परिशिष्टम् - १ नमः सर्वबुद्धबोधिसत्त्वेभ्यः अभिसमयालङ्कारान्तः पातिनां पदार्थानां संक्षेपतो विवरणम् सर्वाकारज्ञताद्यष्टौ पदार्थाः; चित्तोत्पादादयः सप्ततिश्च पदार्था अभिसमयालङ्कारस्याभिधेया सन्ति । तेषामिह स्वरूपं संक्षेपेण प्रस्तूयते । अष्टौ पदार्थाः सर्वाकारज्ञता, मार्गज्ञता, सर्वज्ञता (वस्तुज्ञता), सर्वाकाराभिसम्बोधः, मूर्धाभिसमयः, आनुपूर्विकाभिसमयः, एकक्षणाभिसम्बोधः, धर्मकायश्चेत्यष्टौ पदार्था अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां प्रदर्शिताः । यथा - प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ सर्वाकाराभिसम्बोधो मूर्धप्राप्तोऽनुपूर्विकः । एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा ॥ १. सर्वाकारज्ञता (क) लक्षणम् एकस्मिन्नेव क्षणे यावत्पदार्थाकाराणां यथावत्साक्षात्कारि पर्यन्तज्ञानं सर्वाकारज्ञताया लक्षणम् । (ख) भेदः यावज्ज्ञानं यथावज्ज्ञानमिति सर्वाकारज्ञताया द्वौ भेदौ । या प्रज्ञा अशेषाकारान् जानाति सा यावज्ज्ञानम्, या च यथा पदार्थानां स्वरूपं तथा जानातीति यथावज्ज्ञानम् । अथवा - चित्तोत्पादादिहेतूनामनास्रवफलानां च अशेषाकारसाक्षात्कारि सर्वाकारज्ञानमित्येको भेदः । बुद्धभूमौ जायमानानि द्वाविंशतिः अनास्रवज्ञानानीति द्वितीयो भेदः । (ग) अवधिः बुद्धभूमावेव केवलं सर्वाकारज्ञता भवति । २. मार्गज्ञता (क) लक्षणम् मार्गत्रयनिःस्वभावत्वसाक्षात्कारिण्या प्रज्ञयोपात्तत्वे सति आर्यमाहायानिकाभिसमयत्वं मार्गज्ञताया लक्षणम् । (ख) भेदः चत्वारोऽस्या भेदा भवन्ति, यथा श्रावकमार्गज्ञता, प्रत्येकबुद्धमार्गज्ञता, महायानमार्गज्ञता, माहायानिकार्यसन्ततिस्थसर्वप्रज्ञोपायज्ञता चेति । (ग) अवधिः महायानदर्शनमार्गमारभ्य बुद्धभूमिं यावत्मार्गज्ञतायाः सीमा भवति । ३. सर्वज्ञता (वस्तुज्ञता) (क) लक्षणम् समस्तधर्मगतपुद्गलनैरात्म्यसाक्षात्कारिण्या प्रज्ञयोपात्तत्वेन हैनयानिकजातीयाभिसमयस्वरूपमार्यसन्ततिस्थं ज्ञानं मार्गज्ञताया लक्षणम् । हैनयानिकार्यसन्ततिस्थं यज्ज्ञानं तच्छून्यतायाः पुद्गलनैरात्म्यापरपर्यायाः साक्षात्कारि, तेनोपात्तत्वात्सर्वज्ञताया लक्षणे हैनयानिकजातीयेति विशेषणम् । (ख) भेदः फलभूताया जिनजनन्या दूरत्वमविदूरत्वं चेति सर्वज्ञताया द्वौ भेदौ । (ग) अवधिः श्रावकीयदर्शनमार्गमारभ्य बुद्धभूमिपर्यन्तं सर्वज्ञतायाः सीमा भवति । ४. सर्वाकाराभिसम्बोधः (क) लक्षणम् त्रिसर्वज्ञताकाराणां भावनामय्या प्रज्ञयोपात्तः सत्त्वयोगः सर्वाकाराभिसम्बोध इति लक्षणम् । (ख) भेदः स्वरूपेण विंशतिः प्रयोगाः । आकारेण त्रिसर्वज्ञतासम्बद्धानां त्रिसप्तत्युत्तरशतसंख्याकानामाकाराणामभिनिर्हारकाः सत्त्वयोगाः त्रिसप्तत्युत्तरशतमस्य सर्वाकाराभिसम्बोधस्य भेदा भवन्ति । सत्वयोगः, मार्गपारमिता, बोधिसत्त्वमार्गः, महायानपतिपत्तिः, सन्नाहप्रतिपत्तिरित्येते पर्यायवाचिनः । (ग) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थितबोधिसत्त्वावस्थापर्यन्तं सर्वाकाराभिसम्बोधस्य सीमा भवति । ५. मूर्धाभिसमयः (क) लक्षणम् शून्यतालम्बनया भावनामय्या प्रज्ञयोपात्तानां तद्दृष्ट्या व्यवस्थापितानां च त्रिसर्वज्ञताकाराणां भावनायां प्रकर्षपर्यन्तः सत्त्वयोगः मूर्धप्रयोगः इति मूर्धाभिसमयस्य लक्षणम् । बोधिसत्त्वस्य श्रुतमय्या प्रज्ञयोपात्तानां प्रयोगाणामप्यत्रैव संगृहीतत्वाल्लक्षणे तद्दृष्ट्या व्यवस्थापितेति विशेषणम् । (ख) भेदः संक्षेपतः प्रयोगमार्गीयो मूर्धप्रयोगः, दर्शनमार्गीयो मूर्धप्रयोगः, भावनामार्गीयो मूर्धप्रयोगः, आनन्तर्यमूर्धप्रयोगश्चेति चत्वारो भेदा भवन्ति । अथवा ऊष्ममूर्धक्षान्त्यग्रधर्माख्याः प्रयोगमार्गस्य चत्वारः, दर्शनभावनामार्गयो आनन्तर्यमूर्धप्रयोगास्त्रय इति सप्त मूर्धप्रयोगा भवन्तीति । विस्तरेण तु त्रिसप्तत्युत्तरशतं मूर्धप्रयोगा इति ज्ञेयम् । (ग) अवधिः महायानप्रयोगमार्गीयोष्मप्रयोगमारभ्य अन्तिमक्षणस्थितबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति । ६. आनुपूर्विकाभिसमयः (क) लक्षणम् त्रिसर्वज्ञताकाराणां स्थिरीकरणाय विभावनाव्यवस्थापितः सत्त्वयोग आनुपूर्विकप्रयोग इति लक्षणम् । (ख) भेदः त्रयोदशास्यानुपूर्विकाभिसमयस्य भेदा भवन्ति । (ग) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थितबोधिसत्त्वावस्थातः पूर्वावस्थापर्यन्तमस्य सीमा भवतीति । ७. एकक्षणाभिसम्बोधः (क) लक्षणं त्रिसर्वज्ञताकाराणां स्वभ्यस्तीकरणाय अनुपूर्वभावनयोत्पन्नः पार्यन्तिकः सत्त्वयोगः एकक्षणाभिसम्बोध इति लक्षणम् । (ख) भेदः व्यावृत्याऽस्य चत्वारो भेदा भवन्ति । (ग) अवधिः चरमभविकबोधिसत्त्वावस्थायामेव केवलमयं प्रयोगो भवति । ८. धर्मकायः (क) लक्षणम् त्रिसर्वज्ञताकाराणां भावनाप्रकर्षबलेनोत्पन्नं फलं पर्यन्तानास्रवगुणा वा धर्मकाय इति लक्षणम् । (ख) भेदः स्वभावकायः, ज्ञानधर्मकायः, साम्भोगिककायः, नैर्माणिककायश्चेति चत्वारोऽस्य भेदा भवन्ति । (ग) अवधिः बुद्धभूमावेव केवलमयं धर्मकायो भवतीति । सप्ततिः पदार्थाः त्रिसर्वज्ञतोपलक्षकास्त्रिंशद्धर्माः, चतुर्णां प्रयोगाणामुपलक्षकाः षट्त्रिंशद्धर्माः, धर्मकायोपलक्षकाश्चत्वार इति सप्ततिः पदार्थास्त्रिषु विभज्य पृथक्निरूप्यन्ते । १. त्रिसर्वज्ञतोपलक्षकाः त्रिंशद्धर्माः त्रिसर्वज्ञतोपलक्षकेषु त्रिंशद्धर्मेषु सर्वाकारज्ञताबोधका दश, मार्गज्ञताबोधका एकादश, सर्वज्ञताबोधका नव चेति त्रिंशद्भवन्ति । (अ) सर्वाकारज्ञतोपलक्षका दश धर्माः तत्र १. महायानचित्तोत्पादः, २. अववादः, ३. निर्वधाङ्गम्, ४. महायानप्रतिपत्त्याधारः, ५. महायानप्रतिपत्त्यालम्बनम्, ६. महायानप्रतिपत्तिसमुद्देशः, ७. सन्नाहप्रतिपत्तिः, ८. प्रस्थानप्रतिपत्तिः, ९. सम्भारप्रतिपत्तिः, १०. निर्याणप्रतिपत्तिरिति दश धर्माः सर्वाकारज्ञतामुपलक्षयन्तीति अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां प्रदर्शिताः । यथा - चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम् । आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ आलम्बनं समुद्देशं सन्नाहप्रस्थितिक्रिये । सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ १. चित्तोत्पादः अस्य लक्षणम्, भेदः आलम्बनम्, अवधिश्चेति चत्वारि ज्ञातव्यानि । अभिसमयालङ्कारे तिसृभिः कारिकाभिः सर्व प्रतिपादितम् । तथाहि - चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता । समासव्यासतः सा च यथासूत्रं च चोच्यते ॥ भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः । वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः । नृपगञ्जमहामार्गयानप्रस्रवणोदकैः । आनन्दोक्तिनदीमेघैर्द्वाविंशतिविधः स च ॥ (क) लक्षणम् परार्थाय स्वहेतुकेन छन्देन समुदानीतं बोधिकामतासम्प्रयुक्तं माहायानिक विशिष्टं मनोविज्ञान चित्तोत्पाद इति लक्षणम् । (ख) आलम्बनम् स्वार्थां बोधिं परार्थं च परसन्ततिस्थ निर्वाणमालम्ब्य चित्तोत्पादः प्रवर्तते । (ग) भेदः बोधिप्रणिधिस्वभावः बोधिप्रस्थानस्वभावश्चेति स्वरूपतश्चित्तोत्पादस्य द्वौ भेदौ भवतः । सम्प्रयुक्तचैतसिकदृष्ट्या चित्तोत्पादस्य द्वाविंशतिः प्रभेदा भवन्ति, यथा १. पृथिवीसमः, २. सुवर्णसमः, ३. चन्द्रसमः, ४. ज्वलनसमः, ५. महानिधिसमः, ६. रत्नाकरसमः, ७. महार्णवसमः, ८. वज्रसमः, ९. पर्वतसमः, १०. औषधिसमः, ११. कल्याणमित्रसमः, १२. चिन्तामणिसमः, १३. आदित्यसमः, १४. मधुरगीतिसमः, १५. नृपसमः, १६. कोष्ठागारसमः, १७. महामार्गसम, १८. यानसमः, १९. प्रस्रवणोदकसमः, २०. आनन्दोक्तिसमः, २१. नदीसमः, २२. मेघसमश्चेति । (घ) अवधिः चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः । तथा हि - आदिमोक्षिकोऽधिमुक्तिचर्याभूमौ, शुद्धाध्याशयिकः सप्तसुभूमिषु, वैपाकिकोऽष्टम्यादिषु, अनावरणिको बुद्धभूमौ । यथोक्तं महायानसूत्रालङ्कारे - चित्तोत्पादोऽधिमोक्षोऽसौ शुद्धाध्याशयिकोऽपरः । वैपाक्यो भूमिषु मतस्तथावरणवर्जितः ॥ २. अववादः अस्य लक्षणम्, भेदः. अवधि, श्रवणनियमश्चेति सर्वो विषयः अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां प्रतिपादितः । तथाहि - प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असक्तावपरिश्रान्तौ प्रतिपत्सम्परिग्रहे ॥ चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च । दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ (क) लक्षणम् मोक्षमार्गस्य अभ्रान्तोपदेशः अववाद इति लक्षणं भवति । अथवा - महायानचित्तोत्पादद्वारेण प्रर्थितार्थप्राप्त्युपायात्मकः अभ्रान्तविशुद्धोपदेशः माहायानीयाववादलक्षणम् (ख) भेदः प्रथमं सम्प्राप्तगुणपरिपाचनार्थेन अपरिहाणिमुपादाय शिक्षणाववादः, ततः पश्चादप्राप्तगुणप्राप्तिमुपादाय अनुशासनाववाद इति द्वौ भेदौ । विषयभेदात्पुनः अववादो दशधाः ज्ञेयः । तथाहि - प्रतिअपत्त्याकारमधिकृत्य सत्यद्वयस्वरूपमनतिक्रम्य शिक्षणं प्रतिपत्त्यववादः प्रथमः । प्रतिपत्तेर्यदालम्बनं चत्वारि आर्यसत्यानि, तद्विषयकोपदेशः सत्याववादः द्वितीयः । यश्चाश्रयस्त्रीणि शरणानि तद्विषयकोपदेशः रत्नत्रयाववादस्तृतीयः । यो विशेषगमनहेतुः असक्तिस्तद्विषये देशनाववादश्चतुर्थः । योऽव्यावृत्तिगमनहेतुः अपरिश्रान्तिः तद्विषयको देशनाववादः पञ्चमः । योऽनन्ययानगमनहेतुः प्रतिपत्सम्परिग्रहस्तद्विषयकाववादः षष्ठः । योऽपरप्रत्ययगामित्वहेतुः पञ्च चक्षूंषि तद्विषयकः पञ्चचक्षुरववादः सप्तमः । यः सव कारज्ञतापरिपूरिहेतुः षडभिज्ञाः तद्विषयकोऽभिज्ञाववादः अष्टमः । परिकल्पितस्वभावानां दर्शनप्रहातव्यानां क्लेशानां सबीजानां सर्वथा समुद्घातको यो दर्शनमार्गस्तद्विषयको दर्शनमार्गाववादो नवमः । भावनाप्रहातव्यानां सहजावरणानां सबीजानां सर्वथा समुद्घातको यो भावनामार्गस्तद्विषयको भावनामार्गाववादो दशमः । (ग) अवधिः मार्गाप्रवेशमारभ्य बुद्धभूमिपर्यन्तमस्य सीमा भवति । (घ) श्रवणनियमः मार्गेऽप्रविष्टोऽपि शुद्धाध्याशयिकः शुद्धकर्मिकः पुद्गलो माहायानीयाववादं श्रोतुं भव्यो भवति । यश्च मार्गप्रविष्टो बोधिसत्त्वः स कल्पानामनेकानि बुद्धेभ्यो बोधिसत्त्वेभ्यः कल्याणमित्रेभ्यः अववादं शृणोति । ३. निर्वेधाङ्गम् चतुर्विधनिर्वेधभागीयानामूष्मादीनां लक्षण-भेदावध्यालम्बनाकारादयः अभिसमयालङ्कारे द्वाभ्यां कारिभ्यां प्रतिपादिताः । तथादि - आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् । चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः । मृदुमध्याधिमात्राणामुष्मादीनां विशिष्टता ॥ (क) लक्षणम् स्वहेतुमोक्षभागीयानन्तरमुत्पद्यमानोऽभिसमयः प्रयोगमार्ग इति लक्षणम् । प्रयोगमार्गः, अर्थाभिसमयः, निर्वेधाङ्गमित्यनर्थान्तरम् । (ख) भेदः श्रावकादियानत्रयस्य त्रयः प्रयोगमार्गा भवन्ति । प्रयोगमार्गेषु त्रिषु प्रतिस्वमूष्म-मूर्व-क्षान्त्यग्रधर्माख्याश्चत्वारो भेदा भवन्ति । इत्थं द्वादश भवन्ति प्रयोगमार्गस्य भेदाः । महायानप्रयोगमार्गः स्वहेतोर्महायानसम्भारमार्गादुत्पद्यमानो माहायानीयोऽर्थाभिसमयः महायानप्रयोगमार्गः । महायानप्रयोगमार्गः, महायानार्थाभिसमयः, महायाननिर्वेधभागीय इति पर्यायाः । महायानप्रयोगमार्गभेदाः ऊष्म-मूर्ध-क्षान्त्यग्रधर्माख्याश्चतुर्निर्वेधभागीयाः श्रावकनिर्वेधभागीयेभ्यः पञ्चभिर्विशेषैर्विशिष्टा भवन्ति । एतेषु निर्वेधभागीयेषु प्रत्येकं मृदु-मध्याधिमात्रभेदेन त्रिधा भवति । एवं महायानप्रयोगमार्गस्य द्वादश भेदा जायन्ते । (ग) अवधिः त्रिविधनैरात्म्येषु (पुद्गलनैरात्म्य-स्थूलधर्मनैरात्म्य-सूक्ष्मधर्मनैरात्म्येषु) किमप्येकं नैरात्म्यमालम्ब्य प्रवर्तमानाया विदर्शनायाः प्राप्तिमारभ्य भूमिप्राप्तिपर्यन्तं प्रयोगमार्गस्य व्याप्तिर्भवति । (घ) आलम्बनाकारादयः हैनयानिकप्रयोगमार्गान्माहायानिकप्रयोगमार्गः षड्भिर्विशेषेर्विशिष्टो भवति, यथा - आलम्बनविशेषात्, आकारविशेषात्, हेतुत्वविशेषात्, सम्परिग्रहविशेषात्, प्रहेयविकल्पसंयोगविशेषात्, मृदुमध्याधिमात्रभेदविशेषाच्च । इदं च वैशिष्ट्यमभिसमयालङ्कारे "आलम्बनमनित्यादि" - इत्यतः प्रारम्य "सर्वथा सम्परिग्रहः" - इत्यन्तं नवभिः कारिकाभिः सुविशदं व्याख्यातम् । ४. प्रतिपत्तेराधारः महायानप्रतिपत्तेराधारः प्रकृतिगोत्रं भवति । तस्य लक्षणादिकमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां वर्णितम् । तथा हि - षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः । तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ (क) लक्षणम् सामान्यतो यो धर्मधातुः परिशोधितः सन् बोधौ परिणमते, स गोत्रमिति लक्षणम् । विशेषतो यो धर्मधातुः परिशोधितः सननुत्तरायां सम्यक्सम्बोधौ परिणमते, महायानप्रतिपत्तेश्चाधारो भवन्ति, स प्रकृतिगोत्रमिति । (ख) भेदः अभिधानदृष्ट्या प्रकृतिगोत्रं परिपुष्टगोत्रं चेति द्वौ भेदौ । महायानप्रतिपत्तेराश्रयभूतं प्रकृतिस्थं गोत्रमाश्रितधर्मदृष्ट्या त्रयोदशविध भवति । इदमेव प्रकृतिगोत्रं महायानसम्भारमार्गस्याप्याधारो भवति । ऊष्म-मूर्ध-क्षान्त्यग्रधर्माख्यचतुर्विधलौकिकनिर्वेधभागीयानामाधाराश्चत्वारः, लोकोत्तरदर्शनमार्गमस्याधार एकः, लोकोत्तरभावनामार्गस्याधार एक इति षट्प्रकृतिगोत्राणि । ततः प्रतिपक्षप्रतिपत्तेराधारः, ततः प्रहाणप्रतिपत्तेराधारः, तदनन्तरं प्रतिपक्षप्रहेयानुपलब्ध्या तदुत्पादनिरोधयुक्तविकल्पापगमस्य विमुक्तिमार्गस्याधारः, ततः प्रज्ञाकरुणयोराधारः, श्रावकाद्यसाधारणधर्मस्याधारः, परार्थानुक्रमस्याधारः, ज्ञानस्यायत्नवृत्तेश्चाधार इति प्रकृतिस्थगोत्रस्य त्रयोदशभेदा भवन्ति । (ग) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति । विशेषतश्च उपरिष्टात्साक्षान्निर्दिष्टप्रयोगमार्गीयोष्मावस्थातः प्रारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य व्याप्तिर्भवतीति ज्ञेयम् । ५. प्रतिपत्तेरालम्बनम् प्रतिपत्तेरालम्बनानां लक्षणं भेदः अवधिश्चेति त्रीण्यत्र प्रतिपाद्यन्ते । अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामालम्बनस्वरूपं प्रदर्शितम् । तथा हि - आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः । लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः । सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये । शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः ॥ (क) लक्षणम् प्रतिपत्तेर्ज्ञेयत्वमेवालम्बनत्वमिति लक्षणम् । (ख) भेदः आलम्बनमेकादशविधं भवति । तथा हि - कुशलाकुशलाव्याकृतानि कायकर्मादीनि त्रीणि, बालपृथग्जनसम्बद्धाः पञ्च स्कन्धाः, सर्वार्यजनसंगृहीतानि चत्वारि अनास्रवध्यानानि, आत्मदर्शनाप्रतिपक्षत्वेन पञ्चोपादानस्कन्धाः, आत्मदर्शनप्रतिपक्षत्वेन चत्वार्यनास्रवाणि स्मृत्युपस्थानानि, हेतुप्रत्ययाधीनकामादिधातुसंगृहीता बोधिपक्षादयं संस्कृताः (मार्गसत्यम्), कारणानपेक्षधातुत्रयापर्यापन्नतथतादयोऽसंस्कृताः (निरोधसत्यम्), सर्वार्यजनसन्तानप्रभवचतुर्ध्यानादयो गुणाः, सम्यक्सम्बुद्धसन्तानोदयधर्मिदशबलान्यसाधारणानीत्येकादशविधमालम्बनम् । (ग) अवधिः अधिगमानुक्रमेण सर्वधर्मा यथावदालम्ब्यन्त इति नास्त्यालम्बनानां भूम्यवधिरिति ज्ञेयम् । ६. प्रतिपत्तिसमुद्देशः अस्य लक्षणं भेदः अवधिरिति त्रीणि परिज्ञातव्यानि, तानि अभिसमयालङ्कारे कारिकयैकयाऽनया निर्दिष्टानि । तथा हि - सर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये । त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽर्य स्वयम्भुवाम् ॥ (क) लक्षणम् प्रतिपत्तौ प्रतिष्ठितस्य बोधिसत्त्वस्य स्वलक्ष्यमेव प्रतिपत्तिसमुद्देश इति लक्षणम् । (ख) भेदः सर्वसत्त्वाग्रताचित्तमहत्त्वम्, प्रहाणमहत्त्वम्, अधिगममहत्त्वं चेति त्रयोऽस्यभेदा भवन्ति । (ग) अवधिः बुद्धभूमावेव केवलमयं समुद्देशो निष्पन्नो भवति । ७. सन्नाहप्रतिपत्तिः अस्या लक्षणादिकमभिसमयालङ्कारे एकया कारिकयेत्थमुपवर्णितम् । यथा दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या । सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिताः ॥ प्रतिपत्तेर्लक्षणम् महायानचित्तोत्पादमाश्रित्य अनुत्तरसम्यक्संम्बोधिनिष्पत्तये या त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना, सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया, सा महायानप्रतिपत्तेर्लक्षणम् । प्रतिपत्तिभेदः इयं महायानप्रतिपत्तिश्चतुर्विधा भवति, यथा - सन्नाहप्रतिपत्तिः, प्रस्थानप्रतिपत्तिः, सम्भारप्रतिपत्तिः, निर्याणप्रतिपत्तिश्चेति । (क) सन्नाहप्रतिपत्तेर्लक्षणम् षट्पारमितासु प्रतिपारमितां षट्पारमितासंग्राहिकया प्रज्ञयोपात्तः सत्त्वयोगः सन्नाहप्रतिपत्तेर्लक्षणम् । सन्नाहप्रतिपत्तिः बोधिसत्त्वमार्ग इत्यनर्थान्तरम् । (ख) भेदः दानपारमितासन्नाहप्रतिपत्तिमारभ्य प्रज्ञापारमितासन्नाहप्रतिपत्तिं यावत्षड्भेदा भवन्ति । दानेऽपि दानं शीलमित्यादिषट्पारमिता भवन्ति । एवं षट्सु पारमितासु षट्षट्कानीति कृत्वा विस्तरेण षट्त्रिंशद्भेदा भवन्ति । (ग) अवधिः सम्भारमार्गीयबोधिसत्त्वमारभ्य अन्तिमक्षणस्थबोधिसत्त्वपर्यन्तमस्याः सीमा भवति । ८. प्रस्थानप्रतिपत्तिः अस्याः स्वरूपमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामुपवर्णितम् । तथा हि ध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च । गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी ॥ (क) लक्षणम् भावनाप्रधानया प्रतिपत्त्या महायाने हेत्वात्मके फलात्मके वा धर्मे प्रस्थितिक्रिया प्रस्थानप्रतिपत्तेर्लक्षणम् । (ख) भेदः सेयं प्रस्थानप्रतिपत्तिर्नवविधा ज्ञेया, तथा हि - ध्यानारूप्यसमापत्तिषु प्रस्थानम्, दानादिषट्पारमितासु प्रस्थानम्, आर्यमार्गेषु प्रस्थानम्, चतुरप्रमाणेषु प्रस्थानम्, अनुपलम्भयोगे प्रस्थानम्, त्रिमण्डलविशुद्धिषु प्रस्थानम्, सर्वसत्त्वाग्रतादित्रिविधोद्देशेषु प्रस्थानम्, षड्भिज्ञासु प्रस्थानम्, सर्वाकारज्ञतायां प्रस्थानमिति । (ग) अवधिः अधिमुक्तिचर्याभूमिकप्रयोगमार्गीयोष्मावस्थात आरभ्य अन्तिमक्षणस्थबोधिसत्त्वपर्यन्तमस्याः सीमा भवति । ९. सम्भारप्रतिपत्तिः अस्थाः प्रतिपत्तेर्लक्षणादिकं सर्वमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यक्प्रतिपादितम् । तथा हि - दया दानादिकं षट्कं शमथः सविदर्शनः । युगनद्धश्च यो मार्गमुपाये यच्च कौशलम् ॥ ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः ॥ (क) लक्षणम् आत्मनः फलभूतां महाबोधिं या साक्षात्प्रददाति तादृशी क्रिया सम्भारप्रतिपत्तिरिति लक्षणम् । (ख) भेदं अस्याः सम्भारप्रतिपत्तेः सप्तदश भेदा भवन्ति । यथा महाकरुणासम्भारः, दानसम्भारः, शीलसम्भारः, क्षान्तिसम्भारः, वीर्यसम्भारः, ध्यानसम्भारः, प्रज्ञासम्भारः, शमथसम्भारः, विदर्शनासम्भारः, युगनद्धसम्भारः, उपायकौशलसम्भारः, ज्ञानसम्भारः, पुण्यसम्भारः, मार्गसम्भारः, धारणीसम्भारः, भूमिसम्भारः, प्रतिपक्षसम्भारश्चेति । (ग) अवधिः सम्भारमात्रं त्वादिकर्मिकभूमावपि भवति । किन्तु ये महाबोधिप्रापक्त्वेन साक्षान्निर्दिष्टास्ते सम्भाराः प्रयोगमार्गीयाग्रधर्मावस्थात आरभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तं भवन्ति । आदितः पञ्चदश सम्भारप्रतिपत्तयः प्रयोगमार्गीयाग्रधर्मावस्थापर्यन्तं भवन्ति । षोडशो भूमिसम्भारः सप्तदशश्च प्रतिपक्षसम्भारो दशसु भूमिषु भवतः । १०. निर्याणप्रतिपत्तिः अस्याः स्वरूपमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यक्प्रदर्शितम् । तथा हि - उद्देशे समतायां च सत्त्वार्थे यत्नवर्जंने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् । सर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ (क) लक्षणम् एकान्तेन सर्वज्ञतायां निर्याणकरः शौद्धभूमिकः सत्त्वयोगः निर्याणप्रतिपत्तिरिति लक्षणम् । (ख) भेदः निर्याणप्रतिपत्तिः सेयमष्टविधात्मिका भवति । तद्यथा - त्रिविधसमुद्देशे निर्याणम्, समतायां निर्याणम्, सत्त्वार्थे निर्याणम्, अनाभोगनिर्याणम्, अत्यन्तनिर्याणम्, प्राप्तिनिर्याणम्, सर्वाकारज्ञातानिर्याणम्, मार्गनिर्याणमिति । (ग) अवधिः तिसृषु शुद्धभूमिष्वेवास्या व्याप्तिर्भवतीति । ॥ इति सर्वाकारज्ञतोपलक्षका दश धर्माः ॥ ___________________________ (आ) मार्गज्ञतोपलक्षका एकादश धर्माः १. ध्यामीकरणतादीनि मार्गज्ञताङ्गानि, २. श्रावकमार्गः, ३. प्रत्येकबुद्धमार्गः, ४. बोधिसत्त्वमार्गः, ५. भावनामार्गकारित्रम्, ६. भावनामार्गाधिमुक्तिः, ७. भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभ प्रशंसा च, ८. परिणामना, ९. अनुमोदना, १०. अभिनिर्हारः, ११. अत्यन्तविशुद्धिश्चेति एकादश धर्मा मार्गज्ञतामुपलक्षयन्तीति अभिसमयालङ्कारे तिसृभिः कारिकाभिरुपदर्शिताः । तथा हि - ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ । महानुशंसो दृङ्मार्गमैहिकामुत्रिकैर्गुणैः ॥ कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः । परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः । विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ १. ध्यामीकरणतादीनि ध्यामीकरणतादीनां मार्गज्ञताङ्गानां लक्षणादिकं सर्वमभिसमयालङ्कारे एकया कारिकयोपवर्णितम् । तथा हि - ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ (क) लक्षणम् मार्गज्ञतापरिपूरका अवयवीभूता गुणा एव मार्गज्ञताङ्गानीति लक्षणम् । अथवा - मार्गज्ञतापरिपूरकाः अस्यामवस्थायां साक्षान्निर्दिष्टाः सत्त्वसन्ततिस्थगुणा मार्गज्ञताङ्गानीति लक्षणम् । (ख) भेदः पञ्च मार्गज्ञताङ्गानि ध्यामीकरणतादीनि भवन्ति, तद्यथा - आधारः अपरोक्षाहङ्कारराहित्यम्, सहकारिप्रत्ययश्चित्तोत्पादः, सहेतुका व्याप्तिः, संसारात्यजनं स्वभावः, अपरिगृहीतसत्त्वपरिग्रहणमिति । (ग) अवधिः सामान्यतो मार्गाप्रवेशमादाय बुद्धभूमिपर्यन्तं सीमा भवति । साक्षान्निर्दिष्टाङ्गानां दृष्ट्या सम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तं सीमा भवति । २. श्रावकमार्गः श्रावकमार्गाधिगमस्य लक्षणादिकमभिसमयालङ्कारे अघोलिखितयैकया कारिकया सम्यगुपदर्शितम् । तथा हि - चतुर्णामार्यसत्यानामाकारानुपलम्भतः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ (क) लक्षणम् श्रावकजातीयविनेयजनानुग्रहार्थं दुःखादिचतुरार्यसत्येषु किमप्येकमालम्ब्य अनित्यादिषोडशाकारेष्वन्यतमस्य साक्षात्कारदृष्ट्या व्यवस्थापितः श्रावकाधिगमजातीयो माहायानिकार्याभिसमयः श्रावकमार्गज्ञ मार्गज्ञानमिति । (ख) भेदः आकारदृष्ट्या षोडशविधः, मार्गदृष्ट्या तु दर्शनभावनाऽशैक्षमार्गभेदेन त्रिविधः । (ग) अवधिः दर्शनमार्गमारभ्य बुद्धभूमिपर्यन्तमस्य सीमा भवति । केषांचन मतेन महायानसम्भारमार्गमारभ्य बुद्धभूमिपर्यन्तमवधिरिति । ३. प्रत्येकबुद्धमार्गः प्रत्येकबुद्धाधिगमस्य लक्षणादिकं सर्वमभिसमयालङ्कारे तिसृभिः कारिकाभिः प्रतिपादितम् । तथा हि - परोपदेशवैयर्थ्य स्वयम्बोधात्स्वयम्भुवाम् । गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ सुश्रूषा यस्य यस्यार्थे यत्र यत्र यथा यथा । स सोऽर्थः ख्यात्यशब्दोऽपि तत्र तत्र तथा तथा ॥ ग्राह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः । आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः ॥ (क) लक्षणम् प्रत्येकबुद्धगोत्रीयविनेयजनानुग्रहार्थं द्वादशायतनान्यालम्ब्य बाह्यग्राह्यार्थशून्यतासाक्षात्कारिज्ञानदृष्ट्या व्यवस्थापितः प्रत्येकबुद्धाधिगमजातीयो माहायानिकार्याभिसमयः प्रत्येकबुद्धमार्गमार्गज्ञं मार्गज्ञानमिति । (ख) भेदः दर्शनमार्गः, भावनामार्गः, अशैक्षमार्ग इति त्रयोऽस्य भेदा भवन्ति । (ग) अवधिः महायानदर्शनमार्गमारस्य बुद्धभूमिपर्यन्तमस्य सीमा भवति । ४. महायानदर्शनमार्गः महानुशंसस्य दर्शनामार्गस्य लक्षणम्, भेदः, अवधिश्चेति त्रीणि परिज्ञातव्यान्यत्र संक्षेपतो निरूप्यन्ते । अभिसमयालङ्कारे तत्स्वरूपं पञ्चभिः कारिकाभिरुपदर्शितम् । (क) लक्षणम् भवशमान्तद्वयनिरोधलक्षणः सत्याभिसमयो महायानदर्शनमार्ग इति लक्षणम् । (ख) भेदः समाहितज्ञानं पृष्ठलब्धज्ञानं चेति द्वौ दर्शनमार्गस्य भेदौ । ज्ञानदृष्ट्या त्रीणि ज्ञानानि दर्शनमार्गः । प्रथमं यद्दर्शनमार्गभूतं श्रावकमार्गं जानाति, द्वितीयं यत्प्रत्येकबुद्धमार्गं जानाति । तृतीयं यन्महायानमार्गं जानातीति त्रयो भेदा भवन्ति । आलम्बनदृष्ट्या व्यावृत्तिदृष्ट्या चाष्टौ क्षान्तयः, अष्टौ च ज्ञानानीति षोडश भेदा अवसातव्याः । (ग) अवधिः प्रथमायामेव बोधिसत्त्वभूमावस्य व्याप्तिर्भवतीति । ५. भावनामार्गकारित्रम् भावनामार्गकारित्राणां लक्षणादिकमभिसमयालङ्कारे एकया कारिकया स्पष्टमुपदर्शितम् । तथा हि - सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः । उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ (क) लक्षणम् दृष्टतत्त्वभावनाबलेन प्राप्तानुशंसा भावनामार्गकारित्रस्य लक्षणम् । (ख) भेदः अस्य षड्भेदा भवन्ति, यथा - आत्मोत्कर्षनिषेधात्दमनकारित्रम्, सर्वजननमनकारित्रम्, रागादिक्लेशाभिभवकारित्रम्, परकृताघातविरोधोपनिपातादुपक्रमाविषह्यत्वकारित्रम्, सम्यक्संबोधिप्रतिपत्तिकारित्रम्, प्रज्ञापारमिताधारविषयपूज्यताकारित्रमिति । (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्य सीमा भवति । भावनामार्गंः अस्य लक्षणम्, भेदः अवधिश्चेति त्रीण्यत्रोच्यन्ते । (क) लक्षणम् माहायानिकोऽन्वभिसमयः महायानभावनामर्ग इति लक्षणम् । अन्वभिसमयः भावनामार्ग इति पर्यायवाचिनौ । (ख) भेदः सास्रवो भावनामार्गः, अनास्रवो भावनामार्गश्चेति द्वौ भेदौ । तत्र सास्रवः सविकल्पभावनामार्गः अनास्रवश्च निर्विकल्प इति । तत्र सास्रवोऽधिमुक्तिपरिणामनानुमोदनामनस्कारलक्षणस्त्रिविधः । अनास्रवः पुनरभिनिर्हारः अत्यन्तविशुद्धिस्वभावश्चेति द्विविधः । ६. भावनामार्गाधिमुक्तिः अधिमुक्तिभावनामार्गस्य लक्षणादिकं सर्वमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां स्पष्टमादर्शितम् । तथा हि - अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका । परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥ मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः । सा पुनस्त्रिविधेत्येवं सप्तविंशतिधा मता ॥ (क) लक्षणम् स्वार्थ-स्वपरार्थ-परार्थाकरभूतायां जिनजनन्यामभिसम्प्रत्ययवशेन व्यवस्थापितो माहायानिकोऽन्वभिसमयोऽधिमुक्त्याख्यभावनामार्गः सविकल्प इति लक्षणम् । (ख) भेदः अधिमुक्तिः स्वार्था स्वपरार्था परार्था चेति मूलभेदेन त्रिविधा । त्रिविधाऽपि सती मृदुमध्याधिमात्रभेदेन प्रत्येकं मेदात्त्रिकत्रिभिर्नवधा भवति । तद्यथा मृद्वी मध्याऽधिमात्रा च स्वार्थाधिमुक्तिः; एवं स्वपरार्थाधिमुक्तिः परार्थाधिमुक्तिश्चेति । एवमेषाऽपि नवप्रकाराऽधिमुक्तिः मृदुमृद्वादिप्रकारभेदेन प्रत्येकं विभिद्यमाना नवभिस्त्रिभिः सप्तविंशतिप्रकारा भवति । तद्यथा - मृदुमृदुः, मृदुमध्यः, मृद्वधिमात्रः, मध्यमृदुः, मध्यमध्यः, मध्याधिमात्रः; अधिमात्रमृदुः, अधिमात्रमध्यः, अधिमात्राधिमात्र इति स्वार्थाधिमुक्तेर्नवप्रकाराः । तथा स्वपरार्थाधिमुक्तेः परार्थाधिमुक्तेश्च वेदितव्याः । (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्याः सीमा भवति । द्वितीयां भूमिमारभ्यं दशमभूमिपर्यन्तमिति केचित् । ७. भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च भावनामार्गाधिमुक्तस्य बोधिसत्त्वस्य स्तुत्यादीनां लक्षणादिकमभिसमयालङ्कारे एकया कारिकयोपवर्णितम् । तथा हि - स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ (क) लक्षणम् पुर्वोक्तत्रिविधाधिमुक्तिप्रज्ञापारमितां प्रति प्रवृत्तस्य तद्भावकबोधिसत्त्वस्योत्साहवर्धनार्थं तदधिमोक्षस्य क्रियमाणाः स्तुत्यादयो यथाभूतार्थाधिगमलक्षणा नार्थवादरूपा इति लक्षणम् । (ख) भेदः पूर्ववत्सप्तविंशतिरेव प्रभेदाः । (ग) अवधिः अधिमुक्तिभावनामार्गवत् । ८. भावनामार्गपरिणामना अस्याः परिणामनायाः लक्षणभेदादिसर्वं स्वरूपमभिसमयालङ्कारे तिसृभिः कारिकाभिः स्पष्टमुपदर्शितम् । तथा हि - विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः । सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा । मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मकः ॥ (क) लक्षणम् यो माहायानिकः सविकल्पोऽन्वभिसमयः स्वपरकुशलपुण्यक्रियावस्तु अनुत्तरायां सम्यक्सम्बोधौ परिणामयति, स परिणामनाख्यो महायानभावनामार्ग इति लक्षणम् । (ख) भेदः अयं भावनामार्गो द्वादशविधो भवति, तद्यथा - विशेषपरिणामनामनस्कारः, अनुपलम्भाकारपरिणामनामनस्कारः, अविपर्यासलक्षणः परिणामनामनस्कारः, विविक्तपरिणामनामनस्कारः, बुद्धपुण्यौघस्वभावानुस्मृतिपरिणामनामनस्कारः, उपायकौशलपरिणामनामनस्कारः, अमिमित्तपरिणामनामनस्कारः, बुद्धानुज्ञात (अनुमोदित)-परिणामनामनस्कारः, त्रैधातुकापर्यापन्नपरिणामनामनस्कारः, महापुण्योदयात्मको मृदुपरिणामनामनस्कारः, महापुण्योदयात्मको मध्यपरिणामनामनस्कारः, महापुण्योदयात्मकोऽधिमात्रपरिणामनामनस्कार इति द्वादश भेदा भवन्ति । (ग) अवधिः प्रथमां प्रमुदिता भूमिमारभ्य यावद्दशमीं भूमिमस्य परिणामनामनस्कारस्य सीमा भवति । ९. भावनामार्गीयानुमोदना अनुमोदनामनस्कारस्य लक्षणभेदादयोऽभिसमयालङ्कारे एकयैव कारिकयेत्थमुपवर्णितम् । तथा हि - उपायानुपलम्भाभ्यां शुभमूलानुमोदना । अनुमोदे मनस्कारभावनेह विधीयते ॥ (क) लक्षणम् यो माहायानिकः सविकल्पोऽन्वभिसमयः स्व-परकुशलपुण्यक्रियावस्तूनि अनुमोदते, स अनुमोदनाख्यो महायानभावनामार्ग इति लक्षणम् । (ख) भेदः अनुमोदनामनस्कारस्य द्वौ भेदौ भवतः, यथा-स्वकुशलपुण्यक्रियावस्त्वनुमोदनम्, परकुशलपुण्यक्रियावस्त्वनुमोदनमिति । अथवा - संवृतिविषयी अनुमोदनामनस्कारः परमार्थविषयी अनुमोदनामनस्कारश्चेति । (ग) अवधिः अधिमुक्तिपरिणामनानुमोदनामनस्काराणां त्रयाणां भूम्यवधिः समान एव । १०. अभिनिर्हारः अनास्रवस्य अभिनिर्हारभावनामार्गस्य लक्षणादिकमभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् । तथा हि - स्वभाव-श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः । नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ (क) लक्षणम् माहायानिकोऽनास्रवोऽन्वभिसमयः, यः पर्यंन्ताधिगमकृत्यं व्यवस्थापयति, स अभिनिर्हाराख्यो महायानभावनामार्ग इति लक्षणम् । (ख) भेदः अस्य पञ्च भेदा भवन्ति, तद्यथा - रूपादिसर्वधर्माविपरीतदर्शनं स्वभावः, नान्यथा बुद्धत्वसम्प्राप्तिरिति भावनामार्गस्य श्रेष्ठता, सर्वधर्मविशेषानुत्पादनेन अधिगमप्रयोगोऽनभिसंस्कारः, सर्वधर्माणां परमार्थतोऽनुपलम्भतया अर्पणा, बुद्धत्वमहार्थसाधनान्महार्थतेति । (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्याभिनिर्हारस्य सीमा भवति । ११. अत्यन्तविशुद्धिः अत्यन्तविशुद्ध्याख्यस्य अनास्रवभावनामार्गस्य लक्षणादिकं सर्वमभिसमयालङ्कारे तिसृभिः कारिकाभिः सुस्पष्टं प्रतिपादितम् । तथा हि - फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः । अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता ॥ क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् । हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वदा ॥ मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु । अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ (क) लक्षणम् माहायानिकोऽनास्रवोऽन्वभिसमयः, योऽन्तिमप्रहाणस्य कृत्यं व्यवस्थापयति, स अत्यन्तविशुद्ध्याख्यो महायानभावनामार्ग इति लक्षणम् । (ख) भेदः भावनामार्गप्रहातव्यानां नवानां विपक्षाणां प्रतिपक्षभूता मृदुमृद्वादयो नव भावनामार्गा एवास्य अत्यन्तविशुद्धिभावनामार्गस्य भेदा भवन्ति । (ग) अवधिः प्रथमां भूमिमारभ्य दशमभूमिपर्यन्तमस्य भावनामार्गस्य सीमा भवतीति । ॥ इति मार्गज्ञतोपलक्षका एकादश धर्माः ॥ ___________________________ (इ) सर्वज्ञतोपलक्षका नव धर्माः १. प्रज्ञया न भवे स्थानम्, २. कृपया न शमे स्थितिः, ३. अनुपायेन जिनजनन्या दूरत्वम्, ४. उपायेन अविदूरता, ५. विपक्षः, ६. प्रतिपक्षः, प्रयोगः, ८. समता, ९. दर्शनमार्गश्चेति नव धर्माः सर्वज्ञतोपलक्षका इति अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यगुक्ताः । तथा हि - प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः । अनुपायेन दूरत्वमुपायेनाविदूरता ॥ विपक्षप्रतिपक्षौ च प्रयोगः समताऽस्य च । दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ १. प्रज्ञता न भवे स्थानम् २. कृपया न शमे स्थितिः उभयोर्लक्षणादिकमभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् । तथा हि - नापरे न परे तीरे नान्तराले तयोः स्थिता । अध्वनां समताज्ञानात्प्रज्ञापारमिता मता ॥ तत्र उभयोः लक्षणादीनि पृथक्पृथगत्राभिधीयन्ते । प्रज्ञया न भवे स्थानम् (क) लक्षणम् अनित्यादिषोडशाकाराणां साक्षात्कारिणी हीनयानजातीया महाकरुणागर्भा माहायानिकर्यसन्ततिस्था प्रज्ञा अस्याः सर्वज्ञताया लक्षणम् । इयं च बोधिसत्त्वानां प्रज्ञापारमिता प्रज्ञया संसारादीनवदर्शनात्न संसारे भवान्ते स्थिता । (ख) भेदः दर्शनमार्गः भावनामार्गः अशैक्षमार्गश्चेति त्रयो भेदा भवन्ति । दुःखादिचतुरार्यसत्यसम्बद्धानित्यादिषोडशाकाराणां साक्षात्कारी महायानभावनामार्गोऽस्याः सर्वज्ञतायाः प्रज्ञता न भवे स्थानमितिलक्षणात्मिकाया उपलक्षकः । कृपया न शमे स्थितिः (क) लक्षणम् महाकरुणया संवृत्यपेक्षशमान्तव्यावर्तको माहायानिकोऽभिसमयोऽस्याः सर्वज्ञताया लक्षणम् । इयं च प्रज्ञापारमिता कृपया सत्त्वार्थकरणात्न निर्वाणे शमान्ते स्थिता । माहायानिकभावनामार्गीयार्यपुद्गलसन्ततिस्था महाकरुणा अस्याः कृपया न शमे स्थितिरितिमार्गज्ञताया उपलक्षिका । (ख) भेदः माहायानिकस्यार्यस्य सत्त्वालम्बना धर्मालम्बना निरालम्बना चेति तिस्रो महाकरुणाः, बोधिचित्तोत्पादादयश्च भेदा भवन्ति । त्रैयध्विकधर्माणामनुत्पादाकारेण तुल्यतावबोधात्या श्रावकाद्यगोचरत्वेन विप्रकृष्टा बोधिसत्त्वानां प्रज्ञापारमिता, सा पुनर्नापरे तीरे संसारे, न परे तीरे निर्वाणे व्यवस्थिता । नापि संसारनिर्वाणमुभयमन्तरेण वस्तुनोऽसत्त्वात्मध्येऽपि स्थिता, प्रज्ञाकरुणयोः सम्यक्प्रतिवेधेन संसारनिर्वाणोभयोपलम्भवियोगात् । (ग) अवधिः प्रथमां प्रमुदिताभूमिमारभ्य बुद्धभूमिपर्यन्तमुभयोः सीमा भवति । ३. अनुपायेन दूरत्वम् अस्य लक्षणादिकं सर्वमभिसमयालङ्कारे कारिकार्धेन स्पष्टमुल्लिखितं तथा हि - अनुपायेन दूरं सा सनिमित्तोपलभ्भतः । (क) लक्षणम् श्रावकादीनामध्वसमताज्ञानाभावातनित्याद्याकाराणां साक्षात्कारि ज्ञानं सनिमित्तोपलम्भयोगेन कृपाप्रज्ञावैकल्यात्दूरीभूतं जिनजनन्या इति लक्षणम् । (ख) भेदः श्रावकसन्ततिस्थमनित्याद्याकारज्ञानं प्रत्येकबुद्धसन्ततिस्थं चानित्याद्याकारज्ञानमिति भेदद्वयम् । (ग) अवधिः दर्शनमार्गमारभ्य अर्हत्त्वावस्थापर्यन्तमस्य सीमा भवति । ४. उपायेन अविदूरता अस्य लक्षणादीनां प्रतिपादनमभिसमयालङ्कारे कारिकार्धेन सम्यक्कृतम् । तथा हि - उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ (क) लक्षणम् महाकरुणया शून्यतासाक्षात्कारिण्या प्रज्ञया चोपात्तं माहायानिकर्याणां हीनयानजातीयमनित्याद्याकारज्ञानमस्य लक्षणम् । "बोधिसत्त्वादीनां तु उत्सारितभावाभिनिवेशभ्रान्तिनिमित्तानां रूपादिसर्वधर्मपरिज्ञानमेव तत्समतापरिज्ञानमित्यतः सम्यगासन्नीभावो मातुरिति ज्ञेयम् ।" (ख) भेदः माहायानिको दर्शनमार्गः, भावनामार्गः, अशैक्षमार्गश्चेति त्रयो भेदा भवन्ति । (ग) अवधिः महायानदर्शनमार्गमारभ्य बुद्धभूमिपर्यन्तं सीमा भवति । ५. विपक्षः अस्य लक्षणादिकमभिसमयालङ्कारे एकयां कारिकया सुस्पष्टं प्रतिपादितम् । तथा हि - रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ (क) लक्षणम् महाकरुणा शून्यताप्रज्ञाभ्यां वियुक्ता भावोलम्भस्वभावा हैनयानिकी वस्तुज्ञतेति लक्षणम् । "सर्वेषां रूपादीनां त्रैयध्विकानां च धर्माणां सास्रवानास्रवोभयस्थानीयानामनुपलम्भस्वरूपाणां सर्वत्र भावोपलम्भतया ते परपरिकल्पितात्मादिशून्यत्वेन दृष्टाः । अनुष्ठानसंज्ञा तु एतेषां प्रतिपक्षभूतापि विपर्यासप्रवृत्तत्वेन हेयत्वात्विपक्षो भवति ।" (ख) भेदः (ग) अवधिः अस्य भेदोऽवधिश्चेत्युभौऽअनुपायेन दूरत्वम्ऽ इत्यस्मिन् प्रकरेण यथा प्रदर्शितौ, तद्वत्ज्ञेयादिति । ६. प्रतिपक्षः अस्य लक्षणभेदादिकं सर्वमभिसमयालङ्कारे तिसृभिः कारिकाभिः सविस्तरमुपदर्शितम् । तथा हि - दानादिष्वनहंकारः परषां तन्नियोजनम् । सङ्गकोटीनिषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु ॥ तद्गाम्भीर्यं प्रकृत्यैव विवेकाद्धर्मपद्धतेः । एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता । रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ (क) लक्षणम् महाकरुणोपायेन शून्यतासाक्षात्कारिण्या प्रज्ञया चोपात्ता माहायानिकार्यसन्ततिस्था वस्तुज्ञता प्रतिपक्षलक्षणात्मिका । (ख) भेदोऽवधिश्च उभावपि पूर्वऽउपायेन अविदूरताऽ इत्यस्मिन् प्रसङ्गे यथावर्णितौ तथा ज्ञातव्यौ । विशेषः जिनजनन्या दूरत्वमविदूरत्वमिति वस्तुज्ञतायाः (सर्वज्ञतायाः) द्वौ भेदौ । हीनयानापुरःसरायाः फलभूतजिनजनन्याः अविदूरता, उपायकौशलेन अविदूरता, प्रतिपक्षः, माहायानीयवस्तुज्ञता चेति चत्वारः पर्यायाः । फलभूतजिनजनन्या दूरत्वम, अनुपायेन दूरत्वम्, निमित्तोपलम्भग्राहप्रतिबद्धता, विपक्षः, हीनयानवस्तुज्ञता चेति पर्यायवाचिनः. यथानिर्दिष्ट एव श्रावकबोधिसत्वादीनां विपक्षप्रतिपक्षयोरयं विभागोऽवसातव्यः । तथा चोक्तम् - एवं कृत्वा यथोक्तौ वै ज्ञेयः सर्वज्ञतानये । अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः ॥ अपि च - "श्रावकादीनामेवं मातुर्दूरीभावेनानुष्ठानं प्रतिपक्षोऽपि सन् वस्तूपलम्भविपर्यासप्रवृत्तत्वेन बोधिसत्त्वानां त्याज्यत्वाद्विपक्ष इति" । ७. प्रयोगः अस्य लक्षणभेदादिकं सर्वमभिसमयालङ्कारे सार्धद्वयेन कारिकाग्रन्थेन सविस्तरं प्रतिपादितम् । तथा हि - रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः । तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा । यथाभव्यं फलप्राप्तेरवन्ध्योऽभिमतश्च सः ॥ अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः । (क) लक्षणम् सांवृतिके वस्तुस्वरूपे तद्विशेषे च विपर्यासप्रवृत्तस्य उपलम्भाभिनिवेशस्य प्रतिपक्षभूतो हीनयानजातीयः सत्त्वयोगः प्रयोग इति लक्षणम् । (ख) भेदः प्रयोगः दशविधो भवति । तद्यथा - रूपादिषु सत्याभिनिवेशप्रतिषेधः, तद्विशेषेष्वनित्यादिषु सत्याभिनिवेशप्रतिषेधः, कल्पितरूपेषु अपरिपूरिः, धर्मतारूपेषु प्रपूरिः, पारमितासु परमार्थतोऽपरिहाणिवृद्धी (अविकारत्वम्), परमार्थतोऽकर्तृत्वम्, त्रिसर्वज्ञात्मकानां यथाक्रममुद्देशप्रयोगकारित्राणां दुष्करता, यथाभव्यफलप्राप्त्या अवन्ध्यता, महानुशंसायां बोधौ अपरप्रत्ययत्वम्, स्वप्नोपमपरिणामादिसप्तविधख्यातिज्ञानमिति दश भेदा भवन्ति । (ग) अवधिः सम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति । ८. समता अस्याः स्वरूपमभिसमयालङ्कारे कारिकार्धेन समादर्शितम् । तथा हि - चतुर्धाऽमनना तस्य रूपादौ समता मता । (क) लक्षणम् उपर्युक्तदशविधवस्तुज्ञताप्रयोगाकाराणां ज्ञातृज्ञेयधर्माणाममनना समताया लक्षणम् । (ख) भेदः पूर्वोक्तेषु दशविधप्रयोगेषु प्रतिस्वं चतस्रः अमनना भवन्तीति चत्वारिंशदस्याः समतायाः प्रभेदा भवन्ति । उक्तं चालोकटीकायाम् - "तदेवं रूपादिपदार्थमनना-नीलादिनिमित्तमनना-ऽरूपं द्विधा विंशतिधेऽ-त्यादिप्रपञ्चमनना-निर्वेधभागीयाद्यधिगममननानां प्रतिषेधेन ज्ञातृज्ञेयधर्मानुपलब्धिश्चतुर्विधोक्ता विज्ञेया ।" (ग) अवधिः सम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्याः समतायाः सीमा भवति । ९. दर्शनमार्गः अस्य लक्षणादिकं सर्वमभिसमयालङ्कारे पञ्चभिः कारिकाभिः प्रतिपादितम् । (क) लक्षणम् द्वात्रिंशत्समारोपशून्यः सत्याभिसमयो दर्शनमार्ग इति लक्षणम् । (ख) भेदः त्रयाणां यानानां त्रयाणां दर्शमार्गाणां व्यावृत्तिभेदेन षोडश क्षणा एवास्य षोडश भेदा भवन्तीति । ॥ इति सर्वज्ञतोपलक्षका नव धर्माः ॥ ___________________________________________________________________ २. चतुःप्रयोगोपलक्षकाः षट्त्रिंशद्धर्माः तत्र सर्वाकाराभिसम्बोधोपलक्षका एकादश धर्माः, मूर्धाभिसमयोपलक्षका अष्टौ धर्माः, आनुपूर्विकाभिसमयोपक्षकास्त्रयोदश धर्माः, एकक्षणाभिसम्बोधोपलक्षकाश्चत्वार इति षट्त्रिंशद्भवन्ति । (अ) सर्वाकाराभिसम्बोधोपलक्षका एकादश धर्माः १. आकाराः, २. प्रयोगाः, ३. गुणाः, ४. दोषाः, ५. लक्षणानि, ६. मोक्षभागीयम्, ७. निर्वेधभागीयम्, ८. अवैवर्तिको गणः, ९. भवशान्त्योः समता, १०. अनुत्तरा क्षेत्रशुद्धिः, ११. उपायकौशलमित्येकादश धर्माः सर्वाकाराभिसम्बोधमुपलक्षयन्तीति अभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामुपदर्शितम् । तथा हि - आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः । मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ समता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा । सर्वाकाराभिसम्बोध एष सोपायकौशलः ॥ (क) लक्षणम् त्रिसर्वज्ञतासम्बद्धानां त्रिसप्तत्युत्तरैकशताकाराणां भावनामय्या प्रज्ञयोपात्तत्वेन व्यवस्थापितः सत्वयोगः सर्वाकाराभिसम्बोध इति लक्षणम् । (ख) पर्यायाः बोधिसत्त्वमार्गः, पारमितामार्गः, सत्त्वयोगः, आकारज्ञताप्रयोगः, मार्गज्ञताप्रयोगः, सन्नाहप्रतिपत्तिरित्यनर्थान्तरम् । (ग) भेदः आकारदृष्ट्या त्रिसप्तत्युत्तरशतम्, प्रयोगदृष्ट्या विंशतिः भेदा भवन्ति । (घ) अवधिः महायानसम्भारमार्गमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति । १. आकाराः आकाराणां लक्षणादिकं सर्वमभिसमयालङ्कारे पञ्चभिः कारिकाभिः सविस्तरं सम्यगुपवर्णितम् । (क) लक्षणम् सर्वाकारमार्गवस्तुज्ञानसंग्रहेण त्रिसर्वज्ञताकाराणां भावनामयं प्रयोगवैशिष्ट्यमाकाराणां लक्षणमिति । (ख) भेदः त्रिसप्तत्युत्तरशतमाकाराणां भेदा भवन्ति । तथा हि - सर्वज्ञतायाः सप्तविंशतिः, मार्गज्ञतायाः षट्त्रिंशत्, सर्वाकारज्ञताया दशोत्तरशतमिति त्रिसप्तत्युत्तरशतं भेदाः । चतुरार्यसत्येषु प्रथमतः त्रयाणां सत्यानां प्रत्येकं चत्वार इति द्वादश, मार्गसत्यस्य चतुर्थस्य पञ्चदश चेति सर्वज्ञतायाः (वस्तुज्ञतायाः) सप्तविंशतिराकाराः । तथा चोक्तमभिसमयालङ्कारे - असदाकारमारभ्य यावन्निश्चलताकृतिः । चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ समुदयसत्यस्य अष्टौ, मार्गसत्यस्य सप्त, दुःखसत्यस्य पञ्च, निरोधसत्यस्य षोडश चेति मार्गज्ञतायाः षट्त्रिंशदाकारा भवन्ति । तथा चोक्तमभिसमयालङ्कारे - हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ शैक्षश्रावकाणां सप्तत्रिंशद्बोधिपक्ष्या वस्तुज्ञताया आकाराः, बोधिसत्त्वानां मार्गज्ञतायाः चतुस्त्रिंशत्, बुद्धानां सर्वाकारज्ञताया असाधारणा एकोनचत्वारिंशच्चेति सर्वाकारज्ञताया दशोत्तरशतमाकारा भवन्ति । तथा चोक्तमभिसमयालङ्कारे - स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः । शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ सप्तत्रिंशच्चतुस्त्रिंशत्त्रिशन्नव च ते मताः । त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ज्ञानाकारेभ्यः पूर्वमर्थाकाराः परिज्ञातव्या इति प्रथमतः त्रिसप्तत्युत्तरशतमर्थाकारा उपदर्शिताः । २. प्रयोगाः प्रयोगाणां लक्षणादिकमभिसमयालङ्कारे चतसृभिः कारिकाभिः सविस्तरं सुस्पष्टमुपवर्णितम् । (क) लक्षणम् ज्ञातृज्ञेययोः वस्तुमार्गाकाराणां च शमथविपश्यनायुगनद्धभावनास्वरूपं निःस्वभावतानिष्प्रपञ्चात्मकं ज्ञानमेवात्र साक्षान्निर्दिष्टस्य प्रयोगस्य लक्षणमिति । अथवा - त्रिसर्वज्ञतानां यावदाकाराणां शमथविपश्यनायुगनद्धभावनामय्या प्रज्ञयोपात्तः सत्त्वयोग एवात्र निर्दिष्टप्रयोगस्य लक्षणम् । यतो हिऽकृच्छ्राच्चिरेण प्रतिवोधतःऽ इत्यनेन निर्दिष्टः सम्भारमार्गीयः प्रयोगोऽत्र संगृहीतो भवति । (ख) भेदः विंशतिः प्रयोगाणां भेदा भवन्ति । तत्र स्वरूपतः पञ्च प्रमेदाः, यथा - रूपादिषु निःस्वभावतया अनवस्थानप्रयोगः, अयोग एव तेषु प्रयोगो भवतीत्ययोगप्रयोगः, रूपादितथतागम्भीरतया प्रतिष्ठानानुपलब्ध्यर्थेन सर्वज्ञताधिकारे गम्भीरप्रयोगः, रूपादिदुरवगाहतया प्रकृत्यनाविलार्थेन मार्गज्ञताधिकारे दुरवगाहप्रयोगः, रूपाद्यप्रमाणतया पर्यन्तानुपलम्भार्थेन सर्वाकारज्ञताधिकारे अप्रमाणप्रयोग इति । पुद्गलाश्रयदृष्ट्या अष्टौ प्रयोगाः । तथा हि - गम्भीरशून्यतायामुत्त्रसनजातीयस्यादिकर्मिकस्य कृच्छचिराभिसम्बोधप्रयोगः, प्रयोगमार्गीयोष्माभिसमयादारभ्य गम्भीरधर्मतायामुत्त्रासो न भवति, न च स्वप्नेऽपि षट्पारमिताचर्यासु दूरीभाव इति व्याकरणलाभप्रयोगः, मूर्धाभिसमयादारभ्य धर्मताधिगमविषयकेण चिराभ्यासेन अविनिवर्तनीयप्रयोगः, क्षान्तिमारभ्य उपायकौशलेन धर्मताधिगमदृढतया श्रावकप्रत्येकबुद्धन्तरायिकधर्मवर्जनात्निर्याणप्रयोगः, अग्रधर्माभिसमयमारभ्य स्तम्बाद्यनुपलम्भात्महासमुद्रस्याभ्यासन्नत्वमिव सततभावनादिप्रतिपत्त्या निरन्तरप्रयोगबलेन धर्मंधातोः साक्षाद्दर्शनस्याभ्यासन्नत्वनिश्चय इति निरन्तरप्रयोगः, सर्वज्ञताहेतूनामभिनवानास्रवधर्माणामाधारत्वप्रतिपत्तेरासन्नाभिसम्बोधप्रयोगः, क्षिप्रं धर्मंकायफलाभिनिर्वर्तनात्क्षिप्राभिसम्बोधप्रयोगः, धर्मचक्रप्रवर्तनादिकं परार्थप्रयोग इति । प्रज्ञापारमिताभावनापारिपूर्युपायदृष्ट्या चत्वारः प्रयोगाः । तद्यथा परमार्थतो गुणदोषाणां वृद्धिपरिहाण्यदर्शनेन प्रज्ञापारमितायां चरणानुज्ञानातवृद्ध्यपरिहाणिप्रयोगः, परमार्थतो धर्माधर्मादेरनुपलम्भप्रतिपत्त्या धर्माधर्माद्यनुपलम्भप्रयोगः, धर्मधातुरूपत्वेन रूपाद्यचिन्त्यमिति अचिन्त्यप्रयोगः, धर्मधातुरूपत्वात्रूपादितन्निमित्ततत्स्वभावादिषु विकल्पाभावादविकल्पप्रयोग इति । प्रयोगफलदृष्ट्या द्वौ प्रयोगौ । तथा हि - स्रोतापत्त्याद्यनुत्तरसम्यक्सम्बोधिफलरत्नप्रदायकत्वात्फलरत्नदानप्रयोगः, क्लेशज्ञेयावरणप्रहाणहेतुत्वेन विशुद्धिप्रयोग इति द्वौ । क्षिप्रभावनादृष्ट्या एकः प्रयोगः, यथा धर्मतैषा यस्मान्महारत्नानां बहवोऽन्तरायाः सम्भवन्ति, तस्मात्परमरत्नस्वभावाया मातुः संवत्सरेण बह्वन्तरायत्वेऽपि लिखनं शीघ्रमेवेति अवधिप्रयोगः । ३. गुणाः गुणानां लक्षणादिकं सर्वमभिसमयालङ्कारे कारिकार्धेनोपदर्शितम् । तथा हि - माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः । (क) लक्षणम् प्रयोगाणां भावनाबलेन अधिगतप्राशस्त्यं गुणानां लक्षणम् । (ख) भेदः गुणानां चतुर्दश भेदा भवन्ति । तथा हि - पारमितायामुद्गृह्यमाणायां मारकृतविघ्नाः तथागतानुभावेन व्याहन्यन्त इति मारशक्तिव्याघातगुणः, प्रयोगमौलपृष्ठावस्थासु तथागतसमन्वाहरणलाभात्बुद्धसमन्वाहारज्ञातत्वगुणः, तथागतज्ञानदर्शनलाभात्बुद्धप्रत्यक्षीकरणगुणः, तथागतानां समीपीभवनलाभेन सम्यक्सम्बोध्यासन्नीभावगुणः, महानुशंसलाभात्महार्थतादिगुणः, तथागतकृत्यकरणाद्देशनिरूपणागुणलाभेन देशनिरूपणगुणः, प्रतिपक्षधर्मपरिपूरणलाभात्सर्वानास्रवधर्मपरिपूरिगुणः, सर्वाकारज्ञताकथाकथनलाभेन कथापुरुषतागुणः, तथागतसानाथ्यकरणलाभेन अभेद्यतागुणः, महोदारप्रीतिसम्पादनातसाधारणकुशलमूलोत्पत्तिगुणः, प्रतिज्ञानुमोदनलाभे क्रमण प्रयोगाभ्यासात्प्रतिज्ञायाथार्थ्यसम्पादनगुणः, गम्भीरोदारार्थाधिमोक्षेण उदारफलपरिग्रहणगुणः, सत्वार्थकरणसामर्थ्यलाभेन सत्त्वार्थप्रतिपत्तिगुणः, अविकलप्रज्ञापारमिताप्रापककुशलमूलसमन्वागमे प्रयोगाभ्यासेन नियतिलाभगुणश्चेति चतुर्दश गुणाः । ४. दोषाः प्रयोगाणां दोषा अभिसमयालङ्कारे कारिकार्धेन उपदर्शिताः । तथा हि - दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ (क) लक्षणम् प्रयोगोत्पत्तिस्थितिप्रकर्षगतीनामन्तरायकरा विघ्ना एव दोषा इति लक्षणम् । (ख) भेदः षट्चत्वारिंशद्दोषाणां भेदा भवन्ति । प्रथमं दशकम् । कृच्छ्रप्राप्तिः (चिरेण मातरि प्रतिभानम्), अत्याशुप्रतिभानता, कायदौष्ठुल्यम्, चित्तदौष्ठुल्यम्, अयोगविहितस्वाध्यायादिता, वैमुख्यनिमित्तग्राहिता, हेतुभ्रंशः, प्रणीतास्वादभ्रंशः, उत्तमयानभ्रंशः, उद्देशभ्रंशश्चेति दश । द्वितीय दशकम् हेतुफलसम्बन्धभ्रंशः, निरुत्तरस्थानभ्रशः, बहुविधविषयविकल्पप्रतिभानोत्पादः, अक्षरलिखनाभिनिवेशः, अभावाभिनिवेशः, अक्षराभिनिवेशः, अनक्षराभिनिवेशः, जनपदादिमनस्कारः, लाभसत्कारश्लोकास्वादनम्, अमार्गोपायकौशलमार्गणञ्चेति दश । अमी विशतिः दोषाः पारमितायां प्रवृत्तस्य योगिनोऽन्तरायकराः प्रतिपादिताः । सम्प्रति पुनः प्रवृत्तिपूर्विका विसामग्री निरुच्यते । तृतीयं दशकम् छन्दकिलासवैधुर्यम् (अयं हि श्रोतावक्त्रोः दोषः), छन्दविषयभेदवैधुर्यम् (अयमपि तथा), अल्पेच्छतानल्पेच्छतावैधुर्यम्, धूतगुणयोगायोगौ, कल्याणाकल्याणधर्मत्वम्, त्यागमात्सर्यम्, दानाग्रहणम्, उद्धटितज्ञविपञ्चितज्ञत्वम्, सूत्रादिधर्माभिज्ञानभिज्ञत्वम्, षट्पारमितासमन्वागमासमन्वागमाविति दश । चतुर्थं दशकम् उपायकौशलानुपायकौशले, धारणीप्रतिलम्भाप्रतिलम्भौ, लिखितुकामताऽलिखितुकामते, विगताविगतकामादिछन्दत्त्वे चेति चत्वारि; उपायगतिवैमुख्यम्, सुगतिगमनसौमनस्यमिति द्वे: श्रोतावक्त्रोः कस्यचिदेकाकिपर्षदभिरतिः, अनुबन्धकामानवकाशदानत्वम्, आमिषकिञ्चित्काभिलाषतददातुकामता, जीवितान्तरायानन्तरायदिग्गमनमिति चत्वारि चेति दश । अवशिष्टदोषषट्कम् दुर्भिक्षदिग्गमनागमनम्, चौराद्याकुलितदिग्गमनागमनम्, कुलावलोकनदौर्मनस्यमिति त्रीणि, मारभेदप्रयोगः, प्रतिवर्णिकोपसंहारः (कृत्रिमप्रतिपादनम्), अयथाविषयस्पृहोत्पादनमित्यपराणि त्रीणि चेति षट् । इत्येवं षट्चत्वारिंशद्दोषा भवन्ति । ५. लक्षणानि संक्षेपेण लक्षणस्य प्रतिपादनमभिसमयालङ्कारे एकया कारिकया कृतम् । तथा हि - लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् । ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ विस्तरेण तु लक्षणानां प्रतिपादनमभिसमयालङ्कारे अष्टादशभिः कारिकभिः सम्यग्विहितम् । (क) लक्षणम् स्वशक्त्या प्रयोगस्वरूपस्योपलक्षकः सत्त्वयोगो मार्गंपारमिताप्रयोगलक्षणम् । (ख) भेदः प्रयोगाणां लक्षणं करणसाधनपरिग्रहेण ज्ञान-विशेष-कारित्रस्वरूपम्, कर्मसाधनपरिग्रहेण स्वभावात्मकमिति लक्षणं चतुर्विधं बोद्धव्यम् । तत्र ज्ञानलक्षणानि अष्टचत्वारिंशत्, विशेषलक्षणानि षोडश, कारित्रलक्षणानि एकादश स्वभावलक्षणानि षोडश चेति लक्षणानां भेदा विस्तरेण एकनवतिः भवन्ति । (अ) ज्ञानलक्षणानि अष्टचत्वारिंशद् ज्ञनलक्षणानां सर्वेषां विस्तरेण प्रतिपादनमभिसमयालङ्कारे नवभिः कारिकाभिः सुस्पष्टं विहितम् । (क) लक्षणम् महाकरुणाशून्यतावलम्बितप्रज्ञाविशिष्टेनोपायकौशलेनोपात्तः सत्त्वयोगो लक्षणम् । क्लेशलिङ्गादयो वक्ष्यमाणाः स्वभावा एव एतेषामुपलक्षकाः । (ख) भेदः अष्टचत्वारिंशद्ज्ञानलक्षणान्यपि त्रिषु व्याख्यातानि । तथा हि - सर्वज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश, मार्गज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश, सर्वाकारज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश चेति त्रिधा भेदः । सर्वज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश तथागतनिर्वृत्तिज्ञानम्, लोकालुज्यताज्ञानम्, सर्वसत्त्वचित्तचरितज्ञानम्, चिअत्तसंक्षेपज्ञानम्, चित्तविक्षेपज्ञानम्, चित्ताक्षयाकारज्ञानम्, सरागादिचित्तज्ञानम्, विगतरागादिचित्तज्ञानम्, विपुलचित्तज्ञानम्, महद्गतचित्तज्ञानमप्रमाणचित्तज्ञानम्, अनिदर्शनचित्तज्ञानमदृश्यचित्तज्ञानम्, चित्तोन्मिञ्जितादिज्ञानम्, उन्मिञ्जितादितथताकारज्ञानम्, तथागततथतावबोधतत्परसमाख्यानप्रज्ञपनज्ञानं चेति षोडश । तथोक्तमभिसमयालङ्कारे - तथागतस्य निर्वृतौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ अक्षयाकारतायां च सरागादौ प्रविस्तृते । महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥ अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् । पुनस्तथत्ताकारेण ते षां ज्ञानमत्तः परम् ॥ तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ मार्गज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश शून्यताज्ञानम्, अनिमित्तज्ञानम्, अप्रणिहितज्ञानम्, परमार्थतोऽनुत्पादज्ञानम्, अनिरोधज्ञानम्, आदिशब्देनासंक्लेशज्ञानम्, अव्यवदानज्ञानम्, अभावज्ञानम्, स्वभावज्ञानम्, अनिश्रितज्ञानम्, आकाशलक्षणज्ञानमिति षट्संगृहीत्तानि; धर्मताऽविकोपनज्ञानम्, असंस्कारज्ञानम्, अविकल्पज्ञानम्, प्रभेदज्ञानम्, अलक्षणज्ञानमिति षोडश । तथा चोक्तमभिसमयालङ्कारे - शून्यत्वे सानिमित्ते च प्रणिधानविवर्जिते । अनुत्पादानिरोधादौ धर्मताया अकोपने ॥ असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयोः । मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ सर्वाकारज्ञतासंगृहीतानि ज्ञानलक्षणानि षोडश तथागतस्वधर्मोपनिश्रयविहारज्ञानम्, सत्कारज्ञानम्, गुरुकारज्ञानम्, माननाज्ञानम्, पूजनाज्ञानम्, परमार्थतोऽकृतकज्ञानम्, सर्वत्रगज्ञानम्, अदृष्टार्थदर्शकज्ञानम्, लोकशून्यताकारज्ञानम्, लोकशून्यतासूचकज्ञानम्, लोकशून्यताज्ञापकज्ञानम्, लोकशून्यतादर्शकज्ञानम्, परमार्थतोऽचिन्त्यतादेशनाज्ञानम्, परमार्थतप्रपञ्चशान्तताज्ञानम्, स्वभावसिद्धलोकनिरोधज्ञानम्, लोकसंज्ञानिरोधज्ञानमिति षोडश । तथा चोक्तमभिसमयालङ्कारे - स्वधर्ममुपनिश्रित्य विहारे तस्य सकृतौ । गुरुत्वे माननायां च तत्पूजाऽकृतकत्वयोः ॥ सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारसूचकज्ञापकाक्षगम् ॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञानिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञातानये ॥ (आ) विशेषलक्षणानि षोडश विशेषलक्षणानां षोडशानां लक्षणादिकं सर्वमभिसमयालङ्कारे सम्यगुपदर्शितम् । तथा हि - अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः । विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ (क) लक्षणम् अचिन्त्यादिविशेषणैर्विशिष्टं सत्त्वज्ञानं प्रयोगाणां विशेषलक्षणम् । अथवा - हैनयानिकप्रयोगेभ्यो बोधिसत्त्वप्रयोगाणां वैशिष्ट्यमुपलक्षयन्तीति विशेषलक्षणानि । क्लेशलिङ्गादयः षोडश स्वभावा एतेषां विशेषलक्षणानामुपलक्षकाः । (ख) भेदः माहायानीयदर्शनमार्गीयक्षान्तिज्ञानक्षणानि षोढश श्रावकप्रत्येकबुद्धदर्शनमार्गसम्बद्धक्षान्तिज्ञानक्षणेभ्यो विशिष्टतराणीति षोडश भेदा भवन्ति । तथा हि - दुःखसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि क्रमशः अचिन्त्यविशेषः अतुल्यविशेषः, अप्रमेयविशेषः, असंख्येयविशेषश्चेति चत्वारो भेदाः । समुदयसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि यथाक्रमं सर्वार्यपुद्गलसंग्रहविशेषः, पुरुषविशेषवेदनीयताविशेषः श्रावकाद्यसाधारताविशेषः, श्रावकादिभ्यः क्षिप्राभिज्ञताविशेषश्चेति चत्वारो भेदाः । निरोधसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि यथाक्रममन्यूनापूर्णताविशेषः, तीव्रप्रतिपत्तिविशेषः, समुदागमविशेषः, आलम्बनविशेषश्चेति चत्वारो भेदाः । मार्गसत्यालम्बनानि चतुःक्षणसंगृहीतानि क्षान्तिज्ञानानि यथाक्रममाधारविशेषः, साकल्यविशेषः, सम्परिग्रहविशेषः, अनास्वादविशेषश्चेति चत्वारो भेदाः । इति षोडशात्मकः दुःखादिसत्यक्षणानां विशेषः, येन श्रावकादिमार्गेभ्यो बोधिसत्त्वादीनां मार्गज्ञतादिद्वये विशेषमार्गो विशिष्यते । तथा चोक्तमभिसमयालङ्कारे - अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ । सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनं च साधारं साकल्यं सम्परिग्रहः ॥ अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः । विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥ (इ) कारित्रलक्षणानि एकादश कारित्राणां लक्षणादिकमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यां सम्यगावेदितम् । तथा हि - हितं सुखं च त्राणं च शरणं लयनं नृणाम् । परायणं च द्वीपं च परिणायकसंज्ञकम् ॥ अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ (क) लक्षणम् हितसुखत्राणादिप्रतिविशिष्टज्ञानैः सत्त्वप्रयोगाः परार्थसम्पादनसाधनैः योज्यन्त इति तानि कारित्रलक्षणान्युच्यन्ते । क्लेशलिङ्गादयः षोडश स्वभावाः कारित्राणामुपलक्षका भवन्ति । (ख) भेदः कारित्राणामेकादश भेदा भवन्ति । तत्र सर्वज्ञतायाः त्रीणि, मार्गज्ञतायाः सप्त, सर्वाकारज्ञताया एकमिति एकादश कारित्राणि भवन्ति । सर्वज्ञताकारित्राणि त्रीणि सर्वसत्त्वानामनागतमोक्षसुखोपसंहारार्थेन हितकारित्रम्, लोकस्य दुःखदौर्मनस्यादीनि प्रहाय ऐहिकसुखोपसंहारेण सुखकारित्रम्, दुःखरहिताविपाकधर्मतायां स्थापनात्त्राणकारित्रमिति त्रीणि । मार्गज्ञताकारित्राणि सप्त आत्यन्तिकहितोपसंहारार्थेन शरणकारित्रम्, दुःखहेतुनिवर्तनार्थेन लयनकारित्रम्, संसारनिर्वाणसमतोपसम्पादनार्थेन परायणकारित्रम्, स्वपरार्थाधिगमाधारभावोपसंहारात्द्वीपकारित्रम्, परार्थप्रतिपत्त्युपसंहारात्परिणायककारित्रम्, अनाभोगप्रवृत्तसत्त्वार्थोपसंहारातनाभोगकारित्रम्, यानत्रयनिर्याणत्तत्फलासाक्षात्करणकारित्रमिति सप्त । सर्वाकारज्ञताकारित्रमेकम् सर्वाकारज्ञतया सर्वधर्मदैशिकत्वेन सर्वाकारज्ञताया एकमेव गतिकारित्रम् । कारित्राकारैरेवं यथावत्सर्वज्ञतात्रयस्य प्रयोगा लक्ष्यन्त इति कारित्रलक्षणम् । (उ) स्वभावलक्षणानि षोडश एतेषां स्वभावलक्षणानां स्वरूपप्रतिपादनमभिसमयालङ्कारे तिसृभिः कारिकाभिः सम्यग्विहितम् । (क) लक्षणम् उपरिनिर्दिष्टं प्रयोगलक्षणमेव एतेषामपि लक्षणं भवति । (ख) भेदः स्वभावानां षोडश भेदा भवन्ति । तत्र सर्वज्ञतायाः स्वभावाः चत्वारः, मार्गज्ञतायाः, स्वभावाः पञ्च, सर्वाकारज्ञतायाः स्वभावाः सप्तेति षोडश भवन्ति । सर्वज्ञतास्वभावाश्चत्वारः रागादिविविक्तस्वभावत्वेन क्लेशविवेकस्वभावः, रागादिलिङ्गकायादिदौष्ठुल्यविविक्तस्वभावत्वेन क्लेशलिङ्गविवेकस्वभावः रागादिनिमित्तायोनिशोमनसिकारविविक्तस्वभावत्वेन क्लेशनिमित्तविविक्तस्वभावः रागारागद्वेषाद्वेषमोहामोहविविक्तस्वभावत्वेन विपक्षप्रतिपक्षविवेकस्वभाव इति चत्वारः । मार्गज्ञतास्वभावाः पञ्च परमार्थासत्सर्वसत्त्वपरिनिर्वापणदुष्करसंनाहत्वेन दुष्करस्वभावः, अन्य (श्रावकादि-) यानापातलक्षण ऐकान्तिकस्वभावः, उत्तमश्चिरसाध्य उद्देशस्वभावः, भाव्यभावकभावनानुपलम्भातनुपलम्भस्वभावः, समस्तभावाभिनिवेशनिषेधादनभिनिवेशस्वभाव इति पञ्च । सर्वाकारज्ञतास्वभावाः सप्त सर्वज्ञतामार्गज्ञतासंगृहीतवस्तुविशेषालम्बनस्वभावः, लोकप्रतिपत्तिग्रहणादिविपरीतनिर्देशात्सर्वलोकविप्रत्यनीकस्वभावः, सर्वत्र रूपादौ ज्ञानधर्मस्याप्रतिघातित्वादप्रतिघातस्वभावः, ज्ञानज्ञेयसमतया सर्वप्रतिष्ठानुपलम्भार्थेन अपदस्वभावः, तथतया अगतिस्वभावः, रूपादिसर्वधर्माणां तत्त्वेनानुत्पन्नत्वातजातिस्वभावः, भावाभावादिस्वभावत्रयानुपलम्भात्तथतानुपलम्भस्वभाव इति सप्त । इत्येवं षोडशभिः स्वभावैर्यथावत्त्रिसर्वज्ञताप्रयोगा लक्ष्यन्त इति स्वभावलक्षणानि । तथा चोक्तमभिसमयालङ्कारे - क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः । विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः ॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः । विप्रत्ययोऽविधाती च सोऽपदागत्यजातिकः ॥ तथताऽनुपलम्भश्च स्वभावः षोडशात्मकः । लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥ इत्येवं सामान्येन एकत्र कृतानि एकनवतिः लक्षणानि भवन्ति । ६. मोक्षभागीयम् अस्य सर्वं लक्षणादिकमभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् । तथा हि - अनिमित्तप्रदानादिसमुदागमकौशलम् । सर्वाकारावबोधेऽस्मिन्मोक्षभागीयमिष्यते ॥ (क) लक्षणम् अनिमित्तालम्बनज्ञानाकारेण दानाद्यारभ्य सर्वाकारज्ञतापर्यन्तं स्वसन्ताने समुदागमे कौशललक्षणो धर्माभिसमय एवात्र मोक्षभागीयमिति लक्षणम् । (ख) पर्यायः माहायानिको धर्माभिसमयः, माहायानिकं मोक्षभागीयम्, माहायानिकः सम्भारमार्ग इति पर्यायाः । (ग) निर्वचनम् मोक्षोऽत्र क्लेशविसंयोगविशेषः, तद्भागे (पक्षे) पातित्वात्मोक्षभागीयम् । अथवा - तद्भागे हितत्वात्मोक्षभागीयम् । (घ) भेदः अवस्थातः मृदुर्मध्योऽधिमात्रश्चेतो त्रयोऽस्य भेदाः । स्वरूपतः श्रुतमयं चिन्तामयं भावनामयमिति त्रिविधं मोक्षभागीयमिष्टम् । (ङ) अवधिः सम्भारमार्गें केवलमिदं भवतीति ज्ञेयम् । चित्तोत्पादसमकालमेवोत्पद्य स्वसन्ताने यावन्न श्रद्धादिपञ्चेन्द्रियोत्पादस्तावदस्य व्याप्तिर्भवति । (च) लिङ्गानि संसारादीनवान्मोक्षगुणांश श्रावं श्रावं रोमहर्षोद्गमाश्रुपातादयो भवन्ति, चित्तादीनत्वं निर्भयत्वमित्यादीनि लिङ्गानि । ७. निर्वेधभागीयम् अस्य लक्षणादिकं सर्वमभिसमयालङ्कारे सविस्तरं प्रतिपादितम् । (क) लक्षणम् उपायविशिष्टसत्त्वस्य अर्थाभिसमयो माहायानिकनिर्वेधभागीयस्य लक्षणम् । (ख) परिभाषा दर्शनहेयानां सवासनक्लेशानां निर्वेधकत्वेन दर्शनमार्गपक्षे पातित्वात्, तद्भागहितत्वाद्वा निर्वेधभागीयम् । (ग) भेदः निर्वेधभागीयस्य द्वादश भेदा भवन्ति । प्रथममूष्मा, मूर्धा, क्षान्तिः, अग्रधर्मश्चेति चत्वारो भेदाः । एषु चतुर्षु प्रत्येकं मृदुमध्याधिमात्रभेदेन त्रिविध इति द्वादश भेदा भवति । तथा चोक्तमभिसमयालङ्कारे - आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते । समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥ मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा । तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ (घ) अवधिः शून्यतालम्बनात्मिकां विदर्शनाप्राप्तिमारभ्य यावन्न दर्शनमार्गप्राप्तिस्तावदस्यावधिर्भवतीति । ८. अवैवर्तिको गणः अवैवर्तिकबोधिसत्त्वसंघस्य स्वरूपमेकया कारिकया अभिसमयालङ्कारे प्रोक्तम् । तथा हि - निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः । ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः ॥ (क) लक्षणम् रूपादिनिवृत्तिनिर्विचिकित्साद्याकारैः विंशतिप्रकारैः निर्वेधभागीयस्थानामवैवर्तिकलक्षणं ज्ञेयम् । (ख) भेदः निर्वेधभागीयप्रयोगमार्गस्थः, क्षान्तिज्ञानसंगृहीतदर्शनमार्गस्थः, परश्च प्राबन्धिकभावनामार्गस्थ इति त्रिविधो भवति अवैवर्तिकबोधिसत्त्वसंघ इति त्रयोऽस्य भेदा भवन्ति । (ग) अवधिः प्रयोगमार्गीयोष्माभिसमयमारभ्य अन्तिमक्षणावस्थितबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवतीति । ९. भवशान्त्योः समता अस्य समताप्रयोगस्य लक्षणादिमभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् । तथा हि - स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना । कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ (क) लक्षणम् पृष्ठलब्धावस्थायामपि सत्ताग्राहकविकल्पपरिक्षयात्शौद्धभूमिकं ज्ञानं भवशमसमताप्रयोगस्य लक्षणम् । (ख) भेदः तिसृणां शुद्धभूमीनां त्रीणि ज्ञानान्येवास्य त्रयो भेदाः । (ग) अवधिः अष्टमीं भूमिमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्य सीमा भवति । १०. क्षेत्रशुद्धिप्रयोगः प्रयोगस्तास्य लक्षणादिकं सर्वमभिसमयालङ्कारे एकया कारिकयाऽभिहितम् । तथा हि - सत्त्वलोकस्य याऽशुद्धिस्तस्याः शुद्ध्युपहारतः । तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ (क) लक्षणम् प्रणिधानादिकुशलमूलबलेन स्वबुद्धक्षेत्रं सत्त्वभाजनलोकात्मकं परिशोधितुकामस्य शौद्धभूमिकानि ज्ञानान्येव क्षेत्रशुद्धिप्रयोगस्य लक्षणानि । (ख) भेदः स्वबुद्धक्षेत्रस्य भाजनलोकशुद्धिप्रयोगः सत्त्वलोकशुद्धिप्रयोगश्चेति द्वौ भेदौ । (ग) अवधिः तिसृषु शुद्धभूमिष्वयं प्रयोगो भवतीति । ११. उपायकौशलम् अस्योपायकौशलप्रयोगस्य स्वरूपादिकमभिसमयालङ्कारे द्वाभ्यां कारिकाभ्यामुपदर्शितम् । तथा हि - विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रमः । अप्रतिष्ठो यथावेधसाधारणलक्षणः ॥ असक्तोऽनुपलम्भश्च निमित्तप्रणिधिक्षतः । तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ (क) लक्षणम् मनसिकारपरिवर्जनेन निराभोगकर्मसम्पादनसमर्थानि ज्ञानानि उपायकौशलात्मकानीति लक्षणम् । (ख) भेदः उपायकौशलस्य दश भेदा भवन्ति । यथा - आन्तरायिकधर्मसमतिक्रमणेन देवादिमारातिक्रमः, विभावितसर्वधर्मसमत्वेन अप्रतिष्ठितविहारः, प्रणिधानसमृद्ध्या यथावेधं परार्थकरणम्, स्वभ्यस्तसर्वदुष्करत्वेन असाधारणः, शुक्लधर्मविशुद्ध्या सर्वधर्मस्याग्रहणम्, शून्यताविमोक्षमुखत्वेन अनुपलम्भः, अनिमित्तविमोक्षमुखत्वेन अनिमित्तः, अप्रणिहितविमोक्षमुखत्वेन अप्रणिधानम्, प्रश्नपूर्वकावैवर्तिकधर्मकथनेन अवैवर्तिकलिङ्गम्, सर्वविषयज्ञानत्वेन अप्रमाणमिति दश उपायकौशलप्रयोगा इति । (ग) अवधिः अष्टमीं भूमिमारभ्य अन्तिमक्षणस्थबोधिसत्त्वावस्थापर्यन्तमस्म सीमा भवति । ॥ इति सर्वाकाराभिसम्बोधोपलक्षका एकादश धर्माः ॥ ___________________________ (आ) मूर्धाभिसमयोपलक्षका अष्टौ धर्माः १. लिङ्गम् (ऊष्मा मूर्धप्रयोगः), २. विवृद्धिः (मूर्धा मूर्धप्रयोगः), ३. निरूढिः (क्षान्तिः मूर्धप्रयोगः) , ४. चित्तसंस्थितिः (अग्रधर्मः मूर्धप्रयोगः) , ५. दर्शनमार्गः (मूर्धप्रयोग), ६. भावनामार्गः (मूर्धप्रयोगः), ७. आनन्तर्यसमाधिः (मूर्धप्रयोगः), ८. विप्रतिपत्तिः (मूर्धप्रयोगः) , इत्यष्टौ धर्मा मूर्धाभिसमयमुपलक्षयन्तीति अभिसमयालङ्कारे प्रतिपादितम् । तथा हि - लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः । चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि । आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ मूर्धाभिसमयः । १. लिङ्गम् (ऊष्मा मूर्धप्रयोगः) अस्योष्मणो मूर्धप्रयोगस्य स्वरूपमभिसमयालङ्कारे एकया कारिकयोपदर्शितम् । तथा हि - स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् । मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ (क) लक्षणम् स्वप्नेऽपि सर्वधर्माणां स्वप्नाभत्वदर्शनादिषु द्वादशलिङ्गेषु अन्यतमस्य प्राप्त्या व्यवस्थापितः प्रथमो निर्वेधभागीय ऊष्मा मूर्धप्रयोग इति लक्षणम् । (ख) मृदु-मध्याधिमात्रभेदेन त्रयोऽस्य भेदा भवन्ति । (ग) अवधिः नैरात्म्यालम्बनाया विदर्शनायाः प्राप्तिमारभ्य भूमिप्राप्तिपर्यन्तमस्य सीमा भवति । २. विवृद्धिः (मूर्धा मूर्धप्रयोगः) अस्य मूर्धाख्यस्य मूर्धप्रयोगस्य लक्षणादिकमभिसमयालङ्कारे एकया कारिकया परिदीपितम् । तथा हि - जम्बुद्वोपजनेयत्ताबुद्धपूजाशुभादिकाम् । उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ (क) लक्षणम् पुण्यविवृद्ध्यादिषोडशविवृद्धीनां पूर्णतया माहायानिको द्वितीयो निर्वेधभागीयो मूर्धा मूर्धप्रयोग इति लक्षणम् । अयं मूर्धा मूर्धप्रयोगः महायानप्रयोगमार्गीयो मूर्धप्रयोगश्चेति समानार्थकौ । (ख) भेदः मृदुमध्याधिमात्रभेदेन त्रयोऽस्य भेदा भवन्ति । (ग) अवधिः माहायानिकस्य प्रयोगमार्गीयमूर्धप्रयोगस्य यथावधिस्तथैवास्यापि ज्ञातव्यः । ३. निरूढिः (क्षान्तिः मूर्धप्रयोगः) अस्य निरूढ्याख्यमूर्धप्रयोगस्य सर्वं लक्षणादिकमभिसमयालङ्कारे एकया कारिकयोपवर्णितम् । तथा हि - त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा । अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते ॥ (क) लक्षणम् सम्यगुपायकौशलबलेन निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीभावेन यथोक्तसर्वाकारज्ञतादित्रिसर्वज्ञताधर्माणां (चित्तोत्पादादीनां) । अनुत्तरा परिपूरिः निरूढ्याख्यस्तृतीयो निर्वेधभागीयः क्षान्तिमूर्धप्रयोग इति लक्षणम् । अयं क्षान्त्याख्यो मूर्धप्रयोगः माहायानिकः प्रयोगमार्गीयक्षान्तिप्रयोगश्चेति द्वौ समानार्थकौ । (ख) भेदः मृमुमध्याधिमात्रभेदेनास्य क्षान्त्याख्यमूर्धप्रयोगस्य त्रयो भेदा भवन्ति । (ग) अवधिः यथा माहायानिकायाः प्रयोगमार्गीयायाः क्षान्तेरवधिस्तथा अस्यापि प्रयोगस्यावधिर्ज्ञातव्यः । ४. चित्तसंस्थितिः (अग्रधर्मः मूर्धप्रयोगः) अस्य अग्रधर्माख्यस्य मूर्धप्रयोगस्य लक्षणादिकमभिसमयालङ्कारे एकया कारिकया प्रतिपादितम् । तथा हि - चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः । कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ (क) लक्षणम् दर्शनमार्गोत्पादसमर्था प्रमाणातिक्रान्तपुण्यबहुत्वेन समाधिलक्षणा (स्थिरीभावलक्षणा) चित्तसंस्थितिश्चतुर्थनिर्वेधभागीयोऽग्रधर्मो मूर्धप्रयोग इति लक्षणम् (ख) भेदः मृदुमध्याधिमात्रभेदेन त्रयोऽस्य प्रयोगस्य भेदा भवन्ति । (ग) अवधिः माहायानिकस्य प्रयोगमार्गीयाग्रधर्मस्य यथा अवधिस्तथैवास्यापि ज्ञातव्यः । एतानि च लिङ्गादीनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि वेदितव्यानि । ५. दर्शनमार्गः (मूर्धप्रयोगः) अस्य दर्शनमार्गाख्यस्य मूर्धप्रयोगस्य लक्षणादिकमभिसमयालङ्कारे सविस्तरमष्टादशभिः कारिकाभिः प्रतिपादितम् । (क) लक्षणम् दर्शनहेयायाः सत्ताग्राहिकाया दृष्टेः प्रतिपक्षभावेन व्यवस्थापितो माहायानिकः सत्याभिसमयो दर्शनमार्गाख्यो मूर्धप्रयोग इति लक्षणम् । अयं दर्शनमार्गाख्यो मूर्धप्रयोगः माहायानिको दर्शनमार्गश्च पर्यायौ । (ख) भेदः हेयदृष्ट्या दर्शनप्रहातव्यानां चतुर्णां विकल्पानां चत्वारः प्रतिपक्षा इति चत्वारोऽस्य प्रभेदा भवन्ति । समाहितः पृष्ठलब्धश्चेति द्वावपि भेदौ । (ग) अवधिः माहायानिकस्य दर्शनमार्गस्य अवधिवतस्याप्यवधिर्भवतीति । ६. भावनामार्गः (मूर्धप्रयोगः) अस्य भावनामार्गाख्यस्य मूर्धप्रयोगस्य सर्वं लक्षणादिकमभिसमयालङ्कारे नवभिः कारिकाभिः सविस्तरमभिहितम् । (क) लक्षणम् त्रिसर्वज्ञतापरिगृहीतया प्रकर्षप्राप्तप्रज्ञयोपात्तानां भावनाप्रहातव्यविकल्पप्रतिपक्षाणां दृष्ट्या व्यवस्थापितो माहायानिकोऽन्वभिसमयः भावनामार्गाख्यो मूर्धप्रयोग इति लक्षणम् । (ख) भेदः भावनाहेयानां नवानां विकल्पानां साक्षात्प्रतिपक्षभूता नवानन्तर्यमार्गाः, नव च विमुक्तिमार्गा इति अष्टादश अस्य भावनामार्गाख्यस्य मूर्धप्रयोगस्य भेदा भवन्ति । (ग) अवधिः प्रथमां भूमिमारभ्य दशमीं भूमिं यावदस्य सीमा भवतीति । ७. आनन्तर्यंसमाधिः (मूर्धप्रयोगः) बुद्धत्वप्राप्तेरव्यवहितो यः पूर्वसमनन्तरः समाधिः, सोऽत्र आनन्तर्यसमाधिः । अस्य लक्षणादिकं सर्वं स्वरूपमभिसमयालङ्कारे तिसृभिः कारिकाभिः सम्यक्प्रतिपादितम् । तथा हि - त्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि । बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः । आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः । आकारः शान्तता चात्र ॥ (क) लक्षणम् त्रिसर्वज्ञतासंगृहीतप्रकर्षप्राप्तप्रज्ञापारमिताभावनायाः फलभूतस्य सर्वाकारज्ञताविपाकस्य अव्यवहितत्वेन साक्षादुत्पादकः पर्यन्तयोगः आनन्तर्यसमाध्याख्यो मूर्धप्रयोग इति लक्षणम् । अयमानन्तर्यसमाधिः मूर्धप्रयोगः, अन्तिमक्षणस्थबोधिसत्त्वस्य ज्ञानमित्यनर्थान्तरम् । (ख) भेदः एकक्षणिकाश्चत्वारः प्रयोग एवास्य चत्वारो भेदा भवन्ति । (ग) अवधिः अयं प्रयोगः केवलमन्तिमक्षणस्थबोधिसत्त्वावस्थायामेव भवतीति । ८. विप्रतिपत्तिः (मूर्धप्रयोगः) अविदितोपायकौशलानां प्रवादिनां नानाचोद्यमुखपरम्पराप्रसर्पिप्यो विप्रतिपत्तिअयोऽत्र निराकर्त्तव्या भवन्तीति तासां विप्रतिपत्तीनां सर्वं लक्षणादिकं स्वरूपमभिसमयालङ्कारे तिसृभिः कारिकाभिः सविस्तरं सम्यक्प्रतिपादितम् । तथा हि - आलम्बनोपपत्तौ च तत्स्वभावावधारणे । सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ लक्षणे भावनायां च मता विप्रतित्तयः । सर्वाकारज्ञताधारा षोढा दश च वादिनाम् ॥ (क) लक्षणम् संवृतिपरमार्थसत्ययोर्द्वयोः स्वभावत एकत्वलक्षणयोः अग्रहणरूपाः सम्मुखीभूतविकल्पाः तद्बीजानि वा निराकर्त्तव्या विप्रतिपत्तय इति लक्षणम् । (ख) भेदः विप्रतिपत्तीनां षोडश भेदा भवन्ति । तथा हि - संस्कृतासंस्कृतधात्वोरभावत्वेन आलम्बनोपपत्तौः सर्वथा नीरूपत्वादालम्बनस्वभावधारणे, भावाभावानुपलम्भेन सर्वाकारज्ञताज्ञाने, तथतास्वभावत्वेन संवृत्तिपरमार्थसत्यद्वये, दानाद्यनुपलम्भेन प्रयोगे, बोद्धव्याभावाद्बुद्धरत्ने, नामधेयमात्रत्वाद्धर्मरत्ने, रूपाद्यालम्बनप्रतिषेधात्संघरत्ने, दानाद्यनुलम्भेन उपायकौशले, भावाभावोभ्यरूपाधिगमप्रतिषेघात्तथागताभिसमये, प्रपञ्चव्यवस्थापितानित्यादित्वेन नित्यादिविपर्यासे, विभावितमार्गफलासाक्षात्करणेन मार्गे, हानोपादानाभावेन विपक्षे प्रतिपक्षे च, धर्म्यभावाद्धर्मलक्षणे, स्वसामान्यलक्षणानुपपत्त्या भावनायां चेति सर्वाकारज्ञताधिष्ठानाः संशयरूपाः षोडश विप्रतिपत्तयो भवन्ति । ताः यथासम्भवमुभयसत्याश्रितोपायकौशलेन निराकृत्य सम्यक्सर्वथा निश्चयमुत्पाद्य कल्याणकामैः बोधिसत्त्वैरानन्तर्यसमाधिरधिगन्तव्यः । एतासु कल्पनात्मिका विप्रतिपत्तयो मुख्याः, याश्च प्रसङ्गमुखेनोक्तास्ता गौणा इति मन्तव्याः । एताः षोडशापि विप्रतिपत्तयो कल्पनात्मिका शब्दात्मिका चेति द्वयोरन्तर्भवन्ति । द्वयोः सत्ययोरेकमालम्ब्य यदपरं निराकरोति तदभिनिवेशात्मकं ज्ञानमेव कल्पनात्मिका विप्रतिपत्तिः । द्वयोः सत्ययोरेकं निमित्तीकृत्य या अपरं निराकरोति सा वाक्शब्दात्मिका विप्रतिपत्तिअरवसेया । (ग) अवधिः मार्गेऽप्रवेशादारभ्य अशुद्धसप्तभूमिपर्यन्तमासां विप्रतिपत्तीनां सीमा भवतीति । ॥ इति मूर्धाभिसमयोपलक्षका अष्टौ धर्माः ॥ ___________________________ (इ) आनुपूर्विकाभिसमयोपलक्षकाः त्रयोदश धर्माः आनुपूर्विकाभिसमयस्य स्वरूपनिर्देशः अभिसमयालङ्कारे संक्षेपतः कारिकाशेन कृतः । तथा हि - त्रेधा दशधा चानुपूर्विकः विस्तरतस्तु तस्य लक्षणादिकमनया एकया कारिकयोपन्यस्तम् । तथा हि - दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा । धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ (क) लक्षणम् सर्वाकारज्ञतादित्रिसर्वज्ञताकारानधिगताननुपूर्वीकृत्य प्रज्ञाभावनयोपात्तः सत्त्वयोगः आनुपूर्विकप्रयोग इति लक्षणम् । (ख) भेदः दानादिषट्पारमितापरिपूरणेन (षट्), बुद्ध-धर्म-संघ-शील-त्याग-देवता-नामनुस्मरणेन (षट्) , रूपादिसर्वधर्माभावे स्वभावावबोधेन (एकः) योऽधिगमः स आनुपूर्विकाभिसमयस्त्रयोदशविध इत्यस्य त्रयोदश भेदा भवन्ति । (ग) अवधिः सम्भारमार्गमारभ्य एकक्षणाभिसम्बोधात्समनन्तरपूर्वक्षणपर्यन्तमस्य सीमा भवतीति । ॥ इति आनुपूर्विकाभिसमयोपलक्षकाः त्रयोदशः धर्माः ॥ ___________________________ (ई) एकक्षणाभिसम्बोधाभिसमयोपलक्षकाः चत्वारो धर्माः एकक्षणाभिसम्बोधस्य स्वरूपनिर्देशः अभिसमयालङ्कारे कारिकार्धेन संक्षेपतः कृतः । तथा हि - एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ विस्तरतस्तु सप्तमाधिकारे द्रष्टव्यः । (क) लक्षणम् अधिगतत्रिसर्वज्ञताकारेषु स्वभ्यस्तस्तेषामेव क्षणेनैकेनाधिगमरूपः पर्यन्तयोगः एकक्षणाभिसम्बोध इति लक्षणम् । एकक्षणप्रयोगः, अन्तिमक्षणबोधिसत्त्वीयज्ञानम्, आनन्तर्यमूर्धप्रयोगः इत्यनर्थान्तरम् । (ख) भेदः स्वरूपतः एकविध एव एकक्षणाभिसम्बोधो लक्षणेन (व्यावृत्या) चतुर्विधो भवति, यथा - अविपाकलक्षणः, विपाकलक्षणः अलक्षणलक्षणः, अद्वयलक्षणश्चेति । (य) अविपाकलक्षणः अस्य सर्वं स्वरूपमभिसमयालङ्कारे एकया कारिकया परीदीपितम् । तथा हि - अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ (क) लक्षणम् एकक्षणदानादिज्ञानेन अनास्रवदानाद्यशीत्यनुव्यञ्जनलक्षणानां धर्माणां संग्रहेण बोधिसत्त्वस्य अवबोधरूपः पर्यन्तयोगः अविपाकानास्रवसर्वधर्मैकक्षणलक्षणो भवतीति लक्षणम् । (र) विपाकलक्षणः अस्य सर्वं स्वरूपमभिसमयालङ्कारे एकया कारिकया सम्यगभिहितम् । तथा हि - विपाकधर्मतावस्था सर्वशुक्लमयी यदा । प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ (क) लक्षणम् यदा बोधिसत्त्वस्य प्रतिपक्षभावनया सर्वविपक्षकलङ्कापगमेन सकलव्यवदानपक्षविपाकधर्मतावस्था शुक्लस्वभावा जाता, तदा एकस्मिन्नेव क्षणे विपाकावस्थाप्राप्तानामनास्रवधर्माणां बोधात्ज्ञानं (प्रज्ञापारमिता) विपाकधर्मतावस्थानास्रवधर्मैकक्षणलक्षणो भवति, इत्येवक्षणाभिसम्बोधो द्वितीयः । अयं विपाकः अष्टमभूमेरूर्ध्वं भवतीति ज्ञेयम् । (ल) अलक्षणलक्षणः अस्य स्वरूपादिकं सर्वमभिसमयालङ्कारे एकया कारिकया सुस्पष्टमुपवर्णितम् । तथा हि - स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया । अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति । (क) लक्षणम् पूर्वं स्वप्नोपमसर्वधर्माभ्यासेन सम्भारद्वयमनुभूय अधिगमावस्थायां स्वप्नस्वभावेषु सर्वधर्मेषु उपादानस्कन्धादिषु स्थित्वा दानादिषट्पारमिताप्रतिपत्त्या दानादिरूपनिरूपणाकारेण अलक्षणाः सर्वधर्मा इति संक्लेशव्यवदानरूपाणां सर्वधर्माणामेकेनैव क्षणेन अलक्षणत्वं जानाति, इत्येवमलक्षण सर्वधर्मैकक्षणलक्षणो भवतीति एकक्षणाभिसम्बोधस्तृतीयः । (व) अद्वयलक्षणः अस्याद्वयलक्षणस्य स्वरूपमभिसमयालङ्कारे एकया कारिकया स्पष्टमुपदर्शितम् । तथा हि - स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते । धर्माणामद्वयै तत्त्वं क्षणेनैकेन पश्यति ॥ (क) लक्षणम् निरन्तरदीर्घकालद्वयप्रतिभासप्रहाणाभ्याससात्मीभावादुन्मीलितद्वयप्रतिभासवासनो यदा बोधिसत्त्वो ग्राह्यग्राहकयोगेन स्वप्नं ग्राह्यं स्वप्नदर्शिनं ग्राहकं नेक्षते, तदा सर्वेऽप्येवंधर्माणो धर्मा इति धर्माणामद्वयं तत्त्वमेकेनैव क्षणेन पश्यति, इत्येवमद्वयलक्षणसर्वधर्मैकक्षणलक्षणो भवत्येकक्षणाभिसम्बोधश्चतुर्थः । (ख) निर्वचनम् एक इत्यन्तिमः, क्षणमिति समयः, अभिरित्याभिमुख्यम्, समिति सम्यक्, अय इत्यधिगम इत्येवमन्तिमकाले दानादिसर्वानास्रवधर्माणामविपरीतः सम्यक्प्रतिवेधः एकक्षणाभिसम्बोध इत्युच्यते । (ग) अवधिः समस्तानां चतुर्लक्षणानामवधिः अन्तिमक्षणस्थबोधिसत्त्वीयावस्थायामेव भवति । ॥ इति एकक्षणाभिसम्बोधाभिसमयस्य अष्टौ धर्माः ॥ ___________________________________________________________________ ३. धर्मकायोपलक्षकाश्चत्वारो धर्माः विपाकभूतस्य धर्मकायस्य संक्षिप्तनिर्देशः अभिसमयालङ्कारे एकया कारिकया परिदीपितः । तथा हि - स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथाः । धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ विस्तृतनिर्देशस्तु अष्टमाधिकारे चत्वारिंशत्कारिकाभिर्विहितः । तत्र धर्मकायस्य लक्षणादिकं सर्वं स्वरूपमुपवर्णितम् । (क) लक्षणम् सम्भारद्वयसंचयबलेन प्राप्ताः पर्यन्तगुणा एव फलभूतो धर्मकाय इति लक्षणम् । (ख) भेदः चत्वारोऽस्य भेदा भवन्ति, यथा - स्वभावकायः, ज्ञानधर्मकायः, सम्भोगकायः, निर्माणकायश्चेति चत्वारः । १. स्वभावकायः अस्य स्वाभाविककायस्योपपादनमभिसमयालङ्कारे एकया कारिकया कृतम् । तथा हि - सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः । स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ (क) लक्षणम् प्रकृत्यागन्तुकमलविशुद्धिद्वयलक्षणः पर्यन्तधातुरनुत्पादरूपः स्वभावकाय इति लक्षणम् । (ख) भेदः प्रकृतिविशुद्धः आगन्तुकविशुद्धश्चेति द्वौ भेदौ । (ग) अवधिः स्वभावकायः केवलं बुद्धभूमावेव भवति । २. ज्ञानधर्मकायः अस्य ज्ञानकायस्य स्वरूपमभिसमयालङ्कारे पञ्चभिः कारिकाभिरुपदर्शितम् । (क) लक्षणम् यावज्ज्ञानं यथावज्ज्ञानं चापेक्ष्य साक्षात्कारि पर्यन्तज्ञान ज्ञानधर्मकाय इति लक्षणम् । ज्ञानधर्मकायः सर्वज्ञज्ञानं चेत्यनर्थान्तरम् । (ख) भेदः बुद्धभूमौ अनास्रवज्ञानानामेकविंशतिः ज्ञानवर्गा एवास्य एकविंशतिः प्रभेदाः । तथा हि - (१) स्मृत्युपस्थानाद्यारभ्य आर्याष्टाङ्गमार्गपर्यन्ता सप्तत्रिंशद्बोधिपक्षाः, (२) चत्वार्यप्रमाणानि मैत्र्यादिचतुर्ब्रह्मविहाराः, (३) अष्टौ विमोक्षाः, (४) नवसमापत्तयः, (५) कृत्स्नायतनानि दश (६) अष्टौ अभिभ्वायतनानि, (७) अरणासमाधिः, (८) प्रणिधिज्ञानम्, (९) षडभिज्ञाः, (१०)चतस्रः प्रतिसंविदः, (११) आश्रयालम्बनचित्तज्ञानपरिशुद्धय इति चतश्रः शुद्धयः, (१२) दश वशिताः, (१३) दश बलानि, (१४) चत्वारि वैशारद्यानि, (१५) त्रीणि अरक्षणानि, (१६) त्रीणि स्मृत्युपस्थानानि, (१७) असम्मोषधर्मता, (१८) क्लेशज्ञेयावरणानुशयरूपबीजप्रहाणात्वासनासमुद्घातः, (१९) सकलजनहिताशयता महाकरुणा, (२०) अष्टादशावेणिका बुद्धधर्माः, (२१) सर्वाकारज्ञतादित्रिसर्वज्ञता । तथा चोक्तमभिसमयालङ्कारे - बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः । नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् ॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः । अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ सर्वाकाराश्चतस्रोऽथ शुद्धयो वशिता दश । बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ त्रिविधं स्मृत्युपस्थानं त्रिधाऽसंमोषधर्मता । वासनायाः समुद्घातो महती करुणा जने ॥ आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः । सर्वाकारज्ञता चेति धर्माकायोऽभिधीयते ॥ (ग) अवधिः बुद्धभूमावेव ज्ञानधर्मकायो भवति । ३. सम्भोगकायः सम्भोगकायस्य स्वरूपवर्णनमभिसमयालङ्कारे एकया कारिकया कृतम् । तथा हि - द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् । साम्भोगिको मतः कायो महायानोपभोगतः ॥ (क) लक्षणम् स्थानकायपरिवारधर्मकालाख्यैः पञ्चभिर्विनियतैर्विर्शिष्टः कायः सम्भोगकाय इति लक्षणम् । (ख) भेदः महासम्भोगकायः कनिष्ठसम्भोगकायश्चेति भेदद्वयमभिधानदृष्ट्या कर्तुं शक्यते । तत्र महासम्भोगकायः अकनिष्ठभौमिकः सम्भोगकाय इत्यनर्थान्तरम् । तथैव कनिष्ठसम्भोगकायः अकनिष्ठभौमिकौ निर्माणकायश्चेत्यनर्थान्तरम् । (ग) अवधिः अयं सम्भोगकायो बुद्धभूमौ अकनिष्ठघनव्यूहक्षेत्रे एव केवलं भवति । ४. निर्माणकायः कायस्यास्य नैर्माणिकस्य स्वरूपमभिसमयालङ्कारे कारिकया एकया सम्यगुपवर्णितम् । तथा हि - करोति येन चित्राणि हितानि जगतः समम् । आ भवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥ (क) लक्षणम् पञ्चभिर्विनियतैर्विरहितः पर्यन्तरूपकायो निर्माणकाय इति लक्षणम् । येन शाक्यमुनितथागतादिरूपेण आसंसारं सर्वलोकधातुषु सत्त्वानां समीहितमर्थं समं करोति, असौ कायः प्रबन्धतया अनुपरतो नैर्माणिको बुद्धस्य भगवतः सर्वबालजनसाधारणश्चतुर्थोऽवसातव्यः । (ख) भेदः निर्माणकायस्य त्रयो भेदा भवन्ति, यथा - उत्तमनिर्माणकायः, शैल्पिकनिर्माणकायः, नैर्याणिकनिर्माणकायश्चेति । बुद्धकारित्राणि इमानि भगवतो विचित्राणि कारित्राणि अभिसमयालङ्कारे सप्तभिः कारिकाभिर्विस्तरशो निर्दिष्टानि । (क) लक्षणम् स्वसन्ततिस्थसर्वाकारज्ञताधिपत्येनोदयमासादिताः शुक्ला गुणा एव बुद्धकारित्राणीति लक्षणम् । (ख) भेदः गतिप्रशमनकारित्रत आरभ्य निर्वाणनिवेशनपर्यन्तं सप्तविंशतिः कर्माण्येवास्य सप्तविंशतिः प्रभेदा भवन्ति । यथोक्तमभिसमयालङ्कारे सप्तविंशतिः करित्राणि - तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्मं संग्रहे च चतुर्विधे ॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये । संकेतेऽनुपलम्भे च परिपाके च देहिनाम् ॥ बोधिसत्त्वस्य मार्गोऽभिनिवेशस्य निवारणे । बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे । बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ विपर्यासप्रहाणे च तदवस्तुकतानये । व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥ व्यतिभेदापरिज्ञाने निर्वाणे व निवेशनम् । धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ (ग) अवधिः मार्गेऽप्रवेशादारभ्य बुद्धभूमिपर्यन्तमस्यावधिर्भवति । (घ) वैशिष्ट्यम् विनेयजनकर्मानुसारं भगवतः कायवाङ्मनःकारित्राणि आकाशवदत्युदाराणि, नदीधारावदविच्छिन्नानि, समुद्रतरङ्गवत्कालानतिक्रमणलक्षणानि, चिन्तामणिकल्पवृक्षादिवदनाभोगरूपाणि भवन्ति । (ङ) अवधिः विनेयजनप्रतिभासभाक्सप्तविंशतिप्रकारं कर्म अविच्छिन्नतया आसंसारं प्रवर्तते । ॥ इति धर्मकायोपक्षकाश्चत्वारो धर्माः ॥ ___________________________ परिणामना प्रज्ञापारमितोपलक्षकाणां सर्वाकारज्ञाताद्यष्टानाम्, अष्टपदार्थोपलक्षकाणां च सप्ततेः पदार्थानां प्रकाशकमिदं सुभाषितं जगद्गुरोः मैत्रेयनाथस्य मुखान्निः-सृतस्यागमस्य चतुर्दिक्षुः प्रसाराय लोकस्य च सन्मार्गारोहणाय प्रभवेदिति परिणामना । आचार्यहरिभद्रवचनेन तु - तथ्यातथ्यविभागयुक्तिविकलज्ञानोदयात्संवृतौ संसारार्णवपङ्कमग्नमनसी जाताः सदा देहिनः । सर्वेऽमी जननीनिबन्धनकृताद्बीजान्मयाप्ताच्छुभात्सर्वाकारवरा भवन्तु नियतं कायत्रयप्रापिणः ॥ इति शमोम्