अथातो धर्मजिज्ञासा । १,१.१ । चोदनालक्षणोऽर्थो धर्मः । १,१.२ । तस्य निमित्तपरीष्टिः । १,१.३ । सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् । १,१.४ । औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धस्तस्य ज्ञानमुपदेशोऽव्यतिरेकश्चार्थेऽनुपलब्धे तत्प्रमाणं बादरायणस्यानपेक्षत्वात् । १,१.५ । कर्मैके तत्र दर्शनात् । १,१.६ । अस्थानात् । १,१.७ । करोति शब्दात् । १,१.८ । सत्त्वान्तरे च यौगपद्यात् । १,१.९ । प्रकृति विकृत्योश्च । १,१.१० । वृद्धिश्च कर्तृभूम्नास्य । १,१.११ । समं तु तत्र दर्शनम् । १,१.१२ । सतः परमदर्शनं विषयानागमात् । १,१.१३ । प्रयोगस्य परम् । १,१.१४ । आदित्त्यवद्यौगपद्यम् । १,१.१५ । वर्णान्तरमविकारः । १,१.१६ । नादवृद्धिपरा । १,१.१७ । नित्यस्तु स्याद्दर्शनस्य परार्थत्वात् । १,१.१८ । सर्वत्र यौगपद्यात् । १,१.१९ । संख्याभावात् । १,१.२० । अनपेक्षत्वात् । १,१.२१ । प्रख्याभावाच्च योगस्य । १,१.२२ । लिङ्गदर्शनाच्च । १,१.२३ । उत्त्पत्तौ वावचनाः स्युरर्थस्यातन्निमित्तत्वात् । १,१.२४ । तद्भूतानां क्रियार्थेन सामाम्नायोऽर्थस्य तन्निमित्तत्त्वात् । १,१.२५ । लोके सन्नियमात्प्रयोगसन्निकर्षः स्यात् । १,१.२६ । वेदांश्चैके सन्निकर्षं पुरुषाख्याः । १,१.२७ । अनित्यदर्शनाच्च । १,१.२८ । उक्तं तु शब्दपूर्वत्वम् । १,१.२९ । आख्या प्रवचनात् । १,१.३० । परन्तु श्रुतिसामान्यमात्रम् । १,१.३१ । कृते वा विनियोगः स्यात्कर्मणः संबन्धात् । १,१.३२ । _______________ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते । १,२.१ । शास्त्रदृष्टाविरोधाच्च । १,२.२ । तथाफलाभावात् । १,२.३ । अन्यानर्थक्यात् । १,२.४ । अभागिप्रतिषेधाच्च । १,२.५ । अनित्यसंयोगात् । १,२.६ । विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः । १,२.७ । तुल्यं च साम्प्रदायिकम् । १,२.८ । आप्ता चानुपपत्तिः प्रयोगे हि विरोधः स्याच्छब्दार्थस्त्वप्रयोगभूतस्तस्मादुपपद्येत । १,२.९ । गुणवादस्तु । १,२.१० । रूपात्प्रायात् । १,२.११ । दूरभूयस्त्वात् । १,२.१२ । अपराधात्कर्तुश्च पुत्रदर्शनम् । १,२.१३ । आकालिकेप्सा । १,२.१४ । विद्याप्रशंसा । १,२.१५ । सर्वत्वमाधिकारिकम् । १,२.१६ । फलस्य कर्मनिष्पत्तेस्तेषां लोकवत्परिमाणतः फलविशेषः स्यात् । १,२.१७ । अन्त्ययोर्यथोक्तम् । १,२.१८ । विधिर्वा स्यादपूर्वत्वाद्वादमात्रम ह्यनर्थकम् । १,२.१९ । लोकवदिति चेत् । १,२.२० । न पूर्वत्वात् । १,२.२१ । उक्तं तु वाक्यशेषत्वम् । १,२.२२ । विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् । १,२.२३ । प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति । १,२.२४ । विधौ च वाक्यभेदः स्यात् । १,२.२५ । हेतुर्वा स्यादर्थवत्वोपपत्तिभ्याम् । १,२.२६ । स्थितिस्तु शब्दपूर्वत्वादचोदनाच तस्य । १,२.२७ । व्यर्थे स्तुतिरन्याय्येति चेत् । १,२.२८ । अर्थस्तु विधिशेषत्वाद्यथा लोके । १,२.२९ । यदि च हेतुरवतिष्ठेत निर्देशात्सामान्यादिति चेदवस्था विधीनां स्यात् । १,२.३० । तदर्थशास्त्रात् । १,२.३१ । वाक्यनियमात् । १,२.३२ । बुद्धिशास्त्रात् । १,२.३३ । अविद्यमानवचनात् । १,२.३४ । अचेतनेऽर्थबन्धनात् । १,२.३५ । अर्थविप्रतिषेधात् । १,२.३६ । स्वाध्यायवद्वचनात् । १,२.३७ । अविज्ञेयात् । १,२.३८ । अनित्यसंयोगान्मन्त्रार्थानर्थक्यम् । १,२.३९ । अविशिष्टस्तु वाक्यार्थः । १,२.४० । गुणार्थेन पुनः श्रुतिः । १,२.४१ । परिसंख्या । १,२.४२ । अर्थवादो वा । १,२.४३ । अविरुद्धं परम् । १,२.४४ । संप्रैषे कर्मगर्हानुपालम्भः संस्कारत्त्वात् । १,२.४५ । अभिधानेऽर्थवादः । १,२.४६ । गुणादप्रतिषेधः स्यात् । १,२.४७ । विद्यावचनमसंयोगात् । १,२.४८ । सतः परमविज्ञानम् । १,२.४९ । उक्तश्चानित्यसंयोगः । १,२.५० । लिङ्गोपदेशश्च तदर्थवत् । १,२.५१ । ऊहः । १,२.५२ । विधिशब्दाश्च । १,२.५३ । _______________ धर्मस्य शब्दमूलत्वादशब्दमनपेक्षं स्यात् । १,३.१ । अपि वा कर्तृसामान्यात्प्रमाणमनुमानं स्यात् । १,३.२ । विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम् । १,३.३ । हेतुदर्शनाच्च । १,३.४ । शिष्टाकोपेऽविरुद्धमिति चेत् । १,३.५ । न शास्त्रपरिमाणत्वात् । १,३.६ । अपि वा कारणग्रहणे प्रयुक्तानि प्रतीयेरन् । १,३.७ । तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । १,३.८ । शास्त्रस्था वा तन्निमित्तत्वात् । १,३.९ । चोदितं तु प्रतीयेताविरोधात्प्रमाणेन । १,३.१० । प्रयोगशास्त्रमिति चेत् । १,३.११ । नासन्नियमात् । १,३.१२ । अवाक्यशेषाच्च । १,३.१३ । सर्वत्र च प्रयोगात्सन्निधानशास्त्राच्च । १,३.१४ । अनुमानव्यवस्थानात्तत्संयुक्तं प्रमाणं स्यात् । १,३.१५ । अपि वा सर्व धर्मः स्यात्तन्न्यायत्वाद्विधानस्य । १,३.१६ । दर्शनाद्विनियोगः स्यात् । १,३.१७ । लिङ्गाभावाच्च नित्यस्य । १,३.१८ । आख्या हि देशसंयोगात् । १,३.१९ । न स्याद्देशान्तरेष्विति चेत् । १,३.२० । स्याद्योगाख्या हि माथुरवत् । १,३.२१ । कर्मधर्मो वा प्रवणवत् । १,३.२२ । तुल्यं तु कर्तृधर्मेण । १,३.२३ । प्रयोगोत्पत्यशास्त्रत्वाच्छब्देषु न व्यवस्था स्यात् । १,३.२४ । शब्दे प्रयत्ननिष्पत्तेरपराधस्य भागित्वम् । १,३.२५ । अन्यायश्चानेकशब्दत्त्वम् । १,३.२६ । तत्र तत्त्वमभियोगविशेषात्स्यात् । १,३.२७ । तदशक्तिश्चानुरूपत्वात् । १,३.२८ । एक देशत्वाच्च विभाक्तिव्यत्यये स्यात् । १,३.२९ । प्रयोगचोदनाभावादर्थैकत्वमविभागात् । १,३.३० । अद्रव्यशब्दत्वात् । १,३.३१ । अन्यदर्शनाच्च । १,३.३२ । आकृतिस्तु क्रियार्थत्वात् । १,३.३३ । न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् । १,३.३४ । तदर्थत्वात्प्रयोगस्याविभागः । १,३.३५ । _______________ उक्तं समाम्नायैदमर्थ्यं तस्मात्सर्वं तदर्थं स्यात् । १,४.१ । अपि वा नामधेयं स्याद्यदुत्पत्तावपूर्वमविधायकत्वात् । १,४.२ । यस्मिन् गुणोपदेशः प्रधानतोऽभिसम्बन्धः । १,४.३ । तत्प्रख्यञ्चान्यशास्त्रम् । १,४.४ । तद्व्यपदेशं च । १,४.५ । नामधेये गुणश्रुतेः स्याद्विधानमिति चेत् । १,४.६ । तुल्यत्वात्क्रिययोर्न । १,४.७ । ऐकशब्द्ये परार्थवत् । १,४.८ । तद्गुणास्तु विधायेरन्नविभागाद्विधानार्थे न चेदन्येन शिष्टाः । १,४.९ । बर्हिराज्ययोरसंस्कारे शब्दलाभादतच्छब्दः । १,४.१० । प्रोक्षणीष्वर्थसंयोगात् । १,४.११ । तथानिर्मन्थ्ये । १,४.१२ । वैश्वदेवे विकल्प इति चेत् । १,४.१३ । न वा प्रकरणात्प्रत्यक्षविधानाच्च न हि प्रकरणं द्रव्यस्य । १,४.१४ । मिथश्चानर्थसम्बन्धः । १,४.१५ । परार्थत्वाद्गुणानाम् । १,४.१६ । पूर्ववन्तोऽविधानार्थास्तत्सामर्थ्यं समाम्नाये । १,४.१७ । गुणस्य तु विधानार्थे तद्गुणाः प्रयोगे स्युरनर्थका न हि तं प्रत्यर्थवत्तास्ति । १,४.१८ । तच्छेषो नोपपद्यते । १,४.१९ । अविभागाद्विधानार्थे स्तुत्यर्थेनोपपद्येरन् । १,४.२० । कारणं स्यादिति चेत् । १,४.२१ । आनर्थक्यादकारणं कर्तुर्हि कारणानि गुणार्थो हि विधीयते । १,४.२२ । तत्सिद्धिः । १,४.२३ । जातिः । १,४.२४ । सारूप्यात् । १,४.२५ । प्रशंसा । १,४.२६ । भूमा । १,४.२७ । लिङ्गसमवायात् । १,४.२८ । सन्दिग्धेषु वाक्यशेषात् । १,४.२९ । अर्थाद्वा कल्पनैकदेशत्वात् । १,४.३० । ________________________________________________ भावार्थाः कर्मशब्दास्तेभ्यः क्रिया प्रतीयेतैष ह्यर्थो विधीयते । २,१.१ । सर्वेषां भावोऽर्थ इति चेत् । २,१.२ । येषामुत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस्तानि नामानि तस्मात्तेभ्यः पराकाङ्क्षा भूतत्वात्स्वे प्रयोगै । २,१.३ । येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि तस्मात्तेभ्यः प्रतीयेताश्रितत्वात्प्रयोगस्य । २,१.४ । चोदना पुनरारम्भः । २,१.५ । तानि द्वैधं गुणप्रधानभूतानि । २,१.६ । यैर्द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् । २,१.७ । यैस्तु द्रव्यं चिकीर्ष्यते गुणस्तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् । २,१.८ । धर्ममात्रे तु कर्म स्यादनिर्वृत्तेः प्रयाजवत् । २,१.९ । तुल्यश्रुतित्वाद्वेतरैः सधर्मः स्यात् । २,१.१० । द्रव्योपदेश इति चेत् । २,१.११ । न तदर्थत्वाल्लोकवत्तस्य च शेषभूतत्वात् । २,१.१२ । स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् । २,१.१३ । अर्थेन त्वपकृष्येत देवतानामचोदनार्थस्य गुणभूतत्वात् । २,१.१४ । वशावद्वा गुणार्थं स्यात् । २,१.१५ । न श्रुतिसमवायित्वात् । २,१.१६ । व्यपदेशभेदाच्च । २,१.१७ । गुणश्चानर्थकः स्यात् । २,१.१८ । तथा याज्यापुरोरुचोः । २,१.१९ । वशायामर्थसमवायात् । २,१.२० । यच्चेति वार्थवत्त्वात्स्यात् । २,१.२१ । न त्वाम्नातेषु । २,१.२२ । दृश्यते । २,१.२३ । अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् । २,१.२४ । शब्दपृथक्त्वाच्च । २,१.२५ । अनर्थकं च तद्वचनम् । २,१.२६ । अन्यश्चार्थः प्रतीयते । २,१.२७ । अभिधानं च कर्मवत् । २,१.२८ । फलनिर्वृत्तिश्च । २,१.२९ । विधिमन्त्रयोरैकार्थ्यमैकशब्द्यात् । २,१.३० । अपि वा प्रयोगसामर्थ्यान्मन्त्रोऽभिधानवाची स्यात् । २,१.३१ । तच्चोदकेषु मन्त्राख्या । २,१.३२ । शेषे ब्राह्मणशब्दः । २,१.३३ । अनाम्नातेष्वमन्त्रत्वमाम्नातेषु हि विभागः । २,१.३४ । तेषामृग्यत्रार्थवशेन पादव्यवस्था । २,१.३५ । गीतिषु स माख्या । २,१.३६ । शेषे यजुः शब्दाः । २,१.३७ । निगदो वा चतुर्थं स्याद्धर्मविशेषात् । २,१.३८ । व्यपदेशाच्च । २,१.३९ । यजूंषि वा तद्रूपत्वात् । २,१.४० । वचनाद्धर्मविशेषः । २,१.४१ । अर्थाच्च । २,१.४२ । गुणार्थो व्यपदेशः । २,१.४३ । सर्वेषामिति चेत् । २,१.४४ । न, ऋग्व्यपदेशात् । २,१.४५ । अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यात् । २,१.४६ । समेषु वाक्यभेदः स्यात् । २,१.४७ । अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् । २,१.४८ । व्यवायान्नानुषज्येत । २,१.४९ । _______________ शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् । २,२.१ । एकस्यैवं पुनः श्रुतिरविशेषादनर्थकं हि स्यात् । २,२.२ । प्रकरणं तु पौर्णमास्यां रूपावचनात् । २,२.३ । विशेषदर्शनाच्च सर्वेषां समेषु ह्यप्रवृत्तिः स्यात् । २,२.४ । गुणस्तु श्रुतिसंयोगात् । २,२.५ । चोदना वा गुणानां युगपच्छास्त्राच्चोदिते हि तदर्थत्वात्तस्यतस्योपदिश्येत । २,२.६ । व्यपदेशश्च तद्वत् । २,२.७ । लिङ्गदर्शनाच्च । २,२.८ । पौर्णमासीवदुपांशुयाजः स्यात् । २,२.९ । चोदना वाप्रकृतत्वात् । २,२.१० । गुणोपबन्धात् । २,२.११ । प्राये वचनाच्च । २,२.१२ । आघाराग्निहोत्रमरूपत्वात् । २,२.१३ । संज्ञोपबन्धात् । २,२.१४ । अप्रकृतत्वाच्च । २,२.१५ । चोदना वा शब्दार्थस्य प्रयोगभूतत्वात्तत्सन्निधेर्गुणार्थेन पुनः श्रुतिः । २,२.१६ । द्रव्यसंयोगाच्चोदना पशुसोमयोः प्रकरणे ह्यनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन । २,२.१७ । अचोदकाश्च संस्काराः । २,२.१८ । तद्भेदात्कर्मणोऽभ्यासो द्रव्यपृथक्त्वादनर्थकं हि स्याद्भेदो द्रव्यगुणीभावात् । २,२.१९ । संस्कारस्तु न भिद्येत परार्थत्वाद्द्रव्यस्य गुणभूतत्वात् । २,२.२० । पृथक्त्त्वनिवेशात्संख्यया कर्मभेदः स्यात् । २,२.२१ । संज्ञा चोत्पत्तिसंयोगात् । २,२.२२ । गुणाश्चापूर्वसंयोगे वाक्योः समत्त्वात् । २,२.२३ । अगुणे तु कर्मशब्दे गुणस्तत्र प्रतीयेत । २,२.२४ । फलश्रुतेस्तु कर्म स्यात्फलस्य कर्मयोगित्वात् । २,२.२५ । अतुल्यत्वात्तु वाक्ययोर्गुणे तस्य प्रतीयेत । २,२.२६ । समेषु कर्मयुक्तं स्यात् । २,२.२७ । सौभरे पुरुषश्रुतेर्निधनं कामसंयोगः । २,२.२८ । सर्वस्य वोक्तकामत्वात्तस्मिन् कामश्रुतिः स्यान्निधनार्था पुनः श्रुतिः । २,२.२९ । _______________ गुणस्तु क्रतुसंयोगात्कर्मान्तरं प्रयोजयेत्संयोगस्याशेषभूत्वात् । २,३.१ । एकस्य तु लिङ्गभेदात्प्रयोजनार्थमुच्येतैकत्वं गुणवाक्यत्वात् । २,३.२ । अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते । २,३.३ । आधाने सर्वशेषत्वात् । २,३.४ । अयनेषु चोदनान्तरं संज्ञोपबन्धात् । २,३.५ । अगुणाच्च कर्मचोदना । २,३.६ । समाप्तं च फले वाक्यम् । २,३.७ । विकारो वा प्रकरणात् । २,३.८ । लिङ्गदर्शनाच्च । २,३.९ । गुणात्संज्ञोपबन्धः । २,३.१० । समाप्तिरविशिष्टा । २,३.११ । संस्कारश्चाप्रकरणेऽकर्मशब्दत्वात् । २,३.१२ । यावदुक्तं वा कर्मणः श्रुतिमूलत्वात् । २,३.१३ । यजतिस्तु द्रव्यफलभोक्तृसंयोगादेतेषां कर्मसम्बन्धात् । २,३.१४ । लिङ्गदर्शनाच्च । २,३.१५ । विषये प्रायदर्शनात् । २,३.१६ । अर्थवादोपपत्तेश्च । २,३.१७ । संयुक्तस्त्वर्थशब्देन तदर्थः श्रुतिसंयोगात् । २,३.१८ । पात्नीवते तु पूर्वत्वादवच्छेदः । २,३.१९ । अद्रव्यत्वात्कवेले कर्मशेषः स्यात् । २,३.२० । अग्निस्तु लिङ्गदर्शनात्क्रतुशब्दः प्रतीयेत । २,३.२१ । द्रव्यं वा स्याच्चोदनायास्तदर्थत्वात् । २,३.२२ । तत्संयोगात्क्रतुस्तदाख्यः स्यात्तेन धर्मविधानानि । २,३.२३ । प्रकरणान्तरे प्रयोजनान्यत्वम् । २,३.२४ । फलं चाकर्मसंनिधौ । २,३.२५ । संनिधौ त्वविभागात्फलार्थेन पुनः श्रुतिः । २,३.२६ । आग्नेयसूक्तहेतुत्वादभ्यासेन प्रतीयेत । २,३.२७ । अविभागात्तु कर्मणां द्विरुक्तेर्न विधीयते । २,३.२८ । अन्यार्था वा पुनः श्रुतिः । २,३.२९ । _______________ यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् । २,४.१ । कर्तुर्वा श्रुतिसंयोगात् । २,४.२ । लिङ्गदर्शनाच्च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकमन्यत्स्यात् । २,४.३ । व्यपवर्गं च दर्शयति कालश्चेत्कर्मभेदः स्यात् । २,४.४ । अनित्यत्वात्तु नैवं स्यात् । २,४.५ । विरोधश्चापि पूर्ववत् । २,४.६ । कर्तुस्तु धर्मनियमात्कालशास्त्रं निमित्तं स्यात् । २,४.७ । नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच्छाखान्तरेषु कर्मभेदः स्यात् । २,४.८ । एकं वा संयोगरूपचोदनाख्याविशेषात् । २,४.९ । न नाम्ना स्यादचोदनाभिधानत्वात् । २,४.१० । सर्वेषां चैककर्म्यं स्यात् । २,४.११ । कृतकं चाभिधानम् । २,४.१२ । एकत्वेऽपि परम् । २,४.१३ । विद्यायां धर्मशास्त्रम् । २,४.१४ । अग्नेयवत्पुनर्वचनम् । २,४.१५ । अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् । २,४.१६ । अर्थासन्निधेश्च । २,४.१७ । न चैकं प्रतिशिष्यते । २,४.१८ । समाप्तिवच्च संप्रेक्षा । २,४.१९ । एकत्वेऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि । २,४.२० । प्रायश्चित्तं निमित्तेन । २,४.२१ । प्रक्रमाद्वा नियोगेन । २,४.२२ । समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत । २,४.२३ । लिङ्गमविशिष्टं सर्वशेषत्वान्न हि तत्र कर्मचोदना तस्मात्द्वादशाहस्याहारव्यपदेशः स्यात् । २,४.२४ । द्रव्ये चाचोदितत्वाद्विधीनामव्यवस्था स्यान्निर्देशाद्व्यतिष्ठेत तस्मान्नित्यानुवादः स्यात् । २,४.२५ । विहितप्रतिषेधात्पक्षेऽतिरेकः स्यात् । २,४.२६ । सारस्वते विप्रतिषेधाद्यदेति स्यात् । २,४.२७ । उपहव्येऽप्रतिप्रसवः । २,४.२८ । गुणार्था वा पुनः श्रुतिः । २,४.२९ । प्रत्ययं चापि दर्शयति । २,४.३० । अपि वा क्रमसंयोगाद्विधिपृथक्त्वमेकस्यां व्यवतिष्ठेत । २,४.३१ । विरोधिना त्वसंयोगादैककर्म्ये तत्संयोगाद्विधीनां सर्वकर्मप्रत्ययः स्यात् । २,४.३२ । ________________________________________________ अथातः शेषलक्षणम् । ३,१.१ । शेषः परार्थत्वात् । ३,१.२ । द्रव्यगुणसंस्कारेषु बादरिः । ३,१.३ । कर्माण्यपि जैमिनिः फलार्थत्वात् । ३,१.४ । फलं च पुरुषार्थत्वात् । ३,१.५ । पुरुषश्च कर्मार्थत्वात् । ३,१.६ । तेषामर्थेन सबन्धः । ३,१.७ । विहितस्तु सर्वधर्मः स्यात्संयोगतोऽविशेषात्प्रकरणाविशेषाच्च । ३,१.८ । अर्थलोपादकर्मे स्यात् । ३,१.९ । फलं तु सह चेष्टया शब्दार्थोऽभावाद्विप्रयोगे स्यात् । ३,१.१० । द्रव्यं चोत्पत्तिसंयोगात्तदर्थमेव चोद्येत । ३,१.११ । अर्थैकत्वे द्रव्यगुणयोरैककर्म्यान्नियमः स्यात् । ३,१.१२ । एकत्वयुक्तमेकस्य श्रुतिसंयोगात् । ३,१.१३ । सर्वेषां वा लक्षणत्वादविशिष्टं हि लक्षणम् । ३,१.१४ । चोदितेतुपरार्थत्वाद्यथाश्रुति प्रतीयेता । ३,१.१५ । संस्काराद्वागुणानामव्यवस्था स्यात् । ३,१.१६ । व्यवस्थावार्थस्य श्रुतिसंयोगात्तस्य शब्द प्रमाणत्वात् । ३,१.१७ । आनर्थक्यात्तदङ्गेषु । ३,१.१८ । कर्तृगुणे तु कर्मासमवायाद्वाक्यभेदः स्यात् । ३,१.१९ । साकाङ्क्षं त्वेकवाक्यं स्यादसमाप्तं हि पूर्वेण । ३,१.२० । सन्दिग्धे तुब्यवायाद्वाक्यभेदः स्यात् । ३,१.२१ । गुणानां च परार्थत्त्वादसम्बन्धः समत्वात्स्यात् । ३,१.२२ । मिथश्चानर्थसम्वन्धात् । ३,१.२३ । आनन्तर्यमचोदना । ३,१.२४ । बाक्यानां च समाप्तत्वात् । ३,१.२५ । शेषस्तु गुणसंयुक्तः साधारणः प्रतीयेत मिथस्तेषामसम्बन्धात् । ३,१.२६ । व्यवस्था वार्थसंयोगाल्लिङ्गस्यार्थेन सम्बन्धाल्लक्षणार्था गुणश्रुतिः । ३,१.२७ । _______________ अर्थाभिधानसामर्थ्यान्मन्त्रेषु शेषभावः स्यात्तस्मादुत्पत्तिसम्बन्धोऽर्थेन नित्यसंयोगात् । ३,२.१ । संस्कारकत्वादचोदितेन स्यात् । ३,२.२ । वचनात्त्वयथार्थमैन्द्री स्यात् । ३,२.३ । गुणाद्वाप्यभिधानं स्यात्सम्बन्धस्याशास्त्रहेतुत्वात् । ३,२.४ । तथाहवानमपीति चेत् । ३,२.५ । नकालविधिश्चोदितत्वात् । ३,२.६ । गुणाभावात् । ३,२.७ । लिङ्गाच्च । ३,२.८ । विधिकोपश्चोपदेशे स्यात् । ३,२.९ । तथोत्थानविसर्जने । ३,२.१० । सूक्तवाके च कालविधिः परार्थत्वात् । ३,२.११ । उपदेशो वा याज्याशब्दो हि नाकस्मात् । ३,२.१२ । सदेवतार्थस्तत्संयोगात् । ३,२.१३ । प्रतिपत्तिरिति चेत्स्विष्टकृद्वदुभयसंस्कारः स्यात् । ३,२.१४ । कृत्स्नोपदेशादुभयत्र सर्ववचनम् । ३,२.१५ । यथार्थं वा शेषभूतसंस्कारात् । ३,२.१६ । वचनादिति चेत् । ३,२.१७ । प्रकरणाविभागादुभे प्रति कृत्स्नशब्दः । ३,२.१८ । लिङ्गक्रमसमाख्यानात्काम्ययुक्तं समामनानम् । ३,२.१९ । अधिकारे च मन्त्रविधिरतदाख्येषु शिष्टत्वात् । ३,२.२० । तदाख्यो वा प्रकरणोपपत्तिभ्याम् । ३,२.२१ । अनर्थकश्चोपदेशः स्यादसम्बन्धात्फलवता न ह्युपस्थानं फलवत् । ३,२.२२ । सर्वेषां चोपदिष्टत्वात् । ३,२.२३ । लिङ्गसमाख्यानाभ्यां भक्षार्थतानुवाकस्य । ३,२.२४ । तस्य रूपोपदेशाभ्यामपकर्षोऽर्थस्य चोदितत्वात् । ३,२.२५ । गुणाभिधानान्मन्द्रादिरेकमन्त्रः स्यात्तयोरेकार्थसंयोगात् । ३,२.२६ । लिङ्गविशेषनिर्देशात्समानविधानेष्वनैन्द्राणाममन्त्रत्वम् । ३,२.२७ । यथादेवतं वा तत्प्रकृतित्वं हि दर्शयति । ३,२.२८ । पुनरभ्युन्नीतेषु सर्वेषामुपलक्षणं द्विशेषत्वात् । ३,२.२९ । अनयाद्वा पूर्वस्यानुपलक्षणम् । ३,२.३० । ग्रहणाद्वापनयः स्यात् । ३,२.३१ । पात्नीवते तु पूर्ववत् । ३,२.३२ । ग्रहणाद्वापनीतं स्यात् । ३,२.३३ । त्वष्टारं तूपलक्षयेत्पानात् । ३,२.३४ । अतुल्यत्वात्तु नैवं स्यात् । ३,२.३५ । त्रिंशच्च परार्थत्वात् । ३,२.३६ । वषट्कारश्च कर्तृवत् । ३,२.३७ । छन्दः प्रतिषेधस्तु सर्वगामित्वात् । ३,२.३८ । ऐन्द्राग्ने तु लिङ्गभाबात्स्यात् । ३,२.३९ । एकस्मिन् वा देवतान्तराद्विभागवत् । ३,२.४० । छन्दश्च देवतावत् । ३,२.४१ । सर्वेषु वाभावादेकच्छन्दसः । ३,२.४२ । सर्वेषां वैकमन्त्र्यमैतिशायनस्य भक्तिपानत्वात्सवनाधिकारो हि । ३,२.४३ । _______________ श्रुतेर्जाताधिकारः स्यात् । ३,३.१ । वेदो वा प्रायदर्शनात् । ३,३.२ । लिङ्गाच्च । ३,३.३ । धर्मोपदेशाच्च न हि द्रव्येण सम्बन्धः । ३,३.४ । त्रयीविद्याख्या च तद्विद्धि । ३,३.५ । व्यक्तिक्रमे यथाश्रुतीति चेत् । ३,३.६ । न सर्वस्मिन्निवेशात् । ३,३.७ । वेदसंयोगान्न प्रकरणेन बाध्यते । ३,३.८ । गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः । ३,३.९ । भूयस्त्वेनोभयश्रुति । ३,३.१० । असंयुक्तं प्रकरणादिति कर्तव्यतार्थित्वात् । ३,३.११ । क्रमश्च देशसामान्यात् । ३,३.१२ । आख्या चैवम तदर्थत्वात् । ३,३.१३ । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात् । ३,३.१४ । अहीनो वा प्रकरणाद्गौणः । ३,३.१५ । असंयोगात्तु मुख्यस्य तस्मादपकृष्येत । ३,३.१६ । द्वित्वबहुत्वयुक्तं वा चोदनात्तस्य । ३,३.१७ । पक्षेणार्थकृतस्येति चेत् । ३,३.१८ । नकृतेरेकसंयोगात् । ३,३.१९ । जाघनी चैकदेशत्वात् । ३,३.२० । चोदना वापूर्वत्वात् । ३,३.२१ । एकदेश इति चेत् । ३,३.२२ । न प्रकृतेरशास्त्रनिष्पत्तेः । ३,३.२३ । सन्तर्दनं प्रकृतौ क्रयणवदनर्थलोपात्स्यात् । ३,३.२४ । उत्कर्षो वा ग्रहणाद्विशेषस्य । ३,३.२५ । कर्तृतो वा विशेषस्य तन्निमित्तत्वात् । ३,३.२६ । क्रतुतो वार्थवादानुपपत्तेः स्यात् । ३,३.२७ । संस्थाश्च कर्तृवद्धारणार्थाविशेषात् । ३,३.२८ । उक्थ्यादिषु वार्थस्य विद्यमानत्वात् । ३,३.२९ । अविशेषात्स्तुतिर्व्यर्थेति चेत् । ३,३.३० । स्यादनित्यत्वात् । ३,३.३१ । सङ्ख्यायुक्तं क्रतोः प्रकरणात्स्यात् । ३,३.३२ । नैमित्तिकं वा कर्तृसंयोगाल्लिङ्गस्य तन्निमित्तत्वात् । ३,३.३३ । पौष्णं पैषणं विकृतौ प्रतीयेताचोदनात्प्रकृतौ । ३,३.३४ । तत्सर्वार्थमविशेषात् । ३,३.३५ । चरौवार्थोक्तं पुरोडाशेऽर्थविप्रतिषेधात्पशौ न स्यात् । ३,३.३६ । चरावपीति चेत् । ३,३.३७ । न पक्तिनामत्वात् । ३,३.३८ । एकस्मिन्नेकसंयोगात् । ३,३.३९ । धर्माविप्रतिषेधाच्च । ३,३.४० । अपि वा सद्वितीये स्याद्देवतानिमित्तत्वात । ३,३.४१ । लिङ्गदर्शनाच्च । ३,३.४२ । वचनात्सर्वपेषणं तं प्रति शास्त्रवत्वादर्थाभावाद्विचरावपेषणं भवति । ३,३.४३ । एकस्मिन् वार्थधर्मत्वादैन्द्राग्नवदुभयोर्न स्यादचोदितत्वात् । ३,३.४४ । हेतुमात्रमदन्तत्वम् । ३,३.४५ । वचनं परम् । ३,३.४६ । _______________ निवीतामिति मनुष्यधर्मः शब्दस्य तत्प्रधानत्वात् । ३,४.१ । अपदेशो वार्थस्य विद्यमानतत्त्वात् । ३,४.२ । विधिस्तवर्पूर्वत्वात्स्यात् । ३,४.३ । स प्रायात्कर्मधर्मः स्यात् । ३,४.४ । वाक्यशेषत्वात् । ३,४.५ । तत्प्रकरणे यत्तत्संयुक्तमविप्रतिषेधात् । ३,४.६ । तत्प्रधाने वा तुल्यवत्प्रसंख्यानादितरस्य तदर्थत्वात् । ३,४.७ । अर्थवादो वा प्रकरणात् । ३,४.८ । विधिना चैकवाक्यत्वात् । ३,४.९ । दिग्विभागश्च तद्वत्सम्बन्धस्यार्थहेतुत्वात् । ३,४.१० । परुषि दितपूर्णघृतविदग्धं च तद्वत् । ३,४.११ । अकर्म क्रतुसंयुक्तं संयोगान्नित्यानुवादः स्यात् । ३,४.१२ । विधिर्वा संयोगान्तरात् । ३,४.१३ । अहीनवत्पुरुषस्तदर्थत्वात् । ३,४.१४ । प्रकरणविशेषाद्वा तद्युक्तस्य संस्कारो द्रव्यवत् । ३,४.१५ । व्यपदेशादपकृष्येत । ३,४.१६ । शंयौ च सर्वपरिदानात् । ३,४.१७ । प्रागपरोधान्मलवद्वाससः । ३,४.१८ । अन्नप्रतिषेधाच्च । ३,४.१९ । अप्रकरणे तु तद्वर्मस्ततो विशेषात् । ३,४.२० । अद्रव्यत्वात्तु शेषः स्यात् । ३,४.२१ । वेदसंयोगात् । ३,४.२२ । द्रव्यसंयोगाच्च । ३,४.२३ । स्याद्वास्य संयोगवत्फलेन सम्बन्धस्तस्मात्कर्मैतिशायनः । ३,४.२४ । शेषाः प्रकरणेऽविशेषात्सर्वकर्मणाम् । ३,४.२५ । होमास्तु व्यवतिष्ठेरन्नाहवनीयसंयोगात् । ३,४.२६ । शेषश्च समाख्यानात् । ३,४.२७ । दोषात्त्विष्टिर्लौकिके स्याच्छास्त्राद्धि वैदिक न दोषः स्यात् । ३,४.२८ । अर्थवादो वानुपपातत्तस्माद्यज्ञे प्रतीयेत । ३,४.२९ । अचोदित च कर्मभेदात् । ३,४.३० । लिङ्गादार्त्विजे स्यात् । ३,४.३१ । पानव्यापच्च तद्वत् । ३,४.३२ । दोषात्तु वैदिके स्यादर्थाद्धि लौकिके न दोषः स्यात् । ३,४.३३ । तत्सर्वत्राविशेषात् । ३,४.३४ । स्वामिनो वा तदर्थत्वात् । ३,४.३५ । लिङ्गदर्शनाच्च । ३,४.३६ । सर्वप्रदानं हविषस्तदर्थत्वात् । ३,४.३७ । निरवदानात्तु शेषः स्यात् । ३,४.३८ । उपायो वा तदर्थत्वात् । ३,४.३९ । कृतत्वात्तु कर्मणः सकृत्स्याद्द्रव्यस्य गुणभूतत्वात् । ३,४.४० । शेषदर्शनाच्च । ३,४.४१ । अप्रयोजकत्वादेकस्मात्क्रियेरञ्छेषस्य गुणभूतत्वात् । ३,४.४२ । संस्कृतत्वाच्च । ३,४.४३ । सर्वेभ्यो वा कारणाविशेषात्संस्कारस्य तदर्थत्वात् । ३,४.४४ । लिङ्गदर्शनाच्च । ३,४.४५ । एकस्माच्चेद्यथाकाम्यमविशेषात् । ३,४.४६ । मुख्याद्वा पूर्वकालत्वात् । ३,४.४७ । भक्षाश्रवणाद्दानशब्दः परिक्रये । ३,४.४८ । तत्संस्तवाच्च । ३,४.४९ । भक्षार्थो वा द्रव्ये समत्वात् । ३,४.५० । व्यादेशाद्दानसंस्तुतिः । ३,४.५१ । _______________ आज्याच्च सर्वसंयोगात् । ३,५.१ । कारणाच्च । ३,५.२ । एकस्मिन्त्समवत्तशब्दात् । ३,५.३ । आज्ये च दर्शनात्स्विष्टकृदर्थवदस्य । ३,५.४ । अशेषत्वात्तु नैवं स्यात्सर्वादानादशेषता । ३,५.५ । साधारण्यान्न ध्रुवायां स्यात् । ३,५.६ । अवत्तत्वाच्च जुह्वां तस्य च होमसंयोगात् । ३,५.७ । चमसवदिति चेत् । ३,५.८ । न चोदनाविरोधाद्धविः प्रकल्पनात्वाच्च । ३,५.९ । उत्पन्नाधिकारात्सति सर्ववचनम् । ३,५.१० । जातिविशेषात्परम् । ३,५.११ । अन्त्यमरेकार्थे । ३,५.१२ । साकम्प्रस्थाय्ये स्विष्टकृदिडं च तद्वत् । ३,५.१३ । सौत्रामण्यां च ग्रहेषु । ३,५.१४ । तद्वच्च शेषवचनम् । ३,५.१५ । द्रव्यैकत्वे कर्मभेदात्प्रतिकर्म क्रियेरन् । ३,५.१६ । अविभागाच्च शेषस्य सर्वान् प्रत्यविशिष्ठत्वात् । ३,५.१७ । ऐन्द्रवायवे तु वचनात्प्रतिकर्म भक्षः स्यात् । ३,५.१८ । सोमेऽवचनाद्भक्षो न विद्यते । ३,५.१९ । स्याद्वान्यार्थदर्शनात् । ३,५.२० । वचनानि त्वपूर्वत्वात्तस्माद्यथोपदेशं स्युः । ३,५.२१ । चमसेषु समाख्यानात्संयोगस्य तन्निमित्तत्त्वात् । ३,५.२२ । उद्गातृचमसमेकः श्रुतिसंयोगात् । ३,५.२३ । सर्वे वा सर्वसंयोगात् । ३,५.२४ । स्तोत्रकारिणां वा तत्संयोगाद्बहुश्रुतेः । ३,५.२५ । सर्वे तु वेदसंयोगात्कारणादेकदेशे स्यात् । ३,५.२६ । ग्रावस्तुतो भक्षो न विद्यतेऽनाम्नानात् । ३,५.२७ । हारियोजने वा सर्वसंयोगात् । ३,५.२८ । चमसिनां वा सन्निधानात् । ३,५.२९ । सर्वेषां तु विधित्वात्तदर्था चमसिश्रुतिः । ३,५.३० । वषट्काराच्च भक्षयेत् । ३,५.३१ । होमाभिषबाभ्यां च । ३,५.३२ । प्रत्यक्षोपदेशाच्चमसानामव्यक्तः शेषे । ३,५.३३ । स्याद्वा कारणभावादनिर्देशश्चमसानां कर्तुस्तद्वचनत्वात् । ३,५.३४ । चमसे चान्यदर्शनात् । ३,५.३५ । एकपात्रे क्रमादध्वर्युः पूर्वो भक्षयेत् । ३,५.३६ । होता वा मन्त्रवर्णात् । ३,५.३७ । वचनाच्च । ३,५.३८ । कारणानुपूर्व्याच्च । ३,५.३९ । वचनादनुज्ञातभक्षणम् । ३,५.४० । तदुपहूत उपह्वयस्वेत्यनेनानुज्ञापयेलिङ्गात् । ३,५.४१ । तत्रार्थात्प्रतिवचनम् । ३,५.४२ । तदेकत्राणां समवायात् । ३,५.४३ । याज्यापनयेनापनीतो भक्षः प्रवरवत् । ३,५.४४ । यष्टुर्वा कारणागमात् । ३,५.४५ । प्रवृत्तत्वात्प्रवरस्यानपायः । ३,५.४६ । फलचमसो नैमित्तिको भक्षविकारः श्रुतिसंयोगात् । ३,५.४७ । इज्याबिकारो वा संस्कारस्य तदर्थत्वात् । ३,५.४८ । होमात् । ३,५.४९ । चमसैश्च तुल्यकालत्वात् । ३,५.५० । लिङ्गदर्शनाच्च । ३,५.५१ । अनुप्रसर्पिषु सामान्यात् । ३,५.५२ । ब्रह्मणा वा तुल्यशब्दत्वात् । ३,५.५३ । _______________ तत्सर्वार्थमप्रकरणात् । ३,६.१ । प्रकृतौ वाद्विरुक्तत्वात् । ३,६.२ । तद्वर्जं तु वचनप्राप्ते । ३,६.३ । दर्शनादिति चेत् । ३,६.४ । न चोदनैकार्थ्यात् । ३,६.५ । उत्पत्तिरिति चेत् । ३,६.६ । न तुल्यत्वात् । ३,६.७ । चोदनार्थकार्त्स्न्यात्तु मुख्यविप्रतिषेधात्प्रकृत्यर्थः । ३,६.८ । प्रकरणविशेषात्तु विकृतौ विरोधि स्यात् । ३,६.९ । नैमित्तिकं तु प्रकृतौ तद्विकारः संयोगविशेषात् । ३,६.१० । इष्टयर्थमग्न्याधेयं प्रकरणात् । ३,६.११ । न वा तासां तदर्थत्वात् । ३,६.१२ । लिङ्गदर्शनाच्च । ३,६.१३ । तत्प्रकृत्यर्थं यथान्येऽनारभ्यवादाः । ३,६.१४ । सर्वार्थ वाग्न्यधानस्य स्वकालत्वात् । ३,६.१५ । तासामग्निः प्रकृतितः प्रयाजवत्स्यात् । ३,६.१६ । न वा तासां तदर्थत्वात् । ३,६.१७ । तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् । ३,६.१८ । स्थानाच्च पूर्वस्य । ३,६.१९ । श्वस्त्वेकेषां तत्र प्राक्श्रुतिर्गुणार्था । ३,६.२० । तेनोत्कृष्टस्य कालविधिरिति चेत् । ३,६.२१ । नैकदेशत्वात् । ३,६.२२ । अर्थेनेति चेत् । ३,६.२३ । न श्रुतिविप्रतिषेधात् । ३,६.२४ । स्थानात्तु पूर्वस्य संस्कारस्य तदर्थत्वात् । ३,६.२५ । लिङ्गदर्शनाच्च । ३,६.२६ । अचोदना गुणार्थेन । ३,६.२७ । दोहयोः कालभेदादसंयुक्तं शृतं स्यात् । ३,६.२८ । प्रकरणविभागाद्वा तत्संयुक्तस्य कालशास्त्रम् । ३,६.२९ । तद्वत्सवनान्तरे ग्रहाम्नानम् । ३,६.३० । रशना च लिङ्गदर्शनात् । ३,६.३१ । आराच्छिष्टमसंयुक्तमितरैः सन्निधानात् । ३,६.३२ । संयुक्तं वा तदर्थत्वाच्छेषस्य तन्निमित्तत्वात् । ३,६.३३ । निर्देशाद्व्यवतिष्ठेत । ३,६.३४ । अग्न्यङ्गमप्रकरणे तद्वत् । ३,६.३५ । नैमित्तिकमतुल्यत्वादसमानविथानां स्यात् । ३,६.३६ । प्रतिनिधिश्च ३,६.३७ । तद्वत्प्रयोजनैकत्वात् । ३,६.३८ । अशास्त्रलक्षणत्वाच्च । ३,६.३९ । नियमार्था गुणश्रुतिः । ३,६.४० । संस्थास्तु समानविधानाः प्रकरणाविशेषात् । ३,६.४१ । व्यपदेशश्च तुल्यवत् । ३,६.४२ । विकासस्तु कामसंयोगे नित्यस्य समत्वात् । ३,६.४३ । अपि वा द्विरुक्तत्वात्प्रकृतेर्भविष्यन्तीति । ३,६.४४ । बचनात्तु समुच्चयः । ३,६.४५ । प्रतिषेधाच्च पूर्वलिङ्गनाम् । ३,६.४६ । गुणविशेषादेकस्य व्यपदेशः । ३,६.४७ । _______________ प्रकरणविशेषादसंयुक्तं प्रधानस्य । ३,७.१ । सर्वेषां वा शेषत्वस्यातत्प्रयुक्तत्वात् । ३,७.२ । आरादपीति चेत् । ३,७.३ । न तद्वाक्यं हि तदर्थत्वात् । ३,७.४ । लिङ्गदर्शनाच्च । ३,७.५ । फलसंयोगात्तु स्वामियुक्तं प्रधानस्य । ३,७.६ । चिकीर्षयो च संयोगात् । ३,७.७ । तथाभिधानेन । ३,७.८ । तद्युक्ते तु फलश्रुतिस्तस्मात्सर्वचिकीर्षा स्यात् । ३,७.९ । गुणाभिधानात्सर्वार्थमभिधानम् । ३,७.१० । दीक्षादक्षिणं तु वचनात्प्रधानस्य । ३,७.११ । निवृत्तिदर्शनाच्च । ३,७.१२ । तथा यूपस्य वेदि । ३,७.१३ । देशमात्रं वा शिष्टेनैकवाक्यत्वात् । ३,७.१४ । सामधेनीस्तदन्वाहुरिति हविर्द्धानयोर्वचनात्सामधेनीनाम् । ३,७.१५ । देशमात्रं वा प्रत्यक्षं ह्यर्थकर्म सोमस्य । ३,७.१६ । समाख्यानं च तद्वत् । ३,७.१७ । शास्त्रफलं प्रयोक्तरि तल्लक्षणत्वात्तस्मात्स्वयं प्रयोगे स्यात् । ३,७.१८ । उत्सर्गे तु प्रधानत्वाच्छेषकारी प्रधानस्य तस्मादन्यः स्वयं वा स्यात् । ३,७.१९ । अन्यो वा स्यात्परिक्रयाम्नानाद्विप्रतिषेधात्प्रत्यगात्मनि । ३,७.२० । तत्रार्थात्कर्तृपरिमाणं स्यादनियमोऽविशेषात् । ३,७.२१ । अपि वा श्रुति भेदात्प्रतिनामधेयं स्युः । ३,७.२२ । एकस्य कर्मभेदादिति चेत् । ३,७.२३ । नोत्पत्तौ हि । ३,७.२४ । चमसाध्वर्यवश्च तैर्व्यपदेशात् । ३,७.२५ । उत्पत्तौ तु बहुश्रुतेः । ३,७.२६ । दशत्वं लिङ्गदर्शनात् । ३,७.२७ । शमिता च शब्दभेदात् । ३,७.२८ । प्रकरणाद्वोत्पत्त्यसंयोगात् । ३,७.२९ । उपगाश्च लिङ्गदर्शनात् । ३,७.३० । विक्रयी त्वन्यः कर्मणोऽचोदित्वात् । ३,७.३१ । कर्मकार्यात्सर्वेषामृत्विक्त्वमविशेषात् । ३,७.३२ । न वा परिसंख्यानात् । ३,७.३३ । पक्षेणेति चेत् । ३,७.३४ । न सर्वेषामधिकारः । ३,७.३५ । नियमस्तु दक्षिणाभिः श्रुतिसंयोगात् । ३,७.३६ । उक्त्वा च यजमानत्वं तेषां दीक्षाबिधानात् । ३,७.३७ । स्वामिसप्तदशाः कर्मसामान्यात् । ३,७.३८ । ते सर्वार्थाः प्रयुक्तत्वादग्नयश्च स्वकालत्वात् । ३,७.३९ । तत्सयोगात्कर्मणो व्यवस्था स्यात्संयोगास्यार्थवत्वात् । ३,७.४० । तस्योपदेशसमाख्यानेन निर्देशः । ३,७.४१ । तद्वच्च लिङ्गदर्शम् । ३,७.४२ । प्रैषानुवचनं मैत्रावरुणस्योपदेशात् । ३,७.४३ । पुरोऽनुवाक्याधिकारो वा प्रैषसन्निधानात् । ३,७.४४ । प्रातरनुवाके च होतृदर्शनात् । ३,७.४५ । चमसांश्चमसाध्वर्यवः सामाख्यानात् । ३,७.४६ । अध्वर्युर्वा तन्न्यायत्वात् । ३,७.४७ । चमसे चान्यदर्शनात् । ३,७.४८ । अशक्तौ ते प्रतीयेरन् । ३,७.४९ । वेदोपदेशात्पूर्ववद्वेदान्यत्वे यथोपदेशं स्युः । ३,७.५० । तद्गुणाद्वा स्वधर्मः स्यादधिकारसामथ्यात्सहाङ्गैरव्यक्तः शेषे । ३,७.५१ । _______________ स्वामिकर्मपरिक्रयः कर्मणस्तदर्थत्वात् । ३,८.१ । वचनादितरेषां स्यात् । ३,८.२ । संस्कारास्तु पुरुषसामर्थ्ये यथावेदं कर्मवद्व्यवतिष्ठेरन् । ३,८.३ । याजमानास्तु तत्प्रधानत्वात्कर्मवत् । ३,८.४ । व्यपदेशाच्च । ३,८.५ । गुणत्त्वे तस्य निर्देशः । ३,८.६ । चोदना प्रति भावाच्च । ३,८.७ । अतुल्यत्वादसमानविधानाः स्युः । ३,८.८ । तपश्च फलसिद्धित्वाल्लोकवत् । ३,८.९ । वाक्यशेषश्च तद्वत् । ३,८.१० । वचनादितरेषां स्यात् । ३,८.११ । गुणत्वाच्च वेदेन न व्यवस्था स्यात् । ३,८.१२ । तथा कामोऽर्थसंयोगात् । ३,८.१३ । व्यपदेशादितरेषां स्यात् । ३,८.१४ । मन्त्राश्चाकर्मकरणास्तद्वत् । ३,८.१५ । विप्रयोगे च दर्शनात् । ३,८.१६ । द्व्याम्नातेषूभौ द्व्याम्नानस्यार्थवत्त्वात् । ३,८.१७ । ज्ञाते च वाचनं न ह्यविद्वान् विहितोऽस्ति । ३,८.१८ । याजमाने समाख्यानात्कर्माणि याजमानं स्युः । ३,८.१९ । अध्वर्युर्वा तदर्थो हि न्यायपूर्वे समाख्यानम् । ३,८.२० । विप्रतिषेधे करणः समावायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात् । ३,८.२१ । प्रैषेणु च पराधिकारात् । ३,८.२२ । अध्वर्युस्तु दर्शनात् । ३,८.२३ । गौणो वा कर्मसामान्यात् । ३,८.२४ । ऋत्विक्फलं करणेष्वर्थत्त्वात् । ३,८.२५ । स्वामिनो वा तदर्थत्वात् । ३,८.२६ । लिङ्गदर्शनाच्च । ३,८.२७ । कर्मार्थ फलं तेषां स्वामिनं प्रत्यर्थवत्त्वात् । ३,८.२८ । व्यपदेशाच्च । ३,८.२९ । द्रव्यसंस्कारः प्रकारणाविशेषात्सर्वकर्मणाम् । ३,८.३० । निर्देशात्तु विकृतावपूर्वस्यानधिकारः । ३,८.३१ । विरोधे च श्रुतिविशेषादव्यक्तः शेषे । ३,८.३२ । अपनयस्त्वेकदेशस्य विद्यमानसंयोगात् । ३,८.३३ । विकृतौ सर्वार्थः शेषः प्रकृतिवत् । ३,८.३४ । मुख्यार्थो वाङ्गस्याचोदितत्वात् । ३,८.३५ । सन्निधानाविशेषादसम्भवेदतदङ्गानाम् । ३,८.३६ । आधानेऽपि तथेति चेत् । ३,८.३७ । नाप्रकरणत्वादङ्गस्यातन्निमित्तत्वात् । ३,८.३८ । तत्काले वा लिङ्गदर्शनात् । ३,८.३९ । सर्वेषां वाविशेषात् । ३,८.४० । न्यायोक्ते लिङ्गदर्शनम् । ३,८.४१ । मांसं तु सवनीयानां चोदनाविशेषात् । ३,८.४२ । भक्तिरसन्निधावन्याय्येति चेत् । ३,८.४३ । स्यात्प्रकृतिलिङ्गाद्वैराजवत् । ३,८.४४ । ________________________________________________ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा । ४,१.१ । यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सार्थलक्षणाविभक्तत्वात् । ४,१.२ । तदुत्सर्गे कर्माणि पुरुषार्थाय शास्त्रस्यानतिशङ्क्यत्वान्न च द्रव्यं चिकीर्ष्यते तेनार्थेनाभिसम्बन्धात्क्रियायां पुरुषश्रुतिः । ४,१.३ । अविशेषात्तु शास्त्रस्य यथाश्रुति फलानि स्युः । ४,१.४ । अपि वा कारणाग्रहणे तदर्थमर्थस्यानभिसम्बन्धात् । ४,१.५ । तथा च लोकभूतेषु । ४,१.६ । द्रव्याणि त्वविशेषेणानर्थक्यात्प्रदीयेरन् । ४,१.७ । स्वेन त्वर्थे न सम्बन्धो द्रव्याणां पृथगर्थत्वात्तस्माद्यथाश्रुति स्युः । ४,१.८ । चोद्यन्ते चार्थकर्मसु । ४,१.९ । लिङ्गदर्शनाच्च । ४,१.१० । तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात् । ४,१.११ । एकश्रुतित्वाच्च । ४,१.१२ । प्रतीयते इति चेत् । ४,१.१३ । नाशब्दं तत्प्रमाणत्वात्पूर्ववत् । ४,१.१४ । शब्दवत्तूपलभ्यते तदागमे हि तद्दृश्यते तस्य ज्ञानं हि यथान्येषाम् । ४,१.१५ । तद्वच्च लिङ्गदर्शनम् । ४,१.१६ । तथा च लिङ्गम् । ४,१.१७ । आश्रयिष्वविशेषेण भावोऽर्थः प्रतीयेत । ४,१.१८ । चोदनायां त्वनारम्भोऽविभक्तत्वान्न ह्यन्येन विधीयते । ४,१.१९ । स्याद्वा द्रव्यचिकीर्षायां भावोऽर्थे च गुणभूतताश्रयाद्धि गुणीभावः । ४,१.२० । अर्थे समवैषम्यतो द्रव्यकर्मणाम् । ४,१.२१ । एकनिष्पत्तेः सर्वे समं स्यात् । ४,१.२२ । संसर्गरसनिश्पत्तेरामिक्षा वा प्रधानं स्यात् । ४,१.२३ । मुख्यशब्दाभिसंस्तवाच्च । ४,१.२४ । पदकर्माप्रयोजकं नयनस्य परार्थत्वात् । ४,१.२५ । अर्थाभिधानकर्म च भविष्यता संयोगस्य तन्निमित्तत्वात्तदर्थो हि विधीयते । ४,१.२६ । पशावनालम्भाल्लोहितशकृतोरकर्मत्वम् । ४,१.२७ । एकदेशद्रव्यश्चोत्पत्तौ वद्यमानसंयोगात् । ४,१.२८ । निर्देशात्तस्यान्यदर्थादिति चेत् । ४,१.२९ । न शेषसन्निधानात् । ४,१.३० । कर्मकार्यात् । ४,१.३१ । लिङ्गदर्शनाच्च । ४,१.३२ । अभिघारणे विप्रकर्षादनूयाजवत्पात्रभेदः स्यात् । ४,१.३३ । न वा पात्रत्वादपात्रत्वं त्वेकदेशत्वात् । ४,१.३४ । हेतुत्वाच्च सहप्रयोगस्य । ४,१.३५ । अभावदर्शनाच्च । ४,१.३६ । सति सव्यवचनम् । ४,१.३७ । न तस्येति चेत् । ४,१.३८ । स्यात्तस्य मुख्यत्वात् । ४,१.३९ । समानयनं तु मुख्यं स्याल्लिङ्गदर्शनात् । ४,१.४० । वचने हि हेत्वसामर्थ्यम् । ४,१.४१ । तत्रोत्पत्तिरविभक्ता स्यात् । ४,१.४२ । तत्र जौहवमनूयाजप्रतिषेधार्थम् । ४,१.४३ । औपभृतं तथेति चेत् । ४,१.४४ । स्याज्जुहूप्रतिषेधान्नित्यानुवादः । ४,१.४५ । तदष्टसङ्ख्यं श्रवणात् । ४,१.४६ । अनुग्रहाच्च जौहवस्य । ४,१.४७ । द्वयोस्तु हेतुसामर्थयं श्रवणं च समानयने । ४,१.४८ । _______________ स्वरुस्त्वनेकनिष्पत्तिः स्वकर्मशब्दत्वात् । ४,२.१ । जात्यन्तराच्च शङ्कते । ४,२.२ । तदेकदेशो वा स्वरुत्वस्य तन्निमित्तत्वात् । ४,२.३ । शकलश्रुतेश्च । ४,२.४ । प्रतियूपं च दर्शनात् । ४,२.५ । आदाने करोतिशब्दः । ४,२.६ । शाखायां तत्प्रधानत्वात् । ४,२.७ । शाखायां तत्प्रधानत्वादुपवेषेण विभागः स्याद्वैषम्यं तत् । ४,२.८ । श्रुत्यपायाच्च । ४,२.९ । हरणे तु जुहोतिर्योगसामान्याद्द्रव्याणां चार्थशेषत्वात् । ४,२.१० । प्रतिपत्तिर्वा शब्दस्य तत्प्रधानत्वात् । ४,२.११ । अर्थेऽपि चेत् । ४,२.१२ । न तस्यानधिकारादर्थस्य च कृतत्वात् । ४,२.१३ । उत्पत्त्यसंयोगात्प्रणीतानामाज्यवद्विभागः स्यात् । ४,२.१४ । संयवनार्थानां वा प्रतिपत्तिरितरासां तत्प्रधानत्वात् । ४,२.१५ । प्रासनवन्मैत्रावरुणस्य दण्डप्रदानं कृतार्थत्वात् । ४,२.१६ । अर्थकर्म वा कर्तृसंयोगात्स्रग्वत् । ४,२.१७ । कर्मयुक्ते च दर्शनात् । ४,२.१८ । उत्पत्तौ येन संयुक्तं तदर्थं तच्छ्रुतिहेतुत्वात्तस्यार्थान्तरगमने शेषत्वात्प्रतिपत्तिः स्यात् । ४,२.१९ । सौमिके च कृतार्थत्वात् । ४,२.२० । अर्थकर्म वाभिधानसंयोगात् । ४,२.२१ । प्रतिपत्तिर्वा तन्न्यायत्वाद्देशार्थावभृथश्रुतिः । ४,२.२२ । कर्तृदेशकालानामचोदनं प्रयोगे नित्यसमवायात् । ४,२.२३ । नियमार्था वा श्रुतिः । ४,२.२४ । तथा द्रव्येषु गुणश्रुतिरुत्पत्तिसंयोगात् । ४,२.२५ । संस्कारे च तत्प्रधानत्वात् । ४,२.२६ । यजति चोदनाद्रव्यदेवताक्रियं समुदाये कृतार्थत्वात् । ४,२.२७ । तदुक्ते श्रवणाज्जुहोतिरासेचनाधिकः स्यात् । ४,२.२८ । विधेः कर्मापवर्गित्वादर्थान्तरे विधिप्रदेशः स्यात् । ४,२.२९ । अपि वोत्पत्तिसंयोगादर्थसम्बन्धोऽविशिष्टानां प्रयोगैकत्वहेतुः स्यात् । ४,२.३० । द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुतिरर्थवादः स्यात् । ४,३.१ । उत्पत्तेश्चातत्प्रधानत्वात् । ४,३.२ । फलं तु तत्प्रधानायाम् । ४,३.३ । नैमित्तिके विकारत्वात्क्रतुप्रधानमन्यत्स्यात् । ४,३.४ । एकस्य तूभयत्वे संयोगपृथक्त्वम् । ४,३.५ । शेष इति चेत् । ४,३.६ । नार्थपृथक्त्वात् । ४,३.७ । द्रव्याणान्तु क्रियार्थानां संस्कारः क्रतुधर्मस्यात् । ४,३.८ । पृथक्त्वाद्व्यवतिष्ठेत । ४,३.९ । चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत न ह्यशब्दं प्रतीयते । ४,३.१० । अपि वाम्नानसामथर्थ्याच्चोदनार्थेन गम्येतार्थानां ह्यर्थत्वेन वचनानि प्रतीयन्तेऽर्थतोप्यसमर्थानामानन्तर्येऽप्यसम्बन्धस्तस्माच्छ्रुत्येकदेशः सः । ४,३.११ । वाक्यार्थश्च गुणार्थवत् । ४,३.१२ । तत्सर्वार्थमनादेशात् । ४,३.१३ । एकं वा चोदनैकत्वात् । ४,३.१४ । स स्वर्गः स्यात्सर्वान् प्रत्यविशिष्टत्वात् । ४,३.१५ । प्रत्ययाच्च । ४,३.१६ । क्रतौ फलार्थवादमङ्गवत्कार्ष्णाजिनिः । ४,३.१७ । फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात् । ४,३.१८ । अङ्गेषु स्तुतिः परार्थत्वात् । ४,३.१९ । काम्ये कर्मणि नित्यः स्वर्गे यथा यज्ञाङ्गे क्रत्वर्थः । ४,३.२० । वीते च कारणे नियमात् । ४,३.२१ । कामो वा तत्संयोगेन चोद्यते । ४,३.२२ । अङ्गेषु स्तुतिः परार्थत्वात् । ४,३.२३ । वीते च नियमस्तदर्थम् । ४,३.२४ । सर्वकाम्यमङ्गकामैः प्रकरणात् । ४,३.२५ । फलोपदेशो वा प्रधानशब्दसंयोगात् । ४,३.२६ । तत्र सर्वेऽविशेषात् । ४,३.२७ । योगसिद्धिर्वार्थस्योत्पत्यसंयोगित्वात् । ४,३.२८ । समवाये चोदनासंयोगस्यार्थवत्वात् । ४,३.२९ । कालश्रुतौ काल इति चेत् । ४,३.३० । नासमवायात्प्रयोजनेन । ४,३.३१ । उभयार्थामिति चेत् । ४,३.३२ । न शब्दैकत्वात् । ४,३.३३ । प्रकरणादिति चेत् । ४,३.३४ । नोत्पत्तिसंयोगात् । ४,३.३५ । अनुत्पत्तौ तु कालः स्यात्प्रयोजनेन सम्बन्धात् । ४,३.३६ । उतपत्तिकालविशये कालः स्याद्वाक्यस्य तत्प्रधानत्वात् । ४,३.३७ । फलसंयोगस्त्वचोदिते न स्यादशेषभूतत्वात् । ४,३.३८ । अङ्गानां तूपघातसंयोगो निमित्तार्थः । ४,३.३९ । प्रधानेनाभिसंयोगादङ्गानां मुख्यकालत्वम् । ४,३.४० । अपवृत्ते तु चोदना तत्सामान्यात्स्वकाले स्यात् । ४,३.४१ । _______________ प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम् । ४,४.१ । अपि वाङ्गमनिज्याः स्युस्ततो विशिष्टत्वात् । ४,४.२ । मध्यस्थं यस्य तन्मध्ये । ४,४.३ । सर्वासां वा समत्वाच्चोदनातः स्यान्न हि तस्य प्रकरणं देशार्थमुच्यते मध्ये । ४,४.४ । प्रकरणाविभागे च विप्रतिषिद्धं ह्युभयम् । ४,४.५ । अपि वा कालमात्रं स्याददर्शनाद्विशेशस्य । ४,४.६ । फलवद्वोक्तहेतुत्वादितरस्य प्रधानं स्यात् । ४,४.७ । दधिग्रहो नैमित्तिकः श्रुतिसंयोगात् । ४,४.८ । नित्यश्च ज्येष्ठशब्दात् । ४,४.९ । सार्वरूप्याच्च । ४,४.१० । नित्यो वा स्यादर्थवादस्तयोः कर्मण्यसम्बन्धाद्भङ्गित्वाच्चान्तरायस्य । ४,४.११ । वैश्वानरश्च नित्यः स्यान्नित्यैः समानसङ्ख्यत्वात् । ४,४.१२ । पक्षे वोत्पन्नसंयोगात् । ४,४.१३ । षट्चितिः पूर्ववत्त्वात् । ४,४.१४ । ताभिश्च तुल्यसंख्यानात् । ४,४.१५ । अर्थवादोपपत्तेश्च । ४,४.१६ । एकचितिर्वा स्यादपवृक्ते हि चोद्यते निमित्तेन । ४,४.१७ । विप्रतिषेधात्ताभिः समानसङ्ख्यत्वम् । ४,४.१८ । पितृयज्ञः स्वकालत्वादनङ्गं स्यात् । ४,४.१९ । तुल्यवच्च प्रसङ्ख्यानात् । ४,४.२० । प्रतिषिद्धे च दर्शनात् । ४,४.२१ । पश्वङ्ग रशमा स्यात्तदागमे विधानात् । ४,४.२२ । यूपाङ्गं वा तत्संस्कारात् । ४,४.२३ । अर्थवादश्च तदर्थवत् । ४,४.२४ । स्वरुश्चाप्येकदेशत्वात् । ४,४.२५ । निष्क्रयश्च तदङ्गवत् । ४,४.२६ । पश्वङ्गं वार्थकर्मत्वात् । ४,४.२७ । भक्त्या निष्क्रयवादः स्यात् । ४,४.२८ । दर्शपूर्णमासयोरिज्याः प्रधानान्यविशेषात् । ४,४.२९ । अपि वाङ्गानि कानि चिद्येश्वङ्गत्वेन संस्तुतिः सामान्यो ह्यभिसंस्तवः । ४,४.३० । तथा चान्यार्थदर्शनम् । ४,४.३१ । अवशिष्टं तु कारणं प्रधानेषु गुणस्य विद्यमानत्वात् । ४,४.३२ । नानुक्तेऽन्यार्थदर्शनं परार्थत्वात् । ४,४.३३ । पृथवत्वे त्वभिधानयोर्निवेशः श्रुतितो व्यपदेशाच्च तत्पुनर्मुख्यलक्षणं यत्फलवत्वं तत्सन्निधावसंयुक्तं तदङ्गंस्याद्भागित्वात्कारणस्याश्रुतश्चान्यसम्बन्धः । ४,४.३४ । गुणाश्च नामसंयुक्ता विधीयन्ते नाङ्गेषूषपद्यन्ते । ४,४.३५ । तुल्या च कारणश्रुतिरन्यैरङ्गाङ्गिसम्बन्धः । ४,४.३६ । उत्पत्तावभिसम्बन्धस्तस्मादङ्गोपदेशः स्यात् । ४,४.३७ । तथा चान्यार्थदर्शनम् । ४,४.३८ । ज्योतिष्टोमे तुल्यान्यविशिष्टं हि कारणम् । ४,४.३९ । गुणानां तूत्पत्तिवाक्येन सम्बन्धात्कारणश्रुतिस्तस्मात्सोमः प्रधानं स्यात् । ४,४.४० । तथा चान्यार्थदर्शनम् । ४,४.४१ । ________________________________________________ श्रुतिलक्षणमानुपूर्व्यं तत्प्रमाणत्वात् । ५,१.१ । अर्थाच्च । ५,१.२ । अनियमोऽन्यत्र । ५,१.३ । क्रमेण वा नियम्येत क्रत्वेकत्वे तद्गुणत्वात् । ५,१.४ । अशाब्द इति चेत्स्याद्वाक्यशब्दत्वात् । ५,१.५ । अर्थकृते वानुमानं स्यात्क्रत्वेकत्वे परार्थत्वात्स्वेन त्वर्थेन सम्बन्धस्तस्मात्स्वशब्दमुच्येत । ५,१.६ । तथा चान्यार्थदर्शनम् । ५,१.७ । प्रवृत्या तुल्यकालानां गुणानां तदुपक्रमात् । ५,१.८ । सर्वमिति चेत् । ५,१.९ । नाकृतत्वात् । ५,१.१० । क्रत्वन्तरवदिति चेत् । ५,१.११ । नासमवायात् । ५,१.१२ । स्थानाच्चोत्पत्तिसंयोगात् । ५,१.१३ । मुख्यक्रमेण वाङ्गानां तदर्थत्वात् । ५,१.१४ । प्रकृतौ तु स्वशब्दत्वाद्याक्रमं प्रतीयेत । ५,१.१५ । मन्त्रतस्तु विरोधे स्यात्प्रयोगरूपसामर्थ्यात्तस्मादुत्पत्तिदेशः सः । ५,१.१६ । तद्वचनाद्विकृतौ यथा प्रधानं स्यात् । ५,१.१७ । विप्रतिपत्तौ वा प्रकृत्यन्वयाद्यथाप्रकृति । ५,१.१८ । विकृतिः प्रकृतिधर्मत्वात्तत्काला स्याद्यथा शिष्टम् । ५,१.१९ । अपि वा क्रमकालसंयुक्ता सद्यः क्रियेत तत्र विधेरनुमानात्प्रकृतिधर्मलोपः स्यात् । ५,१.२० । कालोत्कर्ष इति चेत् । ५,१.२१ । न तत्सम्बन्धात् । ५,१.२२ । अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात् । ५,१.२३ । तदादि वाभिसम्बन्धात्तदन्तमपकर्षे स्यात् । ५,१.२४ । प्रवृत्या कृतकालानाम् । ५,१.२५ । शब्दविप्रतिषेधाच्च । ५,१.२६ । असंयोगात्तु वैकृतं तदेव प्रतिकृष्येत. ५,१.२७ । प्रासङ्गिकं च नोत्कर्षेदसंयोगात् । ५,१.२८ । तथापूर्वम् । ५,१.२९ । सान्तपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात् । ५,१.३० । अञ्यवायाच्च ५,१.३१ । असम्बन्धात्तु नोत्कर्षेत् । ५,१.३२ । प्रापणाच्च निमित्तस्य । ५,१.३३ । सम्बन्धात्सवनोत्कर्मः । ५,१.३४ । षोडशी चोक्थ्यसंयोगात् । ५,१.३५ । _______________ सन्निपाते प्राधानानामेकैकस्य गुणानां सर्वकर्म स्यात् । ५,२.१ । सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् । ५,२.२ । कारणादभ्यावृत्तिः । ५,२.३ । मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकेन । ५,२.४ । सर्वाणि त्वेककार्यत्वादेषां तद्गुणत्वात् । ५,२.५ । संयुक्ते तु प्रक्रमात्तदङ्गं स्यादितरस्य तदर्थत्वात् । ५,२.६ । वचनात्तु परिव्याणान्तमञ्जनादिः स्यात् । ५,२.७ । कारणाद्वा(न) वसर्गः स्याद्यथा पात्रवृद्धिः । ५,२.८ । न वा शब्दकृतत्वान्न्यायमात्रमितरदर्थात्पात्रविवृद्धिः । ५,२.९ । पशुगणे तस्यतस्यापवर्जयेत्पश्वैकत्वात् । ५,२.१० । दैवतैर्वैककर्म्यात् । ५,२.११ । मन्त्रस्य चार्थवत्त्वात् । ५,२.१२ । नानाबीजेष्वेकमुलूखलं विभवात् । ५,२.१३ । विवृद्धिर्वा नियामादानुपूर्व्यस्य तदर्थत्वात् । ५,२.१४ । एकं वा तण्डुलभावाद्धन्तेस्तदर्थत्वात् । ५,२.१५ । विकारे त्वनूयाजानां पात्रभेदोऽर्थभेदात्स्यात् । ५,२.१६ । प्रकृतेः पूर्वोक्तत्वादपूर्वमन्ते स्यान्न ह्यचोदितस्य शेषाम्नानम् । ५,२.१७ । मुख्यानन्तर्यमात्रेयस्तेन तुल्यश्रुतित्वादशब्दत्वात्प्राकृतानां व्यवायः स्यात् । ५,२.१८ । अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वात् । ५,२.१९ । तथा चान्यार्थदर्शनम् । ५,२.२० । कृतदेशात्तु पूर्वेषां स देशः स्यात्तेन प्रत्यक्षसंयोगान्नयायमात्रमितरत् । ५,२.२१ । प्रकृताच्च पुरस्ताद्यत् । ५,२.२२ । सन्निपातश्चेद्यथोक्तमन्ते स्यात् । ५,२.२३ । _______________ विवृद्धिः कर्मभेदात्पृषदाज्यवत्तस्यतस्योपदिश्येत । ५,३.१ । अपि वा सर्वसङ्ख्यत्वाद्विकारः प्रतीयेत । ५,३.२ । स्वस्थानात्तु विवृध्येरन् कृतानुपूर्व्यत्वात् । ५,३.३ । समिध्यमानवतीं समिद्धवतीं चान्तरेण धाय्याः स्युर्द्यावापृथिञ्योरन्तरालं समर्हणात् । ५,३.४ । तच्छब्दो वा । ५,३.५ । उष्णिक्ककुभोरन्ते दर्शनात् । ५,३.६ । स्तोमविवृद्धौ वहिष्पवमाने पुरस्तात्पर्यासादागन्तवः स्युस्तथा हि दृष्टं द्वादशाहे । ५,३.७ । पर्यास इति चान्ताख्या । ५,३.८ । अन्ते वा तदुक्तम् । ५,३.९ । वचनात्तु द्वादशाहे । ५,३.१० । अतद्विकारश्च । ५,३.११ । तद्विकारेऽप्यपूर्वत्वात् । ५,३.१२ । अन्ते तूत्तरयोर्दध्यात् । ५,३.१३ । अपि वा गायत्रीबृहत्यनुष्टुप्सु वचनात् । ५,३.१४ । ग्रहेष्टकमौपानुवाक्यं सवनचितिशेषः स्यात् । ५,३.१५ । क्रत्वग्निशेषा वा चोदितत्वादचोदनानुपूर्वस्य । ५,३.१६ । अन्ते स्युरव्यवायात् । ५,३.१७ । लिङ्गदर्शनाच्च । ५,३.१८ । मध्यमायां तु वचनाद्ब्राह्मणवत्यः । ५,३.१९ । प्राग्लोकम्पृणायास्तस्याः सम्पूरणार्थत्वात् । ५,३.२० । संस्कृते कर्म संस्काराणां तदर्थत्वात् । ५,३.२१ । अनन्तरं व्रतं तद्भूतत्वात् । ५,३.२२ । पूर्वं च लिङ्गदर्शनात् । ५,३.२३ । अर्थवादो वार्थस्य विद्यमानत्वात् । ५,३.२४ । न्यायविप्रतिषेधाच्च । ५,३.२५ । सञ्चिते त्वग्निचिद्युक्तं प्रापणान्निमित्तस्य । ५,३.२६ । क्रत्वन्ते वा प्रयोगवचनाभावात् । ५,३.२७ । अग्नेः कर्मत्वनिर्देशात् । ५,३.२८ । परेणावेदनाद्दीक्षितः स्यात्सर्वैर्दीक्षाभिसम्बन्धात् । ५,३.२९ । इष्ट्यन्ते वा तदर्था ह्यविशेषार्थसन्वन्धात् । ५,३.३० । समाख्यानं च तद्वत् । ५,३.३१ । अङ्गवत्क्रतूनामानुपूर्व्यम् । ५,३.३२ । न वासम्बन्धात् । ५,३.३३ । काम्यत्वाच्च । ५,३.३४ । आनर्थक्यान्नेति चेत् । ५,३.३५ । स्याद्विद्यार्थत्वाद्यथा परेषु सर्वस्वारात् । ५,३.३६ । य एतेनेत्यग्निष्टोमः प्रकरणात् । ५,३.३७ । लिङ्गाच्च । ५,३.३८ । अथान्येनेति संस्थानां सन्निधानात् । ५,३.३९ । तत्प्रकृतेर्वापत्तिविहारौ न तुल्येषूपपद्यते । ५,३.४० । प्रशसा च विहरणाभावात् । ५,३.४१ । विधिप्रत्ययाद्वा न ह्यकस्मात्प्रशंसा स्यात् । ५,३.४२ । एकस्तोमे वा क्रतुसंयोगात् । ५,३.४३ । सर्वेषां वा चोदनाविशेषात्प्रशंसा स्तोमानाम् । ५,३.४४ । _______________ क्रमकोयोऽर्थशब्दाभ्यां श्रुतिविशेषादर्थपरत्वाच्च । ५,४.१ । अवदानाभिघारणासादनेष्वानुपूर्व्यं प्रवृत्या स्यात् । ५,४.२ । यथारप्रदानं वा तदर्थत्वात् । ५,४.३ । लिङ्गदर्शनाच्च । ५,४.४ । वचनादिष्टिपूर्वत्वम् । ५,४.५ । सोमश्चैकेषामग्नयाधेयस्यर्तुनक्षत्रातिक्रमवचनात्तदन्तेनानर्थकं हि स्यात् । ५,४.६ । तदर्थवचनाच्च नाविशेषात्तदर्थत्वं । ५,४.७ । अयक्ष्यमाणस्य च पवमानहविषां कालनिर्देशादानन्तर्याद्विशङ्का स्यात् । ५,४.८ । इष्टिरयक्ष्यमाणस्य तदर्थ्ये न सोमपूर्वत्वम् । ५,४.९ । उत्कर्षाद्ब्राह्मणस्य सोमः स्यात् । ५,४.१० । पौर्णमासी वा श्रुतिसंयोगात् । ५,४.११ । सर्वस्य वैककर्म्यात् । ५,४.१२ । स्याद्वा विधिस्तदर्थेन । ५,४.१३ । प्रकरणात्तु कालः स्यात् । ५,४.१४ । स्वकाले स्यादविप्रतिषेधात् । ५,४.१५ । अपनयो वाधानस्य सर्वकालत्वात् । ५,४.१६ । पौर्णमास्यूर्ध्वं सोमाद्ब्राह्मणस्य वचनात् । ५,४.१७ । एकं वा शब्दसामर्थ्यात्प्राक्कृत्स्नविधानम् । ५,४.१८ । पुरोडाशस्त्वनिर्देशे तद्युक्ते देवताभावात् । ५,४.१९ । आज्यमपीति चेत् । ५,४.२० । न मिश्रदेवतत्वादैन्द्राग्नवत् । ५,४.२१ । विकृतेः प्रकृतिकालत्वात्सद्यस्कालोत्तरा विकृतिस्तयोः प्रत्यक्षशिष्टत्वात् । ५,४.२२ । द्वैयहकाल्ये तु यथान्यायम् । ५,४.२३ । वचनाद्वैककाल्यं स्यात् । ५,४.२४ । सन्नाय्याग्नीषोमीयविकारा ऊर्ध्वं सोमात्प्रकृतिवत् । ५,४.२५ । तथा सोमविकारा दर्शपूर्णमासाभ्याम् । ५,४.२६ । ________________________________________________ द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः । ६,१.१ । असाधकं तु तादर्थ्यात् । ६,१.२ । प्रत्यर्थं चाभिसंयोगात्कर्मतो ह्यभिसम्बन्धस्तस्मात्कर्मोपदेशः स्यात् । ६,१.३ । फलार्थत्वात्कर्मणः शास्त्रं सर्वाधिकारं स्यात् । ६,१.४ । कर्तुर्वा श्रुतिसंयोगाद्विधिः कार्त्स्न्येन गम्यते । ६,१.५ । लिङ्गविशेषनिर्देशात्पुंयुक्तमैतिशायनः । ६,१.६ । तदुक्तित्वाच्च दोषश्रुतिरविज्ञाते । ६,१.७ । जातिं तु बादरायणोऽविशेषात्तस्मात्स्त्र्यपि प्रतीयेत जात्यर्थस्याविशिष्टत्वात् । ६,१.८ । चोदितत्वाद्यथाश्रुति । ६,१.९ । द्रव्यवत्त्वात्तु पुंसां स्याद्द्रव्यसंयुक्तं क्रयविक्रयाभ्यामद्रव्यत्वं स्त्रीणां द्रव्यैः समानयोगित्वात् । ६,१.१० । तथा चान्यार्थदर्शनम् । ६,१.११ । तादर्थ्यात्कर्म तादर्थ्यम् । ६,१.१२ । फलोत्साहाविशेषात्तु । ६,१.१३ । अर्थेन च समवेतत्वात् । ६,१.१४ । क्रयस्य थर्ममात्रत्वम् । ६,१.१५ । स्ववत्तामपि दर्शयति । ६,१.१६ । स्ववतोस्तु वचनादैककर्म्यं स्यात् । ६,१.१७ । लिङ्गदर्शनाच्च । ६,१.१८ । क्रीतत्वात्तु भक्त्या स्वामित्वमुच्यते । ६,१.१९ । फलार्थित्वात्तु स्वामित्वेनाभिसम्बन्धः । ६,१.२० । फलवत्तां च दर्शयति । ६,१.२१ । द्व्याधानं च द्वियज्ञवत् । ६,१.२२ । गुणस्य तु विधानत्वात्पत्न्या द्वितीयशब्दः स्यात् । ६,१.२३ । तस्या यावदुक्तमाशीर्ब्रह्मचर्यमतुल्यत्वात् । ६,१.२४ । चातुर्वर्ण्यमविशेषात् । ६,१.२५ । निर्देशाद्वा त्रयाणां स्यादग्न्याधेयेऽसम्बन्धः क्रतुषु ब्राह्मणश्रुतेरित्यात्रेयः । ६,१.२६ । निमित्तार्थे न बादरिस्तस्मात्सर्वाधिकारं स्यात् । ६,१.२७ । अपि वान्यार्थदर्शनाद्यथाश्रुति प्रतीयेत । ६,१.२८ । निर्देशात्तु पक्षे स्यात् । ६,१.२९ । वैगुण्यान्नेति चेत् । ६,१.३० । न काम्यत्वात् । ६,१.३१ । संस्कारे च तत्प्रधानत्वात् । ६,१.३२ । अपि वा वेदनिर्देशादपशूद्राणां प्रतीयेत । ६,१.३३ । गुणार्थित्वान्नेति चेत् । ६,१.३४ । संस्कारस्य तदर्थत्वाद्विद्यायां पुरुषश्रुतिः । ६,१.३५ । विद्यानिर्देशान्नेति चेत् । ६,१.३६ । अबैद्यत्वादभावः कर्मणि स्यात् । ६,१.३७ । तथा चान्यार्थदर्शनम् । ६,१.३८ । त्रयाणां द्रव्यसम्पन्नः कर्मणी द्रव्यसिद्धत्वात् । ६,१.३९ । अनित्यत्वात्तु नैवं स्यादर्थाद्धि द्रव्यसंयोगः । ६,१.४० । अङ्गहीनश्च तद्धर्मा । ६,१.४१ । उत्पत्तौ नित्यसंयोगात् । ६,१.४२ । अत्र्यार्षेयस्य हानं स्यात् । ६,१.४३ । वचनाद्रथकारस्याधानेऽस्य सर्वशेषत्वात् । ६,१.४४ । न्याय्यो वा कर्मसंयोगाच्छूद्रस्य प्रतिषिद्धतत्वात् । ६,१.४५ । अकर्मत्वात्तु नैवं स्यात् । ६,१.४६ । आनर्थक्यं च संयोगात् । ६,१.४७ । गुणार्थेनेति चेत् । ६,१.४८ । उक्तमनिमित्तत्वम् । ६,१.४९ । सौधन्वनास्तु हीनत्वान्मन्त्रवर्णात्प्रतीयेरन् । ६,१.५० । रथपतिर्निषादः स्याच्छब्दसामर्थ्यात् । ६,१.५१ । लिङ्गदर्शनाच्च । ६,१.५२ । _______________ पुरुषार्थैकसिद्धित्वात्तस्य तस्याधिकारः स्यात् । ६,२.१ । अपि चोत्पत्तिसंयोगो यथा स्यात्सत्वदर्यशनं तथाभावो विभागे स्यात् । ६,२.२ । प्रयोगे पुरुषश्रुतेर्यथाकामी प्रयोगे स्यात् । ६,२.३ । प्रत्यर्थं श्रुतिभाव इति चेत् । ६,२.४ । तादर्थ्ये न गुणार्थतानुक्तेऽर्थान्तरत्वात्कर्तुः प्रधानभूतत्वात् । ६,२.५ । अपि वा कामसंयोगे सम्बन्धात्प्रयोगायोपदिश्येत प्रत्यर्थं हि विधिश्रुतिर्विषाणावत् । ६,२.६ । अन्यस्य स्यादिति चेत् । ६,२.७ । अन्यार्थेनाभिसम्बन्धः । ६,२.८ । फलकामो निमित्तमिति चेत् । ६,२.९ । न नित्यत्वात् । ६,२.१० । कर्म तथेति चेत् । ६,२.११ । न समवायात् । ६,२.१२ । प्रकमात्तु नियम्येतारम्भस्य क्रियानिमित्तत्वात् । ६,२.१३ । फलार्थित्वाद्वानियमो यथानुपक्रान्ते । ६,२.१४ । नियमो वा तन्निमित्तत्वात्कर्तुस्तत्कारणं स्यात् । ६,२.१५ । लोके कर्माणि वेदवत्ततोऽधिपुरुषज्ञानम् । ६,२.१६ । अपराधेऽपि च तैः शास्त्रम् । ६,२.१७ । अशास्त्रात्तूपसम्प्राप्तिः शास्त्रं स्यान्न प्रकल्पकं तस्मादर्थेन गम्येताप्राप्ते शास्त्रमर्थवत् । ६,२.१८ । प्रतिषेधेष्वकर्मत्वात्क्रिया स्यात्प्रतिषिद्धानां विभक्तत्वादकर्मणाम् । ६,२.१९ । शास्त्राणां त्वर्थवत्वेन पुरुषार्थो विधीयते तयोर् असमवायित्वात्तादर्थ्ये विध्यतिक्रमः । ६,२.२० । तस्मिंस्तु शिष्यमाणानि जननेन प्रवर्तेरन् । ६,२.२१ । अपि वा वेदतुल्यत्वादुपायेन प्रवर्तेरन् । ६,२.२२ । अभ्यासोऽकर्मशेषत्वात्पुरुषार्थो विधीयते । ६,२.२३ । तस्मिन्नसम्भवन्नर्थात् । ६,२.२४ । न कालेभ्य उपदिश्यन्ते । ६,२.२५ । दर्शनात्काललिङ्गानां कालविधानम् । ६,२.२६ । तेषामौत्पत्तिकत्वादागमेन प्रवर्तेत । ६,२.२७ । तथा हि लिङ्गदर्शनम् । ६,२.२८ । तथान्तःक्रतुप्रयुक्तानि । ६,२.२९ । आचाराद्गृह्यमाणेषु तथा स्यात्पुरुषार्थत्वात् । ६,२.३० । ब्राह्मणस्य तु सोमविद्याप्रजमृणवाक्येन संयोगात् । ६,२.३१ । _______________ सर्वशक्तौ प्रवृत्तिः स्यात्तथाभूतोपदेशात् । ६,३.१ । अपि वाप्येकदेशे स्यात्प्रधाने ह्यर्थनिर्वृत्तिर्गुणमात्रमितरत्तदर्थत्वात् । ६,३.२ । तदकर्मणि च दोषस्तस्मात्ततो विशेषः स्यात्प्रधानेनाभिसम्बन्धात् । ६,३.३ । कर्माभेदं तु जैमिनिः प्रयोगवचनैकत्वात्सर्वेषामुपदेशः स्यादिति । ६,३.४ । अर्थस्य व्यपवर्गित्वादेकस्यापि प्रयोगे स्याद्यथा क्रत्वन्तरेषु । ६,३.५ । विध्यपराधे च दर्शनात्समाप्तेः । ६,३.६ । प्रायश्चित्तविधानाच्च । ६,३.७ । काम्येषु चैवमर्थित्वात् । ६,३.८ । असंयोगात्तु नैवं स्याद्विधेः शब्दप्रमाणत्वात् । ६,३.९ । अकर्मणि चाप्रत्यवायात् । ६,३.१० । क्रियाणामाश्रितत्वाद्द्रव्यान्तरे विभागः स्यात् । ६,३.११ । अपि वाव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदैककर्म्यं स्यान्नामधेयं च सत्त्ववत् । ६,३.१२ । श्रुतिप्रमाणत्वाच्छिष्टाभावेऽनागमोऽन्यस्याशिष्टत्वात् । ६,३.१३ । क्वचिद्विधानाच्च । ६,३.१४ । आगमो वा चोदनार्थाविशेषात् । ६,३.१५ । नियमार्थः क्वाचिद्विधिः । ६,३.१६ । तन्नित्यं तच्चिकीर्षा हि । ६,३.१७ । न देवताग्निशब्दक्रियमन्यार्थसंयोगात् । ६,३.१८ । देवतायां च तदर्थत्वात् । ६,३.१९ । प्रतिषिद्धं चाविशेषेण हि तच्छ्रुतिः । ६,३.२० । तथा स्वामिनः फलसमवायात्फलस्य कर्मयोगित्वात् । ६,३.२१ । बहूनां तु प्रवृत्तेऽन्यमागमयेदवैगुण्यात् । ६,३.२२ । स स्वामी स्यात्संयोगात् । ६,३.२३ । कर्मकरो वा भृतत्वात् । ६,३.२४ । तस्मिंश्च फलदर्शनात् । ६,३.२५ । स तद्धर्मा स्यात्कर्मसंयोगात् । ६,३.२६ । सामान्यं तच्चिकीर्षा हि । ६,३.२७ । निर्देशात्तु विकल्पे यत्प्रवृत्तम् । ६,३.२८ । अशब्दमिति चेत् । ६,३.२९ । नानङ्गत्वात् । ६,३.३० । वचनाच्चान्याय्यमभावे तत्सामान्येन प्रतिनिधिरभावादितरस्य । ६,३.३१ । न प्रतिनिधौ समत्वात् । ६,३.३२ । स्याच्छ्रुतिलक्षणे नियतत्वात् । ६,३.३३ । न तदीप्सा हि । ६,३.३४ । मुख्याधिगमे मुख्यमागमो हि तदभावात् । ६,३.३५ । प्रबृत्तेऽपीति चेत् । ६,३.३६ । नानर्थकत्वात् । ६,३.३७ । द्रव्यसंस्कारविरोधे द्रव्यं तदर्थत्वात् । ६,३.३८ । अर्थद्रव्यविरोधेऽर्थो द्रव्याभावे तदुत्पत्तेर्द्रव्याणामर्थशेषत्वात् । ६,३.३९ । विधिरप्येकदेशे स्यात् । ६,३.४० । अपि वार्थस्य शक्यत्वादेकदेशेन निर्वर्तेतार्थानामविभक्तत्वाद्गुणमात्रमितरत्तदर्थत्वात् । ६,३.४१ । _______________ शेषाद्द्व्यवदाननाशे स्यात्तदर्थत्वात् । ६,४.१ । निर्देशाद्वान्यदागमयेत् । ६,४.२ । अपि वा शेषभाजां स्याद्विशिष्टकारणत्वात् । ६,४.३ । निर्देशाच्छेषभक्षोऽन्यैः प्रधानवत् । ६,४.४ । सर्वैर्वा समवायात्स्यात् । ६,४.५ । निर्देशस्य गुणार्थत्वम् । ६,४.६ । प्रधाने श्रुतिलक्षणम् । ६,४.७ । अर्थवदिति चेत् । ६,४.८ । न चोदनाविरोधात् । ६,४.९ । अर्थसमवायत्प्रायश्चित्तमेकदेशेऽपि । ६,४.१० । न त्वशेषे वैगुण्यात्तदर्थं हि । ६,४.११ । स्याद्वा प्राप्तनिमित्तत्वादतद्धर्मो नित्यसंयोगान्न हितस्य गुणार्थेनानित्यत्वात् । ६,४.१२ । गुणानां च परार्थत्वाद्वचनाद्व्यपाश्रय स्यात् । ६,४.१३ । भेदार्थमिति । ६,४.१४ । न शेषभूतत्वात् । ६,४.१५ । अनर्थकश्च सर्वनाशे स्यात् । ६,४.१६ । क्षामे तु सर्वदाहे स्यादेकदेशस्यावर्जनीयत्वात् । ६,४.१७ । दर्शनादेकदेशे स्यात् । ६,४.१८ । अन्येन वैतच्छास्त्राद्धि कारणप्राप्तिः । ६,४.१९ । तद्धविःशब्दान्नेति चेत् । ६,४.२० । स्यादन्यायत्वादिज्यागामी हविः शब्दस्तल्लिङ्गसंयोगात् । ६,४.२१ । यथाश्रुतीति चेत् । ६,४.२२ । न तल्लक्षणत्वादुपपातो हि कारणम् । ६,४.२३ । होमाभिषवभक्षणं च तद्वत् । ६,४.२४ । उभाभ्यां वा न हि तयोर्धर्मशास्त्रम् । ६,४.२५ । पुनराधेयमोदनवत् । ६,४.२६ । द्रव्योत्पत्तेर्वोभयोः स्यात् । ६,४.२७ । पञ्चशरावस्तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् । ६,४.२८ । चोदना वा द्रव्यदेवताविधिरवाच्ये हि । ६,४.२९ । स प्रत्यामनेत्स्थानात् । ६,४.३० । अङ्गविधिर्वा निमित्तसंयोगात् । ६,४.३१ । विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् । ६,४.३२ । निष्क्रयवादाच्च । ६,४.३३ । वत्ससंयोगे व्रतचोदना स्यात् । ६,४.३४ । कालो वोत्पन्नसंयोगाद्यथोक्तस्य । ६,४.३५ । अर्थापरिमाणाच्च । ६,४.३६ । वत्सस्तु श्रुतिसंयोगात्तदङ्गं स्यात् । ६,४.३७ । कालस्तु स्यादचोदनात् । ६,४.३८ । अनर्थकश्च कर्मसंयोगे । ६,४.३९ । अवचनाच्च स्वशब्दस्य । ६,४.४० । कालश्चेत्सन्नयत्पक्षे तल्लिङ्गसंयोगात् । ६,४.४१ । कालार्थत्वाद्वोभयोः प्रतीयेत । ६,४.४२ । प्रस्तरे शाखाश्रयणवत् । ६,४.४३ । कालविधिर्वोभयोर्विद्यामानत्वात् । ६,४.४४ । अतत्संस्कारार्थत्वाच्च । ६,४.४५ । तस्माच्च विप्रयोगे स्यात् । ६,४.४६ । उपवेषश्च पक्षे स्यात् । ६,४.४७ । _______________ अभ्युदये कालापराधादिज्याचोदना स्याद्यथा पञ्चशरावे । ६,५.१ । अपनयो वा विद्यानत्वात् । ६,५.२ । तद्रूपत्वाच्च शब्दानाम् । ६,५.३ । आतञ्चनाभ्यासस्य दर्शनात् । ६,५.४ । अपूर्वत्वाद्विधानं स्यात् । ६,५.५ । पयोदोषात्पञ्चशरावेऽदुष्टं हीतरत् । ६,५.६ । सान्नाय्योऽपि तथेति चेत् । ६,५.७ । न तस्यादुष्टत्वादविशिष्टं हि कारणम् । ६,५.८ । लक्षणार्थाश्रुतिः । ६,५.९ । उपांशुयाजेऽवचनाद्यथाप्रकृति । ६,५.१० । अपनयो वा प्रवृत्या यथेतरेषाम् । ६,५.११ । निरुप्ते स्यात्तत्संयोगात् । ६,५.१२ । प्रवृत्ते वा प्रापणान्निमित्तस्य । ६,५.१३ । लक्षणमात्रमितरत् । ६,५.१४ । तथा चान्यार्थदर्शनम् । ६,५.१५ । अनिरुप्तेऽभ्युदिते प्राकृतीभ्यो निर्वपेदित्याश्मरथ्यस्तण्डुलभूतेष्वपनयात् । ६,५.१६ । व्यूर्ध्वभाग्भ्यस्त्वालेखनस्तत्कारित्वाद्देवतापनयस्य । ६,५.१७ । विनिरुप्ते न मुष्टीनामपनयस्तद्गुणत्वात् । ६,५.१८ । अप्राकृतेन हि संयोगस्तत्स्थानीयत्वात् । ६,५.१९ । अभावाच्चेतरस्य स्यात् । ६,५.२० । सान्नाय्यसंयोगान्नासन्नायतः स्यात् । ६,५.२१ । औषधसंयोगाद्वोभयोः । ६,५.२२ । वैगुण्यान्नेति चेत् । ६,५.२३ । नातत्संस्कारत्वात् । ६,५.२४ । साम्युत्थाने विश्वजित्क्रीते विभागसंयोगात् । ६,५.२५ । प्रवृते वा प्रापणान्निमित्तस्य । ६,५.२६ । आदेशार्थेतरा श्रुतिः । ६,५.२७ । दीक्षापरिमाणे यथाकाम्यविशेषात् । ६,५.२८ । द्वादशाहस्तु लिङ्गात्स्यात् । ६,५.२९ । पौर्णमास्यामनियमोऽविशेषात् । ६,५.३० । आनन्तर्यात्तु चैत्री स्यात् । ६,५.३१ । माघी वैकाष्टकाश्रुतेः । ६,५.३२ । अन्या अपीति चेत् । ६,५.३३ । न भक्तित्वादेषा हि लोके । ६,५.३४ । दीक्षापराधे चानुग्रहात् । ६,५.३५ । उत्थाने चानुप्ररोहात् । ६,५.३६ । अस्यां च सर्वलिङ्गानि । ६,५.३७ । दीक्षाकालस्य शिष्टत्वादतिक्रमे नियतानामनुत्कर्षः प्राप्तकालत्वात् । ६,५.३८ । उत्कर्षो वा दीक्षितत्वादविशिष्टं हि कारणम् । ६,५.३९ । तत्र प्रतिहोमो न विद्यते यथा पूर्वेषाम् । ६,५.४० । कालप्राधान्याच्च । ६,५.४१ । प्रतिषेधाच्चोर्ध्वमवभृथादेष्टे । ६,५.४२ । प्रतिहोमश्चेत्सायमग्निहोत्रप्रभृतीनि हूयेरन् । ६,५.४३ । प्रातस्तु षोडशिनि । ६,५.४४ । प्रायश्चित्तमधिकारे सर्वत्र दोषमामान्यात् । ६,५.४५ । प्रकरणे वा शब्दहेतुत्वात् । ६,५.४६ । अतिद्विकारश्च । ६,५.४७ । व्यापन्नस्याप्सु गतौ यदभोज्यमार्याणां तत्प्रतीयेत । ६,५.४८ । विभागश्रुतेः प्रायश्चित्तं यौगपद्ये न विद्यते । ६,५.४९ । स्याद्वा प्राप्तनिमित्तत्वात्कालमात्रमेकम् । ६,५.५० । तत्र विप्रतिषेधाद्विकल्पः स्यात् । ६,५.५१ । प्रयोगान्तरे वोभयानुग्रहः स्यात् । ६,५.५२ । न चैकसंयोगात् । ६,५.५३ । पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवत् । ६,५.५४ । यद्युद्गाता जघन्यः स्यात्पुनर्यज्ञे सर्ववेदसं दद्याद्यथेतरस्मिन् । ६,५.५५ । अहर्गणे यस्मिन्नपच्छेदस्तदावर्तेत कर्म पृथक्त्वात् । ६,५.५६ । _______________ सन्निपाते वैगुण्यात्प्रकृतिवत्तुल्यकल्पा यजेरन् । ६,६.१ । वचनाद्वाशिरोवत्स्यात् । ६,६.२ । न वानारभ्यवादत्वात् । ६,६.३ । स्याद्वा यज्ञार्थत्वादौदुम्बरीवत् । ६,६.४ । न तत्प्रधानत्वात् । ६,६.५ । औदुम्बर्याः परार्थत्वात्कपालवत् । ६,६.६ । अन्येनापीति चेत् । ६,६.७ । नैकत्वात्तस्य चानधिकाराच्छब्दस्य चाविभक्तत्वात् । ६,६.८ । सन्निपातात्तु निमित्तविघातः स्याद्बृहद्रथन्तरवद्विभक्तशिष्टत्वाद्वसिष्ठनिर्वर्त्ये । ६,६.९ । अपि वा कृत्स्नसंयोगादविघातः प्रतीयेत स्वामित्वेनाभिसंबन्धात् । ६,६.१० । साम्नोः कर्मवृद्ध्यैकदेशेन संयोगे गुणत्वेनाभिसंबन्धस्तस्मात्तत्र विघातः स्यात् । ६,६.११ । वचनात्तु द्विसंयोगस्तस्मादेकस्य पाणिवत् । ६,६.१२ । अर्थाभावात्तु नैवं स्यात् । ६,६.१३ । अर्थानां च विभक्तत्वान्न तच्छ्रुतेन संबन्धः । ६,६.१४ । प्राणेः प्रत्यङ्गभावादसंबन्धः प्रतीयेत । ६,६.१५ । सत्राणि सर्ववर्णामामविशेषात् । ६,६.१६ । लिङ्गदर्शनाच्च । ६,६.१७ । ब्राह्मणानां वेतरयोरार्त्विज्यभावात् । ६,६.१८ । वचनादिति चेत् । ६,६.१९ । न स्वामित्वं हि विधीयते । ६,६.२० । गार्हपते वा स्यातामविप्रतिषेधात् । ६,६.२१ । न वा कल्पविरोधात् । ६,६.२२ । स्वामित्वादितरेषामहीने लिङ्गदर्शनम् । ६,६.२३ । वासिष्ठानां वा ब्रह्मत्वनियमात् । ६,६.२४ । सर्वेषां वा प्रतिप्रसवात् । ६,६.२५ । विश्वामित्रस्य हौत्रनियमाद्भृगुशुनकवसिष्ठानामनधिकारः । ६,६.२६ । विहारस्य प्रभुत्वादनग्नीनामपि स्यात् । ६,६.२७ । सारस्वते च दर्शनात् । ६,६.२८ । प्रायश्चित्तविधानाच्च । ६,६.२९ । साग्नीनां वेष्टिपूर्वत्वात् । ६,६.३० । स्वार्थेन च प्रयुक्तत्वात् । ६,६.३१ । सन्निवापं च दर्शयति । ६,६.३२ । जुह्वादीनामप्रयुक्तत्वात्संदेहे यथाकामी प्रतीयेत । ६,६.३३ । अपि वान्यानि पात्राणि साधारणानि कुर्वीरन् विप्रतिषेधाच्छास्त्रकृत्वात् । ६,६.३४ । प्रायश्चित्तमापदि स्यात् । ६,६.३५ । पुरुषकल्पेन विकृतौ कर्तृनियमः स्याद्यज्ञस्य तद्गुणत्वादभावादितरान् प्रत्येकस्मिन्नधिकारः स्यात् । ६,६.३६ । लिङ्गाच्चेज्याविशेषवत् । ६,६.३७ । न वा संयोगपृथक्त्वाद्गुणस्येज्याप्रधानत्वादसंयुक्ता हि चोदना । ६,६.३८ । इज्यायां तद्गुणत्वाद्विशेषेण नियमयेत । ६,६.३९ । _______________ स्वदाने सर्वमविशेषात् । ६,७.१ । यस्य वा प्रभुः स्यादितरस्याशक्यत्वात् । ६,७.२ । न भूमिः स्यात्सर्वान् प्रत्यविशिष्टत्वात् । ६,७.३ । अकार्यत्वाच्च ततः पुनर्विशेषः स्यात् । ६,७.४ । नित्यत्वाच्चानित्यैर्नास्ति संबन्धः । ६,७.५ । शूद्रश्च धर्मशास्त्रत्वात् । ६,७.६ । दक्षिणाकाले यत्स्वं तत्प्रतीयेत तद्दानसंयोगात् । ६,७.७ । अशेषत्वात्तदन्तः स्यात्कर्मणो द्रव्यसिद्धित्वात् । ६,७.८ । अपि वा शेषकर्म स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् । ६,७.९ । तथा चान्यार्थदर्शनम् । ६,७.१० । अशेषं तु समञ्जसादानेन शेषकर्म स्यात् । ६,७.११ । नादानस्यानित्यत्वात् । ६,७.१२ । दीक्षासु विनिर्देशादक्रत्वर्थेन संयोगस्तस्मादविरोधः स्यात् । ६,७.१३ । अहर्गणे च तद्धर्मः स्यात्सर्वेषामविशेषात् । ६,७.१४ । द्वादशशतं वा प्रकृतिवत् । ६,७.१५ । अतद्गुणत्वात्नैवं स्यात् । ६,७.१६ । लिङ्गदर्शनाच्च । ६,७.१७ । विकारः सन्नुभयतोऽविशेषात् । ६,७.१८ । अधिकं वा प्रतिप्रसवात् । ६,७.१९ । अनुग्रहाच्च पादवत् । ६,७.२० । अपरिमिते शिष्टस्य सङ्ख्याप्रतिषेधस्तच्छ्रुतित्वात् । ६,७.२१ । कल्पान्तरं वा तुल्यवत्प्रसङ्ख्यानात् । ६,७.२२ । अनियमोऽविशेषात् । ६,७.२३ । अधिकं वा स्याद्बहूर्थत्वादितरेषां सन्निधानात् । ६,७.२४ । अर्थवादश्च तदर्थवत् । ६,७.२५ । परकृतिपुराकल्पं च मनुष्यधर्मः स्यादर्थाय ह्यनुकीर्तनम् । ६,७.२६ । तद्युक्ते च प्रतिषेधात् । ६,७.२७ । निर्देशाद्वा तद्धर्मः स्यात्पञ्चावत्तवत् । ६,७.२८ । विधौ तु वेदसंयोगादुपदेशः स्यात् । ६,७.२९ । अर्थवादो वा विधिशेषत्वात्तस्मान्नित्यानुवादः स्यात् । ६,७.३० । सहस्रसंवत्सरं तदायुषामसंभवान्मनुष्येषु । ६,७.३१ । अपि वा तदधिकारान्मनुष्यधर्मः स्यात् । ६,७.३२ । नासामर्थ्यात् । ६,७.३३ । सम्बन्धादर्शनात् । ६,७.३४ । स कुलकल्पः स्यादिति कार्ष्णाजिनिरेकस्मिन्नसंभवात् । ६,७.३५ । अपि वा कृत्स्नसंयोगादेकस्यैव प्रयोगः स्यात् । ६,७.३६ । विप्रतिषेधात्तु गुण्यन्यतरः स्यादिति लावुकायनः । ६,७.३७ । संवत्सरो विचालित्वात् । ६,७.३८ । सा प्रकृतिः स्यादधिकारात् । ६,७.३९ । अहानि वाभिसंख्यत्वात् । ६,७.४० । _______________ इष्टिपूर्वत्वादक्रतुशेषो होमः संस्कृतेष्वग्निषु स्याद्पूर्वोऽप्याधानस्य सर्वशेषत्वात् । ६,८.१ । इष्टित्वे न तु संस्तवश्चतुर्होतॄनसंस्कृतेषु दर्शयति । ६,८.२ । उपदेशस्त्वपूर्वत्वात् । ६,८.३ । स सर्वेषामविशेषात् । ६,८.४ । अपि वा क्रत्वभावादनाहिताग्नेरशेषभूतनिर्देशः । ६,८.५ । जपो वानग्निसंयोगात् । ६,८.६ । इष्टित्वेन संस्तुते होमः स्यादनारभ्याग्निसंयोगादितरेषामवाच्यत्वात् । ६,८.७ । उभयोः पितृयज्ञवत् । ६,८.८ । निर्देशो वानाहिताग्नेरनारभ्याग्निसंयोगात् । ६,८.९ । पितृयज्ञे संयुक्तस्य पुनर्वचनम् । ६,८.१० । उपनयन्नादधीत होमसंयोगात् । ६,८.११ । स्थपतीष्टवल्लौकिके वा विद्याकर्मानुपूर्वत्वात् । ६,८.१२ । आधानं च भार्यासंयुक्तम् । ६,८.१३ । अकर्म चोर्ध्वमाधानात्तत्समवायो हि कर्मभिः । ६,८.१४ । श्राद्धवदिति चेत् । ६,८.१५ । न श्रुतिविप्रतिषेधात् । ६,८.१६ । सर्वार्थत्वाच्च पुत्रार्थो न प्रयोजयेत् । ६,८.१७ । सोमपानात्तु प्रापणं द्वितीयस्य तस्मादुपयच्छेत् । ६,८.१८ । पितृयज्ञे तु दर्शनात्प्रागाधानात्प्रतीयेत । ६,८.१९ । स्थपतीष्टिः प्रयाजवदग्नयाधेयं प्रयोजयेत्तादर्थ्याच्चापवृज्येत । ६,८.२० । अपि वा लौकिकेऽग्नौ स्यादाधानस्यासर्वशेषत्वात् । ६,८.२१ । अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकलत्वात् । ६,८.२२ । उदगयनपूर्वपक्षाहः पुण्याहेषु दैवानि स्मृतिरूपान्यार्थदर्शनात् । ६,८.२३ । अहनि च कर्मसाकल्यम् । ६,८.२४ । इतरेषु तु पित्र्याणि । ६,८.२५ । याच्ञाक्रयणमविद्यमाने लोकवत् । ६,८.२६ । नियतं वार्थवत्वात्स्यात् । ६,८.२७ । तथा भक्षप्रैषाच्छादनसंज्ञप्तहोमद्वेषम् । ६,८.२८ । अनर्थकं त्वनित्यं स्यात् । ६,८.२९ । पशुचोदनायामनियमोऽविशेषात् । ६,८.३० । छागो वा मन्त्रवर्णात् । ६,८.३१ । न चोदनाविरोधात् । ६,८.३२ । आर्षेयवदिति चेत् । ६,८.३३ । न तत्र ह्यचोदित्वात् । ६,८.३४ । नियमो वैकार्थ्यं ह्यर्थभेदाद्भेदः पृथवत्वेनाभिधानात् । ६,८.३५ । अनियमो वार्थान्तरत्वादन्यत्वं व्यतिरेकशब्दभेदाभ्याम् । ६,८.३६ । रूपाल्लिङ्गाच्च । ६,८.३७ । छागे न कर्माख्या रूपलिङ्गाभ्याम् । ६,८.३८ । रूपान्यत्वान्न जातिशब्दः स्यात् । ६,८.३९ । विकारो नौत्पत्तिकत्वात् । ६,८.४० । स नैमित्तिकः पशोर्गुणस्याचोदितत्वात् । ६,८.४१ । जातेर्वा तत्प्रायवचनार्थवत्वाभ्याम् । ६,८.४२ । ________________________________________________ श्रुतिप्रमाणत्वाच्छेषाणां मुख्यभेदे यथाधिकारं भावः स्यात् । ७,१.१ । उत्पत्त्यर्थाविभागाद्वा सत्त्ववदैकधर्म्यं स्यात् । ७,१.२ । चोदनाशेषभावाद्वा तद्भेदाद्व्यवतिष्ठेरन्नुत्पत्तेर्गुणभूतत्वात् । ७,१.३ । सत्वे लक्षणसंयोगात्सार्वत्रिकं प्रतीयेत । ७,१.४ । अविभागात्तु नैवं स्यात् । ७,१.५ । द्व्यर्थत्वं च विप्रतिषिद्धम् । ७,१.६ । उत्पत्तौ विध्यभावाद्वा चोदनायां प्रवृत्तिः स्यात्ततश्च कर्मभेदः स्यात् । ७,१.७ । यदि वाप्यभिधानवत्सामान्यात्सर्वधर्मः स्यात् । ७,१.८ । अर्थस्य त्वविभक्तत्वात्तथा स्यादभिधानेषु पूर्ववत्त्वात्प्रयोगस्य कर्मणः शब्दभाव्यत्वाद्विभागाच्छेषाणामप्रवृत्तिः स्यात् । ७,१.९ । स्मृतिरिति चेत् । ७,१.१० । न पूर्ववत्वात् । ७,१.११ । अर्थस्य शब्दभाव्यत्वात्प्रकरणनिबन्धनाच्छब्दादेवान्यत्र भावः स्यात् । ७,१.१२ । सामाने पूर्ववत्वादुत्पन्नाधिकारः स्यात् । ७,१.१३ । श्येनस्येति चेति । ७,१.१४ । नासन्निधानात् । ७,१.१५ । अपि वा यद्यपूर्वत्वादितरदधिकार्थे ज्यौतिष्टोमिकाद्विधेस्तद्वाचकं समानं स्यात् । ७,१.१६ । पञ्चसञ्चरेष्वर्थवादातिदेशः सन्निधानात् । ७,१.१७ । सर्वस्य वैकशब्द्यात् । ७,१.१८ । लिङ्गदर्शनाच्च । ७,१.१९ । विहिताम्नानान्नेति चेत् । ७,१.२० । नेतरार्थत्वात् । ७,१.२१ । एककपालैन्द्राग्नौ च तद्वत् । ७,१.२२ । एककपालानां वैश्वदेविकः प्रकृतिराग्रयणे सर्वहोमापरिवृत्तिदर्शनादवभृथे च सकृद्द्व्यवदानस्य वचनात् । ७,१.२३ । _______________ साम्नोऽभिधानशब्देन प्रवृत्तिः स्याद्यथाशिष्टम् । ७,२.१ । शब्दैस्त्वर्थविधित्वादर्थान्तरेऽप्रवृत्तिः स्यात्पृथग्भावात्क्रियाया ह्यभिसम्बन्धः । ७,२.२ । स्वार्थे वा स्यात्प्रयोजनं क्रियायास्तदङ्गभावेनोपदिश्येरन् । ७,२.३ । शब्दमात्रमिति चेत् । ७,२.४ । नौत्पत्तिकत्वात् । ७,२.५ । शास्त्रं चैवमनर्थकं स्यात् । ७,२.६ । स्वरस्येति चेत् । ७,२.७ । नार्थाभावाच्छ्रुतेरसंबन्धः । ७,२.८ । स्वरस्तूत्पत्तिषु स्यान्मात्रावर्णाविभक्तत्वात् । ७,२.९ । लिङ्गदर्शनाच्च । ७,२.१० । अश्रुतेस्तु विकारस्योत्तरासु यथाश्रुति । ७,२.११ । शब्दानां चासामञ्जस्यम् । ७,२.१२ । अपि तु कर्मशब्दः स्याद्भावोऽर्थः प्रसिद्धग्रहणत्वाद्विकारो ह्यविशिष्टोऽन्यैः । ७,२.१३ । अद्रव्यं चापि दृश्यते । ७,२.१४ । तस्य च क्रिया ग्रहणार्था नानार्थेषु विरूपित्वादर्थो ह्यासामलौकिको विधानात् । ७,२.१५ । तस्मिन् संज्ञाविशेषाः स्युर्विकारपृथक्त्वात् । ७,२.१६ । योनिशस्याश्च तुल्यवदितराभिर्विधीयन्ते । ७,२.१७ । अयोनौ चापि दृश्यतेऽतथायोनि । ७,२.१८ । ऐकार्थ्ये नास्ति वैरूप्यमिति चेत् । ७,२.१९ । स्यादर्थान्तरेष्वनिष्पत्तेर्यथा पाके । ७,२.२० । शब्दानां च सामञ्जस्यं । ७,२.२१ । _______________ उक्तं क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात् । ७,३.१ । अपूर्वे वापि भागित्वात् । ७,३.२ । नाम्नस्त्वौत्पत्तिकत्वात् । ७,३.३ । प्रत्यक्षाद्गुणसंयोगात्क्रियाभिधानं स्यात्तदभावेऽप्रसिद्धं स्यात् । ७,३.४ । अपि वा सत्रकर्मणि गुणार्थैषा श्रुतिः स्यात् । ७,३.५ । विश्वजिति सर्वपृष्ठे तत्पूर्वकत्वाज्ज्यौतिष्टोमिकानि पृष्ठान्यस्ति च पृष्ठशब्दः । ७,३.६ । षडहाद्वा तत्र हि चोदना । ७,३.७ । लिङ्गाच्च । ७,३.८ । उत्पन्नाधिकारो ज्योतिष्टोमः । ७,३.९ । द्वयोर्विधिरिति चेत् । ७,३.१० । न व्यर्थत्वात्सर्वशब्दस्य । ७,३.११ । तथावभृथः सोमात् । ७,३.१२ । प्रकृतेरिति चेत् । ७,३.१३ । न भक्तित्वात् । ७,३.१४ । लिङ्गदर्शनाच्च । ७,३.१५ । द्रव्यादेशे तद्द्रव्यः श्रुतिसंयोगात्पुरोडाशस्त्वनादेशे तत्प्रकृतित्वात् । ७,३.१६ । गुणविधिस्तु न गृह्णीयात्समत्वात् । ७,३.१७ । निर्मन्थ्यादिषु चैवम् । ७,३.१८ । प्रणयनं तु सौमिकमवाच्यं हीतरत् । ७,३.१९ । उत्तरवेदिप्रतिषेधश्च तद्वत् । ७,३.२० । प्राकृतं वानामत्वात् । ७,३.२१ । परिसङ्ख्यर्थं श्रवणं गुणार्थवादो वा । ७,३.२२ । प्रथमोत्तमयोः प्रणयनमुत्तरवेदिप्रतिषेधात् । ७,३.२३ । मध्यमयोर्वा गत्यर्थवादात् । ७,३.२४ । औत्तरवेदिकोऽनारभ्यवादप्रतिषेधः । ७,३.२५ । स्वरसामैककपालामिक्षं च लिङ्गदर्शनात् । ७,३.२६ । चोदनासामान्याद्वा । ७,३.२७ । कर्मजे कर्म यूपवत् । ७,३.२८ । रूपं वाशेषभूतत्वात् । ७,३.२९ । विशये लौकिकः स्यात्सर्वार्थत्वात् । ७,३.३० । न वैदिकमर्थनिर्देशात् । ७,३.३१ । तथोत्पत्तिरितरेषां समत्वात् । ७,३.३२ । संस्कृतं स्यात्तच्छब्दत्वात् । ७,३.३३ । भक्त्या वायज्ञशेषत्वाद्गुणानामभिधानत्वात् । ७,३.३४ । कर्मणः पृष्टशब्दः स्यात्तथाभूतोपदेशात् । ७,३.३५ । अभिधानोपदेशाद्वा विप्रतिषेधाद्द्रव्येषु पृष्ठशब्दः स्यात् । ७,३.३६ । _______________ इतिकर्तव्यता विधेर्यजतेः पूर्ववत्त्वम् । ७,४.१ । स लौकिकः स्याद्दृष्टप्रवृत्तित्वात् । ७,४.२ । वचनात्तु ततोऽन्यत्वम् । ७,४.३ । लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात् । ७,४.४ । अपि वान्यायपूर्वत्वाद्यत्र नित्यानुवादवचनानि स्युः । ७,४.५ । मिथो विप्रतिषेधाच्च गुणानां यथार्थतल्पना स्यात् । ७,४.६ । भागित्वात्तु नियम्येत गुणानामभिधानत्वात्सम्बन्धादभिधानवद्यथा धेनुः किशोरेण । ७,४.७ । उत्पत्तीनां समत्वाद्वा यथाधिकारं भावः स्यात् । ७,४.८ । उत्पत्तिशेषवचनं च विप्रतिषिद्धमेकस्मिन् । ७,४.९ । विध्यन्तो वा प्रकृतिवच्चोदनायां प्रवर्तेत तथा हि लिङ्गदर्शनम् । ७,४.१० । लिङ्गहेतुत्वादलिङ्गे लौकिकं स्यात् । ७,४.११ । लिङ्गस्य पूर्ववत्तवाच्चोदनाशब्दसामान्यादेकेनापि निरूप्येत यथा स्थालीपुलाकेन । ७,४.१२ । द्वादशाहिकमहर्गणे तत्प्रकृतित्वादैकाहिकमधिकागमात्तदाख्यं स्यादेकाहवत् । ७,४.१३ । लिङ्गाच्च । ७,४.१४ । न वा क्रत्वभिधानादधिकानामशब्दत्वम् । ७,४.१५ । लिङ्गं संघातधर्मः स्यात्तदर्थापत्तेर्द्रव्यवत् । ७,४.१६ । न वार्थधर्मत्वात्संघातस्य गुणत्वात् । ७,४.१७ । अर्थापत्तेर्द्रव्येषु धर्मलाभः स्यात् । ७,४.१८ । प्रवृत्त्या नियतस्य लिङ्गदर्शनम् । ७,४.१९ । विहारदर्शनं विशिष्टस्यानारभ्यवादानां प्रकृत्यर्थतवात् । ७,४.२० । ________________________________________________________ अथ विशेषलक्षणम् । ८,१.१ । यस्य लिङ्गमर्थसंयोगादभिधानवत् । ८,१.२ । प्रवृत्तित्वादिष्टेः सोमे प्रवृत्तिः स्यात् । ८,१.३ । लिङ्गदर्शनाच्च । ८,१.४ । कृत्स्वविधानाद्वापूर्वत्वम् । ८,१.५ । स्रुगभिघारणाभावस्य च नित्यानुवादात् । ८,१.६ । विधिरिति चेत् । ८,१.७ । न वाक्यशेषत्वात् । ८,१.८ । शङ्कतेचानुपोषणात् । ८,१.९ । दर्शनमैष्टिकानां स्यात् । ८,१.१० । इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः स्यात् । ८,१.११ । पशौ च लिङ्गदर्शनात् । ८,१.१२ । दैक्षस्य चेतरेषु । ८,१.१३ । ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् । ८,१.१४ । तत्प्रवृत्तिर्गणेषु स्यात्प्रतिपशु यूपदर्शनात् । ८,१.१५ । अव्यक्तासु तु सोमस्य । ८,१.१६ । गणेषु द्वादशाहस्य । ८,१.१७ । गव्यस्य च तदादिषु । ८,१.१८ । निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् । ८,१.१९ । कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृ समुदायस्यानन्वयस्तद्बन्धनत्वात् । ८,१.२० । प्रवृत्तौ चापि तादर्थ्यात् । ८,१.२१ । अश्रुतित्वाच्च । ८,१.२२ । गुणकामेष्वाश्रितत्वात्प्रवृत्तिः स्यात् । ८,१.२३ । निवृत्तिर्वा कर्मभेदात् । ८,१.२४ । अपि वातद्विकारत्वात्क्रत्वर्थत्वात्प्रवृत्तिः स्यात् । ८,१.२५ । एककर्मणि विकल्पोऽविभागो हि चोदनैकत्वात् । ८,१.२६ । लिङ्गसाधारण्याद्विकल्पः स्यात् । ८,१.२७ । ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद्विकारो हि । ८,१.२८ । अश्रुतित्वान्नेति चेत् । ८,१.२९ । स्याल्लिङ्गभावात् । ८,१.३० । तथा चान्यार्थदर्शनम् । ८,१.३१ । विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपाख्यत्वात् । ८,१.३२ । तेन च कर्मसंयोगात् । ८,१.३३ । गुणत्वेन देवताश्रुतिः । ८,१.३४ । हिरण्यमाज्यधर्मस्तेजस्त्वात् । ८,१.३५ । धर्मानुग्रहाच्च । ८,१.३६ । औषधं वा विशदत्वात् । ८,१.३७ । चरुशब्दाच्च । ८,१.३८ । तस्मिंश्च श्रपणश्रुतेः । ८,१.३९ । मधूदके द्रव्यसामान्यात्पयोविकारः स्यात् । ८,१.४० । आज्यं वा वर्णसामान्यात् । ८,१.४१ । धर्मानुग्रहाच्च । ८,१.४२ । पूर्वस्य चाविशिष्टत्वात् । ८,१.४३ । _______________ वाजिने सोमपूर्वत्वं सौत्रामण्याञ्च ग्रहेषु ताच्छब्द्यात् । ८,२.१ । अनुवषट्कारच्च । ८,२.२ । समुपहूय भक्षणाच्च । ८,२.३ । क्रयणश्रपणपुरोरुगुपयामग्रहणासादनवासोपनहनञ्च तद्वत् । ८,२.४ । हविषा वा नियम्येत तद्विकारत्वात् । ८,२.५ । प्रशंसा सोमशब्दः । ८,२.६ । वचनानीतराणि । ८,२.७ । व्यपदेशश्च तद्वत् । ८,२.८ । पशुपुरोडाशस्य च लिङ्गदर्शनम् । ८,२.९ । पशुः पुरोडाशविकारः स्याद्देवतासामान्यात् । ८,२.१० । प्रोक्षणातच्च । ८,२.११ । पर्यग्निकरणाच्च । ८,२.१२ । सान्नाय्यं वा तत्प्रभवत्वात् । ८,२.१३ । तस्य च पात्रदर्शनात् । ८,२.१४ । दध्नः स्यान्मूर्तिसामान्यात् । ८,२.१५ । पयो वा कालसामान्यात् । ८,२.१६ । पश्वानन्तर्यात् । ८,२.१७ । द्रवत्वं चाविशिष्टम् । ८,२.१८ । आमिक्षोभयभाव्यत्वादुभयविकारः स्यात् । ८,२.१९ । एकं वा चोदनैकत्वात् । ८,२.२० । दधिसंघातसामान्यात् । ८,२.२१ । पयो वा तत्प्रधानत्वाल्लोकवद्दध्नस्तदर्थत्वात् । ८,२.२२ । धर्मानुग्रहाच्च । ८,२.२३ । सत्रमहीनश्च द्वादशाहस्तस्योभयथा प्रवृत्तिरैककर्म्यात् । ८,२.२४ । अपि वा यजतिश्रुतेरहीनभूतप्रवृत्तिः स्यात्प्रकृत्या तुल्य शब्दत्वात् । ८,२.२५ । द्विरात्रादीनामेकादशरात्रादहीनत्वं यजतिचोदनात् । ८,२.२६ । त्रयोदशरात्रादिषु सत्रभूतस्तेष्वासनोपायिचोदनात् । ८,२.२७ । लिङ्गाच्च । ८,२.२८ । अन्यतरतोऽतिरात्रत्वात्पञ्चदशरात्रस्याहीनत्वं कुण्डपायिनामयनस्य च तद्भूतेष्वहीनत्वस्य दर्शनात् । ८,२.२९ । अहीनवचनाच्च । ८,२.३० । सत्रे वोपायिचोदनात् । ८,२.३१ । सत्रलिङ्गञ्च दर्शयति । ८,२.३२ । _______________ हविर्गणे परमुत्तरस्य देशसामान्यात् । ८,३.१ । देवतया वा नियम्येत शब्दत्त्वादितरस्याश्रुतित्वात् । ८,३.२ । गणचोदनायां यस्य लिङ्गं तदावृत्तिः प्रतीयेताग्नेयवत् । ८,३.३ । नानाहानि वा संघातत्वात्प्रवृत्तिलिङ्गेन चोदनात् । ८,३.४ । तथा चान्यार्थदर्शनम् । ८,३.५ । कालाभ्यासेऽपि बादरिः कर्मभेदात् । ८,३.६ । तदावृत्तिं तु जैमिनिरह्नामप्रत्यक्षसंख्यत्वात् । ८,३.७ । संस्थागणेषु तदभ्यासः प्रतीयेत कृतलक्षणग्रहणात् । ८,३.८ । अधिकाराद्वा प्रकृतिस्तद्विशिष्टा स्यादभिधानस्य तन्निमित्तत्वात् । ८,३.९ । गणादुपचयस्तत्प्रकृतित्वात् । ८,३.१० । एकाहाद्वा तेषां समत्वात्स्यात् । ८,३.११ । गायत्रीषु प्राकृतीनामवच्छेदः प्रकृत्याधिकारात्संख्यात्वादग्निष्टोमवदव्यतिरेकात्तदाख्यत्वम् । ८,३.१२ । तन्नित्यवच्च प्रथक्सतीषु तद्वचनम् । ८,३.१३ । न विंशतौ दशेति चेत् । ८,३.१४ । ऐकसंख्यमेव स्यात् । ८,३.१५ । गुणाद्वा द्रव्यशब्दः स्यादसर्वविषयत्वात् । ८,३.१६ । गोत्ववच्च समन्वयः । ८,३.१७ । संख्यायाश्च शब्दत्वात् । ८,३.१८ । इतरस्याश्रुतित्वाच्च । ८,३.१९ । द्रव्यान्तरेऽनिवेशादुक्थ्यलोपैर्विशिष्टं स्यात् । ८,३.२० । अशास्त्रलक्षणत्वाच्च । ८,३.२१ । उत्पत्तिनामधेयत्वाद्भत्तया पृथक्सतीषु स्यात् । ८,३.२२ । वचनमिति चेत् । ८,३.२३ । यावदुक्तम् । ८,३.२४ । अपूर्वे च विकल्पः स्याद्यदि संख्याविधानम् । ८,३.२५ । ऋग्गुणत्वान्नेति चेत् । ८,३.२६ । तथा पूर्ववति स्यात् । ८,३.२७ । गुणावेशश्च सर्वत्र । ८,३.२८ । निष्पन्नग्रहणान्नेति चेत् । ८,३.२९ । तथेहापिस्यात् । ८,३.३० । यदि वाविशये नियमः प्रकृत्युपबन्धाच्छरेष्वपि प्रसिद्धः स्यात् । ८,३.३१ । दृष्टः प्रयोग इतिचेत् । ८,३.३२ । तथा शरेष्वपि । ८,३.३३ । भत्तयेति चेत् । ८,३.३४ । तथेतरस्मिन् । ८,३.३५ । अर्थस्य चासमाप्तत्वान्न तासामेकदेशे स्यात् । ८,३.३६ । _______________ दर्विहोमो यज्ञाभिधानं होमसंयोगात् । ८,४.१ । स लौकिकानां स्यात्कर्तुस्तदाख्यत्वात् । ८,४.२ । सर्वेषां वा दर्शनाद्वास्तुहोमे । ८,४.३ । जुहोतिचोदनानां वा तत्संयोगात् । ८,४.४ । द्रव्योपदेशाद्वा गुणाभिधानं स्यात् । ८,४.५ । न लौकिकानामाचारग्रहणत्वाच्छब्दवतां चान्यार्थविधानात् । ८,४.६ । दर्शनाच्चान्यपात्रस्य । ८,४.७ । तथाग्निहविषोः । ८,४.८ । उक्तश्चार्थसम्बन्धः । ८,४.९ । तस्मिन् सोमः प्रवर्तेताव्यक्तत्वात् । ८,४.१० । न वा स्वाहाकारेण संयोगाद्वाषट्कारस्य च निर्देशात्तन्त्रेतेन विप्रतिषेधात् । ८,४.११ । शब्दान्तरत्वात् । ८,४.१२ । लिङ्गदर्शनाच्च । ८,४.१३ । उत्तरार्थस्तु स्वाहाकारो यथा साप्तदश्यं तत्राविप्रतिषिद्धा पुनः प्रवृत्तिर्लिङ्गदर्शनात्पशुवत् । ८,४.१४ । अनुत्तरार्थो वार्थवत्त्वादानर्थक्याद्धि प्राकृतस्योपरोधः स्यात् । ८,४.१५ । न प्रकृतावपीति चेत् । ८,४.१६ । उक्तं समवाये पारदौर्बल्यम् । ८,४.१७ । तच्चोदना वेष्टेः प्रवृत्तित्वाद्विधिः स्यात् । ८,४.१८ । शब्दसामर्थ्याच्च । ८,४.१९ । लिङ्गदर्शनाच्च । ८,४.२० । तत्राभावस्य हेतुत्वाद्गुणार्थे स्याददर्शनम् । ८,४.२१ । विधिरिति चेत् । ८,४.२२ । न वाक्यशेषत्वाद्गुणार्थे च समाधानं नानात्वेनोपपद्यते । ८,४.२३ । येषां वापरयोर्हेमस्तेषां स्यादविरोधात् । ८,४.२४ । तत्रौषधानि चोद्यन्ते तानि स्थानेन गम्येरन् । ८,४.२५ । लिङ्गाद्वा शेषहोमयोः । ८,४.२६ । प्रतिपत्ति तु ते भवतस्तस्मादताद्विकारत्वम् । ८,४.२७ । सन्निपाते विरोधिनामप्रवृत्तिः प्रतीयेत विध्युत्पत्तिव्यवस्थानादर्थस्यापरिणेयत्वाद्वचनादतिदेशः स्यात् । ८,४.१८ । ________________________________________________ यज्ञकर्म प्रधानं तद्धि चोदनाभूतं तस्य द्रव्येषु संस्कारस्तत्प्रयुक्तस्तदर्थत्वात् । ९,१.१ । संस्कारे युज्यमानानां तादर्थ्यात्तत्प्रयुक्तं स्यात् । ९,१.२ । तेन त्वर्थेन यज्ञस्य संयोगाद्धर्मसम्बन्धस्तस्माद्यज्ञप्रयुक्तं स्यात्संस्कारस्य तदर्थत्वात् । ९,१.३ । फलदेवतयोश्च । ९,१.४ । न चोदनाती हि ताद्गुण्यम् । ९,१.५ । देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वात् । ९,१.६ । अर्थापत्या च । ९,१.७ । ततश्च तेन सम्बन्धः । ९,१.८ । अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्याद्गुणत्वे देवताश्रुतिः । ९,१.९ । अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात्तस्य प्रीतिप्रधानत्वात् । ९,१.१० । द्रव्यसंख्याहेतुसमुदायं वा श्रुतिसंयोगात् । ९,१.११ । अर्थकारिते च द्रव्येण न व्यवस्था स्यात् । ९,१.१२ । अर्थो वा स्यात्प्रयोजनमितरेषामचोदनात्तस्य च गुणभूतत्वात् । ९,१.१३ । अपूर्वत्वाद्व्यवस्था स्यात् । ९,१.१४ । तत्प्रयुक्तत्वे च धर्मस्य सर्वविषयत्वम् । ९,१.१५ । तद्युक्तस्येति चेत् । ९,१.१६ । नाश्रुतित्वात् । ९,१.१७ । अधिकारादिति चेत् । ९,१.१८ । तुल्येषु नाधिकारः स्यादचोदितश्च सम्बन्धः पृथक्सतां यज्ञार्थेनाभिसम्बन्धस्तस्माद्यज्ञप्रयोजनम् । ९,१.१९ । देशबद्धमुपांशुत्वं तेषां स्याच्छ्रुतिनिर्देशात्तस्य च तत्रभावात् । ९,१.२० । यज्ञस्य वा तत्संयोगात् । ९,१.२१ । अनुवादश्च तदर्थवत् । ९,१.२२ । प्रणीतादि तथेति चेत् । ९,१.२३ । न यज्ञस्याश्रुतित्वात् । ९,१.२४ । तद्देशानां वा संघातस्य चोदितत्वात् । ९,१.२५ । अग्निधर्मः प्रतीष्टकं संघातात्पौर्णमासीवत् । ९,१.२६ । अग्नेर्वा स्याद्द्रव्यैकत्वादितरासां तदर्थत्वात् । ९,१.२७ । चोदनासमुदायात्तु पौर्णमास्यां तथा स्यात् । ९,१.२८ । पत्नीसंयाजान्तत्वं सर्वेषामविशेषात् । ९,१.२९ । लिङ्गाद्वा प्रागुत्तमात् । ९,१.३० । अनुवादो वा दीक्षा यथा नक्तं संस्थापनस्य । ९,१.३१ । स्याद्वानारभ्य विधानादन्ते लिङ्ग विरोधात् । ९,१.३२ । अभ्यासः सामिधेनीनां प्राथम्यात्स्थानधर्मः स्यात् । ९,१.३३ । इष्ट्यावृतौ प्रयाजवदावर्तेतारम्भणीया । ९,१.३४ । सकृद्वारम्भसंयोगादेकः पुनरारम्भो यावज्जीवप्रयोगात् । ९,१.३५ । अर्थाभिधानसंयोगान्मन्त्रेषु शेषभावः स्यात्तत्राचोदितमप्राप्तं चोदिताभिधानात् । ९,१.३६ । ततश्चावचनं तेषामितरार्थं प्रयुज्यते । ९,१.३७ । गुणशब्दस्तथेति चेत् । ९,१.३८ । नसमवायात् । ९,१.३९ । चोदिते तु परार्थत्वाद्विधिवदविकारः स्यात् । ९,१.४० । विकारस्तत्प्रधाने स्यात् । ९,१.४१ । असंयोगात्तदर्थेषु तद्विशिष्टं प्रतीयेत । ९,१.४२ । कर्माभावादेवमिति चेत् । ९,१.४३ । न परार्थत्वात् । ९,१.४४ । लिङ्गविशेषनिर्देशात्समानविधानेष्वप्राप्ता सारस्वती स्त्रीत्वात् । ९,१.४५ । पश्वभिधानाद्वा तद्धि चोदनाभूतं पुंविषयं पुनः पशुत्वम् । ९,१.४६ । विशेषो वा तदर्थनिर्देशात् । ९,१.४७ । पशुत्वं चैकशब्द्यात् । ९,१.४८ । यथोक्तं वा सन्निधानात् । ९,१.४९ । आम्नातादन्यदधिकारे वचनाद्विकारः स्यात् । ९,१.५० । द्वैधं वा तुल्यहेतुत्वात्सामान्याद्विकल्पः स्यात् । ९,१.५१ । उपदेशाच्च साम्नः । ९,१.५२ । नियमो वा श्रुतिविशेषादितरत्साप्तदश्यवत् । ९,१.५३ । अप्रगाणाच्छब्दान्यत्वे तथाभूतोपदेशः स्यात् । ९,१.५४ । यत्स्थाने वा तद्गीतिः स्यात्पदान्यत्वप्रधानत्वात् । ९,१.५५ । गानसंयोगाच्च । ९,१.५६ । वचनमिति चेत् । ९,१.५७ । न तत्प्रधानत्वात् । ९,१.५८ । _______________ सामानि मन्त्रमेके स्मृत्युपदेशाभ्याम् । ९,२.१ । तदुक्तदोषम् । ९,२.२ । कर्म वा विधिलक्षणम् । ९,२.३ । तादृग्द्रव्यं वचनात्पाकयज्ञवत् । ९,२.४ । तत्राविप्रतिषिद्धो द्रव्यान्तरे व्यतिरेकः प्रदेशश्च । ९,२.५ । शब्दार्थत्वात्तु नैवं स्यात् । ९,२.६ । परार्थत्वाच्च शब्दानाम् । ९,२.७ । असम्बन्धश्च कर्मणा शब्दयोः पृथगर्थत्वात् । ९,२.८ । संस्कारश्चाप्रकरणेऽग्निवत्स्यात्प्रयुक्तत्वात् । ९,२.९ । अकार्यत्वाच्च शब्दानामप्रयोगः प्रतीयेत । ९,२.१० । आश्रितत्वाच्च । ९,२.११ । प्रयुज्यत इति चेत् । ९,२.१२ । ग्रहणार्थं प्रयुज्येत । ९,२.१३ । तृचे स्याच्छ्रुतिनिर्देशात् । ९,२.१४ । शब्दार्थत्वाद्विकारस्य । ९,२.१५ । दर्शयति च । ९,२.१६ । वाक्यानां तु विभक्तत्वात्प्रतिशब्दं समाप्तिः स्यात्संस्कारस्य तदर्थत्वात् । ९,२.१७ । तथा चान्यार्थ दर्शनम् । ९,२.१८ । अनवानोपदेशश्च तद्वत् । ९,२.१९ । अभ्यासेनेतरा श्रुतिः । ९,२.२० । तदभ्यासः समासु स्यात् । ९,२.२१ । लिङ्गदर्शनाच्च । ९,२.२२ । नैमित्तिकं तूत्तरात्वमानन्तर्यात्प्रतीयेत । ९,२.२३ । ऐकार्थ्याच्च तदभ्यासः । ९,२.२४ । प्रागाथिकं तु । ९,२.२५ । स्वे च । ९,२.२६ । प्रगाथे च । ९,२.२७ । लिङ्गदर्शनाव्यतिरेतकाच्च । ९,२.२८ । अर्थैकत्वाद्विकल्पः स्यात् । ९,२.२९ । अर्थैकत्वाद्विकल्पः स्यादृक्सामयोस्तदर्थत्वात् । ९,२.३० । वचनाद्विनियोगः स्यात् । ९,२.३१ । सामप्रदेशे विकारस्तदपेक्षः स्याच्छास्त्रकृत्वात् । ९,२.३२ । वर्णे तु वादरिर्यथाद्रव्यं द्रव्यव्यतिरेकात् । ९,२.३३ । स्तोभस्यैके द्रव्यान्तरे निवृत्तिमृग्वत् । ९,२.३४ । सर्वातिदेशस्तु सामान्याल्लोकवद्विकारः स्यात् । ९,२.३५ । अन्वयञ्चापि दर्शयति । ९,२.३६ । निवृत्तिर्वार्थलोपात् । ९,२.३७ । अन्वयो वार्थवादः स्यात् । ९,२.३८ । अधिकञ्च विवर्णञ्च जैमिनिः स्तोभशब्दत्वात् । ९,२.३९ । धर्मस्यार्थकृतत्वाद्द्रव्यगुणविकारव्यतिक्रमप्रतिषेधे चोदनानुबन्धः समवायात् । ९,२.४० । तदुत्पत्तेस्तु निवृत्तिस्तत्कृतत्वात्स्यात् । ९,२.४१ । अवेश्येरन् वार्थवत्त्वात्संरकारस्य तदर्थत्वात् । ९,२.४२ । आख्या चैवं तदावेशाद्विकृतौ स्यादपूर्वत्वात् । ९,२.४३ । परार्थेन त्वर्थसामान्यं संस्कारस्य तदर्थत्वात् । ९,२.४४ । क्रियेरन् वार्थनिर्वृत्तेः । ९,२.४५ । एकार्थत्वादविभागः स्यात् । ९,२.४६ । निर्देशाद्वा व्यवतिष्ठेरन् । ९,२.४७ । अप्राकृते तद्विकाराद्विरोधाद्यवतिष्ठेरन् । ९,२.४८ । उभयसाम्नि चैवमेकार्थापत्तेः । ९,२.४९ । स्वार्थत्वाद्वा व्यवस्था स्यात्प्रकृतिवत् । ९,२.५० । पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयोगात्तदभीज्या हि । ९,२.५१ । कालस्येति चेत् । ९,२.५२ । नाप्रकरणत्वात् । ९,२.५३ । मन्त्रवर्णाच्च । ९,२.५४ । तदभावेऽग्निवदिति चेत् । ९,२.५५ । नाधिकारकत्वात् । ९,२.५६ । उभयोरविशेषात् । ९,२.५७ । यदभीज्या वा तद्विषयौ । ९,२.५८ । प्रयाजेऽपीति चेत् । ९,२.५९ । नाचोदितत्वात् । ९,२.६० । _______________ प्रकृतौ यथोत्पत्तिवचनमर्थानां तथोत्तरस्यां ततौ तत्प्रकृतित्वात्वादर्थे चाकार्यत्वात् । ९,३.१ । लिङ्गदर्शनाच्च । ९,३.२ । जातिनैमित्तिकं यथास्थानम् । ९,३.३ । अविकारमेकेऽनार्षत्वात् । ९,३.४ । लिङ्गदक्शनाच्च । ९,३.५ । निकारो वातदुक्तहेतुः । ९,३.६ । लिङ्गं मन्त्रचिकीर्षार्थम् । ९,३.७ । नियमो वोभयभागित्वात् । ९,३.८ । लौकिके दोषसंयोगादपवृक्ते हि चोद्यते निमित्तेन प्रकृतौ स्यादभागित्वात् । ९,३.९ । अन्यायस्त्वविकारेणा द्रष्टप्रतिघातित्वादविशेषाच्च तेनास्य । ९,३.१० । विकारो वा तदर्थत्वात् । ९,३.११ । अपि त्वन्यायसम्बन्धात्प्रकृतिवत्परेष्वपि यथार्थं स्यात् । ९,३.१२ । यथार्थं त्वन्यायस्याचोदितत्वात् । ९,३.१३ । छन्दसि तु यथादृष्टम् । ९,३.१४ । विप्रतिपत्तौ विकल्पः स्यात्तत्सत्वाद्गुणे त्वन्यायकल्पनैकदेशत्वात् । ९,३.१५ । प्रकरणविशेषाच्च । ९,३.१६ । अर्थाभावात्तु नैवं स्याद्गुणमात्रमितरत् । ९,३.१७ । द्यावोस्तथेति चेत् । ९,३.१८ । नोत्पत्तिशब्दत्वात् । ९,३.१९ । अपूर्वे त्वविकारोऽप्रदेशात्प्रतीयेत । ९,३.२० । विकृतौ चापि तद्वचनात् । ९,३.२१ । अध्रिगुः सवनीयेषु तद्वत्समानविधानाश्चेत् । ९,३.२२ । प्रतिनिधौ चाविकारात् । ९,३.२३ । अनाम्नानादशब्दत्वमभावाच्चेतरस्य स्यात् । ९,३.२४ । तादर्थ्याद्वा तदाख्यं स्यात्संस्कारैरविशिष्टत्वात् । ९,३.२५ । उक्तञ्च तत्त्वमस्य । ९,३.२६ । संसर्गिषु चार्थस्यास्थितपरिमाणत्वात् । ९,३.२७ । लिङ्गदर्शनाच्च । ९,३.२८ । एकधेत्येकसंयोगादभ्यासेनाभिधानं स्यात् । ९,३.२९ । अविकारो वा बहूनामेककर्मवत् । ९,३.३० । सकृत्त्वं चैकध्यं स्यादेकत्वात्त्वचोऽनभिप्रेतं तत्प्रकृतित्वात्परेष्वभ्यासेन विवृद्धावभिधानां स्यात् । ९,३.३१ । मेधपतित्वं स्वामिदेवतस्य समवायात्सर्वत्र च प्रयुक्तत्वात्तस्याचान्यायनिगदत्वात्सर्वत्रैवाविकारः स्यात् । ९,३.३२ । अपि वा द्विसमवायोऽर्थान्यत्वे यथासंख्यं प्रयोगः स्यात् । ९,३.३३ । स्वामिनो वैकशब्द्यादुत्कर्षो देवतायां स्यात्पत्न्यां द्वितीयशब्दः स्यात् । ९,३.३४ । देवता तु तदाशीष्ट्वात्सम्प्राप्तत्वात्स्वामिन्यनर्थिका स्यात् । ९,३.३५ । उत्सर्गाच्च भक्त्या तस्मिन् पतित्वं स्यात् । ९,३.३६ । उत्कृष्येतैकसंयुक्तो द्विदेवते सम्भवात् । ९,३.३७ । एकस्तु समवायात्तस्य तल्लक्षणत्वात् । ९,३.३८ । संसर्गित्वाच्च तस्मात्तेन विकल्पः स्यात् । ९,३.३९ । एकत्वेपि गुणानपायात् । ९,३.४० । नियमो बहुदेवते विकारः स्यात् । ९,३.४१ । विकल्पो वा प्रकृतिवत् । ९,३.४२ । अर्थान्तरे विकारः स्याद्देवतापृथक्त्वादेकाभिसमवायात्स्यात् । ९,३.४३ । _______________ षड्विंशतिरभ्यासेन पशुगणे तत्प्रकृतित्वाद्गणस्य प्रविभक्तत्वादविकारे हि तासामकार्त्स्न्येनाभिसम्बन्धो विकारान्न समासः स्यादसंयोगाच्च सर्वाभिः । ९,४.१ । अभ्यासेऽपि तथेति चेत् । ९,४.२ । न गुणादर्थकृतत्वाच्च । ९,४.३ । समासेऽपि तथेति चेत् । ९,४.४ । नासम्भवात् । ९,४.५ । स्वाभिश्च वचनं प्रकृतौ तथेह स्यात् । ९,४.६ । वङ्क्रीणां तु प्रधानत्वात्समासेनाभिधानं स्यात्प्राधान्यमध्रिगोस्तदर्थत्वात् । ९,४.७ । तासां च कृत्स्नवचनात् । ९,४.८ । अपि त्वसन्निपातित्वात्पत्नीवदाम्नातेनाभिधानं स्यात् । ९,४.९ । विकारस्तु प्रदेशत्वाद्यजमानवत् । ९,४.१० । अपूर्वत्वात्तथा पत्न्याम् । ९,४.११ । अनाम्नातस्त्वविकारात्सङ्ख्यासु सर्वगामित्वात् । ९,४.१२ । सङ्खाया त्वेवं प्रधानं स्याद्वङ्क्रयः पुनः प्रधानम् । ९,४.१३ । अनाम्नातवचनमवचनेन हि वङ्क्रीणां स्यान्निर्देशः । ९,४.१४ । अभ्यासो वाविकारात्स्यात् । ९,४.१५ । पशुस्त्वेवं प्राधानं स्यादभ्यासस्य तन्निमित्तत्वात्तस्मात्समासशब्दः स्यात् । ९,४.१६ । अश्वस्य चतुस्त्रिंशत्तस्य वचनाद्वैशेषिकम् । ९,४.१७ । तत्प्रतिषिध्य प्रकृतिर्नियुज्यते सा चतुस्त्रिंशद्वाच्यत्वात् । ९,४.१८ । ऋग्वा स्यादाम्नातत्वादविकल्पश्च न्याय्यः । ९,४.१९ । तस्यां तु वचनादैरवत्पदविकारः स्यात् । ९,४.२० । सर्वप्रतिषेधो वासंयोगात्पदेन स्यात् । ९,४.२१ । वनिष्ठुसन्निधानादुरूकेण वपाभिधानम् । ९,४.२२ । प्रशसास्याभिधानम् । ९,४.२३ । बाहुप्रशंसा वा । ९,४.२४ । श्येनशलाकश्यपकवषस्त्रेकपर्णेष्वाकृतिवचनं प्रसिद्धसन्निधानात् । ९,४.२५ । कार्त्स्न्यं वा स्यात्तथाभावात् । ९,४.२६ । अध्रिगोश्च तदर्थत्वात् । ९,४.२७ । प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात्तदर्थे हि विधीयते । ९,४.२८ । धारणे च परार्थत्वात् । ९,४.२९ । क्रियार्थत्वादितरेषु कर्म स्यात् । ९,४.३० । न तूत्पन्ने यस्य चोदनाप्राप्तकालत्वात् । ९,४.३१ । प्रदानदर्शनं श्रपणे तद्धर्मभोजनार्थत्वात्संसर्गाच्च मधूदकवत् । ९,४.३२ । संस्कारप्रतिषेधश्च तद्वत् । ९,४.३३ । तत्प्रतिषेधे च तथाभूतस्य वर्जनात् । ९,४.३४ । अधर्मत्वमप्रदानात्प्रणीतार्थे विधानादतुल्यत्वादसंसर्गः । ९,४.३५ । परो नित्यानुवादः स्यात् । ९,४.३६ । विहितप्रतिषेधो वा । ९,४.३७ । वर्जने गुणभावित्वात्तदुक्तप्रतिषेधात्स्यात्कारणात्केवलाशनम् । ९,४.३८ । व्रतधर्माच्च लेपवत् । ९,४.३९ । रसप्रतिषेधो वा पुरुषधर्मत्वात् । ९,४.४० । अभ्युदये दोहापनयः स्वधर्मा स्यात्प्रवृत्तत्वात् । ९,४.४१ । शृतोपदेशाच्च । ९,४.४२ । अपनयो वार्थान्तरे विधानाच्चरुपयोवत् । ९,४.४३ । लक्षणार्था शृतश्रुतिः । ९,४.४४ । श्रयणानां त्वपूर्वत्वात्प्रदानार्थे विधानं स्यात् । ९,४.४५ । गुणो वा श्रयणार्थत्वात् । ९,४.४६ । अनिर्देशाच्च । ९,४.४७ । श्रुतेश्च तत्प्रधानत्वत् । ९,४.४८ । अर्थवादश्च तदर्थत्वात् । ९,४.४९ । संस्कारं प्रति भावाच्च तस्मादप्यप्रधानम् । ९,४.५० । पर्यग्निकृतानामुत्सर्गे तादर्थ्यमुपधानवत् । ९,४.५१ । शेषप्रतिषेधो वार्थाभावादिडान्तवत् । ९,४.५२ । पूर्वत्वाच्च शब्दस्य संस्थापयतीति चाप्रबृत्तेनोपपद्यते । ९,४.५३ । प्रबृत्तेर्यज्ञहेतुत्वात्प्रतिषेधे संस्काराणामकर्म स्यात्तत्कारितत्वाद्यथा प्रयाजप्रतिषेधे ग्रहणमाज्यस्य । ९,४.५४ । क्रिया वा स्यादवच्छेदादकर्म सर्वहानं स्यात् । ९,४.५५ । आज्यसंस्थाप्रतिनिधिः स्याद्द्रव्योत्सर्गात् । ९,४.५६ । समाप्तिवचनात् । ९,४.५७ । चोदना वा कर्मोत्सर्गादन्यैः स्यादविशिष्टत्वात् । ९,४.५८ । अनिज्यां च वनस्पतेः प्रसिद्धान्तेन दर्शयति । ९,४.५९ । संस्था तद्देवतत्वात्स्यात् । ९,४.६० । ________________________________________________ विधेः प्रकरणान्तरेऽतिदेशात्सर्वकर्म स्यात् । १०,१.१ । अपि वाभिधानसंस्कारद्रव्यमर्थे क्रियेत तादर्थ्यात् । १०,१.२ । तेषामप्रत्यक्षविशिष्टत्वात् । १०,१.३ । इष्ठिरारम्भसंयोगादङ्गभूतान्निवर्तेतारमभस्य प्रधानसंयोगात् । १०,१.४ । प्रधानाच्चान्यसंयुक्तात्सर्वारम्भान्निवर्तेतानङ्गत्वात् । १०,१.५ । तस्यां तु स्यात्प्रयाजवत् । १०,१.६ । न वाङ्गभूतत्वात् । १०,१.७ । एकवाक्यत्वाच्च । १०,१.८ । कर्म च द्रव्यसंयोगार्थमर्थाभावान्निवर्तेत तादर्थ्यं श्रुतिसंयोगात् । १०,१.९ । स्थाणौ तु देशमात्रत्वादनिबृत्तिः प्रतीयेत । १०,१.१० । अपि वा शेषभूतत्वात्संस्कारः प्रतीयेत । १०,१.११ । समाख्यानं च तद्वत् । १०,१.१२ । मन्त्रवर्णश्च तद्वत् । १०,१.१३ । प्रयाजे च तन्न्यायत्वात् । १०,१.१४ । लिङ्गदर्शनाच्च । १०,१.१५ । तथाज्यभागाग्निरपीति चेत् । १०,१.१६ । व्यपदेशाद्देवतान्तरम् । १०,१.१७ । समत्वाच्च । १०,१.१८ । पशावपीति चेत् । १०,१.१९ । न तदभूतवचनात् । १०,१.२० । लिङ्गदर्शनाच्च । १०,१.२१ । गुणो वा स्यात्कपालवद्गुणभूतविकाराच्च । १०,१.२२ । अपि वा शेषभूतत्वात्तत्संस्कारः प्रतीयेत स्वाहाकारवदङ्गानामर्थसंयोगात् । १०,१.२३ । व्यृद्धवचनञ्च विप्रतिपत्तौ तदर्थत्वात् । १०,१.२४ । गुणेपीति चेत् । १०,१.२५ । नासंहानात्करालवत् । १०,१.२६ । ग्रहाणाञ्च सम्प्रतिपत्तौ तद्वचनं तदर्त्वात् । १०,१.२७ । ग्रहाभावे च तद्वचनम् । १०,१.२८ । देवतायाश्च हेतुत्वं प्रसिद्धं तेन दर्शयति । १०,१.२९ । अविरुद्धोपपत्तिरर्थापत्तेः शृतवद्भूतविकारः स्यात् । १०,१.३० । स द्व्यर्थः स्यादुभयोः श्रुतिभूतत्वाद्विप्रतिपत्तौ तादर्थ्याद्विकारत्वमुक्तं तस्यार्थवादत्वम् । १०,१.३१ । विप्रतिपत्तौ तासामाख्याविकारः स्यात् । १०,१.३२ । अभ्यासो वा प्रयाजवदेकदेशोऽन्यदेवत्यः । १०,१.३३ । चरुर्हविर्विकारः स्यादिज्यासंयोगात् । १०,१.३४ । प्रसिद्धग्रहणत्वाच्च । १०,१.३५ । ओदनो वान्नसंयोगात् । १०,१.३६ । न द्व्यर्थत्वात् । १०,१.३७ । कपालविकारो वा विशयेऽर्थोपपत्तिभ्याम् । १०,१.३८ । गुणमुख्यविशेषाच्च । १०,१.३९ । तच्छ्रुतौ चान्यहविष्ठ्वात् । १०,१.४० । लिङ्गदर्शनाच्च । १०,१.४१ । ओदनो वा प्रयुक्तत्वात् । १०,१.४२ । अपूर्वव्यपदेशाच्च । १०,१.४३ । तथा च लिङ्गदर्शनम् । १०,१.४४ । स कपाले प्रकृत्या स्यादन्यस्य चाश्रुतित्वात् । १०,१.४५ । एकस्मिन् वा विप्रतिषेधात् । १०,१.४६ । न वार्थान्तरसंयोगादपूपे पाकसंयुक्तं धारणार्थं चरौ भवति तत्रार्थात्पात्रलाभः स्यादनियमोऽविशेषात् । १०,१.४७ । चरौ वा लिङ्गदर्शनात् । १०,१.४८ । तस्मिन् पेषणमनर्थलोपात्स्यात् । १०,१.४९ । अक्रिया वा अपूपहेतुत्वात् । १०,१.५० । पिण्डार्थत्वाच्च संयवनम् । १०,१.५१ । संवपनञ्च तादर्थ्यात् । १०,१.५२ । सन्तापनमधःश्रपणात् । १०,१.५३ । उपधानं च तादर्थ्यात् । १०,१.५४ । पृथुश्लक्ष्णे वानपूपत्वात् । १०,१.५५ । अभ्यूहश्चोपरिपाकार्थत्वात् । १०,१.५६ । तथावज्वलनम् । १०,१.५७ । व्युद्धृत्यासादनं च प्रकृतावश्रुतित्वात् । १०,१.५८ । _______________ कृष्णलेष्वर्थलोपाकः स्यात् । १०,२.१ । स्याद्वा प्रत्यक्षशिष्टत्वात्प्रदानवत् । १०,२.२ । उपस्तरणाभिघारणयोरमृतार्थत्वादकर्म स्यात् । १०,२.३ । क्रियेत वार्थवादत्वात्तयोः संसर्गहेतुत्वात् । १०,२.४ । अकर्म वा चतुर्भिराप्तिवचनात्सह पूर्णं पुनश्चतुरवत्तम् । १०,२.५ । क्रिया वा मुख्यावदानपरिमाणात्सामन्यात्तद्गुणत्वम् । १०,२.६ । तेषां चैकावदानत्वात् । १०,२.७ । आप्तिः संख्या समानत्वात् । १०,२.८ । सतोस्त्वाप्तिवचनं व्यर्थम् । १०,२.९ । विकल्पस्त्वेकावदानत्वात् । १०,२.१० । सर्वविकारे त्वभ्यसानर्थक्यं हविषो हीतरस्य स्यादपि वा स्विष्टकृतः स्यादितरस्यान्याय्यत्वात् । १०,२.११ । अकर्म वा संसर्गार्थनिवृत्तत्वात्तस्मादाप्तिसमर्थत्वं । १०,२.१२ । भक्षाणां तु प्रत्यर्थत्वादकर्म स्यात् । १०,२.१३ । स्याद्वा निर्धानदर्शनात् । १०,२.१४ । वचनं वाज्यभक्षस्य प्रकृतौ स्यादभागित्वात् । १०,२.१५ । वचनं वा हिरण्यस्य प्रदानवदाज्यस्य गुणभूतत्वात् । १०,२.१६ । एकधोपहारे सहत्वं ब्रह्मभक्षाणां प्रकृतौ विहितत्वात् । १०,२.१७ । सर्वत्वं च तेषामधिकारात्स्यात् । १०,२.१८ । पुरुषापनयो वा तेषामवाच्यत्वात् । १०,२.१९ । पुरुषापनयात्स्वकालत्वम् । १०,२.२० । एकार्थत्वादविभागः स्यात् । १०,२.२१ । ऋत्विग्दानं धर्ममात्रार्थं स्याद्ददातिसामर्थ्यात् । १०,२.२२ । परिक्रयार्थं वा कर्मसंयोगाल्लोकवत् । १०,२.२३ । दक्षिणायुक्तवचनाच्च । १०,२.२४ । नचान्येनानम्येत परिक्रीयात्कर्मणः परार्थत्वात् । १०,२.२५ । परिक्रीतवचनाच्च । १०,२.२६ । सनिवन्येव भृति वचनात् । १०,२.२७ । नैष्कर्तृकेण संस्तवाच्च । १०,२.२८ । शेषभक्षाश्च तद्वत् । १०,२.२९ । संस्कारो वा द्रव्यस्य परार्थत्वात् । १०,२.३० । शेषे च समत्वात् । १०,२.३१ । स्वामिनि त दर्शनात्तत्सामान्यादितरेषान्तथात्वम् । १०,२.३२ । तथा चान्यार्थदर्शनम् । १०,२.३३ । वरणमृत्विजामानमनार्थत्वात्सत्रे न स्यात्स्वकर्मत्वात् । १०,२.३४ । परिक्रयश्च तादर्थ्यात् । १०,२.३५ । प्रतिषेधश्च कर्मवत् । १०,२.३६ । स्याद्वा प्रासर्पिकस्य धर्ममात्रत्वात् । १०,२.३७ । न दक्षिणाशब्दात्तस्मान्नित्यानुवादः स्यात् । १०,२.३८ । उदवसानीयः सत्रधर्मा स्यात्तदङ्गत्वात्तत्र दाने धर्ममात्रं स्यात् । १०,२.३९ । न त्वेतत्प्रकृतित्वाद्विभक्तचोदितत्वाच्च । १०,२.४० । तेषां तु वचनाद्द्वियज्ञवत्सहप्रयोगः स्यात् । १०,२.४१ । तत्रान्यानृत्विजो वृणीरन् । १०,२.४२ । एकैकशस्त्वविप्रतिषेधात्प्रकृतेश्चैकसंयोगात् । १०,२.४३ । कामेष्टौ च दानशब्दात् । १०,२.४४ । वचनं वा सत्रत्वात् । १०,२.४५ । द्वेष्ये च चोदनाद्दक्षिणापनयात् । १०,२.४६ । अस्थियज्ञोऽविप्रतिषेधादितरेषां स्याद्विप्रतिषेधादस्थ्नाम् । १०,२.४७ । यावादुक्तमुपयोगः स्यात् । १०,२.४८ । यदि तु वचनात्तेषां जपसंस्कारमर्थलुप्तं सेष्टि तदर्थत्वात् । १०,२.४९ । क्रत्वर्थं तु क्रियेत गुणभूतत्वात् । १०,२.४९* । काम्यानि तु न विद्यन्ते कामा ज्ञानाद्यथेतरस्यानुच्यमानानि । १०,२.५० । ईहार्थाश्चाभावात्सूक्तवाकवत् । १०,२.५१ । स्युर्वार्थवादत्वात् । १०,२.५२ । नेच्छाभिधानात्तदभावादितरस्मिन् । १०,२.५३ । स्युर्वा होतृकामाः । १०,२.५४ । न तदाषीष्ट्वात् । १०,२.५५ । सर्वस्वारस्य दिष्टगतौ समापनं न विद्यते कर्मणो जीवसंयोगात् । १०,२.५६ । स्याद्वोभयोः प्रत्क्षशिष्टत्वात् । १०,२.५७ । गते करमास्थियज्ञवत् । १०,२.५८ । जीवत्यवचनमायुराशिषस्तदर्थत्वात् । १०,२.५९ । वचनं वा भागित्वात्प्राग्यथोक्तात् । १०,२.६० । क्रिया स्याद्धर्ममात्राणाम् । १०,२.६१ । गुणलोपे च मुख्यस्य । १०,२.६२ । मुष्टिलोपात्तु संख्यालोपस्तद्गुणत्वात्स्यात् । १०,२.६३ । न निर्वापशेषत्वात् । १०,२.६४ । संख्या तु चोदनां प्रति सामान्यात्तद्विकारः संयोगाच्च परं मुष्ठेः । १०,२.६५ । न चोदनाभिसम्बन्धात्प्रक्रतौ संस्कारयोगात् । १०,२.६६ । औत्पत्तिके तु द्रव्यतो विकारः स्यादकार्यात्वात् । १०,२.६७ । नैमित्तिके तु कार्यत्वात्प्रकृतेः स्यात्तदापत्तेः । १०,२.६८ । विप्रतिषेधे तद्वचनात्प्राकृतगुणलोपः स्यात्तेन च कर्मसंयोगात् । १०,२.६९ । परेषां प्रतिषेधः स्यात् । १०,२.७० । प्रतिषेधाच्च । १०,२.७१ । अर्थाभावे संस्कारत्वं स्यात् । १०,२.७२ । अर्थेन च विपर्यासे तादर्यात्तत्त्वमेव स्यात् । १०,२.७३ । _______________ विकृतौ शब्दवत्त्वात्प्रधानस्य गुणानामधिकोत्पत्तिः सन्निधानात् । १०,३.१ । प्रकृतिवत्तस्य चानुपरोधः । १०,३.२ । चोदनाप्रभुत्वाच्च । १०,३.३ । प्रधानं त्वङ्गसंयुक्तं तथाभूतमपूर्वं स्यात्तस्य विध्युपलक्षणात्सर्वो हि पूर्ववान् विधिरविशेषात्प्रवर्तितः । १०,३.४ । न चाङ्गविधिरनङ्गे स्यात् । १०,३.५ । कर्मणश्चैकशब्द्यात्सन्निधाने विधेराख्यासंयोगो गुणेन तद्विकारः स्याच्छब्दस्य विधिगामित्वाद्गुणस्य चोपदेश्यत्वात् । १०,३.६ । अकार्यत्वाच्च नाम्नः । १०,३.७ । तुल्या च प्रभुता गुणे । १०,३.८ । सर्वमेवं प्रधानमिति चेत् । १०,३.९ । तथाभूतेन संयोगाद्यथार्थविधयः स्युः । १०,३.१० । विधित्वं चाविशिष्ठमेवं प्राकृतानां वैकृतैः कर्मणायोगात्तस्मात्सर्वं प्रधानार्थम् । १०,३.११ । समत्वाच्च तदुत्पत्तेः संस्कारैरधिकारः स्यात् । १०,३.१२ । हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात् । १०,३.१३ । प्रकृत्यनुपरोधाच्च । १०,३.१४ । उत्तरस्य वा मन्त्रार्थित्वात् । १०,३.१५ । विध्यतिदेशात्तच्छ्रुतौ विकारः स्याद्गुणानामुपदेश्यत्वात् । १०,३.१६ । पूर्वस्मिंश्चामन्त्रत्वदर्शनात् । १०,३.१७ । संस्कारे तु क्रियान्तर तस्य विधायकत्वात् । १०,३.१८ । प्रकृत्यनुपरोधाच्च । १०,३.१९ । विधेस्तु तत्र भावात्सन्देहे यस्य शब्दस्तदर्थः स्यात् । १०,३.२० । संस्कारसामर्थ्याद्गुणसंयोगाच्च । १०,३.२१ । विप्रतिषेधात्क्रियाप्रकरणे स्यात् । १०,३.२२ । षड्भिर्दीक्षयतीति तासां मन्त्रविकारः श्रुतिसंयोगात् । १०,३.२३ । अभ्यासात्तु प्रधानस्य । १०,३.२४ । आवृत्त्या मन्त्रकर्म स्यात् । १०,३.२५ । अपि वा प्रतिमन्त्रत्वात्प्राकृतानामहानिः स्यादन्यायश्च कृतेऽभ्यासः । १०,३.२६ । पौर्वापर्यञ्चाभ्यासे नोपपद्यते नैमित्तिकत्वात् । १०,३.२७ । तत्प्रथक्त्वं च दर्शयति । १०,३.२८ । न चाविशेषाद्व्यपदेशः स्यात् । १०,३.२९ । अग्न्याधेयस्य नैमित्तिके गुणविकारे दक्षिणादानमधिकं स्याद्वाक्यसंयोगात् । १०,३.३० । शिष्ठत्वाच्चेतरासां यथास्थानम् । १०,३.३१ । विकारस्त्वप्रकरणे हि काम्यानि । १०,३.३२ । शङ्कते च निवृत्तेरुभयत्वं हि श्रूयते । १०,३.३३ । वासो वत्सञ्च सामान्यात् । १०,३.३४ । अर्थापत्तेस्तद्धर्माः स्यान्निमित्ताख्याभिसंयोगात् । १०,३.३५ । दाने पाकोऽर्थलक्षणः । १०,३.३६ । पाकस्थ चान्नकारित्त्वात् । १०,३.३७ । तथाभिघारणस्य । १०,३.३८ । द्रव्यविधिसन्निधौ सङ्ख्या तेषां गुणत्वात्स्यात् । १०,३.३९ । समत्वात्तु गुणानामेकस्य श्रुतिसंयोगात् । १०,३.४० । यस्य वा सन्निधाने स्याद्वाक्यतो ह्यभिसम्बन्धः । १०,३.४१ । असंयुक्तास्तु तुल्यवदितराभिर्विधीयन्ते तस्मात्सर्वाधिकारः स्यात् । १०,३.४२ । असंयोगाद्विधिश्रुतावेकजाताधिकारः स्याच्छ्रुत्याकोपात्क्रतोः । १०,३.४३ । शब्दार्थश्चापि लोकवत् । १०,३.४४ । सापशूनामुत्पत्तितो विभागात् । १०,३.४५ । अनियमोऽविशेषात् । १०,३.४६ । भागित्वाद्वा गवां स्यात् । १०,३.४७ । प्रत्ययात् । १०,३.४८ । लिङ्गदर्शनाच्च । १०,३.४९ । तत्र दानं विभागेन प्रदानानां पृथक्त्वात् । १०,३.५० । परिक्रयाच्च लोकवत् । १०,३.५१ । विभागं चापि दर्शयति । १०,३.५२ । समं स्यादश्रुतित्वात् । १०,३.५३ । अपि वा कर्मवैषम्यात् । १०,३.५४ । अतुल्याः स्युः परिक्रये विषमाख्या विधिश्रुतौ परिक्रयान्न कर्मण्युपपद्यते दर्शनाद्विशेषस्य तथाभ्युदये । १०,३.५५ । तस्य धेनुरिति गवां प्रकृतौ विभक्तचोदितत्वात्सामान्यात्तद्विकारः स्याद्यथेष्टिर्गुणशब्देन । १०,३.५६ । सर्वस्य वा क्रतुसंयोगादेकत्वं दक्षिणार्थस्य गुणानां कार्यैकत्वादर्थे विकृतौ श्रुतिभूतं स्यात्तस्मात्समवायाद्धि कर्मभिः । १०,३.५७ । चोदनानामनाश्रयाल्लिङ्गेन नियमः स्यात् । १०,३.५८ । एका पञ्चेति धेनुवत् । १०,३.५९ । त्रिवत्सश्च । १०,३.६० । तथा च लिङ्गदर्शनम् । १०,३.६१ । एके तु श्रुतिभूतत्वात्सङ्ख्यया गवां लिङ्गविशेषेण । १०,३.६२ । प्राकाशौ तथेति चेत् । १०,३.६३ । अपि त्ववयवार्थत्वाद्विभक्तप्रकृतित्वाद्गुणेदन्ताविकारः स्यात् । १०,३.६४ । धेनुवच्चाश्वदक्षिणा स ब्रह्मण इति पुरुषापनयो यथा हिरण्यस्य । १०,३.६५ । एके तु कर्तृसंयोगात्स्रग्वत्तस्य लिङ्गविशेषेण । १०,३.६६ । अपि वा तदधिकाराद्धिरण्यवद्विकारः स्यात् । १०,३.६७ । तथा च सोमचमसः । १०,३.६८ । सर्वविकारो वा क्रत्वर्थे प्रतिषेधात्पशूनां । १०,३.६९ । ब्रह्मदानेऽविशिष्टमिति चेत् । १०,३.७० । उत्सर्गस्य क्रत्वर्थत्वात्प्रतिषिद्धस्य कर्म स्यान्न च गौणः प्रयोजनमर्थः स दक्षिणानां स्यात् । १०,३.७१ । यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात् । १०,३.७२ । सर्वं वा पुरुषापनयात्तासां क्रतुप्रधानत्वात् । १०,३.७३ । यजुर्युक्तेऽध्वर्योर्दक्षिणा विकारः स्यात् । १०,३.७४ । अपि वा श्रुतिभूतत्वात्सर्वासां तस्य भागो नियम्यते । १०,३.७५ । _______________ प्रकृतिलिङ्गासंयागात्कर्मसंस्कारं विकृतावधिकं स्यात् । १०,४.१ । चोदनालिङ्गसंयोगे तद्विकारः प्रतीयेत प्रकृतिसन्निधानात् । १०,४.२ । सर्वत्र तु ग्रहाम्नानमधिकं स्यात्प्रकृतिवत् । १०,४.३ । अधिकैश्चैकवाक्यत्वात् । १०,४.४ । लिङ्गदर्शनाच्च । १०,४.५ । प्राजापत्येषु चाम्नानात् । १०,४.६ । आमने लिङ्गदर्शनात् । १०,४.७ । उपगेषु शरवत्स्यात्प्रकृतिलिङ्गसयोगात् । १०,४.८ । आनर्थक्यात्त्वधिकं स्यात् । १०,४.९ । संस्कारे चान्यसंयोगात् । १०,४.१० । प्रयाजवदिति चेत् । १०,४.११ । नार्थान्यत्वात् । १०,४.१२ । आच्छादने त्वैकार्थ्यात्प्राकृतस्य विकारः स्यात् । १०,४.१३ । अधिकं वान्यार्थत्वात् । १०,४.१४ । समुच्चयं च दर्शयति । १०,४.१५ । सामस्वर्थान्तरश्रुतेरविकारः प्रतीयेत । १०,४.१६ । अर्थे त्वश्रूयमाणे शेषत्वात्प्राकृतस्य विकारः स्यात् । १०,४.१७ । सर्वेषामविशेषात् । १०,४.१८ । एकस्या वा श्रुतिसामर्थ्यात्प्रकृतेश्चाविकारात् । १०,४.१९ । स्तोमविबृद्धौ त्वधिकं स्यादविबृद्धौ द्रव्यविकारः स्यादितरस्याश्रुतित्वाच्च । १०,४.२० । पवमाने स्यातां तस्मिन्नावापोद्वापदर्शनात् । १०,४.२१ । वचनानि त्वपूर्वत्वात् । १०,४.२२ । विधिशब्दस्य मन्त्रत्वे भावः स्यात्तेन चोदना । १०,४.२३ । शेषाणां वा चोदनैकत्वात्तस्मात्सर्वत्र श्रूयते । १०,४.२४ । तथोत्तरस्यां ततौ तत्प्रकृतित्वात् । १०,४.२५ । प्राकृतस्य गुणश्रुतौ सगुणेनाभिधानं स्यात् । १०,४.२६ । अविकारो वार्थशब्दानपायात्स्याद्द्रव्यवत् । १०,४.२७ । तथारम्भासमवायाद्वा चोदितेनाभिधानं स्यादर्थस्य श्रुतिसमवायित्वादवचने च गुणशास्त्रमनर्थकं स्यात् । १०,४.२८ । द्रव्येष्वारम्भगामित्वादर्थे विकारः सामर्थ्यात् । १०,४.२९ । बुधन्वान् पवमानवद्विशेषनिर्देशात् । १०,४.३० । मन्त्रनिशेषनिर्देशान्न देवताविकारः स्यात् । १०,४.३१ । विधिनिगमभेदात्प्रकृतौ तत्प्रकृतित्वाद्विकृतावपि भेदः स्यात् । १०,४.३२ । यथोक्तं वा विप्रतिपत्तेर्न चोदना । १०,४.३३ । स्विष्टकृद्देवतान्यत्वे तच्छब्दत्वान्निवर्तेत । १०,४.३४ । संयोगो वार्थापत्तेरभिधानस्य कर्मजत्वात् । १०,४.३५ । सगुणस्य गुणलोपे निगमेषु यावदुक्तं स्यात् । १०,४.३६ । सर्वस्य वैककर्म्यात् । १०,४.३७ । स्विष्टकृदावापिकोऽनुयाजे स्यात्प्रयोजनवदङ्गानामर्थसंयोगात् । १०,४.३८ । अन्वाहेति च शस्त्रवत्कर्म स्याच्चोदनान्तरात् । १०,४.३९ । संस्कारो वा चोदितस्य शब्दस्य वचनार्थत्वात् । १०,४.४० । स्याद्गुणार्थत्वात् । १०,४.४१ । मनोतायां तु वचनादविकारः स्यात् । १०,४.४२ । पृष्ठार्थेऽन्यद्रथन्तरात्तद्योनिपूर्वत्वादृचां प्रविभक्तत्वात् । १०,४.४३ । स्वयोनौ वा सर्वाख्यत्वात् । १०,४.४४ । यूपवदिति चेत् । १०,४.४५ । न कर्मसंयोगात् । १०,४.४६ । कार्यत्वादुत्तरयोर्यथाप्रकृति । १०,४.४७ । समानदेवते वा तृचस्याविभागात् । १०,४.४८ । ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् । १०,४.४९ । उभयपानात्पृषदाज्ये दध्नः स्यादुपलक्षणं निगमेषु पातव्यस्योपलक्षणात् । १०,४.५० । न वा परार्थत्वाद्यज्ञपतिवत् । १०,४.५१ । स्याद्वा आवाहनस्य तादर्थ्यात् । १०,४.५२ । न वा संस्कारशब्दत्वात् । १०,४.५३ । स्याद्वा द्रव्याभिधानात् । १०,४.५४ । दध्नस्तु गुणभूतत्वादाज्यपानिगमाः स्युर्गुणत्वं श्रुतेराज्यप्रधानत्वात् । १०,४.५५ । दधि वा स्यात्प्रधानमाज्ये प्रथमान्त्यसंयोगात् । १०,४.५६ । अपि वाज्यप्रधानत्वाद्गुणार्थे व्यपदेशे भक्त्या संस्कारशब्दः स्यात् । १०,४.५७ । अपि वाख्याविकारत्वात्तेन स्यादुपलक्षणम् । १०,४.५८ । न वा स्याद्गुणशास्त्रत्वात् । १०,४.५९ । _______________ आनुपूर्व्यवतामेकदेशग्रहणेष्वागमवदन्त्यलोपः स्यात् । १०,५.१ । लिङ्गदर्शनाच्च । १०,५.२ । विकल्पो वा समत्वात् । १०,५.३ । क्रमादुपजनोऽन्तेस्यात् । १०,५.४ । लिङ्गमविशिष्टं सङ्ख्याया हि तद्वचनम् । १०,५.५ । आदितो वा प्रवृत्तिः स्यादारम्भस्य तदादित्वाद्वचनादन्त्यविधिः स्यात् । १०,५.६ । एकत्रिके तृचादिषु माध्यन्दिनेछन्दसां श्रुतिभूतत्वात् । १०,५.७ । आदितो वा तन्न्यायत्वादितरस्यानुमानिकत्वात् । १०,५.८ । यथानिवेशञ्च प्रकृतिवत्सङ्ख्यामात्रविकारत्वात् । १०,५.९ । त्रिकस्तृचे धुर्ये स्यात् । १०,५.१० । एकस्यां वा स्तोमस्यावृत्तिधर्मत्वात् । १०,५.११ । चोदनासु त्वपूर्वत्वाल्लिङ्गेन धर्मनियमः स्यात् । १०,५.१२ । प्राप्तिस्तु रात्रिशब्दसम्बन्धात् । १०,५.१३ । अपूर्वासु तु सङ्ख्यासु विकल्पः स्यात्सर्वासामर्थवत्त्वात् । १०,५.१४ । स्तोमविवृद्धौ प्राकृतानामभ्यासेन सङ्ख्यापूरणमविकारात्सङ्ख्यायां गुणशब्दत्वादन्यस्य चाश्रुतित्वात् । १०,५.१५ । आगमेन वाभ्यासस्याश्रुतित्वात् । १०,५.१६ । सङ्ख्यायाश्च पृथक्त्वनिवेशात् । १०,५.१७ । पराक्शब्दत्वात् । १०,५.१८ । उक्ताविकाराच्च । १०,५.१९ । अश्रुतित्वान्नेति चेत् । १०,५.२० । स्यादर्थचोदितानां परिमाणशास्त्रम् । १०,५.२१ । आवापवचनं चाभ्यासे नोपपद्यते । १०,५.२२ । साम्नां चोत्पत्तिसामर्थ्यात् । १०,५.२३ । धूर्येष्वपीति चेत् । १०,५.२४ । नावृत्तिधर्मत्वात् । १०,५.२५ । वहिष्पवमाने न ऋगागमः सामैकत्वात् । १०,५.२६ । अभ्यासेन तु संख्यापूरणं सामिधेनीष्वभ्यासप्रकृतित्वात् । १०,५.२७ । अविशेषान्नेति चेत् । १०,५.२८ । स्यात्तद्धर्मत्वात्प्रकृतिवदभ्यस्येतासङ्ख्यापूरणात् । १०,५.२९ । यावदुक्तं वा कृतपरिमाणत्वात् । १०,५.३० । अधिकानाञ्च दर्शनात् । १०,५.३१ । कर्मस्वपीति चेत् । १०,५.३२ । न चोदितत्वात् । १०,५.३३ । षोडशिनो वैकृतत्वं तत्र कृत्स्नविधानात् । १०,५.३४ । प्रकृतौ चाभावदर्शनात् । १०,५.३५ । अयज्ञवचनाच्च । १०,५.३६ । प्रकृतौ वा शिष्टत्वात् । १०,५.३७ । प्रकृतिदर्शनाच्च । १०,५.३८ । आम्नातं परिसङ्ख्यार्थम् । १०,५.३९ । उक्तमभावदर्शनम् । १०,५.४० । गुणादयज्ञत्वम् । १०,५.४१ । तस्याग्रयणाद्ग्रहणम् । १०,५.४२ । उक्थ्याच्च वचनात् । १०,५.४३ । तृतीयसवने वचनात्स्यात् । १०,५.४४ । अनभ्यासे पराक्शब्दस्य तादर्थ्यात् । १०,५.४५ । उक्थ्यविच्छेदवचनत्वाच्च । १०,५.४६ । आग्रयणाद्वा पराक्शब्दस्य देशवाचित्वात्पुनराधेयवत् । १०,५.४७ । विच्छेदः स्तोमसामान्यात् । १०,५.४८ । उक्थ्याग्निष्टोमसंयोगादस्तुतशस्त्रः स्यात्सति हि संस्थान्यत्वम् । १०,५.४९ । संस्तुतशस्त्रो वा तदङ्गत्वात् । १०,५.५० । लिङ्गदर्शनाच्च । १०,५.५१ । वचनात्संस्थान्यत्वम् । १०,५.५२ । अभावादतिरात्रेषु गृह्यते । १०,५.५३ । अन्वयो वानारभ्य विधानात् । १०,५.५४ । चतुर्थेचतुर्थेऽहन्यहीनस्य गृह्यत इत्यभ्यासेन प्रतीयेत भोजनवत् । १०,५.५५ । अपि वा सङ्ख्यावत्त्वान्नानाहीनेषु गृह्यते पक्षवदेकस्मिन् संख्यार्थभावात् । १०,५.५६ । भोजने तत्सङ्ख्यं स्यात् । १०,५.५७ । जगत्साम्नि सामाभावादृक्तः सामतदाख्यं स्यात् । १०,५.५८ । उभयसाम्नि नैमित्तिकं विकल्पेन समत्वात्स्यात् । १०,५.५९ । मुख्येन वा नियम्येत । १०,५.६० । निमित्तविघाताद्वा क्रतुयुक्तस्य कर्म स्यात् । १०,५.६१ । ऐन्द्रवायवस्याग्रवचनादादितः प्रतिकर्षः स्यात् । १०,५.६२ । अपि वा धर्माविशेषात्तद्धर्माणां स्वस्थाने प्रकरणादग्रत्वमुच्यते । १०,५.६३ । धारासंयोगाच्च । १०,५.६४ । कामसंयोगे तु वचनादादितः प्रतिकर्षः स्यात् । १०,५.६५ । तद्देशानां वाग्रसंयोगात्तद्युक्तं कामशास्त्रं स्यान्नित्यसंयोगात् । १०,५.६६ । परेषु चाग्रशब्दः पूर्ववत्स्यात्तदादिषु । १०,५.६७ । प्रतिकर्षो वा नित्यार्थेनाग्रस्य तदसंयोगात् । १०,५.६८ । प्रतिकर्षञ्च दर्शयति । १०,५.६९ । पुरस्तादैन्द्रवायवस्याग्रस्य कृतदेशत्वात् । १०,५.७० । तुल्यधर्मत्वाच्च । १०,५.७१ । तथा च लिङ्गदर्शनम् । १०,५.७२ । सादनं चापि शेषत्वात् । १०,५.७३ । लिङ्गदर्शनाच्च । १०,५.७४ । प्रदानं चापि सादनवत् । १०,५.७५ । न वा प्रधानत्वाच्छेषत्वात्सादनं तथा । १०,५.७६ । त्र्यनीकायां न्यायोक्तेष्वाम्नानं गुणार्थं स्यात् । १०,५.७७ । अपि वाहर्गणेष्वग्निवत्समानविधानं स्यात् । १०,५.७८ । द्वादशाहस्य व्यूढसमूढत्वं पृष्ठवत्समानविधानं स्यात् । १०,५.७९ । व्यूढो वा लिङ्गदर्शनात्समूढविकारः स्यात् । १०,५.८० । कामसंयोगात् । १०,५.८१ । तस्योभयथा प्रवृत्तिरैककर्म्यात् । १०,५.८२ । एकादशिनीवत्त्र्यनीका परिवृत्तिः स्यात् । १०,५.८३ । स्वस्थानविवृद्धिर्वाह्नामप्रत्यक्षसङ्ख्यत्वात् । १०,५.८४ । पृष्ठ्यावृत्तौ चाग्रयणस्य दर्शनात्त्रयस्त्रिंशे परिवृत्तौ पुनरैन्द्रवायवः स्यात् । १०,५.८५ । वचनात्परिवृत्तिरैकादशिनेषु । १०,५.८६ । लिङ्गदर्शनाच्च । १०,५.८७ । छन्दोव्यतिक्रमाद्व्यूढे भक्षपवमानपरिधिकपालस्यम न्त्राणां यथोत्पत्तिवचनमूहवत्स्यात् । १०,५.८८ । _______________ एकर्च स्थानि यज्ञे स्युः स्वाध्यायवत् । १०,६.१ । तृचे वा लिङ्गदर्शनात् । १०,६.२ । स्वर्दृशं प्रतिवीक्षणं कालमात्रं परार्थत्वात् । १०,६.३ । पृष्ठ्यस्य युगपद्विधेरेकाहवद्द्विसामत्वम् । १०,६.४ । विभक्ते वा समस्तविधानात्तद्विभागे विप्रतिषिद्धम् । १०,६.५ । समासस्त्वेकादशिनेषु तत्प्रकृतित्वात् । १०,६.६ । विहारप्रतिषेधाच्च । १०,६.७ । श्रुतितो वा लोकवद्विभागः स्यात् । १०,६.८ । विहारप्रकृतित्वाच्च । १०,६.९ । विशये च तदासत्तेः । १०,६.१० । त्रयस्तथेति चेत् । १०,६.११ । न समत्वात्प्रयाजवत् । १०,६.१२ । सर्वपृष्ठे पृष्ठशब्दात्तेषां स्यादेकदेशत्वं पृष्ठस्य कृतदेशत्वात् । १०,६.१३ । विधेस्तु विप्रकर्षः स्यात् । १०,६.१४ । वैरूपसामा क्रतुसंयोगात्त्रिवृद्वदेकसामा स्यात् । १०,६.१५ । पृष्ठार्थे वा प्रकृतिलिङ्गसंयोगात् । १०,६.१६ । त्रिवृद्वदिति चेत् । १०,६.१७ । न प्रकृतावकृत्स्नसंयोगात् । १०,६.१८ । विधित्वान्नेति चेत् । १०,६.१९ । स्याद्विशये तन्न्यायत्वात्कर्माविभागात् । १०,६.२० । प्रकृतेश्चाविकारात् । १०,६.२१ । त्रिवृति सङ्ख्यात्वेन सर्वसंख्याविकारः स्यात् । १०,६.२२ । स्तोमस्य वा तल्लिङ्गत्वात् । १०,६.२३ । उभयसाम्नि विश्वजिद्वद्विभागः स्यात् । १०,६.२४ । पृष्टार्थे वातदर्थत्वात् । १०,६.२५ । लिङ्गदर्शनाच्च । १०,६.२६ । पृष्ठे रसभोजनमावृत्ते संस्थिते त्रयस्त्रिंशेऽहनि स्यात्तदानन्तर्यात्प्रकृतिवत् । १०,६.२७ । अन्ते वा कृतकालत्वात् । १०,६.२८ । अभ्यासे च तदभ्यासः कर्मणः पुनः प्रयोगात् । १०,६.२९ । अन्ते वा कृतकालत्वात् । १०,६.३० । आवृत्तिस्तु व्यवाये कालभेदात्स्यात् । १०,६.३१ । मधु न दीक्षिता ब्रह्मचारित्वात् । १०,६.३२ । प्राश्येत यज्ञार्थत्वात् । १०,६.३३ । मानसमहरन्तरं स्याद्भेदव्यपदेशात् । १०,६.३४ । तेन च संस्तवात् । १०,६.३५ । अहरन्ताच्च परेण चोदना । १०,६.३६ । पक्षे सङ्ख्या सहस्रवत् । १०,६.३७ । अहरङ्गं वांशुवच्चोदनाभावात् । १०,६.३८ । दशमविसर्गवचनाच्च । १०,६.३९ । दशमेऽहनीति च तद्गुणशास्त्रात् । १०,६.४० । सङ्ख्यासामञ्जस्यात् । १०,६.४१ । पश्वतिरेके चैकस्य भावात् । १०,६.४२ । स्तुतिव्यपदेशमङ्गेन विप्रतिषिद्धं व्रतवत् । १०,६.४३ । वचनादतदन्तत्वम् । १०,६.४४ । सत्रमेकः प्रकृतिवत् । १०,६.४५ । वचनात्तु बहूनां स्यात् । १०,६.४६ । अपदेशः स्यादिति चेत् । १०,६.४७ । नैकव्यपदेशात् । १०,६.४८ । सन्निवापञ्च दर्शयति । १०,६.४९ । बहूनामिति चैकस्मिन् विशेषवचनं व्यर्थम् । १०,६.५० । अन्ये स्युरृत्विजः प्रकृतिवत् । १०,६.५१ । अपि वा यजमानाः स्युरृत्विजामभिधानसंयोगात्तेषां स्याद्यजमानत्वम् । १०,६.५२ । कर्तृसंस्कारो वचनादाधातृवदिति चेत् । १०,६.५३ । स्याद्विशये तन्न्यायत्वात्प्रकृतिवत् । १०,६.५४ । स्वाम्याख्याः स्युर्गृहपतिवदिति चेत् । १०,६.५५ । न प्रसिद्धग्रहणत्वादसंयुक्तस्य तद्धर्मेण । १०,६.५६ । दीक्षितादीक्षितव्यपदेशश्च नोपपद्यतेऽर्थयोर्नित्यभावित्वात् । १०,६.५७ । अदक्षिणत्वाच्च । १०,६.५८ । द्वादशाहस्य सत्रत्वमासनोपायिचोदनेन यजमानबहुत्वेन च सत्रशब्दाभिसंयोगात् । १०,६.५९ । यजतिचोदनादहीनत्वं स्वामिनां चास्थितपरिमाणत्वात् । १०,६.६० । अहीने दक्षिणाशास्त्रं गुणत्वात्प्रत्यह कर्मभेदः स्यात् । १०,६.६१ । सर्वस्य वैककर्म्यात् । १०,६.६२ । पृषदाज्यवद्वाह्नां गुणशास्त्रं स्यात् । १०,६.६३ । ज्यौतिष्टोम्यस्तु दक्षिणाः सर्वासामेककर्मत्वात्प्रकृतिवत्तस्मान्नासां विकारः स्यात् । १०,६.६४ । द्वादशाहे तु वचनात्प्रत्यहं दक्षिणाभेदस्तत्प्रकृतित्वात्परेषु तासां संख्याविकारः स्यात् । १०,६.६५ । परिक्रयाविभागाद्वा समस्तस्य विकारः स्यात् । १०,६.६६ । भेदस्तु गुणसंयोगात् । १०,६.६७ । प्रत्यहं सर्वसंस्कारः प्रकृतिवत्सर्वासां सर्वशेषत्वात् । १०,६.६८ । एकार्थत्वान्नेति चेत् । १०,६.६९ । स्यादुत्पत्तौ कालभेदात् । १०,६.७० । विभज्य तु संस्कारवचनाद्द्वादशाहवत् । १०,६.७१ । लिङ्गेन द्रव्यनिर्देशे सर्वत्र प्रत्ययः स्याल्लिङ्गस्य सर्वगामित्वादाग्नेयवत् । १०,६.७२ । यावदर्थं वार्थशेषत्वादल्पेन परिमाणं स्यात्तस्मिंश्च लिङ्गसामर्थ्यम् । १०,६.७३ । आग्नेये कृत्स्नविधिः । १०,६.७४ । ऋजीषस्य प्रधानत्वादहर्गणे सर्वस्य प्रतिपत्तिः स्यात् । १०,६.७५ । वाससि मानोपावहरणे प्रकृतौ सोमस्य वचनात् । १०,६.७६ । तत्राहर्गणेऽर्थाद्वासः प्रकृतिः स्यात् । १०,६.७७ । मानं प्रत्युत्पादयेत्प्रकृतौ तेन दर्शनादुपावहरणस्य । १०,६.७८ । हरणे वा श्रुत्यसंयोगादर्थाद्विकृतौ तेन । १०,६.७९ । _______________ पशोरेकहविष्ट्वं समस्तचोदितत्वात् । १०,७.१ । प्रत्यङ्गं वा ग्रहवदङ्गानां पृथक्कल्पनत्वात् । १०,७.२ । हविर्भेदात्कर्मणेऽभ्यासस्तस्मात्तेभ्योऽवदानं स्यात् । १०,७.३ । आज्यभागवद्वा निर्देशात्परिसंख्या स्यात् । १०,७.४ । तेषां वा द्व्यवदानत्वं विवक्षन्नभिनिर्दिशेत्पशोः पञ्चावदानत्वात् । १०,७.५ । अंसशिरोऽनूकसक्थिप्रतिषेधश्च तदन्यपरिसङ्ख्यानेऽनर्थकः स्यात्प्रदानत्वात्तेषां निरवदानप्रतिषेधः स्यात् । १०,७.६ । अपि वा परिसङ्ख्या स्यादनवदानीयशब्दत्वात् । १०,७.७ । अब्राह्मणे च दर्शनात् । १०,७.८ । शृताशृतोपदेशाच्च तेषामुत्सर्गवदयज्ञशेषत्वं । १०,७.९ । इज्याशेषात्स्विष्टकृदिज्येत प्रकृतिवत् । १०,७.१० । त्र्यङ्गैर्वा शरवद्विकारः स्यात् । १०,७.११ । अध्यूध्नी होतुस्त्र्यङ्गवदिडाभक्षविकारः स्यात् । १०,७.१२ । शेषे वा समवैति तस्माद्रथवन्नियमः स्यात् । १०,७.१३ । अशास्त्रत्वात्तु नैवं स्यात् । १०,७.१४ । अपि वा दानमात्रं स्याद्भक्षशब्दानभिसम्बन्धात् । १०,७.१५ । दातुस्त्वविद्यमानत्वादिडाभक्षविकारः स्याच्छेषं प्रत्यविशिष्टत्वात् । १०,७.१६ । अग्नीधश्च वनिष्ठुरध्यूध्नीवत् । १०,७.१७ । अप्राकृतत्वान्मैत्रावरुणस्याभक्षत्वम् । १०,७.१८ । स्याद्वा होत्रध्वर्युविकारत्वात्तयो कर्माभिसम्बन्धात् । १०,७.१९ । द्विभागः स्याद्द्विकर्मत्वात् । १०,७.२० । एकत्वाद्वैकभागः स्याद्भागस्याश्रुतिभूतत्वात् । १०,७.२१ । प्रतिप्रस्थातुश्च वपाश्रपणात् । १०,७.२२ । अभक्षो वा कर्मभेदात्तस्याः सर्वप्रदानत्वात् । १०,७.२३ । विकृतौ प्राकृतस्य विधेर्ग्रहणात्पुनः श्रुतिरनर्थिका स्यात् । १०,७.२४ । अपि वाग्नेयवद्द्विशब्दत्वं स्यात् । १०,७.२५ । न वा शब्दपृथक्त्वात् । १०,७.२६ । अधिकं वार्थवत्त्वात्स्यादर्थवादगुणाभावे वचनादविकारे तेषु हि तादर्थ्यं स्यादपूर्वत्वात् । १०,७.२७ । प्रतिषेधः स्यादिति चेत् । १०,७.२८ । नाश्रुतत्वात् । १०,७.२९ । अग्रहणादिति चेत् । १०,७.३० । न तुल्यत्वात् । १०,७.३१ । तथा तद्ग्रहणे स्यात् । १०,७.३२ । अपूर्वतां तु दर्शयेद्ग्रहणस्यार्थवत्त्वात् । १०,७.३३ । ततोऽपि यावदुक्तं स्यात् । १०,७.३४ । स्विष्टकृद्भक्षप्रतिषेधः स्यात्तुल्यकारणत्वात् । १०,७.३५ । अतिषेधो वा दर्शनादिडायां स्यात् । १०,७.३६ । प्रतिषेधो वा विधिपूर्वस्य दर्शनात् । १०,७.३७ । शंय्विडान्तत्वे विकल्पः स्यात्परेषु पत्न्यनुयाजप्रतिषेधोऽनर्थकः स्यात् । १०,७.३८ । नित्यानुवादो वा कर्मणः स्यादशब्दत्वात् । १०,७.३९ । प्रतिषेधार्थवत्त्वाच्चोत्तरस्य परस्तात्प्रतिषेधः स्यात् । १०,७.४० । प्राप्तेर्वा पूर्वस्य वचनादतिक्रमः स्यात् । १०,७.४१ । प्रतिषेधस्य त्वरायुक्तत्वात्तस्य च नान्यदेशत्वम् । १०,७.४२ । उपसत्सु यावदुक्तमकर्म स्यात् । १०,७.४३ । स्त्रोवेण वागुणत्वाच्छेषप्रतिषेधः स्यात् । १०,७.४४ । अप्रतिषेधं वा प्रतिषिध्यप्रतिप्रसवात् । १०,७.४५ । अनिज्या वा शेषस्य मुख्यदेवतानभीज्यत्वात् । १०,७.४६ । अवभृथे बर्हिषः प्रतिषेधाच्छेषकर्म स्यात् । १०,७.४७ । आज्यभागयोर्वा गुणत्वाच्छेषप्रतिषेधः स्यात् । १०,७.४८ । प्रयाजानां त्वेकदेशप्रतिषेधाद्वाक्यशेषत्वं तस्मान्नित्यानुवादः स्यात् । १०,७.४९ । आज्यभागयोर्ग्रहणं वित्यानुवादो वा गृहमेधीयवत्स्यात् । १०,७.५० । विरोधिनामेकश्रुतौ नियमः स्याद्ग्रहणस्यार्थवत्त्वाच्छरवच्च श्रुतितो विशिष्टत्वात् । १०,७.५१ । उभयप्रदेशान्नेति चेत् । १०,७.५२ । शरेष्वपीति चेत् । १०,७.५३ । विरोध्यग्रहणात्तथा शरेष्विति चेत् । १०,७.५४ । तथेतरास्मिन् । १०,७.५५ । श्रुत्यानर्थक्यमिति चेत् । १०,७.५६ । ग्रहणस्यार्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् । १०,७.५७ । सर्वासां च गुणानामर्थवत्त्वाद्ग्रहणमप्रवृत्ते स्यात् । १०,७.५८ । अधिकं स्यादिति चेत् । १०,७.५९ । नार्थाभावात् । १०,७.६० । तथैकार्थविकारे प्राकृतस्याप्रवृत्तिः प्रवृत्तौ हि विकल्पः स्यात् । १०,७.६१ । यावच्छ्रुतीति चेत् । १०,७.६२ । न प्रकृतावशब्दत्वात् । १०,७.६३ । विकृतौ त्वनियमः स्यात्प्रषदाज्यवद्ग्रहणस्य गुणार्थत्वादुभयोश्च प्रदिष्टत्वाद्गुणशास्त्रं यदेति स्यात् । १०,७.६४ । ऐकार्थ्याद्वा नियम्येत श्रुतितो विशिष्टत्वात् । १०,७.६५ । विरोधित्वाच्च लोकवत् । १०,७.६६ । क्रतोश्च तद्गुणत्वात् । १०,७.६७ । विरोधिनाञ्च तच्छ्रुतावशब्दत्वाद्विकल्पः स्यात् । १०,७.६८ । पृषदाज्ये समुच्चयाद्ग्रहणस्य गुणार्थत्वम् । १०,७.६९ । यद्यपि चतुरवत्तीति तु नियमे नोपपद्यते । १०,७.७० । क्रत्वन्तरे वा तन्न्यायत्वात्कर्मभेदात् । १०,७.७१ । यथाश्रुतीति चेत् । १०,७.७२ । न चोदनैकत्वात् । १०,७.७३ । _______________ प्रतिषेधः प्रदेशेऽनारभ्यविधाने च प्राप्तप्रतिषिद्धत्वाद्विकल्पः स्यात् । १०,८.१ । अर्थप्राप्तवदिति चेत् । १०,८.२ । न तुल्यहेतुत्वादुभयं शब्दलक्षणम् । १०,८.३ । अपि तु वाक्यशेषः स्यादन्याय्यत्वाद्विकल्पस्य विधीनामेकदेशः स्यात् । १०,८.४ । अपूर्वे चार्थवादः स्यात् । १०,८.५ । शिष्ट्वा तु प्रतिषेधः स्यात् । १०,८.६ । न चेदन्यं प्रकल्पयेत्प्रकॢप्तावर्थवादः स्यादानर्थक्यात्परसामर्थ्याच्च । १०,८.७ । पूर्वैश्च तुल्यकालत्वात् । १०,८.८ । उपवादश्च तद्वत् । १०,८.९ । प्रतिषेधादकर्मेति चेत् । १०,८.१० । न शब्दपूर्वत्वात् । १०,८.११ । दीक्षितस्य दानहोमपाकप्रतिषेधोऽविशेषात्सर्वदानहोमपाकप्रतिषेधः स्यात् । १०,८.१२ । अक्रतुयुक्तानां वा धर्मः स्यात्क्रतोः प्रत्यक्षशिष्टत्वात् । १०,८.१३ । तस्य वाप्यानुमानिकमविशेषात् । १०,८.१४ । अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात् । १०,८.१५ । अविशेषेण यच्छास्त्रमन्याय्यत्वाद्विकल्पस्य तत्सन्दिग्धमाराद्विशेषशिष्टं स्यात् । १०,८.१६ । अप्रकरणे तु यच्छास्त्रं विशेषे श्रुयमाणमविकृतमाज्यभागवत्प्राकृतप्रतिषेधार्थम् । १०,८.१७ । विकारे तु तदर्थं स्यात् । १०,८.१८ । वाक्यशेषो वा क्रतुना ग्रहणात्स्यादनारभ्यविधानस्य । १०,८.१९ । मन्त्रेष्ववाक्यशेषत्वं गुणोपदेशात्स्यात् । १०,८.२० । अनाम्नाते च दर्शनात् । १०,८.२१ । प्रतिषेधाच्च । १०,८.२२ । अग्न्यतिग्राह्यस्य विकृतावुपदेशादप्रवृत्तिः स्यात् । १०,८.२३ । मासि ग्रहणञ्च तद्वात् । १०,८.२४ । ग्रहणं वा तुल्यत्वात् । १०,८.२५ । लिङ्गदर्शनाच्च । १०,८.२६ । ग्रहणं समानविधानं स्यात् । १०,८.२७ । मासिग्रहणमभ्यासप्रतिषेधार्थम् । १०,८.२८ । उत्पत्तितादर्थ्याच्चतुरवत्तम प्रधानस्य होमसंयोगादधिकमाज्यमतुल्यत्वाल्लोकवदुत्पत्तेर्गुणभूतत्वात् । १०,८.२९ । तत्संस्कारश्रुतेश्च । १०,८.३० । ताभ्यां वा सह स्विष्टकृतः सकृत्त्वे द्विपभिघारणेन तदाप्तिवचनात् । १०,८.३१ । तुल्यवच्चाभिधाय सर्वेषु भक्त्यनुक्रमणात् । १०,८.३२ । साप्तदश्यवन्नियम्येत । १०,८.३३ । हविषो वा गुणभूतत्वात्तथाभूतविवक्षा स्यात् । १०,८.३४ । पुरोडाशाभ्यामित्य धिकृतानां पुरोडाशयोरुपदेशस्तच्छ्रुतित्वाद्वैश्यस्तोमवत् । १०,८.३५ । न त्वनित्याधिकारोऽस्ति विधौ नित्येन सम्बन्धस्तस्मादवाक्यशेषत्वम् । १०,८.३६ । सति च नैकदेशेन कर्तुः प्रधानभूतत्वात् । १०,८.३७ । कृत्स्नत्वात्तु तथा स्तोमे । १०,८.३८ । कर्तुः स्यादिति चेत् । १०,८.३९ । न गुणार्थत्वात्प्राप्ते न चोपदेशार्थः । १०,८.४० । कर्मणोस्तु प्रकरणे तन्न्यायत्वाद्गुणानां लिङ्गेन कालशास्त्रं स्यात् । १०,८.४१ । यदि तु सान्नाय्यं सोमयाजिनो न ताभ्यां समवायोऽस्ति विभक्तकालत्वात् । १०,८.४२ । अपि वा विहितत्वाद्गुणार्थायां पुनः श्रुतौ सन्देहे श्रुतिर्द्विदेवतार्था स्याद्यथानभिप्रेतस्तथाग्नेयो दर्शनादेकदेवते । १०,८.४३ । विधिं तु बादरायणः । १०,८.४४ । प्रतिषिद्धविज्ञानाद्वा । १०,८.४५ । तथा चान्यार्थदर्शनम् । १०,८.४६ । उपांशुयाजमन्तरा यजतीति हविर्लिङ्गाश्रुतित्वाद्यथाकामी प्रतीयेत । १०,८.४७ । ध्रौवाद्वा सर्वसंयोगात् । १०,८.४८ । तद्वच्च देवतायां स्यात् । १०,८.४९ । तान्द्रीणां प्रकरणात् । १०,८.५० । धर्माद्वा स्यात्प्रजापतिः । १०,८.५१ । देवतायास्त्वनिर्वचनं तत्र शब्दस्येह मृदुत्वं तस्मादिहाधिकारेण । १०,८.५२ । विष्णुर्वा स्याद्धौत्राम्नानादमावास्याहविश्च स्याद्धौत्रस्य तत्र दर्शनात् । १०,८.५३ । अपि वा पौर्णमास्यां स्यात्प्रधानशब्दसंयोगाद्गुणत्वान्मन्त्रो यथा प्रधानं स्यात् । १०,८.५४ । आनन्तर्यञ्च सान्नाय्यस्य पुरोडाशेन दर्शयत्यमावास्याविकारे । १०,८.५५ । अग्नीषोमविधानात्तु पौर्णमास्यामुभयत्र विधीयते । १०,८.५६ । प्रतिषिद्ध्यविधानाद्वा विष्णुः समानदेशः स्यात् । १०,८.५७ । तथा चान्यार्थदर्शनम् । १०,८.५८ । न चानङ्ग सकृच्छ्रुतावुभयत्र विधीयोतासम्बन्धात् । १०,८.५९ । गुणानां च परार्थत्वात्प्रवृत्तौ विधिलिङ्गानि दर्शयति । १०,८.६० । विकारे चाश्रुतित्वात् । १०,८.६१ । द्विपुरोडाशायां स्यादन्तरार्थत्वात् । १०,८.६२ । अजामिकरणार्थत्वाच्च । १०,८.६३ । तदर्थमिति चेन्न तत्प्रधानत्वात् । १०,८.६४ । अशिष्ठेन च सम्बन्धात् । १०,८.६५ । उत्पत्तेस्तु निवेशः स्याद्गुणस्यानुपरोधेनार्थस्य विद्यमानत्वाद्विधानादन्तरार्थस्य नैमित्तिकत्वात्तदभावेऽश्रुतौ स्यात् । १०,८.६६ । उभयोस्तु विधानात् । १०,८.६७ । गुणानाञ्च परार्थत्वादुपवेषवद्यदेति स्यात् । १०,८.६८ । अनपायश्च कालस्य लक्षणं हि पुरोडाशौ । १०,८.६९ । प्रशंसार्थमजामित्वम् । १०,८.७० । ________________________________________________ प्रयोजनाभिसम्बन्धात्पृथक्सतां ततः स्यादैककर्म्यमेकशब्दाभिसंयोगात् । ११,१.१ । शेषवद्वा प्रयोजनं प्रतिजनं प्रतिकर्म विभज्येत । ११,१.२ । अविधानात्तु नैवं स्यात् । ११,१.३ । शेषस्य हि परार्थत्वाद्विधानात्प्रतिप्रधानभावः स्यात् । ११,१.४ । अङ्गानां तु शब्दभेदात्क्रतुवत्स्यात्फलानयत्वम् । ११,१.५ । अर्थभेदस्तु तत्राथेहैकार्थ्यादैककर्म्यम् । ११,१.६ । शब्दभेदान्नेति चेत् । ११,१.७ । कर्मार्थत्वात्प्रयोगे ताच्छब्द्यं स्यात्तदर्थत्वात् । ११,१.८ । कर्तृविधेर्नानार्थत्वाद्गुणप्रधानेषु । ११,१.९ । आरम्भस्य शब्दपूर्वत्वात् । ११,१.१० । एकेनापि समाप्येत कृतार्थत्वाद्यथा क्रत्वन्तरेषु प्राप्तेषु चोत्तरावत्स्यात् । ११,१.११ । फलाभावान्नेति चेत् । ११,१.१२ । न कर्मसंयोगात्प्रयोजनबशब्ददोषं स्यात् । ११,१.१३ । एकशब्द्यादिति चेत् । ११,१.१४ । नार्थपृथक्त्वात्समत्वादगुणत्वम् । ११,१.१५ । विधेस्त्वेकश्रुतित्वादपर्यायविधानान्नित्यवच्छ्रुतभूताभिसंयोगादर्थेन युगपत्प्राप्तेर्यथाप्राप्तं स्वशब्दो निवीतवत्सर्वप्रयोगे प्रवृत्तिः स्यात् । ११,१.१६ । तथा कर्मोपदेशत्वात् । ११,१.१७ । क्रत्वन्तरेषु पुनर्वचनम् । ११,१.१८ । उत्तरास्वश्रुतित्वाद्विशेषाणां कृतार्थत्वात्संदोहे यथाकामी प्रतीयेत । ११,१.१९ । कर्मण्यारम्भभाव्यत्वात्कृषिवत्प्रत्यारम्भं फलानि स्युः । ११,१.२० । अधिकारश्च सर्वेषां कार्यत्वादुपपद्यते विशेषः । ११,१.२१ । सकृत्तु स्यात्कृतार्थत्वादङ्गवत् । ११,१.२२ । शब्दार्थश्च तथा लोके । ११,१.२३ । अपि वा संप्रयोगे यथाकामी प्रतीयेताश्रुतित्वाद्विधिषु वचनानि स्युः । ११,१.२४ । एकशब्द्यात्तथाङ्गेषु । ११,१.२५ । लोके कर्मार्थलक्षणम् । ११,१.२६ । क्रियाणामर्थशेषत्वात्प्रत्यक्षतस्तन्निर्वृत्त्यापवर्गः स्यात् । ११,१.२७ । धर्ममात्रे त्वदर्शनाच्छब्दार्थेनापवर्गः स्यात् । ११,१.२८ । क्रतुवच्चानुमानेनाभ्यासे फलभूमा स्यात् । ११,१.२९ । सकृद्वा कारणैकत्वात् । ११,१.३० । परिमाणं चानियमेन स्यात् । ११,१.३१ । फलस्यारम्भनिर्वृत्तेः क्रतुषु स्यात्फलान्यत्वम् । ११,१.३२ । अर्थवांस्तु नैकत्वादभ्यासः स्यादनर्थको यथा भोजनमेकस्मिन्नर्थस्यापरिमाणत्वात्प्रधाने च क्रियार्थत्वादनियमः स्यात् । ११,१.३३ । पृथक्त्वाद्विधितः परिमाणं स्यात् । ११,१.३४ । अनभ्यासो वा प्रयोगवचनैकत्वात्सर्वस्य युगपच्छास्त्रादफलत्वाच्च कर्मणः स्यात्क्रियार्थत्वात् । ११,१.३५ । अभ्यासो वा छेदनसंमार्गावदानेषु वचनात्सकृत्त्वस्य । ११,१.३६ । अनभ्यासस्तु वाच्यत्वात् । ११,१.३७ । बहुवचनेन सर्वप्राप्तेर्विकल्पः स्यात् । ११,१.३८ । दृष्टः प्रयोग इति चेत् । ११,१.३९ । भक्त्येति चेत् । ११,१.४० । तथेतरस्मिन् । ११,१.४१ । प्रथमं वा नियम्येत कारणादतिक्रमः स्यात् । ११,१.४२ । श्रुत्यर्थाविशेषात् । ११,१.४३ । तथा चान्यार्थदर्शनम् । ११,१.४४ । प्रकृत्या च पूर्ववत्तदासत्तेः । ११,१.४५ । उत्तरासु यावत्स्वमपूर्वत्वात् । ११,१.४६ । यावत्स्वं वान्यविधानेनानुवादः स्यात् । ११,१.४७ । साकल्यविधानात् । ११,१.४८ । बह्वर्थत्वाच्च । ११,१.४९ । अग्निहोत्रे चाशेषवद्यवागूनियमः प्रतिषेधः कुमाराणाम् । ११,१.५० । सर्वप्रायिणापि लिङ्गेन संयुज्यते देवताभिसंयोगात् । ११,१.५१ । प्रधानकर्मार्थत्वादङ्गानां तद्भेदात्कर्मभेदः प्रयोगे स्यात् । ११,१.५२ । क्रमकोपश्च यौगपद्यात्स्यात् । ११,१.५३ । तुल्यानां तु यौगपद्यमेकशब्दोपदेशात्स्याद्विशेषाग्रहणात् । ११,१.५४ । एकार्थ्यादव्यवायः स्यात् । ११,१.५५ । तथा चान्यार्थदर्शनं कामुकायनः । ११,१.५६ । तन्न्यायत्वादशक्तेरानुपूर्व्यं स्यात्संस्कारस्य तदर्थत्वात् । ११,१.५७ । असंसृष्टोऽपि तादर्थ्यात् । ११,१.५८ । विभवाद्वा प्रदीपवत् । ११,१.५९ । अर्थात्तु लोके विधितः प्रतिप्रधानं स्यात् । ११,१.६० । सकृदिज्यां कामुकायनः परिमाणविरोधात् । ११,१.६१ । विधेस्त्वितरार्थत्वात्सकृदिज्याश्रुतिव्यतिक्रमः स्यात् । ११,१.६२ । विधिवत्प्रकरणाविभागे प्रयोगं बादरायणः । ११,१.६३ । अपि चैकेन सन्निधानमविशेषको हेतुः । ११,१.६४ । क्वचिद्विधानान्नेति चेत् । ११,१.६५ । न विधेश्चोदितत्वात् । ११,१.६६ । व्याख्यातं तुल्यानां यौगपद्यमगृह्यमाणविशेषाणाम् । ११,१.६७ । भेदस्तु कालभेदाच्चोदनाव्यवायात्स्याद्विशिष्टानां विधिः प्रधानकालत्वात् । ११,१.६८ । तथा चान्यार्थदर्शनम् । ११,१.६९ । विधिरिति चेन्न वर्तमानापदेशात् । ११,१.७० । _______________ एकदेशकालकर्तृत्व मुख्यानामेकशब्दोपदेशात् । ११,२.१ । अविधिश्चेत्कर्मणामभिसम्बन्धः प्रतीयेत तल्लक्षणार्थाभिसंयोगाद्विधित्वाच्चेतरेषां प्रतिप्रधानभावः स्यात् । ११,२.२ । अङ्गेषु च तदभावः प्रधानं प्रतिनिर्देशात् । ११,२.३ । यदि तु कर्मणो विधिसम्बन्धः स्यादैकशब्द्यात्प्रधानार्थाभिधासंयोगात् । ११,२.४ । तथा तान्यार्थदर्शनम् । ११,२.५ । श्रुतिश्चैषां प्रधानवत्कर्मश्रुतेः परार्थत्वात् । ११,२.६ । कर्मणोऽश्रुतित्वाच्च । ११,२.७ । अङ्गानि तु विधानत्वात्प्रधानेनोपदिश्येरंस्तस्मात्स्यादेकदेशत्वम् । ११,२.८ । द्रव्यदेवतं तथेति चेत् । ११,२.९ । न चोदनाविधिशेषत्वान्नियमार्थो विशेषः । ११,२.१० । तेषु समवेतानां समवायात्तन्त्रमङ्गानि भेदस्तु तद्भेदात्कर्मभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात्तथा चान्यार्थदर्शनम् । ११,२.११ । इष्टिराजसूयचातुर्मास्येष्वैककर्म्यादङ्गानां तन्त्रभावः स्यात् । ११,२.१२ । कालभेदान्नेति चेत् । ११,२.१३ । नैकदेशत्वात्पशुवत् । ११,२.१४ । अपि वा कर्मपृथक्त्वात्तेषां तन्त्रविधानात्साङ्गानामुपदेशः स्यात् । ११,२.१५ । तथा चान्यार्थदर्शनम् । ११,२.१६ । तथा तदवयवेषु स्यात् । ११,२.१७ । पशौ तु चोदनैकत्वात्तन्त्रस्य विप्रकर्षः स्यात् । ११,२.१८ । तथा स्यादध्वरकल्पेष्टौ विशेषस्यैककालत्वात् । ११,२.१९ । इष्टिरिति चैकवच्छ्रुतिः । ११,२.२० । अपि वा कर्मपृथकत्वात्तेषां च तन्त्रविधानात्साङ्गानामुपदेशः स्यात् । ११,२.२१ । प्रथमस्य वा कालवचनम् । ११,२.२२ । फलैकत्वादिष्टिशब्दो यथान्यत्र । ११,२.२३ । वसाहोमस्तन्त्रमेकदेवतेषु स्यात्प्रदानस्यैककालत्वात् । ११,२.२४ । कालभेदात्त्वावृत्तिर्देवताभेदे । ११,२.२५ । अन्ते यूपाहुतिस्तद्वत् । ११,२.२६ । इतरप्रतिषेधो वा । ११,२.२७ । अशास्त्रत्वाच्च देशानाम् । ११,२.२८ । अवभृथे प्रधानेऽग्निविकारः स्यान्न हि तद्धेतुरग्निसंयोगः । ११,२.२९ । साङ्गो वा प्रयोदवचनैकत्वात् । ११,२.३० । लिङ्गदर्शनाच्च । ११,२.३१ । शब्दविभागाच्च देवतानपनयः । ११,२.३२ । दक्षिणेऽग्नौ वरुणप्रधासेषु देशभेदात्सर्वं क्रियते । ११,२.३३ । अचोदनेति चेत् । ११,२.३४ । स्यात्पौर्णमासीवत् । ११,२.३५ । प्रयोगचेदनेति चेत् । ११,२.३६ । इहापि मारुत्याः प्रयोगश्चोद्यते । ११,२.३७ । आसादानमिति चेत् । ११,२.३८ । नोत्तरेणैकवाक्यत्वात् । ११,२.३९ । अवाच्यत्वात् । ११,२.४० । आम्नायवचनं तद्वत् । ११,२.४१ । कर्तृभेदस्तथेति चेत् । ११,२.४२ । न समवायात् । ११,२.४३ । लिङ्गदर्शनाच्च । ११,२.४४ । वेदिसंयोगादिति चेत् । ११,२.४५ । न देशमात्रत्वात् । ११,२.४६ । एकवाक्यत्वात् । ११,२.४७ । एकाग्नित्वादपरेषु तन्त्रं स्यात् । ११,२.४८ । नाना वा कर्तृभेदात् । ११,२.४९ । पर्यग्निकृतानामुत्सर्गे प्राजापत्यानां कर्मोत्सर्गः श्रुतिसामानयादारण्यवत्तस्माद्ब्रह्मसाम्नि चोदनापृथक्तवं स्यात् । ११,२.५० । संस्कारप्रतिषेधो वा वाक्यैकत्वो क्रतुसामान्यात् । ११,२.५१ । वाक्यैकत्वे क्रतुसामान्यात् । ११,२.५२ । वपानां चानभिघारणस्य दर्शनात् । ११,२.५३ । पञ्चशारदीयास्तथेति चेत् । ११,२.५४ । न चोदनैकवाक्यत्वात् । ११,२.५५ । यातयामत्वाच्च । ११,२.५६ । संस्कारणां च तद्दर्शनात् । ११,२.५७ । दशपेये क्रयप्रतिकर्षात्प्रतिकर्षस्ततः प्राचां तत्समानं तन्त्रं स्यात् । ११,२.५८ । समानवचनं तद्वत् । ११,२.५९ । अतिकर्षो वार्थहेतुत्वात् । ११,२.६० । पूर्वस्मिंश्चावभृथस्य दर्शनात् । ११,२.६१ । समानः कालसामान्यात् । ११,२.६२ । निष्कासस्यावभृथे तदेकदेशत्वात्पशुवत्प्रदानविप्रकर्षः स्यात् । ११,२.६३ । अपनयो वा प्रसिद्धेनाभिसंयोगात् । ११,२.६४ । प्रतिपत्तिरिति चेन्न कर्मसंयोगात् । ११,२.६५ । उदयनीये च तद्वत् । ११,२.६६ । प्रतिपत्तिर्वाकर्मसंयोगात् । ११,२.६७ । अर्थकर्म वा शेषत्वाच्छ्रयणवत्तदर्थेन विधानात् । ११,२.६८ । _______________ अङ्गानां मुख्यकालत्वाद्वचनादन्यकालत्वम् । ११,३.१ । द्रव्यस्य कर्मकालनिष्पत्तेः प्रयोगः सर्वार्थः स्यात्स्वकालत्वात् । ११,३.२ । यूपश्चाकर्मकालत्वात् । ११,३.३ । एकयूपं च दर्षयति । ११,३.४ । संस्कारास्त्वावर्तेरन्नर्थकालत्वात् । ११,३.५ । तत्कालस्तु यूपकर्मत्वात्तस्य धर्मविधानात्सर्वार्थानां च वचनादन्यकालत्वम् । ११,३.६ । सकृन्मानं च दर्शयति । ११,३.७ । स्वरुस्तन्त्रापवर्गः स्यादस्वकालत्वात् । ११,३.८ । साधारणे वानुनिष्पत्तिस्तस्य साधारणत्वात् । ११,३.९ । सोमान्ते च प्रतिपत्तिदर्शनात् । ११,३.१० । न चोत्पत्तिवाक्यत्वात्प्रदेशात्प्रस्तरे तथा । ११,३.११ । अहर्गणे विषाणाप्रासनं धर्मविप्रतिषेधादन्ते प्रथमे वाहनि विकल्पः स्यात् । ११,३.१२ । पाणेस्त्वश्रुतिभूतत्वाद्विषाणानियमः स्यात्प्रातः सवनमध्यत्वाच्छिष्टे चाभिप्रवृत्तत्वात् । ११,३.१३ । शिष्ठे चाभिप्रवृत्तत्वात् । ११,३.१४ । वाग्विसर्गो हविष्कृता वीजभेदे तथा स्यात् । ११,३.१५ । यथाह्वानमपीति चेत् । ११,३.१६ । पशौ च पुरोडाशे समानतन्त्रं भवेत् । ११,३.१७ । अङ्गप्रधानार्थो योगः सर्वापवर्गे विमोकः स्यात् । ११,३.१८ । प्रधानापवर्गे वा तदर्थत्वात् । ११,३.१९ । अवभृथे च तद्वत्प्रधानार्थस्य प्रतिषेधोऽपवृक्तार्थत्वात् । ११,३.२० । अहर्गणे च प्रत्यहं स्यात्तदर्थत्वात् । ११,३.२१ । सुब्रह्मण्या तु तन्त्रं दीक्षावदन्यकालत्वात् । ११,३.२२ । तत्कालात्त्वादावर्तेत प्रयागतो विशेषसम्बन्धात् । ११,३.२३ । अप्रयोगाङ्गमिति चेत् । ११,३.२४ । प्रयोगनिर्देशात्कर्सृभेदवत् । ११,३.२५ । तद्भूतस्थानादग्निवदिति चेत्तदपवर्गस्तदर्थत्वात् । ११,३.२६ । अग्निवदिति चेत् । ११,३.२७ । न प्रयोगसाधारण्यात् । ११,३.२८ । लिङ्गदर्शनाच्च । ११,३.२९ । तद्धि तथेति चेत् । ११,३.३० । नाशिष्टत्वादितरन्यायत्वाच्च । ११,३.३१ । विध्येकत्वादिति चेत् । ११,३.३२ । न कृत्स्नस्य पुनः प्रयोगात्प्रधानवत् । ११,३.३३ । लौकिकेतु यथाकामी संस्कारानर्थलोपात् । ११,३.३४ । यज्ञायुधानि धार्येरन् प्रतिपत्तिविधानादृजीषवत् । ११,३.३५ । यजमानसंस्कारो वा तदर्थः श्रूयते तत्र यथाकामी तदर्थत्वात् । ११,३.३६ । मुख्यधारणं वा मरणस्यानियतत्वात् । ११,३.३७ । यो वा यजनीयेऽहनि म्रियेत सोऽधिकृतः स्यादुपवेषवत् । ११,३.३८ । न शास्त्रलक्षणत्वात् । ११,३.३९ । उत्पत्तिर्वा प्रयोजकत्वादाशिरवत् । ११,३.४० । शब्दासामज्जस्यमिति चेत् । ११,३.४१ । तथाशिरेऽपि । ११,३.४२ । शास्त्रात्तु विप्रयोगस्तत्रैकद्रव्यचिकीर्षा प्रकृतावथेहापूर्वार्थवद्भूतोपदेशः । ११,३.४३ । प्रकृत्यर्थत्वात्पौर्णमास्याः क्रियेरन् । ११,३.४४ । अग्न्याधेये वाविप्रतिषेधात्तानि धारयेन्मरणस्यानिमित्तवात् । ११,३.४५ । प्रतिपत्तिर्वा यथान्येषाम् । ११,३.४६ । उपरिष्टात्सोमानां प्राजापत्यैश्चरन्तीति । ११,३.४७ । अङ्गविपर्यासो विनावचनादिति चेत् । ११,३.४८ । उत्कर्षः संयोगात्कालमात्रमितरत्र । ११,३.४९ । प्रकृतिकालासत्तेः शस्त्रवतामिति चेत् । ११,३.५० । न श्रुतिप्रतिषेधात् । ११,३.५१ । विकारस्थाने इति चेत् । ११,३.५२ । न चोदनापृथक्त्वात् । ११,३.५३ । उत्कर्षे सूक्तवाकस्य न सोमदेवतानामुत्कर्षः पश्वनङ्गत्वाद्यथा निष्कर्षेनान्वयः । ११,३.५४ । वाक्यसंयोगाद्वोत्कर्षः समानतन्त्रत्वादर्थलोपादनन्वयः । ११,३.५५ । _______________ चोदनैकत्वाद्राजसूयेऽनुक्तदेशकालानां समवायात्तन्त्रमङ्गानि । ११,४.१ । प्रतिदक्षिणं वा कर्तृसम्बन्धादिष्टिवदङ्गभूतत्वात्समुदायो हि तन्निर्वृत्त्यातदेकत्वादेकत्वादेकशब्दोपदेशः स्यात् । ११,४.२ । तथा चान्यार्थदर्शनम् । ११,४.३ । अनियमः स्यादिति चेत् । ११,४.४ । नोपदिष्टत्वात् । ११,४.५ । प्रयोजनैकत्वात् । ११,४.६ । अविशेषार्था पुनः श्रुतिः । ११,४.७ । अवेष्टौ चैकतन्त्र्यं स्याल्लिङ्गदर्शनाद्वचनात्कामसंयोगेन । ११,४.८ । क्रत्वर्थायामिति चेन्न वर्णसंयोगात् । ११,४.९ । पवमानहविःष्वैकतन्त्र्य प्रयोगवचनैकत्वात् । ११,४.१० । लिङ्गदर्शनाच्च । ११,४.११ । वर्तमानापदेशाद्वचनात्तु तन्त्रभेदः स्यात् । ११,४.१२ । सहत्वे नित्यानुवादः स्यात् । ११,४.१३ । द्वादशाहे तु प्रकृतित्वादेकैकमहरपवृज्येत कर्मपृथक्त्वात् । ११,४.१४ । अह्रां वा श्रुतिभूतत्वात्तत्र साङ्गं क्रियेत यथा माध्यन्दिने । ११,४.१५ । अपि वा फलकर्तृसम्बन्धात्सह प्रयोगः स्यादाग्नेयाग्नीषोमीयवत् । ११,४.१६ । साङ्गकालश्रुतित्वाद्वा स्वस्थानानां विकारः स्यात् । ११,४.१७ । दीक्षोपसदां च संख्या पृथक्पृथक्प्रत्यक्षसंयोगात् । ११,४.१८ । वसतीवरीपर्यन्तानि पूर्वाणि तन्त्रमन्यकालत्वादवभृथादीन्युत्तराणि दीक्षाविसर्गार्थत्वात् । ११,४.१९ । तथा चान्यार्थदर्शनम् । ११,४.२० । चोदनापृथक्त्वे त्वैकतन्त्र्यं समवेतानां कालसंयोगात् । ११,४.२१ । भेदस्तु तद्भेदात्करमभेदः प्रयोगे स्यात्तेषां प्रधानशब्दत्वात् । ११,४.२२ । तथा चान्यार्थदर्शनम् । ११,४.२३ । श्वासुत्यावचनं तद्वत् । ११,४.२४ । पश्वतिरेकश्च । ११,४.२५ । सुत्याविवृद्धौ सुब्रह्मण्यायां सर्वेषामुपलक्षणं प्रकृत्यन्वयादावाहनवत् । ११,४.२६ । अपि वेन्द्राभिधानत्वात्सकृत्स्यादुपलक्षणं कालस्य लक्षणार्थत्वात् । ११,४.२७ । अविभागाच्च । ११,४.२८ । पशुगणे कुम्भीशूलवपाश्रपणीनां प्रभुत्वात्तन्त्रभावः स्यात् । ११,४.२९ । भेदस्तु सन्देहाद्देवतान्तरे स्यात् । ११,४.३० । अर्थाद्वा लिङ्गकर्म स्यात् । ११,४.३१ । प्रतिपाद्यत्वाद्वसानां भेदः स्यात्स्वयाज्याप्रदानत्वात् । ११,४.३२ । अपि वा प्रतिपत्तित्वात्तन्त्रं स्यात्स्वत्वस्याश्रुतिभूतत्वात् । ११,४.३३ । सकृदिति चेत् । ११,४.३४ । न कालभेदात् । ११,४.३५ । पक्तिभेदात्कुम्भीशूलवपाश्ररणीनां भेदः स्यात् । ११,४.३६ । जात्यन्तरेषु भेदः पक्तिवैषम्यात् । ११,४.३७ । वृद्धिदर्शनाच्च । ११,४.३८ । कपालानि च कुम्भीवत्तुल्यसंख्यानाम् । ११,४.३९ । प्रतिप्रधानं वा प्रकृतिवत् । ११,४.४० । सर्वेषां वाभिप्रथमं स्यात् । ११,४.४१ । एकद्रव्ये संस्काराणां व्याख्यातमेककर्मत्वात् । ११,४.४२ । द्रव्यान्तरे कृतार्थत्वात्तस्य पुनः प्रयोगान्मन्त्रस्य च तद्गुणत्वात्पुनः प्रयोगः स्यात्तदर्थेन विधानात् । ११,४.४३ । निर्वपणलवनस्तरणाज्यग्रहणेषु चैकद्रव्यवत्प्रयोजनैकत्वात् । ११,४.४४ । द्रव्यान्तरवद्वा स्यात्तत्संस्कारात् । ११,४.४५ । वेदिप्रोक्षणे मन्त्राभ्यासः कर्मणः पुनः प्रयोगात् । ११,४.४६ । एकस्य वा गुणविधिर्द्रव्यैकत्वात्तस्मात्सकृत्प्रयोगः स्यात् । ११,४.४७ । कण्डूयने प्रत्यङ्गं कर्मभेदात्स्यात् । ११,४.४८ । अपि वा चोदनैककालमैककर्म्यं स्यात् । ११,४.४९ । स्वप्ननदीतरणाभिवर्षणामेध्यप्रतिमन्त्रणेषु चैवम् । ११,४.५० । प्रयाणे त्वार्थनिर्वृत्तेः । ११,४.५१ । उपरवमन्त्रस्तन्त्रं स्याल्लोकवद्बहुवचनात् । ११,४.५२ । न सन्निपातित्वादसन्निपातिकर्मणां विशेषग्रहणे कालैकत्वात्सकृद्वचनम् । ११,४.५३ । हविष्कृदध्रिगुपुरोऽनुवाक्यामनोतस्यावृत्तिः कालभेदात्स्यात् । ११,४.५४ । अध्रिगोश्च विपर्यासात् । ११,४.५५ । करिष्यद्वचनात् । ११,४.५६ । ________________________________________________ तन्त्रिसमवाये चोदनातः समानानामेकतन्त्र्यमतुल्येषु तु भेदः स्याद्विधिप्रक्रमतादर्थ्यात्श्रुतिकालनिर्देशात् । १२,१.१ । गुणकालविकाराच्च तन्त्रभेदः स्यात् । १२,१.२ । तन्त्रमध्ये विधानाद्वा मुख्यतन्त्रेण सिद्धिः स्यात्तन्त्रार्थस्याविशिष्टत्वात् । १२,१.३ । विकाराच्च न भेदः स्यादर्थस्याविकृतत्वात् । १२,१.४ । एकेषां वाशक्यत्वात् । १२,१.५ । आहोपुरीषकं स्यात् । १२,१.६ । एकाग्निवच्च दर्शनम् । १२,१.७ । जैमिनेः परतन्त्रत्वापत्तेः स्वतन्त्रप्रतिषेधः स्यात् । १२,१.८ । नानार्थत्वात्सोमे दर्शपूर्णमासप्रकृतीनां वेदिकर्म स्यात् । १२,१.९ । अकर्म वा कृतदूषा स्यात् । १२,१.१० । पात्रेषु च प्रसङ्गः स्याद्धोमार्थत्वात् । १२,१.११ । न्याय्यानि वा प्रयुक्तत्वादप्रयुक्ते प्रसङ्गः स्यात् । १२,१.१२ । शामित्रे च पशुपुरोडाशो न स्यादितरस्य प्रयुक्तत्वात् । १२,१.१३ । श्रपणं वाग्निहोत्रस्य शालामुखीये न स्यात्प्राजहितस्य विद्यमानत्वात् । १२,१.१४ । हविर्धाने निर्वपणार्थं साधयेतां प्रयुक्तत्वात् । १२,१.१५ । असिद्धिर्वान्यदेशत्वात्प्रधानवैगुण्यादवैगुण्ये प्रसङ्गः स्यात् । १२,१.१६ । अनसाञ्च दर्शनात् । १२,१.१७ । तद्युक्तत्वं च कालभेदात् । १२,१.१८ । मन्त्राश्च सन्निपातित्वात् । १२,१.१९ । धारणार्थत्वात्सोमेऽग्न्यन्वाधानं न विद्यते । १२,१.२० । तथा व्रतमपेतत्वात् । १२,१.२१ । विप्रतिषेधाच्च । १२,१.२२ । सत्यवदिति चेत् । १२,१.२३ । न संयोगपृथक्त्वात् । १२,१.२४ । ग्रहार्थं च पूर्वमिष्टेस्तदर्थत्वात् । १२,१.२५ । शेषवदिति चेन्न वैश्वदेवो हि स्याद्व्यपदेशात् । १२,१.२६ । न गुणार्थत्वात् । १२,१.२७ । सन्नहनञ्च वृत्तत्वात् । १२,१.२८ । अन्यविधानादारण्यभोजनं न स्यादुभयं हि वृत्त्यर्थम् । १२,१.२९ । शेषभक्षास्तथेति चेन्नान्यार्थत्वात् । १२,१.३० । भृतत्वाच्च परिक्रयः । १२,१.३१ । शेषभक्षास्तथेति चेत् । १२,१.३२ । न कर्मसंयोगात् । १२,१.३३ । प्रवृत्तवरणात्प्रति तन्त्रवरणात्प्रतितन्त्रवरणं होतुः क्रियेत । १२,१.३४ । ब्रह्मापीति चेत् । १२,१.३५ । न प्राङ्नियमात्तदर्थं हि । १२,१.३६ । निर्दिष्टस्येति चेत् । १२,१.३७ । न श्रुतत्वात् । १२,१.३८ । होतुस्तथेति चेत् । १२,१.३९ । न कर्मसंयोगात् । १२,१.४० । यज्ञोत्पत्त्युपदेशे निष्ठितकर्मप्रयोगभेदात्प्रतितन्त्रं क्रियेत । १२,१.४१ । देशपृथक्त्वान् मन्त्रो व्यावर्तते । १२,१.४२ । सन्नहनहरणे तथेति चेत् । १२,१.४३ । नान्यार्थत्वात् । १२,१.४४ । _______________ विहारो लौकिकानामर्थं साधयेत्प्रभुत्वात् । १२,२.१ । मांसपाकप्रतिषेधश्च तद्वत् । १२,२.२ । निर्देशाद्वा वैदिकानां स्यात् । १२,२.३ । सति चोपासनस्य दर्शनात् । १२,२.४ । अभावदर्शनाच्च । १२,२.५ । मांसपाको विहितप्रतिषेधः स्यादाहुतिसंयोगात् । १२,२.६ । वाक्यशेषो वा दक्षिणस्मिन्ननारभ्यविधानस्य । १२,२.७ । सवनीये छिद्रापिधानार्थत्वात्पशुपुरोडाशो न स्यादन्येषामेवमर्थत्वात् । १२,२.८ । क्रिया वा देवतार्थत्वात् । १२,२.९ । लिङ्गदर्शनात् । १२,२.१० । हविष्कृत्सवनीयेषु न स्यात्प्रकृतौ यदि सर्वार्था पशुं प्रत्याहूता सा कुर्याद्विद्यमानत्वात् । १२,२.११ । पशौ तु संस्कृते विधानात् । १२,२.१२ । योगाद्वा यज्ञाय तद्विमोके विसर्गः स्यात् । १२,२.१३ । निशि यज्ञे प्राकृतस्याप्रवृत्तिः स्यात्प्रत्यक्षशिष्टत्वात् । १२,२.१४ । कालवाक्यभेदाच्च तन्त्रभेदः स्यात् । १२,२.१५ । वेद्युद्धननव्रतं विप्रतिषेधात्तदेव स्यात् । १२,२.१६ । तन्त्रमध्ये विधानाद्वा तत्तन्त्रा सवनीयवत् । १२,२.१७ । वैगुण्यादिध्मबर्हिर्न साधयेदग्न्यन्वाधानं च यदि देवतार्थम् । १२,२.१८ । अग्न्यन्वाधानं च यदि देवतार्थम् । १२,२.१९ । आरम्भणीया विकृतौ न स्यात्प्रकृतिकालमध्यत्वात्कृता पुनस्तदर्थेन । १२,२.२० । सकृदारम्भसंयोगात् । १२,२.२१ । स्याद्वा कालस्याशेषभूतत्वात् । १२,२.२२ । आरंभविभागाच्च । १२,२.२३ । विप्रतिषिद्धधर्माणां समवाये भूयसां स्यात्सधर्मकत्वम् । १२,२.२४ । मुख्यं वा पूर्वचोदनाल्लोकवत् । १२,२.२५ । तथा चान्यार्थदर्शनम् । १२,२.२६ । अङ्गगुणविरोधे च तादर्थ्यात् । १२,२.२७ । परिधेर्द्व्यर्थत्वादुभयधर्मा स्यात् । १२,२.२८ । यौप्यस्तु विरोधे स्यान्मुख्यानन्तर्यात् । १२,२.२९ । इतरो वा तस्य तत्र विधानादुभयोश्चाङ्गसंयोगः । १२,२.३० । पशुसवनीयेषु विकल्पः स्याद्वैकृतश्चेदुभयोरश्रुतिभूतत्वात् । १२,२.३१ । पाशुकं वा तस्य वैशेषिकाम्नानात्तदनर्थकं विकल्पे स्यात् । १२,२.३२ । पशोश्च विप्रकर्षस्तन्त्रमध्ये विधानात् । १२,२.३३ । अपूर्वं च प्रकृतौ समानतन्त्रा चेदनित्यत्वादनर्थकं हि स्यात् । १२,२.३४ । अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि । १२,२.३५ । तत्प्रवृत्त्या तु तन्त्रस्य नियमः स्याद्यथा पाशुकं सूक्तपाकेन । १२,२.३६ । न वाविरोधात् । १२,२.३७ । अशास्त्रलक्षणत्वाच्च । १२,२.३८ । _______________ विश्वजिति वत्सत्वङ्नामधेयादितरथा तन्त्रभूयस्त्वादहतं स्यात् । १२,३.१ । अविरोधी वा उपरिवासो हि वत्सत्वक् । १२,३.२ । अनुनिर्वाप्येषु भूयस्त्वेन तन्त्रनियमः स्याच्छ्विष्ठकृद्दर्शनाच्च । १२,३.३ । आगन्तुकत्वाद्वा स्वधर्मा स्याच्छ्रुतिविशेषादितरस्य च मुख्यत्वात् । १२,३.४ । स्वस्थानत्वाच्च । १२,३.५ । स्विष्टकृच्छ्रपणान्नेति चेद्विकारः पवमानवत् । १२,३.६ । अविकारो वा प्रकृतिवच्चोदनां प्रति भावाच्च । १२,३.७ । एक कर्मणि शिष्टत्वाद्गुणानां सर्वकर्म स्यात् । १२,३.८ । एकार्थास्तु विकल्पेरन् समुच्चये ह्यावृत्तिः स्यात्प्रधानस्य । १२,३.९ । अभ्यस्येतार्थवत्त्वादिति चेत् । १२,३.१० । नाश्रुतत्वाद्धि विकल्पवच्च दर्शयति कालान्तरेऽर्थवत्त्वं स्यात् । १२,३.११ । प्रायश्चित्तेषु चैकार्थ्यान्निष्पन्नेनाभिसंयोगस्तस्मात्सर्वस्य निर्घातः । १२,३.१२ । समुच्चयस्तु दोषार्थः । १२,३.१३ । मन्त्राणां कर्मसंयोगः स्वधर्मेण प्रयोगः स्याद्धर्मस्य तन्निमित्तत्वात् । १२,३.१४ । विद्यांप्रतिविधिनाद्वा सर्वकारणं प्रयोगः स्यात्कर्मार्थत्वात्प्रयोगस्य । १२,३.१५ । भाषास्वरोपदेशादैरवत्प्रायवचनप्रतिषेधः । १२,३.१६ । मन्त्रोपदेशो वा न भाषिकस्य प्रायोपपत्तेर्भाषिकश्रुतिः । १२,३.१७ । विकारः कारणाग्रहणे तन्न्यायत्वाद्दृष्टेऽप्येवम् । १२,३.१८ । तदुत्पत्तेर्वा प्रवचनलक्षणत्वात् । १२,३.१९ । मन्त्राणां करणार्थत्वान्मन्त्रान्तेन कर्मादिसन्निपातः स्यात्सर्वस्य वचनार्थत्वात् । १२,३.२० । संततवचनाद्धारायामादिसंयोगः । १२,३.२१ । करमसंतानो वा नानाकर्मत्वादितरस्याशक्चत्वात् । १२,३.२२ । आघारे च दीर्घधारत्वात् । १२,३.२३ । मन्त्राणां संनिपातित्वादेकार्थानां विकल्पः स्यात् । १२,३.२४ । संख्याविहितेषु समुच्चयोऽसंनिपातित्वात् । १२,३.२५ । ब्राह्मणविहितेषु च संख्यावत्सर्वेषामुपदिष्ठत्वात् । १२,३.२६ । याज्यावषट्कारयोश्च समुच्चयदर्शनं तद्वत् । १२,३.२७ । विकल्पो वा समुच्चयस्याश्रुतित्वात् । १२,३.२८ । गुणार्थत्वादुपदेशस्य । १२,३.२९ । वषट्कारे नानार्थत्वात्समुच्चयो हौत्रास्तु विकल्पेरन्नेकार्थत्वात् । १२,३.३० । क्रियमाणानुवादित्वात्समुच्चयो वा हौत्राणाम् । १२,३.३१ । समुच्चयं च दर्शयति । १२,३.३२ । _______________ जपाश्चाकर्मसंयुक्ताः स्तुत्याशीरभिधानाश्च याजमानेषु समुच्चयः स्यादाशीःपृथक्त्वात् । १२,४.१ । समुच्चयं च दर्शयति । १२,४.२ । याज्यानुवाक्यासु तु विकल्पः स्याद्देवतोपलक्षणार्थत्वात् । १२,४.३ । लिङ्गदर्शनाच्च । १२,४.४ । क्रयेषु ति विकल्पः स्यादेकार्थत्वात् । १२,४.५ । समुच्चयो वा प्रयोगद्रव्यसमवायात् । १२,४.६ । समुच्चयञ्च दर्शयति । १२,४.७ । संस्कारे च तत्प्रधानत्वात् । १२,४.८ । संख्यासु तु विकल्पः स्याच्छ्रुतिप्रतिषेधात् । १२,४.९ । द्रव्यविकारात्तु पूर्ववदर्थकर्म स्यात्तया विकल्पेन नियमप्रधानत्वात् । १२,४.१० । द्रव्यत्वेऽपि समुच्चयो द्रव्यस्य कर्मनिष्पत्तेः प्रतिपशुकर्मभेदादेवं सति यथाप्रकृति । १२,४.११ । कपालेऽपि तथेति चेत् । १२,४.१२ । न कर्मणः परार्थत्वात् । १२,४.१३ । प्रतिपत्तिस्तु शेषत्वात् । १२,४.१४ । शृतेऽपि पूर्ववत्स्यात् । १२,४.१५ । विकल्प्योऽन्वर्थकर्मनियमप्रधानत्वाच्छेसे च कर्मकार्यसमवायात्तसमात्तेनार्थकर्म स्यात् । १२,४.१६ । उखायां काम्यनित्यसमुच्चयो नियोगे कामदर्शनात् । १२,४.१७ । असति चासंस्कृतेषु कर्म स्यात् । १२,४.१७* । तस्य च देवतार्थत्वात् । १२,४.१८ । विकारो वा नित्यस्याग्नेः काम्येन तदुक्तहेतुः । १२,४.१९ । वचनादसंस्कृतेषु कर्म स्यात् । १२,४.२० । संसर्गे चापि दोषः स्यात् । १२,४.२१ । वचनादिति चेदथेतरस्मिन्नुत्सर्गापरिग्रहः कर्मणः कृतत्वात् । १२,४.२२ । स आहवनीयः स्यादाहुतिसंयोगात् । १२,४.२३ । अन्यो वोद्धृत्याहरणात्तस्मिन्त्संस्कारकर्म शिष्टत्वात् । १२,४.२४ । स्थानात्तु परिलुप्येरन् । १२,४.२५ । नित्याधारणे विकल्पो न ह्यकस्मात्प्रतिषेधः स्यात् । १२,४.२६ । नित्यधारणाद्वा प्रतिषेधो गतश्रियः । १२,४.२७ । परार्थान्येकः प्रतियन्तिवत्सत्राहीनयो यजमानगणेऽनियमोऽविशेषात् । १२,४.२८ । मुख्यो वाविप्रतिषेधात् । १२,४.२९ । सत्रे गृहपतिरसंयोगाद्धौत्रवदाम्नायवचनाच्च । १२,४.३० । सर्वैः वा तदर्थत्वात् । १२,४.३१ । विप्रतिषेधे परम् । १२,४.३२ । हौत्रे परार्थत्वात् । १२,४.३३ । वचनं परम् । १२,४.३४ । प्रभुत्वादार्त्विज्यं सर्ववर्णानां स्यात् । १२,४.३५ । स्मृतेर्वा स्याद्ब्राह्मणानाम् । १२,४.३६ । फलचमसविधानाच्चेतरेषाम् । १२,४.३७ । सान्नाय्येऽप्येवं प्रतिषेधः सौमपीयहेतुत्वात् । १२,४.३८ । चतुर्धाकरणे च निर्देशात् । १२,४.३९ । अन्वाहार्ये च दर्शनात् । १२,४.४० ।