गुरुपञ्चाशिका ओं नमो बुद्धाय । श्रीवज्रसत्त्वपदवीप्रतिलम्भहेतोर्नत्वा यथाविधि गुरोश्चरणारविन्दम् । तत्पर्युपास्तिरमला बहुतन्त्रगीता संक्षिप्य कथ्यत इयं शृणुतादरेण ॥ १ ॥ अभिषेकाग्रलब्धो हि वज्राचार्यस्तथागतैः । दशदिग्लोकधातुस्थैस्त्रिकालमेत्य वन्द्यते ॥ २ ॥ त्रिकालं परया भक्त्या सपुष्पाञ्जलिमण्डलैः । पर्युपास्यो गुरुः शास्ता शिरसा पादवन्दनात् ॥ ३ ॥ सद्धर्मादीन् पुरस्कृत्य गृही वा नवकोऽपि वा । वन्द्यो व्रतधरैर्बुद्ध्या लोकावद्यावहानये ॥ ४ ॥ सुखासनं समुत्थानमर्थक्रियादिगौरवम् । सर्वमेव व्रती कुर्यात्त्यक्त्वा चार्चनवन्दनम् ॥ ५ ॥ प्राक्शिष्याचार्यसंबन्धः कार्यः परीक्ष्य सूरिभिः । समानसमयभ्रंशो दोषो हि गुरुशिष्ययोः ॥ ६ ॥ निष्कृपं क्रोधनं क्रूरं स्तब्धं लघुमसंयतम् । स्वोत्कर्षकं च नो कुर्याद्गुरुं शिष्यं च बुद्धिमान् ॥ ७ ॥ धीरो विनीतो मतिमान् क्षमावानार्जवोऽशठः । मन्त्रतन्त्रप्रयोगज्ञः कृपालुः शास्त्रकोविदः ॥ ८ ॥ दशतत्त्वपरिज्ञाता मण्डलालेख्यकर्मवित् । मन्त्रव्याख्याकृदाचार्यः प्रसन्नः स्याज्जितेन्द्रियः ॥ ९ ॥ तं नाथं योऽवमन्येत शिष्यो भूत्वा सचेतनः । सर्वबुद्धापमानेन स नित्यं दुःखमाप्नुयात् ॥ १० ॥ ईत्युपद्रवचौरैश्च ग्रहज्वरविषादिभिः । म्रियतेऽसौ महामूढो गुरुपादाभिनिन्दकः ॥ ११ ॥ राजवातानलव्यालैर्डाकिनीजलतस्करैः । विघ्नैर्विनायकैश्चापि मारितो नरकं व्रजेत् ॥ १२ ॥ न कुर्याच्चित्तसंक्षोभमाचार्यस्य कदाचन । यदा करोति दुष्प्रज्ञो नरके पच्यते ध्रुवम् ॥ १३ ॥ नरका ये समाख्याता अवीच्याद्या भयानकाः । तत्र वासः समाख्यात आचार्यस्य हि निन्दनात् ॥ १४ ॥ तस्मात्सर्वप्रयत्नेन वज्राचार्यं महागुरुम् । प्रच्छन्नवरकल्याणं नावमन्येत्कदाचन ॥ १५ ॥ यथेष्टदक्षिणादानाद्गुरुभक्तं सगौरवम् । उक्ता ज्वरादयस्तापा न भूयः प्रभवन्ति हि ॥ १६ ॥ अदेयैः पुत्रदाराद्यैरसुभिर्वा निजैरपि । सेव्यः स्वसंवराचार्य किं पुनर्विभवैश्चलैः ॥ १७ ॥ यतः सुदुर्लभं वस्तु कल्पासंख्येयकोटिभिः । बुद्धत्वमुद्योगवते ददातीहैव जन्मनि ॥ १८ ॥ नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः । नित्यं च गुरवे देयं सर्वबुद्धसमो ह्यसौ ॥ १९ ॥ यद्यदिष्टतरं लोके विशिष्टरमेव वा । तत्तद्धि गुरवे देयं सदैवाक्षयमिच्छता ॥ २० ॥ दत्तेऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् । तस्माच्च पुण्यसंभारः संभाराद्बोधिरुत्तमा ॥ २१ ॥ ते शिष्याः करुणोत्सर्गशीलक्षान्तिगुणान्विताः । ये नान्यत्वं कल्पयन्ति गुरोर्वज्रधरस्य च ॥ २२ ॥ चैत्यभङ्गादिभीत्यापि गुरोश्छायां न लङ्घयेत् । पादुकासनयानादेर्लङ्घनस्य तु का कथा ॥ २३ ॥ श्रूयाद्यत्नाद्गुरोराज्ञां हृष्टचित्तो महामतिः । अशक्तः श्रावयेत्तस्मा उपपत्त्या त्वशक्तिताम् ॥ २४ ॥ गुरोः सिद्धिं समाप्नोति गुरोः स्वर्गं गुरोः सुखम् । तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लङ्घयेत् ॥ २५ ॥ स्वात्मवच्च गुरोर्द्रव्यं गुरुवच्च तदङ्गनाम् । स्वजनानिव तल्लोकान् पश्येन्नित्यं समाहितः ॥ २६ ॥ शय्यारोहमग्रयानमुष्णीषाद्युपबन्धनम् । न कुर्यादासने पादं कटिहस्तं च सन्निधौ ॥ २७ ॥ सुप्तेन वा निषण्णेन न स्थेयमुत्थिते गुरौ । दक्षश्चोत्साहसम्पन्नस्तत्कार्येषु सदा भवेत् ॥ २८ ॥ श्लेष्मादीनां परित्यागः पादप्रसारणं तथा । चङ्क्रमणं विवादं च न कुर्यात्पुरतो गुरोः ॥ २९ ॥ संवाहनं नर्तनं च न गानं न च बादनम् । बहु संलपनं चापि न कुर्यात्पुरतो गुरोः ॥ ३० ॥ नत्वासनात्समुत्थेयं निषत्तव्यं च भक्तितः । निश्यप्सु सभये मार्गे प्रार्थ्याग्रे गमनं चरेत् ॥ ३१ ॥ नाङ्गानि चालयेद्धीमान्न जृम्भादि समाश्रयेत् । नाङ्गुलिस्फोटनं कुर्यात्पुरः पश्यति शास्तरि ॥ ३२ ॥ पादयोः क्षालनं चाङ्गप्रोञ्छाभ्यञ्जनमर्दनम् । पूर्वं प्रणम्य कर्तव्यं ततः कुर्याद्यदादिशेत् ॥ ३३ ॥ [आव्हानादौ गुरोर्नाम्नि पूज्यपादादि योजयेत् । अन्यदा श्रद्धया ब्रूयात्सादरैस्तु विशेषणैः ॥ ३४ ॥ आदिश्यताम्, करिष्यामि, प्रवदेत्साञ्जलिर्गुरुम् । श्रुत्वादेशं चाविचाल्य यथादिष्टं तथा चरेत् ॥ ३५ ॥ हासे कासे समुत्पन्ने करेणाच्छादयेन्मुखम् । तदन्ते मृदुभिर्वर्णैः स्वाभिप्रायं निवेदयेत् ॥ ३६ ॥ विनीतः पुरतो भूयात्सज्जो वस्त्रादिबन्धनैः । भूजानुः साञ्जलिः श्रोतुं याचयेत्तु त्रिवारकम् ॥ ३७ ॥ सत्कार्यं सर्वदा कुर्यान्निरहङ्कारचेतसा । त्रपया पापभीत्या संवृतो नववधूरिव ॥ ३८ ॥ न विलासमयीं चेष्टां कुर्यात्शास्तरि संमुखे । अन्यच्चैवंविधं कर्म सुपरीक्ष्य त्यजेद्भृशम् ॥ ३९ ॥ प्रतिष्ठायां मण्डले च होमे वा शिष्यसंग्रहे । आख्यानादौ गुरोर्वासे नित्यं कुर्याच्च सन्निधिम् ॥ ४० ॥ प्रतिष्ठादौ लभ्यते यत्तत्सर्वं गुरवेऽर्पयेत् । तेन दत्तं च गृण्हीयात्स्वयं चान्यांश्च तोषयेत् ॥ ४१ ॥ गुरुशिष्ये स्वशिष्यत्वं न विदध्यात्कदाचन् । स्वशिष्यं व्यावृतं कुर्यात्सत्कारादेर्गुरोः पुरः ॥ ४२ ॥ आचार्यो यत्स्वयं दद्याद्गुरुर्वा यत्प्रदापयेत् । प्रणम्य धीमता ग्राह्यं बद्धाञ्जलिपुटेन तत् ॥ ४३ ॥ अविस्मृतः सर्वचर्यां यत्नात्कुर्वन् स्वबान्धवान् । अविस्मृतेर्निराकुर्यात्प्रेम्णा हृष्टेन चेतसा ॥ ४४ ॥ अनुज्ञातो गुरोः कार्यं श्रद्धालुर्नाचरेद्यदि । रुग्णस्तु कुशले चित्ते नैवं भवति पापभाक् ॥ ४५ ॥ किमन्यद्, गुरुतोषाय यच्छक्यं तत्समाचरेत् । चर्या कार्या प्रयत्नेन न कदाप्यवहेलयेत् ॥ ४६ ॥ सर्वथा सर्वदा सिद्धिराचार्य यानुगामिनी । गुरुर्वज्रधरस्योक्तेराराध्यः सर्ववस्तुभिः ॥ ४७ ॥ शिष्यः शुद्धाशयो भूत्वा त्रिरत्नं शरणं व्रजेत् । गुरोरधीत्यानुपठेत्कुर्यादुत्सर्गमेव च ॥ ४८ ॥ ततो मन्त्रादिदानेन कृत्वा सद्धर्मपात्रकम् । पठेच्च धारयेच्चापि मूलापत्तीश्चतुर्दश ॥ ४९ ॥ गुरुमनुगतशिष्यस्यानवद्यस्य कृत्वा सकलसुहितवृद्धिं संचितं यन्मयेदम् । कुशलपदमनन्तं तेन वै सर्वसत्वाः विजितसुगतभावा द्राक्सुसिद्धिं लभेयुः ॥ ५० ॥ ॥ इति गुरुपञ्चाशिका समाप्ता ॥ ॥ कृतिरियं महाचार्याश्वघोषस्य ॥