श्रीदेव्युवाच ।=२० अनुत्तरं कथं देव स्वतः कौलिकसिद्धिदम् । येन विज्ञातमात्रेण खेचरीसमतां व्रजेत् ॥ १ ॥ एतद्गुह्यं महागुह्यं कथयस्व मम प्रभो । हृदयस्था तु या शक्तिः कौलिनी कुलनायिका ॥ २ ॥ तां मे कथय देवेश येन तृप्तिं व्रजाम्यहम् । श्रीभैरव उवाच । शृणु देवि महाभगे उत्तरस्याप्यनुत्तरम् ॥ ३ ॥ कथयामि न संदेहः सद्यः कौलिकसिद्धिदम् । कौलिकोऽयं विधिर्देवि मम हृद्व्योम्न्यवस्थितः ॥ ४ ॥ अथाद्यास्तिथयः सर्वे स्वरा बिन्द्ववसानकाः । तदन्तः कालयोगेन सोमसूर्यौ प्रकीर्तितौ ॥ ५ ॥ पृथिव्यादीनि तत्त्वानि पुरुषान्तानि पञ्चसु । क्रमात्कादिषु वर्गेषु मकारान्तेषु सुव्रते ॥ ६ ॥ वाय्वग्निसलिलेन्द्राणां धारणानां चतुष्टयम् । तदूर्ध्वे शादिविख्यातं पुरस्ताद्ब्रह्मपञ्चकम् ॥ ७ ॥ अमूला तत्क्रमा ज्ञेया क्षान्ता सृष्टिरुदाहृता । सर्वेषां चैव मन्त्राणां विद्यानां च यशस्विनि ॥ ८ ॥ इयं योनिः समाख्याता सर्वतन्त्रेषु सर्वदा । चतुर्दशयुतं भद्रे तिथीशान्तसमन्वितम् । तृतीयं ब्रह्म सुश्रोणि हृदयं भैरवात्मनः ॥ ९ ॥ एतन्ना योगिनीजातो ना रुद्रो लभते स्फुटम् । हृदयं देवदेवस्य सद्यो योगविमोक्षदम् ॥ १० ॥ अस्योच्चारे कृते सम्यङ्मन्त्रमुद्रागणो महान् । सद्यः सन्मुखतामेति स्वदेहावेशलक्षणम् ॥ ११ ॥ मुहूर्तं स्मरते यस्तु चुम्बके नाभिमुद्रितः । स बध्नाति तदा देहं मन्त्रमुद्रागणं नरः ॥ १२ ॥ अतीतानागतानर्थान् पृष्टोऽसौ कथयत्यपि । प्रहराद्यदभिप्रेतं देवतारूपमुच्चरन् ॥ १३ ॥ सक्षात्पश्यत्यसंदिग्धमाकृष्टं रुद्रसक्तिभिः । प्रहरद्वयमात्रेण व्योमस्थो जायते स्मरन् ॥ १४ ॥ त्रयेण मातरः सर्वा योगेस्वर्यो महाबलाः । वीरा वीरेस्वराः सिद्धा बलवान् शाकिनीगणः ॥ १५ ॥ आगत्य समयं दत्त्वा भैरवेण प्रचोदिताः । यच्छन्ति परमां सिद्धिं फलं यद्वा समीहितम् ॥ १६ ॥ अनेन सिद्धाः सेत्स्यन्ति साधयन्ति च मन्त्रिणः ॥ १७ ॥ यत्किंचिद्भैरवे तन्त्रे सर्वमस्मात्प्रसिध्यति । मन्त्रवीर्यसमावेशप्रभावान्न नियन्त्रिणा ॥ १८ ॥ अदृष्टम.ङ्दलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः । स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षीतः ॥ १९ ॥ अनेन ज्ञातमात्रेण ज्ञायते सर्वशक्तिभिः । शाकिनीकुलसामान्यो भवेद्योगं विनापि हि ॥ २० ॥ अविधिज्ञो विधानज्ञो जायते यजनं प्रति । कालाग्निमादितः कृत्वा मायान्तं ब्रह्मदेहगम् ॥ २१ ॥ शिवो विश्वद्यनन्तान्तः परं शक्तित्रयं मतम् । तदन्तर्वर्ति यत्किंचिच्छुद्धमार्गे व्यवस्थितम् ॥ २२ ॥ अणुर्विशुद्धमचिरादैस्वरं ज्ञानमश्नुते । तच्चोदकः शिवो ज्ञेयः सर्वज्ञः परमेश्वरः ॥ २३ ॥ सर्वगो निर्मलः स्वच्छस्तृप्तः स्वायतनः शुचिः । यथा न्यग्रोधबीजस्थः शक्तिरूपो महाद्रुमः ॥ २४ ॥ तथा हृदयबीजस्थं जगदेतच्चराचरम् । एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी ॥ २५ ॥ दीक्षा भवत्यसंदिग्धा तिलाज्याहुतिवर्जिता । मूर्ध्नि वक्त्रे च हृदये गुह्ये मुर्तौ तथैव च ॥ २६ ॥ न्यासं क्र्त्वा शिखां बद्ध्वा सप्तविंसतिमन्त्रिताम् । एकैकेन दिशां बन्धं दशानामपि कारयेत् ॥ २७ ॥ तालत्रयं पुरा दत्त्वा सशब्दं विघ्नशान्तये । शिखासंख्याभिजप्तेन तोयेनाभ्युक्षयेत्ततः ॥ २८ ॥ पुष्पादिकं क्रमात्सर्वं लिङ्गं वा स्थ.ङ्दिलं च वा । चतुर्दशाभिजप्तेन पुष्पेणासनकल्पना ॥ २९ ॥ तत्र सृष्टिं यजेद्वीरः पुनरेवासनं ततः । सृष्टिं तु सम्पुटीकृत्य पश्चाद्यजनमारभेत् ॥ ३० ॥ सर्वतत्त्वसुसम्पूर्णां सर्वावयवशोभिताम् । यजेद्देवीं महाभागा सप्तविंशतिमन्त्रिताम् ॥ ३१ ॥ ततः सुगन्धिपुष्पैश्च यथाशक्त्या समर्चयेत् । पूजयेत्परया भक्त्या स्वात्मनं च निवेदयेत् ॥ ३२ ॥ एवं यजनमाख्यातमग्निकार्येऽप्ययं विधिः । कृतपूजाविधिः सम्यक्स्मरन् बीजं प्रसिद्ध्यति ॥ ३३ ॥ आद्यन्तरहितं बीजं विकसत्तिथिमध्यगम् । हृत्पद्मान्तर्गतं ध्यायेत्सोमांशुं नित्यमभ्यस्येत् ॥ ३४ ॥ यान् यान् कामयते कामांस्तान् ताञ्च्छीघ्रमवाप्नुयात् । अज्ञः प्रत्यक्षतामेति सर्वज्ञत्वं न संशयः ॥ ३५ ॥ एवं मन्त्रफलावप्तिरित्येतद्रुद्रयामलम् । एतदभ्यासतः सिद्धिः सर्वज्ञत्वमवाप्यते ॥ ३६ ॥ ------------------------------------------------------------------------