चर्यामेलावणप्रदीपः १. प्रथमः परिच्छेदः ओं नमः श्रीवज्रसत्त्वाय । नमत खसमनिःस्वभावशुद्धं नमताशेषमनक्षरमवाच्यम् । नमतानागतसर्वगं सुगतं नमत समस्ताशेषसर्वशून्यम् ॥ "अर्थप्रतिशरणेन भवितव्यं शब्दस्तु यथा तथा" इति । तन्त्रे- चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः । तत्त्वं वै ये न जानन्ति सर्वे ते निष्फलाय वै ॥ इति । अत आह- आदिकर्मिकसन्धानं परमार्थावतारणे । उपायश्चैव संबुद्धैः सोपानमिव निर्मितः ॥ इति । प्रबोधनमेलावणसंशयपरिच्छेदः प्रथमः ॥ १ ॥ २. द्वितीयः परिच्छेदः पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः । वज्रायतनान्येव बोधिसत्त्वाग्र्यमण्डलम् ॥ पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता । पाण्डराख्या भवेत्तेजस्तारा वायुः प्रकीर्तिता ॥ रूपशब्दादिभिर्मन्त्री देवतां भावयेत्सदा ॥ इत्युक्तं भगवता श्रीगुह्यसमाजमहायोगतन्त्रे । कुलाः शतविधाः प्रोक्ताः संक्षेपेण तु पञ्चधा । पुनस्त्रिविधतां यान्ति कायवाक्चित्तभेदतः ॥ "पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः । " पञ्चहृदयमाश्रित्य पञ्चतनुविनिर्गतम् । पञ्चवायुसमायुक्तं पञ्चकामोपभोगकृत ॥ इति । प्रक्रमणात्प्राणायामाच्चेन्द्रियद्वारैस्तन्तुभिः । प्रक्रमते सदा कालं प्राण इत्यभिधीयते ॥ वातमूत्रपुरीषाणां शुक्रादीनां तथैव च । अपनयनादपानोऽयं योगिभिर्लक्ष्यते सदा ॥ अशितं खादितं लेह्यं पेयं चोष्यञ्च सर्वतः । समानयति यो नित्यं समान इति चोच्यते ॥ ऊर्ध्वगमात्संहरणाद्भक्ष्यभोज्यादिभक्षणात् । उदानकर्मविज्ञोऽयं ज्ञानेन सहयोगतः ॥ व्यापनं धारणं चैव गमनागमनादिकम् । सर्वसन्धिषु व्याप्तत्वाद्व्यान इत्यभिधीयते ॥ पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता । तेजः पाण्डरा ख्याता वायुस्तारा प्रकीर्तिता ॥ स्कन्धश्च धातुश्च तथैवेन्द्रियं च पञ्चैव पञ्चैव कृतप्रभेदाः । तथागताधिष्ठित एकैकशः संसारकर्माणि कुतो भवन्ति ॥ तथा सबाह्या विषयाश्च पञ्च एकैकशः पञ्चतथागतैश्च । स्वकस्वका नित्यमधिष्ठितास्ते ज्ञानत्रयं पञ्चसमाश्रितं च ॥ खधातुमध्यगतं चिन्तेन्मण्डलं सर्ववज्रजम् । संहारं च प्रकुर्वीत यदीच्छेच्छान्तवज्रधृग् ॥ इति । पञ्चात्मकं पञ्चभिरेव भूतैर्दृष्टं नराणां नियतं शरीरम् । तभ्दावभावैर्नियतं स्वचित्तं प्रभावयन्तः प्रभवन्ति बुद्धाः ॥ इति । खसमतन्त्रेऽप्याह- पञ्चबुद्धात्मकु सर्वजगोऽयं पश्यसु चित्रकु नाटकु दिव्यम् । यत्र हि एकु महासुहनामा नृत्यति एकु अनेक रसेन ॥ इति । "संक्षेपेण तु पञ्चधा" कायवाक्चित्तनिध्यप्तैः स्वभावो नोपलभ्यते । मन्त्रमूर्तिप्रयोगेण न बोधिर्न च भावना ॥ विचार्येदं समासेन कायवाक्चित्तलक्षणम् । भावयेद्विधिसंयोगं समाधिं मन्त्रकल्पितम् ॥ इति । न योगः प्रतिबिम्बेषु निषिक्तादिषु जायते । बोधिचित्तमहायोगयोगिनस्तेन देवताः ॥ आत्मा वै सर्वबुद्धत्वं सत्त्वसौरित्वमेव च । स्वाधिदैवद्य(त)योगेन तस्मादात्मैव साधयेत् ॥ इति । मन्त्रनिध्यप्तिकायेन वाचा मनसि चोदितः । साधयेत्प्रवरां सिद्धिं मनःसन्तोषणप्रियाम् ॥ कायविवेकमेलावणसंशयपरिच्छेदो द्वितीयः ॥ २ ॥ ३. तृतीयः परिच्छेदः पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् । नासिकाग्रे प्रयत्नेन भावयेद्योगतः सदा ॥ इति । पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् ॥ निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् । पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् ॥ अथ भगवान्महावज्री वज्रजापार्थभाषिणम् । प्रत्युवाच ततः सम्यक्प्रणम्यैकं जगद्रुरुः ॥ लौकिकागममेवेदं बोधिचित्तं प्रकाशितम् ॥ लोकोत्तरं कथं नाम प्रतिपत्स्यन्त्यागामिकाः ॥ सर्वदृष्टिप्रहाणाय त्वया धर्मो हि देशितः । तत्कथं बोधिचित्तं तु सा दृष्टिः सुदृढीकृता ॥ उक्तमर्थं न बुध्यन्ति संध्यायवाक्यमोहिताः । यथारुतं ते गृण्हन्ति तथैव हि पचन्ति च ॥ अथ भगवान् विश्वो वज्रपाणिं वदेत्ततः । साधु साधु च गुह्येश व्याकृतागामिका त्वया ॥ बोधिचित्तं भवेद्वायुरम्बरे च व्यवस्थितः । प्राणभूतश्च सत्त्वानां पञ्चात्मा दशसंज्ञकः ॥ प्रतीत्यद्वादशाङ्गाख्यं स्वभावात्त्रितयं भवेत् । सर्वेन्द्रियप्रधानेदं वाय्वाख्यं बोधिचित्तकम् ॥ अव्यक्तं सूक्ष्ममित्येवं व्यक्तमित्युच्यते सदा । तदाश्रयात्तु कर्माणि कुर्याद्विषयादिकं जनः ॥ शान्तिकं पौष्टिकं चैव वश्याभिचारकं तथा । बोधिचित्तातु तत्सर्वं त्रितत्त्वनिलयाश्रया[त्] ॥ यावच्चालोकसंकेताः कल्पिता विविधास्तथा । भवन्ति बोधिचित्तात्तु विकल्पा वायुतः सदा ॥ सुखदुःखादिको धर्मो बीजादेव विधीयते । बोधिचित्तस्वभावोऽसौ स्कन्धाद्यद्वयकोपमः ॥ प्रज्ञोपायैकयोगेन बोधिचित्तं जगद्भवेत् ॥ स्वयं समुच्चरेत्स्वामी ध्यानाध्ययनवर्जितः ॥ दिवारात्रिविभागेन चन्द्रसूर्यप्रयोगतः । निश्वासो [हि] जगद्व्यापी बोधिचित्तैकमारुतः ॥ शुभाशुभफलं त्यक्त्वा भवत्येव नभोपमः ॥ इति । प्राणापानसमानाख्यानुदानव्यानसंज्ञकान् । नागकूर्मकृकरांश्च देवदत्तधनञ्जयान् ॥ कृत्वैतदात्मनो बिम्बं स्त्रीतत्त्वं निर्माय ते पुनः ॥ इति । कोटाक्षः कोटवः कोटाः कोटाभश्च कोटीरकः । कोलाक्षः कोलावः कोलः कोलाभश्च कलिस्तथा ॥ नासिकाच्छिद्रसंभूतः पञ्चबुद्धकुलस्थितः । पञ्चवायुर्ध्वसञ्चारो देहे चरति नित्यशः ॥ संवृतिघ्राणसञ्चाराद्द्वारात्तस्य विनिसृताः । वामदक्षिणद्वन्द्वाश्च स्तब्धश्चैते चतुर्विधाः ॥ दक्षिणात्प्रसरो धातुर्हुतभुङ्मण्डलञ्च वै । रक्तवर्णमिदं वक्त्रं पद्मनाथस्य सञ्चरेत् ॥ वामाच्च प्रसरो धातुर्वायुमण्डलनिःसृतः । हरितः श्यामसंकाशः कर्मनाथस्य सञ्चरेत् ॥ द्वन्द्वस्य प्रसरो धातुः कनकवर्णस्य सत्रिभः । माहेन्द्रमण्डलञ्चैव रत्ननाथस्य सञ्चरेत् ॥ स्तब्धो न प्रसरो धातुः क्षणाद्वारुणमण्डलः । शुद्धस्फटिकसंकाशं वज्रनाथस्य सञ्चरेत् ॥ सर्वधातुं समुद्धृत्य ह्याधाराधेयधारितः । वैरोचनमहाकायो मरणान्ते विनिश्चरेत् ॥ चतुर्मण्डलमेतद्धि जपेन्नित्यं समाहितः । अहोरात्रं सदा जापो मन्त्रिणां जपसंक्ष(ख्य)या ॥ एकादिर्नवमध्ये तु दशभिर्यो न बध्यते । तमबद्धं विजानीयात्स वेत्ति परमं पदम् ॥ स्वरव्यञ्जनवर्णांश्च नवसंख्यानुवर्तिनः । अबद्धान्योन्यसंयोगा यो वेत्ति स जगद्रुरुः ॥ यो बुद्धा(द्ध्वा)वाञ्च्छयेत्सिद्धिं विमुक्तिफलसम्पदम् । स तदेव समाप्नोति अरूपो रूपवर्जितम् ॥ भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् । पञ्चपञ्चकसंयुक्तं चतुस्रयनियोजितम् ॥ सानुस्वारं सदीर्घं च गुणसंयोगलोपवत् । ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् ॥ यकारार्थेन यत्किञ्चित्कर्तव्यं सिद्धिमिच्छता । रेफादित्रितयेनैव जगत्कार्यं प्रवर्तते ॥ ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः । स्त्रीपुन्नपुंसकास्ते च धात्वादिपरिकल्पिताः ॥ अध ऊर्ध्वसमायुक्ता ज्ञात्वा बुद्ध्या नियोजिताः । षड्भिरुक्तं चतुस्त्रै(स्त्र्यै)कान्निःस्वभावैकभावजाम् ॥ त्रा(त्र्या)द्याद्यर्थे समायोज(ज्य) त्र्यध्वज्ञानं तु जायते । स्वप्नेन्द्रजालव द्विध्वा कुर्याज्जगत्त्रिधातुके ॥ प्रत्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् । ततः परिणतं रूपं यद्दैवतोपलम्भकम् ॥ सांकेतिकं त्रितत्त्वस्थं प्रकृतिजापलक्षणम् । अनाख्येयमनुच्चार्यं बोधिचित्तमिदं परम् ॥ तदेव त्रितयैकं स्यादनिर्गममनागमम् । अनिरोधः प्रशान्तश्च शाश्वतोच्छेदवर्जितम् ॥ त्रयध्वविदाकृतसंकल्पमाकाशाभेदलक्षणम् । पारमार्थिकमेवेदं प्रत्यात्मवेद्यलक्षणम् ॥ सर्वास्वपि क्रियाश्चै(स्वै)व निषद्यादिषु योगवित् । अनाख्येयमनुच्चार्यं त्र्यध्वातीतं जपेत्सदा ॥ पाण्डरादि जपः(पाः) प्रोक्ताः पञ्चविंशच्छतद्वयम् । चतुर्भिर्गुणितं सम्यक्चतुर्योगं शतं नव ॥ नवशतं तु यद्दृष्टं चतुर्विशतिपरिक्रमैः । प्रत्युत्पादाद्भवेत्ततु द्व्ययुतं शतषोडशम् ॥ तदित्थं गुह्यसन्ध्यायां सूक्ष्मयोगं प्रकाशितम् । ध्यानाध्ययनवीतं तु तथापि जप उच्यते ॥ अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः । महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः । सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥ इति । ज्वलन्तं दीपसदृशं हृदि मध्यमनाहतम् । अक्षरं परमं सूक्ष्ममकारं परमं प्रभुम् ॥ इति । धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते । न चैकतां चाप्यवतीर्य धर्मताम् अनुत्तरां क्षान्तिवरां स्पृशिष्यते ॥ इति । वाग्विवेकमेलावणसंशयपरिच्छेदस्तृतीयः ॥ ३ ॥ ४. चतुर्थः परिच्छेदः दूरङ्गमेकचरमशरीरं गुहाशयम् । ये चित्तं सन्निवेशयन्ति मुच्यन्ते मारबन्धनाद् ॥ इति । प्रतीत्योत्पद्यते यद्यदिन्द्रियैर्विषयैर्मनः ॥ तन्मनस्त्वशीतिख्यातस्रकारस्त्राणनार्थतः ॥ इति । संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् । किन्तु तस्य प्रभेदोऽस्ति सन्ध्यारात्रिदिवात्मना ॥ आलोकालोकभासौ च तथालोकोपलब्धकम् । चित्तं त्रिविधमित्युक्तमाधारस्तस्य कथ्यते ॥ वायुना सूक्ष्मरूपेण ज्ञानं सन्मिश्रतां गतम् ॥ निःसृत्येन्द्रियमार्गेभ्यो विषयानवलम्बते ॥ आभासेन यदा युक्तो वायुर्वाहनतां गतः । तदा तत्प्रकृतिः सर्वा अस्तव्यस्ता प्रवर्तते ॥ यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत ॥ इति । चित्तविवेकसंशयमेलावणपरिच्छेदश्चतुर्थः ॥ ४ ॥ ५. पञ्चमः परिच्छेदः पयोधरा यथा नैके नानासंस्थानवर्णकाः । उभ्दूता गगनाभोगाल्लयं गच्छन्ति तत्र वै ॥ एवंप्रकृतयः सर्वा आभासत्रयहेतुकाः । निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् ॥ एवंस्वभावा विज्ञानादज्ञान[पटलावृताः । कृत्वा शुभाशुभं कर्म भ्र]मन्ति गतिपञ्चके ॥ आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते । शुभं दानादिकं कृत्वा [स्वर्गादिषु महीयते ॥ आनन्तजन्मसाहस्रं] प्राप्य चैवं पुनः पुनः । पूर्वकर्मविपाकोऽयमिति शोचति मोहतः ॥ प्रकृत्याभा[सविधिना क्लेशवन्तश्च ये जनाः । एतज्ज्ञात्वा विमु]च्यन्ति ज्ञानिनो भवपञ्जरात् ॥ इति । यदि शून्यमिदं सर्वमनुत्पन्नस्वभावकम् । कथं कर्मात्र संसारे सुखदुःखं प्रवर्तते ॥ अहङ्कारममकारैस्तथारागादिभिर्मलैः । कल्पितं परतन्त्रेण दुःखात्क्लिश्यन्ति बालिशाः ॥ चित्तमात्रमिदं सर्वं मायाकारसमुत्थितम् । ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ इति । कर्मान्तविभागमेलावणसंशयपरिच्छेदः पञ्चमः ॥ ५ ॥ ६. षष्ठः परिच्छेदः । इन्द्रायुधनिभं कायं लभते तत्त्वभावनात् ॥ इति । स्कन्धे च धात्वायतनेन्द्रियादौ ज्ञानद्वये तत्र समं स्थितेऽस्मिन् । शून्ये महत्त्वे सति यः प्रसुप्तः स्वप्नं प्रपश्येत्खलु वातवेगात् ॥ स्वप्ने प्रबुद्धे च न चान्यभेदः संकल्पयेत्स्वप्नफलाभिलाषी । रात्रिंदिवा स्वप्नमुपैति जन्तुं महीघनत्वे सुचिरेण सुप्तः ॥ फले न पक्वे कृतकर्मणश्च वायुः पुनः क्रामति जन्मनीह । पक्वं फलं स्याद्गत एव वायुः परत्र शीघ्रं मरणं हि लोके ॥ यथ जिनेन्द्रो दशदिग्व्यवस्थितो मज्जास्थिमांसं न च तस्य काये । प्रवेशयेत्सत्त्वहिताय धातुनिर्माणकल्पेन करोति कृत्यम् ॥ एवं क्रमाज्जाग्रति सुप्तचित्तः फलं च वाञ्छेत्सविकल्पजालम् । स्वप्नोपमास्ते खलु सर्वधर्मा मृषामृषाश्चाप्युभयोरभावः ॥ इति । संवृतिसत्यमेलावणसंशयपरिच्छेदः षष्ठः ॥ ६ ॥ ७. सप्तमः परिच्छेदः यथा दीपो घटान्तःस्थो बाह्यो नैवावभासते । भिन्ने तु तद्धटे पश्चाद्दीपज्वालाभिभासते ॥ स्वकाय एव हि घटो दीप एव हि तत्त्वकम् । गुरुवक्त्रेण संभिन्ने बुद्धज्ञानं स्फुटं भवेत् ॥ गगनं गगनोभ्दूतमाकाशाकाशं स पश्यति । तथैव हि गुरोर्वक्त्रात्प्रयोगोऽयं प्रदर्शितः ॥ इति । धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते । न चैकतां चाप्यवतीर्य धर्मतामनुत्तरां क्षान्तिवरां स्पृशिष्यते ॥ इति । नमस्ते वरदवज्राग्र्य भूतकोटे नमोऽस्तु ते । नमस्ते शून्यतागर्भ बुद्धबोधे नमोऽस्तु ते ॥ ददस्व मे महाचार्य अभिसंबोधिदर्शनम् । सर्वबुद्धमहाज्ञानं सर्वशून्यमनुत्तरम् ॥ ददस्व मे महासत्त्व स्वानुभावैकलक्षणम् । कर्मजन्मविनिर्मुक्तमिहैव बोधिमवाप्नुयाम् ॥ त(त्व)त्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं प्रभो । तस्मात्प्रसीद बुद्धाग्र्य जगद्वीर महामुने ॥ एवं स्तुत्वा तु तं दिव्यमध्येषणविधिं परम् । शिष्ये कारुण्यमुत्पाद्य गुरुः श्रीमान् गुणोदधिः ॥ प्रसन्नवदनो भूत्वा सानुकम्पः प्रहर्षितः । श्रावयेत्समयं दिव्यं योगतन्त्रोभ्दवं परम् ॥ ततः समाहिताचार्यो बोधिचित्तं निष्पादयेत् । कलशे वाथ शंखे वा बोधिचित्तं निधाय च ॥ ततस्तं शिष्यमाहूय सर्वबुद्धैरधिष्ठितम् । अर्पयेत्समयं तस्य जिनमुद्रासमन्वितम् ॥ अभिषेको हि दातव्यो द्वितीयेनैव वज्रिणा । माङ्गल्योव्दुष्टशब्देन वादित्रविविधस्वनैः ॥ त्रैधातुकाभिषेकेण शिष्यः कृतनताञ्जलिः । अनुज्ञातं ततस्तस्य दद्यात्तत्रप्रचोदितः ॥ मालासलिलसंबुद्धवज्रघण्टाथ दर्पणम् । नामाचार्यमनुज्ञात अभिषेकक्रमो ह्ययम् ॥ ततः समर्पयेत्तस्य बाह्याभिसंबोधिलक्षणम् । संप्रदाये यदावाप्तं गुरुपर्वक्रमागतम् ॥ इति । तोये निर्मलके नदीसरसि वा बिन्दुश्च यो लीनकः । शुद्धं तत्क्रमशोऽनुभेदगदितं योगी स्मरेन्नित्यशः । आदर्शे ह्यनिलक्षयः क्रमगतस्तद्वन्न संप्रेक्ष्यते पिण्डग्राह इति क्रमो विधिमतामेवं समुत्प्रेक्ष्यते ॥ सर्वाङ्गभावनातीतं कल्पनाकल्पवर्जितम् । मात्राबिन्दुसमातीतमेतन्मण्डलमुत्तमम् ॥ विशती(ति) यः सर्वभावानां रूपारूपेषु निर्मलम् । बोधितश्चोदितं चित्तं मण्डलं मण्डलाकृतिम् ॥ अस्तीति नास्तीति उभेऽपि अन्ता शुद्धी अशुद्धीति इमेऽपि अन्ता । तस्मादुभे अन्तविवर्जयित्वा मध्येऽपि स्थानं न करोति पण्डितः ॥ इति । आकाशानन्तमित्यर्थं सर्वभूतमहालयम् । विभूतिः श्रीविभो राजा सर्वाशापरिपूरकः ॥ अहो बुद्ध अहो बुद्ध अहो धर्मस्य देशना । शुद्धतत्त्वार्थशुद्धार्थ बोधिचित्त नमोऽस्तु ते ॥ परमार्थसत्यमेलावणसंशयपरिच्छेदः सप्तमः ॥ ७ ॥ ८. अष्टमः परिच्छेदः स्थूलं शब्दमयं प्राहुः सूक्ष्मं चित्तामयन्तथा । चित्तया रहितं यत्तद्योगिनां परमं पदम् ॥ इति । स्वसंवेद्यं तु तत्तत्त्वं वक्तुं नान्यस्य पार्यते । भक्तिभावनया गम्यं न गम्यं चान्यथा नु तत् ॥ ज्ञात्वा तत्त्वं ततः कृत्वा भक्तिभावमहर्निशम् । तस्मिन् परमनिर्वाणे पदे शान्ते ह्यनुत्तरे ॥ ततस्तद्भक्तिसामर्थ्याद्भावनाबलनिर्मितम् । तस्मिन्नुत्पद्यते रूपं किमप्यानन्दजं परम् ॥ धगित्याकारसंभूतं स्फुरत्संहाराकारकम् । भूर्भुवःस्वरिदं सर्वं द्योतयत्सचराचरम् ॥ भावनाबलसामर्थ्यात्प्रज्ञोपायात्मकं शिवम् । सर्वक्लेशविनिर्मुक्तं सर्वलक्षणभूषितम् ॥ शून्यताज्ञानसंभूतं निर्द्वन्द्वं परमं शिवम् । सर्वाकारवरोपेतं ग्राह्यग्राहकवर्जितम् ॥ ज्ञानं मायोपमं शुद्धं स्वच्छं प्रकृतिनिर्मलम् । शब्दगन्धरसातीतं तथा स्पर्शविवर्जितम् ॥ दृश्यते परमेकेन समाधौ ज्ञानचक्षुषा । छायामायोपमं दिव्यं दिव्यसंस्थानसयुतम् ॥ स्फुरज्ज्ञानोर्मिमालाभिर्विविधानेकविग्रहम् । इन्द्रायुधनिभं कायं लभन्ते तत्त्वभावकाः ॥ भावनायोगसामर्थ्यात्समयानां च पालनात् । ईदृशं प्राप्यते रूपं न वाच्यं यज्जिनैरपि ॥ यत्र कायो न वाक्चित्तं स्थानं यत्सर्वगं परम् । संप्रदायवशात्तत्र स्वस्य रूपं विभाव्यते ॥ अहो सुविस्मयकरमहो शान्तमतीन्द्रियम् । अहो परमगम्भीरं बुद्धत्वं पदमुत्तमम् ॥ इति । अहो वज्र अहो वज्र अहो वज्रस्य देशना । यत्र न कायवाक्चित्तं तत्र रूपं विभाव्यते ॥ इति । भट्टारकपादेनाप्युक्तम्- शौशीर्यं नास्ति ते काये मांसास्थिरुधिरं न च । इन्द्रायुधमिवाकाशे कायं दर्शितवानसि ॥ नामयो नाशुचिः काये क्षुत्तृष्णासंभवौ न च । त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥ इति । सर्वकल्पसमुच्चयेऽप्याह- गृहीत्वा हृदयं शुद्धं वज्रदेहविभावना । दृढं सारमसौशीर्यं वज्रकायं स लब्धवान् ॥ इति । खसमा विरजा वररूपधरा अशरीर अलक्षण प्रज्ञसुता । सुगम्भीरगुणोदधि कारुणिका दद मूर्ध्नि पाणि मम अप्रतिमा ॥ इति । अप्रतिष्ठितनिर्वाणधातुमेलावणसंशयपरिच्छेदोऽष्टमः ॥ ८ ॥ ९. नवमः परिच्छेदः फलेन हेतुमामुद्र्य फलमामुद्र्य हेतुना । विभाव्यमन्यथासिद्धिं कल्पकोटिर्न जायते ॥ इति । वज्रसत्त्वो महाराजश्चोदनीयो मुहुर्मुहुः ॥ इति । पादप्रसारिकं मुक्त्वा त्यक्त्वा संसारपेटकम् । साधयेद्वज्रसत्त्वाग्रं नित्यमुद्युक्तमानसः ॥ कौकृत्यस्त्यानमिद्धादीन् परित्यज्य प्रयत्नतः । अन्यथा नैव सिद्धिः स्यात्कल्पकोटिशतैरपि ॥ इति । भिक्षुभावे स्थिता येऽत्र ये तु तर्करता नराः । वृद्धभावे स्थिता ये तु तेषां तत्त्वं न देशयेत् ॥ इति । उपायरहितं ज्ञानं शिक्षा चापि हि देशिता । श्रावकाणां महावीर अवता(धा)रय तेषु वै ॥ मूलसूत्रेऽप्याह- दशकुशलान् कर्मपथानिच्छन्ति ज्ञानवर्जिताः ॥ इति । श्रावकयानमशिक्षथ भिक्षो बोधिचरियत तत्र चरीये । बोधिचरीं चर बुद्धगुणेषु एष निदानभविष्य स्वयंभूः ॥ इति । दुष्करैर्नियमैस्तीर्व्रैर्मूर्तिः शुष्यति दुःखिता । दुःखाद्विक्षिप्यते चित्तं विक्षेपात्सिद्धिरन्यथा ॥ इति । मूलसूत्रेऽप्याह- दुष्करैर्नियमैस्तीव्रैः सेव्यमानो न सिद्ध्यति । सर्वकामोपभोगैस्तु सेवयंश्चाशु सिद्ध्यति ॥ इति । रागो द्वेषश्च मोहश्च त्रय एते विषङ्गताः । विषत्वमुपयान्त्येव विषमेण तु सेविता ॥ अमृतत्वं पुनर्यान्ति, अमृतेन तु सेविताः ॥ इति । बध्यति येन जडः परिमुच्यति तेन बुधः । बोधिविभावनया विपरीतमिदं सकलम् ॥ येन मूढाः प्रबध्यन्ते शीर्यन्ते रौरवान्तिके । तैरेव हि विमुच्यन्ते सुखं प्रज्ञाबलेन तु ॥ इति । अथातः संप्रवक्ष्यामि सर्वतो विश्वमुत्तमम् । सर्वबुद्धसमायोगडाकिनीजालसंवरम् ॥ रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः । सर्वबुद्धमयः श्रीमान् वज्रसत्त्वोदयः सुखः ॥ तथागतमहादिव्यरत्नजालाद्यलङ्कृतम् । ततो घण्टावसंसक्तवितानविततोज्ज्वले ॥ वज्रगीतिं च पूजां च गीतवाद्यैर्विकुर्वितम् । पुष्पधूपादियोगेन दीपगन्धादिभिस्तथा ॥ प्रसाधयन्ति भवने सोद्यानादिषु वा पुनः । सर्वबुद्धसमायोगडाकिनीजालसंवरम् ॥ तत्रासनं निवेश्यादौ मृदुसंस्पर्शजं सुखम् । विश्वपद्मपटच्छन्नं सर्वशुद्धासनं हि तत् ॥ सर्वबुद्धसमायोगं योगेश्वरविकुर्वितम् । श्रीवज्रसत्त्वरूपास्तु विकुर्वन्ति हि यत्र(तत्तु) वै ॥ सर्वधातुमयी(यो) वापि जीवमूलमयस्तथा । स्वाधिदैवत्प्रतिमुखैः सिद्धिमुद्राप्रवर्तनम् ॥ निषिक्तां घटितां वापि(भि)संस्कृतां वा सुचित्रिताम् । विचित्रप्रतिबिम्बां च चिन्हमुद्रां प्रकल्पयेत् ॥ तदासनेषु प्राणसर्वान् यथास्थानं हि विन्यसेत् । चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् । वज्ररत्नपद्मादि तु द्वारपालेन योजयेत् ॥ स्वाधिदैवत्प्रतिमुखैः सुप्रसाधितयोषितम् । स्वमुद्राचिन्हसुभगां कल्पयेद्गणमण्डलम् ॥ चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् । चतुःसूत्रसमायुक्तमष्टस्तम्भोपशोभितम् ॥ हारार्द्धहाररचितं पट्टस्रग्दामभूषितम् । घण्टापताकसंशोभं चामरादिविभूषितम् ॥ चन्द्रार्द्धवज्रकोणं च द्वारनिर्यूहसन्धिषु । पत्वि(क्षि)णीक्रमशीर्षादिविचित्र पटमण्डितम् ॥ सर्वदेव्युपभोगैस्तु सेव्यमानैर्यथासुखम् । स्वाधिदैवतयोगेन स्वमात्मानं प्रपूजयेत् ॥ पूज्यतेऽनुयोगेन सर्वयोगसुखेन तु । समास्वादयमानस्त्वतियोगेन सिद्ध्यति ॥ अनेन सर्वबुद्धात्मा रसायनसुखेन तु । सिद्ध्येत्श्रीवज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् ॥ सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती । सर्वबुद्धमहाचित्तः सर्वबुद्धमहामहः ॥ सर्वबुद्धमहाराजा सर्ववज्रधराधिपः । सर्वलोकेश्वरपतिः सर्वरत्नाधिपेश्वरः ॥ ताभिः संरम्यमाणस्तु यात्युत्पत्तिं तु गच्छतः । सर्वदेवीमहासिध्य(द्ध)श्चक्रवर्ती प्रसिध्यति ॥ इति । प्रत्यहं प्रतिमासं वा प्रतिसंवत्सरं तथा । यथाधिष्ठानतो वापि नाटयेद्बुद्धसंवरम् ॥ इति । उत्थितो वा निषण्णो वा चंक्रमन् वा यथास्थितः । प्रहर्षन् वा जल्पन् वा यत्र तत्र यथा तथा ॥ यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः । असमाहितयोगेन सर्वबुद्धमयं वहेत् ॥ खसमं खसमाकारमपर्यन्तसागरोपमम् । रागधर्मनयो द्वेषो विलासः क्रीडाविस्तरः ॥ गृहीतं वस्तुमात्रं च शिष्यबोधनकारणात् । कति जन्मान्तरं वक्तुं सह्यते रागदेशना ॥ श्रीसर्वबुद्धसमायोगडाकिनीजालसंवरन्यायेन बोधिसत्त्वचरितधर्मोदयाभिसंबोधिप्रपञ्चतामेलावण-संशयपरिच्छेदो नवमः ॥ ९ ॥ १०. दशमः परिच्छेदः महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते । पर्वते विजने साध्यमिदं ध्यानसमुच्चयम् ॥ सेवयन् कामगुणान् पञ्च ज्ञानार्थिरागिणः सदा ॥ इति । कायवाक्चित्तवज्राणां कायवाक्चित्तभावनम् । स्वरूपेणैव तत्कार्यं लघुसिद्धिरवाप्यते ॥ जटामुकुटधरं बिम्बं सितवर्णनिभं महत् । कारयेद्विधिवत्सर्वं मन्त्रसंवरसंवृतम् ॥ षोडशाब्दिकां गृह्य सर्वालङ्कारभूषिताम् । चारुवक्त्रां विशालाक्षीं प्राप्य विद्याव्रतं चरेत् ॥ लोचनापदसंभोगैर्वज्रचिन्हैस्तु भावयेत् । मुद्रामन्त्रविधानज्ञां मन्त्रतन्त्रसुशिक्षिताम् ॥ कुर्यात्ताथागतीं भार्यां बुद्धबोधिप्रतिष्ठिताम् । गुह्यपूजां प्रकुर्वीत चतुःसत्त्वां(सन्ध्यं) महाव्रती ॥ कन्दमूलफलैः सर्वं भोज्यभक्ष्यं समारभेत् । एवं बुद्धो भवेच्छीघ्रं महाज्ञानोदधिः प्रभुः ॥ षण्मासेनैव तत्सर्वं प्राप्नुयान्नात्र संशयः । वने भिक्षां भ्रमेन्नित्यं साधको दृढनिश्चयः ॥ ददन्ति ते भय[त्र]स्ता भोजनं दिव्यमण्डितम् । अतिक्रमन्ति यदि वज्रात्मा नाशं वज्राक्षरं भवेत् ॥ सुरीं नागीं महायक्षीमसुरीं मानुषीमपि । प्राप्य विद्याव्रतं कार्यं त्रिवज्रज्ञानसेवितम् ॥ इति । द्वयेन्द्रियसमापत्त्या व्यायामविधिरन्तरे । हर्षचित्तं मुनेः सिद्धौ महासुखमिति स्मृतम् ॥ निष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेदो दशमः ॥ १० ॥ ११. एकादशः परिच्छेदः पर्वतेषु विविक्तेषु नदीप्रस्रवणेषु च । श्मशानादिष्वपि कार्यमिदं ध्यानसमुच्चयम् ॥ प्रयोगादींश्च तत्त्वेन वर्जयेत्तत्त्ववित्सदा । वज्रसत्त्वदहंकारं मुक्त्वा नान्यत्र कारयेत् ॥ प्रयोगा अपि न बुध्यन्ते शुद्धतत्त्वे व्यवस्थिते । नैरात्म्यपदयोगेन यावत्तत्प्रत्यवेक्ष्यते ॥ निःस्वभावपदस्थस्य दिव्योपाययुतस्य च । सिद्ध्यते निर्विचारेण यत्किञ्चित्कल्पचोदितम् ॥ भावनायोगसामर्थ्यात्स्वयमेवोपतिष्ठते । तत्सर्वं क्षणमात्रेण यत्किञ्चित्सिद्धिलक्षणम् ॥ रूपाद्याध्यात्मिकान् धर्मान् पश्येत्विपश्यनोच्यते । अक्षोभ्यादियथासंख्यं कल्पयेत्शमथो भवेत् ॥ अनयोर्निःस्वभावत्वात्तथताशान्तसंज्ञकम् । तथतामण्डले योगी सर्वबुद्धान् प्रवेशयेद् ॥ इति । निर्वाणाग्निमहागोरे भस्मशोऽपि न मुच्यते । न तत्र विद्यते तत्त्वं नेन्द्रियार्था न धातवः ॥ निर्विकल्पो यदा विरः स्थितिं हित्वा तु लौकिकीम् । आचरेत्सर्वकार्याणि बुद्धाः पश्यन्ति तत्तदा ॥ बालवद्विचरेद्युक्त्या सर्वतश्छिन्नसंशयः । निराभोगो यदा योगी तदा वर्षन्ति संपदः ॥ अशेषपापयुक्तानां मोहावरणसुस्थिताः । उन्मत्तव्रतयोगेन षण्मासादमोघसिद्धयः ॥ सर्वबुद्धान स्वयं पश्येत्सर्वकामैः प्रपूर्यते । न क्षीणो न च हानित्वं स्वेच्छायुर्जायते वपुः ॥ अनुत्तरां परां बोधिं संप्राप्नोत्यप्रयत्नतः । विना यत्नेन सिध्यन्ति सर्वकामसुखोत्सुकाः ॥ गम्भीरपदं नित्यं गच्छेत्तिष्ठन्निषण्णकः । प्रभास्वरज्ञानकौशल्याद्योगिनां लक्षणं सदा ॥ अनेन ध्यानयोगेन चित्तरत्नं दृढीभवेत् । अधिष्ठानं च कुर्वन्ति बुद्धा बोधिप्रतिष्ठिताः ॥ एवं भूत्वा निविष्टस्तु भावयेद्भावतत्परः । यावन्न खिद्यते चित्तं समाहितमनाः सुधीः ॥ खिन्नस्तु पर्यटेत्पश्चाद्यथारुचितचेष्टितः । भावयेद्विपुलां बोधिमीषदुन्मीलितेक्षणः ॥ हसन् जल्पन् क्वचित्तिष्ठन् क्वचित्कुर्यात्प्रवर्तनम् ॥ भावनासक्तचित्तस्तु यथा खेदो न जायते ॥ एवं समाधियुक्तस्य निर्विकल्पस्य मन्त्रिणः । कालावधिं परित्यज्य सिद्ध्यतेऽनुत्तरं पदम् ॥ इति । सूक्ष्मरूपं लघुस्पर्शं व्याप्तिसंप्राप्तिमेव च । प्रकाशं चैव स्थैर्यं च वशित्वं कामावसानिकम् ॥ इति । बोधिज्ञानाग्रसंप्राप्तं पश्यति बुद्धसुप्रभम् । बुद्धसंभोगकायं च आत्मानं लघु पश्यति ॥ त्रैधातुकमहासत्त्वैः पूज्यमानं स पश्यति । बुद्धैश्च बोधिसत्त्वैश्च पञ्चकामगुणैर्ध्रुवम् ॥ पूजितं पश्यते नित्यं महज्ञाना ग्रसम्भवम् । वज्रसत्त्वं महाबिम्बं वज्रधर्मं महायशम् ॥ स्वबिम्बं पश्यते स्वप्ने गुह्यवज्रमहायशाः । प्रणमन्ति महाबुद्धा बोधिसत्त्वाश्च वज्रिणः ॥ द्रक्ष्यन्ति ईदृशान् स्वप्नान् कायवाक्चित्तसिद्धिदान् । सर्वलङ्कारसम्पूर्णां सुरकन्यां मनोरमाम् ॥ दारकं दारिकां पश्यन् स सिद्धिमधिगच्छति । दशदिक्सर्वबुद्धानां क्षेत्रस्थं पश्यति ध्रुवम् ॥ ददन्ति हृष्टचित्तात्मा धर्मगञ्जं मनोरमम् । धर्मचक्रगतं कायं सर्वसत्त्वपरिवृतम् ॥ पश्यते योगसमये ध्यानवज्रप्रतिष्ठितः ॥ इति । नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किञ्चन् । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ इति । उक्तं च सुवर्णप्रभाससूत्रे- न बुद्धः परिनिर्वाति न धर्मः परिहीयते । सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् ॥ लङ्कावतारसूत्रेऽप्युक्तम्- न ह्यत्रोत्पद्यते किञ्चित्प्रत्ययैर्न निरुध्यते । उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः ॥ अत उक्तम्- येन येन हि भावेन मनः संयुज्यते नृणाम् । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ उत्पत्तिर्यत्संवृतिसत्यमेतद्मृत्युर्हि नाम परमार्थसत्यम् । क्रमद्वयस्यास्य गुरुकृपातो ज्ञाता भवेद्यः स भविष्यबुद्धः ॥ सत्यद्वयस्याद्वयवत्प्रवेशोऽनुच्छेदरूपोऽप्यविशेष एव । एकत्वमेवास्त्यनयोर्द्वयोरिति विज्ञायते येन विमुक्त एषः ॥ गिरीन्द्रमूर्ध्नः प्रपतेत्तु कश्चिद्नेच्छेच्च्युतिं स च्यवते तथापि । गुरुप्रसादाद्विहितोपदेशाद्नेच्छेद्विमुक्तिं स तथापि मुक्तः ॥ मत्वा सत्त्वेषु तत्त्वाधिगमक्षमताभावमालोक्य लोके उत्तालाब्धितरङ्गभङ्गविकलाद्दीपस्फुलिङ्गादिव । किञ्चित्किञ्चिदुपेत्य संचितवता ग्रन्थो मयायं कृतो ये वै संवृतिसत्यभीतसुभगास्तेषामलातो भवेत् ॥ अत्यन्तनिष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेद एकादशः ॥ समाप्तोऽयं चर्यामेलावणप्रदीपः ॥ कृतिरीयं महाचार्यार्यदेवपादानाम् ॥