०१ प्रतिज्ञासूत्र {१,१} वार्त्तिकारम्भे शिष्टाचारमनुविदधानो मङ्गलं तावत्करोति विशुद्धेति । दृष्टा हि शिष्टानां प्रवृत्तिः सर्वकार्येषु मङ्गलाचरणपूर्विका । मङ्गलं च देवतास्तुतिनमस्कारादि । अस्य च नियोगतः फलवत्कार्यान्तरारम्भसंयोगात्साक्षादफलत्वाच्च फलवत्सन्निधावफलं तदङ्गमिति न्यायेन कार्यान्तरशेषत्वेऽवधृते सत्यारम्भस्य समाप्तिपर्यन्तत्वादपेक्षिताविघ्नपरिसमाप्तिः फलम् । अपेक्षितविधेरनपेक्षितविधानं दुर्बलमिति न्यायेन फलान्तरकल्पनाया दुर्बलत्वात् । अतो यथा साम्प्रदायिकमध्यायानध्यायादि स्वाध्यायाविघ्नार्थमेवमिदमपि । तदयमर्थः विशुद्धौ ज्ञानदेहौ यस्य स तथोक्तः । विशुद्धं च भगवतो ज्ञानं रागादिभिर्ज्ञानकारणानामदूषितत्वाद्, देहश्चायोनिजत्वाद्विविधगर्भवेदनाविरहाच्च । त्रिवेदी च तस्य चक्षुरिति गौणो वादः, असन्दिग्धाविपरीतस्पष्टवेदार्थप्रकाशकत्वात् । दिव्यं चातीन्द्रियार्थगोचरत्वात् । भौतिकं हि चक्षुः प्रत्युत्पन्नार्थविषयम् । इदं त्वनागतादिविषयं दिव्यमिति । श्रेयसश्च हिताहितप्राप्तिपरिहारात्मनो भगवान्निमित्तम् । सोमार्धधारिणे, सोमकलाधारिणे । नम इति । यद्यपि विग्रहादिपञ्चकं देवताधिकरणे निराकरिष्यते, तथाप्याज्यादिस्तोत्रवत्प्रधानकर्मण एव देवतास्तुतेरेवङ्कृतायाः फलमित्यदोष इति ॥ १ ॥ {१,२} विद्यागुरूणामिदानीं स्तुतिनमस्कारौ करोति अभिवन्द्येति । शिष्यधीपद्मिनीनां रवीनिव विकासकान् गुरूनादौ वन्दे । ततो वार्त्तिकं करिष्ये । तेषामेव प्रसादेन दृष्टेनार्थतत्त्वोपदेशेनादृष्टेन च स्तुतिनमस्कारभुवा । गुर्वनुगमनादयोऽपि ह्याचारप्रमाणका एव । वार्त्तिकग्रहणेन च दुरुक्तभङ्गमनुक्तवचनं च समाधत्ते । मीमांसाशब्देन न्यायशास्त्रमिदमतो न्यायानुसारेणाधिकरणभङ्गाद्यदूषणमिति दर्शयति । श्लोकपदेन च लाघवविकासं क्षिपाम इति दर्शयति । ततश्च सूत्रितप्रायमिममर्थमवहिता जिज्ञासवो भावयिष्यन्तीति तात्पर्यार्थ इति ॥ २ ॥ सम्प्रति लोकयात्रामाद्रियमाणो येऽत्यन्तपरार्थाः स्वोपकारमगणयन्तोऽपि परोपकाराय यतन्ते सन्तस्तान् प्रत्याह तद्विद्वांस इति । असूयवो मत्सराः ततोऽन्येऽनसूयव इति ॥ ३ ॥ ये तु मध्यस्था गुणदोषनिरूपणेन दोषवन्तमपहाय गुणवन्तमुपाददते, तान् प्रति परीक्षाविशेषार्थमर्थयते न चात्रेति । (मदीये प्रबन्धेऽस्मिन् गुणदोष)वति युगपद्गुणदोषौ निरूपयन्तु भवन्तः । अन्यथा गुणानुपेक्ष्य दोषेषु निरूप्यमाणेषु दोषनिर्भावनैकमनसामसन्तो दोषाः प्रकाशेरनिति ॥ ४ ॥ इदानीं दुर्जनान् प्रति सदण्डमाह कुतो वेति । ये वयं परस्थानपि दोषान्न मृष्यामः, ते कथं स्वग्रन्थेषु दोषानुपाददीमहि । न चास्माभिरनुपात्तान् दोषान् सूरयो ग्रहीतुमर्हन्तीति ॥ ५ ॥ {१,३} सम्प्रति मत्सरा नूनं दूषयिष्यन्ति मन्निबन्धनम् । अतस्तद्दोषोद्भावनेन शुश्रूषूणामुत्साहभङ्गो मा भूदित्येवमर्थमाह निर्दोषत्वेति । प्रसिद्धातिशयावपि मोक्षस्वर्गौ प्रति नास्तिका विवदन्ते । वदन्ति च सुखदुःखे लौकिके स्वर्गनरकौ इति । मोक्षे च सद्भावतः प्रभृति विवादः । एके हि नास्ति मोक्ष इति वदन्ति । अन्ये पुनः सकलविषयोपरागरहितं संवेदनप्रवाहमपवर्गमाहुः । अन्ये तदुपरमम् । अपरे सकलवैशेषिकात्मगुणोच्छेदलक्षणं निरतिशयमविषयपरिष्वङ्गजमनवसानमानन्दसन्दोहम् । अपरे च पूर्वे च भ्रान्तिसमुत्थैर् नानाविकल्पैः पारमार्थिकमोक्षस्वरूपमपलपन्त्येवेति ॥ ६ ॥ अपि च यदि नाम शुश्रूषवो मन्निबन्धने दोषानुपलभन्ते, तथाप्यहमनपवाद्यः । न ह्यहं स्वतन्त्रः किञ्चिदभिदधे । आगमानुसारिणस्तु मे यथागमं वर्तमानस्य स्खलितमपि दैवादवर्जनीयतयापन्नमित्युपेक्षणीयमेव । न हि किमप्यभिमतं वस्तु निर्दोषं भवति । दोषांस्तु समाधाय गुणा उपजीवितव्या इत्याह आगमेति । सतां हि मार्गोऽयमागमानुसारो नाम । तदिह बहुलं गुणा एव । दोषास्तु कथञ्चित्सन्तोऽप्यल्पत्वादसत्कल्पा इत्युपेक्षितव्या इति ॥ ७ ॥ किञ्चास्तु तावदस्मादृशानां कविप्रवीराणामागमानुसारिण्यो वाचः शोभन्त इति । अन्यस्यापि श्रद्दधानस्य त्रयीमार्गानुसारिणी यथाकथञ्चिदारब्धा क्लिष्टा अल्पसारापि वाग्वृत्तिः शोभते । अस्माकं तु बहुसारा अक्लेशनिर्मिता शोभतेतरामित्याह यथेति ॥ ८ ॥ {१,४} ननु किमङ्गभूतायां मीमांसायां वार्त्तिकं प्रणीयते, वेदा एव साक्षाद्व्याख्यायन्तामत आह मीमांसेति । वेदा एव संशयपूर्वोत्तरपक्षक्रमेण व्याख्यायमाना मनो हरन्तितरां, न तु मन्त्रब्राह्मणभाष्यप्रस्थानेन । मीमांसयैव तु ते तथाव्याख्यायन्त इति तत्रैव वार्त्तिकं कर्तुं मे तृष्णा वर्धत इति ॥ ९ ॥ ननु मीमांसायामपि चिरन्तननिबन्धनानि सन्तीति किं मुधा प्रयस्यते । अत आह प्रायेणेति । लोकायतं नाम नास्तिकानां तन्त्रम् । तद्भावमापादिता नानापसिद्धान्तसङ्ग्रहेण । तामास्तिकपथे कर्तुमयं यत्नः कृत इति । आशंसायां वर्तमानेऽर्थे वा क्तो वर्णनीय इति ॥ १० ॥ इत्युपोद्धातः सूत्रतात्पर्यमिदाणीं दर्शयति अथेति । इदं हि सूत्रं धर्माख्यमस्य शास्त्रस्य प्रतिपाद्यतया विषयभूतं प्रयोजनं वक्तुं कृतम् । आद्यमिति प्रयोजनाभिधानस्थानमिति दर्शयति । यद्यपि धर्मोऽस्य प्रयोजनमिति न कण्ठेनोक्तं, तथापि जिज्ञासाकर्मभूतो धर्म इत्याचक्षाणेनापुरुषार्थज्ञानस्यानिष्टत्वात्पुरुषार्थीभूतो धर्मः प्रयोजनमिति सूचितमिति सूत्रमित्युक्तम् । कृतपदेन च कृत्रिममिदमतः प्रमाणान्तरेण गुरुकुलवासावसाननिवृत्तिपरमपि व्याख्यायमानं न दोषमावहतीति दर्शयति । नित्ये{१,५} हि यावद्वचनं वाचनिकम् । पौरुषेयं तु प्रमाणान्तरबलेनान्यार्थमपि प्रतिभासमानम् अन्यपरतया प्रतिपाद्यत इति ॥ ११ ॥ ननु किं प्रयोजनाभिधानेन । शास्त्रमेव प्रणीयताम् । प्रयोजनाभिधानं हि शास्त्राद्बहिर्भूतं शास्त्रं प्रणेतुकामस्य न युक्तम् । किञ्चास्य प्रयोजनम् । प्रयोजनविशेषात्शास्त्रेषु शुश्रूषुप्रवृत्तिरिति चेत् । तन्न । न हि प्रेक्षावतां पुंवचनादेवमयमर्थ इति विश्वासो युक्तः, विशेषतो हेतुदर्शनात् । अन्यार्थमपि शास्त्रं धर्मप्रयोजनतया श्रोतॄन् प्रवर्तयितुमयमाहेति शङ्कमाना नाश्वसेयुः । अतो मन्दफलं प्रयोजनवचनमत आह सर्वस्येति । यदन्यदल्पायाससाध्यमपि किञ्चित्शास्त्रं लौकिकं वौदनपाकादि कर्म, तदप्यनुक्तप्रयोजनं नाद्रियन्ते । किं पुनर्मीमांसामिति युक्तः शास्त्रारम्भे प्रयोजननिर्देशः । यत्तु पुंवचनादनाश्वास इति, तन्न । आप्तानाप्तविशेषात् । वक्ष्यति हि तच्चेत्प्रत्ययितातिति भाष्यकारः । जैमिनिश्च अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् (१ ।३ ।७) इति । यत्तु विप्रलिप्समानो ब्रूत इति । तन्न । न ह्यस्य महर्षेरनृतवचनं सम्भवति । न चास्य विप्रलम्भे प्रयोजनं किञ्चिदुपलभ्यते । यदि श्रोतारः प्रवर्तन्तामिति, किमस्य तैरफलेऽधर्मफले वा धर्मच्छलेन प्रवर्तितैः । प्रत्युताधर्म एवास्य शिष्यान् भ्रामयतो महान् दोष आपद्येत । न च परमधार्मिकोऽधर्ममाचरतीत्युत्प्रेक्षितुमपि शक्यम् । न च तन्त्रकारस्तन्त्रप्रयोजने भ्राम्यतीति सम्भाव्यते । अत एवासम्भवद्भ्रमविप्रलम्भत्वादृषीणामष्टकादिस्मरणानि श्रुतिमूलानीति स्मृत्यधिकरणे वक्ष्यते । सर्वपुरुषवचनाविश्वासे[१] पुनस्तदपि भज्येतेति[२]युक्तं प्रयोजनाभिधानमिति ॥ १२ ॥ __________टिप्पणी__________ [१] नानाश्वा [२] सू ___________________________ सर्वस्यैवेति काक्वा[३]मीमांसायां विशेषो योऽन्तर्णीतस्तमभिद्योतयति मीमांसाख्येति । शास्त्रान्तराणि हि[४]वाच्यैकविषयनिबन्धनानि{१,६}व्याकरणादीनि । मीमांसाख्या त्वियं विद्या बहूनि विद्यान्तराणि वेदतदङ्गादीन्युपायभूतान्याश्रिता । न ह्यस्यास्तैर्यथावदविज्ञातैरर्थः[५]शक्यनिर्णयः । तदियमुपायतः स्वरूपतश्च प्रचिता श्रोतॄणां श्रवणेच्छामपि कारयितुमनुक्तप्रयोजना सती न शक्येति युक्तं प्रयोजनाभिधानमिति ॥ १३ ॥ __________टिप्पणी__________ [३] क्वा यो विशेषोऽन्त (Kःा) [४] व्यक्तैक (Kआ) [५] र्थनिर्णय शक्यः । त (Kःा) ___________________________ अपि च विद्यान्तराण्यनुक्तप्रयोजनानि निष्प्रयोजनानि मन्यमाना जिज्ञासवो यदि नाम न जानीरन्मन्दश्रद्धया वा प्रवर्तमाना न सम्यग्विद्युः, तथापि तेभ्योऽज्ञातदुर्ज्ञातेभ्योऽनर्थप्राप्तिस्तावन्न सम्भवति । मीमांसायां त्विहाज्ञाते दुर्ज्ञाते वा पूर्वोत्तरपक्षन्यायमार्गे विवेकाभावात्पूर्वपक्षमेव सिद्धान्तं मन्यमानास्तदनुरूपं चेष्टेरन् । तत्र नित्यनैमित्तिकयोरकरणादसम्यक्करणाद्वा महान्तमनर्थं प्राप्नुयुः इति यत्नेनोपचरितव्या मीमांसेति श्लोकद्वयेनाह विद्यान्तरेष्विति । ननु तथा विद्यान्तरानभिज्ञेऽपि दुष्यत्येव । तथा हि व्याकरणानभिज्ञोऽपि तावद्यज्ञेऽपशब्दं प्रयुञ्जानः प्रत्यवैति । श्रूयते हि तस्माद्ब्राह्मणेन न म्लेच्छितव्यं म्लेच्छो ह वा एष यदपशब्दः इति । उच्यते । को वाह न शास्त्रान्तरानभिज्ञानेऽपि दोषो भवेदिति । अल्पभूयस्त्वे तु विशेषः । मीमांसा हि सर्वशास्त्रगताज्ञानसन्देहविपर्ययव्युदासक्षमन्यायनिबन्धनात्मिका ।[६]तदस्यामज्ञातायां न किञ्चिदपि ज्ञातं भवति । अतो महान्तमनर्थं प्राप्नोति ।[७]अत एवाह महान् दोष इति ॥ १४१५ ॥ __________टिप्पणी__________ [६] तस्या (Kआ) [७] प्नुयात् ___________________________ यतश्च यत्नेनोपचरितव्या मीमांसा, तस्माद्युक्तं सूत्रकृतां स्वयं प्रयोजनाभिधानमित्याह तस्मादिति । ननु[८]तथापि पाणिनिनेव{१,७} भाष्यकारादिभिः करिष्यमाणो यत्नः[९]कस्मान्न जैमिनिनोपेक्षितः, अत आह यदिति । यत्तेन जैमिनिनोक्तं तदेव भाष्यकारादयः कथं नाम वदेयुरिति । इतरथा स्वच्छन्दाः को वेत्ति कीदृक्प्रयोजनमभिदध्युरिति । तथा हि व्याकरणे सूत्रकृतोपेक्षितं प्रयोजनमनेकधा व्याख्यातृभिर्विकल्पितम् । तथा हि प्रथमं साधुशब्दज्ञाने धर्म इत्यभिधाय पुनः शास्त्रपूर्वे प्रयोगेऽभ्युदय इत्युक्तमिति । सत्यमेवं, युक्तं तावत्प्रयोजनाभिधानम् इति ॥ [१६] ॥ __________टिप्पणी__________ [८] नु यद्येवं पा (Kःा) [९] त्नः जैमिनिना क्षेनोपीतः कस्मादतः ___________________________ अथैतेन प्रयोजनेनास्य शास्त्रस्यायं सम्बन्ध इत्यपि सूत्रकारस्य युक्तं वक्तुम् । अज्ञातप्रयोजनमिवाविदितसम्बन्धमपि श्रोतुं नाद्रियन्ते शिष्याः । तस्मात्सह प्रयोजनेन अस्य सम्बन्धो वाच्य इति चोदयति सिद्धार्थमिति ॥ १७ ॥ परिहरति शास्त्रमिति । यदैवास्य शास्त्रस्येदं प्रयोजनमित्युक्तं, तदैव तयोरुपायोपेयलक्षणः सम्बन्धोऽर्थादुक्त एव । न चैवमर्थप्राप्तमर्थं सूत्रकारा अक्षरैर्निबध्नन्ति, असूत्रत्वप्रसङ्गादिति ॥ १८ ॥ ननु यदि नाम सूत्रकारेण प्रयोजनाद्भेदेन सम्बन्धो नोपात्तः, व्याख्यातृभिस्तु व्यज्यताम् । कथिते हि व्यक्तं सम्बन्धे श्रोतारः प्रवर्तन्ते । अत एव शास्त्रान्तरेष्वपि सम्बन्धः स्फुटम्[१०]उपदर्शितः । तथा हि शिष्यप्रश्नानन्तरं कणभुजा तन्त्रं प्रणीतमित्यर्थमालायामुक्तमित्याह सिद्धिरिति ॥ १९ ॥ __________टिप्पणी__________ [१०] स्पष्टमिव द (Kआ, Kःा) ___________________________ {१,८} अविस्पष्टीकृते तु सम्बन्धे व्याख्यातृभिरसम्बद्धप्रलापी सूत्रकार इति शङ्कमानाः श्रोतारोऽसङ्गतिमेव शास्त्रप्रयोजनयोर्मन्वीरन्नित्याह यावदिति ॥ २० ॥ परिहरति इहेति । एवं हि मन्यते तत्र नाम वार्त्तिककाराः क्लिश्नन्ति यन्न भाष्यकारेणोक्तम् । इह तु भाष्यकारेणैव धर्मः प्रसिद्धो वा स्यादप्रसिद्धो वा इत्याक्षिप्य सम्बन्धो वक्ष्यते अथवार्थवतित्यादिनेति न पृथक्सम्बन्धोऽभिधानीयः सम्बन्धभाष्यविवरण[११]एव तु यतितव्यमिति ॥ २१ ॥ __________टिप्पणी__________ [११] ष्य ए (Kआ) ___________________________ कश्चित्पुनरत्रैवमाह यथार्वाचीना व्याख्यातारो न पृथक्सम्बन्धमभिदधति तथा भाष्यकारस्यापि सम्बन्धवचनमयुक्तं, सूत्रकारेणैवाथशब्दं प्रयुञ्जानेनाध्ययनक्रियानन्तर्यलक्षणस्य शास्त्रसम्बन्धस्योक्तत्वात् । यथा अथातो धर्मं व्याख्यास्यामः इति शिष्यप्रश्नानन्तरं शास्त्रं प्रणयाम इति काश्यपेनोक्तमिति । तं प्रत्याह न चापीति । अध्ययनज्ञानेच्छाक्रिययोर्ह्यानन्तर्यलक्षणं सम्बन्धमथशब्दो वदति । ते च क्रिये शास्त्राद्[१२]बर्हिर्भूते । सन्नन्तसामान्यमात्रेण जिज्ञासामीमांसयोरैक्यं मन्वानानामयं भ्रम इति ॥ २२ ॥ __________टिप्पणी__________ [१२] पृथग्भू (Kःा) ___________________________ न परमनुपात्तः सम्बन्धः, निष्प्रयोजनश्चेत्याह योऽपीतिद्वयेन । काणादे हि तन्त्रे क्रियानन्तर्यरूपः सम्बन्धो दर्शितः । एवं हि तत्र भाष्यकारेणोक्तं को धर्म इत्यादिकान् शिष्येणोदीरितान् पञ्च{१,९} प्रश्नानपेक्ष्याह अथातो धर्मं व्याख्यास्यामः इति । गुरुपर्वक्रमात्मकश्च सम्बन्धो यथेहैव कैश्चिदुक्तः ब्रह्मा महेश्वरो वा मीमांसां प्रजापतये प्रोवाच, प्रजापतिरिन्द्राय, इन्द्र आदित्यायेत्येवमादि । पर्वाण्यवच्छेदाः गुरूणां पर्वाणि गुरुपर्वाणि गुरुपर्वणां क्रमो गुरुपर्वक्रम इति विग्रहः । न चात्र द्विविधो ह्ययं सम्बन्ध उपयुज्यते । न हि तस्य सम्बन्धस्य तद्रूपसदसद्भावयोः सतोः श्रोतुः शास्त्रे प्रवृत्तिनिवृत्त्योर्विशेष उपलभ्यते शास्त्रविषये वा ज्ञान इति विधिनिषेधयोः कार्ये प्रवृत्तिनिवृत्ती । ताभ्यां ते लक्षयतीति ॥ २३२४ ॥ यतोऽयं सम्बन्धो निष्प्रयोजनः, तस्माद्ये सूत्रव्याख्यानाङ्गं सम्बन्धमभिधित्सन्ति, तैः सोपपत्तिकः सप्रयोजनश्च सम्बन्धो वाच्यः । यथात्र शाबरे भाष्ये कृतमित्याह तस्मादिति । शास्त्रमवतार्यतेऽनेनेति अकर्तरि च कारके संज्ञायाम् (ড়ा ३ ।३ ।१९) इति करणे घञ् । शास्त्रावतारश्चासौ सम्बन्धश्चेति शास्त्रावतारसम्बन्धः । स चोपायोपेयलक्षण इत्युक्तमिति ॥ २५ ॥ भाष्यमिदानीमनुसन्धत्ते लोक इति । ननु यत्रैव भाष्यं सङ्गच्छते स एवार्थो व्याख्यातुमुचितः । कथं षडर्थान् सम्प्रचक्षते । अत आह भाष्यकारानुसारेणेति । एतदुक्तं भवति सर्वत्र भाष्यं सङ्गच्छत इति । कथं पुनरनेकार्थमेकं वाक्यम्, अर्थैकत्वेन ह्येकवाक्यतां वक्ष्यति अर्थैकत्वादेकं वाक्यमिति । अत आह प्रयुक्तस्येति । अयमभिप्रायः पुरुषप्रयुक्तमिदं वाक्यम् । पुरुषास्तु प्रमाणान्तरेणार्थं विदित्वा बह्वभिप्रायमप्येकं वाक्यं प्रयुञ्जाना दृश्यन्ते । यथा श्वेतो धावति अलम्बुसानां यातेति । वैदिके त्वयं नियम एकमेकार्थमिति । यथाशब्दं हि तत्रार्थे सम्प्रत्ययः, प्रमाणान्तराभावात् । तदुक्तं बह्वभिप्रायमप्येकं पुरुषास्तु प्रयुञ्जते । {१,१०}इति । ननु च सान्निधानात्प्रथमसूत्रगताथशब्ददूषणमेवास्य भाष्यस्यार्थो युक्तः कथं सर्वशास्त्रगतसूत्रव्याख्यानाङ्गत्वमत आह आदित इति । एवं हि मन्यते सर्वादौ प्रयुक्तमिदं वाक्यम् । अतः सूत्रसमुदायस्यैवेदमादिमं स्थानमिति न स्थानतो विशेषलाभः । प्रत्युत सूत्रेष्विति बहुवचनसाम्र्थ्यस्वरूपलिङ्गानुरोधेन सर्वसूत्रविषयत्वमेव स्पष्टं प्रकाशत इति । ननु तत्र लोकेऽयमथशब्द इत्यादिभाष्यैकवाक्यतापन्नस्य भाष्यस्याथशब्ददूषणार्थत्वमेव स्पष्टं[१३]प्रकाशते । न ह्यन्यथा तदेकवाक्यतोपपद्यते । अत आह पृथगिति । यत्नगौरवं प्रसज्येतेत्येवम् अन्तस्य तत्रेत्यादिकात्पृथक्कृ[१४]तस्य पञ्च व्याख्याविकल्पा भवन्ति । तदेकवाक्यतापन्नस्याथशब्ददूषणमेवार्थ इति ॥ २६ ॥ __________टिप्पणी__________ [१३] ष्टमवगम्यते [१४] ग्भू ___________________________ षडर्थानिदानीं सुखग्रहणार्थमुद्दिशति सर्वव्याख्येति । ते च यथास्वमवसरे वक्ष्यन्त इति ॥ २७ ॥ सर्वव्याख्यां तावद्विवृणोति साधारणीति । भाष्यकारेण हि द्विधा सूत्रव्याख्या कृता । एका सर्वार्था येयं लोक इत्यादिका । प्रतिसूत्रगता[१५]तु विशिष्टा । समासव्यासाभ्यां हि विदुषामर्थावधारणमिष्टिमिति ॥ २८ ॥ __________टिप्पणी__________ [१५] गोचरा तु (Kःा) ___________________________ अत्र भाष्यकारेण लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यमिति प्रवृत्तिरुपदर्शिता । तथा नाध्याहारादिभिरित्यादिना निवृत्तिः । तदिह प्रवृत्तिनिवृत्ती तावत्स्वरूपतो दर्शिते । प्रवृत्तिपुरस्सरी च निवृत्तिः । तथा प्रसिद्धानि पदानीति{१,११}पदान्यग्रेऽभिधाय तदर्थान्येव सूत्रेष्विति पश्चात्सूत्राणि दर्शितानि । तदिह सर्वत्र वार्त्तिककारः पदविन्यासविशेषेण तात्पर्यमाह प्रवृत्तिरिति । प्रवृत्तिनिवृत्ती शब्दौ प्रयुञ्जानो द्विधैव प्रवृत्तिनिवृत्तिभ्यां सूत्राणि प्रवर्तन्त इति भाष्यकृतोक्तमिति दर्शयति । तयोश्च क्रमविशेषेण भाष्यकारस्यापि प्रवृत्तिपूर्विका निवृत्तिर्व्युत्पाद्येति दर्शयति । तथा पदसूत्रयोः पौर्वापर्यविवक्षया भाष्यकारस्यापि पदार्थपूर्वको वाक्यार्थोऽभिमत इति[१६]सूचयति । तदयमर्थः येयं प्रसिद्धार्थग्रहणं कर्तव्यमिति प्रवृत्तिः, सा तेषु पदेषु प्रसिद्धार्थो ग्रहीतव्य इति यावत् । या च वाक्यदोषाणामध्याहारादीना निवृत्तिः, सा सूत्रेषु नैषामध्याहारादिभिरर्थव[१७]र्णनं कार्यमिति । अत्र भाष्यं सति सम्भव इति । तस्यार्थमाह वेदवाक्याविरुद्धेष्विति । वेदवाक्याविरुद्धेषु पदेषु सूत्रेषु च प्रसिद्धार्थग्रहणप्रवृत्तिरध्याहारादिनिवृत्तिश्च, न तु सर्वेषु विरुद्धेष्वपि केषुचित्पदेषु सूत्रेषु च । तत्र विपरीते प्रवृत्तिनिवृत्ती । तदिदं सति सम्भव इत्यनेनोक्तम् । एवं[१८]वेदाविरोधसम्भवे कार्यमिदं नान्यथेति ॥ २९ ॥ __________टिप्पणी__________ [१६] दर्शय [१७] र्थोपव [१८] सति वे (Kःा) ___________________________ ननु युक्तं तावत्पदेषु प्रवृत्तिरिति । कथं सूत्रसंश्रया निवृत्तिः यावता पदान्येव तु प्रधानतया प्रकृतानि एषामिति सर्वनाम्ना परामर्शमर्हन्ति । प्रधानगोचरतया व्युत्पत्तेः । न ह्येष दण्ड इष्टकाकूटे तिष्ठति प्रहरानेनेत्युक्ते इष्टकाकूटेनेति गम्यते, अपि तर्हि दण्डेनेति । दण्डविशेषणतयोपात्तत्वादिष्टकाकूटस्य । तद्वदिहापि पदविशेषानि सूत्राणि न परामर्शार्हाणीति । अत आह अध्याहारस्येति । अयमर्थः यत्राध्याहारादयः प्रसजन्ति तत्रैव निषेधमर्हन्ति, प्राप्तिपूर्वकत्वात्प्रति षेधस्य । न चेह तौ पदेषु सम्भवतः । अध्याहारो नाम न्यूनवाक्यपूरणसमर्थाधिकपदाहरणात्मकः । स च न पदेषु सम्भवति, अपभ्रंशत्वेन न्यूनपदप्रयोगासम्भवात् । व्यत्यासो हि व्यवहितकल्पना । सा चान्यत्र स्थितस्यान्यत्र सञ्चारः । न चासौ नियतपौर्वापर्यप्रकृतिप्रत्ययात्मके पदे सम्भवति, पदनाशप्रसङ्गात् । अतः सूत्राण्येव सम्भवदध्याहारादिकानि{१,१२}एषामिति सर्वनाम्ना परामर्शमर्हन्ति । ननु विपरिणामगुणकल्पने पदधर्मावेव । पदे हि प्रकृतिः प्रत्ययो वा विपरिणमति । यथा प्रतिगृह्णीयादिति प्रतिग्राहयेदिति भवति । विप्रकर्ष इति च विप्रकर्षादिति भवति । गुणकल्पनापि पदगोचरा । सा यथौत्पत्तिकादिपदेषु वक्ष्यते । वाक्येषु तु नानयोः सम्भवः । न हि पदसमुदायो विपरिणमति । न च गौणो भवति । अतो न पदसूत्रयोः कश्चिद्विशेषः । उच्यते वाक्यं हि नाम न पदेभ्यो व्यतिरिक्तमन्यदेव किमपि तत्त्वम् । अपि तर्हि पदान्येवैककार्यपरिष्वङ्गसमासादितसमन्वयानि । तदिह युक्तं यत्पदधर्मोऽप्यन्वेतीति । अतः प्रसजतः पदद्वारेण वाक्येषु विपरिणामगुणकल्पने इति प्रतिषेधाधारत्वोपपत्तिः । वाक्यधर्मयोस्तु पदमात्रे न कथञ्चित्प्रसक्तिरिति न तन्निषेधो युक्तः । तस्माद्युक्तमध्याहारादिनिषेधार्थमेषामिति सर्वनाम्ना सूत्राणामभिधानमिति ॥ ३० ॥ अत्र भाष्यकारेण सर्वव्याख्याप्रयोजनमभिदधतोक्तमेवं वेदवाक्यान्येवैभिर्विचार्यन्ते इति । तस्यार्थः साधारणव्याख्ययैव सूत्राणां व्याख्यातत्वान्न पुनस्तानि व्याख्येयानि । वेदवाक्यान्येव तैः परिज्ञातार्थैर्व्याखातव्यानीति । तदयुक्तम् । उक्तं हि साधारणी विशिष्टा च सूत्रव्याख्या द्विधा कृता । इति । अतो विशिष्टव्याख्ययापि सूत्राणां स्पृश्यमानत्वात्कथं वेदवाक्यान्येवेत्यवधारणोपपत्तिरित्यत आह एवशब्द इति । यत्नगौरवपरिहारार्थो हि विशेषव्याख्याप्रत्यादेशः । गौरवं च पदच्छेदादिप्रपञ्चेन तार्किकवत्क्रियमाणायां व्याख्यायामापद्यते । न चेह तथा करिष्यते । अतोऽल्पस्य विशेषस्य सूत्रगतस्य वाच्यत्वादवधारणं कृतमित्यदोष इति । अपरमपि इतरथा यत्नगौरवं प्रसज्येतेति भाष्यम् । तस्यायमर्थः वेदवाक्यान्येव तावद्व्याख्येयानि । यदि त्विदं व्याख्यानं वेदसूत्रोभयगोचरतया वर्ण्यते, ततो यत्नगौरवमापद्यत इति । तदाह अस्येति । भाष्यं व्याचक्षाणो व्याख्येया इत्यतः प्रकृतं व्याख्यानमस्येति{१,१३}परामृशति । यदीह वेदाश्च सूत्राणि च व्याख्यायन्ते, ततो व्याख्यानावृत्तौ यत्नगौरवं प्रसज्येत । द्रव्यभेदेऽपि हि क्रियावृत्तिर्दृष्टा यथाष्टकृत्वो ब्राह्मणा भुक्तवन्त इति । अत्र चोदयति प्रसिद्धेति ।[१९]स्वतःसिद्धमेव ह्यविरोधे प्रसिद्धार्थग्रहणमध्याहारादिवर्जनं च किमनेनोक्तेनेति । परिहरति न दोष इति । न हि वेदवदप्राप्त[२०]विषयं भाष्यमिति ॥ ३१॥ __________टिप्पणी__________ [१९] स्वरससि [२०] प्तार्थवि ___________________________ तथाप्यनुक्तसुज्ञानस्यार्थस्य पुनर्वचनं प्रयोजनापेक्षमिव दृश्यत इति मन्वानं[२१]प्रति प्रयोजनमाह व्याख्याङ्गत्वेति । यो नाम तन्त्रान्तरेऽध्याहारादि स्वपरिभाषा वा गुणवृद्ध्यादिका दृष्टेत्यत्रापि[२२]तत्प्रयोजयति तस्य कृते शास्त्रस्वरूपमनेन निरूप्यते, अध्याहारादिवर्जितमेव व्याख्यानं मीमांसायामुपपन्नमिति ॥ ३२ ॥ __________टिप्पणी__________ [२१] नः प्रयो [२२] पि ताः प्र ___________________________ यस्य तु मन्दफलत्वादेवमप्यपरितोषः, तं प्रत्यन्यथा वर्णयति वृत्त्यन्तरेष्विति । केषाञ्चिद्धि भवदासादीनां वृत्त्यन्तरेषु शब्दानामलौकिकोऽर्थ उपवर्णितः । तेऽनेन भाष्येणोपालभ्यन्ते । यावद्धि पूर्वग्रन्थदोषोद्भावनेन स्वग्रन्थगुणवत्ताख्यापनेन वा विशेषो न प्रदर्श्यते,[२३]तावन्न श्रोतारः श्रोतुमाद्रियेरन् । अत्युत पूर्वग्रन्थानेवायमल्पान्तरं चोरयतीति वदद्भिरसूयकैः शुश्रूषूणामुत्साहभङ्गो युज्येत । अतः प्रयोजनवानेव परोपालम्भ इति ॥ ३३ ॥ __________टिप्पणी__________ [२३] दर्शितः ता (Kःा) ___________________________ क्व पुनर्भवदासेनालौकिकार्थग्रहणं कृतं यदेवमुपालभ्यते । अत आह अथात इति । शब्दार्थाविह लोक्यते इति वृद्धव्यवहारो लोकः । तत्र पृथक्पदत्वमेवाथातश्शब्दयोर्दृष्टम् । यथा भुक्तवानयमथ व्रजतीति ।{१,१४}न भुक्तवानतो न व्रजतीति । न त्वनयोरानन्तर्यमात्रे दृष्टचरः संसर्गः । योऽपि च अथातः शेषलक्षणम् (ञैषू ३ ।१ ।१) अथातोऽग्निमग्निष्टोमेनानुयजतीति संसर्गः, तत्रापि केवलातश्[२४]शब्दवेदनीयमेवानन्तर्यम् । भवदासेन चोक्तम् __________टिप्पणी__________ [२४] लाथातः श ___________________________ अथात इत्ययं शब्द आनन्तर्ये प्रयुज्यते[२५]। __________टिप्पणी__________ [२५] वर्तते ___________________________ इति । तेनास्य पदसमुदायस्य तादर्थ्यं नर्ते परिभाषादिभिः[२६]सिध्यतीति । आदिशब्देन परैः सङ्गानं लक्षणां चाहेति ॥ ३४ ॥ __________टिप्पणी__________ [२६] षां सि ___________________________ अत्रेदानीं भाष्यं योजयति प्रसिद्धेति । भवदासेन ह्यतश्शब्दस्य हेत्वर्थत्वं प्रसिद्धमपलपितम् । अप्रसिद्धानन्तर्यगोचरत्वं च कल्पितम् । इदं च सति[२७]प्रसिद्धार्थसम्भवे न वृत्तिकारेण कार्यमिति लोक इत्यादिग्रन्थेनोक्तम् । सम्भवति चात्र प्रसिद्धार्थग्रहणम् । न ह्यत्र पाणिनिनेव जैमिनिना वृद्धिरादैच्(ড়ा १ ।१ ।१) इतिवत्स्वसंज्ञा प्रणीता । तदिदं सति सम्भव इत्यनेनोक्तमिति वेदितव्यम् । किं हि प्रसिद्धेनापराद्धं यत्[२८] स्वरससिद्धमुल्लङ्घ्याप्रसिद्धोऽर्थः कल्प्यत इति ॥ ३५ ॥ __________टिप्पणी__________ [२७] ति सि (Kःा) [२८] यदुक्तं स्व (Kआ) ___________________________ अपि चैवं सत्यप्रसिद्धकल्पितेषु सूत्रपदार्थेषु व्याख्यायमानेषु पुनश्च वेदवाक्येषु यत्नगौरवं प्रसज्यत इति इतरथेत्यादिकेनोक्तमित्याह सूत्रार्थे क्लिश्यत इति । स्वमनीषाकल्पितेषु सूत्रपदार्थेषु व्याख्यायमानेषु पुनश्च वेदवाक्येषु वक्तुर्ग्रन्थकारस्य ग्रन्थसन्दर्भप्रणयनेन व्याख्यातुश्च तद्व्याख्यानेन श्रोतुश्च महतो ग्रन्थस्य श्रवणधारणाभ्यां महान् यत्न आपद्यत इति ॥ ३६ ॥ यस्तु मन्यते गुणवत्तरग्रन्थनिर्माणे श्रवणादेव श्रोतारः[२९]श्रोतुम्{१,१५}आद्रियन्ते किं गुणगणहारिणा दौर्जन्येनेति, तं प्रत्यर्थान्तरमवतारयति न व्याख्यास्यतीति । एष हि भाष्यकारः सूत्रोच्चारणानन्तरं वेदवाक्यान्युदाहृत्य संशयपूर्वोत्तरपक्षविभागेनार्थनिर्णये यत्नं करिष्यति, न सूत्रावयवविवरणादरम् । तत्र श्रोतॄणामाशङ्का जायेत किं स्विदयमज्ञतया सूत्राण्युपेक्षितवान्, आहोस्विदनर्थकत्वाद्, उत प्रसिद्धत्वादिति । तदयमकुशलो भाष्यकारः यत्सूत्रेषु भाष्यं कर्तुमभिप्रवृत्तस्तान्युपेक्षितवानिति । इमं दोषं व्याख्याप्रत्याख्यानेन परिहरति । न वयमनभिज्ञाः, न चैतानि सूत्राण्यनर्थकानि, चोदनार्थपरतन्त्रत्वान्न व्याख्येयानीत्युपेक्षितानीति ॥ ३७ ॥ __________टिप्पणी__________ [२९] रः प्रपत्स्यन्ति किं (Kःा) ___________________________ किं पुनश्चोदनार्थपरतन्त्रत्वे कारणमत आह प्रयास इति । किं पुनः सूत्रेषु न प्रयस्यते । अत आह फलवत्त्वेति तव्योन्तेन । फलवन्ति हि वेदवाक्यानि, फलवत्क्रतुप्रमितिप्रत्यासत्तेः । अफलानि सूत्राणि, तेषामनासत्तेः । अत एव च सूत्रैः करणभूतैश्चोदनार्थ एवोपेतव्यः, न पुनरुपायभूतानि सूत्राण्युपेक्षितव्यानि । तदिदं वेदवाक्यान्येवैभिर्[३०]इति । भाष्यकारेणोक्तमिति वेदितव्यम् । इह हि वेदवाक्यानां प्राधान्यमुपदिशति यत्प्रधानविभक्त्या संयुज्य निर्दिशति विचार्यन्त इति । सूत्राणि करणविभक्त्या तृतीययैभिरिति । ननु मा नाम साक्षादफलत्वात्केवलानि सूत्राणि व्याख्यायन्ताम् । उभयं तु व्याख्यायतां सूत्राणि च तैश्च वेदवाक्यानीत्य् अत आह नोभयमिति । उभयव्याख्यायां मुधा यत्नगौरवमापद्यत इति । इदं तु इतरथेत्यादिकेनोततमिति वेदितव्यम् । ननु सत्यं यत्नगौरवम् । न तु मुधा । न ह्यव्याख्यातः सूत्रार्थो ज्ञायते । न च तदनभिज्ञो वेदार्थं ज्ञातुमीष्टे, तदुपायत्वात्तस्य । अत आह पदार्थानामिति । एवं हि मन्यते सत्यं वेदार्थज्ञानोपायभूतानि सूत्राणि ।{१,१६} न तु तान्यव्याख्यातदुर्ज्ञातार्थानि ।[३१]पदार्थास्तावत्लोकप्रसिद्धा एव । तत्प्रसिद्ध्यैव च तत्पूर्वको वाक्यार्थोऽपि प्रसिद्ध एवेति न किञ्चिद्व्याख्येयमवशिष्यत इति ॥ ३८३९ ॥ __________टिप्पणी__________ [३०] भिर्विचार्यन्ते इति द्रष्टव्यम् । इह (Kःा) [३१] नानि ___________________________ अत्र च पक्षे भाष्यं सङ्गच्छतेतरामित्याह एवंशब्दादिक इति । सर्वव्याख्यायां हि विशेषव्याख्याया अल्पत्वादसत्त्वमुपचरितम् । इह तु सर्वथैव सूत्रव्याख्या प्रत्याख्यायते इत्यवधारणयत्नगौरवपरिहारयोरुभयोरुपपत्तिरिति । पक्षान्तराभिधित्सयेदानीमिममपि पक्षं दूषयति पदच्छेदादीति । यतः पदच्छेदादि न करोति, तस्मान्नायमभिनवो भाष्यकारः सूत्रार्थं विजानीत इति भवदासतन्त्रोपजीविभिरेवैतत्प्रत्याख्यापितं बुभुत्सुजनोत्साहमपहन्तुमिति ॥ ४० ॥ परमार्थतस्तु सूत्राणां तात्पर्यं ब्रवीत्येव न्यूनाधिकादिप्रत्यवेक्षणं च तत्र तत्र करोत्येवेत्याह ब्रवीत्येवेति । क्व पुनरतिरिक्तादीक्षते अत आह नन्वशक्तमिति । चोदनासूत्र एव तावत्नन्वशक्तमिदं सूत्रमिमावर्थावभिवदितुं चोदनालक्षणो धर्मो नेन्द्रियादिलक्षणः, अर्थश्च धर्मो नानर्थ इति । उभयविवक्षायां वाक्यभेद आपद्यते इति परिचोद्य तत्तु वैदिकेषु, न सूत्रेष्विति परिहरिष्यति । तथा यजुर्लक्षणानन्तरं कियदेकं यजुरिति यजुःपरिमाणज्ञापनार्थमुक्तमर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात्(ञै २ ।१ ।४६) इति । अस्यार्थः यावन्ति पदान्येकप्रयोजनानि प्रविभज्यमानानि साकाङ्क्षाणि च, तावन्त्येकं वाक्यमिति । उदाहरणं तु देवस्य त्वा सवितुः प्रसव इति मन्त्रः । अत्र हि सकलसवित्रादिविशेषणविशिष्टैकप्रधानभूतनिर्वापप्रकाशनं प्रयोजनम् । सर्वाणि च देवस्य त्वेत्यादीनि[३२]निर्वपामीत्य्[३३]अतो विभक्तानि सन्ति साकाङ्क्षाणीति देवस्य त्वेत्युपक्रम्य निर्वपामीत्यन्तमेकं वाक्यमिति स्थिते{१,१७} अवयवप्रयोजनाभिधित्सया भाष्यकारेण पृष्टमथ किमर्थमुभयं सूत्रितमयमर्थैकत्वादेकं वाक्यमिति विभागे साकाङ्क्षमिति[३४]चेति । तत्र प्रयोजनमुक्तम् । भवति हि किञ्चिदेकार्थं न तु विभागे साकाङ्क्षम् । यथा भगो वां विभजतु । पूषा वां विभजतु । अर्यमा वां विभजतु इत्यादि । अत्र ह्येकविभागमभिवदन्तः सर्वे एकार्थाः सन्तोऽपि नानावाक्यत्वं प्रतिपन्नाः । असति तु विभागे साकाङ्क्षमिति विशेषणे एकार्थतामात्रेणैव सर्वेषामैकमन्त्र्यमापद्यते इति । तथा विभागे साकाङ्क्षमित्येतावत्युच्यमाने स्योनं ते सदनं करोमि । घृतस्य धारया सुशेवं कल्पयामीति, तस्मिन् सीदामृते प्रतितिष्ठ । व्रीहीणां मेध सुमनस्यमानः इत्यनयोरेकवाक्यता विभागे साकाङ्क्षत्वादापद्यते । तस्मिन् सीदेति विभक्तं[३५]सत्साकाङ्क्षं तद्वृत्तस्य पूर्वप्रकृतपरामर्शात्मनस्तेन विनानुपपत्तेः । सत्यपि च विभक्तसाकाङ्क्षत्वे प्रयोजनभेदाद्वाक्यभेदः । द्वे हि तत्र प्रयोजने । पूर्वस्य सदनकरणमुत्तरस्य पुरोडाशप्रतिष्ठापनम् । एवमुभयोः प्रयोजनमुक्त्वान्त उपसंहृतं तस्मात्सम्यक्सूत्रितमिति । तथा विशये प्रायदर्शनात्(ञै २ ।३ ।१६) इति सूत्रम् । तत्रोदाहरणापरिज्ञानादगमकं सूत्रमित्युक्तम् । इह[३६]हि संशये प्रायदर्शनं हेतुर्निर्दिश्यते । तत्र न विद्मः कः संशयः, कुत्र वा संशयः, कस्यां[३७]प्रतिज्ञायां[३८]प्रायदर्शनं हेतुरित्येवमाक्षिप्य वृत्तिकारमतेन समाहितम् । वृत्तिकारेण हि वत्समालभेत वत्सनिकान्ता हि पशवः इत्युदाहृत्य विचारितं[३९]किं यागचोदनेयमुतालम्भमात्रं वत्ससंस्कार इति । तदिह मन्दाशङ्कानिराकरणार्थं सामान्यतोदृष्टेन पूर्वपक्षितम् । आलभतिः किल प्राणिद्रव्यसंयुक्तो यागसङ्गतो दृष्टः, यथा यो दीक्षितो यदग्नीषोमीयं पशुमालभत इति । तदयमपि प्राणिद्रव्यसंयोगाद्यजिमानिति भवति मन्दाशङ्का । तामपनेतुमिदमुक्तं विशये प्रायदर्शनादिति । अस्यार्थः वत्ससंस्कारैः समभिव्याहृतोऽयमालभतिः । तदयमपि साहचर्याद्वत्ससंस्कार एवेति भवति मतिः । यथा अग्र्यप्राये लिखितोऽग्र्य इति । ननु लिङ्गमिदम् । लिङ्गं च प्रमाणप्राप्तम्[४०]अभिद्योतयति, न तु प्रापयति । तत्कुतः प्राप्तस्येदं लिङ्गमिति वक्तव्यम् । उच्यते । न तावदिह सोमेन{१,१८}यजेतेतिवद्यागः प्रत्यक्षः । न च दैक्षपश्वादिवदनुमीयते । तत्र हि द्रव्यदेवतासम्बन्धान्यथानुपपत्तिर्यागावगमे हेतुः । इह तु न द्रव्यं देवतासंयुक्तमुपलभामहे, द्रव्यमात्रश्रुतेः । अतो दृष्टार्थ एवायं वत्ससंस्कार आलम्भः । स ह्यालभ्यमानो गां प्रस्तावयिष्यतीति बह्वेवञ्जातीयकं भाष्यकारेण व्याख्यातमित्यूहनीयम् । अतः सूत्रव्याख्याप्रत्याख्याने सकलमेवमादि भाष्यकारस्य विरुद्धमापद्यत इति । यत्तु प्रत्याख्याने कारणमुक्तमुपायभूतानि वेदार्थज्ञाने सूत्राणि, अतः किमेभिर्व्याख्यातैः, उपेय एव तु वेदार्थ एभिः करणभूतैर्व्याख्यातव्य इति । तद्दूषयति न चेति । यत एव च तान्युपायभूतानि, अत एव सुतरां व्याख्येयानि । न ह्युपायानभिज्ञ उपेयमवधारयुतुमलम् । ननु च तान्यपि व्याख्यायमानानि साध्यानि भवेयुः । न चासिद्धमसिद्धेनैव साध्यते । उच्यते । असिद्धमपि साधनमन्यसाधितं कार्ये व्यापार्यते, यथा द्रव्यदेवतोपपादितो यागः फलभावनायां, यथा चान्यतरासिद्धानि साधनानि साधनान्तरसिद्धानि[४१]साध्यं साधयन्त्येवेति ॥ ४१४२ ॥ __________टिप्पणी__________ [३२] त्येवमादी [३३] त्यान्तानि विभज्यमानानि स (Kःा) [३४] ति अत्र [३५] क्तं सर्वं सा (Kःा) [३६] दं (Kआ) [३७] स्यां च प्र (Kःा) [३८] यां हे [३९] रयिष्यते किं (Kआ) [४०] माणान्तरेणप्राप्तार्थम (Kःा) [४१] साधितानि ___________________________ सत्यमुपायानभिज्ञस्योपेयावधारणा नास्ति । उपायान्तरादेव तु विदितवेदार्थस्य किं सूत्रव्याख्यया । अत आह नान्यत इति । ये ह्यन्यत एव विदितवेदार्थास्तेषामर्थे नैतानि सूत्राणि जैमिनिना प्रणीतानि, भाष्यकारेण च व्याख्यातानि । अन्यतोऽनभिज्ञांस्तु प्रति सूत्राणि प्रणीतानि भाष्यकारेण च व्याख्यातानि । न च तेऽव्याख्यातमेव सूत्रार्थमुन्नयन्ति । न चानिर्णीतसूत्रार्था वेदार्थमवधारयन्तीति युक्तस्तदर्थो व्याख्याप्रयास इति ॥ ४२ द् ॥ यदुक्तं[४२]पदार्थानां प्रसिद्धत्वातिति, तन्निराचष्टे प्रत्याख्यानस्येति । प्रसिद्धपदार्थकत्वं हि वेदवाक्यानामप्यव्याख्येयत्वमापादयति ।{१,१९}तेष्वपि हि लोकप्रसिद्धान्येव पदानि पदार्थाश्च । वक्ष्यति हि य एव लौकिकाः शब्दास्त एव वैकिकास्त एव तेषामर्थः इति । तदिदमुक्तं तुल्यार्थत्वादिति । तुल्या हि लोकवेदसूत्रेष्वपि पदार्था इति ॥ ४३ ॥ __________टिप्पणी__________ [४२] दप्युक्तं (Kःा) ___________________________ अथैवमुच्यते यदपि वेदवाक्येषु प्रसिद्धा एव पदार्थाः, तथापि वाक्यार्थेषु वचनव्यक्तिविशेषानवधारणाद्यथायथं संशयाः समुपनिपतन्तीति तन्निरासाय तत्र व्याख्यानं प्रवर्तत इति, तत्सूत्रेष्वपि समानमिति तद्व्याख्याप्रत्याख्यानमयुक्तमित्याह वाक्यार्थ इति ॥ ४४ ॥ अपि चायं भाष्यकारः सूत्रव्याख्यां प्रत्याचक्षाणः स्पष्टमेव न व्याख्येयानीत्याचक्षीत, एतावतैव प्रत्याख्याने सिध्यति यदयमध्याहारादिदोषदुष्टव्याख्यानिषेधं करोति, तदवगम्यते दोषापेता तु व्याख्यानेनन निवार्यत इत्याह न व्याख्यातव्यमिति ॥ ४५ ॥ तदेवमस्य प्रत्याख्यानपक्षस्य[४३]दृष्टव्याख्याविरुद्धत्वात्, पूर्वयोश्च सर्वव्याख्योपालम्भयोः फल्गुत्वादनतिप्रयोजनत्वाद्, मध्यमस्योपालम्भस्य विशेषतो दौर्जन्यापादनाद्, न्यायाभासप्राप्तवेदवाक्यान्यथाकरणनिराकरणेन महाफला अनुक्तदुर्ज्ञाना च परिसंख्यैवास्य भाष्यस्यार्थ इत्याह अस्येति ॥ ४६ ॥ __________टिप्पणी__________ [४३] दु (Kआ) ___________________________ परिसंख्याविषयं तावदाह वैदिकमित्यर्थेऽन्तेन । वेदवाक्यव्याख्यानार्थानि हि सूत्राणि । तदिमानि प्रायेण यथाश्रुतगृहीतान्यपि वेदवाक्यार्थनिर्णयसमर्थन्यायकलापं समर्पयन्त्येव । क्वचिदेव तेषां प्रतीघातो{१,२०}भवति । तद्यत्र वेदसूत्रयोर्यथाश्रुतगृहीतयोः परस्परविरोधो भवति तद्विषया परिसंख्येति । एवमवगते विषये स्वरूपमाह तत्रेतिनेयमन्तेन । विरोधविषयेऽपि हि स्वरसतो यथाश्रुतगृहीतसूत्रग्रहणं प्रसक्तमनया वार्यते । यदिदं प्रसिद्धार्थग्रहणमध्याहारादिवर्जनं च तद्वेदाविरोधे ।[४४]विरोधे तु सूत्रमध्याहारादिभिर्व्याख्येयं, वैदिकमेव वाक्यं यथाश्रुतं नेयमितीदमत्रोपदिश्यत इति । अथ किं सर्वदैव वेदवाक्यं यथाश्रुतं नेयं, नेत्याह विरोध इति । यत्र हि वेदवाक्ययोरेवान्योन्यं विरोधो भवति, तत्र तयोरेकमध्याहारादिभिर्नीयत एव । यथोपक्रमावगतदातृश्रुतिविरोधादुपसंहारस्था प्रतिगृहीतृश्रुतिः दातृगोचरा दर्शिता । एवं ह्युक्तं यावतोऽश्वान् प्रतिगृह्णीयाद्[४५]इति प्रतिग्राहयेदिति । इदं तु विपरिणामोदाहरणम् । अध्याहारादयस्तु वेदवाक्ये विस्तरभयान्न प्रपञ्चिता इति ॥ ४७४८ ॥ __________टिप्पणी__________ [४४] धे । वेदवि (Kःा) [४५] त्प्र (Kआ) ___________________________ ननु चोभयत्र प्राप्तौ परिसंख्या भवति । यथोक्तं तत्र चान्यत्रं च प्राप्तौ परिसंख्येति कीर्यते इति । न चेह विरोधाविरोधयोरुभयोरपि यथाश्रुतसूत्रग्रहणं प्रसक्तम् । न हि जातु प्रधानाननुगुणं गुणं यथार्थमुपादाय प्रधानमन्यथा नीयत इति सम्भवति । अपि च नित्यं वेदवाक्यमनित्यं सूत्रम् । अतोऽपि च नास्य तेन सह स्पर्धा युक्ता । तेन वेदविरोधे यथाश्रुतसूत्रग्रहणं न प्रसक्तम्[४६]इति किं तन्निवृत्त्यर्थया परिसङ्ख्ययेत्यत आह यथेति । एवं हि मन्यते सत्यमयं न्यायः यद्वेदविरोधे सूत्रमन्यथा क्रियत इति ।[४७]न्यायाभासेन तु भ्राम्यतः प्रति भाष्यकारो लोक इत्यादिभाष्येण परिसञ्चष्टे । एवं हि भ्रान्ताः श्रोतारो{१,२१} मन्वीरन् न सूत्रैः सह वेदवाक्यानां कश्चिद्विशेषः । यथा हि वेदो धर्मे प्रमाणम्, एवं वेदार्थनिर्णयोऽपि नर्ते सूत्रेभ्यः सिध्यतीति नास्मान् प्रति वेदसूत्रयोः कश्चिद्विशेष इति । न च वेदसूत्रवाक्यानाम्[४८]अन्यः स्वगतो विशेषः । लौकिकास्तावत्पदपदार्था उभयत्र तुल्याः, वाक्यमप्याकाङ्क्षितयोग्यसन्निहितपदसमन्वयात्मकमुभयं वैदिकं जैमिनीयं च । न हि तयोरन्यतरदप्यध्याहारादिकमपेक्षते । तदेतदाह वाक्यसामर्थ्येति ॥ ४९५० ॥ __________टिप्पणी__________ [४६] मेवेति (Kःा) [४७] ति नान्या (Kआ) [४८] त्राणाम ___________________________ ननु न विरुद्धार्थमुभयं सम्भावयितुं शक्यते । अतोऽन्यतरदन्याय्यमिति स्थिते, गुणत्वात्सूत्रमन्यथा कार्यमिति प्रागुक्तमत आह असम्भवादिति । विचित्राशया हि जिज्ञासवः । अतस्ते कदाचित्प्रधानगुणगोचरं[४९]बलाबलं जानन्तो वेदानुरोधेन सूत्रमन्यथा नयन्ति । कदाचिदुद्भूताचार्यगौरवा एवमालोचयन्ति कथं हि न्यायसहस्रविज्जैमिनिरस्मदादिगोचरामनुपपत्तिं नाकलयतीति सम्भावयामः, ययैव तु तेन व्याख्यातं तथैव[५०]श्रुत्यर्थो युक्तः । अन्यथैकश्रुत्यनुरोधेन बहुश्रुतिविनाश एवापद्यत इति । तदेवमालोचनाभेदाद्विकल्प इति ॥ ५१ ॥ __________टिप्पणी__________ [४९] रां बलाबलगतिं जा [५०] वार्थः श्रुतेर्युक्तः ___________________________ अथवा समसामर्थ्ययोरुभयोर्विकल्पो भवति । इह पुनर्वेदार्थनिरूपणावस्थायां सूत्राणि प्रथममुपनिपतन्ति । तान्यनुपजातविरोधीनि तावद्यथाश्रुतग्राह्याण्यापतन्ति । तैश्च प्राथम्येनावरुद्धबुद्धिः श्रोता जघन्यस्थानोपनिपातिनीमेव चोदनां बाधेत । मुख्यानुरोधेन हि जघन्यबाधो वक्ष्यते मुख्यं वा पूर्वचोदनाल्लोकवत्(ञै १२ ।२ ।२३) इति । तदाह प्राथम्येनेति । न्याय्यामिति परिसंख्यायाः प्रयोजनं सूचयति । असत्यां हि परिसङ्ख्यायां न्यायाभासेन न्याय्य[५१]चोदनाबाधः प्रसज्येत । कथं पुनर्न्याय्या चोदना । उच्यते । गुणभूतानि सूत्राणि प्रधानभूतानि{१,२२}वेदवाक्यानि, तद्व्याख्याना[५२]र्थानि हि तानि । न च गुणानुरोधेन प्रधानमन्यथाकर्तुमुचितम् । प्रधानमविगुणं कथं निर्वर्त्येतेति हि गुणाः क्रियन्ते । प्रधानवैगुण्ये तु किं गुणैः । अत एव वक्ष्यति अङ्गगुणविरोधे च तादर्थ्यात्(ञै १२ ।२ ।२५) इति । एष च न्यायः पूर्वस्य मुख्यानुग्रहन्यायस्यापवादकः । अत एव मुख्यदीक्षाकालबाधः प्रधानकालानुरोधेन दर्शितः । उक्तं हि पर्वणि दीक्षा पर्वणि सुत्येति । अतः सूक्तं न्याय्यामिति ॥ ५२ ॥ __________टिप्पणी__________ [५१] य (Kःा) [५२] नि हि (Kआ) ___________________________ एवं विकल्पनियमाभ्यामुभयत्रप्राप्त्या परिसंख्यां प्रसाध्यात्रैव भाष्यं योजयति तेनेति । वेदाविरोधग्रहणमुपलक्षणार्थं न्यायाविरोधमप्युपलक्षयति । तदयमर्थः यदिदं प्रसिद्धार्थग्रहणमध्याहारादिवर्जनं च, तदुचितप्राप्तमनूद्य सत्यविरोधसम्भव इति विधीयत इति । ननु चात्रापि पक्षे त्रयो दोषाः प्राप्नुवन्ति । तथा हि सति सम्भव इति विधिमुखेन प्रवर्तमानस्य नासतीत्यन्य[५३]निषेधार्थता वक्तव्या । तत्र स्वार्थहानिरस्वार्थकल्पनाचापद्यते । तथा विरोधाविरोधयोरुभयोरपि यथाश्रुतसूत्रग्रहणं प्राप्तं, तद्बाध्यते । तत्र प्राप्तबाधः । अतः केन विशेषेणेयं परिसंखा प्रस्तुतेति । उच्यते । यदि सति चासति च विरोधे यथाश्रुतसूत्रग्रहणं कार्यमिति सामान्यवचनमभविष्यत्, ततो दोषत्रयं पर्यहरिष्यत् । यदा तु न्यायाभासेन सामान्यवचनं कल्पयितुमभिप्रवृत्तः सति सम्भव इति प्रत्यक्षोपदेशं पश्यति, तदा सामान्यवचनमलब्धात्मकमेवेति न प्राप्तबाधादिदोषत्रयप्रसङ्गः । अप्राप्तविधिरेव तदा सति सम्भव इति । विनापि विधिना प्राप्स्यतः किं विधिनेति प्रयोजनालोचनायामन्यनिवृत्तिः फलं विज्ञायते । परमार्थतस्तु अप्राप्तविधिरेवायम् । यथा रशनामन्त्रे वक्ष्यति __________टिप्पणी__________ [५३] स्य (Kःा) ___________________________ अप्राप्तविधिरेवायमतो मन्त्रस्य निश्चयः[५४]। __________टिप्पणी__________ [५४] यः । इ ___________________________ परिसंख्या फलेनोक्ता इति । तदिदं विधीयते[५५]ऽर्थ इत्यनेनोक्तमिति वेदितव्यमिति ॥ ५३ ॥ __________टिप्पणी__________ [५५] त इ (Kआ) ___________________________ {१,२३} इदानीं विरोधविषयेऽध्याहारादिकल्पनां सूत्रेषूदाहरणैर्दर्शयिष्यन्नध्याहारोदाहरणं तावदाह शेषभाजामिति । वक्ष्यति हि जैमिनिः अपि वा शेषभाजां स्यात्(ञै ६ ।४ ।३) इति ।[५६]अत्र हि शेषकार्याणीडाप्राशित्रादीन्युदाहृत्य विचारयिष्यते यद्येषामर्थेन गृहीतस्य हविषो दैवादपचारो भवति, किं तदा हविरन्तरमागमयितव्यं,[५७]शेषाद्वावदेयं, कर्मलोपो वेति ।[५८]तत्रोक्तमपि वा शेषभाजा स्यादिति । न चानेन पूर्वपक्षो गृह्यते, अपि वाशब्दसम्बन्धात् । न च सिद्धान्तः, पूर्वपक्षाभावात् ।[५९]अपि च अनन्तराधिकरणे प्रधानार्थावत्तहविर्नाशे शेषादवदानेन पूर्वपक्षं परिगृह्य सिद्धान्तितं निर्देशाद्वान्यदागमयेत्(ञै ६ ।४ ।२) इति । द्रव्यान्तरोपादानेन तद्यदि द्रव्यान्तरागम एवानन्तर्यादत्रानुषज्यते, ततो न्यायान्तरविरोध आपद्यते । शेषकार्याणामेकदेशद्रव्यश्चोत्पत्तौ विद्यमानसंयोगात्(ञै ४ ।१ ।२८) इत्यनेनाधिकरणेनाप्रयोजकत्वस्य स्थितत्वात् । अथोत्तरपक्षातिक्रमेण शेषादवदानं शेषभाजामर्थेन स्यादिति सम्बन्धः, तदप्ययुक्तम् । शेषस्य प्रतिपत्त्यन्तरसम्बन्धाद्, नष्टावयवप्रतिपत्तिसम्बन्धाभावाच्च । तेनोत्सूत्रमेव द्रव्यान्तरागमेन पूर्वपक्षं परिगृह्य राद्धान्तितमपि वा शेषभाजां स्याल्लोप इति लोपपदाध्याहारं दर्शयिष्यति । तदेष सूत्रार्थो भवति शेषं भजन्ते यानीडाप्राशित्रादीनि,[६०]तेषां द्रव्यान्तरप्रयुक्तिशक्तेरभावाद्विद्यमानशेषस्य प्रतिपत्त्यन्तरसम्बन्धाल्लोपः अकरणमेव स्यादिति ॥ ५४ ॥ __________टिप्पणी__________ [५६] त [५७] पादयि [५८] वा भवति । त [५९] क्षान्तराभा (Kआ) [६०] डादिकार्याणि ते ___________________________ विपरिणाममुदाहरति विप्रकर्षादिति । अस्ति हि सवनीयः पशुः आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं[६१]सवनीयं पशुमुपाकरोतीति अनुसवनं[६२]सवनीयाः पुरोडाशा निरुप्यन्त इति । सन्ति च सवनीयाः[६३]पशुपुरोडाशाः । तत्र[६४]तन्त्रिणो धर्माः प्रसङ्गिन उपकुर्वन्तीति स्थिते, पशुतन्त्रमध्यपातित्वं पुरोडाशानां प्रतिपादयितुं सूत्रं पशोश्च विप्रकर्षस्तन्त्रमध्ये{१,२४} विधानात्(ञै १२ ।२ ।३२) इति ।[६५]तच्चैतद्यथाश्रुतगृहीतं न विवक्षितार्थाख्यानक्षमम् । विप्रकर्षो ह्यत्र प्रथमान्तः साध्यभूतोऽवगम्यते । तन्त्रमध्ये विधानादिति पञ्चम्यन्तं हेतुभूतम् । तच्चायुक्तम् । विप्रकर्षो हि पशोः प्रातरादिकालत्रयसम्बन्धः । स च प्रत्यक्षवचनसिद्धो न साध्यः । एवं हि श्रूयते वपया प्रातस्सवने चरन्ति पुरोडाशेन माध्यन्दिने सवने अङ्गैस्तृतीयसवने इति । तन्त्रमध्यविधानमपि साध्यं न हेतुनिर्देशार्हम् । अतः प्रथमापञ्चम्योर्विपरिणामो वक्ष्यते । पशोर्विप्रकर्षात्प्रातरादिकालत्रय[६६]व्यापित्वात्पुरोडाशानां पशुतन्त्रमध्ये विधानम् । पशुर्हि पुरोडाशकालमपि व्याप्नोति । पुरोडाशास्तु स्वसवनसमाप्तेरव्यापकाः । अतः पशुतन्त्रमध्यपतिताः पुरोडाशा इति पश्वर्थमनुष्ठानं पुरोडाशेषु प्रसज्यत इति । इदं च वार्त्तिककारेण विपरिणतमेवोदाहृतं विप्रकर्षाद् इति । व्यवहितकल्पनामुदाहरति पदेनेति । वेदाधिकरणे ह्येवं वक्ष्यति पदसङ्घातात्मानो वेदाः । पदसङ्घाताश्च पुरुषकृता दृष्टाः, यथा नीलोत्पलवनाद्यर्थविषयाः । अत एतेऽपि कृत्रिमा इति । तद्विशेषप्रदर्शनार्थं चेदं सूत्रं लोके सन्नियमात्प्रयोगसन्निकर्षः स्यात्(ञै १ ।१ ।२६) इति । अत्र च सन्नियमादिति पदव्यवहितः प्रयोगशब्दो लोक इत्यस्यानन्तरं सम्बन्धनीयः । तदयमर्थः लोके शब्दप्रयोगः सन्नियमः सम्यङ्निबन्धनात्मको युक्तः, अर्थस्य चक्षुरादिसन्निकर्षात् । न तु वेदे, अतीन्द्रियार्थत्वादिति । इदं च विपरिणामव्यवहितकल्पनयोः साधारणमप्युदाहरणं विपरिणामस्योक्तत्वाद्व्यवधानमात्रोदाहरणत्वेनोक्तमिति वेदितव्यमिति ॥ ५५ ॥ __________टिप्पणी__________ [६१] यं पशु [६२] नं पु [६३] याः पु [६४] तन्त्रध (Kःा) [६५] तदेतन्न यथाश्रुतं विवक्षिताख्या (Kःा) [६६] यसम्बन्धात् ___________________________ सूत्रव्यवधानमुदाहरति सूत्रेणेति । इदं हि समामनान्ते सोमेन्द्रं चरुं निर्वपेत्श्यामकं सोमवामिनः इति । तत्र सन्देहः । किं लौकिके सोमवमने सोमेन्द्रश्चरुः, उत वैदिक इति । तत्र पानव्यापच्च तद्वत्(ञै ३ ।४ ।३८) इति । अश्वप्रतिग्रहेष्टिवाक्यगताद्यविचारपूर्वपक्षातिदेशः कृतः । तत्र यावतोऽश्वान् प्रतिगृह्णीयात्तावतो वारुणांश्चतुष्कपालान्निर्वपेदित्युदाहृत्य विचारितं[६७]किं लौकिकऽश्वप्रतिग्रह{१,२५}इष्टिरियम्, उत वैदिक इति । तत्र पूर्वपक्षसूत्रं दोषात्त्विष्टिर्लौकिके स्यात्(३ ।४ ।३४) इति । दोषनिर्घातार्था हीयमिष्टिः दोषसंयोगेन[६८]श्रवणात् । एवं हि समामनन्ति वरुणो वा एतं गृह्णाति योऽश्वं प्रतिगृह्णातीति । स चायं दोषो लोके सम्भवति न वेदे, विहितत्वादश्वदक्षिणाया ज्योतिष्टोमादौ । अतो लौकिक इति[६९]प्राप्त उक्तम् अर्थवादो वानुपपातात्तस्माद्यज्ञे प्रतीयेत (३ ।४ ।३५) इति । अस्यार्थः नेयं दोषनिर्घातार्थेष्टिः दोषाभावात्, न ह्यश्वप्रतिग्रहाद्वरुणग्रहणात्मनो दोषस्योपपातः प्रत्यक्षादिनावगम्यते । ततोऽर्थवादमात्रं दोषसङ्कीर्तनमिति फलकल्पनाया अभावाद्वैदिकत्वसामान्याच्च वैदिक इति स्थिते, पुनर्विचारितं भवतु वैदिके, सा तु किं दातुः उत प्रतिग्रहीतुरिति । तत्र पूर्वपक्षसूत्रम् अचोदितं च कर्मभेदात्(३ ।४ ।३६) इति । अस्यार्थः दानप्रतिग्रहकर्मभेदात् । इह च यावतोऽश्वान् प्रतिगृह्णीयादिति प्रतिग्रहीतृश्रवणादचोदितमिष्टिकर्म दातुः अतः[७०]प्रतिग्रहीतुः ऋत्विज इष्टिरिति प्राप्ते उक्तं सा लिङ्गादार्त्विजे स्यात्(३ ।४ ।३७) इति । अस्यार्थः ऋत्विजामयम्[७१]आर्त्विजो यजमानः यो दक्षिणाया दाता । तत्र दातुरियमिष्टिर्भवति । कुतः, लिङ्गात् । किं लिङ्गम् । अश्वप्रतिग्रहेष्टिवाक्यगतपूर्वोत्तरपदसामर्थ्यम् । तत्र हि प्रजापतिर्वरुणायाश्वमनयदिति दातारं सङ्कीर्त्यान्ते प्रतिगृह्णीयादिति श्रुतम् । तच्च प्रथमावगतानुपजातविरोधिदात्रवरुद्धायां बुद्धावुपनिपतितं दातृगोचरमेवावगतम् । अतः प्रतिग्राहयेदिति विपरिणमति । तदिह पानव्यापच्च तद्वत्(३ ।४ ।३८) इति सूत्रे सा लिङ्गादार्त्विजे स्यादचोदितं च कर्मभेदातर्थवादो वानुपपातात्तस्माद्यज्ञे प्रतीयेतेति सूत्रत्रयव्यवहितो दोषात्त्विष्टिर्लौकिके स्यादिति पूर्वपक्षोऽतिदिष्टः । तदयमर्थः पानव्यापदपि तद्वद्भवितुमर्हति यथाश्वप्रतिग्रहेष्ट्य्[७२]आद्यपूर्वपक्षे[७३]ऽभिहितम् ।[७४]कुतः, दोषश्रुतेः । एवं हि श्रूयते । इन्द्रियेण वा एष वीर्येण ?वृध्यते यः सोमं वमतीति । स चायमिन्द्रियवीर्यसमृद्धिविगमो लौकिके रसायनार्थं पीते वान्ते[७५]सम्भवति न वैदिके ।{१,२६} सर्वप्रकृतिविकृतिसोमेषु पानमात्रेण सोमप्रतिपत्तेः सिद्धत्वादिति पूर्वपक्षिते प्रतिविहितं दोषात् तु वैदिके स्यात्(३ ।४ ।३९) इति । रसायनार्थं हि वमनायैव पानम् । वमनेन हि शुद्धकायस्य सम्यगाहारपरिणामपरम्परया स्थैर्यं भवति । सोमप्रतिपत्तिस्तु सम्यग्जरणान्ता इति मामेवाङ्गाभिमतिगा इति मन्त्रवर्णनादवगतम् । अतस्तत्रैव वमनेन पानव्यापदि जातायां तन्निबर्हणार्थश्चरुः । तदिदं सूत्रत्रयव्यवधानेऽपि सूत्रेणेति समुदायापेक्षयैकवचनमिति ॥ ५५ ॥ __________टिप्पणी__________ [६७] रयिष्यते (Kआ) [६८] गश्र [६९] ति पूर्वपक्षित उ [७०] तः ऋत्वि [७१] मित्यार्त्वि [७२] ष्टिवाक्याद्यविचारपू [७३] क्षो [७४] तः [७५] वमने (Kआ) ___________________________ सूत्रान्यथाकरणमुदाहरति पश्विति । ज्योतिष्टोमे ह्यग्नीषोमीयसवनीयानुबन्ध्याः पशवः सन्ति । सन्ति चोपाकरणादयः पशुधर्माः । ते किमविशेषेण सर्वपश्वर्थाः उताग्नीषोमीयस्य सवनीयस्य वेति सन्देहः । तत्राविशेषात्सर्वार्थत्वे प्राप्ते विशेषप्रदर्शनार्थं सूत्रं तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात्(३ ।६ ।१८) इति । इदं च यथाश्रुतगृहीतं विवक्षितविपरीतार्थमित्यापीतेन व्याख्यातं तुल्यः सर्वेषां पशुविधिः स्याद्यदि प्रकरणाविशेषो भवेत् । अस्ति तु प्रकरणे विशेषः आग्न्येयः पशुरग्निष्टोम आलब्धव्य इत्यादिभिर्हि सवनीयं प्रकृत्य धर्मा विहिताः, अतः सवनीयप्रकरणाम्नाता इति सवनीयार्था इति पक्षं परिगृह्य स्थानादग्नीषोमीयार्था इति सिद्धान्तितम् । अग्नीषोमीयस्य हि स्थाने औपवसथ्येऽह्नि धर्मा विहिताः । अतस्तदर्था एव । यत्तु सवनीयानां प्रकरणमिति, तन्न । ज्योतिष्टोमप्रकरणे हि पशवस्तद्धर्माश्चाम्नाता इति न[७६]प्रकरणतो विशेषलाभः । उत्तरेद्युराश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीति सवनीयानामुत्पत्तिः । पूर्वेद्युरुत्पत्ताविह तदनुवादेनाश्विनोत्तरकालविधानासम्भवात्कालस्यानुपादेयत्वात् । काले हि कर्म चोद्यते न कर्मणि कालः । तत्र प्रकरणान्तराधिकरणन्यायेन कर्मभेदो भवेत् । एवं चादृष्टकल्पनागौरवं स्यात् । स्यादेतत् । वपया प्रातस्सवने चरन्तीति पूर्वेद्युरुत्पन्नकर्मोत्कर्षादिह तद्विपरिवृत्तौ न कर्मान्तरचोदना सम्भवतीत्यनुपादेयगुणपरत्वमध्यवसीयत इति । तन्न । अङ्गभूतो हि वपाप्रचारः । नासौ पूर्वेद्युरुत्पन्नं साङ्गं प्रधानकर्मोत्क्रष्टुमर्हति प्रधानानामनङ्गवशवर्तित्वात् । अतः आश्विनं ग्रहमित्येवोत्पत्तिवाक्यम् । एवं च[७७]{१,२७} तदनुवादेनाग्नेयमजमित्यादिनोपादेयगुणविधानं सम्भवतीति वाक्यद्वयमपि सम्भवतीति[७८]सिद्धमेवोत्तरेद्युः सवनीयविधानम् । पूर्वं तु गुणविधानार्थमिति । आह च __________टिप्पणी__________ [७६] नात्र प्र [७७] च सति त (Kःा) [७८] म्बन्धार्थमर्हतीति (Kःा) ___________________________ गुणार्थौपवसथ्येऽह्नि सवनीयपुनश्श्रुतिः । उत्पत्तिः प्रक्रिया चैषामाश्विनग्रहणोत्तरा ॥ इति ।[७९]अतः सिद्धं[८०]स्थानादग्नीषोमीयार्था धर्मा इति ।[८१]किमिदं सूत्रान्यथाकरणं नाम । उच्यते व्यवधारणकल्पनेयम् । यत्रान्यथाप्रतिभासमानोऽर्थः[८२]प्रकरणबलेनान्यथा वर्ण्यते सा व्यवधारणकल्पना । ननु नेयमध्याहारादिषु सन्निविष्टा । उच्यते । नायमादिशब्दो व्यवस्थितवचनः प्रकारवचनत्वात् । अध्याहारप्रकाराणां वाक्यदोषाणामेवमादीनामपि युक्तमेवोपवर्णनमिति ॥ ५६ ॥ __________टिप्पणी__________ [७९] ति सि (Kआ) [८०] क्रमाद ___________________________ [८१] किं पुनरिदं [८२] माणान्तरब (Kःा) ___________________________ वाक्यभेदमुदाहरति अग्नय इति पादत्रयेण । वक्ष्यति हि ते सर्वार्थाः प्रयुक्तत्वादग्नयश्च स्वकालत्वात्(३ ।७ ।३९) इति ।[८३]इह च वरणभरणोपात्तानामृत्विजां लौकिकवैदिकसर्वकर्मार्थत्वेन पक्षं गृहीत्वा[८४]निर्देशाद्वा वैदिकानां स्यात्(१२ ।२ ।३) इत्यत्र यथाविनियोगं कार्यव्यवस्थोक्ता । तदेकवाक्यतयाग्निष्वपि तदेव विचार्यत इति भवति मतिः । तदयुक्तं, विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात्(१२ ।२ ।१) इत्यत्र लौकिकवैदिकसर्वकर्मार्थत्वेन पूर्वपक्षं गृहीत्वा निर्देशाद्वैदिकानां स्यादित्यत्र यथानिर्दिष्टवैदिककर्मार्थत्वस्य प्रतिपादितत्वात् । अतः ते सर्वार्थाः प्रयुक्तत्वादित्यतो विच्छिद्य अग्नयश्च स्वकालत्वादित्यन्यत्र व्याख्यातम् । एवं हि तत्र पूर्वपक्षितं यथा यस्य खादिरः स्रुवो भवतीति स्रुवस्य खादिरतानारभ्याधीता प्रकृतौ वा द्विरुक्तत्वात्(३ ।६ ।२) इत्यत्र प्रकृत्यर्थेति वर्णिता, एवमग्नयोऽपि[८५]ते च प्रकृत्यर्था एवेति । अत्रोत्तरमग्नयश्च स्वकालत्वादिति । अस्यार्थः अग्नयः प्रकृतिविकृत्यर्थाः । कुतः स्वकालत्वात् । न हि ते प्रकृतिं विकृतिं वारभ्याम्नाताः, अनारभ्याम्नानाततोऽगृह्यमाणविशेषत्वादुभयार्था एवेति युक्तम् । यच्चाग्नीनां सम्बन्धे होमहविश्श्रपणादि द्वारभूतं तत्प्रकृतिविकृत्यारुभयोरपि{१,२८}प्रत्यक्षश्रुतम् । अतो द्वाराविशेषात्प्रकरणाविशेषाच्च सर्वार्था एवाग्नय इति युक्तम् । तथा अभ्युदये दोहापनयः स्वधर्मा स्यात्(९ ।४ ।४१) अपनयो वार्थान्तरे विधानात्(९ ।४ ।४३) इति सूत्रद्वयमेकवाक्यतया प्रतिभासमानं भित्त्वा व्याख्यातम् । तथा हि दर्शपूर्णमासयोर्दधिपयसी प्रधानभूते प्रदेयतयाम्नाते ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति । तत्र तावद्देयधमीः कर्तव्याः । पुनश्च नैमित्तिकानुष्ठानान्तरमाम्नातं यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्स त्रेधा तण्डुलान् विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं निर्वपेद्ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधनि चरुं येऽणिष्ठाः तान् विष्णवे शिपिविष्टाय शृते चरुमिति । तदिह दधिपयसी देयधर्मानर्हतो न वेति विचारे नार्हतः चरुरत्र देयः च दधिपयसी, अत एव हि दधनि चरुं शृते चरुमित्यधिकरणत्वेन गुणभावश्चरुं प्रति दधिशृतयोराश्रित इति प्राप्ते, उक्तं दोहापनये दधिपयसी अभ्युदयेऽपि स्वधर्मयुक्ते स्यातां पूर्वावगतप्रक्रान्तदेयापरित्यागात् । अधिकरणत्वं तु तयोः सम्प्रतिपन्नदेवताकत्वेन तण्डुलैः सह श्रप्यमाणयोरर्थाद्ज्ञातं न तद्गुणभावमापादयितुं क्षमते । दृष्टश्च प्रधानभूतस्याप्यधिकरणतया निर्देशः । यथा रुक्मपात्र्यां महार्हामणयः एको भागः स देवदत्तस्य रजतपात्र्यां प्रभूतं सुवर्णं यज्ञदत्तस्येति, सहैव पात्र्या भागोऽवगम्यते । एवमिहापि सहैव दधिपयोभ्यां चरुर्देवताभाग इति स्थितं दधिपयसोर्देयधर्माः कर्तव्या इति । अपनयो वार्थान्तरे विधानादिति तयोरेवाभ्युदये दोहापनय इति सूत्रेण प्रतिज्ञातान् देयधर्मान् वाशब्देन[८६]वारयतीति सम्भाव्यमाने न्यायविरोधादन्यत्र व्याख्यातं पशुकामेष्ट्यामभ्युदयेष्टिवाक्यसदृशशब्दान्तरविहितयोर्दधिपयसोर्देयधर्माणामपनयो वार्थान्तरे चरुश्रपणार्थे विधानादिति । गुणकल्पनाम्[८७]उदाहरति गुणकल्पास्त्वमी कृताः औत्पत्तिकस्त्विति । गुणकल्पा इति । कल्पनं कल्पः गुणानां कल्पो गुणकल्पः । गौणो हि गुणादेवान्यवचनः शब्दोऽन्यत्र कल्प्यते{१,२९}यथाग्निर्माणवक इति । ज्वलनजातिवचनोऽग्निशब्दस्तज्जातीयां व्यक्तिं लक्षयति । ततस्तत्समवेतपैङ्गल्यादिगुणलक्षणया तद्गुणयोगिनि माणवके वर्तते । आह च __________टिप्पणी__________ [८३] ति व [८४] त्वा यथा (Kआ) [८५] पि केवलं प्र (Kःा) [८६] न निवा [८७] मिदानीमु (Kःा) ___________________________ अभिधेयाविनाभूतप्रतीतिर्लक्षणेष्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥ इति । तदिहौत्पत्तिकसूत्रे ह्यौत्पत्तिकशब्द उत्पत्तौ भव इत्यनया व्युत्पत्त्या शब्दार्थसम्बन्धानां त्रयाणामनित्यताभिधानाद्विवक्षितनित्यत्वविपरीतवचन इति विवक्षितासम्भवेन गौणो गृहीतः । उत्पत्तिशब्दो ह्युत्पत्तिलक्षितोत्पद्यमानसमवेतसत्तागुणयोगात्शब्दार्थयोर्वर्तमानो गौणो भवति । अतश्च शब्दार्थस्वरूपाधीनः सम्बन्ध इत्युक्तं भवति । तत्स्वरूपनित्यत्वाच्च सम्बन्धोऽपि नित्य इति विविक्षितसिद्धिः । तथादित्यानामयनादिषु सत्रेषु किं द्वादशाहिको विध्यन्त उत यावामयनिक इति सन्देहे अहर्गणसामान्याद्द्वादशाहिक इति प्रतिज्ञाय, गव्यस्य च तदादिषु (८ ।१ ।१८) इति गव्यस्य विध्यन्तो दर्शितः न । चायं गव्यशब्दः क्वचित्क्रतुभेदे प्रसिद्धः । न च विवक्षितगवामयनार्पणक्षम इति विवक्षितासम्भवाद्गौणो व्याख्यातः । एष च गोरवयवे तद्विकारे वा मुख्यः । तत्रैव गोपयसोर्यत्(ড়ा ४ ।३ ।१६०) इति स्मरणात् । तदयं सम्बन्धविशेषवचनस्तदन्तर्गतलक्षितसामान्यसम्बन्धगुणयोगिनि गवामयने प्रयुक्तो गौणो जायते । गवामयने हि गावो वा एतत्सत्रमासतेत्यर्थवादोदितगोकर्तृकत्वावगमाद्भवति गोसम्बन्धः । तदयमर्थः आदित्यानामयनादिषु गवामयनस्य विध्यन्तोऽयनसामान्यातिरेकादिति । तथा दर्शपूर्णमासयोः सन्ति काम्याः सामिधेनीकल्पाः एकविंशतिमनुब्रूयात्प्रतिष्ठाकामस्येत्यादयः । तत्रागमेन सङ्ख्यापूरणमिति स्थिते आनीयमानास्वृक्षु सन्देहः किं ता अन्ते निविशन्तामुत समिध्यमानवतीसमिद्धवत्योर्मध्य इति । तत्र यथावगतक्रमानुरोधेनागन्तूनामन्ते निवेश इति प्राप्ते, उक्तं समिध्यमानवतीसमिद्धवत्योर्मध्य इति । कुतः । एवं ह्याह इयं समिध्यमानवती असौ समिद्धवती यदन्तरा तद्धाय्येति धाय्यानां सामिधेनीनामन्तरालत्वेन{१,३०} संस्तवादन्तराले विधानमवसीयते । तथा उष्णिक्ककुभोरन्ते दर्शनात्(५ ।३ ।६) इति लिङ्गमुपदिष्टम् । तच्चायुक्तमुष्णिक्ककुभोर्मुख्ययोरन्ते अभावात्त्रिष्टुभा परिदधातीति त्रिष्टुभोऽन्ते दर्शनात् । तदभिप्रायमिदमानीयमानासु च मध्ये सतीषु समिद्धवत्या जुहोतेन्ते (?) भवतः । ते च समाहृते त्रिष्टुभा समसङ्ख्ये इति सङ्ख्यासामान्यात् त्रिष्टुबन्ते भवति । एवमपि त्रिष्टुभोऽन्ते दर्शनादिति वक्तव्यम् । सत्यम् । तथापि त्रिष्टुभो वा एतद्वीर्यं यदुष्णिक्ककुभावित्यर्थवादावगतत्रिष्टुप्कार्यत्वादुष्णिक्ककुभोः कारणे कार्योपचारादुष्णिक्ककुप्छब्दस्त्रिष्टुभि प्रयुक्तः । तथा ज्योतिष्टोमे द्वादश शतं दक्षिणेति समधिगते षोडशानामृत्विजां समो विभाग उत विषम इति संशये, विशेषाश्रुतेर्भागसाम्यमुक्त्वा कर्मपरिमाणाद्दक्षिणापरिमाणं लोके तथा दर्शनादिति विशेषो दर्शितः । पुनश्च दर्शनाच्च विशेषस्य तथाभ्युदये इति लिङ्गमुपदिष्टम् । अत्र चाभ्युदयशब्देनाभ्युदयसाधनत्वाद् द्वादशाहो लक्ष्यते । तत्र हि दीक्षाक्रमपरे वचने अध्वर्युर्ग्रहपतिं दीक्षयित्वे[८८]त्यादिके अर्धिनो दीक्षयति तृतीयिनो दीक्षयति इत्यादिभिः समाख्याभिरृत्विजाम्(?र्धा।र्ध्या)दिभिः सम्बन्धोऽनूदितः । स चायं ज्योतिष्टोमविकारत्वाद्द्वादशाहस्य प्रकृतौ भागवैषम्यमन्तरेणानुपपद्यमानो वैषम्ये लिङ्गमिति । ननु च गुणकल्पा इत्युक्तम् । इह चौत्पत्तिकगव्यशब्दयोरेवं कथिञ्चिद्गुणवादो दर्शितः उष्णिक्ककुप्शब्दे तूपचारः अभ्युदयशब्दे तु लक्षणा अतः कथं गुणकल्पा इति बहुचननम् । उच्यते जघन्यवृत्तिसामान्यात्लिङ्गसमवायाद्वा प्राणभृत उपदधातीतिवद्गुणकल्पा इत्युक्तमित्यदोष इति ॥ ५८ ॥ __________टिप्पणी__________ [८८] त्वा ब्रह्माणं दीक्षयतीत्येवमादि (Kःा) ___________________________ यस्तूभयप्राप्तेर्मन्दत्वात्परिसंख्यामपि नानुमन्यते, तं प्रत्यर्थान्तरमाह सूत्रकारेति । भाष्यकारो हो शिष्यानात्मानं च सूत्रकारप्रशंसया प्ररोचयति ।[८९]अनेन खलु सूत्रकारेण प्रसिद्धैरेव पदैः पदार्था अभिहिताः, न तु गुणवृद्ध्यादिवत्परिभाषा काचित्कृता । अतोऽक्लेशेन गम्यार्थत्वादेतान्येव श्रोतुं व्याख्यातुं च युक्तानीति ॥ ५९ ॥ __________टिप्पणी__________ [८९] चयिष्यति (Kआ) ___________________________ {१,३१} ये तु स्तुतौ वास्तुतौ वा तावानेवार्थ इति न स्तुतावाद्रियन्ते, तान् प्रत्यथशब्ददूषणपरमिदं भाष्यमित्याह भवितव्यमिति । भवितव्यं तु तेनेत्यतः प्रागेकवाक्यतामापन्नेन, तत्तु वेदाध्ययनमित्यतो वा पूर्वमेकवाक्यतामापन्नेनाथशब्ददूषणमनेन भाष्येण क्रियत इति ॥ ६० ॥ प्रथमावधिना भाष्यं योजयति प्रसिद्धार्थपदैरिति ॥ ६१ ॥ द्वितीयावधिना भाष्यं योजयति प्रसिद्धार्थमिति । भवितव्यं तु तेनेति प्रसिद्धार्थं पदं युक्तमित्यर्थः । नन्वथशब्ददूषणव्यतिरिक्तेषु प्रसिद्धार्थपरिग्रहस्योक्तत्वादथादिशब्दव्याख्यानमयुक्तमिति चोदयति प्रसिद्धोऽपीति ॥ ६२ ॥ परिहरति प्रदर्शनार्थमित्येके इति । अन्ये तु वदन्ति यदन्यद्भाष्यकारान्तरैरव्यामोहितं प्रसिद्धार्थं पदं तन्न नाम व्याख्यायताम् । इदं त्वथात इति पदद्वयं भवदासेनानन्तर्यार्थतया कल्पितम् । अतोऽवच्छिद्याथशब्दमात्रस्यानन्तर्यार्थत्वं वच[९०]नीयम् । यथाष्टमादावथशब्दस्यानन्तर्यार्थता प्रसिद्धा अथ विशेषलक्षणम् (८ ।१ ।१) इति । तदाह केचिदिति वदन्तेन । अपि च यत्नगौरवभयेनोभयत्र व्याख्या प्रत्याख्याता । अत्र च नाद्यापि वेदवाक्यानि व्याख्यायन्ते । यद्यत्र सूत्राण्य्{१,३२} उप्रेक्ष्येरन्निर्विषयमेव भाष्यं स्यादिति युक्तैव सूत्रव्याख्येत्य् आह न चेति ॥ ६३६४ ॥ __________टिप्पणी__________ [९०] र्ण (Kःा) ___________________________ अथवा यत्प्रसिद्धार्थग्रहणमुक्तं तदेव[९१]वृत्ताभावादथशब्दस्यानन्तर्यार्थत्वासम्भवादाक्षिप्यत इत्याह यद्वेति । अत्रैव भाष्यं योजयति यदीति । तत्रेत्यादिना भाष्यकारः प्रसिद्धार्थग्रहणमाक्षिपति । प्रसिद्धार्थग्रहणे ह्यानन्तर्यमथशब्दार्थः, न च तद्वृत्तमन्त्रेण सम्भवतीति प्रसक्तमध्याहारादिकल्पनमिति । अत्र च पक्षे भवितव्यमित्यादि सामान्यविशेषोत्तरतयाथशब्ददूषणवद्व्याख्येयमिति ॥ ६५ ॥ __________टिप्पणी__________ [९१] वाथशब्दस्य वृ (Kःा) ___________________________ अन्यथा परिहरति वेदाध्ययनेति । अयमभिप्रायः नाव्याख्यातदुर्ज्ञानत्वादथशब्दो व्याख्यायते । किन् त्वथशब्दव्याख्यानमिषेणान्यदेव भाष्यकारस्य विवक्षितम् । तच्चैतदथशब्दार्थे कथिते चोद्यपरिहारक्रमेण शक्यते दर्शयितुम् । तथाहि वेदाध्ययनानन्तरोपनिपातिनः स्नानस्य अधीत्य स्नायादिति स्मार्तस्याध्ययनविधिदृष्टार्थताबलेनोत्कर्षकल्पनाथशब्दव्याख्याने सत्युपपत्तिक्रमेणावतरतीति युक्तमथशब्दोपवर्णनमिति ॥ ६६ ॥ अत्र भाष्यकारेण भवितव्यं तु तेनेत्यनेनाशब्द आनन्तर्यार्थ इति प्रतिज्ञाय तथाहीति प्रसिद्धपदार्थकत्वं हेतुरुक्तः । तद्व्याचष्टे अनर्थक इति । आनन्तर्ये ह्यथशब्दार्थे भवति प्रसिद्धार्थता । आनर्थक्यान्यार्थत्वयोस्तु प्रसिद्धिबाधः । अतः श्रुतानन्तर्योपपादनाय किमपि वृत्तं गम्यते । नन्वधिकारार्थोऽप्यथशब्दो दृष्टः यथा अथ शब्दानुशासनमिति । अतः कथमन्यार्थत्वे प्रसिद्धिबाधः । उच्यते तत्र हि{१,३३}शब्दानुशासनमेवोपरिष्टादधिकरिष्यते इति युक्तमधिकारार्थत्वम् । इह तु जिज्ञासाधिकाराभावात्सूक्तमन्यार्थत्वे[९२]प्रसिद्धिर्बाध्यते इति ॥ ६७ ॥ __________टिप्पणी__________ [९२] र्थे प्र (Kआ) ___________________________ अत्र भाष्यमन्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा प्राप्नोतीति । तदाक्षिप्य समादधाति विशिष्टेति । अयम्[९३]अभिप्रायः यद्यपि वेदार्थविचारात्मकविशिष्टलिङ्गविज्ञानाद्विशिष्टो वेदाध्ययनात्मको लिङ्गी विज्ञायते अनन्तरवृत्तः, तथापि सूत्रेण साक्षादनुपादानादिदं चोदितमिति ॥ [६८] ॥ __________टिप्पणी__________ [९३] मर्थः य ___________________________ पुनराक्षिपति आनन्तर्येति । अयमभिप्रायः न हि मन्वादिवददृष्टार्थोपदेशी जैमिनिः, अनेन चानन्तर्यमुपदिष्टं, तद्यस्यानन्तर्यं दृष्टार्थं भवति तदानन्तर्यमिति गम्यते । वेदाध्ययनमेव वेदार्थविचारात्मिकायां धर्मजिज्ञासायां दृष्टार्थं, तेन विना तदनुपपत्तेः । अतस्तदाक्षिप्तम् । अतः असूत्रितोपालम्भो न युक्त इति ॥ ६९ ॥ कथं पुनर्दृष्टार्थतया वेदाध्ययनमाक्षिप्यते अत आह येनेति ॥ [७०] ॥ न च यत्किञ्चित्क्रियानन्तर्यार्थमुपदेशः तस्यावर्जनीयत्वेन नित्यप्राप्तेरित्याह क्रियमाणेति ॥ ७१ ॥ ननु सङ्कल्पप्रयत्नादिभिरपि विना[९४]सा नोपपद्यत एवेति दृष्टार्थत्वेन वेदाध्ययनमाक्षिप्यत इत्याशङ्क्याह[९५] सङ्कल्पादिभिरिति ॥ ७२ ॥ __________टिप्पणी__________ [९४] ना जिज्ञासा [९५] ङ्क्य परिहरति स (Kःा) ___________________________ {१,३४} एवं वेदाध्ययनानन्तर्यमुपपाद्योपसंहरति तस्मादिति ॥ ७३ ॥ अपरमपि प्रागपि च वेदाध्ययनादिति भाष्यम् । तदाक्षिपति अन्यस्यापीति । यदैव नैतदेवमित्यादिना वेदाध्ययनमतन्त्रीकृतं तदैवाध्ययनात्प्रागूर्ध्वं वान्यस्यापि कर्मणोऽनन्तरं धर्मजिज्ञासा प्राप्नोत्येवेति व्यर्थं प्रागिति पुनर्वचनमिति । अत्र[९६]परिहारभाष्यं तादृशीमित्यादि । तदाक्षिपति पूर्वेणेति । तत्तु वेदाध्ययनं तस्मिन् हि सति सावकल्पते इत्यनेनैव वेदाध्ययनप्राप्तेरुक्तत्वात्किमनुक्तं वक्तुं पुनरिदमुक्तमिति ॥ ७५ ॥ __________टिप्पणी__________ [९६] अत्रापरं प (Kआ) ___________________________ एवमाक्षिप्याद्यचोद्यपरिहारं तावदाह वक्ष्यमाणम्[९७]इति सार्धद्वयेन । अत्र हि नाद्यापि[९८]वेदवाक्यानि प्रमाणमिति साधितम् । तानि च वाक्यानि विवरिष्यति जैमिनिरित्यपि नावगम्यते । ततो[९९]बुद्धादिवचनपाठानन्तरं चैत्यवन्दनादिधर्मजिज्ञासाप्रसक्तेः परिचोदना युक्तैवेति ॥ ७७ ॥ __________टिप्पणी__________ [९७] ति चोदनान्तेन [९८] पि चोदना प्र (Kःा) [९९] बुद्धवाक्यादि (Kआ) ___________________________ एवमनभिज्ञस्य परिचोदनेति समाधायान्यथा समाधत्ते यद्वेति {१,३५}द्वयेन । अस्यार्थः वेदमधीत्याथ धर्मजिज्ञासेतीदृशेऽपि सूत्रे परिचोदनावकाशोऽस्त्येव, उभयं हि विचक्षितं नानधीत्यानन्तरं नान्यत्कृत्वेति । तच्च वचोभङ्गिभेदेन वाक्यभेदादयुक्तमिति ॥ ७९ ॥ वाक्यभेदमेव प्रपञ्चयति अधीत्यैवेति द्वयेन । एकं हि वेदमधीत्याथ धर्मजिज्ञासेति वाक्यम् । तद्यदि वेदमधीत्यैवेति विदधाति, तदानन्तर्याविधानादन्यस्यापि स्नानसहधर्मचारिणी संयोगादिकर्मणोऽनन्तरं धर्मजिज्ञासा प्राप्नोति । अथैतद्भयादानन्तर्यमाश्रीयते ततो योऽधीत्य जिज्ञासते तं प्रत्यानन्तर्यमात्रविधानादनधीतवेदस्य धर्मजिज्ञासा न वार्यत इति प्रागपि प्रसज्येत । उभयविवक्षा तु वाक्यभेदप्रसङ्गादयुक्तैवेति । वक्ष्यमाणा[१००]लोचनेन तु नैतदेवमिति परिचोदनायां प्रागपि च वेदाध्ययनादिति भिन्नक्रमं योजनीयम् । अपि च प्राग्वेदाध्ययनादिति । अयमर्थः यद्यपि वेदार्थो विचारयितव्यः, तथापि प्रथममेव विचारयितुमुचितः । सर्वं हि हानोपादानार्थं वस्तु प्रथममेव जिज्ञास्यते । ततो हीयेतोपादीयेत वा । यत्त्वविचारितासिद्धमर्थं प्रथममेवोपादाय भ्रष्टावसरं जिज्ञास्यते, तदबुद्धिपूर्वकमापद्येत । अस्यापि चोद्यस्य तादृशीमित्येतदेवोत्तरमिति वक्ष्यामः ॥ ८१ ॥ __________टिप्पणी__________ [१००] [?]णावलो (Kआ) ___________________________ परिहारभाष्यमिदानीं समर्थयते बुद्धवाक्यादीति । तत्तु वेदाध्ययनमिति वक्ष्यमाणालोचनेन वेदाध्ययनं वृत्तिमित्युक्तम् । तदनाकलय्य वक्ष्यमाणानालोचनेन नैतदेवमिति परिचोदितं तादृशीमित्यनेन{१,३६}प्रवर्तिष्यमाणानेकविधवेदार्थविचारात्मिका धर्मजिज्ञासेयमिति जिज्ञासास्वरूपोपवर्णनेन परिहृतम् । अतः परिचोदनापरिहारत्वेनापुनरुक्तत्वमिति । एवञ्च वक्ष्यमाणानालोचनेन चोद्योत्तरतया भाष्यं व्याख्यायालोचनपरिचोदनायामपि एतदेवोत्तरमिति योजयति प्रागिति । यत्तावदुभयप्रतिपादनेन वाक्यभेदप्रसञ्जनं कृतं, तदानन्तर्यमात्रपरत्वेन परिह्रियते तत्परत्वेऽध्ययनविधानासम्भवात् । प्रागपीति च चोद्यं परिशिष्यते । तस्यापि तादृशीमित्यनेनापाक्रिया, जिज्ञासासामर्थ्येन पूर्ववृत्तवेदाध्ययनलाभात् । नहीयमनुपात्तवेदेन शक्या कर्तुम् । अत एव यदुक्तमध्ययनात्प्रागेव धर्मजिज्ञासा युक्तेति, तदप्यनेन परिहृतं भवति । तादृशीयमनेकविधविचारायत्ता या विचारसिद्धमध्ययनमन्तरेण कर्तुमशक्या । विचार्य त्वधीयानो विचारस्यानेककालसाध्यत्वादध्ययनकालातिपाताद्व्रात्यतामापद्येत । न चैवमनधीतवेदस्तदर्थं यावदवधारयितुमलमित्यविचारितोपात्तवेदाध्ययनपूर्वकत्वं धर्मजिज्ञासायाः । यत्तूक्तमविचारितोपादानेऽबुद्धिपूर्वकमुपादानमिति । केन वोक्तं बुद्धिपूर्वकमुपादानमिति । हितैषिणः पित्रादय एवैनं[१०१]कुमारमनाकलितपारलौकिककल्याणं प्रवर्तयन्ति । अपि च[१०२]सजातीयानहरहरविरतप्रवृत्तस्वाध्यायाध्ययनानुपलभमानः सामान्यतो जानाति नूनमस्मात्कर्मणः कोऽप्यभ्युदय एषां भविता कथमपरथा श्राम्यद्भिर्हितकामैः पित्रादिभिरमी प्रवर्त्यन्त इति । एवं विदितवतोऽहमप्य्[१०३]अनुतिष्ठन् श्रेयः प्राप्स्यामीति चिन्तयतः स्वयमपि प्रवृत्तिरुपपद्यत एवेति ॥ ८२ ॥ __________टिप्पणी__________ [१०१] माणवकम [१०२] चायमपि स [१०३] प्येतदनुति ___________________________ अत्रापरमपि च नैव वयमिह वेदाध्ययनात्पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः इति भाष्यं, तस्यार्थमाह नैवेति । ये एते पूर्वकल्पिते वचोभङ्गी तयोरेकोऽप्यर्थो नानेन सूत्रेण विवक्ष्यते[१०४]किन् तु वेदाध्ययनम् । अनन्तरमुभयमुपनिपतति,[१०५]यदर्थो विचारयितव्यः यच्चाधीत्य स्नायादिति{१,३७}स्मृतिवचनबलेन गुरु[१०६]कुलसकाशादपवर्तनम् । तत्रासमावृत्तः कथं नाम वेदार्थं विचारयेदित्येवमर्थमिदं सूत्रमित्यपिचेत्यादिकेनोक्तमिति ॥ ८३ ॥ __________टिप्पणी__________ [१०४] धीयते [१०५] तितं य (Kःा) [१०६] रुस ___________________________ इदं च भाष्यं न्यूनं मन्यमानैः[१०७][१०८]कैश्चिदध्याहृत्य व्याख्यातं,[१०९]ततस्तमुपन्यस्यति आनन्तर्यमिति । अस्य हि सूत्रस्य गुरुकुलवासावसाननिवृत्तिपरत्वादध्ययनमानन्तर्यं चोभयमपि न विवक्षितम् । भाष्यं तु यथाश्रुतम्[११०]अध्ययनविधान[१११]निषेधमात्रपरम्[११२]उपलभ्यते । अतो नापि परस्तादानन्तर्यं शिष्म इत्यध्याहृत्योभयवचनव्यक्तिनिषेधार्थतया व्याख्येयमिति ॥ ८४ ॥ __________टिप्पणी__________ [१०७] नाः [१०८] केचित् [१०९] तवन्तः तदुप [११०] तगृहीतम [१११] नमात्रनिषेधप [११२] मवगम्यते ___________________________ ननु नानन्वितपदार्थो वाक्यार्थः । न चेह[११३]सूत्रे तादृश्[११४]आनां पदार्थानामन्वयो दृश्यते, येन गुरुकुलवासावसाननिवृत्तिः प्रतीयेत । प्रत्युताध्ययनानन्तर्ययोरेव श्रुत्या विधानमुपलभ्यते । ततस्तदेव युक्तमत आह न वार्यत इति । अनधीतवेदस्य सर्वक्रियास्वशक्तस्यानधिकाराद्धर्मजिज्ञासा दैवादेव वारिता, किं तन्निवृत्त्यर्थेनाध्ययनविधानेन । आनन्तर्यमपि न मन्वादिवददृष्टार्थमुपदिश्यते । नचादृष्टार्थोपदेशी जैमिनिरित्युक्तम् । अतो दृष्टार्थाध्ययनानन्तर्यबलेन गुरुकुलवासावसाननिवृत्तिर्लक्षणयाश्रीयत इति ॥ ८५ ॥ __________टिप्पणी__________ [११३] वे [११४] शः प (Kःा) ___________________________ एवमध्याहारपक्षमुपन्यस्य दूषयति आनन्तर्येति । अयमभिप्रायः श्रुतार्थानुपपत्त्यैव हि लक्षणा भवति । यदि चानन्तर्यवचनव्यक्तिर्नाश्रिता, किं लक्षणाया बीजम् । तस्मादानन्तर्यवचनव्यक्तिमाश्रित्यैव श्रौतार्थपरिग्रहे दृष्टार्थत्वप्रसक्तेर्लक्षणार्थो लक्षणया विषयीकृतोऽर्थः स्नानाभावो विधीयते । यथाश्रुतभाष्यस्वरसभङ्गश्चैवं सति न भविष्यतीति ॥ ८६ ॥ {१,३८} केन पुनः सम्बन्धेनानन्तर्यमुपदिष्टं स्नानाभावं लक्षयतीत्यत आह प्रतीतेति । अयमभिप्रायः विरोधिसद्भावो हो विरोध्यन्तरनिवृत्त्या व्याप्तः । तद्यदैव वेदाध्ययनानन्तरा धर्मजिज्ञासा प्राप्ता[११५]भवति, तदैवाध्ययनानन्तरकालस्य तया व्याप्तत्वात्तत्परिपन्थि स्नानं निवर्तते । न हि गुरुगृहादनावृत्तः स्नाति । न च समावृत्तो धर्मं जिज्ञासितुमीष्टे । यथैव गुरुणा विनाध्ययनं न सिध्यति, तथैवार्थज्ञानमपि । अतोऽध्ययनानन्तरं धर्मजिज्ञासा कार्येत्युक्ते सत्यानन्तर्यस्वरूपे दृष्तार्थत्वप्रसक्तेः स्नानाभावलक्षणा युक्तेति ॥ ८७ ॥ __________टिप्पणी__________ [११५] प्रतीता भ ___________________________ ननु सत्यं विरोधिनोरेकेनावरुद्धे परं निवर्तते । विरोध एव तु कुतः । अध्ययनानन्तरं हि अधीत्य स्नायादिति स्मृत्यनुमितश्रुतिबलेन स्नास्यति । ततः सन्दिग्धप्रयोजन[११६]वद्वेदार्थगोचरं विचारमारप्स्यते, अत आह विरोधो युगपदिति । अयमभिप्रायः दृष्टार्थाध्ययनविधिबलेन ह्यध्ययने प्रवृत्तो न प्राङ्मीमांसाश्रवणाद्विरन्तुमर्हति । एको ह्युपनीतस्य माणवकस्य प्रणवादिरार्त्विज्यविचारावसानः शास्त्रार्थः । अतो युगपदुभयमुपनिपतितमिति युक्तो विरोध इति । ननु विरोधिनोः सहासम्भवादेको बाध्यताम् । अधीत्य स्नायादिति स्मृत्यनुमितश्रुतिबलेन न्यायप्राप्त[११७]दुर्बलधर्मजिज्ञासाबाधो युक्तः, अत आह दौर्बल्यं वेदबाधनादिति । एवं हो मन्यते स्वाध्यायोऽध्येतव्यः इत्यधीतेन स्वाध्यायेनार्थं जानीयादिति विध्यर्थः । तद्यद्यध्ययनानन्तरं स्नायादितीममाम्नायमतिक्रामेत् । तच्चायुक्तम् । स्मृत्यनुरोधेन प्रत्यक्षश्रुतवेदबाधप्रसङ्गाद्, मूलमूलिबलाबलविपर्ययप्रसङ्गाच्च । अतो बलवद्धर्मजिज्ञासानुरोधेन दुर्बलस्नानबाधो युक्त इति । __________टिप्पणी__________ [११६] वन्तं वेदा (Kःा) [११७] प्तध ___________________________ कः पुनर्वेदः योऽधीत्यस्नानं बाधते । ननूक्तं स्वाध्यायोऽध्येतव्य इत्यर्थज्ञानपर्यन्तः शास्त्रार्थोऽनन्तरस्नानानुष्ठानेन बाधितो भवतीति ।{१,३९}स्यादेतदेवं यद्यर्थज्ञानार्थमध्ययनं भवेत् । इदं त्वाचार्यकरणविध्यौपयिकं, अध्ययनविधावधिकाराश्रवणात् । आचार्यकरणविधिप्रयुक्त्या चानुष्ठानलाभे विश्वजिदादिवत्कल्पनानुपपत्तेः । अतः स्वयमधिकारविधुरोऽपि विधिरधिकारवन्तमाचार्यकरणविधिमनुरुध्य सिध्यति । आचार्यकरणविधौ त्वाचार्यकमेव कामयमानस्याधिकारः । कथं पुनराचार्यकरणविधिरनङ्गभूतमेवाध्ययनं प्रयोक्तुमुत्सहते । प्रयाजादयो हि दर्शपूर्णमासप्रकरणाधीतास्तदङ्गभूता इति युक्तं यत्ताभ्यां प्रयुज्यन्त इति । अध्ययनं त्वनारभ्याधीतं न श्रुत्यादिभिः कस्यचिदङ्गतया शक्यमवधारयितुम् । सत्यमेवमेवैतत् । अनङ्गभूतमेव तूपकारकमध्ययनमाचार्यकनियोगस्य । अतस्तत्तेन प्रयुज्यते क्रतुनियोगैरिवाधानम् । कः पुनराचार्यकरणविधेरध्ययनेनोपकारः । श्रूयताम् । उपनीयाध्यापनादाचार्यो भवति । न चाध्यापनमध्ययनमन्तरेण सम्भवति । अतोऽध्यापनपरमध्ययनम् । स्वाध्यायोऽपि भूतभव्यसमुच्चारेण भूतं भव्यायोपदिश्यत इत्यध्ययननिष्पत्त्यर्थः । अतश्चान्यपरत्वात्स्वाध्यायाक्षराणामविवक्षितः प्रतीयमानोऽप्यर्थः । न चाविवक्षितोऽर्थो विचारं प्रयुङ्क्ते । अतः स्वाध्यायाध्ययनमात्रेणाचार्यकनियोगनिष्पत्तेर् अनारभ्या मीमांसा इति न स्नानस्मृतेः केनचिद्विरोधमुपलभामहे । अत्राभिधीयते यत्तावदाचार्यकरणविधिप्रयुक्तमध्ययनमिति । तत्र न विद्मः कोऽयमाचार्यकरणविधिरिति । यदि मतम् अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयेदिति, अविधिज्ञो देवानां प्रियः । नानेनाचार्यकं भावयेदिति विधीयते । अपि तु अध्ययने अष्टवर्षो ब्राह्मणोऽधिकारीति[११८]बोध्यते । ननु च नात्राष्टवर्षो ब्राह्मणोऽधीयीतेति श्रूयते । किन् तु अष्टवर्षमध्यापयीतेति । सत्यम् । प्रयोजकव्यापारपरा अपि विधयः प्रयोज्यव्यापारपरा दृष्टाः यथावेष्टौ एतयान्नाद्यकामं याजयेदिति अतिरात्रेण प्रजाकामं याजयेदिति च । ननु चोपनयीतेत्याचार्यकरणे नयतेरात्मनेपदमित्युपनयनेनाचार्यकं निर्वर्तयेदिति प्रत्येष्यते ।[११९]नैवम् । नात्राचार्यकार्थमुपनयनमात्मनेपदादवगम्यते । अपि तु माणवकार्थादुपनयनादानुषङ्गिकमार्चायत्वं वैश्वदेव्यामिक्षार्थादिवद्दध्यानयनाद्वाजिनेज्या । अकर्त्रभिप्रायार्थं हि नयतेरात्मनेपदविधानम् । आचार्यकार्थत्वे तूपनयनस्य{१,४०}कर्तारमेव क्रियाफलमभिप्रेयात् । अतोऽष्टवर्षमिति नायमाचार्यकरणविधिः । अथ मतम् अनुमास्यामहे वयमाचार्यकरणविधिम् । स्मर्यते हि __________टिप्पणी__________ [११८] चोद्य (Kआ) [११९] मै (Kःा) ___________________________ उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ इति । तदस्याः स्मृतेर्मूलभूता उपनीयाध्यापनेनाचार्यकं भावयेदिति श्रुतिरनुमास्यते । तन्न । स्मार्तवाक्यसदृशं हि मूलमनुमीयते । यथाष्टकादिगोचरं[१२०]कर्तव्यतावचनमुपलभ्याष्टका कर्तव्येति श्रुतिरपि कर्तव्यताविषयैवानुमीयते । न चेहोपनयनादिनाचार्यकं कुर्याद्[१२१]इति स्मृतिवचनम् । अपि तर्हि उपनीयाध्यापयितरि लौकिका आचार्यशब्दमुपचरन्तीति लोकसिद्धमेवाचार्यपदार्थं दर्शयति । तत्कथमितः सिद्धानुवादात्कर्तव्यताश्रुतिरनुमातुं शक्यते । न चाहवनीयादिवदलौकिकमाचार्यकम् । आहवनीयशब्दो हि आधानपवमानहविरादिजन्यमलौकिकमतिशयविशेषमभिनिविशमानोऽलौकिकार्थ इति युक्तम् । आचार्यशब्दस्तूपनीय वेददातरि उपचरितः । __________टिप्पणी__________ [१२०] र स्मार्तं क (Kआ) ___________________________ [१२१] भावयेदि (Kःा) ___________________________ उपनीय ददद्वेदमाचार्यः स उदाहृतः । इति स्मृतेः । एवं तु सान्दृष्टिकमेव शिष्योपाध्यायवद्, नालौकिकमाचार्यकम् । अपि चाप्रवृत्तप्रवर्तनं हि विधेरर्थः । स्वयमेव चाचार्यके धनायन् यशस्यन् वा प्रवर्तत इति किं तद्विधानेन । अतः शून्यहृदयैर्व्यवहृतमेवेदमाचार्यकरणविधिप्रयुक्तमध्ययनमिति । कथञ्चैष व्रतनियमादीतिकर्तव्यतावतोऽध्ययनविधेः प्रयोजकः । अध्यापनं ह्यध्ययनमन्तरेणानुपपद्यमानं लौकिकेन रूपेणाध्ययनमात्रं प्रयुङ्क्ताम् । अतोऽनन्यपरत्वात्स्वाध्यायाध्ययनविधेर्नाविवक्षितार्थतया शक्यं पूर्वपक्षयितुम् । यदप्युक्तमुपनयनमाचार्यकनियोगाङ्गमित्युपनीयाध्यापनेनाचार्यकं भावयेदिति श्रुतिरनुमिता । अत्र च कत्वाश्रुतेराचार्यकभावनासमानकर्तृकमुपनयनमवगम्यते । न च प्रयोगैक्यादृते समानः कर्ता भवति । न च तदङ्गाङ्गिभावादृते सम्भवतीत्याचार्यकरणविधौ सहाङ्गैरङ्गमुपनयनम् । तच्च केन द्वारेणोपकुर्यादिति चिन्तायामुपनेयासादनमेवोपनयनस्वभावालोचनया द्वारमवधारितम् । उपनेयोऽपि नाकिञ्चित्करोऽङ्गमिति{१,४१}तद्व्यापारापेक्षायामुपनयनं प्रक्रस्याध्ययनमाम्नातम् । उपकारकं च तदध्यापनाविधेः । अतस्तदेवोपनयनद्वारेणाध्यापनविधिना प्रयुज्यते । उक्तं च कथमाचार्यकरणविधेः प्रयोजकत्वमुपनयनद्वारकं हि तदिति । अत्रोच्यते नैवमध्ययनविधिः शक्यते प्रयोक्तुम्, अनङ्गत्वादनुपकारकत्वाच्च । यच्च समानकर्तृकत्वादुपनयनमध्यापनाङ्गमित्युक्तं, तन्न । विस्पष्टं हि वयमष्टवर्षं ब्राह्मणमुपनयीतेति द्वितीयासंयोगादुपनीयमानद्विजकुमाराङ्गमुपनयनमवगच्छामः । तस्य च तमध्यापयेदित्यध्ययनसम्बन्धाद्युक्तमेव संस्कारार्हत्वम् । अतो माणवकद्वारेणाध्ययनविध्यङ्गमुपनयनमिति सत्यप्युपनीयाध्यापनेनाचार्यकं भावयेदिति । विधावनङ्गमेवोपनयनं कृतार्थसंयोगेषु कालोपलक्षणार्थत्वस्य स्थितत्वात् । यथा दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेतेति । न हि तयोरन्योन्यमङ्गाङ्गिभावः, उभयोर् अपि कृतार्थत्वात्, एवमिहापि भवितुमर्हति । अस्तुवाध्यापनाङ्गमुपनयनम् । तत्तु समीपप्रापणमात्रम् । अतस्तावन्मात्रमाचार्यकरणविधिना प्रयुज्यताम्, अध्ययनाङ्गं तु विशिष्टमन्त्राद्युपेतमनेन प्रयुक्तमिति न प्रमाणं क्रमते । न च फलचमसवदधिकारतो विशेषलाभः । तत्र हि यागाङ्गसोमभक्षणप्रकरणाम्नातो भक्षयतिस्तदङ्गमेव भक्षणं विगाहते । न चेह तथा, अधिकाराभावात् । न च जुहूवदेतद्भवितुमर्हति । सा ह्यनुज्झितक्रतुसम्बन्धेति दूरेऽप्युद्दिष्टमात्रा सैव प्रतीयते । उपनयनं तु समीपप्रापणमनेकधा भिन्नमिति न विशिष्टावगतौ किञ्चित्कारणम् । अस्तु वा विशिष्टोपनयनमाचार्यकरणविधेरङ्गम्, प्रयुज्यतां च तत्तेन । न च तद्द्वारेणाध्ययनप्रयुक्तिः सम्भवति । अङ्गं हि तदध्ययनस्येत्युक्तम् । न चाङ्गमाकृष्यमाणं प्रधानमाकर्षति, प्रधानानामनङ्गवशवर्तित्वात् । तस्मान्न कथञ्चिद्[१२२]आचार्यकरणविधेः प्रयोजकत्वम् । कस्माच्चाध्ययनविधिर्[१२३]आचार्यकरणविधिप्रयुक्त्या सिध्यति । कश्चित्क्वचिन्नियुक्त इति हि नियोगस्य स्वरूपम् । तदयं स्वयमनियुञ्जानो नियोगत्वादेव हीयेत । अनधिकारत्वातन्यमुपजीवतीति चेत् । न । उक्ताधिकारत्वात् । उक्तमष्टवर्षो ब्राह्मणोऽधिकारीति । यदर्थं हि यत्कर्म स तत्राधिकारी । माणवकार्यं चाध्ययनमिति तमध्यापयेदिति विधानादवगम्यते,[१२४]अनन्यपरत्वादस्य ।{१,४२}न हीदमध्यापनस्वरूपविधानपरम्, अन्तरेणापि विधानं वृत्त्यर्थमेव तु तत्र प्रवृत्तेः । अध्ययनविधिश्चाश्रुताधिकारोऽधिकारिणमपेक्षते । न हि ज्ञायते केन स्वाध्यायोऽध्येतव्य इति । अतोऽपेक्षितविधिबलादध्ययनाधिकृतपुरुषोपदेश एवायं तमध्यापयेदिति । तदयमर्थः अष्टवर्षो ब्राह्मणोऽधीयीतेति । अतः प्रयोजकव्यापारद्वारेण प्रयोज्यव्यापारपरमिदमिति वर्णितमेवेति । अथ मतमात्मार्थमध्ययनं न माणवको बुध्यत इति न प्रवर्तत इति, यद्येवमाचार्यार्थमपि न बुध्यत इति न प्रवर्तेतैव । आचार्य एवा[१२५]त्मार्थं प्रवर्तयतीति चेत्, तुल्यमस्य माणवकार्थत्वेऽपि प्रवर्तकत्वम् । स ह्यस्य हितकामो जानाति चास्येयमभ्युदयकारिणी क्रियेति । तमिममविद्वत्त्वात्स्वयमप्रवृत्तमन्यो हितकामः प्रवर्तयिष्यति स्त्रियमिव स्वाधिकारे निषादमिव स्थपतीष्ट्याम् । अपि च आचार्यकरणविधिप्रयुक्तत्वेऽध्ययनस्य नार्थाविवक्षायां किञ्चित्कारणमुपलभ्यते । तद्यदि अध्ययनमात्रमात्मानुगुणतया प्रयुङ्क्ते न तु स्वाभाविकं शब्दानामर्थपरत्वं विहन्ति,[१२६]स्वाध्यायाध्ययनस्वरूपमात्रेण चाचार्यकनियोगनि[१२७]ष्पत्तेरभिधाव्यापारस्यानन्यपरत्वात् । अतो नार्थाविवक्षायां किञ्चित्कारणमस्ति । अस्तु वा आचार्यकरणविध्यौपयिकत्वेन विध्यन्तराणामर्थाविवक्षा, तथापि न मीमांसानारम्भेण पूर्वपक्षवर्णना शक्या कर्तुम् । आचार्यकरणविध्यर्थमात्रनिरूपणस्यापि मीमांसागतन्यायकलापाधीनात्मलाभत्वात् । तस्यापि स्वाध्यायशब्दवाच्यत्वादविवक्षितार्थत्वमिति चेत् । न । कल्पितस्य विधेरनधीतस्यास्वाध्यायशब्दवाच्यत्वात् । तस्य चाविवक्षितार्थत्वे ऽन्यार्थविवक्षा अन्यार्थविवक्षायां पुनस्तद्विवक्षेत्यनवस्था स्यात् । न च व्यवस्थासम्भवेऽव्यवस्थितः शास्त्रार्थो युक्तो वर्णयितुम् । तद्वरं स्वाध्यायाध्ययनविधेरदृष्टार्थत्वं, न त्वाचार्यकरणविध्यर्थत्वेनाव्यवस्था । एवं हि स्वाभाविकमर्थपरत्वं शब्दानामपलपितं न भवति । न चैकविध्यनुरोधेन कृत्स्नस्वाध्यायाप्रामाण्यप्रसङ्गः । भूयोविरोधे ह्यल्पमन्याय्यमिति वक्ष्यति विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वम् (१२ ।२ ।२२) इति । त्यजेदेकं कुलस्यार्थे इति न्यायविदो वदन्तीति नाविवक्षितार्थतया पूर्वपक्षो युक्तः । __________टिप्पणी__________ [१२२] दध्यापनवि [१२३] रध्यापनविधि [१२४] अन्य (Kःा) [१२५] वैनमाचार्यार्थं (Kःा) [१२६] न्ति अध्य [१२७] निवृत्ते (Kआ) ___________________________ {१,४३} यदपि चात्र राद्धान्तितं सत्यप्याचार्यकरणविधिप्रयुक्तत्वेऽध्ययनस्य न तन्निवृत्तिरेव प्रयोजनं, बहिरङ्गत्वात् । यदेतदध्येतर्यर्थज्ञानं जायमानमुपलभ्यते तदेव तस्य प्रयोजनं न्याय्यम् । यत्कर्तृका हि या क्रिया सा तदर्थैवेति युक्तं, तथा[१२८]दर्शनात् । ननु प्रथमभावी प्रयोजकविध्यधिकारानुप्रवेशश्चरमभाव्यर्थज्ञानाद्बलीयान् । अतो नाध्येत्रर्थतामध्ययनस्यापादयितुमुत्सहामहे । किं हि । प्रथमावगताचार्यकरणविध्यर्थत्वे पश्चाद्भाविन्यन्तरागता करिष्यति । नैवम् । प्रागप्यधिकारान्तरसम्बन्धानवगमादश्रवणात् । अन्यप्रयुक्तया चानुष्ठानोपपत्तौ विश्वजिदादिवत्कल्पनानुपपत्तेः । अत आचार्यकरणविधिप्रयुक्तमध्ययनमसति प्रयोजनसम्बन्धे दुःस्थितमेव, सर्वविधीनामधिकारपर्यवसायित्वात् । सोऽयमधीतसाङ्गवेदस्यान्तरा मीमांसाध्ययनं चाधिकारो निष्पद्यते । स हि तदा विदितपदार्थो वाक्यार्थं बुध्यमानो मदर्थमिदं कर्मेति जानाति । युक्तं चैतद्[१२९]यत्क्रत्वपेक्षितमर्थज्ञानं प्रयोजनतया सम्बध्यत इति । एवं च परप्रयुक्तावप्यर्थपरत्वाविघाताद्युक्तैव तद्विचारार्था मीमांसेति । तदिदमनुपपन्नम् । न हि नियोगार्थनिर्वृत्तेरन्यदस्ति प्रयोजनं सर्वविधीनां[१३०]येन परप्रयुक्तानुष्ठानोऽपि विधिः प्रयोजनमपेक्षते । इतरथा हि नित्येऽपि तत्कल्पनाप्रसङ्गात् । स्यादेतद् असत्यामपि विध्यपेक्षायामर्थाज्जातमर्थज्ञानं न हीयेतेति अर्थज्ञानमर्थाज्जातं न नियोगतः प्रतिपन्नम् इति । तन्न । होमादप्यर्थाज्जातस्य हविर्विकारादेः प्रयोजनत्वापत्तेः । क्रत्वपेक्षितमर्थज्ञानं नैवं हविर्विकारादीति चेत् । तन्न । असत्यर्थपरत्वे क्रत्वनुष्ठानाभावात्किं केनापेक्ष्येत । कर्तृ[१३१]फलप्रदत्वमपि क्रियाणां नैकान्तिकम्, ऋत्विक्कर्भसु व्यभिचारात् । अतः प्रयोजकविध्यर्थः स्वार्थो वाध्ययनविधिरिति नार्थपरत्वे प्रमाणं पश्यामः । मध्ये चाधिकारकल्पना वृथैव, प्रवृत्त्यनङ्गत्वात् । भवन्ती व स्वनियोग एव पर्यवस्येत् । एवं हि तदाध्येत जानाति नित्यो हि विध्यर्थः सम्पाद्यो ममेति । एवं च नियोगनिर्वृत्त्यर्थमध्ययनं, तदर्थश्च स्वाध्याय इति नार्थपरत्वम् । अर्थस्तु प्रतीयमानोऽपि पूर्वादिवापरो न विवक्षित इत्यविचारणीय एव । तस्मादविचारितमनोहरत्वादस्य पक्षस्य यथावार्त्तिकमेवाध्ययनविधिविचारो वाच्यः । स उच्यते । स्वाध्यायोऽध्येतव्यः, स्वाध्यायमधीयीत इति{१,४४}च विधिरत्र श्रूयते । फलवद्व्यापारगोचरत्वं च स्वाभाविकं सर्वविधीनामित्यपुरुषार्थात्मनोऽध्ययनादुत्तीर्य पुरुषार्थात्मकं फलमभिलषति । अध्ययनमपि साध्यत्वाधीनं साधनत्वे निक्षिप्यते । तदयमर्थो जायते अध्ययनेन किमपि पुरुषाभिलषितं कुर्यादिति । न च तदुपात्तमित्याम्नानसामर्थ्याद्विश्वजिदादिवत्स्वर्ग एव सकलाध्येतृजनसमीहितं फलं कल्प्यते । ननु च द्वितीयान्तस्वाध्यायपदसमभिव्याहृतमध्ययनं तत्प्रधानमेवावगम्यते । ततश् चाध्ययनेन स्वाध्यायं संस्कुर्यादिति वाक्यार्थोऽवतिष्ठते । न च सक्तुवदसंस्कार्यः स्वाध्यायः, फलवत्क्रतुज्ञानोपायभूतत्वात् । अतो न फलान्तरकल्पनावकाशः । न । अविनियोगात् । न खलु स्वाध्यायस्यार्थज्ञाने विनियोजिका श्रुतिरुपलभ्यते । अतो न तादर्थ्ये प्रमाणमिति न संस्कारार्हत्वम् । भूतश्च स्वाध्यायः भव्यमध्ययनं, भूतस्य भव्यार्थतायां दृष्टार्थता । इतरथा कल्प्यमदृष्टम् । न च तद्युक्तम् । अतो विनियोगभङ्गेन स्वाध्यायेनाध्ययनं संस्कुर्यादिति शास्त्रार्थो युक्तः । हुंफडादीनां चानर्थकानामध्ययनादव्यापकमर्थज्ञानम् । तेषामदृष्टार्थमध्ययनं भवतीति चेत् । तदर्धजरतीयमेकस्यैव विधेर्दृष्टादृष्टार्थत्वकल्पनात् । अत[१३२]एकरूपेणादृष्टार्थतैव युक्ता । ननु च रात्रिसत्रवदार्थवादिकमेव फलं श्रुतत्वाद्युक्तमाश्रयितुम् । श्रूयते हि यं यं क्रतुमधीते तेन तेनास्य क्रतुनेष्टं भवतीति क्रतुफलप्राप्तिरध्ययनस्य फलम् । अथोच्येत न प्रथमे गुरुसकाशादध्ययने फलमिदम्, अपि तर्हि धारणाद्यर्थ इति । तन्न । धारणाद्यर्थार्थवादस्यातिदेशतः प्रथमाध्ययनसम्बन्धात् । अतो रात्रिसत्रन्यायेनार्थवादगतमेव विपरिणामेन फलमुपकल्पयितुमुचितम् । स्यादेतदेवं यद्यर्थवादाः स्वरूपतोऽतिदिश्येरन् । न त्वेतदेवं, शास्त्रातिदेशनिराकरणात् । प्ररोचनामात्रम्[१३३]इहार्थवादोत्थापितमध्ययन[१३४]विधिनापेक्षितं सम्बन्धुमिति नानाश्रयफलपदविपरिणामः शक्यते कल्पयितुम् । अतो नैषापि कल्पना युक्तेति विश्वजिदादिवत्स्वर्गफलतैव युक्ता कल्पयितुम् । अतः स्वर्गार्थं गुरुसकाशादधीत्य स्नानस्मृतिबलेनानन्तरं स्नात्वा पश्चात्सन्दिग्धं प्रयोजनवन्तं वेदार्थं विचारयतु मा वा । सर्वथा तावदध्यय[१३५]नविध्यर्थो निष्पन्न इति न[१३६]कथञ्चिद्वेदविरोधमुपलभामहे । __________टिप्पणी__________ [१२८] था लोके द [१२९] त्क्र (Kःा) [१३०] नां यथोक्तं ये (Kआ) [१३१] त्रर्थत्व (Kःा) [१३२] ऐकरूप्येणा (Kःा) [१३३] त्रं ह्यर्थ [१३४] नस्य वि [१३५] यनमात्रादेवाध्ययन [१३६] नात्र क (Kआ, Kःा) ___________________________ {१,४५} अत्रोच्यते स्वाध्यायोऽध्येतव्यः स्वाध्यायमधीयीतेति च विस्पष्टं स्वाध्यायस्याध्ययनकर्मत्वमवगम्यते । न च सक्तुवद्विनियोगभङ्गो युक्तः । सक्तवो हि भूतभाव्युपयोगरहिता न संस्कारमर्हन्ति । न च तथा स्वाध्यायः, भाव्युपयोगित्वात् । इह ह्यध्ययनानन्तरमक्षरग्रहणं, ततः पदावधारणं, ततः पदार्थस्मरणं, ततो वाक्यार्थ[१३७]ज्ञानं, ततोऽनुष्ठानं, ततोऽभ्युदय इति परम्परया पुरुषार्थ[१३८]प्रयोजनप्रतिलम्भेन विपरिवृत्त्याध्ययनमात्रान्[१३९]नादृष्टकल्पनावकाशः । यावद्धि विप्रकृष्टमपि दृष्टमुपलभ्यते, तावत्तदेवानुसरणीयम् । तदिह ब्राह्मणवाक्येषु प्रधानवाक्यानां फलवत्कर्मावबोधनं फलम्, अङ्गवाक्यानां तु सन्निपत्योपकारकारादुपकारकदृष्टादृष्टार्थेतिकर्तव्यताप्रकाशनम् । अर्थवादानां च विध्यपेक्षितविषयप्राशस्त्यप्रतिपादनम् । उद्भिदादीनां च[१४०]नाम्नां गुणफलविधानम् । उपनिषदां तु साम्परायिकफलोपभोगोचितचेतनकर्तृप्रतिपादनद्वारेण सकलवेदप्रामाण्यप्रतिपादनमित्यूहनीयम् । मन्त्राणां च केषाञ्चिदनुष्ठीयमानपदार्थप्रकाशनम् । येषां तु न दृष्टं प्रयोजनं तेषां क्रतुपुरुषार्थादृष्टकल्पना । न च तददृष्टार्थत्वेनान्यत्रापि दृश्यमानप्रयोजनपरित्यागो युक्तः । स्वाध्याया[१४१]ध्ययनविध्यध्यापितस्य[१४२]मन्त्रब्राह्मणस्य प्रयोजनकल्पनावसरे यथाशक्ति प्रयोजन[१४३]कल्पनैव युक्ता । तत्र हुमादीनां दृष्टप्रयोजनासम्भवे जपब्रह्मयज्ञादावदृष्टार्थता । दृष्टं चैकप्रयोगविधिगोचराणां[१४४]दृष्टादृष्टप्रयोजनत्वं प्रोक्षणावघातादीनाम् । अतो नावश्यमैकरूप्यम्[१४५]एव सर्वत्रैवास्थेयम् । तदेष पूर्वोत्तरपक्षसंक्षेपा[१४६]र्थः पारलौकिकादृष्टफलत्वादध्ययनस्य नार्थज्ञानपर्यन्तोऽध्ययनविध्यर्थ इति नावश्यमनन्तरं वेदार्थो मीमांसितव्यः । अतो न स्नानस्मृत्यध्ययनविध्योर्विरोधः । अविरुद्धं च न दुर्बलमपि बाधमर्हतीति पूर्वः पक्षः । सिद्धान्तस्तु स्वाध्यायस्याध्ययन[१४७]संस्कार्यत्वावगमादधीतेन स्वाध्यायेन किं कुर्यादित्यपेक्षिते योग्यत्वेनार्थज्ञाने स्वाध्यायस्य विनियोगात्, तस्य चैहिकत्वादनन्तरं दृश्यमानत्वाच्च न व्यवहितामुष्मिकादृष्टस्वर्गफलकल्पना युक्तेत्यधीतेन स्वाध्यायेनार्थं जानीयादिति करणीभूतस्य वेदस्यानुग्राहकापेक्षायां,{१,४६} योग्यत्वेनेतिकर्तव्यतांशोपनिपातिनी मीमांसाध्ययनानन्तरमुपनिपतन्ती स्वकालोपनिपातिना स्नानेन विरुध्यत इति श्रुतिबलीयस्त्वेन युक्तः स्नानस्मृतेर्बाध इति सूक्तं स्नानस्य तेन बाधः स्यादिति ॥ ८८ ॥ __________टिप्पणी__________ [१३७] र्थावधारणं त [१३८] र्थप्रति (Kआ) [१३९] त्राददृष्टकल्पनानवका [१४०] तु ___________________________ [१४१] यवि [१४२] स्य हि म [१४३] नपरिक [१४४] णां नानाविधदृ (Kःा) [१४५] प्यमेवावसे (Kआ) [१४६] पः (Kःा) [१४७] नकर्मत्वाव (Kआ) ___________________________ अत्र भाष्यं दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत, लक्षणया त्वेषोऽर्थः स्यादिति । तदध्ययनदृष्टार्थताप्रतिपादनस्य पुनरुक्तत्वाल्लक्षणया त्वेषोऽर्थः स्यादिति चाविज्ञायमानार्थत्वात्कैश्चिद्व्याख्यातृभिस्त्यक्तम् । तत्तावदाह दृष्टार्थेति कैश्चिदन्तेन । स्वयं तु चिरन्तनलेख्येषु विद्यमानत्वात्समाधत्ते तदुच्यत इति । अयमभिप्रायः पूर्वं हि न चाधीतवेदस्येत्यादिभाष्येण पूर्वकालतामात्रं क्त्वाप्रत्ययेनोच्यते, नानन्तर्यम् । न च तदध्ययनदृष्टार्थत्वे विरुध्यत इति स्मृत्या सहाविरोधो दर्शितः । इदानीं तु यद्यप्यानन्तर्यवचनः क्त्वाशब्दः, तथापि समस्तस्मृत्यर्थपरिग्रहे वेदविरोधाद्वरं लक्षणेति । पौर्वापर्यविशेष आनन्तर्ये उक्ते तदन्तर्गतपूर्वकालतामात्रमध्ययनस्य लक्ष्यते । एवं हि दृष्टार्थाध्ययनेन सहाविरोधो भवतीति ॥ ९० ॥ अपरमपि स्मृत्या सहाविरोधप्रकारमाह ग्रन्थेति । अधीत्येति इङो रूपे विरोधः नेण इति । इदं चान्वारुह्यवचनमिति नातीवादरणीयं । इङो हि नित्यसहचरितोऽधिशब्द एकदेशभूतः, न हि तस्य केवलस्य प्रयोगो दृष्टपूर्वः । अत इङो रूपे समुदायप्रासिद्धिः । इणस्त्ववयवप्रसिद्धिः । सा च समुदायप्रसिद्धेर्दुर्बला । स्वाध्यायाध्ययनाधिकारे चाधीत्येति श्रुतं तद्विषयमेवावगम्यत इत्यतोऽपि नाधिगमार्थ[१४८]कल्पना युक्तेति ॥ ९१ ॥ __________टिप्पणी__________ [१४८] र्थ इति (Kआ) ___________________________ {१,४७}अत्र भाष्यं न चेदं स्नानमदृष्टार्थं विधीयते इति । तद्व्याचष्टे यस्त्विति । यो हि श्रुतिस्मृत्योरेवमविरोधो भवतीति गुरुगेहादनावृत्तस्याप्लवनमात्रमधीत्य स्नायादिति प्रयाजादिवत्प्रधानमदृष्टार्थं विधीयते । अथवा मन्त्राद्युपेतमध्ययनस्य प्रधानकर्मणः प्रोक्षणादिवददृष्टार्थं नरसंस्काररूपं स्नानं विधीयत इति मन्यते, तस्य वक्ष्यमाणमुत्तरमिति ॥ ९२ ॥ तदिदानीमुत्तरमाह इहेति[१४९]द्वयेन । ब्रह्मचारिणो हि न स्नायादित्यस्नानादिनियम उक्तः । न च तत्र कस्यचिदवधित्वमाश्रितम् । अतोऽसौ कियन्तं कालमिति भवत्यवसानापेक्षेति । यद्येवं ततः किमत आह तत इति । अपेक्षितविधौ दृष्टार्थत्वम् । इतरथादृष्टार्थं स्नानविधानम् । न च दृष्टे सम्भवति तद्युक्तम् । अतोऽपेक्षावशादस्नानादिनियमनिवृत्तिमेव अधीत्य स्नायादिति स्नानं लक्षयति । तद्धि अस्नानविरोधि स्नानं, विरोधिसत्ता च विरोध्यन्तरनिवृत्त्या व्याप्ता । अतः स्नानेनास्नाननियमनिवृत्तिलक्षणा युक्तैव । तत्सहचरिताश्च गुरुकुलवासादय इति तन्निवृत्त्या तेषामपि निवृत्तिर्लक्ष्यत इति । ननु युक्तं विरोधिनोः सहासम्भवात्स्नानेनास्नाननिवृत्तिर्लक्ष्यत इति । गुरुकुलवासादिधर्मनिवृत्तौ (?कृ।कु)तो हेतुः । यच्चास्नानादिनियमसहचरितो गुरुकुलवासादिस्तन्निवृत्त्या निवर्त्यत इत्युक्तं तदयुक्तम् । प्रमाणान्तरगोचरे हि विषये तद्युक्तम् । यथा लोके भोजनकाले केवलस्थलपरिमार्जनोपदेशे स्थला(दी)नि परिमृज्यन्तामिति भवति तत्सहचरितनिखिलभोजनोपकरणशङ्खशुक्तिकादिपरिमार्जनोपदेशः । श्रुतिस्मृत्योस्तु यावदुपात्तमात्रविषयत्वात्सहचरितादिग्रहणमन्याय्यम् । उच्यते स्यादेवं यदि श्रुतिमूलेयमधीत्य स्नायादिति स्मृतिः{१,४८}स्यात् । इयं तु न्यायमूला । न्यायश्च सकलब्रह्मचारिधर्मनिवृत्तौ समानः । कः पुनरसौ । श्रूयताम् । ब्रह्मचारिधर्मा हि गुरुकुलवासादयोऽध्ययनाङ्गमध्ययनसमाप्तौ समाप्यन्ते इष्टिसमाप्ताविव व्रतमिति न्यायः । अतोऽस्नाननियमनिवृत्तिमूलेन सकलाग्नीन्धनादिब्रह्मचारिधर्मपर्यवसानलक्षणा युक्तेति । इदं तु किन् तु लक्षणयेत्यादिभाष्येणोक्तमिति वेदितव्यम् ॥ ९४ ॥ __________टिप्पणी__________ [१४९] ति । ब्र (Kआ) ___________________________ प्रकरणार्थमिदानीमुपसंहरति तस्मादिति । अयमर्थः यदध्ययनशब्दोऽधिगमार्थ इति व्याख्यातं, यच्च स्नायादित्यस्नानादिनियमनिवृत्तिलक्षणार्थः स्नानशब्द इति, तथा अथातो धर्मजिज्ञासेति[१५०]धर्मजिज्ञासाक्रमवचनोऽथशब्दोऽध्ययनानन्तरोपनिपातिस्मार्तस्नानाभावलक्षणार्थ इति यदुक्तं तत्र[१५१]च सर्वत्र दृष्टार्थत्वं हेतुरिति ॥ ९५ ॥ __________टिप्पणी__________ [१५०] ति जि [१५१] त्र स ___________________________ अत्र चोदयति स्नात्वेतीत्यन्तेन । एवं ह्युक्तं दौर्बल्यं वेदबाधनादिति । एवं च वेदबाधो भवति यदि वेदार्थः सर्वथैवोपेक्ष्येत । यदि तु स्मृत्यनुरोधेनाध्ययनानन्तरं स्नात्वा सन्दिग्धं प्रयोजनवन्तं वेदार्थं बुध्यमानो जिज्ञासते, ततो न कश्चिद्वेदविरोधो दृश्यत इत्यविरोधिता स्नानस्येति । एवंवा[१५२]दिन उत्तरमाह एवमिति स्नानबाधनमन्तेन । अयमर्थः भवेदपि स्मृत्यनुरोधेनानन्तरं स्नानं यदि तावन्मात्रमेव स्मृतं स्यात् । इह च[१५३]स्नानादुत्तरकालमपि नानाविधानि नित्यानि नैमित्तिकानि च कर्माणि स्मर्यन्ते । तद्यदि तान्यप्यनुरुध्यन्ते, ततोऽत्यन्ताय वेदबाधः । न च तान्यप्यविचारितवेदार्थो यथावदनुष्ठातुमीष्टे । न चाविदुषोऽधिकारोऽस्ति । वक्ष्यति हि न चाविद्वान् विहितोऽस्तीति । तदवश्यमनुरुध्यापि स्मृतिं कियत्यप्यध्वनि गत्वा पुनस्तद्बाधो वक्तव्यः । तद्वरमधीतवेदत्वेन विचारयोग्यत्वान्माणवकस्याध्ययनानन्तरम्[१५४]आगते काले{१,४९} प्रथमोपनिपातिनो विरोधिनः स्नानस्यैव बाधनम् । अतोऽनधीतवेदत्वेन यावन्नित्यनैमित्तिककर्मणोऽनुष्ठानायोग्यः, तावदकुर्वन्नपि तानि न प्रत्यवैति । अधीतवेदतया योग्योऽकुर्वन् प्रत्यवेयात् । न चाविद्वान् कर्तुं शक्नोति । न चाविचारयन् जानातीत्यध्ययनानन्तरम्[१५५]एव धर्मजिज्ञासा युक्तेति । इदं चोत्तरवि[१५६]भवादुक्तम् । परमार्थतस्त्वध्ययनविध्यर्थसम्पादनाय प्रवृत्तो न प्राङ्मीमांसाश्रवणाद्विरन्तुमर्हतीत्यध्ययनविधिबलप्रभावित एवायमर्थः । न हि प्रधानमनङ्गमनुष्ठितं पर्यवस्यति । वक्ष्यति हि साङ्गं प्रधानमैकशब्द्यादिति ॥ ९८ ॥ __________टिप्पणी__________ [१५२] वदतः [१५३] तु (Kःा) [१५४] मुपग (Kआ) [१५५] रं कर्म [१५६] वै (Kःा) ___________________________ एवं स्मृतिबाधमुपपाद्यात्रैवाधिकरणम्[१५७]उदाहरति सोऽयमिति । इतिरिवार्थे । पाठक्रमस्येव श्रुतिक्रमस्यायथमर्थाद्बाधोऽवगम्यत इत्यर्थः । उक्तं हि क्रमकोपाधिकरणे क्रमकोपोऽर्थशब्दाभ्याम् (५ ।४ ।१) इति । अत्र हि अग्निहोत्रं जुहोति यवागूं पचतीत्युदाहृत्य विचारयिष्यते किं हुत्वा पक्तव्यम्, उत पक्त्वा होतव्यमिति । अत्र[१५८]पाठप्रामा[१५९]ण्याधुत्वा पक्तव्यमिति पूर्वपक्षित उक्तं पाठक्रमस्यार्थक्रमात्कोपो बाधः । अर्थवशेन ह्यत्र पाठक्रमोऽतिक्रमितव्यः । यथापाठक्रमानुष्ठाने ह्यर्थो न संवर्तेत । होमार्थो हि पाकः । स होमादुत्तरम्[१६०]अनुष्ठितोऽनर्थकः स्यात् । होमश्च हवनीयादृते न सिध्येत् । तस्मादादौ श्रपणं ततो होम इति । तद्वदिहापि यद्यप्यध्ययनानन्तर्यरूपक्त्वाश्रुत्या स्नानस्य क्रमोऽवगतः, तथाप्यध्ययनदृष्टार्थतासामर्थ्येन बाधितव्य इति । तत्परिग्रहेऽध्ययनविध्यर्थ एव बाधितः स्यात् । श्रुतिक्रमोऽप्यर्थानुसारेण[१६१]बाध्यत एव, अर्थार्थत्वात्सर्वस्येति क्रमकोपाधिकरणे टीकाकारेणोक्तमिति ।{१,५०}अधिकरणान्तरमत्रैवोदाहरति[१६२] गुणप्रधानयोरिति । वक्ष्यति अङ्गगुणविरोधे च तादर्थ्यात्(१२ ।२ ।२५) इति । अत्र च प्रधानभूतसुत्याकालानुरोधेनाङ्गभूतदीक्षणीयाकालबाधो वक्ष्यते, प्रधानार्थत्वादङ्गानाम् । प्रधानविरोधे सत्यानर्थक्यात् । एवमिहाप्यध्ययनस्नानयोः क्रममधीत्यस्नायादिति स्मृतिरुपदिशति । क्रमश्च क्रमवतामङ्गमित्य्[१६३]अविवादं सर्ववादिनाम् ।[१६४]तद्यद्येष क्रमोऽनुरुध्येत, ततः प्रधानभूतं दृष्टार्थमध्ययनमेव बाधितं भवेत् । न च गुणानुरोधेन प्रधानबाधो युक्त इति ॥ ९९ ॥ __________टिप्पणी__________ [१५७] णार्थमु [१५८] त [१५९] धान्याद् [१६०] रकालम [१६१] रोधेन बाधितव्य ए (Kआ) [१६२] रिष्यति (Kआ) [१६३] ति स [१६४] नामविवादसिद्धम् ___________________________ एवं तावत्स्मृतेरत्यन्तबाधो भणितः । इदानीं[१६५]विरोधानुसारित्वाद्बाध्यबाधकभावस्य यावन्मात्रमेव विरुध्यते तद्बाधितव्यम् । गुरुकुल[१६६]वासपरित्यागमात्रं च धर्मजिज्ञासापरिपन्थि, तदायत्तत्वात्[१६७]तस्याः, न मधुमांसादिसेवेति न[१६८]ते बाधितव्या इत्याह स्नानेति ॥ १०० ॥ __________टिप्पणी__________ [१६५] नीं तु वि [१६६] लप [१६७] त्वाद्धर्मज्ञानस्य न [१६८] न बा ___________________________ तस्मात्स्मृत्येकदेशबाधोऽयं न समस्तस्मृतेर्[१६९]बाध इत्याह तस्मादिति ॥ १०१ ॥ __________टिप्पणी__________ [१६९] ति ___________________________ नन्वेवं परित्यक्ताग्नीन्धनादिब्रह्मचारिधर्मः स्नातको जात इति स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः इति विधिप्राप्तं मध्वादिसेवनवद्धर्मजिज्ञासायामविरोधि यत्स्नानं तदपि क्रियताम्[१७०]अत आह गुरुगेहेति । सकलब्रह्मचारिधर्मनिवृत्तौ हि स्नातकशब्दः प्रयुक्तः, नाग्नीन्धनादिकतिपयधर्मनिवृत्तौ । अतो यावद्गुरुगेह[१७१]निवृत्तिर्मध्वादिसेवासमुदायस्यांशो न समाप्यते, तावत्स्नातक एव न भवतीति न स्नानम्{१,५१} अस्नानादिनियमनिवृत्तिः पर्यवस्यति । स्नानं न प्राप्नोतीत्यर्थः । सकलब्रह्मचारिधर्मनिवृत्तिवाची स्नातकशब्द इति ॥ १०२ ॥ __________टिप्पणी__________ [१७०] मित्याह [१७१] हाद्विनि (Kःा) ___________________________ व्याख्याय तदेव प्रयोगानुसारेणाह गुरुगेहादिति । यावद्धि गुरुगेहान्न निवर्तते न निष्क्रामति, तावत्स्नातको न कथ्यते । अतो न स्नातकधर्मं लभत इति । यद्येवं तर्हि मा स्नातु, दारपरिग्रहं किन् तु न करोति । उपात्तदारोऽपि[१७२]गुरौ निवसन् धर्मं जिज्ञासत एव,[१७३]अत आह तदिति । गुरुगेहान्निष्क्रान्तस्य कृतमन्त्राद्युपेतस्नानस्य तत्र स्नानात्परो दारसङ्ग्रहो विहितः स्नातकः सदृशीं भार्यां विन्देत इति । तत्कथमकृतस्नानस्य भवेदिति ॥ १०३ ॥ __________टिप्पणी__________ [१७२] हि [१७३] वेत्यत ___________________________ अत्र भाष्यं वेदमधीत्य स्नायाद्गुरुकुलान्मा समावर्तिष्टेति । तदसङ्गतार्थमिव लक्ष्यते । कथं हि वेदमधीत्य स्नायाद्गुरुकुलान्मा समावर्तिष्टेति । तद्विच्छिद्य योजयति व्याख्यायेति । पूर्वं हि न चेदं स्नानमदृष्टार्थमित्यादिना भाष्येण स्मृतिवाक्यं व्याख्याय पुनस्तदेव कीर्तितमस्याः स्मृतेरयमर्थ इत्युक्तं भवति ॥ १०४ ॥ नन्वानन्तर्याद्गुरुकुलान्मा समावर्तिष्टेत्यनेनैकग्रन्थोऽवगम्यते । किं तत्परित्यागे कारणम्[१७४]अत आह समावर्तिष्टेति । न ह्यानन्तर्यमेव सम्बन्धे कारणम् । अपि तर्हि, योग्यतापि । इह च विरोधादानन्तर्येऽप्यसम्बन्ध इति ॥ १०५ ॥ __________टिप्पणी__________ [१७४] मित्यत ___________________________ अथापनीतं कथं व्याख्येयमत आह अथशब्देनेति । पूर्वं हि गुरुकुलवासावसानबाधनार्थोऽथशब्द इति व्याख्यातं गुरुकुलान्मा{१,५२} समावर्तिष्ट कथं वेदवाक्यानि विचारयेदित्यादिना भाष्येण । न च तत्र हेतुरुक्त इति स्मृतिदृष्टार्थताप्रसङ्गेन मनसि विपरिवर्तमानोऽभिहितः । अथशब्दो ह्यानन्तर्यपरत्वेऽदृष्टार्थः स्यादिति तत्परिहाराय गुरुकुलान्मा समावर्तिष्टेत्येवंपरो व्याख्या[१७५]यत इति । यद्वा गुरुकुलवासनिवृत्तिमात्रं बाध्यते न कृत्स्नस्मृत्यर्थ इति, तत्रायं हेतुरित्याह तन्मात्रस्येति ॥ १०६ ॥ __________टिप्पणी__________ [१७५] ख्यात (Kःा) ___________________________ एतदेव विवृणोति स्मृतिप्राप्तमिति । इदानीमधीते वेदेऽधीत्य स्नायादिति स्मृतिप्राप्तं मध्वादिसेवनं प्रतिषेधयन् सूत्रकारोऽदृष्टार्थोपदेशी स्यात्तेषां धर्मजिज्ञासायामविरोधात् । न च तद्युक्तमिति ॥ १०७ ॥ यस्तु स्मृतेरविरोधं वदन्नेवमाह स्मृतिवशादनन्तरं स्नात्वा गुरुगेहं प्रविश्य धर्मो विचारयिष्यते तन्न कश्चिद्विरोधः स्यादिति, तं प्रत्याह निवृत्येति । निर्गत्य हि पुनः प्रवेशोऽदृष्टार्थः स्यादिति । पूर्वं चेदमुद्भाष्यमेव परिचोद्यान्यथा परिहृतम् । इदानीं भाष्या[१७६]नुसारेणादृष्टार्थतया परिह्रियते इत्यपौनरुक्त्यम् ॥ १०८॥ __________टिप्पणी__________ [१७६] ष्यकारानु (Kआ) ___________________________ ननु कथं प्रवेशोऽदृष्टार्थः स्यात्, तस्य हि विचारो दृष्टमेव प्रयोजनमत आह निर्गम इति । कृतार्थस्य निर्गमो निस्सरणं दृष्टार्थं स्यात् । इतरथादृष्टार्थम् । अतो निर्गत्यप्रवेशोऽदृष्टार्थ इति वदता निवृत्तेरदृष्टार्थत्वमुक्तं भवति ॥ १०९ ॥ अतश्शब्दमिदानीमनुसन्धत्ते अथेति । यदैवाथशब्देन दृष्टार्थम्{१,५३}आनन्तर्यमुपदिष्टं, तदैव क्रियामात्रानन्तर्यस्यादृष्टार्थत्वाद्वेदग्रहणं वेदार्थनिर्णये हेतुरित्युक्तम्[१७७]एवेति किमतश्शब्देनेति ॥ ११० ॥ __________टिप्पणी__________ [१७७] क्तं भवतीति कि ___________________________ परिहरति योग्यत्वमिति । आनन्तर्योपदेशाद्वेदाध्ययनेन धर्मज्ञाने योग्यो भवतीति ज्ञायते, न तु तद्धेतुकैव[१७८]धर्मजिज्ञासेति ॥ १११ ॥ __________टिप्पणी__________ [१७८] का ध ___________________________ अतश्चैवंविधः पुरुषो धर्मज्ञाने[१७९]योग्य इत्येतावदेवाथशब्देनोक्तं स्यात्, न हेतुविशेष इत्याह लक्षणमिति । न च हेत्वन्तराभावात्पारिशेष्यसिद्धमध्ययनं शक्यं वक्तुमित्याह जिज्ञासाया इति ॥ ११२ ॥ __________टिप्पणी__________ [१७९] नयोग्यो भवति इ ___________________________ धर्मफलार्थित्वाचार्यकयशःप्रभृति जिज्ञासाया हेतुत्वेन सम्भवति । तद्धेतुत्वे च धर्मजिज्ञासायाः शूद्राधिकारो दोष इति परिहारान्तरमाह अतश्शब्द इति । अथशब्दो ह्यानन्तर्यमुपदिशन् यद्वेदाध्ययनानन्तर्यमुपदिशतीत्युक्तं, तद्वक्ष्यमाणातश्शब्दप्रतिपाद्यहेतुत्वबलेन । इतरथा त्वर्थान्तरवचनोऽयमथशब्दः सम्भाव्येतेति ॥ ११३ ॥ अन्यथा पौनरुक्त्यमाह स्नानबाधस्येति । यद्यप्यथशब्देन वेदाध्ययनं धर्मजिज्ञासाया हेतुरिति प्रतिपादितं, तथापि हेत्वन्तरवचनत्वादतश्शब्दो न पुनरुक्तः । स्नानबाधस्य हेतुत्वमतश्शब्दो वदति ।[१८०]स्नानबाधहेतुमाविष्करोति योग्यस्येति । अधीतवेदो हि{१,५४} नित्यनैमित्तिकानुष्ठानयोग्यो[१८१]जातो यद्य्[१८२]अविद्वत्तया नानुतिष्ठेत्, प्रत्यवेयात् । अतोऽधीतवेदत्वान्नावस्थातुं लभ्यते झटिति विद्वत्तायां यतितव्यमिति ॥ ११४ ॥ __________टिप्पणी__________ [१८०] दतीति (Kःा) [१८१] ग्यो भवति य (Kआ) [१८२] द्यसाववि ___________________________ अत्र भाष्यं धर्मं जिज्ञासितुमिच्छेदिति । तत्र सन्धातुलिङ्तुमुनामिच्छार्थत्वात्पौनरुक्त्यमाशङ्क्य विषयभेदात्परिहरति सन्वाच्येति । सन्वाच्या तावदिच्छा आन्तरं समानपदोपात्तं ज्ञानमेव कर्म व्या[१८३]प्नोति । तत्कर्मिकेति यावत् । तावता च भागेन सैव गम्यते, न लिङादेरर्थो विध्यादिः ।[१८४]इषिस्तु यद्यपीच्छावचनः, तथापी[१८५]च्छान्तरवचनत्वादपुनरुक्तः । तथा हि [१८६]सन्वा[१८७]च्येच्छाया बाह्यः पदान्तरोपात्तो वा धर्मः कर्म, ज्ञानेच्छा वा, धर्मज्ञानेच्छाद्वयं वा । कर्म[१८८]भेदप्रकटनमिच्छाभेदस्फुटीकरणार्थम् । लिङ्तुमुनोस्तु विधिसमानकर्तृकत्ववचनत्वात्स्पष्टो विषयभेद इत्यपुनरुक्ततेति । किं पुनरत्रासूत्रितद्वितीयेच्छोपादाने भाष्यकारस्य प्रयोजनं, धर्मं जिज्ञासेतेत्येवं हि वचनीयमत आह सूत्रितेच्छेति । एवं हि मन्यते यथा शिष्यो बालः प्रेषणायामयोग्यत्वाद्धर्मज्ञाने प्रवर्तयितुं सूत्रकारेणाध्येषितो धर्मजिज्ञासेति वदता, तथा तद्गतिमनुविदधानेन भाष्यकारेण सूत्रितेच्छा कथं निर्वर्त्येतेति द्वितीयेच्छा असूत्रितोक्ता । अत इच्छोपदेशेनापि कर्तव्यतोपदिष्टा भवेत्, तत्पूर्वभावित्वादिच्छायाः । न चेच्छा नेष्यते । बुभुक्षावत् । तथा हि एको बुभुक्षमाणो भुङ्क्ते । अन्यस्तु मन्दानलत्वादबुभुक्षुस्तामपि कामयत एवेति ॥ ११५११७ ॥ __________टिप्पणी__________ [१८३] प्रा [१८४] दिरिति [१८५] विषयभेदादपि (Kःा) [१८६] तद्वाप्ये [१८७] त्तो धर्मो ज्ञा [१८८] र्म । इच्छाकभम[?] (Kआ) ___________________________ {१,५५} तत्र धर्मजिज्ञासासमासपदं विगृह्णता भाष्यकारेण धर्माय जिज्ञासा धर्मजिज्ञासा । सा हि तस्य ज्ञातुमिच्छेत्युक्तम् । तदाक्षिपति प्रकृत्येति । यत्र हि तादर्थ्ये चतुर्थीसमासो भवति, तत्र प्रकृत्या विकृतिः समस्यमाना दृष्टा । यथा यूपाय[१८९]दारु यूपदार्विति । अप्रकृतिविकारयोस्तु न समासः यथा रन्धनाय स्थाली, अवहननायोलूखलमिति । तथा[१९०]प्रकृतिविकृतिग्रहणं कर्तव्यमिति[१९१]तादर्थ्यसमासे वार्त्तिककारेणोक्तम् । न च सामर्थ्यप्रदर्शनार्थं तत् । अतोऽप्रकृतिविकारयोरपि यत्र सामर्थ्यं तत्र समासो भवत्येव । अतो धर्मजिज्ञासापदेऽपि सामर्थ्यस्य विद्यमानत्वाद्युक्तस्तादर्थ्यसमास इति वचनीयम् । सामर्थ्यस्यैव प्रकृतिविकारभावमन्तरेणानुपपत्तेः । विग्रहवाक्यार्थाभिधानशक्तिर्हि सामर्थ्यम् । न च यथा रन्धनाय स्थालीति श्रूयमाणा चतुर्थी बाह्यनिमित्त[१९२]भूताया अरन्धनप्रकृतेरपि स्थाल्यास्तादर्थ्यमभिद्योतयति तथा[१९३]रन्धनस्थालीति समासः, मन्दत्वात्तादर्थ्यस्य । प्रकृतेरेव तु दार्वादेर्यूपादिविकृतिभावापत्तेर्व्यक्तं तादर्थ्यमिति यूपाय दार्विति विगृह्य कथितं यूपदारुसमासादपि सुज्ञानम् । अत एव समासविधौ तादर्थ्यग्रहणं प्रकृतिविकृतिगोचरं व्याख्यातं तत्रैव तादर्थ्यस्य स्प[१९४]ष्टत्वात् । आह च __________टिप्पणी__________ [१८९] पदार्वादाविति [१९०] था तादर्थ्यसमासे प्र [१९१] ति वा [१९२] त्ताया (Kःा) [१९३] रन्धनायस्था (Kआ) [१९४] स्फुटत्वा ___________________________ बाह्यस्य हि[१९५]निमित्तस्य तादर्थ्यं नैव तादृशम् । __________टिप्पणी__________ [१९५] च (Kःा) ___________________________ यादृशं प्रकृतेः स्पष्टं विकारं प्रति दृश्यते ॥ इति । तथा च नाप्रकृतिविकृत्योस्तादर्थ्यसमासो दृष्टचरः । अश्वधासादिषु षष्ठीसमासाश्रयणात् । वैयाकरणाख्यायां तु सत्यपि समासेऽलुग्विधानाद्विभक्तिः श्रूयते इति युक्तमेव वृत्तिविग्रहयोरैक्यार्थ्यमसत्यपि प्रकृतिविकृतिभावे । धर्मजिज्ञासापदसमासस्तु विवादास्पदीभूत एव । तस्मादसमासोऽयम् ॥ ११८ ॥ {१,५६} एवमाक्षिप्य समादधाति सा हीति । नायं चतुर्थीसमासः । किन् तु अश्वधासादिवत्षष्ठीसमास एवायम् । तथा हि सा हि तस्य ज्ञातुमिच्छेति षष्ठ्यन्तेन तदा विगृह्णातीति । ननु धर्माय जिज्ञासेति विग्रहवचनं तत्कथं व्याख्येयमत आह धर्मायेति । नेदं विग्रहवचनं, किन् तु षष्ठ्यर्थविशेषप्रदर्शनमिति ॥ ११९ ॥ अथ चोदयति प्राप्नोतीति । तादर्थ्यरूपार्थविवक्षायां हि चतुर्थ्येव प्राप्नोति । सम्बन्धसामान्यविवक्षायां तु तादर्थ्यवचनं कथमिति ॥ १२० ॥ परिहरति सम्बन्धमात्रेति । सूत्रकारेण हि सम्बन्धसामान्यविवक्षाया धर्मजिज्ञासेति षष्ठीसमासः प्रयुक्तः । निर्विशेषसामान्यानुपपत्तेस्तु विशेषाकाङ्क्षायां भाष्यकारेणैव तस्य सामान्यस्य तादर्थ्यरूपविशेषनिष्ठता वर्ण्यते, तेनायमपि न दोष इति ॥ १२१ ॥ अत्रापरं धर्मजिज्ञासास्वरूपप्रदर्शनार्थं कान्यस्य साधनानि कानि साधनाभासानीति भाष्यम् । तत्र साधनाभासपदं व्याचष्टे साधनाभासतेति । पूर्वपक्षस्यार्थो धर्मस्य साधनाभासमिति । कथं पुनः पूर्वपक्षस्यार्थः साधनाभासः, अत आह अन्यसाधनमिति । अन्यस्य हि साधनमन्यस्य साधनवदवभासमानं साधनाभासं भवतीति ॥ १२२ ॥ एतदेवाभिव्यनक्ति क्रत्वर्थमिति । क्रत्वर्थं हि पर्णमय्यादि{१,५७}पुरुषार्थस्यापापश्लोकश्रवणादेरुच्यमानं साधनाभासं भवति । पुरुषार्थं च गोदोहनादि क्रतोरुच्यमानं तदाभासं भवतीति । अत्र भाष्यकारेण को धर्मः कथंलक्षणः इति चोदनासूत्रेण व्याख्यातमित्युक्त्वा कान्यस्य साधनानीत्यादि शेषलक्षणेन व्याख्यातमित्युक्तम् । तदयुक्तमिव दृश्यते, शेषलक्षणशब्दो हि तृतीयाध्याये प्रसिद्धः । न च तत्र साधनादि सर्वं व्याख्यायते, अतः कथमित्याशङ्क्याह शेषलक्षणेति । नायं तृतीयाध्यायविवक्षया शेषलक्षणशब्दः प्रयुक्तः, किन् तु परिशिष्टसकलशास्त्रविवक्षया । अत एवैकवचनमिति ॥ १२३ ॥ अत्र भाष्यकारेण शास्त्रारम्भमाक्षिपतोक्तम् धर्मः प्रसिद्धोऽप्रसिद्धो वा स्यात् । यदि प्रसिद्धः, न जिज्ञास्यः । अथाप्रसिद्धः, नतरामिति । तत्राभाववचनत्वान्नञः कोऽयमातिशायनिकः प्रत्ययः । न हि निषेधस्य स्वगतो विशेषः कश्चिदस्तीत्याशङ्क्याह प्रसिद्ध इति । सत्यम् । नाभावस्य स्वगतो विशेषः, तथापि निषेध्यतन्त्रत्वाद्निषेधस्य तदतिशयात्सोऽप्यतिशेते इति । तदिह प्रसिद्धे ज्ञानेच्छामात्रस्यैवाभावः, न ज्ञानस्य अप्रसिद्धे तु न ज्ञानं न चेच्छेति द्वयनिषेधादतिशयो युक्तः । अशक्यत्वान्नेष्यते न ज्ञायते चेत्यर्थ इति ॥ १२४ ॥ अत्र परिहारभाष्यं धर्मं प्रति विप्रतिपन्ना बहुविदः । स हि निःश्रेयसेन पुरुषं संयुनक्तीति, तद्व्याचष्टे जिज्ञास्य इति । सन्दिग्धस्य हि प्रयोजनवतो निर्णयाय मतिमन्तो यतन्ते । तथा च धर्मः । तस्मादयमपि जिज्ञास्यत इति ॥ १२५ ॥ कीदृशः पुनर्धर्मे संशयः किन्निमित्तो वा, अत आह स्वरूपादिष्विति । पूर्वं तावद्धर्मस्य स्वरूपादिषु मध्ये प्रमाणस्वरूपाभ्यां द्वेधा{१,५८} विप्रतिपद्यते । विप्रतिपत्तिः क्रियते इति भावे[१९६]प्रत्ययः । वादिविप्रतिपत्तिश्च संशये निमित्तमिति नैयायिकाः । तस्मादेष संशयो भवति किं खलु धर्मे प्रमाणं, किंस्विद्योगिप्रत्यक्षमुत चोदनेति । प्रमाणसंशयादेव तु स्वरूपसंशयः, किं यागादिर्धर्म[१९७]उत चैत्यवन्दनादीति । तदत्राद्यस्याध्यायस्य प्रथमपादे निर्णयः कार्य इत्याह पादेनेति । अत्र हि सम्भावितेतरप्रमाणनिषेधेन सम्भाविताप्रामाण्यनिषे[१९८]धेन च प्रामाण्यमुपपादयिष्यते । तदुपपादनाच्च स्वरूपोपपादनमपि कृतं भवति । त्रिपाद्यां तु कथंलक्षण इत्यमुना प्रतिज्ञातः प्रमाणप्रकारो निरूप्यते । प्रामाण्यं त्विहैवोपपादितम् । अत एव पादावसाने इति प्रमाणत्वमिदं प्रसिद्धमिति वदति । अर्थवादाधिकरणे च सिद्धप्रमाण[१९९]भावस्य इति, प्रकारस्य तु तद्वतः प्रमाणादनतिभेदात्कृत्स्नोऽध्यायः प्रमाणलक्षणमित्याख्यायते इति ॥ १२६ ॥ __________टिप्पणी__________ [१९६] रूपम् । वा [१९७] आहोस्वित्चै [१९८] राकरणेन [१९९] णस्येति ___________________________ एवमाद्यपादप्रयोजनमुक्त्वोपरितनतन्त्रप्रयोजनमाह स्थित इति द्वयेन । अज्ञानामेकमार्ग[२००]दृश्वनां चासंशयाद्बहुविदां वाक्यार्थनिर्णये संशयान्न मतिरुपजायते । प्रथमं तावद्विध्यर्थवादमन्त्रनाम्नामर्थे प्रयोजने संशयः स्तुत्याद्युपयोगप्र[२०१]तिपादनेनार्थवादाधिकरणाद्यैरपनेष्यते । पुनश्च द्वितीये यजति ददाति जुहोतीत्यादिनां चार्थभेदाभावाद्भेदसंशयः शब्दान्तराधिकरणादिभिरित्येषा दिक् । अतः सन्दिग्धप्रयोजनवत्त्वात्[२०२]परमपि शास्त्रं प्रणेतव्यमिति ॥ १२८ ॥ __________टिप्पणी__________ [२००] र्गिणां चा [२०१] प्रदर्शनेना [२०२] त्वादप (Kःा) ___________________________ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां प्रथमसूत्रं समाप्तम् ॥०२ ओदनासूत्र {१,५९} चोदनालक्षणोऽर्थो धर्मः इति शास्त्रारम्भसूत्रम् । तद्व्याचष्टे धर्म इति । अयमभिप्रायः प्रथमसूत्रे हि विशेष[२०३]धर्मजिज्ञासा प्रतिज्ञाता, तदभिप्रायेण को धर्म इति पृष्टम् । विशेषश्च प्रमाणविशेषात्सिध्यति । पाषण्डागमे हि प्रमाणे चैत्यवन्दनादयः क्रियाविशेषा धर्मा भवन्ति । वेदागमे तु यागादयः । तदिह सामान्यतः सिद्धधर्मोद्देशेन प्रमाणविशेषश्चोदना विधीयते । ततश्च धर्मविशेषसिद्धिः । यस्तु सामान्यात्मा धर्मस्य प्रीतिसाधनत्वं, सोऽविवादसिद्ध एव सर्ववादिनाम् । न हीह केचिद्विवदन्ते यः प्रीतिसाधनं धर्म इति । तथा च नृगुणवादिनो यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्मः इत्याहुः । शुभा चित्तवासनेति सौगताः । पुण्याः पुद्गला इत्यार्हताः । सर्वे चैते प्रीतिसाधनतयैव तैर्धर्मा इष्यन्ते । अत एव चास्यां वचनव्यक्तावर्थशब्दोऽनुवाद इति वक्ष्यति लभ्यतेऽर्थानुवादेन इति । एषैव चात्र वचनव्यक्तिर्वार्त्तिककारस्याभिमता । इतरथा अर्थशब्दस्य विध्यनुवादयोरसम्भवः इति वक्ष्यति ।[२०४]ननु च स्वरूपविशेषेऽपेक्षिते प्रमाणविशेष[२०५]विधानमसङ्गतम्, अत आह स्वरूपादेरिति । धर्मपदार्थस्येदं प्रमाणमित्युक्ते प्रमाणाधीनत्वात्प्रमेयसिद्धेरर्थादिदमुक्तं भवति यच्चोदनाप्रवेदितं तद्धर्मस्वरूपमिति । आदिशब्देन तदाभासमुपादत्त इति । यस्तु विवक्षिततिरोधानमुक्तमिति मन्यते, तं प्रत्याह स्वरूपमिति । सामान्यतः सिद्धधर्मस्य स्वरूपविशेष इह सूत्र्यते इति ॥ १ ॥ __________टिप्पणी__________ [२०३] षजि (Kआ) [२०४] तीति [२०५] षाभिधान (Kःा) ___________________________ नन्वेवमन्यतरविधावन्यतरस्याश्रौतत्वात्को धर्मः कथंलक्षण इत्येकेनैव सूत्रेण व्याख्यातमिति भाष्यं नोपपद्यते, अत आह द्वयमिति । एकत्र श्रुत्युपात्ते अपरमर्थाद्व्याख्यातं भवतीति{१,६०} प्रमाणविधावर्थात्स्वरूपसिद्धिरुक्ता । स्वरूपविधावपि प्रमाणमर्थात्सिध्यतीत्याह स्वरूप इति । यश्चोदनालक्षणः स धर्म इत्युक्तेऽर्थाच्चोदना धर्मे प्रमाणमित्युक्तं भवति । न ह्यप्रमाणकं वस्तु स्वरूपकॢ[२०६]प्त्यै प्रभवतीति ॥ २ ॥ __________टिप्पणी__________ [२०६] सिद्ध्यै प्र ___________________________ अत्र भाष्यकारेण चोदनेति क्रियायाः प्रवर्तकं वचनम्[२०७]इति चोदनापदार्थो व्याख्यातः । तदयुक्तं, प्रवर्तकस्य चोदनात्वात्प्रत्ययस्य लिङादेस्तत्त्वादत आह किमादीति । अयमभिप्रायः सत्यं प्रत्ययमात्रस्य प्रवर्तनात्मको विधिरर्थः । न तु तावन्मात्रस्य प्रवर्तकत्वं, स्वव्यापरे हि पुरुषः कर्तृत्वेन नियुज्यते । अंशत्रयात्मिका च भावना तद्व्यापारः । अतः समानप्रत्ययोपादानश्रुतिबलप्रतिलब्धभावनापरिरम्भो विधिरातदीयनिखिलविशेष[२०८]णलाभाद्न नरं प्रवर्तयितुमुत्सहते । सकलतद्विशेषणलाभश्च नर्ते वाक्यात्सिध्यतीति युक्तमुक्तं प्रवर्तकं वाक्यं चोदनेति ।[२०९]एवं चावयवार्थः किमिति साध्याकाङ्क्षां निर्दिश्यादिशब्देन साधनेतिकर्तव्यताकाङ्क्षे निर्दिशति । एतदुक्तं भवति किं केन कथमित्यनेनात्मनापेक्षितैः साध्यादिभिः पूर्णः प्रत्ययः प्रवृत्तिपर्यन्ते विधौ समर्थः, तद्रहितस्य भावस्यानुष्ठानायोग्यत्वात् । तत्पूरणं चेदमनेनेत्थं कुर्यादिति वाक्यादिति वाक्यमेव चोदनेति ॥ ३ ॥ __________टिप्पणी__________ [२०७] माहुरिति [२०८] षसम्पदो न (Kआ) [२०९] ष चा ___________________________ अत्र भाष्यकारेण चोदनायास्तदितरेषां च प्रमाणानां धर्मे प्रामाण्या[२१०]प्रामाण्यप्रदर्शनार्थमुक्तं चोदना हि भूतमित्यादि । तदयुक्तं, सूत्रकारेण सदौत्पत्तिकसूत्राभ्यां वक्ष्यमाणत्वाद्भाष्यकारस्यापि तत्रैव तद्विवरणमुचितम् ।[२११]अतः किमत्राक्षेत्रे क्लेशेनात आह चोदनेति । अयमभिप्रायः चोदनालक्षण इति समासपदम् । समासश्च सति सामर्थ्ये भवति । विशेषणविशेष्यार्थवचनं च पदानां सामर्थ्यम् । न च व्यवच्छेदादृते{१,६१}पदानां विशेषणविशेष्यभावः । अतश्चोदनालक्षणत्वयोरितरेतरव्यवच्छेदात्चोदनैव प्रमाणं, प्रमाणम् एव चोदनेत्यवधारणद्वयमत्र विवक्षितम् । तच्चोपपत्तिसाकाङ्क्षमिति मीमांसागोत्रानुसारी भाष्यकारोऽनुपपत्तिकार्यं वचनं क्षणमप्यक्ष[२१२]ममाणः प्रतिज्ञासूत्र एव सम्भावनाप्रसिद्ध्यर्थमवधारणद्वये युक्तिलेशमस्पृशदिति ॥ ४ ॥ __________टिप्पणी__________ [२१०] ण्यप्र [२११] त (Kःा) [२१२] सहमानः प्र ___________________________ तत्र प्रमाणमेतेत्यवधारणायां तावद्युक्तिलेशमाह सम्भाव्यत इति । एवंविधेष्वतीन्द्रियेष्वप्यर्थेषु शब्दस्य प्रामाण्यं सम्भाव्यते । अतः प्रतिज्ञायां सम्भावितं प्रामाण्यं हेतुनोपपादयिष्यत इति । चोदनैवेत्यवधारणे युक्तिलेशं दर्शयति इन्द्रियादेरिति । वक्ष्यति हि सत्सूत्रेणेन्द्रियादेरसामर्थ्यं तदनागतावेक्षणेन[२१३]भाष्यकृतेह कथितमिति ॥ ५ ॥ __________टिप्पणी__________ [२१३] न क ___________________________ कथं पुनः शब्दस्य प्रामाण्यं सम्भाव्यते, अत आह अत्यन्तेति । अर्थगोचरज्ञानजननशक्तिर्हि प्रमाणानां[२१४]प्रामाण्यम् । सा चैवं नाम शब्दानां व्यापिनी यदत्यन्तासत्यपि गगनकुसुमसंसर्गादौ धियमुपजनयतीति युक्ता तेषु प्रामाण्यसम्भावनेति । नन्वेवं तद्वदेवाप्रमाण्यमापद्यत इति प्रामाण्यं साधयतोऽप्रामाण्यमापतितम्, अत आह तेनेति । अयमभिप्रायः उत्सर्गो हि ज्ञानजननेन[२१५]प्रामाण्यम् । तत्पौरुषेयेषु शब्देषु वन्ध्यासुतो यातीत्यादिषु । तद्दोषादपोद्येतापि । अपौरुषेये तु[२१६]शब्दे पुन्दोषाभावात्स्वयमदुष्टत्वाच्च प्रमाणतैवानपोदिता सेत्स्यातीति ॥ ६ ॥ __________टिप्पणी__________ [२१४] प्रमाणत्वं सा (Kःा) [२१५] ने प्रा [२१६] तु पु (Kआ) ___________________________ अत्र चोदना हि भूतमित्यादिभाष्ये[२१७]चोदनापदेन शब्दमात्रं विवक्षितमित्याह चोदनेति । कारणमाह न हीति । विधायको हि{१,६२}शब्दो मुख्यश्चोदनापदार्थः । न चासौ भूतादिविषयः सम्भवतीति शब्दसामान्यं लक्षयतीति ॥ ७ ॥ __________टिप्पणी__________ [२१७] ष्यं तदिह चो (Kःा) ___________________________ इतश्चैतदेवमित्याह इन्द्रियेति । समानजातीययोरेव स्पर्धार्हत्वात्शब्दमात्रमेव प्रत्यक्षादिसामान्येन स्पर्धामर्हति, न तद्विशेषः । भवति हि सम्प्रधारणा किं लौहमानीयतामुत दारवमिति । न तु किं लौहमुत खादिरमिति ॥ ८ ॥ अत्र भाष्यकारेण लक्ष्यते येन तल्लक्षणमिति लक्षणपदार्थो विवृतः । तदिदं निमित्ताभिप्रायं प्रमाणाभिप्रायं वेत्याह निमित्तमात्रमिति । प्रमाणं वेत्यत्रापि पक्षे शिष्यबुद्धिप्रथिम्ने प्रमाणविकल्पानाह प्रमाणं वेति । प्रमाणं वेत्यत्रापि पक्ष इत्यर्थः । प्रमाणं हि कारकविशेषः । विवक्षातश्च कारकप्रवृत्तिः । अतो यदेव शब्दादीनां वाक्यार्थज्ञा[२१८]नावसानानां मध्ये प्रकृष्टसाधक[२१९]तया विवक्ष्यते तत्प्रमाणमिति । प्रमाणप्रसङ्गेन फलमपि दर्शयति पूर्वेषामिति । शब्दादीनां प्रामाण्ये वाक्यार्थज्ञानं फलम् । आन्तरालिकं तु करणव्यापारतया प्रतिपादयितव्यम् । वाक्यार्थज्ञाने तु प्रमाणे हानादिबुद्धिः फलमिति विवेचनीयमिति ॥ १० ॥ __________टिप्पणी__________ [२१८] ज्ञानानां (Kःा) [२१९] न ___________________________ ननु प्रमाणपक्षे ज्ञानमपि लक्षणपदार्थः । तद्धि प्रमाणम् ।[२२०]अतः कथं शब्दविशेषवाचिना चोदनापदेन सामानाधिकरण्यमत आह ज्ञान {१,६३}इति । अस्यार्थः न[२२१]तावद्ज्ञानमेव प्रमाणमिति नियमः । विवक्षावशेन हि शब्दादीनां प्रामाण्यमुक्तमेव । अपि च यदि ज्ञानमेव प्रमाणं तद्विवक्षया च लक्षणशब्दः प्रयुक्तः, तथापि चोदनाशब्देन तद्गोचरं ज्ञानं तत्कार्यं लक्ष्यते यदि तद्विवक्षया लक्षणशब्दप्रयोगः । अथ तु पदार्थज्ञानादिविवक्षया, तदा शब्दकार्यस्य[२२२]ज्ञानस्य यदपरं[२२३]कार्यं पदार्थज्ञानादि तच्चोदनापदेन लक्ष्यते । अस्ति हि कार्यकार्यस्यापि परम्परया सम्बन्धो लक्षणाबीजमिति ॥ ११ ॥ __________टिप्पणी__________ [२२०] णं तत्क (Kआ) [२२१] नावश्यज्ञा [२२२] स्य य [२२३] परं प ___________________________ निमित्तार्थे तु लक्षणपदे शब्दे च प्रमाणे मुख्यार्थयोरेव द्वयोरपि सामानाधिकरण्यमित्याह निमित्तेति ॥ १२ ॥ अत्र चोदनैवेत्यवधारणे धर्मस्येन्द्रियादिगोचरत्वमपाकृतम् । तदयुक्तं, द्रव्यादिर्हि धर्मः । स चैन्द्रियिक एवेति प्रत्यक्षसूत्रे वक्ष्यते, अत आह द्रव्येति । अयमर्थः सत्यं द्रव्यादयो धर्माः । न तु स्वरूपेण किन् तु श्रेयस्साधन[२२४]तारूपेण । अतो न तदैन्द्रियिकमिति न धर्मस्येन्द्रियगोचरत्वापत्तिः । आदिशब्देनाकृतेरुपादानमिति ॥ १३ ॥ __________टिप्पणी__________ [२२४] नरू ___________________________ केन तर्हि रूपेणामी धर्माः यद्वेदवेद्यमिति, तद्दर्शयति श्रेय इति त्वमन्तेन । श्रेयस्साधन[२२५]शक्त्यात्मना हि द्रव्यादयो धर्माः । न तद्रूपममीषां वेदादृते शक्यतेऽवगन्तुम् । न हि गोदोहनेन पशुकामस्य प्रणयेतित्यादिश्रुतिमन्तरेण गोदोहनादयः श्रेयस्साधना इति प्रमाणान्तरं प्रक्रमत इति । प्रकृतमनैन्द्रियिकत्वं धर्मस्योपसंहरति तस्मादिति ॥ १४ ॥ __________टिप्पणी__________ [२२५] नत्वात्म (Kःा) ___________________________ {१,६७} अत्र भाष्यकारेण नान्यत्किञ्च नेन्द्रियमितीन्द्रियमात्रमशक्तं धर्म इत्युक्तम् । न चैतावता चोदनैवेत्यवधारणोपपत्तिः । अनुमानादिशाक्तिप्रसक्तेरनिवारितत्वात्, अत आह प्रदर्शनार्थमिति । यथा हि सूत्रकारेण सर्वप्रमाणानिमित्तत्वे विवक्षिते तत्प्रत्यक्षमनिमित्तमिति प्रत्यक्षमात्रस्यानिमित्तत्वमुक्तं, तथा तच्छीलमनुविदधानेन भाष्यका[२२६]रेण प्रदर्शनार्थमिन्द्रियमात्राशक्तिरुपवर्णितेति । नान्यत्किञ्चेति वा प्रमाणसामान्यनिराकरणाय भाष्यं छेत्तव्यमित्याह नान्यदिति । कथं पूर्वस्माद्विच्छिन्नं नेन्द्रियमिति व्याख्येयमत आह तदिति । इन्द्रियपूर्वकं हि सर्वम्[२२७]इतरदिन्द्रियाशक्तावशक्तमिति भावः । नान्यदिति वा सर्वार्थं छित्त्वा किञ्चेति हेतुं पृष्ट्वा नेन्द्रियमिति पूर्ववद्धेतुतया वक्तव्यमित्याह किञ्चेति ॥ १६ ॥ __________टिप्पणी__________ [२२६] कृता प्र [२२७] मिन्द्रि (Kःा) ___________________________ नन्वनुमानमेवञ्जातीयकेषु समर्थम्, अनुमीयते खल्वङ्गारेभ्यो भूतोऽग्नीन्धनसंयोगः । तथाचेन्धनाग्निसंयोगाद्भविष्यदङ्गारावगमः । विप्रकृष्टश्च धूमादग्निः । कुड्यादिव्यवहितश्च स्वरेण पुत्रः । गन्धाच्च सूक्ष्मद्रव्यावगमः । अतः कथं सर्वनिषेधसिद्धिरत आह यद्यपीति द्वयेन । सत्यं भूतादावनुमानं समर्थं, न तु तद्विना सम्बन्धबोधमुभवति । सम्बन्धश्च[२२८] क्वचित्सामान्यतोऽवगम्यते, यथाग्निसामान्येन धूमसामान्यस्य ।[६५]क्वचिद्विशेषतः, यथा रोहिणीकृत्तिकयोः । न च द्विधापि किञ्चिल्लिङ्गं नित्यातीन्द्रियेण धर्मेण सम्बद्धम् उपलब्धं, येनानुमानं भवेदिति ॥ १८ ॥ __________टिप्पणी__________ [२२८] न्धबोधश्च (Kआ) ___________________________ अत्र चोदयति नन्विति । शब्दोऽपि नागृहीतसम्बन्धः प्रतिपादकः, बालानामनवगतेः । अतः कथं शब्दमयी चोदना धर्मे प्रमाणं भविष्यतीति । परिहरति पदमिति । ततः किमत आह न त्विति । [२२९]कस्तर्ह्यसौ अत आह वाक्यार्थ इति ॥ १९ ॥ __________टिप्पणी__________ [२२९] कोऽसौ ___________________________ ननु च न वाक्यमपि सकलवर्णपदोपसंहारातिक्र[२३०]मेण किञ्चिदतीन्द्रियं तत्त्वम्, अपि तर्हि संहत्यार्थमभिदधति पदान्येव । अतः कथमगृहीतसम्बन्धं वाक्यं वाक्यार्थस्य वाचकं भविष्यतीति, अत आह वाक्यस्येति । स्यादयं दोषो यदि वाक्यं वाचकमित्यभ्युपेयते, न त्वेतदेवमिति । कुतस्तर्हि वाक्यार्थावगतिः, अत आह पदार्थानामिति । ते वा कथमगृहीतसम्बन्धास्तं गमयिष्यन्ति । न ह्यन्यस्य दर्शनेऽन्यकल्पना युक्ता, अतिप्रसङ्गात् । अन्यमपि तत्प्रतिबद्धं[२३१]विद्वानन्यमनुमिनोति इति प्रतिबन्धबलादुचितमत आह सम्बन्धेति । सम्बन्धदर्शननिरपेक्षाणामेव पदार्थानां वाक्यार्थे ज्ञातव्ये तद्भावभावेन तद्भूताधिकरणे हेतुत्वमुपपादयिष्यत इति ॥ २० ॥ __________टिप्पणी__________ [२३०] रेकेण [२३१] न्धं वि ___________________________ अत्रापरं भाष्यं, नन्वतथाभूतमप्यर्थं ब्रूयाच्चोदना, यथा यत्किञ्चन लौकिकं वचनं नद्यास्तीरे फलानि सन्तीत्येवमादि । तदयुक्तम् । कथं हि यादृशतादृश[२३२]रथ्यापुरुषवाक्यमुपमानं चोदनायाः । अपौरुषेयी हि सा । पुरुषाश्रया हि शब्दे दोषाशङ्का । अतः कथमतथाभावशङ्का । __________टिप्पणी__________ [२३२] शानुगुणर (Kःा) ___________________________ अत्र केचिदाहुः शब्दशक्तिनिरूपणद्वारेण प्रतिज्ञाक्षेपार्थमिदं भाष्यम् । अत्र किल चोदनासूत्रेण कार्यरूपो वेदार्थ इति प्रतिज्ञातं[६६]तदनेनाक्षिप्यते । अर्थासंस्पर्शिनि हि शब्दे केयमर्थविशेषप्रतिज्ञा चोदनानाम् । सर्वे शब्दाः खलु न स्वभावतोऽर्थं स्पृशन्ति । यदेव हि यादृशमेकदैकेन प्रयुक्तं वाक्यमर्थवदासीत्, तदेव हि तादृशमपगतसकलकलाध्मातादिदोषमन्यदा भवति वितथम् । न चैतदवैलक्षण्ये युक्तम् । यदाहुः लक्षणयुक्तस्य बाधासम्भवे तल्लक्षणमेव बाधितं भवतीति । न चार्थवतां[२३३]प्रत्यक्षादीनामेष धर्मो दृश्यते । न हि तिमिरादिदोषरहितं चक्षुः सम्यगसम्यक्च ज्ञानं जनयतीति दृष्टपूर्वम् । अपि च स्वाभाविकेऽर्थसम्बन्धे कथमसत्यर्थे ज्ञानं जनयति ।[२३४]तथा हि बाधितोऽपि संसर्गः शतकृत्वः शब्दादवगम्यते अङ्गुल्यग्रे हस्तियूथशतमिति । न चेदमन्यत्र दृष्टम् । न हि चक्षुषा शुक्तौ रजतमिति वेदितायां नेदं रजतमिति बाधकोदये चक्षुरेव पुनारजतमिति बोधयति । शब्द एव तु निरङ्कुशः स्वगोचरमन्यगोचरं वा प्रमाणान्तरेण बाधितमपि बोधयतीति । नूनमसमीक्षितपारमार्थिकार्थसद्भावो बोधयन्नप्यर्थमनर्थक इति[२३५]प्रतिजानीमहे । तदिदमुक्तम् अर्था[२३६]संस्पर्शि यत्प्रमाणं तस्य बाधकोत्पत्तौ सत्यां न पुनः प्रतिपक्षविज्ञानं तन्निमित्तमेवोपलभ्यते । शब्दे पुनः स्पष्टेऽपि बाधकज्ञाने पुनः शब्दनिमित्तमेव प्रतिपक्षविज्ञानमुदेति अङ्गुल्यग्रे हस्तियूथशतमिति । कथं तर्हि शब्दादर्थावगतिः, सामयिकीति वदन्ति । यदाहुः __________टिप्पणी__________ [२३३] ता [२३४] तीति बा (Kःा) [२३५] ति जा [२३६] र्थ ___________________________ अना[२३७]गमश्च सोऽभ्यासः समयः कैश्चिदिष्यते । __________टिप्पणी__________ [२३७] भ्या (Kआ) ___________________________ अभ्यासात्प्रतिभाहेतुः सर्वशब्दः समासतः ॥ इति । इमं चाक्षेपमपनेतुमिदं भाष्यं विप्रतिषिद्धमिदमभिधीयते ब्रवीति च वितथं च इत्यादि । तस्य चायमर्थः अर्थमवबोधयति अर्थासंस्पर्शि चेति चित्रम् । न हि प्रत्याय्यप्रत्यायकभावादन्यः शब्दार्थयोरस्ति सम्बन्धः । स चेदमर्थमवबोधयति, कथमर्थासंस्पर्शी स्यात् । स्यादेतत् । बाधकज्ञानसमधिगम्यमर्थासंस्पर्शित्वम् । उक्तं चेदं सत्यपि बाधकज्ञाने लौकिकेषु वाक्येषु शब्दादेव ज्ञानमुत्पद्यते अङ्गुल्यादिवाक्येभ्य इति । मैवम् । अनभिज्ञो भवान् बाध्यबाधकभावस्य । अङ्गुल्यग्रे हस्तियूथशतमिति प्रमाणान्तरदर्शनमत्र बाधितं, न पुनर्हस्तियूथशतमिति । प्रमाणान्तरदृष्टं[६७]ह्य् अर्थं परस्मै प्रतिपादयितुं पुरुषाः प्रयुञ्जते वाक्यानि । ततश्च प्रमाणान्तरेणायमनेन दृष्ट इत्येतावच्च शब्दादवगम्यते । अतोऽत्र प्रमाणान्तरेण तस्यार्थस्य यद्दर्शनं तदेव बाधितं भवति । हस्तियूथे तु शब्दो न प्रमाणमिति तच्छब्दादप्रसक्तमेवेति न तद्बाध्यते । कथं तर्हि हस्तियूथसंसर्गावगमः । पदानां सन्निधानदोषात्पदार्थविवेकाग्रहणनिबन्धनोऽयं भ्रमः । न पुनराभिधानिकः [?]संसर्गः । योग्यता हि[२३८]निबन्धनमन्विताभिधानेऽभिहितान्वये वा । न चाङ्गुल्यग्रस्य करिधारणयोग्यता सम्भवति । तस्मान्नार्थासंस्पर्शी शब्द इति सूक्तमर्थविशेषप्रतिज्ञानं चोदनालक्षणो ऽर्थो धर्म इति । __________टिप्पणी__________ [२३८] हि तन्निब (Kआ) ___________________________ इमौ त्वाक्षेपपरिहारौ न मृष्यामहे । तत्र यत्तावदुक्तं कार्यरूपो वेदार्थ इति चोदनासूत्रेण प्रतिज्ञातमिति, तदयुक्तं, भाष्यविरोधात् । भाष्यकारो हि को धर्मः कथंलक्षण इत्येकेनैव सूत्रेण[२३९]व्याख्यातमित्युक्त्वा सूत्रमवतारयति । तत्प्रमाणस्वरूपयोरेकं श्रौतमन्यदार्थमित्येव वक्तुं युक्तम् । उक्तं च तद्वार्त्तिककृता कार्यार्थताप्रतिज्ञानं पुनरशाबरमजैमिनीयं चेति । न हि चोदनासूत्रे तादृशः पदार्थानामन्वयो दृश्यते । न च पदार्थान्वयनिरपेक्षो वाक्यार्थो युक्तः । कथं च प्रमाण[२४०]लक्षणे कार्यार्थताप्रतिज्ञानं सङ्गच्छते । ननु च प्रामाण्यमेव कार्यार्थतां विना न सम्भवतीति प्रमाणलक्षणानुगुणैव कार्यार्थताप्रतिज्ञा । न ह्यकार्यार्थं वचः प्रामाण्यमर्हति । अनपेक्षालक्षणं हि तत् । न च सिद्धार्थं वचनमनपेक्षं भवति । तस्य हि साधकबाधकयोरन्यतरोपनिपातः सम्भवति । तत्र साधकसम्भवेऽनुवादत्वम्, इतरत्र बाधितविषयत्वादप्रमाणत्वम् । अत एव चापौरुषेयत्वमपि वेदवाक्यानाम् । प्रमाणान्तरप्रतिपन्नविषयता हि पौरुषेयता, न पुनः पदवर्णादिकार्यता । न चातीन्द्रियमर्थं पुरुषाः शक्नुवन्त्यवगन्तुम् । अतः कथमतीन्द्रियार्थान् शब्दान्निबन्धीयुरिति प्रयोजनवदर्थविशेषप्रतिज्ञानमिति । __________टिप्पणी__________ [२३९] ण वक्ष्यत इत्यु [२४०] णज्ञानल (Kःा) ___________________________ अत्र वदामः यत्तावत्सिद्धार्थत्वादनुवादत्वमिति, तदयुक्तम् । यदि प्रमाणान्तरसिद्धोऽयमर्थ इति सिद्धमर्थं बोधयति, भवतु तत्सापेक्षत्वादप्रमाणम् । भूतार्थमपि तु यद्ज्ञानान्तरागोचरतया स्वगोचरम्{१,६८}अवगमयति, न तत्सापेक्षम् । अथ मतं परिनिष्पन्नविषयाणि खलु प्रत्यक्षादीनि, तानि तादृशविषयविशेषे सम्भवन्तीति प्रमाणमनुवादीकुर्वन्ति इति । तन्न । न हि प्रमाणान्तरसम्भावनया प्रमाणमनुवादो भवति, अतिप्रसङ्गात् । दूरस्थो हि वह्निरनुमानादवगतः शक्य आसीदता प्रत्यक्षयितुमिति न तस्यानुवादत्वमापद्यते । यत्तु बाधितविषयत्वादप्रमाणत्वमिति, तदस्तु यदा[२४१]तु नैतदेवमिति विपर्ययः । अबाधितार्थं तु सिद्धार्थगोचरम् अपि किमप्रमाणं भविष्यति । तदपि बाधकसम्भावनयाप्रमाणमिति चेद्, अस्तु तावत्पौरुषेयेषु । अपौरुषेयं तु सिद्धार्थमपि कथं बाध्यतया सम्भाव्येत । न ह्यदुष्टकारणजं ज्ञानं बाध्यते । शब्दे च न स्वाभाविका दोषाः । पुरुषो ह्ययथार्थज्ञानानुरोधेन शब्दं दूषयति । ननु सिद्धार्थमपौरुषेयमित्येवं दुर्भणमित्युक्तम् । किमिदानीमतीन्द्रियार्थत्वमपौरुषेयत्वम् । हन्तैवं सुरभि गगनकुसुममित्यपि वाक्यमपौरुषेयमापद्येत । तस्यापि न केनचिदिन्द्रियेणार्थोऽवगम्यते । स्यादेतत् । असदर्थमेवेदं वाक्यं, सदर्थं चातीन्द्रियार्थम् अपौरुषेयमिति । वैदिकं वाक्यं कार्यार्थं कथं सदर्थं, तस्यापि न प्रमाणान्तरेणार्थोऽनुभूयते । मानुभावि । न तु प्रतिक्षिप्यते, शब्दादवगम्यते च । गगनकुसुमवाक्यं तु प्रमाणान्तरप्रतिक्षिप्तार्थमेव, नास्तीति हि तदर्थमवगमयति । केन पुनः प्रमाणान्तरेणास्यार्थः प्रतिक्षिप्यते । न तावद्भावप्रमाणैः, भावविषयत्वेनाभावानवभासनात् । अभावस्तु प्रमाणमनभिमतमेव भवताम् । नन्वस्ति तावद्नास्तीति ज्ञानं तत्प्रतिक्षेप्स्यति । तद्भोः किं प्रमाणमप्रमाणं वा । नाप्रमाणं प्रतिक्षेपायालम् । प्रमाणत्वे च षष्ठप्रमाणापत्तिः । ननु च गगनकुसुममस्ति नास्तीति च व्याहन्यते । अतो व्याघाताद्गगनकुसुमवाक्यमसदर्थम् । किमत्र व्याहन्यते । सदसत्त्वं हि वस्तुनः सिद्धस्य परस्परविरुद्धमवगम्यमानं व्याघातसंविदमुपजनयति । न चेह परस्परविरुद्धसदसत्त्वावगमः, निस्स्वभावत्वादभावस्य भवत्सिद्धान्ते । नन्वस्ति तावन्नास्तीति शब्दप्रयोगः । मा भूज्ज्ञानमतः स नभस्सुमनस्सत्तां प्रणोत्स्यति । न, अर्थनिबन्धनत्वाच्छब्दाना विरोधस्य । न च नास्तीति कश्चिदस्यार्थो दृश्यते । न चानर्थकः शब्दोऽर्थान्तरं विरुणद्धि । ननु नायमनर्थकः, विविक्तं हि कुसुमेन गगनमेव तस्यार्थः । विविक्तम्{१,६९}इत्यवाच्यमनधिकार्थत्वात् । गगनं तु गगनपदप्रवेदितमिति पुनरुक्तं नास्तीति पर्यायतापत्तिश्च । दृश्यते प्रतियोगिनि कुसुमे केवलगगनोपलम्भो नास्तीत्युच्यत इति चेत्, स तर्हि नास्तीति कुसुमवद्गगनमपि न स्यादेव । नास्तीति पदास्पदमेवासदिति लौकिका मन्यन्ते । तस्मान्नास्तीति ज्ञानं प्रमाणमप्रमाणं वा शब्दो वा नास्तीति गगनकुसुमं न प्रतिक्षिपतीति तदपि स्वशब्दादवगतं सदेव स्यात् । यदि तु तथाविधमेव नास्तीति वक्तुम्[२४२]इच्छा, न शब्दप्रयोगं वारयामः । वस्तुसत्ता तु न निवारयितुं शक्यत इत्युक्तम् । अतः सदतीन्द्रियार्थं गगनकुसुमवाक्यमपौरुषेयमापन्नमायुष्मताम् । यथा[२४३]चेदमसदर्थं, तथा वैदिकमप्यतीन्द्रियकार्यार्थमसदर्थम् । न हि प्रमाणा[२४४]गोचरं वस्त्वस्तीति शक्यते वक्तुम् । न च कार्यं प्रत्यक्षादिगोचरम् । न च शब्दगम्यम्, अपदार्थस्यावाक्यार्थत्वात् । अगृहीतसम्बन्धस्य चापदार्थत्वात् । प्रमाणान्तरागोचरे च सम्बन्धस्य ग्रहीतुमशक्यत्वात् । प्रपञ्चयिष्यते चैतदौपत्तिकसूत्रे[२४५]इत्यलमनेनातिपरिस्पन्देन । __________टिप्पणी__________ [२४१] यत्र नै (Kःा) [२४२] रि [२४३] यथा त्विदमनुपपन्न तथा (Kःा) [२४४] णान्तरागो (Kआ) [२४५] वार्त्तिके इ ___________________________ अतः सिद्धमिदं न कार्यार्थत्वादपौरुषेयत्वमिति । कथं तर्हि, पूर्वापरकोटिविरहात् । यस्य खलु न पूर्वापरकोटी प्रसंख्यायेते, तन्नित्यं यथा गगनम् । एवञ्च वेदाः[२४६]इति नित्याः । का पुनरियं नित्यता वेदानाम् । यदि नित्यवर्णपदारम्भः, समानोऽयं लौकिकवाक्येषु । अथानुपूर्व्यनित्यत्वात्तान्यनित्यानि, तुल्यं तदनित्यत्वं वेदवाक्यानाम् । अतो न पुरुषप्रमाणगोचरागोचरार्थत्वादन्यत्पौरुषेयापौरुषेयत्वं पुंवेदवचसाम् । वाच्यो वा विशेषः । स उच्यते । क्रमवन्ति हि पदानि वाक्यमुच्यते । तद्यत्र स्वतन्त्र एव पुरुषः क्रममारचयति तत्पौरुषेयम् । यत्र तु क्रमरचनायामस्वतन्त्रः पुरुषः यथैव पूर्वपूर्वाध्येतृभिरुक्तः क्रमस्तथैव विवक्षति, तदपौरुषेयम् । अनित्य[२४७]त्वेऽपि च क्रमव्यक्तीनामवान्तरजातितस्तत्त्वान्यत्वव्यवस्था शब्दाधिकरणे वक्ष्यते । पदनित्यत्वे चैष एव प्रकारस्तत्रैव दर्शयिष्यते । पूर्वापरकोटिविरह एव वेदेऽपि कथमिति यो मन्यते{१,७०}स वक्तव्यः । न तावत्पूर्वापरकोटी वेदानां प्रत्यक्षेणोपलभ्येते । न चानुमीयेते, विपरीतानुमानात् । एवं ह्यत्रानुमीयते अनागतः कालो न वेदशून्यः, कालत्वादिदानीन् तनकालवदिति । एवमतीतेऽपि काले प्रयोगो दर्शयितव्यः । न च प्रागभावो वेदानां कैश्चिदुपलब्धः । जगदादौ वेदा महेश्वरेण प्रणीता इति चेद्, न । जगदादेरभावात् । नचार्वाचीन एव काले केनचिद्वेदाः सन्दृब्धा इति कर्तृस्मरणमस्ति । नचास्मर्यमाणोऽपि जीर्णकूपादिवदासीत्कर्तेति युक्तं वक्तुम् । तत्र हि प्रयोजनाभावादुपपद्येतापि कर्तुरस्मरणम् । अदृष्टार्थनिर्मितेषु वेदेषु प्रत्ययिततरनिर्मातृस्मरणमन्तरेण के श्रद्दधीरन् । वक्ष्यति च __________टिप्पणी__________ [२४६] इतीति (Kःा) [२४७] न्यत्वे च (Kआ) ___________________________ वैदिको व्यवहारस्तु न कर्तृस्मरणादृते । इति । तदेवं पूर्वापरकोटिविरहादेवापौरुषेयत्वं, न कार्यार्थतयेति व्यर्थं तत्प्रतिज्ञानम् । अव्यापकं च, मन्त्रार्थवादोपनिषदामतादर्थ्यात् । ननु च तेषामपि कार्यार्थता द्वितीये पादे वक्ष्यते विधिना त्वेकवाक्यत्वात् (१ ।२ ।७) इति । इहापि च भाष्यकारेणोक्तं चोदना हि भूतं भवन्तमित्यादिशक्नोत्यवगमयितुमन्तेन । एतदुक्तं भवति कार्यमेव प्रतिपादयन्ती चोदना भूतादिकमप्यवगमयति, न तु प्रतिपादयति । तदुक्तं शक्नोत्यवगमयितुमिति । अत्रोच्यते न तावदर्थवादानां कार्यार्थता अर्थवादाधिकरणे उक्ता । अपि तु भूतार्थानामेव स्तुत्या विध्यन्वयो दर्शितः । चोदना हि भूतमित्यादिभाष्याभि[२४८]प्रायस्त्वनन्तरमेव वार्त्तिककारेण व्याख्यातः । यस्त्वयमस्यार्थो वर्ण्यते चोदना हि भूतादिकं गमयति, न तु प्रतिपादयतीति । तन्न । यदि भूतादिकं गमयति । कथं न प्रतिपादयति । न हि गमकत्वादन्यत्प्रतिपादकत्वम् । अथ कार्यपरत्वमनेन प्रकारेण वर्ण्यते, सर्वं हि पदजातं कार्यपरं न भूतादिस्वरूपे प्रमाणमिति कथमनाद्यनन्तं विज्ञानमानन्दं ब्रह्मोपनिषद्भ्यः सेत्स्यति ।[२४९]कस्मिंश्च कार्यार्थे प्रामाण्यमुपनिषदाम् । ननु तासामपि प्रतिपत्तिकर्तव्यतापरत्वमेव ।[२५०]अस्ति च ज्ञानविधानमात्मा ज्ञातव्य इति । तदयमर्थो भवति विज्ञानमानन्दमात्मानं जानीयादिति । नन्वेवमस्वरूपपराच्छब्दात्कथमात्मरूपसिद्धिः । न ह्यन्यपरः शब्दोऽर्थान्तरे प्रमाणं, प्रत्युत विपरीतम्{१,७१}अपि सम्भाव्येत । अतद्रूप एव हि तद्रूपज्ञानकर्तव्यतावचनं लोके दृश्यते । तथा अपितर्येव पितरं जानीयादिति । वेदे चानुद्गीथ एवोङ्कारे उद्गीथोपासनाविधानमोमित्येतदक्षरमुद्गीथमुपासीतेति । स्यादेतत् । प्रमाणान्तरादेवात्मस्वरूपसिद्धिरिति । केषां प्रमाणान्तरात् । संसारिणो हि न तावत्कार्यकरणसङ्घातातिरिक्तं सच्चिदानन्दं ब्रह्मापरोक्षमीक्षन्ते । ते हि देहमेवात्मानं मन्यमानाः दुःखिनमनित्यं जडं च पुरुषं जानन्ति । ये पुनरपवर्तितनिखिलानाद्यविद्यानुबन्धोपदर्शितशरीरेन्द्रियादिप्रपञ्चाः समुत्खातसकलमितिमातृमेयमानविभागमपरिस्पन्दमानन्दं फलभूतं ब्रह्माधिरूढाः, ते किं केन[२५१]पश्येयुः । अतो न कथञ्चिदात्मस्वरूपं सिध्येत् । तस्मादुपपत्तितो ग्रन्थतश्च न कार्यार्थता प्रतिज्ञातुं शक्यते । __________टिप्पणी__________ [२४८] र्थस्त्व [२४९] ति न कस्मिं [२५०] वावगम्यते । अ (Kःा) [२५१] के प ___________________________ यच्च नन्वतथाभूतमित्यर्थासंस्पर्शितया शब्दानां प्रतिज्ञाक्षिप्यत इति, तदयुक्तम् । तथा हि कोऽयमर्थासंस्पर्शः । यदि तावत्संयोगाद्यन्यतमसम्बन्धाभावः, सोऽनुज्ञायत एव । न ह्यसौ शब्दार्थयोः संयोगादिलक्षणः सम्बन्धोऽभ्युपेयते । अथार्थानवबोधकत्वं, कुतोऽर्थसंवित् । समयादिति चेद्, नन्वयं सम्बन्धपरिहार एव प्रतिमर्त्यादिपक्षासम्भवात्समयो निराकरिष्यते । किं तन्निराकरणार्थमत्र प्रयस्यते । यच्चार्थासंस्पर्शितानिराकरणार्थमुक्तं प्रमाणान्तरदर्शनमत्र बाध्यते । न पुनर्हस्तियूथमिति । तस्य कोऽर्थ इति न विद्मः । प्रमाणान्तरदृष्टार्थविषय एव लौकिकः शब्दः । स कथं प्रमाणान्तरबाधेन बाध्यते । स्यान्मतं देशकालविशेषावच्छिन्नमर्थं प्रमाणान्तराणि बोधयन्तीदमिदानीमत्र चेति । अतो नद्यादिविशेषफलसंसर्गबाधे तानि बाधितानि भवन्ति । शब्दस्तु देशकालानवच्छिन्नमर्थमाचक्षाणो न संसर्गविशेषबाधे बाधितो भवतीति । तदयुक्तम् । य एव संसर्गो यदा वक्तुरिष्टस्तमेव तदानीं शब्दोऽभिधत्ते, न संसर्गमात्रम् । न हि नानाविधानेकनदीतीरफलसंसर्गविशेषवर्ति सामान्यमस्ति, यः शब्दार्थः स्यात् । न चाविवक्षित एव संसर्गः शब्देनाभिधीयत इति साम्प्रतम् । वक्तृवाचकयोरसंप्रतिपत्त्या व्यवहारासिद्धेः । नर्मदातीरे फलानि सन्तीति वा विशेषवचने कः परिहारः । तत्राप्यासन् भविष्यन्ति वेति चेत् । न । सन्तीति वर्तमानापदेशात् । अपि चात्यन्तासम्भावी[२५२]वन्ध्यासुतादिसंसर्गः{१,७२}कदा कुत्र वा भविष्यति, यः शब्दार्थबाधपरिहाराय घटिष्यते । संसर्गावगमापलापस्तु संविद्विरुद्ध एव । यदि तूच्यते सर्वमेव लौकिकवाक्यमर्थे न प्रमाणं वक्तृज्ञानेऽप्रामाण्यात् । एव ह्याह अपि च पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति भवति प्रत्ययः । नैवमर्थ इति । अतो न क्वचिच्छब्दार्थबाध इति । साधु परिहृतमेवंवादिना शब्दानामर्थासंस्पर्शित्वम्, अर्थे न प्रमाणं स्पृशति चार्थम् इति । अपि च मा नाम भवत्वर्थे प्रमाणम् । वक्तृज्ञाने तावत्प्रमाणमेव । अतः स एव शब्दार्थ इति तद्बाधेऽपि शब्दार्थबाधो दुष्परिहर एव । स्यान्मतं न वक्तृज्ञाने शब्दो वाचकतया प्रमाणं, लैङ्गिकत्वात्संविदः, संवित्कारणको हि शब्दः कार्यभूतोऽवगत्ः कारणभूतां संविदमनुमापयति, कार्याच्च कारणबुद्धिरनुमानमित्यविवादम् । आह च न प्रसिद्धकारणत्वात्संविदिति । इदं तदर्थासंस्पर्शितापरिहाररहस्यम् । किमत्र वाच्यमपरं, शब्दो नार्थे न ज्ञाने वा प्रमाणं तस्मान्नार्थासंस्पर्शीति । अथोच्येत न मः शब्दो नार्थे प्रमाणमिति । स्वाभाविको हि वृद्धव्यवहारे शब्दार्थयोरवधृतः सम्बन्धः । लोके तु क्वचिद्व्यभिचारदर्शनाद्वक्तृप्रमाणपरतन्त्रत्वाद्वाक्यानां वक्तृज्ञानपर्यवसानं, नार्थे निश्चयजनकत्वम् । वेदे तु वक्तुरभावान्नार्थे प्रामाण्यं विहन्यते । न हि तत्र प्रमाणान्तरपरतन्त्रः शब्दो वर्तत इति । तन्न । न हि क्वचिद्व्यभिचारदर्शनेन प्रमाणमनर्थविषयं भवति । न हि शुक्तौ रजतज्ञानं बाधितमिति स्वगोचरमन्यगोचरं वा भवति । अर्थमेव तु दोषादन्यथा[२५३]स्थितमन्यथा बोधयतीति वृत्तिकारग्रन्थे वक्ष्यामः । __________टिप्पणी__________ [२५२] वितव (Kःा) [२५३] था बो (Kआ) ___________________________ तदिहापि सर्वं शाब्दमर्थविषयमेव । किञ्चिदेव तु दोषवशाद्विपर्येतीति युक्तं वक्तुम् । अपि च यदि पुंगिरामर्थे न प्रामाण्यं, कुतस्तर्हि विशिष्टा वक्तृधीरनुमास्यते । न ह्यनासादितार्थविशेषपरिष्वङ्गाः स्वरसेन संविदो[२५४]ऽप्यनुमीयन्ते । तदवश्यमासां विशेषमनुमित्सता अर्थविशेषपरिरम्भो वक्तव्यः । न चानारूढो बुद्धावर्थो वक्तृबुद्धिं विशिनष्टि । यदप्येके मन्यन्ते पुंवाक्येषु तावत्क्वचिद्व्यभिचारदर्शनादर्थे निश्चयो न जायते । न चानिश्चितोऽर्थो ज्ञातो भवति । न हि ज्ञानमनिश्चयात्मकं किञ्चिदस्ति ।{१,७३}तस्मादज्ञातेऽपि वाक्यार्थे श्रोतुरयं विमर्शो भवति । अयमाप्तोऽन्योन्यान्वययोग्यार्थमेव पदजातं ब्रवीति, तेन नूनममुनामीषामन्वयो ज्ञात इति वक्तुरेवान्वयज्ञानमनुमिनोति । श्रोतुस्तु विमर्शमात्रमिति । तदयुक्तम् । कथं हि श्रोता बुद्धावनारूढमेवान्वयविशेषं वक्तृज्ञानविशेषणतया कल्पयति । ताल्वादिव्यापारादेवाप्तस्य प्रतीत्यान्वयमयं वाक्यं रचयतीत्यन्वय?धियमनुमिनोतीति चेत् । न । अन्वयज्ञानमात्रानुमानात् । विशिष्टान्वयज्ञानानुमानं तु वक्तरि नात्मीयविशेषज्ञानमन्तरेणोपपद्यते । यत्तु कथमनिश्चितोऽर्थो ज्ञात इति । अत्र ब्रूमः त्रेधा खल्वपि वक्तारो निरूपिताप्तभावो निरूपितानाप्तभावोऽनिरूपितोभयरूपश्च । सर्वत्र च शब्दान्निर्णय एव । परं निरूपिताप्तभावे सम्यगेतदवगतमनेनेति वक्तरि निश्चय एव प्रतितिष्ठति । विपरीते विपर्येति । अनिरूपितान्यतररूपेऽपि शब्दान्निश्चय एव । क्वचिद्व्यभिचारात्तावदागन्तुकः सन्देहः । न क्वचिदपि शब्दः संशयहेतुः । ननु तथाप्याप्तप्रमाणानुसारी शब्दान्निश्चय इति पूर्वमुत्पन्नम्[२५५]अपि ज्ञानं व्यभिचार[२५६]दर्शनभूव संशयेन प्रतिबद्धं न प्रमाणम्, उत्तरकालं चाप्तप्रमाणानुसारिणि निर्णयेऽनुवाद इति कदा प्रमाणं भविष्यति । स्वकाल इति ब्रूमः । स्वकाले च तेनोत्पत्तिमता संशयात्मना चासावर्थः परिच्छिन्नः । एतावच्च प्रमाणानां प्रामाण्यम् । अतः कथमप्रमाणं भविष्यति । यदि परं शाङ्केतव्यभिचारनिवृत्त्यर्थमाप्तत्वेन दोषाभावमात्रम् आश्रीयते, सर्वप्रमाणसाधारणं चेदं शङ्कितदोषनिवृत्त्या औत्सर्गिकं प्रामाण्यमिति । न च प्रमाणान्तराप्रतीतमपूर्वमर्थं प्रति[२५७]यतः श्रोतुरनुवादः शाब्द इति युक्तम् । न ह्याराच्चैत्रोऽयमिति निश्चिते पुनश्च कुतश्चिन्मैत्रसादृश्यात्सन्दिग्धे स एवायमिति निश्चिते पूर्वं चैत्रज्ञानमप्रमाणं भवति । अतो वक्तृप्रमाणनिश्चयेन प्रमाणमेवैतदभूदिति श्रोता निश्चिनोति । तस्माद्द्वयमप्येतत्प्रमाणं यच्च शब्दाद्ज्ञानं, यश्च वक्तृप्रमाणानुसारी निश्चयः । प्रथममपूर्वार्थपरिच्छेदात् ।[२५८] परं तु शङ्कानिराकरणात् । उक्तं च वार्त्तिककृता __________टिप्पणी__________ [२५४] दो व्यतिभिद्यन्ते (Kआ, Kःा) [२५५] न्नं विज्ञा (Kआ) [२५६] रभुवा [२५७] ती (Kआ, Kःा) [२५८] दुत्तरं (Kःा) ___________________________ प्रामाण्यस्थापनं तु स्याद्वक्तृधीहेतुसम्भवात् । इति । यदपि नानिश्चयात्मकं ज्ञानमस्तीत्युक्तम् । तदप्यस्मान् पराजित्य{१,७४}वक्तुमुचितम् । प्रमाणं भ्रमः संशयः स्मरणं संवाद इति पञ्चधा ज्ञानं विभजामहे । तस्मात्सर्वमेव शाब्दमर्थगोचरं प्रमाणमप्रमाणं च । दोषसदसद्भावनिबन्धनश्च प्रमाणेतरविभागः प्रत्यक्षादिवदेव । यदाह यस्य च दुष्टं करणं यत्र च मिथ्येति भवति प्रत्ययः, स एवासमीचीनः प्रत्ययः नान्यः इति । न हीदमक्षजज्ञानमात्राभिप्रायं, स एवासमीचीनः प्रत्यय इति प्रत्ययमात्रपरिग्रहात् । पौरुषेयश्च शब्दः स्वयमदुष्टो ऽपि वक्तृदोषादेव दुष्यति । ननु च ज्ञानकारणमेव दुष्टं ज्ञानं दूषयति । शब्दे च शब्दो ज्ञानकारणं न वक्ता । स हि शब्दव्यक्तावेवोपयुक्तः । दुष्टेनापि वक्त्राभिव्यक्तः शब्दो विगलितनि[२५९]खिलकलाध्मातादिदोष एव कथमसमीचीनप्रत्ययोत्पादकारणं भविष्यति । न हि तिमिरादय इव चक्षुरादीनां दुष्टेनापि वक्त्रोच्चरितानां शब्दानां दोषा उपलभ्यन्ते । न । दोषवैचित्र्यात् । न ह्येकरूपा एव सर्वे दोषाः । कार्यदर्शनात्तु किञ्चिदेव क्वचिद्दोषपक्षे निक्षिप्यते । तदिह मणेरिवारुण्यबोधे जपाकुसुमसन्निधानम् अनाकाङ्क्षितायोग्यपदसन्निकर्ष एव शाब्दे दोषः । तथाभूतोच्चारणेन दुष्टः पुमाञ्शब्दं दूषयति । ततः सिद्धो दोषसदसद्भावनिबन्धनः शाब्दे प्रमाणेतरविभागः । नन्वङ्गीकृते शब्दादर्थबोधे यत्तदर्थासंस्पर्शितासिद्ध्यर्थमुक्तं बाधितेऽप्यर्थे शब्दनिब[२६०]न्धनमेव ज्ञानमुत्पद्यते इति । तत्र कः परिहारः शब्दादर्थबाधपरिहारेण । तदस्माभिः परिजिहीर्षितम् । किमत्र दुष्परिहरम् । न हि बाधितविषया अपि द्विचन्द्रदिङ्मोहालातचक्रपीतशङ्खप्रतिबिम्बादिविभ्रमा न पुनराविर्भवन्ति । यावद्दोषभाविनो हि ते पुनरपि चक्षुषैवोपजन्यन्ते । तदिहापि यावदयोग्यान्वयपदसन्निधानमयथार्थज्ञानोदय इति किमनुपपन्नम् । तस्मान्नेतावाक्षेपपरिहाराविति । __________टिप्पणी__________ [२५९] सकल (Kःा) [२६०] मित्तमेव (Kःा, ङा) ___________________________ अन्यथा वर्णयिष्यन्नाक्षेपभाष्याभिप्रायं तावदाह नित्यत्वादेरिति । अयमभिप्रायः बौद्धलोकायतिकयोरिदं प्रत्यवस्थानम् । न हि ते नित्यान् वर्णान् पदानि वेदवाक्यानि वा मन्यन्ते । न चोन्मत्तप्रलपितप्रायाणि{१,७५}प्रजापतिवपोत्खननादीनि वाक्यानि विध्येकवाक्यतया प्राशस्त्यप्रतिपादनेन प्रमाणमाहुः । अतो युक्तं यादृशतादृशरथ्यापुरुषवाक्योपमानं चोदनानाम् । तत्साधर्म्याद्वैतथ्यानुमानमिति । अथवा नित्यत्वमभ्युपेत्य प्रसङ्गमापादयन्तीत्याह अभ्युपेत्येति । एवं हि मन्यते यदि नित्या वेदाः, सुतरामप्रमाणं भविष्यन्ति । पौरुषेयवाक्यं हि कदाचिद्गुणवद्वक्तृप्रणीतं प्रमाणं भवति । नित्यं तु कुतः प्रमाणं भविष्यतीति ॥ २१ ॥ ननु पौरुषेयमपि न वक्तृगुणापेक्षया प्रमाणम् । अपि तु स्वभावादवे । कथं ह्युत्पन्नमविपर्यस्तमसन्दिग्धं च ज्ञानमप्रमाणं भविष्यति । अतः किमपौरुषेयतया सुतरामप्रामाण्यमापद्यते, अत आह प्रमाणान्तरेति । प्रमाणान्तरदृष्टार्थगोचरं हि पुंवचः कथं स्वमहिम्ना प्रमाणं भविष्यति । न हि प्रमाणान्तरपरतन्त्रा स्मृतिः स्वतः प्रमाणं भवति । भवति चात्र प्रयोगः । न स्वतःप्रमाणं पुंवचः, प्रमाणान्तरप्राप्तार्थप्रापणात् । स्मृतिवदिति ॥ २२ ॥ ननु च निरपेक्ष एवाप्तपुरुषवाक्यमात्राद्व्यवहारः प्रतायमानो दृश्यते । स कथम्[२६१]अस्वतःप्रमाणादुत्पत्स्यते, अत आह नूनमिति एवं हि मन्यते वक्तृगोचरार्थं हि पुंवचः । अतः स्वयमदृष्टेऽप्यर्थे नूनमयमर्थो वक्त्रनुभूत इति वक्त्रनुभवपुरस्सरमेवाप्तोक्तिनिबन्धना प्रामाणिकस्य मतिर्युक्ता । न पुनराप्तत्वमदृष्टेन रूपेण प्रामाण्यकारणम् । यस्त्वनपेक्षितप्रमाणान्तर एव पौरुषेयाद्व्यवहरति, स प्रतिहन्येतापीति ॥ २३ ॥ __________टिप्पणी__________ [२६१] थं न स्व (Kःा) ___________________________ {१,७६} कस्मादेवं बुद्धिर्युक्ता, अत आह नात्मीयादिति दृष्टान्तेन । तदेवं लोकवाक्येषु प्रमाणान्तरपरतन्त्रं प्रमाण्यमुपपादितं चोदनास्वापादयति तथेति ॥ २४ ॥ कथं पुनरुत्पन्नमसन्दिग्धमविपर्यस्तं प्रमाणान्तरेण ज्ञानमप्रमाणं भविष्यति, अत आह तेनेति । यदा हि प्रमाणान्तरपरतन्त्रं सर्वशब्दानां प्रामाण्यमित्युपपादितं, वेदे चाभ्युपेतनित्यत्वे वक्तृप्रमाणान्तराभावः । तदा कथं प्रमाणं भविष्यति । न हि स्वतन्त्रमनियतनिमित्तं ज्ञानं प्रमाणं भविष्यति । न हि प्रतिभा ज्ञानमुत्पन्नमित्येतावता प्रमाणमिष्टम् । अतो वेदादुत्पन्नं ज्ञानमप्रमाणं, स्वातन्त्र्यात्प्रतिभादिवदिति ॥ २५ ॥ दर्शयितव्यं प्रयोगान्तरमाह स्वर्गेति । प्रत्यक्षाद्यगतार्थत्वादिति हेतुसिद्ध्यर्थमुक्तं स्वर्गयागादिसम्बन्धविषया इति । यो हि मन्यते भावना हि वाक्यार्थः । स च स्पन्दो वा प्रयत्नो वा । सर्वथा प्रत्यक्षादिभिरवगम्यत इत्यसिद्धो हेतुरिति । तं प्रत्युच्यते । कस्यचित्केनचित्क्रिया भावना, सा स्वरूपेण प्रत्यक्षापि साध्यसाधनसम्बन्धात्मना शब्दादेवावगम्यते । अत एव धर्मस्यातीन्द्रियत्वमपि सेत्स्यति । साध्यसाधनसम्बन्ध एव शब्दस्य विषयः । न ह्यनासादितयागस्वर्गादिसाध्यसाधनसम्बन्धविशेषो भावयेदिति शब्दार्थः । अतः सिद्धं प्रत्यक्षाद्यगतार्थत्वादिति । अत्र च लोकायतिकप्रयोगे बुद्धवाक्यं दृष्टान्तः, तत्प्रयोगे लोकायतिकवाक्यमिति द्रष्टव्यमिति ॥ २६ ॥ {१,७७} एतस्मिन्नेव साध्ये[२६२]दृष्टान्तहेत्वन्तरमाह यद्वेति । सिद्धं च नित्यानां वेदानामाप्ताप्रणीतत्वमिति वेदानामेव वाप्रमाणत्वं नित्वत्वाद्व्योमादिवदिति । ये च बौद्धा नित्यं व्योमेति सङ्गिरन्ते तेषामयं प्रयोग इति ॥ २७॥ __________टिप्पणी__________ [२६२] दृष्टान्तान्तरमाह (Kःा) ___________________________ इदानीं श्ववराहकलहन्यायेन नैयायिकादिमतानुज्ञया तावन्नास्तिकमतस्थ एव[२६३]वादी मीमांसकं प्रति प्रयोगमाह यदि वेति । यद्यवश्यं वेदाः प्रमाणमिति वक्तव्यं परं यथा वैशेषिकैरुक्तं तद्वचनादाम्नायस्य प्रामाण्यमिति तथोच्यताम् । यत्पुनरिदं मीमांसकैरुक्तं नित्या वेदाः प्रमाणं चेति । तदतिदूरमपभ्रष्टं चेति भावः । सर्वशब्देन च दृष्टार्थपुरुषोपदेशैर्मन्वाद्युपदेशैश्च सिद्धसाधनताशङ्कां निराकरोति । तदयमर्थो भवति दृष्टादृष्टार्था अपि वैदिक्यश्चोदना धर्मिण्यः । पुरुषाधीनप्रामाण्या इति साध्यम् । वाक्यत्वात्पुरुषोक्तिवदिति । स्वतो वा न प्रमाणमिति प्रतिज्ञाय तावेव हेतुदृष्टान्तावित्याह स्वतो वेति ॥ २८ ॥ __________टिप्पणी__________ [२६३] व मी (Kआ) ___________________________ प्रामाण्यं वा धर्मीति प्रतिज्ञाय नरापेक्षमिति साधयितव्यम् । शब्दैः सम्बध्यमानत्वादप्रामाण्यवदिति हेतुदृष्टान्तौ वाच्यावित्याह प्रामाण्यं वेति । अत्रापि सर्वशब्दस्य[२६४]तदेव प्रयोजनं, नरापेक्षप्रामाण्यवादिनां चाप्रामाण्यं तदपेक्षमिति सिद्धमेवेति ॥ २९ ॥ __________टिप्पणी__________ [२६४] तद्वदे (Kःा) ___________________________ अपि च यदेव यत्कारणकं तस्यैव तद्विपर्ययाद्विपर्ययो दृष्टः,{१,७८} यथातेजःकारणकस्य धर्मस्य तद्विपर्यये जले शैत्यम् । एवं शब्दप्रामाण्यस्यापि वक्तृगुणविपर्ययाद्विपर्ययो दृश्यते । तस्मादिदमपि तत्कारणकम् । अथवा यन्न यत्कारणकं तन्न तद्विपर्ययाद्विपर्येति, आलोकविपर्ययादिव घटः । न च तथा वक्तृगुणविपर्यये प्रामाण्यं न विपर्येति । तस्माद्तत्कारणकमिति वीतावीतप्रयोगौ हृदि निधायाह न स्यादिति । एषा च प्रयोगपरम्परा तार्किकाणां चित्तमनुरञ्जयितुं वार्त्तिककृता प्रणीतेति वेदितव्यम् । सर्वत्र चात्र प्रयोगार्थे नन्वतथाभूतमित्यादिभाष्यं सुव्याख्यानमिति न प्रतिप्रयोगं विवृतमिति ॥ ३० ॥ यदि तु निराकृतस्वपक्षो मीमांसकः सिध्यतु तावन्नरापेक्षम्[२६५]एव वेदप्रामाण्यमिति ब्रूयात्, स वक्तव्यः नैवं सिध्यति । प्रसिद्धे हि वक्तृगुणभावः सिध्यत्यपि । न च वेदानां प्रणेतुर्गुणसद्भावे प्रमाणमस्ति, प्रत्यक्षाद्यभावात् । आगमस्य च तत्प्रणीतत्य तद्गुणसद्भावेऽप्रामाण्यान्नित्यप्रामाण्यस्य चानन्तरमेव निराकृतत्वात् । सर्वं चेदमभिप्रेत्य नन्विति चोदितमित्याह एवं स्थित इति ॥ ३१ ॥ __________टिप्पणी__________ [२६५] मेवेदं प्रा ___________________________ एवमाक्षेपभाष्याभिप्रायमुक्त्वा परिहारभाष्याभिप्रायं विवरिष्यन्नाक्षिपति तावत् तत्रेति । एवं हि भाष्यकारेणोक्तं विप्रतिषिद्धमिदमभिधीयते ब्रवीति च वितथं चेति । तदयुक्तं, न हि प्रत्यय उत्पन्न इत्येव प्रमाणं भवति । यदि हि तथा स्याद्, बुद्धवाक्येऽपि मृषात्वेन मीमांसकः पक्षीकृते शक्यमिदं वक्तुं । विप्रतिषिद्धमिदमभिधीयते ब्रवीति च वितथं चेति । तत्र मीमांसकाः प्रतिहन्येरन् । तस्माज्जात्युत्तरमिदम् । जातिर्नाम वादिना स्थापनाहेतौ प्रत्युक्ते यः प्रतेषेधा[२६६]यासमर्थो हेतुः ।[२६७]जात्युत्तरं{१,७९}च केचित्क्वचिद्विषयविशेषे साध्वेव मन्यन्ते । एवं ह्याहुः दुष्टसाधनप्रयोगे दुष्टमेवोत्तरं देयमिति । तच्चायुक्तं, निग्रहस्थानद्वयापत्तेः । यो हि सन्तं दोषमनुक्त्वा अन्यमसन्तं जल्पति, तस्य पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगाख्ये द्वे निग्रहस्थाने स्याताम् । तस्मादनुत्तरमेवेदमिति ॥ ३२ ॥ __________टिप्पणी__________ [२६६] धास (Kःा) [२६७] तुः सा जातिः जा (Kःा, ङा) ___________________________ अत्रानन्तरमाक्षिप्तभाष्यसमाधानमुपेक्ष्यैव तावदौपोद्धातिकीं कथामवतारयति सर्वविज्ञानमिति । एवं हि मन्यते यदा हि सर्वसंविदामौत्सर्गिकं प्रामाण्यं, बाधकारणदोषाधीनं चाप्रामाण्यमिति सिद्धं भविष्यति । वेदे चापौरुषेये तदुभयाभावादसन्दिग्धार्थप्रवेदनाच्च प्रामाण्ये सिद्धे यदि परं ज्ञानानुत्पत्तितो वैतथ्यमाशङ्क्येत, तत्र विप्रतिषिद्धमिदं ब्रवीति ज्ञानं जनयति वितथं न जनयतीति समञ्जसमेवोत्तरं भविष्य[२६८]तीति । ननु[२६९]तथापि पराधीनं शब्दप्रामाण्यमिति पूर्वपक्षिते तन्मात्रस्यैव स्वतःप्रामाण्यप्रतिपादनेन सिद्धान्तयितुमुचितं, किं महाविषयविचारेण । उच्यते प्रासङ्गिकं सर्ववचनम् । अपि च यावज्ज्ञानस्वभावानुबन्धि प्रामाण्यमिति सामान्यतो न साध्यते, तावत्तद्विशेषे क्वचित्साधितमपि प्रामाण्यं न प्रमाणं स्वतः शाब्दज्ञानं ज्ञानत्वाद्ज्ञानान्तरवदित्यभिभूयेतापि । यज्जातीयानुबद्धं हि यद्रूपं तज्जातीयान्तरमपि नातिक्रामति, औष्ण्यमिवाग्निजातीयम् । अतो यदि ज्ञानजात्यानुबद्धं परतःप्रामाण्यं, तत्कथं शाब्दमप्यतिक्रामेत् । आह च __________टिप्पणी__________ [२६८] ष्यति [२६९] नु प (Kआ) ___________________________ सामान्यानुगता शक्तिर्या काचन निरूपिता । तदन्वितो विशेषोऽपि तद्द्वारव्यपदेशभाक् ॥ इति । सर्वज्ञानानुबन्धि स्वतःप्रामाण्यमागन्तुनाप्रामाण्येनापोद्यत इति साधिते निरपवादं वेदानां प्रमाण्यं सेत्स्यतीति सूक्तमेव सर्ववचनम् । एषा चात्र मीमांसा किं प्रमाणत्वाप्रमाणत्वे द्वे अपि स्वतःसिद्धे, अपि वा परतः,[२७०]अप्रामाण्यं स्वतः[२७१]प्रामाण्यं परतः, विपर्ययो वेति पूर्वपक्षप्रतिक्षेपेणान्त्यपक्षपरिग्रहेण सिद्धान्तो भविष्यतीति ॥ ३३ ॥ __________टिप्पणी__________ [२७०] तः प्रामाण्यं वा परतोऽप्रा [२७१] तः वि (Kःा) ___________________________ {१,८०} तदेवं वादिविप्रतिपत्त्या संशय्याद्यपक्षं गृह्णाति स्वतोऽसतामिति । सत्कार्यवादिनो हि सर्वमेव कार्यजातं सदुत्पद्यत इति मन्यमानाः प्रामाण्याप्रामाण्यात्मकमपि द्वयं स्वत एवास्थिषत । एवं हि मन्यन्ते यत्स्वतोऽसत्तन्न साध्यं, यथा शशविषाणम् । न च घटादयो न साध्याः तस्मात्स्वतः सन्त इत्यावीतहेतुः । अपि चोपादाननियमदर्शनात्कस्यचित्खलु घटादेर्विकारस्य किञ्चिदेव मृदाद्युपादानकारणमिति नियमो दृश्यते । तच्चैतदसदुत्पत्तावन्याय्यम्, असत्त्वाविशेषेण हि सर्वं सर्वस्मादुत्पद्येत । तत्रोपादाननियमो न स्याद्मृदेव घटस्य, कटस्य वीरणमिति । तत्र सर्वार्थी सर्वत्र प्रवर्तेत, अविशेषात् । शक्तितो नियम इति चेद्, न । अविशेषात् । तत्रैतत्स्यात् यस्य भावस्य यदुत्पत्तिशक्तिरस्ति तामन्वयव्यतिरेकाभ्यां निश्चित्य यो यदर्थी स तदुपादत्त इति । तच्च नैवम्, अविशेषात् । वयं हि ब्रूमः शक्त्यात्मना विकार उपादानेऽस्तीति । भवन्तोऽपि विकारोत्पत्तिशक्तिरुपादानेऽप्यस्तीति । तदत्र वाचोयुक्तिमात्रं भिद्यते, नार्थविशेषः कश्चिदुपलभ्यत इति । अपि च, उपादाननियमदर्शनादुपादाननिमित्तासमवायिभ्यस्त्रिभ्यः खल्वपि कारणेभ्यो भवतां कार्यमुत्पद्यते । त्रिष्वपि च तन्नास्ति । असदेवोत्पन्नं तत् । कुतोऽयं कारणविधा[२७२]नियमः इदमुपादानमिदं नेति । यत्र कार्यं वर्तते तदुपादानमिति चेद्, वृत्तिनियम[२७३]हेतुर्वक्तव्यः । तत्खलु सर्वस्मादसदेव जातम् इति किंकृतो वृत्तिनियमः । अस्ति स नामोपादानस्य कोऽप्यतिशयविशेषः यत्तत्रैव कार्यं वर्तत इति चेत् । स तर्हि शक्तिभेदो वक्तव्यः । निमित्तम्[२७४]असमवायि च[२७५]नोभयमनभ्युपगमात् । दण्डादयो हि घटस्य निमित्तकारणम् । असमवायिकारणं मृदवयवसंयोगविशेष इति वः सिद्धान्तः । स उपादानमिति चेद्, न । व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः । स्यादेतत् । उपादानकारणं शक्तिभेद इति । मैवम् । स ह्युपादानाद्व्यतिरिच्यते, न वा । व्यतिरेके उपादानस्य पूर्ववद्भावादनुपादानत्वम्, तस्यापि ततो भिन्नस्य तत्त्वं दुर्भणमेव । अव्यतिरेके तु वस्तुमात्रमनतिशयम्{१,८१}उपादानमिति वस्तुत्वाविशेषात्सर्वोपादानत्वापातः । तस्माद्विकारोत्पत्तिशक्तिमुपादानेषु सङ्गिरमाणैर्विकारा एवोपादने शक्त्यात्मना सन्तीति संगीर्यन्ते । वयमपि चाव्यक्तानेव विकारानुपादानेषु संगिरामहे, न स्थूलानिति नावयोर्विशेष इति । सत्त्वे कारकव्यापारानर्थक्यमिति चेद्न । अभिव्यक्तिफलत्वात् । तत्रैतत्स्यात् सन्ति चेद्विकारा उपादानेषु तदर्थिनां कारकव्यापारोऽनर्थकः स्यात् । ते हि तदा सतामेवोत्पादनाय[?] नेहेरन् । तस्मादसन्तो विकारा इति । तच्च नैवम्, अभिव्यक्तिफलत्वात् । सन्तोऽपि हि विकाराः पूर्वमनभिव्यक्ताः कारकव्यापारैरभिव्यज्यन्ते । अतोऽर्थवत्त्वं कारकव्यापाराणाम् । अभिव्यक्तावुत्पत्तिशब्दोऽनर्थक इति चेद्, न । अभिव्यक्तिभेदात् । तत्रैतत्स्यात् यदि पूर्वं सन्त एव मृदादिषु घटादयो गृहोदरेष्विव दीपादिभिः कुलालादिव्यापारैरभिव्यज्यन्ते, को ऽयं विभागः दीपो घटमभिव्यनक्ति, कुलालस्तूत्पादयतीति । तच्च नैवम्, अभिव्यक्तिभेदात् । द्वेधा खल्वभिव्यक्तिः । एका अप्रतिबद्धाकारस्य वस्तुनो बोधनिमित्तस्य तन्निमित्तभावो येन प्रतिबध्यते तदुत्सारणं, यथा घटस्यान्धकारतिरोहितस्य तदुत्सारणमभिव्यक्तिः । अन्या तु प्रतिबद्धाकारस्याकारप्रतिबन्धकोत्सारणं, यथा मृदि घटाकारः पूर्वाकारेण प्रतिबद्धः तस्य पूर्वस्याकारस्य प्रोत्सारणं घटाभिव्यक्तिः । अभिव्यक्तिविशेष एवायमुत्पत्तिशब्दः, ब्राह्मणविशेष इव कठादिशब्दोपचार इत्यनवद्यम् । स्यान्मतमभिव्यक्तिसत्त्वान् न प्रसङ्गपरिहार इति । न, असत्त्वात् । यो मन्वीत सत्कार्यवादिनो हि भावान्तरवदभिव्यक्तिरपि सतीति कारकव्यापारानर्थक्यप्रसङ्गो दुष्परिहर इति । स वक्तव्यः । न, असत्त्वात्स्यादयं दोषः यद्यभिव्यक्तिरपि सती घटादिवदिष्यते । सा त्वसती कारकव्यापारेण भाव्यत इति किमनुपपन्नम् । तदसत्त्वेऽतिप्रसङ्ग इति चेद्, न । प्रसङ्गसाम्यात् । तत्रैतत्स्यात् यदि किलाभिव्यक्तिरसती कुलालेन क्रियते, किमपराद्धं घटेन यन्न क्रियत इति । तच्च नैवं, तुल्योऽयमावयोरतिप्रसङ्गः । तवाप्यन्धकारतिरोहितस्य घटस्याभिव्यक्तावभिव्यक्तिरसती घटस्तु सन्नेवेति सिद्धान्तः । तत्र शक्यं प्रसञ्जयितुमभिव्यक्तिवद्घटोऽपि जन्येत, तद्वद्वाभिव्यक्तिरपि सती स्यादिति प्रसङ्गसाधारण्येनान्यतरोऽपर्यनुयोज्यः । अतः सिद्धमेवोपादानेषु सन्त एव सर्वे भावाः कारकव्यापारैर्{१,८२}अभिव्यज्यन्त इति, प्रामाण्याप्रामाण्ये स्वतस्सती एवेति सत्कार्यवादिनां सिद्धान्त इति । मतान्तरमुपन्यस्यति अपर इति । एवं हि मन्यते सर्वं खल्वपि कारणाधीनात्मलाभं कार्यं तत्कारणगुणदोषाभ्यां शुद्धमशुद्धं च भवति । तद्यावदिन्द्रियादिज्ञानकारणवशादुत्पन्नौ गुणदोषौ न ज्ञानस्य स्वतोऽवधार्येते, न तावत्प्रामाण्याप्रामाण्ययोरन्यतरन्निश्चीयते, नचानिश्चितयोर्व्यवहाराङ्गत्वं, तदर्थं च प्रमाणानुसरणम् । अतः कारणोत्पन्नगुणदोषावधारणादेव द्वयमाहुरिति सम्बन्ध इति ॥ ३४ ॥ __________टिप्पणी__________ [२७२] धाननि (Kआ) [२७३] मे [२७४] मेवास [२७५] वा (ङा) ___________________________ स्वतो द्वयमिति तावन्निराकरोति स्वत इति । कारणमाह विरोधादिति । इदमत्राकूतं यत्तावदुक्तमसतः शशविषाणाद्व्यावृत्तं साध्यत्वं घटे दृश्यमानं सत्तां गमयतीति । तदयुक्तम् । अभावविरोधात् । असन्निकृष्टार्थविषयं ह्यनुमानं, तत्कुतो मृदि योग्यानुपलम्भनिराकृतसद्भावविषयं घटं विषयीकरिष्यति । उपादाननियमस्तु शक्तिभेदादुपपन्न एव । किञ्चिदेव हि मृत्तन्त्वादि कस्यचिदेव घटादेरुत्पादने शक्तं न सर्वं सर्वस्येति, यो यदर्थी स तदुपादत्त इति किं नोपपद्यते । यदि मतं न कार्यकारणान्तरालपतितां परां शक्तिमीक्षामह इति । न, शक्तिसिद्धिमर्थापत्तिग्रन्थे वक्ष्यामः । यत्तूक्तं विकारा एव शक्त्यात्मना सन्तस्तदुत्पत्तिशक्तिर्वोपादानेष्वस्तीति नावयोर्विशेष इति । तन्न । महानयं विशेषः यद्विकारसत्तामभावो बाधते, शक्तिं तु सूक्ष्मामर्थापत्तिः साधयतीति । तेऽपि हि शक्त्यात्मना सन्तो न योग्यानुपलब्ध्या निराकर्तुं शक्यन्त इति चेत्, केयं शक्त्यात्मता । यतस्तेऽसन्तोऽपि जनिष्यन्त इति चेत् । तदिष्टम् । अनभिव्यक्तिरिति चेद्, न । साक्षस्याप्यालोकेऽनुपलम्भात् । नन्वालोकेऽपि नावृतमुपलभ्यते । किमिदानीमावृतो मृदि घटः । सत्यम् । केन । न तावदुपादानं कार्यमावृणोति, नित्यावरणप्रसङ्गात् । मृदाकार आवृणोतीति चेत् । कोऽयं मृदाकारः । यदि तज्जातिः, सोपरिष्टादप्यनुवर्तत इति नित्यावृतिरेव[२७६]प्राप्नोति । प्राच्यो मृत्पिण्डसन्निवेश इति चेत् । स वा किम्{१,८३}उपरिष्टान्न भविष्यति, यन्न घटमावरिष्यति । हन्त सोऽप्यनुत्पत्त्यविनाशधर्मासद्वादिभिरिष्यत इत्यनिवार्यैव नित्यावृतिः । सूक्ष्माश्च मृदवयवसन्निवेशविशेषा न महान्तं घटमाच्छादयितुमुत्सहन्ते इति यत्किञ्चिदेतत् । यत्तु त्रिभ्योऽपि कारणेभ्यः सदुत्पत्तौ किंकृतो विधानियम इति । शक्तिभेदकृत एव । किञ्चिदेव तथा नाम शक्तं, यद्विकारभावमनुभवति । किञ्चित्तु बहिरेव सत्तदुत्पत्तौ व्याप्रियते । स चायं शक्तिभेदः कार्यदर्शनसमधिगम्य एवेति नाप्रमाणकः । भेदाभेदौ तु न क्वचिदात्यन्तिकाविति नाप्रसङ्गातिप्रसङ्गौ । यत् तु पृष्टमुपादाननिमित्तासमवायिनां का शक्तिरिति । तदतिदूरमपभ्रष्टम् । शक्तिर्हि शक्तिरेव, न कारणं, तद्वतो द्रव्यस्य कारणत्वात् । कारणवच्च कारणशक्तिरपि कार्यसिद्धिमनुधावतीति प्रमाणबलादुपपत्स्यते । कारकव्यापारानर्थक्यं च दुष्परिहरमेव । अभिव्यक्त्यर्थो व्यापार इति । अत्र तूक्तो दोषः । अपि चाभिव्यक्तिसत्त्वे तुल्यमानर्थक्यम् । असत्त्वे च सर्वत्र प्रसङ्गः शक्यमनुमातुम् ।[२७७]सर्वं हि विमतिपदं[२७८]कार्यमसत्, कार्यत्वादभिव्यक्तिवत् । कार्यं चाभूत्वा भवनात्तद्वदेवाभूत्वा भवति, उपलब्धियोग्यत्वे सत्यनुपलम्भादभिव्यक्तिवदेव । यत्तु अभिव्यक्तौ प्रसङ्ग इत्युक्तम् । तदयुक्तम् । प्रत्यभिज्ञानं हि बलवदभूतप्रादुर्भावं घटस्य वारयति । विपरीतं च तत्सत्कार्यवादिनामिति किमनेनातिनिर्बन्धेन भ्रान्तभाषितेन । प्रकृते च विरोधात्कथं ह्येकज्ञानजात्यनुबन्धिनी प्रमाणत्वाप्रमाणत्वे भविष्यतः, विरुद्धधर्मावेशस्य भेदनिबन्धनत्वात् । अतो यथा नैकस्याग्नेः शीतोष्णत्वम्, एवं न ज्ञानस्य प्रमाणत्वाप्रमाण[२७९]त्वमिति । सोऽयं प्रकृताप्रकृतगोचरे तन्त्रेण विरोधो व्याख्यातव्यः । प्रामाण्याप्रामाण्यात्मकद्वयं न स्वतः, स्वभावविरोधात् । कार्यकारणात्मकत्वं च द्वयं न स्वतः सिद्धं, कार्यसत्ताया अभावविरोधादिति । परतो[२८०]द्वयमिति निराकरणार्थमाह परत इति । कारणमाह निःस्वभावत्वमिति । एवमुभयपराधीनवादी वक्तव्यः किं खलु कारणोत्पन्नगुणदोषावधारणात्प्राग्ज्ञानं न जायत एव, जातमपि वा[२८१]रूपान्तरेणावतिष्ठत इति । न तावज्ज्ञानं{१,८४}जायते, संविद्धिरोधात् । जातं तु केनात्मनावस्थास्यते । न ह्येतद्राशिद्वयातिरिक्तमस्ति राश्यन्तरं येनावतिष्ठेत । अन्यतरधर्मकमेव तदुत्पन्नं प्रागनवधृततथाभावमुपरिष्टादवधार्यत इति चेद् । न । गुणावधारणाधीननिश्चयाभ्युपगमात् । तदवधारणाद्धि प्राङ्निश्चय एव नासीत् । कथं प्रामाण्यमासीदिति शक्यते वक्तुम् । अथ पूर्वं[२८२]अपि निश्चिताकारमेव ज्ञानं, किं गुणावधारणेन । दोषानाशङ्कमानस्तु तन्निराकरणार्थमेव यतत इति युक्तम् ।[२८३]एतच्च वक्ष्यत एवेति सूक्तं निःस्वभावत्वम् इति ॥ ३५ ॥ __________टिप्पणी__________ [२७६] व प्राच्यो (ङा) [२७७] तुमिति स [२७८] दास्पदं का [२७९] णस्वभावत्व (ङा) [२८०] तोऽपि द्व (Kःा) [२८१] वा स्वरू (Kआ, Kःा) [२८२] र्वमेव नि (Kआ, Kःा) [२८३] क्तमेव । तच्च ___________________________ स्वतो न द्वयं विरोधादिति यदुक्तं, तत्प्रकृतगोचरे विवृणोति कथमिति । उक्तमिदमस्माभिः नैकस्यां ज्ञानजातौ परस्परविपरीतयोः प्रामाण्याप्रामाण्यात्मनोः सम्भवः समावेशः सम्भवतीति । एकस्तु स्वभाव उपाध्यन्तरसन्निधानादभिभूतो भवति, अप्स्विवाग्निसंयोगे शैत्यम् । तदपेक्षश्च तास्वौष्ण्यभ्रमः । स्वाभाविकोभयवादिनस्तु नान्यानपेक्षस्य ज्ञानस्योभयात्मकता सम्भवतीति । परतो न द्वयं निस्स्वभावत्वप्रसङ्गादित्येतद्विवृणोति किमात्मकमिति । सर्वं हि जगद्राशिद्वये शक्यमन्तर्भावयितुं प्रमाणमप्रमाणं चेति । तदत्रोभयपराधीनत्ववादिनो ज्ञानमुन्मुक्तोभयरूपं केन रूपेण निरूप्यत इति ॥ ३६ ॥ स्वतो न द्वयं विरोधादित्यत्र किञ्चिदाशङ्कते विज्ञानेति । एवं हि मन्यते यदि ज्ञानजातेरेवायं स्वभावभेदोऽभ्युपेयते, एकस्मादेव वा ज्ञानव्यक्तौ, ततः स्यादपि विरोधः । यदा तु शीतोष्णस्वभावतोयतेजोद्रव्यवत्प्रमाणाप्रमाणज्ञानव्यक्तिभेदाभ्युपगमः, तदोभयोर्व्यधिकरणयोः कस्य केन विरोध इति । परिहरति तथापीति । अयमभिप्रायः तोयतेजसोर्हि भिन्नजातीययोः स्वभावभेदो युक्तः । ज्ञानव्यक्तयस्त्वेकजातीयाः । तत्र[२८४]न तावदासां जात्यनुबन्धी स्वभावभेदो न्याय्यः । व्यक्त्यनुबन्धी तु तत्कारणाद्भवतीति युक्तं[२८५]वक्तुम् । तदनपेक्षत्वे तु प्रामाण्याप्रामाण्ययोः{१,८५} किं कुत्र भविष्यतीति दुरधिगमम् । समानं हि द्वयोरपि ज्ञानत्वम् । स्वाभाविके चोभयस्मिन्न बाह्यचिह्नापेक्षास्तीति[२८६]दुर्भणः प्रमाणाप्रमाणविवेक इति साधूक्तं स्वतो न द्वयं विरोधादिति । किं पुनरुभयोः पराधीनत्वं स्वाभाविकत्वं वा चोदनाप्रामाण्यपरिपन्थि येन प्रयस्यता निरस्यते । नन्वेवमपि चोदनानां स्वत एव प्रामाण्यं भविष्यति प्रथमपक्षे । द्वितीयेऽपि पराधीन उभयस्मिन् दोषाभावादपौरुषेया वेदाः प्रमाणमिति किमुभयनिराकरणेन । अप्रामाण्यं स्वतः प्रामाण्यं परत इत्येतदेव तु वेदप्रामाण्यपरिपन्थीति तन्निराकर्तुमुचितम् । तच्च निराकरिष्यत एव । सत्यम् । आद्ययोरपि पक्षयोर् अप्रामाण्यमापद्यत एव । तथा हि स्वाभाविके तावदुभयस्मिन्नन्यतरनिर्णयकारणं बाह्यमपश्यतां नैकत्रापि विश्वासो भवेत् । व्यवहारार्थं च प्रमाणानुसरणम्, अविश्वासे च तदभावात्फलतोऽप्रमाणत्वम् । एवमुभयपराधीनत्वेऽप्यसत्यप्यप्रामाण्यकारणे प्रामाण्यकारणस्याप्यभावात्तद्व्यवहारो न जायत इत्यप्रमाणमेवेति साध्वेवोभयनिराकरणमिति ॥ ३७ ॥ __________टिप्पणी__________ [२८४] तन्न ता (ङा) [२८५] क्तं त (Kआ, Kःा) [२८६] दुर्लभः प्रा (ङा) ___________________________ एवमुभयं स्वतः परतो वेति निराकृते पूर्वपक्षान्तरमाह तस्मादिति[२८७]क्षमन्तेन । तेषां ज्ञानानां स्वाभाविकमप्रमाणत्वम्, परापेक्षं च प्रामाण्यम् । अयं चात्राभिप्रायः दृष्टव्यभिचारो हि जातेऽपि विज्ञाने न तावन्निर्विचिकित्सं व्यवहरमाणो दृश्यते, यावद्गुणवदिन्द्रियादिकरणत्वं संवादो वा न दृष्टः । व्यवहारफलं च प्रामाण्यम्, अतः स्वतोऽप्रमाणमेव पराधीनं प्रामाण्यमिति । एष चात्र स्वतोऽप्रमाणत्वे परतश्च प्रमाणत्वे न्यायोऽभिधीयत इत्याह अत्रेति । ॥ ३८ ॥ __________टिप्पणी__________ [२८७] ति ते (Kआ, Kःा) ___________________________ स्वतोऽप्रामाण्ये तावन्न्यायं दर्शयति अप्रामाण्यमिति । न्यायस्तर्कः । स चानुमानम् । एष चात्र प्रयोगो भवति अप्रामाण्यं न कारणवद्, अवस्तुत्वात् । यद्यद्वस्तु तत्तन्न कारणवत् । यथा शशविषाणम् ।{१,८६}कारणदोषत इति च कारणदोषाणामेव परैरप्रामाण्यकारणत्वेनाश्रयणादुक्तम् । यदेव मीमांसका मन्यन्ते कारणदोषेभ्योऽप्रामाण्यं जायत इति । तन्न । अकारणकत्वादवस्तुन इति । परापेक्षं प्रामाण्यमित्यत्र प्रयोगमाह वस्तुत्वादिति । तेषां कारणानां गुणैः प्रामाण्यं जन्यत इत्यर्थः । प्रयोगश्च भवति प्रामाण्यं कारणवद्वस्तुत्वाद्घटवत् । न चाकार्यं नाम किञ्चिद्बौद्धानां वस्त्वस्ति, येनानैकान्तिको हेतुर्भवेत् । नभसोऽप्यावरणाभावमात्रस्यावस्तुत्वात् । गुणैरिति चानुवादमात्रम् । कारणगुणा हि प्रामाण्ये कारणमिति मन्यन्ते । न पुनरेते व्याप्तावनुप्रवेशनीयाः । के पुनरमी गुणा[२८८]नाम, ये प्रामाण्यस्य कारणम् । न हीन्द्रियादिव्यतिरिक्ता गुणाः केचिदुपलभ्यन्ते । यदि मतं भेषजभेदैराहितातिशयविशेषा गुणा इति । तन्न । एवं हि तैरनाहितातिश[२८९]यविशेषाणां न प्रामाण्यं जायेत । अतो वक्तव्या गुणाः । त उच्यन्ते । विशुद्धिरिन्द्रियादीनां गुणपदार्थः । वातादिधातूनां साम्यमिति यावत् । साम्येन हि त इन्द्रियेषु वर्तमाना गुणा उच्यन्ते । तथा स्थिताश्[२९०]च प्रामाण्यं जनयन्ति । विषमं तु वर्तमानेषु धातुषु तद्दोषसमुत्थास्तिमिरादयो दोषा जायन्ते । शब्देऽपि वक्तुराशयविशुद्धिर्गुणः । विप्रलम्भाभिप्रायादयो दोषाः । तेषां च प्रामाण्याभावात्म[२९१]न्यवस्तुन्यप्रामाण्ये कारणत्वासम्भवान्न तज्जन्यमप्रामाण्यम् । प्रामाण्यं त्वर्थनिश्चयो वस्त्वात्मक इति युक्तं यद्गुणेभ्यो जायते ज्ञायते चेति । सर्वमुत्पत्तावनिश्चयात्मकमप्रमाणमेव ज्ञानमा गुणसंवादज्ञानोदयात्, परतस्तु तद्वशेन प्रामाण्यं जायते तस्य । नन्विदानीमसदेवातिवृत्तं ज्ञानमिति किं प्रमाणी[२९२]भविष्यति । यदा तावत्[२९३]तदासीत्तदा सहजेनाप्रामाण्येनाभिभूतमुत्तरकालं च तदसदेवेति किमन्यतः प्रामाण्यं भविष्यति । सत्यमेवम् । अन्यदेव गुणसंवादज्ञानोत्तरकालभाविप्रमाणम् । अवगते हि क्वचिदर्थे प्राग्दृष्टव्यभिचारो ज्ञानस्वभावालोचनेनाजातविश्वासो न तावन्निर्विचिकित्सं व्यवहरति यावदिन्द्रियादिगुणावधारणपुरस्सरमेवमेवैतदिति न निश्चिनोति । गुणावधारणात्संवादज्ञानाद्वा प्रमाणे जातेऽवगते च तस्य{१,८७}प्रामाण्ये व्यवहाराः प्रवर्तन्ते । तस्यापि न ज्ञानस्वभावालोचनेन प्रामाण्यं, तद्रूपस्याप्रामाण्यप्रतिबन्धात् । किन् तु गुणावधारणादेव । अतः सूक्तं गुणैः प्रामाण्यं जन्यत इति । यदाहुः निश्चयात्मकप्रामाण्योत्पादनं तु वस्तुरूपत्वात्संवादकारणगुणज्ञानकार्यत्वेन स्वध्यवसानमिति तदेवाश्रीयते इति ॥ ३९ ॥ __________टिप्पणी__________ [२८८] णाः ये [२८९] शयानां न [२९०] स्तु प्रमाणं ज (Kःा) [२९१] त्मव [२९२] णं भ (Kआ) [२९३] वदा (ङा) ___________________________ किञ्च इतश्च न स्वतः प्रामाण्यमित्याह प्रामाण्यं[२९४]हीति । अयमर्थः यदि ज्ञानस्वभावानुबन्ध्यौसर्गिकं प्रामाण्यम्, एवं सति प्रामाण्याभावस्यावस्तुनोऽकृत्रिमत्वान्न पराधीनत्वमिति सर्वज्ञानानामपि प्रमाणत्वप्रसङ्गः ।[२९५]स्वप्नादिज्ञानानामपि ज्ञानत्वाविशेषात्, तन्मात्रानुबन्धित्वाच्च प्रामाण्यस्य । अप्रामाण्यस्य चावस्तुनोऽकार्यत्वादिति ॥ ४० ॥ __________टिप्पणी__________ [२९४] ण्यमिति [२९५] ङ्गः, तदा स्व ___________________________ कथं नामाप्रामाण्यमकृत्रिमम् । दोषभावे हि तस्य भावः, तदभावे चाभावो दृश्यते । कामिली पीतमिदमिति शङ्खं जानाति, तद्[२९६]अपगमे शुक्लम् । अतो जानीमः यथादोषभावभाव्यप्रामाण्यं तत्कार्यमिति, अत आह मत्पक्ष इति । अयमभिप्रायः नात्र दोषैरप्रामाण्यं जन्यते । सत्सु तु दोषेष्वसन्तो गुणा न स्वकार्यं प्रामाण्यं जनयन्तीति नावस्तुनोऽप्रामाणस्य हेतुमत्त्वप्रसङ्गदोष इति ॥ ४१ ॥ __________टिप्पणी__________ [२९६] दभावे शु (Kःा) ___________________________ किं पुनः प्रामाण्ये कारणं, यदभावात्तस्यानुत्पत्तिः, अत आह इन्द्रियादीति कारणमन्तेन । आदिशब्देनार्थपुरुषादीनां ग्रहणम् । इन्द्रियपुरुषगुणाश्च व्याख्याता एव । अर्थस्यापि स्थूलत्वादयो गुणाः सूक्ष्मत्वादयो दोषा इति । समधिगतं तावदिन्द्रियादिगुणाः प्रामाण्ये{१,८८}कारणमिति । कथं[२९७]तु तदभावः, अत आह तदसदिति । ते एव विधे दर्शयति दुष्टत्वादिति । दोषा ह्यागन्तवो गुणानुत्सारयन्ति । इन्द्रियादीनामन्यतमस्याभावे निराश्रया गुणा न भवन्ति, यथा नित्यवेदवादिनामसति कर्तरि तद्गुणा इति ॥ ४२ ॥ __________टिप्पणी__________ [२९७] किं तत्र तद ___________________________ यत एव दोषैर्गुणा निराक्रियन्ते, अत एव मीमांसकानामयं भ्रमो दोषैर्मिथ्यात्वधीर्जन्यत इति । परमार्थेन तु गुणविरोधिनो दोषास्तानेव निवारयन्ति । अतः कारणाभावादसति प्रामाण्ये स्वाभाविकमप्रामाण्यमवतिष्ठत इत्याह अत एवेति ॥ ४३ ॥ अतः[२९८]सिद्धं शुद्धिपर्यायगुणावधारणाधीनं प्रामाण्यम् । स्वभावतश्च ज्ञानानामप्रामाण्यं, शुद्ध्यभावेन तल्लक्ष्यते । असति हि शुद्धत्वे कारणाभावनिराकृतेन प्रामाण्येनानपोदितमप्रामाण्यं लक्ष्यत इत्युपसंहरति तस्मादिति ॥ ४४ ॥ __________टिप्पणी__________ [२९८] तः शु (Kःा) ___________________________ इतश्च दोषतो नाप्रामाण्यमित्याह अन्वयेति । अस्यार्थः त्रिविधमप्रामाण्यमज्ञानसंशयविपर्ययैः । तत्राज्ञानात्मकं तावदप्रामाण्यं कारणाभावमात्रसमधिगम्यमेव, न दोषानपेक्षत इति मीमांसकैरभ्युपगन्तव्यम् । अतो दोषव्यतिरेकेऽपि कारणाभावमात्रान्वयेऽप्रामाण्यदर्शनान्न दोषतोऽप्रामाण्यमिति ॥ ४५ ॥ एवं च गुणाधीनप्रामाण्याभ्युपगमान्नित्यवेदवादिनां च पुरुषाभावाद्, अनाश्रयगुणासम्भवात्, कर्तृमद्वेदवादिनामपि कर्तृगुणेषु{१,८९}प्रमाणासम्भवादसन्[२९९]मूलभूतेषु कर्तृगुणेषु न चोदनानां प्रामाण्यमवकल्पत इत्याह ततश्चेति ॥ ४६ ॥ __________टिप्पणी__________ [२९९] सत्सु मू (Kःा) ___________________________ एवं तावत्परतः प्रामाण्येन कृतः पूर्वपक्षः । सिद्धान्तमिदानीमारभते स्वत इति । कारणमाह न हीति । अयमभिप्रायः न तावद्गुणज्ञानात्संवादज्ञानाद्वा प्राग्ज्ञानं न जायत एव । नवोत्पन्नमपि संशयात्मकमवभासते । न हि स्याद्वा घटो न वेति इन्द्रियसन्निकृष्टं घटं बुध्यामहे, अपि तर्हि घट एवायमिति निश्चयात्मकमेव ज्ञानमुत्पद्यते । अत एव ज्ञानोत्पत्तेरनन्तरमेव सर्वप्रमातॄणां व्यवहारप्रवृत्तिरुपलभ्यते । भ्रान्तिसंविदितरजतोऽपि हि सम्यग्रजतबोध इवार्थक्रियायै घटमानो दृश्यते । तदस्य संशयानस्य नोपपन्नम् । अतो जातो[३००]निश्चयः । किम्[३०१]अन्यत्प्रामाण्यं भविष्यति । सत्यपि संवादे गुणज्ञाने वा तावदेव प्रामाण्यस्य तत्त्वं नाधिकं किञ्चिदिति किं नस्तदुपेक्षणेन । तादृशस्यैव व्यभिचारादस्ति परापेक्षेति चेद्, न । एवमपि ज्ञानस्यानपेक्षत्वाद्, विप्रलब्धपूर्वस्यापि निरपेक्षमेव निश्चयात्मकं ज्ञानमुत्पद्यते । प्रमाता तु विप्रलम्भकबुद्धिसादृश्यात्तथात्वमाशङ्कते । साशङ्कस्यापि न प्रामाण्यशक्तिरवसीदति, पूर्ववत्प्रमेयपरिच्छेदात् । प्रमातुस्तु आशङ्का दोषदर्शनप्रभ[३०२]वा । तदसौ तद्भावाभावयोरन्यतरनिश्चये निवर्तते, न संवादज्ञानमपेक्षते । सत्येव हि घटज्ञाने जाताशङ्कः किं घटज्ञानान्तरेण करिष्यति । न ह्यस्यास्तन्निवर्तकं, तस्मिन् सत्येव भावात् । अतः स्वाभाविकमेव सर्वसंविदां निश्चयात्मकत्वम् । आशङ्का तु यदि नाम जातु जायते, एवमपि तन्निराकरणार्थमपवादसद्भावाभावावनुसर्तव्यौ, न संवादगुणज्ञाने । तदु[३०३]पेक्षायां हि प्रामाण्यमेव नावतिष्ठेत । गुणसंवादज्ञानयोरप्येवमेव, सापेक्षत्वेन प्रथमज्ञाने प्रामाण्यशक्त्याधाना[३०४]शक्तेरप्य्[३०५]अनवस्थापातादित्येतत्परस्तात्प्रपञ्चयिष्यत इति । एवं तावत्प्रकृताभिप्रायो व्याख्यातः । अपि{१,९०}च सर्वभावानामेव स्वकार्यजननशक्तिरसती नान्येन क्रियेत । अभिव्यक्तिमात्रकरणात् । नन्वातुरस्य रोगापहृतशक्तेरसत्येव भोजनादिशक्तिर्भेषजभेदैराधीयते । मैवम् । तिरोहिताभिव्यक्तेः । इतरथा पूर्वशक्तिविनाशापूर्वोत्पादधर्मिकल्पनाभिरतिगौरवं भवेत् । अत एव नष्टशक्तीनां भेषजभेदैरपि न प्रतीकारः । असती तु शक्तिस्तेषामपि जन्येतैव, अविशेषात् । अतः सर्वे भावाः स्वहेतुभ्यः शक्तिमन्तो जाता एव कुतश्चिदागन्तुकाद्धेतोस्तिरोहितशक्तयः सामग्रीविशेषैरभिव्यक्तशक्तयः कार्यमारभन्ते । न चैवं ज्ञानेऽप्यभिव्यक्त्यपेक्षा सम्भवति, अर्थावग्रहाद्, रूपान्तरेण ज्ञानस्यानिरूपणादुत्पत्तावेवा[३०६]र्थपरिच्छित्तेरवश्यम्भावादिति ॥ ४७ ॥ __________टिप्पणी__________ [३००] ज्ञा (Kआ, Kःा) [३०१] मप्रमाणं भ [३०२] भावात्तदसौ [३०३] द (ङा) [३०४] न (Kआ) [३०५] व्यव (Kःा) [३०६] व प (Kःा) ___________________________ ननु स्वतःप्रामाण्यवादिनापि गुणवदिन्द्रियादिकारणिकैव प्रमाणोत्पत्तिरास्थेया । तद्यदि गुणाः प्रमाणोत्पत्तौ कारणम् । एवं सति तत्कार्येऽप्यर्थनिश्चये तदधीनतैव युक्ता । तदायत्तप्रामाण्याश्रयणाद्, अत आह आत्मलाभ इति । अयमभिप्रायः प्रमाणोत्पत्तावपि न गुणा गुणा इत्येवापेक्ष्यन्ते॑ किन् तु दोषनिराकरणौपयिकतया । दोषा हि प्रमाणोत्पत्तिं विघ्नन्ति । ते गुणैरुत्सारिता न तां विहन्तुमुत्सहन्ते इति । अत एवासत्स्वपि वक्तृगुणेषु कारुणिकत्वादिषु वेदे दोषाभावमात्रादेव प्रामाण्यं सिध्यति । अपि च कारणं नाम गुणः प्रमाणोत्पत्तौ । नैतावता प्रमाणकार्येऽप्यर्थनिश्चये तदपेक्षा युक्ता । आत्मलाभमात्र एव हि भावाः कारणम् अपेक्षन्ते, न कार्यनिष्पत्तौ । न हि मृत्पिण्डदण्डादिकारणापेक्षो जन्मनि घट इति उदकाहरणेऽपि तस्य तदपेक्षा दृष्टा । लब्धात्मनस्तु स्वयमेव कारणनिरपेक्षा प्रवृत्तिरवगता । अतः सर्वथा तावदर्थव्यवस्थापनायामन्यानपेक्षमेव प्रमाणमिति सिद्धमिति ॥ ४८ ॥ स्वतोऽसती शक्तिरन्येन कर्तुं न शक्यत इति यदुक्तं तत्प्रपञ्चयति जातेऽपीति त्रिभिः । अयमभिप्रायः प्रामाण्यस्य ह्यन्यानपेक्षत्वम्{१,९१}एव निबन्धनम् । यदि जातेऽपि विज्ञाने कारणगुणावधारणाधीनं प्रामाण्यं भवेत्, ततः शुद्धिज्ञानोत्पादः कारणान्तरात्प्रतीक्षितव्यः । तस्याः शुद्धेरपरिच्छिन्नाया असत्समत्वात्तस्यापि शुद्धिज्ञानस्य कारणशुद्धौ सत्यां तस्याः शुद्धेर्ज्ञाने च सति प्रमाणता भवति । एवमेव मूलकारणशुद्धिज्ञानस्यापरापरशुद्धिज्ञानापेक्षायामनवस्थापातान्न कथञ्चित्प्रामाण्यमापद्यत इति ॥ ४९५१ ॥ स्वतस्तु प्रामाण्ये नानवस्थेत्याह यदेति । कारणमाह निवर्तत इति । अयमभिप्रायः अर्थनिश्चयस्तावज्ज्ञानस्वभावादेव सिद्धः । मिथ्यात्वशङ्का तु तद्धेतुभूतदोषाज्ञानादयत्नेनैव निवर्तते । न हि दोषाणामज्ञानं प्रागभावो यत्नसाध्यः । ननु नाज्ञानमात्रादभावः सिध्यति । सत्यपि[३०७]तस्मिन् भावात् । न च दोषाभावावधारणमन्तरेण प्रामाण्यं सिध्यति । सत्यं, तदपि त्वयत्नसाध्यमेव, प्रायेण तावत्प्रमातॄणामनाशङ्क एव ज्ञानोत्पत्तौ व्यवहारो दृश्यते । जाताशङ्कस्यापि प्रसिद्धा एव शङ्कानिराकरणोपायाः, दाहच्छेदादयः स्वर्णादाविति । तावतैव निश्चयोत्पादान्नातिदूरगमनम् । एतच्चोपरिष्टाद्वक्ष्यत एवेति ॥ ५२ ॥ __________टिप्पणी__________ [३०७] पि भावात्तस्मिन् च न (Kआ) ___________________________ तस्माद्बोधस्वभावानुबन्धि ज्ञानानामौत्सर्गिकं प्रामाण्यं कारणदोषार्थान्यथात्वज्ञानाभ्यामपोद्यत इत्युपसंहरति तस्मादिति । अर्थान्यथात्वज्ञानं{१,९२}च द्वेधा । नैतदेवमिति पूर्वावगतरूपोपमर्दनेन, तत्त्वप्रकाशनेन वा । हेतवो ज्ञानानामिन्द्रियादयः । तेषु वातादिसमुत्थास्तिमिरादयो दोषाः तज्ज्ञानेनोत्सर्गतः प्राप्नुवती प्रमाणतापोद्यत इति ॥ ५३ ॥ यत्पुनरप्रामाण्यमवस्तुत्वान्न कारणैर्जन्यत इत्युक्तं, तत्परिहरति अप्रामाण्यमिति । यदि नाम त्रेधा भिन्नमप्रामाण्यं ततः किं जातमत आह वस्तुत्वादिति । अयमभिप्रायः त्रिविधं खल्वप्रामाण्यं ज्ञानाभावसंशयविपर्ययैः । तत्र संशयविपर्ययौ प्रति अवस्तुत्वादिति हेतुरसिद्धः, ज्ञानात्मकवस्तुत्वात्तयोरिति ॥ ५४ ॥ ज्ञानप्रागभावस्त्ववस्तुतया सिद्ध एव । न चास्माकमप्यसौ दोषैर्जन्यते, ज्ञानकारणाभावादेव त्वदुक्तिवत्तत्सिद्धेः । अतस्तस्मिन्नकारणके साध्यमाने सिद्धसाध्यतैवेत्यभिप्रायेणाह अविज्ञान इति । न चाप्रामाण्यशब्द[३०८]वाच्यतामात्रेण संशयविपर्यययोरप्यकारणकत्वं शक्यमनुमातुम्, अज्ञानवद्, वाचोऽपि गोशब्दवाच्यतया विषाणित्वाप[३०९]त्तेरिति ॥ ५५ ॥ __________टिप्पणी__________ [३०८] ब्दा (Kःा) [३०९] त्वानुमानापत्तेः (ङा) ___________________________ नन्वियमनवस्था प्रामाण्य इव पराश्रयेऽप्रामाण्येऽपीष्यमाणे आपद्यत एव, पारतन्त्र्यं ह्यनवस्थामापादयति । अतः को विशेषः, अत आह दोषत इति । अस्यार्थः स्वतःप्रामाण्यवादिनां मीमांसकानां दोषतोऽप्रमाणत्वे नानवस्था भवति । दोषेषु ज्ञातव्येषु यथा गुणज्ञानेऽनवस्थापादितेति ॥ ५६ ॥ {१,९३} स्वतःप्रामाण्यवादिनामिति चानवस्थापरिहारबीजमुक्तं, तदुद्धाटयति साक्षादिति । अयमभिप्रायः सजातीयापेक्षायां ह्यनवस्था भवति । यथा[३१०]प्रामाण्यस्य प्रमाणापेक्षायामुक्तम् । अप्रामाण्यं तु स्वतः प्रमाणेन नैतदेवमिति साक्षाद्विपर्ययज्ञानेन यत्र तावदवगम्यते, तत्र लघुतरमेव गृहीतमिति न पराश्रयत्वमात्रमनवस्थामापादयतीति । ननु स्वतःप्रामाण्ये पूर्वमपि ज्ञानमुत्पन्नमसन्दिग्धमिति किमप्रमाणं भविष्यति येन परेण पूर्वं बाध्यते । तेनैव तु किं न परं बाध्यते, अत आह पूर्वेति । अयमभिप्रायः सत्यम्, उत्सर्गतः पूर्वस्यापि प्रामाण्यं प्राप्तमेवापवादभूतेन तूत्तरेण बाध्यमानं तदप्रमाणं भवति । यत्तु तेनैव किं नोत्तरं बाध्यत इति । तन्न, न हीच्छामात्रेण बाध्यबाधकभावो व्यवस्थाप्यते । यद्धि यद्बाध[३११]कमवभासते तत्तस्य बाधकमभिधीयते । नचानागतोत्तरबाधकरूपेण पूर्वमवभासत इति नचानागतबाधेनेत्यत्रैव वक्ष्यति । उत्तरस्य तु पूर्वज्ञानबाधमन्तरेणोत्पत्तिरेव न सम्भवति । उत्पन्नं च तत् । अतस्तदेव पूर्वस्य बाधकम् । तच्च स्वत एव प्रमाणमिति न काचिदनवस्थेति ॥ ५७ ॥ __________टिप्पणी__________ [३१०] प्रमाणस्य (ङा) [३११] धमानम (Kआ) ___________________________ नन्वस्तु साक्षाद्विपर्ययज्ञानेन परेण पूर्वस्य बाधः, उभयोरपि समानविषयोपनिपातात् । यत्र तूत्तरं कारणदोषविषयं भवति, तत्र विषयभेदान्न बाधो युक्त इति दुरुक्तं हेतूत्थदोषज्ञानात्प्रामाण्यमपोद्यत इत्यत आह दुष्टेति बाधोऽन्तेन । अयमभिप्रायः यद्यपि दुष्टकारणबोधे विषयभेदः पीतशङ्खादिविभ्रमेषु, तथाप्यर्थात्तुल्यार्थतां प्राप्य बाधो भवत्येव । शङ्खे हि पीत इति विदिते परतश्च ज्ञानकारणदोषेऽवगतेऽर्थात्पीतिमा शङ्खस्य प्रतिक्षिप्तो भवति । यत्कारणाधीनात्मलाभं हि यत्कार्यं, तत्तद्दोषे दुष्यति । एष च ज्ञानस्य दोषः यदन्यथास्थितस्यान्यथाप्रकाशनम् । अतः कारणदोषेऽवगतेऽर्थान्यथात्वमेवावगतं भवति । एवं च{१,९४}साक्षाद्विपर्ययज्ञानेन तुल्यत्वमिति । अत्रैव वैदिकन्यायमुदाहरति गोदोहनादिवदिति । दर्शपूर्णमासयोः क्रत्वर्थेन चमसेनापां प्रणयने विहिते भवत्यपरो गुणफलसम्बन्धविधिः । यथा गोदोहनेन पशुकामस्य प्रणयेदिति । अस्यार्थः गोदोहनेन पशून् भावयेदिति । तदिदं पुरुषाभिलषितपश्वर्थ[३१२]तया पुरुषार्थमेव[३१३]सद्गोदोहनं क्रत्वर्थस्य चमसस्य बाधकमिष्यते । तत्रापि च स्फुटो विषयभेदः । क्रतूपकारो हि चमसस्य साध्यः । पशवो गोदोहनस्यार्थादेव तुल्यार्थतया तत्रापि बाधो वक्ष्यते । गोदोहनं हि द्रव्यम् । न तत्क्रियामनाश्रितमुदासीनं फलं भावयितुमलमिति यांकाञ्चित्क्रियामाश्रयतया समीहमानं सन्निहितं क्रत्वर्थमपां प्रणयनं गृह्णातीति तदाश्रितेन पशवो भावयितव्या इति शास्त्रार्थोऽवतिष्ठते । एवं च तेनैव क्रत्वर्थमपां प्रणयनं सिद्धमिति चमसो निवर्तते । नन्वसावेव क्रतौ विनियुक्त इति कथं तत्परित्यागेन गोदोहनेन क्रतूपकारो भाव्यते । सत्यम् । पशुकामप्रयोगे तु क्रतुरपि गोदोहनमेव स्वोपकारसाधनतयानुजानाति । कार्यार्थो हि स्वगुणं प्रत्यादरः, न स्वीयतया । तच्च कार्यं फलार्थत्वादेव गोदोहनादासादितं क्रतुनेति किमादरेण स्वगुणे । आह च __________टिप्पणी__________ [३१२] र्थं [३१३] व गो (ङा) ___________________________ सर्वस्यैव हि कार्यार्थः स्वगुणग्रहणादरः । अन्यार्थगुणसिद्धे तु कार्येऽस्याः स्वगुणेन किम् ॥ इति । तदिह यथा पुरुषार्थेनैव गुणेन भिन्नविषयोऽपि क्रत्वर्थश्चमसोऽर्थात्तुल्यार्थतया बाध्यते, एवमत्रापीति न दोष इति ॥ ५८ ॥ किमेष एवोत्सर्गः यत्सर्वदा परेण पूर्वं बाध्यते । नेत्याह तत्रेति । यदि तत्र दुष्टकारणबोधे नैतदेवमिति विपर्यये वा परा बाधधीर्न भवति कारणदोषज्ञानं वा, तदा पूर्वस्य बाधो भवति न त्वन्यथेति । अथोभयोरन्यतरोद्भूतौ किं नाम भविष्यति, अत आह तदुद्भूताविति । तदा बाधके सापवादे प्रथममेव निरपवादमौत्सर्गिकं प्रामाण्यं लभत इति ॥ ५९ ॥ {१,९५} ननु प्रमाणेन सता तृतीयेन बाधकं बाध्यते । तदेव तु कथं प्रमाणमत आह स्वत इति । सर्वं खलु विज्ञानं जातं स्वत एव प्रमाणमविज्ञायमानदोषम् । तथा च तृतीयम् । अतस्तेन बाधकबाधने कृते भवत्याद्यस्य मानतेति । नन्वसत्स्वपि[३१४]दोषेषु दोषाशङ्का यथा आदिमे जाता, एवमन्तिमेऽपीति प्रामाण्यं नावतिष्ठते, अत आह दोषेति । अयमभिप्रायः जाते दोषज्ञाने सम्भाविता दोषाः प्रामाण्यं विघ्नन्ति । तृतीये तु दोषज्ञानं न तावदुत्पन्नम् । शङ्का तु नोत्प्रेक्षामात्रेण कर्तुमुचिता, सर्वव्यवहारोच्छेदप्रसङ्गात् । __________टिप्पणी__________ [३१४] षाश ___________________________ अत एव च गीतासु नरं नारायणोऽब्रवीत् । नायं लोकोऽस्ति कौन्तेय न परः संशयात्मनः ॥ इति । यस्य तु तृतीये विज्ञाने दोषज्ञानं बाधक[३१५]ज्ञानं वा जायते, तस्यास्तु चतुर्थज्ञाना[३१६]वसानो निर्णयः । न त्वेतदेवं, प्रायेण हि प्रथमज्ञानजन्मन्येव निरपवादो निर्णयो दृश्यते । क्वचित्तु बाधका[३१७]वसानस्तृतीयज्ञानोदयोऽपि नातिप्रचुरः । नतरां चरुर्थज्ञानजन्म । सत्यपि तु तस्मिन्न स्वतःप्रामाण्यं विहन्यते इत्येवं परतयैवेदमस्माभिरुक्तम् । अस्तु चतुर्थज्ञानान्निर्णय इति वार्त्तिककारोऽप्यत एव एवं त्रिचतुरज्ञानजन्मन इति वक्ष्यतीति । किं पुनः कारणमनुत्पन्ने दोषज्ञाने नाशङ्केति । न हि प्रयोजनानुवर्तीनि प्रमाणानि । दृष्टव्यभिचारस्य हि प्रमातुरेकत्रापि नाश्वासो भवेद्यदि चैवमुच्छिद्यन्ते व्यवहाराः । कामं प्रमाणतो हि ते परिनिस्तिष्ठन्ति । न तेभ्यः प्रमाणमत आह निष्प्रमाणिकेति । अयमभिप्रायः यावद्धि दोषाणामभावो नावधार्यते, तावत्प्रमाणेतरसाधारणधर्मदर्शिनो भवत्याशङ्का प्रमाणवती । दोषाभावावधारणे तु जाते तानाशङ्कमानस्याभावविरोध एव ।[३१८]अर्थेन्द्रियादयो हि ज्ञानकारणम् । तद्दोषा दूरत्वतिमिरादयः । तद्यथा दूरे सन्तस्तरवो वनमित्येकाकारतया परिगृहीताः सन्निकर्षे नाना दृश्यन्ते । तदा दूरत्वदोषादेकत्वबुद्धिरुपजातेति निश्चीयते । नानात्वबुद्धेस्तु न कश्चिद्दोषो दृश्यत इति कथमाशङ्क्यते ।{१,९६} एवं सन्तमसे गव्यश्वभ्रमे स एव दोषः । दिवा तु गोज्ञाने न कश्चिद्दोषः सम्भाव्यत इति तत्प्रमाणम् । एवं चक्षुरादिदोषाणां तिमिरादीनामभावेऽवगते निष्प्रमाणिकैव दोषाशङ्का । यत्रापि सादृश्यचलत्वादयो विषयदोषा भ्रान्तिहेतवः, तत्रापि भेदकधर्मावधारणे निश्चलत्वेऽवगते च न काचिद्दोषाशङ्केति न तत्समयभाविनो ज्ञानस्याप्रामाण्यमिति ॥ ६० ॥ __________टिप्पणी__________ [३१५] को वा ___________________________ [३१६] नान्निर्णयः (Kआ)॑ नाद्ज्ञानोदयो निर्णयः (Kःा) [३१७] काधीनस्तृ (Kआ) [३१८] आत्मे (Kःा) ___________________________ एवं त्रिचतुरैरेव ज्ञानैर्दोषाभावसिद्धेर्न ततोऽधिका मतिः प्रार्थनीया प्रामाण्यसिद्धये, येनानवस्था भवेत् । यावदेव तु तृतीयं चतुर्थं वा ज्ञानमुत्पन्नं, तावदेवैकं पूर्वमुत्तरं वा निरपवादं स्वतःप्रामाण्यमापद्यत इत्याह एवमिति ॥ ६१ ॥ समधिगतं तावत्सर्वप्रमाणानां स्वतःप्रमाणत्वं दोषतश्चाप्रमाणत्वमिति । प्रकृतमिदानीं वेदानां प्रामाण्यं यथा सिध्यति तथा प्रतिपादनीयम् । तदर्थं च वक्त्रधीना एव शब्दे दोषा न स्वाभाविका इत्याह शब्द इति । अयमभिप्रायः यदा वक्त्रधीनाः शब्दे दोषा इति समधिगतं भवति, तदा वेदे वक्तुरभावान्निराश्रया दोषा न सम्भवन्तीति निरपवादं प्रामाण्यमुप[३१९]पन्नं भवति वेदानाम् । स्थितं चेदं यत्पराधीनः शब्दे दोष इति, स हि ना(?र्था।र्थ)संस्पर्शीति पूर्वमुपपादितम् । पुरुष एव भ्राम्यन्नन्यदन्यथा बुद्ध्वा तथैव परस्मै[३२०]प्रतिपादयन् शब्दं दूषयति । क्वचिच्चान्यथैव ज्ञात्वा विप्रलिप्सयान्यथा वदति, तत्रापि तदधीनैव शब्दे दोषावगतिः । स्थानकरणादिदोषाद्वा कलाध्माताम्बूकृतैणीकृतादिदोषदुष्टः शब्दो लक्ष्यते । सर्वथा पराधीन एव शब्दे दोषावगमः, न पुनरसुरभिगन्धवत्स्वभावदुष्टः शब्द इति । स इदानीं वक्त्रधीनो दोषो गुणवद्वक्तृप्रयुक्ते वा क्वचित्पौरुषेये वाक्ये न भवतीत्याह तदभाव इति ॥ ६२ ॥ __________टिप्पणी__________ [३१९] त्पन्नं (Kआ) [३२०] कथयञ्छब्दं (Kःा, ङा) ___________________________ {१,९७} ननु वक्तृगुणा वक्तर्येव दोषानुत्सारयन्ति, कथं तैर्निरस्तैः शब्दो निर्दोषो भवत्यत आह तद्गुणैरिति । उक्तं वक्तृदोषा एव शब्दं दूषयन्तीति । स चेद्गुणैरुत्सारितो दोषः, कः प्रसङ्गः शब्दे दोषाणाम् । न हि वक्तर्यनाश्रितानामेव दोषाणां शब्दे सङ्क्रान्तिः सम्भवतीति फलतः सङ्क्रान्तिवाचोयुक्तिरिति । वक्त्रभावादेव वा निराश्रया दोषा नोत्सहन्ते भवितुं नित्यवेदवाक्य इत्याह यद्वेति । दोषाभावाच्च न स्वतःप्रामाण्यं वेदानां विहन्यत इति भावः ॥ ६३ ॥ नन्वङ्गीकृतं तावद्भवतापि पुंवाक्येषु गुणेभ्यो दोषाभाव इति । एवं च कुतोऽयं विवेकः दोषनिराकरण एव गुणा व्याप्रियन्ते न तु प्रामाण्य इति, अत आह पौरुषेये इति । अयमर्थः सत्यं पौरुषेयवाक्येषु दोषाभावगुणात्मकमुभयं दृश्यत एव । यथा तु गुणतो न प्रामाण्यं तथा प्रामाण्यं प्रागुक्तमेव अनवस्था हि तथा स्यादिति । अतो दोषाभावमात्रौपयिका गुणा न स्वरूपेण प्रामाण्य उपयुज्यन्त इति ॥ ६४ ॥ एतदेवोपसंहरति तस्मादिति । अप्रामाण्यस्य हि द्वयं कारणं कारणदोषज्ञानं बाधकप्रत्ययो वा । गुणनिराकृतेषु च दोषेषु पुंवाक्येषु नोभयमपि सम्भवति । न ह्यसनतो दोषा ग्रहीतुं शक्यन्ते । न चादुष्टकारणजनितस्य ज्ञानस्य बाधकः प्रतितिष्ठति । अतोऽप्रामाण्यस्य यत्कारणद्वयं तदसत्त्वादुत्सर्गतः प्रामाण्यमनपोदितमिति ॥ ६५ ॥ असति चापवादे न प्रत्ययजनकत्वेनोत्सर्गतः प्राप्तं प्रामाण्यं पुंवाक्यानामपनीयत इत्याह प्रत्ययोत्पत्तिरिति । अत्र चोदयति दोषाभाव {१,९८}इति । यद्याप्तवाक्येषु गुणनिबन्धनो दोषाभावः, एवं तर्हि गुणज्ञानाधीन इव प्रामाण्येऽनवस्थैव । कः खल्वत्र विशेषः, गुणज्ञानाधीनं वा प्रामाण्यं तदधीनो वा दोषाभाव इति । यदेव हि दोषाभावं ग्रहीतुं गुणज्ञानमपेक्ष्यते, तस्यैव हि गुणज्ञानाधीनो दोषाभावः, तस्याप्येवमिति सैव पूर्वोक्तानवस्था । तथश्च प्रामाण्योत्खातिरिति ॥ ६६ ॥ परिहरति तदेति । अयमभिप्रायः यदि ज्ञाता एव गुणा दोषानुत्सारयेयुः, एवमनवस्था भवेत् । न त्वेतदेवमिति । कथं नाम व्याप्रियन्ते अत आह दोषाभावे इति । सन्मात्रतया गुणा दोषानुत्सारयन्ति ।[३२१]अतोऽसन्तो दोषा न ज्ञाता इति सहजं प्रामाण्यमवतिष्ठत इति ॥ ६७ ॥ __________टिप्पणी__________ [३२१] त ___________________________ तदेवं तावद्गुणनिराकार्यदोषेष्वपि पुंवाक्येषु दोषपरिहार उक्तः । अकर्तृसन्दृब्धे तु वेदे निराश्रया दोषाः शङ्कामपि नाधिरोहन्तीत्यप्रामाण्यशङ्कापि नास्त्य्[३२२]एवेत्याह तत्रेति । प्रामाण्यस्यौत्सर्गिकस्याप्रामाण्यमपवादभूतं तन्निर्मुक्तिर्वेदे लघीयसी न पुंवाक्यवद्गुणापेक्षि[३२३]तया गुर्वीति भाव इति ॥ ६८ ॥ __________टिप्पणी__________ [३२२] स्तीत्या [३२३] क्ष (Kआ) ___________________________ यतः पुंवाक्येष्वपि न गुणापेक्षं प्रामाण्यम्, अतो न शब्दानां प्रमाणता वक्त्रधीना । तद्गुणापेक्षायां तु तदधीनता भवेत् । न चैतदेवमिति वर्णितमेव । अतो यद्नैयायिकादिभिः प्रामाण्यसिद्ध्यर्थं वेदे वक्तुरुपासनं कृतं महेश्वरेण वेदाः प्रणीता इत्याश्रितं तदयुक्तं, दोषाभावादेव तेषां स्वतः प्रामाण्यसिद्धेरित्यभिप्रायेणाह अत इति न युक्तमन्तेन ।{१,९९}अप्रमाणत्वानुगुणैव दोषाशङ्कामुपजनयन्ती कर्तृकल्पनेत्याह अप्रमाणत्वेति ॥ ६९ ॥ अत एव च यदपि नास्तिकैराप्ताप्रणीतत्वेनाप्रामाण्यप्रसञ्जनं कृतं, तदप्यत्र नित्ये वेदे दोषाय न जायत इत्याह ततश्[३२४]चेति । अयमभिप्रायः पौरुषेयवाक्यमाप्ताप्रणीतत्वेन दुष्यति । तद्धि तदप्रणीतमर्थादनाप्तप्रणीतं भवेत् । ततश्च तद्दोषदुष्टमप्रमाणं भवेत् । नित्यं तु यदि नामाप्ताप्रणीतम्, एवमपि निर्दोषमेवेति न तस्याप्ताप्रणीतत्वेन प्रामाण्यं विहन्यते । पौरुषेयमपि हि नाप्ताप्रणीतत्वेनाप्रमाणम्, अपि तु अनाप्तप्रणीततया । सा च नित्ये नास्तीति किमप्रमाणं भविष्यतीति । ननु व्याप्तिबलेन परैराप्ताप्रणीतत्वेनाप्रामाण्यं साधितं बालादिवाक्यनिदर्शनेन यद्वाप्तेनाप्रणीतत्वादित्यत्र । अतो हेतुदोषा एव विरुद्धासिद्धादयोऽभिधीयन्ताम् । किं स्वगोत्रानुसारिणा वचनेन, अत आह प्रयोगाणामिति । न परमस्य प्रयोगस्य, सर्वेषामेव प्रयोगाणामुत्तरत्र प्रतिसाधनं वक्ष्याम एव चोदनाजनिता बुद्धिरित्यादिना । अतः प्रतिहेतुविरुद्धा अप्रामाण्यहेतवः संशयजनकतया नाप्रामाण्यं निश्चाययन्ति यदि तुल्यबलाः । अथ तु प्रामाण्यहेतवो बलीयांसः, ततस्तद्बाधिता नतरामात्मानमप्रामाण्यहेतवो लभन्त इति ॥ ७० ॥ __________टिप्पणी__________ [३२४] त इति (Kआ) ___________________________ कथं पुनराप्ताप्रणीतत्वं न दोषाय, आप्तो हि प्रमाणेनार्थं प्रतिपद्य वाक्यमारचयति । तच्च मानान्तरसंवादादेव हि प्रमाणं भवति । आप्ताप्रणीतं ह्य्[३२५]असन्मूलप्रमाणान्तरं कथं प्रमाणं भविष्यतीत्यत आह पौरुषेयेति । अयमभिप्रायः वेदवाक्यं मूलान्तरानपेक्षमेव स्वार्थे प्रमाणं, किं तस्य प्रमाणान्तरेण । पौरुषेये तु वचसि प्रमाणान्तरं मूलकारणमिति तत्तदभावे दुष्यतीति ॥ ७१ ॥ __________टिप्पणी__________ [३२५] त्व (Kःा, ङा) ___________________________ {१,१००} यत्तु असन्मूलान्तराणामसम्भवत्संवादानां कथं प्रामाण्यमिति, तदयुक्तम् । येनैव हि कारणेन प्रमाणान्तरमूला न चोदनाः, तेन येयमसङ्गतिस्तासां प्रमाणान्तरैः, सैव सुतरां प्रामाण्यकारणम् । अत एव अर्थेऽनुपलब्धे इति वक्ष्यति । अप्राप्ते शास्त्रमर्थवदिति च । प्रमाणान्तरमू[३२६]लत्वेऽनुवादत्वमेवासामापद्यते, न प्रामाण्यम् । न हि नो गन्तृमात्रं प्रमाणमित्यभिप्रायेणाह तेनेति । ॥ ७२ ॥ __________टिप्पणी__________ [३२६] प्राप्तविषयत्वे (Kःा) ___________________________ यदपि तावत्प्रमाणान्तरगोचरार्थं पुंवचनं, तस्यापि प्रामाण्ये न संवादः कारणम् । किमङ्ग पुनः प्रमाणान्तरागोचरार्थानां वेदवाक्यानामित्यभिप्रायेणाह अन्यस्यापीति । तदपि स्वत एव प्रमाणमिति भावः । नन्वेक एवार्थोऽनेकेभ्य आप्तवाक्येभ्योऽवगम्यते । सर्वाणि च तानि प्रमाणानि । यथा अष्टवर्षं ब्राह्मणमुपनयीत गर्भाष्टमेऽब्दे[३२७]कुर्वीत ब्राह्मणस्योपनायनम् __________टिप्पणी__________ [३२७] वा ___________________________ इति च । अतः कथमुच्यते प्रमाणान्तरागोचरार्थत्वमेव प्रामाण्ये कारणमिति, अत आह तुल्यार्थानामिति । एकार्थोपनिपातिनां हि व्रीह्यादीनां विकल्पो वक्ष्यते एकार्थास्तु विकल्पेरन् (१२ ।३ ।१०) इति । अतोऽत्रापि प्रमातृभेदाद्व्यवस्थितविकल्प एव प्रमाणानां, शाखादिविकल्पवत् । न पुनरन्योन्यसंवादः प्रामाण्ये कारणम् । तथा हि गौतमीयगोभिलीये छन्दोगानां, याज्ञवल्कीयं वाजसनेयिनां प्रमाणं विकल्प्यत्वात् । विकल्पनीयत्वादेकैकं स्मृतिवाक्यमेकैकस्य प्रमातुर्बोधकं न त्वन्योन्यसंवादात्[३२८]प्रामाण्यम्, धर्मद्रोणाध्यायिनामपि नान्योन्यसंवादः प्रामाण्ये कारणम् । एकस्माद्धि तमर्थं विदितवतोऽन्यदनुवाद एव । अन्यस्यैव तु तत्प्रमाणम् । एवं भिषग्विद्यास्वपि दर्शयितव्यमिति ॥ ७३ ॥ __________टिप्पणी__________ [३२८] दःप्रामाण्ये कारणम् । ध (Kःा, ङा) ___________________________ {१,१०१} यत्र तर्हि प्रमातुरेकस्यैवैकार्थगोचरा नानाप्रमाणैः परिच्छेदा जायन्ते तत्र कथम् । यथा कश्चिद्दूरे सन्तमग्निं प्रथममाप्तवाक्यादवगच्छति, पुनश्चोपसर्पन् धूमादनुमिनोति, ततः पुनरत्यन्तमासीदन् प्रत्यक्षयति । तत्र हि सर्वाण्येव प्रमाणानि, परस्परसङ्गतार्थानि च । अतः कथं न संवादः प्रामाण्ये कारणमित्यत आह यत्रापीति । अयमभिप्रायः यदि तावदनधिकविषयाण्येव तानि सर्वाणि, तत एकमेव तत्राद्यं प्रमाणम् । इतराणि त्वनुवादभूतानि । नचैतान्यनधिकविषयाणि । न ह्यसावर्थः पूर्वेण प्रमाणेन तथावगतः यथोत्तरैरवगम्यते, उत्तरोत्तरकालसम्बन्धातिरेकात् । अपि चाप्तवाक्यात्पर्वतोऽग्निमानिति सामान्यतोऽवग[३२९]म्यते । पुनस् तदेकदेशविशेषो[३३०]धूमानुमानादवगम्यते । असाधारणधूमदर्शनाच्च काष्ठादिभेदभिन्नः प्रत्यक्षेण च समुन्मी[३३१]लिताखिलविशेषो[३३२]विशदतरमयमित्यपरोक्षमवसीयते इत्यधिकाधिकविषयाणां न संवादतः प्रामाण्यमिति ॥ ७४ ॥ __________टिप्पणी__________ [३२९] गते [३३०] षोऽनु [३३१] दिता [३३२] षोऽपि वि (Kःा) ___________________________ संवादनिबन्धने च प्रामाण्येऽनवस्थापद्यत इत्याह सङ्गत्येति ॥ ७५ ॥ नन्वविसंवादि ज्ञानं प्रमाणमर्थक्रियास्थितिश्चाविसंवाद इति जातायामर्थक्रियायां किं प्रमाणान्तरापेक्षया । यथाहुः प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः । अविसंवादनम् इति । प्रत्यक्षमनुमानं च द्वे एव प्रमाणे इति प्रतिज्ञाय न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमाणोऽर्थक्रियायां विसंवाद्यते इति च । अतोऽर्थक्रियावसानैव प्रमाणस्थितिरिति न ज्ञानान्तरापेक्षायामनवस्था । अत आह कस्येति । अयमभिप्रायः अर्थक्रियाज्ञानमपि[३३३]न तावदप्रमाणम्[३३४]अर्थक्रियां व्यवस्थापयितुम्{१,१०२}अलमिति तत्प्रामाण्यार्थमपरापरार्थक्रियानुसरणेनानवस्थैव । यदि त्वनपेक्षितज्ञा[३३५]नान्तरमेव तत्प्रमाणम्, एवं सति प्रथममर्थज्ञानमेव किमनपेक्षं न प्रमाणमिष्यते । न ह्यनयोरवबोधरूपत्वेऽसंशयात्मकत्वे च[३३६]कश्चिद्विशेषो दृश्यते । अपि च प्रमाणेनार्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायाम् अविसंवादं मन्यते । तत्रार्थक्रियास्थितेः प्रागविसंवादानवगतेर्न प्रांाण्यनिश्चय इति कथं प्रवृत्तिः । अप्रवृत्तस्य वा[३३७]कथमर्थक्रियास्थितिः । तदिहोभयस्मिन्नन्योन्याधीने दुरुत्तरमितरेतराश्रय(त्व)म् । अथ सन्देहादेव प्रवृत्तोऽर्थक्रियास्थित्या अविसंवादं बुद्ध्वा प्रामाण्यं मन्यते, कृतं तर्हि प्रमाणेन । अर्थक्रियार्थमेव हि तदर्थ्यते । सा चेत्सन्देहादेव जाता, स एव साधीयान् । तस्यैव व्यवहारौपयिकत्वात् । अतो यदप्युक्तं हिताहितप्राप्तिपरिहारयोर्नियमेन सम्यग्ज्ञानपूर्वकत्वादविदुषां तद्व्युत्पादनार्थं प्रमाणनिश्चयप्रणयनमिति, तदप्ययुक्तम् । अतत्पूर्वकत्वात्तयोः । अपि चास्मिन्मते सकृज्जातविनष्टेषु विद्युदादिभावेषु न काचिदर्थक्रिया जातेति तज्ज्ञानं प्रमाणं न स्यात् । अथ[३३८]तत्रापि शब्दप्रयोगोऽर्थक्रियेत्युच्यते, तर्हि निर्विकल्पके अप्रामाण्यप्रसङ्गः । तस्मादविसंवादि प्रमाणमिति मन्यामह एव । अर्थक्रिया[३३९]स्थितिस्तु अविसंवाद इति न मृष्यामहे । अर्थान्यथात्वहेतूत्थदोषज्ञानाभ्यामेव तूत्पन्नस्य ज्ञानस्य विसंवादः । तदभावाच्चाविसंवादः । तावता च प्रामाण्यमिति सिद्धं न संवादापेक्षं प्रामाण्यमिति ॥ ७६ ॥ __________टिप्पणी__________ [३३३] पि तावदप्र [३३४] णं नार्थ (ङा) [३३५] प्रमाणान्त (Kआ) [३३६] वा [३३७] च (Kःा) [३३८] थवा त (ङा) [३३९] या तु अवि (Kआ) ___________________________ अपि च संवादापेक्षिणि प्रामाण्ये श्रोत्रजा बुद्धिरिन्द्रियान्तरजन्याभिर्बुद्धिभिरसंवादादप्रमाणमापद्यते इत्याह श्रोत्रेति । यदि त्वस्याः श्रोत्रज्ञानान्तरसंवादाद्[३४०]एव प्रामाण्यमिष्यते, तथा सति वेदेऽपि तत्तद्वाक्योच्चारणानुगामिनी शतकृत्वो बुद्धिरुत्पद्यत इति सापि नाप्रमाणमित्याह स्याच्चेद्{१,१०३}इति । प्रमाणान्तरजन्या तु संवादबुद्धिर्न परं वेदे, श्रोत्रेऽपि प्रत्यक्षे च नास्तीत्युक्तमेवेत्याह प्रमाणेति ॥ ७८ ॥ __________टिप्पणी__________ [३४०] दात्प्रा (Kःा) ___________________________ तदेवं स्थिते यद्येकेन्द्रियाधीनज्ञानसंवादात्श्रोत्रं प्रमाणमित्युच्यते॑ एवं सति वेदेऽपि[३४१]तत्तद्वाक्योद्भावितबुद्धिसंवादाद्दुर्वारं प्रामाण्यमित्याह यथेति । पौनरुक्त्यं त्वत्रानवहिता मन्यन्ते इति, किं तदाक्षेपपरिहाराभ्यामिति ॥ ७९ ॥ __________टिप्पणी__________ [३४१] तद्वा (Kआ) ___________________________ यत एते संवादापेक्षिणि प्रामाण्ये दोषाः, तस्माद्विमुच्य संवादग्रहणं यदुत्पन्नं दृढमसन्दिग्धं ज्ञानान्तरेण च नैतदेवमिति न विसंवाद्यते । विज्ञानं विशिष्टविषयं ज्ञानम्, अधिकविषयमिति यावत् । एतेन स्मरणं व्यवच्छिनत्ति । तद्धि पूर्वज्ञानादविशिष्टमनधिकविषयत्वात् । तदेव प्रमाणमित्याह तस्मादिति ॥ ८० ॥ क्व पुनः प्रमाणान्तरास[३४२]ङ्गतार्थं वचः प्रमाणं दृष्टं, येन वेदवाक्यानां प्रामाण्यमाश्रीयते । पौरुषेयं हि सर्वं प्रमाणान्तरप्रतिपन्नार्थमेव, अत आह न चेति । अयमभिप्रायः नानुमानसाध्यप्रामाण्यानि प्रमाणानि, येन क्व दृष्टमिति पर्यनुयु[३४३]ज्यामहे । अनुमाने हि दृष्टान्तापेक्षा भवति । स्वत एव च प्रमाणानां प्रामाण्यमिति न तेषामनुमानेन प्रामाण्यं साधनीयमिति । अनुमानेन च प्रामाण्यसाधने तस्याप्यनुमानान्तरापेक्षायामनवस्थेत्याह सर्वस्येति ॥ ८१ ॥ __________टिप्पणी__________ [३४२] गोचरार्थं (ङा) [३४३] यो (Kआ) ___________________________ {१,१०४} अत्र चोदयति नन्विति । अयमभिप्रायः यथा अप्रमाणमप्रमाणतया ना[३४४]वसीयत इति परापेक्षम्, एवं प्रमाणमपि प्रमाणतया न प्रकाशत इति तदपि परापेक्षमापद्यते । न हि प्रमाणत्वेनागृहीतं प्रत्यक्षादि व्यवहाराय[३४५] कल्पते । तदर्थं च प्रमाणानुसरणं न व्यसनेनेति ॥ ८२ ॥ __________टिप्पणी__________ [३४४] नाध्यव ___________________________ [३४५] यावक (ङा) ___________________________ परिहारति प्रमाणमिति । अयमभिप्रायः यथा अविदितस्वरूपशक्तीन्यपि चक्षुरादीन्द्रियाणि परानपेक्षाण्येव कृतकार्याणि कार्यान्यथानुपपत्त्या पश्चादवसीयन्ते, न चैतेषां ज्ञानं कार्यं प्रत्युपयुज्यते, तस्य निरपेक्षैरेवेन्द्रियैः कृतत्वात् । एवं प्रमाणमपि प्रत्यक्षादि प्रत्ययान्तरग्रहणात्पूर्वं स्वकार्ये विषयपरिच्छेदे निरपेक्षमेव संस्थितमतिक्रान्तं स्वरूपेणैव कदाचिद्गृह्येतापि यदि जिघृक्ष्यते । न तु तस्य ग्रहणं प्रामाण्य उपयुज्यते । यादृशं हि रूपमस्य प्रत्ययान्तरेणा[३४६]पि ग्रहीतव्यं तेनैव रूपेण तत्प्रागप्यासीदेव । घटप्रत्यक्षेण हि घटो घटोऽयम् इति निश्चिता[३४७]कारः प्रवेदितः । तावदेव च तस्य प्रमाणत्वं, प्रमाणान्तरेणापि घटोऽमुना परिच्छिन्न इत्येव प्रवेदनीयम्, नाधिकं किञ्चिदिति जायमानमपि कृतकरमेव तत्प्रमाणान्तरम् । अप्रमाणे तु पूर्वानवगतरूपज्ञा[३४८]नायार्थवत्प्रत्ययान्तरमिति वक्ष्यति । संस्थितमिति प्रमाणपर्यवसानं दर्शयति । कार्यान्तरनिष्पत्त्या हि प्रमाणं सन्तिष्ठते । संस्थिते चानर्थकं प्रत्ययान्तरमिति ॥ ८३ ॥ __________टिप्पणी__________ [३४६] ण गृहीतं ते (Kआ) [३४७] तरूपः प्र (ङा) [३४८] ज्ञापना (Kआ) ___________________________ यतश्च स्वरूपेण प्रत्ययान्तरैः प्रमाणमवसीयते, तच्च स्वरूपमवगतपूर्वमेव, अतोऽस्य प्रमाणस्य प्रत्ययान्तरेण ज्ञायमानत्वं न प्रामाण्य{१,१०५}उपयुज्यते । इदं हि तस्य प्रामाण्यं यत्स्वविषयप्रकाशनं, तच्च पूर्वस्मादेव स्वस्माल्लब्धमित्यनर्थकं प्रत्ययान्तरमित्युक्तमेवार्थं व्यक्तीकर्तुमाह तेनेति ॥ ८४ ॥ अप्रमाणे तु प्रत्य[३४९]यान्तरमर्थवदिति युक्तैव तत्र तदपेक्षेत्याह अप्रमाणमिति ।[३५०]अयमर्थः अप्रमाणं हि स्वरूपेणार्थं गृह्णाति । यादृशं हि ज्ञानस्य स्वरूपं तादृशमेवार्थेऽध्यारोपयतीति यावत् । इदं रजतमिति[३५१]हि शुक्तौ रजताकारमप्रमाणं तामपि तदाकारतया गृह्णाति । अत एव च तन्मिथ्या भवति । तच्चैतन्मिथ्यात्वमेवात्मनो न तेनात्मना प्रवेदितमिति तत्प्रवेदनाय युक्तैवान्यापेक्षा । असति हि मिथ्यात्वग्राहिणि प्रत्ययान्तरे न स्वार्थे ज्ञानस्वरूपारोपो मिथ्यात्वं निवर्तते । असत्यां च तन्निवृत्तावप्रमाणादेव प्रामाण्यव्यवहारः प्रतायेत । अतस्तन्निवृत्तयेऽर्थवत्प्रत्ययान्तरमिति ॥ ८५ ॥ __________टिप्पणी__________ [३४९] माणान्त [३५०] ति । अप्र (ङा) [३५१] ति शु ___________________________ कस्मात्पुनः प्रत्ययान्तरैरगृहीतं मिथ्यात्वं न निवर्तते, अत आह न हीति । यादृशं ज्ञानं तथार्थो न भवतीति योऽयमर्थस्यातथाभावः नायं पूर्वेणाप्रमाणेनोपात्तः । अपरिच्छिन्न इति यावत् । प्रमाणेनैव हि तथात्वं, तस्य हि तथात्वमर्थस्य कार्यं, तच्च तेनैव प्रकाशितमिति न तत्र परापेक्षा । अन्यथात्वं त्वर्थस्याप्रमाणादसिद्धमिति तत्र प्रमाणान्तरं सावकाशमिति ।[३५२]आह अस्तु परतो मिथ्यात्वम्, एवमपि न प्रामाण्यं चोदनानाम्, अनुमानेन मिथ्यात्वावगमात् । उक्तं हि __________टिप्पणी__________ [३५२] ति । अस्तु (Kआ) ___________________________ स्वर्गयागादिसम्बन्धविषयाश्चोदना मृषा । इति, अत आह तत्रापीति । अयमभिप्रायः न यतः कुतश्चित्परस्मान्मिथ्यात्वम्, अपि तु तत्राप्यर्थातथाभावे मिथ्यात्वेऽन्यथात्वविषयैव{१,१०६} या धीः नेदं रजतमिति वा शुक्तिरियमिति वा सा कारणं, दुष्टकारणविषया वा । यथा वक्ष्यति यस्य च दुष्टं करणं यत्र च मिथ्येति भवति प्रत्ययः इति ॥ ८६ ॥ किमेष मन्त्रः । अनुमानादपि मिथ्यात्वमवसीयमानं न कदाचिदपि निग्रह[३५३]स्थानमापादयतीति, अत आह तावतेति । चकारो हेतौ । नायं मन्त्रः । किन् त्वनुमानान्मिथ्यात्वमवगन्तुमेव न शक्यते, प्रतिहेतुविरुद्धत्वादनुमानानाम् । नास्तिकानामपि चाभ्युपेतस्वागमाप्रामाण्यप्रसङ्गाच्च । शक्यते हि तदागमानामपि वाक्यत्वादिना मिथ्यात्वमनुमातुम् । चोदनाजनितासन्दिग्धाविपर्यासितज्ञानविरुद्धाश्च हेतवो न प्रामाण्यमाच्छादयितुमुत्सहन्ते चोदनानामिति तावतैव कारणद्वयेन मिथ्यात्वं गृह्यते, न[३५४]पुनः परोक्तदुरुक्तहेतुसङ्घातेनेति । ननु यदपि तदर्थान्यथात्वज्ञानं दुष्टकारणज्ञानं वा, तदपि नाप्रमाणं मिथ्यात्वं प्रतिष्ठापयति । प्रामाण्यं च पूर्वज्ञानविरोधात्तस्यापि दुरध्यवसानमिति कथं पूर्वस्य मिथ्यात्वमत आह उत्पत्त्यवस्थमिति । तदिदमुभयविधं मिथ्यात्वग्राहि ज्ञानमुत्पत्त्यवस्थितं प्रमाणमिति मीयते । यथा प्रमाणं भवति तेनात्मना मीयत इत्यर्थः । तत्खलूत्पत्तिदशामधिरूढमिति न तावदनुत्पत्तिलक्षणेनाप्रामाण्येन परिभूयते । निश्चयत्वात्मकत्वाच्च न संशयरूपेण । न चास्य बाधकान्तरमुपलभ्यत इति प्रमाणमेव । अतस्तेन शक्यते पूर्वस्य मिथ्यात्वमापादयितुम् । तस्यापि बाधकोदये प्रमाणेतरविभागो भणित एवेति सूक्तं द्वेधैव मिथ्यात्वमिति ॥ ८७ ॥ __________टिप्पणी__________ [३५३] हमा [३५४] न प (Kआ) ___________________________ यतश्च द्वेधैव मिथ्यात्वमवगम्यते न प्रमाणान्तरेण, अतः परस्मा अपि मिथ्यात्वं प्रतिपादयितुकामेनैतदेव मिथ्यात्वहेतुध्वयं वक्तुमुचितम् । न त्वप्रमाणसाधर्म्यमात्रप्रयोजकं, यथा परैः कृतमित्याह अत इति ॥ ८८ ॥ {१,१०७} आगमविरोधश्चानुमानेनाप्रामाण्यं साधयतामित्याह चोदनेति । अयमभिप्रायः चोदनाजनितं ज्ञानं त्रिविधा[३५५]प्रामाण्यरहितं स्वतश्च प्रमाणमिति स्थितम् । अतस्तेनैवाप्रामाण्यप्रतिज्ञा बाध्यते । तस्मिन् परिपन्थिनि न वाक्यत्वादीनामप्रामाण्येन सम्बन्ध एव ग्रहीतुं शक्यत इति ॥ ८९ ॥ __________टिप्पणी__________ [३५५] धदोषर ___________________________ अत्र किञ्चिदाशङ्कते तन्मिथ्यात्वादिति । अयमभिप्रायः प्रमाणं सच्चोदनाजनितं ज्ञानमनुमानमुपमृद्गाति । तदेव तु तत्प्रतिहतं मिथ्या सत्कथं तद्बाधाय प्रभवतीति । परिहरति प्राप्तमिति । अयमभिप्रायः मिथ्या सता चोदनाज्ञानेनानुमानं न बाध्यते । तदबाधितेन लब्धप्रतिष्ठेनानुमानेन मिथ्या क्रियते । अतस्तन्मिथ्यात्वादनुमानप्रमाणता, तत्प्रामाण्याच्च तन्मिथ्यात्वम् (!)इतीतेरतराश्रयमिति । यदि चोदनाज्ञानस्य बाधकान्तरं भवेद्, एवं तदापादितमिथ्यात्वं नानुमानबाधाय प्रभवतीति इतरेतराश्रयं च नाशङ्क्येत । न त्वतो भवदुक्तादनुमानादन्यत्किञ्चिद्बाधकमस्तीत्याह नेति ॥ ९० ॥ ननु प्रमाणान्तरैश्चोदनार्थस्यापरिग्रहात्संवादाभावादेव चोदनाजनितस्य[३५६]ज्ञानस्य सिद्धं मिथ्यात्वमिति नेतरेतराश्रयमत आह न चेति । उक्तमिदं न संवादनिबन्धनं प्रामाण्यमिति मा भूद्रसादिज्ञानाप्रामाण्यादभावो रसादीनामिति । कथं पुनस्तेषां संवादतः प्रामाण्येऽभावो रसादीनामित्यत आह तेषामिति । तेषां रसादीनां जिह्वादिभिरेव ग्रहणं नियतम् । अत इन्द्रियान्तरसंवादाभावाद्रसज्ञानाप्रामाण्ये रसादीनामभावो भवेदिति ॥ ९१ ॥ __________टिप्पणी__________ [३५६] स्य सि (Kआ) ___________________________ {१,१०८} यदि तु सजातीयज्ञानान्तरसंवादाद्रसज्ञानं प्रमाणमिष्यते, तथा सति धर्मेऽपि तादृग्वेदोत्थापितज्ञानसंवादः सम्भवतीत्याह तद्धियेति । इदं च संवादतः प्रामाण्यनिराकरणार्थं प्रागुक्तम् । इदानीमितरेतराश्रयप्रसञ्जनायोच्यत इति तात्पर्यभेदादपौनरुक्त्यमिति । यदि तूच्यते असिद्धमेव नश्चोदनाप्रामाण्यं, कथं तयाप्रामाण्यपक्षो बाध्यत इति । तदयुक्तं । उत्पद्यते खल्वपि वेदवचनश्राविणां नास्तिकानामपि धर्माधर्मविशेषविषयावबोधः । न च सन्दिह्यते स्याद्वा अग्निहोत्रात्स्वर्गो नवेति । न च विपर्ययः । तदिदं तेषामपि चोदनाजनितं ज्ञानं प्रमाणमेव । ज्ञानापह्नवस्तु सत्यवादिनामयुक्त एव । न हि तत्सम्भवति विदितपदपदार्थसम्बन्धश्चोदनावाक्यान्नार्थं बुध्यत इति । अनृतं तु वदन्तो नानृतं वदेदिति प्रतिषेधमतिक्रामन्तो महान्तमनर्थं प्राप्नुयुः । अतो न प्रद्वेषमात्रेणासिद्धवचनं युक्तं, तदेतदाह ममेति । यस्त्वाह सत्यमुत्पद्यते ज्ञानं, द्वेषादेव तदप्रमाणमाचक्ष्महे । परस्परविरुद्धसिद्धान्ताः प्रायेण हि तार्किका द्वेषादेव किञ्चिदप्रमाणमातिष्ठन्ते । किञ्चिच्चास्मदीयमिदं दर्शनमित्यनुरागेण प्रमाणमिति ।[३५७]अतः द्वेषाच्चोदनानां प्रामाण्यं बाध्यते । अन्यतश्च परिच्छेदान् नेतरेतराश्रयमिति, तं प्रत्याह द्वेषादिरि । नाप्रमाणतेति सम्बन्धः । न द्वेषमात्रेणाप्रमाणता सिध्यति । तथा हि न किञ्चित्प्रमाणं नामावकल्पते । सर्वे हि वादिनः परस्परेण सिद्धान्तान् विगर्हयन्तो दृश्यन्ते । तत्र कतमत्प्रमाणतयाध्यवसीयते । अतो यथोक्तलक्षणमेव सर्वं प्रमाणमिति । स्यान्मतं मा भूद्द्वेषादप्रामाण्यम् । यावत्तु वादिप्रतिवादिनोः सम्मतिः सम्प्रतिपत्तिर्न भवति । न तावत्प्रामाण्यं प्रतितिष्ठति । न चाप्रतिष्ठितप्रामाण्यं प्रमाणं परबाधनाय प्रभवति । न च नश्चोदनाप्रामाण्ये सम्प्रतिपत्तिर्{१,१०९}अस्तीति कथमनुमानबाधः । अत आह असम्मतत्वादिति । स एवान्वयः । शेषं पूर्ववदिति ॥ ९३ ॥ __________टिप्पणी__________ [३५७] ति । द्वे (Kःा) ___________________________ यथा च द्वेषासम्मतिभ्यां नाप्रामाण्यमेवं प्रामाण्यमपि नात्मेच्छाभ्यनुज्ञाभ्यां भवति, येनोभयथापि प्रसिद्धप्रामाण्येनाप्रामाण्यानुमानेन चोदनैव बाध्यत इत्यभिप्रायेणाह न चेति । अप्रामाण्यानुमानस्य हि प्रामाण्यं नास्तिकैरिष्यते । अप्रमाणेषु हि वेदेषु दुःखप्रायो वेदवादिनां सिद्धान्तः परिहृतो भवतीति । प्राग्भवीयाद्धर्मानुग्रहाच्च तेषामियमभ्यनुज्ञा[३५८]वेदाप्रामाण्यवादाः[३५९]प्रमाणमिति । उभयं चेदं न प्रामाण्ये कारणम् । उक्तमेव तु तत्र कारणमिति । द्वेषादप्रामाण्यं नेत्यत्रोदाहरणमाह अग्नीति । यदि द्वेषादप्रामाण्यं स्यादग्निदाहादिदुःखम् अप्रत्यक्षं भवेत्, तस्य ज्ञानस्याप्रत्यक्षत्वादप्रत्यक्षविषयस्य चाप्रत्यक्षशब्दवाच्यत्वात् । न[३६०]चेयं दाहदुःखस्याप्रत्यक्षतेष्यते कैश्चित् । द्वेषतस्त्वप्रामाण्ये सा प्रसजेदिति ॥ ९४ ॥ __________टिप्पणी__________ [३५८] ज्ञा यद्वे [३५९] दः (ङा) [३६०] नेयं (Kआ) ___________________________ आत्मेच्छया न प्रामाण्यमित्येतद्दर्शयति न चेति । आभिलाषिकज्ञानस्य सर्वो हि प्रामण्यमभिलषति । तथा सति हि सर्व एवाशामोदकैरपि तृप्ता भवेयुः । न तु तस्य प्रामाण्यं कैश्चिदिष्यत इति । अतः सिद्धं चोदनाविरुद्धमप्रामाण्यानुमानमप्रमाणमित्युपसंहरति तस्मादिति तव्यमन्तेन । नन्वेवं बौद्धादयोऽपि स्वागमान् गृहीत्वा प्रत्यवतिष्ठेरन्, अत आह बौद्धादेरिति । बौद्धादेरागमाद्वेदानामन्तरं[३६१]विशेषो वक्ष्यत इत्यर्थः ॥ ९५ ॥ __________टिप्पणी__________ [३६१] रं व (Kःा, ङा) ___________________________ वक्ष्यमाणमेवान्तरमनागतावेक्षणन्यायेन सूचयति पुरुषेति । बौद्धाद्यागमेषु प्रामाण्यापवादोऽप्रामाण्यं सम्भवति । अतीन्द्रियमर्थं द्रष्टुं{१,११०}पुरुषाणामशक्तेः । स्वयमेव च तैः स्वागमानां पौरुषेयत्वमाश्रितमिति बुद्ध्वात्मानं समर्पितवन्तः कथमधुनातिक्रामन्ति । अपौरुषेयास्तु वेदा इति वेदाधिकरणे वक्ष्यामः । ततश्च दोषाभावादेवमुक्तेन प्रकारेण स्वतःप्रमाणता वेदस्य सिद्धा भवतीति पौरुषेयत्वमपौरुषेयत्वं चान्तरं बौद्धाद्यागमानां वेदस्य चेति ॥ ९६ ॥ एवं तावदपौरुषेयत्वान्नित्या वेदाः स्वतः प्रमाणमित्युक्तम् । ये तु नैयायिकादयः प्रामाण्यसिद्ध्यर्थं कर्तृमत्त्वं वेदानां कल्पयन्ति, ये च मिथ्यात्ववादिनो मिथ्यात्वसिद्ध्यर्थमेव, तेषां न तावदस्मर्यमाणकर्तृकल्पना प्रमाणवती । अपि चादृष्टकल्पनापि बह्वी विना युक्त्या प्राप्नोतीत्याह कर्तृमत्त्वे इति कल्प्यमन्तेन । सम्यग्वादिभिस्तावदीश्वरः कर्ता, तस्य चाप्रतिघातज्ञानादयो गुणाः ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम् ॥ इति कल्पिताः । न च तत्कल्पनायां युक्तिरपि साधीयसी दृश्यत इति सम्बन्धपरिहारे वक्ष्यामः । एवं मिथ्यात्ववादिनामपि दोषवत्कर्तृकल्पना निष्प्रमाणिकैव । तथा सति हि नाद्य यावद्वेदसम्प्रदायोऽनुवर्तेत । महता खलु प्रयत्नेन शिष्याचार्यपरम्परया वेदान् धारयन्तो दृश्यन्ते, तदर्थं[३६२]चानुतिष्ठन्तः । तदनाप्तसन्दृब्धानामनुपपन्नं, तथा सति हि जातबाधैरचिरादेव हीयेरन् । अतोऽस्मान्महाजनपरिग्रहादवगच्छामः न कर्तृमन्तो वेदा[३६३] इति नतरां दोषवत्कर्तृका इति । मीमांसकैस्तु न किञ्चिद्दृष्टादधिकमिष्यते । शिष्याचार्यपरम्परया प्रतता हीदानीं वेदा दृश्यन्ते । ईदृशमेव सर्वकाले{१,१११}मीमांसकैरिष्यते । अतो न काचिन्मीमांसकानामदृष्टकल्पनेत्याह मीमांसकैरिति ॥ ९८ ॥ __________टिप्पणी__________ [३६२] र्थांश्चानु [३६३] दा न (Kःा) ___________________________ तदस्यैवम्भूतस्य नित्यस्य वेदस्य ज्ञानं चोत्पादयतः स्वरूपविपरीतत्वं विपर्ययः संशयश्च भाष्यकारेणैव व्यक्तं[३६४]निराकृतावित्याह एवम्भूतस्येति । अयमभिप्रायः एतावदेव हि प्रामाण्यं यदुत्पन्नमसन्दिग्धमबाधितं च प्रत्ययान्तरेण ज्ञानमिति । चोदनाजनितमपि ज्ञानमुत्पन्नं तावत् । संशयविपर्ययावपि भाष्यकारेणास्य वारितौ । एवं ह्याह न च स्वर्गकामो यजेतेति वचनात्सन्दिग्धमवगम्यते भवति वा स्वर्गो न वेति । न चैष कालान्तरे देशान्तरे पुरुषान्तरेऽवस्थान्तरे वा विपर्येति । तस्मादवितथमिति । अतस्त्रिविधाप्रामाण्यविरहात्[३६५]प्रामाण्यं चोदनाजनितज्ञाना[३६६]नामिति ॥ ९९ ॥ __________टिप्पणी__________ [३६४] क्तमेव नि [३६५] प्रमाणं [३६६] नमि ___________________________ नन्वेवमपि कारणदोषाशङ्कायामप्रामाण्यमेवात आह निवारयिष्यत इति अभावतोऽन्तेन । पुरुषाश्रया हि शब्दे दोषा इत्युक्तम् । ते चापौरुषेयत्वप्रतिपादनेनैव वेदाधिकरणे निर्[३६७]आकरिष्यन्त एव । तच्चैवम्भूतस्येत्यनेन सूचितमिह विवृतम् । वक्ष्यमाण एवार्थः पूर्वमेवम्भूतशब्देनोक्त इति वेदितव्यमिति । एवञ्च साक्षादनुपजातावपि संशयविपर्ययौ कारणदोषाशङ्कयापि न वेदे शङ्कितव्यावित्याह तेनेति ॥ १०० ॥ __________टिप्पणी__________ [३६७] वारयिष्य ___________________________ एवं तावदाक्षिप्तं भाष्यमुपेक्ष्यैव तदुपोद्धातभूतं स्वतःप्रामाण्यं प्रसाध्य वेदाः प्रमाणमिति सिद्धान्तितम् । इदानीं यत्तु ब्रवीतीत्यादिभाष्यमाक्षिप्तं, तस्याभिप्रायमाह तथेति । अयं भाष्याभिप्रायः अतथाभूतप्रतिज्ञया चोदनानामप्रामाण्यं प्रसाध्यते । तच्च[३६८]त्रिविधमित्युक्तम् ।{१,११२}तदिह तावत्संशयविपर्ययलक्षणमप्रामाण्यं नास्तीत्यनन्तरमेव वक्ष्यामः । पारिशेष्याद्बुद्ध्यनुत्पत्तिलक्षणमेवाप्रामाण्यमाश्रित्यातथाभावः प्रतिज्ञात इत्यापतति । तत्रेदमुत्तरं विप्रतिषिद्धम् इदमभिधीयते ब्रवीति च वितथं चेत्यादि । यदर्थं ज्ञापयति तद्ब्रवीती[३६९]त्युच्यते । तद्यदि चोदना ब्रवीति, कथमसावज्ञानात्मकेन वैतथ्येनाभिभूयते । एवञ्च व्याख्यायमाने न बुद्धवाक्यानां प्रामाण्यप्रसङ्गः । न ह्युत्पत्तिमात्रेण ज्ञानस्य प्रामाण्यमाश्रितं, येनायमुपालम्भो भवेत् । तेभ्यो हि ज्ञानमुत्पन्नमपि पौरुषेयवाक्यजनितत्वेन कारणदोषाशङ्कया अप्रमाणं भवति । न चेह तथा, अपौरुषेयत्वस्य वक्ष्यमाणत्वात् । इहापि च ब्रवीतीति च कर्तृविभक्त्या चोदनास्वातन्त्र्यस्य सूचितत्वात् । चोदना हि स्वतन्त्रैवार्थं ब्रवीति, न तु तया कश्चित्पुरुष इत्यभिप्राय इति ॥ १०१ ॥ __________टिप्पणी__________ [३६८] त्तु (Kःा) [३६९] ति चेत्यु ___________________________ अपरमपि यत्तु लौकिकं वचनं तच्चेत्प्रत्ययितात्पुरुषादिन्द्रियविषयं वा अवितथमेव तत् । अथाप्रत्ययितात्पुरुषादनिन्द्रियविषयं वा तत्पुरुषबुद्धिप्रभवमप्रमाणमिति भाष्यम्,[३७०]अत्र प्रत्ययितपदं तावद्व्याचष्टे तथेति । अयमर्थः अत्र भाष्ये प्रत्ययितपदेन यथादृष्टार्थवादित्वमभिधीयते इति । इन्द्रियविषयं वेत्यनेन तु तस्यैव मूलसद्भावः प्रतिपाद्यत इत्याह इन्द्रियेति । तदयमत्र भाष्यार्थो भवति । यत्तु पौरुषेयवाक्यं निदर्शितं, तत्र विकल्प्य दूषणमभिधीयते । द्वेधा हि पौरुषेयं वाक्यं प्रत्ययितवाक्यमप्रत्ययितवाक्यं च । प्रत्ययितवाक्यं[३७१]च द्विविधं प्रमाणमूलं भ्रान्तिमूलं च । प्रत्ययोऽस्य संजात इत्येतस्मिन्नर्थे हि तारकादिस्मृतेरितजन्तं प्रत्ययितशब्दमभियुक्ताः स्मरन्ति । द्वेधा च प्रत्ययः प्रमाणमप्रमाणं च । तदेवमेतावदेव प्रत्ययितरूपमवतिष्ठते यदसौ वदति तत्रावश्यं प्रत्ययोऽस्य सञ्जातः । यथादृष्टार्थवादीति यावत् । अत एवेन्द्रियविषयं वेति सम्भवव्यभिचाराभ्यां विशेषणमर्थवद्भवति । इन्द्रियशब्देन च प्रत्यक्षद्वारेण सर्वप्रमाणान्युपलक्षयतीति । प्रमाणविषयविषयमिति लुप्तमध्यमपदश्{१,११३}चायम् उष्ट्रमुखवद्बहुव्रीहिः । तद्यदि प्रमाणप्रतिपन्नविषयमाप्तवचो दृष्टान्तः तदा साध्यविकलः तस्यावैतथ्यात् । अथाप्रमाणमूलमनाप्तवाक्यं वा तद्यदि नाम वक्तृदोषदुष्टमप्रमाणं, न तेनोपमानेन नित्यं वेदवाक्यं वितथम् । मिथ्यात्वहेतोः पुरुषदोषस्य तत्रासम्भवात् । पुरुषबुद्धिप्रभवमिति चाप्रामाण्यबीजकथनम् । पुरुषबुद्धिप्रसूतं हि तत् । अतो यादृशं पुरुषेण बुद्धं[३७२]न तदनुरूपं तेन वाक्यं प्रयुक्तमनाप्तेन वा विप्रलिप्सुना । विप्रलम्भाभिप्रायैव हि तस्य बुद्धिः । आप्तस्यापि भ्रान्तिः । अनाप्तवाक्यं च वक्तुः प्रमाणमूलमपि श्रोतुरप्रमाणमेव, विसंवादबाहुल्यादनाश्वासात् । अत एव च तस्य[३७३]सदपि द्वैविध्यं नोपदर्शितमस्माभिः । अन्यतरविधानुपातिनोऽप्यनाप्तवाक्यस्याप्रामाण्यात् । अत एव वक्ष्यति शक्येऽप्यसत्ये मिथ्यात्वमिति ॥ १०२ ॥ __________टिप्पणी__________ [३७०] त [३७१] क्यमपि द्वि (Kःा) [३७२] द्धं त (ङा) [३७३] संविद्द्वै (Kःा) ___________________________ अन्ये तु द्रष्टृत्वसत्यवादित्वे प्रत्ययितपदार्थ इत्याहुरित्याह द्रष्टृत्वेति । यथावस्थितार्थदर्शी यथादृष्टार्थवादी च पुरुषः प्रत्ययितपदेनाभिधीयत इति । एवं च प्रत्ययितस्याप्रमाणज्ञानासम्भवादनर्थकमिन्द्रियविषयं वेति विशेषणमित्यप्रत्ययितवचनविशेषणार्थमेव[३७४]प्रयुक्तम् । ततश्चायमर्थो भवति अनाप्तोक्तिरपि सत्या भवति यदि दृश्यमानार्थवाद्यनाप्तो भवतीत्याह दृश्यमानेति ॥ १०३ ॥ __________टिप्पणी__________ [३७४] व यु (Kआ, Kःा) ___________________________ इदं तु व्याख्यानमनुपपन्नमित्याह एवमिति । अयमर्थः अत्र ह्यवैतथ्ये प्रत्ययितवाक्यमिन्द्रियविषयं चेतरस्योदाहृतम् । यथाहुः प्रत्ययितस्य वचनमव्यभिचारिप्रमाणान्तरपूर्वकं यच्चोपलभ्यमानविषयमनाप्तस्येति । तदत्र प्रत्ययितेन्द्रियविषयप्रत्युदाहरणे एकाङ्गवैकल्याद्या प्रत्युदाहरणस्थितिः, साप्तत्वैन्द्रियकत्वयोरेकैकाभावमात्र एव भवेत् । उभयाभावे तु द्व्यङ्गविकलं प्रत्युदाहरणमापद्येत ॥ १०४ ॥ {१,११४} यद्येकैकाभावमात्रे प्रत्युदाहरणम्, ततः किं जातमत आह अप्रत्ययितेति । अस्यार्थः प्रत्ययितप्रत्युदाहरणे अथाप्रत्ययितादित्युच्यमाने प्रत्ययिताभावमात्रेण प्रत्युदाहरणं देयम् । तत्रैन्द्रियकस्येन्द्रियविषयस्यार्थस्य यत्प्रतिपादकं वाक्यं तस्याप्यसत्यता भवेत् । प्रत्ययिताभावमात्रेण ह्यसत्यता दर्शनीया । इन्द्रियविषयमपि चानाप्तस्याप्रत्ययितवाक्यमेवेति किं नासत्यम् । यदि त्वनिन्द्रियविषयमेवाप्रत्ययितवाक्यं प्रत्युदाह्रियते, तन्न । इन्द्रियविषयं वेत्यस्यानिन्द्रियविषयं वेत्यनेनैव प्रत्युदाहरणाद्, उभयप्रत्युदाहरणे[३७५]च द्व्यङ्गवैकल्यप्रसङ्गात् । एवमिन्द्रियविषयप्रत्युदाहरणेऽप्यनिन्द्रियविषयं वेत्यत्रेन्द्रियविषयाभावमात्रेणासत्यता दर्शनीया । तत्र प्रत्ययितभाषितमपि तथाविधं सदसत्यं प्राप्नोति, तस्याप्यनिन्द्रियविषयत्वात् । अप्रत्ययितस्याप्यनिन्द्रियविषयमित्युच्यमाने पूर्ववद्द्व्यङ्गविकलता । अनिन्द्रियत्वपक्ष इति । यदा प्रत्ययितवाक्यस्यानिन्द्रियत्वमनिन्द्रियविषयता भवति, तदा तस्याप्यसत्यत्वं प्राप्नोतीत्यर्थः ॥ १०५ ॥ __________टिप्पणी__________ [३७५] णाभ्युपगमे द्व्य (Kःा) ___________________________ किमतो यद्येवमत आह व्याहतेति । अयमर्थः एवं हि पूर्वापरविरुद्धार्थाभिधानेन ग्रन्थो व्याहतो भवति । उदाहरणवेलायां हि प्रत्ययितवाक्यमनिन्द्रियमेव श्रोतुः प्रमाणमित्य् उदाहृतमाप्तप्रत्ययात् । तदिदानीमिन्द्रियविषयप्रत्युदाहरणेऽप्रमाणतयोच्यत इति व्याघातः । एवमनाप्तवाक्यमपि[३७६]श्रोतुरिन्द्रियविषयं स्वप्रत्ययाश्रयणेन सत्यमित्युक्तम् । तत्प्रत्ययितप्रत्युदाहरणे मिथ्यात्वेनोच्यत इति पूर्वापरविरोधादग्रन्थतापत्तिः । अयं चात्र वार्त्तिककारस्याभिप्रायः न तावत्प्रत्ययितशब्देन तथाभूतार्थद[३७७]र्शित्वमुच्यते । यौगिको ह्ययं न सांविज्ञा(यि?नि)कः । प्रत्यभिज्ञायमानावयवार्थान्वयपरित्यागे कारणाभावात् । प्रत्ययोऽस्य सञ्जात इति हि प्रकृतिप्रत्ययविभागमभियुक्ताः स्मरन्ति । द्वेधा च प्रत्ययः सम्यङ्मिथ्या चेति ।{१,११५}अतो न यथार्थदर्शी प्रत्ययितः । किन् तु यथादृष्टार्थवादी । सत्यवादीति यावत् । एषैव हि सत्यवादिता यो वाङ्मनसयोर्विसंवादविरहः । अत एव सत्यनियमे साक्षिणां __________टिप्पणी__________ [३७६] पीन्द्रि (Kआ) [३७७] वादित्व (ङा) ___________________________ सत्यं साक्ष्ये ब्रुवन् साक्षी[३७८]लोकानाप्नोति पुष्कलान् । __________टिप्पणी__________ [३७८] क्षि ___________________________ इति फलं दर्शयित्वा व्यतिरेके दोषं दर्शयन्तो मानवाः पठन्ति साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि । अवाङ्नरकमाप्नोति प्रेत्य स्वर्गाच्च हीयते ॥ इति । अत्र हि दृष्टश्रुताभिधानं सत्यमितरदसत्यमिति गम्यते । अतः सत्यवादितैव केवलं प्रत्ययितपदेनोच्यते न साधुद्रष्टृत्वमिति तस्यैवेन्द्रियविषयं वेति विशेषणं, नाप्रत्ययितवचसः, तद्धीन्द्रियविषयमप्यप्रमाणमेव । न चेदमवैतथ्यमात्रप्रदर्शनार्थम्, अप्रामाण्यानुमानस्य दृष्टान्ते साध्यवैकल्यप्रदर्शनार्थत्वात् । तस्य च प्रामाण्यप्रतिपादनमन्तरेण कर्तुमशक्यत्वात् । अत एव[३७९]भाष्यान्ते तत्पुरुषबुद्धिप्रभवमप्रमाणमित्याह ।[३८०]एवं हि तदुपपद्यते । यदि पूर्वं प्रमाणतोक्तासीदनाप्तवाक्यं च श्रोतुः प्रमाणान्तरसङ्गतार्थमप्यप्रमाणं प्रागनिश्चयातुपरिष्टाद् अनुवादादाप्तवाक्यमपि नार्थे प्रमाणमिति चेत्, अयमपरोऽस्य दोषः । न क्वचित्पुंवचः प्रमाणं, क्व साध्यविकलता प्रतिपाद्यते । न च दृष्टान्तदूषणादर्थान्तरमस्य भाष्यस्य मनोहरमुपलभामहे । तदेवं तावन्न समुदायशक्त्या प्रत्ययितशब्दः साधुद्रष्टरि वर्तत इत्युक्तम् । स्यादेतत् सञ्जातप्रत्यय एव प्रत्ययितः । प्रत्यय एव तु न सम्यक्त्वं व्यभिचरति, सर्वधियां यथार्थत्वाततो यथार्थविदेव प्रत्ययित इति । तन्न । वक्ष्यते हि वृत्तिकारग्रन्थवार्त्तिके यथार्थायथार्थज्ञानविभागः । एवं तावत्प्रत्ययितपदार्थानुसारेण नायमर्थो भाष्यस्य । यदि[३८१]तु विकल्पवाचिवाशब्दानुपपत्त्यैवं व्याख्यायते प्रत्ययितविशेषणे हीन्द्रियविषयं वेत्यस्मिन् समुच्चयार्थो वाशब्दो भवेद्[३८२]इति । तन्न, अनेकार्थत्वान्निपातानाम् । दृष्टं हि निपातानामनेकार्थत्वम् । न तु प्रत्ययितशब्दस्य साधुदर्शिवचनत्वम् । अपि च समानोऽयमावयोरनुयोगः । तवापि हि प्रत्युदाहरणगतो वाशब्दः समुच्चयार्थ{१,११६}एव । न ह्यप्रत्ययितवाक्यमात्रमनिन्द्रिय[३८३]विषयमात्रं वा मिथ्या, भवत्सिद्धान्ते अप्रत्ययितेन्द्रियविषयानिन्द्रियविषयप्रत्ययितवाक्यसम्यक्त्वाभ्युपगमात् । अतो न कश्चिद्विशेषः । पूर्वापरविरोधमात्रमधिकमेवंवादिभिः स्वीकृतम् । यदि तूच्यते न प्रत्ययितप्रत्युदाहरणमथाप्रत्ययितादिति । किन् तु प्रत्ययितवाक्यमनपेक्षं प्रमाणमित्युक्तम्, इतरच्च स्वप्रमाणापेक्षं, तदेव तु अनिन्द्रियविषयमप्रमाणमिति अथाप्रत्ययितादित्यादिनोच्यत इति । तदयुक्तम् । यदैव हीन्द्रियविषयमनाप्तवाक्यं प्रमाणमित्युक्तं, तदैवार्थादिदमुक्तं भवति विपरीतमप्रमाणमिति किं तत्प्रदर्शनेन । यस्य तु प्रमाणोदाहरणे विशेषणद्वयमुपात्तं, तस्यैव तद्व्यतिरेके[३८४]तत्कथनमर्थवत् । प्रत्ययिताभावमात्र एव तावदप्रामाण्यम् । अप्रत्ययितस्य ह्य्[३८५]अप्रतीतवादितयावधृतस्य वचनान्नैतदेवमिति विपर्ययः, कथञ्चिद्वा संशयो भवति । उभयथापि चाप्रामाण्यमेव । यद्यपि चात्र न शब्दः स्वमहिम्ना संशयहेतुः, तथापि वक्तरि क्वचिद्व्यभिचारदर्शनाद्यथायथं संशयविपर्ययौ भवतः । तावता चाप्रमाणमनाप्तवचः । प्रत्ययितस्य त्वनिन्द्रियविषयमप्रमाणमेव । तस्य हि निश्चयजनकं वचः स्वतःप्राप्तप्रामाण्यमेवापवाददर्शनादप्रमाणं भवति । एवंचोभयप्रत्युदाहरणोपपत्तिः । अतः सूक्तं परमते ग्रन्थव्याघात इति । यत इदं व्याख्यानमनुपपन्नमतः पूर्वव्याख्या साधीयसीत्याह तस्मादिति । अस्यार्थः पूर्वेण तच्चेत्प्रत्ययितादित्यनेन प्रत्ययितवाक्यस्य सत्यतोच्यते । परेण तु इन्द्रियविषयं वेत्यनेन मूलसद्भावो दर्शितः । प्रत्ययितस्य वचो वक्तुरेव प्रमाणमूलं प्रमाणं, न श्रोतुरिन्द्रियविषयमनुवादप्रसङ्गादिति भाव इति ॥ १०६ ॥ __________टिप्पणी__________ [३७९] वान्ते (Kआ) [३८०] अत एव त (Kःा) [३८१] दि वि (Kआ, ङा) [३८२] वेत् । तदपि न, अ (ङा) [३८३] यमा (ङा) [३८४] ककथ [३८५] ह्यनूतवादितया (Kःा), ह्यप्रत्ययिततया (ङा) ___________________________ नन्वेवं प्रत्ययितत्वेन प्रामाण्यं वदता भाष्यकारेण गुणत एव प्रामाण्यमुक्तं भवति । गुणो हि प्रत्ययितत्वमत आह अप्रामाण्येति । दोषाभाव एवात्र प्रत्ययितत्वोपन्यासेनोपवर्णितः, न तु गुणादेव प्रामाण्यमिति ।{१,११७} कस्मादेवं व्याख्यायते, अत आह गुणादिति । वर्णितमिदं दोषाभावमात्रौपयिका गुणाः, न गुणतया प्रामाण्ये कारणमनवस्थाप्रसङ्गादिति । अतस्तदनुसारेणैव भाष्यव्याख्यानमुचितमिति ॥ १०८ ॥ ननु यदीन्द्रियविषयत्वं प्रत्ययितवाक्यस्य विशेषणमेव न राश्यन्तरस्य, कथं तर्हि विकल्पार्थवाची वाशब्दः, अत आह समुच्चयेति पूर्वस्मिन्नन्तेन । पूर्वं तावत्समुच्चयार्थ एव वाशब्द इति । उत्तरस्तु विकल्पार्थ एवेत्याह उत्तरत्रेति । उभयोः प्रत्ययितेन्द्रियविषयविशेषणयोर्विकल्पेन प्रत्युदाहरणे दर्शयतीति ॥ १०९ ॥ ते एव प्रत्युदाहरणे दर्शयति शक्येऽपीति ।[३८६]असत्ये असत्यवादिनि पुरुषे शक्येऽप्यर्थे यद्वाक्यं तस्य मिथ्यात्वं शक्यते ग्रहीतुमिति शक्ये अन[३८७]तीन्द्रिये दृष्टार्थ इत्यर्थः । दृष्टसत्योऽपि प्रत्ययितो यदाशक्तिको भवति, प्रत्याय्यमानमर्थं ग्रहीतुमसम्भावितशक्तिरिति यावत् । तदा तद्वाक्यमपि मिथ्येति किं पुनस्तथाविधेऽर्थे प्रत्ययितो वाक्यं प्रणयति । बाढम् । यदा भ्राम्यति यथा श्रुतिविरोधबाध्यस्मृतिसिद्धान्ते स्मृतिनिबन्धनकारः,[३८८] यथा च[३८९]दृष्टार्थसंव्यवहार एवाप्तः कुतश्चिद्भ्रमनिमित्तात्कमपि संसर्गमारचयति तद्[३९०]असम्भवत्प्रमाणं वचो मिथ्या भवति । विप्रलिप्सा तु तस्य न सम्भवति । न च न भ्रान्तिरपि, ब्रह्मर्षीणाम् अपि भ्रान्तिराशङ्क्यते, किमङ्ग पुनरर्वाचीनानामाप्तानामिति । अत्रापरं भाष्यमशक्यं हि तत्पुरुषेण ज्ञातुमृते वचनातिति । तत्र न विद्मः किं तद्वृत्तेन परामृश्यत इति । वाक्यं हि प्रकृतं, न तद्ज्ञातुमशक्यं सुज्ञानत्वात् । विषयस्तु समासान्तर्गतो न तावत्तदा निष्कृष्यपरामर्शमर्हति । विलिङ्गत्वाच्च । पुल्लिङ्गो हि विषयः नासौ{१,११८}नपुंसकलिङ्गतच्छब्दपरामर्शार्हः । तस्माद्व्याख्येयमिदम् । तदुच्यते । ज्ञातुमिति सामान्यतो ज्ञानसम्बन्धोपस्थापितं ज्ञेयं तदिति निर्दिशति । एतदुक्तं भवति यत्तदिन्द्रियाणामविषयभूतं ज्ञेयं, तत्पुरुषेण[३९१]नर्ते वचनाद्ज्ञातुं[३९२]शक्यमिति समासान्निष्कृष्ट एव विषयार्थो ज्ञेयतया परामृश्यते । इदं च सर्वज्ञनिराकरणपरतया कैश्चिद्व्याख्यातं, तान्निराकरोति नानेनेति । अस्याभिप्रायः न तावदिह सर्वशब्दः श्रूयते सर्वे अर्था ज्ञातुं न शक्यन्त इति । न च सर्वज्ञनिराकरणं क्वचिदुपयुज्यते, धर्माधर्मज्ञाननिषेधमात्रेण चोदनैवेति प्रतिज्ञासिद्धेरिति ॥ ११० ॥ __________टिप्पणी__________ [३८६] असत्यवादिनि [३८७] ना (Kआ) [३८८] राः । (ङा) [३८९] वा [३९०] वेदमस (Kआ) [३९१] णर्ते [३९२] तुमश ___________________________ अपि च न ज्ञातुं शक्यत इत्युक्त्वा वचनादृत इति पुनरपवादो भाष्यकारेणाश्रितः । अतोऽवगम्यते अतीन्द्रियज्ञानमेव भाष्यकारो वारयति, न तु सर्वज्ञानम् । अतीन्द्रियं हि वचनादृते ज्ञातुमशक्यमित्यभिप्रायेणाह वचनादिति । अपि च भावाभावात्मकस्य जगतः पूर्वो भागो भावप्रमाणैरुत्तरो भागोऽभावप्रमाणेनावगम्यते इति षड्भिः प्रमाणैः षोढा भिन्नं सर्वं प्रमेयमवगम्यत एवेति नायमीदृशः सर्वज्ञो निराकार्य एवेत्याह यदीति । नन्ववगतं तावद्नानेन सर्वज्ञो निराक्रियत इति । किं नामानेन क्रियते । पूर्वेण तावत्पौरुषेयापौरुषेयवाक्ययोर्मिथ्यात्वे हेतुसदसद्भावो दर्शितः । अंशे च साध्यविकलता । तदेतावतैव पर्यवसिते किम्[३९३]अशक्यमित्यादिनाशङ्क्य निराक्रियते इति न ज्ञायते । उच्यते प्रत्ययितवाक्यमतीन्द्रियविषयमप्रमाणमित्युक्तम् । तत्रेदमाशङ्क्यते किमिदं प्रत्ययितवचनमतीन्द्रियविषयमिति । अप्रतिहतदर्शनशक्तिरेव ह्याप्तः, स खलु काष्ठाप्राप्तज्ञानप्रकर्षो धर्माधर्मावप्यपरोक्षमीक्षत एव, अतश्च न चोदनैवेत्यवधारणमुपपद्यते । तत्रेदमुत्तरमशक्यं हीति । नायमेतावानतिशयः कस्यचित्पुरुषस्य यदतीन्द्रियं विषयं द्रष्टुं वचनमन्तरेण शक्नोतीति । इदं च सूत्रकारेणैव प्रत्यक्षसूत्रे{१,११९}वक्ष्यमाणमनागतावेक्षणेन भाष्यकृता प्रतिज्ञासमर्थनार्थमुक्तम्, तदेव तु[३९४]न्यायकथायाः क्षेत्रमिति तत्रैव विस्तरेण[३९५]सर्वज्ञं निराकरिष्यामः ॥ १११ ॥ __________टिप्पणी__________ [३९३] मनेनाश (Kःा, ङा) [३९४] त्वस्याः क [३९५] ण धर्मवन्निरा (Kःा) ___________________________ नन्वस्तु षड्भिः प्रमाणैः षट्प्रमेयवित्सर्वज्ञः । एकेनैव तु चक्षुषासर्वगोचरं ज्ञानं जन्यत इति निराकार्यम्, अत आह एकेनेति । अयमभिप्रायः दिव्येन चक्षुषा सर्वं बुद्धो जानातीति ये वदन्ति, ते नूनं स्वयमपि चक्षुषा रसादीन् प्रतिपद्यन्ते । कथमपरथा स्वभावनियमं जानन्तो बुद्धचक्षुषः सर्वगोचरतामातिष्ठन्ते । एवं च सन्तु स्वयमेव सर्वसंविदः । किं परप्रत्ययाश्रयणेनेत्युपालभमानोऽतितुच्छतया नायं पक्षो निराकरणं प्रयोजयतीति दर्शयति । एष चानिराकरणच्छलेन निराकरणमार्ग एव वार्त्तिककृता दर्शितः शिष्यान् व्युत्पादयितुम् । इतरथा तु क्रियमाणोऽसङ्गत एव भवेदिति ॥ ११२ ॥ आह यद्यप्यर्वाचीनानां चक्षुर्न सर्वगोचरं, तथापि बुद्धचक्षुः सातिशयं दिव्यमासीत्सर्वगोचरमिति किमनुपपन्नम्, अत आह यज्जातीयैरिति । अस्यार्थः चक्षुरादिजातीयैर्हि प्रमाणै रूपादिजातीयस्य सम्बन्धस्य वर्तमानस्य चाद्यत्वे दर्शनमुपलभ्यते, अतः कालान्तरेऽपि तथैवाभूदिति युक्तम् । एवं हि दृष्टानुसारिणी कल्पना कृता भवति । प्रयोगश्च भवति बुद्धचक्षुर्नातीतादिविषयं, चक्षुष्ट्वादस्मदादिचक्षुर्वत् । अचक्षुर्वा, अतीतादिविषयत्वात्शब्दवदिति ॥ ११३ ॥ नन्ववगतं तावत्प्रमातृभेदाद्दूरे दूरतरे च चक्षुः प्रकाशयतीति तत्काष्ठाप्राप्तप्रकर्षं सर्वं प्रकाशयिष्यति । ज्ञानस्यापि यथोत्तरं लोकशास्त्रयोर्{१,१२०}अतिशयो दृष्टः । तत्क्वचिदाश्रये समासादितपरप्रकर्षं सर्वगोचरं भविष्यति । भवति चात्र सातिशयं काष्ठाप्राप्तमवगतं यथा वियति परिमाणम् । सातिशयं च ज्ञानम् । अतस्तेनापि क्वचिदाश्रये परिनिष्ठातव्यम् । एषा च ज्ञानस्य परिनिष्ठितिर्या सर्वविषयता महाविषयतयैव यथोत्तरमतिशयागमादित्यत आह यत्रापीति सामर्थ्यमन्तेन । अयमभिप्रायः सत्यं च चक्षुषः प्रकर्षो ज्ञानस्य च, न तु स्वार्थमतिक्रम्य । उन्मीलितचक्षुषो हि[३९६]प्रतियतः यद्यपि नीलपीतादिभेदभिन्नमनेकमपि रूपं प्रकाशत इति नैकत्र रूपे चक्षुर्नियम्यते, नानादेशपरिमाणार्थपरिच्छेदाच्च न देशपरिमाणाभ्याम् । तथापि तु न स्वार्थमतिक्रम्य चक्षुषा किञ्चित्प्रकाश्यते इत्यस्ति नियमः । कश्चास्य स्वार्थः, येन सन्निकृष्यते । यथा रूपी रूपं रूपैकार्थसमवायिनश्च । रूपिणा तावद्द्रव्येण संयुज्यते भौतिकं हि तदिति प्रत्यक्षसूत्रे वक्ष्यते । रूपतदेकार्थसमवायिभिश्च संयुक्तसमवायात्सन्निकर्षः । न चैतावता रसादिषु प्रसङ्गः, योग्यतासहिता प्राप्तिः सन्निकर्ष इति तत्रैव वक्ष्यते । योग्यता च कार्यदर्शनानुसारे[३९७]ण यथाकार्यमवतिष्ठते । अत एवातिदूरवर्तिनोऽपि भावा न चक्षुषः स्वार्थाः । एवमजातातिवृत्तादयः । तदेतेष्वेव स्वार्थेषु चक्षुः प्रकर्षमनुभवेत्, न परविषये शब्दादौ । एवं श्रोत्रेऽपि दर्शयितव्यम् । एतावांश्च स्वार्थे दृश्यते प्रकर्षो यदनतिदूरानतिसूक्ष्मभावप्रकाशनम् । तदिह स्वार्थाव्यभिचारात्तदवच्छिन्नैव व्याप्तिरवगतेति न सर्वविषयप्रकाशनानुमानाय घटते । प्रतिहेतुर्वर्णित एव । ज्ञानस्यापि चायं स्वार्थो यत्रास्य कारणमस्ति । षोढापि च प्रमाणज्ञानकारणं विभक्तं तद्यत्रास्ति, तत्र यथायथमभ्यासवशाद्ज्ञानं प्रकृष्यत एव, इष्यते च । षड्भिः प्रमाणैः संक्षिप्तः सर्वज्ञ इत्युक्तमेव । विस्तरेण तु सर्वेऽर्थाः प्रत्यक्षमीक्ष्यन्ते इति नैष ज्ञानस्य प्रकर्षः सम्भवति, प्रत्यक्षकारणानां स्वविषयप्रकाशप्रकर्षनियमात् । तदधीनत्वात्तु ज्ञानस्य तन्नियमादेव नियमः । अतो न स्वार्थमतिक्रम्य प्रत्यक्षस्य सामर्थ्यं सम्भवति । भविष्यद्ग्रहणमुपलक्षणं भविष्यत्यतीते वर्तमाने च । सविशेष[३९८]निखिलभुवनावलम्बिनि भावभेदे नो खल्वस्ति नाम भाजनमेतावतोऽतिशयस्य कश्चिद्यो देहस्यैवैकस्य कस्यचिल्लोमानि परमाणून् वा सङ्कलयितुमलम् । (प्रागेव सर्वं?) नन्ववर्तमानमपि चक्षुषा प्रकाश्यत एव भ्रान्ताव्{१,१२१}इदं रजतमिति । न च तत्स्मरणं, बाह्येन्द्रियापेक्षत्वात् । न च शुक्तिकैव तत्र प्रकाश्यत इति युक्तं वक्तुम्, अन्यतरप्रकाशस्यानन्यविषयत्वात् । इतरथानाश्वासात् । अतः क्वचिल्लब्धप्रकर्षेण चक्षुषैव सर्वमजातादि प्रकाशयिष्यते । अस्तु वा संयुक्तसंयोगात्सर्वार्थसन्निकर्षः । यदेव हि किञ्चिच्चक्षुषा सन्निकृष्यते, तेनैव प्रणाल्या संयुक्तं सर्वमिति संयुक्तसमवेतानाम् इवानिवार्यस्तत्संयोगिनां सन्निकर्षः । मैवम् । एवं हि न कश्चिद्[३९९]असर्वज्ञो[४००]भवेत्, सर्वस्य तथाविधसन्निकर्षाव्यभिचारात् । यत्त्ववर्तमानमपि चक्षुषो विषय इति, तन्न । शुक्तिरेव हि भ्रान्तौ चक्षुषो विषयः प्राप्यकारित्वात्, असन्निहितरजतप्राप्त्यसम्भवात् । इतरथा त्वनपेक्षितार्था एवासन्निहितरजतादिविभ्रमा भवेयुः । नचैवमस्ति, निरधिष्ठानविभ्रमादर्शनात् । कथं तर्हि तैमिरिकस्य केशदर्शनं, न हि तत्किञ्चिद्ग्राह्यमपेक्षते । असत्केशारोपप्रवृत्तेः । न । तत्राप्यालोकांशानां तथा प्रतिभासात्, सूक्ष्मत्वाच्च तेषामन्यदन्याकारतया गृहीतमिति न लक्ष्यते । कथमिदानीमन्याकारतया वेदनं, दोषेभ्य इति भाष्यकारो वक्ष्यति । समानं चेदमितरस्यापि । तवापि ह्यवर्तमानं रजतं वर्तमानतयावगम्यत इति समानोऽनुयोगः । यदि दोषतः, को दोषः शुक्तौ रजतानुभवस्य । शुक्तिरेव रजतानुभवस्य दोष इति चेत्, हन्तैवमर्थापेक्षिता चोपपादिता भवति । नेदं रजतमिति च प्रसक्तताद्रूप्यनिवारणेन बाधकज्ञानमितीदमेव साधु मन्यामहे यद्वर्तमानमवर्तमानरजताकारेणावसीयते, नो वर्तमानमेव रजतं वर्तमानतया । तस्मात्सिद्धं सन्निहितवर्तमानविषयमेव चक्षू रजतादीन् प्रकाशयतीति न तावच् चाक्षुषं प्रत्यक्षमनागतादीनामीक्षणाय क्षमते इति । __________टिप्पणी__________ [३९६] हि यद्य (Kआ) [३९७] रिणी य (Kःा, ङा) [३९८] षे (ङा) [३९९] त् [४००] ज्ञो न भ (ङा) ___________________________ स्यादेतत् अस्तु चक्षुषो विषयनियमः प्राप्यकारित्वात् । मनस्तु सकलातीतादिविषयं किं नेष्यते इति मानसप्रत्यक्षगोचरा भविष्यदादयो भावा भविष्यन्तीति । तन्न । मनसो बहिरस्वातन्त्र्यात् । इतरथा त्वन्धाद्यभावप्रसङ्गात् । तस्यापि मनसो भावात् । कथं तर्हि प्रथमज्ञानप्रक्षयिणीन्द्रियव्यापारे{१,१२२}द्वितीयक्षणोपलब्धिः न चेन्मनो बहिः स्वतन्त्रम् । न, तत्रापीन्द्रियव्यापाराविरामात्तज्ज्ञानाविरामोपपत्तेः । का कथा स्वप्ने । तत्र खलु वर्तमानतया विविधान् संसर्गान्मनो दर्शयति । न, स्मृतित्वात् । तत्र च मनसो[४०१]ऽस्वातन्त्र्यस्य वक्ष्यमाणत्वात् । कथं वर्तमानाभासः । दोषात् । व्यक्तश्च दोषो निद्रा । यथा वक्ष्यति[४०२]निद्रा मिथ्याभावस्य हेतुरिति । कथमननुभूते स्मृतिरिति चेत् । वक्ष्यति अत्रजन्मन्येकत्रेति । नन्ववगतं प्रतिभासु मनसः स्वातन्त्र्यम् । केषाम् । यद्यर्वाचीनानां, न । तासां लिङ्गाद्याभासजत्वात् । प्रायः सहचरितहृदयप्रसादोद्वेगप्रभाविता हि प्रतिभा, न त्वैकान्तिकहेतुका । अत एवानिश्चयात्मिका बुद्धिः । अथ लोकोत्तराणां, न । तासामस्मदादिप्रतिभास्वभावानतिवृत्तेरिति वक्ष्यामः । विमतिपदं च लोकोत्तरत्वं नास्मदादिभिः क्वचिदाश्रयिष्यते । बाह्यलिङ्गादिनिरपेक्षे च बहिर्मनासि वर्तमाने सर्वस्यानपेक्षितोपायान्तरो मनोमात्रनिबन्धनः प्रसजन् सर्वबोधः केनापवर्तयितुं शक्यते । अदृष्टविशेषाल्लिङ्गाद्यनपेक्षं बहिर्वृत्तिरिष्यत इति चेद्, न । इन्द्रियान्तरारम्भवैयर्थ्यात् । तत एव तत्तददृष्टविशेषाहितसंस्कारात्सर्वप्र[४०३]तीतिसिद्धेः । तदपि[४०४]वा व्यर्थम्, अकरणस्यैव वात्मनोऽदृष्टविशेषादेव प्रतीतिक्रियासिद्धेः । अथ नादृष्टमनुपायम्[४०५]अर्थं साधयतीति माभूत्शरीरारम्भवैयर्थ्यमिति । एवं तर्हि न लिङ्गाद्यनपेक्षमपि मनः क्वचिद्वर्तमानमुपलब्धमित्यस्तु तद्[४०६]अपि बहिर्बाह्यापेक्षम् । अतो न मानसमपि प्रत्यक्षं भविष्यदादौ समर्थमिति[४०७]सिद्धं, भावनाबलजमपि सर्वज्ञनिराकरणक्षेत्रे निराकरिष्यामः, अवगतविषयत्वाद्भावनायाः । तथा सति च भावनावैयर्थ्याद्, अधिकस्य च ततोऽप्यसिद्धेः ।[४०८]अपि च भावनाबलजमक्षजं वा, न वा । न तावदक्षजमित्युक्तम् । सर्वाक्षशक्तिपरिक्षयस्यानन्तरमेवोक्तत्वात् । अनक्षजं तु न प्रत्यक्षम्,[४०९]अन्वर्थत्वात्प्रत्यक्षशब्दस्य । अत एव न भविष्यति प्रत्यक्षस्य सामर्थ्यं दृष्टमित्याह भविष्यतीति । प्रत्यक्षस्य हि न भविष्यद्विषयता, तद्विषयस्य वा न प्रत्यक्षतेत्यभिप्रायः ।{१,१२३}बाह्यान्तःकरण[४१०]जप्रत्यक्षनिराकरणेऽप्ययमेव भागो व्याख्येयः । न चाक्षुषस्य मानसस्य वा भविष्यदादौ सामर्थ्यमित्यर्थः । अपि च योगिज्ञानगोचरं सर्वमभ्युपयता कथं योगिना सर्वमनुभूयत इति वाच्यम् । यदतीताद्यपि वर्तमानतया योगिभिरवसीयत इति, एवं तर्ह्यतस्मिंस्तद्ग्रहो[४११]मिथ्या योगिज्ञानम् । अथ तु यथावस्थितमेव सर्वं योगिनानुभूयत इत्युच्यते, एवं तर्हि नातीतादिविषयस्य प्रत्यक्षतोपपत्तिः । अनुमानेऽपि प्रसङ्गात् । एवञ्च वर्तमानावर्तमानविषयं ज्ञानं प्रत्यक्षम्[४१२]इत्यर्धवैशसम् । स्यान्मतं कल्पनाविरहः प्रत्यक्षत्वम् । अतीतादिविषयमपि योगिनस्तद्[४१३]रहितम् । अतः प्रत्यक्षम् इति । तन्न । पूर्वापरकालसम्बन्धस्याविकल्पेन ग्रहीतुमशक्यत्वात् । का चेयं कल्पना । यद्यभिलापिनी प्रतीतिः, श्रौत्रमप्रत्यक्षं भवेत् । अथाभिलापसंसर्गयोग्यप्रतिभासाप्रतीतिः, कल्पनासामान्यस्वसंवेदनमप्रत्यक्षं भवेत् । यदपि आहुः नैनमियमभिलापेन संसृजति । तथा[४१४]नृत्तेरात्मनि विरोधादिति । तदयुक्तम् । असत्यप्यभिलापसंसर्गे तत्संसर्गयोग्यस्य सामान्यात्मनस्तत्र निर्भासात्, तावता च कल्पनात्वानपायात्कल्पनापोढत्वानुपपत्तिः । अथान्यरूपारोपः कल्पना, योगिज्ञानमप्यजातादिषु वर्तमानरूपा[४१५]रोपेणैव वर्तत इति न कल्पनापोढम् । अपि चान्यथास्थितस्यान्यथाभानाद्भ्रान्तमेव योगिज्ञानमभ्रान्तपदेन व्यावर्तितं कथं प्रत्यक्षम् । यथा हि तिमिरादिदोष[४१६]वशप्रभवं केशज्ञानं भ्रान्तमित्यभ्रान्तपदेन व्यावर्त्यते, एवं योगिनामपि सर्वस्मिन् वर्तमानावभासं भ्रान्तमेवेत्यभ्रान्तपदेन व्यावर्तितं न प्रत्यक्षं भवेत् । साक्षात्कारिता तु नानिन्द्रियजस्य ज्ञानस्य सम्भवतीति प्रत्यक्षसूत्रे वक्ष्यामः । अपि चार्थसामर्थ्यसमुद्भवं प्रत्यक्षं योगिज्ञानं चासद्[४१७]अजाताद्यर्थसमुद्भवं कथं प्रत्यक्षम् । एतदपि भविष्यत्त्वप्रतिपादनेनैव सर्वं दर्शितमित्यनुसन्धातव्यम् । __________टिप्पणी__________ [४०१] नःस्वा [४०२] ति दोषो मि (Kआ) [४०३] प्रवृत्तिसि (Kआ), प्रतिपत्तिसि ___________________________ [४०४] पि बाह्यार्थं [४०५] यमसमर्थं (Kःा) [४०६] तर्हि इदमपि (Kआ) [४०७] ति भा [४०८] द्धेः । भा [४०९] असमर्थ (Kःा) [४१०] णप्र (Kआ, ङा) [४११] हाद्मि (Kआ) [४१२] क्षमप्रत्यक्षमि (Kआ, ङा) [४१३] द्गृहीतम् । [४१४] थाप्रवृ (Kआ) [४१५] पेणैव [४१६] षज्ञानप्र [४१७] ञ्जाता (Kःा) ___________________________ स्यान्मतं सर्वमेव प्रत्यक्षमसन्निहितावभासं, ज्ञानार्थयोः कार्यकारणभावेनायौगपद्यात् । अतो नानेन योगिज्ञानं दुष्यतीति । यद्येवं किं तर्हि प्रकाशते । ज्ञानाकार एवार्थेनाहितः । एतावदेवार्थस्य ग्राह्यत्वं यज्ज्ञानाकारार्पणहेतुत्वम् । यद्येवमर्थैकदेशोऽपि नावसीयते इति दूरे सर्वज्ञानम् ।{१,१२४}अथ ज्ञानाकारवेदन एवार्थवेदनाध्यवसानान्नार्थहानिः, कथमन्यवेदनेऽन्यवेदनाध्यवसायः । अविद्ययेति चेत् । अहो महानुभावः सर्वज्ञः, यस्येयमे तावती महाविषया अविध्या । वरमेकदेशदर्शिन एवैषामविद्यापि तावद्[४१८]अल्पीयसी । किञ्च, इदं सर्वं क्रमेणावसीयते युगपद्वा, न तावत्पूर्वः कल्पः । अनन्तानामुत्पा[४१९]दवतां पूर्वापरकोटिविरहिणां च क्रमेणानुभवितुमशक्यत्वात् । अत एव[४२०]न यौगपद्यम्, अनन्तानामजातादिवृत्तप्रत्युत्पन्नानां यौगपद्यासम्भवात् । अपि च किमिदं सर्वं नाम यद्विद्वान् सर्वज्ञो भवति, एकेन केनचिदुपाधिनावच्छिन्नमोदनादि सर्वशब्दवाच्यतया प्रसिद्धम् । न चैवमजातादयोऽर्था इति कथं सर्वपदार्थः । आनन्त्यं सर्वतेति चेत् । नन्वियमियत्तानवधारणात्मिकैवेति कथं तद्विदः सर्ववित्ता । अतः सिद्धं न किञ्चित्कस्यचित्सर्वगोचरं प्रत्यक्षमिति । यदपि प्रकर्षवतां काष्ठाप्राप्तिरवगता यथा वियति परिमाणस्येति ज्ञानमपि क्वचित्परिनिष्ठां गतं सर्वविषयं भवतीति । तदयुक्तं, प्रकर्षं खलु काञ्चित्काष्ठामधिष्ठाय सङ्गिरामहे यद्विरमतीति । असम्भावनीय[४२१]परावस्था तु काष्ठा इति हेतुरनैकान्तिकः । न खलु कार्यद्रव्यं घटमणिकादि सातिशयपरिमाणं विदितमपीमां दशामनुभवति, यतः परमसम्भावनीय एव महिमा । एवं तेनैव[४२२]निरवशेषब्रह्माण्डोदरपरिपूरणादनवकाशमितरम् । अथ गुणधर्मोऽयमित्युच्यते, तन्न । एवमपि पूर्वदोषानतिवृत्तेः । गुणो हि गरिमा । न तस्यैतावन्तमतिशयं पश्यामः, यतः परमपरं न सम्भवतीति । यदि खलु सर्वगुरुभिः सम्भूयैकं किञ्चित्कार्यमारभ्यते, एवमेतत्सम्भवेदपि, न चैतदस्ति । यदपि नभसि परिमाणं निदर्शितं, तदयुक्तम् । परिमाणं नामावच्छेदः । तद्यद्यप्यस्त्याकाशे ततस्तदपि नासम्भावनीयपरावस्थमिति साध्यविकलता । अथानन्तमेव नभोऽभ्युपगम्यते, कथं तर्हि तत्र परिमाणं निदर्श्यते, परिमाणाभाव एवास्यानन्त्यम् । अतो विरुद्धमेवेदं परिमितमनन्तं चेति सूक्तं भविष्यति प्रत्यक्षमसमर्थमिति । इह च पूर्वभाग इन्द्रियाणां सर्वविषयत्वेनातिशयो वारितः ।[४२३]उत्तरस्मिन्{१,१२५}प्रत्यक्षज्ञानस्येति विवेक इति । प्रत्यक्षागोचरे भविष्यदादौ सर्वस्मिंस्तद्व्याप्तलिङ्गदर्शनासम्भवादनुमानमपि न सम्भवति । सादृश्यान्यथानुपपद्यमानार्थदर्शनासम्भवाच्च नोपमानार्थापत्ती । अभावोऽपि न सर्वस्य कस्यचिदेवावगम्यते, दृश्यादर्शनात्मको ह्यभावः । न तु सर्वं कदाचन दृश्यम् । शब्देनापि विस्तरेण सर्वार्थावधारणमसम्भावनीयमेवेत्यभिप्रायेणाह नानुमानादेरिति ॥ ११५ ॥ __________टिप्पणी__________ [४१८] द्दवीय (ङा) [४१९] मुत्पत्तिमतां [४२०] वायौ (Kःा) [४२१] यकप (Kआ, Kःा) [४२२] व ब्र (Kआ) [४२३] इतर (ङा) ___________________________ अत्र परैरुक्तं नन्वियमसम्भावना नित्यवेदाभ्युपगमेऽपि समाना । न हि सम्भवत्यकृत्रिमं नाम वाक्यं भवतीति सर्वागमानां कृतकत्वेनावगतेः । तद्यथेदमागमनित्यत्वमसम्भावनीयमाश्रित्याभ्युदयनिःश्रेयसार्थमारम्भो वेदवादिनाम्, एवमितरेषामप्यदृष्टपूर्वसर्ववित्प्रामाण्येनेति न विशेषः । अत आह सर्वज्ञेति । अयमभिप्रायः सत्यमिदमुक्तं परैः । किन् तु सम्प्रधारणीयमिदमस्ति अनयोः कल्पनयोस्तुल्यत्वं न वेति । येन कारणेन परैस्तुल्यत्वमापादितं तेन कारणेनेदं तुल्यत्वमस्ति नास्तीति सम्प्रधारणीयमस्माभिरिति ॥ ११६ ॥ तामिदानीं सम्प्रधारणामवतारयति सर्वज्ञ इति । अयमभिप्रायः साधकबाधकप्रमाणतुल्यत्वे हि तुल्यत्वं भवति । न चेह तदस्ति । सर्वज्ञो हि न तावदस्मदादिभिरुपलभ्यते । अत एव नास्मज्जातीयैः, स्वभावनियमात् । एतदेवाभिप्रेत्यादिशब्दः प्रयुक्तः । अन्येषामप्यस्मद्विधानामसर्वविदां न सर्वविज्ञानं सम्भवतीत्यभिप्रायः । एतच्चोपरिष्टाद्विवरिष्यत एव । वेदानां च न तावत्कर्ताद्यत्वे दृश्यते, पूर्वकोटेरनवगमात् । न च सम्भाव्यते, अतीन्द्रियार्थत्वात् । वक्ष्यत्येतत्लोके सन्नियमात्(१ ।१ ।२६) इति । न चानुमीयते, अभावविरोधात् । असन्निकृष्टार्थविषयं ह्यनुमानं, वेदेषु चादृष्टार्थनिर्मितेष्व् अवश्यमेव निर्माता स्मर्येत । अतोऽदर्शनादस्मरणाच्चावधृताभावस्य न कर्तुरनुमानं सम्भवति । एषैव च नित्यता{१,१२६} वेदानां यः कर्तुरभावः । अतः प्रमाणवती नित्यत्वकल्पना वेदानाम् । सर्वज्ञकल्पना तु न तथेति साधकबाधकतुल्यत्वाभावात्कथं तुल्यतेति । ननु नादर्शनमात्रादभावः सिध्यति सत्स्वपि विप्रकृष्टेषु सम्भवादनेकान्तात् । अपि च व्यापकनिवृत्तेर्व्याप्यनिवृत्त्या व्याप्तत्वात्तथा व्याप्यनिवृत्तिरवधार्येतापि । अर्थाः प्रमाणस्य व्यापकाः । न च प्रमाणमर्थानां व्यापकमहेतुत्वादतादात्म्याच्च । अतो न प्रमाणनिवृत्तिमात्रेणाभावः सर्वविदोऽवगन्तुं शक्यते । अत आह निराकरणवदिति । अयमभिप्रायः प्रमाणाधीना हि वस्तुव्यवस्थितयः । न केनचित्प्रमाणेन सर्वज्ञ इदानीं तावदवगम्यते । न च कालान्तरेऽभूदिति कल्पयितुं शक्यते यथा निराकर्तुमनुमानेन कालत्वादिदानीन् तनकालवदिति । कारणाभावस्य च कार्याभावेन नियतत्वात्सर्वज्ञानकारणाभावेन तद्गोचरज्ञानकार्याभावानुमानाद्, ज्ञानकारणाभावस्य चानन्तरमुक्तत्वात् । अतो न प्रमाणनिवृत्त्या सर्वज्ञे संशयोऽपि दर्शयितुं शक्यते । निराकरणहेतुबलीयस्त्वेनाभावावगमादिति ॥ ११७ ॥ स्यादेतत् नागमगम्यस्याभावः सर्वविदोऽवगम्यते, तद्विरोधादेव, अत आह न चेति । कस्मादागमेन नावगम्यते । अत आह तदीय इति । आगमो हि तदीयो वा तस्मिन् प्रमाणं, नरान्तरप्रणीतो वा । न तावत्तदीयः, अन्योन्याश्रयापत्तेः । सिद्धे हि बुद्धस्य सर्ववित्त्वे तदागमः प्रमाणं, तत्प्रामाण्याच्च तत्सिद्धिरिति । नरान्तरप्रणीतस्तु प्रमाणत्वेनानभिमत एवेत्याह नरान्तरेति ॥ ११८ ॥ स्यादेतत् नित्यागमगम्य एव सर्वज्ञः, श्रूयते हि सर्ववित्सर्वस्य कर्तेति, अत आह न चेति । अयमभिप्रायः तात्पर्ये हि शब्दः प्रमाणं, न चैवम्परो नित्यागमो लब्धुं शक्यत इति । किं परस्तर्ह्यत{१,१२७}आह नित्यश्चेदिति । अयमभिप्रायः यावान्[४२४]कश्चित्सिद्धानुवादो[४२५]वेदो दृश्यते, असौ विध्यन्तरार्थ इत्यर्थवादाधिकरणे वक्ष्यते । तदयमप्यात्मज्ञानविधिशेष एवेति न स्वरूपे प्रमाणमिति तात्पर्ये को दोषः, अत आह तत्पर इति । न हि नित्यो वेदो नरविग्रहमनित्यं सर्वज्ञं प्रतिपादयितुमर्हति, नित्यानित्यसंयोगविरोधात् । तदसावेवम्परोऽनित्य एव स्यादिति ॥ ११९ ॥ __________टिप्पणी__________ [४२४] वत्क [४२५] दो दृ (Kआ) ___________________________ अयं च नित्यागमगम्यत्वे दोष इत्याह आगमस्येति । यद्यङ्गीकृतो नित्य आगमः, किं सर्वज्ञकल्पनयेति । वृथात्वे कारणमाह यत इति । नित्य एवागमो धर्मे प्रमाणं भविष्यतीति किं सर्वज्ञकल्पनान्तराश्रयणेनेति । इदं तु नित्यागमगम्यतानिराकरणं वेदवादिनामेव भ्रान्तिमपनेतुं, न नास्तिको वेदवेद्यं सर्वज्ञमिच्छतीति ॥ १२० ॥ यस्तु वदति किं नः सर्वज्ञग्रहेण । बुद्धागमसत्यता हि नः साध्या । सा चैवमपि सिध्यत्येव, इन्द्रियादिसम्बन्धविषये हि ज्ञानमात्रक्षणिकत्वादौ बुद्धः सत्यवादी दृष्टः । अतस्तेनैव दृष्टान्तेन श्रद्धेयार्थेऽतीन्द्रियार्थविषयेऽपि बुद्धवचसः सत्यत्वमनुमीयते । एवं चैत्यवन्दनादीनामपि धर्मत्वं सिध्यतीति, तदेतदुपन्यस्यति योऽपीति ॥ १२१ ॥ एतदपि दूषयति तेनेति ।[४२६]इन्द्रियादिसम्बन्धविषये हि प्रमाणान्तरपारतन्त्र्येण सत्यता दृष्टेति व्याप्तिबलेनातीन्द्रियार्थेऽपि पारतन्त्र्येण प्रमाणता भवतीति । पारतन्त्र्ये कारणमाह प्रामाण्यमिति । अयमभिप्रायः इन्द्रियादिसम्बन्धे विषये सत्यतेति ब्रुवाणेनार्थादिदमुक्तं भवति इन्द्रियादितन्त्रं प्रामाण्यमिति । स्वतःप्रामाण्ये तदपेक्षाया वैयर्थ्यात् । एतदुक्तं{१,१२८}भवति नात्र मानान्तरमतन्त्रीकृत्य बुद्धवचनमात्रस्य सत्यतावगता । प्रमाणान्तरापेक्षायाः सर्वत्राव्यभिचारात् । अतो न क्वचिदपि स्वातन्त्र्येण प्रमाणता सिध्यतीति ॥ १२२ ॥ __________टिप्पणी__________ [४२६] ति प्र (Kआ, Kःा) ___________________________ पारतन्त्र्यमेव विवृणोति यथैवेति । सोऽयं धर्मविशेषविरुद्धो हेतुरिति ॥ १२३ ॥ न केवलं धर्मविशेषविरुद्धः, विरुद्धाव्यभिचारी चाय हेतुरित्याह यथा चेति । शक्यते हि वक्तुं बुद्धवचनमतीन्द्रिये[४२७]ऽन्यानवबुद्धेऽर्थे न प्रमाणं, बुद्धवाक्यत्वात्क्षणिकादिवाक्यवद्[४२८]एव । तानि ह्यतीन्द्रियेऽर्थेऽप्रमाणान्येव । अयं चैक एव हेतुर्विरुद्धमर्थद्वयं न व्यभिचरतीतीदमेवै[४२९]कवचनान्तविरुद्धाव्यभिचारिपदो[४३०]दाहरणम् । हेतुद्वयं तु नैकवचनान्तपदवाच्यमित्यनुमाने वर्णयिष्याम इति । न[४३१]च वाच्यं सत्यत्वमपि तावदयं हेतुः साधयतीति सिद्धो नः पक्ष इति । न हि वः सत्यतामात्रं साध्यं, श्रद्धेयार्थसत्यतायाः साध्यत्वात् । अत एवोक्तं श्रद्धेयार्थे ऽपि कल्पयेदिति ॥ १२४ ॥ __________टिप्पणी__________ [४२७] येऽनवबु (Kआ, Kःा) [४२८] वत् । ता [४२९] मेव वि [४३०] दार्थोदा ___________________________ [४३१] न वा (Kआ) ___________________________ तदयमश्रद्धेये सत्यतां श्रद्धेये चासत्यतां साधयन्नेष्टसाधनाय वः प्रभवति । अस्माकमेव तु श्रद्धेये सिसाधयिष[४३२]तामसत्यतां बुद्धवचसः साधयन्नयं हेतुरनुगुण इत्यभिप्रायेणाह अश्रद्धेयेति । विशेषविरुद्धतामेव पूर्वोक्तां विवृणोति पूर्वेति । दृष्टान्तानुसारेण हि हेतुर्गमको भवति । तत्र वः पूर्वज्ञानानुवादिता दृष्टेति तद्व्यभिचारात्श्रद्धेयार्थस्यापि बुद्धवचसः{१,१२९}पूर्वज्ञानानुवादित्वमेवायं साधयेत् । स्वातन्त्र्यं तु प्रमाणताया विशेषं विरुन्ध्यादिति ॥ १२५ ॥ __________टिप्पणी__________ [४३२] षि (ङा) ___________________________ अपि च य एव कश्चिद्वेदबाह्यः पाषण्डोऽनेन हेतुना पौरुषेयागमानां सत्यत्वं सिसाधयिषति, तस्यैव सप्रतिसाधनोऽयमन्योन्यदृष्टान्तोपदर्शनेन हेतुर्भवतीत्याह अपि चेति । बुद्धवचनमतीन्द्रियार्थं मिथ्या, अलौकिकार्थत्वे सति पुंवाक्यत्वाद्दिगम्बरागमवत् । सोऽपि तत एव मिथ्या, बुद्धागमवदित्यन्योन्यसपक्षतेति ॥ १२६ ॥ अविशेषितेनैव वा पुंवाक्यत्वेन हेतुना धर्माधर्मातिरिक्तेऽर्थे प्रामाण्यं प्रसज्यत इत्याह धर्मेति । अत्र च धर्माधर्मयोः प्रामाण्याभाव एव साध्यः । नातिरिक्तार्थे प्रामाण्यं, तस्य सिद्धत्वादिति । यदपि क्षणिकादिवाक्यं दृष्टान्ततयोक्तं, तदपि सांख्यादिषु प्रतिपक्षिषु जीवत्सु साध्यविकलमित्याह सांख्यादिष्विति । सर्वनित्यत्ववादिनो हि सांख्याः । ते यावन्न निर्जिताः, तावत्कथं क्षणभङ्गवाक्यं सत्यतयोपन्यस्यते । यथा चेदमसत्, तथा शब्दाधिकरणे वक्ष्याम इति ॥ १२७ ॥ अलौकिकार्थवादिता वा पुंवाक्यत्वविशेषिता सत्यत्वानुमानं प्रतिहन्ति परस्परागमदृष्टान्तेनैवेत्याह अलौकिकेति । विशेषणविशेष्यभावव्यत्य[४३३]योऽतिरेक इति ॥ १२८ ॥ __________टिप्पणी__________ [४३३] त्यययोरति (Kआ) ___________________________ प्रतिहेतुप्रसङ्गेनेदानीं यदपि सर्वज्ञप्रसाधनार्थं परैरनुमानमुक्तं सर्वज्ञो{१,१३०}ऽस्मीति बुद्धेन यदुक्तं सत्यमेव तत्तदुक्तत्वाद्यथा ज्योतिरुष्णमापो द्रवा इति, तदपि प्रतिहेतुविरुद्धमिति सर्वज्ञदूषणमेवोपसङ्क्रम्याह वदेदिति । यो वादी पूर्वमसङ्गत एवागत्यैवम्भूतं वक्ष्यमाणं यद्वदति तस्यापि एष वक्ष्यमाण एव भवदुक्तहेतुसदृशो भवन्तं प्रति मुक्तसंशयं हेतुर्भवति । प्रथमसङ्गतिरनैकान्तिकाशङ्कानिराकरणार्था । चिरसङ्गतो हि कदाचिन्मिथ्या भाषते इति ॥ १२९ ॥ प्रतिहेतुमेव प्रयोगेण दर्शयति बुद्धादीनामिति ॥ १३० ॥ कथं पुनरयं मुक्तसंशयः, अत आह प्रत्यक्षमिति । बुद्धोऽसर्वज्ञ इति वचसो मदुक्तत्वं प्रत्यक्षसिद्धमसन्दिग्धमेव । दृष्टान्ते चाग्न्युष्णत्वादिवाक्ये तत्प्रत्यक्षसिद्धमेवेति सूक्तमसंशयमिति । सर्वज्ञोऽस्मीति वचनं बुद्धोक्तं न वेति न निश्चेतुं शक्यम् । न खल्वेतावदत्युद्धतानृतं प्रेक्षापूर्वकारी भाषत इति सम्भावयामः । सेयमस्य वचसो दृष्टान्तानां च क्षणिकादिवाक्यानां बुद्धोक्तता नासाधिता सिध्यतीति बौद्धेन साध्येत्याह त्वया साध्येति । किमतो यद्येवमत आह तेनेति । अयमभिप्रायः नानयोर्हेत्वोस्तुल्यतया संशयहेतुत्वम् । किन् तु अस्मदीयो हेतुः स्वयं सिद्धः, प्रसिद्धव्याप्तिकश्च, दृष्टान्तश्च न हेतुविकल इति सिद्धो नः पक्षः । तव तु सन्दिग्धासिद्धो हेतुः, दृष्टान्तश्च सन्दिह्यमानहेतुसद्भाव इत्यप्रसिद्धाङ्गकमनुमानं न साध्यसिद्धये प्रभवतीत्ययमावयोर्विशेषः सम्पद्यत इति ॥ १३१ ॥ किञ्च, अतिस्थवीयानयं सर्वज्ञवादः, येनात्यन्तप्रसिद्धैरपि प्रमेयत्वादिहेतुभिः शक्यते निराकर्तुमित्याह प्रत्यक्षेति । प्रमेयत्वादयो हि{१,१३१} प्रमाणान्तराविरुद्धा बुद्धे सिद्धाः शक्नुवन्ति तस्य सर्वज्ञतां वारयितुम् । न चात्र विपक्षे बाधकप्रमाणाभावादसिद्धा व्याप्तिरिति वाच्यम् ।[४३४]सर्वज्ञानकारणाभावेन सर्वज्ञासम्भवस्योक्तत्वादिति ॥ १३२ ॥ __________टिप्पणी__________ [४३४] च्यम्, प्रगेयत्वस्य सर्व (Kआ) ___________________________ नन्वस्तीयं चिरप्रवृत्ता बुद्धः सर्वज्ञ इति दृढा स्मृतिः, तदस्या एव बुद्धेर् द्रढिम्नः सर्वज्ञप्रमाणमनुमास्यामहे, अत आह न चेति । किमिति नानुमीयते, अत आह विगानादिति । अविगीता हि स्मृतिर्मूलमुपस्थापयति । सर्वज्ञस्मृतिं तु नास्तिका एव परस्परं विगायन्ति सर्वविद्भेदानाश्रयन्तः । वेदवादिनस्त्वत्यन्ताय सर्वज्ञं निराकुर्वन्[४३५]तीति । ननु समानमिदं विगानं मन्वादिस्मृतिष्वपि, ता अपि नास्तिका विगायन्ति, अत आह छिन्नेति । अयमभिप्रायः स्मृतिर्हि पूर्वज्ञानकार्यतयावगता कारणभूतं[४३६]पूर्वविज्ञानमनुमापयति । असन्निकृष्टार्थगोचरं ह्य्[४३७]अनुमानं भवति । इह च सर्वज्ञानकारणाभावात्[४३८]छिन्नं पूर्वविज्ञानं स्मृतिमूलतया असम्भावितमिति वैपरीत्यपरिच्छे[४३९]दाद्नानुमानावकाशः । वेदसंयोगस् तु त्रैवर्णिकानां सम्भवतीति स शक्यो मन्वादिस्मृतिमूलतया कल्पयितुमिति । विगानं विवृणोति कैश्चिदिति । इदं चान्वारुह्यवचनम् । यदि हि सर्वाविगानं भवेद्, एवमपि या काचित्कल्पना स्यात् । न चैवमस्ति, कैश्चिदेव महाजनैकदेशभूतैर्बुद्धादिभिः सर्वज्ञतायाः परिग्रहादिति ॥ १३३ ॥ __________टिप्पणी__________ [४३५] त इति [४३६] तं वि [४३७] चा (ङा) [४३८] वावच्छि [४३९] छेदेन ना (Kआ) ___________________________ छिन्नमूलतां विवृणोति सर्वज्ञ इति । स्मृतिद्रढिम्ना हि एकेन सर्वज्ञो ज्ञात इति कल्पनीयं, स एव तु सर्वज्ञं ज्ञातुं समर्थः यः सर्वविद्वेद्यं जानाति । यावद्ध्येतावदेव सर्वमिदं च बुद्धो जानातीति न जायते, न तावदसौ सर्वज्ञ इत्यवधारयितुं शक्यते । न च बुद्धादर्वाचीनः सर्वविद्{१,१३२}इति नास्य सर्वज्ञानकारणमस्ति । न चानवगतं स्मर्तुं शक्यते । अतोऽसम्भावितमूलैवञ्जातीयां स्मृतिरप्रमाणमेवेति ॥ १३४ ॥ यदि तु बुद्धादन्योऽपि कश्चिदेकः सर्वज्ञः तेन च सर्वज्ञो बुद्ध इति ज्ञात्वा स्मृतं तत एषा स्मृतिपरम्परा प्रवृत्तेत्युच्यते, एवं सति तत्सर्वज्ञता विना सर्वज्ञे(न)नावगन्तुं शक्यते इति सर्वज्ञानन्त्यमित्याह कल्पनीया इति । अत्र कारणमाह य एवेति ॥ १३५ ॥ एवं तावत्सार्वज्ञ्यं दुर्ज्ञानमित्युक्तम् । तदनवगमे च सर्वज्ञागमप्रामाण्यमपि न सिध्यतीत्याह सर्वज्ञ इति । सर्वज्ञप्रणीतता हि तदागमप्रामाण्यमूलं, तदनवगमे च न यादृशतादृशपुरुषवाक्यवत्सर्वज्ञागमप्रामाण्यमध्यवसातुं शक्यत इति ॥ १३६ ॥ दूषणान्तरमाह रागादीति । अयमभिप्रायः आगमप्रणयनं हि रागाद्वा किञ्चिदनुग्रहीतुं द्वेषाद्वा निग्रहीतुं सम्भवति । बुद्धस्तु प्रक्षीणाखिलरागद्वेष[४४०]इति नास्यागमप्रणयने किञ्चित्कारणमुपलभ्यत इत्यन्यप्रणीतैव धर्मातिदेशनेति वक्ष्यमाणेन सम्बन्धः । नन्वयं परमकारुणिकः तद्वश एव दुःखोत्तरान् प्राणिनो दृष्ट्वा दूरं दूयमानमानसो हिताहितप्राप्तिपरिहारोपायोपदेशान् प्रणयतीति किमनुपपन्नमत आह निर्व्यापार इति । अयमभिप्रायः प्रत्यक्षं हि तद्योगिनः सर्वविषयं ज्ञानमिष्यते । तच्च कल्पनापोढम् । अतो यदा ध्यानस्तिमितलोचनो जगदखिलमविकल्पेन विलोकयमानोऽवतिष्ठते, तदास्यास्मृतशब्दादिसम्बन्धस्य विवक्षाप्रयत्नताल्वादिव्यापारासम्भवान्न कथञ्चिदप्य्[४४१]अस्मृतस्य देशनाप्रणयनं सम्भवतीति कारुणिकोऽप्युपेक्षेतैवैत्यन्यप्रणीतैव देशना भवेदिति । अपि च यावदिदं{१,१३३}वृत्तम्, इदं वर्तिष्यत इति न प्रत्यवेक्षते, न तावदागमो निर्मातुं शक्यते । न चैतदप्यनुत्थितस्य सम्भवतीत्यभिप्रायेणाह ऋत इति । तदिह कारणत्रयमप्यन्यप्रणीतत्वे देशनानामुक्तमित्यनुसन्धातव्यम् । स्यादेतत् । व्युत्थायोपदेक्ष्यतीति, तन्न । व्युत्थितस्य अभिलापिनी प्रतीतिर्भ्रान्तिरिति भ्रान्तभाषितमप्रमाणं भवेदिति ॥ १३७ ॥ __________टिप्पणी__________ [४४०] षाभिनिवेश इ [४४१] प्युत्थितस्य (ङा) ___________________________ स्यादेतत् बुद्धानुभावादसत्येव तत्प्रयत्नविशेषे कुड्यादिभ्योऽपि देशना धर्मोपदेशा निर्गच्छन्तीति । तदिदं नाश्रद्दधाना वेदवादिनो बुध्यामहे । वयं हि वस्तुस्वभावमनतिक्रामन्तो यज्जातीयो यतः सिद्धः ततस्तत्सिद्धिमनुजानीमहे । ग्रन्थसन्दर्भश्च विवक्षाप्रयत्नवाय्वीरणताल्वादिसंयोगविभागपूर्व[४४२]क एवावगत इति न ध्यानस्तिमितान्तःकरणयोगिसन्निधानादेव सिध्यतीति सम्भावयामः । तदेतदाह सान्निध्येति सार्धेन । (श्रद्दधानस्य कुत इत्यर्थः ।?) अपि च, आप्तप्रत्ययानुसारी शब्दान्निर्णय इति न कुड्यादिनिस्सृताभ्यो देशनाभ्य आश्वासो भवेदित्याह कुड्यादीति ॥ १३९ ॥ __________टिप्पणी__________ [४४२] र्व एवागतः (Kआ) ___________________________ किञ्च बुद्धप्रणीतत्वेऽपि नाश्वासः । एवं च संशेमहे किं बुद्धानुभावान्[४४३]निस्मृता इमा देशनाः, आहोस्वित्पिशाचादिभिर्दुरात्मभिरदृश्यैरीरिता इत्याह किन् त्विति । अदृश्यातिवाहिकायोनिजदेहाः पिशाचा इति पुराणेषु गीयते । तन्मतेनेदमुक्तमिति । एवं च संशयानेभ्यो देशना न प्रमाणं भवेयुरिति भावः ॥ १४० ॥ __________टिप्पणी__________ [४४३] वनि (ङा) ___________________________ अन्यद्दर्शनं बोधस्वभावः पुरुषो भवान्तरीयकर्मार्जितदेहेन्द्रियादिवशः{१,१३४}क्वचिदेव किञ्चिच्च जानाति । निरवशेषिताशेषकर्माशयस्तु विगलितनिखिलकरणकलेबरादिप्रपञ्चः केवलीभूतो विश्वमेव सूक्ष्मातीतादिभेदभिन्नमपरोक्षमीक्षते । तच्च केवले जीवे जातं[४४४]केवलज्ञानमाचक्षते । एवंवादिभिश्च मुक्तात्मनामेव सर्वगोचरज्ञानमाश्रितं, तदेतदुपन्यस्यति एवमिति ॥ १४१ ॥ __________टिप्पणी__________ [४४४] कैवल्य ज्ञा (ङा) ___________________________ एतदपि दूषयति नर्त इति । अयमभिप्रायः सुभाषितमिदं मुक्तो विश्वं जानातीति । सा खलु जीवानां तादृशी दशा स एष नेति नेतीति सकलभेदप्रपञ्चविलयनेनैव तावदुपलभ्यते वेदान्तेष्विति तदतिरिक्तातीतादिज्ञातव्याभावात्कथं सर्वज्ञता । यदि त्ववधीर्य वेदान्तान् स्वागमप्रामाण्याश्रयणेन मुक्तानां तथाविधं ज्ञानमिष्यते, तन्नासत्यागमप्रामाण्ये सिध्यति । न चासर्वज्ञप्रणीत आगमः प्रमाणं सम्भवतीति सर्वज्ञसिद्धावागमप्रामाण्यं, तत्सिद्धौ च सर्वज्ञसिद्धिरितीतरेतराश्रयं भवतीति । यदि तु क्वचित्तथाविधेन ज्ञानेन व्याप्तं लिङ्गमुपलभ्य[४४५]ते, एवमनुमानेन ज्ञानसिद्धावितरेतराश्रयपरिहारो भवेत् । न तु तस्य ज्ञानस्य लोके कश्चिद्दृष्टान्तो भवतीत्याह दृष्टान्त इति ॥ १४२ ॥ __________टिप्पणी__________ [४४५] भ्येत, ए (Kआ) ___________________________ एवं तावद्यैः पुरुषातिशयमाश्रित्य तत्प्रत्ययेनागमप्रामाण्यमाश्रितं, तान् प्रत्युक्तम् । इदानीं ये वदन्ति नित्य एवायमागमः कस्यचित्प्रथममार्षज्ञानेनावबुद्धो भवतीति, तान् प्रत्याह नित्यागम इति । किं पुनरयं नित्यागमवाद एव निराक्रियते । अत्रापि शब्दैकप्रमाणकावेव धर्माधर्मौ । एतावांस्तु विशेषः । यदेकस्यैव कस्यचिदृषेरपगतसकलकल्मषस्याभ्रष्टभवान्तरीयसंस्कारस्यादावेव वेदाः प्रादुर्भवन्ति । ते च तेनापरेभ्यः प्रतिपाद्यन्ते तैरप्यन्येभ्य इत्येवं शिष्याचार्यपरम्परया आभूतसंप्लवं तिष्ठन्ति । एवमेव पुनः सृष्टावप्यार्षदर्शनेनैव वेदसंव्यवहारः प्रवर्तते{१,१३५}इति न कश्चिद्विशेषः । तस्माद्वाच्यो निराकरणाभिप्रायः । स उच्यते तत्खलु सृष्ट्यादावृषेर्ज्ञानं ग्रहणं स्मरणं वा । ग्रहणमपि प्रमाणमप्रमाणं वा । न तावदप्रमाणादर्थतथात्वनिश्चयः । प्रमाणं तु ना प्रत्यक्षं सम्भवतीति किं तन्निराकरणेन । यदि तु साक्षात्कारिप्रत्यक्षमेतदृषीणामाश्रीयते, तथा सत्यनुच्चारितशब्दश्रवणादतीन्द्रियदर्शनमेवापतितम् । अत एवाहुः अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा । ये भावान् वचनं तेषां कोऽतिक्रामितुमर्हति ॥ इति । अतो निराकार्य एवायं सिद्धान्तः । एवं हि तुल्यन्यायतया धर्माधर्मावपि कश्चिदपरोक्षयेत्, ततश्च चोदनैवेति प्रतिज्ञाहानिः । अत एवोक्तम् अनया दिशेति । सर्वज्ञनिराकरणदिशेत्यर्थः । एतेन तुल्यतामनयोर्दर्शयति अयमपि सिद्धान्तपरिपन्थीति । स्मरणं तु परस्तान्निराकरिष्यत इति । अपि चेदमार्षदर्शनं कृतकाशङ्काम्[४४६]अप्यापादयतीति निराकार्यमित्याह न हीति ॥ १४३ ॥ __________टिप्पणी__________ [४४६] मापा ___________________________ ननु तद्वचनादेव निश्चयो भविष्यति, अत आह सर्वदेति । श्रूयते खलु अनृतवादिनी वागिति । जैमिनिरपि प्रायानृतवादितां वाचो वक्ष्यति प्रायातित्यत्र । अतोऽद्यत्वेऽनृतवादिबाहुल्यात्कालान्तरेऽप्यविस्रम्भ इति ॥ १४४ ॥ अपि च, एतदकस्मात्प्रतिभानं स्वप्नवद्भ्रान्तिरित्यपि वक्तुं शक्यत इत्याह स्वप्नादीति । अर्थग्रहणं तुल्यन्यायतयार्थप्रतिभासस्यापि[४४७]शङ्क्यमानत्वात्[४४८]सशङ्कानां (कृते?) प्रामाण्यं न युज्यत इत्यर्थः ॥ १४५ ॥ __________टिप्पणी__________ [४४७] पि विश (Kआ) [४४८] सा (ङा) ___________________________ {१,१३६} अयमपरोऽस्मिन् दर्शने दोष इत्याह पुरुषेति । पुरुषस्य तावदतीन्द्रिय[४४९]दर्शनशक्तिरभ्युपगतैव यदनुच्चरितशब्दग्रहणमङ्गीकृतम् । सा चेदङ्गीकृता, किमागमनित्यताग्रहेण । एवं हि वरं यत्परैरुक्तं पुरुषप्रत्ययादेवागमप्रामाण्यमिति तदेवाश्रितमिति । एवं तावदनुच्चरितशब्ददर्शनं निराकृतम् । स्मरणमिदानीं निराकरोति कल्पितमिति । अस्यातिशयवतः पुरुषस्याद्यतनज्ञानेष्वदृष्टपूर्वं जन्मान्तरीयज्ञाननिबन्धनं वेदानां सृष्ट्यादौ स्मरणमिति कल्पनामात्रं, न तु प्रामाणिकम् । जन्मान्तरे निबन्धनं कारणमस्येत्यर्थः । कः पुनरत्र दोषः यज्जन्मान्तरानुभूता वेदाः स्मर्यन्त इति । ग्रहणं ह्यनुच्चरितशब्दगोचरं न सम्भवति, न तु स्मरणम् । अद्यत्वेऽपि हि तावच्चिरतरानुभूतानामान्तरलिकानेकान्तरायपरम्परातिरोहिताना भावानां नानाविधानेकगद[४५०]वेदनाभिर्दूरं दूयमानमानसैरपि स्मरणं दृष्टम् । तद्भवान्तरीयस्मृतौ किमनुपपन्नम् । देहध्वंसे संस्कारानवस्थानमिति चेद्, न । अतदाधारत्वात् । तत्रैतत्स्यात् अध्रियमाणेषु देहेषु किमाश्रयाः संस्कारा भवन्ति न वा भवन्ति । कथं भवान्तरे फलं भावयितुमुत्सहन्त इति । तन्न, अतदाधारत्वात् । नो खल्वपि भवान्तरीयपटुतरानुभवप्रभावितं भावनाबीजं शरीराधिकरणं, यदस्य नाशे नश्येत् । ज्ञानसमानाधिकरणत्वादात्मनश्च[४५१]ज्ञानाधारत्वात् । आत्मापि परिगृहीतदेहान्तरोऽपि स एवावतिष्ठत इति नाश्रयानुपपत्तिः । अपि चेदानीमपि पूर्वजातिस्मरः कश्चिदुपलभ्यत एव, यो भवान्तरीयरहोवृत्तवृत्तान्तं सम्पादयति । देहनाशाच्च संस्कारनाशे तदनुपपत्तिः । जरामरणगर्भवासजन्मवेदनाश्च संस्कारोच्छेदहेतवः तस्यापि तुल्या एव । अतोऽवश्यमाश्रयणीयः कोऽपि प्राग्भवीयधर्मानुग्रहात्तस्य नाम भाजनमतिशयस्य योऽत्रामुत्र वा विदितम्[४५२]अप्यशेषेण स्मरतीति । अपि चेतिहासपुराणवेदवादा अपि जातिस्मरणसद्भावे प्रमाणम् । भवति हि गीतासु वासुदेववचनं __________टिप्पणी__________ [४४९] यार्थद [४५०] र्भ [४५१] श्च परिज्ञा [४५२] मप्यविशे (Kआ) ___________________________ {१,१३७} बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्सि परन्तप ॥ इति । पौराणिका अपि प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् । अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिस्मृ[४५३]ताः ॥ __________टिप्पणी__________ [४५३] र्ग (Kआ) ___________________________ इति पठन्ति । स्मरणाभिप्रायमेवेदं वेदविनिस्सरणं पुराणेषु, तत्कृतकत्वानभ्युपगमात् । वेदवादाश्च भवन्ति देहान्तरप्रतिपत्तिकाले तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च इति । मानवेऽपि विशिष्टकर्मफलतयैव जातिस्मरत्वं दर्शितम् । स्मर्यते हि[४५४] __________टिप्पणी__________ [४५४] च (ङा) ___________________________ वेदाभ्यासेन सततं सत्येन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ इति । तत्रैतत्स्यात् । अन्यार्थत्वा[४५५]वधृतवेदाभ्यासादिसमभिव्याहारात्पर्णमय्यादिफलार्थवादवदर्थवाद एवायं न फलकल्पनायै प्रभवति । तथा हि वेदाभ्यासस्तावद्धारणार्थ एव, प्रत्यक्षं हि गुण्यमानं न भ्रश्यतीति । योऽपि च अहरहः स्वाध्यायोऽध्येतव्यः इति विशिष्टेतिकर्तव्यतायुक्तो ब्रह्मयज्ञविधिः, सोऽपि यावज्जीवदर्शपूर्णमासाग्निहोत्रादिविधिवदुपात्तदुरितक्षयाकरणनिमित्तप्रत्यवायपरिहारप्रयोजन एवेति नासमीहितफलान्तरसम्बन्धमनुभवति । सत्यमपि शब्दार्थ[४५६]भेदभिन्नं स्वर्गादिमहाफलार्थमवगतमेवेति न फलान्तरेण सम्बध्यते । तपांस्यपि नानाविधैनोनिब[४५७]र्हणार्थानि स्वर्गादिश्रेयो[४५८]न्तरार्थानि च चान्द्रायणादीन्यवधारितानीत्यनपेक्षाण्येवेति न जातिस्मरणफलकानि भवन्ति । अद्रोहोऽप्यहिंसा भूतानां तत्तत्कालभेदेन फलार्थ एव विहितः । यदि व्रतं यदि निषेधः कस्य जातिस्मृतिः फलं भवेत् । तस्माद्वेदाभ्यासादी[४५९]नामर्थवाद एव फलश्रुतिर्न फलकल्पनायां प्रमाणमिति । तन्न । प्रत्येकं हि वेदाभ्यासादीनां फलान्तरमवगतं न समुच्चितानाम् । इह तु क्रय इवारुणादीनां सत्यादीनामेकत्र फल उपादीयमानानां साहित्यं विवक्षितमिति न समुदितानां फलान्तरसम्बन्धो{१,१३८}नोपपद्यते । अत एव समुच्चयवचनमुपपन्नं भवति । स्यादेतत् एकेन स्मर्यमाणा वेदाः कृतकाशङ्कां जनयेयुरिति । तन्न, अनेकेषामपि तथाविधातिशयभाजामृषीणां भृग्वङ्गिरःप्रभृतीनां परस्परसंवादाशङ्कानिवृत्तेः । न चैवं वेदार्थे प्रसङ्गः, तस्यातीन्द्रियस्य भवान्तरेऽप्यननुभूतस्य स्मृत्यनुपपत्तेः । स्यादेतत् भवान्तरानुभूतस्मृतौ जन्मान्तरे कृतकर्माण इह फलं लभमाना अन्वयव्यतिरेकाभ्यामेव कर्मफलसम्बन्धं जानीयुः । अतश्चोदनैकप्रमाणता व्याहन्येतेति । तदयुक्तम् । अनादौ खलु संसारे विपरिवर्तमानानामनन्तानि कर्मिणां कर्माणि । तत्र जातिस्मरोऽपि नैतावद्विवेक्तुं शक्तोऽमुष्य नामेदं कर्मणः फलमिति । न चावश्यमानन्तरभवानुष्ठितकर्मफलोपभोग एव संसारिणां, नानाजन्मसञ्चितेषु शुभाशुभफलेष्वानन्त्यादनवधृतपरिमाणेषु दुरधिगमः कर्मफलसम्बन्धविवेकः । तस्मान्नागमस्मरणे कश्चिद्विरोधो दृश्यत इति किं तन्निराकरणेन । अत्रोच्यते यदि नामेतिहासपुराणप्रामाण्याश्रयणेनायोनिजदेहा एव कृतादियुगभेदेषु केचिदृषयः स्मरन्ति वेदानिति सङ्गिरन्ते । तदस्तु । नैवमपि नः काचित्सिद्धान्तहानिः । एकस्य कस्यचित्स्मरणमेवास्माभिर्निरस्यते, तद्धि कृत्रिमत्वमेवापादयतीति । अत एव वक्ष्यति एकस्य प्रतिभानमिति । इहापि चास्येत्येकवचनेनैकस्यैव स्मरणं निराकरोति । बहवोऽप्ययोनिजदेहाः स्मर्तार इति दुष्प्रतिपादमेव । न खल्वयोनिजं नाम नराणां शरीरं सम्भवति, स्वभावनियमाविसंवादात् । विसंवादे वा सकलदृष्टादृष्टव्यवहारोच्छेदप्रसङ्गात् । योनिजदे[४६०]हास्तु सातिशया अपि साङ्गांश्चतुरो वेदान् स्मरन्तीति । नैवं सम्भावयामः, जन्मजरामरणवेदनापरिभवो हि महान् संस्कारनाशनिदानमिति कथं महानयं ग्रन्थसन्दर्भो मात्रयाप्यन्यूनानतिरिक्तः केनचित्स्मर्येत । किञ्चिदेव भवान्तरीयकमपि केचित्स्मरन्ते दृश्यन्ते इति यथादर्शनमस्तु जातिस्मरः, कल्प्यतां वा मानवानुमितजातिस्मरश्रुत्यन्यथानुपपत्तिबलाद्विशिष्टो योनिजविग्रहपरिग्रहो भृग्वादीनामृषीणां स्वर्गकामश्रुत्यन्यथानुपपत्तिकल्पितासाधारणातिशयदेहेन्द्रियादिपरिग्रहवत् । शास्त्रस्था हि वयं यथाशास्त्रमाश्र[४६१]यामहे । न च शास्त्रसामर्थ्यादायातोऽतिशयोऽनुमानेन निराकर्तुं शक्यते आगमविरोधादेव । जन्मान्तरानुभूतं च न स्मर्यते इति{१,१३९}त्वतीन्द्रियार्थाभिप्रायमेव तदस्तु । सर्वथा सिद्धमिदमेकस्यागमस्मृतिकल्पना न साधीयसीति ॥ १४६ ॥ __________टिप्पणी__________ [४५५] त्वादव [४५६] र्थवदभिन्नं च स्व (Kआ) [४५७] र्हरणा [४५८] योर्थान्तराणि च [४५९] देरर्थ (ङा) [४६०] शरीरास्तु [४६१] द्रि (ङा) ___________________________ पुनरपि ग्रहणपक्षमेवोपसङ्क्रम्य दूषणम्[४६२]आह ग्राह्यत्व इति । नन्वागमस्यातीन्द्रियोऽर्थः न त्वागम इति कथं तुल्यत्वमत आह यो हीति । अनुच्चरितो ह्यागमोऽतीन्द्रिय एवेति भावः ॥ १४७ ॥ __________टिप्पणी__________ [४६२] यति ग्रा (ङा) ___________________________ ननु तुल्यत्वेऽपि तावदस्मदादिभिरागमग्रहणमाश्रितम् । को दोषः, अत आह पुमांस्तावदिति । अयमभिप्रायः नात्र तुल्यत्वम् । अर्थप्रतिभाने हि पुरुषः स्वतन्त्रो भवति, तदनुसारित्वादर्थनिश्चयस्य । आगमप्रतिभाने तु पुरुषोऽर्थं प्रत्यागमपरतन्त्रः । आगमोऽपि स्वरूपस्थितये[४६३]तत्परतन्त्र इति सापेक्षत्वादुभयाप्रामाण्यमिति ॥ १४८ ॥ __________टिप्पणी__________ [४६३] ये पर (Kआ) ___________________________ नन्विदमागमपारतन्त्र्यं तवापि समानम् । न हि पुरुषप्रत्ययादृते तस्य याथात्म्यं शक्यं श्रद्दधातुम्, अत आह अनेक इति । अयमभिप्रायः एकपुरुषपारतन्त्र्यं दोषाय भवति, अनेकधा संशयोपजननात् । एवं हि तत्र संशयो भवति किमयमनेनागमो दृष्टः कृतो वा, दृष्टोऽपि यथावस्थितोऽन्यथा वेति । एवं संशयाना न क्वचिदाश्वा[४६४]सयेयुः । अनेकपुरुषाधारे तु वेदे न तावत्कृतकाशङ्का, नाप्यन्यथात्वमिति वक्ष्यति । अतोऽव्याहतस्वातन्त्र्यो वेदः प्रामाण्यं लभते इति । अपि च येयं भवान्तरेष्वनुभूतानां भवान्तरे निरवशेषस्मृतिकल्पना, सापि वेदानां पारतन्त्र्यमापादयत्य्{१,१४०}एव । एवं हि तत्र शङ्क्यते कथं खल्वयं महान् ग्रन्थसन्दर्भो निश्शेषसंस्कारच्छिदा मरणेनान्तरितोऽनेन स्मृतः । तदयमस्मान् विप्रलब्धुकाम एव स्वयं निर्मितमागमं स्मृतम्[४६५]अपदिशति । एवं च शङ्कमाना न स्वातन्त्र्येणागमप्रामाण्यमध्यवस्येयुः । अस्माकं तु ग्रहणस्मरणयोरेकभवभावित्वान्नायं दोषो भवतीत्याह एकत्रेति ॥ १४९ ॥ __________टिप्पणी__________ [४६४] श्वासेयु । (ङा) [४६५] मित्यप ___________________________ अथानेकपुरुषस्थत्वे को गुणः, अत आह अन्यथेति । बहुषु हि सम्प्रदायप्रवर्तकेषु या तस्य वेदस्यान्यथाकरणाशङ्का सा निवर्तते । एकेन हि विनाशितं वेदमन्यो नैतदेवमिति निवार्यान्यथा दर्शयति । अतो बहुसंवादाद्वेदस्य यथावस्थितस्वरूपावधारणं भवतीति । एकस्य प्रतिभानं तु कृतकवेदकल्पनाया न विशिष्यते, उभयत्रा[४६६]प्यविश्वासतुल्यत्वादित्याह एकस्येति ॥ १५० ॥ __________टिप्पणी__________ [४६६] त्रावि (ङा) ___________________________ अतो न यथा वेदानामेकः कर्ता, एवं सम्प्रदायप्रवर्तकोऽपि नैकः पुरुष इत्युपसंहरति अतश्चेति । अद्यत्ववदेव तु पुरापि बहवः सब्रह्मचर्यादिपरतन्त्रा नरा आसन्नित्याह बहव इति । एतच्च प्रयोगेण दर्शनीयमिति ॥ १५१ ॥ एवं तावत्पुरुषातिशयकल्पना नापौरुषेयकल्पनया तुल्येति सम्प्रधारितम् । अतो यत्परैरनयोः कल्पनयोस्तुल्यत्वमापादितं, तदेककल्पनीयहानोपादानाभ्यामेवेति सापहासमाह एवञ्चेति ॥ १५२ ॥ {१,१४१} एतदेव स्पष्टयति न हीति । अद्यवदेव सर्वदा वेदव्यवहारः प्रतायते इति जैमिनेर्दर्शनम् । इदं च[४६७]दृष्टानुसारीति नालौकिकं किञ्चिज्जैमिनिना कल्पितं परैरिवादृष्टपूर्वः पुरुषातिशयः । पौरुषेयानुमानदूषणं तु पूर्वमुक्तमेवेति । वेदाप्रामाण्यवादिनामेव[४६८]तु दृष्टहानिरदृष्टकल्पना चेत्याह अप्रामाण्येति । दोषो ह्यप्रामाण्ये निमित्तम् । स चापौरुषेये वेदेऽदृष्टः कल्पनीयः । त्रिविधाप्रामाण्यशून्यस्य ज्ञानस्य दृष्टं प्रामाण्यं हातव्यमिति । नन्वयं दृष्टबाधो भ्रान्तिष्वपि समानः । अथ तत्र बाधकसामर्थ्याद्विपर्ययः, सोऽप्यत्रानुमानिको भवेदित्यत आह उत्पन्न इति ।[४६९]अयमभिप्रायः उत्पन्नमिदं ज्ञानं सम्यक्त्वसन्देहविपर्ययविरहादित्युक्तं भाष्ये । अनुमानानामप्यागम[४७०]विरोधः प्रतिहेतुविरोधश्चेत्युक्तमेव । अतो विनैव कारणेन बलादयं बाधः कल्प्यते । भ्रान्तौ तु नैतदेवमिति स्फुटो विपर्यय इति ॥ १५४ ॥ __________टिप्पणी__________ [४६७] च दृष्टं दृष्टा (Kआ) [४६८] व दृ (ङा) [४६९] ति । उ [४७०] मेन वि (Kआ) ___________________________ यत्तु स्वपरप्रत्यक्षासंवादी कथं शब्दः प्रमाणमित्युक्तं, तदयुक्तम् । यदा ह्यपौरुषेया वेदा इत्युपपादयिष्यामः तदास्याश्चोदनाबुद्धेः प्रत्यक्षेण सह विशेषं नोपलभामहे । उभयोरप्यदुष्टकारणजत्वात् । अतः किमत्र प्रत्यक्षसंवादेनेत्याह साधित इति । निर्दोषं च तज्ज्ञानजन्म चेत्यर्थः ॥ १५५ ॥ {१,१४२} अत्रापरं भाष्यं नन्वविदुषामुपदेशो नावकल्पते इत्यादि । तस्याभिप्रायमाह उपदेश इति । अर्थापत्तिरियं[४७१]भाष्यकारेणोक्ता । उपदेशो हि बुद्धमन्वादीनामुपलभ्यते । न चायमर्थमविदुषामुपदेश उपपद्यते । अतो दृष्ट उपदेशविषयोऽर्थो मन्वादिभिरिति कल्प्यते । मन्वादिग्रहणं प्ररोचनायै ।[४७२]एवं हि जानाति एष खलु मीमांसको[४७३]ऽङ्गीकृत[४७४]मन्वाद्यागमसत्यत्वः, तदहमेनं मन्वाद्युपदर्शनेनैव तावदङ्गीकारयामि यथातीन्द्रियाणामर्थानामस्ति तावद्द्रष्टेति । ततश्च स्वागमार्थदर्शनमपि बुद्धस्यानायासमुपपादयिष्यामीति ॥ १५६ ॥ __________टिप्पणी__________ [४७१] यं च भा [४७२] य [४७३] कोऽनङ्गी [४७४] तबाह्यागम (Kआ) ___________________________ अनुमानाभिप्रायं वेदं भाष्यमित्याह यद्वेति । उपदेशित्वं हि दृष्टार्थपूर्वतया व्याप्तमवगतं वैद्योपदेशादौ । तदतीन्द्रियार्थगोचरमप्यवगतं तामनुमापयतीति । ननु च नात्र भाष्यकारेणोपदेशित्वं हेतुरुक्तः, किन् तु अविदुषामुपदेशानुपपत्तिः । अतः कथमनुमानाभिप्रायवर्णनम्, अत आह व्यतिरेक इति । अयमभिप्रायः व्यतिरेकप्रधानवादिमतेन भाष्यकारेणात्र व्यतिरेकमुखेन हेतोर्गमकत्वमुक्तम् । यो हि यन्न जानाति स तन्नोपदिशति, यथा चिकित्सको धर्माधर्मौ । न च तथा मन्वादयोऽतीन्द्रियानर्थान्नोपदिष्टवन्तः । अतोऽविद्वद्भ्यो व्यावृत्तमुपदेशित्वं विद्वत्तामनुमापयतीति ॥ १५७ ॥ एवमुभयथा परिचोदनाभिप्रायमुक्त्वा परिहारभाष्याभिप्रायमाह अन्यथेति । अर्थापत्त्यभिप्रायेण परिचोदितः उपदेशो हि व्यामोहादपि भवतीत्यनेन भाष्येणान्यथोपपत्तिप्रदर्शनेन तद्भङ्गः कथ्यते । व्यामोहेनाप्युपदेशोपपत्तौ नातीन्द्रियज्ञानं कल्पयितुं शक्यत इति । दृश्यते चाद्यत्वेऽपि{१,१४३}व्यामुग्धानामन्यथाशास्त्रार्थोपदेशः प्रबन्धरचना च निबन्धॄणामिति । यदा पुनरनुमानाभिप्राया परिचोदना, तदानुमानदोषो लिङ्गस्य व्यभिचारोऽनेन कथ्यत इत्याह लिङ्गस्येति । बालोऽज्ञः । तस्याप्युपदेशदर्शनेनानैकान्तिको हेतुरिति ॥ १५८ ॥ अपरमपि असति व्यामोहे वेदादपीति भाष्यं, तद्व्याचष्टे वेदादित्युक्तमन्तेन । अयमभिप्रायः अनुमानदूषणमेवेदम् । प्रथमं तावदनैकान्तिको हेतुरित्युक्तम् । इदानीं तु सिद्धसाध[४७५]नतोच्यते । यदिदमुपदेशाद्ज्ञानानुमानमुक्तम्, अतः सिद्धं साध्यते । सत्यम् । वेदाद्विदितवतामतीन्द्रियार्थ[४७६]विषय उपदेशः । एवं हि वेद एवातीन्द्रियेऽर्थे प्रमाणं, न स्वमहिम्ना पुरुष इति । कथं पुनः सिद्धसाधनम् । न हि बुद्धादीनामतीन्द्रिया[४७७]र्थज्ञानं वेदात्सम्भवतीति न हि ते वेदाज्ज्ञापयितव्याः, तत्समीपेऽनध्ययनात् । अतो वेदस्वरूपमविदुषां न वेदाद्ज्ञात्वोपदेशः सम्भवति, अत आह मन्वादेरिति । अयमभिप्रायः सत्यं ने[४७८]दं बुद्धाद्यभिप्रायेण सिद्धसाधनत्वमुच्यते, किन् तु उपदिष्टवन्तश्च मन्वादयः इति ब्रुवाणेन मन्वादय उपदर्शिताः । तेषां च वेदादेव ज्ञात्वोपदेश इति स्मृत्यधिकरणे वक्ष्यते । यथा वक्ष्यति __________टिप्पणी__________ [४७५] ध्यतो (ङा) [४७६] र्थ उ [४७७] यज्ञा [४७८] न बु (Kआ) ___________________________ भ्रान्तेरनुभवाच्चापि पुंवाक्याद्विप्रलम्भनात् । दृष्टानुगुण्यसाध्यत्वाच्चोदनैव लघीयसी ॥ इति । वेदविरुद्धार्थाभिधायिनां तु वेदादुपदेश इत्यसम्भावनीय एव । यथा वक्ष्यति विरोधे त्वनपेक्ष्यं स्यातिति । एतत्सिद्धसाधनं मन्वादिसम्बन्धितयेप्यत इत्यर्थः । अपरमपि पौरुषेयापौरुषेययोर्विशेषकथनार्थं भाष्यम् अपि च पौरुषेयाद्वचनादेवमयं पुरुषो वेदेति भवति प्रत्ययः नैवमर्थ इति । विप्लवते खल्वपि कुतश्चित्पुरुषकृताद्वचनात्प्रत्ययः । न तु वेदवचनस्य मिथ्यात्वे किञ्चन प्रमाणमस्तीति । अस्यार्थः पूर्वं हि{१,१४४}पुरुषवाक्योपमानेन नन्वतथाभूतमित्यादिना वेदवचसां मिथ्यात्वमुपपादितम् । तत्र मीमांसागोत्रानुसारिणा स्वतःप्रामाण्ये स्थित्वा विप्रतिषिद्धमित्यादिना सिद्धान्तितम् । पुनश्च प्रत्ययितग्रन्थेनांशे दृष्टान्तस्य साध्यवैकल्यमंशे च हेत्वन्तराधीनं वैतथ्यमित्यनुमानदूषणमुक्तम् । मध्ये च प्रासङ्गिकी कथा प्रवृत्ता । अधुना लोकवेदवाक्ययोः स नाम विशेषः कथ्यते येन निरपेक्षमेव वेदवाक्यं प्रमाणं, सापेक्षं पौरुषेयं किञ्चिच्चाप्रमाणमेव । एवञ्च यत्त्वथाभूतप्रतिज्ञायामन्तर्णीतं प्रत्ययान्तरसापेक्षं सर्ववाक्यानां प्रामाण्यं, वार्त्तिककृता च प्रमाणान्तरदृष्टं हीत्यादिना विवृतं, तत्तावत्परिहृतं भवति । वाक्यत्वस्य च मिथ्यात्वहेतोरन्तर्णीतस्याप्रयोजकत्वं मिथ्यात्वे साध्ये दर्शितं भवति । यद्यपि च तत्पुरुषबुद्धिप्रभवमप्रमाणमित्यत्र पुरुषदोषायत्तमप्रामाण्यमित्युक्तं, तथापि प्रतिज्ञामात्रेण तदुक्तं न तूपपादितम् । अधुना तु भवत्याशङ्का कथं पुनरिदमवगम्यते पुरुषाधीनमप्रामाण्यं न वाक्यस्वभावानुबन्धीति । तत्रेदमुच्यते पुंवाक्यमपि किमपि वक्तृप्रमाणावधारणसमुत्सारिततदीयनिखिलदोषाशङ्कमप्यर्थे साक्षादनादधदपि निश्चयं तद्द्वारेण प्रमाणमेव । यथाह एवमयं वेद, नैवमर्थ इति । वक्तृप्रमाणतिरोहितोऽर्थे निश्चयः न स्वतन्त्र इति यावत् । वाक्यस्वभावानुबन्धिनि त्वप्रामाण्ये न किञ्चित्पुंवचः प्रमाणं भवेत् । अतोऽवगच्छामः स्वभावतः प्रमाणमेव वाक्यं पुन्दोषादप्रमाणं भवतीति । तदिदमुक्तं विप्लवते खल्विति । अनाप्तवाक्यादुपजातः प्रत्ययो विप्लवते । विविधं प्लवते, एवं नैवमिति संशयात्मक इति यावत् । विपर्येति वा । तदेवमौत्सर्गिकं प्रामाण्यं वाक्यानां दोषैरपोद्यत इति दर्शितं भवति । न चात्र वक्तृगुणाः प्रामाण्ये कारणं दोषनिराकरणमात्रे व्यापारात्, इतरथा अनवस्थानादित्युक्तम् । अतः स्वभावनिर्दोषाद्वेदवचसो जातं ज्ञानं कथमप्रमाणं भवतीति । एतच्चानागत एवास्मिन् वार्त्तिककृता सर्वमुद्ग्राहितं शब्दे दोषोद्भव इत्यादिना । तदिदमुक्तं न तु वेदवचनस्येति । तदयं संक्षेपार्थः येयं प्रत्ययान्तरसापेक्षिता सा तदधीननिश्चयानां पुंवाक्यानां तथा नाम, अप्रमाणता च वक्तृप्रमाणतन्त्रत्वादर्थनिश्चयस्य तद्दोषादस्तु नाम । वेदवाक्येभ्यस्तु स्वतन्त्रपदार्थसामर्थ्यप्रभाविता वाक्यार्थबुद्धिर्न ज्ञानान्तरमपेक्षते, न चाप्रमाणमिति ॥ १५९ ॥ {१,१४५}इममेवार्थमस्य भाष्यस्य व्याख्यास्यन्नाक्षेपं तावदाह अन्यथेति । योऽयं वक्तृज्ञानपूर्वकः पुंवाक्येभ्योऽर्थनिश्चय उक्तः, सोऽयुक्तः । तज्ज्ञानावधारण एव प्रमाणाभावात् । न ह्यव्यभिचरितस्वार्थगोचरज्ञानं पुंवाक्यं, यतस्तदवगम्यते । अनाप्तो ह्यन्यथा विजानन्नन्यथा विवक्षति । विवक्षाधीना च वाक्यनिष्पत्तिः । अतो विवक्षावशेनान्यथैव वाक्यं निष्पद्यते, अन्यथा च ज्ञायत इति नैकान्ततो वाक्याज्ज्ञानानुमानमिति ॥ १६० ॥ आस्त तावद्वाक्याज्ज्ञानानुमानं, विवक्षामात्रमपि ततोऽवगन्तुं न शक्यत इत्याह भ्रान्तस्येति । विवक्षा हि तावदत्यन्तं वाक्यनिर्माणे सन्निहिता । तस्यामप्यन्यथा सत्यां कदाचिद्भ्रान्तस्यान्यथा वाक्यरचना दृश्यते । अतो यथाविवक्षमपि वाक्यं न प्रवर्तत एव । कथमसत्यां विवक्षायां वाक्यरचनेति चेद्, न । विवक्षान्तरस[४७९]म्भवात् । कथमन्यविवक्षा अन्यनिर्माणे हेतुरिति चेत्को दोषः । विवक्षा हि प्रयत्नद्वारेण वाक्यनिष्पत्तौ हेतुः, नादृष्टेन रूपेण । स च विवक्षान्तरप्रयुक्तेनैव कृतः कुतंश्चिद्वैगुण्यान्न सम्यक्परिनिष्पन्नः । ततोऽशक्तिजन्यमन्यदेव जातम् । यथा कश्चित्शुष्के पतिष्यामीति कर्दमे पतति । सूक्ष्मविवक्षास्तित्वं तु सूक्ष्मदृश एव प्रतिपद्यन्ते । विवक्षा हि वक्तुमिच्छा । सा चेदात्मगुणान्तरं, तर्हि सुखादिवन्मानसप्रत्यक्षवेद्यं कथमज्ञायमानमस्तीति शक्यते वक्तुम् । अथाभिलाषात्मकज्ञानरूपा, तथापि कथं वाक्यान्तरप्रकाशेऽन्यविवक्षास्तीति शक्यते कल्पयितुमिति यत्किञ्चिदेतत् ॥ १६१ ॥ __________टिप्पणी__________ [४७९] सद्भावात्(Kआ) ___________________________ एवमाक्षिप्तं भाष्यं समादधाति वक्तृधीरिति । अयमभिप्रायः द्विविधो हि वक्ता आप्तोऽनाप्तश्च । तत्र य एवमवधारितो भवति {१,१४६}नायमन्यथाज्ञातमन्यथा वदति आप्त इति यावत्, तद्वाक्यादेवं वेदेति वक्तृधीरवगम्यते । अन्यत्र त्वनाप्तवाक्ये विप्लुतिरिति विप्लवत इत्यादिनोक्तम् । तत्रेदमुक्तं[४८०]भवति यदा तावदाप्तवाक्यादनाशङ्कमेव ज्ञानं जातं व्यवहारश्च प्रवृत्तः न च विसंवादो दृष्टः, तदा कल्याणमेव । जाताशङ्कस्यापि वक्तुराप्तत्वमनुस्मृत्य[४८१]तज्ज्ञानपुरस्सरमेवार्थे निश्चयो जायते । आप्तस्य च भ्रमो न तावदाशङ्क्यते । स हि सुनिपुणो न तावत्प्रायशो भ्राम्यति । न चासम्यग्विदिते तस्यैतावती चेष्टा भवति यदसौ परप्रतिपत्तये वाक्यं प्रणयति । तथापि वा संशयानस्य तत्परिप्रश्नादेव तत्प्रमाणनिश्चयो भवति । स एव निर्बध्यपृष्टो यदि त्रिचतुरज्ञानमात्मन उपदिशति, तावतैव स्वप्रमाणवदनाशङ्क्यव्यवहारसिद्धिः । विप्लवश्चानाप्तवाक्याद्विविधो व्याख्यात एवेति । एवं तावद्ज्ञानप्रत्ययविप्लवौ विषयव्यवस्थया व्याख्यातौ । इदानीं भाष्यतात्पर्यं दर्शयति तेनेति । यत्तावद्वाक्यत्वमतथाभूतत्वे हेतुतयोक्तं तस्यानेनाप्रयोजकत्वमुच्यते । आप्तवाक्येषु हि गुणनिराकृतदोषेषूत्सर्गेण सत्यत्वं दृष्टम् । अत एव हि तज्ज्ञानानुसार्यर्थनिश्चयो भवति । इतरथा तस्यापि मिथ्यात्वं भवेत् । अनाप्तवाक्येषु तु तद्दोषादपवादादप्रामाण्यम् । एवं च स्वाभाविकसम्यक्परिच्छेदशक्तिर् अत्र वचसश्शब्दस्योच्यते । मिथ्यात्वं चौपाधिकं न वाक्यत्वेन प्रयुज्यते परप्रयुक्तव्याप्त्युपजीवि हि तत्, निषिद्धत्वप्रयुक्त इवाधर्मत्वे हिंसात्वमिति ॥ १६२ ॥ __________टिप्पणी__________ [४८०] तत्रैतदुक्तं [४८१] सृ ___________________________ वक्तृधीराप्तवाक्येषु गम्यत इत्युक्तं, तत्र कारणमाह पदार्थेति । श्रोतुर्हि वक्त्रा पदार्थेषु विरचितेषु वाक्यार्थप्रत्ययो जायते । वक्तुश्च रचनाकृतिर्विवक्षापूर्विका । सा चाप्तस्याविज्ञाते[४८२]न सम्भवतीति पूर्वज्ञानमपेक्षते । अतः प्रतिबन्धबलेनाप्तवाक्यात्पूर्वविज्ञानमवगम्यत इति ॥ १६३ ॥ __________टिप्पणी__________ [४८२] तेन न (ङा) ___________________________ {१,१४७}विवक्षावशत्वमेव रचनाया दर्शयति विवक्षान्तरेति । पूर्वविवक्षाया यद्विवक्षान्तरागमेन रचनान्तरं दृश्यते पूर्वोत्तरपदोद्वापावापभेदेन, अतो विवक्षाधीना रचनेत्यवगम्यत इति ॥ १६४ ॥ एवञ्च यद्विवक्षाधीना रचना सा च ज्ञानपूर्विका, तेन कारणेन वाक्याद्[४८३]अर्थप्रत्ययोत्पादे श्रोतुर्जाते[४८४]ऽपि नूनमनेनायमर्थो वक्त्रा ज्ञात इति वक्तृज्ञाने मतिर्भवतीत्याह तेनेति । वक्तृप्रमाणपूर्वत्वाद्रचनाया न स्वतन्त्रोऽर्थज्ञानमात्रान्निश्चय इति भावः । तदिह तेनोत्सर्गापवादाभ्यामित्यत्र स्वाभाविकी वचसश्शक्तिरिति भाष्यतात्पर्यमुक्तम् । पदार्थरचनायत्त इत्यतः प्रभृति तेनार्थप्रत्यय इत्येवमन्तेनाप्तवचसां प्रत्ययान्तरापेक्षितेति भाष्याभिप्रायो विवृत इत्यनुसन्धातव्यमिति ॥ १६५ ॥ __________टिप्पणी__________ [४८३] क्यार्थ [४८४] ते नू ___________________________ इतश्चाप्तवाक्यं तज्ज्ञानपरतन्त्रमवगम्यत इत्याह आप्तोक्तिरिति । यदाप्तोक्तमर्थमेकोऽनुतिष्ठति तं चापरोऽनुयुङ्क्ते किमत्र ते प्रमाणमिति, तदा असावाप्तोक्तिकारी तमाप्तमेव तत्र मूलतया दर्शयति य एवं[४८५]वादी स एवाप्त एतज्जानाति नाहमिति । स्वातन्त्र्ये हि तज्ज्ञानप्रकाशनमनर्थकं भवेदिति ॥ १६६ ॥ __________टिप्पणी__________ [४८५] वदति स ___________________________ किमिदानीमाप्तवाक्यमर्थे न प्रमाणमेव,[४८६]नैवमपि तु आप्तवक्तृप्रमाणानवधारणाज्जाताशङ्कस्य वाक्यमुदास्ते । यदा हि वक्तृधियो हेतुभूतमदुष्टमिन्द्रियाद्यवधारितं भवति, तदा दोषाशङ्कानिराकरणात्प्रामाण्यमेव{१,१४८}स्थाप्यते । तदिहावगतिहेतुतया शब्दानां प्रामाण्यमुपक्रान्तमप्रामाण्यशङ्कया शिथिलीकृतं वक्तृप्रमाणावधारणनिराकृतेषु दोषेषु दाढ्यर्थं लभते, तदेतदाह तज्ज्ञानेति । तज्ज्ञानान्तरितत्वात्वक्तृज्ञानान्तरितत्वात् । निश्चयजनने शब्दस्येत्यर्थः । तावच्छब्देनात्यन्ताप्रामाण्यं निराकरोति । कियतापि विलम्बनेन प्रामाण्यं प्रतितिष्ठतीति । नन्वेवं वक्तृप्रमाणानुसारिणि निश्चये सत्यनुवाद एव शब्दः प्रागनिश्चयाद् अप्रमाणमिति कदा प्रमाणम् । उक्तमिदं स्वकाल एव तत्प्रमाणं, दोषाशङ्कानिराकरणमात्रे वक्तृज्ञानस्य व्यापार इति । श्रोत्रा हि प्रथममविदितपूर्व एवार्थोऽवगतः क्वचिद्व्यभिचारदर्शनेन जातायामाशङ्कायां तन्निराकरणेन तस्यैव प्रामाण्यं प्रतिष्ठाप्यते । अत एव स्थापनमित्युक्तमिति ॥ १६७ ॥ __________टिप्पणी__________ [४८६] णं नैवमपि आ (Kआ) ___________________________ कथं पुनः प्रथमं शब्दा उदासते । स ह्यर्थः शब्देन[४८७]प्राक्प्रत्यायितो न वा । यदि नेत्याह कथमेवं वेदेति वक्तृज्ञानमुन्नीयते । प्रकारार्थो ह्येवंशब्दः । न च निराकारं विज्ञानमनाश्रितार्थपरिष्वङ्गे स्वरूपेण प्रकारवद्भवेत् । न च[४८८]श्रोतुर्बुद्धावनारूढोऽर्थो वक्तृज्ञनमेवम्भावेन विशिनष्टि । यदि तु पूर्वमप्यर्थप्रत्ययोऽवगम्यते, ततः पारतन्त्र्ये कारणं वाच्यम् । उत्पद्यमानेनैव हि तेन स्वविषयपरिच्छेदः कृत इति किमन्यदपेक्षते । निश्चयार्थं वक्तृप्रमाणापेक्षेति चेद्, न । अनिश्चयज्ञानासम्भवात् । निश्चय एव हि ज्ञानं, तच्चेदस्ति कथं निश्चयो नास्तीति शक्यते वक्तुम् । अतो ऽनुपपन्नमिदमर्थज्ञानगम्यैव वक्तृधीस्तत्प्रामाण्ये कारणमिति । अत आह अर्थ इति । यत्तावदुक्तमनवगतेऽर्थे नैवम्भावो भवतीति, तत्राभ्युपगमेनैवोत्तरम् । सत्यं पूर्वं प्रतीत एवार्थ इति । यत्तु प्रतीतेऽनिश्चयो न घटत इति । तन्न, जाताशङ्कस्य तदुपपत्तेः । यद्यपि न शब्दात्संशयः, तथापि व्यभिचारदर्शनात्संशयो जायत एव । यत्त्वनिश्चयात्मकं ज्ञानमेव नास्तीति ज्ञानोत्पत्तौ निश्चय एव जायत इत्युच्यते । तन्न । संशयस्यापि ज्ञानत्वात् । अतो{१,१४९}जातेऽपि[४८९]ज्ञाने कुतश्चिन्निमित्तात्संशयोत्पत्तौ वक्तृप्रमाणाश्रयत्वान्निश्चयस्यार्थज्ञानसमधिगम्यापि सैव वक्तृधीः पूर्वज्ञानप्रामाण्ये पूर्वभाग्भवतीति[४९०]तया समुत्सारितायां दोषाशङ्कायां प्रामाण्यस्याध्यवसानादिति ॥ १६८ ॥ __________टिप्पणी__________ [४८७] ब्दैः प्रा [४८८] ज्ञा (Kआ) [४८९] पि विज्ञा [४९०] वति तया ___________________________ एवं तावत्पुरुषवाक्येषु ज्ञानान्तरापेक्षया प्रामाण्यं क्वचिच्चौपाधिकमप्रामाण्यमित्युक्तम् । वेदवाक्ये तु स्वाभाविकत्वादेव वचसः सम्यगर्थपरिच्छेदशक्तेर्न मृषार्थता सम्भवतीति न तु वेदवचनस्येत्यादिनोक्तं, तदेतदाह अत इति । अस्तु नाम वक्तृदोषाशङ्कया पुंवचसामप्रामाण्यं, स्वभावनिर्दोषं तु वेदवचो न तत्स्वभावमनुभवितुम्[४९१]अर्हतीति ॥ १६९ ॥ __________टिप्पणी__________ [४९१] वर्तितु ___________________________ वक्तृबुद्ध्यन्तरयोर्व्यवधानमपि वेदे नास्तीति पदार्थैरेव केवलैर्नित्यनिर्दोषैर्वाक्यार्थः प्रतीयत इत्याह तद्बुद्धीति । अतः सिद्धं न वेदे प्रत्ययान्तरापेक्षा, न चायथार्थत्वमिति । प्रकरणार्थमुपसंहरति अत इति ॥ १७० ॥ अन्यथा भाष्याभिप्रायमाह अप्रमाणत्वेति । वेदानामप्रमाणत्वसिद्धये यत्किञ्चन लौकिकं[४९२]वचनं दृष्टान्ततयोक्तं, तस्यानेन ग्रन्थेन दृष्टान्तस्य साध्यानासङ्गिता साध्यविकलतोच्यते इति ॥ १७१ ॥ __________टिप्पणी__________ [४९२] कं दृ (Kआ) ___________________________ कथं साध्यानासङ्गिता, अत आह तेषामिति । अयमभिप्रायः परमतेनेदं भाष्यकारेण परान् प्रत्युच्यते । तथा हि यदा{१,१५०} तावल्लोकायतिकाभिप्रायः प्रयोगः चोदना मृषा प्रत्यक्षाद्यगतार्थत्वादीदृग्बुद्धादिवाक्यवदिति, तदा बौद्धाभिप्रायेणेदमुच्यते । साध्यानासङ्गी दृष्टान्त इति । तन्मते हि शब्दो नार्थे प्रमाणम् । तथा हि पदानि तावदर्थं स्मारयन्ति, न तु क्वचित्किञ्चिदुपनयन्त्यपनयन्ति वा । वाक्यमपि व्यभिचारदर्शनान्नार्थे[४९३]प्रमाणम् । अतः कथं तत्साधनं भवेत् । वक्त्रभिप्राय एव तु प्रतिबन्धबलात्शब्दैर्बोध्यते । तथाहुः न त्वेतेभ्योऽर्थसिद्धिस्तेषां तत्र प्रतिबन्धासिद्धेः वक्त्रभिप्रायं तु सूचयेयुरिति । अतो यद्बुद्धादिवचसां कार्यं प्रतिपाद्यमुक्तं, तत्र तेषां सम्यक्त्वमेवाव्यभिचारात् । अर्थे तु तेषां व्यापारो नेष्यत एव । अतो न किञ्चिद्वेदवाक्यानां मिथ्यात्वे कारणम्[४९४]अस्तीति पूर्वत्र प्रतिपादितमिति ॥ १७२ ॥ __________टिप्पणी__________ [४९३] र्थेन प्रतिबद्धम (ङा) [४९४] णमिति (Kआ) ___________________________ पदार्थरचनायत्त इत्यादिना यत्प्रतिबन्धबलेन वाक्याद्वक्तृज्ञानानुमानमुक्तं तद्दर्शयतीति यदि च यत्र पुंवाक्यं व्याप्रियते वक्तृज्ञाने तदतिरिक्तेऽर्थ एव दृष्टान्ततयोच्यते, ततः सिद्धसाधनमित्याह स्वव्यापारेति । स्वविषयातिरेकेण वेदानामपि मिथ्यात्वमिष्यते । पूर्वपक्षार्थे मृषात्वाभ्युपगमादिति ॥ १७३ ॥ अत्रापरं भाष्यं ननु सामान्यतो दृष्टमनुमानं भविष्यति, पुरुषवचनं वितथमुपलभ्य वचनसामान्याद्वेदवचनं मिथ्येत्यनुमीयते इति । तस्याभिप्रायमाह अज्ञात्वेति दृष्टमन्तेन । वाक्यत्वं मिथ्यात्वे न प्रयोजकमिति योऽयमभिप्रायो भाष्यकारस्य, तमज्ञात्वाप्तानाप्तवाक्ययोः सम्यङ्मिथ्यात्वहेतुदोषसदसद्भावयोरुक्तिमात्रं भाष्यकारेण कृतमिति ज्ञानात्परः पूर्वपक्षवादी ननु सामान्यतो दृष्टमित्याद्यब्रवीत् । अतो नैवं चोदनीयं कथं हेतोरप्रयोजकत्व उक्ते पुनस्तेनैव हेतुना प्रत्यवस्थानमिति ।{१,१५१}अगृहीताभिप्रायस्य परिचोदनात् । एवं हि मन्यते भवतु यथातथा वा पुरुषवचसां मिथ्यात्वम्, एवमपि प्रतिबन्धसिद्धेर्हेतुर्गमक एवेति कृतकाकृतकवाक्ययोः सामान्यतोदृष्टमित्यन्वय इति । अत्र परिहारभाष्यं न, अन्यत्वादिति, तदाक्षिपति नान्यत्वादिति । कथमदूषणमत आह एतस्मादिति । वेदवाक्यमिथ्यात्वे साध्ये पुंवाक्यं दृष्टान्त उक्तः । तत्र किमयं दोषः यदन्यत्वं नाम, प्रत्युत गुण एवायम् । अन्यत्वादेव हि दृष्टान्तो भवति । अनन्त्यत्वे साध्यसमत्वापत्तेः । न हि पक्ष एव सपक्षो भवति । पक्षस्य साध्यत्वात्, सपक्षस्य सिद्धत्वात् । सिद्धसाध्ययोश्[४९५]चैकत्वविरोधाद् इति ॥ १७४ ॥ __________टिप्पणी__________ [४९५]कत्र वि (Kआ) ___________________________ तस्मादुपेक्ष्यैव तावद्ग्रन्थव्याख्यां भाष्यकाराभिप्रायमभिदध्महे इत्याह तस्मादिति । तमेवाभिप्रायं वर्णयति अभ्युपेत्येति वाक्यतान्तेन । अयमर्थः परमताभिप्रायेणापिचेत्यादि भाष्ये वक्तृज्ञान एव वाक्यं प्रमाणम्, अर्थे तु न तस्य व्यापार इत्युक्तम् । तदभ्युपगच्छामः । भवतु पुंवाक्यं बाह्य एवार्थे प्रमाणं न वक्तृज्ञाने । बाह्यार्थापेक्षयैव चाप्रामाण्यवादिनो दृष्टान्तोऽस्तु नाम । तथापि दूषणमुच्यते व्यवधानेऽपीति । यद्यपि ज्ञानव्यवहितेऽर्थेऽप्रमाणमेव पुंवाक्यं, तथापि तद्विषयप्रामाण्याभ्युपगमेनैव ब्रूमः साधारणानैकान्तिको हेतुरिति । सत्येष्व् अप्याप्तवाक्येषु वाक्यत्वस्य हेतोर्दृष्टत्वादितीदमत्र सामान्यतोदृष्टानुमानदूषणं भाष्यकारस्य मनसि विपरिवर्तते । अनेनैवाभिप्रायेण भाष्यमपि गमयितव्यमिति भावः । नन्व्{१,१५२}अतीन्द्रियार्थवे सत्यपि वाक्यत्वादिति विशेषयिष्यामः । पौरुषेयवचनं सर्वमतीन्द्रियार्थमप्रमाणमिति नानैकान्तिकत्वमत आह अतीन्द्रियेति । अतीन्द्रियेऽपि हि यदा कश्चिद्यदृच्छया अदृष्टपूर्वार्थे वाक्यं प्रणयति, यथेन्द्रोऽस्तीत्येको वदति, अन्यो नास्तीति । तत्र द्वयोरन्यतरेण नियोगतः सत्येन भवितव्यमित्येकस्य वाक्यस्य सत्यता । न हीन्द्रसदसद्भावयोरन्यतरदपि प्रमाणान्तरेणावधारितम् । अतोऽनाप्तवाक्यमपि क्वचिद्यदृच्छया प्रयुक्तमतीन्द्रियार्थविषयम् एव सत्यं दृष्टमिति विशिष्टेऽपि हेतावनैकान्तिकत्वमेवेति ॥ १७८ ॥ एवं भाष्यकाराभिप्रायमुक्त्वा तत्रैव भाष्यं योजयति नान्यत्वादित्याभासोऽन्तेन । अथमर्थः यादृशं परैर्नैयायिकैः सामान्यतोदृष्टानुमानमुक्तं, ततोऽन्यदिदमनैकान्तिकहेतुकं तदाभासमुक्तम् । अतोऽस्मात्सामान्यतोदृष्टाभासात्साध्यं न सिद्ध्यति इति । प्रमाणभूतात्सामान्यतोदृष्टादस्य तदाभासस्यान्यत्वादिति भाष्यार्थ इति व्याख्यानान्तरमाह विपक्षमिति । अयमभिप्रायः वाक्यत्वहेतुराप्तवाक्येषु सत्येष्वपि दृष्ट इति विपक्षवृत्तिर्न साध्यं साधयतीति तदेव दूषणं, योजनामात्रं तु भिद्यते । मिथ्यात्वे साध्ये विपक्षस्य सत्यत्वस्य ततोऽन्यत्वात्तद्गामित्वाच्च हेतोरिति भावः ॥ १७९ ॥ अन्यथा व्याचष्टे यद्वेति । यत्तद्वाक्यत्वस्याप्रयोजकत्वमपि चेत्यादि भाष्ये दर्शितं यदज्ञात्वा परेण सामान्यतोदृष्टानुमानमुक्तं, तदेव न अन्यत्वादिति भाष्यकारेणोद्धाटितम् । अन्यः खलु अप्रामाण्यस्य प्रयोजको हेतुर्विसंवादः, न वाक्यत्वम् । न चासौ वेदे सम्भवति, अपौरुषेयत्वात् । पुरुषाश्रयत्वाच्च शब्दे दोषाणाम् । अदुष्टकारणजनित्यस्य च ज्ञानस्य विसंवादासम्भवात् । नैतदेवमिति प्रत्ययविपर्यासो विसंवादः कथमदुष्टकारणजे भविष्यति । अन्यत्वान्मिथ्यात्वकारणस्येति भाष्यगमनिकेति{१,१५३}व्याख्यानान्तरमाह विषयस्येति । पूर्वं हि परमतेन साध्यानासङ्गी दृष्टान्त इत्युक्तम् । सैवेयं साध्यानासङ्गिता विषयान्यत्वादुच्यते । अन्यो हि पुंवाक्यस्य विषयो वक्त्रभिप्रायः । न च तत्र मिथ्यात्वमभ्यभिचारात् । पूर्वं त्वर्थविषयव्यापारमुपेत्यान्यत्वमुक्तम् । अधुना पुनः परमत एव स्थित्वा साध्यानासङ्गितोच्यत इति ॥ १८० ॥ अपरमपि न ह्यन्यस्य वैतथ्येऽन्यस्यापि वैतथ्यमिति भाष्यम् । तस्यार्थं दर्शयति न हीति । न ह्यन्यस्येत्यादिना भाष्येण नान्यस्यान्यथात्वेऽन्यस्य मृषार्थता भवतीत्युच्यत इति । एतदेव विवृणोति विवक्षेति । विवक्षा हि वक्तुस्तत्रायथार्थगोचरत्वान्मृषार्था । न वाक्यं, तस्य तत्प्रतिपादनमात्रेण प्रामाण्यात् । तस्याश्च ततः प्रतिबन्धबलात्सिद्धेः । अतो न वाक्यं मृषार्थमिति[४९६]सिद्धा साध्यानासङ्गितेति । प्रथमपक्षे[४९७]पि चैवं न हीत्यादि भाष्यं व्याख्यातव्यम् । नान्यस्यानाप्तवाक्यस्य मृषार्थत्वेऽन्यस्याप्तवाक्यस्यापि तद्भवतीति । सत्ये विपक्षे पुंवाक्यत्वस्य भावादनैकान्तिको हेतुरिति । एवमेव द्वितीये तृतीये च विसंवादस्य वैतथ्ये साध्येऽन्यस्य वाक्यत्वस्य वैतथ्यं साध्यं न सम्भवतीति व्याख्येयम् । चतुर्थे तु वार्त्तिकस्था व्याख्येति ॥ १८१ ॥ __________टिप्पणी__________ [४९६] ति सा [४९७] क्षे चैवं (Kआ) ___________________________ अन्यच्च न हि देवदत्तस्य श्यामत्त्व इत्यादि भाष्यं, तस्याभिप्रायमाह श्यामत्व इति । यथा श्यामत्वे साध्ये पुंस्त्वमनैकान्तिकं गौरादिष्वभावाद्, एवं वाक्यत्वमपि सत्याप्तवाक्यस्य साधारणमिति साधारण्यप्रदर्शनार्थं वेदं निदर्शनमिति । अन्ये तु दुष्टसाधनप्रयोगे दुष्टमेवोत्तरं देयमिति मन्वाना विकल्पसमा नाम जातिरियं भाष्यकारेण नान्यत्वादित्युक्तम्{१,१५४}इत्याहुरित्याह परोक्तेरिति । धर्मान्तरविकल्पनात्साध्यधर्मविकल्पापादनं विकल्पसमा । सा चैवं दर्शनीया वाक्यमेव किञ्चित्पुरुषवाक्यादन्यद्दृष्टं यथा वेदवाक्यम् । किञ्चिदनन्यद्यथा तदेव । एवमन्यानन्यत्वयोरपि विकल्पनात्[४९८]सत्यमिथ्यात्वयोरपि वाक्यत्वाविशेषे विकल्पो भविष्यतीति नावश्यं वाक्यत्वान्मिथ्यात्वं सिध्यतीति । इयं च वाच्यानुक्तीतरोक्तिजनिग्रहस्थानद्वयापत्तेरवाच्यैव परमतेनोपन्यस्तेति[४९९]वेदितव्यं विकल्पसममुत्तरमिति ॥ १८२ ॥ __________टिप्पणी__________ [४९८] ल्पात्(ङा) [४९९] ति परिवे ___________________________ एवं तावन्नान्यत्वादिति दूषणोक्तिरियमित्युक्तम् । इदानीं साधन वचनमेवेदमिति व्याख्यानान्तरमाह यद्वेति । परेण हि मिथ्यात्वे साधिते सिद्धान्ती हेत्वन्तरेण सयत्वं साधयति । प्रमाणमनुमानम् । तदुपरिष्टाद्वक्ष्यत इति । कीदृशं पुनस्तत्प्रमाणमित्याह विरुद्धेति । यदि तुल्यबलत्वं, विरुद्धाव्यभिचारी नाम संशयहेतुः । अथ सिद्धान्तहेतुर्बलीयान्, ततोऽनुमानबाधः । इह चानुमानबाध एव, सत्यत्वहेतोर्[५००]बलीयस्त्वादन्यत्वादसत्यत्वहेतूनामिति भाष्यार्थ इति ॥ १८३ ॥ __________टिप्पणी__________ [५००] तुब ___________________________ तदेव[५०१]सत्यत्वे प्रमाणमुपन्यस्यति चोदनेति । इदं चैकान्तिकहेतुकमनुमानं सामान्यतोदृष्टादनैकान्तिकहेतुकाद्बलवत् । अनैकान्तिकता च केवलस्य सविशेषणस्य च हेतोरुक्तैव । अतोऽनेनैव बलवता मिथ्यात्वानुमानं बाध्यत इति ॥ १८४ ॥ __________टिप्पणी__________ [५०१] सम्यक्त्वे प्र (Kआ) ___________________________ अस्मिन्नेव साध्येऽपरमपि हेतुद्वयमाप्तोक्तिनिदर्शनेनैव दर्शयति तथेति । देशकालादिभेदादौ बाधवर्जनादित्यन्वयः । अत्र च{१,१५५}बाधवर्जनादिति हेतोर्लिङ्गाक्षबुद्ध्योरपि दृष्टान्तता सम्भवत्येव । साधारण्येन त्वाप्तोक्तिप्रत्ययो निदर्शित इति ॥ १८५ ॥ नन्विदमदुष्टकारणजनितत्वमनाप्ताप्रणीतोक्तिजन्यत्वं चासिद्धं, सर्ववाक्यानां कृतकत्वादत आह अकर्तृकत्वेति । साधयिष्यते हि वेदानाम्[५०२]अकर्तृकत्वम्, अतो नासिद्धो हेतुरिति । एवमादिसत्यत्वानुमानाभिप्रायेणेदमन्यत्वमुक्तवान् भाष्यकृदित्याह एवमिति । आदिशब्देन सम्बन्धाक्षेपोक्ता हेतवोऽनुसन्धातव्याः । __________टिप्पणी__________ [५०२] मकृत्रिमत्वं ___________________________ भाष्यव्याख्याविकल्पाश्च षोढाद्यग्रन्थवत्कृताः । इति ॥ १८६ ॥ अत्रापरं सामान्यतोदृष्टस्यागमबाधप्रदर्शनार्थं भाष्यमपि च पुरुषवचनसाधर्म्याद्वेदवचनं मिथ्येत्यनुमानं, प्रत्यक्षस्तु वेदवचने प्रत्ययः इति । तद्यदि वाक्यगोचरप्रत्ययाभिप्रायं, तदयुक्तम् । अनाप्तवाक्येऽपि समानत्वात् । तत्स्वरूपप्रत्ययोऽपि प्रत्यक्ष एव । न च[५०३]तन्मिथ्या । अर्थस्तु वेदवाक्यानामतीन्द्रिय इति प्रत्यक्षसूत्रे वक्ष्यते । अतो नार्थाभिप्रायमिदम् । अथ प्रत्ययस्वरूपाभिप्रायेण प्रत्यक्षतोच्यते, साप्ययुक्ता । शून्यवादे तस्याप्यनुमेयताया वक्ष्यमाणत्वात् । अतो व्याख्येयम्, अत आह प्रत्यक्ष इति । अयमभिप्रायः मुख्यप्रत्यक्षत्वासम्भवाद्गौणः प्रत्यक्षशब्दः । दृढं हि प्रत्यक्षं प्रथमं च स्वतःप्रमाणं परतो विसंवादादप्रमाणम् । एतच्चतुष्टयान्यतमगुणविवक्षया प्रत्यक्षशब्द आगमिक एव प्रत्यये प्रत्युक्तः । सोऽपि दृढः, संशयविपर्ययाभावात् । श्रीघ्रभावी च, मिथ्यात्वानुमानाद्दृष्टान्ताद्यपेक्षाविरहात् । उत्पन्नस्य चानुमानेन मिथ्यात्वसाधनात् । प्रामाण्याप्रामाण्ययोः स्वपराश्रयत्वं सर्वप्रमाणानां साधितम् । अतः प्रत्यक्षतुल्योऽयं प्रत्ययः कथमन्यथा भवति । तद्[५०४]एतद्विपरीतार्थप्रतिज्ञानम्[५०५]अनेन विरुध्यत इति ।{१,१५६} न चेह वेदप्रामाण्यमस्माकमसिद्धमिति प्रत्यवस्थातुं शक्यम् । नास्तिकानाम् अपि तच्छ्रवणे असन्दिग्धाविपर्यस्तज्ञानजन्मनोऽविशेषान्नित्यागमजनितायाश्च संविदो दुष्टकारणजनितत्वासम्भवात् । पौरुषेयागमवादिभिस्त्वात्मात्मनैव बद्ध्वा समर्पित इति न ते परेषां मिथ्यात्वं साधयतामागमविरोधमुद्भावयितुमुत्सहन्ते । पुरुषाश्रयदोषाशङ्कया स्वागमानां[५०६]दूषितत्वात् । सर्वं चेदं भाष्योक्तमेव वार्त्तिककृता प्रागेवोद्ग्राहितं चोदनार्थान्यथाभावमित्यादिनेत्यनुसन्धातव्यमिति ॥ १८७ ॥ __________टिप्पणी__________ [५०३] तदमिथ्या (Kआ) [५०४] देव त [५०५] ज्ञानेनैव वि (ङा) [५०६] तदागमानां ___________________________ मुख्य एव वा प्रत्यक्षशब्दो व्याख्येय इत्याह ज्ञानाभावश्चेति । एवं मिथ्यात्ववादी वक्तव्यः त्रेधा खलु मिथ्यात्वम् । इह च न तावत्संशयविपर्ययौ स्त इति भाष्य एवोक्तम् । तद्यदि ज्ञानाभाव एव मिथ्यात्वं साध्यते, तत्र ते प्रत्यक्षविरोधः । प्रत्यक्षमेव हि भवत्सिद्धान्ते ज्ञानम् । यदि[५०७]काममस्यैव श्रोत्रियस्य तदनुमेयं[५०८]तत्त्वं, प्रत्यक्षमेव वेदवाक्यश्रवणादुत्पन्नं ज्ञानं विलोकयमानः कथं तदभावात्मकं मिथ्यात्वमत्थ इति ॥ १८८ ॥ __________टिप्पणी__________ [५०७] दि परमस्यै (ङा) [५०८] यं तत्प्र ___________________________ एवं तावदागमविरोधोऽनेन भाष्येणोक्त इति व्याख्यातम् । इदानीमस्यैव तात्पर्यान्तरं दर्शयति यथैवेति । अयमर्थः एतदनेन भाष्येणोच्यते पुंवाक्यसाधर्म्याद्भवान्मिथ्यात्वं साधयति । तद्यथैवैतन्मिथ्यात्वं दृष्टं, तथैव वेदवाक्येनापि मिथ्या भवितवयम् । तच्च बाधकाधीनं मिथ्यात्वं दृष्टमिति वेदेऽपि तथैव भवेत् । न च तथा सम्भवतीति साधितमेव । अतः प्रत्यक्षो[५०९]हि दृढो वेदवचने प्रत्ययः । नासौ क्वचिद्बाध्यते । अतो विशेषविरुद्धो हेतुरिति ॥ १८९ ॥ __________टिप्पणी__________ [५०९] क्षेऽपि दृ (Kआ) ___________________________ {१,१५७} एवं चोदनालक्षणत्वमुपपाद्य भाष्यकारेणोपसंहृतं तस्माच्चोदनालक्षणः श्रेयस्करः इति । अत्र च यथासूत्रमेव निगन्तव्ये श्रेयस्करपदप्रयोगेऽभिप्रायमाह धर्म इति । धर्मपदार्थमेव व्याख्यातुं श्रेयस्करशब्दः प्रयुक्तः । तत्प्रयोगे हि चोद्यपरिहारक्रमेण श्रेयस्करो धर्म इत्यावेदितं भवतीति ॥ १९० ॥ अत्र भाष्यकारेण एवं तर्हि श्रेयस्करो जिज्ञासितव्यः इति परिचोदनापूर्वमुक्तं य एव श्रेयस्करः स एव धर्मशब्देनोच्यते इति । तत्र कस्यानेन प्रकारेण धर्मतोक्तेति न ज्ञायते । अतस्तद्विवेकार्थमाह श्रेय इति । श्रेयश्शब्दोऽयं पुरुषप्रीतौ प्रसिद्धः । तत्कारणानि च द्रव्यगुणकर्माणि चोदनासामर्थ्यादवगम्यन्ते । अतस्तेष्वेव श्रेयस्करतया धर्मता भाष्यकारेणोक्तेति ॥ १९१ ॥ अत्रापरं भाष्यं यो हि यागमनुतिष्ठति तं धार्मिक इति समाचक्षते इति । तस्यार्थः श्रेयस्करो धर्मः यत्कारणं चोदनावधारितश्रेयस्करत्वयागादिकर्तरि धार्मिकशब्दं लौकिका उपचरन्ति । तदेवमुपपद्यते यदि यागादिर्धर्मः, यो हि धर्मं चरति स धर्मिकः । अतो यागादेर्धर्मत्वम् । अत एव हि तच्चरितरि धार्मिकपदप्रयोगो घटते, नान्यथेति । तदयुक्तम् । नावश्यमयं प्रयोगो यागादीनामेव धर्मतां गमयति, नृगुणापूर्वादिधर्मत्वेनाप्यस्योपपत्तेः । यागादिकार्येव ह्यपूर्वाद्यपि करोति । तत्कुतोऽयं विवेकः यागचरणादयं धार्मिकः नापूर्वादिचरणादिति, अत आह अन्यदिति । अयमभिप्रायः सत्यं, यागाद्यनुनिष्पादिन्यपूर्वसिद्धिरिति न तु तद्यागादिसाध्यमपूर्वं प्रयोक्तृभिर्निर्दिश्यते । शक्तिरूपत्वात्तस्य । शक्तेश्{१,१५८}चातीन्द्रियत्वात् । अतस्तद्दर्शनेन तच्चरितरि धार्मिकपदप्रयोगो न घटते । तस्माद्यागादियोगादेव धार्मिकत्वसमाख्यानमिति निश्चीयते । किं पुनर्यागादीनां स्वरूपमेव धर्मः । यद्येवं पूर्वापरविरोधः । पूर्वेण तावदुकतं ताद्रूप्येण च धर्मत्वमिति । अपरेण च फलसाधनरूपेण तदानीं[५१०]येन नास्त्यसौ । __________टिप्पणी__________ [५१०] नीं नास्तीति (Kआ) ___________________________ इति । तदपि च रूपं यागादीनामतीन्द्रियतया नापूर्ववत्प्रत्यक्षादिदृश्यं यागादिस्वरूपाभिधाने त्वनन्ता[५११]एकस्य धर्मपदस्य शक्तयः कल्पनीया भवेयुः । कथं खल्वेकयैव शक्त्यायं नानाजातीयेषु द्रव्यगुणकर्मसु वर्तते । स्यादेतत् सकलानुगतप्रीतिसाधनत्ववचनाददोष इति । न । तस्याप्यतीन्द्रियत्वादित्युक्तम् । विशेषणमात्राभिधानप्रसङ्गाच्च । प्रीतिसाधनं हि नानभिधाय प्रीतिं शक्यतेऽभिधातुमिति सैव पूर्वतरमभिधेया भवेत् । एवञ्च तन्मात्रोपक्षयिण्यभिधाव्यापारे न तद्वि[५१२]शिष्टाभिधानसिद्धिः । गवादिशब्दवत्सामशब्दवच्च । यत्र ह्यखण्डेन शब्देन विशिष्टो बोध्यते तत्र विशेषणमेव शब्दस्य वाच्यमिति सिद्धम् । अत एव सामशब्दो गीतिमात्रवचनो न सक्तां गीतिमाहेति वक्ष्यति । वार्त्तिककारेणाप्यपूर्वविशिष्टं कर्म धर्म इति निराकुर्वतोक्तं __________टिप्पणी__________ [५११] न्तास्ता ए (ङा) [५१२] शेषाभि (Kःा) ___________________________ कर्मापूर्वविशिष्टं चेद्धर्म इत्यभिधीयते । विशेष्यं नाभिधां गच्छेत्क्षीणशक्तिर्विशेषणे ॥ इति । तदिदं फलविशिष्टाभिधानेऽपि समानम् । स्यान्मतं विधेयो धर्मपदार्थ इति । तन्न । एवं सति विधेरत्यन्तप्रत्यासन्ना भावनैव विधेयतया धर्मशब्दवाच्यतामश्नुवीत । सा हि त्र्यंशा विधीयते इति सिद्धान्तः । तद्वरमपूर्वमेव धर्मपदवाच्यं तदन्वयव्यतिरेकानुविधानाद्धर्मपदस्य । तथा हि फलकालेऽसत्यपि कर्मणि अपूर्वसत्तयैव धर्मवानयमित्युपचरन्तो दृश्यन्ते । सत्स्वपि यागादिषु वैगुण्यादलब्धापूर्वनिष्पत्तिषु न धर्मपदं प्रयुञ्जाना दृश्यन्ते । अतो वक्तव्यो धर्मपदार्थः । {१,१५९} स उच्यते धर्मशब्दोऽयं पाचकादिवत्सभाग एव धृतिसाधने वर्तते । धृतिश्च प्रीतिपर्यायः । अयं च यथोपदिष्टानुगतपृषोदरादिमध्ये पठितः प्रकृतिप्रत्ययविभागेनोहितव्यः । तदिह धृञा धृतिः,[५१३]मनिन्प्रत्ययेन च तत्साधनमभिधीयते । न चैवमाहारविहारादौ प्रसङ्गः । पङ्कजादिवद्योगरूढ्यभ्युपगमात्चोदनालक्षणश्रेयस्करमात्राभिधानात् । न च योगनिरपेक्षा समुदायशक्तिः, येन विशेषणमात्रे प्रसङ्गो भवेत् । न च भावनायां प्रसङ्गः, तस्या अतत्साधनत्वाद्, यागादीनामेव श्रेयस्साधनत्वस्य चोदनाप्रमाणकत्वात् । केवलरूढ्यभ्युपगमेनैवोपाधिद्वयस्याभिधानमेष्टव्यम् । प्रतीतिसाधनत्वस्य विहितत्वस्य च प्रीतिसाधने विहिते च धर्मपदोपचारात् । प्रायिकं चैवाखण्डस्य विशेषणमात्राभिधानम् । असत्यां तु गतौ सर्वाभिधानमेव । तुल्यवच्चेह धर्मपदात्प्रीतिस्तत्साधनं च विहितमवगम्यते इति किं न शब्देनोच्यते । यदेतदपि रूपमदृश्यमित्युक्तम् । तन्न, वेदादवगमात् । अभ्युदयसाधनं याग इत्येतावदेव विदितवन्तोऽपूर्वमगणयित्वैव यागादिकर्तृषु धार्मिकशब्दमुपचरन्तो दृश्यन्ते । अतस्ताद्रूप्यमात्रेणैव ते धर्मा इति निश्चीयन्ते । अतः सिद्धमभ्युदयसाधनं विहितं धर्मपदार्थ इति । यत्तूक्तं विगुणे प्रयोगाभावान्न यागादिर्धर्म इति । तन्न । तथाविधस्याभ्युदयसाधनत्वाभावात्तस्य चाधर्मत्वात्कथं तत्र धर्मशब्दः प्रयुज्यते । फलकाले तु धर्मपदप्रयोगोऽभ्युदयसाधनाभिप्राय एव । अस्ति हि तत्तदानीमपि । शक्तिरूपेणाध्रियमाणमपि स्वरूपेण । यथा चापूर्वं न धर्मपदवाच्यं तथा वक्ष्यत एवेति ॥ १९२ ॥ __________टिप्पणी__________ [५१३] प्रीतिः (ङा) ___________________________ एवं तावल्लौकिकप्रयोगानुसारेण[५१४]यागादयो धर्मा इत्युक्तम् । अपि च येयं पश्वादिषु धर्मफलत्वप्रसिद्धिः तयापि यागादीनामेव धर्मत्वमवगम्यत इत्याह पश्वादीनीति । अयमर्थः पश्वादीनि तावद्धर्मफलतया प्रसिद्धानि । अतो यस्यैव तानि[५१५]फलानि स एव धर्म इति भवति मतिः । चित्रादिफलतया चैतानि शास्त्रादवगतानीति चित्रादयो धर्मा इति उपसंहरति तस्मादिति । न केवलं लोके । वेदेऽपि यागादिष्वेव धर्मपदप्रसिद्धिर्{१,१६०}इति दर्शयता भाष्यकारेण दर्शितं यज्ञेन यज्ञमयजन्त देवाः । तानि धर्माणीति । तद्दर्शयति धर्माणीति । अस्यामपि श्रुतौ यज्ञसमानाधिकरणो धर्मशब्द इति तद्वचनो निश्चीयत इति । कथं पुनर्विलिङ्गो विसङ्ख्यश्च धर्मशब्दः यज्ञसमानाधिकरणतया निर्दिश्यते । तत्सामानाधिकरण्ये हि स धर्म इति भवेत् । एकस्यैव यज्ञस्य प्रकृतत्वात्, पुल्लिङ्गत्वाच्च तस्य, अत आह लिङ्गेति । समुज्झितलिङ्गसङ्ख्याविशेषो धर्मशब्द एवात्र भाष्यकृता दर्शितः । तद्वृत्तस्य प्रकृतग्राहित्वात्, अन्यस्य चाप्रकरणान्निश्चीयते यज्ञसमानाधिकरणो धर्मशब्द इति । लिङ्गसंख्ययोश्च छान्दसो व्यत्यय इति भावः । आद्यश्चात्र यज्ञशब्दो यज्ञसाधनलक्षणार्थः । इतरः श्रुत्यर्थ इति ॥ १९४ ॥ __________टिप्पणी__________ [५१४] कपदप्र (Kःा) [५१५] नि स (Kआ) ___________________________ एवं तावद्भाष्यकारानुसारेण धर्मपदार्थो व्याख्यातः । मतान्तराणीदानीमुपन्यस्य निरस्यति अन्तःकरणेति न दृष्टोऽन्तेन । साङ्ख्या ह्यन्तःकरणस्य मनसो वृत्तिविशेषं धर्ममाश्रिताः । शाक्यास्तु चित्तस्यैव चित्तान्तरेण[५१६]भावितां शुभां वासनाम् । आर्हतास्तु कार्यारम्भकान् सूक्ष्मान्मूर्तिमतः पुद्गलान् धर्ममाहुः । पुद्गलशब्दस्त्वार्हतैस्तेष्वेव परिभाषितः । वैशेषिकास्त्वात्मनो विशेषगुणा धर्मा इति प्रतिपन्नाः । मीमांसकैकदेशिनस्त्वपूर्वजन्मन्येव धर्मशब्दमुपचरन्ति । वर्णितश्च तेषामभिप्रायः । अपूर्वजन्मनीति चापूर्वशब्दनिर्वचनम् । न पूर्वं जन्मास्येत्यर्थः । तद्धि न कर्मणः पूर्वं जायत एव, कृते कर्मणि तन्निष्पत्तेः । एतेषु सर्वेषु च लोके धर्मशब्दप्रयोगो न दृष्टः । लौकिकश्च प्रयोगः शब्दादर्थावधारणे मूलम् । अतो न ते धर्माः । कथं पुनरन्तःकरणवृत्तेर्धर्मत्वं निराक्रियते । मीमांसकैरपि तद्धर्मत्वमिष्यत एव । यागाद्यनीक्षणादिसङ्कल्पानां मानसानामेव धर्मत्वाभ्युपगमात् ।{१,१६१}नैवम् । न मानसाः सङ्कल्पाः, आत्मकर्तृकत्वादुपनिषत्सु तथा दर्शनात् । श्रूयते हि य आत्मा अपहतपाप्मा विरजो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः इति । तथा स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्तीति । कृद्योगलक्षणा कर्तरि षष्ठी आत्मकर्तृकतां सङ्कल्पस्य दर्शयतीति न मनोवृत्तेर्धर्मत्वम् । चित्तानां च वास्यवासकभावानुपपत्तिः क्षणिकायुगपद्भुवां विज्ञानवादेऽभिधास्यत एव । तदुपेक्ष्यैव तावत्प्रयोगाभावान्न चित्तवासना धर्म इत्युक्तम् । पुण्याः पुद्गला इति यद्यणवः, न तेषु धर्मशब्दप्रयोगो लोके दृष्टः । अथान्ये ते, तर्हि प्रमाणाभावात्कुतः सेत्स्यन्ति । कुतस्तरां च तेषु धर्मशब्दप्रयोगोऽलब्धसद्भावेषु । पुंगुणस्तु नित्यो वा वैभवादिवत्, कार्यो वा सुखादिवत् । नित्यत्वे अनुष्ठानवैयर्थ्यम् । कार्यं तु नापूर्वाद्यन्यतममात्मसमवायिनं गुणभेदमुपलभामहे । अपूर्वं तु यथा न धर्मस्तथोक्तमेव । अप्रयोगादिति वक्ष्यति च । यदपि च कर्तृफलदाय्यात्मगुणः संयोगजो दृष्टः कार्यविरोधीति धर्मस्य लक्षणमुक्तं, तदयुक्तम् । अधर्मसाधारण्यात्, स्मृतिहेतुसंस्कारसाधारण्याच्च । तयोरप्येवंलक्षणकत्वेन धर्मत्वप्रसङ्गात् । कर्तृफलदायीति चाव्यापकः । श्राद्धे त्वकर्तॄणां पित्रादीनां तृप्तिफलश्रुतेः । वैश्वानर्याश्च पितृकर्तृकाया एव पुत्रगामि फलमिति वः सिद्धान्तः । वैश्वानरं द्वादशकपालं निर्वपेत्पुत्रे जाते इति हि विधाय आम्नायते यस्मिन् जात एतामिष्टिं निर्वपति पूत एव स तेजस्व्यन्नाद इन्द्रियावी पशुमान् भवतीति । शास्त्रफलं प्रयोक्तरि (३ ।७ ।१८) इत्युत्सर्गतः प्राप्तपितृगामिता पुत्रगामिफलश्रुत्यापोद्यते । अतः सिद्धं नान्तःकरणवृत्त्यादयो धर्मा इति । ननु श्रेयस्साधने तावद्धर्मपदप्रयोगो भवद्भिरपीष्यते । एते च श्रेयस्साधना इति कथं तेषु धर्मशब्दप्रयोगो न दृष्ट इत्युच्यते । अत आह न चेति । न तावदेषां फलसाधनता प्रत्यक्षादिगम्या, अतीन्द्रियत्वात् । न च चोदनागम्या, यागादीनामेव तया फलसाधनतावगतेरिति ॥ १९६ ॥ __________टिप्पणी__________ [५१६] ण शु (Kआ) ___________________________ {१,१६२}आह अस्त्वन्तःकरणवृत्त्यादयो न श्रेयस्साधनतयावगम्यन्त इति न धर्मा इति । अपूर्वं तु प्रीतिसाधनमेव, अतिक्रान्ते कर्मणि तत एव फलसिद्धेः । यागसाधनवादिनोऽपि हि अपूर्वं कृत्वेति व्याचक्षाणा अपूर्वसिद्धिमन्तर्भावयन्ति । परैरप्युक्तम् आरम्भात्स्वर्गः कर्मणा चारम्भः इति । आरम्भ इत्यपूर्वमेव समाचक्षते । स ह्यारभ्यते । अतोऽपूर्वं धर्म इत्येव न्याय्यं मन्यन्ते, अत आह न चेति । अयमभिप्रायः किमिदमपूर्वं नाम । यदि तावत्कर्मशक्तिः फलशक्तिर्वा, नासौ साधनं साध्यं वा । शक्तेरकारकत्वात्, पुरुषाभिलषितफलानुषङ्गिकतया सिद्धत्वाच्च । यदि वस्त्वन्तरमेवापूर्वमुच्यते, तदप्ययुक्तम् । तस्य साध्यसाधनयोरन्यतररूपाननुप्रवेशितया प्रत्येतुमशक्तेः । न हि तत्स्वर्गस्य साधनं यागस्य च साध्यं शब्दादवगच्छामः । नान्यतः प्रमाणात्, तदवेद्यत्वाभ्युपगमात् । अत एव न शब्दात्, प्रमाणान्तरागोचरे व्युत्पत्त्यभावात् । अपदार्थस्य चावाक्यविषयत्वात् । अतः साध्यसाधनभावादन्यथापि[५१७]प्रमाणान्तरेण न वस्त्वन्तरभूतमपूर्वं शक्यावगमम् । एतद्रूपद्वयरहितस्य[५१८]तस्य रूपान्तरेण दर्शयितुमशक्यत्वादिति ॥ १९७ ॥ __________टिप्पणी__________ [५१७] प्रकारान्त (Kआ) ___________________________ [५१८] स्य रू (ङा) ___________________________ अपि च यद्यपूर्वं यागस्य साध्यं स्वर्गस्य च साधनमिष्यते, ततः श्रुतहानिरश्रुतकल्पना चेत्याह श्रुतसाधनेति । ताद्रूप्यं तेन भावना च वाक्यार्थः । सा च साध्यसाधनापेक्षिणी यथा स्वर्गयागावेव गृह्णाति तथा भावार्थाधिकरणे वक्ष्यते । इहापि च भावनापञ्जरप्रकरणे । अतस्तत्तावद्धेयमश्रुतं च । अतीन्द्रियस्यावस्तुनो गगनकुसुमादिसन्निभस्य साध्यसाधनत्वं कल्पनीयमित्यश्रुतकल्पनेति । अन्यतररूपानभ्युपगमे निस्स्वभावस्याभाव एव भवेदित्यभिप्रायेणाह व्यतिरेके त्वरूपतेति ॥ १९८ ॥ {१,१६३} इदं च प्रौढिप्रदर्शनार्थमुक्तम् । न त्वेतद्रूपद्वयरहितस्य धर्मशब्दवाच्यतोपपद्यत इति । अतो न तत्त्वान्तरमपूर्वम् । किन् तु फलं कर्तुमभिप्रवृत्तस्य यागादेरेव शक्तिमात्रं, पश्वादेर्वोत्पत्तावभिप्रवृत्तस्य शक्तिमात्रमेव सूक्ष्मावस्था अपूर्वम् । न तत्त्वान्तरम् । न च कर्मशक्तिरेव फलसाधनं, कर्मावान्तरव्यापारत्वात् । न चावान्तरव्यापारव्यवधिरकारणतामापादयति, काष्ठादीनां ज्वलनादिव्यापारव्यवधाने तत्प्रसङ्गात् । अतः कर्मैव शक्तं फलसाधनं न शक्तिरिति शास्त्रादवगम्यमाने कथं शक्तेर्धर्मपदवाच्यतेत्यभिप्रायेणाह तस्मादिति ॥ १९९ ॥ इतश्च फलसाधनशक्तिर्न धर्म इत्याह शक्तय इति । अस्यार्थः भावशक्तयः खलु साधारणशब्दैरेव योग्यताशक्तिसामर्थ्यादिभिर्दृष्टाभिधानाः न विशेषतो भावशब्दैरुपाख्यायन्ते । धर्मशब्दस्तु विशेषतो भावशब्दः । अन्यत्रैवञ्जातीयकेऽप्रयोगात् । न हि लौकिकानां द्रव्यादीनां शक्तयो धर्मपदेनोपाख्यायन्ते । अतो न यागादीनां शक्तयो धर्मपदेनोपाख्यायन्त इति सिद्धमिति ॥ २०० ॥ अत्रापरमर्थपदव्याख्यानार्थं भाष्यम् उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्च । कोऽर्थः, यो निःश्रेयसाय ज्योतिष्टोमादिः । कोऽनर्थः, यः प्रत्यवायाय श्येनो वज्र इषुरित्येवमादिः । तत्रानर्थो धर्म उक्तो मा भूदित्येवमर्थमर्थग्रहणमिति । अस्य किलायमर्थः यदि चोदनालक्षणो धर्म इत्येतावदुच्येत, अतोऽनर्थस्य चोदनालक्षणस्य श्येनादेर्धर्मता भवेत् । अनर्थश्चासौ प्रत्यवायकरत्वेन । अतस्तन्निवृत्त्यर्थोऽर्थशब्द इति । तदेतदाक्षिपति पुरस्तादिति । अस्यार्थः एकाङ्गविकलं हि प्रत्युदाहरणं भवति ।[५१९] न द्व्यङ्गविकलम् । तद्यदेव चोदनालक्षणपदेन न व्यावर्तयितुम् इष्टं, तदर्थग्रहणेन व्यावर्तनीयम् । अनर्थश्च चोदनालक्षणपदेन व्यावर्तितः । विधायकस्य वाक्यस्य चोदनात्वात् । तेन चानर्थहेतोः हिंसाया अलक्ष्यमाणत्वात् । प्राणवियोगफलो हि व्यापारो हिंसा । सा च न हिंस्यादिति श्रुत्या निषिद्धेत्यनर्थः । स च निषेधलक्षितः न तु चोदनालक्षित इति चोदनालक्षणपदेनैव तद्व्यावृत्तिसिद्धेरनर्थकमर्थपदमिति । पुरस्तादिति । चोदनेति क्रियायाः प्रवर्तकं वचनमित्यत्रेत्यर्थः ॥ २०१ ॥ __________टिप्पणी__________ [५१९] ति । तद्य (ङा) ___________________________ स्यादेतत् श्येनादयोऽत्र भाष्यकारेण प्रत्युदाहृताः, ते च चोदनालक्षणा एवेति । तदयुक्तम् । यदि नाम श्येनादयश्चोदनालक्षणाः, न त्वर्थपदेन व्यावर्तयितुं शक्यन्ते । निषेधप्रमाणकत्वादनर्थत्वस्य । तेषां च विधिविषयाणां निषेधागोचरत्वादित्यभिप्रायेणाह चोदनेति । तदिह योऽनर्थो हिंसा नासौ चोदनालक्षणा, निषेधलक्षणत्वात् । ये च चोदनालक्षणाः श्येनादयः, न तेऽनर्था इत्युभयतःपाशा रज्जुरिति ॥ २०२ ॥ स्यादेतत् यदि नाम निषेधप्रमाणकमनर्थत्वं न । एवमपि श्येनादौ न सम्भवति, विधिविषयाणामपि निषेधविषयत्वसम्भवादतिरात्र इव षोडशिनः । अत आह यद्यपीति । अयमभिप्रायः न तावद्विध्यवरुद्धे विषये निषेधः सम्भवति । यद्यपि क्वचिद्भवति, तथापि न तादृशान्निषेधादनर्थत्वं विज्ञायते । केवलो हि निषेधोऽनर्थत्वमापादयति, न विधिसहितः यथोदाहृत एव षोडशिनि । न ह्यसावनर्थः, अनुष्ठानविकल्पमात्रार्थत्वान्निषेधस्य, उभयथापि क्रतुफलसम्पदोऽविशेषात् ।[५२०]अतो यदि नाम श्येनो निषिध्येत नैवमप्यभिचारविधिना विहितोऽनर्थत्वं प्रतिपद्यते । केवलनिषेधगोचरा एव कलञ्जभक्षणादयोऽनर्थाः, प्रत्यवायहेतुत्वात् । __________टिप्पणी__________ [५२०] त्यदि (Kआ) ___________________________ {१,१६५}किं पुनस्तेषां प्रत्यवायहेतुत्वे प्रमाणम् । यदि निषेधः, तदयुक्तम् । नञर्थपर्यवसाय्येव हि निषेधविधिर्न निषेध्यस्यानर्थतामापादयितुं क्षमः । तावतैव निषेधविध्यर्थसिद्धेः । निषिध्यमानक्रियाकर्तुरेव निषेधविधिष्वधिकारः । तस्यां च रागादिना प्रवृत्तः पुमानधिकारी लब्ध एवेति नाधिकार्यन्तरापेक्षा । एवञ्च न तद्विशेषणेऽपि । अधिकारी हि नानवच्छिन्नो विशेषणेन बोद्धुं शक्यत इति तद्विशेषणापेक्षा । तत्र स्वर्गपुत्रादिश्रुतिषु कामाधिकारेषु काम्यपर्यन्तता सिद्धा । जीवनभेदनादिश्रुतिषु निमित्ताधिकारेषु निमित्तपर्यन्ततेति मीमांसाकृतधियो धीरा विभजन्ते । निषेधाधिकारेषु न तावत्प्रत्यवायपरिहारः साध्यतया श्रुतः । न च पिण्डपितृयज्ञवत्कल्पयितुं शक्यते । अधिकारिलाभात् । उक्तं हि निषिध्यमानक्रियाकर्तुरेवाधिकारः इति । किं पुनस्तत्र विशेषणम् । भक्षयतिरेव । नन्वसौ विषयविशेषणम् । सत्यम्, विषयस्यैव विशेषणं गले पातिकया भक्षयतिरधिकारिविशेषणमाख्यायते । यत्र खलु नञर्थे पुरुषो नियुज्यते स विषयः । न चासौ भक्षयतिनानवच्छिन्नो बोद्धुं शक्यत इति तद्विशेषणतयैव पर्युपयुक्तस्य भक्षयतेर्बलादधिकारिविशेषणता सम्पत्स्यते । एषा हि तत्र वचनव्यक्तिः यो भक्षयेत्स नेति । एवञ्च सम्पन्नमुभयं यश्च विषयो नञर्थः यश्च भक्षयति प्रवृत्तोऽधिकारीति नाधिकार्यन्तरापेक्षायां प्रमाणमस्ति । न च किञ्चिदधिकारे हेतुतया सम्बद्धं साध्यतया सम्बध्यते । नियोगसिद्धिनान्तरीयकत्वात्फलसिद्धेः । इतरथा साध्यद्वयापत्तेः । एवं सर्वत्र । किमिदानीं प्रत्यवायकराणि । निषिद्धानि महापातकोपपातकादीनि तथा नाम । न तु श्रुतिपरतन्त्राणामशब्दार्थकल्पना मीमांसकानाम् । किमिति तर्हि निषिद्धं न क्रियते, विहितं वा किमिति क्रियते । विहितत्वादिति चेत्, समानम् इदं निषिद्धायां क्रियायाम् । तदपि निषिद्धत्वादेव न क्रियते । न हि विधिनिषेधाभ्यामन्यदस्ति नाम हेत्वन्तरं वैदिकेषु प्रवृत्तिनिवृत्त्योः । तस्मान्न किञ्चिन्निषिद्धानां प्रत्यवायकरत्वे प्रमाणं पश्यामः । कस्तर्हि दुःखहेतुः । किं नो विदितेन कारणेन । अस्ति तावद्दुःखहेतुः तदेव हि नस्तत्र प्रमाणम् । अत्राभिधीयते निषेधश्रुतावर्थापत्तिरेव निषिद्धानां प्रत्यवायकरत्वे प्रमाणं विधिश्रुताविव विहितानामभ्युदयहेतुत्वे । तथा व्युत्पत्तेः । यथा{१,१६६}खल्वयं प्रवर्तितोऽप्यनपेक्षितयोगक्षेमो न प्रवर्तते, एवं वारितोऽपि न तावच्चिकीर्षितान्निवर्तते यावद्दुःखहेतुरयमिति न प्रतिपद्यते । एष ह्यासम्भवाद्दुःखहेतुमेव त्रिविधमहासीदिति निषेधश्रावी दुःखहेतुरयं निषेधविषय इति प्रतिपद्यते । यत्त्वधिकारिलाभे न कल्पनाबीजमिति । तन्न । हिताहितप्राप्तिपरिहारार्थिन एव सर्वत्राधिकारात् । नित्याधिकारेष्वप्युपात्तदुरितक्षयाकरणनिमित्तप्रत्यवायपरिहारार्थिन एव सर्वत्राधिकारसमर्थनात् । या तु विषयविशेषणता निषेधगोचराणां क्रियाणामुक्ता, साप्ययुक्ता । भावार्थविषयत्वाद्विधेः । जञर्थस्याभावार्थीभूतस्याविधिविषयत्वात् । अत्यन्तानुपाख्येयनञर्थवादिनां च सुतरामविधिविषयत्वं तदर्थस्य । अतो नात्र विध्यर्थः सम्पाद्यतयावगम्यते । किन् त्वनागतानुतिष्ठासितभावविरोध[५२१]फल एवात्र नञ् । एषा चात्र वचनव्यक्तिः यद्धन्यात्तन्नेति । वक्ष्यति च भाववारिका नञो वृत्तिरिति । अतो येषामेव नात्यन्तमवस्त्वात्मा नञर्थः, तेषामेव तावत्तदर्थोऽभिधीयत इति युक्तमभिधातुमिति । अपि च यदेतद्विषयविशेषणतयोपयुक्तस्य पुनरधिकारिविशेषणत्वकल्पनं, तदपि न चतुरश्रमिव मन्यामहे । विषयविशेषणं हि सर्वमपूर्ववत्साध्यतयाग्नीषोमीयसौर्यादिषु समधिगच्छन्तो दृश्यन्ते एवं यागं कुर्यादिति । अधिकारिविशेषणं तु सिद्धं यत्स्वर्गकामजीवनभेदनादिमानिति । तत्कथमेक एव भक्षयतिः सिद्धसाध्यभावमनुभवतीति सम्भावयामः । निर्दोषाश्च निषेधाधिकारा इति लोकशास्त्रविरुद्धमभिधीयमानं नास्तिक्यमेवापादयति । दुःखोत्पत्तौ किं नो विदितेन कारणेनेति[५२२]निस्सरणोपायमात्रम् । नैवंविधेनोत्तरेण शिष्याणां भ्रान्तिराधातुमुचिता । न तावदहेतुकानि दुःखानि, अभूत्वा भवनात् । न विहितहेतुकानि ।[५२३]तेषां श्रुताश्रुतानेकविधाभ्युदयहेतुत्वात् । न चाविहिताप्रतिषिद्धहेतुकानि, तेषामपि वर्जनीयत्वापत्तेः । को[५२४]हि प्रेक्षावान् दुःखहेतुं न परिहरति । पारिशेष्यान्निषिद्धानामेव दुःखहेतुत्वमास्थेयम् । कथं तदप्रमाणमभिधीयते । पारिशेष्यं प्रमाणमस्तु[५२५]न शास्त्रमिति चेत् । एवञ्जातीयकेष्वनुमानस्याप्रवृत्तेः । अश्रुतफलानां च विहितानामपि नित्यानां हेतुत्वसम्भवान्न पारिशेष्यलाभः । तस्मात्शब्दप्रमाणमेव निषिद्धानां प्रत्यवायकरत्वं यथास्माभिरुक्तम् । __________टिप्पणी__________ [५२१] धि [५२२] स्सारणमात्रम् [५२३] विहितानि [५२४] यो (Kआ) [५२५] त्र (ङा) ___________________________ {१,१६७}यस्तु वदति ब्राह्मणहननादिषु निषेधाधिकारेषु ह्यर्थवादोपात्ता यातनाविशेषाः तं शतेन यातयादित्यादयः साध्यतया श्रूयन्ते । तैश्च मिलितैव निषिध्यमानक्रियाधिकारिणं विशिनष्टि । अतः संवलिताधिकार एवायं, शतादियातनापरिहारकामो हननाभिप्रवृत्तो न कुर्यादिति । दृष्टं चार्थवादोपात्तमधिकारिविशेषणं रात्रिसत्रे । तदिहाधिकारिहेत्वपेक्षायामगृह्यमाणे विशेषे तदपि हेतुतया स्वीक्रियत इति । तदयुक्तम् । अगृह्यमाणे विशेष एवं नाम । न चेह तदग्रहणम् । स्वपदवाक्यान्तरोपात्तयोर्महाविशेषात् । रात्रिसत्रे हि फलान्तराश्रवणाद् अर्थवादोपात्तप्रतिष्ठाब्रह्मवर्चसादीनां चागृह्यमाणविशेषाणां च युगपदुपस्थानात्सर्वार्थवादोपात्तफलार्थिन एवाधिकार इति युक्तं कल्पयितुम् ।[५२६]एवं जातेष्टावपि समस्तार्थवादोपात्तपूतादिविशेषाणामगृह्यमाणविशेषत्वात्पुत्रजन्मनश्चाधिकारिविशेषणानुरूपेणाश्रयणाद्युगपदेव सर्वविशेषणविशिष्टोऽधिकारीति कथ्यते । इह तु न कलञ्जं भक्षयेदिति समानपदोपात्तो भक्षयतिरधिकारिविशेषणतयावगत इति नाधिकारिहेत्वन्तरापेक्षा । एवं ब्राह्मणहननादिप्रतिषेधेष्वपीति न क्वचिदार्थवादिकफलविशेषणापेक्षा ।[५२७]यदि तूच्यते नञर्थविशेषणतयैव धात्वर्थोऽवगतो यावदधिकारिविशेषणतया कल्प्यते, तावदर्थवादोपात्तविशेषणान्युपस्थितानीति विशेषाग्रहणम्[५२८]इति । न, एवमपि विपरीतविशेषणापत्तेः । धात्वर्थो हि[५२९]यदा विषयविशेषणतयावगतः[५३०]पुरुषगुणतयावकल्प्यते । अर्थवादोपात्तानि त्वनन्यत्रोपयुक्तानीति तद्विशिष्टाधिकारिकल्पनैव न्याय्येति न संवलिताधिकारसिद्धिः । एवञ्च विषयविशेषणस्यैव भक्षयतेर्गलेपातिकयाधिकारिविशेषणत्वमित्युपेक्षितव्यम् । यदपि शतेन यातयादित्यादिविध्युपनिबन्धनं साध्यत्वामाचक्षते, तदप्ययुक्तम् । अविधिविषयत्वात्फलानां साध्यभावस्य । वक्ष्यते च तस्य लिप्सार्थलक्षणेति । काम्यतयैव फलानि श्रुतिभिरुपनीयन्ते, किमत्र विधिश्रुत्या । अत एव रात्रिसत्रे प्रतिष्ठाकाम इति विपरिणामाश्रयणं प्रतिष्ठादीनां साध्यतासिद्ध्यर्थं, न तु प्रतितिष्ठेयुरिति विध्याश्रयणमिति यत्किञ्चिदेतत् । अतः सिद्धं निषेधप्रमाणकमनर्थत्वमिति ॥ २०३ ॥ __________टिप्पणी__________ [५२६] नम् । ए [५२७] क्षा इति । य [५२८] षणाग्र [५२९] यावद्विष [५३०] वकल्प्य (ङा) ___________________________ एवं श्येनादिस्वरूपाभिप्रायेण तत्फलाभिप्रायेण वा न प्रत्युदाहरणग्रन्थो घटत इत्युक्तम् । पूर्वापरिविरोधादप्ययमग्रन्थ इत्याह चोदनेति । उभयमिह चोदनया लक्ष्यते इति श्येनादीनां चोदनालक्षणत्वमुक्तम् । पुनश्च कथं पुनरसावनर्थः । हिंसा हि सा । सा च प्रतिषिद्धेति यन्निषिद्धत्वमुच्यते, तत्तेन चोदनालक्षणत्वप्रतिज्ञानेन विरुध्यते । विधायकं हि वाक्यं चोदना । अतः कथं तल्लक्षितस्य विधेयस्य निषिद्धत्वं पुनरभिधीयते इति । अपरमपि हिंसा हि सा । सा च प्रतिषिद्धेति भाष्यं, तद्दूषयति श्येनादाविति । योऽयमुपदिष्टश् चोदनालक्षणः श्येनादिरसौ हिंसेति समभिव्याहारो न युज्यत इति ॥ २०४ ॥ कथं न युज्यते, अत आह हिंसा हीति । न श्येनादयो हिंसा । फलं हि तेषां हिंसा । सा च स्वरूपेण भिन्ना । न तु त एव हिंसेति स्वरूपभेदमेव दर्शयति सा हीति । अभिचारो हिंसा मारणमिति पर्याया इति प्राणवियोजनात्मिकैव हिंसा । न तु तथा श्येनादिः, तस्यासिवद्धिंसायाः पृथक्त्वात् । यथा ह्यसिना शत्रौ व्यापाद्यमाने छेदनमेवासिजन्यं, हिंसा नासिः, एवं श्येनादिजन्यमायुर्भाग्यच्छेदनमेव हिंसा न श्येन इति न तस्मिन् हिंसाभिधानमुपपन्नमिति ॥ २०५ ॥ अपरमपि कथं पुनरसावनर्थः कर्तव्यतयोपदिश्यते इति प्रश्नपूर्वकमुक्तं नैव श्येनादयः कर्तव्या विज्ञायन्ते, यो हि हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेशः इति । तदपि नोपपन्नमित्याह उपदेशेति । यदा हि नैव श्येनादयः कर्तव्यता विज्ञायन्त इति तेषां विधेयत्वमपह्नुतं,[५३१]तदा कथमविधेयेष्वेवोपदेशाभिधानं तेषामुपदेश इति । विध्युपदेशशब्दयोः पर्यायत्वादिति भावः । __________टिप्पणी__________ [५३१] ह (ङा) ___________________________ {१,१६९} स्यादेतत् अविधेयेष्वेव चोदनालक्षणत्वमात्रेणोपदेशवाचोयुक्तिः । कथमविधेयानां चोदनालक्षणत्वमिति चेत् । क्रमवदिति ब्रूमः । यथा खलु अध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयतीति न तावत्क्रमो विधीयते । यागादिवदभावार्थीभूतस्याविधिविषयत्वात् । न च दध्यादिद्रव्यवत् । अकारकत्वात् । अकारकत्वं चामूर्तत्वात् । न चारुणादिगुणवद्द्रव्यावच्छेदेन कारकत्वम्, एकैकपदार्थावच्छेदकत्वेनानुपलक्ष्यमाणत्वादनेकाश्रयत्वात् । न च संखादिवद्विधानम्, अपृथक्पदाभिधेयत्वात् । पृथक्पदाभिधेया हि संख्या तां चतुर्भिरादत्त इति सा विधीयेतापि । न चैवं क्रमः, प्रचयादवगम्यत्वात् । अतः कथं विधिविषयो भवेत् । तथा वेदं कृत्वा वेदिं कुर्यादिति पदार्थ एव कर्तव्यबुद्ध्या गृह्यते न तु क्रमः । कथं व अतद्गोचरो विधीयेत । अतोऽविधेय एव क्रमः । अथ च नाचोदनालक्षणः । विध्यनुमतत्वात् । अनुमन्यते हि विधिरानुपूर्व्यमग्न्याधानादिब्राह्मणतर्पणावसानं पदार्थजातमेकत्र कर्तर्युपसंहरन् । न ह्येकः कर्ता युगपदखिलमुपपादयितुमलं विधिवितानम् । अतो विध्यभ्यनुज्ञामात्रेण विधानविनियोगशून्योऽपि क्रमः शास्त्रार्थ एव । एवं श्येनादयोऽपि नियोगविषयतयावगताश्चोदनालक्षणाः, न तु विधीयन्ते । यद्धि नियोगसामर्थ्यादेवोपादीयते तद्विधेयमिति तन्त्रे व्यवहारः । कथं तर्हि विषयभावः ।[५३२]यस्मिन्नर्थे स्थित्वा पुरुषो नियुज्यते नियुक्तोऽस्मीत्यधिकारं बुध्यते स तु विषयः, न तु विषये नियोगो नियुङ्क्ते । आत्मन्येव नियोगात् । वक्ष्यति चापूर्वाधिकरणे आरम्भे हि पुरुषो नियुज्यते न कर्मणीति । अतः सिद्धमविधेया अपि चोदनालक्षणाः श्येनादय इति । एवं च उभयमिह चोदनया लक्ष्यते इति श्येनादिस्वरूपाभिप्रायमेव, श्येनस्य विधिविषयत्वेन चोदनालक्षणत्वात् । अविधेयत्वाच्च निषेधविषयत्वोपपत्तिः । अतो निषिद्धत्वाभिधानमपि युक्तमेव । फलार्थिता हि श्येनानुष्ठाने निमित्तं, न विधिः । तदभिप्रायेण च तस्य लिप्सार्थलक्षणेति । अङ्गहिंसा त्वफलसाधनत्वादसत्यां फलप्रयुक्तौ विधिनैवानुष्ठाप्यते इति नास्पदं निषेधस्य ।{१,१७०}इतिकर्तव्यता हि[५३३]सा । सा विधिनैवाङ्गीकृता कथं निषेधविषयो भवेत् । हिंसाहीत्यपि श्येनादिस्वरूपाभिप्रायमेव । प्राणवियोगफलो हि व्यापारो हिंसा, तथा च श्येनादिः अतः सोऽपि हिंसैव । न च खङ्गादौ प्रसङ्गः, अव्यापाररूपत्वात् । न च श्येनसमनन्तरं निधनं नोपलभ्यत इति श्येनो न हिंसा, तावतापि तत्फलत्वानपायात् । न हि खङ्गादिहते व्रणपरिपाकादिना चिराद्विपद्यमाने खङ्गाभिघातो हिंसेति न बुध्यते । अत एव खादकादयोऽपि घातका इति मानवाः स्मरन्ति । अतो हिंसा श्येनो निषिद्धश् चानर्थश्च चोदनालक्षणत्वेन धर्मो मा भूदित्यर्थग्रहणेन व्यावर्तित[५३४]इति सर्वं समञ्जसमेवेति । अत आह श्येनादेरिति । अस्याभिप्रायः यत्तावदविधेया अपि क्रमवच्चोदनालक्षणाः श्येनादय इति । तदयुक्तं, दृष्टान्तासिद्धेः । न हि नः क्रमो न विधीयते । यत्रैव हि विधेरन्यतः पुरुषो न प्रवर्तते तद्विधेयम् । अप्रवृत्तप्रवर्तकत्वाद्विधेः । न च फलादन्यत्र पुरुषो रागादिना प्रवर्तते । न ह्यस्य क्रमानुष्ठाने रागादयः प्रवर्तकाः । विधिरेव तु निश्शेषशेषशेषिविषये प्रयोगे एकं कर्तारमायोजयन्नानाक्षिप्तानुपूर्व्यविशेषपरिग्रह आत्मानं लभत इति षोढाविभक्तपाञ्चमिकप्रमाणसहायस्तं तमानुपूर्व्यविशेषं शास्त्रार्थतया नियच्छति ॥ __________टिप्पणी__________ [५३२] यविभागः य (ङा) [५३३] हिंसा वि [५३४] ते (ङा) ___________________________ किमिदानीं प्रयोगविधिप्रमाणक एव क्रमः । नन्वसौ युगपदुपसंहरति । तत्र च क्रमविरोधः । न । क्रमानुगुणयौगपद्यपरिग्रहात् । न खल्वीश्वरोऽपि साङ्गं प्रधानमेकत्र क्षण उपसंहर्तुं क्षमः । अत एकोपक्रमावसानत्वमेव शेषशेषिणां प्रयोगविधिप्रमाणकं नैकक्षणभावित्वम् । अवधृतस्वरूपाणां प्रयोगो रच्यते । सक्रमकाश्च पदार्था अवधृता इति[५३५]तद्विरोधिन्येव यौगपद्यकल्पना । यत्तु असति विनियोगे नाङ्गत्वमिति । तन्न । तार्तीयैरेव श्रुत्यादिभिः किञ्चिद्विलक्षणर्विनियोगात् । अपि च अविनियुक्तमपि पश्वेकत्वमङ्गमिच्छतां किमपराद्धं क्रमेण, यदसावनङ्गम् इत्याश्रितम् । औपादानिकं तस्याङ्गत्वमिति चेत्, यदि नियोगाक्षेप उपादानं, नासाविह दण्डवारितः । अत्रापि हि क्रमं प्रति विध्याक्षेपो वर्णित एव । अभिधेया संख्या सोपादानतः शेषो भवतीति युक्तम् । न त्वेवं क्रम इति चेत्, किमत्राभिधानेन ।{१,१७१}यदेव किञ्चित्कथञ्चिदवगतं तदेव विध्यनन्यथासिद्ध्या तेनाक्षिप्यते । विरोधपरिहारश्चोक्तः ।[५३६]अपि च वषट्कर्तुः प्रथमभक्षः इत्यादावनन्यपराभिधानावगतत्वाद्[५३७]विधेर्नाविधेयता सिध्यति । तत्रैव हि विधीयते नान्यत्रेति चेत् । तदर्धजरतीयम् । यत्तु कर्तव्यता[५३८]बुद्धिविषयो नेति । तन्न । वेदं कृत्वा वेदिं कुर्यादिति सक्रमपदार्थकर्तव्यतावगमात् । निष्कृष्यकर्तव्यता नावसीयत इति चेत्पदार्था वा किं तद्रहिताः कर्तव्यताधिया[५३९]गोचरीक्रियन्ते यद्विधेयतयेप्यन्ते । सर्वथा नः सक्रमकपदार्थविषयैवानुष्ठानसंवित् । पदार्थावच्छेदादेवारुणादिवन्नाकारकत्वम् । यत्त्वेकैकपदार्थावच्छेदकतया नावगम्यत इति ।[५४०]नैतावता अकारकत्वं शक्यते वक्तुम् । स्वभावो ह्ययं क्रमस्य यन्नानाश्रयत्वं द्वित्वादिवत् । न हि द्वित्वादयः संख्या एकैकत्र न समवयन्तीति नावच्छेदिका भवन्ति । अकारकं वा । अतः सिद्धं तावत्क्रमो विधीयत इति । एवं च न तन्निदर्शनेनाविधेयानामेव चोदनालक्षणत्वं श्येनादीनाम् । अपि च यदि श्येनादयो न विधीयन्ते, किमन्यद् विधेयमिति न विद्मः । नन्वङ्गानि विधीयन्त इत्युक्तम् । रागादिभिस्तेषु नराणामप्रवृत्तिविषयवात् । किं पुनस्तेषु रागादयो न प्रवर्तकाः । अप्रीत्यात्मकत्वादिति चेत् । समानमिदं साधनेषु । तान्यपि बह्वायाससाध्यानि दुःखात्मकान्येवेति न नरं रञ्जयन्तितराम् । यदि तु प्रीतिसाधनत्वात्तेषु रागादयः प्रवर्तका इत्युच्यन्ते, अङ्गेष्वपि प्रसङ्गः । अननुगृहीतस्य साधनत्वानुपपत्तेः । अङ्गजन्यत्वाच्चानुग्रहस्य । एवं चाङ्गप्रधानद्वयस्याविधेयत्वादविषयो विधिरापद्यते । अपि च विधिविषयाः श्येनादयो न विधीयन्त इति दुरधिगमम् । विधिविषयमेव विधेयविदो विधेयं मन्यन्ते । अविधेयस्य विधिविषयभावानुपपत्तेः । नन्वेतावदेव[५४१]विधिविषयत्वं यत्तत्र विधिरवगम्यते । न पुनस्तस्य[५४२]कर्तव्यता । यथाहुः कर्तव्यताविषयो हि नियोगो न तत्कर्तव्यतामाहेति । का पुनः कर्तव्यता । यागादयः । एषैव हि नियोगस्य कर्तव्यता यद्यागानुष्ठानम् । तत्प्रकाराश्चेतिकर्तव्यताः प्रयाजादयः । यद्येवं केन रूपेण यागादिषु विधिरवगम्यते । यदि यागं कुर्यादिति, नन्वियमेवासौ कर्तव्यतेति कथं न{१,१७२} यागादीनां कर्तव्यतामाहेत्युच्यते । नन्वात्मन्येव प्रवर्तयतीत्युक्तम् । सत्यम् । न तु यागातिरेकि किञ्चित्कार्यं कार्यतयावगम्यते इति विधिविवरणे वक्ष्यामः । अतो विधेयाः श्येनादयः प्रियम्, अस्य भ्रातृव्यवधस्य साधनानीति नानर्थतया प्रत्युदाहरणमर्हन्तीति । यदपि तेष्वेव हिंसाशब्दो मुख्य इत्युक्तं, तदयुक्तम् । अभिचारपर्यायो हि हिंसाशब्दः । सा च हिंसा फलं श्येनस्य अभिचरन् यजेतेति हि श्रूयते । न तु श्येनादय एवाभिचाराः । खादकादिषु घातकादिपदप्रयोगो गौणः । न चेह गौणहिंसापदाश्रयणे किञ्चित्कारणम् । श्येनशब्दे[५४३]तु फललक्षणाकारणं वक्ष्यामः । तस्मात्सूक्तमविधेये श्येनादौ न किञ्चिद्विधेयमिति ॥ २०६ ॥ __________टिप्पणी__________ [५३५] तदविरो (Kःा) [५३६] अत्रापि (ङा) [५३७] त्वाद्नावि [५३८] तावि [५३९] यो (Kआ) [५४०] ति तन्न नै (ङा) [५४१] वाद्वयस्य विधिविषयत्वात्यत्(Kआ) [५४२] स्य कर्तव्यताविषयो (ङा) [५४३] ब्देन तु (ङा) ___________________________ एवं तावदुपपत्तितः श्येनादीनां विधेयत्वमुक्तम् । इदानीमेतत्परित्यागे सिद्धान्तहानिरपीत्याह सर्वत्रेति हान्तेन । जानात्येवासौ मयैतत्कर्तव्यमिति, उपायं तु न वेदेत्यादौ सर्वत्र भाष्यकारानुसारेणैवांशद्वयगामी विधिरवगम्यते । तदिह श्येनाद्यविधेयपक्षे बाध्यत इति । अयं चापरः श्येनादीनामविधेयत्वे दोष इत्याह ये चेति स्युरन्तेन । ननु[५४४]यथा ज्योतिष्टोमादयो न विधीयन्ते एवं न निषिध्यन्ते तेऽपीति ।[५४५]कस्माद्धर्मता न भवत्यत आह हिंसेति । यद्यपि ज्योतिष्टोमादयो न स्वरूपेण हिंसा, तथाप्यग्नीषोमीयादिपशुहिंसा तेषां साधनम् । सा चांशद्वयगामिन्यपि निषिद्धेत्युक्तम् । अतो निषिद्धाङ्गत्वेन प्रत्यवायहेतुत्वादधर्मता ज्योतिष्टोमादीनामिति । अपि चांशद्वयाविधाने तदुत्खातिरेवेत्याह न चेति । विधेरयं महिमा यत्स्वभावसाध्यो यागः फलाङ्गः, तथा वक्ष्यति जैमिनिः कर्माण्यपि फलार्थत्वात्(३ ।१ ।४) इति । तथेतिकर्तव्यतापि यत्फलसाधनाङ्गमसावपि विधिमहिम्नैव । सा विहिता सती पुरुषार्थात्मकसाध्यसम्बन्धमीहमाना फलवत्क्रत्वङ्गभावमनुभवतीति फलवत्सन्निधावफलं तदङ्गमिति{१,१७३}वक्ष्यते । अविधीयमानस्य यागस्याग्नेयादेः प्रधानस्याङ्गस्य वा प्रयाजादेर्यथाक्रमं न फलाङ्गता तत्साधनाङ्गता वापि सिध्यतीति ॥ २०८ ॥ __________टिप्पणी__________ [५४४] नु ये ज्यो [५४५] त (Kआ) ___________________________ स्यादेतत् साधनत्वेन विहिता अपि न साध्यतया विधीयन्त इत्यविधेया इत्युच्यन्ते । अत एवाह नैव श्येनादयः कर्तव्या विज्ञायन्ते इति । नैव साध्यतया विधीयन्त इति यावदित्यत आह साधनत्वेनेति । विधानं ह्यनर्थत्वपरिपन्थि तद्यथातथा वा विहितस्य न सम्भवति । अतः किमवान्तरभेदाश्रयणेनेति । अन्वारुह्य चेदमस्माभिरुच्यते । न तु साध्यतया विधानं सम्भवति, स्वयमेव साध्ये पुरुषाणां प्रवृत्तेः । तदेतदाह साध्यत्वेनेति । सर्वं यागदानजपोपवासादीष्टसाधनतयैव विधीयत इति भावः ॥ २०९ ॥ अतो न श्येनादिनिवृत्तिरर्थशब्दस्य प्रयोजनमित्यन्यथा वर्णनीयमित्याह तेनेति । प्रयोजनवर्णनां प्रतिज्ञाय तदुपोद्धातमेव तावद्भाष्यकाराभिप्रायमाह प्रवृत्तौ वेति । प्रवर्तिका निवर्तिका चोभय्य्[५४६]अपि चोदनेति भाष्यकारस्य हृदये लक्षणं व्यवस्थितं चोदनायाः । अतो निषेधचोदनालक्षणानां धर्मत्वं निवर्तयितुमर्थशब्द इत्यभिप्राय इति । कथं तर्हि प्रवर्तकं वाक्यं चोदनेति भाष्यमत आह प्रवर्तक इति । प्रवर्तकग्रहणं प्रदर्शनार्थमित्यर्थ इति ॥ २११ ॥ __________टिप्पणी__________ [५४६] यमपि (ङा) ___________________________ उदाहरणार्थत्वे कारणमाह तात्पर्ये हीति । पूर्वापरसङ्गतो हि ग्रन्थो व्याख्येयः । यद्यपि प्रवर्तकैकपर एव पूर्वग्रन्थो भवेत्, अर्थशब्दस्येयं{१,१७४}व्याख्या चोदनालक्षणानर्थनिवृत्त्यर्थोऽर्थशब्द इत्येवमात्मिका नोपपद्यते । अनर्थानां[५४७]प्रवर्तकवाक्यलक्षित नामचोदनालक्षणत्वापत्तेरिति भावः । अर्थशब्दसहितस्य[५४८]वा चोदनापदस्यार्थो व्याख्यातः ।[५४९]अर्थो हि प्रवर्तकवाक्यलक्षण एवेत्यभिप्रायेणाह अर्थग्रहणेति ॥ २१२ ॥ __________टिप्पणी__________ [५४७] नामप्र [५४८] ब्दस्याहि [५४९] ख्येयः अ (Kआ) ___________________________ अथवा धर्मप्रमाणमत्र सूत्रकारेण सूत्रितं धर्मस्य प्रवर्तकमेव वाक्यं प्रमाणमिति । तच्चोदनालक्षणमेव भाष्यकारेण वर्णितमित्याह धर्मेति । यदा चोभय्यपि चोदनेति स्थितं तदा विधिचोदनाभ्यस्तावद्विधेयानां ज्योतिष्टोमादीनामर्थत्वेनावधारणं भवति । निषेधचोदनाभ्यश्च निषेध्यानां ब्रह्महत्यादीनामनर्थत्वेन निर्णयः । उभयोरुभाभ्यामर्थानर्थत्वे लक्षिते इति यावत् । तदेतदाह एवं सतीति । येन च विधिप्रमाणकमर्थत्वं, तेन तल्लक्षितानां ज्योतिष्टोमादीनामत्रार्थग्रहणेन धर्मत्वमुक्तमित्याह तेनेति ॥ २१४ ॥ विधेयार्थधर्मत्वे चोक्ते विपरीतानामधर्मत्वमर्थसिद्धत्वान्न सूत्रकारेण सूत्रितमित्याह निषेध्यानामिति । एवमुद्ग्रन्थमेव भाष्यकाराभिप्रायमुक्त्वा तदनुसारेणोभयमित्यादि भाष्यं योजयति तस्मादिति । यस्मादेवं भाष्यकाराभिप्रायः, तस्मादुभयमिहेत्यादिग्रन्थे विधेयप्रतिषेध्ययोर्यथाक्रमं यागादिब्रह्महत्यादिवर्गयोर्निदर्शनं कार्यमित्यर्थः । यदि ब्रह्महत्यादिवर्गस्यानर्थतया निदर्शनं कथं तर्हि श्येनाद्युपन्यासः । ते हि विधेयाः । तत एव चेष्टसाधनाः । महत्खल्विदमिष्टं यः शत्रुवधः । न हि तादृशी{१,१७५}स्वर्गेऽपि नराणां तृप्तिः सम्भवति यादृशी शश्रुवधे । अतः कथं तेऽनर्थतयोदाह्रियन्ते, अत आह श्येनादीनामिति । अयमभिप्रायः यथावगतमायुष्मतां न स्वरूपेण श्येनादयोऽनर्था इति । भाष्यकारेणापि न तत्स्वरूपमनर्थतयोदाहृतम् । किन् तु यत्तेषां फलं हिंसात्मकमायुर्भाग्यविच्छेदः, सोऽपि विहितो निषिद्धश्च । स्वयं विहितत्वादर्थात्मकोऽप्यनर्थानुबन्धीति तदिदमनर्थत्वं श्येन उपचरितं, कारणे कार्योपचारात् । श्येनशब्द एव वा तत्फल उपचरितः कार्ये कारणोपचारादिति भावः । किं पुनरुपचाराश्रयणे कारणमत आह प्रतिषिद्धेति । भाष्यकारानुसारेणैवेदम् उपचाराश्रयणम् । एवं हि भाष्यकारो वदति प्रतिषिद्धा हि सेति । न हि श्येनादिस्वरूपाभिप्रायं प्रतिषिद्धा हीतीदमुपपद्यते । ततस्तत्फलाभिप्राय एव श्येनाद्युपन्यास इति भाष्यकृता स्फुटीकृतमिति ॥ २१७ ॥ इदं चापरं लिङ्गदर्शनमित्याह हिंसा हीति । कथं पुनरसावनर्थः इत्युक्त्वा यदुक्तं हिंसा हि सेति, ततोऽवगम्यते न श्येनादिस्वरूपमात्रमनर्थतया विवक्षितमिति । वर्णितमिदमाक्षेपकाले न स्वरूपेण श्येनो हिंसेति । अतो हिंसा हीत्यत्र भाष्यकारेणैतत्स्फुटीकृतम् । तथा श्येनेनाभिचरन् यजेतेति हि समामनन्ति नाभिचरितव्यमित्यन्ते वक्ष्यते । अत्राप्यभिचारस्यैव श्येनफलस्य निषेधं दर्शयन्ननर्थतां स्फुटीकरिष्यतीति । श्येनादिस्वरूपाभिप्राये तु ग्रन्थे सर्वोऽयमुत्तरग्रन्थे न सङ्गच्छत इत्याह श्येनादीनामिति ॥ २१८ ॥ तत्र प्रतिषिद्धा हीत्येतत्तावदनुपपन्नमित्याह विहितत्वादिति । विहिता हिंसासाधनतया श्येनादयः । न तेषु प्रतिषेधोऽवकाशं{१,१७६}लभत इत्याक्षेपे वर्णितमेवैतत्प्रदर्शनार्थमुक्तम् । अन्येऽप्याक्षेपोक्ता एवानुपपत्तिप्रकारा अनुसन्धेया इति । एवं तावद्विधिनिषेधात्मिका चोदनेत्याश्रित्योभयमित्यादिग्रन्थो व्याख्यातः । इदानीं प्रवर्तिका चोदनेत्यत्रापि पक्षे शक्यत एव भाष्यं व्याख्यातुमित्याह यदेति । उभयं विधायिकया चोदनया लक्ष्यते साध्यं साधनं चेत्यर्थः । कथं पुनः साध्यसाधनात्मकमुभयं चोदनया लक्ष्यते । न हि साध्यं विधीयते, स्वयमेव हि तत्र पुरुषाः प्रवर्तन्ते, अत आह साध्येति उभयोरन्तेन । अयमभिप्रायः सत्यम् । साध्यसाधनाङ्गगोचरमेव विधेः प्रवर्तनम् । तथापि विधिप्रमाणकमेव स्वर्गयागादीनां साध्यसाधनसम्बन्ध इति औत्पत्तिकसूत्रे (१ ।१ ।५) वक्ष्यते । यथा यागादीनां साधनभावश्चोदनालक्षणः, एवं स्वर्गादीनां यागादिसाध्यत्वावगतिरपीति तेन रूपेण तेऽपि चोदनालक्षणा भवन्त्येव, यद्यपि तेषु स्वयं प्रवृत्तः पुरुषो न चोदनया प्रवर्त्यत इति । यदि साध्यसाधनाभिप्रायमुभयत्वं, तर्हि अर्थोऽनर्थ इति केन सम्बध्यते, अत आह द्विविधमिति । अयमर्थः फलसाधनात्मकम् उभयं चोदनालक्षणमित्युक्तम् । तत्रेदमुच्यते फलमर्थानर्थात्मकत्वेन द्विविधं क्रतूनामिति ॥ २२० ॥ फलद्वैविध्ये कारणमाह स्वर्गादीति हिंसाद्यन्तेन । तत्रोभयात्मके फले स्वर्गादिफलं तावत्ज्योतिष्टोमादीनामनतिक्रान्तप्रतिषेधेनैवावाप्यते । तन्न निषिद्धमिति यावत् । श्येनादिफलं तु हिंसाद्यतिक्रान्तप्रतिषेधेनावाप्यते । अतस्तत्सदसद्भावकारितः फलार्थानर्थविवेकः । अस्मिंश्च व्याख्याने कोऽर्थः इत्यादि भाष्यमेवं व्याख्येयमर्थात्मकफलस्यापि यत्साधनं सोऽप्यर्थ इति । अन्तर्णीयैतत्प्रदर्शितं कोऽर्थः यो निःश्रेयसाय ज्योतिष्टोमादिरिति । एतदुक्तं भवति अर्थात्मकफलस्य साधनस्य ज्योतिष्टोमादेर्धर्मत्वं वक्तुमर्थपदं प्रयुक्तमिति । तदुक्तं {१,१७७} तस्यापि साधनं यत्तदर्थ एवाभिधीयते । वक्तुं तस्यैव धर्मत्वमुक्तमर्थविशेषणम् ॥ इति । कोऽनर्थ इति तु श्येनादिफलपरो लक्षणया श्येनादिपदप्रयोगः, तस्य चार्थादधर्मत्वमुक्तमिति वेदितव्यमिति । ननु श्येनादिविधिसामर्थ्यादेव श्येनादिफलमासाद्यमानं कथं प्रतिषेधातिक्रमेणावाप्यत इत्युच्यते, अत आह शास्त्रान्तरेति । अयमभिप्रायः सत्यं श्येनचोदनालक्षणं तत्फलं, तदुद्दिश्य तद्विधानात् । क्वचित्किञ्चिद्विधीयत इति विधेः स्वरूपं, तत्र विधेयमिवोद्देश्यमपि विधिर्विगाहत एव । यत्तु न हिंस्यादिति शास्त्रान्तरं, तन्निरीक्षणेन श्येनादिफलस्य हिंसायाः प्रतिषिद्धत्वमवगम्यत इति ॥ २२१ ॥ ननु विधिस्पृष्टे प्रतिषेधोऽनवकाशः । सत्यपि वा प्रतिषेधे नैवंविधस्यानर्थत्वमित्युक्तम् । तद्यदि चोदनालक्षणा हिंसा, कथं निषिद्धत्वादनर्थः । चोदनालक्षणत्वेऽप्यविधेयत्वमिति तु भवद्भिरेव निराकृतम् । अत एव क्रमो विधेय इत्याश्रितम्, अत आह फलांश इति वक्ष्यतेऽन्तेन । अयमभिप्रायः उक्तमिदमस्माभिः किञ्चिद्विधातुं फलमुद्दिश्यते इत्येतावती चोदनालक्षणता । न तु फलमेव विधीयते, भावनायाः फलांशे प्रत्ययाविधायकत्वस्य वक्ष्यमाणत्वात् । वक्ष्यति हि जानात्येवासौ मयैतत्कर्तव्यमिति उपायं तु न वेदेति । अतः स्वयमेव कर्तव्येषु पुरुषाणां प्रवृत्तेर्न तद्विषयप्रवृत्तिज्ञापनं विधेः फलम् । साधनोपाययोस्त्वप्रवृत्तः पुरुषः प्रवर्त्यत इति तयोर्विधेयत्वम् । क्रमे तु न तावत्किञ्चिद्विधीयते । सोऽपि चेन्न विधीयेत, कथं चोदनालक्षणो भविष्यति । जैमिनेरप्येतदेवाभिमतमित्याह जैमिनिरिति । लिप्सया प्रवृत्तिं लक्षयति, तया प्रवृत्तेः । अर्थशब्दः प्रयोजनवाची फले प्रवृत्तिः प्रयोजनलक्षणा न वैधीति दर्शितं भवतीति ॥ २२२ ॥ {१,१७८} यतश्चायं सूत्रभाष्यानुगतः सिद्धान्तः यत्फलं न विधीयत इति, तेन कारणेन न हिंस्यादिति प्रतिषेधः श्येनफलोपनिपातिन्यां हिंसायां सामान्यतोऽवतरन् विधिना न निवारित इति तस्यानर्थतामापादयतीत्यभिप्रायेणाह तेनेति ॥ २२३ ॥ एवं च निषेधेन श्येनफलस्यानर्थप्राप्तिहेतुत्वे बोध्यमानेऽपि न श्येनः स्वरूपेणानर्थः, तत्फलमेव तु हिंसानर्थ इत्याह अनर्थेति ॥ २२४ ॥ अत्रापरं परिचोदनाभाष्यं कथं पुनरित्यादि । तस्याभिप्रायमाह परस्त्विति । अयमभिप्रायः सोऽयं साधनफलयोर्विधेयाविधेयभेदो दर्शितस्तमविद्वानुभयमित्यादिभाष्ये श्येनादेश्चोदनालक्षणत्वाभिधानात्[५५०]फलस्यापि विधेयतां मन्वानः, अथवा त्र्यंशभावनाविधानेन फले जातविधेयाभिमानः[५५१]श्येनफलस्यानर्थत्वमाक्षिप्तवान् । अयं च भाष्यार्थः कथं य कर्तव्यतयोपदिश्यते सोऽनर्थः । यद्यपि ग्रन्थात्कर्तव्यतोपदेशपर्यनुयोगोऽवगम्यते, तथाप्यपौरुषेये उपदेशपर्यनुयोगासम्भवादुपदिश्यमानस्य कथमनर्थत्वमित्येव पर्यनुयोगार्थः । अत एवोक्तम् अनर्थत्वमाक्षिपदिति ॥ २२५ ॥ __________टिप्पणी__________ [५५०] णाभि (ङा) [५५१] नस्या (Kआ) ___________________________ अत्र परिहारभाष्यं नैव श्येनादयः कर्तव्यतया विज्ञायन्ते इति । तच्छ्येनादिकर्तव्यतानिषेधपरमिवोपलभ्यते । तच्चायुक्तम् । श्येनादिविधानस्य पूर्वोक्तत्वात् । अतो भित्त्वा योजयति नैवेति । अस्य श्येनफलस्य हिंसाया नैवेत्येतावतैव विधेयत्वं निराकार्यमित्यर्थः । किं तर्हि विधेयम्{१,१७९}इति तूपस्कृत्योत्तरग्रन्थयोजनेत्याह किमिति । श्येनादयो यागाः कर्तव्याः, न तत्फलं हिंसेति ॥ २२६ ॥ अत्र च नैवेति भिन्ने कथं पुनरनर्थ इत्यस्य प्रश्नस्यापाकरणेऽनुषक्तकर्तव्यतापदे फलस्य कर्तव्यतायां प्रतिषिध्यमानायां साध्यताप्रतिषेधभ्रममपनेतुमाह प्रश्नापाकरण इत्यर्थेन्तेन । नात्र फलस्य साध्यता प्रतिषिध्यते, तन्निषेधे श्येनभावनापरिसमाप्तेः । किन् तु विधेयतैव फलस्य प्रतिषिध्यत इति । अनुपयुक्ते च पूर्वोत्तरपक्षयोः स्थापनबाधने साध्यत्वस्येत्याह द्वयेऽपीति । यदि कथं पुनरिति पूर्वपक्षवादिना साध्यत्वानुपपत्तिरुक्ता भवेत्, एवमुत्तरवादी नैवेति तन्निराकुर्यात् । न तु साध्यत्वस्य पूर्वपक्षे कश्चिदुपयोगः । न च तन्निरासस्य सिद्धान्त[५५२]इति ॥ २२७ ॥ __________टिप्पणी__________ [५५२] न्तहानिरिति (Kआ) ___________________________ अत्रोभयत्रानुपयोगतुल्यतामेव दर्शयति अनर्थस्यापीति । न तावत्पूर्वपक्षवादिनः साध्यताप्रतिपादनमुपयुक्तम् । अर्थत्वं हि तस्यापादनीयम् । अतो यदेव तदनुगुणं तदेव वक्तव्यम् । न च साध्यतामात्रानुबन्ध्यर्थत्वम्, अनर्थस्याप्यविधेयस्य सुरापानादेः साध्यतावगमात् । न च साध्यतानिराकरणं सिद्धान्त उपयुज्यते । अर्थत्वं हि तस्य फलस्य निराकरणीयम् । तदनुगुणं च विधेयतानिराकरणमेव सिद्धान्तिना कार्यम् । किं साध्यतानिराकरणेन, असाध्यस्यापि विधेयस्य गोदोहनादेरर्थत्वादिति ॥ २२८ ॥ यच्चेदं श्येनादिफलाभिप्रायमविधेयत्वं न स्वरूपाभिप्रायमित्यस्माभिरुच्यते, तद्भाष्यकारेण स्फुटीकृतमित्याह शतुरिति । यो हि हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेशः । श्येनेनाभिचरन् यजेतेति{१,१८०}हि समामनन्ति नाभिचरितव्यमिति वदन् भाष्यकारो लक्षेणे शतुरुत्पत्तिं दर्शयति, यो हि हिंसितुमिच्छेदित्यभिचारप्रवृत्तपुरुषानुवादात् । तच्चेदमभिचरन्नाभिचरितव्यमिति व्यक्तीकृतम् । लक्षणं च यद्वृत्तयुक्तं सिद्धवदेवावगम्यते न विधेयतया । अतो न तावद्धिंसा विधीयते । तेषामुपदेशः इति च स्पष्टमेव श्येनादीनां विधानमुक्तम् । अन्यथा अविधेयस्योपदेशानुपपत्तेः, विध्युपदेशशब्दयोः पर्यायत्वादिति भावः । श्येनादय इत्यादिशब्दस्य प्रयोजनमाह विधित्वमिति । साधनानि तावद्विधीयन्ते । इतिकर्तव्यतापि हिंसात्मिका दैक्षपश्वादि(?का।गा) विधीयते ।[५५३]एतेन फलांशस्थैव हिंसा न विधीयत इति दर्शितं भवति । विधित्वं विधिशक्तिरित्यर्थः ॥ २३० ॥ __________टिप्पणी__________ [५५३] न्ते ___________________________ यतोऽङ्गहिंसा विहितैव, अतः फलांशस्थैवावैदिकी हिंसा न हिंस्यादिति निषिध्यते । अतश्चानर्थ इत्यभिप्रायेणाह तस्मादिति ।[५५४]सर्वस्वारफलस्येदानीं का वार्ता । मरणं तस्य फलं, न हिंसा । तच्[५५५]चानिषिद्धमिति चेद्[५५६]न । असति भाग्यच्छेदे तदनुपपत्तेः । अतः फलांशोपनिपातिनीसर्वस्वारहिंसानर्थो भवेत् । उच्यते पूर्वापरीभूते हि यज्ञे तार्तीयसवनीयार्भवस्तोत्रकाले सर्वस्वदक्षिणापरिवृतो विपद्यते दीक्षितः । अतो विधिकोष्ठप्रविष्टैवासौ हिंसा । अन्यत्र तीर्थेभ्यः इति च तीर्थबहिर्भूतैव हिंसा निषिद्धा । इयं तु तीर्थमध्यगता विधिस्पृष्टैवेति नानर्थः । श्येनफलं तु चिरातिपन्ने श्येने तज्जन्यापूर्वविच्छिन्नभाग्येषु शत्रुषु विपद्यमानेषु जायते । अतस्तीर्थबहिर्भावादर्थो न भवति । तेन क्रतुबहिर्भूता फलांशहिंसावैदिकी निषिध्यते । नान्तःक्रत्विति विवेकः इति । किं पुनः कारणं साधनोपायभूता न निषिध्यते । सामान्येन न हिंस्यादिति शास्त्रं प्रवृत्तम् । अतोऽङ्गसाधनहिंसयोरपि प्रतिषेधो भवेत्, अत आह अंशद्वय इति । साधनोपायांशद्वयगामिनी{१,१८१}हिंसा प्रतिषिध्यते इति ब्रुवाणस्य अविशेषेण यच्छास्त्रं तत्सन्दिग्धमन्याय्यत्वाद्विकल्पस्याराद् विशेषशिष्टं स्यात्(१० ।८ ।१६) इति सूत्रमुत्तरम् । शिरोवदिति च सूत्रान्तरैकदेशः । अत्र ह्युभयत्रापि सामान्यशास्त्रस्य विशेषशास्त्रेण बाधो दर्शितः । पूर्वत्र तावद्यथा । ज्योतिष्टोमे श्रूयते वर्त्मनि जुहोतीति । अस्ति चानारभ्यविधिः यदाहवनीये जुह्वतीति ।[५५७]अत्र संशयः किं ज्यौतिष्टौमिके होमे वर्त्माहवनीययोर्विकल्पः, उत बाध्यबाधकभाव इति । तत्र विकल्प इति प्राप्तम् । तथा हि न तावदेकार्थयोः समुच्चयः सम्भवति । न च पाक्षिकानुग्रहसम्भवे आत्यन्तिको बाधः । आहवनीयो हि सामान्यशास्त्रेण वर्त्महोममप्यास्कन्दतीति न तस्यात्यन्तबाधो न्याय्यः । अतो विकल्प इति प्राप्ते उक्तं यदेतद् अविशेषेणाहवनीयशास्त्रं तदाराद्विशेषशिष्टं स्यादिति । दूरे विशेषशिष्टस्येत्यर्थः । विशेषशिष्टं वर्त्महोमं नास्कन्दतीति यावत् । कुतः । अन्याय्यत्वाद्विकल्पस्य । कथमन्याय्यता । लक्षणया हि सामान्यशास्त्रं विशेषशास्त्रेषु प्रवर्तते । तत्तेषु सन्दिग्धमयं वा विशेषोऽस्य विषय इति, विशेषशास्त्रं तु निश्चितविषयम् । अतो वैषम्यान्न विकल्पः । अत एव सामान्यवचनः शब्दो दुर्बलः इति वक्ष्यति । तस्मात्सिद्धमाहवनीयो बाध्यत इति । तथा क्वचित्पुरुषशीर्षम् उपदधातीति विशेषवचनसामर्थ्यात्शवशरीर[५५८]स्पर्शनं स्मृतिप्रतिषिद्धमपि क्रियत एव, सामान्यनिषेधदौर्बल्यादिति शिरोवदित्युक्तमिति । इदं त्विह वाच्यम् ।[५५९]केयं साधनांशगामिनी हिंसेति । यदि श्येनादयः न, तेषामहिंसात्वेनोक्तत्वात् । सत्यम् । प्रधानपशुहिंसैव तत्रोदाहरणम् । यथा वायव्यं श्वेतमालभेतेति । इदं च श्येनोदाहरणमसत्सु भार्यापहारादिमन्युहेतुषु अनर्थतया दर्शयितव्यम् । आततायिवधे दोषाभावस्मरणात् । षट्स्वभिचरन्न पतेदिति बौधायनाः पठन्ति । अन्यत्राप्युक्तं __________टिप्पणी__________ [५५४] {सर्वस्वारो नाम मरणकामकर्तव्यो यागविशेषः (१० ।२ ।२३) ।} [५५५] च्चापि नि [५५६] त्तन्न । (ङा) [५५७] होती (Kआ) [५५८] शिर [५५९] वक्तव्यम् (ङा) ___________________________ नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ {१,१८२}इति । नन्वसत्यपि निषेधे किमंशद्वयगामिनी हिंसानर्थो न भवतीत्यत आह निषेधेनेति ॥ २३२ ॥ अत्र कारणमाह प्रत्यक्षादेरिति । नानार्थत्वे प्रत्यक्षादीनि क्रमन्ते । न चाप्रमाणकोऽर्थः कल्पयितुं शक्यत इति । प्रत्यक्षाद्यशक्तिमेव दर्शयति न हीति । न हि त्रिवृत्पानविरेकयोरिव साध्यसाधनभावो हिंसाप्रत्यवाययोः प्रत्यक्षः, तदानीं प्रत्यवायादर्शनादिति ॥ २३३ ॥ नन्वसत्यपि दोषदर्शने बाह्यहिंसानामनर्थत्वदर्शनाच्चोदितास्वपि विचिकित्सा जायत एव, अत आह बाह्येऽपीति । अयमभिप्रायः नात्र विचिकित्सायां किञ्चित्कारणम् । शास्त्रादेव बाह्येऽपि विचिकित्सा । अङ्गहिंसापि शास्त्रविहितैवेति निर्विचिकित्समनुष्ठातव्येति । ननु प्रत्यक्षमेव हिंस्यमानस्य दुःखितत्वमुपलभ्यते । अतः कर्तुरपि ततो दुःखित्वमनुमास्यामहे । क्रियानुरूपं हि कर्तॄणां फलमिति महाजनप्रसिद्धम् । यथा चाहुः तथा च नारीष्वपि सिद्धमेतत्करोति यो यल्लभतेऽप्यसौ तत् । यत्कर्मबीजं वपते मनुष्यस्तस्यानुरूपाणि फलानि भुङ्क्ते ॥ इति । अतः क्रियानुरूप्येणैव हिंसानर्थकरीत्यनुमास्यते, अत आह हिंस्यमानस्येति स्यादन्तेन । अयमभिप्रायः यदेतधिंस्यमानस्य दुःखित्वदर्शनं, तेन कर्तुः दुःखित्वानुमानमयुक्तम् । व्याप्तलिङ्गदर्शनाभावात् । न हि हिंस्यमानस्य दुःखिता कर्तुर्भविष्यता दुःखेन व्याप्तावगतेति । प्रत्यक्षदर्शनानुसारेण तु विपर्यय एव तावदनुमातुं शक्यते, तदानीं हि कर्तुः{१,१८३}स्फुटं सुखमेवोपलभ्यते । अतः कालान्तरेऽपि हिंसा सुखकरी, हिंसात्वादद्यवदिति शक्यते प्रयोगो वक्तुमित्यभिप्रायेणाह तदानीमिति ॥ २३४ ॥ अत्र कश्चिदनुमानकुशल आह क्रियाविशेषाः खलु विषयानुरूपफलदायिनो दृष्टाः । यथा दानादयः शास्त्रोक्ताः । दानं हि सम्प्रदानापरनामानं विषयं सुखयतीति प्रत्यक्षमवगतम् । तच्च कालान्तरे दातुः परां प्रीतिमाधास्यतीति शास्त्रादवगम्यते । हिंसापि च क्रियाविशेषः । अतो यादृगस्या विषये हिंस्ये कर्मणि फलं दुःखात्मकं, तादृगेव[५६०]कर्तुरनुमीयत इति, तदेतदुपन्यस्यति विषय इति ॥ २३५ ॥ __________टिप्पणी__________ [५६०] वक्तुर (Kआ) ___________________________ अत्र दूषणमाह य एवमिति । एवंवादिनो हेतुरनैकान्तिकः । क्रियाविशेषाणामपि गुर्वङ्गनागमनादीनां विषयानुरूपफलदायित्वाभावात् । दुःखफलत्वात्तेषाम् । विषये च गुर्वङ्गनादौ तदात्वे प्रीतिदर्शनात् । सुरापानस्यापि यदि पेया सुरैव विषयः, न तस्य दुःखमदुःखं वेति विषयानुरूपफलदायित्वमेवमादीनामसिद्धमिति विपक्षैरेभिर्व्यभिचारिता हेतोरिति ॥ २३६ ॥ विरुद्धश्चायं हेतुरित्याह विरुद्धेति । कथं विरुद्धता, अत आह यादृगिति । दृष्टान्तानुसारेण हि हेतुर्गमको भवति । दानं चात्र दृष्टान्तः । अतो यादृशं दाने फलमवगतं, हिंसायामपि तादृगेव फलं भवेदिति । तादृक्त्वमेव फलस्य दर्शयति विधिगम्येति । दाने हि विधिगम्यफलावाप्तिरवगता । तदिदं व्याप्तिबलेन हिंसायामपि प्राप्नोतीति । विधिबलेन त्वर्थफलत्वमेव हिंसाया अवगम्यते । अतो नानर्थत्वं सिध्यतीति सिसाधयिषितानर्थफलत्वविपरीतार्थफलत्वसाधनाद्विरुद्धोऽयं हेतुरित्यभिप्रायेणाह{१,१८४} अदुःखेति । तथेति । विधिगम्यफलावाप्तौ सत्यामगुःखात्मतेत्यर्थः । न हि दुःखात्मके फले विधिः प्रमाणं भवतीति ॥ २३७ ॥ एवं तावद्धेतुदोषावुक्तौ । इदानीं दृष्टान्तदोषं दर्शयति न चेति । विषयानुरूपफलदायिता ह्यत्र साध्यते । दाने च सम्प्रदानं विषयः । न च दानं दातरि तदनुरूपं फलमभिनिष्पादयति, ततो विशिष्टतमस्य महतोऽभ्युदयस्य दातरि निष्पत्तेः । अल्पा हि प्रीतिर्गां गृहीतवतो भवति । दातुस्तु तां पात्रसात्कृतवतः सवत्सरोमसम्मितानि तानि वत्सराणि स्वर्गो भवतीति शास्त्रानुसारेणावगम्यते । क्वचित्तु समद्विगुणसाहस्रानन्तानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः इति साध्यहीनो दृष्टान्त इति । अपि चैकार्थेनैव साध्यपदेन पक्षसपक्षयोर् व्याप्तिः कथ्यते । इह च दृष्टान्ते दाने सम्प्रदानं विषयशब्दस्यार्थः । हिंसने तु हिंस्यमानं कर्म । न चैतद्युक्तमित्यभिप्रायेणाह सम्प्रदानमिति वैषम्यमन्तेन । यदि तु वैषम्यपरिहारार्थं पक्षेऽपि सम्प्रदानमेव विषयशब्दस्यार्थो भवेत्, ततः सिसाधयिषितानर्थविपरीतप्रतिज्ञानाद्विरुद्धः पक्षो भवेदित्याह सम्प्रदाने इति । विरुद्धतामेव स्फुटयति प्रीयत इति । अग्नीषोमदेवतासम्प्रदानको हि पशुयागः । तत्र चाग्नीषोमौ देवता[५६१]प्रीयते[५६२]इति विषयानुरूपफलप्रतिज्ञाने हिंसाकर्तुरपि प्रीतिकरी हिंसेति प्रतिज्ञातं भवेत् । एवञ्च नानर्थकरत्वं सिध्यति, प्रीतिफलस्यानर्थत्वासम्भवात् । अतो विरुद्धः पक्षो भवेदिति । किं पुनरिदं देवताधिकरणविपरीतविग्रहवत्त्वमिहाभिप्रेत्य देवता[५६३]प्रीयत[५६४]इत्युच्यते । यद्यपि अनिराकरणात्मकं सम्प्रदानं देवता स्यात्, तथापि नासौ प्रीयते ।{१,१८५}श्रुतिसमवायित्वात्कर्मसु । अत आह इति स्थितं तवेति । सत्यं, नायं सिद्धान्तः । तव तु साङ्ख्यस्य स्थितमिदं[५६५]यद्देवता प्रीयत इति । अतस्ते पक्षो विरुद्ध इति ॥ २४० ॥ __________टिप्पणी__________ [५६१] ते [५६२] ये [५६३] ताः [५६४] न्त (ङा) [५६५] इयं दे (Kआ) ___________________________ पूर्वं तावदुभयत्र सम्प्रदाने विषयशब्दार्थे दोष उक्तः । कर्मवचनत्वे दोषमाह दृष्टान्त इति । यदि हि दाने कर्मैव विषयो भवेत्, ततस्तस्य दीयमानस्य गवादेर्न किञ्चित्फलमिति न तदनुरूपफलसाधनं युक्तमित्यभिप्रायः । विरुद्धाव्यभिचारी चायं हेतुरित्याह जपहोमादीति । जपादयो हि क्रियाविशेषा न परेषां पीडानुग्रहयोर्वर्तन्ते । चोदितत्वमात्रेणैव[५६६] तु तेऽर्थतयावगताः । अतस्तद्दृष्टान्तेनैव चोदिता हिंसा अर्थ इति शक्यते साधयितुम् । अतो विरुद्धाव्यभिचारिता । न चात्र विषयानुरूपमेतत्फलमिति शक्यते वक्तुम् । विषये फलादर्शनात् । जपस्य यदि तावज्जप्यमानं विषयः, किं तस्य फलम् । अन्यस्य तु न कस्यचित्पीडानुग्रहौ दृश्येते । अत एवोक्तं परपीडादिवर्जनादिति । एवंविधं दृष्टान्तमासाद्य चोदितत्वस्य हेतुत्वं सम्भवतीति विरुद्धाव्यभिचारी हेतुर्भवति । भवति च प्रयोगः दैक्षपशुहिंसा अर्थः, विहितत्वाज्जपादिवदिति ॥ २४१ ॥ __________टिप्पणी__________ [५६६] ण तु (ङा) ___________________________ अपि च विधिनिषेधप्रमाणकयोर्धर्माधर्मयोरनुमानोपन्यासोऽतिदूरमपभ्रष्ट इत्याह विहितेति ॥ २४२ ॥ अपि च विषयानुरूपफलवादिना पीडानुग्रहनिबन्धनं धर्माधर्मत्वमाश्रितम् । एवञ्च जपे शीधुपाने चान्यतराभावादुभयानुग्रहता न स्यादित्याह अनुग्रहादिति ॥ २४३ ॥ {१,१८६} गुरुदारगामिनां[५६७]च परानुग्रहादेव महान् धर्मो भवेदित्याह क्रोशतेति । गुरुदाराभिगामिनो हि ससाध्वसस्य हृदयं शब्दायत इवेति क्रोशतेत्युक्तम् । यदि ब्रूयाद्गुर्वङ्गनागामिनो हि ब्राह्मणमिव घ्नतो हृदयक्रोशनमुपलभ्यते । हिंसा च विषयानुरूपफलदायितयानर्थ इति स्थितम् । अतोऽनर्थफलकर्मानुष्ठायिनामेव हृदयक्रोशनोपगम्यत[५६८]इति गुरुदाराभिगामिनोऽप्यधर्मोत्पत्तिरवगम्यत इति । तत्रेदमुत्तरं क्रोशता हृदयेनापीति । एवं हि मन्यते विषयानुरूपं चेत्कर्मणां फलम्, एवं सति क्रोशतापि हृदयेन गुर्वङ्गनागामी विषयस्याङ्गनाया महान्तमुपकारं जनयतीति धार्मिको भवेत् । हृदयक्रोशनादस्याधर्मोऽप्यनुमीयत इति चेद्, न तर्हि विषयानुरूपं (फलं) क्रियाणामिति व्याप्त्यसिद्धिः । अतश्चानैकान्तिको हेतुः । विरुद्धार्थहेतुद्वयसमावेशे[५६९]च धर्माधर्मत्वसंशयो भवेत् । अतो न पीडानुग्रहनिबन्धनं धर्माधर्मत्वमिति ॥ २४४ ॥ __________टिप्पणी__________ [५६७] राभिगा [५६८] शनादवग [५६९] शाच्च ध (ङा) ___________________________ अपि च अनुमानप्रधानस्यास्य वादिनोऽनपेक्षितनिषेधशास्त्रस्य हृदयक्रोशनेऽपि न कारणमुपलभामहे । अधर्मानुष्ठानबुद्ध्या हि तद्भवति । आनुमानिकधर्माधर्मवादिनश्च नाधर्मबुद्धौ किञ्चिन्निबन्धनमस्ति । शास्त्रानुसारेण हि तन्निश्चयः । उच्छास्त्रं प्रवर्तमानस्याधर्ममाचरामीति हृत्कम्पो न जायते । इतरथा तु परोपकारित्वादस्य हृदयस्य प्रसाद एव जायत इत्याह अनुमानेति ॥ २४५ ॥ ननु यदेव स्वस्मिन् परस्मिन् वानुष्ठीयमानं पीडामावहति, स एवाधर्मः । अत एवात्महिंसाप्यधर्मः । तदिह यदपि परोपकारो दृश्यते, स्वस्य{१,१८७}तु हृदयक्रोशात्पीडोपलभ्यत इत्यधर्मत्वम् । एवञ्चाधर्मत्वे पीडोपपत्तिरित्यत आह पीडात इति । अनपेक्षितशास्त्रस्य प्रागधर्मज्ञानोत्पत्तिनिमित्ताभावात्किंकृता पीडेति वक्तव्यम् । अधर्मत्वबुद्धिकृतेति चेत्, तदेव किन्निमित्तम् । सैव पीडा अधर्मत्वे निमित्तमिति चेत्, तदिह पीडाधर्मत्वयोरेकतरस्यापि मूलान्तरासम्भवाद्दुरुत्तरमितरेतराश्रयमशास्त्रपरतन्त्रस्यापद्यत इति ॥ २४६ ॥ अपि च[५७०]यदि सत्यपि परोपकारे कर्तुरुद्वेगदर्शनाद्गुर्वङ्गनागमनमधर्मः, तर्हि यस्यातो म्लेच्छादेरुद्वेगो न जायते तस्याधर्मोत्पत्तिर्न स्यादित्याह एवमादाविति । शास्त्रज्ञस्यैव शास्त्रानुसार्युद्वेगो जायते । तदनभिज्ञस्य तदभावादप्रमाणकोऽधर्मयोग इति ॥ २४७ ॥ __________टिप्पणी__________ [५७०] च स (Kआ) ___________________________ अतो विमुच्यानुग्रहपीडे तदभावं च धर्माधर्मज्ञानार्थिभिर्विधिनिषेधावेवानुसर्तव्यावित्युपसंहरति तस्मादिति । अयमर्थः नानुग्रहो धर्मत्वे कारणं पीडा वा अधर्मत्वे, अनुग्रहाभावो वा पीडाभावमात्रं वा धर्माधर्मत्व इति ॥ २४८ ॥ अत्र वदन्ति नानुमानेन हिंसादीनामधर्मत्वं साध्यते । किन् तु शास्त्रानुसारेणैव । निषेधशास्त्रेण हिंसायाः प्रत्यवायशक्तिरवगता । सर्वा च{१,१८८}तीर्थातीर्थगता हिंसैव । अतः कथं हिंसा सती काचित्प्रत्यवायं न जनयिष्यति । न हि दैक्षपशुहिंसाविधानं वस्तुनः शक्तिमुत्सारयितुमुत्सहते विद्यमानद्रव्य[५७१]गुणादिशक्तिमात्रोपदेशित्वात्शास्त्राणाम् । नैषां शक्त्यावापोद्वापयोर्व्यापारः । अतस्तदेवेदं न हिंस्यादिति शास्त्रोपदर्शितप्रत्यवायहेतुत्वं दैक्षपशुहिंसाक(?र्ं र्मणी)ति[५७२]शास्त्रानुधावनेनैव हिंसादीनामधर्मत्वं कल्प्यत इति । तदेतदुपन्यस्यति क्वचिदिति त्रयेण । क्वचिद्बाह्यहिंसायां निषिद्धत्वात्प्रत्यवायहेतुत्वे हिंसायाः शक्तिर्बोधिता न विधानादपगच्छतीति सम्बन्ध इति ॥ २५१ ॥ __________टिप्पणी__________ [५७१] व्यादि (Kआ) [५७२] स्त्राधाव (ङा) ___________________________ एवमुपन्यस्य निरस्यति एवमिति द्वयेन । एवंवादिनो हि न सुरां पिबेदिति निषेधशास्त्रात्सुरापानस्य प्रत्यवायशक्तिरवगतेति शूद्रोऽपि तां पिबन् प्रत्यवेयात् । तथा वैश्यस्तोमेन वैश्यस्य यजमानस्य विधिनाभ्युदयसिद्धिर्दर्शितेति वैश्यस्तोमशक्त्यनुसारेण विप्रराजन्ययोरपि तत्फलं भवेत् । न चैतदिष्यते । तथा कालभेदेन शक्तिभेदो दृष्टः । इष्ट्योर्दर्शपूर्णमासयोः पर्वणि शक्तेः पञ्चम्यां चाशक्तेः । अग्निहोत्रस्य सायंप्रातरनुष्ठितस्य फलसाधनत्वान्मध्याह्ने च तदभावात् । अतो यथाशास्त्रमेव शक्तिसद्भावोऽभ्युपेयत इति ॥ २५३ ॥ तस्मात्शास्त्रानुसारेणैव कर्मणां फलशक्तिरास्थेयेत्युपसंहरति । तस्मादिति ॥ २५४ ॥ एवं साधनोपायांशद्वयातिरिक्तायां हिंसायां न हिंस्यादिति प्रतिषेधाज्{१,१८९}जातं प्रत्यवायहेतुत्वज्ञानमन्यत्र तीर्थेषु यो दीक्षितः यदग्नीषोमीयं पशुमालभेतेत्यादिविधिना वार्यत इत्याह हिंसेति ॥ २५५ ॥ यत्तूक्तं न वस्तुशक्त्यावापोद्वापयोः शास्त्रस्य व्यापार इति, तदिष्यत एव । केवलं शास्त्रानुसारेणैव तत्तत्क्रियाभेदव्यवस्थिता एव शक्तयोऽवगम्यन्ते । अतो नातिप्रसङ्ग इत्यभिप्रायेणाह ज्ञानमिति ॥ २५६ ॥ कथमेकस्य कर्मणः शक्तिभावाभावाविति चेत् । लौकिकानि कर्माणि विदाङ्कुर्वन्तु भवन्तः । यथा तावदेकमेव भोजनं स्वस्थातुरकर्तृकं भिन्नशक्तिकं दृष्टम् । स्वस्थेन हि तत्क्रियमाणं रसलोहितमांसपरिणामपरम्परया शरीरं वर्धयति । आतुरेण तु क्रियमाणमसम्यग्धातुपरिणामात्कृशी करोति । एवमदृष्टार्थेष्वपि कर्मसु भविष्यतीत्यभिप्रायेणाह व्यवस्था इति ॥ २५७ ॥ यथा भोजनत्वाभेदेऽपि स्वस्थातुरकर्तृभेदनिबन्धनं[५७३]व्यक्तिभेदमाश्रित्य तत्र शक्तिभेदः समाधीयते, एवमिहापि हिंसात्वेनाभेदेऽपि रूपस्येयमङ्गहिंसा इयं बाह्यहिंसेति व्यक्तिभेदावगतेरुपपन्नः शक्तिभेद इत्यभिप्रायेणाह रूपाभेद इति ॥ २५८ ॥ __________टिप्पणी__________ [५७३] व्यवस्थाभे (Kःा) ___________________________ यदि त्ववान्तरभेदमनङ्गीकृत्य रूपाभेदमात्रेणैकफलत्वमिष्यते, एवं सति सर्वलौकिकवैदिकक्रियाणां क्रियात्वादेकफलत्वं स्यात् । तत्रेदं स्वर्गफलमिदं पुत्रफलमित्याद्यसङ्करो न सिध्यतीत्यभिप्रायेणाह तथापीति । आस्तां तावन्महासामान्येनैकत्वात्फलसङ्करो भवतीति । यजित्वाद्यवान्तरसामान्याभेदादपि चित्रादीनां कर्मणां फलतुल्यता भवेदित्याह यजित्वेति ॥ २५९ ॥ यदि तु तत्र व्यवस्थावान्तरभेदाश्रयाभिधीयते, सेहापि समानेत्याह भेदादिति । ननु विहिता नामाङ्गहिंसा । तथापि किं नानर्थः । न विधिनानर्थफलेन न भवितव्यमिति राजाज्ञा । अत आह विधीनामिति । अयमभिप्रायः नेयं राजाज्ञा । शब्दशक्तिरेव । विधिर्हि कर्तव्यताबुद्धेर्हेतुः । इष्टाभ्युपायं च कर्तव्यतया लोको बुध्यते । अतोऽवश्यमेव साक्षाद्व्यवहितो[५७४]ऽपि वा विधेयानां पुरुषार्थः फलमित्यवसीयते । साक्षात्प्रधानानां, व्यवहितोऽङ्गानाम् । तस्मान्नातो विधेरनर्थफलत्वमवसीयते । विधिबलादवगम्यमानं विधीनां फलमित्याहेति । अपि च, अनर्थकर्यङ्गहिंसेति नेदं सान्दृष्टिकम् । न चानर्थसमभिव्याहारोऽस्याः श्रूयते । अतः कथमनर्थसाधनमित्याह न चैष्विति । नन्वश्रूयमाणोऽपि कलञ्जभक्षणादिवत्कल्पयिष्यते, अत आह निषेधादिति । तत्र निषेधः कल्पनायां कारणं, नासाविह सम्भवति । अभावादेव विधानदर्शनादिति ॥ २६१ ॥ __________टिप्पणी__________ [५७४] तो वा (Kआ) ___________________________ अपि चाङ्गहिंसानां पुरुषार्थत्वे सिद्धे कदाचिदनर्थोऽपि फलतया कल्प्यते । न च तासां पुरुषार्थः फलम् । प्रकरणे पाठात् । प्रकरणविधिविनियोगेन क्रत्वर्थत्वादित्यभिप्रायेणाह न चेति । किं नाम[५७५]तत्कल्प्यमत आह कर्मोपकार इति । यत्खलु प्रकरणस्थं, ततः प्रधानकर्मोपकार एव कल्प्यते दृष्टोऽदृष्टो वा । यथावघातस्य व्रीहीणां वितुषीभावो विध्यपेक्षितो दृष्टः । अदृष्टो वा यथा प्रयाजादिजन्य इति ॥ २६२ ॥ __________टिप्पणी__________ [५७५] मातः क (ङा) ___________________________ {१,१९१} अतो नात्रानर्थकल्पनावसरोऽस्तीत्याह कल्पनेति । नाङ्गहिंसासु फलमपेक्षितं, क्रतूपकारेण निराकाङ्क्षत्वादिति भावः । क्रत्वर्थेऽपि चायं विशेषः यदयं पशुसंस्कार एव, न तु प्रयाजादिवदारादुपकारोऽङ्गहिंसा, तत्पुरस्सरं विशसनादिसंस्कारानुष्ठानात् । अत एव संज्ञपने पशुर्व्रीहिवत्प्रधानतया श्रुतः पशुं संज्ञपयतीति । तदेतदाह क्रत्वर्थ इति । सन्निपत्योपकारप्रदर्शनेन[५७६]क्रत्वर्थतैव बलीयसीति दर्शितं भवति । आरादुपकारकत्वे यावान् क्लेशो भवेद्न च तावानप्यस्तीति ॥ २६३ ॥ __________टिप्पणी__________ [५७६] नेनैव क्र ___________________________ संस्कारत्वेऽपि चास्यायं विशेषः यदयं दृष्टार्थ एवावघातादिवत् । न तु[५७७]प्रोक्षणादिवददृष्टार्थः, क्रत्वपेक्षितैकादशावदाननिष्पत्तेः । दैक्षे हि पशौ हृदयस्याग्रेऽवद्यति । अथ जिह्वायाः । अथ वक्षसः इत्यादिभिरेकादशावदानसाध्यो याग उक्तः । न चासति हिंसासंस्कारे पशोरेकादशावदाननिष्पत्तिः सम्भवति । अतो दृष्टार्थत्वादङ्गहिंसाया नानर्थकल्पनावसरोऽस्तीत्यभिप्रायेणाह दृष्टेति । एवं तावज्ज्योतिष्टोमोपायांशस्था हिंसा नाधर्म इत्युक्तम् । ये चाभिचारयज्ञाः श्येनादयः, तत्राप्येकाहानां ज्योतिष्टोमप्रकृतित्वाच्चोदकप्राप्ताङ्गहिंसा नाधर्म इत्याह अभिचार इति ॥ २६४ ॥ __________टिप्पणी__________ [५७७] च (Kआ) ___________________________ अतोऽनङ्गभूतायामेव फलांशस्थायां हिंसायामेतदनर्थत्वमित्युपसंहरति तस्मादिति । ननु च फलांशस्थापि हिंसा श्येनाद्युद्देशेन विधीयमाणा[५७८]कथमनर्थः अत आह उद्देशादिति । अयमभिप्रायः नात्र श्येनोद्देशेन फलं विधीयते, फलत्वेन हिंसाया एवोद्देशात् । फलं ह्युद्दिश्य साधनं विधीयते, न तु विपर्ययः । ननूद्देश्ययोरपि देशकालयोर्विधानम्{१,१९२}इष्यत एव । सत्यम् । अन्यतस्तयोरप्राप्तेः । फले तु रागतः प्रवृत्तः पुरुषो न विधिना प्रवर्त्यत इत्युक्तमेवेति ॥ २६५ ॥ __________टिप्पणी__________ [५७८] नत्वात्क (Kआ, ङा) ___________________________ कथं पुनस्त्र्यंशभावनाविधाने विधेयाविधेयभेदः शक्यते[५७९]वक्तुम् । अत एव भावनान्तर्गतत्वाद्[५८०]अनर्थत्वाक्षेपो निदर्शितः । तत्रोत्तरमाह भावनेति । अयमभिप्रायः विधिर्हि हंस इवोदकात्क्षीरं विविच्य प्राप्तपरिहारेणाप्राप्तं गृह्णाति । तथा च वक्ष्यति तद्गुणास्तु विधीयेरन्नविभागाद्विधानार्थे[५८१]न चेदन्येन शिष्टाः (१ ।४ ।९) इति । अतो विशिष्टभावनाविधावपि साधनेतिकर्तव्यतामात्रपरत्वात्फलांशान्निवर्तत इति । अतः सिद्धं न स्वरूपेण श्येनो धर्मः । नाप्यधर्मः । फलस्यैव त्वनर्थानुबन्धित्वात्तद्द्वारेणानर्थ इत्युपचर्यत इत्युपसंहरति अत इति ॥ २६६ ॥ __________टिप्पणी__________ [५७९] कर्तुम् (ङा) [५८०] दर्थाक्षेपो दर्शि [५८१] नेऽर्थे (Kआ) ___________________________ ननु च विधीनां पुरुषार्थफलत्वात्श्येनस्य च विधिविषयत्वात्तद्बलेनार्थात्मकमेव फलान्तरं विश्वजिदादिवत्किं न कल्प्यते । अतः स्वरूपेण धर्मो भविष्यतीत्याह निराकाङ्क्षस्येति । अयमर्थः भ्रातृव्यवधेनैकेन स्वर्गादपि प्रियतरेण निराकाङ्क्षस्य श्येनस्य न फलान्तरकल्पना सम्भवति । भावनाकाङ्क्षा हि तत्कल्पनाबीजम् । एका च भावनैकेनैव भाव्येन निराकाङ्क्षेति न भाव्यान्तरसम्बन्धं लभते । तथा च वक्ष्यति एकं वा चोदनैकत्वात्(४ ।३ ।१४) इति । अतः सिद्धम्{१,१९३}अनर्थफलस्य तद्द्वारेणानर्थत्वमित्याह तस्मादिति । किं पुनः कारणं, फलानर्थानुबन्धित्वात्श्येनो न धर्म इत्यत आह फलत इति । ईदृशे कर्माणि लोके धर्मशब्दः प्रसिद्ध इति[५८२]॥ २६८ ॥ __________टिप्पणी__________ [५८२] ति भावः ॥ (Kआ) ___________________________ अत्र चोदयति ननु चेति । अयमभिप्रायः किं पुनः कारणं स्वतो न धर्मत्वं श्येनादेः, नाप्यधर्मतेति । इष्टाभ्युपायो हि चोदनालक्षणो धर्मः । तथा श्येनः फलस्यानर्थानुबन्धित्वेऽपि । अतो धर्म इत्येवायं वक्तव्य इति । अत्रोभयरूपरहितः श्येन इत्यभिप्रेत्य सम्प्रधारणामवतारयति फलमिति । स्थितं तावत्श्येनफलं हिंसा । हिंसा च न धर्म इति । श्येनादिस्वरूपमिदानीं लोकप्रसिद्ध्यनुसारेणावधारयामः धर्मोऽधर्मो वेति ॥ २६९ ॥ तत्रान्यतरनिर्धारणाय पक्षद्वयमुपन्यस्यति यदीति द्वयेन । लोकप्रसिद्धिर्हि नः सर्वशब्दार्थावधारणे मूलम् । तदसावेव निरूपणीया । तत्र यद्यनिष्टानुबन्धरहितेष्टाभ्युपायश्चोदनालक्षणो धर्म इति लोकेनोच्यते, ततः श्येनादीनामधर्मत्वेन वर्जनं, परम्परयानर्थानुबन्धित्वात् । यदि त्वनादृत्य परम्परयानर्थानुबन्धित्वमाहत्य प्रीतिफलं लौकिका धर्मशब्देनोपचरन्ति चोदनासमधिगम्यं, तथा सति श्येनोऽपि तादृशत्वाद्धर्मो भवेत् । कार्याकार्यानपेक्षयेति । यदेव हि प्रीतिमात्रानुबन्धि तत्कार्यमिति विवेकिनो बुध्यन्ते, विपरीतमकार्यमिति भावः । प्रसिद्धिविभागकथनेनैव चात्र निर्धारणमुक्तम् । यथाप्रसिद्धि तावद्धर्मशब्दोऽभ्युपगन्तव्य इति स्थितम् । प्रसिद्धिश् चानिष्टाननुबन्धीष्टसाधनविषयैव धर्मशब्दस्येति श्येनादिवर्जनमेवावसीयत इति ॥ २७१ ॥ {१,१९४} नन्वेवमधर्म एवानिष्टानुबन्धित्वात्श्येनः फलद्वारेण, अत आह यदीति । अयमभिप्रायः अधर्मपदप्रयोगोऽपि लौकिकानां सम्प्रधारणीयः किंविषय इति । तद्यदि चोदनार्थोऽपि साक्षाद्व्यवधानेन वाप्रीतिहेतुरधर्म इति प्रसिद्धः, ततः श्येनोऽप्यधर्मः । अथ वेदविहिते नाधर्मशब्दमप्रीतिकरेऽपि परम्परया लोकः प्रयुङ्क्ते, ततो नाधर्मः । न च वेदविहितगोचरोऽधर्मशब्दप्रयोगो लौकिकानां दृष्ट इति नाधर्मः स्वरूपेण श्येनादय इति भावः ॥ २७२ ॥ यस्तु वदति विहिता नामांशद्वयगामिनी हिंसा । तथापि प्रतिबद्धलिङ्गदर्शनेन तस्यानर्थहेतुत्वमनुमास्यामहे । तथा हि हिंसात्वमनर्थत्वेन प्रतिबद्धं बाह्यहिंसास्ववगतं, तद्धि विहितास्वपि दृश्यमानमनर्थत्वमनुमापययतीति । तदेतदुपन्यस्य दूषयति यस्त्विति । अयं चागमबाधोऽनुमाने प्रपञ्चयिष्यत इति ॥ २७३ ॥ आगमानादरे त्वनवस्था भवतीत्याह तमिति ॥ २७४ ॥ नन्वागमानुसारेण क्रतुगतानामपि हिंसानामधर्मत्वमवगम्यते । तथा हि सन्ति हि केचन मन्त्रार्थवादे[५८३]तिहासादयः ये क्रतुवर्तिनीमपि हिंसां निन्दन्ति ।[५८४]यथा जपस्तुतौ __________टिप्पणी__________ [५८३] दाः ये [५८४] त ___________________________ विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः इति हिंसा[५८५]ङ्गत्वेनैव विधियज्ञनिन्दा स्मर्यते । अत आह गीतेति । अस्यार्थः प्रत्यक्षोऽत्र श्रुतिबाधः । क्रतौ विधानदर्शन्तातन्यत्र तीर्थेभ्यः इति च श्रुतेः ।[५८६] __________टिप्पणी__________ [५८५] साकरत्वे (ङा) [५८६] स्मृ (Kआ) ___________________________ {१,१९५} यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञा हि भूत्यै लोकस्य तस्माद्यज्ञे वधोऽवधः ॥ इति[५८७]च । अन्यपरतयार्थवादो व्याख्येयः । यथा वक्ष्यति न हि निन्दा निन्द्यं निन्दितुं, किं तर्हि निन्दितादितरं प्रशंसितुमिति ॥ २७५ ॥ __________टिप्पणी__________ [५८७] ति । अ (Kआ) ___________________________ अत्रापरं भाष्यं नन्वशक्तमिदं सूत्रमिमावर्थावभिवदितुं चोदनालक्षणो धर्मः नेन्द्रियादिलक्षणः, अर्थश्च धर्मो नानर्थ इति । भिद्येत हि तदा वाक्यमिति । एवं वाक्यभेदपरिचोदनां कृत्वा परिहारभाष्यम् उच्यते । यत्र वाक्यादेवार्थोऽवगम्यते तत्रैवम् । तत्तु वैदिकेषु न सूत्रेषु । अन्यतोऽवगतेऽर्थे सूत्रमेवमर्थमित्यवगन्तव्यमिति । तदाक्षिपति शिष्यानिति । अस्यार्थः अन्यतोविदितवेदार्थेभ्यो जिज्ञासुभ्यः सूत्राणि जैमिनिना न प्रणीतानि । अतस्तानि तेषां वेदवाक्यतुल्यानि उभयं च वेदसूत्रात्मकं वाक्यभेदादिदोषादसमर्थम् । न चाशक्तमर्थप्रत्यायने प्रमाणम् । अतो न वेदसूत्रयोः कश्चिद्विशेष इति न सूत्रेष्विति भाष्योक्तमनुत्तरमिति ॥ २७६ ॥ अत्र परिहारमाह प्रागुक्तेति । अस्यार्थः सत्यम् । वाक्यभेदादिना सूत्राणामप्यशक्तिः शिष्यांश्च प्रत्यविशेषः । किन् तु या पूर्वं सति सम्भव इति परिसंख्योक्ता, तस्याः फलमेतद्भाष्यकारेण प्रतिपाद्यते । एवं हि न्यायाभासभ्रान्ताः शिष्या भाष्यकारेण शिक्षिताः यद्विवक्षितासम्भवे वाक्यभेदादिभिरपि सूत्राणि गमयितव्यानीति । तदिहैव तावच्चोदनासूत्रे प्रदर्श्यते यद्वाक्यभेदेनापि चोदनासूत्रार्थो बोध्यत इति । अनयेति । भाष्योक्तया प्रमाणान्तरप्रतिपन्नार्थविषयतया युक्त्येत्यर्थः । एषेत्यपि च भाष्योक्तैव वाक्यभेदगतिः प्रत्यवमृश्यते । यथाह भिन्नयोरेव वाक्ययोर्{१,१९६}इमावेकदेशाविति । तदनेन शिष्यान् प्रत्यविशेषेऽपि व्याख्यातॄणामेव व्याख्याप्रकारो भाष्यकारेणोक्त इति दर्शितम् । व्याख्याकारा हि चिरपरिचितन्यायसामस्त्यस्मरणक्षमा न्यायबलेन वाक्यभेदादिभिरपि सूत्राणि व्याचक्षत इति ॥ २७७ ॥ यतश्च प्रमाणान्तरानुसारेण वाक्यभेदादिभिरपि सूत्रेष्ववगतिः सम्भवति, तस्मादावृत्त्या वा तन्त्रेण वेदं सूत्रं व्याख्येयमित्याह तस्मादिति । आवृत्तौ तावत्सकलमेव सूत्रं द्विः पठितव्यम् । तत्रैकस्य चोदनालक्षणो धर्म इत्यत्र तात्पर्यम् । अपरस्य चार्थो धर्म इत्यत्र । अन्यपरत्वेऽन्यतरसम्बन्धोऽनुवादः । सूत्रभेदेन चोभयविधानात्तत्सिद्धेरुभयानुवादोपपत्तिः । तन्त्रं चोदनालक्षणादीनां त्रयाणामन्यतमम् । तदुपरिष्टाद्वक्ष्यते । तस्मिन् पक्षे न वाक्यभेदः । तथा हि त्रिपदमिदं सूत्रम् । पदत्रयस्यापि चेतरेतरसम्बद्धोऽर्थो वाक्यार्थः । तद्यदेव त्रयाणामुभयसन्धानार्थम्[५८८]आवर्त्यते तदेव वाक्यं भिनत्ति । तन्त्रेण तूभयसम्बन्धे न वाक्यभेदः । सकृद्वचनात् । सकृदुक्तस्यैव योग्यतयोभयसम्बन्धे शक्तिभेदात् । तदिह धर्मपदं वा तन्त्रोच्चरितमुभाभ्यां सम्बध्यते । सिध्यति चोभयं चोदनालक्षणो धर्मोऽर्थो धर्म इति च । मध्यपदं वाद्यन्ताभ्याम् । एवमपि चेष्टं सिध्यति अर्थो धर्मः स चोदनालक्षण इति । आद्यमेव वोत्तराभ्याम् । चोदनालक्षणोऽर्थः स एव च धर्म इति । इदमेकमेव वाक्यं त्रयाणामन्यतमस्य तन्त्रेणोभयसम्बन्धाद्द्व्यर्थमित्यवगन्तव्यम् । आह च __________टिप्पणी__________ [५८८] सम्बन्धार्थ ___________________________ चोदनालक्षणादीनां तन्त्रेणैकस्य सङ्गतौ[५८९]। __________टिप्पणी__________ [५८९] तेः (ङा) ___________________________ द्वाभ्यां सहार्थवाचित्वाद्द्व्यर्थमेकं भविष्यति ॥ इति ॥ २७८ ॥ भाष्यकारेण भिन्नयोरेव वाक्ययोरिमावेकदेशाविति वदता सूत्रद्वयम्{१,१९७}एवेदं दर्शितम् । तदुपन्यस्यति एकदेशेति । अर्थो धर्म इत्येकं सूत्रम्, अपरं चोदनालक्षण इति । तेन चोदनालक्षणावयवेनानुमितेनानन्तरसूत्रस्थेन धर्मपदेनैकं निष्पद्यते चोदनालक्षणो धर्म इति । तदिदमुक्तम् एकदेशानुमानादिति । नन्वर्थो धर्म इति चोदनालक्षणाचोदनालक्षणयोरन्यतरस्या[५९०]नुपादानात्तदपेक्षायामचोदनालक्षणोऽप्युपतिष्ठमानः केन वार्यते । एवं चोदनालक्षणो धर्म इत्यत्राप्यनर्थप्रसङ्गो दर्शयितव्यः । अत आह इतरेतरेति । एतावेव चोदनालक्षणार्थशब्दावितरेतरसमीप्यात् परस्परं सूत्रद्वयेऽपि विशेषणत्वेन वाक्यशेषतया कल्प्येते । अतो नाचोदनालक्षणानर्थावयवकल्पनेति । अनुवादत्वेन चात्र चोदनालक्षणार्थावयवसम्बन्धो भिन्नयोः सूत्रयोर्दर्शयितव्यः, यदर्थो धर्म इत्येकसूत्रेणोक्तं तच्चोदनालक्षण इति, यच्चोदनालक्षणो धर्म इत्यत्रोक्तं तदर्थ इति ॥ २७९ ॥ __________टिप्पणी__________ [५९०] रानु ___________________________ अपरमपि अथवा अर्थस्य सतश्चोदनालक्षणस्य धर्मत्वमित्येकार्थमेवेति भाष्यम् । तदाक्षिपति विशिष्टेत्येवान्तेन । अर्थविशेषणविशिष्टचोदनालक्षणानुवादेन धर्मविधानं दर्शितम् । एवमपि विशेषणविशेष्योभयपरत्वेन वाक्यं भिद्यत[५९१]एव, यथैकत्वविशिष्टग्रहानुवादेन सम्मार्गविधौ । अतः केन विशेषेणा[५९२]थवेति परिहारान्तरमुक्तमिति । यतश्चायमपरिहारः, तस्मात्पूर्वोक्तमेव पदत्रयतन्त्रत्वं वाक्यभेदपरिचोदनायामुत्तरमित्याह इतीत्यर्थशब्दयोरन्तेन । एतच्च तन्त्रत्रयं व्याख्यातमेव । संज्ञाशब्देन धर्मपदमुच्यते ।[५९३]तद्धि चोदनालक्षणस्यार्थस्यालौकिकी संज्ञा भूवादीनामिव{१,१९८}धातुशब्दः । पूर्वाचार्याणां मतेन चैतदुक्तम् । यद्यवश्यं[५९४]वाक्यभेदः[५९५]परिहर्तव्यः, ततस्तन्त्रेण द्व्यर्थमेकं वाक्यं व्याख्येयम् । न च प्रकारान्तरेण वाक्यभेदपरिचोदना परिहर्तुं शक्यत इति ॥ २८१ ॥ __________टिप्पणी__________ [५९१] द्येतैव (ङा) [५९२] ण परि [५९३] ते । सा हि चो (Kआ) [५९४] श्यमवा [५९५] दो वक्तव्यः ___________________________ अत्र चोदयति धर्म इति । अयमभिप्रायः द्वे किलात्र वचनव्यक्ती । चोदनालक्षणानुवादेन धर्मविधानं विपरीतं वा । तत्राद्ये तावत्पक्षे चोदनालक्षणत्वस्यार्थत्वव्यभिचाराद्युक्तमेव विशेषणम् । यदा तु सामान्यतः सिद्धधर्मानुवादेन प्रमाणमनेन कथ्यते, तदा अर्थत्वं प्राप्तमेव, अर्थस्यैव श्रेयस्साधनस्य धर्मत्वप्रसिद्धेः । सर्वे हि वादिनः प्रीतिसाधनं धर्म इत्यत्राविप्रतिपन्नाः, तद्विशेषेष्वेव विवादः । मीमांसका हीष्टापूर्तयोर्धर्मत्वमिच्छन्ति । सङ्घट्टवन्दनादौ सौगताः । सामान्यं तु प्रीतिसाधनं धर्मस्वरूपं सर्ववादिनाम् अविवादसिद्धमेव ।[५९६]एषैव च प्रागपि सामान्यसिद्धिरुक्ता । अत एव च विशेष[५९७]सिद्धिजिज्ञासायां प्रमाणविशेषविधानं, तत एव तत्सिद्धेः । वेदागमे हि प्रमाणे यागादयो धर्माः । बुद्धागमे तु चैत्यवन्दनादयः । को धर्म इत्यत्रापि विशेषजिज्ञासयैव प्रश्नः । वक्ष्यति च विशेषस्य च जिज्ञासेति । तस्मादेषैवात्र वचनव्यक्तिर्मुख्या । अत एवाद्ये प्रथममुक्त्वा सत्सूत्रेण च प्रत्यक्षादिनिराकरणादेषैव वचनव्यक्तिः सूत्रकाराभिमता लक्ष्यते । यो धर्मः स चोदनालक्षणः इति प्रतिज्ञातेऽन्यलक्षणनिराकरणं सङ्गच्छते, नान्यथा । तस्मादेषैवात्र वचनव्यक्तिः । अस्यां चार्थाव्यभिचारादर्थविशेषणमनर्थकमिति ॥ २८२ ॥ __________टिप्पणी__________ [५९६] व । प्रा (Kआ) [५९७] षमात्रजि (ङा) ___________________________ परिहरति चोदनेति । अयमभिप्रायः सत्यम् । एषैव चात्र वचनव्यक्तिः । इयमेव तु नासत्यर्थविशेषणे सिध्यतीति फलवदर्थग्रहणम् ।{१,१९९}असति हि तस्मिन् वचनव्यक्त्यन्तरसन्देहो बह्वेत् । एवं हि तदा सम्भाव्यते, यश्चोदनालक्षणः स धर्म इति । अत्र तु वक्ष्यमाणो दोषः । नित्यानुवादभूते त्व्[५९८]अर्थग्रहणे नैवं वचनव्यक्तिः सम्भवति, अर्थग्रहणस्य विध्यनुवादयोरसम्भवात् । विधौ तावद्वाक्यभेदादसम्भवः । अनुवादस्य चाप्राप्तेः । न हि चोदनालक्षणमर्थसम्बन्धं न व्यभिचरति अनर्थस्यापि तल्लक्षितत्वात् । अतो नानुवादः । न चैतत्परित्यागेन वाक्यार्थत्वमनर्थकत्वाद्वाक्यैकदेशस्य । अतो यतरस्मिन् पक्षेऽर्थपदान्वयो घटते, ततरः पक्षोऽवधार्येत । धर्मानुवादेन प्रमाणविधौ सम्भवति नित्यानुवादभूतोऽर्थशब्द इति स एव पक्षो निश्चीयते । अतो विध्यनुवादसूचनार्थ एवार्थशब्दो न विशेषणम् । विशेषणाद्विना चैतदिति च स्पष्टमेव सूत्रार्थ इति दर्शयिष्यति ॥ २८३ ॥ __________टिप्पणी__________ [५९८] प्य (ङा) ___________________________ स्यादेतत् । सम्भावितवचनव्यक्तिपरिग्रहे को दोष[५९९]इति, अत आह तथेति । चोदनालक्षणानुवादेन धर्मविधावधर्माणामपि निषेधचोदनयानर्थसाधनत्वेन लक्षितानां ब्रह्महत्यादीनां चोदनालक्षणत्वाद्धर्मत्वं भवेत् । न चैतदिष्टम् । अतो न विधेयार्थमपि विधिफलमर्थवद्[६००]अर्थपदग्रहणम् । अतो नेयं वचनव्यक्तिः साधीयसीति ॥ २८४ ॥ __________टिप्पणी__________ [५९९] षः अ [६००] र्थग्र (Kआ) ___________________________ अतस्तत्परित्यागेनात्र सा[६०१]नाम वचोभङ्ग्याश्रयणीया, यस्यामर्थश्च धर्मतया न त्यज्यते, एकश्च वाक्यार्थो भवति । सा च धर्मानुवादेन प्रमाणविधिः, तस्यां हि धर्मस्यार्थत्वाव्यभिचारादर्थो न त्यज्यते । एक एव वाक्यार्थो भवति, सामर्थ्यलक्ष्यत्वादर्थस्य । इयं चार्थानुवादादेव सिध्यति, [६०२]नान्यथेत्युक्तमेवेत्याह तस्मादिति ॥ २८५ ॥ __________टिप्पणी__________ [६०१] साधनामेव [६०२] न त्वन्य (ङा) ___________________________ {१,२००} यद्येषैवात्र वचनव्यक्तिः, कथं तर्हि भाष्यकारः उभयमिहेत्यादिग्रन्थेनार्थपदस्य विशेषणतां दर्शयति । विस्पष्टं हि तत्रोक्तं तत्रानर्थो धर्म उक्तो मा भूदित्येवमर्थमर्थग्रहणमिति, यदपि चेदमथवेत्यादि भाष्यमाक्षिप्तं तस्याप्यद्ययावन्न किञ्चित्समाधानमुपलभामहे, अत आह विशेषणादिति । अनेन भाष्यद्वयमपि समाहितम् । यत्तावदुभयमिहेत्युक्तं तदर्थविशेषणाद्विनैवार्थसामर्थ्यकारितमेव भाष्यकारेण कथितम् । किमिदमर्थसामर्थ्यकारितमिति । एतदुक्तं भवति यद्धर्मानुवादेन प्रमाणविधानाद्[६०३]एवानर्थानां हिंसादीनाम् अधर्मत्वेन वर्जनं भवति, प्रमाणानुवादेन च धर्मविधौ तेषामपि धर्मतापद्येत । तदिहानर्थो धर्म उक्तो मा भूदित्येवमर्थमर्थग्रहणमिति वदता वचनव्यक्तिविशेषपरिग्रहार्थोऽर्थशब्द इति दर्शितम् । आक्षिप्तभाष्यसमाधानेऽप्ययमेव ग्रन्थो व्याख्येयः । नेदमथवेति शब्दसामर्थ्यकारितं भाष्यकारीयमुत्तरम् । तथा हि वाक्यभेदो भवति । इह तु विनैव विशेषणादर्थसामर्थ्यकारितमेवेदमुच्यते । तच्च वचनव्यक्तिविशेषाश्रयणेन दर्शितम् । न चार्थादापद्यमानो वाक्यभेदमापादयति । अशब्दप्रमाणकत्वाद्, वाक्यभेदस्य च शब्ददोषत्वात् । अतोऽथवेत्यादिना धर्मोद्देशेन प्रमाणविधानमत्र भाष्यकृता दर्शितम् । तत्र चार्थशब्दस्यानुवादत्वाद्[६०४]वाक्यभेदः सुपरिहर एव । यदेतदनर्थानां हिंसादीनां वर्जनम्, इदं धर्मानुवादेन प्रमाणविधानवचनव्यक्तेरेवार्थसामर्थ्यकारितं फलं भाष्यकारेण कथ्यत इत्यर्थ इति ॥ २८६ ॥ __________टिप्पणी__________ [६०३] धावनर्था (ङा) [६०४] दकत्वा (Kआ) ___________________________ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां चोदनासूत्रं समाप्तम् ०३ निमित्तसूत्र {१,२०१} तस्य निमित्तपरीष्टिरिति सूत्रम् । तस्यायमर्थः तस्य धर्मस्य यन्निमित्तं प्रमाणं चोदनाभिधानं, तत्परीष्टिः कर्तव्येति । पाक्षिकी च परीष्टिपदरूपसिद्धिः । तथा हि इषु गतौ इत्यस्माद्धातोः इषेरनिच्छार्थस्य इति युचि विहिते परेर्वा इति क्तिन्युचोर्विकल्पः स्मर्यते । तेन युज्विधौ पर्येषणेति भवति । क्तिनि तु परीष्टिरिति । अत्र वदन्ति किमिदमनवसर एव परीक्षाप्रतिज्ञानम् । चोदनालक्षणोऽर्थो धर्म इति हि प्रतिज्ञातम् । अतस्तदुपपादनसमर्थहेतुवचनावसरे किमपरं निमित्तपरीक्षा प्रतिज्ञायते । न हि नैयायिकाः शब्दोऽनित्य इति प्रतिज्ञाय तदेतत्परीक्षामहे इति परीक्षामवतारयन्ति, अपि तर्हि सहसैव कृतकत्वादिति हेतुमभिदधति । तदिहापि चोदनासूत्रप्रतिज्ञातावधारणद्वयोपपादनाय सदौत्पत्तिकसूत्राभ्यां हेतुवचनमुचितम् । किमन्तरा परीक्षाप्रतिज्ञानेन । यदि मतं परार्थप्रतिज्ञास्वयं न्यायः यत्प्रतिज्ञानन्तरमेव हेत्वभिधानं, स्वप्रतिपत्तौ तु न हेतुधर्मा योजयितव्या इति । तन्न । न हि जैमिनेरपि स्वप्रतिपत्तये शास्त्रनिर्माणम्, अन्यतो विदितवेदार्थः शिष्यहितार्थाय सूत्राणि प्रणीतवान् । अतोऽत्रापि परार्थैव प्रतिज्ञा । अथो[६०५]च्यते द्वेधा हि परः, व्युत्थिताव्युत्थितभेदात् । तत्र व्युत्थितप्रतिपादने प्रतिज्ञानन्तरमेव हेतुरभिधीयत इति न्याय्यम् ।[६०६]उत्तरे तु परीक्षापुरस्सरमेव हेत्वभिधानेन प्रतिपाद्यन्त इति । तन्न । लक्षणान्तरेष्वपि प्रसङ्गात् । भेदादिलक्षणेष्वपि यथास्वमर्थं प्रतिज्ञाय परीक्षाप्रतिज्ञानमापद्यते । न च तथा दृश्यते । कश्चैष न्यायः यद्विप्रतिपन्नाय प्रतिज्ञानन्तरमेव हेतुरुच्यते न शिष्येभ्य इति । प्रत्युत तानेव प्रति लाघवाय प्रतिज्ञानन्तरमेव हेतुर्वक्तुमुचितः, किमन्तरा व्याक्षेपकरी प्रतिज्ञा निक्षिप्यत इति यत्किञ्चिदेतत् । तस्मादयमत्र समाधिः इहाद्येन सूत्रेण शास्त्रस्य प्रयोजनं प्रतिज्ञातम् । द्वितीयेन च समस्तवक्ष्यमाणतन्त्रार्थसंक्षेपप्रतिज्ञानम् । अनेन तु सुखग्रहणार्थमाद्याध्यायार्थप्रतिज्ञानम् । अथातः शेषलक्षणम् ।[६०७](३ ।१ ।१) अथ विशेषलक्षणम् (८ ।१ ।१) इतिवदृषिणा प्रणीतम् ।{१,२०२}एतदुक्तं भवति इहाध्याये धर्मप्रमाणं परीक्षिष्यामह इति । यद्यपि चोदनासूत्रेणापि समस्ततन्त्रार्थसंक्षेपे क्रियमाणे प्रमाणलक्षणार्थोऽपि चोदनैव प्रमाणमेवेति प्रतिज्ञात्ः, तथापि सङ्कीर्णे प्रतिज्ञाते पुनरनेन निष्कृष्याद्याध्यायार्थः प्रतिज्ञायते । अनिष्कृष्यमाणे हि प्रतिज्ञासङ्करेण[६०८]न ज्ञायते कस्य प्रतिज्ञाभागस्य सदौत्पत्तिकसूत्राभ्यां हेतुरभिधीयत इति । बह्वेव हि तत्र प्रतिज्ञातं धर्मस्वरूपादि । अतस्तत्रापि हेत्वभिधानमिदमिति कश्चिद्भ्राम्येत् । अतस्तद्भ्रमापनुत्तये स्वयमेव निर्धारणं दर्शयति । योऽयं तन्त्रार्थः संक्षिप्यास्माभिः प्रतिज्ञातः, तस्मिन् व्याख्यास्यमाने निमित्तपरीक्षैव तावदिहाध्याये वर्तिष्यते प्रमाणपुरस्सरत्वात्प्रमेयसिद्धेः । तदिह तावच्चतुर्विधा परीक्षा वर्तिष्यते किं चोदनैव उतान्यदेवेति नियमः, चोदना वान्यद्वेति विकल्पः, उभयं वेति समुच्चयः, न चोभयमित्युभयापलापः । आह च __________टिप्पणी__________ [६०५] त्रो (ङा) [६०६] यः । (Kआ) [६०७] मिति (ङा) [६०८] रे न (ङा) ___________________________ निमित्तान्वेषणा चेह चतुर्धैव करिष्यते । चोदनैवान्यदेवेति यद्वान्यच्चोदनापि वा ॥ अथवा चोदनान्यच्च न चान्यन्नापि चोदना । इति । तदेते नियमविकल्पसमुच्चयोभयापलापैश्चत्वारः पक्षा भवन्ति । भवति च प्रमाणविकल्पः । यथारादवस्थितमग्निं कदाचिल्लिङ्गादवैति । कदाचिदाप्तोपदेशात् । न च समुच्चयेऽन्यतरवैयर्थ्यम्, ईश्वरमहर्षयो हि प्रत्यक्षेण धर्ममवयन्ति आगमेनेतर इति प्रमातृभेदादुभयोपपत्तिः । भाष्यकारेण तु प्रदर्शनार्थं किं चोदनैव उतान्यदपीति दर्शितम् । परीक्षमाणस्य हि चतुर्धैव प्रतिभा जायते । तदिह प्रत्यक्षसूत्रे तावत्प्रत्यक्षादिनिषेधेन प्रतिपक्षनियमविकल्पसमुच्चयाः प्रत्युक्ताः । उभयापलापस्तु चोदनाप्रामाण्यसमर्थनेनौत्पत्तिकसूत्रे निरसिष्यते तत्प्रमाणमनपेक्षत्वादिति । तदयं निमित्तपरीक्षासंक्षेपो भवति प्रत्यक्षादिव्युदासेन चोदनैवेत्यवधारणसिद्धः, अभावाशङ्कानिराकरणेन च प्रमाणमेवेति, शब्दार्थसम्बन्धवाक्यरचनापौरुषेयत्वप्रतिपादनेन च पुरुषानुप्रवेशसम्भाविताप्रामाण्यव्युदासः, तद्भूताधिकरणेन{१,२०३}च वाक्यार्थसंविन्मूलोपपादनम्, उपरिष्टात्तु मन्त्रार्थवादप्रामाण्यप्रकारकथनं, स्मृतिपादेन च मन्वाद्याप्तस्मृताचरितागृह्यमाणकारणकाष्टका होलाकादिपदार्थानां मूलवेदसद्भावोपपादनं, नामधेयपादेन चोद्भिदादिनाम्नां गुणपराणामेव नामधेयतयैव क्रियोपयोगकथनमिति कृत्स्न एवाध्याये धर्मस्य निमित्तपरीक्षेति सूक्तं तस्य निमित्तपरीष्टिर् इति । अत्र भाष्यमुक्तीमदमस्माभिश्चोदना निमित्तं धर्मज्ञाने इति तत्प्रतिज्ञामात्रेणोक्तमित्यादि । तदयुक्तम्, सोपपत्तिकप्रतिज्ञाभिधानात् । तथा हि चोदना हि भूतमित्यादिना चोदनाप्रामाण्योपपत्तिरुक्तैव, नान्यत्किञ्चनेन्द्रियमिति चान्याप्रामाण्योपपत्तिः । अतः कथमुच्यते तत्प्रतिज्ञामात्रेणोक्तमिति, अत आह प्रतिज्ञेति सार्धेन । अस्यार्थः यद्यपि भाष्यकारेणानागतावेक्षणेन सदौत्पत्तिकसूत्राभ्यां वक्ष्यमाणा स्वपक्षस्य युक्तिः प्रतिज्ञाव्यतिरिक्ता दर्शिता, तथापि न सूत्रकारेण काचिदुपपत्तिरुक्तेति तन्मतानुसारेण प्रतिज्ञामात्राभिधानमिति ॥ १ ॥ समर्थनान्तरमाह वृत्तिकार इति । अस्यार्थः यत्तु चोदना हीत्यादिना भूताद्यर्थप्रकाशनसामर्थ्यं चोदनायाः कृतं, तत्प्रामाण्यद्वारमात्रमेव कथितम् । पारमार्थिकी युक्तिरुपरिष्टाद्वक्ष्यते सूत्रकारेणैव । अतो वक्ष्यमाणयुक्त्यधिकमेव तत्प्रामाण्यसम्भावनामात्रमभिहितम् । सम्भावितो हि प्रतिज्ञायां पक्षो हेतुना साध्यते, न त्वसम्भावित इति स्वाभिप्रायेणापि प्रतिज्ञामात्राभिधानोपपत्तिरिति ॥ २ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां निमित्तसूत्रं समाप्तम् ०४ प्रत्यक्षसूत्र {१,२०४} अत्रानन्तरं परीष्टिसूत्रप्रतिज्ञातां निमित्तपरीक्षामवतारयितुं सूत्रम् सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विध्यमानोपलम्भनत्वादिति । तदिदं वृत्त्यन्तरेऽनिमित्तादवच्छिद्य तत्प्रत्यक्षमित्येवमन्तं लक्षणपरं व्याख्यातम् । तदेतदुपन्यस्य दूषयति वर्ण्यत इति । अस्यार्थः धर्मस्य निमित्तं परीक्षितव्यमिति हि प्रतिज्ञातम् । अनन्तरं च प्रत्यक्षस्य लक्षणमुच्यमानं न पूर्वप्रतिज्ञया सङ्गच्छत इति ॥ १ ॥ न परमसङ्गतिः, अनुपयोगोऽपीत्याह लषणस्येति । लोकप्रसिद्धप्रमाणव्यवहारिणो हि मीमांसकस्य किं तल्लक्षणकरणेनेति भावः । द्व्यंशा हि पूर्वप्रतिज्ञा चोदनैव प्रमाणं प्रमाणमेव चोदनेति तन्त्रार्थसंक्षेपप्रतिज्ञानम् । पुनश्च परीष्टिसूत्रेण निष्कृष्याद्यलक्षणविषयतया । न चान्यतरांशप्रसाधनेनापि लक्षणाभिधानमुपयुज्यत इति । यदि तु नैयायिकादिप्रस्थानमनुविदधता प्रत्यक्षस्य लक्षणं प्रणीयते, तद्वदेव हि तत्पूर्वकं त्रिविधमनुमानमित्यादिवदनुमानादेरपि लक्षणप्रणयनमापतितमित्याह किमर्थमिति ॥ २ ॥ स्यादेतत् । अप्रमाणमेवानुमानादि प्रत्यक्षादन्यत्वात्तदाभासवदिति तल्लक्षणानभिधानमिति, तदयुक्तमित्याह न तावदिति । अयमभिप्रायः यदेव किञ्चित्तदप्रामाण्यसिद्धये प्रमाणमुपन्यस्यते, तत्तेनैव बाध्यते । अपि चानुमा(?न्ना)प्रामाण्यसिद्धयेऽनुमानमुपन्यस्यते इति स्ववाग्विरोधः । तदलं नाप्रत्यक्षं प्रमाणमिति पाषण्डजल्पितेनेति ।{१,२०५}स्यादेतत् सम्भवैतिह्ययोरिवानुमानागमयोः प्रत्यक्षान्तर्भावादितरेषां लक्षणानभिधानमिति, तन्न । लक्षणवैलक्षण्यादित्याह नापीति वक्तुमन्तेन । स्यादेतत् लक्षणवैलक्षण्यमेवासिद्धं, सर्वेषां सत्येवेन्द्रियार्थसन्निकर्षे जायमानत्वादिति । तन्न । न हि चक्षुषा सन्निकृष्टधूमोऽप्यविदितास्मृतव्याप्तिरनुमिमानो वह्निमुपल(?भ्य्भ)ते । अत इन्द्रियलिङ्गशब्दसादृश्या(न)न्यथासिद्धबुद्धिसमुपलम्भकप्रमाणाभावा एव यथाक्रमं प्रत्यक्षादिप्रमाणोदये साधनमिति साधनभेदाल्लक्षणवैलक्षण्ये सति नान्योन्यान्तर्भावोपपत्तिः । तदिदमाह न चेति ॥ ३ ॥ न च वाच्यं सर्वादौ प्रत्यक्षलक्षणाभिधानादेव तत्पूर्वकत्वेनेतराणि लक्षितानीति पृथग्लक्षणानभिधानमिति, तत्पूर्वकस्मृत्यादीनामप्रामाण्यदर्शनेनाभाससङ्करप्रसक्तेरित्याह न चापीति ॥ ४ ॥ न च सामान्यातिदेशलक्षणमिव विशेषातिदेशलक्षणं प्रत्यक्षलक्षणोक्तिरनुमानादीनां पारमार्थिमं लक्षणमाक्षिपति, तेन विना तदुपपत्तेः । सामान्यं तु नानाक्षिप्तविशेषमात्मानं लभत इत्याक्षिपत्यर्थविशेषम् । तदेतदाह प्रत्यक्षेति ॥ ५ ॥ तत्पूर्वकत्वसिद्ध्यभ्युपगमेन चास्माभिः पूर्वं[६०९]स्मृत्या व्यभिचार उक्तः । तदपि प्रत्यक्षलक्षणोक्तेरनन्यथासिद्ध्यभावान्न सिध्यतीत्याह तदतदिति । तच्चातच्च तदतदी । ते पूर्वे यस्येति बहुव्रीहिः । तदयमर्थः तद्वा प्रत्यक्षमन्यद्वा पूर्वमनुमानादीनामिति न प्रत्यक्षलक्षणादवगम्यत इति ।{१,२०६}यदि तु विनैव कारणेन प्रत्यक्षलक्षणोक्तेरितरेषां तत्पूर्वकत्वमाश्रीयते, हन्त अतत्पूर्वकत्वमपि वाङ्मात्रेण शक्यमाश्रयितुमित्याह तदुक्तेरिति । तदपूर्वं यस्येति विग्रहो दर्शयितव्य इति ॥ ६ ॥ __________टिप्पणी__________ [६०९] र्व (ङा) ___________________________ सिध्यतु वा प्रत्यक्षलक्षणोक्तेरनुमानादीनां तत्पूर्वकत्वम् । यस्त्वेषामवान्तरलक्षणभेदः स्वरूपं च, संख्या चेयन्ति प्रमाणानीति, तत्सर्वं न सिध्यतीत्याह न चेति ॥ ७ ॥ स्यान्मतं प्रसिद्धान्येवानुमानादीनि प्रमाणानि, किममीषां लक्षणकरणेनेति । तत्प्रत्यक्षेऽपि समानमित्याह प्रसिद्धत्वादिति । अतो बहुषु प्रमाणेषु यदेकलक्षणकरणं तदन्यपरिसंख्यार्थमेव स्यात् । तदेतदाह तेनान्येति सूत्रमन्तेन । अभिमतप्रमाणपरिसंख्यानं चायुक्तमिति भावः । मूढेन वा जैमिनिना प्रत्यक्षमात्रं लक्षितमित्यभ्युपगन्तव्यमापद्येत । एवं चात्मीयमज्ञानमृषेरारोपितं भवेदित्याह मूढेन वेति नान्तेन । अपि च वाक्यभेदो नामागत्या क्वचिदाश्रीयते यथाग्नयश्च स्वकालत्वातित्यत्र वक्ष्यते । न चेह सूत्रे किञ्चिदनुपपन्नं दृश्यते यद्भित्त्वा व्याख्यायत इत्याह सम्भवतीति ॥ ९ ॥ लक्षणमप्येतदतिव्याप्तेरयुक्तमित्याह न चापीति । अतिव्याप्तिमेव दर्शयति तदभासेष्विति । सर्वे हि मृगतृष्णादिविभ्रमाः{१,२०७}सूर्यरश्मितप्तोषरादिसंयुक्तनयनजन्याः । संशयाश्च स्थाण्वादिसंयुक्तनयनजन्मान इति प्रत्यक्षतामश्नुवीरन् । सेयमतिव्याप्तिरिति । अल्पं चेदमस्माभिरुक्तं तदाभासेषु तुल्यत्वादिति । एकं तु स्वप्नज्ञानं वर्जयित्वा सकलप्रमाणाप्रमाणसजातीयविजातीयज्ञानमात्रसाधारणमिदं लक्षणमित्याह स्वप्नेति । लिङ्गशब्दसदृशादिसम्बद्धेष्वेवेन्द्रियेष्वनुमानादिप्रमाणपञ्चकोत्पत्तिरिति भावः ॥ १० ॥ स्वप्नज्ञानवर्जने कारणमाह तद्धीति । बाह्येन्द्रियसम्प्रयोगाभावाभिप्रायेण चेदमुक्तम् । स्वप्ने त्वात्ममनोदेहैः सङ्गतिरस्त्येवेति तदप्यनेन लक्षणेन व्याप्यत इति दर्शयितव्यमिति । स्वप्नज्ञानातिरिक्तं तु यत्किञ्चिद्भ्रान्त्यादि, तत्केनचित्सम्प्रयोगे सत्येव जायत इति प्रत्यक्षमापद्येतेत्याह केनचिदिति । यथा केनचित्सम्प्रयोगे भ्रान्त्यादिर्भवति, तथा पूर्वमेवास्माभिर्विवृतम् । आदिशब्देन प्रमाणसंशययोरुपादानमिति ॥ ११ ॥ ननु केनचित्सम्प्रयोगमात्रं न प्रत्यक्षकारणमभिप्रेतम् । अपि तर्हि ग्राह्येण । न च भ्रान्त्यादयो ग्राह्यसंयुक्तनयनस्य जायन्ते । किं तर्हि । अन्यसंयुक्तेन्द्रियस्यान्यार्थविषयाः । न चेदं ग्राह्यविशेषणमस्माभिरेव केवलमाश्रितम् । अपि तु वृत्तिकारेणापि प्रत्यक्षलक्षणपरं सूत्रं व्याचक्षाणेन । तन्मतं च भवद्भिरुपरिष्टाद्वक्ष्यत एवेति नावयोर्विशेषमुपलभामहे, अत आह ग्राह्येणेति । अयमभिप्रायः सत्यमभिमतं विशेषणं भवतोऽपि । तत्त्वनुपात्तं न लभ्यते । वृत्तिकारमते तु व्यत्यस्तेन तद्वृत्तेन तदुपादास्यते । {१,२०८} यदाभासं हि विज्ञानं तत्संयोगे तदिष्यते । इति वक्ष्यते । अतो भवन्मते ग्राह्यविशेषणानुपादानाद्ग्राह्यसम्प्रयोगजमन्यसम्प्रयोगजं वा ज्ञानं प्रत्यक्षमापद्येत । अतोऽस्ति महान् वक्ष्यमाणेन विशेष इति ॥ १२ ॥ यत एव यथावस्थितमिदं सूत्रं न प्रत्यक्षं लक्षयितुं क्षमते, अत एव वृत्तिकारेणापि प्रासङ्गिकलक्षणकरणे व्यत्ययेन पठितमित्याह असामर्थ्यं चेति ॥ १३ ॥ प्रकृतमतिव्यापकत्वं लक्षणस्योपसंहरति तेनेति ॥ १४ ॥ पर इदानीं सत्सम्प्रयोगविशेषणोपादानसामर्थ्यादेव ग्राह्यविशेषणाक्षेपं मन्वानः प्रत्यवतिष्ठते, तदाह सत्सम्प्रयोगनिर्देश इति । एवं हि मन्यते सम्भवव्यभिचारौ हि विशेषणकरावुभौ तद्यदि सम्प्रयोगमात्रजं ज्ञानं सूत्रकारस्याभिमतमभविष्यत्, तदा विशेषणोपादानमनर्थकमापत्स्य(?त्त ।) न ह्यसम्प्रयोगजं प्रमाणमप्रमाणं वा ज्ञानमस्ति । अतो विशेषणोपादानसामर्थ्यादेव ग्राह्यविशेषणमवगम्यते । अतो न किञ्चिद्दोक्ष्यतीति । एतदेव[६१०]दूषयति एतदेव हीति । एवं हि मन्यते नैवंविधेनोत्तरेण व्युत्थितो बोधयितुं शक्यते । तस्य ह्येतदेव प्रतिपाद्यं यत्त्वन्मते[६११]विशेषणानर्थक्यं, लक्षणस्य चातिव्याप्त्यादिभिरसिद्धिरिति ॥ १५ ॥ __________टिप्पणी__________ [६१०] दपि दू [६११] ते अवयवानामानर्थ (ङा) ___________________________ उपेत्य वा ब्रूम इत्याह स्वप्नादीनामिति । उक्तमेतद्{१,२०९}बाह्येन्द्रियव्यापारादिनिरपेक्षं स्वप्नज्ञानमिति तन्मात्रं वर्जयित्वा सर्वमेव प्रत्यक्षं प्राप्नुयादिति । आदिशब्देन चादृष्टमात्रोद्बोधितसंस्कारकारणिका स्मृतिरभिप्रेतेति । तस्मादनुपात्तमेवात्र[६१२]समग्रं प्रत्यक्षलक्षणमिति न तद्विधातुमनुवदितुं वा शक्यमित्याह तस्मादिति । यत्प्रत्यक्षं तदेवंलक्षणकम्[६१३]इति लक्षणविधिः । यदेवंलक्षणकं[६१४]तत्प्रत्यक्षमिति लक्षणानुवादः । न चानुक्तोऽर्थो विध्यनुवादभाग्भवति, उभयोरपि साधारणत्वादभिधानस्येति ॥ १६ ॥ __________टिप्पणी__________ [६१२] व स [६१३] णमि ___________________________ [६१४] णं त (ङा) ___________________________ एवं लक्षणपरतां प्रत्याख्यायानभिमतवचनव्यक्तिनिराकरणपुरस्सरमभिमतां सूत्रस्य वचोभङ्गिमाह तेनेति द्वाभ्याम् । एतदुक्तं भवति यदेवंलक्षणकं तत्प्रत्यक्षमिति नैष सूत्रार्थः । किं तर्हि । यल्लोकप्रसिद्धं प्रत्यक्षं तस्य सत्सम्प्रयोगजत्वं नाम धर्मोऽस्ति । तद्धर्मकत्वाच्च विद्यमानोपलम्भनत्वं भवति । ततश्च भविष्यत्यविद्यमाने धर्मेऽनिमित्ततेति ॥ १८ ॥ ननु शाबरेऽपि प्रत्यक्षमनिमित्तम्, एवं लक्षणकं हि तदित्युच्यते । तदलक्षणपरत्वे सूत्रस्यानुपपन्नमत आह एवमिति । अयमभिप्रायः शाबरा अपि ये लोकप्रसिद्धलक्षणानुवादेनानिमित्तत्वं विदधति तानपि न मृष्यामहे, सम्पूर्णलक्षणाभिधाने सूत्रस्याशक्तेः । अतो लक्षणोक्तिरिह लिङ्गविवक्षयैव । यथा धूमो लक्षणमग्नेः, एवं विद्यमानोपलम्भनत्वमनिमित्तत्वस्य । लक्ष्यते हि तत्तेनेति भाष्यकारस्याभिमतमिति ॥ १९ ॥ {१,२१०} यल्लिङ्गं यस्य च, तदुभयमपि व्यनक्ति यत इति । विद्यमानोपलम्भनत्वं नाम धर्मो लिङ्गम् । अनिमित्तता तु लिङ्गि । यदि तु तल्लिङ्गमसिद्धमिति कश्चिद्ब्रूयात्, तं प्रति सत्सम्प्रयोगजत्वहेत्वन्तरप्रसिद्धेन तेनानिमित्तताधिगन्तव्येति प्रसिद्धेनेत्युक्तमिति ॥ २० ॥ कुतः पुनर्हेत्वन्तरस्यैव प्रसिद्धिः, अत आह प्रत्यक्षत्वमिति । एतदुक्तं भवति त्रय एते प्रयोगाः प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् । विद्यमानोपलम्भनत्वं च सत्सम्प्रयोगजत्वात् । सत्सम्प्रयोगजत्वं च प्रत्यक्षत्वात् । अत्र च विद्यमानोपलम्भनत्वस्य व्यक्तमेव पञ्चम्या हेतुत्वमुपात्तम् । इतरयोस्तूपादानेनैव हेतुत्वं सूत्रितमिति द्रष्टव्यमिति । अयं च प्रत्यक्षं यज्जने सिद्धमित्यस्यैव प्रपञ्चो वेदितव्यः । तथा हि तत्रैव विद्यमानोपलम्भनत्वादनिमित्तत्वम्, एवंधर्मकत्वोपात्तसत्सम्प्रयोगजत्वाद्विद्यमानोपलम्भनत्वं, प्रत्यक्षं यज्जन इति च प्रत्यक्षत्वाद् एवंधर्मकत्वमुक्तम् । इदं हि तत्राकूतं प्रत्यक्षं सदेवंधर्मकं भवतीति । इदं त्विह वक्तव्यम् । किमनया प्रयोगप्रपञ्चरचनया । विमतिपदास्पदं हि प्रत्यक्षमनिमितं प्रत्यक्षत्वादित्येतावतापीष्टं सिध्यत्येव । तत्तु शुष्कतर्कहेतोरुद्भावकत्वान्न तथाश्रितमिति समाधातव्यम् । एवं हि श्रुतिसाधारण्यमात्रेणानिमित्तत्वमुक्तमिति मन्वीरन् । न च श्रुतिसामान्यमात्रेणैव सर्वसाधर्म्यं भवति । न हि भवति गोपदास्पदं वागिति विषाणवती । विद्यमानोपलम्भनत्वादनिमित्तत्वमुच्यमानं चित्तं भावयति । कथं च[६१५]विद्यमानोपलम्भनमनागते निमित्तं भवति । कथं च सत्सम्प्रयोगजमविद्यमानोपलम्भनम् । वर्तमानसम्प्रयोगजं हि सत्सम्प्रयोगजमभिधीयते, सच्छब्दस्य वर्तमानवचनत्वात् । न चानागतेन धर्मेण वर्तमानः सम्प्रयोगः सम्भवति । सम्बन्धिद्वयाधारो हि सम्बन्धः । नासावन्यतरस्मिन्नवर्तमाने वर्तत इति युक्तमभिधातुम् । एवं प्रत्यक्षशब्दोऽपि प्रत्युत्पन्नेन्द्रियसम्प्रयोगाधीनवृत्तिर्नावर्तमानसम्प्रयोगजे वर्तितुमर्हतीति युक्तं क्रमाभिधानम् । प्रपञ्चरूचयश्च मीमांसका इति युक्तं प्रपञ्चाभिधानम् ॥ __________टिप्पणी__________ [६१५] हि (ङा) ___________________________ {१,२११} इदं तु वाच्यम् अनैकान्तिकं सत्सम्प्रयोगजत्वं विद्यमानोपलम्भनत्वे । सत्येव हि नदीपूरनयनसन्निकर्षे अतीता[६१६]दिवृष्टिविज्ञानं भवति । वर्तमान एव च मेघचक्षुस्सन्निकर्षो भविष्यद्वृष्टिविषयं विज्ञानं जनयति । अतो नायमेकान्तः यत्सत्सम्प्रयोगजं ज्ञानं विद्यमानोपलम्भनमिति । अपि च अपरोक्षनिर्भासमपि ज्ञानं वर्तमानसम्प्रयोगजमविद्यमानविषयं दृष्टम् । भवति हि वर्तमाने शुक्तिनयनसन्निकर्षेऽतीतानागतव्यवहितरजतावग्रहः । उक्तं च भवद्भिरपि भवदासदूषणावसरे सकलप्रमाणाप्रमाणज्ञानसाधारण्यं सत्सम्प्रयोगजत्वस्य । स्यान्मतम् न तावदतीतानागतगोचरमनुमानं सत्सम्प्रयोगेण जन्यते, अविदितास्मृतव्याप्तेरभावात् । अस्ति हि तस्यापि नदीपूरजलदचक्षुस्सन्निकर्षः । न चातीतानागतवृष्टिपरिचयो भवति । शुक्तिरजतवेदनेऽपि पुरोवर्तिद्रव्यग्रहण एव सन्निकर्षः कारणम् । रजतानुभवस्तु दोषसाहाय्यात्प्राचीनज्ञानजन्मनः संस्काराद्यत्कारणं सन्निकृष्यते खल्वस्य नानार्थैरिन्द्रियम् । न चासत्सु दोषेष्वविद्यमानप्रकाशनमुपकल्पयति । अतो विषयादिदोषान्वयव्यतिरेकानुविधायिनो विभ्रमास्तमेव स्वात्मनि कारणीकारयन्तीति । तन्न । कारणकारणस्यापि कारणत्वानपायात् । शुक्ति[६१७]नयनसन्निकर्ष एव हि संस्कारोद्बोधे कारणं भ्रान्तौ । अनुमाने च लिङ्गसन्निकर्षो व्याप्तिस्मरणे । अतः शक्यं तदुभयमपि परम्परया सत्सम्प्रयोगजमिति वक्तुम् । अविशेषितं चेह सत्सम्प्रयोगजत्वमात्रं हेतुरुक्तः । अतो दुष्परिहरमनैकान्तिकत्वं तादृशस्य । __________टिप्पणी__________ [६१६] तवृ (ङा) [६१७] क्तिस ___________________________ अत्रोच्यते उक्तमिदं लोकप्रसिद्धस्य प्रत्यक्षस्यायं धर्मः यत्सत्सम्प्रयोगजत्वं नाम विद्यमानोपलम्भनत्वसिद्धौ हेतुरुक्तः । लोके च ग्राह्येणैव सति सम्प्रयोगे प्रत्यक्षमिति सिद्धम् । न ह्य्[६१८]अन्यसम्प्रयुक्तचक्षुषोऽन्यत्प्रत्यक्षमिति दृष्टम् । तदिह ग्राह्येणैव वर्तमानसम्प्रयोगजत्वं विद्यमानोपलम्भनत्वे हेतुरुक्तः । न च तदनुमानादिषु सम्भवति । न हि तत्र ग्राह्येण वृष्ट्यादिनेन्द्रियसन्निकर्षो वर्तते । लक्षणपक्षे तु यावच्छ्रुतमात्रपरतन्त्रत्वादापद्येतैव भ्रान्त्यादि प्रत्यक्षम् । तत्रापि तु लोकपारतन्त्र्ये वृथा लक्षण[६१९]करणमिति । ननु प्रत्यक्षम् अनिमित्तं विद्यमानोपलम्भनत्वादित्यत्र को दृष्टान्तः ।{१,२१२}यदि प्रत्यक्षमेव, तन्न । पक्षसपक्षयोरभेदापातात् । तच्चायुक्तं सिद्धसाध्ययोर्भेदात् । साध्यो हि पक्षः सिद्धश्च सपक्षः । न चैकमेव सिद्धसाध्यस्वभावमित्युपपद्यते । सिद्धं चास्मदादिप्रत्यक्षस्य धर्मेऽनिमित्तत्वं, किं[६२०]तत्साधनेन । अत आह अस्मदादाविति । अयमभिप्रायः प्रत्यक्षविशेषं पक्षीकृत्य प्रत्यक्षान्तरं सपक्षीक्रियते इति न पक्षसपक्षयोरेकता । नापि सिद्धसाध्यतेति ॥ २१ ॥ __________टिप्पणी__________ [६१८] न्यत्सम्प्रयुक्तमन्यत्प्र (Kआ) [६१९] णमिति (ङा) [६२०] तत्र सा (ङा) ___________________________ एवं स्वमतेन सूत्रं व्याख्यायेदानीं परपक्षोक्तान् दोषानिह परिहरति प्रकृतेनेति । परपक्षे हि प्रकृतासङ्गतिरुक्ता । सेह नास्ति । चोदनैव प्रमाणमिति हि प्रतिज्ञातम् । तच्च प्रत्यक्षानिमित्तत्वप्रतिपादनेनैव[६२१] शेषाणामप्यनुमानादीनामप्रामाण्यदर्शनेनावधारितरूपं सिध्यतीति । कथं पुनः प्रत्यक्षानिमित्तत्वे सत्यनुमानादीनामप्यनिमित्तत्वम् । न हि प्रत्यक्षमनागतातिवृत्तयोरसमर्थमित्यनुमानेनापि[६२२]तथा भवितव्यम् । मेघोन्नतिनदीपूराभ्यामनागतातिवृत्ताया वृष्टेरननुमानप्रसङ्गादत आह तदिति । अयमभिप्रायः व्याप्तिसंवेदनाधीनजन्मत्वादनुमानस्य नित्यपरोक्षेण च धर्मेण व्याप्तिसंवेदनासम्भवादनुमानोदयाभावः । न च वृष्ट्यादौ प्रसङ्गः । तेषां दृष्टपूर्वकत्वेन व्याप्तिसंवेदनोपपत्तेः । आदिशब्देन धर्मसादृश्यमुपादत्ते । एतच्चोपरिष्टात्प्रपञ्चयिष्यत एवेति ॥ २२ ॥ __________टिप्पणी__________ [६२१] न शे (Kआ) [६२२] पि भ (ङा) ___________________________ नन्वेवमपि प्रत्यक्षवदितरेषामप्यनिमित्तत्वं किं सूत्रैर्न निबद्धमत आह शक्यमिति । एकलक्षणकरणे हीतरलक्षणासिद्धेः सर्वेषां लक्षणकरणमापादितम् । अनिमित्तत्वे तु प्रत्यक्षस्योक्ते तत्पूर्वकत्वादितरेषामप्य्{१,२१३}अनिमित्तत्वं शक्यावगममिति न पृथङ्निबध्यते । यथा वक्ष्यति प्रत्यक्षद्वारत्वादनुमानादीनाम्[६२३]अप्यकारणत्वमिति । लक्षणानुपयोगे[६२४]ऽपि यः पर्यनुयोगो दत्तः, सोऽप्यत्र लक्षणानभ्युपगमादेव नास्तीत्याह न चेति ॥ २३ ॥ __________टिप्पणी__________ [६२३] मका [६२४] गेनापि (Kआ) ___________________________ तथा ग्राह्यविशेषणानुपादानादनुमानाद्यनुपसङ्ग्रहाच्च न्यूनं लक्षणं, सर्वसंविदां च सत्सम्प्रयोगेणाव्यभिचारात्सत्सम्प्रयोगनिर्देशोऽतिरिच्यत इत्याद्यपि यदुक्तं तदप्यत्र नाशङ्क्यत इत्याह न चेति । लक्षणकरणस्य हि न्यूनातिरेकादयो दोषाः नालक्षणे प्रसजन्तीति । एतद्ध्यत्र सर्वथा प्रतिपाद्यं यल्लोकप्रसिद्धं प्रत्यक्षं तदेवंधर्मकमिति । सम्पूर्णं तु प्रत्यक्षस्य स्वरूपमनेनाभिधीयतां मा वा । न नस्तत्र तात्पर्यम् । अतश्चान्यपरत्वात्सूत्रस्य लक्षणपक्षोक्ता मृगतृष्णादिसंविदामपि प्रत्यक्षता नापद्यते इत्याह सर्वथेति ॥ २५ ॥ ननु यदि लोकप्रसिद्धधर्मोपदर्शनेनानिमित्तत्वमात्रमत्र साध्यम्, एवं तर्हि प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वादित्येतावदेव वक्तव्यम् । किं सत्सम्प्रयोगजत्वाद्युपन्यासेन, अत आह अतीतेति सार्धद्वयेन । अयमर्थः सत्यमेतावताप्यनिमित्तता प्रतिपादितैव ।[६२५]किन् तु विद्यमानोपलम्भनत्वमेवासिद्धं योगिनां मुक्तात्मनां चातीतानागतादिविषयज्ञानोत्पत्तेरिति ये मन्यन्ते, तान् प्रति हेतुसिद्ध्यर्थं सत्सम्प्रयोगजत्वमपि हेत्वन्तरमुपन्यस्तं, न पुनः प्रत्यक्षस्वरूपविवक्षया । तथा विद्यमानोपलम्भनत्वादिति हेतुमभिदधता अविद्यमानो[६२६]भविष्यद्धर्मो भविष्यत्त्वादेव न प्रत्यक्षेणानुभूयत इति यो हेतुरन्तर्णीतः, तस्यापि योगिमुक्तात्मनां ग्राह्यैरर्थान्तरैर्भविष्यद्भिर्व्यभिचारिता मा भूदित्येतदर्थमपि सत्सम्प्रयोगजत्वस्योपादानम् । एतद्ध्य्{१,२१४}अनेनोच्यते सर्वमेव प्रत्यक्षं सत्येवेन्द्रियसम्प्रयोगे जायते । अतो न किञ्चिद्भविष्यद्विषयमिति नास्ति व्यभिचारः । असिद्धताव्यभिचारिते समाहृत्य मा भूतामिति द्विवचनाभिधानमिति । __________टिप्पणी__________ [६२५] ता भवति । कि [६२६] नो धर्मो (ङा) ___________________________ इदं त्विह वक्तव्यं निराकृतमेव अशक्यं हि तत्पुरुषेण ज्ञातुमृते वचनादित्यत्र योगिप्रत्यक्षस्यानागतादिविषयत्वम् । अत्र किं पुनरुपन्यासेनेति । तत्रैके वदन्ति तत्र हि वचनादृते पुरुषाणामतीन्द्रियानुभवशक्तिर्निराकृता । अत्र पुनर्वचनादेव प्रतीत्य चिरं भावयतो धर्माधर्मौ प्रत्यक्षौ भविष्यत इति प्रत्यवस्थानं निराक्रियत इति । तदयुक्तम् । सर्वं हि तदनागतावेक्षणेन भाष्यवार्त्तिककाराभ्यामुक्तम्, इहैव सूत्रकारेण स्वयमुक्तत्वात् । न चैष परेषामपि सिद्धान्तः यदकस्मादेव बुद्धस्य[६२७]वान्यस्य वा तद्भूमिमधिरूढस्याजातातिवृत्तप्रत्युत्पन्नसूक्ष्मव्यवहितविप्रकृष्टादयः साक्षाद्भावा भासन्त इति । अपि तर्हि आगमादेव सामान्यतो विदितान् धर्मांश्चिरं भावयतः स्फुटमविकल्पकाश्च प्रकाशन्त इति । भावनाबलजमेव ज्ञानं दिव्यं चक्षुरित्याचक्षते । यत्तु भौतिकेनैव चक्षुषा सर्वमपरोक्षीक्रियत इति, तदतिस्थवीयः । प्रौढिप्रदर्शनपरतया तैरुक्तम् । तादृशमपि चात्रैव निराकार्यम्, इहैव सूत्रकारेण निराकृतत्वात् । तस्मादत्रत्यमेवानागतावेक्षणेन तत्रोक्तमित्युक्तमेव । ननु च पूर्वपूर्वहेत्वसिद्ध्याशङ्कयोत्तरोत्तरहेतुप्रदर्शनमिति यतोऽस्ति तत्र धर्मोऽयमित्यादिना प्रत्यक्षत्वमदोहेतुरित्येवमन्तेनोक्तमिति गतार्थमिदम् । __________टिप्पणी__________ [६२७] स्यान्य (ङा) ___________________________ अत्रोच्यते प्रत्यवस्थानबीजमिदानीं परेषामभिधीयते । अविद्यमानोपलम्भनमेव हि योगजधर्मबलेन योगिनां प्रत्यक्षमिति हि ते प्रतिपन्नाः । अत एव अतीतानागतेऽप्यर्थे इत्यादिना हेत्वसिद्धिबीजमुपदर्शितम् । पूर्वं त्वसिद्ध्याशङ्कया हेतुक्रमाश्रयणमित्येतावदेवोक्तम् । कथमसिद्धिरित्यत्र न किञ्चिदुक्तम् । योग्यर्थमभिधीयते इत्यत्रापि योगिनामतिशयविशेषोऽन्तर्णीतः । स एव अतीतानागतेत्यादिना प्रकटीकृतः । कः{१,२१५}पुनरतीतानागतादिविषयत्वे प्रत्यक्षस्य तेषामभिप्रायः । श्रूयताम् । एवं हि मन्यन्ते यद्विद्यमानोपलम्भनमस्मदादिप्रत्यक्षं तेन मा नाम धर्मोऽनुभूयताम् । भावनाबलभुवा तु सकलातीता[६२८]नाग तादिविषयेण किं नानुभूयते । तदसिद्धेरनुपपन्नमिति चेत् । न । अनुमानादुपपत्तेः । तत्रैतत्स्याद् न तस्य भावनाबलभुवः प्रत्यक्षस्यास्मदादावदृष्टचरस्य सद्भावे किञ्चन प्रमाणमस्तीति । तच्च न । एवमनुमानादुपपत्तेः । विजातीयान्तरायपरिहारेण भाव्यमानेषु भावेषु[६२९]प्रज्ञाप्रसादादतिशयो दृश्यते । तथा हि किमन्यत् । इह खलु नितान्तदुरधिगममात्मानमेव निर्धूतनिखिलकायकरणोपरागोपप्लवं विगलितसकलमितिमातृमेयमानविभागोद्ग्राहमयम्[६३०]अहमिति विशदतरमवलोकयन्ते कृतिनः केचिदिति वेदान्तवादिनो वदन्ति । न हि तदस्मदादिवेद्यं नेति योगिनोऽपि न बुध्यन्ते । तद्वद्वा वयमपि विजानीमः । भवति चात्र कारणप्रकर्षो हि कार्यप्रकर्षेण व्याप्तो दृष्टः चित्रकारादिशिल्पप्रकर्ष इव चित्रादिकर्मप्रकर्षेण । प्रकृष्यते च कस्यचिद्योगिनो भावनाबलभुवः प्रत्यक्षस्य कारणमिति स्वभावहेतुः । अथापि स्यात्कुतः कारणप्रकर्षोऽवगम्यत इति । स्वभावहेतोरेव । यो यदभिनिविशमानोऽभ्यस्यति स तस्य प्रकर्षकाष्ठामासादयति चित्रकारस्येव शिल्पम् । अभ्यस्यति च कश्चिदवहितो ध्यानमिति साध्यान्वितहेतुप्रदर्शनम् । अतो ध्यानप्रकर्षात्तद्बलभुवो ज्ञानस्य प्रकर्षः । कश्च ज्ञानस्यापरः प्रकर्षः स्फुटाविकल्पकप्रकाशात् । यथाहुः __________टिप्पणी__________ [६२८] तादि (ङा) [६२९] प्रतिज्ञा (Kआ) [६३०] यमि (ङा) ___________________________ तस्माद्भूतमभूतं वा यद्यदेवातिभाव्यते । भावनाबलनिष्पत्तौ तत्स्फुटाकल्पधीः फलम् ॥ इति । ननु जीवनाय शिल्पिनां शिल्पाभ्यासो युक्तः । न तु ध्यानाभ्यासस्य किञ्चिन्निबन्धनमस्ति । कथं नास्ति । करुणा हि ध्यानाभ्यासे निबन्धनम् । कश्चित्खलु भवान्तरीयात्संस्कारात्कारुणिको भवति ।{१,२१६}स करुणामेवाभिनिविशते । अभ्यासातिशयाच्च सा तस्य प्रकर्षकाष्ठामासादयति । स काष्ठाप्राप्तप्रकर्षकरुणो दुःखोत्तरान् संसारिणो दृष्ट्वा दूरं दूयमानमानसश्चिन्तयति कथमेतानुद्धरेयमिति । ततः स पुरुषार्थसाधनमन्विच्छन् ध्यानाय प्रयस्यति । ततश्चिराभ्यासान्निष्पन्नध्यानो धर्माधर्मावप्यपरोक्षमीक्षते । अन्यन्मतं संसारिणो हीन्द्रियाधीनज्ञानजन्मानः । प्राग्भवीयक[६३१]र्मार्जितदेहेन्द्रिया हि ते । अतो युक्तं यद्देहेन्द्रियानुविधायिसंवेदना भवन्तीति । यदा पुनरमी योगाभ्यासादेव प्रक्षीणनिखिलज्ञानकर्माशया भवन्ति, तदा देहेन्द्रियैर्विमुच्यन्ते । तदा नियामकाभावात्स्वयं च प्रकाशस्वभावत्वात्सर्वमतीतादि बुध्यन्ते । अतस्तान् प्रति विद्यमानोपलम्भनत्वमसिद्धमिति तत्प्रतिबोधनाय लोकप्रसिद्धं सदित्याद्ययं जैमिनिराहेति । तानिन्दानीं प्रतिबोधयति न लोकव्यतिरिक्तमिति । अयमर्थः तेषामपि प्रत्यक्षं न लोकोत्तरं भवितुमर्हतीति ॥ २८ ॥ __________टिप्पणी__________ [६३१] ध ___________________________ अत्र कारणमाह प्रत्यक्षत्वेनेति । अयमभिप्रायः तद्योगिनां ज्ञानं प्रत्यक्षं नवा । यद्यप्रत्यक्षं न तर्हि प्रमाणं, प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानभ्युपगमादनुमानलक्षणाभावाच्च । न चाप्रमाणमर्थव्यवस्थापनायालम् । अतः किं तदभ्युपगमेन । अथ प्रत्यक्षम्, अन्वर्थत्वात्प्रत्यक्षशब्दस्य अवश्यमेव तेनेन्द्रियजन्मना भवितव्यम् । न ह्यनिन्द्रियजं प्रत्यक्षमिति लौकिकानामुपचारो दृश्यते । ननु नेन्द्रियजत्वं प्रत्यक्षलक्षणम्, अपि तर्हि, कल्पनापोढमभ्रान्तं प्रत्यक्षमिति । अभिलापसंसर्गयोग्यप्रतिभासाप्रतीतिः कल्पना । तया रहितं तिमिराशुभ्रमणनौयानसंक्षोभणाद्यनाहितविभ्रममभ्रान्तं ज्ञानं प्रत्यक्षमिति । इदं च लक्षणं योगिनामपि ज्ञानं व्याप्नोत्येव । तद्[६३२]धि निर्विकल्पकमभ्रान्तम् । अत एव प्रत्यक्षं चतुर्धा विभजन्ते तच्चतुर्विधमिन्द्रियजमिन्द्रियजसमनन्तरप्रत्ययोद्भवं मानसं सर्वचित्तचैत्तानामात्मसंवेदनं योगिज्ञानं चेति । यदि हीन्द्रियजत्वमेव प्रत्यक्षलक्षणं स्यात्, त्रितयमप्रत्यक्षं स्यात् । मानसं च मीमांसकैरपि प्रत्यक्षमिष्यत एव । अतः सर्वानुगतापरोक्षावभासित्वमात्रवचन एव प्रत्यक्षशब्दो{१,२१७}निश्चीयते । यथा गमेर्डोरिति डोप्रत्ययान्तो व्युत्पादितो गोशब्दोऽगच्छत्यपि प्रयोगदर्शनात्सर्वानुगतगोजातिमात्रवचनो निश्चीयते, एवं नष्टावयवार्थविभागः प्रत्यक्षशब्दोऽपरोक्षावभासिनि समुदायशक्त्यैव[६३३]वर्तत इति । तन्न । अवयवान्वयाव्यभिचारात् । अवयवान्वयव्यभिचारे हि समुदायशक्तिरात्मानं लभते । न च प्रत्यक्षशब्दवाच्यमिन्द्रियान्वयं व्यभिचरति । मानसे व्यभिचार इति चेत् । न । मनसोऽपीन्द्रियत्वात् । अथ नास्ति मनो नामेन्द्रियम्, इन्द्रियजमेव तु ज्ञानं धारावाहिकेषु सन्तन्यमानेषूत्तरक्षणग्राहिणो ज्ञानस्य कारणं मन इति गीयते । उत्तरं च मानसमिति । तदयुक्तम् । अतीते हीन्द्रियज[६३४]ज्ञान उत्तरक्षणोऽनुभूयते । स कथमसम्बद्धेन तेनावभासयितुं शक्यते । अक्षवदिति चेद्, न । प्राप्यकारित्वस्याक्षाणामिहैव वक्ष्यमाणत्वात् । अतो द्वितीयक्षणग्रहणम्[६३५]अपीन्द्रियजमेवेति नास्ति व्यभिचारः । तस्यापीन्द्रियान्वयव्यतिरेकानुविधानात् । न हि निमीलितनयनस्य रूपबुद्धिरनुवर्तमाना दृश्यते । अतोऽवयवान्वयाव्यभिचारान्न समुदायशक्तेरात्मलाभः । अतोऽनिन्द्रियजं सद्योगिनां मुक्तात्मनां वा ज्ञानं न प्रत्यक्षम् । प्रत्यक्षं सन्नियतं विद्यमानोपलम्भनम्, अप्रत्यक्षं तु प्रमाणान्तरानभ्युपगमादेव निरस्तम् । __________टिप्पणी__________ [६३२] दपि (ङा) [६३३] व प्रव (ङा) ___________________________ [६३४] जे [६३५] ग्राहिण (Kआ) ___________________________ यच्च भावनाबलं योगिज्ञानजन्मनि कारणमुक्तम् । तन्न, अवगतविषयत्वाद्भावनायाः । न चाकस्मादेवावगतेरुत्पत्तिः सम्भवति । सर्वोत्पत्तिमतां कारणवत्त्वात् । अथ प्रमाणान्तरावगतं भाव्यते किं भावनया, तत एव तत्सिद्धेः । किञ्च तत्प्रमाणं न तावदनुमानं, धर्माधर्मयोः पूर्वमग्रहणेन तद्व्याप्तलिङ्गदर्शनाभावात् । जगद्वैचित्र्यार्थापत्तेरपि किमपि कारणमस्तीत्येतावदुन्नीयते । न तु कश्चिद्विशेषः । न चानिर्दिष्टविशेषविषया भावना भवति । योगशास्त्रेष्वपि विशेषा एव ध्येयतयोपदिश्यन्ते ध्येय आत्मा प्रभुर्योऽसौ हृदये दीपवत्स्थितः इत्यादिभिः । तर्ह्यागमादवगतं भावयिष्यते । यदि प्रमाणात्, तत एवावगतेः किं भावनया । हानोपादानार्थं हि वस्तु जिज्ञास्यते । ते च तत एव सिद्धे इति व्यर्था भावना । कारुणिकोऽपि धर्मागमानेव प्रयत्नतः शिष्येभ्यो व्याचक्षीत । न भावना[६३६]परिखेदमनुभवेत् । अथ विप्रलम्भभूयिष्ठत्वादागमानां प्रमाणमागमो न वेति विचिकित्समानो भावनया जिज्ञास[६३७]ते । तन्न ।{१,२१८}ततोऽपि तदसिद्धेः । भावनाबलपरिनिष्पन्नमपि ज्ञानमनाश्वासनीयार्थमेव, अभूतस्यापि भाव्यमानस्यापरोक्षवत्प्रकाशात् । तथा तैरेवोक्तं तस्माद्भूतमभूतं वेति । __________टिप्पणी__________ [६३६] नाखे (ङा) [६३७] स्य (Kआ) ___________________________ अपि च भावनाबलजमप्रमाणं गृहीतग्रहणात् । यावदेव हि गृहीतं तावदेव हि भावनया विषयीक्रियते । मात्रयापि त्वधिकं भावनया न गोचरयति । योगाभ्यासाहितसंस्कारपाटवनिमित्ता हि स्मृतिरेव भावनेत्य्[६३८]अभिधीयते । सा च न प्रमाणमिति स्थितमेव । न च तदुत्तरकालं साक्षात्कारिज्ञानमुदेतीति प्रमाणमस्ति । इन्द्रियसन्निकर्षमन्तरेणार्थसाक्षात्कारस्य क्वचिदप्यदर्शनात् । भवति चात्र[६३९]प्रयोगः योगिनां धर्माधर्मयोरपरोक्षावभासि ज्ञानं नास्ति इन्द्रियसन्निकर्षाभावाद्, अस्मदादिवत् । यच्च कारणप्रकर्षात्कार्यप्रकर्ष इत्युक्तं, तदयुक्तम् । कारणप्रकर्षानुपपत्तेः । भावनाप्रकर्षानुपपत्तिश् च वर्णितैव प्रयोजनाभावाद्, अनालम्बनत्वादनधिकविषयत्वाच्च । न च तथाविधातिशयवतः कस्यचिदद्यत्वे दर्शनं, येन दृष्टत्वादभ्युपगम्येत । नित्यनिर्दोषवेदान्तप्रमाणके तु ब्रह्मातिशये न किञ्चिदनुपपन्नम् । तत्रापि तु नानिन्द्रियजं प्रत्यक्षमुपपद्यते । समुच्छिन्नसकलमितिमातृमेयमानप्रपञ्चा हि सावस्था । यत्रापि चाभ्यासात्प्रकर्षो दृश्यते तत्रापि स्मृतिरेव प्रकृष्यते, न पुनरभ्यासतोऽनिन्द्रियसन्निकृष्टमपि च वस्त्वपरोक्षं भवति । न ह्यभ्रान्तस्यासन्निहितमवर्तमानं च पुरःस्थितवदवभासत इत्युत्प्रेक्षितुमपि शक्यमित्यलमनेनेति । __________टिप्पणी__________ [६३८] ति गीय (ङा) [६३९] त्र यो ___________________________ ननु च शेषहेतुप्रसिद्धये प्रत्यक्षत्वं हेतुरिति पूर्वमुक्तम् । कथमिदानीं तेन विद्यमानोपलम्भनत्वं साध्यते, अत आह [६४०]सत्सम्प्रयोगजत्वमिति । अयमभिप्रायः नायं शास्त्रीयो हेतुक्रमः, येन तदतिक्रमे दोषो भवति । अतो व्याप्तिबलेन शक्यमनेनास्मदादिप्रत्यक्षवदुभयं साधयितुमिति यथेष्टाभिधानमिति ॥ २९ ॥ __________टिप्पणी__________ [६४०] सत्समिति (Kआ) ___________________________ अत्र सूत्रकारेण प्रत्यक्षत्वाभ्युपगमेन योगिप्रत्यक्षस्यानिमित्ततां प्रतिपादयता निमित्तत्वाभ्युपगमे वा न प्रत्यक्षत्वमित्यर्थादावेदितम् । तत्{१,२१९}प्रयोगद्वयेन दर्शयति तेषामिति द्वयेन । ततस्त्वेवेति । अवर्तमानविषयत्वादेवेत्यर्थः । यदि तु निराकृतस्वपक्षो बौद्धोऽप्रत्यक्षशब्दवाच्यमेव तत्प्रमाणान्तरमिति ब्रूयात्, तदर्थं प्रमाणत्वनिराकरणम् । एतच्च सूत्रकारेणैव सत्सम्प्रयोगग्रहणसामर्थ्यादेवोपात्तमिति सदित्येतेन कथ्यते इत्युक्तमिति ॥ ३०३१ ॥ अन्यन्मतं सिद्धानां खलु धर्मानुग्रहवशेनानागतादिविषया प्रतिभैव जायते । सा चाद्यत्वे क्वचिदस्मदादीनामप्युत्पद्यते यथा श्वो मे भ्रातागन्तेति । प्रायेण त्वृषीणां तज्ज्ञानमुत्पद्यत इत्यार्षमित्युच्यते । यथाहुः आर्षं सिद्धदर्शनं च धर्मेभ्यः इति । तन्निराकरोति लौकिकीति । अयमर्थः योगिनामृषीणां वा प्रतिभा नार्थनिश्चयाय प्रभवति, प्रतिभात्वादस्मदादिप्रतिभावत् । अस्मदादीनां हि विसंवादभूयिष्ठा प्रतिभोपलभ्यत इति ॥ ३२ ॥ एवं तावद्विद्यमानोपलम्भनत्वस्य हेतोरसिद्धिमाशङ्क्य सत्सम्प्रयोगजत्वादिति यदुक्तं तद्विवृतम् । इदानीं भविष्यत्त्वस्य हेतोरनैकान्तिकशङ्कानिराकरणार्थं यदुक्तं तद्विवृणोति अविद्यमानेति । अयमर्थः यदि सत्सम्प्रयोगजं प्रत्यक्षमिति नोच्येत, ततोऽविद्यमानेऽपि संयोगे योगिनां क्वचित्प्रत्यक्षं जायत इति तस्य भविष्यत्यपि धर्मे शक्तिरनिवारिता स्यात् । ततश्च भविष्यत्त्वस्य हेतोरनैकान्तिकत्वम्[६४१]इति सदित्यादि जैमिनिराहेति ॥ ३३ ॥ __________टिप्पणी__________ [६४१] त्वं स्यादिति (ङा) ___________________________ {१,२२०} ननु भविष्यत्त्वाद्धर्मो न प्रत्यक्ष इत्युच्यते, तद्यदासौ भविष्यंस्तदा मा नाम प्रत्यक्षो भवतु । यदा तु प्रवर्तते तदा किन्नाम न प्रत्यक्षेणानुभूयते, अत आह प्रत्यक्ष इति । अयमभिप्रायः अनुष्ठानार्थं हि प्रमाणमन्विष्यते । तदनुष्ठानात्प्रागेवान्वेष्यम् । न चानुष्ठानात्प्राग्धर्मोऽस्तीति कथं प्रत्यक्षो भवेदिति । किमिदानीमन्येनानुष्ठितो विद्यमानः प्रत्यक्षो[६४२]धर्मः नेत्याह अनुष्ठित इति । न प्रत्यक्ष इति सम्बन्ध इति । अत्र कारणमाह फलसाधनरूपेणेति । भवेदेतदेवं यदि द्रव्यादयः स्वरूपेण धर्मा भवेयुः । फलसाधनरूपेण चैते धर्मा इति ताद्रूप्येण च धर्मत्वमित्यत्रोक्तम् । तच्च रूपमनुष्ठानकाले नास्ति । आमुष्मिकफलेष्वत्र फलस्याभावात् । ऐहिकफलेष्वपि चिरेण । निरन्तरयोर्हि साध्यसाधनयोः साधनं प्रत्यक्षं भवति मर्दनसुखयोरिव । इह तु फलकाले साधनं चिरातिवृत्तं, साधनकाले फलमजातमिति न फलसाधनं प्रत्यक्षम् । शक्तिस्तु सर्वभावानां नित्यपरोक्षैव । तेन न तद्विशिष्टो धर्मः प्रत्यक्षो भवतीति ॥ ३४ ॥ __________टिप्पणी__________ [६४२] क्षो ने (ङा) ___________________________ प्रकृतमिदानीं विद्यमानोपलम्भनत्वेन प्रत्यक्षस्य धर्मेऽनिमित्तत्वमुपसंहरति अस्मद्[६४३]इति धर्मेन्तेन । ध्यायिनां प्रत्यक्षं विद्यमानोपलम्भनं सद्धर्मे न प्रमाणमस्मत्प्रत्यक्षवत् । वक्ष्यमाणहेत्वपेक्षया चशब्दः । नेष्यत इति वक्ष्यमाणेन सम्बन्ध इति । अयं च सूत्रकारेणोपपत्तिक्रमोक्त्या सर्वेषां चित्तं भावयितुं[६४४]हेतुक्रमो दर्शितः । शक्यते च प्रत्यक्षत्वमात्रेणैवानिमित्तता साधयितुमित्याह प्रत्यक्षत्वादिति ॥ ३५ ॥ __________टिप्पणी__________ [६४३] स्मत्प्रत्यक्षवदि [६४४] तुं क्र (Kआ) ___________________________ एवं सूत्रतात्पर्यं व्याख्यायेदानीमवयवाननुसन्धत्ते । तत्रापि{१,२२१}सच्छब्दमादौ चिन्तयति । अत्र भिक्षुणोक्तं सद्विशेषणमनर्थकम्, असता सम्प्रयोगाभावेनाव्यभिचारात् । यथोक्तं सदित्यसद्व्युदासाय न नियोगात्स गंस्यते । सम्प्रयोगो हि नियमात्सत एवोपपद्यते ॥ इति । एतदनभ्युपगमेन निराकृत्य कर्मधारयसमासमेव दर्शयति अविद्यमानेति । अस्यार्थः नायमर्थः सूत्रस्य सता सम्प्रयोगः सत्सम्प्रयोग इति । किं तर्हि । संश्चासौ सम्प्रयोगश्चेति कर्मधारयोऽयम् । सच्छब्दश्च विद्यमानवचनः । तदयमर्थो भवति विद्यमानसम्प्रयोगजं प्रत्यक्षमिति । ततश्च यत्तेषामविद्यमानेऽर्थे इत्यादिना योगिज्ञानस्य प्रत्यक्षत्वनिराकरणमुक्तं तदेवं लभ्यते । वर्तमानार्थवाचिनो हि सच्छब्दस्यासद्[६४५]व्युदासः । स कथमसति तस्मिन् सिध्येत् । अयं च सूत्रार्थः सतीन्द्रियार्थसम्बन्धे इति व्याचक्षाणेन भाष्यकारेणोक्त इति द्रष्टव्यमिति ॥ ३६ ॥ __________टिप्पणी__________ [६४५] सौ प्रसादः । स (ङा) ___________________________ नन्वयमर्थो निमित्तसप्तम्यैवात्र लभ्यते । न ह्यसत्सम्प्रयोगो निमित्तं भवति । अत आह ससम्येति । अयमभिप्रायः सत्यमवर्तमानः सम्प्रयोगो नाक्षजे ज्ञाने कारणम् । अपि तु तमपि केचित्कारणतया मन्यन्ते । तदिह सम्प्रयोग इत्येतावति श्रुते सति भाविन्यतीते चेति यथेष्टं कल्पयेयुः । अतस्तत्कल्पनानिराकरणार्थं व्यक्तमेव जैमिनिना सद्विशेषणमुपात्तमिति ॥ ३७ ॥ व्याख्यातः सच्छब्दः । संशब्दमिदानीमनुसन्धत्ते सम्यगिति । सम्यक्प्रयोगः सम्प्रयोगः । तेन दुष्प्रयोगो निवारितो बह्वतीति । आह विशेक्ष्यति भवान् समा प्रयोगं, प्रयोगमेव[६४६]तावदादौ भवान् व्याकुरुतामत आह प्रयोग इति । रूपादिसंवित्कार्योन्नेयमिन्द्रियाणां व्यापारं प्रयोगापरपर्यायमाचक्षत इति ॥ ३८ ॥ __________टिप्पणी__________ [६४६] वादौ व्या (Kआ) ___________________________ {१,२२२} कः पुनरत्र दुष्प्रयोगः यः संशब्देन व्यावर्त्यते, अत आह दुष्टत्वादिति । कथं पुनरसौ दुष्टः । प्रयोगस्य ह्यत्यासत्त्यादयो दोषाः । न च ते शुक्तिसम्प्रयुक्तचक्षुषो भ्राम्यतो दोषा भवन्ति । विषय एव तु तत्र सादृश्यदूषितो विपरीतख्यातिहेतुः । अत आह रजतेक्षणादिति । अयमभिप्रायः ज्ञानकारणं हि सम्प्रयोगः स दुष्टोऽन्यदन्यात्मना भासयति, कारणदोषाविनाभावात्कार्यदोषस्य । अदुष्टस्तु सम्यग्ज्ञानं जनयति । सर्वकारणदोषाभावेन च तस्य सम्यक्त्वं भवति । यदा पुनरिन्द्रियार्थयोरन्यतरदपि दुष्यति, तदा तदाश्रितः संयोगोऽपि दुष्टो भवति । अतः संयोगस्य स्वदोषा अत्यासत्त्यादयो विषयदोषाश्च सादृश्यादयो दूषका भवन्ति । तदिह शुक्तौ रजतमिति गृह्यमाणायां कार्यदोषात्शुक्तिकायोगो दुष्ट इत्यवगम्यते । अतोऽसौ सम्यगर्थवाचिना संशब्देन वार्यत इति । एवञ्चावयवव्याख्यायामाश्रीयमाणायां लोकसिद्धलक्षणानुवादेनाप्यनिमित्तत्वविधिर्न दुष्यतीत्याह एवमिति ॥ ३९ ॥ तथा यदपि बौद्धैः प्राप्तिवचनं प्रयोगशब्दं मन्वानैः श्रोत्रचक्षुषोरप्राप्यकारित्वादव्यापकं लक्षणमित्युक्तं, तदपि व्यापारमात्रवचनं प्रयोगशब्दं व्याचक्षाणैरस्माभिः परिहृतमित्याह ततश्चेति । व्यापारमात्रवाचित्वादविरुद्धमित्युपरितनेन सम्बन्ध इति ॥ ४० ॥ श्रोत्रचक्षुषोरप्राप्यकारित्वे बौद्धानामभिप्रायमाह प्राप्येति नोन्तेन । एवं हि तैरुक्तं सान्तरग्रहणं न स्यात्प्राप्तौ ज्ञानेऽधिकस्य च । इति । यदि चक्षुश्श्रोत्रे विषयं प्राप्य गृह्णीतः, यदिदं दूरे शब्दो दूरेऽर्थ इति सान्तरग्रहणं यच्च सुमहतां महीमहीधरादीनामधिष्ठानाधिकपरिमाणानां{१,२२३}ग्रहणं तत्किलोभयमपि न स्यात्, प्राप्यकारिषु त्वगादिष्वदर्शनात् । तदेतदुक्तं भवति यत्प्राप्यकारि न तत्सान्तरमधिकं च वेदयति, यथा कायः न च तथा श्रोत्रचक्षुषी इत्यावीतहेतुः । उपालम्भे किलशब्दः । उभयस्यापि समाधास्यमानत्वादिति । आर्जवावस्थानं वा सम्प्रयोगोऽभिमत इत्याह यदि वेति । आर्जवावस्थितस्य हि रूपादिज्ञानमुत्पद्यते । तत्रैव सम्प्रयोगशब्दोपचारः । त्वगादिषु सम्प्रयोगशब्दार्थो ज्ञानहेतुरुपलब्धः । तदिदमार्जवावस्थानमपि तद्धेतुतया तथा व्यपदिश्यते । एवमेव व्यापारेऽपि दर्शयितव्यमिति ॥ ४१४२ ॥ कार्यलक्षितयोग्यतालक्षणो वा यः शब्दार्थयोरिव रूपादिचक्षुराद्योः सम्बन्धः सम्प्रयोग इत्याह योग्यतेति । अथवास्तु साङ्ख्यादिसिद्धान्तसिद्धः प्राप्तिरूप एव सम्बन्धः । नात्रापि किञ्चिद्दुष्यतीत्याह साङ्ख्यादीनिति । निर्जित्य हि साङ्ख्यादीन् प्राप्तिपक्षोऽत्र दूष्यते । न च ते निर्जेतुं शक्याः । अप्राप्यकारिपक्षे हि सूक्ष्मव्यवहितविप्रकृष्टादीनामप्राप्तत्वाविशेषेण ग्रहणप्रसङ्गादिति भावः ॥ ४३ ॥ अनुमानेनापि श्रोत्रचक्षुषोः प्राप्यकारित्वमवगम्यते इत्याह तयोरिति । तयोः श्रोत्रचक्षुषोरित्यर्थः । चक्षुश्श्रोत्रे प्राप्यकारिणी, बाह्येन्द्रियत्वात्त्वगिन्द्रियवदिति । ननु च कर्णशष्कुली चक्षुर्गोलकं च शरीरस्थमेवोपलभ्यते, कथं तत्प्राप्यकारीत्युच्यते । तदेतदेतेषां तावत्प्राप्यकारिवादिनां साङ्ख्यानां मतेन समादधाति केचिदिति । एवं हि साङ्ख्या मन्यन्ते आहङ्कारिकयोः श्रोत्रचक्षुषोर्वृत्तिः शरीराद्बहिर्भवति अर्थदेशं प्राप्नोति । सा च कार्यदर्शनोन्नेया यथाकार्यमवतिष्ठत इति ॥ ४४ ॥ {१,२२४} नन्वधिष्ठानमेवेन्द्रियं, तत्रोद्धरणपूरणादिनिग्रहानुग्रहदर्शनात् । इतरथा तदसम्भवात् । यदि ह्यधिष्ठानातिरिक्तमक्षं भवेत्, तर्ह्यधिष्ठानसंस्कारोऽनर्थकः स्यात्, अत आह चिकित्सादीति । अयमभिप्रायः यदीन्द्रियमधिष्ठाने न सम्बद्धं भवेत्, ततोऽधिष्ठानसंस्कारस्तस्योपकारको न स्यात् । अधिष्ठानाधारं तु तत् । अतस्तस्यैवाधारभूतस्याधिष्ठानस्य संस्कार आधेयस्येन्द्रियस्योपकारको भविष्यति गजाश्वपर्याणसंस्कार इवारोहकस्येति ॥ ४५ ॥ नन्वेवमपि गोलकाधिकरणस्यैव तत्संस्कार उपकारको भवतु, तस्य त्वसम्बद्धस्य भागस्य गोलकेन गोलकसंस्कारो नोपकारकः स्यात् । तेन च संस्कृते न प्रयोजनम् । तस्यैव प्राप्तत्वेन प्रकाशकत्वात् । अतो यत्प्रकाशकं तत्संस्कर्तुमशक्यमसम्बन्धात् । यच्च शक्यं न तेन संस्कृतेन प्रयोजनम्, असम्बद्धस्य हि भागस्य प्रकाशयितुमशक्तेः, अत आह तद्देश इति । अयमभिप्रायः एकैवेन्द्रियवृत्तिरनुगताधिष्ठानदेशसम्बन्धा अर्थदेशं यावत्प्राप्ता, अतोऽधिष्ठानदेश एव संस्कारः सर्वोपकारको भविष्यति । यथा पादयोः प्रयुक्तः संस्कारो दूरस्थस्यापि चक्षुष उपकारको भविष्यतीति ॥ ४६ ॥ अतो नायमेकान्तः यदधिष्ठानदेशे संस्कारात्तद्वर्त्येवेन्द्रियमितीत्याह तस्मादिति । निरन्तराधिकग्रहणमुपपादयति बहिरिति स्यादन्तेन । कार्यदर्शनबलेन हि तद्वृत्तिः कल्प्यमाना यथाकार्यमवतिष्ठत{१,२२५}इत्युक्तम् । अतोऽधिष्ठानाधिकपरिमाणार्थदर्शनात्पृथ्वग्रा कल्पयिष्यते । निरन्तरदर्शनाच्च सन्तता । अतो यत्र यादृशं वृत्तिभागे पार्थवं पृथुत्वं भवति, तदनुरूपमेवाधिष्ठानाधिकं महीधरादि गृह्यते । अमूर्ताया अपि वृत्तेरौपाधिको व्योम्न इव भागव्यपदेशः । यदेव तया प्रकाश्यते तदौपाधिकमेव भागव्यपदेशं लभते इति । न च वाच्यं यदि वृत्तिर्गत्वार्थं प्रकाशयति किमिति तर्हि नितान्तदूरवर्तिनो ऽपि भावान्न प्रकाशयतीति । यावति हि दूरे कार्यमुपलभ्यते तावन्तमेवाध्वानमसौ सर्पतीत्यधिकदर्शनवत्कल्पनीयमित्याह दूरेऽपीति ॥ ४८ ॥ नन्वेवमपि यदीन्द्रियवृत्त्यार्थाः प्रकाश्यन्ते, सा तर्हि निर्गत्य गतास्त्येवेति किं न पिहितेन्द्रियस्यापि भावा भासन्ते, अत आह दीपप्रभेति । नावश्यं पिहितेन्द्रियस्य वृत्तिरस्ति कार्याभावात्तु सा दीपनाशे प्रभावन्निमीलयतोऽपि नष्टेत्युन्नीयत इति ॥ ४९ ॥ अस्तु वा अधिष्ठानपिधानेऽपि वृत्तिः । आत्मप्रयत्नानुगृहीता तु सा आत्मन्यर्थमुपनयति । अधिष्ठानपिधाने ह्यात्मनः प्रयत्नोच्छेदात्प्रयत्नानधिष्ठितया तयानुपनीतोऽर्थो नात्मनानुभूयत इत्याह अधिष्ठानेति ॥ ५० ॥ विच्छिन्नबोधमिदानीमुपपादयति विच्छिन्न इतीति । विभोरप्यात्मनः प्राग्भवीयक[६४७]र्मार्जितं सकलभोगायतनं शरीरमिति । तदपेक्षया विच्छेदबुद्धिः । कायेन्द्रिये तु शरीरविच्छेदाभावादविच्छेदबोधो युक्त इति । शब्दे तु विच्छेदाधिकबोधो भ्रान्तिरेवेति किं तदुपपादनेन ।[६४८]तथा हि स्वदेश एव शब्दः श्रोत्रेण प्रकाश्यते । कुतस्तस्य विच्छेदः । कुतः विभोर्{१,२२६}अमूर्तस्य वृद्धिह्रासावित्याह शब्दे[६४९] त्विति । एतत्तु स्वमतेनोक्तम् । साङ्ख्यमते तु श्रोत्रवृत्तिः शब्ददेशं गच्छत्येव । तत्र शरीरापेक्षयैव विच्छेदबोधो वक्तव्यः । असम्भवं च शब्दाधिकरणे वक्ष्याम इति । __________टिप्पणी__________ [६४७] ध (ङा) [६४८] न । स्व (Kआ) [६४९] शब्देति (Kआ) ___________________________ अयं च साङ्ख्यसिद्धान्तसिद्धो वृत्तिगमनपक्षो वार्त्तिककारेण प्राप्तिसाधारण्यमात्रेणोक्तः, न पुनरभिप्रेतः । न हीन्द्रियवृत्तिर्नाम काचित्प्रमाणेनावगम्यते । तथा हि आहङ्कारिकाणीन्द्रियाणीति कापिला मन्यन्ते । यथाहुः सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । इति । कश्चायमहङ्कारः । यदि योऽयमात्मानं प्रकाशयति, स तर्हि ज्ञानमितीन्द्रियाणां कथं प्रकृतिर्भविष्यति । आत्माधारमान्तरं ज्ञानं कथं तेन बाह्येन्द्रियाण्यारब्धुं शक्यन्ते । अथ मतं तत्त्वान्तरमहङ्कार इति । तन्न । प्रमाणाभावात् । अपि च तत्त्वान्तरमपि तत्कापिलैर्विभुः सङ्गीर्यते । ततस्तन्मयानीन्द्रियाण्यपि विभूनि भवेयुः । न च विभूनां वृत्तिरुपपद्यते । वृत्तिर्निर्गमनम् । न च तद्विभूनां सम्भवति । स्यान्मतम् न च ब्रूमो विभूनीन्द्रियाणि गच्छन्तीति, किं तर्हि । तदाधारा वृत्तिरिति । केयं वृत्तिरिति वक्तव्यम् । यदि श्रोत्रादीनां शब्दादिग्रहणयोग्यता, सा तर्ह्यमूर्ता शक्तिः कथं गच्छेत् । अपि च त्रीण्यन्तःकरणानि महानहङ्कारो मन इति कापिला मन्यन्ते । न च करणं करणान्तराणां प्रकृतिरुपपद्यते करणत्वात्मनोवत् । अतो नाहङ्कारिकाणीन्द्रियाणि । न च तद्वृत्तिरमूर्ता प्राप्यकारिणीति प्रमाणवती कल्पना । तथा शब्दाधिकरणे वक्ष्यति श्रोत्रागमनपक्षे चेत्यत्र वृत्तिगमनप्रतिषेधम् । अतो भौतिकान्येवेन्द्रियाणि प्राप्यकारीणीति वक्तव्यम् । किं पुनर्भौतिकत्वे प्रमाणमिन्द्रियाणाम् । दृष्टानुसारः । तथा हि बहिर्भूतानामेव यथायथं रूपाद्यभिव्यञ्जकत्वमुपलब्धम् । तेजसा हि रूपं प्रकाश्यते यथा दीपेन । रसोऽद्भिः । शुष्काणाम्[६५०]अपि द्रव्याणां सन्नपि रसो न व्यक्तमुपलभ्यते यथार्द्राणाम् । न च शुष्केषु रसो नास्ति, यावद्द्रव्यभावित्वात् । अतोऽद्भी रसोऽभिव्यज्यते । पार्थिवं च किञ्चिद्द्रव्यं{१,२२७}गन्धस्याभिव्यञ्जकं दृष्टम् । यथा निम्बत्वक्चन्दनगन्धस्य । तत्कषायपरिषिक्तस्य हि चन्दनस्य स्फुटतरं गन्धोऽभिव्यज्यते । न चाद्भिरसावभिव्यज्यते, केवलानामनभिव्यञ्जकत्वात् । वायुनापि बहिः स्पर्शाभिव्यक्तिरुपलब्धा, यथा हेमन्तशिशिरयोर् वियति विततानामपां सूक्ष्मत्वादनुपलक्ष्यमाणानां वापि वाते शीतस्पर्शोऽवगम्यते । न चासौ वायोः । अनुष्णाशीतस्पर्शत्वाद्वायोः । अतो रूपाभिव्यञ्जकं चक्षुस्तैजसम् । आप्यं रसनमभिव्यञ्जकं च रसस्य । घ्राणं पार्थिवं गन्धस्य । वायवीयं त्वगिन्द्रियं स्पर्शस्य । श्रोत्रमिदानीं किंप्रकृतिकम् । तदपि भौतिकमिन्द्रियत्वात् । किं पुनर्भूतं तस्य प्रकृतिः । आकाश इति वदामः । तथा हि द्विविधं कार्यं सर्वभूतानां शरीरमिन्द्रियं च । आकाशस्याप्यवकाशदानेन शरीरोपकारकत्वात्कार्यकारणत्वम् । अतस्तस्यापीन्द्रियेण कार्येण भवितव्यम् । तत्रेन्द्रियान्तराणां भूतान्तरप्रकृतित्वादाकाशमेव श्रोत्रस्य प्रकृतिरिति निश्चीयते । अपि च स्वगुणमेव भूतान्तराणि व्यञ्जयन्ति । न च तेषां शब्दो गुणः, आकाशगुणत्वात् । अत आकाशमेव तस्याभिव्यञ्जकमिति युक्तम् । एवञ्च दृष्टानुसारिणी कल्पना कृता भवति । सन्ति हि देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धाद्यभिव्यक्तिशक्तयश्च बहिरिति शरीरेऽपि वर्तमानानां तेषामेव व्यञ्जकत्वानुमानं युक्तम् । एवञ्च प्राप्तिरपि स(?मि।म)र्थिता भवति । त्वग्घ्राणरसनानां हि स्थितमेव प्राप्यकारित्वम् । श्रोत्रस्यापि कर्णच्छिद्रपरिमितनभसो धर्माधर्मोपगृहीतस्य स्वदेश एव विभुं शब्दं प्रकाशयतः प्राप्यकारित्वमेव । तेजसो हि विसरणस्वभावस्य चक्षुषो निर्गतस्यार्थदेशप्राप्तिरुपपन्नैव । अनुद्भूतरूपत्वाच्च तस्य रूपानुपलम्भः । अत एवाग्नितेजसः पृथ्वग्रादिकल्पना च तस्य कार्यदर्शनानुसारेण मूर्तत्वादुपपत्तिमती । सर्वत्र च यथाकार्यदर्शनं योग्यतासनाथा प्राप्तिरिन्द्रियार्थयोः सम्बन्ध इति दर्शयितव्यम् । अतो न काचिदतिप्रसक्तिर्वक्तव्या यथा वक्ष्यति प्राप्तिमात्रं हि सम्बन्धः इति । अतः सिद्धमिन्द्रियाणि भौतिकानि प्राप्यकारीणि चेति ॥ ५१ ॥ __________टिप्पणी__________ [६५०] णां सन्न (ङा) ___________________________ एवं तावत्सत्सम्प्रयोगशब्दाः विवृताः । पदान्वयमतः परमनुसन्धास्यामः । अत्र किल पुरुषस्य सम्प्रयोग इन्द्रियाणां बुद्धिजन्मेत्युच्यते ।{१,२२८}तच्चायुक्तं, विभोः पुरुषस्य सर्वभावैरेव सम्प्रयोगाव्यभिचारेण विशेषणोपादानवैयर्थ्यात् । इन्द्रियाणां च भौतिकानामचेतनत्वात् । चेतना हि बुद्धिरिति सर्वलौकिकाः परीक्षकाश्च मन्यन्ते । न पुनरिन्द्रियव्यापारो बुद्धिरिति । साङ्ख्या हीन्द्रियवृत्तौ बुद्धिशब्दमुपचरन्ति । तत्र तेषामेव परिभाषामात्रम् । अतोऽत्र वक्तव्यं कीदृशोऽत्र पदान्वय इत्यत आह पुरुषेन्द्रियशब्दाविति । अयमभिप्रायः किमत्र वक्तव्यम् । भाष्यकारेण पुरुषेन्द्रियशब्दौ व्यवहितकल्पनया व्याख्यातौ येनैवमाह सतीन्द्रियार्थसम्बन्धे पुरुषस्य या बुद्धिर्जायते तत्प्रत्यक्षमिति । कः पुनरयं पुरुषः यस्य बुद्धिजन्मना सम्बन्धः, अत आह पुरुष इति । नात्र तात्पर्यमन्यपरत्वात्सूत्रस्य । परमार्थतस्तु पुरुषोऽत्रात्माभिप्रेतः य आत्मवादे प्रसाधयिष्यते । न शरीरं, तस्य भौतिकत्वेनाचेतनत्वादिति ॥ ५२ ॥ नन्वेवमपि यन्नित्यमात्मानं मीमांसका मन्यन्ते, तन्न सिध्येत् । ज्ञानजन्मनि विकारापत्त्या चर्मवदनित्यत्वप्रसक्तेः । ज्ञानजन्मना त्वविकृतस्य पूर्वावस्थायामिवाप्रमातृत्वप्रसङ्गः, अत आह विक्रियेति । एवं हि मन्यन्ते न किञ्चिद्विकार्मात्रेण वस्तु नश्यति, तत्प्रत्यभिज्ञानात् । एतच्चात्मवाद एव भाष्यकारेण वक्ष्यते । अतो दुरुक्तं परैः बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरात्मायं प्रमातेति न युज्यते ॥ इति । अत्र बुद्धिजन्म प्रत्यक्षमित्युच्यते । तस्य कोऽर्थः । किं बुद्धेर्जन्मातिरिक्तमनतिरिक्तं वा, यद्यतिरिक्तं तद्वाच्यं कीदृशमिति । न च स्वमते जन्मस्वरूपमभिहितम् । यदि वैशेषिकोक्तस्वकारणसमवायो जन्माभिधीयते, तस्य नित्यत्वेनाक्षानधीनत्वात्प्रत्यक्षशब्दाभिधेयत्वानुपपत्तिः । अनतिरिक्तत्वे तु पुनरुक्ततैव दोषः, अत आह बुद्धिजन्मेति । अयमर्थः नायं बुद्धिजन्मेति षष्ठीसमासः । किन् तु बुद्धिश्चासौ जन्म चेति कर्मधारयः । जन्मशब्दश्च कर्तरि मनिन्प्रत्ययान्तः । तेन जायमाना बुद्धिः{१,२२९}प्रमाणमित्युक्तं भवति । न पुनर्वैशेषिकादिवन्नित्यम् अत्यन्तभिन्नं समवायमाचक्ष्महे । कारणदशाविशेष एव कार्यजन्मेत्युच्यते । नासावत्यन्तं कार्यकारणाभ्यां व्यतिरिच्यते । अतः किमन्यदोषोद्भावनेनेति ॥ ५३ ॥ जायमानविशेषणोपादाने प्रयोजनमाह व्यापार इति । कारकान्तराणि जनित्वा कियन्तञ्चित्कालं स्थित्वा स्वकार्येषु वर्तमानानि दृष्टानि । तद्बुद्धावपि प्रमाणे मा भूदिति जन्मविवक्षा सूत्रकारेण कृतेति । किं पुनः कारकान्तरसाधर्म्ये दुष्यति, अत आह न हीति । अयमभिप्रायः न किञ्चिद्दुष्यति । किन् तु नेन्द्रियादिवद्जाता सती बुद्धिः क्षणमात्रमप्यास्ते । अतः कथं तद्वदेव स्थित्वा प्रवर्तत इति । न केवलं जाता नास्ते, किन् तु जायमानापि नोदास्ते । सा ह्युत्पद्यमानैव स्वार्थं प्रकाशयन्त्येवोत्पद्यत इति न क्षणान्तरं प्रतीक्षते । न ह्यर्थप्रकाशनादन्यद्बुद्धे रूपमुपलभ्यत इत्याह जायत इति । कारकान्तरवैधर्म्यप्रतिपादनेनात्र नित्यबुद्धिवादिनो निराकर्तुं बुद्धेरनतिचिरविनाशित्वमुक्तम् । तत्र चायं हेतुः । यदीयमुत्पत्तिमती तस्या विनाशेनावश्यं भवितव्यम् । न चाहैतुको विनाशः सम्भवति, उत्पत्तिमत्त्वादेव । न च प्रहारादिरस्या विनाशहेतुः, अमूर्तत्वात् । अतो ज्ञानान्तरेण वा नाश्यते, तज्जन्मना वा संस्कारेण । तच्चोभयमपि सहसैव निष्पन्नम् । अस्ति हीन्द्रियादिका सामग्र्यप्रतिबन्धा । सा किमपरं विज्ञानं न जनयति । स्मृतिहेतुरपि संस्कारोऽनयैव जातमात्रया जनित इति कर्मवत्कार्यविरोधित्वादपि तादात्विको विनाशो बुद्धेरिति युक्तम् । न च सैवेति बुद्धेः प्रत्यभिज्ञानमस्ति । न च भेदानध्यवसायमात्रादेकत्वसिद्धिः । अपि चार्थान्तरदर्शने स्फुट एवाशुतरविनाशो बुद्धेः, एवञ्च व्यवस्थितैकदर्शनेऽपि तद्वदेव तदनुमानम् । अपि च तत्रापि व्यवहिते ज्ञानं निवर्तते, तच्चिरावस्थायित्वेऽनुपपन्नम् । एवं हि व्यवहिते कुम्भे प्रत्यक्षज्ञानमनुवर्तेत । न चैवम् । स्मृतिस्तु परस्ताद् दृश्यते । सा प्रत्यक्षज्ञानव्याप्तत्वे{१,२३०} न स्यात् ।[६५१]परोक्षापरोक्षयोरेकगोचरयोरेकदा विरोधात् । स्यादेतदव्यक्तग्रहणमनवस्थायित्वाद्[६५२]विद्युत्सम्पाते रूपाव्यक्तग्रहणवदिति । न । प्रतिषेद्धव्याभ्यनुज्ञानात् । यदि मन्यते बुद्धेर्[६५३]अनतिचिरानुवृत्तौ प्रकाशस्य गत्वरत्वाद्विद्युत्सम्पात इव न व्यक्तं भावाः प्रकाशेरन्, अतो नाशुतरविनाशिनी बुद्धिरिति । तन्न । प्रतिषेद्धव्याभ्यनुज्ञानात् । एवं हि विद्युत्प्रकाशजनितेऽव्यक्तबोध उत्पन्नमात्रापवर्गितां बुद्धेर्ब्रुवाणो निषेध्यमेवाशुतरविनाशमभ्यनुजानाति ।[६५४]अपि च विशेषाग्रहणे सामान्यमात्रग्रहणमव्यक्तग्रहणम् । न तु स्वगोचरे किञ्चिदव्यक्तं नामास्ति, विषयाभिरूपत्वाद्ग्रहणानाम् । विशेषाग्रहणं च तद्ग्रहणनिमित्ताभावादेव, न तु बुद्धेरनवस्थानात् । विद्युत्प्रकाशे[६५५]ऽपि यावदाशुतरविनाशिन्या धिया विषयीकृतं तद्व्यक्तमेव । विशेषास्तु तत्र ग्रहणहेत्वभावादगृहीता एव, न पुनरव्यक्तपरिच्छिन्नाः । न हि गृहीतमव्यक्तं नाम सम्भवतीति नानवस्थायित्वेऽपि धियामव्यक्तग्रहणापत्तिः । नित्यबुद्धिवादिनश्चायमभिप्रायः शब्दाधिकरणे भाष्यकारेण वक्ष्यत इति ॥ ५५ ॥ __________टिप्पणी__________ [६५१] भवेत्(ङा) [६५२] त्वे [६५३] द्धेरचि ___________________________ [६५४] ति । वि [६५५] शे या (Kआ) ___________________________ ननु प्रमाणं नाम कारकविशेषः । न चाकुर्वत्क्रियां कारकं भवति । यदि तु बुद्धिर्जनित्वा न व्याप्रियते, कथमसौ कारकं प्रमाणमिति च सामान्यविशेषशब्दाभ्यामभिधास्यते, अत आह तेनेति । सत्यं, न व्यापारसम्बन्धमन्तरेण कारकत्वं भवति । जन्मैव तु बुद्धेर्व्यापारः, व्यापारान्तरासम्भवात् । तदेव च विवक्षावशात्प्रमेत्युपचर्यते । जन्मना हि तस्याः प्रमाणत्वं भवति । अतस्तयैव क्रियया कारकं प्रमाणमिति च सामान्यविशेषशब्दाभ्यामभिधानसिद्धिः । चशब्दात्प्रमाणं चेत्यर्थः ॥ ५६ ॥ अयं च जन्माव्यतिरेकपक्षो या बुद्धिर्जायते इति वदता भाष्यकारेणैव वर्णित इत्याह जम[६५६] चेति । अपरमपि जायमानावस्थाविशेषणोपादानस्य{१,२३१}प्रयोजनमाह तच्चेति । बुद्धिः प्रमाणमित्येतावत्युक्ते भूता भविष्यन्ती वा प्रमाणमित्यपि केचित्सम्भावयेयुः, यथा सद्विशेषणोपादाने वर्णितम् । अतस्तदाशङ्कानिराकरणार्थं जायमानविशेषणोपादानम् । भूतभविष्यत्त्वादि(?त्यपादान् त्यापादने) पञ्चमीति[६५७]॥ ५७ ॥ __________टिप्पणी__________ [६५६] न्मेति (ङा) [६५७] मी । अ (Kआ) ___________________________ अस्तु वा वैशेषिकसिद्धान्तसिद्धः स्वकारणे कार्यसमवायो व्यतिरिक्त एव जन्म, तथापि न किञ्चिद्दुष्यतीत्याह यदा त्विति । स खलु नित्योऽपीन्द्रियाधीनाभिव्यक्तिरिति प्रत्यक्षमपेक्ष्यत इति ॥ ५८ ॥ अत्र भाष्यकारेण बुद्धिर्वा जन्म वेत्यादिना प्रमाणानियमो दर्शितः, तत्राभिप्रायमाह प्रमाणफलभावस्त्विति । अयमभिप्रायो भाष्यकारस्य एकमिदं सूत्रं नोभयमुत्सहते कर्तुं यत्प्रमाणं च नियच्छति, अनिमित्ततां च विदधातीति । भिद्येत हि तथा वाक्यम् । तदत्रानिमित्ततामात्रमेव विद्यमानोपलम्भनात्प्रतिपाद्यम् । प्रमाणं तु विवक्षावशेन बुद्ध्यादीनामन्यतमं भविष्यति । करणं हि प्रमाणं, साधकतमं च करणं, विवक्षाधीनश्च साधकतमभावः । अतो यदेव तु बाह्यापेक्षया फलं प्रत्यासन्नमिति विवक्ष्यते तदेव प्रमाणं भविष्यति । ततः परं चाभ्यर्हितत्वविवक्षया फलमिति ॥ ५९ ॥ यथेष्टकल्पनामेव दर्शयति यद्वेति । असतीन्द्रिये ज्ञानोदयाभावात्तदेव प्रमाणम् । सदपि चेन्द्रियमसङ्गतमर्थेन न ज्ञानं जनयतीति तदर्थसङ्गतिः प्रमाणम् । सम्बद्धमपि चेन्द्रियमर्थेन मनसानधिष्ठितं न प्रमाणमिति तन्मनस्संयोगः प्रमाणम् । सर्वस्मिन्नपि च सत्यसत्यात्ममनस्संयोगे ज्ञानानुदयात्स च प्रमाणम् । अथवा सर्वेषामेकतरापायेऽपि न ज्ञानं{१,२३२}जायत इति सर्व एव संयोगः प्रमाणम् । आत्मना वा मनसो योग इति योजनीयमिति ॥ ६० ॥ एषु प्रमाणेषु फलं दर्शयति तदेति । इन्द्रियादिप्रामाण्यपक्षे ज्ञानं फलमित्यर्थः । ननु यदीन्द्रियादि प्रमाणं, तेन तर्हि सदा ज्ञानं जनयितव्यमेव । न च तदस्ति, अस्ति खलु पिहितचक्षुषोऽपि चक्षुः । न च तद्ज्ञापयति । संयुक्तं ज्ञापयतीति चेद्, न । व्यभिचारात् । संयुज्यते खल्वस्य नानार्थैर्नायनं तेजः । किञ्चिदेव तु जापयति । अतो व्यभिचारादकारणमिन्द्रियादि ज्ञानजन्मनीति, अत आह तत्रेति । उक्तमिदमस्माभिर्व्यापारवचनः प्रयोगशब्द इति । फलानुमेयश्चासौ व्यापारः । अतो यत्रैव फलमुपलभ्यते तत्रैव व्यापारवत्त्वात्तेषां प्रमाणत्वमिति । असति तु व्यापारे न फलमुत्पद्यत इति नातिप्रसङ्ग इत्याह व्यापार इति ॥ ६१ ॥ नन्वस्तु व्यापारवाचिप्रयोगशब्दपक्षेऽतिप्रसङ्गपरिहारः । प्राप्तिवचनत्वेऽतिप्रसङ्गो दुष्परिहरः । अस्ति हि चाक्षुषस्य तेजसो नानार्थैः सम्प्रयोगः । न च तावद्ज्ञापयति, किञ्चिदेव तु कदाचित् । अपि च का चेयं प्राप्तिः । यदि संयोगः, स च द्रव्येणैवेति रूपसंविन्न स्यात् । अथ तेनापि संयुक्तसमवायादस्ति सन्निकर्ष इत्युच्यते, समानोऽसौ रसादिष्वपीति तेऽपि चक्षुषानुभूयेरन्निति सर्वात्मकार्थग्रहणमितीन्द्रियसंयोगप्रमाणपक्षे परैरुक्तं यत्तत्परिहरति न चेति ॥ ६२ ॥ कः पुनः सर्वात्मना सम्बन्धो नास्तीति वदतोऽभिप्रायः यदि गुणैः संयोगो न रसादिभिः सम्भवतीति, स तर्हि रूपेणापि गुणत्वाविशेषान्न स्यादेव । संयुक्तसमवायस्त्वविशिष्टः सर्वेषामित्युक्तमेव, अत आह {१,२३३} प्राप्तीति । अयमभिप्रायः भवेदयं दोषः यदि प्राप्तिमात्रमेवेन्द्रियार्थयोः सम्बन्धः प्रमाणमाश्रीयत इति । स तु योग्यतासहायः । योग्यता च कार्यदर्शनोन्नेया । अतो यदेव यदिन्द्रियसंयोगानन्तरमनुभूयते तत्रैव तत्सम्प्रयोगस्य योग्यत्वं, नेतरत्र, प्रमाणाभावात् । अत एव जिघृक्षितसूक्ष्मरूपादिग्रहणप्रसङ्गोऽपि परिहर्तव्य इति किमिति नाभ्युपेयते, अत आह मा भूदिति । अयमभिप्रायः यो हि ज्ञानं प्रमाणमिष्ट्वा सत्सम्प्रयोगं प्रमाणकारणमातिष्ठते न तु प्रमाणं, तेनापि प्राप्तेरविशेषात्त्वचा रूपावधारणं मा भूदिति न प्राप्तिमात्रं सम्बन्धोऽभ्युपगन्तव्य इति ॥ ६३ ॥ अथ तु प्रमाणनिष्पत्तौ योग्यतासहिता प्राप्तिरिष्यते, शक्यं तत्फलनिष्पत्तावपि वक्तुमिति दोषप्रसङ्गपरिहारतुल्यत्वान्नैकः पर्यनुयोज्यो भवतीत्याह यथेति । नियता हि काचिदेव स्वविषयेण रूपादिना चक्षुरादीनां सङ्गतिरिति । योग्यत्वादिति । तत्रैव कार्यदर्शनयोग्यत्वादित्यर्थः ॥ ६४ ॥ एवं तावदिन्द्रियार्थसम्बन्धप्रमाणपक्षेऽतिप्रसङ्गपरिहारोऽभिहितः । इदानीं द्व्याश्रयो योगः कथमक्षेणैव व्यपदिश्यत इति चोद्यं परिहरति योगस्येति । अस्यार्थः नेदमदृष्टपूर्वं यदनेकैरपि सम्बद्धमेकेनैव व्यपदिश्यत इति । भवति हि डित्थडवित्थयोर्मातुर्डित्थमातेति व्यपदेश इति । आह अस्त्वन्यतराश्रयो व्यपदेशः । इह तु नियमेनैवाक्षेण व्यपदेशो दृश्यते नार्थेन । मातुस्तु डवित्थेनापि कदाचिद्व्यपदेशो भवत्यत आह अथवेति । असाधारणेन हि व्यपदेशो भवति । ज्ञानस्यासाधारणमक्षं, तदर्थमेवाक्षाणां निर्माणात् । अर्थस्तु कार्यान्तरसाधारणः नासौ व्यपदेशहेतुरिति ॥ ६५ ॥ {१,२३४} अत्र चेन्द्रियार्थसम्बन्धप्रमाणपक्षे विषयभेदोऽपि प्रमाणफलयोर्नास्त्येव, सम्बन्धस्यार्थाश्रयत्वाद्ज्ञानस्यापि तद्विषयत्वादिति । आत्ममनस्सम्बन्धप्रमाणपक्षे तर्हि विषयभेदो भवेत् । स ह्यात्ममनआश्रयः ज्ञानं चार्थविषयमिति शङ्कते तावत् संयोगे त्विति[६५८]फलयोरन्तेन । परिहरति नेति । कारणमाह अर्थे हीति । अस्यार्थः यद्यप्यात्ममनस्सम्बन्धो नार्थाश्रयः, तथाप्यर्थे व्याप्रियते । ज्ञानमपि तद्विषयमेवोत्पद्यत इति व्यापारतः समानविषयत्वमिति ॥ ६६ ॥ __________टिप्पणी__________ [६५८] ति प (ङा) ___________________________ अथ पुनराश्रयो विषयोऽभिप्रेतः, तदुभयोरप्यात्मस्थत्वात्सुतरां समानविषयत्वमित्याह अथापीति ॥ ६७ ॥ अयमेवात्ममनस्संयोगो ज्ञानोत्पत्तेः प्रत्यासन्नतया कारकान्तरेभ्यो विशिष्ट इत्ययमेव प्रमाणमित्याह प्रकृष्टसाधनत्वादिति ॥ ६८ ॥ सर्वसंयोगप्रमाणपक्षेऽपि पूर्वोक्तसमस्तदोषपरिहारोऽनुसन्धातव्य इत्याह प्रमाण इति । इन्द्रियप्रामाण्यपक्षेऽपि तस्यार्थप्राप्त्या ज्ञानस्य च तद्विषयत्वेन स्फुटं विषयसाम्यमित्याह प्रमाणमिति ॥ ६९ ॥ एवं तावदिन्द्रियादिप्रामाण्यपक्षे प्रमाणफलयोर्विषयसाम्यमुक्तम् । इदानीं ज्ञानप्रामाण्यपक्षेऽप्येवमेव दर्शयितव्यमित्याह प्रमाणेति ।{१,२३५}सर्वसविकल्पकज्ञानानि विशेषणज्ञानपूर्वकाणि, यथा दण्ड्ययं गौरयं शुक्लोऽयं गच्छत्ययं डित्थोऽयमिति । तदिह विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं च फलम् । विशेष्यज्ञानसिद्ध्यर्थत्वाच्च विशेषणज्ञानस्य । तत्रापि व्यापारतः समानविषयत्वमिति ॥ ७० ॥ यदा तु विशेषणमेव बोद्धव्यं प्रमित्सितं भवति, तदा तर्हि कः प्रमाणफलयोर्विवेकः, कथं वा समानविषयत्वमत आह विशेषणे त्विति । अयमभिप्रायः तत्रापि विज्ञानद्वयमुपलभ्यते । आलोचनाज्ञानं हि तत्र विशेषणे निश्चयं प्रसूते । तादर्थ्याच्च समानविषयत्वमिति विवेक इति ॥ ७१ ॥ आलोचनाज्ञानमात्रपर्यवसाने तर्हि को विवेकः, अत आह निश्चय इति । अयमभिप्रायः आलोचनाज्ञानेऽपि हि तदिदमिति प्रत्यभिज्ञानात्मकमीदृशोऽयमिति वा निश्चयात्मकं ज्ञानान्तरं शब्दयोजनाशून्यमस्त्येव, यथा तिरश्चामन्येषां वा अस्मृतशब्दानां वाचकरहितमसाधारणं वस्तु प्रतिपद्यमानानाम् । अतोऽस्त्येव ज्ञानद्वयप्रदर्शनात्प्रमाणफलविवेकः । यदा पुनरालोचितेऽर्थे निश्चयो न जायत एव, तदा प्रमाणत्वमेव नास्तीत्याह नासाविति । अर्थावधारणफलत्वात्प्रमाणत्वस्य, तस्य च तदानीमभावादिति ॥ ७२ ॥ विशेष्यज्ञान इदानीं का वार्ता । न तावदप्रामाण्यं, सर्वत्र प्रसङ्गात् । न चासति फले प्रमाणत्वमपि शक्यं समर्थयितुम् । अथ तदेव प्रमाणं फलं चेति द्विरूपमिष्यते, अस्तु तर्हि विशेषणज्ञानादिष्वपि द्विरूपत्वमेव, किं भेदोपन्यासेन । युक्तं चैतदेवम् । एवं हि प्रमाणफलयोरत्यन्तप्रत्यासत्तिर्{१,२३६}आश्रिता भवति । सैव चोपपत्तिमती । न ह्यन्यत्र साधनमन्यत्र साध्यं दृष्टम् । न हि परशौ खदिरं प्राप्ते पलाशे छिदा भवति, अत आह हानादीति । अयमभिप्रायः यत्तावदिदमतिप्रत्यासत्तितृष्णयैकत्वं प्रमाणफलयोः, तदनन्तरमेव निराकरिष्यामः । यत्तु विशेष्यज्ञानस्य फलान्तरं न दृश्यत इति । तन्न । अस्ति तत्रापि तदुत्तरकालभावि हानादि फलम् । अथ ज्ञानस्य ज्ञानमेव फलम्, एवमिहापि हानादिधीरेव फल[ं] भविष्यतीति । अथोपकारादिस्मृतिव्यवहिता हानादिबुद्धिर्न फलमिति किं मन्यसे, अस्तु तर्हीयमेवोपकारादिस्मृतिः फलमित्याह उपकारादीति ॥ ७३ ॥ यस्तु विषयैकत्वमिच्छता प्रमाणफलयोरेकत्वमाश्रितं, तदलौकिकमयुक्तं चेत्याह विषयेति ॥ ७४ ॥ यच्चेदमुक्तं परशौ खदिराश्रिते पलाशे न छिदा दृश्यते इति । इदं वा किं दृश्यते यत्परशुच्छेदनयोरेकत्वमिति । अतो यत्र साधनं व्याप्रियेत तत्र फलं निष्पद्यते । तच्च पूर्वं प्रतिपादितमेव, न तु साधनमेव फलमित्यभिप्रायेणाह छेदन इति ॥ ७५ ॥ यदि तूच्यते साध्यसाधनयोर्विषयभेदो[६५९]न दृष्टः एकत्वं च, तदन्यतरस्मिन्नाश्रयितव्येऽस्मभ्यं विषयाभेदो रोचत इति । तन्न । शक्यमिदमितरेणापि वक्तुमिति सापहासमाह भवत इति ॥ ७६ ॥ __________टिप्पणी__________ [६५९] दो दृ (ङा) ___________________________ {१,२३७} यदि तूच्यते फलभूतस्यैव ज्ञानस्य करणत्वमौपचारिकं कथञ्चित्कल्प्यते, न तु पारमार्थिकम् । पारमार्थिकं हि द्विरूपत्वमेकस्य न सम्भवति । तदौपचारिकं करणत्वमाश्रित्य तदुभयमुपपादयिष्याम इति । एवं तर्हि भिन्नयोरेव प्रमाणफलयोः कथञ्चिद्विषयैकत्वं किमिति न कल्प्यते, तथा सत्युभयं पारमार्थिकं भविष्यतीत्याह करणत्वेति । तच्च कथञ्चिद्विषयैकत्वं पूर्वमुक्तमेव । परैरिति । बौद्धापेक्षया स्वात्मनि परशब्द इति ॥ ७७ ॥ प्रकृतमिदानीं प्रमाणफलविवेकमुपसंहरति परिच्छेदेति । अर्थपरिच्छेदफले आत्ममनस्संयोगाद्यानन्तर्यविवक्षया प्रमाणम् । ज्ञाने च प्रमाणे पूर्वमालोचनादिज्ञानं प्रमाणम् । परं तु विशेषणादिज्ञानं फलमिति प्रकरणार्थः । सर्वं चेदमेवं सत्यनुवादत्वमित्येतत्पक्षाश्रयणेनोक्तमिति द्रष्टव्यमिति ॥ ७८ ॥ यदि तूच्यते नेदमौपचारिकं करणत्वम्, अपि तर्हि द्विरूपमेकमेव ज्ञानं स्वसंवित्त्या विषयाकारेण च । तदत्र स्वसंवित्तिः फलं, विषयाकारः प्रमाणम् । यथाहुः विषयाकार एवास्य प्रमाणं तेन मीयते । स्वसंवित्तिः फलं चात्र तद्रूपो ह्यर्थनिश्चयः ॥ इति । स तु विषयाकारः स्वयमनाकारस्य न स्वाभाविको ज्ञानस्य केवलमर्थेनाधीयत इति सौत्रान्तिकमतमुपन्यस्य निरस्यति स्वसंवित्तीति । इदं नीलमिति बहिर्विषयानुभवसमर्थमेव ज्ञानं न स्वरूपानुभवक्षमं, स्वात्मनि क्रियाविरोधादिति विज्ञानवादे वक्ष्याम इति । यच्चेदमुक्तं विषयाकारः प्रमाणमिति । तन्न, प्रमाणाभावात् । विषयाकारो{१,२३८}नामार्थेन ज्ञानमाधीत्यत इति न[६६०]नः प्रमाणं, तदधीनज्ञानवैचित्र्यानुपपत्तेः । यदि त्वयं विषयाकारो विषयस्थ एव, तदा तस्मिन् प्रमाणे भिन्नार्थत्वमपरिहार्यमेवेत्याह प्रमाण इति ॥ ७९ ॥ __________टिप्पणी__________ [६६०] नास्ति नः (ङा) ___________________________ अन्यन्मतं स्वभावतः स्वच्छं ज्ञानमनादिवासनोपप्लावितानेकनीलाद्याकारमात्मानमात्मनैव गृह्णाति । तदस्य स्वाकारः प्रमाणं, विषयाकारः प्रमेयं, स्वसंवित्तिः फलमिति । यदाहुः यदाभासं प्रमेयं तत्प्रमाणफलते पुनः । ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक्कृतम् ॥ इति । तदेतदुपन्यस्य दूषयति स्वाकारश्चेति । स्वसंवित्तिस्तावन्निषेध्यत इत्युक्तम् । यश्चायं स्वाकारः प्रमाणतया कल्पितः सोऽपि स्वसंवित्तेरन्यो नावगम्यते । संविद्रूपतैव ज्ञानस्य स्वाकारः । तच्च फलमेव किमन्यत्प्रमाणं भविष्यतीति । विषयाकारस्तु बहिरेव[६६१]बाधिताकारसंवित्संविहितो नान्तर्वृत्तिमनुभवितुमर्हतीति नैवमपि समानविषयत्वमुपपादयितुं शक्यमिति भावः ॥ ८० ॥ __________टिप्पणी__________ [६६१] वा (Kआ) ___________________________ अस्तु वा स्वसंवित्तेरन्यः स्वाकारः । स तु परिच्छिन्नो वा प्रमाणमपरिच्छिन्नो वा । न तावदपरिच्छिन्नः । अपरिच्छिन्नस्य सत्त्वायोगात् । परिच्छेदश्च न तेनैव तस्येत्यपरापराकारकल्पनायामाकारानन्त्यप्रसङ्ग इत्याह स्वाकारस्येति । असञ्चेतितस्य स्वाकारस्य न सत्ता सिध्यतीत्याह न चेति । इदं चानागतावेक्षणेन पूर्वमस्माभिरुक्तमेव । यश्चायं विषयाकारो ज्ञानादभिन्नो ग्राह्य इति कल्पितः, तस्यापि स्वात्मनि{१,२३९}वृत्तिविरोधेन ज्ञानेन ग्रहीतुमशक्यत्वादन्यस्य च ग्राहकस्यानुपलम्भनादभावः स्यादित्यभिप्रायेणाह ग्राह्य इति । तदेवं परपक्षे त्रितयमेव मानमेयफलात्मकं लुप्यत इति दर्शितमिति ॥ ८२ ॥ ननु भवत्पक्षेऽपि सुखादिप्रत्यक्षेषु स्वसंवित्तिरेव फलमभ्युपगन्तव्यम्, ज्ञानातिरिक्तानां सुखादीनामसम्भवात् । तान्यपि ज्ञानसमानहेतुकानि । ज्ञानं हि समनन्तरप्रत्ययाद्वासनासहायाद्भवति । सुखाद्यपि रूपादिज्ञानेभ्यो वासनासहायेभ्यः परिनिष्पद्यते । अतस्तदपि ज्ञानमेव, कारणाभेदे कार्यभेदायोगात् । यथाहुः तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । तत्सुखादि[६६२]किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥ __________टिप्पणी__________ [६६२] क (ङा) ___________________________ इति । एवं ज्ञानानां सतां ग्राह्यान्तराभावात्संवेदनत्वमेव, अत आह मनसश्चेति । अयमभिप्रायः न सुखादिसंवेदनान्यपि विज्ञानान्तरविधामतिवर्तन्ते । तान्यप्यन्तःकरणेन मनसेन्द्रियेण संयुक्तान्यात्मगुणान्तर्भूतान्येवात्मना प्रतिपद्यन्ते । अतो मातृमेयमानमितयस्तत्रापि भिद्यन्ते । यत्तु ज्ञानकारणत्वेन ज्ञानत्वमुक्तं, तत्र किं समवायिकारणं सुखस्य ज्ञानमाहोस्विन्निमित्तम् । न तावत्पूर्वः कल्पः, तेषां ज्ञानवदात्मसमवायित्वात् । निमित्तत्वं तु सर्वार्थक्रियास्वविशिष्टं ज्ञानस्येति तासामपि ज्ञानत्वापातः । तस्मान्न किञ्चित्स्वसंवेदनमिति । यदुक्तं परैः सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षमिति, तत्प्रत्युक्तं भवतीति ॥ ८३ ॥ ननु समस्तोऽयं प्रमाणफलप्रपञ्चो लक्षणाभ्युपगमेन भवता दर्शितः । तदिह विषयविशेषोऽपि दर्शयितुमुचितः । यथान्यैः कल्पनापोढमभ्रान्तं प्रत्यक्षमिति प्रत्यक्षलक्षणमुक्त्वा तस्य स्वलक्षणविषयत्वं दर्शितमत आह सम्बद्धमिति । अयमभिप्रायः स नाम विषयं दर्शयतु[६६३]यस्य किञ्चिद्{१,२४०}व्यावर्त्यमस्ति, यथा बौद्धस्यैव सामान्यम् । अस्माकं तु सम्बद्धवर्तमानविषयं प्रत्यक्षं, न सामान्यविशेषयोरन्यतरदपि व्यावर्त्यमिति किं विषयनिर्देशेनेति ॥ ८४ ॥ __________टिप्पणी__________ [६६३] ति (Kआ) ___________________________ नन्वत्र भाष्यकारेण प्रत्यक्षमनिमित्तम्, एवंलक्षणकं हि ततित्युक्तम् । अतो यदेवंलक्षणलक्षितं तन्नामानिमित्तं भवतु । बौद्धादिलक्षितं तु किं निमित्तं न भवतीत्याशङ्क्याह लक्षणमिति । एवं हि मन्यते बौद्धादिलक्षणलक्षितमपि यदि लौकिकं प्रत्यक्षं, तर्हि नियतं विद्यमानोपलम्भनम् । नो चेत्प्रत्यक्षमेव न भवतीति सिद्धा सर्वस्यानिमित्ततेति ॥ ८५ ॥ ये च निर्विकल्पकप्रत्यक्षवादिनो बौद्धाः तेषां सुतरां धर्मे प्रत्यक्षस्यानिमित्ततेत्याह निर्विकल्पकेति । अत्र कारणमाह साध्यसाधनेति । स्वर्गयागादिसाध्यसाधनसम्बन्ध एव धर्मः, नासावविकल्प्य ग्रहीतुं शक्यत इति ॥ ८६ ॥ अत्र भाष्यकारेण प्रत्यक्षस्यानिमित्ततां प्रतिपाद्य तत्पूर्वकत्वाच्चानुमानादीनामप्यनिमित्तत्वमुक्तम् । तच्च तत्पूर्वकत्वासम्भवेनाक्षिपति कथमिति । किमिति न भवतीत्यत आह यदेति । एवं हि मन्यते इन्द्रियार्थसामर्थ्यमात्रजन्मा हि धीः प्रत्यक्षम् । सा च स्मृत्याक्षिप्तनामजातिगुणद्रव्यकर्मविकल्परहिता । न हीन्द्रियाणि स्मर्तुं शक्नुवन्ति । नाप्यर्थः । यथाहुः न हीन्द्रियमियतो व्यापारान् कर्तुं समर्थं,{१,२४१}सन्निहितविषयबलेनोत्पत्तेरिति । अतो नैवंविधप्रत्यक्षपूर्वकत्वमनुमानादीनामुपपद्यत इति ॥ ८७ ॥ ननु निर्विकल्पकप्रत्यक्षपूर्वकाणि किमित्यनुमानादीनि न भवन्ति, अत आह न चेति । अयमभिप्रायः लिङ्गादिविकल्पपूर्वकाण्यनुमानादीनि । न तेषां निर्विकल्पकादेवात्मलाभः सम्भवति । न च विकल्पसम्भिन्नानां ज्ञानानां प्रत्यक्षत्वमुपपद्यते । आन्तरालिकविशेषणविशेष्यार्थस्मरणेनेन्द्रियार्थव्यापारख्यवधानात् । न च निर्विकल्पकोदये व्यापृतं सदर्थेन्द्रियं पुनः सविकल्पकोत्पत्तावपि व्याप्रियत इति प्रमाणमस्ति, विशेषणादिस्मरणसमनन्तरं सम्भवत्सविकल्पकं तद्भावभावात्तत्कारणकमेव भवेत् । अपि च यदि तदिन्द्रियं पुनः सविकल्पकोत्पत्तावपि कारणं, तत्प्रागप्यासीदिति किं न सहसैवं सविकल्पकप्रत्ययानपि जनयेत् । अतो नेन्द्रियार्थसामर्थ्यजन्मानः सविकल्पकप्रत्यया इति न प्रत्यक्षम् । इन्द्रियव्यापारासत्तिमात्रेण तु प्रत्यक्षत्वे निमीलितनयनस्यापि विकल्पः प्रत्यक्षो भवेत् । यच्च नामाविकल्पकं प्रत्यक्षं न तल्लिङ्गादिविकल्पकमिति न कथञ्चित्प्रत्यक्षपूर्वकत्वमनुमानादीनाम् । उपमानेऽपि वनस्थस्य[६६४]गवयदर्शिनः[६६५]स्मृते नगरस्थे गवि यत्सादृश्यग्रहणं,[६६६]तदपि नाविकल्प्य भवतीति सम्बन्ध इति ॥ ८८ ॥ __________टिप्पणी__________ [६६४] स्थग [६६५] यसदृशस्मृ (ङा) [६६६] श्यं त (Kआ) ___________________________ अर्थापत्तिरप्यतीन्द्रियेषु विषयेष्वेव शक्ता श्रोत्रादिषु न परं प्रत्यक्षेण अन्येनापि प्रमाणेनाद्र्ष्टपूर्वेषु प्रवर्तते । सा कथं प्रत्यक्षपूर्विका भविष्यतीत्याह अर्थापत्तिरिति । क्वचित्पूर्वदृष्टेऽपि सन्निवेशविशेषविशिष्टे प्रवर्तते, यथा गृहाभावदृशः पुरुषस्य देवदत्तस्य बहिर्भावावगम इति प्राय इयुक्तम् । ननु भवत्वतीन्द्रियविषया अर्थापत्तिः । यत्तु अनुपपद्यमानमुपलभ्य प्रवर्तते तत्प्रत्यक्षपूर्वकं भविष्यतीत्यत आह प्रवर्तते{१,२४२}चेति । योऽपि दाहादिः शक्त्याद्यर्थापत्तेर्निमित्तं सोऽपि यावत्कथमिदं कदाचित् कार्यमकस्माज्जातमिति न विकल्प्यते, न तावदर्थापत्तेर्निमित्तं भवतीति ॥ ८९ ॥ अपि च यत्र देशान्तरप्राप्त्या सूर्यस्य गतिमनुमाय गतिसाधनं लिङ्ग्यनुमीयते, तत्र कथं प्रत्यक्षपूर्वकत्वमित्याह यत्र चेति । लिङ्गं सूर्यगत्यादीति सम्बन्धः । लिङ्गि तु गतिसाधनमत्र दर्शयितव्यमिति ॥ ९० ॥ प्रत्यक्षपूर्वकत्वे च गृहीतग्राहित्वादनुमानादीनामप्रामाण्यं प्रसज्यत इत्याह प्रत्यक्षेति । नन्वन्यदा प्रत्यक्षं प्रमाणं भवति, अन्यदा चानुमानादीनि प्रमाणं भविष्यन्तीत्यत आह तैर्यदेति । यद्यनुमानादिप्रवृत्तिकाले न प्रत्यक्षं प्रवर्तते, तदा सोऽर्थोऽक्षस्य न गोचरो भवतीति कथं प्रत्यक्षपूर्वकत्वम् । प्रत्यक्षावगतिवेलायां तु गृहीतग्राहित्वेनाप्रमाणमित्युक्तमेवेति ॥ ९१ ॥ अथोच्येत न ब्रूमः प्रमेयमेवानुमानादीनां प्रत्यक्षेण गृह्यत इति प्रत्यक्षपूर्वकत्वम् । अपि तु लिङ्गादेरन्यतरस्यादौ प्रत्यक्षेण ज्ञानात्, तदिदमाशङ्कते अथ कस्यचिदिति । सर्वस्य हि जातमात्रस्य प्रथमं किञ्चित्प्रत्यक्षं, ततोऽनुमानादीति सदृशं तत्पूर्वकत्वमिति । एतदपि दूषयति तदेति । अत्र हि भविष्यंश्चैषोऽर्थो न ज्ञानकालेऽस्तीति भविष्यत्त्वं धर्मरूपस्य प्रमाणान्तरेणाज्ञाने कारणमुक्तम् । तन्न प्राप्नोतीत्यर्थः ॥ ९२ ॥ किमिति न स्यादत आह वर्तमान इति । एवं हि मन्यते प्रमाणान्तरावेद्यतासिद्ध्यर्थं हि धर्मस्य प्रत्यक्षत्वं विनिवार्यते, न पुनः प्रत्यक्षमात्रेण{१,२४३}निवारितेन किण्चित्प्रयोजनम् । तावतापि चोदनैवेति प्रतिज्ञाया असिद्धेः । तद्यदि क्वचिदेव प्रत्यक्षेण गृहीतेऽनुमानादीनि प्रवर्तन्त इतीदृशं तत्पूर्वकत्वमनुमानादीनां, तदा प्रत्यक्षेण वर्तमान एव क्वचिदर्थे विज्ञाते अनुमानेनाविध्यमान एव धर्मोऽवगम्यते । एवं प्रमाणान्तरैरपि । ततश्च भविष्यत्त्वेन प्रत्यक्षाग्रहणमकिञ्चित्करमेव स्यात् । यदि प्रत्यक्षविषय एव तानि प्रवर्तन्त इतीदृशं तत्पूर्वकत्वं भवति, तदा प्रत्यक्षाविषये तान्यपि न प्रवर्तन्त इति प्रमाणान्तरावेद्यता सिध्यति । चोदनैवेति च प्रतिज्ञातार्थः । लिङ्गादिति प्रदर्शनमात्रम् । तैरनुमानादिभिरित्यर्थः ॥ ९३ ॥ इष्टविघातका(?री।रि) चेदृशं तत्पूर्वकत्वमित्याह प्रत्यक्षेणेति ॥ ९४ ॥ एवं दूषितमन्येषां मतेन समर्थयते केचिदिति । किं नामेदमत आह तत्पूर्वेति । एवं हि मन्यते नात्र तत्पूर्वकत्वं प्रमाणान्तराणामनिमित्तत्वे हेतुरुच्यते, किन् तु प्रत्यक्षानिमित्तत्वे प्रतिपादिते यत्तावत्तत्पूर्वकतया प्रामाण्यसम्भावनमनुमानादीनां, तत्तावन्नास्तीत्येतदनेन भाष्येणोक्तमिति ॥ ९५ ॥ अत्र चानुमानाद्यनिमित्तत्वे हेत्वनभिधानादपरितुष्यन् समाधानान्तरमाह प्रत्यक्षेणेति । अयमभिप्रायः प्रत्यक्षदृष्टगोचराण्येवानुमानादीनि । तथा हि नागृहीतेऽग्नौ धूमस्य तद्व्याप्तिरवधारयितुं शक्यत इति धूमदृशापि नाग्निरनुमीयत एव । यावन्नगरे गौर्न प्रत्यक्षेणावसीयते, तावद्वने गवयं पश्यतापि नोपमातुं शक्यते । तद्यदि धर्मोऽपि प्रत्यक्षेणावसीयते, कदाचित्ततस्तद्व्याप्तलिङ्गदर्शनादनुमीयेत वा, उपमीयेत वा । न{१,२४४}त्वसौ कदाचिद्प्रत्यक्ष इत्युपपादितम् । अयं चार्थो लिङ्गशब्दं प्रयुञ्जानेन वार्त्तिककारेण दर्शितः । न ह्यसति व्याप्तिदर्शने धूमोऽग्नेर्लिङ्गं भवति । न च व्याप्तिदर्शनमसत्यग्निज्ञाने । एवमुपमाने ऽपि दर्शयितव्यम् । आदिशब्देन सदृशमुपादत्त इति ॥ ९६ ॥ यच्चानुमितानुमानं न प्रत्यक्षपूर्वकमित्युक्तं तदप्ययुक्तम् । तत्रापि हि यावद्गतितत्साधनयोः प्रत्यक्षेण सम्बन्धो नावगम्यते, लिङ्गीयगतिसाधनं लिङ्गं च सम्प्रति दृश्यमाना देशान्तरप्राप्तिरादित्यस्य न तावदनुमानं प्रवर्तत इत्याह अनुमानेति ॥ ९७ ॥ अनुमाने सर्वत्र धर्मी धर्मविशिष्टः प्रमेयो भवति, न वस्तुसत्तामात्रम् । धर्मानुमाने तु धर्मोऽस्तीति सत्तामात्रमनुमेयमापद्यते । न च तद्युक्तमित्याह सत्ता चेति । यदि त्विहापि धर्मविशिष्टः कश्चिद्धर्म्येकोऽनुमीयेत, तद्धर्मविशेषणासिद्धेरयुक्तमित्याशङ्कया सहाह धर्मेणेति ॥ ९८ ॥ एवमुपपादितमननुमेयत्वं प्रयोगेण दर्शयति तस्मादिति ॥ ९९ ॥ अनुपमेयत्वेऽपि धर्मस्य प्रयोगमाह अदृष्टेति । यस्य हि सादृश्यमस्ति तत्सदृशम् । अवयवसामान्यानुवृत्तिश्च प्रतियोगिनि सादृश्यम् । न चासाधारणस्य सामान्यानुवृत्तिः सम्भवति । तथा हि तस्यासाधारणतैव{१,२४५}न स्यात् । तदयमीदृश(?मे)कः प्रयोगो भवति । धर्मो नोपमीयते अदृष्टसदृशत्वादसाधारणवत् । तथैव वा नानुमीयते नोपमीयते स्वयमनुपलम्भाद्गगनकुसुमवदित्यूहनीयम् ॥ १०० ॥ आह अस्तूपमानानुमानयोरनिमित्तत्वम् । अर्थापत्तिस्तु प्रायशोऽतीन्द्रियार्थविषया दृष्टेति तयैव जगद्वैचित्र्यदर्शनप्रसूतया धर्मोऽवगंस्यते इत्याह नन्विति । जगद्वैचित्र्यमेव दर्शयति सुखीति । ईश्वरदरिद्रादिभेदेन हि सुखिदुःख्यादिभेदभिन्नं जगदुपलभ्यते । तदेवं जगतो वैचित्र्यमसति कारणेऽनुपपद्यमानं कारणमवगमयति, तच्च धर्माधर्माविति । ननु सुखदुःखयोस्तावद्यदनन्तरं दर्शनसद्भावः, तदेव कारणम् । तत्रापि दृष्टमेवासीदिति किमदृष्टकल्पनया, अत आह दृष्टस्येति । सत्यपि च दृष्टे तन्न सम्भवति । अव्यभिचारि च कारणं कारणविदामिष्टम् । अतोऽदृष्टकल्पनैव प्रसक्तेति भावः । न केवलं सति दृष्टे न भवति, असत्यपि भवत्येव । यद्यस्मिन्नसति भवति तद्न तत्कारणकं घट इव शशविषाणाकारणक इत्याह तदभाव इति । व्यभिचारमेव प्रपञ्चयति सेवाध्ययनतुल्यत्व इति ॥ १०२ ॥ एतदेव निराकरोति स्यादेवमिति । निराकृते स्वभाववादेऽदृष्टं कल्पयितुं शक्यते । न च स्वभाववादो निराकर्तुं शक्यते । कर्मशक्तिवैचित्र्यसिद्ध्यर्थमवश्याभ्युपगमनीय इत्याह कर्मशक्तेरिति । अवश्यं हि फलवैचित्र्यसिद्ध्यर्थं कर्मणां शक्तिभेदोऽङ्गीकरणीयः । न हि तत्र स्वभावादन्यो हेतुरुत्प्रेक्षितुमपि शक्यत इति ॥ १०३ ॥ अथ तत्र स्वभावो हेतुरिष्यते, एवं तर्हि[६६७]सोऽपि जगद्वैचित्र्यार्थमेवास्तु । किमन्तर्गडुना कर्मशक्तिकल्पनया । तदेतदाह यथा चेति ॥ १०४ ॥ __________टिप्पणी__________ [६६७] र्हि तदपि (Kआ) ___________________________ अथोच्येत स्वभावो नामानपायी भवति, यथा शीतौष्ण्ये तोयतेजसोर्[६६८]इति । इह तु धनवानेवाकस्माद्दरिद्रः । न तत्स्वाभाविकत्व उपपन्नमिति कल्पनीयमदृष्टमिति, यद्विनाशादस्य धनविनाशो जायत इति । अस्तु तर्ह्यनिर्धारितरूपा अदृष्टसिद्धिः, किमतिनिर्बन्धेन यस्त्वयं विभागः इदं धर्मफलमिदमधर्मफलमिति, स नावगन्तुं शक्यते । न च तस्मिन्ननवगते किमपि कारणमस्तीति ज्ञानं क्वचिदुपयुज्यत इत्याह अधर्म इति ॥ १०५ ॥ __________टिप्पणी__________ [६६८] सोः । इ (ङा) ___________________________ एतदेव प्रपञ्चयति किन्न्विति । न केवलं धर्माधर्मफलविवेको न सिध्यति । धर्मफलानामपि स्वर्गपुत्रादीनां कीदृशात्कर्मभेदतः सिद्धिरित्येतदपि न ज्ञायत इत्याह स्वर्गपुत्रादीति ॥ १०६ ॥ न च वाच्यं मा ज्ञायि कर्मफलविवेकः । अस्ति तावत्कारणसामान्यज्ञानमिति । तावता च प्रवृत्त्यभावादित्याह इतीति । प्रवृत्त्यङ्गस्य च ज्ञानस्य हानोपादानार्थिभिर्मूलं परीक्ष्यत इत्याह प्रवृत्तीति ॥ १०७ ॥ {१,२४७} उपसंहरति तस्मादिति । सूत्रकारेणापि विशेषजिज्ञासैव प्रतिज्ञाता, उपरिष्टाद्विशेषाणामेव जिज्ञास्यमानत्वात् । स च विशेषोऽनन्यप्रमाणक इत्युक्तमित्याह विशेषस्येति ॥ १०८ ॥ काणादास्तु जगद्वैचित्र्यात्सामान्यतः सिद्धेरागमेन विशेषतोऽवगम्यते । तदयं द्वाभ्यामेव प्रमाणाभ्यां परिनितिष्ठतीति वदन्ति, तत्राह गम्यमान इति । एवं हि मन्यते सामान्यावगतौ त्विह विशेषो न निर्धार्यते व्यभिचारात् । विशेषस्तु सिध्यन्नानालीढसामान्य एव सिध्यतीति किं पृथक्तत्र प्रसिद्ध्या । तस्मादकारणमर्थापत्तिः सामान्यसिद्धाविति ॥ १०९ ॥ ये तु वदन्ति नेयमर्थापत्तिः, किन् तु सामान्यतोदृष्टानुमानमिदम् । कार्यसामान्यस्य कारणसामान्येन व्याप्तेः । अतो जगद्वैचित्र्यार्थापत्तिवादिनामिवानुमानमेवेदमिति । तेऽप्यर्थापत्तिनिरासेनैव निरस्ता इत्याह यथेति । अयमर्थः जगद्वैचित्र्यार्थापत्तिरिव सामान्यतोदृष्टानुमानं प्रवर्तत इति यानुमानस्योपमा कृता, सार्थापत्तिनिराकरणमात्रेणैव नेष्यते नानुमेष्यते नोपमेष्यत इति तु ये वदन्ति, तेषामुपमायामभागी प्रतिषेध इति । यदि त्वनुमानमपि विशेषावधारणे शास्त्रापेक्षमित्युच्यते, तदेव तर्हि सामान्यविशेषयोरपि निरपेक्षं प्रमाणमापद्यत इत्याह शास्त्रं चेदिति ॥ ११० ॥ एवं तावत्प्रत्यक्षेण लिङ्गाद्यन्यतमं गृहीत्वानुमानादि प्रवर्तत इति प्रत्यक्षपूर्वकमित्युक्तम् । इदानीं तु यदुक्तं न लिङ्गादिप्रत्यक्षमविकल्पनात्, प्रत्यक्षस्य लिङ्गादिग्रहणस्य च सविकल्पकत्वादिति । तद्दूषयितुमनुभाषते प्रत्यक्षेति । एवमनुभाष्य दूषयति तन्नेति । कारणमाह इष्टत्वादिति । अयमभिप्रायः नायमेकान्तः निर्विकल्पकमेव{१,२४८}प्रत्यक्षमिति । तदुत्तरकालं हि यदनुपरतेन्द्रियव्यापारेण विकल्पोपकृतमर्थरूपमनुभूयते, तदपि प्रत्यक्षमित्युपरिष्टात्प्रपञ्चयिष्यामः । अतः सविकल्पकप्रत्यक्षपूर्वकत्वम् अनुमानादीनामुपपन्नमिति ॥ १११ ॥ अत्र कश्चिदपिशब्दमसहमानः प्रत्यवतिष्ठते । एवं हि मन्यते सर्व एव सविकल्पकः प्रत्ययः, वाग्रूपानुविद्धबोधात् । न हि स नाम लोके प्रत्ययो दृश्यते यः शब्दानुगमाद्विना भवति । व्यवहारार्थं च प्रमाणमनुध्रियते । न च निर्विकल्पकेन कश्चिद्व्यवहारोऽस्ति, सर्वव्यवहाराणां विशेषनिश्चयाधीनत्वाद्निश्चयस्य च विकल्पमन्तरेणाभावात् । यदि तूच्यते अस्ति बालानां तिरश्चां चाविकल्पः प्रत्ययः व्यवहारश्चेति । तन्न । तेषामपि सूक्ष्मवागुपपत्तेः । त्रेधा हि वाचं विभजन्ते वैखरी मध्यमा सूक्ष्मा चेति । यथोक्तं शब्दब्रह्मैव तेषां हि परिणामि प्रधानवत् । वैखरीमध्यमासूक्ष्मावागवस्थाविभागतः ॥ इति । किं पुनर्बालानां सूक्ष्मशब्दसद्भावे प्रमाणं, प्रत्ययत्वमेव । प्रत्यया हि ते कथमशब्दा भविष्यन्ति अस्मदादिप्रत्ययवदेव । कथमव्युत्पन्ना बालाः शब्देनार्थं योजयन्तीति चेद्, न । प्राग्भवीयशब्दवासनावशादुपपत्तेः । अस्ति हि तेषां भवान्तरीयशब्दवासना । सादृष्टवशादभिव्यक्ता सती शब्दस्मरणमुपकल्पयति । ततः सूक्ष्मशब्दसम्भिन्नमर्थं बाला अपि प्रतिपद्यन्ते इत्यतोऽयुक्तो विकल्पस्यापीत्यपिशब्द इत्यत आह अस्तीति । अयमभिप्रायः अयमप्यनेकान्तः यः सविकल्पक एव प्रत्यक्ष इति । आलोचनाज्ञानमपि सविकल्पकात्पृथग्भूतमस्ति । प्रतीमो हि वयमुन्मिषितचक्षुषः सहसा संमुग्धं द्व्याकारं परमार्थं वस्तु, यत्सामान्यं विशेष इति च पश्चात्परीक्षका विभजन्ते । यदि तु नादावुदीयते निर्विकल्पकं विज्ञानमित्युच्यते, ततः सविकल्पकमपि कथमात्मानं लभते । तद्धि सङ्केतकालभाविशब्दादिस्मरणपूर्वकम् । न चाकस्मादेव तत्स्मरणमाविरस्ति, निर्विकल्पकोद्बोधितप्राचीनभावनाबीजजन्मान्{१,२४९}अस्तु विकल्पा इति युक्तं यदात्मानं लभत इति । यदपि चाव्यवहाराङ्गत्वं निर्विकल्पकस्येत्युक्तम् । तदयुक्तम् । न हि व्यवहारार्थमेव प्रमाणमाश्रीयते । उपेक्षा हि प्रमाणफलमिष्यत एव । अपि च सन्ति केचिद्व्यवहाराः ये निर्विकल्पकमात्रादेव भवन्ति, यथाग्निना दह्यमानस्य सहसापसरणम् । तद्धि परामर्शानपेक्षम् एव झटिति जायमानमुपलभ्यते । तिर्यग्बालानां चाविकल्पकेनैव सर्वो व्यवहारः । न च तेषां सूक्ष्मशब्दसद्भावे प्रमाणमस्ति । प्रत्ययत्वस्यास्मदादिस्वसंवेद्याविकल्पकप्रत्ययेनानैकान्तिकत्वात् । कथं च तेषामगृहीतसम्बन्धानां शब्दसम्भिन्नार्थबोधः । यदुक्तं प्राग्भवीयवासनावशादुपपत्तिरिति, तन्न । तस्याः प्रायेण मरणेनोच्छेदात् । भवान्तरानुभूतस्मरणे वा परस्तादपि सम्बन्धग्रहणानर्थक्यम् । यो हि जातमात्रः सूतिकाशयन्ते शयानः कुमारको भवान्तरीयं स्मरति, स कथमुपरिष्टान्न स्मरिष्यति । अथ मतं परस्तादस्य संस्कारो नश्यतीति । तन्न । यस्य हि निधनेन योनियन्त्रपीडया च संस्कारो न विनष्टः, तस्य कथमकस्मादेव द्वित्रैरेव वर्षैः संस्कारनाशो भवति । तस्मादस्ति बालानामविकल्पः प्रत्ययः, तन्मूलश्च व्यवहार इति सिद्धं निर्विकल्पकमपि प्रत्यक्षमिति । आदिशब्देन च जातमात्रस्य बधिरस्य तिरश्चां च ज्ञानमुपादत्त इति ॥ ११२ ॥ नन्वर्थेन्द्रियसामर्थ्यमात्रजं ज्ञानं निर्विकल्पकम् । न तत्रानुवृत्तिव्यावृत्ती प्रतिभासेते । न च ते अन्तरेण सामन्यविशेषौ प्रकाशेते । अतः कथं तद्विषयं निर्विकल्पकं भविष्यतीत्याशङ्क्याह न विशेष इति । एवं हि मन्यते सत्यमापातजं निर्विकल्पकं सामान्यविशेषौ न प्रकाशयति । किमत्रानिष्टमापादितमिति । ननु यदि सामान्यविशेषौ न प्रतीयेते, किं नाम तेनावगन्तव्यम् । न हि तदतिरिक्तं वस्त्वस्तीत्यत आह तयोरिति । अयमभिप्रायः व्यक्तिमात्रगोचरं निर्विकल्पकम् । अस्ति वा विशेषातिरिक्ता व्यक्तिः । बाढं, योऽर्थः सामान्यस्य विशेषाणां चाश्रयः सा व्यक्तिः । के पुनरमी विशेषाः । खण्डादयः, यैरितरेतरं व्यक्तयो विशेष्यन्ते । सामान्यं तु{१,२५०}स्वप्रकाशमेव । इदं च निर्विकल्पकेन सामान्यविशेषयोरग्रहणं सामान्यमिदं विशेषोऽयमिति च विविच्याग्रहणादुक्तम् । तयोरपि तु स्वरूपं प्रकाशत एव । तदेतदुपरिष्टाद्वक्ष्याम इति ॥ ११३ ॥ अद्वैतवादिनस्तु सन्मात्रविषयं निर्विकल्पकं प्रत्यक्षमित्याचक्षते, तदेतदुपन्यस्यति महासामान्यमिति । एवं हि मन्यन्ते निर्विकल्पकं प्रत्यक्षं वस्तुस्वरूपं विदधाति न वस्त्वन्तरेभ्यो विविनक्ति । इदमिति हि तत्प्रकाशते न पुनर्नेदमिति । न चाप्रकाशमाने विवेके विशेषाः प्रतिभाता भवन्ति । अपि च गवाश्वयोरितरेतरव्यवच्छेदो विशेषः । तदिह किमेकव्यवच्छेदपूर्वकोऽपरस्य विधिः, आहोस्विदेकविधिपूर्वकोऽन्यस्य व्यवच्छेदः, अथ युगपदुभयम् । न तावद्व्यवच्छेदपूर्वको विधिः सम्भवति, निराश्रयव्यवच्छेदानुपपत्तेः । निर्ज्ञातस्वरूपं कुतश्चिद्व्यवच्छिद्यते । अनवगते तु किं कुतो व्यवच्छिद्यते । अत एव यौगपद्यमप्यनुपपन्नम् । विधिपूर्वकस्तु व्यवच्छेदो न क्षणान्तरमध्रियमाणे ज्ञाने सम्भवति । न हि तदेकं विधाय सहसा निरुद्धं क्षणान्तरेऽन्यं व्यवच्छेत्तुमुत्सहते । अपि च इतरेतराभावो विशेषः । स कथं प्रत्यक्षविषयो भविष्यति, षष्ठप्रमाणविषयत्वात् । अतः सन्मात्रग्राहि प्रत्यक्षम् । तदयमर्थः द्रव्यं सदित्येवमादिपर्यायवाच्यं महासामान्यमन्यैः प्रत्यक्षस्य ग्राह्यमुच्यत इति । एवमनेन प्रकारेण सामान्यविषयत्वं प्रत्यक्षस्य तैराश्रितमित्याह सामान्येति ॥ ११४ ॥ नन्वेवमप्यप्रतिभासमाना विशेषा न सन्त्येवेति कथं सामान्यमपि सेत्स्यतीत्यत आह विशेषास्त्विति । अनादिकालीनवासनोपप्लावितविचित्रविकल्पवतीभिर्बुद्धिभिर्विशेषाः प्रकाश्यन्ते । अतस्तदाश्रयः सामान्यव्यवहारो भवति । परमार्थतस्तु न तत्सामान्यम् । एकमेव तु प्रत्यस्तमितसमस्तसामान्यविशेषादिप्रपञ्चं तत्त्वमास्थीयते वेदान्तविद्भिः । तथा च{१,२५१}सर्वविशेषोपसंहार उक्तं सदेव सोम्येदमग्र आसीत्नेह नानास्ति किञ्चनेति । के पुनस्ते विशेषाः ये सविकल्पकबुद्धिभिः प्रतीयन्त इति तत्स्वरूपं दर्शयति ते चेति । द्विधा खलु विशेषाः साधारणा असाधारणाश्चेति । साधारणा यथा द्रव्यत्वादयः ।[६६९]तर्हि पृथिव्यादयः सदन्तरेभ्यो गुणकर्मभ्यो विशि[६७०]ष्यन्त इति विशेषा इत्युच्यन्ते । तानेव तु बहुषु संश्रिता इति ॥ ११५ ॥ __________टिप्पणी__________ [६६९] यः स (Kआ) [६७०] शे ___________________________ आह द्रव्यत्वं हि नवसु पृथिव्यादिषु संश्रितमसाधारणास्तु ये प्रतिद्रव्यमन्येऽन्ये च । के पुनस्ते । यदि खण्डादयः, तन्न । तेषामपि साधारणत्वात् । खण्डमुण्डादीनामपि[६७१]ह्यन्या अन्या व्यक्तयो भवन्ति । एवं रूपादिष्वपि दर्शयितव्यम् । अतो नासाधारणा नाम विशेषाः केचिदवगम्यन्ते । ये तु नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः, ते व्यावृत्तिबुद्धेरेव हेतुत्वाद्विशेषा एवेति कैश्चिदुक्तम् । तदयुक्तं, प्रमाणाभावात् ।[६७२]तथा हि न तावदर्वाग्दृशामस्मद्विधानां ते बुद्धिविषयाः । योगिनस्तु तान् पशन्तीति न नः प्रमाणं क्रमते । न चैवं तैरदृष्टपूर्वैः किञ्चिद्विदितसम्बन्धं लिङ्गमस्ति यतः प्रमास्यन्त इति वक्तव्याः प्रतिद्रव्यवर्तिनो विशेषाः । त उच्यन्ते । सत्यमेकैकश आलोच्यमाना रूपादयो नासाधारणाः यावता गुणजात्यादिगणेनैकैका व्यक्तिः व्यक्त्यन्तरेभ्यो विशिष्यते सोऽसाधारण एव । बहुसाधारण्येऽपि हि यदेव किञ्चिद्यस्यामेव व्यक्तौ न्यूनमधिकं वा भवति, तेनैवासाधारणव्यपदेशो भवति । तच्चैतदाकृत्यधिकरणे असाधारणविशेषा व्यक्तिरिति व्याख्यानावसरे वार्त्तिककारो वक्ष्यति ।[६७३]तानिमान् व्यावृत्त्यनुगमा[६७४]त्मनावस्थितानुभयविधानपि विशेषानकल्पयत् । गव्यश्वे वा प्रत्यक्षमुत्पन्नं न विशिष्यते । विषयविशेषनिबन्धनो हि ज्ञानविशेषः । न चेद्विषयविशेषो निर्भासते दुरधिगमो ज्ञानविशेषः । अतः प्रत्यक्षज्ञानं सन्मात्रगोचरमेवेति सिद्धम् । तदेतदाह तानिति ॥ ११६ ॥ __________टिप्पणी__________ [६७१] ण्डा अपि (ङा) [६७२] त् । न (Kआ) [६७३] तीति त [६७४] ता (ङा) ___________________________ {१,२५२} एतन्निराकरोति तदयुक्तमिति । अयमभिप्रायः किमुन्मिषितचक्षुषो विचित्रान् भावानुपलभमानस्य बुद्धिर्विशिष्यते न वा । यदि नेत्याह, किमस्योत्तरेण । अथ विशिष्यते, सैव तर्हि विलक्षणाकारा बुद्धिरुपजाता असंशयिता देशादिभेदेऽप्यनुपजातव्यतिरेका एकत्वमिव नानात्वमपि स्थापयति । कथं ह्येकबुद्धिगोचरयोर्नानात्वैकत्वयोरेकं सत्यमितरच्चालीकं भविष्यति । यत्तु विदधाति वस्तुनः स्वरूपं प्रत्यक्षं न निषेधतीत्युक्तम् । सत्यम् । विदधदेतद्भिन्नमेव विदधाति तथा प्रतीतेः । नन्वितरप्रतिषेधाद्विना भिन्नं विधातुमेव न शक्यते । मैवम् । न हीदमितरप्रतिषेधाद् वस्तुभिन्नं, किं तर्हि स्वरूपेणैव । अतस्तत्प्रकाशते । भिन्नं न प्रकाशत इति दुर्भणम् । अत एवेतरेतराभावस्य प्रत्यक्षतापत्तिरिति यदुक्तं तदपि प्रत्युक्तम् । न हि भिन्नं ग्रहीतुमितरेतराभावो ग्रहीतव्यः । सोऽपि तत्रास्तु तावत् । न प्रत्यक्षेणावसीयते । पश्चात्तु प्रतियोग्यादिस्मरणपुरस्सरं भावविकल्पेनासावध्यवसीयते । योऽपि विधिव्यवच्छेदयोः क्रमयौगपद्यविकल्पः, सोऽप्यसदर्थ एव । न ह्यत्र निर्विकल्पकोदयकाले व्यवच्छेदावगतिरस्ति । किं तत्क्रमादिपरिचोदनया । स्वरूपमात्रं तु वस्तुनः प्रकाशते । तच्चानुभवबलादेव विलक्षणमित्युक्तम् । ननु यदि स्वरूपभिन्नं वस्तु किं विशेषैः । न प्रयोजनवशाद् वस्त्वाश्रीयते । किण्तु संविद्वशेन । सा चाविशिष्टा विशेषेष्विति विशेषाः कथं नाश्रीयेरन् । अपि च असत्सु विशेषेषु तद्भिन्नं स्वरूपमेव न संवर्तते । यथा असत्सु चित्रावयवनीलादिषु चित्ररूपम् । न चैतावता तत्तेभ्यो भिन्नं भवति । न च तद्ग्रहणमन्तरेण गृह्यते । तद्वद्विशेषवशप्रभावितमेव द्रव्यस्य भिन्नं रूपं तद्ग्रहणसमकालं चानुभूयत इति तन्निरपेक्षग्रहणप्रसङ्गोऽपि न चोदनीयः । सर्वं चैतत्संचिद्बलादेवास्माभिरभिधीयते । न पुनरलौकिकं किञ्चिदुपकल्प्यते । एतदेवाभिप्रेत्य भिन्नरूपोपलम्भनातित्युक्तम् । किमुक्तं भवति । रूपम् एव तद्यदेतद्भिन्नम् । अतो युक्तं यदन्यव्यवच्छेदादिबोधनिरपेक्षेण प्रत्यक्षेणावसीयत इति । आह तत्तर्हि रूपं व्याक्रियतामिदं नामेति, अत आह न हीति । अयमभिप्रायः नोपाख्या{१,२५३}वस्तुनः सत्त्वे कारणम् । अपि तर्हि, प्रख्या । अस्ति चात्र निर्विकल्पकदशायामपि विलक्षणवस्तुसंविद्भिन्नरूपविषया सा इति च दर्शितम् । तच्च निर्विकल्पकप्रतिभातं रूपं पश्चात्तु द्वित्रादिभिर्विशेषैः परस्मा अप्यदूरान्तरेण दर्शयितुं शक्यमेवेति ॥ ११७ ॥ किमिदानीं व्यावृत्तरूपविषयमेव[६७५]निर्विकल्पकं, नेत्याह निर्विकल्पकेति ग्रहणमन्तेन । सामान्यविशेषात्मनोऽपि वस्तुनो ग्रहणमित्यर्थः । तथा हि यदायमेकदा नानात्मनो गोपिण्डानुपलभते, तदास्य सहसैवाविकल्पकेन द्व्याकारा मतिराविरस्ति । एकव्यक्तिबोधेऽपि चासावाकारोऽवभासत एव । रूपं हि तद्व्यक्तेः, कथं तस्यां प्रकाशमानायां न प्रकाशेत । तथा दृष्टैकव्यक्तेरपरदर्शने स एवायं गौरिति प्रत्यभिज्ञानमुदेति । न च तददृष्टपूर्वे सम्भवति । आह च __________टिप्पणी__________ [६७५] त्तविषयरूपमेव ___________________________ तत्रार्थापत्तितः पूर्वं दृष्टेयमिति गम्यते । नैव हि प्रागदृष्टेऽर्थे प्रत्यभिज्ञानसम्भवः ॥ इति । ननु न विशेषः न सामान्यं निर्विकल्पकेनानुभूयत इत्युक्तम् । कथमिदानीं द्व्यात्मकस्यापि ग्रहणमित्युच्यत इत्यत आह लक्षणाख्येयमिति । अयमर्थः लक्षणाख्येयमिदं निर्विकल्पकस्य रूपं सामान्यविशेषात्मकं वस्तु निर्विकल्पकेन विषयीक्रियत इति । तच्च निर्विकल्पकलक्षणकारैरेव परीक्षकैराख्यायते । प्रमाता तु सामान्यमिदं विशेषोऽयमिति च विवेकविधुरमिदमिति संमुग्धरूपमेव वस्तूपलभते । शुद्धमिति । अनुवृत्तिव्यावृत्तिपरामर्शरहितं गृह्यत इत्यर्थः । शुद्धवस्तुजमित्यत्रापि शुद्धशब्दस्यायमेवार्थो द्रष्टव्यः ॥ ११८ ॥ शुद्धं गृह्यत इत्येतदेव प्रपञ्चयति न [६७६]हीति । अयमभिप्रायः स्वरूपमात्रेण सामान्यविशेषौ निर्विकल्पकेन गृह्येते । नासाधारणतया ।{१,२५४}सामान्यतया च व्यावृत्त्यनुगमविकल्पाभावात् । ननु किं तदन्यद्व्यावृत्तेरनुगमाच्च विशेषस्य सामान्यस्य च स्वरूपं यद्गृह्यत इत्युच्यते । स एव तयोरात्मा । कथं तदग्रहे तयोरग्रहणमुपपत्स्यते । अहो विवेककौशलं तत्रभवताम् । अनुगमव्यावृत्तिधर्माणौ सामान्यविशेषौ न पुनरनुगतिव्यावृत्ती एवेति यत्किञ्चिदेतत् ॥ ११९ ॥ __________टिप्पणी__________ [६७६] त्वि (ङा) ___________________________ एवं निर्विकल्पकं व्याख्यायेदानीं तद्बलभाविनः सविकल्पकस्य प्रत्यक्षत्वप्रमाणत्वे दर्शयिष्यन् प्रत्यक्षतां तावदाह ततः परमिति । अस्यायमर्थः ततो निर्विकल्पकात्परं जातिगुणकर्मनामभिर्यया बुद्ध्या विकल्प्य वस्तु गृह्यते यथा गौरयं शुक्लोऽयं डित्थोऽयमिति, सापि प्रत्यक्षत्वेन सम्मतेति ॥ १२० ॥ ननूक्तमिन्द्रियार्थसामर्थ्यमात्रजं हि ज्ञानं प्रत्यक्षमिति स्मृत्याकृष्टसमस्तनामजात्यादिबलभुवश्च विकल्पाः । न चेन्द्रियाणामर्थस्य च स्मरणसामर्थ्यमित्यप्रत्यक्षं सविकल्पकमित्यत आह करणं चेति । अयमर्थः यदीन्द्रियाणि स्मृत्वार्थं विकल्पयन्तीत्यस्माभिरुच्येत, तदेवमुपालभ्येमहि यत्तानि स्मर्तुं न शक्नुवन्तीति । न त्वेतदेवम्, इन्द्रियाणां करणत्वात् । कर्तरि चात्मनि स्मरणसमवायात् । अतस्[६७७]तत्स्मृत्याद्यशक्तिरदोष एवेति ॥ १२१ ॥ __________टिप्पणी__________ [६७७] तः स्मृ (Kआ) ___________________________ किमाश्रितं तर्हि ज्ञानमत आह आत्मन्येवेति । आत्मा हि चेतयते । स च प्राग्भवीयधर्मोपार्जितेन्द्रियोपनीतमर्थं बुध्यते स्मरत्यनुसन्धत्ते चेति न किञ्चिदनुपपन्नमिति ॥ १२२ ॥ {१,२५५} नन्वेवमिन्द्रियसम्प्रयोगस्य शब्दादिस्मरणेन व्यवहितत्वादप्रत्यक्षमापद्येतेत्युक्तम्, अत आह तेनेति । अयमभिप्रायः नात्रेन्द्रियार्थसम्बन्धो विच्छिन्नः । विद्यमाने च तस्मिन् शब्दादि स्मरन्नपि येनैव जात्यादिना वस्तु विकल्प्य गृह्णाति तत्र प्रत्यक्षवान्नरो भवत्येव । स्मरणेनेन्द्रियाणामदूषितत्वादिति भावः ॥ १२३ ॥ नन्विन्द्रियमात्रप्रभावितं प्रत्यक्षमित्युच्यते । तत्र शब्दादिस्मरणसहितानीन्द्रियाणि कारणमिति कथं प्रत्यक्षशब्दवाच्यत्वमत आह तच्चैतदिति । इन्द्रियाधीनं ज्ञानं प्रत्यक्षमाख्यायते । गौरयमित्यपरोक्षाभासं ज्ञानमनुपरतेन्द्रियव्यापारस्य जायमानमिन्द्रियाधीनमेवेति तैरिन्द्रियैर्व्यपदिश्यत एव, स्मृतिसहायानामपि तेषामेव कारणत्वादिति भावः । ये त्वनपेक्षिताक्षव्यापारा एव गौरयमित्यादिस्मरणविकल्पाः तेऽस्माभिरपि स्मृतिमात्रहेतुत्वान्न प्रत्यक्षतयेष्यन्त इत्याह तदसम्बन्धेति ॥ १२४ ॥ इन्द्रियसम्बन्धानुसारिणस्तु भूयांसो विकल्पाः प्रत्यक्षशब्दवाच्या एवेत्याह पुनरिति ॥ १२५ ॥ यत्तूक्तं यदीन्द्रियाणि विकल्पोदये कारणं किं न सहसैव जनयन्तीति, तत्राह न हीति ॥ १२६ ॥ अथास्फुटावभासमापातजं तत्रैन्द्रि(?य्यि)कं ज्ञानमस्तीत्युच्यते, तदत्रापि समानमित्याह यथेति ॥ १२७ ॥ यत्तूक्तं किञ्चिद्दृष्टवतो निमीलितनेत्रस्यापि विकल्पः इन्द्रियव्यापारासत्तिमात्रेण प्रत्यक्षो भवेदिति, तन्न । अनभ्युपगमादेवेत्याह यदि त्विति । अयमभिप्रायः नेन्द्रियव्यापारासत्तिरैन्द्रि(?य्यि)कत्वे कारणं, किं तर्हि, इन्द्रियव्यापारानुपरति । अत इन्द्रियसम्बन्धानुसाराभावात्तत्र प्रत्यक्षता न स्यादिति ॥ १२८ ॥ नन्वनेकात्माक्षादिकारणं सविकल्पकं, कथं तदक्षेणैव व्यपदिश्यते अत आह असम्बन्धेति । अयमर्थः असाधारणं हि शब्दप्रवृत्तौ कारणम् । आत्मादि च कारणमिन्द्रियासम्बन्धार्थेषु[६७८]विकलपेषु स्मरणानुमानादिषु तुल्यम् । अक्षमेव त्वपरोक्षावभासिनः[६७९]सविकल्पक[६८०]स्योदयेऽसाधारणकारणमिति तेनैव व्यपदिश्यते । कल्पन इति सविकल्पकज्ञान इत्यर्थः । __________टिप्पणी__________ [६७८] म्बन्धवि [६७९] नि [६८०] कोदये ___________________________ निर्विकल्पकप्रत्यक्षवादिनामपीदं चोद्यं समानमित्याह निर्विकल्पकेति । यदि त्विन्द्रियजन्मनो हि निर्विकल्पकस्यानन्तरं सम्भवदेतत्सविकल्पकं तत्कारण[६८१]कमेव, इन्द्रियं तु निर्विकल्पकोत्पत्तावेवोपक्षीणव्यापारमित्युच्यते, तथापि परम्परयाक्षकारणत्वेन प्रत्यक्षं व्यपदेक्ष्यते । यथा कुसुमं पङ्कजमिति । न हि तत्पङ्काज्जायते । किं तर्हि पङ्कभुवः कन्दात्केवलम् । इदं परम्परयाक्षजत्वमविशिष्टमनुमानादीनामिति तेषां प्रत्यक्षशब्दवाच्यतानिराकरणार्थं रूढिमप्येषिष्यामः । यथा पङ्कज[६८२]शब्द एव व्यवहितस्य योगस्य सौगन्धिकादिसाधारण्यान्नियामिका रूढिरिष्यते । सेयं योगरूढिरिति वार्त्तिककारीयैराख्यायते । तदेतदाह तत्पारम्पर्येति । इदं त्विह वचनीयम् रूढिश्चेदाश्रिता किं योगाभ्युपगमेन । समुदायशक्त्यैव हि तदाश्वकर्णादिवत्क्वचिदेव शब्दो वर्तिष्यते क्वचिच्च नेति किं{१,२५७}योगव्यसनेन । न व्यसनितया योगमाश्रयामः, प्रतीतं तु योगं न हातुं क्षमामहे अवघात इव दृष्टम् । यथा तत्रैव नियमान्यथानुपपत्त्या दृष्टकल्पना, तथात्रापि प्रयोगनियमाय[६८३]समुदायशक्तिकल्पनेति किमनुपपन्नम् । नन्वप्रयोगादेवान्यत्राप्रयोगो भविष्यतीति । किमिदमप्रयोगादप्रयोग इति । यदि पूर्वपूर्वेषां प्रयोक्तॄणामप्रयोगाद् उत्तरोत्तरेषामप्रयोग इति । तदयुक्तम् । अप्रयोगाभावात् । प्रयोगमात्रे हि प्रवृत्तिहेतुता, अवयवयोः स्वार्थे प्रयोगो दृश्यत एव । समुदायस्तु नान्यः कश्चिद्यस्याप्रयोग इति शक्यते वक्तुम् । समुदायशक्तेरनभ्युपगमात्प्रयोगमात्रादेव पङ्कजादिशब्दप्रवृत्तेः । प्रयुक्तो हि पङ्कशब्दः पङ्के । जनिः प्रादुर्भावे । तदतिरिक्तं वस्तु समुदायो नास्त्येव । कस्याप्रयोग इति वक्तव्यम् । अर्थान्वयो हि तथा प्रवृत्तौ हेतुः । स च सौगन्धिकादिष्वपि समान इति तेष्वपि पङ्कजशब्दप्रवृत्तिः । अतोऽवश्यमन्यत्राप्रयोगार्थं रूढिराश्रयितव्या । यदुक्तमन्यत्राप्रयोगस्तु रूढिमापादयतीति, तदिष्यत एव । योगोऽपि दृष्टो न हातुं शक्यत इत्युक्तम् । अश्वकर्णादौ त्ववयवानुगमाभावात् क्वचिदेव रूढिरात्मानं लभते । अतो नेयं रूढिरेव केवला नापि केवलयोगः । योगरूढिरिति मन्यन्ते वृद्धा इति ॥ __________टिप्पणी__________ [६८१] णमि [६८२] ज ए (Kआ) ___________________________ [६८३] य श ___________________________ अथ व्यवधानादकारणं योग इति मन्यसे, तथापि रूढ्यैव केवलया प्रत्यक्षशब्दः सविकल्पके वर्तिष्यते । भूम्ना हि तत्रैव लौकिकाः प्रत्यक्षशब्दमुपचरन्ति । अल्पं निर्विकल्पक त्याह अनिमित्तैवेति ॥ १३१ ॥ यदि तूच्यते सत्यं वृद्धाः प्रयुञ्जते । लक्षणकारास्तु निर्विकल्पकमेव प्रत्यक्षमातिष्ठन्ते । यथाहुः कल्पनापोढमभ्रान्तं प्रत्यक्षमिति । अत आह वृद्धप्रयोगेति द्वयेन । अयमभिप्रायः लौकिको हि शब्दार्थ{१,२५८}सम्बन्धः । तेन परीक्षकैरपि यथालोकमेव वर्तितव्यम् । अन्यथाकरणे तेषां लोकबाध एवेति ॥ १३३ ॥ अपि च कल्पनापोढवादिनामपि कल्पनाज्ञानं स्वसंवेदने प्रत्यक्षमिष्टमेव । यदेवमाहुः कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनात् इति । एवं हि मन्यन्ते न कल्पना स्वसंवित्तिरात्मानं विकल्पयति, बहिरर्थविकल्पावभासित्वात् । असाधारणस्य च कल्पनात्मनोऽपि कल्पनास्पदत्वात् । अत्राप्याहुः नैनमियमभिलापेन संसृजति तथा वृत्तेरात्मनि विरोधातिति । तेषामतः स्वसंवित्तिर्नाभिजल्पानुषङ्गिणी इति च । तदिदं कल्पनास्वसंवेदनं प्रत्यक्षं नोपपद्येत । तदपि हि निर्विकल्पकप्रत्ययान्तरिताक्षव्यापारमेव । अथ तत्र रूढ्या प्रत्यक्षशब्दो वर्तत इत्युच्यते, तद्गोत्वादिबहिर्विषयप्रकाशेऽपि समानं, न परं स्वसंवित्तावित्यभिप्रायेणाह कल्पनेति । यदि मतमस्ति तत्रेन्द्रियजं निर्विकल्पकज्ञानं समनन्तरप्रत्ययः । तदेव मन इत्याचक्षते । यथाहुः तच्चतुर्विधमिन्द्रिय(?ज)मिन्द्रियजं समनन्तरप्रत्ययोद्भवं मानसमिति । मनोऽपि चेन्द्रियमिति मनोधीनतया प्रत्यक्षं भविष्यतीति । तद्गोत्वादिबोधेऽपि समानम् । तद्बोधेऽपि वयं मनोव्यापारमातिष्ठामह एव । मनःस्वरूपे तु विवदामः । तत्तावदन्यदेवेत्याह मन इति ॥ १३४ ॥ नन्वान्तरं मनः कथं बहिर्विषयबोधे वर्तिष्यत इति, तत्तावदाशङ्कते स्वसंवित्ताविति । परिहरति लोक इति । अयमभिप्रायः {१,२५९}सत्यमिष्टं कल्पनाज्ञानं स्वसंवेदने प्रत्यक्षमिति भवद्भिः । लौकिकास्तु विपरीतं मन्यन्ते । अयं गौरिति पररूपनिरूपणं सविकल्पकं लौकिका मन्यन्ते न पुनरहं गौरित्यात्मनिरूपणम् । यदपि बाह्येषु मनो न वर्तत इति । सत्यम् । बहिरिन्द्रियानपेक्षं न प्रवर्तते । गोत्वादयस्तु संयुक्तसमवायेन चक्षुषा सन्निकृष्यन्त इत्यस्ति तेषु मनोव्यापार इति तन्निबद्धम् अक्षव्यपदेशं लभत इति भावः । अतोऽवश्यं स्वसंवेदने कल्पनाप्रत्ययं प्रत्यक्षमाचक्षाणैर्मनो वा अक्षमभ्युपगन्तव्यं रूढिर्वा परिभाषा वा । सर्वथा वयमपि प्रत्यवस्थातुं शक्ता इत्यभिप्रायेणाह तस्मादिति ॥ १३५ ॥ सुखादिस्वसंवेदनेऽपि मन एवाक्षमाश्रितं भवद्भिः । तद्वदिहापि जातिविकल्पो भविष्यतीत्याह मनसस्त्विति ॥१३६ ॥ अथ समानेऽपि मनोधीनत्वे स्वकीयकल्पनापोढलक्षणानुसारेण किञ्चिदेव प्रत्यक्षमाश्रीयते । तथा सतीच्छानुसारेण व्यवस्थायामिष्यमाणायां वयमपि यथाशयं किञ्चिदेव प्रत्यक्षं वक्ष्याम इत्याह तदधीनत्वेति ॥ १३७ ॥ पारिशेष्यादपि प्रत्यक्षान्तर्भाव एवास्याः सविकल्पकधियो युक्त इत्याह लिङ्गादीति । ननु सति प्रामाण्ये पारिशेष्यं भवति, न त्वियं प्रमाणमत आह बाधकेति ॥ १३८ ॥ इदं त्विह वक्तव्यम् सत्यं नेयमप्रमाणं, मृगतृष्णादिज्ञानवद्व्यवहाराविरोधात् । न च प्रमाणमसदर्थगोचरत्वात् । निर्विकल्पपरिप्लावितस्वलक्षणप्रापकतया स्मृतिरित्याख्यायते । न च स्मरणं प्रमाणमत आह न चेति । पूर्वदृष्टार्थविषयं स्मरणं भवति । न च निर्विकल्पकेन सामान्यदर्शनम्{१,२६०}अस्ति, अप्रत्यक्षविषयत्वात्तस्य भवत्सिद्धान्ते । अस्माकमपि स्वलक्षणान्तरसम्भेदः पूर्वमदृष्ट एव । न चासदर्थत्वं, वक्ष्यमाणन्यायेन जात्यादीनां स्थास्यमानत्वात् । अतो नागृहीतग्रहणादप्रामाण्यं नासदर्थतया वेति, अतः प्रमाणं सत्पारिशेष्यात् प्रत्यक्षेऽन्तर्भवतीत्युपसंहरति तस्मादिति । भवन्तोऽपि वाङ्मनसविसंवादेनैवास्याः बुद्धेरप्रामाण्यमाचक्षते । सर्वव्यवहाराणां सविकल्पकाधीनत्वादित्याह व्यवहार इति ॥ १३९ ॥ ननु किमिदं नाप्रामाण्यं च युज्यत इति । विशिष्टावगाहिनो हि विकल्पाः । भिन्नं च विशेष्याद्विशेषणम् । अभेदे विशेषणविशेष्यानुपपत्तेः । अतोऽर्थान्तरभूतैर्जात्यादिभिर्विशिष्टे वस्तुनि गृह्यमाणे अतस्मिंस्तद्ग्रहणाद्भ्रान्तिरेव सविकल्पकज्ञानमित्याह जात्यादीति ॥ १४० ॥ परिहरति नैतदिति । कारणमाह स्थितमिति । पररूपेण हि परस्मिन्निरूप्यमाणे भ्रान्तिर्भवति । न च जात्यादीनां पाररूप्यं, तेषामनतिभेदादिति भावः ॥ १४१ ॥ नन्वभेदे विशेषणविशेष्यभावानुपपत्तिरुक्ता, अत आह यदि हीति । न विशेषणमेकान्ततो जात्यादि विशेष्याद्भिद्यते, सर्वदैव तदाकारावबोधादित्यर्थः ॥ १४२ ॥ नन्वत्यन्तभिन्नमेव लाक्षादिरूपं स्फटिकादि स्वाकारेण विशिष्टं बोधयद्दृष्टं, तद्वदेव हि जात्यादिविशिष्टबोधोऽपि भवन्मिथ्या स्यादिति, अत आह स्फटिकादाविति । अयमभिप्रायः उक्तमस्माभिः{१,२६१}सदैव जात्यादिविशिष्टं वस्तु गृह्यते । कस्यचित्कदाचिद्विवेकानवगमात् । अतः कथं मिथ्या भविष्यति । लाक्षोपहितं तु स्फटिकं कश्चिदेवाव्युत्पन्नोऽजातविवेकोऽरुणमिति बुध्यते । अतस्तज्ज्ञानं भ्रान्तिर्भवति । तदैव हीतरे दृष्टविवेका जानन्ति नेदमरुणमौपाधिकोऽयमरुणभ्रम इति । अव्युत्पन्नोऽपि चोपाधिविगमे जानात्येव यथा नेदमरुणमिति । अतो युक्तं भ्रान्तित्वं बाधोत्पादादिति ॥ १४३ ॥ जात्यादितद्वतां तु परस्परविवेको न दृष्टपूर्वः । अतो न भ्रान्तित्वं युक्तमित्याह न हीति । ननु भवत्वेवं जातौ । न हि तया निर्मुक्तं वस्तु कदाचिदुपलभ्यते । गुणकर्मभ्यां तु वियुक्तवस्तुबोधो दृष्ट एव । ध्रियमाण एव हि द्रव्ये कुतश्चित्कारणात्पूर्वगुणविनाशो गुणान्तरोत्पादश्च दृश्यते । एवं कर्मण्यपि दर्शयितव्यम् । अतः कथं तयोरव्यतिरेकः, अत आह तद्विमोकेनेति । अयमभिप्रायः यद्यपि तद्विमुक्तं वस्तु दृश्यते, तानि तु तद्विमुक्तानि न जातु दृश्यन्ते । यच्च नाम यतो भिन्नं तत्ततो विमुक्तमपि कदाचिदुपलब्धं मणेरिवौपाधिकोऽरुणिमा । न चेह तथा । अतो व्यापकनिवृत्त्या व्याप्यस्यात्यन्तभेदस्य निवृत्तिः । कथमिदानीं पूर्वापरयोर्गुणकर्मणोर्नाशोत्पादौ । प्रत्यभिज्ञायते हि तदेवेदमिति द्रव्यं, गुणकर्मणी च विनष्टे । तदिदमभेदे नोपपद्यते । न नोपपद्यते, स्थित्युत्पत्तिविनाशात्मकमेव नो वस्त्विति रुचकाद्युदाहरणे वक्ष्यामः । तदिह वस्त्वपि गुणकर्मनाशे नश्यत्येव । रूपं हि तद्वस्तुनः, कथं तद्विनाशे न नशतीति शक्यते वक्तुम् । तयोरपि नात्यन्तिको विनाशः, वस्त्वात्मना विद्यमानत्वात् । जातावपि चैषैव गतिः । तत्रापि हि स्थित्युपत्तिविनाशा दृश्यन्त एव । वियुक्तबोधोऽपि दृशयते । दृश्यते हि विनष्टपिण्डवियुक्ता पुण्डान्तरे जातिः । सा कथं ततो भिन्ना भविष्यति । अथ तत्र कथञ्चिद्भेदमाश्रित्य समाधिर्{१,२६२}अभिधीयते, शक्योऽसौ गुणकर्मणोरपि वक्तुमिति केन विशेषेण जातावभेदमाश्रित्य गुणकर्मणोर्भेदं वर्णयाञ्चक्रुः । अतो यदा जात्यादयो दृश्यन्ते, तदा[६८४]पिण्डादभेदेनैवावगम्यन्त इत्यभेदोऽपि तेषाम् । यैव तु काचिदनुपपत्तिरापाद्यते सानेकान्तवादिनां नासज्यत इत्यस्तु तावदिदमिति ॥ १४४ ॥ __________टिप्पणी__________ [६८४] त्र ___________________________ यदि तु जात्यादिबोधविधानुविधायिनः स्फटिकादावपि चारुणादिबोधा भवेयुः, कस्तेषामपि प्रामाण्यं वारयेदित्याह [६८५]तत्रापीति ॥ १४५ ॥ __________टिप्पणी__________ [६८५] अ (ङा) ___________________________ एवं जात्यादीनामभेदं प्रतिपाद्येदानीमैकान्तिकभेदवादिनः काणादान् प्रत्याह न चापीति । एवं हि मन्यन्ते भिन्नयोरेव जात्यादितद्वतोः समवायलक्षणः सम्बन्ध इति । तथा च पठन्ति अयुतसिद्धानामाधाराधेयभूतानामिहप्रत्ययहेतुर्यः सम्बन्धः स समवायः इति । तदयुतसिद्धयोः सम्बन्धित्वासम्भवादनुपपन्नमिति । कथं पुनरयुतसिद्धानां सम्बन्धित्वम्[६८६]अनुपपन्नं भवतीत्यत आह नानिष्पन्नस्य सम्बन्ध इति । अयमभिप्रायः केयमयुतसिद्धः । किं[६८७]युतसिद्ध्यभावमात्रम्, अथवा[६८८]पृथक्सिद्धिः । यदि युतसिद्ध्यभावः, कस्य केन सम्बन्ध इति सिद्धयोर्हि सम्बन्धिनोः सम्बन्धो भवति, नासिद्धयोः । अथापृथक्सिद्धिः, तत्राप्येतदेवोत्तरं नानिष्पन्नस्य सम्बन्ध इति । अपृथङ्निष्पन्नयोस्तादात्म्यादिति भावः । अथैतद्दोषपरिहारार्थं पृथङ्निष्पत्तिरिष्यते, तथा सति युतसिद्धिरेवापद्यत इत्याह निष्पत्ताविति ॥ १४६ ॥ __________टिप्पणी__________ [६८६] त्वं न सम्भव [६८७] यदि यु (Kआ) [६८८] थापृ ___________________________ किं पुनर्[६८९]अनिष्टमापादितम् । नन्विष्यत एव जातितद्वतोरसम्बद्धयोरेव कियानपि कालभेदः । तां च तयोरवस्थां योगिनः पशन्ति नान्ये । न{१,२६३}तावता रज्जुघटयोरिव तयोर्युतसिद्धयोरेव सम्बन्धः संयोगः स्यादिति वाच्यम् । न हि नः पृथक्सिद्धिर्युतसिद्धिलक्षणम् । अपि तर्हि । भिन्नाश्रयत्वं पृथग्गतिमत्त्वं च । द्वयोरन्यतरस्य वा युतसिद्धिः तदभावोऽयुतसिद्धिः । च न जातेस्तदुभयमस्तीत्ययुतसिद्धयोः समवाय एव सम्बन्धो भविष्यति, अत आह तथा च सतीति । अयमभिप्रायः न तावत्पृथक्सिद्धे जातिव्यक्ती वयमुपलभामहे । योगिगम्यश्च जात्यादिरहितः क्षणो दुस्साध एव । उपेत्यापि ब्रूमः । हेत्वभावात्सम्बन्धो न स्यादिति । न हि रज्जुघटयोरिव पृथक्सिद्धयोर्देवदत्तादिजातिव्यक्त्योः संयोजको दृश्यते । समवायस्तु न तावत्सम्बन्धहेतुः, सम्बन्धरूपाभ्युपगमात् । अथापि तद्धेतुः, नैवमपि युतसिद्धौ सम्बध्नाति । ननूक्तं युतसिद्धिरेव जातेर्नास्तीति भिन्नाश्रयसमवायाभावादपृथग्गतिमत्त्वाच्चेति । न, युतसिद्धिशब्दस्य पृथक्सिद्धिमात्रवचनत्वात्, नञा तदभावमात्रमयुतसिद्धिराख्यायते । सा चेत्पृथक्सिद्धिरस्ति कथमयुतसिद्धिर्भविष्यति । अथापि पारिभाषिकोऽयुतसिद्धिशब्दः, तथापि व्यक्तेः स्वावयवसमवायित्वाज्जातेश्च व्यक्त्याश्रयत्वाद्भिन्नाश्रयाश्रयित्वमस्तीति युतसिद्धिप्रसङ्गः । न च युतसिद्धिसम्बन्धे समवायो हेतुः । न च हेत्वन्तरम् अप्यस्तीति सूक्तं न सम्बन्धे हेतुः कश्चिदिति । सम्बन्धहेत्वभावाच्च षडपि द्रव्यादयः पदार्थाः असम्बन्धा भवेयुरित्याह षण्णामिति ॥ १४७ ॥ __________टिप्पणी__________ [६८९] रिदमनि (ङा) ___________________________ अपि च, अयं समवायः सम्बध्य वा समवायिनौ सम्बन्धाति असम्बध्य वा । न तावदसम्बध्य, असम्बद्धस्य सम्बन्धहेतोरदृष्टत्वात् । सम्बन्धस्तु सम्बन्धहेत्वन्तरमन्तरेण न सम्भवति, न च तदुपलभ्यते । अतः समवायिभ्यः समवायस्य वियोगाद्विश्लेषात्समवायिनामपि परस्परविश्लेषः स्यादित्याह समवायेति । सम्बन्धहेत्वन्तरकल्पनायां त्वव्यवस्था स्यादित्याह तत्कॢप्ताविति ॥ १४८ ॥ {१,२६४} यदि तु समवायिनोरात्मरूपं स्वरूपमेव समवायः नासावन्येन सम्बन्धनीय इत्युच्यते, एवं तर्ह्यङ्गीकृतोऽभेदवाद इति धर्मधर्मिणोरेव स्वरूपं समवायोऽस्तु यद्यवश्यं समवायनाम्ना प्रयोजनं, किं समवायान्तरग्रहेणेत्याह अथेति ॥ १४९ ॥ अत्र कारणमाह न हीति । उक्तमिदं व्यतिरिक्तस्य सम्बन्धहेत्वन्तराभ्युपगमेऽनवस्था । अभेदे तु परमुभयवादिसिद्धयोर्धर्मधर्मिणोरेवाभेदोऽभ्युपगन्तव्यः । किं समवायग्रहेणेति ॥ १५० ॥ नन्वस्तु जात्यादिधर्माणामभेदः, धर्म्येव तु भिन्नो नोपलभ्यते यः सविकल्पकज्ञानैर्विषयीक्रियते, तत्तावदुपन्यस्यति नन्विति । एवं हि मन्यन्ते नायं धर्मी धर्मेभ्योऽतिरिक्तोऽङ्गुलीभ्य इवाङ्गुष्ठो दृश्यते । न चास्य व्यवस्थापने प्रत्यक्षं प्रक्रमते । तस्येन्द्रियजत्वादिन्द्रियाणां पञ्चानां पञ्चसु रूपादिषूपक्षीणत्वात् । षष्ठस्य च मनसः स्वातन्त्र्येण बहिर्विषयव्यवस्थापनेऽसामर्थ्यात् । यथाहुः क्षीणानि चक्षुरादीनि रूपादिष्वेव पञ्चसु । न षष्ठमिन्द्रियं तस्य ग्राहकं विद्यते बहिः ॥ इति । अतो रूपादिसङ्घातमात्रमेवेदं बहिरुपलभ्यते न तत्त्वान्तरं वृक्षसङ्घात इव वनबुद्धिरिति ॥ १५१ ॥ अत्र परिहारमाह आविर्भावेति धर्म्यन्तेन । अयमभिप्रायः प्रतीमो हि वयं विष्फारिताक्षा रूपादिवदेकं द्रव्यं न च विपर्येति तत्{१,२६५}कथमन्यथा भविष्यतीति । यत्त्वभेदेन नोपलभ्यत इति । सत्यम्, केन वा धर्मेभ्योऽत्यन्तभेदो धर्मिण उपेयते । ग्राहकाभावस्तु रूपादिवदन्वयव्यतिरेकाभ्यां दर्शनस्पर्शनयोरेव सामर्थ्यप्रदर्शनेन परिहर्तव्यः । अपि च यदि धर्मातिरिक्तो धर्मी न स्यात्कोऽयमाविर्भावतिरोभावधर्मकेषु रूपादिष्वनुगतः प्रत्यभिज्ञायते । प्रत्यभिजानीमो हि वयमग्निसंयोगप्रच्यावितप्राच्यरूपमुपजातरूपान्तरं सो[६९०]ऽयं घट इति घटम् । न च तदत्यन्ताभेदे घटते स्थित्युत्पत्तिविनाशानामेकत्रापातात् । अतो ऽस्ति धर्मेभ्यो भिन्नं तेष्वनुगतं, धर्मिरूपं यद्वशादेवं विभाग इति । अपि चात्यन्ताभेदपक्षे धर्मग्रहणमन्तरेण धर्मी न ज्ञायेतैव । दृश्यते च धर्मग्रहणात्प्रागेव सन्तमसादौ धर्मिज्ञानमित्याह यत्र वेति । अतः सिद्धमस्ति धर्मि धर्माश्च तदनतिरेकिणो जात्यादय इति ॥ १५२ ॥ __________टिप्पणी__________ [६९०] स घ ___________________________ तद्विशिष्टबोधे पररूपनिरूपणाभावान्नाप्रामाण्यं सविकल्पकज्ञानामित्याह अत इति ॥ १५३ ॥ अस्तु वात्यन्तभेदः, तथापि न मिथ्येत्याह यस्यापीति द्वयेन । अयमभिप्रायः नान्यरूपसंवेद्यतामात्रेण मिथ्यात्वं, किन् तु पुनरन्यथासंवेदनेन । बाधकप्रत्ययेनेति यावत् । इह च सर्वेषां सर्वदा च तद्रूपा बुद्धिरिति भावनाया इव धात्वर्थविशिष्टबोधो न मिथ्येति ॥ १५५ ॥ नन्वेवं कायचक्षुर्गोचरो धर्मी भिद्यते ग्राहकभेदाद्रूपादिवत् । तानि वा तद्वदेव सत्यपि ग्राहकभेदे न भिद्येरननेकेन्द्रियग्राह्यमेकं[६९१]सद्{१,२६६}दृष्टं सत्त्वमिति चेत्, न । विकल्परूपस्येन्द्रियेणाग्रहणात् । अपि चेन्द्रियाणां सङ्कीर्णविषयत्वेऽक्षानेकत्ववैयर्थ्यमपि । एकमेव हि तदेन्द्रियं नानाविषयान् परिच्छेत्स्यतीति किमिन्द्रियभेदेन । तदुक्तं __________टिप्पणी__________ [६९१] कं सत्त्व (ङा) ___________________________ नैकं रूपाद्यभेदो वा दृष्टं चेन्नेन्द्रियेण तत् । अक्षानेकत्ववैयर्थ्यं स्वार्थे भिन्नेऽपि शक्तिमत् ॥ ড়्ष्१ ।२१ २२ (च्f । णृ १३१,२७२८) इति, अत्राह न चानेकेति । यत्तावदुक्तं ग्राहकभेदाद्भेद इति । तदयुक्तं, भिन्नशरीरस्थचक्षुर्ग्राह्यस्याभिन्नत्वेन हेतोरनैकान्तिकत्वादिति ॥ १५६ ॥ यदि तु चक्षुष्ट्वेनैकत्वादिन्द्रियभेद एव तत्र नास्तीत्युच्यते, तदिहापीन्द्रियत्वेन समानम् । अतो बुद्धिभेदनिबन्धन एव भेदो न ग्राहकभेदनिबन्धन इत्यभिप्रायेणाह जात्यभेदादिति । अत एव भिन्नेन्द्रियग्राह्यापि सत्ता एकबुद्धिविषयतया न भिद्यत इत्याह तुल्येति । सर्वेन्द्रियैर्हि सत्तागुणत्वयोर्ज्ञानमिति भावः ॥ १५७ ॥ रूपाद्यभेदो वेति यदुक्तं तत्राह बुद्धिभेदादिति । सिद्धसाधनत्वं वा द्वयोरपि प्रयोगयोरित्याह एकेति । सद्रूपेण रूपादीनामेकत्वं रूपादिरूपेण च धर्मिणो नानात्वमित्यर्थः ॥ १५८ ॥ अक्षानेकत्ववैयर्थ्ये परिहारमाह क्वचिच्चेति । न क्वचिद्धर्मिणि त्वक्चक्षुषोः सङ्करो दृष्ट इत्येकमेवाक्षं युक्तमित्यर्थः । अत्र कारणमाह दार्ढ्येति । यदि हि सङ्करदर्शनादेकत्वमाश्रीयते, तद्दार्ढ्यदौर्बल्यभेदेन व्यवस्था नोपपद्येत । दृढे हि चक्षुषि दुर्बले च श्रोत्रे रूपमुपलभ्यते । एवं बलवति{१,२६७}श्रोत्रे दुर्बले च चक्षुष्यपि शब्दः श्रूयते । सेयं चक्षुश्श्रोत्रयोर्विषयव्यवस्था नाक्षैकत्वे घटत इति ॥ १५९ ॥ नन्वियं व्यवस्थानुपपन्नैव, सर्वत्रैव प्रसङ्गात् । यदि हीन्द्रियान्तरमिन्द्रियान्तरविषये न प्रवर्तते, क्वचिदपि न प्रवर्तेत । प्रवृत्तौ वाव्यवस्थया सर्वत्रैव प्रवर्तेत अतिक्रमदर्शनादत आह यथा हीति द्वयेन । नेदमदृष्टान्तं पक्षीक्रियते यत्क्वचिद्व्यवस्था क्वचित्सङ्कर इति । सङ्कीर्यते हि मनश्चक्षुरादिभिः रूपादिबोधे । सुखादिसंवेदने च व्यवतिष्ठते । अतः कार्यदर्शनानुसारिणौ व्यवस्थासङ्करौ नानुपपन्नौ । न त्वेकत्र व्यवस्थादर्शनात्सर्वत्रैव सङ्करो निर्वर्तते । क्वचिद्वा दृष्ट इति सर्वत्रैव प्रसजतीति ॥ [१६०] ॥ किं पुनरनयोर्व्यवस्थासङ्करयोर्मनसः कारणमत आह श्रोत्रादेरिति । उपहतश्रोत्रादिरपि शब्दादि स्मरति इत्यत आन्तरे स्मृतिसुखादावन्यनिरपेक्षं, वर्तमानं च रूपादि न जानाति । अतस्तत्र बहिःकारणापेक्षं मनः ।[६९२]अतः क्वचित्सङ्करः क्वचिच्चासङ्कर इति व्यवस्था सिध्यतीति ॥ १६२ ॥ __________टिप्पणी__________ [६९२] नः क्व (Kआ) ___________________________ एवं कार्यव्यवस्थया व्यवस्थासङ्करौ प्रतिपाद्येदानीमक्षैकत्वे दोषमाह एकमिति । नन्वेकत्वेऽपि शक्तिभेदाद्व्यवस्था सेत्स्यति, अत एकमेव सर्वशरीरव्यापि त्वगिन्द्रियं कल्प्यतां, शक्तयस्तस्य देहभागेषु भिन्ना भवन्तु किमिन्द्रियभेदेनात आह कल्प्यत इति । शक्तिभेदो वा कल्प्यते इन्द्रियभेदो वा । को विशेषः । नन्विन्द्रियकल्पनायां{१,२६८}शक्तिमद्भेदोऽप्यपरः कल्पनीय इति गौरवम् । अस्तु वा प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि, सन्ति देहेषु पृथिव्यादिभूतभागाः कॢप्तगन्धादिप्रकाशनशक्तयश्चेति वर्णितम् । यत्तु सकलशरीरव्यापिन एकस्यैव वायवीयस्य त्वगिन्द्रियस्य रूपादिप्रकाशनशक्तिकल्पनं तदत्यन्तापरिदृष्टमप्रमाणकम् इति भावः । इन्द्रियं भवेदिति । इन्द्रियस्थाने शक्तिः कल्पनीयतया निपतेदित्यर्थः ॥ १६३ ॥ एवं दार्ढ्यदौर्बल्यभेदेन कार्यव्यवस्थां प्रतिपाद्याक्षानेकत्वं समर्थितम् । इदानीं व्यवस्थानाश्रयणे दोषमाह शृणुयादिति । यदि नेन्द्रियाणि व्यवस्थितविषयाणि भवेयुः, बधिरोऽपि चक्षुष्मान् शब्दं शृणुयात् । चक्षुषोऽपि तद्विषयव्यापारात् । अतो नैकत्र सङ्करदर्शनेन सर्वत्र तत्कल्पना कार्या । तदिदं दार्ढ्यदौर्बल्यभेदेनेत्यस्यैव व्यतिरेकप्रदर्शनम् । व्यवस्था तावद्दृश्यते । यदि तु सर्वत्रैव सङ्करः स्यादयं दोषः स्यादिति । मनस इदानीं यथा हि मनस इत्यनेन निदर्शितयोर्[६९३]व्यवस्थासङ्करयोरुक्तयोर्व्यतिरेके दोषं दर्शयिष्यन् सङ्करव्यतिरेके तावदाह मनसो वेति । अयमर्थः यदि मनो बहिर्विषयवेदने स्वतन्त्रं भवेत्, तत्राप्ययमेव दोषः बधिरः शब्दं शृणुयादिति । तस्यापि मनसो भावात् । अयं च वर्तमानस्य चाज्ञानादित्यनेन यो बहिर्विषयवेदने मनसः सङ्करो दर्शितः तस्य व्यतिरेक इति ॥ १६४ ॥ __________टिप्पणी__________ [६९३] तस्य व्यव (Kआ) ___________________________ अन्तर्विषयवेदने च यन्मनसः स्वातन्त्र्यमुक्तं तद्व्यतिरेके दोषमाह न स्मरेदिति । यदि ह्यान्तरेऽपि बहिर्विषयवेदनवन्मनो बाह्यापेक्षं भवेद्, बधिरः शब्दं न स्मरेत्श्रोत्राभावात् । अथासत्यपि कारणे{१,२६९}स्मृतिः स्याद्, एवमेव वर्तमानोपलब्धिरपि भवेत् । अयं च श्रोत्रादेरुपघातेऽपीत्यनेनोक्ताया आन्तरेषु मनसो व्यवस्थाया व्यतिरेक इति ॥ १६५ ॥ परतन्त्रं बहिर्विषयवेदने मन इत्युक्तम् । किं पुनः कारणं बाह्यबोधे मनो व्याप्रियत इति । सन्ति चक्षुरादीन्येव तत्र कारणानि अत आह स्मृतिश्चेति वेलायामन्तेन । अयमभिप्रायः एवंवादिना[६९४]मन एवाक्षिप्यते । तत्र चैतदेव तावद्वक्तव्यम् । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्याभावो भावश्[६९५]च मनसो लिङ्गमिति । अस्ति खल्वात्मा । सन्निकृष्यते च नानार्थैर्नायनं तेजः । किञ्चिदेव तु ज्ञायते न सर्वम् । तत्कस्य हेतोः कारणवैकल्येन कार्यप्रतिबन्धो दृष्टः यथा सत्सु तन्तुषु पटो नोत्पद्यते तन्तुसंयोगानामभावात् । एवमिहाप्यस्ति तदन्यद्ज्ञानकारणं यस्मिन्नव्याप्रियमाणे न ज्ञानम् उत्पद्यते व्याप्रियमाणे च भवति । तच्च मन इत्युच्यते । अपि च श्रोत्रादिभिः शब्दाद्युपलब्धिकाले यदि मनो न व्याप्रियते, कथमुत्तरकालं स्मरणमुपपद्येत । मनो हि स्मृत्युत्पत्तौ कारणम् । तद्यदि शब्दाद्युपलब्धिवेलायां मनो व्यापृतं भवति, ततः पूर्वमसावर्थो मनसा प्रकाशित इति परस्तादपि स्मर्यत इत्युपपन्नं भवति । बाह्येन्द्रियमात्रकारणके तु पूर्वज्ञाने तेषां स्मृतिसमवाये व्यापाराभावात्स्मृतिर्न स्यात् । न ह्यकारणिका ज्ञानोत्पत्तिः सम्भवति । अतोऽस्ति बहिर्विषयबोधे मनोव्यापारः । सुखादिसंवेदनं चासत्त्वे मनसो नोपपद्येतेति । अपि चासत्त्वे मनसो यदिदं पूर्वानुभूतानां सर्वेषामस्मरणं तन्नोपपद्यते । किञ्चिदेव तु कदाचित्कश्चित्स्मरतीति दृश्यते । तदेवमुपपद्यते यद्यस्ति किञ्चिदन्तःकरणं, तदात्मसंयोगविशेषेण हि तदा स्मृतिर्व्यवतिष्ठते । न च संस्कारोद्बोधानुद्बोधकृता व्यवस्था । अनुग्राहको हि करणानां संस्कारः न स्वतन्त्रः करणम् । इतरथा तु स एवान्तःकरणमापद्येतेत्याह न चेति ॥ १६६ ॥ __________टिप्पणी__________ [६९४] ना यदि म (ङा) [६९५] वे म (Kआ) ___________________________ आह सेत्स्यत्ययं बाह्यान्तःकरणविवेकः । करणसद्भाव एव तु किं कारणं, बोधस्वभावो हि पुरुषः । तदयमन्यनिरपेक्ष एव शब्दादीन्{१,२७०}भोत्स्यते, अत आह बोधेति । यदि ह्ययं बोध[६९६]स्वभावोऽन्यनिरपेक्षो बुध्यते, युगपदेव विश्वं जानीयात् । अतोऽवश्यमस्य नियामकानि कारणान्यभ्युपगन्तव्यानीति ॥ १६७ ॥ __________टिप्पणी__________ [६९६] स्वरूपोऽन्य ___________________________ प्रकृताविदानीं व्यवस्थासङ्करौ[६९७]ग्राह्यग्राहकशक्तिद्वारेणोपवर्णितावुपसंहरति तस्मादिति । कार्यद्वारेण हि ग्राह्यग्राहकशक्तयः । ताभ्यो व्यवस्थासङ्करसिद्धिरिति ॥ १६८ ॥ __________टिप्पणी__________ [६९७] रौ ग्राहक (Kआ) ___________________________ ननु कार्यानुसारेणेन्द्रियभेदे वर्ण्यमाने नीलादिभेदभिन्नानेकदर्शनात्तदनुसारिणीन्द्रियकल्पना न व्यवतिष्ठेतैव, अत आह चक्षूरूपादीति । नानाविधमपि हि रूपं विष्फारिताक्षा बुध्यन्त इत्यवान्तरभेदमनादृत्य रूपमात्रप्रकाशकमेव चक्षुरिति निश्चीयते । एवं श्रोत्रेऽपि दर्शयितव्यम् । अतो नेन्द्रियानन्त्यम् । चक्षूरूपादीति । चक्षुरादिभेदो रूपादिभेदवशेनेति । आदिशब्दस्य प्रत्येकमभिसम्बन्ध इति ॥ १६९ ॥ सुखग्रहणार्थमिदानीं व्यवस्थासङ्करौ संक्षिप्य दर्शयति तस्मादिति । स्पर्शवद्द्रव्यपरिमाणं मूर्तिः । असर्वगतद्रव्यपरिमाणं वा, तद्विशिष्टानि भूम्यप्तेजांसि द्रव्याणि द्वाभ्यां दर्शनस्पर्शनाभ्यामुपलभ्यन्ते । रूपादिपञ्चकं वैकैकशश्चक्षुरादिभिः । एवं द्रव्यान्तरगुणान्तरकर्मणां जातेश्च यथादर्शनं व्यवस्थासङ्करावनुसन्धातव्याविति ॥ १७० ॥ {१,२७१} एवं तावदस्ति धर्मी ग्राहकभेदे चाभिन्नः । जात्यादयश्च तदनतिरेकिणो धर्मा इति पररूपनिरूपणाभावान्न सविकल्पकज्ञानानां मिथ्यात्वमित्युक्तम् । इदानीमशब्दरूपाणामेव भावानां सविकल्पकज्ञानेषु शब्दाकारेण निरूप्यमाणत्वादस्ति पाररूप्यमिति ये वदन्ति, तेषां मतमुपन्यस्यति नन्विति । अयमर्थः यद्यपि जात्यादिरूपो धर्मी, तथापि तेषामेव शब्दातिरिक्तानामभावात्तद्रूपेण वस्तुनि निरूप्यमाणे शब्दात्मनैव निरूपणमापद्यते । ततश्चाशब्दात्मनां शब्दात्मना निरूपणे पुनरपि पाररूप्यमापन्नमिति मृगतृष्णादिज्ञानवदेव पञ्च विकल्पा मिथ्या स्युरिति ॥ १७१ ॥ परिहरति न शब्देति । कारणमाह प्रागिति । बुद्धिरेवात्र शब्दाकारा नास्तीति भावः ॥ १७२ ॥ अत्र चोदयति नन्विति द्वयेन । अयमर्थः किमिदं प्राग्शब्दाद्यादृशी बुद्धिरित्युच्यते । न हि शब्दार्थसम्बन्धज्ञानात्प्राग्गोत्वशुक्लत्वादिरूपेण गवाकारादिभावविषया बुद्धयो भवन्ति । शब्दसम्बन्धोत्तरकालमेव तद्रूपा बुद्धिरुत्पद्यते । तद्यदि शब्दातिरेकिणो जात्यादयः सन्ति तेषां च तद्रूपत्वं, ततः प्रागपि शब्दसम्बन्धादशब्दज्ञोऽपि तद्रूपं लक्षयेत् । न च लक्षयति । अतः शब्दान्वयव्यतिरेकानुविधानाच्छब्दस्यैव तद्रूपत्वमिति निश्चीयत इति ॥ १७४ ॥ {१,२७२} परिहरति यथेति । यथैव हि रूपरसगन्धस्पर्शशब्दा एवाक्षजायां बुद्धौ विभक्ता भासन्ते विनापि शब्दम्, एवं गोत्वादिजातयो गमनादीनि कर्माणि प्रागपि शब्दान्निर्विकल्पकेनापि विलक्षणेन रूपेण प्रतीयन्त एव । सम्बन्धग्रहणोत्तरकालं तु केवलं संज्ञासंज्ञिसम्बन्धग्रहणमेवाधिकं नापरं किञ्चित् । यदि तु शब्दादयो न सन्तीत्युच्यते, कस्याध्यास इति वक्तव्यमिति ॥ १७५ ॥ सिध्यत्यपि शब्दात्मकता यदि शब्दसम्भेदात्प्राग्गोत्वादयो न प्रतीयन्त एव । न त्वेतदस्ति, अगृहीतसम्बन्धस्यापि तद्बोधोत्पादादित्याह न चेति ॥ १७६ ॥ परस्तादपि नाभेदोपचारोऽस्तीत्याह श्रुतीति । कारणमाह विवेकादिति । द्वाभ्याम्[६९८]इन्द्रियाभ्यां द्वावर्थशब्दौ गम्येते इत्यर्थः ॥ १७७ ॥ __________टिप्पणी__________ [६९८] भ्यां द्वा ___________________________ अन्यतरधर्मनिष्कर्षमात्रे तु शब्दस्य व्यापारः, न स्वरूपारोप इत्याह अनन्तेति ॥ १७८ ॥ स्यादेतत् उपायः शब्दोऽर्थबोधे । उपायधर्माश्चोपेयेऽध्यारोप्यमाणा दृष्टा दर्पणादिधर्मा इव मुखादौ, अत आह न चेति । अनैकान्तिको हेतुरिति भावः ॥ १७९ ॥ {१,२७३} अत्रापरे वदन्ति न वयं जात्यादीनपलपामः । किं तर्हि । गौरयमिति सामानाधिकरण्येन शब्दरूपानुविद्धबोधाद्रूपसमारोपमाचक्ष्महे इति । तान् प्रत्याह नित्यमिति । अयमभिप्रायः यदि शब्दरूपानुविद्ध एव सर्वदा गोत्वादिबोधः रूपान्तरं तु तेषं कदाचिदपि न दृष्टं, कथं तर्हि शब्दरूपात्तद्रूपभेदसिद्धिः, असति भेदे कुत्र किमध्यस्त्यत इति ॥ १८० ॥ अभेदाभ्युपगमे च पाररूप्याभावान्न सविकल्पकज्ञानानां मिथ्यात्वमित्याह यद्यभेद इति । पारमार्थिके तु स्वरूपभेदाभ्युपगमेऽध्यारोपवाचोयुक्तिरनर्थिका । न ह्यसङ्कीर्णस्वभावं वस्तु वस्त्वन्तरात्मना भ्रान्तिवर्जितैरारोपयितुं शक्यते । न च सर्वदा सर्वेषां भ्रान्तिः सम्भवति, तदेतदाह भेदश्चेदिति । अतो भ्रान्त्यैवेयमध्यासकल्पना तद्वादिनामित्याह भ्रान्त्येति ॥ १८१ ॥ भ्रान्तौ बीजमाह शब्देनेति । गृहीतो ह्यर्थो न शब्दमन्तरेण निर्देष्टुं शक्यत इति भावः । तथापि किमत आह गौरिति । त्रयाणामपि वाच्यवाचकज्ञानानां समानो निर्देशः गौर्[६९९]इति शब्दो गौरित्यर्थो गौरिति ज्ञानमिति । वाच्यं च स च बुद्धिश्च वाच्यतद्बुद्धयः । तद्वादिनां पुरुषाणां गौरिति समानो निर्देशः प्रतीयत इत्यर्थः ॥ १८२ ॥ __________टिप्पणी__________ [६९९] गोरर्थो (Kआ) ___________________________ तथापि किं जातमत आह निर्देशेति । अयमर्थः एवं हि श्रोता विकल्पयति यतोऽयं वक्ता त्रिष्वपि समानं शब्दं प्रयुङ्क्ते, अतो{१,२७४}ऽस्यानुभवस्त्रिष्वपि समान एव । तद्वच्च स्वयमपि सविकल्पकज्ञानप्रमेयमर्थं बुध्यमानस्त्रिगोचरस्य ज्ञानस्य वक्तृस्वरूपतामध्यवस्यति । यादृशं वक्त्रा प्रतिपन्नं तादृगेव प्रतिपद्यत इति यावत् । एवं पूर्वपूर्ववक्त्रनुसारेणोत्तरोत्तरेषां श्रोतॄणां निर्देशसाधारण्यादध्यासभ्रम इति ॥ १८३ ॥ यदि निर्देशसाधारण्याद्भ्रान्तिः, अर्थाध्यास एव किं न शब्दबुद्ध्योः प्रतिपाद्यते । समानं हि भ्रान्तिबीजमत आह भ्रान्तीति । उपायो ह्यर्थस्य जडात्मनः स्वयमप्रकाशस्य मतिश्रुती । उपायपूर्विका चोपेयस्थितिरिति तत्पूर्वमर्थं बुध्यमानास्तदध्यासं मन्यन्ते । श्रुतिश्च श्रूयत इति शब्दोऽभिधीयते । मत्यध्यासश्च पूर्वमनुपक्षिप्तोऽपि कैश्चिदाश्रितः । स च शब्दाध्यासनिराकरणेनैव तुल्यन्यायतया निराकृतो भविष्यतीत्युपन्यस्तः । एवं बौद्धगन्धिवैयाकरणा मन्यन्ते जात्यादिरर्थो व्यतिरेकाव्यतिरेकविकल्पदूरीकृतनिरूपणः ।[७००]शून्याङ्कुरजन्मादौ तु बाह्या[७०१]सम्भवादशक्योऽभ्युपगन्तुम्, अतो ज्ञानाकार एवार्थ इति । तदपि ज्ञानात्प्रागेवार्थरूपोपलम्भात्तद्द्वारेणैव ज्ञानावधारणान्निराकृतं वेदितव्यम् । विकल्पपरिहारस्त्वाकृतिग्रन्थे वक्ष्यते । शून्यादौ तु बाह्यार्थसम्भवो निरालम्बनवाद इति ॥ १८४ ॥ __________टिप्पणी__________ [७००] राकरणः (Kआ) [७०१] ह्यार्थसं (ङा) ___________________________ निपुणं तु चिन्तयतां त्रिष्वपि विलक्षणा बुद्धिरुपजायत इत्याह गोत्व इति । उभयोर्ज्ञानमनाकारमनुमीयत इत्यर्थः ॥ १८५ ॥ अयमपरः शब्दाध्यासे दोष इत्याह यदि चेति । शब्देन सहाभेदरूपेणेत्यर्थः । अक्षादौ शब्देऽध्यस्यमाने शब्दैकत्वात्तद्रूपत्वाच्चार्थस्य देवनादेरेकत्वं प्रसज्यत इति ॥ १८६ ॥ {१,२७५} नन्वस्त्येवानक्षनिवृत्त्या त्रिष्वप्येकत्वं, न । शब्दात्प्रागनवगतेः । अगृहीतसम्बन्धस्य च शब्दस्याप्रत्यायकत्वात् । तदेतदाशङ्कया सहाह स्यादिति । अध्यासवादी स्वाभिप्रायेण चोदयति गवादिष्विति । इतरश्च[७०२]स्वमतत्वेनोत्तरमाह नेति । कारणमाह एकेति । दृश्यते हि प्रागेव शब्दान्निर्विकल्पकेनाप्येकं रूपमनुगतमिति प्रागेवोक्तमिति ॥ १८७ ॥ __________टिप्पणी__________ [७०२] वस्तुत्वे (ङा) ___________________________ विभीतकादिषु नैकरूपानुगमोऽस्तीत्याह त्रय इति । शब्द एवात्र साधारणो गवादिजातिशब्दविलक्षणो नार्थ इति ॥ १८८ ॥ किं पुनरत्राप्येकशब्दवाच्यतया शाबलेयादिवदेकधर्मान्वयो नेष्यते । अत आह परस्परेति । अयं च विविक्ताकृतिबोधोऽध्यासपक्षे न युक्तः । शब्दरूपस्याविभागादित्याह तदध्यास इति ॥ १८९ ॥ ननु न वर्णः शब्दः । किं तर्हि । स्फोटः । तदिह भिन्नार्थप्रत्ययावसेय एव भिन्नः स्फोट इत्याशङ्कते भिन्नाः स्युरिति । तत्र परिहारमाह नेति । कारणमाह अर्थ इति । संशयो ह्यर्थ उच्चरिते शब्दे भवति । स शब्दभेदे न भवेदिति भावः । यदि संशयः ततः किमत आह न सामान्यादिति । सामान्यदर्शननिबन्धनो हि संशयः । स शब्दभेदेऽनुपपन्न इति । शब्दसादृश्यात्तर्हि संशयो भविष्यतीत्यत आह रूपाभेद इति । अयमभिप्रायः न वर्णातिरिक्तः पदस्फोटोऽस्तीति वक्ष्यामः । वर्णा एव हि पदं, ते चाभिन्नरूपाः प्रतीयन्त इति ॥ १९० ॥ {१,२७६} दुर्भणः शब्दभेद इति दूषणान्तरमाह भवत्यादाविति ॥ १९१ ॥ अयं चापरो दोष इत्याह शब्देति कथमन्तेन । अभिन्ना हि शब्दस्य निष्पन्नरूपता नामाख्यातयोरिति । इदं च नोपपद्यत इत्याह कथं चेति । कः पुनर्मूर्तोऽर्थः । न तावज्जातिः अमूर्तत्वात् । व्यक्तिस्त्वध्यासवादिभिरपि नापलपितैव । सा च मूर्तैवेति । को दोषः । सत्यम् । इदं तु परिणामविवर्तवादिनः प्रत्युक्तम् । परिणामवादिनो हि वागेवार्थात्मना परिणमतीति मन्यन्ते, त उपालभ्यन्ते । कथममूर्तस्य मूर्तः परिणामः । मूर्तानां हि मृदादीनां मूर्तो घटादिपरिणामो भवतीति युक्तम् । एवं विवर्तवादेऽपि वाच्यम् । मूर्तं हि मुखमादर्शे विवृत्तं युक्तं यद्मूर्तमुपलभ्यते । अमूर्तविवर्ते तु कथं मूर्तनिर्भासा बुद्धिरिति ॥ १९२ ॥ तथा यच्चेदं गवाश्वादयो जातिशब्दाः शुक्लादयो गुणशब्दा इति विभज्यन्ते, तदपि वाच्यरूपानपेक्षणे नोपपद्यत इत्याह गवाश्वेति ॥ विशेषणविशेष्यभावोऽपि बाह्यार्थानपेक्षया न व्यवतिष्ठत इत्याह वृक्षप्लक्षादीति ॥ १९४ ॥ सामानाधिकरण्यं च नीलोत्पलादिषु शब्दबुद्ध्योरिवार्थबुद्ध्योरपि नाध्यास उपपन्न इत्याह सामानाधिकरण्यमिति । अपि च{१,२७७}एकत्रोपसंहृते बुद्धी समानाधिकरणे भवतः । तदिहाध्यासवादिनां कुत्रैकत्रोपसंहारो वाच्यः । न तावदसाधारणे, तस्यापि कल्पनीयत्वादित्याह एकत्रेति । अस्मन्मते तु वाच्यभागानुप्रवेशद्वारेणास्त्येकत्रोपसंहार इति विवेचनीयमिति ॥ १९५ ॥ यदि त्वसाधारण एव वस्तुत्वसामान्यगोचर उपसंहार इष्यते, ततः सर्वेषामेव गवाश्वादिशब्दानां वस्तुगोचरत्वाविशेषात्सामानाधिकरण्यं प्राप्नोतीत्याह वस्तुमात्र इति । इह वस्तुत्वाभ्युपगममनापाद्यैव वार्त्तिककृता दोषबाहुल्यादतिप्रसङ्गोऽभिहित इति ॥ १९६ ॥ अभ्युपगम्याप्यसाधारणोपसंहारं व्यक्त्यानन्त्यान्नीलोपलपदप्रयोगो न स्यात्, दृश्यते चासाविति दूषणान्तरमाह न चेति ॥ १९७ ॥ न चानेकनीलोत्पलव्यक्तिसाधारणी नीलोत्पलत्वजातिर्भवद्भिरिष्यते यत्र शब्दो वर्तेतेत्याह न चेति । न केवलं नेष्यते, युक्तिश्च तदभ्युपगमे न भवतीत्याह शब्दार्थयोरिति । द्वौ ह्यत्र नीलोत्पलशब्दावध्यस्येते । अतः श्रुतशब्दभागानुगतौ द्वावेव शब्दाध्यासरूपावर्थौ गम्येते । न हि शब्दद्वयाध्यासे प्रत्याय्यैकत्वं सम्भवतीति ॥ १९८ ॥ यदि सहप्रयोगमात्रात्सामानाधिकरण्यमित्युच्यते, स तर्हि पर्यायशब्दयोरपि कदाचिदव्युत्पन्नबोधार्थे प्रयोगो दृष्ट इति तयोरपि सामानाधिकरण्यं स्यादित्याह शब्दद्वयस्येति ॥ १९९ ॥ {१,२७८} अपि च नानवगतसम्बन्धं पदं प्रत्याययति । न चानवगतेऽर्थे सम्बन्धोऽनुभवितुं शक्यते । तदिहाध्यासवादे सम्बन्धानुभववेलायां कीदृशोऽर्थः प्रत्येतव्य इति वाच्यमित्याह न चेति । न केनचिद्रूपेण प्रत्येतुं शक्यत इति भावः ॥ २०० ॥ किमिति न शक्यते, अत आह तदानीमिति । शब्दरूपो ह्यर्थः । न चाव्युत्पन्नस्ताद्रूप्यावधारणे समर्थः । तदिहाध्यासात्सम्बन्धबुद्धिः ततश्चाध्यास इति तत्रेतरेतराश्रयमिति भावः । असाधारणेन च सम्बन्धग्रहणं नाशङ्कन्नीयमेव, पिण्डान्तरेऽप्रयोगप्रसङ्गादित्याह न चेति ॥ २०१ ॥ तदिदानीं सम्बन्धानपेक्षस्यैव शब्दस्यात्माध्यासशक्तत्वं बलादापतितं, तत्र च प्रथमश्राविणोऽपि तद्रूपार्थबोधप्रसङ्ग इत्याह तत्रेति ॥ न च वाक्यं तवापि शब्दो नित्यमर्थेन सम्बद्धः तत्किमर्थे स्मरणं नादधातीति । मम ह्यस्ति वाच्यं व्यतिरिक्तं तद्, येन वाच्यवाचकसम्बन्धोऽवगतः स शब्ददर्शनादर्थं स्मरति । यस्त्वस्येदं वाच्यमिति न जानाति न तस्यार्थस्मरणमिति नानुपपन्नं किञ्चिदित्याह ममेति । भवतस्तु वाचकरूपातिरिक्तवाच्यरूपाभावात्प्रथमश्रवणेऽप्यध्यस्तरूपता स्यादिति पूर्वेण सम्बन्ध इत्याह भवत इति ॥ २०३ ॥ न त्वेतदस्तीति व्यतिरेकेण दर्शयति यथेति ॥ २०४ ॥ {१,२७९} यतश्च गृहीतशब्दोऽपि नार्थं प्रतिपद्यते, ततो नैव वाचकाधीनं वाच्यमित्याह तस्मादिति । प्रमाणान्तरावगतार्थरूपस्मारकत्वात्तु श्रुतेरेव तत्पारतन्त्र्यं युक्तमित्याह स्मारकत्वादिति ॥ २०५ ॥ उपसंहरति तेनेति ॥ २०६ ॥ प्रवृत्तिनिवृत्त्युपदेशेषु कुर्याद्न कुर्यादित्येवमादिषु शब्दस्यातदात्मकत्वात्तदात्मकार्थबोधोऽनुपपन्न इत्याह प्रवृत्ताविति ॥ २०७ ॥ पर्यायशब्देषु च शब्दभेदादर्थ(?भेदोप्भेदा)पत्तिरित्याह करहस्तादीति ॥ २०८ ॥ अपि चायमध्यासः सादृश्याद्वा भवति शुक्ताविव रजतस्य, उपरागाद्वा मणाविव जपारुणिम्नः । न चैतदुभयमपि शब्दाध्यासे सम्भवति । दूरस्थेनानुरागासम्भवात्सादृश्यानवगतेश्चेति । तदेतदाह आत्माध्यास इति सार्धेन । यदपि विवर्तवादिनां प्रत्यवस्थानं दूरस्थमपि चन्द्रादि जले विवर्त(?मु।ु)पलभ्यते, तद्वच्छब्दोऽपि प्रत्येष्यत इति । तदयुक्तम् । अरूपस्य प्रतिबिम्बासम्भवादित्याह दूरस्थेति ॥ २१० ॥ {१,२८०} ननु यदिदमुक्तं दूरस्थत्वाच्छब्देनानुरागो न सम्भवतीति । तदयुक्तम् । वैभवेन शब्दस्य सर्वत्र सन्निधानादत आह शब्देति ॥ २११ ॥ किञ्चायमनुरागः समानेन्द्रियग्राह्येणैव दृष्टः यथा चाक्षुषस्य मणेररुणिम्ना चाक्षुषेणैव । न हि त्वचा स्फटिकेऽनुभूयमाने चाक्षुषोऽरुणिमा तमनुरञ्जयति । एवं श्रौत्रः शब्दो न चाक्षुषमर्थमनुरञ्जयितुं शक्नोतीत्याह न चेति ॥ २९२ ॥ एवं तावदशब्दात्मनः शब्दात्मकतया वेदने पाररूप्यप्रसञ्जनेन यत्सविकल्पकज्ञानानां मिथ्यात्वमुक्तं तन्निराकृतम् । अध्यासवादिनां तु सविकल्पकज्ञानमिथ्यात्वेनानुमानादीनां प्रामाण्यं दुर्लभमित्याह अनुमानेति । न केवलमनुमानादीनां प्रामाण्यं न सिध्यति, सर्वनिरूपणानामेव तु विकल्पाधीनत्वात्सर्वलोकवेदव्यवहारोच्छेदप्रसङ्ग इत्याह निरूपणस्येति । निरूपणं निर्णय इति ॥ २१३ ॥ ननु सर्वं मिथ्यैव वाचोऽतिरिक्तं वाङ्मयत्वाद्विश्वस्य, तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णान्येवमोङ्कारेण सर्वा वाक्सन्तृण्णा ओङ्कार एवेदं सर्वं वागेव विश्वा भुवनानि जज्ञिरे इति श्रुतेः । अत आह तथास्त्विति । सर्वमिथ्यात्वे प्रतिज्ञाया एव मिथ्यात्वाद्न सर्वमिथ्यात्वं सिध्यतीति ॥ २१४ ॥ {१,२८१} अपि चायमध्यासापरनाम्ना बाह्यापलापः । बाह्यापलापो माहायानिकः पक्षः । स च शून्यवादोत्तरेणैव निराकार्य इत्याह शून्यवादेति । बुद्धिग्रहणं बुद्ध्यध्यासनिराकरणार्थम् । इदं च प्रागपि व्याख्यातमिति ॥ २१५ ॥ प्रकरणार्थमुपसंहरति तस्मादिति । भिन्नैकत्वादिबुद्धिभिरिति । अनुगतव्यावृत्तिबुद्धिभिरित्यर्थः ॥ २१६ ॥ एवं तावत्प्रमाणान्तरप्रतिपन्नार्थगोचरः शब्दः न तत्तन्त्रमर्थरूपमित्युक्तम् । इदानीं तु यद्यपि शब्दोपायकोऽर्थोऽसति शब्दे नावगम्यते, तथापि न तस्य स्वरूपनाशो भवति । न हि चक्षुरादेरभावे रूपादिपञ्चकं न प्रतीयत इति तदसद्भवति । तदेतदाह शब्दाभ्युपायक इति द्वयेन । इह चोपायापेक्षत्वेनासत्त्वं निराकृतं, न हि दीपेन्द्रियादीनामित्यत्र हेतोरनैकान्तिकत्वमुक्तमिति विवेक इति ॥ २१७२१८ ॥ नन्वस्तु शब्दातिरिक्तमर्थरूपम् । तत्तु सम्बन्धग्रहणात्प्राक्शब्दाकारेण नावगतम् । उत्तरकालं तु तदाकारमवगम्यत इत्यतदाकारस्य तदाकारप्रतीतेर्मिथ्यात्वमत आह सम्बन्धस्येति । नित्यो हि वाच्यवाचकसम्बन्ध इति पूर्वमपि तच्छब्दवाच्यशक्तिरासीदेव । परस्तात्त्वभिव्यक्ता ।{१,२८२}एतावच्च तदानीमपि शब्दाकारत्वं न तदात्मता । अतो नातदाकारं तदाकारतया गम्यत इति कुतो भ्रान्तिः । शब्दसम्बन्धमात्रेण चेदं शब्दाकारत्वमुच्यते । न तु शब्दात्मकतया, नित्यं यदि च गोत्वादीत्यत्र शब्दात्मकत्वमङ्गीकृत्य भ्रान्तित्वं निराकृतमिति विवेकः । अरूपता अशब्दरूपतेत्यर्थः । कथं पुनरिदमवगम्यते सम्बन्धग्रहणात्प्रागपि तद्रूपमासीदिति, अत्राह युगपदिति । न हि युगपदेव सर्वे शब्दासम्भिन्नम् अर्थं बुध्यन्ते । यदैव ह्येकोऽशब्दाकारमर्थं प्रत्येति, तदैव व्युत्पन्नो गौरयमिति विकल्पयति । अतो नातद्रूपस्य तद्रूपतया ग्रहणमिति ॥ २१९ ॥ अत्र चोदयति तदाकार इति । यथैव ह्यतदाकारो न सर्वैरवगम्यते । तदाकारोऽपि न तथा सर्वैरिति कथं तथा ॥ इति । परिहरति द्वये सतीति । परीक्षास्वरूपं दर्शयति किन्न्विति ॥ २२० ॥ निर्णयमाह सदसद्भावयोरिति । तदाकारत्वमस्ति नास्ति चेति नोपपद्यते, विद्यमानस्य तु शक्त्यशक्तिभेदादुपलम्भानुपलम्भौ युक्तौ । शक्तिसदसद्भावावपि तदाधारभेदादुपपन्नावेवेति विद्यमानैव तदाकारता अशक्तैर्नानुभूयत इति निर्णय इति ॥ २२१ ॥ अत्रैव दृष्टान्तमाह यथेति । रूपस्य ग्रहणे ग्रहीतृभेदात्शक्ताशक्तत्वं यथेत्यर्थः । एतच्च सम्बन्धपरिहारेऽभिधास्यत इत्याह इत्यभिधास्यत इति । इतिरिदमर्थे । शक्ताशक्तत्वे विभजते तेनेति । येनेयं{१,२८३}शक्तितो व्यवस्थोपपत्तिमती तेन शब्दोपायकस्य ग्रहीतुः शब्दाकारा धीर्नेतरस्येति विवेकः ॥ २२२ ॥ अत्र चोदयति देवदत्तादीति । तुशब्दः पूर्वोक्तनिवृत्तौ । नित्यस्तु स्यादितिवत् । यदेतदुक्तं प्रागपि शब्दाकार एवासावर्थ इति तदव्यापकं, देवदत्तादीनां कल्पनास्वसम्भवात्, तत्र ह्यादिमान् सम्बन्धः । अर्थोऽपि देवदत्तादिरनित्यः । अतः पूर्वापरयोः कोट्योः प्रसंख्यानात्ताद्रूप्यं शब्दरूपत्वमनित्यम् । अतोऽवश्यमेव तत्रातदाकारं तदाकारतया कल्प्यत इति मिथ्यात्वमिति ॥ २२३ ॥ परिहरति तत्रापीति । देवदत्तशब्दोऽपि देवा एनं देयासुरित्याशिषा लब्धमर्थं निजयैव शक्त्या वदति । एवं चैत्रादिशब्दा अपि नक्षत्रग्रहादिनिमित्ता गवाश्वादिशब्दवन्नित्यसम्बन्धा एवेति तद्वदेव नातदाकारता तद्रूपप्रत्ययं प्रतीति देवैर्दत्तो योऽर्थः स तस्यार्थः अतस्तदर्थरूपप्रत्ययं प्रति ग्राह्यग्राहकयोर्वाच्यवाचकयोरौत्पत्तिक्येव शक्तिः, नियोगमात्रं तु यदभिनवे पिण्डे तदनित्यम् । न च तदनित्यतया शब्दार्थसम्बन्धस्यानित्यता भवति । शब्दस्यातदर्थत्वादिति ॥ २२४ ॥ यत्र तर्हि पिण्डे नियोगवशादेव देवदत्तादिशब्दा अ(?न)न्वर्था एवं वर्तन्ते । डित्थादिशब्दाश्चानुगमशून्याः तत्र कथं सत्यत्वं, तत्र हि शब्दात्मनैवार्थो विकल्प्यते न त्वर्थसमवायि किञ्चिद्विशेषणमस्ति । सैव च नामकल्पनेत्युच्यते । अन्वर्थत्वे तु यथासम्भवं कर्मादिकल्पनैव दर्शयितव्या । अतः पुनरपि नामकल्पनं मिथ्येत्यापतितं तदिहैकेषां मतेनाभ्युपगमेनैवोत्तरमाह तत्रेति ॥ २२५ ॥ {१,२८४} स्वमतेन परिहारमाह यदा त्विति । सत्यमतद्रूप एवासौ पिण्डः परस्तादपि न शब्दाकारेणावसीयते । किन् तु तदवस्थैव संज्ञा, यादृशोऽसावर्थः पूर्वमवगतस्तादृशस्यैव तस्य स्मरणे हेतुः । अतो नान्यदन्याकारेण प्रतिपन्नमिति कुतो मिथ्यात्वम् । कथं तु नामकल्पनायां डित्थोऽयमिति सामानाधिकरण्यबुद्धिः । अर्थसमवायिना हि विशेषणेन नीलोत्पलादिषु सामानाधिकरण्यं दृष्टम् । एकान्तभिन्नगोचरयोस्तु शब्दार्थबुद्ध्योः कथं सामानाधिकरण्यमिति वक्तव्यम् । अतो भ्रान्तिरेवेयम् । मैवम् । उक्तं हि नात्र शब्दाकारं वस्तु चकास्तीति । डित्थोऽयमिति नायमर्थः डित्थशब्दात्मकोऽयमिति । न हीयमीदृशी प्रतिपत्तिरिति । अपि तर्हि डित्थ इति नामास्येति । अतो न नामकल्पना भ्रान्तिरिति ॥ २२६ ॥ अन्यन्मतं प्रागपि नामनियोगान्नामाकारग्राह्यशक्तिरर्थस्यासीदिति । अत्यन्तासत्या गगनकुसुमवद्भावयितुमशक्यत्वात् । नियोगे तु कृतेऽसौ शक्तिरभिव्यज्यते परम् । अतः प्रागपि तद्रूपसद्भावेऽस्ति प्रमाणमिति न पाररूप्यं, तदेतदाह नियोगादिति ॥ २२७ ॥ एतदेव प्रपञ्चयति सर्वाकारेति । अस्ति हि सर्वशब्दपरिच्छेद्य[७०३]ताशक्तिरर्थस्य । यत्र हि डित्थडवित्थयोरन्यतमः शब्दो नियुज्यते स एव तं गमयति । शब्दोऽपि सर्वाकारार्थविज्ञानसमर्थ एव यत्रैव नियुज्यते तमेव गमयति । तदेवमनियमप्रसक्तौ नियममात्रं नियोक्त्रा पित्रादिना क्रियत इति ॥ २२८ ॥ __________टिप्पणी__________ [७०३] द्यश (ङा) ___________________________ {१,२८५} एवं तावत्सर्वप्रकारं पाररूप्ययुक्तिरुत्सारिता । इदानीं स्मृतिसङ्करेणाप्रामाण्यसम्भावनां वारयति तत्रेति सार्धेन । शब्दार्थसम्बन्धं स्मरतोऽपि वा प्रमातुर्या बुद्धिर्भवति नासावप्रत्यक्षं, चक्षुषा सन्निकृष्टेऽर्थे या बुद्धिर्भवति सा प्रत्यक्षं तदानीमपि चक्षुस्सन्निकर्षोऽनुपरत एव । एवं स एवायं गौरिति पूर्वगृहीतानुसन्धानादपि जायमाना नेयमप्रत्यक्षं, प्रत्यक्षकारणस्य चक्षुषोऽनुपरतत्वात् । तदत्र शब्दार्थसम्बन्धस्मरणपूर्वगृहीतानुसन्धानाभ्यां प्रत्यक्षत्वं न वार्यत इति प्रतिज्ञातः (?)परस्तादुपपादयिष्यत इति । न चात्र तेनेन्द्रियार्थसम्बन्ध इत्यनेन गतार्थत्वं तत्र स्मरन्नपि स्वधर्मेण विकल्पयन्नरः प्रत्यक्षवानिति प्रतिज्ञातं केवलं, न तूपपादितम् । अत्र शब्दाध्यासनिरासपर्यन्तेन सन्दर्भेण स्वधर्मविकल्पः प्रसाधितः । इदानीं तु स्मरन्नपीत्यस्यार्थः प्रपञ्च्यते । तेन तद्ग्रहणकवाक्यम् । उत्तरस्तु तत्प्रपञ्च त्यनवद्यम् । इदं चानवहितानां चित्तमनुरञ्जयति नेतरेषामिति । कथं पुनः स्मृतिसम्भेदेनाप्रामाण्यमत आह विविक्ता एवेति ॥ २३० ॥ विवेकमेव दर्शयति स्मर्येते इति । शब्दसम्बन्धौ हि स्मर्येते अतस्तावप्रत्यक्षौ न त्वर्थस्य प्रत्यक्षता वारयितुं शक्यत इति ॥ २३१ ॥ नन्वर्थो हि पूर्वगृहीत एव गृह्यते । स एवायमिति च प्रतिसन्धीयते । अतः कथं प्रत्यक्षो भविष्यतीत्यत आह गृहीतमपीति । व्यतिरेकेण आधिक्येनेत्यर्थः ॥ २३२ ॥ {१,२८६} आधिक्यमेव दर्शयति व्यक्तीति । पूर्वं हि व्यक्त्यन्तरे जातिरवगता इदानीं व्यक्त्यन्तरेऽवगम्यते । तथा पूर्वेद्युरवगता अपरेद्युरवगम्यते निर्विकल्पकक्षणेऽवगता सविकल्पकक्षणेऽवगम्यत इत्यधिकपरिच्छेद्याभावादस्ति मितेरवसरः । कालश्च यदिन्द्रियसम्बन्धार्थगोचरोऽवगम्यते तदिन्द्रियजन्मनैव प्रत्यक्षेणावगम्यत इति तत्सम्बन्धस्य प्रत्यक्षत्वमुपपन्नमिति । तदप्रत्यक्षवादिनां तु चिरक्षिप्रादिप्रत्यया अनालम्बनाः स्युः । ननु त एव कालस्य लिङ्गमस्तु विषयस्त्वमीषामभिधातव्यः । यदि द्रव्यादयः, न, तत्स्वरूपमात्रेऽनुत्पादात्, तद्गोचरत्वे कालानुमानासम्भवात् । स्वांशपर्यवसानस्य च विज्ञानवादे निराकरिष्यमाणत्वाद्न स्वांशालम्बनत्वम् । अतो यदमीषामालम्बन (?स्तत्) प्रत्यक्षादवसीयत एव । कालेति । आदिशब्देनावस्थाभेदो गृह्यत इति । ननु न केवलमधिकं गम्यते किन् तु प्रागवगतमपीति कथं प्रामाण्यमत आह यः पूर्वेति । सविलपके हि शब्दार्थस्वरूपसम्बन्धकालसम्बन्धाः प्रथन्ते । तत्र शब्दादिरंशोऽस्मृतिविषय इति मा नाम प्रमाणविषयो भवतु । इदानीन् तनी तु वस्तुनः सत्ता न पूर्वमवधृतेत्यस्ति तत्र प्रमाणावसर इति स्थितं प्रामाण्यमिन्द्रियव्यापारानुविधानाच्च प्रत्यक्षत्वमिति । एकं चेदं पूर्वविज्ञानजनितसंस्कारप्रत्युत्पन्नेन्द्रियादिकारणकं ग्रहणस्मरणात्मकं प्रत्यभिज्ञानाभिधानं प्रमाणमिति वेदितव्यमिति ॥ २३३ ॥ नन्विदं भवत्यधिकविषयं, स्मरणोत्तरकालं भवत्कथं प्रत्यक्षम् । न हि निर्विकल्पस्य प्रत्यक्षस्यैष धर्मो दृष्टः । अत आह न हीति । न हि स्मरणात्प्राग्भाविता प्रत्यक्षलक्षणम् । अपि तर्हीन्द्रियजत्वम् । तच्चात्राप्यविशिष्टमिति भावः ॥ २३४ ॥ {१,२८७} यदि स्मरणेनेन्द्रियप्रवृत्तिरेव वार्यते तदा दूष्यते । ततस्तदुत्तरकालं जायमानं सविकल्पकं प्रत्यक्षं भवेदपि । न त्वेतदस्तीत्याह न चेति ॥ २३५ ॥ यतः स्मृत्या नेन्द्रियं विरुध्यते न वा दूष्यते । तेन प्रागूर्ध्वं वा स्मृतेर्यदिन्द्रियार्थसम्बन्धाद्ज्ञानं जायते सर्वं तत्प्रत्यक्षमभ्युपगन्तव्यमित्याह तेनेति ॥ २३६ ॥ ननु विदितशब्दार्थसम्बधाः सत्येवेन्द्रियार्थसम्बन्धे केचिदेव तमर्थं जात्यादिना विकल्पयन्ति नापरे । अतस्तावत्सामग्रीकस्यैव कस्यचिदभावादप्रतिबन्धककारणविशेषा भ्रान्तिरेव सविकल्पकप्रत्यय इत्यत आह विमनस्का इति द्वयेन । अयमभिप्रायः न व्युत्पत्तीन्द्रियसम्प्रयोगमात्रजं ज्ञानं सविकल्पकं, तदपि सर्वसाधारणं मनःप्रणिधानाद्यपेक्षते । अतो यदि नाम कस्यचिद्विमनस्कस्य दूरसूक्ष्मसादृश्यादिविषयदोषाद्व्यामूढस्य नामुकोऽयमिति विशदतरमवभासो भवति, नैतावता कुशलस्य सूक्ष्मसादृश्यादिविवेकचतुरस्यापि विभ्रमेण भवितव्यमिति युक्तमिति ॥ २३८ ॥ अत्रैव दृष्टान्तमाह यथा षड्जादीति द्वयेन । तत्संस्कृतेति । षड्जाद्यभ्याससंस्कृतेत्यर्थः ॥ २४० ॥ {१,२८८} यथा षड्जादिष्वकुशलस्यापि विविक्ताकारबोधो भवति विना षड्जादिशब्दप्रयोगम्, एवं गोत्वाद्यविदितास्मृतशब्दैर्विविक्तमुपलभ्यत एवेत्याह ते हीति ॥ २४१ ॥ नानाजातिगुणादिसङ्कीर्णं तु तदशब्दज्ञस्य विजातीयपिण्डविविक्तमवभासते । शब्दस्मरणसंस्कृतानां तु पिण्डविविक्तजात्यादिमात्रं निर्भासत इत्याह सङ्कीर्णमिति ॥ २४२ ॥ यत एव स्मरणतन्त्रा विकल्पाः, अतो यदा यच्छब्दस्मरणमाविरस्ति तेनैव तदा वस्तु विकल्प्यते । यथा चक्षुष्मदादिना रूपादि नेतरेण, चक्षुष्मतापि बधिरेण रूपमात्रं न शब्दः अनुपायत्वादिति । तदेतत्सर्वमाह यथेति द्वयेन । विवेकहेतूनाम् । शब्दानामित्यर्थः ॥ २४४ ॥ अतः सिद्धं सविकल्पकमपि प्रत्यक्षम् । यावत्तु विवेकोपाया न शब्दा बुद्धा भवन्ति तावन्निर्विकल्पकं न तु तदेवेत्याह तेनेति ॥ २४५ ॥ {१,२८९} अतो यत्कल्पनापि स्वसंवित्ताविष्टा नार्थे विकल्पनादिति बौद्धैरुक्तं तत्परधर्मविकल्पेऽनुमन्यामहे न स्वधर्मजात्यादिविकल्पनेष्वित्याह तस्मादिति ॥ २४६ ॥ अतो लिङ्गलिङ्गिसामान्ययोस्तत्सम्बन्धस्य च सविकल्पकप्रत्यक्षवेद्यत्वादुपपन्नमनुमानादीनां प्रत्यक्षपूर्वकत्वमित्याह प्रत्यक्षत्वमिति ॥ किं पुनः प्रयस्यता सविकल्पकस्य प्रत्यक्षत्वं साध्यते । निर्विकल्पकद्वारेणापि बौद्धादीनामिवानुमानादिव्यवहारो घटिष्यते अत आह सर्वं चेति । यथा न निर्विकल्पकपूर्वकमनुमानाद्यात्मानं लभते, तदनुमानेऽभिधास्यत इति ॥ २४८ ॥ अत्र चोदयति नन्वेवमिति । यदीन्द्रियव्यापारानुपरममात्राज्जात्यादिविकल्पानां प्रत्यक्षत्वम्, एवं तर्हि विस्फारिताक्षो दूरादुष्णोऽयमिति वह्निं विकल्पयति । तदपि प्रत्यक्षमापद्यते इन्द्रियव्यापाराविरामादिति ॥ २४९ ॥ परिहरति प्रत्यासन्नेति । अयमभिप्रायः अग्निसंवेदन एव तत्रेन्द्रियव्यापार उपक्षीणः । अग्नित्वादेव व्याप्तिबलेनानुमानिकोष्णविकल्पो जायते । गोत्वे तु नेन्द्रियव्यापारतः प्रत्यासन्नमर्थान्तरं प्रत्यक्षत्वेन{१,२९०}सम्मतं किञ्चिदस्ति येन तदेव प्रत्यक्षं नेतरदित्युच्यते । अतो गोत्वमेव प्रत्यक्षमिति ॥ २५० ॥ यदपि तत्रापि दूराद्गोमहिषादिसंशये शब्दविशेषादिना गोत्वादिनिश्चयो भवति, सोऽक्षसम्बन्ध आनुमानिक एव न तु प्रत्यक्ष इत्याह तत्रेति ॥ २५१ ॥ अपि च संवित्पराहतमेवारादुष्णविकल्पस्य प्रत्यक्षत्वम् । अपरोक्षा हि बुद्धिः प्रत्यक्षं, तद्यदा स्पर्शेन्द्रियेणोष्णमनुभूयते तदा त्वपरोक्षाकारा बुद्धिरिति भवति प्रत्यक्षं, चक्षुषा वह्नौ प्रकाशिते भवन्ती परोक्षावभासित्वान्न प्रत्यक्षमित्याह स्पर्शनेनेति ॥ २५२ ॥ अतः स्वेन्द्रियानुसारेणैव प्रत्यक्षता । इन्द्रियान्तरं त्वसत्कल्पमेवेत्याह तस्मादिति ॥ २५३ ॥ कथं पुनः समानजन्मनोरुष्णाग्निविकल्पयोरेकं प्रत्यक्षमितरच्चानुमानिकम्, एवं हि प्रत्यक्षं लक्षयतालौकिकमेव प्रत्यक्षं लक्षितं भवेदत आह एवमिति । नेदमलौकिकं यत्र ह्यपरोक्षावभासबुद्धिः तत्प्रत्यक्षमिति लक्षणाद्विनापि लौकिका मन्यन्ते । अक्षसम्बन्धोऽपि{१,२९१}चापरोक्षावभासौपयिकतयैव लक्षणकारैरपि प्रत्यक्षलक्षणत्वेनाश्रीयते न स्वरूपेण । अतो यत्राग्नावक्षसम्बन्धफलमपरोक्षावभासित्वमनुस्रियते तस्य प्रत्यक्षता नेतरस्येति सिद्धम् ॥ २५४ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां प्रत्यक्षसूत्रं समाप्तम् शुभं भूयात् ড়र्तीई ०५ उत्पत्तिकसूत्र {२,१} अत्र भाष्यकारेण प्रत्यक्षाद्यनिमित्तत्वे प्रतिपादिते सदुप्लम्भकप्रमाणप्रत्यस्तम(?य्याद् अभा)वप्रमेयतां धर्मस्याशङ्क्य तन्निराकरणपरतयौत्पत्तिकसूत्रमवतारितमभावोऽपि नास्ति यतः औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वातिति । तच्च चोदनैवेत्यवधारणं चाक्षिपति प्रत्यक्षादाविति । अयमर्थः भावगोचरनिखिलप्रमाणाभावे ह्यभावः प्रमाणम् । न चेह तथा, लोकप्रसिद्धेरेवाभावात् । न च सा न प्रमाणं, ब्राह्मणादिवर्णविवेकस्य तदधीनत्वात् । इतरथा तदभावात् । न खलु सुनिपुणमपि विलोकयमाना वयं क्षत्रियादिविलक्षणं ब्राह्मणशब्दवाच्यं पिण्डानुगतमपरं रूपमपरोक्षमीक्षामहे । तदवश्यं वर्णविवेकाय लोकप्रसिद्धिः स्वतन्त्रा प्रमाणमास्थेया । अपि च सकलशब्दार्थावधारणमेव तदायत्तं, तामन्तरेण प्रमाणान्तरासम्भवात् । अतो निषिद्धेऽपि प्रत्यक्षादौ नाभावश(ङ्का) । न च चोदनैवेत्यवधारणोपपत्तिरिति ॥ १ ॥ {२,२} प्रसिद्धिमेव दर्शयति धार्मिकेति ह्यन्तेन । अनुग्रहकारिणि हि लौकिका धार्मिकशब्दं प्रयुञ्जाना दृश्यन्ते । पीडाकारिणि चाधा(र्मिकशब्दम्) । यश्च धर्ममाचरति स धार्मिकः । तद्यद्यनुग्रहो धर्मः तदेवमुपपद्यते नान्यथेति । एतदेव भगवतो व्यासस्याप्यभिमतमिति दर्शयति तथेति प्रयोजनमन्तेन । निर्(विषय)प्रयोगासम्भवात्तद्विषयमिदमा प्रतिनिर्दिशति । तदयमर्थः विशिष्टविषये पुण्यपापपदद्वये आचण्डालं मनुष्याणां विद्यमाने तेनैव धर्माधर्मप्रमितिसिद्धेरनर्थकं शास्त्रमिति । नन्वेवं पुण्यपापप्रमाणकौ धर्माधर्मावुक्तौ, न लोकप्रमाण(कौ) । नैवम् । तत्प्रयोगस्यैव लोकायत्तत्वात् । तस्मादयमनुपालम्भ इति ॥ ३ ॥ एवमाक्षिप्य समादधाति निर्मूलेतीत्यन्तेन । अयमर्थः प्रसिद्धिर्हि प्रज्ञानम् । तच्च (ज्ञा)नद्रढिमा । न च निर्मूलं ज्ञानमात्मानं लभते प्रागेव ज्ञानद्रढिमा । तदेवं निर्मूलायाः प्रसिद्धेरभावात्कुतः सा प्रवृत्तेति प्रमाणैरन्विष्यत इति । ननु च कार्यद्रढिम्ना मूलं कल्पयिष्यते, स्मृतिद्रढिम्नेव श्रुतिरत आह प्रत्यक्षादीति । सत्यम् । समूला प्रसिद्धिः प्रत्यक्षादिमूलतया प्रत्यक्षसूत्रे निवारिता चोदना (मूलं) भविष्यत्येवेति ॥ ४ ॥ ननु सन्निकृष्टार्थगोचरमेव सर्वं प्रमाणम् । अतः प्रसिद्धेः प्रमाणान्तरागोचरार्थत्वं गुणः न दोषाय, अत आह न चेति । न च प्रत्यक्षादीनि परित्यज्य लोको नाम प्रमाणगणे प्रमाणमुपसंख्यायते । वर्णविवेकसम्बन्धावधारणयोस्तु प्रत्यक्षादिप्रमाणत्वं वनसम्बन्धपरिहारयोरभिधास्याम इति ।{२,३}अपि च भवेदपि प्रसिद्धिः प्रमाणं, यदि व्यवस्थितैव प्रसिद्धिः स्यात् । सा त्वव्यवस्थिता । तथा हि संसारमोचका नाम नास्तिका बाह्यहिंसामेव धर्ममाहुः । अन्ये तु तपः (?प्र्प्रा)जापत्यादि पीडात्मकत्वात्परपीडावतधर्म । । । । । । ।स्तु विधिनिषेधप्रमाणकौ तद्विपरीतौ धर्माधर्मौ सङ्गिरन्ते(? ।) तदेवं म्लेच्छार्याणां परस्परविगानान्न लोकप्रसिद्धत्वं धर्माधर्मयोरुपपद्यत इत्याह संसारेति सार्धेन ॥ ६ ॥ नन्वनुमानाभाससङ्करेण प्रमाणमप्रमाणीभवति । न हि प्रत्यक्षाभाससङ्करात्प्रत्यक्षमप्रमाणं भवति । अथ तत्र कारणदोषसदसद्भावनिबन्धनः प्रमाणतदाभासविवेकः, सोऽत्राप्यविशिष्टः । अत्रापि स्मृतिकारैर्विवेकोपायो दर्शित एव । आचारश्चैव साधूनामित्यादिना । साधवश्चार्याः । स्वाभाविककृष्णमृगचरणोपलक्षितार्यावर्तनिवासिनश्चार्यशब्दवाच्याः । अतस्तदाचारो धर्मोऽन्योऽधर्म इति विवेको भविष्यति, अत आह न चेति । शास्त्रसदसद्भावनिबन्धनो ह्यार्यम्लेच्छविभागः तद(नाश्रयेण) त्वार्यम्लेच्छविभागो दुर्भणः । अत एव शास्त्रस्था वा तन्निमित्तत्वात्(१ ।३ ।९) इति वक्ष्यतीति । अस्तु तर्हि शास्त्रमूलार्थप्रसिद्धिः प्रमाणमत आह तन्मूलेति । न स्वतन्त्रायाः प्रसिद्धेरेव प्रामाण्यं सिध्यतीत्यभिप्रायः ॥ ७ ॥ अतः सकलभावप्रमाणनिराकरणात्शङ्किताभावनिराकरणेन चोदनैव धर्माधर्मयोः प्रमाणमित्युपपन्नमित्याह तस्मादिति । पश्यतामिति । षष्ठी चानादरे (२ ।३ ।३८) इत्यनादरे षष्ठीति ॥ ८ ॥ {२,४} अत्र भाष्यकारेण औपत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्याग्निहोत्रादिलक्षणस्य धर्मस्य निमित्तमित्युक्त्वा (कथम्) इति प्रश्नानन्तरमुपदेशो हि भवतीति सौत्रमुपदेशपदं व्याख्यातं, तत्र न ज्ञायते केनास्य सम्बन्ध इति योग्यपदान्वयं दर्शयति उपदेश इति । तस्य धर्मस्योपदेशो ज्ञानं प्रमाणमिति । ननूपदेशो ग्रन्थसन्दर्भात्मा, ज्ञानं चार्थावग्रहः । कथमनयोः सामानाधिकरण्यमत आह ज्ञायत इति । भावसाधनो हि ज्ञानशब्दो नोपदेशशब्देन सामानाधिकरण्यं लभते । अयं तु ज्ञायतेऽनेनेति करणसाधन इति युक्तं सामानाधिकरण्यमिति ॥ ९ ॥ कथं पुनरुपदेशो धर्मे प्रमाणमत आह औत्पत्तिकेति । बाधकारणदोषाधीनं ह्यप्रामाण्यम् । तत्र सम्बन्धौत्पत्तिकत्वप्रतिपादनेन तद्द्वारा पुरुषानुप्रवेशाभावात्, पुरुषाश्रयत्वाच्च शब्दे दोषाणां कारणदोषनिवारणं तावत्कृतम् । तन्निराकरणेन सहाप्रामाण्यमनपोदितमित्यव्यतिरेकपदप्रयोजनमाह अबाध इति । अव्यतिरेकपदेनाबाधः प्रतिपाद्यते न हि देशकालयोरुभयोरपि चोदनाजनितं ज्ञानं विपर्येतीति । तदेवं बाधकारणदोषनिराकरणे कृतेऽनपोदितमौत्सर्गिकं प्रामाण्यमिति तत्प्रमाणमित्यनेनोक्तमिति दर्शयति स्वत इति ॥ १० ॥ अत्र चार्थेऽनुपलब्ध इत्युच्यते । तदयुक्तम् । उपलब्धार्थविषयमपि प्रमाणं भवत्येव । अनुभूतिर्हि प्रमाणं प्रत्युत्पन्नेन्द्रियलिङ्गादिजनिता च संविदनुभूतिः । अत एवोन्मीलि(ताक्ष)स्यैकभावगोचराणां धारावाहिकसंविदां प्रामाण्यमुपपन्नं भवति । अन्यथा तन्न स्यात् । न हि तत्रानवगतं किञ्चिदनुभूयते । देशकालान्तरसम्बन्धोऽनुभूयत इति चेद्, न । एकदेशस्थेऽपि भावात् ।{२,५}कालस्तु परोक्षः । न च परोक्षापरोक्षसम्बन्धोऽपरोक्षो भवति, तरुमरुत्संयोगवत् । अतो (ऽवगतार्थम्) अनधिकार्थमपि ग्रहणमिति वाच्यम् । न चैवं स्मृतित्वापातः । स्मृतिर्हि पूर्वानुभवप्रभावितभावनावशलब्धसिद्धिर् नाधिकमपेक्षते (?ग्रहण + त्व) नेन्द्रियसापेक्षमित्युक्तम् । अत एव गृहीतमपि पुनर्गृह्यमाणं दृश्यत इति लौकिका व्यपदिशन्ति, न तु स्मर्यत इति । अतो न विद्मः किमर्थेऽनुपलब्ध इत्यनेन निरस्यत इति (अत आह ) सर्वस्येति । अयमर्थः अनुपलब्धार्थविषयमेव सर्वं प्रमाणम् । अन्यथा स्मृतित्वापातात् । न हि ग्रहणस्मरणयोर्गृहीतागृहीतगोचरयोर्गृहीतागृहीतगोचरगतो विशेष उपलभ्यते । यत्तु कारणभेदाद्भेद इत्युक्तं सत्यम् । स्वरूपभेदौपयिकः कारणभेदः । स्वरूपं तु गृहीतागृहीतविषयत्वादेव भिन्नम् । अनुभूतिर्ग्रहणमिति चेद्, यद्यपि सोऽनुभूतिः अनुमानादिषु स्मृतित्वप्रसङ्गः । अतोऽअवश्यं गृहीतागृहीतागोचरत्वमेव ग्रहणस्मरणयोर् भेदः । किमिदानीं धारावाहिकसंविदो न प्रमाणम् । न हि का । । । । । । ।क्तम् । अत्रोच्यते । तत्राप्युत्तरोत्तरकालाकलितभावप्रत्याकलनादुपपन्नमेवाधिकगन्तृतया प्रामाण्यम् । न च वैशेषिकादिवत्परोक्षं कालमाचक्ष्महे । प्रत्यक्षमेव हि । । । । ।वर्तमानकालसम्बन्धान् भावानुपलभामहे । कथमरूपं प्रत्यक्षमिति चेत् । आकाशवद्भविष्यति । न हि रूपि प्रत्यक्षमिति नः प्रत्यक्षलक्षणमपि तर्हि संविदेव परोक्षापरोक्षनिर्भासोदीयमानेदं प्रत्यक्षमिदमप्रत्यक्षमिति विभजते । तदेवं विस्फारिताक्षस्य व्यक्तानुपलक्षितोत्तरोत्तरसूक्ष्मक्षण भेदभिन्नैकभाववि । । । ।कापरोक्षनिर्भासावभासोदयातुपपन्ना प्रत्यक्षता प्रमाणता च । अतः प्रमाणान्तरानुपलब्धस्वगोचरप्रत्याकलनादुपपन्नमुपदेशप्रामाण्यमिति सूक्तमर्थेऽनुपलब्ध इति । अत्र भाष्यमुपदेश इति विशिष्टस्य शब्दस्योच्चारणमिति । तत्र चोदना विधिपदपर्यायः शब्दविशेषो भाष्यकारस्याभिमतः इत्याह चोदनेति । एतदुक्तं भवति विधायकशब्द उपदेश इति ॥ ११ ॥ अत्र चोदयति वाक्यान्तर इति द्वयेन । अयमर्थः यदिदं शब्दविशेषस्य विधेर्धर्मे प्रमाणत्वमाश्रितम्, अनेन वाक्यान्तरमपि हि{२,६}वर्तमानोपदेशकं धर्मप्रमितौ प्रमाणमेव । श्रेयस्साधनं हि धर्मः । स च श्रेयसः स्वर्गादेः साधनेन यागादिना साध्यसाधनसम्बन्धः सर्वाख्यातेषु सम्भवति । स्वर्गकामो यजेतेत्यतोऽपि हि यागेन स्वर्गः सिध्यतीति गम्यत एव । यथा लोके ओदनं पचतीति पाकौदनयोः साध्यसाधनसम्बन्धबुद्धिः । स्यादेतत् आख्यातमन्तरेण साध्यसाधनसम्बन्धो न सिद्ध्येत्, तदर्थो विधिरिति । तन्न । अनाख्यातवाक्यप्रयोगासम्भवात् । प्रयोजनाय हि वाक्यमुच्चार्यते । निराकाङ्क्षं च वचः प्रयोजनक्षममाकाङ्क्षानिवर्तनं चाख्यातादृते न सम्भवति । इतरथा विधेरप्यसम्भवात् । स्तुत्यापि ह्याख्यातमेव खादिरादिवाक्येषु विधायकं परिकल्प्यते । अथोच्येत अनुष्ठितो यागादिर्धर्मः, न चानुष्ठानं (प्रव)र्तकादृते सम्भवति । न च विधिमन्तरेणान्यः प्रवर्तयतीति । तन्न । इच्छानिबन्धनत्वात्प्रवृत्तेः । अनिष्टेषु विधिशतेनाप्यप्रवृत्तेः । अतोऽनेनेदं सिध्यतीति संविदि वोपायार्थी स तत्र प्रवर्तत इति । न चाधर्मवर्जनार्थो विधिः । प्रतिषेधादेव नञस्तत्सिद्धेः । रागादिप्राप्तकर्तव्यतानुवादेन नञेव निषेधाधिकारे निवर्तकः । एषा हि तत्र वचनव्यक्तिः यद्धन्यात्तन्नेति । अतोऽनर्थको विधिप्रामाण्यप्रतिपादनप्रयासः । अपौरुषेयः शब्दः धर्मे प्रमाणमित्येतावदेव वचनीयमिति ॥ १३ ॥ परिहरति विधाविति । अयमभिप्रायः सत्यमिच्छातः प्रवृत्तिः । इच्छैव तु प्रेक्षावतां पुरुषार्थसाधनविषया । न च विधिना विना पुरुषार्थसाधनत्वं यागादीनां शक्यतेऽवगन्तुम् । अत एवौदुम्बरादीनां सत्यपि फलपदसम्बन्धे विधिविरहात्फलार्थत्वं नेत्यौदुम्बराधिकरणे वक्ष्यते । ननु लौकिकपाकौदनादिवत्साध्यसाधनसम्बन्धसिद्धिरुक्ता ।{२,७}सत्यमुक्ता । अयुक्ता सा । लोके प्रमाणान्तरावगतेः सिध्यत्यपि । न तु वेदे । प्रमाणान्तराभावात् । ननु स्वर्गकामपदसमभिव्याहारः प्रमाणं, न । तस्य श्रुत्या बाधात् । इह हि यजत इति साध्याकाङ्क्षिणी भावनावगता सती समानपदोपादानश्रुत्युपनीतयो । । । । । । । । । । ।र्धात्वर्थसम्बन्धनिराकाङ्क्षा सती न व्यवहितकर्तृविशेषणत्वोपयुक्तस्वर्गादिभाव्यसम्बन्धमनुभवति । सन्निकृष्टालाभे हि विप्रक्र्ष्टोऽपि वैदिको भवति न सन्निकृष्ट, । । । । । । । । । ।च्यते । लभ्यते चेह धात्वर्थः सन्निकृष्ट इति न विप्रकृष्टफलपदसम्बन्धो युक्त इति ॥ १४ ॥ कृतिविधौ तर्हि कथं पुरुषार्थसाध्यसिद्धिरत आह विधाविति । अयमभिप्रायः विधिर्हि चेतनप्रवर्तनात्मकार्थे फले व्यापारे शक्यते पुरुषं प्रवर्तयितुम् । अतः समानप्रत्ययोपात्तविध्यवरुद्धा भावना विधेः प्रवर्तनाशक्तिर्मा व्याघानीति सन्निहितमप्यपुरुषार्थत्वादय । । । । । । । । । । । ।र्वमतिक्रम्य व्यवहितेनापि पुरुषार्थेन स्वर्गादिना साध्येन सम्बध्यते । धात्वर्थस्तु साध्यत्वात्प्रच्यावितो भावनायामेव साधनाकाङ्क्षिण्यां साधनतया निव । । । । । । । ।तमावाक्यार्थो भवति यागेन स्वर्गं कुर्यादिति । अतः पुरुषार्थसाधनस्य यागादेर्धर्मत्वसिद्धिरिति युक्तमुपदेशप्रामाण्यप्रतिपादनमिति । इदं त्विह वक्तव्यम् का(र्य)विधौ पुरुषार्थः साध्यो लभ्यते । विधिर्हि शब्दभेदो वा लिङादिः, तद्व्यापारातिशयो वा, कोऽपि तदर्थभेदो वा । सर्वथा च न युज्यते । शब्दे हि प्रवर्तयितरि पुरुषार्थसम्बन्धे प्रमाणमस्ति । आप्ते हि बुद्धिपूर्वकारिणि प्रवर्तके हितकार्ययं मामफले न प्रवर्तयतीति बुद्ध्वा भवति प्रवृत्तिविषयव्यापारफलवत्ता(ध्य)वसायः । शब्दस्त्वचेतनो नास्मिन् प्रवर्तयत्यपि पुरुषार्थफलप्रतिलम्भः । न हि प्रबलपवनाभिहतोऽवटे निपतत्फलं प्रतिलभते । अपि च प्रमाणं शब्दः । प्रमाणानां प्रमेयोपदर्शनादन्यत्र व्यापारः । प्रत्यक्षं हि रूपादीनुपदर्शयति न तु प्रवर्तयति । त्रेधा हि प्रामाणिकाः प्रमाणफलं विभजन्ते । हानमुपादानमुपेक्षा चेति । तदिदं प्रमाणानां प्रवर्तकत्वे नोपपद्यते । तदा ह्युपादानमेवैकं प्रमाणफलमापद्येत । कण्टकप्रत्यक्षेण हि कण्टकेषु प्रवर्त्यमानो जिहासन्नपि तान्{२,८}मृद्नीयात् । स्यादेतत् शब्दप्रमाणधर्मोऽयं न प्रमाणान्तराणामिति । न, प्रमाणत्वाविशेषात् । एवं हि प्रयोगो भवति । शब्दो न प्रवर्तकः प्रमाणत्वात्प्रत्यक्षादिवत् । अस्तु वा प्रवर्तकः । नियमेन । । । । । । ।प्रवृत्तिप्रसङ्गः । न च लिङादिश्राविणो नियमेन प्रवर्तमाना दृश्यन्ते । प्रथमश्रुतादप्रवृत्तेः । अविदितसमयत्वादप्रवृत्तिरिति चेत्, किमिदानीं सम्बन्धसंविदपेक्षया यदि शब्दः प्रवृत्तेः कारकः । न हि कारकाणि स्वरूपसंविदमप्यपेक्षन्ते । (प्रागेव समयसंविदं?) मृत्सलिलप्रच्छन्नं हि बीजमविदितस्वरूपसामर्थ्यमपि स्वकार्यमङ्कुरमारभमाणं दृष्टम् । एवमेव शब्दव्यापारो विधिरित्यपि निरसनीयम् । स्यान्मतम् अभिधेय एव लिङादीनां व्यापारो विधिः । अतो न पूर्वोक्तदोषप्रसङ्गः इति । न, अनिरूपणात् । स खलु प्रेषणादिलक्षणो वा स्याद्, अन्यो वा । न तावद्प्रेषणादिलक्षणः शब्दे सम्भवति । अचेतनत्वात् । न चान्यस्तत्समर्थाचरणलक्षणः, तस्य कारीषादिवदनिरूपणात् । कारीषस्य हि वह्नेः शीतापनोदनोऽध्ययने दृष्ट(?मु।ु)पकारः । न शब्दे तथा सम्भवति । प्रमाणान्तराभावात् । शब्दस्य चागृहीतसम्बन्धस्याप्रत्यायकत्वात् । यदि ब्रूयाद्व्यापारान्तरकल्पने स्यादयं दोषः, कॢप्त एव तु लिङादीनामभिधाभिधानलक्षणो व्यापारः शब्दान्तराणामिव स्वार्थप्रकाशनान्यथानुपपत्तिप्रमाणकः प्रवृत्तिहेतुत्वप्रतिलब्धप्रवर्तनापरनामा विधिरिति प्रतिब्रूयादेनम् । स खलु व्यापारभेदोऽभिधेयो वा स्यादनभिधेयो वा स्यात् । अनभिधेये अशब्दा । । । । । । ।स्यभावनासमभिव्याहारानुपपत्तिः । किञ्च सर्वशब्दानामेवानुमानेन स्वार्थगोचरो व्यापार उन्नीयते । न च तथावगतः । प्रवृत्तिहेतुभाव । । । । । ।पाराः प्रवर्तयन्तीति चेद्, विशेषहेतुर्वाच्यः । यद्यर्थविशेषगोचरता विशेषहेतुः, स तर्ह्यर्थभेदो विधिः, तदन्वयव्यतिरेकानुविधानात् । प्रवृ । । । । । । ।वर्थभेदः । यदि भावना न, तस्या वर्तमानापदेशेष्वप्यविशेषात् । अन्यश्चेत्नैनमुपलभामहे प्रमाणाभावात् । अभिधीयत एव लिङादिभिरात्मीयमभिधानमिति चेत् । । । । । । । । । । ।सर्वशब्देभ्यः प्रवृत्तिप्रसङ्गः शक्यते वारयितुम् । न च कार्योन्नेयमभिधानमभिधीयत इति साम्प्रतम् । अनन्यलभ्यं हि शब्दाभिधेयमुपागमन् धीराः । किञ्च यदि व्यापारस्वरूपाभिधानं स । । । । । । । । । । । । । । । ।प्रवर्तकत्वप्रसङ्गः । सोपश्लेषो विशेष इति चेद्, न । स्वरूपाभिधानप्रसक्तेः । न ह्यनभिधाय विशेषणं विशेष्याभिधानं सम्भवति । अपि{२,९}चाभिधाभिधानाभ्युपगमेन प । । । । । ।विशेषहेतोरभावात् । अस्तु तर्ह्यर्थभेदो विधिः । कः । कार्यम् । किं पुनः कार्यम् । कार्यमेव हि कार्यम् । न हीदं रूपान्तरेणानुभूयते । ननु न क्रियातिरेकि कार्यं प्रमाणान्तरैरवगम्यते । सत्यम् । अत एव शब्दप्रामाण्यसिद्धिः । अन्यथा प्रमाणान्तरगोचरत्वेन सापेक्षत्वादप्रामाण्यं चोदनायाः । अपि च कालत्रयविपरिवृत्त्यर्थगोचराणि मानान्तराणि । कार्यं च परामृष्टकालभेदं स्वप्रमाणादवगम्यत इति न प्रमाणान्तरगोचरः । कारकव्यापारो हि यागादिः कालत्रयावच्छेद्यो नाधिकारः । यद्येवमसत्कार्यं कालत्रयापरामर्शात्शशविषाणवदापद्येत । न । कालेनानेकान्तात् । कालो हि न तावत्कालान्तरपरिच्छिन्नः । न च नास्ति कालः । कालान्तरावच्छेदे त्वनवस्थापातः । अलब्धकालान्तरसम्बन्धोऽपि कालः प्रमाणसामर्थ्यादस्तीति चेत् । समानं हि कार्येऽपि । तदपि स्वप्रमाणेभ्यो लिङादिशब्देभ्यः कालानवच्छिन्नमवगम्यमानं कथमसद्भविष्यति । प्रमाणसम्बन्धो हि सत्ता, न कालसम्बन्धः । कार्यमेव तु मनसि वर्तमानं नियुङ्क्त इति नियोग इत्युच्यते । ननु नियोगो नियुक्तिः । स च नियोक्तृव्यापारः । न च वेदे नियोक्तास्ति अपौरुषेयत्वात् । शब्दस्य चानियोक्तृत्वान्न तद्व्यापारो नियोगः । अदूरविप्रकर्षेण तु नियोगादिपदप्रयोगः । याथात्म्यवेदनायां तु लिङेव पठितव्यः । सा ह्यस्य प्रमाणम् । किमात्मकस्तर्ह्ययम् । उक्तं कार्यात्मेति । न च द्रव्याद्यनात्मकत्वादभावः, तद्वदेव कार्यमपि तद्विभक्तमेव देशकालनरावस्थान्तराविपर्ययात्स्वसंवित्संवेद्यं नास्तीति शक्यतेऽवगन्तुम् । उदीयते खल्वपि लिङादिश्राविणां कार्यसंवित् । न चेयमनालम्बना, न च स्वांशालम्बनेति विज्ञानवादे वर्णितम् । अतो निर्विषया संविदात्मानमलभमाना स्वविषयभूतं कार्यमुपकल्पयति । न च प्रतिभामात्रमिदमिति वाच्यम् । अनियतनिमित्ता हि प्रतिपत्तिः प्रतिभा । न चेयमनियतनिमित्ता, शब्दनिमित्तत्वात्तदनन्तरमुत्पत्तेः । कथमनन्यगोचरे कार्यात्मनि व्युत्पत्तिः । तदभावे वा शब्दात्प्रतिपत्तिः कल्प्यताम् । लिङादीनां सकलेतरशब्दविलक्षणः कोऽपि महिमा, यदविदितसम(?या।या अ)पि स्वार्थं गमयन्ति । अथवा सर्वस्याकुमारमास्थविरं च कार्यावगतिः प्रवृत्तिहेतुरिति प्रसिद्धिः ।{२,१०}तदन्यमपि लिङादिशब्दश्रवणानन्तरं चेष्टाविशिष्टमुपलभ्याकलयति नूनमितः सकाशादस्य कार्यसंविदासीत्कथमपरथा प्रवर्तत इति । नन्वेवं क्रियामेव कार्यतया अज्ञासीदिति परस्यापि तद्गोचरामेव कार्यधियम् उन्नयति । न । वर्तमानापदेशेषु सत्यपि क्रियाज्ञाने प्रवृत्त्यदर्शनात्, क्रियात्मनः कार्यस्य व्यभिचारात्प्रवृत्तावहेतुत्वात् । एतदेव फलेऽपि दर्शयितव्यम् । अतो निर्मुक्ताखिलफलादिविकल्पमव्यभिचरितप्रवृत्तिसम्बन्धं कार्यमात्रं लिङादिभ्यः प्रयोज्यवृद्धेनावगतमिति व्युत्पद्यमानो जानाति । न हि कार्यावगतिर्भवति प्रवृत्तिश्च नेति सम्भवति । अतः कार्यमेव कार्यविधिरित्याचार्याः प्रतिपेदिरे । ननु च प्रेषणादयो लिङर्थाः । न, स्वसन्ताने प्रवृत्तिहेतुत्वेन तेषामनुपलब्धेः । वेदे च व्यभिचारात् । (ननु तर्)हीष्टाभ्युपायता लिङादीनामर्थो भविष्यति । सर्वो हि समीहितोपायमाकलय्य तत्र तत्र प्रवर्तत इति परमपि चेष्टमानमुपलभ्य जानाति नूनमिष्टो । । । । । । ।मव्यापारः शब्दश्रवणानन्तरं चायं चेष्टत इति शब्देनेष्टाभ्युपायता प्रतिपादिता भवति । स एव विधिः । प्रवर्तनारूपो हि सः । प्रवृत्तिहेतुं धर्मं च प्रवदन्ति । । । । । । । अतः प्रेषणाध्येषणाभ्यनुज्ञातिरिक्तमप्रवृत्तप्रवर्तनं नियोज्यार्थकर्मगोचरं लोकवेदसाधारणं चोदनोपदेशपर्यायपदवाच्यं लिङादीनामर्थो विधिरिति युक्तम् । हि । । । । । । । ।त्य जैमिनिनोक्तमुपदेश इति । भाष्यकारेण च उपदेश इति विशिष्टस्य शब्दस्योच्चारणमिति विवृतम् । पुरुषार्थोपायं किलानवगतमवगमयन् शब्दान्तरे दूरमुत्क्र्ष्टो लिङादिशब्दोऽविशिष्ट इत्युक्तम् । अतो लोकवेदतन्त्रान्तरानुगतोऽयमेव सिद्धान्त इति कैश्चिद् उन्नीतम् । तदिदमनुपपन्नम् । तथा हि संविदेव तावत्परिपन्थिनी । न हि लिङादिश्रवणसमनन्तरमिष्टाभ्युपायोऽयं व्यापार इति भवति मतिः । अपि तर्हि, प्रवर्तनावगतिः । ननु चेष्टाभ्युपायतैव प्रवर्तना प्रवृत्तिहेतुत्वात् । तन्न । एवं सति यस्य पर्णमयी जुहूर्भवति इत्यत्रापि विधित्वप्रसङ्गः । तरति मृत्युमित्यत्रापि । भवति हि तत्रापि पर्णमयता अपापश्लोकश्रवणस्य अश्वमेधो वा ब्रह्महत्यातरणस्य साधनमिति प्रतिपत्तिः । यदि मतम् अस्येदं भवतीत्यन्वयमात्रमत्रावगम्यते न व्यतिरेकः, न च तमन्तरेण साध्यसाधनसम्बन्धो{२,११}ऽवगम्यते इति । कथं तर्हि स्वर्गकामो यजेतेत्यत्रापि स्वर्गयागयोः साध्यसाधनसंवित् । न हि तत्रापि सति योगे स्वर्गो भवति असति नेति मतिः । यागेनेति हि तृतीया साधनभावमवगमयतीति चेद्, न । तृतीयाश्रवणात् । विधेरयं महिमा यदतृतीयान्तोऽपि यजिः करणतया निर्दिश्यते । स चेदन्यो नाभ्युपगम्यते कथं स्वभावसाध्यो यजिः करणतया निर्दिश्यते । अपि च यत्र स्पष्टमिष्टाभ्युपायत्वमवगम्यते यागस्य यथेष्टाभ्युपायोऽयं यागः यागेन स्वर्गः सिध्यतीति वा, तत्रापि विधित्वप्रसङ्गः । किञ्च तद्द्वेषीति तत्कारि चायमेवं ब्रुवाणो दृश्यते । तथा हि प्रतिभा विधिरिति निरस्यतैतदुक्तं न निरालम्बनं ज्ञानं क्रिया साधनयोगिनी । समान्यस्मिन् इति । तदिदं तवापि समानमिति वर्णितम् । अपि च एवंवादिना साधु समर्थितं विधावनाश्रिते इति । अत्र हि विध्यधीना यागादेरिष्टाभ्युपायता न तु सैव विधिरिति दर्शयति । तस्मादतिकुशलैरुपदेशापदेशयोरविशेष एवोपपादित इति निर्मुक्ताखिलोपाधिविधितत्त्वमतीन्द्रियमन्यदेवेति पूर्वोक्तमेव साधीयः । अत्र वदामः नैवमपि यागस्वर्गयोः साध्यसाधनसम्बन्धसिद्धिः । नियोगो हि तदा साध्यः । न च साध्यद्वयमेकत्र समवैति, समत्वादसम्बन्धात् । ननु नियोगसिद्धिनान्तरीयकी स्वर्गसिद्धिः । अत एव साध्यविवृद्धिरियं न तु स्वर्गोऽपि स्वतन्त्रतया साध्यः । निरपेक्षं च साध्यद्वयमेकत्र विरुध्यते, नानुगुणम् । यथाह नियोगसिद्धौ सर्वं तदनुगुणमिति । केन नेष्यते । तस्मादविरोध इति । तदसत् । किं हि स्वर्गसिद्धिमन्तरेण नियोगस्य न सिध्यति । न हि नित्याधिकारेषु नियोगः साध्यान्तरमाकाङ्क्षति । कामाधिकाराः काम्यपर्यन्ता इति चेत्, को हेतुः । कमिसाध्यत्वागवतिः । तथा हि स्वर्गकामो यजेतेति साध्यस्वर्गविशिष्टाधिकारिसाध्यो नियोगोऽवगम्यते । स कथमसिध्यति स्वर्गे सिध्येत् । अतः स्वर्गसिद्धिरवगम्यत इति नः साध्यस्वर्गविशिष्टोऽधिकारी ।{२,१२}कस्तर्हि । काम्यस्वर्गविशिष्टः । अतः स्वर्गं कामयमानः पुरुषो नियोगं साधयिष्यति । अन्यदिच्छतोऽन्यत्र क्रिया नोपपद्यत इति चेद्, न । नियोगसामर्थ्यादुपपत्तेः । नियोगो हि प्रधानभूतः साध्यतयावगतः स्वर्गमपि कामयमानमात्मन्याकर्षतीति किमनुपपन्नम् । अपि च सिध्यन्नपि स्वर्गो यागात्सिध्यतीति न नः प्रमाणम् । स्वर्गयागौ हि युगपदरुणैकहायनीवदेकप्रधानकार्यान्वयिनौ नान्योन्यान्वयमनुभवतः । न चारुणिम्न इव द्रव्यावछेदशक्तिर्यजेरपि स्वर्गसाधनशक्तिर् अवधृता प्रमाणान्तरेण । ननु किमत्र प्रमाणान्तरेण । स्वर्गे याग एव प्रमाणम् । स हि स्वर्गकामं यागे नियुङ्क्ते । न चाकामोपाये कामी नियोक्तुं शक्यते । उक्तोत्तरमिदम् । किं हि भगवतो नियोगस्यालौकिकस्यासदृशमहिम्नो दुः(खत)या फलेऽपि नरं प्रवर्तयति । तस्य ह्यनुपाये कामिनं नियुञ्जानस्य किमिव हीयेत । यागे नियोगो नियुङ्क्ते इति वदता नूनमिदमवधीरितम् । आरम्भे हि पुरुषो नियुज्यते न कर्मणीति । तस्मान्न स्वर्गयागयोः साध्यसाधनसम्बन्धसिद्धिः । यदपि च क्रियादिकार्ये व्यभिचारादनुपाधिके व्युत्पत्तिरित्युक्तं, तदयुक्तम् । प्रतीतविषयत्वाद्व्युत्पत्तेः । न हि क्रियादिव्यभिचारात्शशविषाणं लिङाद्यर्थ इति शक्यते वक्तुम् । यदपि मन्यते क्रियाकार्य एव लोके व्युत्पन्नः फलसमभिव्याहाराद्वेदेऽन्यदविनाशि कार्यं लिङाद्यर्थ इति प्रत्येष्यते । लोके तु संमुग्धेनापि व्यवहारसिद्धेर्न शब्दार्थतत्त्वनिरूपणम् । बहव एव गौणलाक्षणिकशब्दनिबन्धना लोके व्यवहारा दृश्यन्ते । वेदे तु स्वर्गकामो यजेतेति क्रियात्मनः कार्यस्य भङ्गुरत्वादामुष्मिकस्वर्गादिफलसाधनाशक्तेः कालान्तरस्थायिक्रियातो भिन्नं कार्यमुपेयते । वाक्यशेषाच्चैकत्र समुन्नीतः शब्दार्थो यववराहाद्यर्थवदन्यत्रासत्यपि वाक्यशेषेऽवगम्यते । नित्याधिकारेष्वसत्यपि फलपदसमभिव्याहारे तथाविधमेव कार्यं लिङादीनामर्थो भविष्यतीति । तदिदमन्यदेवाभ्यस्तमन्यच्चोपनिपतितम् । क्रियाकार्ये (विष्पन्न?) स्थायिकार्यं प्रतिपद्यते । न च क्रियायाः फलसाधनताशक्तेरशब्दार्थः सन् युक्तः कल्पयितुम् । कामं कर्मण एवाफलनिष्पत्तेः समस्ति रूपमिति कल्पयितुमुचितम् । न च पूर्वावगतशब्दार्थान्यथाकरणम् । न हि कर्मण्यनुशिष्टा द्वितीया सक्तुषु तदसम्भवाद्विपरिवर्त्य करणमभिधत्त इति युक्तमभिधातुम् । सर्वशब्देष्वनाश्वासप्रङ्गात् । अत एव{२,१३}तत्र तत्र यथाश्रुतार्थसमन्वयानुपपत्तेः क्वचिद्गुणवादः क्वचिल्लक्षणा क्वचिद्विनियोगभङ्ग इति तन्त्रे व्यवहारः । न तु विनियोगभङ्गादभिधानमेव शब्दानामन्यथा नीयते । अपि च श्रुतकर्मफलसम्बन्धानुपपत्तेरनवगतपूर्वमपूर्वं कार्यं लिङर्थमुपयता साधु श्रुतमुपपादितम् । किं हि लिङापराद्धं यत्तस्यालौकिकमर्थमतिक्रम्य कर्मफलसम्बन्ध उपपाद्यते । ननु नाद्यापि लिङर्थो निश्चीयते । अयमेव हि निर्णयसमयः । अत्र च श्रुतफलपदान्तरसमभिव्याहारोपपत्तयेऽतीन्द्रियमेव कार्यमिति निश्चीयते । अतो न किञ्चिद्विरोत्स्यत इति । किमिदानीं स्वर्गकामो यजेतेति श्रुतेरप्रतीतिरेव, लिङर्थे संशयो वा । अप्रतीतौ क्रियात्मनः कार्यस्य फलसम्बन्धानुपपत्तिरित्येतदेव दुर्भणम् । संशयस्तु पक्षद्वयावलम्बी । न चालौकिके क्रियातिरेकिणि कार्ये लिङादयो निरूपितप्रयोगाः । न चात्यन्तापरिदृष्टापूर्वार्थगोचरः संशयो दृष्टचरः । यवादिषु त्वार्यम्लेच्छप्रयोगनिबन्धनो दृष्टपूर्वार्थगोचरः संशयो युक्त एव । अत एवात्र न वाक्यशेषान् निर्णयः । सन्दिग्धे हि स वर्णितः । न च लिङर्थे संशयः । किन् तु लोके व्युत्पत्त्यनुसारेण क्रियात्मन्येव कार्ये निश्चयः । यदप्युच्यते कर्मफलसम्बन्धोपपत्तयेऽन्यत्कार्यमुपलभ्यत इति । केन वा कर्मफलसम्बन्धो दर्शितः । न ह्ययं वैनियोगिकः । नियोग एवात्र प्रमाणम् । स चेत्तदधीनसिद्धिः दुरुत्तरमितरेतराश्रयम्, सिद्धो हि नियोगो विषयीभूतस्य भावार्थस्य करणतामाह । तत्सिद्ध्या च नियोगात्मलाभ इत्यलमनेनापि । यथावार्त्तिकमनुसन्धास्यामः । एवं हि वार्त्तिककृता भावार्थाधिकरणे उक्तं लिङादिशब्दानां पुरुषं प्रति प्रयोजकव्यापारोऽभिधात्मिका भावना विधिरिति । द्वे किल भावने मीमांसकाः सङ्गिरन्ते शब्दात्मिकामर्थात्मिकां च । तत्रार्थात्मिका सर्वाख्यातसाधारणी स्वर्गादिफलधर्मिका यागादिधात्वर्थकरणिका स्ववाक्यप्रकरणान्यप्रकरणानारभ्यवादस्मृतिलोकाचारप्राप्ततत्तदिति कर्तव्यतावती तत्र तत्र सिध्यति । शब्दात्मिका तु लिङादिशब्दानां प्रयोजकानां प्रयोज्यपुरुषकर्मिकाभिधासम्बन्धज्ञानकारणिकार्थवादोदितप्राशस्त्येति कर्तव्यतावतीति विवेचनीयम् । कथं पुनरभिधा शब्दात्मिका । शब्दव्यापारो हि सः । न । व्यापारतद्वतोरनतिभेदादुपपत्तेः । द्रव्यम्{२,१४}एव हि पूर्वावस्थातः प्रच्युतं परामवस्थामप्राप्तं पूर्वापरीभूतं व्यापारशब्दवाच्यम् । कथं लिङादीनामभिधा पुरुषकर्मिका । न हि ते पुरुषमभिदधति भावनावचनत्वात् । सत्यम् । भावनैव तैरभिधीयमाना न स्वरूपमात्रेण वर्तमानापदेशवदभिधीयते । किन् तु कुर्याद्(इति) प्रवृत्तिविषयतया । न च शब्दशक्तयोऽनुयोक्तुमर्हन्ति । तथा हि लिङादिश्रवणानन्तरं प्रयोज्यवृद्धं चेष्टमानमुपलभ्य ततः प्रवृत्तिहेतुप्रत्ययः प्रयोज्यस्यावगम्यत इति तावत्सर्ववादिसिद्धमविवादम् । प्रवृत्तिहेतुस्वरूपे तु बहुधा विवादः । तत्र क्रियाफलादीनां व्यभिचारादप्रवृत्तिहेतुत्वात्, प्रमाणान्तरागोचरे तु प्रवृत्तिहेतौ व्युत्पत्त्यसम्भवात्, कर्मफलसम्बन्धानुपपत्तेश् च सकलेतरप्रकारासम्भवादविवादसिद्धमभिधेयप्रत्ययबलोन्नीयमानस्वरूपं लिङादीनामभिधानमेव प्रवृत्तिहेतुरिति साम्प्रतम् । सा च प्रवर्तनेति स्थितम् । सा च प्रवर्त्यकर्मिका । प्रवर्त्यश्च पुरुष इति युक्तं पुरुषकर्मत्वमभिधायाः । लिङादिव्यापारोऽप्यभिधेयप्रत्ययहेतुत्वादभिधेत्युच्यते । पुरुषं च प्रवर्तयन् प्रवर्तनेति गीयते । न च सर्वाभिधासु प्रसङ्गः, शब्दशक्तिवैचित्र्यादित्युक्तम् । शक्तिर्हि कार्यदर्शनसमधिगम्या । तद्यतः प्रवृत्तिदर्शनं तद्व्यापारः प्रवर्तना, प्रवृत्तिहेतुत्वात् । न च शब्दान्तरेभ्यः प्रवृत्तिरुपलभ्यत इति न तदभिधायास्तथात्वप्रसङ्गः । यश्चाभिधाया अनभिधाने दोषः उक्तः, सोऽभिधानपक्षाभ्युपगमेनैव परिहृतः । यत्तु कार्योन्नेयत्वादनभिधानत्वमुक्तं तदप्ययुक्तम् । किं हि कार्यमनुपपद्यमानं प्रवर्तनामवगमयति । न तावद्भावनावगतिः, वर्तमानापदेशेष्वपि प्रसङ्गात् । अतोऽनन्यप्रमाणत्वादुपपन्नमभिधेयत्वमभिधायाः । यत्तु अनन्यप्रमाणके व्युत्पत्त्यसम्भव इत्युक्तम् । न, अर्थापत्तिप्रमाणकत्वात् । नन्वर्थापत्त्या प्रवर्तनापदेशसाधारणमभिधाया रूपमुन्नीयते । न च तावन्मात्रं प्रवर्तना लडादिभ्योऽपि प्रवृत्तिसंवेदनप्रसङ्गात् । असाधारणस्तु कोऽपि विशेषो लिङ्प्रवृत्तेः प्रमाणान्तरागोचर एवेति दुष्परिहरो व्युत्पत्तिविरहः । मैवम् । प्रवृत्तिहेतुत्वेनार्थापत्तितस्तदवगमात् । तथा हि यत्र तावत्लिङादिभ्यः प्रवृत्तिरुपलभ्यते, तत्र मया प्रवर्तितव्यम् इत्यन्तःसङ्कल्पमूलात्मा लिङ्प्रवृत्तिविशेष उन्नीयते । अप्रवर्तमाना अपि प्रवर्तस्वेति मामयमाहेति लिङ्श्राविणो वक्तारं निर्दिशन्ति । तदवसीयते प्रवृत्तिहेतुरभिहितो लिङा । स च नर्ते वापारात्सिध्यतीत्युक्तमेव । न च किमात्मको लिङ्व्यापार{२,१५}इति वाच्यम् । अन्तःसङ्कल्पमूलात्मा ह्यसाविति वक्ष्यति । नासावुदासीनः कदाचिदवगम्यते । प्रवृत्तिजनन एव हि भावभेदे व्युत्पत्तिरासीदिति स्वयमपि प्रवर्तितव्यमिति प्रतिपद्यमान एव हि लिङर्थं प्रतिपद्यते । नोदासीनमाख्यातान्तरवत् । नो हि फलादयः स्वरूपेणावगताः प्रवर्तयन्ति । अस्य त्वयमेवात्मा यत्प्रवृत्तिधियं जनयति । अपर्यनुयोज्यत्वाद्वस्तुस्वरूपाणां नामाख्यातविभागवदुपपत्तेः । सोऽयमेवमात्मनि लिङर्थे व्युत्पन्नः स्वप्रतिपत्तिकाले न शब्दादृते तमर्थं बुध्यत इत्यनन्यप्रमाणकत्वम् । न तु प्रवर्तनास्वरूपमेवान्यतो नावगतं, येन मतान्तरवद्व्युत्पत्तिविरहश्चोद्येत । सम्प्रति तु न जातेरिव व्यक्तिमन्यतः प्रवर्तनां प्रतिपद्यामह इति शाब्दीमभिदध्महे । न चाभिधा नाभिधीयत इति वाच्यम् । अभिधाशब्दवदुपपत्तेः । यदेव हि शब्दश्रवणानन्तरमनन्यलभ्यं बुद्धौ विपरिवर्तते तदभिधेयम् । तथा च लिङादीनामभिधानमिति किं नाभिधीयते । उक्तं हि लिङादिभ्यः प्रवृत्तिहेतुरुपलभ्यत इति । न च लिङादीनामभिधात्मनो व्यापारादन्यः प्रवृत्तिहेतुः शक्यते निरूपयितुमिति । अत एव नानवस्था । न हि प्रवर्तनावत्तदभिधानमपि शब्दादवगम्यते, यत्तद्गोचरमपरमभिधानमुपेयते । न च लिङादिस्वरूपाभिधानप्रसक्तिः, स्वयमेव तद्व्यापारवैलक्षण्यात् । लिङुपश्लेषे हि विशेषके विशेषणाभिधानमापादितम् । स्वगते तु विशेषे तदनवकाशमेव । सर्वे शब्दव्यापाराः खल्वपि स्वरूपेणैव व्यतिभिद्यन्ते । अत एव विलक्षणाभिधेयप्रत्ययहेतुभावभाजः एकस्या अपि विधिविभक्तेः क्रियाकालादिवन्नाभिधाभिधानमनुपपन्नम् । अतो लिङादीनामभिधा प्रवर्तना सोऽयं विधिः । आह च अभिधां भावनामाहुरन्यामेव लिङादयः । इति । तदनेनैवमात्मना विधिना सम्बद्धा भावना प्रवृत्तिविषयतयावगता फलवत्तया निश्चीयते, स्वसन्ताने फलवतः प्रवृत्तिविषयतयावगतेः । तथा चावगतानुष्ठीयत इति विधिशक्तिमुपक्रान्तामवसीदन्तीमुत्तभ्नाति फलवत्ता, न तु सैव विधिरिति । अत एवापुरुषार्थेषु सागरं तरेदित्येवमादिषु विध्यवगतिः । तथा तत्र न स्यादितरथा तत्र न स्यातपुरुषार्थत्वात्(?) । लिङ्व्यापारस्तु तत्राप्यविशिष्टः, निर्वाहिकायास्तु फलवत्तायाः प्रमाणाभावाद्न{२,१६}निर्वहति । तदभावश्चानाप्तवाक्यत्वात् । वेदे त्वपौरुषेयत्वान्न पुरुषदोषाशङ्कापीत्युपपादितम् । विधौ तु तमतिक्रम्येति प्रपञ्चितश्च विधिरपि मनागित्युपरम्यते इति ॥ १५ ॥ (अपौरुषेयत्वात्?) अनपेक्षत्वादिति सूत्रावयवं व्याचष्टे स्वप्रत्ययेति । अनाप्तवाक्ये हि दृष्टव्यभिचारित्वात्तज्जनितात्प्रत्ययात्प्रत्ययान्तरं स्वीयमर्थावधारणायापेक्षते । न च तत्राप्यनाप्तवचः प्रमाणमनुवादत्वात् । आप्तोक्तीनां तु प्रमाणविषयगोचराणां प्रामाण्यात्तस्यैवाप्तस्य नरस्यापेक्षा किमयमर्थोऽनेन प्रमाणेनोपलब्धो न वेति । न चेयमुभय्यप्यपेक्षा चोदनांसु सम्भवति, अपौरुषेयत्वस्य वेदाधिकरणे वक्ष्यमाणत्वात् । तत उपपन्नं चोदनायाः प्रामाण्यमिति ॥ १६ ॥ अत्रानन्तरं वृत्तिकारमतारम्भभाष्यं वृत्तिआरस्त्वन्यथेमं ग्रन्थं वर्णयाञ्चकार तस्य निमित्तपरीष्टिः इत्येवमादिमिति । तत्रादिशब्दे तावद्द्वैविध्ये साध्वसाधुविवेकार्थमाह आदिशब्द इति । मकारान्तोऽयमादिशब्दः न लुङन्त इति । कारणमाह लिकीति । सामान्यविवक्षायां तु नपुंसकलिङ्गता । अत्र च प्रथममेव ग्रन्थात्मके विशेषेऽवगते न सामान्यविवक्षा युक्तेति । भित्त्वा तु वाक्यं सामान्यविवक्षायां क्लेशो भवतीति । अपरमपि वृत्तिकारमतेन परीष्टिसूत्रव्याख्यानार्थं भाष्यं न परीक्षितव्यं निमित्तमिति । तदयुक्तम् । सूत्रे नञोऽश्रुतत्वात्, अत आह नञिति । इदं हि सूत्रं विधिनिषेधशून्यमपरिपूर्णं नञध्याहारेण परिपूर्यते । प्रसिद्धस्यधर्मनिमित्तस्य परीक्षाविधेरयोग्यत्वादिति व्याख्याते तु नञध्याहारेण परीष्टिसूत्रे प्रत्यक्षसूत्रमवतारयितुं भाष्यकृतोक्तं ननु व्यभिचारात्परीक्षितव्यं निमित्तं शुक्तिका हि रजतवत्प्रकाशते यतः इति । एवं ह्यत्र{२,१७}परिचोदितं न प्रसिद्धत्वं निमित्तापरीक्षायां हेतुः, प्रसिद्धतरस्य प्रत्यक्षस्य शुक्तिरजतवेदने व्यभिचारादिति । तदयुक्तं, न हि प्रत्यक्षं व्यभिचरति अपि तर्हि तदाभासम् । न चाभासव्यभिचारे प्रमाणव्यभिचारपरिचोदना युज्यते । अत आह सङ्करादिति । प्रत्यक्षतदाभासयोरक्षजत्वेन सादृश्यान्मोहादाभासव्यभिचारेऽपि प्रत्यक्षव्यभिचारं चोदयतीति ॥ १७ ॥ तदेव प्रपञ्चयति प्रमाणेति । वक्ष्यमाणपारमार्थिकप्रत्यक्षलक्षणाज्ञानाद्व्यभिचारात्परीक्षा कार्येति चोदयति । एतत्परिचोदनोत्तरतया प्रत्यक्षसूत्रमुपवर्णितं नैतदेवम् । यत्प्रत्यक्षं न तद्व्यभिचरति । यद्व्यभिचरति न तत्प्रत्यक्षम् । किं तर्हि प्रत्यक्षम् । तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम् । यद्विषयं ज्ञानं तेनेन्द्रियाणां पुरुषस्य सम्प्रयोगे यद्बुद्धिजन्म तत्सत्प्रत्यक्षम् । न चेदृशस्य व्यभिचारोऽस्ति । तदिदं वार्त्तिककारो दर्शयति नैतदिति । परीष्टिसूत्रेणापरीक्षा प्रतिज्ञाता प्रत्यक्षसूत्रेणोपपाद्योपसंहृतेति ॥ १८ ॥ कथं पुनरेवंलक्षणकेऽपरीक्षा सिध्यतीत्यत आह तत्रेति । तत्र हि प्रत्यक्षलक्षणे । यदनेवंलक्षणकं तदयथार्थम् । प्रत्यक्षं तु यथार्थमेव । अयथार्थाशङ्का तु परीक्षायां हेतुरिति युक्तमपरीक्ष्यत्वमिति । किं पुनरयथार्थज्ञानम् । शुक्तौ रजतमिति । सा खलु दोषवशादन्याकारेणावभासत इति भवति तद्गोचरज्ञानमयथार्थम् । तदिदमयुक्तम् । न हि शुक्ती रजतमिति भासते । किं तर्हि इदमिति शुक्तिरजतसाधरणात्मना पुरोवर्ति द्रव्यं गृह्यते । अनन्तरं च सदृशदर्शनोद्बोधितप्राचीनरजतानुभवप्रभावितभावनाबीजजन्मा दोषवशाल्लुप्ततदवमर्शा रजतमिति स्मृतिरुदेति । तदेते द्वे एव ग्रहणस्मरणात्मके विज्ञाने । तद्गोचरयोश्च दोषवशादेव भेदकधर्मानवधारणम् । भेदाग्रहणादेव विभ्रमव्यवहारः, न पुनरन्यस्यान्यथाभासनात् । इदमिह भासत इति प्रतीतिसाक्षिकम् । अतः कथं रजतरूपरूपितस्य शुक्तिरालम्बनम् । इदमेव ह्यालम्बनस्यालम्बनत्वं यदात्माकारज्ञानजननम् ।{२,१८}अतो नातदाकारस्य तदालम्बनमिति ज्ञानमेव साकारमिति बलादापतितम् । न खलु रजतमिति शुक्तेराकारः । रजतं तु नासन्निहितमक्षजज्ञानालम्बनमिति युक्तम् । अतो बाह्यरहितं निरालम्बनमेव ज्ञानमिति बलादापन्नम् । एवञ्च मुधैव निरालम्बनानुमानप्रत्याख्यानप्रयासः । अपि च दोषनिबन्धनो विभ्रमः । दोषाश्च स्वकार्ये शक्तिविघातहेतवः । अतो युक्तं तद्वशेन भेदकधर्मानवधारणं, न पुनरन्यस्यान्यथा भानम् । अपि च एवमयं विपरीतख्यातिवादी वक्तव्यः रजतधियः शुक्तिगोचरायाः किं निबन्धनमिति । न तावदिन्द्रियं प्राप्यकारित्वाद्, असन्निहितरजतप्राप्त्यसम्भवात् । अन्यप्राप्तौ चान्यप्रकाशनेऽतिप्रसङ्गात् । प्रमाणान्तरं त्वसम्भवादनुपन्यसनीयम् । अतो ग्रहणकारणाभावात्स्मृतिरियमिति निश्चीयते । अस्ति हि स्मृतेः कारणं पूर्वानुभवप्रभावितोभयवादिसिद्धा भावना । नन्वसति तत्परामर्शे स्मरणमपि नोपपन्नम् । न नोपपन्नम् । अनुभूतविषयं हि ज्ञानं स्मृतिः । न तदिति परामर्शः । तस्मादिदं रजतमिति ग्रहणस्मरणयोरुभयोरपि यथार्थत्वाद्यथार्थायथार्थज्ञानविभागो दुर्भणः । अत्र वदामः यदि द्वे अप्येते यथार्थे, न तर्हि भ्रान्तिः । अयथार्थज्ञानं भ्रान्तिरिति लौकिका मन्यन्ते । स्मरामीत्यग्रहो भ्रान्तिरिति चेत् । तन्न । भाष्यकारो हि स एवासमीचीनः प्रत्यय इति प्रत्ययमसमीचीनं दर्शयति । अपि च कोऽयमग्रहः । ग्रहणाभाव इति चेत् । अभावो नाम न कश्चिदायुष्मतां यो भ्रान्तिरित्युच्यते । ननु स्मरणमेव स्मरामीत्युल्लेखशून्यमग्रहणमाचक्ष्महे न तत्त्वान्तरम् । एवं तर्हि रजतमिति स्मृतिर्भ्रान्तिः । न च तद्युक्तम् । मिथ्या भ्रान्तिरिति पर्यायौ, न स्मृतिर्मिथ्या, यथावस्थितार्थविषयत्वात् । पूर्वानुभूतदेशकालाग्रहो भ्रान्तिरिति चेत् । न । अन्यानवभासोऽवभासान्तरं मिथ्याकरोति, सर्वमिथ्यात्वप्रसङ्गात् । न ह्येकस्मिन् भासमाने सर्वं भासते । अतो यद्यपि रजतस्य देशकालौ न स्मर्येते, रजतं तु यथावस्थितं स्मृत्या विषयीकृतमिति न भ्रान्तिः । अथ सापेक्षत्वात्स्मृतेरप्रामाण्यम्, अतो भ्रान्तिरिति चेत् । यद्येवं सर्वस्मृतीनां भ्रान्तित्वापातः, अविशेषात् । न च स्मरन् भ्राम्यतीत्युच्यते । अथ मतं गृह्यमाणस्मर्यमाणयोर्विवेकाग्रहो भ्रान्तिरिति, उक्तमस्माभिः नाग्रहो नाम कश्चिदृते ग्रहणस्मरणाभ्याम् । तयोश्च न ग्रहणं भ्रमः, प्रमाणत्वात् । न च{२,१९}स्मृतिः । व्यभिचारादतिप्रसङ्गाच्च । विवेकाग्रहे च विभ्रमे सर्वसंविदां भ्रान्तित्वप्रसङ्गः । अवश्यं हि येन केनचिद्विवेको न गृह्यते । स्यान्मतं व्यवहारविसंवादो मिथ्यात्वम् इति, तन्न । तद्धेतोरभावात् । यदि खल्विदमिति ग्रहणं रजतमिति देशकालानवच्छिन्नं रजतस्मरणं, को व्यवहारहेतुः । नो खलु रजतपदादनधिष्ठानं रजतं स्मरन् रजतमिति व्यवहरत्यत्रेदमिति तद्विद्वान् । यो यदर्थी स तदुपादित्सया चेष्टते । अनधिष्ठानं तु रजतं जानतो न व्यवहारहेतुमुपलभामहे । अपि च कोऽयं नियमः स्मृतरजतस्तदर्थी शुक्तावेव प्रवर्तत इति । यदि ह्ययं तामेव रजतं जानीयात्, ततस्तत्र प्रवर्तत इति युक्तम् । इतरथा लोष्टादावपि प्रवर्तेत । न ह्ययं शुक्तेरिव रजतं ततोऽपि विविनक्ति । अवश्यं स्थूलोऽपि विवेको जिघृ(?क्षि।क्ष)तो नानुभूयते । अथोच्येत ज्ञानद्वयमप्येतद्विवेकाग्रहणात्सत्यरजतसंविदो भिन्नमिति नावभासते । सा च व्यवहारहेतुतयावगता । ततोऽत्रापि प्रवर्तत इति । अहो दुरूहमिदमूहितम् । इदं तु ब्रूमः किमिह सत्यरजतसंविदो विवेको नावभासते, तदभेदो वा भासते इति । पूर्वस्मिन् कल्पे पूर्ववत्प्रवृत्त्यभावः । उत्तरस्मिन् विपरीतख्यातिवादः । संवित्ती भिन्ने अभिन्ने भासेते वस्तुनी चेति न विशेषः । अथ सत्यरजतबोधतुल्यतां मन्यते न तत्त्वं, न तर्हि तद्वद्भावे तद्व्यवहारः । न हि गवा सदृशं गवयं जानन् गौरयमिति व्यवहरति । व्यवहारविसंवादे च भ्रान्तिहेतावतदर्थिनो व्यवहाराभावाद्भ्रान्त्यभावः । तस्यापि शब्दप्रयोगोऽस्तीति चेद्, न । निर्विकल्पकभ्रान्तौ तददर्शनात् । स्वतन्त्रस्मृतं च रजतमप्रसक्तं कथं शुक्तौ निषिध्यते नेदमिति । प्राप्तिपूर्वको हि प्रतिषेधो भवति । स कथमसत्यां प्राप्तावात्मानं लभते । ननु नात्र किञ्चिद्बाध्यते । किन् त्वनवगतो विवेकोऽवगम्यते नेदं रजतमिति । कोऽर्थः । शुक्तेर्विविक्तं रजतमिति । अहो व्याख्यानकौशलं तत्रभवतां यत्संविदोऽप्यन्यथा व्यवस्थिता अन्यथा व्याख्यायन्ते । रजतव्यवहारो बाध्यत इति चेद्, न । तस्याप्यप्रसक्तेरुक्तत्वात् । अप्रसक्तव्यवहारस्य बाधविरहप्रसङ्गात् । व्यवहारबाधोऽपि न राजाज्ञया । अपि तर्हि, प्रसक्तताद्रूप्यनिवारणेन । अतोऽन्यदन्याकारेण प्रसक्तं बाध्यत इति साम्प्रतम् । अपि च स्पष्टीकृता ताद्रूप्यप्रसक्तिरिदं रजतमिति । नन्वनालम्बनता प्राप्नोतीत्य् उक्तम् । सत्यम् । यदन्यथासन्तमन्यथा प्रतिपद्यते तन्निरालम्बनं ज्ञानम्{२,२०}इष्यते । किमिहाद्भुतं बाह्यानालम्बनता हि यत्नतो नः प्रतिषेध्या, सर्वत्र देशान्तरादिगतबाह्यालम्बनताभ्युपगमात् । कथमसन्निहितं ज्ञानमुत्पादयतीति चेत् । किमयं प्रत्यक्षधर्मः सर्वज्ञानेष्वारोप्यते । प्रत्यक्षं हि सन्निहितवर्तमानगोचरं, न ज्ञानान्तराणि । न चेदं प्रत्यक्षमाभासत्वात् । यदप्युक्तं कथमन्यसम्प्रयुक्तमिन्द्रियमन्याकारस्य ज्ञानस्य हेतुरिति । उक्तमत्र भाष्ये दोषो मिथ्याज्ञानस्य कारणमिति । तद्भावे हि मिथ्याज्ञानं भवति । असति तस्मिन् सम्यग्ज्ञानदर्शनात् । ननु दोषाः कार्यं विघ्नन्ति, न कार्यान्तरं जनयन्ति । न । स्वप्ने मनोदोषादवर्तमानस्यापि वर्तमानवद्भानात्, कारणाधीनात्मलाभं हि कार्यं तद्दोषे दुष्यतीति नानुपपन्नम् । एष च ज्ञानस्य दोषो यद्यन्यगोचरस्यान्याकारत्वम् । अतः सन्निहितमसन्निहितरजताकारेणावलम्बते दुष्टकारणजं ज्ञानमित्युभयालम्बनस्य ज्ञानालम्बनत्वम् । आत्मेन्द्रियमनोर्थसन्निकर्षो हि ज्ञानस्य हेतुः । सोऽसत्सु दोषेषु सम्यग्ज्ञानहेतुः, सत्सु तु विपरीतज्ञानहेतुरिति सूक्तो यथार्थायथार्थज्ञानविभाग इति । किं पुनः प्रत्यक्षस्य लक्षणं येन तद्यथार्थमत आह यदाभासमिति । यदाकारं ज्ञानं तेनेन्द्रियाणां सम्प्रयोगे यत्पुरुषस्य बुद्धिजन्म तत्प्रत्यक्षमिष्यते । कथं तदयथार्थं भविष्यतीति ॥ १९ ॥ ननु लक्षणपरत्वे सूत्रस्यातिप्रसक्तिरुक्ता । न चाप्येतेन सूत्रेण प्रत्यक्षं लक्ष्यत इति वदता कथमिदानीं लक्षणपरतया सूत्रं वर्ण्यते । अत आह सम्पूर्णेति । यथावस्थितं सूत्रमाभाससङ्करादलक्षणम् । वृत्तिकारमते तु व्यत्यस्तं शक्नोति लक्षणं लक्षयितुमिति, कथं पुनः सम्पूर्णमत आह तत्सतोरिति । यथाश्रुते हि सूत्रे इन्द्रियसम्प्रयोगजत्वमात्रं प्रत्यक्षलक्षणम् । तच्चाभासेऽप्यविशिष्टमित्यतिप्रसज्यते । व्यत्यस्तेन तु तदा बुद्ध्याकारपरामर्शनाद्भासमानाकारेन्द्रियसम्प्रयोगे या बुद्धिः सा प्रत्यक्षमित्युपस्कारे शुक्तिरजतज्ञाने भासमानेन्द्रियसम्प्रयोगाभावान् न प्रत्यक्षमतिप्रसज्यत इति । उत्कृष्टस्य सच्छब्दस्यार्थमाह शोभनार्थ इति । ननु पूर्वं{२,२१} वर्तमानार्थतया सम्प्रयोगविशेषणार्थः सच्छब्दो व्याख्यातः । कथमिदानीं शोभनार्थ इत्युच्यते । युक्तं च सम्प्रयोगविशेषणम् । अविशिष्टे हि तस्मिन्ननागतादिसम्प्रयोगजं योगिप्रत्यक्षमनिराकृतं स्यादिति प्रागेवोक्तम् । तद्वृत्तेनापि व्यवहितप्रठितेन समासो दुष्प्रतिपादतरः । पुनरपि चेदृशं यत्तत्सम्यक्प्रत्यक्षमिति तदपेक्षा विद्यत एवेति व्यत्ययेऽपरितुष्यन् प्रकारान्तरमाह यद्वेति । द्वयोरपि तत्सतोरत्राध्याहारः । तत्र भासमानाकारपरामर्शार्थोऽध्याहृतस्तच्छब्दः । परस्तु प्रत्यक्षरूपपरामर्शार्थः । सच्छब्दस्तु सम्प्रयोगसन्निधिपठितस्तद्विशेषार्थ एव । अध्याहृतस्तु शोभनार्थ इति विवेचनीयमिति ॥ २० ॥ ननु च आभासलक्षणाकथनान्न प्रत्यक्षतदाभासविवेको दर्शयितुं शक्यते, अत आह अर्थापत्त्येति । ईदृशं प्रत्यक्षमित्युक्ते अर्थादनीदृशमाभासं भवतीति । अत्र भाष्यकारेण कथं तदतद्योगजत्वविवेकोऽवगम्यत इत्याशङ्क्योक्तं बाधकं हि यत्र ज्ञानमुत्पद्यते नैतदेवमिति तदन्यसम्प्रयोगे । विपरीतस्तत्सम्प्रयोगे इति । तदयुक्तम् । किं हि कारणं यदुत्तरेण पूर्वं बाध्यते, पूर्वेणैव जघन्यमुत्तरं बाध्यत इति युक्तमत आह बाधकेति । तद्धि बाधकं यदन्याबाधकमात्मानमेव न लभते । तथाचोत्तरम् । अतस्तत्पूर्वं बाधत इति युक्तम् । जघन्यमपि पूर्वानपेक्षं बलवदिति षष्ठे वक्ष्यते । यत्र पूर्वापेक्षमुत्तरं, तत्र पूर्वं बलवदिति तृतीय उक्तमिति ॥ २१ ॥ किं पुनरुत्तरेण मिथ्या सतः पूर्वस्य बाधः प्रमाणस्य वा । प्रमाणस्य बाधेऽतिप्रसङ्गः । मिथ्यात्वं तु नर्ते बाधात्सिध्यति, तदधीनो बाध इति इतरेतराश्रयमत आह स चेति । न खलु पूर्वमिथ्यात्वावधारणादुत्तरस्य जन्म, अपि तर्हि । तन्निरपेक्षमुत्तरं स्वकारणादेवोत्पन्नम् । अतो नोत्पत्तावन्यापेक्षत्वम् । न च कार्यकॢप्तौ । अवबोधरूपत्वादवबोधस्य । तस्य च स्वगोचरप्रकाशनेऽन्यानपेक्षणात् । अतो नान्योन्याश्रयत्वमिति । यदि तर्हि पूर्वानपेक्षमुत्तरमिति तद्बाधकं, पूर्वं वा किमुत्तरमपेक्षते येन बाध्यते ।{२,२२}तदपि हि निरपेक्षमेव, अत आह न चेति । यद्यपि तदुत्तरानपेक्षं, तथाप्यनागतोत्तरबाधकात्मकत्वेनानवभासान् न बाधकमिति ॥ २२ ॥ यत्र तर्हि नैतदेवमिति न बाधकोदयः, अपि तर्हि निमित्तेदाषज्ञानं, तत्रेतरेतराश्रयमपरिहार्यम् । निमित्तदोषेण तत्रोत्थाप्यो बाधः । स च पूर्वाप्रमाणत्वे शक्यत उत्थापयितुं, तदुत्थापनाच्च तदप्रमाणमिति नावकल्पते, अत आह निमित्तेति । प्रायेण हि शङ्खादिषु पीतादिविभ्रमाः पित्तादिदोषेभ्यः समुत्पन्नाः पश्चाद्बाध्यन्ते । नेदं पीतं शुक्लोऽयमिति हि सम्प्रतिपत्तिः सम्भवति । अतो न तत्र निमित्तदोषबोधमात्रान्मिथ्यात्वम् । यत्र तु ज्ञातेऽपि निमित्तदोषे तद्रूपप्रत्ययानुवृत्तेः पश्चादबाधनमेव, यथा दिङ्मूढस्य जानतोऽपि निमित्तदोषाद्दिङ्मोहो न निवर्तते । तत्रापि नरान्तरविपर्ययादन्यतः परिच्छेदान्नेतरेतराश्रयमिति ॥ २३ ॥ यत्र तर्हि न नरान्तरादिषु विपर्ययः तत्र कथं यथा जात्यादिविज्ञाने । न च तत्सत्यं, तेषां व्यतिरेकाव्यतिरेकविकल्पाक्षमत्वादत आह सर्वेषामिति । यद्धि देशान्तरादिषु न विपर्येति तदबाध्यं सम्यगेवेति । ननु तत्राप्यनुपपत्तेर्बाधिका धीरुत्पाद्या, कथं सम्यक्त्वमत आह न हीति । प्रत्यक्षो ह्यविकलकरणस्य पिण्डात्पिण्डान्तरेषु पूर्वरूपावमर्शः । स कथं यौक्तिकेन बाधेन बाध्यते । यस्य ह्यव्युत्पद्यमानस्य बलवता मुखं निरुध्यते न तदात्मानं लभते । उक्तं च स्वयूथ्यैरपि न प्रत्यक्षविरुद्धकारणविषयमनुमानमात्मानं लभते अग्नाव् इव शैत्यानुमानमिति ॥ २४ ॥ अयमसावितरेतराश्रयस्य व्यक्तो विषय इत्याह जात्यादिष्विति । अत्र हि जात्यादिज्ञानमिथ्यात्वाद्बाधकबुद्ध्युदयः । तदुदये तन्मिथ्यात्वम् । न च व्यक्तोदिता शुक्तिरजतज्ञानादिष्विव बाधिका धीरस्तीति ।{२,२३} यदि तर्हि बाधकज्ञानमन्तरेण न कारणदोषमात्रान्मिथ्यात्वमवगम्यते, कथमुच्यते यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्यय इति भेदेन । तदा हि मिथ्यात्वप्रत्यय एवासमीचीनतायां हेतुरुक्तः स्यात् । तस्माद्वक्तव्यो विषयः । स उच्यते येन तर्हि प्रागेकश्चन्द्रोऽवधारितः सम्प्रत्यङ्गुलीनिपीडितलोचनो द्वौ पश्यति । तस्य प्राचीनज्ञानानुसारेण जातविचिकित्सस्याधुना च व्यक्तं कारणदोषमवगतवतो भवति निर्णयः । यथा पूर्वज्ञानम् अदुष्टकारणजम् । इदं च व्यक्तावगतकारणदोषप्रभवम् । कारणदोषनियतश्च कार्यदोषः । तस्मादसमीचीनम् । तदिह पूर्वानुभवो विचिकित्सोदयहेतुः । कारणदोषावधारणादेव मिथ्यात्वावधारणम् । एवं बाह्यागमानामपि कारणदोषावधारणादेव मिथ्यात्वावधारणम् । न हि तदर्थाः साक्षाद्बाध्यन्ते । पौरुषेयत्वात्कारणदोषाशङ्कयैव मिथ्यात्वं भवतीति युक्तमेव द्वैविध्यम् ॥ २५ ॥ ननु मा बाधि जात्यादिज्ञानम् । प्रमाणत्वं तु तस्य कथं, प्रमाणतदाभाससाधारणं हि ज्ञानत्वम् । अतो व्यभिचारदर्शनात्संशयो युक्तः । वृत्त्यादिविकल्पाश्चाप्रामाण्यमनापादयन्तोऽपि तद्वत्प्रामाण्यं विघ्नन्ति । अत आह स्वत इति । यदि ज्ञानत्वानुबन्धिनी प्रमाणत्वाप्रमाणत्वे द्वे अपि स्यातां, स्यादेवानिर्णयः । स्वतस्तु प्रमाणमित्युपपादितम् । अतो जात्याद्यस्तित्वबोधादनपोदितो निर्णयो युक्तः । स चायं बोधो न परमस्माकमेव । येऽपि तु जात्यादीनपलपन्ति, तेषामप्यस्ति । तेऽपि हि न तद्बोधमनपलपन्तो जात्यादीनपलपितुमर्हन्तीति ॥ २६ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां वृत्तिकारग्रन्थव्याख्या ॥ {२,२४} अत्र भाष्यकारेण ननु सर्व एव निरालम्बनः स्वप्नवत्प्रत्ययः इत्याक्षेपपुरस्सरं जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति बाह्यार्थसद्भावः प्रतिपादितः । तस्य प्रकृतवेदार्थविचारोपयोगं दर्शयति प्रमाणत्वेति चतुर्भिः । सर्वो ह्ययं मीमांसाप्रपञ्चो बाह्यार्थाश्रय एव । यथा तावच्चोदनैव धर्मे प्रमाणं, योगिप्रत्यक्षबुद्धागमाद्यप्रमाणमिति चोदनासूत्रे प्रतिज्ञातं, तदसति बाह्ये चोदनापदार्थे दुःस्थितमेव । प्रमाणत्वोपन्यासेनैव तत्परिकरप्रथमपादोक्तसम्बन्धौत्पत्तिकत्वशब्दनित्यत्ववाक्यार्थप्रतिपत्तिमूलसद्भावापौरुषेयवेदवाक्यरचनादिपरिग्रहः । अप्रमाणत्वोपन्यासेन च प्रत्यक्षसूत्रनिर्दिष्टान्याप्रमाणत्वकारणोपादानमिति दर्शयितव्यम् । तथा यदपि चोदनासूत्र एव श्रुत्यार्थेन च पुण्यपापापरनाम्नोर्धर्माधर्मयोः स्वरूपं प्रतिज्ञातं, तदपि नासति बाह्येऽर्थे शक्यं दर्शयितुम् । तत्र हि विधिनिषेधात्मकचोदनाप्रमाणकं पुण्यपापयोः स्वरूपमिति वर्णितम् । आदिशब्देन पुण्यपापोभयरूपरहितमशुभेभ्यो निवर्तनमुपादत्ते । यदर्थसाधनं वस्तु तद्विपरीतं वा तत्पुण्यपापपदयोरस्पदम् । अशुभेभ्यो निवर्तनं तु न सुखाय न दुःखायेत्युभयरूपरहितम् । एतदपि चोदनासूत्रस्थेनार्थपदेन प्रतिपादितम् । तत्फलमिति च त्रिविधस्य पुण्यपापोदासीनात्मनो वेदप्रमेयस्येष्टानिष्टात्मकं फलमुपादत्ते । एतदपि स्वरूपप्रतिज्ञान्तर्गतमेव । न ह्यनाश्रितफलसम्बन्धं धर्मादिस्वरूपमनुभवितुं शक्यमिति । तदेवं{२,२५}तावद्बाह्यार्थसिद्धेरस्ति प्रथमपादोक्तसमस्तोपयोगः । तथा वक्ष्यमाणोपयोगोऽपि । न हि विध्यर्थवादमन्त्राणां साध्यसाधनसम्बन्धविधिविधेयस्तुतुविहितस्मृतिरूपार्था अर्थवादपादगोचरा बाह्यार्थं विना सिध्यन्ति । औदुम्बराधिकरणे हि औदुम्बरो यूपो भवत्यूर्जोपरुध्या इत्यत्र विध्यभावान्न फलपदस्म्बन्धः सिध्यत्यौदुम्बरत्वस्येति वक्ष्यते । तथार्थवादाधिकरणेऽर्थवादानां स्तुत्युपयोगो दर्शितः । एवं हि तत्रोक्तमाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् (१ ।२ ।१) इति । अस्यार्थः यानि हि क्रियां क्रियासम्बद्धं वा किञ्चिदर्थं प्रतिपादयन्ति, तानि सन्तु प्रमाणम् । यानि त्वक्रियार्थानि सोऽरोदीद्यदरोदीदित्यादीनि तानि न कञ्चिद्धर्मं प्रमिमते इति पूर्वपक्षिते उक्तं विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः (१ ।२ ।७) इति । अस्यायमर्थः विधेयानां स्तुतिरूपेणार्थेनार्थवादाः प्रमाणं स्युरिति । कथं पुनः स्तुत्यर्थता । न ह्यनपेक्षिता स्तुतिरर्थवादानामर्थो भवितुमर्हति । न । अपेक्षितत्वात् । अपेक्ष्यते खल्वपि शब्दभावनापरनामधेयेन विधिना स्तुतिः । स हि पुरुषं प्रवर्तयन् प्रवृत्तिविषयप्राशस्त्यज्ञानमपेक्षते । अर्थवादाश्च स्वाध्यायविध्यध्यापितास्तद्बलेनैवाप्रयोजनसम्पदो न पर्यवस्यन्ति । तत्रैव किं कर्तव्यमित्यपेक्षिते तच्छक्तिनिरूपणायामक्षरग्रहणादिक्रमेण कथञ्चित्प्ररोचनायां बुद्धावुत्पन्नायां तत्कार्यत्वमर्थवादानां निश्चीयते । विधिर्हि प्ररोचनामपेक्षते, ते च तां शक्नुवन्ति कथञ्चिदुत्पादयितुमित्यनन्यप्रयोजनतया मनसि विपरिवर्तमानास्त एव तत्प्रयोजनतया निश्चीयन्ते । तदेष शास्त्रार्थो भवत्यर्थवादैरेव प्ररोचितं कर्माभ्युदयाय घटत इति । विधिस्वरूपं च प्रागेवोक्तमिति नेह प्रतन्यते । मन्त्रार्थोऽपि मन्त्राधिकरणे वक्ष्यते । तत्र बर्हिर्देवसदनं दामीत्यादिमन्त्रानुदाहृत्य विचारितं किममी उच्चारणमात्रादेवादृष्टार्थाः, उतार्थप्रकाशनार्था इति । तत्र तदर्थशास्त्रात्(१ ।२ ।३१) इत्याद्युपपत्तिभिरदृष्टार्थतया पूर्वपक्षितं यमेव ह्यर्थं मन्त्रः प्रकाशयति तत्रैवायं ब्राह्मणेन विनियुज्यमानो दृश्यते । यथा प्रथममन्त्रः उरु प्रथस्वेति पुरोडाशं प्रथयतीति । यदि चायमर्थपरः, लिङ्गेनैव तत्र विनियोगे सिद्धे विनियोगानर्थक्यम् । अतोऽविवक्षितवचना मन्त्राः इति पूर्वपक्षिते अभिहितम् अविशिष्टस्तु{२,२६}वाक्यार्थः (१ ।२ ।४०) इति । यथा हि ब्राह्मणवाक्यानामर्थः प्रतीयमानो नाविवक्षितो भवति तथा मन्त्राणामपि । तेऽपि ह्यनुष्ठानौपयिकमर्थं प्रकाशयन्तः किमविवक्षितवचना मन्त्रा भविष्यन्ति । दर्शपूर्णमासादयो ह्यनुष्ठानकालेऽस्मृतानुष्ठानासम्भवाद् अनु(ति)ष्ठासितस्वपदार्थस्मृतिहेतुमपेक्षन्ते । मन्त्राश्चार्थवादवदेव स्वाध्यायाध्ययनविधिबलप्रतिलब्धाध्ययनसंस्कारसम्बन्धात्किंस्विदस्माभिः कर्तव्यमित्यपेक्षमाणा विलम्बन्ते । तत्राशक्तिके विनियोगासम्भवात्तच्छक्तिनिरीक्षणायां क्रत्वपेक्षितानन्यसाधितविहितस्मृतिप्रयोजना निश्चीयन्ते । यथाहुः अनुष्ठाने पदार्थानामवश्यम्भाविनी स्मृतिः । अनन्यसाधनानन्यकार्यैर्मन्त्रैर्नियम्यते ॥ इति । यत्तु विनियोगानर्थक्यमुक्तं, तन्न । अर्थवादार्थत्वाद्वाक्यस्य । प्रथनं हि तत्र श्रूयते । ईदृशमिदं प्रथनं प्रशस्तं यत्क्रियमाणमनेन मन्त्रेण क्रियत इति । सोऽयं विध्यर्थवादमन्त्राणामर्थो नासति बाह्येऽर्थे सिध्यति । तथा उद्भिदा यजेत पशुकामः इत्युदाहृत्य विचारितं किमयं गुणविधिः उत कर्मनामधेयमिति संशय्य, प्रवृत्तिविशेषकरतया गुणविधिरिति पूर्वपक्षितम् । गुणं हि विदधतां प्रवृत्तिविशेषकरत्वम् । इतरथा नाममात्रमनर्थकम् । शक्नुवन्ति चोद्भेदनक्रियायोगवशेन किञ्चित्खनित्राद्यर्थमभिधातुमिति गुणविधय इति प्राप्ते उक्तं न गुणविधयः । कर्मसमानाधिकरणा ह्येते, तृतीयानिर्देशात् । कर्म खल्विह उद्भिदा यजेत पशुकामः इति पशुभावनाकरणत्वेनाभिहितं यजेत पशुकाम इति । किमुक्तं, यागेन पशून् भावयेदिति । अत उद्भिदा यागेनेति व्यक्तमेव सामानाधिकरण्यम् । गुणविधौ तु यागस्योद्भित्त्वाभावादुद्भिद्वता यागेनेति मत्वर्थलक्षणया सामानाधिकरण्यं स्यात् । तत्र च लक्षणैव दोषः । नन्वेवं व्रीहिभिर्यजेतेत्येवमादावपि भावनाकरणेन यजिना समभिव्याहृता व्रीह्यादिशब्दाः कर्मनामधेयतां प्रतिपद्येरन् । न । तेषां निरूढार्थत्वात् । अज्ञातसन्दिग्धार्थस्य हि पदस्य प्रसिद्धसामानाधिकरण्यादेवार्थो निश्चीयते । निरूढं तु स्वार्थान्न प्रच्यावयितुं शक्यते । आह च पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥ {२,२७}इति । अतः पशूनामुद्भेदनं प्रकाशनमनेन कर्मणा क्रियते इति योगादुद्भिच्छब्देन कर्माभिधीयते । गुणफलसम्बन्धविधानेनाम्नातानामप्युपयोगोऽस्तीति नानर्थक्यम् । अतः सिद्धं कर्मनामधेयतयैवञ्जातीयकानां क्रियोपयोग इति । चित्रादिशब्दानां नामधेयत्वहेतवो विस्तरभयान्नानुक्रम्यन्ते । क्वचित्कर्मणः प्रापकशब्दान्तराभावाद्गुणविधित्वमेव । यथा आग्नेयोऽष्टाकपाल इत्याग्नेय इति सगुणकर्मविधायिनः शब्दस्य । न हि तत्र द्रव्यदेवतासम्बन्धविधानात्प्राक्कर्मणो रूपमवगम्यते यस्याग्नेयशब्दो नामधेयं भवेदित्येवमादि नामधेयपादोक्तमादिशब्देनानुक्रान्तं वेदितव्यमध्यायान्तम् । यावत्स्मृतिपादोक्तार्थोऽप्यनेनैवानुक्तान्तो वेदितव्यः । प्रत्यक्षवेदोपयोगप्रतिपादनप्रसङ्गेन चार्थवादाद्युपयोगानन्तरं नामधेयपादार्थोऽनुक्रान्तः । तत्रादिशब्देनानुक्रान्तः स्मृतिपादार्थः । तथा हि अश्रूयमाणवेदानष्टकादीनुदाहृत्य तेषां धर्माधर्मत्वसंशये, धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्(१ ।३ ।१ ।) इति पक्षं परिगृह्य वेदमूलतया सिद्धान्तितं सर्वाः स्मृतयो हि नासति पूर्वज्ञाने आत्मानं लभन्ते । पूर्वज्ञानं च मूलभूतं विभ्रमो वा स्यात्, प्रत्यक्षानुभवो वा, पौरुषेयागमजन्यं वा, विप्रलम्भो वा, चोदनाजनितं वा । तत्र तावद्भ्राम्यतामाप्तानां मन्वादीनां स्मृतिनिबन्धनप्रणयनमयुक्तम् । ते हि तावदृषयो भ्राम्यन्तीत्येतदेव दुर्भणम् । भ्राम्यतां तु यन्महाप्रबन्धरचनं तत्स्मृतिभ्यश्चाद्ययावदार्यैः पश्यद्भिः परि(?ग्रह्गृह्यते) इति नैतदुत्प्रेक्षितुमपि शक्यम् । अनुभवश्चातीन्द्रियगोचरः प्रत्यक्षसूत्रे निराकृतः । पुरुषवाक्यमप्यसम्भवन्मूलमप्रमाणमेव । विप्रलम्भोऽपि भ्रान्तिवन्निराकार्यः । चोदना तु सम्भवद्वेदसंयोगिनां त्रैवर्णिकानां स्मृतिमूलं भवतीति तत्कल्पनैव लघीयसीति । नन्वेवमग्निहोत्रादिचोदनावदष्टकादिचोदना अपि किं नोपलभ्यन्ते । नेदमनुपपन्नम् । विप्रकीर्णानेकशाखाश्रया हि श्रुतयः क्रतुपुरुषार्थोपदेशसङ्कीर्णाः प्रमाद्यद्भिरद्यतनैर्न विविच्योपलभ्यन्त इति किं नोपपद्यन्ते । अतो यदश्रूयमाणमप्यष्टकादिधर्मस्य निमित्तं चोदनेति सिद्धमष्टकादयो धर्मा इति । तदेवं प्रत्यक्षश्रुत्यविरुद्धाभ्यः श्रुत्यनुमानम् । प्रत्यक्षश्रुतिविरोधे तु न श्रुतिरनुमातुं शक्यत इति विरोधाधिकरणे{२,२८}उक्तम् । उपरिष्टाच्चाचारप्रामाण्यं स्मृत्या च सह बलाबलपरीक्षेत्यादि दर्शयितव्यम् । सर्वेषु च भेदादिलक्षणेषु स्वप्रमाणगणैः शब्दान्तरादिभिः सिद्धान्तस्थिति(?ः।र्) सति बाह्येऽर्थे न सम्भवति । सोमेन यजेत दाक्षिणानि जुहोति हिरण्यमात्रेयाय ददातीति यागहोमदानभावनानां शब्दभेदादेव भेदो वक्ष्यते । तथा च समिधो यजतीत्येवमादीनां पञ्चानां प्रयाजानामसत्यपि शब्दभेदेऽभ्यासानर्थक्यप्रसङ्गाद्भेदो दर्शितः । तिस्र आहुतीर्जुहोतीति पृथक्त्वनिवेशित्वात्संख्याया आहुतीनां भेदो दर्शितः । अथैष ज्योतिरेतेन यजेतेति ज्योतिष्टोमाज्ज्योतिरिति संज्ञान्तरेण कर्मभेदः । वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनमिति च उत्पत्तिशिष्टश्रौतामिक्षाविरोधाद्वाजिनं वैश्वदेवे कर्मणि निवेशमलभमानं स्वाश्रयं यागान्तरमुपकल्पयति । सोऽयं वाजिनगुणाद्भेदः । कुण्डपायिनामयने मासमग्निहोत्रं जुहोतीति नैयमिकाग्निहोत्रात्प्रकरणान्तरेण कौण्डपायिनहोमस्य भेदः । तदेवं षोढा कर्मभेदो द्वितीये । अन्यदुपोद्धातादिना । तृतीये तु पारार्थ्यलक्षणस्य शेषत्वस्य षोढैव विनियोगसिद्धिरुक्ता । यथा तावदरुणिम्नः तृतीयाश्रुत्या क्रियाङ्गभावे सामान्यतोऽवगते अरुणया क्रीणातीति क्रियाविशेषलाभो वाक्यात् । लिङ्गविनियोगस्तु यथाप्रकरणाम्नानसामर्थ्यावधृतसामान्याङ्गभावस्य बहिर्मन्त्रस्य सामर्थ्यापरनाम्नो लिङ्गाद्बर्हिर्लवने विनियोगः । प्रकरणविनियोगस्तु इष्टिप्रकरणाम्नातानां प्रयाजादीनां साध्याकाङ्क्षिणामुपकाराकाङ्क्षिण्या तया सह सम्बन्धः । उभयाकाङ्क्षालक्षणमेव हि प्रकरणमाचक्ष्महे । क्रमविनियोगस्तु प्राकृतोपकारनिराकाङ्क्षायां विकृतौ सन्निधिसमाम्नातानामङ्गानाम् । न हि तत्र प्रकरणविनियोगः सम्भवति । उभयगामिनी ह्याकाङ्क्षा प्रकरणम् । अनाकाङ्क्षा चेह विकृतिः प्राकृतोपकारद्वारपरिप्राप्तपदार्थपरिष्वक्ता वैकृतमेव त्वङ्गानां सन्निहितसमाम्नानमनर्थकं मा भूदिति तत्सन्निधिपाठादेव तेषां तत्र विनियोगो निश्चीयते । समाख्याविनियोगस्तु आध्वर्यवसमाख्यातेषु पदार्थेष्वध्वर्योरनेनामी कर्तव्या इति । चतुर्थेऽपि श्रुत्यादिभिरेवावधृताङ्गाङ्गिभावानां दध्यानयनामिक्षादीनां प्रयोज्यप्रयोजकत्वे वक्ष्येते । यद्धि श्रुत्यादिभिर्यच्छेषतयावगम्यते तत्तेन{२,२९}प्रयुज्यत इति स्थापितम् । तदिह प्रयुक्तिलक्षणेऽपि श्रुत्यादिरेव प्रमाणगणः, शेषलक्षणेऽपि शेषिणां शेषाणामुभयेषां वा क्रमनियमः किञ्चिन्मात्रविशेषभिन्नश्रुत्यादिभिरेव क्रियते । यथा तावदध्वर्युर्गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति इति क्त्वाश्रुत्या क्रमनियमः । अग्निहोत्रं जुहोति यवागूं पचति इति पाठादन्यादृशेऽपि क्रमेऽवगम्यमानेऽर्थात्क्रमनियमविपर्ययः । होमोत्तरकालं हि पाकः क्रियमाणोऽनर्थकः स्यात् । होमोऽपि नासति हविषि सं(प्र)वर्तत इत्यर्थात्पाकोत्तरकालमेव निश्चीयते । तदिदं लिङ्गमेवार्थ इति नाममात्रभिन्नं, सामर्थ्यमेव हि भावानां लिङ्गमिति निश्चीयते । इहापि द्रव्यक्रिययोः शक्तिनिरीक्षणादेव क्रमनियमावधारणम् । पञ्चानां तु प्रयाजादीनां समिधो यजतीत्येवमादीनां पाठात्क्रमनियमः । बहूनां हि पदार्थानां युगपदेकेन कर्त्रानुष्ठातुमशक्तेरवश्यम्भाविनि क्रमेऽवगमाधीनत्वादनुष्ठानस्य क्रमेण तूच्यमानेषु तथैवावगमादनुष्ठाने क्रमापेक्षायां स एव क्रमो निश्चीयते । प्रतीतहानाप्रतीतोपादानयोरनुपपत्तेः । अयमपि पाठापरनाम्ना स्थानेनैव क्रमनियमः । स्थानात्क्रमनियमो यथा साद्यस्के कर्मणि सह पशूनालभते इत्यग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयस्थाने सहोपलम्भे चोदिते कः प्रथमं प्रयुज्यतामित्यपेक्षायां स्थानात्सवनीयो बुद्धो भवन् प्रथमं नियम्यते । तस्य तदनुष्ठानस्थानम् । सोऽयमनुष्ठानसादेश्यलक्षणः क्रमः । पूर्वं तु पाठसादेश्यलक्षणः । द्वेधा च तार्तीयक्रमो विभक्तः । यथोक्तं तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद्विनियोगस्य कारणम् ॥ इति । प्रवृत्त्या च क्रमनियमो यथा सप्तदश प्राजापत्यान् पशूनालभते इति चोदितेषु पशुषु चोदकप्राप्तानां प्रोक्षणादीनां यत्रक्वचिदेकस्मिन्नेकस्यानुष्ठाने द्वितीयादिषु किं प्रथमप्रवृत्त्यैव अथानियम इति संशये नियमकारणाभावात्प्रथमप्रवृत्तेश्चानियमात्मकत्वादनियमः इति पक्षं परिगृह्य प्रथमप्रवृत्त्यैव नियमो दर्शितः । प्रयोगवचनबलेन हि पशूनां यौगपद्यमवधारितम् । तच्चावर्जनीयाद्विलम्बनान्न व्यवधानान्तरमङ्गानामनुजानीते । साङ्गेषु हि पशुषु युगपदनुष्ठातव्यतया चोदितेष्वपीश्वरेणापि तथा सम्भावयितुम्{२,३०}अशक्तेः अवर्जनीयव्यवधानं तु विधेर् अनुमतं भवति । तत्र च वैषम्यकारणाभावात्सर्वेषां सदृशमेवाङ्गव्यवधानम् । प्रथमपदार्थकर्त्रानुष्ठिते तदैवाङ्गान्तरानुष्ठानाय तेनैव प्रधानेन चोद्यमाने कर्तरि प्रयोगवचनप्रमाणकयौगपद्यबलेन पश्वन्तरैराकृष्यमाणे तत्पदार्थमात्रस्य पश्वन्तरेष्वनुष्ठानं स पशुः प्रतीक्षते । तदन्ते च द्वितीयपदार्थानुष्ठानाय कर्तारमाकर्षति । एवं सप्तदशानां पशूनां षोडशभिरेकैकस्य व्यवधानं विध्यनुमतम् । व्यवधानविशेषस्तु विशेषाग्रहणान्नाश्रयितुं शक्यम् । अतो द्वितीयादीनामप्यनुष्ठानं तत एवारभ्येति सिद्धान्तात्क्रमनियमः । अयं च प्रकरणान्तर्गत एवाकाङ्क्षैकप्रमाणकत्वादेकैकोऽपि पशुरव्यवधानेन पदार्थानुष्ठानमाक्षिपति । पदार्थश्च तत्सन्निधावात्मनोऽनुष्ठानम् । अत उभयाकाङ्क्षया क्रमनियमो जायमानः प्राकरणिको भवति । मुख्यक्रमेण चांशानां क्रमनियमो यथा सारस्वतौ भवत इति युगपदुत्पन्नयोः स्त्रीपुंदेवतयोः कर्मणोर्याज्याक्रमेणानुष्ठानेऽवगतेऽङ्गेषु क्रमापेक्षायां मुख्यक्रमेणैव क्रमो नियम्यते । न ह्यङ्गानां प्रधानकालाद्बहिर्भावोऽस्ति । साङ्गं प्रधानमैकशब्द्यादिति वक्ष्यति । सोऽयं वाक्येनैव क्रमनियमः । साङ्गं हि प्रधानमेकवाक्यचोदितमेकोपक्रमावसानमिति प्रधानक्रमेणैवाङ्गानां क्रमनियमो जायते । अत्रापि श्रुत्यादिरेव प्रमाणगणः । एवमधिकारविचारादावपि शेषशेषिप्रपञ्चार्थत्वात्शेषलक्षणोक्तान्येव श्रुत्यादीनि सिद्धान्तस्थितिहेतुतया दर्शयितव्यानीति । यथा तावदाद्य एव स्वर्गकामो यजेतेति यागस्वर्गयोः कः शेषः को वा शेषीति चिन्तायां द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः (६ ।१ ।१) इति स्वर्गस्य यागशेषतया लिङ्गबलेन पूर्वपक्षः परिगृहीतः । तद्धि भूतस्य द्रव्यस्य सामर्थ्यं यद्भाव्यं कर्म निष्पादयति । द्रव्यं च स्वर्हः, स्रक्चन्दनवासस्सु तत्प्रयोगात्सूक्ष्माणि वासांसि स्वर्ग इति यथा । अतो द्रव्यमेव कर्मार्थं, कामपदसम्बन्धश् च साधनविषयतया दर्शयितव्यः । यो हि यदर्थी स तत्साधनमपि कामयत एवेति लिङ्गबलेन पूर्वपक्षिते विधिश्रुतिबलात्सिद्धान्तितम् । विधिर्हि चेतनप्रवर्तनात्मकः । न चानर्थे पुरुषः प्रवर्तयितुं शक्यते इति यागार्थे स्वर्गे कर्मासाधकमापद्यते । यथोक्तमसाधकं तु तादर्थ्यात्(६ ।१ ।२) इति । अतो विधेः प्रवर्तनाशक्तिर्मा व्याघानीति कर्मैव स्वर्गार्थम् ।{२,३१}न च द्रव्यं स्वर्गः । अन्वयव्यतिरेकाभ्यां प्रीतिवचनत्वावगमात् । तदेव हि द्रव्यमप्रीतिकरं न स्वर्गशब्देनोपचरन्तो दृश्यन्ते इति प्रीत्यन्वयव्यतिरेकानुविधायित्वात्स्वर्गपदं तद्वचनमिति निश्चीयते । न च सर्वस्येष्टतमा प्रीतिरन्यनिष्पत्तये भवतीति साम्प्रतम् । अतो यदेव किञ्चित्प्रीत्या समभिव्याहृतं तत्तदर्थमेवेति लिङ्गमपि विपरीतम् । अतः सिद्धं यागः स्वर्गार्थ इति सिद्धश्चाधिकार इति । परस्तादपि शेषभूतस्यैव कर्तुस्तत्राधिकारो दर्शयिष्यत इति श्रुत्यादिबलेनैवाधिकारलक्षणेऽपि सिद्धान्तस्थितिः । उत्तरषट्के तु शेषा एव किं सर्वत्रोपदेशेनैव सम्बध्यन्ते, अथ यथा प्रकृति व्यवतिष्ठन्त इति श्रुत्यादिबलेनैव निर्णेष्यन्ते । औपदेशिके हि धर्मसम्बन्धे नातिदेशः सिध्यति, पारिप्लवा हि तदा धर्मा भवेयुः । तदिहातिदेशोपोद्धातेनैव सप्तमाद्ये यज्यपूर्वप्रयुक्तत्वं विचारितं यज्युद्देशेन धर्मविधानात्यजेश्च सामान्यवचनत्वात्सर्वत्रेति प्राप्तम्, न च दर्शपूर्णमासपदं नियामकं, परिसंख्यानाद्विशिष्टोद्देशेन विशिष्टानुवादादिति प्राप्ते निरूपितं नात्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति यागोद्देशेनाङ्गानि विधीयन्ते, किं तर्हि, साङ्गप्रधानविशिष्टापूर्वभावनैव चोद्यते । पश्चात्त्वेकभावनापरिगृहीतानाम् अङ्गानां प्रधानानां चारुणैकहायनीवत्परस्परान्वयसिद्धिः । भिध्यन्ते च शब्दान्तरादिभिः प्रतिप्रकरणमपूर्वभावनेति कुतो धर्मसङ्करः । सेयं श्रुत्यादिप्रमाणकविनियोगपरामर्शादेव व्यवस्था सिध्यति । यदा ह्यपूर्वभावनान्वयगर्भो विनियोगो धर्माणां न यागसामान्योद्देशेनेति सिद्धं भवति, तदा व्यवस्था सिध्यति । तत्सिद्ध्या चाश्रुतेतिकर्तव्यताकेषु सौर्यादिषु विध्यन्तापेक्षायां सामान्यातिदेशसिद्धौ प्रत्यक्षवचननामाव्यक्तचोदनातदवयवद्रव्यदेवतासामान्यबाहुल्येन विशेषातिदेशसिद्धिः । यथेष्टौ समानमितरत्श्येनेनेति श्येनवैशेषिकाणां वाचनिकोऽतिदेशः । मासमग्निहोत्रं जुहोतीति कुण्डपायिनामयने होमनाम्ना नित्याग्निहोत्रधर्मातिदेशः । एकाहाहीनसत्राणामव्यक्तचोदनाचोदितत्वेन सोमसादृश्यात्तद्धर्मातिदेशः इत्यादि दर्शयितव्यम् । सर्वश्चायमतिदेशः श्रुत्या विनियोगानुसारेणैव शेषाणां सिध्यतीति तत्प्रमाणगणकारित एव । ऊहोऽपि षोढा विभक्तः । प्राकृतोपदेशानुसारेणैव मन्त्रादीनां सिध्यतीति सोऽपि श्रुत्यादिप्रमाणक एव । सोऽपि ह्यपूर्वार्थो धर्मविनियोग इति सिद्धे सेत्स्यति । अत{२,३२}एवापूर्वप्रयुक्तिराद्ये साधिता । बाधोऽपि श्रुत्यादिप्रमाणानुसारेणैव । तत्रापि प्राकृतशास्त्रातिदेशात्सर्वानुष्ठानेन पूर्वपक्षिते उपकारप्रधानत्वादतिदेशस्य तदभावेऽन्यतो वा तल्लाभे प्रतिषेधेन वा बाधो वक्ष्यते । यथा कृष्णलचराववघातस्य, खलेवालीशराभ्यां यूपबर्हिषोरित्यादि दर्शयितव्यम् । एतदपि प्रकृतावेवोपकारपर्यन्तश्रुत्यादिविनियोग इति निर्णीयते । (?सिध्यति) एतावांस्तु विशेषः प्रकृतौ पदार्थपरिग्रहपुरस्सर्युपकारकल्पना, प्राक्तदसिद्धेः । विकृतौ तु प्रकृतिपरिकल्पितोपकारसन्दर्शनेन तत्परिग्रहपुरस्सरं पदार्थपरिग्रहः । स एव हि विधिनापेक्ष्य्ते । स तु प्रकृतावसिद्धो (ऽपि) कल्पयित्वा गृह्यते । विकृतौ च प्रकृतिसिद्ध एवोपादीयत इति । अत एव शास्त्रपदार्थयोरनतिदेशः, तयोर्विध्यनपेक्षितत्वादिति । तन्त्रावापलक्षणेऽपि विशेषा एव प्रधानानां किं तन्त्रेणोपकारका उतावृत्त्येति शेषाणामेव विचार्यमाणत्वात्तत्प्रमाणगणानुसारी निर्णयो दर्शयितव्यः । तत्र हि देशकालफलादीनां तन्त्रसम्बन्ध आग्नेयादीन् प्रति प्रयाजादीनां तन्त्रानुष्ठाने हेतुर्भविष्यति । स च श्रुत्यादिप्रमाणक एवेति तत्रापि स एव प्रमाणगणः । प्रसङ्गलक्षणेऽपि पश्वर्थानुष्ठितानां प्रयाजादिशेषाणां पशुतन्त्रमध्यपातिपुरोडाशोपकारकत्वं देशादितन्त्रनिबन्धनमेवेति पूर्ववत्प्रमाणगणः । अत एव भाष्यकारेण प्रथमसूत्रे दशाध्याय एव शेषलक्षणशब्दः प्रयुक्तः । योऽपि वचनव्यक्तिभेदेन पूर्वपक्षसिद्धान्तविभागः यथा स्वर्गकामो यजेतेति स्वर्गकामो यागं कुर्यादिति पूर्वः पक्षः यागेन स्वर्गं कुर्यादिति सिद्धान्त इति, सोऽपि नार्थशून्यासु बुद्धिषु सिध्यति । कर्मभ्यश्च दर्शपूर्णमासकारीर्यादिभ्यः परलोके इहलोके भवत्स्वर्गवृष्ट्यादिफलसम्बन्धो बाह्याश्रय एव, असति तस्मिन् द्वैविध्यानुपपत्तेः । अतः सर्वमिदं बाह्यार्थसिद्धावसत्यामयुक्तमापद्येतेति तदुपपादनाय धर्मार्थिभिर्मीमांसकैर्लोकप्रसिद्धैः प्रत्यक्षादिभिः प्रमाणैः पूर्वोत्तरपक्षविभागेनार्थस्य सदसद्भावयोर्यत्नः कार्यः । पूर्वपक्षविशुद्धा हि बुद्धिः सिद्धान्तकरी भवति । अतोऽनुमानेनैवार्थापह्नवपूर्वपक्षं कृत्वा प्रत्यक्षेण तत्सद्भावसिद्धान्तो दर्शयितव्यः । सर्वश्चायं प्रयासः सकललौकिकवैदिकक्रियां{२,३३}प्रति तत्सिद्ध्यर्थम् इति यावत् । अन्यथा सर्वार्थक्रियाणामुच्छेदो भवेत् । अतः प्रयोजनवद्बाह्यार्थप्रतिपादनम् । अक्रियाङ्गस्य तु प्रतिपादितस्याप्यनर्थ(त्व)मेवेति क्रियां प्रतीति युक्तमेवेति ॥ ४ ॥ अत्र चोदयति यदेति । ज्ञानमात्रपक्षे हि बौद्धानामिव सर्वोऽयं प्रमाणादिव्यवहारः सिध्यत्येव । ते हि वदन्ति द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥ इति । अतस्तद्वदेव व्यवहारसिद्धौ किं पारमार्थिकार्थप्रतिपादनव्यसनेनेति ॥ ५ ॥ अत्र दूषणमाह संवृतेरिति । सत्यम् । संवृतिसत्येन सर्वमिदं बौद्धैराश्रीयते । न त्वेतद्युक्तम् । सत्यभेदानुपपत्तेः । यः खल्वयं सत्यभेदो बौद्धैराश्रितः संवृतिसत्यं परमार्थसत्यमिति, नायमुपपद्यते । संवृतेः सत्यत्वाभावात् । मिथ्यापर्यायो हि संवृतिशब्दः । कथं तस्य सत्यशब्दसमभिव्याहारः । न ह्ययमक्षशब्द इव विभीतकादीनां संवृतिपरमार्थयोः साधारणः सत्यशब्दः । अतः सत्यभेदानुपपत्तिरिति । विरोधमेव व्यनक्ति सत्यं चेदिति ॥ ६ ॥ विरोधादेव च मृषार्थपरमार्थयोः सामान्यमपि सत्यत्वं नाभ्युपगन्तुं शक्यम् । समानानां भावः सामान्यम् । कुतस्तस्य विरोधिनोरवकाशः । न हि भवति धर्माधर्मयोर्धर्मत्वमधर्मत्वं वा सामान्यमित्याह सत्यत्वमिति विरोधादन्तेन । अन्यमात्रयोरपि तत्परामर्शाभावाद्दुरुपगमं सामान्यं वृक्षसिंहयोरिव वृक्षत्वम् । किं पुनर्विरोधिनोस्तत्स्यादित्याह {२,३४}न हीति । अत्र चाक्षादिवत्साधारणशब्दता पूर्वं सत्यशब्दस्य निराकृता इह गवादिवत्सामान्यशब्दतेति विवेचनीयमिति ॥ ७ ॥ अतो लोकं वञ्चयितुं मिथ्यापर्यायोऽपि संवृतिशब्दो बौद्धविदग्धैरनुद्वेगकरतया मिथ्यात्व एव विवक्षिते स्वनास्तिक्यपरिजिहीर्षया प्रयुक्तो लालायामिव वक्त्रासवशब्द इत्याह तुल्यार्थत्व इति संवृतिरन्तेन । वक्ष्यमाणेनेतिकरणेन सम्बन्ध इति । कल्पनावाचोयुक्तिरपि स्वनास्तिक्यपरिहारार्थमेव तैराश्रितेत्याह कल्पनेति चेति । कल्पनामात्रकल्पितेन बाह्येन सर्वलौकिकव्यवहार इत्यपि निर्वस्तुके जगत्यभिन्नस्य चिन्मात्रस्य कल्पनाया भेत्तुमशक्यत्वाद्दुर्भणम् । क्वचिद्धि भिन्नमेव किञ्चिद्रूपान्तरं कल्पनास्पदं भवति शुक्ताविव रजतरूपम् । यस्य तु न किञ्चिद्भिन्नमस्ति, तत्केन रूपेण कल्प्यताम् । तदेतदाह कल्पनापीति ॥ ९ ॥ ननु त्रिधैव तत्त्वं विभजामहे सत्यमसत्यं संवृतिसत्यं चेति । संवृतं हि नात्यन्तमसद्भवति, व्यवहाराविसंवादात् । नापि सदेव, प्रमाणान्तरविरोधाज्जात्यादिवत् । अतो न संवृतिः प्रमाणं नाप्रमाणमिति विधान्तरमेवेदमिति युक्तस्तदाश्रयतया व्यवहार इत्यत आह तस्मादिति । यतः खलु संवृतिर्मिथ्याज्ञानं न वस्तुकॢप्त्यै प्रभवति, तस्माद्यत्परमार्थतो नास्तीति निरूप्यते न तत्संवृत्या तद्रूपं भवितुमर्हति । नास्त्येव तत् । यत्तु तावद्व्यवहाराविसंवादि तदस्त्येव, न ह्यसतः सर्वदा व्यवहारहेतुभावः सम्भवति । यदेवार्थक्रियाकारि तदेव च परमार्थसदिति वः सिद्धान्तः । अतः कथमर्थक्रियाकारित्वे सत्यपि जात्यादीनामसत्यत्वम् । तस्माद्यदि व्यवहाराङ्गतया बाह्यमस्ति, तत्तर्हि परमार्थत एवास्ति ।{२,३५}तदेव सत्यमित्युच्यते । अन्यत्तु संवृतिर्मिथ्येति । न तु सत्यद्वयकल्पनात्मानं लभते । तन्त्रेण तद्वृत्तस्य पूर्वापराभ्यां सम्बन्धः । परमार्थत इति च नास्तीति पूर्वेण सम्बध्यत इति ॥ १० ॥ अपि च स्वप्नावगता अप्यर्थाः केचिच्छोकहर्षादिव्यवहारहेतवो दृश्यन्ते । अतस्तेऽपि सांवृता एव । तद्वच्च बाह्यार्थाभ्युपगमे स्वप्नादिभोगतुल्य एव शुभाशुभकर्मफलोपभोगो भवेत् । अतस्तन्निवृत्त्यर्थमपि परमार्थसत्ये बाह्ये प्रयस्यते इत्याह स्वप्नादीति ॥ ११ ॥ कः पुनः स्वप्नतुल्यत्वे दोषः, अत आह न हीति । किमिति न प्रवर्तते अत आह यादृच्छिकत्वादिति । न हि स्वप्नसुखं मे भवतीति विद्वांसः प्रयस्यन्ति । यादृच्छिकं हि स्वप्नसुखमगणितसाम्परायिकैहिकनिमित्तं, न तत्प्रयस्यतो भवतीति बुद्ध्वा विद्वद्भिस्तूष्णीमुदासीनैरेवास्येत, न क्वचित्प्रयत्नः क्रियेतेत्यर्थः ॥ १२ ॥ अतोऽवश्यं पारमार्थिकीं फलप्राप्तिमिच्छद्भिरुपपत्त्या बाह्यवस्तुविषया प्रतिपत्तिर्विधातव्येत्यस्ति विचारस्य प्रयोजनमित्युपसंहरति परमार्थेति ॥ १३ ॥ अत्र भाष्यकारेण बाह्यार्थसद्भाव एव पूर्वपक्षपुरस्सरं प्रतिपादितः, न तु ज्ञानसद्भावः । तत्कस्य हेतोः । अस्ति हि तत्सद्भावविप्रतिपत्तिरपि । माध्यमिका हि ज्ञानमप्यपलपन्ति । अतस्तन्निराकरणमपि युक्तम् । यत्{२,३६}पुनस्तदुपेक्ष्यैव बाह्यार्थापलापो निराक्रियते, तत्र कारणं वक्तव्यमत आह तत्रेति त्रयेण । अस्यार्थः योगाचारा हि ज्ञानमात्रमर्थशून्यं पारमार्थिकं मन्यन्ते । माध्यमिकास्तु ज्ञेयाभावादकर्मकज्ञानानुत्पत्तेर्ज्ञानस्याप्यभावमिच्छन्ति । तत्र द्वयोरपि वादिनोस्तावद्बाह्यार्थशून्यत्वं साधारणम् । अर्थनिवृत्त्यधीनत्वात्ज्ञाननिवृत्तेः । अतो द्वयोरपि साधारणो बाह्यार्थापलाप इति स एव निराक्रियते । अपि च तन्मूलो ज्ञानापह्नवः । ततस् तस्मिन्निराकृते निराकृत एवेति बाह्यार्थसद्भावे पूर्वोत्तरपक्षविभागेन भाष्यकृता प्रयत्नः कृतः । आद्यस्तत्रशब्दो वाक्योपन्यासार्थः । द्वितीयस्तु पूर्वोक्तदर्शनभेदपरामर्शार्थः । तत्र मतभेदे इत्यर्थः ॥ १६ ॥ ननु बाह्यार्थापह्नवो द्विधैव बौद्धैराश्रितः प्रमाणतः प्रमेयतश्च । तथा हि एवं तैरुक्तं न तावदणवोऽतीन्द्रियाः प्रमाणविषयाः । न तत्समूहः, तस्य तदतिरेकिणोऽभावात् । नावयवी । तस्यावयवव्यतिरेकेणानुपलम्भात् । अव्यतिरेके च तन्मात्रापातात् । एवमान्त्यावयवेभ्यो विकल्प्य अवयवी निराकार्यः । ते त्वतीन्द्रिया एव । अतो न किञ्चन ग्राह्यमवतिष्ठते इति । तदेतत्परित्यागे किं कारणं, यत्प्रमाणत एव बाह्यापह्नव उपन्यस्यते निरस्यते चेति । अत आह बाह्यार्थेति सार्धेन । अयमर्थः यद्यपि द्वेधा बाह्यार्थापह्नवो बौद्धैराश्रितः, तथापि प्रमाणाश्रित एव मूलभूतत्वादिह विचार्यते । प्रमाणमूला हि प्रमेयस्थितिः । तद्यदि प्रमाणम् अनुगुणं, किं वस्तुविकल्पैः । न तद्बलेन तदनुपपत्तिं परिहृत्यार्थो व्यवस्थाप्यते । अथ तु{२,३७}प्रमाणमेवार्थं प्रत्याचष्टे, किं प्रमेयविकल्पैः कृतकरैरिति । इह शाबरे तन्त्रे । इदानीमस्मिन्नवसरे । प्रमाणस्थ एव बाह्यापह्नवो विचार्यत इति ॥ १७ ॥ ननु यदि प्रमाणस्थो विचारयितव्यः, ततः प्रत्यक्षस्य मुख्यत्वात्तदनुसारेणैव विचारो युक्तः । बौद्धैरपि प्रत्यक्षसामर्थ्यादेवैकं तत्त्वमाश्रितम् । नैकस्मिन्नाकारे भासमाने द्वैतमात्मानं लभते इति हि मन्यन्ते । अनुमानं तु भ्राम्यतः प्रत्युक्तमिति किं तत्पुरस्सरीक्रियते अत आह प्रस्तुत इति । एवं हि मन्यते यद्यपि प्रत्यक्षशक्तिनिरूपणमेव बाह्यार्थसदसद्भावयोः प्रधानं, तथापि परैरनुमानमपि बाह्यापह्नवे दर्शितमिति तदपि निराकार्यम् । अनिराकृते हि तस्मिंस्तत्रैव केचिदास्थां प्रतिबध्नीयुः । अत्र चायमेवोपन्यासक्रमो युक्तः यत्प्रथममनुमानमुपन्यस्यते, ततस्तस्य प्रत्यक्षेण बाधमुपन्यस्य तस्मिंश्चोक्ते पुनः प्रत्यक्षशक्त्यपेक्षणेन पूर्वोत्तरपक्षावा(?दाव् द ए)व प्रत्यक्षशक्तिनिरूपणेन निर्णये कृतेऽनुमानस्योपन्यासोऽनवसर एव स्यादिति ॥ १८ ॥ अनुमानभाष्यमिदानीं प्रकृतसङ्गतिदर्शनार्थमवतारयति तत्रेति इत्यन्तेन । सङ्गतिमाह अस्येति दुर्लभ इत्यन्तेन । अयमर्थः यत्सूत्रकारेण तत्संयोगजं प्रत्यक्षमुक्तं तदाक्षेपेणैव सङ्गच्छते । काल्पनिको ह्ययमिन्द्रियार्थसम्प्रयोगः, इन्द्रियादेरभावात् । काल्पनिकश्च सकलमिथ्याज्ञानसाधारण इति तदतद्योगजत्वविभागो न युक्त इति सूत्रोक्ताक्षेप इति ॥ २१ ॥ {२,३८} स्वोक्ताक्षेपेण वा सङ्गतिरित्याह मिथ्यात्वमिति । यदेतद्वृत्तिकारग्रन्थान्त उक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनप्रत्ययः नान्यः इति तदनेनाक्षिप्यते । सर्वमिथ्यात्वे विशेषणोपादानवैयर्थ्यमिति ॥ २२ ॥ भाष्यतिरोहितमनुमानमिदानीं विस्पष्टमुपन्यस्यति स्तम्भादीति । स्तम्भादिप्रत्यय इति धर्मिनिर्देशः । मिथ्येति धर्मवचनं, प्रत्ययत्वादिति हेतुः । तथाहीति दृष्टान्तवचनमिति ॥ २३ ॥ अत्र भाष्यं सर्व एव निरालम्बनः स्वप्नवत्प्रत्ययः इति । तद्यथाश्रुतं सर्वेषामनालम्बनत्वं साधयति । तत्र चांशे सिद्धसाधनता स्यात्, विभ्रमाणामनालम्बनत्वात् । यद्विज्ञानमन्यथा सन्तमन्यथा बुध्यतेऽर्थं तन्निरालम्बनमिष्यत एव । तथा सर्वस्मिन् पक्षीकृते स्वप्नज्ञानस्यापि तदन्तर्भावाद्दृष्टान्ताभावः । सर्व एवेति चैवशब्दानुपपत्तिश्च । स हि विभक्तप्रतिषेधे दृष्टः । यथेदं देवेभ्य इदं ब्राह्मणेभ्य इति विभक्ते भवति वचनं सर्वमेवेदं ब्राह्मणेभ्य इति । तत्र विभागप्रतिषेधपर एवकारो दृश्यते । सर्वस्मिंस्तु पक्षे सर्व इत्याचक्षीत, नैवकारं प्रयुञ्जीत । अतो जाग्रद्बुद्धिविवक्षयैव भाष्यं व्याख्यातव्यमित्याह सिद्धसाधनेति सार्धेन । नन्वेवमप्यविशेषितनिरालम्बनत्वोपादानेऽभ्युपगमविरोधः । स्वांशालम्बनत्वं ज्ञानानां बौद्धैरिष्यत एवात आह स्वांशेति । अत एव कारणाद्बाह्यविशेषणविशिष्टमनालम्बनत्वं साधनीयमित्यर्थः ॥ २५ ॥ {२,३९} अपरमपि भाष्यं प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने । जाग्रतोऽपि स्तम्भ इति वा कुड्य इति वा प्रत्यय एव भवति, तस्मात्सोऽपि निरालम्बनः इति । तस्यार्थमाह प्रत्ययस्येति । प्रत्ययस्य हि निरालम्बनतास्वभाव उपलक्षितः स्वप्ने इत्येतावता भागेन तावत्साध्येन निरालम्बनत्वेन व्याप्तं प्रत्ययत्वं हेतुर्निर्दिश्यते । दृष्टान्तवचनमिति यावदिति । ननु न प्रत्ययत्वादिति हेतुरुपात्तः, कस्य व्याप्तिर्निर्दिश्यते । अत आह हेतुश्चेति । यद्यपि प्रत्ययत्वस्य न व्यक्तं पञ्चम्या हेतुत्वमुपात्तं, तथापि उपनयनाख्येन साधनवाक्यावयवेन जाग्रतोऽपीत्यादिना हेतुः प्रदर्शित एव । यदैव हि साध्यान्वितं प्रदर्शितं प्रत्ययत्वं पुनः प्रतिज्ञार्थ उपनीयते, तदैव तदत्र हेतुरिति प्रदर्शितं भवत्येव । साध्यान्वितस्यैव पक्षस्थस्य हेतुत्वादिति । कः पुनरयमुपनयः । साधनवाक्यावयवविशेषः । पञ्चावयवं हि साधनवाक्यं प्रतिज्ञा हेतुरुदाहरणमुपनयो निगमनं चेति । तत्र साध्यनिर्देशः प्रतिज्ञा । यथा अनित्यः शब्द इति । उत्पत्तिधर्मकत्वादिति हेतुः । उत्पत्तिधर्मकं स्थाल्यादि द्रव्यमनित्यं दृष्टमित्युदाहरणम् । तथा चोत्पत्तिधर्मकः शब्द इत्युपनयः । स ह्युदाहरणापेक्षंस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनय इति वर्णितम् । किमुक्तं भवति । द्वेधा हि हेतुः साध्यं साधयति उदाहरणसाधर्म्याद्वैधर्म्याद्वा । तत्र साधर्म्यं प्रदर्शितम् । वैधर्म्यं तु यथा तस्यामेव प्रतिज्ञायां तस्मिन्नेवोत्पत्तिधर्मकत्वादिति हेतौ अनुत्पत्तिधर्मकमात्मादि द्रव्यं नित्यं दृष्टम् । न च तथा शब्दोऽनुत्पत्तिधर्मक इति । तत्र योऽयं द्विविधोदाहरणापेक्षः साधर्म्योदाहृते तथेति वैधर्म्योदाहृते न तथेति साध्यस्य शब्दस्य सम्बन्धितयोत्पत्तिधर्मकत्वस्योपसंहारवचनमुपनयः, स चोदाहरणापेक्ष एव । उदाहरणद्वैतादेव तदुपसंहारद्वैतं भवति । वैधर्म्योदाहरणेन च विरुद्धनिवृत्त्या साध्यसम्बन्धित्वेन हेतोरुपसंहारः । यथात्मादि द्रव्यं नित्यमनुत्पत्तिधर्मकम्, न च तथा शब्दः इत्यनुत्पत्तिधर्मकत्वप्रतिषेधेनोत्पत्तिधर्मकत्वमुपसंह्रियते । प्रकृते तु साधर्म्योदाहरणे{२,४०}तथैवेति हेतोरुपसंहार उपनयो वेदितव्यः । निगमनं तु हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनम् । तस्मादुत्पत्तिधर्मकत्वादनित्यः शब्द इति । निगम्यन्तेऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकत्रार्थ इति निगमनम् । समर्थ्यन्ते सम्बध्यन्ते इति यावत् । असति हि तस्मिन्ननभिव्यक्तसम्बन्धानामर्थप्रतिपादकत्वं न स्यात् । सति तु तस्मिन् सर्वेषामवयवानां तात्पर्यदर्शनात्परस्परसम्बन्धः स्फुटो भवति । निगमनं सङ्गमनं सम्बन्धनमिति यावदिति ॥ २६ ॥ ननु नाव्यावृत्तो विपक्षाद्धेतुर्भवतीति वैधर्म्यदर्शनेन हेतोर्व्यतिरेको दर्शयितव्यः । न चात्र तथा दर्शितः, साधर्म्यमात्रवचनात् । अत आह विपक्षेति । निरालम्बनत्वे हि साध्यमाने सालम्बनत्वं विपक्षः । न च सर्वानालम्बनत्ववादिनस्तदस्तीति किं तद्व्यतिरेकप्रदर्शनेनेति । ननु प्रत्यये पक्षीकृते तस्मिन्नेव हेतौ प्रतिज्ञार्थैकदेशो हेतुरत आह सामान्यस्येति । सामान्यविशेषात्मका हि प्रत्ययाः । तत्र विशेषे पक्षीकृते सामान्यं हेतुरिति न प्रतिज्ञार्थैकदेशतेति ॥ २७ ॥ अत्र सिद्धान्तभाष्यं जाग्रतो हि बुद्धिः सुपरिनिश्चिता कथं विपर्यसिष्यतीति । अनेन किल सुपरिनिश्चितत्वेन जाग्रद्धियां सालम्बनत्वं साध्यते । न च सुपरिनिश्चितत्वं बाह्यालम्बनसम्बद्धं परान् प्रति प्रसिद्धम् । अतो नानेनासिद्धावयवेनानालम्बनानुमानं पराणुद्यते, सप्रतिसाधनं वा भवति । तस्योभयप्रसिद्धावयवत्वात् । अस्य च तद्विपरीतत्वात् । अतो{२,४१}जात्युत्तरमेवेदं भाष्यकारेण दत्तमित्याक्षिपति जाग्रज्ज्ञान इति द्वयेन । वैधर्म्यविकल्पसमयोश्च स्वरूपं शब्दे वक्ष्यामः । सत्येव प्रत्ययत्वे सुपरिनिश्चितासुपरिनिश्चितधर्मान्तरविकल्पनात्साध्यधर्मविकल्पापादनेन विकल्पसमता । तथा साधर्म्ये वादिना प्रयुक्ते निरालम्बनानां स्वप्नज्ञानानामसुपरिनिश्चितत्वदर्शनात्साध्येषु जाग्रज्ज्ञानेषु सुपरिनिश्चितत्वेन वैधर्म्यात्प्रत्यवस्थानेन वैधर्म्यसमता । प्रपञ्चस्तु पश्चाद्भविष्यतीत्युक्तमिति ॥ २८ २९ ॥ एवमाक्षिप्तं भाष्यमेकेन[७०४]मतेन समादधाति दुष्टत्वादिति । एवं हि मन्यन्ते दुष्टसाधनप्रयोगे दुष्टमेवोत्तरं देयमिति, एवं हि तदा वादी प्रतिबोधितो भवति यथा भवान्मदीयं दूषणं दुष्टं मन्यते तथाहमपि[७०५]त्वत्साधनम्, अतोऽसौ स्वसाधनान्निवर्तते इति । इदं तु समर्थनं नोपपद्यते । निग्रहस्थानद्वयप्रसक्तेः । पर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगात्मकनिग्रहस्थानद्वयमेवंवादिनो भवेत्, यः सन्तं दोषमनुक्त्वान्यमसन्तं जल्पति । न चैवंवादिनः स्वसाधनदूषणावगमो भवति । परमेव तु दुष्टदूषणप्रयोगेणोपालभते । अतः पाशुपतोत्तरतुल्यमेकजातीयकं वर्जनीयमित्यन्यथा समाधानमाह प्रतिज्ञेति । नानेनानुमानमुपन्यस्यते । किन् तु परोक्तानुमानस्य प्रत्यक्षविरोधो वर्ण्यते । असन्निकृष्टेऽर्थेऽनुमानं प्रमाणम् । इह तु सुपरिनिश्चिताभिर्जाग्रद्बुद्धिभिर्निश्चितसद्भावस्य बाह्यस्य प्रत्याख्यानानुमानं प्रत्यक्षेण मुखनिरोधान्न जायत एवाग्नाविव शैत्यानुमानम् । यदि परं बाह्यस्य प्रयोगमात्रपर्यवसितमेव साधनवचनम्, अनुमिमानस्यापि स्फुतो बहिर्विषयबो(?ध्धो) जायत एव । तथाविधस्यापि मिथ्यात्वे कः समाश्वासः । नन्वेवमनुमानमनाश्वासनीयमेव, न । तदभावात्, उक्तमेतत्प्रत्यक्षे परिपन्थिनि न तत्प्रतिपक्षमनुमानमात्मानं लभेत श्रौत इव विनियोगे लैङ्गिकः । साधनवाक्ये त्वयोग्यान्वयपदसन्निकर्षाद्वन्ध्यासुतवाक्यवत्संसर्गज्ञानं भ्रान्तिरेव । न तु कस्यचिद्लैङ्गिकं स्तम्भादिष्वभावज्ञानमुत्पद्यते । ननु व्याप्तं प्रत्ययत्वमनालम्बनत्वेन । व्याप्याच्च ज्ञातसम्बन्धस्य व्यापकज्ञानं नोत्पद्यत इति{२,४२}हठ एवायम् । न । व्याप्तिभङ्गात् । संविदन्नेव हि व्याप्तिमबाधितेन प्रत्यक्षेण सर्वदेशकालादिभाविना न प्रत्ययत्वप्रयुक्तं मिथ्यात्वम्, अपि तु पूर्वोक्तहेतुद्वयप्रयुक्तमिति निश्चिनोति । तदिदमुक्तम् अन्यतस्तु स्वप्नप्रत्ययस्य मिथ्याभावो विसंवादादवगम्यते इति ॥ ३० ॥ __________टिप्पणी__________ [७०४] केषां म [७०५] त (Kःा) ___________________________ कथं पुनरत्र प्रत्यक्षबाधः । प्रत्यक्षं हि ग्राह्यमन्तरेणात्मानमलभमानं तन्मात्रमवस्थापयति न बाह्यम् । किं हि तस्य बाह्येन विना न सिध्यति । ग्राह्यश्च स्वांशो बौद्धैरभ्युपगत एव । अतो न बाह्यापह्नवे प्रत्यक्षत्वादिविरोधः । अत आह शक्ष्याम इति द्वयेन । अयमभिप्रायः शून्यवादे हि प्रत्यक्षस्य स्वांशगोचरत्वं निराकरिष्याम एव । तन्निराकरणे च बाह्यविशेषणोपादानमनर्थकमेव, तद्व्यतिरिक्तग्राह्यान्तरासम्भवात् । अतोऽनालम्बनपक्षो ग्राह्यमात्रनिवारण एव भवति । प्रत्यक्षादेः स्वांशनिराकर(णा)द्बाह्य एव विषयोऽवशिष्यते । अतो बाह्यविशेषणेन विना ग्राह्यमात्रापह्नवे भवति प्रत्यक्षादिभिः पक्षबाधः । सत्यपि कथञ्चिद्बाह्यविशेषणे प्रत्यक्षादेरपि बाह्यविषयावशेषात्तन्निषेधं कुर्वाणस्य वादिनस्तैः प्रत्यक्षादिभिः पक्षबाधनं भवेत् । पूर्वं तु प्रत्यक्षग्रहणमुपलक्षणार्थं सर्वप्रत्यक्षादिविरोध एव त्वनालम्बनानुमानस्य दर्शयितव्य इति ॥ ३२ ॥ यत्तु सुपरिनिश्चयेन बाह्यालम्बनसम्बन्धः प्रसिद्धः । किं तदुपन्यासेनेत्युक्तम्, अत आह सुनिश्चयेनेति । उक्तमिदमस्माभिर्नायमनुमानप्रयोग इति, किन् त्वनुमानेन जाग्रत्प्रत्यक्षधियां स्वप्नधीसामान्यं मन्यमानस्य तद्वैषम्यप्रदर्शनार्थं सुपरिनिश्चितत्वाभिधानम् । सुपरिनिश्चिता एते{२,४३}प्रत्यया बलीयांसः । नैषु परिपन्थिष्वनुमानमात्मानं लभते । एतस्मादनुमानादित्यर्थः ॥ ३३ ॥ एतदेव प्रपञ्चयति दुष्टज्ञानेति । दुष्टेनासुपरिनिश्चितेन गृहीतोऽर्थः प्रतिषेधमर्हति नेतर इति । गृहीतमात्रबाधे तु बहवः साधनदोषा भाष्यकारेणान्तर्णीताः । तान् प्रतिपादयिष्यन् पक्षाभावं तावदाह गृहीतेति । यदि गृहीतमात्रं मिथ्येत्युच्यते, तदा योऽयं निरालम्बनाः प्रत्यया इति स्वपक्षः सोऽपि गृहीतत्वान्मिथ्या स्यात् । अतः शक्यं वक्तुं पक्ष एवास्मिन् भवत्साधने नास्तीति ॥ ३४ ॥ अपि च, निरालम्बनत्वेन विशिष्टाः प्रत्ययाः साध्यन्ते । तदिह विशेषणविशेष्यभेदावग्रहस्यापि मिथ्यात्वान्न विशेषणविशेष्ययोर्विवेकः सिध्यति, तदभावाच्च वक्तुं शक्यमप्रसिद्धविशेषणविशेष्यः पक्षोऽप्रसिद्धान्यतरो वेति । तदेतदाह अग्राह्यत्वाच्चेति । अन्यतरस्य वा असिद्धिर्वक्तव्येत्यर्थः । दूषणान्तरमाह वक्तृश्रोत्रोरिति । पञ्चधा स्ववाग्विरोधः । अभिधोच्चारणधर्मधर्म्युभयोक्तिभिः । तदिदमुभयोक्त्या स्ववाग्विरोधः । द्वयोरपि विशेषणविशेष्ययोर्निरालम्बनत्वप्रत्यययोर्यद्वक्तुः श्रोतुश्च ज्ञानं जायते, तदपि प्रत्ययत्वादनालम्बनमिति पक्षो न सिध्यतीति, तत्सालम्बनत्वे चानैकान्तिकत्वान्न प्रत्ययानामनालम्बनत्वं भवेत् । सोऽयमुभयोक्त्या स्ववाग्विरोध इति ॥ ३६ ॥ {२,४४} दूषणान्तरमाह सम्भवो न चेति । एवं हि विकल्पनीयम् । किं निरालम्बनत्वं धर्मिणो भिन्नमभिन्नं वा । न तावदभिन्नं विशेषणमर्हति । न च भेदग्राहिणो ज्ञानस्य मिथ्यात्वाद्भेत्तुमर्हतीति । उपसंहरति तस्मादिति ॥ ३७ ॥ बौद्धानां प्रत्यवस्थानमाह निरालम्बनतेति । एवं हि मन्यन्ते वस्तुनि व्यतिरेकादिविकल्पो युक्तः नावस्तुनि । यथाहुः वस्तुन्येष विकल्पः स्यादिति । न चालम्बनप्रतिषेधो वस्तुनः किं तद्व्यतिरेकादिप्रश्नेनेति ॥ ३८ ॥ दूषणा[७०६]न्तरमाह यदीति त्वमन्तेन । यदि तावदवस्तु, कथं तदस्मान् प्रतिबोधयितुमिच्छा भवतः । स्वयं वा तद्विषया बुद्धिः । न ह्यवस्तु बुद्धिविषयो भवति । तद्विषयत्वे च वस्तुत्वापातात् । अर्थक्रियालक्षणत्वाच्च सत्त्वस्य । तल्लक्षणत्वाच्च वस्तुत्वस्येति । यदि तूच्यते यद्यपि निरालम्बनत्वं नाम न किञ्चित्परमार्थतोऽस्ति । तथापि तत्सत्त्वं कल्पयित्वानुमानव्यवहारः क्रियते प्रतिमायामिव देवतात्वमाराधनादिव्यवहार इति । तदयुक्तम् । असतः कल्पनायोगात् । अन्यत्र प्रसिद्धसद्भावा हि विष्ण्वाद्या देवता युक्तं[७०७]यदन्यत्र कल्प्यन्ते । अत्यन्ताप्रसिद्धसद्भावं त्वनालम्बनत्वं न गगनकुसुमादिवत् कल्पनामर्थति । तदेतदाशङ्कया सहाह कल्पितेति ॥ ३९ ॥ __________टिप्पणी__________ [७०६] णमा [७०७] क्ता (Kःा) ___________________________ {२,४५} अपि च केयं कल्पना । यदि ज्ञानं, किं तेन ज्ञायते । यदि निरालम्बनत्वम्, तत्तर्हि कल्पना ज्ञानोत्पत्तौ व्याप्रियमाणा कथमवस्तु भविष्यति । अर्थक्रियाकारित्वमेव हि वस्तुत्वं, ज्ञानोत्पादनमपि चार्थक्रियेत्यभिप्रायेणाह कॢप्ताविति । अत्र चोदयति कथमिति । यद्यवस्तु न साध्यं, कथं तर्हि भवतामपि मेघाभावेन वृष्ट्यभावः साध्यत इति । परिहरति वस्त्विति । भवेदेवं यद्यभावो न वस्तु स्यात् । स वस्त्वित्यभावपरिच्छेदे वक्ष्यते । यद्यपि चाभावो न वस्तुशब्दवाच्यः लोकविरोधात्, तथापि नासौ निस्स्वभावः । प्रख्यायते ह्यसौ स्वसंवेद्येन भावातिरेकिणा रूपेण । अतोऽर्थक्रियाया एव घटिष्यत इति न किञ्चिदनुपपन्नमिति ॥ ४० ॥ किञ्चेदमपि चात्र विकल्पनीयं योऽयं धर्मिणो निर्देशकः प्रत्ययशब्दः स किं भावे कर्तरि करणे वा व्युत्पद्यते, कर्मणि वा । पूर्वोक्तेषु तावत्कल्पेषु विरोधः, अकर्मकप्रत्ययासम्भवात् । न हि प्रतीतिरस्ति प्रत्येतव्यं नास्तीति सम्भवति । तदनवष्टब्धस्य (?कृ।त)द्रूपस्याप्रकाशात् । एवमेव कर्तृकरणयोरपि वाच्यम् । यदि ज्ञानमेवार्थप्रकाशे तज्जन्मनि वा कर्तृत्वेनोपचर्यते करणत्वेन वा विवक्षाधीनत्वात्कारकाणां, तथापि तयोः प्रत्याय्येन कर्मकारकेण विनानुपपत्तिः । सोऽयं स्ववाग्विरोधः । प्रत्यय इत्युक्तमात्र एव तत्स्वभावपरामर्शात्प्रत्येतव्याभावः प्रतिषिध्यते माता मे वन्ध्येतिवन्मातृत्वेन वन्ध्यात्वम् । अतो न प्रत्यये पक्षीकृते निरालम्बनत्वं साधयितुं शक्यम् । कर्मव्युत्पत्तौ सिद्धसाधनमेव । तदेतत्सर्वमाह तथेति ॥ सिद्धसाधनं विवृणोति प्रत्याय्यस्येति । न खलु जडो रूपादिः किञ्चिन्नालम्बत इति ॥ ४२ ॥ {२,४६} कर्तृकरणपक्षे त्वयमपरो दोषः यद्धर्मधर्मिवचनयोः शब्दयोरपि निरालम्बनत्वं प्रतिज्ञायेत । प्रतीते हि कर्ता करणं वा प्रत्ययः । यथा च कर्तृकरणत्वे विवक्षावशाद्ज्ञाने भवतः, तथा शब्द इति । अत एव वक्ष्यति शब्दानां करणत्वं वा कर्तृत्वं वा निरूपितम् । इति । किञ्चेदं शब्दयोरनालम्बनत्वमन्यदतोऽभिधेयाभावात् । तदभावे च पक्षाभावः प्रसज्यत इत्याह कर्तृत्व इति ॥ ४३ ॥ भावादिषु विरोधः स्यादिति यदुक्तं तद्विवृणोति प्रत्याय्येन चेति । कर्त्रादिभावो हि न प्रत्याय्यभेदमन्तरेण सम्भवति । अतस्तत्प्रवृत्तिनिमित्ते प्रत्ययशब्दे स्ववचनविरोधः । स चायमस्माभिः प्रागेव विवृतः । वाशब्दोऽनन्तरविवृतकर्मव्युत्पत्त्यपेक्षयेति ॥ ४४ ॥ यदि त्वविभक्तावयवो रूढिरूपेण प्रत्ययशब्द उपादीयते, तदर्थश्च पक्षीक्रियते, तथापि वस्त्वन्तरग्राहकस्यैव वस्तुतोऽस्माकं प्रत्ययत्वेन प्रसिद्धेः स्ववचनविरोध एव भवेत्, तदेतदाह अथापीति । तथापीति । तथापि स्ववचनविरोध इति पूर्वेण सम्बन्ध इति । कथं स्ववचनविरोधः । अत आह ग्राहकमिति ॥ ४५ ॥ वस्त्वन्तरस्यैव हि ग्राह्यस्य ग्राहकमात्मधर्माख्यं वस्त्वेव प्रत्यय इति नः प्रसिद्धम् । अतः कथं तस्यासति ग्राह्ये सिद्धिरिति दूषणान्तरमाह तमभ्युपेत्येति । एवमयमसाधनवादी वक्तव्यः किं याद्र्शोऽस्माभिः प्रत्यय{२,४७}इष्यते स तथाविध एवाभ्युपेत्य भवता पक्षीक्रियते, न वा । तत्राभ्युपगमे तावदभ्युपेतविरोध इति । अपि चैवं सति चाप्रसिद्धविशेष्यः पक्षो भवति, त्वन्मते बाह्यार्थग्राहिप्रत्ययानभ्युपगमादित्याह विशेष्यस्येति । अतादृशे तु स्वाभिमते पक्षेऽस्माकमप्रसिद्धविशेष्यः पक्ष इत्याह अस्माकमिति ॥ ४६ ॥ किञ्च यादृगात्मधर्मः प्रत्ययोऽस्माकमभिमतः, स पक्षो भवदभिमतोऽथवा स्वतन्त्रः । पूर्वस्मिन् कल्पे भवतोऽप्रसिद्धविशेष्यता । उत्तरस्मिन्नस्माकमिति पूर्ववदेव दर्शयितव्यमित्याह आत्मधर्मेति । यदि त्वनिर्धारितविशेषं प्रत्ययमात्रं पक्षीक्रियत इत्युच्यते, तन्न । तथाविधस्यानिरूपणादित्याह न चेति ॥ ४७ ॥ ननु शक्यमिदमन्येष्वपि पक्षीकृतेषु वक्तुं यथा किमाकाशगुणः शब्दः स्वतन्त्रं वा द्रव्यं पौद्गलाख्यं वा नित्यतया पक्षीक्रियत इति । अथ तत्राविवक्षितविशेषं शब्दार्थसामान्योपलक्षितं रूपं पक्ष इत्युच्यते, तदिहापि समानमित्यत आह शब्देति । यथा शब्दार्थसामान्यरूपेणान्येषां पक्षाणां निरूपणं भवति, नैवमिह भवतः सम्भवति । असाधारणरूपातिरेकिणः सामान्यात्मनो वाच्यस्य भवतामनिष्टत्वादिति ॥ ४८ ॥ एवं तावद्धर्मी विकल्प्य दूषितः । धर्ममिदानीं निरालम्बनत्वं विकल्प्य दूषयति निरालम्बनतेति । सर्वथा निरालम्बनत्वे साध्येऽप्रसिद्धविशेषणः पक्षो भवति । न हि सर्वथा निरालम्बनत्वं नाम किञ्चिद्{२,४८}अस्ति । सर्वत्र देशकालान्तरावस्थितबाह्यालम्बनाभ्युपगमात् । यश्च स्वप्नप्रत्ययो दृष्टान्ततयोक्तः, सोऽपि न सर्वथा निरालम्बनः । सर्वत्र यथाकथञ्चिदालम्बनसिद्धेर्वक्ष्यमाणत्वात् । अतो दृष्टान्ताभावोऽप्येवं सत्यापद्येतेति ॥ ४९ ॥ यदि तु न सर्वथा निरालम्बनत्वं साध्यते । किन् तु सालम्बनस्यैव केनापि प्रकारेण निरालम्बनत्वमपीत्युच्यते, तदा रसादिज्ञानानां रूपाद्यालम्बनशून्यतया सिद्धसाधनमित्याह केनचिदिति ॥ ५० ॥ ननु यदाकारा बुद्धिस्तन्नालम्बते इति साधयिष्यामः न सिद्धसाधनं भविष्यतीति, तदेतदाशङ्कते अथेति । एतदपि निराकरोति स्वाकारस्येति । अभ्युपगतो हि भवद्भिः स्वाकारो बुद्धेरालम्बनं यदाभासं[७०८]प्रमेयं तदिति वदद्भिः । अतस्तदालम्बनाभावोऽभ्युपेतेनैव विरुध्यत इति ॥ ५१ ॥ __________टिप्पणी__________ [७०८] कारं प्र (Kःा) ___________________________ ननु किमापाद्य दूषणोद्भावनम् । बाह्यानालम्बनत्वं हि नः पक्षः । तथा च भाष्योपस्कारे वर्णितमेव । अतो नाभ्युपेतबाध इत्यत आह बाह्येति । अयमभिप्रायः विकल्पनीयमिदं बाह्यानालम्बनत्वम् । किं बाह्यमित्यनेन रूपेण नालम्बत इत्येवं साध्यते, वस्तुतो वा बाह्यं नालम्बत इति । पूर्वस्मिन् पक्षे सिद्धसाधनम् । परस्मिन् दोषो वक्ष्यते । स्तम्भादिधियो हि स्तम्भाद्याकारतयैव स्वविषयमालम्बन्ते न बाह्यतयेति ॥ ५२ ॥ {२,४९} यदि तु स्तम्भानालम्बनत्वमेव साध्यते, ततस्तद्रूपसंवेदनस्य दृष्टत्वात्संविद्विरोध एवेत्याह तथेति ॥ ५३ ॥ अत्र चोदयति द्विचन्द्रादिष्विति । एवं हि मन्यन्ते समानोऽयमनालम्बनत्वाभिमतेषु द्विचन्द्रादिबोधेषु संविद्विरोधः । तत्रापि द्वावेव चन्द्रौ भासेते । तदपह्नवे स्फुट एव संविद्विरोधः । अतः केन प्रकारेण तेषामनालम्बनत्वं भविष्यतीति । परिहरति नेन्द्रियेति । अयमभिप्रायः यदि वयं प्रतिभासविपर्यासादन्यथात्वं ब्रूमः, तत एवमुपालभ्येमहि । न त्वेवम् । यदेव विज्ञानमिन्द्रियाप्राप्तमर्थं प्रकाशयति तदनालम्बनमिति नः सिद्धान्तः । तथा च द्विचन्द्रादिज्ञानम् । ततोऽनालम्बनमित्युच्यते । न पुनर्द्विचन्द्रादिप्रतिभासापह्नवेन, अतो न नः संविद्विरोधः, नचानालम्बनत्वस्याप्रसिद्धिरिति ॥ ५४ ॥ नन्वेवं संवेदनानपह्नवे यथावभासमर्थस्य सत्त्वात्सदसद्विवेको न स्यादत आह सर्वत्रेति । अस्यार्थः इदं सद्ग्राह्यमिदमसद्ग्राह्यमिति नायमर्थ इदमर्थं प्रकाशयति इदं नेति । किन् तर्हि । जायमानायामेवार्थगोचरायां संवित्ताविन्द्रियार्थसंयोगसदसत्त्वतोऽयं विभागः । यदिन्द्रियसम्प्रयुक्तमर्थं प्रकाशयति तत्सद्ग्राह्यम् । विपरीतमन्यत् । न च यथावभासमर्थस्य सत्त्वम् । बाधकदर्शनात् । अतो यद्देशान्तरस्थमिन्द्रियाप्राप्तमर्थं गृह्णाति तदसद्ग्राह्यम् । तस्यार्थो नास्तीत्युच्यते । क्वचिद्धि किञ्चित्प्रतिषिध्यते । न स्वरूपेणैव किञ्चित् । चेदं रजतमिति नायमर्थः{२,५०} रजतं नास्तीति । अस्ति हि तद्देशान्तरादिषु । किन् तु इह नास्तीति यत्रेन्द्रियेण न प्राप्यते, इदमस्तीत्यपि यदेव यत्रेन्द्रियेण प्राप्यते तदुच्यते । इह घटोऽस्तीति प्रतीतिः न पुनर्घटोऽस्तीति ॥ ५५ ॥ न चैष विभागो बौद्धस्य सम्भवतीत्याह भवत इति । न च बौद्धस्येन्द्रियादीनि सन्ति यत्प्राप्त्यप्राप्तिनिबन्धनं भावालम्बनालम्बनप्रतिषेधौ युज्येते इति ॥ ५६ ॥ दूषणान्तरमाह बहिर्भावेति साध्यतेन्तेन । न ह्यनालम्बनज्ञानवादिनां बहिर्भावो नाम कश्चित्सिद्धः, येन विशिष्टमनालम्बनत्वं बुद्धेः साध्यत इति । किमिति न साध्यते, अत आह नैष इति । पक्षप्रज्ञापनार्थं हि साधनवचनं, नचाप्रसिद्धपदार्थविशिष्टः पक्षो ज्ञापयितुं शक्यत इति ॥ ५७ ॥ किं पुनः पक्षो न ज्ञायते । अज्ञाते विशेषणविशेष्ये च विशिष्टो न ज्ञायते । तच्चोभयमपि प्रसिद्धमेवेति किं विशेषणविशेषणाप्रसिद्ध्या, अत आह यथेति । विशेषणाप्रसिद्धावेव किम् । न तावत्पक्षसिद्धिः, तथाविधमन्यो बोधयितुं न शक्यत इति चेत्, समानमिदं तद्विशेषणाप्रसिद्धावपीति तद्विशेषणाप्रसिद्धौ पक्षो न ज्ञायत इति सूक्तमिति ॥ ५८ ॥ एतदेव प्रपञ्चयति नाप्रसिद्ध इति । प्रतिज्ञावाक्यार्थो हि{२,५१}पक्षः, स च पदार्थपूर्वकः । अतो बाह्यादिपदार्थासिद्धौ पक्षो न सिध्यतीति ॥ ५९ ॥ दूषणान्तरमाह पर्युदास इति । (?न्ना)व्यतिरिक्तालम्बनः प्रत्ययः, (व्यतिरिक्तं नालम्बते) इति हि द्वावर्थौ सम्भवतः पर्युदासप्रतिषेधाभ्याम् । पर्युदासे हि नामयोगान्नञोऽव्यतिरिक्तालम्बनः प्रत्यय इत्यर्थो भवति । निषेधे तु आख्यातयो(गाद्) व्यतिरिक्तं नालम्बत इति । उभयथा हि सिद्धसाधनम् । प्रमेयत्वादिना हि जगतो न भेदमातिष्ठामहे । अतः स्तम्भादिज्ञानात्प्रमेयत्वादिनाव्यतिरिक्तं भवति । अत एवाभेदाद्व्यतिरिक्तं च न भवतीति सिद्धसाधनमिति ॥ ६० ॥ किञ्च, इदमपि चात्र विकल्पनीयं किमत्यन्तभिन्नेन स्तम्भादिना निरालम्बनत्वं साध्यते, कथञ्चिद्भिन्नेन वा । पूर्वस्मिन् कल्पे तावत्सिद्धसाधनमेवेत्याह यदीति । सिद्धसाधनमित्यतीतेन सम्बन्ध इति । कथञ्चिद्भिन्नेन तु निरालम्बनत्वे साध्यमाने प्राक्कल्पितेन पक्षविरोधः । इष्यते हि कथञ्चित्कल्पनामात्रकल्पितं भवद्भिरपि बाह्यालम्बनम् । अतस्तन्निषेधे भवति प्राक्कल्पितेन पक्षबाधः । तदेतदाह कथञ्चिदिति ॥ ६१ ॥ अन्यथा सिद्धसाधनं दर्शयति वस्त्विति । बुद्धिर्हि वस्त्वाद्याकारेण जडरूपा न किञ्चिदालम्बत इति सिद्धमेव । असाधारणेन तु प्रकाशात्मना{२,५२}बाह्यमालम्बते । तत्राविशेषितोपादाने शक्यं सिद्धसाधनं दर्शयितुमिति । ननु ग्राहकाद्ग्राह्यमभिन्नमितीदमत्र नः साध्यं, तत्र किं नानाविकल्पैः । अत आह ग्राहकादिति । न तावन्निरालम्बनाः प्रत्यया इत्ययमर्थः ग्राहकाद्ग्राह्यमभिन्नमिति । एवं सत्यपि यद्द्विशक्तिकत्वं ज्ञानस्येष्टं ग्राह्यग्राहकशक्तिकं ज्ञानमिति तद्विरुध्यते, ग्राह्यापलापात् । यद्यपि न बौद्धैराश्रयातिरेकिणी शक्तिरिष्यते, तथापि शक्तिभेदद्वारेण द्व्यात्मकत्वमेव दर्शयतीति द्रष्टव्यम् इति ॥ ६२ ॥ यदि तु सर्वप्रकारासम्भवान्निरालम्बनबुद्ध्युत्पत्तिमात्रमेव प्रसाध्यते, तत्रापि च सिद्धसाधनमेव । उत्पद्यते हि निरालम्बनाः प्रत्यया इत्युक्ते निरालम्बनत्वबुद्धिः । न त्वियमर्थक्रियायै समर्था, अनर्थकत्वादित्यभिप्रायेणाह निरालम्बनेति ॥ ६३ ॥ नचानर्थकत्वमेवास्या न सिद्धमिति वाच्यम् । तत्सत्यत्वे हेतोरनैकान्तिकत्वप्रसङ्गात् । अतो मृगतृष्णादिज्ञानवदेवात्मांशपर्यवसायिनी बुद्धिरियमभ्युपगन्तव्या । अस्माकमपि सर्वमिथ्यात्वग्राहिप्रत्ययमिथ्यात्वं सिद्धमेवेत्यावयोरविवादात्सिद्धमनालम्बनबुद्धेरनर्थकत्वमित्याह सम्यक्त्वमिति ॥ ६४ ॥ एवं चोत्पन्नायामप्यर्थशून्यायामात्मांशपर्यवसायिन्यामनालम्बनबुद्धौ चैत्रादिप्रत्ययानां पक्षीकृतानां धर्मतया निरालम्बनता न गृहीता साधनोत्थितया धियेति, नानाविषयत्वात्प्रतियोगिना निरालम्बनत्वेनानिराकृता{२,५३}सती चैत्रादिस्वरूपपर्यालोचनयालम्बनप्राप्तिः केन वारयितुं शक्या । स मानविषयोपनिपातिनोर्हि विरुद्धार्थगोचरयोः प्रत्यययोर्बाध्यबाधकभावो भवति, यथेदं रजतं नेदं रजतमिति चानयोः । न चेह तथा । चैत्रादिप्रत्यया हि स्वविषयं स्थापयन्ति । न च तन्निरालम्बनबुद्धिः प्रतिक्षिपति, अर्थाभावात् । स्वांशगोचरा हि सा । अतोऽस्याः स्वांशो विषयः । चैत्रादिप्रत्ययानां च चैत्रादय इति स्पष्टो विषयभेद इति किं केन बाध्यत इत्युच्यते । तदेतदाह चैत्रादीति द्वयेन ॥ ६५ ६६ ॥ किञ्च यत्तत्पूर्वमुक्तं कर्तृत्वे करणत्वे वा प्रत्ययत्वे शब्दोऽपि प्रत्ययशब्दवाच्य इति, तद्यदि तथैव प्रत्ययशब्दोऽप्यत्र प्रतीतिकर्तृकरणत्वात्मना प्रत्ययत्वेनोपादीयते, तत्संवित्त्यालम्बनत्वं चैत्रादीनां वार्यते, चैत्रादयः प्रत्ययशब्दसंवित्त्यालम्बना न भवन्तीति । ततस्तस्याचेतनत्वेन तत्संवित्त्यालम्बनत्वं चैत्रादीनां नास्ति अंशे सिद्धसाधनमेवेत्याह यदीति ॥ ६७ ॥ अथ तु बुद्ध्युत्पादनशक्तिविरहस्तस्यानालम्बनत्वमित्युच्यते प्रत्ययशब्दो निरालम्बन इति, किमुक्तं भवति । न किञ्चिद्विषयां बुद्धिमुत्पादयितुं शक्यत इति । ततस्तेनाशक्तेन पक्षो न बोधित इति साध्यं न सिध्यतीत्याह बुद्ध्युत्पादनेति । साध्यासिद्धौ कारणमाह साधनस्येति ॥ {२,५४} पूर्वाभ्युपगमविरुद्धोऽप्ययं पक्ष इत्याह न चेति त्रयेण । न तावदनभिधायकेषु पदेषु साधनवाक्यं प्रयोगमर्हति । न चाभिधानमर्थसम्बन्धादृते पदानां सम्भवति । न च सम्बन्धो भेदमन्तरेण । न च भेदः शब्दार्थगतभेदं बोधयन्त्या धिया विना (?न) सम्भवति । तदत्र साधनं प्रयुञ्जानेन भिन्नौ शब्दार्थावभ्युपगन्तव्यौ । तथा सति प्राश्निकाः सभ्या गृह्णन्ति च सावयवं साधनवाक्यं पृथक्च पक्षहेतुदृष्टान्तान् वादिप्रतिवादिनौ चेति । यावदिदं नावस्थाप्यते न तावद्व्युत्थित प्रतिपादनाय साधनस्य प्रयोगो भवति । एतच्च सर्वमभ्युपेत्य निरालम्बनत्वे साध्यमाने भवति पूर्वाभ्युपगतविरोध इति ॥ ६९ ७१ ॥ आप्ततमत्वाभिमतबुद्धाभिप्रायविरुद्धोऽप्ययं पक्ष इत्याह धर्मेति भेदोन्तेन । यावद्धि धर्माधर्मौ भिन्नौ परमार्थौ न सिध्यतः शिष्यश्चोपदेश्यः आत्मा चोपदेष्टा, तावन्न धर्माधर्मोपदेशो घटत इति । उपदिष्टाश्च चैत्यवन्दनादयः शिष्येभ्यो धर्मत्वेन बुद्धैः । अतश्चेष्टादर्शनेन सर्वमनुमतं बुद्धानामिति तेषामाशय उन्नीयते । अतस्तद्विपरीतवचने भवति तदभिप्रायविरोध{२,५५}इति । अपि च क्वचित्सूत्रविशेषे स्फुटमेव तैर्बाह्यार्थोऽभिमतः यदाश्रित्य सौत्रान्तिकेन बाह्यार्थसद्भावोऽसङ्गीकृतः, अतस्तदीयागमविरुद्धोऽप्ययं पक्ष इत्याह स्फुटमिति ॥ ७२ ७३ ॥ तथा सर्वलोकप्रसिद्धमहीमहीधरोदधिनिषेधाल्लोकविरुद्धोऽपीत्याह सर्वेति । अपि च सर्वज्ञानानामनालम्बनत्वे कृत्स्नसाधनज्ञानमिथ्यात्वात्सर्वसाधनाभावो वा यथेष्टं पक्षादिन्यूनत्वं वा शक्यमापादयितुमित्याह कृत्स्नेति । यदि तु न साधनज्ञानं मिथ्येत्युच्यते, ततः पक्षादिप्रत्ययैरेव हेतोरनैकान्तिकत्वमित्याह तेषामिति ॥ ७४ ७५ ॥ यदि पक्षादिग्राहिव्यतिरिक्ता एव प्रत्यया निरालम्बनत्वेन प्रतिज्ञायन्ते, ततस्तद्व्यतिरेक[७०९]ग्राहिणः प्रत्ययस्य पक्षाद्यविषयत्वान्मृषात्वमापद्यत इत्याह तदन्यस्येति । अभ्युपगमे दोषमाह तन्मिथ्येति । तदन्यप्रत्ययमिथ्यात्वे हि यत्तेन पक्षादिप्रत्ययव्यतिरेकग्राहिणा गृहीतं तन्मिथ्येति सर्वमिथ्यात्वमापद्यत इति ॥ ७६ ॥ __________टिप्पणी__________ [७०९] कि (Kआ) ___________________________ कथं न सिध्यत्यत आह स्तम्भेति । व्यतिरेकग्राहिप्रत्ययमिथ्यात्वे हि न स्तम्भादिज्ञानेभ्यः साधनज्ञानस्य कश्चिद्विशेषः । तद्वदेव तु साधनज्ञानमपि मिथ्या भवेदिति । एतद्दोषपरिहारार्थं तु व्यतिरेकग्राहिप्रत्ययव्यतिरिक्ता{२,५६}एव प्रत्यया यदि पक्षीक्रियन्ते, ततो व्यतिरेकग्राहिप्रत्ययव्यतिरेकग्राहिणस्तद्व्यतिरेकान्मिथ्यात्वप्रसक्तौ सर्वपूर्वासिद्धिः, पुनरपि तदन्यविशेषणेऽनवस्था । यत्रैव तु परः क्वचिदवतिष्ठते तन्मिथ्यात्वात्पूर्वपूर्वाभावो दर्शयितव्य इत्याह यावदिति । किञ्चाद्यपक्षात्प्रभृति य एते तदन्यप्रतिज्ञादिभिः पक्षा दर्शिताः, तेषु सर्वेषु विरुद्धाव्यभिचारित्वमनुमानविरोधो वेत्याह विरुद्धेति ॥ ७७ ७८ ॥ कथमेतदुभयमित्याह इत्थमिति । इत्थं वक्ष्यमाणप्रकारेण । अत्र प्रतिसाधनं वक्तव्यमिति । तदेव प्रतिसाधनं दर्शयति बाह्येति । बाह्यार्थालम्बना बुद्धिरिति धीर्धर्मिणी । सम्यगिति साध्यो धर्मः, बाधकापेतबुद्धित्वात्, स्वप्नज्ञानादिबाधबुद्धिवत् । इदं च प्रसिद्धावयवत्वेन निरालम्बनानुमानाद्बलवदिति तस्यानुमानबाधो भवति । यदि तुल्यबलत्वमेव मन्यते, ततो विरुद्धाव्यभिचारित्वमिति विवेको दर्शयितव्यः । (स्वार्थिकस्त्विति?) यदि तु स्वप्नादिबाधबुद्धिरपि मिथ्येति ब्रूयात्, ततस्तेषामबाधितत्वादसत्यत्वे दृष्टान्ताभाव इत्याह सापीति ॥ ७९ ८० ॥ किञ्च भिन्नं ज्ञानमात्रं क्षणिकमिति या बुद्धयः ताः सम्यङ्मिथ्या वा, सत्यत्वे तावदनैकान्तिकत्वमित्याह विज्ञानेति । तन्मिथ्यात्वाभ्युपगमे{२,५७}तु सविशेषणपक्षीकृतज्ञानाभावात्पक्षबाध इत्याह तन्मिथ्येति ॥ ८२ ॥ एवं चासति ज्ञाने शून्यताप्रमाणार्थ इति को बद्धः को वा मुक्तो भवेत् । तदेतदाह तथेति । मोक्षयन्तोऽपि प्रव्रज्यादिरेवं सति विफलस्तपस्विनामित्याह तत इति ॥ ८३ ॥ यदि तूच्यते सविकल्पकेन ज्ञानमात्रपक्षो व्यवस्थाप्यते सर्वविकल्पानां मिथ्यात्वाद्, निर्विकल्पकेन त्वात्मानं लभत इति । तदयुक्तम् । न हि ज्ञानमात्रं विश्वं क्षणिका भावा इत्यादि निर्विकल्पकेन कस्यचित्प्रतिभाति । अनुमानेन त्येवञ्जातीयका अर्थाः साध्यन्ते । तच्च सविकल्पलत्वान्मिथ्यैवेति ज्ञानास्तित्वादिपक्षो दुर्लभः । अतो युक्तं मोक्षयत्नस्य वैफल्यमित्याह विकल्पेति सार्थेन । अत्र च निर्विकल्पकसत्यत्वे स्तम्भादिधियामपि तथाविधानां सत्यत्वापत्तेर्न बाह्यार्थाभावः सिध्यतीति वक्तव्यम् । तदुपेक्ष्यैवोत्तरविभवात्परिहारान्तरमुक्तमिति ॥ ८४ ॥ अपि च योगिभ्योऽर्वाचामस्मदादीनां सर्वमेव ज्ञानं कल्पनास्पदमिति मिथ्याज्ञानमेव । न हि प्रधानं जगत्कारणं पञ्चविंशतितत्त्वमित्यादिज्ञानेभ्यो ज्ञानमात्रं जगत्क्षणिकाः सर्वे भावा इत्यादिप्रत्ययानां कश्चिद्विशेषो दृश्यते ।{२,५८}सर्वस्य सविकल्पकत्वेन मिथ्याभ्युपगमात् । अतो गृह्यमाणविशेषेषु तीर्थकरप्रवादेषु योऽयं साङ्ख्यादिसिद्धान्तपरिवर्जनेन बौद्धसिद्धान्त एकस्मिन् पक्षपातः, तत्र न कश्चिद्धेतुरुपलभ्यते । न च कल्पनास्पदत्वा[७१०]विशेषेऽपि अर्थसदसद्भावकृतमिन्द्रियसान्निध्यविप्रकृष्टकृतं वा सम्यङ्मिथ्यात्वं सम्भवति । सर्वकल्पनानामसदर्थत्वात् । सर्वबाह्यापलापे चास्य विभागस्य दुर्लभत्वात् । तदेतदाह सर्वं चेति द्वयेन ॥ ८६ ॥ __________टिप्पणी__________ [७१०] त्व (Kःा) ___________________________ अपि च बुद्धीनां मिथ्यात्वं मृगतृष्णादिज्ञानेषु बाधकेन व्याप्तमुपलब्धम् । न च जाग्रद्बुद्धयो बाध्यन्ते । अतो व्यापकनिवृत्त्या व्याप्यनिवृत्तिरित्यभिप्रायेणाह मृषात्वमिति ॥ ८७ ॥ विनापि बाधकं मृषात्वाभ्युपगमे क्षणभङ्गादिप्रत्ययमिथ्यात्वादव्यवस्थेत्याह बाधादिति । अपि च सम्यङ्मिथ्येति च प्रतियोगिसापेक्षम् । किञ्चिद्धि सम्यगपेक्ष्येतरन्मिथ्या भवति, मिथ्या च किञ्चिदपेक्ष्य परं सत्यम् । तव तु सर्वमिथ्यात्वाभ्युपगमे किंकृतः सम्यङ्मिथ्यात्वविभागः । अस्माकं तु जाग्रज्ज्ञानमेव सत्यं प्रतियोग्यपेक्ष्य स्वप्नादिज्ञानं मिथ्या भवतीति युक्तं, तदेतदाह प्रतीति ॥ ८८ ॥ न केवलं स्वप्नादिज्ञानानां प्रतियोग्यभावान्मिथ्यात्वं न सिध्यति, जाग्रज्ज्ञानानामपि शोभनाभिधानसत्यप्रतियोग्यभावान्मिथ्यात्वं न सिध्यतीत्याह न चेति ॥ ८९ ॥ {२,५९} जाग्रज्ज्ञानप्रतियोग्यपेक्षया स्वमते स्वप्नादिधियां मिथ्यात्वमुक्तम् । तत्रैवोपपत्तिमाह स्वप्नेति । स्वप्नादिप्रत्ययविधर्माणो हि जाग्रत्प्रत्ययाः । सर्वलोकप्रसिद्धा हि ते । स्वप्नस्तु कस्यचिदेव निद्राक्रान्तान्तःकरणस्य भवति । अतो यथा तद्बाधके प्रत्यये सार्वलौकिके स्वप्नादिप्रतियोगित्वमेवमन्येषामपि जाग्रत्स्तम्भादिज्ञानानां तत्प्रतियोगित्वं, तदपेक्षया च स्वप्नादिधियां मिथ्यात्वमिति ॥ ९० ॥ अत्र चोदयति योगिनामिति । सत्यं प्रतियोगिसापेक्षं मिथ्यात्वं, जाग्रद्बुद्धीनामपि भावनाबलनिष्पन्नप्रतियोगिज्ञानापेक्षया मिथ्यात्वं भविष्यति । सत्या हि सा विगलितनिखिलकल्मषस्य स्फुटाविकल्पप्रकाशा जायते । अतो युक्तं तदपेक्षया सांसारिकज्ञानानां मिथ्यात्वमिति ॥ ९१ ॥ ननु कस्यचिदेव भावनाप्रकर्षकाष्ठाप्राप्तस्य योगिनो जाग्रद्बुद्धिपरिपन्थिनी बुद्धिराविर्भवति । तास्तु सर्वलोकप्रसिद्धा एवेत्युक्तम् । अतः कथमेकदेशभुवा ज्ञानेन सार्वलौकिकाः प्रत्यया बाध्यन्ते, अत आह प्राप्तानामिति । अयमभिप्रायः तावदेव हि संसारिणो न बाधं मन्यन्ते, यावन्न बुद्धभूमिमधिरोहन्ति । प्राप्ततद्भूमयस्तु सर्व एव प्राणभृतो बाधं मन्यन्ते । अतो न बह्वल्पविषयतया कश्चिद्विशेष इति सिद्धं योगिज्ञानेन प्रतियोगिना जाग्रद्बुद्धीनां मिथ्यात्वमिति ॥ ९२ ॥ अत्र दूषणमाह इहेति ॥ ९३ ॥ {२,६०} न तावद्वयमद्यत्वे कस्यचिज्जाग्रद्बुद्धिपरिपन्थिनं प्रत्ययमुपलभामहे । योगिनस्तु किं भविष्यति न वेति न नः प्रमाणं क्रमत इति । विनैव तु प्रमाणेन योगिज्ञाने प्रतियोगिनीष्यमाणे शक्यमस्माकमपि वक्तुम् । अस्मदीयानां योगिनां त्वद्[७११]उक्तप्रतियोगिनी विपरीता वा बाधबुद्धिर्भविष्यति स्वाच्छन्द्ये हि नियामकाभावादित्याह योगिनामिति ॥ ९४ ॥ __________टिप्पणी__________ [७११] नु (Kआ) ___________________________ बौद्धोक्तज्ञानमात्रपक्षविधर्मविविधविषयोपदर्शनेन प्रतियोगिनी साक्षादेव वा नैतदेवमिति प्रतिक्षेपात्तद्विषयविपरीतेति । न चैवमावयोरविशेष इति वक्तव्यम् । अनुमानेन हि वयं योगिबुद्धीनामीदृशत्वमुपपादयामः । य एव हि कश्चित्प्रमाता गृहीतस्तेनैव दृष्टान्तेन योगिनामपि बहिर्विषयबोधोऽनुमीयते । सर्वस्याद्यतनस्य ग्रहीतुर्बहिर्विषयबोधात् । ज्ञानमात्रं तु निर्मुक्ताखिलनीलादिविभागमवयन्ति योगिन इत्यदृष्टान्तः, तदेतदाह ईदृक्त्वेति । भवति चात्र (प्रयोगः ।) योगिनस्त्वदुक्तविपरीतबुद्धिमन्तः, बोद्धृत्वादद्यतनबोद्धृवदिति ॥ ९५ ॥ ननु योगिनां जाग्रद्बुद्धिप्रतियोगिनी बुद्धिरुत्पद्यत इति न प्रमाणं क्रमत इति यदुक्तं[७१२]तदयुक्तम्, कथमनुमाने जीवति तदप्रमाणकमिति शक्यमभिधातुम् । एवं ह्यत्रानुमीयते जाग्रद्बुद्धयः सप्रतियोगिन्यो बाध्या वा, बुद्धित्वान्मृगतृष्णादिबुद्धिवदिति, तदेतदाह अथेति । प्रतियोगिताबाध्यत्वे प्रागेव व्याख्याते इति ॥ ९६ ॥ __________टिप्पणी__________ [७१२] क्तं क (Kःा) ___________________________ एतदपि दूषयति इष्टमिति (बाध्य)त्वमन्तेन । सत्यं जाग्रद्बुद्धीनां हि मृगतृष्णादिबुद्धयः प्रतियोगिन्यः, एतदपेक्षयासां सत्यत्वावगतेः ।{२,६१}अतः सिद्धसाधनं, बाध्यत्वमपि सिद्धम् । बुद्धिरूपेण हि सत्यबुद्धयोऽपि न मिथ्याबुद्धिभ्यो भिद्यन्ते । अतः तासु बाध्यासु ता अपि बाध्या भवन्तीति वाक्प्रवृत्तिरिति । अन्यथा सिद्धसाधनं दर्शयति ग्राह्येति । सत्यबुद्धीनां ग्राह्यादन्यद्ग्राह्यान्तरं मिथ्याबुद्धीनां, तस्मिन् बाध्यमाने सर्वेषां ग्राह्यत्वेनाभेदात्सत्यधीग्राह्यमपि बाधितमेव भवति । अपि च यान्येव योगिज्ञानानि जाग्रद्धियां बाधकानीष्यन्ते, तैरेव हेतोरनैकान्तिकत्वमित्याह बाधकैरिति । तदन्यविशेषणोपादाने च पूर्ववदनवस्था वाच्येत्याह तदन्यत्व इति ॥ ९८ ॥ विशेषविरुद्धश्चायं हेतुरित्याह मिथ्येति सार्धेन । स्वप्नादिबुद्धीनां हि मिथ्याभूताः संसारिबुद्धयः प्रतियोगिन्यो दृष्टा इति प्रतिबन्धबलेन बुद्धित्वेन हेतुना जाग्रद्बुद्धीनां मिथ्याधीप्रतियोगित्वमेव साध्यते । तत्र यः प्रतियोगिनीनां धियां सत्यत्वं विशेष इष्टः, स बाध्यते । तथा रागादिक्षयनिमित्तासौ योगिनामधिगतिरिति यः प्रतियोगिन्या योगिबुद्धेर्विशेष इष्टः, तस्य सर्वस्य बाधाद्भवति विशेषविरुद्धो हेतुरिति । अयं च धर्मविशेषबाधाद्विरोधोऽनुसन्धातव्य इति ॥ ९९ ॥ दूषणान्तरमाह महाजनस्येति । अयमभिप्रायः शक्यते हि प्रतिसाधनं वक्तुं, जाग्रद्बुद्धयः सत्याः इदानीं महाजनस्याबाधात्पराभिमतयोगिबाधबुद्धिवदिति । इदं च यदि बाध्यत्वानुमानेन तुल्यबलं ततः सप्रतिसाधनम् । अथ तु प्रसिद्धावयवत्वेन बलवत्ततोऽनुमानबाध{२,६२}इति प्रागप्युक्तमेव । सर्वथा तावत्परसाधनं प्रतिबध्नातीत्यत्र तात्पर्यम् । योगिज्ञानेन बाधाद्धेतोरसिद्धिर्मा भूदिति इदानीमित्याह । योगिनां बाधबुद्धेरप्यनागताया महाजनेनाबाधाद्व्याप्तिसिद्धिरिति ॥ १०० ॥ मूलसाधने च ये धर्मादिविकल्पैर्दोषा उक्ताः, तेऽप्यत्रानुमानेऽनुसन्धातव्या इत्याह पूर्वेति । एवं पुनस्तत्पातनिकां कृत्वा तत्रैव दूषणान्तरमाह तस्य चेति । तस्य च पूर्वसाधनस्याधुना दोषान्तरमभिदध्महे । धर्मधर्मिणौ विकल्प्य दूषितौ । हेतुरपि तस्योभयसिद्धो नास्ति, साध्याभेदात् । न हि प्रत्यय एष साध्ये स एव हेतुर्वाच्यो भवति, प्रतिज्ञार्थैकदेशत्वात् । अतो हेतुशून्यं साधनमिति । ननु सामान्यस्य हेतुतया पक्षैकदेशत्वं प्रतिक्षिप्तमत आह सामान्यमिति । उक्तमिदमस्माभिरुभयसिद्धो हेतुर्नास्तीति । भिन्नाभिन्नं हि प्रत्ययत्वं तवासिद्धम्, अत्यन्ताभिन्नं च न नः किञ्चिदस्तीति सिद्धं नोभयसिद्धो हेतुरस्तीति ॥ १०२ ॥ सारूप्यान्यनिवृत्तिरूपं तु सामान्यमुपरिष्टान्निषेत्स्यत इत्याह सारूप्येति ॥ १०३ ॥ उपसंहरति तस्मादिति । यदि तु मा भूत सामान्यं, विशेष एव{२,६३}हेतुरुच्यते, तदयुक्तम् । अपक्षधर्मत्वादन्वयाभावाच्चेत्याह विशेषयोरिति । द्वावत्र विशेषौ परिप्लवेते पक्षस्तत्तुल्यापरनामा सपक्षश्च । पूर्वत्र हेतोरन्वयाभावः । परत्रापक्षधर्मत्वम् । पूर्वं तु विशेषस्यैव हेतुत्वे साध्याभेदादवाच्यत्वमुक्तम् । इदानीं विकल्प्य दूषणान्तराभिधानमिति । ननु माभूत्सामान्यविशेषात्मको हेतुः, बुद्धिरेव त्वर्थशून्या हेतुर्भविष्यति । उत्पद्यते हि नः प्रत्ययत्वादित्युक्तेऽनर्थिका काचिद्बुद्धिः । सर्व एवायं हेत्वादिव्यवहारो बुद्धिमात्रप्रभावित एवेति सौगता मन्यन्ते । अत आह न चेति ॥ १०५ ॥ अत एव दोषद्वयान्नार्थशून्या बुद्धिर्हेतुर्भवति । न हि सा बुद्ध्यन्तरं धर्मः । न हि क्षणिका साध्यान्वयभाजनमित्यप्रसिद्धाश्रयश्चायं हेतुर्विशेष्यग्राहिप्रत्ययनिरालम्बनत्वेन तदप्रसिद्धेरित्याह आश्रयेति । अप्रसिद्धविशेष्यं पक्षमाचक्षाणैरेवास्माभिर्हेतोराश्रयासिद्धताप्युक्तप्रायैवेत्यर्थः । तथा निरालम्बनता चेह सर्वथा यदि साध्यते विशेषणाप्रसिद्ध्यर्थं यो विकल्पः कृतः, तेनैव हेतोर्विरुद्धत्वं दृष्टान्ते च साध्यहीनता द्वे एते बोधिते । सर्वथा निरालम्बनत्वे हि साध्ये तथाविधस्य कस्यचिदसिद्धेर्व्याप्तिबलेन यथाकथञ्चिन्निरालम्बनत्वं सिसाधयिषतः सर्वथा निरालम्बनत्वविरुद्धं प्रत्ययत्वहेतुः साधयतीति विरुद्धत्वं, स्वप्नादिज्ञानानामपि सर्वथा निरालम्बनत्वाभावात्साध्यहीनो दृष्टान्तः । तदेतदाह तथेति । साध्यहीनतां प्रपञ्चयति स्वप्नेति ॥ १०७ ॥ {२,६४} किमिति नेष्यते, अत आह सर्वत्रेति । अस्ति हि सर्वज्ञानेष्वेव देशान्तरादिस्थमालम्बनम् । यदेव हि क्वचिद्देशे काले वा दृष्टं तदेव देशान्तरादौ प्रतीयत इत्येतदेवानालम्बनत्वम् । न तु सर्वथा ग्राह्याभाव इति । ननु यदेव क्वचिद्देशे काले वाननुभूतपूर्वं, तदपि स्वप्नज्ञाने प्रकाशते । अतः कथं तस्य देशान्तरादिस्थबाह्यालम्बनत्वमत आह जन्मनीति । अयमभिप्रायः पूर्वानुभूतगोचरा हि मनोमात्रसहाया स्वप्नस्मृतिः । दोषवशाच्च प्रत्युत्पन्नबोधः । न चेह प्रतिनियमः यदेकत्र जन्मन्यनुभूतमेव स्वप्नेऽवसीयत इति, जन्मान्तरानुभूतमपि कुतश्चिददृष्टाद्मनसि विपरिवर्तमानमलमेव भवितुं गोचरः स्वप्नादिधियाम् । अतोऽस्ति तावद्विभ्रमाणामपि कथञ्चिदवस्थितं बाह्यालम्बनम् । एकत्रापि जन्मनि कालान्तर इत्यर्थः ॥ १०८ ॥ एवमन्तःकरणजन्मनः स्वप्नविभ्रमस्यालम्बनमुक्तम् । बाह्येन्द्रियजन्मनां विभ्रमाणामिदानीं बाह्यमालम्बनं दर्शयति अलातेति धियोऽन्तेन । अलातचक्रज्ञाने शीघ्रभ्रमणदूषितमलातमेवालम्बनम् । गन्धर्वनगरविभ्रमे तु सन्निवेशविशेषावस्थितान्यभ्राण्येव दूरत्वात्पूर्वावगतगृहाकारेणालम्ब्यन्ते । तदिह पूर्वदृष्टगृहाण्यभ्राणि च तत्सन्निवेशविशेषभ्राञ्ज्यालम्बनम् । तदिह द्विप्रकारो विषयदोषो विभ्रमे कारणम् । मृगतोयज्ञाने पूर्वानुभूततोयमूषरं च सूर्यरश्मितप्तमेवालम्बनम् । उभयं हि विगाह्य भ्रान्तिरात्मानं लभते, तदन्यतरापाये ह्यभावात् । इह चान्तःकरणविषयदोषाभ्यां विभ्रमः । पिपासादूषितान्तःकरणस्य हि सूर्यरश्मितप्तमूषरं तोयसदृशं तद्वदाभाति । शशविषाणबुद्धेस्तु मानसादेव कुतश्चिद्भ्रमनिमित्ताज्{२,६५}जायमानाया । गवादिद्रव्यान्तरगतं विषाणमात्मा च शशस्य कारणम् । उभयभावभावित्वादेकतरापायेऽपि चापायादिति । ननु शशविषाणं नास्तीति बुद्धेर्न किञ्चिदालम्बनं न तावत्शशो विषाणं वा तत्संयोगो वास्यालम्बनम् । प्रतिषेधरूपत्वान्नाभावः । स्वतन्त्रानिर्भासात् । तथा हि न वयं शशविषाणं नास्तीत्युक्ते स्वतन्त्रमभावमवगच्छामः । अतोऽवश्यमात्मालम्बनमेवेदं नास्तीति ज्ञानं वक्तव्यम्, अत आह मौण्ड्यमिति । अस्य शृङ्गस्य निषेधे शशशिरोमौण्ड्यं कारणम् । एतदुक्तं भवति यद्यपि स्वतन्त्रोऽभावो न प्रतीयते, भावाश्रयस्तु प्रतीयत एव । अतः शशमूर्धवर्तिनोऽवयवा उपर्युपरि हीयमाना दीर्घदृढसन्निवेशरूपे(?णा।ण)परिणता मौण्ड्यापरनामानः शृङ्गाभावात्मना ज्ञायन्ते । यद्धि यथा निर्भासते तत्तथेइवालम्बनम् । अभावोऽपि पराधीन एवानुभूयमानस्तथैवालम्बनं भविष्यति । ज्ञानं तु सद्रूपं नास्या नास्तीतिबुद्धेरालम्बनं भवितुमर्हति । आह च भावरूपं च विज्ञानं नास्तीति कथमुच्यते । इति । यत्तर्ह्यनाश्रितविषयं शून्यशब्दाज्ज्ञानमुत्पद्यते तदनालम्बनं भवेत्, सर्वाभावस्य प्रत्येतुमशक्यत्वाद्, विशेषाप्रकाशाच्च । अत आह वस्त्विति । अयमभिप्रायः न स्वतन्त्रं शून्यज्ञानमुत्पद्यते किञ्चिद्धि केनचित्शून्यमवसीयते । गृहं चैत्रेण जगद्वन्ध्यासुतेन । अतः केवलगृहाद्यालम्बनमेव शून्यज्ञानं नानालम्बनं स्वांशालम्बनं वेति ॥ ११२ ॥ एवमङ्गुल्यादिवाक्यजनितशाब्दविभ्रमाणामपि सन्निधिदोषदूषिता एव पदार्थाः कारणमित्याह कारणत्वमिति । यस्तर्ह्यत्यन्ताननुभूतपूर्वः{२,६६}प्रधानादिरर्थो बुद्ध्या साङ्ख्यादिभिः कल्प्यते, तत्र न किञ्चिज्ज्ञानस्यालम्बनमुपलभ्यते । विषाणादिर्हि क्वचिददृष्टः क्वचित्तूपलभ्यत इति युक्तम् । स्वरूपासतस्तु कथं कुत्र वा कल्पनमत आह अत्यन्तेति । पृथिव्यादि सूक्ष्ममेव हि तैः प्रधानमिति कल्प्यते । स्थूलस्य हि जगतो नाकस्मान्निष्पत्तिरुपपद्यत इति प्रधानं कल्प्यते । न च तदन्यत्परमाणुभ्यो घटत इति कथञ्चित्सूक्ष्मरूपावस्थिताः पृथिव्यादय एव प्रधानबुद्ध्या गृह्यन्ते । सोऽयं सूक्ष्मरूपतया तेषामग्रहणात्तद्व्यतिरिक्तः प्रधानभ्रमः । परमार्थतस्तु तत्स्थाने प्रधानपरिकल्पनादेव तदालम्बनं प्रकल्प्यत इति । अतः प्रकृतं विपरिणतं प्रकल्पनं तस्येति परामृश्यत इति ॥ ११३ ॥ नन्वत्र प्रकरणेऽवर्तमान एवार्थो बुद्ध्या विषयीक्रियत इत्युक्तम् । तदयुक्तं, कथं हि वर्तमानाया बुद्धेरवर्तमानमालम्बनं भविष्यति । न ह्यवर्तमानघटविषयं वर्तमानघटज्ञानमुपलब्धमत आह एष इति । यदेव तद्वर्तमानार्थत्वमिन्द्रियसन्निकृष्टार्थविषयत्वं च । अयं प्रत्यक्षप्रमाणधर्मो न ज्ञानान्तराणाम् । न तु विभ्रमाः प्रत्यक्षं, तदाभासत्वादिति ॥ ११४ ॥ ननु किमिदं प्रत्यक्षधर्म इति । न ह्यत्र वैदिको विधिरस्त्येवन्धर्मणा प्रत्यक्षेण भवितव्यमिति । यथा त्ववर्तमानं न ज्ञानं जनयितुं क्षममिति प्रत्यक्षं वर्तमानविषयम्, एवमाभासमपि तथा भवितुमर्हति । कथं हि तत्रावर्तमानेन ज्ञानमुत्पादयितुं शक्यमसतः करणत्वायोगात् । तदेतदाशङ्कते तावत् कथमिति । परिहरति कुत इति । अवर्तमानं ह्यर्थक्रियान्तरेष्वसमर्थं दृष्टं, ज्ञानं तु जनयत्येव । भूतभविष्यन्त्योरपि वृष्ट्योरनुमानोदये कारण[७१३]भावात् । प्रत्यक्षं त्विन्द्रियसन्निकर्षानुविधायि । न चात्रावर्तमानेनेन्द्रियं सन्निकृष्यत इति भवति वर्तमानविषयम् । दोषसहायेभ्यस्त्विन्द्रियेभ्यः प्राचीनानुभवजनितसंस्कारवशेनावर्तमानमेव वर्तमानमिव भासत इति न नोपपन्नम् । ननूक्तमसतः कारणत्वानुपपत्तिरिति । शक्तिमद्धि{२,६७}कारणम् । नचासतः शक्तिसमवायः सम्भवति । न । सत्त्वात् । यदि तदेकान्तमसद्भवेद्, न ज्ञानं जनयेत् । अस्ति तद्देशान्तरादिषु रजतादीति न तस्य शक्तिसमवायोऽनुपपन्नः । सन्निधानं तु तस्य नास्तीति क्वचिदेवावर्तमानमाख्यायते । यत्तर्हि नास्त्येव स्वरूपतः यथा वृष्ट्यादि, तत्कथं ज्ञानस्य कारकमतीतमनागतं वा । तत्रापि सामान्यानुमानात् । तेनात्मना सत एव कारकत्वम् । अथ वा यदा तावत्तदासीत्यदा तावच्छक्तिमता कारकीभूतेनात्मनि ज्ञानं जनितं, तेनापि संस्कारः, तदेवं परम्परया विषयशक्तिरात्मनि सङ्क्रान्ता । स चात्मा नित्य इति सदाश्रया शक्तिः कार्याण्यारभते । तयैव चात्मसमवायिन्या शक्त्या स्मृत्यादिज्ञानेषु जायमानेष्वतीतानागतार्थाः कारणमित्युच्यते याग इव विनष्टोऽपि शक्तिद्वारेण । भवतु तावदतीतस्मरणे, अनागता(व)बोधे तु कथम् । तत्राप्यगृहीतपूर्वस्य सम्बन्धाग्रहणेनानुमातुमशक्यत्वादवश्यं पूर्वानुभवोऽभ्युपगन्तव्यः । अतस्तत्रापि परम्परया कार्यशक्तिसङ्क्रान्तेरुपपन्नं कारकत्वम् । नन्वन्य एव पूर्वानुभूतो विशेषोऽन्यश्चायं यः सम्प्रति भविष्यत्तया ज्ञायते । अतः कथमन्याहितशक्त्यान्यस्य कारकत्वम् । न । सामान्यात्मनैकत्वात् । तस्यैव च रूपस्यानुमेयत्वादिति ॥ ११५ ॥ __________टिप्पणी__________ [७१३] णा (Kःा) ___________________________ नन्वेवमपि न तावद्यथाप्रतिभासं भवद्भिरर्थोऽभ्युपगतः । सन्निहितो हि प्रतिभासविषयः । न चासौ तथेष्यते । प्रतिभासविसंवादिवस्त्वभ्युपगमे न किञ्चित्प्रमाणं पश्यामः । तथा सति हि स्वांशालम्बनत्वं कल्पितं बाह्यालम्बनत्वं वा न कश्चिद्विशेषः, अत आह बाह्येति । अयमभिप्रायः ज्ञानस्य[७१४]बाह्यविषयसदसद्भावगोचरोऽयमावयोर्विवादः । न च बाह्यसद्भावे प्रतिभासविसंवादः । भ्रान्तिज्ञानेष्वपि बहिरेव विषया भासन्ते । इदं तोयमिति मृगजलज्ञानं नाहं तोयमिति । अस्ति च तद्देशान्तरे ।{२,६८} न हि बाधकेनापि बहिर्विदितस्तोयसद्भावो बाध्यते । न हि तत्तोयं नास्तीति भवति मतिः । किन् तु इदं न तोयमिति । किमुक्तं भवति । इह तोयं नास्तीति । तदिह क्वचिदेव तोयसंयोगो वार्यते न तोयम् । अतः सन्निधिबाधे कः प्रतिभासविरोधः । नन्वेवमपि सन्निधिज्ञानमेवासत्सन्निध्यालम्बनत्वेन निरालम्बनं भवेत् । न । सन्निधिरित्यूषरसंयोगस्तोयस्यापदिश्यते सोऽपि क्वचित्प्रसिद्ध एवेह प्रतिषिध्यत इति न किञ्चिदनालम्बनम् । अतो यथाप्रतिभासमेव सर्वमिदमुपदर्शितमिति न क्वचित्प्रतिभासविसंवाद इति ॥ ११६ ॥ __________टिप्पणी__________ [७१४] स्थ (Kःा) ___________________________ किमिदानीमनालम्बनं नाम, न किञ्चित्तत्रभवतां, यद्येवमपह्नुतः सत्यमिथ्यात्वविभागः । अत आह तस्मादिति ज्ञानमन्तेन । बाह्यमेवान्यथासन्तमन्यथाप्रतिपद्यमानमनालम्बनं ज्ञानमाचक्ष्महे । नासद्ग्राह्यम् । तदेवं मिथ्योच्यते इति । अभावालम्बनस्य तर्हि ज्ञानस्य किमालम्बनं, न तावद्भावः, विरोधात् । नाभावः, तस्य भावाद्विविक्तस्यास्वतन्त्रस्यानिर्भासात् । अतो बलादनालम्बनमेवापतितमत आह अभावेति ॥ ११७ ॥ अत्र कारणमाह भावेति । सत्यं न स्वतन्त्रोऽभावोऽवसीयते, भावधर्मो ह्यसौ कथं स्वतन्त्रोऽपनीयेत । अतस्त्वदुक्तादेव स्वतन्त्रानिरूपणात्कारणात्सदात्मनावस्थिते गवादौ वस्त्वन्तराभावात्मना यज्ज्ञानमुत्पद्यते तदभावालम्बनमुच्यत इति, इदं च प्रागप्युक्तमधुनोपपादितमिति विवेकः । बौद्धानां तु सर्वसंविदामात्मपर्यवसायित्वादर्थसन्निध्यसन्निधिकृतविशेषाभावाच्च द्वयमपि निरालम्बनत्वमभावालम्बनत्वं च दुर्निरूपं, द्वयहेतोरभावात् । सति हि हेतौ सहेतुकं सदेतन्निरूपयितुं शक्यते, न त्वेतदस्तीत्याह भवतामिति । भवन्मत इत्यर्थः ॥ ११८ ॥ {२,६९} तदेवं तावद्दृष्टान्ते साध्यहीनता विवृता । इदानीं विरुद्धो हेतुरिति दूषणान्तरमाह प्रतिज्ञेति । यथा धर्मधर्मिबोधकप्रत्ययनिरालम्बनत्वान्न धर्मो धर्मी नोभयमिति प्रतिज्ञादिदोषोऽभिहितः, तथा समस्तव्यस्तयोर्धर्मधर्मिणोर्व्याप्तिबलेन स्वरूपस्वविशेषौ विघ्नन् विरुद्धोऽपि प्रत्ययत्वं हेतुरिति ॥ ११९ ॥ दृष्टान्तोऽपि न केवलं साध्यहीनः सर्व एव तु दृष्टान्तदोषास्तद्वचनाभावप्रभृति योजयितव्याः । न ह्येकस्मिन् ज्ञानमात्रे वस्तुनि दृष्टान्तवच(सः) साध्यांशो निरालम्बनत्वं, हेत्वंशः प्रत्ययत्वं, तस्य चासाध्यांशेन व्याप्तिः दृष्टान्तधर्मितद्धर्मता च साध्यसाधनयोरिति सर्वमिदमुपपद्यते । अतो यथेष्टमेव दृष्टान्तस्य तेन तेन वचनादिना न्यूनत्वं शक्यं वक्तुमित्यभिप्रायेणाह दृष्टान्तेति ॥ १२० ॥ वैधर्म्यदृष्टान्तन्यूनश्चायं प्रयोग इति केचिदनुयुञ्जत इत्याह केचिदिति । द्वेधा हि दृष्टान्तवचनसमयः । केचिद्व्याप्त्या साधर्म्य उक्तेऽपि वैधर्म्यवचनं कार्यमिति मन्यन्ते । तदिदमेकेषां मतेन परिचोदितमिति केचिदित्युक्तमिति । ननु च विपक्षाधेतुं व्यावर्तयितुं वैधर्म्यवचनं, न चेह विपक्षानुवृत्तिः सम्भवति । साधनभाष्यस्य तदन्तरेण हेतोर्विपक्षाद्व्यावृत्त्यसिद्धेः । अ(?न्ये तु।न्यैस्तु) हेतोः साध्येन व्याप्तिं दर्शयितुं दृष्टान्तवचनम् । तद्यदि सम्यक्साधर्म्यवचनादेव व्याप्तिरवगता, न सहभावमात्रं, न च विपरीतान्वयः, तदा किं वैधर्म्यवचनेनेति साधनभाष्यव्याख्यानावसरे वर्णितम् । उक्तं च परैरपि न वा तदभावात्तत्रावृत्तेरिति । अतो{२,७०}वैधर्म्यस्यावचनमित्यदोषः । अत आह तदभावेति । तदभावादवृत्तिरिति यदेतद्तवाभिधानं तस्यात्र प्रकृतसाधनेऽवसरो नास्तीति ॥ १२१ ॥ कथमनवसरोऽअत आह विधिरूपेति । तदभावादवृत्तेरिति यदुक्तं तस्यायमर्थः भावे प्रतिज्ञाते विधिरूपेणाभावो विपक्षो भवति । तदभावे च विपक्षेऽभावस्य निस्स्वभावत्वान्न हेतोर्वृत्तिः सम्भवतीति न वैधर्म्यं वचनीयमिति । एतदपि बौद्धा वक्तुमशक्ता एव । न हि तेषां क्वचिदपि प्रत्यक्षवद्विधिरूपेण हेतुः प्रकाशकः । व्यतिरेकप्रधानवादिनो हि ते । सर्वत्र साध्यान्वितहेतुसंविदो दुर्लभत्वात् । अतो विपक्षव्यावृत्तिमुखेनैव सर्वत्र हेतोर्गमकत्वमाश्रितम् । न चासति वैधर्म्यवचने विपक्षव्यावृत्तिः शक्यते दर्शयितुम् । अतः सर्वत्रैव त्वन्मते वैधर्म्यदृष्टान्त एव वाच्यः । तदेतदुपेत्यापि तावदुच्यते । भवतु विधिरूपप्रतिज्ञास्वभावस्य विपक्षत्वात्तदभावादवृत्तिः । आलम्बनाभावात्मकत्वे तु निरालम्बनत्वे वस्तुनि साध्ये प्रतिज्ञाते वस्त्वात्मकं सालम्बनमेव विपक्षः । तत्र च हेतोर्वृत्तिसम्भावनायां व्यतिरेको[७१५]वक्तुमुचित एव । अतो वैधर्म्यन्यूनता सूक्तेति ॥ १२२ ॥ __________टिप्पणी__________ [७१५] के (Kःा) ___________________________ विधिरूपप्रतिज्ञायामपि वैधर्म्यस्य प्रयोजनाभावमात्रम् । अवस्त्वात्मके तु विपक्षे वैधर्म्यस्य प्रयोगः सम्भवत्येव । क्रियते चानुमानकुशलैः । अतोऽवश्यं वाच्यं वैधर्म्यं, यन्नोच्यते तन्नोचितमित्याह तत्रेति । तद्वृत्तेन विधिरूपप्रतिज्ञा परामृश्यते । हिशब्दो हेतौ । यस्मादवस्तुविपक्षे प्रयोगः सम्भवति, तस्मात्सर्वत्रैव वैधर्म्यं वाच्यम् । तदिहानवसरं प्रतिज्ञायोत्तरश्लोके पूर्वोत्तरार्धाभ्यां हिशब्दद्वयेन हेतुद्वयमुक्तमिति प्रयोगसम्भवमेव दर्शयति यस्मिन्निति । शब्दोऽनित्यः कृतकत्वादित्युक्ते यदनित्यं न भवति तत्कार्यमपि न भवति यथा खपुष्पमिति शक्यमेव वैधर्म्यवचनम् ।{२,७१}सर्वाभावस्यावस्तुनि शक्यनिदर्शनत्वात् । भावो हि तत्र निदर्शयितुमशक्यः । विनाशाख्यक्रियासामान्यं चानित्यत्वमिति विधिरूपप्रतिज्ञा दर्शयितव्येति ॥ १२३ ॥ तदेवं तावदवस्तुविपक्षेऽपि प्रयोगसम्भवो दर्शितः । अत्र तु प्रकृतसाधने वस्तुन आलम्बनाभावस्य साध्यत्वं वस्तुनश्च सालम्बनस्य विपक्षता । वस्तुनि च हेतुवृत्तेः सम्भवाद्विपक्षाद्व्यतिरेकः प्रयोजनवत्त्वाद्वाच्य एवेत्याह अत्र त्विति वाच्योन्तेन । यस्त्वत्रापि व्यतिरेकं दर्शयति तेनावश्यं[७१६]यन्निरालम्बनं न भवतीति नञात्मनः प्रतिषेधद्वयात्सालम्बनविधिरेव प्रदर्शितो भवति । न च सर्वस्मिन्नेवासति वस्तुन्यालम्बनविधिः शक्यो वक्तुम् । सेयमुभयतःपाशा रज्जुः । वैधर्म्यवचने वस्तुत्वापातः । अवचने वाच्यावचनमिति । तदेतदाह यश्चेति चिदन्तेन ॥ १२५ ॥ __________टिप्पणी__________ [७१६] श्यं निरा (Kःा) ___________________________ यदि तर्हि सर्वथैव वैधर्म्यं वाच्यं सर्वज्ञनिषेधे का वार्ता । तत्रापि ह्यवस्तुनि साध्ये वस्त्वात्मनः सर्वज्ञविपक्षाद्धेतुर्व्यावर्त्यः । तथा च तदभ्युपगमप्रसक्तिरत आह एवमिति । एवं हि तत्र साध्यते बुद्धप्रत्यक्षमसर्वविषयं, प्रत्यक्षत्वादस्मदादिप्रत्यक्षवत् । सर्वविषयं तु न प्रत्यक्षं शब्दवदिति । एवं तावद्व्यापकं वैधर्म्यं मन्वानानामनुयोगो दर्शितः । न त्वेवं मन्यामहे । वक्ष्यति हि व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यमपेक्ष्यते । इति ॥ १२६ ॥ {२,७२} अनैकान्तिकाशङ्कानिराकरणं तु तदुक्तेः प्रयोजनमिह विपक्षाभावादेव तन्न सम्भवतीति किं तद्वचनेनेत्याह वैधर्म्येति । एतदिति । प्रकृतसाधनम् । अदूषणम् । अविद्यमानदूषणमित्यर्थः ॥ १२७ ॥ साधु तर्हि साधनमापन्नं सम्प्रतिपत्तिरेवोत्तरमत आह सर्वथेति । येषां हि साध्यसिद्धावुपायान्तराणि प्रतिज्ञाहेतुदृष्टा(?न्तानि।न्ताः) सन्ति, ते वादमार्गेष्वधिकृताः । सौगतास्तु न कथात्रये । अतो न नाम वैधर्म्यवचनन्यूनता दूषणम् । अनुपायस्य हि कथं साध्यसिद्धिर्भविष्यति । वयं हि साधर्म्यात्साध्यसिद्धिं मन्वाना वैधर्म्यं नाद्रियामहे । सर्वापलापवादी तु वादे नाधिकृत एव । प्रदर्शनमात्रं हि वादग्रहणम् । तिस्रो हि कथा भवन्ति । वादो जल्पो वितण्डा चेति । शिष्यविषयो हि वाहः । व्युत्थितं तु शिष्यमाणमर्थं प्रतिपादयितुं जल्पवितण्डे । तयोः स्वपक्षस्थापनाहीनं वचनं वितण्डा । तदत्र त्रयेऽपि शून्यवादिनोऽनधिकृता इति ॥ १२८ ॥ सर्वपूर्वोक्तदोषपरिहारेणेदानीं बौद्धः प्रत्यवतिष्ठते नन्विति । सालम्बनवादिनं हि भवन्तं प्रतिबोधयितुमिदं साधनम् । ततस्त्वं प्रसिद्धैरेव हेत्वादिभिः साध्यं बुध्यमानः किं मां प्रति बहुप्रकारं प्रतिज्ञादि विकल्प्य दूषणमात्थ ब्रवीषीति ॥ १२९ ॥ मीमांसकः प्रक्षीणनिखिलकुहेतुजालमेवंवादिनमपहसति विप्रलिप्सुरिति । न्यायवित्किलासि । किमस्मान् विप्रलब्धुमेवंविधं भाषसे । किं खलु कथास्वप्युभयसिद्धस्य साधनत्वमिति नाश्रौषीरिति ॥ १३० ॥ {२,७३} ननु परासिद्धस्तावधेतुः प्रयुज्यमानो दृष्टः । शब्दोऽनित्यः कार्यत्वादिति । न हि मीमांसकस्य शब्दकार्यत्वं सिद्धम् । अथासिद्धमपि व्यापारानन्तरदर्शनादिभिः साध्यत इत्युच्यते, स्वासिद्धेऽपि तथाकरणे को दोषः, अत आह योऽपीतिद्वयेन । परासिद्धे हि स्वयंसिद्धे प्रसाधनं प्रतीकारो भवति । स्वतोसिद्धे तु प्रतिक्रियैव नास्ति । तस्मिन् साध्यमाने पूर्वाभ्युपगमविरोधो भवति । असाधितेन त्वसता न साध्यं साध्यत इति ॥ १३२ ॥ अत्र चोदयति परेति । परप्रतिपादनार्थं हि साधनवचनम् । न चासौ[७१७]परोऽसिद्धेन प्रतिपादयितुं शक्यते । अतः परासिद्धो न साधनमिति युक्तम् । स्वासिद्धस्य तु किंकृतमसाधनत्वमिति न विद्म इति ॥ १३३ ॥ __________टिप्पणी__________ [७१७] चासिद्धौ प (Kआ) ___________________________ ननूभयसिद्धो हेतुरिति भवद्वृद्धैरपि भाषितं तत्परित्यक्तम्, अत आह द्वयोरिति । नायमदृष्टाय वृद्धोपदेशो दृष्टानुसारेण परासिद्धप्रतिषेधपरत्वमेवास्य निश्चीयते इत्याह प्रत्येष्य(न्ती)ति । स्वसिद्धैर्हेत्वादिभिः परः साध्यं वक्ता तु स्वयमसिद्धं कथं शक्नोत्यत आह वदेदिति ॥ १३५ ॥ {२,७४} प्रत्यक्षपरिदृष्टं हि साधनवाक्यं वक्तृप्रयुक्तं तद्दर्शनेन भवति काचित्प्रयुक्तिशक्तिकल्पना । किं तद्विशेषावधारणेन । तव तु साप्य्[७१८]अप्रतिज्ञानार्थिनः साधनशक्तिपरीक्षैव युक्ता किमनेन कथं वक्त्रा साधनं प्रयुक्तमिति । एतदेव प्रपञ्चयति गृहीतमिति ॥ १३६ ॥ __________टिप्पणी__________ [७१८] प्रज्ञा (Kःा) ___________________________ पुरुषाधीने हि निर्णये तत्प्रत्ययानुसारित्वान्निर्णस्यय तज्ज्ञानकारणानुसरणमुचितं, नात्रानुमान इत्याह यत्रेति ॥ १३७ ॥ अत्रापि तु पुरुषाधीने निर्णये प्रतिज्ञामात्रादेव तदनुसारी निर्णयो भवेत्, न साधनापेक्षा स्यादित्याह यदि चैवमिति ॥ १३८ ॥ न त्वेतदस्तीति व्यतिरेकेण दर्शयति यतस्त्विति । अस्यैव साधनस्यैवेत्यर्थः । किमिदानीं वाक्यमनपेक्षितार्थमेव, नेत्याह त(त्स्मृतीति) । साधनस्मरणार्थमेव वाक्यम्, अतस्तच्छक्तिरेव चिन्तनीया । किं पुरुषनिरूपणेन । न ह्ययमप्राप्तप्रत्ययानुसारी निश्चय इति ॥ १३९ ॥ अतो यथा स्वार्थानुमाने न वक्तारमपेक्षते, एवमिहापि भवान्नापेक्षेतैवेत्याह तस्मादिति । यतः स्मारकं वाक्यमित्यर्थः ॥ १४० ॥ {२,७५} यदि तु सर्वप्रमाणेष्वेव पुरुषापेक्षेष्यते सा तर्हि प्रत्यक्षेणार्थमुपल(?भ्य्भ)मानस्य प्राप्नोति । न च मत्प्रसिद्धा युक्तिः साध्यं वा यत्प्रत्यक्षेण परिच्छिद्यते । तत्रास्ति यथात्र साध्यस्य निरालम्बनत्वस्य प्रत्ययत्वस्य हेतोः सिद्धिमिच्छसीत्याह यच्चेति ॥ १४१ ॥ तस्मात्स्वयंसिद्धेनापि परासिद्धेन साध्यार्थप्रतिपत्तिर्न साहसास्पदमित्याह तस्मादिति ॥ १४२ ॥ परिहरति सत्यमिति द्वयेन । अयमभिप्रायः स्यादेतदेवं यदि मत्प्रतिपत्तिमात्रफलमेव साधनवचनं भवेत् । तथा हि किं साधनवचनेनापि अवधायकत्वं बुध्यध्वमित्येतावदुपदिश्येत, सिद्धश्चायं भवतां ज्ञानमात्रं जगदिति, तदा कुतः पुनरिदमवगतमिति पर्यनुयुक्ते त्वमेव जानासीति नैवंविधमुत्तरमुपपद्यत इति ॥ १४४ ॥ कथं नोपपद्यते अत आह स्वयमिति । ज्ञानकारणमनुयुक्ते तदेव वक्तव्यं न मत्प्रसिद्धिः । एवं हि मत्प्रसिद्धिवचनमुपपद्यते यद्यगृहीतेन मत्प्रसिद्धेन वा हेतुना साध्यमेतद्भवान् स्वयं प्रतिपन्नः । प्रतिपन्न इति कर्तरि रूपम् । न त्वेतदुभयमप्यस्तीति ॥ १४५ ॥ {२,७६} किञ्च भवदीयपरार्थानुमानलक्षणानुसारेणापि स्वप्रतिपत्तिप्रकाशनफलमेव साधनवचनं येनैवमुक्तम् । परानुमानं तु स्वदृष्टार्थप्रकाशनमिति, अतोऽवश्यं स्वज्ञानकारणमवस्थापनीयमित्यभिप्रायेणाह न चेति । स्वनिश्चयहेतोः प्रतिपादनादन्यत्र साधनवचनं न प्राश्निकान् सभ्यान् प्रति व्याप्तियते । ते हि प्रतिपाद्याः । व्युत्थितस्तु यदि वैयात्यादुपपादितमपि न बुध्यते, किमत्र विधेयम् । प्राश्निकप्रश्ननिश्चयात्तु तत्त्वमित्यनादृत्य प्रतिवादिनं प्राश्निकपदं प्रयुक्तवानिति ॥ १४६ ॥ अपि च परबुद्धेरप्रत्यक्षत्वान्मत्प्रसिद्धत्वमपि भवतां दुरधिगममेवेत्याह मत्प्रसिद्धत्वमिति । किञ्च विदितपूर्वमर्थं विवक्षित्वा साधनवाक्यं प्रयुज्यते । तव त्वजानतः किंकृता विवक्षा । न चातत्पूर्वा वाक्यनिष्पत्तिः सम्भवतीति आह कथमिति । जिज्ञासमानेऽपीति । न तावदहं जिज्ञासमानः व्युत्थितत्वात् । अतस्त्वन्निग्रह एव मम सर्वथा विधेयः । यद्यपि जिज्ञासुरहं, तथापि भवतो विवक्षाकारणं नोपलभ्यते पूर्वविज्ञानाभावादिति । यत एव स्वासिद्धं वक्तुमशक्यम्, अत एव वृद्धेरपि भवदीयैरुभयसिद्धहेतुत्वं भाषितं न परसिद्धिपरमित्याह इतीति ॥ १४८ ॥ यदि तु मत्प्रसिद्धिमात्रेण हेतुत्वं भवेत्, तेन तर्हि यथा त्वं मत्प्रसिद्धेन हेतुना मम साध्यज्ञानमाधातुमिच्छसि । एवमहं मत्प्रसिद्धैरप्यमीभिर्भवदसिद्धैर्हेत्वादिभिस्तत्तन्न्यूनतोद्भावनेन नानाविधैर्दूषणैस्तवाज्ञानमाधातुमिच्छामि । मत्प्रसिद्धा अपि हेत्वादयः तवासिद्धा इति ते भवति दूषणम्{२,७७}को विशेषः यत्स्वयमसिद्धं साधनमुच्यते न दूषणम् । अतोऽनभिज्ञस्य परार्थानुमानप्रयोगानुपपत्तिरित्यभिप्रायेणाह तेनेति ॥ १४९ ॥ या चेयं भवतो मृष्टाशा स्वासिद्धैर्हेत्वादिभिः किल मया साध्यं बोद्धव्यमिति, साप्ययुक्ता । तवैव ह्यतत्साधनात् । साध्यं बुध्यमानस्य ममापि प्रतिघातो भवेत् । साध्यसाधनयोरितरेतरप्रतिघातावगमादित्याह यथेति चतुर्भिः । निगदव्याख्यानाः श्लोका इति ॥ १५३ ॥ हेतुप्रतिज्ञाविरोधाख्यमपि निग्रहस्थानमापद्यते इत्याह विस्पष्टश्चेति । अक्षपादेन हेतुप्रतिज्ञाविरोधो[७१९]निग्रहस्थानमित्युक्तम् । उदाहृतं च, शब्दो नित्यः सर्वस्यानित्यत्वादिति । नित्ये हि शब्दे न सर्वानित्यत्वं सर्वानित्यत्वे वा न तदन्तर्गतस्य नित्यत्वमिति हेतुप्रतिज्ञयोरितरेतरविरोधो निग्रहाधिकरणमिति, तदिदं भिक्षुणा दूषितम् । उक्तं च नायं हेतुः वैधर्म्यवचनत्वात् । यदाह __________टिप्पणी__________ [७१९] धे (ङा) ___________________________ दृष्टान्तोऽभिहितो ह्येष वैधर्म्येणासुशिक्षितैः । इति । हेतुर्हि पक्षधर्मो भवति । न च सर्वस्यानित्यता शब्दधर्मः, कथमसौ हेतुः वैधर्म्यदृष्टान्तस्त्वसौ नित्यत्वस्य । न हि ततोऽन्यः साध्यविपक्षभाग{२,७८} भवति । इह च नित्यता साध्या, तद्विपक्षोऽनित्यता । तद्युक्तं सर्वं वैधर्म्यदृष्टान्त एवेति । तदत्रेदमाकूतं यन्नित्यं न भवति तत्सर्वं, नायं सर्वमतोऽसर्वत्वान्नित्यः शब्द इति । असर्वत्वं हेतुः, अतः सर्वस्यानित्यत्वमहेतुरिति न हेतुसाध्ययोर्विरोध इति । पुनश्चोक्तं वैधर्म्यवचनमपि नेदं समञ्जसमभावनियमस्य विपरीतत्वाथेत्वभावे ह्यत्र सर्वत्वे साध्याभावस्यानित्यत्वस्य प्रदर्शनं कृतम् । साध्याभावे तु वैधर्म्यदृष्टान्ते हेत्वभावो दर्शयितव्यः । व्याप्तिविपर्ययस्यानुमाने वक्ष्यमाणत्वात् । तदिहानित्यत्वस्य सर्वत्वादिति वक्तव्ये सर्वस्यानित्यत्वादिति वचनं सुशिक्षितत्वाद्वैधर्म्यवचनस्येति । तदेतदयुक्तं, हेतावस्मिन् विवक्षितेऽक्षपादेन हेतुसाध्ययोर्विरोधोऽभिहितः । यत्त्वपक्षधर्मत्वान्न हेतुरिति, तद्दूषणान्तरं भविष्यति । असर्वत्वं वा कथं हेतुः, तदपीह सर्वान्तर्गतेरसिद्धमेव । अतः कृत्वाचिन्तामात्रेणेदं नैयायिकैरुक्तं हेतावस्मिन् विवक्षिते हेतुप्रतिज्ञयोर्विरोध इति । मा भूद्वा तदुदाहरणम् । इह तु विस्पष्टो विरोधः, यमेतमदृष्ट्वा परैर्बौद्धैरुक्तं न प्रतिज्ञाहेतुर्विरोधो दूषणमिति । किलशब्दोऽरुचौ । अत्रोदाहरणं विस्पष्टत्वाद्विरोधस्येति ॥ १५४ ॥ अत्र चोदयति नन्विति । संसारावस्थायामनुमानानुमेयव्यवहारः । अत्र च हेत्वादयो लोकप्रसिद्धा एव । लोक इति लौकिकसंवृतिसत्यमपदिशति । अतः संवृतिसत्यसिद्धेन हेत्वादिना साध्यसिद्धिरासीदेव प्राक्, परमार्थावस्थायां तु सर्वाभावमाचक्ष्मह इत्यवस्थाभेदाददोष इति ॥ परिहरति योऽधुनेति । यदि हि तद्बाधकबलेन नास्तीत्युच्यते, प्रागपि नासीदेव । बाधकेन तत्प्रागपि प्रतिक्षिप्तं रजतमिव शुक्ताववगतिक्षणादारभ्य । अतः प्रागप्यसतः कथं साधनत्वमिति ॥ १५६ ॥ {२,७९} प्राक्साधनत्वाभ्युपगमे वा परमार्थास्तित्वमापद्यत इत्याह साधनेति । कारणमाह सिद्धिरिति ॥ १५९ ॥ किमिति न युज्येत, अत आह न दृष्टेति । नात्यन्तमसतः साधनत्वं दृष्टं शशविषाणवदित्यनुमानमन्तर्णीतं, क्वचिद्दृष्टस्यापि रूपस्यान्यत्रोपचरितस्य परमार्थोपायता नास्ति । किमुतात्यन्तासतो हेत्वादेरित्याह बाष्पादिनेति ॥ १५८ ॥ उपसंहरति तस्मादिति ॥ १५९ ॥ ननु वर्णात्मना असत्यानामपि रेखादीनां परमार्थवर्णोपायता दृष्टा, अतो नैकान्तिकोऽसत्यत्वं हेतुरत आह येऽपीति । विपक्षवृत्तिर्हि हेतुरनैकान्तिको भवति । न च परमार्थोपायेषु रेखादिष्वसत्यत्वमस्ति, स्वरूपसत्यत्वात् । तेन च रूपेण वर्णबोधोपायत्वात् । तद्दर्शिनो हि स्मृतसङ्केतस्य वर्णा बुद्धौ भवन्तीति ॥ १६० ॥ ननु भवन्तु स्वरूपसन्तः । वर्णात्मना तावदसत्या एव, अत आह वर्णेति । सर्वे हि भावाः स्वरूपेण सन्तः पररूपेणासन्तः । केनचिद्विशेषेण रेखोदाहरणमिति ॥ १६१ ॥ {२,८०} न चैष प्रकारोऽत्यन्तासतां हेत्वादीनां सम्भवतीत्याह स्वरूप इति । असत्यमपि केनचिद्रूपेण सदेव रूपान्तरेण भवति । न हि निस्स्वभावमिति नाप्यसत्यतेत्युक्तमिति ॥ १६२ ॥ एतदेव स्फुटयति हेत्वादीनामिति । अत्र च बाष्पादीनामिवाग्न्यादावुपायत्वं हेत्वादीनां, न परमार्थेन तु लेख्यवदित्याह तेनेति । हेतुत्वाभावप्रतिपादनपरमिदमिति ॥ १६३ ॥ अत्र चोदयति उपायानामिति । किमिदं निस्स्वभावत्वमुपायानामापद्यते । संवृत्यात्मका हि ते । तेन च रूपेण सन्त एवेति ॥ १६४ ॥ परिहरति संवृत्येति । सांवृतं हि रूपं वाङ्मात्रनिर्मितं, न परमार्थोपायो भवतीति ॥ १६५ ॥ अपि च, परमार्थाल्लोकस्य संवृतिसत्यस्य भेदे न हेतुरस्ति, तद्भेदग्राहिणोऽपि ज्ञानस्य मिथ्यात्वादित्याह परमार्थेति । अपि च यदि परमार्थोऽपि लौकिकोपायगम्यः, न तर्हि परमार्थः, लौकिकोपायगम्यत्वाद्बाष्पादिवाग्निरवगम्यमान इत्याह लौकिकेति । पूर्वं च सत्यभेदो निराकृतः । इदानीं सांवृतस्य परमार्थोपायतेति विवेकः । नन्वसत एव श्रुत्यादिप्रपञ्चात्प्रपञ्चविलयात्मनो ब्रह्मणो निरूपणं वेदान्तविद्भिरिष्यते । यथाहुः {२,८१} भेदप्रपञ्चविलयद्वारेण च निरूपणम् । इति । विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ इति । किमुक्तम् । विद्यारूपं च ब्रह्म, अविद्यारूपं च श्रुत्यादि । तदुभयमपि यः सह वेद सोऽविद्योपलक्षितं मृत्युं तीर्त्वा विद्यारूपेणोपलक्षितं ब्रह्मानन्दं प्रतिपद्यत इति । तदेवमविद्यात एव विद्याप्राप्तिरिष्यते इति । किमपराद्धमेवं ब्रुवाणैरस्माभिः । नैष नः सिद्धान्तः यदसन्नेव श्रुत्यादिप्रपञ्चो ब्रह्मणि प्रमाणमिति । तेषामपि प्रत्यक्षादिप्रमाणसिद्धानामशक्यापह्नवत्वात् । यथा हि सोऽयमिति प्रत्यक्षसिद्धः प्रत्यगात्मा, एवं तेष्विति तद्वदेव सम्यञ्चो भवितुमर्हन्ति । तस्य च पूर्वोत्तरकर्मनिरोधानुत्पादाभ्यां विगलितभोगभोगायतनस्य कैवल्यं मोक्षमाचक्ष्महे, न प्रपञ्चविलयम् । एकमेवाद्वितीयमित्यादिवेदान्तास्त्वर्थवादान्तरवद्विषयवैराग्यप्रतिपादनपरतया कथञ्चिद्गमयितव्याः । स एष नेति नेतीतिकरणेन स्पष्टमेव बहिर्विषयसद्भावमुपदर्शयति । एष इत्यपरोक्षनिर्दिष्टस्य ब्रह्मणो विषयविवेकमात्रं कथयति न तदभावम् । श्रुत्यादिषु चाविद्यावादो ब्रह्मणः प्रशंसार्थः । अपशवोऽन्ये गोश्वेभ्यः इतिवत्पश्वन्तरेष्वपशुवादः । अतो न क्वचिदपरमार्थस्य परमार्थोपायता । अस्तु वा नित्यनिर्दोषवेदान्तसिद्धमप्रपञ्चं ब्रह्म । न तु क्षणिकसंवेदनप्रवाहात्मकं द्वैतं कुतश्चित्प्रमाणादवगच्छाम इत्यलम्बनेनापि ॥ १६६ ॥ प्रत्यवस्थानान्तरमिदानीं बौद्धस्योपन्यस्यति नन्विति । एवं हि मन्यन्ते यद्यपि बाह्यो हेत्वादिरर्थो नास्ति, तथापि बुद्ध्यारूढेनैव हेत्वादिनानुमानानुमेयव्यवहारः सेत्स्यति । अनादिवासनोपप्लाविता हि हेत्वादिविकल्पविभागा भवन्ति हेतुरयं दृष्टान्तोऽयमित्यादयः । विकल्प इति सविकल्पिकां बुद्धिमाचक्ष्महे । अतो वासनाभेदाद्बुद्धिभेदः, तद्भेदाद्धेत्वादिभेद इत्युक्तं भवति । अवश्याभ्युपगम(?नियं नीय)श्चायं भवद्भिरपि । बुद्धिनिबन्धनो धर्म्यादिभेदः । न ह्यनित्यः शब्दः कृतकत्वादिति{२,८२}परस्परं धर्मिणो वा भिन्नयोर्हेतुसाध्ययोरवगतिरस्ति । अतो ज्ञानभेदनिबन्धन एवात्र भिन्नत्वव्यवहारः । सर्वत्रैव च ज्ञानमेव भेदनिबन्धनम् । सुदूरमपि गत्वा युक्तिभिरनुसंहितो भेदो ज्ञान एव पर्यवस्यति । अतोऽस्तु तन्निबन्धन एव सर्वत्र भेदः । देशादिभेदादपि हि भेदं ब्रुवाणस्तद्भेदं पर्यनुयुक्तो ज्ञानभेदमेवालम्बते । तावतापि व्यवहारसिद्धौ किं प्रकारान्तरेण भेदोऽनुस्रियत इति । अत्राप्यग्निधूमादौ कृतकानित्यत्वविलक्षणः स्फुटो भेदावग्रहो भवति । तत्रापि न जातिभेदो निबन्धनमिति वाच्यम् । सोऽपि चाग्निधूमशब्दनिर्मित एव । न हि संवृतिकल्पनादन्येन प्रकारेण जातिभेदमुपलभामहे । अतः शब्दभेदेऽर्थविकल्पविलासिता एवाग्नित्वादय इति । इदं च बाह्यनिराकरणपरतयानास्थयोक्तम् । न शब्दभेदोऽपि विज्ञानभेदाद्विना सम्भवति । सोऽपि ज्ञानमात्रप्रभावित एवाभ्युपेत्य बाह्यहेत्वादिविकल्पविभागार्थमुक्त इति ॥ १६७ ॥ अयमेवास्मदीयतन्त्रकाराणां सिद्धान्त इत्याह न्यायविद्भिरिति । न्यायविद्भिर्हि दिङ्नागाचार्यैरिदमुक्तं सर्व एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वमपेक्षत इति ॥ १६८ ॥ एतदपि दूषयति अस्तीति । नासतः शशविषाणादेः शब्दनिबन्धनः तज्जनितबुद्धिनिबन्धनो वा भेदो दृष्ट इति दुरुक्तमिदमपरेषां बुद्ध्यारूढेनानुमानानुमेयव्यवहार इति ॥ १६९ ॥ अपि च अस्तु बुद्धिशब्दभेदनिबन्धनो हेत्वादिभेदः, तयोरेव तु कथमकस्मादुद्भवः । न ह्यकारणिका कार्योत्पत्तिः सम्भवति । न च शून्ये जगति{२,८३}तयोः कारणमुत्प्रेक्षितुमपि शक्यत इत्याह निर्वस्तुक इति । यश्चायं शब्दभेदो हेत्वादिभेदहेतुतयोपवर्णितः, सोऽपि तदभावादनुपपन्न इत्याह शब्देति ॥ १७० ॥ किञ्च यद्यविद्यमान एव बुद्धिमात्रकल्पितः साध्यादिभेदोऽनुमानव्यवहाराय कल्प्यते, ततो दूषणव्यवहारोऽपि तद्वदेव स्यात् । उत्पद्यते खल्वस्मिन् साधने हेत्वादिन्यूनतोक्तिमात्रादेव दूषणबुद्धिरित्याह यदि वेति द्वयेन ॥ १७२ ॥ शक्यते च वदितुमेवमपि सर्व एवायं दूष्यदूषणव्यवहारो बुद्ध्यारूढेन दूष्यदूषणन्यायेन, न बहिः सदसत्त्वमपेक्षत इत्याह यश्चेति ॥ १७३ ॥ नन्वेवमप्यावयोरविशेष एव, यथा हि नो दूषणज्ञानमुत्पन्नमेवं भवतोऽपि साधनज्ञानम् । अतः कथं विजयसे अत आह बुद्धीति । अयमावयोर्विशेषः बुद्धिमात्रव्यवहारिणो भवतो मदुक्तदूषणं सिद्धमिति न ते पक्षः सिध्यति । त्वदुक्तं तु साधनमस्माकमसिद्धमिति न साध्यं प्रतिपद्यामह इति ॥ १७४ ॥ कथं साधनमसिद्धमत आह बाह्येति । बाह्यार्थव्यवहारिणो हि वयं, न त्वमिव ज्ञानैकशरणाः । तत्र कथमसति बाह्ये बुध्यामह इति ॥ १७५ ॥ {२,८४} पुनरपि परश्चोदयति नन्विति । यथा हि मे साधनमसिद्धम्, एवं दूषणमपीति न दुष्टं साधनमिति ॥ १७६ ॥ मीमांसकस्तु पाशुपतोऽयमेवंवादी यद्विहाय साधनमभावाद्दूषणस्याप्यदुष्टत्वमातिष्ठत इति सापहासमाह नेदानीमिति ॥ १७७ ॥ यश्च वासनाभेदनिबन्धनो विकल्पप्रविभागो वर्णितः, सोऽपि तद्भेदनिमित्ताभावादनुपपन्न इत्याह न चेति । ननु ज्ञानभेदादेव वासनाभेदो भविष्यति, कथं निमित्ताभावः । न, तद्भेदस्यैव निर्निमित्तत्वाद्, वासनानिबन्धने तु तद्भेदेऽन्योन्याश्रयत्वमित्याशङ्कया सहाह ज्ञानेति । ननु स्वभावभिन्नमेव ज्ञानं वासनाभेदनिबन्धनं भविष्यति, कथमन्योन्याश्रयत्वमत आह स्वच्छस्येति । स्वच्छस्य हि ज्ञानात्मनः स्वयमनुपलभ्यमानभेदस्यानादिवासनोपप्लावितनीलाद्याकारकलुषितत्वमेव भेदकारणमिति बौद्धैराश्रितम्, अतो दुरुत्तरमितरेतराश्रयमिति ॥ १७९ ॥ नन्वनादित्वादेव बीजाग्कुरवदितरेतराश्रयपरिहारो भविष्यत्यत आह प्रमाणमिति । प्रसिद्धात्मनोर्हि बीजाङ्कुरयोरनादित्वाद्भवति दोषपरिहारः । वासना त्वस्ति भिन्ना चेति न किञ्चित्प्रमाणं क्रमते । यो हि{२,८५}बहिर्देशसम्बद्धं प्रत्यक्षमर्थमवजानीते, स कथं वासनामनुजानाति । तदनुज्ञाने वा किमपराद्धं भावान्तरैरिति । अपि च पूर्वानुभवप्रभावितं स्मरणहेतुसंस्कारमेव वासनामाचक्ष्महे । तदसौ सत्यपि ग्राहकं ज्ञानमेव विविधमुपकल्पयति । यत्तु विचित्रा बहिर्भावा भासन्ते तत्कस्य हेतोरिति न ज्ञायत इत्याह कुर्यादिति ॥ १८० ॥ न ग्राह्यभेदे वासना कारणमित्यत्रोपपत्तिमाह संवित्त्येति । स्मृतिहेतुर्हि वासना । न चानुभूतात्स्मृतिरधिकं मात्रयापि गोचरयति । न च बहिरत्यन्तासन्तो भावाः क्वचिदपि गृहीतपूर्वा इति न तान् वासना स्मारयितुं प्रभवतीति । किञ्च, अतश्च वासना नोपपद्यते यत्कारणं क्षणिकानि ज्ञानानि निरन्वयविनाशीनि परस्परमसहितानि चेत्याह क्षणिकेष्विति । यथा तावत्क्षणिकानां निरन्वयविनाशिनां च न वासना, तथोपरिष्टाद्वक्ष्यतीति ॥ १८१ ॥ असाहित्यान्न वासनेत्युक्तार्थमेव प्रपञ्चयति पूर्वेति । साहित्याभ्युपगमेऽपि समवायाद्यन्यतमलक्षणसम्बन्धाभावाद्वासना नोपपद्यते । न ह्यसम्बन्धः कालागरुधूमोऽगारं वासयतीत्याह साहित्येति ॥ १८३ ॥ क्षणिकत्वान्न वासनेत्युक्तम्, अत्र कारणमाह क्षणिकत्वादिति । व्यापारनिबन्धनो हि वास्यवासकभावः कारकविशेषत्वात्तस्य । न च क्षणिकं पूर्वमुत्तरं वा तयोरेव व्याप्रियत इति सम्भवति । ननु जन्मैव बुद्धेर्{२,८६}अर्थपरिच्छेदे व्यापार इत्युक्तम्, तद्वद्वासनायामपि भविष्यति । न, दुष्टत्वादुपपत्तेः । दृश्यते खलूत्पद्यमानै(?रे)व बुद्धिरर्थं परिच्छिन्दन्ती । न ह्यसौ क्षणमप्युदास्ते । न चार्थपरिच्छेदादन्यत्र व्याप्रियत इति युक्तम् । जन्मनैव व्यापारेण कारकत्वं, न ज्ञानान्तरं वासयन्ती जायमाना बुद्धिर्दृश्यत इति कथं वासनायां जन्मना कारणत्वम् । न च जन्मापि किञ्चिद्बौद्धा मन्यन्ते यन्निबन्धनः कारणभावो भवेत् । अस्माकं तु समवायिकारणदशाविशेषः कोऽपि कार्यस्य जन्मेति मतम् । स च जायमानान्नात्यन्तभिन्न इति युक्तं क्रियाकार(?का।क)भाव इति । निरन्वयविनाशित्वान्न वासनेत्युक्तम् । तत्र कारणमाह विनश्यदिति । यद्धि स्वलक्षण एव निरुद्धं न केनचिद्रूपेणान्वेति न तत्तदीयं वा रूपं वास्यत इति सम्भवति । तथा वासकमपि यन्निरन्वयविनष्टं तत्केनात्मना परं वासयति । अवस्थिता एव हि भावा गृहादयोऽवस्थितैरेवागरुधूमादिभिर्वास्यन्त इति दृष्टम् । अयं चावीतहेतुरुन्नेतव्य इति ॥ १८४ ॥ अत्र चोदयति अवस्थित इति । अवस्थान्तरोपजननापाययोस्तदभिन्नस्यावस्थावतो नाशोत्पादाभ्यामवस्थितत्वानुपपत्तिः । अवस्थितत्वे वा पूर्वावस्थायामिवोत्तरत्रापि अवासनाप्रसङ्ग इति । अस्मन्मते तु भङ्गुरमुत्तरं पूर्वं च ज्ञानं, नावस्थितः कश्चिदेको ज्ञाताप्रच्युतप्राच्यरूपः । तदिह भङ्गुरपक्षे पूर्वसादृश्यात्ततो भिन्नस्योत्तरस्य युक्तैव वासना । एषैव तु वासना यत्पूर्वसारूप्यमुत्तरस्य । यथा लाक्षारसोपसिक्ते बीजपूरकुसुमे फलं तद्रूपं जायमानं तत्त्वान्वितमित्युच्यते । यत्तु व्यापारविरहादकारकत्वमुक्तं, तदयुक्तम् । न व्यापारतः कारकत्वम्, अपि तर्हि पूर्वभावात् । भावातिरेकिणो व्यापारस्यानुपपत्तेः । यच्चेदं पूर्वस्योत्तरकारणत्वम् इदमेव वासकत्वं पूर्वेणोत्तरं{२,८७}वास्यत इति । कोऽर्थः । स्वरूपं जन्यत इति । अतो भङ्गुरवादिनामेव वासनोपपत्तिमती न स्थिरवादिनामित्याह भङ्गुर इति ॥ १८६ ॥ तदिह स्वमतसाधनमुपेक्ष्यैव तावत्परमतदूषणमभिधीयते । दूषिते हि तस्मिन् सुखेन सिद्धान्तोऽभिधीयते । तत्र यत्तावदुक्तं सद्रूपज्ञानजनकत्वमेव वासनेति । तदयुक्तम् । यदि हि पूर्वज्ञानमुत्तरस्य जनकं भवति, ततोऽनुरूपं विरूपं वा जनयति, न तदुत्तरस्य जनकम् । अनुत्पन्नस्यासतो जनकत्वायोगात् । एवं विनष्टस्यापि, अजातातिवृत्तयोरनतिभेदात् । न च निष्पन्नस्य क्षणमप्यवस्थानमस्तीति कदा जनयिष्यतीति जनकत्वानुपपत्तौ दूरोत्सारितमनुरूपजननम् । न हि निरन्वयविनष्टस्य किञ्चिदनुरूपं सम्भवति, धर्मान्वयो हि आनुरूप्यम् । न पूर्वधर्मान्वय उत्तरज्ञानेऽस्ति, तदुपगमे निरन्वयविनाशायोगात् । न च समानधर्मतामन्तरेणास्ति स प्रकारो येनानुरूप्यं भवतीति । तदेतत्सर्वमाह नैतदस्तीति सार्धतृतीयेन । ननु पूर्वभावितैव कारकत्वमित्युक्तं किं क्षणान्तरावस्थानेन । न च व्यापारकारणभावः येन तत्सम्बन्धार्थं क्षणान्तरावस्थानमिष्यते तदभावादित्युक्तमेव । मैवम् । न हि पूर्वभावितामात्रं कारणत्वमिष्यते । मा भूद्गवाश्वस्यापि पौर्वापर्यमात्रात्कार्यकारणभाव इति पौर्वापर्यनियमे तु कार्यकारणत्वम् ।[७२०]न चासौ क्षणिकेषु सम्भवति । व्यापारस्तु प्रत्यक्षादिप्रमाणको नापह्नोतुं शक्यत इति ॥ १८९ ॥ __________टिप्पणी__________ [७२०] णकत्वम् (Kआ) ___________________________ {२,८८} दूषणान्तरमाह यदीति सार्धेन । यद्यपि ह्यानुरूप्याद्वासनेत्युच्यते यदा तर्हि गोबुद्धेरनन्तरं हस्तिबुद्धिरुत्पद्यते तत्रैव वैलक्षण्याद्वासना न स्यात् । ततोऽपि परस्ताद्गोज्ञानं निर्बीजं न सम्भवेदिति । प्रदर्शनार्थं च गोहस्तिज्ञान उक्ते सर्वमेव विलक्षणाद्विलक्षणज्ञानं न स्यादित्याह सर्वमिति ॥ १९१ ॥ एवं तावदानुरूप्यवासनापक्षो निराकृतः । इदानीं पुनरपि ज्ञानातिरिक्तवासनापक्षमेवोपसङ्क्रम्य दूषणान्तरमाह बाह्येति । बाह्यार्थवादिनां हि पूर्वज्ञानजनिता आत्मस्था वासनाः किञ्चिदेव सदृशदर्शनाद्यपेक्ष्य लब्धोद्बोधाः कार्यं जनयन्ति क्रमेणेति युक्तम् । ज्ञानमात्रवादिनस्तु न किञ्चिद्वासनानां कार्यजननेऽनुग्राहकमस्ति यदपेक्षया विलम्बन्ते । अतो युगपदेव सर्वाः सर्वं कार्यमारभेरन्निति न क्रमेण जानानि दृश्येरन् । एकदैव विश्वज्ञानमुत्पन्नमिति क्षणान्तरे न किञ्चित्स्यात् । न चासां किञ्चिद्रूपमन्वेति यत्पुनः कार्यं जनयेत् । निरन्वयविनाशित्वान्न क्वचिदन्यत्र वासनानां पारार्थ्यं यथास्माकमात्मनि, संस्कार्यान्तराभावात् । अतः पारार्थ्येन वशीकाराभावादपि न क्रमो युक्तः । पारार्थ्येन ह्यस्माकमिव बोद्धुरवधानाद्यपेक्षया स्मृतिक्रम इव ज्ञानक्रमो भवेदपि । न त्वेतत्सर्वमस्तीति कार्यक्रमानुपपत्तिरिति ॥ १९२ ॥ किञ्चैता वासनाः क्वचिदाश्रिता न वा । यद्याश्रिताः, ज्ञानातिरिक्तस्य{२,८९}कस्यचिदभावात्तदाश्रिता वाच्याः । तत्रैकज्ञाननाशे सकलतदाधारवासनाविनाशः । कारणविनाशादेव कार्यारम्भ इति वः सिद्धान्तः, प्रकारान्तरकारणत्वायोगात् । विनश्यदेव हि कारणं कार्यं जनयतीति युगपन्नश्यन्तीभिर्वासनाभिः सकृदेव सर्वाकारज्ञानमुत्थापितं तथावस्थितं च एकदैवैकक्षणे विनष्टमिति क्षणान्तरे न किञ्चिद्भवेदित्याह विनाश इति द्वयेन ॥ १९४ ॥ यदि त्वाश्रयभूतज्ञानविनाशेऽपि शक्तिर्वासना न नश्यन्तीत्युच्यते, ततः क्षणिकत्वसिद्धान्तहानिः । स्थिरस्य च क्रमयौगपद्याभ्यामर्थक्रियानुपपत्तेः कार्यानारम्भप्रसङ्ग इत्याह यदीति ॥ १९५ ॥ यदि तु स्वतन्त्रा एव ज्ञानवद्वासनाः प्रवृत्ता इत्युच्यते, ततो ज्ञानवासनयोरितरेतरकार्यकारणभावानुपपत्तिरित्याह वासनेति ॥ १९६ ॥ किमिति न स्यादत आह कुर्यातामिति । सदृशमेव हि तदा ज्ञानवासने कार्यमारभेयातां ज्ञानं ज्ञानं वासना वासनां न पुनरन्योन्यमिति । ननु विजातीयकारणोपनिपाताद्विसदृशकार्योत्पादो भविष्यत्यत आह नान्य इति । द्वयातिरिक्तवस्त्वभावादिति भावः ॥ १९७ ॥ अतः संवृतिसत्यरूप इव वासना कल्पिता न परमार्थतः{२,९०}काचिदस्तीत्याह तस्मादिति । न चैवञ्जातीयकं कस्मैचित्कार्याय घटत इति प्रागेव वर्णितमित्याह न चेति ॥ १९८ ॥ स्वमत इदानीं वासनामुपपादयति यस्य त्विति । अवस्थितो हि ज्ञाता यज्ज्ञानाभ्यासेन वासनाधारो भवति तद्युज्यते । क्षणिकं तु न वासयितुं शक्यम् । न च तदासना प्रयोजनवती, क्वचिदुपयोगाभावात् । न च वासितः पूर्वावस्थातोऽत्यन्तं भिद्यते, येनान्यत्वं प्रतिपद्यते । न च प्राग्वदविशिष्टः, येन वासना न स्यात् । न चावस्थान्तरोत्पादेऽवस्थितत्वानुपपत्तिः, पूर्वापरयोरवस्थयोरनुगतस्य बोद्धुः प्रत्यभिज्ञानात् । तदिहावस्थातद्वतोरभेदविवक्षायां पूर्वज्ञानाहितसंस्कारः पुमानेव वासना भवेत् । भेदविवक्षायां तु तदाधार इति ॥ १९९ ॥ यत्त्वानुरूप्यवासनापक्षे लाक्षोपसिक्तं बीजपूरकुसुममुपवर्णितं, तत्तद्रूपसङ्क्रान्तेरुपपन्नम्, न तु ज्ञानस्य किञ्चिद्रूपं ज्ञानान्तरं सङ्क्रामति निरन्वयविनाशित्वादित्युक्तमेवेत्याह कुसुमेति तस्यान्तेन । प्रकरणार्थमुपसंहरति इत्यवासनेति ॥ २०० ॥ किञ्चेयं वासना तत्त्वदर्शिभिर्बौद्धैर्वस्तुतो वर्णितेति नेदं सम्भावयामः । असतीमेव तु युक्त्यानुपेतां युक्तिशून्यां वासनां विकल्प्य विषयेष्वास्थां{२,९१}निवर्तयितुमर्थनिराकरणमुक्तमेकमेवाद्वितीयमित्याद्युपनिषद्भिरिव । तत्रैव त्वर्वाचीनानां भ्रान्त्या सिद्धान्तावग्रह इति निराकृतं वादिनमाश्वासयतीति युक्त्येति ॥ २०१ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां निरालम्बनवादः समाप्तः ॥ ००४ शून्यवाद अथ शून्यवादः अत्र भाष्यं शून्यस्तु । कथम् । अर्थज्ञानयोराकारभेदं नोपलभामहे । प्रत्यक्षा च नो बुद्धिः । अतस्तद्भिन्नमर्थरूपं नाम न किञ्चिदस्तीति पश्यामः इति । तत्र यः शून्यो येन च शून्यः तदुभयानुपादानात्शून्यस्त्विति प्रतिज्ञावचनमसङ्गतार्थम् । यदि तु पूर्वसाधनवाक्यगतप्रत्ययशब्दानुषङ्गेण शून्यः प्रत्ययः तद्भिन्नमर्थरूपं नाम न किञ्चिदस्तीति चोत्तरग्रन्थानुसारेणार्थेन शून्य इति व्याख्यायते, ततस्तेनैव गतार्थत्वमत आह एवमिति । अयमेवात्र प्रतिज्ञार्थः प्रत्ययोऽर्थेन शून्य इति । न च गतार्थत्वं, प्रत्यवस्थानहेतुभेदात् । स एव निरालम्बनवादी नास्तिकः प्रत्यक्षादिविरोधदूषितस्वसाधनो दूषणपरिहारेणेदानीं प्रत्यवतिष्ठते । बाह्यार्थग्राहिज्ञानाश्रयणेन हि प्रत्यक्षादिविरोधोऽभिहितः । तत्रेदमुच्यते । न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तमसम्बन्धात् । असम्बन्धप्रकाशने चातिप्रसङ्गात् । एकरूपोपलब्धेश्च ज्ञानप्रवृत्तिविषयासिद्धेः । एकं हीदं नीलमिति नीलं प्रकाशते । तदेकमेव युक्तम्, विभागानवगमे तदभ्युपगमायोगात् । तदिदमुक्तमर्थज्ञानयोराकारभेदं नोपलभामहे इति । अत एवायमनादिकालीनवासनोपप्लावितनिखिलनीलाद्याकारप्रकाशः । नात्र केनचिद्बाह्यमवस्थाप्येत, येन तदपलापे प्रत्यक्षादिविरोधो भवेत् । अतः स एवायं पक्षो दूषणपरिहारेण पुनरनुप्राणितः । तदेतत्प्रागप्युक्तं प्रत्यक्षबाधने चोक्ते पश्चात्तच्छक्त्यवेक्षणात् । इति ॥ १ ॥ {२,९२} अत्र पूर्वपक्षं विवक्षन् संवित्परीक्षां तावदवतारयति यत्तावदिति । यद्यादृशं बाह्यार्थग्राहि प्रत्यक्षं मन्यमानेन भवता मीमांसकेन प्रत्यक्षविरोधादिदूषणं निरालम्बनसाधनस्योच्यते, तदिदानीं परीक्ष्यताम् । प्रत्यक्षपरीक्षामुखेन चात्र संविन्मात्रपरीक्षैवोपक्षिप्ता । सर्वसंविदामेव बहिर्विषयत्वानभ्युपगमात् । मुख्यतया तु प्रत्यक्षपरीक्षोपन्यास इति ॥ २ ॥ कीदृशी पुनरियं परीक्षेति तत्स्वरूपं दर्शयति प्रवर्तितुमिति । किमिदं प्रत्यक्षं बाह्ये प्रवर्तितुं शक्तमाहोस्वित्स्वांशपर्यवसायीतीदृशी परीक्षा । परीक्षा च संशय्य पूर्वोत्तरपक्षबलनिरूपणमभिधीयते । तदनेन प्रथमस्य परीक्षापर्वणः स्वरूपमुपन्यस्तमिति वेदितव्यमिति ॥ ३ ॥ आह वक्ष्यति भवान् संवित्परीक्षाम् । किमस्याः प्रयोजनमिति वक्तव्यम् । अप्रयोजनस्य हि सन्दिग्धस्य काकदन्तवदपरीक्षणीयत्वादत आह तद्यदीति । अयमभिप्रायः सर्वपूर्वाक्षेपेणायं वाद उद्भवति । सर्वाक्षेपेषु च पूर्वाधिकरणस्यैव प्रयोजनम् । यथा वक्ष्यति आक्षेपे पूर्वाधिकरणस्येति । तद्यदि बाह्यार्थग्राहि प्रत्यक्षमुपपादयितुं शक्ष्यामः, ततो दूषणसिद्ध्या बाह्यार्थपरं वक्ष्यामः । यदि त्वात्मांश एव सर्वसंविदां ग्राह्यो भविष्यति, ततो दूषणबाधनात्साधनसिद्धौ नास्तिकस्य बाह्यापलापः सेत्स्यति । तदियं बाह्यार्थसिद्धावेव परीक्षोपयुज्यत इत्यवतार्यत इति ॥ ४ ॥ सा पुनरियमनाश्रया संविच्छक्तिपरीक्षेति नास्तिकैकदेशिनः प्रत्यवतिष्ठन्ते ।{२,९३}ते हि ग्राह्यवैधुर्यदुःरिथताः संविदोऽपि न सन्तीति वर्णयाम्बभूवुः । अतः शून्ये संसारे किं कुत्र प्रवर्तितुं शक्तमशक्तं वेति परीक्ष्यते । अत आह तत्रेति । अयमभिप्रायः नायमुभयापलापः शक्यो वक्तुम् । सर्वप्राणिनामविगानसिद्धत्वान्नीलाद्याकारप्रतिभासस्य । इदं तु चिन्तनीयं सर्वसंविदामेवौपाधिको नीलिमा स्वाभाविको बाह्यस्येति । तुच्छे तु संसारे निर्बीजप्रतिभासो नावकल्पते । अतः परीक्षणीयमिदं किं ज्ञानमेवानादिवासनोपप्लावितनीलाद्याकारम् आत्मगोचरमेवेदं प्रकाशते, परमार्थसन्तं वा बाह्यमर्थं प्रतिपादयितुं समर्थमिति । यदि तत्तावदुपस्थापयति, अतस्तद्बलभुवा प्रमाणान्तरेण तदपि सिध्यतीति । नीलपीतादिदीर्घादीति विविधाकारोपन्यासेन पूर्वपक्षबीजं दर्शयति । नायं व्यवस्थितैकस्वभावो नीलादिराकारो दृश्यते, अव्यवस्थितस्यापि दीर्घादेरौपाधिकस्य दर्शनात् । तात्त्विके वाव्यवस्थानुपपत्तिरिति । एतच्चोपरिष्टाद्व्यक्तीकरिष्यतीति ॥ ५ ॥ नन्वेवमस्तु यथाप्रतिभासमुभयं, तथापि कः परीक्षावसरः । न हि प्रत्यक्षसिद्ध एवोभयस्मिन् परीक्षा युक्ता । अत आह न चेति । अयमभिप्रायः सिध्यत्युभयं यदि ज्ञानज्ञेययोराकारभेदो दृश्यते । तदा हि विविक्ताकारमुभयं भासमानं न नेति शक्यमपलपितुम् । एक एव तु नीलादिराकारो भासते । अतः कथमुभयमविवादसिद्धं भवति यन्न परीक्ष्येत । सूक्ष्मः खल्वयं पण्डितैरुपवेदनीयोऽर्थो न्यायः येनैकत्राकारे भासमानेऽन्यदवस्थाप्यते । नायमपरीक्षकाणां सिध्यति । तदिदमुक्तमर्थज्ञानयोराकारभेदं नोपलभामहे इति भाष्ये । अतो न प्रत्यक्षैकप्रमाणिका द्वैतसिद्धिरिति परीक्षावतरणीया । यथा च नोभयं प्रत्यक्षं तथोपरिष्टाद्वक्ष्याम इति । नन्वेवमाकारभेदानवसाये ज्ञानार्थयोरन्यतरस्य यस्यैवायमाकारो दृश्यते तस्यैवायमभ्युपगन्तुमुचितः, किमत्र परीक्षणीयमत आह न चेति । भवेदेवं यदि ज्ञानार्थयोरन्यतरस्यायमाकार इति विशदतरमवगम्येत । न त्वन्यतरस्य धर्मता तस्य विस्पष्टा । अतो ज्ञानं वा नीलमर्थो वेति युक्तैव परीक्षेति ॥ ६ ॥ {२,९४} नन्वसत्यप्याकारभेदावगमे द्वयोरन्यतरसिद्ध्यैवार्थादितरत्सिध्यति । तथा हि न तावज्जडस्यासति प्रकाशान्तरे प्रकाशः सिध्यतीति ततस्सिद्धिः । अकर्मकज्ञानानुत्पत्तेश्च ज्ञानाद्ज्ञेयसिद्धिरिति द्वैतवाद एव साधीयान् किं परीक्षयात आह गृह्यमाणस्येति । अयमभिप्रायः यदेतन्नीलमित्यत्र ग्रहणे साक्षात्कारिणि प्रकाशते, तस्यैवास्तित्वं नेतरस्येति सौगता भ्राम्यन्ति । अप्रत्यक्षसिद्धेरप्रमाणकत्वात् । तथा हि न तावदान्तरज्ञानाद्बहिर्ज्ञेयसिद्धिः, असम्बन्धात् । असम्बन्धप्रकाशने चातिप्रसङ्गात् । ज्ञेयाच्च ज्ञानसिद्धेरप्रमाणकत्वमनन्तरमेव वक्ष्यामः ग्राहकं निष्प्रमाणकमिति । अतः प्रत्यक्षावभासिनोरेवोभयोरात्मलाभः सम्भवतीति । न चाकारभेदोपलम्भोऽस्तीत्युक्तम्, अतो न स्फुटा द्वैतसिद्धिरिति परीक्षा प्रतिपादयितव्येति भावः । यतश्च गृह्यमाणस्यास्तित्वं, तस्मादेकमेवेदमाकारवद्वस्त्विदं नीलमिति गृह्यते तदेकमेवापद्यते, न तु तत्त्वान्तरमाकर्षतीत्यभिप्रायेणाह तस्मादिति ॥ ७ ॥ एवञ्च परेषु भ्राम्यत्सु नापरीक्ष्यनिरूपणं कर्तुं शक्यम् । तद्यदि नः परीक्षमाणानां परोक्ताभिर्युक्तिभिर्ज्ञानमेवाकारवदिति समर्थनमभविष्यत्ततस्तन्मात्र एव प्रत्यक्षप्रमा क्षीणेति नार्थोऽवकल्पिष्यते । अथ तु बाह्यमेव वस्त्विदमिति प्रतिभासानुसारेणाकारवदिति समर्थ्यते, ततस्तत्तावत्प्रत्यक्षगृह्यमाणमस्तीति स्थिते तत्सिद्ध्यन्यथानुपपत्त्यैव वक्ष्यमाणप्रकारे(ण) बुद्धिसिद्धौ मम द्वैतं सिध्यतीत्यभिप्रायेणाह अत इति द्वयेन ॥ ९ ॥ {२,९५} एवं तावत्प्रत्यक्षपरीक्षां प्रस्तुत्य तत्स्वरूपप्रयोजनारम्भाक्षेपसमाधानाद्युक्त्वा पूर्वपक्षं ग्रहीतुकामो मीमांसकः स्वगोत्रानुसारेण स्वयमालोचयति किमिति स्यादन्तेन । इदानीं पूर्वपक्षं गृह्णाति ज्ञानमाकारवदिति । कथं पुनरिदमिति विस्पष्टे परप्रकाशे प्रत्यगात्मन्याकारवत्त्वमभिधीयत इति सिद्धान्ताभिप्रायेण पृच्छति कुत इति । अयं च कथमिति भाष्यप्रश्नानुसारेण प्रश्नो व्याख्यातव्य इति । पुनरपि अर्थज्ञानयोराकारभेदं नोपलभामहे इति भाष्याभिप्रायेणैव ज्ञानस्याकारवत्तायामुपपत्तिमाह एकमिति । अयमभिप्रायः एकमेव हि नीलाद्याकारं तत्त्वमधिगतवन्तो वयम् । अतस्तन्मात्रमेवाश्रयामः, न पुनरुभयमाश्रयितुमुत्सहामह इति ॥ १० ॥ नन्वस्त्वेकमाकारवत्, तथापि कुतोऽयं निश्चयः ज्ञानमाकारवन्नार्थ इत्यत आह तद्यदीति । यदि बाह्यमेव वस्त्वाकारवदिष्यते, ततस्तस्य जडस्य प्रकाशायोगाद्ग्राहकान्तरं कल्पनीयमापद्येत । ज्ञानं तु प्रकाशस्वभावमनपेक्षितप्रकाशान्तरमेव साक्षात्कारि प्रकाशत इति नानुपपन्नम् । अतो ज्ञानमेवाकारवदित्यभिप्रायः ॥ ११ ॥ ननु प्रमाणबलादापतन्ती ग्राहकान्तरकल्पना युक्तैवात आह तेनेति । अयमभिप्रायः भवेदेवं यदि प्रमाणवती कल्पना भवेत् । निष्प्रमाणं तु निराकारं वस्तु ज्ञानाभिधानमाकारवतो बाह्यात्कल्पनीयं भवेत् । बाह्यं हि तेनाविदितप्रति(?ब्सम्ब)न्धं न तत्तावदनुमापयति, अतिप्रसङ्गात् । न च नित्यपरोक्षज्ञानवादिनः क्वचिदपि बुद्ध्या व्याप्तिसिद्धिः । अपि च अर्थो{२,९६}ज्ञानानुमाने लिङ्गमर्थधर्मो वा । पूर्वस्मिन् कल्पे व्यभिचारी हेतुः, असत्यपि ज्ञानेऽर्थभावात् । अज्ञातस्य च लिङ्गतानुपपत्तिः एकदेशदर्शनादित्यभ्युपगमात् । ज्ञातस्तु नासति ज्ञानज्ञाने लिङ्गं भवति, अगृहीतविशेषणस्य जातत्वायोगात् । ज्ञातो हि लिङ्गं न स्वरूपेण, व्यभिचारादित्युक्तम् । किञ्चेदं ज्ञातत्वमन्यदतो ज्ञानसम्बन्धात् । तदवश्यं ज्ञानं जिज्ञासमानस्यापन्नमग्रे ज्ञानसंवेदनं ज्ञानमज्ञानं वा ज्ञातस्य । ननु न ब्रूमः स्वरूपेणार्थो लिङ्गं ज्ञानविशिष्टो वा । व्यक्तस्तु विषयो लिङ्गम् । ननु सा व्यक्तिबुद्धिरेव विषयस्य, तदसिद्धौ तदुपाधिको व्यक्तो विषयः कथं हि सेत्स्यति । न व्यक्तिबुद्धिरर्थात्मेति चेत्, स बुद्धिजन्मा न वा । न तावत्तज्जन्मा, असम्बद्धया बुद्ध्यार्थे धर्मान्तराधानायोगात् । अतज्जन्मनश्चातल्लिङ्गत्वात्, हेतुतद्वतोरसति तादात्म्येऽप्रतिबन्धात् । यथाहुः स किं वा बुद्धिजन्मापि न बुद्धिं गमयेत्प्रतिबन्धाभावातिति । अर्थधर्मश्चाज्ञातुरपि साधारणः अविशेषात्परबुद्धिमप्यनुमापयेत् । उक्तं च अर्थात्मनश्च साधारणत्वादन्यबुद्धेरप्यनुमानप्रसङ्गः इति । स्यादेतत् । नेदमनुमानम्, अर्थापत्तिस्तु । साचागृहीतसम्बन्धस्यापि जायत एवेति । तन्न तावत्प्रमाणान्तरम् । यथाहुः तद्द्विविधं सम्यग्ज्ञानं प्रत्यक्षमनुमानं चेति । प्रमाणस्य सतोऽत्रैव शब्दादेरन्तर्भावात्प्रमाणे एवेति च । अस्तु वा प्रमाणान्तरम् । कयानुपपत्त्यार्थो ज्ञानं गमयति । स हि स्वकारणसामग्रीतो लब्धात्मा । किं तस्यासति ज्ञाने नोपपद्यते । अस्ति खल्वसावज्ञातोऽपि । सत्यं, ज्ञातता तु तस्यानुपपन्ना । नासावन्या ज्ञानसम्बन्धादित्युक्तमेव । अर्थधर्मत्वे चातिप्रसङ्गो वर्णितः । स प्रमाणान्तरेऽपि समानः । परस्परस्याप्यर्थगतानुपलभ्यमानधर्मदर्शिनः परबुद्ध्यर्थापत्त्युपपत्तेः । अपि च प्रमाणान्तरप्रतीघातोऽनुपपत्तिः । तत्र केन प्रमाणेन ज्ञातो विषयः प्रतिहन्यते, यज्ज्ञानकल्पनयोपपद्येत । अतो नाप्रत्यक्षा बुद्धिः सिध्यतीति । यस्तु वदति सत्यमप्रत्यक्षा धीर्न सिध्यति । तद्वदेव त्वर्थोऽपि प्रत्यक्षसिद्ध एव । एकस्मिन्नेव हि प्रतिभासे मेयमातृप्रमाप्रकाशः नीलमहं जानामीति । अतः प्रत्यक्षबलसिद्धमेव द्वैतमिति । तदुपरिष्टान्निराकारष्यामः न चोपलब्धिरस्तीहेति । अतोऽर्थाकाराभ्युपगमे निष्प्रमाणकं वस्त्वन्तरं कल्पनीयमिति सूक्तमिति ॥ १२ ॥ {२,९७} स्यादेतत् । अप्रकाशात्मन्यर्थेऽप्रमाणिका वस्त्वन्तरकल्पना भवेत्, अन्यथार्थप्रकाशासम्भवात् । अर्थमेव तु प्रकाशस्वभावमेषिष्यामः, न वस्त्वन्तरं कल्पयिष्याम इत्यत आह तस्येति । अयमभिप्रायः एकमेव वस्तु ग्राह्यग्राहकाकारमिति नः प्रतिज्ञा । तद्यद्यर्थ एव तादृशो भवताश्रीयते, सिद्धो नः पक्षः, अद्वैतसिद्धान्तसिद्धेः । संज्ञामात्रे त्वावयोर्विसंवादो भवेद्न वस्तुनि । उभयोरप्येकत्वाभ्युपगमात् । कथं पुनरत्र संज्ञामात्रे विसंवादः । अर्थवादी हि स्थिरमर्थमनुजानाति । ज्ञानवादी तु क्षणिकम् । सत्यम् । अन्याऽय विशेषः तत्त्वं तावदेकमेवापद्यते । एतदेवात्र निरूपणीयम् । अन्यत्त्वेतद्यत्स्थिरमस्थिरं वेति ॥ १३ ॥ एतदेव विव्र्णोति ग्राह्येति । नन्वस्त्ययं विशेषः बाह्योऽर्थो ज्ञानमान्तरमिति । अतः कथं न वस्तुभेदः । अत आह बाह्येति । अयमभिप्रायः नायं बाह्यान्तरविवेकः पारमार्थिकस्तत्त्वाभेदे सिध्यति । भेदे हि तथा भवेदेकं बाह्यमेकमान्तरमिति । अभिन्ने तु तत्त्वे किमपेक्ष्य किं बाह्यं किमान्तरं वा भविष्यति । अतो मृषैवायं ज्ञानमात्रनिर्मितः परिकल्पः कल्पनमिति ॥ १४ ॥ ननु बौद्धानामपि स्वच्छाकारमेकमेव ज्ञानम् । अतः कथमस्मिन्नीलादिरूपं ग्राह्यग्राहकाकारशबलं विभक्तमिदं नीलमहं जानामीति निरूप्यते । न हि स्वच्छस्य नीलादिता सम्भवति । न चैकस्य ग्राह्यग्राहकता नीलमहं जानामीति, स्वात्मनि क्रियाविरोधात् । अत एव न प्रविभागः इदं जानामीति । अतः प्रतिभासानुगुणोऽर्थाकारपक्ष एव न्याय्यः, अत आह {२,९८} मत्पक्ष इति सार्धद्वयेन । अयमर्थः यद्यपि स्वच्छो ज्ञानात्मा एक एव, तथाप्यनादौ संसारे यानि पूर्वज्ञानानि तान्येव प्रसूतिः प्रसवो यासां वासनानां ताभिः नीलपीतादिविचित्रज्ञानहेतुत्वाद्विचित्राभिः आत्मानुरूपेण तस्य स्वच्छस्य ज्ञानात्मन उपप्लवात् । उपप्लवो भ्रान्तिज्ञानं, किमुक्तं भवति । यादृशी वासना तादृशं स्वानुरूपं विभ्रमं जनयति । नीलवासना नीलं, पीतवासना पीतमिति यावत् । एवं च स्वानुरूप्येणोपप्लवाद्ज्ञानात्मनि नीलादिरूपं तावत्प्रकाशते । तच्च ग्राह्यग्राहकाकारशबलं तदाकारवासनोपप्लवादेव । ग्राह्यग्राहकाकारशबलैर्हि पूर्वज्ञानैस्तदाका(?र्रा) एव वासना आहिताः । अतो नीलाद्याकारवत्तदाकारप्रकाशो नानुपपन्नः । विभक्ताकारवासनावशादेव च विभक्तप्रतिभासो वर्णनीयः । एवं च वासनावशादेव नीलादिरूपं ग्राह्यग्राहकाकाररूषितं प्रविभक्तमिवेदं नीलमित्युपपन्नमिति न पारमार्थिकं बहिःसन्तम् आश्रयभूतमपेक्षते । एकस्मिन्नेव हि तत्त्वे त्रितयं समाप्तं प्रमितिः प्रमाता प्रमेयं चेति । यथाहुः अविभक्तोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । आह सन्तु तावद्वासनानिबन्धनाः संविदां नानासमुल्लासाः । तद्वैचित्र्यमेव कुतः । ननूक्तं विचित्रज्ञानहेतुत्वाच्चित्राभिरिति । न, अन्योन्याश्रयापत्तेः । तथा हि वासनाभेदाद्ज्ञानभेदस्तद्भेदाद्वासनाभेदः इति दुरुत्तरमितरेतराश्रयमिति । अत आह अन्योन्येति । अयमर्थः नेदमितरेतराश्रयम् । अनादिरयं वासनाज्ञानयोः कार्यकारणभावः बीजाङ्कुरयोरिव । नात्रान्यतरस्यापि पूर्वकोटिः प्रसङ्ख्यायते । अतो वासनातो ज्ञानं ततो वासनेति किमनुपपन्नम् । शक्तिरिति वासनामपदिशति । सा हि ज्ञानशक्तिरिति प्रसिद्धा । अयं चानादितयेतरेतराश्रयपरिहारः अनादौ संसार इत्यत्र सूत्रितोऽत्र विवृत इत्यनुसन्धातव्यमिति ॥ १७ ॥ {२,९९} एवं तावदुपपादितं ज्ञानमाकारवदिति । इदानीं तत्रैव कारणान्तरमाह अनेकेति द्वयेन । कल्पनागौरवं हि द्वैतवादिनामापद्यते, नास्माकमेकत्ववादिनामिति भावः । ननु तवापि शक्तिकल्पनया द्वैतमेव, असत्यां हि तस्यां पूर्वोक्तविभागानुपपत्तिरत आह शक्तिमात्रस्येति । अयमभिप्रायः न वासना नाम काचिद्वस्तुतो ज्ञानातिरेकिण्यस्ति या द्वैतमावहति । संवृतिसत्यकल्पिता हि सा । न च काल्पनिकं वस्तु द्वैत्मापादयति । अपि च बहिर्वस्तुवादिनामपि तदुपेत्य तत्समवाय्यन्यः शक्तिभेदः कल्पनीय एव तत्तत्कार्यभेदोपपादनाय । तदियं शक्तिकल्पना साधारणी । ज्ञानवादिनस्तु ज्ञानशक्तिकल्पनैव केवलेत्यस्ति विशेषः । एतच्च पारमार्थिकं शक्तिभेदमभ्युपेत्योक्तम् । न च तथा सौगता मन्यन्ते, चिन्मात्रं तु सदित्यभ्युपगमादिति । इतश्च ज्ञानमाकारवदित्याह तस्मादिति ज्यायस्यन्तेन । उभयोरपि द्वैताद्वैतवादिनोः सिद्धं ज्ञानमतस्तस्यैवाकारकल्पना न्याय्या सिद्धाश्रयत्वादिति । तस्माद्वस्तुभेदादाकृष्येत्यर्थः । तव त्वस्माकमर्थासिद्धेराश्रयान्तरकल्पनापुरस्सरी तदाकारकल्पना स्यादित्याह भवत इति ॥ १९ ॥ अत्र कारणमाह तदसिद्धावशक्तत्वादिति । नीलादिर्हीदं नीलमिति क्वचिदाश्रितो दृश्यते । नासावाश्रयमन्तरेणोपपद्यते । तद्यदि ज्ञानाश्रय इष्यते सिद्धाश्रयो भवति, इतरथा साध्याश्रय इति विशेष इति । अपि चैवमर्थाकाराश्रयणे तेन विज्ञानेन विप्रकृष्टता नीलादेराकारस्यापद्येत ।{२,१००}ततश्च तेन तत्प्रकाशायोग इत्यभिप्रायेणाह तेनेति । अनेन च संवेदनादिति बौद्धोक्तो हेतुरन्तर्णीतः । एवं हि तेनोक्तं नानात्मनः संवेदनं भवति नीलवित्तौ पीतवत् । आत्मभूतस्य तु स्वात्मवदेव प्रकाशो नानुपपन्नः । तदिदमुक्तमनर्थान्तरत्वे तु नीलादेरनुभवात्तदात्मभूतः प्रकाशते, तथा नीलाद्यनुभवः स्यादिति । तथेति यथा[७२१]ज्ञानात्मेत्युक्तं भवति । अतः संवेदनादेव तु भासमानस्य नीलादेस्तत्संविदश्चाविवेकः सिद्ध इति । अपरमपि ग्राह्यलक्षणयोगादिति बाह्यापलापे बौद्धोक्तं हेतुमुपन्यस्यति प्रत्यासन्नमिति । अयमभिप्रायः मम हि ज्ञानात्मभूतमेकान्तप्रत्यासन्नं नीलादि युक्तं यद्ग्राह्यतां प्रतिपद्यते । असम्बद्धस्य तु ग्राह्यलक्षणायोगः । नन्वियमेवार्थस्य ग्राह्यता यत्ततो ज्ञानस्योत्पत्तिः तत्सारूप्यं च । बाह्यनीलाद्याभासं हि ज्ञानम् । तत्स्वरूपं तावत्ततश्चोत्पद्यते कदाचित्ज्ञान कार्यव्यतिरेकात् । यथोक्तं सत्सु समर्थेष्वन्येषु हेतुषु ज्ञानकार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयति । स बाह्योऽर्थः स्यादिति । सौत्रान्तिकमते सन्ति खल्वालोकेन्द्रियमनस्कारादयः । ते च ज्ञानहेतवः । न च ज्ञानं जायत इति दृष्टम् । तदिदं बाह्यार्थसन्निकर्षादेवोत्पद्यत इति तत्सिद्धिः । एवं चोत्पत्तिसारूप्याभ्यामेवार्थवेदनमित्युच्यते (?अर्था ग्रा।र्थो गृ)ह्यत इति च । अत उत्पत्तिसारूप्ययोरेव ग्राह्यलक्षणत्वाद्ग्राह्योऽर्थो नापह्नोतुं शक्यते । मैवम् । एवं सत्यनन्तरमेव विज्ञानं तुल्यविषयं विषयः प्राप्नोति ज्ञानानां तत्सारूप्यात्तदुत्पत्तेश्च समनन्तरप्रत्ययाधीनजन्मत्वादुत्तरेषाम् । अपि च नार्थज्ञानयोः सारूप्यं, ज्ञानप्रतिभासिनः स्थूलाकारस्य परमाणुष्व् अभावात् । एकश्चायमाकारो ज्ञानसन्निवेशी । बहूनि च सञ्चितानि रूपादीनि । कथमनयोः सारूप्यम् । न चापि स्थूल एको विषयोऽवयव्यस्ति, तस्यावयवेभ्योऽव्यतिरेकात्, तन्नानात्वे नानात्वापत्तिः । एकावयवकम्पे च सर्वावयविकम्पप्रसङ्गः । एकावृत्तौ चाभेदात्सर्वावृत्तिः न वा कस्यचिदित्यविकल्पोपलम्भप्रसङ्गः । अवयवस्यावरणं नावयविन इति चेद्, न । अभेदे तदनुपपत्तेः । भेदे वा तदावरणेऽप्यनावृतत्वात्प्राग्वदस्य दर्शनप्रसङ्गः । कस्माच्च भिन्नोऽवयवज्ञानाधीनज्ञानः, न खलु घटसंवित्पटसंविदमपेक्षते । वस्तुस्वभावादिति चेद्, न । अन्यतमानुपलम्भेऽनुपलम्भप्रसङ्गात् । कतिपयावयवप्रतिपत्तौ{२,१०१}वा (?दर्शने) अङ्गुल्यग्रदर्शनेऽपि स्थूलोपलम्भप्रसङ्गः । अतो नास्ति कश्चित्स्थूल एकोऽर्थः यो ज्ञानं सरूपयति । किञ्च इदमेकेन वा केनचिदात्मना ज्ञानार्थयोः सारूप्यं सर्वात्मना वा । एकदेशसारूप्ये नीलमपि पीतसंविदः सरूपमुभयोः क्षणिकत्वादसाधारणत्वाच्चेति तदपि ग्राह्यं भवेत् । एवं च सर्वः सर्ववित्स्यात् । अतदुत्पत्तेरग्राह्यत्वमिति चेद्, न । प्रमाणाभावाद्नीलबुद्धिर्नीलपतीताभ्यां सदृशी नीलादेवोत्पद्यत इति न नः प्रमाणं क्रमते । अपि च नीलादप्युत्पत्तौ न प्रमाणमित्यनन्तरमेव वक्ष्यामः । समं च सारूप्यमिति न ग्राह्येतरविवेकः । सर्वात्मना तु सारूप्यमातिष्ठमानो जडत्वमप्यर्थस्य बुद्धावादध्यात् । एवं चान्ध्यमेव जगतः । यथाहुः __________टिप्पणी__________ [७२१] थात्मज्ञा (Kःा) ___________________________ एकदेशेन सारूप्ये सर्वः स्यात्सर्ववेदकः । सर्वात्मना तु सारूप्ये ज्ञानमज्ञानतां व्रजेत् ॥ इति । न च तदधीना ज्ञानोत्पत्तिः, उपादानविशेषाभावादेव कार्यव्यतिरेकसिद्धेः । कार्यदर्शनबलेन हि वयं समनन्तरप्रत्ययमेव वासनापरनामानमुत्तरबुद्धीनां कारणमाचक्ष्महे । तत्कार्यव्यतिरेके तदभावमुन्नयामः । न हि समग्रं च कारणं कार्यं च न भवतीति सम्भवति । अत उपादानमेव तन्नामदशामनुपगतं यन्न कार्यमारब्धवदिति किमर्थग्रहणेन । यथोक्तं यथाकथञ्चित्तस्यार्थरूपमुक्त्वावभासिनः । अर्थग्रहः कथं सत्यं न जानेऽहमपीदृशम् ॥ इति । सिद्धः सत्स्वपि हेत्वन्तरेषु कार्यव्यतिरेकः । तस्मान्नोत्पत्तिसारूप्ये ग्राह्यलक्षणम् । न चागृह्यमाणोऽर्थः सिध्यतीति सिद्धं नान्योऽनुभाव्यो बुद्ध्यास्ति त(?स्य्स्या) नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ इति । ग्राह्यलक्षणायोगात्तावन्नान्योऽनुभाव्योऽस्ति । अत एव तस्या नानुभवोऽपरः । तेनापि तद्ग्रहणानुपपत्तेः । अतः स्वप्रकाशा धीरेवैका मोदत इति सिद्धम् । यस्त्वसम्बद्धस्यैव ज्ञानेनार्थस्य प्रकाश्यतामातिष्ठते, सोऽसम्बद्धेनापि दीपेन घटस्य प्रकाश्यतामातिष्ठत इति विवृतं हेतुद्वयम् । सहोपलम्भनियम उपरिष्टाद्विवरिष्यत इति ॥ २० ॥ {२,१०२} अपरमपि ज्ञानस्यैवाकारवत्तायां कारणमाह इतश्चेति । युष्माकं मीमांसकानां तज्ज्ञानं प्रकाशकमिति सिद्धान्त इति । कस्य प्रकाशकमत आह स्वयमिति । बाह्यस्य जडात्मनः स्वयं प्रकाशहीनस्य तदुपायतया सम्मतं, अन्यथा तत्प्रकाशायोगात् ॥ २१ ॥ किमतो यद्येवमत आह न चेति । यद्धि यस्य प्रकाशकं तद्गृहीतमेव प्रकाशयति । तद्यदि ज्ञानमर्थस्य प्रकाशकमेतदपि नागृहीतं तत्प्रकाशयेत् । अतोऽवश्यं ग्रहीतव्यम् । न च तदनाकारं ग्रहीतुं शक्यम्, न चार्थज्ञानयोराकारभेदोपलम्भः । अतोऽवश्याभ्युपगन्तव्यं ग्रहणस्य ज्ञानस्यैवायमाकार इति साम्प्रतमित्यभिप्राय इति । तदधीनप्रकाशत्वादिति ज्ञानाधीनः प्रकाशः प्रतिभासो यस्येत्यर्थः ॥ २२ ॥ एवं तावदवश्यग्राह्यतया ज्ञानस्यैवाकारः अवश्यग्राह्यता च प्रकाशकतयेत्युक्तम् । इतरश्चावश्यग्राह्यतेत्याह उत्पन्नेष्विति द्वयेन । द्वेधा ह्युत्पन्नं वस्तु न गृह्यते प्रकाशकाभावात्प्रतिबन्धाद्वा । यथान्धकारतिरोहितो घटः कुड्यादिप्रतिबन्धाद्वा यथा लोके । स एव चैतदुभयमपि ज्ञाने सम्भवति । अतो ग्रहणकारणासम्भवादुत्पद्यमानमेव ग्रहीतव्यम् । एवं च तस्यैव साकारत्वापत्तिरित्युक्तमेवेति ॥ २४ ॥ {२,१०३} यदि त्वर्थप्रकाशात्प्राग्ज्ञानं नोत्पद्येतैव, ततोऽसतो ग्रहणासम्भवान्न गृह्येत, न त्वेवं भवद्भिरपीष्यते । उत्पन्नायामेव बुद्धावर्थस्य ज्ञातत्वाभ्युपगमात् । ततः प्रागुत्पन्नस्याग्रहणकारणाभावादावश्यकं तादात्विकं ग्रहणमित्याह प्राक्चार्थेति अस्यान्तेन । यदि तूत्प(?न्नं।न्न) प्रतिबन्धं च केनापि न गृह्यत इत्युच्यते नित्यासंवेद्यतैव तर्ह्यापद्येत । ततश्चाभाव एव ज्ञानस्य भवेदित्यभिप्रायेणाह न चेदिति ॥ २५ ॥ किं पुनः कालान्तरे न ग्रहणमित्यत आह किमिति । अगृह्यमाणे विशेषे प्रागग्रहणं परस्ताच्च ग्रहणमित्यनुपपन्नमिति ॥ २६ ॥ ननूत्पन्नस्यापि संविदन्तरापेक्षया ग्रहणमिति किं नोपपद्यते अत आह ज्ञानेति । युक्तं यदप्रकाशकोऽर्थः प्रकाशाय ज्ञानान्तरमपेक्षते । ज्ञानं तु स्वयमेव प्रकाशरूपमिति किं तस्य प्रकाशान्तरापेक्षया । अतः सहसैव प्रकाशेतेति । तुल्यजातीयान्तरापेक्षायामनवस्था । यथाहुः ज्ञानान्तरेणानुभवे हीष्टा इति । न च ज्ञानं न ज्ञायत एवेति साम्प्रतम् । अभावप्रसङ्गात् । उत्तरकालं च स्मृतिदर्शनात्सहैव हि विज्ञानेन पूर्वदृष्टमर्थं स्मरन्तो दृश्यन्ते ज्ञातोऽसावर्थो मयेति । न चाज्ञातस्य ज्ञानस्य स्मृतिरुपपद्यते । उक्तं च परैः तत्रापि च स्मृतिः इति । एवं चापरापरज्ञानापेक्षायाम् एकविषयसंवित्तावेवायुः पर्यवस्येत्न विषयान्तरसञ्चारो जायेत । तत्र च दृष्टं ज्ञानम् । यथाहुः विषयान्तरसञ्चारस्तथा न स्यात्स चेष्यते । इति । तदेतत्सर्वमभिप्रेत्याह तस्येति ॥ २७ ॥ {२,१०४} इतश्च प्राग्ज्ञानं ज्ञायते ज्ञानाकारश्च नीलादिः, येन ज्ञानपुरस्सरमेवावगतपूर्वं निरुद्धमर्थं स्मरन्तो दृश्यन्ते ज्ञातो मयातिक्रान्तोऽमुको राजेति । यदि ह्यर्थस्याकारो भवेत्, असत्यर्थे सता कथं धीरनुरज्येत । अतो बुद्धिरेव तदाकारमर्थमालिख्योपजायत इति युक्तम् । यदि चातीते काले ज्ञानपुरस्सरमर्थो नोपलक्षितो भवेत्, कथमिदानीं तथा स्मर्येत । यथावगतग्राहिण्यो हि स्मृतयः कथं मात्रयापि पूर्वानुभूतमतिक्रामन्ति । तस्माज्ज्ञानाकारो नीलादिः ज्ञानपूर्वकश्चार्थानुभव इत्याह ज्ञानेति द्वयेन । तत्पुनरिदं परस्परविरुद्धमिवोभयं साध्यमुपलभ्यते । तथा हि । ज्ञानपूर्वमर्थोऽनुभूयत इत्यर्थमङ्गीकरोतीति लक्ष्यते । ज्ञानाकारसाधनेन च निराकरोति इति तद्विषयमनृतम् । मैवम् । नात्र ज्ञानपुरस्सरमर्थोऽवसीयत इति तात्पर्यम् । एवं तु मन्यते अङ्गीकारयामि तावदेनं श्रोत्रियमनुभवानुभवपुरस्सरीमर्थस्थितिम् । एष हि छान्दसो द्वैतसिद्धिमेवमप्यविगुणां मन्यमानोऽभ्यनुजानाति तावत्प्रथमं ज्ञानसंवेदनम् । ततोऽनाकारोपलम्भासम्भवादेकाकारोपलम्भाच्चानायासमेवार्थापलापं वक्ष्याम इति च । तथा भाष्यकारेणापि ननूत्पन्नायामेव बुद्धौ अर्थो ज्ञात इत्युच्यते इति छद्मनैवार्थाभ्युपगमो दर्शितः । वार्त्तिककारेणापि तथैवानुविहितम् । अतो न दोष इति ॥ २९ ॥ इतश्च ज्ञानानुविधाय्यर्थः । तथा हि भवन्ति वक्तारः नीलोऽयमर्थः तद्रूपानुभवादिति । ज्ञाननिरपेक्षे त्वर्थनिश्चये नैतदुपपद्यते । तदेतदाह वक्तार इति ॥ ३० ॥ अतः सिद्धं बुद्धिज्ञानपुरस्सरमर्थज्ञानमित्युपसंहरति तस्मादिति । {२,१०५} अत्रैके वदन्ति किमिदमनिष्टमापाद्यते ज्ञानमनुभूयत इति । प्रतीमो हि वयमेकस्यां संविदि त्रितयं प्रमाता प्रमितिः प्रमेयं चेति, नीलाद्याकारं प्रमेयं प्रमितिमनाकारां प्रमातारं च । तथा हीदृशीयं प्रतीतिः नीलमहं जानामीति । तदिह नीलपदास्पदं प्रमेयं मितिर्ज्ञानाद्युपात्ता । प्रमाता तूत्तमपुरुषेणोपात्तः । किं पुनरत्र त्रितये प्रमाणम् । प्रत्यक्षम् । साक्षात्कारिणी हि प्रतीतिः प्रत्यक्षम् । अस्ति चास्यामर्थवित्तौ त्रितयस्य साक्षात्कारः । तत्रापि मातृमेययोः पराधीनः प्रकाशः । न मितेः, स्वयम्प्रकाशत्वात् । इतरयोस्तु न स्वयम्प्रकाशत्वं, सतोरपि स्वप्नादौ तददर्शनात् । अस्ति खल्वयं पुरुषः, स्वापे जागरायां च प्रत्यभिज्ञानात् । एवमेव विषयाः । न च तदा प्रकाशन्ते । तत्कस्य हेतोः, यदि विषयाणामात्मनश्च स्वयम्प्रकाशता संविदस्तु स्वापादावसम्भवादेवाप्रकाशः, नाप्रकाशत्वात् । अपि च मेयमातृगोचरा फलभूता संविदवगम्यते न तु तस्या अपि भिन्ना संविदपरा, यदसावपि परायत्तप्रकाशाश्रीयते । तदिह स्वप्रकाशा संवित् । तद्गोचरौ मातृमेयौ । संविद्गोचरत्वाविशेषेऽपि नात्मनः कर्मभावः, गन्तृवदुपपत्तेः । यथा खलु समानेऽपि त्रियाफलसंयोगविभागभागित्वे ग्रामादेः कर्मभावो, न गन्तुः । एवं प्रमाणफलसंवित्तिसम्बन्धाविशेषेऽप्यात्मनः कर्तृता । तत्कस्य हेतोः । परसमवायिक्रियाफलभागिता हि कर्मता । सावयवानां गन्तव्यानां च देहे[७२२]गतिसमवायादात्मनि ज्ञानसमवायात् । तत्रासौ ग्रामः कर्म । तथा च विषया इति ते तथा । अतो निराकारैव संवित्स्वमहिम्ना सिध्यन्ती मातृमेयावपि व्यवस्थापयति । किमिदानीं प्रमत्तवचस्सत्यं पूर्वं बुद्धिरुत्पद्यते न तु पूर्वं ज्ञायत इति । न, बुद्ध्यपदेशात्तस्याश्चानुमेयत्वात् । अस्ति वा बुद्धिसंविदोर्भेदः । अस्तीति ब्रूमः । का तर्हि बुद्धिः, का च संवित् । आत्ममनस्संयोगो बुद्धिः । बुद्धिर्ज्ञानम् इत्यनर्थान्तरम् । फलभूता संविदनुभवादिपदास्पदम् । तया चात्ममनस्संयोगः कारणभूतोऽनुमीयत इति किमनुपपन्नम् । अदूरविप्रकर्षादन्यतरत्रान्यतरपदप्रयोगः । नन्वेवं संविदि[७२३]संवेद्येषु च संवेद्यमानेषु संवेद्यद्वयोपलब्धिप्रसङ्गः । न चैवम्, एकाकारसंवेदनात् । उक्तमत्रैक एवाकारः संवेद्यः अनाकारा संवित्प्रकाशत इति । किमिदानीमसंवेद्यैव{२,१०६}संवित् । न ब्रूमोऽसंवेद्येति । संवि(?भक्त्त्त)यैव हि संवित्संवेद्यते न संवेद्यतया । केयं वाचोयुक्तिः । इयमियं नास्याः कर्मभावो विद्यत इति । स्वयम्प्रकाशत्वात् । न चैवमसंवित् । न, अतन्मूलत्वात्संवेद्यभावस्य सर्वभावानां, सा हि सर्वभावानां सिद्धिः न चासञ्चेतीता सिध्यतीति कथं तेऽपि सिध्येयुः । अतः संवित्प्रकाश एव द्वैतं साधयतीति किं सिद्धसाधनेन । संविदुपारूढो हि नीलादिरद्वैतमापादयति । संविदैव त्वनाकारसंविदितया व्यतिरेचितो नीलादिर्नाद्वैताय घटत इति सिद्धं प्रमाता प्रमितिः प्रमेयं चेति । तान् प्रत्याह न चेति । अयमभिप्रायः श्रोत्रियदृष्ट्यैव तावद्बुद्धिरनुमेयेति लक्ष्यते । यदेवमाह ज्ञाते त्वनुमानादवगच्छतीति । यत्तु ज्ञानाभिप्रायं तद्न संविदभिप्रायमिति । तन्न । पर्यायत्वादनयोः । चेतना बुद्धिः ज्ञानं संविदित्यनर्थान्तरमिति लौकिका बुध्यन्ते । न चात्ममनसोः संयोगश्चेतना, रूपादितुल्यगुणत्वात् । तच्चेतनात्वे च मनसश्चैतन्यप्रसङ्गः । तस्यात्ममनसोः साधारणत्वात् । अचेतना बुद्धिरित्यलौकिकम् । यथाहुः बुद्धिश्चेतनैव हि गम्यते । इति । अतो यैवासावनाकारा संविद्भवताभिमता सैव तावद्बुद्धिः, तदभिप्रायमेव बुद्ध्यनुमेयत्वाभिधानम् । न त्वनाकारा संविदपरोक्षमनुभूयते बुद्धिश्चानुमीयत इति साम्प्रतम् । तदयमर्थः यासौ लौकिकी बुद्धिर्नासावनाकारा अपरोक्षमुपलभ्यते । तस्मात्प्रत्यक्षबुद्धिवादिनायमाकारो ज्ञानसन्निवेशी वाच्यः । यथास्माभिरुक्तम् । यथावार्त्तिकं वा सिद्धान्तः अर्थ एव प्रत्यक्षो न बुद्धिरिति । तत्र चोक्ता बुद्ध्यनुमाने लिङ्गानुपपत्तिः । अतोऽसिद्धमनिराकाराया बुद्धेरनुपलम्भात्संविदेव द्वैतं साधयतीति ॥ ३१ ॥ __________टिप्पणी__________ [७२२] ह [७२३] दि संवेद्यमा (Kःा) ___________________________ अपि चैवं सहोपलम्भनियमात्त्रयस्याभेदापत्तिरित्याह विवेकबुद्ध्यभावाच्चेति । त्रयाणां विवेकबुद्ध्यभावादेकस्यैव ज्ञानस्याकारवत्तया बोधः प्रसज्यत इति वक्ष्यमाणेन सम्बन्धः । ज्ञानग्रहणमुपलक्षणार्थम् । एकमेव तत्त्वमाकारवद्भवेदिति विवक्षितम् । यो हि मेयमातृप्रमासु सहोपलम्भमातिष्ठते तस्यान्यतरविविक्तान्यतरबुद्ध्यभावादभेद एव त्रयस्यापद्येत,{२,१०७}भेदे नियमायोगात् । भिन्नानां हि घटादीनामनियतः सहोपलम्भः । ते हि सहभावेन विवेकेन चोपलभ्यन्ते । अतोऽनियमव्याप्तो भेदो नार्हति व्यापकविरुद्धोपलब्धौ भवितुं धूम इवाग्निना व्याप्तोऽनग्नौ । भिन्नावभासाद्भेद इति चेद्, न । अनेकान्तात् । तत्रैतत्स्याद्, एकदापि हि त्रितयमनुभूयमानं भिन्नमेवावभासते घटकुड्यादिवदतो भिद्यत इति । तन्न । अनैकान्तिकत्वाद्भेदोपलम्भस्य भेदे । उपलभ्यते खलु द्विचन्द्रादिबोधेऽभिन्नश्चन्द्रः । न चैकस्माद्भिद्यते । तत्कस्य हेतोः । सहोपलम्भनियमादेव । स हि मुख्येन नियतसहोपलम्भः, तन्न ततो भिद्यते । तदनियतसहोपलम्भा एव भावा भेदेनावसीयमाना भिद्यन्ते नेतरे । यथाहुः न भिन्नावभासित्वेऽप्यनर्थान्तररूपत्वं नीलस्यानुभवात्तयोः सहोपलम्भनियमाद्द्विचन्द्रादिवदिति । ननु भिन्नयोरपि रूपालोकयोः सहोपलम्भनियमो दृष्टः । अनालोकोपलम्भा न रूपबुद्धिर्यतः । तन्न, केवलस्यापि क्वचिदालोकस्य दर्शनात् । रूपस्य च प्राणिविशेषेष्वनालोकस्य । सन्ति हि केचित्प्राणिनः येऽन्धकार एव रूपमालोकयन्ते । आलोके तु प्रतिहन्यन्ते । मातृमेयसंवेदनानि तु सहैवोपलभ्यन्त इति न भेदमर्हन्ति । न हि नीलाद्भिन्नं पीतं तेन सह नियमेनोपलभ्यते । अतः सहोपलम्भनियमादभिन्नं त्रयमापद्यते इति । ननु चायमुपालम्भोऽस्तु सहोपलम्भनियमवादिनामेकेषां मीमांसकानाम् । ये तु विषयवित्तिपुरस्सरीं बुद्धिसंविदमातिष्ठन्ते, तेषामसिद्धः सहोपलम्भनियमः । सदैव हि विषयसंवेदनोत्तरकालमेव संविदुपलभ्यते । यथाहुः पूर्वं संगृह्यते पश्चाज्ज्ञानं तज्ज्ञाततावशात् । इति । तान् प्रत्याह सेति त इत्यन्तेन । अयमभिप्रायः इदं तावदविवादं साकारं वस्तु दृश्यत इति । साकारदर्शनं चेदमप्रत्यक्षे संवेदने नोपपद्यते, विषयः सन्मात्रतया न प्रकाशते यतः । तथा सति नित्यप्रकाशापत्तेः । अतो विषयोपलम्भसत्तयैव विषयप्रकाशः, न तत्स्वरूपसत्तया । विषयोपलम्भसत्ता चासिद्धा न सत्तानिबन्धनव्यवहाराय घटत इति तत्सिद्धिरास्थेया । न च वित्तेरन्या सिद्धिर्भावानां तद्यद्युपलम्भो विदितोऽसिद्धः, तदसिद्धौ विषयासिद्धिः, येन स एव तत्सिद्धिरिति विश्वमस्तमितम् । अतोऽस्मात्साकारस्यैव वस्तुनो दर्शनादनुपपद्यमानादवगम्यते यदस्ति सहोपलम्भ इति । अन्यथा तद्दर्शनायोगात् । यथाहुः {२,१०८} अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति । इति । अतः सिद्धं सहोपलम्भनियमाज्ज्ञानस्याकारवत्तया बोधः नास्ति तत्त्वतो भेद इति ॥ ३२ ॥ आह यद्युपलम्भासिद्धावुपलभ्योऽपि न सिध्यति, अस्तूपलम्भासिद्धिः । उपलम्भान्तरेण तु सिद्ध उपलभ्यं साधयिष्यति । एवमपि सहोपलम्भनियमासिद्धिरित्युपलम्भसिद्धिपूर्वकत्वादुपलभ्यसिद्धेः । उपलभ्यसिद्धिपुरस्सरी तूपलम्भसिद्धिः प्रतिक्षिप्ता, सिद्धेरसिद्धौ साध्यासिद्धेः । सिद्धिसिद्धिपूर्विका तु साध्यसिद्धिः किं नेष्यते । अतोऽसिद्ध एवायं हेतुरत आह न हीति । अस्यार्थः नेयमीदृशी कल्पना सम्भवति यदनाकारा संविदादावनुभूयते ततश्च पश्चात्साकारोऽर्थ इति । निराकारबुद्ध्यनुपलब्धेरुक्तत्वात् । इतश्च नैवं कल्पना युक्ता । कथं हि स्वोपलम्भकाले संभिन्नोऽर्थः स्वोपलम्भोपलम्भावसरे संवेद्येत, यो ह्युपलभ्यमान एव न सिद्धः सोऽन्योपलम्भावसरेऽनुपलभ्यमान एव सेत्स्यतीति सुव्याहृतम् । अपि च अन्येन संवेदनोपलम्भे सोऽप्यसिद्धस्तत्साधनाय न प्रभवतीत्यपरापरापेक्षायामनवस्था । एकासिद्धौ सर्वासिद्धिः । क्वचिद्वा स्वप्रकाशेऽन्येऽपि तथा स्युरविशेषात् । अतः स्वात्मानं विषयाकारं च युगपज्ज्ञानमुपलभत इति सिद्धः सहोपलम्भनियमः । एकव्यापारे क्रमायोगात् । एकः खल्वयं संविदः स्वात्मनि विषयाकारे च व्यापारः, प्रकाशात्मा नायं क्रमभावी न सम्भवतीति ॥ ३३ ॥ ननु मा भूदनाकाराया बुद्धेरुपलम्भः । सापि त्वाकारवत्येवोपलप्स्यते अर्थश्च । तस्माद्द्वयोराकारवत्त्वं भविष्यति । ततश्चोपलभ्यत इति किमनुपपन्नमत आह आकारेति । अस्यार्थः योऽयं ज्ञानार्थयोराकारवत्त्वभेदः यद्ययं ज्ञातः स्यात्, तथा(?सी।स)ति ज्ञात्वा भाषितुमपि शक्येत ।{२,१०९}नीलपीतभेदवत् । न चैवं भाषितुं शक्यमीदृशो ज्ञानाकार ईदृशोऽर्थाकार इति, नीलाद्याकारमात्रज्ञानादिति । एवं हि सर्वं समञ्जसं भवति । यदि बुद्धिग्रहणात्प्रागेव साकारोऽर्थः सिध्यति, ततो हि तत्सिद्ध्यन्यथानुपपत्त्या ज्ञानमपि कदाचित्सिध्येदिति सिध्यति द्वैतम् । अत्र पुनरगृहीतायां बुद्धावर्थो (?नु।न) सिध्यतीति साकारस्य च दर्शनादित्यत्र साधितम् । अतो न कथञ्चिद्द्वैतसिद्धिरित्यभिप्रायेणाह प्रागिति ॥ ३४ ॥ अन्यन्मतं सत्यमाकारवद्ज्ञानं, किन् तु अर्थेनायमाकारो ज्ञान आधीयते । अयमेवार्थज्ञानयोः ग्राह्यग्राहकभावः, यदर्थस्य ज्ञाने स्वाकारसमर्पणम् । कथमपरथा क्षणिकत्वादतीतोऽसमसमयभाव्यर्थो ज्ञानालम्बनं भवेत् । यथाहुः भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ इति । एतद्दूषयति न चेति । किमिति नैवमत आह न हीति । अर्थाकारो ह्यर्थधर्मः । न च धर्मः स्वाश्रयं हातुमाश्रयान्तरं वोपगन्तुं[७२४]प्रभवति, स्वरूपहानापत्तेरिति ॥ ३५ ॥ __________टिप्पणी__________ [७२४] न्तुं शक्तः प्र (Kःा) ___________________________ अपि च प्रमाणान्तरप्रसिद्धेऽर्थस्याकारवत्त्वे भवेदप्येवम् । न च तस्याकारस्येत्थम्भावेऽर्थधर्मत्वे प्रमाणमस्ति, हेत्वन्तरसम्भवेऽपि कार्यानिष्पत्तिः कारणान्तरवैकल्यं सूचयतीति तु निराकृतमुपादानविशेषादेव कार्यसिद्धेरुक्तत्वादित्यभिप्रायेणाह इत्थमिति । ये तु वदन्ति मा नामार्थाकारोऽर्थं हातुमाश्रयान्तरं वोपगन्तुं प्रभवति । अर्थस्यैव प्रतिबिम्बमिदं शुद्धादर्शप्रतीकाशे स्वच्छे ज्ञानात्मनि दृश्यत इति । तान् प्रत्याह तदीयेति । एतस्मादेवेति । अर्थाकारत्वे प्रमाणाभावादित्यर्थः ॥ ३६ ॥ {२,११०} तानेव प्रसिद्धप्रतिबिम्बोदाहरणेन प्रतिबोधयति निश्चन्द्रेति । तमिति योग्यतया चन्द्रः प्रतिनिर्दिश्यते । खे च जले चेत्यर्थः ॥ ३७ ॥ न चैष न्यायोऽत्र सम्भवतीत्याह विज्ञानेति ॥ ३८ ॥ अपि चास्तु रूपवत्सु प्रतिबिम्बकल्पना, अरूपाणां तु शब्दादीनां प्रतिबिम्बकल्पना न कथञ्चित्सम्भवतीत्याह शब्देति । अपि च नीलाद्याकारा संविदुपलभ्यते । तत्किमपराद्धमनया, यत्तामनादृत्यायमाकारोऽर्थधर्मतयाभ्युपगम्यते प्रतिबिम्बवच्च दर्शनमित्यभिप्रायेणाह ज्ञाने (चे)ति ॥ ३९ ॥ यस्तु वदति नार्थाकारो ज्ञाने सङ्क्रामति । न चार्थस्थः प्रतिबिम्बो दृश्यते । किन् तु ज्ञानमर्थेनायोगोलकमिवाग्निना संस्पृष्टम् । अतोऽयसीव भास्वराकारो मोहादर्थाकारो ज्ञाने दृश्यत इति । तं प्रत्याह बह्येति । अयस्तेजसोर्हि सन्निकर्षाद्युक्तो मोहादविवेकभ्रमः । बाह्याभ्यन्तरदेशौ तु ज्ञानार्थावसम्पृक्तौ । ततः कथमनयोर्मोहादविवेकभ्रम इति ॥ ४० ॥ अपि च कश्चिदेकः सम्मूढो भवति जगतस्तु सम्मोहकल्पना सम्मोह एव । न चात्र कश्चित्कदाचिदसम्मूढो दृश्यते । सर्वस्य विवेकादर्शनात् ।{२,१११}अतो न सम्मोहकल्पना युक्तेत्याह असम्मूढस्येति । यदि तु ज्ञानार्थयोर्विविक्तयोरदर्शनेऽपि सम्मोहः कल्प्यते, तर्हि द्वयोरेव नावतिष्टेत । एवं हि यथेष्टमेव तत्त्वानि प्रसङ्ख्याय सम्मोहोऽभिधीयतां, किं विशेषादित्याह कल्प्यमान इति ॥ ४१ ॥ अन्यद्दर्शनं नार्थाकारो मोहाज्ज्ञानेऽवगम्यते । किन् तु सांसर्गिकोऽयमाकारश्चूर्णहरिद्रयोरिवारुणिमेति । तदप्यत एव बाह्याभ्यन्तरदेशत्वादनुपपन्नमित्याह संसर्गेति । तदेव प्रकटयति देशभेदादिति । अपि च, अमूर्तं ज्ञानं मूर्तोऽर्थः कथमनयोः संसर्गधर्म आकारो भवेत् । घटाकाशादावदर्शनादित्याह मूर्तामूर्ततया तथेति ॥ ४२ ॥ नन्वसत्यप्येकदेशत्वे एककालतया संसर्गो भविष्यतीत्यत आह त्रैलोक्येनेति । त्रैलोक्यं हि ज्ञानेन समकालतया संस्पृष्टं संसर्गजन्माकारं प्रतिभासयेत् । न चैवमस्ति । तस्मादतिव्याप्तेर्नैककालतया संसर्ग इति । नन्वार्जवावस्थानं ज्ञानार्थयोः संसर्गो भविष्यतीति अत आह न चेति । निर्मुखस्यार्जवाभावाद्न ज्ञानेनार्थस्यार्जवावस्थानम् । सर्वतोदिक्पदार्थबोधेन सर्वतोमुखत्वे वा सर्वार्थसंसर्गप्रसङ्गात्सर्वाकारोपलब्धिः । न हि सर्वतोमुखं कस्यचिदेकस्याभिमुखं युक्तमिति ॥ ४३ ॥ अपि च, येनैवार्थेन ज्ञानस्य संसर्गः कल्प्यते, सर्वथैव तेन संसर्गः कल्पयितव्यः, निर्भागत्वात् । एवं च चक्षुषैकत्र भावेऽनुभूयमाने तेनैव तद्गतरसाद्युपलब्धिप्रसङ्गः, तद्गतसूक्ष्माकारोपलब्धिश्चेत्याह सर्वथेति ॥ ४४ ॥ {२,११२} ननु यदेव तदर्थस्य ज्ञानं प्रति विषयतयावस्थानं सोऽनयोः संसर्गो भविष्यतीत्यत आह न चेति । अत्र कारणमाह विषय(त्व)मिति । अयमभिप्रायः संसर्गाकारवादिना हि प्रागेवाकारोपलम्भनात्संसर्गो वक्तव्यः । न च विषयत्वमाकारोपलम्भनात्प्रागस्ति । अतः कथं तन्निबन्धनाकारा संविद्भवति ॥ ४५ ॥ किमिति न स्यादत आह न हीति । संवेद्यमान एव हि भावो विषय इति विषयविदः । अत उपलम्भोत्तरकालमेव विषयभावान्न तन्निबन्धन आकारबोधः शक्यतेऽङ्गीकर्तुमिति । एवं तु कल्प्यमान इतरेतराश्रयं प्राप्नोतीत्याह विषयेति । नीलत्वविषयत्वेन संसर्गात्तदाकारो निष्पद्यते । तदाकारनिष्पत्त्या च तस्य विषयभाव इति दुरुत्तरमितरेतराश्रयमिति ॥ ४६ ॥ दूषणान्तरमाह द्वयोरिति । अयमभिप्रायः यदि ज्ञानार्थयोर्द्वयोरप्याकारशून्यं स्वरूपमवगतं स्यात्, पुनश्च कदाचित्संस्पृष्टत्वेनाकारसंवित्तिः, तदा भवेदपि संसर्गधर्माकारकल्पना । न चैवमस्तीति वक्ष्यामः ॥ ४७ ॥ न चार्थस्य ज्ञानाद्विविक्तस्य सद्भावो गृहीतपूर्वः । न च ज्ञानस्योपरि गृह्यते येन चूर्णहरिद्रयोरिव विविक्तगृहीतयोरनयोः संसर्गः कल्प्यत इत्याह न चेति । कारणमाह न हीति । संसर्गधर्मत्वे ह्याकारस्य{२,११३} प्रथमं द्वयोरप्यनाकारबोधेन भवितव्यम् । न चाकारशून्यं ग्राह्यमस्तीति पूर्वमुक्तमिति ॥ ४८ ॥ उपसंहरति तस्मादिति । किं पुनरिदमर्थस्य सद्भावो न गृहीत इति । ज्ञानवैचित्र्यानुपपत्तिरेव ह्यर्थस्य सद्भावे प्रमाणम् । स्वच्छाकारस्य हि ज्ञानस्य न कारणान्तरमन्तरेणाकारसम्बन्धस्तद्वैचित्र्यं चोपपद्यते । अतोऽस्ति कश्चिज्ज्ञानातिरिक्तो हेतुर्येनेदं वैचित्र्यमाधीयत इत्यभ्युपगन्तव्यम् । न चेन्द्रियाण्येव तत्र कारणमिति युक्तं, तेषामेकरूपत्वेन कार्यवैचित्र्यानुपपत्तेः । न च समनन्तरप्रत्ययादेव केवलाद्विचित्राकारदर्शनमुचितं, विसदृशप्रत्ययानन्तरमेव हि वयमेकान्तविसदृशं प्रत्ययमुपादीयमानमुपलभामहे । तत्तद्धेतुकत्वेऽनुपपन्नम् । यथाकार्यदर्शनं तु विचित्रा एव हेतवः कल्प्यन्त इति युक्तम् । ते चार्थशब्दवाच्याः । एवञ्च प्रसिद्धसद्भावोऽर्थः ज्ञानं चाविवादसिद्धमेवेति प्रसिद्धसद्भावयोर्न्याय्य एव संसर्गः, अत आह ज्ञानवैचित्र्येति ॥ ४९ ॥ किमिति न कल्पना, अत आह तदिति । यदि वैचित्र्यमर्थाधीनतया विदितप्रतिबन्धं भवेद्, एवमर्थमनुमापयेत् । अत्यन्तापरिदृष्टपूर्वेण त्वर्थेन न क्वचिद्वैचित्र्याधानं दृष्टमिति न तद्दर्शनेन तदनुमानं युक्तम् । कार्यदर्शनबलेन कुतश्चिदेव समनन्तरप्रत्ययविशेषात्किञ्चिदाकारं ज्ञानं जायत इति न नोपपन्नम् । विलक्षणा हि ते उपादानविशेषा विलक्षणशक्तय इति न किञ्चिद्दुष्यतीति कार्यदर्शनबलानुसारिण्यामेव च कारणव्यवस्थायां सुष्वा(?)पादावप्याकाराभावसिद्धिः । कार्याभावेन कारणाभावानुमानात् । भवति तु तास्वपि दशासु स्वच्छसंवित्सन्तानः परस्ताज्ज्ञानदर्शनाद्, अनुपादानकारणस्य तस्यानुपपत्तेः । कथमनाकारादाकारवतो निष्पत्तिरिति चेत्, कथं विसदृशाद्विसदृशस्योत्पत्तिः । तत्रापि शक्तिभेद एव कार्यदर्शनबलानुमेयो निबन्धनम् । कश्चिदेवेह मूर्धादावन्ते प्रत्ययभेद{२,११४} आविरस्ति, यः परस्तान्मूर्च्छोच्छेदे नीलाद्याकारप्रत्ययमुपजनयति । स तस्यायमचिन्तनीयो महिमा कार्यदर्शनप्रमाणको न मीमांस्यत इति सूक्तमर्थसद्भावो न गृहीत इति । अपि च यदि साकारोऽर्थः तदधीनं च ज्ञानानां वैचित्र्यं, कथं तर्हि मूर्छादावन्तिमेन निराकारेण ज्ञानेन परस्ताद्भाविनो ज्ञानजातस्याकारो वैचित्र्यं वोपपद्यते । न हि तदुभयमप्यर्थजन्यं, सत्येव तस्मिन्नभावात् । मूर्छायामपि ह्यर्थ आसीदेव । न च तेनासावाकारो दर्शितः । अतो व्यभिचारिणः समनन्तरप्रत्ययविशेषाद् एव निराकारादपि वैचित्र्याकारयोरुत्पत्तिरभ्युपगन्तव्या । एवञ्च सर्वत्रैव तथाभ्युपगन्तुमुचितम् । किमर्थग्रहेण । पठन्ति च । अर्थग्रहः कथं सत्यमिति । तदेतदाह निराकारेणेति ॥ ५० ॥ अपि च, साकारा नीलादयो विषया ज्ञानं सरूपयन्तु निराकारस्तु गगनकुसुमशशविषाणवन्ध्यासुतादिविषयः कथं बुद्धावाकारमादध्यात् । न हि तत्र विषयाकारो नाम कश्चिदस्ति । बलात्तत्र बुद्धिरेव साकारेति वक्तव्यम् । तद्व्यापकमस्तु । किमर्धजरतीयेनेत्यभिप्रायेणाह निराकारादिति । अपि च पूर्वानुभूतेषु स्मर्यमाणेषु असम्बन्धस्वभावेषु[७२५]स्वप्नादिबोधे चात्यन्तानन्ताननुभूतस्वशिरश्छेदादिविषये विषयाकाराभावादनाकारस्तद्वादिनां ज्ञानमापद्यत इत्याह स्मृतीति ॥ ५१ ॥ __________टिप्पणी__________ [७२५] स्वापादि (Kआ) ___________________________ अत्र कारणमाह न हीति । सता । । । । । । । । सतेति भावः । कथं तर्हि तत्राकारासम्बन्धः अत आह केवलेति । वासनेति । समनन्तरप्रत्ययमेवोपादानापरनामानमुपादत्ते । न तु ज्ञानातिरेकि । । । । । । । । ।पूर्वं चिरन्तनबौद्धमतेन वासनाभेदो वर्णित इति वेदितव्यमिति । एवञ्च जाग्रद्बुद्धिष्वपि वासनाहेतुक एवाकारप्रतिभासो युक्त आश्रयितुं, किमर्धजरतीयेनेत्यभिप्रायेणाह इतीति ॥ ५२ ॥ {२,११५} किञ्च, अन्वयव्यतिरेकाभ्यां ज्ञानाकारकल्पनैव साधीयसीति दर्शयति अन्वयेति । एवंशब्दो युक्त्यन्तरोपन्यास इति । कथमवगम्यते, अत आह न हीति वदन्तेन । अस्यार्थः असत्यपि बाह्ये स्वप्नादौ ज्ञानमात्रान्वयादेवाकारान्वयो दृश्यमानो ज्ञानप्रभावित एवावसीयते । न त्वेवमर्थवादिनो ज्ञानापेतमर्थस्याकारान्वयं दर्शयितुं शक्ताः । असति ज्ञान आकारप्रतिभासायोगादिति । अतः सिद्धं तावद्वासनानिमित्त एवायं ज्ञानाकारो नार्थसंसर्गधर्म इति । यदि त्ववश्यं सांसर्गिकोऽयमाकारो वक्तव्यः, परमस्तु स्वभावनिराकाराणां ज्ञानानां वासनासंसर्गनिबन्धनत्वेनाकारस्य संसर्गवाक्प्रवृत्तिरित्याह तस्माद् इति ॥ ५४ ॥ प्रत्यूढः संसर्गधर्मपक्षः । अन्यन्मतं नीलादिराकारो भासते । न चायं ज्ञानार्थयोरन्यतराश्रयतया निर्धारयितुं शक्यते । तदयमगृह्यमाणे विशेषे एक एव द्वयं साकारयतीत्याश्रीयते लाक्षाराग एव सन्निहितं मणियुगलम् । तदेतदुपन्यस्य दूषयति द्वयोरिति । कथमप्रमाणमत आह देशभेदादिति । अन्तःस्थं हि ज्ञानं बहिरर्थः । नानयोः सन्निकर्षोऽस्तीति नेदमुभयमेकमाकारमुपजीवितुमुत्सहते । मणियुगलं तु सन्निहितमेको लाक्षारागोऽनुरञ्जयतीति न नोपपन्नमिति । ननु भिन्नदेशयोरपि कुतश्चित्संसृष्टयोरेकाकारोपजीवनं भविष्यतीत्यत आह असंसर्गादिति । उक्तमिदं नानयोः कदाचित्संसर्गो गम्यते मणेरिव प्रमाणाभावादिति । अपि च पृथगवधारितसद्भावस्य द्वयस्य साधारण आकारो भवेत्, न त्वत्र विभक्ताकारं द्वयमुपलभ्यते । सर्वदैवैकाकारोपलम्भात् । उक्तं च अर्थज्ञानयोराकारभेदं नोपलभामहे इति । तदेतदाह द्वयोरिति ॥ ५५ ॥ {२,११६} अन्यद्दर्शनं विभक्ताकारमेवेदमुभयमत्यन्तसुसदृशत्वेन त्वाकारविवेको न लक्ष्यते नीलोत्पलवन इव कादम्बकानामिति । एतदुपन्यस्य दूषयति एवमिति । सादृश्यादविभक्तता न स्यादित्यन्वय इति । कारणमाह भेद इति । निर्ज्ञातभेदयोर्हीन्दीवरकादम्बयोः सादृश्यादविवेकाभिधानं युक्तम् । पृथगनवगतपूर्वस्य त्वर्थस्य खपुष्पतुल्यस्य सादृश्यादविवेक इति महानयमविवेक इति । सर्वे चैते बाह्यार्थवादिबौद्धैकदेशिपक्षा उपन्यस्य दूषिता इति वेदितव्यमिति ॥ ५६ ॥ इतश्च ज्ञानस्याकार इत्याह तथेति । द्विचन्द्रादिविभ्रमेष्वन्यथार्थे व्यवस्थितेऽन्याकारा बुद्धिरुपजायते । तच्चार्थनिबन्धनत्वे त्वाकारस्य नोपपद्यते । कथं ह्यन्याकारोऽर्थो ह्यन्याकारां धियमुपजनयेत् । तदवश्यमसत्यप्यर्थे भासमान आकारो ज्ञानस्यैव वक्तव्यः । अतः सर्वत्रैव तथावधारणं युक्तमित्यभिप्रायः ॥ ५७ ॥ किञ्च यदेतद्विरुद्धानेकलिङ्गत्वमेकस्य नक्षत्रं तारका तिष्यो दारा इत्यादिषु तदर्थाकारत्वे नोपपद्यते विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वेनार्थभेदापत्तेः । भिन्नान्येव तु विचित्रवासनानिबन्धनानि विचित्रार्थज्ञानानि जायन्त इति युक्तम् । तदेतदाह नक्षत्रमिति ॥ ५८ ॥ यथैकस्यामेव प्रमदातनौ येयं परिव्राट्कामुकशुनां कुणपं कामिनीभक्ष इति कल्पना भवति, साप्येकात्मत्वादेकस्यार्थस्यार्थवादिनां नोपपद्यत{२,११७} इत्याह परिव्राडिति । अत्र नार्थनिबन्धनेत्यनुषञ्जनीयमिति । इदं चापरं बाह्यार्थवादिनां नोपपद्यत इत्याह दीर्घेति । एकैव हि प्रदेशिन्यङ्गुष्ठमध्यमाङ्गुल्यपेक्षया दीर्घह्रस्वतयावगम्यते, तच्चैतदेकात्म्ये तस्यार्थवादिनां नोपपद्यते । पूर्वं च प्रमात्रपेक्षयानेकाकारसंविदुक्ता । अत्र तु न केवलं भिन्नानां प्रमातॄणामेकत्रानेकाकारबुद्धिः, एकस्यापि तूपाधिभेदादनेकाकारबोधो दृश्यत इत्युक्तमिति ॥ ५९ ॥ न केवलमौपाधिको नानाकारः प्रत्ययः । किन् तु घटोऽयं पार्थिवोऽयमित्यादिरेकत्रैवार्थे युगपदनेकेषां ग्राहकाणां विकल्पो दृश्यते । तच्चेदं पारमार्थिकार्थसद्भावे नोपपद्यते तस्यैकात्मत्वात् । एकोऽर्थ एकात्मक इति सर्वैरेव स तथावगम्यते । न चैवम् । अतो बुद्धिमात्रविलसितमेवेदमनेकाकारत्वमिति साम्प्रतम् । तदेतदाह घटत्वेति । अत्र च प्रातिलोम्येनान्त्यसामान्यात्प्रभृति परसामान्यं यावदुपन्यासः कृत इत्यनुसन्धातव्यम् । ज्ञेयता तु न सामान्यं ज्ञानसम्बन्धोपाधिकत्वात् । अयमपि च प्रतीतिप्रकारो दृश्यत इति प्रदर्शनार्थमुक्तम् । यद्यपि चात्र घटत्वादीनां दीर्घत्वादीनामिव विरोधो न दृश्यते, तथाप्येकात्मकत्वादेकस्य निर्भागस्यार्थात्मनो नानाकारप्रतिभासोऽनुपपन्न इत्युक्तमिति ॥ ६० ॥ किमिति न स्यादत आह नेति । न तावदेकत्रार्थ एकात्मन्यनेकाकारत्व एवं न्याय्यः । यथाहुः अन्यथैकस्य भावस्य नानारूपावभासिनः । सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः ॥ इति । नतरां विरुद्धाकारसम्भवः । स च प्रागेवोक्तोऽनुसन्धातव्य इति । ज्ञानवादिनस्तु नानाप्रत्यया नानाप्रकारा भवन्तीति युक्तमित्याह प्रत्ययानामिति । किं पुनरेषां तथात्वे कारणमत आह शक्त्यनुसारतः ।{२,११८}शक्तिरिति समनन्तरप्रत्ययमेवापदिशस्ति, तदधीनत्वाज्ज्ञानकार्यनिष्पत्तेः । तदतिरिक्ता तु शक्तिरप्रमाणिकैवेति न बौद्धैरिष्यत एवेति ॥ ६१ ॥ अतः सिद्धं तावद्भासमान आकारो ज्ञानस्यैव न त्वर्था(?क्षेपः।पेक्षः) अर्थनिरपेक्षमेव तु स्वरूपेण यादृशं ज्ञानं यदि तदनुसार्यर्थोऽभ्युपगन्तुमिष्यते सोऽस्तु नाम । न पुनर्यथार्थं ज्ञानं नाम किञ्चिदस्तीत्याह निरपेक्षमिति ॥ ६२ ॥ अस्तु तर्हि ज्ञानानुसार्येवार्थः, न, एवमपि द्वैतहानिरित्यत आह इत्थमिति । अयमभिप्रायः गलजिह्विकयेदमस्माभिरुक्तं तथार्थ इति । न तु ज्ञानाकारत्वेऽर्थो नाम कश्चित्सिध्यति, आकारभेदानुपलम्भात् । अतो न विज्ञानतन्त्रत्वेऽर्थकल्पना शक्यते कर्तुम् । अर्थेनानारोपिताकारा धीरेव स्वात्मन्येवोपयोक्ष्यते । स्वात्मानमेव प्रकाशयति न त्वर्थविषया । यद्येवं सर्वसंविदामनर्थकत्वात्किंकृतः प्रमाणेतरविवेकः । अर्थक्रियाकारिप्रत्ययसदसद्भावकृत इति ज्ञात्वा शाम्यतु भवान् ।[७२६ ]व्यवहारसंवादापेक्षया हि प्रमाणं तद्विसंवादादप्रमाणमिति सांव्यवहारिकी प्रमाणस्थितिः । पारमार्थिकं तु प्रमाणं चिन्तामयीमेव प्रज्ञामनुशीलयन्तः केचिदेव कृतिनो निर्धूतनिखिलनीलाद्युपरागमभिमुखीकुर्वन्तीतिइइ तत्तुरीयं प्रत्यक्षमाचक्षते ॥ ६३ ॥ सिद्धान्तमिदानीमारभते नेति । अस्यार्थः एकं हि ज्ञानं ग्राह्यग्राहकमिति वः सिद्धान्तः । न चैकस्योभयात्मकत्वे कश्चिद्दृष्टान्त इति । तत्पुनरिदं पूर्वापरयोरनवहितस्येव भाषितम् । तथा हि न तावद्ग्राह्यग्राहकाकारं ज्ञानमिति बौद्धैरिष्यते । अपि तर्हि प्रलीनग्राह्यग्राहकोद्ग्राहं चिन्मात्रमेव स्वयंप्रकाशमिति । उक्तं हि {२,११९} ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते । इति । बौद्धगन्धिमीमांसकैरप्युक्तं संवित्तयैव हि संवित्संवेद्यते न तु संवेद्यतया नास्याः कर्मभावो विद्यते इति । दृष्टान्ताभाववचनमपि चासमर्थम् । न हीदानीमनुमानतो बौद्धस्य प्रत्यवस्थानं, येन दृष्टान्ताभाववचनेनोपालभ्यते । निरालम्बनानुमानस्य प्रत्यक्षबाध उक्ते सम्प्रति प्रत्यक्षशक्तिपरीक्षयैव प्रत्यवस्थितं न ज्ञानं बहिरर्थे प्रवर्तितुं शक्तं ग्राह्यलक्षणायोगादित्यादिभिः । अतः किं दृष्टान्ताभाववचनेनोपालभ्यते । अत्रोच्यते एवं हि मन्यते । अवश्यमयं ग्राह्यग्राहकभावः संविदो बौद्धैरभ्युपगन्तव्यः, कथमन्यथा सैव सिध्यति । न ह्यग्रहणकर्मणः कस्यचित्सिद्धिरस्ति । ननु स्वप्रकाशः प्रकाशः किमस्य प्रकाशान्तरेण । स्वप्रकाश इति कोऽर्थः । स्वयमेव प्रकाशते न तु प्रकाशान्तरमपेक्षत इति । किं पुनरिदं प्रकाशत इति प्रकाशादर्थान्तरवचनं, न वा । यद्यर्थान्तरवचनम्, अस्ति तर्हि संविदोऽप्यपरः प्रकाशः । अन्यथा प्रकाशत इत्यनधिकार्थमवचनीयमेव । स्वरूपं हि संवित्पदेनैवोपात्तम् । अतः प्रतीतिकर्मतैव संविदः प्रकाशतेपदार्थो घटः प्रकाशत इतिवत् । स्यादेतत् । कर्तृप्रतिनिर्देशोऽयं नातः कर्मभावोऽवसीयत इति । नैवम् । एवमपि प्रकाशतेपदार्थस्य कर्तृभावो वाच्यः । नासावसति प्रकाशभेदे सिध्यति, अद्वितीयस्य भेत्तुमशक्यत्वात् । अतो नाप्राप्तस्य सिद्धिरस्ति । न चापि कर्मणः प्राप्तिरस्तीति सत्याः संविदोऽवश्यं प्राप्यकर्मता भावान्तरवद्वक्तव्या नान्या गतिरस्ति । नन्वर्थः कर्म, आत्मा कर्ता, संवित्तु फलं, तत्कथं कर्मेत्युच्यते । न । फलस्याप्यप्रतीतिकर्मणः सिद्ध्यसम्भवात् । अन्यथा मातृमेययोरपि स्वप्रकाशापातात्किं तत्सिद्ध्यर्थं संविदभ्युपगमेन । न प्रयोजनतः संविदं सङ्गिरामहे, अपि तु प्रतीतितः । प्रतीमो हि वयं मातृमेयगोचरां फलभूतां संविदम् । न ततोऽपि भिन्नामपरामिति तावत्येव व्यवतिष्ठामहे । मैवम् । निराकृतमिदं नानाकारा धीरुपलभ्यत इति । न हि नः संवित्प्रकाशवदर्थप्रकाशोऽपि भासते, नीलाद्याकारमात्रप्रकाशात् । नन्वप्रकाशात्मानो घटादयः प्रकाशान्तरमपेक्षन्ताम् । संविदस्तु तद्रूपायाः किमिति प्रकाशान्तरापेक्षया । न, अतद्रूपत्वात् । संविदोऽपि हि न स्वात्मप्रकाशात्मत्वं, अर्थप्रकाशो ह्यसौ ।{२,१२०}वक्ष्यति च ईदृशं वा प्रकाशत्वं तस्येति । अतोऽवश्याभ्युपगन्तव्यः संवित्सिद्धये प्रकाशभेदः । किमिदानीमसिद्धैव संवित्संवेद्यं साधयति संविदन्तरसिद्धा वा । न तावत्पूर्वः कल्पः । अप्रसिद्धा ह्यसती न संविद्व्यवहाराय घटत इत्युक्तम् । संविदन्तराधीनायां तु सिद्धावव्यवस्थापात इत्युक्तम् । सत्यम् । न संविदन्तराधीनसिद्धिः संवित्संवेद्यं साधयति । स्वरूपसत्येव तु । कथमधीविषया सतीति चेद्, न धीविषयभावः सत्ता । किन् तु सामान्यमुत्पत्त्युत्तरकालभावि तद्वताम् । अतो मृत्सलिलप्रच्छन्नबीजादिवदविदितस्वरूपसामर्थ्यैव संविद्विषयं व्यवस्थापयति । स च व्यवस्थितः सत्यां जिज्ञासायां संविदं संविदन्तराधानेन साधयति । नन्वियं विषयसामर्थ्येन संवित्सिद्धिः प्रत्युक्ता वस्त्वन्तरं प्रकल्प्यं स्यातित्यत्र यथा न प्रत्युच्यते तथानन्तरमेव वक्ष्यामः यावज्जिज्ञासितज्ञानादव्यवस्थापि नापतेत् । इति । अत एव सहोपलम्भनियमोऽपि परैरुक्तोऽस्मान् प्रत्यसिद्ध एव । विषयवित्तिकाले संविदोऽनुपलम्भात् । विषयमात्रमेव हि इदं नीलमिति नश्चकास्ति, नाहं नीलमिति । संवित्प्रकाशे च तथा प्रकाशानुपपत्तिः । न हि स्वगोचरा संवित्परनिरूपणात्मिका भवति, स्वपरवेद्ययोरिदमहङ्कारयोरविशेषापत्तेः । अयं स्वात्मानमहमिति प्रतिनिर्दिशति परमिदमिति । न त्वभेदेनेदङ्कारमहङ्कारं चोभयमेकत्र प्रयुङ्क्ते । अतो नास्तीदं नीलमित्यत्र संविदुपलम्भ इत्यसिद्धो हेतुः । स्वप्रकाशसंविद्वादिनामेव त्वयमुपालम्भ इत्युक्तम् । स्यादेतत् । अज्ञातो ज्ञापकहेतुः कथं ज्ञापयतीति । नायं दोषः । अज्ञातस्यापि चक्षुषो ज्ञानजननोपलब्धेः । ननु चक्षुरङ्कुरस्येव बीजं ज्ञानस्य कारकमेवेति युक्तमज्ञातस्यापि जनकत्वम् । मैवम् । ज्ञानहेतोरेव ज्ञापकत्वसमाख्यानात् । अपि च न ज्ञानं ज्ञापकहेतुः ज्ञानत्वात् । ज्ञानस्य हि जनका धूमादयो ज्ञापकाः न ज्ञानमेवेति कथमज्ञापकस्य ज्ञापकधर्मा आपाद्यन्ते । स्वरूपसत्यैव संविदा विषयः साध्यते । सा तु पश्चाज्ज्ञानान्तरेण साध्यत इति । असति तु ग्राह्यत्वे संविदेव न सिद्ध्येदित्यापाद्य ग्राह्यग्राहकत्वमेकत्वे दूषणमुच्यते नैकत्राद्वितीये तत्सिध्यतीति । यदपि च संवेदनमसत्यभेदे नीलसंवेदनयोरनुपपन्नमिति । तदप्यनेनैव निराकृतम् ।{२,१२१}विपरीतमिदमुच्यते ऐकात्म्ये संवेदनमिति, भेदाश्रयत्वाद्ग्राह्यग्राहकभावस्य, स्वप्रकाशत्वनिषेधाच्च । एकं हि तत्त्वमविभागं नात्मनि वर्तितुमर्हति । स्वात्मनि क्रियाविरोधात्, न ह्यङ्गुल्यग्रमात्मनात्मानं स्पृशति सूच्यग्रं वा विध्यति । कर्मकर्तारो हि तद्धर्मभेदाश्रयणेनैवोभयथा विवक्ष्यन्ते केदारादयो लवनादौ न त्वेकान्तमेकात्मानः । आत्मनोऽपि ग्राह्यग्राहकभावमनन्तरमेव समाधास्यतीति सिद्धं नैकस्य ग्राह्यग्राहकभाव इति । यत्तु भेदे ग्राह्यलक्षणायोग इति । तद्यद्युत्पत्तिसारूप्याभिप्रायेण तदनुमन्यामह एव उक्तदोषत्वादेवंविधस्य ग्राह्यत्वस्य । यत्तु ज्ञानोत्पत्तौ सञ्चे(?द्य्त्य)ते तद्ग्राह्यं, कथमनात्मभूतमसम्बद्धं सञ्चेत्यते । एवं ह्येकमेव ज्ञानं विश्वं गोचरयेद्, असम्बन्धाविशेषात् । अस्ति वा ऐकात्म्ये नीलसंवेदनयोः सम्बन्धः । नन्वसौ भेदाधिष्ठानः कथमेकत्राविभाग आस्पदं लभते । स्यादेतत् । ऐकात्म्येऽपि किं सम्बन्धेन, स ह्येकात्मा स्वप्रकाश एवेति । मैवम् । उक्तो हि स्वात्मनि वृत्तिविरोधः । तस्माद्भिन्नमेव संवेदनान्नीलं ग्राह्यलक्षणमुपनिपततीति तद्ग्रहे भेदमातिष्ठामहे । अभेद एव तूक्तेन प्रकारेण ग्राह्यलक्षणायोगः । यदा तु ज्ञानार्थयोः सारूप्यनिराकरणार्थं स्थूलानुपपत्तिश्चलाचलोपलम्भादिभिरापादिता, तां वनोपन्यासावसरे परिहरिष्यामः । सारूप्येण तु ग्राह्यतामनातिष्ठन्तो नेह स्थूलसिद्धावाद्रियामहे । तदेकप्रकाराभिहतमेव हेतुत्रयम् । कथमिदानीमसम्बद्धं प्रकाशते । तत्प्रकाशे वा नातिप्रसङ्गः । नासम्बद्धं प्रकाशते । इन्द्रियाणि हि प्रकाशकानि । तानि च प्राप्यकारित्वादर्थेन सम्बद्धान्येवार्थविषयमात्मनि ज्ञानं जनयन्ति । तैश्चासन्निहितमवर्तमानं वा न प्राप्यत इति नातिप्रसक्तिः । ज्ञानं तु न प्रकाशकं प्रकाशत्वात् । प्रकाशकं च नासम्बद्धं प्रकाशकं प्रदीपवदिति तत्प्रकारजुषामिन्द्रियाणामिष्ट एव सम्बन्धः । तत्किमसम्बन्ध एव ज्ञानार्थयोः । यद्येवं कथं घटस्य ज्ञानं नासम्बन्धः । विषयविषयिभावोऽपि सम्बन्ध एव । स चास्ति ज्ञानार्थयोः । संयोगस्तु नेष्यते समवायो वा । कोऽयं विषयार्थः । येयं प्रतीतिकर्मता । प्रतीतिरिति हि क्रिया । अस्यामात्मा कर्ता । इन्द्रियाणिकरणम् । अर्थः कर्म । तद्येयमर्थस्य प्रतीतौ कर्मकारकता तदेव तस्य विषयत्वं तच्च रूपं प्रतीतेः प्रागभूतं परस्तान्निष्पद्यत इत्यवश्यमाश्रयणीयम् । अन्यथा ज्ञाताज्ञातयोरविशेषापत्तेः ।{२,१२२}तदेव ज्ञातता(?ति।दि)पदास्पदं ज्ञानज्ञाने लिङ्गं, कथं पुनस्तदप्रतीतायां प्रतीतौ प्रतीयते । ज्ञानविशिष्टता हि ज्ञातता । सा कथमज्ञाते विशेषणे ज्ञायते । अज्ञाता वा लिङ्गमनुपपद्यमाना वा न ज्ञानं गमयति । न ह्यज्ञातं लिङ्गमनुपपद्यमानं वा लिङ्गिनमुपपादकं वोपस्थापयति । तदितरेतराश्रयं, ज्ञानज्ञाततयोरितरेतराधीनसिद्धित्वात् । स्वरूपमात्रेण त्वर्थो न लिङ्ग(?मि।म)तिप्रसङ्गादित्युक्तमेव । भवेदेवं यदि ज्ञानप्रतीतौ ज्ञातः प्रतीतो भवेत्तदुत्पत्तौ तु स प्रतीत इत्युच्यते । अतः स्वयं सिद्धो ज्ञानं साधयति । यत्तु ज्ञानविशिष्टता ज्ञाततेति । तन्न । तत्कर्मता हि सेत्युक्तमेव । तत्कर्मभावश्चार्थस्य न तत्प्रतीतौ सम्भवति । किन् तर्हि । तदुत्पत्तौ । तदयमुत्पत्त्यैव ज्ञानस्याप्राप्तपूर्वो विषयः सम्प्रति प्राप्तो ज्ञानमुपकल्पयति । एष हि प्राग्ज्ञानोत्पत्तेः सुस्वापादावन्ध इवासीत्, न कञ्चिद्विषयमज्ञासीत् । तत्केयमाकस्मिकी विषयाणां प्राप्तिरिति चिन्तयति न हि कदाचिद्भुवामकस्माद्भावः सम्भवति । अहेतुसापेक्षस्य गगनवन्नित्यभावापत्तेः । अभावो वा तत्कुसुमवदिति भवितव्यमस्य कदाचिद्भवतोऽर्थसन्निकर्षस्य केनापि कारणेन । न ह्यसौ तथाविधः स्वरूपेणैव, नित्यतथात्वापत्तेः । नेन्द्रिय वशेन । तेष्वपि सत्सु सुस्वापादावदर्शनादर्थतथात्वस्य जागरायां चाव्याप्रियमाणेषु । अस्तु तर्हि तद्व्यापार एव तथात्वे हेतुरर्थस्य । न, सत्यप्यभावात् । अस्ति खल्वस्य नानार्थैः सन्निकृष्यमाणानामिन्द्रियाणामसाधारणो व्यापारः । किञ्चिदेव तु कदाचिज्ज्ञातं भवति । एवमेवात्ममनसोरपि सतोरर्थतथात्वादर्शनाद् अहेतुत्वं तथात्वेन । नन्वव्यभिचारी मनसो योगस्तद्भावे हेतुर्भविष्यतीति । कस्य इन्द्रियाणामात्मनो वा । तन्न तावदिन्द्रियाणाम् । यदेव हि किञ्चिद्बहिरिन्द्रियं चक्षुरादि कार्यदर्शनवशान्मनसा संयुक्तमित्यवगतं तदेव किञ्चिज्ज्ञापयति । नेतरत्तदिन्द्रियमनोयोगहेतुकत्वेन युज्यते ज्ञातत्वस्येति तद्योगो न हेतुत्वेन कल्प्यते । आत्मन्यपि मनोयुक्ते कस्य हेतोः किञ्चिदेव ज्ञातं नापरम् । येनेन्द्रियं सन्निकृष्यते चक्षुरादि तदात्ममनोयोगाज्ज्ञातं भवतीति चेद्, न । उक्तव्यभिचारत्वात् । चक्षुस्सन्निकृष्टमपि हि किञ्चिदेव कदाचिज्ज्ञातं भवति नापरं, तदसति विशेषे नावकल्पते । अपि च ज्ञानकर्मता ज्ञातत्वं चेतना ज्ञानमिति चानर्थान्तरमिति लोकसिद्धम् । तद्यद्यात्ममनोयोगश्चेतना, तस्योभयसाधारण्याद्मनश्चैतन्यप्रसङ्गो{२,१२३}वर्णितः । न ज्ञानं चेतना, अपि तु संवेदनमिति चेत् । अस्ति वानयोर्विशेषः । नन्वेवं नीलं जानाति संवेत्तीति च सह प्रयुज्येत, अर्थभेदेनापर्यायत्वादिति नात्ममनस्संयोगो ज्ञानम् । अतो न तत्प्रभावितं भावानां ज्ञातत्वम् । सोऽयमहेतुकः प्राप्यकर्मभावोऽर्थस्य ज्ञाततात्माजन्यो नावकल्पते । हेत्वभावेन कार्याभावप्रतिबद्धेन तदनुमानात् । सेयं प्रत्यक्षादीनामनुमानविरोधानुपपत्तिः । तानि ह्यर्थं प्रापयन्ति । हेत्वभावानुमानं च तत्प्राप्तिं प्रतिक्षिपति । सेयमनुपपत्तिर्ज्ञानकल्पनया समाधीयते । अस्ति कश्चिदात्मसमवायी ज्ञानसंवेदनादिपदपर्यायवाच्यो जानातिधातूपादानः क्रियाभेदो यस्मिन्नर्थानां प्राप्यकर्मतेति । ननु ज्ञानं गुणः गुणकाण्डेर्पाठात्न तु क्रिया । अतः कथं तस्यार्थः कर्मेत्युच्यते । न हि विभोरात्मनः स्पन्दसमवायः सम्भवति । न चापरिस्पन्दात्मिका क्रिया, पञ्चानामपि कर्मणां स्पन्दात्मकत्वात् । न । धात्वर्थमात्रस्य क्रियात्वात् । वक्ष्यति च क्रिया धात्वर्थमात्रं स्यातिति । बुध्यत इत्यादिभ्यश्च शब्देभ्यः क्रियाप्रत्यय एवोपजायमानो दृश्यते पूर्वापरीभावावगतेः । अतो युक्तैव ज्ञानकर्मता विषयाणां ज्ञानाकारवादिनाम् । अपि चावश्यम् अप्राप्तपूर्वस्य नीलादेः प्राप्तिर्वक्तव्या । अन्यथा प्रागिवोत्तरकालमप्यप्रतिभासमाने विषयाकारे आन्ध्यमेव जगतो भवेत् । भासते विषयाकारो न केनचित्प्राप्यत इति चेत्, कस्य भासते । यदि न कस्यचित्, किंकृतो व्यवहारभेदः । एको हि नीलं विद्वांस्तदुपाददानो दृश्यते । नापरो विद्वान् । सोऽयं स्वतन्त्रे नीले किंकृतो विशेषः । न हि स्वतन्त्रो भासमानः सर्व(?स्या।स्य) स्यान्न वा कस्यचिद्वनवह्निरिवानुपलभ्यमानः केनापि । अतोऽवश्यमस्य क्वचित्सन्ताने प्राप्तिर्वक्तव्या । तथा च यदाभासं प्रमेयं तदिति पठन्ति । न चाप्रमाकर्मणः प्रमेयता सम्भवति । अस्त्ययं प्रमेयादिविभागः, किन् तु भ्रान्तिपरिकल्पितः । तथा चोक्तम् अविभक्तोऽपि बुद्ध्यात्मा इति । सत्यमुक्तम् । अयुक्तं तु तत् । एवं हि न किञ्चित्पारमार्थिकं नाम भवेत् । चिन्मात्रतापि हि प्रतीतिवशादेवाश्रीयते । तद्वदेव तु विषयाकारोऽपि भासमानः कथमपारमार्थिको भवेत् । तद्विपर्यस्तत्वे वा कथं संवित्स्वरूपमविपर्यस्तं भवेत् । उभयत्रापि बाधादर्शनात् । अतः संविदेवात्मनो भिन्नमर्थमिदमिति दर्शयन्ती नान्यथा वक्तुं शक्यत इति सिद्धमिदमिति बहिः प्रसिद्धो विषयो ज्ञानं साधयतीति । {२,१२४} यत्तूक्तमर्थस्थो धर्मः परेणापि ज्ञातो ज्ञानं गमयेदिति । तदयुक्तम् । अर्थो हि ज्ञातोऽनुपपद्यमानो ज्ञानकल्पनायां हेतुरुक्तः । न चासौ सर्वस्य तथा भवति । यस्यैव तु ज्ञानमुत्पन्नं तस्यासौ ज्ञात इति प्रतीतिसाक्षिकमेव । यथा यस्यैव गमनं तस्यैव देशान्तरप्राप्तिर्भवति असत्यपि गतिज्ञाने । किमात्मकः पुनरर्थस्थो धर्मः । उक्तं कर्मकारकतेति । ननु कर्मशक्तिरप्रत्यक्षसिद्धा कथं ज्ञानं गमयति । न कर्मशक्त्या ज्ञानं कल्पयामः । कर्मणा त्वर्थेन, स तु प्रत्यक्षसिद्ध एव । तस्य चाप्रत्यक्षायामपि शक्तौ कारकान्तरवत्प्रत्यक्षतोपपत्तिः । कारकान्तरशक्तयोऽपि ह्यप्रत्यक्षा एव । न चैतावता तेषामप्रत्यक्षभावः । अतः प्रत्यक्षादिप्रमाणप्राप्तो विषयो ज्ञानकल्पनायां हेतुः । प्राप्तिश्चार्थस्याभूतपूर्वावस्था सर्वस्य स्वसंवेद्येत्येके । अन्ये तु हानादिव्यवहारयोग्यतैवार्थस्य प्राप्तिरित्याहुः । सैव हि ज्ञातत्वम् । तदेव हि ज्ञानफलम् । क्रियाफलभागिता च कर्मत्वम् । सर्वथा सिद्धं ज्ञातादर्थाज्ज्ञानानुमानम् । येऽपि प्रत्यक्षैव संवित्स्वात्मानं विषयवदवस्थापयतीति मन्यन्ते, तैरपि ज्ञानोत्पत्तेः प्रागभूतः परस्ताद्भाव्यर्थगतो धर्मभेदोऽभ्युपगन्तव्यः । न तु ज्ञानप्रत्यक्षतैवार्थप्रत्यक्षता । न ह्यन्यस्मिन् प्रत्यक्षेऽन्यत्प्रत्यक्षं भवति, अतिप्रसङ्गात् । यदि संवित्प्रत्यक्षतैवार्थप्रत्यक्षता भवेद्, अनुमेयादीनामप्यापद्येत । अनुमानसंविदोऽपि प्रत्यक्षत्वात् । अतोऽवश्यं स्वगत एवार्थस्य विशेषो वक्तव्यः, येन प्रत्यक्षेतरते व्यवतिष्ठेते । अतः सिद्धं नाप्रमाणिका ज्ञेयसिद्धौ ज्ञानकल्पनेति द्वैतसिद्धिः । सर्वसंविदां त्वानर्थक्ये विषयाकारप्रत्यभिज्ञा निर्निबन्धनैव भवेत् । एव हि पूर्वेद्युर्दृष्टमर्थमपरेद्युः प्रत्यभिजानाति । तज्ज्ञानेन सह निरुद्धस्याकारस्य नोपलभ्यते । अन्यः खल्वयमद्य भुवो ज्ञानस्याकारः । अन्यश्चासौ यः प्राङ्निरूपितनिरुद्धः । कतरदत्र प्रत्यभिजानीमः । प्रमाणेतरविभागोऽपि सर्वसंविदामानर्थक्येऽनुपपन्नः । न चार्थक्रियाकारिज्ञानसदसद्भावनिबन्धनोऽसाविति युक्तम् । स्वप्नपरिदृष्टेष्वप्यर्थेषु (?का।क्व)चिदर्थक्रियाकारिज्ञानोदये प्रामाण्यप्रसङ्गात् । बाध्यते स्वप्नज्ञानम्[७२६]अनन्तरम्, अतो न प्रमाणमिति चेत्, जाग्रज्ज्ञानमपि योग्यवस्थायां बाध्यत एवेति कथं प्रमाणम् । अथ तच्चिरेण बाध्यत इत्युच्यते, नैतावता विशेषेण सत्यमित्थ्यात्वे भवतः । न हि मायासुवर्णज्ञाने चिरेण विसंवादो दृश्यत{२,१२५}इति तत्प्रमाणम् । अतो यत्प्रमाणं तत्प्रमाणम्, अप्रमाणं चाप्रमाणं न त्वर्धजरतीयमुपपद्यते । अतः सिद्धं ज्ञानाद्भिन्न एवार्थो ग्राह्यलक्षणानुयायी ज्ञानं च साधयतीति । दृष्टान्ताभाववचनमपि नानुमानदूषणार्थं, किन् तु स्वाभिप्रेतानुमानदूषणपरिहाराय । एवं ह्यत्रानुमानमन्तर्णीतं नाविभागं द्व्यात्मकमविभागत्वादन्यतरांशवदिति । यदि च कश्चित्कदाचिदग्न्यादिषु दर्शनादनैकान्तिकतां ब्रूयात्, तदर्थमिदमुक्तं न चैकस्यैवमात्मत्वे दृष्टान्तः कश्चिदस्ति ते इति । तच्चैतदुपरिष्टात्प्रपञ्चयिष्यतीति ॥ ६४ ॥ __________टिप्पणी__________ [७२६] मन्त (Kःा) [७२६ ] च्f । ড়्Vइन् १ ।१००,१४१९ ___________________________ नन्वग्न्यादीनामेकात्मनामेव प्रकाश्यप्रकाशकता दृष्टा । अतोऽनैकान्तिको हेतुरत आह अग्नीति । अयमर्थः येऽग्न्यादयः प्रकाशकतया प्रसिद्धाः ते घटादीनां न स्वात्मन इति, न प्रकाशरूपाः प्रकाशात्मनः स्वरूपस्येति । किं पुनः स्वात्मनः प्रकाशस्य न ते प्रकाशकाः । न हि तेऽप्रकाशिताः सिध्यन्ति । न च तत्सिद्ध्यर्थमपरसजातीयापेक्षा दृश्यते । न हि प्रदीपः प्रदीपान्तरमपेक्षते । अत आह अनपेक्षणादिति । अयमभिप्रायः न ते स्वप्रकाशाय स्वात्मानमपेक्षन्ते, स्वात्मनि वृत्तिविरोधात् । स्वस्य स्वस्मिन् प्रकाशायोगादिति ॥ ६५ ॥ किमिदानीमप्रकाशिता एव प्रकाशन्ते, नैवमपि । केन तर्हि प्रकाश्यन्त इत्यत आह ग्राह्यत्वमिति । चाक्षुषेण हि तेजसा प्रकाशितास्ते गृह्यन्ते । तत्तेषां ग्राहयितृ न ग्रहीतृ । इन्द्रियचैतन्यप्रसङ्गात् । नन्वेवं तेजसस्तेजोन्तरापेक्षायां सजातीयापेक्षेत्यनवस्था । मैवम् । उक्तात्र नायनस्य तेजसः कार्यदर्शनानुसारिणी रूपसिद्धौ शक्तिसिद्धिः । बहिस्तेजसो रूपप्रकाशकत्वदर्शनाद्देहेऽपि वर्तमानं तदेव रूपस्य प्रकाशकं भूतान्तराणां तैजसस्य च । न चेह सजातीयापेक्षा । अवान्तरजातिभेदात् । अत एवान्धस्य{२,१२६}प्रदीपादयो न बुद्धिविषयाः । स्वप्रकाशत्वे च तेषामन्धस्यापि धीगोचरा भवेयुरिति । अक्षमपि रूपरूपिरूपैकार्थसमवायिना प्रकाशकं न स्वात्मनः, तद्ग्रहणकाले बुद्धेरेवान्यथानुपपत्तिप्रमाणिकाया ग्राहकत्वमित्याह अक्षेति ॥ ६६ ॥ बुद्धिस्तु बुद्ध्यन्तरवेद्येत्यनन्तरमेवोपपादितमित्याह तस्यामिति । अत्र चोदयति नन्विति । आत्मनो हि ग्राहकान्तराभावादवश्यमेकस्योभयरूपता वक्तव्या । न ह्यसावन्येन गृह्यते । ग्राहकानन्त्यप्रसङ्गात् । अतस्तद्वदेवैकस्यैव ज्ञानात्मनो ग्राह्यग्राहकभावो नानुपपन्न इति ॥ ६७ ॥ परिहरति कथञ्चिदिति । अयमभिप्रायः निर्भागं हि ज्ञानमिति वः सिद्धान्तः । न चैवंविधस्य द्वैरूप्यमुपपन्नम् । आत्मा तु केनचिदात्मना ग्राहकः । केनचिदात्मना ग्राह्य इति किं नोपपद्यते । तथा हि अस्यार्थसंयुक्तेन्द्रियसंयुक्तमनस्संयोगिनः प्रत्ययो नाम धर्मभेदो जायते । स चास्मात्कथञ्चिद्धर्मरूपेण भिन्नः । तेन चायं ग्राहकः । यत्तस्य पृथिव्यादिद्रव्यान्तरसाधारणं द्रव्यादिरूपं तद्ग्राह्यम् । ज्ञानस्य तु नैवंविधः कश्चिद्विभागो बौद्धैरिष्यते । अतः कथं तस्य द्वैरूप्यमिति ॥ ६८ ॥ नन्वेवमपि तावदत्यन्तभेदो ग्राह्यग्राहकयोरनिष्ट एव, अभेदस्यापि धर्मधर्मिणोरिष्टत्वादत आह यस्त्विति । अत्यन्तभेदो हि घटाग्न्यादीनामप्यस्माभिर्नेष्यते एव । द्रव्यादिरूपेणाभेदात् । अतः कथञ्चिद्भिन्नयोरेव सर्वत्र प्रकाश्यप्रकाशकत्वमित्यात्मनोऽपि नानुपपन्नमिति । यदि तर्हि प्रत्ययांशो{२,१२७}ग्राकहः द्रव्यांशो ग्राह्यः, कथं तर्हि भाष्यकारः प्रत्यगात्मनि चैतद्भवति न परत्रेति प्रत्यगात्मवृत्तितामात्मनो मन्यते । नन्वेवं परगोचर एवाहंप्रत्ययो भवेत् । परं हि प्रत्ययात्मनो द्रव्यादिरूपमत आह प्रत्यासत्तीति । येयमात्मनः प्रत्यगात्मवृत्तिता भासते नायं दोषः । सर्वम् एव हि नोऽनेकान्तेन परत्र प्रवर्तते । आत्मा त्वत्यन्तप्रत्यासन्नग्राह्यग्राहकधर्मकः प्रत्यगात्मवृत्तितया भासते । अत्यन्तप्रत्यास(?न्नो।न्नौ) हि नरस्य जलाजलात्मानौ तयोरसौ साधारणो ग्राह्यग्राहक इत्यभिधीयते इति न कश्चिद्दोष इति ॥ ६९ ॥ अपि च, अहमिति योऽयमस्मत्प्रयोगः तत्सम्भिन्ना विशदतरमात्मगोचरा संविदुत्पद्यमाना दृश्य(?न्त्ते ।) ज्ञानं तु न स्वगोचरं जातु जायमानमुपलब्धम् । अतो नात्मद्र्ष्टान्तेन ज्ञानस्योभयरूपता वक्तुं शक्या । न हि तदहं नीलमिति कदाचिदुत्पद्यमानं दृश्यते । सर्वदेदं प्रयोगसम्भिन्नबोधात् । अत उपपन्नैवात्मकर्तृकात्मनि संवित्तिः न तु ज्ञान इत्याह अस्मत्प्रयोगसम्भिन्नेति । अत्रैके वदन्ति कुमारस्वामिवादिनः नात्मास्मत्प्रयोगसम्भिन्नबोधवेद्यः । न हि वयं कार्यकारणसङ्घातातिरेकिणमयमस्मीति पुरुषं बुध्यामहे । पृथिव्यादिद्रव्यानुभव एव स्वप्रकाशः स्वमात्मानं स्वप्रकाश्यमात्मानं मेयं च द्रव्याद्यवस्थापयति । न हि विषयवित्तावप्रतिसंहिते पुरुषे स्वपरवेद्ययोरतिशयः सिध्यति । अतो विषया न बोद्धर्यनवभासमाने भासन्ते । नासौ तेषु । अत एव विषयवेदनोपरमे जडाकाशादिवदात्मनोऽवस्थानं सङ्गिरन्ते । यदा खल्वयं पुरुषः प्रक्षीणाशेषकर्माशयो मुच्यते, तदा ज्ञानकारणानामिन्द्रियादीनामभावादसति विषयवेदने चिद्रहितः खवदवतिष्ठते । निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणमेव हि मोक्षं मन्यन्ते । न चैवमपुरुषार्थत्वं, दुःखोपरमस्यापि पुरुषेणार्थ्यमानत्वात् । संसारिणो हि दुःखेनोद्विग्ना अत्यन्ताय तदुच्छेदमभिसन्दधाना गृहेभ्यः प्रव्रजन्तो दृश्यन्ते । न नु सुखमप्यात्मनो वैशेषिको गुणः । तस्योच्छेदादपुरुषार्थत्वमपि भवेत् । मैवम् । सुखमपि संसारिणो नानाविधानेकदुःखसङ्कुलं नातिचिरमनुवर्तत इति महान्तस्तदपि दुःखपक्ष एव निक्षिपन्तो मोक्षायोत्तिष्ठन्ते । अतो नास्ति{२,१२८}विषयवेदनोपरमे नरस्य चैतन्यम् । अत एवायमहरहस्सुखापे सन्मात्रतयावतिष्ठते । न पुनः किञ्चिज्जानाति । तत्र चानुभवे स्वप्नपरिचितानामिवार्थानामुपरिष्टात्स्मरणं भवेत् । न चैतदस्ति । अतो नानवभासमानेषु विषयेषु बोद्धा प्रख्यायते । न च विषयवित्तावस्मत्प्रयोगसम्भेदः इदं प्रयोगसम्भेदादिति नास्मत्सम्भेदे विषयानवग्रहादात्मग्रहः । नापि विषयवित्तावात्मग्रहे अस्मत्प्रयोगसम्भेद इत्यसमञ्जसमस्मत्प्रयोगसम्भिन्नेति । अत आह ज्ञानस्येति । अयमभिप्रायः अस्मत्प्रयोगसम्भिन्नोऽस्ति बोधो न वा । यदि नास्ति, जितमनुत्तरा गुरवः । सतस्तु किमालम्बनमिति वक्तव्यं शरीरमिन्द्रियाणि वा । न तावच्छरीरं, ज्ञातृगोचरत्वात् । अहं जानामीति ज्ञातारमहंप्रत्ययोऽवलम्बते । न च शरीरं चेतयते भौतिकत्वाद्भूतानां चाचेतनत्वात्, कारणगुणपूर्वकत्वाच्च कार्यगुणानाम् । अत एव नेन्द्रियाणि ज्ञातॄणि । न च ज्ञानं, प्रत्यभिज्ञानात् । अयं हि पूर्वेद्युर्दृष्टमर्थमुत्तरेद्युः प्रत्यभिजानानः पूर्वापरसाधारणमात्मानमनुसन्दधाति अहमिदमदर्शमिति । तत्तु ज्ञानगोचरत्वेऽनुपपन्नम् । अन्यो हि तदा यः पूर्वेद्युर्दृष्टवान्, अन्यश्चायं योऽद्य पश्यति, क्षणिकत्वाज्ज्ञानानाम् । अतः बुद्धीन्द्रियशरीरेभ्यो भिन्नोऽहङ्कारगोचरः । संवित्सामर्थ्यसिद्धत्वान्न जहात्युक्तरूपताम् ॥ इति । तदिदमुक्तं ज्ञानस्यैव च कर्तरीति । ज्ञानकर्तुर्हीयमस्मत्प्रयोगसम्भिन्ना संवित्तिः, न चान्यो ज्ञानस्य कर्तेत्युक्तम् । अतः संविद्बलादेवोभयरूपतात्मनः सिध्यति न त्वेवमात्मैवात्मानं ज्ञानं जानाति जातुचित् । तद्धीदं नीलमिति यत्सर्वदा परगोचरम् ॥ यत्तु न कार्यकरणसङ्घातातिरेकिणं प्रतिपद्यामहे इति । किमेवं देहाद्यालम्बनोऽहंप्रत्ययः । तत्तावत्प्रत्युक्तमेव । न चानालम्बनोऽयम्, अत्रत्यसिद्धान्तात् । तदयमनालम्बनमात्मानमलभमानः स्वगोचरं ज्ञातारमाकर्षति । स प्रतीतिबलसिद्धोभयरूपः पुरुषो न नोपपद्यते । देहेन्द्रियादिसङ्कीर्णस्तु न विविच्योपलक्षयितुं शक्यते अयं नामासौ पुरुष इति । न चैतावता न गृहीतो भवति । न हि क्षीरोदकसंसर्गे विवेकेनागृहीते इति{२,१२९}न गृहीतमुभयम् । एवमिहापि संमुग्धबुद्धः पुरुषः प्रत्याहारादिकं योगमभ्यस्यद्भिर्नित्यनैमित्तिकमात्रानुष्ठायिभिरकुर्वद्भिर् निषिद्धं भोगप्रक्षीणाशेषकर्माशयैरयमस्मीति विविच्यापरोक्षीक्रियते । न त्वयं विषयवित्तावप्ययं नामेति विविच्यते । येऽपि विषयवेदनावसर एव नरो गृह्यते इत्यास्थिताः, तैरप्यस्य विवेको दर्शयितुमशक्य एव । अतो नायं दोषः विवेको नावगम्यत इति । न त्वयं विषयवेदनावसरे ज्ञायते । न हि तदा तदतिरेकिणः कस्यचित्प्रतीतिरस्तीत्यनन्तरमेव वक्ष्यते न त्वत्रेत्यनेन । संविदेव तावत्तदा नावभासते, यदायत्तो भावानां भेदः प्रागेव संवेत्ता । यत्त्वेवं स्वपरवेद्ययोरनतिशय इति । तन्न । यस्य हि ज्ञानमुत्पन्नं, तस्य विषया भासन्ते इत्युक्तमेव । अतः कथमुत्पन्नज्ञानेन संविदितमन्योऽनुभवेत्तेन वा ज्ञातं तदन्यः । न हि बोद्धृसंवेदनकृतः स्वपरवेद्ययोर्भेदः, येनैवमापद्येत । एतावतैव ह्येकस्यासौ वेद्यः, नापरस्य, यत्तस्य ज्ञानमुत्पन्नम् । एवमपि भवेदेतद्यद्यसत्यां बोद्धृवित्तौ विषया न विदिता भवेयुः । तद्वित्तिरेव वा विषयवेदनं भवेत् । न त्वेवं, केवलविषयावग्रहात् । अन्यगोचरज्ञानस्यान्यविषयत्वासम्भवात् । एवं चासत्यां विषयवित्तौ पुरुषो न प्रकाशत इत्यपि दुरुक्तम् । एवं ह्युपरतकरणग्रामस्य मोक्षो मरणमेव शब्दान्तरेणानुज्ञातो भवेत् । न खल्वपि ज्ञानात्मनः पुरुषस्य सदसत्त्वयोरस्ति विशेषः । तदयमपवर्गदशायां प्रकाशत एव । केन पुनरयं तदा प्रकाश्यते । न केनचित् । स्वप्रकाश एवेत्येके । न त्वेवं, स्वप्रकाशत्वनिषेधादविभागस्य । तदापि त्वयं धर्मधर्मित्वविभागाश्रयणेन प्रत्ययात्मना ग्राहको द्रव्यादिरूपेण ग्राह्य इति वाच्यम् । किमस्ति तदा धर्मधर्मिभेदः । को दोषः । श्रुतिविरोधः । श्रूयते हि एकमद्वितीयमिति । न । व्यतिरिक्तग्राह्यनिषेधात् । अन्यथा ह्यात्मभेदोऽपि न सिध्येत् । न चासौ नेष्यते, मुक्तेतराविभागापत्तेः । अपि च अर्थावग्रहनिवृत्त्यर्था एवं विसंवादा इति तत्र तत्रोक्तम् । अतोऽपवर्गेऽपि ग्राह्यग्राहकाकार एवात्मा । श्रूयते च जानात्येवायं पुरुषो ज्ञातव्यं तु न वेदेति । न हि तदा ज्ञातुर्ज्ञप्तेर्विपरिलोपो विद्यते । न तु विभक्तमस्त्यन्यद्यतो द्वितीयं जानीयादिति । तस्माज्जानातिपदप्रयोगादवगच्छामः यदस्ति मोक्षेऽपि कर्मभावः पुरुषस्येति । जानातेरकर्मकस्याप्रयोगात् । इयांस्तु विशेषः यदयं भूतेन्द्रियवशो विषयोपरागात्तच्छयाभेदान्{२,१३०}प्रतिपद्यमानोऽविभक्तज्ञानशक्तिराभासते । निजैव त्वस्य चितिशक्तिः । सा असति विषयोपराग आत्मगोचरैवावतिष्ठते । कथमकरणिका ज्ञानोत्पत्तिरिति चेद्, मैवम् । तदानीमपि मनसो भावात् । नित्यं हि तदात्मवदुपेयते । आह च प्रत्याहारादिकं योगमभ्यस्यन् विहितक्रियः । मनःकरणकेनात्मा प्रत्यक्षेण प्रतीयते ॥ इति । न चैवं विषयवेदनप्रसङ्गः, मनसो बहिरस्वातन्त्र्यात् । विषयवित्तीनां च सुखदुःखहेतुत्वेन कर्मजन्यत्वादसति कर्मसंस्कारेऽनुपपत्तेः । आत्मज्ञानं च न कर्मजन्यमिति विगलितनिखिलकर्माशयस्यैव निष्पद्यते । केवलज्ञाननिराकरणेऽपि विषयवेदनान्येव प्रत्युक्तानि नात्मज्ञानम् । आह च निजं यत्त्वात्मचैतन्यमानन्दोऽध्यक्ष्यते च यः । यच्च नित्यविभुत्यादि तेनात्मा नैव मोक्ष्यते ॥ इति । सुस्वापेऽपि त्वात्मसंविदस्त्येवेति केचित् । अत एव सुषुप्तप्रतिबुद्धः सुखमहमस्वाप्समित्यात्मानं प्रतिसन्धत्ते । अथ वा तत्र कर्माशयानुवृत्तेस्तत्परतन्त्रं मनो न केवलमात्मानं प्रकाशयति, न विषयवित्तिविरहात् । अतो न विषयसंवेदन एवात्मसंवेदनम् । अपि चैवं मेयमातृगोचरायामेकस्यां संविदि भासमानयोः किंकृतः कर्मकर्तृभावः । एवं हि तद्द्विकर्मकं ज्ञानं भवेत् । यत्तूक्तं परसमवायिक्रियाफलभागिता कर्मतेति, तदयुक्तम् । यदेव हि ज्ञानोत्पत्तावाप्यते तत्प्राप्यं कर्म । तथाचात्मेति कथमस्याकर्मत्वम् । अपि च केयं क्रिया, यत्समवायात् तत्फलभागितया आत्मनः कर्तृत्वम् । किं पुनस्तत् । उक्तमात्म(म)नोयोग इति । नन्वस्य मनस्यपि समवायात्तस्यापि कर्तृत्वप्रसङ्गः । तत्फलसम्बन्धश्चोभयोरप्यविशेषादापद्यते । तत्र चोक्तो मनश्चैतन्यप्रसङ्ग इति सिद्धं न विषयवित्तेरेव त्रयसिद्धिरिति । यच्चास्मिन् दर्शने दुःखोपरतिरेव मोक्ष इत्युक्तम् । तदप्ययुक्तम्, आनन्दश्रुतेः । श्रूयते हि विज्ञानमानन्दं ब्रह्म आनन्दं ब्रह्मणो रूपमिति च । तदेतत्प्रेयः पुत्रादिति च । न च दुःखनिवृत्तिरेवानन्दः, अश्मादौ प्रसङ्गात् । स्यादेतत् । प्रत्यग्वृत्तिरुपलभ्यमाना दुःखाभावात्मना सुखम् । न चात्मा किञ्चित्प्रत्यग्जानाति अचेतनत्वादिति नासौ दुःखायते सुखायते वा । मैवम् । एवमपि देहिनो भिन्नावयवसंयोगी सुखदुःखसाधनजन्मा{२,१३१}युगपत्सुखदुःखभोगो न स्यात् । दुःखायमान एव ह्येकत्र भागे परत्र सुखायते । तद्दुःखनिवृत्तौ सुखेऽनुपपन्नम् । प्रदेशान्तरे दुःखाभावः सुखमिति चेद्, न । स्वसंवेद्यत्वादाह्लादविशेषस्य, प्रदेशान्तरे दुःखाभावे च सुखे नरकान्तरे दुःखाभावान्नरकान्तरे सुखित्वप्रसङ्गः । तत्तावद्दुःखनिवृत्तिः सुखम् । न चास्यामानन्दवादो गौणः, प्रमाणाभावात् । न ह्यानन्दश्रुत्यर्थे मुख्ये गृह्यमाणे किञ्चिदनुपपन्नं, येन गौणतया व्याख्यायते । अतो विज्ञानमानन्दं ब्रह्मेति प्रतिजानीमहे । असञ्चेतितस्त्वानन्दोऽप्यसत्कल्प एवेति सिद्धमन्तरेणैव विषयवेदनम् अस्मत्प्रयोगसम्भिन्नायां संवित्तावात्मा प्रकाशत इति ॥ ७० ॥ यथा चास्मत्प्रयोगसम्भिन्नसंवित्संवेद्य आत्मा द्विरूपो नैवं ज्ञानम् । न हीदं नीलमिति ज्ञाने करणानामिन्द्रियाणां ग्राहकस्यात्मनो ज्ञानस्य वाकार उपलभ्यते, नीलमात्रप्रकाशादिति न पूर्ववदात्मवदभिन्नत्वेऽपि नीलज्ञाने तद्बुद्धेर्ग्राह्यत्वम् । नीलमेव तु तया गृह्यते । सा तु ततो ज्ञातादवगम्यत इत्युपपादितमेव, तदेतदाह न त्विति । दृष्टान्तार्थं करणग्राहकयोरुपादानम् । यथेदं नीलमित्यत्र करणमिन्द्रियं ग्राहकः पुरुषो न ज्ञायते, एवं ज्ञानमपि । कर्मैव तु केवलमत्रावगम्यते । न च कर्तृकरणक्रियमिति ॥ ७१ ॥ स्यादेतत् । ज्ञानसंवित्तिरेवेयमिदं नीलमिति । पररूपनिरूपणाकारत्वं तस्या वासनानिबन्धनम् । अनादिर्हि वासना संसारिणां, तद्वशेन स्वात्मानमपि परमिव निरूपयति परेषामिव परं देहमात्मतया अहमिति । अत आह अन्याकारेति । अयमभिप्रायः संविन्निष्ठा हि नो वस्तुव्यवस्थितयः ।{२,१३२}संविच्चेदमिति बहिर्विषयप्रकाशात्मा जायमाना दृश्यते । यदि त्वियमेवंरूपाप्यन्यविषया ज्ञानविषयेष्यते, एवं तर्हि ज्ञानाकारा संवित्तिरर्थविषयास्माभिः कस्मान्न कल्प्यते । (न चासति बाधके परगोचरत्वं भ्रान्तिरिति युज्यते कल्पयितुम् । वासना च प्राचीनज्ञानजन्मात्माश्रयः संस्कारोऽभिधीयते । नासावस्ति नास्तिकानां, नैरात्म्यसिद्धान्तात् । नापि ज्ञानमाधारो वासनायाः, क्षणिकत्वात् । नापि समनन्तरप्रत्ययो वासना, तस्य तथात्वेनाप्रसिद्धेः । असावपि स्वगोचरो न परं परगोचरतया दर्शयितुं शक्नोति । अतद्रूपत्वात्ताद्रूप्यनिष्पत्त्ययोगात् । इतरथानुभवरूपतापि तस्य न स्यात् । अनुभवाकारतां ह्युत्तरस्य समनन्तरप्रत्ययो वितनुते । तत्कस्य हेतोः । स्वरूपानुरूपकार्यारम्भस्थितेः । अत एव नात्मगोचरादिदमिति परसंवेदनोत्पत्त्युपपत्तिः । परत्राहं मानकल्पना तु भ्रान्तिः, ज्ञातृगोचरत्वादहङ्कारस्येत्युक्तमेव । न त्विह बाह्यालम्बनत्वे ज्ञानस्य किञ्चिदनुपपन्नं येनात्मगोचरतावश्यं कल्प्यत इति सिद्धं बाह्यालम्बनम् एव ज्ञानमिति) ॥ ७७ ॥ {२,१३३} एवं तावदन्यतराग्रहणेऽन्यतरो न गृह्यत इत्युक्तम् । तद्वदेव द्वयोरप्यग्रहणमिति समाहृत्य दर्शयति यथा चेति । अस्यार्थः यथा ग्राह्यग्रहणे ग्राहको न गृह्यते ग्राहकग्रहणे च ग्राह्यः । एवं च द्वयोरप्यग्रहणं भवेत् । न तु ग्राहकमात्रस्य वा ग्राह्यमात्रस्य वा । पूर्वं त्वन्यतराग्रहणदृष्टान्तेनेतरस्याग्रहणमापादितम् । इदानीं समाहृत्योभयोरुच्यत इति प्रयोगभेद इति ॥ ७८ ॥ एतच्च ग्राह्यमात्रस्य ग्रहणं ग्राहकरहितं स बहिर्देशसम्बद्धः इत्यादिना भाष्येणोक्तमित्याह स इति । अयं च भाष्यार्थः स एव केवलो बाह्यार्थः प्रत्यक्षमवगम्यते । न पुनर्ग्राहक इति ॥ ७९ ॥ आञ्जस्येन त्वर्थाकारो नीलादिरित्येतत्सिद्धये बहिर्देशसम्बन्धो हेतुतया लक्ष्यते, तन्नानुमन्यामह इत्याह परमिति । न हि परस्य बहिर्देशो नाम कश्चित्सिद्धः योऽर्थसाकारत्वे हेतुतयोपन्यस्येत । सर्वस्य ज्ञानाकारत्वेनाभ्युपगमात् । अतो बहिर्देशस्तत्सम्बन्धश्च बौद्धं प्रति साध्य एव, न हेतुरिति ॥ ८० ॥ तस्माद्यथोक्त एव भाष्यस्यार्थ इत्याह तस्मादिति । अस्यार्थः बहिरित्यादौ भाष्ये इदंशब्देनेदं नीलमिति विकल्पस्थेन निष्कृष्टं ग्राहकांशात्प्रत्यक्षादेः प्रमाणगणस्य संवेद्यमुदाहृतं नीलादिमात्रम् । एतदुक्तं भवति । न स्वगोचरं ज्ञानं बहिःप्रकाशाद्, इदमिति{२,१३४}परनिरूपणात् । स्वगोचरे हि नेदमिति प्रकाशो भवेत्, किन् त्वहमिति । तदिह बहिर्देशसम्बन्धोपन्यासेन परगोचरतैव संवित्तेरुच्यत इति ॥ ८१ ॥ तथा केवलग्राहकसंवित्तिरपि सत्यं पूर्वं बुद्धिरुत्पद्यते न तु पूर्वं ज्ञायते इत्यत्रोक्तेत्याह नेति । अत्र हि पूर्वमुत्पन्नापि बुद्धिर्न प्रागवगम्यते, किन् तु पश्चादिति वदता ग्राह्याकारविनिर्मुक्तस्यैव ग्राहकस्य संवित्तिरुक्तेति ॥ ८२ ॥ प्राग्बुद्धेरग्रहणसिद्ध्यर्थं भाष्यकारेणोक्तं भवति हि कदाचिदेतद्यज्ज्ञातोऽर्थः सन्नज्ञात इत्युच्यते इति । तस्यार्थः ज्ञातपूर्वोऽर्थः कदाचिदस्मर्यमाणोऽज्ञातवदभिधीयते । ज्ञानमात्रं तु तद्गोचरं स्मर्यते । एवं हि वक्तारो भवन्ति अस्याः श्रुतेरर्थो मया गुरुणा व्याख्यायमानो ज्ञातः, इदानीं प्रस्मृतवानस्मि । ज्ञानं त्वेतद्गोचरं पूर्वं जातं स्मरामीति । यथा चास्या बुद्धेरग्रहणे हेतुत्वं तत्फलाभिप्रायेण परस्ताद्वक्ष्यति फलत्वाद्ग्रन्थवर्णने इत्यत्र । तस्मादपि केवलं ग्राहकस्मरणाद्ग्राह्याकारविविक्तग्राहकबोधः सेत्स्यतीत्याह नेति ॥ ८३ ॥ अभेदे तु ग्राह्यग्राहकयोर्ग्राहकवद्ग्राह्यस्यापि स्मरणं भवेदित्याह तस्मादिति । तस्माद्ग्राहकादित्यर्थः । यतस्तु ग्राहकमात्रस्यैव स्मृत्यात्मको निर्भासो भवति न ग्राह्यस्य, अतोऽवगच्छामः यदनुभवकालेऽप्येषा बुद्धिरेव केवला गृहीता कथमन्यथा केवला स्मर्येत । तदेतदाह ग्राहकेति । ग्राहकमात्रस्य स्मृतिनिर्भासात्कारणात्तत्र ग्राहकग्रहणकाले केवला बुद्धिर्गृह्यते इत्यर्थः ॥ ८४ ॥ {२,१३५} कस्मादेवमत आह तदिति । तत्स्मरणम् । अत्यन्ताविनाभावाद्ग्राह्यग्राहकयोरेकाकारं न जायत इत्यर्थः । तदेवमन्यतरांशान्वयेऽन्यतरविवेकात्सिद्धो ग्राह्यग्राहकयोर्भेद इत्याह अन्वयेति ॥ ८५ ॥ अत्र चोदयति ग्राह्येति । अयमर्थः यदेतद्भवता ग्राह्यग्राहकयोरभेदमभ्युपेत्यान्यतरग्रहणेऽन्यतरग्रहणमापाद्यते, तदयुक्तम् । न हि यद्यतो न भिद्यते तदवश्यं तद्ग्रहणे गृह्यते । न हि शब्दादभिन्ना नित्यानित्यादयो धर्माः शब्दग्रहणे गृह्यन्ते । अभेदेऽपि तु यस्यांशस्य यदा योग्यता स तदा गृह्यते नेतर इति किमनुपपन्नम् । ग्राह्यांशश्च ग्राहकांशसद्भावाद्ग्रहणयोग्यः, न ग्राहकांशः, तदतिरिक्तग्राहकान्तराभावात् । अतो न ग्राह्यग्रहणे ग्राहकग्रहणप्रसक्तिरिति ॥ ८६ ॥ स्यादेतत् । ग्राह्यांश एवास्य ग्राहको भविष्यतीति । तन्न, कर्मणः कर्तृभावानुपपत्तेरित्यभिप्रायेणाह ग्राह्येति । अपि च ग्राह्यग्राहकभावमेकस्य ज्ञानस्याभ्युपेत्य भवतोभयग्रहणमापाद्यते । यदि च ग्राह्यांशोऽपि ग्राहको भवेद्द्वैरूप्यमेव हीयेत । ग्राहकैकस्वभावत्वापत्तेरित्याह ग्राहकेति ॥ ८७ ॥ अथ वा ग्राह्यांशस्तावद्ग्राह्य एव, यदि च ग्राहको गृह्येत, ततो ग्राह्यैकात्मत्वं भवेदित्याह ग्राहक इति । अत्यल्पं चेदमस्माभिरुच्यते उभयग्रहणे एकरूपतेति । सापि तु न सिध्यत्येव । ग्राह्याभावे ग्राहकाभावात्तदभावे ग्राह्याभावादित्याह न स्यादिति ॥ ८८ ॥ {२,१३६} एवं तावद्ग्राहकान्तरवर्जनाद्ग्राहको न गृह्यत इत्युक्तम् । अपि चोद्भवाभिभवौ भावानां ग्रहणाग्रहणकारणतया सिद्धौ । अतो य एवांशो यदोद्भूतो भवति, तदा स एव गृह्यत इति न नोपपन्नमित्याह उद्भवेति । अत्रैव दृष्टान्तमाह यथेति ॥ ८९ ॥ रात्रौ हि दीपप्रभादीनां रूपमात्रमुपलभ्यते, न स्पर्शः । अभिभूतत्वादित्याह दिवेति । स्पर्शरूपयोश्च नक्तन्दिवमभिभवे चन्द्रमसः शीतस्पर्शः प्रबलं च तारणं तेजः कारणमिति । एवं तावदभिभवे कारणान्तरसन्निधानादभिभूतस्याग्रहणमुक्तम् । इदानीं स्वयमपि सूक्ष्मत्वादभिभूतं न गृह्यते इत्युदाहरणेन दर्शयति गन्धवदिति । यदा खलु वायुना प्रेर्यमाणाः सूक्ष्मा द्रव्यभागा घ्राणेन्द्रियगोचरा भवन्ति, तदा तेषु वर्तमानेष्वपि गन्धमात्रमेवोपलभ्यते न द्रव्यमभिभूतत्वात् । सा पुनरियं द्रव्यसङ्क्रान्तिरयुक्तेति मन्यन्ते । यदि खलु तिलादिषु चम्पकादिद्रव्यमेव सङ्कामेद् एवं मृद्यमानेषु तेषु चम्पकगन्धो नश्येत्पुष्पस्थ इव । चम्पकादिद्रव्येषु मृद्यमानेषु तद्गन्धस्य नाशो दृष्टः । एवं तिलस्थकुसुमावयवमर्दनेऽपि भवेत् । यः खलु स्थूलेष्वेव कुसुमेषु मृद्यमानेषु नश्यति, स कथं सूक्ष्मावयवस्थं न नङ्क्ष्यतीत्युत्प्रेक्ष्यते । अतश्चम्पकादिसन्निधानाद्गन्धान्तरमेव तिलादिषु जायते इति मन्यते । एवमप्स्वग्निसंयोगाद्गुणान्तरागमो वक्तव्यः । नाग्निसङ्क्रान्तिरनुपलम्भनात् । स्पर्शमात्रमेव हि तत्राग्नेर्वयमुपलभामहे, नाग्निम् । अपि चायं तपस्वी द्रव्यसङ्क्रान्तिमातिष्ठमानः सुराघ्राणे पतेत् । सुरात्रसरेणूनां घ्राणोदरेण वक्त्रसञ्चारात् । अत आत्मवधायैवेयं द्रव्यसङ्क्रान्तिराश्रिता भवेत् । अत्राभिधीयते न तावत्स्वाश्रयपरित्यागेनाश्रयान्तरं गन्धो गच्छतीति सम्भावयामः । गुणानामस्वतन्त्रत्वात् । आश्रयपारतन्त्र्यमेव हि तल्लक्षणम् । गुणान्तरमपि न तावत्सन्निहितेष्वाकाशानिलादिषु कुसुमसम्पर्काज्{२,१३७}जायते इति वाच्यम् । तेषु गन्धस्यात्यन्ताभावात् । नापि नासिकायामेव गन्धान्तरं जायत इति वक्तव्यम् । अतिदूरत्वेन कुसुमासंसर्गात् । अतः कुसुमावयवा एव दृष्टतद्गन्धसम्बन्धावायुना प्रेर्यमाणा घ्राणोदरं यावदागता गृह्यन्त इति प्रमाणवती कल्पना । योऽपि मर्दने गन्धनाश उक्तः, सोऽप्ययुक्तः । सूक्ष्मा हि तत्र कुसुमावयवाः सङ्क्रान्ताः । न ते मृद्यन्ते । अतो गन्धो न नश्यतीत्युक्तम् । योऽपि गन्धाघ्राणे सुरापानदोषोऽभिहितः, नासौ । पानं हि सुराया निषिद्धं, नाघ्राणम् । अल्पस्तु तदाघ्राणे दोषः । न च सुरां जिघ्रन् पिबतीत्युच्यते । अतो न सूक्ष्मावयवानां नासिकासन्निधानमात्रात्सुरापानापत्तिरिति सिद्धं गन्धवदेव द्रव्यं तत्र वर्तते सूक्ष्मत्वात्तु नोपलभ्यत इति ॥ ९० ॥ एवं दृष्टान्तेष्वभिभूतस्याग्रहणमुक्त्वा प्रकृते योजयति नेति । यथा दीपप्रभादिषु गुणान्तरसंवित्तिर्नास्ति, यथा च गन्धवद्द्रव्यवृत्तौ द्रव्यस्य, एवं ग्राह्यांशबुद्धौ ग्राहकांशबुद्धौ वाकारान्तरसंवित्तिर्न भविष्यतीति ॥ ९१ ॥ इदं चापरं ग्राह्यादभिन्नमेव न गृह्यत इत्याह ग्राह्यादिति । अस्ति कश्चिद्धर्मभेदः यो ग्राह्यात्शब्दादभिन्नोऽपि नोपलभ्यते नित्यत्वादय इव शब्दग्रहण इति ॥ ९२ ॥ इदं तु चिन्तनीयम् कस्येदं प्रत्यवस्थानं ग्राह्यांशो ग्राहकांशेनेत्यादि । न तावद्बौद्धस्य । स ह्यविभक्तस्यैव बुद्ध्यात्मनो ग्राह्यग्राहकसंवित्तिभेदभिन्नस्य ग्रहणमातिष्ठते । यदाह अविभक्तोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिह लक्ष्यते ॥ {२,१३८}इति । अतस्त्र्याकारस्यैव ज्ञानस्यानुभवात्कथमन्यतरांशाग्रहणेन प्रत्यवतिष्ठते । भ्रान्तिकल्पितं तु ग्राह्यादिविभागं बौद्धा मन्यन्ते, न त्वप्रतिभानमेव तेषाम् । अतः कस्येदं प्रत्यवस्थानमिति । सत्यम् । नात्र बौद्धश्चोदयिता । पार्श्वस्थवचनमिदम् । एवं हि कश्चिदत्र पार्श्वस्थो वदति किमिदं ग्राह्यग्राहकभावमभ्युपेत्यैव भवता द्विरूपग्रहणमापाद्यते । न हि ग्राहकस्य ग्राहकान्तरं विद्यते तद्ग्रहणे च द्वैरूप्यहानिः तच्चाभ्युपेतमेवेति कथं तद्विपरीताभिधानं मीमांसकस्य । दृष्टा चाभेदेऽप्युद्भवाभिभवादिकृता ग्रहणाग्रहणव्यवस्थेति । स एवेदानीं बौद्धाभिप्रायेणाह अभेदमिति । ग्राह्यग्राहकयोर् हि पारमार्थिको भेदो नेष्यत एव । एकरूपस्यैव तु बुद्ध्यात्मनस्तथा प्रकाशाभ्युपगमात् । अतो योऽयं बुद्ध्यात्मनः प्रकाशः स एव तयोरिति किमिति तद्ग्रहणे न गृहीतं भवति । अपि च, अभेदमभ्युपेत्यास्मान् प्रति प्रसङ्गो गीयते कथमभेदे ग्राह्यग्राहकव्यवस्थेति । तच्चायुक्तम् । कथं ह्यभिन्नस्य तत्त्वस्य किञ्चिदगृहीतं नाम सम्भवति । यदि त्वभेदो नाभ्युपेयते, नायं प्रसङ्गो गातुं शक्यते । भिन्नत्वादेवाग्रहणोपपत्तेरिति ॥ ९३ ॥ पूर्वपरिचोदनामिदानीमुपसंहरति तस्मादिति । यद्धि ग्रहणयोग्यं तद्गृह्यते यस्य च ग्राहकसद्भाव उद्भवो वा तद्ग्रहणयोग्यम् । अतः पूर्वोपन्यस्तस्य ग्राह्यग्राहकात्मनो द्वयस्य किञ्चिदेव ग्रहीतुं शक्यं नेतरदिति ग्रहणशक्त्यभावान्नोभयं चोदनीयमिति ॥ ९४ ॥ अत्र परिहारमाह कुत इति । अयमभिप्रायः न तावद्भ्रान्तिकल्पितो ग्राहकादिविभागः, बाधविरहात् । तथापि वा भ्रान्तित्वे संविद्रूपेऽपि तत्प्रसङ्गादभावात्मतापत्तिः । तदयं वास्तवो ग्राह्यादिविभागो नैकस्मिन्नद्वितीये ज्ञानात्मनि सम्भवतीति प्रथममुक्तं नैतदस्तीत्यादिना ।{२,१३९}पुनश्च अभिन्नत्वं यदा चेष्टमित्यादिना एकस्यैव द्वैरूप्यमङ्गीकृत्योभयग्रहणप्रसक्तिरापादिता । तत्र नैष परिहारो घटते अयोग्यत्वादभिभूतत्वादन्यन्न गृह्यते इति । न ह्येकस्मिन् ज्ञानात्मनि योग्यायोग्यत्वविभाग उद्भवाभिभवात्मत्वं वा सम्भवति । अतोऽवश्यमभिन्नत्व इष्टेऽन्यतरसंवित्तौ द्व्याकारग्रहणेन भवितव्यमिति ॥ ९५ ॥ किं पुनरेकस्योद्भवाभिभवात्मत्वं न सम्भवतीत्यत आह एकेति । एवं हि ग्राह्यग्राहकाभिधानं तत्त्वम् । तत्र यदि ग्राहकांशोऽभिभूतः कथं तदभिन्नो ग्राह्यांशो नाभिभूत इति शक्यते वक्तुं, विरुद्धधर्माध्यासेन भेदापत्तेरिति । एवं चोभयाभिभवे ग्राह्यांशस्यापि ग्राह्यत्वं न स्यादिति न किञ्चित्तत्त्वं सम्भवेदित्याह तथेति ॥ ९६ ॥ एवमयोग्यतापि विकल्पनीया किमुभयमयोग्यमेकं वा । यद्युभयं न किञ्चिद्गृह्यत इति शून्यतैवापद्येत । यदि त्वेकमयोग्यमितरन्नेत्युच्यते तदेकत्राद्वितीये नोपपन्नमित्याह अयोग्यतेति । ये पुनरत्र दृष्टान्ता उक्ताः प्रदीपप्रभादिषु रूपादयः, तत्रोद्भवाभिभवाभिधानं युज्यते । रूपादीनां परस्परभेदेन तत्रोद्भवाभिभवोपपत्तेः । भिन्नं हि स्पर्शाद्रूपं, तद्रात्रौ रूपोद्भवेऽभिभूतस्पर्शो न गृह्यत इति किमनुपपन्नम् । तदेतदाह दृष्टान्ता इति । आदिशब्दाद्योग्यायोग्यभेदोऽपीति । स्वरूपभेदानुविधाय्युद्भवाभिभवादिभेदोऽपीत्यर्थः ॥ ९७ ॥ ननु नास्ति रूपादीनां पारमार्थिको भेदो महान् खल्वयं क्लेशः यद्द्रव्यादेव तेषां भेदोऽभिधीयते । परस्परभेदास्तु क्लेशतरेणोपपाद्यन्ते । अत एकमेव द्रव्यादिरूपं ग्राहकभेदाद्रूपादिभेदभिन्नमाभासते मुखम्{२,१४०}इवादर्शभेदादिति मन्यन्ते । अतस्तत्राप्यभेद एवोद्भवादिव्यवस्था दृष्टेति न कश्चिद्विशेषः । अत आह यदापीति । अयमभिप्रायः यदि तावदस्मत्सिद्धान्तो रूपादावाश्रीयते, ततस्ते द्रव्यात्परस्परतश्च भिद्यन्त एव । अथ मतान्तरेण, तथापि न तावदेकस्योद्भवाभिभवावपि सिध्यतः । अतोऽस्मन्मतेऽपि हि यथैकमेव मृद्रूपं घटशरावादिपरिणामभेदभिन्नमेवमेकमेव द्रव्यरूपं रूपादिभिः परिणामभेदैर्भिद्यत इत्याश्रयणीयम् । यत्तु एकस्यैव द्रव्यरूपस्य ग्राहकभेदाद्भेद इति, तदतिस्थवीयः । युक्तं हि मुखेषु प्रत्यभिज्ञानादौपाधिकभेदाश्रयणमादर्शभेदाश्रयणेन । न त्विह तथेति वरं परिणामवाद एव । तत्र च नैकस्योद्भवादिव्यवस्था लोके दृश्यते । यस्त्वयमाकस्मिको रूपस्य स्पर्शात्मना परिणामः पुनस्तस्यैव रूपात्मना, स निर्निमित्तो न वक्तुमुचितः । एकस्यैव च द्रव्यस्यैकं रूपं दिवा गुणान्तरोद्भवेनाभिभूतं यद्नक्तं पुनर्बुध्यते, तन्नोपपन्नम् । परिणामे न हि दध्यात्मना परिणतं क्षीरं पुनः क्षीरात्मना परिणतं दृश्यते । अतः स्वभावादेव द्रव्यात्परस्परं च रूपादयो भिद्यन्ते इत्येतदेव साम्प्रतम् । यथा चासत्यपि देशादिभेदे भेदः सिध्यति तथानन्तरमेव वक्ष्यति । तदुपेक्ष्यैव तावत्परिणामवादमभिदध्महे नैवमप्येकस्योद्भवाभिभवाविति ॥ ९८ ॥ यदपीदमपरमुक्तं ग्राह्यादभिन्नमपि किञ्चिन्नानुभूयते शब्दादौ नित्यत्वादीति, तदनुभाष्य दूषयति अभिन्नेति । यथा हि बुद्धिभेदनिबन्धनो रूपादीनां भेदः, एवं कृतकत्वादिधर्माणां शब्दाद्धर्मान्तरेभ्यश्च धीभेदकृतं भेदमभिदधाना न दण्डेन वारयितुं शक्या इति ॥ ९९ ॥ किं पुनरेषां भेदे कारणमत आह न हीति । द्रव्यगुणकर्माण्येव तावद्भिद्यन्त इति किमत्र कारणमन्यदतः प्रत्ययभेदात् । स चायमविशिष्टः कृतकत्वादिधर्मभेदेऽपीति तत्कारणकस्तेषां भेद इति । ननु{२,१४१}नामीषां देशभेदो वा मूर्तिभेदो वा दृश्यते । अतः कथं ते भिन्नाः, अत आह न चेति । न नः पारिभाषिको भावानां भेदः । संविदेकशरणा हि वयम् । सा च भिन्ना भेदमभिन्ना चाभेदं व्यवस्थापयति । न तु देशतो मूर्तितो वा भेद इति इयत्तैव परिभाष्यत इति ॥ १०० ॥ कीदृशी पुनरियं कृतकता, या बुद्धिभेदभिन्नावगम्यते अत आह कारकाणामिति । योऽयं कार्यद्रव्याणां घटादीनां कारकैः कुलालादिभिः सम्बन्धः, सा कृतकता । कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्यामिति स्मृतेः । सेयमीदृशी कृतकता कथं शब्दादभिन्नेत्युच्यते । अन्यो हि तदा शब्दो गकाराद्याकारः । अन्या चेयं कृतकता तस्य तत्कारकैः सम्बन्ध इति । अनित्यता तु सावयवानां घटादीनां तावदवयवविभागात्मिकेत्याह विभाग इति ॥ १०१ ॥ निरवयवानां तु बुद्ध्यादीनामवयवविश्लेषात्मकानित्यत्वासम्भवाद्योऽयमात्मनोऽपरिणामरूपेणावस्थानं तन्नाशित्वमित्याह बुद्धीति । नाशित्वमनित्यतेति नित्यतायाः स्वरूपं दर्शयति नित्यत्वमिति । वस्तुत्वस्य सत्तातः केचिद्भेदं मन्यन्ते, तत्तु नेष्यत इत्याह वस्तुत्वमिति । सत्तैव वस्तुत्वं नापरं किञ्चिदित्याकृतिग्रन्थे वक्ष्यत इति ॥ १०२ ॥ प्रमेयताज्ञेयते अपि प्रमाणज्ञानसम्बन्धात्मिके शब्दाद्भिन्ने एवेत्याह प्रमाणेति । ज्ञानत्वं प्रमाणेतरज्ञानसाधारणमिति भेदेन ज्ञानसम्बन्धप्रभाविता ज्ञेयतोक्तेति । सर्वत्र चात्रासत्यपि देशादिभेदावसाये केनापि स्वसंवेद्येनात्मना भेदोऽवसीयत इत्याह सर्वत्रेति ॥ १०३ ॥ {२,१४२} अतो यथैवास्मन्मते बुद्धिभेदमात्रप्रभावितो रूपादीनां भेद इष्यते असत्यपि देशादिभेदे, तथैवैतेष्वपि शब्दादिधर्मभेदेषु भेदोऽस्तीत्युपसंहरति तस्मादिति ॥ १०४ ॥ नन्वेवमपि तावदत्यन्तभेदो नैषामिष्यते, कथञ्चिद्भेदात् । अतः सिद्धमभिन्नस्योद्भवादय इति । न सिद्धम् । अत्यन्तभिन्नता हि नास्माभिः कस्यचिदिष्यते, सर्वस्य सदाद्यात्मनाभेदात् । अस्ति तु केनापि रूपेण भेद इति तदाश्रयणेनैव विरुद्धधर्मसम्बन्धः समाधीयते । न चैतद्बौद्धसिद्धान्ते ज्ञानस्य सम्भवतीत्यभिप्रायेणाह अत्यन्तेति ॥ १०५ ॥ किं पुनः कारणमभिन्नस्यापि शब्दात्कृतकत्वादेरग्रहणमिति । भेदस्यापि विद्यमानत्वादिति चेद्, हन्तैवमभेदोऽपि वास्तव इति किन्न शब्दग्रहणे गृह्यते, अत आह सर्वं चेति । यदेतत्कृतकत्वादिधर्मजातमुपन्यस्तं तत्सत्यपि शब्दाभेदे क्रियाहेत्वाद्यपेक्षया गृह्यते । न हि वस्त्वस्तीत्येव ग्रहणं भवति । अपि तु ग्रहणेतिकर्तव्यतासापेक्षम् । कृतकत्वस्य च क्रिया कुलालादिव्यापारः । तद्धेतुश्च कुलालादिः । जिघृक्षा च ग्रहणकारणम् । अतस्तदसंवित्तावभेदेऽपि शब्दान्न ग्रहणं कृतकत्वादीनाम् । अत्यन्ताभेदे तु ग्रहणादिव्यवस्था न सिध्येत् । न चासावस्माभिरिष्यत इति ॥ १०६ ॥ न चायं धर्मधर्मिकृतो भेदो ज्ञाने सम्भवति । अद्वितीयत्वात्तस्य । नापि क्रियाहेत्वादितुल्यमपेक्षणीयान्तरमस्ति यत्कृता ग्रहणाग्रहणव्यवस्था{२,१४३}भवेत् । ज्ञानातिरिक्तवस्त्वन्तराभावादित्याह ज्ञान इति । अन्यत्रानपेक्षेत्यसहमानः प्रत्यवतिष्ठते परस्परेणेति । अयमभिप्रायः अपेक्षार्थ एव तावद्दुष्प्रतिपादः । अभिन्ने तत्त्वे किं केनापेक्ष्यते । उपेत्यापि ब्रूमः । य एव कश्चिदपेक्षिष्यते ग्राहको वा ग्राह्यो वा, स एव सन्निहितः । अत्यन्ताभेदात्तयोः । अतो नाग्रहणकारणमन्यतरस्यापीति द्व्यात्मकग्रहणप्रसङ्गः ॥ १०७ ॥ अत्र चोदयति नन्विति । यदेतदपेक्षामभ्युपेत्य भवतोच्यते सन्निहित इति, तदयुक्तम् । न हि नो नीलादिग्रहणे ग्राह्यमिदं ग्राहको वायमिति बुद्धिरुत्पद्यते । अतो ग्राह्यग्राहकत्वेनानवगमात्कथं तयोः सन्निधानमपेक्षा कथमुच्यत इत्यपेक्षाभ्युपगमो न युक्त इत्यर्थः ॥ १०८ ॥ परिहरति मा भूदिति । यद्यपि ग्राह्योऽयं ग्राहकोऽयमिति वा न विकल्प्यते, तथापि तावदेकात्मनः सर्वेणैवात्मना गृहीतत्वाद्यदेवापेक्षितं तदेव लभ्यत इति युक्तमेव वक्तुम् । अन्योऽयं ग्राह्योऽयं ग्राहकोऽयमिति शब्दविकल्पः । अन्यच्च ज्ञानरूपम् । तच्चेत्समग्रं गृहीतं, किमपरमपेक्षणीयं यदग्रहणादुभयांशबोधो न भवेदिति । एवमपि चेदुभयात्मकं न गृह्यते, कथं द्व्यात्मकं भविष्यति । अतः सिद्धं न द्व्यात्मकं ज्ञानमित्यभिप्रायेणाह एवमिति ॥ १०९ ॥ एवं तावद्यदुक्तं सत्यपि द्व्यात्मकत्वे न द्व्यात्मकं गृह्यत इति, तन्निराकृतम् । इदानीं द्व्याकारमेव ज्ञानं गृह्यत इति यद्बौद्धैरुक्तं तद्दूषयितुमुपन्यस्यति उत्तरोत्तरेति । एवं हि बौद्धा मन्यन्त स्वसंवेद्यैज्ञानस्य द्विरूपता । तद्धि जानामि घटमित्येवोत्पद्यते । तत्र जानामीति{२,१४४}ग्राहकांशः । घटमिति च ग्राह्यांशः । तदेवं स्वसंवेद्येऽपि ज्ञानस्य द्विरूपत्वे यो नाम मूढो न सम्प्रतिपद्यते, तत्प्रतिबोधनार्थमुत्तरोत्तरविज्ञानविशेषनिर्देशो बौद्धैरभिमतः । एवं हि निर्दिशन्ति घटज्ञानं जानामीति । तदिह पूर्वेण विषयाकारेण ग्राहकाकारेण च रूषितो द्वितीयज्ञानस्य ग्राहकाकारः प्रचितो निर्भासते । तदाद्यस्य द्विरूपत्वे घटते । त्वाद्यं ग्राह्याकारमात्रं वा ग्राहकाकारमात्रं वा भवेत्, ततो द्वितीयाद्यपि तद्गोचरं तदाकारमेव भवेत् । तत्राद्यस्य ग्राह्यमात्रत्वे द्वितीयमपि ज्ञानं घट इत्येवोत्पद्यते । तत्र शब्दत्रयेण निर्देशो नोपपद्येत घटज्ञानं जानामीति । न ह्यनातुराणामनर्थको नाम निर्देशो भवति । एवं च तृतीयादिज्ञानेषु चतुष्टयादिभिर्निर्देशो दर्शयितव्यः । तस्मादुत्तरोत्तरज्ञानविशेषादवगम्यते अस्ति ग्राहकाकारसंवित्तिरपीति । यदपि चेदमपरं द्व्याकारवेदने कारणमुक्तं स्मृतेरुत्तरकालं च न ह्यसावविभावितः । इति । यथा खल्वयं स घट इति ग्राह्यं स्मरति, एवं घटज्ञानमज्ञासिषमिति जानातिवाच्यं ग्राहकांशमपि । न चानवगतपूर्वार्थविषया स्मृतिः सम्भवतीति पूर्वानुभवप्रतिबन्धात्स्मरणादानुमानिकी पूर्वं ग्राहकाकारसंवित्तिः कल्प्यत इत्याह स्मरणादिति ॥ ११० ॥ तदेव प्रपञ्चयति एकाकारमिति सार्धेन । इदं च प्रागेव व्याख्यातमिति । यदि तु ग्राहकाकारो गृह्यते इत्याश्रीयते, तदाकारप्रचयदर्शनमुपपन्नं भवेदित्याह ग्राहकेति ॥ ११२ ॥ कथमुपपन्नमित्यत आह जायत इति । पूर्वं हि घटं जानामीति ज्ञानं ग्राह्यग्राहकाकारम् । तत्र तस्मिन्नेव विषयभूते । यत्परं घटज्ञानं जानामीति ज्ञानम् । तस्यात्मीयश्च ग्राहकाकारः । पूर्वौ च{२,१४५}स्वविषयभूतप्राप्यज्ञानस्थौ ग्राह्यग्राहकाकारावुपप्लुतौ भवतः । एवं त्र्याकारवेदनमुपपन्नं भवतीति ॥ ११३ ॥ अनेनैव प्रकारेण तृतीयादिष्वपि ज्ञानेष्वाकारवृद्ध्या पूर्वपूर्वेभ्यो भिन्नता सिध्यति । इतरथा तु पूर्वस्य केवलग्राह्याकारत्वे स्वाकारसमर्पणेन विषयभावादुत्तरमपि तत्सदृशं घटात्मकमेव भवेदित्ययुक्तम् । एवं केवलग्राहकाकारत्वे पूर्वस्योत्तरस्यापि ताद्रूप्यान्न वैलक्षण्यं सिध्येत् । निराकारत्वपक्षेऽपि तुल्यतैव प्रसज्यते । निराकारत्वसामान्यात्प्राचीनोत्तरसंविदोः ॥ इत्यभिप्रायेणाह परेष्विति । एवं तावदुत्तरोत्तरविज्ञानविशेषादित्येतत्प्रपञ्चितम् । स्मरणाच्चानुमानिकीत्येतदिदानीं प्रपञ्चयति ग्राह्येति । इदं च प्रागेव व्याख्यातमिति ॥ ११४ ॥ आकारप्रचये तावत्परिहारमाह नेति । अयमर्थः नोत्तरोत्तरविज्ञानेषु प्रचयान्विता आकारा दृश्यन्ते, नीलाद्याकारमात्रप्रतिभानात् । सर्वदा हि नो विषय एवेदमिति बहिर्निर्भासते । कदाचिदेव तूद्भूतजिज्ञासस्यानाकारज्ञानप्रतिभानमिति वर्णितमसकृत् । अतो न ज्ञानारूढमाकारद्वयं दृश्यत इति संवित्प्रमाणकमहं नीलमित्यनवगतेः । कस्तर्हि घटं जानामीति जानात्यर्थः । नावश्यं विषयबोधेषु जानातिः प्रवर्तते । घटोऽयमित्येव प्रतीतेः । यदा तु ज्ञानमेव जिज्ञासितं भवति तदार्थस्य ज्ञाततावशेन ज्ञानमपि प्रतीयेत । तत्र चायं जानातिप्रयोगः । न वैतावता ज्ञानमेव द्व्याकारं भवति, विदिते बहिर्विषयाकारे पृथगेवेदमनाकारज्ञानमिति । यद्यनाकारस्यैव ज्ञानस्य संवेदनं, कथन् तर्हि नीलाकारं पीताकारं ज्ञानमिति व्यपदेशोऽत आह विषयेति । अयमभिप्रायः न तावज्ज्ञानमाकारवत्तया दृश्यते, बहिराकारत्ववेदनादित्युक्तम् । यस्तु नीलाकारं ज्ञानमिति व्यपदेशः, न तेनाकारवत्ता ज्ञानस्य सिध्यति । विषयो हि नीलादिव्यपदेशभाजनम् । तद्व्यपदेशेनैव च ज्ञानं व्यपदिश्यते न तु तन्नीलम् ।{२,१४६}कस्य हेतोः परव्यपदेशेन व्यपदिश्यत इति चेद्, न । तं विना व्यपदेष्टुमशक्यत्वात् । न हि तद्व्यपदेशमन्तरेण निरूपयितुं शक्यमीदृशं नामेदं ज्ञानमिति, स्वयमनाकारत्वात्संविदामिति ॥ ११५ ॥ यत्तु निराकारत्वपक्षे सर्वसंविदां तुल्यतैव प्रसज्यत इत्युक्तं, तदयुक्तम् । अनाकारत्वेऽपि ग्राह्यभेदप्रमाणकत्वाद्भेदस्य, ग्राह्या हि विषयाः संवित्तौ प्रमाणम् । ते च भिन्ना दृश्यमाना भिन्ना एव संवित्तीरवस्थापयन्तीति । अतस्तद्भेदसिद्धये तत्समवेताकारान्तराभ्युपगमो न युक्त इत्याह तस्मादिति । ग्राह्यभेदनिबन्धनस्तत्प्रमाणक इत्यर्थः ॥ ११६ ॥ नन्वस्तु ग्राह्यभेदो भेदे प्रमाणम् । अनाकाराणां तु केनात्मना भेद इत्येव दुष्प्रतिपादमत आह निराकारत्वेति । अयमभिप्रायः किमिदमनाकारत्वं संविदाम् । यदि निरस्वभावत्वं, तन्नेष्यते विषयवशोन्नीयमानप्रकाशस्वभावत्वात् । अथ नीलाद्याकारविरहः, न । आकाशकालात्मदिक्कर्मसु तदभावेऽपि भेदाभ्युपगमात् । अतो यथा नीलाद्याकारा एव भावा आकारवत्त्वेनाभिन्ना अपि परस्परेण भिन्ना भासन्ते, एवमनाकारत्वेनाभिन्नान्यपि ज्ञानानि ग्राह्यभेदोन्नीयमानेनात्मना भेत्स्यन्ते स्वभावादेवेति ॥ ११७ ॥ स्मरणाच्चानुमानुकीति यदुक्तं तदिदानीमुपन्यस्य दूषयति स्मृतेरिति । मिथ्यैवैतद्बौद्धैर्गीयत इत्यर्थः । कथं मिथ्या अत आह तदैवेति । तदैव खल्विदं ग्राहकाकारं ज्ञानं संवेद्यते । घटो हि तत्र स्मर्यते । तत्स्मरणान्यथानुपपत्त्या च तत्कारणभूतं ज्ञानमर्थापत्त्या कल्प्यते । नूनं मया घटो ज्ञातः, कथमन्यथा स्मर्यते । तत्रैव चार्थापत्तिवेद्ये[७२७]ज्ञानेऽज्ञासिषमिति पदप्रयोगः, न तु ज्ञानमपि पूर्वं गृहीतमिति ॥ ११८ ॥ __________टिप्पणी__________ [७२७] द्ये ज्ञासि (Kःा) ___________________________ {२,१४७} यत्पुनर्द्व्याकारवेदने पूर्वमुक्तमभेदं चाभ्युपेत्यायमित्यत्र कथमेकस्मिन् गृह्यमाणे परो न गृह्यत इति । तद्दूषयति गृहीतमितीति । यदस्माभिरंशद्वयाग्रहणे निमित्तमनुयुक्तो भवान् किमुभयात्मकं न गृह्यत इति, नानेनास्माकं वाक्यप्रवृत्तिमात्रमेव भवतोऽभिमतं यथा तथा वा तावदभ्यधास्त्वमिति । अपि तु अग्रहणकारणं वा त्वया वक्तव्यम् । वास्तवं वाग्रहणं, न त्वभेदाद्द्व्यात्मकं गृहीतमिति वाक्प्रवृत्तिमात्रेणास्माभिर्मुच्यस इति ॥ ११९ ॥ परमार्थतस्तु ग्राह्यग्राहकाकारवेदनं नास्तीत्युक्तमेवेत्याह ग्राह्येति । स्यादेतत् । मा नाम प्रत्यक्षेण द्व्यात्मकं गृह्यताम् । अनुमानेन तूभयाकारवेदनं साधयामः । ग्राहकात्मा गृहीतो ग्राह्याभेदात्, तदात्मवदित्यत आह प्रत्यक्षेति । अयमभिप्रायः प्रत्यक्षं ज्ञानमिति वः पक्षः । न चास्मिन् पक्षेऽनुमानेन ग्रहणसाधनं युक्तम् । यदि हि द्व्याकारं ज्ञानमुत्पन्नं भवेत्, तथैव प्रकाशेत । अतो नैषा द्व्याकारोपलब्धिरानुमानिकी प्रत्यक्षज्ञानपक्षे स्यात् । न च प्रत्यक्षेण द्व्याकारं ज्ञानं कैश्चिदुपलभ्यत इति न द्व्याकारता ज्ञानस्येति ॥ १२० ॥ यदि त्वेकाकार एव ज्ञाने द्व्याकारता कल्प्यते, एवं सत्यप्रमाणकत्वाविशेषात्सहस्राकारतैव किं न कल्प्यते इत्याह एवेति ॥ १२१ ॥ अत्र चोदयति ग्राह्येति । अयमभिप्रायः यदेतदन्यतरांशग्रहणेऽभिन्नत्वादपरस्यापि ग्रहणमापादितं भवता तदयुक्तं, अभेदे हि सत्य्{२,१४८}एतत्स्यात् । न तु ग्राह्यग्राहकांशयोः परस्परमभेदः । ज्ञानं हि तत्राभिन्नमंशौ च परस्परं भिन्नावेव । अतो यथैन्द्रवायवादिग्रहाः परस्परं भिन्ना अपि ज्योतिष्टो(?ं माङ्ग)त्वेन न भिद्यन्त इति मीमांसका मन्यन्ते, एवं ज्ञानस्यापि स्वात्मनाभेदेऽप्यंशयोः परस्परं भेदान्न ग्रहणसङ्करपरिचोदनावकाश इति निराकृतस्वपक्षस्य बौद्धस्य प्रत्यवस्थानमिति । सिद्धान्तवादी तु न तावदयमेकान्तवादी बौद्धो भिन्नाभिन्नत्वम् अभ्युपेत्य ग्राह्यग्राहकयोर्भेदमभिधत्त इति सम्भवति, तन्नूनमैकान्तिक एवानेन ग्राह्यग्राहकयोर्भेदोऽभिहित इति मन्वान आह सिद्ध इति । इतरः स्वाभिप्रायमाविष्कर्तुं परपक्षनिषेधं तावदाह नेति । कारणमाह ज्ञानत्वादभेदतः । अयमर्थः नैवमपि भवत्पक्षसिद्धिः, ज्ञानत्वेनांशयोरभेदादित्युक्तमेवेति ॥ १२२ ॥ इतर इदानीं सिद्धान्तहानिमापादयंस्तमेवंवादिनं निगृह्णाति भिन्नेति । साङ्ख्या हि प्रकृतिविकारयोरत्यन्तभेदमनिच्छन्तो विकारात्मना प्रकृतौ भेदं तदात्मना च विकाराणामभेदं सङ्गिरन्ते । तद्यथा साङ्ख्यमतेन भिन्नाभिन्नात्मकं वस्तु परिकल्प्यते, तथा कथं त्वया भ्रान्तचित्तेन बुद्धशासनमुक्त्वा भिन्नाभिन्नत्वमेकस्य ज्ञानात्मनः परिकल्पितम् । अस्माकं त्वनेकान्तवादिनामुपपन्नो ज्योतिष्टोमे तथाभ्युपगम इति ॥ १२३ ॥ भवतस्तु यदि ग्राह्यग्राहकात्मकं द्वयं ज्ञानात्मनैकं, ततो भिन्नत्ववागनुपपन्ना, नोचेदेकत्वमित्याह एकमिति ॥ १२४ ॥ एवं चात्र भवन्मताश्रयणेनैकात्म्यमापादयितुं शक्यमित्याह एकेति । ग्राह्यग्राहकावेकात्मानौ, एकरूपात्ज्ञानात्मनोऽभेदात् । तदात्मवदेव । ग्राह्यग्राहकयोर्मिथः परस्परमेकत्वेन कारणेन ज्ञानं ग्राह्यात्मकं ग्राहकात्मकं वा भवेदिति ॥ १२५ ॥ {२,१४९} तत्र चैकात्मकत्व आपन्ने ग्राह्यग्राहकयोरन्यतरस्यापाये जाते परस्यापीतरविधुरस्यानुपपत्तेरंशद्वयासत्त्वमेव ज्ञानस्य भवेत् । एवं च निःस्वभावमभावात्मकं ज्ञानमापन्नमिति शून्यता प्रमाणार्थयोः स्यादित्याह तत्रेति ॥ १२६ ॥ एवं तावदभिन्नात्मनो ज्ञानादभेदादंशयोरभेद आपादितः । इदानीं भिन्नाभ्यां वाप्यंशाभ्यामभिन्नत्वात्ज्ञानात्मनो भेदमापादयति भिन्नाभ्यामिति । एवं चात्यन्तभेदे ग्राह्यग्राहकयोः सिद्धं द्वैतमित्यभिप्रायेणाह ततश्चेति ॥ १२७ ॥ एवं द्वैतसिद्धौ यदि ज्ञानमिति संज्ञामात्रमेव ग्राह्यग्राहकयोः कर्तुमभिमतं भवताः, तदभ्युपगच्छाम एवेति सोपहासमाह तयोरिति । अथवा किं पारिभाषिकेण ज्ञानशब्देन, अस्माकमिवैक एवायं ज्ञानशब्दोऽक्षादिवत्साधारणतयार्थज्ञानयोर्व्युत्पत्तिभेदेन वर्तत इत्याह अथापि वेति । यदि ज्ञायत इति ज्ञानं कर्मणि ल्युडन्तो ज्ञानशब्दोऽनुशिष्यते, ततोऽर्थो ज्ञानम् । अथ तु ज्ञप्तिर्ज्ञानं ज्ञायतेऽनेनेति वा भावकरणयोर्व्युत्पाद्यते, ततो धीरेव ज्ञानमित्युभयज्ञानतोपपत्तिरिति ॥ १२८ ॥ सर्वथापि हि ज्ञानशब्दव्युत्पत्तौ वस्तुभेदस्तावत्सिद्ध एव । शब्दस्तु यथारुचि ज्ञानार्थयोरन्यतरत्र प्रवर्तताम् । नात्र नो विप्रतिपत्तिरित्याह सर्वथेति ॥ १२९ ॥ {२,१५०} अत्रापरे बौद्धा वदन्ति सत्यमस्ति ग्राह्यग्राहकयोर्भेदः । नैवमपि बहिरर्थः सिध्यतीति, ज्ञानस्यैवातीतस्योत्तरज्ञानग्राह्यत्वात् । अत एवेदम्भावः, परगोचरत्वात्संविदः । कथमतीतं ग्राह्यमिति चेद्, न । हेतुत्वस्यैव ग्राह्यत्वात् । यदेतदुत्तरज्ञानजनने स्वाकारसमर्पणेन पूर्वस्य हेतुत्वं तदेव तस्य ग्राह्यत्वम् । यथाहुः भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम् ॥ इति । अयं च सौत्रान्तिकवैभाषिकयोः साधारणः श्लोकः । तदेतदुपन्यस्यति अथेति । यद्यपि ग्राहकाद्भिन्नं ग्राह्यं, तथापि ज्ञानान्तरमेव तदतीतं न त्वर्थ इति । एतदपि दूषयति ज्ञानत्व इति । तस्य ग्राह्यत्वाभिमतस्य ज्ञानस्य ज्ञानत्वे युक्तिर्न काचिदस्तीति भाव इति । यदि तु पूर्वोक्तया कर्मव्युत्पत्त्या ज्ञानं तदिष्यते तदस्माभिरिष्यते इत्याह पूर्वेति ॥ १३० ॥ ज्ञानं ज्ञानमित्यनुगतं तु रूपं न द्वयोर्ग्राह्यग्राहकयोरवगम्यत इत्याह ज्ञानमिति । अक्षादिवत्साधारणशब्दतामभ्युपगच्छामः न त्वाकृतिशब्दतामिति । उपेत्यापि ब्रूमः । तत्खलु सामान्यं पूर्वोत्तरयोरनुयायि ताभ्यां भिन्नमभिन्नं वा । न तावद्भिन्नं तैरुपेयत इत्याह व्यतिरिक्तमिति ॥ १३१ ॥ अयं चापरो व्यतिरेके दोष इत्याह व्यतिरेक इति । तयोः पूर्वोत्तरयोर्ग्राह्यग्राहकयोः । ज्ञानसामान्याद्व्यतिरेके इष्टे, तस्मिंस्ताभ्यां भिन्न इति यावत् । तयोर्ज्ञानात्मकता न स्यात्, तेनैव रूपेण ज्ञानत्वाभ्युपगमाद्{२,१५१}इति । किमतो यद्येवमत आह तद्रूपेति । ज्ञानरूपरहितत्वे सत्यज्ञानात्मनो वस्तुनोऽभावात्पूर्वोत्तरयोर्ज्ञानयोरभाव एवापद्यत इति ॥ १३२ ॥ अपि च तत्सामान्यं ताभ्यां सम्बध्यमानं प्रत्येकं कार्त्स्न्येन सम्बध्यते भूतकर्मगुणवत्, व्यतिषज्य वा मालागुणवत् । पूर्वस्मिन् कल्पे भेदः । उत्तरस्मिन् सावयवत्वमिति वैशेषिकादिवद्दोषप्रसञ्जनं कर्तव्यमित्याह ताभ्यामिति ॥ १३३ ॥ वैशेषिकादिवदित्येतद्विवृणोति यथेति । यथैव वैशेषिकादीनां परैर्बौद्धैरेव जात्यादावेते दोषा उक्ताः, तथैवैषां बौद्धादीनामपि भिन्नयोः पूर्वोत्तरज्ञानयोरभिन्नस्य ज्ञानसामान्यस्य सङ्गतौ सम्बन्धे एते दोषा इति ॥ १३४ ॥ यदि तु ताभ्यामव्यतिरिक्तं सामान्यामिष्यते, ततो योऽसौ भिन्नाभ्यामभिन्नत्वात्प्राग्भेद आपादितः स एवापद्यत इत्याह ताभ्यामिति । अपि च किमात्मकं तत्सामान्यमित्यपि चिन्तनीयमेव । तत्रास्मदभिमतसामान्याश्रयणे तावदुक्तः प्रसङ्गः । सादृश्यरूपमपोहरूपं च सामान्यं परस्तान्निराकरिष्यत इत्याह सादृश्येति ॥ १३५ ॥ अपि चात्रापोहरूपसामान्याभ्युपगमेऽधिको दोष इत्याह वस्त्वन्तरस्येति । एतदेव विवृणोति नेति । अज्ञाननिवृत्त्या ज्ञानं ग्रहीतव्यम् । न च ज्ञानमात्रवादिनोऽज्ञानं नाम किञ्चिदपोह्यमस्तीति ॥ १३६ ॥ {२,१५२} न चात्यन्तासत एवापिहो घटते इत्याह अपोह इति । अयमभिप्रायः यदि ज्ञानाभावमात्रमज्ञानं तत्तर्ह्यवस्तुरूपं कथमपोहक्रियाकर्म भविष्यतीति । अपोह्यत्वाभ्युपगमे वा अभावस्यापि वस्त्वन्त(?रा।रता)पत्तिरित्याह वस्त्वन्तरमिति । कारणमाह अपोह्यत्वाच्च वस्तुतेति । चशब्दो हेताविति ॥ १३७ ॥ अतोऽवश्यं ज्ञानाभावस्यानपोह्यत्वादज्ञाननिवृत्तौ ज्ञाने इष्यमाणे ज्ञानादन्यदज्ञानमर्थ एव ते प्रसज्यत इत्याह तेनेति । अत्र किञ्चिदाशङ्क्ते कल्पितमिति । ज्ञेयादिशब्देषु हि बौद्धैरुक्तम् अज्ञेयं कल्पितं कृत्वा ज्ञेयशब्दः प्रवर्तते । इति । तदिहापि समानम् । अज्ञानकल्पनया तदपोहेन ज्ञानशब्दो वर्तिष्यते । तेन नापोह्याभावो न च वस्त्वन्तरतापत्तिरिति । एतदपि दूषयति नेति । यदेव हि क्वचिद्दृष्टं तदेवान्यत्र कल्प्यते । अत्यन्तासतस्तु ज्ञानादन्यस्याबुद्धिविषयस्य कल्पना केति ॥ १३८ ॥ तदेवं कल्पनीयान्तराभावादज्ञानाकारा बुद्धिरेवाज्ञानतया कल्पनीयापन्नेत्याह बुद्धिरिति । तत्र चायं दोष इत्याह ततश्चेति ॥ १३९ ॥ किमतो यद्येवमत आह न चेति । न ज्ञानान्तरापोहेन ज्ञानमेव ग्रहीतुं शक्यत इति । अत्रैव दृष्टान्तमाह वृक्ष इति । न हि वृक्षार्थो वृक्षापोहेन प्रत्येतुं शक्यत इति ॥ १४० ॥ {२,१५३} अपि च यासावज्ञाननिर्भासा बुद्धिरज्ञानतया कल्पिता, तस्या ज्ञानत्वं न भवेत् । न हि यद्रूपं यदपोहेन प्रतीयते तत्रैव तद्भवति । वृक्षत्वस्यावृक्षेष्वपोह्येषु घटादिष्वभावादित्याह अपोह्य इति ॥ १४१ ॥ एवञ्च तस्याज्ञानत्वाभिमतस्य ज्ञानत्वाभावादर्थत्वमेवापन्नम् । अतोऽज्ञानवाचोयुक्त्यार्थ एवाभिमत इत्यभिन्नार्थत्वमित्याह ततश्चेति । किञ्चैवमपि चायमज्ञानापोहवादी वक्तव्यः किमालम्बनोऽयमज्ञानप्रत्यय इति । न तावद्बाह्यालम्बनं किञ्चिद्भवद्भिर्ज्ञानमिष्यते । न चास्य स्वांशालम्बनत्वं ज्ञानान्तरालम्बनत्वं वा सम्भवतीत्यनन्तरमेव वक्ष्यतीत्यभिप्रायेणाह अज्ञानेति । तन्न तावद्ज्ञानमात्रवादिनामज्ञानं नाम किञ्चिदस्ति यदस्यालम्बनं स्यादित्याह नेति । अत्र चोदयति नन्विति । अस्यार्थः वस्त्वात्मकं हि ज्ञानातिरिक्तमस्माभिर्निषिद्धम् । अभावात्मकं त्वज्ञानं किमज्ञानप्रत्ययेन नावलम्ब्यत इति ॥ १४३ ॥ परिहरति भाव इति । अयमभिप्रायः येन तावदाबालमास्थविरं च प्रसिद्धा महीमहीधरोदधिप्रभृतयो ग्राह्या अपलपिताः, तस्य किमिति सूक्ष्मन्यायवेदनीयो भावो ग्राह्यो भविष्यति तन्मते च सर्वोपाख्यानविरहलक्षण इति । अपि च यद्भावधियां स्वांशपर्यवसाने कारणमुक्तं, तदभावबुद्धेरप्यविशिष्टम् । अतः कथमसौ बाह्याभावालम्बनं स्यादित्याह स्वांशेति ॥ १४४ ॥ {२,१५४} तदवश्यं पारिशेष्यादज्ञानप्रत्ययस्यापि ज्ञानान्तरं वा स्वांशो वा ग्राह्योऽभ्युपगन्तव्य इत्याह तेनेति । अस्तु तदेव ग्राह्यं, को दोषोऽत आह स्वरूपेति । ज्ञानान्तरं स्वात्मा वा ज्ञानस्य ज्ञानस्वभावत्वान्नाज्ञानप्रत्ययेन विषयीकर्तुं शक्यते । स्वरूपविपरीतस्याग्राह्यत्वाद्यदाकारो हि प्रत्ययस्तदाकारमेव ग्राह्यमवस्थापयति । अज्ञानाकारश्च प्रत्ययः कथं ज्ञानमालम्बनीकर्तुं शक्नोति । स्वरूपविपरीतं न ग्राह्यमिति ॥ १४५ ॥ एतदेव दर्शयति यथेति । अतः सिद्धं न ज्ञानमात्रत्वेऽपोह्यमस्तीत्याह तेनेति । एवं चासत्यपोह्येऽपोहस्वरूपस्याप्यभावान्न तेनात्मनापि ग्राह्यग्राहकयोर्ज्ञानयोर्ज्ञानात्मना समानत्वमित्याह ग्राह्यग्राहकयोरिति । एवञ्चोभयोः साधारणरूपाभावाद्ग्राह्यग्राहकयोरन्यतरत्र ग्राह्ये ग्राहके वा ज्ञानत्वमभ्युपगन्तुं युक्तमित्याह तस्मादिति ॥ १४७ ॥ तथापि को निश्चयः ग्राहकं ज्ञानं न तु ग्राह्यमित्यत आह अत्रेति । उभयसिद्धं हि ग्राहकस्य ज्ञानत्वं ग्राह्यस्य त्वस्माकमसिद्धमिति । एवं तावद्ज्ञानं ग्राहकमर्थो ग्राह्य इति साधितम् । अथ वा किं नोऽनेन व्यसनेन । तत्त्वभेदो हि नो द्वैतानुगुणतया साध्यः । स तावत्सिद्धः । सिद्धे च तस्मिन् यथारुचि व्यपदेशोऽस्तु नामेत्याह वस्त्विति ॥ १४८ ॥ यथारुचि व्यपदेशमेव दर्शयति ज्ञानमिति । उभयं वा ज्ञानशब्दे वाच्यमस्तु अर्थो ज्ञानं च । अर्थ एव वा ज्ञानशब्दवाच्यः न ज्ञानम्{२,१५५}इत्यर्थः । ग्राहक एव वार्थशब्दवाच्योऽभिधीयताम् । नैवमपि काचित्पक्षक्षतिः । सिद्धत्वाद्द्वैतस्येत्यभिप्रायेणाह ग्राहक इति । भाष्यकारेण त्वतीतबुद्धेर्ग्राह्यत्वनिराकरणार्थं क्षणिकत्वं कारणमुक्तं येनैवमाह अर्थविषया हि प्रत्यक्षबुद्धिः, न बुद्धिविषया । क्षणिका हि सा, न बुद्ध्यन्तरकालमवस्थास्यते इति । तदुपन्यस्यति बुद्ध्योरिति । अतीता हि पूर्वा बुद्धिर्नासावुत्तरया ग्रहीतुं शक्यते । तत्कालेऽसत्या वर्तमानवद्ग्रहीतुमशक्यत्वाद् ग्राह्यस्य चेदं नीलमिति वर्तमानवद्भासादिति । अतः क्षणिकत्वात्कारणाद्बुद्धेः ग्रहीतुमशक्यत्वातस्मन्मताश्रयणेनार्थात्मकतैव बुद्धेरुपेयेत्याह अर्थ इति । यदि तूच्यते मा भूदतीताया बुद्धेर्ग्राह्यत्वं, सहभाविनोस्तु ज्ञानयोर्ग्राह्यग्राहकत्वं न नोपपन्नमिति । तदयुक्तं सहभावानुपपत्तेः । कथं हि समनन्तरप्रत्ययाधीनात्मलाभमुत्तरं तेन सहोत्पद्यत इति सम्भावयामः । सहत्वेऽपेक्षानुपपत्तेः । अस्तु वा जन्मयौगपद्यं ज्ञानयोः । एवमपि न मानमेयता सम्भवति । हेतुत्वमेव हि ग्राह्यत्वमुक्तम् । न चासति पौर्वापर्ये तत्सम्भवति, सहजन्मनोरन्योन्यनिरपेक्षत्वात् । तदिदमाह अन्योन्येति । कथं निरपेक्षमत आह क्रियेति । यदि हि ज्ञानयोः कश्चित्क्रियाकारकसम्बन्धो भवेत्, एवमपेक्षा भवेत् । न चासौ सहोत्पत्तौ सम्भवति । स्वाकारार्पणेन हेतुत्वं निराकृतमेवेति । ननु तवाप्यर्थज्ञानयोः कार्यकारणभावे क्रियाकारकसम्बन्धः कः, अत आह अर्थेति । येन व्यापारेण बुद्धेः प्रमाणत्वं सा मितिः कश्चासौ । यदेतद्बुद्धिजन्मेति प्रत्यक्ष उक्तम् । तदस्यां मितौ यार्थविज्ञानयोः सङ्गतिः । सानयोः कार्यकारणभावः । सा हि बुद्ध्यर्थाभ्यां सहिताभ्यां भाव्यते । यावद्धि नार्थो धीविषयः, तत्कर्म भवति । बुद्धिश्च जन्मनि कर्त्री । न तावन्निर्विषया{२,१५६}अकर्तृका चोत्पत्तिः सम्भवति । तदनेन क्रियाकारकसम्बन्धेनास्ति ज्ञानार्थयोः कार्यकारणभावः । तदेतदर्थस्य बुद्धेरुत्पत्तौ कर्मकारकत्वमेतदेवास्य ज्ञानकारणत्वम् । अत्रेति । मीमांसकसिद्धान्त इत्यर्थः । न चैष प्रकारो बौद्धमते सम्भवति, युगपज्जन्मनोर्जानयोर्जन्मन एवाभावाद्ज्ञानातिरिक्तस्य यौगपद्ये चान्यतरोक्तावन्यतरस्य कारणत्वासम्भवादित्यभिप्रायेणाह नेति । अपि च, इदं कार्यमयं हेतुरित्यपि नियमो यौगपद्ये दुरधिगमः अनपेक्षत्वाविशेषात् । न खलु सव्येतरविषाणयोर्युगपज्जन्मनोः शक्यमवगन्तुमिदं कार्यमिदं कारणमित्यगृह्यमाणे विशेषे, तदेतदाह नियम इति । नन्वगृह्यमाणे विशेषे उभयस्योभयं कारणं भविष्यतीत्यत आह द्वयमिति । यदि पूर्वमुत्तराधीनात्मलाभम्, उत्तरं च पूर्वाधीनं, ततो दुरुत्तरमितरेतराश्रयमिति ॥ १५२ ॥ नन्वत्रापि तद्भावभावितैव कार्यकारणभावे चिह्नम् । अस्ति च युगपज्जन्मनोरपि विज्ञानयोस्तद्भावभावः, पूर्वज्ञानसम्भवक्षण एवोत्तरस्य भावात् । अतः कुतो यौगपद्ये न हेतुहेतुमत्ता, अत आह तद्भावेति । सत्यम् । तद्भावभाविता कार्यकारणत्वे लक्षणं न पुनः पौर्वापर्यरहिता । तन्नियमसहितमेव तु तद्भावभावहेतुकं कार्यकारणभावे लक्षणमाहुः । न च यौगपद्ये पौर्वापर्यं, नतरां नियम इत्यकार्यकारणतेति ॥ १५३ ॥ परस्परसहितमुभयं कार्यकारणलक्षणं न त्वनपेक्षितमित्यत्रैव निदर्शनमुपन्यस्यति गवाश्वस्येति । न खलु कदाचिदश्वात्पूर्वं गवि जाते{२,१५७}पश्चाज्जायमानोऽश्वः पौर्वापर्यात्तत्कारणको भवति । तथैकसन्तानक्षणभाविनः सन्तत्यन्तरजस्य क्षणस्य न तद्भावमात्रात्तत्कार्यत्वमसति पौर्वापर्ये । एवं घटेन सहोत्पद्यमानेषु रूपादिषु नान्योन्यं कार्यकारणभाव इष्यते । न ह्यवयविद्रव्यस्य रूपेऽवयवी कारणम्, अश्वादिरूपाणामेव प्राक्सतां क्रमेण तत्र कारणत्वात् । एतौ च स्वमतपरमतभेदेन व्याख्येयौ दृष्टान्तौ । आवयोरेव तद्भावभावितामात्रं न कार्यकारणत्वे लक्षणमित्युक्तं भवतीति । तस्माद्यो यस्मिन्नियमेन पूर्वमवस्थिते जायते, स तत्कारणको नान्य इत्याह तस्मादिति ॥ १५५ ॥ यत्पुनरत्र परैर्यौगपद्येऽपि कार्यकारणभावो दृश्यत इति प्रदीपप्रभादिसिद्धवन्निदर्शनमुक्तं, तन्न । न सिद्धं, तत्रापि सूक्ष्मस्य कालभेदस्य विद्यमानत्वात् । प्रदीपकार्या हि प्रभा नासौ प्रदीपेन सहैव निष्पद्यते । एकदा प्रदीपे जातेऽनन्तरमेव निष्पद्यते प्रभा । तस्माद्न क्वचिदपि यौगपद्ये कार्यकारणभाव इत्याह हेत्विति । यद्यस्ति कालभेदः कस्मान्न लक्ष्यते, अत आह दुर्लक्ष इति । यथा निरन्तरमुपर्युपरिभावेन स्थिते पद्मपत्रशते भिद्यमाने कालभेदो दुर्लक्षः, एवं प्रदीपप्रभयोरपि । यथा च तत्र ना(न)न्तरिता सीची भिन्नत्तीति तत्र कालभेदे प्रमाणम्, एवं नानिष्पन्ने प्रदीपे तत्तेजो विसरतीति समानमुभयत्रापि प्रमाणं कालभेदे । तुलान्तनमनोन्नमनयोस्तु न परस्परं कार्यकारणभावो द्वयोरप्येकहेतुत्वात् । तोलयिता हि तत्र सहभुवोर्द्वयोरपि कारणम् । कक्ष्यासूत्रसन्निवेशविशेषो वा । सूत्रं हि तत्र मध्ये भवत्समं तौ धारयति । एकतरत्र भवद्विषमं प्रवर्तयति । न च पुनरुन्नामहेतुर्नामः न च नामहेतुरुन्नाम इति न क्वचित्सहजन्मनोः कार्यकारणभाव इति ॥ १५७ ॥ {२,१५८} यथा च पूर्वोत्तरज्ञानयोर्यौगपद्येन कार्यकारणभावः एवं ज्ञानभागयोरपि ग्राह्यग्राहकात्मनोः कार्यकारणभावो निराकार्यः । न चाकारणभूतस्य ग्राह्यता सम्भवतीति यौगपद्ये प्रसङ्गेन भागावुपसङ्क्रम्य दर्शयति भागयोरिति । मानमेयत्वनिराक्रियेत्यर्थः । यदि तूच्यते मा भूद्यौगपद्ये पूर्वमालम्बनमुत्तरस्य, क्रमेणैव तु भविष्यति । कथमसतोऽतीतस्यालम्बनत्वमिति चेद्, न । शक्त्यर्पणद्वारेणोपपत्तेः । पूर्वं हि ज्ञानमुत्तरस्मिन् वासनापरनामानं शक्तिमर्पयति । ततस्तद्रूपं तज्जायमानं तदालम्बनमित्याख्यायते, अत आह न चेति ॥ १५८ ॥ किमिति न भ(?वः।वेत् ।) अत आह ग्राह्यमिति । शक्त्यर्पणेन हि पूर्वस्य ग्राह्यत्वे ग्राह्यमतीतं भवेत् । अतीतमेव हि तद्वासनावशादुत्तरेणालम्ब्यते स्मृत्येव पूर्वज्ञानमिति । भवत्वतीतं ग्राह्यं को दोषः अत आह ताद्रूप्यमिति । ताद्रूप्यमतीतरूपत्वं वर्तमानावभासिनो ग्राह्यस्य संविद्विरुद्धमप्रमाणकं भवेत् । कथं ह्यतीतमबधितया बुद्ध्या वर्तमानतया गृह्येत । तथावागृह्यमाणमतीतं भवेदिति । कथं ताद्रूप्यमप्रमाणकमत आह अतीतेति । अयमभिप्रायः पूर्वज्ञानाहितवासनावशेन जायमानमुत्तरं स्मृतिरूपमेव भवेत् । स्मृत्या च स इत्यतीतत्वानुविद्ध एव स्वगोचरोऽनुभूयते । न चेह तथानुभूयते, प्रत्युत्पन्नवदिदम् इति संवेदनात् । अतः कथमसंवेद्यमेव ताद्रूप्यं प्रमाणवद्भविष्यति । एतच्च ज्ञानातिरिक्तवासनाभ्युपगमेनोक्तम् । न तु ज्ञानमात्रवादिनां तदतिरिक्ता वासना च काचिदस्ति । न चोपपद्यते, अनाधारवा(सना)नुपपत्तेः । न चातीतमसद्वासनाधारः सम्भवति । न चोत्तरमनागतम्, असत्त्वादेव । न च परस्य जन्मकालं यावत्पूर्वमवतिष्ठते येन तस्मिन् वासनामाधाय नश्यतीति शक्यतेऽवगन्तुम् । क्षणिकत्वात् । न च सन्तानिभ्योऽतिरिक्तः सन्तानो नाम कश्चिदस्ति यो वासनाधारो भवेत् । न चानाधारैव शक्तिरात्मानं लभेत ।{२,१५९}भणितश्चायं वासनाभङ्गो निरालम्बनानुमाननिराकरणावसर इत्यलमनेनेति । अत्र चोदयति स्वप्ने न स्यादिति । यदुक्तं भवतातीतत्वानुविद्धस्मृत्यानुभूयत इति । तन्न । स्वप्ने प्रत्युत्पन्ननिर्भासात् । न च न स्मृतिः स्वप्न इति साम्प्रतं प्रत्युत्पन्नकारणान्तराग्रहणात् । न हि तत्रेन्द्रियलिङ्गादि ज्ञानकारणं किञ्चिदुपलभ्यते । न चाकारणिका ज्ञानोत्पत्तिः सम्भवति । अतोऽवश्यं स्मृतिरेव सेति वक्तव्यम् । स्मृतिरपि च वर्तमानवन्निर्भासत इति तद्वदिहापि भविष्यतीति । परिहरति विपर्ययादिति । सत्यम् । अतीतत्वेन स्वप्ने बोधो न भवति । किन् तु विपर्ययादसौ तथावभासः । (?विपर्ययज्ञानं हि) तद्विपर्ययश्चान्याकारवस्तुगोचरोऽन्याकारो युक्त एवेति नानेन प्रमाणज्ञानानां तुल्यत्वमवगन्तुं शक्यत इति । कीदृशः पुनः स्वप्ने विपर्ययः । तद्दर्शयति तत्रेति ॥ १६० ॥ कथं पुनरिदमवगम्यते विपर्ययोऽसाविति । अत आह बाधेति । बाधकं हि तत्र ज्ञानमुत्पद्यते नैतदेवमिति । तज्जानीमोऽवर्तमानमेव तत्र वर्तमानतया भासत इति । एतावच्च विपर्ययस्य तत्त्वं यदन्यादृशस्यान्यथाप्रकाशनमिति सूक्तं विपर्ययादिति । न चायमेवम्प्रकारो विपर्ययो जाग्रज्ज्ञानेषु शक्यवचनः । सुपरिनिश्चिता हि तत्र जाग्रद्धियः इत्युक्तमित्यभिप्रायेणाह नेति । एवमुपपादितमतीतविषया न प्रत्यक्षबुद्धय इति । इदानीं प्रयोगेण दर्शयति तस्मादिति । अतीतो न प्रत्यक्षविषयः, अतीतत्वात् । जन्मान्तरानुवृत्तवदिति । न च योगिप्रत्यक्षेणानैकान्तिकत्वं, तन्निराकरणादिति । तस्मिन्नेव साध्ये हेतुदृष्टान्तान्तरमाह तद्रूपेति । अतीतोऽर्थो न प्रत्यक्षबुद्धिविषयः, तद्रूपत्वेनाज्ञानात् । यन्न स्वरूपेण संवेद्यते तन्न प्रत्यक्षधीविषयः यथा भाव्यर्थ इति ॥ १६२ ॥ {२,१६०} अस्तु वातीतस्य ग्राह्यत्वं, तथापि सौत्रान्तिकान् पराजित्य तद्वक्तुं युक्तं यज्ज्ञानमेवातीतं ज्ञानेनालम्ब्यते न त्वर्थ इति । ते हि सदृशापरापरोत्पत्तिरूपेण सन्तन्यमानेषु भावेष्वतीतक्षणालम्बनमेव ज्ञानमास्थिताः । वरं तदेव युक्तमाश्रयितुम् । तथा हि न तावदत्यन्तमलौकिकी ग्राह्यग्राहकसिद्धिरुक्ता भवतीत्यभिप्रायेणाह अतीतेति । किञ्च, एतदप्यतीतगोचरत्वे ज्ञानस्य विकल्पनीयं यत्तच्छक्त्यर्पणद्वारेण ग्राह्यतया कल्पितमतीतं ज्ञानं, तत्किं ग्राह्यैकस्वभावमाहोस्विद्ग्राहकैकस्वभावमुभयस्वभावं वेति । सर्वथा नोपपद्यत इत्यभिप्रायेणाह अतीतमिति । तत्र ग्राह्यैकस्वभावत्वे तावदर्थ एव शब्दान्तरेणाभ्युपगतो भवतीत्यभिप्रायेणाह ग्राह्येति । ग्राह्यैकस्वभावं हि ज्ञानं जडात्मकमर्थ एव शब्दान्तरेणोपपादितो भवतीति ॥ १६४ ॥ अपि च शक्त्यर्पणे नोत्तरग्राह्यतेष्यते । न च ग्राह्यमात्रात्मनोऽसंचेतितस्य शक्त्यर्पणं सम्भवति । अननुभूयमानस्य स्मृतिबीजाधानानुपपत्तेरित्यभिप्रायेणाह स्वेति । शक्त्यर्पणाभावमेव प्रयोगेण दर्शयति यथेति । नोत्पद्यविनष्टाद्दृष्टासंविदिताच्छक्त्यर्पणं, दृढत्वेनाज्ञानादेव पटुतरमननुभवादिति यावत् । पठन्ति हि वस्तुधर्मो ह्येषः यदनुभवः पटीयान् स्मृतिबीजमाधत्ते इति । यदनेवंविधं न तेन शक्त्यर्पणं, यथानागतादननुभूतपूर्वात्तथाविधादेव तु सन्तानान्तरजादिति । उक्तो ग्राह्यमात्रे प्रसङ्गः ।{२,१६१}ग्राहकैकस्वभाव इदानीं दर्शयति केवलेति । यत्खलु ग्राहकैकस्वभावं तत्खलु कथम् उत्तरस्य ग्राह्यं भविष्यति । तथा सति स्वभावनाशादभावापत्तेरित्यभिप्रायः ॥ १६६ ॥ किञ्चेदं ग्राहकैकस्वभावत्वं दुरधिगममित्याह किमिति । ग्राह्यापेक्षं हि ग्राहकत्वं तदेकस्वभावस्य । न तावत्स्वात्मा ग्राह्यो न ज्ञानान्तरं, तस्याप्येवमेव ग्राहकैकस्वभावत्वादिति । उभयाकारतायां दूषणमाह द्व्याकारता निरस्तैवेति । नैतदस्तीत्यादिना निषिद्ध इत्यर्थः । अपि च, द्व्याकारत्वे पूर्वज्ञानं तदैव स्वकाल एव संवेदेत । तत्रास्य स्वसंवित्तये बोधकान्तरज्ञानापेक्षा न युक्तेत्याह संवेद्येतेति ॥ १६७ ॥ अपि च यदि पूर्वज्ञानं द्व्याकारम्, एवं सति परस्यापि तद्भुवस्तथात्वादात्मांश एव प्रमा पर्यवसितेति किमतीतविषयतयेत्याह द्व्याकारेति । ग्राह्यैकस्वभावत्वे च पूर्वस्यायमपरो दोष इत्याह पूर्वेति । तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । इति स्थितिः ॥ १६९ ॥ अथ कथं पूर्वस्य ग्राह्यमात्ररूपत्वे तज्जन्मनश्चोत्तरस्य ग्राहकत्वं भविष्यतीति । यदि तु पूर्वं ग्राहकाकारमात्रमेवं सति नोत्तरस्य विषयो भवेत्, सारूप्यनिबन्धनत्वाद्विषयविषयिभावस्य । पूर्वोत्तरयोश्च पूर्वं ग्राहकाकारमात्रमुत्तरं तु द्व्याकारमिति वैरूप्यमिति न पूर्वविषयतोत्तरस्य (?न){२,१६२}सिध्येत् । तदेतदाह ग्राहकेति । पूर्वं च केवलग्राहकत्वे ग्रहणकतया विषयभावो निराकृतः । इह तु वैरूप्यादिति विशेष इति । यच्छक्त्यर्पणद्वारेण पूर्वस्यालम्बनत्वमुक्तं, तत्तावत्प्रत्युक्तमेव । तत्रैव स्मृत्वा पुनरपि किञ्चिद्वदति न चेति । केनचिद्व्यापारेण कश्चित्कञ्चिदर्पयति । न च विज्ञानस्य शक्त्यर्पणं प्रति कश्चिद्व्यापारो दृश्यते । क्षणिकत्वाद्व्यापारकालं यावदनवस्थानाद्, व्यापारान्तरानभ्युपगमाच्चेति ॥ १७० ॥ किञ्चायं शक्त्यर्पणस्याभावो बौद्धपक्षे निरालम्बनवाद एव प्रपञ्चेन साधित इत्याह शक्त्यर्पणस्येति । इदानीं यत्तत्पूर्वमुक्तं न पूर्वोत्तरज्ञानयोर्हेतुसाध्यत्वमिति, यच्च वास्यवासकभावनिराकरणम्, उभयत्र प्रयोगमाह सन्तानेति । क्वचिदेकस्यां सन्ततौ विमतिपदास्पदीभूतायां न ज्ञानयोर्हेतुहेतुमत्ता, ज्ञानत्वात्, सन्तानान्तरज्ञानवत् । सन्तानान्तरज्ञानानि न सन्तानान्तरहेतुमन्ति, तेषां तत्रानारम्भकत्वात् । एवमेव वास्यवासकभावनिराकरणेऽपि प्रयोगो दर्शयितव्यः । इह च ज्ञानान्येव धर्मीणि समानायां सन्ततावहेतुभूतानीति साध्यो धर्मः । ज्ञानत्वादिति हेतुः । सन्तानान्तरज्ञानवदिति दृष्टान्त इति ॥ १७१ ॥ ग्राह्यग्राहकयोरुपपादितं भेदं प्रयोगेणेदानीं दर्शयति तस्मादिति । यत एव न कथञ्चिद्ज्ञानस्य स्वगोचरत्वं, तस्मात् । यद्रूपस्य ग्राहकं तत्तु अतो ग्राह्याद्भिन्नं, तत्संवित्तावसंवित्तेः । यन्न तत्संवित्तौ संवेद्यते तत्ततो भिन्नं, रसादिग्राहकवत् । तत्संवित्तावसंवित्तिश्च प्रागेव साधितेति नासिद्ध्याशङ्का । रसादिग्राहकं यथेति चास्य भिन्नमिति वक्ष्यमाणेन सम्बन्ध इति ॥ १७२ ॥ {२,१६३} एवमेव ग्राह्यं पक्षीकृत्य ग्राहकाद्भेदो दर्शयितव्य इत्याह ग्राह्यमिति । अत्रापि रसादिग्राहकमेव दृष्टान्तः । यथा हि तद्रूपग्राहकानुभवेऽननुभूयमानं ततो भिद्यते, एवं तद्ग्राह्यमपि रूपं, तदपि स्वग्राहकपरामर्शे न परामृश्यत एव । तदपि न स्मरामीत्यत्र दर्शितमिति । एवमैकैकश्येन ग्राह्यग्राहकयोर्भेदं प्रसाध्येदानीमुभयोरपि समाहृत्य दर्शयति द्वयमिति । ग्राह्यग्राहकद्वयं परस्परभिन्नम् । इतरेतरपरामर्श इतरेतरापरामर्शाद्रसादिवत् । यथा रूपरसादयोऽन्योन्यपरामर्शेऽपरामृश्यमानाः परस्परेण भिद्यन्ते, एवमेतदपि द्वयमिति ॥ १७४ ॥ प्रकारान्तरेणेदाणीं ग्राह्यग्राहकयोर्भेदं दर्शयति एकेति । ग्राह्यं ग्राहकाद्भिन्नं तेन सहैकरूप्येणाज्ञानात् । यद्येन सहैकरूप्येण न ज्ञायते तत्ततो भिद्यते यथा सन्तानान्तरबुद्धिः । न चासिद्धो हेतुः, नीलादिरूपत्वाद्ग्राह्यस्यानाकारस्य च ग्राहकस्य संवेदनात् । एवमेव ग्राहकं पक्षीकृत्य हेतुर्दर्शयितव्य इति । प्रयोगान्तरमाह ज्ञानमिति । ज्ञानं धर्मि, न स्वांशं गृह्णातीति साध्यं, ज्ञानोत्पत्तेरिति हेतुः । तद्धि समनन्तरप्रत्ययादुत्पद्यत इति बौद्धा मन्यन्ते । यद्ज्ञानादुत्पद्यते न तत्(?पा।स्वां)शं गृह्णाति । यथा ज्ञानस्य स्वशक्तिः । स्वशक्तिरिति ज्ञानज(?न्या न्यां) वासनामपदिशतीति ॥ १७५ ॥ एवमेव ग्राह्यत्वप्रतिषेधप्रयोगो दर्शयितव्य इत्याह ग्राह्येति । ज्ञानं स्वांशेन न गृह्यत इति दर्शयितव्यम् । तावेव हेतुदृष्टान्ताविति । न च साध्यविकलो दृष्टान्तः । द्वयहीनवासनाभ्युपगमात् । बौद्धानां हि स्वांशं न गृह्णाति । न च तेन गृह्यते । एतच्च चिरन्तनबौद्धाभिप्रायेण ज्ञानातिरिक्तवासनापक्षे{२,१६४}स्थित्वोक्तमिति द्रष्टव्यम् । न तूपादानापरनाम्नो विशिष्टात्समनन्तरज्ञानादन्यां काञ्चिद्वासनामर्वाचीना मन्यन्ते । तन्निरासोऽपि चास्माभिरुक्त एवेति । अन्यथा ग्राह्यग्राहकयोर्भेदं दर्शयति चैत्रेति । चैत्रज्ञानं धर्मि । तच्चैत्रोद्भूतो यो ज्ञानांशो ग्राह्यस्तस्य बोधकं न भवतीति साध्यम् । ज्ञानत्वात् । यद्यद्ज्ञानं न तत्तद्बोधनं यथा देहान्तरोद्भवमिति । ग्राह्यग्राहकशक्तिनिराकरणं चैतेनैव प्रकारेण दर्शयितव्यमित्याह एतयैवेति । एषा चात्र दिक् । न ज्ञानं द्विशक्तिकं, ज्ञानोत्पत्तेः, स्वशक्तिवत् । तथा न ज्ञानं द्विशक्तिकं, ज्ञानत्वादन्यतरांशवत् । अन्यतरांशो हि ज्ञानमेव । न चासौ द्विशक्तिकः, द्वैविध्याभ्युपगमात् । इतरथा चातुर्विध्यप्रसङ्ग इति ॥ १७७ ॥ ननु शक्यमनेनैव प्रकारेण (?ना।ा)त्मनोऽपि वस्तुत्वाद्घटवद्द्विशक्तिकत्वं वारयितुमत आह प्रमाणेति । दर्शितं ह्यस्मत्प्रयोगसम्भिन्नबोधबोध्यत्वादात्मनो द्विरूपत्वम् । न तदनुमानेन वारयितुं शक्यते, प्रत्यक्षबाधकप्रसङ्गादिति भावः । ज्ञाने तु नात्मवद्द्विशक्तिकत्वं शक्यते कल्पयितुं, प्रमाणान्तराभावादिति । एतदप्युक्तमित्याह न त्वत्रेति । यत एवमेकस्य द्विरूपत्वमनुपपन्नम्, अतोऽवश्यमेव ज्ञानाद्भिन्नं नीलादि ग्राह्यमेष्टव्यम्, एवञ्च प्रमाणबलादापद्यमानो वस्तुभेदो न कल्पनागौरवमापादयतीति ॥ १७८ ॥ यदुक्तमनेककल्पनाया एककल्पना ज्यायसीति, तत्परिहृतं, न खलु प्रत्यक्षसिद्धोऽर्थः कल्पनीयः । न च तद्बलभाविनी ज्ञानकल्पना शक्यते वारयितुम् । प्रमाणवन्ति सुबहून्यप्यदृष्टानि कल्पनीयान्येव । अत एवोभय{२,१६५}सिद्धत्वाद्ज्ञानस्याकारकल्पना न्याय्येति यदुक्तं तदपि प्रत्याख्यातम् । यदि हि वयमाकारं दृष्ट्वा कस्यायमिति तदाश्रयमन्विच्छेम तदोभयसिद्धत्वाद्ज्ञानाकारोऽयमित्युच्येतापि । प्रतिष्ठिताश्रयमेव तु प्रत्यक्षसामर्थ्यादाकारमवगच्छन्तो नास्याश्रयान्तरमीहामहे । न चैवास्माकमसिद्धेऽर्थाकारे ज्ञानमपि सिद्धं येनोभयसिद्धं भवेत् । न हि तन्निराकारमनुभूयते । प्रत्यक्षेणार्थ एव हि ज्ञातस्तस्य प्रमाणं भविष्यति । स चेदनिष्टो नास्य कल्पनायां प्रमाणमस्तीति कथमुभयसिद्धत्वं, तदेतदाह तस्मादिति । आदिशब्देन शक्तिमात्रस्य भेद इति यदुक्तं तदुपादत्त इति । उक्तदोषपरिहारप्रपञ्चमतः परमारभमाणः यत्तावदुक्तमुपायत्वाद्ज्ञानमेव प्रथममवगन्तव्यमुपायाधीनसिद्धित्वादुपेयानाम्, न च तदाकारमन्तरेण प्रतीयत इति ज्ञानाकार एवायमिति, तत्तावत्परिहरति उपायेति । सत्यमर्थसिद्धावुपायो ज्ञानं, न त्ववश्यमुपायग्रहणाधीनमुपेयावधारणम् । न हि चक्षू रूपपरिच्छेदोपाय इति ततः पूर्वमनुभूयते । यत्तूपायत्वात्प्रथममवगन्तव्यमिति, तत्तैरेव चक्षुरादिभिरनैकान्तिकमिति नोपायस्य सतो ज्ञानस्य पूर्वानुभवं साधयितुमलमिति ॥ १७९ ॥ यत्पुनरुक्तम् उत्पन्नस्य सतोऽप्रतिबद्धस्य ज्ञानस्य नाग्रहणकारणमस्ति अतो ग्रहीतव्यमिति, तदनुभाष्य परिहरति यदपीति । अयमभिप्रायः सत्यं ज्ञानमुत्पन्नमप्रतिबद्धं केनचित् । न त्वेतावतैव ग्रहीतव्यं भवति, ग्राहकाभावेनाग्रहणोपपत्तेः । न तावदिदमात्मनात्मानं ग्रहीतुं शक्यमित्युक्तम् । अन्यच्च, ज्ञानं तदा नोत्पन्नमेव अर्थापत्तिर्हि सा । सा च पश्चादेव भविष्यतीत्यतः सतोऽपि ज्ञानस्य ग्रहणकारणाभावादग्रहणं युक्तमेवेत्याह तेनेति ॥ १८१ ॥ {२,१६६} यदि स्वकाले नावगतं, कथं तर्हि पश्चादवगम्यते । अत आह नान्यथेति । अस्ति हि खलु पश्चाद्ज्ञानावधारणे प्रमाणमर्थापत्तिः । ज्ञातार्थान्यथानुपपत्तिप्रभवा सा प्रागज्ञातेऽर्थे न जायते, पश्चादुपजायत इति युक्तमेव प्रमाणसद्भावादुत्तरकालमेव ग्रहणम् । परिचोदनापरिहारश्चोक्त एवेति नेह प्रतन्यत इति ॥ १८२ ॥ नन्वस्तु तावत्परस्तात्प्रमाणसद्भावः, पूर्वमपि त्वप्रतिबन्धस्य कस्मादग्रहणमत आह न चेति । न ह्यप्रतिबन्धमित्येव वस्तूपलभ्यते । अप्रतिबन्धस्याप्यनुपलम्भनात् । कारणसामग्रीविशेषसमवधानसम्पादितं हि भावानां ग्रहणम् । तदप्रतिबन्धानामपि तदभावे न भवति । किमनुपपन्नमिति ॥ १८३ ॥ का पुनर्ज्ञानग्रहणे सामग्री । यदि ज्ञानं, किम(?न्य्स्य) ज्ञानान्तरेण । नन्विदमेव स्वभावतो ज्ञानं प्रकाशात्मकम्, अप्रकाशात्मनां तु भावान्तराणामप्रतिबद्धानामप्यस्तु प्रकाशान्तरापेक्षा । अत एवोक्तं न चाप्रकाशरूपत्वमिति । अतो नोत्पन्नस्य ज्ञानस्याग्रहणे कारणमुपलभामहे अत आह व्यापृतमिति । सत्यं प्रकाशकं ज्ञानं, तथापि नात्मानं प्रकाशयति अर्थसंवित्तौ व्यापृतत्वात् । न हि बहिर्विषयप्रकाशने व्यापृतः प्रदीपः आत्मानमपि प्रकाशयति । तत्प्रकाशने चक्षुषोऽपेक्षणात् । अतो युक्तमेव प्रकाशात्मनोऽपि स्वबोधायान्यापेक्षणमिति ॥ १८४ ॥ अथ वा प्रकाशकं ज्ञानमित्येव कुतः, अर्थापरोक्षीभावो हि तस्य तथात्वे प्रमाणम् । ततश्चार्थानुभवस्वभावमेव तत्सिध्यतीति न स्वात्मानमपि प्रकाशयतीत्याह ईदृशमिति । एवमपि स्वात्मानं प्रकाशयेद्{२,१६७} यद्यर्थवद्ज्ञानात्मापि ज्ञानजन्मन्यनुभूयते, न त्वसावनुभूयते इत्युक्तमेवेत्यभिप्रायेणाह न चेति । न च यदेकस्य प्रकाशकं तेन सर्वस्यैव प्रकाशकेन भवितव्यम् । न हि चक्षुरादीनीन्द्रियाणि प्रकाशकान्यपि विषयतः सङ्कीर्यन्ते, व्यवस्थाया उक्तत्वात् । एवमिहापि बाह्यस्य प्रकाशकं ज्ञानं, नात्मन इति न नोपपन्नमित्याह सतीति सार्धेन । प्रकाशकपदोपचारस्तु कथञ्चित्प्रकाशे कर्तृभावमाश्रित्य वक्तव्यः । अन्यथा हि प्रकाशानन्त्यं भवेदित्य् उक्तमेवेति ॥ १८६ ॥ यत्तूक्तं तस्य तस्यापि चान्येन संवित्तावस्थितिर्भवेत् । इति, तद्दूषयितुमनुभाषते अन्येनेति सार्थेन । एवं हि परैरुक्तं यदि किल ज्ञानान्तरेण ज्ञानं जायते, ततस्तस्य तस्य ज्ञानस्य स्मरणात्पूर्वानुभवकल्पनायामनवस्था भवेत् । एकेन तु ज्ञानेन विषयाकारे स्वाकारे च प्रवेदिते सर्वमेव ग्राह्यग्राहकाकारस्मरणं तत्रैव स्यात् । तथा चानवस्था परिहृता भवति । तस्मान्न ज्ञानान्तरेण वेद्यं ज्ञानमिति ॥ १८८ ॥ एवमनुभाषिते दूषणमाह तत्रापीति । यदेतदुच्यते तत्र तत्र स्मरणदर्शनेन सर्वत्रानुभवकल्पनायामनवस्थेति, तदयुक्तम् । स्मृत्यसिद्धेः । गृहीतविषया हि स्मृतिर्भवतीति नागृहीतं ज्ञानं स्मर्तुं शक्यम् । गृहीतस्मरणे तु यावद्ग्रहणमेव स्मरणव्यवस्थानान्नानवस्थेति वक्ष्यते । भवति हि{२,१६८}कदाचिदेतद्द्वित्राणि ज्ञानान्यनुभूतपूर्वाणि स्मर्यन्त इति । विज्ञानसन्तानस्मरणं त्वलौकिकमेवेति ॥ १८९ ॥ यदि त्वर्थज्ञाततान्यथानुपपत्त्या ज्ञानमवगम्य पुनस्तज्ज्ञाततावशेन तद्विषयं ज्ञानान्तरं कल्पयति, पुनश्चानेनैव क्रमेण यावच्छ्रमं ज्ञानानि ज्ञातानि । ततो यावज्ज्ञातस्मरणाद्नानवस्थेत्याह घटादाविति सार्धेन । यत्तु प्रागनवगतानामेव ज्ञानानां स्मरणमुच्यते, तद्वन्ध्यासुतादिस्मरणतुल्यमशक्यमेव वक्तुमित्याह तदेति ॥ १९१ ॥ यत्तु भिक्षुणा सिद्धवत्तत्रापि स्मृतिरित्युक्तं, तद्भ्रान्तभाषितमेव । अस्ति च भ्रान्तौ निबन्धनम् । अर्थो हि तत्र स्मर्यते । तत्स्मरणान्यथानुपपत्त्या च तस्य प्राग्ज्ञातत्वमेव कल्प्यते । ततोऽपि प्राचीनज्ञानकल्पना । तदिह संसर्गमोहितधियां ज्ञानेऽपि स्मृतिविभ्रमः । न त्वाद्यज्ञानस्मरणमप्याशङ्क्यम् । प्रागेव सन्तानस्मरणं, तदेतदाह स्मृतिभ्रान्तिरिति । अर्थस्मृतेः खल्वियं तज्ज्ञानादिप्रमाणता विलसति, यदेतज्ज्ञानेऽपि स्मृतिभ्रमो भवति । अर्थस्मृत्या हि ज्ञाने प्रमीयमाणे स्मृतिविषयार्थसन्निकर्षाद्ज्ञानेऽपि स्मरणमिति भ्राम्यति । आदिशब्देन चात्र ज्ञानज्ञानमुपादीयत इति ॥ १९२ ॥ स्मृत्यापि ज्ञानप्रमायां यावच्छ्रमं तद्ग्रहणाद्विषयान्तरसञ्चारोपपत्तिरित्यभिप्रायेणाह यावदिति । अयमभिप्रायः न तावन्ति ज्ञानानि जायन्ते यदि तु ज्ञातुमिष्यन्ते यावच्छ्रमं तद्बुद्धिर्भविष्यति यावन्ति ज्ञानानि बुध्यमानो न श्राम्यति । स्मृत्यनुसारेणापि तावद्भोत्स्यते{२,१६९}इत्यभिप्रायं विवृणोति तत्प्रबन्ध इति । यावच्छ्रमं तावद्बुद्धयो ज्ञायन्ते, ततो महत्यपि बुद्धिप्रबन्धे ज्ञाते श्रमाद्वा विषयान्तराभिलाषेण वान्यसम्पर्काद्बुद्धिज्ञानाद्विच्छेदो भवति । यथा विषयेष्वेव रमणीयेषु गीतादिष्वनुभूयमानेषु विषयान्तराभिलाषात्पूर्वविषयविच्छेदो भवतीत्यनुपपन्नं विषयान्तरसञ्चारो न स्यादिति ॥ १९३ ॥ किञ्च यदेतदुक्तं तत्रापि च स्मृतिरिति, तत्किं प्रथमज्ञानाभिप्रायेण, उत तत्र तत्रेति वीप्सामभिप्रेत्य । पूर्वस्मिन् कल्पे नानवस्था । एको हि प्रथमः प्रत्ययः । अतः का तद्ग्रहणेऽनवस्था, तदेतदाह तत्रेति ॥ १९४ ॥ यदि तु संवित्प्रवाहमेवाभिप्रेत्य तत्रापि स्मृतिरित्युच्यते, तन्न तावदस्तीत्युक्तम् । उपेत्यापि ब्रूमः । यदि बहून्येव परस्ताद्ज्ञानानि स्मर्यन्ते, ततो ग्रहणकारणत्वात्स्मृतेस्तत्सिद्धये ग्रहणान्यपि कल्पयिष्यामः । कथमपरथा गृहीतविषया स्मृतिर्भविष्यति । न त्वेवमपि ज्ञानान्तरनिरपेक्षमेव ज्ञानमवसीयत इति युक्ता कल्पना, स्वसंवित्तिप्रतिषेधात् । अतो वरं प्रमाणबलादायातः संवित्प्रवाहः, न पुनः स्वसंवित्तिकल्पनेत्यभिप्रायेणाह स्मरणमिति । पूर्वं च घटादौ गृहीत इत्यत्र यद्येवं स्याद्, एवं सति तत्रापि स्मृतिरित्युपपद्येत । तथा नानवस्था, यावदवगतस्मरणात् । न त्वेतदप्यस्तीति तद्दर्शितम् । इदानीं तु यद्युत्तरोत्तरविषयाः स्मृतयो दृश्यन्ते ततस्तद्दर्शनाद्ग्रहणप्रवाहकल्पनैव प्रमाणवती, न स्वसंवित्तिकल्पनेति विवेक इति ॥ १९४ ॥ यदि तूच्यते, सत्यमस्त्ययं ग्रहणप्रवाहः । किन् त्वाद्यज्ञानगोचराण्येव तानि ग्रहाणि । ज्ञानमेव हि तत्राद्यं नार्थः । ज्ञानमेव विषयाकारेण{२,१७०}स्वाकारेण च निरूप्यते । तद्विषयं च तत्स्मरणमन्यत् । एवमेवापरमिति न किञ्चिदर्थविषयज्ञानमित्याशङ्कया सहाह अथेति । अयमभिप्रायः सारूप्येण हि विषयभावः । तद्यदाद्यविज्ञानविषयमेकम्, एवं सति तत्तावत्ततोऽविलक्षणं प्रथमवद्घट इत्येव भवेत् । एवं तृतीयाद्यपीति नोत्तरोत्तरबुद्धयो भिद्येरन् । अर्थवादिनस्तु प्रथममर्थविषयं घट इति ज्ञानं, द्वितीयं तु ज्ञानविषयं, तृतीयज्ञानं तु ज्ञानज्ञानविषयम् । अनाकारत्वेऽपि चाकारवतामिव स्वाभाविकः संविदां भेद इत्युक्तमेवेत्याकारप्रचयदर्शनमुपपद्यते ज्ञानेषु जिज्ञासितेषु, न तु बौद्धस्येति विपरीतप्रसङ्गोऽभिहितः । एतच्च प्रथमज्ञानस्य स्वसंवित्तिमभ्युपेत्योच्यते । प्राङ्निराकृतोऽप्ययं ज्ञानविषयत्वपक्ष इदानीं दूषणान्तराभिधित्सया पुनरुपक्षिप्त इति ॥ १९६ ॥ अयं चापरो विज्ञायते न विषये बुद्धीनां दोष इत्याह विज्ञानेति । अयमर्थः यस्य सर्वा बुद्धयो विज्ञानविषयाः, तस्य घटज्ञानं घटज्ञानज्ञानं वा विज्ञानविषयत्वान्न भिद्यत इति ॥ १९७ ॥ अविशेषमेव दर्शयति स्मरन्निति । एष हि ज्ञातपूर्वमर्थं कदाचित्प्रस्मृतवान् विज्ञानमनाकारं स्मरति अर्थं च सर्वदा साकारं घट इति, तन्नोपपद्यते । प्रस्मृतार्थविषयविज्ञानस्मरणं ह्यनाकारमेव दृष्टम् । एवं स घट इत्यपि स्मृतिविज्ञानं विज्ञानविषयमेवेति तदप्यनाकारमेव भवेत् । साकारत्वे वा प्रस्मृतार्थविज्ञानस्मृतेरपि साकारत्वप्रसङ्गोऽविशेषात् । अतो योऽयं घटविषयस्य स्मृतिविज्ञानस्य प्रस्मृतघटविज्ञानविषयस्य च स्मृतिविज्ञानस्य विशेषः, स विज्ञानविषयत्वे बुद्धीनां न भवेत् । अतः काचिद्विज्ञानविषया काचिदर्थविषयेति साकारानाकारभेदसिद्धिरिति ॥ १९८ ॥ {२,१७१} यदपि प्राग्ज्ञानस्य संवेदनमित्यत्र कारणमुक्तं ज्ञानप्रष्ठेन परामर्शदर्शनं, तदपि न युक्तम् । न ह्ययं ज्ञानप्रष्ठेन परामर्शो ज्ञानस्य ग्राह्यताकृतः । किन् त्वर्थस्थितौ ज्ञानमभ्युपाय इति तदनुसार्यर्थकथनं ज्ञातोऽसावर्थो मयेति । तदिदानीमेव च स्मृतेस्तत्र ज्ञानानुमानम् । न तु प्रागेव ज्ञानपुरस्सरमसौ ज्ञातः । यदा तु कश्चित्तथाविधार्थसदसद्भावयोः पर्यनुयुङ्क्ते, तदा ज्ञानोपायत्वादर्थस्य ज्ञानपुरस्सरमर्थस्थापनं भवत्यासीदसावर्थः यस्मान्मया पूर्वमवगत इति । अतो नानेन ज्ञानस्य पूर्वोपलब्धिः शक्या कल्पयितुम् । तदेतदाह ज्ञानप्रष्टेनेति ॥ १९९ ॥ यत्तूक्तं ज्ञानाकारपक्षे प्रत्यासन्नं सम्बद्धं ग्राह्यं भवति, इतरथासम्बन्धमतिदूरवर्ति च ग्राह्यमभ्युपगतं भवतीति । तत्परिहरति प्रत्यासन्नेति । अयमभिप्रायः यथा कथञ्चिन्नैकात्म्ये ग्राह्यग्राहकभावः सम्भवतीत्युक्तम् । तदा किं कुर्मोऽसम्बन्धमसन्निहितं च ग्राह्यमनुजानीमो न खलु दूरदेशा(?न्दी।दि)वार्ताभ्यो हृदयमनुविपरिवर्तमाना भावा न गृह्यन्त इति शक्यते वक्तुं संविद्विरोधादिति । एवं तावदसम्भवादासत्तिसम्बन्धौ न स्यातामित्युक्तम् । न वा हीयेत । न हि देशाविभाग एव सर्वत्र सम्बन्धः । विषयविषयिभावोऽपि हि सम्बन्ध एव । अस्ति चासौ ज्ञानार्थयोः । ज्ञानोत्पत्तौ तदवाप्तेर् इदमेव च तस्य सन्निधानमर्थेन यदुत्पन्ने तस्मिन्नर्थो भासत इत्यभिप्रायेणाह विषयेति । किं पुनरिदमर्थो भासत इति । न ज्ञानादन्यदर्थस्य भासनम् । संवित्तौ वा कथं विषयाकारो भासते । एवं तर्हि नास्ति तदभावे चान्यानवभासनादभाववाद एव । तदवश्यास्थेयमिदं ज्ञानोत्पत्तावभूतपूर्वो भावानां कोऽपि भेदः सकलप्रमातृप्रत्यात्मवेदनीयः । ते तु भावा ज्ञानाकारा बहिर्वेत्यन्यदेतत् । येऽपि फलभूतामर्थसंविदं स्वप्रकाशामाहुः, तैरपि कोऽप्यनिर्वचनीयोऽर्थगतो दर्शयितव्य एव । कथम्{२,१७२}अन्यथा संवित्प्रकाशेऽर्थः सिध्येत् । न ह्यन्यप्रकाशेऽन्यत्सिध्येद्, अतिप्रसङ्गात् । अन्या च संविदान्तरा, अन्यो बहिरर्थः । सोऽपि भासत इति चेत्, तद्वदेव तर्हि सोऽपि स्वप्रकाश एव । संविदायत्तो न स्वप्रकाश इति चेद्, नन्विदमेवास्माभिर्जिज्ञास्यते किमस्य संविदायत्तत्वमिति । स्वरूपं तावत्स्वकारणसामग्र्यायत्तमेव । प्रकाशोऽपि तस्य संविदेव न तदायत्तः । तदवश्यमप्राप्तपूर्वस्य काचित्फलोत्पत्तावस्ति प्राप्तिरित्यास्थेयं यदायत्तोऽस्य संवेदनं नान्यस्येति विवेकः । सैव चास्माभिर्ज्ञाततादिपदैरभिधीयते । अतः सिद्धं विषयत्वेनापि प्रत्यासत्तिसम्बन्धौ स्त इति ॥ २०० ॥ योऽपि मिथ्याज्ञानेष्वर्थाकारसम्भव उक्तः, तमनुभाष्य परिहरति अर्थेति । अयमर्थः योऽयं द्विचन्द्रादिबोधेष्वर्थाकारासम्भव उक्तः, सोऽयुक्तः । तथा हि । सम्यग्ज्ञानेषु तावन्नार्थाकारासम्भवः । केषुचित्तु मिथ्याज्ञानेषु देशान्यथात्वमात्रेण कालान्यथात्वमात्रेण वार्थाकारसम्भवोऽस्माभिः कृतः निरालम्बनवादे वर्णित इति यावत् । अतो न क्वचिदर्थाकारासम्भवः तत्पुनरिदं प्रतिभासविपरीतमभिधीयते । देशान्तरादिस्थोऽर्थो भासते, अन्यत्र स्थितश्चार्थोऽन्यत्रालम्ब्यत इति संविदनुसारेण हि भवन्तो बहिरर्थमवस्थापयन्ति । सा च देशान्तरादिगोचरा कथमन्यत्रार्थमालम्बत इति शक्यते वक्तुम् । एवं हि स्वांशालम्बनत्वेन किमपराद्धं येन तन्निराक्रियते । मैवम् । उक्तमस्माभिर्निरालम्बनवाद एव बाधकानुसारिणी हि मिथ्यात्वकल्पना । बाधकं च देशादिसंसर्गमेव वारयति, न हि बहिर्वस्तुसत्ताम् । तद्धि न द्वौ चन्द्राविति चन्द्रद्वित्वं निषेधति, न द्वित्वं चन्द्रं वेति कथं तौ बहिर्भासमानावपहास्यामः । अतो नेह संविद्विपरीतं किञ्चिदिति ॥ २०१ ॥ स्यादेतत् । कथमतीता अर्था असन्तो ज्ञानावलम्बनमिति । उक्तपरिहारत्वात् । उक्तं हि प्रत्यक्षधर्मो वर्तमानसन्निहितविषयता ज्ञानान्तराणां{२,१७३} नेति निरालम्बन एव, तदेतदाह प्रत्यक्षादिति । यत्तावल्लैङ्गिकमतीतादिगोचरं ज्ञानं तत्प्रत्युत्पन्नलिङ्गादिजनकमसतीष्वेव वासनासु भवति । यत्त्वन्यज्जाग्रत्स्मृति ज्ञानं स्वप्नज्ञानं वा, तद्भवन्तीषु वासनासु भवति प्रत्युत्पन्नकारणान्तराभावादिति ॥ २०२ ॥ ये ह्यत्यन्ताननुभूता अर्था अनुभूयन्ते, तत्र वासनादिकारणान्तरासम्भवान्नास्ति ज्ञानाकारत्वादन्या गतिरत आह य इति । अयमभिप्रायः तवापि तथाविधानुभवे किं कारणं, बौद्धोऽपि वासनामेव ज्ञानकारणं मन्यते । न चात्यन्ताननुभूतपूर्वेऽर्थे वासना सम्भवति, अर्थज्ञानाहितसंस्काराभिधानत्वाद्वासनाशब्दस्य । स्यादेतत् । न ज्ञानजन्मा संस्कारो वासना । किन् तु ज्ञानमेव किञ्चिदनवगतपूर्वार्थसंवेदनकार्योन्नेयशक्तिभेदमिति । तन्न । लोके तथानवगमात् । ज्ञानयोनिरेव संस्कारो वासनेति लौकिका मन्यन्ते, न ज्ञानमेव । अपि च, समनन्तरज्ञानमतदाकारं, तत्कथं तदाकारां धियमुपजनयितुमलं तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः । इति वः सिद्धान्तः । यदि त्वयमपि कार्यकारणभावो नेष्यते, अस्तु तर्हि कादाचित्कमप्यनपेक्षमेव ज्ञानम् । किं समनन्तरप्रत्ययाधीनव्यसनेन । अतोऽवश्याश्रयणीया काचिज्ज्ञानाद्भिन्ना वासना, योद्भूता सती विसदृशसन्तानतिरोधानेन सदृशमेव ज्ञानमारभत इति भवद्भिरप्यास्थेयम् । न चात्यन्ताननुभूतेषु सा सम्भवतीति तुल्यत्वमावयोः । न चाप्यनुभविष्यत इत्यात्यन्तिकवासनासम्भवप्रकटनार्थं, न तु भविष्यतोऽनुभवस्य कश्चिद्वासनायामुपयोग इति ॥ २०३ ॥ यदि तु अनादृत्यैव वासनां ज्ञानोत्पत्तिराश्रीयते, एवन् तर्हि यच्चिरन्तनैर्{२,१७४}बौद्धैर्वासनायां निमित्तत्वमाश्रितं तद्विरुध्यत इत्याह विनेति ॥ २०४ ॥ तत्रापि तु वासनाभ्युपगमे तस्याः संवित्कारणत्वादसावननुभूतोऽप्यर्थ इह जन्मनि क्वापि जन्मान्तरादावनुभूत इत्यभ्युपेय इत्याह वासनेति ॥ २०५ ॥ किमतो यद्येवमत आह एवं चेति । अभवनमभावः । दुःस्वप्नेऽनुभूयमानस्य संसर्गस्य न कस्यचिदत्यन्ताभाव इति । किं पुनस्तद्भावे प्रमाणमत आह अन्यथेति । ज्ञानं हि कार्यं न तावदकारणकं निष्पद्यते । न चास्य प्रत्युत्पन्नेन्द्रियादिकारणं किञ्चिदुपलभ्यते । स्वप्ने न चेद्वासनापि कारणं न स्यादेव । न चासौ पूर्वज्ञानमन्तरेण भवति । तद्यदि नेहासावर्थो ज्ञातः, नूनं जन्मान्तरेऽनुभूत इति ॥ २०६ ॥ ये तर्ह्यत्यन्तासम्भावनीयज्ञानार्थाः स्वशिरश्छेदादयः, तेऽसम्भवद्वासनाः कथमवसीयन्ते । अतस्तत्र ज्ञाना(कार)कल्पनैव साधीयसी नार्थाकारकल्पना, अत आह दुष्टत्वेनेति । अयमभिप्रायः यदा न कथञ्चित्स्वसंवेदनं ज्ञानमित्युक्तं तदा य एवैते पृथिव्यादयोऽर्था बहिरवस्थिता गृह्यन्ते, तेष्वेव कुतश्चित्कारणदोषाद्दुष्टं विज्ञानमन्यथास्थितमाकारं गृह्णाति । अदुष्टं तु यथावस्थितम् । न क्वचिदपि ज्ञानाकारानुभवः । तन्निबन्धनमिति । पृथिव्यादिनिबन्धनमित्यर्थः । पृथिव्यादिसूक्ष्माण्येव हि स्थूलारम्भे कारणम् । एतेन कल्पनानिबन्धनत्वं प्रधाननिबन्धनत्वं च निराकरोति । न तावत्कल्पनानिबन्धनत्वमबाधितत्वात् । न प्रधाननिबन्धनत्वमप्रमाणकत्वात् । दृश्यते तु सूक्ष्मतरादिक्रमेण पृथिव्यादीनामेव कार्यद्रव्येष्वारम्भकत्वम्{२,१७५}इति तदेव द्व्यणुकादिक्रमेणाश्रीयते । शिरश्छेदश्चान्यगोचरोऽवगतः स्वसम्बन्धितयावगम्यत इत्यन्यथा व्यवस्थानमिति ॥ २०७ ॥ तांस्तु पृथिव्याद्यर्थानपास्य न क्वचिदर्थान्तरे शब्दात्मके ज्ञानात्मके वाकारकल्पना युक्तेत्याह तानिति । कारणमाह नेति । पृथिव्याद्युपष्टम्भशून्यं न किञ्चिज्ज्ञानमात्मानं लभते । किञ्चिद्धि पृथिव्यादिद्रव्यगोचरं, किञ्चिद्धि रूपादिगुणविषयं, किञ्चिद्गवादिसामान्यगोचरम्, अन्यच्चोत्क्षेपणादिकर्मगोचरमवगतमिति ॥ २०८ ॥ अपि च यदि सर्वोऽयं ज्ञानमनुभासमान आकारो ज्ञानस्यैवान्ये च पृथिव्यादयो भावाः कल्पिताः, एवन् तर्हि सर्वसंविदामेवात्यन्तासन्नर्थ इति केन विशेषेणायं स्वप्नादिभ्रमाणामत्यन्तासन्नर्थ इष्यते येनैवमुपालभ्येमहि कथमत्यन्तासन्नर्थः स्वप्नादिविज्ञानेऽवसीयते इति तदेतदाह विज्ञानस्येति । अत्र स्वप्नादिज्ञान इत्यर्थः ॥ २०९ ॥ अतः सिद्धं भ्रान्तिज्ञानान्यप्यर्थमेवान्यथा स्थितमन्यथा कल्पयन्ति, न पुनरात्मानमवस्यन्तीत्याह तस्मादिति ॥ २१० ॥ यदि तर्हि सर्वसंविदामेव बाह्यालम्बनत्वं, किं तर्हि बाधकेन बाध्यते अत आह ततश्चेति । बाधकेन न बाह्यं प्रतिक्षिप्यते, किन् तु बाधके सतीयं वाचोयुक्तिर्भवति यदन्यथा सत्यप्यर्थेऽयमाकारो दुष्टकारणजनितया धिया प्रतीयते न त्वनर्थिकेयं धीरिति ॥ २११ ॥ {२,१७६} एवं तावद्वासनानिबन्धनेषु स्वप्नादिविभ्रमेषु अर्थाकारो दर्शितः । बाधकप्रत्ययार्थश्च व्याख्यातः । एतदेवेन्द्रियविभ्रमेषु द्विचन्द्रादिविषयेष्वतिदिशति द्विचन्द्रादावपि त्वेवमिति । यत्तूक्तं नैकत्रार्थे लिङ्गानेकत्वं सम्भवतीति । तत्र परिहारमाह तारकादीति स्यादन्तेन । अयमभिप्रायः तारकादिमतावपि स्त्रीत्वादिप्रत्ययो भ्रान्तिरेव । प्राणिधर्मत्वाल्लिङ्गभेदानामप्राणिष्वसम्भवाद्भ्रान्त्यैवान्यत्र दृष्टमन्यत्रारोप्यते । अतोऽन्यत्र दृष्टमेव स्त्रीत्वादि तारकादिमतावालम्बनमिति । कथं पुनस्तारकादिषु स्त्रीत्वादिप्रत्ययो भ्रान्तिरित्युच्यते । न ह्यत्र द्विचन्द्रादिबोधेष्विव बाधको दृश्यते । तम् अन्तरेण तु भ्रान्तिवादिनामेव भ्रान्तिरापाद्येत, अत आह कथमिति । अयमभिप्रायः सत्यम् । न भ्रमस्तारकादिषु, वास्तवानामेव स्त्रीत्वादीनां सम्भवात् । ते हि स्त्रीपुन्नपुंसकलिङ्गेभ्यस्तारका तिष्यो नक्षत्रमिति शब्देभ्यः प्रतीयन्ते । न च प्रतीयमाना न सन्तीति युक्तं वक्तुम् । यत्तु प्रमाणान्तरान्नावगम्यते, नायं दोषः । शब्दैकप्रमाणकत्वात् । न चैकप्रमाणावगतोऽर्थः प्रमाणान्तरेणानवसीयमानोऽसन् भवति । अतो येयं शब्दमात्रादुपजाता प्रतीतिस्तयैव स्त्रीत्वादयः संविदिता इति पारमार्थिका एवेति । अयमपि तु शब्दैकप्रमाणकत्वपक्षोऽतितुच्छ एव । न खलु पदतद्भागानामगृहीतसम्बन्धानां प्रतिपादकत्वमस्ति । न च प्रमाणान्तरावेद्येन वस्तुना सम्बन्धो ग्रहीतुं शक्यः । अतो मन्द एवायमपि पक्ष इत्यपरितुष्यन् परिहारान्तरमाह दृष्टैरिति । न तारकादावदृष्टपूर्वं लिङ्गं, दृष्टैरेव कैश्चिद्रूपैरिङ्गनात् । वक्ष्यमाणान्येव दृष्टानि रूपाणि लिङ्गमिति यावदिति । किं पुनर्दृष्टं रूपं येनात्मना स्त्रीत्वादीनीष्यन्ते अत आह संस्त्यानप्रसवस्थानैर्(इति ।) सत्त्वरजस्तमसां गुणानां यथोत्तरमुपचयः संस्त्यानप्रसवस्थानानि । ते च गुणाः प्राण्यप्राणिसद्भावसाधारणा एव सर्वेषु तद्रूपप्रत्यभिज्ञानात् ।{२,१७७}सुखदुःखमोहादिभेदवन्तो हि सर्वे भावाः आश्रयतया जनकत्वेन च प्राणिनः आश्रयतयाप्राणिनः जनकतया रमणीयादिभावव्यवस्थिता हि विषया अप्रार्थिनोऽपि सुखयन्ति दुःखयन्ति मोहयन्ति च । सुखादयश्च सत्त्वादिधर्माः, तद्दर्शनात्त्रैगुण्यं सर्वभावानामवसीयते । तद्यदा सत्त्वोपचयः संस्त्यानाभिधानोऽवगम्यते तदा पुंस्त्वं प्रतीयते । रजसस्तूपचये प्रसवे गम्यमाने स्त्रीत्वं, तमस उपचये स्थाने नपुंसकत्वम् । सा चोदासीनावस्था भावानां न कस्यचित्कार्यस्य सवित्री स्वरूपावस्थानमात्रं, तच्चैतद्रूपं दृष्टमेव सर्वभावेषु । प्राणिनो हि पुमांसः सत्त्वोत्कटा दृश्यन्ते । रजोमय्यो नार्यः । तमोमयाः षण्डाः संमुग्धनिरुद्धाखिलचेष्टाः । एवं तिष्यादीनामप्यापेक्षिकः सत्त्वादीनामुपचयो दर्शयितव्यः । अल्पप्रकाशनक्षत्रान्तरापेक्षया हि पटुप्रकाशः पुमानिति तिष्यो लक्ष्यते । यदा तु तस्यैव रजस उद्भवो लक्ष्यते तदा स्त्रीत्वेन तारकेति । तमसस्तूपचये नक्षत्रमिति नपुंसकत्वेन । एवमेव तटस्तटी तटमित्यादिष्वपि गुणोपचयापचयात्मा लिङ्गभेदोऽनुसन्धातव्यः । एवञ्च सर्वत्रैव पारमार्थिकं लिङ्गत्रयमुपपन्नं भवति । बाधविरहोऽप्यत एवेति सिद्धं नानर्थकास्तारकादिषु लिङ्गप्रत्यया इति । अत्रैव वृद्धानुमतिं दर्शयति यथेति । पतञ्जलिना हि किं पुनरिदं लिङ्गमिति पृष्ट्वा बहुधा विकल्प्य प्राण्यप्राणिषु दर्शनादविपर्यया(?चो।च्चो)भयत्र यथोक्तमेव लिङ्गमुपवर्णितमिति ॥ २१३ ॥ एवञ्चोपपन्नं लिङ्गत्रयमपीत्याह तेनेति । नन्वस्त्वेवमात्मको भिन्नाधिकरणो लिङ्गभेदः, एकाधिकरणं तु लिङ्गभेदं न मृष्यामहे यस्य हि यत्स्वरूपमुचितं तेनैव तन्नित्यं व्यपदिश्येत । अत आह अपेक्षेति । तत्तद्भावभेदापेक्षया हि तस्य तस्य गुणस्योपचये लक्ष्यमाणे नैकत्रापि लिङ्गभेदावसायोऽनुपपन्नः पुत्रादिभाव इवैकस्य पुंस इति । तत्पुनरिदमुक्तप्रकारं लिङ्गस्वरूपं नानुमन्यामहे पारमार्थिकमप्राणिषु लिङ्गमनुपलभमानाः । प्राण्यवान्तरजातिमेव तु लिङ्गं सङ्गिरामहे । पश्यामो हि वयं नराश्वमहिषगोवराहादिभेदभिन्नानेकप्राणिगणसाधारणं{२,१७८}स्त्रीत्वादिभेदभिन्नं विविधमवान्तराकारमप्राणिम्यो व्यावृत्तं यमानन्दसाध(?ना।न)स्तनवदनादिसन्निवेशविशेषा दर्शयन्ति । न च ते अप्राणिष्विति न लिङ्गभेदं प्रतिपद्यामहे । किमिदानीमप्राणिषु लिङ्गावगमो भ्रान्तिरेव । ननु साप्यसति बाधकोदये दुर्भणैव । सत्यम् । गौणस्त्वप्राणिषु लिङ्गवादः प्रस्तरैककपालयोरिव यजमानवादो माणवक इव ज्वलनवादः । न ह्यसौ भ्रान्तिः, अभ्राम्यतामेव तथावभासात् । कः पुनर्गुणः यतोऽप्राणिषु गौणो लिङ्गवादः । पैङ्गल्यादयो ह्यग्निगुणा माणवके वर्तमाना गुणवादहेतवः । न त्विह तथा प्राणिगुणाः केचिदप्राणिषु दृश्यन्ते यद्वशेन गुणवादः समाश्रीयते । मैवम् । इहापि गुणावगतेः । उपचयापचयधर्माणौ हि स्त्रीपुमांसौ, अतस्तद्धर्मविवक्षया स्त्रीलिङ्गादिशब्दप्रयोगोऽप्राणिष्वपि यथेहैव प्रकृते वर्णितम् । अपेक्षाभेदतश्चाविरोधः समान एव । अत्यन्तापचयविवक्षया च नपुंसकलिङ्गशब्दप्रयोगः, तद्रूपत्वात्तज्जातेः । स्यादेतत् नाप्राणिषु गौणावगतिरतः कथं गौणत्वमिति । अस्ति वा प्राण्यप्राणिनोः समानाकारा बुद्धिरायुष्मताम् । शब्दसल्लापमात्रादेव हि नो वाक्स्रुगादिषु स्त्रीत्वादिमतिराविरस्ति । न तु प्राणिष्विव तेष्वप्यनुस्यूत आकारो दृश्यते । अतः शब्दसंव्यवहारमात्रसिद्ध्यर्थमप्राणिषु लिङ्गानुशासनम् । किं पुनर्लिङ्गानां वाचकम् । न तावदेतदत्रोपयुज्यते, तत्सद्भावमात्रस्य प्रकृतौपयोगिकत्वात् । यदि तु प्रयोजनमभिधीयते श्रूयताम् । ये तावदप्राणिवाचिनः स्त्रीलिङ्गतया स्मर्यन्ते, तेष्वनुशासनकारैरेवेयं स्त्री अयं पुमानिदं नपुंसकमिति गुणवादेनैव स्त्र्यादिशब्दाः प्रयुक्तास्तद्वचनपदान्तरसमभिव्याहारसिद्ध्यर्थम् । ते तु स्वभावतः स्वार्थमात्रमभिदधति । गुणवाद एव स्मर्तॄणामत्यन्तं निरूढतया लिङ्गेऽपि वाचकभ्रान्तिमेव जनयति । एषा च निर्भागपदेषु स्थितिः वाक्स्रुवादिषु । सभागेषु तु तारकादिशब्देषु प्रत्ययभागः स्त्रीत्वमभिधाय प्रकृत्यर्थे तदसम्भवाद्गौण्या वृत्त्या तत्समभिव्याहारं लभते । गुणवादसमाधानं चोक्तमेव । येऽपि नक्षत्रमित्यादिषु प्रत्ययविकारविशेषास्तेष्वपीयमेव स्थितिः । विकाराणां नपुंसकलिङ्गेऽनुशासनादम्भावादीनाम्, अतोऽम् (७ ।१ ।२४) इति यथा । ये प्राणिवाचिनोऽश्वोऽश्वेत्येवमादयः, तेषां स्त्रीप्रत्ययान्तेषु तावत्स एव प्रत्ययः स्त्रीत्वमभिदधाति । स च{२,१७९}सम्भवत्स्वार्थो मुख्ययैव वृत्त्या प्रकृत्या समभिव्याह्रियते । अश्व इत्यादावपि प्रत्ययविकाराद् एव लिङ्गविशेषावगतिः । प्रातिपदिकवाच्या एव स्त्रीत्वादयः प्रत्ययेन द्योत्यन्ते इति नानुज्ञायते । प्रत्ययोपजनापाययोरेव लिङ्गावगतेः सदसद्भावदर्शनात् । प्रकृतेश्चान्वयव्यतिरेकनिर्धारितस्वार्थमात्रवचनत्वात् । अतः स्त्रियामभिधेयायां (?धात्वा।टाबा)दयः इत्येतदेव साम्प्रतम् । वार्त्तिककारेण च स्त्रीत्वादन्यत्र दृष्टं स्यादिति वदता प्राणिषु दृष्टं लिङ्गमभिदधतां शब्दानां गौण्यैव वृत्त्याप्राणिवाचिप्रकृतिसमभिव्याहारोऽभिहित इति वेदितव्यम् । न पुनरन्यत्र दृष्टारोपेण भ्रान्तिरुक्ता । अतो बाधकाभावोऽपि न परिचोदनीयः । गौणे तद्दर्शनात् । अतस्तारकादिमतौ तथा स्त्रीत्वादन्यत्र दृष्टं स्यादित्ययमेव परिहारः साधीयान् । परयोस्तु कथञ्चिच्छब्दपरमतत्वोपन्यासाभ्यामेवासाधुता प्रकटितेत्यवधातव्यमिति ॥ २१४ ॥ यत्पुनरुक्तम् एकस्यामेव प्रमदातनौ कथं परिव्राजकादीनां कुणपादिप्रत्ययाः सदर्था भविष्यन्तीति । तत्परिहरति कुणपादीति । अस्यार्थः नानाकारं वस्तु नानाकारमेवानुभूयत इति नानुपपन्नम् । यस्तु कश्चिदेव व्यवस्थया कञ्चिदाकारं प्रतिपद्यते न सर्वं सर्वः, तत्र सहकारिवासनासदसद्भावो निबन्धनम् । परिव्राजकादीनां हि कस्यचिदेव काचिद्वासना कुतश्चिदभ्यासाधृदयमनुविष्टोद्भूता सती कञ्चिदेवाकारमेकस्यामेव प्रमदातनौ दर्शयति । परिव्राजको हि देहाद्विविक्तमात्मानमभ्यस्यंस्तद्वासनावासितान्तःकरणो मृतशरीरवत्कुणप इत्येवं कामिनीं चिन्तयति । कामुकस्तु कामाभ्यासाहितवासनासहायो देहात्मनोर्विवेकम् अपश्यन् देह एवाहङ्कृतः कामिनीति । श्वानस्तु जात्यनुबन्धिपिशिताशनाभ्यासातिशयाहितवासनासनाथाः पृथुलनितम्बोरुस्थलप्रस्तनशालिनीं कबलयितुमभिलषन्ति कामिनीमिति वासनाव्यवस्थानुसारिणी संविद्व्यवस्थैकविषया परिव्राजकादीनामिति ॥ २१५ ॥ आह किमपराद्धमस्माभिर्वासनानिबन्धनं नीलाद्याकारोपप्लवं विज्ञाने वदद्भिः । भवद्भिरपि वासनैवाकारदर्शनहेतुतया वर्णिता । अत आह {२,१८०}स्वेति । अयमभिप्रायः न वासना (ना)मान्या काचित्समनन्तरप्रत्ययरूपेति भणितमसकृत्, यस्यैव च प्राचीनप्रत्ययजनितस्य संस्कारस्य तेनैव प्रत्ययेनानुकारः सादृश्यं स एव वासनेति चौरिका मन्यन्ते, स च संस्कारो बह्वाकारे वस्तुन्येकस्याकारस्याभ्यस्तपूर्वस्य निर्धारणे कारणं भवति इति युक्तम् । न त्वननुभूतमेवाकारमसन्तं वासना दर्शयतीति साम्प्रतम् । यथा भवन्तो मन्यन्त इत्यस्ति महानावयोर्विशेष इति ॥ २१६ ॥ दीर्घादिप्रत्ययोऽप्येकगोचरोऽपेक्षाभेदादेव परिहर्तव्य इत्याह तथेति । दीर्घह्रस्वबोधे भिन्नोपाध्यपेक्षा । घटपार्थिवादिभेदे तु कालाद्यपेक्षा एकोऽपि हि कदाचिद्घट इति तमर्थं बुद्ध्यते कदाचित्पार्थिवोऽयमिति । भिन्नकालाद्यपेक्षया बोधवैचित्र्योपपत्तिरिति ॥ २१७ ॥ अपि च, इयमपूर्वा युक्तिः यत्किलानेकाकारात्मकं भासते, तस्मादनाकारमेव वस्तु ज्ञानाकार एवायमिति । एवं हि प्रतीतिभेददर्शनादनेकाकारकल्पनैवाश्रयितुमुचिता । न त्वनाकारकल्पनेत्याह नेति ॥ २१८ ॥ स्यादेतत् । सन्त्वेकस्मिन्नप्यविरुद्धानेकाकाराः, कथं तु विरुद्धानामनेकेषां सम्भवोऽत आह संवित्तेरिति । इदमनेन विरुध्यत इति संवित्साक्षिकं तद्यत्रैव भवतो विरुद्धाभिमानः तत्र संविद्बलादविरोधमेव वक्ष्याम इत्यभिप्रायः । एतच्चान्वारुह्यवचनमपेक्ष्य, भेदात्त्वविरोधो दर्शित एवेति । भवेदप्यनेकाकारदर्शनादेकस्यानाकारकल्पना यद्येकमेकाकारमित्यत्र{२,१८१}युक्तिर्भवेत् । तामन्तरेण त्विदमीश्वराज्ञातुल्यमेव भाषितं भवेत् । तच्चायुक्तमित्यभिप्रायेणाह एकाकारमिति ॥ २१९ ॥ संविदेकाधीनता हि वस्तूनां व्यवस्थितिः । अतो यदेव येनात्मना संविदा व्यवस्थाप्यते तत्तेनैव रूपेणाभ्युपेतव्यमित्याह तथा हीति । किञ्चैकत्वेऽपि वस्तुनो नास्माकमेकान्तवादः येनैवमुपालभ्येमहि कथमेकमनेकाकारमिति । तदपि ह्येकानेकात्मकमेवानेकान्तवादिनामस्माकमित्याह न चेति ॥ २२० ॥ अतः सिद्धं देशकालावस्थोपाधिसद्भावनिमित्तैः प्रत्ययैर्विद्यमाना एव वस्त्वाकारा उद्भवाभिभवात्मकाः पृथग्भेदेन गृह्यन्त इत्युपसंहरति तस्मादिति । देशादयश्चाकारोद्भवाभिभवद्वारेण प्रत्ययानां निमित्तमिति ॥ २२१ ॥ ये तर्हि युगपदेव ग्रहीतॄणां घटत्वाद्याकारा निर्भासन्ते तत्र कथम् । न हि त आपेक्षिकाः, स्वाभाविकत्वाभ्युपगमात् । उक्तं च घटत्वपार्थिवद्रव्येति । तत्र कः परिहारः अत आह युगपदिति । यद्यप्यत्र नौपाधिकत्वान्न चोद्भवाभिभवौ, तथापि नानाकारे वस्तुनि यो यस्य वस्तु(?नि।नः) (?यो) यस्य वस्तुभागस्य शब्दं स्मरति, स तं विकल्प्यामुकोऽयमिति जानाति नेतर इति व्यवस्थासिद्धिरिति ॥ २२२ ॥ अत्रैव दृष्टान्तमाह नित्यमिति । रूपादयो हि घटे नित्यं सन्त{२,१८२}एव, तथापि न सर्वे सर्वैरनुभूयन्ते ग्राहकाणां चक्षुरादीनां विषयव्यवस्थानादिति ॥ २२३ । एवं दृष्टान्ते दर्शयित्वा दार्ष्टान्तिके योजयति एवमिति ॥ २२४ ॥ ननु बहिर्देशमर्थं तावदिन्द्रियाणि न प्राप्नुवन्ति अप्राप्यप्रकाशे नैवानवस्था । अतो न बहिस्सतोऽर्थस्य कथञ्चिदवगतिरुपपद्यते, अत आह तस्मादिति । अयमभिप्रायः सिद्धं तावत्प्रतीतिबलाद्बाह्यालम्बनं ज्ञानमिति, स बाह्योऽर्थात्मा प्राप्यैवेन्द्रियैः प्रकाश्यत इत्युक्तम् । प्राप्यकारिता चोपपादिता यदि कृतं न निर्वहति कामं, तथापि नानालम्बनं ज्ञानं, सविद्विरोधात् । अप्राप्यकारिणामेवेन्द्रियाणां कञ्चित्कार्यवशोन्नीयमानमतिशयं वक्ष्यामः, यद्बलेनाप्राप्तमपि बाह्यमर्थं प्रकाशयन्ति, न पुनः स्वांशालम्बनं ज्ञानमिति कल्पना प्रमाणवतीति ॥ २२५ ॥ यदप्युक्तं वक्तारश्चापि दृश्यन्ते इति, तत्परिहरति वदन्तीति । यदेतल्लौकिका वदन्ति नीलोऽयमर्थो यतस्तद्रूपा मतिरुत्पद्यते इति, तेऽपि न ज्ञानाकारपरिचयपुरस्सरोऽर्थसम्बोध इति तथा वदन्तीति ॥ २२६ ॥ कथं नाम वदन्ति अत आह ग्राहकत्वेनेति । विदिते खलु नीलेऽन्येनोत्थापिताशङ्कः स्वयं वा जातविचिकित्सः प्रमाणतथात्वनिश्चयपुरस्सरमर्थतथात्वं निश्चिनोति, नेदमन्यादृशं हि ज्ञानं नोऽर्थानां ग्राहकं तद्यथार्थं समर्पयति तथासौ तदुपाधिकत्वात्तस्य । इह च प्रथमं{२,१८३}तावज्ज्ञानेन नीलं समर्पितम् । तथैव चाद्ययावदनुवर्तमानं ज्ञानमस्ति यन्नीलमेव प्रकाशते । तस्मान्नीलमेवेदमित्युपायतया पश्चादपि ज्ञातं ज्ञानं पुरस्सरीकरोतीति नानेन ज्ञानस्य पूर्वग्रहणमापादयितुं शक्यत इति ॥ २२७ ॥ एवं तावत्परीक्षिता प्रत्यक्षशक्तिः । निर्णीतं च यथा बाह्य एव प्रवर्तितुं शक्तमिति । एवं चानुमानस्य प्रत्यक्षबाधे सिद्धे लैङ्गिकं तावद्बाह्यासत्त्वमप्राप्तं बाह्यार्थवादिभिः । अतश्च तदभावद्वारिकां ज्ञानानुभवकल्पनामतिक्रम्य तैर्बाह्य एव यत्प्रयत्यते तद्युक्तमित्याह लैङ्गिकेति ॥ २२८ ॥ स्यादेतत् बहिस्सन्तमेवार्थं लौकिका बुध्यन्ते, परीक्षकास्तु युक्तितोऽवस्थापयितुमशक्नुवन्तः स्वांशालम्बनत्वं संविदां प्रतिपद्यन्ते अत आह यथेति । अयमर्थः यथा तस्यार्थस्य लोके बुद्धिरुत्पद्यते, परीक्षकैरपि तथैव वाच्यम् । अयथार्थं ज्ञानं हि वदन्तो न परीक्षका एव भवेयुः । इदं तु परीक्षकाणां तत्त्वं यत्प्रमाणशरणत्वम्, असति तस्मिंस्तत्त्वहानिरेव तेषामिति । लौकिकाश्च नान्तराकारवद्बाह्यं वस्तु बुध्यन्त इति । प्रतीतिमेवानु(?सा।स्मा)रयति न यादृगिति । अन्तराकारो यादृगवगम्यते न तादृशो बाह्यार्थः स ह्ययमिदमिति पररूपेण निरूप्यत इत्युक्तम् । अन्तराकारस्य त्वहमिति निरूपणं भवेदस्माकमिवात्मन इति ॥ २२९ ॥ अत्र भाष्यं ननूत्पद्यमानैवासौ ज्ञायते ज्ञापयति चार्थान्तरं प्रदीपवदिति यद्युच्येतेत्येवमादि, तदाक्षिपति उत्पद्येति । अयमभिप्रायः {२,१८४}तद्बाह्यापलापवादिना वक्तव्यं यत्तदभावानुगुणम्, इह चोत्पद्यमानाया बुद्धेरर्थस्य च ग्रहणमाचक्षणो नार्थाभावं दर्शयतीति नेदं पूर्वपक्षवादिनो वक्तुमुचितमिति । स्यादेतत् । नेदं पूर्वपक्षानुगुणतयोच्यते, किन् त्विदमर्थान्तरभूतमपरमेव बुद्धावागतं सिद्धान्तिनोऽसम्मतमित्येतावतैवोच्यते सिद्धान्तान्तरमस्य दूषयितुमत आह कथमिति । पूर्वपक्षानौपयिकमर्थान्तरं ब्रुवाणस्य सिद्धान्तान्तरदूषणं निग्रहस्थानमिति भावः ॥ २३० ॥ एवमाक्षिप्य समादधाति बाह्येति । इदमनेन ग्रन्थेन बाह्यार्थवादिनं पूर्वपक्षवादी मीमांसकं ब्रूते किं भवान् बाह्यार्थग्रहणसमये ज्ञानस्य प्रतिबन्धाभावं नेच्छति येनार्थाकारोऽयमिति ब्रवीति । कथं ह्यप्रतिबन्धस्याग्रहणं भविष्यति । कथं चानाकारस्य ग्रहणम् । अतो ज्ञानाकारकल्पनैव साधीयसीत्यभिप्रायः ॥ २३१ ॥ अत्रोत्तरं भाष्यं तन्न । न ह्यज्ञातेऽर्थे कश्चिद्बुद्धिमुपलभते । ज्ञाते त्वनुमानादवगच्छतीत्यादि । तस्यामभिप्रायमाह उत्तरमिति । अस्यार्थः विदितपूर्वपक्षवाद्यभिप्रायः सिद्धान्तवादी वदति । सत्यमुत्पत्तौ बुद्धेरप्रतिबन्धः, ग्राहकाभावात्तु तदानीमग्रहणं, तदभावश्च तत्कारणस्य लिङ्गस्य ज्ञाततादिपदास्पदस्याभावादिति । अन्यथोत्पद्यमानैवेत्यादिभाष्याभिप्रायमाह अन्येति । अन्यतर्केषु स्थित्वेदं भाष्यकारेणोच्यते उत्पद्यमानैवेत्यादि । एतदुक्तं भवति बाह्यार्थवाद्येकदेशिमतोपन्यासोऽयं भाष्यकारेण कृतस्तन्निराकरणार्थमिति ॥ २३२ ॥ एकदेशिमतमेवोपन्यस्यति ते(ष्विति ।) तर्कान्तरेष्वर्थज्ञानकाल एव ज्ञानमवगम्यत इतीष्यते । एवं हि मन्यन्ते स्वप्रकाशमेव विज्ञानम्{२,१८५}आत्मानं विषयं च व्यवस्थापयतीति । एतच्चास्माभिः प्रागेव प्रपञ्चितमिति । यद्येवं किमस्य निराकरणे प्रयोजनम् । एवमपि द्वैतं सिध्यत्येवात आह तथेति । यदि हि समसमयमुभयमुपलभ्यत इत्याश्रीयते, ततो बुद्धेरनाकाराया बोद्धुमशक्यत्वादेकाकारोपलम्भाच्च एकमेव साकारं भवेत्सहोपलम्भनियमाच्चाभेदः परोक्तो नापाकर्तुं शक्यते । तत्रार्थनाश एवापद्येत । न ह्यभ्युपगममात्रेणार्थः सिध्यतीत्येतन्मतनिराकरणं भाष्यकारेणोपदिश्यत इति ॥ २३३ ॥ अपरमपि ननूत्पन्नायामेव बुद्धावर्थो ज्ञात इत्युच्यते नानुत्पन्नायाम् । अतः पूर्वं बुद्धिरुत्पद्यते पश्चाद्ज्ञातोऽर्थ इति भाष्यं, तदाक्षिपति नन्वितीति । परिचोदना हि नामानिष्टापादनेन भवति । न चेदमनिष्टं मीमांसकस्य यदुत्पन्नायां बुद्धावर्थो ज्ञात इति । तस्मादनुपपन्ना परिचोदनेति । पूर्वं बुद्धिर्भवति पश्चाद्ज्ञातोऽर्थ इति च पौर्वापर्याभिधानं पूर्वोक्तेन युगपदुपलम्भेन विरुध्यते इत्याह पौर्वापर्येति । उत्पद्यमानैवासावित्यादिना भाष्येण युगपद्ज्ञानार्थयोरुपलम्भोऽभिहितः । तत्कथमिदानीं पौर्वापर्यमभिधीयते इति ॥ २३४ ॥ यदि तूच्यते पूर्वमुत्पद्यमानैव बुद्धिर्ज्ञायते ज्ञापयति चार्थमित्युक्तम्, इह च बुद्ध्युत्पत्तिसमयेऽर्थो ज्ञायते इत्युच्यते । उत्पन्नायां त्वसौ ज्ञातः सहैव ज्ञानेनातिक्रान्त इति यावत् । क्षणिकत्वेन हि धर्मेणासौ युक्तः कथमद्य यावदवस्था(?प्य्स्य)ते । अयं चार्थो ज्ञात इति निष्ठार्थभूतकालाश्रयणेन भाष्यकारेणोक्तः । अतो न कश्चित्पूर्वापरविरोध इति, तथाप्युक्तस्यार्थस्य पुनर्वचनमनर्थकं भवेत् । एवमपि प्रकारान्तरेण स एवार्थज्ञानयोर्{२,१८६}युगपदुपलम्भोऽभिधीयते । स चोक्त एव । न चास्य प्रकारान्तरवचनस्य स्वरूपेण कश्चिदुपयोगः तदेतदाह क्षणिकत्वेनेति ॥ २३५ ॥ एवमाक्षिप्य समादधाति अत्रापीति । अयमर्थः यथोत्पद्यमानैवासावित्यत्र न पूर्वपक्षिणा स्वसिद्धान्तस्थित्या पूर्वपक्षितम्, एवमिहापि न बौद्धः स्वसिद्धान्तमुक्तवान् यदुत्पन्नायां बुद्धावर्थस्य ज्ञाततामाह । एवं हि परमतमेवाभ्युपगतं भवेदिति । केनाभिप्रायेण तर्हीदमुक्तमत आह वाक्यादिति । अयमर्थः यदा परेण सिद्धान्तिना इदमुक्तं न पूर्वं बुद्धिर्ज्ञायत इति, तदास्य तद्वाक्यश्राविणो भ्रान्तिर्जाता यदयं सिद्धान्ती बुद्धेः पूर्वं ज्ञानं प्रतिषेधति, तदस्य मन्ये बुद्ध्युत्पत्तिरपि न प्रागनुमता । न हि भवति स्वप्रकाशं सूत्पन्नमपि न गृह्यते । तदेवं परस्य सिद्धान्तिनो वाक्याज्जातविभ्रमः सिद्धान्तिमतमेवान्यथा बुद्ध्वा ननूत्पन्नायां बुद्धावितीदृशं पृच्छति स्म । श्रुतं मया प्राग्वो मीमांसकानां बुद्ध्युत्पत्तिः सम्मता । तत्किमित्येवं यन्न प्राग्बुद्धमिति ॥ २३६ ॥ पूर्वपक्षवाद्यभिप्रायमेव विवृणोति सहेत्यदर्शनमन्तेन । इयं किलास्य बौद्धस्य मृष्टाशा सहैव ज्ञानस्योत्पत्त्युपलम्भौ, उत्पन्नानुपलब्धस्यासम्भावनीयत्वात् । तदिहैतावदेव विमतिपदं किं नो बुद्धेरुत्पत्त्युपलम्भावर्थवित्तेः प्रागूर्ध्वं वा आहोस्वित्सहैवार्थवित्त्येति । एष च मीमांसकः पश्चादर्थवित्तेर्ज्ञानस्यावबोधमाह । तन्नूनमेतस्य ज्ञानं पश्चादेवोत्पद्यते । कथमपरथा प्रकाशस्वभावस्याग्रहणम् । तदेनमितः पक्षाभासाद्व्यावर्तयामीति प्राक्तावदुत्पत्तेरपकर्षणं करोति । न हीदं शक्यते वक्तुं{२,१८७}यदनुत्पन्नायामेव बुद्धावर्थो ज्ञातो भवतीति, अतिप्रसङ्गात् । एवं च प्रागुत्पन्नस्य तदैव संवित्तिरिति सुसाधमेव । प्राग्च तत्संवित्तौ सिद्धायां ध्रुवमापन्नं बाह्याभ्यन्तराभिमतयोस्तत्त्वयोर्विवेकादर्शनम् । अर्थ एव हि प्राग्बुद्धेः साकारे तत्सामर्थ्यादनाकारा संवित्तिः । अतो विविक्ताकारता सिध्यति । इतरथा त्वाकारविवेकस्यानुपलब्धत्वादद्वैतं सिद्धमेवेति । युगपद्ग्रहणपरिचोदनाप्येवमभिप्राया शक्या वर्णयितुमित्याह तस्मादिति ॥ २४० ॥ एतदेव विवृणोति युगपदिति । ज्ञानेन सह युगपद्गृह्यमाणेऽप्यर्थे नार्थस्याकारो लक्ष्यते । उक्तं हि नाकारविवेको लक्ष्यते इति । अपि चैवं सहोपलम्भनियमो बौद्धस्यानिवारितप्रसरो ज्ञानाद्भिन्नं साकारमर्थं निराकरोतीत्युक्तमेवेति । यत एव प्राक्समकालं वा ज्ञानानुभवेऽर्थनाशो भवति, तस्मादर्थसंविद एव प्राग्भाविता भाष्यकारेण सिद्धान्तावसरे यत्नेन साध्यत इत्याह तस्मादिति ॥ २४१ ॥ एवं तावद्ननूत्पन्नायामित्यादिभाष्याक्षेपपरिहारौ वर्णितौ । अयमपरोऽस्योत्तरग्रन्थः सत्यम् । पूर्वं बुद्धिरुत्पद्यते न पूर्वं ज्ञायते । भवति हि कदाचिदेतद्यज्ज्ञातोऽर्थः सन्नज्ञात इत्युच्यते इति । तस्य यथाश्रुतगृहीतस्य तावदर्थमाह यस्त्विति । योऽस्याः परिचोदनायाः सिद्धान्तग्रन्थः स प्रागेव निरूपितः केवलग्राहकग्रहणप्रतिपादनावसरे । एवं हि तत्रोक्तं न पूर्वं ज्ञायते बुद्धिरित्यत्रैतद्वदिष्यते । ग्राहकस्यैव संवित्तिर्लक्ष्यते ग्रहणे क्वचित् ॥ {२,१८८}इति । तदिदमुक्तं भवति हि कदाचिदेतद्यद्ज्ञातोऽर्थः सन्नज्ञात इत्युच्यत इति । अर्थाकारविविक्तं ज्ञानमात्रमेव स्मर्यत इति यावत् । उक्तं च न स्मरामीति । एवमुक्तार्थं भाष्यमाक्षिपति न त्वेतदिति सार्धेन । सत्यम् । पूर्वं बुद्धिरुत्पद्यते न तु पूर्वं ज्ञायते इति प्रतिज्ञायामयं हेतुरुक्तः यत्किल ज्ञातोऽप्यर्थः कदाचिदज्ञातवन्न स्मर्यते, तस्मान्न पूर्वं बुद्धिर्ज्ञायते इति । इदं च बालप्रलपितप्रायम् । किं खल्वत्र केन सम्बध्यते यज्ज्ञातो न स्मर्यते तत्र पूर्वं बुद्धिर्न ज्ञायत इति, तस्मान्न तावदेतस्यां प्रतिज्ञायां साक्षात्साधनमिति ॥ २४३ ॥ तत्किं हेयमेवेदं भाष्यं, नेत्याह अत इति । सत्यम् । नेदमस्यां प्रतिज्ञायां साक्षात्साधनं, किन् त्वनेन ग्रन्थेन फलद्वारेण प्रतिज्ञानिराकरणमुक्तम् । पूर्वपक्षवादिनाप्यत्र ज्ञानस्य पूर्वोपलब्ध्या बुद्ध्याकारो वाञ्छितः । तदनेन निराक्रियते । यदि बुद्धिः साकारा भवेत्सा तर्हि तथैव स्मर्येत । न चैवं केषुचिदवसरेषु, केवलग्राहकस्मरणात् । अतः किं मुधा मुग्धैः प्रागुपलब्धौ प्रसय्स्यते । एवमपि हि धीरनाकारैव यदसावाकारवियुक्ता स्मर्यते न पूर्वं ज्ञायत इति । किमुक्तं भवति । नानेन प्रकारेण सिसाधयिषितं बुद्धेः साकारत्वं सिध्यति, अनाकारस्मरणात्कदाचिदिति ॥ २४४ ॥ अत्रापरं भाष्यमपि च काममेक(रूप)त्वे बुद्धेरेवाभावो न त्वर्थस्य प्रत्यक्षयेति । तदयुक्तम् । कथं हि द्वैतसिद्धान्ती ज्ञानापलापमाह । एवमपि हि न तस्य पक्षः सिध्यति । न चासति ज्ञाने निष्प्रमाणिका अर्थसिद्धिरवसातुं शक्यते । अतो व्याख्येयमेतदत आह काममिति । नात्र बुद्ध्यभावे तात्पर्यं, किन् तु नासत्यर्थे बुद्धिः सिध्यतीत्येवं परमिदम् । वरमेकरूपत्वे बुद्धिरपह्नुता यदसौ प्रत्यक्षार्थसामर्थ्यसमधिगम्या । यदधीना बुद्धिर्न तस्यैव प्रत्यक्षसिद्धस्यार्थस्य तामादायाभाववर्णनमिति । अपरमपि न चार्थव्यपदेशमन्तरेण बुद्धेः रूपोपलम्भनम् । तस्मान्नाव्यपदेश्या बुद्धिः । अव्यपदेश्यं च नः प्रत्यक्षं तस्मादप्रत्यक्षा बुद्धिरिति भाष्यम् । तद्व्याचष्टे न चेति । बुद्धयो हि नार्थरूपाद्विना निरूप्यन्ते । न हि जातु नीलरूपादियं नामेति विविच्य बुद्धिरुपलभ्यते । अर्थाकारेणैव तु नीलादिना व्यपदिश्यते नीलज्ञानं पीतज्ञानमिति । एवञ्च नित्यपररूपनिरूप्या बुद्धिः कथं प्रत्यक्षप्रमेयं भविष्यतीति । न हि मृगजलज्ञाने ऊषरं जलत्वेन ज्ञायमानं प्रत्यक्षप्रमेयमिष्यते, भ्रान्तिविषयत्वात् । तस्याश्चाप्रत्यक्षत्वात् । अर्थस्तु नित्यं स्वरूपेण संवेद्यमानः प्रत्यक्ष इति युक्तमव्यपदेश्यं च नः प्रत्यक्षमिति पररूपाव्यपदेश्यमिति भाष्यार्थ इति ॥ २४५ ॥ एवं तावत्सतापि पररूपेण निरूप्यमाणं न प्रत्यक्षमित्युक्तम् । त्वन्मते चायमपरो दोषः, यदसद्ग्राह्यानुसारेणैव तद्ज्ञानं संवेद्यते, स्वभावस्वच्छत्वात्ज्ञानस्य, नीलाद्याकारेण ग्राह्यता वासनोपप्लवात्कल्पितैव यतस्तदेतदाह असदित्युपप्लवादन्तेन । अतो न कथञ्चिज्ज्ञानमेव प्रत्यक्षप्रमेयं पारमार्थिकं वक्तुं शक्यत इत्याह तेनेति ॥ २४७ ॥ अत्रापरमपि च, नियतनिमित्तस्तन्तुष्वेवोपादीयमानेषु पटप्रत्ययः इतरथा तन्तूपादानेऽपि कदाचिद्घटबुद्धिरविकलेन्द्रियस्य स्यादिति भाष्यं, तदाक्षिपति निमित्तेति । यदेतन्निमित्तानां तन्त्वादीनां नियतत्वं कार्येषु{२,१९०}किञ्चिदेव निमित्तं किञ्चिदेव कार्यमुपजनयति नापरमिति, तदुभयोरपि ज्ञानबाह्यार्थवादिनोः समानम्, उभयोरपि निजशक्त्यनुसारित्वात्कार्यसिद्धेः । निजयैव हि शक्त्या किञ्चिद्विज्ञानं तन्त्वाद्याकारं किञ्चिदेव तु पटाद्याकारं ज्ञानं जनयति तन्तव इव पटम् । न चात्रान्यतरः शक्योऽनुयोक्तुमिति भावः ॥ २४८ ॥ तुल्यतामेवानुयोगस्य विवृणोति तन्त्वर्थैरिति द्वयेन । निगदव्याख्यानौ ग्रन्थाविति ॥ २५० ॥ यदि तु सामर्थ्यनियममाश्रित्यार्थानां तन्त्वादीनां कार्यव्यवस्थोच्यत इति, तज्ज्ञानानामपि ज्ञानान्तरारम्भे न दण्डवारितमित्याह अर्थेति ॥ २५१ ॥ अतो दोषपरिहारसाम्ये नान्यतरः शक्योऽनुयोक्तुमित्याह तस्मादिति ॥ २५२ ॥ अत्र परिहारमाह देशेति । अयमभिप्रायः यदपि यस्य कारणं तदपि कदाचिदेव कार्यमारभमाणं दृष्टं न सर्वदा बीजमिवाङ्कुरम् । न हि तत्कुसूलाधिकरणमङ्कुरमारभते, किन् तु देशविशेषं क्षेत्रादिं कालविशेषं च ग्रीष्मादिं निमित्तविशेषमुदकादिमासाद्य कदाचिदेव देशादिव्यङ्ग्यत्वात्{२,१९१}कारणशक्तीनाम् । नैतद्ज्ञानवादिनां सम्भवतीति वक्ष्यते । अतः कस्यहेतोरुत्पन्नमृत्पिण्डविज्ञानस्यापि कदाचिदेव घटप्रत्ययो न सर्वदा । कस्माच्चोत्पन्नव्रीहिबीजपरिचयस्यापि ज्ञातुर्भाव्यङ्कुराकारपरिचयः । न हि तत्र दण्डोदकादि किञ्चिदस्ति कारणशक्तीनां व्यञ्जकं, यदपेक्षया कारणानि विलम्बन्ते । स्यान्मतं मा भूवन् बाह्या देशादयः । तज्ज्ञानान्येव च कारणानामनुग्राहकाणि भविष्यन्तीति । तन्न, क्षणिकत्वेनानुग्राह्यानुग्राहकयोः साहित्यासम्भवादिति ॥ २५३ ॥ न केवलं कारणशक्तीनां व्यञ्जकान्यर्थवादिनां सन्ति, शक्तयोऽपि कार्यार्थापत्तिप्रमाणिकाः प्रतिपटादिकार्यं तन्त्वादीनां व्यवस्थिताः प्रसिद्धा इत्याह शक्तयोऽपीति ॥ २५४ ॥ भवतस्तु बौद्धस्य (?ना।न वि)ज्ञानाद्भिन्ना अभिन्ना वा पारमार्थिकी शक्तिर्निरूप्यते येन कार्यारम्भव्यवस्था घटत इत्याह भवत इति । संवृतिसद्भावमुत्सृज्येति । संवृत्या यः सद्भावस्तमुत्सृज्य न पारमार्थिकी शक्तिरस्ति । न च संवृतिसत्तया व्यवस्थायाः सिद्धिरित्युक्तं निरालम्बनवाद इति ॥ २५५ ॥ अपि च शक्तिरिति वासनामेव भवन्तो गायन्ति । सा च पूर्वानुभवयोनिर्न तत्सदृशज्ञानान्तरोपजननादन्यत्र समर्थेत्यभिप्रायेणाह वासनेति । ननु वासनानुसारेणैव निमित्तानां तन्त्यादीनां कार्यविशेषनियतत्वं भविष्यति शब्दवासनानामिवार्थबुद्धौ भवन्मते, अत आह निमित्तेत्येतदन्तेन । वासनाया इति हेतौ पञ्चमी । यदेतद्वासनाहेतुकं निमित्तनियतत्वं{२,१९२}तद्वासनाया एवाभावादयुक्तम् । तदभावश्च क्षणिकत्वेनासाहित्याद्वास्यवासकयोरनाश्रित(?त्वा।वा)सनाभावा(दा)श्रयानुपपत्तिश्चोक्ता । दुर्लभमिति वक्ष्यमाणेन सम्बन्ध इति । अपि चेयं वासना न परस्य कस्यचिदनुग्रहे वर्तते । अस्थिरानुग्राह्यानुग्राहकत्वानुपपत्तेः । अतः स्वतन्त्रैव कार्यमारभमाणा सर्वान् प्रत्यारभेताविशेषादित्यभिप्रायेणाह अपारार्थ्यादिति । एवं तावत्शक्त्यभावादेव न तत्कृता कार्यव्यवस्थेत्युक्तं, येऽपि चास्माकं देशकालादयः कारणशक्तीनां व्यञ्जकत्वेनाभिमताः, तेऽपि तन्नियामका न सन्तीत्याह देशेति ॥ २५७ ॥ सर्वं चेदमभिप्रेत्यापिचेत्यादि भाष्यकारेणाभिहितमित्याह मत्वैतदिति । एवं चेत्परिहृतं पर्यनुयोगतुल्यत्वमित्युपसंहरति तस्मादिति । एवं चानुमानदूषणात्प्रत्यक्षस्य च स्वस्मिन् वर्तितुमशक्तेर्न तावद्भवदभिमताभ्यामाद्याभ्यां प्रमाणाभ्यां बाह्यशून्यता सिध्यतीत्याह एवमिति ॥ २५९ ॥ आगमस्त्वनुष्ठाननिष्ठो नैवञ्जातीयके प्रमाणमित्याह आगमस्येति । न बाह्यसद्भावे अभावे चेत्यर्थः । उपमानं तु सिद्धवस्तुनः सादृश्यविषयं न वस्तुसदसद्भावयोर्व्याप्रियते, न च किञ्चिच्छून्यं नाम ज्ञानातिरेकि सिद्धं यच्छून्यतया ज्ञानमुपमीयते गृहेणेव प्रोषितचैत्रेण शून्यं{२,१९३}मन्दिरान्तरमित्यभिप्रायेणाह नोपमेति । अर्थापत्त्या तु तत्तद्भावभेददर्शनानुपपत्तिप्रभवया पृथिव्यादयो भावा व्यवस्थाप्यन्त एवेति सा परिपन्थिन्येव शून्यतायामित्याह अर्थापत्तिरिति ॥ २६० ॥ एवं चापन्नं षष्ठप्रमाणगोचरत्वं शून्यताया इत्याह तस्मादिति । एवं तावन्न प्रमाणानुसारेण शून्यता सिध्यतीत्युक्तम् । इदानीं यत्तदुक्तं तत्रास्तां यः प्रमेयतः इति, तदुपन्यस्य दूषयति एवमित्युपेयमन्तेन । अयमर्थः न तावज्ज्ञानालम्बनाः परमाणवः अतीन्द्रियत्वात् । तत्सद्भावे प्रमाणाभावाच्च । न तत्समूहः, तदतिरिक्तस्यानिरूपणात् । अवयविनश्च वृत्तिविकल्पातिरिक्तादिपरिचोदनादूरीकृतनिरूपणत्वात् । अतो बाह्यस्याण्वादेः ग्राह्यस्यासम्भवादेव पारिशेष्यसिद्धमात्मालम्बनत्वं सर्वसंविदामिति प्रमेयाश्रया च शून्यता यैरुच्यते, तैरपि वादिभिर्यथोक्ताद् आन्तरस्य ग्राह्यस्यासम्भवात्स्वात्मनि वृत्तिविरोधादिदमिति च पररूपनिरूपणादवश्यमेवान्यस्य ज्ञानाद्ग्राह्यत्वं बलादुपेयमनालम्बनज्ञानासम्भवादिति । (?द्वयोरपि समानो निराकरणमार्ग इत्याह) स्वांशवदण्वादयोऽपि ग्राह्य न सम्भवन्तीत्युक्तमत आह ग्राह्या इति । अयमभिप्रायः यत्तावदणूनामग्राह्यत्वं तदस्माकमपि सिद्धमेवेति किं तन्निराकरणेन । समूहोऽपि वनादितुल्योऽनभ्युपगमनिराकृत एवेति । यस्तु समूहापरनामावयवी स यथा सत्यः, तथा वनोपन्यासावसरे प्रतिपादयिष्याम इत्याह सत्य इति ॥ २६२ ॥ {२,१९४} एवं तावद्बाह्यसिद्धिरुक्ता । इदानीं यत्तन्माध्यमिकमते बाह्यज्ञेयाभावाद्ज्ञे(?या।यज्ञा)नाभावोऽपीत्युक्तं, तच्च बाह्यसिद्धिप्रतिपादनेन परिहृतमित्याह इतीति । बाह्याभावकृता मतौ संवृतिकल्पना नास्तीत्यर्थः । य एव तु ज्ञानज्ञेयात्मकस्योभयस्य तत्त्वं परमार्थतो जानन्ति मीमांसकाः, तेषामेव चेदं धर्मविचारणे धुरि समर्थमित्याह उभयेति । अयमभिप्रायः धर्मो रथोऽस्यावयवो युगापरपर्यायो धूर्विचारः । तेन हि धर्मरथो घटितः, तद्वहनाय चेदं ज्ञानज्ञेयात्मकमुभयं तत्त्वतो ज्ञातं क्षमं भवति । संवृतिकल्पितं तु न धुरं वोढुं क्षममिति धर्मरथोऽवसीदेत् । न ह्यसमर्थाभ्यां धुर्याभ्यां धूरुह्यते । न हि परमार्थतोऽसतोः संवित्संवेद्ययोः सामर्थ्यमस्ति । अतो यदुक्तं यदा संवृतिसत्येनेति, दूषितं च संवृतेर्न तु सत्यत्वमिति तदेवात्रोपसंहृतमित्यनुसन्धातव्यमिति ॥ २६३ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां शून्यवादः समाप्तः ॥ शुभं भूयात् ড়र्तीईई ००५ अनुमानपरिच्छेद (आंড়्) {३,१} अत्रभाष्यकारेण विज्ञानवादान्ते अतो न व्यभिचरति प्रत्यक्षमिति प्रत्यक्षाव्यभिचारित्वमुपसंहृत्य अनुमानं ज्ञातसम्बन्धस्येत्यादिनानुमानलक्षणं प्रणीतम् । तस्य तात्पर्यं दर्शयति प्रत्यक्षेति । अयमर्थः । वृत्तिकारग्रन्थे हि तेन व्यभिचरति प्रत्यक्षम् । तत्पूर्वकत्वाच्चानुमानाद्यपि इति प्रत्यक्षव्यभिचारपूर्वकमनुमानादीनामपि व्यभिचारात्परीक्ष्यत्वमुक्तम् । तत्र प्रत्यक्षाव्यभिचारित्वे प्रतिपादिते व्यभिचारिकारणप्रभवत्वेन तावद्व्यभिचारशङ्का प्रत्युक्ता । यदि परं स्वरूपाश्रयो व्यभिचारस्सम्भवति । सोऽपि वक्ष्यमाणलक्षणकेषु नाशङ्कनीय एव । न हि प्रतिबुद्धदृशः प्रतिबन्धक संविद्विदितव्यभिचाराः । सकलव्यवहारोच्छेदप्रसङ्गात् । एवमितरेष्वपि यथास्वमवसरे वक्ष्यामः । तस्मादनुमानाद्यपि लोकप्रसिद्धं न परीक्षितव्यमिति । इयं च सर्ववक्ष्यमाणप्रमाणलक्षणभाष्यतात्पर्यव्याख्या साधारणी वार्तिककारेण कृता । सर्ववक्ष्यमाणप्रमाणप्रपञ्चस्य हीदमेव साधारणं स्थानम् । अनेन च श्लोकेन समर्थितारम्भावसरः प्रपञ्चो विशेषतो व्याख्यास्यत इति । तदेतदुक्तं भवति । नात्र नैयायिकादिवदलौकिकं प्रमाणानां{३,२}स्वरूपमुपदर्शयितुं लक्षणानि प्रणीतानि । लोकप्रसिद्धप्रमा(णा)व्य[७२८]भिचारित्वान्मीमांसकानाम् । किन् तु शङ्कितव्यभिचारापादितपरीक्षाप्रत्याख्यानार्थं लोकप्रसिद्धमेव स्वरूपमुपदर्श्यते । अतो न प्रमाणलक्षणे सङ्गतिः प्रत्यक्षादिलक्षणस्याशङ्कितव्येति ॥ १ ॥ __________टिप्पणी__________ [७२८] व्यवहारि ___________________________ इदानीं लक्षणभाष्यव्याख्यानावसरे प्राथम्यादनुमानलक्षणमनुसन्धास्यति । तत्र च ज्ञातसम्बन्धस्येत्युच्यते । तत्र न विद्मः को ज्ञातसम्बन्धसमासार्थ इति । न तावत्पुरुषस्सम्बन्धी समुदायो वा । अनुपादानात् । न ह्यनुपात्तान्यपदार्थको बहुव्रीहिर्भवति । ननु बुद्धिसम्बन्धोपस्थापितः पुरुषस्समुदायिद्वयाक्षिप्तस्समुदायो वा विशेष्यते । बुद्धिर्हि स्वशब्दादवगता तद्वन्तमन्तरेणात्मानमलभमानोपस्थापयति स्वाश्रयमिति नानुपादानदोषः । नैतदेवम् । गम्यमानस्याविशेषणात् । न खलु धूमशब्दार्थाविनाभावादवगतोऽग्निर्ज्वलतीति विशेष्यते । वक्ष्यति च गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् । इति । स्यान्मतम् । सत्यम् । अनुपात्तं न विशेष्यते । उपात्त एव त्विह सम्बन्धी । तथा हि अयमत्र पदान्वयः । अनुमानमेकदेशदर्शनादेकदेशान्तरे बुद्धिरिति । अतः कस्यैकदेशस्येत्याकाङ्क्षायां स एवैकदेशो ज्ञातसम्बन्धस्येति विशेष्यते । ननु दर्शनोपसर्जनत्वादेकदेशो न विशेषणमर्हति । न ह्युपसर्जनं पदं पदान्तरेण सम्बध्यते । न हि भवति पुरुषं प्रत्युपसर्जनीभूतस्य राज्ञः ऋद्धस्य राजपुरुष इति विशेषणम् । उच्यते । नोपसर्जनत्वादसम्बन्धः । आकाङ्क्षितं हि पूरणसमर्थमुपसर्जनेनापि सम्बध्यत एव । अत्रैकदेशदर्शनादित्युक्तेऽस्ति कस्यैकदेशस्येत्याकाङ्क्षा । अर्थसम्बन्धेऽप्याकाङ्क्षैव हेतुः । उपसर्जनसंज्ञा तु उपसर्जनं पूर्वम् (२ ।२ ।३०) इति पूर्वप्रयोगसिद्ध्यर्थैव । अत एव हि कस्य गुरुकुलमिति व्यवहारोपपत्तिः । तत्र हि कुलोपसर्जनस्यैव गुरोः कस्येति विशेषणम् । अपि च दर्शनक्रियाकर्मणो दृश्यस्यैकदेशस्य प्राधान्यमप्रधानस्य सापेक्षस्यापि पदान्तरेण सम्बन्धो दृष्टः, यथा राजपुरुषश्शोभन इति । अत उपपन्नं ज्ञातसम्बन्धस्यैकदेशदर्शनादिति । नोपपन्नम् । उक्तं हि गुरुणैव नोपसर्जनं पदं पदान्तरेण सम्बध्यते ऋद्धस्य राजपुरुष इतिवतिति । न च परिहृतम् । उपसर्जनविशेषणे{३,३}हि ऋद्धी राजानं विशिष्यात् । यत्तूक्तम् आकाङ्क्षा सम्बन्धे हेतुः इति तदयुक्तम् । आकाङ्क्षावतोऽप्ययोग्यस्य पदान्तरानन्वयात् । इह च दर्शनोपसर्जनत्वादन्वयायोग्यत्वमुक्तम् । अथोच्येत एकवाक्यतायामयं दोषः एकदेशदर्शनादेकदेशान्तरे बुद्धिरनुमानम् । अतः पर्यवसिते वाक्ये कस्येइकदेशस्येत्याकाङ्क्षायां वाक्यगतमेकदेशस्येति पदं ज्ञातसम्बन्धस्येति विशेष्यत इति । तन्न । आकाङ्क्षावाक्यस्याश्रवणात् । स एवानुपात्तान्यपदार्थदोषः । यत्र तूपादानं तत्रोपसर्जनत्वादयोग्यत्वमुक्तम् । अपि च वाक्यभेद एवात्र दोषः । यच्च दर्शनं दृश्यप्रधानमित्युक्तं, तदप्ययुक्तम् । उत्तरपदार्थप्रधानत्वात्तत्पुरुषस्य । न च वास्तवं गुणप्रधानभावमाश्रित्य पदान्तरसम्बन्धो दृष्टः । राजपुरुषेऽदर्शनात् । ननु शाब्दमेवैकदेशस्य प्राधान्यं गम्यते । कृद्योगलक्षणा हीयं कर्मणि षष्ठी । न । अश्रवणात् । न हि समासे षष्ठी श्रूयते । न चाश्रूयमाणा स्वार्थमभिधत्ते । किन् तु निषादस्थपतिवल्लक्षणया तदर्थोऽवगम्यते । श्रुत्या तु दृश्यावच्छिन्नं दर्शनमेव प्रधानतयावगम्यते । उत्तरपदार्थप्रधानानुशासनमप्यत एव । समासात्तथैवावगतेः । न च वास्तवं प्राधान्यमुपसर्जनस्य पदान्तरसम्बन्धे सापेक्षसमासे वा हेतुः । कस्य गुरुकुलमिति नित्यसापेक्षत्वाद्गुरुशब्दस्य नासामर्थ्यं दोषः न ह्यनन्तर्भाव्य प्रतिसम्बन्धिनं गुर्वर्थोऽवगम्यते । सम्बन्धिशब्दत्वात् तस्य । अतोऽपेक्षितार्थान्तर एवासौ वृत्तावनुप्रविशतीति न दोषः । न त्वेवमेकदेशशब्द इति वैषम्यम् । अतो दुरधिगमो ज्ञातसम्बन्धसमासार्थः । अत आह प्रमातेति । अयमभिप्रायः सत्यम् । एकदेशो नान्यपदार्थः । किन् तु प्रमातैव बुद्धिसम्बन्धोपस्थापितो ज्ञातसम्बन्ध इति निर्दिश्यते । गम्यमानमपि चाव्यभिचारिणा चिह्नेनोपस्थापितं विशेष्यत एव । न हि नमः पिनाकपाणय इत्यन्यपदार्थानुपादानं दोषाय । अपि च ऐन्द्रवायवं गृह्णातीति बहुव्रीहिसमासार्थो देवतातद्धितः कथमाहृत्यानुपात्ते सोमरसे वर्तते । अथ सोमं क्रीणाति अभिषुणोति पावयति ।{३,४}धारया गृह्णातीति प्रकरणावगतस्सोमरसोऽन्यपदार्थ इत्युच्यते । इहापि बुद्ध्यविनाभावावगतस्य प्रमातुर्बहुव्रीह्यर्थत्वं नानुपपन्नम् । पूर्वपक्षस्थितेन वार्तिककृता गम्यमानं न विशेष्यत इति यदुक्तं तदेव दुर्लभलब्धम् इव मन्वानैः कैश्चिद्वल्गितमित्युपेक्षणीयमेव । सिद्धान्ते हि गम्यमानाया एव व्यक्तेर्गावौ शुक्लो गौरिति च विभक्त्या शब्दान्तरेण च विशेषणं भविष्यति । मञ्चाः क्रोशन्तीति च । आह च जातेरस्तित्वनास्तित्वे न हि कश्चिद्विवक्षति । नित्यत्वाल्लक्ष्यमाणाया व्यक्तेस्ते हि विशेषणे ॥ इति । धूमोऽयं ज्वलतीति न भवति । अनभिधानात् । न हि लोकः पर्यनुयोक्तुमर्हति । यस्तु वैयात्याद्धूमशब्देनाग्निं लक्षयित्वा तथा प्रयुयुङ्क्षति न तं निवारयामः । नन्वेवं प्रमातरि ज्ञातसम्बन्धे सति नैकदेशो विशेषित इति व्यापकैकदेशदृशो व्याप्यस्मृतिरनुमानमापद्येत । न त्वेतदिष्टम् । व्याप्याद्धि व्यापकज्ञानमनुमानम् । ज्ञातसम्बन्धस्यैकदेशस्येति सम्बन्धे स्यादपि विशिष्टैकदेशलाभः । तत्र हि ज्ञातसम्बन्धस्येति षष्ठ्या व्याप्य एव सम्बन्धी प्रतिपाद्यते । सर्वत्र हि व्याप्य एव हि षष्ठी दृष्टा । उच्यते । उक्तमस्माभिर्नेदमलौकिकं किञ्चित्प्रमाणानां स्वरूपमुपवर्ण्यते । लोकप्रसिद्धम् एव त्वपरीक्षाप्रतिपादनार्थं स्वरूपमनूद्यते, लोके हि नियाम्यैकदेशदर्शन एव नियामकैकदेशज्ञानमनुमानमिति प्रसिद्धमिति । अस्त्यपि हि विशेषणे विशिष्टैकदेशो लभ्यते । अपि चासन्निकृष्टेऽर्थ इति वदति । न च व्यापकदृशस्साहचर्यमात्रात्व्याप्यस्मृतिरसन्निकृष्टविषया । पूर्वप्रमाणानधिकार्थाविषयत्वात्स्मृतेः । व्याप्यादेव त्वनुभूतपूर्वनियमाद्व्यापकविशिष्टः पर्वतादिरवगम्यते । अत उपपन्नो विशिष्टैकदेशलाभ इति । यत्तु ज्ञातसम्बन्धस्यैकदेशस्येत्यत्र षष्ठ्या विशेषप्रतिपादनमुक्तम् । तदयुक्तं व्यापकादपि षष्ठ्युत्पत्तेः । भवति हि कृतकत्वमनित्यताया हेतुरिति व्यवहारः । व्यापिका चानित्यता कृतकत्वस्य । तस्मादविशेषितोपादानेऽपि व्याख्यानतस्सम्बन्धविशेषाद्(एक)देशविशेषलाभो नानुपपन्नः । भवति हि व्याख्यानतो विशेषप्रतिपत्तिर्न तु सन्देहादलक्षणमिति सूक्तं प्रमाता ज्ञातसम्बन्ध इति । {३,५} व्याख्यानान्तरमाह एकदेशीति । एकदेशौ हि नैकदेशिनमन्तरेण स्यातामिति आक्षिप्तस्यैकदेशिनो युक्तमन्यपदार्थत्वम् । नन्वेवं ज्ञातसम्बन्धस्यैकदेशिनो य एकदेशस्तस्यैकदेशस्य दर्शनादित्युच्यमाने स एव दर्शनोपसर्जनत्वादेकदेशस्यैकदेशिनः सम्बन्धस्सम्बन्धिविशेषापेक्षस्य वा समासदोषः प्रसज्यते । भवेदेतदेवम् । यद्येकदेशव्यतिरेकजनिता षष्ठी स्यात् । इयं त्वेकदेशदर्शनव्यतिरेकजनिता षष्ठी तदपि परम्परया वाजपेयस्य यूप इतिवदेकदेशिनो भवत्येव । कः पुनरत्रैकदेशी ज्ञातसम्बन्धः पक्षस्सपक्षो वा । न तावत्पक्षः ज्ञायमानसम्बन्धत्वात् । न च सपक्षः सिद्धत्वेनाननुमेयत्वात् । नैष दोषः । व्याप्तिर्हि न सकृद्दर्शननिर्ग्राह्या । भूयोभिस्तु दर्शनैः पूर्वपूर्वावगतसकलदेशकालविविक्तधूमवन्मात्रस्याग्निमत्तया व्याप्तिरवधारिता । न पुनरत्रायमिदानीं वा धूमवानग्निमानिति । अतः पक्षैकदेशिनोऽपि सामान्यतो धूमवत्तौपाधिकसम्बन्धो ज्ञात इति स एव ज्ञातसंबन्धः । सामान्यतो गृहीतेऽपि देशादिभेदेन प्रत्यक्षप्रत्यभिज्ञानवन्नानुमानप्रत्यभिज्ञानमनुपपन्नमिति न प्रमेयाभावः । एकदेश्यैकदेशौ चाश्रयाश्रयिणावभिमतौ । न पुनरवयवावयविनाविति द्रष्टव्यमिति ॥ १ ॥ कर्मधारयसमासो वायमित्याह कर्मधारयेति । अयमर्थः ज्ञातश्चासौ संबन्धश्चेति कर्मधारयोऽयम् । अत्र च पक्षे संबन्धिनि गम्ये गमके चैकदेशता । कथं सम्बन्ध्याधारस्य सम्बन्धस्य सम्बन्धिनावेकदेशौ । न हि भूधराधारस्य धूमस्यैकदेशो गिरिः । आधेयमेव तु धूमस्तदेकदेशतया मन्यते । उच्यते । भवत्याधारांशेऽप्येकदेशवाचोयुक्तिः । यथा अवयव्याधारेष्ववयवेषु च समूहिष्विति निरवद्यम् ॥ २ ॥ द्वयं वान्यपदार्थ इत्याह द्वयं वेति । सम्बन्धगरहणकाले परस्परसम्बन्धमुपलब्धं व्याप्यव्यापकद्वयं ज्ञातसम्बन्धमुच्यते, तस्य च स मुदायिनावेकदेशौ । यथा चैतदेवं तथा प्रागेवोक्तमिति । किं{३,६}पुनः कर्मधारयपक्षे द्वयान्यपदार्थत्वे वा प्रमेयम् । न तावत्सम्बन्धसमुदायावेव । तयोः पूर्वमेवावगतत्वात् । अधुना च धर्मधर्मिविभागेनानवगमात् । न चान्य एकदेशी । तस्यानुपादानात् । न चैकदेशाभ्यामाक्षेपः । सम्बन्धसमुदायनिराकाङ्क्षत्वात् । न च स्वतन्त्रैकदेशदर्शनात्स्वतन्त्रैकदेशान्तरे ज्ञानमनुमानं, सिद्धत्वात् । वक्ष्यति हि न धर्ममात्रं, सिद्धत्वादिति । अत्राभिधीयते अयमत्रार्थो ज्ञातस्य सम्बन्धस्य ज्ञातसम्बन्धस्य वा द्वयस्य क्वचिदेकदेशदर्शनात्तत्रैवैकदेशान्तरे बुद्धिरनुमानमिति । कुत एतत् । असन्निकृष्टग्रहणात् । न हि स्वतन्त्रैकदेशोऽसन्निकृष्टः । क्वचिदेव पर्वतादावेकदेशोऽसन्निकृष्टो भवति । तत्रानवगतपूर्वत्वादिति किमनुपपन्नमिति । कः पुनरत्र सम्बन्धोऽनुमानाङ्गमिष्यते । अविनाभावस्तादात्म्यतदुत्पत्तिनिमित्तक इति केचित् । एवं हि तैरुक्तम् । कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ इति । न हि विपक्षसपक्षयोरदर्शनाद्दर्शनाद्वाविनाभावसिद्धिः । तेनानियतस्यापि तत्र वृत्तेः सम्भवात् । किञ्चिद्विपक्षव्यावृत्त्या च सर्वविपक्षव्यावृत्त्यसिद्धेः । सर्वविपक्षाणां च युगपद्ग्रहीतुमशक्तेः । किन् तु अग्न्यादौ सति धूमादेर्भावादसति चाभावात्तदायत्तस्वभावो धूमादिरिति विदिते तदविनाभावस्सिद्ध्यति । तत्कार्यस्य तमन्तरेणात्मलाभाभावात् । तदत्राग्नौ दर्शनमितरत्रादर्शनं तदुत्पत्तौ हेतुः । ततोऽविनाभावसिद्धिः । तादात्म्येऽपि तत्सिद्धिः तं विना भवतस्तादात्म्यानुपपत्तेः । नन्वेवंविधान्वयविरहिणो गन्धान्न रूपरसादयोऽनुमीयेरन् । न च खलु तस्य रूपमात्मा । न च कारणमिति कथं ततस्तत्सिद्धिः । श्रूयतां यथा सिद्ध्यति । रसादेव हि स्वहेतावग्नाविव धूमादनुमीयमाने समसामग्रीकेन्धनविकारवद्रूपावगतिरिति नानुपपत्तिः । यथाहुः एकसामग्र्यधीनस्य रूपादेर्रसतो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥ {३,७}इति । ननु युक्तेन्धनविकारे तस्य धूमस्य चैकाग्निकारणत्वादवगतिः । न तु रूपरसावेककारणकौ । कारणरसा हि कार्ये रसमारभन्ते । कारणरूपाणि च कार्ये रूपम् । तत्कुतस्समानकारणता । नैककारणतयैकसामग्र्यधीनत्वम् । किन् तु रसाद्रसहेतुरनुमीयमानः प्रवृत्तिरूपजननशक्तिरूपोपादानकारणसहकृतोऽनुमीयते । तथाविधस्यैव कारणत्वात्प्रवृत्तिशक्तिना च कारणेन रूपं जन्यत इति रूपसिद्धिः । तदिदमनुपपन्नं यत्तावत्कार्यं कारणेन विना न भवतीति ततस्तज्ज्ञानमुक्तम् । तदयुक्तम् । कथं हि कारणेन विना कार्यमेव न भवति इत्येतदेवावसेयम् । तद्विना भवतो नित्यं सत्त्वमसत्त्वं वा स्यात् । ततश्च कार्यतैव हीयेत । उक्तं हि तैः नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥ इति । अपेक्षातः कादाचित्कत्वमनपेक्षं तु सदसद्वा स्यात् । गगनशशविषाणवदिति चेत् । यद्येवमन्योऽयं कार्यकारणभावात्स्वभावनियमः यदनपेक्षं तन्नित्यं सदसद्वा भवतीति । यच्च रसाद्रूपावगतिरेकसामग्र्यधीनत्वादित्युक्तम् । तदप्ययुक्तम् । यद्यपि प्रवृत्तिशक्तिरूपोपादानकारणसहकृतो रसहेतुरवगतः स्वकार्याद्, रूपं तु कुतोऽअवगम्यते । प्रवृत्तिसामर्थ्यात्कारणादिति चेत् । ननु नादो रूपस्य कार्यं नात्मेति कथं तदवगमे हेतुः । प्रवृत्तिशक्तेः कारणस्य कार्याव्यभिचारादिति चेत् । न । तर्हि कार्यतदात्मनोरेवाविनाभावः कारणेऽपि (?भावा भवेत्) । भवत्विति चेत् । न । अग्नेरपि धूमानुमानप्रसङ्गात् । अस्त्विति चेत् । अतन्त्रं तर्हि कार्यत्वमनुमाने । स्यान्मतम् । न प्रवृत्तिसामर्थ्यात्कारणाद्रूपानुमानम् । अपि तर्हि रूपवद्रूपकारणसहकारिणा रसकारणेन रसो जन्यते । सहकारिकारणमपि सविशेषणं कारणमेवेति रसादितरेतरानुगृहीतं कारणचक्रमनुभास्यत इति । तन्न । कार्यकारणयोरयौगपद्याद्रूपकारणस्य तद्वत्तानुपपत्तिः । पारिशेष्याद्(?दूष्याद्) रूपमेव सहकारीति वाच्यम् । तत्र च वृथा तत्कारणानुमानपरिश्रमः । रूपं सहकारीत्यपि नानिर्णीतरूपरसाविनाभावोऽनुभवितुमुत्सहते । प्रागेव तु तन्निर्णये वृथारूपतद्धेत्वोस्सहकारित्वकल्पना ।{३,८}अपि चानुभवविरुद्धमेवेदम् । न खलु रसमुपलभ्य तद्धेत्वनुमानमुखेन रूपावगतिर्लौकिकानाम् । अपि तर्हि रूपरसयोस्साहित्यनियमात्सहसैव रसाद्रूपमनुमीयते । अपि च कार्यकारणभूतयोरेव बहुलमनुमानव्यवहारो दृश्यते इत्यनादृत्यं कार्यत्वमव्यभिचारे । तादात्म्यमपि मेयाभावप्रसङ्गाद्धेयमेव । किं हि वृक्षात्मनि शिंशपात्वे विदिते मेयमवशिष्यते । निर्भागत्वात् । ऐकात्म्येऽपि वस्तुनः काल्पनिको भेद इति चेत्, न तावन्निर्भागं वस्तु, भागावग्रहाणां देशादिभेदेऽप्यबाधितानां सम्यक्त्वात् । काल्पनिकभेदाश्रयत्वाच्चानुमानस्य वास्तवमैकात्म्यमनङ्गम् । वृक्षव्यवहारोऽनुमीयत इति चेद्कथमनात्मव्यवहारश्शिंशपात्वादनुमीयते । तादात्म्ये वृक्षवदननुमानप्रसङ्गात् । व्यवहारयोग्यतायामप्येवमेवेति यत्किञ्चिदेतत् । एवमेव वैशेषिकादिसमयसिद्धा अपि कार्यकारणभावादयस्सम्बन्धप्रकाराः प्रत्युक्ता वेदितव्याः । तेऽपि ह्यनियताननुमानोत्पत्तिकारणम् । अस्तु तर्हि नियमो वानुमानाङ्गम् । न । प्रमाणाभावादनवगतेः । न तावदापातजं प्रत्यक्षमस्यावधारणक्षमम् । ईक्षते खल्वयं विस्फारिताक्षस्सहसा महानसे धूममग्निना सहितम् । न तु जानाति नियतोऽयमनेनेति । दुरधिगमो हि सर्वभावानां स्वभावनियमः । न तमुन्नेतुमुत्सहन्ते झटिति महान्तोऽपि । न हि निर्विकल्पकागोचरे विकल्पः प्रमाणम् । तत्पुरस्सरत्वात्तस्य । स्यादेतत् । देशादिभेदेष्वव्यभिचारात्स्वभावनियमोऽवधार्यत इति । केनावधार्यते सर्वदर्शनानामन्वयमात्रे व्यापारात् । अथ पूर्वपूर्वज्ञानजनितभावनासचिवमन्तिममनेनायं नियत इति भवत्यालोचनाज्ञानम् । ततो विकल्पाः प्रवर्तिष्यन्त इति । नैतदेवम् । इन्द्रियव्यापारसापेक्षं हि प्रत्यक्षम् । न च सहभावदर्शनादन्यत्र बहिरिन्द्रियव्यापारः । न च बहिर्विषयवेदने तन्निरपेक्षमन्तःकरणं प्रवर्तते । अपि च निरूपितरूपा अपि भावा देशादिभेदेष्वन्यथाभवन्तोऽनुभूयन्त इति न स्वभावनियमं प्रत्याश्रयितुमुचितं प्रामाणिकानाम् । तदाहुः देशकालादिरूपाणां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ {३,९}इति तस्माद्वक्तव्योऽनुमानाङ्गभूतस्सम्बन्धः । अत आह सम्बन्ध इति । व्याप्तिर्हि साहित्यनियममपदिशति । तद्दर्शिनो ह्येकदेशदर्शनादेकदेशान्तरे बुद्धिरुत्पद्यते, अतस्सामान्यवचनोऽपि सम्बन्धशब्द उपरितनसमभिव्याहारादत्रानुमानलक्षणग्रन्थे विशेषपरो भवति । उपरि चास्यावधारणे प्रमाणं वक्ष्यत इति ॥ ३ ॥ यदि ज्ञातसम्बन्धस्यानुमानं स तर्हि सम्बन्धो द्व्याश्रय इत्युभयानुमाने लिङ्गं स्यादत आह व्याप्येति ॥ ४ ॥ अत्र कारणमाह यो यस्येति द्वयेन । सः समन्यूनदेशकालो हि व्याप्यो भवति । पूर्वं तावद्यत्रोभयोरपि धर्मयोर्व्याप्यव्यापकत्वं । यथा परस्तादुदाहरिष्यते । उत्तरस्तु यथा धूमादिः, स हि प्रायेणाग्निदेशकालवर्त्ती भवति । सत्यपि चाग्नावभवंस्ततो देशकालाभ्यां न्यूनो भवति । यावन्तावग्नेर्देशकालौ तावन्तौ नास्येति न्यूनत्वं । अत एव चासावग्नेर्व्यापको न भवति । सकलतदीयदेशकालाव्याप्तेः । व्यापकस्तु समाधिकदेशकालः । अत्रापि पूर्वोक्त एव पूर्वः । उत्तरस्तु यथाग्नेरेव धूमस्य । स हि तस्य देशकालौ तावद्व्याप्नोत्येव । असत्यपि धूमे भवन् देशकालाभ्यामधिकोऽप्यभिधीयते । यतश्चानयोरीदृशं स्वरूपं नान्यथा व्याप्यव्यापकतात्मकता, तेन कारणेन व्याप्य एव गृहीते व्यापकस्य ग्रहणं भवति यदसौ तं विनापि न भवत्येव । न ह्यसावग्निरिव धूमस्याग्नेर्देशकालावतिक्रम्यापि भवति । येन तं विनापि भवस्तं न गमयेत् । अग्निस्त्वनेवंविध इति नासौ धूमस्य गमको भवति । ननु चायं विशेषो{३,१०} ज्ञातसम्बन्धशब्दान्नावगम्यते । स हि सम्बन्धज्ञानमात्रमङ्गतया दर्शयति, न व्याप्यतामिति कुतो विशेषलाभः । उक्तमत्र लौकिकलक्षणानुवादेनापरीक्षाप्रतिपादनार्थमिदं भाष्यम् । लोके च व्याप्यैकदेशदर्शिन एव व्यापकज्ञानमनुमानमिति सिद्धम् । न ह्यन्यथेति चापकृष्य पूर्वेण योजयित्वा तेनेति तदुपजीवनेन व्याख्येयमिति ॥ ६ ॥ ननु व्यापकादपि व्याप्यसंवित्तिर्दृष्टा । अनित्यत्वादिव कृतकत्वस्य । भवति हि भावानामनित्यत्वात्कृतकत्वानुमानम् । व्यापकं चानित्यत्वं कृतकत्वस्य । अतो व्यापकं गम्यं व्याप्यं गमकमित्यव्यापकमत आह व्यापकत्वेति । अयमभिप्रायः । सत्यं व्यापकस्य गमकत्वम् । न तु व्यापकत्वगृहीतस्य । तेन हि रूपेण गृहीतोऽसौ व्याप्याद्देशकालाधिक्येऽपि न विरुध्यते । न चाधिकदेशकालः प्रतिपादको भवति । तं विनापि भावादित्युक्तमेव । ननु व्याप्यतापि तस्यास्ति । अस्तु नाम, वस्तुतस्तत्तु रूपं न गृहीतमिति कथं गमकत्वम् । अवगते तु ताद्रूप्ये तेनैव गमकत्वं न व्यापकतया । अतो व्याप्यतैवानुमानाङ्गं न व्यापकतेति सूक्तमिति ॥ ७ ॥ व्याप्यत्वमङ्गं न व्यापकत्वमित्येतदेवासङ्कीर्णोदाहरणेन दर्शयति विस्पष्टेति । यत्र व्याप्यव्यापकभावो न सङ्कीर्यते, तत्र विस्पष्टमेवैतदुपलक्षितम् । यथा व्याप्यं गमकं व्यापकं गम्यमिति । गोविषाणित्वयोर्हि व्याप्यं गोत्वं व्यापकं विषणित्वमनुमापयति न तु विषाणिता गोत्वम् । व्यापिका हि सा । मितौ अनुमाने । गोविषाणित्वयोरयं गम्यगमकविवेको दृष्ट इत्यर्थः ॥ ८ ॥ {३,११} एवमसङ्करे गम्यगमकविवेकाद्यत्रापि व्याप्तिसङ्करो भवति तत्रापि व्याप्यत्वमेव गमकत्वे कारणमिति निष्कृष्यत इत्याह तेनेति ॥ ९ ॥ ननु व्याप्तिरनुमानाङ्गमित्युक्तम् । कस्य पुनरियं संयोगिनस्समवायिनस्सम्बन्धिसम्बन्धिनो वा । न ह्यत्र व्यवस्थामुपलभामहे । सर्वेषामप्यनुमापकत्वात् । तद्यदि संयोगी व्याप्यः । रसाद्रूपानुमानं न स्यात् । अथ समवायी धूमादग्न्यनुमानम्, सम्बन्धिसम्बन्धिनश्च पित्रोर्ब्राह्मणत्वात्पुत्रस्य ब्राह्मणत्वानुमानमित्यादि दर्शयितव्यम् । अपि च व्याप्तिरित्यन्वयोऽभिधीयते । उपश्लेष इति यावत् । न चासौ भूमौ प्रतिष्ठितेनाग्निना गगनगतस्य धूमाग्रस्य सम्भवति । न च भूमिष्ठां शङ्कुच्छायां दिवि वर्तमानः ऋक्षोदयोऽन्वेति । व्याप्तिश्च कस्यचित्केनचिद्भवन्ती देशतो वा स्यात्कालतो वा । पूर्वस्मिन् कल्पे भाविनस्सवितुरुदयस्याद्यतनार्कस्यैवोदयातष्टौ यामानतिक्रम्यानुमानं न स्यात् । परस्मिन् धूमादग्न्यनुमानमित्यादि पर्यनुयोक्तव्यम् । अत आह तेनेति द्वयेन । येन खल्वपि विवक्षितावान्तरविभागं व्याप्यतामात्रमनुमानाङ्गं तेन कारणेन यस्यैव संयोगादीनामन्यतमस्य, येनैव तेषामन्यतमेन, यादृशी उपश्लेष्टेनेतरेण वा व्याप्यता प्रागवगता, सैवानुमाने कारणं भवति । न ह्युपश्लेषो व्याप्तिः । उक्तं हि सम्बन्धनियमोऽसाविति । स चानुपश्लिष्टेनापि भवति । यो हि यस्मिन् सति भवति, असति च न भवति, तेन नियम्यत इत्युच्यते । किमत्रोपश्लेषेण । न चात्र देशादीनामन्यतमविवक्षा । यावति हि देशे काले वा वर्तमानस्य यस्य व्याप्यता निरूपितपूर्वा, यावद्देशकालभाविना व्यापकेन तस्य व्यापकांशस्य तावत्य् एव देशादौ वर्तमानस्य स व्याप्यांशस्तादृगेव, गगनादिवर्त्तिधर्म्यन्तरे दृष्टान्तधर्म्यपेक्षया साध्यधर्मिणि दृष्टस्सन् प्रतिपादको भवति ।{३,१२} नियमो ह्यनुमानाङ्गम् । स च सर्वेषामविशिष्ट एव किमवान्तरविभागेन । देशे यावतीत्यनतिदूरमधिरूढस्य धूमादेर्दूरतरवर्त्तिनोऽपि नदीपूरस्य व्याप्तिं दर्शयति । शङ्कुच्छायायाश्च नितान्त(दूर)वर्तिना ऋक्षोदयेन । यावति काल इति च भाविनस्सवितुरुदयानुमानादावपि व्याप्तिं दर्शयतीति ॥ ११ ॥ नन्वस्यां व्याप्तौ न किञ्चित्प्रमाणमस्तीत्युक्तमत आह भूयोदर्शनेति । कथं पुनर्भूयोदर्शनगम्या व्याप्तिः । किं हि तत्र प्रत्येकमेव भूयांसि दर्शनानि प्रमाणमाहोस्विद्दर्शनसङ्घातः पूर्वतनदर्शनाहितसंस्कारसचिवमन्तिमं प्रमान्तरं वा भूयोदर्शनप्रभवम् । तत्र न तावत्प्रत्येकसन्दर्शनसमधिगम्या व्याप्तिरित्यवसितमेव । नो खल्वस्य सहसाग्निधूमावग्निशरणे विलोकयमानस्याग्निना व्याप्तो धूम इति मतिराविरस्ति । न चाननुभूतमविकल्पकेन सविकल्पकेनापि विषयीक्रियते । न चानेकदर्शनारब्धो दर्शनसमुदायः कश्चिदस्ति, तस्य दर्शनातिरेकेणाभावात् । निरुद्धानागतप्रत्युत्पन्नानां चासंहन्यमानत्वात् । पुरस्तनानेकदर्शनाहितसंस्कारसहायम् अन्तिमं तु दर्शनं कतरत्प्रमाणमिति चिन्तनीयम् । न तावत्प्रत्यक्षम् । तद्धि द्वेधा विभक्तम् । आलोचनाज्ञानं तत्प्रभवं च विकल्पसम्भिन्नम् । न तावत्पूर्वं व्याप्तेरवधारणे समर्थमप्रतिसन्धानात् । व्याप्तेश्चायमनेन प्रतिबद्ध इति प्रतिसन्धानात्मकत्वात् । न च तदनपेक्षमुत्तरमात्मानं लभते । यच्चेदं संस्काराणां साचिव्यम्, इदमपि न चतुरश्रम् । संस्काराः खलु यद्वस्तुरूपोपलम्भसम्भावितात्मानो भवन्ति, तत्रैव स्मृतिमात्रमादधति । न पुनरर्थान्तरग्रहणाय कल्पन्ते । प्रत्यक्षे च व्याप्तिप्रमाणे कथमतद्विषयाणां व्याप्तिसिद्धिः । भवति हि यथायथं दृष्टानुमितश्रुतेभ्यः कर्मफलेभ्यः पुंविशेषेषु वैदिककर्मानुमानम् । न च तत्तत्कर्मनियमस्तस्य तस्य पश्वादेः फलस्यापरोक्षमीक्ष्यते अतीन्द्रियत्वात् । यच्चेदमध्वरे{३,१३}वितते वैदिकादङ्गात्प्रधानाच्चापूर्वानुमानम्, तदपि न स्यात् । व्याप्त्यवधारणे प्रमाणाभावात् । मेघाभावाच्च वृष्ट्यभावानुमानमित्यादि दर्शयितव्यम् । अतो न तावत्प्रत्यक्षा व्याप्तिः । न चानुमानिकी । प्रमाणाभावादेव तदधीनात्मलाभस्य तस्यानुपपत्तेः । शब्दस्त्वनागतोत्पाद्यभावविषयो न सिद्धव्याप्तिकॢप्तये प्रभवति । उपमानमपि प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयं न वस्तुनस्सत्तां प्रमिणोति । अर्थापत्तिरप्यन्यथानुपपद्यमानार्थविषया दर्शनप्रभवा । न च सहितावधारितयोरसत्यां व्याप्तौ किञ्चिदनुपपन्नं नाम । ननु कार्यता नोपपद्यते । कथं हि कार्यमसति कारणे भवति । भूयोदर्शनसमधिगम्यं च कार्यत्वमिति भूयोदर्शनप्रसूतकार्यत्वावगमान्यथानुपपत्तिप्रमाणिका कारणव्याप्तिसिद्धिः । कथमिदानीमकार्यकारणभूतेषु व्याप्तिस्सेत्स्यति । भूयांसि दर्शनान्येवासत्यां व्याप्तौ नोपपद्यन्त इति चेत्, किं हि तेषां व्याप्तिमन्तरेण न सम्भवति स्वरूपं, तावच्च कारणसामग्रीकं हि वस्सिद्धम् । स्वगोचरप्रकाशनमपि स्वत एव विषयस्यापि स्वप्रमाणपरिच्छिन्नस्य न किञ्चिदनुपपन्नं पश्यामः । न चासौ प्रमाणान्तरेण प्रतिहन्यते । यन्नोपपद्येत । न च भावस्वरूपा व्याप्तिरभावेन प्रमीयत इति साम्प्रतम् । तत्रासावभावप्रमाणिका न स्यादेव । स्यान्मतम् केयमन्या धूमस्याग्निना व्याप्तिरनग्निनिवृत्तेः । सा चाभावरूपत्वादभावेन प्रमीयत इति युक्तमेव । तन्न । वस्तुरूपत्वात् । वस्तुरूपो हि स्वभावो धूमादेः केनचिन्नियतः । इतरया व्यावर्तते खल्वयं शशविषाणाभावादपीति शशविषाणेनापि नियम्येत । कथमसता नियम्यत इति चेत् । को दोषः । व्यावृत्तिर्हि नियमः, सा चास्तीति किं शशविषाणस्य सत्त्वासत्त्वाभ्याम् । यदि मतं विपक्षव्यावृत्तिर्नियम इति । को यं विपक्षो नाम । यो हि येन नियम्यते तस्य तत्परिपन्थी विपक्षः । व्याप्यते च शशविषाणेन तदभावान्निवृत्तो धूम इत्यनग्निरिव तदभावोऽपि विपक्ष एव । अपि चाशेषविपक्षाणाम् उपलब्ध्ययोग्यत्वान्न तेभ्यो निवृत्तिरभावेन शक्यतेऽवगन्तुम् । योग्यप्रमाणाभावो{३,१४}ह्यभावे प्रमाणमिति वक्ष्यते । अतो न किञ्चिद्व्याप्तौ प्रमाणम् । मानसमिति चेत् । न । बहिरस्वातन्त्र्यात् । तत्रैतत्स्याद् यद्यप्य्बहिरिन्द्रियाण्यतीतानागतादिभिर्भावभेदैर्व्याप्तिं ग्रहीतुमसमर्थानि, मनस्तु सकलातीतादिविषयपरिच्छेदसाधारणं प्रतिबद्धसामर्थ्यं क्वचिदिति तद्बलभाविना प्रत्यक्षेण व्याप्तिर्ग्रहीष्यत इति । तच्च नैवं, बहिरस्वातन्त्र्यान्मनसः । नो खल्वपि बहिर्विषयबोधे मनस्स्वतन्त्रमिति वर्णितम् । तथा हि । मनसस्सार्धमित्यत्र । स्वतन्त्रे हि बहिरिष्यमाणे मनसि सर्वस्सर्वदर्शी स्यात् । संस्कारतो व्यवस्थेति चेत् । न । स्मृतिहेतुत्वात् । तत्रैतत्स्यात् यद्यपि केवलमस्वतन्त्रं मनो बहिर्विषयावधारणे, तथापि पूर्वपूर्वानुभवजनितसंस्कारसनाथं बहिरपि वर्तीष्यते चक्षुराद्यनुगृहीतमिव रूपादौ । अतो नाव्यवस्था । तच्च नैवम् । स्मृतिहेतुत्वात् । स्मृतिमात्रहेतवो हि पूर्वानुभवप्रभावितास्संस्कारा नोत्सहन्ते मनसो बहिरवग्रहेऽनुग्रहमाधातुम् । स्मृतिविषयान्तराणामपि ग्रहणप्रसङ्गात् । अस्ति हि तत्रापि स्मृतिहेतुस्संस्कारः । स चेद्ग्रहणे क्वचिन्मनसस्सहायी भवतीति किं न स्मृतिविषयान्तराण्यपि ग्राहयतीति यत्किञ्चिदेतत् । यस्तु वदति साहित्यमग्निधूमयोस्सम्बन्धः । स च प्रथमसमधिगमसमय एव संविदितः । अनवच्छिन्नदेशकालश्चाग्निधूमयोस्सम्बन्धो भासते । न हीदानीमत्र वा तयोस्सम्बन्ध इति भवति मतिः । अपि तर्हि सन्निहितवर्तमानयोरेवेदन्तया प्रतिभासमानयोर्देशकालौ सम्बन्धश्च तयोर्विशेषणमिमौ सम्बद्धाविति । नेदानीमत्र वा सम्बन्ध इति । तदेवमनवच्छिन्नरूपः स्वाभाविक एव संबन्धः सिद्धो भवति । स्वाभाविकत्वे च न व्यभिचाराशङ्कोपपत्तिमती । किमिदानीमनङ्गभूतमेव भूयोदर्शनम् । नानङ्गम् । अङ्गं त्वौपाधिकाशङ्कानिराकरणेन । वह्निर्हि धूमेन संयुक्तस्संवेदितोऽपि कदाचिद्विधूमो दृश्यते । तत्रार्द्रेन्धनादिरुपाधिरनुप्रविशति । न तु स्वाभाविकोऽग्नेर्धूमेन संबन्ध इति निश्चीयते । तद्दर्शनाच्च धूमेऽपि भवति शङ्का । कदाचिदौपाधिकः पावकेनास्यापि संबन्ध इति । सा भूयोदर्शनेन निवर्त्यते । बहुशोऽपि दृश्यमानस्य धूमस्य नाग्निसंबन्धे कश्चिदुपाधिरुपलभ्यते । प्रयत्नेनापि चान्विष्टो न दृष्ट उपाधिर्नास्तीति निश्चीयते । तदेवं{३,१५}धूममात्रानुबन्ध्यग्निरिति सिद्धं भवति । ततश्चानौपाधिकस्य न व्यभिचाराशङ्केति । स वक्तव्यः किमिदानीं साहित्यमात्रमनुमानाङ्गं तन्नियमो वा । यदि साहित्यमात्रं तत्तर्हि प्रथमदर्शन एव समधिगतमिति पुनर्धूमदर्शिनोऽविदितव्याप्तेरप्यनुमानं स्यात् । अथ तन्नियमः, तस्यैवेदं प्रमाणमनुस्रियते कुतस्सिध्यतीति । न हि प्रथमदर्शिनोऽयमनेन नियत इति मतिर् आविर्भवन्ती दृश्यते । अनवच्छिन्नदेशकालतयावगतस्संबन्धः स्वाभाविको भवति, ततो नियम इति चेत् । स तर्हि तथाविधः प्रथममेवावगत इति भूयोर्दर्शनं नापेक्षेत । तथा दृष्टस्याप्यग्नेर्धूमसंबन्धो व्यभिचरति । तद्दर्शनाच्च धूमेऽपि व्यभिचाराशङ्का जायते । तन्निराकरणायासकृद्दर्शनापेक्षेति चेत् । यद्यनवच्छिन्नस्यापि देशतः कालतो वा कदाचित्कस्यचिद्वियोगो दृश्यते । कस्तर्हि इतरत्रापि समाश्वासः । नन्वियमाशङ्का भूयोदर्शनेन निराक्रियत इत्युक्तम् । कथं निराक्रियते । यदा शतशोऽपि धूमवानग्निरवगतो विधूमो दृश्यते । न चात्र प्रतिनियमः इयद्भिर्दर्शनैरव्यभिचारः सिध्यति इति । ननु धूमस्याप्यग्निसंबन्धे न कश्चिदुपाधिरुपलभ्यते अग्नेरिव धूमसंबन्धे । अतः कथमसौ सत्यपि धूमे न भविष्यति । न । देशादेरेवोपाधित्वेन शङ्क्यमानत्वात् । अग्नौ धूमसंबन्धव्यभिचारमुपलभ्याशङ्कते कदाचिद्धूमस्याप्यग्निसम्बन्धे देशकालाद्युपाधिः स्यादिति । दृष्टं हि क्वचिद्देशे खर्जूराणां पिण्डखर्जूरफलत्वम् । वृश्चिकदंशनस्य च मरणकारणत्वम् । तद्देशान्तरे न भवति । तद्वत्धूमोऽपि जातु जायेतान्तरेणापि हुताशनं क्वचिदिति शङ्कमाना न तस्य नियममग्निनाध्यवस्यन्ति शतांशेनापि । विपक्षाद्व्यावृत्तिश्शङ्क्यमाना अनुमानोदयं प्रतिबध्नातीति कतरच्चेदं प्रमाणम्, अनौपाधिकोऽग्निर्धूममात्रानुबन्धीति । न तावत्प्रत्यक्षम् । साहित्यमात्रोपक्षीणत्वात् । नानुमानम् । तस्यासत्यां व्याप्तावसम्भवात् । व्याप्तिसिद्ध्यर्थं चापरापरानुमानकल्पनायामनवस्थापातात् । प्रमाणान्तराणि निराकृतपूर्वाण्येव । अतो व्याख्येयमनुमानाङ्गसम्बन्धावधारणे प्रमाणम्, तद्व्याख्यायते । {३,१६} इदं तावत्प्रमाणाभाववादी वक्तव्यः । किं खलु व्याप्तिगोचरं ज्ञानं न जायत एव, सन्दिग्धं वा जायते, विपर्येति वा । त्रेधा हि परीक्षकैरप्रामाण्यं विभक्तम् । प्रकारान्तरासम्भवात् । न तावदाद्यः पक्षः । संविद्व्यवहारविरोधात् । दृश्यते हि बहुलं धूममग्नावुपलभमानोऽयमनेन नियत इत्यवधारणपुरस्सरं ततोऽग्निमनुमाय तदनुरूपं व्यवहरमाणः । तन्नासत्यां व्याप्तिसंवित्तावुपपद्येत । व्यवहारदर्शनादेव संशयविपर्ययौ निराकार्यौ । ताभ्यामेवंविधव्यवहारासम्भवात् । अतो न तावदप्रामाण्यम् । प्रामाण्यं तु षोढा विभज्यते । तद् यथायोग्यं कस्यचित्कस्याञ्चित्व्याप्तिसंवित्तौ व्यवस्थापयामः । यथैव तावद्धूमस्याग्निना व्याप्तौ प्रत्यक्षस्य । न हीह प्रमाणान्तराणि सम्भवन्तीति वर्णितमेव । ननु प्रथमदर्शनेऽनवगमात्प्रत्यक्षासम्भवोऽप्युक्त एव । अत एव भूयोदर्शनावगम्यत्वम् । ननु तान्यपि विकल्प्य दूषितानि प्रत्येकसाहित्ययोरसम्भवात् । सत्यम् । न प्रत्येकं व्याप्तिरवगम्यते । न च दर्शनानि संहन्यन्ते । प्राचीनानेकदर्शनजनितसंस्कारसहाये चरमे दर्शने चेतसि चकास्ति धूमस्य वह्निनियतस्वभावत्वं, रत्नतत्त्वमेव परीक्षमाणस्य, शब्दतत्त्वमिव व्याकरणस्मृतिसंस्कृतस्य, ब्राह्मणतमेव मातापितृसम्बन्धस्मरणसहकृतस्य, तैलाद्विविक्तमिव विलीनाज्यं रसगन्धसहकृतेन्द्रियस्य । न ह्येतत्सर्वमापातान्न प्रतिभातमिति परस्तादपि भासमानमन्यथा भवति । न च प्रमाणान्तरत्वमापादयति । ननूक्तं न स्मृतेरन्यत्र संस्कारा व्याप्रियन्त इति । केन वा संस्काराणां स्मृतेरन्यत्र व्यापार उपेयते । स्मारयन्त एव तु ते पूर्वपूर्वावगतमग्निसम्बन्धं धूमस्य व्याप्तिसंविदं जनयितुमभिप्रवृत्तस्येन्द्रियस्य सहायीभवन्ति । आन्तरालिकस्मृतिव्यवहितमपि चेन्द्रियसम्बन्धानुसारि प्रत्यक्षमिति वर्णितम् । इन्द्रियसम्बन्धफलापरोक्षावभासानुसारात् । न च यत्सहसा न प्रतिभाति तत्पशादपि प्रतिभासमानं प्रत्यक्षतां जहाति । यथोदाहृतेष्वेव तावत्ब्राह्मणस्वम् । ननु न तावदापातजं प्रत्यक्षं व्याप्तौ प्रमाणमिति भणितम् । तत्पूर्वकं च सविकल्पकमिति कथं तस्यापि प्रामाण्यम् । अस्ति वा ब्राह्मणादिप्रत्यक्षे{३,१७}निर्विकल्पकावस्थायां वृद्धादाविव नरान्तरविविक्ताकारप्रतिभासः । येन परस्तात्सविकल्पकं प्रवर्तते । यथा तु तत्र पिण्डमात्रदर्शिनः स्मृतयोनिसम्बन्धस्य ब्राह्मणोऽयमिति प्रत्यक्षं जायते, एवमिहापि बहुशोऽग्निधूमदर्शिनोऽन्तिमे दर्शने निर्विकल्पकावृत्तधूमस्वलक्षणस्याग्निना नियतोऽयमिति धूमस्वभावगोचरं प्रत्यक्षम्, एतावदेव सविकल्पकस्य निर्विकल्पकपूर्वत्वम्, यत्तज्जन्मपूर्विका प्रवृत्तिः, संज्ञादिस्मरणार्थं हि तत्प्रथममर्थ्यते । तच् चेह व्यक्तिदर्शन एव पूर्वसंस्कारोद्बोधात्सिद्धमिति नावश्यमनयोस्समानविषयता । अत एव तैलविविक्तविलीनाज्यबोधे तैलमिदमिति विपर्यस्यतो गन्धसहकृतेन्द्रियस्य (स)विकल्पकप्रत्यक्षत्वसिद्धिः । न हि तत्रासङ्कीर्णा घृताकारा संविदासीत् । तैलमिदमिति विपर्ययात् । अतः परस्तादेव सहकारिवशात्निर्विकल्पकोपदर्शितव्यक्तिविषयं घृतमिदमिति सविकल्पकं प्रत्यक्षमाविरस्ति । एवमिहापीति न दोषः । किं पुनरिह सविकल्पकेन विषयीक्रियते । नियतोऽयमनेनेति नियमः । अस्य हि बहुलं धूममग्नावुपलभमानस्यानग्नौ च व्यतिरेकमन्ते भवति विमर्शः अपि स्याद्व्याप्तोऽयमनेनेति । कथमपरथा जाङ्गलादिभेदभिन्नानेकदेशपरित्यागेन सायमादिभेदभिन्नानेककालपरिहारेण च तृणदारुगोमयेन्धनादिसमवधानविशेषं प्रत्यनादृतोऽग्निमेवानुधावत्यनग्नौ च न भवति । ततः परं च यथाग्निर्धूमभास्वरत्वादिपरित्यागेनापि (?दु।कु)कूलालातादौ वर्तमानोष्णत्वमजहत्तन्नियतो भवति । एवमग्निना धूम इत्यपरोक्षनिश्चयो जायते । यत्तु देशान्तरादौ व्यभिचार इति, तन्न तावद्दृष्टपूर्वं नापि श्रुतमिति नाशङ्कामधिरोहति । एवमपि तु शङ्कमानस्य सर्वप्रमाणेष्व् अनाश्वासः क्वचिद्व्यभिचारदर्शनात् । यत्त्ववधारितोऽपि स्वभावनियमो देशान्तरादावन्यथा भवति वृश्चिकादेरिति । तन्न । अवान्तरजातिभेदात् । न हि यद्येन नियतमवगतमबाधितं च तदन्यथा भवति । अवान्तरजातिभेदात्तु शक्तिसदसद्भावकृता कार्यव्यवस्थेति न क्वचिद्व्यभिचारः । ननु अनुमानमेव किं नेष्यते । यदौपाधिकं तद्व्यभिचरति । अग्निरिव धूमम् । न च तथा धूमोऽग्निमित्यनौपाधिक इति । भवत्वेवम् ।{३,१८}अव्यवस्था तूपस्थिता । अर्थापत्तिस्तर्हि भवतु । इदमेव चाग्नौ दर्शनमनग्नौ चादर्शनमनुपपद्यमानमग्निना नियमं प्रतिपादयति । किमत्र नोपपद्यते । दर्शनं तावत्तत्र भवतीत्येतावतैवोपपन्नम्, न हि यदेकत्र भवति तेनान्यत्र न भवितव्यम् । अन्यत्र भवतोऽदर्शनमनुपपन्नमिति चेत् । न । विप्रकृष्टानामन्येषामप्यसन्निकर्षाददर्शनोपपत्तेः । सन्निहितेष्वनग्निष्वदर्शनमनुपपन्नमिति चेदभावादुपपत्तेः । तेषु ह्यसौ नास्त्वेव, कथमुपल(?भ्यत्भ्येत) । तत्र सताप्यन्यत्रापि न भवितव्यमेवेति किमत्र प्रमाणम् । अतो दर्शनादर्शनसहकृतेन्द्रियस्यैव वस्तुस्वभावावधारणमपरोक्षं जायत इत्येवं समर्थनीयम् । नन्वेतदेव न विद्मः । कीदृशोऽसौ वस्तुनः स्वभावोऽवधार्यत इति । उक्तमसकृद्धूमोऽग्निना नियत इति । एतदुक्तं भवति यदा यत्र धूमस्तदा तत्राग्निरिति । ननु सन्निहितवर्तमानदेशकालमात्रसम्बन्धोऽस्तु प्रत्यक्षः । अनागतादिसम्बन्धस्तु कथम्, अतिप्रसङ्गो हि तथा (सति) स्यात् । न । सन्निहितरूपमात्रोपलम्भात् । रूपमेव तु तादृशं धूमादीनां यदेवमुन्नीयते, स्थिरमिव रूपं कुड्यादीनाम् । अस्ति हि तेषु विध्युदादिविलक्षणकालान्तरस्थायिरूपप्रकाशः । सन्निहितावान्तरसम्बन्धो न प्रत्यक्ष इति तद्रूपमप्रत्यक्षं भवति । अप्रत्यक्षे हि तस्मिन्नेदं रजतमिति पूर्वानुभूतरजतबाधो न स्याद्, भिन्नविषयत्वात् । स्वकाले हि पूर्वविज्ञानेन रजतं विषयीकृतं न भविष्यद्बाधकज्ञानक्षण इति कथं तत्राप्रसक्तं बाध्यते । कालान्तरसम्बन्धो ऽपि तेन रूपेण पूर्वज्ञानावधारितं भविष्यज्ज्ञानकालमपि व्याप्नोतीति भवति समानविषयतामासाद्य बाधः । ननु यद्वस्तुनो रूपं तत्परानपेक्षमवगम्यते, अग्नेरिवोष्णत्वम् । न च धूमस्यागृहीतप्रतिसम्बन्धिना तद्रूपमवगम्यत इति कथं वस्तुरूपत्वम् । मैवम् । सम्बन्धो ह्यसौ, कथमनवगते प्रतिसम्बन्धिन्यवसीयते । यथाह नियमो नाम सम्बन्धः स्वमतेनोच्यतेऽधुना । इति । अतो यदेतदग्निना धूमस्य नियतत्वं भावात्मकमिदं तत्प्रत्यक्षेणावगम्यत इति किमनुपपन्नम् । यथा चानग्निनिवृत्तिर्न नियमः तथा वर्णितमेव । विपक्षव्यावृत्त्या तु विधिरूप एव नियमः परीक्षकैर्व्याख्याय परेभ्यः प्रतिपाद्यते ।{३,१९}ननु नियम्यत्वमपि कर्मकारकत्वं, तच्च शक्तिरूपं कथं प्रत्यक्षम् । न । कारकान्तरप्रत्यक्षवदुपपत्तेः । कारकान्तरशक्तयोऽपि हि न प्रत्यक्षाः, अतोऽसत्येव शक्तिप्रत्यक्षत्वे कारकं प्रत्यक्षमेषितव्यम् । एवमिहापि नियम्यः प्रत्यक्षो भविष्यतीति किमनुपपन्नम् । अतस्सिद्धं तावत्प्रत्यक्षत्वम् । आगमिकेषु चार्थेषु तस्य तस्य फलस्य तेन तेन वेदवेद्येन कर्मणा समन्वयात्, कर्मान्तरान्वयस्य चानवगमादनेनैव कर्मणेदं फलं व्याप्तमिति शास्त्रादवगम्यते । नियतसाध्यत्वावगमात् । मेघाभाववृष्ट्यभावयोश्च स्वतन्त्राभावप्रतीत्यसम्भवाद्भावयोरेव कथञ्चिद्व्याप्तिसंवेदनम् । मेघाभावो नाम नभस एवावस्थाविशेषः । जलधरनिरोधनिर्मुक्तस्य निर्वातस्तिमितमहार्णवप्रतीकाशमाकाशस्य वपुस्संलक्ष्यते । वृष्ट्यभाव इति च पृथिव्या एव निबिडकठोरपाण्डुरादिभावः । तच्च रूपमुभयस्यापि प्रत्यक्षसमधिगम्यमेवेति तदेव तत्र व्याप्तिप्रमाणम् । एवमन्यत्रापि दर्शयितव्यमिति । भवतु तावदन्यद्व्याख्यास्याम इति समधिगतं तावद्व्याप्तेस् स्वरूपं प्रमाणं च । इदं तु चिन्तनीयम् । कस्य केन व्याप्तिरिति । न ह्येकत्र विदितावग्निधूमविशेषौ प्रदेशान्तरे दृश्येते । यत्तयोरेकस्यैकेनान्वयव्यतिरेकसमधिगम्या व्याप्तिर्भवेत्, अतो वाच्यं व्याप्तेरधिकरणम् । अत आह सामान्येति । सत्यं न विशेषयोर्व्याप्तिः, सामान्यात्मनोरेव तु कस्यचिद्धर्मिणो धर्मयोस्तत्तद्भेदपरित्यागेन व्याप्तिरवगम्यते धूमाकृतिरग्न्याकृत्या नियतेति । अतो न कश्चिद्दोष इति । इदं तु प्रायिकम्, स्थायिनोस्तु विशेषयोरपि क्वचिद्व्याप्तिर्भवत्येवेत्याह क्वचिदिति ॥ १२ ॥ अत्रैवोदाहरणमाह कृत्तिकोदयमिति । यत्र हि कृत्तिकोदयं दृष्ट्वा रोहिण्यासत्तिः कथ्यते अनन्तरमुदेष्यति रोहिणीति, तस्मिन्ननुमाने विशेषस्यैव विशेषेण व्याप्तिः । न हि तयोस्सामान्यमस्ति । व्यक्तिभेदे प्रमाणाभावात् । प्रत्यभिज्ञायते हि सैवेयं कृत्तिका, सैवेयं रोहिणीति । कथमन्या भविष्यति । अतस्सिद्धं विशेषयोरेवात्र व्याप्तिरिति । यदि तर्हि व्याप्तिरनुमानाङ्गम्, अस्ति खल्वसौ हिंसात्वस्याधर्मत्वेन बाह्यहिंसास्वित्यतः क्रतावपि हिंसात्वादधर्मत्वमनुमीयते । तत्र{३,२०}दैक्षपशुहिंसादीनामधर्मत्वं प्रसज्येतेत्यत आह व्याप्तेश्चेति द्वयेन । अयमभिप्रायः सत्यमापाताद्भवति भ्रमः, यथा किल हिंसात्वमात्रानुबन्ध्यधर्मत्वमिति । न त्वेतदेवम् । निर्ज्ञातेन ह्यधर्मत्वेन हिंसात्वं व्याप्यते । न च शास्त्रादृते तज्ज्ञानोपायस्सम्भवति । न च हिंसात्वमात्रमनर्थसाधनमिति शास्त्रमस्ति । विशेषहिंसाया विहितत्वात् । विध्यवरुद्धविषये च प्रतिषेधानवकाशात् । प्रतिषेधमन्तरेण चानर्थसाधनत्वज्ञानोपायाभावात् । अतः परिहृत्यापवादविषयमुत्सर्गोऽभिनिविशत इति हिंसान्तराणि न हिंस्यादिति प्रतिषेधोऽवलम्बते । एवं च यद्यपि बाह्यहिंसासु हिंसात्वाधर्मत्वयोस्साहित्यमवगतं, तथापि न हिंसात्वमधर्मत्वप्रयोजकम् । किन् तु निषिद्धत्वम् । असत्यपि हिंसात्वे निषिद्धत्वमात्रेण सुरापानादावधर्मत्वसिद्धेः । अतो य एवास्मिन् सत्येवास्य भवितुं शक्तिरस्ति इत्यनेन रूपेण निरूप्यते । व्याप्यतयावगम्यत इति यावत् । स एव धर्मः प्रयोजक इत्युच्यते । परप्रयुक्तव्याप्त्युपजीविनस्तु हिंसात्वादयः, न तैरधर्मत्वादिव्यापकांशोऽवधारयितुं शक्यते । न हि बाह्यहिंसा हिंसेत्येवाधर्मः, किन् तु निषिद्धेति । अतो न क्वचिद्विहितानां दैक्षपश्वादिहिंसानामधर्मत्वमिति ॥ १४ ॥ ये त्वेवंजातीयकानप्यप्रयोजकान् हेतून् प्रयुञ्जते, ते सुलभैः प्रतिहेत्वादिदोषैश्चिरं भ्राम्यन्ति । शक्यते हि प्रतिहेतुर्दर्शयितुं, दैक्षपशुहिंसा धर्मः विहितत्वादग्निहोत्रादिवदिति । प्रयोजके हि हेतावेवंजातीयका दोषा नास्पदं लभन्ते । अप्रयोजके तु सुलभा एव । तदेतदाह ये त्विति । विस्रब्धमिति क्रियाविशेषणम् । यथा विश्वासो भवति तथा प्रयुञ्जत इत्यर्थः ॥ १५ ॥ {३,२१} प्रतिहेत्वादिदोषैर्भ्राम्यन्तीत्युक्तं तानेव दोषानुपन्यस्यति तेष्विति । प्रतिहेतुस्तावदस्माभिरुक्त एव । आगमविरोधोऽप्येवंवादिनामापद्यत एव, आगमैकप्रमाणत्वाद्धर्माधर्मयोः । क्वचिदिष्टविघातः क्वचिदलौकिकविवाद इति ॥ १६ ॥ आगमविरोधोदाहरणं तावदाह निषिद्धत्वेनेति । इदं चानागतावेक्षणन्यायेन प्रागेवास्माभिर्व्याख्यातमिति ॥ १७ ॥ इष्टविरोधोदाहरणमाह हेतुद्वयेति । बाधकारणदोषाधीनं हि सर्वत्र मिथ्याबुद्धीनां मिथ्यात्वम्, न च ज्ञानत्वेनोत्पत्तिमत्त्वेन वा प्रयुज्यते, सत्यमिथ्यात्वसाधारणत्वादनयोः । ज्ञानत्वादेव तन्मिथ्यात्वं साधयतो बौद्धस्येष्टविघातकारी हेतुः, धर्मधर्मिस्वरूपस्वविशेषयोरपि प्रतिक्षेपात् । सर्वलोकप्रसिद्धपृथिव्याद्यपलापाच्चालोकिकविवादोऽप्यत्रैव दर्शयितव्यः, न हि सर्वविज्ञानानि मिथ्येत्येवंविधं विवादं लौकिकास्सहन्ते । सहसैव ह्येवंविधविवादश्राविणामुद्वेगो जायते । यथा अचन्द्रश्शशीत्यादौ । अतोऽयमलौकिको विवादः । तथा चोक्तम् सर्वलोकप्रसिद्ध्या च पक्षबाधोऽत्र ते ध्रुवम् । इति ॥ १८ ॥ अपरमप्यागमविरोधस्योदाहरणं दर्शयति त्रैवर्णिकेति । सन्ति खलु स्वर्गकामो यजेतेत्येवं विहितानि सोमादीनि कर्माणि । तेषु किं{३,२२}चतुर्णां वर्णानामधिकारः, उतापशूद्राणां त्रयाणामिति संशये चतुर्णामिति प्राप्तम्, चत्वारोऽपि हि वर्णाः स्वर्गं कामयन्त इति स्वर्गकामपदेनाभिधीयन्ते । स्वर्गकामश्चात्राधिकारितया ज्ञायत इति प्राप्ते उक्तम् अपशूद्राणामधिकार इति । विद्याग्निसाध्या हि ते क्रतवः । अनग्निरविद्वांश्चान्तिमो वर्णः । कथमसौ वैतानिके कर्मण्यधिक्रियते । ननु श्रुत्यर्थावगताधिकारसामर्थ्यादेव शूद्रस्याप्यग्निविद्ययोराक्षेपो भविष्यति । न । अविधानात् । त्रैवर्णिकस्यैव अष्टवर्षं ब्राह्मणम् उपनयीत वसन्ते ब्राह्मणोऽग्रीनादधीत इत्येवमादिभिरग्निविद्ये विहिते । न चानियमेनैव ते शूद्रस्यापि भविष्यत इति शक्यते वक्तुम् । को हि प्रतिलब्धविद्याग्निसम्बन्धस्त्रैवर्णिकाधिकारसम्पादितासु कामश्रुतिषु नियतकालवयोवस्थमुपनयनमाधानं वा जधन्यवर्णस्योपकल्पयितुमुत्सहते । अतस्त्रैवर्णिकत्वप्रयुक्तमेव यागादीनां स्वर्गहेतुत्वम् । न मनुष्यत्वमात्रेण शूद्रसमवायिना प्रयुज्यते । तद्यदि कश्चिदनुमानकुशलः प्रयुङ्क्ते शूद्रकृतो यागः स्वर्गहेतुः मनुष्यकृतत्वात्त्रैवर्णिकाचरितयागवदिति । तस्यागमविरोधः । नन्वागमविरोध उदाहृत एव, किं पुनस्तदुदाहरणेन । उच्यते । पूर्वमधर्मत्वानुमानस्य वैदिकहिंसाविषयस्य साक्षादागमविरोधो वर्णितः, व्यक्तमेव दैक्षपशुहिंसा विधीयमानत्वादर्थसाधनमित्येतदवगम्यते, कथमसावधर्मो भविष्यतीति, चोदनालक्षणस्यार्थस्य धर्मत्वात् । इह तु शूद्रकृतस्य यागादेः स्वर्गहेतुता न साक्षादागमेन प्रतिक्षिप्यते । किन् तु त्रैवर्णिकाधिकारलाभादर्थादितरनिरास इति विशेषः ॥ १९ ॥ अप्रयोजकोदाहरणच्छलेनेदानीं परोपालम्भनार्थमुदाहरणान्तराणि दर्शयति कृतेति द्वयेन । प्रयत्नानन्तरज्ञानसदृशाः प्रत्ययानवस्थानादयोऽभिमताः तैश्शब्दगोचरैस्तस्य विनाशिता न प्रयुज्यते । कृतकत्वादिप्रयुक्ता ह्यसौ । न च कृतकत्वमेव प्रयत्नानन्तरदर्शनेन साधयितुं शक्यम् । आकाशादिभिर्व्यभिचारात् । यदि तर्हि सावयवत्वप्रयुक्ता विनाशिता,{३,२३}किमिदानीं नश्वराणि भुवनानि भुवनसन्निवेशाश्च महीमहीधरोदधिप्रभृतयः । सत्यम् । सर्वमेव सावयवं विनाशधर्मकम्, महीमहीधरादयोऽपि समासादितस्वावयवसंयोगविभागविशेषा भागशो नश्यन्त्येव । निरन्वयं तु विनाशं न कस्यचिदभ्युपगच्छामः । एवं महाभूमेरप्यावापोद्वापभेदान्नाशो दर्शयितव्यः । तथा यदपि वैशेषिकैर्जातिमत्त्वादैन्द्रियकत्वाच्च शब्दानित्यत्वमनुमितं, तदप्ययुक्तम् । एतद्धि जातिमत्त्वादि वस्तुसन्मात्रनिबन्धनमेव नित्यानित्यसाधारणम्, नानेनानित्यता साध्यते । किमिदं वस्तुसन्मात्रनिबन्धनमिति, परमार्थसन्निबन्धनमित्युक्तं भवति । परमार्थसन्त एव घटाकाशात्मादय इन्द्रियविषया जातिमन्तश्च, न भ्रान्तिसंविदिताः शशविषाणादय इवेति ॥ २१ ॥ एवमप्रयोजकस्यासाधकत्वमुक्तमुपसंहरति तस्मादिति । अयमर्थः य एव निषिद्धत्वादिरर्थो यस्याधर्मत्वादेस्साधनशक्तियुक्तत्वेनावगतः । अस्मिन् सत्यमुना भवितव्यमितीदृश्या शक्त्यावधार्यत इति यावत् । नियम्यशक्तिरेव हि साधनशक्तिरित्याख्यायते, नियतावगतो हि नियामकं शक्नोति (गमयितुं) नान्य इति, (स) नियम्य एव गमको न प्रसङ्गान्वितो हिंसात्वाधिः । निषिद्धत्वेनान्वेतुमभिप्रवृत्तेनाधर्मत्वेन प्रसङ्गाद्धि हिंसात्वमप्यन्वितमिति प्रसङ्गान्वितं हिंसात्वं नाधर्मत्वस्य गमकं भवतीति ॥ २२ ॥ एवं तावत्सर्वप्रकारोऽनुमानाङ्गभूतस्सम्बन्धपदार्थो व्याख्यातः । इदानीमेकदेशदर्शनादेकदेशान्तरे बुद्धिरिति व्याख्येयम् । तत्र चैतदेव तावद्वक्तव्यम् । स्वतन्त्रैकदेशदर्शनात्तथाविधैकदेशान्तरे ज्ञानमनुमानमित्यापद्येत । तच्चायुक्तम् । स्मरणं हि तत्, कथमनुमानं भवेत् ।{३,२४}अथैकदेशदर्शनादेकदेशान्तरविशिष्ट एकदेश्यनुमानस्य विषय इष्यते । तन्न । अनुपात्तत्वात् । न ह्यत्रैकदेशी केनचिच्छब्देनोपात्तः । अतस्तदनुपादानान्न्यूनं लक्षणमित्याशङ्क्याह उपात्त इति । यद्यपि स्वशब्देन नैकदेश्युपात्तस्तथाप्येकदेशशब्दाभ्यामेवार्थादाक्षिप्यत इति न न्यूनत्वदोष इति ॥ २३ ॥ अर्थाक्षेपे कारणमाह अपरार्थ इति । न हि धूमादिस्वरूपमात्रमपरार्थीभूतमेकदेशपदास्पदं भवति । न च परस्परापेक्षयैकदेशवाचोयुक्तिरुपपद्यते । न ह्यग्न्यैकदेशो धूम इति कस्यचित्प्रतिपत्तिरस्ति । न चागृहीतेऽग्नौ तदेकदेशतया धूमोऽवगन्तुं शक्यते । गृहीते च तस्मिन्ननुमेयाभावः । अत एकदेशत्वानुपपत्त्यैव तदाश्रयः कश्चिदेकदेश्यवगम्यत इति सिद्धमिति ॥ २३ ॥ नन्वाक्षिप्यतामेकदेशशब्दाभ्यामेकदेशी । तदेकत्वं तु कुतो वगम्यते । अतः क्वचिदेव धूमं दृष्ट्वा क्वचिदेकदेश्यन्तरेऽनुमानं न स्यात् । ऐकाधिकरण्यं त्वेकदेशयोर्न सिध्यति, अनुपादानादित्यत आह स एवेति । पूर्वप्रकृतमेकदेशवानिति विवक्षितैकसङ्ख्यमेकदेशिनं प्रत्यवमृशति स एवेति । स खल्वेक एवैकदेशी गम्यगमकरूपः उभयात्मकत्वात् । तस्य हि तौ नाम वक्ष्यमाणात्मानौ स्तः, यद्द्विरूपत्वमर्हति । नन्वेकत्वं नैकदेशिनोऽनुपात्तं लभ्यत इत्युक्तम् । न । ज्ञातसम्बन्धस्येत्येकवचनेनैवोपादानात् । एकदेशिनि ह्यन्यपदा(?र्थैकस्यै।र्थे ए)कत्वमेकवचनेनोपात्तं, प्रमातृपक्षेऽपि प्रथमोच्चरितेनैकदेशशब्देन स्वाश्रय एकदेशिन्याक्षिप्ते द्वितीयापेक्षाक्षणेऽपि स एव बुद्धौ विपरिवर्तमानस्तदाश्रयत्वेनावगम्यते नान्यः । तत्परित्यागे कारणाभावात्, तथा व्युत्पत्तिदर्शनाच्च । यथा देवदत्तस्यैकत्र करे कङ्कणमङ्गुलीयकं करान्तर इति न भिन्नः कराश्रयोऽवगम्यते । अपि तर्हि देवदत्त एक एव । अतस्सिद्धमेक एवैकदेशी गम्यगमकरूप इति ॥ २४ ॥ {३,२५} उभयात्मा सन् गम्यगमक इत्युक्तम् । तावेवोभयात्मानौ दर्शयति असिद्धेनेति । यदि ह्यसावेकदेश्यसिद्ध एव स्यात्सिद्धो वा, तदा न द्विरूपतां लभते । स तु धूमवदादिना रूपेण प्रत्यक्षसिद्धोऽग्निमदादिना चासिद्ध इति द्व्यात्मकत्वादुभयोपपत्तिरिति । आह अस्त्वर्थादुपात्त एकदेशी । स चैको गम्यो गमक इति । स तु कथं प्रमातृभिरुपादातव्य इति । न च तदुपादानप्रकारः कश्चिद्भाष्यकारेणोपात्तः । अतः पुनरपि न्यूनत्वमित्यत आह आत्त इति । तत्र नाम विशेषोपादानमाश्रीयते, यत्र विशेषविवक्षा । न त्विह विशेषो विवक्षितः । स ह्येकदेशी प्रमातृविवक्षावशेन पृथगभिन्नो वैकदेशशब्दाभ्यामुपात्तो भवतु । उभयथानुमानव्यवहारदर्शनाद् इति ॥ २५ ॥ तमेवोभयथा व्यवहारं दर्शयति अनित्य इति । निगदव्याख्यातो ग्रन्थः ॥ २६ ॥ एकदेशी गम्यो गमको भेदाभेदाभ्यामुपात्त इति दर्शितम् । कियति पुनरनुमानस्य व्यापार इति भवति संशयः । भवति हि विशिष्टार्थप्रतीतावपि विशेषणमात्रपर्यवसायि प्रमाणम् । यथा शब्दः । स खल्वाकृतिविशिष्टायां व्यक्तौ धियमादधाति, अथ चान्वयव्यतिरेकाभ्यामाकृतिमात्रपर्यवसायीति निश्चीयते । तदिहापि यदि तद्वदेव विशेषणमात्रपर्यवसायि प्रमाणमिष्यते, ततस्सिद्धसाध्यत्वम् । सिद्धं हि सम्बन्धज्ञानकालेऽग्निमात्रम् । किं तदनुमानेन । यदि तु द्विखण्डदण्ड्यादिशब्दवद्विशिष्टमेवानुमानं गोचरयतीतीष्यते । तत्र सम्बन्धग्रहणाभावाद(न)नुमेयत्वम् । न ह्यग्निमद्विशेषेण पर्वतादिनान्वितो धूमो दृष्टः । न च समस्ताग्निमत्साधारणं{३,२६}सामान्यं किञ्चित्समस्ति । तद्भावेऽपि पुनरपि सिद्धसाध्यतैव । अत एवाहुः अनुमाभङ्गपङ्केऽस्मिन्निमग्ना वादिदन्तिनः । विशेषेऽनुगमाभावस्सामान्ये सिद्धसाध्यता ॥ इत्यत आह एकदेशेति । अयमभिप्रायः दण्ड्यादिशब्दवद्विशिष्टविषयमेवानुमानम् । न च सम्बन्धग्रहणाभावः । सकलोपाधिपरित्यागेन धूमवन्मात्रस्याग्निमत्तया सम्बन्धावगमादित्युक्तमस्माभिः । असत्यपि सामान्ये केनचिदेकेनोपाधिनानन्तानामपि भावानां सम्बन्धो गृह्यत एव । यद्यपि धूमवानग्निमानिति सामान्यतोऽवगतम्, तथाप्ययमसाविति विशेषरूपेण प्रत्यभिज्ञानात्प्रमाणविषयत्वमप्युपपन्नमित्युक्तमेवेति । कस्मात्पुनर्विशेषणमात्रपर्यवसाय्येव प्रमाणं नेष्यते, अत आह न हीति ॥ २७ ॥ असम्भवमेव दर्शयति न धर्मेति । धर्ममात्रं हि सम्बन्धग्रहणकाले सिद्धमिति भवतैवोक्तमिति । एवमेव धर्मिमात्रानुमाने स्वतन्त्रोभयानुमाने वा सिद्धसाध्यता दर्शयितव्येत्याह तथेति ॥ २८ ॥ धर्मधर्म्युभयेष्वेवानुमेयेषु यथासङ्ख्यं दूषणान्तराण्याह एकदेशस्येति ॥ २९ ॥ {३,२७} एतदेव विवृणोति अनित्यत्वादय इति । पक्षैकदेशो हि लिङ्गं बह्वति । न चानित्यत्वाख्यस्य धर्मस्य स्वतन्त्रपक्षीकृतस्य कृतकत्वं धर्म इति कथमपक्षधर्मो लिङ्गं भविष्यति । एवं ध्वनिमात्रेऽपि स्वतन्त्रे पक्षीकृते न कृतकत्वस्य तेनानुगमश्शक्यो दर्शयितुम् । न हि यत्र यत्र कृतकत्वं तत्र तत्र ध्वनिरिति नियमस्सम्भवति । तथोभयस्य ध्वन्यनित्यत्वात्मकस्योभयेन पक्षधर्मत्वानुगमात्मकेन न सम्बन्ध इत्यनागतं सम्बन्धशब्दं पूर्वापराभ्यां सम्बन्ध्य तन्त्रेण व्याख्या कर्तव्येति । समधिगतं तावद्धर्मधर्म्युभयेषां व्यस्तसमस्तानां न साध्यत्वमिति ॥ ३० ॥ अथ कस्माद्धर्मधर्मिसम्बन्ध एव साध्यो न भवतीत्यत आह सम्बन्ध इति । मिताविति साधनवाक्यमपदिशति । न खलु परीक्षकस्साधनवाक्ये सम्बन्धवाचिना केनचिन्नाम्ना षष्ठ्या वा सम्बन्ध उपादीयते । न ह्येवं प्रयुज्यते, अग्निपर्वतयोरस्ति सम्बन्धः धूमवत्त्वादिति । नापि पर्वतस्याग्निरिति । देशमेव त्वग्न्यादिना विशिष्टमनुमिमाना दृश्यन्ते । यदेवं प्रयुञ्जते, अग्निमान् पर्वत इति । सम्बन्धोऽपि नानुमीयत इत्यतीतेन सम्बन्ध इति । न परं प्रतिज्ञायां नोपादीयते, उदाहरणेऽपि न तेनानुगमो लिङ्गस्य निर्दिश्यते । न हि भवति दर्शनं, यत्र यत्र धूमस्तत्र तत्राग्निसम्बन्ध इति । भवति तु यो यो धूमवान् स सो ग्निमानिति देश एव निदर्शनं, तदेतदाह न चापीति । इहेति मितिं प्रत्यवमृशति । एतदुक्तं भवति न साधनवाक्ये सम्बन्धस्साध्यतयोपादीयते नापि दृष्टान्ततया निर्दिश्यते न चायथाप्रतिभासं परीक्षकाणां वक्तुमुचितमिति ॥ ३१ ॥ {३,२८} अपि चायं सम्बन्धस्साध्यमानस्सन्मात्रतया वा साध्यते, केनचिद्वा धर्मेण विशिष्टः । न तावद्वस्तुसत्तामात्रमनुमानस्य विषयः । न च पर्वतादिवत्सिद्धसाध्यरूपमाकारद्वयं सम्बन्धो वहति, येनानुमानस्य विषयो भवेत् । तस्मान्न कथञ्चित्सम्बन्धस्साध्य इत्याह न चेति । नन्वसति सम्बन्धे विशिष्ट एव साधयितुं न शक्यते । नास्ति नाम स प्रकारः, यदसम्बन्ध्यमान एवाग्निना पर्वतस्तद्विशिष्टो भवतीत्यत आह तस्मादिति व्यान्तेन । न(नु) सत्यमसति सम्बन्धे विशिष्टो न भवति, न त्वेतावता सम्बन्धसाध्यता सिध्यति, विशिष्टसाध्यत्वान्यथानुपपत्त्यैव त्वर्थगृहीता मतुबर्थस्य सम्बन्धस्य साध्यता न पुनः स्वतन्त्रस्येति । अत्रैव दृष्टान्तम् आह यथेति । दण्ड्यादिशब्दा हि दण्डादिविशिष्टमेवाभिदधानास्सम्बन्धमप्यर्थादुपाददते, न त्वभिदधति । तद्वदिहापि पर्वतोऽग्निमानिति साध्यमानेऽर्थगृहीतोऽग्निसम्बन्धः, न पुनस्स एव साध्यते । यथा दण्ड्यादिशब्दतो विशिष्टार्थप्रतीतौ सत्यां सम्बन्धो नान्तरीयको भवति, एवमत्रापि विशिष्टे साध्यमाने नुनिष्पादी भवतीत्यर्थः । इदं तु चिन्तनीयम् । कथं दण्ड्यादिशब्दा विशिष्टवचना इति । मत्वर्थीयप्रत्ययान्ता हि ते । स चास्यास्मिन्नास्तीति सम्बन्धे स्मर्यते, अतस्सम्बन्ध एवात्र प्रत्ययार्थः । स च प्रधानः । प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतः प्राधान्येन इति स्मृतेः । इदं हि भेदेनैवोभयोरभिधाने प्राधान्यप्रतिपादनार्थं वचनम् । प्रधानं च शब्दार्थः । अतस्सम्बन्धवचना एव दण्ड्यादिशब्दा इति युक्तम् । अपि च नागृहीतविशेषणा विशेष्यते बुद्धिरुत्पद्यत इति विशिष्टाभिधित्सायामवश्यं भावि प्रथमतरं विशेषणाभिधानमापतति तत एव विशिष्टावगाहसिद्धेर्न तद्यावच्छब्दस्याभिधानशक्तिरुपकल्पयितुं{३,२९}शक्यते । अत एवाकृतिविशिष्टव्यक्त्यभिधानमाकृत्यधिकरणे निराकरिष्यते । किञ्च कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्यामिति स्मरति । कथं च ताभ्यां तद्धितवृत्तौ सम्बन्धोऽभिधीयते । यदि तद्धिताभिधेयो न स्यात् । अभिधेयनिष्कर्षे हि तयोः स्मरणं, यस्य गुणस्य हि भावाद्द्रव्ये शब्दनिवेशः, तदभिधाने त्वतलाविति । तद्यदि दण्डपुरुषसम्बन्धो दण्डिशब्दस्याभिधेयः, तथा सति तन्निष्कर्षे दण्डित्वं दण्डितेति त्वतलोरनुशासनमुपपद्यते । यथा गोशब्दाभिधेयं सामान्यं गोत्वमिति त्वप्रत्ययेन निष्कृष्यते । अतस्सम्बन्ध एव दण्ड्यादिशब्दानामभिधेय इति साम्प्रतं कथमुच्यते नान्तरीयकस्सम्बन्ध इति । अत्राभिधीयते न तावत्स्मृत्यनुसारेण सम्बन्धवाच्यत्वमध्यवसातुं शक्यते । शब्दानुशासनमात्रं हि तदस्यास्त्यस्मिन्न् (५ ।२ ।९४) इति, न पुनरर्थानुशासनम् । अपि च वृत्तिविग्रहयोरन्यथान्यथा गुणप्रधानभावो दृश्यते । यथा चित्रगुरिति चित्राभिर्गोभिर्विशिष्टो देवदत्तादिरेव वृत्तौ प्रधानतयावगम्यते । विग्रहे तु चित्रा गावो यस्येति गवामेव देवदत्तादिर्विशेषणतया गुणभूतः । ताश्च प्रधानम् । वेदेऽपि रथन्तरसामा सोम इति । तद्यद्यपि स्मृतिकारेण त(द)स्येति विग्रहे सम्बन्धः प्रधानतया षष्ठ्या निर्दिष्टः, तथापि गोमदादितद्धितवृत्तौ तद्वानेव प्रधानं भवति, तथा प्रतीतेः । गोमच्छब्दो हि पुरुषप्रधानो भासते न सम्बन्धप्रधानः । पाणिनेरपि भगवतस्सम्बन्धाभिधानद्वारेण विशिष्टवाच्यतैव प्रतिपादयितुमभिमता । वृत्तौ विगृह्यमाणायामवर्जनीय एव षष्ठीप्रयोगः । तावता च तदर्थः प्रधानतया वाच्यत्वेन निर्दिष्ट इति भ्रान्तिरुपजायते । अतो न तावत्स्मृत्यनुसारेण सम्बन्धस्य वाच्यता । यत्तु प्रथमतरं विशेषणमभिधेयमिति । सत्यम् । न त्विह सम्बन्धो विशेषणम् । दण्डो हि दण्डिनो विशेषणं न सम्बन्धः । स च प्रकृत्या प्रथममभिहित एव । अत एव नानेकाभिधानशक्तिकल्पनादोषः । निर्भागशब्देषु हि गवादिषु विशिष्टप्रतीतावपि विशेषणमात्रमभिधीयत इति युक्तम् । तत्र ह्येकस्यैवोभयाभिधानशक्तिकल्पनादोषो भवति । दण्ड्यादिशब्दास्तु भागवन्तः । तेषु भिन्नाभ्यां प्रकृतिप्रत्ययाभ्यांभिन्नौ{३,३०}विशेषणविशेष्यावभिधीयेते इति किमनुपपन्नम् । अतः प्रकृत्यभिहितप्रथमतरावगतदण्डविशिष्टः पुरुषो दण्डिशब्देनाभिधीयते । नन्वसति सम्बन्धे दण्डो विशेष्टुमेव नरं न शक्नोति । सत्यम् । न त्वेतावता सम्बन्धो वाच्यो भवति । न हि पृथिव्यामनवस्थिता गावो न तद्वन्तं विशिंषन्तीति पृथिव्यप्यभिधीयत इति युक्तमभिधातुम् । यत एव त्वसति सम्बन्धे विशिष्टावगतिरनुपपन्ना, अत एव सम्बन्धोऽप्यर्थादन्तर्भाव्यते । न त्वभिधीयते । यत्तु सम्बन्धाभिधाने त्वतलोरनुशासनमसति सम्बन्धवाच्यत्वेऽनुपपन्नमिति, तदयुक्तम् । न ह्यभिधेयनिष्कर्षे गोमदादिषु भावप्रत्ययानुशासनम्, अपि तर्हि अभिधेयनिष्कर्षे हि यस्य गुणस्य हि भावादिति त्वभिधेयनिष्कर्षार्थमेव स्मरणम् । इतरथा त्वनेनैव गतार्थत्वात्कृत्तद्धितसमासेष्वित्यवचनीयमापद्येत । अतः प्राक्प्रतीते एकनिमित्तसम्बन्धिविशिष्टेऽपरस्मिन् सम्बन्धिन्यभिहितेऽर्थगृहीतस्सम्बन्धो नाभिधेयपक्षे निक्षिप्यते । सर्वयौगिकानामपि चैषैव दिग्दर्शयितव्या । आह च सर्वत्र यौगिकैश्शब्दैर्द्रव्यमेवाभिधीयते । न हि सम्बन्धवाच्यत्वं सम्भवत्यतिगौरवात् ॥ इति । अतोऽनुमेयान्तरासम्भवाद्विशेषणविशेष्यभूतौ धर्मधर्मिणावेवानुमानसमधिगम्याविति ॥ ३२ ३३ ॥ उपसंहरति विशेषणेति गम्यावित्यन्तेन । स चायमङ्गाङ्गिभावः कैश्चिद्विकल्पेनाश्रितः । एवं हि मन्यन्ते । सर्वथा हि धर्ममात्रे धर्मिणि वा स्वतन्त्रे प्रमीयमाणे सिद्धसाध्यतादिदोषो भवति न विशिष्टप्रमायाम् । विशिष्टता तु कदाचित्कस्यचिद्यथाभिप्रायं भवतु नाम, न किञ्चिद्दुष्यति । सर्वथा तावत्धर्मिण एव पर्वतादेरग्न्यादिधर्मस्तद्धर्मेणैव धूमादिनावगन्तव्यः । स तु धर्मो विशेषणभूतो विशेष्यभूतो{३,३१} वावगन्तव्य इति न कश्चिद्विशेषः । उभयथापि स्वतन्त्रानुमानाभावादित्याह अङ्गेत्यवधार्यतेऽन्तेन ॥ ३४ ३५ ॥ अत्र दूषणमाह अत्रेति । अयमभिप्रायः लौकिकानि हि प्रमाणानि लक्षणकारैरपि यथालोकमेवानुगन्तव्यानि । न तु विपरीतम् । न ह्यग्निः पर्वतविशिष्ट इति लोको बुध्यते । अपि तु पर्वतोऽग्निमानिति । तथा स्वयमनुमानेन प्रतिपन्नमर्थं तेनैव परं प्रतिपादयन्तो लौकिका धर्मिणा विशिष्टमेव हेतुं प्रयुञ्जाना दृश्यन्ते, यथाग्न्यनुमान एव धूमवत्त्वादग्निमानिति । तच्चेदमग्नौ देशेन विशिष्टे नुमीयमाने नोपपद्यते । विशेषणतया हि पर्वतविशिष्टोऽग्निरिति धर्मिण्युपात्ते धूमवत्त्वादिति हेतुधर्मेण तस्य सम्बन्धो न स्फुटं प्रकाशते । धर्मधर्मितयावगतस्य हेतुत्वम् । न च गुणभावोपात्तो धर्मी हेतुधर्मसम्बन्धमर्हति, गुणानां परस्परासम्बन्धात् । अतोऽस्मात्परार्थहेतुप्रयोगविशेषादेव लौकिकानामीदृशी प्रतिपत्तिरुन्नीयते । यत्स्वयमपि धर्मविशिष्टमेव धर्मिणं बुध्यते न विपरीतमिति ॥ ३६ ॥ यदि तर्हि धर्मिणो हेतुधर्मेण सम्बन्धो न स्फुटः केन तर्हि प्रसज्यत इत्यत आह प्रधानत्वादिति । ध्वनिविशिष्टमनित्यत्वं कृतकत्वादित्युच्यमानेऽनित्यत्वाख्येन धर्मेणैव साध्यतया प्रधानभूतेन कृतकत्वादिहेतुस्सम्बध्येत न ध्वनिना गुणभूतेन । सर्वस्य ह्येकवाक्यगतस्य प्रधानान्वय एव युक्तः । प्रधानसम्बन्धे च हेतोरपक्षधर्मत्वम् । न हि कृतकत्वम्{३,३२}अनित्यत्वस्य धर्मः, किं तर्हि ध्वनेः । अतो धर्म्येव धर्मविशिष्टः स्वयं प्रमातृभिरवगम्यते । तथैव परस्मै प्रतिपाद्यत इति युक्तमिति । यदि तूच्यते, सत्यं प्रधानतया धर्मेण हेतोस्सम्बन्धो वाक्यादवगम्यते, लिङ्गबलीयस्त्वेन तु वाक्यं बाधित्वा धर्मिणैव सम्बन्धः कल्पयिष्यते । हेतुधर्मस्य हि धर्मिणैव सम्बन्धयोग्यता न धर्मेण, अतो धर्मसम्बन्धाभावाद्धर्मिणैव सम्बन्धो भविष्यतीत्यत आह तत्रेति । अयमभिप्रायः सत्यमेवं धर्मिणा सम्बन्धः सिध्यति । किं त्वयमेव क्लेशो यद्वाक्यस्वरसभङ्गो नाम । अत एवाह कल्प्योऽसाविति । अन्यथाप्रतिपन्नस्यान्यथाकल्पनैव दोष इति भावः ॥ ३७ ॥ ध्वनेः कृतकत्वादिति वा पुनर्धर्म्युपादानेन हेतुर्विशेषणीयः, न चैवं प्रयोक्तारः प्रयुञ्जाना दृश्यन्त इत्यभिप्रायेणाह ध्वनेरिति । यस्तु वदति धर्मिण्यपि विशिष्टे साध्येऽन्वयोपदर्शनवेलायां यत्र यत्र कृतकत्वमित्युक्ते ध्वनिरेव प्रधानतया सम्बध्येत नानित्यत्वं गुणभूतत्वादिति तं प्रत्याह अन्वयस्येति । अन्वयोपदर्शनकाले हि भेदेनैव धर्ममुपाददते । यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वमिति न तत्र प्रधानसम्बन्धाशङ्का । अतः प्रतिज्ञावस्थायां धर्मविशिष्टे धर्मिणि साध्यमाने यो गुणभाव आसीत् । नासौ दृष्टान्तवाक्ये दुष्यति । हेतुस्त्वविशिष्ट एव तार्किकैः प्रयुज्यत इत्युक्तम् । तत्राविशेषित एव प्रयुक्ते भवति प्रधानभूतधर्मसम्बन्धाशङ्केति । यस्तु वदति षष्ठ्यन्तेन ध्वनिनानित्यत्वं विशेष्यते ध्वनेरनित्यत्वमिति । एवं च कृतकत्वादित्यस्याविपरिणतविभक्तिकेन ध्वनिनैव सम्बन्धः स्फुटो भवति । धर्मसम्बन्ध एव यथावद्विभक्तिविपरिणामेन स्यात् । स चान्याय्य इति स वक्तव्यः । निराकृतोऽयं पक्षो वार्तिककृतैव सम्बन्धोऽप्यनुपादानान्नाम्ना षष्ठ्यपि वा मितौ इति । षष्ठीनिर्देशे हि सम्बन्ध एव साध्यो भवेत् । तस्य च साध्यता निराकृतैव । विशिष्टसाध्यपक्ष एव स्थित्वा धर्मिविशिष्टता अधर्मस्येदानीं{३,३३}निराक्रियते । किमत्र सम्बन्धसाध्यत्वं पुनरुपक्षिप्यते । तदलमनेन बालभाषितेनेति ॥ ३८ ॥ अपि च अग्नेर्देशविशिष्टत्वे साध्यमाने वक्ष्यमाणसमस्तपक्षप्रकाराणामसम्भवोऽपीत्याह अग्नेरिति । दूषणान्तरसमुच्चये चकारः । एतदिति वक्ष्यमाणलक्षणप्रतिनिर्देश इति । तानेव पक्षप्रकारान् वक्तुं संक्षिप्य प्रतिजानीते विशिष्टेति ॥ ३९ ॥ इदानीं विभज्य तानेव दर्शयति योऽग्निरितीत्यन्तेन । निगदव्याख्यातो ग्रन्थः । विवेकस्तु पक्षाणां प्रणिहितैरवगम्यत इति । इहचाद्ययोर्द्वयोः पक्षयोस्सिद्धसाध्यता दोषः । सिद्धो हि क्वचिदग्निः, दृष्टपूर्वोऽपि पूर्वदेशाधिकरणस्सिद्ध एव किं तत्प्र(सा)धानेन । परेषु तु पञ्चसु पक्षेषु प्रमाणान्तरविरोध इत्याह इह त्विति । सिद्धसाध्यता सुप्रकाशैव ॥ ४० ४२ ॥ विरोधं प्रपञ्चयति व्याप्तिरिति । यत्तावत्योऽग्निः सोऽनेन युक्त इत्युक्तं तदयुक्तम् । न ह्यनेन देशेन सर्वाग्नयो व्याप्यन्ते देशस्यावैभवात्सर्वाग्नीनां चात्रासन्निधानात्, तद्भावो ह्यत्राभावेन विरुध्यत इति ॥ ४२ ॥ {३,३४} यो दृष्टोऽनेन सोऽथवेति यदुक्तं तद्दूषयति नापि पूर्वस्येति । दृष्टस्याप्यग्नेरनेन देशेन व्याप्तिर्न विद्यत इत्यर्थः । योऽयं स देशमात्रेणेत्यत्र दूषणमाह नापीति देशैरन्तेन । न ह्येष पुरःस्थितो वह्निः सर्वैर्देशैर्विशेष्यते सर्वत्र तस्याभावादिति । पूर्वेण वाप्ययमित्यत्र विरोधमाह पूर्वेणेति । पूर्वेण देशेनास्याग्नेर्विशेष्यता नास्त्येव, पूर्वदेशस्यात्राभावात्, अस्य च तत्र । पूर्वानुभूतस्य त्वग्नेर्देशमात्रेण सम्बन्धः पुरःस्थितवह्नेः सर्वदेशसम्बन्धनिराकरणेनैव तुल्यन्यायतया निराकृत इति न पृथगुपन्यस्य दूषित इति ॥ ४३ ॥ एवं सप्तसु पक्षेषु निराकृतेष्वष्टमः पक्षोऽवशिष्यते एतद्देशविशिष्टो वा योऽयमग्निरिति तन्निराकरोति एतदिति । अयं पुरःस्थितोऽग्निरनेन देशेन विशिष्ट इति नैतत्साधयितुं शक्यम् । न ह्यप्रत्यक्षदेशो वह्निरयमिति निर्देष्टुं शक्यः, नितरां विशिष्टतया साधयितुम् । यस्तु वदति स्मृत एव वह्निरनेन विशिष्टः साध्यत इति, स वक्तव्यः । स्वदेशकालवर्त्त्येव स्मरणेन विषयीकृतः कथमसावनेन देशेन विशेष्टुं शक्यः । तदेवंवादिना नापि पूर्वस्येत्यपि नालोचितम् । अनवच्छिन्नस्मृताव् अपि च धर्मो धर्मिणो विशेषणमिति नेदं युक्तिसाध्यम् । धर्माणां धर्मिविशेषणतयैव सर्वदावगतेरित्यलमनेनेति । देश एव तु पूर्वावगतो विशेष्यतामर्हतीत्यभिप्रायेणाह अग्नेरिति ॥ ४४ ४५ ॥ यदि चाग्निर्विशेष्यो भवेत्ततस्तस्यैवायमाद्यो ज्ञानकालो भवेत्, प्रसिद्धस्याप्रसिद्धेन विशेषणात् । इह त्वादौ पर्वत एव ज्ञायते । कथमसौ पश्चात्प्रत्येष्यमाणस्याग्नेर्विशेषणं भवतीत्याह तज्ज्ञानेति । तद्वृत्तेनाग्निं निर्दिशति । अग्नेर्ज्ञानकाले हि स एव देशो बुद्धः, नाग्निः, अतः कस्य{३,३५}देशो विशेषणं भवति । प्रमितं हि वस्त्वप्रमितेन धर्मेण प्रमित्सितं भवति कीदृग्धर्मोऽयमिति । तथा च देश इति स एव प्रमित्स्यते, प्रमीयते च, न पुनरग्निरिति । ननु देशोऽपि प्रत्यक्षावगत एवेति कथमसावनुमानस्य विषयो भविष्यतीत्यत आह देशस्येति । स्वरूपमात्रमेव हि देशस्य प्रत्यक्षेणावगतम्, अनुमानेन तु पावकादिविशिष्टता तस्यानुमीयत इति न गृहीतग्राहित्वमिति । अतो धर्म्येव धर्मविशिष्टः प्रमेयः न धर्मो धर्मि विशिष्ट इत्याह तस्मादिति ॥ ४६ ४७ ॥ एवं च देश एवाग्निविशिष्टः प्रमेयोऽवतिष्ठते । स हि धर्मी, तदाश्रयत्वादग्नेः । न त्वग्निः, अतदाश्रयत्वाद्देशस्येत्याह सा देशस्येति । अन्ये तु पूर्वावगतधूममप्यग्निविशिष्टमनुमानस्य प्रमेयं मन्यन्ते । तदपि साध्वेवेत्यभिप्रायेणाह धूमस्यान्यैश्च कल्पितेति । सा प्रमेयतेति सम्बन्धः । अत्र चोदयति नन्विति । विशिष्टोऽनुमानस्य विषय इत्युक्तम् । नागृहीतविशेषणन्यायेन लिङ्गमपि शब्दवद्विशेषणमात्रपर्यवसाय्येव युक्तम् । शब्दो हि विशेषणमात्र एव वर्तत इत्याकृत्यधिकरणे वक्ष्यत इति ॥ ४८ ॥ परिहरति नैवमिति । कारणमाह न हीति । अनेकशक्तिकल्पनाभयेन हि शब्दस्य विशेषणमात्रपर्यवसानमिष्टम् । लिङ्गं तु पूर्वावगतप्रतिबन्धबलेन प्रतिबन्धकधियमुपकल्पयति । तद्यावतैव प्रतिबद्धमवगतं तावत्येव प्रतिबन्धके धियमादधाति । सर्वोपाधिपरित्यागेनाग्निमन्मात्रेण धूमवत्त्वं प्रतिबद्धमवगतमित्यग्निमत्त्वमेवानुमापयतीति न कश्चित्दोष इति । न च विशेषणमात्रमनुमेयं सिद्धसाध्यत्वादित्युक्तमित्यभिप्रायेणाह {३,३६}न चेति । विशेष्योऽपि पर्वतादिस्वरूपेणावधारितः सोऽपि नानुमेय इत्याह विशेष्य इति ॥ ४९ ॥ अतो विशिष्टत्वेनैव रूपेणाज्ञानात्तस्यैवानुमेयत्वमित्याह विशिष्टत्वेनेति । अत्र चोदयति नन्विति । धूमोऽप्यग्निविशिष्टोऽनुमीयत इत्युक्तं, तदयुक्तम् । प्रतिज्ञार्थैकदेशत्वादिति ॥ ५० ॥ परिहरति नैतदिति । सामान्यविशेष्यात्मा हि धूमः, तत्र विशेषात्मना पक्षीकृतस्य सामान्यात्मना हेतुत्वमिति न पक्षैकदेशतेति । समधिगतं तावदनुमानस्य विशिष्टो विषय इति, स्वरूपमेव किमस्येति न ज्ञायते । तद्यदि धूमतज्ज्ञानादीनामनुमानत्वमिष्यते, ततः प्रमाणफलयोर्विषयभेदः स चायुक्तः । अत एव भिक्षुणा एकमेव ज्ञानं प्रमाणफलरूपमिति प्रत्यक्षमुक्त्वा तदेवानुमानेऽप्यतिदिष्टं पूर्ववत्फलमस्येति । यदि त्वनुमेयज्ञानमेव प्रमाणमिष्यते ततोऽप्यतिरिक्तफलाभावः । अतो वक्तव्यमनुमानस्य स्वरूपमित्यत आह धूमतज्ज्ञानेति । यत्तावत् भिक्षुणा प्रमाण(?फल)मेव फलमित्येकविषयत्वलाभादाश्रितं, तत्प्रत्यक्षवदिहापि प्रतिषेद्धव्यम् । न हि साध्यसाधनयोरभेदं लौकिका मन्यन्ते । को हि वृक्षच्छिदया सार्धं परशोरेकत्वमातिष्ठते । विषयभेदपरिहारस्तु प्रत्यक्षोक्त एवेहाप्यनुसन्धातव्यः । यथा हीन्द्रियादिप्रमाणपक्षे यत्र फलं निष्पद्यते तद्विषयव्यापारात्समानविषयत्वमुपपादितम् । एवमिहापि धूमादिप्रमाणपक्षे तद्व्यापारादेव पुरोदितं विषयैकत्वमतिदेष्टव्यम् । अतो धूमस्तज्ज्ञानं वा सम्बन्धस्तत्स्मरणं वा प्रमाणमस्तु, विवक्षाधीनत्वात् प्रमाणफलभावस्येति । यत्तु बुद्धेः{३,३७}प्रमाण(?फल)त्वे फलाभाव इत्युक्तम् । भाष्यकारो हि बुद्धिरेव प्रमाणमिति दर्शयति यत्कारणमसन्निकृष्टेऽर्थे बुद्धिरिति वदति । न च फलाभावः, हानादेरेव फलत्वात् । न च सजातीयमेव फलमिति राजाज्ञा । उपयोगाद्धि सजातीयमसजातीयं वा फलं भवत्येव । अस्तु वा सजातीयमेव फलं हानादिबुद्धिः फलं भविष्यति । उपकारादिस्मृतिर्वेत्यभिप्रायेणाह प्रमेयधीरिति ॥ ५२ ॥ यदि भाष्यकारः प्रमेयधियः प्रामाण्यं मन्यते, कथं तर्हि धूमादिप्रमाणत्वाभ्युपगमः अत आह प्रत्यक्षेति । उक्तमस्माभिर्विवक्षाधीनं प्रमाणत्वमिति । तद्यदा धूमादीनामेव प्रकृष्टसाधनत्वमवगम्यते, तदा तदेव प्रमाणम् । भाष्यकारेणापि बुद्धिर्वा जन्म वेत्यादिना प्रत्यक्षानियमं दर्शयता सर्वत्रैवानियमस्तुल्यया दर्शित एव । अतो न धूमादिप्रामाण्याभ्युपगमे भाष्यविरोध इति ॥ ५२ ॥ तच्चेदमनुमानं द्वेधा बौद्धा विभजन्ते स्वार्थं परार्थं चेति । यदाहुः अनुमानं द्विधा स्वार्थं त्रिरूपाल्लिङ्गतोऽर्थदृक् परार्थमनुमानं तु स्वदृष्टार्थप्रकाशकम् ॥ इति । तदिदं द्वैविध्यमनुपपन्नमित्यभिप्रायेणाह अनुमानेति । अस्यार्थः गुरुशिष्यसहाध्यायिविरोधिप्रतिवादिभ्यः परेभ्योऽनुमानगृहीतस्यार्थस्य तेनैवानुमानेन प्रतिपादनं वाञ्छता यथा पूर्वमस्माभिः प्रतिपादितः पक्षो विशिष्टो धर्मी प्रमीयत इति स वक्तव्यः । इदमत्राकूतम् । स्वयमनुमानेन गृहीतमर्थं परं प्रतिपादयितुं साधनवाक्यमेव प्रयुज्यते । परस्तु ततो वाक्यात्त्रिरूपं लिङ्गमनुसन्धाय स्वयमेव साध्यं वस्तु{३,३८}बुध्यते, तदस्य स्वार्थमेवानुमानम् । वक्तुरपि स्वयमर्थं प्रतिपन्नवतः स्वार्थानुमानमेव, कतरदत्र परार्थानुमानमिति न विद्मः । वचनं परार्थमिति चेत् । न । अननुमानत्वात् । वचनं परार्थमिति तु मृष्यामहे । यद्वदति दर्शनस्य परार्थत्वादिति, न तु तदनुमानम्, अत्रिरूपलिङ्गजनितत्वादनर्थदृक्च । त्रिरूपाल्लिङ्गतोऽर्थदृगनुमानमिति वस्सिद्धान्तः, अतः कथं वचनमनुमानम् । अथानुमानगोचरीकृतार्थप्रतिपादनसमर्थवचनपारार्थ्यादनुमानं परार्थमित्युपचर्यते, ततः प्रत्यक्षप्रतिपन्नमप्यर्थं बोधयद्वचः परार्थमिति प्रत्यक्षमपि परार्थमापद्येत । यदि तु स्वलक्षणविषयत्वात्प्रत्यक्षस्य तस्य चाशब्दगोचरत्वान्न प्रत्यक्षं परार्थमित्युच्यते । तदयुक्तम् । एवं हि प्रत्यक्षगृहीतार्थविपरीताभिधायिनां तद्विरोधोद्भावनवचनं न युज्यते । यो हि प्रत्यक्षविरुद्धमर्थं प्रतिजानीते नाग्निरुष्ण इति, स वचनेन तं प्रत्यक्षविषयमर्थं प्रतिपाद्य निराक्रियते । प्रत्यक्षविषये तु शब्दागोचरे तन्नोपपद्येत, अतः प्रत्यक्षविषयमपि शब्दो वदतीत्यभ्युपगन्तव्यम् । एवं च प्रत्यक्षविषयवचनपरार्थतया कः प्रत्यक्षपरार्थतां वारयतीति द्वैविध्यानुपपत्तिः । अतो यथोदितः पक्ष एव वाच्य इत्युक्तवान् । इदं तु वक्तव्यम् कोऽयं पक्षो नाम, तदुच्यते, प्रतिज्ञार्थः पक्षः । का प्रतिज्ञा । साध्यसमर्पकं वचनम् । यदाहुः साध्यनिर्देशः प्रतिज्ञेति । अतः साध्यः पक्ष इत्याचक्ष्मह इति वाच्यः पक्ष इत्युक्तम् । तद्वचनमिदानीमुपन्यस्यति तत्रेति । तत्र पक्षे धर्मिणं प्रथममुद्दिश्य साध्यधर्मोऽग्न्यादिर्विधीयते । योऽयं पर्वतः सोऽग्निमानित्युक्तं भवति । इदं तु पक्षवचनं प्रतिज्ञापरनामानमेके नानुमन्यन्ते । वदन्ति च किमनेनानर्थकेन, अन्तरेणापि पक्षवचनमपेक्षितं सिध्यत्येव । हेतुर्हि साध्यसाधकः । न पक्षस्य वचनम् । न ह्ययमागमिकोऽर्थः, हेतुवचनानर्थक्यप्रसङ्गात् । आप्तानुसारेण पक्षवचनादर्थनिश्चये हेत्वभिधानमनर्थकं स्यात् । वक्तृगुणदोषावधारणप्रवण एव प्रतिवादी भवेत् । हेत्वधीने तु निर्णये तच्छक्तिरेव निरूपयितुमुचिता, किं प्रतिज्ञावचनेन । हेतोश्च सामर्थ्यं साध्यान्वयप्रदर्शनेनैव सिद्धम् । अतो यत्कृतकं तदनित्यं शब्दश्च कृतक इत्युदाहरणोपनयमात्रादेव साध्यसिद्धेरनर्थिका प्रतिज्ञा । हेतोरेव तु त्रैरूप्यं दर्शयितव्यम् । तच्च दृष्टान्तद्वयेनोपनयेन च कथ्यत इति कृतमतिविस्तरेण । {३,३९} यदि तु विवादमावेदयितुं प्रतिज्ञावचनमित्युच्यते । तन्न । अव्यापकत्वात् । यो हि मन्यते यदा खल्वयं शब्दो नित्य इति प्रतिजानीते तदेतरोऽनित्यवादी व्युत्थितो भवति ततो जल्पः प्रवर्तत इति । तच्च नैवम्, अव्यापकत्वात् । नेदं प्रतिज्ञावचनस्य व्यापकं प्रयोजनम् । वादे असम्भवात् । शिष्यविषयो हि सः । स च तत्त्वमेव बोधयितव्यः, अतो हेतुशक्तिमेव प्रतिपाद्य तत्त्वं बोध्यत इति युक्तम्, किं विवाद आद्रियते, न हि तेन सह विवदितव्यम् । जल्पे स्यादिति चेद्, न । अन्यथासिद्धेः । तत्रैतत्स्यात् जल्पे खलु विवादमाजिहीर्षुः प्रतिज्ञां प्रणयतीति, तच्च नैवम् । अन्यथासिद्धेः, असत्यपि हि पक्षवचने लक्ष्यत एव यथा ध्वनिमनित्यम् अनुमिनोतीति, यत्कारणं, यत्कृतकं तदनित्यं यथा घट इत्युक्त्वा कृतकत्वं ध्वनेरुपनयति शब्दश्च कृतक इति । ततो जल्पः प्रवर्तिष्यत एव । वितण्डा तु यथा तथा वादे दर्शिते प्रवर्तत एव । न हि वैतण्डिकस्य किञ्चित्परनिग्रहादन्यद्साध्यमस्ति । यदसौ प्रतिज्ञावचनेन क्वचिदर्थे साध्यमाने स्वविपरीतसिद्धिं मन्वानो जातोद्वेगो विवदेत् । अतः प्रतिज्ञावचनं कथात्रयेऽप्यनुपयुज्यमानमुपेक्षणीयमित्याक्षिपन्ति । अत्राभिधीयते स्वदृष्टार्थप्रकाशनं परार्थमनुमानमिति भवद्भिरेवोक्तम् । स्वयं च कुतश्चिद्धेतुविशेषात्किञ्चित्केनचिद्धर्मेण विशिष्टमवगतमिति परस्मा अपि तथैव कथ्यत इति युक्तम् । असत्यां तु प्रतिज्ञायामनाश्रयहेत्वादय आकाशपतिता इव भवेयुः । ननु नायं पक्षवचनपुरस्सरमज्ञासीत्साध्यमिति कथं परस्मै तथा कथयति । मैवम् । यद्यपि शब्दोऽनित्य इति स्वप्रतिपत्तौ नोच्चारितं तथापि सविकल्पकत्वादस्या बुद्धेरस्त्येवात्र प्रमातुर्विशिष्टो विकल्पः, उच्चारणं तु परार्थमिति तन्मात्रं स्वप्रतिपत्तौ नासीत् । परस्तु नानुच्चारितेन शब्देन प्रतिपादयितुं शक्यत इत्युच्चार्य प्रतिपाद्यत इति शब्दोच्चारणमात्रमधिकम् । यत् तु वादेऽनुपयोग इत्युक्तम्, तन्न, सुतरामुपयोगात् । जल्पवितण्डे हि विजिगीषमाणयोर्द्वयोः प्रवर्तत इति परं भ्रामयितुं प्रतिज्ञावचनं न प्रयुज्येत । अविवादे तु शिष्यो न व्यामोहनीय इति विशदतरमेव{३,४०}प्रतिज्ञावचनेन साध्यत इति युक्तम् । न हि न शब्ददारिद्र्यं, यदेनं तत्त्वं बुभुत्समानमुपसन्नमविशदवचनेन परिक्लेशयाम । न चैव जल्पेऽनुपयोग इति । उक्तमिदमसति हि प्रतिज्ञावचनेऽनाश्रया हेत्वादयो न प्रवर्तेरन्निति । गुणभूता हि ते प्रधानभूतसाध्यापेक्षायां सम्बध्यन्ते । तच्च नासति साध्यनिर्देश उपपद्यते । निर्दिष्टे हि साध्ये कुत इत्यपेक्षायां हेतुः सम्बध्यते । ततः कथमयमव्याप्तोऽस्य साधक इत्यपेक्षिते व्याप्तिवचनम् । इतरथा त्वैकार्थ्याभावादेकवाक्यतैव न संवर्तेत । तथा हि यत्कृतकं तदनित्यमित्युक्ते कृतकत्वमनित्यतया सम्बद्धमित्यनूदितम् । पुनश्च शब्दः कृतक इति शब्दस्य कृतकतया सम्बन्धोऽनूदितः । परस्परसम्बन्धे तु न प्रमाणम् । असम्बद्धमिदं वाक्यद्वयमित्याशङ्क्येत, कृतकं तावदनित्यं शब्दोऽपि कृतक इति स्वरूपानुवादमात्रमुभयोरिति शङ्का जायेत, अर्थान्तरं वापद्येत । यथा चानित्यत्वधर्मा कृतकस्तथा शब्दात्मकोऽपीति, तदत्र सर्वे कृतकाश्शब्दात्मान इति साधुसम्पादितमापद्येत । अतः प्रधानवाक्यावयवप्रतिज्ञा यदपह्नूयते तन्नास्तिकानामेव सर्वापलापवादिनां शोभते नेतरेषाम् । सा हि सर्वव्यवहाराणां सारः । यदाहुः सारं तु व्यवहाराणां प्रतिज्ञा समुदाहृता । तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥ इति सूक्तो वादिवचनप्रकारो धर्मिणमुद्दिश्य साध्यधर्मो विधीयत इति ॥ ५३ ५४ ॥ नन्वेवं साध्यविशिष्टे धर्मिणि विधीयमाने केवलसाध्यान्वयावगमाद्धर्मान्तरव्युदासो भवेत् । ततश्चानित्यश्शब्द इत्युक्तेऽनित्य एवेत्यवधारणादम्बरगुणत्वादयोऽपि तद्धर्मा न भवेयुः । एवं च हेतोरपि प्रतिक्षेपात्साध्यसिद्धिरपि दुर्लभैव । असत्यवधारणे नित्योऽपि स्यादिति नेष्टसिद्धः । अथ कथमेको नित्योऽनित्यश्चेत्यर्थात्प्रतिपक्षप्रतिक्षेपः । सत्यम्, अत एव तन्निवृत्त्यर्थमवधारणे क्रियमाणे इतरनिवृत्तिरपि भवेदत आह नियम इति । साध्यधर्मविवक्षापेक्षयैव नियमः कल्प्यते, न{३,४१}पुनरविरोधिनोऽपि धर्मान्तरात् । अतोऽग्निमानिति साध्यमानेऽग्न्यभावमात्रमेव निराकृतं भवति, न पुनः धर्मान्तरम् । यथा शुक्लः पट इत्युक्ते तद्विरोधिनस्तदभावस्यैव निवृत्तिर्भवति, नाविरोधिनां सूक्ष्मत्वादिधर्माणामिति । अत्र चासन्निकृष्टेऽर्थ इत्युच्यते तस्य कोऽर्थः । यद्यनवगतपूर्वमेवार्थमनुमानं गोचरयतीति, तन्न । सम्बन्धज्ञानकाल एव हि यावद्धूमादिभावितयाग्न्यादिसम्बन्धोऽवगत एव । अन्यथा नियम एवावधारितो न स्यात् । न चात्र देशकालसम्बन्धोऽधिक इति वक्तव्यम् । धूमस्य हि देशादिसम्बन्धो भासते नाग्नेः । धूमोपलक्षिताशेषदेशसम्बन्धस्य सम्बन्धसमधिगम एवावसायात् । अत एव कैश्चित्स्मरणाभिमाननिरासार्थमसन्निकृष्टपदं व्याख्यातम् । स्मरणं हि सन्निकृष्टावमर्शोल्लिखितमेव प्रायशो भवति, स इति हि तत्प्रवर्तते । न चैवमनुमानम् । अतो नेदं स्मरणम् । नन्वसत्य् अपि तदुल्लेखे स्मरणमुत्पद्यत एव । यथा प्रमोषे । मैवम् । ग्रहणकारणाभाषाद्धि तत्रानुभवाकारप्रवृत्तमपि ज्ञानं स्मृतिरित्यास्थितम् । न ह्यसन्निहितरजताद्यवभासकारणत्वमिन्द्रियाणां प्राप्यकारिणां सम्भवति । स्मृतिहेतुस्तु प्राचीनानुभवप्रभाविता भावना समस्तीति स्मृतिरेव प्रमुषिततदवमर्शा सेत्याश्रितम् । इदं तु प्रत्युत्पन्नलिङ्गादिकारणबलादुत्पद्यमानं लैङ्गिकज्ञानमनुभवाकारप्रवृत्तं न तद्भावादुत्तारयितुं शक्यम् । अनुभूतिश्च नः प्रमाणम् । अतः प्रमाणमनुमानमित्याख्यायते । यद्येवमस्तु तर्हीदमेवासन्निकृष्टपदस्य प्रयोजनम् । न । फलाभावेनाप्रामाण्यप्रसङ्गात् । अधिकपरिच्छेदफलं प्रमाणं भवति । परिच्छेदमात्रस्य तु फलत्वे स्मृतावपि प्रसङ्गः । सापि हि स्वगोचरपरिच्छेदात्मिकैव जायते । स्यान्मतम् अनपेक्षं हि नः प्रमाणम् । अपेक्षते च स्मरणं ग्रहणम् । अतो न प्रमाणमिति । तन्न । लैङ्गिके प्रसङ्गात् । तदपि ह्येकदेशदर्शनादिसापेक्षमेव । स्वविषयग्रहणापेक्षं स्मरणं नेदमिति चेन्न । इहापि तदपेक्षणात् । लैङ्गिकमपि हि प्राचीनाग्निज्ञानसापेक्षमेव । न ह्यनवगताग्नेरविदितसम्बन्धस्याग्निरत्रेति मतिराविरस्ति । न च ग्रहणं प्रमाणमेवेति राजाज्ञा । भ्रान्तावपि प्रसङ्गात् । विपरीतावग्रहोऽपि ग्रहणमेव । न च प्रमाणम् । न चासौ नास्तीति यथार्थायथार्थज्ञानविभागं व्याचक्षाणैरस्माभिरुक्तमेव । अपि च अर्थेऽनुपलब्ध इति सूत्रयता सूत्रकारेण{३,४२}सर्वम् अनुपलब्धार्थविषयमेव प्रमाणमिति सूत्रितम् । एतदपि तद्व्याख्यानावसरे वर्णितमेव । अतो व्याख्येयमसन्निकृष्टार्थग्रहणमत आह असन्निकृष्टेति । अस्यार्थः द्वेधा हि सन्निकृष्टं भवति तद्रूपप्रमितं विपरीतनिरूपितं वा । तदुभयजिहासयेयमसन्निकृष्टवागिति । किं पुनस्तन्निराकरणमत आह प्रमितस्येति । व्यवहारार्थं ह्यप्रमितपरिच्छेदाय प्रमाणमपेक्ष्यते न व्यसनेन । स च सकृत्प्रमाणव्यापारादेव सिद्ध इति न प्रमाणान्तरापेक्षेति ॥ ५५ ५६ ॥ किं पुनः प्रमितस्य प्रमाणान्तरापेक्षा न जायेत । अत आह ताद्रूप्येणेति । वर्णितमिदं द्वेधा हि प्रमितं भवति ताद्रूप्येण वैपरीत्येनेति । तत्र तावत्ताद्रूप्यपरिच्छेदे न परं प्रमाणं फलवत् । पूर्वपरिच्छेदादेव तदर्थसिद्धेः । वैपरीत्यपरिच्छेदे तु प्रमाणान्तरमनवकाशमेवेति तदुभयनिराकरणार्थमसन्निकृष्टग्रहणमर्थवत् । नन्वेवमप्रमाणमेवानुमानं सन्निकृष्टविषयत्वादित्युक्तमेव । न । अधिकारविषयत्वात् । यद्यपि पूर्वावगतो धर्मः स्मृतिविषयः । धर्मी च गिरिरनुभवसिद्धः, तथापि विशिष्टमनुमानेन विषयीक्रियत इति वर्णितमसकृत् । नन्वग्निविशिष्टो ऽपि सम्बन्धसमय एव संविदितः । एवं ह्यनेन व्याप्तिग्रहणकालेऽवगतं धूमवन्मात्रमग्निमदिति । तदस्य धूमवन्मात्र एवापेक्षा । विदिते तु तस्मिन्नग्निमत्ता प्रमितपूर्वैवानुभूयते । सत्यम् । किन् तु धूमवानग्निमत्तया प्रमितपूर्वोऽपि सम्प्रत्यनुमानेन प्रत्यभिज्ञायते । प्रत्यभिज्ञानं चेदं प्रमाणमेव प्रत्यक्षप्रत्यभिज्ञानवत् । पूर्वं हि धूमवत्त्वोपलक्षितेन रूपेणाग्निमत्तया देशो निर्ज्ञातः । सम्प्रत्ययमसावग्निमानिति विशेषतोऽनुमानेन प्रत्यभिज्ञायत इति किमनुपपन्नम् । अवश्यं चैवमभ्युपगन्तव्यम्, अन्यथा कथमग्निमानिति विदित्वा व्यवहाराय घटते । एष हि पक्तुकामोऽग्निमत्तामनुमायाग्नये धावतीति पश्यामः ।{३,४३}तत्कस्य हेतोः, न यदि पूर्वानुभवादद्य विशेषः, अवागमत्खल्वयं धूमवानग्निमानिति, न चाग्नये धावतीति । कथमनाश्रयप्रतिपन्नेऽग्नौ व्यवहरतीति चेत् । न । प्रागपि धूमवदाश्रयत्वेनावगमात् । पर्वतमधुना प्रत्यक्षेण विशेषतोऽवगम्याग्नये व्यवहरतीति चेत् । किमस्याग्न्यर्थिनः पर्वतप्रत्यक्षेण । तदयमग्निमत्तया बोध एव पूर्वबोधाद्विलक्षणोऽभ्युपगन्तव्यः । यत्कृतो व्यवहारविशेष इत्यगृहीतविषयत्वादनुमानं प्रमाणमिति वक्तव्यम् । तदिदमसन्निकृष्टग्रहणेनोक्तम् । ये तु स्मृत्याशङ्कानिराकरणमस्य प्रयोजनमाहुः, तेषां बाधितविषयमप्यनुमानमापद्येत । न हि तन्निराकरणमवयवान्तरेण लक्षणग्रन्थे कृतमुपलभ्यते । अतोऽसन्निकृष्टग्रहणमेवोभयविधसन्निकृष्टार्थनिराकरणार्थमिति साध्वी व्याख्येति ॥ ५७ ॥ वैपरीत्यपरिच्छिन्ने परमनवकाशमित्युक्तम् । तत्र कारणमाह मूल इति । व्याप्तिस्मरणादि ह्यनुमानस्य मूलम्, तद्यावदुत्तरं तत्तद्व्यापारव्यग्रतया विलम्बते तावच्छीघ्रभाविना पूर्वेण विषयापहाराद्विप्रकृष्टसाधनस्योत्पत्तिरेव निरुध्यत इत्यनन्तरमेव वक्ष्यत इति । कथं पुनरनुमानं बाध्यते । तदपि हि प्रमाणं कथं प्रमाणान्तरेण बाधितुं शक्यते । बाधे वा न क्वचिदाश्वासो भवेत् । आभासो बाध्यत इति चेत्, कथमाभासत्वम् । यदि बाधादेवेतराश्रयं तर्ह्यस्तु वा ज्येष्ठप्रमाणेन प्रत्यक्षेणानुमानबाधः । न तु ततोऽपि जघन्यैरपरैर्बाध्यते, तत्कस्य हेतोः अत आह प्रत्यक्षादेरिति स्यादन्तेन । अयमभिप्रायः न प्रमाणं नाम क्वचित्बाध्यते । अवधारणात्मकं ह्येवैतदिति ज्ञानं प्रमाणम् । तद्यत्र कस्यचिदर्थस्य केनचिदात्मनावधारणं भवति तत्र तेनोत्पन्नस्योत्पत्स्यमानस्य वा ज्ञानस्य बाधोऽभिधीयेत । तद्द्विविधो हि बाधः प्राप्तबाधश्चाप्राप्तबाधश्चेति । प्राप्तबाधो हि यथा शुक्तिकारजतज्ञाने । तत्र हि पूर्वोपमर्दनेनैवोत्तरम्{३,४४}आत्मानं लभत इति तत्तस्य बाधकम् । उत्तरं च देशादिभेदेऽप्यबाधितं स्वभावतश्च प्रमाणं पूर्वमाभासीकरोति । तदेवं प्राप्तबाधे तावद्येनोत्तरेणार्थोऽवधारितः । त्रिविधमप्यप्रामाण्यमवधारितपदेन व्युदस्यति । न ह्यज्ञातस्सन्दिग्धो विपर्यस्तो वार्थोऽवधारितो भवतीति त्रिविधमप्यप्रामाण्यं यस्य नास्तीत्युक्तं भवति । तदेवमात्मना ज्ञानेन पूर्वमाभासीकृतमिति तत्राभास एव बाध्यत इति नातिप्रसङ्गः । अप्राप्तबाधे तु यावत्क्लिष्टसाधनमनुमानं स्वगोचरे सामान्यशास्त्रं वा क्वचिद्विशेषविषये प्रवर्तितुमारभते तावत्प्रत्यक्षेणानुमानेन वा सिद्धसर्वाङ्गकेनागमेन वा विशेषविषयेण शीघ्रजन्मना येनैवार्थोऽवधारितो भवति तेनैवोत्तरस्योत्पत्तिप्रतिबन्धलक्षणो बाधो भवति । न हि बलवता शीघ्रभाविना प्रमाणेन निरुद्धमुखमुत्पत्तुमर्हति । तदेवमप्राप्तबाधे परमनुत्पन्नमेव प्राप्तिसम्भावनया तु बाध्यत इत्युच्यते श्रुत्येव लिङ्गमिति न क्वचित्प्रमाणबाधः । यत्तु जघन्येन मुख्यबाधो न युक्त इति । तन्न । न हि प्रत्यक्षादीनां विनियोगप्रमाणानामिव पारदौर्बल्यनियमः । यदेव तु शीघ्रभावि पूर्वोपमर्देन वात्मानं लभते तदेव बाधकमभिदध्महे । इतरच्च बाध्यमत एव तेनैव तस्य बाधं ब्रूमः । प्राप्तबाध इव प्रत्यक्षस्य तेनैवानुमानेन च सिद्धाङ्गकेन साध्याङ्गकस्य विशेषशास्त्रेण सामान्यशास्त्रस्य । अतस्सर्वप्रमाणाविरुद्धमेव पक्षमभिधास्यामः । न चानाश्वासः । आभासबाधात् । स्वतः प्रमाणेन चावधारणात्मना ज्ञानेनेतराभासीकरणात् । तदिदमवधारितपदेनोक्तमिति । ननु च बलवतापि नावश्यं दुर्बलं बाध्यते । असति हि सम्भवे बाधस्सम्भवति । अतो विषयव्यवस्थाया विकल्पेन समुच्चयेन वोभयमुपपादयिष्यते विनात्यन्तिकबाधाश्रयणेन, अत आह विकल्पादेरिति । नात्रोक्ता विकल्पादयस्सम्भवन्ति । न तावत्परस्परविरुद्धं रूपद्वयमेकत्र समुच्चीयते । न हि श्रावणोऽश्रावणश्च नित्योऽनित्यश्चेति सम्भवति । न च विकल्पः । विधिनिषेधविषयत्वात्तस्य सिद्धे वस्तुन्यसम्भवात् । न च विषयव्यवस्था, वर्णात्मनामेव नित्यानित्यत्वसाधनात् । अतोऽसम्भवादेव बाधमभिदध्मह इति । एवमुपपादितो बाध उदाहरणैर्दर्शयितव्यः । तत्र प्रत्यक्षबाधमेव तावद्दर्शयति अग्राह्यतेति । इमं तु प्रत्यक्षबाधं न बुध्यामहे । स्वगोचरविपरीतार्थं हि प्रमाणं{३,४५} प्रत्यक्षेण बाध्यत इति युक्तम् । न च ग्राह्यता प्रत्यक्षविषया ग्राह्यग्रहणसम्बन्धविषयत्वात्तलः । तस्य च प्रत्यक्षागोचरत्वात् । शब्दो हि प्रत्यक्षः न ग्राह्यता । अत एव ह्य् अश्रावणतापक्षोऽपि न प्रत्यक्षेण विरुध्यत इति वक्ष्यते । अत्रोच्यते । सत्यम्, नेन्द्रियविषयो ग्राह्यता, ग्राह्यस्तु तद्विषयः । तदिह ग्राह्यापलापस्यैव प्रत्यक्षविरोधो दर्शितः । निरालम्बनानुमानस्येति यावत् । प्रत्ययस्त्वग्राह्यपदादुपपन्नस्तस्यैवाभावमभिधत्ते । कश्च ग्राह्यस्य भावोऽन्यदतो भावात् । इयं हि शशविषाणस्याग्राह्यता यन्न भवति । तदभावादेव तत्राग्राह्यताभिधानप्रत्ययौ । तदनेन प्रकारेण शब्दाभावपक्षस्यैव प्रत्यक्षविरोध उपदिष्ट इति न किञ्चिदनुपपन्नमिति ॥ ५८ ५९ ॥ अनुमानविरोधोदाहरणमाह तेषामिति । तेषामेव शब्दादीनामश्रावणत्वाद्यनुमानविरुद्धं यो ह्यश्रावणमनित्यं वा शब्दं पक्षमिच्छति तस्यासौ शीघ्रभाविना विपर्ययानुमानेन बाध्यत इति । इदं तु प्रत्यक्षविरोधमन्ये मन्यन्ते । तान्निराकरोति न हीति । शब्दो हि प्रत्यक्षः न तच्छ्रावणता ग्राह्यग्राहकसम्बन्धो हि शब्दस्य श्रावणस्य च त्वतल्भ्यामुच्यते । कृत्तद्धितसमासेषु सम्बन्धाभिधानं त्वतल्भ्यामिति स्मृतेः । स च न प्रत्यक्षेण समधिगम्यः । अपि च अतीन्द्रियं श्रोत्रं, कथं तत्सम्बन्धश्शब्दस्य प्रत्यक्षो भविष्यति । न ह्यैन्द्रियानैन्द्रियाधारस्सम्बन्धः प्रत्यक्षो भवति वायुवनस्पत्योरिव । अतो नायं प्रत्यक्षविरोध इति ॥ ६० ॥ किंप्रमाणिका तर्हि श्रावणता । अत आह सेति । अबधिरादिषु शब्दोपलब्धेर्बधिरादिषु चानुपलब्धेरन्वयव्यतिरेकौ दृश्येते । तथा हि श्रोत्रोपघातमात्रेण चक्षुरादिमतो बधिरस्य शब्दबुद्धिर्न दृश्यते । श्रोत्रे च दृढे चक्षुरादिष्वसम्भवेऽपि शब्दग्रहणं दृष्टम्, अत आभ्यामन्वयव्यतिरेकाभ्यामिदं श्रावणत्वं गम्यत इति । नन्वेवं कथमनुमानविरोधः, न ह्य्{३,४६}अन्वयव्यतिरेकावनुमानम्, तत्प्रभवस्तु मानसःश्रावणत्वविकल्पः, अतो मानसप्रत्यक्ष एवायमिति कश्चित्भ्राम्यति स वक्तव्यः । न बहिर्विषयबोधे मनः स्वतन्त्रमिति वर्णितमसकृत् । यद्यदीयन्वयव्यतिरेकावनुविधत्ते तत्तत्कारणकम् इति सर्वकार्येषु समधिगतम्, अनुविधत्ते च शब्दज्ञानं श्रवणमिति तत्तत्कारणकमिति । इदमेव च शब्दस्य श्रावणत्वम् । यत्तु ज्ञानस्य श्रवणजन्यत्वमतोऽनुमानमेवेदम् । नन्वन्यत्राप्यन्वयव्यतिरेकानुविधायिनः कथं तत्कारणकत्वमवगन्तव्यम्, यन्न मानसं प्रत्यक्षमाश्रीयते, श्रूयताम् । पश्यामो हि वयं कुम्भकारव्यापारानन्तरं कुम्भसम्भवमुदीक्षमाणाः कार्यकारणभावं चक्षुषैव । इदं हि कुम्भस्य तत्कार्यत्वं या तदनन्तरसम्भूतिः । स च कुम्भस्तत्सम्भवश्चोभयं चाक्षुषमेवेति किमत्र मनसा । अतो यद्यस्मिन् सति भवति, असति च न भवति, तत्तत्कारणकमिति प्रत्यक्षतो विदितव्याप्तेरनुमानमुपपन्नमेव । एवं च प्रयोगः श्रवणप्रमाणप्रकाश्यश्शब्दः तस्मिन् सत्येवोपलभ्यमानत्वात् । यदेवं तत्तत्प्रकाश्यं सन्तमस इव घटः प्रदीपप्रकाश्य इति । इदं च प्रत्यक्षपूर्वकार्थापत्तिपूर्वकमनुमानं तया श्रावणत्वसिद्धेः । इदं च सिद्धसर्वांगत्वादश्रावणत्वानुमानाद्बलवत् । यावद्धि गुणत्वस्याश्रावणत्वेन व्याप्तिर्ग्रहीतुमिष्यते, तावच्छीघ्रजन्मना श्रावणत्वानुमानेन व्याप्तिसंविदं प्रतिबन्धता तस्योत्पत्तिरेव निरुध्यते । एवमेवानित्यत्वानुमानमपि । यत्कृतकत्वादिहेतुकं तदप्यसिद्धिव्यभिचारादिदोषान्न शीघ्रमुपजायत इति सिद्धावयवैश्शीघ्रजन्मभिर्नित्यत्वानुमानैर्बाध्यते । यथा देशकालादिभिन्ना गोशब्दबुद्धयस्समानविषयाः गौरित्युत्पद्यमानत्वात्सम्प्रत्युत्पन्नगोशब्दबुद्धिवध्यस्तनोच्चरितो वा गोशब्दोऽद्याप्यस्ति गोशब्दत्वाद्, अद्योच्चरितगोशब्दवदित्यादिभिरिति ॥ ६० ॥ शब्दविरोधप्रकारमिदानीं प्रतिजानाति त्रिधेति । प्रतिज्ञाविरोधादयो हि शब्दविरोधतया प्रसिद्धा इति ते तथाभिधीयन्ते । न त्वेते शब्दविरोधाः । यत्र हि क्वचिदर्थे प्रतिष्ठितेन शब्देन प्रतिज्ञान्तरं बाध्यते, तत्र शब्दविरोधो भवति । न च स्ववाग्विरोधे शब्दस्य क्वचिदर्थे प्रतिष्ठास्ति व्याहताभिधानात् । पूर्वसञ्जल्पविरोधेऽपि पूर्वापरन्यायबलाबलानुसार्येव निर्णय{३,४७} इति न शब्दविरोधः । न हि तत्र शब्दप्रमाणतोऽर्थः न्यायगम्यत्वात् । लोक प्रसिद्धिस्तु न शब्दो न प्रमाणान्तरम् । अपि अतु प्रत्यक्षाद्यन्तर्गतैवेति तद्विरुद्धपक्षप्रदर्शनेनैव प्रदर्शितेति न शब्दविरोधेऽन्तर्भावयितुमुचिता । न ह्यचन्द्रश्शशीति पक्षश्शब्देन विरुध्यते । न हि चन्द्रशब्दश्शाङ्कयोस्सम्बन्धं शब्दो वदति येनातद्वाच्यपक्षस्य शब्दविरोधो भवति सम्बन्धवाच्यत्वे हीतरेतराश्रयं भवेत् । अभिधानात्सम्बन्धः सम्बन्धाच्चाभिधानमिति । तस्मान्नैते शब्दविरोधाः । पूर्वोत्तरशब्दसामर्थ्यपरामर्शेन त्वेकपरित्यागेनेतरपरिग्रहाच्छब्दविरोधतया प्रसिद्धा इति तन्त्रान्तरप्रसिद्धिविभागस्त्रिधा शब्दविरोध इत्युच्यते । परमार्थेन तु वेदार्थवचनविपरीतार्थप्रतिज्ञैव शब्देन विरुध्यते । तत्र हि प्रतिष्ठितं शब्दस्य प्रामाण्यं शक्नोति विपरीतप्रतिज्ञो वारयितुम् । तच्चानन्तरमिहैव वक्ष्याम इति ॥ ६१ ॥ तानेव त्रीन् प्रकारान् दर्शयति प्रतिज्ञेति । तत्र प्रतिज्ञाविरोध एवैकस्त्रिधा भिद्यत इत्याह यावदिति सार्धेन । अयमर्थः प्रतिज्ञाविरोधो हि स्ववाग्विरोधः । स च त्रेधा भिद्यते । उच्चारणधर्मधर्मिभेदात् । यावज्जीवमहं मौनीति पक्षः प्रतिज्ञयैव बाध्यते । न ह्यनुक्ता सती प्रतिज्ञा भवति । उक्तिमात्रेण च मौनं बाध्यते । अतः प्रतिज्ञाशरीरान्तर्गतेनोक्तिमात्रेण बाधाद्भवति प्रतिज्ञया बाधः । सर्ववाक्यमृषात्वपक्षस्तु धर्मोक्त्या बाध्यते । सर्वमृषात्वे हि प्रतिज्ञावचनमपि मृषेति नेतरन्मृषा भवेत् । तदमृषात्वे वा न सर्वमिथ्यात्वम् । तदिह प्रतिज्ञान्तर्गतधर्मसंसर्गासम्भवपरामर्शात्पक्षबाध इति धर्मोक्तिविरोधाभिधानम् । पूर्वत्र त्वविशिष्टमुक्तिमात्रमेव मौनं बाधते इत्युक्तिमात्रेणेत्युक्तम् । आत्मबाधनमिति । धर्मबाधनमित्यर्थः । धर्म एवायुक्त आत्मानं बाधत इति यावत् । वन्ध्या मे जननीति पक्षो धर्म्युक्त्या बाध्यते । जननीत्वे ह्युद्दिष्टमात्रे न{३,४८}वन्ध्यात्वमास्पदं लभते । न च गौणो जननीशब्द इत्यपि वक्तव्यम् । अहं यतो जात इति विशेषणात् । एवं विशेषिते पक्षे धर्म्युक्तिविरोध इत्युक्तं भवति । एतच्चाभ्युपगमवादेनोक्तम् । न तु श्रुतिस्मृत्यतिरेकीणि जल्पाकवचनानि गौणत्वादिभिस्समीकर्तुं शक्यन्ते । सर्वदूषणोच्छेदप्रसङ्गात् । प्रमादाज्ञानजान्येव हि दूषणानि भवन्ति । तेषु कथञ्चित्समाधीयमानेषु न किञ्चिद्दूषणं नाम भवेदिति ॥ ६२ ६३ ॥ पूर्वसञ्जल्पविरोधमुदाहरति बौद्धस्येति । अनित्यश्शब्द इति बौद्धेनोक्ते कथं क्षणिकादगृहीतसम्बन्धादर्थप्रत्यय इत्यनुयुक्तेन तेनैव यदा पुनरुच्यते नित्यस्तर्हीति तदा तस्य पूर्वाभ्युपगमविरोधः । यद्यपि चात्र न्यायबलाबलानुसारी बाध्यबाधकभावः, तथाप्येवंविधा पूर्वापरविरुद्धा प्रतिज्ञैवात्मानं न लभत इति न न्यायावतारमपेक्षते । सम्भावितो हि प्रतिज्ञायामर्थो न्यायेन साध्यते । असम्भाविते तु नायापेक्षा नास्त्येव, स्वरसभङ्गुरत्वात् । अतश्शब्दविरोध एवैनमन्तर्भावयति । शब्दसन्दर्भ एव हि तादृशः पूर्वापरविरुद्धः पक्षं विनाशयतीति तेषामभिप्राय इति । सर्वलोकप्रसिद्धिविरोधस्योदाहरणमाह चन्द्रेति । अत्रापि महाजनविपरीतार्थश् शब्दसंसर्गः स्वरसादेव भज्यते न प्रमाणं यावदपेक्षत इति शब्दबाध उदाहृत इति ॥ ६४ ॥ उपमानविरोधोदाहरणमाह ज्ञातेति । येन हि नगरे गवाकारो दृष्टः सम्प्रति चारण्ये गवयाकारः, तं प्रति गौर्गवयसदृशो न भवतीति पक्ष उपमानेन विरुध्यत इति ।{३,४९}परोक्षे गवि सादृश्यमुपमेयम् । प्रत्यक्षे तु प्रत्यक्षमेव । अत एव ज्ञातगोगवयाकारमिति क्रमो विवक्षित इति ॥ ६५ ॥ अर्थापत्तिविरोधमिदानीं विवक्षन् भाष्यकारानुसारेणाभावपूर्विकायास्तावदुदाहरणमाह गेहेति ॥ ६६ ॥ प्रत्यक्षपूर्विकामुदाहरति अग्नाविति । अदाहक इति । अतच्छक्तियुक्त इत्यर्थः । अनुमानपूर्विकामुदाहरति शब्दे चानभिधायक इति । शब्दश्रवणानन्तरमर्थप्रतीतिं चेष्टयानुमाय तत्र शब्दः कारणमित्युन्नीयते । अतस्सर्वकारकाणां क्रियाविनाभावादभिधाभिधानो व्यापारः, तदनुपपत्त्या चार्थापत्त्या तच्छक्तिसिद्धिरिति ॥ ६७ ॥ तथेन्द्रियापलापपक्षोऽपि प्रत्यक्षपूर्विकयार्थापत्त्या विरुध्यत इत्याह श्रोत्रेति । यद्यपि प्रत्यक्षपूर्विकोदाहृतैव तथापि पक्षदोषोद्भावनच्छलेनेन्द्रियापलापपक्षस्याप्ययं दोष इति विवक्षता पुनस्तद्विरोधोऽभिहितः । अत्रैवादिशब्देनोपमानपूर्विकया विरोधो दर्शयितव्यः यथा गवयोपमिताया गोस्तज्ज्ञानग्राह्यशक्त्यपह्नव इति । अर्थापत्तिपूर्विकया विरोधमुदाहरति शब्देति । अर्थाभिधानान्यथानुपपत्त्या हि वाचकशक्तिमर्थापत्त्या प्रमाय पुनस्तदनुपपत्त्यार्थापत्त्यन्तरेण शब्दनित्यत्वमवगम्यत इति ॥ ६७ ॥ शब्दपूर्विकार्थापत्तिविरोधमुदाहरति श्रुतार्थापत्तिबाध इति । किं पुनरर्थापत्तिः प्रपञ्चेनोदाह्रियते, तद्विरोधप्रतिपादनं हि ययाकयाचिदेकयापि सिध्यत्येव । तथा च प्रमाणान्तरविरोधेषु प्रपञ्चो न दर्शितः । अर्थापत्तिवद्वा प्रमाणान्तरविरोधोऽपि प्रपञ्चेन वाच्यः । सत्यम् । षोढा भिन्नैरेव षड्भिरत्र विरोधो वार्तिककारस्य विवक्षितः, तत्प्रदर्शनार्थमेव षट्प्रमाणप्रसूतार्थापत्तिरुदाहृता । तेनैव तु मार्गेण प्रमाणान्तरेष्वपि प्रपञ्चो दर्शयितव्यः ।{३,५०}यथा तावत्प्रत्यक्षबाध एवानुभूतिस्मृत्यनुमानादिभिः षष्ठवर्जं षोढा भिद्यते । स्वेद्यमानस्य वादिनोऽनुष्णो वह्निरिति प्रतिज्ञा अनुभवस्थेनैव प्रत्यक्षेण विरुध्यते । अनासन्नाग्नेस्तु सैव प्रतिज्ञा स्मृतिस्थेन प्रत्यक्षेण विरुध्यते, यदा खल्वयं वादकालेऽनुष्णो वह्निरिति प्रतिजानाति तदैनमितरः स्मारयति किं न स्मरसि पूर्वानुभूतमग्नेरुष्णत्वं यदेवमात्थेति, स तत्स्मृत्वा ततः प्रत्यक्षान्निवर्तत इति भवति स्मृतप्रत्यक्षबाधः । अनुमितप्रत्यक्षबाधस्तु यत्राप्तमुखे चेष्टाविशेषादर्शनेन तदवगततिक्तादिरसनिवारणं प्रतिज्ञायते, मुखवैरूप्येण हि तस्य तिक्तानुभवोऽनुमीयते अतस्तद्विपरीतपक्षस्यानुमितप्रत्यक्षबाधः । श्रुतप्रत्यक्षबाधस्तु यत्र केनचिदर्थे कस्मिंश्चिदपह्नुते साक्षिभिर्दृष्टोऽयमर्थ इति साक्षिप्रत्यक्षेण बाधोऽभिधीयते । न चैष शब्दबाधः । न ह्यत्र तैरर्थोऽभिधीयते । किन् तु दर्शनम् । अतस्तद्दर्शनानुसार्येव निर्णयः । दर्शनं तु तैः स्वशब्देन प्रत्याय्यत इति शब्दावगतप्रत्यक्षविरोध एवायम् । उपमानं तु प्रमाणान्तरप्रसिद्धवस्तुसादृश्यमात्रविषयमित्यन्यतस्सिद्धस्य सादृश्यं गोचरयति । यथा दात्रादिप्रत्यभिज्ञायां यादृशी स्वात्मनि चेष्टा दृष्टा तां परत्रापि दृष्ट्वोपमिनोति ममेवास्यापि दात्रादिप्रत्यभिज्ञा प्रत्यक्षमुत्पन्ना, कथमन्यथा पूर्वेद्युरर्धकृतकर्मसमापने परेद्युः प्रवर्तते । इह च चेष्टया तदनुरूपं परगोचरमनुमाय स्वज्ञानसादृश्यं तत्रोपमीयते । यद्यपि चात्रानुमानावगतप्रत्यक्षबाध एव शक्यो दर्शयितुम्, तथापि स्वज्ञानसादृश्यपरिच्छेदे शक्यं दर्शयितुमिति तदवगतप्रत्यक्षबाधोऽभिधीयते । प्रत्यक्षसत्तैवोपमानेन प्रमीयते । अर्थापत्त्यवगतप्रत्यक्षबाधस्त्व् एवं दर्शयितव्यः । यदा हि बहुषु गच्छत्सु तोयार्थिषु तटाकमेकस्तदाहरणाय प्रस्थितो विलम्बते तदा तद्विलम्बनान्यथानुपपत्त्या तदीयं तोयप्रत्यक्षमर्थापत्त्या प्रमीयते । तत्र तद्विपरीतो निस्तोयतटाकपक्षोऽर्थापत्तिसिद्धेन प्रत्यक्षेण बाध्यते । अभावेन तु भावरूपं प्रत्यक्षं नावगम्यत इति तदनवगतप्रत्यक्षविरोधो नेहोदाह्रियते । षोढा विभक्तमनुमानबाधमतःपरमनुसन्धास्यामः धूमावगतवह्निप्रतिषेधे तावत्प्रत्यक्षपूर्वानुमानबाधः । धूमानुमितादेव बह्नेरुष्णत्वेऽनुमिते तद्विपरीतपक्षोऽनुमितानुमानेन बाध्यते । यत्र तु देवस्य त्वेति निर्वपति{३,५१}इति प्रतीतविनियोगान् मन्त्रशेषेऽनुमिते तद्विपरीतः पक्षो गृह्यते, तत्रागमानुमानबाधः । नित्ये तु कर्मणि प्रवृत्ते व्रीहीणामपचारे तत्सदृशेषु नीवारेषूपमितेषु व्रीहिभिर्यजेतेति चोदना नीवारविषयत्वेनानुमीयते । व्रीह्यवयवा हि तद्विषयतया ज्ञातसम्बन्धास्तामनुमापयन्ति । न हि तस्याः स्वरूपेण व्रीहयो विषयभूताः, तदवयवास्तु चूर्णीभूता व्रीहिशास्त्रार्थः । ते च नीवारेष्वपि सन्तीति व्रीह्यवयवसामान्योपमितनीवारगामिनी व्रीहिचोदनानुमीयते । तदिहातद्गोचरत्वपक्षस्योपमानपूर्वकानुमानबाधः । अर्थापत्तिपूर्वकानुमानबाधस्तु श्रावणत्वपक्षेऽभिहित एव । यत्र दूराद्वृक्षाभावं विदित्वा तच्छायाभावोऽनुमीयते तत्राभावपूर्वकानुमानेन छायासद्भावपक्षो बाध्यते । प्रत्यक्षशब्दबाधस्तु त्रिधा दर्शित एव । अन्योऽपि श्रुतिस्मृतिभ्यां दर्शयितव्यः । अष्टकादीनामधर्मत्वपक्षस्तु कर्तृसामान्यानुमितशब्दविरुद्धः स्मृत्यधिकरणे दर्शितः । शक्यं ह्यष्टकादयः शब्दमूलाः शास्त्रस्थार्यावर्तनिवासिकर्तृकत्वादग्निहोत्रादिवदित्यनुमातुम् । आगमिकशब्दबाधस्तु यत्र शाखान्तरगतश्रुतिविषयविवादे स्मृतिनिबन्धनकाराणां वचनेन श्रुतिसद्भावो निश्चीयते, तत्र ह्याप्तागमावगतनित्यागमविरोधो विपरीतपक्षस्य सम्भवति । उपमितशब्दविरोधस्तु मन्वादिस्मृतिभ्योऽर्थापत्त्या वैदिकं किमपि मूलमस्तीति कल्पिते स्मार्तवाक्यसदृश एव मूल उपमिते र्थवादमूलत्वपक्ष उपमितशब्देन बाध्यते । विश्वजिदफलत्वपक्षस्तु श्रुतार्थापत्तिसिद्धशब्दविरुद्धः । अभावेन तु शब्दभावोऽवगन्तुं न शक्यत इति शब्देयत्तावधारणे तस्य व्यापारः तत्राभावावधारितविधिकार्त्स्य्ने ज्योतिष्टामे प्राकृतेतिकर्तव्यताप्राप्तिपक्षो बाध्यते । यथा वक्ष्यति कृत्स्नविधानादपूर्वस्सोम इति । व्रीह्यभावे तु नीवाराणामग्राह्यतापक्षः प्रत्यक्षजोपमानविरुद्धः । अनुमानपूर्वकोपमानबाधस्तु यदा ह्यादित्यस्य देशान्तरप्राप्त्या गतिमनुमाय संवत्सरादिमध्यान्तेषु तस्यास्सादृश्यमुपमीयते । यादृश्येकत्र संवत्सरादौ तन्मध्ये वान्ते वा सूर्यगतिः तादृशी वत्सरान्तेष्विति तत्र गतिवैसादृश्यपक्षोऽनुमानपूर्वकोपमानेन बाध्यते । पूतीका न सोमसदृशा इति तु पक्षश्शब्दपूर्वकोपमानविरुद्धः । सामपूतीकयोर्हि सादृश्यं न प्रत्यक्षम् । न{३,५२}चानुमेयम् । शब्देनैव तु सोमांशुजातत्वं पूतीकानां प्रतिपादयता कार्यकारणयोरौचित्येन सारूप्यं प्रतिपादितमिति शब्दावगतकार्यकारणप्रभवत्वात्पूतीकानां सोमसादृश्योपमानस्य तद्विपर्ययः शब्दपूर्वकोपमानविरुद्धो भवति । ज्योतिष्टोमिका हि धर्मास्सत्राहीनेषु न भवन्तीति पक्ष उपमानोपमानेन बाध्यते । ज्योतिष्टोमोपमानेन हि ते द्वादशाहं गच्छन्ति द्वादशाहोपमानेन च सत्राहीनाविति । यदा त्वात्मेन्द्रियसादृश्यविशिष्टानि परेन्द्रियाण्युपमीयन्ते तत्र तन्निषेधोऽर्थापत्त्युपमानेन बाध्यते । वेदकारनास्तिता शशशृङ्गाद्यभावसदृशी न भवतीति पक्षोऽभावपूर्वकोपमानेन बाध्यते । द्वयोरप्यभावेनाभावेऽवगते सादृश्यमुपमीयते । अर्थापत्तिविरोधस्तु षड्विधो वर्णित एव । अभावविरोधं त्वनन्तरमेव वक्ष्यामः ॥ ६८ ॥ अभावविरोधमिदानीमुदाहरति शशशृङ्गादीति । अयं च प्रत्यक्षाभावविरोधः । यदा त्वमुं राशिं सूर्यो गतो न वेति चिन्त्यमाने गणितकुशलेन गणितानुमानाभावान्न गत इत्यवगते भ्रान्तो गत इति वदति । तत्रानुमानाभावविरोधः । चैत्यवन्दनादिधर्मत्वपक्षस्तु श्रुत्याद्यागमाभावविरुद्धः । पूर्ववन्तो दर्वीहोमा इति तूपमानाभावेन विरुध्यते, न हि तेषां केनचित्कर्मणा सादृश्यं कथञ्चिदवगम्यत इति । पलालकूटकुञ्जरयोस्तु सादृश्यास्तितापक्ष उपमानाभावेन विरुध्यते । तथा शब्दे श्रोत्रदेशमनागच्छति श्रोत्रे च शब्ददेशं ध्वन्यागमनमात्रेणैव शब्दश्रवणोपपत्तेर्योऽर्थापत्या शब्दश्शब्दान्तरमारभते ततः क्रमेणान्त्यः श्रोत्रेण गृह्यते इत्यन्यथानुपपत्त्या प्रतिजानाति तत्प्रतिज्ञा अर्थापत्त्यभावेन बाध्यते । अभावाभावस्त्वेवं दर्शयितव्यः यदा हि कर्त्रभावेन वेदानां दोषाभावो वगतो भवति तदा दोषवत्पक्षस्याभावाभावेन बाध इति ॥ ६९ ॥ एवं तावद्धर्मसम्बन्धबाधः षोढा प्रपञ्चितः । धर्मधर्म्युभयस्वरूपस्वविशेषबाधमतःपरं वक्ष्याम इति संक्षिप्य सुखग्रहणार्थं श्रोतृबुद्धिसमाधानार्थं{३,५३}च वृत्तवर्तिष्यमाणयोस्सङ्कीर्तनं करोति एवमिति सार्धेन । श्रुत्यर्थाक्षिप्तयोरिति । स्वरूपं तावत्सर्वत्र श्रुत्यर्थ एव । तद्विशेषोऽप्यर्थाक्षिप्तः । धर्मधर्मिणोर्हि स्वरूपं येन विशेषेण व्याप्तं तमाक्षिपति । तच्चानन्तरमेव वक्ष्यत इति । श्रुत्यर्थश्चाक्षिप्तश्चेति विग्रह इति ॥ ७० ॥ तत्र धर्मस्वरूपबाधो वर्णित एवेति तमकृत्वैव तद्विशेषणबाधमुदाहरति तृणादीति । यो हि तृणादिविकारदर्शनादग्निमद्धिमं साधयति तस्याभावेन तावद्धर्मस्वरूपबाधो भवत्येव । तद्विशेषणमप्युष्णत्वमर्थाक्षिप्तं प्रत्यक्षावगतेन शैत्येन बाध्यते । न च वाच्यमनुष्णोऽपि वह्निः प्रभासु दृष्ट इति कथमर्थाक्षिप्तो विशेष इति । प्रभास्वप्येवं वह्निरुष्ण एव, अभिभूतत्वात्तु स्पर्शो न गृह्यते, न पुनरुष्णतां जातु जहाति, स्वाभाविकी हि सा तस्य । न च हिमेऽप्यभिभूतत्वादग्रहणमिति वाच्यम् । तद्विपरीतशैत्योपल्म्भात् । हेतूपन्यासस्तु पक्षदोषाभिधानावसरे तद्बीजमात्रप्रदर्शनार्थं सोऽयमभावेन धर्मविशेषबाध इति ॥ ७१ ॥ धर्मिणस्तु द्विप्रकारोऽपि बाधोऽनुक्त एवेति उभयथा तद्बाधोदाहरणमाह अधर्म इति सार्धेन । हिंसा किलाधर्म इति सामान्यतोऽवगतम् । तद्यदा विहितोऽधर्मो दैक्षपशुहिंसादिर्यद्दुःखं करोतीत्यनूद्य तदल्पमिति साध्यते, तदापि विहितत्वेनाधर्मतैव बाध्यते तद्विशेषोऽपि दुःखनिमित्तत्वं यदर्थाक्षिप्तं तदपि तेनैव बाध्यते । न हि विहितं नाम किमपि दुःखस्य निदानं भवति । पुरुषार्थैकसाधनत्वाद्विधेः । सोऽयम्{३,५४}आगमेन धर्मिस्वरूपस्वविशेषबाधः । न चात्र श्रुत्युपात्त एव स्वविशेष इति चोदनीयम् । अर्थाक्षिप्तस्याल्पतया विधानार्थमनुवादादिति ॥ ७३ ॥ उभयस्योभयविरोधमुदाहरति अयथार्थेति । यदा हि सर्वज्ञानानि मिथ्येति साध्यते तदा धर्मधर्मिग्राहिणोरपि ज्ञानयोर्मिथ्यात्वात्तद्विशेषणग्राहिणोश्च मिथ्यात्वाद्भवत्युभयस्यैवोभयबाध इति । अयं च धर्मोक्त्योभयबाध इति शब्दबाध एव निवेशनीय इति समधिगतं तावदुभयोः स्वरूपबाध इति ॥ ७४ ॥ कौ पुनस्तद्विशेषावर्थाक्षिप्तौ बाध्येते । अत आह क्षणिकेति । बाध्येते इति विपरिणम्य सम्बन्धो दर्शयितव्य इति । तत्र चैकदेशदर्शनादित्युच्यते । तत्र च दर्शनग्रहणमतिरिच्यते । एकदेशादित्येव वक्तव्यम् । तद्धि लिङ्गं न पुनर्दर्शनमतो व्याख्येयमेकदेशदर्शनादित्यत आह दर्शनादिति । अयमर्थः । नैकदेशस्सत्तामात्रेण लिङ्गम् । किन् तु स्वप्रतिपत्तौ ज्ञातः परप्रतिपादने च ज्ञापितः । तदिदमुभयमुपादातुं दर्शनग्रहणम् । शक्नोति चोभयमुपादातुम्, णिज्भावाभावयोरपि निर्देशसाधारण्यात् । स्वप्रतिपत्तौ तावदेकदेशे दृष्टे बुद्धिरनुमानमित्यर्थः । परार्थप्रयोगे तु णिजन्तदर्शनपदमेकदेशं दर्शयित्वा या बुद्धिर्जायते सानुमानमित्युक्तं भवति । तदिदं तत्रोच्चरितदर्शनपदमर्थद्वये व्याख्येयम् । अनेन च यत्रैकदेशे वादिप्रतिवादिनोरकस्योभयोर्वा संशयोऽधीर्विपर्ययो वा भवति सोऽसिद्धाभिधानो हेत्वाभासो व्युदस्यते । न ह्यसौ तादृशः परस्मै दर्शयितुं शक्यते ।{३,५५}स्वयं वा दृष्टो भवति । अधीरज्ञानमित्यर्थः । तत्र द्वयविपर्यस्तोदाहरणमाह शैत्यादिति । वह्निशब्दयोर्द्वयोरपि शैत्यचाक्षुषत्वे वादिप्रतिवादिनोर्विपर्यादसिद्ध इति ॥ ७५ ७६ ॥ अन्यतरासिद्धोदाहरणमाह कृतकत्वेति । यदा वैशेषिको याज्ञिकं प्रति शब्दोऽनित्यः कृतकत्वात्गुणत्वाद्वेति हेतुं प्रयुङ्क्ते, तदासौ स्वरूपेण तस्यासिद्धो भवति । यदा तु स्वयमेवंप्रकारं हेतुं परं प्रति वदति तदा तस्यासिद्धिः । यथा नित्यः शब्दः द्रव्यत्वादाकाशवदिति । न हि वैशेषिकाश्शब्दं द्रव्यमभ्युपगच्छन्ति गुणत्वाभ्युपगमात् । एवंप्रकार इति । परासिद्धप्रकार इत्यर्थः ॥ ७७ ॥ सन्दिग्धासिद्धमुदाहरति बाष्पादीति स्यादन्तेन । यदा हि धूमो बाष्पादिभावेन सन्दिह्यते द्वाभ्यामेकेन वा किंस्विदयं रजसामुद्गमो बाष्पो वा धूमो वेति तदा द्वयोरप्यन्यतरस वा सन्दिग्धासिद्धो भवति । एवं तावत्सन्देहविपर्ययाभ्यामसिद्धतोदाहृता । अज्ञानेन त्वप्रसिद्धार्थपदप्रयोगे दर्शयितव्या । त्रिधेति । वादिप्रतिवाद्युभयैस्त्रयः प्रकारा इति । एवं तावत्स्वरूपतो हेतुरसिद्धो भवतीत्युक्तमित्याह एवमिति ॥ ७८ ॥ आश्रयासिद्धताप्येतैरेव ज्ञानादिभिर्वादिप्रतिवाद्युभयापेक्षैस्त्रिधा भिद्यत इत्याह एत एवेति ॥ ७९ ॥ ननु स्वरूपासिद्ध्या हेतुर्दुष्येताश्रयासिद्ध्या तु कस्तस्य दोषः अत आह ज्ञातेऽपीति । अयमभिप्रायः न स्वरूपेण हेतुर्गमकः, अपि तु{३,५६}पक्षधर्मतया ज्ञातः । न चाप्रसिद्धाश्रयस्तद्धर्मतया ज्ञातुं शक्यते । शैत्यचाक्षुषत्वयोरपि पक्षधर्मत्वासिद्ध्यैवाहेतुत्वम् । सिद्धं हि स्वरूपेण जले शैत्यं रूपरूपिरूपैकार्थसमवायिषु च चाक्षुषत्वम् । शब्दा(दौ) हि पक्षधर्मतया तु तयोरसिद्धत्वमिति तद्धर्मरूपाभिप्रायेण स्वरूपासिद्धवचनम् । अत आश्रयासिद्धावपि पक्षधर्मत्वासिद्धेरहेतुत्वं युक्तमेवेति ॥ ७९ ॥ तामिदानीमाश्रयासिद्धिमुदाहरति सर्वत्रेति असिद्धान्तेन । यदा हि बौद्धं प्रति सर्वत्र कार्योपलम्भादात्मनस्सर्वगतत्वं मीमांसकास्साधयन्ति, तदान्यतरासिद्धाश्रयो हेतुर्भवति । बौद्धस्यात्मनोऽसिद्धेरिति । यस्तु प्रमाणगतिमजानानो लौकिकः कश्चिदात्मनि संशेते, तस्मिन्नेव हेतावुच्यमाने सन्दिग्धाश्रयो हेतुरित्याह लौकिकादेरिति । आत्मनि संशय इत्यर्थः । आदिशब्देन सतीर्थिकानामपि येषामात्मनि संशयः त उपाद्रियन्ते । एवं संशयविपर्ययाभ्यामाश्रयासिद्धिरुक्ता । अज्ञानेनाप्याश्रयासिद्धिरप्रसिद्धपदप्रयोगे दर्शयितव्या । यस्य हि पक्षवचनश्शब्दो न प्रसिद्धस्तं प्रत्येवंजातीयके हेतावुच्यमानेऽज्ञानेनाश्रयासिद्धिर् इति ॥ ८० ॥ ननु यद्यन्यतरासिद्ध्या हेतुर्दुष्यति, एवं तर्ह्यमूर्तत्वादात्मा निष्क्रिय इत्येवमादेरपि हेतुत्वं न स्यात्दिगम्बराणामात्मनोऽमूर्तत्वासिद्धेः । मूर्तं हि ते शरीरपरिणाममात्मानं मन्यन्ते । अकर्तृकत्वान्नित्यो वेद इति च बौद्धानां तदसिद्धेरहेतुः । शब्दोऽनित्यः कृतकत्वादिति मीमांसकानामसिद्धेः । तदेव हेतुर्नाम न कश्चित्व्यवतिष्ठते । अत आह वाङ्मात्रेति । अयमर्थः नासिद्धो ममेति वाङ्मात्राद्धेतुरसिद्धो भवति । तथा सति न कश्चिदनुमानव्यवहारः प्रकल्पेत । द्वाभ्यां तु वादिप्रतिवादिभ्यामसत्त्वेनावधारितो{३,५७}सिद्धोभवति, तस्यैव तथाविधस्यासिद्धतावचनं वादिनो दूषणं भवति नासिद्ध इति वाक्प्रवृत्तिमात्रादिति ॥ ८१ ॥ ननु किमिदं द्वयोरसिद्धोऽसिद्ध इति, न हि विवदमानयोरेकत्रार्थे सम्प्रतिपत्तिर्भवति, न हि जन्मसहस्रेणापि बौद्धो वेदानामकर्तृकत्वं मन्यते, मीमांसको वापि कण्ठगतप्राणोऽपि कृतकतां शब्दस्य । तदेवमादावुभयसम्प्रतिपतेरभावान्न हेतुभावोऽवतिष्ठते । अत आह इतरदिति, अयमभिप्रायः न द्वयोरसंप्रतिपत्तिरित्येतावतैव साधनदूषणयोरनवकॢप्तिः । यदि वादिना प्रयुक्ते साधने प्रतिवादिना चासिद्धत्व उद्भाविते वादिना तत्साधनं साध्यते, ततो भवति साधनम् । यदि तु परमार्थोपपत्त्यभिधानेन प्रतिवादिना निराक्रियते ततस्तस्य दूषणं सिध्यति । तत्प्रमाणतस्सिद्धिरेवात्रोपयुज्यते नोभयाभ्युपगमः । द्वाभ्यां योऽसत्त्वतो ज्ञात इत्यपि प्रमाणसिद्ध्यभिप्रायेणोक्तम्, नाभ्युपगममात्रापेक्षया । यद्धि प्रमाणेन साध्यते बाध्यते वा तत्र प्रायेणोभयसम्प्रतिपत्तिर्दृष्टेति । असत्त्वतो ज्ञातापेक्षयेतरच्छब्दः । यद्वादिना सत्त्वेन ज्ञातं भवति प्रतिवादिना च वैपरीत्येन, तद्वादिना साध्यमानं साधनं भवति । एतच्च जल्पन्याये स्थित्वोक्तम् । वादे तु द्वयोरपि सम्प्रतिपत्तिर्भवत्येवेति । न चैवमन्यतरासिद्धिरदूषणम्, यावत्तु यादी न साधनं साधयति, तावदन्यतरासिद्ध्या निगृह्यते, साधिते तु तस्मिन् दूषणं परिहृतं भवतीति ॥ ८२ ॥ दर्शितं तावदसन्निकृष्टैकदेशशब्दयोर्व्यावर्त्यं, ज्ञातसम्बन्धपदस्येदानीं व्यावर्त्य दर्शयति सन्देहेति वचनान्तेन । सन्देहविपरीतहेत्वोर्हि न संबन्धो ज्ञातो भवति, न हि साधारणस्संशयहेतुः प्रमेयत्वं नित्यत्वेन ज्ञातसम्बन्धमिति शक्यते वक्तुम्, धटादिष्वनित्यतयापि ज्ञातसम्बन्धत्वात्नापि कृतकत्वं नित्यतया, तेष्वेवानित्यतया सम्बन्धसंवित्तेः । अतस्तज्जातीयमुभयं न ज्ञातसंबन्धमिति ज्ञातसंबन्धपदेन व्युदस्यति । अत्र चासन्निकृष्टपदात्प्रभुति प्रातिलोम्येन वार्तिककृता लक्षणग्रन्थे विशेषणोपादानफलमुक्तमु,{३,५८} तत्कस्य हेतोः । प्रतीतिक्रमानुसारेण । प्रभाता हि प्रथमं पक्षं प्रत्येति, ततो हेतुमपेक्षते, ततो दृष्टान्तवचनम्, अतोऽसत्पक्षनिराकरणार्थं प्रयुक्तमसन्निकृष्टपदमेव तावदुपवर्णितम् । ततो हेतुपदमेकदेशदर्शनादिति, ततो ज्ञातसम्बन्धस्येति दृष्टान्तवचनम् । दृष्टान्ते हि हेतोस्सम्बन्धो ज्ञायते । अत एव दृष्टान्तदोषा अपि साध्यहेतुविकलत्वादयोऽनेन निराक्रियन्ते । तद्वैकल्येऽपि स्वयं सम्बन्धो ज्ञातुं परस्मै प्रतिपादयितुं शक्यत इति । कियन्तः पुनस्संशयहेतवः, अत आह त्रय इति ॥ ८३ ॥ तानेव त्रीन् प्रकारान् दर्शयति सन्निति । साध्यतदभावयोस्सन् साधारणोऽभिधीयते । यथा प्रमेयत्वं नित्यानित्यत्वयोः । द्वाभ्यां साध्यतदभावाभ्यां व्यावृत्तोऽसाधारणः क्षितेरेव गन्धवत्त्वम् । व्यावृत्तं हि तत्सकलसजातीयविजातीयद्रव्यान्तरगुणकर्मभ्यः । द्वौ विरुद्धार्थसम्बन्धाविति । यौ विरुद्धाव्यभिचारीति परैरभिहितौ, तौ चानन्तरमेवोदाहार्याविति नेह व्याख्यायेते इति ॥ ८४ ॥ तत्र साधारणं तावदुदाहरणैः प्रपञ्चयति प्रमेयेति । एते च धर्मास्साध्यतदभावयोस्साधारणा इत्यर्थः ॥ ८५ ॥ केषु पुनस्साध्येषु तेषां साधारण्यमत आह नित्येति नित्येष्वन्तेन । कथं पुनर्वैषम्ये यथासङ्ख्यमत आह द्विरनित्यतेति । अनित्यता स्वस्थाने द्विः पठितव्या । अतो यथासङ्ख्योपपत्तिः । तदयमर्थः यदा नित्यश्शब्दः प्रमेयत्वादिति प्रयुज्यते तदा प्रमेयत्वं साध्यतदभावयोर्दृष्टमिति साधारणत्वान्नैकान्ताय प्रभवति । अतो नैकान्तिकमित्युच्यते । अत एव च संशयहेतुः । संशयो हि सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च भवति । यथा स्थाणुपुरुषयोरारोहपरिणाहसामान्यदर्शनाद्{३,५९}भेदकधर्मानवधारणाश्च विशेषस्मृत्यपेक्षः किंस्विदयं स्थाणुराहोस्वित्पुरुष इत्यनवधारणज्ञानात्मकस्संशयो जायते । एवं प्रमेयत्वमपि नित्यानित्ययोस्सामान्यं विदितवतस्तद्विशेषणस्मरणापेक्षस्तयोरेवानिर्धारणात्मकः प्रत्ययस्संशयापरनामा जायत इति प्रमेयत्वं संशयहेतुः । अयं च कृत्स्नोभयव्यापीसंशयहेतुः । तथायत्नोत्थश्शब्दः अनित्यत्वादित्ययमपि साधारण एव । अयत्नोत्थेषु केषुचिद्विद्युदादिषु गतत्वाद्यत्नोत्थेषु च सर्वेषु घटादिषु वृत्तेः । तदयं सकलविपक्षव्यापी सपक्षैकदेशगत इति वेदितव्यम् । तथा यत्नोत्थश्शब्दः अनित्यत्वादिति, यत्नोत्थेषु सर्वेष्वेवानित्यता दृष्टा । तदभावेऽपि क्वचिन्मेघादौ दृष्टा, न व्योमादौ इति, सकलसपक्षव्यापी विपक्षैकदेशवर्ती चायं साधारण इत्यवसातव्यम् । उभयैकदेशगतस्तु यथा नित्यश्शब्दः अमूर्तत्वादिति । अमूर्तता हि न सर्वनित्यव्यापिनी व्योमादिषु भावादणुषु चाभावादनित्यमपि न सर्वं व्याप्नोति घटकुड्यादिष्वभावात्कर्मादिषु भावात् । सर्वत्र चात्र द्वयवृत्तित्वमेव हेतोस्संशये कारणमवृत्त्यंशस्तु सन्नपि न कारणमित्यतन्त्रम् । अत एव साधारणस्य चतुर्धा विभागं वदन्ति ये तेषामसावनुपयोग्येव साधनदूषणयोरित्युपेक्षणीयम्, न हि साधनवचनकाले तथाविधं हेतुं परित्यजतो वादिनस्सपक्षविपक्षयोरवृत्त्यंशः क्वचिदुपयुज्यते । अण्वापि हि मात्रया विपक्षे वर्तमानो हेतुरत्याज्य एव । दूषणवादिनोऽपि विपक्षवृत्तिमात्रं वचनीयमिति किं तदवान्तरविशेषाश्रयणेन । वार्त्तिककारेणापि सर्वसाधारणेषु द्वयवृत्तित्वमेव संशयकारणमिति दर्शयितुमुदाहरणप्रपञ्चो दर्शितः, न पुनश्चातुर्विध्यमभिप्रेत्य । यथाह न त्वेकस्योपयोगोऽस्ति दूषणोद्भावनं प्रति । त्यज्यते साधने चैवं साधारण्याद्विशेषतः ॥ इति ॥ ८५ ॥ प्रपञ्चितस्साधारणः, असाधारणमिदानीं संशयहेतुमुदाहरति नित्या भूरिति । गन्धो हि पृथिव्याः स्वासाधारणो गुणः, न तां विहाय नित्यमनित्यं वा भावान्तरमाश्रयतीत्यसाधारण इति गीयते ।{३,६०} आह अस्त्वसाधारणं गन्धवत्त्वं, कथं तु संशयहेतुः, युक्तं हि पक्षद्वयावलम्बी साधारणो द्वयोरनवस्थाधियमादधानो यत्संशयहेतुरिति, असाधारणस्तु द्वाभ्यां व्यावृत्तो नैकत्रापि धियमुपजनयितुमलमिति कथमस्य संशयहेतुभावः, अत आह निश्चयेति । हेतोर्हि निश्चयजननेऽन्ययव्यतिरेकावङ्गमन्यतरापीयेऽपि न निश्चयाय हेतुः पर्याप्तो भवति । तद्यथा साधारणो ऽन्वयसनाथोऽपि विनाकृतो व्यतिरेकेण न निश्चयाय प्रभवति, एवमेवासाधरणोऽपि निश्चयस्यैकेनान्वयनाम्नाङ्गेन विकलस्तमकुर्वन् संशयहेतुतां प्रतिपद्यत इति ॥ ८६ ॥ ननूक्तं साधारणो द्वयगामी द्वये बुद्धिं जनयन् संशयए हेतुरिति । असाधारणस्तु न किञ्चिद्ज्ञापयतीति नासावेकाङ्गविकलतामात्रेण संशयहेतुरिति युक्तमत आह साधारण इति द्वयेन । अयमभिप्रायः साधारणोऽपि नोभयत्र बुद्धिजननात्संशयहेतुः, किन् तु विरुद्धोभयप्रतिपादनमुखेन, विरुद्धे ह्युभयस्मिन् प्रतिपादिते तयोरेकत्र समवायासम्भवाद्व्याघातादेव संशयो भवति । तच्चासाधारणेऽप्यविशिष्टम्, असाधारणोऽपि ह्युभयस्माद्व्यावृत्तेस्तदभावं गमयन् द्वयाभावासम्भवादेव संशयं जनयति । न हि सम्भवति नित्यमनित्यं च वस्तु न भवतीति, धर्मद्वन्द्वैरेव हि नित्यानित्यत्वादिभिस्सर्वं जगदवस्थितम् । अत उभयाभावो विरुध्यते । न चोभयभावः, विरोधादेव । नचान्यतरपरिग्रहोऽविशेषात् । तमिमं सङ्कटमासाद्य प्रामाणिकस्संशेते । अयं चात्रावयवार्थः यथा प्रमेयत्वादिस्साधारणो दृष्टस्सन् बुद्धिद्वयनिमित्तकः । बुद्धिद्वयं संशये निमित्तमस्थास्तीति बहुव्रीहिः, निमित्तशब्देन च बुद्धिद्वयस्य निमित्तमात्रतां कथयति । साध्यतदभावविषयं हि बुद्धिद्वयं निमित्तीकृत्य विरुद्धैकानवाप्तेरेव साधारणेन संशयो जन्यते । न हि परस्परविरुद्धाभ्यां नित्यानित्यत्वाभ्यामेकश्शब्दो व्याध्यते, धर्मिभेदनिबन्धनौ{३,६१}हि विरुद्धधर्माध्यासो दृष्टः । यथा नित्यं व्योम अनित्यं कार्यद्रव्यम् इति । अतोऽस्मात्प्रतीति???आतादेव साधारणेन संशयो जन्यते । स चायमसाधारणस्यापि समानः । सोऽपि हि यत्र नित्येऽनित्ये वा नास्ति तदभावं प्रतिपाद्य तन्मुखेन द्वयसत्त्वविरोधमापादयन् संशयकारणं भवतीति । इदं चासाधारणस्य संशयहेतुत्वं नानुमन्यन्ते । अव्यवस्थया ह्युभयस्मिन्मनसि विपरिवर्तमाने संशयो भवति । न चासाधारणेन किञ्चिद्बुद्धावाधीयते, तस्य केनचिदन्वयाभावात् । अपि च परिमितेष्वेव भावेषु संशयो दृष्टः । निवृत्तिमुखेन तु संशयजनने सर्वतो निवृत्तेनासाधारणेन सर्वतोमुखस्संशयो जन्येत । न च सर्वविषयः संशयो दृष्टचरः । तस्य बुद्धाव् अनारोहात् । न च क्वचिन्निवृत्तिमात्रेण सर्वत्राभावश्शक्यतेऽवगन्तुम्, यन्मुखेन संशयो भवेत् । न ह्यनुवृत्तावदृष्टायां व्यावृत्तिस्सिध्यति । अग्नावनुवर्तमानो हि धूमो दृष्टव्यतिरेकोऽग्निनियतस्वभावत्वेनावगतोऽर्थाददृश्यमानेभ्योऽनग्निभ्यो व्यतिरिच्यत इत्यवगम्यते । यस्तु न केनचिदन्वितस्तस्य कथमनुपलब्धियोग्यात्सर्वतो व्यतिरेकः प्रतीयेत । ततो नानेन प्रकारेणासाधारणस्य संशयहेतुत्वम् । यदि त्वसाधारणधर्माणो भावा नित्यानित्यभावभाजो दृष्टा इति क्षितिमपि तद्धर्मिकामुपलभ्य नित्या वा स्यादनित्या वेति संशयो भवतीत्युच्यते । एवं तर्ह्यसाधारणधर्मत्वादेव बहुसाधारणात्संशयो नासाधारणात्, अन्यो ह्यसाधरणधर्मः अन्यथा च बहुसाधारणी तद्वत्ता । तद्यद्यसौ संशयकारणं जाता किं जातमसाधारणस्य । हन्तैवं साधारण एव संशयहेतुरभ्युपगतो भवतीति सिद्धम् । नासाधारणस्य संशयहेतुत्वम् । अन्यन्मतम् अनध्यवसायहेतुरेवायमिति । अस्ति किलानध्यवसायो नाम ज्ञानस्य प्रकारः । सोऽनेन जन्यते । भवति हि तादृग्धर्मदृशः किम्भूतस्यास्य धर्मोऽयमित्यनध्यवसितावभासप्रत्ययः । न चैव प्रमाणम्, अनिश्चयात्मकत्वात् । न च संशयः पक्षद्वयासंस्पर्शात् । सोऽयमेवंविधानध्यवसायोऽसाधारणेन जन्यत इति । न त्वेतद्घटते । न ह्यनध्यवसायो नाम कश्चिद्ज्ञानस्य प्रकारः, यमयं जनयेत् । अध्यवसायाभावोऽनध्यवसायः । स च प्रागभावरूपत्वान्न जन्यः । अथान्यमात्रवचनो नञग्राह्यणादिवदिष्यते ततोऽध्यवसायादन्यस्संशय{३,६२}एव तच्छब्दवाच्यो भवेत् । न च तद्धेतुरसाधारण इति फणितमेव । अथाधर्मादिवद्विपरीतवचनो नञ्, एवं सति विपर्ययवाच्योऽनध्यवसायशब्दो भवेत्, न च विपरीतावग्रहोऽसाधारणेन जन्यत इति । यदि तु न मेऽस्मिन् वस्तुन्यध्यवसायोऽस्तीत्यध्यवसायाभावावधारणमेवानध्यवसायः, स तर्हि प्रमाणाभावेनैवाध्यवसायाभावोऽवगम्यते । तत्र हेतोर्न व्यापारः । अतो जिज्ञासामात्रहेतुरसाधारण इति समर्थनीयम् । भवति हि तद्दर्शिनः कीदृग्धर्मोऽयमितो धर्माद्भावो भवेदिति जिज्ञासा । यद्यपि चासौशुद्धधर्मिदर्शनादपि कदाचिद्भवत्येव तथापि धर्मद्वारेणापि तावद्भवत्येवेति न तद्धेतुत्वमनुपपन्नम् । आह च तेनाज्ञानमसिद्धेभ्यो जिज्ञासानन्यगामिनः । सामान्यात्संशयो युक्तस्तथा स प्रतिसाधनात् ॥ इति । यत्त्विहासाधारणस्य संशयहेतुत्वमुक्तं तत्परमतम् । ज्ञातसम्बन्धपदस्य हि व्यावर्तनीयमत्र दर्शयितुमभिप्रेतम्, तत्संशयहेतुत्वेऽप्यसाधारणस्य घटत एव । भवतु तावदयं यस्य कस्यचिद्धेतुः । सर्वथा ज्ञातसम्बन्धपदेन व्युदस्यत इति तात्पर्यम् । शाक्यास्तु संशयहेतुमसाधारणं मन्यन्ते, उदाहरन्ति च शब्दानित्यत्वे साध्ये श्रावणत्वम् । यथोक्तम् अनैकान्तिकमेवैनं शाक्याः प्रायेण मन्वते । उभयस्मान्निवृत्तत्वादुभयत्रानुवृत्तिवत् ॥ इति । इदं च वार्त्तिककृतैव प्रदेशान्तरे स्वयमुपन्यस्य यथोक्तदूषणैर्दूषितमेवेति ॥ ८८ ॥ किं पुनरुदाहृतानां स्वाभाविकमेव संशयहेतुत्वं नेत्याह सन्दिग्धेति ॥ ८९ ॥ कारणमाह निर्णयस्येति लब्ध्वान्तेन । क्व द्र्ष्टमत आह निष्क्रियेति । अमूर्तता हि नित्यत्वे साध्ये नित्यानित्यव्योमकर्मसाधारणी संशयहेतुरासीत्, सैव तु निष्क्रियत्वे साध्ये लब्ध्वान्वयव्यतिरेकौ हेतुतां{३,६३}प्रतिपद्यते । व्याप्तं ह्यमूर्तत्वं निष्क्रियत्वेन । न ह्यमूर्तं गगनमात्मा वा परिस्पन्दते । न चैवं तद्वतां रथादीनाममूर्तत्वं दृष्टमिति ॥ ९० ॥ असाधारणस्य निर्णये हेतुत्वं दर्शयति क्षित्येकदेशेति । गन्धविशेषदर्शिनो हि विदितव्याप्तेः क्षित्येकदेशसिद्धत्वे भवत्यानुमानिको निर्णय इति ॥ ९० ॥ द्वौ विरुद्धार्थसम्बन्धावेकत्रैकदेशिनि संशये हेतुरित्युक्तम् । तत्रोदाहरणमाह यत्रेति । यत्र हि न साक्षात्कारिज्ञानविषयो वायुः अरूपत्वादित्येकस्साधयति । अपरोऽपि स्पर्शात्तद्विपर्ययम् । तत्रासौ विरुद्धाव्यभिचारिता भवतीति शाक्यैरभिहितम् । तत्र तुल्यबलोभयहेतुसन्निपातात्संशयः । द्वयोरपि साधनयोः प्रसिद्धावयवत्वाविशेषात् । अरूपं ह्यरूपिसमवेतमप्रत्यक्षमिति काणादा मन्यन्ते । तथा च वायुः । अतो न प्रत्यक्षः । कर्मस्वरूपमपि रूपैकार्थसमवायाच्चाक्षुषमाचक्षते । एवं स्पर्शोऽपि वायोः प्रसिद्ध एव । प्रसिद्धव्याप्तिकश्चापरोक्षत्वेन । अतस्तुल्यबलत्वम् । ततश्च संशयः, विरुद्धयोरेकत्रोपानपातासम्भवात्, समुच्चयानुपपत्तेः, सिद्धे च वस्तुनि विकल्पासम्भवात्बाध्यबाधकमावस्यापि तुल्यकक्ष्यत्वात् । अतोऽनवस्थयोभयस्मिन् परिप्लवमाने भवति संशयः । तादात्म्यात् । तस्य बलाबलविशेषे त्वनुमानविरोधो वर्णित एव । यथा सर्वज्ञोऽस्तीति बुद्धवचनं सम्यक्तदुक्तत्वाद्क्षणभङ्गादिवाक्यवदित्येकेनोक्तेऽपरः प्रब्रवीति बुद्धोऽसर्वज्ञ इति मद्वचनं सम्यक्मदुक्तत्वात्यथा ज्योतिरुष्ण?आपो द्रवा इति । अत्र मदुक्तत्वमुभयोरपि सिद्धम् । बुद्धोक्तता तु न नः प्रसिद्धा, अतोऽप्रसिद्धाङ्गकत्वात्पूर्वं साधनं बलवता प्रसिद्धाङ्गकेन बाध्यते । यत्तु विरुद्धाव्यभिचारीति द्वयोरेकवचनान्तमभिधानं त???????न्यामहे । विरुद्धाव्यभिचारी संशये हेतुरिति शाक्या वदन्ति । न??कस्य संशयहेतुत्वमन्यतरपरिच्छेदात् । न च समुदायाभिप्रायमेकवचनम् । तस्य विरुद्धत्वाव्यभिचारिपदानास्पदत्वात् । स ह्यंशाभ्यां व्यभिचार्येव । द्वौ तु विरुद्धाव्यभिचारिणाविति वक्तव्यम् । न त्वेकवचनेन । यदि प्रतिहेतु{३,६४}विरुद्धमर्थमेकैको न व्यभिचरतीति विरुद्धाव्यभिचारीत्युच्यते । तदस्तु । न त्वेकः संशये हेतुरित्युक्तम् । अत एव वार्तिककारेण द्वौ विरुद्धार्थसम्बन्धौ संशयहेतू इति द्विवचनान्तेनैव नाम्नां संशयहेतुभावो दर्शितः । इहापि विरुद्धाव्यभिचारितेत्येतावदेवोक्तम् । न तु विरुद्धाव्यभिचारी संशयहेतुरिति । तदत्र योग्यतयानयोर्विरुद्धाव्यभिचारितेति व्याख्येयम् । द्वौ विरुद्धाव्यभिचारिणाविति यावदिति ॥ ९१ ॥ इमां च विरुद्धाव्यभिचारितां संशयहेतुं साधारणासाधारणाभ्यां जात्यन्तरमेके वर्णयन्ति । अपरे पुनस्समुदायस्यांशाभ्यां साधारणपक्षनिक्षेपम् । अन्ये तु समस्तमिदं मिलितमुभयं नैकत्राप्यनुगतमित्यनन्वयमसाधारणमेवास्थिषत इत्याह केचिदिति । अत्र च प्रदेशान्तरे वार्तिककृता साधारण्य एवास्था दर्शिता । यदाह साधारण्यान्न नैतस्य भेदः कश्चन विद्यते । अंशाभ्यां समुदायो हि साधारणपदे स्थितः ॥ इति । न च वाच्यं द्वयस्यानन्वयादसाधारण एवायमिति । यदि ह्येकेन द्वयं प्रयुज्येत ततो भवेदप्येवं, प्रत्येकमन्वितौ दृष्टौ द्वाभ्यां प्रयुक्तौ नानन्विताविति शक्यते वक्तुम् । अपि चासाधारणत्वे संशयहेतुभावो नोपपद्येतं । तस्य निराकृतपूर्वत्वात् । अतस्साधारण एवायमिति । वयं तु जात्यन्तरमेव साधीयो मन्यामहे । यथा हि न द्वयमेकेन प्रयुक्तमिति नासाधारणत्वम् । एवं साधारणत्वमपि न स्यादेव । किं खल्वत्र साधारणम् । एकैकस्यैकैकेन व्याप्तस्यैकैकेन प्रयोगात्, अंशतस्साधारणस्य च समुदायस्याप्रयोगात् । अत एव चात्र साधारणाद्भेदेन प्रतिहेतु विरुद्धयोस्संशयहेतुत्वमुक्तम् । इतरथा तेनैव गतत्वान्न पृथगुपादीयेत । संशयजननप्रकारोऽपि चात्र भिद्यत एव । साधारणो ह्युभयदृष्टस्तु प्रतीतिमादधानस्संशयहेतुरिमौ त्वेकैकश्येनोभयमुपस्थापयन्तौ संशयहेतू इति वार्तिककारेणापि साधारणपदे स्थित इत्युक्तम्, न साधारण एवेति ॥ ९२ ॥ {३,६५} कथं पुनरेवंजातीयके विषये निर्णयः, अत आह प्रतिज्ञेति निर्णयान्तेन । पक्षबाधोक्तैः प्रत्यक्षादिभिः प्रमाणैर्यस्य साधनवाक्यावयवप्रतिज्ञा बाध्यते तत्पराजयेनेतरस्य निर्णयः कार्यः । यथेहैव तावतुदाहरणे त्वगिन्द्रियव्यापारेण वायावपरोक्षमनुभूयमाने तेनैवानुभवेन परोक्षतापक्षो बाध्यते । न हि नस्त्वगिन्द्रियभुवस्तोयप्रत्यक्षाद्वायुप्रत्यक्षं विशिष्यते । न हीहानधिष्ठानं स्पर्शमात्रमनुभूयते । अपि तु तदधिकरणं द्रव्यमपि । न हि प्रबलेन मरुताभिहन्यमानस्य जलं वा श्लिष्यतस्संविद्विशिष्यते । अतोऽक्षसम्बन्धफलानुसारात्प्रत्यक्षो वायुरिति निश्चीयते । क्वचिच्चागमेन विषयापहारो भवति । यथा शुचि नरशिरःकपालं, प्राण्यङ्गत्वात्, शङ्खशुक्तिशकलवदिति पाशुपतेनोक्तेऽन्योऽशुचीति साधयति, प्राण्युद्भूतत्वादुच्चारादिवदिति । तत्र पूर्वप्रतिज्ञाया आगमेन विषयापहारादुत्तरेणार्थनिर्णयो भवति । शुचीतरविवेके ह्यागम एव शरणम् । तस्मिन् परिपन्थिनि न शुचित्वानुमानमात्मानं लभते । स्मरन्ति हि नारं स्पृष्ट्वास्थि सस्नेहं सवासा जलमाविशेत् । इति । रुद्रो हि महाव्रतं चचार स एतच्छवशीर्षमुपदधारेति त्वर्थवादमात्रं न शवशिरोधारणविधिः । अत्र च प्रत्यक्षादीन्येव यथास्वमर्थं साधयन्तीति साधनपदेनोच्यन्त इति । कथं पुनः प्रत्यक्षादीन्येव प्रतिज्ञाबाधनायोत्सहन्ते । तेष्वपि सामान्यतो दर्शनेन बाधस्य शङ्क्यमानत्वादत आह बाधवर्जनादिति । न तावत्तेषु बाधो दृश्यते, कदाचिद्बाधसम्भावना तु न तेषां प्रामाण्यमुत्सारयतीति ॥ ९३ ॥ अत्र भिक्षुणा पक्षधर्मस्तदंशेन व्याप्तो हेतुरित्येकवचनेन विवक्षितैकसङ्ख्य एक एव हेतुरिति दर्शितम् । अत एव विरुद्धाव्यभिचारिणोर्न हेतुत्वमनेकत्वात्तयोरिति । न चैतत्घटते । न हि प्रतिहेतु{३,६६}विरुद्धयोरनेकत्वं संशयहेतुत्वे हेतुः, अपि तर्हि परस्परविरुद्धार्थोपप्लावकत्वमेव । विरुद्धौ हि द्वाभ्यां द्वावर्थावेकत्रोपप्लाविताविति तत्र संशेरते, न तु हेत्वनेकत्वात् । संशयहेत्वोरपि प्रत्येकमवगतयोरुभयसमावेशादेव क्वचिन्निर्णयो दृष्टः । यथा ऊर्ध्वताकाकवत्त्वयोः । केवला ह्यूर्ध्वता स्थाणुपुरुषसाधारणी नान्यतरनिर्णयाय प्रभवति । काकनिलयनसहकृता तु सैव स्थाणुरयमिति निश्चाययति । तदत्रैकस्यैव संशयहेतुत्वं द्वाभ्यामेव तु निर्णय इत्यप्रयोजकं संशयहेतुत्वे द्वित्वं, विरुद्धानेकसाध्यत्वमेव संशयहेतुः । यथा खल्वेक एव साधारणस्सपक्षविपक्षयोर्वर्तमानस्संशयहेतुर्भवति । एवं विरुद्धार्थस्यापि हेतुद्वयस्यांशाभ्यामुभयवृत्तिरेव संशये कारणमिति न तद्द्वित्वेन हेतुत्वनिराकरणं युक्तमित्याह क्वचिदिति । ननु युक्तं तावदूर्ध्वतया स्थाणुपुरुषसन्देहो भवतीति, काकवत्तामात्रेण न संशयो दृष्टपूर्वः । सत्यम् । यस्तु काकवत्तामात्रेण स्थाणुं सिषाधयिषति तस्यासौ केवला संशयहेतुः, ऊर्ध्वतासनाथा तु निर्णायिकेत्येतावदेव विवक्षितम् इत्यदोष इति । अपि च अविरोधिनोः प्रत्येकं संहतयोरपि क्वचिदर्थे साध्ये हेतुभावो दृश्यते । यथैकस्मिन्नेव शाब्दस्य ज्ञानस्यानुमानत्वे न्वयव्यतिरेकजत्वप्रत्यक्षान्यप्रमाणत्वयोः, शक्यते हि ताभ्यामैकैकश्येन समस्ताभ्यां चानुमानत्वं साधयितुम् । द्वित्वे च हेत्वाभासत्वकारणे नैकस्मिन् साध्येऽनेकहेतवः प्रयुज्येरन् । प्रयोक्तारस्त्वेकमेव साध्यं किञ्चान्यदितश्चेति नानासाधनैस्साधयन्तो दृश्यन्ते । तस्माद्विरोधनिबन्धन एव संशयः, न तु नानात्वनिबन्धन इत्यभिप्रायेणाह प्रत्येकमिति । पूर्वं तु प्रत्येकं संशयहेत्वोरेव मिलितयोर्निर्णयहेतुत्वमुक्तम् । अत्र तु प्रत्येकं गमकावपि संहतौ च गमकाविति प्रतिपादितम् इति ॥ ९५ ॥ तस्माद्विरुद्धार्थावेव भिन्नौ संशयहेतुत्वेन दर्शनीयौ । यथास्माभिरुक्तं न तु भिन्नतामात्रेणेत्याह तस्मादिति । व्याख्यातस्त्रिप्रकारो{३,६७}पि संशयहेतुः विपरीतप्रकारान् प्रतिजानाति षढा विरुद्धतामाहुरिति । धर्मधर्मिस्वरूपस्वविशेषोभयस्वरूपस्वविशेषैः षट्प्रकारां विरुद्धतामेके ब्रुवत इत्यर्थः । अन्ये तूभयविरोधयोः प्रत्येकपक्षानतिरेकात्चातुर्विध्यं प्रतिपन्ना इत्याह चतुर्धा वेति । वयं तु इष्टविघातमात्रेणैकमेव प्रकारं सङ्गिरामह इत्याह एकधापि वेति । पूर्वोक्तपक्षद्वयनिवृत्तावपि वाशब्दः । अपि वा शेषभाजां स्यादिति पक्षबाध एव विरुद्धत्वे कारणं किमवान्तरभेदोपन्यासेनेति । त्रिष्वपि च प्रकारेषु श्रुत्यर्थोपात्तस्य प्रतिज्ञातार्थस्य बाधायां विरुद्धतामाहुरित्याह श्रुत्यर्थोक्तस्येति । धर्मधर्म्युभयस्वरूपं श्रुत्युक्तं, तद्विशेषास्तु प्रायेणार्थोक्ताः । ते च स्वरूपस्वविशेषाः प्रतिज्ञार्थशब्देनोपादीयन्ते । सर्वे हि ते वक्तुरभिप्रेताः । न तु धर्मादिविशेषास्साक्षात्प्रतिज्ञायामन्तर्गताः । तदस्मिन् प्रतिज्ञार्थे हेतुना बाध्यमाने हेतोर्विरुद्धता भवतीति । तत्पुनरिदं विप्रतिषिद्धमिव मन्यामहे । कथं हि प्रतिज्ञार्थे हेतुना बाध्यमाने हेतुर्विरुद्धो भवति । स हि प्रतिज्ञार्थं विरुणद्धीति विरोद्धेति वक्तुमुचितः, बाधक इति वा । न चायमेव प्रतिज्ञार्थेन बाध्यते यद्विरुद्धो भवेत्प्रसिद्धत्वादस्य । प्रसिद्धं हि घटस्य कृतकत्वं, न तदप्रसिद्धया नित्यतया बाधितुं शक्यम् । अतो बाधक इत्येवायं वक्तव्यः । वार्तिककृता तु परप्रसिद्धिमात्रेण विरुद्ध इत्युक्तमिति वेदितव्यमिति । तत्र धर्मस्वरूपबाधेन तावद्विरुद्धतामुदाहरति नित्यत्वे इति ॥ ९७ ॥ धर्मविशेषबाधस्त्वेवं प्रयुक्ते भवतीत्याह बाध इति । तमेव प्रयोगं दर्शयति अर्थवदिति पादत्रयेण । स्वरूपाभिधानवादिनो ह्याहुः गौरयमिति शब्दाकारविशिष्टोऽर्थोऽवगम्यते । न च विशेषणमनभिधाय विशिष्टोऽभिधातुं शक्यत इति स्वरूपमेव तावदादौ शब्दो{३,६८}भिधत्ते ततो विशिष्टम् । अपि चार्थशब्दो व्यभिचरति, अज्ञातसम्बन्धस्य तदनवगतेः । स्वरूपं तु न कदाचिद्व्यभिचरति सम्बन्धावधारणात्प्रागपि तदवगमात्, अव्यभिचारी च शब्दार्थ इति युक्तम् । अतः स्वरूपं तावदवश्याभिधेयं शब्दानां, तदभिधानोत्तरकालं तु विशिष्टाभिधानमपि भवतु नामेति । एवं प्रसाध्यान्ते प्रयोगमाहुः शब्दस्वरूपं सम्बन्धावधारणात्प्रागर्थवद्विभक्तिसम्बन्धात्, अगृहीतसम्बन्धोऽपि हि स्वादिविभक्तियुक्तान् शब्दानवगच्छति । यदा च विभक्तियोगः तदार्थवत्त्वं दृष्टं यथा सम्बन्धग्रहणात्पश्चादिति । कथं पुनरेवं प्रयुज्यमाने धर्मविशेषबाधो भवत्यत आह स्वरूपेणेति चाश्रित इति । यदा हि स्वरूपेणार्थेनार्थवत्त्वं प्रथममाश्रित्यार्थवत्तामात्रविशिष्टं साध्यते, तदार्थादिदमवगम्यते स्वरूपार्थवत्त्वमस्य सिषाधयिषितमिति । एवं च भवत्यर्थाक्षिप्तस्य धर्मविशेषस्य बाध इति । कथं पुनस्स्वरूपेणेति चाश्रिते धर्मविशेषो बाध्यते । अत आह अस्वरूपेति । विभक्तिमत्त्वं हि स्वरूपातिरेकेणार्थान्तरेणार्थवत्त्वमविनाभावबलेन शब्दस्यावगमयति, सम्बन्धग्रहणात्पश्चादर्थान्तरस्य दर्शनात् । अतो व्याप्तिबलेन तदेव विभक्तिमत्तया साध्यते । अतोऽर्थवत्ताया विशेषं स्वस्वरूपार्थवत्त्वं हेतुरयं विरुणद्धीति भवति धर्मविशेषबाध इति ॥ ९९ ॥ धर्मिस्वरूपबाधोदाहरणमाह इहप्रत्ययेति । यदा हि समवायं धर्मिणं कृत्वा तस्य द्रव्यादिव्यतिरेकस्साध्यते, इहप्रत्ययहेतुत्वं च हेतुरुच्यते इहायं घट इति संयोगो दृष्टान्तः, तदा धर्मिस्वरूपबाध इत्यभिप्रायः ॥ १०० ॥ {३,६९} कथं पुनरत्रोदाहरणे धर्मिस्वरूपबाधः, अत आह अत्रापीति । अत्राप्युदाहरणे धर्मिस्वरूपस्य समवायात्मनो वैपरीत्यापादनाद्धेतोर्विरुद्धता भावति । इहप्रत्ययहेतुत्वं ह्यसमवायात्मन एव दृष्टमिति ताद्रूप्यं विरुन्ध्यादिति धर्मिस्वरूपबाध इति ॥ १०१ ॥ अस्मिन्नेव च धर्मिविशेषबाधोऽपि दर्शयितव्य इत्याह यच्चेति । समवायो हि सत्तासामान्यवदेकरूप इति काणादा मन्यन्ते । सोऽप्यस्य विशेषः संयोगवद्भेदापत्तेर्बाध्यत इति भवति धर्मिविशेषविरुद्धो हेतुरिति ॥ १०२ ॥ उभयस्वरूपबाधायामुदाहरणमाह नित्यमात्मास्तितेति । यदा कश्चित्सौत्रान्तिकं प्रत्येवं साधयति आत्मा नित्यः निरवयत्वात्व्योमवदिति, तदा धर्मधर्मिद्वयस्य बाधनं भवति । सौत्रान्तिकस्य ह्यवयवाभावो व्योम्न्यभावेनैव सम्बद्धोऽभिमत इत्यात्मनोऽपि तद्वदभावं गमयेत्, आवरणाभावमात्रं हि नभः, न पुनस्तत्त्वान्तरमिति बौद्धा मन्यन्ते । अतोऽनवयवत्वादात्मनः स्वरूपस्य तद्धर्मस्य च नित्यत्वस्य बाधादुभयबाध इति ॥ १०३ ॥ उभयविशेषबाधस्त्वेवं साध्यमाने भवतीत्याह तदेति । यदा हि परार्थाश्चक्षुरादयस्सङ्घातत्वात्शयनादिवदिति साध्यते, तदोभयविशेषबाध इत्यर्थः । कथं पुनरत्रोभयविशेषबाधः, अत आह शयन इति । शयनीये{३,७०}हि खट्वादौ महाभूतसंहतशरीरपारार्थ्येन सङ्घातत्वादिति हेतुर्व्याप्तो दृष्ट इति संहतपारार्थ्यमेव साधयेत् । आत्मानं च प्रति पारार्थ्यं साधयितुमभिमतम्, तन्न सिध्येत् । सोऽयं तावत्पारार्थ्यस्य धर्मस्य यो विशेषोऽभिमत आत्मपारार्थ्यं स तावद्बाध्यते । चक्षुरादेरपि धर्मिणो यो विशेष आहङ्कारिकत्वं नाम सोऽप्यनेनैव हेतुना बाध्यते । संहतात्म कत्वं हि शयनादावनाहङ्कारिकत्वेन व्याप्तं दृष्टम्, भौतिका हि ते, अतस्तन्निदर्शनेन चक्षुरादयोऽपि भौतिका भवेयुः । आहङ्कारिकाणीन्द्रियाणीति कापिलास्सङ्गिरन्ते, तेषां चायं प्रयोगः । तदयमर्थः संहतपारार्थ्यभौतिकत्वाभ्यां व्याप्तो हेतुर्यस्मिन् शयने तत्रात्मपारार्थ्यमसिद्धमिति धर्मविशेषबाधनं तावद्भवति । धर्मिविशेषबाधोऽपि भौतिकव्याप्त्या सूत्रितोऽनन्तरमेव विवरिष्यत इति न केवलमात्मपारार्थ्यं न सिध्यति, असंहतरूपात्मपारार्थ्ये चेष्टे व्याप्तिबलेनात्मनोऽपि संहतता प्राप्नोतीत्याह असंहतेति । अनेन चानिष्टान्तरापत्तिरापादितेति वेदितव्यम् । एतदुक्तं भवति । नानेन हेतुनासंहतरूपात्मार्थता सिध्यति । प्रत्युत संहततैवात्मनो भवेदिति ॥ १०६ ॥ धर्मिविशेषबाधं विवृणोति अनाहङ्कारिकत्वमिति । व्याख्यातचरं चेदम् ॥ १०६ ॥ एवं तावद्ज्ञातसम्बन्धपदव्यावर्तनीयो विरुद्धः प्रपञ्चितः । इदानीं तद्व्यावर्त्या एव दृष्टान्ताभासा दर्शयितव्याः । तैर्हि नानुमानाङ्गसम्बन्धो ज्ञापयितुं शक्यते । अतस्तेऽपि ज्ञातसम्बन्धपदेनैव व्यावर्त्यन्ते । इदं चास्माभिः प्रागेवोक्तम् । अन्यत्राप्याह ज्ञातसम्बन्धवाचा च त्रयोऽत्रानियतादयः । हेतुदृष्टान्तयोर्दोषा भाष्यकारेण वारिताः ॥ {३,७१}इति । अतस्तन्निराकरणार्थं दृष्टान्तवचनमेव तावदवतारयति गमकस्येति । व्याप्तिप्रदर्शनाय द्विविधो दृष्टान्तस्तावद्साधनवाक्ये दर्शयितव्यः । साध्यः पक्षः तत्साधर्म्यवैधर्म्याभ्यां यो दृष्टान्तः स प्रतिपाद्यत इत्यर्थः ॥ १०७ ॥ तत्र साधर्य्यदृष्टान्तप्रकारमाह तत्रेति । अस्यार्थः उदाहरणसाधर्म्याल्लिङ्गस्य प्रसाधकत्ववचनं हेतुः । यदाहुः उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः । इति । साध्यस्य प्रज्ञापनवचनमिति यावत् । तस्य चार्थो लिङ्गमेव । तच्चोद्दिश्य साध्योपादानं साधर्म्यदृष्टान्त इष्यते । यो यो धूमवान् स सोऽग्निमानिति यावदिति । किमेवमुपादीयमाने सिध्यत्यत आह उद्देश्य इति । उक्तं व्याप्तिप्रदर्शनाय दृष्टान्तवचनमिति । एवं चोपादीयमान उद्देश्यो धूमादिर्व्याप्यतया कथितो भवति । इतरश्चोपादेयोऽग्न्यादिर्व्यापकतयेति व्याप्त्यानुगुण्यात्सफलमेवमुपादानमित्युद्देश्योपादेययोर्व्याप्यव्यापकत्वं भवतीत्युक्तम् ॥ १०८ ॥ कीदृशं तु तयोस्स्वरूपमत आह यद्वृत्तेति । यद्वृत्ततद्वृत्ताभ्यां यत्तत्परिनिष्पन्नानां यो य इत्यादिशब्दानामुपादानम्, तदयमर्थो भवति । यद्यद्यद्वृत्तेन संयुक्तं प्रथमं प्रयुज्यते प्रधानं च तदुद्देश्यं, तत्तद्वृत्तयुक्तं च पश्चात्प्रयुज्यमानं स सोऽग्निमानेवेति चैवकारेण युक्तं तदुपादेयम् । सर्वेष्वेव च ग्रहव्रीह्यादिसम्मार्गावघातादिषूद्देश्योपादेयेष्वयमेव विवेक इति वेदितव्यमिति ॥ १०९ ॥ {३,७२} किं पुनरेवं प्रयोगनियमे प्रयोजनम्, विवक्षापरतन्त्रा हि शब्दाः, ते यथा तथा वा प्रयुक्ता यथाभिप्रायं वर्तिष्यन्त एव । अत आह वदतीति । न वक्त्रभिप्रायपरतन्त्राः शब्दाः, स्वाभाविक्यैव तु शक्त्या केचिदेव क्वचिदेवार्थे वर्तन्ते, अतो न विवक्षानुसारेणेष्टसिद्धिर्भवतीति वाच्य एव दृष्टान्तवचनविन्यासप्रकार इति ॥ ११० ॥ यदि तर्हि स्वतन्त्राश्शब्दाः अतथास्थितेऽप्यर्थे शब्दानुसारिणीष्टसिद्धिर्भवेदत आह साध्यहेतुत्वमिति । अयमभिप्रायः नार्थशक्तिश्शब्दशक्तिमनुरुध्य प्रवर्तते, न च शब्दशक्तिरर्थशक्तिम्, अतो न यथा वक्त्रभिप्रेतार्थानुसारिणी शब्दशक्तिः, एवं न शब्दानुसारिण्यर्थव्यवस्थेति, अर्थादीनां कृतकत्वानित्यत्वादीनां व्याप्तिशक्त्यनुरोधादेव साध्यहेतुभावो भवति न शब्दानुरोधादिति ॥ ११० ॥ वक्त्रनपेक्षया स्वशक्त्यैव शब्देऽर्थमाचक्षाणे यत्तावदापद्यते तद्दर्शयति तत्राज्ञानादिति सार्धद्वयेन । यदा हि दृष्टान्तं वक्तुमनभिज्ञो वक्ता साध्यहेत्वोस्सहभावमात्रं विवक्षति । यथा शब्दोऽनित्यः कृतकत्वादिति प्रयोगे, यथा घटे कृतकत्वनाशित्वेस्त इति । विपरीतावग्रहेण वा न हेतोर्व्याप्यतां विवक्षति । सत्यामपि विवक्षायां कुतश्चिद्भ्रमनिमित्तात्न व्याप्तियोग्यं शब्दं वदति । सहभावमात्रमेव तु पूर्ववद्वदेत्, विपरीतं वा भ्रान्तः यथा नाशिता कृतकत्वेन व्याप्तेति, तदा तावन्न केवलमिष्टं न सिध्यति अनिष्टमेव तु व्याप्तिविपर्ययादापद्यते । इष्टस्य{३,७३}कृतकत्वस्य हेतुत्वं न स्यात् । अनिष्टस्यैव तु नाशित्वस्य भवेदित्येवंजातीयकानिष्टप्रयोगनिवारणाय युक्तो दृष्टान्तप्रयोगनियम इति । एतदेवोपसंहरति तस्मादिति । हेतुत्वसम्मतः कृतकत्वादिव्याप्यत्वरूपेण वाच्य इत्यर्थः ॥ ११३ ॥ अर्थानां शब्दतन्त्रत्वे यद्भवति तद्दर्शयति यदेतिपादरहितद्वयेन । अस्यार्थः यदा हि व्याप्तिशक्त्यनुसारेणैवार्थानां साध्यहेतुत्वं तदा यद्यपि वक्त्रा न सहभावमात्रं दर्शितं, किन् तु सम्यगेव दृष्टान्तवचनम्, अर्थास्तु न तदनुरूपव्याप्यव्यापकभावेनावस्थिता इति दृष्टान्ताभासता भवेदिति वक्ष्यमाणेन सम्बन्ध इति । यथा नित्यो ध्वनिरमूर्तत्वादिति प्रयोगे कर्मवत्परमाणुवद्घटवद्व्योमवदिति दृष्टान्तेषु यथासङ्ख्यं परमार्थतस्साध्यहेतूभयव्याप्तिशून्यतया । कर्म खल्वनित्यमिति तत्साध्यभूतया नित्यतया शून्यं, हेतुस्त्वमूर्तत्वादिति तत्र विद्यत एव । परमाणवस्तु मूर्ता इति तेषु हेतुशून्यता, साध्यं तु नित्यत्वं तेषु विद्यत एव । घटे तु न साध्यं नित्यत्वं नाप्यमूर्तत्वं हेतुरित्युभयशून्यता । व्योम्नि तु दृष्टान्ते व्याप्तिशून्यतामुत्तरत्र स्वयमेव विवरिष्यति । अत्रैव च व्योमवदिति दृष्टान्ते तदसद्वादिनं सौत्रान्तिकं प्रति प्रयुज्यमाने धर्म्यसिद्ध्या दृष्टान्ताभासता भवतीत्याह तदसद्वादिनमिति ॥ ११६ ॥ व्याप्तिशून्यतां विवृणोति तत्सद्भावेऽपीति । यद्यपि च{३,७४}व्योम्नः सद्भावो भवेत्, तच्च हेतुसाध्यद्वययुक्तं नित्यत्वादमूर्तत्वाच्च । तथापि कर्मादिष्वमूर्तेषु अनित्येष्वालोच्यमानेषु हेतोर्व्याप्तिर्नास्तीति ईदृशस्यापि दृष्टान्तस्य वर्जनमेव । अयमपि न साध्यसिद्धये समर्थो यत इति ॥ ११७ ॥ व्याख्यातः साभासस्साधर्म्यदृष्टान्तः । वैधर्म्यदृष्टान्तमतः परं व्याख्यास्यति । तत्रैतदेव तावत्प्रथमं वक्तव्यम् । किं सर्वदैव साधर्म्यवद्वैधर्म्यवचनं कार्यं न वेति । तत्र तावद्व्यतिरेकप्रधानवादिनस्सर्वदा वाच्यमिति ये वदन्ति । तान् प्रत्याह व्याप्त्या साधर्म्य उक्त इति । एवं हि मन्यते व्याप्तिप्रज्ञापनाय हि दृष्टान्तवचनम्, सा चेत्साधर्म्यवचनेन ज्ञापिता किं वैधर्म्यवचनेन । साधर्म्यं चावश्यमेव वचनीयमन्वयप्रज्ञापनाय, तत्प्रधानत्वादनुमानस्य । व्यतिरेकस्यापि तन्मुखेनैव सिद्धेः । इतरथा दुरधिगमत्वात् । अतो यदि व्याप्त्या सहितं साधर्म्यमुक्तं, अलं वैधर्म्यवचनेनेति । कदा तर्हि वैधर्म्यं वाच्यमत आह सहभावित्वदृष्ट्येति पादत्रयेण । यदा हि वक्त्रा सम्यगेव दृष्टान्त उक्ते परः श्रोता जानाति यथा हेतुसाध्ययोस्साहित्यमात्रमनेनोक्तं न व्याप्तिरिति, तदा साध्याभावे हेत्वभावं ज्ञापयितुं वैधर्म्येणेष्टसाधनमिति वक्ष्यमाणेन सम्बन्ध इति । यदा खल्वभ्यस्तवैधर्म्यस्तमेवापेक्षते न साधर्म्यदृष्टान्तं तदा च वैधर्म्येणेष्टसाधनमित्याह तं वा नापेक्षते यदेति । यदा वा वक्ता सुशिक्षितवैधर्म्यस्साधर्म्यं वक्तुमजानानस्तेन साधर्म्यदृष्टान्तेन सहभावमात्रमेव शुद्धं व्याप्तिहीनं कथयति, तदापि पर्यनुयुक्तेन तेनैव वैधर्म्येणेष्टसाधनं कार्यमित्याह वक्ता वेति ॥ ११९ ॥ यदा वा भ्रान्तो विपरीतमन्वयं दर्शयति, तदापि तत्समाधानेच्छया पूर्वविपरीतज्ञानोपमर्दनेन वैधर्म्येणेष्टसाधनमित्याह {३,७५}विपरीतान्वयमिति । नन्वन्वयवैपरीत्ये स एव यथावत्प्रतिपाद्यतां किं वैधर्म्यवचनेन । सत्यमेवमपीष्टं सिध्यत्येव, किन् तु भ्रान्तैरिदमस्माभिरुक्तं साध्याभावे हेत्वभावो विवक्षित इति वैधर्म्येणापि तावदिष्टसाधनं भवत्येवेति । यत्तु तत्पूर्वं साहित्यमात्रमुक्तं तद्वैधर्म्य एवोपयुज्यते तस्यैवेष्टं साधयतोऽनुग्रहे वर्तते इत्याह साहित्यमात्रमिति ॥ १२० ॥ एवं तावद्वैधर्म्यवचनस्यावसरो दर्शितः, तद्वचनप्रकारमिदानीं दर्शयति व्याप्यव्यापकभावो हीति ॥ १२१ ॥ वैपरीत्ये कारणमाह धूमभाव इति । यदा हि धूमभावोऽग्निभावेन व्याप्तो भवति तदानग्निरग्न्यभावस्ततो धूमात्प्रच्युतस्सन्नधूमे धूमाभाव एव भवतीत्येवं तावद्व्याप्तो भवति । यो हि यस्मिन् सति भवति असति च न भवति स तन्नियतस्तद्व्याप्त इत्युच्यते । यथा धूमोऽग्नावेव भवन्नग्निना व्याप्त इति सिद्धोऽभावयोर्व्याप्तिविपर्यय इति ॥ १२२ ॥ यत एव चाभावयोरीदृशो व्याप्यव्यापकभावः अत एव भावयोरभिमतव्याप्तिसिद्धिरित्याह तथानग्नाविति । अनग्नावग्न्यभावे धूमाभावेन व्याप्ते धूमस्तत्र विरोधिव्याप्तेरलब्धावकाशोऽग्नावेव भवतीत्येवं तद्व्याप्यता तस्य सिध्यति । तथेति । यथा भावव्याप्त्यपेक्षयाभावव्याप्तिः एवमभावव्याप्त्यपेक्षया भावव्याप्तिरित्यर्थः । न चैवमितरेतराश्रयता, बीजाङ्कुरवदनादितयोपपत्तेरिति ॥ १२३ ॥ {३,७६} किं पुनरभावयोर्व्याप्तिविपर्ययाश्रयणे प्रयोजनमत आह व्यापकौ त्विति । यदा हि य एव भावो व्यापकस्तदभाव एव व्यापकतया वैधर्म्यदृष्टान्त उच्यते तदा ततो व्याप्याद्धूमादेर्नैव विपक्षस्यानग्न्यादेः प्रच्युतिः कथिता भवेत् । तत्कथनार्थं च वैधर्म्यवचनं (स) प्रयोजनं भवेत् । न हि यत्र धूमस्तत्राग्निरितिवत्यत्र धूमाभावस्तत्राग्न्यभाव इति कथ्यमाने व्याप्याद्धूमादनग्नेर्विपक्षस्य निवृत्तिर्दर्शिता भवतीति । अतो धूमेनाग्निं सिषाधयिषता वैधर्म्यदृष्टान्तेनाग्निधूमाभावयोर्व्याप्तिविपर्ययो वाच्य इत्याह तस्मादिति वाच्योऽन्तेन । यत्राग्निर्नास्ति तत्र धूमो नास्तीत्येवं यद्वृत्ततद्वृत्ताभ्यामुद्देश्योपादेयभावो दर्शयितव्य इत्यर्थः । स चानग्निरधूमेन व्याप्त उच्यमानो नान्यथा वाच्यः, किन् तु साधर्म्योक्तेनैवोद्देश्योपादेयप्रकारेणेत्याह न चान्यथेति । प्रकारश्चानन्तरमेवोक्त इति ॥ १२४ १२५ ॥ अन्यथावचने दोषमाह अनग्न्यधूमसाहित्य इति । यथैव साधर्म्यदृष्टान्ते स्वशक्त्या शब्दोऽर्थं वदति नार्थशक्तिमनुरुध्यत इति साहित्यमात्रवचने व्याप्तिविपर्यये वा नेष्टं सिध्यतीत्युक्तम्, एवमिहापि भवतीति भावः ॥ १२६ ॥ एवं (?तद्व्ताव)दिहाप्यर्थो न शब्दवशवर्तीति यत्रार्थो दृष्टान्तरूपो द्वाभ्यां हेतुसाध्याभावाभ्यामेकेन वा तयोश्शून्यो भवति तत्रापि न प्रस्तुतोपकारो भवति अन्यद्वानिष्टं प्रसज्यत इत्याह यत्रापीति । सम्यक्प्रयुक्तेऽपि वाक्येऽर्थस्यातदायत्तत्वान्नेष्टसिद्धिरिति भावः । अत्रोदाहरणमाह {३,७७}यदिति । नित्यो ध्वनिरमूर्तत्वादित्यत्रैव प्रयोगे यदैवं वैधर्म्यमुच्यते यन्नित्यं न भवति तदमूर्तमपि न भवति यथा परमाणुरिति तदा साध्याभावशून्यो दृष्टान्तः । परमाणोर्नित्यतया तदभावस्य तत्र दर्शयितुमशक्यत्वात् । बुद्धिवदिति तु दृष्टान्ते हेत्वभावशून्यता । बुद्धेरमूर्ततया तदभावस्य वक्तुमशक्यत्वात् । खवदिति तूभयाभावशून्यता, नित्यामूर्ते तस्मिन्न् उभयाभावो दुरधिगमो यत इति ॥ १२७ ॥ एवं साधर्म्यदृष्टान्तवद्व्याप्तिवैकल्येऽप्याभासता दर्शयितव्या । तत्सिद्ध्यर्थं हि विपक्षाद्धेतोर्व्यतिरेकः कथ्यते । यस्य तु विपक्षैकदेशादपि व्यतिरेको नास्ति, नासौ साध्येन व्याप्तो भवतीत्यसत्यां व्याप्तावनर्थकं तादृशस्य वैधर्म्यस्य वचनमित्यभिप्रायेणाह साध्येनेति ॥ १२८ ॥ यतश्चैवञ्जातीयको न साध्येन व्याप्यते तेन क्वचिदभावयोस्साहित्ये दृष्टेऽपि न सर्वत्र गम्यगमकभावो भवतीत्याह तेनेति । यद्यपि यन्नित्यं न भवति तदमूर्तमपि न भवति, यथा घटः कुड्यं वेति, क्वचिदभावयोस्साहित्यं शक्यते दर्शयितुम् । तथापि न सर्व(ः) शब्दादि(ः) नित्यतया विशिष्टोऽनेन हेतुना गम्य इष्यते । किञ्चिद्ध्यमूर्तं नित्यमाकाशादि, किञ्चिदनित्यं कर्मादीति भावः ॥ १२९ ॥ किमिति नेष्यते अत आह सहदृष्टिरिति । विपक्षैकदेशनिवृत्त्या हि सहभावमात्रं हेतोस्सिध्यति । न च तन्मात्रसम्बन्धोऽनुमानाङ्गम् । किं तर्हि, व्याप्तिः । न चासावेतावता साहित्यमात्रेण सिध्यतीति । एतदेवोदाहरणेन दर्शयति मूर्तानित्यत्वयुक्तेऽपीति । इदं च प्रागेव व्याख्यातमिति ॥ १३० ॥ अत्र बौद्धा वदन्ति किमिदं {३,७८} व्याप्त्या साधर्म्य उक्ते च न वैधर्म्यमपेक्ष्यते । इत्युच्यते, न हि शतांशेनापि हेतोर्विपक्षाद्व्यतिरेके शङ्क्यमाने गमकत्वमस्तीत्यशेषविपक्षोऽनुमातुर्व्यतिरेकं ग्रहीतुमपेक्षितः । न चासौ दुरधिगमः, एकदेशस्थस्यापि सर्वादर्शनसौकर्यात् । दर्शनं हि सर्वविपक्षाणां दुष्करम्, तदभावस्तु सौकर्यप्राप्त एव । न चायोग्यानुपलम्भान्नेदमदर्शनं हेतोर्व्यतिरेकाय प्रभवतीति वाच्यम् । न हि नो विपक्षादर्शनादविनाभावनियमः । किन् तु तादात्म्यतदुत्पत्तिनिबन्धनः । विपक्षदर्शने तु हेतोः परिपन्थिन्यविनाभावो ग्रहीतुमशक्यो भवति । तच्चैकदेशस्थस्यापि तावन्नास्त्येवेति परिपन्थिनि वृत्तिमात्रे दर्शनं व्याप्रियते । अतो यदैवाग्निकार्यो धूम इत्य् अवगतं तदैव तदायत्तात्मलाभो नासति तस्मिन् भवतीति ज्ञायते । न चान्वयज्ञानमेव व्यतिरेकबुद्धौ निबन्धनम्, असाधारणेषु तदसम्भवात् । न हि महानसपरिदृष्टयोरग्निधूमस्वलक्षणयोस्तत्रैव निरुद्धयोरन्यत्र दर्शनमस्ति, येनान्वयोऽनुभूयेत । तत्कुतोऽन्वयः कुतस्तरां च तन्निबन्धनो व्यतिरेकः । न च विशेषेषु सामान्यं नाम किञ्चिदनुगतं स्वरूपमस्ति, यन्नियम्यनियामकतयावसीयेत, विकल्पाकारत्वात्तस्य । अतो विशेषा एव केचित्कयाचिद्व्यावृत्त्योपलक्षिताः कञ्चिद्विशेषं विपक्षव्यावृत्तिमुखेन गमयन्तीति तत्प्रदर्शनार्थं वैधर्म्यवचनमेव न्याय्यमिति । तान् प्रत्याह अशेषेति युक्तिरन्तेन । अयमभिप्रायः यद्यपि व्यतिरेकोऽनुमानाङ्गम् । स तु नादर्शनमात्रात्सिध्यति । तद्देशागमनादपि च तस्योपपत्तेः । न च कार्यत्वावधारणादसति कारणेऽभावः, तस्यैवासति व्यतिरेके दुरधिगमत्वात् । यद्धि यस्मिन् सति भवति असति च न भवति तत्तत्कार्यम् । अतोऽसत्यभावो{३,७९}वगन्तव्यः । ततः कार्यता तदधीने(ति) तु तस्मिन्नितरेतराश्रयता । अस्तु वादर्शनमात्राद्व्यतिरेकः, तस्य च सौकर्यं, नैतावतानुमां प्रति युक्तिरनङ्गम् । युक्तिर्योगस्सम्बन्धोऽन्वय इत्यनर्थान्तरम् । नान्वयोऽनङ्गमिति यावत् । तन्मुखेनैव सर्वप्रमातॄणामनुमानोत्पत्तेः । अतस्तत्कथनार्थं साधर्म्यदृष्टान्तोऽपि वाच्य एव । नासावेकान्तेन प्रत्याख्यातुं शक्यते । इदं चान्वारुह्य वचनम् । यथोक्त एव सिद्धान्तः सम्यक्साधर्म्यप्रयोगे न वैधर्म्यमपेक्षणीयमिति । अन्वयस्यैव प्राधान्यात्तमन्तरेण व्यतिरेकासिद्धेः । अवगते हि धूमस्याग्निना सम्बन्धेऽर्थादनग्निनिवृत्तिस्सिध्यति । अतस्स तावद्विधिमुखेन प्रथमं दर्शयितव्यः, अवसरे तु वैधर्म्यमपि कदाचिदुच्यते । अनङ्गत्वमिति तु पठतामियं व्याख्या इदं हि लिङ्गस्यानुमायामङ्गत्वं यदन्वयव्यतिरेकौ, ताभ्यां हि तदङ्गं भवति । अतो यथा व्यतिरेकोऽङ्गत्वम्, एवमन्वयापरनामा युक्तिरपीति । ननु लिङ्गेऽपि शब्दात्मके प्रतीत्युत्तरकालभाव्यन्वयोऽनङ्गमेवात आह शाब्देऽभिधास्यत इति । शाब्दे ह्यनुमानाद्भिन्ने प्रतीत्युत्तरकालभाविनी युक्तिरनङ्गमिति वक्ष्यते । यथा वक्ष्यति नाङ्गमर्थधियामेषा भवेदन्वयकल्पना । इति । अनुमाने तु सर्वत्रैवान्वयः प्रतीत्यङ्गमिति । ये तु तावता नानङ्गत्वमन्वयस्येत्यध्याहृत्यात्रैवार्थे शब्दे युक्तिर्वक्ष्यते इति व्याचक्षते, तेषामश्रुतान्वयाध्याहार एव तावदुपालम्भः । न चान्वयस्यानुमानाङ्गत्वे शाब्दे युक्तिर्वक्ष्यते । अत्रैव ज्ञातसम्बन्धपदेन तस्योक्तत्वात् । अत एवान्वयाधीनत्वमनुमानस्य च स्थितमिति वक्ष्यति । तस्माद्यथोक्तैव व्याख्येति ॥ १३२ ॥ यत्तु भेदानामेवानुमाने गम्यगमकत्वं तेषां चान्वयो न सम्भवतीत्युक्तम्, तत्राह बोधप्रसङ्ग इति । न भेदानामनुमानबोधे गम्यगमकतायाः प्रसङ्गः । तेषां सर्वदेशकालाव्याप्तेरेकैकत्र निरुद्धत्वात् । न चाप्य्{३,८०}अविनाभावेनापरस्य तथाविधस्यैव नियमश्शक्यतेऽनुभवितुम् । न चासति तस्मिन्नानुमानाङ्गं सम्भवतीति तेषामन्वयाभावो न दोषायेति । यदि न भेदानां बोधप्रसङ्गः । कस्य तर्हि दर्शितमिदं, न भेदानुगतमेकं किमपि पारमार्थिकं रूपमस्ति । तस्य विकल्पाकारत्वात् । यद्यपि च व्याप्तिसमयसंविदितरूपारोपेणैवाधुनानुमानमुपजायते । तथा हि तस्य निपुणतो निरूप्यमाणस्यासम्भवाद्विभ्रम एवायम् । यद्येवमसद्रूपारोपप्रवृत्तमनुमानमप्रमाणमेव । सत्यम् । प्रतिबन्धबलेन तु किञ्चिदेव स्वलक्षणं केनापि विकल्पाकारेण सामान्यात्मना समधिगतं यदपरं विकल्पाकारोल्लिखितमेव स्वलक्षणं प्रतिलम्भयति तत्प्रमाणमित्याख्यायते । अविसंवादो हि नः प्रामाण्ये कारणमर्थक्रियास्थितिश्चाविसंवादः । यदाहुः प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः । अविसंवाद इति । भवति चानुमानेऽर्थक्रियासमर्थवस्तुलाभो वस्तुनिर्भासपुरस्सरोऽपीति प्रमाणमनुमानम् । यथोक्तम् अतस्मिंस्तद्ग्रहाद्भ्रान्तिरविसंवादतः प्रमा इति । अतो भेदानामेव गम्यगमकत्वम् । ते च न भाजनमन्वयस्येति युक्तमेवोक्तमत आह अस्तीति । अस्यार्थः । भवेदेवं यदि न भेदातिरिक्तं किञ्चित्सामान्यं वस्तु भवेत् । अस्ति तु तदित्याकृतिग्रन्थे सकलपरोक्तदोषपरिहारेणोपपादयिष्यते । तस्य चानेकदेशकालव्यापिता गम्यत इति नाभाजनमन्वयस्य । न चातस्मिंस्तद्ग्रहः, पारमार्थिकत्वात्तस्य । एवं च यदनुमानप्रामाण्यसिद्ध्यर्थं परैः किमपि काशं कुशमवलम्ब्यते, तदपि मन्दप्रयोजनमेवेति ॥ १३३ ॥ अन्यन्मतं व्याप्त्यापि साधर्म्यदृष्टान्त उक्ते वैधर्म्यमपि वाच्यमिति, तत्तावदुपन्यस्यति केचिदिति पादत्रयेण । किं पुनस्तदिच्छायां कारणमत आह व्यावृत्तिनियमेच्छयेति ॥ १३४ ॥ एतदेव विवृणोति हेताविति । एवं हि मन्यन्ते । यदा हि{३,८१}साधर्म्यदृष्टान्ते यत्र धूम इत्युद्दिश्य तत्राग्निरेवेति सैवकारमुपादीयते, तदा हेतौ साध्येनैवाग्निनावधारिते सर्वतोऽग्नेरन्यमात्राद्व्यावृत्तिः प्राप्नोति, न चैतत्सम्भवति । साध्यधर्माधिकरणादेरप्यभावप्रसङ्गादपक्षधर्मत्वापत्तेः । पक्षाभावप्रसङ्गाच्च । अतस्साध्याभाव एव व्यावृत्तिं नियन्तुं सर्वदैव वैधर्म्यवचनमर्थवत् । सति हि तस्मिन्नग्न्यभावे धूमो न भवतीत्यावेदितं, भवतीति ॥ १३५ ॥ एतदपि दूषयति तत्तु मन्दफलमिति । तदिदं वैधर्म्यवचनमेवं क्रियमाणं मन्दफलमित्यर्थः । कथं मन्दफलमत आह यस्मादिति । किं निरूपितमत आह व्यापकाभावमात्रं हीति । अग्निमान् पर्वत इति पक्षवचने निरूपितमिदम्, यथा नियमस्तद्विपक्षाच्च कल्प्यते नाविरोधिन इति । अतस्साधर्म्यदृष्टान्तेऽपि व्याप्याद्धूमादेर्व्यापकाभावनिवृत्ति मात्रमेव दर्शयितव्यम्, नान्यमात्रनिवृत्तिरिति ॥ १३६ ॥ एतदेव दृष्टान्तवचनेनोपपादयन्नुपसंहरति तस्मादिति । तदिह प्रतिज्ञाहेतुसाधर्म्यदृष्टान्ताख्यास्त्रयो मताः । वाक्यस्यावयवाः प्रायो मीमांसकमते सताम् ॥ एतच्च भाष्यकारेण स्वयमेवोपदर्शितम् । दृष्टान्तहेतुसाध्यार्थपदत्रयनिबन्धनात् ॥ इति ॥ १३७ ॥ अत्र भाष्यम् तत्तु द्विविधं प्रत्यक्षतो दृष्टसम्बन्धं सामान्यतो दृष्टसम्बन्धं च । तत्र प्रत्यक्षतो दृष्टसम्बन्धं यथा धूमाकृतिदर्शनाद्{३,८२}अग्न्याकृतिविज्ञानं, सामान्यतो दृष्टसम्बन्धं च यथा देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्यादित्येऽपि गतिस्मरणमिति । अनेन प्रमेयद्वैविध्यादनुमानद्वैविध्यमुक्तमिति । अत्र केचिन्नीतिज्ञम्मन्या अवधृतस्वलक्षणमेव क्वचिदनुमानेन सामान्यतो गृह्यत इति मन्यन्ते । तद्भ्रमापनयाय भाष्यकारेणेदमुक्तम् तत्तु द्विविधम्, अदृष्टस्वलक्षणविषयमप्यनुमानमस्ति क्रियादिष्विति । कथं पुनर् अदृष्टस्वलक्षणेन सम्बन्धदर्शनम्, उत्पत्तिमतः फलस्य दर्शनात् । यद्यप्यनवधृतस्वलक्षणेन वस्तुना विशेषतस्सम्बन्धोऽनवगतः, सामान्यतस्तु दृश्यते । सर्वं हि कादाचित्कं फलं कुतश्चिदागन्तुकादुत्पत्तिमतो जायमानं दृष्टम्, तन्तुसंयोगेभ्य इव पटः । अतो देवदत्तस्य भूतपूर्वपूर्वोत्तरदेशविभागसंयोगौ कदाचिदुपलभ्यागन्तुकः कोऽपि हेतुरनुमीयते । तदिदं सामान्यतो दृष्टसम्बन्धमनुमानमाचक्षते प्रत्यक्षानुपलक्षितपूर्वस्वलक्षणविषयत्वात् । अग्न्यादिषु तु प्रत्यक्षतः स्वलक्षणावधारणात् प्राक्प्रत्यक्षतो दृष्टसम्बन्धमनुमानमाहुः । न च द्रव्यमेव संयोगविभागयोः कारणमिति वक्तव्यम् । सत्यपि तस्मिन्नभावात् । न च द्रव्यान्तरागम एव शक्यते कल्पयितुं, तस्य पूर्वद्रव्यप्रत्यभिज्ञया बाधितत्वात् । न च सदृशापरापरोत्पत्तिविप्रलब्धा भेदं न बुध्यन्त इति साम्प्रतम्, देशादिभेदेऽपि तद्बुद्धेरविपर्ययात् । उक्तं च विवरणकारेण क्षणभङ्गस्तु प्रत्यभिज्ञानान्निराक्रियत एव । अतो दृष्टकारणासम्भवाददृष्टं किमपि संयोगविभागयोः कारणमनुमीयते । तच्च कर्मेत्याख्यायते । अत एव प्रदेशान्तरेष्वपि कर्माप्रत्यक्षमेवेति । भाष्यकारो दर्शयति यथा वक्ष्यति न हि ते प्रत्यक्षे इति । अपूर्वसद्भावप्रतिपादनावसरे च न कर्मणो रूपमुपलभामह इति । यदाश्रयं देशान्तरं प्रापयति तत्कर्मेत्युच्यत इति च । व्यक्तमेव देशान्तरप्राप्तिफलोन्नीयमानत्वमेव कर्मणो दर्शयतीति सिद्धं क्रियादीनां सामान्यतो दृष्टानुमानैकविषयत्वम् । एवं च प्रमेयद्वैविध्यादनुमानद्वैविध्योपपत्तिरिति ये वदन्ति तान् प्रत्याह द्वैविध्यं नोपपन्नमिति । इदमुक्तप्रकारं द्वैविध्यमनुपपन्नमिति भावः । कथमनुपपन्नमत आह यथैवेति पादत्रयेण । यथा खल्वग्निधूमाकृत्योः प्रत्यक्षयोः प्रत्यक्षदृष्टस्सम्बन्धो, भवति एवं गतिप्राप्त्याकृत्योः, तयोरपि प्रत्यक्षत्वात् ।{३,८३}प्रत्यक्षम् एव हि वयं देशान्तरं प्राप्नुवन्तं देवदत्त्वं गच्छतीति मन्यामहे । नेयं जात्यादिविकल्पनाभ्यः कर्मकल्पना विशिष्यते । तद्वदेवेन्द्रियान्वयव्यतिरेकानुविधायित्वादपरोक्षनिर्भासाच्च । ननु देवदत्ते देशसंयोगविभागातिरिक्तमपरं कर्मणः किमपि रूपमपरोक्षमीक्षामहे । फलदर्शनेनैव तदनुमीयते । जातेर्वा व्यक्तितो व्य(तिरिक्ता)याः किं रूपमनुभूयते, यदसौ प्रत्यक्षविषयतयावसीयते । रूपमेव सा व्यक्तेः, किमस्या रूपान्तरेणेति चेत्, कर्म वा किमरूपम् । इदमपि हि ततो न भिद्यत एव । आगन्तुकं तु केवलम् । अतो जातिकल्पनावत्कर्मकल्पनामपि प्रत्यक्षपक्ष एव निक्षिपन्तः पञ्चधा सविकल्पकं प्रत्यक्षं विभजामहे । आह च न हि दृष्टिपथं प्राप्तं देवदत्तं निरूपयन् । पठन् काव्यं स्वसंज्ञोक्तं परोक्षमिव बुध्यते ॥ इति । फलानुमेये तु कर्मण्यादित्यवद्देवदत्तवत्प्रतीतिप्रसङ्गः । न चैष देवदत्तमिव चलन्तं स्पन्दमानमादित्यमपि पश्यतीति दृश्यते । स्थिरं हि सर्वदा तन्मण्डलमवलोक्यते । संयोगविभागौ तु तस्यापि प्रतीयेते एवेति तुल्य(?व्त्वा)त्ताभ्यामुभयत्राप्यानुमानिकः प्रत्ययो भवेत् । अपि च विभागोपक्रमे संयोगावसाने च कर्मणि तत उन्नीयमाने गच्छतीति वर्तमाननिर्भासः प्रत्ययो न भवेत्, अतीतं हि तत्, तदा कथं वर्तमानाकारबुद्धिगोचरो भवति । जलप्रवाहनिश्चलेषु मत्स्येषु निरन्तरोत्पद्यमानजलावयवसंयोगविभागावगमादानुमानिकी गतिसंविदुपजायेत । स्थाणौ च श्येनवियुक्ते श्येन इव कर्मानुमीयेत । ततश्च सोऽपि गच्छतीति बुद्धिविषयतामापद्येत । यदि मतं न विभागमात्रात्कर्मानुमानम्, अपि तर्हि विभागपूर्वकात्संयोगादिति । एवं तर्हि यदैकः श्येनवियुक्तः स्थाणुरन्येन संयुज्यते तत्र प्रसङ्गः । चलित्वावस्थिते च देवदत्ते । यदि तूच्यते योऽयमुत्पततः श्येनस्य देशान्तरसंयोगः तस्य स्थाणुसमवेतेन कर्मणा निष्पत्त्यसम्भवान्न तत्र कर्मानुमानमिति । कल्प्यतां तर्हि श्येनेऽपि कर्म, स्थाणौ तु प्रसङ्गानतिवृत्तिरेव । नियतं हि प्रतिबद्धदृशः स्मृतप्रतिबन्धस्य प्रतिबन्धकविज्ञानम् । अस्ति च स्थाणौ कारणप्रतिबद्धफलदर्शनमिति नानुमानोदयश्शक्यते{३,८४}निरोद्धुम् । श्येनसमवायिनैव कर्मणा स्थाणावपि संयोगविभागोपपत्तौ न तद्गतकर्मानुमानमिति चेत्तन्न । न हि प्रयोजनानुसारिण्यनुमानव्यवस्था । व्याप्तं हि लिङ्गं यत्र यत्र दृश्यते तत्र तत्र व्यापकमुपस्थापयति । अर्थापत्तिर्ह्यन्यथोपपत्त्या परिह्रियते नानुमानम् । यदि त्वविच्छिन्नोत्पत्तयस्संयोगविभागाः क्रियानुमाने कारणम्, एवं तर्हि न काचिद्गतिरनुमीयेत, भविष्यत्संयोगविभागानां प्रमाणागोचरत्वात् । प्रथमं च कतिपयानामेवावगतेः । अथ स्वदेशसंयोगविभागहेतुकं क्रियानुमानम् । न च स्थाणोः श्येनो देश इत्युच्यते । एवमपि मत्स्येषु प्रसङ्गानतिवृत्तिरेव, तेषां हि जलं स्वदेश एव । परोक्षव्योमवादिनां च विहङ्गमे गच्छतीति क्रियाप्रत्ययानुपपत्तिः, व्योमसंयोगविभागयोरप्रत्यक्षत्वात्ताभ्यां तदनुमानानुपपत्तेः । न च वियद्विततालोकावयवसंयोगविभागावगमनिबन्धनो विहङ्गमे चलतीति प्रत्ययः, सन्तमसेऽपि भावात् । न च तमो नाम किञ्चिद्वस्त्वस्ति भवत्सिद्धान्ते, भासोऽभावमात्रत्वात्तस्य । अतस्तत्संयोगविभागहेतुकोऽपि न क्रियावसायश्शक्यते समाधातुमिति न प्रत्यक्षे कर्मणि द्वैविध्योपपत्तिः । या तु न हि ते प्रत्यक्षे इत्यप्रत्यक्षतोक्ता, तां तत्रैवान्यथा व्याख्यास्यामः । रूपशब्दाविभागमिति च वदता सूत्रकारेण प्रत्यक्षमेव कर्मेत्यास्थितम् । अपूर्वाधिकरणे च न कर्मणो रूपमुपलभामह इति वचनं यथाचोदितविततपूर्वापरीभूताभिव्यक्तावस्थितकर्मरूपानुपलब्ध्यभिप्रायमेव । इतरथा ह्युपलब्धिमात्रप्रतिषेधे शशशृङ्गादिवन्नित्याभाव एव कर्मणो भवेत् । न हि तत्र प्रत्यक्षोपलब्धिमात्रमेव प्रतिषिद्धम् । यदाश्रयं देशान्तरं प्रापयतीति च न फलानुमेयत्वाभिप्रायम् । किं तर्हि । आश्रयस्य देशान्तरप्रापकत्वरूपेण न स्वरूपतः कर्मास्तीत्यपूर्वात्मना कर्मणोऽवस्थानं दर्शयति । इहापि देवदत्तस्य गतिपूर्विकां देशान्तरप्राप्तिमुपलभ्येति वदन् देवदत्ते प्रत्यक्षतामेव गतेर्दर्शयति । अन्यथा तु देवदत्तादित्ययोरुभयोरपि कर्मणोऽनुमेयत्वात्केन विशेषेणादित्ये गत्यनुमानं सामान्यतो दृष्टतयोदाह्रियते । देवदत्तेऽपि हि सामान्यतो दृष्टादेव गतिसिद्धिः । अतो नैवंविधं ग्रन्थतो युक्तितो वा घटत इति सूक्तमनुपपन्नमिति । प्रतियोगिनोर्हि परस्परमसङ्करे द्वैविध्यं भवति । इह तु यत्{३,८५}प्रत्यक्षदृष्टसम्बन्धस्य प्रतियोगितयोपात्तं सामान्यतो दृष्टसम्बन्धं तत्रापि गतिप्राप्त्याकृत्योः प्रत्यक्षदृष्ट एव सम्बन्ध इति न प्रतियोगिनोरसङ्कर इति ॥ १३८ ॥ यदि तु दृष्टान्ते प्रत्यक्षतायामपि पक्षीकृतादित्यगतेरप्रत्यक्षत्वात्न प्रत्यक्षदृष्टस्सम्बन्ध इत्युच्यते । तदेतदाशङ्कते तावत् आदित्येऽनुपलब्धिश्चेदिति । इदानीं दूषयति नेति । कारणमाह देशेऽप्यधुनातन इति । देशेऽप्यधुनातने सम्प्रति प्रमीयमाणे, अप्रत्यक्षतोपलब्धिरेवेत्यर्थः । यदि त्वग्निधूमाकृत्योः क्वचिन्महानसादौ अप्रत्यक्षोपलब्धिरिष्यते सा तर्हि देवदत्तेऽपि गतेः प्रत्यक्षत्वादस्तीत्याह क्वचिदिति ॥ १३९ ॥ एवं तावत्प्रत्यक्षतो दृष्टता सामान्यतो दृष्टतया सङ्कीर्यते इत्युक्तम् । इदानीं सामान्यतो दृष्टतापि प्रत्यक्षतो दृष्टाभिमताग्न्याकृत्यनुमाने सङ्कीर्यत इत्याह यदीति पादत्रयेण । यदि हि देवदत्तादिधर्म्यन्तरापेक्षैवादित्ये गत्यनुमानस्य सामान्यतो दृष्टतेष्यते, सा तर्हि महानसादिधर्म्यन्तरापेक्षयाग्निधूमयोरपि गम्यगमकत्वेनावस्थितयोः प्राप्नोत्येव । सामान्यतो ह्यविवक्षितदेशादिभेदमिदमवगतं धूमवानग्निमानिति, यथा देशान्तरप्राप्त्यधिकरणं गत्यधिकरणमिति । अतः प्रतियोगित्वरहितमेवेदमुभयमिति द्वैविध्यानुपपत्तिरित्याक्षेपः । एवमाक्षिओय समादधाति तस्मादेवं प्रचक्षत इति । यथोक्तद्वैविध्यासम्भवादेवं वक्ष्यमाणप्रकारेण द्वैविध्यं वर्णनीयमिति भावः ॥ १४० ॥ तत्र प्रत्यक्षसम्बन्धं तावदुदाहरति प्रत्यक्षेति युध्यतेऽन्तेन । यदा हि ययोरेवाग्निधूमविशेषयोः, गोमयेन्धनो यमग्निः गोमयमिन्धनमस्येति{३,८६}बहुव्रीहिः, तज्जन्योऽयं धूमविशेष इति च प्राक्प्रत्यक्षेण मतिं कृत्वा पुनश्च कियता विलम्बनेनान्यत्र क्वचिद्गत्वा गतस्सन् तद्देशस्थेन तेनैव धूमविशेषेण तमेवाग्निविशेषं बुध्यते, तदा तत्प्रत्यक्षदृष्टसम्बन्धमनुमानं भवतीत्यर्थः । अनेन च विशेषदृष्टमेव प्रत्यक्षदृष्टशब्देनोच्यत इति व्याख्यातम् । प्रत्यक्षशब्देन हि विशेषो लक्ष्यते । प्रत्यक्षेण ह्ययमेवंविधोऽवान्तरविशेषो गोमयेन्धनतज्जन्यत्वादिरूपश्शक्यतेऽवगन्तुम् । न प्रमाणान्तरेण । तद्द्वारेण त्वनुमानस्यापि तादृशो विशेषो विषयो भवतीति युक्तैव प्रत्यक्षशब्देन विशेषलक्षणा । विशेषदृष्टं च सामान्यतो दृष्टस्य भवति प्रतियोगीति द्वैविध्योपपत्तिरिति भावः । ननु विशेषदृष्टं नाम (न) प्रमाणभेदः । न चेदं प्रमाणम्, गृहीतविषयत्वात् । तद्देशस्थितेनैव हि धूमेन तस्मिन्नेव देशे स एव गोमयेन्धनजन्याग्निरनुमीयते । अतो देशभेदाभावादप्रामाण्यमेव, अत आह तस्येति पादत्रयेण । तस्यैवंविधस्य प्रत्यक्षदृष्टस्य सन्दिह्यमानसद्भाववस्तुबोधात्प्रमाणता भवति । यद्यपि देशभेदो नास्ति । कालभेदात्तु संशयानस्य संशयोच्छेदद्वारेण प्रामाण्यमविहतमिति । एतच्च विन्ध्यवासिनापि विशेषदृष्टत्वेनोदाहृतमित्याह विशेषदृष्टमिति ॥ १४३ ॥ यदि विशेषदृष्टोदाहरणमिदं कथं तर्हि भाष्ये आकृतिग्रहणम् । एवं हि विशेष एव दर्शयितव्यो भवेत् । अत आह आकृत्योरेवेति । अयमर्थः केनचिद्गोमयेन्धनत्वादिनायान्तरविशेषेणोपदर्शितयोर्{३,८७}आकृत्योरेवात्र हेतुसाध्यत्वम् । एवं ह्यत्र प्रत्ययः । स एवायमद्य यावदनुवर्तमानो गोमयेन्धनविकारस्य धूमस्याकारो दृश्यते । अत एव तदिन्धनयोनिरग्निरनुवर्तत इत्यतो नानुपपन्नमाकृतिग्रहणमिति ॥ १४४ ॥ यद्येवमविवक्षितावान्तरविशेषमग्निधूमान्तरमेव सामान्यतो दृष्टोदाहरणतया वाच्यम् । किमादित्योदाहरणेन । अत आह अग्निधूमान्तरत्वे चेति । यथा ह्यग्निधूमाकृत्योस्तृणदारुगोमयेन्थनादिजन्मा सुव्यक्तो विशेषः सर्वप्रमातृस्वसंवेद्यो भवति, नैवं गतिप्राप्त्याकृत्योः । अतः प्राप्त्याकृतिमात्राद्गत्याकृतिमात्रानुमानमादित्य एकान्ततस्सामान्यतो दृष्टसम्बन्धमिति युक्तमेवादित्योदाहरणमिति ॥ १४५ ॥ किं पुनस्सामान्यतस्सम्बन्धग्रहणे प्रमाणम् । न ह्यगृहीतयोस्सम्बन्धिनोस्सम्बन्धग्रहणमस्ति । न च सामान्ययोः प्रत्यक्षग्रहणं सम्भवति । तस्य स्वलक्षणैकविषयत्वात् । नानुमानमनवस्थापातात् । अत आह प्रत्यक्षविषयत्वमिति । भवेदनवस्था, यद्यनुमानेन सामान्यग्रहणमिष्यते । तस्य तु सविकल्पकसिद्धौ प्रत्यक्षविषयत्वमुपपाद्यान्त उपसंहृतं प्रत्यक्षत्वमतस्सिद्धं सामान्यस्येति । ननु वस्त्वेव न सामान्यं किञ्चिदस्ति नाम । तस्य भिन्नाभिन्नस्यानिरूपणादत आह वस्तुत्वं चेति । वस्तुत्वमप्याकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यते । प्रत्यक्षविषयताप्रतिपादनेन च प्रत्यक्षेऽपि प्रसाधितप्रायमेव । अत्र च अस्ति सामान्यवस्तुष्वित्यन्वयोपपादनाय सामान्यस्य वस्तुत्वमुपन्यस्तमेव । अयं तु हेतुकथनार्थः पुनरुपन्यास इति । यस्तु हैतुको न हेतुमन्तरेण प्रमाणान्तरसिद्धावाद्रियते । तं प्रति हेतुनैवोभयमुपपादयिष्याम इत्याह अत्रेति ॥ १४६ ॥ {३,८८} तत्र वस्तुत्वप्रसाधनार्थं तावधेतुमाह धूमादग्न्यनुमानस्येति । बौद्धा ह्यवस्तुसामान्यालम्बनमनुमानमाचक्षते । सामान्यस्य विकल्पाकारमात्राभ्युपगमात् । अत एव भ्रान्तिरेवानुमानं, सम्बन्धबलेन स्वलक्षणरूपमुपस्थापयतीति प्रमाणमित्याहुः । तानेव प्रतीदमुच्यते वस्त्वालम्बनमनुमानमभावान्यप्रमाणत्वात्यथा स्वार्थे श्रोत्रादिबुद्धिः । या हि स्वविषये श्रोत्रादिभिरिन्द्रियैर्बुद्धिर्जन्यते, सा वस्त्वालम्बनैव । येन च यदिन्द्रियं सन्निकृष्यते स तस्य स्वार्थः प्राप्यकारित्वादिन्द्रियाणाम् । तदिह मृगतृष्णादिज्ञाननिराकरणार्थं स्वार्थविशेषणम् । अविशेषेणोपादाने तु नाभावान्यप्रमाणत्वस्य वस्त्वालम्बनतया व्याप्तिः कथिता भवेत् । भ्रान्तीनामुभयविकलत्वात् । न हि ताः प्रमाणम् । न च वस्त्वालम्बनाः । अन्यसम्प्रयुक्तेन्द्रियस्य हि ता अन्यविषया जायन्ते । ईदृशमेव ज्ञानमवस्त्वालम्बनं, न पुनरत्यन्तासदर्थम् । एवं वस्त्वालम्बनत्वेऽनुमानस्य साधिते अर्थात्सामान्यं वस्त्वित्युक्तं भवति । इदं चावस्त्वालम्बनत्वमनुमानस्यार्थपदं प्रयुञ्जानेन भाष्यकारेण निराकृतम् । अनर्थविषयमनुमानमिति बौद्धा मन्यन्ते । यद्वदिति(?) स्वप्रतिभासेऽनर्थेऽर्थाध्यवसायेन प्रवर्तमाना भ्रान्तिरप्यर्थसम्बन्धेन प्रवृत्तेस्तदव्यभिचारात्प्रमाणमनुमानमिति, तेषामिदमुत्तरमर्थस्सामान्यमनुमानस्य विषयो बाह्य एव । न विकल्पाकारमात्रमित्याकृतिग्रन्थे विस्तरेण प्रतिपादयिष्यत इति ॥ १४७ ॥ एवमर्थाद्वस्तुत्वं प्रसाध्याह्रत्य प्रसाधयति सामान्यस्य च वस्तुत्वमिति । सामान्यं वस्तु अभावान्यप्रमेयत्वादसाधारणवस्तुवदिति वक्ष्यमाणेन सम्बन्ध इति । प्रत्यक्षविषयतामिदानीं प्रयोगेण दर्शयति प्रत्यक्षेति पादत्रयेण । यदभावान्यप्रमेयं तत्प्रत्यक्षेण गृह्यत एव । यथा सौगतानामेवासाधारणं वस्त्विति ॥ १४८ ॥ {३,८९} बौद्धानामेव तु सामान्यमनुमानैकविषयं मन्वानानामनवस्था प्रसज्यत इत्याह सामान्यमिति पञ्चभिः । निगदव्याख्यातो ग्रन्थः ॥ १४९ १५३ ॥ यदि तूच्यते लिङ्गभूतसामान्यग्रहणार्थमनुमानापेक्षायामनवस्था भवति, न तद्ग्रहणार्थमनुमानमपेक्ष्यते, धूमादिस्वलक्षणदर्शनप्रभवविकल्पवेद्यत्वात्तस्य । न चासावप्रमाणम्, अर्थक्रियासमर्थवस्तुप्रतिलम्भात् । न च प्रमाणमनर्थविषयत्वात् । अतोऽनिर्वचनीयविकल्पसिद्धत्वात्लिङ्गस्य नानवस्था भवतीत्याशङ्क्याह अथेति । अयमभिप्रायः न तावत्प्रमाणमप्रमाणं च ज्ञानं सम्भवति । विरुद्धस्वभावयोरेकत्र प्रतिषेधेऽन्यतरापत्तेरपरिहार्यत्वात् । अप्रमाणस्य च प्रमेयव्यवस्थापनाशक्तेरवश्यं प्रमाणमेव तज्ज्ञानमभ्युपगन्तव्यम् । प्रत्यक्षानुमानानभ्युपगमाच्च प्रमाणान्तरमेवापद्येत ।{३,९०}प्रमाणान्तरं च सद्यथा तल्लिङ्गसंवेदने प्रमाणमिष्यते, एवं लिङ्गिन्यपि प्राप्नोति । एवं च वक्ष्यमाणप्रसङ्गो भवेत् । प्रमाणादप्रमाणाद्वेति वदन्ननिर्धारितोभयरूपतां विकल्पस्य दर्शयतीति ॥ १५४ ॥ अस्तु तर्हि लिङ्गिनोऽपि तथैवावगमः, को दोषः, अत आह एवमपीति । अयमभिप्रायः अनवस्थामपि प्रसञ्जयतामस्माकमनुमानोच्छेदापादनमभिमतम् । प्रमाणान्तराभ्युपगमेऽपि चानुमानोच्छेदो भवत्येव । तदेव हि प्रमाणं तदा सर्वस्य लिङ्गलिङ्गिसामान्यस्यावबोधकं भवेदिति ॥ १५५ ॥ यदि त्वेकरूपाभ्युपगमेऽप्रमाणत्वमेव लिङ्गज्ञानस्येष्यते, ततोऽप्रमाणावगताल्लिङ्गाल्लिङ्गिज्ञानमपि मिथ्या भवेत् । बाष्पादिव धूमसंविदितादग्निज्ञानम् । एवं च नानुमानमिति । स एवानुमानस्य नित्योच्छेदमित्यभिप्रायेणाह अप्रमाणावबुद्धादिति ॥ १५६ ॥ अत्र चोदयति नन्विति । यथा ह्यप्रमाणमेव सम्बन्धस्मरणं प्रमाणकारणमिष्यते तथा लिङ्गज्ञानमपि भविष्यतीत्यर्थः ॥ १५७ ॥ परिहरति तत्रेति । स्मृतिर्हि पूर्वज्ञानाद्भवन्ती तदुपस्थापनद्वारेणानुमायामुपयुज्यते । तच्च प्रमाणमेवेति तदनुसारी निर्णयो युक्त इति ॥ १५८ ॥ {३,९१} न चैष प्रकारो लिङ्गगतौ सम्भवतीत्याह न त्विति । न ह्यत्र प्रागपि लिङ्गावगमे प्रमाणं किञ्चिदुपपद्यते, यत्प्रमाणज्ञानेनोपस्थाप्यत इति । न च लिङ्गज्ञानमपि स्मृतिरेवेति वाच्यम् । पूर्वप्रमाणाभावादेवेत्याह तदभावादिति ॥ १५९ ॥ ननु निर्विकल्पकगृहीतधूमादिस्वलक्षणपरिप्रापकतया लिङ्गज्ञानमपि स्मृतिरेव । अतोऽत्रापि निर्विकल्पकप्रमाणान्तरतो निर्णयो युक्त एव । अत आह स्मार्तमिति । यथा सम्प्रति सम्बन्धज्ञानं गृहीतप्रापकतया स्मरणम्, एवमेतदपि लिङ्गज्ञानं निर्विकल्पकगृहीतप्रापकतया तदभेदेन स्मार्तमिति यो वदति तस्य वन्ध्यासुतेऽपि स्मरणशक्तिरनिवारिता । गृहीतविषया हि स्मृतिरिति स्थितिः । न च लिङ्गसामान्यज्ञानं निर्विकल्पकगृहीतस्वलक्षणालम्बनमिति कथं स्मृतिः । यदत्र प्रकाशते तन्न गृहीतं, यच्च गृहीतं तन्न प्रकाशत इति न स्मृतित्वम् । अगृहीतगोचरायां तु स्मृतौ वन्ध्यासुतेऽपि स्मरणप्रसङ्ग इति ॥ १६० ॥ नन्वनुमानेन लिङ्गसामान्यज्ञानेऽनवस्था भवति, यदि सामान्यात्मकमेव लिङ्गं तद्ग्रहणार्थमिष्यते, तस्यानुमानवेद्यत्वात् । असाधारण एवार्थात्मा सामान्यज्ञाने लिङ्गं भविष्यति, स च प्रत्यक्ष एवेति नानवस्था । अत आह न चेति । किं न कारणमत आह यस्मादिति । दृष्टाविनाभावं लिङ्गं भवति । न चास्य तेन सामान्येनाविनाभावः कथञ्चिद्देशतः कालतो वा दृष्टः । असाधारणस्य भावान्तरेष्वनुस्यूत्यसम्भवादेकत्र दृष्टस्य च तत्रैव निरुद्धत्वादिति ॥ १६१ ॥ {३,९२} सम्बन्धदर्शनाभ्युपगमे वा कृतकत्वादिवत्सामान्यरूपतापत्तिरित्याह स्याद्वेति । अत्र कारणमाह न हीति ॥ १६२ ॥ इतश्चासाधारणोऽर्थात्मा न लिङ्गमित्याह न चेति । धूमादिर्हि धूमोऽयमित्यादिविकल्पास्पदीकृतोऽग्न्यादेर्लिङ्गमिति दृष्टम् । असाधारणस्तु केनचिद्रूपेणाप्यव्यपदेश्यः कथं लिङ्ग भवेदिति । लिङ्गत्वं नोपपद्यत इति वक्ष्यमाणेन सम्बन्ध इति । ननु तिरश्चामसत्येव शब्दोल्लेखेऽसाधारणरूपदर्शिनामेवानुमानं दृष्टमतो नाव्यपदेश्यत्वादलिङ्गत्वमत आह विकल्पेति पादत्रयेण । अयमभिप्रायः मा नाम तिरश्चां शब्दोल्लेखो भवेत्, अर्थविकल्पस्तु तेषामपि पूर्वापरानुसन्धानात्मकोऽस्त्येव । अतो युक्तमेव तेषामनुमानेऽव्यपदेश्यस्यापि लिङ्गत्वम् । असाधारणस्तु पूर्वापरानुसन्धानाद्विनार्थविकल्परहितोऽपीति कथं लिङ्गम् । न हि सोऽयमित्यनारूढो बुद्धौ धूमो ऽग्नेर्लिङ्गं भवति । न चैवमसाधारणे सम्भवति, पूर्वापरानुसन्धानागोचरत्वात्तस्येति ॥ १६३ ॥ अस्मन्मतेऽपि येऽसाधारणात्मानो धूमादयो विशेषा विकल्प्यन्ते तेऽप्यन्वयाभावादलिङ्गं, किमङ्ग पुनर्निर्विकल्पकैकगोचरोऽसाधारणोऽर्थात्मा इत्याह कल्प्यन्त इति । अन्वयाभावादेवासाधारणज्ञानमपि लिङ्गिसामान्यज्ञाने न लिङ्गमित्याह एतस्मादेवेति ॥ १६४ ॥ यदि त्वन्वयसिद्ध्यर्थमसाधारणस्य सामान्यरूपतेष्यते, ततो लिङ्गसामान्यग्रहण इवानवस्थाप्रसङ्गात्तस्याप्यनवधारणमित्याह {३,९३}सामान्येति । यदि तु कस्मिंश्चिदेवासाधारणे सामान्येन ज्ञातसम्बन्धे न्यदर्शिनापि सामान्यमनुमीयते । एवं तर्हि सर्व एव सर्वस्य प्रत्यायको भवेत् । अविशेषादित्याह क्वचिद्वेति ॥ १६५ ॥ एवं तावन्न लिङ्गावधारणे प्रमाणमस्तीत्युक्तम् । इदानीमन्वयग्रहणकाले लिङ्गिज्ञानेऽपि न किञ्चित्प्रमाणमस्तीत्याह सम्बन्धानुभव इति । नागृहीते लिङ्गिनि तत्सम्बद्धं लिङ्गं शक्यतेऽवगन्तुम् । न चानुमानप्रवृत्तेः प्राक्तस्मिन् सामान्यात्मनि भवनः किञ्चित्प्रमाणमस्त्यस्माकमिव प्रत्यक्षम्, अतो लिङ्गिन्यप्यवगम्यमानेऽनवस्थाप्रसङ्ग इत्यभिप्रायः ॥ १६६ ॥ नन्वनादिकालीनवासनामात्रनिबन्धन एवायं लिङ्गलिङ्गिसंव्यवहारः, किमिहातिनिर्बन्धेन । काचिदेव हि वासनोद्भूता किञ्चिल्लिङ्गाकारं विकल्पमाविर्भावयन्ती किञ्चिदेवानुमानसंव्यवहारं प्रवर्तयति । यथाहुः स एवायमनुमानानुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन, न बहिस्सदसत्त्वमपेक्षत इति, अत आह न चापीति । न वासनामात्रनिर्मितं लिङ्गज्ञानम् । वासना हि पूर्वानुभवाहितस्संस्कारः । नासौ लिङ्गसामान्यस्य शशविषाणादिवदत्यन्तासतस्सम्भवतीति कथं वासनामात्राल्लिङ्गज्ञानस्य सम्भव इति । तन्निबन्धने च लिङ्गज्ञान इष्यमाणे तद्वदेव लिङ्गिज्ञानोपपत्तेरनर्थकं त्रिरूपाल्लिङ्गतोऽर्थदृगनुमानमित्यनुमानप्रामाण्याश्रयणम् इत्याह लिङ्गिज्ञानं चेति ॥ १६७ ॥ {३,९४} नन्वियमनवस्था मेघाभावेन वृष्ट्यभावानुमाने भवतोऽपि समानैव, अभावस्यानुपलब्धिलिङ्गत्वात् । सजातीयलिङ्गान्तरापेक्षायामनवस्थापद्यते । अत आह यत्रेति । यत्र हि वृष्ट्यभावे मेघाभावो लिङ्गं नासावनुमेयः, अभावाख्यप्रमाणान्तरगम्यत्वात् । अतो नात्र तुल्यजातीयापेक्षानिबन्धनोऽनवस्थादोषो जायत इति ॥ १६८ ॥ प्रत्यक्षसामान्यवादिनां तु न नः काचिदनवस्थेत्याह प्रत्यक्षावगतादिति । अतः प्रत्यक्षादित्यर्थः ॥ १६९ ॥ अनुमितानुमाने तर्ह्यनवस्था, अत आह यत्रापीति । प्रत्यक्षा हि देशान्तरप्राप्तिर्मौलिकं मूले भवं लिङ्गं, तेन गतिमनुमायादित्ये गतिसाधनेऽनुमीयमाने नानवस्थेत्यभिप्रायः ॥ १७० ॥ नन्वनित्यश्शब्दः कृतकत्वात्, कृतकत्वं च तत्र दर्शनादित्येवं कर्मानन्तरभावितया कृतकत्वे साध्यमाने कर्मणोऽपि हेत्वन्तरादनुमानेऽनवस्था भवेदत आह लिङ्गत्वमिति । कृतकत्वानुमाने हि कर्मैके तत्र दर्शनाद् । इति कारकव्यापारानन्तरभावित्वं लिङ्गमुक्तम् । तत्र च कारकविशिष्टा क्रिया तद्विशिष्टं वा कारकमनन्तरभावितां विशिंषल्लिङ्गमापतति । उभयं{३,९५}च तत्प्रत्यक्षम् । क्रियायास्तावत्प्रत्यक्षत्वमनन्तरमेव साधितम् । कारकमपि तद्वत्प्रत्यक्षमेव । शक्तिस्तु परोक्षा । सा च न तावदिह लिङ्गम् । न चानुमेया । अतः क्रियाकारकयोरुभयोरपि प्रत्यक्षत्वान्न दूरगमनम् । अनुमेयकर्मवादिनामपि हि फलावध्यवस्थानान्नानवस्था, नितरामस्माकमिति ॥ १७१ ॥ एवं तावदनुमानस्यासति सामान्यस्य वस्तुत्वे प्रत्यक्षत्वे च दौस्थित्यमुक्तमिदानीं सर्वमेव प्रमाणजातं सामान्यस्य दौस्थित्ये दुस्थितमापद्येत तेषामपि सामान्याश्रयत्वात् । न च तदप्रमाणं वक्ष्यमाणन्यायादित्यभिप्रायेणाह एवमिति ॥ १७२ ॥ अतोऽवश्यं प्रमाणान्तराणां प्रत्यक्षपूर्वकत्वमेष्टव्यं सामान्यस्य च प्रत्यक्षत्वम्, इतरथा त्वनवस्था प्राप्नोतीत्युपसंहरति तस्मादिति ॥ १७३ ॥ एवं तावत्सामान्यस्य प्रत्यक्षत्वं वस्तुना चोपपादिता इदानीं विशेषा एव प्रत्यक्षेण गृह्यन्त इति ये वदन्ति, तान् प्रत्याह प्रत्यक्षेति । विशेषो हि यदि तावदवयवी द्रव्यमभिमतः, स चावयववस्त्वन्तरापेक्षस्सामान्यांशोऽस्माभिः कीर्त्यत इति कथं प्रत्यक्ष इति ॥ १७४ ॥ यदि त्ववयविरूपादय एव विशेषा इष्यन्ते, तदप्ययुक्तम् । तेऽपि हि स्वविशेषनीलाद्यपेक्षया सामान्यमेवेत्याह रूपादयो हीति ।{३,९६}यदि तु नीलादय एव विशेषा इति मतम् । तन्न । तेषामप्यवान्तरनीलाद्यपेक्षया सामान्यरूपत्वादित्याह स्वविशेषानिति ॥ १७५ ॥ यदि त्वेकभ्रमरादिद्रव्यनीलिमैव विशेष इष्यते, तन्न । तस्यापि पक्षादिस्वावयवाश्रितनीलविशेषापेक्षया सामान्यरूपत्वात् । पक्षनीलिमापि तदवयवनीलापेक्षया सामान्यमेव । एवं च अपरमाणुभ्यः प्रसङ्गो दर्शयितव्य इत्याह ते चापीति । निर्भागा हि परमाणव इति तद्रूपमसाधारणमेवेति । तेभ्यस्तु प्राक्द्व्यणुकरूपमपि द्वयोस्साधारणमित्याह द्व्यणुकस्यापीति ॥ १७६ ॥ नन्वस्तु परमाणुरूपमेव विशेषः, स एव नः प्रत्यक्षो भविष्यत्यत आह न चान्त्येनेति । व्यवहारार्थं हि प्रमाणमनुस्रियते, न व्यसनितया । न चान्त्येन विशेषेण व्यवहारः कस्यचिदस्तीति किं तत्प्रत्यक्षतयेति । ननूपेक्षाफलमपि प्रमाणं भवत्येव, अत आह न चेति । न नः परमाणूनां रूपं स्थूले वर्तमानानां तन्तूनामिव पटे प्रत्यक्षं विभक्तानां वेति न कथञ्चिद्विशेषविषयता प्रत्यक्षस्येति ॥ १७७ ॥ ननु परमाणव एव भिन्नास्सञ्चिता गृह्यन्ते न कार्यद्रव्यमेकम् । अतः कथं तत्सावयवेषु सामान्यमित्युच्यते । सञ्चिता एव चानन्यवृत्तितया विशेषासाधारणादिपदवाच्या इति ते प्रत्यक्षा भविष्यन्ति । मा नामैकैकतः परमाणुरक्षगोचरो भवेदत आह भेदेनेति । एको हि सर्वदा सर्वेषां च भावः प्रकाशते न परमाणुभेदाः । न च भेदेनागृह्यमाणोऽभेदो गृह्यत इति साम्प्रतम् । संविद्विरोधादिति भावः । नन्वयमेव भेदावग्रहो{३,९७}योऽयमभिन्नप्रकाशः, किं भेदग्रहणेनात आह न च भिन्नेति । नाभिन्नाकारबुद्धिबोध्यो भेदः, भेदाभेदविवेकानुपपत्तेरिति भावः ॥ १७८ ॥ नन्वसत्यप्येकस्मिन् समुदायालम्बनोऽयमभिन्नावभासो भविष्यतीत्यत आह समुदाय इति । ये हि सामान्यमेव सर्वजगत्संविदितमपलपन्ति कुतस्तेषां समुदायो नामार्थान्तरं, यदालम्बनोऽभिन्नप्रतिभासो भविष्यति । अपि च सर्वदा सर्वे चैकं द्रव्यमवबुध्यन्ते कथं तदन्यथा भविष्यतीत्याह न च सर्वदेति ॥ १७९ ॥ किञ्चायं समुदायोऽपि नैकजात्या विनोपपद्येत । न हि नानाजातीयेषु वृक्षघटलोष्टेषु कस्यचित्समुदायबुद्धिरस्ति । अतस्समुदायेऽपीष्यमाणेऽणुत्वसामान्यमभ्युपगन्तव्यमापद्येत भवतामित्याह न चेति । हेतौ चः॥ १८० ॥ ननु नानेकावयववृत्त्यनुसन्धानेन विना तत्सामान्यरूपं द्रव्यमभ्युपगन्तुं शक्यम् । न चैन्द्रियकं ज्ञानमेता(?वि।व)ति समर्थमविकल्पकत्वात्तस्य । अत आह सामान्यमितीति । यद्यप्यनेकानुगमकॢप्तेस्तन्नानावयवव्यासङ्गि द्रव्यं सामान्यमित्येवं विकल्प्य न गृह्यते । तथापि तदेकरूपं तावन्निर्विकल्पकेनापि गृह्यत एवेति नापह्नोतुं शक्यत इति व्यासज्यवृत्त्यवयविसामान्यन्यायेन प्रतिव्यक्तिवर्तिनोऽपि गोत्वादिसामान्यस्यैन्द्रियकत्वं दर्शयितव्यम् । तदपि सामान्यमित्यनेन रूपेणाग्राह्यं वस्तुतस्सामान्यमेव गृह्यते । शब्दादिस्मरणोत्तरकालं त्वनेकानुगमावमर्शात्सामान्यमिति विकल्प्य गृह्यते । इदं च सविकल्पकसिद्धावुक्तमेव । अतो नैवं वाच्यम् अस्त्ववयविसामान्यस्य स्वलक्षणापरनाम्न इन्द्रियैर्ग्रहणम्, न तु प्रतिव्यक्तिनिवेशिन इति ॥ १८१ ॥ {३,९८} उभयत्रापि प्रत्ययाविशेषादित्याह व्यासज्येति । तदनेनैतदापादितम् किमिदं मुधैव सामान्यस्य प्रत्यक्षता नेष्यते, विशेषमपि हि प्रत्यक्षमिच्छद्भिर्बलात्सामान्यमेव प्रत्यक्षमाश्रयणीयम्, सर्वस्य हि सुनिपुणं निरूप्यमाणस्य रूपादेस्सामान्यरूपत्वाद्, द्रव्यस्य च नानावयवसाधारणस्य ताद्रूप्यात्, स्वतन्त्रं परमाणुसञ्चयमात्रस्य चानुपलम्भाद्द्रव्यापलापे च प्रत्यक्षविरोधात् । अतोऽवयविसामान्यं तत्समवेतानि च गोत्वादिसामान्यानि सर्वाण्येव प्रत्यक्षाणि न विशेषा एवेति तात्पर्यम् । एवम्परत्वादेव च प्रदेशान्तरसिद्धसामान्यावयविसामान्यप्रत्यक्षताप्रतिपादनेन न पुनरुक्तता चोदनीयेति ॥ १८२ ॥ ननु भवद्भिर्मीमांसकैस्तावदवश्यमभ्युपगन्तव्याः परमाणवः । अतस्तेषामेवोभयसिद्धानां परमेकाकारबुद्धिजननशक्तिमात्रमेवोपकल्पितम् । किं धर्मिकल्पनया । लघीयसी हि तत्कल्पनातो धर्मकल्पना । अत आह मीमांसकैश्चेति । अयमभिप्रायः । यद्धि प्रमाणेनोपनीयते, तदस्माभिरिष्यते, न च स्थूलं हित्वा परमाणव एवाक्षजायां बुद्धौ भासन्ते, यत्तानुपेत्य स्थूलमवजानीमहे । तदानुगुण्येन तु यद्यणवो व्या(?प्पा)द्यन्ते, भवन्तु, न तद्बलेन मूलभूतं स्थूलमपलपितुमुत्सहामह इति ॥ १८३ ॥ प्रत्यक्षं तु स्थूलमदृश्यैः परमाणुभिः निह्नुवानस्य शशोऽपि तद्विषाणधिया निह्नोतव्यः प्राप्त इत्याह समूहरूपमिति ॥ १८४ ॥ {३,९९} किमिदानीं शशविषाणकल्पाः परमाणवः । नेत्याह समूहेति । न ह्यत्र कल्पनालाघवेन प्रत्यक्षसिद्धो धर्मी परित्यागमर्हति । सिद्धे च तस्मिंस्तदनुगुणाः परमाणव इति केन नेष्यते । सिद्ध्युपायस्तु तेषामन्यो नास्तीति परमाणवो नावश्यमिष्यन्त इत्युक्तं भवति ॥ १८५ ॥ अतो यदेव वस्तु सामान्यविशेषयोरपरोक्षं गृह्यते, तत्तथैवापरोक्षतयैवाभ्युपगन्तव्यम्, न तु विशेष एव प्रत्यक्षो न सामान्यमिति वाच्यमित्युपसंहरति तस्मादिति ॥ १८६ ॥ अस्तु वासाधारणमेव प्रत्यक्षं, तथापि न सामान्यस्य प्रत्यक्षमपह्नोतुं शक्यते । गोत्वादिसामान्यानामपि सत्तादिपरसामान्यापेक्षयासाधारणत्वात् । अतो यद्यसाधारणं प्रत्यक्षमित्याग्रहो भवतामेवमपि न गोत्वादिसामान्यमप्रत्यक्षमिति प्रत्यक्षसामर्थ्यसिद्धत्वान्न शक्यमपह्नोतुमित्याह सत्तादीति ॥ १८७ ॥ यदि तूच्यते प्रत्यक्षेण गृह्यमाणमपि सामान्यं न सामान्योल्लेखेन गृह्यत इति (न) प्रत्यक्षमिति, तदेतदाशङ्कते सामान्येति । परिहरति किं वेति । एवं ह्यसाधारणमपि न प्रत्यक्षं भवेत् । तत्रापि निर्विकल्पकावस्थायां{३,१००}परव्यावृत्त्यकल्पनादसाधारणोल्लेखो नास्त्येवेति । यदि तु ताद्रूप्येणाविकल्पितमपि स्वरूपेण विकल्पकोऽवबुध्यत इति तत्प्रत्यक्षम् । एवं तर्हि द्व्याकारमेव संमुग्धं वस्तु लोकः प्रतिपद्यत इति परीक्षकैरुभयथापि तत्शक्यत एव वक्तुमिति सिद्धं द्व्याकारमेव वस्तु प्रत्यक्षेण गृह्यत इति । सिद्धं च सामान्यतस्सम्बन्धदर्शनमित्यभिप्रायेणाह यद्वस्तु लोकः प्रतिपद्यते ऽस्मिन् द्विधापि तत्शक्यत एव वक्तुमिति । अस्मिन्निति प्रत्यक्षज्ञान इत्यर्थः ॥ १८८ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम् अनुमानपरिच्छेदः समाप्तः ॥ ००६ शब्दपरिच्छेद अथ शब्दपरिच्छेदः अत्र प्रत्यक्षानुमानयोरपरीक्ष्यत्व उक्ते शास्त्रस्याप्यपरीक्ष्यताप्रतिपादनार्थं भाष्यम् शास्त्रं शब्दविज्ञानादसन्निकृष्टेऽर्थे विज्ञानमिति । ननु वृत्तिकारमते न परीक्षितव्यं निमित्तमिति प्रतिज्ञाय{३,१०१}प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रमित्युक्तेः प्रत्यक्षव्यभिचारेण परीक्षामाशङ्क्य तदव्यभिचार उक्तेऽनन्तरमेव शास्त्रस्यापरीक्षा प्रतिपाद्यत इति युक्तम्, तद्धि प्रकृतम्, किमनुमानेन व्यवधीयते । सत्यमेवम् । अयं तु तन्त्रान्तरानुसारेण क्रम आश्रितः । तथा हि नाप्रत्यक्षं प्रमाणमिति लोकायतिका मन्यन्ते । ते हि वैशेषिकाद्याश्रितप्रत्यक्षानन्तरानुमान प्रामाण्यप्रतिपादनेन प्रतिबोध्यन्ते । एवं हि वैशेषिकाः पठन्ति द्विविधं प्रमाणमालोचिताध्यवसानमनालोचितानुगमनं चेति । तथान्येऽपि प्रत्यक्षमनुमानं च द्वे एव प्रमाणे इति । यथाक्षपादीयैरपि प्रत्यक्षानन्तरमनुमानं लक्षितम् तत्पूर्वकं त्रिविधमनुमानमिति । तेनेहापि तावत्प्रत्यक्षानन्तरमनुमानं वर्णितम् । ततो महाविषयतया प्रकृतत्वेन पुरुषार्थौपयिकत्वेन च शास्त्रम् । तदनन्तरं च यत्र क्वचन वाच्ये बहूनां प्रसिद्धमित्युपमानमुक्तम् । न्यायविस्तरे हि प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानमित्युक्तम् । ततः पाराशर्यमतेनार्थापत्तिरुक्ता । तदुत्तरकालमेव तन्मतानुसारिणा कृतकोटिनोक्तत्वात् । अभावप्रमाणस्य तु भावप्रमाणाभाव एवात्मेति तदुत्तरः प्रस्तावः । किं पुनस्तन्त्रान्तरानुसारस्य प्रयोजनम् । उच्यते । प्रसिद्धत्वेन ह्यपरीक्षा प्रतिपाद्यते । तन्त्रान्तरेष्वेवमिमानि प्रमाणानि प्रसिद्धानीति प्रसिद्धिप्राबल्यं कथितं भवति । व्युत्थिताश्च तेन तेन साक्षिणा प्रतिपादिता भवन्ति । अत्र च शब्दविज्ञानादित्युच्यते, तत्कथं विगृह्यते । किं शब्दाद्विज्ञानं शब्दस्य वा विज्ञानमिति । पूर्वत्र समासानुपपत्तिः । भयेन हि पञ्चमी समस्यते । उत्तरत्र तु सविकल्पकप्रत्यक्षेऽपि शास्त्रत्वप्रसङ्गः, शब्दविज्ञानादेव हि गौरित्येवमादयोऽसन्निकृष्टार्थविकल्पा भवन्ति । अत्रोच्यते । षष्ठीसमास एवायम् । न च सविकल्पके प्रसङ्गः, न हि तच्छब्दप्रमाणादुत्पद्यते, अपि तु शब्दसहायादिन्द्रियात् । यथैव हि गन्धसहकृतमिन्द्रियं तैलाद्विलीनं घृतं विविनक्ति । एवं शब्दसहकृतं जात्यादीन् । तथा चाक्षसम्बन्धफलमपरोक्षावभासिता । त(?त्र्च्च) सविकल्पकेऽस्तीत्युक्तं प्रत्यक्षान्ते । अतो यदेव शब्दशक्तिविमर्शोत्थं विज्ञानमसन्निकृष्टार्थगोचरं तच्छाब्दम् । अत एव न पदार्थमात्रज्ञानं शाब्दम् । न हि तदसन्निकृष्टार्थगोचरम् ।{३,१०२}वक्ष्यति हि स्मारकान्न विमृश्यत इति । किं नाम तर्हि शाब्दम्, वाक्यार्थज्ञानमिति वदामः । न (नु) तत्पदार्थज्ञानादुत्पद्यते, न शब्दज्ञानात् । न । अवान्तरव्यापारत्वात्पदार्थप्रतिपादनस्य शब्दानाम्, पाक इव काष्ठानां ज्वलनस्य । वक्ष्यति हि पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् । इति । अतो न किञ्चिदनुपपन्नमिति । इदं तु वक्तव्यं किमिदं सामान्यलक्षणावसरे विशेषलक्षणं प्रणीयते शब्दविशेषो हि शास्त्रम् । तद्यदि वक्तव्यम्, एवमपि सामान्यलक्षणमुक्त्वा (?वक्ष्यत्लक्ष्येत) । यत्पुनरतित्वरितेनैव सामान्यलक्षणावसरे विशेषो लक्ष्यते तदसाम्प्रतम् । न हीह प्रत्यक्षादीनां चाक्षुषत्वादयो विशेषा लक्ष्यन्ते । ततः प्रत्यक्षादिषु सामान्यतो वक्तुमारब्धेषु मध्ये शब्दमात्रस्यैव लक्षणं वक्तुं युक्तम्, न शास्त्रस्येति । तदेतदाह प्रत्यक्षादिष्विति ॥ १ ॥ दूषणान्तरमाह सामान्येति । निर्ज्ञातसामान्यलक्षणो हि तद्विशेषं बोधयितुं शक्यो नेतरः । न ह्यलक्षिते द्रव्ये तद्विशेषाः पृथिव्यादयो लक्षयितुं शक्यन्त इति ॥ २ ॥ एवं तावत्शास्त्रमिति लक्ष्यनिर्देशोऽनुपपन्न इत्युक्तम् । शब्दविज्ञानादित्यादि लक्षणमपि लक्ष्यविशेषे न सङ्गच्छत इत्याह यच्चोक्तमिति ॥ ३ ॥ कीदृक्तर्हि शास्त्रलक्षणमत आह प्रवृत्तिरिति ।{३,१०३}प्रवृत्तिनिवृत्त्युपदेशकं हि नित्यं वेदवाक्यमनित्यं धर्मशास्त्रादिकं शास्त्रमुच्यते न शब्दमात्रमिति ॥ ४ ॥ ननु स्वरूपमात्राभिधायिनामपि क्षेपिष्ठादिवाक्यानां शास्त्रत्वमिष्यते, किमुच्यते प्रवृत्तिनिवृत्त्यङ्गं शास्त्रमिति । अत आह स्वरूपेति । तदङ्गत्वेनेति । विधायकवाक्यैकदेशत्वेनेत्यर्थः । अस्ति हि तत्रापि वायव्यं श्वेतमालभेत भूतिकाम इति विध्युद्देशः । तेनैकवाक्यभूतो वायुर्वै क्षेपिष्ठेत्येवमादिः । अतो युक्तं तस्यापि शास्त्रत्वमिति ॥ ५ ॥ नन्वर्थवादा न तावत्साक्षात्क्रियां प्रतिपादयन्ति । नापि तदंशम् । त्रयोऽपि हि तदंशाः साध्यं साधनमिति कर्तव्यता चेति । न चैषामन्यतमममीभिरभिधीयते । अतोऽक्रियार्थानामेकवाक्यतामेव न मन्यामहे । अत आह भावनायामिति शास्त्रमित्यन्तेन । अयमभिप्रायः यद्यपि न क्रियां गमयति, न च क्रियासम्बद्धं किञ्चित्साधनादि, तथापि विधिना शब्दभावनापरनामधेयेन सहैषामेकवाक्यता । विधिर्हि पुरुषं प्रवर्तयितुं विषयप्राशस्त्यज्ञानमपेक्षते । तच्चार्थवादाश्शक्नुवन्ति कर्तुमिति तत्कुर्वतामेषामस्ति प्रवृत्तिनिवृत्त्योरुपयोगः । अतस्समस्तायां त्र्यंशपूर्णायाम् एव भावनायां महावाक्यादेव सार्थवादकात्पुरुषः प्रवर्तते निवर्तते वा न विध्युद्देशमात्रादिति सार्थवादकमेव वाक्यं शास्त्रमिति । एतच्चार्थवादाधिकरणे प्रपञ्चयिष्यामः । दर्शितं च किञ्चिद्विधिविवरणे इत्यलमनेनातिपरिस्पन्देनेति । यत एव सार्थवादकात्प्रवृत्तिनिवृत्तिज्ञानम्, अत एव विधिवाचिनः प्रत्ययमात्रस्य पदमात्रस्य वा यजेतेत्येवमादिकस्य विधिश्रुतावपि न शास्त्रत्वम् । यत्र हि त्र्यंशभावनावचनमप्यवान्तरवाक्यमनपेक्षितार्थवादकं न प्रवृत्तौ समर्थं, कथमिव तत्र पदप्रत्यययोश्शक्तिर्भविष्यतीति दुरधिगममित्याह न पदाद्यत इति ॥ ६ ॥ {३,१०४} एवं लक्ष्यलक्षणानुपपत्त्या दूषितं भाष्यमुपपादयति अपरीक्षेति । अयमभिप्रायः वेदव्याख्या हि प्रकृता, अतो यदेव तदुपयोगि तदेव वाच्यमित्यतिक्रम्यापि सामान्यप्रक्रमं विशेषमेव लक्षितवान् । न हीह लक्षणकरणमेव स्वरूपेण विवक्षितम् । अपरीक्षाच्छलेन हि लक्षणानि प्रणीयन्ते । तत्रापि यदेव प्रकृतोपयोगिशास्त्रलक्षणं तदेव कृतम् । स्वतन्त्रो वेदः अपुरुषतन्त्रत्वादिति ॥ ७ ॥ यदि स्वतन्त्रोपयोगित्वनिरपेक्षाणि न जल्पति, ततः किमत आह तत्रेति । यदा ह्ययं जल्पाक इव नानुपयुक्तं भाषत इति स्थितम्, तत्र यदि लोकवाक्यस्थितं शब्दलक्षणं कथयेत्तदस्य वेदं व्याचिख्यासोरनुपयुक्तं स्यादिति ॥ ८ ॥ ननु यद्यनुपयुक्तं न लक्षणीयं, किमिति तर्हि प्रत्यक्षादि लक्ष्यते न हि तेषां वेदोपयोगो दृश्यते अत आह प्रत्यक्षादीति । अयमभिप्रायः वेदस्वरूपावधारण एव तावन्महानुपकारः प्रत्यक्षस्य, न हि तदन्तरेण पुरः प्रथममेव स्वाध्यायग्रहणकाले वर्णमात्राद्यवधारयितुं शक्यते, तदा चानवधृतं शास्त्रार्थज्ञानवेलायामस्मृतत्वान्नोपयुज्येतैव । अतः पुरस्तात्परस्ताच्च वर्णमात्रादितः कृते प्रत्यक्षाद्युपयोगं मत्वा तल्लक्षणं कृतम् । अनुमानमपि प्रतीकविनियुक्तमन्त्रशेषानुमान उपयुज्यते । यथा देवस्य त्वेति निर्वपतीति । उपमानमपि सौर्यादिकर्मणां प्रकृतिविशेषोपमाने । अर्थापत्तिरप्यश्रुतवाक्यैकदेशकल्पनायाम् । अभावोऽपि पदवाक्येयत्तावधारणे द्रव्यदेवताद्यभावेन च कर्मणामव्यक्तचोदनात्वावधारण उपयुज्यत इति द्वयोरादिशब्दयोरर्थ इति ॥ ९ ॥ {३,१०५} न चैवञ्जातीयकः कश्चिदुपयोगो गामानयेत्यादिवाक्यस्थस्य शाब्दलक्षणस्यास्तीति तदुपेक्ष्यैव शास्त्रगतमेव लक्षणं प्रणीतमित्याह यत्त्विति ॥ १० ॥ यत्पुनरलक्षिते सामान्ये न विशेषो लक्षयितुं शक्यत इत्युक्तं तत्परिहरति विशेषश्चेति । सामान्यलक्षणे हि विशेषो न सिध्यति, व्यभिचारात् । विशेषस्तु सामान्याव्यभिचारीति तस्मिन् लक्षिते तदन्तर्गतं सामान्यं सुखमेव लक्षितं भवेत् । यदा हि विधायकविज्ञानादसन्निकृष्टेऽर्थे विज्ञानं शास्त्रमित्युक्तं तदार्थाद्विधायकविशेषरहिताच्छब्दमात्रज्ञानाच्छाब्दमिति शक्यमवगन्तुमिति न पृथगुच्यत इति ॥ ११ ॥ ननु नेदं विशेषलक्षणं विशेषोपादानाभावादित्युक्तम् । अत आह सामान्येति । नावश्यमुपात्तमेव विशेषणं भवति, किन् तु अधिकारलभ्यमपि, यथाग्नेयादिषु वक्ष्यते, त(द्व)दिहापि चोदनालक्षणाधिकाराच्छब्दविज्ञानादित्युक्तेऽपि विधायकविशेषणं प्रत्येष्यत इति । ननु यदि प्रकृतोपयोगि वक्तव्यं, एवं तर्हि चोदनालक्षणमेव वाच्यम्, किं शास्त्रलक्षणेनात आह चोदनेति । पर्याया एत इति भावः ॥ १२ ॥ अयं चाधिकारतो विशेषलाभो जैमिनेरप्यनुमतश्चोदनाशब्दमविशेषितं द्वितीये सूत्रे प्रयुञ्जानस्येत्याह यथा चेति । एवं हि मन्यते यद्यपि चोदनाशब्दः प्रवर्तकवाक्यमात्रवचनः, तथापि प्रथमसूत्रेऽथशब्देन{३,१०६}वेदाध्ययनानन्तर्यस्योपात्तत्वात्तदधिकारादेव चोदनाशब्दो वैदिक्यामेव चोदनायामवतिष्ठते, एवमिहापि शास्त्रलक्षणे चोदनाप्रामाण्याधिकारात्शब्दविज्ञानार्थज्ञानशब्दौ विशिष्टशब्दार्थपरौ, विधायके शब्दशब्दो विधेये चार्थशब्द इति ॥ १३ ॥ यदपि वृत्तिकारमतोपन्यासावसरे प्रत्यक्षादीनि हि प्रसिद्धानि प्रमाणानि तदन्तर्गतं च शास्त्रमिति भाष्यकारेणोक्तं तत्रापि विशेषशास्त्रापरीक्षाप्रतिज्ञानं प्रकृतोपयोगित्वाभिप्रायेणैवेति दर्शयति प्रत्यक्षादीति । इदं तु चिन्तनीयम् । यदि विधायकशब्दजनितं विज्ञानं शास्त्रम्, किमिदानीमङ्गानि मीमांसा कर्मानुशासनानि च न शास्त्राणि, लौकिकानि च गामानयेत्यादिवाक्यानि शास्त्राणि । यद्येवं महान् लोकविरोधः । न हि लौकिका गामानयेत्यादिषु शास्त्रशब्दमुपचरन्ति । स्ववचनविरोधश्च । यतो गामानयेत्यादिवाक्यस्थं शाब्दलक्षणमिति हि वदन्ति । मीमांसादिषु वेदवत्ततोऽपि वा सातिशयं शास्त्रशब्दोपचारमुपलभामहे । अपि चायं शास्त्रशब्दो रूढो वा स्याद्यौगिको वा, सर्वथा च वेदाङ्गादिषु वर्तितुमर्हति, अस्ति हि तेषु यथायथमर्थानुशासनं, रूढिश्च सातिशयेति वर्णितम् । अत्राभिधीयते । योगरूढिरियं पङ्कजादिवत्, अतो न तावद्गामानयेत्यादिष्वतिप्रसज्यते । सत्यपि योगे लौकिकानां तेष्वप्रयोगात् । पुरुषार्थोपदेशानेव लौकिकाश्शास्त्रमिति मन्यन्ते । तथा चाङ्गानीति तेषां शास्त्रत्वम् । ननु विधायकं शास्त्रमिति शास्त्रलक्षणम्, न च तानि कञ्चिद्विदधति । मैवम् । सर्वेषामेवानुष्ठानोपदेशपरत्वात् । व्याकरणे हि यत्साधुभिर्भाषेत तदेभिरित्युपदिश्यते । मीमांसायामपि प्रत्यधिकरणं न्यायव्युत्पादनेनानुष्ठानोपदेश एव सर्वत्र । अतो यच्छास्त्रं तत्प्रवृत्तिवृत्त्युपदेशकमेवेति नियमः, न पुनस्तदुपदेशकं शास्त्रमेवेति लौकिकी प्रसिद्धिरिह भाष्यकारेणानूदिता, न पुनस्तन्निरपेक्षं शास्त्रलक्षणं प्रणीतम् । अतो{३,१०७}यदसन्निकृष्टार्थगोचरं पुरुषश्रेयोविधायकं वाक्यं लोके शास्त्रमिति प्रसिद्धं तच्छास्त्रम् । यत्पुनरसन्निकृष्टार्थगोचरं विधायकमविधायकं वा तच्छाब्दमिति विवेकः । प्रत्यक्षवच्चात्रापि शब्दतज्ज्ञानादिषु विवक्षातः प्रमाणविकल्पा दर्शयितव्याः । नावश्यं ज्ञानमेव प्रमाणमित्यभिनिवेष्टव्यम् । पूर्वप्रमाणे चोत्तरं वाक्यार्थज्ञानं फलं तत्प्रामाण्ये च हानादिबुद्धिरिति विवेक इति ॥ १४ ॥ इदं च शास्त्रमनुमानादभिन्नमिति प्रमाणद्वयवादिनो मन्यन्ते, तान्निराकर्तुकामस्तेषां मतमुपन्यस्यति तत्रेति । इदं च प्रतिज्ञामात्रमेव तेषामुक्तम्, तदीयाभेदहेतूपन्यासस्तु परोक्तभेदहेतुनिरासावसरे करिष्यत इति । किं पुनरभेदोपन्यासनिरासयोः प्रयस्यते, नन्वयं साङ्ख्यादिभिरेव भेदवादिभिरभेदो निराकृत एव, अत आह भेद इति । न तैस्सम्यग्भेदकारणमुक्तमित्यर्थः ॥ १५ ॥ तानेव तदुक्तान् भेदहेतून्निराकर्तुमुपन्यस्यति पूर्वसंस्कारेत्युक्तान्तेन । एवं हि तैरुक्तम् शब्दे हि पूर्वसंस्कारयुक्तोऽन्त्यो वर्णो, वाक्यं, आद्योऽपि वा वर्णः, सर्वे वा प्रत्येकं, सहिता वा, तेषामेव क्रमः पदानां वा वाक्यत्वजातिरेव वावयवी वा निर्धूतनिखिलवर्णादिविभागः स्फोटो वा पदान्येव वा संहत्यार्थमभिदधति । एते च पदेष्वपि विकल्पा दर्शयितव्याः । तथा विवक्षाप्रयत्नादयश्च शब्दनिष्पत्तिहेतव इति । सर्वमिदं धूमादौ न दृष्टमिति तद्वैधर्म्याद(न)नुमानत्वमिति । अत्र दूषणमाह तत्रेति । बौद्धेन शाब्दमनुमानादभिन्नमन्वयव्यतिरेकाभ्यामुत्पत्तेः, धूमादग्न्यनुमानवदित्युक्ते, यदेतद्धूमादिवैधर्म्येण प्रत्यवस्थानम्, इयं वैधर्म्यसमा नाम जातिः, विकल्पसमा वा । का पुनर्जातिः । साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः । वादिना हि प्रयुक्ते प्रयोगे प्रसङ्गो जायते, स जायत इति जातिरित्युच्यते, स च प्रसङ्गः साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानम् ।{३,१०८}यत्रोदाहरणसाधर्म्येण वादिना हेतुरुक्तः, तत्र यदा प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति । यथा क्रियावानात्मा क्रियाहेतुगुणयोगात्लोष्टवदिति वादिनोक्ते, प्रतिवादिनो वैधर्म्येण प्रत्यवस्थानं भवति यथा क्रियावद्द्रव्यमविभु दृष्टम्, यथा लोष्टम्, न तथात्मा, तस्मान्निष्क्रिय इति । सेयं वैधर्म्यसमा जातिरित्युच्यते । तथा धर्मान्तरविकल्पात् । यदा प्रतिवादिना साध्य(ध)र्मस्यापि विकल्प आपाद्यते, असौ विकल्पसमा नाम जातिरुच्यते । यथास्मिन्नेव प्रयोगे प्रतिवादी वदति, क्रियाहेतुगुणयुक्तं किञ्चिदविभु दृष्टं यथा लोष्टम्, किञ्चिद्विभु यथात्मा, एवं किञ्चित्क्रियावद्भविष्यति किञ्चिदक्रियावदिति । एवमिहापि परेणाभेदसाधने उक्ते धूमादिवैधर्म्यमात्रेण प्रत्यवस्थाने वैधर्म्यसमा नाम जातिरापाद्यते । धूमादग्न्यनुमानं हि वाक्यविकल्पादिरहितम् । न च तथा शाब्दम् । अतो नानुमानमिति । तथा विकल्पसमाप्येवं दर्शयितव्या । अन्वयव्यतिरेकजमेव किञ्चिद्वाक्यविकल्पादिमद्दृष्टं यथा शाब्दम्, किञ्चिच्च न, धूमादिनाग्निज्ञानम् । एवं किञ्चिदनुमानं भविष्यति, किञ्चिदननुमानम् इति । जातिद्वयप्र(तिपादनात्प्र)त्युत्तरं च साधकमिति न वचनीयमिति ॥ १६ ॥ कथं पुनरियं जातिः, एवं हि साधनमिदम् शाब्दमनुमानाद्भिन्नं तद्वैधर्म्यात्प्रत्यक्षवदिति, अत आह धूमेति । न तावत्त्रैलक्षण्यप(रित्यागेन) वैधर्म्यं तैरुक्तम् । किञ्चिद्विशेषणमात्रेण तु वैधर्म्यमविशिष्टमर्थात्मकानामनुमानानामिति तेषामप्यनुमानाद्भेदो भवेत्, न चासावस्ति, न हि धूमादीनां । । । । । । । । । । । । । । । । । । । । । । । । वैलक्षण्यमित्यननुमानता भवति । त्रैलक्षण्यापरित्यागादनित्यत्वं कृतकत्वे हेतुरिति । त्रैलक्षण्यपरित्यागप्रतिपादने (?प्य् ह्य)नुमानाद्भेदस्सिध्यतीति ॥ १७ ॥ {३,१०९} वैलक्षण्यमात्रेण तु भेदं वदतो वैलक्षण्यवचनस्य जातितैवापद्येतेत्याह त्रैलक्षण्येति ॥ १८ ॥ यदपि चेदमपरं शाब्दानुमानयोर्वैलक्षण्यमुक्तम् धूमादयो हि स्वाभाविकेनैव प्रतिबन्धेन प्रतिबन्धकबुद्धिमनुमाने जनयन्ति, शब्दात्तु यथेष्टविनियुक्तादेवार्थप्रत्ययो दृश्यते, अतो भेद इति, तत्राप्याह यथेति । अयमभिप्रायः अत्रापि यदि किञ्चिद्वैधर्म्यमात्रेण भेद उच्यते, अतो जातिरेव । अथायं प्रयोगः शाब्दमनुमानाद्भिन्नं यथेष्टविनियोगेनार्थप्रतिपादनादक्षवद् । अक्षं हि चक्षुरादि यत्रैव व्यापार्यते, तदेव प्रतिपादयतीति । तदयुक्तम् । तत्रापि स्वाभाविक्यैवात्मशक्त्या रूपादिप्रतिपादनात् । अथ स्वगोचरे यथेष्टविनियोगेन प्रतिपादनं हेतुरुच्यते, अतो लिङ्गमपि परार्थप्रयोगे यमेव प्रति प्रयुज्यते तमेव प्रतिपादयतीति समानम् । अथ यथेष्टविनियोगस्सङ्केतोऽभिधीयते, ततोऽयमर्थो भवति, यत्रैव सङ्केत्यते तमेव गमयतीति, ततो दृष्टान्ताभावः, न हि शब्दादन्यत्सङ्केतानुविधानेनार्थं बोधयति । अथावीतहेतुरयम् । अनुमानं हि यथेष्टविनियोगाननुविधायिप्रतिपादनम्, न चेदं तथा, अतो भिन्नमिति । तन्न । व्यतिरेकमात्रस्यागमकत्वादन्वयव्यतिरेकी हि हेतुरिष्यते । न चायं हेतुरनुमानादभेदेन व्याप्तः क्वचिदवगतः, शब्दातिरेकिणः कस्यचिद्यथेष्टविनियोगेनाप्रतिपादनात् । अथास्ति हस्तसङ्केतादीनां यथासमयं प्रतिपादनमित्युच्यते । तत्तर्हि प्रमाणान्तरमनुमानं वा । न तावत्प्रमाणान्तरम्, तल्लक्षणाभावात् । अतो व्याप्तिबलेन ज्ञायमानमनुमानम् एव तत् । एवं च सति तेनैव व्यभिचार इति नानुमानाद्व्यावृत्तिर्हेतोस्सिध्यति । तदिदमुक्तं व्यभिचारोऽङ्गवृत्तिभिरिति । अङ्गानां हस्तादीनामाकुञ्चनप्रसारणाद्या वृत्तयोऽङ्गवृत्तय इति ॥ १९ ॥ {३,११०} एतदेव विवृणोति हस्तेति । हस्ताद्यङ्गाश्रितवृत्तय एवार्थविशेषज्ञानाङ्गतया हस्तसंज्ञेत्युच्यन्ते । कथं पुनरिदमनुमाम्, न हि हस्तादिसन्निवेशास्सङ्ख्याविशेषादिभिरर्थैर्व्याप्ताः । तैर्विनापि कदाचिद्भावात् । किन् तु अङ्गुल्यादिसन्निवेशात्सङ्केतकालभाविशब्दस्मरणेनार्थं प्रतिपद्यमानाः शब्दादेव प्रतिपद्यन्ते । तन्न । अन्तरेणापि शब्दसङ्के(?त्तं) व्यवहार एवाव्युत्पन्नस्याङ्गुल्यादिसन्निवेशदर्शिनस्तदर्थावगतेः । न चात्र व्यभिचारः । न हि यादृशे सन्निवेशे व्याप्तिरवगता तादृशस्य व्यभिचारो दृश्यते । तदिदं तेन धर्म्यन्तरेष्वेषेत्यत्र वर्णितम् । अतोऽनुमानमेवेदम् । तदिदमुक्तं ते तल्लिङ्गमिति स्थितिरिति । सर्वं चेदमन्वारुह्य वार्त्तिककारेण दूषणं दत्तम् । न हि यथेष्टविनियोगेन शब्दादर्थप्रतीतिर्भवति । गवादिशब्दा हि निजशक्त्यनुसारेणैव स्वार्थं प्रतिवेदयन्ति । यदृच्छाशब्दास्तु हस्तसंज्ञादितुल्यास्ते सङ्केतानुसारेणार्थं बोधयन्तोऽनुमानमेवेति किं तद्भेदप्रतिपादनेनेति ॥ २० ॥ इदमपरं भेदकारणं, शब्दाद्धि पुरुषापेक्षोऽर्थनिश्चयः, लिङ्गं तु स्वमहिम्नैवार्थं निश्चाययति, अतस्तद्वैलक्षण्याद्भेद इति । अयमपि अवीतहेतुः । एवं च वक्तव्यम् न पुरुषोपक्षोऽनुमानेऽर्थनिश्चयः, न च तथा शब्द इत्यतो भिद्यत इति । एतदपि दूषयति पुरुषेति । व्यतिरेकहेतुर्व्यतिरेकपुरस्कारेणैवार्थं साधयति, प्राणादय इवानात्मकाद्देहाद्व्यावृत्तमात्मानम् । पुरुषापेक्षिता त्वनुमानेऽप्यर्थनिश्चयाङ्गमङ्गवृत्तिषु दृष्टा । यादृशो हि सङ्केतो यदर्थप्रतिपादने पुरुषैः कृतः, तमेव परपुरुषापेक्षया बुध्यन्ते । अतोऽत्रापि व्यभिचारितेति । अपि चाव्यापकत्वादसिद्धो हेतुरित्याह पदेति । पदानि हि स्वमहिम्नैवार्थं प्रतिपादयन्ति न पुरुषापेक्षया ।{३,१११} वेदवाक्यान्यपि न स्वार्थप्रतिपादनाय पुरुषमपेक्षन्ते, स्वरूपावधारणमात्र एव तेषामाप्तापेक्षेति ॥ २१ ॥ ननु नागृहीतसम्बन्धं पदं प्रत्यायकं भवति । न च पुरुषानपेक्षा सम्बन्धावगतिरस्ति । वेदवाक्यान्यपि नागृहीते पदपदार्थसम्बन्धे स्वार्थं प्रतिपादयन्ति । अतोऽयं पदपदार्थसम्बन्धः पुरुषापेक्ष एवेति नाव्यापकत्वम् । अत आह सम्बन्धेति । अयमभिप्रायः अर्थप्रतिपादने तावदनपेक्षमेव पदं वैदिकानि च वाक्यानि । सम्बन्धानुभवश्च यथेह पुरुषापेक्षस्तथान्यत्राप्यनुमानेऽसौ विलक्षणो दृश्यत एवेति । वैलक्षण्यमेव दर्शयति एतस्मिन्निति अन्योऽन्तेन । एतस्मिन्निति । हस्तसंज्ञादौ पुरुषापेक्षः, पौरुषेयो हि समयः । अग्निधूमयोस्तु देशापेक्षः । चन्द्रोदयसमुद्रवृद्ध्योस्तु कालापेक्षः । आदिशब्देनावस्थापेक्षितां दर्शयति । तदनेनैतदुक्तं भवति अनुमानेऽप्यनेकप्रकारस्सम्बन्धावगमो देशाद्यपेक्षया भेदात् । एवमिहापि पुरुषापेक्षो भविष्यति । अनुमानेऽपि तदपेक्षस्सम्बन्धबोधो दृष्ट इति । अपि च परोक्ताभेदहेतुनिरासोऽपि तैर्न कृत इत्याह उक्ता चेति ॥ २२ ॥ तमेवाभेदहेतुमुपन्यस्यति आप्तवादेति । अयमर्थः यथा धूमादिषु भेदहानेन सामान्यधर्मयोर्व्याप्तिरवधार्यते, एवं शाब्देऽप्याप्तवादाविसंवादसामान्ययोर्व्याप्तिरवगता । (?आप्तवादाविसंवादेति) । एवं च विदित्वा वेदेऽपीश्वराप्तवादत्वादविसंवादोऽनुमीयते, अतोऽनुमानमेवेदम् । यावत्त्वविसंवादो नानुमीयते तावदर्थगोचरं ज्ञानमुत्पन्नमप्यनिश्चायकत्वादप्रमाणमेव । सामान्यशब्दः प्रत्येकमभिसम्बध्यते । ल्यब्लोपे पञ्चमी ।{३,११२}तदयमन्वयो भवति यद्यप्याप्तवादाविसंवादविशेषाणां भेदान्न सम्बन्धोऽवगन्तुं शक्यते, तथापि तयोस्सामान्यप्रतीत्यानुमानता शक्यते वक्तुम्, सामान्ययोर्व्याप्तिसम्भवादिति ॥ २३ ॥ नन्विदमस्ति भेदकारणम्, अनुमानं सम्बन्धावधारणाधीनम्, शब्दास्त्वपूर्वादयस्सम्बन्धज्ञानानपेक्षा एव स्वार्थं प्रतिपादयन्तीति, अतो भिद्यते इत्यत आह न चेति । गवादयस्तावत्विदितसम्बन्धा एवार्थं प्रतिपादयन्तीति तेषां दुर्वारमनुमानत्वम्, यदि त्वपूर्वादिदृष्टान्तेन तेषामपि भेदोऽभिधीयते । तन्न । शक्नोति हि वक्तुमितरोऽपि तेषामनुमानत्वं सम्बन्धाधीनबोधकत्वाद्धूमादिवदिति । अपि चापूर्वशब्दा अपि नाश्वादिशब्देभ्यो विशिष्यन्ते, पदत्वेनाभेदादित्याह न चेति ॥ २४ ॥ किमतो यद्येवमत आह न चेति । यतः खल्वेतानि पदानि, न च पदमज्ञातसम्बन्धं प्रकाशकमस्ति । अतोऽमीभिरपि विदितसम्बन्धैरेवार्थो वेदनीयः, पदत्वात् । कथं पुनः प्रमाणान्तरादृष्टपूर्वेणापूर्वस्वर्गादिना सम्बन्धोऽनुभवितुं शक्यते । न शक्येतापि, यदि प्रमाणान्तरागोचरता भवेत् । अपूर्वं तु श्रुतकर्मफलसम्बन्धाद्यन्यथानुपपत्तिप्रमाणकम् । स्वर्गश्च निरतिशयानन्दस्वभावो वैदिकवाक्यशेषेभ्योऽवगम्यत इति तथावगतयोस्सम्बन्धग्रहणोपपत्तिरिति । अतो यत्परैरुक्तं शब्दो नानुमानं सम्बन्धानपेक्षत्वादक्षवदिति तद्धेतोरसिद्ध्या दूषितमित्याह सम्बन्धेति ॥ २५ ॥ भेदकारणान्तरमुपन्यस्य दूषयति तुल्येति । शब्दः प्रत्यासत्त्या तज्ज्ञानमर्थश्च तद्धीश्चेति विग्रहः । अयमप्यवीतहेतुर्दर्शयितव्यः । तन्निराकरणं चाध्यासनिराकणोक्तमनुसन्धातव्यम् । अतस्तुल्याकारत्वमसिद्धमिति ॥ २६ ॥ {३,११३} अपि च विवक्षानिवृत्तेरनैकान्तिको हेतुरित्याह प्रतिबिम्बेष्विति । एकान्तो निर्णयः, सोऽस्य कार्यं, तन्नास्तीत्यनेकान्त इति । कथमनेकान्तः, अत आह बिम्बमिति । यादृशं हि दर्पणे बिम्बमुपलभ्यते तादृशमेव मुखादि बुध्यते, अतोऽस्त्यत्रापि गम्यगमकयोस्सादृश्यमिति प्रतिबिम्बेषु वर्तमानो हेतुरनैकान्तिको भवतीति । ननु नेदमनुमानम्, आदर्शतेजसा हि प्रतिहतेन नायनेन तेजसा प्रकाशितं प्रत्यक्षमेव मुखमवगम्यत इति शब्दाधिकरणे वक्ष्यते । अत आह न चेति । अयमभिप्रायः यदा ह्ययं प्रत्यक्षेष्वङ्गुल्यादिष्वादर्शवर्तिना प्रतिबिम्बेन तादृक्त्वे विदितव्याप्तिर्भवति, तदा मुखमप्यादर्शगतं बिम्बानुरूपम् अनुमिनोति । इतरथा त्वङ्गुलिसन्निकर्षोऽप्यन्यरूपमन्यादृक्तया बोधयतीति सम्भावयेत् । अतो न तादृक्त्वं निश्चिनुयादिति ॥ २७ ॥ अस्तु वेदं प्रत्यक्षं, किमिति सूक्ष्मेक्षिकया, विशदतरमेवानुमानमुपदर्शयामः, यत्र गम्यगमकयोस्सादृश्यमवगम्यत इत्याह प्रत्यक्षतेति । गतानामित्यनुमानविषयसिद्ध्यर्थमप्रत्यक्षतां दर्शायतीति ॥ २८ ॥ यदपीदमुक्तम् शाब्दे हि सकृदुक्तमेव वाक्यं सहसा नानार्थान् प्रतिभासयति विरुद्धानविरुद्धांश्च, चोदनालक्षणोऽर्थो धर्मः, श्वेतो धावतीति च यथा, नैवमनुमाने । धूमो हि येनैव विदितव्याप्तिस्तत्रैकत्रैवे धियमादधाति । अतश्शब्दानुमानयोर्भेदः । प्रयोगश्च भवति शब्दोऽनुमानाद्भिन्नः, एकदा नानार्थप्रतिभासादक्षवदिति । अवीतहेतुर्वा, लिङ्गमेकमेव{३,११४}प्रकाशयति, यथा धूमादि, न च तथा शब्दः, अतो भिद्यत इति । तदुपन्यस्य दूषयति एकवाक्यादिति । अनेनापि प्रकारेण न भिन्नतेत्यर्थ इति ॥ २९ ॥ किमिति न भिन्नता, अत आह लिङ्गस्यापीति । अनैकान्तिको हेतुरिति भावः । हेतुर्हि धूमोऽग्नित्वमुष्णत्वं दाहकत्वमिन्धनविकारत्वं च एकदैव प्रतिपादयति । तथा विरुद्धः नित्यश्शब्दः कृतकत्वादिति, विवक्षानुसारेण तावन्नित्यत्वां प्रतिपादयति, व्याप्तिबलेन चानित्यत्वमतोऽनैकान्तिको हेतुरिति । ननु न विरुद्धोऽनेकमर्थं प्रतिपादयति, व्याप्तिबलेन हि लिङ्गं प्रतिपादकं भवति । अतः कृतकत्वमनित्यत्वेन व्याप्तमिति तदेव गमयति, विरुद्धार्थव्याप्तिस्त्वेकस्य विरोधादेव न सम्भवतीति । तत्तावदाशङ्कते विरोधादिति । उत्तरमाह स्यादिति । विवक्षितार्थप्रतिपादने हि शब्दस्य शक्तिरवगता, अतस्सोऽप्येकदैकमर्थं प्रतिपादयति, अर्थान्तरे त्वसावपि विरोधादनागमक एवेति ॥ ३० ॥ भूयसां चैकार्थानां वाक्यानां नानेन हेतुना भेदस्सिध्यतीत्याह यत्र चेति । न केवलं विरुद्धमनेकं शब्दो न प्रतिपादयति, किन् तु अविरुद्धमपि । उक्तमिदं विवक्षिते शब्दः प्रमाणमिति । सकृदुच्चरिताच्च वाक्यादेकैव वक्तृगामिनी विवक्षोन्नीयत इति । तदनुसारेणार्थोऽप्येक एव बुद्धो भवति । अतो न क्वचिदनेकार्थप्रतिपादनमित्यसिद्धो हेतुरित्याह सकृदिति ॥ ३१ ॥ नन्वस्ति तावदनेकार्थप्रतिभानं शब्दात्, प्रमाणं त्वेकत्र भवतु नाम, एतावता च सिद्धमनुमानाद्वैधर्म्यत आह यस्त्विति । यथा हि{३,११५}न्याय्यवचनव्यक्तिपरिचयात्पूर्वं शब्दादनेकार्थाः परिप्लवन्ते, तथा लिङ्गेऽपि धूमादावस्फुटविदितेऽनेकार्थप्रतिभानं दृष्टमेव । भवति हि दूराद्धूमोऽयमाहोस्विद्धूलिसन्तान इति संशयानस्याग्निवातावर्तयोरनवस्थितो वितर्क इति ॥ ३२ ॥ तथा शब्दे दृष्टान्तानभिधानमपि धूमादौ व्यभिचारान्न भेदहेतुरित्याह दृष्टान्तेति । कथं व्यभिचारः, अत आह प्रसिद्धत्वादिति ॥ ३३ ॥ नन्वप्रसिद्धे तावदस्ति दृष्टान्तापेक्षा, शब्दे तु तदपि नास्तीत्यत आह अनभ्यस्त इति । अपेक्षामेव दर्शयति अत्रेति । यत्र ह्यप्रसिद्धपदार्थगोचरस्संशयो भवति, तत्र यावदयं शब्दोऽमुष्मिन्नर्थे वृद्धैराचरित इति चिरेण प्रणिधाय न बुध्यते, न तावत्तमर्थं निश्चिनुयादिति । तदेवं तावद्भेदवादिभिर्न भेदहेतवस्सम्यगुक्ता इति दर्शितम् ॥ ३४ ॥ बौद्धोक्ताभेदहेतुनिरासोऽपि तैर्न कृत इत्याह परोक्ता इति । तानेवाभेदहेतूनुपन्यस्यति शब्दानुमानयोरिति सार्धद्वयेन । अस्यार्थः यथा धूमादग्न्यनुमानमन्वयव्यतिरेकजम्, एकस्य च धूमस्य प्रत्यक्षदर्शनात्,{३,११६} सम्बन्धपूर्वकं च भवति, एवं शब्दादपि ज्ञानं जायमानमेवं जायते । प्रत्यक्षाच्च तदन्यत्प्रमाणं, प्रत्यक्षादृष्टं चार्थं बोधयति, सामान्यविषयं च शाब्दं, त्रैकाल्याश्रयं च । अतो न भिद्यते । इदं च साधनवाक्यस्यार्थकथनम् । साधनप्रयोगास्त्वेवं दर्शयितव्याः शाब्दं ज्ञानमनुमानमन्वयव्यतिरेकजत्वातग्न्यनुमानवद् इति । एकप्रत्यक्षदर्शनोत्पत्तेः, तद्वदेव सम्बन्धपूर्वकत्वं (?वा।च) हेतुः । तावेव साध्यदृष्टान्तौ । न च वाच्यमन्वयव्यतिरेकजत्वात्सम्बन्धपूर्वकत्वं न भिद्यते, अन्वयव्यतिरेकात्मकत्वादनुमानसम्बन्धस्येति । पूर्वं हि सम्बन्धविशेषजत्वं हेतुरुक्तः इदानीं त्वविवक्षितविशेषं सम्बन्धसामान्यपूर्वकत्वमिति । एवमुत्तरेष्वपि त्रिषु पूर्ववत्साध्यदृष्टान्तयोजना कार्या । चतुर्थे त्वग्न्यनुमानं प्रदर्शनमात्रम् । भविष्यद्वृत्तवृ(?त्त्य्ष्ट्य)नुमाने अपि दर्शयितव्ये इति ॥ ३५ ३७ ॥ मीमांसकैकदेशिनां भेदहेतुमिदानीं दूषयितुमुपन्यस्यति कैश्चिदिति । विषयान्तरमेव दर्शयति पूर्वाभ्यामिति । अयमभिप्रायः यद्यदपरिच्छिन्ने प्रवर्तते तत्ततो भिद्यते, अनुमानमिव प्रत्यक्षात् । शास्त्रं च पूर्वद्वयापरिच्छिन्नेऽर्थे प्रवर्तते । ततस्ताभ्यां भिद्यते । किं पुनः प्रत्यक्षाद्भेदप्रतिपादनेन प्रयोजनम्, न हि तदभेदः कैश्चिदाश्रितः, यन्निराक्रियते । उच्यते । अस्त्येव केषाञ्चिद्विभ्रमः, श्रोत्रव्यापाराश्रयाज्जायमानमिदं शाब्दं श्रोत्रप्रत्यक्षमेव, तदन्वयव्यतिरेकानुविधानात् । अत एव बधिरस्य न भवतीति । तदनेन प्रत्यक्षतो भेदप्रतिपादनेन निराक्रियते । एवं हि मन्यते विद्यमानोपलम्भनं प्रत्यक्षमिति दर्शितम् । इदं तु शाब्दं त्रिकालार्थविषयमतः कथं प्रत्यक्षोऽन्तर्भविष्यति । बधिरस्तु शब्दाश्रवणादर्थं न जानाति, नार्थाश्रवणात् । प्रयोगश्च भवति शाब्दं प्रत्यक्षाद्भिन्नं, तदपरिच्छिन्नविषयत्वादनुमानवदिति ॥ ३८ ॥ {३,११७} तदिमं प्रत्यक्षतो भेदमभ्युपेत्यानुमानाद्भेदकारणं निराकरोति तत्रापीति । एवं हि मन्यते यद्यनुमानापरिच्छिन्नविषयतया भेदोभिधीयते, तर्हि पुंवाक्यानामनागमत्वम्, प्रमाणान्तरपरिच्छिन्नविषयवात्, वेदवाक्यान्येव तु मानान्तराविषयार्थानि भिद्यन्ते इत्यव्यापको हेतुरिति । किं पुनरिदमनिष्टमापादितम्, नन्विष्यत एव पुंवचसामनागमत्वम्, आगमो हि शास्त्रम्, अप्राप्ते शास्त्रमर्थवदिति वक्ष्यति । इमानि पुनः प्रमाणान्तरप्राप्तविषयप्रतिपादकानीत्यनुवादवाक्यान्येव । अत एव शास्त्रमेव वेदवाक्यं भिन्नतया पक्षीकृतं शास्त्रमर्थे प्रवर्तत इति । तद्भेदस्यैवोपयोगादिति भावः । तदेतदाह तथेति । अत्र दूषणमाह प्रत्यय इति । एवमयं पुंवचनाप्रामाण्यवादी वक्तव्यः । किमस्ति तेभ्योऽर्थप्रत्ययो न वा, न तावन्नास्ति, सर्वलोकव्यवहारोच्छेदप्रसङ्गात् । सतस्तु नानिमित्तोत्पत्तिस्सम्भवतीति विमित्तं वाच्यम् । न च शब्दादन्यन्निमित्तमस्योपपद्यत इति जातमसन्दिग्धमवाधितं च ज्ञानान्तरेण प्रमाणमेव पुंवचनजनितं ज्ञानमिति नास्यानागमत्वाभ्युपगमो युक्त इति । इतरस्त्वनुमानान्तर्भावाभिप्रायेणाह वक्तृबुद्धेरिति । अयमभिप्रायः विसंवादभूयिष्ठानि हि पुंवचनानि, तन्नैतानि श्रुतमात्राण्येवार्थं निश्चाययन्ति । न चानिश्चितोऽर्थो ज्ञातो भवति, निश्चयस्यैव ज्ञानत्वात् । अतः प्राङ्निश्चयोत्पत्तेर्ज्ञानाभाव एवेति किं निमित्तप्रयत्नेन । यदा तु वक्तैवमवधारितव्याप्तिर्भवति न चायमनवगतं ब्रवीतीति, तदा तद्वाक्यादेव ज्ञानकार्यात्कारणभूतं ज्ञानमनुमाय ज्ञानस्यार्थाव्यभिचारेणार्थो निश्चीयते । तस्यां चावस्थायां ज्ञानलिङ्गावगतत्वादर्थस्य वाक्यमनुवादकमेव । अतो नागम इति । सिद्धान्तवादी त्वाह कुतो न्वसाविति । अयमभिप्रायः अवगता हि बुद्धिरर्थं निश्चाययति । न चास्याः किञ्चिदवगमे कारणमस्तीति वक्ष्याम इति ॥ ३९ ॥ {३,११८} अतः स्वयमेवानवगता नार्थस्य लिङ्गमित्याह नेति । ननूक्तं कार्यात्शब्दादनुमास्यते, अत आह न शब्द इति । यथा नोभयमुभयत्र लिङ्गं, तथा दर्शयति विशेष इति । अनुमानं हि व्याप्तिबलेन भवति, इह च वाक्यसामान्यं ज्ञानसामान्येन व्याप्तमवगतमिति ततस्तत्सिध्येद्, ज्ञानमात्राच्चार्थमात्रम्, न चेह तथा, ज्ञानार्थविशेषयोरनुमित्सितत्वात् । तयोश्च सम्बन्धग्रहणाभावेनाननुमेयत्वात् । ननु यत्राप्तो वाक्यं प्रयुङ्क्ते तदेव ज्ञात्वा प्रयुङ्क्त इति विज्ञानविशेषेणैव सम्बन्धोऽवगतः । अतस्स एवानुमास्यते । यद्येवम्, अवगतस्तर्हि प्रागेव वाक्यादर्थः, न ह्यन्यथा यत्र प्रयुङ्क्त इति शक्यते वक्तुम् । अपि चाविदिते प्रथममर्थे कथं ज्ञानमनुमातव्यम् । किमज्ञासीद् अयं वक्ता किञ्चिदिति, आहोस्विदिममर्थमिति, नाप्रतिपन्नमिदमा शक्यते प्रतिनिर्देष्टुम् । न चार्थोपरागमन्तरेण ज्ञानस्य विशेषस्सम्भवति योऽनुमीयते । न चाकर्मकं ज्ञानमात्रमनुमीयते । न च ततोऽर्थविशेषस्सिध्यति । न चानिश्चितं ज्ञानं, संशयात्मनो विज्ञानविधाया दर्शितत्वात् । न चैवं पुंवाक्येभ्यस्सन्देहः । या तु क्वचिद्व्यभिचारादप्रामाण्याशङ्का सा आप्तत्वादिना निराक्रियत इत्युक्तम् । यदि त्वेवं ज्ञानविशेषावगतिरुच्यते, य एवमवधारितो भवति नायमनन्वितार्थानि पदानि प्रयुङ्क्ते, न चानवगतान्वयानि, तन्नूनममीषामनेनान्वयो ज्ञात इति । किमिदानीं विदितपदपदार्थसङ्गतिः श्रोता पुंवाक्यादर्थं न बुध्यत एव । यद्येवमनुत्तरा गुरवः । जाता तु बुद्धिरसन्दिग्धाविपर्यस्ता च न वेदवाक्यजनिताया धियो विशिष्येत । शङ्कामात्रं तु कथञ्चिद्वेदेऽपि वाक्यत्वादिना भवतीति न तावता तदप्रामाण्यम् । ताभ्यामिति । बुद्धिशब्दाभ्यामित्यर्थः ॥ ४० ॥ अतो वक्त्रभिप्रायावगतौ प्रत्यक्षादिप्रमाणासम्भवात्तदनवगमे{३,११९}चार्थानुमानानुपपत्तेश्श्रोतुरप्राप्तपूर्वमर्थं प्रापयन्ती पुरुषोक्तिर्वेदवदागम एवेत्याह तेनेति ॥ ४१ ॥ यदपि चेदमुच्यते । वेदस्तावद्भिन्नविषयतया प्रमाणान्तरमेवेति, तदपि मनोरथमात्रमेवेत्याह न चापीति । न शक्यते वक्तुमित्यभिप्रायः । किमिति न शक्यते । अत आह लिङ्गमिति । यदा पूर्वोक्तैर्हेतुभिरविशेषेण सर्वमेव शाब्दमनुमानादभिन्नमित्युक्तं, तदा कथं तद्गोचरस्याननुमेयत्वं भविष्यतीति भावः ॥ ४२ ॥ नन्वर्थात्मना तावल्लिङ्गेनाननुमितपूर्वमर्थं वेदो बोधयतीति प्रमाणान्तरं भविष्यतीत्यत आह न चेति । धूमवत्त्वकृतकत्वादीनां हि सत्यप्यवान्तरभेदे यथैव त्रैलक्षण्यापरित्यागेनानुमानत्वमेवमिहापि स्यात् । यदि तु तदेव नास्तीत्युच्यते, तत्तर्हि वचनीयम्, किमवान्तरभेदोपन्यासेनेति ॥ ४३ ॥ अन्ये तु प्रक्षीणशक्तयोऽभेदमेवाश्रित्यैकदेशिनः प्रत्यवस्थिताः, तद्दर्शयति एवं स्थित इति । अयं हि तेषामभिप्रायः चोदनाप्रामाण्यं हि प्रतिज्ञातं, तच्चानुमानत्वेऽपि वेदवचसस्सिध्यत्येव । यथैव हि शब्दमध्याद्वेदः प्रमाणम् । एवमनुमानेभ्यो वेदोनुमानमिति किमतिप्रयत्नतो भेदप्रतिपादनेनेति । ननु भविष्यत्वाद्धर्मो नानुमीयते इत्युक्तं भाष्यकारेण । अतोऽनुमानत्वाभ्युपगमे तद्विरोधो भवेदत आह भविष्यतीति । अर्थरूपलिङ्गाभिप्रायेण तन्निराकृतमित्यर्थः ॥ ४४ ॥ {३,१२०} एतदपि दूषयति संज्ञेति । यदि पश्चान्मानसामान्यादनुमानत्वं तदस्तु, न च तदभ्युपगमे दोष इत्यर्थः । लक्षणैकत्वेन त्वभेद इष्टेऽनुमानलक्षणाभावात्प्रमाणान्तरानभ्युपगमाच्चाप्रामाण्यमेव वेदवचसामापद्यत इत्याह लक्षणेनेति ॥ ४६ ॥ ननूक्तं लक्षणैकत्वमाप्तवादाविसंवादसामान्यादित्यत्राह आप्तवादेति । पुंवाक्यानामनेन प्रकारेणानुमानत्वात्प्रामाण्यं सिद्ध्यति न वेदवचसामिति भावः ॥ ४७ ॥ किमिति न सिद्ध्यति । अत आह वेदे त्विति । आप्तनराभावात्तावन्नाप्तवादत्वेनाविसंवादादनुमानम् । न चातीन्द्रियैरर्थैर्वेदानां सम्बन्धानुभवस्सिध्यतीत्यप्रमाणमेव भवेयुः । नाप्तसन्दृब्धा वेदा इति वेदाधिकरणे वक्ष्यतीति ॥ ४८ ॥ ननु प्रमाणान्तरसङ्गतार्थानि वेदैकदेशभूतानि क्षेपिष्ठादिवाक्यानि दृष्ट्वा इतराण्यप्यग्निहोत्रादिवाक्यानि वेदत्वात्सत्यार्थान्यनुमास्यन्ते । अतोऽस्ति लक्षणेनानुमानत्वमित्याह नन्विति ॥ ४९ ॥ {३,१२१} एतदपि दूषयति नादित्येति । आदित्ययूपवाक्ये वर्तमानो वेदत्वहेतुरनैकान्तिक इति । ननु नेदं वाक्यमसत्यार्थम्, आदित्यशब्दो हि सारूप्याद्गौणो यूपे वर्तत इति तत्सिद्धिसूत्रे वक्ष्यते, अत आह तद्वदिति । कर्मफलसम्बन्धवाक्यान्यपि तद्वदेव गौणानि भवेयुरिति । अपि च प्राक्स्वमहिम्ना वेदप्रामाण्यबलेनाप्रामाण्यानुमानानि प्रत्युक्तानि । अनुमानत्वाभ्युपगमे तुल्यबलतया तान्यपि दुर्वारप्रसरणानीत्याह नात इति ॥ ५० ॥ अतो लक्षणभेदेनैव शब्दस्य प्रमाणान्तरत्वे इष्यमाणे वेदाः प्रमाणं भवन्ति । लोकवेदयोश्च सममेव प्रमाणता सिद्धेत्याह तस्मादिति ॥ ५१ ॥ लक्षणमपि यथा परैराश्रितम् आप्तोपदेशश्शब्द इति, तथाप्याप्ताभावान्न प्रामाण्यं वेदस्येति तन्नाश्रयणीयमित्याह तेनेति वेदान्तेन । लोकेऽपि नाप्तत्वं प्रामाण्ये कारणमित्याह लोक इति ॥ ५२ ॥ कारणमाह पुरस्तादिति । आप्तत्वेन ह्यपवादाशङ्कानिराकरणमात्रम् । प्रामाण्यं तु सर्वसंविदां सहजमेवेति स्वतःप्रामाण्यवादे वर्णितमिति । किं तर्ह्यागमलक्षणमत आह तस्मादिति । निर्दोषशब्दजनितं विज्ञानं प्रमाणमिति ॥ ५३ ॥ {३,१२२} एकञ्जातीयकस्य शब्दस्य चानुमानेन प्रामाण्यमेव समं, न लक्षणमित्याह अनुमानेनेति ॥ ५३ ॥ स्वमतेनेदानीं पदस्यानुमानाद्भेदं वदिष्यंस्तत्प्रतिपादने कारणमाह पद इति । यद्यपि पदस्य पदार्थे प्रमाणत्वान्न तद्भेदप्रतिपादनमुपयुज्यते, तथापि परैः पदान्युदाहृत्य विचारः कृत इति तद्भेदमेव प्रतिपादयामः । अत्रेति । पद इत्यर्थः ॥ ५४ ॥ तदिदानीं भेदकारणमाह विषय इति । विषयभेदमेव दर्शयति सामान्येति । आकृत्यधिकरणे हि पदस्य सामान्यविषयत्वं स्थापयिष्यत इति ॥ ५५ ॥ अनुमानं तु धर्मविशिष्टधर्मिविषयमित्यनुमानपरिच्छेदे साधितमित्याह धर्मीति । लिङ्गमस्यास्तीति लिङ्गी । तस्य विशिष्टस्य प्रसाधकं लिङ्गमस्तीति । नन्वनुमाने व्याप्तिबलेन धर्मसामान्यमनुमीयत इत्यत आह न तावदिति । यावत्तदनुमानं तद्विषयं विशिष्टविषयं न भवति तावदनुमानमेव न भवति, न धर्ममा(?त्रं।त्रविषयं) सिद्धत्वादित्युक्तमिति ॥ ५६ ॥ ननु पदमपि विशिष्टगोचरं दृष्टं यथा को राजा यातीति पृष्टे परः प्रतिब्रवीति, पाञ्चालराज इति । तदा केवलादेव पाञ्चालराजपदात्क्रियाविशिष्टः पुरुषोऽवगम्यते, अत आह सामान्यादिति । यदेव{३,१२३}किञ्चित्शाब्दे सामान्यादतिरिक्तमवगम्यते स वाक्यस्यैव विषयः । वाक्यमेव हि तदनुषक्तयातिपदं पाञ्चालराजो यातीति । नन्वस्तु श्रुतस्यानुषङ्गः, अश्रुतेऽपि पदान्तरे पदादेकस्माद्विशिष्टबोधो दृष्टः, यथा द्वारमित्युक्ते विव्रियतामिति, अत्र कथमत आह सामर्थ्यादिति । कारकं हि क्रियया विदितव्याप्तिकम्, व्याप्तिसामर्थ्यादेव क्रियापदमनुमापयति । अनुमितक्रियापदाद्वाक्यादेव तत्रापि विशिष्टार्थप्रत्यय इति ॥ ५७ ॥ अत्र चोदयति सङ्ख्येति । परिहरति न तावदिति । यत्र हि सङ्ख्यादयोऽवगम्यन्ते तत्र कथमत आह यत्रापीति । सम्भवव्यभिचाराभ्यां हि विशेषणमर्थवद्भवति । आकृतिस्तु न तावदेकत्वं व्यभिचरति, द्वित्वादयस्त्वेकत्वान्न सम्भवन्तीति तदाक्षिप्ताया व्यक्तेरेव विशेषणं सङ्ख्यादय इति ॥ ५८ ॥ तदेवं तावदनुरञ्जनेन व्यक्तेर्विशेषणमित्युक्तम्, तादर्थ्येन तु क्रियां भावनां सङ्ख्यादयो विशिंषन्ति । तत्र हि श्रुत्यादिभिर्विनियुज्यन्ते । यथा पशोरेकत्वेऽरुणादिषु च वक्ष्यत इत्याह पदान्तरेति । पदान्तरत्वेनात्यन्तविप्रकृष्टविशेषणतां दर्शयतीति ॥ ५८ ॥ यत्तर्हि वाक्यार्थवृत्तिविशिष्टविषयं गोमदादिपदं तदनुमानं भविष्यत्यत आह वाक्यार्थ इति । यद्यपि तावदिदं विशिष्टार्थगोचरम्, तथापि नानुमानत्वम् । सिद्धो हि धर्मी केनचिद्धर्मेणासिद्धेन विशिष्टस्साध्यमानः पक्षो भवति । इह तु पदोच्चारणात्प्राङ्न किञ्चित्प्रतिपन्नम् । उच्चरित्रे तु पदे विशिष्टः प्रतिपन्न एवेति किं साध्यमिति । सिद्धत्वमेव{३,१२४}दर्शयति तावानिति । न तावदगृहीतसम्बन्धश्शब्दाद्विशिष्टं प्रत्येति । गृहीतसम्बन्धस्तु प्रतिपद्यमानो व्युत्पत्तिकालावगतान्न किञ्चिदधिकं प्रत्येतीति कथमनुमानं भवतीति ॥ ६० ॥ अपि चात्र भिन्नयोरेव प्रकृतिप्रत्ययात्मनोः पदभागयोर्भिन्नावेवार्थौ प्रतिपन्नौ विशेषणविशेष्यभावमनुभवत इति सिद्धं वैषम्यमित्याह भेदबुद्धेरिति । इदं तु पाचकादिशब्देषु युक्तं वक्तुम्, तत्र हि (धातुना) पाकः प्रत्ययेन च कर्तृमात्रमुपात्तम् । आर्थस्तु विशिष्टप्रत्ययः । गोमदादौ तु तदस्यास्तीति विशिष्ट एवार्थे तद्धितः स्मर्यत इति कुतो वैषम्यम्, उक्तमत्र तावानेव हीति व्युत्पत्तिकालावगतादनधिकविषयत्वम्, इदं तु पाचकादिशब्दार्थ(?म् ए)वोक्तमिति । किञ्चानुमाने स्वतन्त्रगृहीत एव पर्वतादिर्विशेष्यः स्वतन्त्रस्मृतेनाग्न्यादिना विशेषणेन विशिष्टोऽवगम्यते । शब्देनोभयोः स्वतन्त्रग्रहणमस्तीत्याह विशेषणेति । ग्रहणमुपलक्षणार्थं, स्मरणं चेत्यर्थः ॥ ६१ ॥ वैषम्यान्तरमाह विशेष्येति ॥ ६१ ॥ अत्र चोदयति अथेति । अत्रापि शब्दस्यैव प्रथमावगतस्यार्थविशिष्टत्वेन साध्यत्वान्न क्रमव्यतिक्रमो भविष्यतीति ॥ ६२ ॥ अत्र दूषणमाह प्रतिज्ञार्थेति । प्रतिज्ञार्थः पक्षः, स च धर्मविशिष्टो धर्मी, विशिष्टापेक्षया धर्म्येकदेश उच्यते । स एव हेतुः प्रसज्यते । शब्दो हि धर्मितयोपात्तः स एव हेतुरिति । ननु यदा दूराद्धूमस्याधारविशेषो न लक्ष्यते तदा धूमोऽग्निमत्तया साध्यते, हेतुश्च भवति । तद्वदिहापि भविष्यत्यत आह पक्ष इति । धूमविशेषो हि सम्प्रति{३,१२५}दृश्यमानः पक्षः पूर्वावगतस्सपक्षः तदनुगतं च सामान्यं हेतुरिति पक्षसपक्षहेतुविभागोपपत्तिरिति ॥ ६३ ॥ नन्विहापि शब्दविशेषं पक्षीकृत्य शब्दत्वं हेतुं वक्ष्यामः, अत आह शब्दत्वमिति । अर्थविशेषो ह्यनुमित्सितः, न चास्य शब्दत्वं गमकमनैकान्तिकत्वादिति । नन्ववान्तरसामान्यं तर्हि गोशब्दत्वं हेतुर्भविष्यत्यत आह गोशब्दत्वमिति । अतोऽत्रैकैव व्यक्तिरर्थेन विशेष्या हेतुतया चाभिधातव्येति दुष्परिहरं प्रतिज्ञार्थैकदेशत्वमित्यभिप्रायेणाह व्यक्तिरिति ॥ ६४ ॥ ननु व्यञ्जकभेदभिन्नैकैव व्यक्तिः पक्षीकरिष्यते इत्याह भवेदिति । परिहरति न त्विति । नौपाधिको भेदो वस्तु भिनत्ति, तत्प्रत्ययानपायादिति भावः । अपि च विशिष्टता सम्बन्धे सति भवति, तदिह कीदृशोऽर्थशब्दयोस्सम्बन्ध इत्याह कथं वेति । न तावत्शब्ददेशेऽर्थो दृश्यते, मुखे हि शब्दः, भूमावर्थः । नापि शब्दकाले, कलौ कृतयुगार्थस्याभावादित्याह न तावदिति ॥ ६५ ॥ अथार्थप्रतीत्या विशिष्टश्शब्दस्साध्यते, अस्ति हि सा शब्दकाल इति तदेतदाशङ्कते तत्प्रतीतिरिति । एतदपि दूषयति परमिति । प्रतीत्या विशिष्टेऽनुमीयमाने सा तावत्पूर्वसिद्धा ग्रहीतव्या । सा चेत्ज्ञाता किमपरमनुमीयत इति । ननु सम्प्रत्युपलभ्यमानं द्रुतादिविशेषं पक्षीकृत्य तस्य प्रत्यायनशक्तिविशिष्टता साध्यते, सपक्षं च{३,१२६}व्युत्पत्तिकालावगतविशेषम्, उभयानुगतं गोशब्दसामान्यं हेतुं करिष्यामः, न प्रतिज्ञार्थैकदेशता भविष्यत्यत आह न प्रत्यायनेति अयमभिप्रायः न द्रुतादिविशेषाणां देशादिनिबन्धनोऽर्थेन सम्बन्धो विद्यते । प्रत्यायनशक्तिविशिष्टता चापि तेषां न सम्भवतीति ॥ ६६ ॥ किमिति न सम्भवत्यत आह विशेषाणामिति । यथा पक्षीकृतस्य महतो धूमस्यैकदेशेऽधस्तादग्निरस्तीति तद्विशिष्टो धूमस्साध्यो भवति । नैवं द्रुतादिविशेषाणां प्रत्यायनशक्तियोगः । तेषां व्यभिचारेणाप्रत्यायकत्वादिति । यत्तु तेषां सामान्यं गोशब्दस्स प्रत्यायनशक्तिविशिष्टः, तत्र च पक्षे स एव पक्षो हेतुश्चेत्युक्तमेवेत्याह सामान्यस्येति ॥ ६७ ॥ अतोऽर्थविशिष्टश्शब्दो नानुमेय इत्युपसंहरन्नाह तस्मादिति ॥ ६७ ॥ एवं तावत्शब्दो न पक्ष इत्युक्तम् । यदि त्वर्थं पक्षीकृत्य शब्दो हेतुरित्युच्यते । तदप्ययुक्तम् । अपक्षधर्मत्वादित्याह कथं चेति । कथं च निरूप्यत इति भावः ॥ ६८ ॥ किमिति न निरूप्यतेऽत आह न क्रियेति । कस्याञ्चित्क्रियायां कर्तृतया सम्बद्धं किञ्चित्कस्यचित्सम्बन्धी भवति, क्रियाकारकसम्बन्धपूर्वकत्वात्शेषसम्बन्धानां स्वस्वाम्यादीनामिति । तत्र स्वस्वामिसम्बन्धस्तावत्क्रियाकारकसम्बन्धपूर्वक इत्याह राजेति । प्रथमं हि भरणक्रियायां कर्तृकर्मभावमापन्नौ राजपुरुषौ स्वस्वामिसम्बन्धमनुभवत इति ॥ ६९ ॥ {३,१२७} एवमवयवावयविसम्बन्धोऽपि क्रियागर्भ इत्याह वृक्ष इति । वृक्षोऽवयवी ह्यवयवेषु तिष्ठतीति प्रतीतिः । कदाचित्त्ववयवा एव शाखादयस्तस्मिन्निति प्रितीतिः । तदेवं स्थितिक्रियाकर्तृभावनिबन्धनोऽवयवावयविसम्बन्ध इति । एवं संयोगोऽपि क्रियागर्भ एवेत्याह देश इति । अग्निमद्देशे भवने कर्ता भवन् धूमोऽग्निमतो देशस्य संयोगी भवतीति ॥ [७०] ॥ एवं कार्यकारणभावादयोऽपि सम्बन्धाः क्रियाकारकसम्बन्धपूर्वका इत्याह कार्येति । किण्वं हि सुराया बीजं सुरात्मके परिणामे कर्तृभवत्सुरायाः कारणमित्युच्यते । तथा समूहसमूहिसम्बन्धोऽपि । सेनाकार्यं प्रतिपक्षजयमंशेन कुर्वन् हस्ती सेनायास्सम्बन्धितयोच्यत इति । शब्दार्थयोस्तु न कश्चिदेवमाकारस्सम्बन्धस्यावगम्यते । न चानिरूपिताकारस्सम्बन्धोऽस्तीति शक्यते वक्तुमित्याह न चेति ॥ [७१] ॥ न च सम्बन्धमन्तरेण पक्षस्य धर्म इति विग्रहगता षष्ठी पक्षधर्म इति च तत्पुरुषसमासो वा घटत इत्याह न चास्तीति । वृत्तिविग्रहावपि नोपपन्नाविति । उपसंहरति तस्मादिति ॥ ७२ ॥ अन्ये तु शब्दोऽर्थविषय इत्येवं तद्धर्मतामाहुः । यथानुपलब्धिरभावे प्रमेय इति वक्ष्यते । तदेतदुपन्यस्यति निवृत्त इति ॥ ७३ ॥ {३,१२८} एतदपि नोपपन्नमित्याह तैरपीति । न केनापि प्रकारेण विषयविषयिभावो घटत इत्यर्थः । यथा न घटते तदेतदाह न तदिति ॥ ७४ ॥ सर्वप्रकारासम्भवात्पारिशेष्येण तद्विषयबुद्धिजनकतया तद्विषयता वक्तव्या, एवं च तद्विषयबुद्धिजनकत्वस्य वाच्यवाचकभावमन्तरेणानुपपत्तेस्तदभ्युपगमः कार्यः । तत्सिद्धौ च न प्रतीत्यङ्गं पक्षधर्मता । न चापक्षधर्मजनिता प्रतीतिरनुमानमित्याह तस्मादिति द्वयेन ॥ ७५ ७६ ॥ यदि तु पक्षधर्मतैव तद्विषयबुद्धिजनने हेतुरिष्यते । ततस्तद्व्यतिरेकेण पक्षधर्मताया एवानुपपत्तेरितरेतराश्रयत्वमतो नेयमपि कल्पना घटत इत्याह गमकत्वादिति ॥ ७७ ॥ इतश्च न पक्षधर्मतेत्याह न चेति । अनवगतवाच्यवाचकसम्बन्धाः स्वरूपातिरेकेण न शब्दं कस्यचिद्धर्मतया जानन्ति । येन पक्षधर्मबुद्धिश्शब्दे भवेदिति ॥ ७८ ॥ {३,१२९} स्वरूपमात्रविज्ञानं तु न धूमादौ पक्षधर्मतायां हेतुः, अपि तु धर्मिसम्बन्धः । न चासावस्तीत्यभिप्रायेणाह न चेति । नन्वत्राप्यर्थेन धर्मिणा प्रथमं व्युत्पत्तिकाले सम्बन्धोऽवगत एव, आह न चापीति ॥ ७९ ॥ पूर्वसम्बन्धनिरपेक्ष एवायमव्युत्पन्नसम्बन्धस्यापि पक्षधर्मसम्बन्धो भासते, न चात्र तथेत्याह धूमवानिति मतिरन्तेन । यत एव तन्निरपेक्षोऽयं पक्षधर्मसम्बन्धः, अत एव तदुत्तरस्मात्सपक्षसत्त्वलक्षणाद्भिद्यते, अन्यथा तदभेद एव स्यादित्याह तेनेति । त्रीणि हेतोर्लक्षणानि पक्षधर्मता सपक्षे सत्ता विपक्षाद्व्यावृत्तिः । तत्र च पक्षधर्मताया उत्तरं सपक्षसम्बन्धमुत्तरलक्षणमपदिशतीति ॥ ८० ॥ शब्दे त्वेवं नास्तीत्याह न त्वत्रेति । पूर्वसम्बन्धापेक्षया चेयमवगम्यमानार्थप्रतीत्युत्तरकालमवगम्यते । अतो न तदङ्गमित्याह न चेति ॥ [८१] ॥ इतश्च न पक्षधर्मतेत्याह न च धर्मीति । अर्थादन्यस्तावद्धर्मी न प्रमीयत इति भावः ॥ ८२ ॥ यस्त्वसावर्थो धर्मितया कल्पनीयः, यद्धर्मतयावगतश्शब्दः{३,१३०}पक्षधर्मो भवति, परस्तादपि स तावानेव प्रमातव्यः । तद्यदि पक्षधर्मत्वमवगन्तुमसौ प्रथममेवावगम्यते, ततो गृहीते तस्मिन् किं परभाविना पक्षधर्मादिज्ञानेन अतो नानुमानतेत्याह यश्चेति द्वयेन ॥ ८३ ८४ ॥ अन्वयमिदानीं दूषयति अन्वय इति । कथं न निरूप्यते, अत आह व्यापारेणेति ॥ ८५ ॥ एतदेव दर्शयति यत्रेति । इह त्वेवं नास्तीत्याह न त्विति ॥ ८६ ॥ कथं नेत्यत आह न तावदिति । इदं च पूर्वमेवोक्तमिति । ननु वैभवाच्छब्दस्य नित्यत्वाच्चार्थस्य शब्दार्थयोश्शक्यतेऽन्वयो दर्शयितुमित्याह भवेदिति । परिहरति सर्वार्थेष्विति ॥ ८७ ॥ किमतो यद्येवमत आह तेनेति ॥ ८८ ॥ प्रकारान्तरेण सम्बन्धमाशङ्कते अथैवमिति ॥ ८९ ॥ {३,१३१} एतदपि दूषयति नैवमिति । कारणमाह दृष्टो हीति (अस्मा)भिरन्तेन । क्व दृष्टः, अत आह अव्युत्पन्नेति ॥ ९० ॥ ननु द्वितीयादिप्रयोगे शब्दार्थप्रत्यययोरन्वयो ग्रहीष्यत इत्याशङ्कते द्वितीयादीति । एतदपि दूषयति शतकृत्व इति । शतकृत्वः प्रयोगेऽप्यजिज्ञासुर्न सम्बन्धं बुध्यते । अविदितसम्बन्धश्च नार्थं प्रत्येतीति ॥ ९१ ॥ ननु ज्ञातसम्बन्धस्य तावन्न शब्दज्ञानमर्थज्ञानं व्यभिचरति । तस्यैव चानुमानत्वमिष्यत इत्याह नन्विति । परिहरति यद्येवमिति । यदि ज्ञातसम्बन्धस्यान्वयः, अन्य एव तर्हि सम्बन्धश्शब्दार्थयोरभ्युपगम्यत इति ॥ ९२ ॥ ततः किमत आह नाङ्गमिति । यदि नाङ्गं, किं जातमत आह अन्वयेति । असत्यन्वये ज्ञानं नानुमानमिति भावः ॥ ९३ ॥ अन्वयस्तु पूर्वावगतप्रतीतिसामर्थ्यानुसारेणैव जायमानो नार्थप्रतीतौ कारणमित्याह ज्ञात इति ॥ ९४ ॥ {३,१३२} उपसंहरति तस्मादिति । अनुमाने तु नान्वयात्पूर्वं गमकत्वसिद्धिरित्याह न चेति ॥ ९५ ॥ व्यतिरेकमिदानीं दूषयति व्यतिरेक इति । न ह्यनवगतेऽर्थे तज्ज्ञानेन विना शब्दज्ञानं भवतीति व्यतिरेकश्शक्यतेऽवगन्तुम् । अवगतश्चेदर्थः किं व्यतिरेकाश्रयणेनेति ॥ ९६ ॥ किमिदानीमनुपयोगिनावन्वयव्यतिरेकौ शब्दे नेत्याह सम्बन्धमिति । शक्तिनि(ष्कर्षे त)योर्व्यापारो वाच्यवाचकरूपश्शब्दार्थयोः सम्बन्ध इति ॥ ९७ ॥ एवं च त्रैलक्षण्यपरित्यागेनाननुमानत्वं प्रसाध्य प्रयोगेण दर्शयति तस्मादिति । शब्दो नानुमानं त्रैरूप्यरहितत्वात्प्रत्यक्षवत् । तादृग्विषयवर्जनात् । तद्वदेव तादृक् । विषयवर्जनं च सामान्यविषयत्वं हीत्यादिना वर्णितमेवेति ॥ ९८ ॥ इदं च पदस्यानुमानाद्भेदप्रतिपादनं प्रौढिप्रदर्शनार्थमस्माभिः कृतम् । न तु पदं प्रमाणमित्याह सतीति ॥ ९९ ॥ {३,१३३} यथा न प्रमाणं तथा दर्शयति पदमिति । तानेव चतुरः प्रकारानाह प्रत्यक्ष इति ॥ १०० ॥ एष्वर्थेषु प्रयुक्तस्य यथा न प्रामाण्यं तथाह तत्रेति ॥ १०१ ॥ अदृष्टपूर्वे तु सम्प्रति प्रत्यक्षेऽनुत्पत्तिलक्षणमेवाप्रामाण्यमित्याह अदृष्टपूर्व इति । सम्बन्धज्ञानमेव वा तदा जायत इत्याह सम्बन्धेति । न च सम्बन्ध एव पदस्य प्रमेय इति वाच्यम्, तस्यार्थापत्तिप्रमेयत्वादित्यभिप्रायेणाह सम्बन्ध इति । तदर्थस्तु प्रत्यक्षादवगत इत्याह योऽर्थ इति ॥ १०२ ॥ अननुभूतपूर्वे परोक्षे च ज्ञानानुत्पत्तिरेवेत्याह परोक्ष इति । अनुभूते तु परोक्षे स्मृतिरित्याह परोक्ष इति ॥ १०३ ॥ ननु स्मृतिमेव जनयत्प्रमाणं भविष्यत्यत आह प्रमित इति । प्रमितविषया हि स्मृतिः, सन्निकृष्टार्थगोचरं च प्रमाणमिति स्थितिरिति । कथं पुनः प्रमितविषयं न प्रमाणमत आह परिच्छेदेति । परिच्छेदफलं हि प्रमाणम् । न च स्मृत्या किञ्चित्परिच्छिद्यते, पूर्वविज्ञानमात्रोपस्थापकत्वादिति ॥ १०४ ॥ {३,१३४} अत्र चोदयति तादात्विकेति । यद्यपि पूर्वमसावर्थोऽवगतः, तथापि तदानीं सत्तां बोधयन्ती प्रत्यभिज्ञानवत्स्मृतिः प्रमाणं किमिति न भवतीति ॥ १०५ ॥ परिहरति यावानिति । उत्पद्यते स्मृतिरन्यदा, न तु प्रत्यभिज्ञानवत्तदनीं वस्तुनस्सत्तां निश्चाययति, पूर्वज्ञानानुसारित्वादिति ॥ १०६ ॥ ननु पूर्वसंस्कारमात्रजा हि स्मृतिः, इदं तु प्रत्युत्पन्नकारणकं पदात्पदार्थज्ञानं ग्रहणमेव, कथं स्मृतिरुच्यते । अत आह पदमिति । मा भूत्स्मरणं, ग्रहणमपीदमनधिकविषयमेवाधिकप्रतिभासाभावात्, अतो न पदं स्मारकेभ्यस्सदृशादृष्टादिभ्यो विशिष्यत इत्यप्रमाणमिति । ननु क्रियाकारकयोरन्यतरोच्चारणेऽवश्यमन्यतरस्यान्यतरव्यतिषङ्गो बुद्धौ भवति । अतः कथमुच्यते नाधिक्यमवगम्यत इत्यत आह यदाधिक्यमिति । पदान्तरस्यैवासौ प्रसादो न पदस्यैकस्यैवेत्यर्थः ॥ १०७ ॥ इदं चास्माभिस्सौहृदमात्रेण शिष्येभ्यः कथ्यते न पदं प्रमाणमिति । न तु तत्प्रमाणत्वे वाक्यार्थो नागमार्थो भवति । तेन हि प्रमाणेनापि भवतावश्यं पदार्थे भवितव्यम् । अतः प्रमाणान्तरानधिगतमर्थं गमयद्वाक्यं प्रमाणमेव । एवमनुमानान्तर्गतत्वेऽपि पदस्य न काचित्क्षतिः, वाक्यार्थस्याननुमेयत्वादित्याह प्रमाणमिति ॥ १०८ ॥ {३,१३५}आह वाक्यार्थज्ञानस्यैव कथमननुमानत्वं, तदप्यालोचितानुगमनमनुमानमेवात आह वाक्यार्थ इति । अगृहीतसम्बन्धा एव पदार्थाः वाक्यार्थं गमयन्ति । अतो न वाक्यार्थज्ञानमनुमानम् । एवञ्च दर्शयितव्यं वाक्यार्थबुद्धिरनुमानाद्भिन्ना सम्बन्धानुभवादृते जायमानत्वादक्षबुद्धिवदिति ॥ १०९ ॥ कथं पुनरप्रतिबद्धमर्थान्तरस्य प्रतिपादकम्, एवं ह्यतिप्रसङ्गः । अतोऽसिद्धो हेतुरत आह वाक्येति । ये च परैः पदार्थबुद्धेरनुमानादभेदहेतव उक्ताः, ते तावद्बहवो वाक्यार्थबुद्धावसिद्धा इत्याह सर्वेषामिति । वाक्यार्थबुद्धिर्हि न तावदन्वयव्यतिरेकजा । नापि सम्बन्धपूर्विका । नैव प्रत्यक्षदर्शनप्रभवा । पदादवगतानां पदार्थानां तत्कारणत्वात् । सामान्यविषयत्वमप्यसिद्धं विशिष्टविषयत्वात् । प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधने तूपमानादीनि प्रसाध्य नैकान्तिकीकार्ये । तददृष्टार्थबोधनं चानुमानाभासैरप्यनैकान्तिकम् । एवं त्रिकालविषयम् अप्यनुमानाभासेनैव । एवमेव पदार्थबुद्धावपि दर्शयितव्यम् । अन्वयव्यतिरेकजत्वं तु तत्राप्यसिद्धमेव । उक्तं हि शब्दशक्तिनिर्धारणे तयोर्व्यापारो न बुद्धिजन्मनीति । सम्बन्धपूर्वकत्वं तु यद्यविशेषितं तत्प्रत्यक्षेणैवानैकान्तिकम्, तदपि हीन्द्रियार्थसम्बन्धपूर्वकमेव । अथानुमानाङ्गसम्बन्धपूर्वकत्वं, तदसिद्धम्, व्याप्तिर्हि तदङ्गम् । न च पदात्पदार्थज्ञाने व्याप्तिः कारणम् । सामान्यविषयत्वं चाभासेनैवानैकान्तिकमेव प्रत्यक्षदर्शन(प्रभवत्व)प्रत्यक्षान्यप्रमाणत्वतददृष्टार्थबोधनानि तूपमानादिभिरपीति ॥ ११० ॥ यत एवैवं वाक्यार्थबुद्धिस्सहार्थैरदृष्टेष्वपि वाक्येषु पदार्थमात्रविदो जायते । अतोऽस्याः स्फुटतरमनुमानाद्भेदं पश्यन्तस्सौगतास्ततोऽवतीर्यागमस्यानुमानव्यतिरेकात्बिभ्यतः पदाभेदविचारणायामेव क्लिष्टाः । एवं हि{३,१३६}मन्यन्ते । अस्तु तावत्पदमप्यनुमानादभिन्नम् । एतावतापीह शब्दानुमानयोरैक्यमिति वाक्प्रवर्तत एवेति सोपहासमाह वाक्येष्विति ॥ १११ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां शब्दपरिच्छेदः समाप्तः ॥ ००७ उपमानपरिच्छेद अथोपमानपरिच्छेदः उपमानमपि सादृश्यमसन्निकृष्टेऽर्थे बुद्धिमुत्पादयति । यथा गवयदर्शनं गोस्मरणस्येति भाष्यम् । अस्यायं तात्पर्यार्थः उपमानमपि न परीक्षणीयम्, एवं लक्षणकत्वेनाव्यभिचारादिति । अवयवार्थस्त्वेकत्र दृश्यमानं सादृश्यं प्रतियोग्यन्तरे दृश्यमानप्रतियोगिसादृश्यविशिष्टतयासन्निकृष्टेऽर्थे यां बुद्धिमुत्पादयति एतत्सादृश्यविशिष्टोऽसाविति, सोपमानमिति यत्तदोरध्याहारः । न च वाच्यं विषयविशेषानुपादानात्कथं सादृश्यविशिष्टविषया बुद्धिरवगम्यत इति, प्रसिद्धप्रमाणानुवादेन ह्यत्रापरीक्षा प्रतिपाद्यते । लोके च सादृश्यविशिष्टविषयैव{३,१३७}बुद्धिरुपमानमिति प्रसिद्धम् । अतो न दोषः । दृश्यमानविशेषणमेकदेशदर्शनादितिवदनुपात्तमिति चेद्न । उदाहरणे उपादानात् । एवं ह्याह यथा गवयदर्शनं गोस्मरणस्येति । अस्यार्थः दृश्यतेऽस्मिन्निति दर्शनं, अधिकरणे ल्युट् । गवयो दर्शनमस्येति गवयदर्शनम् । सादृश्यमन्यपदार्थः । एतदुक्तं भवति गवये दृश्यमानं सादृश्यमिति । अत्रोदाहरणानुसारेण लक्षणवाक्येऽपि दृश्यमानमेव सादृश्यमभिमतमिति गम्यते । गोस्मरणस्येति च नन्दिग्रही(ড়ा ३ ।१ ।१३४)त्यादिना कर्तरि ल्युः । गां स्मरतः प्रमातुः । यथा गवये दृश्यमानं सादृश्यमेतत्सदृशा गौरिति बुद्धिमुत्पादयतीति । सङ्गतिस्तु प्रसिद्धिबाहुल्यात्शाब्दानन्तरमुपमानमिति प्रागेवोक्तम् । अत्र चोदयति प्रसिद्धप्रमाणानुवादेनात्रापरीक्षा प्रतिपाद्यते । अतो यथा नैयायिकोक्तमुपमानं प्रमाणमाश्रीयते, एवं तदुक्तमेवोपमानलक्षणमाश्रयितुमुचितम् । एवं हि तैरुक्तं प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानमिति । अस्यार्थः प्रसिद्धेन गवादिना साधर्म्यात्साध्यस्याप्रसिद्धस्य गवयादेः कञ्चिदनभिज्ञं प्रति साधनं प्रज्ञापनं यादृशो गौस्तादृशो गवय इति वाक्यं, तज्जनिता वा बुद्धिरुपमानमिति । तदेतत्परिहारेण लक्षणान्तरप्रणयने कारणं वाच्यमित्यत आह कीदृगिति द्वयेन । सत्यं नैयायिकैरिदमुक्तम् । न तु युक्तम् । अनन्तरोक्तागमाबहिर्भावात् । शब्दविज्ञानाद्धीदमसन्निकृष्टेऽर्थे विज्ञानम् । अतोऽन्यथैव शाबरे तन्त्रे उपमानं वर्णितमिति ॥ १ २ ॥ नैयायिकागमलक्षणानुसारेणाप्यस्यागमत्वमवगम्यत इत्याह पुरुषेति । एवं हि नैयायिकानां शाब्दलक्षणमाप्तोपदेशश्शब्द इति । अत्रापि चाप्तपुरुषप्रत्ययेनैवापरिदृष्टे गवयादौ सादृश्येन सम्प्रत्ययो भवति । नानाप्ता(?द्धि।द्वि)संवादात् । अत आप्तस्यैवेदं वचनमव्यभिचारीति मत्वा तद्बलभावी निश्चयो जायते, तेषामप्यागम एवेति ॥ ३ ॥ {३,१३८} ननु शाबरेऽपि सदृशदर्शनात्सदृशान्तरे ज्ञानमुपमानमिति वर्णितम् । एतदपि स्मरणाबहिर्भावादप्रमाणमेव । यथा हि किञ्चिद्ध्यायतः स्मरणं भवति, एवं सदृशदर्शिनोऽपि सदृशान्तरे स्मरणम्, अतो न ध्यानादिजन्मना स्मृत्या सहास्याः कश्चिद्विशेषः । अतोऽप्रमाणमित्याह सदृशादिति । नैयायिकलक्षणं तावदागमाबहिर्भावि । शाबरं त्वप्रमाणमेव सङ्गृहातीति ॥ ४ ॥ ननु स्मृतिसम्भिन्नमपि देशादिभेदेन जायमानं प्रत्यभिज्ञानं प्रमाणं दृष्टम् । एवमिहापि गां नगरे दृष्टवतो वने गवयदर्शिनस्तद्भानं प्रमाणं भवत्यत आह देशकालादीति । न खलु देशादिभेदस्सन्मात्रतया प्रामाण्ये कारणम्, अपि तर्हि प्रमेयतया, न चेह देशान्तरादिविशिष्टो गौः प्रमीयते, अपि तु नगरावगतस्सम्प्रत्यपि तत्स्थ एव स्मर्यत इति ॥ ५ ॥ नैयायिकैकदेशिनां मतमुपन्यस्यति श्रुतेति । येन किलातिदेशवाक्यं श्रुतं यादृशो गौस्तादृशो गवय इति, तस्य श्रुतातिदेशवाक्यस्य वनं प्राप्तस्य यत्स्वयमसौ गोसदृशो गवय इति सादृश्यानुरञ्जितं गवयज्ञानमिदमुपमानमिति ॥ ६ ॥ {३,१३९} एतदपि दूषयति प्रत्यक्ष इति । गवयस्तावदिन्द्रियसन्निकर्षात्प्रत्यक्षेण प्रतीयते । गोसादृश्यमप्यतिदेशवाक्यादवगतं स्मर्यत इति नोपमेयमस्तीति । अत्र चोदयति नन्विति । अयमभिप्रायः गोसादृश्यविशिष्टो ह्यत्र गवयोऽवगम्यते । न च तत्प्रत्यक्षं, गोरप्रत्यक्षत्वात् । तद्विशिष्टो गवय उपमानस्य विषयः । न ह्यसौ प्रत्यक्षेणावसीयते, गवयमात्रविषयत्वात्तस्य । न चागमादवगतः स्मर्यते, सामान्यविषयत्वादागमस्य । इह चायमसाविति विशेषप्रतिभानादिति ॥ ७ ॥ एतदपि विकल्प्य दूषयति पूर्वेति सार्धेन । इदमत्र विकल्पनीयम् अतिदेशवाक्यादवगतात्किञ्चिदधिकमवगम्यते न वा, यदि नेत्याह, ततः स्मरणादविशिष्टा सङ्गतिरियमप्रमाणम् । यथा पदात्पदार्थज्ञानं प्रत्युत्पन्नकारणजत्वेनास्मरणमप्यनधिकविषयत्वादप्रमाणम्, एवमिहाप्यतिदेशवाक्यावगतगोसादृश्यविशिष्टगवयज्ञानम् । यदि तु सामान्यावगताद्विशेषावगमेऽस्ति विशेष इत्युच्यते, स तर्हि प्रत्यक्षादेव लभ्यत इति न प्रमाणान्तरावकाश इति ॥ ८ ॥ ननूक्तमसन्निहिते गवि तत्सादृश्यस्याप्रत्यक्षत्वान्न तद्विशिष्टो गवयः प्रत्यक्षेणावगन्तुं शक्यत इति सावकाशं प्रमाणान्तरमित्यत आह यावद्धीति । यावदिन्द्रियव्यापारानन्तरमपरोक्षं भासते तन्नः प्रत्यक्षम् । तथा च सादृश्यविशिष्टो गवय इति कथमप्रत्यक्षो भविष्यति । प्रतिजाति कृत्स्नपरिसमाप्तमेव जातिबत्सादृश्यमित्यप्रत्यक्षेऽपि गवि तत्सादृश्यविशिष्टगवयप्रत्यक्षमुपपद्यत एवेति भावः ॥ ९ ॥ {३,१४०} न च शब्दादिस्मरणसम्भेदादप्रमाणता, गृह्यमाणस्मर्यमाणयोर्विवेकस्य सविकल्पकसिद्धौ फणितत्वादित्याह स्मर्यमाणस्येति । विवेके सति नाप्रमाणतेत्यर्थः । श्रुतातिदेशवाक्यविशेषणोपादानस्यापि न फलमुपलभ्यत इत्याह श्रुतेति ॥ १० ॥ कथं नोपयुज्यते येऽपीति । गोसादृश्यविशिष्टगवयदर्शनं चेदुपमानमभिमतं तदाश्रुततद्वाक्यानामपि नगरे गां दृष्टवतां वने गवयं पश्यतामस्त्येवेति मन्दं विशेषणफलमिति ॥ ११ ॥ नन्वश्रुतातिदेशवाक्यानामयमसौ गवय इति संज्ञानुसन्धानं नास्ति, इतरेषामस्तीत्ययमस्ति विशेष इत्याह अथेति । परिहरति न नामेति । यदुपमानस्य प्रमेयमभिमतं तत्तावत्तेऽपि जानन्ति । संज्ञित्वं मा नामानुसन्धीयतामिति ॥ १२ ॥ स्यान्मतम् संज्ञासंज्ञिसम्बन्ध एवोपमानस्य विषयः । यथोक्तं न्यायविस्तरे समाख्यासम्बन्धप्रतिपत्तिरुपमानार्थ इति । विवृतं च यथा गौरिव गवय इत्युक्ते गवा समानार्थमिन्द्रियसन्निकर्षादुपलभमानोऽस्य गवयशब्दस्संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यत इति । न चाश्रुतातिदेशवाक्यस्य शब्दमविदुषस्समाख्यासम्बन्धप्रतिपत्तिस्सम्भवतीति{३,१४१}फलवद्विशेषणमत आह न चेति । कारणमाह सादृश्येति । अतिदेशवाक्यादेव गोसादृश्येन गवयशब्दवाच्येऽर्थेऽवधारिते व्यक्तिरूपेणानवगतोऽपि शब्दार्थसम्बन्धोऽवगत एव । एतद्धि तदावगतं गोसदृशं वस्तु गवयशब्दवाच्यमिति । एतावच्च सम्बन्धस्य स्वरूपम्, अतस्सूक्तं विशेषणानर्थक्यमिति ॥ १३ ॥ ननु ज्ञातस्यापि सम्बन्धस्य प्रत्यभिज्ञाने प्रामाण्यमविहतमेवात आह न चेति । अत्र कारणमाह शक्त्योरिति । वाच्यवाचकशक्तिनियमो हि शब्दार्थयोस्सम्बन्धः । स चातीन्द्रियत्वान्नेह प्रत्यभिज्ञायते । पूर्वावगत एवान्यूनानतिरिक्तः स्मर्यते । किमिदानीमतीन्द्रिये नैव प्रत्यभिज्ञानमस्ति, यद्येवमनुमानेन कथं पूर्वानुभूतमग्न्यादि प्रत्यभिज्ञायते । आह च गृहीतेऽपि देशादिभेदभिन्ने पुनः प्रमाप्रत्यभिज्ञानुमानात्स्यात्प्रत्यक्षवदवधारितेऽपीति । इहापि च वक्ष्यति येन नाम प्रमाणेन ग्रहणं बुद्धिकर्मणोः । इति । सत्यम् । न ब्रूमः परोक्षं न प्रत्यभिज्ञायत इति, यदेतदयमसौ गोसादृश्यविशिष्टो गवय इतीन्द्रियजमपरोक्षावभासं प्रत्यभिज्ञानम् अस्य शब्दार्थसम्बन्धश्शक्तिरूपो न गोचरः । गोसादृश्येन विज्ञातपूर्वो गवय एव तु ॥ इति । अत एव न चास्येति सम्बन्धस्य प्रत्यभिज्ञानविषयत्वं निराकरोति । गवयस्त्विह गोसादृश्येनावगत पूर्वः प्रत्यभिज्ञायत इति न किञ्चिदनुपपन्नमिति ॥ १४ ॥ अथोच्येत (?वृ।प्रत्य)क्षाद्व्यावर्तयितुं विशेषणोपादानम् । श्रुतशब्दोल्लिखितमिदं गवयज्ञानमतो न प्रत्यक्षस्य विषय इत्युपमानस्य भविष्यतीत्यत आह शब्देति । शब्दानुविद्धबोधेऽपि{३,१४२}हीन्द्रियसम्बन्धानुसारि ज्ञानं न शब्दशक्तिपरामर्शजमेवेति प्रत्यक्षमेवेति वर्णितमित्यतो नैकत्रापि लक्षणे उपमानस्य प्रमेयमधिकं पश्याम इति वाच्यमस्यापूर्वं प्रमेयमित्युपसंहरति तस्मादिति ॥ १५ ॥ यदि तूच्यते प्रतियोगिसापेक्षं सादृश्यग्रहणमतो न प्रत्यक्षम्, अर्थेन्द्रियसामर्थ्यमात्रजं हि प्रत्यक्षं ज्ञानं, न तत्पूर्वमपरं वानुसन्धत्ते । अतः प्रत्यक्षेऽपि धर्मिणि परोक्षमेव सादृश्यमिति न तद्विशिष्टस्य प्रत्यक्षत्वमिति सावकाशमुपमानमित्यत आह व्यवसायेति । बौद्धानामयं सिद्धान्तः यदविकल्पकमापातजं प्रत्यक्षमिति । नैयायिकास्तु व्यवसायात्मकप्रत्यक्षवादिनः । अतो जात्यादिवत्सादृश्यमपि तेषां किं न प्रत्यक्षेण प्रमीयत इति ॥ १६ ॥ निर्विकल्पकवादिनामपि नेदं प्रमाणान्तरं, प्रत्यक्षाभासत्वादित्याह प्रत्यक्षेति । एवं तावत्सादृश्यस्य वस्त्वन्तरत्वमङ्गीकृत्य तत्प्रत्यक्षतयोपमानस्य विषयाभावेनाप्रामाण्यमुक्तम् । इदानीं बौद्धमतेन सादृश्यापलापमाह प्रमेयेति । निर्विकल्पकप्रत्यक्षवादिनामपि सादृश्यप्रमेयाभावादुपमानस्य प्रमाणता नाभिप्रेता । अतस्तेषु स्पर्धमानेषु कथमुपमानं प्रमाणम् । अयं च तेषामभिप्रायः सादृश्यं हि न तावदाश्रयेभ्यो भिन्नमनुपलम्भात् । अभेदे चाश्रयात्तन्मात्रापातात् । कथं चाश्रयेषु वर्तते । न तावत्कार्त्स्न्येन भेदप्रसङ्गात्, न ह्येकमत्र कार्त्स्न्येन वृत्तमन्यत्रापि तथैव वर्तत इति साम्प्रतम् । न च भागशः, तदभावात् । किञ्चेदं सादृश्यं न तावद्द्रव्यगुणकर्मणामन्यतमम्, पदार्थपण्डितैस्तेष्वनुपसंख्यातत्वात् । न हि नवसु द्रव्येषु चतुर्विंशत्यां गुणेषु पञ्चसु वा कर्मसु सादृश्यमन्तर्गतं पश्यामः । न च सामान्यमेव सादृश्यं, तद्धि तद्बुद्धौ करणं, तद्वद्बुद्धिवेद्यं च सादृश्यं, तत्सादृश्ये च गोत्वादावपि तथात्वप्रसङ्गः ।{३,१४३}अवयवसामान्यानि सादृश्यमिति चेद् । न । तेष्वप्यैकैकश्येन सादृश्यबुद्धेरुपजननात् ।[७२९]भूयांसि सादृश्यमिति चेद् । न । भूयस्स्वप्येकत्र समाहृतेषु प्रतियोग्य(?न्यतरा)नपेक्षेषु सादृश्यबुद्धेर् उपजननात् ।[७३०]सन्ति खलु तान्येकत्र समाहृतानि वस्तूनि, न च सादृश्यबुद्ध्या गृह्यन्ते, न ह्यनपेक्षितप्रतियोगिभेदं सदृशोऽयमिति गां जानाति । प्रतियोग्यपेक्षया सामान्यानि सादृश्यमिति चेत् । किमिदानीमापेक्षिकं सादृश्यम् । बाढम् । यद्येवमपेक्षया तदभिव्यज्यते जन्यते वा । न तावज्जन्यते द्वित्वमिवापेक्षाबुद्ध्या, सहजसिद्धत्वात् । अभिव्यञ्जकानि त्वालोकेन्द्रियादीनि सन्तीति किमन्यदपेक्षते । यदि चावयवसामान्यानि सादृश्यं, यमयोस्तु तदभावादभावप्रसङ्गः । तत्रापि तदभ्युपगमे तन्नाशे सामान्यनाशात्सिद्धान्तहानिः । चित्रादौ च पारिणामिकानामवयवानां करशिरऋप्रभृतीनामभावात्सामान्याभावे सादृश्याभावः । एवमेव गन्धादिष्वपि प्रसङ्गो दर्शयितव्यः । अवयवानां कर्णादीनामवयवान्तराभावादसादृश्यम् । अथ मतम्, सत्यं नावयवसामान्यानि सादृश्यम् । किन् तु तत्त्वान्तरमेवेदं द्रव्यजातिगुणकर्मभ्यो व्यतिरिक्तं गुणभेदो वा । यथाह गुरुः न सामान्यं सादृश्यम् । किं तर्हि । तदेव तत्, गोत्वादेरेकत्वादिति । एवं चोपपन्नो भवति सदृशसम्भावनमेव तत्र विध्यर्थः श्येनचिच्चोदनार्थः । श्येनव्यक्तिजात्योस्स्वभावनिर्मितपक्षत्वग्रसमांसलोहितास्थिशिरऋपृष्ठपादोदराद्यवयवारब्धावयविसमवायित्वेनेष्टकाभिरशक्यसम्पादनत्वात् । यदि चावयवसामान्यानि सादृश्यमिष्यन्ते ततस्तेषामिहाभावात्सादृश्यमपि दुस्सम्पादनमिति सोऽनारभ्योऽर्थः प्रतिज्ञातो भवेत्श्येनचितं चिन्वीतेति । एवं चानवयवेष्वपि गन्धादिषु सादृश्यसंविदुपपत्स्यत इति । तच्च नैवम् । तत्त्वान्तरे हि सादृश्ये गामनपेक्ष्यापि गवयं सदृशमिति जानीयुः । तत्र हि तन्निरवशेषमेव सादृश्यं परिसमाप्तमिति किमन्यदपेक्ष्यते । कथमनपेक्षिते गवि तत्सादृश्यविशिष्टोऽवगम्यत इति चेत्कस्तस्य गवा सम्बन्धः । समवाय इति चेत्, सोऽपि तर्हि गवयवद्गोसदृशतया ज्ञातव्यः । अपि च समवेतं नाम तत्सादृश्यं गवयगतसादृश्यग्रहणेऽपि किमित्यपेक्ष्यते । न हि गोत्वं शाबलेये समवेतमिति{३,१४४}बाहुलेये तद्बोधेऽपि तदपेक्षा दृष्टा । तथेदं गवि गवयसादृश्यमिति न तदपेक्षाहेतुरुपलभ्यत इति । अपि चापेक्षतां नाम गौः, दूराद्गामुपलब्धवतो ()विदितावयवसामान्यविभागस्यापि गोसदृशगवयज्ञानं भवेत् । अवयवसामान्यान्यपि तद्बोधेऽप्यपेक्ष्यन्त इति चेत् । वक्तव्योऽपेक्षार्थः । यदि मतम्, अभिव्यञ्जकानि तस्यावयवसामान्यानीति, तानि तर्हि गवयवर्तीनि तस्याभिव्यञ्जकानि, सन्ति च तानि गवे(?वि) इति किं गोगततद्वेदनेन, अतो गव्यवगतेऽनवगतेषु चावयवसामान्येषु गोसादृश्यज्ञानं जायेत । जात्योर्हि तत्सादृश्यम्, अवगते च ते इति किमन्यदपेक्ष्यते । यच्चेदमवयवसामान्यानां बाहुल्ये सदृशत्वम्, इदं च न स्यादर्थान्तरत्वे सादृश्यस्य सर्वत्र तावत्त्वात् । स्यान्मतं व्यञ्जकानि तानि तस्य । भवति चाभिव्यञ्जकप्रकर्षे ऽभिव्यङ्ग्यबुद्धिप्रकर्षः । यथा घटादौ तद्वदिहापि भविष्यतीति । तन्न । न हि बुद्धिमात्रमत्र प्रकृष्यते । अपि तर्हि वस्त्वेव सातिशयमुपालभामहे । अत एव मुख्यापचारे सदृशोपादित्सया सुसदृशं प्रतिनिधीयते । न मन्दसदृशमित्येतदपि यत्किञ्चित् । अतः कल्पनामात्रकल्पितं द्विचन्द्रालातचक्रादिवद्भ्रान्तिकारणं सादृश्यं न प्रामाणिकमिति । प्रमेयाभावादपि नोपमानाङ्गमन्यद्वा सादृश्ये प्रमाणमित्यापेक्ष इति ॥ १७ ॥ __________टिप्पणी__________ [७२९] रूपजननापातातिति भाव्यम् । [७३०] रूपजननापातातिति भाव्यम् । ___________________________ अत्र समाधिमाह सादृश्यस्येति । अयमभिप्रायः नेदं कल्पनामात्रकल्पितं, मिथ्यात्वहेतुद्वयासम्भवात् । द्विचन्द्रादिप्रत्यया हि कुतश्चिद्दोषादुत्पन्नाः कालादिभेदेषु बाध्यन्ते । सादृश्यं तु जात्यादिवदबाधितबुद्धिवेद्यं कथमन्यथा भविष्यति । यथा चासाधारणप्रत्यक्षवादिनां तत्सत्यमेवं सादृश्यमपीति किमपह्नूयते । तदिदमवगतमसंशयितमबाधितं च देशान्तरादिष्वपीत्यस्ति तावत्सादृश्यं, प्रमाणबलेन यथा तदुपपद्यते तथा कल्पनीयम् । न हि दृष्टेऽनुपपन्नं नाम किञ्चिदस्तीति । तत्र यत्तावदुक्तं किमस्य स्वरूपमिति । तत्रोत्तरमाह भूयोवयवेति । अस्यार्थः भूयोभिरवयवसामान्यैर्यो जात्यन्तरस्य योगः{३,१४५}तत्सादृश्यम् । जात्यन्तरावयवसामान्यग्रहणमुपलक्षणार्थम्, व्यक्तिसादृश्यमपि यमादिषु दृष्टमेव । एवमवयवसामान्यैर्विनापि गुणकर्मादिसामान्ययोगेनापि सादृश्यं दृष्टमेव, यथा चित्रादिषु । एतेन यदुक्तं चित्रादौ कथं सादृश्यमिति तत्परिहृतम् । एवमग्नावपि संस्थानपरिमाणसामान्यं दर्शयितव्यम् । यमयोस्त्ववयवसामान्याभ्युपगमे यानुपपत्तिरुक्ता, असौ परिहरिष्यत एव । गुणानां त्वसत्यप्यवयवसामान्येऽवयवगुणसामान्यमेवावयविगुणानां सादृश्यमिति दर्शयितव्यम् । कर्मणां च सौर्यादीनां द्रव्यदेवतादिधर्मसामान्यमेव सादृश्यम्, अवयवसामान्यस्योपलक्षणार्थत्वादिति । तत्त्वान्तरवादिनां चेदमाश्रयपारतन्त्र्याद्गुणान्तर्गतमेवास्थेयम् । न पञ्चममलौकिकत्वात् । जातिद्रव्यगुणक्रियाः पदार्था इति लोकसिद्धम् । अतोऽस्य गुणस्य सतो गुणकर्मणोरनुपपन्न एव समवायः । अथ द्रव्यसमवेतमेव गुणकर्मणी अपि सदृशतया बोधयति, एकार्थसमवायात् । यथावयवसमवेतं सामान्यं गोगवयजात्योरसमवेतमपि ते सदृशतया बोधयति, एकार्थसमवेतसमवायादित्युच्यते । न । द्रव्यसमवाये प्रमाणा भावात्, अवयवसामान्यानि हि कर्णादीनि व्यक्तिसमवेतानि प्रत्यक्षाणि । सादृश्यं तु सदृशबुद्ध्या ग्रहीतव्यम् । न च गन्धादिसदृशं द्रव्यमिति प्रत्ययोऽस्ति । अतः कथं तद्वर्तिना सादृश्येन गन्धादीनि सदृशानि भवेयुः । अतोऽवयवसामान्यमेव सादृश्यमिति । नन्वेकत्रैव भूयसामवयवसामान्यानामुपलम्भात्सादृश्यबोधप्रसक्तिरित्युक्तम्, परिहृतमिदं जात्यन्तरस्येति वदता । जात्यन्तरसमवायिनां जात्यन्तरे समवायात्सादृश्यम्, न स्वरूपमात्रम्, न च भूयस्त्वम् । एतच्चोपरिष्टाद्विवरिष्यत एव । अतो जात्यन्तरग्रहणमपेक्षितव्यम् । यत्तु न तेन तज्जन्यत इति । सत्यम् । अभिव्यज्यते तु तत् । यथोक्तम् सामान्यानि च भूयांसि गुणावयवकर्मणाम् । भिन्नप्रधानसामान्यव्यक्तं सादृश्यमुच्यते ॥ इति । यद्धि यस्योपलब्धौ निमित्तं, तत्तदभिव्यञ्जकम् । अत एकैकत्रापि स्वरूपमात्रेण सामान्यानि गम्यन्त एव । जात्यन्तरसमवायात्मना{३,१४६}तु तानि सादृश्यम्, समवायात्मा च नाप्रतिसंहिते जात्यन्तरेऽभिव्यक्तो भवतीति युक्तैव तदपेक्षा । न च यदर्थान्तरापेक्षप्रतिभासं तदवस्तु भवति । न हि देवदत्तस्य पितृत्वं पुत्रापेक्षया प्रतीयत इति, तदवस्तु । अतः आपेक्षिकाण्येवञ्जातीयकानि न चालयितुं शक्यन्ते । अत एवावयवसामान्यप्रचयाप्रचययोस्सुसदृशादिबोधोपपत्तिः । अतः सिद्धं जातिव्यक्त्यन्तरावच्छिन्नानि गुणावयवादिसामान्यानि सादृश्यमिति ॥ १८ ॥ ननु पद्मदलाक्षीयमङ्गनेति पद्मावयवेन दलेनाङ्गनायाश्चक्षुरुपमीयते, यदि चावयवसामान्यं सादृश्यं, न तदिह सम्भवति, स्वयमेवावयवत्वात्, न हि चक्षुषश्चक्षुराद्यवयवान्तरमस्ति । अत आह सदृशेति । नावश्यं महावयविनो योऽवयवस्तत्सामान्यं सादृश्यम् । अवयवसामान्यानि तु सादृश्यमित्युक्तम् । तच्चावयवानामपि चक्षुरादीनां स्वावयवसामान्यभूम्ना सम्भवत्येवेति युक्तोऽङ्गनादीनां सदृशावयवबोध इत्याह ॥ १९ ॥ अस्तु तावदवयवेष्ववान्तरावयवसामान्ययोगात्सादृश्यम्, विनापि तु तानि तत्र तत्र सदृशबोधो दृष्टः । स कथमुपपद्यते अत आह एवमिति । नेदमवयवसामान्यग्रहणं तन्त्रम् । यदेव तु किञ्चिद्गुणादिसामान्यं सदृशधियमुपजनयति तदेव सादृश्यमतो नात्रैकरूप्यमेव । विचित्रता तु सादृश्यस्य यथादर्शनमङ्गीकर्तव्यम् । तद्यथा जातिसादृश्यमग्निर्वै ब्राह्मण इति, अग्निसदृश इत्यर्थः । किमनयोस्सादृश्यम्, एकस्माद्ब्रह्मणो मुखाज्जातिरुत्पत्तिरित्यर्थः । इदं च तद्सिद्धिसूत्रे वक्ष्यते । कुतः पुनरनयोस्समानाभिजननत्वमवगम्यते । श्रुतेः । एवं ह्याह प्रजापतिर्मुखतस्त्रिवृतं छन्दसां निरमिमीत अग्निं देवतानां ब्राह्मणं मनुष्याणामिति । लोके च समानाभिजननयोर्दर्शयितव्यम् । गुणसामान्यं तु चित्रादौ सुप्रकाशमेव लोके, वेदे च आदित्यो यूप इति ।{३,१४७}द्रव्यसादृश्यं समालङ्कारधारिणोर्लोके, वेदे च लोहितोष्णीषा ऋत्विजः प्रचरन्तीति । क्रियासादृश्यमध्ययनादिसामान्याल्लोके, वेदे च यज्ञविहङ्गमयोर्निपत्यादानसामान्यात् । एवं ह्याह यथा वै श्येनो निपत्यादत्ते, एवमयं द्विषन्तं भ्रातृव्यं निपत्यादत्ते इति । शक्तिसादृश्यं तु भीमो मल्ल इति लोके, वेदे च सोमपूतीकयोः । अवगम्यते हि पूतीकानां सोमशक्तिरर्थवादात् । तत्कार्यत्वेनावगमात् । कार्यस्य च कारणानुविधायिशक्तिकत्वात् । उक्तं च सोमस्य योऽंशः परापतत्स पूतीकोऽभवद् इति । स्वधर्मसादृश्यं केचित्त्रिशिखाः केचित्पञ्चशिखा इति लोके त्रिशिखादीनामन्योन्यसादृश्यं, वेदे च वसिष्ठात्र्यादीनां नराशंसो द्वितीयः प्रयाज इति । धर्मनियम एव हि तत्र सादृश्यम्, प्रकृतिविकृतिकर्मणोश्च धर्मसामान्यमेव सादृश्यमित्युक्तमेव । एते च जात्यादय एकैकशो द्विशस्त्रिशस्समस्तशश्च समाना भवन्तस्सादृश्यस्य विचित्रतामापादयन्तीति ॥ २० ॥ ननु यत्र सादृश्यं समवैति तत्सदृशबुद्ध्या गृह्यते । यदि चावयवसामान्यानि सादृश्यं, तानि तर्ह्यवयवेषु समवयन्तीति तेष्वेव सदृशधियं जनयेयुः । अथ तेषां भूयस्ता, सा चावयवसामान्येष्विति तान्येव सदृशानि स्युः । कथं जात्यन्तरे सदृशबुद्धिरत आह न धर्मा इति । सत्यम् । अत एव हेतोर्न धर्माख्यावयवसामान्यानि तद्भूयस्ता वा सादृश्यं, तेषु सादृश्यबुद्ध्यनुत्पत्तेः । यदेव हि तेषां भूयस्तया युक्तं जात्यन्तरं गवयादि व्यक्त्यन्तरं वाग्नेयसौर्यादि, तदेव सदृशबुद्ध्या गृह्यते । अतो जात्यन्तरसमवाय एव तेषां सादृश्यम् । स्वरूपतस्त्वेकैकशस्तानि सामान्यानि प्रधानसामान्यवदेकत्वबुद्धिनिबन्धनमेव । पिण्डितानि तु जात्यन्तरसमवायोपहितानि सादृश्यम्, अयं च भूयोऽवयवसामान्येत्यस्यैव प्रपञ्च इति ॥ २१ ॥ {३,१४८} अत्र चोदयति यमयोरिति । जात्यन्तरस्येति यावच्छ्रुतग्राहिणः परिचोदनमिदम् यदि जात्यन्तरस्य भूयोऽवयवसामान्ययोगतस्सादृश्यं कथं यमयोर्व्यक्तिसादृश्यमिति । इतरस्तु प्रदर्शनमात्रं जात्यन्तरस्येति केयमत्रैवास्था, तदयमर्भको वराक इत्यपहसति दृष्टत्वादिति । यत्रैव सादृश्यं दृश्यते जातौ व्यक्तौ वा, तत्रैव तदाश्रयणीयम् । किमेकत्रैवास्थां बध्नासीति । स्यादेतत् । एकस्वभावा हि भावा जात्यादयः । तदिदं सादृश्यमपि तथैव युक्तम् । यदि तावदल्पवृत्तिस्वभावं व्यक्त्योरेव युक्तम्, अथ बहुवृत्तिस्वभावं ततो जात्योरेव । अर्धवैशसं त्ववस्तुतामापादयतीति, अत आह क्वचिद्धीति । प्रतीत्यविसंवादादुभयोपपत्तिरिति भावः ॥ २२ ॥ ननु सामान्यानि सादृश्यं, तानि च व्यक्तिनाशेन नश्येयुः । अतो नित्यं सामान्यमिति सिद्धान्तहानिरत आह सामान्यानीति । एतानि तावन्नाशीनि भवन्तु, सामान्यान्तराणि गोत्वादीनि नित्यान्येवेति न कश्चिल्लोकविरोध इति ॥ २३ ॥ कः पुनस्सामान्यान्तरेषु विशेषः, अत आह अनन्तेति । अनन्तो हि गोत्वादीनामाश्रयः । तदेकस्य नाशेऽप्याश्रयान्तरे प्रत्यभिज्ञानान्नैकान्तिको नाश इति । नित्यसामान्यवादोऽपि न नस्सार्वत्रिक इत्याह तेनेति ॥ २४ ॥ {३,१४९} अथवावयवसामान्यानामपि नात्यन्तिको नाशोऽस्तीत्याह सामान्यस्येति । कारणमाह सर्वस्येति ॥ २५ ॥ यद्यस्ति तत्रापि सादृश्यधिया भवितव्यमत आह तेषामिति । भूयस्तया तेषां सादृश्यमतिरिक्तं भवति, न त्वेकैकशो न सन्तीति । न केवलं सामान्यमनश्वरमिति देशान्तरादिष्वाश्रयसद्भावः कल्प्यते । अपि तु प्रत्यक्षेऽपि क्वचिदर्थे तान्युपलभ्यन्त एवेत्याह तानीति ॥ २६ ॥ नन्वक्ष्यादीनां स्वावयवसामान्यभूम्ना सादृश्यमुक्तं, तदवयवानां तु कथं सादृश्यं भविष्यत्यत आह सदृशेति । यथा महावयविनो येऽवयवाः स्वावयवसामान्यैस्सदृशा भवन्ति, एवं यत्र नामावयवेष्वपि सदृशावयवत्वमवगम्यते तेऽप्यवान्तरावयवसामान्यैस्सदृशा भवन्तीति न काश्चद्दोष इति ॥ २७ ॥ तावच्चैवं दर्शयितव्यं यावन्निर्भागा भागा इत्याह एवमिति । ततः परं परमाणुत्वमेव केवलं सामान्यमित्याह तत इति ॥ २८ ॥ ननु यदि सामान्यानि सादृश्यं गोत्वादौ प्रसङ्गः, तत्त्वाभेदादित्यत आह प्रधानानामिति । अयमभिप्रायः संविन्निष्ठा हि नो{३,१५०}वस्तुव्यवस्थितयः, अतो यत्सदृशबुद्धिमुत्पादयति तत्सादृश्यम् । प्रधानावयविनां तु यत्र गोत्वादिसामान्यमेकं प्रतीयते, तत्र स एवेति प्रतिभासो भवति, न स इवेति । अतः प्रधानसामान्यं न सदृशबुद्धेर्हेतुरिति न सादृश्यम् । तद्भेदे प्रधानसामान्यभेदे गोगवययोस्सादृश्यबुद्धिर्भवति, न च तयोरितरेतरसादृश्यबुद्धिः । अतो यत्र गोत्वादिसामान्यं वर्तते न तत्र सदृशबुद्धिः । यत्र सदृशबुद्धिर्न तत्र तद्वर्तत इति तद्वर्तीन्यवयवसामान्यान्येव पिण्डितानि सदृशबुद्धेर्हेतुत्वात्सादृश्यमिति सिद्धम् । एवं च यन्निबन्धनकारेण सादृश्यस्य तत्त्वान्तरत्वे कारणमुक्तं गोत्वादावपि प्रसङ्ग इति, तत्प्रत्युक्तमिति ॥ २९ ॥ चित्रादाववयवसामान्याभावात्सादृश्यानुपपत्तिरिति चोदयति चित्रादाविति । परिहरति तत्रापीति । पारिणामिकावयवसमवेतसामान्याभावेऽपि पृथिव्यंशे शुक्लादयो वर्णविशेषाः परिमाणश्च तैस्सादृश्यमुपपादितमिति । किं पुनरिदं जातिसादृश्यं व्यक्तिसादृश्यं वा । नेदमुभयमपि सम्भवति, उभयाभावात् । न हि चित्रादौ नरत्वादिजातयस्तद्व्यक्तयो वा सम्भवन्ति । स्वभावनिर्मितपाण्याद्यवयवसमवायित्वाद्व्यक्तेः, तत्समवायित्वाच्च जातेः । उच्यते । व्यक्तिरेवात्र सदृशी । यद्यपि चात्र नरत्वं नास्ति, द्रव्यत्वं त्वस्तीति तद्व्यक्तिस्सदृशतया प्रतीयते । प्रायेण चाकृतिसादृश्यमेव तत्रावगम्यते । कुशलस्तु चित्रकारो व्यक्तिसादृश्यमुन्मीलयतीति ॥ ३० ॥ ननु पिण्डितान्येवावयवसामान्यानि सादृश्यम् । एवं गुणसामान्यान्यपि मिलितानि सादृश्यमित्युक्तम् । चित्रादौ तु रूपमात्रमेव समानं न गन्धादयः । अत आह रूपेति । रूपादीनां मध्ये कस्यचिदेकस्यापि{३,१५१}तुल्यतया सादृश्यं भवत्येव । उक्तमसकृत्यथा दर्शनं तदाश्रीयत इति । तदिह चित्रादौ वर्णसामान्यमेव । कुसुमादिगन्धविशेषाणां गन्धसामान्यं, क्षीरशर्करादौ रससामान्यं सादृश्यम् । अवश्यं सर्वगुणसामान्यसमवायो नानुसर्तव्य इति ॥ ३१ ॥ परिहारान्तरमाह पृथिव्यादिष्विति । एवं हि सत्कार्यवादिनो वदन्ति नात्यन्तमसत्कर्तुं शक्यं, गगनकुसुमवत्, अतोऽसतः कार्यत्वं निवृत्तं सत्तां गमयति । अतो नराद्यवयवसामान्यान्यपि नात्यन्तमसन्ति जायन्ते । किन् तु सन्त्येव स्वकारणेषु पृथिव्यादिषु भूतेषु परिणामादभिव्यज्यन्ते । सा च तेषां पारिणामिक्यभिव्यक्तिर्यथादर्शनमेवावधारयितव्या । यथा च तानि पाण्यादिमत्सु देवदत्तादिषु दृश्यन्ते, एवं चित्रादिभागेष्वितीति तत्र किमिति नाभ्युपगम्यन्ते । अतोऽवयवसामान्यान्येव चित्रादावपि सादृश्यमिति ॥ ३२ ॥ प्राक्सत्त्वे कारणमाह न हीति । इदं च प्रागेवोक्तमिति । यत्तु सादृश्यं भिन्नमभिन्नं वेति विकल्प्यावस्तुत्वमापादितम्, तत्रोत्तरमाह धर्माणामिति । सर्वधर्माणामेव जात्यादीनां न धर्मिणो नानात्वम्, अथ चावान्तरस्थितिरपि धर्मधर्मिकृतास्त्येव । एवं सादृश्येऽपि । अतो नानेन तदपलपितुं शक्यते । सर्वत्रानैकान्त एव प्रतीत्यविसंवादात्समर्थनीय इति ॥ ३३ ॥ तदेवं सादृश्यस्य वस्तुत्वे सिद्धे चक्षुषा सम्बद्धस्य सतोर्द्वयोर्धर्मिणोर्युगपदीक्षमाणस्यैकत्र वा प्रत्यक्षत्वं सिद्धमित्याह वस्तुत्वे इति ॥ ३४ ॥ {३,१५२} वृत्तिपरिचोदनायामुत्तरमाह सामान्यवदिति । कारणमाह प्रतियोगीति । जात्यादिवदुपपत्तिरिति ॥ ३५ ॥ प्रत्येकं कृत्स्नसमवाये चासन्निहितेऽपि गोत्वे स्मृतिस्थे गवयस्थस्य सन्निहितस्य सादृश्यस्येन्द्रियगोचरता सिद्धेत्युपसंहरन्नाह तत्रेति ॥ ३६ ॥ स्वमतेनेदानीमुपमानस्य प्रमेयं दर्शयति तस्मादिति । यथा विवक्षं विशेषणविशेष्यभाव इति ॥ ३७ ॥ ननु गौः स्मर्यते सादृश्यं च प्रत्यक्षेण गम्यत इति न प्रमेयमुपमानस्य पश्यामः । अत आह प्रत्यक्षेणेति ॥ ३८ ॥ अत्र दृष्टान्तमाह प्रत्यक्षे इति ॥ ३९ ॥ का पुनरत्र व्यभिचारशङ्का, यन्निराकरणार्थं लक्षणप्रणयनम्, अत आह यत्र त्विति ॥ ४० ॥ {३,१५३} आभासेतरविवेके कारणमाह बाधकेति । अत्रोदाहरणमाह यथेति ॥ ४१ ॥ कथं पुनस्तदाभासत्वमत आह समीपस्थ इति । बाधकं हि तत्र ज्ञानमुत्पद्यत इति भावः । नेति प्रत्ययाभावे तु परमार्थसादृश्यमित्याह न बाध्यत इति ॥ ४२ ॥ सर्वमेवालोचितानुगमनमनुमानमिति मन्यमाना येऽस्यानुमानान्तर्भावमिच्छन्ति तान् प्रत्याह न चेति । पक्षधर्माद्यसम्भवमेव दर्शयति प्रागिति । धूमादिर्हि प्रमेयस्य पर्वतादेर्धर्मतयानुमानोत्पत्तेः प्रागवगतः पक्षधर्मो भवति । इह च गौः प्रमेयः । न चोपमानोत्पत्तेः प्राक्तद्धर्मतया सादृश्यं गृह्यते । अतस्तावन्न पक्षधर्मः । गवयशृङ्गित्वादीनां तु पक्षधर्मतोपरिष्टान्निराकरिष्यत इति ॥ ४३ ॥ गवयगतमपि सादृश्यमपक्षधर्मत्वान्न सादृश्यविशिष्टानां गवामनुमापकमित्याह गवय इति । गोगतं च प्रतिज्ञार्थैकदेशत्वान् लिङ्गमित्याह प्रतिज्ञार्थेति ॥ ४४ ॥ {३,१५४} गवयोऽप्यपक्षधर्मत्वान्न सादृश्यविशिष्टस्य गोर्लिङ्गमित्याह गवयश्चेति । अन्वयोऽपि तस्य सादृश्यविशिष्टेन गवा नावश्यं विदितपूर्व इत्याह सादृश्यमिति । द्वेधाप्युपमानस्य प्रमेयं सादृश्यविशिष्टो वा गौस्तद्वा गोविशिष्टम्, उभयस्यापि गवयान्वयो न दृष्टपूर्व इति ॥ ४५ ॥ ननु युगपदुभयं पश्यतां सादृश्यगवययोस्सम्बन्धोऽवगत एवात आह एकस्मिन्निति । सत्यमवगतं, न तु सर्वेणेत्युक्तमस्माभिः । यदि चान्वयो ज्ञानाङ्गं स्यात्, एकस्याप्यगृहीतान्वयस्य ज्ञानं न स्यादिति ॥ [४६] ॥ यदि तु शृङ्गित्वादेर्गवा सम्बन्धोऽवगतः, अतस्तद्गवये गृह्यमाणं गवि लिङ्गं भविष्यतीत्युच्यते । तन्न । तेषामवयवभूतानां गवयावयविज्ञानव्यापारं प्रत्युपक्षीणत्वादित्याशङ्कया सहाह शृङ्गित्वादेरिति ॥ ४७ ॥ यदि तु गवयज्ञानं प्रत्यनुपक्षीणानि स्वरूपेणैव शृङ्गित्वादीनि लिङ्गमिष्यन्ते, ततस्तेभ्यः पूर्वावगतसम्बन्धानुसारेण निस्सादृश्यमेव गोस्मरणं स्यादित्याह यदीति । कथं निस्सादृश्यमित्यत आह न गौरिति ॥ ४८ ॥ अयं तु प्रतीतिक्रम इत्याह सदृशेति । शृङ्गादिप्रत्ययात्{३,१५५}परावर्तिनं सादृश्यप्रत्ययमपेक्ष्य गोसादृश्यविशिष्टगवयप्रत्ययादेव पुनस्तत्सादृश्यविशिष्टगोज्ञानमुपजायते, न पुनः शृङ्गादिप्रत्ययमात्रादिति ॥ ४९ ॥ ननु शृङ्गादयोऽपि परस्परसदृशा एवेति कथं तेभ्यो निस्सादृश्या प्रतीतिरुच्यते । अत आह सदृशेति । यदि गवयादीनां सदृशावयवत्वमवगम्यते, न तर्हि ते सदृशतया प्रमीयन्ते । किन् त्ववयवा एव परस्परं सदृशतया । अतो न सादृश्यविशिष्टगोप्रमितौ शृङ्गित्वादीनां लिङ्गत्वम् । निस्सादृश्यं तु तेभ्यो गोस्मरणमात्रं स्यादिति । अपि चानुमाने यदेकदेशतया धूमादिरवगम्यते प्रमेयमप्यग्न्यादि तदेकदेशतयैव । इह तु शृङ्गित्वादयो गवयैकदेशतया प्रमीयन्ते । न च तदेकदेशो गौरप्यनुमीयत इत्याह न चेति ॥ ५० ॥ यदि तु कश्चिद्वैयात्यादेवमेवानुमास्यत इति ब्रूयात्, तं प्रत्याह इत्थमिति । भ्रान्तिरियमभावविरोधादिति । नगरस्थगोज्ञानमविशेषितं सादृश्येन स्मृतिरेवेत्याह नगरस्थमिति । विषयतात्स्थ्याद्ज्ञानेऽपि तात्स्थ्यव्यपदेशः तदधीनत्वात्तस्येति ॥ ५१ ॥ कः पुनरुपमानस्य वेदार्थ उपयोगः । यदि प्राकृतानां धर्माणां विकृतौ प्राप्तिरुच्यते, तन्न । अनुमानादेव तत्सिद्धेः । प्राकृतं लिङ्गं धर्मैस्सम्बद्धं किञ्चिद्विकृतौ दृष्टं तेषामनुमापकं भविष्यति । जैमिनेरप्येतदेवाभिमतमिति लक्ष्यते । यदेवमाह यस्य लिङ्गमर्थसंयोगादिति । अत्र हि व्यक्तमेव लैङ्गिकीं धर्मप्राप्तिमपदिशति । अत आह भिन्नेति ।{३,१५६}अयं भावः प्रतिबन्धदर्शिनो हि प्रतिबन्धकज्ञानमनुमानम् । न चेह सौर्यादिवाक्यानामाग्नेयादिविध्यन्तेन प्रतिबन्धोऽवगतः । न च द्रव्यदेवतयोः । न कर्मणः । अतः कथं तज्ज्ञानमनुमानमिति । प्रमाणान्तरादेवोपमानात्प्राकृतविध्यन्तप्राप्तिरध्यवसातव्या । वैकृतानि हि प्रधानान्यश्रुतविध्यन्तानि न तमन्तरेण पर्यवस्यन्ति । यत्किञ्चिद्विध्यन्तापेक्षां द्रव्यदेवतादिसादृश्यदर्शनोत्थापितोपमानपर्यवस्थापिताग्नेयविध्यन्तानि इतिकर्तव्यतामापाद्य कृतार्थानि भवन्ति । यथेहैव तावत्सौर्याग्नेययोरेकदेवतात्वेन तद्धितदेवतानिर्देशेनौषधद्रव्यकतया च सादृश्यादुपमानेनाग्नेयधर्मास्सौर्य उन्नीयन्ते । अयं चावयवार्थः इयमुपमा(नुमा)नाद्भिन्नोक्ता अग्न्यादियुतमितिकर्तव्यताजातं सादृश्यमात्रात्कथं नु प्रत्याययोदित्येवमुपयुज्यते । इतरथा सौर्यादिवाक्यैस्सह तस्यादर्शनान्नानुमानं सम्भवतीत्यप्राप्तिरेव स्यात् । अग्न्यादियुतमिति । अग्न्यादिना देवतयाग्नेयादिकर्म लक्षयति । आग्नेयादिना कर्मणा युक्तमितिकर्तव्यतामात्रमित्युक्तं भवतीति ॥ ५२ ॥ प्रयोजनान्तरमाह प्रतिनिधिरपीति । दर्शपूर्णमासयोः प्रक्रान्तयोर्व्रीह्यपचारे यत्तत्सदृशा नीवाराः प्रतिनिधीयन्ते, तदप्युपमानस्य फलमिति । इदमपरं प्रयोजनमित्याह प्रतिकृतिरिति युक्तमन्तेन । मुख्यापचारे गौणे शास्त्रार्थ आश्रयितव्ये यत्रातिगौणैर्जघन्यैर्द्वित्रादिसामान्यैः प्रतिकृतिः सादृश्यं बोध्यते, तत्र सुसदृशलाभे यन्मन्दसदृशं, मिथ्या भवति, तदप्युपमानस्य फलमिति । कथं पुनर्मन्दसदृशं मिथ्या,{३,१५७}सुसदृशलाभेऽपि ह्यल्पया मात्रया तत्सदृशमवगम्यत एव । अतोऽस्तु तत्राल्पं नामावयवसामान्यमत आह मतिरिति । न केवलं वस्तुतस्तयोस्सुसदृशाल्पसदृशयोः (?स्त्रीव्तीव्र)मन्द्रत्वमतिर्(?अपीति।पि तु) तथैव मुख्यरूषेणैव सुसदृशे द्राक्शीघ्रमुत्पद्यते । इवशब्दोऽलङ्कारे । अतो मन्दसदृशस्य मात्रया सादृश्यबोधेऽप्यनुपादानलक्षणो बोधो भविष्यतीत्यस्ति हानोपादानयोरुपमानोपयोगः ॥ ५३ ५४ ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम् उपमानपरिच्छेहः समाप्तः । ००८ अर्थापत्तिपरिच्छेद अथार्थापत्तिपरिच्छेदः अत्र भाष्यम् । अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थकल्पना । यथा जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति । अस्यार्थः अर्थापत्तिरपि न परीक्षितव्या, एवंलक्षणकत्वेनाव्यभिचारादिति । किं पुनरनेनार्थापत्तेर्लक्षणमुक्तम् । अर्थोऽन्यथानुपपद्यमानो यदर्थान्तरं कल्पयति सार्थापत्तिः । यथा जीवतो देवदत्तस्य गृहाभावो बहिर्भावेन विना नोपपद्यमानो यद्बहिर्भावं कल्पयति सार्थापत्तिरित्युक्तम् । यद्येवं केयमन्यथानुपपत्तिर्नाम । यदि तावदनेन विनास्य सद्भावो नोपपद्यत इति, तदिदं कार्यतः कारणानुमानमुपन्यस्तं, न प्रमाणान्तरम् । अथ ज्ञातसम्बन्धस्यानुमानम्, अर्थापत्तौ न सम्बन्धज्ञानमपेक्षत इत्युच्यते, तदयुक्तम् । न ह्यज्ञाते सम्बन्धेऽनेन विना नोपपद्यत इति शक्यते वक्तुम् ।{३,१५८}यदेव ह्यस्येदं कार्यमित्यादिना रूपेण ज्ञातसम्बन्धनियमः, तदेव स्वकारणेन विना नोपपद्यत इति शक्यमवसातुम्, धूम इवाग्निना विना । अतोऽविनाभावसम्बन्धबलोत्थमेवेदं ज्ञानमिति शब्दान्तरेणोक्तम् । स्यादेतत् । दृष्टस्वलक्षणविषयमनुमानमग्न्यादिषु दृष्टम्, अदृष्टस्वलक्षणविषयार्थापत्तिश्शक्त्यादिषूपजायत इति । तन्न । दृष्टमदृष्टं वा ज्ञातसम्बन्धमवगम्यतेऽन्यथानुपपत्त्या, कार्यसामान्यं हि कारणसामान्येन विनानुपपद्यमानं यत्तत्कल्पयति तदपि सम्बन्धज्ञानेन जायमानं कथमनुमानाद्भिद्यते । अदृष्टस्वलक्षणविषयता चानुमानस्य क्रियानुमाने वर्णितैव । अतः प्रमाणान्तरमृगतृष्णिकैवेयम् । सत्यम्, यदि यद्येन विना नोपपद्यते तद्तद्गमकं स्यात् । इह तु यन्नोपपद्यते तदेव गम्यम् । किमिदानीं बहिर्भावो गृहामावेन विना नोपपद्यते । बाढम् । न हि गृहेऽपि भवन् देवदत्तो बहिरपि भवति, तदस्य बहिर्भावो गृहाभावदर्शनेनैवोपपद्यते । ननु भाष्यकारो दृष्टः श्रुतो वेत्यादि वदन् गमकस्यान्यथानुपपद्यमानतां दर्शयति । न गम्यस्य । अग्रन्थज्ञो देवानां प्रियः । दृष्टः श्रुतो वार्थोऽर्थकल्पनेति हि सम्बन्धः । किमुक्तं भवति, अर्थान्तरस्य प्रमाणमिति । अन्यथा नोपपद्यत इति तर्हि केन सम्बध्यते, प्रमित्येति वदामः । अन्यथानुपपद्यमानतामापादयन्नर्थान्तरस्य गमक इति । कस्यार्थान्तरस्य । यदि बहिर्भावस्य, नास्यानुपपत्तिं गृहाभाव आपादयति, न हि गृहाभावदर्शिनो बहिर्भावो नोपपद्यत इति बुध्यन्ते लौकिकाः, किन् तु चैत्रो बहिरस्तीति । अपि च गम्यविशेषणमन्यथानुपपत्तिमाचक्षाणैर्गमकस्य किमन्यथानुपपत्तिर्नेष्यत एव यद्येवं कथं ततो बहिर्भावसिद्धिः । अथ सोऽपि नोपपद्यते, ततोऽविनाभावबलेनैव ज्ञानमिति पुनरनुमानत्वम् । किमर्थं चान्यथा नोपपद्यत इति गमकपरित्यागेनाश्रूयमाणया प्रतीत्या योज्यते । अथोच्यते अर्थान्तरस्य चैत्रसम्बन्धिनो विद्यमानत्वस्यान्यथानुपपत्तिमापादयन् गृहाभावो बहिर्भावं कल्पयतीति । संशयापादनं चान्यथानुपपद्यमानत्वापादनं, येन हि प्रायेण गृहे निवसंश्चैत्रो दृष्टः स गृहाभावदर्शनेनैव चैत्रस्य सद्भाव एव संशेते । प्रतीतेऽपि हि वस्तुनि{३,१५९}पूर्वप्रतिपन्नरूपान्तराभावावगमस्संशयमापादयति । देवदत्तस्य विद्यमानता गृहसम्बन्धावगतेति तदभावदर्शनाद्भवति विद्यमानत्वे संशयः किमस्ति चैत्रो न वेति । अयं च संशयोऽनुपपत्तिरित्याख्यायते । तामिमां विद्यमानत्वस्य संशयरूपामनुपपत्तिमापादयन् गृहाभावो बहिर्भावकल्पनया संशयमुत्सारयंश्चैत्रस्य विद्यमानत्वमुपपादयति । तदिह गृहाभावो विद्यमानत्वस्यार्थान्तरस्य संशयापादनद्वारेण बहिर्भावेनानवगतसम्बन्धोऽपि तं गमयति । विद्यमानत्वमेव वा गृहाभावापादितानुपपत्तिकं स्वोपपादनाय बहिर्भावं कल्पयतीति द्वेधा दर्शनम् । अत एव चानुमानाद्भेदः । न ह्यनुमाने धूमादिः कस्याचित्संशयरूपामनुपपत्तिमापादयंस्तदापादितानुपपत्तिकं वा किञ्चिदग्न्यादिकं गमयति । किन् तु असन्दिग्धादेव धूमादग्निरनुमीयते । यथा चानुमाने निश्चितरूपं लिङ्गं गमकम् । तथेह सन्दिग्धमिति दर्शनबलादभ्युपगन्तव्यम् । तदेतदसाम्प्रतम् । तथा हि यत्तावदुक्तं गृहाभावस्संशयमापादयतीति । तदयुक्तम् । कथं हि तेन विद्यमानत्वे संशय आपाद्यते । गृहे चैत्रो दृष्टः कथमिह न भवतीति चेद्, न तावदेवं सर्वे प्रतियन्ति, येनापि हि स तत्र दृष्टः, सोऽपि तं जीवन्तं तत्रासन्तमवगम्य सहसा बहिर्भावं कल्पयतीति । अपि च यदि वस्तुधर्मविसंवादात्सन्देहः, न तर्हि बहिर्भावकल्पनायां निमित्तं पश्यामः । यथा हि मृतजनिष्यमाणयोः गृहाभावो न बहिर्भावं सूचयति, एवं सन्दिग्धसद्भावस्यापि । यावद्धि चैत्रस्य विद्यमानता न निश्चीयते, न तावद्गृहाभावमात्रदर्शनेन बहिश् चैत्रोऽवस्थापयितुं शक्यते । संशयनिराकरणार्थमपि चात्र प्रमाणान्तरमर्थनीयम् । न बहिर्भावः । निराकृते तु संशये निश्चितसद्भावो गृहाभावदर्शनेन बहिरस्तीति गम्यते । अथ निश्चितसद्भावस्यैव स्थितिप्रकारे सन्देहः कथमस्तीति । स तर्हि चैत्रमपश्यतोऽपि भवतीति किं गृहाभावदर्शनेन । न चासौ बहिर्भावकल्पनाबीजम् । अतो बहिर्भावकल्पनाप्रत्यनीकमेव संशयापादनं, यत्तत्सिद्धये द्वारमाश्रितम् । साधु सम्पादितम् । अतो न विद्मः कीदृशो लक्षणार्थ इति । {३,१६०} अत आह प्रमाणेति । अन्यथा नोपपद्यत इत्यन्यथानुपपद्यमानतामापादयन् गमयतीति व्याचक्ष्महे । अपि तर्हि दृष्टश्रुतविशेषणमेवेदम् । य एव कश्चित्प्रमाणषट्कविज्ञातोऽर्थोऽन्यथानुपपद्यमानतया गृहीतः, स एव स्वोपपादनायान्यमर्थं कल्पयति तद्विषया कल्पनाबुद्धिरर्थापत्तिरिति । नन्वेवमविनाभावबलोत्था बुद्धिरनुमानमित्यापादितम् । मैवम् । न ह्यन्यथा नोपपद्यत इत्यविनाभावमाचष्टे । स ह्यनेन विना न भवतीत्युक्ते गम्यते । किं नामानेनोच्यते, दृष्टः श्रुतः कल्पनामन्तरेण नोपपद्यत इति । का पुनरस्यानुपपत्तिः, न हि दृष्टेऽनुपपन्नं नाम । दृष्टमपि प्रमाणान्तरविरोधाद्यत्प्रतिहन्यते सानुपपत्तिः । दृष्टो हि गृहे चैत्राभावोऽभावेन । आनुमानिकी च तस्य जीवतः क्वचित्सत्ता । सानिर्धारितदेशविशेषतया गृहमपि व्याप्नोति । सोऽयमभावानुमानयोर्विरोधोऽनुपपत्तिराख्यायते । संशयोऽपि चात्र प्रमाणान्तरविप्रतिपत्तिरेवानवस्थितोभयभानवस्तुलक्षणः । अथवायमनध्यवसाय एवैकस्मिन् बुद्धिमुपसंहर्तुं युक्तिविशेषादशक्नुवतः । अतो नेहान्यतरदुपादातुं हातुं वा शक्यं प्रमाणत्वाविशेषात् । तदिह सङ्कटे प्रामाणिकोऽनुमानस्य विषयं कल्पयति बहिरस्तीति, न हिंस्यादिति सामान्यशास्त्रस्येव विहितवर्जितां हिंसाम् । एवं चोभयमुपपादितं भवति अभावोऽनुमानं चेति । सर्वत्र चैवमेव दर्शयितव्यम् । त्रैरूप्यरहितत्वं चास्या उत्तरत्र वक्ष्यामः । अत्र च दृष्ट इत्युच्यते, तत्र न विद्मः, किमिह चक्षुर्मात्रेण दृष्टोऽभिप्रेतः, उत प्रत्यक्षमात्रदृष्टः । पूर्वस्मिन् पक्षे श्रोत्रादिपूर्विकार्थापत्तिर्न स्यात्, उत्तरस्मिन्ननुमानादिपूर्विका । अथ प्रमितमात्रपरिग्रहार्थो दृष्टशब्दः, श्रुतो वेति तर्हि किं भेदेनोपादीयते, शब्दावगतमपि हि प्रमितमेव । अथोच्यते नेदमर्थान्तरविवक्षया श्रुतग्रहणम्, किन् तर्हि, अभिधानान्तरमेवेदमुपलब्धेर्वाचकम् । उपलब्धिमात्रविवक्षया{३,१६१}हि दृष्टश्रुतशब्दमुपचरन्तो लौकिका दृश्यन्ते । न दृष्टो न श्रुतः कश्चित्स्वयं दत्तापहारक इति । यथा एतदेवाभिप्रेत्य टीकाकारेणोक्तं दृष्टः श्रुतो वेति लौकिकमभिधानमिति । शाब्दीमुपलब्धिं प्रमाणान्तरेभ्यो भेदेन लौकिका उपाददाना दृश्यन्त इत्युक्तं भवति । इदमपि नोपपन्नम् । कथं हि लक्षणग्रन्थे सुनिपुणो भाष्यकारोऽभिप्रायान्तरमन्तरेण श्रुतपदं प्रयुङ्क्त इत्युत्प्रेक्षितुमपि शक्यमिति वाच्यमुभयोपादानप्रयोजनमत आह दृष्ट इति । सत्यम् । पञ्चभिरपि प्रत्यक्षादिभिर्दृष्टो दृष्टो भवति । उपलब्धिपर्याय एव दृष्टशब्द इति यावत् । तथाप्यस्माद्दृष्टाद्भेदेन यच्छ्रुतोद्भवार्थापत्तिरुपादीयते, तदस्याः प्रमाणग्राहितया पूर्वस्या दृष्टार्थापत्तेर्वैलक्षण्यं दर्शयितुम् । तच्चोपरिष्टाद्वक्ष्यते । प्रथमार्थापत्त्यपेक्षया च पञ्चभिरित्युक्तमिति प्रमाणषट्कपूर्विकार्थापत्त्युदाहरणावसरे ॥ २ ॥ इदानीं प्रत्यक्षपूर्विकामेव तावन्मुख्यतयोदाहरति तत्रेति वह्नेरन्तेन । का पुनरियं शक्तिः । नेयमतीन्द्रियेदन्तया निर्देष्टुं शक्यते । ननु यद्भावाभावनिबन्धनौ कार्यभावाभावौ इयं शक्तिः, ईदृशी च प्रत्यक्षवेद्यैव । तथा हि वह्निसंयोगानन्तरं दाहो दृश्यते असति च न दृश्यत इति तत्संयोग एव शक्तिरिति गीयते, न तत्त्वान्तरम् । स च प्रत्यक्ष इति किमर्थापत्त्या । न । व्यभिचारात् । यथा खलु स्वरूपमात्रमग्नेर्व्यभिचरति, एवं संयोगोऽपि । भवति हि कदाचिदौषधादिसन्निकर्षे संयुज्यते वग्निरथ च न दहतीति । तदिहार्थापत्त्या तत्त्वान्तरं शक्तिरूपं कल्प्यते । कयानुपपत्त्या, प्रमाणान्तरविरोधेन । तथा हि प्रत्यक्षेण दाहोऽवस्थाप्यते । हेत्वभावेन च प्रतिक्षिप्यते । स हि कार्याभावेन विदितप्रतिबन्धस्तं गमयति । तथा हि न स्वरूपमग्नेः कारणम्, न तत्संयोगो व्यभिचारात्, नान्यत्किञ्चित् । न चाकस्मादेव भवतीति साम्प्रतम् । एवं हि कदाचिन्न स्यात्, अपेक्षा हि कदाचिद्भावे निबन्धनम्, अनपेक्षं तु नित्यं सदसद्वा भवेत् । अतः कार्यदर्शनादर्शनबलादग्नेः स्वरूपाद्व्यतिरिक्तं किञ्चिद्रूपमुन्नीयते,{३,१६२}यद्भावाभावनिबन्धनौ कार्यभावाभावाविति । स्वरूपमात्रायत्ते तु कार्यभावे तदभेदात्सदापत्तिरिति । स्वरूपमात्रमप्रतिबन्धमग्नेर्दाहस्य कारणमौषधादीनां तु प्रतिबन्धृतेति चेत्, कः प्रतिबन्धार्थः । स्वरूपं तावदविनष्टम् । तदेव प्रत्यभिजानीमः । न हि बीजस्योपरि त(?ना।दा)नीते प्रदीपे किञ्चिद्रूपापचयमुपलभामहे । न च तेनाङ्कुरो जन्यते । अथ वस्त्वन्तरसन्निधौ सामग्र्यन्तरमेव जातम्, अतः पूर्वसामग्रीकार्यं नोत्पद्यत इति चेन्नैवम् । न हि मन्त्रादिसन्निकर्षे पूर्वसामग्रीनाशो दृश्यते । न च तत्कार्यमुपलभ्यते । अथ मन्त्रादिरहितमेव कारणं कार्यस्य जनकम् । न तु तत्र तेन किञ्चित्क्रियत इत्युच्यते । तन्न । न ह्यकिञ्चित्करस्य सन्निधिः कार्यं प्रतिबध्नाति । अन्यदपि हि तत्रोदासीनं सन्निहितं भवति । न च कार्यं न जायते । न च मन्त्रादिसन्निधावर्थान्तरमेव जातं पूर्वकारणनाशेनेति मतिराविरस्ति । सकला हि सामग्री प्रत्यभिज्ञायते । अस्ति च तत्र कारणमित्युक्तम् । न च मन्त्रादिप्रागभाव एव वा तद्विशिष्टा वा सामग्री जनिकेति युक्तम् । अभावस्य भावान्तरसिद्धौ व्यापारादर्शनात् । विहिताकरणेऽपि तत्कालेऽन्यक्रिया प्रत्यवायहेतुर्ना(?का।क)रणम् । यदाह स्वकाले यदकुर्वस्तु करोत्यन्यदचेतनः । प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते ॥ इति । यदि तु कर्मणः प्रागभावश्च विहिताकरणेषु यः । स चानर्थकरत्वेन वस्तुत्वान्नापनीयते ॥ इति दर्शनात्मन्त्रादिप्रागभावः कारणमिष्यते । तथापि परस्तात्कार्यदर्शनं नोपपद्यत इति । मन्त्रादिप्रध्वंसोऽपि कारणमिति चेत्, स तर्हि प्राङ्नासीदिति प्राङ्मन्त्रादिप्रयोगात्कार्यं न जायेत । न हि क्षितिजलबीजानामन्यतमापायेऽप्यङ्कुरो जायमानो दृश्यते । अपि च सत्येव प्राच्यमन्त्रादिसन्निधाने तद्विपरीतमन्त्राद्यागमे कार्यभावमीक्षमाणा न तदभावस्य कारणभावमवस्थापयामः । न हि विहिताकरणकारणकः प्रत्यवायः सत्यपि विहितकरणे दृष्टः । भवति चात्र प्रयोगः यद्यदभावकारणकं तत्तद्भावे न भवति विहिताभावभाव्य इव प्रत्यवायो{३,१६३}विहितभावेन । न चैवं मन्त्रादिभावे कार्यमिति । एवं चाकिञ्चित्करो मन्त्रादिभावो न कदाचित्कार्यं प्रतिबध्नीयात् । अतः कारणशक्तेरेव प्रतिबन्धको मन्त्रः, न तदभावः कारणम् । बलवत्तरोपनिपातापहृतशक्तिस्तु सोऽपि न किञ्चित्प्रतिबध्नाति । न च यद्बलवद्रुद्धमात्मानं नैव विन्दति, अविरोधेऽपि तेनात्मा न लब्धव्यः । कदाचन माभूत्श्रौतपरिपन्थिविनियोगाभावेऽपि लैङ्गिकविनियोगाभाव इति । अतोऽस्ति कश्चिदतिशयः कारणानाम्, यन्नाशतिरोधानाभ्यां कार्यं नारभन्त इति सिद्धं प्रत्यक्षावगताद्दाहाद्दहनशक्तिकल्पनम् । अनुमेयत्वं तु शक्तेरुपरिष्टान्निराकरिष्यत इति । अनुमानपूर्विकार्थापत्तिमुदाहरति अनुमितादिति । देशान्तरप्राप्त्या सूर्ये यानमनुमीयते, ततोऽर्थापत्त्या तच्छक्तिः । अत्रापि प्रमाणान्तरविरोध एवानुपपत्तिः । गमनं हि प्राणिनां विशिष्टपदादिसाधनकमवगतम् । अयं चानुमिततद्विधर्मगमनसाधनोऽपि तथैव न गन्तुमर्हतीति वितर्कः । सोऽयं शक्तिकल्पनया निवार्यते । अस्ति नाम सा काचिदस्य शक्तिः, यया गन्त्रन्तरविधर्मगमनो विपातनिपातयोस्सममुपसर्पतीति ॥ ३ ॥ श्रुतार्थापत्तिस्तु भिन्नविषया दृष्टार्थापत्तिभ्यो विविच्य पश्चादेवाभिधास्यत इत्याह श्रुतेति । उपमानपूर्विकां दर्शयति गवयेति । गवयसदृशो गौरित्युपमिते सदृशज्ञानग्राह्यशक्तिरर्थापत्त्या कल्प्यते । ईदृशी च तत्रानुपपत्तिर्भवति कथं गवि सुसदृशज्ञानं जन्यते, यदि हि जनयेत्प्रथमदर्शनेऽपि किं न जनयेत्, सन्ति हि तदापि गवि गवयावयवसामान्यानि, तदेवं जातमपि गव्युपमानमनुपत्त्यावसीदति । शक्तिकल्पनयोपपाद्यते । अस्तिनाम कोऽपि गोरतिशयो यः प्रतियोगिदर्शनप्रतिलब्धाभिव्यक्तिर्गवयसदृशीं धियमुपजनयति । यच्चेदं समाने पशुत्वे गौरेव गवयसदृश इत्युपमीयते तदपि तस्य शक्तिविशेषाभ्युपगमाद्विना नोपपद्यत इति ॥ ४ ॥ अर्थापत्तिपूर्विकामुदाहरति अभिधानेति । शब्दादनन्तरमर्थप्रतिपत्तिं दृष्ट्वा तस्य तत्कारणत्वमवसीयते । न च व्यापारमन्तरेण{३,१६४}कारणत्वमुपपद्यत इति शब्दसमवायी व्यापारोऽनुमीयते । स चाभिधेति प्रसिद्धम् । तत्सिद्ध्यर्थं च शब्दे वाचकसामर्थ्यमर्थापत्त्या प्रमीयते । अभिधायकत्वे ह्यनुमिते भवत्यनुपपत्तिः, नायमस्याभिधायकः । प्रागिव सम्बन्धज्ञानाद्गृहीतसम्बन्धः प्रत्यायक इति चेद्न । तदभावात् । न ह्यस्यार्थेन संयोगादीनामन्यतमस्सम्बन्धो दृश्यते । तदस्यानुपपत्तौ शक्तिकल्पनोपपादिका भवति । अस्ति खल्वनयोर्वाच्यवाचकशक्तिरूपस्सम्बन्धः । यदग्रहान्नार्थोऽवगम्यत इति । एवं च शक्तिकल्पनोत्तरकालं शक्तेरपि नित्यत्वमन्तरेणानुपपत्तेरर्थापत्त्यन्तरेण शब्दस्य नित्यता प्रतीयत इति ॥ ५ ॥ एतदेव विवृणोति अभिधेति सार्धेन । एतच्च स्वयं जैमिनिनैव शब्दाधिकरणेऽभिधास्यत इत्याह दर्शनस्येति ॥ ६ ७ ॥ अभावपूर्विका तु भाष्यकारेण स्वयमुदाहृतेति न पृथगुदाह्रियत इत्याह प्रमाणाभावेति सार्धेन । अस्यार्थः यथा जीवति देवदत्ते गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य परिकल्पना इति भाष्ये य । चैत्रस्य बहिर्भावसिद्धिर्दर्शिता तामेव प्रकृताभ्योऽन्यामभावपूर्विकामर्थापत्तिं भाष्यकार उदाहरतुदाहृतवानिति । प्रपञ्चस्त्वर्थापत्त्युदाहरणानां पक्षदोषाभिधानावसरे ज्ञात्रादिनास्तितायामित्यादिनानुमाने वर्णित इत्याह पक्षदोषेष्विति ॥ ८ ९ ॥ {३,१६५} इदानीमर्थापत्तेरनुमानाद्भेदे वेदितव्ये भाष्योक्तत्वादभावपूर्विकाया एव भेदं तावदाह अभावेति । येयमभावप्रमाणेन गृहे नास्तीत्यनेन रूपेणावगताच्चैत्राद्बहिर्भावसूचनात्मिकार्थापत्तिः सापि पक्षधर्मादीनामनङ्गत्वाच्छब्दवदुपमानवदनुमानाद्भिद्यत इति ॥ १० ॥ पक्षधर्माद्यनङ्गत्वमेव दर्शयति बहिर्देशेति । इह हि बहिर्देशविशिष्टश्चैत्रः पक्षस्तद्विशिष्टो वा बहिर्देशः । न चोभयस्यापि गृहगतोऽभावो धर्म इत्य्(अस्य) पक्षधर्मत्वं कथम्, न कथञ्चिदित्यर्थः ॥ ११ ॥ नाभावमात्रमविशेषितं चैत्रस्य बहिर्भावे लिङ्गम् । न चास्य गृहं विशेषणं भवति, परतन्त्रं हि विशेषणम्, यथा नीलिमोत्पलद्रव्यस्य । एवमिहापि द्रव्यभूतं गृहमेव तत्परतन्त्रेणाभावेन विशेष्यत इति युक्तम्, व्यापकत्वाच्चाभावो गृहस्य विशेषणम्, शक्यते हि तेन चैत्राधिष्ठितैकदेशव्यतिरिक्तजगद्व्यापिना गृहं व्याप्तुम् । अल्पं तु गृहं न महाविषयमभावं व्याप्तुं शक्नोति । अतो यथा व्याप्यस्य धूमस्याग्निविशिष्टत्वमवगम्यते, अनेनापि प्रकारेण गृहमेवाभावविशिष्टं बहिर्भावस्य लिङ्गमित्यापतति । तच्च तदभावविशिष्टगृहं न कथञ्चिच्चैत्रबहिर्देशाभ्यां सम्बध्यते । अभावस्य तावत्कथञ्चिदस्ति चैत्रान्वयः । चैत्राभाव इति हि स प्रतीयते । गृहं तु न कथञ्चिच्चैत्रसम्बद्धमवगम्यते इत्यपक्षधर्म इत्याह तदभावेति । इतश्च गृहाभावो न पक्षधर्म इत्याह गृहाभावेति । गृहीते हि पक्षे तद्धर्मप्रत्ययो भवति । न च चैत्रबहिर्देशौ गृहेऽसत्तया गम्येते इति ॥ १२ ॥ {३,१६६} गृहमेव तु तत्र प्रत्यक्षावगतमिति तद्धर्मप्रतीतिरेवाभावे भवतीत्याह गम्यते तु गृहमिति । न हि तत्र गृह एव चैत्रोऽनुमीयते, अभावविरोधादित्यभिप्रायेणाह तत्रेति । अदर्शनं हि चैत्रसम्बद्धमवगतमिति तल्लिङ्गं भविष्यतीत्यत आह न चात्रेति । न च दर्शनाभावो बहिर्भावे लिङ्गम्, एतदभावेऽभिधास्यत इति ॥ १३ ॥ अतो गृहेऽदर्शनमपि न हेतुरित्याह तेनेति । किञ्च गृहाभावावधारणोपक्षीणेऽदर्शने बहिर्भावमतिर्भवति, कथमसौ तद्धेतुका भवियिष्यतीत्यभिप्रायेणाह अदर्शनादिति । अभिप्रायं विवृणोति नासाविति । अदर्शनावधारितस्य चैत्रभावस्यैवान्यत्रानुपयुक्तस्य हेतुत्वं सम्भवति । तच्चापक्षधर्मतया निराकृतमित्याह चैत्राभावस्येति ॥ १४ १५ ॥ एवं तावत्पक्षधर्मता निराकृता पक्षोऽप्यत्रानुमानात्पूर्वं नोपलक्ष्यत इत्याह पूर्वं न चेति ॥ १६ ॥ {३,१६७} अत्र चोदयति नदीति । अत्र ह्यप्रतिपन्न एवोपरिदेशे पक्षेऽतद्धर्मः पूरो लिङ्गं तद्वदिहापि भविष्यतीति ॥ १७ ॥ परिहरति वृष्टिमदिति । एवं त्वनुमीयमाने लोकविरोधः । न ह्येवं लौकिका बुध्यन्ते । अत आह यद्वेति । दृष्टस्य नदीपूरस्य कारणाभावानुपपत्त्योपरिष्टाद्वृष्टिः कल्प्यते । इदमपि चान्वारूढेनोक्तम्, परमार्थेन तु व्याप्तिबलोत्थमिदमनुमानमेव । न चापक्षधर्मतादोषः । उपरिदेशस्य पूरसम्बद्धदेशसम्बन्धात्, असम्बद्धो हि न हेतुर्भविष्यतीति ॥ १८ ॥ इतश्च गृहाभावो न बहिर्भावे लिङ्गमित्याह जीवतश्चेति । निश्चितरूपं हि लिङ्गमनुमाने गमकम् । इह च योऽयं जीवतो गृहाभावः स प्रमाणान्तरविरोधान्निश्चेतुमेव न शक्यते । एवं हि तत्र भवति वितर्कः । जीवता हि क्वचिद्भवितव्यम्, कथमिह न स्यात् । एवं चानध्यवसायादप्रतिष्ठितो गृहाभावोऽसिद्धत्वादलिङ्गम् । सिद्धिस्तु नानन्तर्भाव्य बहिर्भावमस्य भवति, तदन्तर्भावे च परस्तात्प्रमेयाभाव इति भावः ॥ १९ ॥ अनुमाने त्वनपेक्षितप्रमेयमेव धूमादिलिङ्गस्य स्वरूपं सिद्धमवगम्यत इत्याह अग्निमत्तेति ॥ २० ॥ यदि त्विहापि हेतोरनपेक्षत्वसिद्ध्यर्थं गृहाभावमात्रमविशेषितं जीवनेन हेतुरिष्यते ततो नैकान्तिक इत्याह गेहेति ॥ २१ ॥ {३,१६८} कथं च विद्यमानत्वविशिष्टो गृहाभावो बहिर्भावं साधयति कथं च शुद्धो नेत्युभयत्र कारणमाह विद्यमानत्वेति द्वयेन । विद्यमानत्वविशेषणविशिष्टगृहाभावबुद्धौ हि यावद्विद्यमानत्वस्य विषयो नावस्थाप्यते तावदभावः प्रत्येतुमेव न शक्यते, तद्यदा भावप्रतिपक्षेणाभावेन गृहमवरुद्धं तदा तत्र तावच्चैत्रस्य भावो भवितुं न प्रभवतीत्याश्रयापेक्षया पारिशेष्याद्बहिरेव भवतीति । शुद्धाभावप्रतीतौ त्वाश्रयापेक्षैव नास्तीति किं बहिर्भावकल्पनयेति ॥ २२ २३ ॥ ननु च निश्चितसद्भावस्य चैत्रस्य गृहाभावो बहिर्भावमन्तर्भाव्य सिद्ध्येत् । सन्दिग्धसद्भावस्य त्वनपेक्षितबहिर्भाव एव तं गमयिष्यतीत्यत आह सिद्ध इति । यदि चैत्रसद्भावे सन्देहः, न तर्हि तद्बहिर्भावावगतिः प्रसिध्येत् । असन्दिग्ध एव तु सद्भावविज्ञानेऽभावेन गेहादुत्कालिता उत्सारिता तत्सत्ता बहिर्भवति नियमेन, इतरथा तत्रापि सन्देह एव भवेत् । एतेन गृहाभावापादितसन्देहं विद्यमानत्वमेव बहिर्भावं कल्पयतीति यैरुक्तं तन्निराकृतमिति वेदितव्यम् । इदं च प्रायेवोक्तमस्माभिरिति ॥ २४ ॥ अतः सिद्धं जीवननिरपेक्षस्याभावस्य व्यभिचारः अव्यभिचारिणश्च प्रमेयानुप्रवेशद्वारणैव समर्थनमिति धूमादिवैलक्षण्यान्न लिङ्गत्वमित्याह तेनेति ॥ २५ ॥ {३,१६९} एवमनुमानाद्भेदं प्रसाधितुमुपसंहरति तस्मादिति । अनुमानाद्बहिर्भूतमिदं प्रमाणं स्थितमिति ॥ २६ ॥ तदेवं गृहाभावस्य प्रमेयानुप्रवेशनसिद्धौ यदि तल्लिङ्गमिष्यते ततो दुरुत्तरमितरेतराश्रयत्वमापद्यत इत्याह पक्षेति द्वयेन ॥ २७ २८ ॥ नन्वेवमर्थापत्तावपि प्रमेयानुप्रवेशिता, कथं हि प्रमाणान्तरापादितानुपपत्तिरनवस्थितो गृहाभावो बहिर्भावं गमयिष्यत्यत आह अन्यथेति । द्वेधा ह्यनुपपन्नम् किञ्चिदनुपपन्नमेव यन्न कथञ्चिदुपपादयितुं शक्यम्, किञ्चिच्चासति कल्पनेऽनुपपन्नम् । तत्र यदेकान्तमनुपपन्नं तदुपेक्ष्यत एव । यत्तु कल्पिते कस्मिंश्चिदुपपद्यते अन्यथा नोपपद्यते तदुपपत्तिरन्यकल्पनयावसीयते । एवमेव हि सर्वलौकिकपरीक्षका बुध्यन्ते । न च विपर्ययो देशान्तरादिषु दृष्टः । अतः प्रमाणमेवेदम् । यथा चानुमाने निश्चितरूपं लिङ्गं गमकम्, एवमिहापि केनचित्प्रमाणेनावगतं प्रमाणान्तरेणोत्थापितवितर्कम् । न चात्रान्यतरत्रापि प्रामाण्ये संशयः, किन् तु निश्चितप्रामाण्ययोरेव द्वयोस्समर्थनापेक्षामात्रं कथमिदमुभयमुपपद्यतामिति । षोडशिन इव ग्रहणाग्रहणशास्त्रयोः । न तत्रैकपरित्यागेनेतरदुपपादयितुं शक्यते । अतो यथा तत्र कथमिदमुभयमुपपद्यतामित्यपेक्षिते प्रयोगभेदेनोभयमुपपाद्यते, एवमिहापि प्रमाणप्रतिपन्नमुभयं निश्चितसद्भावमर्थान्तरपरिकल्पनया{३,१७०}समर्थ्यते । ताद्रूप्येणैव प्रतिभानात् । विलक्षणानि हि प्रमाणानि विलक्षणसामग्रीकाणि । अत एव परस्परतो भिद्यन्ते । अप्रामाण्यकारणानि च संशयविपर्ययावज्ञानं वा, तच्चार्थापत्तावपि नास्तीति कथमप्रमाणता । कथमज्ञातसम्बन्धात्प्रतीतिः प्रमाणमिति चेत् । न सम्बन्धः प्रामाण्ये कारणम्, अपि तु बाधविरहः । स चेहाप्यविशिष्ट इति न कश्चिद्दोषोऽर्थापत्तावस्माकं प्रतिभातीति ॥ २९ ॥ ननु गृहाभावो नान्तरेण बहिर्भावमुपपद्यते अतो नान्तरीयकः, नान्तरीयकाच्च यदर्थान्तरज्ञानं तदनुमानम्, अतोऽनुमानमेवेदं बहिर्भावज्ञानमत आह अविनेति । अयमभिप्रायः नान्तरीयकार्थदर्शनं तद्विदोऽनुमानमिति केचित्पठन्ति, तेषामपि तद्विदो नान्तरीयकताविद एव नान्तरीयकदर्शनमनुमानमभिप्रेतम्, न चेह नान्तरेण बहिर्भावं गृहाभावो भवतीति प्रागवगतम्, तदैव ह्यर्थापत्त्या बहिर्भावं परिकल्प्यायमनेन विना न भवतीत्यविनाभाविता कल्प्यते । अतस्सा स्वरूपसत्यपि न पूर्वमवगतेति न ज्ञानोत्पत्तौ कारणमिति ॥ ३० ॥ नन्ववगतसम्बन्धस्य तर्ह्यनुमानं स्यादत आह गृहाभावेति तान्तेन । न तावन्नियमेन सर्वैरेव द्वयोस्साहित्यमवगतम्, अविदितसाहित्यस्य तावत्सिद्धं प्रमाणान्तरमित्यभिप्रायः । येनापि तयोस्साहित्यमवगतं तस्यापि नागृहीतयोस्तयोस्साहित्यग्रहः सम्भवति, न च तयोरेकग्रहणेऽपरदर्शनमर्थापत्त्या विना सम्भवति । अन्यथानुपपत्त्यैव त्वेकेन गृहाभावेन{३,१७१}बहिर्भावेन वा तयोरेकः प्रत्येतव्यः । एवं चाकल्प्यमाने न्यतरस्य सम्बन्धिनोऽगृहीतत्वात्साहित्यप्रतीतिरेव न स्यात्, अतस्साहित्यार्थमर्थापत्तिरर्थनीयेति सिद्धं प्रमाणान्तरमित्यभिप्रायेणाह प्रमाणं चेति प्रतीयतेऽन्तेन । अभिप्रायं विवृणोति तेनेति ॥ ३१ ३३ ॥ ननु च नावश्यमर्थापत्त्यैवान्यतरस्सम्बन्धी ग्रहीतव्यः, शक्यते हि गृहद्वारावस्थितेनाभावप्रत्यक्षाभ्यामुभयं विदित्वा सम्बन्धोऽनुभवितुम्, तथा विदितसम्बन्धाच्च गृहाभावाद्बहिर्भावानुमानमित्याशङ्कते तावत् गृहद्वारीति ॥ ३४ ॥ अत्रोत्तरमाह तदापीति । अयमभिप्रायः सिध्यत्येवं गृहाभावाद्बहिर्भावानुमानम्, न पुनरेवमेव सर्वेषामवगतिः, अगृहीतसम्बन्धानामपि प्रतीतिभावात् । एषोऽपि च प्रकारो नैकत्र भावेन सर्वत्राभावावगमे सम्भवति, न हि जगदभावेनैकत्र भावोऽन्वितश्शक्योऽवगन्तुम् । जगदभावस्य प्रत्येतुमशक्यत्वादित्यभिप्रायः । नन्वेवं तदावगतं यदायमेकत्र भवति तदा परत्र तत्समीपे न भवतीति । एवं च विदितव्याप्तेरेकदेशभाने सर्वत्राभावानुमानं भविष्यति । अत आह न चेति । न ह्येकदेशनास्तितया त्रैलोक्याभावेन हेतोर्व्याप्तिस्सिध्यतीति ॥ ३५ ॥ किं पुनर्जगदभावेन सम्बन्धो नावगम्यते, तस्यानवगतेरिति चेद्, नन्वनुपलब्धिरभावावगमे कारणम्, यथा चैकत्र सन् देवदत्तो देशान्तरे{३,१७२}नुपलभ्यमानो नास्तीति निश्चीयते । एवमेकत्र सन् सर्वत्र नोपलभ्यत इति सर्वत्रैव नास्तीति शक्यमवगन्तुम् । न हि दर्शनवददर्शनमपि प्रयत्नमपेक्षते, दर्शनं हि कार्यं स्वकारणमर्थेन्द्रियसन्निकर्षाद्यपेक्षमाणमेकत्र सतो न सर्वत्र सम्भवति, दर्शनाभावस्तु न किञ्चिदपेक्षत इति चोदयति नन्वत्रेति । अत्रेत्येकदेशं परामृशति । अत्र खल्वेकदेशेऽनुपलब्धितोऽविद्यमानत्वमवगम्यते । तच्च सर्वत्रापि समानमिति ॥ ३६ ॥ अत्र परिहारमाह नैतयेति । किमिति न प्रतीयते अत आह तद्देशेति । उपलब्धियोग्यस्य ह्यनुपलब्धिरभावं व्यवस्थापयति, दूरस्थेषु त्वयोग्यत्वादेव सत्स्वप्यनुपलब्धिस्सम्भवतीति नाभावनिश्चय इति ॥ ३७ ॥ यदि तु सर्वग्रामनगरसरित्कान्तारादिदेशाः प्राप्ता भवेयुः, एवं चैत्रस्य तेष्वभावश्शक्यावगमः, न चेदं शक्यकरणमित्यभिप्रायेणाह गत्वा गत्वेति ॥ ३८ ॥ अत्र चोदयति ननु चेति । अयमभिप्रायः न तावद्विपक्षादव्यावृत्तो हेतुर्गमकः, न च सर्वे विपक्षा गत्वोपलब्धुं शक्यन्ते, अतोऽवश्यमेकदेशस्थस्यैवानुपलब्ध्या विपक्षाधेतोर्व्यतिरेको ग्रहीतव्यः । तद्वदिहापि भविष्यतीति । धूमादयश्च ते व्यतिरेकिणश्चेति धूमादिव्यतिरेकिणः । अग्न्याद्यभावे ये व्यतिरेकिणो धूमादयस्तेषामग्न्याद्यभावदेशागमनाद्व्यतिरेको न सिध्यतीति ॥ ३९ ॥ {३,१७३} परिहरति यस्येति । व्यतिरेकप्रधानवादिनो हि बौद्धस्यासति विपक्षाद्व्यतिरेकग्रहणे न हेतुर्गमको भवति, वस्त्वन्तराभावो हि तस्य प्रमेयः, अग्न्यादेर्वस्तुनोऽन्यस्यानग्न्यादेरभाव इति यावत् । स हि सर्वानग्निव्यतिरेकमन्तरेण न सम्भवति, मम तु सहचारिणो हेतुर्गमकः, अन्वयमात्रनियमेन । स च विपक्षादर्शनमात्रेण द्वित्रैरेव दर्शनैः सिध्यतीति ॥ ४० ॥ नन्वन्वयवादिनोऽप्यजातातिवृत्तप्रत्युत्पन्नानन्तदेशवर्तिवह्निसहचरितधूमदर्शनं दुर्लभमेव । अथ कतिपयाग्निसाहित्यदर्शनादेवासहितावगता अपि वह्नयोऽनुमीयन्ते, एवं तर्हीहापि चैत्राभावस्य जगद्वर्तिन एकदेशभावेन सम्बन्ध उपपद्यत एव । अत्रापि ह्येकत्र चैत्रे भवति कतिपयेषु तदभावो दृष्ट एव, तावता च सर्वत्राभावोऽनुमास्यत इत्याह नन्वेवमिति ॥ ४१ ॥ अत्र परिहारमाह साहित्य इति । अयमभिप्रायः न हि नो व्यक्तिविषयमनुमानम्, अपि तर्ह्याकृतिविषयम्, आकृत्योश्च प्रतिव्यक्तिकृत्स्नसमवायात्सुलभमेव साहित्यदर्शनम्, सकृद्दर्शनेनैव ह्याकृत्योस्साहित्यमवगम्यते । अत एव द्वित्रादिदर्शनमपि व्यभिचाराशङ्कायां नियमार्थमभ्यर्थ्यते । अवगते हि साहित्ये भवति शङ्का किमयमौपाधिकस्संसर्गो धूमस्याग्निना सह आहोस्वित्सहज एवेति, तत्रासकृद्दर्शनेऽन्वयाव्यभिचारादुपाध्यन्तरप्रवेशकारणाभावात्स्वाभाविकोऽस्याग्निनान्वय इति भवति मतिः । अग्नेस्तु प्रथममवगतसम्बन्धस्यापि धूमेन दर्शनान्तरे व्यभिचारदर्शनादार्देर्न्धनादिरुपाधिरनुप्रविशति । न च देशादिभेदे व्यभिचाराशङ्का, सकृद्दर्शनावधारितसाहचर्ययोर्हि द्वयोरप्यग्नेस्तावद्व्यभिचारो दृष्टो{३,१७४}द्वित्रादिदर्शनेनैव, तद्यदि धूमोऽप्यग्निं व्यभिचरेत्, अस्यापि हि द्वित्रिचतुरैरेव दर्शनैर्व्यभिचारो दृश्येत, न च दृश्यते । अतोऽग्न्यन्वितस्वभावोऽयमिति निश्चीयते । यस्य त्वेवमप्यनाश्वासः । तस्य सर्वप्रमाणेष्वेव क्वचिद्व्यभिचारदर्शनादनाश्वासः स्यात् । विपक्षव्यतिरेकोऽपि चैवमर्थादेव सिद्धो भवति । स हि प्रथममन्विच्छतो विपक्षदेशानामनन्तत्वाद्दुर्लभो भवति । स्वभावनियमे तु ज्ञाते स्वभावस्याव्यभिचारात्सुलभो व्यतिरेकः । न हि स्वाभाविकमुष्णत्वमन्तरेण क्वचित्कदाचिदग्निर्भवतीति कश्चिदाशङ्कते । मितदेशत्वादिति । परिमितदेशत्वादित्यर्थः ॥ ४२ ॥ एकदेशभावजगदभावयोस्तु नैवं साहित्यज्ञानं भवतीत्याह इहेति । एको ह्यत्र सर्वत्राभावस्सहभाव्यनन्तदेशवर्ती, न त्वग्निधूमाकृतिवत्परिमितदेशः, अतोऽत्र दुर्ग्रहं साहित्यमिति ॥ ४३ ॥ अत्र चोदयति नन्विति । अनुमानेन देशान्तराभावश्चैत्रस्य प्रतीयते । एवं ह्यनुमास्यते । परोक्षास्सर्वभूमयश्चैत्राभावसम्बन्धाः, तदाक्रान्तदेशव्यतिरेकित्वात्स्थितचैत्रदेशसमीपवदिति ॥ ४४ ॥ परिहरति विरुद्धेति । कथं हि विरुद्धाव्यभिचारित्वमत आह तद्वदिति । तद्वच्चैत्रवद्देशान्तरमिति । अतोऽर्थापत्त्यैव सर्वत्राभावोऽवगन्तव्यः, नान्या गतिरस्ति ॥ ४५ ॥ तथा तु तं गृहीत्वा साहित्यग्रहणपुरस्सरं यद्यनुमानमिष्यते तदर्थापत्तिपूर्वकम्, एतावता च सिद्धमर्थापत्तेः प्रामाण्यमित्यभिप्रायेणाह {३,१७५}पुरुषस्येत्यत्रान्तेन । यस्तु वदति स्वात्मनस्तावदेकत्र सतस्सर्वत्राभावेन सम्बन्धो दृष्टः, अतोऽन्यस्याप्यनुमिनोतीति । स वक्तव्यः स्वात्मन एव सर्वत्रासत्ता कथमवगम्यते, यद्यभावेन, कस्येति वक्तव्यम्, न तावत्प्रत्यक्षस्य निवृत्त्या दूरदेशेष्वभावश्शक्यतेऽवगन्तुम्, दूरत्वादेव तेषामनुपलब्धियोग्यत्वान्न स्वात्मनोऽभावस्तेषु शक्यतेऽवगन्तुम् । अथ तत्र सतो दूरस्थत्वमेव न स्यात्, अतस्सहैव देशान्तरे स्वशरीरमुपलब्धियोग्यं भवति, योग्यत्वाच्चोपलभ्येत, अतोऽनुपलम्भान्नास्तीति निश्चीयते । यद्य् एवं प्रमाणान्तरमिदम्, यो हि यत्र भवति तस्य सहैवाधारेणात्मोपलब्धियोग्यो भवति, न चेह तथा, अतो न देशान्तरेष्वस्तीति । एवं चानुमानेन देशान्तराभावो ग्रहीतव्यः । न प्रत्यक्षाभावेन । तत्र च विरुद्धाव्यभिचारितोक्तैव देशान्तराणि विमतिपदानि चैत्रवन्ति चैत्रवद्देशसमीपव्यतिरिक्तदेशत्वाच्चैत्रवद्देशवदिति । यत्र च प्रतिहेतुना सन्देहः क्रियते तत्र बलवतान्येन यदुपबृंहितं प्रत्यक्षादिना भवति तद्विजयते, न चेहार्थापत्तेरन्यत्प्रमाणं सर्वत्राभावे समर्थम् । सा ह्येवं प्रवर्तते, यदेतदेकत्र कार्त्स्न्येन चैत्रस्योपलम्भनं तन्नोपपद्यते, यदि देशान्तरे चैत्रो भवेत्, द्वेधा हि भावाः प्रादेशिका विभवश्च, विभवोऽपि द्वेधा, सर्वव्यापिनः स्वाश्रयव्यापिनश् च । पूर्वे गगनादयः । उत्तरे जात्यादयः । यद्धि सर्वसंयोगिभिरनागतैरगतं सम्बध्यते, तद्विभुतया प्रसिद्धम्, तया चात्माकाशादय इति विभव इत्युच्यन्ते । न तावदाकाशवच्चैत्रः, एकत्र परिसमाप्तो हि परिमण्डलस्सोऽवगम्यते । न च यथावयवी स्वावयवेषु वर्तते तथा देशान्तरे वर्तितुमर्हति । यदि हि तस्यान्यत्र भागा भवेयुः इह कृत्स्नो नोपलभ्येत । भवन्वान्तराले विच्छेदादन्यो भवेत् । न च जातिवद्वर्तितुमर्हति । जातिर्ह्यमूर्ता, सैकत्र पिण्डे समवेता पिण्डान्तरे समवैति । अस्य तु कुतोऽन्यत्र समवायः । न हीदं सामान्यम् । संयोगोऽस्य देशान्तरेण सम्बन्धः । स च नागतस्य सम्भवति । गत्वा ह्ययं देशान्तरैः संयुज्यमानो दृश्यते । अत एव न विभुः ।{३,१७६} अतोऽस्य न कथञ्चिदेकत्र सतोऽन्यत्र सत्त्वमुपपद्यत इत्यन्यत्राभावमन्तर्भाव्य कृत्स्नबोधस्समर्थ्यते, का पुनरत्रानुपपत्तिः, नात्र कृत्स्नबोधस्य केनचित्प्रतिघातो दृश्यते । भावानुमानेनैव केवलं तु दुर्बले प्रतिघातहेतौ तद्बाधेनैवार्थापत्तिरात्मानं लभते । दुर्बलं चेह भावानुमानं प्रतिहेतुविरुद्धत्वात् । यत्र तु तुल्यबलमुभयमेकत्रोपनिपतितं भवति, तत्रार्थान्तरकल्पनयोपपत्तिरिति न किञ्चिदनुपपन्नमिति । एवं तावदभावपूर्विकाया अर्थापत्तेरनुमानाद्भेद उक्तः प्रत्यक्षपूर्विकाया भेदमिदानीं दर्शयितुं तत्प्रतिज्ञां तावदाह यत्र चेति । यत्रापि दाहादिकार्यदर्शनादग्न्यादेः कारणस्य शक्तिरस्तीति कल्प्यते तत्राप्यर्थापत्तिरेव प्रथमा । यदि तु पश्चादनुमानं भवति भवतु । भाष्योदाहृतत्वाच्चाभावपूर्विकाया एव प्रथममनुमानाद्भेदो वर्णित इति ॥ ४६ ४७ ॥ अत्रानुमानवादिनां लिङ्गमुपन्यस्यति कार्यस्येति । एवं हि मन्यन्ते द्विविधमनुमानं दृष्टस्वलक्षणविषयमदृष्टस्वलक्षणविषयं च । तत्र तावत्दृष्टस्वलक्षणविषयं धूमादिनाग्न्यनुमानम्, अदृष्टस्वलक्षणविषयं च संयोगविभागादिभ्य इव क्रियाद्यनुमानम् । कार्यं हि कारणेन सामान्यतो ज्ञातसम्बन्धमिति ततस्तत्प्रतीतिरनुमानमेवेदमिति । एतदपि दूषयति न सम्बन्धेति । येन ह्येकदा बीजादङ्कुरो दृष्टः सोऽन्यदा तथाविधादेव पुनरनुपलभमानः स्वभावानुमानेन जनयितव्योऽनेनाङ्कुर इत्य् अनुमिमान एवात्राशङ्कते कथमङ्कुरो न जायत इति, ततः कल्पयति अस्ति कश्चिद्बीजसमवायी शक्तिभेदो यद्वशात्प्राक्कार्यमासीदद्य च नास्तीति । तच्चेदमनपेक्षितसम्बन्धस्यैव पुरातनेदानीन्तनाङ्कुरदर्शनादर्शनविचारादेव ज्ञानं जायमानं कथमनुमानमिति । अपि च सम्बन्धग्रहणाधीनमेव सर्वमनुमानं न तदगृहीतयोस्सम्बन्धिनोस्सम्भवति । न चेह तयोरतीन्द्रिया शक्तिः{३,१७७}प्रमाणान्तरेण शक्यतेऽनुभवितुम्, अत एव च न तद्वतोऽपि ग्रहणं सम्भवति, अतः कथमगृहीतसम्बन्धात्कार्याच्छक्तितद्वतोस्सिद्धिरिति । तदेतदाह दृष्ट्वेति । नन्ववगतं तावत्कार्यसामान्यं कारणसामान्येन व्याप्तमिति, अतस्तदनुमास्यते । सत्यम्, किन् तु शक्तिकल्पनया विना कारणाख्यैव न निवर्तते । अङ्कुरो हि बीजभावभावी व्यभिचरितभावान्तरश्च बीजकारणक इत्यवगतः सत्यपि तु बीजेऽजायमानस्तदपि व्यभिचरतीति कारणावगतिरेवावसीदति, तां शक्तिकल्पनयोत्तभ्नाति । कॢप्तायां च शक्तौ कारणसम्बन्धिन्यामर्थापत्त्या यदि सम्बन्धोऽवगम्यते तदस्तु सिद्धान्तवच्छक्तिसिद्धावर्थापत्तिः प्रमाणमिति । अनुमानलक्षणाद्विनार्थापत्तिर्जायमाना प्रमाणान्तरमित्युपसंहरति अर्थापत्तेरिति ॥ ४९ ॥ वृत्त्यन्तरोदाहृतमुदाहरण दूषयति अनुमानादिति । जयो हि पराजयेन विदितव्याप्तिरिति तमेकत्र घातके नकुले दृष्ट्वा प्रतिपक्षस्य पराजयोऽवगम्यते । पराजयदर्शनेन प्रतिपक्षस्य जय इति । नेदमर्थापत्तावुदाहार्यमिति ॥ ५० ॥ श्रुतार्थापत्तिरभिधास्यत इत्युक्तम्, तामिदानीमुदाहरति पीन इति ॥ ५१ ॥ अस्याश्च विषयं प्रत्यस्ति विवादः । तमेकनिर्धारणार्थमुपन्यस्यति तामर्थेति कल्पयन्त्यन्तेन । सर्वे चागमाबहिर्भूतामातिष्ठन्त इत्याह आगमाच्चेति ॥५२ ॥ {३,१७८} आगमाभेदाभ्युपगमेऽभिप्रायमाह प्रायश इति । फलापूर्वविध्यन्तादिसिद्धौ भूयानस्या वेदे उपयोगः, सर्वोऽनागमत्वेऽवैदिकः स्यादिति ॥ ५३ ॥ आगमिकत्वे प्यवान्तरविप्रतिपत्तिमुपन्यस्यति वचनस्येति [॥ ५४ ॥] अत्र निष्कर्षं दर्शयति न तावदिति । कारणमाह न हीति । वाक्यं तावदवाचकम्, प्रागेवानेकेषामर्थानामिति ॥ ५५ ॥ यद्यवाचकं कथं वाक्यादर्थप्रतीतिरत आह पदार्थेति । एतच्च तद्भूताधिकरणे वक्ष्यत इति । ननु रात्र्यादिवाक्यार्थो यदि दिवावाक्येनानभिहितः पदार्थान्वयरूपेणैव स्वार्थवद्गमयिष्यते । अत आह न रात्र्यादीति । न हि दिवावाक्ये रात्र्यादिपदार्थास्सन्ति, कुतस्तत्र तेषामन्वय इति ॥ ५६ ॥ ननु दिवादिपदार्थान्वयादेव रात्र्यादिवाक्यार्थः प्रत्येष्यते, अत आह न दिवादीति ॥ ५७ ॥ {३,१७९} न ह्यनेकार्थतेति यदुक्तं तद्विवृणोति अन्यार्थेति । अतो वाक्यान्तरस्यैवायमर्थो न दिवावाक्यस्येत्याह तस्मादिति ॥ ५८ ॥ एवं तावन्न मूलागमस्यायमर्थः, येन तु वाक्यान्तरेण बुद्धिस्थेनायमर्थोऽवगम्यते, तस्यैव प्रत्यक्षादिषु मध्ये प्रमाणं निर्धारणीयमित्याह तस्येति ॥ ५९ ॥ तत्र प्रत्यक्षं तावन्न तत्सिद्धौ प्रमाणमित्याह न हीति । अनुमानमपि तेन सम्बद्धस्य दिवावाक्यस्यादर्शनान्न सम्भवतीत्याह नानुमानमिति ॥ ६० ॥ अविदितसम्बन्धे तु दिवावाक्ये लिङ्ग इष्यमाणेऽव्यवस्थेत्याह यदि त्विति ॥ ६१ ॥ यदि तूच्यते सम्बन्धमेव दिवावाक्यस्य रात्रिवाक्येन गृहीत्वा ततस्तदनुमास्यत इति, सिध्यत्येवम्, न तु श्रुतार्थापत्तिवेद्यानि सर्वाणि लोकवेदवाक्यानि सर्वैः प्रतिपादकवाक्यैस्सम्बद्धान्यवगतानि । अतः कथं तेभ्यस्तान्यनुमीयन्त इत्याह न चेति ॥ ६२ ॥ {३,१८०} इतश्च नानुमानमित्याह न चेति । केनचिद्धि सामान्यात्मना ज्ञातसम्बन्धेन विशिष्टं किञ्चिदनुमीयते न वस्तुसत्तामात्रम् । न च विशिष्टः, अज्ञातसम्बन्धत्वातिह तु तदुभयं विपरीतमिति ॥ ६३ ॥ यतश्चात्र वाक्यस्वरूपमेव प्रमेयमतः पर्वतादिरिव पूर्वसिद्धः स्वतन्त्रोऽसम्बद्धः केनचिदग्न्यादिनेव स्वतन्त्रेण केनचिद्विशेषितो धर्मी धर्मविशिष्टो नास्तीत्याह पूर्वसिद्ध इति ॥ ६४ ॥ अथ श्रुतमेव वाक्यं धर्मितयोपादायाश्रुतवाक्यविशिष्टता साध्यते ततस्तदप्रसिद्धेरप्रसिद्धविशेषणः पक्ष इत्याह अथेति ॥ ६५ ॥ अपि च श्रुते वाक्येऽश्रुतवाक्यविशिष्टे साध्यमाने न तावत्किञ्चिल्लिङ्गमुपलभ्यते, न चालिङ्गकमनुमानं भवति, तद्यदि तदेव पुनर्लिङ्गमिष्यते ततः प्रतिज्ञार्थैकदेशित्वम्, यथा पदे पक्षीकृते र्थविशिष्टे साध्यमानेऽभिहितमित्याह किञ्चेति ॥ ६६ ॥ धर्मधर्मिभावोऽपि दिवावाक्यरात्रिवाक्ययोश्शब्दार्थयोरिव निराकार्य इत्याह तद्वदेवेति । यथा तत्रार्थे धर्मिण्यप्रतिपन्ने न पदं तद्धर्म इत्युक्तम्, एवमिहापि नाप्रतिपन्ने रात्रिवाक्ये तद्धर्मतया{३,१८१}दिवावाक्यं प्रतीयते । अथ तु पक्षधर्मताप्रतिपत्त्यर्थं तत्प्रथममवगतमित्युच्यते ततोऽनुमेयाभाव इत्यभिप्रायः । अभिप्रायं विवृणोति नागृहीत इति ॥ ६७ ॥ अपि च तत्रैव पदे वर्णितम् न क्रियाकारकसम्बन्धादृते सम्बन्धो भवतीति । अतो यथा पदस्य न कश्चित्क्रियानिबन्धनोऽर्थसम्बन्धोऽस्तीति न तद्धर्म इत्युक्तम्, एवं दिवावाक्यस्यापि रात्रिवाक्यधर्मता निराकार्येत्याह क्रियेति । न चात्र विषयविषयिभावरूपोऽपि द्वयोर्वाक्ययोश्शब्दार्थयोरिव सम्बन्धो भवति, उच्यते हि शब्देनार्थः, न तु वाक्यं वाक्यान्तरस्य वाचकमित्याह अवाचकेति । पदे त्वर्थप्रतीतिजनकत्वेन तद्विषयतामङ्गीकृत्यानुमेयाभावो दर्शितः । इह तु वाक्यस्यावाचकत्वात्तद्विषयत्वमेव प्रत्येतुं न शक्यते इति विशेषः ॥ ६८ ॥ यदि तूच्यते प्रतीयते तावद्दिवावाक्याद्रात्रिवाक्यम्, अतस्तस्यापि तद्वाचकत्वमित्यस्ति विषयविषयिलक्षणस्सम्बन्ध इति, तत्रैकं वाक्यमनेकार्थमभ्युपगतं भवेत्, स्वार्थं हि तत्प्रतिपादयति रात्रिवाक्यमपि, न चैवं न्याय्यमित्यभिप्रायेणाह प्रतीतेरिति । अथोच्येत माभूद्वाचकतया तद्विषयत्वम्, तेन तु तद्वाक्यमनुमीयते, अतस्तल्लिङ्गमनुमानविषयतया लिङ्गमेव दिवावाक्यं तद्धर्मतयाभिधीयत इति । यत्तावदनुमानविषयभावादुत्थितं तद्धर्मत्वं तदनुमानस्य पूर्वसिद्धत्वान्निष्फलमित्याह अनुमेति ॥ ६९ ॥ एवं तावद्दिवावाक्यमलिङ्गमित्युक्तं, तद्गतपदार्थानामप्येवमेव लिङ्गता निराकार्येत्याह पदार्थैरिति । नन्वगृहीतसम्बन्धा एव पदार्था{३,१८२}यथा वाक्यार्थं गमयन्ति, एवं रात्रिवाक्यमपि किं न गमयन्ति, अत आह सामान्येति । क्रियासामान्यं कारकसामान्यं वा प्रतिपन्नमलब्धेतरेतरव्यतिषङ्गमन्यथा न सिध्यतीति तं विशेषं गमयति, यश्चासौ विशेषः स एव तु वाक्यार्थ इत्युच्यते इति ॥ ७० ॥ न चैष प्रकारो रात्रिवाक्यप्रतिपादने सम्भवतीत्याह न त्विति । अन्योऽपि तद्देशकालादिसम्बन्धो न रात्रिवाक्येन दिवावाक्यस्य तत्पदार्थानां वास्तीत्याह न चापीति ॥ ७१ ॥ स्यादेतत्, यद्यपि दिवावाक्यं न रात्रिवाक्यस्य वाचकम्, तथापि कल्पयिष्यामः, ततश्च तत्प्रत्येष्यत इति । तदिदमाशङ्कते तावत् अथैतद्वाचीत्यन्यदन्तेन । अत्र दूषणमाह तथैवेति । अत्र तावदेवं वाक्यान्तरकल्पनायां प्रमाणमेव नास्तीति तदनादृत्य तावदनवस्थामापादयति, यदपि कल्पितं वाक्यं तदपि न रात्रिवाक्यमवगमयितुं शक्तम् । न च तदसम्बद्धमेव तस्य गमकमिति युक्तम् । पुनरपि वाक्यान्तरकल्पनायां स एव दोषः । एवं यदेव किञ्चिद्वाक्यं कल्पयितुमिष्यते तदेव नासम्बद्धं गमकमित्यनवस्थापात इति ॥ ७२ ॥ अथ त्वन्तिममसम्बद्धमेव गमकमिति कल्प्यते, तद्वरं प्रथमस्यैव तथाविधस्य गमकत्वं कल्पितुम्, किं वाक्यान्तरकल्पनया । न च तद्युक्तमित्यभिप्रायेणाह ततश्चेति । एवं तावत्पक्षधर्मत्वाद्यसम्भवेन रात्रिवाक्यस्यानुमेयत्वं निरस्तम्, अन्वयव्यतिरेकयोरपि पदवत्प्रतिषेधो दर्शयितव्य इत्याह अन्वयेति । न हि सत्येव रात्रिवाक्ये दिवावाक्यं{३,१८३}नासतीत्यन्वयव्यतिरेकौ स्तः, तद्देशतत्कालादिसम्बन्धस्याभावात् । न च ज्ञानान्वयोऽसत्यपि रात्रिवाक्यज्ञाने व्युत्पन्नस्य दिवावाक्यज्ञानाद्, विज्ञानोत्तरकालभाविनोश्चान्वयव्यतिरेकयोस्तदनुपयोगादित्यादिपदवद्दर्शयितव्यमित्यभिप्रायः ॥ ७३ ॥ एवं तावत्प्रत्यक्षानुमानागमैर्न रात्रिवाक्यं प्रतीयत इत्युक्तम्, उपमानमपि तत्र न प्रमाणमिति दर्शयति श्रुतवाक्येति त्वमन्तेन । दिवावाक्यवच्च तदर्थेनापि न रात्रिवाक्यमुपमीयत इत्याह अर्थस्येति ॥ ७४ ॥ यथा च रात्रिवाक्यस्य दिवावाक्यतदर्थाभ्यामुपमानं निरस्तमेवं रात्रिवाक्यार्थस्यापि ताभ्यां निरसनीयमित्याह उपमानत्वेति स्यादन्तेन । उपसंहरति तस्मादिति ॥ ७५ ॥ अतः प्रमाणान्तराभावादर्थापत्तिरेव रात्रिवाक्यावगमे शरणमित्याह अत इति । प्रत्यक्षदृष्टं पीनत्वं भोजनप्रतिषेधेन प्रतिहन्यते, पीनत्वेन दिवाभोजनम्, अतः परस्परप्रतिघाताद्दिवावाक्यस्य स्वार्थप्रतिपादनमेवानुपपद्यमानं रात्रिवाक्यमनुप्रवेशयति, अतः तद्रात्रिवाक्यं कल्प्यत इति ॥ ७६ ॥ तामर्थविषयामिति यदुक्तं तदिदानीं दूषयितुमुपन्यस्यति एतदर्थाद्विनेति । अयमभिप्रायः पीनत्वं हि भोजनप्रतिषेधो वा परस्परेण प्रतिहन्यते तयोश्चार्थकल्पनयैवात्मलाभः । पीनस्य हि दिवा निषिद्धे{३,१८४}भोजने रात्रिभोजनेनैव पीनत्वमुपपद्यते, न रात्रिवाक्येनातोऽर्थकल्पनैव युक्तेति । अपि च, यथा परैरभिधीयमानोऽपि पदार्थानुपपत्त्या गम्यमानो वाक्यार्थ आगमार्थो भवति । एवं वाक्यार्थानुपपत्तिगम्योऽप्यर्थः किं नागमेऽन्तर्भवतीत्याह वाक्यार्थेति ॥ ७७ ॥ प्रथमपरिचोदनां तावत्परिहरति सविकल्पकेति । सविकल्पको हि श्रुतार्थापत्तिबोधः सविकल्पकज्ञानानि च शब्दपुरस्सराणि । अतश्शब्दपर्यवसितायामर्थापत्तौ शब्दादेव सिध्यन्नर्थो नार्थापत्तेर्विषय इति । नन्वेवं सर्वप्रमाणविकल्पेषु समानमिदम्, इन्द्रियलिङ्गाभ्यामपि शब्दपुरस्सरमेवाग्निः प्रतीयते, ततस्तयोरपि शब्दपर्यवसायितैव भवेततस्तत्र स्मृतिस्थ एव शब्दोऽप्रत्यायकः, तदिहापि समानम् । यथा हि कर्मेन्द्रियमर्थेनैव सन्निकृष्टमिति तमेव प्रकाशयति लिङ्गं चार्थेन सम्बद्धमिति तं गमयति, न शब्दम्, एवमिहाप्यनुपपद्यमानोऽर्थोऽर्थेनैवोपपद्यते न शब्देन । तथा च दृष्टार्थापत्तयोऽर्थविषया एव । अत्रोच्यते । सत्यमर्थद्वारिकैव वाक्यस्यानुपपत्तिः । अर्थान्तरेण चोपपत्तिः । किन् तु तद्वाक्यमनुपपन्नं वाक्यान्तरमेवाकाङ्क्षति, यथा पदं पदान्तरम् । न हि पचतीत्युक्ते ओदनप्रत्यक्षेणाकाङ्क्षा निवर्तते, किं तर्हि, ओदनमिति पदेन, एवं वाक्यमप्यनुपपद्यमानतयावगतं वाक्यान्तरमेवाकाङ्क्षति, न तु तमर्थं स्वरूपेण । अत एव निर्वापमन्त्रेऽतिदेशाद्विकृतिं गते प्राकृतदेवताया अभावात्तत्पदनिवृत्तौ तस्य स्थाने सूर्यायेति पदमूह्यते । छेदनमन्त्रे त्विषेत्वेत्यत्र छिनद्मीति पदमध्याह्रियते । हृदयस्याग्रेऽवद्यति अथ जिह्वाया अथ वक्षस इत्यत्रावद्यतिपदानुषङ्गः । न चार्थ एवानुषज्यते अनुषङ्गो वाक्यसमाप्तिस्सर्वेषु तुल्ययोगित्वादिति वचनात् । प्रत्यक्षादिषु तु न शब्देन रूपेणार्थोपेक्ष्यते शब्दोल्लेखेनापि गृह्यमाणः, किन्न्वर्थरूपेणैव, तमर्थं विकल्पयन् शब्दस्त्वस्तु नाम सन्मात्रतया । यदि तु तत्रापि शब्दोऽपेक्ष्यते तिरश्चामर्थविकल्पो न स्यात्, स च नास्ति, दृश्यते हि तेषामपि हिताहितप्राप्तिपरिहारार्थः प्रयत्नः । तृविता हि गावस्तटाकानि गच्छन्ति, वर्षातपाभिभूताश्{३,१८५}च तत्प्रतीकारक्षभं देशम् । अतोऽशब्दज्ञानामप्यनुमानादिविकल्पदर्शनान्न तत्र शब्दापेक्षास्तीति निश्चीयते । श्रुतार्थापत्तिबोधस्तु तिरश्चां नास्त्येव, शब्दव्युत्पत्तिजो ह्यसौ, न च तेषामसावस्तीति प्रत्यक्षेऽपि वर्णितम् । अन्येषामप्यव्युत्पन्नशब्दानां श्रुतार्थापत्तिबोधो न दृश्यते । किं पुनस्तिरश्चाम् । अतोऽन्वयव्यतिरेकाभ्यामवगम्यतेऽस्ति शब्दापेक्षा श्रुतार्थापत्तौ । अनुमानादिषु तु संस्कारोद्बोधेनावर्जनीयतयास्तु नाम शब्दस्मृतिः, न तु शब्दापेक्षा । अतोऽत्र वाक्यस्यानुपपन्नस्य वाक्यान्तरमेवार्थवदुपपादकं न त्वर्थमात्रं शब्दमात्रं वा । अत एवागृहीतसम्बन्धस्यार्थमविदुषश्श्रुतेऽप्युपपादके वाक्ये नानुपपन्नवाक्यार्थज्ञानेऽनुपपत्तिश्शाम्यति, प्रतिपन्नार्थस्याप्याशयकल्पना । अतो न श्रुतवाक्यस्य न्यूनताबुद्धिर्निवर्तते । अतस्सिद्धं श्रुतार्थापत्तौ शब्दकल्पनेति । परपरिचोदनायामुत्तरमाह लब्धप्रयोजन इति । यावद्ध्यकृतार्थश्शब्दस्तावद्बोधोऽवगम्यते, स तदर्थो भवति । प्रयोजनवचनो ह्यर्थशब्दः । अत एव वाक्यार्थ आगमार्थो बह्वति । यावद्धि पदार्था नान्योन्यान्वयमनुभवन्ति तावदप्रयोजनकं जायते, जाते तु क्रियाकारकसंसर्गे लब्धप्रयोजनं वाक्यमिति ततः परमर्थान्तरमवगम्यमानं नागमिकं भवति । न हि प्रयोजनत्वावगतार्थानुपपत्त्या यदवगम्यते तत्प्रयोजनं भवति । प्रयोजनोपपादकं तु तत् । पदार्थानुपपत्तौ प्रयोजनमेव नासाद्यत इति युक्तं वाक्यार्थस्य पूर्वावगतस्यागमार्थत्वम् । कः पुनर्विशेषः, सर्वथा तावदागमार्थोऽसौ, कल्पितस्य श्रुतस्य वेति न विशेषमुपलभामहे । उच्यते । श्रुतागमार्थत्वे यदि प्रमादात्तन्नाशो भवति ततो यजुर्वेदादिविहितनाशनिमित्तं प्रायश्चित्तम्, इतरथा त्वविज्ञातनाशनिमित्तमिति विशेषः । तदा च ऋग्वेदादिविहितनाशे प्रत्येकं महाव्याहृतिभिर्होमं विधाय यद्यविज्ञातो भूर्भुवस्स्वस्स्वाहेति महाव्याहृतीस्समाहृत्य प्रायश्चित्तं समुपदिशति । श्रुतार्थापत्तिवेद्य एव हि वेदोऽविज्ञात इत्युच्यते, स ह्यृगादीनां नान्यतमत्वेन ज्ञायत इति ॥ ७८ ॥ अत्र चोदयति ननु चेति । न तावद्दिवावाक्यरात्रिवाक्ययोस्सम्बन्धोऽस्ति, सन्नपि वा न विदितः, न चाविदितसम्बन्धान्यदर्शने{३,१८६}न्यकल्पना युक्ता, अतिप्रसङ्गात् । प्रतिबद्धस्वभावं हि प्रतिबन्धबलादेव प्रतिबन्धकमुपस्थापयति, अप्रतिबन्धेन त्वन्यकल्पनायां न प्रतिनियमे कारणमस्ति । अतोऽप्रमाणमेवेदं रात्रिवाक्यज्ञानमिति ॥ ७९ ॥ परिहरति सम्बन्धस्येति । प्रमाणत्वं प्रमाकारणत्वमित्यर्थः । करणसाधनश्च प्रमाणशब्द इति । अकारणत्वमेव प्रामाण्ये सम्बन्धस्य दर्शयति प्रत्यक्षस्येति ॥ ८० ॥ नन्विन्द्रियार्थसन्निकर्षजमेव प्रत्यक्षमतो नाकारणं प्रामाण्ये सम्बन्ध इति चोदयति अस्तीति चेदन्तेन । परिहरति नानपेक्षणादिति । अनपेक्षत्वमेव दर्शयति न हीति । निरूपितो हि सम्बन्धः प्रमाणोत्पत्तौ कारणमनुमाने, न चेह तथेति ॥ ८१ ॥ प्रत्यक्षोत्तरकालं तु निरूपणं न प्रमाणाङ्गमित्याह येनापीति ॥ ८२ ॥ अपि चाप्राप्यकारीन्द्रियवादिपक्षे स्वरूपसत्त्वमपि सम्बन्धस्य नास्त्येव, अतो यथा ते प्रत्यक्षज्ञानस्य प्रमाणतामिच्छन्ति, एवमिहापि भविष्यतीत्यत आह अप्राप्येति ॥ ८३ ॥ तेनानादृत्यैव सम्बद्धमुत्पन्नमसन्दिग्धमविपरीतं च देशादिभेदेऽपि ज्ञानं प्रमाणमित्याश्रयणीयमित्याह तस्मादिति । जायत इत्त्यनुत्पत्तिलक्षणमप्रामाण्यं निरस्यति, अभङ्गुरमिति संशयविपर्ययाविति ॥ ८४ ॥ {३,१८७} अपि चार्थापत्तिरप्रमाणमित्यलौकिको विवाद इति । न हि तया प्रवर्तमानानां प्रवृत्तिः प्रतिहन्यते । प्रवृत्तिसामर्थ्यं च प्रामाण्यम् । अनुमानाद्भेदाभेदयोरस्ति विवादः, तत्र चास्माभिः कृतो निर्णय इत्याह न चापीति ॥ ८५ ॥ यद्येवमनुमानेऽपि सम्बन्धो नाङ्गमेवापद्येतात आह ऋत इति । तत्र हि बुद्धिरेवासति सम्बन्धज्ञाने न जायत इति तदुत्पत्तौ कारणमाश्रीयत एव । प्रामाण्यं तु तत्रापि बाधविरहादेवेति ॥ ८६ ॥ वेदोपयोगमर्थापत्तेर्दर्शयति स्मृत्येति । भूयान् खलु वेदभागः श्रुतार्थापत्तिप्रमाणकः स तामन्तरेण न सिध्येत्, यथैव हि पाठेनाभिव्यक्ता श्रुतिरात्मानं लभते, एवं श्रुतार्थापत्तिप्रमाणका हि । यदाह यथैव पाठः प्रतिप्रत्त्युपायस्तथैव सामर्थ्यमपि श्रुतीनाम् । तेनैव चैकां न समामनन्ति सहस्रभागं तु समामनेयुः ॥ इति । यथा तावदष्टकादिविषयां मन्वादिस्मृतिमुपलभ्य तन्मूलकारणान्विच्छायामसम्भवत्सु भ्रमविप्रलिप्सानुभवपुंवाक्यान्तरेषु स्मृतेस्स्वमूलकारणमन्तरेणानुपपत्त्या श्रुतिरेव मूलतया कल्प्यते । तथा लिङ्गादिभिः स्वविनियोजिका श्रुतिरुपकल्प्यते यथा तावत्प्रकरणाम्नाते मन्त्रे स्वाध्यायविध्यध्यापिते प्रयोजनमन्तरेणानुपपद्यमाने क्रत्वपेक्षया च सामान्यतः क्रतूपकारावगतौ विशेषापेक्षायां मन्त्रशक्तिनिरीक्षया यच्छक्नुयादित्युपबन्धेन शक्यार्थविषया{३,१८८}मन्त्रस्य विनियोजिका श्रुतिरुपकल्प्यते । यथा बहिर्मन्त्रेऽनेन लुनीयादिति सोऽयं लैङ्गिको विनियोगः वाक्येन तु यथा तस्मिन्नेव मन्त्रे दामीत्येतत्पदं लवने शक्तमिति तदेव लिङ्गे विनियुज्यते, पदान्तराणि तु तत्समभिव्याहारात्मना वाक्येनैव । प्रकरणविनियोगस्तु दर्शपूर्णमासप्रकरणाम्नातानां समिदादीनाम्, ते हि प्रयोजनाकाङ्क्षाः, क्रतुश्चोपकारसाकाङ्क्षः, तदेवमुभयाकाङ्क्षायामेभिः क्रतुमुपकुर्यादिति श्रुतिः कल्प्यत इति । स्थानविनियोगस्तु यथा दर्शपूर्णमासयोरेवोपांशुयाजक्रमाधीतस्य दब्धिर्नामासीति मन्त्रस्य । तस्य चानेनोपांशुयाजमुपकुर्यादिति श्रुतिः कल्प्यत इति । समाख्याविनियोगस्तु यथा आध्वर्यसमाख्यातेषु पदार्थेषु गुणभूतं कर्तारमपेक्षमाणेषु समाख्यया कर्तृनियमः क्रियते । भवति चात्र श्रुतिः, अध्वर्युरेतान् कुर्यादिति । अश्रुतफलेतिकर्तव्यताकेषु च कर्मसु विश्वजित्सौर्यादिषु पूरणसमर्था श्रुतिः कल्प्यते विश्वजिता यजेत स्वर्गकाम इति, सौर्यं चरुं निर्वपेद्ब्रह्मवर्चसकाम इति, आग्नेयवदितिकर्तव्यतेति । भूयानेवञ्जातीयकः श्रुतार्थापत्तेर्वेदोपयोगः । न चायमनुमानादेव सिध्यति । न ह्यत्रानुपपद्यमानस्य कल्पनीयेन सम्बन्धः केनचिद्दृष्टः । न चानपेक्षितसम्बन्धमनुमानं भवति, अतोऽर्थापत्तिरेवात्र शरणम् । सम्बन्धदृगिति । बुद्धावौपचारिको दृग्भाव इति । यदि नार्थापत्तिः प्रमाणमाश्रीयते सर्वमिदमसमञ्जसं स्यादित्याह तत्सर्वमिति । यदि तु लक्षणतो भिन्नापि पश्चादनुमानसामान्यादनुमानशब्देन वक्तुमिष्यते तदस्तु, सिद्धं नः प्रमाणान्तरम् इत्याह एवमिति । इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां अर्थापत्तिपरिच्छेदः समाप्तः ॥ {३,१८९} अत्र भाष्यम् अभावोऽपि प्रमाणाभावो नास्तीत्यस्यार्थस्यासन्निकृष्टस्येति । किं पुनरनेन लक्ष्यते । न तावत्प्रमाणम् । न हि प्रमाणाभावेन प्रमाणं लक्ष्यत इति युक्तम् । पूर्वोक्तप्रमाणाभावो लक्षणमिति चेत् । एवं तर्हि सर्वेषां प्रमाणानां समानमिदम्, सर्वाण्यपि हि प्रमाणानीतरेतराभावरूपाणि शक्यन्ते प्रमाणाभाव इति वदितुम् । न च सर्वप्रमाणसाधारणं किञ्चिदेकं लक्षणमस्ति, यदभावेन षष्ठं लक्ष्यते । अपि च प्रमाणं नाम कस्यचित्प्रमेयस्य व्यवस्थापकं भवति । तदनेन किं व्यवस्थाप्यत इति न विद्मः । ननूक्तं नास्तीत्य् अस्यार्थस्यासन्निकृष्टस्येति । किमुक्तं भवति । प्रत्यक्षाद्यविषयो नास्तीत्ययमर्थोऽभावस्य प्रमेयमिति । तदयुक्तम् । नास्तीति नेदमिह प्रमीयत इत्यर्थः । न चाप्रमीयमाणस्य प्रमेयतेति शक्यतेऽवगन्तुम् । कस्य च प्रमाणस्य प्रमेयमिदम्, यदि प्रमाणाभावस्य । तन्न । प्रमाणाभावो हि प्रमितेरनुत्पत्तिः । सा च प्रमाणमित्यलौकिकमिव प्रतिभाति । यदि मतम् अस्ति तावन्नास्तीति बुद्धिः सर्वलौकिकपरीक्षकाणामविवादसिद्धा, न च बुद्धेरनालम्बनत्वं स्वांशालम्बनत्वं वेति विज्ञानवादे वर्णितमेव । अतोऽस्या एव बुद्धेर्द्रढिम्नः प्रमेयमुपकल्प्यते । सोऽभावस्य विषयः । तदिदं नास्तीति विज्ञानं प्रमाणं घटाद्यभावः प्रमेयमिति मन्यन्ते । अत एव प्रागभावादिभेदेन चतुर्धाभावं विभजन्ते । न ह्यवस्तुनो विभागस्सम्भवति । यदि तु नाभावस्तत्त्वान्तरमिष्यते, कस्तर्हि क्षीरे दध्यभावः । यं प्रागभाव इत्याचक्षते । अतश्चैष दध्नि क्षीराभावः, यः प्रध्वंसाभाव इत्युच्यत इति । अपि च इह घटो नास्तीति धियः किमालम्बनमिति वक्तव्यम् । यदि भूतलमेव, तन्न । घटवत्यपि प्रसङ्गात् । केवलमेव भूतलमालम्बनमिति चेत् । कः केवलार्थः । यदि भूतलमेव, स एव प्रसङ्गः । अथ भावान्तरविषेकः स तर्हि तत्त्वान्तरमिति सिद्धः प्रमेयभेदः, तद्भेदाच्च प्रमाणभेदः । न हि तत्प्रत्यक्षेण शक्यतेऽनुभवितुम् । अक्षाधीनत्वात्प्रत्यक्षस्य, अक्षाणां च भावरूपाणां भावेनैव सन्निकर्षः, नाभावेन । असत्यपि च तद्व्यापारे नास्तीति बुद्धेरुत्पत्तिर्दृष्टा, यथा स्वरूपमात्रदृष्टे गृहादौ देशान्तरगमने कस्यचिदभावं{३,१९०}प्रत्यनुयुक्तेन तदैव तदभावोऽवसीयते । तदेवमसत्यपीन्द्रियसन्निकर्षे जायमानं नास्तीति विज्ञानं नैन्द्रियकम् । न चास्य किञ्चिल्लिङ्गं जनकमस्ति । अनुपलब्धिर्लिङ्गमिति चेत् । न । अविज्ञानात् । न ह्यविज्ञातरूपं लिङ्गं लिङ्गिनमनुमापयति । न चाज्ञातसम्बन्धम् । न च तथानुपलब्धिर्ज्ञाता सत्यभावं प्रकाशयति । तस्या अप्यभावरूपत्वेनापरसजातीयापेक्षायामनवस्थापातात् । अतः प्रमाणान्तरमेवेदं भावानामसङ्करसिध्यर्थमास्थेयम् । अस्ति च मीमांसकानां प्रसिद्धिः षष्ठं किलेदं प्रमाणमिति । अतस्तल्लक्षणार्थोऽयं ग्रन्थ इति । तदयुक्तम् । न ह्यनेन प्रमाणं (?व्ल)क्ष्येत । ग्रन्थतो हि प्रमाणाभाव एवावसीयते न प्रमाणम्, नास्तीत्यप्युक्ते प्रमेयाभावमेव लौकिकाः प्रतिबुध्यन्ते न प्रमेयं किञ्चित् । अतो न तावत्ग्रन्थानुगुणं प्रमाणान्तरम्, न च युक्त्या सङ्गच्छते, सिद्धस्य हि ज्ञानस्य प्रमाणमप्रमाणं वेति विचारणा युक्ता । न च भूतलोपलम्भादन्यन्नास्तीति विज्ञानमस्ति । तदेव हि द्वेधा प्रकाशते । अन्यसहितमसहितं च तत् । यदा घटादिसहितं तदुपलभ्यते तदा घटो ऽस्तीति व्यवहारः प्रवर्तते । तन्मात्रबोधे तु नास्तीति । न च वाच्यं सत्स्वपि सूक्ष्मेषु भावेषु तन्मात्रबोधो दृष्टः । अतस्तत्रापि नास्तीति प्रकाशत इति । तदेव हि द्वेधा प्रकाशते । द्वेधा हि तन्मात्रबोधः, दृश्यते प्रतियोगिन्यदृश्ये वा । तत्र या दृश्ये प्रतियोगिनि तन्मात्रबुद्धिः सैव घटादेर्नास्तित्वम् । येषामप्यभावः प्रमेयस्तेषामपि दृश्यादर्शनादेव नास्तीत्यभावो निश्चीयते । अतो येयं सर्ववादिसिद्धा तन्मात्रबुद्धिः सैव नास्तीति व्यपदिश्यते । यच्चाभावस्य कारणमिष्यते तत्तन्मात्रबुद्धेरेवोभयवादिसिद्धायाः कारणमाश्रीयताम् । अतो यत्रैव प्राक्संसृष्टबुद्धिरासीत्तत्रैव विलक्षणकारणोपनिपाते तन्मात्रबुद्धिर् एव जायते न पुनर्घटाद्यभावः । (अवश्यं) चैतदेवाभ्युपगन्तव्यम् । अन्यथा हि नाभावो गृहीतुं शक्यते, प्रमाणाभावो हि तत्र प्रमाणम्, न चागृहीतेन स प्रतिपादयितुं शक्यते । अस्ति हि सुषुप्तस्यापि प्रमाणा । । । (?तः।भावः) । न च नास्तीति निश्चयः । अतो नागृहीतमदर्शनमभावं निश्चाययति, तद्ग्रहीतिरपि चाभावरूपत्वादपरेणादर्शनेनेत्येवमनवस्थापातः । यदि च सन्मात्रमेवादर्शनं निश्चाययति, ततो निवृत्तेऽप्यदर्शने प्राक्देवदत्तो{३,१९१}नासीदिति प्रतिपत्तिर्न स्यात् । भवति हि कदाचिदेतत् । यो यत्र न दृष्टस्तस्मिन् पुनर्दृश्यमान एवासत्यप्यदर्शने प्रचीनाभावज्ञानं तदसत्यदर्शने न स्यात् । अतः प्रचीनादर्शनविमर्शजमेव तज्ज्ञानमिति वाच्यम् । एवं च गृह्यमाणमेव तदभावं प्रकाशयति । ग्रहणे चानवस्थाप्रसङ्गः । तन्मात्रसंविदेव त्वदर्शनमित्याश्रीयमाणे न किञ्चिद्दुष्यति । स्वप्रकाशा हि सा फलभूता न प्रकाशान्तरमपेक्षते । अतस्तन्मात्रानुभाव एव स्वप्रकाशो भावः । यदा चासौ घटाद्यदर्शनरूपतया विमृश्यते तदा तदभावत्वेनापदिश्यते । अतो न प्रमेयान्तरमभावः । न च नास्तीति ज्ञानं प्रमाणम्, उभयोरभावात् । ज्ञानाभाव एवायं ज्ञानभ्रमः, आलोकादर्शनेऽन्धकारदर्शनभ्रमवदिति न विद्मः किमत्र लक्ष्यते इति । अत्राह किमत्र न ज्ञायते, यथोक्तं भवता ग्रन्थतस्तावत्प्रमाणाभाव एवावसीयते, केचित्किलाभावं नाम प्रमाणमातिष्ठन्ते, तन्निराकरणार्थ एवायं भाष्यकारस्य प्रयत्नः । कथमनेन निराक्रियते । श्रूयताम् । यदेके वदन्ति नास्तीत्यस्यार्थस्य असन्निकृष्टस्येति, प्रत्यक्षाद्यविषयस्याभावः प्रमाणमिति, तन्न, प्रमाणाभावो ह्यसौ प्रमाणं न भवतीत्यर्थः । अप्रमाणत्वे चोक्तो हेतुः । एतदपि नोपपद्यते । यदि ग्रन्थानुगुण्येनायमर्थो व्याख्यास्यते ततो विस्पष्टः प्रदेशान्तरे भाष्यविरोधः, एवं हि चित्रापरिहारे भाष्यकारो वक्ष्यति स्यादेवं यदि पञ्चैव प्रमाणान्यभविष्यन्निति । तत्र स्फुटमेव हि षट्प्रमाणानि दर्शयति । न च तद्व्यवहाराभिप्रायम्, न हि प्रमाणगता संख्या व्यवहारं भिनत्तीति साम्प्रतम् । इहापि चाप्रामाण्ये न भाष्यकारेण कश्चिद्धेतुरुक्तः । न च प्रतिज्ञामात्रेण प्रतिपक्षनिराकरणं भवतीति साम्प्रतम् । तस्माद्व्याख्येयमेतत् । अत्राह प्रमाणेति । अयमर्थः । प्रमाणलक्षणमेवेदम् । यत्तूक्तं तदभावेन कथं तल्लक्ष्यते इति । सत्यम् । न प्रमाणमात्रविवक्षया प्रमाणशब्दः अपि तु सामान्यवचनोऽपि प्रमाणशब्दोऽधिकाराद्विशेषेऽवतिष्ठते । प्रमाणाभाव इति किमुक्तं भवति, पूर्वोक्तप्रमाणपञ्चकाभाव इति । अस्ति च पञ्चानां भावोपधानमेकम्, सर्वाणि हि भावप्रमाणानि, अतो भावप्रमाणाभावो{३,१९२}भावप्रमाणमिति । स चोपरिष्ठाद्द्वेधा व्याकरिष्यते आत्मनोऽपरिणामो वा नास्तीति वा भावज्ञानमिति । अस्ति वा भूतलमात्रोपलम्भाद् अन्यन्नास्तीति विज्ञानम् । बाढम् । कोऽस्य विषयः । चतुर्धा व्यूढः प्रमेयाभावः । असति हि तस्मिन् कार्यकारणादीनामितरेतरसङ्करो वार्तिककृता दर्शित एव । यश्चायं पादविहारादिव्यवहारः कण्टकाद्यभावावधारणपुरस्सरः सोऽप्यभावस्यासति प्रमेयत्वे न स्यात् । यदि भूतलमात्रमत्रोपलभ्यते न कण्टकादिविवेकः, सत्स्वपि तेषूपलभ्यत इति नासीति धिया गृह्येत । बुध्यपलापस्तु संविद्विरुद्ध एव । न हि भावाभावयोः प्रकाशो विशिष्यते । यत्तूक्तं तन्मात्रधीरेव घटो नास्तीति व्यपदिश्यत इति । तत्र न विद्मः किं मात्रशब्देन व्यवच्छिद्यत इति । यदि न किञ्चिद्व्यावर्तयति, अनर्थकस्तर्हि । अथ व्यावर्तयति । अस्ति तर्हि व्यावृत्तिर्विषयः, इतरथा सदात्व एव व्यावर्तयतीति व्यवहारो भवेत् । अयमेव संसृष्टधियस्तन्मात्रधियो विशेषः । यदसौ विविक्तविषया । विषयान्तरविवेकश्चाभावः । बुद्धिरेव विषयः न ततोऽन्य इति चेत् । सा तर्हि संसर्गोपलम्भेऽप्यस्तीति नास्तीति प्रकाशेत । अपि च यद्यत्र प्रतिषिध्यते तत्तत्र नास्तीत्युच्यते । न चेह घटो नास्तीति बुद्धिः प्रतिषिध्यते, बुद्धिगोचरे हि नास्तीति शब्दे बुद्धेरेवाभावः स्यात् । अथोच्यते घटो नास्तीत्ययमर्थः भूतलमात्रमुपलभ्यत इति । न तावदेवं लौकिका बुध्यन्ते । अपि चैवं सूक्ष्मस्य वस्तुनस्सदसद्भावौ प्रति जिज्ञासा न स्यात्, यद्यभावो नाम न कश्चिदस्ति, तर्हि वस्तुन्युपलब्धे कोऽयमपरस्संशयस् सूक्ष्मेषु केशकीटादिषु, तन्मात्रोपलम्भो हि भावान्तराणामभावः, स च ज्ञात एवासंशयितव्यश्च, संविदः स्वप्रकाशत्वात्किमपरमन्विष्यते । दृश्ये प्रतियोगिनि तन्मात्रबोधोऽभावो नादृश्य इति चेत्, किं पु(न)रदृश्यतया, यदा बुद्धेरभावो नातिरिच्यते । यदि तत्त्वान्तरमभावो भवेत्, तदा तदवधारणे दृश्यादर्शनमुपयुज्यते । आत्मेन्द्रियमनोऽर्थसन्निकर्षो हि ज्ञानजननकारणम्, तद्यदा सत्स्वप्यविगुणेष्विन्द्रियादिषु जिज्ञासितोऽप्यर्थः प्रयत्नेनान्विष्टो न दृश्यते तदा तदभावाददर्शनमिति कल्प्यते । तदेवं{३,१९३}दृश्यत्वसिद्ध्यर्था युक्ता सूक्ष्मजिज्ञासा । तन्मात्रोपलम्भे स्वभावेऽदृष्टार्थमेव दृश्यविशेषणम् आपद्येत । यच्चोक्तम् यदभावस्य कारणं तत्तन्मात्रधिय एव कल्पनालाघवादस्त्विति । तदयुक्तम् । न हि कल्पनालाघवं भवतीति प्रमाणावगतमुपेक्षितुं शक्यम् । न च यदभावस्य कारणं तत्तन्मात्रधिय इति युक्तम् । मुद्गरप्रहारादिर्ह्यभावस्य कारणम् । न च तेन तन्मात्रबोधो जन्यते । भूतलादिवस्तुरूपप्रकाशो हीन्द्रियादिकारणकः, नासौ घटादेरुत्सारणं प्रहरणं वापेक्षते । यत्तु नानिरूपितमदर्शनमभावं निश्चाययति, सुषुप्ते प्रसङ्गादिति । तदयुक्तम् । न ह्यगृहीते वस्तुनि निराश्रयोऽभावः प्रकाशते, क्वचिद्धि कस्यचिदभावः प्रतिभाति न स्वतन्त्रः । अत एवाह वस्तुरूपे न जायत इति । न च सुषुप्तस्य किञ्चित्प्रकाशते । क्व चाभावः परिच्छिन्द्यात् । अपि च योग्यप्रमाणानुत्पत्तिरभावं निश्चाययति, न च सुषुप्तस्य प्रमाणयोग्योऽर्थः, यो न प्रकाशत इति कथमभावनिश्चयो जायते, अतो नादर्शनमगृहीतमिति सुषुप्तस्याभावो न प्रकाशते, किन् तु योग्यादर्शनमेतन्न भवतीति । यच्चापि निवृत्तेऽप्यदर्शने प्राङ्नास्तित्वं व्यपदिश्यते सम्प्रति दृश्यमानस्यापीति । तन्न । तत्र हि समानोपलम्भयोग्येषु बहुषु स्मर्यमाणेषु यदेको न स्मर्यते, तेन स्मृतिनिवृत्त्या फलतः प्रत्यक्षनिवृत्त्या तदभावः प्रतीयते स्मृत्येव भावान्तराणाम् । तदानीन्तनोऽभावः स्मृतिनिवृत्तिश्च तदानीमस्त्येव । न चावगम्यते । वस्त्वभावमेव तु प्राचीनमवगमयतीति नानवस्था । अतो नास्तीति ज्ञानं प्रमाणम्, अभावश्च प्रागभावादिभेदभिन्नः प्रमेयमिति साम्प्रतम् । तदयमर्थो भवति । यत्र पञ्च प्रमाणानि सम्भवत्प्रतिपत्तीनि यथायथं पटादेर्वस्तुनस्सत्तां बोधयितुं न जायन्ते, तस्मिन् विषयेऽभावस्य प्रमाणता सम्भवति, तदनेन प्रमाणशब्दोऽधिकारात्प्रमाणपञ्चके प्रयुक्त इति दर्शितम् । वस्तुरूपे न जायत इति च स्वतन्त्राभावमात्रज्ञानं न प्रमाणमिति दर्शयति । लौकिकप्रमाणलक्षणकथनाच्च यत्रैव प्रमाणानां शक्तिसम्भवस्तत्रैव तेषामनुत्पादः प्रमाणमभावोऽभावावधारणे । तादृशेनैव हि लौकिका नास्तीति बुध्यन्त इति । भाष्यस्याप्ययमर्थः अभावोऽपि न परीक्षणीयः । अव्यभिचारात् । प्रमाणाभावो ह्यसन्निकृष्टेऽर्थेऽभावाख्ये नास्तीत्यनेन रूपेण प्रकाशमाने यां बुद्धिमुत्पादयति साभावप्रमा(?णः) ।{३,१९४}न चैवञ्जातीयकस्य व्यभिचारस्सम्भवतीति । व्यवहितमपि चाकाङ्क्षावशात्यां बुद्धिमुत्पादयतीति सम्बन्धनीयम् । येन यस्याभिसम्बन्धो दूरस्थेनापि तेन तत् । इति न्यायात् ॥ १ ॥ यत्र वस्तुसद्भावबोधार्थं योग्यप्रमाणानुदयस्तत्राभावः प्रमाणमित्युक्तम्, किं पुनस्तत्रानेन प्रमीयते, अभावस्तावत्स्वप्रमाणैरेव यथास्वमवगम्यते, अत आह वस्त्वसङ्कर इति ॥ १ ॥ वस्त्वसङ्करमेव विवृणोति क्षीरे दधीति सार्धद्वयेन । योऽयं कार्यकारणादिना परस्परविवेकश्चतुर्धा दर्शितः स वस्त्वसङ्कर इत्याख्यायते । सोऽभावेन प्रमीयते । शशशृङ्गादिरूपेणेति । तेन रूपेणालोच्यमानाः शशमूर्ध्न्यवयवा अभावः, स्वरूपेण तु भावा एवेति ॥ २ ४ ॥ असति त्वभावप्रामाण्ये सर्वस्सर्वेण सङ्कीर्यत इत्याह क्षीर इति द्वयेन । एवमिति । यथा क्षीरे दधि एवं दध्नि क्षीरमित्यर्थः । शशे शृङ्गमित्यतः प्रभृत्यत्यन्ताभावासिद्धौ दोषप्रसञ्जनम् । अभावप्रमाणानाश्रयणे हि न शशादिषु शृङ्गादीनामात्यन्तिकोऽभावस्सिध्यति । परिपन्थिनश्च भूतचैतन्यवादिनो न निराकर्तुं शक्यन्ते । महाभूतानां च वाय्वादीनाम्{३,१९५}आत्यन्तिको गन्धाद्यभावो न सिध्येत् । यथोत्तरं हि चत्वारि महाभूतान्येकैकगुणरहितानीति स्थितिरिति ॥ ५ ६ ॥ सर्वत्र सङ्करे दोषमाह न चेति । योऽयं कारणादिविभागेन लौकिकानां व्यवहारो दृश्यते, सर्वसङ्करे न स्यात्, क्षीरमानयेति नियुक्तो यत्क्षीरमेवानयति न दधि, दध्यानयने न क्षीरम्, इदमसति कार्यकारणादीनामितरेतरविवेके न सिध्यतीति ॥ ७ ॥ ननु नाभावो नाम तत्त्वान्तरमुपलभ्यते, भूतलं हि स्वप्रमाणादवगच्छामः, घटं चासति प्रमाणे न पश्यामः, न तु घटाभावो नामापरः कश्चित्बुद्धौ भवति । घटो नास्तीत्यपि घटो न प्रमीयत इत्यर्थः, न तु घटाभावः प्रमीयत इति । अतस्सर्वोपाख्याविरहलक्षण एवाभावो न किञ्चित्तत्त्वान्तरमत आह न चेति । यत्तावत्भावप्रमाणैर्नोपलभ्यत इति । सत्यम् । अत एवाभावः प्रमाणान्तरम् । घटो नास्तीत्यपि नायमर्थः घटो न प्रमीयते इति, सन्नपि हि घटो न प्रमीयत इत्युच्यते । अत एव घटोऽस्ति न वेति पृष्टो निर्णीताभावो न नास्तीति व्यपदिशति, किन् तु अनुपलब्धिमात्रम् । अतोऽभावप्रमितिरेवायं घटो नास्तीति । यश्चायं चतुर्धा भेदो वर्णितः सोऽपि सर्वोपाख्याविरहलक्षणेऽभावे न सिध्यति । प्रयोगश्च भवति वस्तु अभावः, चतुर्धा भेदाद्, द्रव्यादिवदिति । यदप्याहुः नाभावो नाम किञ्चित्तत्त्वम्, प्रत्यर्थनियतेन ह्यात्मना नीलादयः परस्परं भिद्यन्ते, नैवमभावस्य भावात्किञ्चिद्भेदकम् ।{३,१९६}अतो न व्यावृत्तमुपलभामह इति कथं तत्त्वान्तरमवस्थापयामः । तद्व्यवहारस्तु नास्तीति विकल्पशब्दप्रयोगात्मा भावाश्रय एव कथञ्चिदुपपादनीयः, न त्वेकाकारप्रतिनियतादन्यासंसर्गिणो(?र)भावादन्योऽभाव इति । तदप्येकदेशिनिराकरणेनैव निराकृतम् । अपि च, अविषयो नास्तीति विकल्पः कथं संवेद्यत इति वक्तव्यम् । शब्दसंस्पृष्टं हि रूपं विकल्पस्य विषयः, न चेह तदस्ति । न चात्मा विकल्पस्याभिलापसंसर्गयोग्यः, असाधारणत्वात् । अत एवात्मनि निर्विकल्पकत्वात्कल्पना स्वसंवित्तिं प्रत्यक्षामाह । यदाह नैनमियमभिलापेन संसृजति । तथा वृत्तेरात्मनि विरोधातिति । यदि मतं जात्यादिवदभावविकल्पा अपि समारोपितविषया एव, नानेनाभावविकल्पो दुष्यतीति । तन्न । समारोपितं हि यत्किञ्चिज्जातीयकं तत्प्रतिविकल्पमन्यदन्यच्च, कथमेकशब्दालम्बनं भवेत् । कल्पिताकारभेदानध्यवसायादेकत्वाध्यवसाय इति चेत् । कस्य तर्हि, न हि नैरात्म्यवादिनामेकः कश्चिदस्ति प्रतिसन्धाता, यः पूर्वापरयोरारोपितैकत्वाध्यवसायादेकशब्दं प्रयुञ्जीत । विकल्पास्तु क्षणिकाः स्वविषये नियता नान्योन्यस्य विषयमभिनिविशन्त इति कथं प्रतिसान्दधीरन् । असति च विपर्यये समारोपितविषयत्वाभिधानमलीकमेव । तदवश्यं नास्तीत्येकशब्दोपश्लिष्टमुपेयतयाश्रयणीयं भाववदभावाख्यमपि किञ्चिदवस्थितं रूपम् । अत एव किं पुनस्तत्त्वमित्यपेक्षिते सतस्तु सद्भावोऽसतस्त्वसद्भाव इति द्वेधैव तत्त्वविद्भिस्तत्त्वमाश्रितम् । अपि च असत्यभावे कस्य हेतोराहतस्य घटस्यानुपलम्भः, विनष्टत्वादिति चेत् । को विनाशः । यदि न किञ्चित्, प्राग्वदुपलम्भप्रसङ्गः । न ह्यप्रच्युतप्राच्यार्थक्रियारूपस्यानुपलम्भे घटस्य किञ्चित्कारणमधुना पश्यामो यद्यस्य विनाशो नाम किमपि तत्त्वान्तरं नाश्रीयत इति सिद्धं तत्त्वान्तरमिति । एतच्चानुपाख्येयत्वम् अभावस्य निराकर्तुमुक्तम् न त्वभावो वस्तु, लोकविरोधात् । यथा ह्यचन्द्रश्शशीति लोकविरुद्धम्, एवमभावो वस्त्विति । सत्ता हि वस्तुत्वम्, न चासावभावे समवैति, सदसद्विवेकाभावप्रसङ्गात् । अतोऽवस्तु । कार्यकरणादभावे वस्तुत्ववादः, न मुख्यतया । अभावो ह्यर्थक्रियासमर्थ एव, ज्ञानजननदर्शनात् । विहिताकरणे च प्रागभावस्यैव क्रियान्तरविशेषणतया प्रत्यवायहेतुत्वात् । एवमुत्तरत्रापि वस्तुताप्रसाधनं वेदितव्यमिति । इतश्चाभावो{३,१९७} वस्त्वित्याह कार्यादीनामिति । वस्त्वेव सदसदात्मकमिति सिद्धान्तः । तत्र कथं वस्तुरूपस्यैवाभावस्य निस्स्वभावत्वम् । किमिदानीं भावाभावयोरभेद एव, नेति वदामः, भेदोऽपि ह्यनयोर्धर्मधर्मितया कियानप्यस्त्येव रूपादीनामिव । कः पुनरनयोस्सम्बन्धः, संयोगस् समवायो वा, न तावत्संयोगः, द्रव्यधर्मत्वात्तस्य । न च समवायः, भावाभावप्रसङ्गात् । अभावसमवाये हि भावो न स्यादेव । नाभावसमवायादसत्त्वम्, न हि घटोऽभावसमवायादसन् भवति । असति समवायानुपपत्तेः । किन् तु प्रहारादेव घटस्याभावः । यत्त्वनाहतमनपसारं च भावान्तरमभावरूपेणावगम्यते तत्कथमसद्भविष्यति । अतस्स्वहेतोरेव जायमानो नित्यो वा सर्वोऽसङ्कीर्णस्वभाव एव जायत इति सिद्धमस्य जात्यादिवद्भावधर्मत्वम् । ततश्च वस्तुत्वमिति ॥ ८ ॥ इतश्च वस्तु अभाव इत्याह यद्वेति वस्त्वन्तेन । अभाव इति सामान्यात्मना प्रागभावादिभेदेन च व्यावृत्त्यात्मना गृह्यमाणोऽभावस्सामान्यविशेषात्मकः, ततश्च वस्तुविषयप्रयोगार्थः अभावो वस्तु, सामान्यविशेषात्मकत्वात्गवादिवदिति । तस्मिन्नेव साध्ये हेत्वन्तरमाह प्रमेयत्वादिति ॥ ९ ॥ नन्वयमसिद्धो हेतुः, औपचारिको हि सामान्यविशेषभावोऽभावे । एकशब्दवाच्यं सामान्यरूपं दृष्टं गवादि, नानाशब्दवाच्यं च विशेषरूपं शावलेयादि । अतोऽत्राप्यौपचारिकस्सामान्यविशेषभावो विवेकज्ञस्य । असति तु विवेके एकशब्दनिबन्धनभ्रम एवायम् अभावस्सामान्यविशेषात्मेति । अत आह न चेति । सति हि बाधके भ्रान्तिरुपचारो वा कल्प्यते, न चेह तथेति भाव इति ॥ १० ॥ {३,१९८} एवं तावत्नास्तीत्यस्यार्थस्यासन्निकृष्टस्य इति यदुक्तं भाष्ये तद्विवृतम् । इदानीं प्रमाणाभावशब्दं व्याचष्टे प्रत्यक्षादेरनुत्पत्तिरिति । अनुत्पत्तिरेव केति चेदत आह सात्मन इति । आत्मनो हि ज्ञानात्मकः परिणामः । तद्यदा आत्मा भूतलादौ न घटादिज्ञानात्मना परिणमति सा तस्य प्रत्यक्षाद्यनुत्पत्तिः स्वरूपावस्थानं प्रमाणाभाव इत्याख्यायते, तत्प्रामाण्ये च नास्तीति ज्ञानं फलम् । नास्तीत्येव वा भावज्ञानं प्रत्यक्षाद्यनुत्पत्तिरित्युच्यते, अतस्तदेव प्रमाणम्, (?ना।हा)नादिबुद्धिः फलमिति विवेकः ॥ ११ ॥ ननु यदि द्व्यात्मकं वस्तु, तर्हि सकृदेव तथा प्रतिभातमिति किं प्रमाणान्तरेणात आह स्वरूपेति । स्वरूपेण तद्वस्तु गवादि सद्रूपमश्वादिरूपेण चासद्रूपम् । तदस्मिन्नेव द्विरूपे किञ्चिदेव कदाचित्प्रतीयते न तु सर्वात्मकमेव गृहीतव्यमिति नियम इति ॥ १२ ॥ किं पुनः कारणं द्व्यात्मकस्यैकमेव रूपं गृह्यते नापरं किञ्चिदत आह यस्य यत्रेति । उद्भूतं हि गृह्यते नानुद्भूतम्, अग्नेरिव रात्रौ रूपं न स्पर्शः, जिघृक्षितं वा प्रायेण । अतो यदेव सदसतोरुद्भूतं भवति तेनैव बुद्धिव्यपदेशौ भवतः । चेत्यतेऽनुभव इति किमिदम्, न ह्यनुभवश्चेत्यते, स एव चेतना, विषयस्तु चेत्यते । सत्यम् । विषयप्राप्त्यन्यथानुपपत्त्यानुभवोऽपि चेत्यत एव । तदनेन प्रकारेण विषयप्रकाशमेव दर्शयतीत्यदोष इति ॥ १३ ॥ {३,१९९} उद्भूतजिघृक्षितैकग्रहणे चेतरस्तदनुगुणतयैव लीनो भूत्वावतिष्ठते । सामान्यविशेषयोरिवैकग्रहणेऽन्यतर इत्याह तस्येति । इदं चान्वारुह्यवचनेनास्माभिरुक्तम् । अस्त्येव तु भावाभावप्रतीतावन्यतरानुगम इत्याह उभयोरिति ॥ १४ ॥ उभयानुगममेव दर्शयति अयमेवेति द्वयेन । अयमेवेति । भावान्तरेणासङ्कीर्ण इत्यर्थः । न ह्यप्रतिसंहिते भावान्तराभावे सङ्कीर्णस्वभावो न निश्चेतुं शक्यते । नास्तीत्यपि प्रतिषेध्यप्रतिषेधाधारभावोपष्ठम्भनवर्जितं न किञ्चित्ज्ञानं जायते । किञ्चिच्छब्देन भावस्याभावानुगमशून्यमपि ज्ञानमस्त्येव, न त्वेवमभावस्येति दर्शयति ॥ १५ १६ ॥ दर्शितं तावत्सदसदात्मकं वस्त्विति । कदाचित्किञ्चिदनुभूयत इति च । उभयोरंशयोरिदानीं प्रमाणविभागं दर्शयति प्रत्यक्षादीति ॥ १७ ॥ कथं पुनरिदमवगम्यते, विस्फारिताक्षस्य हि सहसा नेह घटोऽस्ति, अघटं वा भूतलमित्यभावविशिष्टं भूतलज्ञानं जायमानमुपलभ्यते(?){३,२००}दण्डिप्रत्यक्षवत्, तदभावस्याप्रत्यक्षत्वे नावकल्पते । न ह्यप्रत्यक्ष एव विशेषणे विशिष्टः प्रत्यक्षो भवति, दण्ड इव दण्डी । न च नास्त्येव विशिष्टा धीरिति वक्तव्यम्, अनाश्रयाभावसंवित्त्यभावात् । अपि चात्मा भावस्याभावः, स कथं स्वतन्त्रोऽनुभूयते । न हि रूपादयो भावधर्माः स्वतन्त्रा एवावसीयन्ते । स्वतन्त्राभाववादस्तु स्वातन्त्र्यमेव, सदसदात्मके वस्तुनीति हि दर्शयति । भावांशोऽभावांश इति च विस्पष्टं तदभावविशिष्टं ग्रहणमित्याह । किञ्चास्य स्वातन्त्र्ये प्रमाणम्, न ह्ययं कदाचिदपि तथावसीयते । किमिदानीमभावो नावसीयत एव, स्वतन्त्रो वावसीयते । न तावत्पूर्वः कल्पः, तदवगमे प्रमाणान्तराभावात्नित्यासंवित्तिप्रसङ्गात् । न च संयोगप्रतिषेधे स्वतन्त्राभावावसायोऽस्ति, प्रतियोगिसंयोगप्रतिषेधात्मैव ह्यभावः, स चाधारतन्त्र एवेति संयुक्तविशेषणत्वलक्षणया प्रत्यासत्त्या सतीन्द्रियसन्निकर्षे ऐन्द्रियज्ञानगोचर एव । एकं कीदं विशिष्टं ज्ञानम् । तदस्याभावः प्रमाणमिन्द्रियं वा, यद्यभावः स तर्हि भावमपि गोचरयेत् । न चैतदिष्टम् । अतस्सत्युपलभ्यमाने तदैव यन्नोपलभ्यते तन्नास्तीति सत एव प्रकाशकमसतोऽपीति न प्रमाणविभागं पश्यामः । अत आह न तावदिति । तावच्छब्दो लिङ्गापेक्षया । तच्चोपरिष्ठान्निराकरिष्यत इति । अत्र कारणमाह भावांशेति । योग्यता हि कार्यदर्शनसमधिगम्या, सा चेन्द्रियाणां भावात्मकग्रहण एवोपलभ्यते नाभावेऽपि । विनापि तु तेन तद्ग्रहणादिति वक्ष्यामः । अत्र तु योग्यतासहिता प्राप्तिरिन्द्रियार्थयोस्सम्बन्ध इत्यभिप्रायः । यत्त्वेकज्ञानसंसर्गिणोरेकप्रमाणत्वमिति । तन्न । एकस्या अपि बुद्धेर्नानाकारणत्वदर्शनात् । एकं हीदं भावनेन्द्रियसभाहारजं प्रत्यभिज्ञानमिति वक्ष्यामः । एकज्ञानप्रतिभासिनोरपि च गृह्यमाणस्मर्यमाणयोर् विवेक उक्तः । विविक्ता एव ते ह्यर्था इति । न हि स्मृत्युपस्थापितनामविशिष्टो डित्थो न प्रत्यक्षो भवति । नाम चाप्रत्यक्षं स्मर्यमाणत्वात्, तस्यागृहीते हि विशेषणे विशिष्टो नावगम्यते नाप्रत्यक्षे । एवमिहापि प्रमाणाभावोपनीताभावविशिष्टे सत्युपलभ्यमाने न किञ्चिदनुपपन्नम् । दण्डिन्यपि शाब्दे तावद्दण्डपदोपनीतविशेषणविशिष्ट एव प्रत्ययार्थो न दण्डोऽपि । प्रत्यक्षं तु योग्यतयोभयत्र प्रवर्ततां नाम, न चैवमुभयत्राक्षाणां योग्यता । अभावज्ञाने तदनपेक्षाया{३,२०१} वक्ष्यमाणत्वात् । किमिदानीमनुमानेऽपि प्रत्यक्षानुमानसमाहारजो विशिष्टबोधः । न । अनुमानस्यान्वयाधीनजन्मत्वात् । विशिष्टेनैव चान्वयानुगमात् । धूमवानग्निमानिति हि व्याप्तिरवगता । उक्तं च नैवं न ह्यत्र लिङ्गस्य शक्त्यनन्तत्वकल्पना । इति । अत्रापि चायमग्निमानिति विशेषबोधेऽस्त्येव प्रत्यक्षापेक्षा । अयमेवाभावस्य प्रतीतिप्रकारः, यत्प्रमाणान्तरप्रापिताश्रयं विशिनष्टीति न किञ्चिदनुपपन्नम् । यच्च संयुक्तविशेषणतया इन्द्रियसन्निकर्षोऽभावस्येत्युक्तम्, तदयुक्तम् । असम्बद्धस्य विशेषणत्वानुपपत्तेरतिप्रसक्तेः । इतरथा विशेषणार्थमर्थितेनैव सन्निकर्षोपपत्तौ वृथैव संयुक्तविशेषणार्थत्वाश्रयणमित्यलमनेनेति ॥ १८ ॥ अभिप्रायमजानानश्चोदयति नन्विति । प्राप्तिमात्रं ह्यर्थेन्द्रिययोस्सन्निकर्षः । अस्ति च भावादभिन्नस्याभावस्य भाववदेवेन्द्रियप्राप्तिरिति । अत्र च योग्यताया उद्धाटनेनैवोत्तरं देयम्, तदुपेक्ष्यैव तावदत्यन्ताभेदमेवायमाह, तदेतमेव तावन्निराकरो(?षी।मी)त्यभिप्रायेणाह न हीति । यदि भावाभावयोरेकान्तमभेद एव स्यात्ततो भावेन्द्रियसन्निकर्षे तदभिन्नस्याभावस्यापि स्यात्, न त्वेवमस्ति । अभावस्यापि रूपादिवदत्यन्ताभेदाभावादिति ॥ १९ ॥ रूपादितुल्यतामेवाभावस्य दर्शयति धर्मयोरिति । भावाभावात्मनोर्धर्मयोर्धर्म्यभेदेऽपि स्थिते भेदोऽपीष्ट इत्यर्थः । भेदे कारणमाह उद्भवेति । भावाभावयोरप्यु(?द्भवा।द्भूता)भिभूतयोर्ग्रहणाग्रहणव्यवस्था दृश्यते । न चैतदेकत्वे कल्पिते । न ह्येकमेव तत्त्वमुद्भूतमभिभूतं चेति प्रतीयत इति ॥ २० ॥ {३,२०२} इदं चानयोर्विवेककारणमित्याह इदमेवेति । अक्षानपेक्षता चाभावधियो वक्ष्यत इति ॥ २१ ॥ अयं च ग्राहकभेदनिबन्धनो भेदो रूपादीनामिति कैश्चिदिष्यते । सोऽनयोरपि शक्यतेऽवगन्तुमित्याह रूपादेरिति । एवं हि केचिद्वदन्ति यथा ह्येकमेव मुखं मरतकपद्मरागाद्युपाधिभेदाद्भिन्नमिव प्रतिभाति, यथा चैक एव पुरुषोऽपेक्षाभेदात्पुत्रादिभेदभिन्न इव गृह्यते, यथैकमेव तत्त्वं श्रोत्राद्युपाधिभेदाद्भिन्नमिव प्रतिभाति, एवमिहापि भावाभावयोरौपाधिको भेदो भविष्यतीति । नन्वेवमौपाधिके भेदे तात्त्विकमेकत्वं प्राप्नोति । भवत्वस्मिन्मते, तथापि रूपादिव्यवस्था सिध्यत्येवेति ॥ २२ ॥ इदं चान्वारुह्यवचनेनास्माभिरुक्तम्, न हि रूपादीनां ग्राहकभेदनिबन्धनो भेदः, किन् तु बुद्धिभेदनिबन्धन एव, मुखं हि प्रमाणान्तरादेकरूपमवगतं तदुपाधिभेदाद्भिद्यत इति युक्तम् । न त्वेकत्वे रूपादीनां किञ्चित्प्रमाणमस्ति, नित्यमेव वैलक्षण्यात् । अयं च बुद्धिभेदो भेदहेतुर्भावाभावयोरपि समान एवेत्यभिप्रायेणाह बुद्धिमात्रेति । कः पुनरयं भावाभावात्मको धर्मी, यद्धर्मौ भावाभावौ, नैकं रूपादिसमुदायाद्भिन्नमुपलभ्यते, वृत्त्यादिविकल्पाक्षमत्वात् । अतो देशाद्यभिन्नानां रूपादीनां समुदायो धर्मी, न तत्त्वान्तरमत आह न चेति । नात्र वन इव बाधिका बुद्धिरस्तीति भावः । इदं च सविकल्पकसिद्धावुक्तमप्यभावाश्रयसमर्थनार्थमत्रोक्तमित्यपुनरुक्ततेति ॥ २३ ॥ {३,२०३} एवं तावदभावस्य भावाद्भेदाभेदौ दर्शितौ । तावेव रूपादिदृष्टान्तेन द्रढयति सद्गुणद्रव्येति । न हि रूपादयस्सदादिरूपेण न भिद्यन्त इति स्वरूपापेक्षयापि तेषां भेदश्शक्यते वारयितुम्, तथा वा भेद इति न सदाद्यात्मनाभेदः प्रतिक्षिप्यते । एवमभावोऽपि भावधर्मतया ततो भिन्नोऽपि स्वरूपापेक्षयाभिन्न इष्यते । द्रव्यरूपेणेति । रूपादयो द्रव्यादभिन्नाः, तच्चाभिन्नमिति तद्रूपेणैषामभेद इत्यर्थः ॥ २४ ॥ स्वरूपापेक्षया रूपादिवद्भेदानाश्रयणे भावाभावयोरन्यतरत्र न बुद्धेस्सदसद्रूपता भवेदित्याह यदीति ॥ २५ ॥ अस्ति त्वसाविन्द्रियसम्बन्धासम्बन्धहेतुको बुद्धिभेद इत्याह सत्सम्बन्ध इति । एतेन, यदाहुः न भावाद्भेदकमभावस्य रूपमुपलभामह इति, तन्निराकृतम् । सदसद्रूपविवेकादिति । यदिन्द्रियेण संयुज्यते भूतलं तदस्तीति प्रतीयते, यन्न सम्बध्यते घटादि तन्नास्तीति प्रतीयत इति ॥ २६ ॥ नन्विन्द्रियव्यापारानन्तरमेवेह घटो नास्तीति ज्ञानमुत्पद्यते, तत्कुतोऽयं विवेको नेन्द्रियेणाभावबुद्धिर्जन्यत इति । न ह्यसति तद्व्यापारे भावबुद्धिवदभावबुद्धिरपि जायमाना दृश्यते । यद्यपि भावादभावो भिद्यते, तथापि तस्य रूपादिवत्संयुक्तसमवायेन वा तद्विशेषणतया वेन्द्रियसन्निकर्षो{३,२०४}स्त्येव । अतस्तज्ज्ञानमैन्द्रियकं भवेदत आह गृहीत्वेति । अयमभिप्रायः नानाश्रयोऽभावः शक्यते ग्रहीतुमित्याश्रयग्रहणार्थमेवात्रेन्द्रियापेक्षा नाभावग्रहणाय, यथा नास्मृते प्रतियोगिन्यभावो गृह्यत इति तत्स्मरणार्थं प्राचीनज्ञानजन्मनस्संस्कारस्योद्बोधोऽप्यपेक्षितः, एवमाश्रयग्रहणार्थमिन्द्रियम् । न च प्राप्तिमात्रमैन्द्रियकज्ञानजन्मनि कारणम् । अपि तु योग्यतासहिता प्राप्तिरिति प्रत्यक्षे वर्णितम् । न चेन्द्रियाणामभावज्ञानजननयोग्यता, तेष्वसत्स्वपि तद्भावादिति वक्ष्यते । मानसमिति कोऽर्थः । किं सुखादिज्ञानवन्मनसा जन्यत इति । यद्येवं तथापि प्रत्यक्षतैव । न चान्तरिव बहिर्मनसस्स्वातन्त्र्यमस्ति । सत्यम् । सर्वप्रमाणसाधारणस्तु मनसो व्यापारोऽत्र कथितः । केवलात्ममनस्सन्निकर्षादेव बाह्येन्द्रियानपेक्षं प्रमाणाभावेनाभावज्ञानं जन्यत इत्युक्तं भवति । गृहीत्वा स्मृत्वेति च धर्मधर्मिणोरभेदात्समानकर्तृकत्वाभिधानमिति ॥ २७ ॥ कथं पुनरिदमवगम्यते भावग्रहणमिन्द्रियापेक्षं नाभावग्रहणमिति । समानो हि तद्भावभावः । अत आह स्वरूपेति । यो हि गृहस्वरूपमेवावधार्य क्वचिद्गतः पृच्छ्यते तत्र चैत्रोऽस्ति न वेति, तदासौ पृष्टस्तत्र नास्तितां तदैव प्रतिपद्यते । यदि त्विन्द्रियाधीनमभावज्ञानं भवेत्नासति तद्व्यापारे जायेत । न च पूर्वावगताभावस्मरणमेवेति वाच्यम् । न ह्यसति प्रतियोगिस्मरणे भावो दृश्यते । न चाश्रयग्रहणकाले प्रतियोगिस्मरणमस्ति । बहूनामेव हि पृष्टेनाभावः कथ्यते । न च तावतां स्मरणं तत्रासीदिति चिन्तयितुं शक्यते । यदि तूच्यते सामान्येनाभावोऽवगतः, सम्प्रति विशेषेण स्मर्यत इति, तदयुक्तम् । न ह्यभावत्वं नाम सामान्यमस्ति, विशेषाणामेव स्मृतिविपरिवर्त्तिनामेवाभावोऽवसीयते । न च सामान्यतोऽवगतो विशेषेण स्मर्यत इति, युक्तम् । पूर्वानुभवाहितभावनाबीजा हि सा स्मृतिः, नाल्पमव्यतिरेकं गोचरयितुमुत्सहते । अतस्तदानीमेव प्रतियोगिस्मरणपुरस्सरमिन्द्रियानपेक्षमभावज्ञानं जायत इति मनोहरमिदम् । तदिदमुक्तं तदैव प्रतिपद्यत इति । इदं च प्रत्यक्षफलस्मृतिनिवृत्त्या फलतः प्रत्यक्षानवृत्तिरित्युक्तमेवेति ॥ २८ ॥ {३,२०५} एवं तावदक्षजत्वमभावधियो निराकृत्तम् । इदानीं लैङ्गिकत्वं निराकरोति न चाप्यत्रेति । अत्र चोदयति भावांशेति । परिहरति तदानीमिति मतिरन्तेन । द्वावत्र भावौ प्रतिषेध्यः प्रतिषेधाधारश्च, तत्र न तावत्प्रतिषेध्यो लिङ्गम्, अवगतं हि लिङ्गं भवति । न च तदा घटो गृह्यते, न हि तस्मिन् गृह्यमाणे तदभावो ग्रहीतुं शक्यते । तदिह प्रतिज्ञाहेत्वोर्विरोधः । सति भावे तदभावो न प्रतिज्ञातुं शक्यते । सत्यां तु प्रतिज्ञायां नासतोऽदृष्टस्य लिङ्गत्वम् । अतो नाभावे जिघृक्षितेजिघृक्षितप्रतिषेध्यभावो लिङ्गमिति ॥ २९ ३० ॥ अस्तु तर्हि प्रतिषेधाधारभावो लिङ्गमत आह न चैष इति । एष इति परोपस्थितमपरोक्षं भावं निर्दिशति । यथार्थे पक्षीकृते पदमतद्धर्मतया न हेतुरित्युक्तम्, एवमेषोऽपि भूतलभावो न घटाद्यभावधर्म इति । अपि चान्वयाधीनात्मलाभमनुमानज्ञानम्, न च भूतलभावस्य सर्वैरभावैस्सम्बन्धो ज्ञायते । तत्कथं ततस्ते प्रत्येष्यन्त इत्याह सहेति ॥ ३१ ॥ अस्तु तावदभावान्वयः क्वचिद्भूतलादौ भावे, सद्भावोऽपि यस्य घटादेः कदाचित्ज्ञातः तस्यापि तत्राभावोऽवगम्यत इत्याह क्वचिदिति ॥ ३२ ॥ {३,२०६} न केवलं यद्यत्र कदाचिद्दृष्टं तन्मात्रस्य तत्राभावोऽवगम्यते, यस्यापि तु यत्राभावो न दृष्टपूर्वस्तस्यापि तत्राभावोऽवगम्यत इत्याह यत्रेति ॥ ३३ ॥ यदि तु येन केनचिदेकेनाभावेन गृहीतसम्बन्धाद्भावादभावान्तरानुमानमिष्यते, ततोऽतिप्रसक्तिरित्याह कस्यचिदिति ॥ ३४ ॥ न चैवमस्तीति व्यतिरेकेण दर्शयति गृहीतेऽपि च भावांशे नैवाभावेऽन्यवस्तुनः । सर्वस्य मतिरित्यन्तेन । अनैकान्तिकश्चायं भावोऽभावान्तरैरपि सम्बन्धात् । अतोऽनैकान्तिकत्वादस्य घटादेरभावं गमयितुमलिङ्गत्वमित्याह एवं व्यभिचारादलिङ्गतेति ॥ ३५ ॥ अपि च सम्बन्धग्रहणं सम्बन्धिग्रहणाधीनम् । तदिहाभावाख्ये सम्बन्धिनि ग्रहीतव्ये किं प्रमाणमिति वक्तव्यमित्याह सम्बन्ध इति ॥ ३६ ॥ न तावल्लिङ्गमविदितसम्बन्धं तदवधारणे प्रमाणम्, इतरेतराश्रयं हि तथा स्यादित्यभिप्रायेणाह तदानीमिति । अतोऽवश्यं तद्ग्रहणे प्रमाणान्तरमर्थनीयमित्याह तत्रेति ॥ ३७ ॥ {३,२०७} अत्रेदानीमनुपलब्धिलिङ्गवादिनो बौद्धस्य प्रत्यवस्थानमाह प्रत्यक्षादेरिति । द्वेधा हि हेतवो बौद्धैर्विभज्यन्ते कार्यं स्वभाव इति, अनुपलब्धिश्चैकज्ञानसंसर्गिणोरेकोपलब्धिरेव, तस्याश्च स्वरूपं ज्ञेयरूपं च प्रकाशते इति ज्ञानज्ञेयस्वभावा । न ह्यसौ स्वरूपमिव ज्ञेयसत्तामपि व्यभिचरति । तस्याश्च स्वसाध्येन नास्तीति विकल्पशब्दात्मकव्यवहारेण तद्योग्यतया वा तादात्म्यमेव प्रतिबन्धः । न ह्यसौ नास्तीति व्यवहारं व्यभिचरति शिंशपेव वृक्षताम् । तदेवं ज्ञातप्रतिबन्धानुपलब्धिः यो नाम भ्राम्यन् विविक्तदेशोपलब्धावपि घटाय घटते तं प्रति नास्तीति व्यवहारं तद्योग्यतां वानुमापयति । एवं च घटाद्यभावानुपलब्धिप्र योगः यद्दृश्यं हि सद्यत्र नोपलभ्यते तत्तत्र नास्ति । नोपलभ्यते चोपलभ्यमाने देशे दृश्यो घट इति । एतदपि दूषयति न विशेषणसम्बन्धस्तस्या इति । य एवानुपलब्ध्यानुमातुमिष्यते घटाभावो नास्तीति व्यवहारस्तद्योग्यता वा नैकेनापि विशेषेणानुपलब्धेस्सम्बन्धोऽवगतः, कथं ततो विशेषानुमानम् । भूतलोपलब्धिर्हि सा, तस्याश्च नानाविधानेकघटपटादिविषया नास्तीति व्यवहारा दृश्यन्त इति कथं विशेषेण घटो नास्तीति व्यवहारयेत् । घटानुपलब्धिरसौ, अतो घटाभावं तद्व्यवहारं वा प्रसाधयतीति चेत् । कस्तस्या घटेन सम्बन्धः । देशोपलब्धिर्हि सा, तावदेव तस्या घटानुपलब्धित्वम् । तच्च सर्वान् प्रत्यविशिष्टमिति कथम् एकेनैव व्यपदिश्यते न चेद्घटाभावो नाम कश्चित् । कस्माच्च सत्यपि घटे घटो नास्तीति व्यवहारो न प्रवर्तते । सद्व्यवहारविरोधादिति चेत् । कथं घटानुपलब्धौ सद्व्यवहारः । अस्ति हि तदानीमपि देशोपलब्धिः । विविक्तोपलब्धिर्हि घटानुपलब्धिः, नासौ घटे सतीति चेत्, को विवेकार्थ इति । नन्वयमभाव एव । तदभावेऽनर्थकं विविक्तवचनम्, अतोऽनुपलब्धेरयमपि विशेषो दुस्साध एव, यदसति घटे नास्तीति व्यवहारो न सतीति । यच्चेदं घटाभावमतिलङ्घ्य नास्तीति व्यवहारानुमानमवस्थितं तदपि केन विशेषेणेति न विद्मः । सोऽपि भावातिरेकी न कश्चिदुपलभ्यते । योग्यता तदनतिरेकिणी तस्मिन् बुद्धे बुद्धैवेति न किञ्चिदनुमेयं पश्यामः । वार्तिककारेण त्विदमुपेक्ष्यैव तावद् दूषणान्तरमुक्तमिति ॥ ३८ ॥ {३,२०८} अभावसामान्येन त्वनुपलब्धेस्सम्बन्धस्सिध्यत्येव, न त्वभावसामान्ये प्रमाणमुपजायत इत्याह सामान्येति । विशेषास्त्वनैकान्तिकतया नानुपलब्ध्या बोधयितुं शक्यन्त इत्याह व्यभिचारादिति ॥ ३९ ॥ अपि च नानवगतरूपं लिङ्गमनुमाने लिङ्गं भवति, तदियं प्रत्यक्षाद्यनुत्पत्तिरभावत्वादपरेण लिङ्गेनावगन्तव्या । एवं हि वदन्ति, यावान् कश्चित्प्रतिषेधः स सर्वोऽनुपलब्धेरेवेति । एवं च तत्र तत्र सदृशापरापरलिङ्गानुसारेणानवस्थापात इत्याह न चेति द्वयेन । एतच्चोपलब्ध्यभावोऽनुपलब्धिरित्यापाद्योक्तम्, विविक्तेतरपदार्थोऽनुपलब्धिरिति तु प्रत्युक्तमिति ॥ ४० ४१ ॥ एवं योऽप्यसौ लिङ्गिरूपाभावः सोऽपि सम्बन्धग्रहणार्थमवश्यं प्रथममवगन्तव्यः । तदवगमेऽपि तद्रूपापरलिङ्गाभ्युपगमादनवस्थैव । अतः क्वचिदवश्यमनुमानाभावात्प्रमाणान्तरमभ्युपगन्तव्यमित्याह लिङ्गेति ॥ ४२ ॥ यदि तु नास्तीति बुद्धिरेव लिङ्गमित्युच्यते तन्न । फलं हि सा, प्रत्यक्षाद्यनुत्पादस्य कथं तल्लिङ्गम्, तत्सिद्ध्यर्थमेव हि लिङ्गमिष्यते ।{३,२०९}सिद्धायां तु बुद्धौ किं लिङ्गेन । तदेतदाह नेति । यदि सा फलं किं तर्हि प्रमाणमत आह तस्यैवेति । यस्यैव सा फलं तदेव प्रत्यक्षाद्यनुत्पत्तेः फलानन्तर्यात्प्रमाणमिति ॥ ४३ ॥ किञ्च सौगतसमयसिद्धानुमानलक्षणग्रन्थानुसारेणापि न प्रत्यक्षाद्यजन्मनोऽनुमानत्वमित्याह त्रिलक्षणेति । एवं हि ते पठन्ति । त्रिरूपाल्लिङ्गतोऽर्थदृगनुमानमिति । न चानुत्पत्तिरुत्पत्तेः प्रागभावो बुद्धेः केनचिज्जन्यते, प्रागेव त्रिलक्षणेन हेतुनेति । ननु च हेतुतयानुपलब्धिरनुमानमिष्यते, न त्वनुमितिरनुमानमिति भावसाधनतया । अतः किं तन्निरासेन । सत्यम्, अहेतुतया तावदनुमानत्वं निराकृतमेव । अनेन तु लक्षणानन्तःपातो वर्ण्यत इति ॥ ४४ ॥ अत्र चोदयति (मानमिति)प्रमाणता हि भावात्मना व्याप्ता प्रत्यक्षादिष्ववगता, तन्निवृत्त्या निवर्त्यत इति भावः । इतरस्तु वर्णितोऽस्माभिः प्राग्भावानामसङ्करश्चतुर्धा । न च तद्बोधस्य भावबोधवैलक्षण्यमुपलभ्यते, बाधविरहसामान्यात् । स च प्रामाण्ये कारणं न भावस्वरूपता । सा तु प्रामाण्यं प्रत्यप्रयोजिकैव कथंचित्तेषु सङ्गता, अतो नाभावत्वेनाप्रामाण्यं भवति । भावे तु प्रमेये तदप्रमाणमेवेत्यभिप्रायेणाह प्रमेयमिति । अनुरूपमेवेदं यदभावेऽभावः प्रमाणमित्याह मेय इति ॥ ४५ ॥ यथा भावात्मके मेयेऽभावः प्रमाणं नानुरूपं तथा तदभावे भाव इत्याह भावात्मक इति ॥ ४६ ॥ {३,२१०} न भावात्मकमेव प्रमाणमिति राजाज्ञा, यदेव तु परिच्छेदफलं तदेव तु प्रमाणम्, तच्च प्रत्यक्षाद्यजन्मनोऽपि समानमित्याह भावात्मकस्येति ॥ [४७] ॥ स्यादेतत् वस्तुन एव प्रामाण्यदर्शनान्नावस्तुनोऽनुपलब्धेः प्रमाणत्वमिति । तथा च सति बौद्धानामपि लिङ्गप्रमेयत्वे न स्याताम्, तेऽपि हि नावस्तुनो दृष्टे इत्याह यदीति सार्धेन । अनुज्ञाने दोषमाह तथा सतीति । न च स्याद्व्यवहारोऽयमिति कारणादिविभागेनोक्तो व्यवहार इत्यर्थः ॥ ४८ ४९ ॥ अपक्षधर्मत्वादपि प्रत्यक्षाद्यनुत्पत्तिर्न लिङ्गमित्याह प्रमाणानामिति । नाभावे पक्षीकृते प्रत्यक्षाद्यनुत्पत्तिस्तद्धर्मतयावगम्यते । अभावेन सम्बन्धाभावादित्यभिप्राय इति । नन्वभावविशिष्टं भूतलं साधयिष्यामः, तच्च पूर्वमवगतमिति तद्धर्मो भविष्यतीत्यत आह यत्रेति । न हि भूतले प्रत्यक्षानुत्पत्तिः, ज्ञायमानत्वात्तस्येति ॥ ५० ॥ घटस्य तर्हि धर्मो भविष्यति तद्गोचरे प्रत्यक्षादीनामनुत्पत्तेरत आह य इति । सत्यम् । यत्र प्रत्यक्षादीनि नोत्पद्यन्ते तद्धर्मता कथञ्चिद्भवेदपि, न त्वसाविह प्रमीयते । धर्मधर्मित्वयोरभावात् । न हि{३,२११}तद्धर्मिणं कृत्वाभावविशिष्टता साध्यते तस्याप्रतीतेः । नापि तद्विशिष्टं भूतलादि, तदानीं तस्य तत्राभावादिति ॥ ५१ ॥ अभावस्य तु सा धर्मो भविष्यति तद्विषयत्वात्तस्याः । अभावे हि प्रमेये सा लिङ्गं भवत्येव । किन् तु नासञ्चेतितोऽभावो विषयो भविष्यति, ज्ञाते च प्रमेयाभाव इत्याह अभावेनेति ॥ ५२ ॥ अन्यस्तु न कश्चिदभावेनानुत्पत्तेस्सम्बन्धप्रकारो विद्यते, येन तद्धर्मतामनुगम्यानुमानं भविष्यतीत्याह संयोग इति । इतश्चापक्षधर्मत्वमित्याह नागृहीत इति । न ह्यगृहीते पर्वते धूमस्तद्धर्मतयावगम्यते । अथ तद्वदभावोऽपि प्राक्प्रतीयत इत्युच्यते, सिद्धं तर्हि साध्यत इति ॥ ५३ ॥ एवं प्रत्यक्षानुमानाभ्यां प्रसाधितं भेदं प्रयोगेण दर्शयति अभावशब्देति ॥ ५४ ॥ प्रयोगान्तरमाह अभावोऽपीति भावान्तेन । अतस्सिद्धं भावात्मकात्प्रमाणादन्यत्वमभावस्येत्युपसंहरति तस्मादिति ॥ ५५ ॥ वेदोपयोगमभावस्य दर्शयति कर्माणीति । योऽयं सर्वकर्मणां फलासङ्करः परस्परासङ्करश्च परस्परमङ्गाङ्गिभावाभावः, नासावभावप्रामाण्यादृते{३,२१२}सिध्यतीति । (?यथेति । यावत्तावद्यथावदिति ।) इहेति । वेदं प्रति निर्देश इति ॥ ५६ ॥ ननु च व्यासमतानुसारिणोपमानातिरिक्तं प्रमाणद्वयमुपवर्णितम्, ऋषिणा च सम्भवैतिह्ययोरपि प्रमाणत्वमाश्रितम्, तत्परित्यागे कारणं वक्तव्यमत आह युक्तीति । प्रमाणषट्कमेव हि युक्त्या सङ्गच्छते । आगमानुगतश्च । आगमश्च मीमांसातन्त्रम्, अतो युक्त्यागमाभ्यामिह शाबरे भाष्ये प्रमाणषट्कमेव प्रविविच्य तर्कितम् । यत्तु द्वयमधिकमिष्टं तदत्रैवान्तर्गतमिति ॥ ५७ ॥ (?कः।क्व) पुनस्तस्यान्तर्गतिरत आह इह भवतीति । या तावत्सहस्राच्छते मतिस्सम्भवाख्यं प्रमाणमिष्यते सानुमानान्न भिद्यते । सहस्राच्छतमवियुतिभावादविनाभावादवगम्यते । अतस्तावदनुमानान्न भिद्यते । ऐतिह्यप्रमाणमुक्तं तावदसत्यमेव । निधिप्राप्त्यसुरकन्यावशीकरणादि, द्रौपदीपञ्चभर्तृकेत्यादि, यदि तत्सत्यं तदागमाद्(न) भिद्यते । आप्तागमो ह्यसौ । उक्तं च पुरुषोक्तिरपि श्रोतुरागमत्वं प्रपद्यते । इति । अतोऽनुमानागमयोरन्तर्भावान्न सम्भवैतिह्ययोः पृथगुपन्यासस्सिद्धः । इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायाम् अभावपरिच्छेदस्समाप्तः ॥ {३,२१३} भाष्यपाठो विचार्यः, अत्र भाष्यम् ननु भवन्त्वन्यानि प्रमाणानि, शब्दस्तु न प्रमाणम्, कुतः? अनिमित्तं विद्यमानोपलम्भनत्वातिति । अस्यार्थः यद्यपि सर्वप्रमाणाव्यभिचारान्न प्रमाणसामान्यभाविना धर्मेण शब्दोऽपि न प्रमाणम्, विशेषेण त्वात्मभाविना धर्मेणाप्रमाणम् । तथा हि चित्रया पशवो भाव्यन्त इति चित्रया यजेतेत्यस्यार्थः । कृतचित्रस्यापि यजमानस्यानन्तरमविकलसकलेन्द्रियैरपि पशवो न दृश्यन्ते । तन्न नूनमिष्टिः पशुफलेति भवति मतिः । तदिदमुक्तमनिमित्तं विद्यमानोपलम्भनत्वातिति । किमुक्तं भवति उपलम्भनानि हि चक्षुरादीनि पशूनां विद्यन्ते । न च पशुकामेष्ट्यनन्तरं पशव उपलभ्यन्ते । तस्मादुक्तविसंवादादप्रमाणं चित्राचोदनेति । स पुनरयमाक्षेपो गतार्थ उपलक्ष्यते । चोदनासूत्रे हि नन्वतथाभूतमित्यादिना भाष्यकारेणाक्षेपपरिहारावुक्तौ । अतः पुनरुक्तमिदमित्याशङ्क्याह परलोक इति । अस्यार्थः परलोकफला हि तत्र स्वर्गकामो यजेतेत्येवमादिचोदना वेदबाह्यबौद्धादिपरमतेनाक्षिप्ताः । इदानीमैहिकफलाश्चित्रादिचोदना आक्षिप्यन्ते । ननूभयीमपि चोदनामाक्षेप्तुं शक्यत एव वाक्यत्वादयो हेतवः । त एव तत्र भाष्यकारेण यत्किञ्चन लौकिकं वचनमिति दर्शयतान्तर्णीताः । वार्तिककृतापि यदि वा पुरुषाधीनप्रामाण्याः सर्वचोदना इति विवृताः । तस्मादसदेतत्परलोकफला एव तत्राक्षिप्ता इति । यदपि चेदानीमैहिकाक्षेप इत्युक्तं तदयुक्तम्, इहापि च एवं दृष्टापचारस्य वेदस्य स्वर्गाद्यपि फलं नास्तीति मन्यामह इति सर्वाक्षेपः कृतः । वार्तिककारेणापि च एवं सत्यग्निहोत्रादिवाक्येष्वपि मृषार्थता इति वदता । तस्मादुभयत्राप्युभयाक्षेपमेव न्याय्यं मन्यन्ते । केयं व्यवस्था । अत्रोच्यते । सत्यमुभयत्राप्युभयाक्षेपः, तथापि हेतुभेदादपौनरुक्त्यम् । तथा हि तत्र वाक्यत्वादयः परैरुक्ता आक्षेपहेतवः,{३,२१४}इदाना तु शब्दशक्तिपरामर्शद्वारेणाभ्यन्तरा एव हेतव उपपत्स्यन्ते । तथा चोकम् आनन्तर्यमनुक्तं चेन्न सामर्थ्यावबोधनात् । इति । सामर्थ्यं हि सर्वाख्यातानामर्थं ब्रुवतां सहकारि । तद्यद्यपि नेष्टिरनन्तरफलेति श्रुतिः, तथाप्यर्थसामर्थ्यादेतदवगम्यते, कथमपरथा यदासौ विद्यमानासीत्तदा फलं न दत्तवती, कालान्तरे पुनरसती कथं दास्यति इति । न च पशवोऽनन्तरमसम्भवद्भावनाः, स्वर्गो हि नानाक्षिप्तविशिष्टदेहेन्द्रियादिपरिग्रहो भवितुमुत्सहते, अतो माभूदनन्तरम्, अमी पुनः पशवः सम्भवन्ति यजमानस्यात्रैवेति स्वहेतुसमनन्तरमनुपलभ्यमाना दृष्टप्रतिग्रहादिहेत्वन्तराः श्रुतचित्रादिफलतया न शक्त्यन्तेऽवगन्तुम् । अयमेव तु शब्दशक्तिपरामर्शो वार्तिककृता तार्किकप्रक्रियामनुविदधानेन न वा पशुफलेत्यादिना साधनप्रयोगैरुपदर्शितः । तदेवमैहिकफलासु चित्राचोदनास्वाक्षिप्तासु तत्सामान्यादितरासु तथात्वमिति पुनरप्यग्निहोत्रादिचोदनाक्षेपेऽवतिष्ठते । स चायमैहिकाक्षेपद्वारेणापिनोच्यते । अत एव चैहिकाक्षेप इत्युक्तम् । एतदुक्तं भवति ऐहिकफलानामामुष्मिकफलानां चायमैहिकाक्षेपपुरस्कारेणैवाक्षेपः, यदामुष्मिकस्वर्गादि तन्मा नाम कर्मानन्तरमुपलभ्यतामैहिकफलं तु पश्वादि किं नोपलभ्यते, न चेदमुपलभ्यते, तन्न नूनं तत्फलमिति ऐहिकफलकर्मचोदनाव्यभिचारेणान्यासामपि परलोकफलानां तत्सामान्यादाक्षेपः । पूर्वं तु ताः परतः प्रामाण्यमाश्रित्य परोक्तैरेव वाक्यत्वादिभिर् हेतुभिराक्षिप्ताः । तदुक्तं परैरिति । परिहारान्तरमाह सूत्रेति । अयमभिप्रायः चोदनासूत्रे भाष्यकृता सूत्रकारेण वक्ष्यमाणाक्षेपपरिहारावनागतावेक्षणेन प्रतिज्ञासमर्थनार्थमुपवर्णितौ । इदानीं तु सूत्रकारेण स्वयमेवोच्यत इति तेनेदमेव सर्वचोदनाक्षेपक्षेत्रमित्युक्तमिति ॥ १ ॥ अत्र परिहारे पूर्वोक्त एवाक्षेपहेतुरिति, तमुपन्यस्यति चित्रेति फलानीत्यन्तेन । अयमर्थः चित्रापशुफलत्वादिविषयाश्चोदना धर्मिण्यः{३,२१५}मृषेति साध्यो धर्मः । अधिकृतैः प्रवृत्तिवोग्यैरपि प्रत्यक्षादिभिरर्थानवगतेः । यदीदृशं तन्मृषा यथा विप्रलिप्सोर्वचः । आदिशब्देनाग्निहोत्रादिविषया अपि चोदनाः पक्षीकरोति । ननु विप्रलिप्सुवाक्यमत्र दृष्टान्तः । न च तन्नियमेन प्रत्यक्षाद्यसङ्गतार्थमसत्यं च । तस्मादुभयविकलो दृष्टान्तः । अत आह तत्रेति । असत्यर्थे प्रयुक्तमेव नदीतीरादिवाक्यमिह दृष्टान्तः । प्रायेण चैवञ्जातीयकं विप्रलिप्सुरेव प्रयुङ्क्त इति विप्रलिप्सोरित्युक्तमिति ॥ २ ३ ॥ इदानीमैहिकाक्षेप इत्युक्तं विवृणोति न वेति वदन्तेन । चित्रेष्टिर्धर्मिणी, न पशुफलेति साध्यम्, स्वकाले पश्वदानात्, स्नानादिवदिति । प्रयोगान्तरमाह तेऽपीति । ते पशवो न चित्रासाध्याः, चित्रोत्पत्तावसद्भावात्स्वर्गतृप्तिसुखादिवत् । आदिशब्देनात्र भोजनजन्या तृप्तिरभिप्रेता । एतौ च प्रयोगौ नेष्टिः पशुफला, कर्मकाले च कर्मफलेन भवितव्यमिति भाष्योक्तौ वेदितव्याविति । अत्रानन्तरं यत्कालं हि मर्दनं तत्कालमेव मर्दनसुखमिति भाष्यकारेणोक्तम्, तद्वैधर्म्यदृष्टान्ततया प्रयोगद्वये योजयति वैधर्म्येणेति । चित्रा न पशुफला पशवो न तत्साध्या इत्युभयत्रापि प्रयोगे वैधर्म्येण सुखमर्दने भवेताम्, ईदृशी चात्र वैधर्म्यरचना, यद्यत्साध्यं तत्तत्समकाले प्रसूते, मर्दनमिव सुखम् । यच्च यत्साध्यं तत्तदुत्पत्तौ भवत्येव सुखमिव मर्दनोत्पत्ताविति ॥ ४ ५ ॥ ननूक्तिविसंवादादप्रामाण्यमुक्तम् । न च किञ्चिदिह विसंवादः, न हि कृते कर्मणि तावत्येव फलेन भवितव्यमिति शब्दो ब्रूते, किन् तु अस्येदं{३,२१६}फलमिति । एतावति च पर्यवसानात् । अतः कालान्तरे फलं दास्यति । तदेतदुक्तम् कालान्तरे फलं दास्यतीति चेतिति, तदेतदाह आनन्तर्यमिति । परिहरति न सामर्थ्येति । साक्षादनुक्तस्यानन्तर्यस्याप्यत्र सामर्थ्येनावबोधनं कृतम्, यदैव ह्यस्येदं फलमित्युक्तं तदैवमर्थादेवावगम्यते अनन्तरमनेन भवितव्यमिति । कथं नामान्यथासत्कालान्तरे फलं दास्यतीति । नन्वेवमपि सामर्थ्यलभ्यमानन्तर्यमनन्तरफलानुपलम्भनेन बाध्यताम्, अविशेषप्रवृत्ता तु चोदना कथं बाध्यते अत आह शब्देति । न हि सामर्थ्यं नाम पृथक्प्रमाणम्, अपि तर्हि सर्वाख्यातानामर्थं ब्रुवतां शक्तिस्सहकारिणीति शब्दैकदेश एव । अतस्स्रुवावदानमिवाप्यद्रव्येष्वर्थादनन्तरमेव फलं निश्चीयत इति तद्बोधेऽपि शाब्दबोधो भवत्येवेति ॥ ६ ॥ इतश्चानन्तर्यमवगम्यत इत्याह कालान्तरेति । यदि ह्यत्र फलं दास्यतीति ळङ्श्रोष्यत्तदा तत्सामर्थ्येन कल्पना काचिदप्यभविष्यत् । अद्य पुनरस्येदं कर्मणः फलमिति पर्यवसिते वचसि सर्वकर्मणामनन्तरफलोपलम्भाद्वैदिकस्यापि चित्रादेश्चोद्यमानस्यापि कर्मणस्तत्स्वाभाव्यादानन्तर्यं विशेषणतयावतिष्ठत इति ॥ ७ ॥ अत्रानन्तरमपरं भाष्यम् दृष्टविरुद्धमपि किञ्चित्वैदिकं वचनं स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकं यातीति । तद्येन विशेषेणोक्तं तमाह अत्रेति । अत्र हि चित्रादिवाक्येषूक्तिविसंवादादप्रामाण्यमुक्तम् । उत्तरत्र तु यज्ञायुधिवाक्ये प्रत्यक्षादिविरोध इति विरोधमभिद्योतयति स्वर्गयान इति । यजमानस्य निरतिशयानन्दात्मनः स्वर्गादतिदूरमपभ्रष्टो भस्मीभावः प्रत्यक्षमुपलभ्यते,{३,२१७}चित्रादिचोदनासु त्वनन्तरफलानुपलम्भमात्रं न तु विरुद्धोपलम्भः कश्चिदस्तीति स्यादपि कालान्तरे फलकल्पना, भस्मीभूतं तु शरीरं कालान्तरे ऽपि स्वर्गं लोकं यास्यतीति न सम्भवतीति पूर्वस्माद्विशेषः ॥ ८ ॥ अपरमपि च एवंजातीयकं प्रमाणविरुद्धं वचनमप्रमाणम् अम्बुनि मज्जन्त्यलाबूनि, ग्रावाणः प्लवन्त इति यथा इति भाष्यम्, तद्व्याचष्टे।< >। यज्ञेति वाक्यमन्तेन । यज्ञायुधवचो धर्मी, मृषेति साध्यो धर्मः, प्रत्यक्षविरोधात्, यत्प्रत्यक्षविरुद्धं तन्मिथ्या, यथा ग्रावाणः प्लवन्त इति शिला वाक्यं साधर्म्येण यथेति दर्शयितव्यमिति । वैधर्म्यदृष्टान्तमाह वैधर्म्येणेति । यदमिथ्या न तत्प्रत्यक्षविरुद्धं यथाप्तभाषितमिति । पूर्वं तु मर्दनसुखयोर्वैधर्म्ये दृष्टान्ततयोपन्यासाच्छिलावाक्यमपि वैधर्म्येण भाष्यकृतोक्तमिति भ्रान्तिमपनेतुं साधर्म्यवैधर्म्यविवेको वार्तिककृता दर्शितः ॥ ९ ॥ ननु प्रत्यक्षविरोधादिति हेतुरसिद्ध एव, अस्ति हि परलोकफलभोक्ता चेतनः कर्मणां कर्ता, स स्वर्गं लोकं यास्यतीति । तमेवाभिप्रेत्य स्वर्गं लोकं यास्यतीत्युक्तम् । अतः को विरोधोऽत आह शरीरादिति । यदि हि शरीरादन्यश्चेतनो भवेत्, भवेदपि, न तस्य यज्ञायुधैरस्ति कश्चित्सम्बन्धप्रकारः, शरीरस्यैव तु स्रुक्कपालादियज्ञायुधैस्सम्बन्धः, यद्यज्ञायुधी यजमान इति तदभिप्रायेण मत्वर्थसंयोगो घटते । अपि च स एष इत्यपरोक्षप्रतिनिर्देशः, सोऽपि शरीरस्यैव प्रत्यक्षत्वादुपपन्नो नात्मनः । तदेतदपि भाष्यकारेणोक्तं हि शरीरकं व्यपदिशति इति । किञ्च यजमानशब्दो ह्यात्मन्यसमञ्जसः, यागस्य हि कर्ता यजमान इत्युच्यते, न च यथाचोदितविततपूर्वापरीभूतानेककर्मक्षणात्मकक्रतुक्रियाकर्तृत्वमात्मनस्सम्भवति, विभोः पूर्वापरदेशविभागसं योगफलकर्मणामसमवायात् । तदेतदाह न{३,२१८}चेति । अभ्युपगम्य चात्मनस्सद्भावमिदमस्माभिरुक्तम्, परमार्थेन तु देहेन्द्रियव्यतिरिक्तात्मसद्भावोऽपि प्रमाणाभावाद्दुर्लभ इत्याह सद्भाव इति । प्रपञ्चयिष्यते चैतदात्मवाद इतीह न प्रतन्यत इति ॥ १० ॥ अपरं च न चैष यातीति विधिशब्दः इति भाष्यम् । तस्याभिप्रायमाह यदीति । अस्यार्थः यदि ह्यत्र यज्ञायुधिवाक्ये विधिशब्दो भवेत्, तदा चित्रादीनामनन्तरफलादर्शनाद्भेदेन विरोधोपन्यासार्थं यज्ञायुधिवाक्योपादानं नोपपद्यते । अतः स्वकृतभेदोपादानसमर्थनार्थं विधिशब्दनिराकरणमिति ॥ ११ ॥ विधिशब्दे को विशेषः, अत आह विधीति । विधिशब्दे हि कालविशेषानुपादानाद्विधिसामर्थ्यादेव कालान्तरभावितां फलस्य परिकल्प्य स्यादपि चित्रादिचोदनास्विवाभावविरोधपरिहारः । इह तु यातीति वर्तमानापदेशान्न प्रत्यक्षविरोधश्शक्यते परिहर्तुमित्यदर्शनाद्विशेष इति ॥ १२ ॥ चित्रादिवाक्याभिप्रायेण चेदमस्माभिरुक्तम् विधिशब्दे भविष्यत्त्वं फलस्य परिकल्प्य विरोधश्शक्यते परिहर्तुमिति । इह तु प्रत्यक्षेण भस्मीभावोपलम्भान्न कालान्तरफलभावितया स्वर्गगमनं फलमिति शक्यते कल्पयितुम् । न हि विधिसहस्रेणाप्याशङ्कनीयोऽर्थः शक्यः प्रत्याययितुम् । तदेतदाह फलं चेति । किं तर्हि विधिशब्दतानिराकरणस्य फलमत आह तत्सामर्थ्येनेति । चेतनप्रवर्तनात्मको हि विधिरन्तरेण परलोकफलोपभोक्तारम्{३,२१९}अनुपपद्यमानः कल्पयेदपि कायकरणसङ्घातातिरिक्तमात्मानम्, तस्य च स्वर्गलोकगमनमुपचर्येतापि शरीरे, तस्य वा प्रत्यक्षत्वमात्मनि भाक्तमित्येवमादिकल्पनानिषेधार्थं विधिशब्दनिराकरणमिति ॥ १३ ॥ भूयांश्चायं प्रमाणान्तरविरुद्धो मन्त्रार्थवादात्मको वेदभागः । यथा अदितिर्द्यौरदितिरन्तरीक्षं यजमान एककपालः इत्येवमादिः । स च सर्व एवात्र प्रयत्नतो मुख्यतया मिथ्यात्वेन ऐहिकाक्षेपे पक्षीकार्यः, तन्मिथ्यात्वेन चानुषङ्गिकं परेषां मिथ्यात्वं भविष्यतीत्यभिप्रायेणाह प्राय इति ॥ १४ ॥ तत्सामान्यादग्निहोत्रादिचोदनास्वप्यनाश्वास इति भाष्यम्, तस्याभिप्रायमाह एवं सतीति । यदा हि चित्रादिवाक्यादिष्वप्रामाण्यं समर्थितं भवति, तदा वेदवाक्यैकदेशतयाग्निहोत्रादिवाक्येष्वपि मृषार्थता शक्यतेऽनुमातुम्, अतः कृत्स्नस्यैव वेदस्याप्रामाण्यान्न चोदनालक्षणार्थो धर्म इत्याक्षेपः ॥ इत्युपाध्यायसुचरितमिश्रकृतौ काशिकाटीकायां चित्राक्षेपवादः समाप्तः । ०१८ आत्मवाद {३,२२०} अत्रानन्तरमौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धस्तस्य ज्ञानमिति भाष्यकारेण सम्बन्धनित्यताद्वारेणाक्षेपपरिहारोऽवतारितः, सोऽयुक्तः, परोक्ताक्षेपहेत्वनन्तरं हि तस्यैव विरुद्धासिध्यादिदोषोद्भावनमुचितम् । यत्तु तमदूषयित्वैवान्यदुच्यते तदसङ्गतमेवात आह स्वपक्ष इति । अयमभिप्रायः यावद्धि सम्बन्धौत्पत्तिकत्वेनानपेक्षालक्षणं चोदनायाः स्वतःप्रामाण्यं न प्रतिपाद्यते तावद्दूषितेऽपि साधने न चोदनालक्षणो धर्म इति प्रतिज्ञा सिध्यति । भूयांश्चानेन क्रमेणार्थो वक्तुमभिप्रेतः शब्दार्थसम्बन्धनिरूपणादिः । अन्यथा क्रियमाणं तदाकाशपतितमिवापद्येत । तच्चैतत्शब्दस्वरूपनिरूपणावसरे वक्ष्यते । न चेदमाक्षेपेण न सङ्गच्छते, द्वेधापि प्रत्यवस्थानदर्शनात् । यथोक्तम् द्वेधापि प्रत्यवस्थानं परहेत्ववबाधनात् । आत्मीयसाधनोक्त्या वा तत्रात्मीयमिहोच्यते इति । न चात्र परसाधनदूषणण्न करिष्यते तत्र हेतोरसिद्धत्वमिति चित्रापरिहारे वक्ष्यते । अनेन तु क्रमेण तत्कर्तव्यमिति तावदित्युक्तमिति । तच्च स्वपक्षसाधनं तार्किकाणां चित्तमनुरञ्जयितुं प्रयोगद्वारेणाह अमृषेति । वैदिकवचो धर्मी, स्वार्थे सत्यमिति साध्यो धर्मः, स्वार्थे वक्त्रनपेक्षत्वात्, यत्स्वार्थे वक्तारं नापेक्षते तत्सत्यम्, यथा पदात्पदार्थगता बुद्धिः । पदं हि स्वभावादेव स्वार्थेन सम्बद्धं तत्प्रतिपादनाय वक्तारं नापेक्षत इति सम्बन्धपरिहारे वक्ष्यते । स्वार्थ इति तन्त्रेणोभयविशेषणतया योजनीयम् । यदि ह्यमृषा वैदिकं वचनमित्य् एतावदुच्यते पूर्वपक्षार्थसम्यक्त्वापातादनिष्टार्थताप्रसाधनप्रसङ्गः । न हि स्वर्गकामो यागं कुर्यादित्याद्यर्थे स्वर्गकामो यजेतेति वाक्यं सम्यगिष्यते, षष्ठाद्यसिद्धान्तविरोधात् । यागेन स्वर्गं कुर्यादिति हि तत्र स्थास्यति । वक्त्रनपेक्षत्वादिति चाविशिष्टो हेतुरुपात्तोऽसिद्ध एव स्यात् । अस्ति हि वैदिकवाक्यानामपि स्वरूपाभिव्यक्तये{३,२२१}वक्त्रपेक्षा, स्वार्थे तु प्रत्याययितव्ये न वक्तारमपेक्षन्ते, अपौरुषेयत्वात् । शब्दार्थसम्बन्धनित्यत्वाच्च । पौरुषेयं प्रमाणान्तरप्रमितगोचरमाप्तवचनमपि वक्तुः प्रमाणमपेक्षते । यथोक्तम्, आप्तोक्तिषु नरापेक्षेति ॥ १ ॥ प्रयोगान्तरमाह तत्कृत इत्येवान्तेन । वैदिकवाक्यकृतः प्रत्ययस्सम्यगिति साध्यम्, नित्यवाक्योद्भवत्वात्, यथा तद्वाक्यस्वरूपविषया बुद्धिः । सापि हि वाक्यादुद्भवति, निर्विषयबुध्यनुत्पत्तेः । वेदवाक्यनित्यता च वेदाधिकरणे स्थापयिष्यत इति । अत्रैव साध्ये पूर्वोक्ताः नान्यत्वातिति भाष्यव्याख्यानावसर उक्ताः दोषवर्जितैः कारणैः जन्यमानत्वात्, अनाप्ताप्रणीतोक्तिजन्यत्वात्, देशादिभेदेऽपि बाधवर्जनातिति हेतवो दर्शयितव्या इत्याह अत्रेति ॥ २ ॥ अत्र भाष्यम् स्यादेतत्, नैव शब्दस्यार्थेन सम्बन्धः, कुतोऽस्य पौरुषेयता अपौरुषेयता वा इति । तस्याभिप्रायमाह नित्यानित्यब्रवीदन्तेन । अस्यार्थः शब्दार्थसम्बन्धानां नित्यत्वमाश्रित्यानपेक्षत्वादिति सूत्रकारेण यो हेतुः स्वतः प्रामाण्यसिध्यर्थमुक्तः, तेन चोदनानामप्रामाण्ये निराकृतेऽधुना सम्बन्धोद्भवत्वाभावेन परो बौद्धादिर्मिथ्यात्वमुक्तवान् । एवं च तदा वार्तिककारेण वृत्तिकारमतेनात्रैव स्वतः प्रामाण्यं व्युत्पाद्यमिति दर्शितम् । तथा च सूत्रकारेण चोच्यत इति पुनरुक्तिपरिहारे परतः प्रामाण्योक्तैरेवाक्षेपहेतुभिः पूर्वपक्षोऽभिहितः । इहापि च भाष्यकारेण ब्रूत इत्युच्यते अवबोधयति बुध्यमानस्य निमित्तं भवति, इत्यादि चोदनासूत्रोक्तमेव स्वतः प्रामाण्यकारणमुक्तमिति ॥ ३ ॥ {३,२२२} एतदेव विवृणोति सम्बन्ध इति वक्ष्यतेऽन्तेन । चोदनामिध्यार्थनिरासार्थं हि सम्बन्धसद्भावो नित्यता च हेतुरुक्तः । तच्च द्वयमपि परैर्नेष्यते । तत्र सम्बन्धाभावस्तावदनेनैव भाष्येणोक्तः । कृतकत्वं तु यदि प्रथममश्रुतो न प्रत्याययति, कृतकस्तर्हि इत्यनेन वक्ष्यते । तदत्र सम्बन्धाभावेनानपेक्षत्वादिति हेतोरसिद्धिरुक्ता । न चासति सम्बन्धे परोक्तार्थप्रतीतिरुत्पद्यत इति दर्शितम् । प्रतिबन्धबले ह्यर्थान्तरदर्शिनोऽप्यर्थान्तरे ज्ञानमुत्पद्यते । अनादृतप्रतिबन्धस्तु यत्किञ्चिद्विद्वान् स सर्वं जानीयादित्यतिप्रसज्यत इति ॥ ४ ५ ॥ अत्र भाष्यकारेण कार्यकारणभावादयस्सम्बन्धाश्शब्दस्यानुपपन्ना इत्युक्त्वा संश्लेषसम्बन्धभाव एव दर्शितः, तदेतद्वार्तिककारो दर्शयति असम्भवेनेति । निमित्तनैमित्तिकाश्रयाश्रयिभावादयस्सम्बन्धाश्शब्दार्थयोरत्यन्तासम्भाविता एव, कार्यकारणभावस्तु बौद्धगन्धिवैयाकरणैरभ्युपगत एव । तेऽप्याहुः अर्थाश्शब्दाश्च दृश्यन्ते प्रत्यक्षा यद्यपि स्फुटम् । अभिधानाभिधेयौ तु ज्ञानाकारौ तथापि नः ॥ इति । एवं हि मन्यन्ते न तावद्वर्णाश्शब्दः, प्रत्येकमवाचकत्वात् । अयुगपद्वर्तिनां चावयविसमुदायारम्भानुपपत्तेः । अत एव गोशब्दत्वादिजात्यसम्भवात्भूतादिविशेषाणां च प्रतिप्रयोगमन्यत्वेनावाचकत्वाद्वर्णबुद्धिस्मृतिसंस्काराणां चाक्षरवत्प्रत्याख्यानात्पूर्ववर्णजनितसंस्कारसहितान्त्यवर्णस्यापि वर्णत्वेनापूर्ववर्णवदवाचकत्वात्पूर्वपूर्वनिखिलवर्णपदोपसहारक्रमेण चरमस्य कस्यचित्स्फोटात्मनोऽनवग्रहाद्युगपदवस्थितानेकवर्णाकारज्ञानात्मैव शब्दः । अर्थोऽपि जातिव्यक्त्यवयवावयविगुणगुणिव्यतिरेकाव्यतिरेकादिविकल्पदूरीकृतनिरूपणो न बाह्यस्सम्भवतीति ज्ञानात्मकशब्दवेदनानन्तरोत्पद्यमानबाह्यजात्यादिनिर्भासप्रत्ययमात्रात्मैव ।{३,२२३}स चायमेवम्भूतोऽर्थश्शब्देन जन्यत एवेति कार्यकारणभावमेव शब्दार्थयोस्सम्बन्धमातिष्ठन्ते । तच्चेदमतिदूरमपभ्रष्टम्, एवं च सत्यविदितस्वरूपशक्तीनामप्यर्थसंविदुपजायेत । दृष्टा हि खलु मृत्सलिलप्रच्छन्ना अपि व्रीहयोऽङ्कुरादिकार्यमारभमाणा अविदितस्वरूपशक्तयोऽपीति सूक्तम् असम्भवेन शेषाणामिति । कथं तु संश्लेषः परिशिष्यत इति, प्रतीतेरभ्युपगमाच्च । गौरयमिति हि सामानाधिकरण्येन शब्दोपश्लिष्टमर्थमवयन्तो लौकिका दृश्यन्ते । अभ्युपगतश्च कैश्चिच्छब्दार्थयोस्संश्लेष एव सम्बन्धः । प्रपञ्चितश्चासावध्यासवाद इति । लौकिकाश्च प्रायेण संश्लेषमेव संबन्धं मन्यन्ते इति स एव सम्बन्धः प्रसक्तो निराकार्य इत्याह तस्मिन्निति प्राहान्तेन । निषेधमेव प्रयोगेण दर्शयति न शब्द इति । संश्लेषो हि यस्य येन भवति स तद्देश एव दृश्यते रञ्जुरिव घटे, तदनन्तरदेशे वा प्रदेशिनीव मध्यमायाः । न च शब्दार्थयोरन्यतरदेशे वान्यतरो दृश्यते । अतो हिमवद्विन्ध्ययोरिव नानयोस्सम्बन्ध इति ॥ ६ ७ ॥ अर्थो वा पक्षीकार्य इत्याह एवमिति । द्वयं वा परस्परमसम्बद्धमितरेतरदेशे तदनन्तरदेशे वादृष्टेः साध्यमित्याह द्वयमिति । अत्र भाष्यकारेण स्याच्चेदर्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, इत्युक्तम् । तस्याभिप्रायमाह क्षुरेत्युक्तमन्तेन । अस्यार्थः अत्र भाष्यकारेण शब्दार्थयोस्सम्बन्धसिद्ध्यर्थं तद्देशानन्तरादृष्टेरिति हेतुरन्तर्णीतः, तं च गौरयमिति सामानाधिकरण्यप्रतीतिभ्रमाद्यो नामासिद्धं मन्यते, स एवं प्रतिबोध्यते यदि शब्दार्थयोर्{३,२२४}उपश्लेषलक्षणस्सम्बन्धो भवेत्, अर्थोऽपि शब्ददेश एव स्यात्, मुखं च तस्य देश इति क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, न च ते स्तः, तस्मान्मोदकाद्यर्थक्रियानुपलम्भाच्छब्ददेशे तद्देशानन्तरादृष्टेरिति सिद्धो हेतुः । सामानाधिकरण्यबुद्धिस्तु शब्दार्थयोर्नास्त्येव । न हि नीलिम्नेवानुरक्तमुत्पलं शब्दानुरक्तमर्थमुपलभामहे । गादिसास्नादिमद्रूपा हि तयोर्बुद्धिरुदेति । अत्र सिद्धान्तभाष्यं योऽत्र व्यपदेश्यस्सम्बन्धः तदेतन् (तमेकं) न व्यपदिशति भवानित्यादि । तस्याभिप्रायमाह अथेति हीनतान्तेन । अत्रायमभिप्रायः प्रत्याय्यप्रत्यायकशक्तिरूपो हि नश्शब्दार्थयोस्सम्बन्धोऽभिप्रेतः, तद्यदि संश्लेषलक्षणसम्बन्धाभावस्साध्यते, तदा सिद्धसाध्यतादोषः । सम्बन्धाभावमात्रे तु यौनादिसम्बन्धैरनैकान्तिकत्वम् । हिमवद्विन्ध्ययोरपि चैकभूम्यादिसम्बन्धात्साध्यहीनो दृष्टान्त इति ॥ ८ १० ॥ यदि तु वाच्यवाचकसम्बन्धमेवाभिप्रेत्य न शब्दोऽर्थेन सङ्गत इति साध्यते ततो लौकिकविरोध इत्याह वाच्येति । दूषणान्तरमाह विरोध इति । अत्र कारणमाह न हीति परान्तेन । अयमभिप्रायः चतुर्विधो हि पुरुषः, प्रतिपन्नोऽप्रतिपन्नस्सन्दिग्धो विपर्यस्तश्चेति । तत्र प्रतिपन्नः प्रतिपादयिता, इतरे सापेक्षाः प्रतिपाद्याः, तत्प्रतिपादनार्था च प्रतिज्ञा, तद्य एव तेषामन्यतमः परः प्रतिपादयितुमभिप्रेतो भवति स एव वाच्यवाचकसम्बन्धवर्जितैः प्रतिज्ञार्थगोचरैः पदैः प्रतिपादयितुमशक्यः, अतः प्रतिज्ञां प्रयुञ्जानैराश्रितश्शब्दार्थयोर्वाच्यवाचकलक्षणसम्बन्ध इति तन्निराकरणे स्ववाग्विरोध इति । स चायमभिधया स्ववाग्विरोधः । पञ्चधा हि तद्विरोधः । उच्चारणाभिधाधर्मधर्म्युभयोक्तिभिरिति ॥ ११ ॥ {३,२२५} वाच्यवाचकसम्बन्धस्वरूपमिदानीमभिद्योतयति अभिधानेति । अस्यार्थः एकस्यामभिधानक्रियायां शब्दः करणं कर्ता वा, विवक्षातः कारकप्रवृत्तेः । अर्थस्तु कर्मैव । अतो (?य अ)नयोः कर्मकरणत्वं (कर्म)कर्तृत्वं वा । निरूपितः सम्बन्ध इति वक्ष्यमाणेन सम्बन्ध इति । यद्वा एकस्यां गवाद्यर्थप्रतिपत्तौ साध्यमानायामेकेन वक्त्रोपादीयमानावरुणैकहायनीवद्विवक्षितसाहित्यौ शब्दार्थौ यन्नियम्येते सोऽनयोः सम्बन्ध इत्याह प्रतिपत्ताविति । उपादानादित्युपादीयमानतया विशेषणविवक्षां दर्शयति । उपादेयस्य हि विशेषणं विवक्षितं भवति पशोरिवैकत्वं पशुना यजेतेति । उद्देश्यविशेषणं त्वविवक्षितं भवति, यथा ग्रहविशेषणमेकत्वम्, उद्देश्या हि ग्रहाः, तेषु सम्मार्जनविधानात् । इह चार्थप्रतिपत्तावेकस्यामुपादेयौ शब्दार्थौ, पशुरिव यागे । अतो विवक्षितमनयोः साहित्यं विशेषणमित्यरुणैकहायन्योरिवानयोर्नियमः सम्बन्ध इति । (?न त्व् न् वे)वमरुणैकहायन्योः श्रूयमाणयोः साहित्यविवक्षा युक्ता । समुदाये हि तत्र वाक्यं समाप्यते । (शब्दार्थौ तु) नैव प्रतीतिक्रिया(यां विशेष)णतया श्रुतौ, कथमनयोः साहित्यविवक्षा । न श्रूयमाणता विशेषणविवक्षाहेतुः । अपि तु अर्थसंव्यवहारोऽपि हि । पाकादौ यदौदनादिस्थाल्यादि । । । (क्रिया)व्यवहारदर्शनातनभिहितमप्यर्थं जानाति तदा स्थाल्यादीनां विवक्षितं साहित्यं मन्यते, तथा मन्वानः स्वयमपि पक्तुकामस्तत्सर्वमाहरति । एवमिहापि बालः प्रयोज्यवृद्धस्य विशिष्टार्थव्यवहारदर्शनेन तद्विषयां बुद्धिमनुमाय शब्दानन्तरभावितया शब्दकारणतां तावदवधारयति । वक्तुश्चास्यां प्रयोज्यवृद्धप्रतिपत्तौ दर्शनपारार्थ्यात्प्रधानभूताया(मुपा)दीयमानयोः शब्दार्थयोः साहित्यं विवक्षितमिति । एवं च विदित्वा स्वयमपि परार्थप्रयोगे सहितौ शब्दार्थौ हृदयमावेशितावुपादाय शब्दं चोच्चार्य परप्रतिपत्तिं भावयतीति सूक्तं साहित्यविवक्षा वर्णसाहित्यविवक्षावदिति ॥ १२ १३ ॥ {३,२२६} नन्वेवं वदता शब्दार्थयोः क्रियासम्बन्ध एव दर्शितः, न परस्परसम्बन्धः । तथा हि यत्तावदुक्तमभिधानक्रियायां हि इति, अनेनाभिधानक्रियासम्बन्ध एव कर्मकरणादिरूपेणोभयोरुपवर्णितः, न परस्परसम्बन्धः । प्रतिपत्तावुपादानादित्यपि प्रतिपाद्यप्रतिपादकतया प्रतिपत्तिक्रियासम्बन्धमात्र एव दर्शितः, न परस्परम्, गुणप्रधानभावमन्तरेण सम्बन्धायोगात् । वक्ष्यति हि गुणानां च परार्थत्वादसम्बन्धः समत्वातिति । स्यादेतत् । क्रियाकारकसम्बन्धपूर्वकत्वात्सर्वसम्बन्धानां क्रियाकारकसम्बन्ध एव दर्शित इति । अस्तु तावत्, तदुत्तरकालभावी तु कोऽनयोः सम्बन्ध इति वाच्यमेव । तदेतत्सर्वमनुभाष्य परिहरति तत्रेति तयोरन्तेन । अस्यार्थः यद्यपि कारकाणां प्रधानार्थत्वान्न परस्परसम्बन्धः, तथापि प्रतिपत्त्यभिधानयोर्या काचित्क्रिया गृह्यते, तस्यां च क्रियाकारकसम्बन्धोत्तरकालभावी परस्परोपकार्योपकारकलक्षणः शब्दार्थयोरस्ति सम्बन्धः ॥ तत्पुनरिदं पूर्वापरविरुद्धं प्रदेशान्तरविरुद्धं च । तथा हि अत्र तावदेकस्यां क्रियायामुपकार्योपकारकत्वं शब्दार्थयोः सम्बन्ध इत्युक्तम्, प्रतिपत्तावुपादानातिति क्रियानुमानाङ्गत्वमेव परस्परनियमात्मको दर्शितः सम्बन्धः । अभिधानक्रियायां हि इति च कर्मत्वकरणत्वे सम्बन्ध इत्युक्तम् । प्रदेशान्तरे शक्तिरेव सम्बन्ध इति वक्ष्यति । क्वचिच्च शब्दशक्तिनियममेव सम्बन्धमाह वाच्यवाचकशक्त्योश्च नियमः फललक्षणः । इति ब्रुवानः । अन्यत्राप्युक्तम् {३,२२७} एकाभिधानिमित्तत्वं कर्मकर्तृत्वयोश्च यत् । यो वा करणकर्मत्वनियमोऽभिधयैकया ॥ स नोऽर्थशब्दसम्बन्धः इति । अतो विवेचनीयमिदम् कोऽत्र सम्बन्धः शब्दार्थयोर्वार्त्तिककारस्याभिमत इति । अत्रोच्यते यथैकेन क्रयकर्मणा परिगृहीतयोर्द्रव्यगुणयोरितरेतराकांक्षापरिपूरणेन परस्परोपकार्योपकारकलक्षणः सम्बन्धः । न ह्यनाश्रितः क्रयक्रियामभिनिर्वर्तयति । न द्रव्यं गुणविशेषानवच्छिन्नमुत्सहते क्रयक्रियां निर्वर्तयितुम् । न च गुणेन स्वमहिम्ना आश्रयभूतद्रव्यमात्रमुपादीयमानमपि क्रये गृह्यते, (स्वकीयगो) द्रव्यावरोधात् । द्रव्ये(गुणमात्रा)वच्छेदात्तद्गुणमात्रमुपादीयमानमपि क्रयक्रिया न प्रतीच्छति स्वकीयारुणिमगुणावरोधात् । सोऽयमर्थो नियमः सम्पद्यते । तदेवमिहाप्येकार्थप्रतिपत्त्यभिधानक्रियासिद्ध्यर्थमुपादीयमानयोर्विवक्षितसाहित्ययोः शब्दार्थयोः क्रियाकारकसम्बन्धोत्तरकालभावी यो यमुपकार्योपकारकभावः, स एव सम्बन्धः । कः पुनरनयोः परस्परोपकारः । श्रूयताम् अर्थो हि न प्रतिपादकमन्तरेण प्रतिपाद्यो भवति, शब्दो न प्रतिपाद्यमन्तरेण प्रतिपादकः । अतः प्रतिपाद्यप्रतिपादकतयावतिष्ठमानावन्योन्यस्योपकार्योपकारकौ भवतः । तच्चेदं रूपमनयोर्नियतमित्यत्यन्तसन्निकर्षमात्रेण नियमे सम्बन्धाभिधानम्, न तु नियम एव सम्बन्धः । शक्तिसम्बन्धवादोऽपि चात एव । वाच्यवाचकशक्त्योरेव हि सत्योरुपकार्योपकारकभावो भवति । न तु शक्तिरेव सम्बन्धः । तदत्र प्रत्यासत्तेरभेदोपचारेण शक्तिः सम्बन्धः, नियमः सम्बन्धः, कर्तृत्वं करणत्वं वा सम्बन्ध इत्येवमादयः समुल्लापाः । वस्तुतस्तूपकार्योपकारकत्वमेव सम्बन्धः ॥ कथं पुनस्तद्रूपमनयोर्नियतमित्युच्यते । न ह्यनुच्चरिते शब्दे परस्परोपकार्योपकारकभावः शब्दार्थयोरस्ति । न च तदानीं तौ न स्तः, नित्यत्वात् । तस्मादसदेतत् । तन्न । शक्त्यात्मना विद्यमानत्वात्{३,२२८} अनुच्चरितेऽपि हि शब्देऽस्ति प्रतिपादकशक्तिः, अर्थे च प्रतिपाद्यशक्तिः, अत एव सम्बन्धो नित्य इत्युच्यते । नन्वेवमपि करहस्तादिभिरनेकैः शब्दैरेकत्रार्थे प्रतिपाद्ये अनेकार्थवचने चैकस्मिन् गवादिशब्दे कथमव्यभिचारः शक्यतेऽवगन्तुम् । अतः प्रकरणादीनामपि पदार्थावधारणापोयत्वाद्वृद्धव्यवहारे हि बालेन केवलपदाप्रयोगादावापोद्धारभेदेनैतदवधारितम् यदा यदर्थविवक्षया शब्दः प्रयुज्यते स तस्यार्थ इति । विवक्षा चार्थप्रकरणादिवशोन्नेया । गामानय दोग्धुमित्युक्ते अर्थादेतदवगम्यते सास्नादिमत्यस्य विवक्षेति । योत्स्यामीत्युक्ते अर्थादि(?मु)षौ प्रतीतिरुदेति । तदेवमर्थप्रकरणादिभेदभिन्नमन्ययान्यया च शक्त्योपहितमन्यदन्यच्च पदमन्यस्यान्यस्य वाचकमिति न पदव्यभिचारः । अर्थोऽपि चोद्भूततत्पदाभिधानयोग्यावस्थाभेदभिन्नो हस्तादिरन्योन्यश्च करादिपदानां वाच्य इति न पदं व्यभिचरति । अपि चैकस्यां क्रियायामयं नियम इत्युक्तः । न चैकस्यां प्रतिपत्तावभिधाने वोपादीयमानयोः शब्दार्थयोरन्योन्यव्यभिचारोऽस्ति । तदिदमुक्तं हि नियम्येते यदेकस्यामिति ॥ १४ १५ ॥ नन्वेवमेकक्रियानिमित्तको नियमः शब्दार्थयोः सम्बन्ध इत्युच्यमानेऽनुमानाङ्गमविनाभाव एवाश्रितो भवेत्, अतस्तद्बलेन धूमादिवाग्निज्ञानं शब्दादर्थज्ञानमुपजायमानमनुमानं स्यादत आह न चापीति । इदं च शाब्दे प्रसाधितमित्याह साधितमिति । ननु यद्यविनाभावो नोपयुज्यते, कस्तर्ह्युपयुज्यते । उक्तं भाष्यकारेण संज्ञासंज्ञिसम्बन्धः इति । ननु चायमपि सम्बन्धोऽनुपयोग्येव । तदेतदाशङ्कते संज्ञेति । तदङ्गं गमकत्वाङ्गमित्यर्थः ॥ १६ ॥ कथमनङ्गमत आह गमयन्तीति । व्यवहारदर्शनेन{३,२२९}गमयन्ती एषा संज्ञा कल्प्यत इति । किमतो यद्येवमत आह न चैषेति । एतदुक्तं भवति । गमकत्वमेव संज्ञात्वं न तत्सम्बन्धान्तरमन्तरेणेति ॥ १७ ॥ यतश्चैवमतो धूमादेरिव गमकत्वं सम्बन्धान्तरपूर्वकमेव पश्चादापतितमित्याह तस्मादिति । तत्तुल्यत्वे दोषमाह सानङ्गमिति । यथैवाविनाभाव एव धूमादौ प्रतीत्यङ्गं न तदुत्तरकालभावि गमकत्वम्, एवं तत्रापि स्यादिति । धूमादिवैषम्येणेदानीं परिहारमाह नेयमिति ॥ १८ ॥ वैषम्यमेव दर्शयति निरूपित इति । तत्र हि धूमादौ महानसादिदेशेऽग्न्यविनाभावनिरूपणोत्तरकालं तत्कृतैवासौ गमकतेति । अपि च धूमे प्रथमं गमकत्वं नावगम्यत इत्याह गमकत्वेनेति ॥ १९ ॥ शब्दे तु विपरीतमित्याह इहेति सार्धेन ॥ २० ॥ गमकत्वेनैव शब्दे प्रथमं व्युत्पत्तिरित्युक्तं तद्विवृणोति कथयन्तीति त्रयेण । अयमर्थः त्रेधा हि शब्दे व्युत्पत्तिः, वृद्दोपदेशात्तद्व्यवहारात्पदान्तरसमभिव्याहाराद्वा । सर्वत्र चात्र गमकतैवादाववगम्यते । तथा हि वृद्धोपदेशे तावदयमस्य वाच्यः अयमस्य वाचक{३,२३०}इति गम्यगमकभाव एवावगम्यते । यत्रापि क्वचिदुच्चरिताद्वाक्यात्प्रयोज्यवृद्धस्यार्थविषयां क्रियां दृष्ट्वा चेष्टानुमानेन गवाद्यर्थबोद्धृत्वमुपकल्प्यते तत्रापि यस्मादतश्शब्दादनेनायमर्थो वगतः, तस्मादयमस्यार्थ इति गमकतैव शब्दस्यादाववगम्यते । प्रसिद्धपदान्तरसमभिव्याहारेऽपि इह सहकारतरौ मधुरं पिको रौतीत्येवमादौ विदितसहकाराद्यर्थोऽविदितपिकाद्यर्थश्च योऽयं सहकारतरौ रौति तस्य पिकशब्दो गमक इति गमकत्वमेवावगच्छतीति सिद्धं सर्वत्र गमकत्वं न व्युत्पत्तिरिति ॥ २१ २३ ॥ नन्वाकृतिः शब्दार्थ इति वस्सिद्धान्तः । न च तद्वाच्यत्वमन्वयव्यतिरेकावन्तरेण शक्यतेऽवगन्तुम् । अतस्तत्प्रधानैव शब्दप्रतीतिरापद्येत । अत आह इत्थमिति । अयमर्थः अन्वयव्यतिरेकयोरत्र निष्कृष्टार्थनियममात्रे व्यापारः, वाचकता तु नानाजात्यादिसङ्कीर्णार्थविषया सिद्धैवेति ॥ २४ ॥ नन्वागोपालं शब्दार्थव्यवहारो दृश्यते । न च तेऽन्वयव्यतिरेकाभ्यामर्थनिष्कर्षं कुर्वन्ति । न च तान् प्रत्यवाचकाश्शब्दा इति युक्तं वक्तुम् । तुल्यवत्प्रतीतेः । पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य{३,२३१} वक्ष्यमाणत्वादत आह बहुजातीति सार्धेन । अयमभिप्रायः लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनः, न च तेषां व्यवहारः शब्दोच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति ॥ २५ २६ ॥ तेन तर्हि किमर्थं विविञ्चते अत आह बलाबलादीति । शास्त्रस्था ह्यनिरूपितशक्तयो न शास्त्रार्थमनुष्ठातुं शक्नुवन्तीति तेषां हानोपादानोपयोगी शब्दशक्तिविवेक इति ते विविञ्चत इति ॥ २६ ॥ एतदेव प्रपञ्चयति कक्ष्यान्तरितेति द्वयेन । अस्यार्थः द्विविधं सामान्यं परमपरं च । परं सत्ताख्यम्, अपराणि द्रव्यत्वादीनि । तानि सामान्यान्यपि सन्ति । व्यावृत्तिबुद्धेरपि हेतुत्वात्विशेषसज्ञामपि लभन्त इति, तानि सामान्यविशेषशब्देनापदिशन्ति, तत्र च सामान्यविशेषाः सामान्यशब्दस्य स्वार्थेन कक्ष्ययान्तरिता भवन्ति । यथा सच्छब्दस्य सत्तामाचक्षाणस्य तदन्तरिता द्रव्यत्वादयः सामान्यविशेषाः, तेषु चासौ लक्षणाबलेन प्रवर्तमानो दुर्बलो जायते । स्वार्थे तु श्रुत्या वर्तते इति स तत्र बलवान् । का पुनरियं लक्षणा नाम अभिधेयाविनाभावेन प्रतीतिः । यथोक्तम् अभिधेयाविनाभावप्रतीतिर्लक्षणेष्यते । इति । क्रिया कियद्वाभिधेयाविनाभावेन लक्ष्यते कियत्स्वमहिम्ना शब्देनोच्यत इति शास्त्रस्थानामनुष्ठानविशेषार्थं विवेको युक्तः । सा?एच?लक्षणा प्रायेण नित्यसम्बन्धाद्भवतीति नित्यसम्बन्धादित्युक्तम् । सम्बन्धमात्रमेव तु लक्षणाया बीजम् । आह कः पुनरनुष्ठाने श्रौतलाक्षणिकविवेकस्योपयोगः । श्रूयताम् लोके तावद्{३,२३२}ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ब्राह्मणसामान्यस्था ब्राह्मणश्रुतिर्लक्षणया तद्विशेषं कौण्डिन्यमवतरन्ती दुर्बला भवति इत्यव्यवहितविशेषस्थया कौण्डिन्यश्रुत्या बाध्यते । वेदेऽप्येवमेव । यजुस्सामान्यस्था उपांशु यजुषा इति श्रुतिस्तद्विशेषस्थया उच्चैर्निगदेन इति श्रुत्या बाध्यत इत्येवमादि दर्शयितव्यमिति । सामान्यशब्देनात्र विशेषान् विशिंषन्न सामान्यातिरिक्ताः केचन विशेषा विद्यन्त इति दर्शयति । अस्ति हि केषाञ्चिद्दर्शनं नित्या द्रव्यवृत्तयोऽन्त्या विशेषाः । ते च व्यावृत्तिबुद्धेरेव हेतुत्वाद्विशेषा एवेति । परमाणुकारणकं हि काणादा द्व्यणुकादिक्रमेण जगतो निर्माणमातिष्ठन्ते । न चाणुत्वेन परस्परमनतिशयानैरणुभिरसङ्कीर्णाकारजगदुत्पादयितुं शक्यते । अतः सन्ति केचनाणुसमवायिनो वेशेषा नाम ये तानितरेतरतो व्यावर्तयन्तीति सङ्गिरन्ते । ते च निर्धूतनिखिलकालुष्यैरपरोक्षमीक्षन्त एवेति । तान् प्रत्युच्यते । न तावदक्षाधीनेषु भावेष्ववान्तरसामान्यातिरिक्तान् विशेषानीक्षामहे । द्रव्यत्वेन हि पृथिव्यादयो गुणकर्मभ्यो विशिष्यन्ते (?द्रव्य्पृथिवी)त्वेन पृथिवी अबादिभ्यो द्रव्यान्तरेभ्यः, वृक्षत्वेन वृक्षाः पार्थिवान्तरेभ्यः, शिंशपात्वेन शिंशपा वृक्षान्तरेभ्य इत्येवमणून् यावदियं विशेषकथा वर्तयितव्या । किमत्र विशेषान्तरेण । अणुषु त्वेकजातीयेष्वपि कार्यविभागाद्रूपमेव विभक्तमनुमास्यामहे । नो खल्वविभक्ताकारं पूर्ववस्तु विभक्ताकारकार्यघटनायोत्सहत इति । पृथक्त्वाख्यो वा गुणस्तेषामन्योन्यस्य विशेषकत्वाद्विशेषो भविष्यति । स एवानपेक्षितविशेषान्तरो न सिध्यतीति चेति । विशेषा वा कथमनपेक्षितविशेषान्तराः सेत्स्यन्ति । अपेक्षणे वा तदानन्त्यम्, अतो मन्द एवायं विशेषान्तराभ्युपगमः । योगिनस्तु तान् पश्यन्तीति श्रद्धधाना बुध्यन्ते वयमश्रद्धधानाः स्मः, ये युक्तिं प्रार्थयामह इति सूक्तं सामान्यविशेषेष्विति ॥ २७ २८ ॥ {३,२३३} अन्वयव्यतिरेकाभ्यां वाक्यज्ञास्तु विविञ्चते इत्युक्तम् । तावन्वयव्यतिरेकौ दर्शयति तत्रेति द्वयेन । तत्र सामान्ये गवादौ गोशब्दस्य बहुलं प्रयोगात्तद्विशेषेषु च शाबलेयादिषु असत्स्वपि बाहुलेयादिषु प्रयो(?गा।ग)दर्शनात्परसामान्ये च सत्तादौ सत्यपि भावान्तरेऽप्रयोगात्सास्नादिभिस्सहैकावयविरूपार्थसम्बन्धिगोत्वमात्रस्य गोशब्दो वाचकमित्यन्वयव्यतिरेकाभ्यां ज्ञानं जन्यते । सास्नाद्येकार्थसम्बन्धीति चाविनाभाविना चिह्नेन गोत्वमुपलक्षयतीति । अतस्सिद्धं गम्यगमकभाव एव शब्दार्थयोस्सम्बन्धः प्रथममवगम्यते न पुनरविनाभाव इति ॥ २९ ३० ॥ उपसंहरति तस्मादिति । ननु संज्ञासंज्ञिसम्बन्धो भाष्यकारेणोक्तः, न च गमकं संज्ञेति लौकिका मन्यन्ते, न ह्यग्नेर्धूमः संज्ञेत्युच्यते, अत आह अभिधायकतेति । अयमभिप्रायः अस्यार्थस्यायं गमक इति ज्ञाते नाव्याप्रियमाणस्यावगतौ कारणत्वमुपपद्यत इति तद्व्यापारोऽवसीयते, शब्दव्यापारश्चाभिधेत्युच्यते । अतोऽत्राभिधानक्रियासम्बन्धाद्गमकत्वस्यैव विशेषोऽभिधायकता शब्दे ज्ञायते । अभिधायकतैव संज्ञात्वमित्युपपन्नस्संज्ञासंज्ञिसम्बन्ध इति । अविनाभाविता तु सम्बन्धनियमः, न सम्बन्ध इत्याह सम्बन्धेति । इदं च निष्कृष्टेऽर्थे नियम्यते इत्यत्रोक्तम् अस्माभिः । तस्मादिति पदानुषङ्गेणोपसंहृतमिति{३,२३४}वेदितव्यम् । अन्वयव्यतिरेकाविनाभावशब्दौ पर्यायाविति नार्थभेदश्शङ्कितव्य इति ॥ ३१ ३२ ॥ यदि प्रत्यायकः इति भाष्यकारेण प्रयोगोऽन्तर्णीतः, तमाह सम्बन्धेति । देवदत्तादयो हि यदृच्छाशब्दा यत्रैव सङ्केत्यन्ते तमेव प्रतिपादयन्ति । न चैषां क्वचिदपि स्वाभाविकी शक्तिः । तदयं प्रयोगार्थः गवादिशब्दो धर्मी, नाभिधाशक्त इति साध्यम्, उपायान्तरापेक्षत्वादिति हेतुः । यदुपायान्तरापेक्षं तन्न स्वरूपतश्शक्तम्, देवदत्तादिपदमिव सङ्केतग्रहणापेक्षमिति ॥ ३३ ॥ अत्र भाष्यकारेण यदि प्रत्यायकश्शब्दः प्रथमश्रुतः किं न प्रत्यायति इति परिचोद्य सर्वत्र नो दर्शनं प्रमाणमित्यादिना दर्शनबलेन गृहीतशक्तिकः प्रत्याययतीति परिहार उक्तः, तद्दर्शयति यथैवेति । अस्यार्थः गमकत्वमेव तावत्शब्दस्य किमभ्युपगम्यते, व्यवहारदर्शनबलेनेति चेत्, समानमिदं शक्तिसंवेदनेऽपि । न ह्यविदितशक्तयश्शब्दादर्थमवयन्तो दृश्यन्त इति ॥ ३४ ॥ स्यादेतत् प्रकाशकाः प्रदीपादयोऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शद्बः, अतो न प्रकाशक इति । तच्च नैवम्, शक्तिवैलक्षण्यात् । विचित्रशक्तयोऽपि हि भावाः । तत्प्रदीपः प्रत्यक्षपरिकरतयागृहीतसम्बन्धोऽपि प्रकाशयतु नाम । नैतावता शब्देनापि तद्धर्मेण भवितव्यम् । अतोऽयमपर्यनुयोगः । अपि च व्रीह्यादयोऽगृहीतस्वरूपा अपि कार्यमारभन्त एवेति शब्दे तद्धर्मः किं नारोप्यते । कारकहेतवो हि व्रीह्यादयः, शब्दस्तु ज्ञापकहेतुः । अतोऽपेक्षते स्वरूपग्रहणमिति चेत् । केन वेदमाज्ञापितं ज्ञापकेन स्वरूपग्रहणमपेक्षितव्यं न सम्बन्धग्रहणमिति, दर्शनबलेनेति चेति, समानमिदं सम्बन्धग्रहणापेक्षायाम्{३,२३५}अपि, दर्शनबलादेव हि लिङ्गशब्दादयो ज्ञापकविशेषास्सम्बन्धग्रहणमपेक्षन्ते । न चक्षुरादयः । सर्वत्र हि नो दर्शनं प्रमाणम् । कारकाश्चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तदेतदाह स्वरूपेति ॥ ३५ ॥ ननु च सम्बन्धग्रहणात्प्रागप्यभिधाने शब्दश्शक्तो न वा । यदि शक्तः, किं सम्बन्धग्रहणापेक्षया । न चेत्सम्बन्धग्रहणमेत हि तदागमन्यायेन कारणमापद्येत, अत आह यत्साधकतमेति । न तावत्सम्बन्धग्रहणात्पूर्वमशक्तमेव शब्दमवगच्छामः । न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(?रती।न्ती)ति ॥ ३६ ॥ किं पुनर्न विहन्त्यत आह न हीति । यदि ह्यनुग्राहकापेक्षा स्वशाक्तिं विहन्यात्सर्वमेव लौकिकं वैदिकं करणं करणतां जह्यात । अपेक्षते हि सर्वमेव करणमितिकर्तव्यताजनितमनुग्रहमिति ॥ ३७ ॥ किञ्च अस्तु तावदितिकर्तव्यतापेक्षा करणभावं न विहन्तीति, प्रत्युत तयापि नैव करणत्वं नास्ति, प्रतिकरणस्वरूपं तदपेक्षानियमादित्याह प्रत्यात्मेति । नन्वेवमुभयसमवधानमेवान्तरेण कार्यानिष्पत्तेः कथं करणेतिकर्तव्यताविभागो दर्शयितव्यः, अत आह बाह्यान्तरेति नान्तेन । यत्कार्यसिद्धौ सन्निहितं तत्करणमितरद्बाह्यमितिकर्तव्यतेति, बाह्यमपि क्वचिद्विवक्षातः कारकप्रवृत्तेः करणतया विवक्ष्यत इत्याह क्वचित्स्याद्वेति ॥ ३८ ॥ {३,२३६} एतदेव दर्शयति उद्विग्न इति । ज्ञानोत्पत्तावन्तरङ्गमपि चक्षुर्न करणतया मन्यते, किन् तु कुतश्चित्तारतम्यविशेषाद्बाह्यमेव प्रदीपं करणतया विवक्षतीति ॥ ३९ ॥ स चायं विवक्षानिबन्धः करणभावः कादाचित्कः । नित्यवृत्तौ नित्यं तु कार्यसिद्धौ आन्तरस्य चक्षुषः करणत्वमवगम्यत इत्याह नित्यवृत्ताविति । अन्धानां दृष्टिर्दर्शनं नास्तीत्यर्थः ॥ ४० ॥ नन्वस्तु विज्ञानकार्यासत्तिविशेषणात्प्रदीपाद्यपेक्षया चक्षुषः करणभावः, आत्ममनस्संयोगस्तु ज्ञानोत्पत्तावत्यन्तमासन्नः, अतः कथं तदपेक्षया चक्षुषः करणत्वं भविष्यतीत्यत आह शरीरेति । अयमभिप्रायः नासत्तिविशेष एव करणत्वे कारणम्, अपि तर्हि बाह्यप्रदीपाद्यपेक्षयासत्तिः, आभ्यन्तरात्ममनस्संयोगापेक्षया त्वसाधारण्यम्, आत्ममनस्संयोगो हि रसादिज्ञानसाधारणो नाव्यभिचारितया रूपदर्शनकारणमिति शक्यतेऽवगन्तुम् । चक्षुषः पुनरसाधरणतयैव रूपज्ञाने कारणत्वम् इति चक्षूरूपादिभेदस्तु इत्यत्रोक्तमिति ॥ ४१ ॥ तदेवं दृष्टान्ते विवक्षासन्निकर्षविशेषकृतकरणेतिकर्तव्यताविभागं दर्शयित्वा प्रकृते योजयति तथैवेति । अनेन यत्तदागमन्यायेन सम्बन्धग्रहणमेव कारणमापद्येतेत्युक्तं तदपि विवक्षाविशेषवशेनास्त्विति दर्शितमिति ॥ ४२ ॥ अपरमपि यथा चक्षुर्द्रष्टृ न बाह्येन प्रकाशेन विना इत्यादि परिहारभाष्यं, तस्याभिप्रायमाह यथेति । चक्षुर्हि प्रदीपाद्युपायान्तरापेक्षम्{३,२३७}अपि रूपप्रकाशने स्वभावतश्शक्तमित्यनैकान्तिको हेतुः । दृष्टान्तोऽपि साध्यविकल इत्याह देवदत्तेति ॥ ४३ ॥ यदृच्छाशब्दानामपि ज्ञानसामर्थ्यं विद्यमानमेव नियोगेनाभिव्यज्यत इत्यध्यासवादे वर्णितम् । अत्र च यथा चक्षुरिति भाष्ये चक्षुषः करणभावो दर्शितः । कथं पुनस्तुल्येऽपि चक्षुःप्रदीपयोर्ज्ञानकारणत्वे चक्षुषः करणत्वमित्यत्रोपपत्तिमाह प्रकाश इति । इदं च नित्यवृत्तौ इत्यत्रोक्तमप्यधुना भाष्यसमर्थनार्थमुक्तमित्यपौनरुक्त्यमिति ॥ ४४ ॥ तदेवमुपपादितस्संज्ञासंज्ञिसम्बन्धः कृतकत्वेन भाष्यकृताक्षिप्तः यदि प्रथमश्रुतो न प्रत्याययति कृतकस्तर्हि इति, तदेतद्वार्तिककारो दर्शयति पुरुषेति । एवं चात्र प्रयोगः यः संज्ञासंज्ञिसम्बन्धः स कृतकः, पुरुषापेक्षत्वात्, रज्जुघटसंयोगवदिति ॥ ४५ ॥ अपरमपि[७३१]स्वाभावतो ह्यसम्बन्धावेतौ शब्दार्थौ इत्यादि भाष्यं, तस्याभिप्रायमाह भिन्नेति । अयमर्थः यथा रज्जुसर्पादिषु भिन्नदेशकालाधिष्ठानेषु किञ्चिद्देशादि समं नास्ति, एवं तयोश्शब्दार्थयोः । अतस्तद्वदेव तावपि स्वभावतोऽसम्बन्धाविति । ईदृशी चात्र प्रयोगरचनाशब्दार्थौ स्वभावतोऽसङ्गतौ, असमदेशकालत्वात्, रज्ज्वादिवत् । तावेव न समदेशकालौ, भिन्नदेशाद्यधिष्ठानोपलम्भात्, तद्वदेवेति ॥ ४६ ॥ __________टिप्पणी__________ [७३१] स्वरूपतोऽसम्बन्धावपि तावर्थ अब्दौ इति काशिकामातृकायां पाठः । ___________________________ इत्युपाध्यायसुचरितमिश्रकृतौ संबन्धाक्षेपस्समाप्तः ॥