श्रीमदर्चटविरचिता ॥ हेतुबिन्दुटीका ॥ ॥ नमः सर्वज्ञाय ॥ [जिनमनस्कारेण मङ्गलम् ।] यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्, पुण्यज्ञानमयं प्रचित्य विपुलं हेतुं विधूतश्रमः । कृत्स्नज्ञेयविसर्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम् ॥ १ ॥ [धर्मकीर्तिवचसां सरसतमत्वख्यापनम् ।] वरं हि धार्मकीर्तेषु चर्वितेष्वपि चर्वणम् । निष्पीडितापि मृद्वी[का ननु स्वादं जहा]ति किम्? ॥ २ ॥ [स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा ।] न्यायमार्गतुलारूढं जगदेकत्र यन्मतिः । जयेत्तस्य क्व गम्भीरा गिरोऽहं जडधीः क्व च? ॥ ३ ॥ तथापि मन्दमतयः सन्ति मत्तो [ऽपि केचन । तेषां कृते] मयाप्येष हेतुबिन्दुर्विभज्यते ॥ ४ ॥ [आदिवाक्यस्य प्रयोजनप्रकटनम् ।] "परोक्षे"- त्यादिना प्रकरणारम्भे प्रयोजनमाह । तच्च श्रोतृजनप्रवृत्त्यर्थमिति केचित् । तदुक्तम्[म्- "सर्वस्यैव हि शा]स्त्रस्य कर्मणो वापि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यताम् ॥" इति । तदयुक्तम् । यतोऽस्य प्रकरणस्येदं प्रयोजनमिति [प्रदर्शने प्रयो]जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये प्रवृत्त्यसम्भवात्(ह्ब्ट्२) प्रेक्षावतां तदर्थितया प्र[करणश्रवणादौ प्रवृत्तिः] स्यादिति तदभिधानस्यार्थवत्ता वर्ण्यते । न चैतद्युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये तद्भावनिश्चयात् । यथा कृषीव[लादीनां सस्या]द्युपाये बीजादावबीजादिविवेकेनावधृतबीजादिभावानाम् । अन्यथा ह्यनिश्चितोपायानामुपेयार्थिनां प्रवृत्तौ प्रेक्षावत्तैव हीयेत । उपेये तु [प्रमा]णव्यापारासम्भवादनिश्चयेऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोरसम्भवे ’योग्यमेतद्विवक्षितं कार्यं निष्पादयितुम्ऽ इति सं[भावनया प्रवृत्तौ] प्रेक्षावत्तातो न हीयेरन् । निश्चयश्च प्रमाणादेव । न च प्रयोजनवाक्यस्य प्रामाण्यमस्ति, शाब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्येऽपि यथा] वस्तुप्रवृत्तिनियमाभावात्न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा यमर्थं विवक्षन्ति ते तथैव तमनु[तिष्ठन्ति वि]संवादनाभिप्रायाणामन्यथाभिधायान्यथाप्रवृत्तिदर्शनाल्लोके सर्वत्रानाश्वासात् । प्रयोजनविशेषोपन्यासात्प्रकरणस्य तदुपायता[विषये संशयः ज]न्यते ततस्तद्भावनिर्धारणाय कृषीवलादेरिव बीजाद्यवधृतये प्रवृत्तिर्युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा[नात्प्रागपि] भावात् । तत्साधकबाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात्किमस्यानुमा[नव्युत्पादनं प्र]योजनमन्यद्धा, न वा किञ्चिदपीत्येवंरूपश्च संशयः प्राक्प्रवर्तमानः केन निवार्येत । अपि च किमिदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अथास्मदभिम]तेन वा प्रयोजनेन तद्वदिति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । तस्माद्’यत्प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत्प्रेक्षावतारभ्यते कर्तुं प्रतिपादयितुं वा । तद्यथा (ह्ब्ट्३) दशदाडिमादिवाक्यं काकदन्त[परीक्षा च । निष्प्रयोजनं चेदं] प्रकरणं तदर्थो वाऽ इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थमादौ प्रयोजनवाक्योपन्यासः । [प्रकरणतदभिधेययोः प्रयोजनचिन्ता ।] तत्र "तद्युत्पादनार्थम्" इति वाक्येन स्वयमस्य प्रकरणस्य प्रयोजनमाह । यथास्वमभिधेयप्रतीतिर्हि वाक्यस्य प्रयोजनम् । तच्चेहास्ति पदानामवान्तरवाक्यानां च परस्परसंसर्गात्समासार्थप्रतीतेः । तथा हि- अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तदभिधेयम् । तस्यैव तच्छब्देन सम्बन्धात् । यद्यपि परोक्षार्थप्रतिपत्तौ गु[णभूतमनु]मानं तथापि वक्तुरभिप्रायानुविधायितया शब्दवृत्तेः तच्छब्देन परामृश्यते । अन्यथा प्रधानसंस्पर्सो(र्शो)पि कथं स्यात्? । शब्दानां स्व[भावतः] सम्बद्धा(न्धा)योगात् । "पक्षधर्म" इत्यादिना चानुमानस्यैव व्युत्पादनात् । तस्य व्युत्पत्ति [रविपरीतस्वरू]पप्रतीतिरस्य प्रकरणस्य प्रयोजनम्, तत्साध्यत्वात् । अत एव चानुमानव्युत्पत्तिविषयं प्रकरण[व्यापारं प्रतिपाद]यितुं णिचा निर्दिशति- "तद्वयुत्पादनार्थम्" इति । ततश्च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः सम्बन्धोऽप्युक्तो भवति । यद्यपि शब्दवृत्तेना[नुमानव्युत्पत्तिवि]षयस्य प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेरेव प्रधानता तस्यास्तत्साध्यत्वात् । इतरस्य च तदुपायत्वेनाप्रधानत्वात् । तस्मादनुमानव्युत्पत्ति रेव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति । "परोक्षार्थप्रति[पत्तेः अमुमानाश्रय]त्वात्" इत्यनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनमाह । न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फलमस्तीत्येता[वतैव प्रेक्षावान् प्रव]र्ततेऽपि तु तदभिधेयार्थस्य पुरुषार्थोपयोगित्वे सति । तच्चेहास्ति यतः परोक्षार्थस्य या प्रतिपत्तिः- निश्चयः- तस्या अनुमा[नं- त्रिरूपलिङ्गम्] कारणे कार्योपचारात् । अनन्योपायसाध्यतां दर्शयितुं परमतनिरासार्थम् (ह्ब्ट्४) आश्रयः- कारणम्, अनुमानमाश्रयो यस्येति सामान्येन विगृह्य । [तदनु च] कस्यानुमानाश्रयत्वादिति विशेषापेक्षायाम्-यद्यपि परोक्षार्थप्रतिपत्तिशब्दसम्बन्धे स्त्रीत्वं गम्यते तथापि तत्पदसंस्कारवेलायां बुद्ध्यसंनिहितत्वात्बहिरङ्गमिति न स्त्रीप्रत्ययनिमित्तं यथा भूतमियं ब्राह्मणी, आवपनमियमुष्ट्रिकेति । [सर्वपरोक्षप्रतीतेर्लिङ्गजत्वादेवानुमानत्वसूचनम् ।] अनेन च सर्वा परोक्षा[र्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात्तत्प्रतिपत्त्ययोगात्, त्रिरूपलिङ्गाश्रयैवेत्युक्तं भवति अनुमानाश्रयत्वादेवेति अवधारणात् । [ततश्च शब्दादी]नां सति प्रामाण्येऽनुमानता, अन्यथा तेषामपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य समानत्वात् । तथा हि- सर्वा परोक्षार्थप्रतिपत्तिः प्र[माणभूता], न स्वतन्त्रा भवति । तस्याः स्वार्थप्रतिबन्धाभावेन नियमेन तत्संवादायोगात् । अविसंवादलक्षणत्वाच्च प्रमाणस्य । अन्यतोऽपि [यदि स्या]त्सर्वतः सर्वप्रतिपत्तिप्रसङ्गात्धर्म्यसम्बन्धेऽपि सर्वत्र प्रतीतिं जनयेत्, प्रत्यासत्तिविप्रकर्षाभावात् । एवम्भूतश्च त्रिरूप[लिङ्गमेवार्थो भव]तीति सर्वा परोक्षार्थप्रतिपत्तिस्त्रिरूपलिङ्गजत्वेनानुमानात्न भिद्यत इति । एष चार्थः "पक्षधर्मस्तदंशेन व्याप्तो हेतुः", कस्य?, परोक्षा[र्थप्रतिपत्ते]रिति प्रकृतेन संबन्धाद्दर्शितः, पक्षधर्म एव तदंशेन व्याप्त एव च परोक्षार्थप्रतिपत्तेर्हेतुरित्यवधारणात् । [स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम्] अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेरित्य[नुमा]नस्यापि स्वलक्षणविषयं प्रामाण्यं दर्शयितुम् । अर्थक्रियासमर्थो ह्यर्थः, स्वलक्षणं चैवमात्मकम् । अत एव- "वस्त्वधिष्ठानत्वात्प्रमाणव्यवस्थायाः"- [इति व]क्ष्यति । अन्यथानुमानात्तत्र प्रवृत्तिर्न स्यादर्थक्रियार्थिनः । (ह्ब्ट्५) सामान्यस्यावस्तुत्वेऽपि ज्ञानमात्रलक्षणत्वात्तदर्थक्रियायाः तस्याश्च तदु[त्पाद्य]त्वेन सिद्धत्वात् । न हि जातिर्दाहपाकादावुपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात् । तत्सम्बन्धात्तत्र प्रवृत्तिरिति चेत्; न, नित्यस्यानुपकार[कत्वेन] केनचित्सम्बन्धाभावात् । सत्यपि च सम्बन्धे कथमन्यप्रतिपत्तावन्यत्र प्रवृत्तिः, अतिप्रसङ्गात् । समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद्भ्रान्त्या तत्र प्रवृत्तिरिति चेत्; एवं तर्हि भ्रान्तिमात्रमेवास्तु, किमन्तर्गडुना सामान्येन? । निर्ब्बीजभ्रान्त्ययोगादिति चेत्; ता एव व्यक्तयस्तदेकका[र्यकारिण्यो भ्रान्तेर्बीजम्] । वर्णाकृतिसमानाकारं हि सामान्यज्ञानम् । न च सामान्यं तद्रूपम्, तत्कथं तद्भ्रान्तेर्ब्बीजम् । सादृश्यनिबन्धना हि भ्रान्तिरिष्यते परैः । व्यक्तय एव चा[समानजा]तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास्ततस्ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस्तासु भावात् । वस्तुभूतस्य तु सामान्यस्य सम्बन्ध[आसंभवे]न तासु भावायोगाच्च । यैस्तु व्यक्त्यात्मकमेव सामान्यं कल्पितं तैः स्वलक्षणविषयमनुमानस्य प्रामाण्यमभ्युपगतमेव भवति । स्वलक्षणात्मकं तु सामान्यं कथमनुमाने प्रतिभासते इति चिन्त्यम् । न च व्यक्तिरूपमपास्यापरं सामान्यस्य रूपमिष्यते, वैशेषिकदर्शनोपगमप्रसङ्गात् । ........................................................................................................... (ह्ब्ट्६) [१. हेतोः सामान्यनिरूपणम् ।] [१. हेतोस्त्रित्वेन व्याप्तिः कथं फलितेति चर्चा ।] .............हि कथितम् । तत्र कार्यस्वभावयोर्विधिसाधनत्वान्न प्रतिषेधे साध्ये व्यापारः । अनुपलब्धितोऽपि न हेत्वन्तराभावनिश्चयो यतः सा चतुर्द्धावस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध विधिश्चेति । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिरन्योपलब्धिरूपा अभावव्यवहारहेतुरिष्यते । न [च हेत्वन्]तरमत्यन्ताभावतयोपगतमनुक्रान्तरूपम्, यदि हि स्याद्देशादिनिषेध एवास्य स्यात्नात्यन्ताभावः । कारणव्यापकानुपलब्धी तु सिद्धे कार्य[कारण]व्याप्यव्यापकभावे भवतः । न च हेत्वन्तरेत्यन्तासत्तयाङ्गीकृते प्रकारोऽयं सम्भवति । तत्कथं ते तदभावं गमयिष्यतः । विरोधोऽप्यविकल[कारणस्य] भवतोऽन्यभावेऽभावादवगम्यत इति विरुद्धोपलब्धिरप्यसम्भविनी । सम्भवे वा कारणानुपलब्ध्यादीनां कथमत्यन्तनिषेधः? इत्याशङ्कयाह- "हेत्वाभासास्ततोऽपरे" इति । "ततः" त्रिविधाद्धेतोः "अपरे" अन्ये "हेत्वाभासाः" यतस्ततस्त्रिधैव स इति । एवं मन्यते- इह यद्यत्र नियम्यते [तद्धि]पर्ययेण तद्विपक्षस्य व्याप्तौ स नियमः सिद्ध्यति । यथा यत्सत्तत्क्षणिकमेवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ सिद्ध्यति । एवमिहापि त्रित्वे हेतुर्नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबा[ह्यस्यार्थ]स्य व्याप्तौ त्रिसंख्यायामेव नियतो भवति । ततस्त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतां दर्शयति । तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्व]भावानुपलम्भव्यतिरिक्तानामर्थानां हेतुत्वाभावनिश्चय इति । हेतुतदाभासयोश्च परस्परपरिहारस्थितलक्षणतयैव विरोधो [हेतुल]क्षणप्रतीतिकाल (ह्ब्ट्७) एव प्रतिपन्नः । तदात्मनियतप्रतिभासज्ञानादेव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परमितरेतररूपाभाव[निश्च]यात् । तत्र त्रिविधहेतुव्यतिरिक्तेष्वर्थेषु हेत्वाभासत्वमुपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति । ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप]गता नापि हेतुत्वं तेषु निषिध्यमानं, केवलं व्यामोहाथेतुत्वमन्यत्र प्रसिद्धमेव तत्रारोपितमाशङ्कितं वा तद्विरुद्धोपलम्भादपसार्यते । तत्किमुच्यते- "[अत्यन्तासंभ]विनः कथं विरोधः" इति । न च सहानवस्थानलक्षण एव विरोधो येन तन्न्यायः सर्वत्रोपवर्ण्येत । नापि यद्यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो येन "कथमसतः केनचिद्विरोधगतिः?" इति चोद्येत । न हि नात्र शीतस्पर्शोऽग्नेरिति साध्यधर्मिण्येव शीतस्पर्शस्याग्निना विरोध[संब]न्धो (?) यथा तु अस्यान्यत्र प्रतीतविरोधस्याग्निना साध्यधर्मिणि निषेधः तथा हेत्वाभासत्वोपलम्भाधेतुत्रयबाह्येष्वर्थेषु हेतुत्वनिरासः । [अत्यन्तास]तोऽपि च लाक्षणिको विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिदप्यसम्भवात्, भावेन वा यद्वदभावस्य सर्व[शक्तिविरहल]लक्षणस्येत्यलं दुर्मतिविष्पन्दितेष्वत्यादरेणेति स्थितमेतत्- त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या]ऽपि च व्याप्तौ सत्यां तत्र नियतं भवतीत्यभिप्रायवता विपर्ययव्याप्तिं प्रदर्शयितुमिदमुक्तम्- "हेत्वाभास(सा)स्ततोऽपरे" इति । [२. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश्चर्चा ।] तत्रैतत्स्यात्- क्षणिकविपक्ष[स्य सत्त्व]विपर्ययेण व्याप्तिर्बाधकप्रमाणवशादवसिता इह तु त्रिसङ्ख्याबाह्यानामर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य [त्राह]- "अविनाभावनियमात्" इति । त्रिविधहेतुव्यतिरिक्ते लिङ्गतयोपगते शङ्कयमाने वा वस्तुनि पक्षधर्मतासद्भावेऽप्यविनाभावाभावा[दित्यर्थः] । (ह्ब्ट्८) तथा च वक्ष्यति- "न स त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते" इति । अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितमिति हेत्वाभासत्वे साध्येऽविनाभाववैकल्यं स्वभावहेतुः । अविनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वादेव [तदन्येषां] [व्याप]कानुपलब्धितः सिद्धम् । तथा हि- तादात्म्यतदुत्पत्तिभ्यामविनाभावो व्याप्तः, तयोस्तत्रावश्यंभावात् । तस्य च तयोरेव भावादतत्स्वभावस्यातदुत्पत्तेश्च [तदनायत्तत]या तदव्यभिचारनियमाभावात् । तदुक्तम्- "कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ [अवश्यंभाव]नियमः कः परस्यान्यथा परैः । अन(अर्था)न्तरनिमित्ते वा धर्मे वाससि रागवत् ॥" इति । रूपादिनापि हि रसादेरविनाभावो न स्व[तः किन्तु स्वकार]णाव्यभिचारद्वारक इति तत्कारणोत्पत्तिरेवाविनाभावनिबन्धनम् । अन्यथा तदनायत्तस्य तत्कारणानायत्तस्य वा तेना[विनाभावकल्प]नायां सर्वस्य सर्वार्थैरविनाभावः स्यात्, अविशेषात् । एकार्थसमवायनिमित्तो रूपरसादेरविनाभाव इति चेत् । ननु समवायोऽप्याधार्या[धार]भूतानामुपवर्ण्यते । स चाधाराधेयभावस्तदात्मानुपकारेतिप्रसङ्गतो न सिध्यतीत्येकसामग्र्यधीनतैवैकार्थसमवायो[ऽवसे]यः । अन्यो वा वस्तुभूतः संबन्धोऽसम्भवी तथा सम्बन्धपरीक्षायां विस्तरतः शास्त्रकृता प्रतिपादिमेवेति तत एवावधार्यम् । अस - - न वा (ह्ब्ट्९) ज(नन्वसत्यपि ज)न्यजनकभावे, तादात्म्ये वा, तेनैवाविनाभावो नान्येनेत्यत्र वस्तुस्वभावैरेवोत्तरं वाच्यं ये एवं भवन्ति नास्माभिः, के[वलं वयं द्रष्टार] इति चेत्; आकस्मिकस्तर्हि स वस्तूनां स्वभाव इति न कस्यचिन्न स्यात् । न ह्यहेतोर्द्देशकालद्रव्यनियमो युक्तः । [तद्धि किञ्चित्क्वचिदुप]नीयेत न वा यस्य यत्र किञ्चिदायत्तमनायत्तं वा । अन्यथा विशेषाभावादिष्टदेशकालद्रव्यवदन्यदेशादिभावः के[न वार्येत विशेषाभावात् । ततो य]द्येनाविनाभूतं दृश्यते तस्य तेनाव्यभिचारकारणं तत्त्वचिन्तकैरभिधानीयम्, न तु पादप्रसारिकावलम्बनीया । तच्चाव्यभिचारकारणं यथोक्तादन्यन्न युज्यते इति तद्विकला न हेतुलक्षणभाज इति । तथा चाह- "संयोग्यादिषु येष्वस्ति प्रतिबन्धो न तादृशः । न ते हेतव [इत्युक्तं] व्यभिचारस्य संभवात् ॥" इति । अत्र प्रयोगः- यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी, यथा प्रमेयत्वादिरनित्यत्वादिना, न स्तश्च केनचित्तादात्म्यतदुत्पत्ति स्वभावकार्यव्यतिरेकिणामर्थानामिति व्यापकानुपलब्धिः । स्वभावानुपलब्धिस्तु स्वभावहेतावन्तर्भावितेति तस्याः [तादात्म्य]लक्षण एव प्रतिबन्धः । व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशादेव व्याप्यकार्ययोर्निवृत्ति साधयतः । [तदुक्तम्- "तस्मा]त्तन्मात्रसंबद्धः स्वभावो भावमेव वा । निवर्तयेत्कारणं वा कार्यमव्यभिचारतः ॥" इति । तदेवं हेतुलक्षणं १ संख्यानियमः २ तदुपदर्श[कं च प्रमाण]म् ३ अत्र श्लोके निर्दिष्टमिति । [३. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम्] अथवा ’त्रिधैव सःऽ इति स पक्षधर्मस्त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस्तदंशेन व्याप्तो नान्यः । [स] त्रिप्रकारस्तदंशेन (ह्ब्ट्१०) व्याप्त एवेति सम्बन्धः । किं कारणम्? । "अविनाभावनियमात्" । अविनाभावस्य- व्याप्तेः । त्रिविध एव पक्षधर्मे नियमात् । त्रिविधस्य च पक्षधर्मस्याविनाभावनियमात् । तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्मव्यतिरिक्ता न तदंशेन व्याप्ता इति । त्रिविधश्च कार्यस्वभावानुपलब्धिरूपः पक्षधर्मस्तदंशेन व्याप्त एवेति न तस्याहेतुत्वमित्युक्तं भवति । ततस्त्रिविधहेतुबाह्येष्ववि[नाभा]बाद्धेतुव्यवहारं कुर्वन्तः, त्रिविधे च हेतावविनाभावस्यावश्यम्भावा[भावा]दहेतुत्वमाचक्षाणा निरस्ता भवन्ति । [४. हेत्वाभासलक्षणानभिधानेपि तत्सूचनम् ।] तत्रैतत्स्यात्- हेत्वाभासानमपि [लक्षणम्]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्याह "हेत्वाभासास्ततोऽपरे" इति । "ततः" पक्षधर्मस्तदंशेन व्याप्त इति हेतुलक्षणाद्"अपरे" अ[न्ये त]लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षणमुच्यते । तथा हि- "पक्षधर्मः" इत्युक्ते यत्र पक्षधर्मता नास्ति न स हेतुः । "तदंशेन व्याप्तः" इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर्व्यापकस्य वा तत्रावश्यम्भावाभावात्, ते हेतुरूपविकलतया "हेत्वाभासाः" असिद्धविरुद्धानैकान्तिका गम्यन्त एव । तथा हि- यल्लक्षणो योऽर्थः शिष्यस्य व्युत्पादितः तल्लक्षणविरहिते न तद्वयवहारं स्वयमेव प्रवर्तयिष्यति अ[तद्रूप]परिहारेणैव तद्रूपप्रतिपत्तेरिति न तत्र यत्नः फलवान् भवति । यत्त्वन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य । इदं तु प्रकरणं विपुलमतीनुद्दिश्य प्रणीतम् "संक्षेपतः" इति वचनात् । त एव हि संक्षेपोक्तं यथावदवगन्तुं क्षमाः न मन्दमतयः, तेषां विस्तराभिधानमन्तरेण यथावदर्थप्रतिपत्तेरभावात् । अत एवार्थाक्षिप्तोपन्यासपूर्वकमेव हेत्वाभासलक्षणं तत्रोपवर्णितमिति । तदत्र व्याख्याने हेतुलक्षणं १ हेतुसंख्यानियमः २ (ह्ब्ट्११) तस्य च त्रिविधस्य हेतुत्वावधारणं ३ तदुभयकारणं ४ श्लिष्टनिर्द्देशा[ख्यानं ५] हेत्वाभासलक्षणानभिधानकारणं ६ चेति षडर्थाः श्लोकेऽत्र निर्दिष्टा इति । किञ्च- इदमपि साधु दृश्यते- "त्रिधैव" कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः । तथा, त्रिधैव पक्षधर्मान्वयव्यतिरेकरूपभेदात्"त्रिप्रकार एव" त्रिरूप एव । तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोरभिधानात् । नाबाधितविषयत्वादिरूपान्तरयोग्यपि स हेतुः । कुतः? यतः "हेत्वाभासास्ततोऽपरे" "ततः" त्रिविधात्स्वभा[वा]देः, पक्षधर्मादिरूपत्रययोगिनो वा "अपरे" अन्ये संयोग्यादयोऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा । कस्माद्? । अविनाभावस्य अत्रैव त्रिविध एव त्रिरूप एव च हेतौ नियमादन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावादित्यर्थः । न हि स्वभावादिव्य[ति]रिक्ते प्रतिबन्धनिबन्धनस्याविनाभावस्य संभवः तद्वति वा रूपान्तरस्य । यथा चा(च) सत्येवाविनाभावे रूपान्तरस्य न सम्भवस्तथा "षड्लक्षण" इत्यादिना वक्ष्यति । [५. दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम् ।] "पक्षधर्मः" इत्यत्र हेतुलक्षणेऽपि क्रियमाणे यदि समुदायः पक्षे(क्षो) गृह्यते योऽनुमानविषयस्तदा सर्वो हेतुरसिद्धः, सिद्धौ वानुमानवैयर्थ्यमित्याह "पक्षो धर्मी" इति । कथं पुनः समुदायवचनः पक्षशब्दो धर्मिमात्रे वर्तत इति चेत्? "अवयवे समुदायोपचारात्" । पक्षाख्यस्य हि समुदायस्य द्वाववयवौ धर्मी धर्मश्च । तदत्र धर्मिमात्रे समुदायोपचारात्पक्षशब्दो वर्तते । तदेकदेशत्वं च समुदायोपचारनिमित्तमिति न साध्यधर्मिणोऽन्यत्र तत्प्रसङ्गः । तदुक्तम्- "समुदायस्य साध्यत्वात्धर्ममात्रे [च]धर्मिणि । अमुख्येऽप्येकदेशत्वात्साध्यत्वमुपचर्यते ॥ "इति । (ह्ब्ट्१२) [६. दिङ्नागव्याख्याने ईश्वरसेनाक्षेपस्ततुद्धारश्च ।] तदेतदाचार्यीयं व्याख्यानमीश्वरसेनेनाक्षिप्तं परिहर्तुं पूर्वपक्षयन्नाह "प्रयो[जने]" त्यादिना । "नर्ते, प्रयोजनादिष्ट्रं(ष्टं) मुख्यशब्दार्थलङ्घनम् ।" इत्यसति प्रयोजने नोपचारो युक्तः । ततो धर्मिधर्म इत्येवास्त्विति परः । "न" प्रयोजनाभावः । कुतः? सर्वश्चासौ विवादाश्रयोऽन्यो वा धर्मी यस्तस्य प्रतिषेधोऽर्थः प्रयोजनं यस्योपचारस्य तद्भावस्तस्मात्"सर्वधर्मिधर्मप्रतिषेधार्थत्वादुपचारस्य" इति प्रयोजनाभावादित्यसिद्धो हेतुः । क एवं सति गुणः? इति चेदाह "एवं हि" उपचारे सति "चाक्षुषत्वादि" आदिग्रहणात्’काकस्य कार्ष्ण्यात्ऽ इत्यादि व्यधिकरणासिद्धं "परिहृतं" हेतुत्वेन निरस्तं "भवति" । धर्मिधर्म इति तु सामान्ये [नाभि]धानात्तेषामपि हेतुता स्यादिति । असत्युपचारे धर्मिग्रहणादप्येतत्सिध्यति । ततोऽनर्थक एवोपचार इत्याह परः- "धर्मवचनेनापि" न केवलं ध[र्मिव]चनेन । "धर्म्याश्रयसिद्धौ" धर्मिण आश्रयणमाश्रयः परिग्रहस्तस्य सिद्धिस्तस्यां सत्याम् । किं पुनर्द्धर्मस्य धर्म्याक्षेपनिमित्तमिति चेत्? "परा[श्रयत्वा]त्"- धर्मिपरतन्त्रत्वात्"धर्मस्य" अवश्यमसौ धर्मिणमाक्षिपति । ततो धर्मिवचनमतिरिच्यमानं विशिष्टं साध्यधर्मिणमेव प्रतिपादयति, [न धर्मिमात्रम्] । स्यान्मतम्- धर्मिग्रहणाद्विशिष्टोऽत्र धर्मी कश्चिदभिप्रेत इति गम्येत । स तु साध्यधर्मीति कुतः? इत्याह- "प्रत्यासत्ते"र्न्यायात् । प्रत्यासत्तिश्चात्र धर्मि[वचनसामर्थ्याद]भिप्रेतेति गम्यते । व्याप्तौ तु न्याये धर्मवचनेनापि धर्मिमात्राक्षेपत्धर्मिग्रहणवैयर्थ्यम् । प्रत्यासन्नता च साध्यधर्मिण एव, तत्र प्रथमं (ह्ब्ट्१३) हे[तूप]दर्शनात् । न प्रत्यासत्तेः साध्यधर्मिपरिग्रहः । कुतः? । "दृष्टान्तधर्मिणोऽपि" न केवलं साध्यधर्मिणः प्रत्यासत्तेः । कदाचिद्व्याप्तिदर्शनपूर्वके प्रयोगे दृष्टान्तधर्मिण्यपि प्रथमं हेतुसद्भावोपदर्शनात् । यदि न प्रत्यासत्तेः साध्यधर्मिसिद्धिः पारिशेष्यात्तर्हि भविष्यति । यतः "तदंशव्याप्त्या" हेतुभूतया "दृष्टान्तधर्मिणि" धर्मस्य सत्व(त्त्व)सिद्धेः । नहि दृष्टान्तमन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते । ततो धर्मिग्रहणाद्वयतिरिच्यमानात्साध्यधर्मिण एव परिग्रहः । "तदंशेन" इति च तच्छब्देन धर्मवचनाक्षिप्तो धर्मी सम्भन्त्स्यत इति तत्सम्बन्धनार्थमपि धर्मिग्रहणं नाशङ्कनीयम् । यत्र प्रयोजनान्तरं न सम्भवति स पारिशेष्यविषयः, धर्मिवचनस्य त्वन्यदपि प्रयोजनं सम्भाव्यते । तत्कुतः पारिशेष्यात्"धर्मिवचनात्साध्यधर्मिपरिग्रहः"? इति मन्यमानः सिद्धान्तवाद्याह- "सिद्धे तदंशव्याप्त्या दृष्टान्तधर्मिणि सत्व(त्त्वे) पुनर्द्धर्मिणो वचनं दृष्टान्तधर्मिण एव यो धर्मः स हेतुरिति नियमार्थमाशङ्कयेत । ततश्च चाक्षुषत्वादय एव हेतवः स्युः, न कृतकत्वादय इति अनिष्टमेव स्यात्तस्मादुपचारः कर्तव्यः" इति । किं पुनस्तर्कशास्त्र दृष्टं क्वचित्नियमार्थवचनमित्य आह- "दृष्टं सजातीय एव" इत्यादि । "तत्र यः सन् सजातीये-" [न्यायमुख ७] इत्यत्राचार्यीये हेतुलक्षणे ’सजातीय ए[व] सत्व(त्त्व)मिऽत्यवधारणेन सिद्धेऽपि हेतोर्व्यतिरेके । कुत्र? । साध्याभावे । यदेतत्"असंस्तदत्यये" [न्यायमुख ७] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[म]सत्येव नास्तिता यथा स्यात्नान्यत्र न विरुद्ध इति । तथेहापि धर्मिवचनं तत्रैव भावनियमार्थमाशङ्कयेत । कदा? सिद्धेऽपि दृष्टान्तधर्मिणि [स]त्वे(त्त्वे) । कुतः? तदंशव्याप्तिवचनात् । (ह्ब्ट्१४) क्व भावनियमार्थम्? "[त]त्रैव" दृष्टान्तधर्मिणि, सति चाशङ्कासम्भवे । कुतः? । पारिशेष्यात्साध्यधर्मिपरिग्रहः । ननु अपक्षधर्मस्याहेतुत्वात्न नियमार्थताशङ्का । तथा हि- साध्यधर्मेण व्याप्तोऽपि धर्मो यदि क्वचिद्धर्मिण्युपलभ्येत तदा तत्रैव स्वव्यापकप्रतीतिं जनयेत्नान्यत्र [प्रत्या]सत्तिविप्रकर्षाभ्यां यथाक्रमम् । अनुपलव्धस्तु क्वचिद्धर्मिणि कथं गमकः? । तथाभावे वा सर्वत्र स्वव्यापकं गमयेत्प्रत्यासत्तिविप्रकर्षाभावादे[वेत्यत] आह- "तस्मात्सामर्थ्यात्" इत्यादि । यदिदमनन्तरं सामर्थ्यं समुपवर्णितमास्मात्सामर्थ्यादर्थस्य साध्यधर्मिपरिग्रहलक्षणस्य भवति प्रतीति[र्प]टुधियां श्रोतृणाम्, किन्त्वशब्दकमर्थं स्वयमनुसरतां प्रतिपत्तिगौरवं स्यात् । तदुपचारमात्रात्स्वयमशब्दकार्थाभ्यूहरहिताद्धर्मिधर्म इत्यने [न प]क्षधर्म इति "समाननिर्द्देशात्[प्रतिपत्तिगौरवं च] परिहृतं भवति ।" "प्रतिपत्तिगौरवं च" इति ’चऽशब्देनैतदाह- ये परोपदेशमाकाङ्क्षन्ति तैरयमर्थो लक्षण[वच]नाद्बोद्धव्य इति । यथालक्षणं प्रतीतेरपक्षधर्मो न हेतुरिति कुतः? इयमाशङ्का । ततस्तेषां लक्षणानुसारिणां नियमाशङ्कापरिहारार्थं चोपचारकर[णमि]ति । [७. पक्षधर्म इत्यत्र नियमव्यवस्था ।] इह व्यवच्छेदफलत्वात्शब्दप्रयोगस्यावश्यमेवावधारयितव्यम् । षष्ठीसमासाच्च पक्षधर्म इत्यत्र नान्यः समासः सम्भवति । तथा च पक्षस्यैव धर्म [इ]त्येवमवधारणात्तदंशव्याप्तिर्विरुध्यत इति विरुद्धलक्षणतामुद्भावयन्नाह "पक्षस्य धर्मत्वे त्वं(तं) पक्षं विशेषणमन्यतो व्यवच्छेदकमपेक्षत" इति "तद्विशेषणापेक्षस्य" धर्मस्य "अन्यत्र" पक्षीकृतादन्यस्मिन् सपक्षे "अननुवृत्तिः" । तथा हि- यः पक्षेण विशेष्यते स पक्षस्यैव भवति नान्य[स्य] । यथा- यो देवदत्तस्य पुत्रः स तस्यैव पुत्रो न यज्ञदत्तस्यापि । (ह्ब्ट्१५) ततोऽन्यत्राननुवृत्तेः "असाधारणता"- साधारणता न स्यात् । तदं शव्याप्तिविरोध [इ]ति यावत् । साधारणतायास्त्व(याश्च) तदंशव्याप्त्या प्रतिपादनात् । ततो यदि पक्षधर्मो न त[दंशे]न व्याप्तिः, अथ तदंशव्याप्तिर्न पक्षधर्म इति व्याहतं लक्षणमिति । ननु च तदंशव्याप्तिर्नाम साध्यधर्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधर्मिणि भाव, एव, व्याप्यस्य वा हेतोस्तत्रैव व्यापके साध्यधर्मे सत्येव भाव इति स्वसाध्याविनाभावलक्षणा वक्ष्यते । न चानयावश्यं पक्षीकृतादन्यत्र वृत्तिराक्षिप्यते, यतो लक्षणव्याघात आशङ्क्येत । तथा हि- तत्रैव पक्षीकृते सत्येव साध्यधर्मे हेतुर्वर्तमानस्तदंशव्याप्तिं प्रतिपद्यत एव । यैव चास्य साध्यधर्मिणि स्वसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधर्मिणि । स च स्वसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनिबन्धनः, न सपक्षे क्वचिद्बहुलं वा सहभावमात्रदर्शननिबन्धनः । न हि लोहलेख्यं वज्रं पार्थिवत्वात्काष्ठादिवतिति तदन्यत्र पार्थिवत्वस्य लोहलेख्यताविनाभावोऽपि तथाभावो भवति । यदि च पक्षीकृतादन्यत्रैव व्याप्तिरादर्शयितव्येति नियमस्तदा सत्वं(त्त्वं) कथं क्षणिकतां भावेषु प्रतिपादयेत्? । यो हि सकलपदार्थव्यापिनीमाक्ष(नीं क्ष)णीकतामिच्छति तं प्रति कस्यचित्[स]पक्षस्यैवाभावात् । यदपि कैश्चित्ज्वालादेः क्षणिकत्वमभ्युपगम्यते तदपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतयानुपलक्षणात् । अन्यत्रैव च व्याप्तिरादर्शनीया न साध्यधर्मिण्यपीति कोऽयं न्यायः? । एवं हि काल्पनिकत्वं हेतुलक्षणस्य प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम्, तस्मात्स्वसाध्यप्रतिबन्धाधेतुस्तेन व्याप्तः सिध्यति । स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्यपि सिध्यतीति न किञ्चिदन्यत्रानुवृत्त्यपेक्षया । (ह्ब्ट्१६) अत एवान्यत्रोक्तम्- "यत्क्वचिद्दृष्टं तस्य यत्र प्रतिबन्धः तद्विदः तस्य तद्गमकं तत्रेति वस्तुगतिः" इति । यदपि "अनुमेयेऽथ तत्तल्ये सद्भावः-" इत्यादि लक्षणं तत्रापि साध्यधर्मवानेव सपक्ष उच्यते । ततः सत्येव साध्यधर्मे वास्तीत्येवंपरमेतत् । ततश्च तद्धर्मणः साध्यधर्मिणोऽपि वास्तवं सपक्षत्वं न व्यावर्तते । साध्यत्वेनेष्टतयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराकर्तुमशक्यत्वात् । तस्मात्तदंशव्याप्तिवचनेन स्वसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा तदयोगादभिधानान्नावश्य मन्यत्र वृत्तिराक्षिप्तेति, कथमिदमाशङ्कितम्? । सत्यम्, नैवेदमाशङ्कनीयम्, यदि सर्वस्य हेतोः पक्षीकृते एव धर्मिणि स्वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत । यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या । कार्यहेतोस्तु प[क्षीकृतधर्मिणा । कस्यचित्स्वभावहेतोः] प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्येत? । तस्मात्तस्यान्यत्रैव [प्रसिद्धिरिति तद्विशेषणापेक्षस्य तत्र अपेक्षणातन्य]त्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता । तदा ह्यन्यत्रावर्तमानः साध्यविपरीत[व्यतिरेक]...........................................................तदुभयबहिर्भावायोगात्तद्धर्मिणः साध्यवृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात्तत्र संशयहेतु[र्भवति । स्यान्मतम्- क्वचिदाश्रये सत्तायाः प्राक्प्रवृत्तपूर्वगृही]तविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतयेऽन्यत्र वृत्तिरपेक्षणीया । एतत्परिहरति । "न" इत्यादि । [नान्यत्राननुभवत्तिः । कुतः? (ह्ब्ट्१७) अयोगोऽसम्ब]न्धः तव्द्यवच्छेदेन विशेषणात्पक्षस्य । न ह्यन्ययोगव्यवच्छेदेनैव विशेषणं भवति । [किन्तु अयोगव्यवच्छेदेनापि । यत्र धर्मिणि ध]र्मस्य सद्भावः संदिह्यते तत्रायोगव्यवच्छेदस्य न्यायप्राप्तत्वात् । अत्र च दृष्टान्तः["यथा चैत्रो धर्नुर्धर इति" । चैत्रे हि धनुर्धर]त्वं संदिह्यते किमस्ति नास्ति इति । ततश्चैत्रो धनुर्द्धर इति तत्सद्भावप्रतिपादिका श्रुतीः [पक्षान्तरमधनुर्धरत्वं श्रोतुराशङ्कोपस्थापितं] निराकरोतीत्ययोगव्यवच्छेदोऽत्र न्यायप्राप्तः । पराभिमतव्यवच्छेदनिराचिकीर्षयाह- ["न, अन्ययोगव्यवच्छेदेन विशेषणात्" अन्यत्राननुवृत्तेर]साधारणतेति सम्बन्धः । अत्रापि दृष्टान्तो "यथा पार्थो धनुर्द्धर इति" । सामान्यशब्दोऽप्ययं ध[नुर्धरशब्दः प्रकरणसामर्थ्यादिना प्रकृष्टगुणवृत्तिः । इह पार्थे] हि धनुर्द्धरत्वं सिद्धमेवेति नायोगाशङ्का । [तादृ]शं तु सातिशयं किमन्यत्रास्ति नास्तीत्यन्ययोग [शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्य]ते तदान्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोरेव पक्षयोः पर[स्परं विरोधातेकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात् । तदिह पक्षेऽस्त्ययं धर्मो न वेति संशीतौ [पक्षधर्म इत्युक्ते पक्षस्य धर्म एव नाधर्मः । धर्मश्च आश्रितत्वाद्विशेषणं तेनायोगो व्य]वच्छिद्यते नान्ययोगस्तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात् । "तदंशः" तद्धर्म इति] । तच्छब्देन पक्षः परामृश्यते न धर्मः, धर्मस्य धर्मासम्भवात् । अंशश्च धर्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात् । न तदंशः तस्य एक]देशाभावादिति । [८. व्याप्तेर्व्याप्यव्यापकोभयधर्मत्वम् ।] तस्य पक्षधर्मस्य सतो व्याप्तिः- यो व्याप्नोति यश्च व्याप्यते [तदुभयधर्मतया प्रतीतेः । यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य । तत्रात सत्सप्तभ्यर्थप्रधानमेतत्नाधारप्रधानम्, धर्माणां धर्म[आन्तरत्वाभावात् । तेनायमर्थः]- (ह्ब्ट्१८) यत्र धर्मिणि व्याप्यमस्ति तत्र सर्वत्र भाव एव व्यापकस्य स्वगतो धर्मो व्याप्तिः । तत[श्च व्याप्यभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः] । न त्वेवमवधार्यते । व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गादव्यापकस्यापि मूर्तत्वादेस्तत्र भावात् । नापि ’तत्रैवेऽति प्रयत्नानन्तरीयकत्वादेरहेतुतापत्तेः । साधारणश्च हेतुः स्यात् । नित्यत्वस्य प्रमेयेष्वेव भावात् । यदा तु व्याप्यधर्मता(र्मतया) विवक्षा व्याप्तेस्तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति । य्तत्र धर्मिणि व्यापकोऽस्ति तत्रैव भावो, न तदभावेऽपि व्याप्तिरिति । अत्रापि व्याप्यस्यैव तत्र भाव इत्यवधारणं हेत्वभावप्रसक्तेरेव नाश्रितम्, अव्याप्यस्यापि तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेरहेतुत्वप्राप्तेः । साधारणस्य [च] हेतुत्वं स्यात् । प्रमेयत्वस्य नित्येष्ववश्यंभावादिति । व्याप्यव्यापकधर्मतासंवर्णनं तु व्याप्तेरुभयत्र तुल्यधर्मतयैकाकारा प्रतीतिः संयोगिवत्मा भूदिति प्रदर्शनार्थम् । तथा हि- पूर्वत्रायोगव्यवच्छेदेनावधारणमुत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः? । तदुक्तम्- "लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः ॥" इति । एतेनाचार्येण संयोगबलात्गमकत्वे यो दोष उक्तः- "न च केनचिदंशेन न संयोगी हुताशनः । धूमो वा सर्वथा तेन प्राप्तं धूमात्प्रकाशनम् ॥" इति । स इह नावतरतीत्याख्यातं भवति । तथा हि- संयोगस्य उभयत्राविशेषातेष प्रसङ्गो न तु व्याप्तेः । न हि यादृशी (ह्ब्ट्१९) व्यापकधर्म व्याप्तिः तादृश्येव व्याप्यधर्म इति । तथा चाह- "सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः । आधाराधेयवद्वृत्तिस्तस्य संयोगिवन्न तु ॥" इति । तेन व्यापको व्याप्यो न भवति व्याप्यश्च [न] व्यापक इति । "तदंशेन व्याप्तो हेतुः" इति वचनात्न संयोगिपक्षोक्तो दोषः । नाप्युभयोर्गम्यगमकताप्रसङ्गः, यथोक्ताधेतुलक्षणाद्व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादिति । [९. व्याप्तेरन्वयव्यतिरेकरूपयोस्सूचनम् ।] यदि तर्हि "पक्षधर्मस्तदंशेन व्याप्तः" इत्येतद्धेतुलक्षणं ततः पक्षधर्मत्वं तदंशव्याप्तिश्चेति द्विरूपो हेतुः स्यात्, अन्यत्र च त्रिरूप उक्तः तत्कथं न व्याघातः? इत्याह "एतेन" तदंशव्याप्तिवचनेन "अन्वयो व्यतिरेको वा उक्तः" वेदितव्य इति सम्बन्धः । अन्वयव्यतिरेकरूपत्वाद्व्याप्तेरिति भावः । तथा हि- य एव येनान्वितो यन्निवृत्तौ च निवर्तते स एव तेने व्याप्त उच्यते इति तदात्मकत्वाद्व्याप्तेर्व्याप्तिवचनेनान्वयव्यतिरेकाभिधानम् । ततो व्याप्तिवचनेन रूपद्वयाभिधानात्न व्याघात इति । [१०. व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः ।] तौ च ज्ञपकहेत्वधिकारात्निश्चितौ । "निश्चयश्च तयोर्नैकेनैव प्रमाणेन अपि तु यथास्वम् ।" यस्य यदात्मीयं प्रमाणं निश्चायकं तेन । यस्य च यत्निश्चायकं प्रमाणं तदुत्तरत्र वक्ष्यति । "अन्वयो व्यतिरको वा" इति तुल्यकक्षतासूचनार्थो ’वाशब्दः । तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोरेकेनैव द्वितीयगतेर्विधिप्रतिषेधरूपतया व्यावृत्तिभेदेऽपि परमार्थतस्तादात्म्यात्नोभयोपदर्शनमिति सूचितं भवति । व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य निवृत्तिधर्मकत्वं स्वभावभूतो धर्म इत्यन्वयरूपता वस्तुतोऽस्य न विरुध्यते । "पक्षधर्मश्च" । किं? । "यथास्वं प्रमाणेन निश्चितः" (ह्ब्ट्२०) उक्त इति सम्बन्धः । निश्चयप्रसङ्गेन सोऽप्यत्र प्रतिपाद्यते, निश्चितस्य गमकत्वामाख्यातुम् । .................................................................................... इति प्रदर्शनार्थो ’वाशब्दः । "प्रत्यक्षेण च स्वयं स्वलक्षणाकारत्वेऽप्यनन्तरसामान्यविकल्पजननात्प्रसिद्धिः" उपचारतो निश्चय उच्यते- प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुम् । तेन यद्यपि सामान्यरूपं लिङ्गमवस्थाप्यते तथापि स्वलक्षणप्रतीतिरेव तद्व्यवस्थानिबन्धनमिति प्रत्यक्षतः पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धिरुच्यते । एतच्चानन्तरमेव व्यक्तीकरिष्यते । "अनुमानतो वा साध्यधर्मिणि पक्षधर्मस्य प्रसिद्धि" र्निश्चयः । प्रमाणफलभेदाच्च "अनुमानतः" अनुमानेन निश्चय इति आह । "अत्रोदाहरणे" यथाक्रमं "यथा प्रदेशे धूमस्य" धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति । [११. उद्दयोतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर्गमकत्वोक्तिः ।] यस्तु मन्यते- ’यः प्रदेशोऽग्निसम्बन्धी सोऽप्रत्यक्षो यस्तु प्रत्यक्षो नभोभागरूप आलोकाद्यात्मा धूमवत्तया दृश्यमानो न सोऽग्निमानतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः । तस्माद्धूम एव धर्मी युक्तः । साग्निरयं धूमः धूमत्वातित्येवं साध्यसाधनभावःऽ इति- तस्यापि साग्नेः धूमावयवस्याप्रत्यक्षत्वात्, परिदृश्यमानस्य चोर्द्धवभागवर्तिनोऽग्निना सहावृत्तेः, कथं धूमसामान्यस्य साध्यधर्मिणि प्रत्यक्षतः प्रसिद्धिः? । धूमावयवी प्रत्यक्ष इति चेत्; न, अवयवव्यतिरेकेण तस्याभावात् । लोकाध्यवसायतस्तस्यैकत्वे वा प्रदेशस्यापि तावतः (ह्ब्ट्२१) कल्पितमेकत्वं न निवार्यते । प्रदेशे एव च लोकोऽग्नि प्रतिपद्यते, न धूमे । देशकालाद्यपेक्षयैव च कार्यहेतुर्गमकः । यदाह- "इष्टं विरुद्धकार्येऽपि देशकालाद्यपेक्षणम् । अन्यथा व्यभिचारि स्याद्भस्मेवाशीतसाधनः (धने) ॥ इति । "ततो देशाद्यपेक्षाग्निसाधने धूमवत्तया । गृह्यमाणस्य देशस्य धर्मिता न विरुध्यते ॥" यथा बलाकावतो वृक्षादेर्द्देशाद्यपेक्षया जलसाधनत्वमिति । "शब्दे वा कृतकत्वस्य" प्रत्ययभेदभिदित्वादिनानुमानेनेति । [१२. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् ।] अत्र यथोपवर्णितं प्रत्यक्षतः पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धावभिप्रायमप्रतिपद्यमानः कुमारिलः- ’कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्वरूपग्र[हण]मपि तावद्युज्यते, धर्मिणो वा कुत एव तत्सम्बन्धग्रहणम्ऽ- इति प्रत्यवतस्थे । तेन हि "प्रत्यक्षपूर्वकत्वाच्चानुमानादेर्द्धर्मं प्रत्यनिमित्तत्वम्" इत्येतद्भाष्यम्- "कथं प्रत्यक्षपूर्वत्वमनुमानादिनो भवेत्? । यदा स्मृत्यसमर्थत्वान्निर्विकल्पेन्द्रियस्य धीः ॥ न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस्तथा । गृहीतिः" इत्याक्षिप्य- " प्रत्यक्षाग्रहणं यत्तु लिङ्गादेरविकल्पनात् । तन्नेष्टत्वाद्विकल्पस्याप्यर्थरूपोपकारिणः ॥ अस्ति स्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन सम्मता ॥" (ह्ब्ट्२२) इति ब्रुवता- ’सौगतानामेवायं लिङ्गधर्मितत्सम्बन्धाग्रहणलक्षणो दोषो येषामविकल्पकमेव प्रत्यक्षं, नास्माकं सविकल्पमपि प्रत्यक्षमिच्छताम्ऽ इत्युक्तं भवति । ततस्तदुपवर्णितदोषप्रतिविधानायाह- "सधूमं हि" इत्यादि । अयमत्र समुदायार्थः- प्रत्यक्षं हि पुरोवस्थितमौत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्वलक्षणं सकलसजातीयविजातीयव्यावृत्तं च स्वस्वभावव्यवस्थितेः सर्वासामर्थमात्राणां परस्परमसंकीर्णरूपत्वात्तत्सामर्थ्यभावियथास्थानमनुकुर्वत्पाश्चात्त्यविधिप्रतिषेधविकल्पद्वयं जनयति येन धूमप्रदेशाख्यौ धर्मधर्मिणौ तयोश्चौत्तराधर्यम् ’ेवमेतत्नान्यथा इति विकल्पयति । यथानुभवमभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानामुदयात् । ततो धर्मधर्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश्च प्रत्यक्षनिबन्धनः सम्पद्यते । तथा हि- अयमेव धूमप्रदेशयोः सम्बन्धस्य निश्चयो यः ’त्रायम्ऽ इत्यध्यवसायः । स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव । न चौत्तराधर्यावस्थिताद्वस्तुद्वयादन्य एव कश्चिदाधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य प्रत्यक्षेणाननुभूतत्वात्पश्चाद(द्) विकल्पनं स्यात् । वस्तुभूतस्य तस्यान्यत्र निषेधात् । तस्मादयं तदेव तथावस्थितमर्थद्वयमाश्रित्य कल्पनासमारोपित एव । तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधर्मितया व्यवहारो लोके न तु पारमार्थिकः । सामान्यव्यवहारोऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रि)त्य कल्पनासमारोपित एव प्रतन्यते । तेषामेव भिन्नानामप्यनुभवद्वारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतुत्वात् । तथा चाह- "एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने । भेदेऽपि नियताः केचित्स्वभावेनेन्द्रियादिवत् ॥" (ह्ब्ट्२३) ततः सामान्यवि[कल्पजननद्वारा] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृ[त्तरूपस्य सामान्यरूपतया] प्रत्यक्षेणैव गृहीतत्वात् । न हि विजातीयव्यावृत्तिर्व्यावृत्तादन्यैव काचिद्यस्याः प्रत्यक्षेणाग्रहणं स्यात् । तस्माद्यथापरिदृष्टं धूमादिस्वलक्षणमेवान्यतो व्यावृ[त्तात्मना वि]कल्प्यत इति प्रतिपत्रध्यवसायवशात्स्मृतिरेव । द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर्निर्विषय एव । ततो यदाह- सामान्यस्याननुभूततया- "स्मार्तमेतदभेदेन विज्ञानमिति यो वदेत् । तस्य वन्ध्यासुतेऽप्यस्ति नूनं स्मरणशक्तता ॥" इति तदप्यपास्तमिति ॥ [१३. अनुमितेः सामान्यविषयत्वेऽनवस्थेति कुमारिलाक्षेपस्योत्तरम् ।] अथवापरं कुमारिलेनाभिहितम्- "स्वलक्षणविषयं प्रत्यक्षं सामान्यलक्षणविषयमनुमानम्" इति वचनात्धूमादिसामान्यमनुमानग्राह्यमेव । तत्र चानवस्था लिङ्गग्राहिणोऽप्यनुमानस्य तदन्यलिङ्गबलेनोत्पत्तेः । तस्य च सामान्यरूपतया तदन्यानुमानमानविषयत्वात्तथा तदन्यस्यापीति कस्यचिदेकस्यापि लिङ्गिनः प्रतिपत्तिः युगसहस्रैरपि न सम्भवति । किमङ्ग पुनरेकेन पुरुषायुष्केणेति । तथा चाह- "सामान्यं नानुमानेन विना यस्य प्रतीयते । न च लिङ्गविनिर्मुक्तमनुमानं प्रवर्तते ॥ असामान्यस्य लिङ्गत्वं न च केनचिदिष्यते । न चानवगतं लिङ्गं किञ्चिदस्ति प्रकाशकम् ॥ तस्यापि चानुमानेन स्यादन्येन गतिः पुनः । तदुद्भूतिश्च लिङ्गात्स्यात्सामान्यज्ञानसंहितात् ॥ तस्य चाप्यनुमानत्वं लिङ्गेन च तदुद्भवः । अनुमानान्तरादेव ज्ञातेनैवं च कल्पने ॥ लिङ्गलिङ्ग्यनुमानानामानन्त्यादेकलिङ्गिनि । गतिर्युगसहस्त्रेषु बहुष्वपि न विद्यते ॥" इत्याशङ्कयाह "सधूमं हि" इत्यादि । एवं मन्यते । यस्यानुमानन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः, (ह्ब्ट्२४) अस्माकं तु प्रत्यक्षपृष्ठभाविनापि विकल्पेन प्रकृतिविभ्रमात्सामान्यं प्रतीयते । लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात्परम्परया वस्तुप्रतिबन्धादविसंवादकत्वम्, मणिप्रभायामिव मणिभ्रान्तेः । कार्यहेतुत्वमपि विकल्पावभासिनो धूमसामान्यस्य लिङ्गतयावस्थाप्यमानस्य कार्यदर्शनाश्रयतया तदध्यवसायाच्च । न हि धूमस्वलक्षणस्य लिङ्गतावस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच्चेति । यत्तूक्तम् ’सामान्यलक्षणविषमनुमानम्’ इति तत्र नैवमवधार्यते- सामान्यलक्षणविषयमनुमानमेवेति । प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात्तदन्यस्य च विकल्पस्य । किन्तु सामान्यलक्षणविषयमेवानुमानमित्यवधार्यते स्वलक्षणविषयत्वनिषेधार्थमिति । तत्र सह धूमेन वर्तत इति "सधूमः" । पक्षधर्मताप्रतिपदनार्थमेवमुक्तम् । विधिविकल्पस्य चैतदेव बीजम् । तं "सधूमं प्रदेशं दृष्टवतः" प्रत्यक्षेणेति सम्बन्धः । कीदृशम् "अर्थान्तरविविक्तरूपम्" अर्थान्तरैः सजातीयविजातीयैर्विविक्तमसङ्कीर्णं रूपमस्येति विग्रहः । सर्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात् । अन्यथा सर्वस्य सर्वत्रोपयोगादतिप्रसङ्गः । अनेन प्रतिषेधविकल्पस्य निमित्तमाख्यातम्, सामान्योत्प्रेक्षायाश्च बीजम् । तदुक्तम्- "इतरेतरभेदोऽन्त्य(स्य) बीजं संज्ञा यदर्थिका" इति । तथा हि- अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानामपि समानामुत्पश्यतो भिन्नमेषां रूपं तिरोधायाभिन्नं स्वभावमारोपयन्ती कल्पनोत्पद्यते । "असाधारणात्मना" इति अर्थान्तरव्यावृत्तेन स्वभावेन । न तु यथा कुमारिलो मन्यते- ’र्थान्तरविवेकोऽभावप्रमाणग्राह्यो न प्रत्यक्षावसेयःऽ इति । नहि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात् । तेनात्मना (ह्ब्ट्२५) दृष्टवतः सतः पुंसोऽनन्तरं "स्मार्तं लिङ्गज्ञानमुत्पद्यते" इति सम्बन्धः । स्मृतिरेव "स्मार्तम्" । लिङ्गप्रतिभासि ज्ञानं "लिङ्गज्ञानम्" । अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लीङ्गव्यवस्थामाह । परमार्थतः किं विषयं? । "यथादृष्टभेदपरमार्थ[विषयम्"]............................................................................. [१४. दर्शनविधिप्रतिषेधविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था ।] [द]र्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचिन्तामारभते । "तत्र" तेषु दर्शनविधिप्रतिषेधविकल्पेषु । तदाद्यं यदेतत्- "अस्ति ह्यालोचनाज्ञानं प्रथमम्-" इति आदौ विकल्पप्रवृत्तेर्भवमिति "आद्यम्" आख्यातम् "असाधारणविषयम्" स्वलक्षणविषयं दर्शनं तद्"एव" प्रमाणं न विधिप्रतिषेधविकल्पावपि । तस्यैव प्रमाणलक्षणयोगादितरयोश्च तदसम्भवात् । तथा हि- अनधिगतविषयत्वमर्थक्रियासाधनविषयत्वं च प्रमाणलक्षणम् । तद्दर्शनस्यैवास्ति । तत्र "आद्यम्" इत्यपूर्वार्थविज्ञानत्वमाख्यातम् "असाधारणविषयम्" इति अर्थक्रियासाधनविषयत्वम् । स्वलक्षणस्यैवार्थक्रियासाधनत्वात् । [१५. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम् ।] तत्र प्रतिषेधविकल्पस्य तावत्प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्नाह- "तस्मिन्" असाधारणे "तथाभूते" अर्थान्तरैरसङ्कीर्णरूपे "दर्शनेन" असङ्कीर्णरूपसामर्थ्यभाविना "दृष्टे" अधिगते "सति" । तथा हि- व्यतिरिक्तमपि भावांशादभावांशमिच्छता भावांशः स्वभावेनासङ्कीर्णरूपः कल्पनीयः, अन्यथा स एवाभावांशो न सिध्येत् । न च स्वभावेनासङ्कीर्णरूपतायामसत्यां (ह्ब्ट्२६) पृथग्भूताभावांशसद्भावेऽपि सा युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिञ्चित्कराभावांशसम्भवेऽपि त्यागायोगात् । न च तेनैव तद्विनाशनम्, विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात् । तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोरेव स्वभावतोऽसङ्कीर्णरूपाणामुदयोऽस्तु किं परिव्राड्मोदकन्यायोपगमेन? । तस्मात्स्वभावत एव भावानां पररूपविकलत्वमभावांशः नान्यः । स च तथाभूतो दर्शनेन गृहीत एव । तस्मिंस्तथाभूते दृष्टे "स" पदार्थो "येन" वस्तुना "असाधारणः" समानस्वभावो न भवति तद्रूपविकलस्वभावत्वात्"तदसाधारणतां" तेन तेनातद्रूपेणासमानस्वभावतामेतदेव व्यनक्ति । "ततः" अर्थान्तराद्"भेदं" वैलक्षण्यमन्यरूपमिदं न भवतीति "अभिलपन्ती" अभिमुखयन्ती दृष्टवैलक्षण्ये प्रवर्तमानतया "स्मृतिरुत्पन्ना प्रत्यक्षबलेन" । यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयापि स्मृतिर्न स्यादिति भावः । किं विषया? । "अतद्व्यावृत्तिविषया ।" तच्छब्देन दर्शनविषयस्य वस्तुनः परामर्शः कृतः । न तततत्विजातीयम् । अतस्माद्व्यावृत्तिः अतव्द्यावृत्तिः । सा विषयो यस्याः सा तथा । अथादृष्ट एवार्थान्तरेभ्यो भेदो मयापि कल्प्यते इति प्रतिपत्र (त्तर) ध्यवसायाच्चैवमुक्तम् । परामर्थतो निर्विषयत्वात् । सा "न प्रमाणं" नाभावप्रमाणफलमित्यर्थः । न हि स्मृतिजनकत्वेन प्रमाणता युक्ता । कस्मात्न प्रमाणम्? । यथादृष्टस्याकारोऽभ्यासपाटवादिप्रत्ययान्तरसापेक्षो विशेषस्तस्य ग्रहणात् । न हि दृष्टिमित्येव विकल्पेन गृह्यते, दर्शनाविशेषात्सर्वाकारेषु विकल्पोदयप्रसङ्गात्, अपि तु कश्चिदेवाभ्यासादिप्रत्ययापेक्ष इत्याकारग्रहणेनाचष्टे । भवतु यथादृष्टाकारग्रहणम् । प्रमाणं तु कस्मान्न भवतीति परस्य तदुक्तप्रमाणलक्षणविरहं दर्शयन्नाह- "प्राग्" (ह्ब्ट्२७) आलोचनाज्ञानोदयकाले "असाधारणम्" अस्सङ्कीर्णरूपं दृष्ट्वा असाधारणमर्थान्तररूपं न भवतीति "अभिलपतः" विकल्पयतः "प्रतिषेधविकल्पस्यापूर्वार्थाधिगमाभावाद्" अपूर्वार्थविज्ञानताविरहात् । अपूर्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः । [१६. विधिविकल्पस्यास्यप्रामाण्यव्यवस्थापनम् ।] यद्युक्तेन प्रकारेण प्रतिषेधविकल्पो न प्रमाणं, विधिविकल्पस्तर्हि प्रमाणं भविष्यति । नहि तस्यापूर्वार्थविज्ञानत्वाभावः सम्भवति । तत्प्रतिभासिनोऽनुगतस्य सामान्याकारस्यासाधारणरूपावलम्बिना दर्शनेनानधिगमात्तत्कुतोऽस्याप्रामाण्यम् । तदुक्तम्- "ततः परं पुनर्वस्तु" इत्यादि । तदेतत्कुमरिलवचनमाशङ्क्य विधिविकल्पस्यापि प्रामाण्यमनुप(मप)नुदन्नाह- "अर्थक्रियासाधनस्य" स्वलक्षणस्य "आलोचनाज्ञानेन दर्शनाददृष्टस्य पुनस्तत्साधनस्य" अर्थक्रियासाधनस्य स्वभावस्य "विकल्पेनाप्रतिपत्तेः विधिविकल्पो न प्रमाणम्" । यद्यपि तेनानधिगतं सामान्यमधिगम्यत इति वर्ण्यते तथापि तदर्थक्रियासाधनं न भवति इति तदधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम् । "ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुध्याः(द्ध्या)ऽवसीयते" इति चोच्यते । तत्र पुनर्वस्तुग्रहणेन निर्विकल्पकप्रत्यक्षविषयस्यैव वस्तुनो जात्यादि विशिष्टस्य विकल्पबुध्या(द्ध्या)ऽवसाय उच्यते । तस्य च निर्विकल्पज्ञानेनैवाधिगमात्न तत्र प्रामाण्यम्, जातेस्त्वर्थक्रियासाधनत्वाभावादनधिगताया अधिगमेऽपि केशादिज्ञानस्येव न प्रामाण्यम् । अत एवार्थक्रियासामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात्प्रत्यक्षताप्यसम्भविनी । ’चऽकारेण स्मृतित्वाच्चेति पूर्वोक्तकारणसमुच्चयः । स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते । "अनुमानवद्" (ह्ब्ट्२८) इति वैधर्म्यदृष्टान्तः । यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्यै धर्मिण्यधिगतेऽप्यनधिगतस्याग्नेरर्थक्रियासाधनस्यासामान्याकारेण परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुमशक्यत्वात्प्रतिपत्तिर्नैवं विधिविकल्पेन सामान्यकारेणानधिगमर्थक्रियासाधनमधिगम्यते, तैस्यालोचनाज्ञानेनैवाधिगमात् । तस्मिं(स्मिन्) स्मृतिरेवासाविति न प्रमाणमिति । [१७. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् ।] "अर्थक्रियासाधनविषयमेव प्रमाणम्" नेतरदिति कुत एतत्? इति चेत्"अर्थक्रियार्थी हि" पुरुषो यस्माथिताहितप्राप्तिपरिहारार्थी "सर्वो" न काकतालीयन्यायेन कश्चिदेव, "प्रेक्षावान्" बुद्धिपुर्वकारी "प्रमाणमप्रमाणं वा" प्रमाणादेव सर्वदा प्रवर्त(र्ते)य अप्रमाणात्मा कदाचित्, विप्रलम्भसम्भवाद्, "उभयमन्वेषते" न व्यसनितया । ततोऽयमर्थक्रियासाधनविषयमेव प्रमाणं ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात् । नेतरत्, तद्विपरीतत्वात् । तथाहि- प्रमाणमविसंवादकमप्रतारकमुच्यते लोकेऽपि । यच्चार्थक्रियासाधनमनधिगच्छन्न तत्र प्रवर्तयति, कुत एव तत्प्रापयेत्तत्कथमविसंवादकतया प्रेक्षापूर्वकारी प्रमाणमाचक्षीत? । [१८. सामान्यस्य विस्तरेणावस्तुत्वसाधनम् ।] यद्येवं सामान्यमप्यर्थक्रियासाधनमेव ततस्तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेदाह- "न च"नैव "सामान्यं काञ्चित्" तत्साध्यतयोपगतामभिन्नज्ञानाभिधानलक्षणामन्यां वा व्यक्तिसाध्याम् "अर्थक्रियामुपकल्पयति" । कीदृशम्?, "स्वलक्षणप्रतिपत्तेः" व्यक्तिप्रतिपत्तेरालोचनाज्ञानसंज्ञिताया "उर्द्धम्" उत्तरकालं "तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यम्" इति । तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते । ’ततः परं पुनर्वस्तुऽ इत्यादि परैरभिधानादेवं ब्रवीति दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम् । सर्वमेव तु सामान्यं न काञ्चिदर्थक्रियामुपकल्पयति । (ह्ब्ट्२९) यत्तु सामान्यमनुमानविकल्पग्राह्यं तत्कारणव्यापकसम्बद्धलिङ्गनिश्चयद्वारायातं सम्बद्धसम्बन्धादनधिगतार्थक्रियासाधनविषयामर्थक्रियामुपकल्पयतीति तद्विषयो विकल्पः प्रमाणम् । इदं तु नैवम्, अधिगतत्वादर्थक्रियासाधनस्यालोचनाज्ञानेनेति । अत्रोदाहरणम् "यथा- नीलं दृष्ट्वा नीलमिति ज्ञाने" प्रतिभासमानमिति शेषः । न सामान्यं काञ्चिदर्थक्रियामुपकल्पयतीति प्रकृतेन सम्बन्धः । ननु च लिङ्गविकल्पप्रतिभासि सामान्यं प्रकृतं तत्किमन्यदुदाह्रियते? । सर्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम् । कांपुनर्नीलमिति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यमर्थक्रियां नोपकल्पयति? । यदि व्यक्तिसाध्याम्; तदान्योऽपि पदार्थोऽन्यदीयामर्थक्रियां नोपकल्पयतीति तस्याप्यनर्थक्रियासाधनत्वादवस्तुत्वप्रसङ्गः । अथ स्वसाध्याम्; तदसिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणादित्याशङ्कयाह- "तदेव हि" यत्तदालोचनाज्ञाने नोपलब्धं "नीलस्वलक्षणम्" नीलव्यक्तिः "तथाविधसाध्यार्थक्रियाकारि" । तथाविधशब्देन सामान्यमत्राभिप्रेतम्, तादृशपर्यायत्वादस्य, साधारणरूपस्य च तादृशत्वात् । तेन तथाविधसाध्यां नीलसामान्यसाध्यामभिन्नज्ञानाभिधानलक्षणामर्थक्रियां कर्तुं शीलमस्य स्वलक्षणस्येति तत्तथोक्तम् । एवं मन्यते- यथा भिन्ना अपि व्यक्तयः कयाचित्प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकमभिन्नं सामान्यमुपकुर्वन्ति, तदपरसामान्ययोगमन्तरेणापि, अन्यथानवस्थाप्रसङ्गात्, तथाभिन्नज्ञानाभिधानात्मिकामप्यर्थक्रियां साधयिष्यन्ति । किमप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन? । तथा हि- अनुमानादिके ज्ञाने यथाविधमस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमानासुपलक्षयामः । एकमेव हि व्यक्तिदर्शनकाले स्पष्टं नीलादिरूपं विभावयामः । (ह्ब्ट्३०) तत्कथमदृष्टकल्पनयात्मानं स्वयमेव विप्रलभेमहि? । व्यक्तिरूपसंसर्गादयोगोलकवन्हिवदविभावनमिति चेत्; न, सर्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात् । अस्योत्तरस्यान्यत्रापि सुलभत्वात् । न च सामान्यस्य द्वे रूपे स्तः स्पष्टमस्पष्टं च, येनैकेन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात्, सामान्यस्यापरसामान्यप्रसक्तेर्निःसामान्यस्य चास्योपगमात् । [१९. कुमारिलोक्तद्वयात्मकबुद्धेर्निरसनम् ।] एतेनैतदपि निरस्तं यदाह- "सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका । जायते द्वयात्मकत्वेन विना सा च न युज्यते ॥" "न चात्रान्यतरा भ्रान्तिरुपचारेण चेष्यते । दृढत्वात्सर्वदा बुद्धेर्भ्रान्तिस्तद्भान्तिवादिनाम् ॥" इति । यतो यदीन्द्रियबुद्धिमभिप्रेत्योच्यते; तदासिद्धम्, अस्पष्टस्य नीलाद्याकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात्, स्पष्टस्यापि च द्वितीयस्यानुयायिनः । तद्भावे च व्यक्तिद्वयान्तरालमप्याप्नुवतः कथं तदनुगमः? । व्याप्तौ(व्यक्तौ) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः? । नहि तस्य व्यक्ताव्यक्तरूपसम्भवः, एकत्वात् । तथा चाह- "व्यक्तावेकत्र सा व्यक्ताभेदात्सर्वत्रगा यदि । जातिर्दृश्येत सर्वत्र [सापि न व्यक्तपेक्षिणि] ॥" इति । एकत्रापि च व्यक्तावुपलभ्यमानायां सकलत्रैलोक्यव्यापि रूपं सकलस्वाश्रयव्यापि वा दृश्येत? । न ह्येकस्याः किञ्चिद्दृष्टमदृष्टं वा नाम क्षणिकतादिवद् । दृष्टायामप्येकत्रैवाश्रये दर्शनावसायो न सर्वत्रेति चेत्; न, विकल्पेन तद्दर्शनाभ्युपगमात् । न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम् । ततः सर्वगतरूपदर्शने सर्वार्थानां दर्शनप्रसङ्गः । न हि तद्दर्शने (ह्ब्ट्३१) तत्सहचारिण उपलभ्यस्य तदभिन्नस्वभावस्य चानुपलम्भो युक्तः । ततः कथमिन्द्रियबुद्धेर्द्व्यात्मकता? । अथानुमानादिबुद्धिम्; तस्यामपि स्वलक्षणाप्रतिभासनात्कुतो द्वयात्मकत्वम्? । न हि तासु सामान्यग्राहिणीष्वस्पष्टो व्यक्त्याकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः । तदभावेऽपि तासां भवात् । आकारान्तरेण च स्वज्ञाने[ऽ]प्रतिभासनातनेकाकारायोगादेकस्य, अप्रतिप्रसङ्गाच्च । तस्मान्नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति स्वलक्षणोद्भवा सती । किन्त्वनादिवितथ विकल्पाभ्यासवासनाजनिता सती तथावभासते । दृढत्वं च बुद्धेर्नाविनाशित्वम्, क्षणिकत्वाभ्युपगमात्किन्त्वबाध्यमानत्वम् । न चास्यास्तत्सम्भवति, लेशतो बाधकस्योक्तत्वात् । विस्तरतस्तु स्याव्दादभङ्गाद्यथावसरमिहैव तत्र तत्र विधास्यमानाद्बाधकमवधार्यम् । तस्माद्यथा व्यक्तयः सामान्यान्तरमन्तरेण तदेकमुपकुर्वन्ति तथाभिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तदेव नीलस्वलक्षणं सामान्यसाध्यत्वोपगतार्थक्रियाकारि । [२०. कुमारिलदत्तस्य दोषस्य सौगतबुद्ध्यबाधकत्वदर्शनम् ।] यस्तु- "सामान्यं नान्यदिष्टं चेत्तस्य वृत्तेर्नियाकम् । गोत्वेनापि विना कस्माद्गोबुद्धिर्न नियम्यते ॥ यथा तुल्येऽपि भिन्नत्वे केषुचिद्वृत्त्यवृत्तिता । गोत्वादेरनिमित्तापि तथ बुद्धिर्भविष्यति ॥" इति पूर्वपक्षयित्वा- "विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद्ध्रुवम् ॥ ता हि तेन विनोत्पन्ना मिथ्या स्युर्विषयादृते । न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥" (ह्ब्ट्३२) इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौ तथागतसमयनयावदातबुद्धीन् बाधते । सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्योपगतत्वात् । तथा हि- "कस्मात्सास्नादिमत्स्वेव गोत्वं? यस्मात्तदात्मकम् । तादात्म्यमस्य कस्मात्चेत्, स्वभावादिति गम्यताम् ॥" इति वचनात्’व्यक्तिस्वभावं च सामान्यम् । न चासाधारणं व्यक्त्युदयविनाशयोर्ध्या(योश्च) नोदयव्यययोगिऽ इत्युयुक्तम्, विरुद्धधर्माध्यासतो भेदप्रसङ्गादिति । आह च- "तादात्म्यं चेत्मतं जातेर्व्यक्तिजन्मन्यजातता । नाशेऽनाशश्च केनेष्टः? तद्वच्चानन्वयो न किम्? ॥ व्यक्तिजन्मन्यजात चेदागता नाश्रयान्तरात् । प्रागासीन्न च तद्देशे सा तया सङ्गता कथम्? ॥ व्यक्तिनाशे न चेन्नष्टा गता व्यक्त्यन्तरं न च । तच्छून्ये न स्थिता देशे सा जातिः क्वेति कथ्यताम् ॥ व्यक्तेर्जन्मादियोगेऽपि यदि जातेः स नेष्यते । तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम् ॥" इति । [२१. नीलविकल्पस्याप्रामाण्यसमर्थनम् ।] यदि नीलस्वलक्षणमेव सामान्यसाध्यार्थक्रियाकारि तदेव तर्ह्यधिगच्छन् विकल्पः प्रमाणं भविष्यतीत्याह- "तच्च" नीलखलक्षणम् । "तेनात्मना" नीलसाध्यार्थक्रियाकारिणा स्वभावेन "दृष्टमेव" आलोचनाप्रत्ययेन । ततो निष्पादितक्रिये कर्मण्यविषेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात्? । अथ मतम्- सामान्यमेव तर्ह्यधिगच्छन्नीलविकल्पः प्रमाणमस्तु । तच्च सामान्यमर्थक्रियाकारि । यतो नीलसाध्यामेवार्थक्रियां नीलेन सह सम्भूय करिष्यति । व्यक्तिस्वभावान्येव हि सामान्यानीत्याह- "न च" नैव "तत्स्वलक्षणग्रहणोत्तरकालभाविनो" नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य । लिङ्गग्रहणोत्तरकालभाविनस्तु पूर्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पितस्य (ह्ब्ट्३३) व्यवस्थापयितुं शक्यत इति भावः । "नीलविकल्पस्य विषयेण" नीलसामान्येन "नीलसाध्यार्थक्रिया" रञ्जनादिका "क्रियते" । तस्य व्यक्तिस्वाभाव्यायोगे सति कल्पितरूपस्य तदसम्भवात् । न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्यान्या वार्थक्रिया क्रियते । क्रमयौगपद्यविरोधादिति मन्यते । [२२. मीमांसकसंमतप्रमाणलक्षणे दोषदर्शनम् ।] तदेवं ’नीलं दृष्ट्वा नीलम्ऽ इति ज्ञाने प्रतिभसमानं सामान्यं न काञ्चिदर्थक्रियामुपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गादतिव्याप्तिरिति "तत्रापूर्वार्थविज्ञानम्" इति प्रमाणलक्षणे मीमांसकैर्विशेषणमुपादेयमिति दर्शयन्नाह- "तस्माद्" यत एवमनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यमयुक्तं तस्मादस्मदभिमतं "प्रमाणमविसंवादि ज्ञानम्" इति प्रमाणलक्षणं व्युदस्य "अनधिगतार्थविषयं प्रमाणम्", "तत्रापूर्वार्थविज्ञानं प्रमाणम्" "इति अपि" एतस्मिन्नप्याहोपुरुषिकयान्यस्मिं(स्मिन्) "प्रमाणलक्षणे" क्रियमाणे "अतिव्याप्तिपरिहाराय विशेषणीयं" विशेषणमुपादेयम् । कथं विशेषणीयम् "अनधिगते स्वलक्षणे इति" । अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आलोचनाज्ञानपृष्ठभाविनश्च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्वं सुस्थम् । तदेवं विधिविकल्पस्यानर्थक्रियासाधनविषयतयानधिगतसामान्यधिगमेऽपि प्रामाण्यं निराकृत्य चशब्दसमुच्चितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणमप्रामाण्यकारणं दर्शयन्नाह- "अधिगते तु स्वलक्षणे" आलोचनाज्ञानेन "तत्सामर्थ्यजन्मा" स्वलक्षणाधिगमबलभावी "विकल्पस्तदनुकारी" साक्षादनुत्पत्तेर्द्दर्शनसंस्काराधेयवशच्चास्प(च्च स्प)ष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश्चैकीकरणादेवमुच्यते । वस्तुतस्तु (ह्ब्ट्३४) न किञ्चिदसावनुकरोति । "स स्मृतिरेव" । कुतः? "कार्यतस्तद्विषयत्वात्" न परमार्थतः । कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश्च । यतश्च कार्यतः तद्विषयत्वात्स्मृतिरेवातो "न प्रमाणम्" दर्शनबलोत्पन्नो विकल्पः । तथा हि- स्मृतेरप्यनुभूतस्वलक्षणांशविषयाया न परमार्थतस्तद्विषयत्वम् । स्वलक्षणस्येन्द्रियबुद्धाविव स्फुटरूपतया स्मृतावप्रतिभासनात् । किन्तु यथोक्तात्कार्यत एव । तच्च विधिविकल्पेऽपि समानमिति कथमसौ स्मृतिर्न स्यादिति । [२३. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् ।] तत्रैतत्स्यात्- नन्वनुमानविकल्पः स्मृतिरूपोऽपि प्रमाणमिष्यते । तथा हि- यदेवानग्निव्यावृत्तं वस्तुमात्रं महानसादावनुभूतमासीत्तदेव प्रदेशविशेषे धूमदर्शनात्स्मर्यते । तद्वद्विधिविकल्पोऽपि प्रमाणं भविष्यतीत्यत आह- "अनधिगत"स्य "वस्तु"नो "रूप"स्य "अनधिगतेरिति" । एवम्मन्यते- यत्महानसादावनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत्तद्देशादिसम्बन्धितयैवानुमानविकल्पेन स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया । ततः साध्यधर्मिदृष्टान्तधर्मिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद्युक्तमस्य प्रामाण्यम् । न तु दर्शनपृष्ठभाविनो विकल्पस्य, तद्विपरीतत्वादिति । [२४. प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम् ।] यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु कस्मान्न भवतीति चेदाह- "वस्त्वधिष्ठानत्वात्" इत्यादि । वस्त्वधिष्ठानत्वं च "प्रमाणव्यवस्थायाः" प्रमाणव्यापारविषयमभिप्रेत्योच्यते नालम्बनलक्षणम्, अन्यथानुमानस्य परिकल्पितसामान्यालम्बनतया वस्त्वधिष्ठानत्वाभावादव्यापिनी प्रमाणव्यवस्था स्याद् । यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं विप्रकृष्टविषयाया (ह्ब्ट्३५) अनुपलब्धेः प्रामाण्यमिति चेत्; तत्रापि प्रधानादिविकल्पस्यैव भावानुपादानतया साध्यत्वात्तस्या अपि वस्त्वधिष्ठानतास्त्येवेत्यदोषः । अथ वस्त्वधिष्ठानैव प्रमाणव्यवस्थेति कुत एतद्? इत्याह- "अर्थक्रियायां" सुखदुःखलक्षणायां यद्"योग्यं" शक्तं "तद्विषयत्वात्तदर्थिनाम्" अर्थक्रियार्थिनां "प्रवृत्तेः" प्राप्तित्यागलक्षणायाः । यदि नामर्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस्तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यातिति चेत्; आह- "अर्थक्रिया"यां यद्"योग्यं" त"ल्लक्षण"मेव "हि वस्तु" । ततोऽर्थक्रियायोग्याधिष्ठानत्वेन वस्त्वधिष्ठानत्वं कथं न स्यातिति भावः । इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनमनधिगते स्वलक्षण इत्युक्ते कदाचित्परो ब्रूयात्- वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव । ततो यद्यप्यनधिगतं स्वलक्षणं नाधिगच्छति तथाप्यनधिगतवस्तुरूपमधिगच्छतो विकल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोद्भावनार्थमुक्तम्- "अनधिगतवस्तुरूपे"त्यादि । तदसिद्धतोद्भावने चानधिगतवस्तुरूपाधिगन्तुरेव प्रामान्यं नेतरस्येति कुतः? इति पर्यनुयोगे "अर्थक्रियायोग्ये"त्यादि उक्तम् । तथा च वस्तुविषयमपि प्रामाण्यं ब्रुवता स्वलक्षणविषयमेवोक्तं भवति, तस्यैवार्थक्रियासामर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वातिति मन्यते । पुनरप्यनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यमपनेतुमुपचयहेतुमाह- "ततोऽपि" यथोक्ताद्विकल्पाद्न केवलं नीलस्वलक्षणानुभवाद्"वस्तुन्येव" स्वलक्षण एव "तदध्यवसायेन" स्वलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात्"पुरुषस्य प्रवृत्ते" अधिगते स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणमिति सम्बन्धः । पूर्वमनधिगतवस्तुरूपानधिगतेरप्रामाण्यमुक्तम् । अधुना त्वधिगतस्यैवाधिगमादिति विधिप्रतिषेधरूपतयोपपत्त्योर्भेदः । (ह्ब्ट्३६) यद्वा "कार्यतस्तद्विषयत्वात्" इति यदुक्तं तदेवोपचयहेतुव्याजेन स्फुटीकृतनम् । [२५. विकल्पस्य दर्शनात्पृथक्प्रमाण्याभावः ।] यदि नाम तदध्यवसायेन वस्तुन्येव पुरुषस्य प्रवृत्तिस्तथाप्यनधिगतसामान्यग्राहिणोऽस्य दर्शनात्पृथक्प्रामाण्यं किमिति नेष्यते? इति चेत्; आह- "प्रवृत्तौ" स्वलक्षण एव सत्यां "प्रत्यक्षेण" आलोचनाज्ञानाख्येन "अभिन्नयोगक्षेमत्वात्" । योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् । अभिन्नौ योगक्षेमावस्येति स तथोक्तः । तत्र विकल्पस्य निर्विकल्पप्रत्यक्षेणाभिन्नो योगः स्वलक्षणाध्यवसायतः । अभिन्नः क्षेम आलोचनाविज्ञानादिव विकल्पादपि स्वलक्षण एव प्रवृत्तेः । अयमस्याभिप्रायः- यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस्तदा तत्रैव पुरुषं प्रवर्तयतु तत्साध्यामर्थक्रियामधिगन्तुम् । नैव वा प्रवर्तयेत्, तद्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रियाया उपगमाद्विकल्पोदयादेव च तत्सिद्धेः । नहि नीलानुभवात्प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा क्वचिदपीति । तस्मादालोचनाज्ञानानैवायं प्रमेयान्तरविषयः । विशेषेण यैरेव व्याख्यायते- "निर्विकल्पकबोधेन द्वयात्मकस्यापि वस्तुनः । ग्रहणम्" इति । ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य स्मृतेरिव विकल्पस्यापि दर्शनात्पृथगेव । अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्वतः स्मृतिच्छाद्वेषप्रयत्नादि प्रमाणमनुषज्यत इति प्रमाणानामियत्ता विशीर्येतेति । (ह्ब्ट्३७) [२६. धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये ।] यदैकस्मिन्नेव नीलादिवस्तुनि धारावाहीनीन्द्रियज्ञानान्युत्पद्यन्ते तदा पूर्वेणाभिन्नयोगक्षेमत्वादुत्तरेषामिन्द्रियज्ञानानामप्रामाण्यप्रसङ्गः । न चैवम्, अतोऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्नाह- "पूर्वप्रत्यक्षक्षणेन" इत्यादि । एतत्परिहरति- "न", उत्तरेषां प्रामाण्यप्रसङ्गः । कुतः? । "नानायोगक्षेमत्वात्" । तथा हि- प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश्च क्षेमः परिपालनरूपो भिद्यते । ततो विपक्षे वृत्त्यभावात्न हेतुरनैकान्तिकः । कदा नानायोगक्षेमत्वम्? । "क्षणविशेषसाध्यार्थवाञ्छायाम्" । यदा क्षणविशेषसाध्येऽर्थे हिताहितलक्षणे वाञ्छा प्राप्तिपरिहारेच्छा योगिनां परोपकारमुद्दिश्य भवति कस्यचित्कथञ्चित्क्वचिदुपयोगात्तदा । यथा दर्शनमार्गे दुःखे धर्मज्ञानक्षान्तिर्द्दमानामनुशयानां वासनां निरोधयति, तद्विरुद्धाशयोत्पादनात् । दुःखे धर्मज्ञानं क्लेशविविक्ततालक्षणां निर्वाणप्राप्तिमुत्पादयति, अनुशयविरुद्धाशयदार्ढ्योत्पादनात् । ततेषां ग्राहकाणि परचित्तज्ञानानि पृथगेव प्रमाणानि । परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिदेवार्थक्षणः कस्यचिदेव परार्थस्यानुग्राहको बिअबन्धको वेति सर्वभावान् प्रतिक्षणं वीक्षमाणानामध्यक्षचेतसां तद्विषयक्षणानां भिन्नार्थक्रियासूपयोगतो नानायोगक्षेमत्वात् । तद्यदि प्रतिक्षणं क्षणविवेकदर्शिनोऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक्प्रामाण्यात्नानेकान्तः । अथ सर्वपदार्थेष्वेकत्वाध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलमेव (ह्ब्ट्३८) नीलसन्तानमेकमर्थं स्थिररूपं तत्साध्यां चार्थक्रियामेकात्मिकामध्यवस्यन्तीति प्रामाण्यमप्युत्तरेषामनिष्टमेवेति कुतोऽनेकान्तः? इति दर्शयन्नाह- "साधारणे हि" इति । तत्सन्तानवर्तिनां सर्वक्षणानामेकत्वेनाध्यवसितानां व्यवहर्तृभिर्यत्साधारणं प्रतिक्षणमन्यान्यकारणतया विभिन्नमपि परमार्थतो विपर्यासादेकतायाभिनिविष्टं रञ्जनादिकं नीलादिककार्त्यं तत्र "न तेषाम्" उक्तरेषां ज्ञानक्षणानां "सामर्थ्य" स्यार्थप्रापणशक्ते"र्भेदः" । पूर्वप्रत्यक्षक्षणविषय एव तेभ्योऽपि प्रवृत्तेराद्यस्यैव तत्र प्रामाण्यम् । तथा हि- अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं कुर्वतामविक्लवधियामर्थक्रियासाधनभेदादेव प्रामाण्यभेदव्यवहारो ज्ञानेषु युक्तः अन्यथा स्मृत्यादेरपि प्रामाण्यप्रसङ्गः कथमपाक्रियेत?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति? । केषामिव साधारणे कार्ये न सामर्थ्यभेदः? इत्याह- "अपरापरे" च ते "धूमा"श्च तैः "प्रमिता"श्च ते "सन्निकृष्टाग्रय"श्च तेष्विव तद्विषयाणमिव "अनुमानज्ञानामग्निमात्रसाध्येऽर्थे" सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापणव्यक्तिभेदाभावात्यथा प्रामाण्यभेदो न युक्तो विदुषां तथात्रापि । यदा तु पञ्चतपस्तप्तुकामो भवति तदापरापरधूमप्रमितसन्निकृष्टाग्निविषयाणामप्यनुमानानां सामर्थ्यभेदात्प्रामाण्यमनिवारितमेव । [२७. विकल्पप्रामाण्यनिरासस्य फलितार्थः ।] तदेवं ’यथा नीलं दृष्ट्वा नीलमिति ज्ञान्(म्)ऽ इत्युदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योजयन्नाह- "एतेन" नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यनिराकरणेन । "तन्नेष्टत्वाद्विकल्पस्यार्थरूपोपकारिणः ।" इति ब्रूवता कुमारिलेन प्रदेशादिदर्शनोत्तरकालभाविनो (ह्ब्ट्३९) धर्मिविकल्पस्य, तता सम्बन्धप्रतिपत्तिकालेऽग्निस्वलक्षणदर्शनसामर्थ्यभाविनोऽग्निसामान्यविषयस्य साध्यधर्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठभाविनो धूमसामान्यवभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद्, धर्मधर्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो " धर्म्यादिस्वरूपमात्रविषयालोचनाख्यप्रत्यक्षपूर्वकस्य" "न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस्तथा गृहीतिः" इत्याक्षेपभयाद्यदभ्युपगतं "प्रामाण्यं" तत्"प्रत्युक्तं" प्रत्याख्यातम् । पूर्वकमेव स्वलक्षणविषयं दर्शनं यत्परेणालोचनाज्ञानमिति व्यवहृत तत्प्रमाणं न तु तद्वलभावी विकल्पो यथोक्तेन न्यायेनेति स्थितमेतत्- "पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः" निश्चय इति । तदेवं प्रत्यक्षतः पक्षधर्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात् "प्रत्यक्षं कल्पनापोढम्" इति प्रतिपादितम् । [२८. अनुमानप्राधान्यज्ञापनम्] यद्येवं कस्मद्"अनुमानव्युत्पादनार्थमिदमारभ्यते" इत्युक्तं न सामान्येन ’सम्यग्ज्ञानव्युत्पादनार्थम्ऽ इति? । सङ्खयादिविप्रतिपत्तिरप्यत्र तद्विषया निरस्तैव । परोक्षार्थप्रतिपत्तेरनुमान[मेवाश्र]यः । कस्माद्? यतः पक्षधर्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्यभिधानात्परोक्षार्थविषयं सर्वं प्रमाणमनुमानेऽन्तर्भावितमिति सङ्क्षेपतः सङ्खयाविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता । तथा, व्यापकांशस्य गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयमनुमानं न स्वलक्षणविषयमित्याख्यातं तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच्च । "तत्र तदाद्यमसाधारणविषयम्" इत्याचक्षाणेन स्वलक्षणविषयमेव प्रत्यक्षमुक्तम् । (ह्ब्ट्४०) "दर्शनमेव प्रमाणम्" इत्याख्यानात्प्रमाणमेव फलमिति सूचितम्, तस्यार्थप्रतीतिरूपत्वात् । तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात्परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात् । सङ्क्षेपतश्चानुमानव्युत्पादनमप्यभिमतम् । तच्च सर्वत्रास्येवेति कस्मात्"अनुमानव्युत्पादनार्थम्" इत्युक्तम्? । सत्यम्, प्राधान्यात्तु तद्ग्रहणम् । तता हि- प्रधानपुरुषार्थोपयोगिनस्तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत एव निश्चयात्तस्य प्राधान्यम् । तथा प्रत्यक्षेऽपि विषये विवादसम्भवे, नानुमानादन्यन्निर्णयनिबन्धनमित्यतोऽप्यस्य प्राधान्यम् । प्रवर्तकत्वाच्च प्राधान्यमस्य । तथा हि- यदनुभूतफलं सुखदुःखसाधनम्, अनुभूयमानफलं वा दृश्यमानं तत्प्रवृत्तिविषयो निस्पन्नत्वात्फलस्य । तस्माद्यदनागतफलं सुखदुःखसाधनं प्रत्यक्षमपि तत्राप्यनुमानमेव प्रवर्तकम् । न हि तस्यानागते सुखदुःखे प्रति योग्यतां प्रत्यक्षं निर्द्धारयति, फलस्य परोक्षत्वात् । तदुक्तम्- " न ह्यप्रत्यक्षे कार्ये कारणभावगतिः" इति । तस्मात्पूर्वानुभूतसुखदुःखसाधनसाधर्म्यात्प्रत्यक्षविषयस्यापि वस्तुनोऽनागतफलयोग्यतानिश्चयः न प्रत्यक्षतः । तथा चाह- "तद्यथादृष्टसाधर्म्यात्तथाप्रसाधितं नानुमेयतामतिपतति" इति । कथं तर्हि द्वयोरपि प्रवर्तकत्वम्? "न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते" इत्युक्तम् । सुखदुःखसाधनस्य जलानलादेः स्वरूपस्य प्रत्यक्षतः प्रसिद्धेः, फलमनागतं प्रति योग्यताया अनुमानत इत्युभयोरपि प्रवर्तकत्वम् । सम्यग्ज्ञानपूर्वकत्वं च हिताहितप्राप्तिपरिहारयोरक्तं न त्वनागतफलं प्रति योग्यतायाः प्रत्यक्षतोऽनिश्चयात् । न ह्यर्वाग्दर्शिनां भाविफलयोग्यतायास्ततो निश्चयः, ततः प्राधान्यादनुमानग्रहणमित्यलमतिविस्तरेणेति । (ह्ब्ट्४१) [२९. स्वभावहेतावन्वयनिश्चयः स्वप्रमाणायत्तः ।] तत्र स्वभावकार्यानुपलम्भानां पक्षधर्मनिश्चयस्तुल्योपायसाध्यतयाभेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्द्देशः कार्य इति स्वभावहेतौ तावदन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्नाह- "अन्वयनिश्चयोऽपि" न केवलं पक्षधर्मनिश्चय उक्तः किन्त्वन्वयनिश्चयोऽपि "स्वभावहेतौ" उच्यत इति शेषः । "साधनधर्म" स्य यद्"भावमात्रं" सत्तामात्रं मुग्दरादिनिमित्तन्तरानपेक्षं तस्य "अनुबन्धो" अनुगमनं व्याप्तिः तस्य "सिद्धिः" या स स्वभावहेतावन्वयनिश्चयः । कस्य साधनधर्मभावमात्रानुबन्धसिद्धिः? । "साध्यधर्मस्य" साध्यश्चासौ असिद्धत्वात्धर्मधर्मिसमुदयैकदेशत्वात्धर्मश्चेति तथोक्तः । यत्र यत्र साधनधर्मस्य भावः तत्र तत्र साध्यधर्मस्यापि निमित्तान्तरानपेक्षो भव इत्येतस्यार्थस्य सिद्धिः स्वभावहेतावन्वयनिश्चयः । कथं पुनः साध्यधर्मः साधनधर्मभावमात्रमनुबध्नाति ।? "तद्भावतया" स साधनधर्मो भावः- स्वभावो यस्य तस्य भावतया तद्भावतया । यो हि साधनधर्मः साध्यधर्मस्य स्वभावः स कथं तं नानुबध्नीयात्, नीरूपत्वप्रसङ्गात्? । [३०. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था ।] ननु तत्स्वभावत्वे भेदाभावात्कथं साध्यसाधनभावः? इत्याह- "वस्तुतः" परमार्थतः । साध्यसाधनसंकल्पकाले तु परम्परया तत्तद्वयावृत्तपदार्थनिबन्धनायां कल्पनाबुद्धौ भेदेन प्रतिभासनात्साध्यसाधनभावो न विहन्यते । न ह्यसौ पारमार्थिकं साध्यसाधनधर्मयोर्द्धर्मिणश्च कृतकत्वादौ भेदमवलम्बते, सम्बन्धाभावेन साध्यसाधनभावायोगात् । एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततोऽर्थान्तरत्वे ’यमनयोरस्मिन्नर्थे समवायःऽ इति (ह्ब्ट्४२) सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् । समवायाद्वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्वप्यात्मादिषु वर्तेरन् । य एव हि कृतकत्वादेः शब्दे समवायो यब्दलात्तत्रैव तद्वर्तते स एव नित्याभिमतेष्वपि, तस्यैकत्वेनोपगतत्वातित्यात्मादौ वृत्तिः कृतकत्वादेः केन निवार्येत? । अथ ’य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्मास्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्तेऽ इति व्यवस्थाप्यते । सैव तर्ह्यभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोपव्यवच्छेदविषयायाः कल्पनाबुद्धेर्निबन्धनं किं नेष्यते? । तयैव परमार्थाभेदवतोर्द्धर्मयोः साध्यधर्मिणि वृत्तेः किमन्तरालगडुना कृतकत्वादिना व्यतिरेकवता उपगतेन? । तथा हि- न सत्तामात्रेण कृतकत्वादयो धर्माः साध्यधर्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव । स च विकल्पः स्वप्रतिभासिनमेवकारं बहीरूपतयाध्यवसितमनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतोऽसंस्पर्शेऽपि तद्रूपस्य, परम्परया तदुपादानत्वात् । व्यतिरिक्तास्तु धर्मास्तुदुत्पत्तिनिमित्तमात्रतया परिकल्प्यन्ते, तद्वरं यदेव तत्कल्पनान्निबन्धनं तदेव तथाविधविकल्पप्रसवनिमित्तमस्तु, तस्यावश्यमभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्यलं तत्कल्पनया । अवश्यं च व्यतिरिक्तानित्यताद्वारेणापि वस्तुन एवानवस्थायिनमात्मानं प्रतिपद्यते, तदनुरूपार्थकृ(क्रि)यार्थितया प्रवृत्तेः, अन्यथा व्यतिरिक्तानित्यतया नित्यत्वात्तदवगमार्थित्वेनायमनित्यसाध्यार्थक्रियार्थी नित्यं शब्दादिकमाशङ्कमानः किमनित्यताविचारं प्रति आहीतास्थः? । (ह्ब्ट्४३) व्यतिरिक्तायां चानित्यतायामवगतायां तत्रैव प्रवर्तताम्, किमिति नित्ये शब्दात्मनि? । तद्वा(द्द्वा)रेण प्रतिपत्तेः इति चेत्; तत्किमनेन व्यवधिना? । वरमव्यवहितस्यैव प्रतिपत्तिरस्तु, तेनैवार्थित्वादिति । तदेतदतिप्रचर्च्च्यमानमतिगहनं सम्पद्यत इत्यास्तां तावत् । येऽपि जैमिनीया मन्यन्ते- ’येषामत्यन्तव्यतिरेकवन्तो धर्माः तेषामेवायं नैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद्भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोषःऽ इति; तेषामपि वस्तुतः साधनधर्मरूपतोपगमे साध्यधर्मस्य, कथञ्चिद्भेदाभ्युपगमे न किञ्चित्फलमुत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्युपपत्तेः । न चैकात्म्ये कथञ्चिदपि भेदो युक्तः, एकस्मात्स्वभावादभेदात् । ततोऽपि तयोः कथञ्चिद्भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात् । तथा हि- धर्मयोस्तदेकस्वभावादपि भेदवतोस्तेन स्वभावेन कथञ्चिदभेदनिमित्तमभिन्नोऽपरः स्वभावोऽभ्युपगन्तव्यः, तथा तेनाप्यपरः इत्यनन्तैव भिन्नाभिन्नस्वभावपरम्परा स्यात् । न च कल्पनाबुद्धावनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किमिति तत्कल्पनयात्मानं विप्रलभन्ते भवन्तः? । कथञ्चित्च भेदोपगमात्कथं भेदपक्षभाविनां दोषाणामनवसरः? । यं चात्मानं पुरोधाय ’िमौ धर्मौ, अयं धर्मीऽ इति व्यवस्थाप्यते यदि तेन भेदस्तदा भेद एवेति कुतोऽनेकान्तवादः? । अथाभेदः; तदा ’यं साधनधर्मः, अयं साध्यधर्मः, धर्मी चायम्ऽ इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत्? । तस्मात्तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवतामिव धर्मधर्मिणां प्रतिभासनात्साध्यसाधनभावः । तन्मात्रानुबन्धस्तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन "वस्तुतस्तद्भावतया" इत्युक्तम् । (ह्ब्ट्४४) [३१. बाधकप्रमाणादेव स्वभावहेतौ साध्यसाधनतादात्म्यम् ।] का पुनरसौ वस्तुतस्तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति? इत्याह- "सा" वस्तुतस्तद्भावता "साध्य"स्य "विपर्ययो" विपक्षः तत्र, "हेतोः" यद्"बाधकं प्रमाणं" तद्विपरीतधर्मप्रत्यवस्थापकम्, येन बाध्यमानो हेतुस्तत्र न प्रवर्तते, विरुद्धयोरेकत्र सहभावासम्भवात्, तस्य या "वृत्ति" प्रवृत्तिः "बाधकप्रमाणवृत्तिः" तत्साध्यत्वाच्च वस्तुतस्तद्भावतायाः सा बाधकप्रमाणवृत्तिरुक्ता । तस्यां हि सत्यां विपक्षात्निवृत्तो हेतुः साध्यधर्मवत्येव धर्मिणि वर्तते इति साध्यधर्मस्यानर्थान्तरस्य साधनधर्मस्वभावता सिध्यति । "तया च" वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति "अन्वयनिश्चयः" ’यत्र यत्र साधनधर्मस्तत्र तत्र साध्यधर्मःऽ इत्येवंरूपो जायते । अत्रोदाहरणं "यथा- यत्सत्तत्क्षणिकमेव ।" अवधारणेन व्याप्तिमाह । साधनधर्मभावमात्रानुबन्धस्य चैतद्रूपमाख्यातं, निमित्तान्तरमन्तरेण सतित्येव कृत्वा क्षणिकमित्युपदर्शनात् । स च वस्तुतस्तद्भावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति- "अक्षणिकत्वे" क्षणिकविपर्यये सति "अर्थ क्रियाविरोधात्" अर्थस्य- कार्यस्य क्रिया- निष्पत्तिस्तस्या विरोधात्"तल्लक्षणं" सार्थक्रिया लक्षणं यस्य "वस्तुत्वस्य" अर्थक्रियासामर्थ्यात्मन, तत्तथोक्तम् । अर्थक्रियया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते । "तद्" एवंविधं वस्तुत्वं "हीयते" निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्याकर्षणात् । एतच्च बाधकं प्रमाणं व्यापकानुपलब्धिरूपमुत्तरत्रावसरप्राप्तं स्वयमेव वक्ष्यति । तदनया बाधकप्रमाणवृत्त्या साध्यधर्मस्य वस्तुतः साधनधर्मस्वभावता सिध्यति । तया च वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्ध इति । (ह्ब्ट्४५) [३२. कार्यहेतावन्वयनिश्चयनिरूपणम् ।] एवं स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितोऽन्वयनिश्चयं प्रतिपाद्य कोर्यहेतौ प्रतिपादपन्नाह- "कार्यहेतौ" अन्वयनिश्चयः इति प्रकृतम् । कः पुनरसौ कार्यकारणयोर्भावः? । "कार्यत्वं" "कारणत्वं" च । तस्य या "सिद्धिः" प्रतीतिः सा कार्यहेतावन्वयनिश्चयः । यथा च कार्यकांरणभावसिद्धिर्भवति तथोपदर्शयन्नाह- "यथा" इत्यादि । यथाशब्द उपदर्शनार्थः । "इदं" धूमादिकम् "अस्य" अग्नेः "उपलम्भे" सति "उपलभ्यत" इति सम्बन्धः । अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारमाह । न च केवलं प्रत्यक्षं कार्यकारणभावमसन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायमिति दर्शयितुमाह- "उपलब्धिलक्षणप्राप्तमानुपलब्धम्" इति । यदि तद्धूमादिकमुपलब्धिलक्षणप्राप्तं सत्स्वन्यै(न्ये)षूपलम्भप्रत्ययेषु दृश्यात्मकं सत्नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात्प्राक्तादात्म्यादिसामग्र्यामुपलभ्यमानायामुपलभ्यमानं तत्कार्यं सिध्यति । न तूपलम्भप्रत्ययान्तरवैकल्यादनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितमप्यनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्रीसन्निधानात्प्रागनुपलब्धमिति । उपलब्धिलक्षणप्राप्तस्य चानुपलम्भे नाग्न्यादिसामग्रीसन्निधानात्प्रागन्यत आगमनं, तद्देशकालसंन्निहितात्कतकुट्या देरुत्पत्तिः, तद्देशे चासन्निधानमिति, त्रितयमपाक्रियते । एतावद्भिश्च प्रकारैरतत्कार्यता भवन्ती भवेत् । ततोऽनुपलम्भेनातत्कार्यताशङ्कानिरासाद्तद्भावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावोऽसन्दिग्धः सिध्यति । न चाग्नीन्धनादिभावे नियतसन्निधेरदृश्यात्मनः कुतश्चित्धूमस्य भावः स्यातित्याशङ्कनीयम् । अग्नीन्धनादिभेदानुविधानाद्धूमस्य । चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनादल्पमहदिन्धनविकारकारिणश्चाग्नेस्तदनुरूपस्य । न चाग्नीन्धनादिसन्निधावदृश्यात्मनो नियतसन्निधानता युक्ता, (ह्ब्ट्४६) प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्कानन्तरं धूमजन्म स्यात्, तद्भावाभावानुविधानादेव चास्यापि तत्कार्यत्वम् । तच्च धूमेऽपि समानम् । नापीन्धनादिकारणत्वमदृश्यात्मनः, इन्धनादेः स्वहेतोरेव वृक्षादेर्भावदर्शनात् । तत्रापि तथाभावकल्पनायां तदेवोत्तरं वाच्यम् । पुनश्चोद्ये स एव परिहारोऽनवस्था च । एतेनैकसामग्र्यधीनतापि प्रत्युक्ता । तदन्वयव्यतिरेकानुविधानादेव च धूमस्य तत्कारणं कल्पेत । तच्चाग्न्यादावपि तुल्यम् । तदपि तत्र कारणमस्तु इति चेत्; न, अग्नयादिभावेऽवश्यम्भाविनोऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात्कारणभावकल्पनायाः । यथा अग्नीन्धना देरेवान्यतराभावे अभवतः । भवतु वान्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात्तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात् । नहि सर्वसत्त्वकर्माधिपत्यजनितत्वेऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस्तत्कार्यदर्शनाद्वा प्रवृत्तानामतत्प्राप्तिरित्यलमतिप्रसङ्गेन । किंरूपः पुनरसौ कार्यकारणभावोऽनुपलम्भसहायप्रत्यक्षनिबन्धन इत्याह- "तद्भावे भावः तदभावेऽभावश्च" इति । य एव हि कारणाभिमतस्य भावे भाव एव । कार्यत्वेनाभिमतस्य भावः । "तदभावे" कारणत्वाभिमतस्याभावे "अभाव एव" कार्यत्वेनाभिमतस्याभावश्च । स एव कार्यकारणाभावो नान्यः । स हि ताभ्यामन्यो भवन् स्वभावतोऽप्रतिपन्नकार्यकारणरूपयोर्वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः । यद्याद्यः पक्षः तदा सर्वत्रैवाकार्यक(का)रणभूतेऽपि वस्तुनि भवेत्तन्नियमकारणाभावात् । ततः सर्वं सर्वस्य कार्यं स्यात् । (ह्ब्ट्४७) स्वभावेन चातद्रूपस्यान्ययोगेऽपि न तद्रूपता । नहि भावाः प्रतिनियतरूपत्यागेनान्ययोगेऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस्तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद्वक्ष्यमाणकात् । नाप्यपूर्वमुत्पादयति तस्य ततोऽर्थान्तरत्वप्रसङ्गात् । नहि तेषु निष्पन्नेष्वनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः । अयं हि भेदो भेदहेतुर्वा विरुद्धधर्माध्यासः कारण भेदश्च ततश्चेत्न भेदः, अन्यनिमित्ताभावातेकं द्रव्यं विश्वं स्यातित्यादि प्रसज्येत । प्रतिभासभेदोऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिक्रामति । ततश्च पूर्वके वस्तुनी तदवस्थे एवेति न तयोरन्ययोगेऽपि कार्यकारणरूपतापत्तिः । अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वादन्यस्तद्भावः कथं न वैयर्थ्यमनुभवेत्? । कार्यकारणवुद्धी अपि तद्भावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात् । तथाविधस्यापि ग्रहणकल्पनायामतिप्रसङ्गः । अनुपलब्धिलक्षणप्राप्ततायां कथं कार्यकारणभावबुद्धी तन्निबन्धने? । नहि तदर्थान्तरं स्वसत्तामात्रेण तब्दुद्धी प्रवर्तयति । सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् । न च विशेषणमगृहीतं विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनमित्ययुक्तास्यानुपलब्धिलक्षणप्राप्तता । न च दृष्टस्याप्यनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस्तन्निबन्धनतोपगमात् । न हि यन्निमितो योऽन्यत्रातब्दुद्धिभाजि तब्द्यवसायः स तदनुपलक्षणे युक्तः । देवदत्ते दण्डिव्यवसायवद्दण्डानुपलक्षणे । न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायामनवस्थाप्रसक्तेः । कार्यकारणभावाभ्युपगमे कार्यकारणाभ्यामसहभाविता सद्भावस्य । ततश्च कार्यकारणकाले तस्यासन्निधानात्कथं कार्यकारणबुद्धिहेतुता? । (ह्ब्ट्४८) निरुद्धयोरध्याहृत्य तत्प्रत्ययकल्पनायां च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात्न वस्तुविषयः । स च विशिष्टभावाभावनिबन्धनोऽभ्युपगत एवेति किमर्थान्तरकल्पनया? । कल्पितविषयत्वे तव्ध्यवसायस्य, तस्या वैयर्थ्यात्कार्यकारणयोश्चायौगपद्यात् । हनि ताभ्यामसौ जन्यते, प्रत्येकजन्यश्च कथं कार्यकारणभावः? । यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः? । केवलोऽपि किं स्वकार्यात्प्राग्, अथ पश्चात्? । यदि स्वकार्यसहितस्तुदुभयोरन्यत एव भावात्परस्परमसम्बन्ध इति कार्यसम्बन्धितास्य हीयेत । अथ केवलः स्वकार्यात्प्राक्; तदा क्षणिकतया कारणस्य तमेव जनयित्वा ध्वंसात्कथं स्वकार्यक्रीया? । तस्यां चासत्यां कथं तदपेक्षमस्य कारणत्वम्? । तस्मिंश्चासति कथमकारणेन कार्यकारणसम्बन्धो जन्यते? । अथ स्वकार्यं कृत्वा पश्चाज्जन्येत तदापि स्वकार्यकाले एव विनष्टत्वादसतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः? । तद्भावश्च सम्बन्ध उच्यते । ....................................................................................................................................................................................... जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतोऽन्यत्र कल्प्यते । तत्राप्यपरसामग्रीयोगापेक्षायां चानवस्थाप्रसङ्गः । ततः समग्रा एव जनकाः । तेषां च कारणत्वमेकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्याह- "सत्स्वप्यन्येषु" तत्सामग्र्यन्तर्गतेषु "हेतुषु" जनकेषु (ह्ब्ट्४९) प्रत्येकं तेषां व्यञ्जनकत्वाद्"अस्याभावे" जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे "न भवति" इत्यनेनानुपलम्भस्य विषय उक्तः । प्रत्यक्षवृत्तिस्तु पूर्वोक्तैवानुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते । तथा चायमपि तद्भावे भावः तदभावेऽभावश्च कार्यकारणभावः किंसाधनः? इत्याह- "प्रत्यक्षानुपलम्भसाधनः" प्रत्यक्षपूर्वकोऽनुपलम्भः तव्दिविक्रान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनमस्येति "प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः" । यस्त्वनुपलम्भसापेक्षेण प्रत्यक्षेण साध्यत इति प्रागुक्तः सोऽनुपलम्भपूर्वकं प्रत्यक्षं साधनमस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः । "तस्य" कार्यकारणभावस्यान्वयव्यतिरेकात्मनः "सिद्धिः" निश्चयो "यथोक्ताभ्यां" प्रत्यक्षानुपलम्भाभ्यां कार्यहेतावन्वयनिश्चय इति सम्बन्धते । ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तयानुगमनमित्येवमवसायः तत्कथं कार्यकारणभावसिद्धिरेवासावुच्यते? इत्याशङ्क्य कार्यकारणभावसिद्धिनिबन्धनत्वादन्वयनिश्चयस्य कारणे कार्योपचारादनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तमिच्छन्ति तन्मतनिषेधार्थमसावेवमुक्त इति दर्शयन्नाह- "कार्यकारणभाव एव हि" कार्यकारणभावे सत्येव ’हिःऽ यस्मात्"अर्थान्तरस्य" साध्याद्व्यतिरिक्तस्य, यस्त्वव्यतिरिक्तः तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयादेवान्वयनिश्चय इति पूर्वमुक्तमेवेत्यर्थान्तरग्रहणम् । तस्यार्थान्तरस्य "एवं स्यात्" । कथम्? । ’यत्र नाम क्वचिद्धूमः तत्रावश्यमग्निःऽ इति नियमेन ’ग्नेः तत्र भावःऽ इत्येवंरूपोऽन्वयनिश्चयः । यस्त्वकार्यकारणभावेऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामग्र्यधीनतया तस्य स्वकारणाव्यभिचारद्वारक एवेत्यदोषः । (ह्ब्ट्५०) अथ यदि नाम कार्यमग्नेर्धूमस्तथापि किमिति यत्रासौ तत्रावश्यमग्निर्भवति यतः कार्यकारणभावसिद्धिनिबन्धनोऽन्वयनिश्चय उच्यत इत्याह- "अग्नेः भावे एव" सत्तायामेव ’हिःऽ यस्मात्"भावः" सत्ता धूमस्य "कार्यत्वमिति" । तस्मात्कार्यकारणभावे सत्येव यथोक्तोऽन्वयनिश्चय इति । यदि हि यत्र धूमस्तत्रावश्यमग्निर्न स्यात्तदाग्निमन्तरेणाप्यस्य भावादग्निभाव एव भावलक्षणं कार्यत्वं हीयेत । [३३. अनुपलब्धावन्वयनिश्चयोपायकथनम् ।] इदानीमनुपलब्धावन्वयनिश्चयमाह- "अनुपलब्धावपि" न केवलं स्वभावकार्यहेतो(त्वो)रन्वयनिश्चय उक्तः किन्त्वनुपलब्धावप्यन्वयनिश्चय उच्यते । किंरूपोऽसौ? इत्याह- "असद्व्यवहारस्य" साध्यधर्मस्य योग्यतायाश्च साध्यत्वात्तद्योग्यतासव्द्यवहारोऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या "अनुपलब्धिः" तदन्योपलब्धिरूपा त"न्मात्रे" निमित्तान्तरानपेक्षणी, या "वृत्तिः" प्रवृत्तिरसव्द्यवहारस्य तस्याः "साधनं" सिद्धिः अनुपलब्धवन्वयनिश्चयः । कुतः पुनरसव्द्यवहारस्य तन्मात्रे वृत्तिर्भवति? इत्याह- "निमित्तान्तराभावोपदर्शनात्" इति । यदा ह्यसव्द्यवहारस्य यथोक्तानुपलद्भिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति साध्यते तदा यथोक्तानुपलब्धिमात्रेऽस्य वृत्तिः सिद्धा भवति । तथा(तया) चानुपलब्धावन्वयनिश्चयः । अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्यामपि यथोक्तानुपलब्धौ नावश्यमसव्द्यवहारस्य भाव इति कुतोऽन्वयनिश्चयः स्यात्? । निमित्तान्तराभावस्तु विस्तरतो वादन्याय उक्त इति तत एवावधार्यः । अथवा सव्द्यवहारस्य यन्निमित्तमुपलब्धिलक्षणप्राप्तस्य सत्त्वं तदसव्द्यवहारनिमित्तादन्यत्वात्निमित्तान्तरं तत्रानुपलब्धेरभाव उपदर्श्यते येन प्रमाणेन तदेवमुक्तम्, तेन, सति वस्तुनि तस्या असम्भवनिश्चयादनुपलब्धावन्वयनिश्चयः । तच्च तव्द्यतिरेकचिन्तायां दर्शयिष्यामः । (ह्ब्ट्५१) तदेवं त्रयाणामपि हेतूनां यथास्वं प्रमाणेनान्वयनिश्चय उक्तः । स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, अनुपलब्धौ निमित्तान्तराभावप्रसाधकप्रमाणस्तदभवसिद्धिहेतुत्वाच्चेति । [३४. कार्यस्वभावयोर्व्यतिरेकनिश्चयोपायकथनम् ।] सम्प्रति त्रयाणामपि हेतूनां स्वस्वप्रमाननिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह- "व्यतिरेकनिश्चयोऽपि" न केवलमन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस्तयोरुक्तः अपि तु "व्यतिरेकनिश्चयोऽपि कार्यस्वभावहेत्वो" र्यथास्वं प्रमाणनिमित्त उच्यते । कः पुनरसौ? "साध्याभावेऽभावसिद्धिः" । यावतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस्तयोः । केन प्रमाणेन? । "कारणव्यापकानुपलब्धिभ्यां" । कार्यहेतौ कारणानुपलब्ध्या साध्याभावेऽभावनिश्चयः । स्वभावहेतौ व्यापकानुपलब्ध्या । कदा पुनस्ते अनुपलब्धी साधिके तस्य भवतः? । "कार्यकारणव्याप्यव्यापकभावसिद्धौ" प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावेऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितः । व्याप्यव्यापकभावसिद्धौ सत्यां व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावेऽभावस्य साधिकेति । तदेवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयादेव द्वयोरप्यन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति । अत एवान्यत्र- "कार्यकारणभावाद्वा" इत्यादि उक्तम् । कीदृशीभ्याम्? "दृश्यविषयाभ्यां" दृश्यो विषयो ययोस्ते तथोक्ते । यदि कारणव्यापकावुपलब्धिलक्षणप्राप्तौ भवतस्तदा तदनुपलब्धी साध्याभावेऽभावं साधयत इति यावत् । कदा पुनस्तयोः दृश्यविषयताविशेषणमपेक्ष्यते? इत्याह- "उद्दिष्टविषयस्य" उद्दिष्टः- कथितो विषयः- आधारो वैधर्म्यदृष्टान्तलक्षणो यस्य साध्याभावेऽभावस्य तस्योपदर्शने क्रियमाणे । तत्रापि (ह्ब्ट्५२) कस्माद्दृश्यविषयतापेक्ष्यते? इति चेताह- "अनुपलब्धि" इत्यादि । "अन्यथा" यदि दृश्यविषयताविशेषणमनुपलब्ध्योर्नापेक्ष्यते । यदानुपलब्धिलक्षणप्राप्तं विषयं वैधर्म्यदृष्टान्तरूपमुपादत्ते तदानुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकावपि भवत इति "अनुपलब्धिलक्षणप्राप्तस्यः" कारणस्य व्यापकस्य वा "क्वचिद्" विप्रकृष्टे विषये सुमेर्वादौ "अभावासिद्धेः" कथमाभ्यां साध्याभावेऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योरेवासिद्धत्वातित्यभिप्रायः । अथानुद्दिष्टविषयस्याप्यभावस्योपदर्शनेऽनुपलब्ध्योर्द्दश्यविषयताविशेषणं किमित्ति नापेक्ष्यते? इत्याह- "अनुद्दिष्टविषयम्" अनुद्दिष्टो विषयः- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत्"प्रतिबन्धमात्रसिद्धौ" सत्यां दृश्यविषयताविशेषणमन्तरेणापि यस्मात्"सिध्यति इति" तस्मात्"न तत्र" अनुद्दिष्टविषये "व्यतिरेकसाधने" अनुपलब्ध्यो "र्दृश्यविषय ताविशेषणमपेक्ष्यते" अङ्गीक्रियते । तथा हि- अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावेऽवश्यमेव न भवतीति निःस्वभावत्वाहेतुकत्वप्रसङ्गात् । तदुक्तम्- "स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनी । तदभावे स्वयं भावस्याभावः स्यादभेदतः ॥" तथा- "कार्यं धूमो हुतभुजः कार्यधर्मानुवृत्तितः । स भवंस्तदभावेऽपि हेतुमत्तां विलङ्घ्येत् ॥" इति । ततस्तत्र दृश्यविषयतापेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिदिति भावः । "प्रतिबन्धमात्रसिद्धौ" इत्यनेन ये प्रतिबन्धं हेतोर्न वर्णयन्ति किन्त्वदर्शनमात्रादेव व्यतिरेकमाहुस्तेषां तदसम्भवं व्च दर्शयति । तथा हि- असति प्रतिबन्धे यदि सर्वे साध्यविरहिणोऽर्था दृश्या भवन्ति तदा तेष्वनुपलब्धस्य साधनस्याभावः शिष्येत् । तदाह कुमारिलोऽपि- (ह्ब्ट्५३) "गत्वा गत्वा तु तान् देशान् यद्यर्थो नोपलभ्यते । तदान्यकारणाभावादसन्नित्यवगम्यते ॥" इति । देशादिविप्रकर्षितया त्वदृश्यत्वे सत्यपि तत्र हेतावनुपलम्भमात्रस्य सम्भवात्सन्दिग्धोऽसावऽशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव यत्र यत्र साध्याभावः तत्र तत्र साधनाभाव इति वीप्सापदाभ्यामभिधानात् । अन्वयनिश्चयोऽपि प्राक्प्रतिबन्धनिबन्धन एव वर्णितः ततस्तेनापि परेषां दर्शननिबन्धनामन्वयसिद्धिमिच्छतामभावोऽस्यापि कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुमशक्यत्वादनुमातृभिः । अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यमिति वीप्सया प्रतिपादनात् । न च कतिपयदेशादौ साधनधर्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शनेऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद्बहुलं तथादृष्टानामप्यन्याथात्वस्यापि सम्भवात्, तदसम्भवे बाधकप्रमाणाभावात् । [३५. अनुपलब्धौ व्यतिरेकनिश्चयोपायाकथनम् ।] अनुपलब्धिमधिकृत्याधुनाह- "व्यतिरेकनिश्चयोऽनुपलधौ" उच्यत इति शेषः । किमात्मकोऽसौ? इत्याह "उपलब्धिलक्षणप्राप्ताद्" विद्यमानोपलम्भप्रत्ययान्तराद्दृश्यस्वभावाच्च "सतः" विद्यमानात्साध्याभावरूपाद्"अनुपलम्भस्य" तद्विविक्तोपलम्भात्मनो योऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस्तस्य "दर्शनं" दर्श्यते- प्रत्याय्यतेऽनेनेति दर्शनमुपदर्शकं प्रमाणं तदात्मकोऽनुपलब्धौ व्यतिरेकनिश्चयः । तद्धेतुत्वाच्च तत्प्रमाणं तथोच्यते । यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानोऽपि नोपलभ्येत कथमसौ (ह्ब्ट्५४) दृश्यस्वभावः स्यात्? । यो हि सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते । तस्मात्तथाविधे सन्निहितेऽवश्यं प्रत्यक्षवृत्त्या भवितव्यम्, अन्यथास्य न कदाचिदपि प्रत्यक्षता स्यात्, विशेषाभावादिति । प्रयोगः- यद्यन्मात्रनिमित्तं तत्स्मिन् सति नियमेन भवति । तद्यथा- बीजादिसामग्रीमात्रनिमित्तोऽङ्कुरः । यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षमिति स्वभावहेतुः । [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावेऽभावलक्षणो व्यतिरेको निश्चीयते । एतच्च प्रमाणमन्वयनिश्चयस्यापि निमित्तम् । अनेनैव निमित्तान्तरेऽनुपलब्धेरभावोपदर्शनात् । कारणव्यापकानुपलब्ध्योस्तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्व्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम् । स च कार्यस्वभावहेत्वोरुपदर्शित एवेति पृथग्नोक्तः । तथा हि- कारणव्यापकयोरभावः कार्यव्याप्याभावाभ्यामवश्यमन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणेऽवश्यं व्यतिरिच्यते कारणव्यापकयोर्भावात् । अन्यथा कार्यव्याप्ययोरहेतुकत्वनिःस्वभावताप्रसङ्गादिति न किञ्चित्पृथगभिधानेनेति । [३६. हेतोः प्रकारत्रयस्य नामनिर्देशः ।] तदेतावता ग्रन्थेन "पक्षधर्मस्तदंशेन व्याप्तो हेतुः" इति व्याख्यातम् । अधुना "त्रिधैव सः" इत्येतद्व्याख्यातुमाह- "एतल्लक्षणः" ’पक्षधर्मः सन् यस्तदंशेन व्याप्तो हेतुःऽ इत्येतल्लक्षणं यस्य स एतल्लक्षणः । "त्रिधैव सः" । ’सःऽ इत्येतस्य व्याख्यानं "हेतु"रिति, । ’त्रिधैवऽ इत्यस्य विवरणं "त्रिप्रकार एवे" ति । तान् हेतून स्वेन स्वेन नाम्ना कीर्तयति- "स्वभावः कार्यमनुपलब्धिश्चेति" । "च"कारो हेतुत्वसमुच्चयार्थः । "इति" शब्दः समाप्तिं सूचयन्नवधारणार्थमेव स्फुटयति । "यथा- अनित्ये" कस्मिंश्चित्शब्दादौ "साध्ये सत्व(त्त्व)मिति" स्वभावहेतूपदर्शनम्, (ह्ब्ट्५५) "अग्निमति प्रदेशे" साध्ये "धूम इति" कार्यहेतोः प्रदर्शनम्, "अभावे च" अभावस्य व्यवहारे च "उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति" अनुपलब्धेरुपन्यासः । [३७. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् ।] कस्मात्पुनः त्रिविध एव हेतुः? इत्याशङ्कय त्रिविधहेतुव्यतिरिक्तानामर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस्त्रिष्वेव हेतुत्वं नियतं भवतिति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्नाह- "अत्रैव" स्वभावकार्यानुपलब्ध्याख्ये "त्रिविधहेतौ अविनाभावस्य नियमादिति" त्रिविधहेतुव्यतिरिक्तेष्वर्थेष्वविनाभावाभावादित्यर्थः । ततश्चाविनाभावविकलत्वात्स्वभावकार्यानुपलब्धिव्यतिरेकिणोऽर्था हेत्वाभासाः प्रमेयत्वादिवतित्युक्तं भवति । अविनाभावाभावश्च त्रिविधहेतुव्यतिरिक्तत्वादेव तादात्म्यतदुत्पत्त्योरविनाभावव्यापिकयोरभावाद्व्यापकानुपलब्धितोऽवगतः । [३८. अविनाभावनिरूपणम् ।] अथ कोऽयमविनाभावः? कस्य चासौ? कथं वात्रैव नियत उच्यते? इत्यत आह- "यथोक्ता व्याप्तिः व्यापकस्य"- तत्कारणतया तद्भावतया च । यत्र तद्वयाप्यं कार्यं स्वभावो वा सन्निहितस्तत्र भाव एव । "व्याप्यस्य वा"- कार्यस्य स्वभावस्य वा । यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्मिणि न तदभावेऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिरुक्ता सा "यथोक्ता व्याप्तिरविनाभावः" । कस्य? । "पक्षधर्मस्य" । साध्यधर्मिधर्मस्य । "स" एवंरूपोऽविनाभावः "तृ(त्रि)विधाद्" यथोक्ताधेतोः "अन्यत्रः" तद्व्यतिरेकिण्यर्थे "नास्ति" । यतोऽत्र च तृ(त्रि)विधेऽस्ति तादात्म्यतदुत्पत्त्योरविनाभावेन व्याप्तयोर्भावात्, कृतकत्वानित्यत्ववदनयोर्व्याप्यव्यापकभावादिति "तस्मादत्रैव" त्रिविधे हेतौ तदन्यत्राभावमुखेन "नियतः" उच्यते । तदनेन "हेत्वाभासास्ततोऽपरे" इत्यस्य "अविनाभावनियमात्" इत्युपपत्तिसहितस्यार्थः प्रदर्शितः । यथा च त्रिविधाधेतोरन्यत्राविनाभावो नास्ति तथा प्रागेवोक्तम् । (ह्ब्ट्५६) यदि वा स्वभावादन्योऽर्थोऽर्थान्तरम्, तच्च कार्यादप्यन्यत्कारणमनुभयं वा । अनुपलब्धेरप्यन्यद्यथोक्तायाः अनुपलब्धिमात्रमुपलब्धिर्वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा । तत्रार्थान्तरं यद्यनन्तरकार्यं तस्यार्वाग्दर्शिभिः इतरविवेकेन लक्षयितुमशक्यत्वातलिङ्गत्वम् । कार्यदर्शनात्विवेकावसायेऽपि साध्यसिद्युत्तरकालभावी पक्षधर्मतावसायोऽन्वयानुगमनं च व्यर्थम् । व्यवहितकार्यमपि कारणं न कार्यस्य लिङ्गम्, अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् । तदुक्तम्- "सामग्रीफलशक्तीनां परिणामानुबन्धिनि । अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्" ॥ इति । योग्यतानुमाने तु नार्थान्तरं लिङ्गम् । नाप्यनुभयम्, अप्रतिबन्धेन गमकत्वायोगात् । कथं कृत्तिकोदयविज्ञानाद्रोहिण्यासत्तिक्लृप्तिः? इति चेत् । ननु सापि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गातित्युक्तत्वात् । तस्मान्नक्षत्रचक्रस्य सङ्क्रान्तिहेतुरेव कालव्यवधानेन कश्चित्कल्पयितव्यः, यथा भूतसंक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या । अनुपलब्धिमात्रमपि संशयहेतुः, प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः । उपलब्धिरपि प्रतिषेध्यस्य कथमभावं साधयेत्?, अभ्रान्तोपलम्भस्याभावायोगात् । विरुद्धोपलब्धिस्तु प्रतियोग्यभावं साधयति । किन्तु स विरोधस्तद्भावे सत्यन्यानुपलम्भादेव सिद्ध इति तद्द्वारेणानुपलब्धिरेव प्रयुक्ता भवति । अन्यथानिषिद्धोपलब्धेरभावासिद्धेः । अविरुद्धोपलब्धिः पुनः प्रतिषेधेऽनैकान्तिकी, सहभावसम्भवादविरुद्धानाम् । न चापरः प्रकारः सम्भवतीति नाविनाभावोऽन्यत्र विद्यत इति । (ह्ब्ट्५७) [२. स्वभावहेतुनिरूपणम् ।] [१. स्वभावहेतोर्लक्षणाभिधानम् ।] इदानीं स्वभावहेतोस्तावल्लक्षणमाह- "तत्र" हेतुत्रये स्वभावहेतोस्तावल्लक्षणमुच्यते । साध्यते येन तत्साधनम् । तच्चासौ धर्मश्च तस्य भावस्तद्भावः । स एव "साधनधर्मभावमात्र"म् । तस्य "अन्वयः" । स यस्यास्ति साध्यधर्मस्यावयवे समुदायोपचारात्, तस्मिन् । "स्वभावो हेतुः" । साध्यधर्मस्य श्रुतत्वात्तस्यैव स्वभाव इति गम्यते । कथं पुनरसौ साध्यधर्मस्वभावो? यावता भेदेन प्रतीयत इत्यत आह- "अपरस्मादपरस्माच्च" असतोऽक्षणिकाच्च या "व्यावृत्ति"स्तस्या यो "भेदः" अवधिभेदोपकल्पितस्तेन हेतुभूतेन "साध्यधर्मात्साधनधर्मस्य" यो "भेद"स्तस्मिन् "सत्यपि" "वस्तुतः" परमार्थतो "लिङ्गस्वभाव एव" साध्यधर्मस्वभाव एव । तथा हि- य एवासतो व्यावृत्तः स एवाक्षणिकादपि । तत एकस्माद्धर्मिणो भेदाभावात्साध्यसाधनधर्मावपि परमार्थतो नैव भिद्येते इति । [२. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् ।] यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्मः, तत्कस्मात्"साधनधर्मभावमात्रान्वयिनि" इति साध्यधर्मो विशेष्यते? । यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात्?, नीरूपत्वप्रसङ्गादतत्स्वभावता वा इत्यत आह- हेतुः स्वभावो यस्य साध्यधर्मस्य तस्मिन् "हेतुस्वभावे" "साध्यधर्मे" सति "अन्वयव्यभिचाराभावात्" साधनधर्मभावमात्रस्य योऽन्वयस्तस्य व्यभिचाराभावात् । सम्भवे व्यभिचारे च विशेषणं युक्तम् । अत्र तु सम्भव एव न व्यभिचार इति "विशेषणमयुक्तमेव । तथापि" स्वभवहेतुलक्षणे क्रियमाणे यदेतत्"साध्यधर्मस्य" "तन्मात्रान्वयेन" साधनधर्मभावमात्रानुगमनेन विशेषणं "तत्परमतापेक्षं" नैयायिकादीनां विप्रतिपत्तेस्तन्मतापेक्षं न तु स्वमतापेक्षम् । (ह्ब्ट्५८) तामेव परविप्रतिपत्तिं दर्शयन्नाह- "परे हि" नैयायिकादयः "अर्थान्तरनिमित्तः" जनकादर्थादन्यो योऽर्थो वेगवद्द्रव्ययोगादिः तन्निमित्तम् । ते ह्येवमाहुः- वेगवद्द्रव्ययोगादवयवेषु कर्माण्युत्पद्यन्ते । तेभ्योऽवयवविभागः । ततस्तत्संयोगविनाशस्तदारब्धं कार्यद्रव्येऽपि (कार्यद्रव्यमपि) नश्यतीति । एवमर्थान्तरं निमित्तम् । तत एव "अर्थान्तरनिमित्तपेक्षमाणं" कृतकत्वादिभावेऽप्यभावाद्"अतद्भावमात्रान्वयिनं" तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् "अपि" कृतकत्वादेः "स्वभावमिच्छन्ति" यतः ततो विशेषणं कृतम् । तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावतामाह लक्षणे विशेषणकारः । स्वसत्तामात्रभाविन्येव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात् । [३. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् ।] तथा, "तस्मिन्" अर्थान्तरनिमित्ते साध्ये "हेतोः" कृतकत्वादेः व्यभिचारमनैकान्तिकतां चाह । अत्रोदाहरणं "यथा हेतुमति विनाशे" साध्ये "कृतकत्वस्य" हेतोः "अतत्स्वभावता व्यभिचारश्चेति" । ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात्नेष्टैव परैस्तत्किमुच्यते- "अतद्भावमात्रान्वयिनमपि स्वभावमिच्छन्ति" इति? । एवं मन्यते- व्यतिरिक्तावपि कृतकत्वानित्यत्वाख्यौ धर्मावभ्युपगच्छद्भिरवश्यम् ’भूत्वा भवनं भूत्वा चाभवनमनवस्थायिस्वभावत्वम्ऽ अभ्युपगन्तव्यम्, अन्यथात्मादिष्वपि कृतकत्वानित्यत्वे विशेषाभावाद्भवेताम् । ततो यदेव’भूत्वा भवनं भूत्वा [ऽभवनं] चानवस्थायित्वम्ऽ उपादीयते भावस्य तयोरेव तद्दर्शनबलोत्पन्नकृतकत्वानियत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावोऽस्तु, किं व्यतिरिक्तधर्मकल्पनया? । कल्पयित्वापि वस्त्वात्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात् । तदुक्तम्- (ह्ब्ट्५९) "सदसत्पक्षभेदेन शब्दार्थानपवादिभिः । वस्त्वेव चिन्त्यते ह्यत्र प्रतिबद्धः फलोदयः ॥ अर्थाक्रियासमर्थस्य विका(चा)रैः किं तदर्थिनाम्? । षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया? ॥" इति । तस्माद्दृष्टा अपि भावाः केनचिदात्मना तदन्यव्यावृत्तेन कथञ्चिन्निश्चिताः तदन्येनाप्यतद्रूपव्यावृत्तेनात्मना भ्रान्तिकारणसद्भावादनिश्चीयमानाः, निश्चितानिश्चितयो रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायापुरोवर्तिनोऽनुमानतो निश्चीयते इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता । तथा च विनाशस्वभाव एव कृतकत्वाख्यो हेतुः तैर्यथोक्तन्यायादिष्टो भवति । तस्यातन्मात्रान्वयित्वेऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता कथ्यते । स्यान्मतम्- कृतकत्वेन साक्षधेतुमान् विनाशोऽनुमीयते ततः प्राक्प्रध्वंसाभवविशेषणा सत्ता तत्समवायो वानित्यता व्यवस्थाप्यते । अत एवात्मादिष्वनित्यताप्रसङ्गाभावः । विनाश इति च न भावाभावं प्रध्वंसलक्षणं मन्यामहे । कृतकत्वं तु स्वकारणसत्तासमवायम् । तस्य विशेषणेन विनाशोऽस्व(शास्व)भावताख्यापने न किञ्चिदनिष्टमिति । तदयुक्तम्, तथाविधस्य विनाशस्य हेतुमत्ताविरोधात्, स्वयमेव चैतदाचार्यो वक्ष्यति । न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात् । सुखदुःस्वसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित्परीक्षन्ते न व्यसनितया । तस्मादनेनास्थिरस्वभावतैव भावस्यानुमातव्या । सैव च हेतुमती (ह्ब्ट्६०) कल्पनीया । अन्यथा भावाविलक्षणस्य प्रध्वंसाभावस्य मुग्दरादेरुदयेऽपि तस्य भावेऽनुपयोगात्स भावस्तदवस्थ एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्? । अविचलितरूपस्य च भावस्य मुग्दरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्यनित्यता, किं नात्मादेरपि? इति प्रसङ्ग तदवस्थ एव । स्वकारणसमवायोऽपि चाभूत्वा भवनमनिच्छतो न सिध्यति । अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते । न च सत्तासमवाययोर्नित्यतयोपगतयोर्निरतिशयत्वात्प्राक्प्रध्वंसाभावौ विशेषणं युज्येते । अभूत्वा भवनोपगमे च तदेव कृतकत्वमस्थिरस्वभावता च विनाशोऽस्तु । किं निष्फलया अप्रमाणिकया प्रमाणबधितयऽर्थान्तरकल्पनया? । एवं कृतकत्वविनाशयोस्तादात्म्योपगमोऽवश्यम्भावी परेषामपि । ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते । तन्निष्पत्तावनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् । तथा, तस्मिन् साध्ये कृतकत्वस्य व्यभिचारः । तथा हि- ये यत्र हेत्वन्तरापेक्षिणो न ते तत्रावश्यम्भाविनः, यथा वाससि रागः । हेत्वन्तरापेक्षी च कृतकेष्वपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः । ननु वाससि रागस्य परिमितहेतुत्वात्तस्य च स्वकारणायत्तसन्निधानत्वात्तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम्भविता युक्तैव । न पुनर्विनाशस्य, तद्धेतूनामानन्त्यादवश्यं कस्यचिद्घटादिषु सन्निधेः । न च विनाशस्याश्रयं प्राक्तद्धेतुसन्निधेः केचिदुपघ्नान्ति, यतस्तदभावाद्विनाशो नारभ्येतेति । तदयुक्तम्, यतो यद्यपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकरणायत्तसन्निधित्वात्तथा तत्कारणानां च स न्निहितानामपि विरोधिनामप्यानत्यात्तद्भावे तच्छक्तिप्रतिबन्धान्नावश्यं हेतवः फलवन्त इति कश्चिन्न विनश्येदपीति व्यभिचारो (ह्ब्ट्६१) न निवर्तते । नन्वयं वाससि रागः सापेक्षोऽपि यदि सर्वत्रोपलभ्येत ततः किमवश्यम्भावी न स्यात्? । स्याद्, यदि तथोपलभ्येत । स त्वन्यथापि गृह्यते । यद्येवं न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया मनसि खेद आधातव्यः । किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, येनैवं वदति । तथाभावे वा कथमनुमानवृत्तिर्दृष्टे न वैफल्यमश्नुवीत? । कस्यचित्तु हेतुकृतविनाशदर्शनेऽपि हेत्वायत्तजन्मनमन्यथापि दर्शनादुपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं निश्चिन्वीत? । कृतकमपि चायं भवभावलक्षणं विनाशं नित्यमुपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात् । न चास्य घटादेरिव विनाशहेतुरुपलभ्यते कश्चिदिति । तदुक्तम्- "घटादिषु यथा दृष्टा हेतवो ध्वंसकारिणः । नैवं नाशस्य सोऽहेतुस्तस्य संजायते कथम्? ॥" इति । ततः कृतकत्व विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते? । भावानामयमैकान्तिक एव धर्म इति चेत्, कुतः पुनरेतदवसितम्? । तेषामन्यथाभावस्यानुपलम्भादिति चेत् । नन्वयमनुपलम्भो भवन्नप्यात्मादेरनिवर्तकः सत्तायाः, कथमन्यत्रान्यथाभावं निवर्तयति? । तस्यानुमानेनोपलम्भादिति यद्युच्येत तदा तत्राप्यनुमाने विपक्षे वृत्तिमनुपलम्भ एव हेतोः कथं निवर्तयति? इति यत्किञ्चिदेतत् । तस्मात्साधूक्तम्- ’हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाहऽ इति अलमतिजल्पितेनेति । [४. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम् ।] इदानीं यद्यपि स्वार्थानुमानं प्रकृतं तथापि कश्चित्प्रयोगदर्शनाभ्यासात्प्रयोगभङ्गयैव प्रतिपद्यत इति स्वार्थानुमानेऽपि (ह्ब्ट्६२) तत्स्वम्भवात्प्रसङ्गेन परार्थानुमानं च व्युत्पादयितुमाह- "तस्य" स्वभावहेतोः "द्विधा" त्रैलक्षण्यप्रतिपादको वचनोदाहारः "प्रयोगः" । तमेव दर्शयति- समानो धर्मो यस्य तस्य भावः तेन "साध्य(ध)र्म्येणैकः" प्रयोगः । "अपरो" विसदृशो धर्मो यस्य तस्य भावः तेन "वैधर्म्येण" । यथाक्रममनयोरुदाहरणमाह- "यथा यत्सत्" । यद्यत्सदिति वीप्साप्रधानो यच्छब्दः । "तत्सर्वम्" इति तच्छब्दोऽपि वीप्साप्रधान एव । अत्र सर्वग्रहणेन चाशेषपरिग्रहाद्बहिर्व्याप्तेर्निरासः । "यथा घटादयः" इति । यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम् । दृष्टान्तमात्रतः साध्यसिद्धेरभावात् । न ह्येकस्य तथा भावे सर्वस्तथा भवति, अतिप्रसङ्गात् । "संश्च शब्दः" इति पक्षधर्मोपसंहारः । वैधर्म्यप्रयोगस्योदाहरणम्- "तथा" इत्यादि । तथाशब्दः समुच्चये । वैधर्म्येण च प्रयोग उदाह्रियते । अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् "क्षणिकत्वाभावे" सर्वस्मिन् "सत्त्वा(त्त्वा)भावः" इति । प्रयोगद्वयेऽपि सर्वग्रहणस्य फलं दर्शयन्नाह- "सर्वस्मिन् साधनधर्मवति" धर्मिणि न दृष्टान्तधर्मिण्येव "साध्यधर्मस्यो" पसंहरणं "उपसंहारो" ढौकनं तेन या "व्याप्तिः" ’व्यापकस्य तत्र भाव एवऽ इत्यादिरूपा तस्याः प्रदर्शनं प्रतिपादनं तदेव "लक्षणं" ययोः तौ तथोक्तौ । ततश्च ये साध्यधर्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते- यद्यपि दृष्टान्तधर्मिणि साध्यधर्मेण साधनधर्मो व्याप्तः तावतास्य सर्वत्र तथाभावाभावात्साध्यसिद्धिरयुक्तेति- निरस्ता भवन्ति । सर्वत्र वा साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन्न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिराख्यायते? । न हि ’स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्ऽ इति तत्पुत्रत्वस्य (ह्ब्ट्६३) श्यामत्वेन साध्याद्बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शनेऽपि साध्यसिद्धिर्भवति । तस्माद्यैव सर्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये प्रदर्शनीया । न च सर्वोपसंहारेण व्याप्तिप्रदर्शनेऽपि धर्मविशिष्टो धर्म्यपि तदैव प्रतीयते, यतः पक्षधर्मोपदर्शनोत्तरकालभाविनोऽनुमानस्य स्मृतित्वं स्यात् । तस्याः साध्यधर्मिणि साध्यधर्माविनाभूतसाधनधर्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात्प्रागसम्भवात् । तत्पूर्विकायां च व्याप्तौ अनन्तरं विशेषविषयमनुमानं कथं स्मृतिः स्यात्? इति । [५. वैधर्म्यप्रयोगेऽपि व्याप्तिप्रदर्शनं संगतम् ।] ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्मस्यवश्याम्भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम्? । तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ सति साध्यस्य भाव एवेति । नैष दोषः । न ह्यत्र साध्याभावे हेत्वभावस्तुच्छरूपो दर्श्यते, तस्य हेतुरूपताविरोधात् । वस्तुधर्मो हि सत्त्वादिको हेतुः । तस्यात्मन एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस्त्रिरूपो हेतुर्भवेत् । किन्तु निवृत्तौ निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे च साधनधर्मेऽवश्यंतया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्मकत्वस्यैवायोगादिति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते । [६. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् ।] ननु द्विविधेऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत्कथं तदर्थावगतिः?, तदर्थप्रत्यायनाय च साधनप्रयोगोऽभिमतः इत्यत आह- "अत्र" अनयोः प्रयोगयोः "पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव" (ह्ब्ट्६४) वक्ष्यमाणकात्"प्रतिज्ञार्थस्य" धर्मधर्मिसमुदायलक्षणस्य साध्यस्य "प्रतीतेः" हेतोः "न" "प्रतीज्ञायाः प्रयोग उपदर्शितः" । परः सामर्थ्यमनववुध्यमान आह- "अप्रदर्शिते" वचनेन "प्रमेये" साध्ये "कथं" न कथञ्चित्"तत्प्रतीतिः" प्रतिज्ञार्थप्रतीतिः "इति" एवं "चेद्" यदि मन्यसे तदा स्वार्थानुमानकाले "स्वयं" परं प्रतिपादकमन्तरेण "प्रतिपत्तौ" प्रमेयस्य "क उपदर्शयिता"? नैव कश्चित् । स्वयमेव तु साध्यविनाभूतसाधनधर्मदर्शनात्प्रमेयं प्रतिपद्यते तथ परार्थानुमानेऽपि तत एव तत्प्रतीतिरस्तु किं प्रतिज्ञावचनेन? । यदि स्वयंप्रतिपत्तिकाले न कश्चित्प्रमेयस्योपदर्शयिता कथं तर्हि तत्प्रतिपत्तिः? इत्यत आह- "प्रदेशस्थं" साध्यधर्मिणि स्थितं "धूमं" साधनधर्मं "उपलब्धवतः" प्रत्यक्षेण दृष्टवतः सतः "तस्य" धूमस्य "अग्निना" साध्यधर्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात्प्राक्प्रतिपन्नायाः "व्याप्तेः" अविनाभावस्य "स्मरणे" सति "तत्सामर्थ्यादेव" पक्षधर्मग्रहणव्याप्तिग्रहणसामर्थ्यादेव प्रतिज्ञाप्रयोगरहिताद्"अग्निरत्र इति" एवंरूपा "प्रतिज्ञार्थप्रतीतिर्भवति" । स्यान्मतम्- तत्राप्यस्य कर्णपिशाचिकादिः प्रमेयं कथयत्येवेत्यत आह- "न च" नैव "तत्र" स्वार्थनुमानकाले "कश्चित्" कर्णपिशाचिकदिरदृश्यो "’ग्निरत्रऽ- इति" एवम् "अस्मै" प्रतिपत्रे(त्रे) प्रमेयं "निवेदयति" कथयति । यदि भवान् सत्यवादी नैवं वक्तुमर्हति । तथा हि- वयमपि प्रदेशस्थधूमदर्शनात्तस्याग्निना व्याप्तिस्मरणसापेक्षादग्निं प्रतिपद्यामहे । न चास्मभ्यं कश्चित्निवेदयति ’ग्निरत्रऽ इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति । यद्यपि न कश्चित्निवेदयति तथापि स्वयमेव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गमनुसरिष्यतीति चेत्, आह- "नापि" न केवलं न कश्चित्निवेदयति "स्वयमपि प्रागेव" लिङ्गव्यापारात्न प्रतिपद्यते "किञ्चिद्" अग्न्यादिकम् । कस्मात्? (ह्ब्ट्६५) इति चेत्, "प्रमाणं" हेतुम् "अन्तरेण" विना ’ग्निरत्र" इत्येवं प्रतीतेः "निमित्ताभावात्" । त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर्निमित्तम्, तदभावे सा कथं भवेत्? । अथ लिङ्गमन्तरेणाप्येवं प्रतीतिर्भवतिति ब्रूयात्तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथमस्य निष्प्रयोजनता न स्यात्? । अत्यन्तमूढतां च परस्य दर्शयन्नाह- "स्वयमेव" स्वतन्त्र एव ’ग्निरत्रऽ- इति व्यवस्थाप्य । कथं स्वतन्त्रो व्यवस्थापयति? । "अकस्मात्" प्रमाणमन्तरेण व्यवस्थापनात्"तत्प्रतिपत्तये" निर्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं "पश्चात्" "लिङ्गं" तन्निमित्तम् "अनुसरतीति कोऽयं प्रतिपत्तेः क्रमः" परिपाटिः? । तथा हि- प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिरिति विपश्चितां क्रमः । अयं त्वपूर्वोऽनुमाता यस्तद्विपर्ययमाश्रयत इति उपहसति । यत्तल्लोके गीयते- शीरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वादस्य क्रमस्य । तस्मात्पक्षधर्मग्रहणव्याप्तिस्मरणसामर्थ्यादेव स्वयं प्रतिपद्यते । तच्च प्रतिपादकं कथितेमवेति न किञ्चित्प्रमेयनिर्द्देशेन । यदि नाम स्वार्थानुमानकाले स्वयमेव साध्यं प्रतिपद्यते तद्युक्तमेव, लिङ्गस्यापि तत्र स्वयमेव प्रतिपत्तेः । परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयमपि परत एव प्रत्येतव्यम् । अतो युक्त एव प्रतिज्ञाप्रयोग इत्यत आह- "परेणापि" न केवलं स्वयमेव प्राग्व्यवस्थाप्यमानं प्लवते परेणापि वादिना "तत्" प्रमेयम् "उच्यमानं प्लवतेव" तद्वचनस्य सन्दिग्धार्थभिधायकतया साध्यनिश्चयानङ्गत्वात्प्रमेयगाम्भीर्यानवागाहिनः परम्परयाप्यतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात् । कस्मात्प्लवते? इति चेत्, "उपयोगाभावात्" नास्य साध्यप्रतीतिं प्रति कश्चिदुपयोगः, तत्प्रत्यायनसमर्थास्यानभिधानादिति यावत् । (ह्ब्ट्६६) परस्तूपयोगमात्रं कदाचिद्ब्रूयादित्याशङ्कयाह- "विषयोपदर्शनं" हेतोर्यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः "चेत्मतम्" । अत्राह "तेनैव" विषयेण, "ताव"च्छब्दः क्रमे । विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत् । विषयेणैव तु दर्श्यमानेन "कोऽर्थः" किं प्रयोजनम्? । ननु साध्यप्रतीतिः साध्यर्म्यवत्प्रयोगादिप्रतीतिश्च विषयोपदर्शनस्यार्थः । ततस्तुदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् । तथा हि- असति साध्यनिर्देशे ’यत्कृतकं तदनित्यम्ऽ इत्युक्ते ’किमयं साधर्म्यवान प्रयोगः? उत वैधर्म्यवान्?ऽ इति न ज्ञायेत । उभयं ह्यत्राशङ्क्यते- कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्, नित्यत्वेनाकृतकत्वे वा वैधर्म्यवानिति । ’नित्यः शब्दःऽ ’कृतको वा इति तु प्रतिज्ञावचने सत्युभयमसन्दिग्धमवगम्यते । हेतुविरुद्धानैकान्तिकप्रतीतिश्च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे ’नित्यः शब्दः, कृतकत्वात्ऽ इति हेतुभावः प्रतीयते, ’नित्यः, कृतकत्वात्ऽ इति विरुद्धता, ’प्रत्यत्नानन्तरीयकः कृतकत्वात्ऽ इत्यनैकान्तिकत्वम् । हेतोश्च त्रैरूप्यं न गम्येत, तस्य साध्यापेक्षया व्यवस्थानात् । सति प्रतिज्ञावचने अवयवे समुदायोपचारात्साध्यधर्मी पक्ष इति तत्र वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं; साध्यधर्मसामान्येन च समानोऽर्थः सपक्ष इति तत्र वर्तमानस्य सपक्षे सत्त्वम्; न सपक्षोऽसपक्ष इति साध्यधर्मविरहिण्यवृत्तस्यासपक्षेऽप्यसत्त्वं प्रतीयेत इत्याशङ्कयाह- "यदि प्रतीति" साध्यस्य निश्चयलक्षणा साधर्म्यवत्प्रयोगादेश्च स्वरूपावधारणात्मिका । "अन्यथा" प्रतिज्ञावचनमन्तरेण "न स्यात्तदा" यदुक्तं साध्यसिध्यर्थं साधर्म्यवत्प्रयोगादिज्ञानार्थं च विषयोपदर्शनमिति तत्"सर्वं शोभेत" यावता स्वर्थानुमानकाले प्रतिज्ञावचनमन्तरेणापि पक्षधर्मग्रहण सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्येव प्रतीतिः इत्याख्यातमेव । तद्वत्परार्थेऽप्यनुमाने भविष्यति । (ह्ब्ट्६७) यत एवं "तस्मात्" "एष" प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य "प्रतीतौ" विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा "केनचित्" तेन "विनापि" "प्रतियन्" साध्यं निश्चिन्वन् लिङ्गसामर्थ्यदेव । यदास्माभिः प्रतिपाद्यते तदा "अस्मान् कार्यिणो दृष्ट्वा व्यक्तं" प्रतिज्ञाप्रयोगलक्षणं "मूल्यं मृगयते" । क इव? "पर्वब्राह्मण इव" । यथा दक्षिणामन्तरेणाप्यन्यदा और्ध्वरथिको ब्राह्मणो भुञ्जानोऽन्यदा श्राद्धादिपर्वण्यर्थिनं श्रद्धालुं ब्रवीति- यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततोऽहं भुञ्जे नान्यथेति । तेन तुल्यो भवानपीति । किञ्च, यदपि ब्रवीषि- परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस्तथा साध्यमपीति । तदैतद्युज्यते यद्यसौ वादिवचनमात्रेण लिङ्गमपि निश्चित्य तदनुसारेण साध्यमवगच्छेत्, परप्रतीत्यर्थिनश्च तदा वयमपि प्रतिज्ञां किन्न प्रयुञ्ज्महे लिङ्गवचनरहिताम्? । अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य चरितार्थत्वात् । न चैतदस्ति, यतः "अस्मद्वचनादपि" न केवलं स्वार्थानुमानकाले अस्मद्वचनमन्तरेण इत्यपिशब्दः । किन्तु यदाप्यस्मद्वचनं प्रवृत्तं तदापि "नैव" अस्मद्वचनात्"लिङ्गमपि प्रत्येति" कुत एव साध्यसिद्ध्येऽनुसरिष्यति? । अपि तु स्वयमस्य यदि तल्लिङ्गं कुतश्चित्प्रमाणतः सिद्धं भवति "अस्मद्वचनेन तु" केवलं तत्र "स्मृतिसमाधानमात्रं क्रियते" । तदा स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येति । नास्मद्वचनात्पानीयमपि पिबतीति । "तस्मात्" "कोऽनयोः" प्रतिज्ञावचनावचनात्मिकयोः "अवस्थयोर्विशेषः"?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्यादेव साध्यप्रतीतेर्न कश्चित् । ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात्प्रतिज्ञोपन्यासः परार्थानुमानेऽपि व्यर्थ एव । लिङ्गमपि हि तावदत्र नाभिधीयते यदि तत्(ह्ब्ट्६८) पूर्वप्रसिद्धं स्वयमनुस्मरेत्किमङ्ग पुनः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनमुपादीयते? । स्यान्मतम्- यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस्तदर्थोऽस्य प्रयोगो मा भूत, साधर्म्यत्वत्प्रयोगादिज्ञानार्थं तु तदुपदानमवस्थितमेव, तस्यान्यथा प्रतीत्यभावातित्यत आह- "दृष्टा च साधर्म्यवत्प्रयोगादेः प्रतिज्ञावचनमन्तरेनापि प्रतीतिः," ततस्तदर्थोऽपि प्रतिज्ञोपन्यासो न शोभते । कुतः पुनः साधर्म्यवत्प्रयोगादेरसति साध्यनिर्द्देशे प्रतीतिः? इत्याह- पक्षधर्मसम्बन्धवचनमात्रादिति" । एवं मन्यते- नैव हि कश्चित्’यत्कृतकं तदनित्यम्" एतावन्मात्रमभिधीयास्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्ववश्यं हेतोर्द्वर्मिण्युपसंहारं करोतीति । तत्र यदि ’कृतकश्च शब्दःऽ इति ब्रूयात्तदा साध्य(ध)र्म्यवत्प्रयोगप्रतीतिः, अथ ’नित्यश्चऽ इत्यभिदध्यात्तदा वैधर्म्यवत इति सम्बन्धवचनपूर्वकात्पक्षधर्मवचनात्प्रयोगद्वयावगतिः । हेतुविरुद्धानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते । यदा तु सम्बन्धवचनमपि क्रियते तदा कथमप्रतीतिः? । तथा हि- ’यत्कृतकं तदनित्यम्ऽ इति पक्षधर्मवचने सत्युक्ते हेतुरवगम्यते, विधियमानेनानूद्यमानस्य व्याप्तेः । ’यत्कृतकं तन्नित्यम्ऽ इत्यभिधाने विरुद्धः, विपर्ययव्याप्तेः । ’यत्कृतकं तत्प्रयत्नानन्तरीयकम्ऽ इति प्रदर्शने व्यभिचारादनैकान्तिकाध्यवसायः । त्रैरूप्यमपि हेतोर्गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतयावगम्यते । यत्र च व्याप्यो धर्मो धर्मिण्युपसंह्रियते स व्यापकाधर्मविशिष्टतयावगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्युपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, सा च व्याप्तिर्यत्र धर्मिण्युपदर्श्यते स साध्यधर्मसामान्येन समानोऽर्थः सपक्षः प्रतीयत इति सपक्षे (ह्ब्ट्६९) सत्त्वमवगम्यते, सामर्थ्याच्च व्यापकनिवृत्तौ व्याप्यनिवृत्तिर्यत्रावसीयते सोऽसपक्ष इत्यसपक्षेऽप्यसत्व(त्त्व)मपि निश्चीयत इति, यदि पक्षादिभिरपि ज्ञातैः किञ्चित्प्रयोजनम् । न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर्भवति । तथा हि- यत्क्वचिद्दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस्तस्य तद्गमकं तत्र इति हि लोके वस्तुगतिर्भवति, न पक्षदिसङ्केतग्रहणापेक्षा । तत्र यथेष्टं शास्त्रकारा गमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु । न तु व्यवहारकाले तदनुसरणं क्वचिदुपयुज्यते । तत्सङ्केतप्रतिपादितमेव तु यथोक्तं गमकं रूपमुपयोगि व्यवहर्तॄणाम् । तच्चेत्प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञानेऽपि न किञ्चित्प्लूयते । अत एवाचार्यपादै ’र्त्रान्तरीयकार्थदर्शनं तद्विदोऽनुमानऽ मिति गमकरूपमात्रमेव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् । स्वप्रज्ञापराधास्तु तत्रापि कैश्चिदसन्त एव दोषाः प्रकीर्त्यन्त इति किमत्र ब्रूमः? । "तस्मात्" साधर्म्यवत्प्रयोगादिज्ञानार्थमपि प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमात्र एव यथोक्तेन प्रकारेण प्रतीतेरयुक्तमिति "कस्तस्य" प्रतिज्ञावचनस्य "उपयोगः" नैवं कश्चित् । स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवांस्तमुल्लङ्घ्य परप्रतिपत्तये क्रमान्तरमाश्रयन् प्रवञ्चकतया धूर्त एव प्रतीयते, न सव्दृत्त इत्युपदर्शयन्नाह- "स्वनिश्चयवत्" इत्यादि । यथात्मनो निश्चयस्योत्पादनं कृतं तथैव "अन्येषामपि निश्चयोत्पादा(द)नाय" च परहितनिरतैः "साधनमुच्यते", "तत्र" एतस्मिं(स्मिन्) न्याये सति स्वयमयं वादी "प्रमेयस्योपदर्शनेन" उपदर्शकेन वचनेन "विनापि" स्वार्थानुमानकाले "प्रतिपद्य" प्रमेयं "परं" संशयितादिकं "प्रतिपादयन्" स्वप्रतिपन्नं प्रमेयमवबोधयन् "अपूर्वं" स्वप्रतिपत्तिकाले पूर्वं यः प्रमेयप्रतिपत्तौ "क्रमः" उपायोऽनुभूतस्तस्मादन्यम् "आश्रयत इति किमत्र" क्रमान्तराश्रयणे "कारणम्"? नैव किञ्चित्परव्यामोहनं मुक्त्वा । तथा हि- यदि स्वप्रतिपत्तिक्रमः (ह्ब्ट्७०) प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम्?, कथं तेन स्वयं प्रतिपन्नवानसीति? । यत एवं "तस्मान्न प्रमेयस्य" साध्यस्य "वचनेन" प्रतिज्ञाख्येन "किञ्चित्प्रयोजनम्" । कुतः? । ’न्यथापिऽ विनापि तेन "प्रतिपत्तेः" साध्यप्रतीतेः "उत्पत्तेरि"त्युपसंहारः । [७. उपनयनिगमनादेरपि साधनवाक्यानङ्गत्वम् ।] एवं प्रतिज्ञां साधनवाक्यादपनीयापरमप्युपनयनिगमनादिकं परपरिकल्पितं साधनवाक्यादपनेतुमुक्तमेव न्यायमतिदिशन्नाह- "एतेन" अन्यथापि प्रतिपत्तेरुत्पत्तेःऽ इति न्यायेन "उपनयनिगमनादिकं" आदिग्रहणात्संशयजिज्ञासादिकं "प्रत्युक्तं" प्रत्याख्यातम् । तत्र "उदाहरणापेक्षः ’तथाऽ इत्युपसंहारो ’न तथेऽति वा साध्यस्योपनयः", "प्रतिज्ञायाः पुनर्वचनं प्रतिज्ञा" इति तु प्रतिज्ञायाः । एतेनेत्येतदेव दर्शयति- "एतावतैव" पक्षधर्मसम्बन्धवचनमात्रेणैव उपनयादिरहितेन "साध्यप्रतीतेः भावात्" उत्पत्तेरिति । अत्रोद्यो(द्द्यो)तकरः प्राह- प्रतिज्ञा तावद्विषयनिर्द्देशार्थमवश्यकर्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति । ततः कुठारादिकं साधनं व्यापारयति । उपनयेनापि यावद्दृष्टान्ते दृष्टसामर्थ्यो हेतुर्द्धर्मिणि नोपसंह्रियते तावत्कुतः साध्यप्रतीतिः? । स्वार्थानुमानदृष्टश्च प्रत्यवमर्शप्रत्ययार्थोऽनेन दर्श्यते । तथा हि- स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो ’यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निमपिऽ इति व्याप्तिं स्मरति । ततो ’धूमश्चात्रऽ इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते । निगमनमप्यवश्याभिधानीयम्, यतो यद्यपि पूर्वमनित्यः शब्द इत्युक्तम्, न तु तावतास्य निश्चयो जातः । सम्प्रति तु प्रमाणबलायातोऽर्थः तत्सम्प्रत्ययार्थमनेन निगम्यते । अशेषप्रमाणव्यापारश्चानेनोपसंह्रियते । तथा हि- आगमः प्रतिज्ञा, हेतुरनुमानं, (ह्ब्ट्७१) दृष्टान्तः प्रत्यक्षमुपमानमुपनयः । तदेतस्य प्रमाणचतुष्टस्यापि व्यापारो निगमनेनोपसंह्रियते- इति कथमस्य न साफल्यम्? इत्येतदाशङ्कयाह- "डिण्डिकरागं परित्यज्य" डिण्डिकाः- नग्नाचार्याः ते निष्फलमुपर्युपरि नामलेखने प्रसक्ताः ततस्तेषामिव ’परेणोक्ते तस्योपरि मयावश्यमयुक्ततया निष्फलमप्यभिधानीयम्ऽ इत्यस्थानाभिनिवेशं त्यक्त्वा "अक्षिणी निमील्य" बहिर्विक्षेपमुपसंहृत्य "चिन्तय तावत्"- "किमियता" पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य "प्रतीतिः स्यात्न वा?" इति । यावता यावानेव परार्थानुमानेऽर्थोऽभिधानीय इत्यस्माभिरनुज्ञायते तावानेवान्यूनानतिरिक्तः स्वार्थानुमानेऽपि प्रतीतिहेतुर्दृष्टः, तस्य क इह शक्तेर्व्याघातः? येनासौ परार्थानुमानेऽपि प्रतीतिं न कुर्यात् । "भावे" प्रतीतेः "किं प्रपञ्चमालया" प्रतिज्ञोपनयनिगमनलक्षणया, बालप्रतारकतदुपयोगोपवर्णनलक्षणया वा? । तथा हि- प्रतिज्ञोपनयनिगमनप्रयोगेऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात्, साध्यधर्मिणि वा सद्भावस्तदास्य नैव प्रतीतिहेतुता । तत्सम्भवे तु प्रतिज्ञाद्यभावेऽपि स्वार्थानुमान इव गमकरूपावैकल्यात्सा न निवार्यत इति किमस्थाननिर्बन्धेन इति? । नहि साध्यधर्माक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात्साध्यनिश्चयो युक्तः, हेतूपन्यासवैर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति । यतूक्तम् ’विषयप्रदर्शनाय प्रतिज्ञाऽ इत्यत्र शास्त्रकृतैव दत्तमुत्तरम् । यश्च साधनं प्रयुक्ते तेन ’हमनेन साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामिऽ इति कर्म निरूप्यैव तत्प्रयुक्तमिति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद्यस्य साध्यप्रतीतिरुपजायते तेनैव कर्म निरूपणीयं कथं तदभावे स्वार्थानुमाने साध्यसिद्धिः साधननिबन्धना (ह्ब्ट्७२) स्यात्? । यश्चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य ’क्वाग्निः क्वाग्निः?ऽ इत्यग्निं पर्येषते स प्रदेशे धूमदर्शनमात्रादेवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात्? । अथ कदाचिदसौ दृष्टस्तत्रेति परार्थेऽप्यस्योपादानं तदा दध्यादिकमपि भुक्त्वा कदाचिद्धूमादग्निं प्रतिपन्नवानिति किन्न दधिभोजनादेरपि कादाचित्कस्योपादानम्? । यत्पुनरुक्तम् ’ागमः प्रतिज्ञाऽ इति, तत्र यदि वादिवचनमेवागमस्तदा तत एव साध्यसिद्धेर्हेत्वाद्युपदानमनर्थकम् । अथ प्रतिज्ञार्थस्यागमे पाठादागमः प्रतिज्ञा, तदा न क्वचिदागमे पठ्यते अत्र प्रदेशेऽग्निरिति कथमागमत्वं प्रतिज्ञायाः? । ’हेतुरनुमानम्ऽ इत्यप्ययुक्तम्, न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् । दृष्टान्तोऽपि न सर्वः प्रत्यक्ष इति कथं ’दृष्टान्तः प्रत्यक्षम्ऽ भवेत्? । उपमानं तु प्रमाणमेव न भवति, कथं तव्द्यापार उपसंह्रियेत निगमनेन? । यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर्द्वर्मिण्युपनेयः तदोपनय एवास्तु किं ’कृतकत्वात्ऽ इति पक्षधर्मनिर्द्देशेन?, स एव दृष्टसामर्थ्यं हेतुमुपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किञ्चित्तेन । ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः पुनर्वचनं कुतो निगमनं भविष्यति? इत्याह- "इति" तस्माद्"इयानेव" पक्षधर्मसम्बन्धवचनमात्रात्मकः साधनवाक्ये "प्रयोगो ज्यायान्" न पञ्चावयवात्मक इति स्थितम् । [८. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः ।] अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः ’पूर्वं हेतुः प्रयोक्तव्यः पश्चाद्दृष्टान्तःऽ इति क्रमनियमोऽपि न कश्चित् । कुतः? सर्वथा यदि पूर्वं हेतुः पश्चाद्व्याप्तिः अथ पूर्वं व्याप्तिः पश्चात्पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् । (ह्ब्ट्७३) [९. हेतोस्त्रिधाप्रयोगस्य खण्डनम् ।] ननु तस्य द्विधा प्रयोग इत्ययुक्तमुक्तम् । यतस्त्रिविधो हेतुः- अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेति नैयायिकाः, ततस्तस्य त्रिघा प्रयोगः साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यमित्यत आह- "सम्बन्धवचनेऽपि" न केवलं क्रमनियमो न युक्तः किन्तु "अर्थ भेदोऽपि न कश्चिद्" उभयत्रापि त्रिरूपसद्भावात । ततः सर्व एव हेतुरन्वयव्यतिरेकी, न त्वन्वयी व्यतिरेकी वा कश्चिद्वेतुरस्तीति भावः । तत्कुतस्त्रिविध्यं प्रयोगस्य स्यात्? इति मन्यते । कुतः पुनरर्थभेदो नास्तीति? चेत्, आह- "उभयथा" साधर्म्येण वैधर्म्येण च प्रयोगे यद्यपि विधिप्रतिषेधरूपतया धर्मभेदः प्रतीयते तथापि "तद्भावस्यैव" साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां "ख्यापनात्" । ननु साधर्म्यप्रयोगे हेतुभावे साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दादवगम्यते, न तादात्म्यम् । तत्किमुच्यते ’तद्भावस्यैव ख्यापनात्’? इत्यत आह- "न हि" इत्यादि । यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य "अतत्स्वभावस्य भावे" किमिति "एकान्तेन" अवश्यन्तया "साध्यस्य भावः?" । कादाचित्कस्तु भवतु नाम? । ’यत्कृतकं तदनित्यम्ऽ इत्येकान्तभावश्च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगेऽभिधीयते । स च तादात्म्यमन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात्तदाक्षिपति । कथमिवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह- "कृतकत्वे"त्यादि । यदि प्रत्यत्नानन्तरीयकत्वमन्तरेणापि कृतकत्वस्य भावादतत्स्वभावत्वमनित्यत्वेऽप्ययमेव वृत्तान्तः । ततश्च तादात्म्यविरहात्प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ वा निवृत्तिरिति कथं ततस्तत्(ह्ब्ट्७४) प्रतीयते? । नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य तेन साधनात्, तत्र च तादात्म्यसद्भावादन्वयव्यतिरेकावनिवारितौ अनित्यत्वकृतकत्वमत्रापेक्षया तु तादात्म्यविरहोऽस्याभिहित इति । नन्वग्निनिवृत्तावतत्स्वभावस्यापि धूमस्य निवृत्तिर्दृष्टान्वयश्चेत्याह- "कार्यस्य" इति । अन्वयव्यतिरेकयोर्हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोरप्यभावात् । तत्रार्थान्तरस्य धूमस्याग्नौ "तदुत्पत्तिलक्षणः प्रतिबन्धोऽन्वयव्यतिरेकनिमित्तम" स्तीति भवेतां तौ । यत्र त्वनर्थान्तरस्य तावुच्येते तत्रावश्यं तादात्म्येन भवितव्यमित्यभिप्रायः । अत्रोदाहरणम् "यथा- अनयोरेव कृतकत्वप्रयत्नानन्तरीयकत्वयोर्विपर्ययेण नैकनिवृत्तावन्यनिवृत्तिः"- ’यत्प्रत्यत्नान्तरीयकं न भवति तत्कृतकमपि न भवतिऽ इत्येवंरूपा । यत एवं तस्मदन्वयव्यतिरेकयोर्यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोरवश्यमभावः इत्येकोऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयमाक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्, तस्यापि चेतरेण व्याप्तेः । तस्मादुभयत्र त्रैरूप्यप्रतीतेरेकस्य शब्दे(ब्द)तोऽपरस्यार्थत इति सम्बन्धवचनेऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धं ततस्तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण च । न तु साधर्म्यवैधर्म्यभ्यामपि, तदर्थस्यान्यतरेणैव प्रकाशनात् । सर्वो हेतुरन्वयव्यतिरेक्येव वस्तुतो न कश्चिदन्वयी व्यतिरेकी वा नामेत्येतदुपसंहरन्नाह- "इति नैकत्रा" न्वयमुखेन व्यतिरेकमुखेण वा साधनवाक्ये "द्वयो" रन्वयव्यतिरेकयोः "प्रयोगः" साक्षाच्छब्देन प्रतिपादनमिष्यते, "वैयर्थ्यात्" प्रतीतप्रत्यायने प्रयोजनाभावात् । (ह्ब्ट्७५) तामेवार्थतोऽपरस्य प्रतीतिं स्फुटयन्नाह- "तत्स्वभावतया" इत्यादि । यदि तत्स्वभावतया साध्येन हेतोरन्वयः सिध्यति तत एव "तदभावेऽभावोऽपि सिध्यत्येव" । तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् । "तथा" तत्स्वभावतया साध्याभावे साधनस्याभाव "सिद्धौ" "च" सत्यां तत एव साध्येन हेतोः "अन्वयस्यापि सिद्धेरिति" । यैस्तु व्याख्यायते- "साधर्म्यवति प्रयोगे तदभाव एव विपक्षे हेतोरभावख्यातिर्यथा स्यात्नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात्विरुद्धत एव व्यवच्छेदप्रसङ्गाच्चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः" इति । स तदर्थोऽप्ययुक्तः । कुतः? "अन्यविरुद्धयोरपि" न केवलं तदभावस्य "विपक्षत्वात्" यस्य हि- अन्य एव विपक्षोऽन्यधर्मयोगी वान्यो, न विवक्षितधर्मानाश्रयः, विरुद्ध एव वा सहानवस्थानलक्षणेनैव विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः- तस्यानित्यत्वादन्यानात्मादिधर्मवति अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः । औष्ण्ये च साध्येऽग्निलक्षणस्य हेतोर्विरुद्धादेव शीतात्नानुष्णशीतादप्यन्यतो व्यवच्छेदप्रसङ्गात्नैकान्तेनौष्ण्यमग्निर्ग्रसयेदिति तस्यायं दोषः स्यात् । तं प्रत्याचार्येणोक्तम्- यद्येकस्य विपक्षत्वमिष्यते तदा तदभावस्यैवेष्यताम्, न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावमन्तरेण तयोरन्यविरुद्धत्वायोगात् । न त्वस्माकं त्रिविधमपि विपक्षमिच्छताम्, विवक्षितधर्मानाश्रयं चान्यमिति भावः । [१०. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् ।] यदि स्वभावहेतावन्वयव्यतिरेकयोः साधनधर्मस्य साध्यस्वभावता निबन्धनमित्यन्वयेन व्यतिरेकेण वा साधर्म्येवैधर्म्यवतोः (ह्ब्ट्७६) प्रयोगयोरभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थादितराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर्निबन्धनं न शब्दमात्रतः प्रतीयमानेत्यभिप्रायवानाह- "कथमिदम्" इत्यादि । "येने"ति सतो नश्वरस्वभावत्वेन । सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् । पृच्छतश्चायमभिप्रायः- इह द्विविधाः सन्तः- कृतकाश्च घटादयः अकृतकाश्चाकाशादयः । तत्र ये तावदकृतकास्ते "सदकारणवत्नित्यम्" इति नित्यलक्षणयोगादनित्या एव न भवन्ति कुत एव क्षणिकाः? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता । येऽपि सन्तः कृतकास्तेषामपि मुग्दराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात्तद्वेत्वसन्निधावविनाशात्कृतकात्मनोऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्येवेति नान्वयव्यतिरेकयोः सम्भव इति । अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् । तथा हि- "अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम् । विना संसर्गितां याति न विनाशो घटादिभिः ॥" अन्यत्रापि चान्वयव्यतिरेकानुविधानमेव हेतुमत्ताव्यवहारनिवन्धनमभ्युपेयते सौगतैरपि, तदिहाप्यस्तीति किन्न तव्द्यवहारः प्रवर्त्यत्ते? इति । ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात्तत्स्वभावता पूर्वमेव प्रतिपादिता ’न्वयनिश्चयोऽपि स्वभावहेतौऽ इत्यादिवचनात् । तत्कुतोऽस्य पूर्वपक्षस्यावसरः? । सत्यम्, किन्तु पूर्वाचार्यैः कृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानामन्तेऽवश्यं हेतुनिबन्धनविनाशोपगमात्तद्वेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकमुक्तं तत्प्रसङ्गमुखेन कृतकल्क्षणस्यैव सत्त्वस्य तदात्मतां गमयति नान्यस्य इति दर्शयितुम् । अर्थक्रियाविरोधलक्षणं तु सर्वस्य सत्त्वस्य इति वस्तुमात्रेण (ह्ब्ट्७७) प्रागुक्तमपि विपञ्चयितुं पूर्वपक्षोपन्यासः । अकृतकलक्षणं तु सत्त्वं न सम्भवत्येव, नियामकं हेतुमन्तरेण देशकालस्वभावनियमायोगात् । ततः पूर्वाचार्यैर्न तस्यैकाङ्गवैकल्यादेव "सदकारणवत्नित्यम्" इति नित्यतासम्भव इति न तदात्मतां प्रति यत्नः कृतः । शास्त्रकारस्तु सामान्येन सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मतामर्थक्रियाविरोधेन, न परोपगतावश्यम्भाविविनाशस्याहेतुकतया विशेषाभावातुत्पन्नमात्रस्याभावप्रसङ्गेन प्रतिपादयिष्यति । [११. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समलोचनम् ।] तत्र पूर्वाचार्योक्तं ’सर्वस्य सतः कृतकस्यवश्यमन्ते हेतुकृतो विनाश इतिऽ यः परिरिष्यते तं प्रत्यनपेक्षत्वं ख्यापयितुमुपक्रमते "विनाशहेत्वयोगादिति" । यदि तर्हि नाशस्य हेतुर्नास्ति, स तेषां कृतकानां सतामवश्यम्भावी विनाशः कुतः? । न ह्याकस्मिकः कश्चित्स्वभावो युक्त इत्याह- "स्वभावत एव" । भवत्यस्मात्कार्यमिति भावशब्दो हेतुवचनः । तेन स्वहेतुभ्य एव "नश्वराः" नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि "भावा जायन्ते" । "नैषां" कृतकलक्षणानां सतां भावानां "स्वहेतुभ्यो निष्पन्नानां" "अन्यतः" अभिघातादे "र्विनाशोत्पत्तिः" । कुतः? "तस्या" भिघाताग्निसंयोगादेस्तद्धेतुतयोपगतस्य "असामर्थ्यात्" । तथाहि- अग्निसंयोगादिकाले त्रितयं लक्षयामः । तदेव काष्ठादिकं विनाश्यम्, अङ्गारादिकमवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर्व्यापरः चिन्त्येत । एतावत्यां च वस्तुगतौ न क्वचिदत्र विनाशहेतौः सामर्थ्यं युज्यते । यतो "नहि विनाशहेतुर्भाव" स्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य "स्वभावमेवा" स्थिरात्मतालक्षणं "करोति" । कुतः? "तस्ये"न्धनादेः "स्वहेतुभ्य" एव "निर्वृत्तेः" । नहि स्थिरात्मनो (ह्ब्ट्७८) निर्वृत्तस्यान्यथाभावः तदात्मा शक्यते कर्तुम्, तस्य हेत्वन्तरात्पश्चाद्भव्तोऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुमशक्यत्वात् । अथवा त्रितये समीक्ष्यमाणे यत्तावत्विनाश्यं काष्ठादि न तत्स्वभावमेवाग्निसंयोगादिर्विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेरिति । [१२. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम्] कुमारिलस्तु मन्यते- नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्विन्धनादेः प्रध्वंसाभावः । स चेन्धनादिरूपविकलमङ्गारादिकमुत्तरं भावान्तरमेव । तदुक्तम्- "नास्तिता पयसो दघ्नि प्रध्वंसाभावलक्षणम् ॥" इति । तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते । तथा चाह कश्चित्- "भावान्तरविनिर्मुक्तो भावोऽत्रानुपलम्भवत् । अभावः सम्मतस्तस्य हेतोः किन्न समुद्भवः? ॥" इति । तदेतत्कौमारिलं दर्शनमपनुदन्नाह- "नापि" इत्यादि । यद्युत्तरं कार्यात्मकं "भावान्तरमेव" अभावस्तदाग्निसंयोगादयोऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टमेवास्माकम्, किन्तु "भावान्तरकरणे" अभ्युपगम्यमानेऽग्न्यादीनामिन्धनादावव्यापारात्तदवस्थमेवेन्धनादिकम् । ततश्च यथाग्निसंयोगात्प्रागिन्धनादेरुपलब्धिः अन्या च तत्साध्यार्थक्रिया तथाङ्गाराद्युत्पत्तावप्युपलब्ध्यादेः प्रसङ्गः । ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताविन्धनादीनां प्रध्वस्तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः? । सत्यम्, एवं मन्यते- सर्वस्येन्धनादेरन्यस्य गवादेरपि तथाभावो मा भूतित्यङ्गारादेः ध्वंसव्यवस्थायां निबन्धनमभिधानीयम् । (ह्ब्ट्७९) तस्मिं(स्मिन्) सति तन्निवृत्तिरिति चेत्, अहो वचनकौशलं यतो निवृत्तेस्तुच्छस्वभावतानङ्गीकरणात्तदेव भावान्तरमङ्गारादिकं निवृत्तिं ब्रूषे । तदयमर्थः सम्पन्नः अङ्गारादिभावेऽङ्गारादिभावादङ्गारादिकं ध्वंसः काष्ठादेरिति । न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् । अग्न्यादिभ्यश्च तदुत्पादवचनादिन्धनाद्युपमर्द्देनाङ्गारादिभावातस्य ध्वंसंरूपतेति चेत् । कोऽयमुपमर्द्दो नाम? । यदि निवृत्तिः साङ्गारादिलक्षणैवेति न पूर्वस्माद्विशिष्यते । तस्मात्स्वरसतो निवर्तते काष्ठादिः, अग्न्यादिभ्यस्त्वङ्गारादिजन्म इत्येव भद्रकम्, अन्यथा काष्ठादे"स्तथोपलब्ध्यादिप्रसङ्गः" कथं न स्यात्? । अपि च- यदि भावान्तरं प्रध्वंसाभावो य एतेऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद्भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते? । तेऽप्यव्यक्ततामात्मभावं च विकारमेव ध्वंसं समलम्बन्त इति चेत् । न, प्रदीपादेर्भावरूपाव्यक्तताभावे प्रमाणाभावात् । यदि हि शक्तिरूपतापत्तिरव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात्तदभावे कथं प्रदीपादयः शक्त्यात्मनावस्थिताः कल्पेरन्? । अथोपलब्धियोग्यताविकलात्मतापत्तिरव्यक्तिः; अत्रापि तदात्मनावस्थितौ नैव प्रमाणमस्ति । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः । आत्मनश्चासत्त्वात्कथं तद्भावो बुद्ध्यादीनां विकारः परिणामश्च? । अन्यत्र विहितप्रतिक्रियत्वात्नेह प्रतन्यत इत्यलं प्रसङ्गेन । स्यान्मतम्- भावान्तरेणाङ्गारादिनावृतत्वातिन्धनादेस्तथोपलब्ध्यादयो न भवन्तीत्यत आह- "नापि" इत्यादि । स्वभावान्तरम् "अन्यस्ये"न्धनादेरा"वरणमपि"न"युज्येत" "तदवस्थे" अविचलित रूपे "तस्मिन्नि"न्धनादौ स"त्यावरणस्यापि" न केवलमनुपलब्ध्यादे"रयोगात्" । (ह्ब्ट्८०) [१३. भावाभावपक्षस्यापि समालोचनम् ।] न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावोऽपि न क्रियत इत्याह- "नापि" इत्यादि । कुतः? इति चेत्, "अभावस्य विधिना" पर्युदासेन विवक्षिताद्भावाद"न्य"तया कार्यत्वो"पगमे" क्रियमाणे किमिन्धनादिरूप एवासौ? अथार्थान्तरम्? इति "व्यतिरेकाव्यतिरेकाविकल्पानतिक्रमात्" । तत्र चोक्त एव दोषः । ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपोऽसावग्न्यादिजन्योऽभ्युपेयते । तद्भावे चेन्धनदिनां नैःस्वाभाव्यात्कुतः पूर्वदोषावसरः? । स चावश्यमग्न्यादिभावाभावानुविधायितया तत्कार्यस्तद्भावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् । तदुक्तम्- "सन् बोधगोचरप्रास्तद्भावे नोपलभ्यते । नश्यन् भावः कथं तस्य न नाशः कार्यतामियत् ॥ प्रागभूत्वा भवन् भावो हेतुभ्यो जायते यथा । भूत्वापि न भवंस्तद्वद्धेतुभ्यो न भवत्ययम् ॥" इति । अत आह- "भावप्रतिषेधे"त्यादि । अयमभिप्रायः- यद्यनपेक्षितभावान्तरसंसर्गश्च्युतिमात्रमेव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिण्येव तत्सम्भवात् । तस्याप्यभूत्वा भावोपगमात्कार्यता न विरुध्यत इति चेत् । न । भवनधर्मणो भावरूपताप्राप्तेरभावत्वहानेः । यतो भवतीति भावो भण्यते, नापरमङ्कुरादेरपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यामिति चेत् । सर्वसामर्थ्यविरहिणस्तर्ह्यस्य कथं प्रतीतिविषयता? । नह्यकारणं प्रतीतिविषयः, अतिप्रसङ्गात् । तदविषयस्य वा कथं हेतुमत्तावगतिः? वस्तुता वा? । उएमाच्यते ’तुच्छरूपमेव तद्वस्तुऽ इति । प्रतीतिजनकत्वे वा कथं न सामर्थ्यसम्बन्धिता? । सदितिप्रत्ययाविषयस्य कथं भावतेति चेत् । कार्यताप्यस्य कथम्? । स्वहेतुभावे भावातिति चेत् । कथं तर्हि सत्परत्ययाविषयता? । (ह्ब्ट्८१) तथा हि- यदि स्वहेतुभावे भवतीति प्रतीयते सदित्यपि प्रतीयेत । यतोऽस्तीति सदिति वदन्ति विद्वांसः । न चास्ति, भवति, भावः, सन्निति शब्दानामर्थभेदः परमार्थतः कश्चित् । अभावात्मकतयैव भवत्यसाविति चेत् । न । व्याहतत्वात्, यतो न भवतीत्यभाव उच्यते स कथं भवतीति व्यपदिश्यते? । प्रतिष्ठितेन केनचिद्रूपेण स्वज्ञानात्मन्यप्रतिभासनात्न भव इति चेत् । अत्यन्तपरोक्षाणां चक्षुरादीनामभावताप्रसङ्गः । न । तेषां ज्ञानहेतुरूपतया प्रतिभासनातिति चेत् । न । अस्यापि भवितृरूपतयावभासनात् । सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः? । केनचिद्रूपेणोन्मज्जनं हि भवनम् । ज्ञानविषयतयास्यापि च तेद्धेतुरूपतयावभासनस्य तुल्यत्वात्, अहेतोश्च विषयत्वायोगात् । अस्माकं त्वभावबुद्ध्यः स्ववासनापरिपाकान्वया निर्विषया एव । अभावस्य च भवितृत्वे कथं प्रर्युदासात्प्रसज्यप्रतिषेधो भिद्येत । असद्रूपस्य विधानेन पर्युदासात्स भिद्यत इति चेत् । न । असद्रूप्स्य भवनविरोधात् । भवतीति हि भूत्या सत्तयाभिसम्बध्यते । तत्र कथं सद्रूपस्य विधानम्? । पर्युदास एवैको नञर्थश्च स्यात्, सर्वत्र विधेः प्राधान्यात् । सोऽपि वा न भवेत् । यदि हि किञ्चित्कुतश्चित्निवर्त्येत तदा तव्द्यतिरेकि संस्पृश्येत तत्पर्युदासेन । तच्च नास्ति । सर्वत्र निवृत्तिर्भवति इत्युक्ते वस्त्वन्तरस्यैव कस्यचित्विधानात् । तथानेन वस्त्वन्तरमेवोक्तं स्यात्, न तयोर्विवेकः । अविवेके च न पर्युदासः । अप्रस्तुताभिधानं च स्यात् । भावनिवृत्तौ प्रस्तुतायामसदात्मनो वस्त्वन्तरस्यैव विधानात् । न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्यसतः कार्यत्वविरोधात् । पररूपेण तु सर्वमेव वस्त्वसदात्मकमिति नास्य घटादेः कश्चिद्विशेषः । भवतु वायमभावोऽग्न्यादिभ्यस्तद्भावे किमिति नोपलभ्यन्ते काष्ठादयः? । तथा हि- अग्न्यादीनामन्यक्रियायां चरितार्थत्वादनिवृत्ता एव तेभ्यः (ह्ब्ट्८२) इन्धनादयः प्राग्वदुपलभ्येरन् । तदुपमर्द्देन ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः? । न तावत्प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् । नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् । न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात् । ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् । ततश्चानवस्था । स एव ध्वंस इन्धनादेरग्न्यादिजन्मा निवृत्तिः, अतोऽस्यानुपलब्धिरिति चेत् । कथमन्योऽन्यस्य निवृत्तिः?, अतिप्रसङ्गात् । यदि चायं हेतुमांस्तद्भेदादात्मभेदं किं नानुभवति? । शालियवाङ्कुरादयोऽपि कारणभेदादेवात्मभेदमत्यन्तविलक्षणमनुभवन्तोऽध्यक्षत एवावसीयन्ते । न त्वेवमनपेक्षितभावान्तरसंसर्गः च्युतिमात्रलक्षणो ध्वंसः । तस्याभिघाताग्निसंयोगादिकारणभेदेऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्यवभासनात् । नहि भावशून्यतां विहायापरं तत्र किञ्चिद्रूपमीक्षामहे । विस्तरतश्चैतत्क्षणभङ्गसिद्धौ विचारितमित्यास्तां तावदिह । तस्मादग्न्यादिसंयोगकाले "न तस्य किञ्चिद्भवति न भवत्येव केवल" मित्येवोपगन्तु युक्तम् । यतो नायं कस्यचिद्भावेन नष्टो नाम किन्तु यतः स्वयमस्थिररूपतया भूतस्ततो नष्टो नाम । तेन नास्याभवनमन्यद्वा किञ्चिद्भवति । तथा च भवनधर्मणः कस्यचिदभावाद्भावं भवन्तं कुतश्चिन्न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात् । "एवं च" सति "कर्ता" अग्निसंयोगादिः "न भवति इत्यकर्तुरहेतुत्वमिति" तस्मा "न्न विनाशहेतुः कश्चित् ।" [१४. वैयर्थ्यादपि विनाशे हेत्वयोगः ।] न केवलमसामर्थ्याद्धिनाशहेत्वयोगः, किन्तु "वैयर्थ्याच्च" तदेवाह- "यदि स्वभावतो नश्वरो" नशनशीलः स्वात्म"न्यनवस्थायी" स्थातुमशक्तो यथा सूच्यग्रे सर्षपः "तस्य न किञ्चिन्नाशकारणैः" । किं कारणम्? । "स्वयं नाशात्" । "तत्स्वभावतयैव" अस्थिरस्वभावतयैव । नहि प्रकृत्यैव स्थातुमशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् । (ह्ब्ट्८३) अत्रैव व्याप्तिमादर्शयति- "यो हि" इत्यादि । "न पुनः तद्भावे" तत्स्वभावत्वे जनकाथेतो "र्हेत्वन्तरमपेक्षते ।" "न हि प्रकाशादयः" इत्यादिना दृष्टान्तविवरणम् । तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति- "तदात्मनो" यो यस्य स्वभावः तत्स्वभावस्य "तादात्म्याभावे" हेत्वन्तरमपेक्षमाणस्य स्वहेतोर्निष्पन्नस्यापि तत्स्वभावत्वाभावे "नैरात्म्यस्य" निःस्वभावतायाः प्रसङ्गात् । "तद्वत्" प्रकाशादिवत्"न पुनः" पश्चात्"तदात्मतायां" अस्थितिधर्मात्मतायां "हेत्वन्तरमपेक्षत" इति प्रमाणफलम् । "अस्थितिधर्मा चेत्" नश्वरस्वभावश्चेत् । "स्वभावतः" स्वहेतुभ्यो "निष्पन्नो" भाव इति पक्षधर्मोपसंहारः । विरुद्ध्व्याप्तोपलब्धिश्चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् । [१५. स्वतो विनश्वरत्वसाधकहेतावनेकान्तदोषोद्धारः ।] अत्र च परस्प वचनावकाशमशङ्कयाह- "बीजादिवत्" इत्यादि । "स्यादेतत्" इत्यादिना एतदेव विभजते "केवला न जनयन्ति" इति । कुतः? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानामपि बीजादीनां तदात्मतायामपेक्षणात् । ततश्च न पुनस्तद्भावे हेत्वन्तरमपेक्षन्त इत्यनेकान्तः । "तद्वद्भावोऽपी"न्धनादिः स्वहेतोर्नश्वरात्मा निष्पन्नोऽपि "विनाशे" विनश्वरात्मतायां स्यादिति दार्ष्टान्तिकम् । "न" बीजादिवदनेकान्तः । कुतः? "तत्स्वभावस्य" अङ्कुरादिजननस्वभावस्य बीजादेरङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् । यश्च क्षित्यादीकमपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य "अजनकस्य च अतत्स्वभावत्वात्" अङ्कुरादिजननस्वभावत्वाभावात् । तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः । [१६. प्रत्यक्षेण बाधात्न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः ।] ननु प्रत्यभिज्ञाप्रत्यक्षत एव बिजादीरेकस्वभावो लक्ष्यते । तत्र कुतोऽयं जनस्वभावत्वाजननस्वभावत्वलक्षणो भेदः? यतो (ह्ब्ट्८४)ऽनेकान्तो न स्यात् । न चाप्रमाणं प्रत्यभिज्ञा, "तत्रापूर्वार्थविज्ञानम्" इत्यादिप्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश्च प्रत्यक्षमेव प्रत्यभिज्ञानम् । न च प्रत्यक्षाद्गरिष्ठं प्रमाणमस्ति, यतस्तद्विषयस्य भेदसिद्ध्या बाधामनुभवदप्रमाणमेतत्स्यातित्याशङ्कयाह- ’त एवऽ जनकत्वाजनकत्वादेव विरुद्धधर्माध्यासात्’तयोरवस्थयोःऽ जनकाजनकावस्थयोः बीजादेः "वस्तुभेदः" स्वभावभेदो "निश्चेयः"अध्यवसातव्यः । यथा हि शालिबीजं तदङ्कुरजननस्वभावं तद्भावे शाल्यङ्कुरभावदर्शनात्प्रत्यक्षतोऽवगम्यते, यवबीजं चातज्जननस्वभावं तद्भावे शाल्यङ्कुरानुपलब्ध्या तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया प्रतीयते तथात्राप्यवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलादेव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते? । इष्यत एवावस्थयोर्भेदोऽवस्थावतस्त्वभेद इति चेत् । न । तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात् । न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासने तस्य प्रत्यक्षता युक्ता । अवस्था तद्वतोः स्वभावभेदाभावात्कथं रूपान्तरेण प्रतिभासनम्? इति चेत् । नन्ववस्थाभ्योऽनवाप्तरूपभेदस्यावस्थानामिवात्मनस्तद्भेदे सत्यभेदो न सङ्गच्छते । ततश्चास्यावस्थानामिवात्मभेदमनुभवतः कथमवस्थातृत्वम्? । अवस्थाभेदेऽप्यभिन्नरूपस्य तथा व्यवस्थानात्कथञ्चिद्भेदस्यापि भावाददोष इति चेत् । यदि यमात्मानं पुरोधाय ’यमवस्थाता, अवस्थाश्चेमाःऽ इति भण्यते तेनावस्थातद्वतोर्भेदस्तदा भेद एवेति ’कथञ्चित्ऽ इत्यन्धपदमेतत् । ततोऽस्य प्रत्यक्षतायामनात्मरूपविवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्तते । अथ तेनात्मनाभेदः । अवस्थावद्भेदप्रसङ्गोऽवस्थातुः, तद्वदवस्थानामभेदस्य वा । तयोरपि कथञ्चिद्भेदाभेदाविति चेत् । तयोस्तर्ह्यवस्थातद्वदात्मनोर्भेदवतोः कथञ्चिदनिमित्तं रूपान्तरमिष्टं स्यात् । (ह्ब्ट्८५) तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकस्वभावादत्यन्तमभेदादवस्थातद्वतोः परस्परमत्यन्तं भेदाभेदौ प्रसज्येयाताम् । रूपान्तरस्य कथञ्चिद्भेदे तन्निबन्धनमपरं रूपम्, तथास्यापि तदन्यदित्यपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत । न चापरिमितरूपप्रतिभासि प्रत्यक्षमनुभवामः । अननुभवन्तश्च कथं तत्कल्पनयात्मनैवात्मानं विप्रलभेमहि? । तस्मादवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भादपरिमितरूपताप्रसङ्गाच्च कथञ्चिद्भेदाभेदवतोऽवस्थातुरसत्त्वमेव । ताश्चावस्था जनकाजनकस्वभावभेदवत्यः प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यवसायि प्रत्यभिज्ञानं तब्दाधामनुभवत्कथं प्रमाणं स्यात्?, यतो बीजादिनामङ्कुरादिजननस्वभावानामपि तदात्मतायां हेत्वन्तरापेक्षणात्प्राक्तनस्य हेतोरनैकान्तिकता भवेत् । भवतु वावस्थाता कश्चित्, तस्याप्येतदेव भेदं साधयति । तथा हि- "तयोः" जनकाजनकावस्थयोरिति सप्तमीद्विवचनमेतत्तदा भवति । तदयमर्थो- जनकावस्थायामजनकावस्थायां च "वस्तुनः" धर्मिलक्षणस्य "भेदः" स्वभावनानात्वम् "अत एव" जनकाजनकस्वभावत्वादेव प्रत्यक्षावसितात्"निश्चेयः" निश्चयलक्षणस्तत्र व्यवहारः कर्तव्यः, विषयस्य विरुद्धधर्माध्यालसक्षणस्य दर्शनादिति । न च शाक्यते वक्तुम्- अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति । तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् । ततो यदेकरूपतया प्रत्यभिज्ञानं भावेषु तत्पूर्वोत्तरकालयोर्जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनामनुभवद्वाधां कथमिव प्रमाणं स्यात्? । तत्प्रतिभासिनश्चाभिन्नरूपस्यालीकत्वेऽक्षसमुद्भवामपि वृत्तिमनुभवतोऽस्य सत्सम्प्रयोगजत्वाभावात्तैमिरिकादिधियामिव कुतः प्रत्यक्षता? । न चार्थक्रियानिबन्धनं (ह्ब्ट्८६) रूपमपास्य बीजादेरपरः परमार्थतः स्वभावोऽस्ति, यस्याधिगमात्प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात्परमार्थसतः । तस्मात्सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्विवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त एव तत्त्वाध्यवसायो मन्तव्यः । ततः सतोऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम् । यदा तु विधुरप्रत्ययोपनिपाताद्विसदृशापरभावप्रसवः तदास्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिमवलम्बते । न च तदेकाकारपरामर्शप्रत्ययजनकत्वादपरं सादृश्यम् । भेदाविशेषेऽपि च स्वहेतुबलायातप्रकृतिवशात्केचिदेवैकाकारपरामर्शप्रत्ययलक्षणामर्थज्ञानादिलक्षणां वार्थक्रियां कुर्वन्ति नापर इति विपञ्चितं प्रमाणवार्तिक एव शास्त्रकृतेति नेह प्रपञ्च्यते । [१७. अनुमानेनापि प्रत्यभिज्ञाया बाधात्न ततः स्थिरभावसिद्धिः ।] अवश्यं च बीजादेर्जनकाजनकावस्थयोर्वस्तुभेदो यथोक्तोऽवगन्तव्य इति दर्शयितुमनमानमभेदस्य बाधकमाह- "भावानां" बीजादीनां स्वकार्यजनको यः "स्वभावः" तस्य तेषु सत्सु "अन्यथात्वाभावात्" कदाचिदजनकत्वासम्भवात्"तत्स्वभावस्य" अङ्कुरादिजनकस्वभावस्य "पश्चादिव" सलिलादिकारणसन्निधान इव "प्रागपि" कुशूलाद्यवस्थितिकालेऽपि स्वकार्य "जननप्रसङ्गात्" । तथा हि- सलिलादिसन्निधानेऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण । यश्चास्य तदाकार्यजनकः स्वभावः, स चेत्प्रागप्यस्ति, ’स एवायम्ऽ इति प्रत्यभिज्ञायां पुरोऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किमिति प्रागपि तत्कार्यं न कुर्यादिति? । प्रयोगः- यद्यदा यज्जननस्वभावं तत्तदा तज्जनयत्येव । अजनकस्य जनकत्वस्वभावविरोधात् । अन्यस्यापि वा तत्स्वभावतापत्तेः । यथा- तदेव बीजादिकं सलिलादिसन्निधिकाले । कुशूलाद्यवस्थास्वपि चेदं बीजादिकं स्वकार्यजननस्वभावमेव (ह्ब्ट्८७) प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः । न च जनयति । तस्मान्न तज्जननस्वभावमिति । विपर्ययप्रयोगः- यद्यदा यज्जननस्वभावं निर्वर्त्यं कार्यं न जनयति न तत्तदा तज्जननस्वभावम्, तद्यथा- शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यमजनयत्कोद्रवबीजम् । न जनयति च सलिलादिकारणसन्निधेः प्राक्तत्कार्यजननस्वभावनिर्वर्त्यं स्वकार्यं बीजादिकमिति व्यापकानुपलब्धिः । ततोऽनुमानतोऽपि बाधामनुभवत्प्रत्यभिज्ञानं कथं प्रमाणं स्यात्? । ननु चानेन बाध्यमानस्यानुमानस्याप्रामाण्यात्कथं बाधकत्वम्? । अनिश्चितप्रमाणभावेन कुतो बाधा? । नापि इतरेतराश्रयत्वम् । नहि प्रत्यभिज्ञानस्याप्रामाण्यादेतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् । स च विपर्यये बाधकप्रमाणबलान्निश्चित इति । [१८. प्रत्यक्षस्यानुमानात्गरीयस्त्वनिरासः ।] न प्रत्यक्षादन्यद्गरिष्ठं प्रमाणमिति चेत् । न । प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः । न हीयमनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे । किं कृतं च प्रत्यक्षस्य गरीयस्त्वम्? । तद्वयर्थस्यासम्भवेऽभावात्प्रमाणमुच्यते तच्चानुमानस्याप्यर्थप्रतिबद्धलिङ्गजन्यतया समानमिति नास्य कश्चिद्विशेषः । यदि चानुमानविरोधमश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदाकारस्य साम्यात्तदेकतां प्रतियती नीलेतरकुसुमादेः [प्रतीतिः] किं न प्रमाणम्? । नहि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस्तथाभावमनुभवति । विस्तरतश्च प्रत्यभिज्ञाप्रामाण्यनिरासः क्षणभङ्गसिद्धावेव विहित इत्यास्तां तावदिह । "यतः एवम्" उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर्वस्तुभेदः "तस्माद्योऽन्त्योऽवस्थाविशेषो" यदनन्तरमङ्कुरादिकार्यप्रसवः (ह्ब्ट्८८) "स एवाङ्कुरजननस्वभावः", कार्यदर्शनोन्नीयमानरूपत्वात्तज्जननस्वभावतायाः । यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनामवस्थाभेदानामतज्जननस्वभावत्वात्कथं तेषु तत्कारणव्यपदेशः? अङ्कुरार्थिभिर्वा तदुपादानम्? इत्यत आह- ’पूर्वभाविनस्तुऽ कुशूलाद्यवस्थितिकालभाविनस्तु "अवस्थाविशेषा अङ्कुकारणस्या"न्त्यस्यावस्थाविशेषस्य "कारणानि" प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया "तेभ्यस्तदुत्पत्तेः" । अतस्तेषूपचारतः कारणव्यपदेशोऽङ्कुरार्थिभिश्चोपादानम् । यतस्तत्स्वभावस्य बीजादेर्जननं न हेत्वन्तरापेक्षम्, यज्जानकमपेक्षते न तस्य तज्जनस्वभावत्वमिति । "तस्मान्नानेकान्तो" बीजादिवत्’तत्स्वभावत्वात्ऽ इत्यस्य हेतोः इत्युपसंहारः । तदेवं यदा तावत्प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैरूच्यते बीजादिवदनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात्तदात्मता नास्तीति कुतस्तत एकता भावानाम्?, यतोऽनेकान्तः स्यादिति प्रतिपादितम् । यदा तु प्रत्यभिज्ञायमानत्वात्पूर्वापरकालयोरेकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदायमसिद्धो हेतुः । न च स पक्षे क्वचिद्वर्तत इत्याह- "क्षणिकेषु भावेषु" अस्माभिरिष्यमाणेषु "ऐक्याभावा"दिति सम्बन्धः । [१९. तत्स्वभावत्वातित्यत्र पुनरपि अनेकान्तदोषोद्वारः ।] अथ यस्यापि क्षणिका भावास्तस्यापि बीजादीनां प्रतिक्षणमैक्याभावेऽपि विशेषानुपलक्षणादन्त्यक्षणवत्सर्वेषां जनकस्वभावानामपि तद्भावं प्रति सलिलाद्यपेक्षत्वात्तदवस्थमनैकान्तिकत्वमित्याशङ्कयाह- "अपरापरोत्पत्तेः" क्षणिकैरपि नानेकान्तः, अपरेभ्योऽपरेभ्यश्च प्रत्ययेभ्यः प्रतिक्षणमुत्पत्तेः क्षणिकानां भिन्नशक्तित्वादन्त्यक्षणवज्जनकस्वभावताविरहात्कुतस्तैरप्यनेकान्तः स्यात्? । न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणेऽप्यभिन्नस्वभावता युक्ता, हेतु (ह्ब्ट्८९) भेदाननुविधानेऽहेतुकताप्रसङ्गात् । तथा च वक्ष्यति- ’परापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्यपि कुतश्चित्साम्यात्समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिदेव कस्यचित्कारणम्ऽ इति । यदुक्तं ’तत्स्वभावस्य जननात्ऽ इत्यस्यानेकान्तमुद्भावयन्नाह परः- "ते" बीजक्षित्यादयः "अन्त्याः" अन्ते भवाः प्रत्येकमङ्कुरजनने ’समर्थाःऽ खण्डशः कारणेभ्यः कार्योत्पादाभावाद्भवद्भिरिष्यन्त इति "किन्न जनयन्ति प्रत्येकम्"? । ततश्चैषामेक एव कश्चिदङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति ’तत्स्वभावस्य जननात्ऽ इत्यनेकान्तः । तद्वत्कुशूलाद्यवस्था अपि बीजादयोऽङ्कुरादिजननस्वभावा अपि न जानयिष्यन्तीति तैरनेकान्तः तदवस्थ एवेति मन्यते परः । अत्राह- "इति" यदेवं त्वं मन्यसे । परेण सामान्येनाभिधानात्सामान्येनैवोत्तरमाह- "जनयन्त्येव" "नात्र" स्वकार्यजनने "अन्यथाभावः" अजनकत्वमाशङ्कनीयम् । कुतः? "स्वभावस्यावैपरीत्यात्" । यै हि न जनयेयुर्जननस्वभावा एव न स्युः । तत्स्वभावाश्चेष्यन्त इत्यवश्यं जनयन्ति, तथा च कुतोऽनैकान्तः? इति भावः । [२०. एकेकैव समर्थेन कार्यजनने परेषामनुपयोगमाशङ्कय तदुद्धारः ।] प्रत्येकमन्त्यानां जनकत्वे कार्यस्यैकेन जननादपरेषामुपयोगस्य निर्विषयत्वादजननमेवेति मन्यमान आह परः- "तेषु" अन्त्येषु "सहकारिषु" सह- युगपत्करणशीलेषु "समर्थस्वभावेषु" तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु "कार्यस्यैकेनैव जनितत्वात्कोऽपरस्योपयोगः?" नैव कश्चित् । तत्किमुच्यते ’जनयन्त्येवऽ इति? । एतत्परिहरति- ’न वैऽ नैव "भावानां" बीजादीनां काचित्"प्रेक्षापूर्वकारिता" बुद्धिपूर्वकारिता, "यतः" प्रेक्षापूर्वकारित्वात्’यमस्मास्वन्यतम एकोऽपि समर्थः कार्यजनने, किमत्रास्माभिः कर्तव्यम्?ऽ इत्यालोच्य "अपरे निवर्तेरन्" औदासीन्यं (ह्ब्ट्९०) भजमानास्तत्कार्यजनने न व्याप्रियेरन् । यस्मात्"ते" बीजादयो भावाः "निरभिप्रायव्यापाराः" पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने "कार्ये सर्व एव व्याप्रियन्ते" । भवनधर्मणि च कार्ये तेषां प्राग्भाव एव व्यापारः । तदन्यस्यायोगात् । यदि हि व्यापृतादन्य एव व्यापारः तदा तत एव कार्योत्पादाद्व्यापारवतः कारकत्वमेव हीयते । तस्यासौ व्यापारः ततस्तस्य कारकत्वमिति चेत् । नन्वेवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात्पारमार्थिकमस्य कारकत्वं हीयेत । कश्चास्य व्यापारेण सम्बन्धः? । समवायश्चेत् । न । तस्य प्रागेव निरस्तत्वात् । समवायाच्च व्यापारवत्त्वे अन्यस्यापि तत्कार्यानुपयोगिनस्तद्भावप्रसङ्गः, समवायस्येहेति बुद्धिहेतोरेकत्वेन सर्वत्र समानत्वात् । अभिमतेनैव व्यापृतेन तब्द्यापारोत्पादनात्नातिप्रसङ्गः इति चेत् । ननु तेन तदुत्पादनं तत्र समवायोदेवोच्यते । स च सर्वत्र समानः । येन च परिश्रमेण व्यापारं जनयति तेन कार्यमेव किन्नोत्पादयति? येन व्यवधानमाश्रीयते । यथा च स्वसन्निधिमात्रेनैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत एव कार्यमपीत्युक्तप्रायम् । तस्माद्भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः । स च सर्वेषामस्तीति सर्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते । "तदपि कार्यं सर्वेभ्य एव जायते" सर्वेषां भाव एव तद्भावात् । न हि कार्यस्य कारणाभिमतभाव एव भावमन्तरेणापरं जन्म । तथाभावे हि तत्रैव कारणव्यापारात्कार्यक्रियैवैषां न सम्भवेत् । ततश्च सत्स्वपि कारणेषु कथमस्य भाव उपलब्धिर्वा स्यात्? । तत्सम्बन्धिनो जन्मनः करणातिति चेत् । न । असता (ह्ब्ट्९१) तेन सम्बन्धायोगात् । स्वत एव सत्त्वे वा जन्मार्थानुपपत्तेः । जन्मकाले चोपलभ्यस्यात्मनः प्रागपि भावात्तथोपलब्धिप्रसङ्गः, रूपान्तरेण भावे नतस्य भावः स्यात् । रूपभेदलक्षणत्वाद्भावभेदस्य । तस्मादुपलभ्यात्मनो जन्मनः प्रागनुपलम्भादसत्त्वम् । ततोऽस्य जन्मसम्बन्धिता कुतः? । तस्मात्कार्यमेवाभूत्वा हेतुभावे भवतीति भाव एवास्य ततो जन्मेति सर्वेभ्यस्तत्जायते । नन्वेकस्यापि तज्जनने सामर्थ्यातपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रपरेषां भावः सङ्गच्छत इति चेदाह- "स्वहेतोः" क्षितिबीजसलिलादिसामग्रीलक्षणस्य "परिणामः" कार्योत्पादानुगुणविशेषवतः प्रतिक्षणमुपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः "उपनिधिः" कार्यदेशे सन्निधानं "धर्मो" येषां ते "तथाभवन्तः" कार्यदेशे सन्निधीयमानाः "नोपालम्भमर्हन्ति"- ’ेकस्याप्येतत्कार्यकरणे समर्थत्वात्किमत्र भवन्तः सन्निहिताः?ऽ इति न पर्यनुयोगमर्हन्ति । न हि तदपरसन्निधिमन्तरेण तत्रैकस्यापि भाव उपपद्यते । कुतः? "तत्प्रकृतेः" तत्प्रकृतित्वातिति भावप्रधानो निर्द्देशः । क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वादेकैकस्य समर्थस्य तदभावे कुतः केवलस्य सम्भवः?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थस्वस्वलक्षणान्तरारम्भात् । ततश्च प्रतिक्षणमुपधीयमानातिशयस्योत्पादात्केवलानां च तज्जननस्वभाववैकल्यात्तदपरप्रत्यययोगजन्यस्वभावत्वात्समर्थजनकस्य हेतोः । एतच्च यथावसरं तत्र तत्र व्यक्तीकरिष्यति । तस्माद्यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावेऽपि कारणवैकल्यान्न सम्भवतीत्येकसामग्रीजन्मनां सहभावो नियतः । सर्वेषां तेषां भाव एव कार्यस्य भावात्सर्व एव जनयन्तीति ’तत्स्वभावस्य जननात्ऽ इत्यत्र नानेकान्तः इति । (ह्ब्ट्९२) येनाभिप्रायेण ’तेऽन्त्याः समर्थाः किन्न जनयन्तिऽ इत्युक्तं तं प्रकटयन्नाह- "समर्थाः" इत्यादि । सिद्धान्तवाद्यपि ’जनयन्त्येवऽ इति यदभिप्रायवतोक्तं तमादर्शयति- "न, तत्रैव" इत्यादि । एतदेव व्याचष्टे- "तस्यैव" इत्यादि । अयमभिप्रायः- ’िदमत्र समर्थम्, इदमसमर्थम्ऽ इति प्रत्यक्षानुपलम्भसाधनाभ्यामन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात् । तौ चान्वयव्यतिरेकावेकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरपरजननम् । ते तु यदवस्था जनयन्तो दृश्यन्ते- किं तज्जननस्वभावास्तदैव? आहोस्वित्प्रागपि? इत्यत्र विवादः । तत्र प्रागपि तत्स्वभावत्वे पश्चादिव प्रागपि जनप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति । [२१. कारणभेदात्कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैरनेकान्तस्योद्भावनम् ।] पुनरन्यथा क्षपणकजैमिनीया अनेकान्तमुद्भावयन्त आहुः- "भिन्नः" परस्परव्यावृत्तः "स्वभावो" येषां तेभ्यश्चक्षुरादिभ्यः "सहकारिभ्यः" युगपत्कर्तृभ्यः "एकस्य" विज्ञानलक्षणस्य "कार्यस्योत्पत्तौ" सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्वेकमभिन्नस्वभावमिति "न कारणभेदात्कार्यभेदः स्यात्" । ततश्चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः । किन्त्वभिन्नमेषामेककार्यजनकं सामान्यभूतं रूपमुपेयं येनाभिन्नं कार्यं जनयन्ति । तच्च समग्रावस्थायामेव तत्कार्यं जनयति न व्यग्रावस्थायाम् । न चैकैकाभावे तस्याभावः, सामान्यात्मनः कदाचिदभावविरोधात् । न च तदास्याजनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थयोर्भेदप्रसङ्गात् । तथा च सामान्यात्मना हानिः । ततो यदस्य समग्रेषु चक्षुरादिषु जनकं रूपं तदेकैकाभावेऽपि विद्यते न च जनयतीति ’तत्स्वभावस्य जननात्ऽ इत्यनेकान्त इति । [२२. सिद्धान्तवादीना दूषणोद्वारः ।] सिद्धान्तवाद्याह- "न, यथास्वम्" इत्यादि । एवं मन्यते- किं पुनरिदं कारणमभिमतं भवतः? । यदि प्रत्येकं चक्षुरादिकम्; (ह्ब्ट्९३) तदयुक्तम् । सामग्रीजन्यस्वभावत्वात्कार्यस्य, तस्या एव कारणत्वात् । ननु तदवस्थायां प्रत्येकमेव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात्प्रत्येकमेव चक्षुरादिकं कारणम् । यद्येवं कोऽयं नियमो यदनेकस्माद्भवतानेकेन भवितव्यं विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत्कार्यं कर्तव्यमिति च न नियमकारणमुत्पश्यामः । एकं च तत्कार्यं करोतीति कुतोऽवसितम्? । तद्भावे भावातिति चेत् । अनेकत्रापि समानमेतत् । तदुक्तम्- "तस्यैवेइकस्य जनने समर्थाः नान्यस्य इति नापरापरजननम्" इति । न चानेकस्माद्भवदनेकं प्राप्नोति । यतो नास्माकं भवतामिव कारणमेव कार्यात्मतामुपैति, यतोऽनेकपरिणतेरनेकरूपत्वात्कार्यस्यानेकता स्यात् । किन्तु अपूर्वमेव केषुचित्सत्सु भवति । तच्चानेकभाव एव भावात्तत्कार्यमुच्यते तस्य कुतोऽनेकताप्रसङ्गः? । यत्त्वभिन्नं रूपं जनकमुच्यते तस्यैकस्थितावपि भावात्तत्कार्यजननस्वभावाच्च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात्तदापि वान जनयेत् । तस्माद्येषुं भावाभाववत्सु कार्यं भावाभाववद्दृष्टं त एव विशेषा जनका इति कुतोऽनेकान्तः? । अथ सामग्रीं कारणमाश्रित्योच्यते ’न कारणभेदात्कार्यभेदः स्यादितिऽ, "तन्न", "यथास्वं" यस्याः सामग्र्याःय आत्मीयः स्वभावस्तद्भेदेन "तद्विशेषोपयोगतः" तस्य- विज्ञानलक्षणस्य कार्यस्य, विशेषाः- सामग्रीभेदाद्भिन्नाः स्वभावाः, तेषूपयोगतः तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः- कार्याणांविशिष्टाः स्वभावाः तेषामसङ्करात्परस्परव्यावृत्तरूपत्वात् । सामग्रीभेदाद्भिन्नरूपतैव कार्याणामिति कथन्न कारणभेदाद्कार्यभेदः स्यात्? । तथा हि- एका सामग्री मनस्कारतत्साग्दुण्यादिलक्षणा, ततो विकल्पविज्ञानमात्रं जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततोऽप्यभ्रान्तविज्ञानसम्भूतिरिति भिन्नसामग्रीजन्मनां कार्यस्वभावविशेषाणामसाङ्कर्यादस्त्येव (ह्ब्ट्९४) सामग्रीलक्षणकारणभेदात्कार्याणां भेद इति । ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषामुपयोगविषयस्यैकत्वात्कथमसाङ्कर्यम्? । तथाविधस्य साङ्कर्यस्येष्टत्वातदोषः । तदुक्तम्- "तत्रैवैकत्र सामर्थ्यात्" इत्यादि । कथं तर्हि तेषां तज्जनकत्वम्?, यदि तद्भेदात्न भिद्यते कार्यम् । किं नु वै समग्राणामन्यान्यकार्यजननेन जनकत्वं यतस्तदभावे तन्न स्यात् । जनकत्वं ह्येषां तद्भाव एव कस्यचिद्भावात् । तत्रैकस्यानेकस्य वा भावे तेषामेकानेकजनकत्वमुच्यते । [२३. एकसामग्रीजन्येष्वपि कार्येषु भेदोपपादनम् ।] नन्वेकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस्तु कथम्? । तदतद्रूपहेतुजत्वाद्धि भावास्तदतद्रूपिण इष्यन्ते । तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोरपि भावाद्विज्ञानेनाभिन्नहेतुजत्वात्तयोर्विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत? । आह च- "तदतद्रूपिणो भावास्तदद्रूपहेतुजाः । तद्रूपादि किमज्ञानं विज्ञानाभिन्नहेतुजम् ॥" इति । नैष दोषः । तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस्तु स्वविज्ञानजननयोग्यस्य जनमनि सहकारिकारणम् । एवमितरत्रापि यथायोगम्वाच्यम् । ततोऽन्यादशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादशी च विज्ञानादेरिति तद्वैलक्षण्यादेव कार्याणां वैलक्षण्यम् । स्यादेतत्- सर्वेषामन्वयव्यतिरेकावनुविधीयेते तदा चक्षुरादिक्षणैरिति कुतोऽयं भेदः- इहोपादानभावे भेद(भावेनेद)मुपयुज्यते, अन्यत्र तु सहकारिभावेनेति? । बोधरूपतादेरनुकाराननुकाराभ्यां (ह्ब्ट्९५) तद्भावे व्यभिचाराव्यभिचारतश्च । तथा हि- विज्ञानं मनस्कारस्य बोधरूपतामनुकरोति, न चक्षुरादेर्जरा(डा)दिभावम् । एवमन्यदपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये च पूर्वभाविनश्चक्षुषो न स्वविज्ञानयोग्यताहेतोः समनन्तरप्रत्ययस्य । एवं रूपस्यापि वाच्यम् । तस्मादवस्थाभेदेऽपि यदेकाकारपरामर्ष(र्श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तदुपादानकारणं यत्सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत्सहकारिकारणम् । सा चेयं भावानां स्वहेतुपरम्परयाता प्रकृतिर्यया किञ्चित्कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्यपरं च सन्तानान्तरव्यपदेशनिबन्धनमिति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच्चक्षूरूपविज्ञानक्षणानां परस्परतो वैलक्षण्यं न विरुध्यते । [२४. कारणानेकत्वेऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः ।] तस्माद्यदि ’कारणभेदात्ऽ कारणानेकत्वात्"कार्यस्य भेदः" अनेकत्वं तदा प्रतिबन्धाभावादनेकान्तः । न च तदभ्युपगम्यत इति न काचित्क्षतिः । अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद्वैलक्षण्यं कार्यस्यापि भेदोऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते । तदा तस्येह भावात्कथं न कारणभेदात्कार्यभेदः स्यात्? इति अभिप्रायवता ’नऽ कारणभेदात्कार्यभेदो न स्यात् । कुतः? । "यथास्वम्" इत्याद्यभिहितम् । उभयं चैतत्कार्येषु प्रमाणपरिदृष्टमिति दर्शयन्नाह- "यथा" इत्यादि । मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वेऽप्यनेकरूपता । नापि सामग्र्यन्तरजन्यादभिन्नस्वभावतेत्युदाहरणार्थः । तत्र सामग्र्यन्तरजन्यात्तावद्भेदं दर्शयति- "मृत्पिण्डात्" इत्यादि । इह मृत्पिण्डकुलालसूत्राणि (ह्ब्ट्९६) व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्योऽभिन्नस्वभावानि यानि कार्याणि साधयन्ति तेभ्यो विलक्षणमेव समग्राणि घटात्मकं कार्यं जनयन्ति । तथा हि- कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद्वृक्षादेर्विलक्षणमेवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः । कुलालादिसहितोऽपि तदात्मकमेव घटम् । तक्तारणाहितविशेषश्च केवलमृत्पिण्डाद्भिन्नस्वभावतया तक्तार्यादपीष्टकादेर्विलक्षणमेव करोति । एवं कुलालादिकमपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यं करोति तद्विलक्षणमेव मृत्पिण्डसहितं तत्कारणाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः । तत्र मृत्पिण्डाद्भिन्नः स्वभावो घटस्य ये तदन्योपदानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस्तेभ्यो भवति । "कुलालात्" मृत्पिण्डोपादानाहितातिशयात्सहाकारिभावेनोपयुज्यमानात्"तस्यैव घटस्य" मृत्पिण्डोपादानतया मृदात्मनः सतः "संस्थानविशेषः" पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस्तदन्यनिमित्तसहित उपादानमिष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति । "सूत्रात्" मृत्पिण्डकुलालकारणाहितविशेषात्तस्यैव घटस्य "मृत्संस्थानविशेषात्मनो" मृत्पिण्डकुलालयोस्तज्जननस्वभावत्वात्घटस्य तद्रूपयोगात्"तयोश्च" सूत्रकारणोपहितविशेषयोस्तन्निरपेक्षावस्थातो भिन्नात्मकतया "चक्रादेर्विभक्तो" विछिन्नः "स्वभावो भवति" तस्मादनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्मादेकैककार्याद्द्विद्विकार्याच्च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद्भिन्नान्येव कार्याणि परस्परमसङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः सिद्धः । तस्य चैकैकतद्वस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशोऽनुत्पादाच्च । तेदेकैकजन्यत्वेऽपि वस्तुतस्तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य । विशेषस्येतरसन्निधौ तद्दर्शनात्’तज्जन्योऽयम्ऽ इति तत्त्वचिन्तकैर्विवेच्यते । यतः (ह्ब्ट्९७) कार्यविशेषार्थिनोऽनेककारणपरिग्रहं कुर्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम् । यत एवं सामग्रीभेदाद्भिन्नान्येवेष्टकाचक्राविभक्तघटतव्दिभक्तघटलक्षणानि कार्याणि भवन्ति "तत्" तस्मात्"एवम्" उक्तेन प्रकारेण कुलालात्मृत्पिण्डरहितादन्यसामग्र्यन्तर्भूतात्न मृत्स्वभावता कस्यचित्कार्यस्य, मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात् । न मृदः केवलायाः तत्सामग्रीबहिर्भूतायाः संस्थानविशेषः कुलालोपादानोपकृताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात् । [२५. सहकार्यनेकत्वेऽपि कार्यस्य ऐक्यम् ।] तदेवं सामग्रीभेदाद्भेदं कार्यस्योदाहरणे प्रतिपाद्य सहकारिणामनेकत्वेऽप्यनेकात्मताविरहं प्रतिपादयन्नाह- "न च तयोः" मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य तदन्यावस्थाविषयाद्भेदे सत्यपि यथा तदन्यस्माद्भेदः, एवं "स्वभावेन न भेदः" । "स्वरूपतोऽपि न नानात्वं" नानेकात्मकता "कार्यस्य" । ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद्भिद्यत इति भेदो अस्य । कथं पुनरेत[द्] ज्ञायते ’तदन्यस्मादिव स्वभावतोऽप्यस्य भेदो नास्तिऽ इत्यत आह- "मृत्संस्थानयोः" इत्यादि । यदि हि मृत्कुलालयोः तदवस्थाभाविनोः "शक्तिविशेषविषयो" मृत्संस्थानविशेषात्मको "भेद"स्तदन्यस्मादिव स्वरूपतो भिद्येत तदा मृत्संस्थानयो "रपरस्परात्मतया" परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत्न प्रतिभासेत, न मृत्स्वभावेन च संस्थान विशेषः, यथा तदन्यरूपेण । न हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपमनुकर्तुं युक्तम्, (ह्ब्ट्९८) भ्रान्तताप्रसङ्गेन तद्वशादर्थव्यवस्थानाभावप्रसक्तेः । तस्मात्मृत्संस्थानयोरेकात्मतैवेति न कारणानेकत्वात्कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधादेकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणमिष्येत । एतच्चैकसामग्र्यपेक्षयैककार्यकर्तृत्वमुच्यते । परमार्थतस्तु तत्सामग्र्यन्तर्गतानां सजातीयस्यापि क्षणान्तरस्यारम्भात्सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिदेकं नास्ति तथाऽनेकप्रत्ययजनितमपीति कारणानेकत्वात्कार्यानेकत्वोपगमेऽपि न काचित्क्षतिः । तत एककार्यापेक्षयाऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च । [२६. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः ।] ननु च मृत्संस्थानविशेषयोरेकस्वभावत्वेऽप्यह्रीकादिभिः सङ्खयादिभेदाद्भेद इष्यते तत्कथमनेकप्रत्ययजनितस्यैकत्वे एतदुदाहरणं स्यात्? । सर्वत्रैव हि द्रव्यपर्याययोः सङ्खयासंज्ञालक्षणकार्यभेदाद्भेदो देशकालस्वभावाभेदाच्चाभेद इष्यते, यथा घटस्य रूपादीनां च । तथा हि- एको घटः रूपादयो बहव इति सङ्ख्याभेदः । घटः रूपादयः इति संज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यन्नित्यं च, व्यावृत्तिलक्षणा भेदाः क्षणिकाश्च; जैमिनीयस्य तु केचित्कालान्तरस्थायिनोऽपीति लक्षणभेदः । घटेनोदकाहरणं क्रियते, रूपादीभिः पुनर्वस्तुराग इति कार्यभेदः । एवं सर्वत्र द्रव्यपर्यायोः सङ्खयादिभिर्भेदः देशादिभिस्त्वभेद इति मृत्संस्थानयोः कथञ्चित्भेदात्मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकतास्त्येव । यथा त्वेकता तथा ताभ्यां तस्य अभिन्नात्मजन्यतैवेति यदनेककारणं तदनेकमेव, यत्पुनरेकं तत्सहकारिणामभिन्नरूपजन्यतयैककारणमेवेति न व्यभिचार इति । (ह्ब्ट्९९) तदयुक्तम् । स्वभावतो भेदानभ्युपगमे अन्यथा भेदासिद्धेः अनेकस्मादेककार्योत्पत्तेरबाधनात् । स्वभावतो भेदोपगमे वापरस्परात्मतया भृत्संस्थानयोः संस्थानमृत्स्वभवविशेषाभ्यां तयोरप्रतिभासनं दुर्निवारम् । यदि हि स्वभावतो न भेदो धर्मधर्मिणोः, सङ्खयादिभेदादपि नैव भेदः । न हि पररूपाः भिद्यमाना अपि सङ्खयादय आत्मभूतमभेदं बाधितुं समर्थाः । सङ्ख्याभेदस्तावदसमर्थः, एकस्मिन्नपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् । यथा गुरव इति । न च बहुवचनस्य नियमेनादर्शनाद्रूपादयोऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचिदेकवचनं स्यात् । सम्भवि धर्मिरूपमात्रमभिधेयत्वेन विवक्षितमिति चेत् । न । तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोरप्रतितिप्रसङ्गात् । ब्रीहय इति च जातिवचने धर्मिणो रूपादीनां चानभिधानात्न किञ्चिदुत्तरम् । उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात्कथं सम्भविनो धर्मिरूपस्यैकत्वेन विवक्षा? । ततश्चैको गुरुरिति सामानाधिकरण्यदर्शनात्पर्याया अप्येकसंख्याविषयाः । ते च पर्यायरूपेण भिद्यन्ते । तत्कथं संख्याभेदाद्भेदसिद्धिः? इति । संज्ञापि सङ्केतनिबन्धना । स चेच्छायत्तवृत्तिरिति कुतस्ततोऽर्थभेदः? । एकस्मिन्नपि च संज्ञाभेददृष्टेः कथमस्य भेदनिमित्तता? । यथा इन्द्रः शक्रः पुरन्दरः इति । अत्रापि इन्दनात्शकनात्दारणाच्च शक्तिभेदो गम्यत इति चेत् । न । समस्तस्य कार्यकर्तृत्वात् । न हि शक्तिरेव इन्दति शन्कोति दारयति च । किं तर्हि? । धर्मिरूपमपि, तयोरेकस्वभावोपगमात्, शक्नोत्यादिपदैस्तद्वाचिनां सामानाधिकरण्यदर्शनाच्च । न चास्खलव्दृत्तिप्रत्ययविषयत्वादुपचारकल्पना युक्तेति । येषां च पर्यायाणां न काचिदर्थानुगममात्रा तत्र किं वक्तव्यम्? । लक्षणभेदोऽप्यहेतुः असिद्धत्वात् । नह्येको भावः क्वचिदप्यन्वयी सिद्ध इति । तथा हि- न कूटस्थनित्यतया नित्यं द्रव्यमह्रीकैरिष्यते, (ह्ब्ट्१००) परिणामनित्यतोपगमात् । सा च पुर्वोत्तरक्षणप्रबन्धवृत्त्या । नह्यस्य पर्यायाणामिवोच्छेदः तद्रूपेण, पर्याया एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति नित्यमभ्युपगम्यते । न चेयं कूटस्थनित्यता वा द्रव्ये सम्भवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् । पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् । न पुनस्तत्ततो विलक्षणमुपलक्ष्यते । कार्यभेदस्त्वस्मान् प्रति असिद्ध एव । रूपादीनामेव केषाञ्चित्तत्कार्यकर्तृत्वात् । तथाप्यभ्युपगम्योच्यते- कार्यं हि द्विविधम् । भिन्नकालमभिन्नकालं च । तत्र पूर्वं भवति भेदनिवन्धनं यदीह सम्भवेत् । तत्तु न सम्भवति धर्मधर्मिणोस्तुल्यकालत्वात् । अभिन्नकालस्तु कार्यभेदेऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् । पटादयोऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः । न च धर्मिरूपेण भिद्यन्ते, एकस्यानेकक्रियाविरोधाभावाच्च । नह्यत्र कारणमेव कार्यात्मतामुपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात्तदन्यकार्यात्मतोपगतिर्न स्यात् । किन्त्वपूर्वमेव कस्यचिद्भावे प्रागविद्यमानं भवत्तत्कार्यम् । तत्र विषयेन्द्रियमनस्काराणामितरेतरोपदानाहितरूपभेदानां सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानुविधानादनेकक्रियोपगमो न विरुध्यते । यत्र एकक्रियायामपि तस्य तद्भावभावितैव निबन्धनम् । सा चानेकक्रियायामपि समानेति । ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात्तज्जननस्वभावतैवैषामवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् । ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कथं तदन्यकार्यसम्भवः? । (ह्ब्ट्१०१) तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश्च विज्ञानमेव न कुर्युः, तदः यजननस्वभावत्वात् । नैष दोषः, तेषामनेककार्याक्रियास्वभावत्वात् । तथा हि- ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात्नान्यजननस्वभावता । न चातस्तेषामनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् । न हि तदन्यापेक्षया विपर्यव्यावृत्तिमुपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस्तथाभिधानात् । यथा रूपं सनिदर्शनं सप्रतिघमिति । नह्यत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् । तन्निमित्तानामेकत्र भावातदोष इति चेत् । न । तेषां तदेकोपकारानपेक्षिणां तदयोगात् । अपेक्षायां वा कथमेकमनेककार्यं न स्यात्? । अनेकेनैवात्मनोपयोगातिति चेत् । न । सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात् । न च नीलादीनामात्मभेदमध्यक्षमीक्षामहे । नापि कार्यभेदादेवात्मभेदानुमानम्, प्रतिबन्धाभावात्, तदाग्रहकप्रमाणाभावात् । प्रत्यक्षतोऽनेककार्याणामपि भावानामेकात्मतयैवोपलक्षणात्प्रदीपादीनाम् । नानुमानतः, तत्रापि विपर्यये बाधकप्रमाणाभावात् । एकस्यानेकक्रियानभ्युपगमे च योऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित्सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् । भिन्ननिमित्तानां सहभावनियमायोगात् । तन्निमित्तानामपि तदेककारणानायत्तजन्मनां नियतसाहित्यासम्भवात् । तदेकधर्मिस्वभावतयैकत्र सहभावनियम इति चेत् । न । एकस्यानेकस्वभावताया एव चिन्त्यत्वात् । अनेकेनैकस्वभावतां चानुभवतः तद्वदनेकताया दुर्निवारत्वातन्यथा धर्मधर्मिणां कथं (ह्ब्ट्१०२) नैकान्तिको भेदः? । तथा हि- यमात्मानं पुरोधायायं धर्मी पर्यायाश्चैते इति व्यवस्थाप्यते, यदि तस्य भेदस्तदा भेद एवेति । अनेकस्याप्येककार्यता न स्यात् । न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः । न चैकमेव किञ्चित्क्वचित्जनयति । ततश्च सर्वत्र कार्यकारणभाव एवोऽत्सीदेत्, अनेकस्यैकस्य चैकानेकक्रियाविरहात्प्रकारान्तराभावाच्च । नाप्येहेतुकमेव विश्वम्, देशकालप्रकृतिनियमात् । तस्मादेकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानामेककार्यक्रियानियमो वा । ततश्च स्वसन्तानक्षणमितरोपादानं च युगपदुपकुर्वतः कथमेकस्यानेककार्यता न स्यात्? । ततः काथं कार्यभेदाद्भेदः कल्प्येत? । द्रव्यपर्यायाणां चैकस्वभावतामाचक्षाण एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः?, स्वभावस्यैव वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात् । एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद एकवस्तुनिबन्धन एवेति कार्यभेदाद्भेदमभिदधानः स्फुटमह्रीक एवायमित्युपेक्षामर्हति । [२७. वैशेषिककृतोऽप्येकस्यानेककार्यकारित्वाक्षेपो न युक्तः ।] वैशेषिकोऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिकारणतां ब्रुवाणः कर्मणश्चैकस्य संयोगविभागसंस्कारनिमित्ततामेकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः । न चात्र शक्तिभेदो निबन्धनम्, यतस्तदेकोपकारनिरपेक्षाः कथमेताः शक्तयो नियतार्थाधाराः?, न पुनरनवयवेन व्यक्तीर्वाश्नुवीरन्? । ततो यत एवास्यात्मातिशयादनेकशक्त्युपकार (ह्ब्ट्१०३) तत एवानेककार्यक्रियापि, इत्यलमतिविस्तारिण्या कथयेति । [२८. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः ।] देशकालस्वभावाभेदादभेदस्तु योऽभ्युपगम्यते सोऽप्यनुपपन्न एव । तथा हि- देशकालयोरभेदेऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः कथमभेदसिद्धिः? । स्वभावोऽपि यदि द्रव्यपर्याययोर्द्वयोरपि प्रत्येकमनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं स्याद्घटपटवद्, न त्वेकं द्विरूपमिति कथन्तस्मादभेदसिद्धिः? । न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोरनुवर्तमानव्यावर्तमानाधीनत्वात् । ततश्चानुवर्तमानव्यावर्तमानयोः स्वभावोऽन्यो वक्तव्यः, न तु तयोरनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन भवित्रधीनत्वात् । नहि स्मृतिः स्मर्तुः स्वभावो भवति । अनुवृत्तिव्यावृत्त्योश्च स्वभावत्वे लक्षणात्स्वभावस्य भेदो वक्तव्यः । मृदादिरूपता स्वभाव इति चेत् । अत्राप्यभेद इति यदि सादृश्यमुच्यते; तद्भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् । ततश्च पदार्थद्वयमेव स्यात्न त्वेकं द्विरूपमिति । अथैक्यं द्वितीयरूपरहितताभेदोऽङ्गीक्रियते कथं तर्हि द्विरूपता? । रूपशब्देन ह्यत्र स्वभावोऽभिधीयते । तस्य चैक्ये कथं द्वीरूपता? । विप्रतिषिद्धं ह्येततेकस्वभावता द्विरूपता चेति । अथ पुनः स्वभावत ऐक्यं नोपेयते । कथं तर्हि स एक इत्युच्यते अनेकः सन्? । न तावदेककारणजन्यत्वात्, सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः । नाप्येककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदाभ्युपगमात् । एकाभिधानाभिधेयत्वादपि नैकत्वम्, एकस्याप्यनेकपर्यायसम्भवात् । योग्यत्वाच्च विश्वस्य कृताकृतानामेकाभिधानाभिधेयत्वस्य क्वचिदसम्भवात्शक्तिभेदाच्च विषयभेदं ब्रूवाणं प्रति अभिहितम् । नाप्येकविज्ञानविषयत्वादेकम्, एकत्राप्यनेकविज्ञानप्रसूतेः । तथा हि- शशाङ्कोदयं बहवो निरीक्षन्ते तस्य कथमेकत्वमभ्युपगतम्? । (ह्ब्ट्१०४) बहूनां चैकविज्ञानविषयत्वसम्भवात्नीलपीतादीनामेकताप्रसङ्गः । सर्वथेदं न कथञ्चिदपि सङ्गच्छते यदुत एकस्य द्वैरूप्यमिति । विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टं ख्याप्यते, न पुनरस्य भावतो द्वे रूपे स्तः । अथ पुनर्द्रव्यपर्याययोः सम्मूर्च्छितत्वात्नरसिंहवदेकं शबलरूपत्वात्द्वीरूपमुच्यते । तदयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः । स ह्यनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस्तस्य सिंहरूपः, अधोभागस्तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः । विचित्रं हि रूपं शबलमुच्यते । विचित्रता च नानास्वभावताम् । नानास्वाभाव्ये चैकत्वं कुतः? इति केवलमनेकत्वेऽपि बहुष्वेककार्यदर्शनात्सेनादिवदेकव्यवहारदर्शनकृतोऽयं विपर्यासो जडमतीनाम् । तदेवं तावत्प्रत्यकमहेतुत्वं देशकालस्वभावानामेकत्वप्रसाधने । समुदितानामपि व्यभिचारित्वं पर्यायैः । तथा हि पर्याया अभिन्नदेशकालस्वभावाश्च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच्च धर्मधर्मिणोर्निषेधान्नोभयवादसम्भव इति । [२९. द्रव्यपर्यायानेकान्तवादखण्डनम् ।] आह च- "द्रव्यपर्यायरूपत्वात्द्वैरूप्यं वस्तुनः किल । तयोरेकात्मकत्वेऽपि भेदः संज्ञादिभेदतः ॥ १ ॥ इन्द्रियज्ञाननिर्भासि वस्तुरूपं हि गोचरः । शब्दानां नैव, तत्केन संज्ञाभेदाद्विभिन्नता ॥ २ ॥ ’परमार्थैकतानत्वऽ इत्यादिवचनात्तथा । शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् ॥ ३ ॥ अर्थस्य, दृष्टाविव तच्छब्दाः कल्पितगोचराः । कल्पितस्यैव तद्भेदः संज्ञाभेदाद्भवेद्यदि ॥ ४ ॥ (ह्ब्ट्१०५) व्यावृत्तिभेदः कश्चित्स्याद्, वस्तुनो न कथंचन । संख्याभेदोऽपि नैवान्यो मतो वचनभेदतः ॥ ५ ॥ ततोऽपि कल्पितस्यैव कथञ्चित्स्याद्विभिन्नता । ’येषां वस्तुवशा वाचऽ इत्यादेर्न तु वस्तुनः ॥ ६ ॥ अविनाशोऽनुवृत्तिश्च व्यावृत्तिर्नाश उच्यते । द्रव्याविनाशे पर्याया नाशिनः किं तदात्मकाः? ॥ ७ ॥ नष्टाः पर्यायरूपेण ते चेद्द्रव्यस्वभावतः । किमन्यरूपता तेषां न चेन्नाशस्तथा कथम्? ॥ ८ ॥ द्रव्यात्मनि स्थिते पश्चाद्भवन्तश्च तदात्मकाः । विरुद्धधर्माध्यासेऽपि, केन, भूतं च किं, यतः ॥ ९ ॥ पर्यायास्तत्र कल्प्यन्ते, भेदरूपं यदीष्यते । भिन्नं पर्यायरूपं हि द्रव्यरूपाद्भवेद्यदि ॥ १० ॥ तदैतत्स्यादभेदे तु नैतत्संबध्यते वचः । एकं जातमजातं च नष्टानष्टं प्रसज्यते ॥ ११ ॥ द्रव्यपर्याययोरकस्वभावोपगमे सति । ततो लक्षणभेदेन तयोर्नैव विभिन्नता ॥ १२ ॥ कार्यभेदात्स्वभावस्य तयोर्भेदो भवेद्यति । स्वभावाभेदतो न स्यादभेदस्तु तथा सति ॥ १३ ॥ स्वभावस्यैव भेदेन किं भेदश्च न कीर्तितः? । न हि पश्चाद्भवन् भेदः कार्याणां तस्य भेदकः ॥ १४ ॥ स्वभावस्यापि कार्यत्वान्नशहेतोरयोगतः । एकान्तेन विभिन्ने च ते स्यातां वस्तुनी स च ॥ १५ ॥ तयोः केन, विभिन्नाभ्यामभिन्नस्य विभेदतः । तेषामभेदसिद्ध्यर्थमभिन्नो यदि तूच्यते ॥ १६ ॥ अन्यः स्वभावस्तस्यापि तदभेदप्रसिद्धये । कल्पनीयः स्वभावोऽन्यः तथा स्यादनवस्थितिः ॥ १७ ॥ न चानन्तस्वभावत्वमर्थसामर्थ्यभाविनि । ज्ञानेऽवभासते येन तथवोपगमो भवेत् ॥ १८ ॥ ऐकान्तिकस्त्वभेदः स्यादभिन्नाद्भिन्नयोर्यदि । भेद एव विशीर्येत तदेकाव्यतिरकतः ॥ १९ ॥ (ह्ब्ट्१०६) अभेदस्यापरित्यागे भेदः स्यात्कल्पनाकृतः । तस्यावितथभावे वा स्यादभेदे मृषार्थता ॥ २० ॥ अन्योन्याभावरूपाणामपराभावहेतुकः । एकभावो यतस्तस्मान्नैकस्य स्याद्द्विरूपता ॥ २१ ॥ अन्योन्याभावरूपाश्च पर्यायाः स्युर्न भेदिनः । तद्विनाशेऽविनाशि स्याद्द्रव्यं वा कथमन्यथा? ॥ २२ ॥ कूटस्थनित्यता द्रव्ये भेदेषु क्षणनाशिता । कस्मान्नेष्टा? विरोधश्चेत्नेष्यते भेदलक्षणम् ॥ २३ ॥ तदिष्टौ किन्न सामान्यं सर्वव्यक्त्यनुयायि च । एकमिष्टं जनन्या च जायायाः किं न चैकता? ॥ २४ ॥ भेदाभेदोक्तदोषाश्च तयोरिष्टौ कथं न वा? । प्रत्येकं ये प्रसज्यन्ते द्वयोर्भावे कथं न ते? ॥ २५ ॥ गुडश्चेत्कफहेतुः स्यान्नागरं पित्तकारणम् । तन्मूलजमन्यदेवेदं गुडनागरसंज्ञितम् ॥ २६ ॥ मधुरं न हि सर्वं स्यात्कफहेतुर्यथा मधु । तीक्ष्णं वा पित्तजनकं यथा मागधिका मता ॥ २७ ॥ प्रत्येकं यन्निदानं यत्स्वतो मिश्रं तदात्मकम् । किन्न दृष्टम्? यथा माषः स्निग्धोष्णः कफपित्तकृत् ॥ २८ ॥ शक्त्यपेक्षं च कार्यं स्याद्गुणमात्रानिबन्धनम् । सर्वत्राभावतस्तासां कस्यचित्किञ्चिदेव च ॥ २९ ॥ ये भेदाभेद मात्रे तु दोषाः सम्भविनः कथम्? । तत्सद्भावेऽपि ते न स्युरिति ब्रूयाद्विचक्षणः ॥ ३० ॥ विरोधिसन्निर्धेर्द्दोषः तज्जन्मा न भवेदपि । सति तस्मिंस्तदात्मा तु नानिष्टोऽपि निवर्तते ॥ ३१ ॥ भागा एव च भासन्ते सन्निविष्टास्तथा तथा । तद्वान् कश्चित्पुनर्नैव निर्भागः प्रतिभासते ॥ ३२ ॥ अन्योन्यप्रत्ययापेक्षास्ते तथास्थितमूर्तयः । कर्मणां चापि सामर्थ्यादविनिर्भागवर्तिनः ॥ ३३ ॥ सन्निवेशेन ये भावाः प्राणिनां सुखदुःखदाः । कर्मभिर्जनितास्ते हि तेभ्य एवाविभागिनः ॥ ३४ ॥ ते चैकशब्दवाच्याः स्युः कथञ्चिन्न त्वभेदिनः । न च स्वलक्षणज्ञाने शब्दार्थः प्रतिभासते ॥ ३५ ॥ (ह्ब्ट्१०७) अस्पष्टरूपा गम्यन्ते शब्देभ्योऽपि त एव हि । ततः केन सहैषां स्याद्भिन्नभिन्नत्वकल्पना? ॥ ३६ ॥ निर्विभागस्य चानेकभिन्नदेशांशयोगिता । कथमिष्टा? प्रतीतेश्चेत्क्षणध्वंसानुभाविनः ॥ ३७ ॥ पर्याया ये प्रातीयन्ते स्थेमानन्दवतो मताः । कुतोऽन्यतः प्रमाणाच्चेद्बाधकादिह तत्समम् ॥ ३८ ॥ ऐकान्तिकावनन्यत्वाद्भेदाभेदौ तयोर्ध्रुवम् । अन्योन्यं वा तयोर्भेदो नियतो धर्मधर्मिणोः ॥ ३९ ॥ तयोरपि भवेद्भेदो यदि येनात्मना तयोः । पर्यायो द्रव्यमित्येतद्यदि भेदस्तदात्मना ॥ ४० ॥ भेद एव तथा च स्यान्नैवेकस्य द्विरूपता । द्रव्यपर्यायरूपाभ्यां न वान्योऽस्तीह कश्चन ॥ ४१ ॥ स्वभावो यन्निमित्तात्स्यात्तयोरेकत्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ॥ ४२ ॥ तस्य भेदोऽपि ताभ्यां चेद्यदि येनात्मना च ते । धर्मी धर्मस्तदन्यश्च यदि भेदस्तदात्मना ॥ ४३ ॥ भेद एवाथ तत्रापि तेभ्योऽन्यः परिकल्प्यते । तेषामभेदसिद्ध्यर्थं प्रसङ्गः पूर्ववद्भवेत् ॥ ४४ ॥ धर्मित्वं तस्य चैवं स्यात्तत्तन्त्रत्वात्तदन्ययोः । न चैवं गम्यते तेन वादोऽयं जाल्मकल्पितः ॥ ४५ ॥" इत्यलं बहुभाषितया । तदेवं मृत्संस्थानयोरेकस्वभावत्वे न कथञ्चिद्भेदसम्भव इति सहकारिणामनेकत्वेऽपि न कार्यस्यानेकत्वमित्यत्र भवत्येतदुदाहरणमिति । [३०. द्रव्यगुनयोरभेदे वैशेषिककृतपूर्वपक्षस्योल्लेखः ।] अत्र वैशेषिकमतमाशङ्कयाह- "अन्यदेव" इत्यादि । "संस्थानं" ह्यवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद्गुणरूपः । "ततो" मृद्द्रव्यादस्यान्यत्वं द्रव्यगुणयोरसंकीर्णस्वभावत्वात् । तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोत्यन्तभेदात्कारणानेकत्वात्कार्यानेकत्वं प्राप्तमिति । सिद्धान्तवाद्याह- "उक्तमत्र" इति । मृत्संस्थानयोः स्वभावभेदे दूषणमुक्तम् "मृत्संस्थानयोरपरस्परात्मतया" (ह्ब्ट्१०८) इत्यादिकमिति न संस्थानस्य मृद्द्रव्यादन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलमेव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वेऽप्यनेकत्वमस्य । अत्रैवोपचयहेतुमाह- "अपि च" इत्यादि । यत्तद्घटगतं संस्थानं "यदि तत" मृदो "भिन्नं स्यात्" तदा कुलालः पृथगेव किमिति न करोति? । नहि भिन्नानामावश्यकमपृथक्करणम्, कुलालश्चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति "स पृथगपि" तत्"कुर्यात्" । पर आह- "गुनस्येत्यादि । "द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्वकारणमनपेक्ष" इति गुणलक्षणात्सर्वदा गुणो द्रव्यपरतन्त्रः, स कथं कदाचित्पृथक्क्रियेत? । वैशेषिक एव बौद्धीयं चोद्यमाशङ्कयाह- "तत्संस्थान" इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य "क्रियावद्गुणवद्" इत्यादिवचनादाधारस्वभावं तत्मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किमिति कुलालव्यापारमपेक्षते? । स्वत एव किं न भवति? इति चोदकाभिप्रायः । एवं चोद्यमाशङ्कय वैशेषिकः परिहारमाह- "न, ततः" इत्यादि । यत्तत्मृद्द्रव्यं पृथुबुध्नोदराद्याकारं च संस्थानं तयोर्यः सम्बन्ध आधाराधेयलक्षणः तत्र या "योग्यता" तां "द्वयमप्येतत्कुलालाद्" यतः प्रतिलभते तस्मात्"कुलालमपेक्षते" कुलालानपेक्षायां दोषमाह- "अन्यथा" यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात्तदा स्वभावत एव मृत्पिण्डस्य तथविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश्च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मतास्तीति कुलालसन्निधेः प्रागपि संस्थानविशेषेण सम्बन्धः स्यादिति वैशेषिकीयश्चोद्यपरिहारः । (ह्ब्ट्१०९) [३१. द्रव्यगुणयोरभेदस्योपपादनम् ।] सिद्धान्तवाद्याह- "एवम्" इत्यादि । यदि परस्परसम्बन्धयोग्यतायां कुलालमपेक्षते "एवं तर्हि सा योग्यता मृद्द्रव्यस्य कुलालाद्भवति इति" आपन्नम् । न च "अनयोः" मृद्द्रव्ययोग्यतयोः स्वभावस्य "भेदः" नानात्वम् । यदि हि स्यात्तदा योग्यतायाः द्रव्यात्पृथक्करणं "प्राग्वत्प्रसज्येत" । अथ योग्यताया अपि योग्यपारतन्त्र्यादपृथक्सिद्धिं ब्रूयात्तदा तस्या अपि वस्तुधर्मतयैव प्रागपि समावेशो मा भूदिति द्रव्येण सह सम्बन्धयोग्यताया अन्य योग्यता कुलालाद्भवतीत्येष्टव्या । सापि पृथक्करणप्रसङ्गा[त्] द्रव्याद्भिन्नस्वभावा नोपगन्तव्या । पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस्तदेवोत्तरम्, इत्यनवस्थाप्रसङ्गादवश्यामभिन्नस्वभावता कपालात्मकमृद्द्रव्ययोग्यतयोरभ्युपगन्तव्या । किमेवं सति सिद्धं भवति? इत्यत आह- "अस्ति तावत्" इत्यादि । मृत्पिण्डकुलालभ्यां कपालद्रव्यस्य संयोगविशेषसम्बन्धयोग्यस्यारम्भात्यदैकस्वभावत्वेऽप्येकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः । ततश्च किमस्माकं मृत्संस्थानयोरेकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? । यदि योग्यतामप्याश्रित्यानेकप्रत्ययजन्यत्वेऽप्येकत्वात्नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद्द्रव्यगुनवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वादित्यभिप्रायः । निर्बन्धग्रहणेन च मृत्संस्थानयोरपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोरप्रतिभासनप्रसङ्गातित्यनयोपपत्त्या साधितमेवानयोरेकत्वम्, युक्त्यन्तराणां सम्भवेऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेरन्यथापि भावादित्याचष्टे । [३२. सामग्रीभेदे कार्यभेदस्य कारणभेदेऽपि च कार्यस्यैक्यस्योपसंहारः ।] तदेवं सामग्रीभेदात्सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणामनेकत्वेऽपि च कार्यस्यैकत्वमविरुद्धमिति प्रतिपाद्य (ह्ब्ट्११०) उपसंहरन्नाह- "तेन सहकारिण" इत्यादि । येन- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच्च पूर्वसामग्रीजन्याद्भिन्नं कार्यान्तरमेव जनयति ; एकसामग्रीव्यपदेशविषयाणां च सहकारिणामनेकत्वेऽप्यनेकस्यैकक्रियविरोधाभावात्तदन्वयव्यतिरेकानुविधायिनश्च कार्यस्यैकस्य दर्शनात्स्वभावत एकत्वं साधितम्- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्गताः प्रत्ययाः सामग्र्यन्तरैः सह "नैकोपयोगविषयाः" एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैरेव सह भिन्नोपयोगविषयत्वस्य न्यायबलात्प्रतीतेः । अनेन यत्प्राग्विकल्पितं ’यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदादस्त्येवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इउति किमुच्यते- न कारणभेदाद्भेदः स्यात्ऽ इति एतदुदा हरणोपदर्शितं निगमितम् । अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदादनेकत्वलक्षणात्कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच्चेति मृत्संस्थानयोरेकात्मकतोपदर्शितं निगमयति- ’कार्यस्वभावस्यऽ मृत्संस्थानात्मन ’ेकत्वेऽपिऽ नानात्वाभावेऽपि ’वस्तुतःऽ परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर्भिन्नयोरिव प्रतिभासनेऽपीति । एवमुदाहरणे सामग्रीभेदात्कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदादनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्नाह- "यथा इहो" दाहरणे "कारणभेदः" सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो ’भिन्नेषुऽ नानास्वभावेषु ’विशेषेषुऽ इष्टकादिचक्राविभक्तघटतद्विभक्तघटलक्षणेषूपयोगा "न्नैककार्यः" किन्तु भिन्नकार्य एव, "तथा" तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात्सामग्रीलक्षणकारणभेदोऽनेककार्य इत्युन्नेयः । (ह्ब्ट्१११) एतदेव विभजन्नाह- "तथाहि" इत्यादि । या चक्षूरूपरहिता समनन्तरप्रत्ययाख्याविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति । "तस्यैव" चक्षुर्विज्ञानस्य । कीदृशस्य? । "उपलम्भात्मनः सतो भवतः" जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात्समनन्तरप्रत्ययोपादानोपकृतात्ततो "रूपग्रहणप्रतिनियमो" रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं (व) कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । "विषयाद्" विषयाधिकात्समनन्तरप्रत्ययादिन्द्रियाच्च "तेन" विषयेण "तुल्यरूपता" न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यमेवं प्रदर्शितम् । तदन्यदेकद्वयजन्यं तु कार्यं स्वयम्भूह्यम् । अत्राभिन्नत्वेऽपि वस्तुतः "कार्यस्य" चक्षुर्विज्ञानलक्षणस्य "कारणानां" विषायेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानामेषां यः स्वभावस्ततो भिन्ना एवातज्जन्येभ्यो विधिशे (न्येभ्योऽपि विशे)षा बोधरूपतादिलक्षणा "भवन्ति" । अतज्जन्यापेक्षया चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् "इति" तस्मात्न कारणभेदेऽपि । यथैकसामग्र्यन्तर्गतप्रत्ययभेदेऽप्यभेदो नैवं सामग्रीलक्षणकारणभेदेऽप्यभेदः सामग्र्यन्तरजन्येभ्यः "कार्यविशेषस्य" विशिष्टस्य कार्यस्येति । तेन यदुच्यते- ’यदि सहकारिणां भेदेऽप्यभिन्नं कार्यं भवति सामग्रीभेदेऽप्यभिन्नमस्तु, अथ सामग्रीभेदाद्भिन्नं भवति सहकारिभेदादपि किमिति भिन्नं न भवति विशेषाभावात्?ऽ इति तदपास्तं भवति । तथा हि- परस्परोपसर्पणाद्याश्रयात्प्रत्ययविशेषादेककार्योद्देशेनेतरेतरसन्तानोपकाराच्च सहकारिणां प्रतिनियतशक्तिनामुदयादेकं कार्यं समाजायते । सामग्र्यन्तरस्य (ह्ब्ट्११२) तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद्भिन्नकार्यप्रसूतिरिति कुतो विशेषाभावः? । [३३. जनकत्वमेवाधारत्वं न तु स्थापकत्वम् ।] ननु च सर्वं कार्यं साधारं यथा उपादायरूपम् । तद्धि भूतेभ्यो जायमानं तान्येवाश्रयत इति भवद्भिरिष्यते । तथान्यदपि विज्ञानादिकं कार्यम् । अतोऽनेनापि किञ्चित्कारणमाश्रयणीयम् । तस्य च कारणस्य पूर्वं जनकत्वं पश्चात्कार्यं प्रत्याधारभाव एव, न जननम्, ततस्तत्स्वभावस्य जननादित्यनेकान्तः तदवस्थ एवेत्यत आह- "त एवैते" येऽनन्तरमुक्ताः "कारणशक्तिभेदाः" कारणानां शक्तिविशेषाः । कीदृशाः? "यथास्वं" येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात्प्रतिविशिष्टं कार्यं तस्य जननेऽव्यवधेया व्यवधातुं प्रतिबन्धुमशक्या शक्तिर्येषां तद्भावस्तया " अव्यवधेयशक्तितया" अवश्यं कार्यकारिशक्तितया "प्रत्युपस्थिताः" उद्युक्ताः सन्तः "सामग्रीकार्यस्य" एकप्रत्ययजनितस्य कस्यचिदभावात्सर्वं सामग्र्या एव कार्यमिति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्युच्यन्ते । कस्मात्पुनरव्यवधेयशक्तिता? "क्षणिकत्वात्" । नहि क्षणिकस्य शक्तिः प्रतिबन्द्धुं शक्यते, स्वभावान्तरोत्पादने यावत्प्रतिबन्धको व्याप्रियते तावत्क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् । कथं पुनरसमानकालं कारणमाधारो युज्यते?, इत्यत आह- "तथा हि" इत्यादि । यस्मात्"तत्" विज्ञानलक्षण कार्यं "तेभ्यः" चक्षुरादिभ्य "समस्तभ्यो" बोधरूपतया तदन्यस्मात्तदजन्यात्"प्रतिविशिष्टस्वभावमेकं" खण्डशः कार्यस्यानुत्पादादेकैकस्मात्सकलस्यैव भावादेकं जातम्, तस्मात्ते आधारा उच्यन्ते । नहि जनकादन्य एवोपकारकः । न चानुपकारक आधारः, (ह्ब्ट्११३) अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यदपि भूतानामुपादायरूपं प्रत्याश्रयत्वमुच्यते तदपि स्वदेशस्यास्य जनकत्वमेवेति न किञ्चित्प्राग्जनकं भूत्वा पश्चात्स्थापकतामुपैति, यतोऽनेकान्तः स्यादिति । [३४. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् ।] पुनरन्यथा तत्स्वभावस्य जननादित्यनेकान्तोद्भावनं परस्याशङ्क्याह- "अप्रतिरोधशक्तिकेषु" अविद्यमानः प्रतिरोधःप्रतिबन्धो यस्याः शक्तेः सा येषाम् । अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्युत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्यादपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरमेव कार्यं कुर्वन्ति । अनेन क्षणक्षयिणामुपघातकाभावमाह । अनुग्राहकविरहमप्याह- "अनाधेयविशेषेषु" । तच्चानाधेयविशेषत्वं "क्षणिकेषु" इत्यनेनाह । नहि क्षनिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा च तस्य निरोधात् । तेष्वेवंविधेषु "प्रत्ययेषु परस्परं कः सहकारार्थः" येन सहकारिण उच्यन्ते? । नन्वनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किमर्थमिदमप्रतिरोधशक्तिकेष्विति? । नहि शक्तिप्रतिरोधकः सहकारि भण्यते । सत्यम् । सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थमेतदुक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति । तस्मादतिशयाधायिनः सहकारिणोऽसम्भवात्क्षणिकानां स्वहेतुमात्रप्रतिबद्धमेव जनकत्वम् । तच्चैवंविधं सर्वदास्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननादित्यनेकान्त एवेति मन्यते । एतत्परिहरति- "न वै" नैव अतिशयोत्पादनं सहक्रिया यतस्तदभावात्सहकारिणो न स्युः । क्व पुनरतिशयोत्पादनं सहक्रिया प्रत्ययानां न भवति? । "सर्वत्र" । नहि क्वचिदपि सहभाविनामतिश्योत्पादनलक्षणा सहक्रिया सम्भवति । (ह्ब्ट्११४) का तर्हि सहक्रिया? इत्याह- "एकार्थकरणम्" एककार्यनिष्पादनं यद्"बहूनाम्" । "अपिः" सम्भावनायाम् । न्यायबलादेवंविधामेव सर्वत्र सहक्रियां सम्भावयामः, नान्यमिति । अत्रोदाहरणम्- "यथा अन्त्यस्य" अनन्तराङ्कुरादिकार्यस्य "कारणकलापस्य" प्रत्ययसामग्र्या इति । [३५. एककार्यकारित्वमेव मुख्यं सहकारित्वमितरत्तु गौणम् ।] स्यादेतत्- औपचारिकमेतत्सहकारित्वम्, अतिशयोत्पादनमेव तु मुख्यमित्यताह- "तदेव" एककार्यकरणलक्षणं "मुख्यं सहकारित्वम्" नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् । एतच्चोत्तरत्र वक्ष्यते । कुत एतत्? इत्याह- "तस्यैव अन्त्यस्य" विवक्षितकार्यं प्रति "कारणत्वात्" । कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह- युगपत्कुर्वन्तः सहकारिण उच्यन्ते, अन्त्यश्च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकरणं सहकारित्वमेवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्यवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् । तस्मात्सर्वं कार्यमङ्कुरादिकं विशेषलक्षणं वानेकप्रत्ययजन्यमिति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनमिति । स्यादेतत्- एकार्थकरणमपि तत्र सहकारित्वमस्तु अतिशयोत्पादनलक्षणमपीत्यत आह- "तत्र च" क्षणेऽन्त्ये "विशेषस्य कर्तुमशक्यत्वात्" नातिशयोत्पादनमपि सहकारित्वम् । कुतो विशेषस्य कर्तुमशक्यत्वम्? इत्यत आह- "एकस्य" अनंशस्य "स्वभावस्याविवेकात् । न हि तत्र ’यमनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिराहितातिशयःऽ इति विवेकोऽस्ति । यदि नामविवेकः, विशेषस्तु किमिति न क्रियते? इत्यत आह- "स्वभावान्तरोत्पत्तिलक्षणत्वाद्विशेषोत्पत्तेः", निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? । स्यान्मतम्- भिन्नस्वभाव एवान्त्यस्य विशेषोऽस्तु इत्यत आह- "भवान्तर"- इत्यादि । यदि भावान्तरलक्षणो विशेषो (ह्ब्ट्११५) भवेत्तदा तस्यान्त्यत्वमेव हीयेत । हीयेनां (हीयतां) को दोषः? इति चेत्; "ततश्च" अनन्त्यत्वात्"न साक्षात्कारणं स्यात्" । यत एवं "तस्मान्न कारणस्य" मुख्यस्य "सहकारिभ्यः" सकाशाद्"विशेषस्योत्पत्तिः" इत्येकार्थक्रियैव सहकारित्वमिति । नन्वसत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यमेषां न युज्यत इत्यत आह- "ते समर्थाः" इत्यादि । यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिरभ्युपगम्येत । यावता "तेऽन्त्याः स्वभावेनैव समर्थाः प्रत्ययाः सहिता जायन्ते" क्षणमात्रविलम्बिनो । "येषा"मेकक्षणनियतत्वात्ततः "प्राक्पश्चात्पृथक्त्वभावो नास्ति । येभ्यश्चानन्तरमेव कार्यमुत्पद्यते" न कालान्तरेण "तत्र" तेष्वेवंविधेषु "एकार्थक्रियैव सहकारित्वम्" नातिशयोत्पादनलक्षणम् । स्वभावतः सामर्थ्यस्य भावविरोधात्, परस्परतश्चानभ्युपगमात्समर्थस्य जन्मैवायुक्तमिति मन्वानः परः आह- "समर्थः कुतः" इत्यादि । सिद्धान्तवाद्याह- "स्वकारणेभ्यः" इति । परमतापेक्षया तु स्वभावत इत्युक्तम् । परो ह्यत्यन्तस्य (ह्युत्पन्नस्य) कारणस्य सहकारिभ्यः सामर्थ्यमिच्छतीति तन्निषेधपरं स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज्जायते, तस्याहेतुकत्वप्रसङ्गात् । [३६. क्षणिकेष्वेकार्थक्रियानियमस्य व्यवस्थापनम् ।] एकार्थक्रियानियम एव क्षणिकानामयुक्तः, केवलानामप्यंत्यक्षणसरूपाणां दर्शनात् । तथाहि- ’िदमेवंरूपं नैव चऽ इति दर्शनादर्शनाभ्यां विभज्यते । तत्र यादृशः क्षित्यादयस्तदन्यप्रत्ययसन्निधावुपलभ्यन्ते तादृशा एव केवला अपि । ततस्तदन्यसहिता इव केवला अपि समर्थमङ्कुरजनने स्वं स्वं क्षणान्तरमारभेरन् । ततः केवलस्याप्यङ्कुरादिजननस्वाभाव्यादजननाच्च ’तत्स्वभावस्य जननात्ऽइत्यनेकान्त एवेति मन्यमानः पर (ह्ब्ट्११६) आह- "तानि" स्वकारणानि क्षितिबीजादीनि "एनं" समर्थम् "अपरस्य" अन्यस्य प्रत्ययस्य "सन्निधान एव किं" कस्मात्"जनयन्ति"? न केवलानि?, सहितानामेव सर्वदा सम्भवातिति चेताह- "कदाचित्" कस्मिंश्चित्काले "अन्यथापि" केवला अपि "स्युः" भवेयुः । तथा हि- दृश्यन्त एवाध्यात्मिकबाह्याः क्वचित्कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति । जनयन्तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेदाह- "ततश्च" केवलानामपि समर्थजनकानां सम्भवात्"एकोऽपि" न केवलमनेकः "क्वचि" द्देशादौ समर्थः उत्पन्नः क्षितिबीजादोइरङ्कुरादिकार्यं "जनयेत्" यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवेऽपि ततोऽनेकान्तः इति परः । एतत्परिहरन्नाह- "अपरापर- " इत्यादि । अपरैश्चापरैश्च कुशूलतदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः "प्रत्ययै"र्यो "योगः" तेन कारणेन "प्रतिक्षणं भिन्नशक्तयो" न कदाचित्पूर्वापरकालभाविन एकशक्तयः अपरापरप्रत्यययोगलक्षणहेतुभेदेऽप्यभिन्नशक्तितायामहेतुकत्वप्रसङ्गात् । अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् । "संस्काराः" समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः "सन्तन्वन्तः" सन्तानेन भवन्तो "यद्यपि कुतश्चित्साम्याद्" वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्यादेकाकरपरामर्शप्रत्ययजननलक्षणात्समानं रूपमेषामिति "सरूपाः" सदृशाः "प्रतीयन्ते" प्रत्यभिज्ञायन्ते "तथापि" कृत्रिमाकृत्रिमाणामिव मणिमुक्तादीनामपरापरप्रत्ययोगलक्षणसामग्रीभेदाद्"भिन्न एव" विसदृश एव न प्रत्यभिज्ञानवशादभिन्नः तुल्यरूप "एषां" बीजादीनां "स्वभावः" यत एवं "तेन" भिन्नस्वभावत्वेन भिन्नशक्तितया वापरापरसामग्रीजन्यत्वेन क्षणानां सिद्ध्या "किञ्चिदेव" क्षितिबीजादिकं "कस्यचि"देव कार्यस्याङ्कुरादेस्तज्जननसमर्थस्य (ह्ब्ट्११७) वा "कारणम्" । न सर्वं सर्वस्य । तथा च व्यग्राणां क्षितिबीजादीनामङ्कुरजननस्वभावता समर्थक्षणजाननस्वभावता वा नास्त्येवेति तत्स्वभावस्य जननादजनकस्य चातत्स्वभावत्वादित्यत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति न पुनस्तद्भावे हेत्वन्तरमपेक्षत इत्यत्रानेकान्तः स्यादिति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदादनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात्न ततः सरूपतासिद्धिः क्षणक्षयिणामिति । पूर्वं च ’त एवान(एव त)योरवस्थयोर्वस्तुभेदो निश्चेयः इत्यादिना एकत्वविषयं प्रत्यभिज्ञानं निरस्तम् । अधुना तु तुल्यस्वभावताविषयमिति भेदः । एतदपि तत्र ’परापरोत्पत्तेःऽ इत्यनेनोक्तमेव । विपञ्चनार्थं तु पुनः इह उपन्यस्तम् । [३७. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् ।] किञ्चिदेव कस्यचित्कारणमित्युक्तं तत्र किं कस्य कारणमिति शक्यपरिच्छेदमप्याध्यात्मिकेषु तावद्दर्शयन्नाह- "तत्र" इत्यादि । "तत्र" तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं- व्यवधीयते यन, तदादिर्येषामतिदूरात्यासन्नत्वादीनां तेऽविद्यमाना यस्मिन् देशे सोऽव्यवधानादिः देशो यस्य सोऽव्यवधानादिदेशः, रूपमिन्द्रियं चादी यस्य मनस्कारादेः स रूपेन्द्रियादिः स चासौ करणकलापश्च सामग्रीलक्षणस्तथोक्तः, अव्यवधानादिदेशश्चासौ रूपेन्द्रियदिकारणकलापश्च स"विज्ञानजनने समर्थो हेतुः" नान्यः, तद्भाव एव तस्य भावात्, अन्यभावेऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच्च समर्थासमर्थव्यवस्थायाः । "यस्तेषा" मिन्द्रियादीनां "परस्परोपसर्पणस्य" अन्योन्यढौकनस्य । "आदि" ग्रहणाद्व्यवधानापनयना.................................................................................................................... [सा]मग्र्यधीनत्वेनासंवादिति । (ह्ब्ट्११८) इममेवंविधं हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मिकेषु दर्शितमन्यत्राप्यतिदिशन्नाह- "अनेन न्यायेन" इत्यादि । योऽयमनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सोऽन्यत्रापि "सर्वत्र" द्रष्टव्यः । सर्वत्रेति वचनातक्षणिकेष्वपि प्रतीतिर्मा भूतित्याह- "प्रतिक्षणम्" इत्यादि । याः क्षणे क्षणेऽन्याश्चान्याश्च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायमेकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्वपि । स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्येकग्रहणम् । क्षणेऽप्येकत्वमस्तीति स्थिरग्रहणम् । [३८. अक्षणिके एकार्थक्रियाकारित्वस्याभावः ।] कस्मात्पुनः स्थिरैकस्वभावेषु नेष्यते? इत्याह- "स्वभाव- " इत्यादि । कामं भावः स्वयं न भवेत् । न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति । ततश्च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततोऽस्याक्रिया नोपपद्यते इति सर्वदैव कुर्यात् । अथासमर्थस्वभावः । तदापि क्रियानुपपन्ना, सर्वदैव न कुर्यादिति भावः । यत्तु कदाचित्करोति कदाचिन्न इत्येतन्न लभ्यते । ततश्चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोरेकरूपत्वात्केवलानामपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवेत्? । अत्र पर आह- "अन्यसहितः" इत्यादि । यद्यपि केवलस्यप्यक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयमपि ह्यस्य स्वभावः यद्- ’न्यसहितेन स्वकार्यं कर्तव्यं न समर्थस्वभावेनापि सता केवलेनऽ इति । सिद्धान्तवाद्याह- "किं केवलस्य" इत्यादि । अन्यसहितेनैव स्वकार्यं कर्तव्यं न केवलेन इत्येतत्केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः । परस्त्वनवगताभिप्राय आह- "समर्थ" इति । केवलस्याप्यक्षणिकस्य समर्थ एव स्वभावः (ह्ब्ट्११९) अन्यथास्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्याह- "किन्न करोति" इति । नहि समर्थस्याक्रिया, सहितस्यावस्थायामिव युज्यत इति सहितस्यैव क्रियामिच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या । अथ मतम्- केवलस्य यदि शिरश्छिद्यते तथापि न करोतीत्यत आह "अकुर्वन्" इत्यादि । कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिदपि कार्यक्रियास्तीति कथं सामर्थ्यं कल्प्यते? । नायं नियमः यत्समर्थस्वभावेनावश्यमेव कार्यं कर्तव्यम्, अन्यथापि दर्शनातिति मन्यमान अह परः- "कुविन्दादयः" इत्यादि । सिद्धान्तवाद्यपहसन्नाह "क्रीडनशीलः" इत्यादि । देवानांप्रियः ऋजुः मूर्खो व सुखसंवर्द्धितत्वात्रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्वनभियोगम् । यो ह्यनभियुक्तो दुर्बुद्धिश्च स "कृतमपि" वस्तु विस्मरणप्रकृतित्वात्पुनः पुनः "कारयतीति" पुनः प्रतिविधापयति । क्व पुनरेतत्प्रतिविहितम्? इत्याह- "तथाहि"- इत्यादि । ’बीजादिवदनेकान्तःऽ इत्यनेन प्रस्तावेन निर्ल्लोठितमेवैतत् । तदेवमक्षणिकस्य समर्थस्वभावत्वे सहितस्यैव कार्यक्रियास्वभावत्वविरोधात्केवलस्याक्रियानुपपन्नेति प्रतिपाद्योपसंहरन्नाह- "तस्मात्तत्स्वभावस्य" कार्यक्रियासमर्थस्य "अन्यथात्वासम्भा(म्भ)वात्" कदाचिदसमर्थत्वाभावात्"तद्धर्मणः" कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया "अन्त्यावस्थावत्" सहितावस्थायामिव "अनिवार्यः । [३९. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः ।] स्यान्मतम्- केवलोऽयमक्षणिकोऽसमर्थ एव । ततः केवलो न करोति, सहितावस्थायां त्वस्य सामर्थ्यं सहकारिभ्यो जायते । ततः सहित एव करोतीत्यत आह- "अन्त्यावस्थायां सामर्थ्योत्पत्तौ" कीदृशस्य "प्रागसमर्थस्य" सतः "तस्य सामर्थ्यस्य" यस्य तदुपजायते "तत्स्वभावत्वे" मीमांसकादिभिरिष्यमाणे । (ह्ब्ट्१२०) नहि तेषां समर्थस्य सामर्थ्यस्य च स्वभावभेदोऽभिमतः । कथञ्चित्तद्भेदेऽपि तत्स्वभावतयैव प्रतीयमानत्वादिति ते मन्यन्ते । "अपूर्वोत्पत्तिरेव सा" अपूर्वस्यैव वस्तुनः सा उत्पत्तिर्या तत्स्वभावस्य सामर्थ्यस्य । नह्येकस्वभावत्वे सामर्थ्यमेवापूर्वमुपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । ननु प्रतीयमाने एव सामर्थ्यतद्वतोरुत्पत्त्यनुत्पत्ती एकस्वभावता च कथं निन्होतुं शक्यते? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयोऽपि न निन्होतव्याः । बाधकप्रमाणसम्भवात्तेऽपन्हूयन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुत्पत्ती परस्परविरुद्धे बाधिके किं नेष्येते? । व्यवस्थितस्यैव वज्रोपलादेर्द्धर्मिणः तत्स्वभावं सामर्थ्यमुत्पन्नमिति च पुर्वापरकालयोरप्रतिभासमानविवेकः कथं प्रतीयात्? । विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात्चक्षुरादिसान्निध्ये प्रागसत्तत्सामर्थ्यमुत्पन्नं क्रमवच्चेति निश्चय इति चेत् । यद्येवमेकाकारतया पूर्वापरकालयोरधिकृतं प्रत्यभिज्ञानमुपजायमानमपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्यप्यनुमानादर्थापत्तितो वा बाधामनुभवन्न प्रमाणमित्युपगतं स्यात् । तथा, उत्पत्त्नुत्पत्त्योरेकस्वभावतायां विरोधात्समर्थस्यैवापूर्वस्योत्पत्तिः सदृशापरभवग्रहकृतश्चार्वाग्दर्शनानामेकत्वविभ्रमो लूनपुनर्ज्जातेष्विव केशनखादिष्विति किं नेष्यते? । [४०. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः] अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणमेवेत्यतत्स्वभावमिति नापूर्वोत्पत्तिप्रसङ्ग इति नैयायिकादयो मन्येरनत्राह- "अतत्स्वभावत्वे" सामर्थ्यस्येष्यमाणे "स" बीजादिः पदार्थः "प्रागिव" तद्रूपापरित्यागात्"पश्चादप्यकारक एव" । (ह्ब्ट्१२१) कुत? । सामर्थ्यमित्याख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इति नैयायिकैरभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । तेऽपि सहकारिणः प्रत्ययाः यद्यक्षणिकाः तेष्वप्येवं प्रसङ्गोऽनिवारित एवेति क्षणिकतेवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वमिच्छतोऽभ्युपेया । पुनरप्यक्षणिकानामेकार्थक्रियाप्रतिनियमं निराकर्तुमुपचयहेतुमाह- "अपि च" इत्यादि । योऽसावक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत्कस्मात्करोति? । येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात्प्रागपि कुर्यात्, ततः कुतोऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः । "का चान्या मृग्यते युक्तिः यथा तद्दृश्यते तथा" इति सर्वत्रेयमप्रतिहता युक्तिरिति मन्यमानः कुमारिलः प्राह- "कुर्वन् दृष्टः" इत्यादि । यतस्तदैव कार्यं कुर्वम्(न्) दृष्टो मया "तेन दर्शनबलेन करोतीति ब्रूमः", किमत्रान्ययोपपत्त्याभिहितया?, प्राक्तत्कुर्वन्न दृष्टः तेन न करोतीत्येकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानामपीति । भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणाततो नेदमुत्तरं सम्बध्यत इत्युपहसन्नाह- "अहो महासमर्थ्यम्" इत्यादि । महाप्रभावस्य भवतो महसामर्थ्यं दर्शनम्, यस्मादेतद्भावान् कार्यकरणस्वभावविकलानपि- यदि कार्यकरणस्वभावत्वाद्भावाः कार्यं कुर्युः तदैतदेवोत्तरं किं नोक्तम्?, यतः कार्यकरणे दर्शनमुत्तरीकृतमिति कृत्वा- "स्वभावमात्रेण" आत्मसत्तामात्रेण "नानाप्रकारेषु व्यापारेषु नियुङ्क्ते" तत्कथं महासामर्थ्यं न स्यात्? । न चात्र मे काचिदक्षमा किन्तु "यदि नाम किञ्चित्" कारणं "कथञ्चिद्" अनादृतस्य वा व्याक्षिप्तस्य वा "अत्र भवत" इति पूजावचनम् (ह्ब्ट्१२२) "दर्शनस्य विषयतामतिक्रामेत्" तदा "हन्त" इति दैन्योद्भावनमेतत्, अप्रसवो धर्मोऽस्य तदिदम्- "अप्रसवधर्मकं" ततोऽपेतसन्तानं "स्यादि"ति इयमस्माकं चिन्ता चित्तं दुनोति । पर आह- "न वै वयम्" इत्यादि । नैव वयं कार्यकरणस्वभावरहितानां "भावानामस्मद्दर्शनवशात्कार्यक्रियां ब्रूमः, किन्तु" स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति । "तान् पश्यन्तः केवलं जानीमहे" त एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायामिति । सिद्धान्तवाद्याह- "सत्यम्, इदमप्यस्ति" । किं वयं न्यायानुरागितया न्याय्यं वचनमुपलक्षयामः, उत भवानेव सर्वदा न्याय्यवचनरहितोऽपि कथञ्चिन्न्याय्यमुक्तवानिति सञ्जातपरितोषः पृच्छति- किं तद्? इत्याह- "स्वभावस्तेषां" भावानां "कार्यक्रियाधर्मा" कार्यकरणधर्मा "तेन" कारणेन "समस्ताः" समग्राः प्रत्ययाः सहकारिणो येषां तेषामकृत्वा कार्यं "नोपेक्षापत्तिः" नौदासीन्यप्रतिपत्तिः इति सत्यम्- इदमप्यस्ति भवतो न्याय्यं वचनमिति, किन्तु इदमसि प्रष्टव्यः- "सौ[ऽक्षेप]क्रियाधर्मा स्वभावः किं तेषां तदैवान्त्यावस्थायां" समग्रावस्थायां यदनन्तरं कार्यमुत्पद्यते तदैव "उत्पन्नः? आहोस्वित्प्रागपि" परस्परविरहावस्थायामपि "आसीत्"? । तत्र तदैवोत्पन्ने तत्स्वभवत्वेऽपूर्वोत्पत्तिरेव, अतत्स्वभावत्वे सोऽकारक एवेति प्रागुक्तदोषभयात्पर आह- "आसीत्" । कुतः? प्रच्युतश्च उत्पन्नश्च प्रच्युतोत्पन्नः, तस्य प्रतिषेधः "अप्रच्युतोऽनुत्प(अप्रच्युतोत्प)न्नः" स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित्काले "कस्यचित्" स्वभावस्य तत्रोपलब्धस्य "अभावविरोधात्" । क्षणिकेष्वेव ह्येकदा दृष्टः स्वभावोऽन्यदा न भवेत्तदा तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्विति । (ह्ब्ट्१२३) अत्राह- "तत्किमिदानीम्" इत्यादि । स्यान्मतम्- नैवेदमनेन वाक्येन सदृशमस्मद्वाक्यमित्याह- "को वास्य" इत्यादि । यद्येतदनेन तुल्य न भवति तदा सकलसहकार्यवस्थायाः "प्रागपि" अयम् "अक्षेपक्रियास्वभावः" अविलम्बितकार्यकरणस्वभावः "कार्यं च न करोती"त्यस्य भाषितस्यार्थो वक्तव्य इति । नैयायिकास्तु मन्यन्ते- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायमप्रच्युतोत्पन्नस्थिरैकस्वभावत्वेऽपि न प्रागपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति । तन्मतमाशङ्कमान आह- "सहितः" इत्यादि । एतन्निरस्यति- "अन्यस्तर्हि" इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद्भवति? इत्यत आह- "स्वभावभेद" इत्यादि । "स्वभाव भेद एव हि भावभेदस्य लक्षणम्" । स चेत्तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनामिव कथमिव भावभेदो न स्यात्? । नहि स्वभावादन्यो भावः यतस्तद्भेदेऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् । ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात्प्रत्ययान्तरभावाद्यपेक्षत्वात्जनकाजनकरूपतायास्तद्भेदेऽपि कुतो भावभेदप्रसङ्गः?, तस्यापरापेक्षस्वभावभेदलक्षणत्वातित्यत आह- "नहि स साहित्येऽपि" इत्यादि । तदैतदुत्तरं भावत्कं सम्बध्येत यदि भावो योऽसौ परः सहकारित्वाभिमतः सन्निधीयते तद्रूपेण कर्ता स्यात्न स्वरूपेण । न चैतदस्ति, तथाभावे हि परमार्थतः स एव परः कर्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः कल्पनानिर्मित एव भवेत् । न च कल्पनानुविधायिन्योऽर्थक्रियाः । नहि माणवको दहनोपचारादाधीयते पाके । ततश्च नास्यानुपकारिणो भावमपेक्षेत कार्यमिति तद्रहितेभ्य एव (ह्ब्ट्१२४) सहकारिभ्यो भवेत् । यद्वा तेभ्योऽपि न भवेत् । तेषामपि पररूपेण कर्तृत्वे स्वयमकारकत्वात् । ततः सर्वेषामेवं स्वयमकारकत्वे पररूपेणाप्यकारकत्वात्सर्वथा कारकोच्छेद एवेति न किञ्चित्कुतश्चित्जायेत । तस्मात्स्वरूपेणैव भावः स्वकार्यस्य कर्ता न पररूपेणेति नास्योत्तरस्यावकाशः । ततोऽन्यः सहितोऽन्यश्च केवलः इत्येतदविचलमेवेति । अथ येन स्वरूपेणायं जनकस्तदस्य सहितासहितावस्थयोः सर्वदास्ति तदा स्वरूपं च स्वकार्यजनकमस्य स्थिरस्वभावस्य प्रागपि सहितावस्थायास्तदेव यत्सहितावस्थायामक्षेपक्रियास्वभावमिति तस्मात्न कथंचित्कार्यक्रियाविरामः । अथवा कदाचित्परो ब्रूयात्स्वहेतुभिरेवायं प्रत्ययान्तरापेक्षः स्वकार्यजननस्वभावो जनित इति केवलो न करोति । न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः सर्वदा भावातित्यत आह- "नहि स साहित्येऽपि" इत्यादि । स्वरूपेणैवास्य कर्तृत्वात्तस्य च प्रागपि भावात्प्रत्ययान्तरापेक्षायाश्च ततो लभ्यस्यात्मातिशयस्याभावेनायोगातुपकारलक्षणत्वादस्य, अन्यथातिप्रसङ्गात्, केवलस्य कार्यकरणमनिवार्यमिति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः । प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्यपि पररूपेणाकारकस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्रागित्ययमर्थः । ततश्च कदाचित्कार्यक्रियास्वभावो न सर्वदा इति ब्रूवता कथं सर्वदा कार्यजननस्वभावतास्योक्ता भवति? । नन्वेवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् । तस्मान्नाक्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वमिति स्थितम् । परः समानदोषतामापादयन्नाह- "यस्यापि" इत्यादि सुबोधम् । यदि नाम क्षणिकस्तथापि किन्न भवति? इत्याह- "उक्तं यादृशस्य" सहकारिभिरपृथग्भाविनः "क्रिया" । ’ते समर्था (ह्ब्ट्१२५) एव स्वभावतोऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां प्राक्पश्चात्पृथग्भावो नास्तिऽ इत्यत्र । "स कथमेकक्षणभावी" एकस्मिन्नेवान्त्ये क्षणे भवनशीलः "अन्यथा भवेत्" अन्त्यक्षणात्प्राक्पश्चात्पृथग्वा भवेत्? "यश्च" अन्यथा "भवति स" एवान्त्यक्षणभावी सहकारिसन्तानोपकृतस्वभावोऽक्षेपक्रियाधर्मा "न भवतीति नायम्" अक्षणीकपक्षोदितः "प्रसङ्गः" क्षणिकपक्षे । कुतः? । "कारकाकारकयोः" इत्यादि । कारकोऽन्त्यः अकारकस्तदन्यः तयोर्यः "स्वभावः" स भिन्नोऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य यो हेतुरुपान्त्यः, अकारकस्यापि यो हेतुस्तदन्यः स भिन्नोऽप्यभेदविवक्षयैवैकत्वेनोक्तः । तेन कारकाकारकयोर्यौ स्वभावौ तयोरेकत्र धर्मिणि विरोधात् । तथा तयोः स्वभावयोर्जनकौ यौ हेतू- एकः कारकस्वभावजनकोऽन्यश्चाकारकस्वभावजनकः- तयोरप्येकत्र धर्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोरुत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात्"यश्च भवति स एव न भवतीति नायं प्रसङ्ग" इति । [४१. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः ।] अपरस्त्वन्यथा शिररूपेष्वेकार्थक्रियाप्रतिनियमं कल्पितवान् तमुपन्यस्यति "योऽपि मन्यते" इत्यादि । भावस्य ह्यक्षेपक्रियाधर्मैव सर्वदा स्वभावः, न तु यथा केचिद्ब्रू(ब्रु)वते- सहकारिसन्निधानापेक्षा वस्तूनां करकस्वभावव्यवस्था, न स्वत इति । स्वतोऽकारकत्वे पररूपेण कारकत्वायोगात्करकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित्साहित्यं स्वकार्यकरणेऽपेक्षते यतोऽन्यः सहितोऽन्यश्च केवलः कारकाकारकस्वभावभेदात्स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं (स्मिन्) सर्वदा जनकत्वेनावस्थितेऽपि केवलादभावात्, तेनात्र कार्यमेवापराध्यति, यत्तस्मिं(स्मिन्) केवले जनकतयावस्थितेऽपि प्रत्ययान्तराण्यपेक्षत इति । ततः (ह्ब्ट्१२६) तदात्मनः कार्यस्य सहितेभ्य एव भावादेकार्थक्रियालक्षणं सहकारित्वमक्षणिकानामप्युपपद्यत इति । सिद्धान्तवादी पूर्वदोषानतिक्रममस्य दर्शयन्नाह- "तस्यापि" एवंवादिनः "कथं स" नित्याभिमतो भावः "केवलः करोत्येव" ’क्षेपक्रियाधर्मैव स तस्य स्वभावःऽ इति वचनात् । कार्यं च सहितेभ्य एव भवति, ’सामग्रीजन्यस्वभावत्वात्तस्यऽ इति वचनात् । तस्मात्केवलान्न भवतीति "तदवस्थो विरोधो" यः पूर्वमुक्तः । तथाहि- यद्यक्षेपक्रियाधर्मा तदावश्यमनेन कार्यं कर्तव्यं न चेदवश्यं करोति कथमक्षेपक्रियास्वभावः । अक्षेपेणा कार्यदर्शनादक्षेपक्रियास्वभावतावगम्यते नान्यथा इति पराभिप्रायाशङ्कयाह- "न केवलः" इत्यादि । नैवं मयोक्तं केवलः करोत्येवेति किन्त्वक्षेपक्रियास्वभाव इति । अत्राह- "कथमिदानीम्" इत्यादि । यदि करोत्येवेति नेष्यते कथमक्षेपक्रियास्वभाव इति कथ्यते? । अथ तथोच्यते तथा नन्वेतदेवानेन "वचसा परिदीपितम्" अभिहितं भवति । किं तत्? । करोत्येवेति । स एव ह्यक्षेपक्रियास्वभावो यः करोत्येव, यस्तु नावश्यं करोति स कथं तद्रूपः स्यत्? । यदप्युक्तं ’कार्यस्यैवायमपराधो यत्तस्मिं (स्मिन्) जनकतयावस्थिते प्रत्ययान्तराण्यपेक्षतेऽ इति तदप्ययुक्तम्, यतः "कार्यं" चायमक्षणिको भावः "केवलोऽपि समर्थः सन् परं" प्रत्ययान्तरम् "अपेक्षमाणं कथमुपेक्षेत?" नैव । अनुपेक्षमाणेन किं कर्तव्यम्? । आह- "परं" प्रत्ययान्तरम् "अनादृत्य" तिरस्कृत्य एतत्कार्यं "प्रसह्य" हठात्"कुर्यात्" । क एवं सत्यस्य गुणो भवति? इति चेत्, आह- "एवं हि" परमनादृत्य हठात्स्वकार्यं "कुर्वतानेन" केवलेनापि समर्थेन सता यत्तदात्मनः केवलस्यापि "सामर्थ्यं" तद्"दर्शितं" प्रकाशितं भवति । अन्यथान्यसहितस्यैव करणात्केवलस्य च कदाचिदप्यकरणात्न ’यं केवलोऽपि समर्थःऽ इति परेषां बुद्धिः स्यात् । ततोऽयं तिरस्कृतप्रभाव इव कथं भ्राजेत? । तस्मादयुक्तमुच्यते कार्यं प्रत्ययान्तरापेक्षमिति । (ह्ब्ट्१२७) कार्यापेक्षयापि विरोधस्य तादवस्थ्यं दर्शयन्नाह- "कार्यं परम्" इत्यादि । कार्यस्य परापेक्षां ब्रूवन् केवलात्कारणादनुत्पत्तिमस्य कथयसि, ’स केवलोऽपि समर्थःऽ इतीदं वदंस्ततः केवलादुत्पत्तिं कार्यस्य ब्रूषे । एते चैकस्यैव कार्यस्य । ततेवैकस्मात्कारणादुत्पत्त्यनुत्पत्ती परस्परविरुद्धे "कथमेकत्र" कार्याख्ये धर्मिणि "स्याताम्?" विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रूवाणो ’माता च वन्ध्या चऽ इत्यनेन सदृशं ब्रूष इति न पूर्वोक्तदोषान्मुच्यसे, यत एवमपि ब्रूवाणो विरुद्धमेव ब्रूते न च लक्षयति "तत्" तस्मात्"अयम्" अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यमन्तर्दुःखहेतुत्वात्तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो "ऽयमीर्ष्याशल्यवितुद्यमानमर्मा" वराकोऽस्वस्थचित्ततया विरुद्धाभिधानमप्यलक्षयन् "विक्लवम्" आकुलं पूर्वापरासम्बद्धं "विक्रोशति" विरोदिति "इति" कृत्वा अस्वस्थचित्तवचनेष्वनादरात्तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात्"उपेक्षामेव" विपश्चितानां (श्चितां) कृपाधनानाम् "अर्हतीति" । तदेवमक्षणिकेषु न कथञ्चिदेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं सम्भवतीति प्रतिपाद्योपसंहरन्नाह- "तस्मादिदम्" इत्यादि । येषां हि स्थिररूपतया पृथगपि भावः सम्भवति तेषामक्षणिकानां "पृथक्" केवलानां "कार्यकरणसम्भवेन" हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव । तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथगसम्भवात् । [४२. क्षणीकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था ।] ननु अतिशयोत्पादनलक्षणमपि सहकारित्वं भावेषु दृश्यते तत्कथमुक्तं प्राक्’सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनामेकार्थकरणमेवऽ इत्यत आह- "यत्र तु सन्तानोपकारेण" इत्यादि । (ह्ब्ट्१२८) एकार्थक्रियालक्षणमेव सहकारित्वं सर्वत्र न क्वचिदतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजनेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश्चाङ्कुरादिजन्मनि पृथिव्यादयः- तत्र विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते लोके । सन्तानाश्रयेण पूर्वक्षणेभ्यो द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यमाश्रृ(श्रि)त्य पुर्वोत्तरक्षणयोरेकत्वाध्यवसायेन तस्यैवायमतिशय इति न द्रव्याश्रयेण । औपचारिकमेव न तु पारमार्थिकम् । पूर्वपूर्वक्षणेभ्यस्तु स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणमेव तत्र परमार्थतः सहकारित्वमिति न काचित्क्षतिरिति । कस्माद्द्रव्याश्रेयेणातिशयोत्पादनं नेष्यते? । क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् । यदि तर्हि क्षनिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरमप्यसौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तोऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवमक्षणिका अपि । तेनैषामेकार्थक्रियालक्षणमेव सहकारित्वं भविष्यति । न च शक्यं वक्तुम्- यो यस्य प्रागकारकः स्वभावः स पश्चादपीति । तथा हि- प्रभास्वरादपवरकं प्रविष्टस्येन्द्रियमर्थप्रतिपत्तिमकुर्वदपि पश्चात्कुर्वाणमुपलभ्यते । तदुक्तम्- "न हि प्रविष्टमात्राणामुष्णाद्गर्भगृहादिषु । अर्था न प्रतिभान्तीति गृह्यन्ते नेन्द्रियैः पुनः ॥" इति । अत आह- "नहि तण्डुलादीनाम्" इत्यादि । विशेषानुत्पत्तौ सन्निधानस्याप्यसन्निधानतुल्यत्वात्दहनादिभावेऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । तथा प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्योऽतिशयं क्रमेण न प्रतिपद्यते तदा प्रागिव पश्चादप्यर्थप्रतिपत्तिं नैव जनयेत् । तस्माद्यदसम्भवि (ह्ब्ट्१२९) कार्यं यत्र दृश्यते तस्य ततोऽन्यत्वमेव, शालिबीजादिव कोद्रवबीजस्येति निरतिशयादन्यत्वमेव सातिशयतया तत्कार्यकारिण इति । एवं तावद्यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणमौपचारिकं सहकारित्वमेकार्थक्रियालक्षणमेव तु मुख्यं तत्रापीति प्रतिपादितम् । यत्र त्वक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयमतिशयोत्पादनमस्ति? इत्यत आह- "अक्षेपकारिषु" इत्यादि । ’ये ह्यव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास्तेष्वविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्ऽ इत्युक्तं प्राक् । यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणीभवन्ति? इत्यत आह- "तत्र यथास्वं" यस्य ये आत्मीयाः प्रत्ययाः तैः, "परस्परोपसर्पणव्यवधानादिविरहादेराश्रयभूतैर्ये जाताः" योग्यश्चासावत्यासन्नत्वातिविप्रकर्षविरहाद्देशश्च स आदिर्यस्याव्यवहितदेशादेः तत्रावस्थानमवस्था येषां "ते सह स्वभावनिष्पत्त्या" स्वभावनिष्पत्तिर्विद्यत इत्येव कृत्वा "ज्ञानहेतुतां प्रतिपद्यन्ते" तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? । यदि हि स्वहेतुभ्य एव परस्परोपसर्पणाद्याश्रयेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानामुत्पत्तौ । यत एवं "इति" तस्मात्"तत्र"तेषु अक्षेपकारिष्विन्द्रियादिषु "एकार्थक्रियैव" मुख्यं "सहकारित्वं" न सन्तानाश्रयेण व्यवस्थाप्यमानमतिशयोत्पादनलक्षणं गौणमिति । अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? । तदपि हि लोके प्रतीतत्वाद्व्यवस्थापनीयमेवेत्यत आह- "यत्र तु" कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु विवक्षितकार्योत्पादानुगुणं (ह्ब्ट्१३०) प्रतिक्षणं प्रकृष्यमाणं विशेषमुत्पादयन्तः "तत्र" कालक्षेपभाविनि कार्ये कर्तव्ये "हेतुसन्तानो"ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्यपेक्षते, न तु तत्समानकालः कारणक्षण इति । "तत" स्तेभ्यः कारणान्तरेभ्यः "स्वभावान्तरस्य" कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य "प्रतिलम्भः" सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थतस्तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे विशिष्टक्षणे प्रतिनियत इत्येकार्थक्रियालक्षणमेव सहकारित्वमनुभवति । कथं पुनः स्वभावान्तरप्रतिलम्भस्तेषाम्?, यतः क्रमेण कार्यं निर्वर्तयन्तीत्यत आह- "तत्र स्वरसतः" इत्यादि । "तत्र" तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास्तेषां ये पूर्वे प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्योऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावदत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्येवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिरिति । अत्र परश्चोदयन्नाह- "सहकारिणः" सह करणशीलात्कारणात्, जातावेकवचनम्, यत्समुत्पन्नविशेषमनन्तरोक्तेन प्रकारेण कारणमन्त्यसामग्रीक्षणलक्षणं ततोऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर्न स्यात्प्रथमक्षणोपनिपातिनां परस्परतो विशेषानासादनात्क्षणानामविवेकातनभ्युपगमाच्च । परस्परतोऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषमारप्स्यन्त इति चेदाह- "अविशिष्टाद" विशिष्टेभ्यः परस्परतो "विशेषस्य" (ह्ब्ट्१३१) कार्योत्पादानुगुणस्योत्पत्ताविष्यमाणायां "कार्यस्य" अङ्कुरादेः स्यात्, विशेषाभावादित्यभिप्रायः । ततश्च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः कार्यं कुर्वीरन् । किमेवंसति सिद्धं भवति? इति चेत्, आह- "तेन" येन क्षणिका अपि परस्परतो विशेषोत्पादानपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन "अक्षणिकानामपि कारणता स्यात्, अपेक्षणीयेभ्यः स्वभावातिशयोत्पतिश्च न स्यात्" इत्यक्षणिकवादी क्षणिकपक्षेण स्वपक्षस्य साम्यमापादयति । यदाह- "कः शोभेत वदन्नेवं यदि न स्यादह्रीकता । अज्ञता वा यतः सर्वं क्षणिकेष्वपि तत्समम् ॥ विशेषहेतवस्तेषां प्रत्यया न कथञ्चन । नित्यानामिव युज्यन्ते क्षणानामविवेकतः ॥" इति । तत्रैतत्स्यात्प्रथमक्षणेऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते- "येन यस्याभिसम्बन्धो दूरस्थस्यापि तेन सः ।" इति न्यायाद्धि दूरदेशवर्तिनामपि हेतुफलभावातित्याशङ्कयाह- "अथ सहकारिणा" इत्यादि । सहकारिणः परस्परसम्पर्कविकला अपि वस्तुधर्मतयैवान्योन्यमुपकुर्वन्तीति शहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्ककाल उपतिष्ठेत, एवं सत्यनवस्था स्यात् । तथा हि- तद्विशेषोत्पत्तावप्यपरः सहकारिकृतो विशेषोऽभ्युपगन्तव्यः, तथा तदुत्पत्तावप्यन्य इति । अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषणिमित्तमपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वातित्यत आह- "न च" इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने "नित्यं" सर्वकालं योग्यावस्था "येन" योग्यावस्थत्वेन "नित्यानुषक्तः" नित्यानुबद्धः "एषां" क्षितिबीजादीनां कार्योत्पादानुगुणविशेषजनको (ह्ब्ट्१३२) विशेषः स्यात्यतः ’विशिष्टाद्विशेषोत्पत्तौ कार्यस्यापि स्यात्ऽ इत्येतदपि परिह्रियेत । कुत एतद्? इत्याह- "तदुपाय" इत्यादि । तेषां क्षितिबीजादीनामुपाये- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनातपाये च- परस्परसम्पर्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कार्योत्पादनुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सोऽपि विशेषः सर्वदा स्यत् । ततस्तत्परम्पराभावि कार्यमिति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । तस्मान्न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात्कृतविशेषो नोपतिष्ठते परस्परतश्च प्रथमसम्पर्कक्षणभाविनां नोपेयते युज्यते वा । तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः "नोत्पद्यते", उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्थावत्सर्वेषां व्यग्रावस्थाभाविनामपि क्षणानामविशेषात्तज्जननस्वभावत्वेऽप्यजननात्समग्रावस्थायामेव जननाद् । यथा क्षणिकानामेकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानामपि भविष्यतीति क्षिनसर्वोपायोऽक्षणिकवादी साम्यमेवातुर इव बहुमन्यमानस्तत्रैव भरं कृतवान् । सिद्धान्तवादी भङ्ग्या परमुपहसन्नाह- "नास्माकं पुनः पुनः" इत्यादि । यदि पुनः पुनर्वचनेऽपि लोकस्य न्यायप्रतीतिर्भवति शतशोऽपि ब्रूमः । किमङ्ग पुनर्द्धौ त्रीन् वा वारान्? । नहि परार्थप्रवृत्तानामस्माकं पुनः पुनरभिधाने कश्चिदुद्वेगो भवति । एवंवादिनश्च शास्त्रकृतः क्वचित्प्रकारान्तरेण तमेवार्थं स्फुटीकुर्वतो ये पुनरुक्तताअप्रिहाराय यतन्ते स तेषामस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्ह्युच्यतामित्यत आह- "न विशेषोत्पादनादेव" इत्यादि । नैव विशेषोत्पादनात्सहकारिणां (ह्ब्ट्१३३) सहकारित्वं परमार्थतः क्वचित्सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात्कार्योत्पादानुगुणे विशेषे कर्तव्ये सहकारिताविरहः स्यात् । किन्त्वेकार्थाक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर्युक्तिभिः सम्भाव्यते । सा च प्रथममसम्पर्कभाजामस्त्येवेति किं न सहकारिणः स्युः? । पर आह- साप्येकार्थक्रिया न भवेत्परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानामपि तदेकार्थक्रियाङ्गिक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात्तदवस्थायामिव पृथगपि सा भवेत् । तथाहि- ते तदवस्थायामपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथगपि तद्विशेषक्रिया कथमिव न प्रसज्येत? । नह्येषां संहतासंहतावस्थयोः कश्चिद्विशेषोऽस्तीति । भवतु, को दोषः? इति चेत्; "तथा च" कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति "तस्माद्विशेषाद्भवनशीलम्" अङ्कुरादि "कार्यमपि" विशेषवत्केवलात्सहकारिणः स्यातिति चेन्मन्यसे, अत्रापि सर्वमुक्तमुत्तरम् । तथा हि- संहतासंहतावस्थयोन्निर्विशेषा एव क्षणक्षयिणो भावा इति यदुच्यते तत्किं तावद्विशेषमात्रापेक्षया? आहोस्वित्कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया? । यदि प्राच्यो विकल्पः तदयुक्तम् । न हि काचिद्विशेषमात्ररहितावस्था सम्भवति, सर्वदापरपरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । नहि कदाचित्किंचिदेकमेव, आधारच्छायातपवातशीतादेर्यथासम्भवं भावात् । न च तद्भावेऽपि तत्तादृशमेव, कारणभेदात् । एतावत्तु स्यात्- कश्चिद्विशेषः क्वचित्कार्येऽनुगुणो न सर्वः सर्वत्रेति । एतच्च प्रागेवोक्तमिति दर्शयन्नाह- "प्रतिक्षणमपरापरैः प्रत्ययैः" इति । ’परापरप्रत्ययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित्साम्यात्सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिदेव कस्यचित्कारणम्ऽ इति, ’क्षणिकेषु (ह्ब्ट्१३४) भावेष्वपरापरोत्पत्तैरैक्याभावात्ऽ इति चात्र संक्षिप्यतरमुक्तम् । एवं चऽनास्माकं पुनः पुनर्वचनऽ इत्यत्र द्विः पुनर्ग्रहणं युज्यते । यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]दप्युक्तम् ’तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद्विशेषोत्पत्तिःऽ इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत्प्रथमसम्पर्कभाजः परस्परतो निर्विशेषा इत्यभिमतं तदप्ययुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः क्षितिबीजादयः कीदृशाः ये व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावातेतावन्मात्रनिबन्धनत्वाच्च जनकं व्य(कव्य)वस्थायाः । ते च तथाविधाः सर्वदा न भवन्तीति कथं पृथगपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानामपि कार्यक्रिया प्रसज्येत तद्दर्शयति- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर्येषामव्यवहितदेशत्वादीनानवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश्च तथोक्ताः । "योग्यदेशता अ(ताद्य) व्यवहितदेशतादयो" ये "अवस्थाविशेषाः" क्षितिबीजादीनामुपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथमेषां पृथगपि तथाविधविशेषारम्भः स्यात्? । एतदपि प्रागेवोक्तम् ’तत्र योऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुःऽ इति वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र योऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुरिति प्रतीयत एव । स च तथाविधोविशेषः सर्वदा न भवति, तज्जनकस्य हेतोरभावात् । परस्परोपसर्पणाद्याश्रयस्यैव प्रत्ययविशेषस्य तद्वेतुत्वात् । एतदपि पूर्वमेवोक्तमित्याह- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस्तदप्युक्तमसकृदेव ’यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुःऽ इति । तथा ’यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रयैर्ये (ह्ब्ट्१३५) योग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्तऽ इत्यनेन, इहापि गम्यमानत्वात् । ततो यद्यप्येषां परस्परतोऽनुपपत्तेर्विशेषो न भवति, स्वहेतुकृतस्तु केन वार्यते? । न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस्तदाशंसा, यतः परस्परतो विशेषायोगः प्रतिपाद्यमानः शोभेत । तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्येऽपि खण्डशः कार्योत्पादायोगात्सकलस्यैव प्रत्येकं करणात् । यथा केवलानामक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितीबीजादिकलापस्य पृथगेकैकस्य समर्थस्य भावस्याभावादित्येतदप्यसकृदेवोक्तम् ’तेषां च न पूर्वं न पश्चात्न पृथग्भाव इति समर्थानपि पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्तेऽ इत्यादिवचनात् । ततस्तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन केवलानामप्रसङ्गात्कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यमपि स्यादिति? । कुतः पुनरयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्यत आह- "कार्यद्वैविध्यं च यस्मात्तस्मादेवं विभज्यते" । कथं द्वैविध्यं कार्याणामिति? अत आह- सहकारिभिरव्यवधानादिदेशैरनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास्तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभवरूपया उत्पत्तिर्द्धर्मो यस्य तदात्मकमेकं कार्यम् । अन्यच्च तद्विपरीतं यत्सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्परामपेक्षते । अत्रोदाहरणम्- "अङ्कुरादिवत्", आदिग्रहणादोदनादिवत् । तथाक्षेपेण करणशीलं यदिन्द्रियं तद्विज्ञानादिवच्च । प्रभास्वरादपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद्विशेषणम् । कुत एतद्? इति चेत्; कार्यकारणयोः (ह्ब्ट्१३६) स्वभावभेदात् । किंचिद्धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तदन्यत्तु तत्परिणामापेक्षमिति । कारणमपि किञ्चित्स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते । अन्यत्तु तद्विपरीतस्वभावम् । यथा किञ्चिदेव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् । शाल्यङ्कुरश्च तब्दीजजन्यस्वभावो न यवादीबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वभावाः पर्यनुयोज्याः । ये तु यज्जननस्वभावाः प्रमाणतोऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित्तदैव? इत्यत्र चिन्ता प्रवर्तते । तत्र सर्वदा तत्स्वभावत्वे पश्चादिव प्रागपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य भिन्नस्वभावता कारकाकारकावस्थयोः शालियवबीजादीनामिव तत्त्वचिन्तकैरूच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्विव केशनखादिषु इत्यत्र विरोधाभावादिति । यदा च तक्तार्यकारणस्वभावभेदात्कार्यव्दैविध्यम्, "तत्रै"तस्मिं(स्मिन्) सति "सहकारिभ्यः" क्षितिबीजादिभ्यस्तेषां परस्परसन्तानोपकारमपेक्षते यत्कारणमन्त्यावस्थाप्राप्तं तस्य यत्कार्यमङ्कुरादिकं तज्जन्मनिमित्तं "सहकारिणां" प्रथमक्षणान्तरं विशिष्टद्वितीयक्षणभावरूपो यो विशेषः कार्योत्पादानुगुणः "आद्यो" भवति "स तेषां" सहकारिणां प्रथमसम्पर्कभाजां परस्परकृतो यो विशेषस्तज्जन्मा न भवति परस्परोपसर्पणाद्याश्रयादेव प्रत्ययविशेषात्तस्य भावात् । ततः कार्योत्पादानुगुणादाद्याद्विशेषात्प्रथमक्षणोपनिपातिभिः सहकारिभिरन्यतः समासादितविशेषैः जनितात्तत्प्रभृति "ये विशेषाः" प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते "ते तज्जन्मानः" सहकारिकृतविशेषजन्मानः । कुतः? "तत्प्रकृतित्वात्" तस्याद्यस्य विशेषस्य परस्परोपसर्पणाद्याश्रयात्प्रत्ययविशेषादासादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर्जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । (ह्ब्ट्१३७) यत एवम् "इति" तस्मात्"नानवस्था" प्रागुक्ता । अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थोऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्ठेतानवस्थैवं स्यातिति । तस्य प्रकारस्यानभ्युपगमात्पुरुषप्रयत्नादेरेव क्षेत्रप्रकिरणहेतोरव्यवहितस्निग्धपृथिवीबीजसम्पर्कलक्षणस्य कार्योत्पादानुगुणविशेषजनकस्य विशेषेऽस्योपगमात् । तत्र यदुक्तं परेण ’यथा प्रथमसम्प्रर्कभाजः क्षितिबीजादयः परस्परस्य विशेषमनादधानाः कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भविष्यन्तिऽ इति, तदभ्युपगच्छन्नाह्"तथा यद्यक्षणिकोऽपि" इत्यादि । क्षणिकवदक्षनिकोऽपि यदि कार्यं करोति करोतु नाम । ना कश्चिद्वारयति । किन्तु येन स्वभावेन कार्यं करोति स यदि "अविलम्बितकार्यकर्तृधर्मा" अक्षेपेण करोतीत्येवंशीलो धर्मो यस्य स तथोक्तः, तदा "पृथग्भावस्य सम्भावात्केवलोऽपि" न केवलं सहितः "तथा स्यात्" तत्कार्यकारकः स्यादित्युक्तं बहुशः । "अतत्स्वभावस्तु" अक्षेपकर्तृस्वभावविकलस्तु "तदापि" सहितावस्थायामपि प्राग्वत्"अकारक एव" पररूपेण कर्तृत्वस्य पूर्वमेव निषेधात् । तदेवमेकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्नाह- "तस्मात्" इत्यादि । द्विविधस्यापि सहकारित्वस्यायोगान्नैवाक्षणिकस्य कश्चित्सहकारीति केवलोऽपि स्वकार्यं कुर्यादिति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तमिति दर्शयन्नाह- "प्रायस्तु" इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्यपेक्ष्य कार्यं करोति तदा "व्यक्तम्" अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिरिति । "नाकार्यस्य" कार्यतामननुभवतो अपेक्षेत्युच्यते । यतः सहकारिणां यः "संघातः" सन्निपातः "तत्स्थायी" तत्र वर्तमानो भावसन्तानः "प्रायः" बाहुल्येन "सहकारिप्रत्ययैरुपजनितविशेषः" सन् "स्वकार्यं कुर्वन् दृष्टो बीजादिवत्" (ह्ब्ट्१३८) तस्मादेवं विभज्यते । प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिदपि कल्पयितुमशक्यत्वात् । प्रागकारकस्य पश्चात्कारकस्वभावान्तरोत्पत्तिस्तु न विरुध्यते । तस्यैव ह्यकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्वतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलमकारकस्वभावस्य स्वरसनिरोधितामात्रमुपेयम् । ततः सर्वं सुस्थमिति । अथ मतम्- कारकस्वभावान्तरोत्पत्तिरिष्येत यदि स्थिरस्य हेतोः प्रागपि कारकस्वभावो न स्यत् । तस्य तु प्रागपि भावात्प्रत्ययान्तरापेक्षा तदुत्पत्तिरप्ययुक्तेति अत आह- "कारकस्य" इत्यादि । यदि हि समग्रावस्थायाः प्रागपि कारकस्वभावो भवेत्तदास्याक्रिया न युज्यते, संहतावस्थायामपि तत्स्वभ्वतयैव करणात्, पररूपेण कर्तृत्वस्य प्रागेव निषिद्धत्वात् । न च करोति । तस्मात्सोऽस्य स्वभावः प्राङ्नैवासीत् । यदि च प्रत्ययान्तरैरप्यसौ न क्रियेत तत्किमिति मुधैव तान्यपेक्षते? इति । [४३. निर्हेतुकविनाशचर्चाया उपसंहारः ।] तदेवं ’तत्स्वभावस्य जननात्ऽ त्यस्य ’यो यत्स्वभावः स स्वहेतोरेवोत्पद्यमानः तादृशो भवति पुनस्तद्भावे हेत्वन्तरमपेक्षतेऽ इत्यस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया "अपरापरप्रत्यययोगेन" इत्याद्यभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्वसम्भवं प्रतिपादयितुं प्रासङ्गिकं यदुपक्रान्तं तत्परिसमापय्य प्रकृतमनुबध्नन्नाह- "तस्माद्यो यदात्मा" इत्यादि । यदि स्वभावेनास्थितिधर्मणो भावस्य न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्यत आह- "स्थितिधर्मणोऽपि" इत्यादि । स्थितिधर्मणोऽपि हि नैव नाशकारणैः किञ्चित्प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभवः तदन्यथात्वस्यास्थिरात्मतापत्तेः (ह्ब्ट्१३९) केनचित्कर्तुमशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्मणोऽप्यन्यथात्वप्रतिपत्तिरिष्यते तदान्यथात्वप्रतिपत्तौ वा "तत्स्वभाव एव" स्थितिधर्मैव "न स्यात्" आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात्सम्भवे प्रागप्यभावायोगात् । नहि तदात्मनस्तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतस्त्वभावताप्रसङ्गात्’विरुद्धधर्माध्याअस्य भेदलक्षणत्वात्ऽ इत्युक्तम् । तथा च सति "पूर्व" एव "विकल्पः" स्वभावेनास्थितिधर्मा भाव इति । "तत्र च" पूर्वविकल्पे प्रागेवोक्तं दूषणं विनाशहेतोर्वैयर्थ्यमिति । अथासौ शिरस्वभाव एव, केवलमस्याशिरस्वभावता प्रागसति विनाशहेतोरुपजायते, अन्यथा निवृत्त्ययोगादित्यत आह- "यश्च परस्मात्" नाशहेतोः स्थितिधर्मणः सत "अन्यथाभावः" अस्थितिधर्मतालक्षणो भवति, स पूर्वकात्स्थितिधर्मणः स्वहेतुसमुद्भूतात्स्वभावात्"अपरः" अन्यः "स्वभावस्तस्मिन्निष्पन्ने" पश्चा[ज्जन्य]त्वाद्भिन्नहेतुकत्वाच्च "कथं तस्य" स्वभावः "स्यात्"? । तदात्मतया प्रतिभसनादिति चेत् । सारूप्यादलक्षितविवेकस्य तथा प्रतिभासनं स्यात्यद्यसौ पूर्वस्वभावे सत्येवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत? । भवत्वपरः स्वभाव इति चेत् । यश्चापरः स्वभावः स कथं तस्य? । न ह्यन्योऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । योऽपरः स्वभावः स किमिति तस्य न भवति? इत्यत आह- "स्वभावभेद-" इत्यादि । भवतु वस्त्वन्तरमेव तदपरस्वभावतया को दोषः? इत्यत आह- "तथा च" वस्त्वन्तरत्वे सति विनाशहेतोरुपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा जातः सोऽच्युतिधर्मे स्थितो निवृत्तिभाङ्न भवति, विनाशहेतोर्वस्त्वन्तरोत्पत्तौ व्यापृतत्वादिति न "तस्य" स्थितिधर्मणो "ऽन्यथाभावो" निवृत्तिः । नहि मुग्दरादेर्वस्त्वन्तरस्य भावेऽपरस्य निवृत्तिर्युक्ता, अतिप्रसङ्गात् । तदुपमर्द्देन तदुत्पत्तौ च प्रागेव प्रोक्तम् । (ह्ब्ट्१४०) ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेरग्नयादेर्विनाशहेतोर्द्रवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्मता इत्यत आह- "एतेन" अनन्तरोक्तेन "कठिनादीनाम्" आदिशब्दाद्द्रवादीनां ताम्रसुवर्णादिनामग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर्व्यवस्थितरूपस्य ताम्रादेः "प्रत्युक्ता" प्रत्याख्याताः, तुल्यदूषणत्वात् । कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो युक्तः? इत्याह- "तत्रापि" कठिनादिरूपे ताम्रादौ "पूर्वकस्य" कठिनद्रवादिरूपस्य "स्वरसनिरोधित्वात्" विनाशहेत्वयोगेन । "विनाशे" सति "अग्न्यादेः" आदिग्रहणाज्जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्पणाद्याश्रय प्रत्ययविशेषोपजातातिशया "दुपादानाच्च" यत्तत्कठिनादिरूपं ताम्रादि स्वरसतो निरुध्यते । तत एव उपादानकारणादग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद्"अपर एव" अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, "उत्पन्नो" न तु पूर्वकमेव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतमिति । अत्र पर आह- "केनोक्तं" यथा ’स्थितिधर्मणः सतो विनाशहेतोरस्थितिस्वभावोत्पत्तिस्ततो विनाशःऽ इति, येन ’यश्च परस्मादन्यथाभावः सोऽपरः स्वभावःऽ इत्याद्युच्यते । किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर्जनितो नास्यास्थिरस्वभावता विनाशहेतोरुपजायते । कथं ज्ञायते यथा ’स्वहेतुभिः स्वभावेन स्थितिधर्मैव जनितःऽ इति? । विनाशहेतोरग्न्यादेरसम्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर्जातः स्यात्तदा तदसम्भवेऽपि नावतिष्ठेत । तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिरेवायमपरः स्वभावो नियमितो यदुत "परस्मात्" विरोधिनोऽग्न्यादे "र्विनाशः स्वयं भवतीति" । परस्मादिति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्यर्थः । स्वहेतुभिरेवायं नियमितस्वभावो (ह्ब्ट्१४१) जातो यथा त्वया विरोधिनमपेक्ष्य स्वयं निर्व(व)र्तितव्यमिति । तदुक्तम्- "स्वभावोऽपि स तस्येत्थं येनापेक्ष्य निवर्तते । विरोधिनं यथान्येषां प्रवाहो मुग्दरादिकम् ॥" इति । ननु यद्यस्य विनाशओ विरोधिसन्निधाने स्वयमेव भवत्यहेतुकः प्राप्नोति, अहेतोश्च देशकालस्वभावनियमो न युक्त इत्यत आह- "न च" नैव विनाशो नाम विनष्टुरपरः स्वभावः, यतोऽयं दोषः स्यात्, किन्तु "भावच्युतिरेव विनाशः" । तस्याश्च निःस्वभावत्वाद्धेतुमत्ता नैव युज्यते । नहि सा तस्य भवति । केवलमसौ स्वयमेव न भवति । ततो भवितुरभावात्कस्य हेतुमत्तोपगम्यते? । सिद्धान्तवाद्याह- "नेदमनन्तरोक्तं विकल्पद्वयमतिक्रामति" । कीदृशं विकल्पद्वयम्? । ’किं नित्यो भावः?ऽ इत्यादि । ननु च कालान्तरस्थितिरधर्मतामुपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमेऽपि नित्यतैवोपगता भवति । तथा हि- यद्ययं संवत्सरस्थितिधर्मा स्वहेतुभिर्जनितस्तदा संवत्सरपरिसमाप्तौ योऽस्यादावुदयकाले संवत्सरस्थितिधर्मा स्वभावो यतोऽयं संवत्सरं स्थितः स एव तदन्तेऽपि । ततोऽपरं संवत्सरमवतिष्ठेत । तदन्तेऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागादपरापरसंवत्सरस्थितिप्रसङ्गात्कालान्तरस्थितिधर्मतोपगमेऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्निवारः । विनाशहेतुसन्निधौ स्वयं निवर्तत इति चोपगमादनित्यविकल्पो नश्वरात्मताविकल्पः । तथा हि- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो योऽस्य स्वभावः स एव भावस्यैकरूपत्वादुत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात्कथमस्य कालन्तरस्थितिधर्मता सम्भवति? । एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिरेवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ्नित्यो भूत्वा पश्चादनित्यो विनश्वरस्वभावो भवतीति ब्रूते । "एवं च ब्रूवाणो भावद्वयं चाह" । वक्ष्यमाणापेक्षश्चकारः । (ह्ब्ट्१४२) कीदृशं भावद्वयम्? । नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । योऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान्नाशं ब्रूवाणः सर्वदा प्रतिक्षणमेव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चादपि नाशासम्भवात् । अथ प्रतिक्षणमस्य नाशो न भवति तदा पश्चादपि तदयोगात्सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्नित्याभिमते स्वभावे विनाशहेतुरसमर्थोऽकिञ्चित्कर एव । ननु च विनाशहेतोर्नैव सामर्थ्यमुपगतं परेन विरोधिसन्निधिमपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रसङ्गात्नाशस्य । अन्यथा ह्यकिञ्चित्करः किमित्यसावपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करेऽपि तत्रापेक्षायां नियुञ्जत इति चेत् । कः पुनरयमस्थानाभिनिवेशः तेषां यत्तत्र तथा नियुञ्जते । तस्मादुपकार्यपेक्षायामेव हेतवो नियुञ्जानाः शोभन्ते । अन्यथा तेऽपि कार्यात्मानो नैव तन्नियोगमाद्रियेरन् । कथं चाकिञ्चित्करो विरोधी नाम? । न ह्यस्याविरोधित्वाभिमताद्विशेषः कश्चिदिति यत्किञ्चिदेतत् । यदप्युक्तं ’यथान्येषां क्षणिकवादिनामकिञ्चित्करमपि मुग्दरादिकमपेक्ष्य घटादिप्रवाहो निवर्तते तथास्माकमपि कालान्तरस्थायी भावःऽ इति तदपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तोऽस्ति योऽकिञ्चित्करमुग्दरादिसन्निधौ निवर्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुग्दरादिकमपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्यामेकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात्’निवृत्ता घटादयःऽ इति व्यवहारः, तत्राकिञ्चित्करत्वं मुग्दरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन्मुग्दरादिसहकारिणो घटक्षणात्परस्परोपसर्पणाद्याश्रयात्(ह्ब्ट्१४३) प्रत्ययविशेषात्सञ्जातातिशयात्कपालदेर्भवनधर्मत्वात्तस्य च तज्जन्नस्वभावत्वादिति । स्वभावद्वयोपगमप्रसङ्गादिति परिजिहीर्षया पर आह- "न प्राग्" इत्यादि । कुत एतत्? । "एकस्वभावत्वात्" । सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चादनित्यस्वभावतासम्भव इति । सिद्धान्तवाद्याह- "स तर्हि भावः" सर्वदा नित्यस्वभावः स्वभावेन "नाशमनाविशन्" अप्रतिपद्यमानः कथं नैव नष्टो(कथं नष्टो) नाम? । कुतः? "तत्स्वभावविनाशयोः" नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश्च "अपरस्पररूपत्वात्" परस्परपरिहाररूपत्वात् । उपसंहरन्नाह- "यत एवं" स्थितिधर्मणां विनाशो नैव युज्यते तस्मात्सति अस्य विनाशे यद्यवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस्तदा "विनाशस्वभावेन"- विनश्यति नावतिष्ठत इति विनाशः । कर्तरि बहुलवचनाद्घञ् । स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा । "तेन" कृतकरूपेण सता वस्तुना स्वहेतुभ्यो "भवितव्यम्" अन्यथावश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् । भवत्वेवमिति चेत् । आह- "तथापि" स्वयं विनाशस्वभावत्वेऽपि न केवलमविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद्व्यर्थो विनाशहेतुरिति प्रथमविकल्पोपन्यास एवोक्तं न पुनरुच्यते । यत एवं "तेन" इत्यादि सुगमम् । तदेवं विनाशं प्रत्यनपेक्षामसामर्थ्य- वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्य पूर्वाचार्यदर्शितां प्रतिपाद्य यथासौ विपर्यये बाधकप्रमाणतामनुभवति तद दर्शयन्नाह- "तस्माद्विनाश" इत्यादि । प्रयोगस्त्वेवम्- ये यद्भावं प्रत्यनपेक्षास्ते तद्भावनियताः । तद्यथा- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश्च कृतकरूपः सन् भावो विनाशेऽवश्यम्भाविविनाशतयोपगतः (ह्ब्ट्१४४) परैरिति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणं पूर्वाचार्यप्रदर्शितम् । "ततः" तद्भावनियतत्वे, नाशस्याकादाचित्कत्वादुदयानन्तरं नाश इति "यः सन्" कृतकलक्षणो भावः "स विनाशी" विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिरिति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायामन्वयव्यतिरेकसिद्धिः सम्पद्यते अनपेक्षयानुक्रान्तसत्त्वक्षणिकत्वयोस्तादात्म्यसिद्धेः तन्निबन्धनयोरन्वयव्यतिरेकयोरपि निश्चयात् । तदेवं पूर्वाचार्यान् प्रति अकृतकस्य सतोऽभावात्"सदकारणवन्नित्यम्" इति नित्यलक्षणविरहादेव न तन्नित्यत्वम् । यत्तु सदुत्पत्तिमत्तदुक्तेन न्यायेनावश्यंनाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् । [४४. सामान्येन सत्त्वक्षणिकत्वयोस्तादात्म्यव्याप्तिप्रदर्शनम् ।] यदा तु यत्सत्तत्क्षणिकमेवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदमनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वमेव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषामेव तद्धैत्वयोगत्तत्रानपेक्षा युज्यते । ये तु देशादिव्यवहिताः पर्वतादयो वा विनशामाविशन्तो न दृष्टाः तेषामवश्यं विनाशित्वोपगमनिबन्धनाभावादन्त्येऽप्ययं विनाशं प्रत्यनपेक्ष एव विनश्यन्नऽविशेषादादावपि तद्भावनियत इति वक्तुमशक्यत्वात्तत्स्वभावसापेक्षत्वात् । विनाशं प्रत्यनपेक्षत्वासिद्धेरकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणामित्यनपेक्षया सतो नश्वरस्वभावतासिद्धेः अन्वयव्यतिरेकयोस्तन्निबन्धनयोरयोगमुत्पश्यन्नर्थक्रियाविरोधलक्षणमेव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकमभिधानीयमिति मन्यमानः पूर्वपक्षमुत्थापयन्नाह- "स्वभावतो" नश्वरत्वेऽप्युक्तेन (ह्ब्ट्१४५) न्यायेन परिदृश्यमानविनाशानां घटादीनां "कश्चिद्" देशादिव्यवहितः पर्वतादिर्वानुपलब्धविनाशः कृतकोऽपि सद्रूप आकाशादिर्वाकृतकः सन्न "ऽतत्स्वभावोऽपि" अविनाशिस्वभावोऽपि स्यात् । अपिशब्दः सम्भावनायाम् । तस्य विनाशिस्वभावसंसाधकप्रमाणाभावादाशङ्कयत एतत् । ततश्च विनाशिस्वभावसापेक्षत्वात्तदनपेक्षत्वमसिद्धमिति तद्वशात्साध्यस्य क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिरिति । किं पुनरत्राशङ्कानिमित्तं येन कश्चिदतत्स्वभावोऽप्याशङ्कयत इत्याह- "न हि सर्वः सर्वस्य स्वभावः" इति । विचित्रस्वभावा हि भावा दृश्यन्ते- केचित्सप्रतिघाः केचिदप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद्विनाशिनः अन्ये त्वविनाशिस्वभावाः शङ्कयन्त इति पूर्वपक्षाशङ्का । न- ’कश्चिदतत्स्वभावोऽपि स्यात्ऽ- इति आशङ्कनीयम्, तथाभावे ह्यक्षणिकत्वं तस्य स्यात् । तस्मिंश्च सत्यवस्तुत्वप्रसङ्गात्कुतोऽतत्स्वभावताशङ्का? । कथं पुनरक्षणिकत्वेऽवस्तुत्वप्रसङ्गः? । यतः सत्त्वस्य क्षणिकत्वस्वभावतयान्वयव्यतिरेकसिद्धिरित्यत आह- "शक्तिर्हि" इत्यादि । [४५. अर्थक्रियाकारित्वमेव सत्त्वं, तच्च क्षणिकानामेवेति ।] एवं मन्यते- इह तावदिदमेव विचारणीयं किंलक्षणमेतद्भावानां सत्त्वं युक्तमिति । तत्र न सत्तायोगलक्षणमव्याप्तेः, सामान्यदिष्वभावात् । वन्ध्यासुतादिष्वपि भावादतिव्याप्तेर्वा । वन्ध्यासुतादीनामसत्त्वात्कथं सत्तायोगः? इति चेत् । न । इतरेतराश्रयात् । यतस्तेषामसत्त्वं सत्तायोगविरहादेव तद्विरहश्चासत्त्वादिति । यदि च सतामेव सत्तायोगः एवं तर्ह्यन्यत्सत्त्वलक्षणमभिधानीयं सत्तायोगस्य च वैयर्थ्यम्, ततेव वस्तुनः सत्त्वात् । सर्वार्थक्रियासामर्थ्यविरहात्सत्तायोगाभावस्तेषामिति (ह्ब्ट्१४६) चेत् । एवं सति यदेवार्थक्रियसामर्थ्ययुक्तं तस्यैव सत्तायोग इत्यर्थक्रियासामर्थ्यमेव भावलक्षणमायातमित्यपार्थकः । सत्तायोगः । "इत्थं च" एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? । अर्थक्रियासामर्थ्यं तु सर्वेषामस्तीति तदेव भावलक्षणम् । "उत्पादव्यव्यघ्नौव्ययुक्तं सत्" इत्येतदप्ययुक्तम्, ध्रौव्येणोत्पादव्यययोर्विरोधातेकस्मिं(स्मिन्) धर्मिण्ययोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित्ध्रौव्यमिति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाविति नैकं वस्तु यथोक्तलक्षणं स्यात् । ततोऽन्यस्य भावलक्षणस्यायोगात्शक्तेश्चान्तशः स्वज्ञानजननेऽप्युपगमात्परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात्सैव भावलक्षणम्, सर्वशक्तिविरहः पुनरभावलक्षणम् । सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वादभावतानिरासार्थम् । यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते । शक्तिलक्षणमेव सत्त्वमक्षणिके स्यात्ततः क्षणिकात्मता सत्त्वस्य न सिध्यतीति कुतोऽन्वयव्यतिरेकौ? इति चेत्, आह- "न चैवाक्षणिकस्य" क्वचित्कार्येऽन्तशो ज्ञानलक्षणेऽपि शक्तिरस्ति तत्कुतस्तस्य तल्लक्षणं सत्त्वमतीतादेरिव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् । ननु च शक्तेरतीन्द्रियत्वात्कारणानां कार्यरम्भनियमाभावाच्च कथं तद्विरहोऽक्षणिकस्य भवेत्यतोऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मतामेवानुभवेत्यतोऽन्वयव्यतिरेकौ स्यातामित्यत आह- "क्रमयौगपद्याभ्याम्" इत्यादि । नैव प्रत्यक्षतः कार्यविरहाद्वा सर्वशक्तिविरहोऽक्षणिकत्वे उच्यते, किन्तु तव्द्यापकविरहात् । तथा हि- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस्तयोरक्षणिकत्वे (ह्ब्ट्१४७) विरोधात्निर्वृत्तेस्तव्द्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्त्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति, विरुद्धयोरेकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति- ’यत्सत्तत्क्षणिकमेवऽ इत्यन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर्निश्चयो भवति । ननु च प्रकारान्तराभावात्कार्यमङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्यामेव क्रियत इत्युच्यते स एव तु प्रकारान्तरविरहः कार्यात्मनः कुतः सिद्धः? । प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथमत्यन्तासम्भवः? । केवलं देशादिनिषेधमात्रमेव स्यात् । अनुपलब्धिलक्षणप्राप्तत्वेनासत्तानिश्चयो विप्रकर्षिणामिति कुतस्तदभावसिद्धिः? । ततः प्रकरान्तरेणार्थक्रियासम्भवात्क्रमयौगपद्यनिवृत्तावपि नार्थक्रियासामर्थ्यनिवृत्तिरिति कुतोऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणमसत्त्वम्?, यतः सत्त्वस्य क्षनिकात्मतयान्वयव्यतिरेकौ स्याताम्? । न । उभयथाप्यदोषात् । तथा हि- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यमङ्कुरादेः, यौगपद्यमपि तस्यापरैर्ब्बीजादिकार्यैः साहित्यम् । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहेऽप्यन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वाभावे प्रत्यक्षबोधगम्यमाने सत्युपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः प्रत्यक्षस्योदयात्स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीरतरस्मिन् वा भावेऽपि न काचित्क्षतिः । ततः प्रत्यक्षत एव प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्यामर्थक्रियाशक्तिरव्याप्ता स्यात्? । शास्त्रकारस्तु यथा प्रत्यक्षत एव प्रकारान्तराभावसिद्धिः तथा स्वयम् "एतेन क्रमाक्रमादयोऽपी"ति अतिदिशन् वक्ष्यति । (ह्ब्ट्१४८) अनुपलब्धिलक्षणप्राप्तत्वेऽपि प्रकारान्तरस्य क्रमयौगपद्ययोरन्योऽन्यव्य वच्छेदरूपत्वादेवाश्रयसि (देवाभावसि)द्धि तथाहि- अन्योन्यव्यवच्छेदरूपाणामेकनिषेधेनापरविधानात्तस्याप्रतिषेधे विधिप्रतिषेधयोर्विरोधादुभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? । अत्र प्रयोगः- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद्यथानीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोरन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानं व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्च ततो बहिर्भावलक्षण इत्यनयोस्तत्त्वान्यत्वरूपयोरन्योन्यपरिहारस्थितलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कयानवस्थानमाशङ्कनीयम्, पूर्वप्रसिद्धस्य विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावमुपदर्श्य विरोधसाधनमेव बाधकम्, तच्चेहास्ति । ततो विरुद्धयोरेकत्रासम्भावात्प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोरिव भावाभावयोरिव वेति कुतोऽनवस्था? । तत्र न क्रमेणाक्षणिकः कार्याणि करोत्यविशेषादकारकावस्थायामिव । सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगादनुपन्यसनीया । सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् । नापि युगपत्, प्रत्यक्षादिविरोधात्, पुनस्तत्क्रियाप्रसङ्गाच्च । कृतत्वान्नेति चेत्, न, सामर्थ्यानपायात् । अन्यथा प्रागप्यकारकरूपविशेषादक्रिया स्यात् । कृतस्य कर्तुमशक्यत्वादिति चेत् । शक्ताशक्ततया तर्ह्येकत्रैव कार्ये भेदप्रसङ्ग शालिकोद्रवबीजादेरिव । नित्यश्च यदा युगपत्करोति ततः प्रागपि भावात्तदैव तत्क्रियाप्रसङ्गः पुनस्ततोऽपि पूर्वतरमित्येवं न कदाचिद्युगपत्क्रिया स्यात् । पूर्वोत्तरकालयोश्चैकदा युगपत्कारिणोऽन्यदा सर्वार्थक्रियासामर्थ्यविरहलक्षणमसत्त्वं (ह्ब्ट्१४९) स्यादिति कथं न क्षणिकता? । क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः । एवमक्षणिकत्वे सति चक्षुराद्यायतनानामसत्त्वप्रसङ्गात्क्षणिकतायामेव सत्त्वमिति यत्सत्तत्क्षणिकमेवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिरिति ॥ (ह्ब्ट्१५०) ३. कार्यकारणभावव्यवस्था ।] तदेवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनमन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात्तयोस्तस्याश्च प्रत्यक्षानुपलम्भनिबन्धनायाः प्रागेव दर्शितत्वात्तग्दतमपरमपि परेषां भ्रान्तिकारणपनेतुं तद्विषयं दर्शयन्नाह- "अर्थान्तरे" हेतोर्व्यतिरिक्ते वस्तुनि गम्ये "कार्यं हेतुः" । अनर्थान्तरे तु स्वभावो हेतुरित्युक्तम् । कस्मात्पुनरर्थान्तरे कार्यमेव हेतुरित्याह- "अव्यभिचारात्" इति कार्यमेव ह्यर्थान्तरं न व्यभिचरति नान्यत्यथोक्तं प्राक्ततः कार्यमेवार्थान्तरे गम्ये हेतुरुच्यते संयोगवशाग्दमकत्वे । "न च केनचित्" इत्यादिना यः सर्वथा गम्यगमकभावप्रसङ्ग आचार्येणोक्तः परस्य, तमिहापि कार्यहेतौ परः कदाचित्प्रसञ्जयेदित्याशङ्कमान आह- "कार्यकारण- " इत्यादि । यदि हि कार्यं हेतुरुच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति । अग्नेः सामान्यधर्मवद्विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि विशेषधर्मवद्द्रव्यत्वपार्थिवत्वादयोऽपि सामान्यधर्मा गमका भवेयुः । कुतः? "सर्वथा जन्यजनकभावात्" । जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्निधूमयोरंशेन अपि तु सर्वेण प्रकारेण । तथाहि- यथा अग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्मैर्जनकः तथा तार्णपार्णत्वादिभिर्विशेषधर्मैरपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर्विशेषधर्मैर्जन्यः तथा सामान्यधर्मैरपि सत्त्वद्रव्यत्वादिभिः । ततश्च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वादिति पूर्वपक्षाशङ्का । अत्राह- "न सर्वथा जन्यजनकभावः" ततश्च कुतस्तथा गम्यगमकभावः स्यात्? । कस्मात्? इति चेत्, (ह्ब्ट्१५१) "तदभावे" तेषां तार्णपार्णत्वादिनां विशेषधर्माणामभावे "भवतो" धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवमात्मनः "तदुत्पत्तिनियमस्याभावात्" । तथा "तदभावे" अग्न्यभावे भवतो द्रव्यत्वादेः सामान्यधर्मस्याग्नेरेवायं भवती त्येवंरूपस्य तदुत्पत्तिनियमस्याभावात्कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्यसति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः । यत एवं "तस्मात्कार्यं" धूमादिकं "स्वभावैर्यावद्भि" र्धूमत्वादिभिः स्वगतैः । इत्थम्भूतलक्षणा च तृतीया । "अवीनाभावि" विना न भवति । कैर्विना न भवति? । ’कारणे यावद्भिः स्वभावैःऽ इत्यत्रापि सम्बध्यते । कारणाश्रितैर्यावद्भिः स्वभावैर्विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस्तेषामिति गम्यते । क्व अविनाभावि? । "कारणे" कारणविषये अपरोऽर्थः "कारणे" आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर्यावद्भिरग्नित्वद्रव्यत्वादिभिरविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् । कस्मात्? इत्याह- "तत्कार्यत्वनियमात्" तेषामेव कारणगतानां सामान्यधर्मानां तत्कार्यमित्येवंरूपस्य नियमस्य सद्भावात् । नहि तान् सामान्यधर्मान् कदाचिदपि कार्यं व्यभिचरति । एवं कारणगतमंशं पाश्चात्येनार्थेन निरूप्य प्राक्तनेनार्थेन कार्यगतमंशं निरूपयन्नाह- "तैरेव च" इत्यादि । कार्यमपि तैरेव धर्मैः स्वगतैः कारणगतानां धर्माणां गमकं यथान्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर्विना न भवन्ति । अत्रापि ’तत्कार्यत्वनियमात्ऽ इत्यपेक्ष्यते । तेषामेव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधर्माः कार्यगताः कारणस्थसामान्यधर्मैर्विना कदाचिदपि भवन्ति । ततस्तेषामेव कार्यत्वनियमः, नान्येषां द्रव्यत्वादीनां (ह्ब्ट्१५२) कारणस्थसामान्यधर्मैर्विना भवताम् । तदेवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् । ये तु कारणस्य विशेषधर्मा यैस्तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस्तेषामपि तत्कार्यत्वनियमाभावादेव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषामिव प्रसज्येत? । [२. जन्यजनकभावस्य सर्वथा सत्त्वेऽपि गम्यगमकभावस्य न तथात्वम् ।] परस्यानिष्ठापादनमाशङ्कयाह- "अंशेन" इत्यादि । यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमादिष्यन्ते, हन्त तर्ह्यशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् । सर्वथा च जन्यजनकभावोऽभिमत इत्युभ्युपगमविरोधः । एतत्परिहरति- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथाभिमतत्वात् । तदाह- "तज्जन्य" इत्यादि । यदि हि कार्यस्य तैः कारणगतैर्विशेषधर्मैर्जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणेऽभिमतत्वात्कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो धूमत्वादि उपाधिर्विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाग्दमकत्वस्य । तथा हि- अगुरुधूमग्रहणे भवत्येव तदग्नेरनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिनाग्नेरनुमानम् । न हि सर्वथा जन्यजनकभावोऽस्तीत्येव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् । तथा हि- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात् । ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यमर्थं ज्ञापयति, नान्यथा । कथं (ह्ब्ट्१५३) तर्ह्युक्तं "तदभावे भवतः तदुत्पत्तिनियम(मा)भावात्" इति ।? । सर्वथा जन्यजनकभावाभ्युपगमे तदभावे भावस्यैवाभावादित्यत आह- "अविशिष्ट"- इत्यादि । यदि हि तज्जन्यविशेष ग्रहणरहितमविशिष्टं कार्यमात्रमुपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा "अविशिष्टसामान्यविवक्षायां" कारणगतविशेषाभावेऽपि धूममात्रस्य भावात्तदविशिष्टस्य च द्रव्यत्वादेरग्न्यभावेऽपि भावाद्व्यभिचार इति सर्वथा जन्यजनकभावो नेष्यते, तदभावाद्गम्यगमकभावश्च । न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् । तथा हि- यदि नामधूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वमस्त्येव, निश्चितस्यैव लिङ्गत्वात् । तथा यद्यपि द्रव्यत्वसत्त्वमात्रमग्न्यभावेऽपि भवति न तु धूमात्मकमिति तद्विशिष्टस्याव्यभिचाराद्गमकत्वमपि न वार्यत इति । [३. कार्यकारणभावप्रतीतेरतिदुर्लभत्वाशङ्काया निरासः ।] अत्र परस्य वचनावकाशमाशङ्कयाह- "कस्यचित्" धूमादेः "कदाचित्" कस्मिंश्चित्काले "कुतश्चित्" अग्न्यादेः "भावेऽपि" सति "सर्वो" धूमादिः "तादृशो" यादृश एकदाग्न्यादेर्भवन दृष्ट तज्जातीयः, "तथाविधजन्मा" यथाविधात्स एको भवन् दृष्टः तादृशादेव जन्म यस्य स । "तथाविधजन्मेत्येतत्कुतः" प्रमाणादवसितम्? येनोच्यते ’कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनावन्वयव्यतिरेकौऽ इति । तथाहि- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वमवगतं किमेतावतान्यस्यापि तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः प्रत्यक्षानुपलम्भयोरव्यापारात् । यत्रैव हि तयोर्व्यापरस्तस्यैव तत्कार्यता भवतु, तदन्यस्य तु किमायातम्? येन तथविधादस्य जन्म स्यात् । एवं हि कस्याश्चिद्धूमव्यक्तेरग्न्यादिजन्यता दृष्टेति किन्न घटादेरपि साभ्युपगम्यते? अन्यत्वेन (ह्ब्ट्१५४) विशेषाभावात् । क एवं सति दोषः? इति चेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयादतादृशादपि जन्माशङ्कायां तादृशस्य धूमादेरग्न्यादिनाऽन्वयव्यतिरेकौ न निश्चिताविति कुतः कार्यहेतोर्गमकत्वम्? । न हि योऽसावेको देशकालावस्थानियतोऽग्निविशेषहेतुको धूमोऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादावसम्भवात् । किं तर्हि? । तादृशस्य सामान्यात्मन एव लिङ्गत्वात्तस्य चातथाविधादपि जन्माशङ्कायां कुतस्तथाविधेनान्वयो व्यतिरेको वा? । तदुक्तम्- "अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु । भावानामनुमानेन प्रतीतिरतिदुर्ल्लभा ॥" इति । सिद्धान्तवाद्याह- "न, अतद्भाविनः" इत्यादि । एवं मन्यते- इहैकदा धूमादेरग्न्यादिसामग्रीजन्यतया प्रत्याक्षानुपलम्भाभ्यां निश्चितरूपत्वेऽपि तादृशस्यातादृशादपि भावः समाशङ्क्यते यथापरिदृष्टादन्यत्वेन । तत्र योऽसावग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस्तदपेक्षया यथान्यो धूमविशेषस्तादृशो योऽन्यादृशादपि- भावानां विचित्रशक्तितया- भवेदिति शङ्कयते, तथा सोऽप्येकदाग्न्यादिसामग्रीजन्यतया निश्चितस्तदन्यापेक्षया तादृश एव । तत्र यदि तदन्यस्य तादृशस्यातादृशाज्जन्म स्यात्तदा तादृशस्य स्वभावस्य नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि धूमस्य नाग्न्यादिसामग्री कारणमित्यायातम् । तादृशस्य स्वभावस्याग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् । ततश्चाग्न्यादिसामग्र्या अकारणत्वात्यो मयैकदा ततो भवन् दृष्टो धूमः सोऽपि न भवेत् । नहि यद्यस्य कारणं न भवति तत्ततः सकृदपि जायते, तस्याहेतुकत्वप्रसङ्गादिति । "अतद्भाविनः" इति तच्छब्देन विवक्षितमग्न्यादिकारणं परिगृह्यते, न तततत्, तव्दिलक्षणमतादृशं शक्रमुर्द्धादिकम्, अतस्माद्भवितुं शीलं (ह्ब्ट्१५५) यस्य तस्यातद्भाविनस्तादृशस्य तल्लक्षणस्य धूमवस्तुनः "सकृदपि" एकदापि "ततः" अग्न्यादेः "अभावाद्" भावविरोधात् । भवति च तादृशोऽग्न्यादिसामग्रीतः ततस्तादृशस्य स्वभावस्य तादृशमेव कारणमित्यवगम्यते सकृत्प्रवृत्ताभ्यामेव प्रत्यक्षानुपलम्भाभ्यामिति कुतो व्यभिचाराशङ्का? । तेन यादृशो धूमोऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत्तादृशस्य तस्य तज्जन्यस्वभावतया तादृशादेव भावात्’यत्र धूमस्तत्राग्न्यादिसामग्रीऽ इत्यन्वयव्यतिरेकनिश्चयः । अथवान्यथा व्याख्यायते- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनावन्वयव्यतिरेकौ प्रतिपादयितुम्, तच्चायुक्तम् । तथा हि- "कस्यचित्" धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य "कदाचित्" प्रथमोत्पादकाले "कुतश्चिद्" अग्न्यादिसामग्र्याः "भावेऽपि" उत्पादेऽपि "सर्वस्तादृशो" यादृशः प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्वपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । "तथाविधजन्मा" इति यथाविधादग्नीन्धनसामग्रीलक्षणात्कारणादाद्यो धूमक्षण उत्पन्नस्तथाविधाज्जन्म यस्य स "तथाविधजन्मेत्येतत्कुतः" नैव तस्य धूमादेरभावात् । एवं च यद्यतो दृष्टं तस्यान्यतोऽपि भावस्य दर्शनात्सर्वत्रानाश्वास इति मन्यमान आह- "तथा च" अनग्नितो धूमादपि धूमस्य भावे शक्रमूर्द्धादेरपि तस्य भावाविरोधादग्निना धूमस्य नन्वयव्यतिरेकाविति चेन्मन्यसे इति पूर्वपक्षाशङ्का । तदुक्तम्- "क्षणिकत्वे कथं भावाः क्वचिदायत्तवृत्तयः । प्रसिद्धकारणाभावे येषां भावस्ततोऽन्यतः ॥ अतश्चानग्नितो माद्यथा धूमस्य सम्भवः । शक्रमूर्द्व्नस्तथा तस्य केन वार्येत संभवः ॥"इति । सिद्धान्तवाद्याह- नाग्नीन्धनसामग्रीजन्यो यादृशो धूमस्तादृश एव धूमादपि भवति कारणभेदेन । कुतश्चित्साम्यात्(ह्ब्ट्१५६) सरूपतयावसीयमानस्याप्यन्यादृशत्वात् । तादृशो ह्यग्नीन्धनसामग्रीक्षणान्तरजन्य आद्य एवापरः क्षणस्तथा तदन्य आद्य एवापराग्नीन्धनसामग्रीजन्य इति तादृशस्य धूमस्य धूमादसम्भवात्न क्वचिदनाश्वासः कार्यः । तथा यादृशो द्वितीयक्षणभावी प्रथमधूमक्षणजनितो धूमक्षणस्तादृशोऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः । एवं तृतीयक्षणादिष्वप्यङ्कुरादिषु च सर्वत्र वाच्यम् । कुतः पुनरयं विभागः? इति चेत्, आह- "अतद्भाविनः" अतस्माद्- अनग्नीन्धनादिरूपाद्धूमाद्भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य "सकृदपि" एकदापि "ततः" अग्न्यादिसामग्र्याः "अभावाद" भावायोगाद् । यथा हि प्रथमक्षणापेक्षया द्वितीयस्तादृशस्तथा तदपेक्षया प्रथमोऽपीति तादृशत्वाविशेषात्तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृदपि ततो न भवेत् । भवन् वा तज्जन्यस्वभावतामात्मानस्तादृशः ख्यापयतीति कुतोऽन्यादृशाद्भवेत्? तस्मादन्यादृशाद्भवन्नन्यादृश एव ततो न व्यभिचारः । [४. भिन्नकारणजन्यानां धूमानामतादृशत्वेऽपि सादृश्यात्तादृशत्वाभिमानः ।] ननु सर्वेषां धूमक्षाणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायामर्थक्रियायामुपयोगात्कथं तादृशस्वभावता न स्यात्? । न, तस्या अप्यर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात्तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात्क्षणिअर्व्यवहारायोगाच्च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशादन्यत्वात्सदृशस्य । तथा हि- गोसदृशो भवति गवयः न तु तादृशः, गोरेवापरस्य तादृशत्वात् । परमार्थेनातादृशेऽपि तादृशाभिमानो मन्दमतीनां भवन् कथं निवार्त्येत्? । तथा हि- तत्त्वाध्यवसायोऽपि तावद्- अतस्मिन्नर्वाग्दृशां विनिवारयितुं न पार्यते, किमङ्ग पुनस्तादृशत्वाध्यवसायः? यथोक्तम्- (ह्ब्ट्१५७) "समानवर्णसंस्थाने सन्तानेऽत्यत्र जायते । अतस्मिंस्तन्मतिः पुंसां किमुतैकत्र संततौ? ॥" इति । तत्त्वचिन्तकास्तु तादृशातादृशकारणभेदात्तादृशातादृशतां भावानामनुमन्यन्ते न तादृशताम् । तद्यद्यतादृशादपि तदृशो भवेत्तदा तस्य तज्जन्यः स्वभाव इत्यतद्भाविनः सकृदपि ततो भावो न स्यात् । अमुमेवार्थं समर्थयमन आह- "परस्परापेक्षया" इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद्यद्भवद्दृष्टं तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते । अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्यत आह- "तत्र" एतस्मिन्न्याये सति "यदि धूमो" यादृश आद्योऽग्न्यादिसामग्रीजनितस्तादृशो द्वितीयादिक्षणभावी "अग्न्यादिसामग्र्या" अग्नीन्धनादिकारणकलापात्तज्जनकस्वभावतया निर्द्धारिता "दन्यतो"ऽग्नीन्धनादिसामग्रीजनितादाद्याद्धूमक्षणाद्भवेत् । तदा "तस्य" तादृशस्य धूमस्वभावस्य "तज्जन्यो"ऽग्न्यादिसामग्रीजन्यः "स्वभावो न भवति" किन्तु धूमजन्य एवेति कृत्वा सकृदपि "ततो"ऽग्न्यादिसामग्रीतो "न भवेत" । तादृशस्य हि स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृदपि ततो भावो युज्येत । अत्र दृष्टान्तः "अर्थान्तरवद्" इति । यथा ह्यर्थान्तरमतज्जन्याभिमतमन्यतो भवत्न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावमिति सकृदपि ततो न भवति तद्वत्तादृशो धूमोऽपीति ततो भवन्नन्यादृश एवासाविति गम्यते । स्यान्मतम्- अग्न्यादिसामग्र्यासावतज्जन्यस्वभावोऽपि तादृशो बलाज्जन्यते कस्तस्य तपस्विनोऽपराधः? इत्यत आह- "नापि" न केवलं स्वयमतज्जन्यस्वभावतया ततो न भवेत्, किन्त्वग्न्यादिसामग्र्यपि तं तादृशं धूमं- यादृशो द्वितीयादिक्षणभावी- (ह्ब्ट्१५८) न जनयेत् । कुतः? । अतज्जननस्वभावत्वात् । तादृशस्य ह्यन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत्? । अत्राप्युदाहरणम्- "सामग्र्यन्तरवदिति" । यथा सामग्र्यन्तरमतज्जननस्वभावाभिमतं न जनयति तद्वदग्न्यादिसामग्र्यपि । तथा हि- सा आत्मीयं स्वभावमनुसृत्यैव प्रवर्तते, ततः कुतोऽसौ सामग्रीबलाज्जायेत? । [५. तादृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् ।] स्यान्मतम्- अग्न्यादिसामग्रीजन्यस्वभावोऽपि तादृशो धूमो धूमजन्यस्वभावोऽपि यथा स एव धूम इन्धनजन्यस्वभावोऽग्निजन्यस्वभावश्चोभयतो भवति । तथा तादृशोऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्यत आह- "न च" नैव "धूमस्य" तादृशस्य "तदतज्जन्यः" अग्न्यादिसामग्रीजन्यो धूमजन्यश्च "स्वभावो युक्तः" युक्त्या सङ्गतः । कुतः? "एकस्वभावत्वात्" तादृशस्य धूमरूपस्य भेदाभावात् । नहि तस्य कालभेदेऽपि तादृग्रूपता भिद्यते । भेदे ह्यन्यादृशस्यान्यादृशाद्भावे विवादायोगात् । तस्य यदि तादृशातादृशकारणजन्यता स्यात्ततस्तादृशातादृशस्वभावतैव स्यात् । तदेव दर्शयन्नाह- "धूमाधूम"- इत्यादि । धूमशब्देन यादृशोऽग्न्यादिसामग्रीजन्यस्तादृशः स्वभावोऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितोऽन्यादृशः । तयोश्च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावतावगन्तव्या वक्ष्यमाणनीत्या । तेनाग्निधूमलक्षणात्"धूमाधूमजननस्वभावात्" तादृशातादृशजननस्वभावात्तादृशातादृशतयास्य भवतो धूमाधूम[स्वभाव]स्तादृशातादृशस्वभावः स्यात्कुतस्तादृश एव? । कुत एतत्? इत्याह- "कार्यस्वभावानाम्" इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । ततस्तादृशातादृशाद्भवतो धूमस्य तादृशातादृशस्वभावतैव स्यात् । (ह्ब्ट्१५९) स्यान्मतम्- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणामुत्पत्तिमात्र एव कारणापेक्षणादित्यत आह- "अकारणापेक्षणे च" तादृशातादृशरूपतायां तादृशातादृश- कारणानपेक्षणे च तादृशातादृशतायाः "अहेतुकत्वप्रसङ्गात्" । न हि तादृशातादृशस्वभावयोरभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र तादृशातादृशस्वभावकारणनिरपेक्षाणामपि तदपेक्षा स्यात् । तस्मादुत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात्सामग्रीणां तादृशातादृशत्वादेव कार्याणां तादृशातादृशस्वभावविभाग इति कुतोऽन्यादृशात्तादृशसम्भवः? इति । यत्तूक्तं ’यथैको धूमोऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणमपि कार्यं विलक्षणादपि सामग्र्यन्तराद्भविष्यतिऽ इति । तदयुक्तम् । यतो नास्माभिर्विलक्षणानां जनकत्वं वार्यते जनयन्त्येव परस्पविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस्तदवस्थानियताः तदेकं कार्यं, तस्य तु तेषां च परस्परापेक्षया जन्यजनकस्वभावतानियमात्तादृशस्य तादृशादेव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावेऽप्यन्यतो भवतस्तदुत्पत्तिनियमाभावात् । अनियमे च कार्यकारणभावायोगात् । यदि त्वग्निरिवेन्धनोपादानोपकृतस्तदुपादानोपकृतं चेन्धनमिव तदवस्थानियतमतादृशमपि धूमादिकं तादृशं धूमं जनयेत्प्रत्यक्षानुपलम्भाभ्यां च तथावगम्येत तदाग्न्यादिवत्सोऽपि तज्जननस्वभावतानियमात्तादृशजनकः केन नानुमन्येत । तदभावेऽपि तु तादृशस्य भावे तयोर्जन्यजनकस्वभावतानियमाभावात्कुतः कार्यकारणतेत्यहेतुतैव तादृशस्यान्यादृशाद्भवतः स्यात् । यत एवं "तस्मात्" सोऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो "यः" आद्य "धूमजननो" नान्यः "स" धूम आद्यो यः "ग्न्यादिसामग्रीविशेषेण" जनितो नान्य अ (ह्ब्ट्१६०) इति कृत्वा कार्यकारणयोरेवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य नियमाद्यादृशं यस्य कारणमेकदा प्रत्यक्षानुपलम्भाभ्यामेवावधारितं "तद्विजातीयात्" ततोऽन्यादृशात्कारणात्"उत्पत्तिः" तादृशस्य कार्यस्य "न भवति" अन्यादृशस्य एव न वार्यत इति । तदेवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्नाह- "तत्" तस्मात्यादृशं कार्यं यादृशात्कारणात्दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितमेकदा तत्त्"न्न व्यभिचरति" तादृशमन्यादृशान्न भवति । यनैवं "तेन" कारणेन "सिद्धे कार्यकारणभावे" तादृशस्य "कार्यस्य" तादृशमेव कारणमिति निश्चये सति यथोदितेन न्यायेन "कार्यस्य कारणेन व्याप्तिर"न्वयव्यतिरेकरूपा "सिद्धा" भवति । "न विजातीयादुत्पत्तिरिति" दृष्टकारणविजातीयात्कारणादन्यादृशान्नोत्पत्तिरित्यसमुमर्थमप्रतिपद्यमानः कार्यस्य विजातीयात्कारणान्नोत्पत्तिरित्ययमत्रार्थोऽभिमत इति मन्वानः परश्चोदयन्नाह- "ननु" स्वतो "विजातीयादपि" कारणात्"किञ्चित्" कार्यं "भवद्दृष्टं" तत्कथं न विजातीयादुत्पत्तिरित्यस्य न दृष्टविरोधः स्यात् । कथं यथा इत्याह- "तद्यथा गोमयादेः" आदिग्रहणात्शृङ्गचन्द्रकान्तादेः " शालूकादि" आदिग्रहणाच्छरोदकादि । तथा हि- गोमयाच्छालूकस्य भावः शृङ्गाच्छरस्य चन्द्रकान्तादपाम । न च गोमयादिकं शालूकादेर्न विजातीयं तत्किमुच्यते न विजातीयादुत्पत्तिः इति । सिद्धान्तवादी परस्य भ्रांततां दर्शयन्नाह- "न विजातीयादुत्पत्तिः" इति । यतो हि कारणाद्यद्भवद्दृष्टं तत्ततोऽन्यादृशान्न भवति इत्ययमत्रार्थो विवक्षितः, न तु कार्यविजातीयादिति । न च तस्य व्यभिचारः । तदाह- "तथाविधमेव हि" गोमयादिरूपं "तादृशं" शालकादीनामा "दिनिमित्तं" शालूकादिप्रबन्धस्य य आदिः प्रथम आरम्भक्षणः तस्य कारणमिति कृत्वा शालूकादिप्रबन्धस्यादेर्न कारणाभेदो (ह्ब्ट्१६१)ऽन्यादृशादुत्पत्तिः । सर्वस्य तदादेर्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानामुत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर्भवति शरस्य तदा शराद्भावः । तदेवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च शारादेस्तुदुत्तरोत्तरस्य भावो न तादृशस्य शृङ्गादेरिति न दृष्टकारणविजातीयात्कारणात्तादृशस्य सम्भव इति कार्यहेतोरन्वयव्यतिरेकनिश्चयः । यदापि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना अनादिसन्तानप्रवृत्ता इष्यन्ते तदापि गोमयादिभ्यः केषाञ्चिद्भावेऽपि तादृशत्वाभावान्न व्यभिचार इति दर्शयन्नाह- "अस्ति च" इत्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर्गोमयेतरजन्मनोः शालूकयोरस्त्येव स्वभावभेदः परस्परमन्यादृशत्वं "रूपस्याभेदेऽपि" सति । तुल्याकारत्वे सति कथमन्यादृशत्वम्? इति चेत्, आह- "नहि" इत्यादि । यस्मान्नाकारतुल्यतैव भावानां "तत्त्वे" तादृशत्वे निमित्तं यतो गोमयेतरजन्मनोः शालूकयोराकारसाम्यात्तादृशत्वमेव स्यान्न जातिभेदः । कुत एतत्? इत्याह- "अभिन्नाकाराणामपि" इत्यादि । येषामपि हि समानाकारता केषाञ्चिद्भावानां तेषामपि यत आकारादन्यतो विशेषाज्जातिभेदो दृश्यते ततो नाकारसाम्यमेव जात्येकत्वे निबन्धनम् । तथा हि- आकारसाम्येऽपि क्वचित्पुष्पाद्भेदो दृश्यते नीलेतरकुसुमयोरिव सूर्ययोः, क्वचित्फलात्बन्ध्येतरयोरिव कर्कोटक्योः, क्वचिद्रसाद्वन्येतरयोरिव त्रपुषयोः, क्वचिद्गन्धाद्वृक्षेतरप्रभवयोरिव चम्पकयोः, क्वचित्प्रभावात्स्पर्शोपयोगस्त्रंसिन्योरिव हरितक्योरिति । तस्मादाकारसाम्यनिबन्धनं यद्यपि ’तदेवेदम्ऽ इति प्रत्यभिज्ञानं सजातीयतां गोअमयेतरजन्मनोः शालकयोरूपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर्जातिभेद एवावगन्तव्यः, नैकजातिता । तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् । (ह्ब्ट्१६२) [६. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः ।] यदि पुनर्गोमयेतरादिजन्मनः शालूकाकादेरग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद्विलक्षणसामग्रीनिबन्धनत्वेऽपि समानस्वभावतैव स्यात्को दोषः स्यात्? इत्यत आह- "अन्यथा हि" इत्यादि । यदि हि या स्वजाति [लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा याग्नीनधनादिलक्षणा या च शक्रमूर्द्वादिस्वभावा धूमाद्यात्मिका अवि(का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणं तादृशमेव कार्यं धूमशालूकादिकमुत्पद्येत तदा न ’कारणस्यऽ सामग्रीरूपस्य "भेदाभेदाभ्यां" वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य "भेदाभेदौ" वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्यातामिति कृत्वा "विश्वस्य" सकलस्य पदार्थराशेः "अहेतुकौ भेदाभेदौ" सजातीयविजातीयत्वे स्याताम् । तस्माद्यत्र विलक्षणा सामग्री तत्र कुतश्चित्साम्यात्सरूपत्वेऽपि विजातीयतैव कार्यस्येति । ननु धूमेन्धनादिसामग्रीभेदेऽपि धूमस्य न जातिभेदमामनन्ति विद्वांसः, अतद्रूपपरावृत्तेरुभयत्र समानत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदेऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्यगोव्यावृत्तिनिबन्धनगोजातिवद्गवां सर्वधूमानामेकसन्तानव्यवस्थाव्यु(प्यु)पादानकारणक्षणभेदेऽप्येकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् । न । इन्धनजात्यनुविधानात्सर्वधूमानाम् । तथा हि- अगुरुकर्पूरचन्दनादिजातिभेदमनुकुर्वन्त्येव तद्धूमाः, कासश्वासादिहरद्रव्यनिर्मितवर्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात् । न चाकारान्यतया विजातीयत्वम्, यतो नाकारऽभेदभेदनिबन्धेन सजातीयविजातीयत्वे । नहि शाल्यङ्कुरादयः (ह्ब्ट्१६३) तब्दीजाद्याकारमनुकुर्वते । न च तज्जातीयतामशाल्यादिव्यावृत्तिनिबन्धनां नानुभवन्ति । तस्मादिन्धनमेव तयोपादानकारणमग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जनयतीत्यलमतिप्रसङ्गेन । ननु च यदि नाम सामग्रीभेदेऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्यपि तस्याभावात्तस्याहेतुकतास्तु, अभेदस्य तु किमायातम्? येनोभयोरहेतुकत्वमुच्यते इत्यत आह- "तथाहि" इत्यादि । यदा हि सामग्रीभेदे सत्यपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम्- न हि हेतौ सत्यभवतः कथञ्चिदपि हेतुमत्तोपपद्यते- तदा योऽप्यसावभेदः कार्यस्य सोऽपि सामग्र्योः भिन्नत्वादसत्यभेदे जात इति कुतस्तस्यापि हेतुमत्ता? । यथा हि हेतौ सत्यभवतो न हेतुमत्ता तथा हेतावसत्यपि भवतो हेतुमत्ता कुतः स्यात्? । हेतुभेदस्यैवाभेदनिबन्धनत्वात्न इति चेत्; न तर्ह्ययं भेदः क्वचित्पदमाबध्नीयात्, शालीकोद्रवादेरपि हेतुभेदस्याभेदहेतुत्वान्निमित्तमन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद्भ्रान्तिनिमित्तात्परमार्थतो भेदेऽप्युपलक्षणात् । स्यादेतत्- यो ह्यतादृशादपि तादृशोद्भवमिच्छति तस्य भेदाभेदयोरहेतुकत्वमिष्टमेव भावा एव केवलं हेतुमन्त इत्यत आह- "तद्व्यतिरिक्तश्च" इत्यादि । नहि भेदाभेदव्यतिरिक्तः कश्चिद्भावानां स्वभावोऽस्ति यस्तयोरहेतुकत्वेऽपि हेतुमान् स्यात् । तस्य ताभ्यामन्यत्वे ’स्येमौ भेदाभेदौऽ इति सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायामनवस्थादोषात्, अनन्यत्वेऽपि भेदाभेदयोर्भावस्वभावस्य च स्वात्मन्येवावस्थानातनुपकाराच्च कुतः सम्बन्धिता? । उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य एव न कुतश्चिद्भिन्नोऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावेऽपि स्वभावान्यथात्वाभावात्कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? । अथ व्यतिरिक्तभेदाभेदवशाद्(ह्ब्ट्१६४) भेदाभेदौ स्वभावः प्रतिपद्येत, तावपि यदि भिन्नौ तदा भावस्वभावस्तदवस्थ एवेति न तस्य कुतश्चित्स्वरूपतो भेदोऽभेदो वा स्यात् । पुनस्तद्वशाद्भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यमनवस्था च भेदाभेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(म्भ)वात्; तस्य च हेत्वन्तरात्पश्चाद्भवतस्ततोऽन्यत्वापत्तेः । न च भावस्वभावः क्रियते, तस्य स्वहेतोरेव निर्वृत्तेः । स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद्भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर्व्यतिरेकवतोः वैयर्थ्यम्; भेदाभेदबुद्धेरपि तत एव सिद्धेः । तस्माद्वैशेषिकादिकल्पितयोर्भेदाभेदयोर्विशेषसामान्यात्मनोरयोगात्भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोरहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वमापतितम् । ततो भावानामहेतुकत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात् । अहेतुकत्वे हि भावानां यदि कदाचित्सत्त्वं सर्वदैव स्यात् । अथ कदाचिदसत्त्वं तदपि सर्वदा स्यात् । कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम्? । अपेक्ष्यस्याहेतुकत्वे सति कस्यचिदभावात् । यस्मा "दपेक्षया हि" तस्यापेषणीयस्य हेतोर्भावे भवन्तोऽभावे च न भवन्तः "कादाचित्काः" कदाचिद्भवा युज्यन्ते, नान्यथेति । तस्मान्न विलक्षणात्कारणातविलक्षणस्य कार्यस्योत्पत्तिरभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् । पुनरपि विलक्षणायाः सामग्र्याः अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरमाह- "व्यवस्थावांश्च" प्रतिनियतः "साध्येषु" घटपटादिषु "साधनानां" मृत्तन्त्वादीनां लोके यो "नियोगो" घटार्थी मृत्पिण्डमेव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तूनेव न मृत्पिण्डमित्यादिकः स न स्यात् । कस्मात्? इत्याह- "कारणानां"- सामग्रीणां याः "शक्तयः"- आत्मातिशयलक्षणास्तासां "प्रतीनियमे" काचिदेव सामग्री क्वचिदेव (ह्ब्ट्१६५) कार्ये उपयुज्यते नान्यान्यत्रेत्येवंरूपे "हि" यस्मात्"किञ्चिदेव" मृदादिकं "कस्यचिदेव" घटादेः साधनायोपादीयते "नापरं" तद्विलक्षणं तन्त्वादिकं कस्मादेवम्? इति चेत्? "तस्यैव" मृदादेः "तत्र" घटादौ "शक्ते" र्योग्यत्वात्"अन्यस्य" तन्त्वादेस्तत्राशक्तेः । कस्मात्तस्यैव तत्र शक्तिर्नान्यस्य इत्यत आह "तयोः" मृदादेस्तन्त्वादेश्च "तज्जनस्वभावत्वेन" घटादिजननस्वभावत्वेन "इतरस्वभावत्वेन च" घटाद्यजननस्वभावेन च "भेदात्" अन्यत्वभावात् । नहि मृत्तन्त्वादिरूपतातोऽन्यदेव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानामपि शक्तिप्रतिनियमो नेष्यते विलक्षणादपि अविलक्षणकार्योपगमात्तदा " तज्जननस्वभावविलक्षणादपि" धूमादिजननस्वभावं यत्कारणग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणादपि शक्रमूर्द्वादेः क्षणाश्रयेण वा धूमादेस्तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्क्षणस्य चोत्पत्ताविष्यमाणायां "न तज्जननशक्तेः प्रतिनियमो" विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः । "इति"तस्माद्"यत्किञ्चित्" कार्यं "यतः कुतश्चित्" कारणात्"स्यात्" उत्पद्येत, न यथादृष्टमेव यथादृष्टात् । सर्वं सर्वतो जायेतेति यावत् । तस्माच्छक्तिप्रतिनियमः कारणानामभ्युपगन्तव्यः । ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित्साम्यात्सरूपस्योपलक्षणेऽप्यन्यादृशतैवेति सर्वस्तादृशस्तथाविधजन्मेति सिद्धम् । स्यान्मतम्- विलक्षणाया अपि सामग्र्यास्तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिदेव च तथाभावान्न यथोदितदोषावसर इत्यत आह "तज्जननशक्तिसाम्ये तु" इत्यादि । उक्तमेव तावदत्र पूर्वपक्षे ’न च धूमस्य तदतज्जन्यस्वभावःऽ इत्यादिकं दूषणम् । अभ्युपगम्यापीदमाह- "यादृशी ह्यग्निसहकारिणः" तदाधीयमानविकारस्ये "न्धनस्य" स्वभेदेन धूमभेदहेतोः "शक्तिः" आत्मातिशयस्तादृश्येव शक्रमूर्द्ध्नो (ह्ब्ट्१६६) धूमस्य वा यदि तत्सामग्रीजन्यधूमविलक्षणकार्यजननशक्तिरात्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकमेवार्थान्नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तदविलक्षणात्मातिशयासम्भवात् । स एव ह्यग्निर्य इन्धनविकारमादधानो धूमं जनयति, तच्चेन्धनं यदग्निनाधीयमानविकारं धूमं स्वजातिमनुकारयति । यदि च शक्रमूर्द्वादेरपि एवं भवताभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदमभ्युपगम्य तथाभिधानात् । यत एवम् "इति" तस्मात्"कार्यं" धूमादिकं "दृष्ट"मेकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितमतद्रूपव्यवृत्तेनात्मना "कारण"मिन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा "न व्यभिचरति" तद्विलक्षणादन्यतो न भवतीति कार्यहेतावन्वयव्यतिरेकनिश्चयः सिध्यतीति । (ह्ब्ट्१६७) ४. अनुपलब्धिहेतुनिरूपणम् ।] [१. विप्रतिपत्तिप्रदर्शनपूर्वकमनुपलब्धेस्स्वरूपम् ।] तदेवं कर्यहेतौ यतो यद्भवदृष्टं सकृत्प्रत्यक्षानुपलम्भाभ्यां तादृशस्य सर्वस्य तथाविधादेव जन्म न तद्विजातीयदित्येकस्या अपि कार्यव्यक्तेः कुतश्चिद्भावदर्शने व्याप्त्यान्वयव्यतिरेकसिद्धिरिति प्रतिपादितम् । अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर्नान्वयव्यतिरेकयोर्विप्रतिपत्तिः । स्वरूप एव तु परे विप्रतिपद्यन्ते । तथाहिकेचिदुपलब्ध्यभावमात्रमनुपलब्धिमभावस्य प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकामिच्छन्ति ईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणाममात्मनः तदन्यवस्तुविषयं विज्ञानमेव वाभावस्य गमकं प्रत्यक्षानुमानाभ्यां प्रमाणान्तरमाहुर्मीमांसकाः । न ह्यन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकमभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततोऽन्यत्वात् । अभावांशे तु नास्तीति ज्ञानं जनयत्तदभावप्रमाणाख्यां लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् । तथान्ये अन्यभावलक्षणां तज्ज्ञानलक्षणां वानुपलब्धिमभावस्यैव साधनमाहुर्नाभावव्यवहारस्य, अनुपलब्धेर्लिङ्गादादभावसिद्धौ स्वयमेव तद्व्यवहारप्रवृत्तेः । नैयायिकास्तु नास्तीति ज्ञानमेव केवलप्रदेशादिग्राहिज्ञानन्तरभाविप्रत्यक्षं न प्रमाणान्तरमभावस्य तुच्छरूपस्य परिच्छेदात्मकमाचक्षते तदेवास्य घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्युच्यते न कश्चिद्विरोधः इति । तदेवमनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनामिति तन्निरासार्थमनुपलब्धिस्वरूपं तावदुपदर्शयन्नाह- "उपलब्धिलक्षणप्राप्तस्य" इत्यादि । ’ुपलब्धिलक्षणप्राप्तीःऽ ’ुपलम्भप्रत्ययान्तराणां समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश्च । यः स्वभावः सत्स्वन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्येवंरूपा शास्त्रकृतान्यत्र (ह्ब्ट्१६८) व्याख्याता नैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्युपलब्धिलक्षणप्राप्तिशब्देन महात्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणामाहुः । "महत्त्वादनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः" इति वचनात् । एवं चोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्यपि वस्तुनि सम्भवतीत्यसद्व्य्वहारसिद्धावनैकान्तिकीत्याचक्षते । न हि चाक्षुषस्यापि रश्मेर्महत्त्वानेकद्रव्यवत्त्वरूपाण्युपलम्भकानि भवन्ति । न च तावतानुपलम्भऽप्यसव्द्यवहारस्तत्र शक्यते कर्तुम् । यदाह भाष्यकारः- ’नानुमानत उपलभ्यमानस्य प्रत्यक्षतोऽनुपलब्धिरभावे हेतुःऽ इति । इन्द्रियत्वात्त्वगादिवत्किल प्राप्यकारि चक्षुरित्यनुमानतश्चाक्षुषो रश्मिरुपलभ्यते तस्य प्रत्यक्षतोऽनुपलब्धिः कथमभावव्यवहारं साधयेत्? इति । तदेवमुपलब्धिलक्षणप्राप्तस्यानु पलब्धिमसव्द्यवहारेऽनैका न्तिकीमाहुर्नैयायिकाः तन्निरासमुपलब्धिलक्षणप्राप्तेरविपरीतरूपोपदर्शनेन शास्त्रकारोऽभ्यधात् । यदा ह्युपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश्च यथोक्त उपलब्धिलक्षणप्राप्तिरुच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्या असम्भवात् । महत्त्वादिकं त्वसम्भवादेव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । नहि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिनाकारान्तरेण स्वज्ञाने प्रतिभासते । न चाप्रतिभासमानमनात्मरूपविवेकिना रूपेण प्रत्यक्षतामनुभवत्यतिप्रसङ्गात् । तत्कुतोऽस्यासतो महत्त्वादिसम्भवः? । न च स्वरूपेणामहतः तत्सम्बन्धेऽप्यस्य महत्तासम्भवः । अपररूपेण वा ग्रहणे कथं तद्ग्राहिज्ञानमभ्रान्तम्? । ततो न महत्त्वं द्रव्यस्योपलम्भकं रूपं वा । तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनोऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च तद्विवेकेनानुपलक्षणान्न तथा ग्राहकत्वम् । न च महत्त्वं रूपं वा द्रव्योदयकालेऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणमिष्यते । तच्च प्रतिलब्धात्मकमेव तथातामनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणमेव । न चास्य द्वितीये क्षणे प्राक्तनरूपत्यागोऽस्ति रूपान्तरं वाविर्भवति यतः प्रागप्रतिपन्नाधारभावं (ह्ब्ट्१६९) महत्त्वादिगुणप्रतिबन्धादाधारतां यायात् । न चाजनक आधारः । जनकत्वे च क्षणिकता, अर्थक्रियाविरोधादक्षणिकस्य । ततः कुतः सामवायिकारणस्य सम्भवः?, यतः स्वोत्कलितं कार्यं जनयत्तथा व्यपदिश्यते । न चैतत्क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्रागऽनाधारस्य पश्चादाधाराभावः । समवायिकारणासम्भवादेवानेकद्रव्यवत्त्वमप्यस्मभवि यस्मादनेकं द्रव्यमारम्भकं समवायिकारणात्मना यस्य विद्यते तदेवं व्यपदिश्यते । द्रव्याभवाच्च नानेकद्रव्यवत्त्वम् । सत्त्वेऽपि महत्त्वादेर्नेयमुपलब्धिलक्षणप्राप्तिरस्माकमभिमता । या त्वभिमा(म)ता न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिरसव्द्यवहारसिद्धावनैकान्तिकीति शास्त्रकारो दर्शयाम्बभूव "उपलब्धिलक्षणप्राप्तस्य" या "अनुपलब्धिः" कारणस्य व्यापकस्य वा प्रतिषेध्यादन्यस्य सा "अभावहेतुः" कार्यस्य व्याप्यस्य च "अभावव्यवहारहेतुश्च" । या तु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः साभावव्यवहारहेतुरेवेति वाशब्देन दर्शयति । या त्वनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्तावप्यर्थाभावासिद्धेः, निमित्ताभावात्तु सव्द्यवहारप्रतिषेधहेतुरित्यवगन्तव्यम् । [२. स्वेष्टामनुपलब्धिं स्पष्टयितुमीश्वरसेनकुमारिलादीनां निरासः ।] तत्र ये तावदुपलब्ध्यभावमात्रमनुपलब्धिमिच्छन्ति, "विज्ञानं वान्यवस्तुनि" इति वचनात्तदन्यवस्तुविज्ञानमेव वा, तन्निरासार्थं ज्ञातृ- ज्ञेयधर्मलक्षणामनुपलब्धिं दर्शयितुमुपलब्धिमेव तावद्द्विविधाम्दर्शयन्नाह- "अत्र" अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतयापेक्ष्यते तदा तस्या "उपलभमानस्य" कतुः "धर्मत्वे" अपेक्ष्यमाणे "तज्ज्ञानम्" उपलभमानस्य यज्ज्ञानं तदुपलब्धिरुच्यते । उपलभमानश्च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत उपलब्धिजनक उच्यते । तथाहि- उपलब्धेर्जनक आश्रयो वा कर्ता परैरुच्यते । न (ह्ब्ट्१७०) चेन्द्रियादेरन्यस्य जनकत्वं सम्भवति यतोऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेरन्यस्य सम्भवतः सत्स्विन्द्रियादिषु नियमेनोपलब्धेर्भावात् । यदि हीन्द्रियादिषु सत्स्वपि कदाचिदुपलब्धिर्नोपजायते तदा सत्स्वप्यन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तव्द्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतदस्ति, तत्कथमात्मनस्तदुत्पत्तौ निमित्तभावोऽभ्युपगम्येत? अतिप्रसङ्गात् । यदाह- "यस्मिन् सति भावत्येव यत्ततोऽन्यस्य कल्पने । तद्धेतुत्वेन सर्वत्र हेतुनामनवस्थितिः ॥" इति । आश्रयत्वमपि जनकस्यैवेति तदप्यात्मनो न सम्भवति । स्थापकत्वादाश्रय इति चेत्; न, क्षणिकत्वे स्थितेरभावादुपलब्धेरक्षणिकत्वेऽपि स्वयमेवाविनाशादवस्थानात् । तथाहि- उपलब्धेरविनाश एव स्थितिरुच्यते न पाताभावः तस्या गुरुत्वाभावात्"संयोगाभावेन गुरुत्वात्पतनम्" इति च परेषां कृतान्तः । समवायादाश्रय इति चेत्; ननु सोऽपि आधार्याधारभूतानामेवेष्यते । न चापतनधर्मिकाया उपलब्धेराधारेण किंचित्, समवायाच्चाश्रयत्वेऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयौगपद्याभ्यामर्थक्रियाविरोधाच्च नास्यात्मनः सत्त्वम्, ततोऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्यलं क्षुण्णक्षोदीकरणेनेति । एवमुपलब्धिमादर्श्यानुपलब्धिमादर्शयन्नाह- " तस्मादुपलब्धिज्ञानादन्या" वस्त्वन्तरविषया "उपलब्धिः" ज्ञानात्मिका "अनुपलब्धिः" । कथं पुनरुपलब्धिरेवानुपलब्धिरुच्यते? इत्याह- "विवक्षिते"त्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद्भक्ष्यादन्यत्वाद्’भक्ष्यो ग्राम्यकुक्कुटःऽ भक्ष्योऽपि सन् तदन्यस्य- उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात्स्पर्शनीयादन्यत्वाद्’स्पर्शनीयश्चाण्डालादिःऽ- तदन्यस्य स्पर्शनीयोऽपि सन्- उच्यते । (ह्ब्ट्१७१) तद्वदुपलद्भिरेवानुपलब्धिर्मन्तव्या । नञः प्रतिषेधविषयत्वात्कथं भावविषयता? इति चेत्, आह- "पर्युदासवृत्त्येति" । पर्युदासेन प्रतिषेध्यस्यार्थस्य र्वजनेन या विशिष्टेऽर्थे वृत्तिस्तया , नञः आगृहीतप्रतिषेधस्य भावविषयता । यत्र विधेः प्राधान्यं प्रतिषेधोऽर्थगृहीतः विधिभाक्स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता । विधेश्च प्राधान्यं ’विवक्षितोपलब्धेरन्योपलब्धिर्भवतिऽ इत्येवं वाक्येनान्योपलब्धेर्विधानातन्योपलब्धिसामर्थ्यादेव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेरनिवर्तने तदपेक्षयान्यस्या विधानायोगात्स्वपदेन नञा विधिभाङ्नोच्यते । किं तर्हि? । अन्यशब्देन पर्युदासाश्रयेणान्यशब्दस्यैव वाक्ये प्रयोगातन्या उपलब्धिरनुपलब्धिरिति । नञश्च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्येकवाक्यत्वं ’न उपलब्धिरनुपलब्धिःऽ इति । प्रसज्यप्रतिषेधः पुनरेतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिरर्थाद्गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक्सम्बध्यते । तदेवं ज्ञातृधर्मलक्षणामनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्नाह- "उपलभ्यमानधर्मत्वे" इत्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर्विवक्ष्यते तदा विषयस्वभाव उपलब्धिर्मन्तव्या । कीदृशो विषयस्वभावः? इत्याह- "स्वविषये"त्यादि । प्रतिषेध्यस्य घटादेर्यदात्मविषयं विज्ञानं तज्जनने या योग्यत तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः, कथं योग्यतालक्षणः? । तथा हि योग्यता धर्मः, धर्मधर्मिणोश्च भेद एव इत्यत आह- "योग्यतायाः" इत्यादि । योग्यता हि परमार्थतो भावरूपैव न वस्तुरूपाद भिद्यते, अन्यथा भावो योग्य एव न स्यात् । योग्यतास्येति च सम्बन्धाभावतो न स्यात् । सम्बन्धकल्पनायामनवस्थेत्युक्तप्रायम् । तदेवमुपलभेर्विषयधर्मतां प्रतिपाद्यानुपलब्धेरपि प्रतिपादयन्नाह- "तस्मादन्यः" इत्यादि । "तस्मात्" प्रतिषेध्याद्घटादेः (ह्ब्ट्१७२) स्वविषयज्ञानजननयोग्याद्योऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनमेव न्यायमत्रादिशन्नाह- "पूर्ववदिति ।" विवक्षितोपलब्धेरन्यत्वादभक्ष्यास्पर्शनीयवत्पर्युदासवृत्येति । कथं पुनरयं नञ अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य तज्ज्ञानस्यैव वा घटविविक्तस्यानुपलब्धित्वं पर्युदासवृत्त्या प्रकल्पयति, न पुनरविशेषेण सर्वेषामेवान्यशब्दवाच्यानाम्? इत्यत आह- "यत्र यस्मिन्" इत्यादि । "यत्र" देशे कालेऽवस्थायां वाव्यवधानादिलक्षणायाम्, "यस्मिन्" प्रदेशरूपादौ "उपलभ्यमाने नियमेन" अवश्यंतया "यस्यान्यस्य" पदार्थस्य घटरूपादेरुपलब्धिर्भवति "स" घटरूपादिः पदार्थः "तत्संसृष्टः" तेन प्रदेशरूपादिना संसृष्टः । कथमेकस्मिन्नुपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् । प्रदेशघटयोर्हि स्वविषयविज्ञानजनने योग्यता तुल्या । यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्पयति तदा घटरूपमपि तत्र तथाविधं स्वाकारं समर्पयत्येव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस्तु कथं तत्संसृष्टता? इत्यत आह- "एकज्ञानसंसर्गादि"ति । एकत्र हि ज्ञाने द्वावपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारमाजायमानं तयोरात्मनि संसर्गं दर्शयति । किमिति पुनस्तत्ज्ञानं पदार्थद्वयाकारमवश्यं भवति यतस्तयोर्ज्ञानद्वारकः संसर्गः? इत्यत आह- "तयोः सतोः" इत्यादि । यावेतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस्तदा नैवैकाकारनियता प्रतिपत्तिर्भवति । कस्मात्? असम्भवात् । न ह्येष सम्भवोऽस्ति- यत्तुल्ययोग्यतारूपयोरेक एव प्रतिभासेत नापर इति । तथाहि- अविशिष्टत्वाद्योग्यतायाः कस्तत्र स्वाकारं न समर्पयेत्? । अनुभवसिद्धं च युगपदनेकप्रतिभासनम् । न चानुभवविरुद्धमाचक्षाणा विदुषामवधेयवचसो भवन्ति । लधुवृत्तित्वाद्यौगपद्याभिमान इति चेत्; न, बाधकप्रत्ययविरहेण (ह्ब्ट्१७३) भ्रान्तिकल्पनानुपपत्तेः, सर्वत्र तथाभावाप्रसङ्गात् । करणधर्म एवायं यदेकस्मिन्नेव कर्मणि क्रियां निष्पादयतिनानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुरिति चेत्, कथं प्रदीपादिरनेकत्र बहूनां प्रतिपत्तिजनकः? । कर्तृभेदाददोष इति चेत्; कर्त्रेकत्वात्तर्हि क्रियैकत्र कर्मणीति कथं ’करणधर्मःऽ इत्यादि वचो न प्लवते? । न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो युक्तः क्रिया वा काचित् । न च सर्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिदतिशयोऽस्ति येनायं कर्ता का(क)रणं चेदमित्यादि परिकल्प्येत । तस्मादविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्गः । तुल्ययोग्यतारूपत्वस्य चैतदेव लिङ्गम् । न ह्यसति तुल्ययोग्यतारूपत्वे युगपदेकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत्सम्भवतीति । तत्र येषां सौगतानामिदं दर्शनं ’ेकायतनसङ्गृहीतेऽनेकत्राप्येकमेवेन्द्रियज्ञानमाजायतेऽ इति तेषां मुख्य एवैकज्ञानसंसर्गः । ये तु ’तत्रापि प्रत्यर्थं भिन्नान्येवैकेन्द्रियनिमित्तान्येककालानि तद्विषयाणां युगपत्सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत एवैकतया लोकेऽध्यवसीयमानानि ज्ञानान्युपजायन्तेऽ इति वर्णयन्ति तेषामेकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्वेकत्वव्यपदेशो लोके तथाध्यवसायादौपचारिकः । यदि नामैकज्ञानसंसर्गात्तत्संसृष्टस्तथापि सामान्येन सर्वमन्यमयं नञ्किन्न प्रतिपदयति? इति, अत आह- "तस्मात्" इत्यादि । यस्मादविशिष्टत्वाद्योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोरपि संसर्गः तस्मादविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्गिणौ तौ तस्मात्तयोरेवंरूपयोः "परस्परापेक्षमेव" न सर्वान्यपदार्थापेक्षम् "अन्यत्वमिह" अनुपलब्ध्यधिकारे "अभिप्रेतम्" । लोके तु यद्यप्यशेषपदार्थान्तरापेक्षमन्यत्वं नञा क्वचिदुच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तदिह न गृह्यते, (ह्ब्ट्१७४) "प्रत्यासत्तेराश्रयणात्" एकज्ञानसंसर्गलक्षणा प्रत्त्यासत्तिराश्रीयते नान्या, प्रमाणचिन्ताधिकारातन्यथानुपलब्धिरनैकान्तिक्येव स्यात् । तस्मात्तत्त्वचिन्तकैस्तथाविधमन्यत्वमाश्रयणीयं यदनुपलब्धेरव्यभिचारनिबन्धनम् । तच्च यथोक्तमेवेत्यभिप्रायः । तदेवमेकज्ञानसंसर्गापेक्षयान्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्नाह- "स केवलः" इत्यादि । स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षय तस्मादन्य उच्यते तदा घटविविक्तप्रदेशज्ञानं वानुपलब्धिः, न तु यथेस्वरसेनो मन्यते उपलब्ध्यभावमात्रमनुपलब्धिरिति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा, न तु तद्विविक्तज्ञानमेव यथाह कुमारिलः "विज्ञानं वान्यवस्तुनि" इति । यथा ह्यन्यवस्तुविषयं ज्ञनमनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशोऽपि । तथाहि- कस्यचित्प्रतिपत्तुः ’यतः केअलप्रदेशाकारमेव ज्ञानं मया संवेद्यते न तु घटाकारमपि तस्मादत्र घटो नास्तिऽ इति एवं नास्तिताज्ञानमुत्पद्यते; कस्यचित्तु ’यतः केवलः प्रदेशोऽयं दृश्यते न तु घटसहितः तस्मान्नास्त्यत्र घटःऽ इत्येवम् । तस्मादुभयोर्नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यमिति द्वयोरपि अनुपलब्धिव्यवस्था युक्तेति । तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणानुपलब्धिः कर्तृस्थक्रियापेक्षया, यदा तत्स्वभावस्तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति । एवमनुपलब्धिं पर्युदासवृत्त्या व्यवस्थाप्य साध्यमस्या दर्शयन्नाह- "सा अभावम्" इत्यादि । सर्वान्योपलब्धिलक्षणप्राप्तविविक्तेऽपि प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्यर्थित्वादिभिः स्मृतिरस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभावमभावव्यवहारं च साधयतः । स्वभावानुपलब्धिस्तु अभाव्यवहारमेव । अभावव्यवहारश्च ज्ञानाभिधानप्रवृत्तिलक्षणः । तत्र ’नास्त्यत्र घटःऽ इत्येवमाकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं, निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिरिति । (ह्ब्ट्१७५) अत्रेश्वरसेन- कुमारिलयोर्वचनावकाशमाशङ्कय सिद्धान्तव्यवस्थामेव कुर्वता तन्मते निरस्तेऽप्याहत्य तन्मतनिरासार्थमाह- "कथमन्यभाव" इत्यादि । ईश्वरसेनो हि मन्यते- कार्य- स्वभावहेतुभ्यां भावरूपाभ्यामनुपलब्धेः पृथक्करणादवश्यमभावरूपत्वमस्याः, अन्यथा पृथक्करणमनर्थकमेव स्यात् । त्वया चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस्तज्ज्ञानस्य वा भावरूपानुपलब्धिराख्यायते तन्नूनमन्यभावस्तदभावो येनैवमभिधीयते । न चैतद्युज्यते, भावाभावयोर्विरोधादेकात्मतानुपपत्तेरिति । कुमारिलोऽप्येवं मन्यते- येयं ज्ञातृ- ज्ञेयधर्मलक्षणा द्विधानुपलब्धिरभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः । किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः प्रतिषेध्यज्ञानादन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथमभावः? प्रतिषेधस्य तज्ज्ञानस्य वा कथमभावांशः? । नैव युज्यते, धर्मरूपतया भावाभावांशयोर्भेदात् । सत्यपि धर्मिरूपेणाभेदे तयोश्चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यदाह- "धर्मयोर्भेद इष्टो हि धर्म्यभेदेऽपि नः स्थिते । उद्भवाभिभवात्मत्वाद्ग्रहणं चावतिष्ठते ॥" इति । उक्तोत्तरतामस्य दर्शयन्नाह- "उक्तमुत्तरमत्र"चोद्ये यथा "पर्युदासवृत्त्या अपेक्षातः" । ’प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तोऽर्थस्तज्ज्ञानं वाभावोऽनुपलब्धिश्चोच्यतेऽ इति ईश्वरसेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन्तु पर्युदासोऽपि । ततोऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपताप्यन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्वभावहेतोस्त्वनुलब्धेः पृथक्करणं प्रतिपत्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्वभावप्रतिपत्त्यध्यवसायी । परमार्थतस्तु प्रतिषेध्याभावव्यवहारयोग्यता (ह्ब्ट्१७६) वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर्भिद्यत इति । यत्तु ’नपेक्षितार्थान्तरसंसर्गं प्रतिषेधमात्रमनुपलब्धिःऽ इतीश्वरसेनो मन्यते तन्निराकुर्वन्नाह- "न प्रतिषेधमात्रम्" इत्यादि । कस्मात्? इत्याह- "तस्य साधनासिद्धेः" इत्यादि । नह्यभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात् । हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद्वस्तुनः । अभावस्य चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः । ततश्च साधकत्वायोगादभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनमेव किञ्चिन्न सिध्यतीति । स ह्यभावत्वादपरेणोपलब्ध्यभावेन साध्यः स्यात्, सोऽप्यपरेणेत्यनवस्थानम् । न चेन्द्रियवदज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् । इदं चार्थद्वयं ’कथमभावः कस्यचित्प्रतिपत्तिः, प्रतिपत्तिहेतुर्वा? । तस्यापि कथं प्रतिपत्तिःऽ इत्यत्रान्तरे स्वयमेव विपञ्चयिष्यति । कुमारिलस्याप्युत्तरमाह- "तस्य" अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य । न ह्यसौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः । तथात्वे ह्यभावांशोऽपि न क्वचित्सिध्येत् । तस्यैवंविधस्य "भावसिद्धिरेव" भावांशसिद्धिरेव "अपरस्य" प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिरभावांशस्य त्वदभिमतस्य सिद्धिरस्तु भावांशस्यैवाभावांशरूपतोपपत्तेरिति मन्यते । तथा हि- अभावांशोऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावोऽस्तु तन्निमित्तस्य समानत्वात्किमन्येनाभावांशोपगतेन? । अत एवासंसृष्टरूपस्येति विशेषणम् । यत (ह्ब्ट्१७७) एवम् "इति" तस्माद्"अन्यभावोऽपि" अन्यस्य वस्तुनो भावोऽपि त्वदभिमतो भावांशोऽपि न केवलमभावांशस्त्वन्मत्याभाव इति व्यपदिश्यतेऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गतैवेति न किञ्चिद्विरुध्यत इति । यदुक्तं ’ज्ञातृज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावःऽ इति तत्परो विघटयितुं, यच्चोक्तं ’न प्रतिषेधमात्रमनुपलब्धिः, तस्य साधनासिद्धेःऽ इति द्वितीये व्याख्याने प्रतिषेधमात्रस्यानुपलब्धि[रि]त्येतस्य साधनं दर्शयितुमाह- "अन्यभावलक्षण" इत्यादि । एवं मन्यते- लोको हि केवलप्रदेशदर्शनात्घटाभावमेव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्यादन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद्वा तज्ज्ञानस्य यो भावस्तल्लक्षणोऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धोऽलं घटाभावं साक्षात्पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारमित्येवं व्यवस्थापयितुं युक्तम् । न चैवमपि व्यवस्थापने [अस्म]त्पक्षस्य काचित्क्षतिः । तथाहि- पारम्पर्येणापि यदनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत्तत एव सिद्धं भवतीति प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादनेऽपि । अयमभिप्रायः- यथा भवतो ज्ञातृज्ञेयधर्मलक्षणा भावरूपा द्विविधानुपलब्धिस्तथा ममापि ज्ञातृज्ञेयधर्मलक्षणोपलब्ध्यभावोऽप्यनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूपोऽनुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपोऽनुपलब्धिसमाख्यातः सेत्स्यति । ततश्च कुतोऽनवस्था येन साधनासिद्धिः स्यादिति । तत्र "अन्यभावलक्षण" इति प्रतिषेध्यात्तज्ज्ञानाच्च योऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मकोऽभावः विवक्षिताद्भावात्प्रतिषेध्याद्भावात्तज्ञानाच्चान्यत्वादनुपलब्धित्वेन (ह्ब्ट्१७८) भवतोऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस्तस्य प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत्"तत्सिद्धिसिद्धो" वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस्तस्य प्रतिषेध्यस्य तज्ज्ञानस्य वाभाव इति एवमपीष्यमाणे "न कश्चिद्विशेषः" त्वदभिमतानुपलब्धितोऽस्मदभिमतानुपलब्धेः ततोऽस्मद्दर्शनं किमिति प्रतिक्षिप्यते? । नन्वस्त्येवैवमिष्यमाणे विशेषोऽन्यभावलक्षणानुपलब्धिरितरया व्यवहिता तदभावव्यवहारं साधयेदितरा तु साक्षादित्याह- स विशेषो नास्ति येन विशेषेणानुपलब्ध्याभावरूपया वस्तुसंस्पर्शरहितयास्मदभिमतयाभावव्यवहारसिद्धेः विरोधः स्यात् । अन्यस्य तु विशेषस्य सतोऽप्यबाधकत्वादसत्समत्वमेव । यदप्युक्तं- ’तस्य साधनाभावादभावव्यवहारासिद्धिप्रसङ्गःऽ इति, तदप्यसत्, यतः स एव त्वदभिमतोऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस्तद्विषया चोपलब्धिरनुपलब्धित्वेनेष्टा भवतस्तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च "किं" कस्मात्"न साधनं" लिङ्गम् "इष्यते?" । तथा हि सति लोकप्रतीतिरनुसृता भवति । "किं पुनः" कस्मात्पुनः "अभावस्य" द्विविधस्य "सिद्धिरेव तदभावसिद्धिः" न तत्साध्या काचिदन्या विद्यत इत्यस्मन्मतनिषेधार्थं लोकातिक्रान्तमिष्यत इति पूर्वपक्षः । अत्राह- "अपृथक्सिद्धेरन्यभावात्" तदभावस्य पृथक्सिद्धेरभावात्कुतो लिङ्गलिङ्गिता । तथा "सम्बन्धाभावाच्चा" अन्यभावतदभाव योर्न लिङ्गलिङ्गितेति । प्रथमं तावत्कारणं विवृण्वन्नाह- "अन्यभावस्तद्विविक्तदेशात्मकस्तावन्न साधनं" लिङ्गं प्रतिषेध्याभावस्य, ’तदुपलब्धिरपि तदभावस्य न साधनम्ऽ इति पश्चाद्वक्ष्यते । तदर्थमेव तावच्छब्दः । कस्मादन्यभावो न साधनम्? इत्याह- "यत्सिद्धौ" यस्य वस्तुनः सिद्धौ प्रतीतौ "यस्य" अपरस्य (ह्ब्ट्१७९) वस्तुनो "न सिद्धि"र्न प्रतीतिः तद्वस्तु तस्य वस्तुनो लिङ्गं भवतीत्ययं लिङ्गलिङ्गिनोर्न्यायः । तत्रोदाहरणम्- "धूमाग्निवदिति" । यथा- यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर्ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमानेऽग्नौ । यदि नामैवं ततः किम्? इत्यत आह- "अन्यस्य वस्तुनो यो भावः" स्वभाव "तत्सिद्ध्यैव" तत्प्रतीत्येव "तदभावः" तस्य प्रतिषेध्यस्याभावः "प्रसिध्यति" प्रतीयतेअन्यभावस्यैव तदभावात्मकत्वात्तत्सिद्धेरेव तत्सिद्धिलक्षणत्वात् । नैयायिकास्तु मन्यन्ते- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस्तुच्छरूपस्तस्य कथं तदन्यभावरूपता?, भावाभावयोर्विरोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्यत आह- "तस्य" तदन्यभावस्य प्रदेशलक्षणस्य तस्मादन्येन प्रतिषेध्येन घटादिना "असंसृष्टरूपस्य" रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः । अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकतामाह । कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्? इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् । यथा ह्यनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावोऽपि प्रतिषेध्यासंसृष्टरूपः । ततः कथमस्य प्रतिषेध्येन तुच्छरूपता विरुध्येत? । स्वरूपेण ह्ययमतुच्छरूपः स्यान्न पररूपेण, अन्यथा कथमस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? । यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः । तस्मात्सर्वभावाः पररूपेण निःस्वभावाः स्वरूपेण रूपवत्त्वेऽपी त्यनवद्यम् । कस्तर्हि प्रसज्यप्रतिषेधत्पर्युदासस्य भेदः? । न कश्चित्, केवलमनपेक्षितरूपान्तरमभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशन्यं पर्युदास इति । न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं तद्रूपशून्यतया, (ह्ब्ट्१८०) कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात्पररूपेण? । सामर्थ्यात्ततस्तत्प्रतीतिरिति चेत्; न, अकारणप्रतीतौ सामर्थ्यासम्भवात् । तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात्प्रतीतौ तत्कारणत्वे सति स्यात्प्रतिपत्तिः नान्यथा । तस्य तदन्यासंसृष्टरूपस्य यत्तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपं तत एव- न तदुत्तरकालभाविनो ’नास्तीह घटःऽ इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात्- अन्यस्य घटादेस्तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस्तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् । द्विविधो ह्ययं प्रदेशो घटासंसृष्टरूप्सस्तव्द्यावृत्तरूपतया ततोऽन्यो घटवानपि, केवलश्च घटं प्रति अप्रतिपन्नाधारभावः । तस्य तद्विवेकेन प्रत्यक्षेण ग्रहणे घटादन्यत्वं घटविरहश्च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थम्, ’िहेदं नास्तिऽ इत्येवमर्थं च प्रमाणान्तरमन्वेषणीयम् । विस्तरतश्चैतदुत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश्चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् । द्वितीयं कारणं व्याचक्षाण आह- "सम्बन्धाभावाच्च" इति । अन्यभावतदभावयोर्न कश्चित्सम्बन्धोऽस्ति, ततः कुतो लिङ्गलिङ्गिभावः? इति । एतच्च कदोच्यते? । यदा तदभावरूपतान्यभावस्य परानभ्युपगतापेक्ष्यते । तदन्यभावात्पृथगेव तदभावस्तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात्कथं सम्बन्धाभावः? । प्रत्यक्षसिद्धता च तदैव, न पक्षान्तरेण अभिहिता । "तच्च तस्य" इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन "एकार्थसमवाय" इति परदर्शनेनोक्तम् । परेषां हि नैयायिकादीनां व्यतिरिक्तावेव कृतकानित्यत्वाख्यौ धर्मावेकस्मिन्नेव धर्मिणि समवेताविति कृतकस्यानित्यत्वेनैकस्मिन्नर्थे धर्मिणि समवायः सम्बन्धः धमस्य वेति (ह्ब्ट्१८१) सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः । संयोगसमवाययोः कल्पितत्वाद्भेदेन व्यपदेशेऽनादरात् । परेषां त्वग्निधूमौ स्वावयवेष्वेव समवेताविति न तयोरेकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेरुपरि दर्शनाल्लौकिकः सम्बन्ध उक्तः । "जन्यजनकभावो वा" इति पारमार्थिकः सम्बन्धोऽभिहितः, परमार्थतोऽग्नेर्जनकत्वातितरस्य च जन्यत्वादिति । ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत्किमिति नैयायिकाभिमस्यापि सम्बन्धस्यान्यभावतदभावयोरभाव उच्यते । सत्यम्, प्रसङ्गेन तु तन्मतस्यापि निषेधार्थमुक्तम् । पूर्वं ह्यन्यभावग्राहिप्रत्यक्षसिद्धत्वात्प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं ’नास्तीह घटःऽ इत्येवमाकारं कल्पनीयमिति प्रसङ्गतः कथितम् । अधुना तु प्रसङ्गादिदमुच्यते- यदान्यभावग्राहिप्रत्यक्षसिद्धोऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं ’नास्ति इह घटःऽ इत्येवमाकारं विशेषणविशेष्यभावलक्षणात्सन्निकर्षादिष्टं भवता । न चासति सम्बन्धेऽन्यभावतदभावयोर्विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः कुतस्तल्लक्षणात्सन्निकर्षात्तदभावे प्रत्यक्षं भवेदिति । एवं सम्बन्धस्वरूपमाख्याय तस्येहासम्भवमाह- "नैवम्" यथा कृतकत्वानित्यत्वयोरग्निधूमयोर्वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद्भावाभावयोः सम्बन्धो येन "अस्य" तदभावस्यान्यभावः साधनं स्यात् । यावेकत्रार्थे धर्मिरूपे प्रवर्तेते तयोरेकार्थसमवायो भवति । अन्यभावश्च प्रदेशाख्यः स्वावयवेषु येषु वर्तते न तत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात्न प्रदेशे । न चास्य प्रदेशावयवैरारम्भः । ते हि द्रव्यात्मानो द्रव्यान्तरमेवारभन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं तत्रास्ति । न च गुणरूपतया तत्र वर्तते । चतुर्विशतिरेव हि (ह्ब्ट्१८२) गुणा इष्यन्ते । न चायं तेषामन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात्तल्लक्षणविरहाच्च । "एकद्रव्यम्" इत्यादिकं हि तल्लक्षणम् । न चैतदभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रुपविरहादेव । नाप्यन्यभावतदभावयोः संयोगोऽग्निधूमयोरिव, द्रव्ययोरेव तदभ्युपगमात् । न च तदभावो द्रव्यमित्युक्तम् । नाप्याधार(रा)धेयभावो, यतः सोऽपि संयोगनिमित्त उच्यते ’िह कुण्डे बदराणिऽ इति । समवायनिमित्तो वा, ’िह तन्तुषु पटःऽ इति । न चाभावस्याद्रव्यात्मनः संयोगः समस्ति । नापि समवायः, पञ्चानामेव हि द्रव्यादीनां पदार्थानां समवायित्वमिष्यते; न चाभावः पञ्चस्वन्तर्भवतीति । न च तदात्मानुपकारे सत्याधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभवः । न च तदभावो जन्यः, कार्यताप्रसङ्गात् । कार्यता चास्यासम्भविनी, यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः । अन्यभावस्तु प्रदेशाख्योऽस्य न कारणम्, त्रयाणामेव हि द्रव्यगुणकर्मणां द्रव्यं कारणमिष्टम् । न चाभावो द्रव्यादिलक्षणः इति । सत्तासमवायेऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावेऽपि च घटाभावसम्भवात्कुतस्तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् । सम्बन्धिभेदाद्भेदे वा सामान्यादिष्वपि तत्प्रसङ्गः । समवायोप्यस्यानन्तरमेव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? । एतेन जन्यजनकभावः प्रयुक्तः । ततः सर्वथा सम्बन्धाभावान्नान्यभावः तदभावस्य साधनमिति । परः सम्बन्धान्तरं दर्शयन्नाह- "अस्ति विषये"त्यादि । यथा हि अर्थो विषयः शब्दो विषयीति तयोर्विषयविषयिभावः सम्बन्धः, एवमन्यभावतदभावयोर्विषयविषयिभावः सम्बन्धो भविष्यति । प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनादिति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः स्यादित्यभिसम्बन्धः । (ह्ब्ट्१८३) किं रूपः? । "कार्यकारणलक्षणः" । कथं पुनरर्थकार्यता शब्दस्य? । तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच्छब्दोच्चारणात् । तेनार्थेन विवक्षाविपरिवर्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्यपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्यर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात्तन्मुखेन कार्यकारणभाव उच्यते । "अविनाभावलक्षणो वा" इति परप्रसिद्ध्योच्यते । परो ह्यविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिवन्धन प्रतिपाद्यप्रतिपादकरूपो विषयविषयिभावो युक्तः । तदभावान्यभावयोरप्येवं भविष्यतीति चेत्, आह- "अयं च" अनन्तरोक्तप्रकारः "अत्र" तदभावान्यभावयोः "न सम्भवति" । नहि घटाभावप्रतिपादनाभिप्राये सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो निष्पत्तिर्भवति, घटाभावप्रतिपादनाभिप्रायात्प्रागपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः । सत्यपि तदभिप्रायेऽन्यभावस्याभावाच्च । ततश्च कथं तयोः कार्यकारणभावः?, तद्वारकोऽविनाभावो वा स्यात्? यतो विषयविषयिभावः कल्प्येत । स्यान्मतम्- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोरपि इत्येतावन्मात्रेण शब्दार्थयोर्दृष्टान्ततेत्यत आह- "सिद्धे हि" इत्यादि । शब्दार्थयोर्हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथार्थान्तरत्वे तदयोगात्तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत्तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावोऽसति सम्बन्धे कार्यकारणभावादिके न सिध्यति, सर्वस्य साध्यसाधनताप्रसक्तेः । कथमिन्द्रियं स्वविषयसिद्धिनिबन्धनमिति चेत्; परस्परोपसर्पणाद्याश्रयात्प्रत्ययविशेषादिन्द्रियविषययोरेकविज्ञानोत्पादनयोरुदयात्(ह्ब्ट्१८४) तथा व्यपदेशः, नैवमिह, अन्यभावतदभावयोस्तदयोगात् । लिङ्गलिङ्गिभावलक्षणस्य च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धमन्तरेणायोगात् । नैव सम्बन्धान्तरनिबन्धनोऽन्यभावतदभावयोः साध्यसाधनभावोऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह- "अन्यथा" यदि सम्बन्धान्तरं नेष्यते किन्तु विषयविषयिभावात्साध्यसाधनभावः तस्माच्च विषयविषयिभावः, तत इतरेतराश्रयमिदं स्यात् । तथा चैकासिद्धौ द्वयोरप्यसिद्धिर्भवेदिति । किञ्चान्यभावाच्च लिङ्गभूतादभावस्य लिङ्गिनः सिद्धावनुमिताविष्यमाणायामसमुदायश्च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात्न केवलसम्बन्धाभावात्साध्यसाधनभावायोगः । समुदायश्च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस्तदभावदोषश्चेति ’चऽ शब्दः । सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह- "तथा च" धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे ’घटाभावस्तदन्यभावात्ऽ इत्येवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत । धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्योऽभ्युपगन्तव्यः न केवलो धर्म इति । अत्राह परः- नासमुदायस्य साध्यता अन्यभावतदभावयोरसम्बन्धो वा । कुतः? । "प्रदेशादि" इत्यादि । ’िह प्रदेशे घटो नास्तिऽ इत्येवं घटाभावेन प्रदेशादिर्धर्मी विशेष्यते सघटात्प्रदेशादेर्भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तसाध्यते न तु घटो नास्तीत्येवं "केवलो" धर्मिणः कस्यचिग्दुणभावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस्तद्भावी दोषः? । "न च" नैवास्मिन्पक्षे "लिङ्गस्या" न्यभावात्मनो "लिङ्गिनश्च" प्रदेशादिधर्मिलक्षणस्य "असम्बन्धदोषः प्रसज्यते" । कुत? । "अन्यभावस्य" घटविविक्तप्रदेशदिलक्षणस्य "प्रदेशादिना" धर्मिणा (ह्ब्ट्१८५) "सम्बन्धात्" तदात्म्यसद्भावादिति । तथा हि- शब्दादिधर्मिणा कृतकत्वादेस्तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्यभिप्रायः । ततश्च ’सम्बन्धाभावाच्चऽ इत्ययुक्तमिति मन्यते । सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्रागुक्तो न धर्मिणा ततः दमुत्तरं सांबध्यत इति मन्यमानो धर्मिणाप्यन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्नाह- "न" लिङ्गलिङ्गिनोरसम्बन्धो न चेति सम्बध्यते । तथा नासमुदायसाधनमिति । किन्तु लिङ्गलिङ्गिनोरसम्बन्ध एवासमुदायसाधनमेव च एवमपि ब्रुवतः । कुतः? । प्रदेशादेरेव धर्मितयावस्थाप्यमानस्यान्यभावत्वादन्यभावलक्षणलिङ्गत्वात् । एतदेव दर्शयति- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद्घटादिकं नासीत्युच्यते लोकेन स एव प्रदेशादिस्तेन घटादिनासंसृष्टस्संसर्गरहितः "अन्यभावो" लिङ्गतयेष्टो नापरः कश्चित्यतः "तद्दर्शनादेव" घटासंसृष्टप्रदेशादिदर्शनादेवास्य प्रतिपत्तुः ’घटो नास्तिऽ इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति । ततः स एवान्यभावः । यदेव हि दृश्यमानं लिङ्गिज्ञानं जनयति तदेव लिङ्गमुच्यते । घटासंसृष्टश्च प्रदेशादिरेवम् । तस्मात्तदेवान्यभावलक्षणं लिङ्गमुपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्तितोऽपि भेदमननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? । नहि लिङ्गमेव धर्मी भवितुमर्हति, धर्मिप्रतिपत्तावेव साध्यप्रतिपत्तेरन्वयाद्यनुसरणायोगात् । ततश्चान्यस्य धर्मिणोऽभावात्कथमन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? । शब्दकृतकत्वयोस्तु परमार्थतस्तादात्म्येऽपि व्यावृत्तिभेदनिबन्धनोऽस्त्येव भेदः । ततः शब्दादिधर्मिप्रतिपत्तावप्यनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत्साध्यत इति युक्तम् । स्यान्मतम्- सामान्यविशेषकल्पनया लिङ्गलिङ्गितैकस्यापि भविष्यतीत्यत आह- "न चात्र" प्रकृतेऽन्यभावे "सामान्यविशेषभावकल्पना सम्भवति", येन सामान्यविशेषविकल्पेन सामान्यं हेतुर्भवेद्विशेषो धर्मी, यतः समुदायसाध्यता (ह्ब्ट्१८६) लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्याह- तद्विशेषप्रतिपत्तेरेव" घटविविक्तप्रदेशविशेषप्रतिपत्तेरेव "तदभावस्य" घटाभावस्य प्रतीतेः । यतश्च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । स एव विशेषोऽन्यत्र वर्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह- "तस्य" घटविविक्तप्रदेशविशेषस्य "अन्यत्र" सजातीये "अन्वयस्य" अनुवृत्तेरभावात्कुतः सामान्यात्मता? । न ह्यसौ देशकालावस्थानियतो विशेषोऽन्यमन्वेतीति । अत्रैवोपचयहेतुमाह- "प्रतिज्ञार्थे"त्यादि । यदि हि घटविविक्त एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया योऽर्थो धर्मधर्मिसमुदायस्तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितोऽपि भेदमनु(न)नुभवतो हेतुत्वमसिद्धमिति । अथ मा भूतेष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुरिष्यते, किन्तु प्रदेशमात्रं घटविविक्तताविशेषरहितमित्यत आह- "न च यत्र प्रदेशमात्रं तत्र घटाभावः" । सघटेऽपि प्रदेशे प्रदेशमात्रस्य भावादनैकान्तिको हेतुः स्यात् । परोऽन्यथा सामान्यविशेषभावं दर्शयन्नाह- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशोऽग्रतः स्थितस्तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतोऽनेकान्तः? । तथाविधप्रदेशविशेषप्रतीतिरेव घटाभावप्रतीतिस्ततोऽन्यभावतदभावयोः लिङ्गलिङ्गितानुपपन्नेत्युपदर्शयन्नाह- "ननु तस्यैव" इत्यादि । योऽसौ केवलः प्रदेशविशेषो धर्मितयावस्थापितस्तस्यैव यत्कैवल्यं केवल इत्यनेन विशेषणेनोच्यते भवता, त देव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य प्रतिपत्तावेव सिद्धो न तूत्तरकालं ततोऽन्य एव आकारान्तरेण धूमादिवाग्निः सिध्यति । ततः कस्येदानीं "तत्प्रतिपत्तावेव" साध्यप्रतीतौ सत्यां तल्लिङ्गम्? । न कस्यचित् । (ह्ब्ट्१८७) जिज्ञासितस्य घटाभावस्य सिद्धेरन्यस्य कस्यचिदजिज्ञासितत्वात् । केवलप्रदेशप्रतिपत्तावेव घटविरहप्रतीतौ च यदेतदुत्तरकालं ’यत्र यत्र केवलः प्रदेशस्तत्र तत्र घटविरहःऽ इति "अन्वयस्यानुगमामनु( गमनम्" अनु)सरणम्, तच्च निरर्थकमादावेव साध्यप्रतीतेः । यत एवं तस्मादन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर्भेदाभावान्न साधनमभावस्येति स्थितम् । तदेवं समुदायसाध्यतां लिङ्गस्य च धर्मिणासम्बन्धं प्रतिपादयितुं यदुक्तं परेण- ’प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्ऽ इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् । विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परोऽन्यथा सम्बन्धं साध्यसाधनयोर्द्दर्शयन्नाह- "अस्त्य"न्यभावतदभावयोः सम्बन्धो विरोधाख्यः । ततः सम्बन्धसद्भावादन्यभावादभावस्य सिद्धिर्भविष्यतीति । सिद्धान्तवादी तु साध्यसाधनयोर्विरोधमेवासम्भावयन् पृच्छति- "केन कस्य विरोधः" इति । न ह्यत्र साध्यसाधनयोर्विरोधः संभवतीत्यभिप्रायः । परो विरोधमभिप्रायनभिज्ञतया दर्शयति- "अन्यभावेन" केवलप्रदेशात्मना "प्रतियोगिनो" यस्याभावः प्रमातुमिष्टो घटादेस्तस्येति । परस्यैवंवादिनो असम्बन्धाभिधायितामादर्शयन्नाह- "किं नु वै प्रतियोगी" घटादिः प्रमातुमिष्टो येन प्रतियोगिनः प्रमेयत्वेन लिङ्गलिङ्गिनोर्विरोधः सम्बन्धोऽभिधीयते? । नैव प्रतियोगी प्रमातुमिष्टः किन्तु तदभाव इति चेत्, आह- "अभावस्तु" प्रतियोगिनो यः साध्य ......................................................................................... [कुमारिलस्तु मन्यते भवांशाद्भिन्नोऽ]यमभावांशस्ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति । तथा ह्ययमभावः प्रागभावादिभेदभिन्नः, (ह्ब्ट्१८८) न चावस्तुनो भेदः सम्भवति अतोऽयं वस्तुरूप एव । यदाह- "न चावस्तुन एते स्युर्भेदास्तेनास्य वस्तुता ॥" इति । न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश्च तदसंयोगहेतुकत्वात् । यदाह- "तत्संयोगे सदित्येवं सद्रूपत्वं प्रतीयते । नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् ॥" इति । तत्कथं तत्प्रतिपत्तिरेवापरस्य व्यवच्छेदनमिति तन्निरासार्थमाह । "तस्या"न्यस्य प्रदेशस्य केवलस्य यत्तत्"कैवल्य" मेकाकिकत्वमसहायता तदेव "अपरस्य" प्रतियोगिनो घटादेः "वैकल्यम्" अभाव "इति" तस्मात्"तदन्यभाव एव" भावांश एव त्वदभिमतः "तदभावः" प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरमित्युच्यते सुगतसुतैः । ततश्च "तत्प्रतिपत्तिरेव च" तस्यान्यभावस्य प्रतिपत्तिरेव च "तदप्रतिपत्तिः" तस्य प्रतियोगिनोऽप्रतिपत्तिरभावप्रतिपत्तिरिति यावत् । एवं मन्यते- योऽयमभावांशो भावांशात्पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां तद्रूपवैकल्यादेवानुभवति नान्यथा । तच्च तद्रूपवैकल्यमन्यवस्तुनो भावांशस्यापि विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । नहि यद्यद्रूपविकलं न भवति तत्ततोऽन्यत्वमनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशोऽपि तस्य न सिध्येत्, सर्वं च विश्वमेकं द्रव्यं प्रसज्येत, ततश्च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्यादित्यवश्यमन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिरेव तदन्याभावप्रतिपत्तिः । तत्संयोग एव चेन्द्रियस्य तदन्याभावसंयोग इति किमुच्यते- "नास्त्यत्रेदमितीत्थं तु तदसंयोगहेतुकम् ।" इति? । विकल्पापेक्षयोक्तमिति चेत्, तदेतदबाधकमेव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्यभावात्मके एव वस्तुरूपे प्रतिपन्ने पाश्चात्यस्य (ह्ब्ट्१८९) यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश्चायमभावविचारः प्रमाणद्वित्वसिद्धावभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवाववधार्य इति । अवश्यं च तदन्यभावप्रतिपत्तिरेव तदभावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थं, ’नास्त्यत्रेदम्ऽ इत्यभावव्यवहारार्थं चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्नाह- "अन्यथा" यदि तत्प्रतिपत्तिरेव तदभावप्रतिपत्तिरिति नेष्यते तदा "तस्य" अन्यवस्तुनः स्वरूपपरिच्छेदेन ततोऽन्यस्यातद्रूपस्य "अव्यवच्छेदे" अनिराकरणे तदभावाप्रतिपत्तौ "तत्परिच्छेद एव न स्यात्"- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिरेव न स्यात् । किं कारणम्? "तदतद्रूपयोः" तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच्चातद्रूपं तद्रूपं न भवति पररूपं तयोः "अविवेकाद्" अविवेचनाद्विवेकेनाव्यवस्थापनादसाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्किर्णं हि तद्रूपं तच्चेत्तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारमेव तदुत्पन्नं तदा कथन्तेन तत्परिच्छेदः स्यात्? । न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा- शुकुशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथमन्याव्यवच्छेदो नाम? । ततः प्रतिनियतरूपाननुकारादेव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति । भवत्येवं ततः को दोषः? इत्यत आह- "य एष व्यवहारः" सर्वजनप्रतितः "कस्यचिद्" अग्न्यादेर्वस्तुनो दर्शनात्"क्वचिद्देशे" तत्सम्बन्धिनि "प्राप्त्यर्थो" दृष्टस्यादृष्टस्य च "परिहारार्थः" प्रवृत्तिनिवृत्तिलक्षणः "स न स्यात्" । किं कारणम्? । "न हि" यस्माद्"अयं" प्रतिपत्ता "अनलं पश्यन्नपि" सङ्कीर्णतदद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथास्य दर्शनरूपताहानेः, तथा हि- असङ्कीर्णस्यादर्शने सङ्कीर्णमपि यदि न पश्येत्तदा लोष्टादिप्रख्यं कथं कस्यचिदेतद्दर्शनं स्यात्? । स एवंभूतः सङ्कीर्णदर्शनवान् प्रतिपत्ता (ह्ब्ट्१९०) कथम् "अनलमेव पश्यति" न सलिलादिकम्? । "किन्तु" सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया "सलिलादिकमपि" पश्यति । ततः कथं "सलिलार्थी तत्र" अग्निमति प्रदेशे "न प्रवर्तेत"? । परस्य वचनावकाशमाशङ्कयाह- "अनुपलम्भेन" इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपमेव प्रतीयते । यस्तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोर्विवेकाल्लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्याह- "कोऽयमनुपलम्भो नाम" इति । कदाचित्परो ब्रूयात्सलिलोपलम्भविरहमात्रमित्यत आह- "यदि सलिल" इत्यादि । कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपमभावप्रमाणतया नाभिमतमेव । "प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते । सात्मनोऽपरिणामो वा विज्ञानं वान्यवस्तुनि ॥" इति वचनात् । किन्तु योऽसावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मनापरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितोऽभ्युपगन्तव्यो न केवल इति परमभ्युपगमयितुमस्योपन्यासः । तथा चान्यवस्तुविज्ञानमेवाभावप्रमाणमस्तु, किमप्रमाणकस्यात्मनोऽपरिणामाख्येन धर्मेण परिकल्पितेन? । न च तदन्यवस्तुविज्ञानपरिणामादन्य एव तस्यापरिणामो नाम भवतोऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात्प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद्रसाद्यभावप्रतीतिर्युक्तिमती देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपर्पतिभास्येव । रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावभासित एव । तदभावव्यवहारे त्वस्मदभिमतैवानुपलब्धिरायातेति प्रतिपादयितुमस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः तुच्छरूपोऽनुपलम्भस्तदा कथमभावः (ह्ब्ट्१९१) कस्यचित्प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन्तु तद्धेतुभाव इत्यत आह- "प्रतिपत्तिहेतुर्वा" इति । नहि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननादभावज्ञानमेवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् । न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तमित्याह- "तस्यापि" सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? । अथायं सलिलोपलम्भाभावः स्वयमप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिदपि । तदेवाह- "तस्य" सलिलोपलम्भाभावस्य ततो वा सलिलादन्यस्यानलादेः ’विज्ञानं वान्यवस्तुनिऽ इत्यत आत्मनोऽपरिणामस्य पृथगवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनोऽपरिणामस्य तदात्मकत्वान्न ततो भेदेन व्यवस्थाप्येत । ततश्च कस्यचिदपि तस्य तदन्यस्य वाप्रतिपत्तावपि यद्यभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्वपि सलिलाद्यभावः किं न प्रतीयते? । तदापि तदभावः प्रतीयेतेत्येतद्विचारितं प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्यन्यवस्तुनोऽप्यन्यत्वं तत्तुल्ययोग्यतारूपापेक्षमेव, न तदनपेक्षमुपेयम् । तथा चास्मदुपवर्णितानुपलब्धिसिद्धिरिति । यद चैवमुक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर्न युज्यतेऽनलप्रतिभासिनश्च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते "तस्मादयम्" अनलदर्शी प्रतिपत्तानलं "पश्यन्नपि" सङ्कीर्णरूपप्रतिभासिना ज्ञानेन ’नलोऽयं न सलिलम्ऽ इति नाध्यवस्यति अनध्यवस्यंश्च सलिलरूपस्यापि प्रतिभासनात्तदर्थी "न तिष्ठेत्" प्रवर्तेत "नापि प्रतिष्ठेत" सलिलार्थी न प्रवर्तेत । तथाहि- सलिलं नाम तदुच्यते यत्सर्वोदन्यासन्तापाद्यपनयनक्षमं सकलतदन्यरूपासंकीर्णप्रतिनियताकारज्ञानावभासि । इदं त्वन्यदेव शबलरूपं किमप्यवभासत इति । (ह्ब्ट्१९२) "ततश्च" प्रवृत्तिनिवृत्त्योर्विरुद्धयोर्युगपदनुष्ठातुमशक्यत्वात्"दुस्तरं व्यसनं प्रतिपत्तुः स्यात् ।" अत्र परस्य वचनावकाशमाशङ्कयाह- "तत एव" इत्यादि । न मया सलिलोपलम्भनिवृत्तिमात्रात्तु च्छरूपात्तदभावगतिरुच्यते, यथोक्तदोषप्रसङ्गात् । किन्तु यदेतदेकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर्भवति ’विज्ञानं वान्यवस्तुनिऽ इति वचनात् । सिद्धान्तवाद्याह- "कथमेकम्" इत्यादि । केन पुनः सामर्थ्येन तदेकदर्शनम् "अन्याभावं प्रत्याययति?" । तथाहि- तस्मिन् दृश्यमाने तदेवास्तीत्यवगच्छतु, तदन्यत्तु नास्तीति किमिति प्रत्येतीति । "तस्यैव" परिदृश्यमानस्यानलादेः "केवलस्य" सलिलासंसृष्टरूपस्य "दर्शनाद्" अनलज्ञाने प्रतिभासनात्’सलिलं नास्तिऽ इति निश्चयः सञ्जायते । तथाहि- अनल इव सलिलमपि यदि तत्राभविष्यत्तदप्यनलवद्दर्शने प्रत्ययभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद्योग्यताया नैकस्य प्रतिभासो युक्तः । तस्मादेकप्रतिभासनमन्याभावनान्तरीयकमित्यन्याभावे ततो ज्ञानमुत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथान्यद्वसुत्पररूपासंकीर्णस्वभावतयैव तथोच्यते । तद्रूपतयैव च तज्ज्ञानमन्यत्प्रतियदेवं व्यपदिश्यतेऽन्यथा तदयोगादित्यन्यप्रतिपत्तिरेव तदभावविकल्पहेतुरिति सिद्धान्तवाद्याह- "इदमेव" इत्यादि । नन्वस्माभिरिदमेव प्रागभिहितं "तयोः सतोः नैकरूपनियता प्रतिपत्तिः असम्भवात्" इत्यादिभिर्वचनैः । ततो यदेवान्यासंसर्गिणः केवलस्य प्रतिभासनं तदेव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वादन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात्तदभावस्य तब्दलात्पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं विकल्पकमाजायते । (ह्ब्ट्१९३) न तु तेनाप्रतिपन्नं किञ्चिदवगम्यते, यतस्तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकमप्यनवगते तदन्याभावे ज्ञानं जनयत्पृथगभावप्रमाणतया व्यवस्थाप्येत । तथा हि- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस्तत्संवेदनमेव तदभावसंवेदनम् । नहि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनादन्यत्तदभावसंवेदनं नाम । केवलमस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते क्वचिदनले ’नलोऽत्रास्तिऽ इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक्प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानमपि विकल्पकं तत्फंलद्वारेण वान्यवस्तुविज्ञानं न प्रत्यक्षात्पृथगभावाख्यं प्रमाणमिति । तस्माद्यदेवास्माभिरभिहितं तदन्याभावप्रतीतिं प्रति, तदेव त्वयाप्यभिधीयत इति कस्मात्परुषमिवाभाति यतस्तदनभ्युपगमेन पृथगभावाख्यं प्रमाणमभ्युपगतमित्युपहसति । तथा ह्यगत्येदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदमेव किं न पूर्वमेवाभिहितम्?, यत आलजालभिधानेनात्मा परिक्लेशित इत्युपसंहरन्नाह- " तस्मात्तीरादर्शिनेव" इत्यादि । यथा किल वहनारूढैर्वर्णिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटंस्तीरें नासादयति तदा वहनमेवागच्छति तद्वदेतदपि द्रष्टव्यम् । यतश्चावश्यभ्युपगमनीयोऽयं पक्षस्तस्मान्न किञ्चिदनयाविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् । तदेवं परस्यान्यभावतदभावयोर्लिङ्गलिङ्गिभावमिच्छतः सम्बन्धाभावादसावयुक्तः इति प्रतिपादिते परेण ’सति सम्बन्धेऽन्यभावगत्यापि तदभावगतिर्न स्यात्ऽ इति चोदिते ’न वै कुतश्चित्सम्बन्धाद्ऽ इत्याद्यभिहितम् । अतः ’न्यभाव एव तदभावोऽन्यभावगतिरेव च तदभावगतिःऽ इति प्रसाधयता कुमारिलपरिकल्पितः कस्यचिदभावनिश्चयार्थमभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु- (ह्ब्ट्१९४) "वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता" इत्येतदाहत्य निराकर्तुं पूर्वपक्षमुत्थापयन्नाह- "यद्येकपरिच्छेदादेवः" इत्यादि । यदि हि "एकस्य" केवलस्य परिच्छेदादन्यस्य "व्यवच्छेदः" प्रतिषेधः सिध्यति तदा सर्वस्या अ(स्या)न्यस्याविशेषेणैव "तत्र" देशे यत्रासावेकः परिदृश्यते तत्राभावसिद्धिर्भवेत्, न तु विशेषपरिग्रहेण तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात्तज्ज्ञानश्च, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तत्मकोऽपि । ततश्च तद्विविक्ताकारतया तदन्याभवसाधने विशेषाभावात्प्रदेशरूपज्ञानं घटाभवमिव रसाद्यभावमपि साधयेत्, न वा घटाभावमपीति । किञ्च, यदेतद्’ुपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावसाधनीऽ इति विशेषणमुक्तं तच्च न वक्तव्यम् । किं कारणम्? यतो येऽप्यनुपलब्धिलक्षणप्राप्तास्तेषामपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्येव । तथा हि- यथोपलब्धिलक्षणप्राप्तास्तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश्च व्यवच्छिद्यन्ते तथानुपलब्धिलक्षणप्राप्ता अपीति किम् ’ुपलब्धिलक्षणप्राप्तस्य" इत्यनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः- ततः पृथक्करणमन्यत्वेन व्यवस्थापनमभिमतं तदभ्युपगम्यत एव । अथ तद्देशकालयोरभावः, तदयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यमतुल्ययोग्यतारूपेऽनुपल्ब्धिलक्षणप्राप्ते वा सम्भवति । ’तयोः सतोर्नैकरूपनियता प्रतिपत्तिः असम्भवात्ऽ इत्येवं हि तदभावसाधनम् । न चैतदन्यत्र सम्भवतीति प्रतिपादयितुम् "एकात्मपरिच्छेदात्" इत्यादिनोपक्रमते । यत्पुरोऽवस्थितं प्रत्यक्षेऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात्तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः "तदन्यः" ततोऽन्यस्तद्वयतिरिक्तस्तस्य सर्वस्य य "आत्मा" स्वभावस्ततो (ह्ब्ट्१९५) "व्यवच्छेदो" भेदनं पृथक्करणमन्यत्वसाधनमसङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनरेकात्मपरिच्छेदादेव तस्य तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरोऽवस्थितपदार्थसामर्थ्यभावि तद्रूपमेव प्रतिपद्यताम् । यत्तु तद्वयतिरिक्तमशेषपदार्थजातं तदात्मनस्तस्य पुरोऽवस्थितस्य कथं तव्द्यवच्छेदकम्? अतः तव्द्यवच्छेदार्थमभावप्रमाणमभ्युपेयम्, यतो- "वस्त्वसंकरसिद्धिश्च तत्प्रामाण्यसमाश्रिता" इति । अत आह- "तदात्मनियतप्रतिभासज्ञानाद्" इति । यतः पुरोऽवस्थितस्यैकस्य वस्तुनः पररूपासंकीर्ण आत्मा, सर्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासंकीर्णस्वभावत्वात् । अन्यथा कथमभावप्रमाणतोऽप्यसांकर्यमेषां सिध्येत्? । संकीर्णरूपाणामसाङ्कर्यसाधने तस्य भ्रान्तताप्रसङ्गात् । तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात्तस्य भ्रान्ततापत्त्या प्रत्यक्षाताहानेः । तदुक्तम्- "तद्धयर्थसमर्थ्येनोत्पद्यमानं तद्रूपमेवानुकुर्यात्" इति । तस्य तदात्मनियतप्रतिभासय ज्ञानात्प्रत्यक्षेण स्वसंवित्त्या संवेदनात् । तत्संवेदनमेव हि प्रत्यक्षस्यातद्रूपाद्"व्यवच्छेदनं" पृथक्करणं तब्दलेनैव च पाश्चात्यः ’न्यात्मकमेतन्न भवतिऽ इत्यसांकर्यवस्थाप्रत्ययो विकल्पकः संजायते गॄहीतग्राही । न तेनापूर्वं किञ्चित्प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदादिति । यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथमन्यात्मनः तस्य पृथक्करणम्? इत्यत आह- "न हि तदात्म" इत्यादि । यस्मात्तस्य वस्तुनो य आत्मा पररूपासंकीर्णः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततोऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेरिति । तस्मात्तदात्मनियतप्रतिभासज्ञानमेव (ह्ब्ट्१९६) तदन्येभ्यो निवर्तनम् । नहि ज्ञानेनार्थो हस्ते गृहीत्वान्यतो निवर्तनीयः । केवलमन्यरूपासंकीर्णस्यैकस्यात्मनोऽनुकरणमेवास्यान्यतो निवर्तनमुच्यत इति । अथान्यात्मानः स्वविषयं न निवर्तयेत्, तदास्य विषयस्यान्यात्मनः सकाशादव्यवच्छेदे पृथगव्यवस्थापने परात्मनोऽपि तत्र परिच्छेदः स्यात्, अन्यथा तदपरिच्छेदस्यैवैकात्मपरिच्छेदात्मनस्तन्निवर्तनरूपता स्यात् । ततश्चाव्यवच्छेदेऽन्यात्मनस्तत्परिच्छेदप्रसङ्गात्प्रवृत्तिनिवृत्त्योरभाव इति पूर्वः प्रसङ्गो ’न ह्ययमनलं पश्यन्नपिऽ इत्यादिकः । न केवलमन्यात्मनस्तन्निवर्तयति तदात्मनोऽप्यशेषमन्यदिति दर्शयन्नाह- "तं च" अग्रतः स्थितं देशकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, "तदात्मना" देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकारादुपलभमाना बुद्धिः "तथात्वप्रच्युतिम्" अन्यदेशकालस्वभावावस्थताम् "अस्य" स्वविषयस्य "व्यवच्छिनत्ति" ततः पृथक्करोति । कस्मात्पुनरन्यदेशादितां ततः पृथगवस्थापयति इत्यत आह- "एवं हि" यस्मादन्यदेशतादेस्ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्यन्यथाभावोऽन्यदेशादिता तद्रूपाननुकाराव्द्यवच्छिन्नः- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् "इति" तस्मादन्यथाभूतादन्यदेशादिमतस्तथाभूतं तद्देशादिमंतं "व्यवच्छिन्दत्येव" निवर्तयन्त्येव तत्परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा "तथाभूतादन्यथाभूतं व्यवच्छिन्दत्येव" इति द्वितीयस्योपसंहारः कार्य इति । "एवम्" उक्तेन न्यायेन "एकस्य" प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्येवमेव स्वविषयपरिच्छेदाद्"वृत्तिः" प्रवृत्तिः सर्वभावान् "द्वैराश्ये" तत्त्वेऽन्यत्वे च "व्यवस्थापयति" । ततस्तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकयाप्यभावकल्पनयेति? । (ह्ब्ट्१९७) ननु च विकल्पव्यापार एष ’िदमन्यात्मकं न भवति अन्यथैतदात्मकम्ऽ इति । प्रत्यक्षं च निर्विकल्पकमिष्यते तत्कथमसांकर्यसिद्धिस्ततः? इत्यत आह- "तस्यान्वये" त्यादि । तद्धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणमिष्यते नान्यदा अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात्सर्वात्मना परिच्छेदेऽपि भ्रान्तिकारणसद्भावात्क्षणिकतादावन्वयव्यतिरेकबुद्धी जनयितुमसामर्थ्यात्तत्रास्य प्रामाण्यं नेष्यत इति । स्यान्मतम्- द्वैराश्यसाधनेऽप्यसांकर्यसिद्ध्यर्था मा भूदभावप्रमाणकल्पना किन्तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति । न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद्व्यापारः प्रतिपादित इति अत आह "तद्व्यतिरिक्ते"त्यादि । तस्मात्परिदृश्यमानाद्व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस्तत्साधनादेव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस्तदर्थमपि नाभावप्रमाणकल्पना युक्तेति । अथ मतम्- सर्वस्यापरिदृष्टस्य दृश्यमानादन्यतया व्याप्तिं नैवं प्रत्यक्षं साधयति तत्कुतस्तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतोऽभावप्रामाण्यकल्पना व्यर्था भवेदित्यत आह- "तस्य" तृतीयराशितया कल्प्यमानस्य ततो दृष्टादन्यतया व्याप्त्यभावे "तेन" प्रत्यक्षेण "ततो"ऽर्थात्स्वविषयस्य "अव्यवच्छेदा" दपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयादव्यवच्छेदातपृथक्करणात्पुनरपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? । तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथैकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वादिति । यत एवं "तस्मात्" क्वचिद्वस्तुनि प्रमाणं प्रत्यक्षादिकं (ह्ब्ट्१९८) प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततोऽन्यत्तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य वा सर्ववस्तुनो द्वैविध्यस्य साधनादिति । एवमेकस्य प्रमाणस्य व्यापार एषोऽनन्तरोक्त इति तमेवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह- "तथाहि" क्वचिद्वस्तुनि "प्रमाणं" प्रत्यक्षादि प्रवृत्तं "तदेव" वस्तु तदन्यस्मात्"पारूपाद्व्यवच्छिनत्ति" ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस्तस्य तद्रूपत्वात्यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किमिति पररूपाव्द्यवच्छिनत्ति? । तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा "तदन्यदेव च" तस्माद्दृश्यमानादन्यदेव च व्यवच्छिनत्ति । कुतः? । "तस्मात्" स्वविषयात् । न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परमपि स्वविषयादिति । कुत एतद्? । अन्यस्य पररूपस्य तत्र खालम्बनेऽपरिच्छेदादवश्यमेवापरिच्छिन्नस्य परिच्छिन्नादन्यत्वं भवति । यत एवमतः "तद्" एव प्रमाणमेकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत्? । तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात्तदन्यत्वं "दृष्टतदन्यत्वं" तेन सर्वस्य तव्द्यतिरिक्तस्य व्यवस्थापनान्न अ(पनेन अ) तदन्यस्यैव च यदन्यन्न भवति पुरोऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनादिति । अमुमेव न्यायमन्यत्राप्यतिदिशन्नाह- "एतेन क्रमाक्रमादयः" इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिरुपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद्व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति ये केचिदन्योन्यव्यच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः । (ह्ब्ट्१९९) तथा हि- कार्यस्य क्रममनन्यसहायतां प्रतियत्येव बुद्धिस्तस्याक्रमं कार्यान्तरसाहित्यं ततः पृथक्करोति । ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति । क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतयावस्थानात् । एवमुदयानन्तरध्वंसिता क्षणिकतोच्यते इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस्तद्विपरीतरूपतायाः स्वविषयादपाकरणात्ततोऽन्यत्वेन प्रकारान्तरेऽवस्थापनाद्राश्यन्तराभाव इति । तदेवमेकप्रमाणनिबन्धनामसाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरन्नाह- "तदेवम्" उक्तेन न्यायेन "एकस्य" प्रतिनियतात्मन उपलम्भात्तस्योपलभ्यमानस्य यस्ततोऽन्यस्तत्तुल्ययोग्यतारूपस्तव्दिपरीतो वा तद्रूपविकलस्तदात्मनो "व्यवच्छेदः" पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद्रूपान्तरेण प्रतिभासनात् । तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान्निर्द्देशस्य "व्यवच्छेदो भवति" असाङ्कर्यं सिध्यति । तद्यद्येतदविशेषेणान्यस्य सर्वस्य तन्नाभावसिद्धिः स्यादित्यत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वमविशेषेणैव तदेकाकारया बुध्या तद्रूपविकलं स्वविषयादवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रतिभासनात् । अथ तद्देशकालयोरभावः सर्वस्य तद्विपरीतरूपस्य व्यवच्छेदोऽभिमतः स न युक्त इति दर्शयति- "न तद्देशकालयोः" यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः । येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस्तस्मिन् सति तदेकरूपनियतायाः प्रतिपत्तेरसंभवात्तदभावनान्तरीयिका सा भावन्ती तत्प्रतिषेधं गमयतीति तत्कारणमनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् । (ह्ब्ट्२००) एतदेवोपसंहरन्नाह- "तस्मादतदात्मा" च सर्वस्तद्विपरीतरूपस्तदेकाकारया बुद्ध्या प्रसाधितः स्यात्"तद्देशकालश्च" तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात् । किंवत्? । रसरूपादिवदिति । नहि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात्पृथक्करणेऽपि तदसांकर्यसाधनेऽपि तद्देशकालयोरभावः सिध्यति । ततश्च कथं सर्वस्यातुल्ययोग्यावस्थास्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं "तस्मात्" क्वचित्कदाचित्कस्यचिदभावसिद्धिर्यथोक्तादेवानुपलम्भादुपलब्धिलक्षणप्राप्तस्य तत्तुल्ययोग्यतारूपोपलम्भात्मनश्चेत्येवंरूपात्, न तु सामान्येन यथाहुः परे- "प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते । वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता ॥" इति । न ह्यनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्तावपि तदभावः सिध्यति, सत्यपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवादिति । तदेवं प्रासङ्गिकं परिसमापय्य यदुक्तं परेण ’स एवान्यभावस्तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्ऽ इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर्निराकुर्वन्नाह- "अन्याभावविषये"त्यादि । यत्पुनरुक्तम्- ’न्यभावविषयोपलब्धिस्तदभावस्य किन्न साधनम्ऽ इति सा तदभावस्य साधिकेष्टैवास्माकम्, न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम्? । यतः तत्राप्यन्यभावविषयायामुपलब्धावऽभावस्य पृथगन्यभावात्साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिदेकार्थसमवायादिरूपः सम्बन्धोऽस्तीति । अपृथक्सिद्धेरित्यस्यापि तुल्यतां दर्शयन्नाह- "लिङ्गाविर्भावे" त्यादि । येयमन्यभावविषया उपलब्धिर्ल्लिङ्गतयोच्यते तस्यास्तद्विविक्तप्रदेशाकाराया (ह्ब्ट्२०१) "अविर्भावकाल एव" जन्मकाले प्रतीतिकाल एव वा तदभावसिद्धेश्च । तथा हि- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनमेव तदभावसंवेदनमिति । तदेव साधयति- न ह्यन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनरुत्तरकालं तत्प्रतिपत्तेरन्यभावप्रतिपत्तेस्तदभावेनान्वयव्यतिरेकौ प्रसाध्य प्रतिबन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते । किं तर्हि? । तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य प्रतियोगिनोऽभावं प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि- सघटप्रदेशासंकीर्णरूपस्य केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनम् । नहि ’घटोऽत्र नास्तिऽ ’घटवानयं न भवतिऽ ’सघटादन्यःऽ इत्यर्थभेदः कश्चित् । ततः सघटादन्यतया केवलप्रदेशस्य दर्शनमेव घटाभावदर्शनमिति । ’घटोऽत्र नास्तीऽ ति ज्ञानं गृहीतग्राहितया स्मृतिरेवेति । कथं ज्ञायते इति चेत् । दर्शनानन्तरमन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना ’िदं घटविविक्तं प्रदेशवस्त्वस्तिऽ ’िदं तु घटवस्तु नास्तिऽ इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात् । ततो नान्वयव्यतिरेकानुसरणमत्रास्तीति । किञ्च- दृष्टान्तासिद्धे स्वात्मन्यभावविषयोपलब्धिस्तदभावस्य साधनम् । तदेव व्यतिरेकमुखेन दर्शयति- "तच्च तस्य" इत्यादि । इहाप्यस्त्येवान्वय इति चेत्, आह- "न ह्येवं शक्यम्" इत्यादि । कस्मान्न शक्य दर्शयितुम्? । तदेकोपलब्धेः तस्यैकस्यानन्यसंसर्गिणो योपलब्धिर्विशेषरूपा तस्याः क्वचिदप्यन्यत्राभावात् । अथ तद्विविक्तोपलब्धिसामान्यं हेतुरूच्यते- यत्र यत्र घटविविक्तभूतलोपलब्धिस्तत्र तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्याह- "सामान्येन प्रदर्शने क्रियमाणे" दृष्टान्तेऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरमन्यभावविषयोपलब्धेर्नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य साधिका । (ह्ब्ट्२०२) सा च यथा साध्यधर्मिणि तदभावसिद्ध्ये दृष्टान्तमपेक्षते तथा दृष्टान्तेऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानामिति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं "तस्मान्न" कुतश्चिल्लिङ्गात्तदन्यभावात्तदुपलब्धेर्वा तदभावसिद्धिरिति । यदि तदन्यभावस्तदभावं न साधयति, किं पुनर्ल्लिङ्गतया साधयति?, इत्यत आह- "सोऽन्यभावः" प्रत्यक्षलक्षणेन- प्रत्यक्षस्यैव विवक्षितोपलम्भादन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिद्धः सन्नभावव्यवहारं साधयेत्, कर्मस्थक्रियापेक्षायां तदन्यभावस्यानुपलब्धिरूपत्वात् । क्व पुनरसावभावव्यवहारं साधयेत्? । मूढप्रतिपत्तौ साध्यायाम् । यस्त्वमूढो विषयप्रतिपत्तौ विषयिणं स्मरत्येव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर्लिङ्गतेति सुचर्च्चितमेवान्यत्रेतीहालं प्रसङ्गेनेति । [३. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् ।] तदेवमनुपलब्धेरशेषविप्रतिपत्तिनिराकरणेन स्वरूपमवस्थाप्यप्रभेदनिर्द्देशार्थमाह- "सेयं यथोक्ता त्रिधानुपलब्धिः" । कथम्? । सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः । कीदृशस्य? । सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेरेवासिद्धताप्रसङ्गाद् । यथोक्ता स्वभावानुपलब्धिश्चेति । एवं त्रिविधानुपलब्धिः । कथं पुनः कारणव्यापकयोरभावव्यवहारः सिध्यति यतस्तयोः सिद्धाभावतोच्यत इत्याह- "तत्र कारणव्यापकयोरपि" न केवलं यस्य साक्षादभावव्यवहारः साध्यते । स्वभावानुपलब्धौ "स्वभावस्यासव्ध्यवहारस्य सिद्धिरन्यस्य" तद्विविक्तस्य भावसिद्धिर्या सैवासव्द्यवहारसिद्धिहेतुत्वादेवमुच्यते । "स" कारणव्यापकाभावः "तथासिद्धो"ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धोऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदानयोर्विरूपविषयतया सविशेषाणामुपलब्धिर्न (ह्ब्ट्२०३) सिध्यति "तदाभावमभावव्यवहारं वा साधयति" । समुच्चयार्थो वाशब्दः । अथ किं स्वभावानुपलब्धावप्यभावो लिङ्गतया साध्यत इत्याह- "स्वभावानुपलब्धौ तु" इत्यादि । "अभावव्यवहार एव", नाभावोऽपि तस्य प्रत्यक्षसिद्धत्वात् । अत्र परस्य वचनावकाशमाशङ्कयाह- "यदि" तर्हि "कारणव्यापकौ" सिद्धोऽसव्द्यवहारो ययोः तौ सन्तौ । केन? । "तदन्यस्य" कारणव्यापकविविक्तस्य भावस्य सिद्धिर्या प्रत्यक्षत्मिका तद्रूपयानुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वाभावमभावव्यवहारं च साधयतः । सा चान्यभावोपलब्धिस्तयोः कारणव्यापकयोरुपलब्धिलक्षणप्राप्तावेव सत्यामसव्द्यवहारस्य साधिका नान्यथा इत्येवमिष्यमाणे सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षेऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर्व्यतिरेकप्रयोगः क्रियते- यत्र यत्राग्निर्नास्ति तत्र तत्र धूमोऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्यशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति । नहि तदाग्निवृक्षव्यतिरिक्ताः सर्वेऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा । ततश्च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः प्रतियोगिनो वोपलब्धिलक्षणप्राप्तता सिद्धा? । तथा च कथमशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोऽर्व्यतिरेकः सिध्येत्? । तदसिद्धौ वा कथमनयोर्गमकत्वम्? । तस्मात्क्वचिददर्शनमात्रादेव व्यतिरेक एष्टव्यः, क्वचिच्च दर्शनमात्रादन्वयः । तथा च प्रतिबन्धघोषणानर्थिकेति मन्यते परः । सिद्धान्तवाद्याह- "नैव" परोक्षेऽर्थे कारणव्यापकानुपलब्ध्योः "प्रयोगो" व्यतिरेकोपदर्शनकाले "प्रमाणतया" कारणस्य व्यापकस्य वानुपलब्धिः प्रमाणभूता नैव प्रयुज्यते । कस्मात्? । "लिङ्गस्य" कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा "अनिश्चयात्" तदनुपलब्ध्योः सन्देहरूपत्वात्तदभावस्य च सन्दिग्धत्वात् । कथं तर्हि तदानयोः प्रयोग इष्यते? इत्याह- "केवलम्" इत्यादि । कारणव्यापकयोर्हिकार्यकारणभावप्रसाधकेन (ह्ब्ट्२०४) पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर्यद्यभावो यत्र यत्रा भावः स्यात्परस्यापि कार्यस्य व्याप्यस्य वावश्यं नियमेनाभावोऽन्यथाहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच्च । तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्यादित्येतस्यार्थस्य दर्शनार्थमेते कारणव्यापकानुपलब्धी प्रयुज्येते इति । दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टोऽदर्शने वा न दृष्टः तत्रैव तस्य भावोऽभावो वा भवतु सर्वत्र तु कस्माद्भवति? । न ह्यप्रतिबद्धात्मनां गवाश्वादीनां क्वचित्तथाभावदर्शनेऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिदेकभावाभावयोरपरस्य भावाभावादर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे । तथा चाह- "देशादिभेदादृश्यन्ते भिन्ना द्रव्येषु शक्तयः । तत्रैकदृष्टया नान्यत्र युक्तस्तद्भावनिश्चयः ॥" इति । तस्मादवश्यं प्रतिबन्धः साध्यसाधनयोरभ्युपगन्तव्यः । स एवान्वयव्यतिरेकप्रयोगाभ्यां सुचनीयः । न चासौ व्याप्त्यान्वयव्यतिरेकोपदर्शनमन्तरेण ख्यापयितुं शक्यत इति ’यत्र यत्रऽ इति सकलपदार्थपरिग्रहेण ख्याप्यते । प्रतिबन्धे हि प्रमाणसिद्धे सत्यवश्यमेव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्यभावोऽन्यथा कारणमन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश्च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्स्वभावस्तत्र तत्र तद्भावः अन्यथा तस्य नैरात्म्यमेव स्यादिति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्रागेव विस्तरतो विपञ्चितम् । [४. हेतोस्त्रैरूप्यत्रैविध्ययोर्हेत्वाभासत्वस्य चोपसंहारः ।] एवं कार्यस्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावादन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्नाह- (ह्ब्ट्२०५) "इति" एष एव स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मोऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात् । यतश्वान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावादुक्तेन न्यायेन "इति" तस्मात्"तदंशेन व्याप्तो"ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर्निश्चयाद्यथोक्तं प्राक्, ततश्च तदंशव्याप्तिवचनात्त्रिलक्षण एव "त्रिरूप एव" त्रिविध एव हेतुर्गमको नान्यलक्षणोऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात्यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायामप्यव्यभिचाराभावेनागमकत्वात् । कस्मात्त्रिलक्षण एव त्रिविध एव हेतुर्गमको नान्यलक्षणोऽन्यो वेति दर्शयति "स्वसाध्यधर्माव्यभिचाराद्" इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात् । स्वसाध्यधर्माव्यभिचार एव च गमकत्वमिति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायामपि स्वसाध्यधर्माव्यभिचाराभावात् । तदनेन ’त्रिधैव सऽ इत्यस्य त्रिलक्षण एव "स हेतुरःविनाभावस्य" स्वसाध्यधर्माव्यभिचारस्य "नियमाद्" अवश्यन्तया सद्भावात्प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे (गमे)च रूपान्तरकल्पनायामपि "हेत्वाभासास्ततोऽपरे" यथोक्तत्रिलक्षणादपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्वभावादित्यपरोऽर्थो दर्शित इति । [५. हेतुलक्षणेऽधिकरूपवादिनां निरासः ।] यदुक्तं ’त्रिलक्षण एव हेतुर्नान्यलक्षणःऽ इति तत्र परेषां विप्रतिपत्तिं दर्शयन्नाह- "षड्लक्षणो हेतुरित्यपरे" नैयायिक- मिमांसकादयो मन्यन्ते । कानि पुनः षड्रूपाणि हेतोस्तैरिष्यंते? इत्याह- ’त्रीणि चैतानि" पक्षधर्मान्वयव्यतिरेकाख्यानि । तथाबाधितविषयत्वं चतुर्थं रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वमपरं रूपम् । तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य हेतुद्रव्यस्य (ह्ब्ट्२०६) तदेकसंख्यं विवक्षितमेकसंख्यं हेतुद्रव्यमाश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावोऽपरं रूपम् । यद्येकसंख्याव्यावच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायामपि द्विसंख्यायुक्तायामिति । यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत् । तथा ज्ञातत्वं च ज्ञानविषयत्वं च । नह्यज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः इति । तत्रैतेषु रूपान्तरेषु यदेतबाधितविषयत्वं नाम तत्तावत्प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मकाविनाभावसम्भवे सति ततः पृथगन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तमिति न वक्तव्यमिति । कस्मात्पृथग्लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधादिति । तथा हि- सत्यप्यविनाभावे यथोक्ते बाधासम्भवं मन्यमानैरबाधितविषयत्वं रूपान्तरमुच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन "विरोधात्" सहानवस्थानलक्षणात् । तमेव विरोधं साधयन्नाह- "अविनाभावो हि" इत्यादि । सत्येव हि साध्यधर्मे भावो हेतोरविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्येव तस्मिंस्तदभावविषयं प्रमाणं प्रवर्तेत तदास्य भ्रान्तत्वादप्रमाणतैव स्यातिति कुतो बाधा? । ततः "स" हेतुः "तल्लक्षणः" साध्याविनाभावी "धर्मिणि स्यात् । अत्र च साध्यधर्मः कथं न भवेत्"? यतो बाधावकाशः स्यात् । तस्मादविनाभावस्य प्रमाणबाधायाश्च सहानवस्थानमविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्यसम्भवादिति । तमेव विरोधं स्पष्टीकर्तुं परोपहासव्याजेनाह- "प्रत्यक्षानुमाने हि" इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, "तं ग्रीवायां गृहीत्वा" धर्मिणः स्वाश्रयात्"निष्कासयतः" । तस्मिंश्च साध्यधर्मे सत्येव तदविनाभावित्वाद्धेतुर्भवं "स्तं" साध्यधर्मं (ह्ब्ट्२०७) निष्कास्यमानं गले गृहीत्वा हठात्"तत्रैव" धर्मिण्यवस्थापयतीति "परं" प्रकृष्टं बत "भावानां" साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि- यन्त्रद्वयनियन्त्रितानां निरुच्छावसितया मरणमेव प्राप्तमिति । परो बाधाविनाभावयोर्विषयभेदादविरोधं दर्शयन्नाह- "अन्यत्र" साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर्न पुनः साध्यधर्मिण्येव । ततः कुतो बाधाविनाभावयोर्विरोधोऽन्यत्र बाधया साध्यधर्माभावसाधनादन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्यपि अविनाभावे बाधासम्भवादबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति । एवंविधाविनाभावोपगमे सत्यप्यबाधितविषयत्वादिके रूपान्तरे "हेत्वाभासास्ततोऽपरे" रूपान्तरसम्भविन इत्यापादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकमाह- तत्किम् "अयं" साध्यधर्मी "तपस्वी" वराकः "शड्ढ(ण्ढ)मुद्वाह्य तस्मिंन्" साध्यधर्मसाधनशक्तिविकलं हेतुं परिणाय्य साध्यधर्मलक्षणं "पुत्रं मृगयते?" । एतदेव व्यनक्ति- "यस्य" हेतोर्द्धर्मिण्यसत्यपि "साध्यधर्मे भाव" इष्यते, साध्यधर्मिणोऽन्यत्राविनाभावोपगमात् । "तं" तथाविधं साध्यधर्मिण्युपदर्श्य कथं धर्मी साध्यधर्मवानित्युच्यते? । न ह्यम्भस्त्वस्य समुद्रे लवणत्वेनाविनाभावेऽपि तव्द्यतिरिक्तेऽम्भसि लवणतया साध्यत्वेनेष्टेऽम्भस्त्वभावेऽपि लवणत्वसिद्धिरिति । परस्य वचनावकाशमाशङ्कयाह- "अत एव" इत्यादि । एतदेव विवृणोति- "स्यादेतद्" भवतो मतम् । यत एव हेतुरन्यथापि साध्यधर्ममन्तरेणापि धर्मिणि भवेदम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभावोपगमातत एव कारणात्प्रमाणाभ्यामबाधितधर्मा धर्मीत्युच्यते । यदि प्रत्यक्षानुमानाभ्यां (ह्ब्ट्२०८) साध्यधर्मिणि हेतोर्विषयः साध्यधर्मो न बाध्यते यथाम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति । ततोऽन्यत्राविनाभावमात्रेण साध्यसिद्धेरनभ्युपगमात्न यथोक्तो दोष इति । सिद्धान्तवाद्याह- "तत्किम्" इदानीं यदा हेतोर्धर्मिण्यविनाभावितानभ्युपगमात्साध्यसिद्धेरभावात्तत्सिद्धये रूपान्तरमबाधितविषयत्वमुच्यते तदा हेतोर्न किञ्चित्सामर्थ्यम् । कस्माद्? "अबाधयैव" हेतुमन्तरेणापि "साध्यसिद्धेः" अकिञ्चित्कर एव हेतुः । तथा ह्यत्र कल्पनाद्वयम्- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? । तत्र यदि पूर्वो विकल्पस्तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात्तदभावे चाभावादिति । तस्माद्"अबाधायां" बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्यभावात्"साध्यसिद्धिः" भवत्येवेति व्यर्थ एव हेतुरिति नोपन्यसनीय एव । ततः कस्याबाधितविषयत्वं रूपान्तरं भवेत्? । स्यान्मतम्- मा भुद्बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्यत आह- "बाधायामपि" इति । यदि बाधकं प्रमाणं वर्तते तदा तेन साध्याभावस्य धर्मिणि साधनात्पुनर्ब्रह्मणापि तद्भावस्य कर्तुमशक्यत्वात्किमङ्ग पुनः शठेन हेतुनेति कुतः साधनस्य हेतोः सामर्थ्यम्? । अत एव हि भवद्भिरबाधितविषयत्वं रूपान्तरमुच्यत इति । अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावेऽपि भावादिति द्वितीयः पक्ष इष्यते तदाप्यबाधायाः सामर्थ्यविरह इति दर्शयन्नाह- "अनियमे" बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदमापतितम् । न च- बाधकं प्रमाणं स्यात्"साध्याभावस्य च सम्भवः"- इति "न" साध्यसाधने "सामर्थ्यमबाधायाः" सत्यामपि तस्यां साध्याभावस्य सम्भवादिति तद्योगिनोऽपि हेत्वाभासतैवेति । (ह्ब्ट्२०९) यदुक्तम् "अबाधयैव साध्यसिद्धेर्व्यर्थो हेतुः" इति तत्रान्यथार्थमबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्नाह परः- न बाधाया अभावो ममाबाधाभिमता । किं तर्हि? । बाधाया अनुपलब्धिः । सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात्क्वचिद्देशादौ बाधायाः सम्भवेऽपि स्यात् । ततो बाधानुपलब्धिमात्रेण साध्यसिद्धेरभावात्तत्सिद्धयेऽवश्यं हेतुरभिधानीय इति स हेतुप्रयोगस्य विषयस्तदा हि हेतुः स्वसाध्यं साधयन् कथमसमर्थः स्यात्? इति । सिद्धान्तवाद्याह- किं नु वै हेतुर्ब्बाधाया या उपलब्धिस्तस्याः विभेति न पुनर्ब्बाधाया येन बाधां सम्भवन्तीमप्यनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः । कदाचित्परो ब्रूयात्- किं करिष्यति विद्यमानापि बाधा तपस्विनी, तदुपलब्धिरेव राक्षसी । तस्मात्तत एव हेतोर्भयं तदभावे हेतुः प्रयोक्तव्य एवेत्यत आह- "स तर्हि" इत्यादि । एवं तर्हि परमार्थेन बाधा किमस्ति नास्तीत्येतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति । कदाचित्परो ब्रूयात्- उक्तमेवैतत्किमर्थं पृच्छ्यते? इत्याह- "किमर्थं प्रयुज्यत" इति । बाधानुपलम्भेऽपि तत्सम्भवे साध्यसाधनायोगादित्यभिप्रायः । परोऽनवगताभिप्राय आह- "साध्यसिद्ध्यर्थम्" इति बाधकप्रत्ययाभावे प्रमाण्यस्येष्टत्वात्ततः साध्यसिद्धिरविरुद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भेऽपि साध्यसिद्धिमसम्भावयन् पृच्छति "स किं क्वचिद्" इत्यादि । किं पुनरसौ हेतुः सत्यामपि बाधायां साध्यं साधयेदिति सम्भाव्यते भवता येनास्या बाधाया अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रयुज्यत इति । एवमेततिति चेत्; तथा सत्यामपि बाधायां साध्यसाधनसामर्थोपगमे सत्यबाधितविषयत्वं हेतुलक्षणं न भवति । किं कारणम्? । बाधायामपि सत्यामस्य हेतोः "सामर्थ्यात्" सामर्थ्योपगमात् । तद्धि हेतोर्लक्षणमुच्यते येन विना साध्यं न साधयेदिति । (ह्ब्ट्२१०) स्यान्मतम्- अनुपलभ्यमानबाधत्वं हेतुलक्षणं परमार्थेन, नाबाधितविषयत्वमित्यत आह- "तथा च" इत्यादि । एवं हि सति बाधायाः सद्भावसम्भवेऽपि तामभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः । यदि हि बाधामभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात्तदानुपलम्भमात्रेण बाधायं संशयात्- सतामपि केषाञ्चित्कथञ्चिदनुपलम्भसम्भवात्- संशयितस्य हेतुप्रयोगे प्रवृत्तिरेव न युज्येत । तस्माद्यो यत्संशयेऽपि प्रवर्तते स तस्य भावपक्षमभ्युपेत्यैव प्रवर्तते । तथा च यथा बाधानुपलब्धौ तामभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धावपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर्विशेषाभावादिति नानुपलभ्यमानबाधत्वमपि हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहेऽप्यसति प्रतिबन्धे प्रामाण्यस्य सम्भव इति । परस्य वचनावकाशमाशङ्कयाह- "न बाधायाम्" इत्यादि । नैव हि बाधायां संत्यां हेतोः सामर्थ्यमिष्यते तत्कथं तदुपलम्भेऽपि प्रयोगः स्यात्? । सिद्धान्तवाद्याह- "यद्येवं" बाधायां सत्यां हेतुरसमर्थो यदीष्यते तदानिर्णीतो बाधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगं बाधानुपलम्भमात्रेण नार्हति । किं कारणम्? । मा भूद्बाधायाः सम्भवपक्षे "प्रयुक्तस्यापि" हेतोः साध्यसिद्धौ "असामर्थ्यमिति" । पूर्वपक्षवाद्याह- बाधानुपलम्भे सति बाधाया अभावात्सदुपलम्भकप्रत्ययाभावे सत्यवश्यमर्थानामसत्त्वाद्धेतोः सामर्थ्यमिति चेन्मन्यसे सिद्धान्तवाद्याह- "किमुपलम्भो बाधाम्" इत्यादि । उपलम्भो ह्यर्थानां कार्यम्, न च कार्यं कारणं व्याप्नोति । न ह्यऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात् । तत्कथमव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर्ब्बाधायाः सम्भवकृतमसामर्थ्यं न सम्भवेदिति । एतच्च परैरपीष्यत एव; प्रमाणतयोपगतस्याप्युदयकालेऽनुपलब्धबाधस्य कालान्तरेण (ह्ब्ट्२११) बाधकप्रत्ययोत्पादे सत्यप्रामाण्योपगमात् । अथाव्यापकस्याप्युपलम्भस्य निवृत्तौ बाधा निवर्तते- "निवर्तते हि मिथ्यात्वं दोषाज्ञानादयत्नतः ॥" इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेरित्याह- त- थापि व्यर्थो हेतुः । कुतः? । "बाधानुपलम्भादेव" हेतुप्रयोगरहितात्साध्यसिद्धेः । किं कारणम्? । अनुपलम्भे बाधाया असम्भवात् । तथा हि- यत्र बाधाया अनुपलम्भस्तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति तत्र साधय्धर्मस्याभावोऽपि परमार्थेनैव नास्त्यन्यथा परमार्थेन बाधाया अभावायोगात् । ततश्च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्या साध्यप्रतीतेर्व्यर्थता हेतोरिति । अथ मा भूद्युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिरिष्यते, तत्राह- उपलम्भस्य निवृत्तावपि सत्यां बाधाया अनिवृत्ताविष्यमाणायां तदवस्थं हेतोरससामर्थ्यं यदवस्थं बाधोपलम्भ इति हेतोरप्रयोग इति कस्याबाधितविषयत्वं रूपान्तरं स्यात्? । एतदेवोपसंहरन्नाह- "तस्मात्स्वसाध्य" इत्यादि । यत एवं व्याप्त्या हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्ताविष्यमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात्"स्वसाध्यभावाभावाभ्यामन्यथापि" स्वसाध्यभावेऽप्यभवन्नऽभावेऽपि च भवन् हेतुर्धर्मिणि किञ्चित्साध्यं "न भावयति" न साधयति "न विभावयति" तद्विपरीतं न निषेधयति "इति" तस्य विधिप्रतिषेधावकुर्वत "उपक्षेपः" प्रयोगो "न समर्थः" इत्यवश्यं हेतुप्रयोगमिच्छता स्वसाध्याविनाभावः सर्वत्र हेतोरभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रयत्तो यथोक्तं प्राक् । तस्मिंश्चाभ्युपगते बाधाविनाभावयोर्विरोधः सिद्ध इत्युपसंहरन्नाह- "तन्न" इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति । यदि नाम बाधाविनाभावयोः सहावस्थानाभावादविनाभावे (ह्ब्ट्२१२) सत्यबाधा गम्यते रूपान्तरं तु किमिति न भवति? इति, अत आह- "तन्नाम" इत्यादि । तद्धि तस्माद्विशेषणान्तरं भवेद्वस्तुस्थित्या । लक्षणकारैश्च रूपान्तरत्वेनोपादानमर्हति यस्य विशेषणस्य भावेऽपि यस्यापरस्याभावः स्यात् । यतः सम्भवे व्यभिचारे च विशेषणविशेष्यभावो न सम्भव एव केवले । उदाहरणमाह- "तद्यथा" इत्यादि । सत्यपि हि धर्मिसम्बन्धे श्रावणत्वादेः सपक्षे भावो नास्ति । सत्यपि च चाक्षुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति । ततोऽनयोः सम्भवव्यभिचारयोर्भावाद्विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम् । इहाप्येवं भविष्यतीति चेदाह- "न चैतद्" अनन्तरोदितमबाधाया अविनाभावे सति सम्भवति । सत्यविनाभावे नियमेनाबाधायाः सम्भवाव्द्यभिचाराभावात्कुतो विशेषणविशेष्यभावो क्षणान्तरत्वेन चोपादानमर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । उक्तेन प्रकारेण विपर्यये सम्यग्घेतुरेवाविषये तु प्रयोगाद्धेत्वाभास उच्यते । यत एवम् "इति" तस्मान्न तदभावो बाधाविरहः पृथगविनाभावादन्वयव्यतिरेकात्मनोऽनयोर्हेतुविरुद्धयोर्लक्षणान्तरत्वेन वाच्यः, व्यभिचाराभावेन रूपान्तरत्वायोगात् । यतश्चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद्धेतोर्यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत्कथं बाधाविरहो हेतो रूपान्तरमुच्यते? । असम्भविनां च तेषामुपवर्णनं निष्फलमित्याकूतम् । केवलायाः प्रयोगेऽस्ति सम्भव इति चेत्, आह- "नापि" इत्यादि । हेतुप्रयोगे ह्यसति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश्च शास्त्रकारैर्न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति । दिङ्नागपादैस्तु साध्यासाध्यविपर्ययेण (ह्ब्ट्२१३) विप्रतिपत्तिदर्शनादप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तमेवापक्षत्व न नि(त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्वतिप्रसक्तं पक्षलक्षणं व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेइरिति । तदेवमबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्नाह- "एतेन" अविनाभावे सति बाधाया असम्भवदर्शनेन "एकसंख्याविवक्षापि" विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना "प्रत्युक्ता" प्रत्याख्याता । परः पृच्छति- "कथम्" इति केन प्रकारेण- यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोरपि?, येनैकसंख्याविवक्षा तद्वदेव प्रत्याख्यायेत इति । सिद्धान्तवादी साम्यं दर्शयन्नाह- "एक" इत्यादि । एको हि हेतुर्लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति? । यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणमविनाभावो नाम हीयेत । यत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्मादन्योऽपि प्रतिहेतुर्विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? । एकस्य हेतोर्यत्साध्यं तब्दाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावादविनाभावादिति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुरिति तन्निरासेनैव निरस्त इति । अत्रैव दूषणान्तरमभिधातुं विकल्पयन्नाह- "अपि च" इत्यादि । "वस्तुतः" परमार्थतो यस्य प्रतिहेतुर्न सम्भवति किमसौ सम्यग्ज्ञानस्य विपर्यस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुरिष्टो यतो विवक्षितैकसंख्यत्वं तल्लक्षणमुच्यते, आहोस्विद्यस्य प्रतिहेतुस्तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्नपीति । परो दोषमपश्यन्नाह- "किञ्चातः" इत्यादि । यदि नाम पुर्वो विकल्प उत्तरो वा ततः को दोषः? इति । (ह्ब्ट्२१४) सिद्धान्तवाद्याह- यद्यसम्भवन् प्रतिहेतुर्यस्य स सम्यग्ज्ञानादिहेतुरिष्यते, तदालक्षणमेतद्विवक्षितैकसंख्यत्वम् । कस्मात्? । अशक्यो निश्चयो यस्य वस्तुतोऽसम्भवत्प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतदुच्यते । परो हि दर्शनादर्शनाभ्यामसत्यपि प्रतिबन्धेऽविनाभावमिच्छति । ततस्तस्य प्रतिहेतोरेवंविधस्य सम्भवोऽस्ति । स चानुपलभ्यमानोऽपि कदाचित्स्यादिति वस्तुतस्तदभावो निश्चीयते । प्रतिबन्धनिबन्धनाविनाभाववादिनां त्वस्माकं प्रतिहेत्वसम्भवः सुनिश्चित एव । नहि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुना स्वसाध्ये साधिते पुनस्तत्रैव धर्मिणि तल्लक्षणस्य तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्कयते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्धययोगादिति । स्यान्मतम्- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवोऽस्माभिर्निश्चेतुमशक्यस्तथाप्यसम्भवत्प्रतिहेतुत्वं विवक्षितैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान्न भवति? इत्याह- "न ह्यनिश्चितात्मनः" इत्यादि । प्रतिपादको यो धर्मो हेतोस्तस्यानिश्चितस्वभावस्य यस्मात्तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्धिग्धं लक्षणं यस्य स हेतुर्भवतीति न कश्चिद्धेतुर्भवेदिति हेत्वभावो वा इत्यस्य समर्थनम् । ततश्च "हेत्वाभासास्ततोऽपरे" इत्यत्रापि योजितमिति । स्यान्मतम्- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावातहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर्न दृश्यते स वस्तुत एवासम्भवत्प्रतिहेतुः । न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्कयते, बाधकप्रत्ययमन्तरेण बाधाशङ्काया अयोगात् । तदुक्तम्- "बाधाज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति । (ह्ब्ट्२१५) अत्र आह- "तुल्ये लक्षणे हि" इत्यादि । शङ्कयमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः प्रतिहेतोर्ब्बाधकस्य सम्भवः स येषामपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्वपि शङ्कां प्रतिहेतुसम्भवविषयामुत्पादयति । किं कारणम्? । अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् । नहि तस्येतरेण कश्चिद्विशेषोऽस्ति, यतस्तत्सम्भवो न शङ्कयेत । प्रुषशक्तिवैकल्यादिना तु तददर्शनं सम्भाव्येतेति किमुच्यते ’नाशङ्का निःप्र(ष्प्र)माणिकाऽ इति । अथ विशेषः प्रतिबन्धलक्षणोऽविनाभावनिश्चायको दृष्टप्रतिहेतोरदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्कास्तमुपैति । तदा सति वा विशेषे स विशेषो हेतोर्लक्षणम् । किं कारणम्? । यतस्ततो विशेषाद्धेतुरेकान्तेन निश्चयेन निरस्तप्रतिपक्षस्तथाविधे धर्मिणि प्रतिहेत्वसम्भवात्स्वसाध्यं निश्चाययतीति । यस्तथाविधो न भवति तद्विशेषविरहात्दृष्टप्रतिहेतुः सोऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामाहेतौ प्रतिहेतुर्दृष्टो, हेतोः किमायातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्षा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेरित्याह- "तथा च हेतौ" तद्विशेषयोगिनि "प्रतिहेत्वसम्भवे" सति "व्यर्था" निष्प्रयोजना "एकसंख्याविवक्षेति" । यथोक्तविशेषाङ्गीकरने तल्लक्षणस्य प्रतिहेतोरसम्भवात्कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतोऽस्य सार्थकत्वं स्यादिति । विरुद्धाव्यभिचारिणश्च हेत्वाभासस्य व्यवच्छेदार्थमेकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतोऽसम्भवत्प्रतिहेतुत्वसिद्धये च प्रतिबन्धलक्षणे विशेषे हेताविष्यमाणे विरुद्धाव्यभिचार्यपि हेत्वाभासो न भवति । ततो व्यवच्छेद्याभावात्किमेकसंख्याविवक्षया? इति दर्शयन्नाह- "अतः" प्रतिबन्धलक्षणविशेषोपगमात्"विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणं तद्धीयेत" न सम्भवेत् । किं पुनस्तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्याह- "स्वलक्षण" इत्यादि । हेतोर्यदात्मीयं लक्षणं तद्युक्तयोर्हेत्वोरेकत्र (ह्ब्ट्२१६) धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत्प्रतिबन्धाङ्गीकरणे सति सम्भवति । नहि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतीबन्धवत्येकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस्तल्लक्षस्तत्रैव हेतुः सम्भवेत्, भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तदव्यभिचारिणो हेतोर्द्वितीयस्य तत्र कुतः सम्भवावकाश इति । ननु यदि तथविधाविशेषसम्भवे सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यर्था, तथापि नैव हेत्वभावपरसङ्गः, तत्किमुक्तं हेत्वभावो वेत्यत आह- "न च" नैव "तस्य" विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतोऽसम्भवत्प्रतिहेतुत्वं निश्चीयते । "स्वरूपं" तादात्म्यतदुत्पत्तिलक्षणं निर्द्दिश्यते भवद्भिः यथास्माभिर्निर्दिष्टं यद्रूपं "प्रतीत्य" प्रतिपद्य प्रतियोगिनः अम्भवासम्भवावुत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रयेऽनुमाने । यत्र त्वस्ति स विशेषो वस्तुबलप्रवृत्तेऽनुमाने तत्र प्रतियोगिनोऽसम्भव इति । यत एवं तस्मान्नास्त्येव भवतां स विशेषः- भवद्भिर्न ज्ञायत एव स विशेष इति । तस्मात्सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि शङ्कया प्रतियोगिविषयया भवितव्यम् । तामेव शङ्कां द्रढयन्नाह- "दृष्टप्रतिहेतोरपि" इत्यादि । यस्यापि हि प्रतिहेतुर्दृष्टस्यापि प्राक्प्रैत्योगिदर्शनादितरेण सर्वकालमदृष्टप्रतियोगिना न कश्चिद्विशेषो लक्ष्यते यद्दर्शनाज्ज्ञायेत ’त्र प्रतियोगी सम्भवति न्यान्यत्रऽ इति दर्शनादर्शनमात्रनिबन्धनयोरन्वयव्यतिरेकयोः सर्वत्र समानत्वात् । तथापि पश्चात्तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न निवर्तत इति । स्यान्मतम्- येषु प्रतियोगी सम्भवति तेष्वश्यमेव कदाचिदसावुपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते तेष्वसौ नास्त्येव । (ह्ब्ट्२१७) ततः स तथाविधो हेतुर्भविष्यति, तत्कथं हेत्वभावोऽस्माकम्? इत्यत आह- "न च" इत्यादि । येषामपि हि प्रतिहेतुः सम्भवति तेषामपि नैव सर्वदा तस्य प्रतिहेतोरूपलब्धिः प्रतिपत्तॄणाम् । न ह्यसर्वदर्शिनामुपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्रतिपत्र(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्काकथं क्रियते? । तथा चाह- "बाध(धा)ज्ञाने त्वनुत्पन्ने नाशङ्का निष्प्रमाणिका" इति । तथापरम्- "उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥" इति । अत आह- "अतिशयवती तु" इत्यादि । तथा हि कस्यचिदेव प्रमातुः कुशाग्रीयमतेरतिशयवती प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टास्माभिः यथा वेदप्रामाण्यनिराकर्तृषु [हेतुषु] सौगतैः शिष्यपरम्परया कुमारिलोत्पादात्प्रागदृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशालिना प्रतिहेतव उत्प्रेक्षिताः ततस्तद्दर्शनात्यावज्जीवमदृष्टप्रतिहेतुष्वपि तदाशङ्का न निवर्तते । ततः कथमाशङ्का निष्प्रमाणिकोच्यते? । "तुल्यलक्षणे हि" इत्यादिकमपि प्रतियोगिसम्भवाशङ्काकारणमुक्तमेव । न च प्रतियोगिसम्भवमाशङ्कमानस्तन्निमित्तसंभवात्’ुत्प्रेक्षेत हिऽ इत्याद्याक्रोशमात्रेण निवर्तयितुं शक्यते । तेनास्य प्रतियोग्याशङ्कापनोदक्षमं किञ्चित्कारणमभिधानीयं यथास्माभिरभिहितं ’स्वभावहेतोर्विपर्येये बाधकप्रमाणवशात्तादात्म्यनिश्चये सत्यन्वयव्यतिरेकयोस्तत्र निर्णयः; कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस्तनिश्चयऽ इति । यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्तते भवद्दर्शने तेन कारणेनानिश्चयः प्रतियोगिनः सम्भवासम्भवयोः ’िह प्रतियोगी सम्भवति इह तु न सम्भवतिऽ इत्येवंरूप इति । तस्माद्वस्तुतोऽसम्भवत्प्रतिहेतुत्वं यल्लक्षणं (ह्ब्ट्२१८) हेतोः तस्यानिश्चितत्वादेकसंख्याविवक्षावादिनां न कश्चिद्धेतुः स्यात् । न ह्यनिश्चितलक्षणो हेतुर्भवतीत्युपसंहार इति । तदेवं ’किं यो वस्तुतोऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुरिष्टःऽ इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुराह- "अथाप्रदर्शितप्रतिहेतुः" सम्यग्ज्ञानविपर्यहेतुरिष्ट इति सम्बन्धः । अयं च पक्षः किल दिङ्नागाचार्यस्याप्यभिमत इति पर उपदर्शयन्नाह- "यथाह दिङ्नागाचार्यः" । किमाह?"यदा तर्हि" इत्यादि । "श्रावणत्वस्य हि न कथञ्चिव्द्यवच्छेदहेतुत्वम्" इति दिङ्नागाचार्येणोक्ते परेणाभिहितम्- "यदा तर्हि वैयाकरणः शब्दत्वं सामान्यविशेषं नित्यमभ्युपगच्छति तदायं श्रावणत्वलक्षणः पक्षधर्मः हेतुरेव स्यात् । नित्यः शब्दः श्रावणत्वात्शब्दत्ववत्" इत्येवं परेणोक्ते सत्याचार्येणोक्तम्- "यद्यत्र शब्दाख्ये धर्मिण्यनित्यत्वहेतुं कृतकत्वप्रयत्नानतरीयकत्वादिलक्षणं कश्चिद्वैशेषिकादिर्न दर्शयेत्तदायमप्रदर्शितप्रतिहेतुर्हेतुरेव भवेत्" इति । तदेवामाचार्यपादैः साक्षित्वे दत्ते भुजमुत्क्षिप्य शास्त्रकारः पूत्कुर्वन्नाह- "इदमिदानीम्" इत्यादि । यदा ह्याचार्यस्याप्येतदभिमतमिति कैश्चिव्द्याख्यायते तदिदं सुमहव्द्यसनमायातम्- गुरुभिरभिहितत्वादप्रकाश्यम्, नहि गुरूणां दोषः प्रकाशयितुं युक्तः, "न्यायमनुपालयद्भिः असंवरणीयम्" अप्रच्छादनीयम् । तत्किं गुरून् दूषयाम उत न्यायमप्युपेक्षामहे इत्युभयमप्यशक्यमिति "कष्टतरं व्यसनं कथं निर्वोढुं शक्येत?" । न कथंचिदिति । कः पुनरत्र दोषो येनेदं कष्टतरमित्याह- "स तावदयं" श्रावणत्वलक्षणो "हेतुर्वस्तूनि" शब्दादीनि स्वसाध्यं तत्त्वं नित्यत्वं "तत्प्रकृतीनि" तदात्मकानि "कृत्वा" तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणां मीमांसकवैयाकरणादीनां तान् "अभ्युदयेन" (ह्ब्ट्२१९) स्वर्गेण "निःश्रेयसेन" चापवर्गेण "योजयित्वा" । तथा हि- वस्तुतत्त्वं भावयन् यावत्क्लेशान्न् प्रजहाति तावत्स्वर्गमासादयति, क्लेशांस्तु प्रजहन्निर्वाणपरायणो भवति । अथावा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात्तद्विहिताग्निहोत्रानुष्ठानात्स्वर्गो वेदान्तनिषेवणादपर्वग्गः । पुनरुत्तरकालं "प्रतिभावता" प्रज्ञाजातीयेन वैशेषिकादिना पुरुषेण "हेत्वन्तरस्य" प्रतिहेतोः "निदर्शनेन" यदस्य "नित्यत्वसाधनसामर्थ्यं" प्रतिहेत्वनुपदर्शने सत्यासीत्त्ततदुपदर्शनेन "उत्कीलितम्" अपनीतमिति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश्च तत्प्रमाणकान् पुरुषान् स्वर्गापवर्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात्परित्रातुमशक्तो भ्रष्टराज्य इएव राजा तपोवनं गच्छति स्वैरेव दुश्चरितैरिति किमत्र वयं ब्रूमः? । तदेवमुपहस्यैतस्मिन् पक्षे दोषमुपदर्शयन्नाह- "पुरुषप्रतिभा" इत्यादि । यद ह्यप्रदर्शितप्रतिहेतुर्हेतुर्हेतुरिष्यते तदा पुरुषप्रतिभाकृतं साधनत्वमभ्युपगतं भवति । ततश्च वस्तुतो न किञ्चित्साधनमसाधनं वा प्राप्तम् । तथा हि- यदा प्रतिहेतुर्नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनमिति पुरुषप्रतिभाकृतं साधनत्वमायातमिति । अपि च- अप्रदर्शितप्रतिहेतोर्हेतोर्हेतुत्वेऽङ्गिक्रियमाणे विकल्पद्वयम्- किं परमार्थतो हेतुस्तद्धर्मभावी, उतातद्धर्मभावीति? । तत्राद्यं विकल्पमधिकृत्याह- "स च" हेतुर्योऽसौ प्रथममुपादीयते । स "यदि स्वभावत" एव "तस्मिन्" साध्यधर्मे "सत्येव भवति" इत्येवंशीलोऽस्मदुपवर्णितप्रतिबन्धोपगमात्यदीष्यते "तदा कथमन्यथा क्रियेत" हेत्वन्तरेणातद्धर्मभावी कथं क्रियेत? । न कथञ्चित् । किं कारणम्? । वस्तूनां हेतुलक्षणानां यःस्वभावः- ’सत्यमेव साध्यधर्मे भवनात्मकःऽ- "तदन्यथाभावस्य" तद्विपर्ययस्य "अभावाद्" उभयोश्च स्वसाध्यधर्माविनाभावित्वे (ह्ब्ट्२२०) स्वभावत एव धर्मिण्येकत्र तयोर्भावे विरुद्धावुभौ स्वभावावेकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्पस्तदा "अतद्धर्मभावी च" असत्यपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात्"कथमन्यदापि" अप्रदर्शितप्रतिहेत्ववस्थायामपि "साधनं" कस्यचित्? । नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायामिति । उपसंहरन्नाह- "तस्मात्स्वभावतः" इत्यादि । यत एवं भावानां स्वभावोऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश्चैको न सम्भवति तस्मात्परमार्थतः स्वेन स्वेन साध्येनाविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोरसम्भवाद्"अलक्षणमेकसंख्याविवक्षा" विवक्षितैकसंख्यत्वं लक्षणं न भवति । किं कारणम्? इत्याह- "व्यवच्छेद्याभावादिति" । प्रतिहेतुर्हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर्न भवत्येवेति कथं तद्धेतुलक्षणं स्यादिति । तदेवमनयोर्द्वयो रूपयोर्यः सम्भवो यथोक्ताविनाभावासम्भवे सतीति रूपान्तरोपगमेऽपि हेत्वाभासतैवेति "हेत्वाभासास्ततोऽपरे इति" इत्यस्यार्थो विवृत इति । ज्ञातत्वनिराकरणायाह- "ज्ञानं पुनः" इत्यादि । अवाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्य- स्वभावहेत्वोरेवाविनाभावे सति बाधाप्रतिहेत्वोरसम्भवात्व्यवच्छेद्याभावत्वेन सत्यपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्युक्तम् । ज्ञानं तु ज्ञातत्वम्, तस्यैव भावप्रत्ययेनाभिधानात् । तथा हि- ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वमुच्यते, तच्च ज्ञानमेव, तदुत्पादे सति ज्ञात इति व्यवहारात् । न च तत्लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति? । यद्यपि विकल्पप्रतिभासी सामान्याकारो लिङ्गतयावस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्मता । न ह्यसौ स्वतन्त्र एव लिङ्गम् । यदाह- "विकल्पभेदान स्वतन्त्राणामन्वर्थाश्रयणात्(ह्ब्ट्२२१) तत्कल्पितविषयादऽर्थप्रतिपत्तावनर्थप्रतिलम्भ एव स्यात्" इति । तस्माद्वाह्यवस्तूपादानस्यैवास्य लिङ्गतावस्थाप्यते । साध्यसाधनसंकल्पे वस्तुदर्शनहानेः स्वलक्षणस्य क्वचिदनन्वयाच्च तद्धर्मतामेव त्वनुस्मरन्तो विकल्पा नानैकव्यतिरेकान् संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धादविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्युक्तप्रायम् । न च तस्य कार्यादेरात्मरूपं ज्ञानम् । विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् । तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात् । यस्मादबाध्यस्यापि बाह्यतया व्यवसितस्याननुयायिनोऽप्यनुयायितया सामान्यात्मकत्वं तथात्वे चास्य विकल्परूपता कुतः? यदाह- "ज्ञानादव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्? ॥ तस्मान्मिथ्यावभासोऽयमर्थेष्वेकात्मताग्रहः ।" इति । न ज्ञानस्य लिङ्गधर्मता । एतदेव साधयन्नाह- "किंरूपाद्" इत्यादि । किमात्मकात्"हेतोरनुमेयोऽर्थो ज्ञातव्यः इति चिन्तायां" प्रकृतायां "प्रतिपत्तुः" पुंसो यदविसंवादकं लिङ्गं तस्य स्वरूपमभिधीयते शास्त्रकारैः यस्य रूपस्य दर्शनादयं प्रतिपत्ता ’यत्र तद्रूपसम्भवः तत्साधनं तद्रूपविकलमसाधनम्ऽ इति प्रविभागेन व्यवस्थाप्य यत्तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात्प्रवृत्तिमवलम्बते । तथा, एतस्मिंश्च न्याये व्यवस्थिते यदस्य लिङ्गस्यात्मरूपं तल्लक्षणं भवितुमर्हति पक्षधर्मादिवत्न तु यत्पररूपम् । स्यादेतत्- ज्ञातस्य लिङ्गस्य साधकत्वाद्युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्यत आह- "प्रतिपत्तिजन्मनि" इत्यादि । यद्यनुमेयप्रतीतिजन्मन्युपयुज्यते ज्ञानमिति तन्मात्रेण लिङ्गस्य लक्षणमिष्यते तदातिप्रसङ्गः प्राप्नोति । तमेवाह- "एवं प्रतिपत्तिजन्मन्युपयोगमात्राल्लिङ्गलक्षणत्वे प्रमेयस्य" अर्थस्य "पुरुषस्य" प्रमातुः (ह्ब्ट्२२२) "आदि" शब्दात्संयोगसमवायादीनामालोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणमाह- "नहि तेष्वपि" प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परोऽनिष्टमापादयन्नाह- "निश्चितग्रहणं तर्हि" इत्यादि । यदि पररूपत्वाज्ज्ञानं लिङ्गलक्षणं न भवति तदा च यदेतदाचार्येण- "अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति । निश्चिते" ति- निश्चितग्रहणं कृतं भवतश्चाभिमतं तन्न कर्तव्ययम् । तथा हि- निश्चयो हि लिङ्गस्य पररूपमेव । स चेत्तल्लक्षणम्, ज्ञानं किमिति नेष्यते यतो निश्चयो विज्ञानमेव तद्विशेषत्वादस्येति । सिद्धान्तवाद्याह- "न न कर्तव्यं" किन्तु कर्तव्यमेव तस्य निश्चितग्रहणस्य लिङ्गरूपप्रतिपादन्यार्थत्वात् । तामेवान्यार्थतां दर्शयन्नाह- "सपक्षविपक्षयोः" इत्यादि । परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुमिच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर्भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् । यतः सतोर्विद्यमानयोरपि दर्शनादर्शनयोरगमकत्वं हेतोर्दृश्यते ’स श्यामः, तत्पुत्रत्वात्ऽ इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेनासपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुरित्यस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतदुक्तं भवति- यावेव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्यामेव हेतुर्गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्यस्यार्थस्य ज्ञापनाय निश्चितग्रहणं कृतमिति । प्रकृतमुपसंहरन्नाह- "तेन" इत्यादि । येन विशिष्टयोर्भावाभावयोरेव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न कश्चिद्रूपविशेषोऽभिधीयत इति । (ह्ब्ट्२२३) ननु च परेऽपि सपक्षविपक्षयोर्भावाभावाभ्यां गमकं हेतुमिच्छन्ति, दर्शनादर्शने तु तयोरेव साधके, तत्किमर्थं निश्चितग्रहणम्? इति, अत आह- "तौ हि" इत्यादि । यद्यपि परे भावाभावाभ्यामेव गमकं हेतुमिच्छन्ति तथापि सपक्ष एव भावोऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति । न च ततस्तौ तथाविधौ सिध्यतः, प्रतिबन्धविकलानामप्यर्थानां क्वचिद्भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद्यौ ’हेतोः सपक्षे एव भावोऽसपक्षे चाभाव एवऽ इत्येवमात्मकौ भावाभावौ तौ तद्भावस्य साधकं यत्प्रमाणं तादात्म्यतदुत्पत्तिसाधनविषयं तद्धृत्त्या वोद्धव्यौ । कुतः? उपायान्तरस्याभावात् । तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेषां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां हेतुविविक्तानामुपलम्भे सति स्यात् । न चैतदसर्वदर्शिनः सम्भवतीति । यत उपायान्तरं नास्ति तेन कारणेन तयोर्विशिष्टयोर्भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षणे लक्षणकारेणेति । ननु च भावाभाववचनमात्रादेव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोरेव सत्ता न प्रसिध्येदिति, अत आह- "यद्यपि" इत्यादि । "अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तितासति ।" इत्यनेनैव सपक्षासपक्षयोः भावाभाववचनमात्रेणा निश्चितग्रहणनिरपेक्षेण तयोर्भावाभावयोर्यत्साधनं प्रमाणं तस्य वृत्तिर्यद्यप्याक्षिप्यते । कथं पुनर्निश्चितग्रहणमन्तरेण भावाभाववचनमात्रतस्तद्धृत्तेः आक्षेपः? इत्याह- "अन्यथा" यदि तत्साधनप्रमाणवृत्तिर्नाक्षिप्येत, तदा "तयोरेव" सपक्षविपक्षयोरेव भावाभावयोर्या सत्ता स्वरूपव्यवस्था तस्या "अप्रसिद्धेः" । कस्मादप्रसिद्धिः? इत्याह- "ज्ञानस्य" उपलब्धेर्या सत्ता उत्पत्तिः तन्निबन्धनत्वाज्ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्युपलम्भमन्तरेण स्वत एवार्थाः (ह्ब्ट्२२४) सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्मादिदमेवंरूपं नैवंरूपमिति तदाकारज्ञानोदयादेव व्यवस्थाप्यते । यत एवं तस्मात्सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विनापि "तत्साधनं" तत्सत्तासाधनं प्रमाणम् "आकर्षति" आक्षिपतीति । किञ्च, परार्थत्वाच्च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिराक्षिप्यते इति सम्बन्धः । कीदृशं पुनस्तच्छास्त्रप्रणयनं यत्परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणमाक्षिपति? इत्याह- " त्रिरूपं लिङ्गं वः संवादकं प्रापकं" वाञ्छितस्यार्थस्येति । यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत्साधनप्रमाणवृत्तिमाक्षिपतीत्याह- "तद्रूपं" तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेषां ततस्त्रिरूपाल्लिङ्गाच्छास्त्रोक्ताद्वाञ्छितेऽर्थे प्रवृत्तिर्भवति, अज्ञातस्यार्थस्य ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् । यत एवम् "इति" तस्मात्परोपलक्षणत्वादेव परेषां ज्ञापकत्वादेव प्रवर्तके त्रिरूपलिङ्गे ज्ञानं सिद्धमिति यद्यपि निश्चितग्रहणमतिरिच्यते तथापि तावेव लिङ्गस्य सपक्षासपक्षयोर्भावाभावौ विशिष्टौ शास्त्रोक्तौ ’सपक्ष एव भावोऽसपक्षे चाभाव एवऽ इत्येवंरूपौ केचिन्नैयायिकप्रभृतयः, परे दर्शनादर्शनमात्रेण- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः- तन्मात्रेण व्यवस्थापयन्ति "यत एव इति" तस्मात्तेषां वादिनां निषेधार्थोऽयं लक्षणे निश्चितशब्दः प्रयुक्त आचार्येणास्माभिश्चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात्तदा नैवासौ प्रयुज्येतेति । किमिति पुनर्द्दर्शनादर्शनाभ्यां भावाभावविषयाभ्यां सपक्षा [स]पक्षयोः विशिष्टौ भावाभावावन्वयव्यतिरेकात्मकौ नेष्येते इत्याह- "सतोरपि" इत्यादि । सत्यपि क्वचित्सपक्षे भावदर्शने हेतोः क्वचिच्चासपक्षेऽभावदर्शने ’स श्यामः, तत्पुत्रत्वात्ऽ इत्यादावन्वयव्यतिरेकयोः संशयात् । तथा हि- अन्वयो नाम सर्वत्र सत्येव साध्ये हेतोर्भावो (ह्ब्ट्२२५) व्याप्त्या चासति साध्ये हेतोरभावो व्यतिरेकः । न च क्वचित्सति साध्ये हेतोर्भावदर्शनेऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमाभावात् । तथा क्वचित्साध्याभिमतस्याभावे सत्यभावदर्शनेऽपि हेतोः सर्वत्र तदभावेऽवश्यमभावः, तदनायत्तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात्प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थमेव निश्चितग्रहणं कृतमित्युपदर्शयन्नाह- "तस्मात्" इत्यादि । "अस्माभिः" इत्याचार्यकृते निश्चितग्रहणेऽन्यत्रास्माकमभिमतत्वात्"अस्माभिः" इत्याह । तदेवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन्न कर्तव्यमेवेति प्रतिपाद्य अत एव न्यायात्ज्ञातत्वं रूपान्तरं न भवतीति दर्शयन्नाह- "यतोऽपि"इत्यादि । "पृथगतः" इति पक्षधर्मत्वादेस्त्रैरूप्यात् । कुतः? "तेनैव"त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः "अवगतत्वात्" प्रतिपन्नत्वादिति । किंवत्? "उपनयार्थवत्पक्षधर्मत्वात्" इति । यथा पक्षधर्मत्ववचनेनैव हेतोरुपनयस्यार्थोऽवगतस्तस्य धर्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात्ततः पृथगुपनयो रूपान्तरं न भवति; तथा त्रैरूप्यात्ज्ञानं, तद्वचनेनैवावगतत्वादिति । अत्र परोऽनिष्टमापादयन्नाह- "अन्वयव्यतिरेकयोरपि" इत्यादि । यदि त्रैरूप्यवचनेनैव सामर्थ्याज्ज्ञानं लभ्यत इति तत्ततः पृथग्न वक्तव्यम् "हन्तः" तर्हि अन्वयात्पृथग्व्यतिरेको न वक्तव्यः व्यतिरेकाच्च पृथगन्वयः । किं कारणम्? । एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगादुभयस्य गतेः । कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद्गम्यमानस्यापि पृथग्वचनं कर्तव्यमिति । सिद्धान्तवाद्याह- "न, हेतोः" इत्यादि । नान्वयव्यतिरेकयोर्न पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि- अन्वयो हेतोः (ह्ब्ट्२२६) सपक्षे भाव उच्यते, व्यतिरेकः पुनरभावोऽसपक्षे । न च तौ परस्परमाक्षिपतः परस्परमन्तर्भवतो विधिप्रतिषेधरूपयोर्भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तो । ननु च यद्यन्वयव्यतिरेकयोर्भिन्नरूपता कथं तर्हि त्रिरूपं लिङ्गमुच्यते? । नहि परस्परभिन्नावात्मानावेवास्य युज्येते, स्वभावभेदलक्षणत्वाद्वस्तुभेदस्य । नैष दोषः, यतो यथान्वयव्यतिरेकौ व्यवस्थाप्येते न वा नयो (प्येते तथा तयो)रनन्तर्भाव उच्यते नान्यथा । कथं चेतौ व्यवस्थाप्येते? । व्यावृत्तिकृतं भेदमुपादाय । तथा चानयोर्भिन्नरूपतैव । व्यावृत्तिभेदेऽपि च परमार्थतो भेदो नास्तीत्येकं लिङ्गं त्रिरूपमित्युच्यते इति । कथं तर्हि प्रागुक्तम् ’नानयोरर्थतः कश्चिद्भेदः, अन्यत्र प्रयोगभेदाद्ऽ इति? अत आह- "एकं वाक्यम्" इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तमेकं वाक्यमुभयमन्वयं व्यतिरेकं च भिन्नलक्षणमेव गमयतीत्युच्यतेऽस्मभिर्नैकोऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोरेवैकवाक्यार्थरूपत्वात् । अत्र पर आह- "न तु तत्रैव" इत्यादि । अयमभिप्रायः- लक्षणवाक्यप्रतिपादितावन्वयव्यतिरेकावाश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत एव । तथा हि- ’तत्रैव भावःऽ इत्यत्र लक्षणवाक्ये तदर्थतया तदभावेऽभावो गम्यते; ’तद्भावेऽवश्यमभावःऽ इति चात्र ’तद्भावे भावःऽ । न ह्यसति प्रतिबन्ध एकाभावेऽपरस्याभावः । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश्चैकेनैव सपक्षासपक्षयोर्भावाभावप्रतिपादकेन प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर्द्वितीयवचनं न कर्तव्यमिति । तथा चैकवाक्यार्थान्तर्भावाद्भिन्नस्वभावताप्यनयोर्दुर्ल्लभा । ततश्च यदुक्तम् ’न्वयव्यतिरेकयोरपि तर्हि न पृथक्त्वमितिऽ तत्तदवस्थमेवेति । (ह्ब्ट्२२७) सिद्धान्तवाद्याह- "वचनमेतत्" ’तत्रैव भावःऽ इत्यादिरूपम् "उभयमाक्षिपति" प्रतिपादयति । कुतः? । सामर्थ्यादुभयप्रतिपादनशक्तत्वात् । कथम्? इति चेत्, आह- "एकस्यापि वाक्यस्य" कीदृशस्य? । "नियमख्यापकस्य" ’सपक्ष एव भावोऽसपक्षे चाभाव एवऽ इति सावधारणस्य "द्वितीयाक्षेपनान्तरीयकत्वात्" द्वितीयप्रतिपादननान्तरीयकत्वात् । "न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोरेकस्वभावता" भिन्नस्वभावानामप्यर्थानामेकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगतावपि यत्"पृथगभिधानं" तत्"प्रयोगनियमार्थम्" । साधर्म्यप्रयोगे वैधर्म(र्म्य)वचनं न कर्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनमिति न पुनरेकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः प्रोपलक्षणार्थेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य प्रतिपादनाल्लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित्प्रयोजनमस्तीति नास्य पृथग्वचनं युक्तमिति । स्यान्मतम्- केवलावपि तर्ह्येकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैवकवाक्यार्थान्तर्भावादित्यत आह- "न पुनः केवलौ" एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परमाक्षिपतोऽन्तर्भवतः भिन्नरूपाणामप्यर्थानामेकवाक्यान्तर्भावदर्शनात् । ननु च नियमवन्तावपि भावाभावौ केवलावेव, तयोः परस्पराक्षेपे केवलयोरपि तत्प्रसङ्ग इत्यत आह- "नियमवन्तौ च" सावधारणवाक्यप्रतिपादितौ "न केवलौ" किन्तु सहितावेव । कुतः? । "नियमस्य" सावधारणस्य वाक्यस्य "उभयरूपत्वात्" भावाभावप्रतिपादनात्मकत्वात् । तदेवं सावधारणेन वाक्येन नैव केवलोऽन्वयो व्यतिरेको वाभिधीयते । तदन्तर्भावात्तु द्वितीयगतिः किन्तु परस्परान्तर्भूतावेव सहितावेकेन वाक्येनाभिधीयेते इति प्रतिपाद्योपसंहरन्नाह- "तस्मात्" तत्रैव सपक्ष एव भाव (ह्ब्ट्२२८) इत्यनेन वाक्येन न सपक्षे भाव एवोच्यते । किं तर्हि? । असपक्षेऽभावोऽपि, तथा चेतरेणाप्यसपक्षेऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावोऽपि, येन केवलवचनेन भावोऽभावो वा तदात्मकतया द्वितीयमाक्षिपेद्यतोऽनयोः पृथग्वचनं न स्यात् । तस्माद्यदान्वयव्यतिरेकौ भवाभावावभिप्रेतौ तदा तौ भिन्नरूपावेवेति कथं तयोः न पृथक्त्वम्? । अथ नियमवता वाक्येनाभिहितौ तदैकवाक्यादेवोभयगतेः पृथग्वचनं न कर्तव्यमेव । तत्तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थमित्युक्तमेतदिति । स्यान्मतम्- यथान्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश्च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशास्त्रप्रतिपादितात्त्रैलक्षण्याद्भिद्यत एव ज्ञानम्, न तत्रान्तर्भतम्, ततो रूपान्तरं भविष्यतीत्यत आह- "नैवम्", यथान्वयव्यतिरेकौ भावाभावलक्षणौ परस्परमनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्येऽनन्तर्भूतम् । कुतः? । "परोपलक्षणात्"- परे उपलक्ष्यन्ते उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत्त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्मादव्यतिरेकादागृहीतज्ञाने त्रैलक्षण्येऽन्तर्भावादिति यावत्, "इति" तस्मान्न लक्षणान्तरं त्रैरूप्यादिति । तदयमत्र समुदायार्थः- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तमुक्तेन प्रकारेण ज्ञानमेवोच्यते तदा तल्लिंगस्यानात्मभूतमिति न तल्लक्षणम् । अथावि(पि) ज्ञानापेक्षः कर्मभावो ज्ञातत्वमुच्यते तदापि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात्त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानमाक्षिपति । ततस्तदपेक्षोऽपि कर्मभावोऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्तव्यम् । तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात्त्रैलक्षण्यादव्यतिरेकादिति । तदेवमबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्नाह- "तस्मान्न हेतुः षड्लक्षणः ।" किं तर्हि? । त्रैलक्षण्य एवेति । (ह्ब्ट्२२९) इमं क्षताशेषकुतर्कमार्गं, मुनीशराद्धान्तनयप्रदीपम् । वितत्य पुण्यं यदुपार्जितं तत्, परां विशुद्धिं जगतो विधेयात् ॥ हेतुबिन्दुटीका समाप्ता । ............................................................. ............................................................. मा यतत इमा या तद्रूपा वल (?) त्रिभुवनस्य हिताय शस्वत् । नरस्य सेतोः दो.......तथागतमतस्य निवोधयित्री ॥ २ ॥ ........७५ माग्र(र्ग)सिर वादि ७ रवौ । मंगलं महाश्रीः ॥ न गुरोरुपदेशमग्रहीत्बुबुधे वस्तु ततो.............धीः । यतते स्म न तस्य वृद्धये न परिस्पन्दितुमप्यपारयत् ॥ [१ ॥] ॥ जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै .......त् । तदेव शक्ता.....था परत्र चित्रा हि विश्वप्रकृति.....नाः ॥ २ ॥ हे ! रोहिणीरमण ! सर्वकलानिकेत ! तारापते ! रजनिनाथ ! सुधानिधान! । कादम्बरीरसगुणेषु नि.........व- मात्मानमर्पितशरीरमनुस्मरेन्दोः ॥ ३ ॥ श्रीब्रह्माणगच्छे पं. अभयकुमारस्य हेतुबिन्दुतर्कः ॥