आद्यनाथ अनुत्तरप्रकाशपञ्चाशिका ओं नमोऽनुत्तरप्रकाशशङ्कराय अकृत्रिमाहमामर्श- प्रकाशैकघनः शिवः । शक्त्या विमर्शवपुषा स्वात्मनोऽनन्यरूपया ॥ १ ॥ शिवादिक्षितिपर्यन्तं विश्वं वपुरुदञ्चयन् । पञ्चकृत्यमहानाट्य- रसिकः क्रीडति प्रभुः ॥ २ ॥ पृथगर्थमर्थवत्ता विश्वविश्वशरीरयोः । न विश्वविश्ववपुषोर्भिन्नता कापि तात्त्विकी ॥ ३ ॥ भेदे सत्तास्फुरत्ताभ्यां भिन्नं किं तु जगद्भवेत् । सत्तास्फुरत्तासंबन्धात्सत्ताभानं च तन्न चेत् ॥ ४ ॥ असतः किं सतस्ताभ्यां संबन्धः सोऽयमिष्यते । स्वरूपलाभसुलभः संबन्धो न ह्यवस्तुनः ॥ ५ ॥ न लब्धरूपसंबन्धे ताभ्यां किं चिदुपेक्ष्यते । उपेक्षायामवस्थानं न स्यादेतस्य किं चन ॥ ६ ॥ स्वभावतः स्फुरत्ता च सत्ता च न विनाशिनी । विनाशानभुपगमे जडतापि निवर्तते ॥ ७ ॥ ततो गत्यन्तराभावाच्चिदेव परिशिष्यते । सतश्चिदैक्यं प्रकृतं कदा चिन्न निवर्तते ॥ ८ ॥ प्रकाशेऽनन्यतो भावः स्वातन्त्र्योल्लासकेवलः । परिछिन्नात्मिका शक्तिः शम्भोर्विश्वातिशायिनः ॥ ९ ॥ यत्प्रकाशात्मकं सर्वं तमःकेवलतां गतम् । यच्च किं चिज्जगदेतत्प्रकाशादतिरिच्यते ॥ १० ॥ विमृश्यसरणीं प्राप्तमित्येषा तात्त्विकी मतिः । अवभासैकतानानां मतिरेकात्र साक्षिणी ॥ ११ ॥ किं प्रमाणाइर्वराकैस्तैश्चिदानुप्राणितात्मभिः । न हि वैकर्तनं ज्योतिर्दीपालोकमपेक्षते ॥ १२ ॥ शक्तिपातपवित्रेऽस्मिन् धीतत्त्वे च परीक्ष्यताम् । आदर्शविमलाभोगे न तु सर्वं प्रकाशते ॥ १३ ॥ इत्थं चिदात्मकं सर्वं षट्त्रिंशद्भेदतत्त्वतः । आदौ शुद्धात्मकं तत्त्वं पञ्चधातमसः परम् ॥ १४ ॥ शिवः शक्तिश्च सादाख्यमीशो विद्येति भिद्यते । अक्षादिशान्तवर्णात्मा- निरमायि शिवेन तु ॥ १५ ॥ कलाविद्यारागकाल- नियतिर्बन्ध उच्यते । मायापूर्वो वकारादि- क्षकारान्ताक्षरात्मकः ॥ १६ ॥ पुमाञ्शक्तिर्मनो बुद्धिरहंकारादिपञ्चकम् । श्रोत्रादिपञ्चकं तादि टादि वागादिपञ्चकम् ॥ १७ ॥ तन्मात्रपञ्चकं चादि कादि व्योमादिपञ्चकम् । सिसृक्षोः प्रथमस्पन्दः शिवतत्त्वं विभोः स्मृतम् ॥ १८ ॥ इच्छैव सापरिम्लाना शक्तितत्त्वमुदञ्चयन् । स्वेच्छयासूचितं विश्वमाच्छाद्याहन्तया स्थितम् ॥ १९ ॥ स एव तत्त्वं सादाख्यं सर्वानुग्रहणोद्यतम् । स एवेश्वरतत्त्वं स्यात्पश्यन् विश्वमिदन्तया ॥ २० ॥ इदन्ताहन्तयोरैक्यमिति विद्या निगद्यते । स्वाङ्गकल्पेषु भावेषु मायातत्त्वं विभेदधीः ॥ २१ ॥ मायागृहीतसंकोचः शिवः पुंतत्त्वमुच्यते । अयमेव हि संसारी जीवो भोक्तैव दृश्यते ॥ २२ ॥ ज्ञत्वकर्तृत्वपूर्णत्व- नित्यत्वान्यस्य शक्तयः । तत्संकोचात्संकुचितः कलाद्यात्मतया मतः ॥ २३ ॥ मायात्मकं कला नाम किंचित्कर्तृत्वकारणम् । कालः परिच्छेदकरो नियतिश्चेदमेव मे ॥ २४ ॥ कर्तव्यं नान्यदित्येषा व्यवस्था यन्त्रणाकृइतिः । प्रकृतिर्गुणसाम्यं स्यादहंकारादिजन्मभूः ॥ २५ ॥ अहं ममेदमित्येतद्बुद्धिहेतुरहंकृतिः । बुद्धिरध्यवसायस्य कारणं निश्चयात्मनः ॥ २६ ॥ संकल्पस्य विकल्पस्य बीजं मन उदीर्यते । वचनादेश्च शब्दादेर्वागादिश्रवणादिकम् ॥ २७ ॥ कारणं श्रवणादीनां ग्राह्यं तन्मात्रपञ्चकम् । आकाशाद्यवकाशादि- कारणं भूतपञ्चकम् ॥ २८ ॥ परापराशक्तिमये शुद्धे विद्यादिपञ्चकम् । तदन्यदपराशक्तिरित्येतत्तत्त्वमीरितम् ॥ २९ ॥ इयं देवी परा शक्तिः शुद्धाशुद्धाध्वगर्भिणी । पृथिव्यादीनि तत्त्वानि यदालीनानि कारणे ॥ ३० ॥ तदा कारणमात्राणि बहिरुद्वमते विभुः । अनुत्तरेच्छे उन्मेषे आनन्देशनमूनता(?) ॥ ३१ ॥ क्रियेच्छाज्ञानशक्तीनां सत्ता षट् * । इच्छेशनान्तरारूढा स्फुटास्फुटजगन्मयी ॥ ३२ ॥ *चोम्म् अनुत्तरेत्यादित्रिपद्येष्वर्थासंगत्या पाठाशुद्धिः प्रतिभाति चत्वारः परतो वर्णाः षण्डात्मानः प्रचोदिताः । अनुत्तरानन्दशाक्तिस्त्रिकोणाद्वृत्तियोगतः ॥ ३३ ॥ तथैवोनेषयोगेन क्रियाशक्तेः स्फुटं वपुः । उक्तं त्रिशक्तिसंघट्टात्त्रिशूलं द्वैतघस्मरम् ॥ ३४ ॥ परस्परविरोधे तु कार्येषु प्रविरोहति । न कथंचिदुपादेयमासां रूपमिदं भवेत् ॥ ३५ ॥ बिन्दुर्वेद्यस्य संस्कारो विमर्शः सर्ग इत्यसौ । कलाषोडशकाकारा शक्तिर्विजयते परा ॥ ३६ ॥ तिथयः प्रतिपत्पूर्वाः पञ्चदशेति मायया । सूर्याचन्द्रमसौ स्वान्तश्- चरन्तौ स्थितिहेतवे ॥ ३७ ॥ यथाविमर्शवपुषः सर्गस्याद्याः कलाः स्मृताः । द्विधेयं मातृका देवी बीजयोन्यात्मना स्थिता ॥ ३८ ॥ नित्यप्रवृत्तशृङ्गाट- वपुर्विश्वस्य जन्मभूः । हृदयं बीजमेतस्यां सारं यत्तत्परं महः ॥ ३९ ॥ वटबीजे यथा वृक्षस्तथात्र निहितं जगत् । विचार्यमाणे नैवेदं कारणादतिरिच्यते ॥ ४० ॥ मृदादेः कलशादीनां तत्त्वं नान्यन्निरूपणे । इत्याहुस्तत्त्ववादिन्यः श्रुतीनामन्तिमा गिरः ॥ ४१ ॥ इदं सर्वं सदेवासीदग्रे इति विनिश्चयात् । सत्तावाचिनि बीजेऽस्मिन् भाति माया त्विदं जगत् ॥ ४२ ॥ विलुप्तप्रत्ययाकारमेतत्स परिशिष्यते । ततो ज्ञानक्रियासार- विद्येश्वरसदाशिवाः ॥ ४३ ॥ शक्तित्रिशूले लीयन्ते चतुर्दशकलात्मनि । ऊर्ध्वाधः सृष्टिवपुषि सर्वं लीनमतः [परम्] ॥ ४४ ॥ इत्थं परस्यां संवित्तौ सर्वं संकुचितं क्रमात् । अथवा मनसातीते यत्र क्वापि निरञ्जने ॥ ४५ ॥ षट्त्रिंशत्तत्त्वलहरी- कलहातीतगोचरे । विश्वात्मनि महामन्त्रे स्वभावे सा विलीयते ॥ ४६ ॥ कृतश्चैन्मथिते धाम्नि दीप्ते केनापि हेतुना । सर्वं हविरिदं जुह्वन्न दारिद्र्येण पीड्यते ॥ ४७ ॥ पञ्चपञ्चात्मकं विश्वं पञ्चस्पन्दविजृम्भितम् । संकोचयत्परामर्शात्सामान्यस्पन्दकेवलम् ॥ ४८ ॥ अहमि प्रलयं कुर्वन्निदमः प्रतियोगिनः । पराक्रमपरो भुङ्क्ते स्वभावमशिवापहम् ॥ ४९ ॥ इति षडधिकत्रिंशद्भेदप्रसक्तजगत्तनुः प्रसरति महाशक्त्युल्लेखविचित्रमहापटी । जयति बहुशः स्पन्दाकारा परा चिदनुत्तरा विमृशत जनाः किं नो स्वभावविजृम्भितम् ॥ ५० ॥ इति श्रीमदाद्यनाथविरचिता अनुत्तरप्रकाशपञ्चाशिका समाप्ता सेयं काश्मीरभूपाल- संश्रितेन प्रकाशिता । सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पिता ॥ *१ ॥