अभिसमयालङ्कार नमो मञ्जुश्रिये कुमारभूताय आर्यमैत्रेयनाथविरचितमभिसमयालङ्कारो नाम प्रज्ञापारमितोपदेशशास्त्रम् सर्वाकारज्ञाताधिकारः प्रथमः मङ्गालाचरणम् या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका । सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास् तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः ॥ १.१ ॥ ग्रान्थारम्भप्रयोजनं सर्वाकारज्ञतामार्गः शासित्रा योऽत्र देशितः । धीमन्तो वीक्षिषिरंस्तमनालीढं परैरिति ॥ १.२ ॥ स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् । सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥ १.३ ॥ प्रज्ञापारमितायाः कायिकव्यवस्थापनम् प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ १.४ ॥ सर्वाकाराभिसम्बोधो मूर्धप्राप्तोऽनुपूर्विकः । एकक्षणाभिसम्बोधो धर्मकायश्च तेऽष्टधा ॥ १.५ ॥ चित्तोत्पादोऽववादश्च निर्वेधाङ्गं चतुर्विधम् । आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ १.६ ॥ आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये । सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ १.७ ॥ ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ । महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः ॥ १.८ ॥ कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः । परिणामेऽनुमोदे च मनस्कारावनुत्तमौ ॥ १.९ ॥ निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः । विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ १.१० ॥ प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः । अनुपायेन दूरत्वमुपायेनाविदूरता ॥ १.११ ॥ विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च । दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ १.१२ ॥ आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः । मोक्षनिर्वेधभागीये शैक्षोऽवैवर्तिको गणः ॥ १.१३ ॥ समता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा । सर्वाकाराभिसम्बोध एष सोपायकौशलः ॥ १.१४ ॥ लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः । चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ १.१५ ॥ प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि । आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ १.१६ ॥ मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः । एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ १.१७ ॥ स्वाभाविकः ससाम्भोगो नैर्माणिकोऽपरस्तथा । धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ १.१८ ॥ सर्वाकारज्ञता १ - चित्तोत्पादः चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता । समासव्यासतः सा च यथासूत्रं स चोच्यते ॥ १.१९ ॥ भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः । वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः ॥ १.२० ॥ नृपगञ्जमहामार्गयानप्रस्रवणोदकैः । आनन्दोक्तिनदीमेवैर्द्वाविंशतिविधः स च ॥ १.२१ ॥ २ - अववादः प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असक्तावपरिश्रान्तो प्रतिपत्सम्परिग्रहे ॥ १.२२ ॥ चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च । दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ १.२३ ॥ मृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलङ्कलौ । एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ १.२४ ॥ प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा । दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः ॥ १.२५ ॥ ३ - निर्वेधाङ्गम् आलम्बनत आकाराद्धेतुत्वात्सम्परिग्रहात् । चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ १.२६ ॥ श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः । मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥ १.२७ ॥ आलम्बनमनित्यादि सत्याधारं तदाकृतिः । निषेधोऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥ १.२८ ॥ रूपाद्यायव्ययौ विष्ठास्थिति प्रज्ञप्त्यवाच्यते । रूपावादवस्थितिस्तेषां तद्भावेनास्वभावता ॥ १.२९ ॥ तयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः । तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः ॥ १.३० ॥ अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् । परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः ॥ १.३१ ॥ रूपादेरस्वभावत्वं तदभावस्वभावता । तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ १.३२ ॥ तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता । समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः ॥ १.३३ ॥ मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना । इति निर्वेधभागीयं मृदुमध्याधिमात्रतः ॥ १.३४ ॥ द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः । मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥ १.३५ ॥ द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः । स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ १.३६ ॥ चित्तानवलीनत्वादिनैःस्वाभाव्यादिदेशकः । तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः ॥ १.३७ ॥ ४ - प्रतिपत्तेराधारः षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः । तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ १.३८ ॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ १.३९ ॥ धर्मधातोरसम्भेदाद्गोत्रभेदो न युज्यते । आधेयधर्मभेदात्तु तद्भेदः परिगीयते ॥ १.४० ॥ ५ - आलम्बनम् आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः । लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः ॥ १.४१ ॥ सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये । शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः ॥ १.४२ ॥ ६ - समुद्देशः सर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये । त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भुवाम् ॥ १.४३ ॥ ७ - सन्नाहप्रतिपत्तिः दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या । सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता ॥ १.४४ ॥ ८ - प्रस्थानप्रतिपत्तिः ध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च । गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ १.४५ ॥ उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी ॥ १.४६ ॥ ९ - सम्भारप्रतिपत्तिः दया दानादिकं षट्कं शमथः सविदर्शनः । युगनद्धश्च यो मार्ग उपाये यच्च कौशलम् ॥ १.४७ ॥ ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः ॥ १.४८ ॥ १. प्रमुदिता भूमिः लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ १.४९ ॥ त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा । सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ १.५० ॥ धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते । ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः ॥ १.५१ ॥ २. विमला भूमिः शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा । गौरवं गुरुशुश्रूषा वीर्यं दानादिकेऽष्टमम् ॥ १.५२ ॥ ३. प्रभाकरी भूमिः अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् । बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥ १.५३ ॥ ह्रीरपत्राप्यमित्येतत्पञ्चधा मननात्मकम् । ४. अर्चिष्मती भूमिः वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥ १.५४ ॥ शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् । निर्वित्सर्वास्तिसन्त्यागोऽनवलीनानपेक्षते ॥ १.५५ ॥ ५. सुदुर्जया भूमिः संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् । आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥ १.५६ ॥ मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् । विवर्जयन् समाप्नोति दशैतान् पञ्चमी भुवम् ॥ १.५७ ॥ ६. अभिमुखी भूमिः दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् । शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ १.५८ ॥ याचितोऽनवलीनश्च सर्वत्यागेऽप्यदुर्मनाः । कृशोऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते ॥ १.५९ ॥ ७. दूरङ्गमा भूमिः आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः । निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ १.६० ॥ त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता । रत्नत्रितयशीलेषु तद्दृष्टयभिनिवेशिता ॥ १.६१ ॥ शून्यतायां विवादश्च तद्विरोधश्च विंशतिः । कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ १.६२ ॥ त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता । करुणामनना धर्मसमतैकनयज्ञता ॥ १.६३ ॥ अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा । कल्पनायाः समुद्घातः संज्ञादृक्क्लेशवर्जनम् ॥ १.६४ ॥ शमथस्य च निध्यप्तिः कौशलं च विदर्शने । चित्तस्य दान्तता ज्ञानं सर्वत्रप्रतिघाति च ॥ १.६५ ॥ सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् । सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः ॥ १.६६ ॥ ८. अचला भूमिः सर्वसत्त्वमनोज्ञानमभिज्ञाक्रीडनं शुभा । बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ १.६७ ॥ अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः । संचिन्त्य च भवादानमिदं कर्माष्टधोदितम् ॥ १.६८ ॥ ९. साधुमतो भूमिः प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता । नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥ १.६९ ॥ कुलजात्योश्च गोत्रश्च परिवारस्य जन्मनः । नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः ॥ १.७० ॥ १०. धर्ममेधा भूमिः नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ १.७१ ॥ [प्रतिपक्षसम्भारः] प्रतिपक्षोऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः । ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥ १.७२ ॥ २० - निर्याणप्रतिपत्तिः उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ १.७३ ॥ सर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ १.७४ ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे प्रथमाधिकारः । २ मार्गज्ञताधिकारः द्वितीयः १ - ध्यामीकरणतादीनि ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ २.१ ॥ २ - श्रावकमार्गः चतुर्णामार्यसत्यानामाकारानुपलम्भतः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ २.२ ॥ रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः । ऊस्माणौऽनुपलम्भेन तेषां मूर्धगतं मतम् ॥ २.३ ॥ क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः । दश भूमीः समारभ्य विस्तरास्थानदेशनात् ॥ २.४ ॥ अग्रधर्मगतं प्रोक्तमार्यश्रावकर्त्मनि । तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥ २.५ ॥ ३ - प्रत्येकबुद्धमार्गः परोपदेशवैयर्थ्यं स्वयम्बोधात्स्वयम्भुवाम् । गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ २.६ ॥ शुश्रूषा यस्या यस्यार्थे यत्र यत्र यथा यथा । स सोऽर्थः ख्यात्यशब्दोऽपि तस्य तस्य तथा तथा ॥ २.७ ॥ ग्राह्यार्थकल्पनाहानाद्ग्राहकस्याप्रहाणतः । आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः ॥ २.८ ॥ प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः । ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ २.९ ॥ अध्यात्मशून्यताद्याभी रूपादेरपरिग्राहात् । क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ २.१० ॥ ४ - बोधिसत्त्वमार्गः क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः । मार्गज्ञतायां दृङ्मार्गः सानुशंसोऽयमुच्यते ॥ २.११ ॥ आधाराधेयताभावात्तथताबुद्धयोर्मिथः । पर्यायेणाननुज्ञानं महत्ता साप्रमाणता ॥ २.१२ ॥ परिमाणान्तताभावो रूपादेरवधारणम् । तस्यां स्थितस्य बुद्धत्वेऽनुद्ग्रहात्यागतादयः ॥ २.१३ ॥ मैत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः । सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ २.१४ ॥ निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् । अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ २.१५ ॥ स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् । दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः ॥ २.१६ ॥ ५ - भावनामार्गकारित्रम् सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः । उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ २.१७ ॥ सास्रवो भावनामार्गः ६ - भावनामार्गाधिमुक्तिः अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका । परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥ २.१८ ॥ मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः । सा पुनस्त्रिबिधेत्येवं सप्तविंशतिधा मता ॥ २.१९ ॥ ७ - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ २.२० ॥ ८ - परिणामना विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ २.२१ ॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः । सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ २.२२ ॥ त्रैधातुकाप्रपन्नश्च परिणामोऽपरस्त्रिधा । मृदुर्मध्योऽधिमात्रश्च महापुण्योदयात्मकः ॥ २.२३ ॥ ९ - अनुमोदना उपायानुपलम्भाभ्यां शुभमूलानुमोदना । अनुमोदे मनस्कारभावनेह विधीयते ॥ २.२४ ॥ अनास्रवो भावनामार्गः १० - अभिनिर्हारः स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः । नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ २.२५ ॥ ११ - अत्यन्तविशुद्धिः बुद्धसेवा च दानादिरुपाये यच्च कौशलम् । हेतवोऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ २.२६ ॥ माराधिष्ठानगम्भीरधर्मतानधिमुक्तते । स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ २.२७ ॥ फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः । अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता ॥ २.२८ ॥ क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् । हानाद्विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥ २.२९ ॥ मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु । अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ २.३० ॥ त्रिधातुप्रतिपक्षत्वं समता मानमेययोः । मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः ॥ २.३१ ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारः । ३ सर्वज्ञताधिकारः तृतीयः १ - प्रज्ञया न भवे स्थानम् २ - कृपया न शमे स्थितिः नापरे न परे तीरे नान्तराले तयोः स्थिता । अध्वनां समताज्ञानात्प्रज्ञापारमिता मता ॥ ३.१ ॥ ३ - अनुपायेन दूरत्वम् ४ - उपायेनाविदूरता अनुपायेन दूरं सा सनिमित्तोपलम्भतः । उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ ३.२ ॥ ५ - विपक्षः रुपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ ३.३ ॥ ६ - प्रतिपक्षः दानादिष्वनहंकारः परेषां तन्नियोजनम् । सङ्गकोटिनिषेधोऽयं सूक्ष्मः सङ्गो जिनादिषु ॥ ३.४ ॥ तद्गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धतेः । एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ ३.५ ॥ दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता । रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते ॥ ३.६ ॥ एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये । अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः ॥ ३.७ ॥ ७ - प्रयोगः रुपादौ तदनित्यादौ तदपूरिप्रपूरयोः । तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ ३.८ ॥ अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा । यथाभव्य फलप्राप्तेरवन्ध्योऽभिमतश्च सः ॥ ३.९ ॥ अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः । ८ - समता चतुर्धामनना तस्य रूपादौ समता मता ॥ ३.१० ॥ ९ - दर्शनमार्गः धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः । दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानय ॥ ३.११ ॥ रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् । अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ ३.१२ ॥ परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः । प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः ॥ ३.१३ ॥ नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः । अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥ ३.१४ ॥ असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये । ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ ३.१५ ॥ इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा । अधिकारत्रयस्यैषा समाप्तिः परिदीपिता ॥ ३.१६ ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे तृतीयाधिकारः । ४ सर्वाकाराभिसम्बोधाधिकारः चतुर्थः १ - आकाराः वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् । सर्वज्ञतानां त्रैविध्यात्त्रिविधा एव ते मताः ॥ ४.१ ॥ असदाकारमारभ्य यावन्निश्चलताकृतिः । चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ ४.२ ॥ हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ ४.३ ॥ स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः । शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ ४.४ ॥ सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः । त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ ४.५ ॥ कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः । मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ ४.६ ॥ बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया । उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ ४.७ ॥ २ - प्रयोगाः रूपादिष्वनवस्थानात्तेषु योगनिषेधतः । तत्तथतागम्भीरत्वात्तेषां दुरवगाहतः ॥ ४.८ ॥ तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः । व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ ४.९ ॥ आसन्नबोधे क्षिप्रं च परार्थेऽवृद्धयहानितः । धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने ॥ ४.१० ॥ रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः । फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ ४.११ ॥ ३ - गुणाः माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः । ४ - दोषाः दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ ४.१२ ॥ ५ - लक्षणानि लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् । ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ ४.१३ ॥ तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ ४.१४ ॥ अक्षयाकारतायां च सरागादौ प्रविस्तृते । महद्गतेऽप्रमाणे च विज्ञाने चानिदर्शने ॥ ४.१५ ॥ अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् । पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ ४.१६ ॥ तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ ४.१७ ॥ शून्यत्वे सानिमित्ते च प्रणीधानविवर्जिते । अनुत्पादानिरोधादौ धर्मताया अकोपने ॥ ४.१८ ॥ असंस्कारेऽविकल्पे च प्रभेदालक्षणत्वयोः । मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ ४.१९ ॥ स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ । गुरुत्वे माननायां च तत्पूजाकृतकत्वयोः ॥ ४.२० ॥ सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारशूचकज्ञापकाक्षगम् ॥ ४.२१ ॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञनिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥ ४.२२ ॥ अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः । विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ ४.२३ ॥ अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ । सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ ४.२४ ॥ क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनं च साधारं साकल्यं सम्परिग्रहः ॥ ४.२५ ॥ अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः । विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥ ४.२६ ॥ हितं सुखं च त्राणं च शरणं लयनं नृणाम् । परायणं च द्वीपं च परिणायकसंज्ञकम् ॥ ४.२७ ॥ अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ ४.२८ ॥ क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः । विवेको दुष्करैकान्तावुद्देशोऽनुपलम्भकः ॥ ४.२९ ॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः । विप्रत्ययोऽविघाती च सोऽपदागत्यजातिकः ॥ ४.३० ॥ तथतानुपलम्भश्च स्वभावः षोडशात्मकः । लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥ ४.३१ ॥ ६ - मोक्षभागीयम् अनिमित्तप्रदानादिसमुदागमकौशलम् । सर्वाकारावबोधेऽस्मिन्मोक्षभागीयमिष्यते ॥ ४.३२ ॥ बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् । स्मृतिराशयसम्पत्तिः समाधिरविकल्पना ॥ ४.३३ ॥ धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा । तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥ ४.३४ ॥ ७ - विर्वेधभागीयम् आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते । समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ ४.३५ ॥ स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥ ४.३६ ॥ मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा । तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ ४.३७ ॥ ८ - अवैवर्तिको गणः निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः । ये बोधिसत्त्वा वर्तन्ते सोऽत्रावैवर्तिको गणः ॥ ४.३८ ॥ रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विशतिधेरितैः । निर्वेधाङ्गशितस्येदमक्वैर्तिकलक्षणम् ॥ ४.३९ ॥ रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयो । आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ ४.४० ॥ पराधारं च दानादि गम्भीरेऽर्थेऽप्यकांक्षणम् । मैत्रं कायाद्यसंवासः पंचधावरणेन च ॥ ४.४१ ॥ सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि । चीवरादि शरीरे च कृमीणामसमुद्भवः ॥ ४.४२ ॥ चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता । धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ ४.४३ ॥ परैरनेयता मारस्यान्यमार्गोपदेशिनः । मार इत्येव बोधश्च चर्या बुद्धानुमोदिता ॥ ४.४४ ॥ ऊष्ममूर्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः । लिङ्गैरमीभिर्विशत्या सम्बोधेर्न निवर्तत्ते ॥ ४.४५ ॥ क्षान्तिज्ञानक्षणाः षट्च पञ्च पञ्च च दृक्पथे । बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ ४.४६ ॥ रूपादिसंज्ञाव्यावृत्तिर्दाढर्यं चित्तस्य हीनयोः । यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ ४.४७ ॥ कायचेतोलघुत्वं च कामसेवाभ्युपायिकी । सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ ४.४८ ॥ स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके । समरे मत्सरादौ च नेति योगानुयोगयोः ॥ ४.४९ ॥ विहारप्रतिषेधश्च धर्मस्याणोरलब्धता । निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः ॥ ४.५० ॥ धर्मार्थः जीवितत्याग इत्यमी षोडश क्षणाः । अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ ४.५१ ॥ गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् । समारोपापवादान्तमुक्तता सा गभीरता ॥ ४.५२ ॥ चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः । निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ ४.५३ ॥ प्राबन्धिकत्वादिष्टोऽसौ नवधा च प्रकारतः । मृदुमध्याधिमात्राणां पुनर्मृद्धादिभेदतः ॥ ४.५४ ॥ असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः । कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः ॥ ४.५५ ॥ हानिवृद्धी न युज्येते निरालापस्य वस्तुनः । भावनाख्येन किं हीनं वर्त्मना किमुपदागतम् ॥ ४.५६ ॥ यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः । तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः ॥ ४.५७ ॥ पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा । दीपदृष्टान्तयोगेन गम्भीरा धर्मताष्टधा ॥ ४.५८ ॥ उत्पादे च निरोधे च तथतायां गभीरता । ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥ ४.५९ ॥ ९ - भवशान्त्योः समता स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना । कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ ४.६० ॥ १० - अनुत्तरा क्षेत्रशुद्धिः सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्ध्युपहारतः । तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ ४.६१ ॥ ११ - उपायकौशलम् विषयोऽस्य प्रयोगस्य शात्रवाणामतिक्रमः । अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ ४.६२ ॥ असक्तोऽनुपलम्भश्च निमित्तप्रनिधिक्षतः । तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ ४.६३ ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारः ॥ मूर्धाभिसमयाधिकारः पञ्चमः १ - लिङ्गम(ऊष्मा मुर्धप्रयोगः) स्वप्नान्तरेऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् । मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ ५.१ ॥ २ - विवृद्धिः(मूर्धा मूर्धप्रयोगः) जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् । उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ ५.२ ॥ ३ - निरुधिः(क्षान्तिः मूर्धप्रयोगः) त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा । अपरित्यक्तसत्त्वार्था निरूढिरभिधीयते ॥ ५.३ ॥ ४ - चित्तसंस्थितिः(अग्रधर्माख्यः मूर्धप्रयोगः) चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः । कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ ५.४ ॥ ५ - दर्शनमार्गः(मूर्धप्रयोगः) प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ । ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥ ५.५ ॥ द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ । पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥ ५.६ ॥ ग्राह्यौ चेन्न तथा स्तोऽर्थौ कस्य तौ ग्राहकौ मतौ । इति ग्राहकभावेन शून्यतालक्षणं तयोः ॥ ५.७ ॥ एष स्वभावे गोत्रे च प्रतिपत्समुदागमे । ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ ५.८ ॥ स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले । प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ ५.९ ॥ भवशान्तिप्रपातित्वान्न्यूनत्वेऽधिगमस्य च । परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ ५.१० ॥ परप्रत्यगामित्वे समुद्देशनिवर्तने । प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ ५.११ ॥ पृष्ठतो गमने चेति विकल्पोऽयं नवात्मकः । निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ ५.१२ ॥ ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे । मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ ५.१३ ॥ स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः । सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ ५.१४ ॥ यथोद्देशमनिर्याणे मार्गामार्गावधारणे । सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ ५.१५ ॥ स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः । प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहकोऽपरः ॥ ५.१६ ॥ बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना । तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ ५.१७ ॥ क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते । क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ ५.१८ ॥ प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना । विकल्पजातं कि क्षीणं किं वानत्पत्तिमागतम् ॥ ५.१९ ॥ सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः । कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ ५.२० ॥ नापनेयमतः किञ्चित्प्रक्षेप्तव्यं न किंचन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ ५.२१ ॥ एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः । स एकक्षणिकः क्षान्तिसंगृहीतोऽत्र दृक्पथः ॥ ५.२२ ॥ स समाधिं समापद्य ततः सिंहविजृम्भितम् । अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते ॥ ५.२३ ॥ ६ - भावनामार्गः(मूर्धप्रयोगः) कामाप्तमबधीकृत्य विज्ञानमसमाहितम् । सनिरोधाः समपत्तीर्गत्त्वागम्य नव द्विधा ॥ ५.२४ ॥ एकद्वित्रिचतुःपञ्चषट्सप्ताष्टव्यतिक्रमात् । अवस्कन्दसमापत्तिरनिरोधमतुल्यता ॥ ५.२५ ॥ संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे । त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ ५.२६ ॥ एको ग्राह्यविकल्पोऽयं प्रयोगाकारगोचरः । द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ ५.२७ ॥ अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया । हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥ ५.२८ ॥ भावनेऽभावने चैव तद्विपर्यय एव च । अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ ५.२९ ॥ ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः । धर्मप्रत्यशून्यत्वसक्तिप्रविचयात्मकः ॥ ५.३० ॥ कृते च वस्तुनो यानत्रितये च स कीर्त्तितः । दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने ॥ ५.३१ ॥ सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः । भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः ॥ ५.३२ ॥ सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृत्तौ । शान्तिमार्गतथतादिसम्प्रयोगवियोगयोः ॥ ५.३३ ॥ असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि । द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः ॥ ५.३४ ॥ आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव । सर्वाकारजगत्सौख्यसाधना गुणसम्पदः ॥ ५.३५ ॥ सर्वाः सर्वाभिसारेण निकामफलशालिनम् । भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ ५.३६ ॥ ७ - आनन्तर्यसमाधिः(मूर्धप्रयोगः) त्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि । बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ ५.३७ ॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः । आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ ५.३८ ॥ आलम्बनमभावोऽस्य स्मृतिश्चाधिपतिर्मतः । आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥ ५.३९ ॥ आलम्बनोपपत्तौ च तत्स्वभावावधारणे । सर्वाकरज्ञताज्ञाने परमार्थे ससंवृत्तौ ॥ ५.४० ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ ५.४१ ॥ लक्षणे भावनायां च मता विप्रतिपत्तयः । सर्वाकारज्ञताधारा षोढा दश च वादिनाम् ॥ ५.४२ ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पंचमाधिकारः । आनुपूर्विकाधिकारः षष्ठः दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा । धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ ६.१ ॥ इत्यभिसमायालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारः । एकक्षणाभिसम्बोधाधिकारः सप्तमः १ - अविपाकललक्षणः अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधोऽयं ज्ञेयो दानादिना मुनेः ॥ ७.१ ॥ अरघट्टं यथैकापि पदिका पुरुषेरिता । सकृत्सर्वं चालयति ज्ञानमेकक्षणे तथा ॥ ७.२ ॥ २ - विपाकलक्षणः विपाकधर्मतावस्था सर्वशुक्लमयी यदा । प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ ७.३ ॥ ३ - अलक्षणलक्षणः स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया । अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥ ७.४ ॥ ४ - अद्वयलक्षणः स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते । धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति ॥ ७.५ ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारः । धर्मकायाधिकारः अष्टमः १ - स्वभावकायः सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः । स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ ८.१ ॥ २ - ज्ञानधर्मकायः बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः । नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् ॥ ८.२ ॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः । अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ ८.३ ॥ सर्वाकाराश्चतस्त्रोऽथ शुद्धयो वशिता दश । बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ ८.४ ॥ त्रिविधं स्मुत्युपस्थानं त्रिधासंमोषधर्मता । वासनायाः समुद्घातो महती करुणा जने ॥ ८.५ ॥ आवेणिका मुनेरेव धर्मा येऽष्टादशेरिताः । सर्वाकारज्ञता चेति धर्मकायोऽभिधीयते ॥ ८.६ ॥ श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता । तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ ८.७ ॥ अनाभोगमनासङ्गमव्याघातं सदा स्थितम् । सर्वप्रश्नापनुद्बौद्धं प्रणिधिज्ञानमिष्यते ॥ ८.८ ॥ परिपाकं गते हेतौ यस्य यस्य यदा यदा । हितं भवति कर्त्तव्यं प्रथते तस्य तस्य सः ॥ ८.९ ॥ वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति । समुत्पादेऽपि बुद्धानां नाभव्यो भद्रमश्नुते ॥ ८.१० ॥ इति कारित्रवैपुल्याद्बुद्धो व्यापी निरुच्यते । अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ ८.११ ॥ ३ - सम्भोगकायः द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् । साम्भोगिको मतः कायो महायानोपभोगतः ॥ ८.१२ ॥ चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः । करौ सपादौ तरुणौ मृदू च समुत्सदै सप्तभिराश्रयोऽस्य ॥ ८.१३ ॥ दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा । एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः ॥ ८.१४ ॥ सुवर्णवर्णः प्रतनूच्छविश्च प्रदक्षिणैकैकसुजातरोमा । ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ ८.१५ ॥ हीनो रसः ख्याति रसोत्तमोऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः । उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ ८.१६ ॥ तुल्याः प्रमाणेऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः । नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ ८.१७ ॥ यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः । तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ ८.१८ ॥ गुरूणामनुयानादिर्दृढता संवरं प्रति । संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः ॥ ८.१९ ॥ वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च । इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥ ८.२० ॥ ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः । वृत्ताश्चितानुपूर्वाश्च गूढा निर्ग्रन्थयः शिराः ॥ ८.२१ ॥ गूढौ गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः । विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता ॥ ८.२२ ॥ मुष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता । पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता ॥ ८.२३ ॥ समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता । अदीनोत्सदगात्रत्वे सुसंहतनगात्रता ॥ ८.२४ ॥ सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता । वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥ ८.२५ ॥ दक्षिणावर्तता नाभेः समन्ताद्दर्शनीयता । समाचारः शुचिः कालतिलकापगता तनुः ॥ ८.२६ ॥ करौ तुलमृदू स्निग्धगम्भीरायतलेखता । नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता ॥ ८.२७ ॥ मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता । चारूमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥ ८.२८ ॥ अनुपूर्वी गतास्तुङ्गा नासिका परमं शुचिः । विशाले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ ८.२९ ॥ आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ । पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ ८.३० ॥ ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता । भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमुर्तयः ॥ ८.३१ ॥ केशा अपरुषाः पुसां सौरभ्यादपहारिणः । श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ ८.३२ ॥ ४ - नैर्माणिककायः करोति येन चित्राणि हितानि जगतः समम् । आभवात्सोऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥ ८.३३ ॥ बुद्धकारित्राणि तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ ८.३४ ॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ ८.३५ ॥ बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये । संकेतेऽनुपलम्भे च परिपाके च देहिनाम् ॥ ८.३६ ॥ बोधिसत्त्वस्य मार्गेऽभिनिवेशस्य निवारणे । बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ ८.३७ ॥ अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे । बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ ८.३८ ॥ विपर्यासप्रहाणे च तदवस्तुकतानये । व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥ ८.३९ ॥ व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् । धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ ८.४० ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे अष्टमाधिकारः ।