आलम्बनपरीक्षा आचार्यदिङ्नागकृता नमः सर्वबुद्धबोधिसत्त्वेभ्यः यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः(=अणवः) कारणं भवेत् । अतदाभतया तस्या नाक्षवद्विषयः स तु(अणवः) ॥ १ ॥ यदाभासा न तस्मात्सा द्रव्याभावात्द्विचन्द्रवत् । एवं बाह्यद्वयञ्चैव न युक्तं मतिगोचरः ॥ २ ॥ साधनं सञ्चिताकारमिच्छन्ति किल केचन । अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत् ॥ ३ ॥ भवेद्धटशरावादेस्तथा सति समा मतिः । आकारभेदाद्भेदश्चेत्, नास्ति तु द्रव्यसत्यणौ ॥ ४ ॥ प्रमाणभेदाभावात्सः, अद्रव्येऽस्ति ततः स हि । अणूनां परिहारे हि तदाभज्ञानविप्लवात् ॥ ५ ॥ यदन्तर्ज्ञेयरूपं तु वहिर्वदवभासते । सोऽर्थो विज्ञानरूपत्वात्तत्प्रत्ययतयापि च ॥ ६ ॥ एकांशः प्रत्ययोऽवीतात्शक्त्यर्पणात्क्रमेण[वा] । सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम् ॥ ७ ॥ सा चाविरुद्धा विज्ञप्तेरेवं विषयरूपकम् । प्रवर्ततेऽनादिकालं शक्तिश्चान्योन्यहेतुके ॥ ८ ॥ इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षाप्रकरणकारिका समाप्ता