२.१० । प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात् । ४,२.११ । अर्थेऽपीति चेत् । ४,२.१२ । न तस्यानधिकारादर्थस्य च कृतत्वात् । ४,२.१३ । ____________________________________________________ ४,२.७९ चतुर्थाधिकरणमारचयति प्रस्तरं शाखया सार्ध प्रहरेत्प्रहृतिस्त्वियम् । शाखाया अर्थकर्मत्वं प्रतिपत्तिरुतोचिता ॥ ४,२.७ ॥ विहितः प्रस्तरे यागः शाखायाः साहचर्यतः । तथात्वादर्थकर्मत्वे हृतिः शाखां प्रयोजयेत् ॥ ४,२.८ ॥ हरतिर्यागवाची नो प्रतिपत्तिस्ततो भवेत् । पौर्णमास्यां ततो नैव हृतिः शाखां प्रयोजयेत् ॥ ४,२.९ ॥ दर्शपूर्णमासयोः श्रूयतेऽसह शाखया प्रस्तरं प्रहरतिऽ इति । तत्र शाखाप्रहरणमर्थकर्म । कुतः । प्रहृतिशब्देन यागस्याभिधानात् । एतच्चऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इत्येतद्वाक्यमुदाहृत्य विचारितम् । प्रस्तरप्रहरणस्य यागत्वे तत्साहचर्याच्छाखाप्रहरणमपि याग एवेत्यर्थकर्म स्यात् । अर्थाय क्रतुसाफल्यप्रयोजनाय क्रियमाणमर्थकर्म । ततः प्रहरणेन पौर्णमास्यामपि पलाशशाखा प्रयुज्यते इति प्राप्ते, ब्रूमःऽसूक्तवाकेन प्रस्तरं प्रहरतिऽ इत्यत्र हरतिधातोर्यागवाचित्वं नोक्तम् । किंतु मान्त्रवर्णिकदेवतामुपलभ्य द्रव्यदेवताभ्यां यागः कल्पितः । शाखाप्रहरणे तु नास्ति देवता । ततो यागस्य कल्पयितुमशक्यतया हरतिधातुरत्र स्ववाच्यार्थपरित्यागमेवाऽचष्टे । तथा सति वत्सापाकरण उपयुक्तायाः पलाशशाखाया उपयोगान्तराभावाद्यागदेशेऽवकाशलाभाय यत्र क्वाप्यवस्यं परित्यागे प्राप्ते शास्त्रेणाऽहवनीय एव त्यागो नियम्यते । अनेन च शास्त्रीयत्यागेन शाखायाः प्रतिपत्तिर्भवति । प्रतिपत्तिर्नाम संस्काररूपो दृष्टोर्ऽथः । यथा राज्ञा चर्वितस्य त्राम्बूलस्य सौवर्णे पतद्ग्रहे प्रक्षेपः, तद्वत् । ततः प्रहरणं प्रतिपत्तिकर्म । तेने च तदभावेऽपि क्रतुवैकल्याभावात्, पौर्णमास्यां स्वसिद्धिहेतुभूतां शाखां न प्रयोजयति ॥ ४,२.७९ ॥ (पञ्चमे निनयनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रे १४१५) उत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्विभागः स्यात् । ४,२.१४ । संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात् । ४,२.१५ । ____________________________________________________ ४,२.१०११ पञ्चमाधिकरणमारचयति प्रणीताभिस्तु संयौति वेद्यां निनयतीति किम् । अपां द्वे प्रापके किंवा हविःसंयवनं तथा ॥ ४,२.१० ॥ अपः प्रणयतीत्युक्तेः समत्वादुभयार्थता । श्रुत्या संयवनार्थास्ता निनीतेः प्रतिप्रत्तिता ॥ ४,२.११ ॥ दर्शपूर्णमासयोः श्रूयतेऽअपः प्रणयतिऽ इति । चमसेन पात्रेण प्रणीतानां तासामपाम् । प्रयोजनमेवं श्रूयतेऽप्रणीताभिर्हवींषि संयौतिऽ इति,ऽअन्तर्वेदि प्रणीता भिनयतिऽ इति च । हवींषि पुरोडाशार्थानि पिष्ठानि । तत्र हविःसंयवनं वेद्यां निनयनं चेत्यतदुभयमपां प्रणयनस्य प्रयोजकम् । कुतः । ऽअपः व्रजयतिऽ इत्यस्य प्रमयनोत्पत्तिवाक्यस्योभयत्र समानत्वात् । न ह्यस्मिन्वाक्ये संयवनस्य कश्चिद्विशेषसंबन्धः प्रतीयते इति चेत् । मैवम् । विनियोगवाक्येऽप्रणीताभिःऽ इति तृतीयाश्रुत्या संयवनसाधनत्वावगमात्, संयवनमेव प्रयोजकम् । निनयनवाक्ये तुऽप्रणीताःऽ इत्यनया द्वितीयया संस्कार्यत्वावगमान्निनयनं प्रतिपत्तिरूपः संस्कार इति न प्रणयनस्य प्रयोजकम् ॥ ४,२.१०११ ॥ (षष्ठे दण्डदानस्यार्थकर्मताधिकरणे सूत्राणि १६१८) प्रासनवन्मैत्रावरुणाय दण्डप्रदानं कृतार्थत्वात् । ४,२.१६ । अर्थकर्म वा कर्तृसंयोगात्स्रग्वत् । ४,२.१७ । कर्मयुक्ते च दर्शनात् । ४,२.१८ । ____________________________________________________ ४,२.१२१३ षष्ठाधिकरणमारचयति मैत्रावरुणके दण्डदानस्य प्रतिपत्तिता । उतार्थकर्मताऽद्योऽस्तु धारणे कृतकृत्यतः ॥ ४,२.१२ ॥ युक्तोपयुक्तसंस्कारादुपयोक्तव्यसंस्क्रिया । स्थित्वा प्रैषानुवचने दण्डोऽपेक्ष्योर्ऽथकर्म तत् ॥ ४,२.१३ ॥ ज्योतिष्टोमे श्रूयतेऽक्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतिऽ इति । तदेतद्दण्डदानं प्रतिपत्तिकर्म । कुतः । दण्डस्य यजमानधारणेन कृतकृत्यत्वात् । यजमानो ह्यध्वर्युणा दीक्षासिद्धयर्थ दत्तं दण्डमासोमक्रयाद्धारयति । अत एवाऽम्नातम्ऽदण्डेन दीक्षयतिऽ इति,ऽयद्दीक्षिताय दण्डं प्रयच्छतिऽ इति च । तस्मादुपयुक्तस्य दण्डस्य दानं प्रतिपत्तिः इति चेत् । मैवम् । दण्डे भविष्यदुपयोगस्यापि सद्भावात् । यदा मैत्रावरुणः स्थित्वा प्रैषाननुवदति, तदानीमवलम्बनाय दण्डोऽपेक्षितः । अत एवाऽम्नातम्ऽदण्डीप्रैषानन्वाहऽ इति । तथा सति प्रतिपत्तिकर्मरूपादुपयुक्तसंस्कारादर्थकर्मरूप उपयोक्ष्यमाणसंस्कारः प्रशस्तः । उपयोजयितुमेव हि सर्वत्र संस्कारस्य प्रवृत्तिः । उपयुक्ते तु प्रतिपत्तिरूपस्य संस्कारस्याक्षरमात्रपर्यवसायित्वेन कार्ये पर्यवसानाभावादप्रशस्तत्वम् । तस्मात्मैत्रावरुणसंस्काराय दण्डदानमर्थकर्म । तथा सति निरूढपशावसत्यपि दीक्षिते दण्डसंपादनस्यैतद्दानं प्रयोजकम् ॥ ४,२.१२१३ ॥ (सप्तमे प्रासनस्य प्रतिपत्तिकर्मताधिकरणे सूत्रम्) उत्पत्तौ येन संयुक्तं तदर्थं तत्, श्रुतिहेतुत्वात्तस्यार्थान्तरगमने शेषत्वात्प्रतिपत्तिः स्यात् । ४,२.१९ । ____________________________________________________ ४,२.१४ सप्तमाधिकरणमारचयति चात्वाले कृष्णशृङ्गस्य प्रासो यः सोर्ऽथकर्म वा । प्रतिपत्तिः सार्थकत्वादाद्योऽन्त्योऽन्त्योऽस्तूपयोगतः ॥ ४,२.१४ ॥ ज्योतिष्टोमे श्रूयतेऽप्रत्तासु दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यतिऽ इति । यजमानेन दसा दक्षिणा ऋत्विग्भिर्यदा नीताः, तदा यजमानः स्वहस्ते धृतं कृष्णमृगस्य शृङ्गं चात्वालनामके गर्ते परित्यजेत् । सोऽयं परित्यागोर्ऽथकर्म । कुतः । सप्रयोजनत्वात् । प्रतिपत्तितयापूर्वाभावेन निरर्थकः स्यात् । अतोऽपूर्वलाभायार्थकर्मत्वमिति चेत् । मैवम् । ऽकृष्णविषाणया काण्डूयतेऽ इति तृतीयाश्रुत्या यजमानशिरःकण्डूतावुपयुक्तस्य विषाणस्य प्रतिपश्यपेक्षत्वात् । न च प्रतिपत्तावत्यन्तमपूर्वाभावः । ऽचात्वाल एव प्रासनम्ऽ इत्येवंविधस्य नियमस्य वैधत्वेन प्रासनक्रियाप्रयुक्तापूर्वाभावेऽपि नियमापूर्वसद्भावात् । तस्मात्प्रासनं प्रतिपत्तिकर्म ॥ ४,२.१४ ॥ (अष्टमे अवभृयगमनस्य प्रतिपत्तिकर्मताधिकरणे सूत्राणि २०२२) सौमिके च कृतार्थत्वात् । ४,२.२० । अर्थकर्म वाभिधानसंयोगात् । ४,२.२१ । प्रतिपत्तिर्वा तन्न्यायत्वाद्देशार्थावभृथश्रुतिः । ४,२.२२ । ____________________________________________________ ४,२.१५१६ अष्टमाधिकरणमारचयति पात्रस्यावमृथे सोमलिप्तस्य नयनं तु किम् । साधनं प्रतिपत्तिर्वा यन्ति तेनेत्यतः श्रुतेः ॥ ४,२.१५ ॥ प्राप्ता साधनता मैवं पुरोडाशहबिष्ट्वतः । पात्रस्य तदसंबन्धात्प्रक्षेपः प्रतिपत्तये ॥ ४,२.१६ ॥ ज्योतिष्टोमे श्रूयतेऽचतुर्गृहीतं वा एतद्यज्ञस्य यदृजीषम्, यद्ग्रावाणः, यदौदुम्वरी, यदधिषवणफलके, तस्माद्यत्किंचित्सोमलिप्तं द्रष्यम्, तेनावभृद्यं यन्तिऽ इति । निष्पीडितस्य सोमस्य नीरसो भाग ऋजीषम् । तदेतदृजीषग्रावादिकं सोमाभिषवादौ सोमेन लिप्यते । तस्य लिप्सस्य सर्वस्यावभृथसाधनत्वमभ्युपेयम् । कुतः । ऽतेनावमृथं यन्तिऽ इति तृतीयाश्रुत्यावभृथसाधनत्वावगमात् । तस्मात्सोमलिप्तं द्रव्यमवभृद्ये हविष्ट्वेन नीयते इति चेत् । मैवम् । ऽवारुणेनकपालेनावभृथमवयन्तिऽ इत्यनेनोत्पत्तिवाक्यशिष्ठपुरोडाशहविषावरुद्धिऽवभृथे सोमलिप्तपात्रस्य हविष्ट्वेन संबन्धासंभवात् । तथा सत्यवभृथशब्देन तदर्थ देशं लक्षयित्वा तस्मिन्देशे सोमलिप्तस्य पात्रस्य नयनमत्र विधीयते । तच्च नयनं प्रतिपत्तये भवति । पात्रस्य पूर्वमुपयुक्तत्वात् । तस्मातेतत्प्रतिपत्तिकर्म ॥ ४,२.१५१६ ॥ (नवमे कर्तृदेशकालविधीनां नियमार्थताधिकरणे सूत्रे २३२४) कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् । ४,२.२३ । नियमार्था वा श्रुतिः । ४,२.२४ । ____________________________________________________ ४,२.१७१८ नवमाधिकरणमारचयति समे यजेत देशादेरनुवादोऽथवा विधिः । प्रयोगानुपपस्यैव प्राप्तत्वादनुवादता ॥ ४,२.१७ ॥ समे वा विषमे वेति पाक्षिकत्वनिवृत्तये । अप्राप्तांशानुपातेन नियमोऽत्र विधीयते ॥ ४,२.१८ ॥ इदमाम्नायतेऽसमे दर्शपूर्णमासाभ्यां यजेतऽ,ऽप्राचीनप्रवणे वैश्वदेवेन यजेतऽऽपौर्णमास्यां पौर्णमास्या यजेतऽऽअमावास्यायाममावास्यया यजेतऽऽपशुबन्धस्य यज्ञक्रतोः षडृत्विजःऽऽदर्शपूर्णमासयोर्यज्ञक्रत्वोश्चत्वार ऋत्विजःऽऽचातुर्मास्यानां यज्ञक्रतूनां पञ्चर्त्विजःऽऽअग्निहोत्रस्य यज्ञक्रतोरेक ऋत्विक्ऽऽसौम्यस्याध्वरस्य यज्ञक्रतोःसप्तदर्शीत्वजःऽ ऽसोमेन यजेतऽ इति । क्रतुशब्दे मानस उपासनेऽपि वर्तते । ऽस क्रतुं कुर्क्षीत मनोमयः प्राणशरीरःऽ इत्यत्र क्रतुशब्देन ध्यानविधानात् । तद्व्यावृत्तयेऽयज्ञक्रतोःऽ इति विशेष्यते । तत्र देशकालकर्तृद्रव्याणि न विधीयन्ते, किंत्वनुश्रूयन्ते । कुतः । प्राप्तत्वात् । न हि देशादिभिर्विना प्रयोगः संभवति । अतोर्ऽथापत्त्या तत्प्राप्तिः इति चेत् । मैवम् । अर्थापत्त्या पाक्षिकी समदेशादिप्राप्तिः । विषमदेशादीनामपि संभवात् । ततो यस्मिन्पक्षे प्राप्तिर्नास्ति तस्मिन्पक्षे समदेशादयो विधीयन्ते ॥ ४,२.१७१८ ॥ (दशमे द्रव्यगुणविधानस्य नियमार्थताधिकरणे सूत्रम्) तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् । ४,२.२५ । ____________________________________________________ ४,२.१९ दशमाधिकरणमारचयति श्वेतालम्भोऽनुवादो वा श्वैत्यस्य विधिरग्रिमः । द्रव्यद्वारेण तत्प्रप्तेः पूर्ववत्तन्नियम्यते ॥ ४,२.१९ ॥ इदमाम्नायतेऽवायव्यं श्वैतमालभेत भूतिकामःऽ इति । तत्र श्वैत्यगुणस्य द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यनिरपेक्षस्य क्रियान्वयाभावाद्द्रव्यसहितस्य तदन्वये द्रव्यविधिनैवाऽवर्जनीयतया तत्प्राप्तेरनुवादः श्वैत्यस्य इति चेत् । मैवम् । पूर्वन्यायेन पाक्षिकत्वनिवृत्तये नियमविधित्वाङ्गीकारात् ॥ ४,२.१९ ॥ (एकादशे अवधातादिसंस्कारविधानस्य नियमार्थताधिकरणे सूत्रम्) संस्कारे च तत्प्रधानत्वात् । ४,२.२६ । ____________________________________________________ ४,२.२० एकादशाधिकरणमारचयति अवघातेऽपि नियमो देशादाविव तेन सः । प्रधानेन प्रयुक्तः स्यात्संबन्धः प्रक्रियोक्तितः ॥ ४,२.२० ॥ यथा देशकालकर्तृद्रव्याणां पक्षे प्राप्तौ नियमो विहितः, एवमवघातोऽपि तण्डुलनिष्पत्त्यर्थ लोकतः प्राप्तेऽपि पाक्षिकनखविदलनादिव्यावृत्तये नियम्यते । सति चावधतस्य विधौ प्रधानेनाऽग्नेयादियागेनासौ प्रयुज्यते । न चात्र संबन्धाभावादप्रयुक्तिरिति वाच्यम् । प्रधानयागप्रकरणपठितत्वेन संबन्धसिद्धिः । तस्मातवघातादयो विधीयन्ते प्रधानेन प्रयुज्यन्ते च ॥ ४,२.२० ॥ (द्वादशे यागहोमस्वरूपनिरूपणाधिकरणे सूत्रे २७२८) यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् । ४,२.२७ । तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्यात् । ४,२.२८ । ____________________________________________________ ४,२.२१२३ द्वादशाधिकरणमारचयति अनिरूप्या निरूप्या वा यागहोमददातयः । त्यागादाद्यो यजिस्त्यागः प्रक्षेपो होम इष्यते ॥ ४,२.२१ ॥ आकाङ्क्षा यागशब्दस्य त्यागेनैव निवर्तते । यागस्योपरि होमस्य विधेः क्षेपावसानता ॥ ४,२.२२ ॥ स्वीयं द्रव्यं परित्यज्य परकीयं यथा भवेत् । तथा संपादनं दानं त्यागेऽप्येषामियं भिदा ॥ ४,२.२३ ॥ इदमाम्नायतेऽसोमेन यजेतऽ अग्निहोत्रं जुहोतिऽऽहिरण्यमात्रेयाय ददातिऽ इति । तत्र यागहोमदानशब्दानामर्था न निरूपयितुं शक्यन्ते । त्रिष्वपि द्रव्यत्यागस्य सद्भावात् । ततो विधेयानामर्थानां प्रधानभूतानामनिर्णयात्, इतरत्र विध्यनुवादविवेकः पूर्वोक्तो व्यर्थः इति चेत् । मैवम् । देवतामुद्दिश्य द्रव्यत्यागो यागः । त्यक्तस्य वह्नौ प्रक्षेपो होमः । स्वकीयद्रव्यस्य स्वत्वनिवृत्तिपूर्वकं परस्वत्वापादनं दानम् । इति सुनिरूपा एते पदार्थाः । ऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इतिविहितस्य यागस्योपरिऽचतुरवत्तं जुहोतिऽ इति होमस्य विधानात्ऽत्यागमात्रात्मको यागः, प्रक्षेपाधिको होमःऽ इत्यवगम्यते । यत्र तु यजत्यादिपदं न श्रुतम्, किंतुऽआग्नेयोऽष्टाकपालःऽ इत्येतावदवे श्रुतम्, तत्राप्युद्देश्याया देवतायास्त्वजनीयद्रव्यस्य च श्रुतत्वादुद्देशत्वागरूपो यागोऽथसिद्धः । तस्मात्प्रधानविधेयानां यागादीनां सुनिरूपितत्वाद्विधिविवेको न व्यर्थः ॥ ४,२.२१२३ ॥ (त्रयोदशे बर्हिष आतिथ्यादिसाधारण्याधिकरणे सूत्रे २९३०) विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात् । ४,२.२९ । अपि वोत्पत्तिसंयोगादर्थसंबन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् । ४,२.३० । ____________________________________________________ ४,२.२४२५ त्रयोदशाधिकरणमारचयति यदातिथ्याबर्हिरेतदुपसत्स्वतिदेशनम् । साधारण्यविधिर्वाऽद्यस्तदीयस्योपसंहृतेः ॥ ४,२.२४ ॥ वर्हिः श्रुत्यैकताभानान्नातिदेशस्य लक्षणा । आतिथ्ययोपसद्भिश्व बर्हिरेतत्प्रयुज्यते ॥ ४,२.२५ ॥ ज्योतिष्टोमे श्रूयतेऽयदातिथ्यायां बर्हिः, तदुपसदाम्, तदग्नीषोमीयस्य चऽ इति । क्रीतं सोमं शकटेऽवस्थाप्यप्राचीनवंशं प्रत्यानयनेऽभिमुखो यामिष्टिं निर्वपति सेयमातिथ्या । तत ऊर्ध्व त्रिषु दिनेष्वनुष्ठीयमाना उपसदः । औपवसथ्ये दिनेऽनुष्ठेयोऽग्नीषोभीयः । तत्र आतिथ्येष्टौ विहितं यद्बर्हिः, तद्यदि तस्या इष्टेराच्छिद्योपसत्सु विधीयेत, तदानीमातिथ्यायां विधानमनर्थकं स्यात् । यदि च तत्रोपयुक्तमितरत्र विधीयेत, तदा विनियुक्तविनियोगरूपो विरोधः स्यात् । तस्मातातिथ्याबर्हिषो ये धर्मा अश्वबालत्वादयः, ते धर्मा उपसत्सूपसंह्रियन्ते इत्यतिदेशपरं वाक्यमिति प्राप्ते, ब्रूमः बर्हिः शब्दस्य धर्मातिदेशत्वे लक्षणा प्रसज्येत । श्रुत्या तु बर्हिष आतिथ्योपसदग्नीषोमीयेष्येकत्वं प्रतिभाति । अतः साधारण्यमत्र विधेयम् । आतिथ्यार्थ यद्बर्हिरुपादीयते तन्न केवलमातिथ्यार्थम्, किंतूपसदर्थमग्नीषोमीयार्थ चोपादेयमिति विधिवाक्यस्यार्थः । तस्मातातिथ्योपसदग्नीषोमीयास्त्रयोऽप्यस्य बर्हिषः प्रयोजकाः ॥ ४,२.२४२५ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्ताध्यायस्य द्वितीयः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य तृतीयः पादः । (प्रथमे द्रव्यसंस्कारकर्मणां क्रत्वर्थताधिकरणे सूत्राणि १३) द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् । ४,३.१ । उत्पत्तेश्चातत्प्रधानत्वात् । ४,३.२ । फलं तु तत्प्रधानायाम् । ४,३.३ । ____________________________________________________ ४,३.१२ तृतीयपादे प्रथमाधिकरणमारचयति जुह्वाः पर्णमयीत्वेन न पापश्रुतिरञ्जनात् । वैरिदृग्वृञ्जनं, वर्म प्रयाजैः, पुरुषाय किम् ॥ ४,३.१ ॥ क्रतवे वाग्रिमो मानात्फलस्य न हि साध्यता । विभाति क्रतवे तस्मादर्थवादः फलं भवेत् ॥ ४,३.२ ॥ इदमाम्नायतेऽयस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोतिऽऽयदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्तेऽऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते, वर्म यजमानस्य भ्रातृव्याभिभूत्यैऽ इति । तत्र यज्जुहूप्रकृतिभूतं पर्णद्रव्यम्, यश्चाञ्जनेन चक्षुषः संस्कारः, यच्च प्रयाजानुयाजरूपं वर्म तच्चि द्वयं पुरुषार्थत्वेन विधीयते । कुतः । पापश्लोकश्रवणादिराहित्यादेः पुरुषसंबन्धिफलस्य प्रतिभानातिति चेत् । मैवम् । फलं हि साध्यं भवति । न चात्र साध्यता प्रतिभासते । ऽन शृणोति वृङ्क्ते, वर्म क्रियते, इति वर्तमानत्वनिर्देशात् । अतः क्रत्वर्था एते विधवः । तत्र पर्णमयीत्वस्यानारभ्याधीतस्यापि वाक्येन क्रतुसंबन्धः । संस्कारवर्मणोस्तु प्रकरणेन क्रत्वर्थानां तु क्रतुनिष्पादनव्यतिरेकेण फलाकाङ्क्षाया अभावाद्वर्तमाननिर्देशस्व विपरिणामं कृत्वापि फलं कल्पयितुं न शक्यम् । तस्मात्फलवत्त्वभ्रमहेतुः पापश्लोकश्रवणराहित्यादिरर्थवादः ॥ ४,३.१२ ॥ (द्वितीये नैमित्तिकानामनित्यार्थत्वाधिकरणे सूत्रम्) नैमित्तिके विकारत्वात्क्रतुप्रधानमन्यत्स्यात् । ४,३.४ । ____________________________________________________ ४,३.३४ द्वितीयाधिकरणमारचयति मृन्मये प्रणयेत्कामी नित्येऽप्येतदुतेतरत् । आकाङ्क्षा संनिधिश्चास्ति तस्मान्नित्येऽपि मृन्मयम् ॥ ४,३.३ ॥ कामार्थत्वादयोग्यत्वं सामान्यविहितेन च । आकाङ्क्षाया निवृत्तत्वान्नित्यार्थमितरद्भवेत् ॥ ४,३.४ ॥ ऽअपः प्रणयतिऽ इति प्रणयनस्य नित्यप्योगेऽपि मृन्मयपात्रमेव साधनम् । कृतः । नित्येऽपि पात्रत्वाऽफङ्क्षितत्वात् । न च लोकसिध्दं किंचित्पात्रमुपादीयतेइति वाच्यम् । औप्ते कर्मण्यत्यन्तमश्रुताच्छ्रुतस्य संनिहितत्वातिति प्राप्ते ब्रूमः कामार्थ मृन्मयमाम्नातम् । तच्च सति कामे योग्यम् । न हि पाक्षिकं कामं निमित्तीकृत्य प्रवृत्तं नित्यस्य योग्यं भवति । पात्राकाङ्क्षा तु सामान्यतो विहितेन निवर्तते । ऽअपः प्रणयतिऽइति हि पात्रविशेषमनुपन्यस्य विहितम् । वञ्चान्यथानुपर्पन्नं तत्पात्रं किंचित्सामान्येन कल्पयति । तस्मान्नित्यप्रयोगे तत्काम्यं मृन्मर्थ नान्वेति, किंत्वितरत्पात्रं यत्किंचिदुपादेयम् । ऽचमसेनापः प्रणयेतिति नित्ये पात्रं विधीयतेइति विधीयते । इति चेत् । तर्हि कृत्वाचिन्तास्तु ॥ ४,३.३४ ॥ (तृतीयेसंयोगपृथक्त्वन्याये,दध्यादेर्नित्यनैमित्ति कोभयार्थताधिकरणे सूत्राणि५७) एकस्य तूभयत्वे संयोगपृथक्त्वम् । ४,३.५ । शेष इति चेत् । ४,३.६ । नार्थपृथक्त्वात् । ४,३.७ । ____________________________________________________ ४,३.५ तृतीयाधिकरणमाचरयति दघ्ना त्विन्द्रियकामस्य नित्येऽन्यदुत तद्दधि । अन्यत्स्यात्पूर्ववन्मैवं संयोगस्य पृथक्त्वतः ॥ ४,३.५ ॥ अग्निहोत्रे श्रूयतेऽदध्नेन्द्रियकामस्य जुहुयात्ऽ इति । तत्र दध्नः कान्यत्वान्नित्येऽग्निहोत्रे पूर्वन्यायेन तद्दधि न प्रयोक्तव्यम् । किंत्वन्यदेव किंचिद्द्रव्यमिति चेत् । मैवम् । ऽदध्ना जुहोतिऽ इत्यस्मिन्वाक्यान्तरे कामसंयोगमुपन्यस्य नित्यहोमसंयोगेन दधिविधानात् । तस्मातेकस्यापि दध्नो वाक्यद्वयेन नित्यत्वं काम्यत्वं चाविरुद्धम् । एवमग्नीषोमीयपशौऽखादिरे बध्नातिऽऽखादिरं वीर्यकामस्य यूपम् । कुर्वीतऽ इत्युदाहरणीयम् ॥ ४,३.५ ॥ (चतुर्थे पयोव्रतादीनां क्रतुधर्मताधिकरणे सूत्रे ८९) द्रव्याणां तु क्रियार्थानां संस्कारः क्रतुधर्मः स्यात् । ४,३.८ । पृथक्त्वाद्व्यवतिष्ठेत । ४,३.९ । ____________________________________________________ ४,३.६ चतुर्थाधिकरणमारचयति पयो व्रतं ब्राह्मणस्य पुंसे तत्क्रतवेऽथवा । पुंयोगादब्रिमो मैवं नैष्फल्यात्क्रतुशेषता ॥ ४,३.६ ॥ ज्योतिष्टोमे दीक्षितस्यान्नभोजनाभावे व्रतमाम्नायतेऽपयो व्रतं ब्राह्मणत्व, यवागू राजन्यस्य, आमिक्षा वैश्यस्यऽ इति । तत्र ब्राह्मणादिपुरुषसंयोगादेतद्व्रतं पुरुषार्थमिति चेत् मैवम् । इन्द्रियवीर्यादिवत्फलस्यात्रानुक्तत्वात् । क्रतुशेषत्वं तु प्रकरणादवगम्यते । ब्राह्मणादिपुरुषा द्रव्यविशेषव्यवस्थायै निमित्तत्वेनोपन्यस्यन्ते ॥ ४,३.६ ॥ (पञ्चमे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनां सफलत्वाधिकरणे सूत्राणि १०१२) चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्यशब्दं प्रतीयते । ४,३.१० । अपि वाम्नानसामर्थ्याच्चोदनार्थेन गम्येत, आर्थानां ह्यर्थवत्त्वेन वचनानि प्रतीयन्ते, अर्थतो ह्यसमर्थानामानन्तर्येऽप्यसंबन्धस्तस्माच्छ्रुत्येकदेशः । ४,३.११ । वाक्यार्थश्च गुणार्थवत् । ४,३.१२ । ____________________________________________________ ४,३.७ पञ्चमाधिकरणमारचयति नैवास्ति विश्वजिद्यागे फलमस्त्युत नाश्रुतेः । भाव्यापेक्षाद्विधेः कल्प्यं फलं पंसः प्रवृत्तये ॥ ४,३.७ ॥ इदमाम्नायतेऽविश्वजिता यजेतऽ इति । तत्र फलस्याश्रुतत्वान्नास्ति विश्वजिद्यागे फलमिति चेत् । मैवम् । फलस्य कल्पनीयत्वात् । ऽविश्वजिन्नाम्ना यागेन कुर्यात्ऽ इत्युक्ता भावना भाव्यमपेक्षते । ऽकिं कुर्यात्ऽ इत्याङ्काक्षाया अनिवृत्तेः । अतो वाक्यपूरणाय किंचित्फलमवश्यमध्याहर्तव्यम् । अध्याहृते च तत्कामिनः पुरुषस्यात्र प्रवृत्त्या यागामुष्ठानं सिध्यति । अन्यथा निरधिकारत्वादनुष्ठाने विधिर्निरर्थकः स्यात् । तस्मात्फलं कल्पनीयम् ॥ ४,३.७ ॥ (षष्ठे विश्वजिन्न्यायान्तर्गते विश्वजिदादीनामेकफलताधि करणे सूत्रे १३१४) तत्सर्वार्थमनादेशात् । ४,३.१३ । एकं वा चोदनैकत्वात् । ४,३.१४ । ____________________________________________________ ४,३.८ षष्ठाधिकरणमारचयति सर्व फलमुतैकं स्यात्सर्वमस्त्वविशेषतः । एकेन तन्निराङ्क्षमतोऽनेकं न कल्प्यते ॥ ४,३.८ ॥ तस्मिन्विश्वजिति पशुपुत्रवीर्येन्द्रियादिकं सर्व फलत्वेन कल्पनीयम् । कुतः । ऽएतदेवास्य फलम्ऽ इत्यत्र विशेषहेतोरभावातिति चेत् । मैवम् । लाघवस्यैव विशेषहेतुत्वात् ॥ ४,३.८ ॥ (सप्तमे विश्वजन्न्यायान्तर्गते विश्वजिदादीनां स्वर्गफलताधिकरणे सूत्रे १५१६) स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वात् । ४,३.१५ । प्रत्ययाच्च । ४,३.१६ । ____________________________________________________ ४,३.९ सप्तमाधिकरणमारचयति एकं यत्किंचिदथवा नियतं न नियामकम् । तस्मादाद्यः सर्वपुंसामिष्टत्वात्स्वर्ग एव तत् ॥ ४,३.९ ॥ विश्वजिति कल्प्यमानं यदेकं फलं तत्ऽइनमेवऽ इति नियामकं नास्ति । तस्मादिच्छया केनचित्कस्मिंश्चित्फले कल्प्यमानेर्ऽथात्सर्वफलत्वे गौरवमेव स्यातिति चेत् । मैवम् । स्वर्गस्य पश्वादिफलवद्दुःखमिश्रितत्वाभावात्, निरतिशयसुखत्वाच्च सर्वपुरुषाणामिष्टत्वात्स्वर्ग एव विश्वजितः फलम् ॥ ४,३.९ ॥ (अष्टमे रात्रिसत्रन्याये रात्रिसत्रस्यार्ऽऽथवादिकफलकताधिकरणे सूत्राणि १७१९) क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः । ४,३.१७ । फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात् । ४,३.१८ । अङ्गेषु स्तुतिः परार्थत्वात् । ४,३.१९ । ____________________________________________________ ४,३.१० अष्टमाधिकरणमारचयति स्वर्गाय वा प्रतिष्ठायै रात्रिसत्रमिहाऽदिमः । पूर्ववत्स्यात्प्रतिष्ठा च श्रुता तेनाश्रुताद्वरम् ॥ ४,३.१० ॥ सत्रकाण्डे प्रत्येकं श्रूयतेऽप्रतितिष्ठन्ति ह वा एते, य एता रात्रीरुपयन्तिऽ इति,ऽब्रह्मवर्चस्विनोऽन्नादा भवन्ति, य एता उपयन्तिऽ इति च । द्वादशाहादूर्ध्वभाविनस्त्रयोदशरात्रचतुर्दशरात्रादयः सर्वे सत्रविशेषाः । त्रयोदशसंखायाकारात्रयो यस्मिन्सत्रविशेषे सोऽयं त्रयोदशरात्राः, इति समुदायप्राधान्येनैकवचनान्ततया प्रायेण निर्देशो भवति । क्वचित्तु समुदाधिनां रात्रिशब्देनाऽम्नायते । तद्यथाऽत एता विशतिं रात्रीरपश्यत्ऽ इति तादृशे रात्रिसत्रे विश्वजिन्न्यायेन स्वर्गः फलत्वेन कल्पनीयः इति प्राप्ते ब्रूमः अस्य रात्रिसत्रविधेः स्तावकेर्ऽथवादे प्रतिष्ठा श्रुता । सा चास्मिन्वाक्येऽत्यन्तमश्रुतात्स्वर्गात्प्रत्वासन्ना । तस्मात्ऽप्रतिष्ठाकामो रात्रिसत्रं कुर्यात्ऽ इत्येवं प्रतिष्ठैव फलत्वेन कल्पनीया ॥ ४,३.१० ॥ (नवमे काम्यानां यथोक्तकाम्यफलकत्वाधिकरणे सूत्राणि २०२४) काम्ये कर्मणि नित्यः स्वर्गो यथा यज्ञाङ्गे क्रत्वर्थः । ४,३.२० । वीते च कारणे नियमात् । ४,३.२१ । कामो वा तत्संयोगेन चोद्यते । ४,३.२२ । अङ्गे गुणत्वात् । ४,३.२३ । वीते च नियमस्तदर्थम् । ४,३.२४ । ____________________________________________________ ४,३.११ नवमाधिकरणमारचयति श्रुताश्रुते श्रुतं वैकं सौर्ये सर्वप्रवृत्तये । आद्यो मैवं श्रुतेनैव फलाकाङ्क्षानिवर्तनात् ॥ ४,३.११ ॥ ऽसौर्य चरुं र्निवपेद्ब्रह्मवर्चसकामःऽ इत्यत्र ब्रह्मवर्चसं फलं श्रुतम् । स्वर्गोऽश्रुतं फलम् । तदुभयमप्यभ्युपेयम् । तथा सति स्वर्गस्य सर्वैरपेक्ष्यमाणत्वात्सर्वेषां तत्र प्रवृत्तिर्लभ्येत इति चेत् । मैवम् । श्रुतेन ब्रह्मवर्चसफलेनैव निराकाङ्क्षे विधिवाक्ये विश्वजिन्न्यायेन स्वर्गफलकल्पानाया असंभवात् । तस्मात् श्रुतमेव फलम् ॥ ४,३.११ ॥ (दशमेदर्शपूर्णमासन्यायान्तर्गते दर्शपूर्ण मासादीनां सर्वकामार्थताधिकरणे सूत्रे २५२६) सर्वकाम्यमङ्गकामैः प्रकरणात् । ४,३.२५ । फलोपदेशो वा प्रधानशब्दसंयोगात् । ४,३.२६ । ____________________________________________________ ४,३.१२१३ दशमाधिकरणमारचयति दर्शादिः सर्वकामेभ्योऽनुवादो वा फले विधिः । अङ्गोपाङ्गोदितः कामो विध्यभावादनूद्यते ॥ ४,३.१२ ॥ उत्पत्तिचोदनासिद्धि आश्रित्य विधिभावने । फलसंयोगबोधेन भवेदेष फले विधिः ॥ ४,३.१३ ॥ इदमाम्नीयतेऽएकस्मै वा अन्या इष्टयः कामायाऽह्रियन्ते, सर्वेभ्यो दर्शपूर्णमासौऽ इति । ऽएकस्मै वा अन्ये यज्ञक्रतवः कामायाऽह्रियन्ते, सर्वेभ्यो ज्योतिष्टोमःऽ इति । तत्रऽसर्वेभ्यःऽ इत्यनेन वाक्येन दर्शपूर्णमासयोर्न फले विधिः । विधायकस्य लिङ्ङादेर्भावनावाचिन आख्यातस्य चाभावात् । अनुवादस्तु भविष्यति । सर्वकामानां प्राप्तत्वात् । न चऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति विधानात्स्वर्ग एव प्राप्तो न तु कामान्तरमिति वाच्यम् । अङ्गोपाङ्गकामानामपि प्राप्तत्वात् । सामिधेन्यो दर्शपूर्णमासयोरङ्गम् । तत्र कामाः श्रृयन्तेऽएकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्य, चतुर्विंशतिमनुब्रूयाद्ब्रह्मवर्चसकामस्यऽ इति । तथा सांनाय्ययागस्य दोहनमङ्गम् । तत्साधनं वत्सापाकरणमुपाङ्गम् । तत्र पलाशशाखाहरणे काम आम्नातःऽयः कामयेत पशुमान्स्यातिति, बहुपर्णा तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोतिऽ इति । त एते सर्वे कामा अनूद्यन्ते इति प्राप्ते, ब्रूमः मा भूतामस्मिन्वाक्ये विधिभावने । तथाप्युत्पत्तिवाक्यसिद्धिते आश्रित्य तादर्थ्यवाचिन्या चतुर्थ्या फलसंयोगो बोध्यते । तस्मातेष फले विधिः ॥ ४,३.१२१३ ॥ (एकादशे दर्शपूर्णमासन्यायान्तर्गते दर्शपूर्णमासादीनां प्रतिफलं पृथगनुष्ठानाधिकरणे, योगसिद्धिन्याये च सूत्रे २७२८) तत्र सर्वेऽविशेषात् । ४,३.२७ । योगसिद्धिर्वार्थस्योत्पत्यसंयोगित्वात् । ४,३.२८ । ____________________________________________________ ४,३.१४१५ एकादशाधिकरणमारचयति ज्योतिष्टोमश्च सर्वार्थः सर्वे सकृदनुष्ठितेः । दद्यात्पृथक्प्रयोगाद्वा सकृत्तस्याविशेषतः ॥ ४,३.१४ ॥ एकैकस्यानपेक्षस्य फलस्यैव हि साधनम् । चोदितं तेन कामास्ते पर्यायेण भवन्त्यमी ॥ ४,३.१५ ॥ यथा दर्शपूर्णमासौ सर्वकामार्थौ, तथा ज्योतिष्टोमश्च सर्वकामार्थ इति पूर्वाधिकरणेनैव सिद्धम् । तत्रोभयत्र कामा नैमित्तिकाः । ज्योतिष्टोमादिस्वरूपं निचित्तम् । तच्च सर्वेषु कामेष्वविशिष्टम् । न हि निमित्तसाधारण्ये सति नैमित्तिकानां पर्यायो भवति । वह्निसामीप्ये सति दाहप्रकाशयोः पर्यायादर्शनात् । तस्माज्योतिष्टोमे सकृदनुष्ठिते सत्येकं फलं यथा निष्पद्यते, तथा फलान्तराणामपि वारयितुमशक्यत्वाद्युगपत्सर्वफलसिद्धिः इति प्राप्ते ब्रूमः नहि ज्योतिष्टोयं निमित्तीकृत्य कामा विधीयन्ते । कामानामननुष्ठेयत्वात् । किं तर्हि पुरुषस्य स्वत एव प्राप्तान्कामानुद्दिश्य तत्साधनत्वेनैव ज्योतिष्टोमो विधीयते । यद्यपिऽसर्वेभ्यः कामेभ्यःऽ इति स्वर्गपश्वादिफलानामेकेनैव शब्देनोद्दिश्यमानत्वात्साहित्यं प्रतिभाति, तथापि न तदस्यि । उद्देश्यगतत्वेन साहित्यस्याविवक्षितत्वात् । न च शब्दतः साहित्यनियमाभावेऽप्येककर्मफलत्वादर्थतः साहित्यमिति वाच्यम् । स्वर्गपश्वादीनां परस्परनिरपेक्षाणामेव फलत्वात् । तस्मादेकैकस्य फलस्य साधनत्वेन कर्म चोद्यते । अत एवऽसर्वेभ्यःऽ इति निर्देशोपपत्तिः । अन्यथा हि साहित्यनियमान्मिलितमिदमेकमेव फलं संपन्नमिति सर्वशब्दो नोपपद्यते । तस्माद्यदा यत्फलं काम्यम्, तदा तत्सिद्ध्ये ज्योतिष्टोमः प्रयोक्तव्यः । एकमपि सद्वृष्ट्यादिफलं यदा यदा काम्यते, तदा तदा कारीरीष्टिः पुनः पुनः प्रयुज्यति । किमु वक्तव्यं फलभेदे प्रयोगभेदः इति । तस्मात्प्रतिफलं पृथक्प्रयोगः ॥ ४,३.१४१५ ॥ द्वादशेद्गकाम्यानामैहिकामुष्मिकफलवत्त्वाद्घसूत्रे २७२८) अधिकरणे वर्णकान्तरेण ते एव तत्र सर्वेऽविशेषात् ॥ ४,३.२७ ॥ योगसिद्धिर्वार्ऽथस्योत्पत्त्यसंयोगित्वात् ॥ ४,३.२८ ॥ ____________________________________________________ ४,३.१६१७ द्वादशाधिकरणमारचयति चित्रया पशवोऽमुष्मिन्नेव स्युर्नियता न वा । आद्यः स्वर्गेण तुत्यत्वाद्देहस्योत्पादकत्वतः ॥ ४,३.१६ ॥ चित्रोत्पत्तौ तु नियमो न श्रतो नापि कल्पनम् । पुंस्प्रवृत्त्यादिनापेते प्रतिबन्धे भवेत्फलम् ॥ ४,३.१७ ॥ काम्यकर्माण्येवं श्रूयन्ते ऽचित्रया यजेत पशुकामःऽ ऐन्द्रमेकादशकपालं निवपेत्प्रजाकामःऽ इति । तत्रयथा स्वर्गफलस्याऽमुष्मिकत्वं नियतम्, एवं पश्वादिफलस्यापि । यदि स्वर्गहेतुर्ज्योतिष्टोमो देहान्तरस्योत्पादकः, तर्हि चित्रादिरपि तथास्तु इति चेत् । मैवम् । वैषम्यात् । अस्मिन्देहे स्वर्गस्य भोक्तुप्रशक्यत्वादश्रुताप्यन्यदेहोस्पत्तिरर्थापत्त्या कल्प्यते । ऽचित्रया त्वन्यदेहोऽवश्यमुत्पाद्यतेऽ इति नियमो न श्रुतः, नापि किंचित्तस्य कल्पकमस्ति । अनेनापि देहेन पश्वादिफलस्य भोक्तुं शक्यत्वात् । अस्मिन्देहे प्रतिग्रहादिदृष्टोपायमन्तरेण पश्वाद्यलाभाद्वैधचित्रादिफलमामुष्मिकमेव इति चेत् । न । प्रतिग्रहादेः प्रतिबन्धनिवृत्तावुपयुक्तत्वात् । तस्मातसति प्रतिबन्धे फलमैहिकम्, सति त्वामुष्मिकम् ॥ ४,३.१६१७ ॥ (त्रयोदशे सौत्रामण्यादीनां चयनाद्यङ्गताधिकरणे सूत्राणि २९३१) समवाये चोदनासंयोगस्यार्थवत्वात् । ४,३.२९ । कालश्रुतौ काल इति चेत् । ४,३.३० । नासमवायात्प्रयोजनेन स्यात् । ४,३.३१ । ____________________________________________________ ४,३.१८१९ त्रयोदशाधिकरणमारचयति इष्ट्रवा तु वाजपेयेन बृहस्पतिसवं यजेत् । कालं वा बोधयेद्वाक्यमुताङ्मत्वस्य बोधकम् ॥ ४,३.१८ ॥ क्त्वाश्रुत्या भाति कालोऽत्र मैवमङ्गत्वबोधनम् । श्रुतेर्मुख्यं प्रक्रिया च तथा सत्यनुगृह्यते ॥ ४,३.१९ ॥ इदमाम्नायतेऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इति । ऽआग्निं चित्वासौत्रामण्या यजेतऽ इति । तत्रऽइष्ट्वाऽ इति क्त्वाप्रत्ययो वाजपेयस्य पूर्वकालीनतां ब्रूते । तस्माद्वाक्यमिदं बृहस्पतिसवस्य वाजपेयोत्तरकालीनतां बोधयति इति प्राप्ते, ब्रूमः बृहस्पतिसवस्थ वाजपेयाङ्गत्वबोधनमेव क्त्वाश्रुतेर्मुख्योर्ऽथः, । ऽसमानकर्तृकयोः पूर्वकालेऽ (३ । ४ । २१) इति (पाणिनि) सूत्रेण क्रियाद्वयस्यैककर्तृकतायां तद्विधानात् । यद्यपि सूत्रेऽपूर्वकालेऽ इत्युक्तम्, तथापि तन्न नियतम् । ऽमुखं व्यादाय श्र्वपितिऽ इत्यत्र कालैक्येऽपि प्रयोगात् । वाजपेयप्रकरणमप्यङ्गत्वेऽनुगृह्यते । अन्यथा त्वप्रकृते बृहस्पतितमे कालविधानात्प्रकरणं बाध्येत । अङ्गत्वे कर्मान्तरत्वेन प्रसिद्धबृहस्पतिसबन्धाभावात्तच्छब्दोऽनुपपन्नः इति चेत् । न । मासाग्निहोत्रन्यायेन तद्धर्मातिदेशार्थत्वात् । तस्मात्वाक्यमिदमङ्गत्वबोधकम् । ऽअग्निंचित्वाऽ इत्यत्राप्येवं योजनीयम् ॥ ४,३.१८१९ ॥ (चतुर्दशे बैमृधादेः पौर्णमास्याद्यङ्गताधिकरणे सूत्राणि ३२३५) उभयार्थामिति चेत् । ४,३.३२ । न शब्दैकत्वात् । ४,३.३३ । प्रकरणादिति चेत् । ४,३.३४ । नोत्पत्तिसंयोगात् । ४,३.३५ । ____________________________________________________ ४,३.२०२१ चतुर्दशाधिकरणमारचयति संस्थाप्य पौर्णमासीं तामनु वैमृध ईरितः । द्वयोरङ्गमुतैकस्य द्वयोः स्यात्प्रक्रियावशात् ॥ ४,३.२० ॥ उत्पत्तिवाक्यतः पूर्णमासं संयोगभासनात् । तस्यैवाङ्गं न दर्शस्य प्रक्रिया वाक्यबाधिता ॥ ४,३.२१ ॥ दर्शपूर्णमासप्रकरणे श्रूयतेऽसंस्थाप्य पौर्णमासीं वैमृधमनुनिर्वपतिऽ इति । तत्रैयं बैमृधोष्टिः प्रकरणबलात्प्रयाजादिवद्दर्शपूर्णमासयोरुभयोरप्यङ्गमिति चेत् । न । वाक्यस्य प्रबलत्वात् । न चऽसंस्थाप्यऽ इति पौर्णमास्याः समाप्त्यभिधानात्तदङ्गत्वमयुक्तमिति वाच्यम् । दर्शसाधारणाङ्गसमाप्त्यभिप्रायेण तदुपपत्तेः । तस्मातुत्पत्तिवाक्यात्, एककर्तृकत्ववाचिक्त्वाप्रत्ययाच्च पूर्णमासस्यैवाङ्गम् ॥ ४,३.२०२१ ॥ (पञ्चदशे अनुयाजादीनामाग्निमारुतोर्ध्वकालताधिकरणे सूत्रम्) अनुत्पत्तौ तु कालः स्यात्प्रयोजनेन संबन्धात् । ४,३.३६ । ____________________________________________________ ४,३.२२२३ पञ्चदशाधिकरणमारचयति किमाग्निमारुतादूर्ध्वमनुयाजैश्र्वरेदिति । अङ्गं कालोऽथवाङ्गं स्यादतिपारार्थ्यमन्यथा ॥ ४,३.२२ ॥ पुराग्निमारुतस्यास्य ज्ञाता सोमार्थता तथा । अनुयाजाश्र्व पश्वर्थाः संयोगः कालसिद्धये ॥ ४,३.२३ ॥ ज्योतिष्टोमे श्रूयतेऽआग्निमारुतादूर्ध्वमनुयाजैश्चरतिऽ इति । आग्निमारुतं नाम किंचिच्छस्त्रम् । अनुयाजाःऽदेवं बर्हिःऽ इत्यादिभिः पाशुकहौत्रकाण्डपठितैरेकादशभिर्मन्त्रैः साध्या होमाः । तत्रऽआग्निमारुतशस्त्रस्यानुयाजा अङ्गम्ऽ इत्येवमङ्गाङ्गिभावबोधनायायं संयोगः । यदिअनुयाजानामयं कालोपदेशः स्यात्,तदानीमाग्निमारुतोपन्यासस्य स्वार्थो न कश्चितित्यत्यन्तपारार्थ्य स्यात् । तस्मात्बृहस्पतिसववत्, वैमृधवच्च, अनुयाजा अङ्गमिति प्राप्ते ब्रूमः इतरस्तोत्रशस्त्रवदाग्निमारुतशस्त्रस्य सोमाङ्गत्वं पूर्वमेवावगतम् । अग्नीषोमीयविकृतौ सवनीयपशावतिदेशतः प्राप्तानामेकादशानामनुयाजानामपि प्रधाणवत्पश्वङ्गत्वमवगतम् । ततः परस्परमङ्गाङ्गिभावासंभवात्कालोपदेशार्थोऽयं संयोगः ॥ ४,३.२२२३ ॥ (षोडशे सोमादीनां दर्शपूर्णमासोत्तरकालताद्यधिकरणे सूत्रम्) उत्पत्तिकालविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् । ४,३.३७ । ____________________________________________________ ४,३.२४२५ षोडशाधिकरणमारचयति किं दर्शपूर्णमासाभ्यामिष्टवा सोमेन यागकः । अङ्गाङ्गिभावः कालो वा ह्यपारार्थ्याय चाङ्गता ॥ ४,३.२४ ॥ दर्शादिलक्षिते काले सोमयागो विधीयते । स्वतन्त्रफलवत्वेन न युक्ताङ्गाङ्गिता तयोः ॥ ४,३.२५ ॥ इदमाम्नायतेऽदर्शपूर्णमासाभ्यामिष्ट्वा सोमन यजेतऽ इति । तत्र उभयोराग्निमारुतानुयाजवदन्याधीनत्वाभावाद्दर्शपूर्णमासोक्तेः पारार्ध्यपरिहाराय सोमस्य दर्शपूर्णमासाङ्गत्वबोधकोऽयं संयोगः इति चेत् । मैवम् । स्वतन्त्रफलवतः सोमस्याङ्गत्वासंभवात् । फलवत्संनिधावफलं तदङ्गं भवति, इति न्यायात् । न च अत्र बृहस्पतिसबन्यायेन सोमधर्मकर्मफलं कर्मान्तरं विधीयते इति शक्यं वक्तुम् । सोमशब्दस्य बृहस्पतिसवशब्दवश्वामत्वाभावेन धर्मातिदेशकत्वाभावात् । क्त्वाप्रत्ययस्त्वसत्यप्यङ्गाङ्गिभावे कर्त्रैक्यमात्रेणोपपद्यते । तस्माद्दर्शपूर्णमासशब्दस्य पारार्थ्यमभ्युपेत्यापि तदिष्ट्युपलक्षित उत्तरकाले सोमविधिरयम् । एतदेवाभिप्रेत्य रथत्वरूपमस्याऽम्नायतेऽएष वै देवरथो यद्दर्शपूर्णमासौ । यो दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानामवस्यमिऽ इति । अवसनि निश्चिते । वरे मार्गे । ऽयथा रथेन क्षुण्णे मार्गे गन्तुः कण्टकपाषणादिबाधाराहित्येन सुखं भवति, तथा प्रथमं दर्शपूर्णमासाविष्टवत उत्तरकाले तदिष्टिविकृतिषु सोमाङ्गभूतदीक्षणीयप्रायणीयादिषु धर्मानुष्ठानं सुकरं भवतिऽ इत्यर्थः । तस्मात्कालार्थः संयोगः ॥ ४,३.२४२५ ॥ (सप्तदशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेः पुत्रगतफलकत्वाधिकरणे सूत्रे ३८३९) फलसंयोगस्त्वचोदिते न स्यादशेषभूतत्वात् । ४,३.३८ । अङ्गानां तूपघातसंयोगो निमित्तार्थः । ४,३.३९ । ____________________________________________________ ४,३.२६२७ सप्तदशाधिकरणमारचयति पैश्वानरेष्ट्या पूतत्वं पितुः पुत्रस्य वाग्रिमः । कर्तुरेव फलं युक्तं कर्तृत्वं पितुरेव हि ॥ ४,३.२६ ॥ जाते यस्मिन्निष्टिमेतां निर्वपेत्तस्य पूतत । तच्चेप्सितं पितुस्तेन पिता तत्र प्रवर्तते ॥ ४,३.२७ ॥ काम्योष्टिकाण्डेऽवैश्वानरं द्वादशकपालं निवषेत्पुत्रे जातेऽ इति प्रकृत्य श्रूयतेऽयस्मिन्जात एतामिष्टिं निर्वपति पूत एव तेजख्यन्नाद इन्द्रियावी पशुनान्भवतिऽ इति । तत्र पितुः प्रबुद्धस्य कर्तृत्वम्, न तु मुग्धस्य पुत्रस्य । ततोऽनुष्ठानफलयोर्वैयधिकरण्यपरिहाराय पितुरेव पूतत्वादि फलमिति चेत् । मैवम् । ऽयस्मिञ्जाते निर्वपति स पूतःऽ इति वाक्येन फलस्य पुत्रसंबन्धावगमात् । न च अत्र निष्फलस्य पितुरप्रवृत्तिः इति वाच्यम् । पुत्रनिष्ठपूतत्वादेरीप्सितत्वेन स्वफलबुद्ध्याप्रवृत्तिसंभवात् । तस्मात्पुत्रस्य पूतत्वादिकम् ॥ ४,३.२६२७ ॥ (अष्टादशे जातेष्टिन्यायान्तर्गते वैश्वानरेष्टेर्जातकर्मोत्तरकालता धिकरणे वर्णकान्तरेणोक्तमेव सूत्रम्) अङ्गानां तूपघातसंयोगो निमित्तार्थाः ॥ ४,३.३१ ॥ ____________________________________________________ ४,३.२८२९ अष्टादशाधिकरणमारचयति जन्मानन्तरमेवेष्टिर्जातकर्मणि वा कृते । निमित्तानन्तरं कार्य नैमित्तिकमतोऽग्रिमः ॥ ४,३.२८ ॥ जातकर्मणि निर्वृत्ते स्तनप्राशनदर्शनात् । प्रागेवेष्टौ कुमारस्य विपत्तेरूर्ध्वमस्तु सा ॥ ४,३.२९ ॥ पुत्रजन्मनो वैश्वानरेष्टिनिमित्तित्वात्, नैमित्तिकस्य कालविलम्बायोगात्, जन्मानन्तरमेवोष्टिः इति चेत् । मैवम् । स्तनप्राशनं तावज्जातकर्मानन्तरं विहितम् । यदि जातकर्मणः प्रागेव वैश्वानरेष्टिर्निरुप्येत, तदा स्तनप्राशनस्यात्यन्तविलम्बात्पुत्रो विपद्येत । तथा सति पूतत्वादिकमिष्टिफलं कस्य स्यात् । तस्मात्न जन्मानन्तरम्, किंतु जातकर्मण ऊर्ध्व स्त्रेष्ठिः ॥ ४,३.२८२९ ॥ (एकोनविंशेजातेष्टिन्यायान्तर्गते वैश्वानरेष्टेराशौचापगमो त्तरकालाताधिकरणे वर्णकान्तरेणोक्तमेव सूत्रम् ) अङ्गानां तूपघातसंयोगो निमित्तार्थः ॥ ४,३.३९ ॥ ____________________________________________________ ४,३.३० एकोनविंशाधिकरणमारचयति जातकर्मानन्तरं स्यादाशौचेऽपगतेऽथवा । निमित्तसनिधेराद्यः कर्तृशुद्ध्यर्थमुत्तरः ॥ ४,३.३० ॥ यद्यपि जातकर्मानन्तरमेव तदनुष्ठाने निमित्तभूतं जन्म संनिहितं भवति, तथाप्यशुधिना पित्रानुष्ठोयमानमङ्गविकलं भवेत् । जातकर्मणि तु विपत्तिपरिहाराय तात्कालिकी शुद्धिःशास्त्रेणैव दर्शिता । ततो मुख्यसंनिधेरवश्यं वाधिकत्वाच्छुद्धिलक्षणाङ्गवैकल्यं वारयितुमाशौचादूर्ध्वमिष्टिं कुर्यात् ॥ ४,३.३० ॥ (विंशे सौत्रामण्याद्यङ्नानां स्वकालकर्तव्यताधिकरणे सूत्रे ४०४१) प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम् । ४,३.४० । अप्रवृत्ते तु चोदना तत्सामान्यात्स्वकाले स्यात् । ४,३.४१ । ____________________________________________________ ४,३.३१३२ विंशाधिकरणमारचयति अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी । अङ्गिकाले स्वकाले वा स्यादाद्योऽन्याङ्गवन्मतः ॥ ४,३.३१ ॥ निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः । स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम् ॥ ४,३.३२ ॥ ऽअग्निं चित्वा सौत्रामण्या यजेतऽऽवाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतऽ इत्यत्र सौत्रामणीबृहस्पतिसवयारेङ्गत्वं पूर्वमुक्तम् । तच्चाङ्गमङ्गिकालेऽङ्गिना सह प्रयोक्तव्यम् । इतरेषामङ्गानां तथा प्रयुज्यमानत्वातिति चेत् । मैवम् । क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निर्वृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात् । यदिअङ्गिना सहैकप्रयोगः स्यात्, तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत । न हि अङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम् ततः पृथग्प्रयोगेऽवश्यभाविनि सति स्वस्वचोदकप्रपिते तदनुष्ठानं युक्तम् । सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चेदकप्राप्तः । चयनेन सहैकप्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दन सौत्रामणी व्रसज्येत । तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वात्, वसन्तकालश्चोदकप्राप्तः । वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवोऽपि शरदि प्रसज्येत । तस्माततिदिष्टे पर्वणि वसन्ते च तदनुष्ठानम् । ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्व जनयितव्यम्, इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनप्रङ्गं निरर्थकमिति चेत् । न । तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात् । तस्मात्नाङ्गिनः कालेऽनुष्ठानम्, किंतु स्वकाले इति स्थितम् ॥ ४,३.३१३२ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य तृतीयः पादः _________________________________________________________________________ अथ चतुर्थाध्यायस्य चतुर्थ पादः । (प्रथमे राजसूयेज्यानां देवनाद्यङ्गकत्वाधिकरणे सूत्रे १२) प्रकरणशब्दसामान्याच्चोदनानामनङ्गत्वम् । ४,४.१ । अपि वाङ्गमनिज्याः स्युस्ततो विशिष्टत्वात् । ४,४.२ । ____________________________________________________ ४,४.१२ चतुर्थपादे प्रथमाधिकरणमारचयति राजसूयेऽनुमत्यादि देवनादि च ते उभे । मुख्ये उतैकमुख्यत्वं स्यादाद्यः प्रक्रियैक्यतः ॥ ४,४.१ ॥ यागानां राजसूयत्वादङ्गित्वं फलवत्त्वतः । देवनाद्यफलं यत्तदङ्गं फलवतो यजेः ॥ ४,४.२ ॥ राजसूयप्रकरणे यागरूपा अनुमत्यादयो बहवः श्रुताःऽअनुमत्यै पुरोडाशमष्टाकपालं निर्वपतिऽऽनैऋतमेककपालम्ऽऽआदित्यं चरु निर्वपतिऽऽआग्नावैष्णवमेकादशकपालम्ऽ इत्यादयः । यथैता इष्टयः, तथा पशवोऽपि श्रुताःऽआदित्यां मल्हां गर्भिणीमालभते,ऽऽमारुतीं पृश्रिम्ऽऽप्रष्ठौहीमश्विभ्याम्ऽ इत्यादि । मल्हा मणिला गलस्तनयुक्तेत्यर्थः । तस्या अदितिर्देवता । पृश्रिरल्पतनुः । तस्या मरुतो देवता । यावता वयसा वर्षत्रयरूपेण पृष्ठे भारं वोढुं शक्तिर्भवति, तावद्वयस्का प्रष्ठौही । तस्या आश्विनौ देवता । एवमभिषेचनीयदशपेयादयः सोमयागाः श्रुताः । तथाऽवल्मीकवपायां होमःऽ इत्यादयो दर्विहोमाः । यथैत इष्टिपशुसोमदर्विहोमाश्चतुर्विधा यागरूपाः, एवमयागरूपा अपि द्यूतादयः श्रुताःऽप्रष्ठौहीं दीव्यतिऽऽअक्षैर्दीव्यतिऽऽराजन्यं जिनातिऽऽशौनः शेपमा ख्यापयतिऽ इत्यादयः । तत्र यागा यथा मुख्याः, तथा देवनादीनामपि मुख्यत्वं युक्तम् । प्रकरणपाठस्योभयत्र समानत्वातिति प्राप्ते, ब्रूमःऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्राऽख्यातवाच्यायां भावनायां धातुवाच्यो यागः करणम् । राजसूयशब्दश्चाप्रसिद्धार्थत्वाद्यागसामानाधिकरण्येन तन्नामधेयं भवति । तथा सतिऽराजसूयेन यागेन स्वाराज्यं भावयेत्ऽ इति वाक्यार्थपर्यवसानादनुमत्यादीनां यागानामेव फलवत्त्वादङ्गित्वम्, तत्संनिधौ श्रूयमाणमफलं देवनादिकं यागाङ्गम् ॥ ४,४.१२ ॥ (द्वितीये देवनस्य कृत्स्नराजसूयाङ्गताधिकरणे सूत्रे ३४) मध्यस्थं यस्य तन्मध्ये । ४,४.३ । सर्वासां वा समत्वाच्चोदनातः स्यान्न हि तस्य प्रकरणं देशार्थमुच्यते मध्ये । ४,४.४ । ____________________________________________________ ४,४.३ द्वितीयाधिकरणमारचयति एकस्यैवाभिषेच्यस्य तदङ्गं निखिलस्य वा । राजसूयस्यापकर्षादाद्यः प्रक्रिययोत्तरः ॥ ४,४.३ ॥ यदेतत्देवनादिकमङ्गमित्युक्तम्, तदेतभिषेचनीयस्य सोमयागस्यैकस्यैवाङ्गम् । कुतः । अपकर्षात् । यद्यपि अभिषेचनीयविधेरूर्ध्वे तत्संनिधौ देवनादयः समाम्नाताः, तथापि अभिषेचनीयमध्वे तेऽपकृष्यन्ते । ऽमाहेन्द्रस्य स्तोत्रं प्रत्यभिषिच्यतेऽ इति वाक्येन राज्ञो यजमानस्याभिषेको माध्यंदिनसवने स्तोत्रकालेऽपकृष्यते । तस्मिन्नपकृष्टे सति ततः पूर्वमाम्नातानां देवनादीनामर्थसिद्धोऽपकर्षः । ततो माहेन्द्रस्तोत्रादिवदभिषेचनीयप्रयोगान्तः पातित्वाद्देवनादिकमभिषेचनीय स्वैवाङ्गमिति प्राप्ते, ब्रूमः किं तदङ्गत्वे संनिधिः प्रमाणम्, किंवा प्रयोगपरिकल्पितमवान्तर प्रकरणम् । उभयथापि प्रत्यक्षस्य महाप्रकरणस्य प्रबलत्वाद्देवनादिकं राजसूयस्याङ्गम् । राजसूयशब्दश्चानुमत्यादीन्सर्वान्यागानभिधत्ते । तस्मात्सर्वेषामेतदङ्गम् । अनुष्ठानं तु राजसूयमध्ये क्वचिदपेक्षितमिति वचनबलादभिषेचनीयगतमाहेन्द्रस्तोत्रकाले तदनुष्ठीयते ॥ ४,४.३ ॥ (तृतीये सौम्यादीनामुपसत्कालकत्वाधिकरणे सूत्रे ५६) प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम् । ४,४.५ । अपि वा कालमात्रं स्याददर्शनाद्विशेशस्य । ४,४.६ । ____________________________________________________ ४,४.४५ तृतीयाधिकरणमारचयति किं पुरस्तादुपसदां सौम्येन प्रचरेदिति । अङ्गाङ्गिभावः कालो वा वाक्यादाद्यः प्रतीयते ॥ ४,४.४ ॥ पुरस्तादिति कालोऽत्र भाति कालविधिस्ततः । नाङ्गं कस्यापि सौम्यादि प्रधानमितरेष्टिवत् ॥ ४,४.५ ॥ राजसूये संसृच्छब्दवाच्यान्याग्नेयाष्टाकपालादीनि । तेष्वष्टमनवमदशमानि सौम्य त्वाष्ट्रवैष्णवानि । तद्विषयमिदं वाक्यमाम्नायतेऽपुरस्तादुपसदां सौम्येन प्रचरन्ति, अन्तरा त्वाष्ट्रेण, उपरिष्टाद्वैष्णवेनऽ इति । योऽयं राजसूये सोमयागः, तस्मिन्नतिदिष्टानामुपसदामादिमध्यावसानेषु सौम्यादीनां त्रयाणामनुष्ठानमनेन वाक्येन चोद्यते । ततो वाक्यात्सौम्यादीन्युपसदामङ्गानि इति प्राप्ते, ब्रूमःऽउपसदाम्ऽ इति षष्ठ्याः कालवाचिनाऽपुरस्तात्ऽ इति शब्देनान्वयात् । सौम्यादीनां कालविशेषसंबन्धपरमिदं वाक्यम्, न त्वङ्गाङ्गिभावपरम् । ततो न कस्याप्यङ्गं सौम्यादिकम्, किंतु अनुमत्यादिवत्प्रधानम् ॥ ४,४.४५ ॥ (चतुर्थे आमनहोमानां सांग्रहण्यङ्गताधिकरणे सूत्रम्) फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात् । ४,४.७ । ____________________________________________________ ४,४.६ चतुर्थाधिकरणमारचयति मुख्यताऽमनहोमस्य सांग्रहण्यङ्गताथवा । मुख्यत्वमविरुद्धत्वात्फलाय स्यात्तदङ्गता ॥ ४,४.६ ॥ काम्येष्टिकाण्डे श्रूयतेऽवैश्वदेवीं सांग्रहणीं निर्वपेद्प्रामकायःऽ इति । तत्र आमनहोमाः श्रुताःऽआमनस्य आमनस्य देवाः इति तिस्त्र आहुतीजुहोतिऽ इति । त एत आमनहोमाः सांग्रहण्येष्ट्या सह समप्रधानभूताः । न हि तेषां मुख्यत्वे कश्चिद्विरोधोऽस्ति । दृष्टं ह्याग्नेयादिष्वनुमत्यादिषु च बहूनां मुख्यत्वमिति चेत् । मैवम् । ऽदर्शपूर्णमासाभ्यां स्वर्गकामःऽ इति वाक्येनऽस्वाराज्यकामो राजसूयेनऽ इति वाक्येन च यथा बहूनां फलसंबन्धावगमः, तथाऽमनहोमानाम् । फलसंबन्धाभावे सति प्राधान्यायोगात् । ऽसांग्रहणीं निर्वपेद्ग्रामकामःऽ इति वाक्यं तु सांग्रहण्याः संनिधावाम्नाता अफला आमनहोमास्तदङ्गम् ॥ ४,४.६ ॥ (पञ्चमे दधिग्रहस्य नित्यताधिकरणे सूत्राणि ८११) दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् । ४,४.८ । नित्यश्च ज्येष्ठशब्दात् । ४,४.९ । सार्वरूप्याच्च । ४,४.१० । नित्यो वा स्यादर्थवादस्तयोः कर्मण्यसंबन्धाद्भङ्गित्वाच्चान्तरायस्य । ४,४.११ । ____________________________________________________ ४,४.७८ पञ्चमाधिकरणमारचयति नित्यनैमित्तिकत्वे वा नित्यतैव दधिग्रहे । देवान्तरायाज्ज्यैष्ठ्याच्च स्यादस्योभयरूपता ॥ ४,४.७ ॥ निमित्तत्वद्योतिनोऽत्र यदिशब्दादयो न हि । अतोऽस्य न निमिसत्वं केवला नित्यतोचिता ॥ ४,४.८ ॥ ज्योतिष्टोमे श्रूयतेऽयां वै कांचिदध्वर्युयजमानश्च देवतामन्तरीतः, तस्या आवृश्च्येते । यत्प्राजापत्यं दधिग्रहं गृह्णाति, शमयत्येवैनाम्ऽ इति सोऽयं दधिग्रहो नित्यो नैमित्तिकश्चेत्युभयात्मकः । कुतः । आकारद्वयसाधकसद्भावात् । देवतान्तरायेण तद्देवताक्षोभनुपन्यस्य ग्रहेण शमनाभिधानात् । अन्तरायो निमित्तम्, ग्रहो नैमित्तिक इति प्रतिभाति । तथा ज्येष्ठत्वमाम्नातम्ऽज्येष्ठो वा एष ग्रहाणाम्ऽ इति । ज्येष्ठत्वं नाम पशस्तत्वम् । तच्च नित्यत्वे सत्युपपद्यते । नैमित्तिकस्य पाक्षिकत्वादप्रशस्तत्वम् । तस्माथेतुद्वयबलादुभयात्मकः इति चेत् । मैवम् । देवतान्तरायस्य निमित्तत्वाभावात् । निमित्तत्वे यदिशब्द उपबध्येत, सप्तमी वा श्रूयते । यच्छब्दो वान्तरायकर्त्रोरध्वर्युयजमानयोः सामानाधिकरण्येन प्रयुज्येत । ऽयदि रथंतरसामा सोमः स्यादैन्द्रवायवाग्रान्गरहान्गृह्णीयात्ऽऽभिन्ने जुहोति, यो वै संवत्सरमुख्यमभृत्वाग्निं चिनुतेऽ इत्यादिषु संप्रतिपन्ननिमित्तेषु तद्दर्शनात् । तस्मात्केवलनित्यत्वमेव दधिग्रहस्योचितम् । देवतास्त्रोभतत्समाधानोपन्यासो विधेयदधिग्रहस्तुतयेर्ऽथवादः ॥ ४,४.७८ ॥ (षष्ठे वैश्वानरस्य नैमित्तिकत्वाधिकरणे सूत्रे १२१३) वैश्वानरश्च नित्यः स्यान्नित्यैः समानसंख्यत्वात् । ४,४.१२ । पक्षे वोत्पन्नसंयोगात् । ४,४.१३ । ____________________________________________________ ४,४.९ षष्ठाधिकरणमारचयति नित्यो नौमित्तिको वा स्याद्यागो वैश्वानरश्चितौ । नित्यः पुरेव यच्छब्दादविरोधाच्च पश्चिमः ॥ ४,४.९ ॥ अग्निचयने श्रूयतेऽयो वै संवत्सरमुख्यमभृत्वाग्निं चिनुते । यथा सामिनर्भो विपद्यते, तादृगेव तदार्तिमार्छेत् । वैश्वानरं द्वादशकपालं पुरस्तान्निर्वपेत्ऽ इति । उखा पिठरः । तामुखाम्ऽयञ्जानः प्रथमं मनःऽ इत्यादिप्रपाठकाम्नातैर्मन्त्रैः संपाद्य, तस्यामुखायामग्निं निधाय, षडुद्यामे द्वादशोद्यामे वा शिक्ये तामुखामवस्थाप्य, तच्छिक्यं स्वकण्ठे बद्ध्वा, तमुख्यमग्निं संवत्सरं भृत्वा पश्चादिष्टकाभिरग्निश्चेतव्यः । अभरणे त्वपूर्णगर्भपातवद्विनाशः स्यात् । ततो वैश्वानरेष्टिं चयनात्प्रागेव कुर्यात्, इत्यर्थः । अत्राप्यन्तरायवाक्यवदभरणवाक्यस्यार्थवादत्वान्नित्या वैश्वानरेष्टिः इति चेत् । मैवम् । ऽयः पुमानभृत्वाग्निं चिनुते, स निवपेत्ऽ इति कर्तृसमानाधिकृतयच्छब्दबलादभरणेष्टयोर्निमित्तनैमित्तिक भावाबभासात् । किंच दधिग्रहस्य नित्वस्य पाक्षिकत्वरूपं नैमित्तिकत्वं विरुद्धम् । इह तु नित्यत्वे प्रमाणभावादेकमेव नैमित्तिकत्वमित्वविरोधः ॥ ४,४.९ ॥ (सप्तमे षष्ठाचितेर्नैमित्तिकत्वाधिकरणे सूत्राणि १४१८) षट्चितिः पूर्ववत्त्वात् । ४,४.१४ । ताभिश्च तुल्यसंख्यानात् । ४,४.१५ । अर्थवादोपपत्तेश्च । ४,४.१६ । एकचितिर्वा स्यादपवृक्ते हि चोद्यते निमित्तेन । ४,४.१७ । विप्रतिषेधात्ताभिः समानसंख्यम् । ४,४.१८ । ____________________________________________________ ४,४.१० सप्तमाधिकरणमारचयति नित्या षष्ठी चितिर्नो वा पञ्चापेक्षत्वतोऽग्निमः । अपवृक्तावप्रतिष्ठानिमित्तीकृतितोऽन्तिमः ॥ ४,४.१० ॥ अग्नौ श्रूयतेऽसंवत्सरो वा एनं प्रतिष्ठायै नुदते, यो अग्निं चित्वा न प्रतितिष्ठति, पञ्च पूर्वाश्चितयो भवन्ति, अथ षष्ठीं चितिं चिनुतेऽ इति । लाङ्गलेन कृष्टे व्याममात्रे भूप्रदेशे नानाविधाभिरिष्टिकाभिः पक्ष्याकारेण स्थानं निष्पाद्यते, सेयं चितिः । तादृश्यः पञ्च चितयः पूर्वाः क्रियन्ते । ततः षष्ठी चितिः । तत्रऽषण्णां पूरणी षष्ठीऽ इति व्युत्पत्तौ पूर्वाः पञ्च चितूरपेक्षत्रे । अन्यथा षट्संख्यापूरकत्वासंभवात् । तस्मातेकप्रयोगनियमादितरचितिवन्नित्या इति चेत् । मैवम् । ऽअग्निं चित्वाऽ इति पूर्वाभिरेव पञ्चमिश्चित्यस्याग्निचयनस्य समाप्तौ स्त्रत्यां पश्चात्ऽयोऽत्र न प्रतितिष्ठति, असौ षष्ठीं चिनुतेऽ इति कर्तृसमानाधिकृतेन यच्छब्देनाप्रतिष्ठां निमित्तीकृत्त्य विधानात्षष्ठी नैमित्तिकी । ततः पञ्चचितिको नित्योऽग्निः, नैमित्तिकस्त्वेकचितिकः, इति प्रयोगैक्यम् । पूरणप्रत्ययस्त्वभिधानापेक्षयोपपद्यते । ऽपूर्वाः पञ्च चितयोऽभिहिताः । अथाभिधास्यमानां षष्ठीं चितिं चिनुते, इति वचनव्यक्तिः ॥ ४,४.१० ॥ (अष्टमे पिण्डपितृयज्ञस्यानङ्गताधिकरणे सूत्राणि १९२१) पितृयज्ञः स्वकालत्वादनङ्गं स्यात् । ४,४.१९ । तुल्यवत्प्रसङ्ख्यानात् । ४,४.२० । प्रतिषिद्धे च दर्शनात् । ४,४.२१ । ____________________________________________________ ४,४.११ अष्टमाधिकरणमारचयति क्रत्वङ्गं स्यान्न वा पिण्डपितृयज्ञः क्रतौ हि सः । अमाषास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ ४,४.११ ॥ इदमाम्नायतेऽअमावास्यायामपराह्णे पिण्डपितृयच्चेन चरन्तिऽ इति । तत्रअमावास्याशब्दवाच्ये कर्मणि विधीयमानत्वादयं पिण्डपितृयज्ञः क्रत्वङ्गमिति चेत् । मैवम् । अमावास्याशब्दस्य कालवाचित्वात् । कर्मणि त्वयं शब्दो लाक्षणिकः । न च वाक्येन क्तत्वङ्गत्वाभावेऽपि प्रकरणेन तद्भेवतिति वाच्यम् । तस्यानारभ्याधीतत्वात् । तस्मातयं पुरुषार्थः ॥ ४,४.११ ॥ (नवमे रशनाया यूपाङ्गताधिकरणे सूत्राणि २२२४) पश्वङ्गं रशना स्यात्तदागमे विधानात् । ४,४.२२ । यूपाङ्गं वा तत्संस्कारात् । ४,४.२३ । अर्थवादश्च तदर्थवत् । ४,४.२४ । ____________________________________________________ ४,४.१२ नवमाधिकरणमारचयति रज्जुर्हितीया पश्वर्था यूपार्था वान्वयात्पशौ । पश्वर्था त्रिवृत्रा यूपं परिवीयेति यूपगा ॥ ४,४.१२ ॥ ज्योतिष्टोमे श्रूयतेऽआश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाऽग्नेयं सबनयिं पशुमुपाकरोतिऽ इति । तत्र सवनीयपशोरग्नीषोमीयविकृतित्वाच्चोदकप्राप्तं यूपपरिव्याणं कालोपलक्षणार्थमनूद्य परिव्याणोत्तरकाले त्रिवृद्रशनोपलक्षितपशोरुपाकरणं विधीयते । ततोऽत्र रशनायाः पश्वन्वयात्पशुबन्धनेन पशोरितस्ततोऽपक्रमणनिवारणरूपदृष्टार्थ लाभाच्च पश्वर्था रशना इति चेत् । मैवम् । ऽत्रिवृताऽ इति तृतीययाऽयूपम्ऽ इति द्वितीयया च शेषशेषिभावावनमात्, अव्यवहितान्वयलाभाच्च रशना यूपार्था । कालस्तुऽआश्विनं ग्रहं गृहीत्वाऽ इत्यनेनैवोपलक्षितः । पश्वनपक्रमणवद्यूपदार्ड्यमपि दृष्टमेव प्रयोजनम् । न च परिव्याणेन दोर्ढ्य चोदकादेव सिद्धम् इति वाच्यम् । तस्मिन्सिद्धिसति पुवर्विधानादेव द्वितीयया रशनया परिव्याणान्तराङ्गीकारात् । तस्मात् इयं द्वितीया रशना यूपार्था ॥ ४,४.१२ ॥ ( दशमे स्वरोः पश्वङ्गताधिकरणे सूत्राणि २५२८) स्वरुश्चाप्येकदेशत्वात् । ४,४.२५ । निष्क्रयश्च तदङ्गवत् । ४,४.२६ । पश्वङ्गं वा तदर्थः स्यात् । ४,४.२७ । भक्त्या निष्क्रयवादः स्यात् । ४,४.२८ । ____________________________________________________ ४,४.१३ दशमाधिकरणमारचयति स्वरुर्यूपे पशौ वाङ्गं यूपस्येत्युक्तितोऽग्रिमः । स्वरुणा पशुमञ्ज्यादित्युक्तेः पश्वङ्गता स्फुटा ॥ ४,४.१३ ॥ अग्नीषोमीयपशौ श्रूयते ऽयूपस्य स्वरुं करोतिऽऽस्वरुणा पशुमनक्तिऽ इति । तत्र स्वरोर्यूपसंबन्धभिधानाद्यूपाङ्गत्वम् इति चेत् । मैवम् । ऽस्वरुणा पशुम्ऽ इति तृतीयया द्वितीयया चाङ्गाङ्गिभावावगतौ संवन्धसामान्यवाचिन्याः षष्ठ्या यूपीयच्छेदनजन्यत्वाभिप्रायेणापि नेतुं शक्यत्वात् । तस्मात्स्वरुः पश्वङ्गम् ॥ ४,४.१३ ॥ (एकादशे आघारादीनामङ्गताधिकरणे सूत्राणि २९३८) दर्शपूर्णमासयोरिज्याः प्रधानान्यविशेषात् । ४,४.२९ । अपि वाङ्गानि कानिचिद्येष्वङ्गत्वेन संस्तुतिः सामान्यो ह्यभिसंबन्ह्दः । ४,४.३० । तथा चान्यार्थदर्शनम् । ४,४.३१ । अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् । ४,४.३२ । नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् । ४,४.३३ । पृथक्त्वे त्वभिधानयोर्निवेशः श्रुतितो व्यपदेशाच्च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्संनिधावसंयुक्तं तदङ्गं स्याद्भागित्वात्कारणस्याश्रुतश्चान्यसंबन्धः । ४,४.३४ । गुणाश्च नामसंयुक्ता विधीयन्ते नाङ्गेषूपपद्यन्ते । ४,४.३५ । तुल्या च कारणश्रुतिरन्यैरङ्गाङ्गिसंबन्धः । ४,४.३६ । उत्पत्तावभिसंबन्धस्तस्मादङ्गोपदेशः स्यात् । ४,४.३७ । तथा चान्यार्थदर्शनम् । ४,४.३८ । ____________________________________________________ ४,४.१४ एकादशाधिकरणमारचयति आघारादेश्च मुख्यत्वं न वाऽग्नेयादिवत्तु तत् । षण्मुख्या नामतः सिद्धाःशेषा अन्येऽङ्गसंस्तुतेः ॥ ४,४.१४ ॥ दर्शपूर्ण मासयोराघाराज्यभागप्रयाजानुयाजादयः कालसंयोगमन्तरेणाऽम्नाताः । आग्नेयादयः षड्यागाः कालसंयोगेन चोदिताः । तत्र आग्नेयादीनां यथा प्राधान्यमङ्गीकृतम्, तथैवाऽघारादीनामप्यङ्गीकर्तव्यम् । यथा राजसूये परस्परविलक्षणानामिष्टिपशुसोमानां बहूनां समप्राधान्यम्, तद्वत् । एकप्रकरणपाठश्चोभयत्रापि समानः । तस्मात् आघारादीनामाग्नेयादीनां च समप्रधान्यम् इति प्राप्ते ब्रूमःऽराजा स्वाराज्यकामो राजसूयेन यजेतऽ इत्यत्र राजसूयशब्दो राजसंबन्धात्प्रवर्तमानो राजकर्तृकाणामेकप्रकरण पठितानां सर्वेषां यागानां नामधेयं भवति । दर्शपूर्णमासशब्दौ तु कालवाचिनौ सन्तौ कालसंयोगेन विहितानामेवाऽग्नेयादीनां षण्णां यागानां नामधेयतां प्रतिपद्येते । ततःऽदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतऽ इति वाक्येन तन्नामधेयवशादाग्नेयादयः षडेव यागाः फलसंबन्धित्वेन प्रतीयमाना मुख्याः । अन्ये त्वाज्यभागाघारादयस्तन्नामरहिता निष्फला आग्नेयादीनां शेषाः । एवं सत्यङ्गत्वेन स्तुतिरुपपद्यते । ऽचक्षुषी वा एते यज्ञस्य, यदाज्यभागौऽ इत्याज्यभागौ यज्ञशरीरस्याङ्गिनोऽङ्गत्वेन स्तूयेते । ऽयत्प्रयाजानुयाजा इज्यन्ते वर्म वा एतश्चज्ञाय क्रियतेऽ इति यज्ञशरीरोपकारकवर्मत्वेन प्रयाजानुयाजाः स्तूयन्ते । एवमाघारादिषूदाहार्यम् । एतच्च सति सादृश्ये संभवति । तस्मात् आधारादीनां नास्ति मुख्यत्वम् ॥ ४,४.१४ ॥ (द्वादशे ज्येतिष्टोमे दीक्षणीयादीनामङ्गताधिकरणे सूत्राणि ३९४१) ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम् । ४,४.३९ । गुणानां तूत्पत्तिवाक्येन संबन्धात्कारणश्रुतिस्तस्मात्सोमः प्रधानं स्यात् । ४,४.४० । तथा चान्यार्थदर्शनम् । ४,४.४१ । ____________________________________________________ ४,४.१५ द्वादशाधिकरणमारचयति मुख्या न वा दीक्षणीया मुख्या स्यात्सोमसाम्यतः । ज्योर्तिषि यस्य स्तोमाः स्युरिति सोमैकमुख्यता ॥ ४,४.१५ ॥ ऽज्योतिष्टोमेन स्वर्गकामो यजेतऽ इत्यस्य प्रकरणे ऐन्द्रवायवग्रहादयः सोमयागाः, दीक्षणीयादीष्टयः, अग्नीषोयादि पशवः, अग्नीषोयादिपशवः, आम्नाताः । तत्र आग्नेयादिपक्षपातिदर्शपूर्णमासनामवज्ज्योतिष्टोमनाम्नः सोमपक्षपाते हेत्वभावेन राजसूयनामवत्प्रकृतसर्वयागसाधारणत्वात्, सोमसमानानां दीक्षणीयादीनामप्यस्ति मुख्यत्वमिति चेत् । मैवम् । सोमयागपक्षपाते हेतुसद्भावात् । ऽज्योर्तीषि स्तोमा यस्य यज्ञस्य सोऽयं ज्योतिष्टोमःऽ इति हि तद्व्युत्पत्तिः । अत एव ब्राह्मणम् ऽत्रिवृत्, पञ्चदशः, सप्तदशः, एकविंशः, एतानि वाय तानि ज्योतिंषि य एतस्य स्तोमाःऽ इति । स्तोमानां ज्योतिष्ट्वं यज्ञप्रकाशकत्वम् । न चेष्टयः पशवो वा त्रिवृदादिस्तोमयुक्ताः प्रतिभासन्ते । तस्मात् ज्योतिष्टोमनाम्ना सोमयागानामेव फलसंबन्धावगमादफला इष्टिपशवो न मुख्या इति सोमयागानामेव प्राधान्यम् ॥ ४,४.१५ ॥ इति श्रीमाधवीये जैमिनीयन्यायमालाविस्तरे चतुर्थाध्यायस्य चतुर्थपादः चतुर्थोऽध्यायश्च समाप्तः ॥