१.२१. शत्रुवत्यान्ति ते काला नियमेन क्षणादयः । सर्व्वथा तेन ते रागः शत्रुभूतेषु तेषु मा ॥ २१ ॥ १.२२. विप्रयोगभयाद्गेहान्न निर्गच्छमि [दुर्म्मते] । [विविच्य] नाम कर्तव्यं कुर्य्याद्दण्डेन को बुधः ॥ २२ ॥ २.७. शरीरं सुचिरेणापि सुखस्य स्वं न जायते । परेणाभिभवो नाम स्वभावस्य न युज्यते ॥ ३२ ॥ २.८. अग्रयाणां मानसं दुःखमितरेषां शरीरजम् । दुःखद्वयेन लोकोयमहन्यहनि हन्यते ॥ ३३ ॥ २.९. कल्पनायाः सुखं वश्यं वश्याद्दुःखस्य कल्पना । अतोस्ति किञ्चित्सर्व्वत्र न दुःखाद्वलमन्तरम् ॥ ३४ ॥ २.१०. कालो यथा यथा याति दुःखवृद्धिस्तथ तथा । तस्मात्कडेवरस्यास्य परवदृश्यते सुखम् ॥ ३५ ॥ २.११. व्याधयोऽन्ये च दृश्यन्ते यावन्तो दुःखहेतवः । तावन्तो न तु दृश्यन्ते नराणां सुखहेतवः ॥ ३६ ॥ २.१२. सुखस्य वर्द्धमानस्य यथा दृष्टो विपर्ययः । दुःखस्य वर्द्धमानस्य तथा नास्ति विपर्ययः ॥ ३७ ॥ ३.१३. प्रतिनासिकया तुष्टिः स्याद्धीनाङ्गस्य कस्यचित् । रागोऽशुचिप्रतीकारे पुष्पादाविष्यते तथा ॥ ७३ ॥ ३.२४. शुचि नाम च तद्युक्तं वैराग्यं यत्र जायते । न च सोऽस्ति क्वचिद्भावो निययाद्रागकारणम् ॥ ७४ ॥ ३.२५. अनित्यमशुभं दुःखमनात्मेति चतुष्टयम् । एकस्मिन्नेव सर्वाणि सम्भर्वान्त समासतः ॥ ७५ ॥ ४.१. अहं ममेति वा दर्पः सतः कस्य भवेद्भवे । यस्मात्सर्व्वेऽपि सामान्या विषयाः सर्व्व देहिनाम् ॥ ७६ ॥ ४.२. गणदासस्य ते दर्पः षड्भागेन भृतस्य कः । जायतेऽधिकृते कार्य्यमायत्तं यत्र तत्र वा ॥ ७७ ॥ ४.१४. ऋषीणां चेष्टितं सर्व्व कुर्वीत न विचक्षणः । हीनमध्यविशिष्टत्वं यस्मात्तेष्वपि विद्यते ॥ ८९ ॥ ४.१५. पुत्रवत्पालितो लोकः पुरतः पार्थिवैः शुभैः । मृगारण्यीकृतः सोऽद्य कलिधर्मसमाश्रितैः ॥ ९० ॥ ४.१६. छिद्रप्रहारिणः पापं यदि राज्ञो न विद्यते । अन्येषामपि चौराणां तत्प्रागेव न विद्यते ॥ ९१ ॥ ४.१७. सर्व्वस्वस्य परित्यागो मद्यादिषु न पूजितः । आत्मनोऽपि परित्यागः किं मन्ये पूजितो रणे ॥ ९२ ॥ ४.२३. विप्रोऽपि कर्म्मना शूद्रः केन मन्ये न जायते ॥ ९८ ॥ ४.२४. पापस्यैश्वर्य्यवद्राजन् संविभागो न विद्यते । विद्वान्नाम परस्यार्थे कः कुर्य्यादायतोवधम् ॥ ९९ ॥ ४.२५. दृष्ट्वा समान् विशिष्टांश्च परांश्छक्तिसमन्वितान् । ऐश्वार्यजनितो मानः सतां हृदि न तिष्ठति ॥ १०० ॥ ५.१. न चेष्टा किल बुद्धानामस्ति काचिदकारणा । निःश्वासोऽपि हितायैव प्राणिनां संप्रवर्त्तत्ते ॥ १०१ ॥