पृष्ठ. ५८ _____________________________________________________________________ भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते ॥ २,१.१ ॥ संबन्धं तावल्लक्षणद्वयस्य करोति । तत्र प्रथमेऽध्याये प्रमाणलक्षणं वृत्तमित्युक्तम् । तदयुक्तम् । कुतः । नैव हि प्रथमेऽध्याये सूत्रकारेण किंचन । लक्षणेन प्रमाणादेः स्वरूपमुपवर्णितम् ॥ १ ॥ तन्नाम लक्षणमुच्यते येन तद्व्यतिरिक्तेभ्यस्तस्य स्वरूपं व्यावृत्ताकारं निरूप्यते । न चैवं प्रमाणादिलक्षणमुक्तम् । अनुमानादीनि तावन्नैव सूत्रितानि । प्रत्यक्षमपि धर्मं प्रत्यनिमित्तत्वेनोपन्यस्तं न लक्ष्यत्वेनेति व्याख्यातम् । न च शब्दोऽपि धर्मप्रमाणभूतः कश्चिल्लक्षितः, अस्मिन्नेवाधिकरणे तस्य लक्ष्यमाणत्वात् । यदपि वृत्तिकारेण सर्वेषां लक्षणं प्रदर्शितं न तदध्यायार्थत्वेनोपसंहर्तुं युक्तम् । सूत्राध्यायार्थानुपसंहारात् । कथं च समस्तलक्षणार्थव्यतिरिक्त एवार्थे सूत्राणि क्षीयेरन् । अपि च वृत्तिकारेण योऽप्युक्तः षट्कः प्रत्यक्षपूर्वकः । अपरीक्ष्यतया सोऽपि नैव लक्षणगोचरः ॥ २ ॥ पृष्ठ. ५९ लोकप्रसिद्धार्थानि हि तान्यपरीक्ष्यत्वेनोक्तानि न प्रथमाध्यायविषयत्वेनोपसंहारमर्हन्ति । तस्माद्यत्प्रथमेऽध्याये वृत्तं तदालोच्यैतद्भाष्यं नेयम् । तत्र प्रमाणलक्षणं तावच्चोदनालक्षणाश्रयम् । विध्यादितत्त्वनिर्णीतिः प्रमाणेनैव च स्थिता ॥ ३ ॥ समस्तो हि प्रथमः पादश्चोदनालक्षणसूत्रपरिकरः । तत्र च धर्मस्य चोदनालक्षणत्वमुक्तम् । अतोऽवधारितार्थलक्षणशब्दसाहचर्यात्प्रमाणशब्दः प्रमीयते इत्येवं व्युत्पाद्य धर्मविषय एव व्याख्येयः । सत्यपि प्रमेयमात्रवाचित्वेऽस्मिन् शास्त्रे जिज्ञास्यत्वेन धर्मः प्रक्रान्त इति स एव गृह्यते । अथ वा करणमेव प्रमाणम्, तस्यैव लक्षणमुक्तम् । यद्यपि च सर्वप्रमाणानां तन्नोक्तं तथापि धर्मप्रमाणस्य चोदनात्वं नाम लक्षणमित्येतावतैवोक्तं मन्यते । न चावश्यं सर्वात्मनैव लक्षिते लक्षणत्वम् । विशेषरूपाणामानन्त्येन सर्वलक्षणाभा पृष्ठ. ६० वप्रसङ्गात् । अपि चौत्पत्तिकसूत्रेण विशेषोऽप्युक्त एव येनागमविशेषो गम्यते । अथ वोपन्यस्तस्य चोदनात्मकस्य प्रमाणस्य लक्षणं प्रामाण्यकारणमुक्तमित्युपसंहारः । तथा यद्यपि विधेरिदं रूपमिदमर्थवादस्येदं मन्त्रस्येत्येवं नोक्तं तथापि धर्मं प्रत्युपयोगाभिधानात्तत्त्वं निर्णीतम् । अवसराभावात्तु तत्स्वरूपं न निर्दिष्टम् । श्रुतिमूलत्वं विज्ञानस्य स्मृतिप्रामाण्ये तत्त्वम् । नामधेयस्य चोदनान्तर्गतत्वात्प्रमाणत्वम् । संदिग्धार्थनिर्णये वाक्यशेषसामर्थ्ययोः प्रामाण्यमित्येवं समस्तमध्यायं प्रमाणलक्षणमाचक्षते । तन्न प्रस्मर्तव्यमिति । अविस्मृतप्रामाण्यो हि भेदादिप्रतिपादनमविशेषादनर्थकं हि स्यातिति क्रियमाणं सहते । अन्यथा ह्यनर्थकं नामेत्यपि प्रत्यवतिष्ठेत । ननु प्रधानाप्रधानचिन्ता तृतीयचतुर्थयोर्विषयः कथमत्रोपन्यस्यते । केचिदाहुः । इह द्रव्यकर्मणोरुत्तरत्र तु कर्मणामेव गुणप्रधानत्वविचारादपौनरुक्त्यमिति । तदयुक्तम् । द्रव्यगुणसंस्कारेषु इत्यत्र सर्वाभिधानात् । तेनैवं वाच्यम् लक्षणार्थोऽत्र तत्त्वेन भेदः शब्दान्तरादिभिः । पृष्ठ. ६१ तमन्वपूर्वभेदोऽपि प्राधान्यं तत्प्रसिद्धये ॥ ४ ॥ कर्मभेदस्तावदौत्सर्गिको लक्षणार्थः, तदपवादत्वेनाभेदः । तदनुनिष्पादिनौ त्वपूर्वभेदाभेदौ । तत्र प्रतिकर्मभेदमपूर्वभेदप्रसक्तौ तृतीयसिद्धः प्रधानाप्रधानविचारः पुनरपवादत्वेनारप्स्यते । सत्यप्यवहन्त्यादीनां शब्दान्तरादिभिर्भेदे कर्माकाङ्क्षितदृष्टप्रयोजनपर्यवसानान्न क्रियाजन्यापूर्वान्तरोत्पत्तिः । यत्तु नियमापूर्वं तत्क्रियाकृतं न भवतीति न तया व्यपदिश्यते । तेन यत्रैव द्रव्यादीनि प्रति क्रियाणां प्रधानत्वं तत्रैव तद्भेदनिमित्तापूर्वभेदसिद्धिः । अस्य च विवेकार्थं यद्गुणप्रधानलक्षणं वक्ष्यते तदपवादापवादार्थं धर्ममात्रे तु स्तुतशस्त्रयोः इति चाधिकरणद्वयं प्रस्तोष्यते । ततश्चाख्यातद्वैविध्येऽवधारिते प्रसङ्गात्तृतीयं प्रकारमभिधायकत्वं प्रतिपादयितुं मन्त्रप्रस्तावः । तल्लक्षणादीनि तु प्रसक्तानुप्रसक्तेन यावत्पादसमाप्ति । ततः शब्दान्तराभ्यासाभ्यां भेदमुक्त्वा पौर्णमास्यधिकरणेनाभ्यासापवादः करिष्यते समुदायानुवादत्वात् । ततस्तदपवादार्थमुपांशुयाजाघाराग्निहोत्रपशुसोमाधिकरणानि । ततः संख्यासंज्ञागुणैर्भेदः । तावच्च गुणगतो विचारो यावत्प्रकरणान्तराधिकरणम् । ततस्तन्न्यायानुवृत्तिरा शाखान्तराधिकरणात् । तत्र च षट्कातिरिक्तभेदकारणव्युदासः संज्ञाभ्यासगुणप्रक्रियाणां चाशङ्कानिवृत्तिरित्येतावान् भेदलक्षणार्थः । एष एवार्थोऽवश्यं वक्तव्योऽङ्गाङ्गित्वाद्यवधारणार्थम् । न पृष्ठ. ६२ चान्यस्येदानीमवसरोऽस्तीत्ययमेवाध्यायसंबन्धः । कुतः । शेषशेष्यादयः सर्वे कर्मभेदनिबन्धनाः । कार्ये ज्ञातेऽधिकारः स्यादुपदेशेऽतिदेशधीः ॥ ५ ॥ प्राक्तावत्प्रमाणलक्षणाद्वेदार्थविचारात्मकत्वान्न कस्यचिद्भेदलक्षणादेः प्रस्ताव इत्युत्तरकालमारम्भः । तत्रापि शेषशेषित्वं प्रयोजकाप्रयोजकत्वं क्रमश्च भिन्नानां भवतीति न भेदलक्षणात्प्रागारभ्यते । तथाधिकारः कर्मस्वरूपेऽवधारिते तद्योग्यतया शक्यो निरूपयितुमिति पञ्चापि लक्षणानि प्रतीक्षते । तथोत्तरः षट्कोऽतिदेशविषयत्वादुपदेशज्ञानाधीनसिद्धिः समस्तः समस्तं पूर्वषट्कमपेक्षते । ततश्च परिशेषसिद्धोऽयं भेदलक्षणस्य संबन्ध इत्यत्रारभ्यते । षड्विधः कर्मभेदः इति साधनभेदोपचारात् । वक्ष्यमाणसूत्रक्रमानुरोधेन नामधेयं संख्यानन्तरं पठितव्यं सदनादरादन्ते पठितम् । इतिकरणो हेत्वर्थः । षड्विधः कर्मभेद एतैः कारणैरिति यावत् । अथ वा करणे भेदशब्दं व्युत्पाद्य सामानाधिकरण्येनैव शब्दान्तरादीनि व्याख्येयानि । संज्ञाशब्दान्तरयोः संख्यागुणयोश्चापौनरुक्त्यं स्वस्थाने वक्ष्यामः । सर्वदा चैषां भिन्नविषयत्वान्न श्रुत्यादिवद् पृष्ठ. ६३ बलाबलचिन्ता भविष्यतीति तद्भेदप्रतिपादनमात्रं तात्पर्येण । अन्यदुपोद्घातादिना । तत्र चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते । प्रसक्तानुप्रसक्तादि प्रस्तुतादुपजायते ॥ ६ ॥ यथेदमेवाधिकरणं प्रकृतानुनिष्पाद्यपूर्वभेदानुसारसिद्ध्यर्थमुपोद्घातत्वेन भविष्यति । पृष्ठ. ६४ कतरस्मात्पदात्फलेन संबध्यमानादपूर्वभेदाभेदावनुगन्तव्याविति । यदा निरवयवौ वाक्यवाक्यार्थौ स्यातां ततः किं प्रतिपदं धर्म इत्यादिरसंबद्ध एव विचारः स्यात्, अत आह वाक्ये च पदानामर्थाः इति । अत्रापि चोद्यते । चोदनालक्षणत्वेन वाक्यार्थोऽवस्थितो यदा । धर्मः प्रतिपदं वाच्यः कथमाशङ्क्यते तदा ॥ ७ ॥ यदि हि धर्मस्वरूपमभिधीयेत ततः किं पदेन पदेनोच्यते इति विचारो युज्यते, लाक्षणिके त्वयुक्तः । तदुच्यते । धर्मत्वं फलसंबन्धात्पदार्थस्यैव युज्यते । तत्किमेकस्य सर्वेषामिति युक्ता विचारणा ॥ ८ ॥ न चात्र यो धर्मः स किं पदेन पदेनोच्यत इत्येवं विचार्यते, किं तर्हि, यः पदेन पदेनोच्यते स किं फलसंबन्धोत्तरकालं वाक्यार्थात्मना गम्यमानो धर्मो भवति, अथेतरपदार्थानुगृहीत एकः पदार्थ इति । तथा च सर्वैरेकस्य धर्मत्वं प्रतिपादितं भवति । साक्षात्फलसाधनमात्रस्य धर्मत्वाभ्युपगमात् । न तु सर्वेषामेकः कश्चिदर्थोऽस्ति यः सर्वैरेकः इत्येवमाश्रीयेत । यच्च फलपदेन सह पदं संबध्यते तस्यार्थं धर्ममपूर्वसाधनं च मन्यन्ते । तेन किं सर्वाणि पदानि फलेन संबध्यन्ते किं वैकमिति विचारः । किं प्राप्तम् । प्रतिपदमिति । कुतः । ऐकरूप्येण संबन्धः प्रधानेन च सिध्यति । तस्मात्फलपदेनैव सर्वं संबध्यते पदम् ॥ ९ ॥ पृष्ठ. ६५ यदि हि विशेषो गम्येतेइदं फलसंबन्धयोग्यम्, इदं नैति, ततः किंचिदेव संबध्येत । अनवगम्यमाने तु सर्वाणि पदानि फलेनैव संबध्यन्ते । यदि चैकं फलसंबन्धि, इतराणि तत्संबन्धीनीति कल्प्यते, ततो वाजपेयाधिकरणन्यायेनैकस्य फलं प्रत्युपादानविधानगुणभावात्, इतरत्तु प्रत्युद्देशानुवादप्राधान्याद्वैरूप्यनिमित्तवाक्यभेदप्रसङ्गः । सर्वेषां फलं प्रत्युपादीयमानानामैकरूप्यात्तन्त्रसंबन्धोपपत्तिः । सर्वश्च सति संभवे गुणमतिलङ्घ्य प्रधानेनैव नित्यं संबध्यते । तस्मात्सर्वेषां फलसंबन्धाद्धर्मत्वम् । तत्र तु किं सत्रिवत्प्रत्येकं कृत्स्नं फलं साधयन्ति, अथ दर्शपूर्णमासवत्संहत्य, तथा किं विकल्पेन समुच्चयेन वेत्यादि यथेष्टं कल्पनीयम् । तत्र फलभूमगरीयस्त्वात्, एकशब्दोपादानाभावात्, सत्रिवत्प्रत्येकं साधनशक्त्यवगमात्सर्वेभ्यः पृथक्फलमिति पक्षः । अथ वारुणादिन्यायेनैकवाक्योपा पृष्ठ. ६६ दानात्संहतानां फलम् । अथ वैकेन निराकाङ्क्षत्वान्न तदानीमेवेतरसंबन्धोपपत्तिः, तस्माद्विकल्प इति । अत्राभिधीयते । फलेन यस्य संबन्धस्ततोऽपूर्वं प्रकल्प्यते । तदल्पत्वोपपत्तौ च न युक्ता बहुकल्पना ॥ १० ॥ यदि हि फलसंबन्धमात्रपर्यवसाय्येव वाक्यं भवेत्, ततः कदाचिद्सर्वाण्यपि फलेन संबध्येरन् । इह तु तावन्मात्रेणासिद्धेरपूर्वमन्यत्कल्पयितव्यम्, तच्चानुपपत्तिप्रमाणकम् । तत्रैकापूर्वकल्पनयोपपन्ने वाक्ये नादृष्टान्तरकल्पनाप्रमाणमस्ति । यो ह्यनेकान्यपूर्वाणि कल्पयति, कल्पयत्यसावेकम् । तच्चेत्कल्पितम्, अर्थवत्त्वाद्वाक्यस्य क्षीणान्यथानुपपत्तिर्नापूर्वान्तरस्य प्रमाणं भवति । तस्मादेकमेव फलसंबन्धि, तस्माच्चापूर्वम्, इतरत्फलवदुपकारीत्यध्यवसीयते । न चात्र विरोधो भविष्यति । नामधेयत्वेन परिहारात् । अगत्या वा दशापवित्रेण ग्रहं संमार्ष्टि इतिवन्मत्वर्थलक्षणाश्रयणात् । अर्थाक्षिप्तसाध्यांशद्वारेण वा धात्वर्थैरात्मीयकरणग्रहणसिद्धेः । एवं स्थिते कतरदेकं संबध्यतामिति सर्वथानेकादृष्टकल्पनापरिहारादनियमप्राप्ताउ, उच्यते । पृष्ठ. ६७ प्रधानं फलसंबन्धि तत्संबन्ध्यङ्गमिष्यते । प्रधानाङ्गत्वमेकस्य न चैकत्रावकल्पते ॥ ११ ॥ न ह्येकस्मिन् वाक्ये तदेव कदाचित्फलसंबन्धात्प्रधानम्, कदाचित्फलवदुपकारादङ्गं युज्यते । नियतरूपत्वादङ्गाङ्गिभावस्य । तस्मान्नियोगेनैवाख्यातपदान्नामपदाद्वापूर्वप्रतीतिः । पृष्ठ. ६८ कः पुनर्भावः, के वा भावशब्दाः इतियावन्तः फलसंबद्धेषु वाक्येष्वाख्यातशब्दाः यजति ददाति जुहोति इत्येवमादयः, तेषु प्रत्ययार्थप्राधान्यात्, कर्तरि च लकारोत्पत्तेः, यागादिविशिष्टकर्त्रभिधानम्, कथंचिद्वा विपर्ययात्कर्तृविशिष्टयागाद्यभिधानं मन्वानस्य प्रश्नः । सत्यामपि चैकपर्यनुयोगेनोभयपर्यनुयोगसिद्धौयोऽयं यजनमिज्या यागः इत्यनुदाहृत्यैव भावार्थतां ब्रवीति, तन्नूनं केऽप्यलौकिका भावशब्दा अपिइत्युभयप्रश्नः । सिद्धान्तवादी तुभवतेर्णिजन्तातेरचित्यच्प्रत्यये कृते भावनाविचिनं भावशब्दं व्युत्पाद्य, आख्यातस्य चान्वयव्यतिरेकाभ्यां तत्परत्वं कर्त्रभिधानप्रतिषेधं चाभिप्रेत्योदाहरति यजति ददाति इति । परः पुनःभवतेर्णिजन्तादन्येन नैषोऽर्थोऽभिधीयते, न चाख्यातप्रत्ययस्यात्र व्यापारः, धात्वन्तरार्थत्वात् । कामं तुल्यजातीयत्वेन धातव एव ब्रूयुः, तेऽपि तु यागादिवचनत्वादसमर्थाःिति मत्वाह ननु यागदानहोमशब्दाः इति । अत्रोच्यते । पृष्ठ. ६९ यागदानादनुस्यूतो भावनात्मावगम्यते । नित्यमाख्यातशब्देभ्यस्तस्माद्भावार्थतेष्यते ॥ १२ ॥ यावानेव ह्यनन्यलभ्योऽर्थः शब्दाद्गम्यते, स सर्वः शब्दार्थः । सर्वत्र चाख्याते धात्वर्थश्च तदनुरक्ता च भावना विज्ञायते । तस्माद्भावार्थत्वव्यपदेशः । तद्व्यतिरिक्तास्तु द्रव्यगुणशब्दा विज्ञायन्त एवेति न पृष्टाः । तत्र द्रव्यादिशब्दानां निष्पन्नार्थाभिधायिनाम् । करणार्थत्वयोग्यत्वात्प्राप्नोति फलसंगतिः ॥ १३ ॥ सर्वत्र हि फलं साध्यत्वात्सिद्धरूपं साधनमपेक्षते, न साध्यान्तरम् । नामार्थश्च सिद्धत्वात्तदपेक्षापूरणसमर्थः, नाख्यातार्थः । स्वयमेव साध्यत्वात् । तस्मात्द्रव्यादिभिः फलमिति प्राप्ते, सूत्रेणोत्तरं दीयते । भावार्थाः कर्मशब्दा ये तेभ्योऽपूर्वक्रियागतिः । तैः कुर्याद्यजिना स्वर्गमेष ह्यर्थो विधीयते ॥ १४ ॥ फलसंबन्धो हेतुरपूर्वप्रतिपत्तेः । संबन्धश्चाकाङ्क्षापूर्वकः । सा च भावशब्देभ्यः प्रसर्पन्ती दृश्यते, न द्रव्यगुणशब्देभ्यः । तस्मादाख्यातेभ्यः अपूर्वभावना गम्यते । तत्र च धात्वर्थस्य करणत्वप्रतिपत्तिः, प्रत्यासत्तेः । अतस्तेनैव फलकरणभूतेनान्यथानुपपत्त्यापूर्वं भाव्यत इत्यवधार्यते । पृष्ठ. ७० कथं पुनर्यज्यादीन् पृथक्कृत्य केवलप्रत्ययवाच्य एव भावनार्थो लभ्यते भावयेतिति. कुतः । अभिदध्युः स्वशक्त्या हि विधिमात्रं लिङादयः । ण्यन्तस्य भवतेरर्थः केनांशेनाभिधीयते ॥ १५ ॥ न च धात्वन्तरार्थं यज्यादयः प्रतिपादयन्ति, स्वार्थमात्रव्यापृतत्वात् । अतः शब्दरहितमेवेदमारोप्यते भावयेतिति । किञ्च शब्दान्तरस्य योऽप्यर्थः पर्यायैरभिधीयते । न स तेनैव सहितस्तस्मिन्नर्थे प्रयुज्यते ॥ १६ ॥ तद्यथा पिकमानय इत्युक्ते यो नामार्थं न प्रतिपद्यते, तस्मै कोकिलशब्दमेव केवलं प्रयुञ्जते, न कोकिलः पिकः इति, तथात्र यद्याख्यातस्य करोतिर्ण्यन्तो वा भवतिः पर्यायः, ततस्तदर्थकथने तन्मात्रमेव प्रयोक्तव्यम्, नाख्यातप्रत्ययोऽपि । न हि तदानीं विविच्य ज्ञायतेकेनांशेन क्रिया प्रत्याय्यतेइति । अत्र तु भावयेत्कुर्यातिति वा पुनरपि लिङ्प्रयुज्यते एव । अतश्च योऽनेन यजतेः परेणार्थः प्रतिपादितः, असौ भावयतेरपि परेण तेनैवेत्यधिकावाप एव भावयतिः । तस्मादवैदिक इति । अत्राभिधीयते । सर्वत्रैव तावत् सिद्धकर्तृक्रियावाचिन्याख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थोऽवगम्यते ॥ १७ ॥ इह केभ्यश्चिद्धातुभ्यः परा तिङ्विभक्तिरुच्चार्यमाणा कर्त्रात्मलाभमात्रमेव व्यापारं प्रतिपादयति । यथास्तिभवतिविद्यतिभ्यः । अपरेभ्यस्तु सिद्धे कर्तरि अन्यात्मला पृष्ठ. ७१ भविषयव्यापारप्रतीतिः । यथा यजति ददाति पठति गच्छति इति । द्रव्यमेव च विशीष्टशक्त्युपेतं प्रचलितात्मतत्त्वं विप्रकीर्णस्वभावं पूर्वापरीभूतं प्रथमावस्थातः प्रच्युतं परामवस्थामप्राप्तं व्यापारशब्दवाच्यं भवति । तत्र कदाचित्कर्तैवैवमवस्थः प्रतीयते । कदाचित्सिद्धे कर्तर्यन्यः । तद्यदा कर्तुरेवैषावस्था भवति, तदासौ स्वयमेवान्यस्मादात्मलाभमपेक्षमाणः परनिष्पत्तावव्याप्रियमाणत्वान्न करोतिशब्दवाच्यतां भजते । यदा तु लब्धात्मकोऽन्यत्र व्याप्रियते, तदा करोति इत्येवमपदिश्यते । तथा च किं करोति पठति गच्छति इति सामान्यविशेषरूपेण सामानाधिकरण्यप्रयोगो दृश्यते । न तु किं करोति भवति अस्ति वेति प्रयुज्यते । तस्माल्लब्धात्मककर्तृव्यापारवचनानि करोत्यर्थवन्त्याख्यातानि । तत्र च क्रियमाणेन केनचिदवश्यं भवितव्यम् । कुतः । करोतिः क्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥ १८ ॥ करोतेर्नित्यं सकर्मकत्वाद्यावत्क्रियमाणं न लभ्यते, न तावदर्थः पर्यवस्यति । सर्वकारकाणां चावान्तरक्रियासु कर्तृत्वं प्रतिपाद्यमानानां प्रधानक्रियासु कर्मादि पृष्ठ. ७२ विभागो जायते । प्रतिक्रियं च योग्यताभेदादवान्तरक्रियावैचित्र्यं भवति । तत्रान्वयव्यतिरेकाभ्यामिदमवगतं भवतिक्रियायाः कर्ता करोतेः कर्म संपद्यते इति । तथा हि नित्यं न भवनं यस्य यस्य वा नित्यभूतता । न तस्य क्रियमाणत्वं खपुष्पाकाशयोरिव ॥ १९ ॥ य एव हि प्रवृत्तभवनः संभावितभवनो वान्येन प्रयुज्यते, स एव क्रियमाणत्वेनावधार्यते, नान्यः । तथा च न कश्चित्खपुष्पमाकाशं वा कुर्वन्नुपलभ्यते । यत्रापि पादौ कुरु इत्यादिषु निष्पन्नानां कर्मप्रयोगो दृश्यते, तत्राप्यनिष्पन्नसंस्कारादिविवक्षया पादादिशब्दप्रयोगादव्यभिचारः । सत्यपि च करोतेरनेकार्थत्वे सर्वत्र गन्धनावक्षेपणादौ किञ्चिदनुत्पन्नोत्पादनसामान्यमवगम्यते । अथ वा यदास्योत्पादनाभिधायित्वम्, तदैव विशिष्टाख्यातसामानाधिकरण्यं दृष्टमिति तद्गतस्योत्पाद्यमानमेव कर्म भवतीत्युपपन्नम् । तेन भवतिक्रिया तावल्लब्धा । ततश्च करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्वं प्रपद्यते ॥ २० ॥ पृष्ठ. ७३ भवतिकरोत्योः शक्तिभेदाद्विक्लिदिपचत्योरिव नियतं प्रयोज्यप्रयोजकव्यापारवचनत्वम् । तत्र च (१) कदाचिदभिधीयमानकर्मशक्त्याक्षिप्तप्रयोज्यव्यापारो वा स्वयमेवाक्षिप्तप्रयोज्यव्यापारो वा केवलं प्रयोजकव्यापार एव विवक्ष्यते कटं करोति ओदनं पचति इति । (२) कदाचिदाक्षिप्तप्रयोजकव्यापारं प्रयोज्यव्यापारमात्रं घटो भवति विक्लिद्यन्ति तण्डुलाः इति । (३) कदाचिदुभौ भिन्नौ समुच्चित्य प्रयोगः करोति कटं देवदत्तः, स च भवति इति । (४) कदाचिदुपसर्जनीभूतप्रयोजकव्यापारः प्रयोज्यव्यापारः क्रियते देवदत्तेन इति, स्वयमेवेति वा प्रयोगे । (५) कदाचित्पुनः समानपदैकदेशोपात्तोपसर्जनीभूतप्रयोज्यक्रियः प्रयोजकव्यापारो विवक्ष्यते, तदा च करोतिपचत्योस्तादात्म्येनाशक्तेरर्प्रयोगात्, भूविक्लिद्योश्च केवलप्रयोज्यक्रियानिष्ठत्वान्न साक्षात्प्रवर्तितुं शक्तिरस्तीति वाचकत्वेन द्योतकत्वेन वा णिच्परः प्रयुज्यते भावयति विक्लेदयति इति च । तथा चाह प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु ॥ २१ ॥ न च तेषामण्यन्तानामशक्तिरित्यन्येषामशक्त्या भवितव्यम्, अन्येषां वा शक्तिरित्येषामपि तथा भवितव्यम् । कुतः । शक्तयः सर्वभावानां नानुयोज्याः स्वभावतः । तेन नाना वदन्त्यर्थान् प्रकृतिप्रत्ययादयः ॥ २२ ॥ पृष्ठ. ७४ एवं करोत्यर्थद्वारेण सर्वाख्यातेषु भावयत्यर्थः सिद्धः । तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥ २३ ॥ यत्तूक्तं न विधिव्यतिरिक्तं लिङादयोऽर्थं वदन्तीति, तदयुक्तम् । कुतः । अभिधाभावनामाहुरन्यामेव लिङादयः । अर्थात्मभावना त्वन्या सर्वाख्यातेषु गम्यते ॥ २४ ॥ यदा हि सर्वाख्यातानुवर्तिनी करोतिधातुवाच्या पुरुषव्यापाररूपा भावनावगता भवति, तदा तद्विशेषाः सामान्याख्यातव्यतिरिक्तशब्दविशेषवाच्या विधिप्रतिषेधभूतभविष्यद्वर्तमानादयः प्रतीयन्ते । तथा च सर्वत्र सामान्यतः करोत्यर्थोऽवगम्यते, किं करोति? पचति, किमकार्षीत्? अपाक्षीत्, किं करिष्यति? पक्ष्यति, किं कुर्यात्? पचेत्, किं न कुर्यात्? न पचेतिति । तत्रार्थात्मिकायां भावनायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः, सा द्वितीया शब्दधर्मोऽभिधात्मिका भावना वि पृष्ठ. ७५ धिरित्युच्यते । विशेषतश्चेयमर्थवादाधिकरणे वर्णिता । यत्तु पर्यायस्थित्यतिलङ्घनं प्रत्ययापरित्यागादभिहितम्, तत्रोच्यते केवलस्याप्रयोगित्वात्कर्तृसंख्यादिसंग्रहात् । रूपाविनाशसिद्धेश्च प्रत्ययोऽपि प्रयुज्यते ॥ २५ ॥ यदि हि केवलः करोतिर्भावयतिर्वा प्रयोगार्हौ स्याताम्, ततः कोकिलशब्दप्रयोगे पिकशब्दवत्प्रत्ययो न प्रयुज्येत । न तु केवलायाः प्रकृतेः प्रयोगः । अपभ्रंशत्वप्रसङ्गात् । तेन यस्मिन् कस्मिंश्चित्प्रत्यये प्रयोक्तव्ये यस्यैवार्थः कथ्यते, स एवानुवादभूतः प्रकृत्यनुग्रहार्थं प्रयुज्यते, नान्यः । अभ्यधिकार्थान्तरापत्तिप्रसङ्गात् । ननु च इक्श्तिपौ धातुनिर्देशे विहिताउ, अतस्तद्युक्तौ करोतिभावयती प्रय्ज्येयाताम् । नैतदस्ति । तथा सति शब्दपदार्थकत्वान्नैव ताभ्यामाख्यातार्थः कथ्येत । यत्तु क्वचिदर्थेऽपि धातुमिक्श्तिबन्तं प्रयुञ्जते यजिः यजतिः इति, तच्छब्देऽभिहिते लक्षणयार्थप्रतीतिरित्यवगन्तव्यम् । न चेह किंचिल्लक्ष पृष्ठ. ७६ णाश्रयणे प्रयोजनमस्ति येनावाचकः प्रयुज्येत । तत्रान्यदेवानिष्टमापद्येत कृञ्भुवौ धातू तिङाभिधीयेते इति । तस्मादर्थपरत्वसिद्ध्यर्थमाख्यातप्रत्ययसहितावेव प्रयुज्येते । यदि च भावनैवैका प्रत्ययार्थः स्यात्करोतिभावयती वा समस्तप्रत्ययार्थोपादानसमर्थौ भवेताम्, ततः केवलप्रयोगोऽप्याशङ्क्येत, न तु तदुभयमप्यस्तीति करोतिभावयतिभ्यां कथितेऽपि भावनार्थे कर्तृसंख्यादिप्रत्यायनार्थं पुनः प्रत्यय उच्चार्यते । यस्तु तत्र भावनाभिधानांशः स प्राप्तत्वादनूद्यते. अन्यथा हि भावनैवैका प्रत्ययार्थः करोतिभावयती वा कर्तृसंख्यादीनामप्यभिधायकाविति भ्रान्तिः स्यात् । नित्यं च पूर्वापरीभूता भावनाख्यातेनोच्यते । तत्र यदि प्रत्ययान्तरं प्रयुज्येत, ततः करोतिभावयतिभ्यां द्रव्यवदुपसंहृतरूपोच्यमाना नैवाख्यातसदृशी कथ्येत । तस्मादवश्यं तिङपि प्रयोक्तव्य इति । पृष्ठ. ७७ किञ्च भावना गम्यमाना च धातुप्रत्ययसंनिधौ । कस्य वाच्येति विस्पष्टं न कदाचित्प्रतीयते ॥ २६ ॥ यदि ह्येकान्तेनास्याः प्रत्ययार्थत्वमवधार्येत, ततः करोतिभावयतिभ्यां प्रत्ययपौनरुक्त्याशङ्का स्यान्, न तु तदस्ति । उभयसन्निधौ गम्यमानत्वात् । केवलप्रकृतिप्रत्ययप्रयोगाभावाद्धि न विवेको विज्ञायते । शक्यते हि वक्तुं धातुसहितेन प्रत्ययेनोच्यत इति, अथ वा प्रत्ययानुगृहीतेन धातुना, अथ वोभाभ्याम् । न च शक्तिकल्पनायां विशेषः । सर्वथार्थापत्तिसाम्यात् । न च विवेकज्ञानप्रयोजनमस्ति । स्यादेतत् । कृदन्ताद्धातोरप्रतीतेस्तिङ्व्यभिचारिण्येव भावनेति । तदयुक्तम् । अस्तिभवतिविद्यतिपरेषु प्रत्ययेष्वप्यदर्शनात् । न च कृदन्तेष्वप्यत्यन्तं भावना नास्ति । किंचिदपकृष्यमाणरूपर्पतीतेः । (१) कृत्येषु तावद्भोक्तव्यं यष्टव्यमिति किंचिन्न्यूनाख्याताद्गम्यते । तत्रापि कर्मोत्पन्नेषु द्रव्यप्राधान्याद्ब्राह्मणो न हन्तव्यः इति भावोत्पन्नेभ्यो न्यूनतरा । न हि तत्र प्रयोजकव्यापारप्राधान्यम् । एकत्र धात्वर्थप्राधान्यात्, अपरत्र स्वव्यापारविशिष्टप्रयोज्यपरत्वात् । एतेन भावकर्मोत्पन्नलकारास्तिङोऽपि व्याख्याताः । तेष्वपि हि प्रयोजकव्यापारगुणत्वप्रतीतिरविशिष्टा । अतो न तिङन्तानां तुल्यकल्पत्वम् । पृष्ठ. ७८ (२) तथा अव्ययकृतो भावे भवन्ति इति स्मरणाविशेषेऽपि स्वसंवेद्यमीषन्न्यूनभावनाविज्ञानम् । अभिक्रामं जुहोति, दर्भतरुणकेनोपघातं जुहोति, अभिषुत्य हुत्वा भक्षयन्ति, पुरा वाचः प्रवदितोः इति सर्वत्र श्रुत्यैव भावनान्तरसापेक्षा भावनावगम्यते । (३) पक्वः पक्ववानित्यपि निर्वृत्तरूपभावनोपसर्जनद्रव्यप्रतीतिः प्रत्यक्षा । (४) एवं पाचकादिष्वपि द्रष्टव्यम् । तथा च सर्वत्र कारकापेक्षा दृश्यते । अन्यथा हि रूढितद्धितसमासेष्विवेयं न स्यात् । न च निर्व्यापाराणामेते व्यपदेशा भवन्ति । न चास्ति स व्यापारो यत्र किंचिदसन्न जन्यते । ततश्च सिद्धः करोतिभावयत्योरर्थः । शक्यते च सर्वत्र सामानाधिकरण्यमपि दर्शयितुं विनापि पूर्वापरीभूतत्वेन । तद्यथा किं कर्तव्यं? पक्तव्यम्, कथंकारं जुहोति? अभिक्रामम्, किं कृत्वा जुहोति? अभिषुत्य, किं कृतवान्? पक्ववान्, किं पृष्ठ. ७९ कृतम्? पक्वं, किंक्रियो देवदत्तः? पक्ता, केयं क्रिया? पाकः इति । न च करोतिसामानाधिकरण्यातिरिक्तमाख्यातेष्वपि भावनाप्रमाणं विद्यते । तस्माद्धातवोऽपि भावनां न मुञ्चन्ति । तथा चाहुः करोतिरर्थेष्विव सर्वधातूनिति । यत्त्वस्याः प्राधान्यं तत्कामं तिङाभिधेयं द्योत्यं वान्वयव्यतिरेकाभ्यामस्तु, न स्वरूपम् । नन्वेवमपि यागेन इति धात्वर्थे निष्कृष्टे तेनैव भावनाप्युपात्तेति भावयेतिति पुनः प्रयोगो न प्राप्नोति । नैष दोषः । तथा हि द्व्यर्थस्य धातोर्भेदेनार्थे कथ्यमाने यागेन इति विशेषरूपं करणात्मना निष्कृष्टम् । इतरत्तु भावनात्मकं सामान्यरूपं शब्दान्तरेण भावयेतित्यनेन कथ्यते । अथ वा केचित्करणांशकर्तृसंख्यादयः प्रकृतिप्रत्यययोर्भेदेन वाच्याः । भावना तु समुदायाव्यभिचारात्समुचितयोरेवार्थ इत्यपि शक्यं वक्तुम् । तथा च सूत्रकारभाष्यकाराभ्यां भावार्थाः कर्मशब्दाः इति सामानाधिकरण्यमेवाश्रितम्, न भावार्थत्वेन प्रत्ययाः कथिताः । शास्त्रे तु सर्वत्र प्रत्ययार्थो भावनेति व्यवहारः । तत्रायमभिप्रायः । पृष्ठ. ८० प्रत्ययार्थं सह ब्रूतः प्रकृतिप्रत्ययौ सदा । प्राधान्याद्भावना तेन प्रत्ययार्थोऽवधार्यते ॥ २७ ॥ यद्यप्यन्यद्विवेककारणं नास्ति, तथापि प्राधान्यं प्रत्ययार्थधर्मं दृष्ट्वा नूनमियं प्रत्ययार्थः इत्यवगम्यते । तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययाशयोः । प्रत्ययश्रुतिवेलायां भावनात्मावगम्यते ॥ २८ ॥ न केवलमेतावेवान्वयव्यतिरेकौ यौ परस्परपरित्यागेन लक्ष्येते । तस्मिन्नेव हि पदे तदागमे हि तद्दृश्यते इत्यनेन न्यायेन विवेकोऽवधार्यते । यत्त्वस्त्यादिपरः प्रत्ययोऽपि भावनां जहातीति तुल्यं धातुसमुदायपक्षयोरप्येतत् । सर्वथा यत्र प्रतीयते, तत्र तावत्प्रत्ययार्थत्वं निश्चीयते । अन्यत्र त्वयं विचार एव नास्ति । क्वचिद्व्यभिचारस्य चोत्तरमुक्तं तद्भूताधिकरणे । अथ वा नैवात्रापि व्यभिचारः । कुतः । अस्त्यादावपि कर्त्रंशे भाव्येऽस्त्येव हि भावना । पृष्ठ. ८१ अन्यत्राशेषभावात्तु न तथा सा प्रकाशते ॥ २९ ॥ यद्यपि कर्तुरनिष्पन्नत्वाद्व्यतिरिक्तभावयितव्याभावादस्त्यादिषु प्रयोजकव्यापारो नातीव लक्ष्यते, तथापि प्रत्ययसामर्थ्यात्तावत्भावयति इत्यवगम्यते । किम्? इत्यपेक्षिते चानिष्पन्ने कर्तरि अन्यत्किंचितित्यकल्पनादात्मानमित्येव संबधय्ते । केन? भावनेन, कथम्? अवयवजननादिर्पकारेण इति । त्रयोऽपि तत्र भावनांशा भवनेनैव पूर्यन्ते. व्यापारान्तरासंभवात् । तत्र केचिदवयवा भवनव्याप्र्ताः प्रयुज्यन्ते, केचित्सिद्धभवनाः प्रयोजकाः । सिद्धभवनासिद्धभवनवर्ति च सामान्यमुभयसंपर्काद्भावनेत्युच्यते । एतेन जायते निष्पद्यते सिध्यति इत्यादीनि व्याख्यातानि । अस्तिः पुनर्जनिसमानार्थाद्भवतेरुपरितनीमवस्थामभिलपन् सत्तयात्मभवनं भवद्भावयतीत्येवमाख्यातप्रत्ययं लभते । तत्रापि तु कालकृतभेदपूर्वोत्तरसामान्यसत्तारूपेण पूर्ववदेव प्रयोज्यप्रयोजकव्यापारकल्पनानुसर्तव्या । सत्यामपि त्वेवमादिषु भावनायां निष्पन्नचेतनकर्तृविषयत्वाद्विधिप्रतिषेधयोरसंभवः । स्यादेतत् । दृष्टो विधिरपि तस्मात्प्रायणीयस्याह्न ऋत्विजा भवि पृष्ठ. ८२ तव्यम्, रथंतरं भवति, अत्राध्वर्युः स्यात्, इहोक्थ्यानि स्युः इति । सत्यं दृश्यते, न त्विह पूर्वेण तुल्यो भवत्यर्थः । सिद्धो हि पुरुषः कर्मसंबन्धनिमित्तमृत्विक्त्वं भवदन्यैरेव परिक्रयणादिभिर्व्यापारैर्भावयेदित्युच्यते । तथा रथंतरादिषु सत्यपि श्रुत्या भवनविधिसंबन्धे तत्रासंभवादनुमीयमाना भावनैव विधीयते । यत्र तु इहामुको भवेतिति प्रयोगस्तत्र भवतेस्तिष्ठत्यर्थवाचित्वात्संभवत्येव व्यतिरिक्तं भावयितव्यमित्येवं विज्ञायते स्थानेनान्यत्किंचिद्भावयेतिति । तेन भूतभविष्यद्वर्तमानापदेशमात्रेष्वेवापारमार्थिकं भवितृव्यापारस्य भावनात्वम्, न विध्यादिषु । भूतादिकथनेऽपि यदा समस्तं व्यापारं धातुरेवोपादत्ते नावयवकालादिकृतभेदाश्रयणम्, तदा विस्पष्टाद्विरोधाद्धात्वर्थमात्रम् । कर्तृसंख्यादयश्चाख्यातपदार्थत्वेनावधार्यन्ते, न भावना । न च भावनाव्यभिचारेण दोष इत्युक्तम् । यत्तु कृदन्तेष्वपि धातवो भावनां न व्यभिचरन्तीति । सत्यं धात्वर्था न व्यभिचरन्ति । तैरेव तु गम्यमानत्वादनभिधेयत्वमपि शक्यं वक्तुम् । तथा हि धात्वर्थकारकैरेव गुणभूतोऽवगम्यते । पृष्ठ. ८३ भावनात्मा कृदन्तेषु तस्मान्नैवाभिधीयते ॥ ३० ॥ यथैव भावप्रधानत्वादाख्याते तत्सम्बन्धादेव गुणभूतकारकर्प्रतीतिस्हिद्धेर्न कर्तृकर्मणोरभिधानं भविष्यति, एवं कर्त्राद्यभिधानादेव तदन्यथानुपपत्त्या भावनासिद्धेरनभिधानम् । गम्यमानापेक्षयैव च करोतिसामानाधिकरण्यम्, यथा पचतिशब्दस्य देवदत्तशब्देन । तथाभूतयैव च कारकसम्बन्धोऽप्युपपत्स्यते । अथ वा भावनोपसर्जनधात्वर्थनिष्पत्त्यर्थत्वात्कारकाणां धात्वर्थेनैव संबन्धसिद्धिः । स एव हि तानि स्वसिद्ध्यर्थमपेक्षते । भावनापि च तथाभूतान्येव तानि गृह्णातीत्यविरुद्धः सम्बन्धः । कृत्यानां तु प्रैषवाचित्वात्सत्यपि भावनानभिधाने तावत्स्वार्थपर्यवसानं नास्ति यावदंशत्रयपरिपूर्णा भावना न लब्धा । कुतः । स्वव्यापारे हि पुरुषः कर्तृत्वेन नियुज्यते । प्रैषैस्तस्य च किं कर्म भावनांशत्रयात्मिका ॥ ३१ ॥ न हि पुरुषः स्वव्यापारं मुक्त्वान्यदनुष्ठातुं शक्तः । प्रैषाश्चैनमनुष्ठापयन्ति । ते यदि तद्व्यापारं कथंचिन्नोपादद्युः, न नियोकुत्ं शक्नुयुरित्येवमपि भावनाक्षेपसिद्धिः । यावांश्च ब्राह्मणगतः प्रैषः स सर्वः प्राप्त्यभावाद्विधिरेव भवतीति विनापि स्मरणेन प्. ८४ कृत्यानां विधायक्त्वम् । अयमेव च विधिप्रैषयोर्विशेषः । प्रवर्तनस्मृतिः प्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रैषणं सर्वं विधित्वं प्रतिपद्यते ॥ ३२ ॥ तस्मात्प्रत्ययार्थो भावनेत्युपपन्नम् । पृष्ठ. ८५ ननु च यदि प्रयोजकव्यापारो भावनेष्यते, ततः पचावधिश्रयणादीनि, यजौ च मानसः संकल्प इत्यादीनां भावनात्वम्, त एव च धात्वर्था इति धातुवाच्यैव भावना स्यात् । नैष दोषः । धात्वर्थव्यतिरेकेण यद्यप्येषा न लक्ष्यते । तथापि सर्वसामान्यरूपेणान्यावगम्यते ॥ ३३ ॥ सर्वत्र ह्यधिश्रयणादौ करोतीत्यपि सामान्यव्यापारांशः प्रतीयते । पचत्यादिवाच्या विक्लित्त्यधिश्रयणादयः कर्मस्थाः कर्तृस्थाश्च । तत्र यदौदासीन्यप्रच्युतिमात्रेण परिस्पन्दरूपं निरूप्यते सा भावना । ये तु तदनुरञ्जनसमर्थाः कर्तृकर्मगता विशेषास्ते तस्या एव करणेतिकर्तव्यतांशयोर्निविशन्ते । एवं तर्हि धात्वर्थसामान्यं भावनेत्येतदापन्नम् । सत्यं साध्यतया सामान्यम्, न तु गोत्वादिरूपेण । कथम् । अन्यदेव हि यागादौ सामान्यं करणात्मकम् । अन्यच्च भावना नाम साध्यत्वेन व्यवस्थितम् ॥ ३४ ॥ भावनायां हि स्वयमेव प्रतिपुरुषं सामान्यविशेषौ भवतः । तथा तत्करणभूते यागादौ समवेतं भावनाकरणांशापेक्षितं धात्वर्थसामान्यं नाम यत्कर्मशब्देनाभि पृष्ठ. ८६ धीयते । विशेषणभावाच्च यागादयो भावनाविशेषा इत्युच्यन्ते, न तद्व्यक्तित्वेन । शास्त्रप्रदेशे तु क्रियाकर्मशब्दौ कदाचिद्धात्वर्थे प्रय्ज्येते, कदाचिद्भावनायाम्, कदाचित्तु प्रत्यासत्त्योभयत्रापि प्रयोगः, न स्वरूपाभिधानेन । कुतः । यादृशी भावनाख्याते धात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित् ॥ ३५ ॥ भावनाशब्दो हि निष्पन्नात्मिकां सत्त्वरूपापन्नां लिङ्गसंख्यायोगिनीमभिधत्ते । न चासावाख्याते तादृश्यभिधीयते । लिङ्गसंख्यारहितरूपेण गम्यमानत्वात् । एवं धात्वर्थोऽपि वेदितव्यः । तथा करोति भावयति इत्येताभ्यामपि श्रुत्या तावदन्यादृगेवार्थः प्रतीयते कृञ्भावयत्यर्थकरणिका भावना । न चैवंरूपासौ यजेत इत्यादिष्वस्तीत्यपर्यायत्वम् । तत्रानन्तरप्रत्ययोत्थापितभावनान्तरबुद्धिमविवक्षित्वार्थसंवादः कर्तव्यः । तेनादूरविप्रकरषमात्रेणैष प्रयोगः, नार्थसाम्येनैत्यवस्थितमनन्यशब्दवाच्यत्वं भावनायाः । पृष्ठ. ८७ सा तु प्रतीतमात्रैव प्राधान्यादपेक्षान्तरानधीनत्वाच्च प्रथमं तावत्साध्यांशमपेक्षते भावयेत्किम्? इति । तत्र यावती विध्युपेता भावना तस्यां पूर्वप्रतीतमपि विधित्वं तावन्नाश्रीयते, यावदंशत्रयपूर्णा भावनानुष्ठानयोग्या न भवति । विधित्वप्रक्रमाच्च प्रथममेवैतज्ज्ञायतेयादृशैरंशैः पूर्णेयं विधानमर्हति तादृशैः पूरयितव्याइति । न च बुद्धिपूर्वकारी पुरुषः पुरुषार्थरहितं व्यापारं वचनशतेनाप्युक्तोऽनुतिष्ठति । न च पुरुषार्थः साध्यव्यतिरिक्तांशपातित्वेन कैश्चित्प्रार्थ्यते । ततोऽभ्यर्हिततरस्यान्यस्य साध्यस्याविध्यमानत्वात् । तत्र यद्यस्यां भावनायामपुरुषार्थः साध्यः स्यात्, ततः पुरुषेष्वप्रवर्तमानेषु प्रत्ययस्य प्रयोजकशक्तिर्बाध्येत । तेन यद्यपि समानपदोपादानप्रत्यासत्तेर्धात्वर्थः साध्यांशपूरणायोपप्लवते, तथाप्ययोग्यत्वान्निराक्रियते । न हि प्रत्यासत्तिरेवैका संबन्धकारणम्, योग्यत्वाद्यपि. तथा च वक्ष्यति यस्य येनार्थसम्बन्धः इति । किञ्च संबन्धमात्रमुक्तं च श्रुत्या धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते ॥ ३६ ॥ संबन्धमात्रं कृत्वा निवृत्तव्यापारायां श्रुतावन्यतरांशनिवेशो योग्यत्वादाश्रयितव्यः । तद्यदि साध्यांशादेकप्रत्ययोपात्तेन प्रत्यासन्नतरेण विधित्वेन प्रच्याव्यते, पृष्ठ. ८८ ततोऽंशान्तरेण नूनं संभंत्स्यत इत्येवं पतीक्ष्यते । किञ्च साध्यांशे पुर्र्षाणां च प्रत्ययो न नियोजकः । स्वयमेव हि जानन्ति कर्तव्यं पुरुषाः सदा ॥ ३७ ॥ यत्र हि शास्त्राधीना पुरुषप्रवृत्तिः, तत्र तत्सन्निकर्षविप्रकर्षावपेक्ष्येते । साध्यं पुनः स्वर्गपशुपुत्रग्रामादि प्रागेव शास्त्रात्सर्वे पुरुषाः प्रतिपद्यन्ते । ततश्च भावयेत्किम्? इत्यपेक्षितमात्रे विनैव तावच्छास्त्रेणैतावदवगतं पुरुषार्थः कश्चितिति । तत्र विशेषमात्रेअमनवगतत्वादपेक्ष्यते । तदपि च न साध्यात्मना, किं तर्हि, एतद्भावनाविषयत्वेन । ततश्च दूरस्थस्यापि स्वर्गादेरेव कृतास्पदस्य संगतिः । धात्वर्थसम्बन्धस्त्वनपेक्षितः क्रियेत । विध्यानर्थक्याच्च बाध्येततरां श्रुतिः । किञ्च भवने यस्य कर्तृत्वं कथंचिदवधारितम् । स्ववाक्ये वान्यवाक्ये वा स साध्यत्वं प्रपद्यते ॥ ३८ ॥ न चात्र धात्वर्थादेर्भवनक्रियासंबन्धोऽवगतः । स्वर्गादीनां तु कामशब्दोपबन्धाद्भवनसंबन्धो विज्ञायते. कुतः । स्वर्गो मे स्यादितीत्थं हि स्वर्गादिः प्रार्थ्यते भवन् । तेनासौ भावनापेक्षः प्रयोज्यत्वेन गम्यते ॥ ३९ ॥ ततोऽवधृतस्वर्गादिसाध्यांशा भावना केन भावयेत्? इत्येवं करणमपेक्ष पृष्ठ. ८९ ते । तत्र शास्त्राधीनर्पवृत्तित्वात्तत्सन्निकर्षादावाश्रीयमाणे (१) प्रमाणान्तराच्च योग्यायोग्यत्वयोरज्ञानात्, (२) विध्यविरोधाच्चात्यन्तप्रत्यासत्त्युपस्थितधात्वर्थातिक्रमकारणाभावात्, (३) सर्वफलभावनानां च केनचिद्धात्वर्थविशेषेण विनानुपपत्तेः यागेन इत्येवं विज्ञायते । यद्यपि च यागः स्वयमेव तावदनिष्पन्नः, तथापि स्वसाधननिष्पादितः सन् साधयिष्यति । सर्वमेव च कदाचिन्निष्पन्नं कदाचिदनिष्पन्नम् । न च प्राक्शास्त्रप्रवृत्तेर्निष्पत्तिः क्वचिदुपयुज्यते । फलसिद्धिकालमात्रोपयोगित्वात्करणनिष्पत्तेः । प्रमाणवशाच्च त्रिकालवर्तिनामपि साधनत्वाविरोधः । तस्माद्यागादीनां करणत्वम् । तच्चापूर्वद्वारेणेति तच्छब्देभ्योऽपूर्वप्रतीतिः । ततश्चैवमपि सूत्रार्थः संभवतिये भावार्था भावनाप्रयोजनाः कर्मशब्दा यज्यादयः, तेभ्यः क्रिया प्रतीयेतैति । ननु चोक्तेन कर्मकरणसम्बन्धन्यायेन सकर्मकधातुयुक्तादेवाख्याताद्भावनावगतिः प्राप्नोति । तथा हि येनेप्सिततमैर्भावैः किमित्यंशोऽवरुध्यते । तद्योगी तेन धात्वर्थो न कश्चित्स्यादकर्मकः ॥ ४० ॥ यदि वा सर्वधातूनां सकर्मकत्वापत्तिः, अथ वाकर्मकेभ्यो भावनया न भवितव्यम् । नैष दोषः । कुतः । अन्यदेव हि धात्वर्थ्प्राप्यं कर्म सकर्मके । पृष्ठ. ९० अन्यदेव च सर्वत्र प्रत्ययार्थनिबन्धनम् ॥ ४१ ॥ ओदनं पचति, ग्रामं गच्छति इति धात्वर्थापवर्गलभ्यमेकं कर्म, अपरं पुनर्भावनाकर्म । (१) तत्र कदाचिद्धात्वर्थकर्मैव भावनाकर्मत्वमपि प्रतिपद्यते पाकेनौदनं भावयति इति । (२) कदाचित्पुनः स्वकर्मविशिष्टधात्वर्थयुक्ता भावना कर्मान्तरेण युज्यते ग्रामगमनेन स्वार्थं भावयति, ओदनपाकेन चेति । तच्चैतद्धात्वर्थात्परतस्तदवाप्यमात्रत्वेन गम्यमानं धात्वर्थान्ततिरोहितमपि भावनाकर्मतया सर्वत्रावधार्यते । तच्च प्रायेणैवंकामशब्देनैव संबन्धमापद्यते सुखकाम आसीत, स्वास्थ्यकामः शयीत इति । सत्यपि आसिशेत्योरकर्मकत्वे यः प्रत्ययेन करोत्यर्थोऽभिहितः, तत्कर्मत्वेन स्वादीन्यवधार्यन्ते । तेन (१) करोतेः सर्वदा सकर्मकत्वात्, (२) अकर्मकाख्यातानामपि च तत्सामानाधिकरण्यदर्शनात्किं करोति आस्ते, किं करोति शेते इतिसिद्धैवमादिष्वपि सकर्मिका भावना । यजेरपि तु यत्कर्म पूज्यत्वाद्देवतेष्यते । तदुज्झित्वैव पुत्रादेः कर्मत्वं भावनाश्रितम् ॥ ४२ ॥ तस्मात्सकर्मकाकर्मकयोरविशेषातासनेन भावयेतित्यपि प्रयोगसिद्धिः । कस्तर्हि सकर्मकाकर्मकयोर्भेदः । उच्यते । साक्षादव्यभिचारेण धात्वर्थो यत्र कर्मभाक् । सकर्मकः स धातुः स्यात्पारंपर्ये त्वकर्मकः ॥ ४३ ॥ पृष्ठ. ९१ आसनशयनादीनां हि न नियमेनानन्तर्येण वा इदं ततिति वा कर्म निरूप्यते, तेनाकर्मका अभिधीयन्ते । पचिगम्यादीनां तु विक्लिद्यत्तत्संयुज्यमानसाक्षात्संबन्धिकर्माव्यभिचारात्सकर्मकत्वम् । न तु भावनाविशेषणत्वे कश्चिद्विशेषः । सेयं भावनांशद्वयपरिपूर्णा सती सर्वकरणानामुपायाननुगृहीतानां करणत्वानुपपत्तेः कथं भावयेतितीतिकर्तव्यतामपेक्षते । सा च प्रत्यक्षादीनामनुग्राहकदर्शनशक्त्यभावादत्यन्तशास्त्रगम्येति यथासन्निकर्षं तदसंभवाच्च यथा कथंचिदुपस्थाप्यमाना शास्त्रानुसारेण श्रुत्याद्युपदेशेन चोदनासामान्याद्यतिदेशेन वात्यन्तादृष्टोपकारद्वारेणान्यथानुपपत्त्या कल्प्यते । ततः परिपूर्णत्वादनुष्ठातुं योग्येति विधीयते । तद्विधानाच्चार्थापत्त्या यागादिविधानमित्युपपन्नं भावार्थसूत्रम् । पृष्ठ. ९२ भवन्ति केचित्कर्मशब्दाःयागः यजनमिज्या इत्युदाहर्तव्ये तत्सामानाधिकरण्यसिद्धश्येनैकत्रिकाद्युदाहरणं यागादिकरणत्वचोदनोत्तरकालभाविकर्मशब्दत्वेन पारतन्त्र्यात्सुज्ञानम् । स्वतन्त्राणां कथंचिदपि भावार्थत्वाशङ्कासंभवात् । यागादयो हि स्वातन्त्र्येणापि कदाचिदनुमानाद्भावार्थाशङ्काविषयाः स्युरिति । केचिद्भावार्था न कर्मशब्दाःयथा भावयेत्कुर्यातिति चोदाहरणम् । भूत्यादयस्तु प्रयोज्यव्यापारवचनत्वान्नैव यथावर्णितभावार्था इत्यनुदाहरणम् । तत्र यथा कथंचिण्णिजन्तव्युत्पत्त्या भावशब्द एको नीयेत, नेतरौ । तावपि तु प्रयोज्यव्यापारांशेन कथंचिद्भावार्थावित्युदाहृतौ । अथ वा द्वितीयसूत्रार्थव्याख्यानेन भावनाप्रयोजनत्वमंशवाचित्वेनास्तीति विनापि सकलार्थाभिधानाद्भवन्ति भावार्थाः । कथं पुनरमी न कर्मशब्दाः, यदा धातुमात्रं कर्मशब्दत्वेनोक्तम् । निर्विशेषस्य सामान्यस्यानुष्ठातुमशक्यत्वादकर्मशब्दत्वम् । अतो विशेषवाचिनामेव धातूनां कर्मशब्दत्वाश्रयणादचोद्यमेतत् । पृष्ठ. ९३ यदि हि श्येनचित्रादर्शपौर्णमासशब्दाः फलैः संबध्येरन्, ततो यागस्य करणत्वाभावात्तत्सामानाधिकरण्यनिमित्तनामधेयत्वानुपपत्तेः प्रसिद्ध्यादिभिर्गुणविधित्वमेव स्यात् । अतः स्थित एतस्मिन्नधिकरणे इत्याह । कस्मात्पुनरिदं तत्रैव न नीतम् । प्रमाणलक्षणेनासंबन्धात् । अथ नामधेयत्वं कस्मादत्र नानीयते । भेदलक्षणेनासंबन्धात् । तस्माद्यथान्यासमेव स्थितयोरर्थात्पौर्वापर्यसिद्धिः । न चैषामर्थिना इति फलपदाभिप्रायम् । विविभक्तित्वातिति संबन्धनिमित्ताख्यातविभक्तिविगमात् । अथ वा निष्पन्नार्थाभिधायिसुब्विभक्तिविशेषयोगो विविभक्तित्वम् । तस्मान्न द्रव्यादिशब्दानां फलसंबन्ध इति । आह च साध्यसाधनसंबन्धः सर्वदा भावनाश्रयः । तेन तस्य न सिद्धिः स्याद्भावनाप्रत्ययादृते ॥ ४४ ॥ _____________________________________________________________________ सर्वेषां भावोऽर्थ इति चेत् ॥ २,१.२ ॥ न तावत्प्रत्ययस्येष्टमपूर्वप्रतिपादनम् । न च धातोः स्वतस्तत्स्यान्नाम्नो वा परतः समम् ॥ ४५ ॥ यदि भावनावचनस्यैवापूर्वप्रतिपादकत्वमिष्यते धातोर्वा प्रत्ययनिरपेक्षस्य, ततो नामपक्षो दुर्बलः स्यात्, इह तु यथैव धातोः प्रत्ययसंबन्धानुगृहीतस्य भावना पृष्ठ. ९४ नुरञ्जननिमित्तं करणवाचित्वं भवति, एवं नामपदस्यापीत्यविशेषः । _____________________________________________________________________ येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि तस्मात्तेभ्यः पराकांक्षा भूतत्वात्स्वे प्रयोगे ॥ २,१.३ ॥ यदुक्तं यदैकस्मादपूर्वं तदेतरत्तदर्थं भविष्यति इति तद्गतं तावद्वस्तुधर्मेण विशेषं दर्शयति । कथम् । बह्वदृष्टप्रसङ्गाद्धि धर्मो नेष्टः पदे पदे । नाम्नः फलेन संबन्धे परिहारो न तस्य च ॥ ४६ ॥ एकस्माददृष्टे कल्पिते यदीतरद्दृष्टार्थत्वेन तादर्थ्यं भजते ततो लाघवं लभ्यते । अथ तु तादर्थ्यसिद्धये ततोऽपि पुनरदृष्टं कल्प्यत एव ततो वरं फलेनैव सर्वाणि संबद्धानि । न च संबन्धवैरूप्यक्लेशाश्रयणम् । नाम्नश्च फलसंबन्धेऽवश्यं धात्वर्थस्तदनुग्रहार्थोऽभ्युपगन्तव्यः । स च स्वयं निष्पाद्यः सिद्धरूपस्य नामार्थस्य न शक्नोति दृष्टेनोपकर्तुम् । न हि नामार्थस्तमपेक्षते । शब्दप्रयोगवेलायामेव निष्पन्नतया गम्यमानत्वात्, अपेक्षणीयस्य वा सिद्धत्वेनायोग्यत्वात् । प्रयुज्यतेऽस्मिनिति चाभिधेय एव प्रयोगः । तदाधारैव हि निष्पन्नरूपोपलब्धिः । अनुत्पन्नत्वे क्रियारूपस्य वक्तव्ये विनाशित्वप्रदर्शनं निष्पन्नस्यापि पृष्ठ. ९५ क्षणिकत्वेन पुनः पुनर्निष्पत्त्यपेक्षोपपत्तेः । तेभ्यः पराकाङ्क्षा अन्याकाङ्क्षा निष्पाद्यत्वेन वा प्रधानाकाङ्क्षा न विद्यत इत्यध्याहारः । अथ वा तेभ्यः परा दूरे आकाङ्क्षेत्यर्थः । कुतः । भूतत्वातिति स्वरूपकथनार्थमुपन्यस्तं निष्पन्नत्वादेवेति पुनरन्ते तदेव हेतुत्वेनोपदिष्टं सूत्रकारेण । _____________________________________________________________________ येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य ॥ २,१.४ ॥ आख्यातवर्ती धात्वर्थः साध्यरूपः प्रतीयते । तस्मिन् फलवतीष्टे तु नाम्नो दृष्टार्थतेष्यते ॥ ४७ ॥ धात्वर्थस्तावत्प्रकृत्यैव साध्यात्मकः । विशेषतस्त्वाख्यातगतेन धातुनोच्यमानः स यदि फलसाधनत्वेन चोद्यते ततोऽसिद्धरूपत्वात्तस्य साधनाकाङ्क्षायां सत्यां नामपदं गुणविधित्वेन नामधेयत्वेन वोभयथापि दृष्टेनैव तादर्थ्यं लभते । ननु नामधेयपक्षे नामपदमपि साध्यार्थं भविष्यतीति धातुतुल्यं स्यात् । न । तस्य फलसंबन्धे गुणविधित्वेन सिद्धार्थत्वात् । अपि च पृष्ठ. ९६ साध्यात्मकोऽपि धात्वर्थो यदा नाम्नाभिधीयते । तदा द्रव्यवदेवासौ निष्पन्नात्मा प्रतीयते ॥ ४८ ॥ यद्यपि वस्तुस्वरूपेण धात्वर्थः साध्यः, तथापि नामपदेनोच्यमानो लिङ्गसंख्यायोगित्वात्सिद्धरूपोऽभिधीयते । अभिधानकृता चाकाङ्क्षोत्पत्तिर्न वस्तुकृता । तस्माद्युक्ता धातोरेवाकाङ्क्षा न नाम्न इति । किञ्चाश्रितत्वात्प्रयोगस्य इति । अधुना शब्दप्रत्यासत्तिकृतो विशेषोऽभिधीयते । पुरुषव्यापारात्मिकायां हि भावनायां धात्वर्थोपश्लेषोऽपि पुरुषेणाश्रितस्तदतिक्रमहेत्वभावाच्च न नामपदग्रहणम् । तस्मादस्ति विशेषः ।