पारमितासमासः १. दानपारमितासमासः नमो बुद्धाय ॥ तथागतानां पदमारुरुक्षुराश्रित्य रत्नत्रयमादरेण । बोधौ निधायाविचलं मनश्च कुर्यात्परात्मव्यतिहारमादौ ॥ १.१ ॥ ततः परं दानविधौ प्रयोगः कार्यस्तथा लोकहितोन्मुखेन । यथा स्वगात्राण्यपि याचितस्य न योगसंकोचविरूपता स्यात् ॥ १.२ ॥ मात्सर्यदोषोपचयाय यत्स्यान्न त्यागचित्तं परिबृंहयेद्वा । तत्त्यक्तुमेवार्हति बोधिसत्त्वः परिग्रहच्छद्ममयं विघातम् ॥ १.३ ॥ तद्बोधिसत्त्वः कथमाददीत रत्नं धनं वा दिवि वापि राज्यम् । यत्त्यागचित्तप्रतिपक्षदक्षं संबोधिमार्गावरणं करोति ॥ १.४ ॥ संस्मृत्य चर्यातिशयं मुनीनां तदुन्मुखीं स्वामपि च प्रतिज्ञाम् । परिग्रहस्नेहविनिग्रहार्थं कुर्यादिमांश्चेतसि सद्वितर्कान् ॥ १.५ ॥ यदा निसृष्टो जगते मयायं कायोऽपी तत्त्यागकृतोऽपि धर्मः । बाह्ये तदा वस्तुनि सङ्गचित्तं न मे गजस्नानमिवानुरूपम् ॥ १.६ ॥ मांसार्थिनो मांसमिदं हरन्तु मज्जानमप्युद्धरणात्तदर्थी । अहं हि लोकार्थमिदं बिभर्मि शरीरकं किं बत वस्तु बाह्यम् ॥ १.७ ॥ यथैव भैषज्यमहीरुहस्य त्वक्पत्त्रपुष्पादि जना हरन्ति । मदीयमेतेऽपहरन्ति चेति नैवं विकल्पाः समुदाचरन्ति ॥ १.८ ॥ तथैव लोकार्थसमुद्यतेन स्वल्पोऽपि कार्यो न मया विकल्पः । दुःखे कृतघ्ने सतताशुचौ च देहे परस्मायुपयुज्यमाने ॥ १.९ ॥ आध्यात्मिके चैव महीजलाद्ये बाह्ये महाभूतगणे च तुल्ये । इदं ममेदं न ममेति कोऽयमज्ञानपङ्काङ्कविधिर्मयापि ॥ १.१० ॥ गृह्णीत गात्राण्यपि मे यथेष्टं मा कार्षुरस्मिन् परकीयबुद्धिम् । युष्माकमेव स्वमिदं किमर्थं नात्माभिमानो मम कश्चिदत्र ॥ १.११ ॥ इत्यद्भुता यस्य भवन्त्यभीक्ष्णं संबुद्धभावानुगुणा वितर्काः । तं बोधिसत्त्वातिशयं वदन्ति बुद्धा महासत्त्वमचिन्त्यसत्त्वाः ॥ १.१२ ॥ एवं स दानप्रतिपत्तिशूरः करोति कायेऽपि न जात्वपेक्षाम् । तस्याप्रयत्नादुपयान्ति शुद्धिं कर्माणि वाक्कायमनोमयानि ॥ १.१३ ॥ विशुद्धकर्मा च हितं परेषामायासदुःखेन विना करोति । इत्थं स सत्त्वार्थमभिप्रयत्नो नयानये कौशलमभ्युपैति ॥ १.१४ ॥ भूयस्तरं प्राप्य बलं स दानात्सद्धर्मदानेन ततः करोति । भवान्धकारे भ्रमतां जनानां सूर्योदयात्स्पष्टतरं प्रकाशम् ॥ १.१५ ॥ साधारणी लोकहितार्थसिद्धिः सर्वज्ञभावाभ्युदयप्रतिष्ठा । अतोऽस्य पुण्याक्षयताभ्युदेति प्रभेव भानोरुदयस्थितस्य ॥ १.१६ ॥ इत्यद्भुता दानमया गुणौघा ये बोधिसत्त्वाभरणीभवन्ति । तस्मात्तदीयं परिकर्म चित्तं दानस्य कारुण्यपुरःसरस्य ॥ १.१७ ॥ आयुःप्रतीभानबलादि बौद्धं निष्पादयेयं जगतामनेन । सत्त्वा मया चामिषसंगृहीताः सद्धर्मपात्राण्यपि मे भवेयुः ॥ १.१८ ॥ इत्यन्नदानं प्रददाति विद्वान्न स्वर्गसंपत्तिपरिग्रहाय । पानान्यपि क्लेशतृषः शमाय लोकस्य लोकार्थचरो ददाति ॥ १.१९ ॥ बौद्धस्य चैवर्द्धिविचेष्टितस्य निर्वाणसौख्यस्य च सर्वलोकः । लाभी कथं स्यादिति लोकनाथो यानं महायानरतिर्ददाति ॥ १.२० ॥ संबुद्धवर्णस्य च हेमभासो लज्जामयस्यैव च भूषणस्य । निष्पत्तये वस्त्रविधीनुदारान् सत्कृत्य कालानुगुणं ददाति ॥ १.२१ ॥ संबोधिमण्डासनमासनानि शय्याश्च शय्यात्रयमीक्षमाणः । सर्वज्ञचक्षुःप्रतिलब्धये च चैत्येषु रथ्यासु च दीपमालाम् ॥ १.२२ ॥ वाद्यानि दिव्यश्रुतिसंग्रहार्थं संबुद्धशीलाय च गन्धदानम् । सभाप्रपारामविहारगेहाञ्शरण्यभावाभिमुखो ददाति ॥ १.२३ ॥ दानं रसानां तु सुसंस्कृताणां रसारसाग्रत्वपरिग्रहाय । भैषज्यदानान्यजरामरत्वं लोकानिमान् प्रापयितुं ददाति ॥ १.२४ ॥ भुजिष्यतामात्मसमं निनीषुर्दाशीकृतान् क्लेशगणेन लोकान् । स दासदास्यादि सदा ददाति दासानुदासानपराकरिष्यन् ॥ १.२५ ॥ ददाति पुत्रान् दुहितृः प्रियाश्च बोधिप्रियत्वादनवद्यदानम् । एकान्तसद्धर्मरतिप्रियश्च क्रीडाविशेषान् रतिहेतुभूतान् ॥ १.२६ ॥ सुवर्णमुक्तामणिविद्रुमादीन् ददाति सल्लक्षणसंपदर्थम् । रत्नप्रदीप्तानि च भूषणानि चित्राण्यनुव्यञ्जनसौष्ठवाय ॥ १.२७ ॥ ध्यानार्थमुद्यानतपोवनानि सद्धर्मकोषाय च वित्तकोषम् । मुनीन्द्रराज्याय ददात्यखिन्नो राज्यानि चाज्ञापनमण्डितानि ॥ १.२८ ॥ चक्राङ्किताभ्यां चरणोत्तमाभ्यां संबोधिमण्डाक्रमणोत्सुकत्वात् । स निर्विकारश्चरणप्रदानं लोकार्थनिष्पत्तिकरो ददाति ॥ १.२९ ॥ दुःखापगायामतिशीघ्रगायां मग्नस्य लोकस्य कथं न दद्याम् । सद्धर्महस्तानिति संप्रदत्ते हस्तान्विकोषाम्बुरुहप्रकाशान् ॥ १.३० ॥ श्रद्धेन्द्रियादिप्रतिपूरणार्थं स कर्णनासादि ददात्यखिन्नः । चक्षुश्च चक्षुर्विमलीकरिष्यंल्लोकस्य सर्वावरणप्रहाणात् ॥ १.३१ ॥ उत्कृत्य मांसानि सशोणितानि ददाति कारुण्यवशेन नाथः । भूम्यग्निवाय्वम्बुवदेव मे स्याल्लोकोपजीव्यः कथमेष कायः ॥ १.३२ ॥ लोकोत्तमज्ञानसमापनार्थं स उत्तमाङ्गैरपि सत्करोति । अभ्यागतस्यार्थिजनस्य याच्ञां प्रागेव देहावयवैस्तदन्यैः ॥ १.३३ ॥ मज्जानमप्यद्भुतवीरचेष्टो ददाति लोकस्य कथं न कुर्याम् । तथागतं विग्रहमप्रधृष्यं वृष्ट्यापि वज्रोज्ज्वलया पतन्त्या ॥ १.३४ ॥ इत्येवमाद्यं सततानवद्यं तद्बोधिसत्त्वाम्बुधरप्रमुक्तम् । प्रह्लाद्य दानाम्बु जगत्समग्रं सर्वज्ञतासागरमभ्युपैति ॥ १.३५ ॥ अन्विष्य भोगान्विषमेण नासौ ददाति नोत्पीडनया परस्य । न त्रासलज्जाप्रतिकारहेतोर्न दक्षिनीयान् परिमार्गमाणः ॥ १.३६ ॥ न च प्रणीते सति रूक्षदानमदक्षिणीया इति वावमन्य । विपाककाङ्क्षाकृपणीकृतं वा सत्कारहीनं विजुगुप्सितं वा ॥ १.३७ ॥ नैवोन्नतिं शीलवते प्रयच्छन् विपर्ययं गच्छति नेतरस्मै । नात्मानमुत्कर्षति नैव निन्दां करोति सोऽन्यस्य समप्रयोगः ॥ १.३८ ॥ न चास्य मिथ्याशयदानमस्ति नैवास्त्यनध्याशयदानमस्य । न क्रोधदोषोपहतं ददाति नैवानुतापं कुरुते स दत्त्वा ॥ १.३९ ॥ न श्लाघ्यमानो विपुलं ददाति नाश्लाघ्यमानोऽन्यतरं ददाति । न याचकानामुपघातदानं यद्वा भवेद्विप्रतिपत्तिहेतुः ॥ १.४० ॥ नाकालदानं स ददाति किंचिद्ददाति काले विषमेऽपि नैव । न देवभावाय न राज्यहेतोर्न हीनयानस्पृहयालुभावात् ॥ १.४१ ॥ नासौ मुखोल्लोकनया ददाति न कीर्तिशब्दाय न हास्यहेतोः । पर्याप्तमेतच्च ममेति नैवं यद्वा विहिंसाहसितं परेषाम् ॥ १.४२ ॥ सर्वज्ञभावापरिणामितं वा सगर्हितं वा स ददाति नैव । ततोऽस्य तत्पारमिताभिधानं परां विशुद्धिं समुपैति दानम् ॥ १.४३ ॥ दानोद्भवं तस्य च पुण्यराशिं लोकात्समग्रादपि पिण्डितानि । पुण्यानि नैवाभिभवन्ति यस्माल्लोकोत्तमत्त्वं स ततोऽभ्युपैति ॥ १.४४ ॥ पञ्चस्वभिज्ञासु विनिश्चितात्मा लोकाय यद्वर्षति दानवर्षम् । समन्ततस्तस्य कुतः प्रमाणं परिक्षयो वा सततप्रवृत्तेः ॥ १.४५ ॥ यदक्षयाणां जगतां हिताय ज्ञानस्य हेतुश्च यदक्षयस्य । त्रैधातुकेन क्षयिणा न तच्च संलिप्यते व्योमवदम्बुदेन ॥ १.४६ ॥ तच्छून्यताकारसमाहितं च निमित्तदोषैः परिवर्जितं च । अकिंचनक्लेशवियोगसिद्धेस्तेनाक्षयं तत्कथितं मुनीन्द्रैः ॥ १.४७ ॥ अस्मिन् पुनः सत्पुरुषावदाने दाने निदाने सुखविस्ताराणाम् । चिकीर्षता योगमनित्यसंज्ञा भोगेषु कार्या करुणा च लोके ॥ १.४८ ॥ भोगाननित्यानभिवीक्षमानः सात्म्यं गतायां च ततः कृपायाम् । स निश्चयं गच्छति दीयते यदेतान्मदीयां न तु यद्गृहे मे ॥ १.४९ ॥ यद्दत्तमस्मान्न भयं कदा चिद्गेहे यदस्माद्भयमभ्युपैति । साधारणं रक्ष्यमतर्पकं च दत्ते तु नैते प्रभवन्त्यनर्थाः ॥ १.५० ॥ सुखं परत्रापि करोति दत्तमिहैव दुःखं प्रकरोत्यदत्तम् । उल्कास्वभावं हि धनं नराणामत्यज्यमानं व्यसनं ददाति ॥ १.५१ ॥ अदीयमानं निधनं प्रयाति निधानतां याति हि दीयमानम् । धनस्य निःसारलघोः स सारो यद्दीयते लोकहितोन्मुखेन ॥ १.५२ ॥ यद्दत्तमेतद्विदुषां प्रशस्यं बालो जनस्तन्निचयप्रशंसी । प्रायो वियोगो हि परिग्रहेभ्यो दानाद्भवत्यभ्युदयो यशश्च ॥ १.५३ ॥ दत्तं न तत्क्लेशपरिग्रहाय क्लेशाय मात्सर्यमनार्यधर्मः । यद्दीयते सत्पथ एष तस्मादतोऽन्यथा कापथमाहुरार्याः ॥ १.५४ ॥ अभ्यागते याचनके च तेन संबोधिसंभारविवृद्धिहेतौ । तत्प्रेष्यसंज्ञात्मनि संनिवेश्या कल्याणमित्रप्रियता च तस्मिन् ॥ १.५५ ॥ महात्मनां यत्प्रतनूभवन्ति रागादयो याचनकान्निशम्य । तेनोत्सवाभ्यागममप्यतीत्य तेषां प्रियं याचनकोपयानम् ॥ १.५६ ॥ स चेत्पुनर्याचनकेऽपि लब्धे दातुं न शक्नोत्यतिदुर्बलत्वात् । तेनानुनेयो मधुरेण साम्ना स याचकः स्यान्न यथा समन्युः ॥ १.५७ ॥ कार्यश्च मात्सर्यविनिग्रहाय मोहप्रहाणाय च तेन यत्नः । तथा यथा याचनकः कदा चिद्वैमुख्यदीनो न ततो व्यापैति ॥ १.५८ ॥ संबोधिचित्तं कुत एव तस्य द्रव्येऽपि यो मत्सरमभ्युपैति । वासः सुचित्तस्य हि नास्ति दोषैरम्भोनिधानस्य शवैर्यथैव ॥ १.५९ ॥ तस्मात्त्यक्त्वा सर्वतः सर्वदोषान् बोधिप्रार्थी सर्वदा सर्वदः स्यात् । त्रातुं लोकानेकवीरः क्व चित्तं चेष्टा दैन्यानूर्जितेयं क्व चैव ॥ १.६० ॥ मूलं दानस्यास्य संबोधिचित्तं तन्न त्याज्यं दित्सता दानमीदृक् । तं संबुद्धास्त्यागिनामग्रमाहुर्यो लोकेषु त्यागमाधित्सुरग्रम् ॥ १.६१ ॥ ॥ दानपारमितासमासः ॥ ___________________________________________________________________________ २. शीलपारमितासमासः संबुद्धशीलाभरणाभिरामान् कर्तुं जनानुत्पतितादरेण । स्वमेव शीलं परिशोध्यमादौ शीलं हि शक्तेर्बलमादधाति ॥ २.१ ॥ लोके तथा प्रेम निवेशयेत स्वप्नेऽपि न द्रोहरुचिर्यथा स्यात् । परोपकारैकरसः परेषां भोगानहीनामिव न स्पृशेच्च ॥ २.२ ॥ द्वन्द्वप्रवृत्तेर्विनिवृत्तबुद्धिः प्रागेव दारप्रणयात्परस्य । कुर्वीत लोकस्य हितार्थकर्ता कायेन चेष्टाः सुजनस्य चेष्टाः ॥ २.३ ॥ माधुर्यरम्यामपि कालयुक्तां सत्यानुकूलामविभेदिनीं च । सद्धर्मतत्त्वाधिगमाय वाणीं ब्रूयाद्विपक्षादुपरम्य तस्याः ॥ २.४ ॥ कार्यं प्रयत्नेन मया यदस्मै तत्साधनेन स्वयमेव लब्धम् । परस्य सौख्येष्विति तुष्टचित्तः कुर्यान्मनोनिर्विषयामभिध्याम् ॥ २.५ ॥ ममैव दौरबल्यमिदं यदेष क्लेशास्वतन्त्रः स्वहितं न वेत्ति । परापराधेष्वपि कार्य एवं व्यापादवह्निप्रशमाय यत्नः ॥ २.६ ॥ कुदृष्टिसंज्ञं च तमःप्रतानं ज्ञानप्रकाशैर्मनसो निरस्य । कुर्यादहार्यां नरदेववर्ये भक्तिं गुणाभ्यासविरूढमूलाम् ॥ २.७ ॥ स्वर्गस्य मोक्षस्य च सत्पथेभ्यो नैवोच्चलेत्कर्मपथेभ्य एभ्यः । अत्र स्थितानां हि जगद्धितार्थाश्चिन्ताविशेषाः सफलीभवन्ति ॥ २.८ ॥ समासतः शीलमिदं वदन्ति यः संवरः कायवचोमनस्तः । कार्त्स्न्येन चात्रैव यतः स तस्मादेतान्ययत्नेन विशोधयेच्च ॥ २.९ ॥ हिंसानिवृत्तप्रणयो ददाति सौम्यस्वभावादभ्यं जनानाम् । या वासना दोषकृतास्य चित्ते तां चाप्रयत्नेन समुच्छिनत्ति ॥ २.१० ॥ मैत्रीविशेषानुगते च चित्ते वैरानुबन्धेषु शमं गतेषु । सुखप्रबोधः सुखमेव शेते क्षीणाशुभस्वप्नविकारदोषः ॥ २.११ ॥ कुर्वन्ति रक्षांस्यपि चास्य रक्षां न दुर्गतिभ्यो भयमभ्युपैति । प्राप्नोति चारोग्यगुणाभिराममायुः प्रकृष्टं सुगतिप्रतिष्ठम् ॥ २.१२ ॥ अतश्च संबोधिमुपागतानां तथागतानाममितप्रयामम् । निर्वर्तते चित्तवशानुवर्ति लोकस्य सौख्योपचयाय वायुः ॥ २.१३ ॥ अनाददानस्तु परस्य भोगानाप्नोति भोगान्महतः परत्र । नरेन्द्रदायादगणैरहार्यान् गिरीनिव श्वासनवैरहार्यान् ॥ २.१४ ॥ आचारशुद्ध्यानुगतप्रियत्वं विश्वासपात्रत्वमिहैव याति । अतः परोपक्रमनिर्विशङ्को गतिप्रतीघातमुपैति नैव ॥ २.१५ ॥ असारबुद्धिर्धनविस्तरेषु भवत्ययत्नेन विशुद्धशीलः । तस्मादुपक्लेशविशुद्धबुद्धिरनुत्तरां च स्वयमेति बोधिम् ॥ २.१६ ॥ कामेषु मिथ्याचरणान्निवृत्तो जितेन्द्रियत्वात्प्रशमाभिरामः । प्राप्नोति लोकस्तुतिभिः समन्तात्कीर्तिं दिगन्तेषु विकीर्यमाणम् ॥ २.१७ ॥ न चापि कं चित्प्रमदासु रागं करोति मातृरिव वीक्षमाणः । अस्माच्च पुण्योपचयान्मुनीन्द्रः संजायते वारणवस्तिकोषः ॥ २.१८ ॥ वाचोऽनृतायास्तु निवर्तमानः प्रामोद्यवाञ्छाठ्यविमुक्तचित्तः । आदेयसिद्ध्या वचनस्य सत्त्वान् करोति धर्माभिमुखानयत्नात् ॥ २.१९ ॥ दिवौकसां च प्रियतां यदेति सत्यप्रियश्चित्रमिदं न तादृक् । देवस्वभावो गुणपक्षपाती प्रत्यक्षिणस्तच्चरितेषु ते च ॥ २.२० ॥ प्रमाणभूतो भवति प्रियश्च यल्लौकिकानामिदमत्र चित्रम् । प्रायेण लोको हि गुणैर्दरिद्रः स्वेनानुमानेन परान्मिनोति ॥ २.२१ ॥ त्यक्त्वेव नीलोत्पलिनीवनानि विशेषदर्शी कमलायमाने । तस्यानने संश्रयमभ्युपैति प्रह्लादनो गन्धविधिर्मनोज्ञः ॥ २.२२ ॥ भ्राजिष्णुना दुर्गतितारकेण ज्ञानेन पश्यंश्च समासमानि । स आत्मसाक्षी समुपैति लज्जां यादृच्छिकैरप्यशुभैर्वितर्कैः ॥ २.२३ ॥ एवं स शुद्धप्रकृतिः क्रमेण न शङ्क्यतेऽन्यैर्न च शङ्कतेऽन्यान् । ततोऽस्य सत्याभ्यनुवर्तनी वागरक्षतां याति तथागतत्वे ॥ २.२४ ॥ कायः परोपक्रमणैरभेद्याः परैरहार्या परिवारसंपत् । पैशून्यमुक्तस्य भवत्यभेद्या श्रद्धा च धर्मे प्रतिपत्तिसारा ॥ २.२५ ॥ मैत्रीमभेद्यामविसंवदन्तीं कृपां च लोकार्थमसंत्यजन्तीम् । प्राप्नोति चाभेद्यतमान्मुनित्वे जन्मान्तरस्थानपि शिष्यसंघान् ॥ २.२६ ॥ क्रोधस्य सैन्याग्ररजःप्रतानं संकल्पचण्डानिलविप्रकीर्णम् । यशोवपुर्ध्वंसनमित्यपास्यं मैत्र्यम्बुवाहैः परुषाभिधानम् ॥ २.२७ ॥ अस्मान्निवृत्तो मधुरैर्वचोभिर्लोकस्य चेतांसि वशीकरोति । लोकस्य च प्रेम्णि विरूढमूले सैवास्य वाग्ग्राह्यतरत्वमेति ॥ २.२८ ॥ अतश्च लोकाञ्छतशो विनीय तेषां समावृत्य च दुःखमार्गम् । न दुर्गतिं गच्छति पुण्यकर्मा धर्मो हि रक्षेह परत्र चैव ॥ २.२९ ॥ दूरादपि व्यक्तपदानुनादः श्रीमानदूरेऽपि सुखस्वभावः । मेघस्वनोदग्रतरस्ततोऽस्य ब्रह्मस्वरो वक्त्रमलंकरोति ॥ २.३० ॥ अबद्धवाक्याद्विरतः प्रियत्वमेकान्ततो याति विचक्षणानाम् । सत्याभिधाने क्रमते सबुद्धिः प्राप्नोति माहात्म्यमकृत्रिमं च ॥ २.३१ ॥ अस्माच्च पुण्यान्मुनिराजभावे गाम्भीर्यगूढान् परिपृच्छमानः । प्रश्नाननेकानपि चैककाले निःसंशयं व्याकुरुते स वाचा ॥ २.३२ ॥ प्रेत्येह चानर्थफलैरवन्ध्यां वन्ध्यामभिध्यां समपास्य बुद्ध्या । अनीर्ष्यभावादतिकाङ्क्षितां स प्राप्नोति विस्तीर्णतरां समृद्धिम् ॥ २.३३ ॥ चित्ते विशुद्धे च तदाश्रयाणि वाक्कायकर्माणि शुचीभवन्ति । नभस्तले कालगुणाभिरामे तारागणानामिव मण्डलानि ॥ २.३४ ॥ पुण्याधिपत्यात्क्रमते च बुद्धिस्तस्योपभोगेषु सदोत्तमेषु । प्रयाति राज्ञामपि संमतत्वमधृष्यतां च प्रतिगर्वितानाम् ॥ २.३५ ॥ वैकल्यमायान्ति न चेन्द्रियाणि सत्कर्मनिर्वृत्तबलानि तस्य । अतश्च लोकत्रयपूज्य एकः शास्ता भवत्यप्रतिवर्त्यचक्रः ॥ २.३६ ॥ व्यापाददाहज्वरविप्रमुक्तः साधुस्वभावाभिनयो नयेन । व्यक्तीकरोतीव मनःप्रसादं स्वस्थप्रशान्तेन विचेष्टितेन ॥ २.३७ ॥ हिंसात्मके विग्रहसंहिते वा कर्मण्यनार्याचरिते शठे वा । न चास्य बुद्धिः क्रमते कदाचिन्मैत्रीसुखास्वादविशेषलाभात् ॥ २.३८ ॥ लोके व्रजत्यार्यजनेन साम्यं संमान्यते दैवतवज्जनेन । न ब्रह्मलोकोऽपि च दुर्लभोऽस्य प्रस्निग्धकर्मण्यमनःपथस्य ॥ २.३९ ॥ हिताभिनन्दी जगतामयत्नात्प्रसादयत्येव च मानसानि । रम्यः शरत्काल इवापगानां तोयानि मेघागमदूषितानि ॥ २.४० ॥ रूपेण सर्वप्रियदर्शनेन ज्ञानास्पदेनाद्भुतचेष्टितेन । एकीकरोतीव ततो मुनित्वे लोकस्य विज्ञानपृथक्त्वसिद्धिम् ॥ २.४१ ॥ कुदृष्टिपङ्कक्रमणं लसंस्तु प्राप्नोति कल्याणहृदः सहायान् । कर्मस्वकोऽस्तीति च कर्म पापं विशस्यमानोऽपि करोति नैव ॥ २.४२ ॥ भवत्यकम्प्या च जिणेऽस्य भक्तिर्नायस्यते कौतुकमङ्गलैश्च । आर्ये च मार्गे लभते प्रतिष्ठां विशेषगामित्वमतोऽभ्युपैति ॥ २.४३ ॥ सत्कायदृष्ट्युच्चलितः स याति न दुर्गतिं हेतुपरिक्षयेण । ज्ञानेन चानावरणेन युक्तो दिवःपृथिव्योर्विचरत्यसङ्गः ॥ २.४४ ॥ प्रत्येकबुद्धैरपि चानवाप्ताः सर्वे ततोऽस्याभिमुखीभवन्ति । जगद्धितार्थेषु विजृम्भमाणाः सर्वज्ञभावाय मुनीन्द्रधर्माः ॥ २.४५ ॥ इमां विभूतिं गुणरत्नचित्रां श्लाघ्यां स्वयंग्राहगुणाभिरामाम् । को नाम विद्वान्न समाददीत विशेषतः सत्त्वहिताभिलाषी ॥ २.४६ ॥ दिव्याभिरामा मनुजेषु संपत्प्रकृष्टसौख्यैकरसा च दिव्या । शीलाद्यदि स्यात्किमिवात्र चित्रं यस्मात्प्ररोहन्त्यपि बुद्धधर्माः ॥ २.४७ ॥ शीलच्युतस्त्वात्महितेऽप्यशक्तः कस्मिन् परस्यार्थविधौ समर्थः । तस्माद्विशेषेण परार्थसाधोर्न न्याय्यमस्मिञ्छीथिलादरत्वम् ॥ २.४८ ॥ विवर्जयेदण्वपि वर्जनीयं तस्माद्भयं तीव्रमवेक्षमाणः । न बोधिसत्त्वाभ्युचितं च शीलं विखण्डयेदात्मसुखोदयेन ॥ २.४९ ॥ न च्छिद्रदोषैः परिजर्जरं वा स्त्रीकेलिसंवाहनवीक्षणाद्यैः । न दुर्जनक्लेशपरिग्रहाद्वा कुर्वीत शीलं शबलप्रकारम् ॥ २.५० ॥ कल्माषदोषापगतं निषेव्यमेकान्तशुक्लोपचयेन शीलम् । स्वेच्छागतित्वाच्च भुजिष्यवृत्तं विद्वत्प्रशंसाभरणानवद्यम् ॥ २.५१ ॥ समग्रशिक्षापदपूरणाच्च संपूर्णमामर्षविवर्जितं च । चेतोविशुद्धिप्रतिबिम्बभूतैस्तीव्रैः परार्थैकरसैः प्रयोगैः ॥ २.५२ ॥ स्मृत्याश्रयाच्चेन्द्रियसंवरेण शीलस्य संरक्षणतत्परः स्यात् । लोकस्य दौःशील्यमभिप्रवृद्धं तमः सहस्रांशुरिवापनेष्यन् ॥ २.५३ ॥ दुःखप्रतीकारनिमित्तसेव्यैः कायव्रणालेपनवेष्टनाद्यैः । न्यायोपलब्धैः परितुष्टचित्तोऽपराननोल्लोकनकातरः स्यात् ॥ २.५४ ॥ श्लाघ्येषु सर्वेष्वपि वर्तमानः शीलानुकूलेषु गुणोदयेषु । अविस्मितत्वादपराधमानी कीर्तेर्बिभीयाच्च तदुद्भवायाः ॥ २.५५ ॥ लाभप्रकारो हि गुणप्रकाशाच्छत्रुत्वमभ्येति सुहृन्मुखेन । सरोरुहाणामिव शीतरश्मिः श्रेयः प्रमाथी शिथिलव्रतानाम् ॥ २.५६ ॥ शीलं गुणाभ्यासविधिं वदन्ति संबोधिचित्ते च गुणाः समग्राः । अभ्यस्यते तच्च कृपागुणेन कारुण्यशीलः सततं ततः स्यात् ॥ २.५७ ॥ यन्निश्रितं कामभवेऽपि नैव संतिष्ठते नैव च रूपधातौ । आरूप्यधातौ यदसंस्थितं च तत्तत्त्वतः शीलमुदाहरन्ति ॥ २.५८ ॥ यो लोकधातुष्वमितेषु सत्त्वाञ्छीले प्रतिष्ठापयिषुः समग्रान् । निषेवते लोकहिताय शीलं तदुच्यते पारमितेति तज्ज्ञैः ॥ २.५९ ॥ शीलं विशेषाधिगमस्य मार्गो दायाद्यभूतं करुणात्मकानाम् । ज्ञानप्रकर्षस्य शुचिस्वभावो नष्टोद्धवा मण्डनजातिरग्रा ॥ २.६० ॥ लोकत्रयव्यापि मनोज्ञागन्धं विलेपनं प्रव्रजिताविरोधि । तुल्याकृतिभ्योऽपि पृथग्जनेभ्यः शीलं विशेषं कुरुते नराणाम् ॥ २.६१ ॥ अकत्थनानामपि धीरभावाद्विनापि वाग्भेदपरिश्रमेण । अत्रासनाभ्यानतसर्वलोकं त्यक्तावलेपोद्धवमीश्वरत्वम् ॥ २.६२ ॥ अप्यप्रकाशान्वयसंस्तवानामकुर्वतामप्युपकारसारम् । निष्केवले शीलविधौ स्थितानामसंस्तुतानामपि यन्नराणाम् ॥ २.६३ ॥ रजांसि पादाश्रयपावितानि प्रणामलब्धानि समुद्वहन्ति । चूडाग्रलग्नानि मनुष्यदेवाः श्रीमत्तरं शीलमतः कुलेभ्यः ॥ २.६४ ॥ तस्मान्न दुर्गतिभयेन न राज्यहेतोर्न स्वर्गसंपदभिलाषसमुद्भवेन । सेवेत शीलममलं न हि तत्तथा स्याल्लोकार्थसिद्धिपरमस्तु भजेत शीलम् ॥ २.६५ ॥ ॥ शीलपारमितासमासः ॥ ___________________________________________________________________________ ३. क्षान्तिपारमितासमासः संमोहनीं मन्मथपक्षमायां प्राहुः सुखां चैव विमोक्षमायाम् । तस्यां न कुर्यात्कैव क्षमायां प्रयत्नमेकान्तहितक्षमायाम् ॥ ३.१ ॥ परापराधेषु सदानभिज्ञा व्यवस्थितिः सत्त्ववतां मनोज्ञा । गुणाभिनिर्वर्तितचारुसंज्ञा क्षमेति लोकार्थचरी कृपाज्ञा ॥ ३.२ ॥ परार्थमभ्युद्यतमानसानां दीक्षां तितिक्षां प्रथमां वदन्ति । सेतुर्जलानीव हि रोषदोषः श्रेयांसि लोकस्य समावृणोति ॥ ३.३ ॥ अलंक्रिया शक्तिसमन्वितानां तपोधनानां बलसंपदग्रा । व्यापाददावानलवारिधारा प्रेत्येह च क्षान्तिरनर्थशान्तिः ॥ ३.४ ॥ क्षमामये वर्मणि सज्जनानां विकुण्ठिता दुर्जनवाक्यबाणाः । प्रायः प्रशंसाकुसुमत्वमेत्य तत्कीर्तिमालावयवा भवन्ति ॥ ३.५ ॥ प्रतिक्रिया दुर्जनवाग्विषाणां प्रह्लादनी ज्ञाननिशाकराभा । धीरप्रकारा प्रकृतिर्यतीनां क्षान्तिर्गुणानामधिवासभूमिः ॥ ३.६ ॥ सत्त्वस्य गाम्भीर्यमयस्य सारो घनागमः क्रोधनिदाघशान्त्यै । व्यतीतवेलस्य गुणार्णवस्य व्यापी स्वनः क्षान्तिमयोऽभ्युदेति ॥ ३.७ ॥ आ ब्रह्मलोकादधिरोहाणार्था सोपानपङ्क्तिर्गतखेददोषा । कर्मान्तशाला गुणशीभरस्य रूपस्य सल्लक्षणभूषणस्य ॥ ३.८ ॥ उन्मूलनी वैरफलाचितानां क्षमासरिद्दोषमहाद्रुमाणाम् । संबोधिचित्तस्य विवर्धितस्य गुणाम्बुरशेः सततानुकूला ॥ ३.९ ॥ शुभा परत्रापि हिते समृद्धिर्जगद्धितार्थस्य परा विवृद्धिः । शुभस्वभावातिशयप्रसिद्धिः क्षान्तिर्मनःकायवचोविशुद्धिः ॥ ३.१० ॥ संसारदोषैर्न च च्छेदमेति सत्त्वान् कृपास्निग्धमवेक्षमाणः । सत्कर्मभिर्लोकहितैः समन्ताद्यशोमयत्वं व्रजतीव लोके ॥ ३.११ ॥ न स्पृश्यते विस्मयवाच्यदोषैर्ज्ञानावदानेन तितिक्षुरेव । अनित्यताक्षान्तिबलोदयाच्च प्रहर्षमायाति सुखेऽपि नैव ॥ ३.१२ ॥ संकोचमायाति न चायशोभिर्विसारिणा क्षान्तिबलश्रयेण । अतश्च शेषैरपि लोकधर्मैरनिश्रितत्वान्न स चापलीति ॥ ३.१३ ॥ तीव्रप्रकारैरपि विप्रकारैर्न विक्रियां यान्ति सतां मनांसि । दृढाभिलाषाणि मुनीन्द्रभावे क्षान्त्या बलाधानसुसंस्कृतानि ॥ ३.१४ ॥ स क्षान्तिधीरेण च मानसेन कष्टानि संदर्शयते तपांसि । दर्पोन्नतिं तीर्थकृतां मनःसु नीचैः करिष्यन् हितकाम्ययैव ॥ ३.१५ ॥ लोकोऽयमात्माभिनिवेशसमूढः शेषान् परानित्यभिमन्यमानः । तद्विप्रकारैरभिभूतचेता<;ः>; क्षमावियोगात्परिखेदमेति ॥ ३.१६ ॥ कृपासनाथानि सतां मनांसि क्षान्त्या कृतस्वस्त्ययनक्रियाणि । नष्टात्मदृष्टिणि परापकारान्न विक्रियां यान्ति गुणानुरागात् ॥ ३.१७ ॥ मिथ्याविकल्पो हृदयज्वरस्य क्रोधस्य हेतुर्धृतिदुर्बलानाम् । सम्यग्विकल्पस्तु समादधाति क्षान्तिप्रकारां मनसः प्रशान्तिम् ॥ ३.१८ ॥ विकल्पसन्निश्रयसंश्रितायां क्षान्त्यां न तु स्याच्चलितावकाशः । प्रत्यूषवातस्फुरितेऽम्भसीव संपूर्णचन्द्रप्रतिबिम्बलक्षयाः ॥ ३.१९ ॥ विकल्पशान्तिं परमार्थतस्तु क्षान्तिं क्षमातत्त्वविदो वदन्ति । तस्माद्विकल्पोपशमे यतेत स्वप्नोपमं लोकमवेक्षमाणः ॥ ३.२० ॥ चक्षुः किमाक्रोशति चक्षुरेतच्छ्रोत्रादि वाक्रोशति किं तदादि । यैवं क्षमा सायतनान्ववेक्षा न क्षान्तिरेषा परमार्थतस्तु ॥ ३.२१ ॥ वक्ता वचश्चैतदनित्यमेव श्रुतिर्विकल्पोऽपि च यो ममायम् । अनित्यभावप्रविकल्पनैषा न क्षान्तिमेतां परमां वदन्ति ॥ ३.२२ ॥ कर्तापकारस्य न कश्चिदस्ति नैवास्ति कश्चित्क्रियाते च यस्य । नैरात्मसंदर्शनसिद्धिरेषा न क्षान्तिरेषापि गतप्रकर्षा ॥ ३.२३ ॥ तत्तत्प्रतीत्य प्रभवन्ति भावा निन्दाप्रशंसासुखदुःखसंज्ञाः । प्रतीत्यसिद्धेरवतारभूमिर्न क्षान्तिरत्यन्तसमाहितैषा ॥ ३.२४ ॥ यद्येसा संमोहमहाग्रहेण पर्यस्तचेता ननु नाहमेवम् । इत्युन्नते चावनते च चित्ते क्षान्तिप्रकर्षस्य कुतोऽवकाशः ॥ ३.२५ ॥ प्रध्वंसिनी वर्णलवप्रतिश्रुद्यन्त्रादिवैकैकश उच्चरन्ती । कुर्यां कथं कस्य च कां च पीडामेषापि न क्षान्तिरतिप्रकृष्टा ॥ ३.२६ ॥ यद्येसा मत्पापपरिक्षयार्थं न वीक्षते स्वामपि धर्मपीडाम् । अस्मान्न कल्याणतरं हि मित्रमसावपि क्षान्त्युपचारा एव ॥ ३.२७ ॥ कर्मस्वतामेव हि वीक्षमाणस्तितिक्षते तद्गुणदर्शनाच्च । नैवंप्रकारापि हि नैष्ठिकत्वं क्षान्तिर्विकल्पोपहता प्रयाति ॥ ३.२८ ॥ अनित्यदुःखाशुचिनिःस्वभावता मम क्षमन्ते न तु तद्विपर्ययाः । इयं विपक्षप्रशमक्षमा क्षमा द्वयप्रवृत्तेर्न तु पारमार्थिकी ॥ ३.२९ ॥ अयत्नतत्त्वार्थविचक्षणो जनः परोपकारेषु यतः प्रवर्तते । क्षमा न चैवं समतां समेति या यतः क्षमैवं न विकल्पनक्षया ॥ ३.३० ॥ निरोधमायान्ति यदा त्वशेषताः समाधिकन्यूनविकल्पनक्रमाः । अनुत्तरां क्षान्तिममानगोचरां वदन्ति तामद्वायमार्गचारिणाः ॥ ३.३१ ॥ स्वतः परस्मादुभयादहेतुतो यथा न भावाः प्रभवन्ति के चन । स्वतः परस्मादुभयादहेतुतस्तथा न भावा विभवन्ति के चन ॥ ३.३२ ॥ नष्टादनष्टादुभयाच्न नोभयान्न जातु कार्यं खलु विद्यते क्व चित् । तथापि कार्यं समुदेति वस्तुनो येत्थं क्षमा सा द्वयवर्जिता क्षमा ॥ ३.३३ ॥ सतोऽसतो वास्ति न जन्म जन्मना विना निरोधोऽपि न कस्य चित्क्व चित् । स्वभावशून्यामिति भावकल्पनां विपश्यतः क्षान्तिरुदेति नैष्ठिकी ॥ ३.३४ ॥ अवाप्य यां व्याक्रियते सहस्रशो जिनैरसौ नाम जिनो भविष्यति । प्रवर्तते लोकहितक्रियाविधिः समाहितस्यैव च तस्य सर्वदा ॥ ३.३५ ॥ यावच्च भावाभिनिविष्टबुद्धिरत्र द्वयं तावदुपैति मोहात् । तथानिमित्तं च विमोक्षहेतुर्दुरे भवत्यस्य यथा क्षितेः खम् ॥ ३.३६ ॥ उपैति धर्मप्रणिधानकर्मसु प्रभुत्वमृद्धावधिमुक्तिजन्मसु । तथा परिष्कारविधौ स्वचेतसि प्रकर्षिणि ज्ञानबले तथायुषि ॥ ३.३७ ॥ अवाप्य चैतद्वशितामयं धनं प्रकृष्टमक्षिष्णु परार्थसाधनम् । जनस्य कृच्छ्रेषु पतिष्यतः सतः स जायते धारणकारणं विभुः ॥ ३.३८ ॥ तस्मात्परार्थमहतीं धुरमुद्वहद्भिः क्षान्तेरुपायविधिरेष सदानुगम्यः । अत्र स्थितस्य हि भवन्ति परार्थचित्ताः सर्वा<;ः>; क्रिया गुणफलाभरणाभिरामाः ॥ ३.३९ ॥ अस्यां हि भक्तिरपि या प्रविरूढमूला तामभ्यसन्ति मुनयो मुनिराजभावे । श्रद्धानुविद्धमनसां न हि धर्ममार्गे दृष्टो मनोरथरथस्य यतोऽक्षभङ्गः ॥ ३.४० ॥ ॥ क्षान्तिपारमितासमासः ॥ ___________________________________________________________________________ ४. वीर्यपारमितासमासः सर्वंसहे क्षान्तिबले च रूढे सर्वाद्भुतान्यारभते स शौर्यात् । वीर्येण कार्यान्तमहाबलेन यस्मात्स देवानपि यात्यतीत्य ॥ ४.१ ॥ सुदृश्यपाराण्यपि लौकिकानि कार्याणि निर्वीर्यदुरुत्तराणि । अप्राप्यरूपं तु न किं चिदस्ति खेदानभिज्ञेन पराक्रमेण ॥ ४.२ ॥ आरब्धमेवोत्सहते न हीन आरभ्य मध्यस्तु विषादमेति । परार्थमश्रान्तपराक्रमास्ते निर्वाणमुत्सृज्य समारभन्ते ॥ ४.३ ॥ प्रायेण दैन्योपहतो जनोऽयं स्वाधीनवीर्योऽपि गुरुस्वकार्यः । अहीनवीर्यस्य तु मेरुसारोऽप्यखेदसाध्यः परकार्यभारः ॥ ४.४ ॥ संसारकोट्योरुभयोः समानैः प्रयामसारैर्दिवसैर्यदि स्युः । संवत्सरास्तत्प्रचयातिदीर्घैः कल्पैः समुद्रोदकबिन्दुतुल्यैः ॥ ४.५ ॥ उत्पादयेयं यदि बोधिचित्तमेकैकमेतेन पराक्रमेण । संभारशेषं चिनुयां तथापि भूयःसमुत्सारितखेददैन्यः ॥ ४.६ ॥ एकैकमेवं यदि बोधिचित्तं प्राप्येत संभारविधिश्च शेषः । तथापि बोधिं समुदानयेयं कृपासमुत्साहितधैर्यसारः ॥ ४.७ ॥ संसारदुःखं स्वमचिन्तयित्वा संनाहदार्ढ्यं यदचिन्त्यमेवम् । आद्यं समादानमिदं वदन्ति वीरव्रतानां करुणात्मकानाम् ॥ ४.८ ॥ पद्भ्यामतिक्रम्य कुकूलकल्पां कृत्स्नां महीमायुधसंवृतां वा । यद्द्रष्टुमप्युत्सहते मुनीन्द्रान् पातुं शिवं धर्मरसायनं वा ॥ ४.९ ॥ संसारपङ्काज्जनता मयेयमुद्धृत्य निर्वाणसुखे निवेष्या । उत्क्षेपनिक्षेपविधौ पदानां यच्चित्तमेवं च समाददाति ॥ ४.१० ॥ यद्वा हितार्थं क्रमते परस्य पुण्यानि वा लोकहिताय चित्तम् । पराक्रमः सोऽक्षयविक्रमाणां श्रीमत्समादानविधौ द्वितीयः ॥ ४.११ ॥ पुण्यस्य चोत्पादसमानकालं संबुद्धभावे परिणामनं यत् । तदक्षयत्वं समुदागमाय शुभं समादानमुदाहरन्ति ॥ ४.१२ ॥ महत्सु वाम्भःसु यथा निषिक्तो नैवोदबिन्दुः क्षयमभ्युपैति । संबुद्धभावे परिणामितस्य तथैव पुण्यस्य न संक्षयोऽस्ति ॥ ४.१३ ॥ तथा हि कारुण्यविशुद्धबुद्धिः सर्वज्ञभावाय फलन्त्यमूनि । पुण्यानि लोकस्य चराचरस्येत्येवं स तान्यारभते सुसत्त्वः ॥ ४.१४ ॥ महात्रिसाहस्रगतं जनौघं निर्वापयेदेकदिने न कश्चित् । कल्पं तथा नैव च सत्त्वधातोस्तेनापि किं चित्परिपाचितं स्यात् ॥ ४.१५ ॥ श्रुत्वापि सत्त्वाक्षयतामिमां यः सत्त्वानशेषान् विनिनीषुरेव । विषाददोषानवलीढवीर्यः कस्तस्य दूरस्थ इहार्थसारः ॥ ४.१६ ॥ यः पुण्यराशिर्जगतां समग्रस्तावत्प्रमाणैर्दशभिर्जिनस्य । निवृत्तिमागच्छति रोमकूप एकैक एकैकसुजातरोमा ॥ ४.१७ ॥ शतेन भूयो गुणितेन तेन पुण्येन रोमास्पदसंश्रितेन । भवत्यनुव्यञ्जनमेकमेव शेषाणि तस्य प्रभवन्ति काये ॥ ४.१८ ॥ तावद्गुणादेव च पुण्यराशेस्तस्मादनुव्यञ्जनसंप्रविष्टात् । प्रत्येकशस्तस्य जिनत्वशंसि निर्वर्तते लक्षणचित्रकर्म ॥ ४.१९ ॥ सल्लक्षणोत्पत्तिनिमित्तभूतात्सहस्रसंख्यागुणिताच्च पुण्यात् । निर्वर्तते तस्य मनोज्ञवर्णा संपूर्णचन्द्रस्फुटकान्तिरूर्णा ॥ ४.२० ॥ ऊर्णाभिनिर्वृत्तिकर्मं च पुण्यं शतप्रमाणैर्गुणितं सहस्रैः । करोति तस्यानवलोकनीयं छत्तराभमुष्णीषललामशीर्षम् ॥ ४.२१ ॥ अयं मया पुण्यनिधिः परार्थं संचेय इत्युत्तमबोधिचित्ते । वीर्योन्मुखे केन मुखेन तस्मिंल्लयप्रवृत्तिर्लभतां प्रवेशम् ॥ ४.२२ ॥ सर्वेऽपि सत्त्वा यदि लोकधातौ प्रत्येकबुद्धैः सदृशा भवेयुः । ज्ञानेन तेभ्योऽभ्यधिकप्रभावः क्षान्तिस्थ एकोऽपि हि बोधिसत्त्वः ॥ ४.२३ ॥ तथैव च क्षान्तिबलस्थितेभ्यो विशेषमायात्यविवर्तनीयः । अश्रान्तवीर्यः कुशलप्रयोगे यल्लौकिके चैव तदुत्तरे च ॥ ४.२४ ॥ तेभ्यः पुणश्चाधिक एव दूरं य एकजातिप्रतिबद्धबोधिः । क एव वादो दृढवीर्यवत्सु ये बोधिमूले प्रथमं निषण्णाः ॥ ४.२५ ॥ तादृग्विधज्ञानविशुद्धिपूर्णः स्याद्यद्यशेषेन च लोकधातुः । यायात्कलां सोऽपि न बोधिमूले स्थितस्य मारातिकृतान्त्यजातेः ॥ ४.२६ ॥ तादृग्विधज्ञानविशुद्धचित्ताः स्युर्यद्यशेषेन च सर्वलोकाः । बलप्रदेशस्य मुनेरतुल्याः कलाप्रदेशैरपि ते समग्राः ॥ ४.२७ ॥ इत्यद्भुतज्ञानसमुद्रमेकः कृपात्मको निस्तरितुं प्रयाति । अव्याहताज्ञः परचित्तचारे प्रज्ञावभासं च नभो विशालम् ॥ ४.२८ ॥ सर्वेषु सत्त्वेषु च तस्य मात्रा समानहार्दा करुणाभ्युदेति । संबुद्धधर्माश्च ततोऽवशेषास्तस्याद्भुताः संप्रभवन्त्यशेषाः ॥ ४.२९ ॥ एभिः समादानगुणैरुपेतः शुद्धश्रवैः पेलवसत्त्वसत्त्वैः । अष्टाभिरङ्गैरिव तत्त्वमार्गो वीर्यप्रकर्षादधिकं विभाति ॥ ४.३० ॥ वीर्यं त्रिधा यः कुशलप्रयोगस्तस्माच्च वाक्कायमनोविशेषाः । प्रस्थानविष्ठानसमाहितस्य वीर्यप्रकर्षस्य मनोमयस्य ॥ ४.३१ ॥ यो बोधिचित्तप्रणयः समश्च कृपा च नैरात्मगतौ क्षमा च । चतुर्विकल्पो जनसंग्रहश्च सर्वेषु धर्मेष्वनवग्रहश्च ॥ ४.३२ ॥ संसारपङ्के यदखिन्नता च त्रैधातुकस्यैव च नोपलब्धिः । सर्वस्वदानं न च तेन मानः समग्रशिक्षस्य न शिक्षया च ॥ ४.३३ ॥ परापकारैरविकारि धैर्यं चित्तस्य चात्यन्तमविक्षतिर्या । आरम्भदार्ढयं कुशलक्रियासु प्रीतिर्विवेकैकरसा च चित्ते ॥ ४.३४ ॥ चतुर्विधध्यानसमापनं च चित्तस्य निध्यप्तिरनात्मतश्च । अतृप्तता च श्रुतविस्तरेण न्यायप्रवेशस्तदवेक्षणाच्च ॥ ४.३५ ॥ या देशना चैव यथाश्रुतानां ज्ञानं च धर्मानभिलाप्यतायाम् । पञ्चस्वभिज्ञासु च यत्प्रभुत्वमभ्यासमात्रा च तदुत्तरायाम् ॥ ४.३६ ॥ यदृद्धिपादेष्वभिनिर्हृतत्वं पट्वी न चायासमयी क्रिया च । सम्यक्प्रहाणेषु च यः प्रयोगः शुभाशुभादेव च या विमुक्तिः ॥ ४.३७ ॥ यत्कौशलं चेन्द्रियनिर्णयेषु निरिन्द्रियान् पश्यति यच्च धर्मान् । मार्गस्य संभारविमार्गणं च न चास्य किं चिद्गमनं कुतश्चित् ॥ ४.३८ ॥ इत्येवमाद्यं पृथुचित्रवीर्यं प्रस्थानविष्ठानविशेषचित्रम् । अस्याक्षयत्वप्रतिपूरणार्थं प्रस्थानकर्मैव विशेषहेतुः ॥ ४.३९ ॥ निमित्तकर्मस्वपि न प्रवर्तते वितिष्ठते ज्ञानमये च कर्मणि । कृपागुणाद्यन्न जहाति संस्कृतं न चोरुवीर्योऽपि पतत्यसंस्कृते ॥ ४.४० ॥ अपूर्वधर्मश्रुतिरल्परोगता दुरासदेत्वं श्रुतधर्मधारणम् । अमानुषेभ्योऽपि परिग्रहोदयः समाधिगोत्रप्रतिलम्भ एव च ॥ ४.४१ ॥ व्रजन्त्यवन्ध्या यदहर्निशं क्रिया गुणैर्न हानिं यदुत्पैति मौशलीम् । विवृद्ध एवोत्पलवच्च यद्गुणैर्मनुष्यधर्मादधिकप्रयोजनैः ॥ ४.४२ ॥ यशो विशालं च सुखं सुखोदयं विनीतकार्पण्यमनस्त्वमुत्तमम् । गुणाश्च तेषामिह दृष्टधार्मिका भवन्ति वीर्यादिति कोऽत्र विस्मयः ॥ ४.४३ ॥ त्रैलोक्यपूज्यममितोरुगुणं संबुद्धभावमपि यान्ति यदा । वीर्यव्यापाश्रयदृढाः पुरुषा न स्यादतः क इव वीर्यपरः ॥ ४.४४ ॥ ॥ वीर्यपारमितासमासः ॥ ___________________________________________________________________________ ५. ध्यानपारमितासमासः अथ ध्यानविधौ योगं कुर्याज्ज्ञानविवृद्धये । सुखं हि कर्तुं लोकानां ज्ञानालोकादनुग्रहम् ॥ ५.१ ॥ प्रसीदत्यधिकं ज्ञानं ध्यानान्मनसि निर्मले । शरदुत्सारितघने नभसीवेन्दुमण्डलम् ॥ ५.२ ॥ विशुद्धशीलः कल्याणैः सहायैः सहितैर्हितैः । अल्पकृत्यः प्रशान्तात्म स्मृत्यधिष्ठानवेष्टितः ॥ ५.३ ॥ निवसन् वृक्षमूलेषु शाद्वलास्तीर्णभूमिषु । अनुपस्कृतरम्येषु वनपुष्पसुगन्धिषु ॥ ५.४ ॥ ध्यानसाचिव्यधीरेषु संतुष्टजनवेश्मसु । जननिर्घोषमूकत्वाद्गम्भीरावस्थितेष्विव ॥ ५.५ ॥ प्रत्यरण्यनिविष्टेषु शून्येष्वायतनेषु वा । कुञ्जेषु च महीध्राणां सिंहनादानुनादिषु ॥ ५.६ ॥ यत्र क्व चन वा देशे संसर्गक्लेशवर्जिते । पर्यङ्केन सुखासीनः शरीरमृजु धारयन् ॥ ५.७ ॥ उपस्थाप्य स्मृतिमयीं रक्षामभिमुखीं हृदि । कृपया कुवितर्काणां कृत्वेवाक्षणघोषणाम् ॥ ५.८ ॥ प्रज्ञापरिचयस्यायां कालो मे न तु निर्वृतेः । न हि सत्त्वाननिर्वाप्य स्वयं निर्वातुमुत्सहे ॥ ५.९ ॥ इति लोकहितावेक्षी बुद्धभावगतस्पृहः । कुर्यात्सातत्ययोगेन ध्यानारम्भसमुद्यमम् ॥ ५.१० ॥ न हि विश्रम्य विश्रम्य मथ्नन्नग्निमवाप्नुयात् । स एव योगो योगेऽपि विशेषाधिगमादृते ॥ ५.११ ॥ एकत्रैव च बध्नीयाद्दृढमालम्बने मनः । अन्यान्यालम्बनग्राहः क्लिश्नात्येवाकुलं मनः ॥ ५.१२ ॥ विदर्शनाद्वीर्यबलाल्लीयमानं समुद्धरेत् । उद्धन्यमानं च मनः प्रशमेन निवारयेत् ॥ ५.१३ ॥ सम्यग्गतमुपेक्षितं समाधिबलनिश्चलम् । तत्रापि वा तन्मयः स्यात्सुगतज्ञानलब्धये ॥ ५.१४ ॥ न च ध्यानसुखास्वादः पारतन्त्र्यमनुक्रमेत् । न हि स्वसुखमात्रार्थमयमारम्भविस्तरः ॥ ५.१५ ॥ शरीरजीवितापेक्षी दैन्योपहतमानसः । न कुर्याद्वीर्यशैथिल्यमप्यादीप्ते स्वमूर्धनि ॥ ५.१६ ॥ लक्षयित्वा निमित्तानि मनस्तस्य समाधये । भ्रश्यमानं प्रयुञ्जीत स्मृत्यावहितया पुनः ॥ ५.१७ ॥ मनो निवरणेभ्यश्च विपक्षैर्विनिवर्तयेत् । स्वेच्छाप्रयातं द्विरदमङ्कुशाकर्षणैरिव ॥ ५.१८ ॥ अथ नीवरणव्याधिनाशप्रस्वस्थमानसः । दारिद्र्यादिव निर्मुक्तो महतो व्यसनादिव ॥ ५.१९ ॥ प्रीतियुक्तेन मनसा कामदोषान् विचारयेत् । तद्वियोगोपलभ्यां च परां सुखपरम्पराम् ॥ ५.२० ॥ विद्युदुद्द्योतचपलाः फेनांशुकनिभात्मकाः । स्वप्नवत्पेलवास्वादा वञ्चनार्थमिवोदिताः ॥ ५.२१ ॥ पितृणामपि पुत्रेषु पुत्राणां च पितृष्वपि । प्रीतिसर्वस्वभूतेषु सुहृत्सु सुहृदामपि ॥ ५.२२ ॥ गुणप्रचयबद्धस्य व्यूढेसु समरेष्वपि । दर्शितस्थैर्यसारस्य स्नेहसेतोर्विदारिणः ॥ ५.२३ ॥ इह पर्येष्टिदुःखस्य परत्र नरकस्य च । हेतुभूता यतः कामाः कामयेत न तानतः ॥ ५.२४ ॥ यदाश्रयो वितर्कोऽपि प्रज्ञाचक्षुर्निमीलनः । आत्मनोऽपि परस्यापि विघाताय प्रवर्तते ॥ ५.२५ ॥ आत्मकामैरपि च ये सर्वथापि विवर्जिताः । परार्थकामस्तान् कामांस्त्यक्त्वा कथमनुस्मरेत् ॥ ५.२६ ॥ तृप्तिरेषां न संप्राप्त्या नाहन्यहनि सेवया । नैव संनिचयेनापि कोऽन्यो व्याधिरतः परः ॥ ५.२७ ॥ यदास्वादहतो नैव स्वार्थमप्यवबुध्यते । उन्मत्तपानप्रतिमान् कस्तान् सहृदयः स्मरेत् ॥ ५.२८ ॥ इत्येवं सर्वतो दुष्टान् कामांस्तस्यानुपश्यतः । ततः संकुचितं चित्तं नैष्क्रम्येऽभिप्रसीदति ॥ ५.२९ ॥ विवेकजं प्रीतिसुखं ततः प्रस्रब्धिलब्धिजम् । प्राप्नोति चित्तस्यैकाग्र्यं प्रथमध्यानसंज्ञितम् ॥ ५.३० ॥ स वितर्कविचाराणां कामानामिव दुष्टताम् । पुष्यांस्तत्प्रशमान्वेषी समाधिप्रीतिजं सुखम् ॥ ५.३१ ॥ अध्यात्मसंप्रसादाच्च चित्तैकाग्रतया च तत् । द्वितीयं ध्यानमित्याहुरद्वितीया महर्षयः ॥ ५.३२ ॥ उत्प्लवं मनसो दृष्ट्वा प्रीतेरथ विरज्य सः । तृतीयं ध्यानमाप्नोति स्मृत्युपेक्षासमन्वितम् ॥ ५.३३ ॥ सुखभोगमपि त्यक्त्वा सुखदुःखनिराकृतम् । विशुद्धं स्मृत्युपेक्षाभ्यां चतुर्थं ध्यानमश्नुते ॥ ५.३४ ॥ अभिज्ञा लभते पञ्च स च तत्रानुगामिनीः । राज्यस्थ इव धर्मात्मा ह्रीकीर्तिश्रीमतिद्युतीः ॥ ५.३५ ॥ प्रत्येकजिनलब्धाश्च श्रावकीया व्यतीत्य च । ता भवन्त्यधिका दूरं परार्थसमुदागमात् ॥ ५.३६ ॥ स हि मत्सरिणस्त्यागे शीले तद्विकलानपि । कोपनान् क्षान्तिसौरत्ये कुसीदान् वीर्यसंपदि ॥ ५.३७ ॥ विक्षिप्तचेतसो ध्याने प्रज्ञायां तन्निराकृतान् । नियोजयति कारुण्यादश्रान्ताचारविक्रमः ॥ ५.३८ ॥ अतोऽच्युताभिर्दीप्ताभिर्भाभिर्लोकावभासनम् । मरीचिभिरिवादित्याः कुरुतेऽनन्तगोचरम् ॥ ५.३९ ॥ अथ पापकृतः सत्त्वान् पततो नरकादिषु । क्षीणपुण्यायुषश्चैव देवाञ्छाश्वतमानिनः ॥ ५.४० ॥ तैस्तैर्दुःखविशेषैश्च लोकं कारणयाहतम् । तत्र दिव्यप्रभावेण चक्षुषा सा विलोकयन् ॥ ५.४१ ॥ तीव्रमायाति कारुण्यं कारुण्यान्न प्रमाद्यति । परार्थेष्वप्रमत्तश्च यात्यचिन्त्यप्रभावताम् ॥ ५.४२ ॥ अथान्यलोकधातुस्थान् सम्पश्यति तथागतान् । बुद्धक्षेत्रगुणव्यूहान् संघस्यैव च संपदः ॥ ५.४३ ॥ बोधिसत्त्वर्षभाणां च विशुद्धाचारगोचरम् । सर्वलोकहितोदर्कं श्रीमच्चरितमीक्षते ॥ ५.४४ ॥ तत्र च प्रणिधिस्तस्य सुखेनैव समृध्यति । परार्थपरिणामाच्च शीलस्यैव च संपदः ॥ ५.४५ ॥ अतिमानुषया श्रुत्या दिव्ययार्थविशुद्धया । शृण्वन्नुच्चावचा वाचो विदूरेऽप्यविदूरवत् ॥ ५.४६ ॥ कृपादूरचरैरुक्ताः पारुष्यविरसाक्षराः । अन्तर्दीप्तस्य कोपाग्नेर्निश्चरन्तीरिवार्चिषः ॥ ५.४७ ॥ अप्सरोगीतसचिवान् भूषणस्वनशीभरान् । दिव्यतूर्यनिनादांश्च विनाशैकरसानपि ॥ ५.४८ ॥ निषेव्यमाणान् रागान्धैरमित्रान्मित्रारूपिणः । वीक्ष्य व्रजति कारुण्यं तेषां वाञ्चनया तया ॥ ५.४९ ॥ भयाद्दुःखविशेषाच्च सोऽविस्पष्टपदाक्षरैः । नारकैरार्तरसितैर्हृदीवाभिहतस्ततः ॥ ५.५० ॥ परमालम्बते वीर्यं मज्जागतमहाकृपः । तीक्ष्णाग्रेण प्रतोदेन सदश्व इव चोदितः ॥ ५.५१ ॥ नानालोकस्थितेभ्योऽथ जिनेभ्यो धर्मदेशनाः । शृणोति सर्वसत्त्वानां निर्वाणकाङ्क्षयाक्षयाः ॥ ५.५२ ॥ ततः स परचित्तेषु विज्ञायानुशयाशयान् । पुण्याङ्कुरान् रोपयति ज्ञानसाधनवान्नवान् ॥ ५.५३ ॥ स्मृत्वा पूर्वनिवासं च कल्पकोटिसहस्रशः । पश्यन् पुण्यानि लोकानां तथेन्द्रियबलाबलम् ॥ ५.५४ ॥ तदाश्रयवशादृद्ध्या सोऽनेकीकृतविग्रहः । अवन्ध्यकथनं याति यथाभाजनदेशनात् ॥ ५.५५ ॥ क्व चिदर्कसहस्रदीप्तिनाप्यविसंवादितकान्तिसंपदा । वपुषा मुनिराजलक्षणः स्फुटचित्रेण समन्तलक्ष्मणा ॥ ५.५६ ॥ जनयन्नयनोत्सवं नृणां वचसा ह्लादविशेषमाचरन् । स करोत्यमृतप्रकाशनं जिनभावाय जिनाधिमुक्तिषु ॥ ५.५७ ॥ प्रशमोत्तरया मुनिश्रिया क्व चिदत्यार्थविशिष्टचेष्टया । कुरुते मुनिशिष्यरूपभृद्विनयं तद्विनयार्हचेतसाम् ॥ ५.५८ ॥ अभिसारितपादपङ्कजः सुरचूडामणिभिर्महेन्द्रवत् । धनदो धनदो यथा क्व चित्कुह चिद्ब्रह्मवदद्भुतद्युतिः ॥ ५.५९ ॥ क्व चिदुन्मिषितत्रिलोचनः शशीलेखामलमौलिभूषणः । अमराधिपभासुरद्युतिर्बुजगेन्द्रश्रियमुद्वहन् क्व चित् ॥ ५.६० ॥ कुलिशानलपिङ्गलाङ्गुलिः कुह चिद्गुह्यकराजराजवत् । अमिताजिनलक्ष्मवान् क्व चिद्गुणरश्मिर्मुनिचन्द्रमा इव ॥ ५.६१ ॥ स्फुटकौस्तुभरत्नरश्मिभिर्विपुलोरःस्थलभासुरद्युतिः । गरुडध्वजराजदृक्क्व चित्कुह चिच्चैव हलायुधद्युतिः ॥ ५.६२ ॥ सितशक्तिरचिन्त्यशक्तिमान् कुह चिच्चारुशिखण्डिवाहनः । उदयास्तनगेन्द्रभूषणः शशिसूर्यामलरूपवान् क्व चित् ॥ ५.६३ ॥ कुह चिद्धुतभुङ्मरुत्वतां वपुषान्यत्र नराश्रयाशिनाम् । वारुणद्युतिमुद्वहन् क्व चित्कुह चिन्मन्मथचारुविग्रहः ॥ ५.६४ ॥ ललितां प्रमदानराकृतिं नरनारीरतिसंगलालसः । क्व चिदेव तपोधनश्रियं विदधत्कामविरक्तमानसः ॥ ५.६५ ॥ हृदयानि हरन्नृणां क्व चिद्गुरुशिष्यक्षितिपालवृत्तिभिः । नरकेष्वपि च परभावतो विदधद्दुःखविमोक्षणक्षणम् ॥ ५.६६ ॥ जगतामधिमुक्तिविस्तरैरथ सोऽनेकविधैर्विचेष्टितैः । करुणागुणसंततस्ततः कुरुते लोकहितं ततस्ततः ॥ ५.६७ ॥ समवाप्य विशेषसंपदं विपुलां ध्यानगुणश्रयादिमाम् । प्रयतेत विशेषवत्तरं निधिचिह्नेष्वविसंवदत्स्विव ॥ ५.६८ ॥ कुशले स्थितिरप्यनूर्जिता किमहानिः शिथिलव्रतोचिता । प्रयतेत विवृद्धये ततः परिहाणिस्तु विपर्ययादतः ॥ ५.६९ ॥ सुलभश्च समाधिरुद्यमादनुरक्षा पुनरस्य दुष्करा । सहसा विजिगीषुणा यथा विजितस्य प्रशमप्रतिक्रिया ॥ ५.७० ॥ मनसः परिवृत्तिलाघवं परमं तत्र न विश्वसेदतः । अनवाप्य महीमिवाचलामचलां भूमिमभीरदुर्गमाम् ॥ ५.७१ ॥ अभिसंस्कृत[मार्गचारिणः] पतनान्ता हि समाधिविस्तराः । अत उत्तममार्गभावनामवलम्बेत विकल्पवर्जनात् ॥ ५.७२ ॥ सुचिनित्यसुखात्मकल्पनं कपटं संस्कृतदम्भसंभवाम् । समवेक्ष्य न भावकल्पनाप्रणयव्यापृतमानसो भवेत् ॥ ५.७३ ॥ विशदेऽप्युपलम्भसंभवे व्रजति क्लेशशरव्यतामतः । व्यतियाति तु मारगोचरं तमनर्थं प्रशमय्य सर्वथा ॥ ५.७४ ॥ न हि निश्रयदोशदुषितो भवति ध्यानविधिर्विशुद्धये । चलतानुगतो हि निश्रयः सखटुङ्कस्तत एव कथ्यते ॥ ५.७५ ॥ व्यवहारविधिप्रसिद्धये प्रतिपत्तद्भवतीति कथ्यते । न हि किं चिदुदेति कुत्र चित्सदसत्संभवयुक्त्यसंभवात् ॥ ५.७६ ॥ गगनेन समानमानसस्त्रिभवादप्यु अथ वीतनिश्रयः । अविकल्पितधीरचेष्टितो वचनेनाप्रतियत्नशोभिना ॥ ५.७७ ॥ कुरुते स च लौकिकीं क्रियां जगदेकान्तहितानुवर्तिनीम् । न समाधिबलाच्च हीयते वशवर्तित्वमवाप्य चेतसः ॥ ५.७८ ॥ ततः परं परहिततत्परोद्यतैः समाधिभिर्विधिविहितप्रयोजनैः । विवर्धते घनसमये यथोदधिः सरिद्वधूसमुपहृतैर्नवाम्बुभिः ॥ ५.७९ ॥ ॥ ध्यानपारमितासमासः ॥ ___________________________________________________________________________ ६. प्रज्ञापारमितासमासः पुण्यानि दानप्रभृतीन्यमूनि प्रज्ञासनाथान्यधिकं विभान्ति । हिरण्मयानीव विभूषणानि प्रत्युप्तरत्नद्युतिभास्वराणि ॥ ६.१ ॥ क्रियासु सामर्थ्यगुणं हि तेषां प्रज्ञैव विस्तारिणमादधाति । स्वार्थप्रवृत्तौ विशदक्रमाणां यथा मनःसंततिरिन्द्रियाणाम् ॥ ६.२ ॥ क्रियास्वयोग्यानि शरीरयन्त्राण्यायुर्वियुक्तानि यथा न भान्ति । तथैव कार्याणि न भान्ति लोके प्रज्ञावियोगेन जदीकृतानि ॥ ६.३ ॥ श्रद्धादिकानामपि चेन्द्रियाणां प्रज्ञाग्रणी बुद्धिरिवेन्द्रियाणाम् । गुणागुणान् वेत्ति हि तत्सनाथः क्लेशक्षये नैपुणमेत्यतश्च ॥ ६.४ ॥ प्रज्ञावियोगात्फललालसानां नैव स्वतोदानविशुद्धिरस्ति । त्यागं परार्थं हि वदन्ति दानं शेषस्तु वृद्ध्यार्थमिव प्रयोगः ॥ ६.५ ॥ प्रज्ञासमुन्मीलितचक्षुषस्तु दत्त्वा स्वमांसान्यपि बोधिसत्त्वाः । नैवोन्नतिं नावनतिं प्रयान्ति भैषज्यवृक्षा इव निर्विक्लपाः ॥ ६.६ ॥ एवं स भूमिं प्रथमामुपैति लोकोत्तरस्यार्थविधिप्रतिष्ठाम् । अक्रोधनः प्रीतिसमृद्धचेता दानैर्महद्भिर्जगदर्थचेताः ॥ ६.७ ॥ प्रायेण यस्यां बलचक्रवर्ती भवत्यसंहार्यमतिश्च बोधेः । प्रज्ञागुणादेशितसत्पथोऽथ कर्मेण भूमिं विमलामुपैति ॥ ६.८ ॥ यस्यां प्रकृत्यैव विशुद्धशीलश्चतुर्महाद्वीपपतिः स भूत्वा । नरेन्द्रचूडामणिसत्कृताज्ञः सूर्यार्हतामेति यथा मुनीन्द्रः ॥ ६.९ ॥ ततः परं कामिषु दैवतेषु लोकेऽपि च द्वित्रिसहस्रसंख्ये । ऐश्वर्यमाप्नोति ततः परं च भूमिं विशोध्य प्रभवां प्रभायाः ॥ ६.१० ॥ शीलस्य शुद्धिः कुत एव तस्य यः प्रज्ञया नापहृतान्धकारः । प्रायेण शीलानि हि तद्वियोगादामर्षदोषैः कलुषीक्रियन्ते ॥ ६.११ ॥ नात्मार्थमप्यस्ति तु यस्य शीलं प्राज्ञस्य तस्यास्ति कथं परार्थम् । यो दृष्टदोषो भवबन्धनानां लोकान् समस्तांस्तत उज्जिहीर्षुः ॥ ६.१२ ॥ प्रज्ञाविपक्षैर्हृदि सोपरागे क्षमागुणः केन धृतिं लभेत । गुणागुणाअवेक्षणकातराक्षे ख्यातो गुणैर्वीरा इव क्षितीशे ॥ ६.१३ ॥ प्रज्ञान्वितानां तु परापकाराः क्षमागुणाः स्थैर्यकरा भवन्ति । भद्रात्मकानामिव वारणानां करमाश्रया नैकविधा विषेषाः ॥ ६.१४ ॥ निष्केवलं वीर्यमपि श्रमाय प्रज्ञासनाथस्य तु तस्य कार्ये । अनुत्तरः सिद्धिगुणोऽभ्युदेति हर्ता तदुत्थस्य परिश्रमस्य ॥ ६.१५ ॥ यस्मात्परं सूक्षमतरं न किं चिद्यन्नैपुणानां परमः प्रकर्षः । यत्कामदोषादिभिरावृतानां मनःपथं नैव कदा चिदेति ॥ ६.१६ ॥ तद्ध्यानमेकान्तसुखाभिरामं कथं प्रवेक्ष्यन्त्यस्तां मनांसि । स्थूलानि दोषोपचयैर्महद्भिः प्रज्ञोत्पथं न्यायमिवाश्रितानी ॥ ६.१७ ॥ प्रज्ञानिरुद्योगमतेर्हि दृष्टिर्नायाति शुद्धिं तदृते न शीलम् । सम्यकस्माधिस्तदृते न लभ्यो दुःखक्षयस्तद्विरहात्तथैव ॥ ६.१८ ॥ प्राज्ञस्तु दोषाद्भयमीक्षमाणः सुखानुबद्धं च सुखं गुणेभ्यः । विहाय दोषाञ्जगदर्थकामो गुणाभिरामेण पथा प्रयाति ॥ ६.१९ ॥ समुद्यतस्तेन समाधिमेत्य प्राप्नोति वाक्कायमनोविशुद्धीः । अतोऽनवद्येन बलेन युक्तः प्रवर्तते लोकहितोदयेषु ॥ ६.२० ॥ दानेन चाभीप्सितभूयसैव प्रियैरदीनैर्वचनामृतैश्च । नैष्कारणोर्जस्वलया च वृत्त्या परार्थचर्यासु समं समन्तात् ॥ ६.२१ ॥ सामान्यमर्थेषु च दर्शयित्वा प्रेम्णा वशीकृत्य मनांसि तेषाम् । करोति निर्वाणसुखे प्रतिष्ठां प्रज्ञागुणाव्याहतधर्मचक्रः ॥ ६.२२ ॥ प्रज्ञाद्यरोगैश्च बलैरमीभिरध्यासितं नाभ्युपयातुमीसा । अजीविकादुर्गतिमृत्युनिन्दाशारद्यदोषाश्रयणी भयार्तिः ॥ ६.२३ ॥ भयानि सर्वाणि हि दोषजानि प्रज्ञा न दोषैः सहवासमेति । शरद्व्यपोढाभ्रगवाक्षपक्षा भा भास्करस्येव तमःप्रतानैः ॥ ६.२४ ॥ सहस्ररश्मेरुदयेऽपि यानि तमांसि रुन्धन्ति जगद्गतानि । नामैकशेषाणि करोति तानि प्रज्ञाप्रभायाः प्रसरप्रभावः ॥ ६.२५ ॥ न तत्र भूयः करणीयमस्ति यत्र प्रभा सा बलतामुपैति । युगान्तकालानलसंहृते हि लोके न दग्धव्यकथाः प्रथन्ते ॥ ६.२६ ॥ ज्योतींषि सर्वाण्यपि संहितानि प्रज्ञाप्रभां नालमथोपयातुम् । अतस्तया नास्ति परातिवृद्धिर्गरीयसी वापरिहाणिजातिः ॥ ६.२७ ॥ संपूर्णतां याति सुखेन शिक्षा शीलाय चित्तप्रशमाय चैव । प्रज्ञाभियुक्तस्य यतस्ततोऽस्यां सर्वाभिसारेण पराक्रमेत ॥ ६.२८ ॥ या स्कन्धधात्वायतनप्रवृत्तौ सत्याश्रया प्रत्ययिता परीक्षा । कालत्रयेऽप्येष समासयुक्त्या प्रज्ञावदातैर्विषयप्रवेशः ॥ ६.२९ ॥ कीर्तिं वितन्वन्ति जिनात्मजानां प्रज्ञावदाताश्चरितप्रदेशाः । गुणद्वीषामप्यतिदुष्कुहाणां रोमाञ्चिता विस्मयपारतन्त्र्यात् ॥ ६.३० ॥ प्रज्ञाबलं दीप्ततरप्रभावं नालं प्रसोढुं सबलोऽपि मारः । प्रज्ञांशवो विभ्रमयान्ति चक्षुर्न द्रष्टुमीशो हि यतः स एव ॥ ६.३१ ॥ कन्दर्पनाराचनिपातसाही प्रज्ञामयं वर्म वितत्य चित्ते । व्यूढानि रूपप्रभृतीन्यनेकान्येकोऽपि निर्भीरभिभूय याति ॥ ६.३२ ॥ अधीरसात्म्यं भयविक्लवं वा मूढोचितं शोकपरिग्रहं वा । स्वल्पात्मचित्तेष्ववगाढमूलं रोषोपरागं परिजिह्मितं वा ॥ ६.३३ ॥ दीनेषु कार्पण्यमलीमसत्वं कृतास्पदं रागिषु चापलं वा । तेजोविहीनेष्वलसत्वसत्त्वं समुद्धतेष्वप्रशमात्मकत्वम् ॥ ६.३४ ॥ तांस्तांश्च लीनानपि दोषलेशान् पृथग्विधिष्वाश्रयगह्वरेषु । समुद्भवन्त्येव पराकरोति प्रज्ञा प्रतिज्ञेव जगद्धितार्था ॥ ६.३५ ॥ निवेश्य दोषक्षयधीरसौम्यां भवस्य तस्योपरि दृष्टिलक्ष्मीम् । स्वयं मुनीन्द्रैरभिषिच्यते यत्प्रह्लादिना व्याकरणामृतेन ॥ ६.३६ ॥ ऊर्णाप्रभाभिश्च महामुनीनां निशीथचन्द्रद्युतिहासिनीभिः । यदाज्यधाराभिरिवाध्वरग्निर्विभाति मूर्धन्यभिषिच्यमानः ॥ ६.३७ ॥ अवाप्य यस्मान्मुनियौवराज्यं समं समन्ताद्विसृतात्मभावः । लोकस्य दुःखं प्रशमत्ययत्नाद्रजो महामेघ इव प्रवृष्टः ॥ ६.३८ ॥ प्रज्ञाप्रभावोपनतः स सर्वः प्रभाविसारः सुगतात्मजानाम् । को विस्मयो वात्र सुतप्रियाया मातुः समीयाद्यदियं विभूतिः ॥ ६.३९ ॥ दशप्रकारोऽपि यदा मुनीनां तदाश्रयादेव बलप्रकर्षः । उदेत्यसाधारणसुन्दरश्च शेषोऽप्यसंख्यो गुणरत्नराशिः ॥ ६.४० ॥ शास्त्राणि चक्षुःप्रतिमानि लोके निधानभूतांश्च कलाविशेषान् । मन्त्रान् परित्राणकृतो विचित्रान् धर्मव्यवस्थाश्च पृथग्विशेषाः ॥ ६.४१ ॥ पर्यायचित्रं च विमोक्षमार्गं तत्तच्च लोकस्य हितोपपादि । यद्बोधिसत्त्वाः प्रविदर्शयन्ति प्रज्ञाप्रभावाभ्युदयः स सर्वः ॥ ६.४२ ॥ दिव्यप्रतिस्पर्धिभिरिन्द्रियार्थैर्नरेन्द्रभावेऽपि हि बोधिसत्त्वाः । न यद्विरूपां प्रकृतिं व्रजन्ति प्रज्ञा गुणामात्यसनाथता सा ॥ ६.४३ ॥ परोपकारैकरसा च मैत्री रागोपरागप्रतिवर्जिता च । परस्य दुःखेषु परा दया च न शोकभारालसतां गता च ॥ ६.४४ ॥ अनुद्धातत्वं मुदितेऽपि चित्ते तमोनिरारम्भमुपेक्षितं च । ते ते गुणा<;श्>;चाभ्यधिकं विभान्ति प्रज्ञानिरुद्धप्रतिपक्षमार्गाः ॥ ६.४५ ॥ को नाम लोकस्य परार्थसाधुर्दुःखैकहेतूनि तमांसि हन्यात् । अव्याहता ज्ञानशयाशयेषु प्रज्ञा न चेत्स्यादतिसूर्यादीप्तिः ॥ ६.४६ ॥ तत्प्राप्तये श्रुतमशीतिविकल्पचित्रं संचेयमाश्रयसहं गुरुमभ्युपेत्य । द्वात्रिंशता तदधिगम्य विवर्धयेत सम्यङ्मनः समवधानकृतैर्विशेषैः ॥ ६.४७ ॥ अल्पश्रुतोऽन्ध इव वेत्ति न भावनाया मार्गं विचिन्तयति कानि च तद्विहीनः । तस्माच्छ्रुतं प्रति यतेत तदाश्रया हि प्रज्ञा समुद्भवति चिन्तनभावनाभ्याम् ॥ ६.४८ ॥ प्रश्नैरविग्रहमुखैश्च कथाविशेषैर्मीमांसयार्थगतिवीक्षणया स्वयं च । प्रज्ञाविवृद्धिमभितः प्रयतेत नित्यं ध्यानेन तद्गुणविवृद्धिकरेण चैव ॥ ६.४९ ॥ प्रज्ञाभ्युपायविधिरेष समासतस्तु ध्यानं तदर्थनियतः श्रुतिविस्तरश्च । ताभ्यां समुद्भवति हि प्रभवो गुणानां प्रज्ञाप्रभासमुदयोऽग्निरिवारणीभ्याम् ॥ ६.५० ॥ विद्वज्जनाचरितमार्गसमाश्रयाच्च संमोहहेतुगहनानि विवर्जयेत । तैरावृतो न हि विभात्युदयस्थितोऽपि तोयावलम्बिजलदान्तरितः शशीव ॥ ६.५१ ॥ आलस्यजृम्भितमतित्वमसत्सहाया निद्रानिवृत्तिरविनिश्चयशीलता च । ज्ञाने मुनेरिव कुतूहलितानिवृत्तिर्मिथ्याभिमानपरिसंकुचिताश्च पृच्छाः ॥ ६.५२ ॥ दैन्येन चात्मपरितापसमुद्भवेन विद्वज्जनाभिगमनादरकातरत्वम् । मिथ्याविकल्पपटुता वितथा च दृष्टिर्मोहाय तत्प्रशमनाय तु तद्विपक्षाः ॥ ६.५३ ॥ स्कन्धेषु सायतनधातुषु सत्ययुक्त्यो<;र्>; हेतुद्भवेषु शुचयानविनिर्णये च । धर्मेषु कौशलमशेषत एव यच्च प्रज्ञाप्रयोगविषयोऽष्टविकल्प एषः ॥ ६.५४ ॥ निःसारफेननिचयैरविशेषि रूपं तिस्रोऽपि बुद्बुदलवा इव वेदनाश्च । संज्ञापि कामगुणविप्रसृतान् सतृष्णान् बालान्मृगानिव विलोभयते मरीचिः ॥ ६.५५ ॥ संस्कारजातिरपि तुल्यगुणा कदल्या विज्ञानतोऽपि न च युक्ततरास्ति माया । यन्निश्रयाद्भ्रमति नैकविकल्पचेष्टं भूताभिभूतकुणपप्रतिमं शरीरम् ॥ ६.५६ ॥ नात्मा तदीयमपि चात्र न किं चिदस्ति संघात एष विविधाशूचिसंनिधानः । बालान् प्रलम्भयत एव च सत्त्वसंज्ञा स्वच्छन्दचेष्ट इव यन्त्रविधौ सुयुक्ते ॥ ६.५७ ॥ आत्मा न चक्षुरपि च क्षणभङ्गुरत्वात्तद्वन्न चक्षुषि न चात्र यथैव चक्षुः । आध्यात्मिकायतनशेषमशेषमेवमात्मीयवस्तुविषयोऽपि च तद्विवेकी ॥ ६.५८ ॥ बाह्येषु धातुषु शरीरसमाश्रितानां नाल्पोऽपि लक्षणविरोधकृतोऽस्ति भेदः । विज्ञानधातुरपि च क्षणिकः स नात्मा तस्मात्परोऽपि च नभःकुसुमैः समानः ॥ ६.५९ ॥ इत्येतदुद्भवति केवलमेव दुःखं तृष्णाविमूढमनसो विग्मात्तु तस्याः । शान्तिः परा भवति तर्षहरस्तु मार्गः शीलं समाधिपरिशुद्धतया च दृष्टिः ॥ ६.६० ॥ तत्तत्प्रतीत्य भवतीति विशुद्धदृष्टिर्नास्त्यस्ति वेति समुपैति स नैव किं चित् । मायामयं जगदिदं प्रतिभाति तस्य तस्मात्सुखादिषु भवत्यविकारधीरः ॥ ६.६१ ॥ आसीद्भविष्यति च यत्तदपीदृगेव कः संभवो यदसुखं न भवेद्भवेभ्यः । एवं व्यतीतविषयेष्वपि वीतरागो नैवाभिनन्दति भवांश्च भविष्यतोऽपि ॥ ६.६२ ॥ आकारभेदपरुषे पुरुषोऽपराधी को नाम गूढनखरस्फुटदृष्टिचिह्ने । तत्प्रैष्यवृत्तिकपटान्यनुचिन्त्य रज्येद्विश्वासमेव च यथोचितमत्र यायात् ॥ ६.६३ ॥ एवं विमुक्तमतिरप्यनुकम्पकस्तु क्लेशान्तरं जगदनाथमवेक्षमाणः । हीनेषु निष्प्रणयबुद्धिरुदारभावान्निर्वातुमिच्छति न बुद्धगुणानलब्ध्वा ॥ ६.६४ ॥ लोकार्थसाधनविधावसमर्थरूपं यानद्वयं समवाधूय स पूर्वमेव । कारुण्यदेशितपथो मुनिराजयानमातस्थिवान् परहितैकरसस्वभावम् ॥ ६.६५ ॥ हीनोचितेषु न मतिर्नमति प्रणीता संतिष्ठते महति नामहती कदा चित् । संस्यन्दते शुचिभिरेव शुचिस्वभावं तुल्यैस्तथान्यदपि शास्वत एष योगः ॥ ६.६६ ॥ स्वप्नोपमानि विगणय्य सुखासुखानि संमोहदोषकृपणां जनतां च तेषु । आत्मार्थ एव गुरुतां कथमस्य यायाद्व्यापारभारमवधूय परार्थरम्यम् ॥ ६.६७ ॥ यः सर्वलोकहितकारणसर्वचेष्टस्त्यक्त्वात्मदृष्टिविषयं वितथाभिमानम् । सर्वत्र शान्तमतिरद्वयमार्गचारी सोऽत्यद्भुतश्चरितनिर्वृत एव लोके ॥ ६.६८ ॥ प्रज्ञाविशुद्धिकरमुत्तमयानमेतत्सर्वज्ञता तदुदया हि महामुनीनाम् । लोकस्य या नयनतामिव संप्रयाति दीप्तांशुमण्डलतलोत्पतिता प्रभेव ॥ ६.६९ ॥ संसारदोषभरनिर्मथितोऽपि नैव प्रज्ञाविवेचनतया परिखीद्यते यः । नात्माभिखेदपरिविक्लवतां स याति यानस्य बुद्धगुणसंजननस्य लोके ॥ ६.७० ॥ पश्यन्ति चाभुतमयं सुगतप्रभावं रोमाञ्चकञ्चुकितसर्वशरीरदेशाः । तद्गामिनं परिहरन्ति च यानमार्गं किं नाम कारणमृते शठचेष्टितेभ्यः ॥ ६.७१ ॥ को नाम मारकलिनानभिभूतचेताः संबुद्धधर्मगुणरत्ननिधानभूतम् । सर्वज्ञयानमपयानमनर्थपङ्कादाक्रोष्टुमर्हति न चेज्जगतोऽस्य वैरम् ॥ ६.७२ ॥ लोकार्थसाधनपरे जिनराजवंशे प्रज्ञानिमीलितनयेषु परिस्खलत्सु । चित्तं नरस्य करुणामृदु कस्य न स्यात्तन्मोहदोषशमनाय दृढं च वीर्यम् ॥ ६.७३ ॥ प्रज्ञाया जनयति यः परां विशुद्धिं निर्मोक्षः कथमिव तस्य दूरतः स्यात् । नैवास्मात्परतरमस्ति शीलमन्यत्तत्तस्माद्भजत विमोक्षकाङ्क्षिणो हि ॥ ६.७४ ॥ ॥ प्रज्ञापारमितास[मास]श्चायं पारमितासमासः ॥ विशुद्धमौनीन्द्रमनस्तडागप्रसूतसूत्रान्तसरोरुहेभ्यः । आदाय शुरभ्रमरेण सम्यग्मधूर्जितं पारमितासमासे ॥