औथोर्: वसुगुप्त (मय्बे भत्त कल्लत) ------------------------------------------------------------------------ एन्चोदेद्ब्य्: दोत्त्. मरिनो fअलिएरो दते: जुल्य्१९९८ उप्दतेद्: ----- सन्स्क्रित्दिअच्रितिचल्मर्क्स् ------------------------------------------------------------------------ ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ थिस्तेxत्fइले इस्fओर्रेfएरेन्चे पुर्पोसेसोन्ल्य्! ³ ³ चोप्य्रिघ्तन्द्तेर्म्सोf उसगे अस्fओर्सोउर्चे fइले. ³ ³ ³ ³ तेxत्चोन्वेर्तेद्तो च्लस्सिचल्सन्स्क्रितेxतेन्देद् ³ ³ (च्स्x) एन्चोदिन्ग्: ³ ³ ³ ³ देस्च्रिप्तिओन् छरच्तेर् = अस्चिइ ³ ³ ³ ³ लोन्ग आ २२४ ³ ³ लोन्ग आ २२६ ³ ³ लोन्गि ई २२७ ³ ³ लोन्गि ई २२८ ³ ³ लोन्गु ऊ २२९ ³ ³ लोन्गु ऊ २३० ³ ³ वोचलिच्र् ऋ २३१ ³ ³ वोचलिच्र् ऋ २३२ ³ ³ लोन्ग्वोचलिच्र् ॠ २३३ ³ ³ वोचलिच्ल् ळ २३५ ³ ³ लोन्ग्वोचलिच्ल् ॡ २३७ ³ ³ वेलर्न् ङ् २३९ ³ ³ वेलर्न् ङ् २४० ³ ³ पलतल्न् ञ् १६४ ³ ³ पलतल्न् ञ् १६५ ³ ³ रेत्रोfलेx त् ट् २४१ ³ ³ रेत्रोfलेx त् ट् २४२ ³ ³ रेत्रोfलेx द् ड् २४३ ³ ³ रेत्रोfलेx द् ड् २४४ ³ ³ रेत्रोfलेx न् ण् २४५ ³ ³ रेत्रोfलेx न् ण् २४६ ³ ³ पलतल्स् श् २४७ ³ ³ पलतल्स् श् २४८ ³ ³ रेत्रोfलेx स् ष् २४९ ³ ³ रेत्रोfलेx स् ष् २५० ³ ³ अनुस्वर ं २५२ ³ ³ अनुस्वर (ओवेर्दोत्) § १६७ ³ ³ चपितलनुस्वर ं २५३ ³ ³ विसर्ग ः २५४ ³ ³ (चपितल्विसर्ग २५५) ³ ³ ³ ³ ओथेर्छरच्तेर्सोf थे च्स्x एन्चोदिन्ग्तब्ले अरे ³ ³ नोतिन्च्लुदेद्. अच्चेन्त्स्हवे बेएन् द्रोप्पेदिनोर्देर्³ ³ तो fअचिलितते wओर्द्सेअर्छ्. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ प्रथमो निःष्यन्दः यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ । तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः ॥ १ ॥ यत्र स्थितमिदं सर्वं कार्यं यस्माच्च निर्गतम् । तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुत्रचित् ॥ २ ॥ जाग्रदादि विभेदेऽपि तदभिन्ने प्रसर्पति । निवर्तते निजान्नैव स्वभावादुपलब्धृतः ॥ ३ ॥ अहं सुखी च दुःखी च रक्तश्च इत्यदिसम्विदः । सुखाद्यवस्थानुस्यूते वर्तन्तेऽन्यत्र ताः स्फुटम् ॥ ४ ॥ न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं न च । न चास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥ ५ ॥ यतः करणवर्गोऽयं विमूढोऽमूढवत्स्वयम् । सहान्तरेण चक्रेण प्रवृत्तिस्थितिसंहृतिः ॥ ६ ॥ लभते तत्प्रयत्नेन परीक्ष्यं तत्त्वमादरात् । यतः स्वतन्त्रता तस्य सर्वत्रेयमकृत्रिमा ॥ ७ ॥ न हीच्छानोदनस्यायं प्रेरकत्वेन वर्तते । अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥ ८ ॥ निजाशुद्ध्यासमर्थस्य कर्तव्येष्वभिलाषिणः । यदा क्षोभः प्रलीयेत तदा स्यात्परमं पदम् ॥ ९ ॥ तदास्याकृत्रिमो धर्मो ज्ञत्वकर्तृत्वलक्षणह् । यतस्तदेप्सितं सर्वं जानाति च करोति च ॥ १० ॥ तमधिष्ठातृभावेन स्वभावमवलोकयन् । स्मयमान इवास्ते यस्तस्येयं कुसृतिः कुतः ॥ ११ ॥ नाभावो भाव्यतामेति न च तत्रास्त्यमूढता । यतोऽभियोगसंस्पर्शात्तदासिदिति निश्चयह् ॥ १२ ॥ अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा । न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते ॥ १३ ॥ अवस्थायुगलं चात्र कार्यकर्तृत्वशब्दितम् । कार्यता क्षयिणी तत्र कर्तृत्वं पुनरक्षयम् ॥ १४ ॥ कार्योन्मुखः प्रयत्नो यः केवलं सोऽत्र लुप्यते । तस्मिन् लुप्ते विलुप्तोऽस्मीत्यबुधः प्रतिपद्यते ॥ १५ ॥ न तु योऽन्तर्मुखो भावह्सर्वज्ञात्वगुणास्पदम् । तस्य लोपः कदाचित्स्यादन्यस्यानुपलम्भनात् ॥ १६ ॥ तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु ॥ १७ ॥ ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः । पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः ॥ १८ ॥ गुणादिस्पन्दनिःष्यन्दाः सामान्यस्पन्दसंश्रयात् । लब्धात्मलाभः सततं स्युर्ज्ञस्यापरिपन्थिनः ॥ १९ ॥ अप्रबुधधियस्त्वेते स्वस्थितिस्थगनोद्यताः । पातयन्ति दुरुत्तारे घोरे संसारवर्त्मनि ॥ २० ॥ अतः सततमुद्युक्तः स्पन्दतत्त्वविविक्तये । जाग्रदेव निजं भावमचिरेणाधिगच्छति ॥ २१ ॥ अतिक्रुद्धः प्रहृष्टो वा किं करोमीति वा मृशन् । धावन् व यत्पदं गच्छेत्तत्र स्पन्दः प्रतिष्ठितः ॥ २२ ॥ यामवस्थां समालम्ब्य यदयं मम वक्ष्यति । तदवश्यं करिष्येऽहमिति संकल्प्य तिष्ठति ॥ २३ ॥ तामश्रित्योर्ध्वमार्गेण चन्द्रसूर्यावुभावपि । सौषुम्नेऽध्वन्यस्तमितो हित्वा ब्रह्मा.ङ्दगोचरम् ॥ २४ ॥ तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे । सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः ॥ २५ ॥ द्वितीयो निःष्यन्दः तदाक्रम्य बलं मन्त्राः सर्वज्ञाबलशालिनः । प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् ॥ १ ॥ तत्रैव सम्प्रलीयन्ते शान्तरूपा निरञ्जनाः । सहाराधकचित्तेन तेनैते शिवधर्मिणः ॥ २ ॥ यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात् । तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः ॥ ३ ॥ तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः । भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः ॥ ४ ॥ इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत् । स पश्यन् सततं युक्तो जीवन्मुक्तो न संशयः ॥ ५ ॥ अयमेवोदयस्तस्य ध्येयस्य ध्यायिचेतसि । तदात्मतासमापत्तिरिच्छतः साधकस्य या ॥ ६ ॥ इयमेवामृतप्राप्तिरयमेवात्मनो ग्रहः । इयं निर्वाण-दीक्षा च शिवसद्भावदायिनि ॥ ७ ॥ तृतीयो निःष्यन्दः यथेच्छाभ्यर्थितो धाता जाग्रतोऽर्थान् हृदि स्थितान् सोमसूर्योदयं कृत्वा सम्पादयति देहिनः ॥ १ । तथा स्वप्नेऽप्यभीष्टार्थान् प्रणयस्यानतिक्रमात् । नित्यं स्फुटतरं मध्ये स्थितोऽवश्यं प्रकाशयेत् ॥ २ ॥ अन्यथा तु स्वतन्त्रा स्यात्सृष्टिस्तद्धर्मकत्वतः । सततं लौकिकस्येव जाग्रत्स्वप्नपदद्वये ॥ ३ ॥ यथा हि अर्थोऽस्फुटो दृष्टः सावधानेऽपि चेतसि । भूयः स्फुटतरो भाति स्वबलोद्योगभावितः ॥ ४ ॥ तथा यत्परमार्थेन येन यत्र यथा स्थितम् । तत्तथा बलमाक्रम्य न चिरात्सम्प्रवर्तते ॥ ५ ॥ दुर्बलोऽपि तदाक्रम्य यतः कार्ये प्रवर्तते । आच्छादयेद्बुभुक्षां च तथा योऽति बुभुक्षितः ॥ ६ ॥ अनेनाधिष्ठिते देहे यथा सर्वज्ञतादयः । तथा स्वात्मन्यधिष्ठानात्सर्वत्रैवं भविष्यति ॥ ७ ॥ ग्लानिर्विलु.ङ्थिका देहे तस्याश्चाज्ञानतः सृतिः । तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ॥ ८ ॥ एकचिन्ताप्रसक्तस्य यतः स्यादपरोदयः । उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ॥ ९ ॥ अतो बिन्दुरतो नादो रूपमस्मादतो रसः । प्रवर्तन्तेऽचिरेणैव क्षोभकत्वेन देहिनः ॥ १० ॥ दिदृक्षयेव सर्वार्थान् यदा व्याप्यावतिष्ठते । तदा किं बहुनोक्तेन स्वयमेव अवभोत्स्यते ॥ ११ ॥ प्रबुद्धः सर्वदा तिष्ठेज्ज्ञानेनालोक्य गोचरम् । एकत्रारोपयेत्सर्वं ततोऽन्येन न पीड्यते ॥ १२ ॥ शब्दराशिसमुत्थस्य शक्तिवर्गस्य भोग्यताम् । कलाविलुप्तविभवो गतः सन् स पशुः स्मृतः ॥ १३ ॥ परामृतरसापायस्तस्य यः प्रत्ययोद्भवः । तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः ॥ १४ ॥ स्वरूपावरणे चास्य शक्तयः सततोत्थिताः । यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः ॥ १५ ॥ सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी । बन्धयित्री स्वमार्गस्था ज्ञात सिद्ध्युपपादिका ॥ १६ ॥ तन्मात्रोदयरूपेन मनोऽहंबुद्धिवर्तिना । पुर्यष्टकेन संरुद्धस्तदुत्थं प्रत्ययोद्भवम् ॥ १७ ॥ भुङ्क्ते परवशो भोगं तद्भावात्संसरेदतः । संसृतिप्रलयस्यास्य कारणं सम्प्रचक्ष्महे ॥ १८ ॥ यदा त्वेकत्र संरूढस्तदा तस्य लयोदयौ । नियच्छन् भोक्तृतामेति ततश्चक्रेश्वरो भवेत् ॥ १९ ॥ चतुर्थो निःष्यन्दः अगाधसंशयाम्भोधिसमुत्तरणतारिनीम् । वन्दे विचित्रार्थपदां चित्रां तां गुरुभारतीम् ॥ १ ॥ लब्ध्वाप्यलभ्यमेतज्ज्ञानधनं हृद्गुहान्तकृतनिहितेः । वसुगुप्तवच्छिवाय हि भवति सदा सर्वलोकस्य ॥ २ ॥ ------------------------------------------------------------------------ ____________ गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे ------------------------------------------------------------------------