१.१ . विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः । १.१ . तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम सस्फुरतात् ॥ १ १.२ . नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् । १.२ . मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥ २ १.३ . नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । १.३ . प्रावृण्मेघघनव्योमविद्युल्लेखाविलासिनीम् ॥ ३ १.४ . दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् । १.४ . स्ताज्ज्ञानशूलं सत्पक्षविपक्षोत्कर्तनक्षमम् ॥ ४ १.५ . स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः । १.५ . तदेव देवीत्रयमन्तरास्तामनुत्तरं मे प्रथयत्स्वरूपम् ॥ ५ १.६ . तद्देवताविभवभाविमहामरीचिचक्रेश्वरायितनिजस्थितिरेक एव । १.६ . देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ॥ ६ १.७ . रागारुणां ग्रन्थिबिलावकीर्ण यो जालमातानवितानवृत्ति । १.७ . कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ १.८ . त्रैयम्बकाभिहितसन्ततिताम्रपर्णीसन्मौक्तिकप्रकरकान्तिविशेषभाजः । १.८ . पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धुकल्लोलकेलिकलनामलकर्णधाराः ॥ ८ १.९ . जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः । १.९ . तदपरमूर्तिर्भगवान्महेश्वरो भूतिराजश्च ॥ ९ १.१० . श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः । १.१० . जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥ १० १.११ . तदास्वादभरावेशबृंहितां मतिषट्पदीम् । १.११ . गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥ ११ १.१२ . यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः । १.१२ . स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः ॥ १२ १.१३ . जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः । १.१३ . यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः ॥ १३ १.१४ . सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । १.१४ . अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ १४ १.१५ . इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः । १.१५ . अर्थितो रचये स्पष्टां पूर्णार्था प्रक्रियामिमाम् ॥ १५ १.१६ . श्रीभट्टनाथचरणाब्जयुगात्तथा श्रीभट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या । १.१६ . बोधान्यपाशविषनुत्तदुपासनोत्थबोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ १६ १.१७ . न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे । १.१७ . देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥ १७ १.१८ . दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । १.१८ . तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम् ॥ १८ १.१९ . अतोऽत्रान्तर्गतं सर्व संप्रदायोज्झितैर्बुधैः । १.१९ . अदृष्ट प्रकटीकुर्मो गुरुनाथाज्ञया वयम् ॥ १९ १.२० . अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या । १.२० . त्रिनयनचरणसरोरुहचिन्तनलब्धप्रसिद्धिरिति ॥ २० १.२१ . श्रीशम्भुनाथभास्करचरणनिपातप्रभापगतसंकोचम् । १.२१ . अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥ २१ आदिवाक्यं १.२२ . इह तावत्समस्तेषु शास्त्रेषु परिगीयते । १.२२ . अज्ञानं संसृतेर्हेतुर्ज्ञानं मोक्षैककारणम् ॥ २२ १.२३ . मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् । १.२३ . इति प्रोक्तं तथा व श्रीमलिनीविजयोत्तरे ॥ २३ १.२४ . विशेषणेन बुद्धिस्थे संसारोत्तरकालिके । १.२४ . संभावनां निरस्यैतदभावे मोक्षमब्रवीत् ॥ २४ १.२५ . अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः । १.२५ . स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः ॥ २५ १.२६ . अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम् । १.२६ . ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम् ॥ २६ १.२७ . चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः । १.२७ . संश्लेषेतरयोगाश्यामयमर्थः प्रदर्शितः ॥ २७ १.२८ . चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम् । १.२८ . अनाक्षिप्रविशेषं सदाह सूत्रे पुरातने ॥ २८ १.२९ . द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा । १.२९ . ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते ॥ २९ १.३० . द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते । १.३० . तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम् ॥ ३० १.३१ . स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽ तुच्छोऽपि कश्चन । १.३१ . न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते ॥ ३१ १.३२ . यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम् । १.३२ . तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम् ॥ ३२ १.३३ . रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः । १.३३ . इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः ॥ ३३ १.३४ . तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थितेः । १.३४ . अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः ॥ ३४ १.३५ . यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम् । १.३५ . अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम् ॥ ३५ १.३६ . ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः । १.३६ . द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने ॥ ३६ १.३७ . तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यय । १.३७ . स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम् ॥ ३७ १.३८ . संकोचिदृक्क्रियारूपं तत्पशोरविकल्पितम् । १.३८ . तदज्ञानं न बुद्घ्यंशोऽध्यवसायाद्यभावतः ॥ ३८ १.३९ . अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी । १.३९ . षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा ॥ ३९ १.४० . धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम् । १.४० . बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृच ॥ ४० १.४१ . क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः । १.४१ . विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम् ॥ ४१ १.४२ . विकस्वराविकल्पात्मज्ञानौचित्येन यावसा । १.४२ . तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च ॥ ४२ १.४३ . तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि । १.४३ . तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम् ॥ ४३ १.४४ . बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम् । १.४४ . विलीयते तदा जीवन्मुक्तिः करतले स्थिता ॥ ४४ १.४५ . दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका । १.४५ . तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता ॥ ४५ १.४६ . ज्ञानाज्ञानागतं चैतद्द्वित्वं स्वायम्भुवे रुरौ । १.४६ . मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः ॥ ४६ १.४७ . तथाविधावसायात्मबौद्धविज्ञानसम्पदे । १.४७ . शास्त्रमेव प्रधानं यज्ज्ञेयतत्त्वप्रदर्शकम् ॥ ४७ १.४८ . दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि । १.४८ . धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि संभवेत ॥ ४८ १.४९ . देहसद्भावपर्यन्तमात्मभावो यतो धियि । १.४९ . देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः ॥ ४९ १.५० . बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम् । १.५० . तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने ॥ ५० १.५१ . विकल्पयुक्तचितस्तु पिण्डपाताच्छिवं ब्रजेत् । १.५१ . इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः ॥ ५१ १.५२ . ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः । १.५२ . नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा ॥ ५२ १.५३ . अवस्तुतापि भावानां चमत्कारैकगोचरा । १.५३ . यत्कुड्यसदृशी नेयं धीरवस्त्वेतदित्यपि ॥ ५३ १.५४ . प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते । १.५४ . अनपह्नवनीयत्वात्किं तस्मिन्मानकल्पनैः ॥ ५४ १.५५ . प्रमाणान्यपि वस्तूनां जीवितं यानि तन्वते । १.५५ . तेषामपि परो जीवः स एव परमेश्वरः ॥ ५५ १.५६ . सर्वापह्नवहेवाकधर्माप्येवं हि वर्तते । १.५६ . ज्ञानमात्मार्थमित्येतन्नेति मां प्रति भासते ॥ ५६ १.५७ . अपह्नुतौ साधने वा वस्तूनामाद्यमीदृशम् । १.५७ . यत्तत्र के प्रमाणानामुपपत्त्युपयोगिते ॥ ५७ १.५८ . [५८ मिस्सिन्ग्]॥ १.५९ . कामिके तत एवोक्तं हेतुवादविवर्जितम् । १.५९ . तस्य देवातिदेवस्य परापेक्षा न विद्यते ॥ ५९ १.६० . परस्य तदपेक्षत्वात्स्वतन्त्रोऽयमतः स्थितः । १.६० . अनपेक्षस्य वशिनो देशकालाकृतिक्रमाः ॥ ६० १.६१ . नियता नेति स विभुर्नित्यो विश्वाकृतिः शिवः । १.६१ . विभुत्वात्सर्वगो नित्यभावादाद्यन्तवर्जितः ॥ ६१ १.६२ . विश्वाकृतित्वाच्चिदचित्तद्वैचित्र्यावभासकः । १.६२ . ततोऽस्य बहुरूपत्वमुक्तं दीक्षोत्तरादिके ॥ ६२ १.६३ . भुवनं विग्रहो ज्योतिः खं शब्दो मन्त्र एव च । १.६३ . बिन्दुनादादिसंभिन्नः षड्विधः शिव उच्यते ॥ ६३ १.६४ . यो यदात्मकतानिष्ठस्तद्भावं स प्रपद्यते । १.६४ . व्योमादिशब्दविज्ञानात्परो मोक्षो न संशयः ॥ ६४ १.६५ . विश्वाकृतित्वे देवस्य तदेतच्चोपलक्षणम् । १.६५ . अनवच्छिन्नतारूढाववच्छेदलयेऽस्य च ॥ ६५ १.६६ . उक्तं च कामिके देवः सर्वाकृतिर्निराकृतिः । १.६६ . जलदर्पणवत्तेन सर्वं व्याप्तं चराचरम् ॥ ६६ १.६७ . न चास्य विमुताद्योऽयं धर्मोऽन्योन्यं विभिद्यते । १.६७ . एक एवास्य धर्मोऽसौ सर्वाक्षेपेण वर्तते ॥ ६७ १.६८ . तेन स्वातन्त्र्यशक्त्यैव युक्त इत्याञ्जसो विधिः । १.६८ . बहुशक्तित्वमप्यस्य तच्छक्त्यैवावियुक्तता ॥ ६८ १.६९ . शक्तिश्च नाम भावस्य स्वं रूपं मातृकल्पितम् । १.६९ . तेनाद्वयः स एवापि शक्तिमत्परिकल्पने ॥ ६९ १.७० . मातृक्लृप्ते हि देवस्य तत्र तत्र वपुष्यलम् । १.७० . को भेदो वस्तुतो वह्नेर्दग्धृपक्तृत्वयोरिव ॥ ७० १.७१ . न वासौ परमार्थेन न किंचिद्भासनादृते । १.७१ . नह्यस्ति किंचित्तच्छक्तितद्वद्भेदोऽपि वास्तवः ॥ ७१ १.७२ . स्वशक्त्युद्रेकजनकं तादात्म्याद्वस्तुनो हि यत् । १.७२ . शक्तिस्तदपि देव्येवं भान्त्यप्यन्यस्वरूपिणी ॥ ७२ १.७३ . शिवश्चालुप्तविभवस्तथा सृष्टोऽवभासते । १.७३ . स्वसंविन्मातृमकुरे स्वातन्त्र्याद्भावनादिषु ॥ ७३ १.७४ . तस्माद्येन मुखेनैष भात्यनंशोऽपि तत्तथा । १.७४ . शक्तिरित्येष वस्त्वेव शक्तितद्वत्क्रमः स्फुटः ॥ ७४ १.७५ . श्रीमत्किरणशास्त्रे च तत्प्रश्नोत्तरपूर्वकम् । १.७५ . अनुभावो विकल्पोऽपि मानसो न मनः शिवे ॥ ७५ १.७६ . अविज्ञाय शिवं दीक्षा कथमित्यत्र चोत्तरम् । १.७६ . क्षुधाद्यनुभवो नैव विकल्पो नहि मानसः ॥ ७६ १.७७ . रसाद्यनध्यक्षत्वेऽपि रूपादेव यथा तरुम् । १.७७ . विकल्पो वेत्ति तद्वत्तु नादबिन्द्वादिना शिवम् ॥ ७७ १.७८ . बहुशक्तित्वमस्योक्तं शिवस्य यदतो महान् । १.७८ . कलातत्त्वपुरार्णाणुपदादिर्भेदविस्तरः ॥ ७८ १.७९ . सृष्टिस्थितितिरोधानसंहारानुग्रहादि च । १.७९ . तुर्यमित्यपि देवस्य बहुशक्तित्वजृम्भितम् ॥ ७९ १.८० . जाग्रत्स्वप्नसुषुप्तान्यतदतीतानि यान्यपि । १.८० . तान्यप्यमुष्य नाथस्य स्वातन्त्र्यलहरीभरः ॥ ८० १.८१ . महामन्त्रेशमन्त्रेशमन्त्राः शिवपुरोगमाः । १.८१ . अकलौ सकलश्चेति शिवस्यैव विभूतयः ॥ ८१ १.८२ . तत्त्वग्रामस्य सर्वस्य धर्मः स्यादनपायवान् । १.८२ . आत्मैव हि स्वभावात्मेत्युक्तं श्रीत्रिशिरोमते ॥ ८२ १.८३ . हृदिस्थं सर्वदेहस्थं स्वभावस्थं सुसूक्ष्मकम् । १.८३ . सामूह्यं चैव तत्त्वानां ग्रामशब्देन कीर्तितम् ॥ ८३ १.८४ . आत्मैव धर्म इत्युक्तः शिवामृतपरिप्लुतः । १.८४ . प्रकाशावस्थितं ज्ञानं भावाभावादिमध्यतः ॥ ८४ १.८५ . स्वस्थाने वर्तनं ज्ञेयं द्रष्टृत्वं विगतावृति । १.८५ . विविक्तवस्तुकथितशुद्धविज्ञाननिर्मलः ॥ ८५ १.८६ . ग्रामधर्मवृत्तिरुक्तस्तस्य सर्वं प्रसिद्ध्यति । १.८६ . ऊर्ध्व त्यक्त्वाधो विशेत्स रामस्थो मध्यदेशगः ॥ ८६ १.८७ . गतिः स्थानं स्वप्नजाग्रदुन्मेषणनिमेषणे । १.८७ . धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥ ८७ १.८८ . बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकशः । १.८८ . एष रामो व्यापकोऽत्र शिवः परमकारणम् ॥ ८८ १.८९ . कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् । १.८९ . ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥ ८९ १.९० . परं शिवं तु व्रजति भैरवाख्यं जपादपि । १.९० . तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥ ९० १.९१ . तदत्रापि तदीयेन स्वातन्त्र्येणोपकल्पितः । १.९१ . दूरासन्नादिको भेदश्चित्स्वातन्त्र्यव्यपेक्षया ॥ ९१ १.९२ . एवं स्वातन्त्र्यपूर्णत्वादतिदुर्घटकार्ययम् । १.९२ . केन नाम न रूपेण भासते परमेश्वरः ॥ ९२ १.९३ . निरावरणमाभाति भात्याबृतनिजात्मकः । १.९३ . आवृतानावृतो भाति बहुधा भेदसंगमात् ॥ ९३ १.९४ . इति शक्तित्रयं नाथे स्वातन्त्र्यापरनामकम् । १.९४ . इच्छादिभिरभिख्याभिर्गुरुभिः प्रकटीकृतम् ॥ ९४ १.९५ . देवो ह्यन्वर्थशास्त्रोक्तैः शब्दैः समुपदिश्यते । १.९५ . महाभैरवदेवोऽयं पतिर्यः परमः शिवः ॥ ९५ १.९६ . विश्वं बिभर्ति पूरणधारणयोगेन तेन च श्रियते । १.९६ . सविमर्शतया रव रूपतश्च संसारभीरुहितकृच्च ॥ ९६ १.९७ . संसारभीतिजनिताद्रवात्परामर्शतोऽपि हृदि जातः । १.९७ . प्रकटीभूतं भवभयविमर्शनं शक्तिपाततो येन ॥ ९७ १.९८ . नक्षत्रप्रेरककालतत्त्वसंशोषकारिणो ये च । १.९८ . कालग्राससमाधानरसिकमनःसु तेषु च प्रकटः ॥ ९८ १.९९ . संकोचिपशुजनभिये यासां रवणं स्वकरणदेवीनाम् । १.९९ . अन्तर्बहिश्चतुर्विधखेचर्यादिकगणस्यापि ॥ ९९ १.१०० . तस्य स्वामी संसारवृत्तिविघटनमहाभीमः । १.१०० . भैरव इति गुरुभिरिमैरन्वर्थैः संस्तुतः शास्त्रे ॥ १०० १.१०१ . हेयोपादेयकथाविरहे स्वानन्दघनतयोच्छलनम् । १.१०१ . क्रीडा सर्वोत्कर्षेणवर्तनेच्छा तथा स्वतन्त्रत्वम् ॥ १०१ १.१०२ . व्यवहरणमभिन्नेऽपि स्वात्मनि भेदेन संजल्पः । १.१०२ . निखिलावभासनाच्च द्योतनमस्य स्तुतिर्यतः सकलम् ॥ १०२ १.१०३ . तत्प्रवणमात्मलाभात्प्रभृति समस्तेऽपि कर्तव्ये । १.१०३ . बोधात्मकः समस्तक्रियामयो दृक्क्रियागुणश्च गतिः ॥ १०३ १.१०४ . इति निर्वचनैः शिवतनुशास्त्रे गुरुभिः स्मृतो देवः । १.१०४ . शासनरोधनपालनपाचनयोगात्स सर्वमुपकुरुते । १.१०४ . तेन पतिः श्रेयोमय एव शिवो नाशिवं किमपि तत्र ॥ १०४ १.१०५ . ईदृग्रूपं कियदपि रुद्रोपेन्द्रादिषु स्फुरेद्येन । १.१०५ . तेनावच्छेदनुदे परममहत्पदविशेषणमुपात्तम् ॥ १०५ १.१०६ . इति यज्ज्ञेयसतत्त्वं दर्श्यते तच्छिवाज्ञया । १.१०६ . मया स्वसंवित्सत्तर्कपतिशास्त्रत्रिकक्रमात् ॥ १०६ १.१०७ . तस्य शक्तय एवैतास्तिस्रो भान्ति परादिकाः । १.१०७ . सृष्टौ स्थितौ लये तुर्ये तेनैता द्वादशोदिताः ॥ १०७ १.१०८ . तावान्पूर्णस्वभावोऽसौ परमः शिव उच्यते । १.१०८ . तेनात्रोपासकाः साक्षात्तत्रैव परिनिष्ठिताः ॥ १०८ १.१०९ . तासामपि च भेदांशन्यूनाधिक्यादियोजनम् । १.१०९ . तत्स्वातन्त्र्यबलादेव शास्त्रेषु परिभाषितम् ॥ १०९ १.११० . एकवीरो यामलोऽथ त्रिशक्तिश्चतुरात्मकः । १.११० . पञ्चमूर्तिः षडात्मायं सप्तकोऽष्टकभूषितः ॥ ११० १.१११ . नवात्मा दशदिक्छक्तिरेकादशकलात्मकः । १.१११ . द्वादशारमहाचक्रनायको भैरवस्त्विति ॥ १११ १.११२ . एवं यावत्सहस्रारे निःसंख्यारेऽपि वा प्रभुः । १.११२ . विश्वचक्रे महेशानो विश्वशक्तिर्विजृम्भते ॥ ११२ १.११३ . तेषामपि च चक्राणा स्ववर्गानुगमात्मना । १.११३ . ऐक्येन चक्रगो भेदस्तत्र तत्र निरूपितः ॥ ११३ १.११४ . चतुष्षड्द्विर्द्विगणनायोगात्त्रैशिरसे मते । १.११४ . षट्चक्रेश्वरता नाथस्योक्ता चित्रनिजाकृतेः ॥ ११४ १.११५ . नामानि चक्रदेवीनां तत्र कृत्यविभेदतः । १.११५ . सौम्यरौद्राकृतिध्यानयोगीन्यन्वर्थकल्पनात् ॥ ११५ १.११६ . एकस्य संविन्नाथस्य ह्यान्तरी प्रतिभा तनुः । १.११६ . सौम्यं वान्यन्मितं संविदूर्मिचक्रमुपास्यते ॥ ११६ १.११७ . अस्य स्यात्पुष्टिरित्येषा संविद्देवी तथोदितात् । १.११७ . ध्यानात्संजल्पसंमिश्राद्व्यापाराच्चापि बाह्यतः ॥ ११७ १.११८ . स्फुटीभूता सती भाति तस्य तादृक्फलप्रदा । १.११८ . पुष्टिः शुष्कस्य सरसीभावो जलमतः सितम् ॥ ११८ १.११९ . अनुगम्य ततो ध्यानं तत्प्रधानं प्रतन्यते । १.११९ . ये च स्वभावतो वर्णा रसनिःष्यन्दिनो यथा ॥ ११९ १.१२० . दन्त्यौष्ठ्यदन्त्यप्रायास्ते कैश्चिद्वर्णैः कृताः सह । १.१२० . तं बीजभावमागत्य संविदं स्फुटयन्ति ताम् ॥ १२० १.१२१ . पुष्टिं कुरु रसेनैनमाप्यायय तरामिति । १.१२१ . संजल्पोऽपि विकल्पात्मा किं तामेव न पूरयेत् ॥ १२१ १.१२२ . अमृतेयमिदं क्षीरमिदं सर्पिर्बलावहम् । १.१२२ . तेनास्य बीजं पुष्णीयामित्येनां पूरयेत्क्रियाम् ॥ १२२ १.१२३ . तस्माद्विश्वेश्वरो बोधभैरवः समुपास्यते । १.१२३ . अवच्छेदानवच्छिद्भ्यां भोगमोक्षार्थिभिर्जनैः ॥ १२३ १.१२४ . येऽप्यन्यदेवताभक्ता इत्यतो गुरुरादिशत् । १.१२४ . ये बोधाद्व्यतिरिक्तं हि किंचिद्याज्यतया विदुः ॥ १२४ १.१२५ . तेऽपि वेद्यं विविञ्चाना बोधाभेदेन मन्वते । १.१२५ . तेनाविच्छिन्नतामर्शरूपाहन्ताप्रथात्मनः ॥ १२५ १.१२६ . स्वयं-प्रथस्य न विधिः सृष्ट्यात्मास्य च पूर्वगः । १.१२६ . वेद्या हि देवतासृष्टिः शक्तेर्हेतोः समुत्थिता ॥ १२६ १.१२७ . अहंरूपा तु संवित्तिर्नित्या स्वप्रथनात्मिका । १.१२७ . विधिर्नियोगस्त्र्यंशा च भावना चोदनात्मिका ॥ १२७ १.१२८ . तदेकसिद्धा इन्द्राद्या विधिपूर्वा हि देवताः । १.१२८ . अहंबोधस्तु न तथा ते तु संवेद्यरूपताम् ॥ १२८ १.१२९ . उन्मग्नामेव पश्यन्तस्तं विदन्तोऽपि नो विदुः । १.१२९ . तदुक्तं न विदुर्मां तु तत्त्वेनातश्चलन्ति ते ॥ १२९ १.१३० . चलनं तु व्यवच्छिन्नरूपतापत्तिरेव या । १.१३० . देवान्देवयजो यान्तीत्यादि तेन न्यरूप्यत ॥ १३० १.१३१ . निमज्ज्य वेद्यतां ये तु तत्र संविन्मयीं स्थितिम् । १.१३१ . विदुस्ते ह्यनवच्छिन्नं तद्भक्ता अपि यान्ति माम् ॥ १३१ १.१३२ . सर्वत्रात्र ह्यहंशब्दो बोधमात्रैकवाचकः । १.१३२ . स भोक्तृप्रभुशब्दाभ्यां याज्ययष्ट्टतयोदितः ॥ १३२ १.१३३ . याजमानी संविदेव याज्या नान्येति चोदितम् । १.१३३ . न त्वाकृतिः कुतोऽप्यन्या देवता न हि सोचिता ॥ १३३ १.१३४ . विधिश्च नोक्तः कोऽप्यत्र मन्त्रादि वृत्तिधाम वा । १.१३४ . सोऽयमात्मानमावृत्य स्थितो जडपदं गतः ॥ १३४ १.१३५ . आवृतानावृतात्मा तु देवादिस्थावरान्तगः । १.१३५ . जडाजडस्याप्येतस्य द्वैरूप्यस्यास्ति चित्रता ॥ १३५ १.१३६ . तस्य स्वतन्त्रभावो हि किं किं यन्न विचिन्तयेत् । १.१३६ . तदुक्तं त्रिशिरःशास्त्रे संबुद्ध इति वेत्ति यः ॥ १३६ १.१३६ . ज्ञेयभावो हि चिद्धर्मस्तच्छायाच्छादयेन्न ताम् ॥ १३६ । १.१३७ . तेनाजडस्य भागस्य पुद्गलाण्वादिसंज्ञिनः । १.१३७ . अनावरणभागांशे वैचित्र्यं बहुधा स्थितम् ॥ १३७ १.१३८ . संविद्रूपे न भेदोऽस्ति वास्तवो यद्यपि ध्रुवे । १.१३८ . तथाप्यावृतिनिर्हासतारतम्यात्स लक्ष्यते ॥ १३८ १.१३९ . तद्विस्तरेण वक्ष्यामः शक्तिपातविनिर्णये । १.१३९ . समाप्य परतां स्थौल्यप्रसंगे चर्चयिष्यते ॥ १३९ १.१४० . अतः कंचित्प्रमातारं प्रति प्रथयते विभुः । १.१४० . पूर्णमेव निजं रूपं कंचिदंशांशिकाक्रमात् ॥ १४० १.१४१ . विश्वभावैकभावात्मस्वरूपप्रथनं हि यत् । १.१४१ . अणूनां तत्परं ज्ञानं तदन्यदपरं बहु ॥ १४१ १.१४२ . तच्च साक्षादुपायेन तदुपायादिनापि च । १.१४२ . प्रथमानं विचित्राभिर्भंगीभिरिह भिद्यते ॥ १४२ १.१४३ . तत्रापि स्वपरद्वारद्वारित्वात्सर्वशोंशशः । १.१४३ . व्यवधानाव्यवधिना भूयान्भेदः प्रवर्तते ॥ १४३ १.१४४ . ज्ञानस्य चाभ्युपायो यो न तदज्ञानमुच्यते । १.१४४ . ज्ञानमेव तु तत्सूक्ष्मं परं त्विच्छात्मकं मतम् ॥ १४४ १.१४५ . उपायोपेयभावस्तु ज्ञानस्य स्थौल्यविश्रमः । १.१४५ . एषैव च क्रियाशक्तिर्बन्धमोक्षैककारणम् ॥ १४५ १.१४६ . तत्राद्ये स्वपरामर्शे निर्विकल्पैकधामनि । १.१४६ . यत्स्फुरेत्प्रकटं साक्षात्तदिच्छाख्यं प्रकीर्तितम् ॥ १४६ १.१४७ . यथा विस्फुरितदृशामनुसन्धिं विनाप्यलम् । १.१४७ . भाति भावः स्फुटस्तद्वत्केषामपि शिवात्मता ॥ १४७ १.१४८ . भूयो भूयो विकल्पांशनिश्चयक्रमचर्चनात् । १.१४८ . यत्परामर्शमभ्येति ज्ञानोपायं तु तद्विदुः ॥ १४८ १.१४९ . यत्तु तत्कल्पनाक्लृप्तबहिर्भूतार्थसाधनम् । १.१४९ . क्रियोपायं तदाम्नातं भेदो नात्रापवर्गगः ॥ १४९ १.१५० . यतो नान्या क्रिया नाम ज्ञानमेव हि तत्तथा । १.१५० . रूढेर्योगान्ततां प्राप्तमिति श्रीगमशासने ॥ १५० १.१५१ . योगो नान्यः क्रिया नान्या तत्त्वारूढा हि या मतिः । १.१५१ . स्वचित्तवासनाशान्तौ सा क्रियेत्यभिधीयते ॥ १५१ १.१५२ . स्वचित्ते वासनाः कर्ममलमायाप्रसूतयः । १.१५२ . तासां शान्तिनिमित्तं या मतिः संवित्स्वभाविका ॥ १५२ १.१५३ . सा देहारम्भिबाह्यस्थतत्त्वब्राताधिशायिनी । १.१५३ . क्रिया सैव च योगः स्यात्तत्त्वानां चिल्लयीकृतौ ॥ १५३ १.१५४ . लोकेऽपि किल गच्छामीत्येवमन्तः स्फुरैव या । १.१५४ . सा देहं देशमक्षांश्चाप्याविशन्ती गतिक्रिया ॥ १५४ १.१५५ . तस्मात्क्रियापि या नाम ज्ञानमेव हि सा ततः । १.१५५ . ज्ञानमेव विमोक्षाय युक्तं चैतदुदाहृतम् ॥ १५५ १.१५६ . मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः । १.१५६ . स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः ॥ १५६ १.१५७ . क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि । १.१५७ . असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात् ॥ १५७ १.१५८ . परमेश्वरशास्त्रे हि न च काणाददृष्टिवत् । १.१५८ . शक्तीनां धर्मरूपाणामाश्रयः कोऽपि कथ्यते ॥ १५८ १.१५९ . ततश्च दृक्क्रियेच्छाद्या भिन्नाश्चेच्छक्तयस्तथा । १.१५९ . एकः शिव इतीयं वाग्वस्तुशून्यैव जायते ॥ १५९ १.१६० . तस्मात्संवित्त्वमेवैतत्स्वातन्त्र्यं यत्तदप्यलम् । १.१६० . विविच्यमानं बह्वीषु पर्यवस्यति शक्तिषु ॥ १६० १.१६१ . यतश्चात्मप्रथा मोक्षस्तन्नेहाशङ्क्यमीदृशम् । १.१६१ . नावश्यं कारणात्कार्य तज्ज्ञान्यपि न मुच्यते ॥ १६१ १.१६२ . यतो ज्ञानेन मोक्षस्य या हेतुफलतोदिता । १.१६२ . न सा मुख्या ततो नायं प्रसंग इति निश्चितम् ॥ १६२ १.१६३ . एवं ज्ञानस्वभावैव क्रिया स्थूलत्वमात्मनि । १.१६३ . यतो वहति तेनास्यां चित्रता दृश्यतां किल ॥ १६३ १.१६४ . क्रियोपायेऽभ्युपायानां ग्राह्यबाह्यविभेदिनाम् । १.१६४ . भेदोपभेदवैविध्यान्निःसंख्यत्वमवान्तरात् ॥ १६४ १.१६५ . अनेन चैतत्प्रध्वस्तं यत्केचन शशङ्किरे । १.१६५ . उपायभेदान्मोक्षेऽपि भेदः स्यादिति सूरयः ॥ १६५ १.१६६ . मलतच्छक्तिविध्वंसतिरोभूच्युतिमध्यतः । १.१६६ . हेतुभेदेऽपि नो भिन्ना घटध्वंसादिवृत्तिवत् ॥ १६६ १.१६७ . तदेतत्त्रिविधत्वं हि शास्त्रे श्रीपूर्वनामनि । १.१६७ . आदेशि परमेशित्रा समावेशविनिर्णये ॥ १६७ १.१६८ . अकिंचिच्चिन्तकस्यैव गुरुणा प्रतिबोधतः । १.१६८ . उत्पद्यते य आवेशः शाम्भवोऽसाविदीरितः ॥ १६८ १.१६९ . उच्चाररहितं वस्तु चेतसैव विचिन्तयन् । १.१६९ . यं समावेशमाप्नोति शाक्तः सोऽत्राभिधीयते ॥ १६९ १.१७० . उच्चारकरणध्यानवर्णस्थानप्रकल्पनैः । १.१७० . यो भवेत्स समावेशः सम्यगाणव उच्यते ॥ १७० १.१७१ . अकिंचिच्चिन्तकस्येति विकल्पानुपयोगिता । १.१७१ . तया च झटिति ज्ञेयसमापत्तिर्निरूप्यते ॥ १७१ १.१७२ . सा कथं भवतीत्याह गुरुणातिगरीयसा । १.१७२ . ज्ञेयाभिमुखबोधेन द्राक्प्ररूढत्वशालिना ॥ १७२ १.१७३ . तृतीयार्थे तसि व्याख्या वा वैयधिकरण्यतः । १.१७३ . आवेशश्चास्वतन्त्रस्य स्वतद्रूपनिमज्जनात् ॥ १७३ १.१७४ . परतद्रूपता शम्भोराद्याच्छक्त्यविभागिनः । १.१७४ . तेनायमत्र वाक्यार्थो विज्ञेयं प्रोन्मिषत्स्वयम् ॥ १७४ १.१७५ . विनापि निश्चयेन द्राक्मातृदर्पणबिम्बितम् । १.१७५ . मातारमधरीकुर्वत्स्वां विभूतिं प्रदर्शयत् ॥ १७५ १.१७६ . आस्ते हृदयनैर्मल्यातिशये तारतम्यतः । १.१७६ . ज्ञेयं द्विधा च चिन्मात्रं जडं चाद्यं च कल्पितम् ॥ १७६ १.१७७ . इतरत्तु तथा सत्यं तद्विभागोऽयमीदृशः । १.१७७ . जडेन यः समावेशः सप्रतिच्छन्दकाकृतिः ॥ १७७ १.१७८ . चैतन्येन समावेशस्तादात्म्यं नापरं किल । १.१७८ . तेनाविकल्पा संवित्तिर्भावनाद्यनपेक्षिणी ॥ १७८ १.१७९ . शिवतादात्म्यमापन्ना समावेशोऽत्र शांभवः । १.१७९ . तत्प्रसादात्पुनः पश्चाद्भाविनोऽत्र विनिश्चयाः ॥ १७९ १.१८० . सन्तु तादात्म्यमापन्ना न तु तेषामुपायता । १.१८० . विकल्पापेक्षया मानमविकल्पमिति ब्रुवन् ॥ १८० १.१८१ . प्रत्युक्त एव सिद्धं हि विकल्पेनानुगम्यते । १.१८१ . गृहीतमिति सुस्पष्टा निश्चयस्य यतः प्रथा ॥ १८१ १.१८२ . गृह्णामीत्यविकल्पैक्यबलात्तु प्रतिपद्यते । १.१८२ . अविकल्पात्मसंवित्तौ या स्फुरत्तैव वस्तुनः ॥ १८२ १.१८३ . सा सिद्धिर्न विकल्पात्तु वस्त्वपेक्षाविवर्जितात् । १.१८३ . केवलं संविदः सोऽयं नैर्मल्येतरविश्रमः ॥ १८३ १.१८४ . यद्विकल्पानपेक्षत्वसापेक्षत्वे निजात्मनि । १.१८४ . निशीथेऽपि मणिज्ञानी विद्युत्कालप्रदर्शितान् ॥ १८४ १.१८५ . तांस्तान्विशेषांश्चिनुते रत्नानां भूयसामपि । १.१८५ . नैर्मल्यं संविदश्चेदं पूर्वाभ्यासवशादथो ॥ १८५ १.१८६ . अनियन्त्रेश्वरेच्छात इत्येतच्चर्चयिष्यते । १.१८६ . पञ्चाशद्विधता चास्य समावेशस्य वर्णिता ॥ १८६ १.१८७ . तत्त्वषट्त्रिंशकैतत्स्थस्फुटभेदाभिसन्धितः । १.१८७ . एतत्तत्त्वान्तरे यत्पुंविद्याशक्त्यात्मकं त्रयम् ॥ १८७ १.१८८ . अम्भोधिकाष्ठाज्वलनसंख्यैर्भेदैर्यतः क्रमात् । १.१८८ . पुंविद्याशक्तिसंज्ञं यत्तत्सर्वव्यापकं यतः ॥ १८८ १.१८९ . अव्यापकेभ्यस्तेनेदं भेदेन गणितं किल । १.१८९ . अशुद्धिशुद्ध्यमानत्वशुद्धितस्तु मिथोऽपि तत् ॥ १८९ १.१९० . भूतान्यध्यक्षसिद्धानि कार्यहेत्वनुमेयतः । १.१९० . तत्त्ववर्गात्पृथग्भूतसमाख्यान्यत एव हि ॥ १९० १.१९१ . सर्वप्रतीतिसद्भावगोचरं भूतमेव हि । १.१९१ . विदुश्चतुष्टये चात्र सावकाशे तदास्थितिम् ॥ १९१ १.१९२ . रुद्रशक्तिसमावेशः पञ्चधा ननु चर्च्यते । १.१९२ . कोऽवकाशो भवेत्तत्र भौतावेशादिवर्णने ॥ १९२ १.१९३ . प्रसंगादेतदितिचेत्समाधिः संभवन्नयम् । १.१९३ . नास्माकं मानसावर्जी लोको भिन्नरुचिर्यतः ॥ १९३ १.१९४ . उच्यते द्वैतशास्त्रेषु परमेशाद्विभेदिता । १.१९४ . भूतादीनां यथा सात्र न तथा द्वयवर्जिते ॥ १९४ १.१९५ . यावान्षट्त्रिंशकः सोऽयं यदन्यदपि किंचन । १.१९५ . एतावती महादेवी रुद्रशक्तिरनर्गला ॥ १९५ १.१९६ . तत एव द्वितीयेऽस्मिन्नधिकारे न्यरूप्यत । १.१९६ . धरादेर्विश्वरूपत्वं पाञ्चदश्यादिभेदतः ॥ १९६ १.१९७ . तस्माद्यथा पुरस्थेऽर्थे गुणाद्यंशांशिकामुखात् । १.१९७ . निरंशभावसंबोधस्तथैवात्रापि बुध्यताम् ॥ १९७ १.१९८ . अत एवाविकल्पत्वध्रौव्यप्राभववैभवैः । १.१९८ . अन्यैर्वा शक्तिरूपत्वाद्धर्मैः स्वसमवायिभिः ॥ १९८ १.१९९ . सर्वशोऽप्यथ वांशेन तं विभुं परमेश्वरम् । १.१९९ . उपासते विकल्पौघसंस्काराद्ये श्रुतोत्थितात् ॥ १९९ १.२०० . ते तत्तत्स्वविकल्पान्तःस्फुरत्तद्धर्मपाटवात् । १.२०० . धर्मिणं पूर्णधर्मौघमभेदेनाधिशेरते ॥ २०० १.२०१ . ऊचिवानत एव श्रीविद्याधिपतिरादरात् । १.२०१ . त्वत्स्वरूपमविकल्पमक्षजा कल्पने न विषयीकरोति चेत् । १.२०१ . अन्तरुल्लिखितचित्रसंविदो नो भवेयुरनुभूतयः स्फुटाः ॥ २०१ १.२०२ . तदुक्तं श्रीमतङ्गादौ स्वशक्तिकिरणात्मकम् । १.२०२ . अथ पत्युरधिष्ठानमित्याद्युक्तं विशेषणैः ॥ २०२ १.२०३ . तस्यां दिवि सुदीप्तात्मा निष्कम्पोऽचलमूर्तिमान् । १.२०३ . काष्ठा सैव परा सूक्ष्मा सर्वदिक्कामृतात्मिका ॥ २०३ १.२०४ . प्रध्वस्तावरणा शान्ता वस्तुमात्रातिलालसा । १.२०४ . आद्यन्तोपरता साध्वी मूर्तित्वेनोपचर्यते ॥ २०४ १.२०५ . तथोपचारस्यात्रैतन्निमितं सप्रयोजनम् । १.२०५ . तन्मुखा स्फुटता धर्मिण्याशु तन्मयतास्थितिः ॥ २०५ १.२०६ . त एव धर्माः शक्त्याख्यास्तैस्तैरुचितरूपकैः । १.२०६ . आकारैः पर्युपास्यन्ते तन्मयीभावसिद्धये ॥ २०६ १.२०७ . तत्र काचित्पुनः शक्तिरनन्ता वा मिताश्च वा । १.२०७ . आक्षिपेद्धवतासत्त्वन्यायाद्दूरान्तिकत्वतः ॥ २०७ १.२०८ . तेन पूर्णस्वभावत्वं प्रकाशत्वं चिदात्मता । १.२०८ . भैरवत्वं विश्वशक्तीराक्षिपेद्व्यापकत्वतः ॥ २०८ १.२०९ . सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधोजुषः । १.२०९ . शक्तीः समाक्षिपेयुस्तदुपासान्तिकदूरतः ॥ २०९ १.२१० . इत्थं-भावे च शाक्ताख्यो वैकल्पिकपथक्रमः । १.२१० . इह तूक्तो यतस्तस्मात्प्रतियोग्यविकल्पकम् ॥ २१० १.२११ . अविकल्पपथारूढो येन येन पथा विशेत् । १.२११ . धरासदाशिवान्तेन तेन तेन शिवीभवेत् ॥ २११ १.२१२ . निर्मले हृदये प्राग्र्यस्फुरद्भूम्यंशभासिनि । १.२१२ . प्रकाशे तन्मुखेनैव संवित्परशिवात्मता ॥ २१२ १.२१३ . एवं परेच्छाशक्त्यंशसदुपायमिमं विदुः । १.२१३ . शाम्भवाख्यं समावेशं सुमत्यन्तेनिवासिनः ॥ २१३ १.२१४ . शाक्तोऽथ भण्यते चेतोधी-मनोहंकृति स्फुटम् । १.२१४ . सविकल्पतया मायामयमिच्छादि वस्तुतः ॥ २१४ १.२१५ . अभिमानेन संकल्पाध्यवसायक्रमेण यः । १.२१५ . शाक्तः स मायोपायोऽपि तदन्ते निर्विकल्पकः ॥ २१५ १.२१६ . पशोर्वै याविकल्पा भूर्दशा सा शाम्भवी परम् । १.२१६ . अपूर्णा मातृदौरात्म्यात्तदपाये विकस्वरा ॥ २१६ १.२१७ . एवं वैकल्पिकी भूमिः शाक्ते कर्तृत्ववेदने । १.२१७ . यस्यां स्फुटे परं त्वस्यां संकोचः पूर्वनीतितः ॥ २१७ १.२१८ . तथा संकोचसंभारविलायनपरस्य तु । १.२१८ . सा यथेष्टान्तराभासकारिणी शक्तिरुज्ज्वला ॥ २१८ १.२१९ . ननु वैकल्पिकी किं धीराणवे नास्ति तत्र सा । १.२१९ . अन्योपायात्र तूच्चाररहितत्वं न्यरूपयत् ॥ २१९ १.२२० . उच्चारशब्देनात्रोक्ता बह्वन्तेन तदादयः । १.२२० . शक्त्युपाये न सन्त्येते भेदाभेदौ हि शक्तिता ॥ २२० १.२२१ . अणुर्नाम स्फुटो भेदस्तदुपाय इहाणवः । १.२२१ . विकल्पनिश्चयात्मैव पर्यन्ते निर्विकल्पकः ॥ २२१ १.२२२ . ननु धी-मानसाहंकृत्पुमांसो व्याप्नुयुः शिवम् । १.२२२ . नाधोवर्तितया तेन कथितं कथमीदृशम् ॥ २२२ १.२२३ . उच्यते वस्तुतोऽस्माकं शिव एव तथाविधः । १.२२३ . स्वरूपगोपनं कृत्वा स्वप्रकाशः पुनस्तथा ॥ २२३ १.२२४ . द्वैतशास्त्रे मतङ्गादौ चाप्येतत्सुनिरूपितम् । १.२२४ . अधोव्याप्तुः शिवस्यैव स प्रकाशो व्यवस्थितः ॥ २२४ १.२२५ . येन बुद्धि-मनोभूमावपि भाति परं पदम् ॥ २२५ १.२२६ . द्वावप्येतौ समावेशौ निर्विकल्पार्णवं प्रति । १.२२६ . प्रयात एव तद्रूढिं विना नैव हि किंचन ॥ २२६ १.२२७ . संवित्तिफलभिच्चात्र न प्रकल्प्येत्यतोऽब्रवीत् । १.२२७ . कल्पनायाश्च मुख्यत्वमत्रैव किल सूचितम् ॥ २२७ १.२२८ . विकल्पापेक्षया योऽपि प्रामाण्यं प्राह तन्मते । १.२२८ . तद्विकल्पक्रमोपात्तनिर्विकल्पप्रमाणता ॥ २२८ १.२२९ . रत्नतत्त्वमविद्वान्प्राङ्निश्चयोपायचर्चनात् । १.२२९ . अनुपायाविकल्पाप्तौ रत्नज्ञ इति भण्यते ॥ २२९ १.२३० . अभेदोपायमत्रोक्तं शाम्भवं शाक्तमुच्यते । १.२३० . भेदाभेदात्मकोपायं भेदोपायं तदाणवम् ॥ २३० १.२३१ . अन्ते ज्ञानेऽत्र सोपाये समस्तः कर्मविस्तरः । १.२३१ . प्रस्फुटेनैव रूपेण भावी सोऽन्तर्भविष्यति ॥ २३१ १.२३२ . क्रिया हि नाम विज्ञानान्नान्यद्वस्तु क्रमात्मताम् । १.२३२ . उपायवशतः प्राप्तं तत्क्रियेति पुरोदितम् ॥ २३२ १.२३३ . सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम् । १.२३३ . यतो हि कल्पनामात्रं स्वपरादिविभूतयः ॥ २३३ १.२३४ . तुल्ये काल्पनिकत्वे च यदैक्यस्फुरणात्मकः । १.२३४ . गुरुः स तावदेकात्मा सिद्धो मुक्तश्च भण्यते ॥ २३४ १.२३५ . यावानस्य हि संतानो गुरुस्तावत्स कीर्तितः । १.२३५ . सम्यग्ज्ञानमयश्चेति स्वात्मना मुच्यते ततः ॥ २३५ १.२३६ . तत एव स्वसंतानं ज्ञानी तारयतीत्यदः । १.२३६ . युक्त्यागमाभ्यां संसिद्धं तावानेको यतो मुनिः ॥ २३६ १.२३७ . तेनात्र ये चोदयन्ति ननु ज्ञानाद्विमुक्तता । १.२३७ . दीक्षादिका क्रिया चेयं सा कथं मुक्तये भवेत् ॥ २३७ १.२३८ . ज्ञानात्मा सेति चेज्ज्ञानं यत्रस्थं तं विमोचयेत् । १.२३८ . अन्यस्य मोचने वापि भवेत्किं नासमञ्जसम् । १.२३८ . इति ते मूलतः क्षिप्ता यत्त्वत्रान्यैः समर्थितम् ॥ २३८ १.२३९ . मलो नाम किल द्रव्यं चक्षुःस्थपटलादिवत् । १.२३९ . तद्विहन्त्री क्रिया दीक्षा त्वञ्जनादिककर्मवत् ॥ २३९ १.२४० . तत्पुरस्तान्निषेत्स्यामो युक्त्यागमविगर्हितम् । १.२४० . मलमायाकर्मणां च दर्शयिष्यामहे स्थितिम् ॥ २४० १.२४१ . एवं शक्तित्रयोपायं यज्ज्ञानं तत्र पश्चिमम् । १.२४१ . मूलं तदुत्तरं मध्यमुत्तरोत्तरमादिमम् ॥ २४१ १.२४२ . ततोऽपि परमं ज्ञानमुपायादिविवर्जितम् । १.२४२ . आनन्दशक्तिविश्रान्तमनुत्तरमिहोच्यते ॥ २४२ १.२४३ . तत्स्वप्रकाशं विज्ञानं विद्याविद्येश्वरादिभिः । १.२४३ . अपि दुर्लभसद्भावं श्रीसिद्धातन्त्र उच्यते ॥ २४३ १.२४४ . मालिन्यां सूचितं चैतत्पटलेऽष्टादशे स्फुटम् । १.२४४ . न चैतदप्रसन्नेन शंकरेणेति वाक्यतः ॥ २४४ १.२४५ . इत्यनेनैव पाठेन मालिनीविजयोत्तरे । १.२४५ . इति ज्ञानचतुष्कं यत्सिद्धिमुक्तिमहोदयम् । १.२४५ . तन्मया तन्त्र्यते तन्त्रालोकनाम्न्यत्र शासने ॥ २४५ १.२४६ . तत्रेह यद्यदन्तर्वा बहिर्वा परिमृश्यते । १.२४६ . अनुद्घाटितरूपं तत्पूर्वमेव प्रकाशते ॥ २४६ १.२४७ . तथानुद्घाटिताकारा निर्वाच्येनात्मना प्रथा । १.२४७ . संशयः कुत्रचिद्रूपे निश्चिते सति नान्यथा ॥ २४७ १.२४८ . एतत्किमिति मुख्येऽस्मिन्नेतदंशः सुनिश्चितः । १.२४८ . संशयोऽस्तित्वनास्त्यादिधर्मानुद्घाटितात्मकः ॥ २४८ १.२४९ . किमित्येतस्य शब्दस्य नाधिकोऽर्थः प्रकाशते । १.२४९ . किं त्वनुन्मुद्रिताकारं वस्त्वेवाभिदधात्ययम् ॥ २४९ १.२५० . स्थाणुर्वा पुरुषो वेति न मुख्योऽस्त्येष संशयः । १.२५० . भूयःस्थधर्मजातेषु निश्चयोत्पाद एव हि ॥ २५० १.२५१ . आमर्शनीयद्वैरूप्यानुद्घाटनवशात्पुनः । १.२५१ . संशयः स किमित्यंशे विकल्पस्त्वन्यथा स्फुटः ॥ २५१ १.२५२ . तेनानुद्घाटितात्मत्वभावप्रथनमेव यत् । १.२५२ . प्रथमं स इहोद्देशः प्रश्नः संशय एव च ॥ २५२ १.२५३ . तथानुद्घाटिताकारभावप्रसरवर्त्मना । १.२५३ . प्रसरन्ती स्वसंवित्तिः प्रष्ट्री शिष्यात्मतां गता ॥ २५३ १.२५४ . तथान्तरपरामर्शनिश्चयात्मतिरोहितेः । १.२५४ . प्रसरानन्तरोद्भूतसंहारोदयभागपि ॥ २५४ १.२५५ . यावत्येव भवेद्बाह्यप्रसरे प्रस्फुटात्मनि । १.२५५ . अनुन्मीलितरूपा सा प्रष्ट्री तावति भण्यते ॥ २५५ १.२५६ . स्वयमेवं विबोधश्च तथा प्रश्नोत्तरात्मकः । १.२५६ . गुरुशिष्यपदेऽप्येष देहभेदो ह्यतात्त्विकः ॥ २५६ १.२५७ . बोधो हि बोधरूपत्वादन्तर्नानाकृतीः स्थिताः । १.२५७ . बहिराभासयत्येव द्राक्सामान्यविशेषतः ॥ २५७ १.२५८ . स्रक्ष्यमाणविशेषांशाकांक्षायोग्यस्य कस्यचित् । १.२५८ . धर्मस्य सृष्टिः सामान्यसृष्टिः सा संशयात्मिका ॥ २५८ १.२५९ . स्रक्ष्यमाणो विशेषांशो यदा तूपरमेत्तदा । १.२५९ . निर्णयो मातृरुचितो नान्यथा कल्पकोटिभिः ॥ २५९ १.२६० . तस्याथ वस्तुनः स्वात्मवीर्याक्रमणपाटवात् । १.२६० . उन्मुद्रणं तयाकृत्या लक्षणोत्तरनिर्णयाः ॥ २६० १.२६१ . निर्णीततावद्धर्मांशपृष्ठपातितया पुनः । १.२६१ . भूयो भूयः समुद्देशलक्षणात्मपरीक्षणम् ॥ २६१ १.२६२ . दृष्टानुमानौपम्याप्तवचनादिषु सर्वतः । १.२६२ . उद्देशलक्षणावेक्षात्रितयं प्राणिनां स्फुरेत् ॥ २६२ १.२६३ . निर्विकल्पितमुद्देशो विकल्पो लक्षणं पुनः । १.२६३ . परीक्षणं तथाध्यक्षे विकल्पानां परम्परा ॥ २६३ १.२६४ . नगोऽयमिति चोद्देशो धूमित्वादग्निमानिति । १.२६४ . लक्ष्यं व्याप्त्यादिविज्ञानजालं त्वत्र परीक्षणम् ॥ २६४ १.२६५ . उद्देशोऽयमिति प्राच्यो गोतुल्यो गवयाभिधः । १.२६५ . इति वा लक्षणं शेषः परीक्षोपमितौ भवेत् ॥ २६५ १.२६६ . स्वःकाम ईदृगुद्देशो यजेतेत्यस्य लक्षणम् । १.२६६ . अग्निष्टोमादिनेत्येषा परीक्षा शेषवर्तिनी ॥ २६६ १.२६७ . विकल्पस्रक्ष्यमाणान्यरुचितांशसहिष्णुनः । १.२६७ . वस्तुनो या तथात्वेन सृष्टिः सोद्देशसंज्ञिता ॥ २६७ १.२६८ . तदैव संविच्चिनुते यावतः स्रक्ष्यमाणता । १.२६८ . यतो ह्यकालकलिता संधत्ते सार्वकालिकम् ॥ २६८ १.२६९ . स्रक्ष्यमाणस्य या सृष्टिः प्राक्सृष्टांशस्य संहृतिः । १.२६९ . अनूद्यमाने धर्मे सा संविल्लक्षणमुच्यते ॥ २६९ १.२७० . तत्पृष्ठपातिभूयोंशसृष्टिसंहारविश्रमाः । १.२७० . परीक्षा कथ्यते मातृरुचिता कल्पितावधिः ॥ २७० १.२७१ . प्राक्पश्यन्त्यथ मध्यान्या वैखरी चेति ता इमाः । १.२७१ . परा परापरा देवी चरमा त्वपरात्मिका ॥ २७१ १.२७२ . इच्छादि शक्तित्रितयमिदमेव निगद्यते । १.२७२ . एतत्प्राणित एवायं व्यवहारः प्रतायते ॥ २७२ १.२७३ . एतत्प्रश्नोत्तरात्मत्वे पारमेश्वरशासने । १.२७३ . परसंबन्धरूपत्वमभिसंबन्धपञ्चके ॥ २७३ १.२७४ . यथोक्तं रत्नमालायां सर्वः परकलात्मकः । १.२७४ . महानवान्तरो दिव्यो मिश्रोऽन्योऽन्यस्तु पञ्चमः ॥ २७४ १.२७५ . भिन्नयोः प्रष्टृतद्वक्त्रोश्चैकात्म्यं यत्स उच्यते । १.२७५ . संबन्धः परता चास्य पूर्णैकात्म्यप्रथामयी ॥ २७५ १.२७६ . अनेनैव नयेन स्यात्संबन्धान्तरमप्यलम् । १.२७६ . शास्त्रवाच्यं फलादीनां परिपूर्णत्वयोगतः ॥ २७६ १.२७७ . इत्थं संविदियं देवी स्वभावादेव सर्वदा । १.२७७ . उद्देशादित्रयप्राणा सर्वशास्त्रस्वरूपिणी ॥ २७७ १.२७८ . तत्रोच्यते पुरोद्देशः पूर्वजानुजभेदवान् । १.२७८ . विज्ञानभिद्गतोपायः परोपायस्तृतीयकः ॥ २७८ १.२७९ . शाक्तोपायो नरोपायः कालोपायोऽथ सप्तमः । १.२७९ . चक्रोदयोऽथ देशाध्वा तत्त्वाध्वा तत्त्वभेदनम् ॥ २७९ १.२८० . कलाद्यध्वाध्वोपयोगः शक्तिपाततिरोहिती । १.२८० . दीक्षोपक्रमणं दीक्षा सामयी पौत्रिके विधौ ॥ २८० १.२८१ . प्रमेयप्रक्रिया सूक्ष्मा दीक्षा सद्यःसमुत्क्रमः । १.२८१ . तुलादीक्षाथ पारोक्षी लिङ्गोद्धारोऽभिषेचनम् ॥ २८१ १.२८२ . अन्त्येष्टिः श्राद्धक्लृप्तिश्च शेषवृत्तिनिरूपणम् । १.२८२ . लिङ्गार्चा बहुभित्पर्वपवित्रादि निमित्तजम् ॥ २८२ १.२८३ . रहस्यचर्या मन्त्रौघो मण्डलं मुद्रिकाविधिः । १.२८३ . एकीकारः स्वस्वरूपे प्रवेशः शास्त्रमेलनम् ॥ २८३ १.२८४ . आयातिकथनं शास्त्रोपादेयत्वनिरूपणम् । १.२८४ . इति सप्ताधिकामेनां त्रिंशतं यः सदा बुधः ॥ २८४ १.२८५ . आह्निकानां समभ्यस्येत्स साक्षाद्भैरवो भवेत् । १.२८५ . सप्तत्रिंशत्सु संपूर्णबोधो यद्भैरवो भवेत् ॥ २८५ १.२८६ . किं चित्रमणवोऽप्यस्य दृशा भैरवतामियुः । १.२८६ . इत्येष पूर्वजोद्देशः कथ्यते त्वनुजोऽधुना ॥ २८६ १.२८७ . विज्ञानभित्प्रकरणे भर्वस्योद्देशनं क्रमात् । १.२८७ . द्वितीयस्मिन्प्रकरणे गतोपायत्वभेदिता ॥ २८७ १.२८८ . विश्वचित्प्रतिबिन्बत्वं परामर्शोदयक्रमः । १.२८८ . मन्त्राद्यभिन्नरूपत्वं परोपाये विविच्यते ॥ २८८ १.२८९ . विकल्पसंस्क्रिया तर्कतत्त्वं गुरुसतत्त्वकम् । १.२८९ . योगाङ्गानुपयोगित्वं कल्पितार्चाद्यनादरः ॥ २८९ १.२९० . संविच्चक्रोदयो मन्त्रवीर्य जप्यादि वास्तवम् । १.२९० . निषेधविधितुल्यत्वं शाक्तोपायेऽत्र चर्च्यते ॥ २९० १.२९१ . बुद्धिध्यानं प्राणतत्त्वसमुच्चारश्चिदात्मता । १.२९१ . उच्चारः परतत्त्वान्तःप्रवेशपथलक्षणम् ॥ २९१ १.२९२ . करणं वर्णतत्त्वं चेत्याणवे तु निरूप्यते । १.२९२ . चारमानमहोरात्रसंक्रान्त्यादिविकल्पनम् ॥ २९२ १.२९३ . संहारचित्रता वर्णोदयः कालाध्वकल्पने । १.२९३ . चक्रभिन्मन्त्रविद्याभिदेतच्चक्रोदये भवेत् ॥ २९३ १.२९४ . परिमाणं पुराणां च संग्रहस्तत्त्वयोजनम् । १.२९४ . एतद्देशाध्वनिर्देशे द्वयं तत्त्वाध्वनिर्णये ॥ २९४ १.२९५ . कार्यकारणभावश्च तत्त्वक्रमनिरूपणम् । १.२९५ . वस्तुधर्मस्तत्त्वविधिर्जाग्रदादिनिरूपणम् ॥ २९५ १.२९६ . प्रमातृभेद इत्येतत्तत्त्वभेदे विचार्यते । १.२९६ . कलास्वरूपमेकत्रिपञ्चाद्यैस्तत्त्वकल्पनम् ॥ २९६ १.२९७ . वर्णभेदक्रमः सर्वाधारशक्तिनिरूपणम् । १.२९७ . कलाद्यध्वविचारान्तरेतावत्प्रविविच्यते ॥ २९७ १.२९८ . अभेदभावनाकम्पहासौ त्वध्वोपयोजने । १.२९८ . संख्याधिक्यं मलादीनां तत्त्वं शक्तिविचित्रता ॥ २९८ १.२९९ . अनपेक्षित्वसिद्धिश्च तिरोभावविचित्रता । १.२९९ . शक्तिपातपरीक्षायामेतावान्वाच्यसंग्रहः ॥ २९९ १.३०० . तिरोभावव्यपगमो ज्ञानेन परिपूर्णता । १.३०० . उत्क्रान्त्यनुपयोगित्वं दीक्षोपक्रमणे स्थितम् ॥ ३०० १.३०१ . शिष्यौचित्यपरीक्षादौ स्थानभित्स्थानकल्पनम् । १.३०१ . सामान्यन्यासभेदोऽर्घपात्रं चैतत्प्रयोजनम् ॥ ३०१ १.३०२ . द्रव्ययोग्यत्वमर्चा च बहिर्द्वारार्चनं क्रमात् । १.३०२ . प्रवेशो दिक्स्वरूपं च देहप्राणादिशोधनम् ॥ ३०२ १.३०३ . विशेषन्यासवैचित्र्यं सविशेषार्घभाजनम् । १.३०३ . देहपूजा प्राणबुद्धिचित्स्वध्वन्यासपूजने ॥ ३०३ १.३०४ . अन्यशास्त्रगणोत्कर्षः पूजा चक्रस्य सर्वतः । १.३०४ . क्षेत्रग्रहः पञ्चगव्यं पूजनं भूगणेशयोः ॥ ३०४ १.३०५ . अस्त्रार्चा वह्निकार्यं चाप्यधिवासनमग्निगम् । १.३०५ . तर्पणं चरुसंसिद्धिर्दन्तकाष्ठान्तसंस्क्रिया ॥ ३०५ १.३०६ . शिवहस्तविधिश्चापि शय्याक्लृप्तिविचारणम् । १.३०६ . स्वप्नस्य सामयं कर्म समयाश्चेति संग्रहः ॥ ३०६ १.३०७ . समयित्वविधावस्मिन्स्यात्पञ्चदश आह्निके । १.३०७ . मण्डलात्मानुसन्धानं निवेद्यपशुविस्तरः ॥ ३०७ १.३०८ . अग्नितृप्तिः स्वस्वभावदीपनं शिष्यदेहगः । १.३०८ . अध्वन्यासविधिः शोध्यशोधकादिविचित्रता ॥ ३०८ १.३०९ . दीक्षाभेदः परो न्यासो मन्त्रसत्ताप्रयोजनम् । १.३०९ . भेदो योजनिकादेश्च षोडशे स्यादिहाह्निके ॥ ३०९ १.३१० . सूत्रक्लृप्तिस्तत्त्वशुद्धिः पाशदाहोऽथ योजनम् । १.३१० . अध्वभेदस्तथेत्येवं कथितं पौत्रिके विधौ ॥ ३१० १.३११ . जननादिविहीनत्वं मन्त्रभेदोऽथ सुस्फुटः । १.३११ . इति संक्षिप्तदीक्षाख्ये स्यादष्टादश आह्निके ॥ ३११ १.३१२ . कलावेक्षा कृपाण्यादिन्यासश्चारः शरीरगः । १.३१२ . ब्रह्मविद्याविधिश्चैवमुक्तं सद्यःसमुत्क्रमे ॥ ३१२ १.३१३ . अधिकारपरीक्षान्तःसंस्कारोऽथ तुलाविधिः । १.३१३ . इत्येतद्वाच्यसर्वस्वं स्याद्विंशतितमाह्निके ॥ ३१३ १.३१४ . मृतजीवद्विधिर्जालो पदेशः संस्क्रियागणः । १.३१४ . बलाबलविचारश्चेत्येकविंशाह्निके विधिः ॥ ३१४ १.३१५ . श्रवणं चाभ्यनुज्ञानं शोधनं पातकच्युतिः । १.३१५ . शङ्काच्छेद इति स्पष्टं वाच्यं लिङ्गोद्धृतिक्रमे ॥ ३१५ १.३१६ . परीक्षाचार्यकरणं तद्व्रतं हरणं मतेः । १.३१६ . तद्विभागः साधकत्वमभिषेकविधौ त्वियत् ॥ ३१६ १.३१७ . अधिकार्यथ संस्कारस्तत्प्रयोजनमित्यदः । १.३१७ . चतुर्विंशेऽन्त्ययागाख्ये वक्तव्यं परिचर्च्यते ॥ ३१७ १.३१८ . प्रयोजनं भोगमोक्षदानेनात्र विधिः स्फुटः । १.३१८ . पञ्चविंशाह्निके श्राद्धप्रकाशे वस्तुसंग्रहः ॥ ३१८ १.३१९ . प्रयोजनं शेषवृत्तेर्नित्यार्चा स्थण्डिले परा । १.३१९ . लिङ्गस्वरूपं बहुधा चाक्षसूत्रनिरूपणम् ॥ ३१९ १.३२० . पूजाभेद इति वाच्यं लिङ्गार्चासंप्रकाशने । १.३२० . नैमित्तिकविभागस्तत्प्रयोजनविधिस्ततः ॥ ३२० १.३२१ . पर्वभेदास्तद्विशेषश्चक्रचर्चा तदर्चनम् । १.३२१ . गुर्वाद्यन्तदिनाद्यर्चाप्रयोजननिरूपणम् ॥ ३२१ १.३२२ . मृतेः परीक्षा योगीशीमेलकादिविधिस्तथा । १.३२२ . व्याख्याविधिः श्रुतविधिर्गुरुपूजाविधिस्त्वियत् ॥ ३२२ १.३२३ . नैमित्तिकप्रकाशाख्ये ऽप्यष्टाविंशाह्निके स्थितम् । १.३२३ . अधिकार्यात्मनो भेदः सिद्धपत्नीकुलक्रमः ॥ ३२३ १.३२४ . अर्चाविधिर्दौतविधी रहस्योपनिषत्क्रमः । १.३२४ . दीक्षाभिषेकौ बोधश्चेत्येकोनत्रिंश आह्निके ॥ ३२४ १.३२५ . मन्त्रस्वरूपं तद्वीर्यमिति त्रिंशे निरूपितम् । १.३२५ . शूलाब्जभेदो व्योमशस्वस्तिकादिनिरूपणम् ॥ ३२५ १.३२६ . विस्तरेणाभिधातव्यमित्येकत्रिंश आह्निके । १.३२६ . गुणप्रधानताभेदाः स्वरूपं वीर्यचर्चनम् ॥ ३२६ १.३२७ . कलाभेद इति प्रोक्तं मुद्राणां संप्रकाशने । १.३२७ . द्वात्रिंशतत्त्वादीशाख्यात्प्रभृति प्रस्फुटो यतः ॥ ३२७ १.३२८ . न भेदोऽस्ति ततो नोक्तमुद्देशान्तरमत्र तत् । १.३२८ . मुख्यत्वेन च वेद्यत्वादधिकारान्तरक्रमः ॥ ३२८ १.३२९ . इत्युद्देशविधिः प्रोक्तः सुखसंग्रहहेतवे । १.३२९ . अथास्य लक्षणावेक्षे निरूप्येते यथाक्रमम् ॥ ३२९ १.३३० . आत्मा संवित्प्रकाशस्थितिरनवयवा संविदित्यात्तशक्तिव्रातं तस्य स्वरूपं स च निज महसश्छादनाद्बद्धरूपः । १.३३० . आत्मज्योतिःस्वभावप्रकटनविधिना तस्य मोक्षः स चायं चित्राकारस्य चित्रः प्रकटित इह यत्संग्रहेणार्थ एषः ॥ ३३० १.३३१ . मिथ्याज्ञानं तिमिरमसमान् दृष्टिदोषान्प्रसूते तत्सद्भावाद्विमलमपि तद्भाति मालिन्यधाम । १.३३१ . यत्तु प्रेक्ष्यं दृशि परिगतं तैमिरीं दोषमुद्रां दूरं रुन्द्धेत्प्रभवतु कथं तत्र मालिन्यशङ्का ॥ ३३१ १.३३२ . भावव्रात? हठाज्जनस्य हृदयान्याक्रम्य यन्नर्तयन् भङ्गीभिर्विविधाभिरात्महृदयं प्रच्छाद्य संक्रीडसे । १.३३२ . यस्त्वामाह जडं जडः सहृदयंमन्यत्वदुःशिक्षितो मन्येऽमुष्य जडात्मता स्तुतिपदं त्वत्साम्यसंभावनात् ॥ ३३२ १.३३३ . इह गलितमलाः परावरज्ञाः शिवसद्भावमया अधिक्रियन्ते । १.३३३ . गुरवः प्रविचारणे यतस्तद्विफला द्वेषकलंकहानियाच्ञा ॥ ३३३ ए तन्त्रालोकेऽभिनवरचितेऽमुत्र विज्ञानसत्ताभेदोद्गारप्रकटनपटावाह्निकेऽस्मिन्समाप्तिः । च्२ अथ श्रीतन्त्रालोकस्य द्वितीयमाह्निकम् २.१ . यत्तत्राद्यं पदमविरतानुत्तरज्ञप्तिरूपम् । २.१ . तन्निर्णेतुं प्रकरणमिदमारभेऽहं द्वितीयम् ॥ १ २.२ . अनुपायं हि यद्रूपं कोऽर्थो देशनयात्र वै । २.२ . सकृत्स्याद्देशना पश्चादनुपायत्वमुच्ययते ॥ २ २.३ . अनुपायमिदं तत्त्वमित्युपायं विना कुतः । २.३ . स्वयं तु तेषां तत्तादृक्किं ब्रूमः किल तान्प्रति ॥ ३ २.४ . यच्चतुर्धोदितं रूपं विज्ञानस्य विभोरसौ । २.४ . स्वभाव एव मन्तव्यः स हि नित्योदितो विभुः ॥ ४ २.५ . एतावद्भिरसंख्यातैः स्वभावैर्यत्प्रकाशते । २.५ . केऽप्यंशांशिकया तेन विशन्त्यन्ये निरंशतः ॥ ५ २.६ . तत्रापि चाभ्युपायादिसापेक्षान्यत्वयोगतः । २.६ . उपायस्यापि नो वार्या तदन्यत्वाद्विचित्रता ॥ ६ २.७ . तत्र ये निर्मलात्मानो भैरवीयां स्वसंविदम् । २.७ . निरुपायामुपासीनास्तद्विधिः प्रणिगद्यते ॥ ७ २.८ . तत्र तावत्क्रियायोगो नाभ्युपायत्वमर्हति । २.८ . स हि तस्मात्समुद्भूतः प्रत्युत प्रविभाव्यते ॥ ८ २.९ . ज्ञप्तावुपाय एव स्यादिति चेज्ज्ञप्तिरुच्यते । २.९ . प्रकाशत्वं स्वप्रकाशे तच्च तत्रान्यतः कथम् ॥ ९ २.१० . संवित्तत्त्वं स्वप्रकाशमित्यस्मिन्कं नु युक्तिभिः । २.१० . तदभावे भवेद्विश्वं जडत्वादप्रकाशकम् ॥ १० २.११ . यावानुपायो बाह्यः स्यादान्तरो वापि कश्चन । २.११ . स सर्वस्तन्मुखप्रेक्षी तत्रोपायत्वभाक्कथम् ॥ ११ २.१२ . त्यजावधानानि ननु क्व नाम धत्सेऽवधानं विचिनु स्वयं तत् । २.१२ . पूर्णेऽवधानं न हि नाम युक्तं नापूर्णमभ्येति च सत्यभावम् ॥ १२ २.१३ . तेनावधानप्राणस्य भावनादेः परे पथि । २.१३ . भैरवीये कथंकारं भवेत्साक्षादुपायता ॥ १३ २.१४ . येऽपि साक्षादुपायेन तद्रूपं प्रविविञ्चते । २.१४ . नूनं ते सूर्यसंवित्त्यै खद्योताधित्सवो जडाः ॥ १४ २.१५ . किं च यावदिदं बाह्यमान्तरोपायसंमतम् । २.१५ . तत्प्रकाशात्मतामात्रं शिवस्यैव निजं वपुः ॥ १५ २.१६ . नीलं पीतं सुखमिति प्रकाशः केवलः शिवः । २.१६ . अमुष्मिन्परमाद्वैते प्रकाशात्मनि कोऽपरः ॥ १६ २.१७ . उपायोपेयभावः स्यात्प्रकाशः केवलं हि सः ॥ १७ २.१८ . इदं द्वैतमऽयं भेद इदमद्वैतमित्यपि । २.१८ . प्रकाशवपुरेवायं भासते परमेश्वरः ॥ १८ २.१९ . अस्यां भूमौ सुखं दुःखं बन्धो मोक्षश्चितर्जडः । २.१९ . घटकुम्भवदेकार्थाः शब्दास्तेऽप्येकमेव च ॥ १९ २.२० . प्रशाशे ह्यप्रकाशांशः कथं नाम प्रकाशताम् । २.२० . प्रकाशमाने तस्मिन्वा तद्द्वैतास्तस्य लोपिताः ॥ २० २.२१ . अप्रकाशेऽथ तस्मिन्वा वस्तुता कथमुच्यते । २.२१ . न प्रकाशविशेषत्वमत एवोपपद्यते ॥ २१ २.२२ . अत एकप्रकाशोऽयमिति वादेऽत्र सुस्थिते । २.२२ . दूरादावारिताः सत्यं विभिन्नज्ञानवादिनः ॥ २२ २.२३ . प्रकाशमात्रमुदितमप्रकाशनिषेधनात् । २.२३ . एकशब्दस्य न त्वर्थः संख्या चिद्व्यक्तिभेदभाक् ॥ २३ २.२४ . नैष शक्तिर्महादेवी न परत्राश्रितो यतः । २.२४ . न चैष शक्तिमान्देवो न कस्याप्याश्रयो यतः ॥ २४ २.२५ . नैष ध्येयो ध्यात्रभावान्न ध्याता ध्येयवर्जनात् । २.२५ . न पूज्यः पूजकाभावात्पूज्याभावान्न पूजकः ॥ २५ २.२६ . न मन्त्रो न च मन्त्र्योऽसौ न च मन्त्रयिता प्रभुः । २.२६ . न दीक्षा दीक्षको वापि न दीक्षावान्महेश्वरः ॥ २६ २.२७ . स्थानासननिरोधार्घसंघानावाहनादिकम् । २.२७ . विसर्जनान्तं नास्त्यत्र कर्तृकर्मक्रियोज्झिते ॥ २७ २.२८ . न सन्न चासत्सदसन्न च तन्नोभयोज्झितम् । २.२८ . दुर्विज्ञेया हि सावस्था किमप्येतदनुत्तरम् ॥ २८ २.२९ . अयमित्यवभासो हि यो भावोऽवच्छिदात्मकः । २.२९ . स एव घटवल्लोके संस्तथा नैष भैरवः ॥ २९ २.३० . असत्त्वं चाप्रकाशत्वं न कुत्राप्युपयोगिता । २.३० . विश्वस्य जीवितं सत्यं प्रकाशैकात्मकश्च सः ॥ ३० २.३१ . आभ्यामेव तु हेतुभ्यां न द्व्यात्मा न द्वयोज्झितः । २.३१ . सर्वात्मना हि भात्येष केन रूपेण मन्त्र्यताम् ॥ ३१ २.३२ . श्रीमत्त्रिशिरसि प्रोक्तं परज्ञानस्वरूपकम् । २.३२ . शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भ परं पदम् ॥ ३२ २.३३ . न भावो नाप्यभावो न द्वयं वाचामगोचरात् । २.३३ . अकथ्यपदवीरूढं शक्तिस्थं शक्तिवर्जितम् ॥ ३३ २.३४ . इति ये रूढसंवित्तिपरमार्थपवित्रिताः । २.३४ . अनुत्तरपथे रूढास्तेऽभ्युपायानियन्त्रिताः ॥ ३४ २.३५ . तेषामिदं समाभाति सर्वतो भावमण्डलम् । २.३५ . पुरःस्थमेव संवित्तिभैरवाग्निविलापितम् ॥ ३५ २.३६ . एतेषां सुखदुःखांशशंकातंकविकल्पनाः । २.३६ . निर्विकल्पपरावेशमात्रशेषत्वमागताः ॥ ३६ २.३७ . एषां न मन्त्रो न ध्यानं न पूजा नापि कल्पना । २.३७ . न समय्यादिकाचार्यपर्यन्तः कोऽपि विश्रमः ॥ ३७ २.३८ . समस्तयन्त्रणातन्त्रत्रोटनाटंकधर्मिणः । २.३८ . नानुग्रहात्परं किंचिच्छेषवृत्तौ प्रयोजनम् ॥ ३८ २.३९ . स्वं कर्तव्यं किमपि कलयंल्लोक एष प्रयत्नान्नो पारार्थ्यं प्रति घटयते कांचन स्वप्रवृत्तिम् । २.३९ . यस्तु ध्वस्ताखिलभवमलो भैरवीभावपूर्णः कृत्यं तस्य स्फुटमिदमियल्लोककर्तव्यमात्रम् ॥ ३९ २.४० . तं ये पश्यन्ति ताद्रूप्यक्रमेणामलसंविदः । २.४० . तेऽपि तद्रूपिणस्तावत्येवास्यानुग्रहात्मता ॥ ४० २.४१ . एतत्तत्त्वपरिज्ञानं मुख्यं यागादि कथ्यते । २.४१ . दीक्षान्तं विभुना श्रीमत्सिद्धयोगीश्वरीमते ॥ ४१ २.४२ . स्थण्डिलादुत्तरं तूरं तूरादुत्तरतः पटः । २.४२ . पटाद्ध्यानं ततो ध्येयं ततः स्याद्धारणोत्तरा ॥ ४२ २.४३ . ततोऽपि योगजं रूपं ततोऽपि ज्ञानमुत्तरम् । २.४३ . ज्ञानेन हि महासिद्धो भवेद्योगीश्वरस्त्विति ॥ ४३ २.४४ . सोऽपि स्वातन्त्र्यधाम्ना चेदप्यनिर्मलसंविदाम् । २.४४ . अनुग्रहं चिकीर्षुस्तद्भाविनं विधिमाश्रयेत् ॥ ४४ २.४५ . अनुग्राह्यानुसारेण विचित्रः स च कथ्यते । २.४५ . परापराद्युपायौघसंकीर्णत्वविभेदतः ॥ ४५ २.४६ . तदर्थमेव चास्यापि परमेश्वररूपिणः । २.४६ . तदभ्युपायशास्त्रादिश्रवणाध्ययनादरः ॥ ४६ २.४७ . नहि तस्य स्वतन्त्रस्य कापि कुत्रापि खण्डना । २.४७ . नानिर्मलचितः पुंसोऽनुग्रहस्त्वनुपायकः ॥ ४७ २.४८ . श्रीमदूर्मिमहाशास्त्रे सिद्धसंतानरूपके । २.४८ . इदमुक्तं तथा श्रीमत्सोमानन्दादिदैशिकैः ॥ ४८ २.४९ . गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात्समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् । २.४९ . विलीने शंकाभ्रे त्दृदयगगनोद्भासिमहसः प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥ ४९ २.५० . इदमनुत्तरधामविवेचकं विगलितौपयिकं कृतमाह्निकम् ॥ ५० च्३ श्रीतन्त्रालोकस्य तृतीयमाह्निकम् ३.० . अथ परौपयिकं प्रणिगद्यते पदमनुत्तरमेव महेशितुः ॥ ० ३.१ . प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः । ३.१ . तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ १ ३.२ . यः प्रकाशः स सर्वस्य प्रकाशत्वं प्रयच्छति । ३.२ . न च तद्व्यतिरेक्यस्ति विश्वं सद्वावभासते ॥ २ ३.३ . अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः । ३.३ . इयतः सृष्टिसंहाराडम्बरस्य प्रदर्शकः ॥ ३ ३.४ . निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः । ३.४ . अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ ४ ३.५ . सदृशं भाति नयनदर्पणाम्बरवारिषु । ३.५ . तथा हि निर्मले रूपे रूपमेवावभासते ॥ ५ ३.६ . प्रच्छन्नरागिणी कान्तप्रतिबिम्बितसुन्दरम् । ३.६ . दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ ६ ३.७ . न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः । ३.७ . नैर्मल्यं चातिनिविडसजातीयैकसंगतिः ॥ ७ ३.८ . स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या । ३.८ . अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ ८ ३.९ . नैर्मल्यं मुख्यमेकस्य संविन्नाथस्य सर्वतः । ३.९ . अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ ९ ३.१० . भावानां यत्प्रतीघाति वपुर्मायात्मकं हि तत् । ३.१० . तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ १० ३.११ . तदेवमुभयाकारमवभासं प्रकाशयन् । ३.११ . विभाति वरदो बिम्बप्रतिबिम्बदृशाखिले ॥ ११ ३.१२ . यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् । ३.१२ . विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ १२ ३.१३ . देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः । ३.१३ . तेनैव तेजसा ज्ञत्वे कोऽर्थः स्याद्दर्पणेन तु ॥ १३ ३.१४ . विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः । ३.१४ . रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ १४ ३.१५ . स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् । ३.१५ . न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ १५ ३.१६ . रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः । ३.१६ . न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ १६ ३.१७ . न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः । ३.१७ . स चार्थसंगमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥ १७ ३.१८ . अत एव गुरुत्वादिर्धर्मो नैतस्य लक्ष्यते । ३.१८ . नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः ॥ १८ ३.१९ . तस्मात्तु नैष भेदेन यद्भाति तत उच्यते । ३.१९ . आधारस्तत्र तूपाया दीपदृक्संविदः क्रमात् ॥ १९ ३.२० . दीपचक्षुर्विबोधानां काठिन्याभावतः परम् । ३.२० . सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ २० ३.२१ . एतच्च देवदेवेन दर्शितं बोधवृद्धये । ३.२१ . मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥ २१ ३.२२ . प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न । ३.२२ . स्वच्छस्यैवैष कस्यापि महिमेति कृपालुना ॥ २२ ३.२३ . न देशों नो रूपं न च समययोगो न परिमा न चान्योन्यासंगो न च तदपहानिर्न घनता । ३.२३ . न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ २३ ३.२४ . इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बनवर्त्मनि । ३.२४ . शब्दस्य प्रतिबिम्बं यत्प्रतिश्रुत्केति भण्यते ॥ २४ ३.२५ . न चासौ शब्दजः शब्द आगच्छत्त्वेन संश्रवात् । ३.२५ . तेनैव वक्त्रा दूरस्थैः शब्दस्याश्रवणादपि ॥ २५ ३.२६ . पिठिरादिपिधानांशविशिष्टछिद्रसंगतौ । ३.२६ . चित्रत्वाच्चास्य शब्दस्य प्रतिबिम्बं मुखादिवत् ॥ २६ ३.२७ . इदमन्यस्य वेद्यस्य रूपमित्यवभासते । ३.२७ . यथादर्शे तथा केनाप्युक्तमाकर्णये त्विति ॥ २७ ३.२८ . नियमाद्बिम्बसांमुख्यं प्रतिबिम्बस्य यत्ततः । ३.२८ . तन्मध्यगाः प्रमातारः शृण्वन्ति प्रतिशब्दकम् ॥ २८ ३.२९ . मुख्यग्रहं त्वपि विना प्रतिबिम्बग्रहो भवेत् । ३.२९ . स्वपश्चात्स्थं प्रियं पश्येट्टङ्कितं मुकुरे वपुः ॥ २९ ३.३० . सांमुख्यं चोच्यते तादृग्दर्पणाभेदसंस्थितेः ॥ ३० ३.३१ . अतः कूपादिपिठिराकाशे तत्प्रतिबिम्बितम् । ३.३१ . वक्त्राकाशं सशब्दं सद्भाति तत्परवक्तवत् ॥ ३१ ३.३२ . यथा चादर्शपाश्चात्यभागस्थो वेत्ति नो मुखम् । ३.३२ . तथा तथाविधाकाशपश्चात्स्थो वेत्ति न ध्वनिम् ॥ ३२ ३.३३ . शब्दो न चानभिव्यक्तः प्रतिबिम्बति तद्ध्रुवम् । ३.३३ . अभिव्यक्तिश्रुती तस्य समकालं द्वितीयके ॥ ३३ ३.३४ . क्षणे तु प्रतिबिम्बत्वं श्रुतिश्च समकालिका । ३.३४ . तुल्यकालं हि नो हस्ततच्छायारूपनिश्चयः ॥ ३४ ३.३५ . इत्थं प्रदर्शितेऽमुत्र प्रतिबिम्बसतत्त्वके । ३.३५ . प्रकृतं ब्रूमहे तत्र प्रतिबिम्बनमर्हति ॥ ३५ ३.३६ . शब्दो नभसि सानन्दे स्पर्शधामनि सुन्दरः । ३.३६ . स्पर्शोऽन्योऽपि दृढाघातशूलशीतादिकोद्भवः । ३.३६ . परस्थः प्रतिबिम्बत्वात्स्वदेहोद्धूलनाकरः ॥ ३६ ३.३७ . न चैष मुख्यस्तत्कार्यपारम्पर्याप्रकाशनात् ॥ ३७ ३.३८ . एवं घ्राणान्तरे गन्धो रसो दन्तोदके स्फुटः ॥ ३८ ३.३९ . यथा च रूपं प्रतिबिम्बितं दृशोर्न चक्षुषान्येन विना हि लक्ष्यते । ३.३९ . तथा रसस्पर्शनसौरभादिकं न लक्ष्यतेऽक्षेण विना स्थितं त्वपि ॥ ३९ ३.४० . न चान्तरे स्पर्शनधामनि स्थितं बहिःस्पृशोन्याक्षधियः स गोचरः ॥ ४० ३.४१ . अतोऽन्तिकस्थस्वकतादृगिन्द्रियप्रयोजनान्तःकरणैर्यदा कृता । ३.४१ . तदा तदात्तं प्रतिबिम्बमिन्द्रिये स्वकां क्रियां सूयत एव तादृशीम् ॥ ४१ ३.४२ . न तु स्मृतान्मानसगोचरादृता भवेत्क्रिया सा किल वर्तमानतः । ३.४२ . अतः स्थितः स्पर्शवरस्तदिन्द्रिये समागतः सन्विदितस्तथाक्रियः ॥ ४२ ३.४३ . असंभवे बाह्यगतस्य तादृशः स्व एव तस्मिन्प्रतिबिम्बितस्तथा । ३.४३ . करोति तां स्पर्शवरः सुखात्मिकां स चापि कस्यामपि नाडिसंततौ ॥ ४३ ३.४४ . तेन संवित्तिमकुरे विश्वमात्मानमर्पयत् । ३.४४ . नाथस्य वदतेऽमुष्य विमलां विश्वरूपताम् ॥ ४४ ३.४५ . यथा च गन्धरूपस्पृग्रसाद्याः प्रतिबिम्बिताः । ३.४५ . तदाधारोपरागेण भान्ति खङ्गे मुखादिवत् ॥ ४५ ३.४६ . तथा विश्वमिदं बोधे प्रतिबिम्बितमाश्रयेत् । ३.४६ . प्रकाशत्वस्वतन्त्रत्वप्रभृतिं धर्मविस्तरम् ॥ ४६ ३.४७ . यथा च सर्वतः स्वच्छे स्फटिके सर्वतो भवेत् । ३.४७ . प्रतिबिम्बं तथा बोधे सर्वतः स्वच्छताजुषि ॥ ४७ ३.४८ . अत्यन्तस्वच्छता सा यत्स्वाकृत्यनवभासनम् । ३.४८ . अतः स्वच्छतमो बोधो न रत्नं त्वाकृतिग्रहात् ॥ ४८ ३.४९ . प्रतिबिम्बं च बिम्बेन बाह्यस्थेन समर्प्यते । ३.४९ . तस्यैव प्रतिबिम्बत्वे किं बिम्बमवशिष्यताम् ॥ ४९ ३.५० . यद्वापि कारणं किंचिद्बिम्बत्वेनाभिषिच्यते । ३.५० . तदपि प्रतिबिम्बत्वमेति बोधेऽन्यथा त्वसत् ॥ ५० ३.५१ . इत्थमेतत्स्वसंवित्तिदृढन्यायास्त्ररक्षितम् । ३.५१ . साम्राज्यमेव विश्वत्र प्रतिबिम्बस्य जृम्भते ॥ ५१ ३.५२ . ननु बिम्बस्य विरहे प्रतिबिम्बं कथं भवेत् । ३.५२ . किं कुर्मो दृश्यते तद्धि ननु तद्बिम्बमुच्यताम् ॥ ५२ ३.५३ . नैवं तल्लक्षणाभावाद्बिम्बं किल किमुच्यते । ३.५३ . अन्यामिश्रं स्वतन्त्रं सद्भासमानं मुखं यथा ॥ ५३ ३.५४ . स्वरूपानपहानेन पररूपसदृक्षताम् । ३.५४ . प्रतिबिम्बात्मतामाहुः खड्गादर्शतलादिवत् ॥ ५४ ३.५५ . उक्तं च सति बाह्येऽपि धीरेकानेकवेदनात् । ३.५५ . अनेकसदृशाकारा न त्वनेकेति सौगतैः ॥ ५५ ३.५६ . नन्वित्थं प्रतिबिम्बस्य लक्षणं किं तदुच्यते । ३.५६ . अन्यव्यामिश्रणायोगात्तद्भेदाशक्यभासनम् । ३.५६ . प्रतिबिम्बमिति प्राहुर्दर्पणे वदनं यथा ॥ ५६ ३.५७ . बोधमिश्रमिदं बोधाद्भेदेनाशक्यभासनम् । ३.५७ . परतत्त्वादि बोधे किं प्रतिबिम्बं न भण्यते ॥ ५७ ३.५८ . लक्षणस्य व्यवस्थैषाकस्माच्चेद्बिम्बमुच्यताम् । ३.५८ . प्राज्ञा वस्तुनि युज्यन्ते न तु सामयिके ध्वनौ ॥ ५८ ३.५९ . ननु न प्रतिबिम्बस्य विना बिम्बं भवेत्स्थितिः । ३.५९ . किं ततः प्रतिबिम्बे हि बिम्बं तादात्म्यवृत्ति न ॥ ५९ ३.६० . अतश्च लक्षणस्यास्य प्रोक्तस्य तदसंभवे । ३.६० . न हानिर्हेतुमात्रे तु प्रश्नोऽयं पर्यवस्यति ॥ ६० ३.६१ . तत्रापि च निमित्ताख्ये नोपादाने कथंचन । ३.६१ . निमित्तकारणानां च कदाचित्क्वापि संभवः ॥ ६१ ३.६२ . अत एव पुरोवर्तिन्यालोके स्मरणादिना । ३.६२ . निमित्तेन घनेनास्तु संक्रान्तदयिताकृतिः ॥ ६२ ३.६३ . अन्यथा संविदारूढा कान्ता विच्छेदयोगिनी । ३.६३ . कस्माद्भाति न वै संविद्विच्छेदं पुरतो गता ॥ ६३ ३.६४ . अत एवान्तरं किंचिद्धीसंज्ञं भवतु स्फुटम् । ३.६४ . यत्रास्य विच्छिदा भानं संकल्पस्वप्नदर्शने ॥ ६४ ३.६५ . अतो निमित्तं देवस्य शक्तयः सन्तु तादृशे । ३.६५ . इत्थं विश्वमिदं नाथे भैरवीयचिदम्बरे । ३.६५ . प्रतिबिम्बमलं स्वच्छे न खल्वन्यप्रसादतः ॥ ६५ ३.६६ . अनन्यापेक्षिता यास्य विश्वात्मत्वं प्रति प्रभोः । ३.६६ . तां परां प्रतिभां देवीं संगिरन्ते ह्यनुत्तराम् ॥ ६६ ३.६७ . अकुलस्यास्य देवस्य कुलप्रथनशालिनी । ३.६७ . कौलिकी सा परा शक्तिरवियुक्तो यया प्रभुः ॥ ६७ ३.६८ . तयोर्यद्यामलं रूपं स संघट्ट इति स्मृतः । ३.६८ . आनन्दशक्तिः सैवोक्ता यतो विश्वं विसृज्यते ॥ ६८ ३.६९ . परापरात्परं तत्त्वं सैषा देवी निगद्यते । ३.६९ . तत्सारं तच्च हृदयं स विसर्गः परः प्रभुः ॥ ६९ ३.७० . देवीयामलशास्त्रे सा कथिता कालकर्षिणी । ३.७० . महाडामरके यागे श्रीपरा मस्तके तथा ॥ ७० ३.७१ . श्रीपूर्वशास्त्रे सा मातृसद्भावत्वेन वर्णिता । ३.७१ . संघट्टेऽस्मिंश्चिदात्मत्वाद्यत्तत्प्रत्यवमर्शनम् ॥ ७१ ३.७२ . इच्छाशक्तिरघोराणां शक्तीनां सा परा प्रभुः । ३.७२ . सैव प्रक्षुब्धरूपा चेदीशित्री संप्रजायते ॥ ७२ ३.७३ . तदा घोराः परा देव्यो जाताः शैवाध्वदैशिकाः । ३.७३ . स्वात्मप्रत्यवमर्शो यः प्रागभूदेकवीरकः ॥ ७३ ३.७४ . ज्ञातव्यविश्वोन्मेषात्मा ज्ञानशक्तितया स्थितः । ३.७४ . इयं परापरा देवी घोरां या मातृमण्डलीम् ॥ ७४ ३.७५ . सृजत्यविरतं शुद्धाशुद्धमार्गैकदीपिकाम् । ३.७५ . ज्ञेयांशः प्रोन्मिषन्क्षोभं यदैति बलवत्त्वतः ॥ ७५ ३.७६ . ऊनताभासनं संविन्मात्रत्वे जायते तदा । ३.७६ . रूढं तज्ज्ञेयवर्गस्य स्थितिप्रारम्भ उच्यते ॥ ७६ ३.७७ . रूढिरेषा विबोधाब्धेश्चित्राकारपरिग्रहः । ३.७७ . इदं तद्बीजसंदर्भबीजं चिन्वन्ति योगिनः ॥ ७७ ३.७८ . इच्छाशक्तिर्द्विरूपोक्ता क्षुभिताक्षुभिता च या । ३.७८ . इष्यमाणं हि सा वस्तुद्वैरूप्येणात्मनि श्रयेत् ॥ ७८ ३.७९ . अचिरद्युतिभासिन्या शक्त्या ज्वलनरूपया । ३.७९ . इष्यमाणसमापत्तिः स्थैर्येणाथ धरात्मना ॥ ७९ ३.८० . उन्मेषशक्तावस्त्येतज्ज्ञेयं यद्यपि भूयसा । ३.८० . तथापि विभवस्थानं सा न तु प्राच्यजन्मभूः ॥ ८० ३.८१ . इच्छाशक्तेरतः प्राहुश्चातूरूप्यं परामृतम् । ३.८१ . क्षोभान्तरस्यासद्भावान्नेदं बीजं च कस्यचित् ॥ ८१ ३.८२ . प्रक्षोभकत्वं बीजत्वं क्षोभाधारश्च योनिता । ३.८२ . क्षोभकं संविदो रूपं क्षुभ्यति क्षोभयत्यपि ॥ ८२ ३.८३ . क्षोभः स्याज्ज्ञेयधर्मत्वं क्षोभणा तद्बहिष्कृतिः । ३.८३ . अन्तःस्थविश्वाभिन्नैकबीजांशविसिसृक्षुता ॥ ८३ ३.८४ . क्षोभोऽतदिच्छे तत्त्वेच्छाभासनं क्षोभणां विदुः । ३.८४ . यदैक्यापत्तिमासाद्य तदिच्छा कृतिनी भवेत् ॥ ८४ ३.८५ . क्षोभाधारमिमं प्राहुः श्रीसोमानन्दपुत्रकाः । ३.८५ . संविदामीषणादीनामनुद्भिन्नविशेषकम् ॥ ८५ ३.८६ . यज्ज्ञेयमात्रं तद्बीजं यद्योगाद्बीजता स्वरे । ३.८६ . तस्य बीजस्य सैवोक्ता विसिसृक्षा य उद्भवः । ३.८६ . यतो ग्राह्यमिदं भास्यद्भिन्नकल्पं चिदात्मनः ॥ ८६ ३.८७ . एष क्षोभः क्षोभणा तु तूष्णींभूतान्यमातृगम् । ३.८७ . हठाद्यदौदासीन्यांशच्यावनं संविदो बलात् ॥ ८७ ३.८८ . जातापि विसिसृक्षासौ यद्विमर्शान्तरैक्यतः । ३.८८ . कृतार्था जायते क्षोभाधारोऽत्रैतत्प्रकीर्तितम् ॥ ८८ ३.८९ . ततस्तदान्तरं ज्ञेयं भिन्नकल्पत्वमिच्छति । ३.८९ . विश्वबीजादतः सर्व बाह्यं बिम्बं विवर्त्स्यति ॥ ८९ ३.९० . क्षोभ्यक्षोभकभावस्य सतत्त्वं दर्शितं मया । ३.९० . श्रीमन्महेश्वरेणोक्तं गुरुणा यत्प्रसादतः ॥ ९० ३.९१ . प्रकृतं ब्रूमहे नेदं बीजं वर्णचतुष्टयम् । ३.९१ . नापि योनिर्यतो नैतत्क्षोभाधारत्वमृच्छति ॥ ९१ ३.९२ . आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् । ३.९२ . इत्थं प्रागुदितं यत्तत्पञ्चकं तत्परस्परम् ॥ ९२ ३.९३ . उच्छलद्विविधाकारमन्योन्यव्यतिमिश्रणात् । ३.९३ . योऽनुत्तरः परः स्पन्दो यश्चानन्दः समुच्छलन् ॥ ९३ ३.९४ . ताविच्छोन्मेषसंघट्टाद्गच्छतोऽतिविचित्रताम् । ३.९४ . अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ॥ ९४ ३.९५ . त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् । ३.९५ . अनुत्तरानन्दशक्ती तत्र रूढिमुपागते ॥ ९५ ३.९६ . त्रिकोणद्वित्वयोगेन व्रजतः षडरस्थितिम् । ३.९६ . त एवोन्मेषयोगेऽपि पुनस्तन्मयतां गते ॥ ९६ ३.९७ . क्रियाशक्तेः स्फुटं रूपमभिव्यङ्क्तः परस्परम् । ३.९७ . इच्छोन्मेषगतः क्षोभो यः प्रोक्तस्तद्गतेरपि ॥ ९७ ३.९८ . ते एव शक्ती ताद्रूप्यभागिन्यौ नान्यथास्थिते । ३.९८ . नन्वनुत्तरतानन्दौ स्वात्मना भेदवर्जितौ ॥ ९८ ३.९९ . कथमेतावतीमेनां वैचित्रीं स्वात्मनि श्रितौ । ३.९९ . शृणु तावदयं संविन्नाथोऽपरिमितात्मकः ॥ ९९ ३.१०० . अनन्तशक्तिवैचित्र्यलयोदयकलेश्वरः । ३.१०० . अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥ १०० ३.१०१ . महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्धटादिवत् । ३.१०१ . परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ १०१ ३.१०२ . जडाद्विलक्षणो बोधो यतो न परिमीयते । ३.१०२ . तेन बोधमहसिन्धोरुल्लासिन्यः स्वशक्तयः ॥ १०२ ३.१०३ . आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् । ३.१०३ . स्वात्मसंघट्टवैचित्र्यं शक्तीनां यत्परस्परम् ॥ १०३ ३.१०४ . एतदेव परं प्राहुः क्रियाशक्तेः स्फुटं वपुः । ३.१०४ . अस्मिंश्चतुर्दशे धाम्नि स्फुटीभूतत्रिशक्तिके ॥ १०४ ३.१०५ . त्रिशूलत्वमतः प्राह शास्ता श्रीपूर्वशासने । ३.१०५ . निरञ्जनमिदं चोक्तं गुरुभिस्तत्त्वदर्शिभिः ॥ १०५ ३.१०६ . शक्तिमानञ्ज्यते यस्मान्न शक्तिर्जातु केनचित् । ३.१०६ . इच्छा ज्ञानं क्रिया चेति यत्पृथक्पृथगञ्ज्यते ॥ १०६ ३.१०७ . तदेव शक्तिमत्स्वैः स्वैरिष्यमाणादिकैः स्फुटम् । ३.१०७ . एतत्त्रितयमैक्येन यदा तु प्रस्फुरेत्तदा ॥ १०७ ३.१०८ . न केनचिदुपाधेयं स्वस्वविप्रतिषेधतः । ३.१०८ . लोलीभूतमतः शक्तित्रितयं तत्त्रिशूलकम् । ३.१०८ . यस्मिन्नाशु समावेशाद्भवेद्योगी निरञ्जनः ॥ १०८ ३.१०९ . इत्थं परामृतपदादारभ्याष्टकमीदृशम् । ३.१०९ . ब्राह्म्यादिरूपसंभेदाद्यात्यष्टाष्टकतां स्फुटम् ॥ १०९ ३.११० . अत्रानुत्तरशक्तिः सा स्वं वपुः प्रकटस्थितम् । ३.११० . कुर्वन्त्यपि ज्ञेयकलाकालुष्याद्विन्दुरूपिणी ॥ ११० ३.१११ . उदितायां क्रियाशक्तौ सोमसूर्याग्निधामनि । ३.१११ . अविभागः प्रकाशो यः स बिन्दुः परमो हि नः ॥ १११ ३.११२ . तत्त्वरक्षाविधाने च तदुक्तं परमेशिना । ३.११२ . हृत्पद्ममण्डलान्तःस्थो नरशक्तिशिवात्मकः ॥ ११२ ३.११३ . बोद्धव्यो लयभेदेन विन्दुर्विमलतारकः । ३.११३ . योऽसौ नादात्मकः शब्दः सर्वप्राणिष्ववस्थितः ॥ ११३ ३.११४ . अध+ऊर्ध्वविभागेन निष्क्रियेणावतिष्ठते । ३.११४ . ह्लादतैक्ष्ण्यादि वैचित्र्यं सितरक्तादिकं च यत् ॥ ११४ ३.११५ . स्वयं तन्निरपेक्षोऽसौ प्रकाशो गुरुराह च । ३.११५ . यन्न सूर्यो न वा सोमो नाग्निर्भासयतेऽपि च ॥ ११५ ३.११६ . न चार्कसोमवह्नीनां तत्प्रकाशाद्विना महः । ३.११६ . किमप्यस्ति निजं किं तु संविदित्थं प्रकाशते ॥ ११६ ३.११७ . स्वस्वातन्त्र्यप्रभावोद्यद्विचित्रोपाधिसंगतः । ३.११७ . प्रकाशो याति तैक्ष्ण्यादिमवान्तरविचित्रताम् ॥ ११७ ३.११८ . दुर्दर्शनोऽपि घर्मांशुः पतितः पाथसां पथि । ३.११८ . नेत्रानन्दत्वमभ्येति पश्योपाधेः प्रभाविताम् ॥ ११८ ३.११९ . सूर्यादिषु प्रकाशोऽसावुपाधिकलुषीकृतः । ३.११९ . संवित्प्रकाशं माहेशमत एव ह्यपेक्षते ॥ ११९ ३.१२० . प्रकाशमात्रं सुव्यक्तं सूर्य इत्युच्यते स्फुटम् । ३.१२० . प्रकाश्यवस्तुसारांशवर्षि तत्सोम उच्यते ॥ १२० ३.१२१ . सूर्य प्रमाणमित्याहुः सोमं मेयं प्रचक्षते । ३.१२१ . अन्योन्यमवियुक्तौ तौ स्वतन्त्रावप्युभौ स्थितौ ॥ १२१ ३.१२२ . भोक्तृभोग्योभयात्मैतदन्योन्योन्मुखतां गतम् । ३.१२२ . ततो ज्वलनचिद्रूपं चित्रभानुः प्रकीर्तितः ॥ १२२ ३.१२३ . योऽयं वह्नेः परं तत्त्वं प्रमातुरिदमेव तत् । ३.१२३ . संविदेव तु विज्ञेयतादात्म्यादनपेक्षिणी ॥ १२३ ३.१२४ . स्वतन्त्रत्वात्प्रमातोक्ता विचित्रो ज्ञेयभेदतः । ३.१२४ . सोमांशदाह्यवस्तूत्थवैचित्र्याभासबृंहितः ॥ १२४ ३.१२५ . तत एवाग्निरुदितश्चित्रभानुर्महेशिना । ३.१२५ . ज्ञेयाद्युपायसंघातनिरपेक्षैव संविदः ॥ १२५ ३.१२६ . स्थितिर्माताहमस्मीति ज्ञाता शास्त्रज्ञवद्यतः । ३.१२६ . अज्ञ एव यतो ज्ञातानुभवात्मा न रूपतः ॥ १२६ ३.१२७ . न तु सा ज्ञातृता यस्यां शुद्धज्ञेयाद्यपेक्षते । ३.१२७ . तस्यां दशायां ज्ञातृत्वमुच्यते योग्यतावशात् ॥ १२७ ३.१२८ . मानतैव तु सा प्राच्यप्रमातृपरिकल्पिता । ३.१२८ . उच्छलन्त्यपि संवित्तिः कालक्रमविवर्जनात् ॥ १२८ ३.१२९ . उदितैव सती पूर्णा मातृमेयादिरूपिणी । ३.१२९ . पाकादिस्तु क्रिया कालपरिच्छेदात्क्रमोचिता ॥ १२९ ३.१३० . मतान्त्यक्षणवन्ध्यापि न पाकत्वं प्रपद्यते । ३.१३० . इत्थं प्रकाशतत्त्वस्य सोमसूर्याग्निता स्थिता ॥ १३० ३.१३१ . अपि मुख्यं तत्प्रकाशमात्रत्वं न व्यपोह्यते । ३.१३१ . एषां यत्प्रथमं रूपं ह्रस्वं तत्सूर्य उच्यते ॥ १३१ ३.१३२ . क्षोभानन्दवशाद्दीर्घविश्रान्त्या सोम उच्यते । ३.१३२ . यत्तत्परं प्लुतं नाम सोमानन्दात्परं स्थितम् ॥ १३२ ३.१३३ . प्रकाशरूपं तत्प्राहुराग्नेयं शास्त्रकोविदाः । ३.१३३ . अत्र प्रकाशमात्रं यत्स्थिते धामत्रये सति ॥ १३३ ३.१३४ . उक्तं विन्दुतया शास्त्रे शिवविन्दुरसौ मतः । ३.१३४ . मकारादन्य एवायं तच्छायामात्रधृद्यथा ॥ १३४ ३.१३५ . रलहाः षण्ठवैसर्गवर्णरूपत्वसंस्थिताः । ३.१३५ . इकार एव रेफांशच्छाययान्यो यथा स्वरः ॥ १३५ ३.१३६ . तथैव महलेशादः सोऽन्यो द्वेधास्वरोऽपि सन् । ३.१३६ . अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ॥ १३६ ३.१३७ . सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् । ३.१३७ . उक्तं च त्रिशिरःशास्त्रे कलाव्याप्त्यन्तचर्चने ॥ १३७ ३.१३८ . कला सप्तदशी तस्मादमृताकाररूपिणी । ३.१३८ . परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥ १३८ ३.१३९ . प्रकाश्यं सर्ववस्तूनां विसर्गरहिता तु सा । ३.१३९ . शक्तिकुण्डलिका चैव प्राणकुण्डलिका तथा ॥ १३९ ३.१४० . विसर्गप्रान्तदेशे तु परा कुण्डलिनीति च । ३.१४० . शिवव्योमेति परमं ब्रह्मात्मस्थानमुच्यते ॥ १४० ३.१४१ . विसर्गमात्रं नाथस्य सृष्टिसंहारविभ्रमाः । ३.१४१ . स्वात्मनः स्वात्मनि स्वात्मक्षेपो वैसर्गिकी स्थितिः ॥ १४१ ३.१४२ . विसर्ग एवमुत्सृष्ट आश्यानत्वमुपागतः । ३.१४२ . हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ॥ १४२ ३.१४३ . अनुत्तरं परं धाम तदेवाकुलमुच्यते । ३.१४३ . विसर्गस्तस्य नाथस्य कौलिकी शक्तिरुच्यते ॥ १४३ ३.१४४ . विसर्गता च सैवास्या यदानन्दोदयक्रमात् । ३.१४४ . स्पष्टीभूतक्रियाशक्तिपर्यन्ता प्रोच्छलत्स्थितिः ॥ १४४ ३.१४५ . विसर्ग एव तावान्यदाक्षिप्तैतावदात्मकः । ३.१४५ . इयद्रूपं सागरस्य यदनन्तोर्मिसंततिः ॥ १४५ ३.१४६ . अत एव विसर्गोऽयमव्यक्तहकलात्मकः । ३.१४६ . कामतत्त्वमिति श्रीमत्कुलगुह्वर उच्यते ॥ १४६ ३.१४७ . यत्तदक्षरमव्यक्त कान्ताकण्ठे व्यवस्थितम् । ३.१४७ . ध्वनिरूपमनिच्छं तु ध्यानधारणवर्जितम् ॥ १४७ ३.१४८ . तत्र चित्तं समाधाय वशयेद्युगपज्जगत् । ३.१४८ . अत एव विसर्गस्य हंसे यद्वत्स्फुटा स्थितिः ॥ १४८ ३.१४९ . तद्वत्सानुत्तरादीनां कादिसान्ततया स्थितिः । ३.१४९ . अनुत्तरात्कवर्गस्य सूतिः पञ्चात्मनः स्फुटम् ॥ १४९ ३.१५० . पञ्चशक्त्यात्मतोवश एकैकत्र यथा स्फुटः । ३.१५० . इच्छाशक्तेः स्वस्वरूपसंस्थाया एकरूपतः ॥ १५० ३.१५१ . चवर्गः पञ्चशक्त्यात्मा क्रमप्रस्फुटतात्मकः । ३.१५१ . या तूक्ता ज्ञेयकालुष्यभाक्क्षिप्रचरयोगतः ॥ १५१ ३.१५२ . द्विरूपायास्ततो जातं ट-ताद्यं वर्गयुग्मकम् । ३.१५२ . उन्मेषात्पादिवर्गस्तु यतो विश्वं समाप्यते ॥ १५२ ३.१५३ . ज्ञेयरूपमिदं पञ्चविंशत्यन्तं यतः स्फुटम् । ३.१५३ . ज्ञेयत्वात्स्फुटतः प्रोक्तमेतावत्स्पर्शरूपकम् ॥ १५३ ३.१५४ . इच्छाशक्तिश्च या द्वेधा क्षुभिताक्षुभितत्वतः । ३.१५४ . सा विजातीयशक्त्यंशप्रोन्मुखी याति यात्मताम् ॥ १५४ ३.१५५ . सैव शीघ्रतरोपात्तज्ञेयकालुष्यरूषिता । ३.१५५ . विजातीयोन्मुखत्वेन रत्वं लत्वं च गच्छति ॥ १५५ ३.१५६ . तद्वदुन्मेषशक्तिर्द्विरूपा वैजात्यशक्तिगा । ३.१५६ . वकारत्वं प्रपद्येत सृष्टिसारप्रवर्षकम् ॥ १५६ ३.१५७ . इच्छैवानुत्तरानन्दयाता शीघ्रत्वयोगतः । ३.१५७ . वायुरित्युच्यते वह्निर्भासनात्स्थैर्यतो धरा ॥ १५७ ३.१५८ . इदं चतुष्कमन्तःस्थमत एव निगद्यते । ३.१५८ . इच्छाद्यन्तर्गतत्वेन स्वसमाप्तौ च संस्थितेः ॥ १५८ ३.१५९ . सजातीयकशक्तीनामिच्छाद्यानां च योजनम् । ३.१५९ . क्षोभात्मकमिदं प्राहुः क्षोभाक्षोभात्मनामपि ॥ १५९ ३.१६० . अनुत्तरस्य साजात्ये भवेत्तु द्वितयी गतिः । ३.१६० . अनुत्तरं यत्तत्रैकं तच्चेदानन्दसूतये ॥ १६० ३.१६१ . प्रभविष्यति तद्योगे योगः क्षोभात्मकः स्फुटः । ३.१६१ . अत्राप्यनुत्तरं धाम द्वितीयमपि सूतये ॥ १६१ ३.१६२ . न पर्याप्तं तदा क्षोभं विनैवानुत्तरात्मता । ३.१६२ . इच्छा या कर्मणा हीना या चैष्टव्येन रूषिता ॥ १६२ ३.१६३ . शीघ्रस्थैर्यप्रभिन्नेन त्रिधा भावमुपागता । ३.१६३ . अनुन्मिषितमुन्मीलत्प्रोन्मीलितमिति स्थितम् ॥ १६३ ३.१६४ . इष्यमाणं त्रिधैतस्यां ताद्रूप्यस्यापरिच्युतेः । ३.१६४ . तदेव स्वोष्मणा स्वात्मस्वातन्त्र्यप्रेरणात्मना ॥ १६४ ३.१६५ . बहिर्भाव्य स्फुटं क्षिप्तं श-ष-सत्रितयं स्थितम् । ३.१६५ . तत एव सकारेऽस्मिन्स्फुटं विश्वं प्रकाशते ॥ १६५ ३.१६६ . अमृतं च परं धाम योगिनस्तत्प्रचक्षते । ३.१६६ . क्षोभाद्यन्तविरामेषु तदेव च परामृतम् ॥ १६६ ३.१६७ . सीत्कारसुखसद्भावसमावेशसमाधिषु । ३.१६७ . तदेव ब्रह्म परममविभक्तं प्रचक्षते ॥ १६७ ३.१६८ . उवाच भगवानेव तच्छ्रीमत्कुलगुह्करे । ३.१६८ . शक्तिशक्तिमदैकात्म्यलब्धान्वर्थाभिधानके ॥ १६८ ३.१६९ . काकचञ्चुपुटाकारं ध्यानधारणवर्जितम् । ३.१६९ . विषतत्त्वमनच्काख्यं तव स्नेहात्प्रकाशितम् ॥ १६९ ३.१७० . कामस्य पूर्णता तत्त्वं संघट्टे प्रविभाव्यते । ३.१७० . विषस्य चामृतं तत्त्वं छाद्यत्वेऽणोश्च्युते सति ॥ १७० ३.१७१ . व्याप्त्री शक्तिर्विषं यस्मादव्याप्तुश्छादयेन्महः । ३.१७१ . निरञ्जनं परं धाम तत्त्वं तस्य तु साञ्जनम् ॥ १७१ ३.१७२ . क्रियाशक्त्यात्मकं विश्वमयं तस्मात्स्फुरेद्यतः । ३.१७२ . इच्छा कामो विषं ज्ञानं क्रिया देवी निरञ्जनम् ॥ १७२ ३.१७३ . एतत्त्रयसमावेशः शिवो भैरव उच्यते । ३.१७३ . अत्र रूढिं सदा कुर्यादिति नो गुरवो जगुः ॥ १७३ ३.१७४ . विषतत्त्वे संप्रविश्य न भूतं न विषं न च । ३.१७४ . ग्रहः केवल एवाहमिति भावनया स्फुरेत् ॥ १७४ ३.१७५ . नन्वत्र षण्ठवर्णेभ्यो जन्मोक्तं तेन षण्ठता । ३.१७५ . कथं स्यादिति चेद्ब्रूमो नात्र षण्ठस्य सोतृता ॥ १७५ ३.१७६ . तथाहि तत्रगा यासाविच्छाशक्तिरुदीरिता । ३.१७६ . सैव सूते स्वकर्तव्यमन्तःस्थं स्वेष्टरूपकम् ॥ १७६ ३.१७७ . यत्त्वत्र रूषणाहेतुरेषितव्यं स्थितं ततः । ३.१७७ . भागान्न प्रसवस्तज्जं कालुष्यं तद्वपुश्च तत् ॥ १७७ ३.१७८ . ज्ञेयारूषणया युक्तं समुदायात्मकं विदुः । ३.१७८ . षण्ठं क्षोभकताक्षोभधामत्वाभावयोगतः ॥ १७८ ३.१७९ . एतद्वर्णचतुष्कस्य स्वोष्मणाभासनावशात् । ३.१७९ . ऊष्मेति कथितं नाम भैरवेणामलात्मना ॥ १७९ ३.१८० . कादि-हान्तमिदं प्रहुः क्षोभाधारतया बुधाः । ३.१८० . योनिरूपेण तस्यापि योगे क्षोभान्तरं व्रजेत् ॥ १८० ३.१८१ . तन्निदर्शनयोगेन पञ्चाशत्तमवर्णता । ३.१८१ . पञ्चविंशकसंज्ञेयप्राग्वद्भूमिसुसंस्थितम् ॥ १८१ ३.१८२ . चतुष्कं च चतुष्कं च भेदाभेदगतं क्रमात् । ३.१८२ . आद्यं चतुष्कं संवित्तेर्भेदसंधानकोविदम् ॥ १८२ ३.१८३ . भेदस्याभेदरूढ्येकहेतुरन्यच्चतुष्टयम् । ३.१८३ . इत्थं यद्वर्णजातं तत्सर्व स्वरमयं पुरा ॥ १८३ ३.१८४ . व्यक्तियोगाद्व्यञ्जनं तत्स्वरप्राणं यतः किल । ३.१८४ . स्वराणां षट्कमेवेह मूलं स्याद्वर्णसंततौ ॥ १८४ ३.१८५ . षड्देवतास्तु ता एव ये मुख्याः सूर्यरश्मयः । ३.१८५ . सौराणामेव रश्मीनामन्तश्चान्द्रकला यतः ॥ १८५ ३.१८६ . अतोऽत्र दीर्घत्रितयं स्फुटं चान्द्रमसं वपुः । ३.१८६ . चन्द्रश्च नाम नैवान्यो भोग्यं भोक्तुश्च नापरम् ॥ १८६ ३.१८७ . भोक्तैव भोग्यभावेन द्वैविध्यात्संव्यवस्थितः । ३.१८७ . घटस्य न हि भोग्यत्वं स्वं वपुर्मातृगं हि तत् ॥ १८७ ३.१८८ . अतो मातरि या रूढिः सास्य भोग्यत्वमुच्यते । ३.१८८ . अनुत्तरं परामृश्यपरामर्शकभावतः ॥ १८८ ३.१८९ . संघट्टरूपतां प्राप्तं भोग्यमिच्छादिकं तथा । ३.१८९ . अनुत्तरानन्दभुवामिच्छाद्ये भोग्यतां गते ॥ १८९ ३.१९० . संध्यक्षराणामुदयो भोक्तृरूपं च कथ्यते । ३.१९० . अनुत्तरानन्दमयो देवो भोक्तैव कथ्यते ॥ १९० ३.१९१ . इच्छादिकं भोग्यमेव तत एवास्य शक्तिता । ३.१९१ . भोग्यं भोक्तरि लीनं चेद्भोक्ता तद्वस्तुतः स्फुटः ॥ १९१ ३.१९२ . अतः षण्णां त्रिकं सारं चिदिष्युन्मेषणात्मकम् । ३.१९२ . तदेव त्रितयं प्राहुर्भैरवस्य परं महः ॥ १९२ ३.१९३ . तत्त्रिकं परमेशस्य पूर्णा शक्तिः प्रगीयते । ३.१९३ . तेनाक्षिप्तं यतो विश्वमतोऽस्मिन्समुपासिते ॥ १९३ ३.१९४ . विश्वशक्ताववच्छेदवन्ध्ये जातमुपासनम् । ३.१९४ . इत्येष महिमैतावानिति तावन्न शक्यते ॥ १९४ ३.१९५ . अपरिच्छिन्नशक्तेः कः कुर्याच्छक्तिपरिच्छिदाम् । ३.१९५ . तस्मादनुत्तरो देवः स्वाच्छन्द्यानुत्तरत्वतः ॥ १९५ ३.१९६ . विसर्गशक्तियुक्तत्वात्संपन्नो विश्वरूपकः । ३.१९६ . एवं पञ्चाशदामर्शपूर्णशक्तिर्महेश्वरः ॥ १९६ ३.१९७ . विमर्शात्मैक एवान्याः शक्तयोऽत्रैव निष्ठिताः । ३.१९७ . एकाशीतिपदा देवी ह्यत्रान्तर्भावयिष्यते ॥ १९७ ३.१९८ . एकामर्शस्वभावत्वे शब्दराशिः स भैरवः । ३.१९८ . आमृश्यच्छायया योगात्सैव शक्तिश्च मातृका ॥ १९८ ३.१९९ . सा शब्दराशिसंघट्टाद्भिन्नयोनिस्तु मालिनी । ३.१९९ . प्राग्वन्नवतयामर्शात्पृथग्वर्गस्वरूपिणी ॥ १९९ ३.२०० . एकैकामर्शरूढौ तु सैव पञ्चाशदात्मिका । ३.२०० . इत्थं नादानुवेधेन परामर्शस्वभावकः ॥ २०० ३.२०१ . शिवो मातापितृत्वेन कर्ता विश्वत्र संस्थितः । ३.२०१ . विसर्ग एव शाक्तोऽयं शिवबिन्दुतया पुनः ॥ २०१ ३.२०२ . गर्भीकृतानन्तविश्वः श्रयतेऽनुत्तरात्मताम् । ३.२०२ . अपरिच्छिन्नविश्वान्तःसारे स्वात्मनि यः प्रभोः ॥ २०२ ३.२०३ . परामर्शः स एवोक्तो द्वयसंपत्तिलक्षणः । ३.२०३ . अनुत्तरविसर्गात्मशिवशक्त्यद्वयात्मनि ॥ २०३ ३.२०४ . परामर्शो निर्भरत्वादहमित्युच्यते विभोः । ३.२०४ . अनुत्तराद्या प्रसृतिर्हान्ता शक्तिस्वरूपिणी ॥ २०४ ३.२०५ . प्रत्याहृताशेषविश्वानुत्तरे सा निलीयते । ३.२०५ . तदिदं विश्वमन्तःस्थं शक्तौ सानुत्तरे परे ॥ २०५ ३.२०६ . तत्तस्यामिति यत्सत्यं विभुना संपुटीकृतिः । ३.२०६ . तेन श्रीत्रीशिकाशास्त्रे शक्तेः संपुटिताकृतिः ॥ २०६ ३.२०७ . संवित्तौ भाति यद्विश्वं तत्रापि खलु संविदा । ३.२०७ . तदेतत्त्रितयं द्वन्द्वयोगात्संघाततां गतम् ॥ २०७ ३.२०८ . एकमेव परं रूपं भैरवस्याहमात्मकम् । ३.२०८ . विसर्गशक्तिर्या शंभोः सेत्थं सर्वत्र वर्तते ॥ २०८ ३.२०९ . तत एवसमस्तोऽयमानन्दरसविभ्रमः । ३.२०९ . तथाहि मधुरे गीते स्पर्शे वा चन्दनादिके ॥ २०९ ३.२१० . माध्यस्थ्यविगमे यासौ हृदये स्पन्दमानता । ३.२१० . आनन्दशक्तिः सैवोक्ता यतः सहृदयो जनः ॥ २१० ३.२११ . पूर्व विसृज्यसकलं कर्तव्यं शून्यतानले । ३.२११ . चित्तविश्रान्तिसंज्ञोऽयमाणवस्तदनन्तरम् ॥ २११ ३.२१२ . दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि । ३.२१२ . चित्तसंबोधनामोक्तः शाक्तोल्लासभरात्मकः ॥ २१२ ३.२१३ . तत्रोन्मुखत्वतद्वस्तुसंघट्टाद्वस्तुनो हृदि । ३.२१३ . रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे ॥ २१३ ३.२१४ . प्राग्वद्भविष्यदौन्मुख्यसंभाव्यमिततालयात् । ३.२१४ . चित्तप्रलयनामासौ विसर्गः शाम्भवः परः ॥ २१४ ३.२१५ . तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते । ३.२१५ . हृत्पद्मकोशमध्यस्थस्तयोः संघट्ट इष्यते ॥ २१५ ३.२१६ . विसर्गोऽन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः । ३.२१६ . द्वितीयः स विसर्गस्तु चित्तसंबोधलक्षणः ॥ २१६ ३.२१७ . एकीभूतं विभात्यत्र जगदेतच्चराचरम् । ३.२१७ . ग्राह्यग्राहकभेदो वै किंचिदत्रेष्यते यदा ॥ २१७ ३.२१८ . तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः । ३.२१८ . ग्राह्यग्राहकविच्छित्तिसंपूर्णग्रहणात्मकः ॥ २१८ ३.२१९ . तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः । ३.२१९ . एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः ॥ २१९ ३.२२० . निरूपितोऽयमर्थः श्रीसिद्धयोगीश्वरीमते । ३.२२० . सात्र कुण्डलिनी बीजं जीवभूता चिदात्मिका ॥ २२० ३.२२१ . तज्जं ध्रुवेच्छोन्मेषाख्यं त्रिकं वर्णास्ततः पुनः । ३.२२१ . आ इत्यवर्णादित्यादियावद्वैसर्गिकी कला ॥ २२१ ३.२२२ . ककारादिसकारान्ता विसर्गात्पञ्चधा स च । ३.२२२ . बहिश्चान्तश्च हृदये नादेऽथ परमे पदे ॥ २२२ ३.२२३ . बिन्दुरात्मनि मूर्धान्तं हृदयाद्व्यापको हि सः । ३.२२३ . आदिमान्त्यविहीनास्तु मन्त्राः स्युः शरदभ्रवत् ॥ २२३ ३.२२४ . गुरोर्लक्षणमेतावदादिमान्त्यं च वेदयेत् । ३.२२४ . पूज्यः सोऽहमिव ज्ञानी भैरवो देवतात्मकः ॥ २२४ ३.२२५ . श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं ततः । ३.२२५ . तस्माद्विदंस्तथा सर्वं मन्त्रत्वेनैव पश्यति ॥ २२५ ३.२२६ . विसर्गशक्तिर्विश्वस्य कारणं च निरूपिता । ३.२२६ . ऐतरेयाख्यवेदान्ते परमेशेन विस्तरात् ॥ २२६ ३.२२७ . यल्लोहितं तदग्निर्यद्वीर्यं सूर्येन्दुविग्रहम् । ३.२२७ . अ इति ब्रह्म परमं तत्संघट्टोदयात्मकम् ॥ २२७ ३.२२८ . तस्यापि च परं वीर्य पञ्चभूतकलात्मकम् । ३.२२८ . भोग्यत्वेनान्नरूपं च शब्दस्पर्शरसात्मकम् ॥ २२८ ३.२२९ . शब्दोऽपि मधुरो यस्माद्वीर्योपचयकारकः । ३.२२९ . तद्धि वीर्यं परं शुद्धं विसिसृक्षात्मकं मतम् ॥ २२९ ३.२३० . तद्बलं च तदोजश्च ते प्राणाः सा च कान्तता । ३.२३० . तस्माद्वीर्यात्प्रजास्ताश्च वीर्य कर्मसु कथ्यते ॥ २३० ३.२३१ . यज्ञादिकेषु तद्वृष्टौ सौषधीष्वथ ताः पुनः । ३.२३१ . वीर्ये तच्च प्रजास्वेवं विसर्गे विश्वरूपता ॥ २३१ ३.२३२ . शब्दराशिः स एवोक्तो मातृका साच कीर्तिता । ३.२३२ . क्षोभ्यक्षोभकतावेशान्मालिनीं तां प्रचक्षते ॥ २३२ ३.२३३ . बीजयोनिसमापत्तिविसर्गोदयसुन्दरा । ३.२३३ . मालिनी हि परा शक्तिर्निर्णीता विश्वरूपिणी ॥ २३३ ३.२३४ . एषा वस्तुत एकैव परा कालस्य कर्षिणी । ३.२३४ . शक्तिमद्भेदयोगेन यामलत्वं प्रपद्यते ॥ २३४ ३.२३५ . तस्य प्रत्यवमर्शो यः परिपूर्णोऽहमात्मकः । ३.२३५ . स स्वात्मनि स्वतन्त्रत्वाद्विभागमवभासयेत् ॥ २३५ ३.२३६ . विभागाभासने चास्य त्रिधा वपुरुदाहृतम् । ३.२३६ . पश्यन्ती मध्यमा स्थूला वैखरीत्यभिशब्दितम् ॥ २३६ ३.२३७ . तासामपि त्रिधा रूपं स्थूलसूक्ष्मपरत्वतः । ३.२३७ . तत्र या स्वरसन्दर्भसुभगा नादरूपिणी ॥ २३७ ३.२३८ . सा स्थूला खलु पश्यन्ती वर्णाद्यप्रविभागतः । ३.२३८ . अविभागैकरूपत्वं माधुर्यं शक्तिरुच्यते ॥ २३८ ३.२३९ . स्थानवाय्वादिघर्षोत्था स्फुटतैव च पारुषी । ३.२३९ . तदस्यां नादरूपायां संवित्सविधवृत्तितः ॥ २३९ ३.२४० . साजात्यान्तर्म[त्तम] यीभूतिर्झगित्येवोपलभ्यते । ३.२४० . येषां न तन्मयीभूतिस्ते देहादिनिमज्जनम् ॥ २४० ३.२४१ . अविदन्तो मग्नसंविन्मानास्त्वहृदया इति । ३.२४१ . यत्तुचर्मावनद्धादि किंचित्तत्रैष यो ध्वनिः ॥ २४१ ३.२४२ . स स्फुटास्फुटरूपत्वान्मध्यमा स्थूलरूपिणी । ३.२४२ . मध्यायाश्चाविभागांशसद्भाव इति रक्तता ॥ २४२ ३.२४३ . अविभागस्वरमयी यत्र स्यात्तत्सुरञ्जकम् । ३.२४३ . अविभागो हि निर्वृत्यै दृश्यतां तालपाठतः ॥ २४३ ३.२४४ . किलाव्यक्तध्वनौ तस्मिन्वादने परितुष्यति । ३.२४४ . या तु स्फुटानां वर्णानामुत्पत्तौ कारणं भवेत् ॥ २४४ ३.२४५ . सा स्थूला वैखरी यस्याः कार्यं वाक्यादि भूयसा । ३.२४५ . अस्मिन्स्थूलत्रये यत्तदनुसन्धानमादिवत् ॥ २४५ ३.२४६ . पृथक्पृथक्तत्त्रितयं सूक्ष्ममित्यभिशब्द्यते । ३.२४६ . षड्जं करोमि मधुरं वादयामि ब्रुवे वचः ॥ २४६ ३.२४७ . पृथगेवानुसन्धानत्रयं संवेद्यते किल । ३.२४७ . एतस्यापि त्रयस्याद्यं यद्रुपमनुपाधिमत् ॥ २४७ ३.२४८ . तत्परं त्रितयं तत्र शिवः परचिदात्मकः । ३.२४८ . विभागाभासनायां च मुख्यास्तिस्रोऽत्र शक्तयः ॥ २४८ ३.२४९ . अनुत्तरा परेच्छा च परापरतया स्थिता । ३.२४९ . उन्मेषशक्तिर्ज्ञानाख्या त्वपरेति निगद्यते ॥ २४९ ३.२५० . क्षोभरूपात्पुनस्तासामुक्ताः षट्संविदोऽमलाः । ३.२५० . आसामेव समावेशात्क्रियाशक्तितयोदितात् ॥ २५० ३.२५१ . संविदो द्वादश प्रोक्ता यासु सर्वं समाप्यते । ३.२५१ . एतावद्देवदेवस्य मुख्यं तच्छक्तिचक्रकम् ॥ २५१ ३.२५२ . एतावता देवदेवः पूर्णशक्तिः स भैरवः । ३.२५२ . परामर्शात्मकत्वेन विसर्गाक्षेपयोगतः ॥ २५२ ३.२५३ . इयत्ताकलनाज्ज्ञानात्ताः प्रोक्ताः कालिकाः क्वचित् । ३.२५३ . श्रीसारशास्त्रे चाप्युक्तं मध्य एकाक्षरां पराम् ॥ २५३ ३.२५४ . पूजयेद्भैरवात्माख्यां योगिनीद्वादशावृताम् । ३.२५४ . ताभ्य एव चतुःषष्टिपर्यन्तं शक्तिचक्रकम् ॥ २५४ ३.२५५ . एकारतः समारभ्य सहस्रारं प्रवर्तते । ३.२५५ . तासां च कृत्यभेदेन नामानि बहुधागमे ॥ २५५ ३.२५६ . उपासाश्च द्वयाद्वैतव्यामिश्राकारयोगतः । ३.२५६ . श्रीमत्त्रैशिरमे तच्च कथितं विस्तराद्बहु ॥ २५६ ३.२५७ . इह नो लिखितं व्यासभयाच्चानुपयोगतः । ३.२५७ . ता एव निर्मलाः शुद्धा अघोराः परिकीर्तिताः ॥ २५७ ३.२५८ . घोरघोरतराणां तु सोतृत्वाच्च तदात्मिकाः । ३.२५८ . सृष्टौ स्थितौ च संहारे तदुपाधित्रयात्यये ॥ २५८ ३.२५९ . तासामेव स्थितं रूपं बहुधा प्रविभज्यते । ३.२५९ . उपाध्यतीतं यद्रूपं तद्द्विधा गुरवो जगुः ॥ २५९ ३.२६० . अनुल्लासादुपाधीनां यद्वा प्रशमयोगतः । ३.२६० . प्रशमश्च द्विधा शान्त्या हठपाकक्रमेण तु ॥ २६० ३.२६१ . अलं ग्रासरसाख्येन सततं ज्वलनात्मना । ३.२६१ . हठपाकप्रशमनं यत्तृतीयं तदेव च । ३.२६१ . उपदेशाय युज्येत भेदेन्धनविदाहकम् ॥ २६१ ३.२६२ . निजबोधजठरहुतभुजि भावाः सर्वे समर्पिता हठतः । ३.२६२ . विजहति भेदविभागं निजशक्त्या तं समिन्धानाः ॥ २६२ ३.२६३ . हठपाकेन भावानां रूपे भिन्ने विलापिते । ३.२६३ . अश्नन्त्यमृतसाद्भूतं विश्वं संवित्तिदेवताः ॥ २६३ ३.२६४ . तास्तृप्ताः स्वात्मनः पूर्ण हृदयैकान्तशायिनम् । ३.२६४ . चिद्व्योमभैरवं देवमभेदेनाधिशेरते ॥ २६४ ३.२६५ . एवं कृत्यक्रियावेशान्नामोपासाबहुत्वतः । ३.२६५ . आसां बहुविधं रूपमभेदेऽप्यवभासते ॥ २६५ ३.२६६ . आसामेव च देवीनामावापोद्वापयोगतः । ३.२६६ . एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टनवोत्तरैः ॥ २६६ ३.२६७ . रुद्रार्कान्यकलासेनाप्रभृतिर्भेदविस्तरः । ३.२६७ . अलमन्येन बहुना प्रकृतेऽथ नियुज्यते ॥ २६७ ३.२६८ . संविदात्मनि विश्वोऽयं भाववर्गः प्रपञ्चवान् । ३.२६८ . प्रतिबिम्बतया भाति यस्य विश्वेश्वरो हि सः ॥ २६८ ३.२६९ . एवमात्मनि यस्येदृगविकल्पः सदोदयः । ३.२६९ . परामर्शः स एवासौ शांभवोपायमुद्रितः ॥ २६९ ३.२७० . पूर्णाहन्तापरामर्शो योऽस्यायं प्रविवेचितः । ३.२७० . मन्त्रमुद्राक्रियोपासास्तदन्या नात्र काश्चन ॥ २७० ३.२७१ . भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः । ३.२७१ . अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम् ॥ २७१ ३.२७२ . इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते । ३.२७२ . यत्र सूत्रणयापीयमुपायोपेयकल्पना ॥ २७२ ३.२७३ . प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो । ३.२७३ . तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः ॥ २७३ ३.२७४ . निर्विकल्पे परामर्शे शाम्भवोपायनामनि । ३.२७४ . पञ्चाशद्भेदतां पूर्वसूत्रितां योजयेद्बुधः ॥ २७४ ३.२७५ . धरामेवाविकल्पेन स्वात्मनि प्रतिबिम्बिताम् । ३.२७५ . पश्यन्भैरवतां याति जलादिष्वप्ययं विधिः ॥ २७५ ३.२७६ . यावदन्ते परं तत्त्वं समस्तावरणोर्ध्वगम् । ३.२७६ . व्यापि स्वतन्त्रं सर्वज्ञं यच्छिवं परिकल्पितम् ॥ २७६ ३.२७७ . तदप्यकल्पितोदारसंविद्दर्पणबिम्बितम् । ३.२७७ . पश्यन्विकल्पविकलो भैरवीभवति स्वयम् ॥ २७७ ३.२७८ . यथा रक्तं पुरः पश्यन्निर्विकल्पकसंविदा । ३.२७८ . तत्तद्द्वारनिरंशैकघटसंवित्तिसुस्थितः ॥ २७८ ३.२७९ . तद्वद्धरादिकैकैकसंघातसमुदायतः । ३.२७९ . परामृशन्स्वमात्मानं पूर्ण एवावभासते ॥ २७९ ३.२८० . मत्त एवोदितमिदं मय्येव प्रतिबिम्बितम् । ३.२८० . मदभिन्नमिदं चेति त्रिधोपायः स शाम्भवः ॥ २८० ३.२८१ . सृष्टेः स्थितेः संहृतेश्च तदेतत्सूत्रणं कृतम् । ३.२८१ . यत्र स्थितं यतश्चेति तदाह स्पन्दशासने ॥ २८१ ३.२८२ . एतावतैव ह्यैश्वर्य संविदः ख्यापितं परम् । ३.२८२ . विश्वात्मकत्वं चेत्यन्यल्लक्षणं किं नु कथ्यताम् ॥ २८२ ३.२८३ . स्वात्मन्येव चिदाकाशे विश्वमस्म्यवभासयन् । ३.२८३ . स्रष्टा विश्वात्मक इति प्रथया भैरवात्मता ॥ २८३ ३.२८४ . षडध्वजातं निखिलं मय्येव प्रतिबिम्बितम् । ३.२८४ . स्थितिकर्ताहमस्मीति स्फुटेयं विश्वरूपता ॥ २८४ ३.२८५ . सदोदितमहाबोधज्वालाजटिलतात्मनि । ३.२८५ . विश्वं द्रवति मय्येतदिति पश्यन्प्रशाम्यति ॥ २८५ ३.२८६ . अनन्तचित्रसद्गर्भसंसारस्वप्नसद्मनः । ३.२८६ . प्लोषकः शिव एवाहमित्युल्लासी हुताशनः ॥ २८६ ३.२८७ . जगत्सर्वं मत्तः प्रभवति विभेदेन बहुधा तथाप्येतद्रूढं मयि विगलिते त्वत्र न परः । ३.२८७ . तदित्थं यः सृष्टिस्थितिविलयभेकीकृतिवशादनंशं पश्येत्स स्फुरति हि तुरीयं पदभितः ॥ २८७ ३.२८८ . तदस्मिन्परमोपाये शाम्भवाद्वैतशालिनि । ३.२८८ . केऽप्येव यान्ति विश्वासं पस्मेशेन भाविताः ॥ २८८ ३.२८९ . स्नानं व्रतं देहशुद्धिर्धारणा मन्त्रयोजना । ३.२८९ . अध्वक्लृप्तिर्यागविधिर्होमजप्यसमाधयः ॥ २८९ ३.२९० . इत्यादिकल्पना कापि नात्र भेदेन युज्यते । ३.२९० . परानुग्रहकारित्वमत्रस्थस्य स्फुटं स्थितम् ॥ २९० ३.२९१ . यदि तादृगनुग्राह्यो दैशिकस्योपसर्पति । ३.२९१ . अथासौ तादृशो न स्याद्भवभक्त्या च भावितः ॥ २९१ ३.२९२ . तं चाराधयते भावितादृशानुग्रहेरितः । ३.२९२ . तदा विचित्रं दीक्षादिविधिं शिक्षेत कोविंदः ॥ २९२ ३.२९३ . भाविन्योऽपि ह्युपासास्ता स्त्रैवायान्ति निष्ठितिम् । ३.२९३ . एतन्मयत्वं परमं प्राप्यं निर्वर्ण्यतेशिवम् ॥ २९३ ३.२९४ . इति कथितमिदं सुविस्तरं परमं शाम्भवमात्मवेदनम् ॥ २९४ च्४ अथ श्रीतन्त्रालोके चतुर्थमाह्निकम् ४.१ . अथ शाक्तमुपायमण्डलं कथयामः परमात्मसंविदे ॥ १ ४.२ . अनन्तराह्निकोक्तेऽस्मिन्स्वभावे पारमेश्वरे । ४.२ . प्रविविक्षुर्विकल्पस्य कुर्यात्संस्कारमञ्जसा ॥ २ ४.३ . विकल्पः संस्कृतः सूते विकल्पं स्वात्मसंस्कृतम् । ४.३ . स्वतुल्यं सोऽपि सोऽप्यन्यं सोऽप्यन्यं सदृशात्मकम् ॥ ३ ४.४ . चतुर्ष्वेव विकल्पेषु यः संस्कारः क्रमादसौ । ४.४ . अस्फुटः स्फुटताभावी प्रस्फुटन्स्फुटितात्मकः ॥ ४ ४.५ . ततः स्फुटतरो यावदन्ते स्फुटतमो भवेत् । ४.५ . अस्फुटादौ विकल्पे च भेदोऽप्यस्त्यान्तरालिकः ॥ ५ ४.६ . ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता । ४.६ . संविदभ्येति विमलामविकल्पस्वरूपताम् ॥ ६ ४.७ . अतश्च भैरवीयं यत्तेजः संवित्स्वभावकम् । ४.७ . भूयो भूयो विमृशतां जायते तत्स्फुटात्मता ॥ ७ ४.८ . ननु संवित्पराम्रष्ट्री परामर्शमयी स्वतः । ४.८ . परामृश्या कथं ताथारूप्यसृष्टौ तु सा जडा ॥ ८ ४.९ . उच्यते स्वात्मसंवित्तिः स्वभावादेव निर्भरा । ४.९ . नास्यामपास्यं नाधेयं किंचिदित्युदितं पुरा ॥ ९ ४.१० . किं तु दुर्घटकारित्वात्स्वाच्छन्द्यान्निर्मलादसौ । ४.१० . स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ १० ४.११ . अनावृत्ते स्वरूपेऽपि यदात्माच्छादनं विभोः । ४.११ . सैव माया यतो भेद एतावान्विश्ववृत्तिकः ॥ ११ ४.१२ . तथाभासनमेवास्य द्वैतमुक्तं महेशितुः । ४.१२ . तद्द्वयापासनेनायं परामर्शोऽभिधीयते ॥ १२ ४.१३ . दुर्भेदपादपस्यास्य मूलं कृन्तन्ति कोविदाः । ४.१३ . धारारूढेन सत्तर्ककुठारेणेति निश्चयः ॥ १३ ४.१४ . तामेनां भावनामाहुः सर्वकामदुघां बुधाः । ४.१४ . स्फुटयेद्वस्तु यापेतं मनोस्थपदादपि ॥ १४ ४.१५ . श्रीपूर्वशास्त्रे तत्प्रोक्तं तर्को योगाङ्गमुत्तमम् । ४.१५ . हेयाद्यालोचनात्तस्मात्तत्र यत्नः प्रशस्यते ॥ १५ ४.१६ . मार्गे चेतः स्थिरीभूतं हेयेऽपि विषयेच्छया । ४.१६ . प्रेर्य तेन नयेत्तावद्यावत्पदमनामयम् ॥ १६ ४.१७ . मार्गोऽत्र मोक्षोपायः स हेयः शास्त्रान्तरोदितः । ४.१७ . विषिणोति निबध्नाति येच्छा नियतिसंगतम् ॥ १७ ४.१८ . रागतत्त्वं तयोक्तं यत्तेन तत्रानुरज्यते । ४.१८ . यथा साम्राज्यसंभोगं दृष्ट्वादृष्ट्वाथबाधमे ॥ १८ ४.१९ . भोगे रज्येत दुर्बुद्धिस्तद्वन्मोक्षेऽपि रागतः । ४.१९ . स एवांशक इत्युक्तः स्वभावाख्यः स तु स्फुटम् ॥ १९ ४.२० . सिद्ध्यङ्गमिति मोक्षाय प्रत्यूह इति कोविदाः । ४.२० . शिवशासनमाहात्म्यं विदन्नप्यत एव हि ॥ २० ४.२१ . वैष्णवाध्येषु रज्येत मूढो रागेण रञ्जितः । ४.२१ . यतस्तावति सा तस्य वामाख्या शक्तिरैश्वरी ॥ २१ ४.२२ . पाञ्चरात्रिकवैरिञ्चसौगतादेर्विजृम्भते । ४.२२ . दृष्टाः साम्राज्यसंभोगं निन्दन्तः केऽपि वालिशाः ॥ २२ ४.२३ . न तु संतोषतः स्वेषु भोगेष्वाशीःप्रवर्तनात् । ४.२३ . एवंचिद्भैरवावेशनिन्दातत्परमानसाः ॥ २३ ४.२४ . भवन्त्यतिसुघोराभिः शक्तिभिः पातिता यतः । ४.२४ . तेन शांभवमाहात्म्यं जानन्यः शासनान्तरे ॥ २४ ४.२५ . आश्वस्तो नोत्तरीतव्यं तेन भेदमहार्णवात् । ४.२५ . श्रीकामिकायां प्रोक्तं च पाशप्रकरणे स्फुटम् ॥ २५ ४.२६ . वेदसांख्यपुराणज्ञाः पाञ्चरात्रपरायणाः । ४.२६ . ये केचिदृषयो धीराः शास्त्रान्तरपरायणाः ॥ २६ ४.२७ . बौद्धार्हताद्याः सर्वे ते विद्यारागेण रञ्जिताः । ४.२७ . मायापाशेन बद्धत्वाच्छिवदीक्षां न विन्दते ॥ २७ ४.२८ . रागशब्देन च प्रोक्तं रागतत्त्वं नियामकम् । ४.२८ . मायीये तच्च तं तस्मिञ्छास्त्रे नियमयेदिति ॥ २८ ४.२९ . मोक्षोऽपि वैष्णवादेर्यः स्वसंकल्पेन भावितः । ४.२९ . परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता ॥ २९ ४.३० . विशुद्धचित्तमात्रं वा दीपवत्संततिक्षयः । ४.३० . स सवेद्यापवेद्यात्मप्रलयाकलतामयः ॥ ३० ४.३१ . तं प्राप्यापि चिरं कालं तद्गोगाभोगभुक्ततः । ४.३१ . तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः ॥ ३१ ४.३२ . मन्त्रत्वमेति संबोधादनन्तेशेन कल्पितात् । ४.३२ . एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत् ॥ ३२ ४.३३ . तेनाज्ञजनताक्लृप्तप्रवादैर्यो विडम्बितः । ४.३३ . असद्गुरौ रूढचित्स मायापाशेन रञ्जितः ॥ ३३ ४.३४ . सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति । ४.३४ . सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः ॥ ३४ ४.३५ . श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया । ४.३५ . भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ ३५ ४.३६ . शक्तिपातस्तु तत्रैष क्रमिकः संप्रवर्तते । ४.३६ . स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः ॥ ३६ ४.३७ . गुरुशास्त्रगते सत्त्वेऽसत्त्वे चात्र विभेदकम् । ४.३७ . शक्तिपातस्य वैचित्र्यं पुरस्तात्प्रविविच्यते ॥ ३७ ४.३८ . उक्तं स्वच्छन्दशास्त्रे तत्वैष्णवाद्यान्प्रवादिनः । ४.३८ . सर्वान्भ्रमयते माया सामोक्षे मोक्षलिप्सया ॥ ३८ ४.३९ . यस्तु रूढोऽपि तत्रोद्यत्परामर्शविशारदः । ४.३९ . स शुद्धविद्यामाहात्म्याच्छक्तिपातपवित्रितः ॥ ३९ ४.४० . आरोहत्येव सन्मार्गं प्रत्यूहपरिवर्जितः । ४.४० . स तावत्कस्यचित्तर्कः स्वत एव प्रवर्तते ॥ ४० ४.४१ . स च सांसिद्धिकः शास्त्रे प्रोक्तः स्वप्रत्ययात्मकः । ४.४१ . किरणायां यदप्युक्तं गुरुतः शास्त्रतः स्वतः ॥ ४१ ४.४२ . तत्रोत्तरोत्तरं मुख्यं पूर्वपूर्व उपायकः । ४.४२ . यस्य स्वतोऽयं सत्तर्कः सर्वत्रैवाधिकारवान् ॥ ४२ ४.४३ . अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः । ४.४३ . स एव सर्वाचार्याणां मध्ये मुख्यः प्रकीर्तितः ॥ ४३ ४.४४ . तत्संनिधाने नान्येषु कल्पितेष्वधिकारिता । ४.४४ . स समस्तं च शास्त्रार्थं सत्तर्कादेव मन्यते ॥ ४४ ४.४५ . शुद्धविद्या हि तन्नास्ति सत्यं यद्यन्न भासयेत् । ४.४५ . सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ ४५ ४.४६ . इति श्रीपूववाक्ये तद्+अकस्मादिति-शब्दतः । ४.४६ . लोकाप्रसिद्धो यो हेतुः सोऽकस्मादिति कथ्यते ॥ ४६ ४.४७ . स चैष परमेशानशुद्धविद्याविजृम्भतम् । ४.४७ . अस्य भोदाश्च बहवो निर्भित्तिः सहभित्तिकः ॥ ४७ ४.४८ . सर्वगोऽंशगतः सोऽपि मुख्यामुख्यांशनिष्ठितः । ४.४८ . भित्तिः परोपजीवित्वं परा प्रज्ञाथ तत्कृतिः ॥ ४८ ४.४९ . अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः । ४.४९ . स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः ॥ ४९ ४.५० . एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी । ४.५० . दीक्षा भवेदिति प्रोक्तं तच्छ्रीत्रिंशकशासने ॥ ५० ४.५१ . अकल्पितो गुरुर्ज्ञयः सांसिद्धिक इति स्मृतः । ४.५१ . यस्तु तद्रूपभागात्मभावनातः परं विना ॥ ५१ ४.५२ . शास्त्रवित्स गुरुः शास्त्रे प्रोक्तोऽकल्पितकल्पकः । ४.५२ . तस्यापि भेदा उत्कृष्टमध्यमन्दाद्युपायतः ॥ ५२ ४.५३ . भावनातोऽथ वा ध्यानाज्जपात्स्वप्नाद्व्रताद्धुतेः । ४.५३ . प्राप्नोत्यकल्पितोदारमभिषेकं महामतिः ॥ ५३ ४.५४ . श्रीमद्वाजसनीये श्रीवीरे श्रीब्रह्मयामले । ४.५४ . श्रीसिद्धायामिदं धात्रा प्रोक्तमन्यत्र च स्फुटम् ॥ ५४ ४.५५ . तस्य स्वेच्छाप्रवृत्तत्वात्कारणानन्ततेष्यते । ४.५५ . कदाचिद्भक्तियोगेन कर्मणा विद्ययापि वा ॥ ५५ ४.५६ . ज्ञानधर्मोपदेशेन मन्त्रैर्वा दीक्षयापि वा । ४.५६ . एवमाद्यैरनेकैश्च प्रकारैः परमेश्वरः ॥ ५६ ४.५७ . संसारिणोऽनुगृह्णाति विश्वस्य जगतः पतिः । ४.५७ . मातृमण्डलसंबोधात्संस्कारात्तपसः प्रिये ॥ ५७ ४.५८ . ध्यानाद्योगाज्जपाज्ज्ञानान्मन्त्राराधनातो व्रतात् । ४.५८ . संप्राप्यं कुलसामान्यं ज्ञानं कौलिकसिद्धिदम् ॥ ५८ ४.५९ . तत्त्वज्ञानात्मकं साध्यं यत्र यत्रैव दृश्यते । ४.५९ . स एव हि गुरुस्तत्र हेतुजालं प्रकल्प्यताम् ॥ ५९ ४.६० . तत्त्वज्ञानादृते नान्यल्लक्षणं ब्रह्मयामले । ४.६० . तत्रैव चोक्तं सेवायां कृतायामविकल्पतः ॥ ६० ४.६१ . साधकस्य न चेत्सिद्धिः किं कार्यमिति चोदिते । ४.६१ . आत्मीयमस्य संज्ञानक्रमेण स्वात्मदीक्षणम् ॥ ६१ ४.६२ . सस्फुरत्वप्रसिद्ध्यर्थं ततः साध्यं प्रसिद्ध्यति । ४.६२ . अनेन स्वात्मविज्ञानं सस्फुरत्वप्रसाधकम् ॥ ६२ ४.६३ . उक्तं मुख्यतयाचार्यो भवेद्यदि न सस्फुरः । ४.६३ . तत्रैव च पुनः श्रीमद्रक्ताराधनकर्मणि ॥ ६३ ४.६४ . विधिं प्रोक्तं सदा कुर्वन्मासेनाचार्य उच्यते । ४.६४ . पक्षेण साधकोऽर्धार्धात्पुत्रकः समयी तथा ॥ ६४ ४.६५ . दीक्षयेज्जपयोगेन रक्तादेवी क्रमाद्यतः । ४.६५ . गुरोरलाभे प्रोक्तस्य विधिमेतं समाचरेत् ॥ ६५ ४.६६ . मते च पुस्तकाद्विद्याध्ययने दोष ईदृशः । ४.६६ . उक्तो यस्तेन तद्दोषाभावेऽसौ न निषिद्धता ॥ ६६ ४.६७ . मन्त्रद्रव्यादिगुप्तत्वे फलं किमिति चोदिते । ४.६७ . पुस्तकाधीतविद्या ये दीक्षासमयवर्जिताः ॥ ६७ ४.६८ . तामसाः परहिंसादि वश्यादि च चरन्त्यलम् । ४.६८ . न च तत्त्वं विदुस्तेन दोषभाज इति स्फुटम् ॥ ६८ ४.६९ . पूर्वं पदयुगं वाच्यमन्योन्यं हेतुहेतुमत् । ४.६९ . यस्तु शास्त्रं विना नैति शुद्धविद्याख्यसंविदम् ॥ ६९ ४.७० . गुरोः स शास्त्रमन्विच्छुस्तदुक्तं क्रममाचरेत् । ४.७० . येन केनाप्युपायेन गुरुमाराध्य भक्तितः ॥ ७० ४.७१ . तद्दीक्षाक्रमयोगेन शास्त्रार्थं वेत्त्यसौ ततः । ४.७१ . अभिषेकं समासाद्य यो भवेत्स तु कल्पितः ॥ ७१ ४.७२ . सन्नप्यशेषपाशौघविनिवर्तनकोविदः । ४.७२ . यो यथाक्रमयोगेन कस्मिंश्चिच्छास्त्रवस्तुनि ॥ ७२ ४.७३ . आकस्मिकं ब्रजेद्बोधं कल्पिताकल्पितो हि सः । ४.७३ . तस्य योऽकल्पितो भागः स तु श्रेष्ठमः स्मृतः ॥ ७३ ४.७४ . उत्कर्षः शुद्धविद्यांशतारतम्यकृतो यतः । ४.७४ . यथा भेदेनादिसिद्धाच्छिवान्मुक्तशिवा ह्यधः ॥ ७४ ४.७५ . तथा सांसिद्धिकज्ञानादाहृतज्ञानिनोऽधमाः । ४.७५ . तत्संनिधौ नाधिकारस्तेषां मुक्तशिवात्मवत् ॥ ७५ ४.७६ . किं तु तूष्णीं-स्थितिर्यद्वा कृत्यं तदनुवर्तनम् । ४.७६ . यस्त्वकल्पितरूपोऽपि संवाददृढताकृते ॥ ७६ ४.७७ . अन्यतो लब्धसंस्कारः स साक्षाद्भैरवो गुरुः । ४.७७ . यतः शास्त्रक्रमात्तज्ज्ञगुरुप्रज्ञानुशीलनात् ॥ ७७ ४.७८ . आत्मप्रत्ययितं ज्ञानं पूर्णत्वाद्भैरवायते । ४.७८ . तेन श्रीकिरणोक्तं यद्गुरुतः शास्त्रतः स्वतः ॥ ७८ ४.७९ . त्रिप्रत्ययमिदं ज्ञानमिति यच्च निशाटने । ४.७९ . तत्संघातविपर्यासविग्रहैर्भासते तथा ॥ ७९ ४.८० . करणस्य विचित्रत्वाद्विचित्रामेव तां छिदम् । ४.८० . कर्तुं वासीं च टङ्कं च क्रकचं चापि गृह्णते ॥ ८० ४.८१ . तावच्च छेदनं ह्येकं तथैवाद्याभिसंधितः । ४.८१ . इत्थमेव मितौ वाच्यं करणस्य स्वकं वपुः ॥ ८१ ४.८२ . न स्वतन्त्रं स्वतो मानं कुर्यादधिगमं हठात् । ४.८२ . प्रमात्राश्वासपर्यन्तो यतोऽधिगम उच्यते ॥ ८२ ४.८३ . आश्वासश्च विचित्रोऽसौ शक्तिपातवशात्तथा । ४.८३ . प्रमितेऽपि प्रमाणानामवकाशोऽस्त्यतः स्फुटः ॥ ८३ ४.८४ . दृष्ट्वा दृष्ट्वा समाश्लिष्य चिरं संचर्व्य चेतसा । ४.८४ . प्रिया यैः परितुष्येत किं ब्रूमः किल तान्प्रति ॥ ८४ ४.८५ . इत्थं च मानसंप्लुत्यामपि नाधिगते गतिः । ४.८५ . न व्यर्थता नानवस्था नान्योन्याश्रयतापि च ॥ ८५ ४.८६ . एवं योगाङ्गमियति तर्क एव न चापरम् । ४.८६ . अन्तरन्तः परामर्शपाटवातिशयाय सः ॥ ८६ ४.८७ . अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । ४.८७ . इति पञ्च यमाः साक्षात्संवित्तौ नोपयोगिनः ॥ ८७ ४.८८ . तपःप्रभृतयो ये च नियमा यत्तथासनम् । ४.८८ . प्राणायामाश्च ये सर्वमेतद्बाह्यविजृम्भितम् ॥ ८८ ४.८९ . श्रीमद्वीरावलौ चोक्तं बोधमात्रे शिवात्मके । ४.८९ . चित्तप्रलयबन्धेन प्रलीने शशिभास्करे ॥ ८९ ४.९० . प्राप्ते च द्वादशे भागे जीवादित्ये स्वबोधके । ४.९० . मोक्षः स एव कथितः प्राणायामो निरर्थकः ॥ ९० ४.९१ . प्राणायामो न कर्तव्यः शरीरं येन पीड्यते । ४.९१ . रहस्यं वेत्ति यो यत्र स मुक्तः स च मोचकः ॥ ९१ ४.९२ . प्रत्याहारश्च नामायमर्थेभ्योऽक्षधियां हि यः । ४.९२ . अनिबद्धस्य बन्धस्य तदन्तः किल कीलनम् ॥ ९२ ४.९३ . चित्तस्य विषये क्वापि बन्धनं धारणात्मकम् । ४.९३ . तत्सदृग्ज्ञानसंतानो ध्यानमस्तमिता परम् ॥ ९३ ४.९४ . यदा तु ज्ञेयतादात्म्यमेव संविदि जायते । ४.९४ . ग्राह्यग्रहणताद्वैतशून्यतेयं समाहितिः ॥ ९४ ४.९५ . तदेषा धारणाध्यानसमाधित्रितयी पराम् । ४.९५ . संविदं प्रति नो कंचिदुपयोगं समश्नुते ॥ ९५ ४.९६ . योगाङ्गता यमादेस्तु समाध्यन्तस्य वर्ण्यते । ४.९६ . स्वपूर्वपूर्वोपायत्वादन्त्यतर्कोपयोगतः ॥ ९६ ४.९७ . अन्तः संविदि रूढं हि तद्द्वारा प्राणदेहयोः । ४.९७ . बुद्धौ वार्प्यं तदभ्यासान्नैष न्यायस्तु संविदि ॥ ९७ ४.९८ . अथ वास्मद्दृशि प्राणधीदेहादेरपि स्फुटम् । ४.९८ . सर्वात्मकत्वात्तत्रस्थोऽप्यभ्यासोऽन्यव्यपोहनम् ॥ ९८ ४.९९ . देह उत्प्लुतिसंपातधर्मोज्जिगमिषारसात् । ४.९९ . उत्प्लाव्यते तद्विपक्षपाताशङ्काव्यपोहनात् ॥ ९९ ४.१०० . गुरुवाक्यपरामर्शसदृशे स्वविमर्शने । ४.१०० . प्रबुद्धे तद्विपक्षाणां व्युदासः पाठचिन्तने ॥ १०० ४.१०१ . नह्यस्य गुरुणा शक्यं स्वं ज्ञानं शब्द एव वा । ४.१०१ . धियि रोपयितुं तेन स्वप्रबोधक्रमो ध्रुवम् ॥ १०१ ४.१०२ . अत एव स्वप्नकाले श्रुते तत्रापि वस्तुनि । ४.१०२ . तादात्म्यभावनायोगो न फलाय न भण्यते ॥ १०२ ४.१०३ . संकेतानादरे शब्दनिष्ठमामर्शनं पठिः । ४.१०३ . तदादरे तदर्थस्तु चिन्तेति परिचर्च्यताम् ॥ १०३ ४.१०४ . तदद्वयायां संवित्तावभ्यासोऽनुपयोगवान् । ४.१०४ . केवलं द्वैतमालिन्यशङ्कानिर्मूलनाय सः ॥ १०४ ४.१०५ . द्वैतशङ्काश्च तर्केण तर्क्यन्त इति वर्णितम् । ४.१०५ . तत्तर्कसाधनायास्तु यमादेरप्युपायता ॥ १०५ ४.१०६ . उक्तं श्रीपूर्वशस्त्रे च न द्वैतं नापि चाद्वयम् । ४.१०६ . लिङ्गपूजादिकं सर्वमित्युपक्रम्य शंभुना ॥ १०६ ४.१०७ . विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा । ४.१०७ . प्राणायामादिकैरङ्गैर्योगाः स्युः कृत्त्रिमा यतः ॥ १०७ ४.१०८ . तत्तेनाकृतकस्यास्य कलां नार्घन्ति षोडशीम् । ४.१०८ . किं त्वेतदत्र देवेशि नियमेन विधीयते ॥ १०८ ४.१०९ . तत्त्वे चेतः स्थिरं कार्यं तच्च यस्य यथास्त्विति । ४.१०९ . एवं द्वैतपरामर्शनाशाय परमेश्वरः ॥ १०९ ४.११० . क्वचित्स्वभावममलमामृशन्ननिशं स्थितः । ४.११० . यः स्वभावपरामर्श इन्द्रियार्थाद्युपायतः ॥ ११० ४.१११ . विनैव तन्मुखोऽन्यो वा स्वातन्त्र्यात्तद्विकल्पनम् । ४.१११ . तच्च स्वच्छस्वतन्त्रात्मरत्ननिर्भासिनि स्फुटम् ॥ १११ ४.११२ . भावौघे भेदसंधातृ स्वात्मनो नैशमुच्यते । ४.११२ . तदेव तु समस्तार्थनिर्भरात्मैकगोचरम् ॥ ११२ ४.११३ . शुद्धविद्यात्मकं सर्वमेवेदमहमित्यलम् । ४.११३ . इदं विकल्पनं शुद्धविद्यारूपं स्फुटात्मकम् ॥ ११३ ४.११४ . प्रतिहन्तीह मायीयं विकल्पं भेदभावकम् । ४.११४ . शुद्धविद्यापरामर्शो यः स एव त्वनेकधा ॥ ११४ ४.११५ . स्नानशुद्ध्यर्चनाहोमध्यानजप्यादियोगतः । ४.११५ . विश्वमेतत्स्वसंवित्तिरसनिर्भरितं रसात् ॥ ११५ ४.११६ . आविश्य शुद्धो निखिलं तर्पयेदध्वमण्लम् । ४.११६ . उल्लासिबोधहुतभुग्दग्धविश्वेन्धनोदिते ॥ ११६ ४.११७ . सितभस्मनि देहस्य मज्जनं स्नानमुच्यते । ४.११७ . इत्थं च विहितस्नानस्तर्पितानन्तदेवतः ॥ ११७ ४.११८ . ततोऽपि देहारम्भीणि तत्त्वानि परिशोधयेत् । ४.११८ . शिवात्मकेष्वप्येतेषु बुद्धिर्या व्यतिरेकिणी ॥ ११८ ४.११९ . सैवाशुद्धिः पराख्याता शुद्धिस्तद्धीविमर्दनम् । ४.११९ . एवं स्वदेहं बोधैकपात्रं गलितभेदकम् ॥ ११९ ४.१२० . पश्यन्संवित्तिमात्रत्वे स्वतन्त्रे तिष्ठति प्रभुः । ४.१२० . यत्किंचिन्मानसाह्लादि यत्र क्वापीन्द्रियस्थितौ ॥ १२० ४.१२१ . योज्यते ब्रह्मसद्धाम्नि पूजोपकरणं हि तत् । ४.१२१ . पूजा नाम विभिन्नस्य भावौघस्यापि संगतिः ॥ १२१ ४.१२२ . स्वतन्त्रविमलानन्तभैरवीयचिदात्मना । ४.१२२ . तथाहि संविदेवेयमन्तर्बाह्योभयात्मना ॥ १२२ ४.१२३ . स्वातन्त्र्याद्वर्तमानैव परामर्शस्वरूपिणी । ४.१२३ . स च द्वादशधा तत्र सर्वमन्तर्भवेद्यतः ॥ १२३ ४.१२४ . सूर्य एव हि सोमात्मा स च विश्वमयः स्थितः । ४.१२४ . कलाद्वादशकात्मैव तत्संवित्परमार्थतः ॥ १२४ ४.१२५ . सा च मातरि विज्ञाने माने करणगोचरे । ४.१२५ . मेये चतुर्विधं भाति रूपमाश्रित्य सर्वदा ॥ १२५ ४.१२६ . शुद्धसंविन्मयी प्राच्ये ज्ञाने शब्दनरूपिणी । ४.१२६ . करणे ग्रहणाकारा यतः श्रीयोगसंचरे ॥ १२६ ४.१२७ . ये चक्षुर्मण्डले श्वेते प्रत्यक्षे परमेश्वरि । ४.१२७ . षोडशारं द्वादशारं तत्रस्थं चक्रमुत्तमम् ॥ १२७ ४.१२८ . प्रतिवारणवद्रक्ते तद्बहिर्ये तदुच्यते । ४.१२८ . द्वितीयं मध्यगे ये ते कृष्णश्वेते च मण्डले ॥ १२८ ४.१२९ . तदन्तर्ये स्थिते शुद्धे भिन्नाञ्जनसमप्रभे । ४.१२९ . चतुर्दले तु ते ज्ञेये अग्नीषोमात्मके प्रिये ॥ १२९ ४.१३० . मिथुनत्वे स्थिते ये च चक्रे द्वे परमेश्वरि । ४.१३० . संमीलनोन्मीलनं ते अन्योन्यं विदधातके ॥ १३० ४.१३१ . यथा योनिश्च लिङ्गं च संयोगात्स्रवतोऽमृतम् । ४.१३१ . तथामृताग्निसंयोगाद्द्रवतस्ते न संशयः ॥ १३१ ४.१३२ . तच्चक्रपीडनाद्रात्रौ ज्योतिर्भात्यर्कसोमगम् । ४.१३२ . तां दृष्ट्वा परमां ज्योत्स्नां कालज्ञानं प्रवर्तते ॥ १३२ ४.१३३ . सहस्रारं भवेच्चक्रं ताभ्यामुपरि संस्थितम् । ४.१३३ . ततश्चक्रात्समुद्भूतं ब्रह्माण्डं तदुदाहृतम् ॥ १३३ ४.१३४ . तत्रस्थां मुञ्चते धारां सोमो ह्यग्निप्रदीपितः । ४.१३४ . सृजतीत्थं जगत्सर्वमात्मन्यात्मन्यनन्तकम् ॥ १३४ ४.१३५ . षोडशद्वादशाराभ्यामष्टारेष्वथ सर्वशः । ४.१३५ . एवं क्रमेण सर्वत्र चक्रेष्वमृतमुत्तमम् ॥ १३५ ४.१३६ . सोमः स्रवति यावच्च पञ्चानां चक्रपद्धतिः । ४.१३६ . तत्पुनः पिबति प्रीत्या हंसो हंस इति स्फुरन् ॥ १३६ ४.१३७ . सकृद्यस्य तु संश्रुत्या पुण्यपापैर्न लिप्यते । ४.१३७ . पञ्चारे सविकारोऽथ भूत्वा सोमस्रुतामृतात् ॥ १३७ ४.१३८ . धावति त्रिरसाराणि गुह्यचक्राण्यसौ विभुः । ४.१३८ . यतो जातं जगल्लीनं यत्र च स्वकलीलया ॥ १३८ ४.१३९ . तत्रानन्दश्च सर्वस्य ब्रह्मचारी च तत्परः । ४.१३९ . तत्र सिद्धिश्च मुक्तिश्च समं संप्राप्यते द्वयम् ॥ १३९ ४.१४० . अत ऊर्ध्वं पुनर्याति यावद्ब्रह्मात्मकं पदम् । ४.१४० . अग्नीषोमौ समौ तत्र सृज्येते चात्मनात्मनि ॥ १४० ४.१४१ . तत्रस्थस्तापितः सोमो द्वेधा जङ्घे व्यवस्थितः । ४.१४१ . अधस्तं पातयेदग्निरमृतं स्रवति क्षणात् ॥ १४१ ४.१४२ . गुल्फजान्वादिषु व्यक्तं कुटिलार्कप्रदीपिता । ४.१४२ . सा शक्तिस्तापिता भूयः पञ्चारादिक्रमं सृजेत् ॥ १४२ ४.१४३ . एवं श्रोत्रेऽपि विज्ञेयं यावत्पादान्तगोचरम् । ४.१४३ . पादाङ्गुष्ठात्समारभ्य यावद्ब्रह्माण्डदर्शनम् ॥ १४३ ४.१४४ . इत्यजानन्नैव योगी जानन्विश्वप्रभुर्भवेत् । ४.१४४ . ज्वलन्निवासौ ब्रह्माद्यैर्दृश्यते परमेश्वरः ॥ १४४ ४.१४५ . अत्र तात्पर्यतः प्रोक्तमक्षे क्रमचतुष्टयम् । ४.१४५ . एकैकत्र यतस्तेन द्वादशात्मकतोदिता ॥ १४५ ४.१४६ . न व्याख्यातं तु निर्भज्य यतोऽतिसरहस्यकम् । ४.१४६ . मेयेऽपि देवी तिष्ठन्ती मासराश्यादिरूपिणी ॥ १४६ ४.१४७ . अत एषा स्थिता संविदन्तर्बाह्योभयात्मना । ४.१४७ . स्वयं निर्भास्य तत्रान्यद्भासयन्तीव भासते ॥ १४७ ४.१४८ . ततश्च प्रागियं शुद्धा तथाभासनसोत्सुका । ४.१४८ . सृष्टिं कलयते देवी तन्नाम्नागम उच्यते ॥ १४८ ४.१४९ . तथा भासितवस्त्वंशरञ्जनां सा बहिर्मुखी । ४.१४९ . स्ववृत्तिचक्रेण समं ततोऽपि कलयन्त्यलम् ॥ १४९ ४.१५० . स्थितिरेषैव भावस्य तामन्तर्मुखतारसात् । ४.१५० . संजिहीर्षुः स्थितेर्नाशं कलयन्ती निरुच्यते ॥ १५० ४.१५१ . ततोऽपि संहाररसे पूर्णे विघ्नकरीं स्वयम् । ४.१५१ . शङ्कां यमात्मिकां भागे सूते संहरतेऽपि च ॥ १५१ ४.१५२ . संहृत्य शङ्कां शङ्क्यार्थवर्जं वा भावमण्डले । ४.१५२ . संहृतिं कलयत्येव स्वात्मवह्नौ विलापनात् ॥ १५२ ४.१५३ . विलापनात्मिकां तां च भावसंहृतिमात्मनि । ४.१५३ . आमृशत्येव येनैषा मया ग्रस्तमिति स्फुरेत् ॥ १५३ ४.१५४ . संहार्योपाधिरेतस्याः स्वस्वभावो हि संविदः । ४.१५४ . निरुपाधिनि संशुद्धे संविद्रूपेषस्तमीयते ॥ १५४ ४.१५५ . विलापितेऽपि भावौघे कंचिद्भावं तदैव सा । ४.१५५ . आश्यानयेद्य एवास्ते शङ्का संस्काररूपकः ॥ १५५ ४.१५६ . शुभाशुभतया सोऽयं सोष्यते फलसंपदम् । ४.१५६ . पूर्वं हि भोगात्पश्चाद्वा शङ्केयं व्यवतिष्ठते ॥ १५६ ४.१५७ . अन्यदाश्यानितमपि तदैव द्रावयेदियम् । ४.१५७ . प्रायश्चित्तादिकर्मभ्यो ब्रह्महत्यादिकर्मवत् ॥ १५७ ४.१५८ . रोधनाद्द्रावणाद्रूपमित्थं कलयते चितिः । ४.१५८ . तदपि द्रावयेदेव तदप्याश्यानयेदथ ॥ १५८ ४.१५९ . इत्थं भोग्येऽपि संभुक्ते सति तत्करणान्यपि । ४.१५९ . संहरन्ती कलयते द्वादशैवाहमात्मनि ॥ १५९ ४.१६० . कर्मबुद्ध्यक्षवर्गो हि बुद्ध्यन्तो द्वादशात्मकः । ४.१६० . प्रकाशकत्वात्सूर्यात्मा भिन्ने वस्तुनि जृम्भते ॥ १६० ४.१६१ . अहंकारस्तु करणमभिमानैकसाधनम् । ४.१६१ . अविच्छिन्नपरामर्शी लीयते तेन तत्र सः ॥ १६१ ४.१६२ . यथाहि खङ्गपाशादेः करणस्य विभेदिनः । ४.१६२ . अभेदिनि स्वहस्तादौ लयस्तद्वदयं विधिः ॥ १६२ ४.१६३ . तेनेन्द्रियौघमार्तण्डमण्डलं कलयेत्स्वयम् । ४.१६३ . संविद्देवी स्वतन्त्रत्वात्कल्पितेऽहंकृतात्मनि ॥ १६३ ४.१६४ . स एव परमादित्यः पूर्णकल्पस्त्रयोदशः । ४.१६४ . करणत्वात्प्रयात्येव कर्तरि प्रलयं स्फुटम् ॥ १६४ ४.१६५ . कर्ता च द्विविधः प्रोक्तः कल्पिताकल्पितात्मकः । ४.१६५ . कल्पितो देहबुद्ध्यादिव्यवच्छेदेन चर्चितः ॥ १६५ ४.१६६ . कालाग्निरुद्रसंज्ञास्य शास्त्रेषु परिभाषिता । ४.१६६ . कालो व्यवच्छित्तद्युक्तो वह्निर्भोक्ता यतः स्मृतः ॥ १६६ ४.१६७ . संसाराक्लृप्तिक्लृप्तिभ्यां रोधनाद्द्रावणात्प्रभुः । ४.१६७ . अनिवृत्तपशूभावस्तत्राहंकृत्प्रलीयते ॥ १६७ ४.१६८ . सोऽपि कल्पितवृत्तित्वाद्विश्वाभेदैकशालिनि । ४.१६८ . विकासिनि महाकाले लीयतेऽहमिदंमये ॥ १६८ ४.१६९ . एतस्यां स्वात्मसंवित्ताविदं सर्वमहं विभुः । ४.१६९ . इति प्रविकसद्रूपा संवित्तिरवभासते ॥ १६९ ४.१७० . ततोऽन्तःस्थितसर्वात्मभावभोगोपरागिणी । ४.१७० . परिपूर्णापि संवित्तिरकुले धाम्नि लीयते ॥ १७० ४.१७१ . प्रमातृवर्गो मानौघः प्रमाश्च बहुधा स्थिताः । ४.१७१ . मेयौघ इति यत्सर्वमत्र चिन्मात्रमेव तत् ॥ १७१ ४.१७२ . इयतीं रूपवैचित्रीमाश्रयन्त्याः स्वसंविदः । ४.१७२ . स्वाच्छन्द्यमनपेक्षं यत्सा परा परमेश्वरी ॥ १७२ ४.१७३ . इमाः प्रागुक्तकलनास्तद्विजृम्भोच्यते यतः । ४.१७३ . क्षेपो ज्ञानं च संख्यानं गतिर्नाद इति क्रमात् ॥ १७३ ४.१७४ . स्वात्मनो भेदनं क्षेपो भेदितस्याविकल्पनम् । ४.१७४ . ज्ञानं विकल्पः संख्यानमन्यतो व्यतिभेदनात् ॥ १७४ ४.१७५ . गतिः स्वरूपारोहित्वं प्रतिबिम्बवदेव यत् । ४.१७५ . नादः स्वात्मपरामर्शशेषता तद्विलोपनात् ॥ १७५ ४.१७६ . इति पञ्चविधामेनां कलनां कुर्वती परा । ४.१७६ . देवी काली तथा कालकर्षिणी चेति कथ्यते ॥ १७६ ४.१७७ . मातृसद्भावसंज्ञास्यास्तेनोक्ता यत्प्रमातृषु । ४.१७७ . एतावदन्तसंवित्तौ प्रमातृत्वं स्फुटीभवेत् ॥ १७७ ४.१७८ . वामेश्वरीति-शब्देन प्रोक्ता श्रीनिशिसंचरे । ४.१७८ . इत्थं द्वादशधा संवित्तिष्ठन्ती विश्वमातृषु ॥ १७८ ४.१७९ . एकैवेति न कोऽप्यस्याः क्रमस्य नियमः क्वचित् । ४.१७९ . क्रमाभावान्न युगपत्तदभावात्क्रमोऽपि न ॥ १७९ ४.१८० . क्रमाक्रमकथातीतं संवित्तत्त्वं सुनिर्मलम् । ४.१८० . तदस्याः संविदो देव्या यत्र क्वापि प्रवर्तनम् ॥ १८० ४.१८१ . तत्र तादात्म्ययोगेन पूजा पूर्णैव वर्तते । ४.१८१ . परामर्शस्वभावत्वादेतस्या यः स्वयं ध्वनिः ॥ १८१ ४.१८२ . सदोदितः स एवोक्तः परमं हृदयं महत् । ४.१८२ . हृदये स्वविमर्शोऽसौ द्राविताशेषविश्वकः ॥ १८२ ४.१८३ . भावग्रहादिपर्यन्तभावी सामान्यसंज्ञकः । ४.१८३ . स्पन्दः स कथ्यते शास्त्रे स्वात्मन्युच्छलनात्मकः ॥ १८३ ४.१८४ . किंचिच्चलनमेतावदनन्यस्फुरणं हि यत् । ४.१८४ . ऊर्मिरेषा विबोधाब्धेर्न संविदनया विना ॥ १८४ ४.१८५ . निस्तरङ्गतरङ्गादिवृत्तिरेव हि सिन्धुता । ४.१८५ . सारमेतत्समस्तस्य यच्चित्सारं जडं जगत् ॥ १८५ ४.१८६ . तदधीनप्रतिष्ठत्वात्तत्सारं हृदयं महत् । ४.१८६ . तथा हि सदिदं ब्रह्ममूलं मायाण्डसंज्ञितम् ॥ १८६ ४.१८७ . इच्छाज्ञानक्रियारोहं विना नैव सदुच्यते । ४.१८७ . तच्छक्तित्रितयारोहाद्भैरवीये चिदात्मनि ॥ १८७ ४.१८८ . विसृज्यते हि तत्तस्माद्बहिर्वाथ विसृज्यते । ४.१८८ . एवं सद्रूपतैवैषां सतां शक्तित्रयात्मताम् ॥ १८८ ४.१८९ . विसर्गं परबोधेन समाक्षिप्यैव वर्तते । ४.१८९ . तत्सदेव बहीरूपं प्राग्बोधाग्निविलापितम् ॥ १८९ ४.१९० . अन्तर्नदत्परामर्शशेषीभूतं ततोऽप्यलम् । ४.१९० . खात्मत्वमेव संप्राप्तं शक्तित्रितयगोचरात् ॥ १९० ४.१९१ . वेदनात्मकतामेत्य संहारात्मनि लीयते । ४.१९१ . इदं संहारहृदयं प्राच्यं सृष्टौ च हृन्मतम् ॥ १९१ ४.१९२ . एतद्रूपपरामर्शमकृत्रिममनाबिलम् । ४.१९२ . अहमित्याहुरेषैव प्रकाशस्य प्रकाशता ॥ १९२ ४.१९३ . एतद्वीर्यं हि सर्वेषां मन्त्राणां हृदयात्मकम् । ४.१९३ . विनानेन जडास्ते स्युर्जीवा इव विना हृदा ॥ १९३ ४.१९४ . अकृत्रिमैतद्धृदयारूढो यत्किंचिदाचरेत् । ४.१९४ . प्राण्याद्वा मृशते वापि स सर्वोऽस्य जपो मतः ॥ १९४ ४.१९५ . यदेव स्वेच्छया सृष्टिस्वाभाव्याद्बहिरन्तरा । ४.१९५ . निर्मीयते तदेवास्य ध्यानं स्यात्पारमार्थिकम् ॥ १९५ ४.१९६ . निराकारे हि चिद्धाम्नि विश्वाकृतिमये सति । ४.१९६ . फलार्थिनां काचिदेव ध्येयत्वेनाकृतिः स्थिता ॥ १९६ ४.१९७ . यथा ह्यभेदात्पूर्णेऽपि भावे जलमुपाहरन् । ४.१९७ . अन्याकृत्यपहानेन घटमर्थयते रसात् ॥ १९७ ४.१९८ . तथैव परमेशाननियतिप्रविजृम्भणात् । ४.१९८ . काचिदेवाकृतिः कांचित्सूते फलविकल्पनाम् ॥ १९८ ४.१९९ . यस्तु संपूर्णहृदयो न फलं नाम वाञ्छति । ४.१९९ . तस्य विश्वाकृतिर्देवी सा चावच्छेदवर्जनात् ॥ १९९ ४.२०० . कुले योगिन उद्रिक्तभैरवीयपरासवात् । ४.२०० . घूर्णितस्य स्थितिर्देहे मुद्रा या काचिदेव सा ॥ २०० ४.२०१ . अन्तरिन्धनसंभारमनपेक्ष्यैव नित्यशः । ४.२०१ . जाज्वलीत्यखिलाक्षौघप्रसृतोग्रशिखः शिखी ॥ २०१ ४.२०२ . बोधाग्नौ तादृशे भावा विशन्तस्तस्य सन्महः । ४.२०२ . उद्रेचयन्तो गच्छन्ति होमकर्मनिमित्तताम् ॥ २०२ ४.२०३ . यं कंचित्परमेशानशक्तिपातपवित्रितम् । ४.२०३ . पुरोभाव्य स्वयं तिष्ठेदुक्तवद्दीक्षितस्तु सः ॥ २०३ ४.२०४ . जप्यादौ होमपर्यन्ते यद्यप्येकैककर्मणि । ४.२०४ . उदेति रूढिः परमा तथापीत्थं निरूपितम् ॥ २०४ ४.२०५ . यथाहि तत्र तत्राश्वः समनिम्नोन्नतादिषु । ४.२०५ . चित्रे देशे वाह्यमानो यातीच्छामात्रकल्पिताम् ॥ २०५ ४.२०६ . तथा संविद्विचित्राभिः शान्तघोरतरादिभिः । ४.२०६ . भङ्गीभिरभितो द्वैतं त्याजिता भैरवायते ॥ २०६ ४.२०७ . यथा पुरःस्थे मुकुरे निजं वक्त्रं विभावयन् । ४.२०७ . भूयो भूयस्तदेकात्म वक्त्रं वेत्ति निजात्मनः ॥ २०७ ४.२०८ . तथा विकल्पमुकुरे ध्यानपूजार्चनात्मनि । ४.२०८ . आत्मानं भैरवं पश्यन्नचिरात्तन्मयीभवेत् ॥ २०८ ४.२०९ . तन्मयीभवनं नाम प्राप्तिः सानुत्तरात्मनि । ४.२०९ . पूर्णत्वस्य परा काष्ठा सेत्यत्र न फलान्तरम् ॥ २०९ ४.२१० . फलं सर्वमपूर्णत्वे तत्र तत्र प्रकल्पितम् । ४.२१० . अकल्पिते हि पूर्णत्वे फलमन्यत्किमुच्यताम् ॥ २१० ४.२११ . एष यागविधिः कोऽपि कस्यापि हृदि वर्तते । ४.२११ . यस्य प्रसीदेच्चिच्चक्रं द्रागपश्चिमजन्मनः ॥ २११ ४.२१२ . अत्र यागे गतो रूढिं कैवल्यमधिगच्छति । ४.२१२ . लोकैरालोक्यमानो हि देहबन्धविधौ स्थितः ॥ २१२ ४.२१३ . अत्र नाथः समाचारं पटलेऽष्टादशेऽभ्यधात् । ४.२१३ . नात्र शुद्धिर्न चाशुद्धिर्न भक्ष्यादिविचारणम् ॥ २१३ ४.२१४ . न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च । ४.२१४ . न चापि तत्परित्यागो निष्परिग्रहतापि वा ॥ २१४ ४.२१५ . सपरिग्रहता वापि जटाभस्मादिसंग्रहः । ४.२१५ . तत्त्यागो न व्रतादीनां चरणाचरणं च यत् ॥ २१५ ४.२१६ . क्षेत्रादिसंप्रवेशश्च समयादिप्रपालनम् । ४.२१६ . परस्वरूपलिङ्गादि नामगोत्रादिकं च यत् ॥ २१६ ४.२१७ . नास्मिन्विधीयते किंचिन्न चापि प्रतिषिध्यते । ४.२१७ . विहितं सर्वमेवात्र प्रतिषिद्धमथापि च ॥ २१७ ४.२१८ . किं त्वेतदत्र देवेशि नियमेन विधीयते । ४.२१८ . तत्त्वे चेतः स्थिरीकार्यं सुप्रसन्नेन योगिना ॥ २१८ ४.२१९ . तच्च यस्य यथैव स्यात्स तथैव समाचरेत् । ४.२१९ . तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि ॥ २१९ ४.२२० . न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा । ४.२२० . विषापहारिमन्त्रादिसंनद्धो भक्षयन्नपि ॥ २२० ४.२२१ . विषं न मुह्यते तेन तद्वद्योगी महामतिः । ४.२२१ . अशुद्धं हि कथं नाम देहाद्यं पाञ्चभौतिकम् ॥ २२१ ४.२२२ . प्रकाशतातिरिक्ते किं शुद्ध्यशुद्धी हि वस्तुनः । ४.२२२ . अशुद्धस्य च भावस्य शुद्धिः स्यात्तादृशैव किम् ॥ २२२ ४.२२३ . अन्योन्याश्रयवैयर्थ्यानवस्था इत्थमत्र हि । ४.२२३ . पृथिवी जलतः शुद्ध्येज्जलं धरणितस्तथा ॥ २२३ ४.२२४ . अन्योन्याश्रयता सेयमशुद्धत्वेऽप्ययं क्रमः । ४.२२४ . अशुद्धाज्जलतः शुद्ध्येद्धरेति व्यर्थता भवेत् ॥ २२४ ४.२२५ . वायुतो वारिणो वायोस्तेजसस्तस्य वान्यतः । ४.२२५ . बहुरूपादिका मन्त्राः पावनात्तेषु शुद्धता ॥ २२५ ४.२२६ . मन्त्राः स्वभावतः शुद्धा यदि तेऽपि न किं तथा । ४.२२६ . शिवात्मता तेषु शुद्धिर्यदि तत्रापि सा न किम् ॥ २२६ ४.२२७ . शिवात्मत्वापरिज्ञानं न मन्त्रेषु धरादिवत् । ४.२२७ . ते तेन शुद्धा इति चेत्तज्ज्ञप्तिस्तर्हि शुद्धता ॥ २२७ ४.२२८ . योगिनं प्रति सा चास्ति भावेष्विति विशुद्धता । ४.२२८ . ननु चोदनया शुद्ध्यशुद्ध्यादिकविनिश्चयः ॥ २२८ ४.२२९ . इत्थमस्तु तथाप्येषा चोदनैव शिवोदिता । ४.२२९ . का स्यात्सतीति चेदेतदन्यत्र प्रवितानितम् ॥ २२९ ४.२३० . वैदिक्या बाधितेयं चेद्विपरीतं न किं भवेत् । ४.२३० . सम्यक्चेन्मन्यसे बाधो विशिष्टविषयत्वतः ॥ २३० ४.२३१ . अपवादेन कर्तव्यः सामान्यविहिते विधौ । ४.२३१ . शुद्ध्यशुद्धी च सामान्यविहिते तत्त्वबोधिनि ॥ २३१ ४.२३२ . पुंसि ते बाधिते एव तथा चात्रेति वर्णितम् । ४.२३२ . नार्थवादादिशङ्का च वाक्ये माहेश्वरे भवेत् ॥ २३२ ४.२३३ . अबुद्धिपूर्वं हि तथा संस्थिते सततं भवेत् । ४.२३३ . व्योमादिरूपे निगमे शङ्का मिथ्यार्थतां प्रति ॥ २३३ ४.२३४ . अनवच्छिन्नविज्ञानवैश्वरूप्यसुनिर्भरः । ४.२३४ . शास्त्रात्मना स्थितो देवो मिथ्यात्वं क्वापि नार्हति ॥ २३४ ४.२३५ . इच्छावान्भावरूपेण यथा तिष्ठासुरीश्वरः । ४.२३५ . तत्स्वरूपाभिधानेन तिष्ठासुः स तथा स्थितः ॥ २३५ ४.२३६ . अर्थवादोऽपि यत्रान्यविध्यादिमुखमीक्षते । ४.२३६ . तत्रास्त्वसत्यः स्वातन्त्र्ये स एव तु विधायकः ॥ २३६ ४.२३७ . विधिवाक्यान्तरे गच्छन्नङ्गभावमथापि वा । ४.२३७ . न निरर्थकमेवायं संनिधेर्गजडादिवत् ॥ २३७ ४.२३८ . स्वार्थप्रत्यायनं चास्य स्वसंवित्त्यैव भासते । ४.२३८ . तदपह्नवनं कर्तुं शक्यं विधिनिषेधयोः ॥ २३८ ४.२३९ . युक्तिश्चात्रास्ति वाक्येषु स्वसंविच्चाप्यबाधिता । ४.२३९ . या समग्रार्थमाणिक्यतत्त्वनिश्चयकारिणी ॥ २३९ ४.२४० . मृतदेहेऽथ देहोत्थे या चाशुद्धिः प्रकीर्तिता । ४.२४० . अन्यत्र नेति बुद्ध्यन्तामशुद्धं संविदश्च्युतम् ॥ २४० ४.२४१ . संवित्तादात्म्यमापन्नं सर्वं शुद्धमतः स्थितम् । ४.२४१ . श्रीमद्वीरावलौ चोक्तं शुद्ध्यशुद्धिनिरूपणे ॥ २४१ ४.२४२ . सर्वेषां वाहको जीवो नास्ति किंचिदजीवकम् । ४.२४२ . यत्किंचिज्जीवरहितमशुद्धं तद्विजानत ॥ २४२ ४.२४३ . तस्माद्यत्संविदो नातिदूरे तच्छुद्विमावहेत् । ४.२४३ . अविकल्पेन भावेन मुनयोऽपि तथाभवन् ॥ २४३ ४.२४४ . लोकसंरक्षणार्थं तु तत्तत्त्वं तैः प्रगोपितम् । ४.२४४ . बहिः सत्स्वपि भावेषु शुद्ध्यशुद्धी न नीलवत् ॥ २४४ ४.२४५ . प्रमातृधर्म एवायं चिदैक्यानैक्यवेदनात् । ४.२४५ . यदि वा वस्तुधर्मोऽपि मात्रपेक्षानिबन्धनः ॥ २४५ ४.२४६ . सौत्रामण्यां सुरा होतुः शुद्धान्यस्य विपर्ययः । ४.२४६ . अनेन चोदनानां च स्ववाक्यैरपि बाधनम् ॥ २४६ ४.२४७ . क्वचित्संदर्शितं ब्रह्महत्याविधिनिषेधवत् । ४.२४७ . भक्ष्यादिविधयोऽप्येनं न्यायमाश्रित्य चर्चिताः ॥ २४७ ४.२४८ . सर्वज्ञानोत्तरादौ च भाषते स्म महेश्वरः । ४.२४८ . नरर्षिदेवद्रुहिणविष्णुरुद्राद्युदीरितम् ॥ २४८ ४.२४९ . उत्तरोत्तरवैशिष्ट्यात्पूर्वपूर्वप्रबाधकम् । ४.२४९ . न शैवं वैष्णवैर्वाक्यैर्बाधनीयं कदाचन ॥ २४९ ४.२५० . वैष्णवं ब्रह्मसंभूतैर्नेत्यादि परिचर्चयेत् । ४.२५० . बाधते यो वैपरीत्यात्समूढः पापभाग्भवेत् ॥ २५० ४.२५१ . तस्मान्मुख्यतया स्कन्द लोकधर्मान्न चाचरेत् । ४.२५१ . नान्यशास्त्रसमुद्दिष्टं स्रोतस्युक्तं निजे चरेत् ॥ २५१ ४.२५२ . यतो यद्यपि देवेन वेदाद्यपि निरूपितम् । ४.२५२ . तथापि किल संकोचभावाभावविकल्पतः ॥ २५२ ४.२५३ . संकोचतारतम्येन पाशवं ज्ञानमीरितम् । ४.२५३ . विकासतारतम्येन पतिज्ञानं तु बाधकम् ॥ २५३ ४.२५४ . इदं द्वैतमिदं नेति परस्परनिषेधतः । ४.२५४ . मायीयभेदक्लृप्तं तत्स्यादकाल्पनिके कथम् ॥ २५४ ४.२५५ . उक्तं भर्गशिखायां च मृत्युकालकलादिकम् । ४.२५५ . द्वैताद्वैतविकल्पोत्थं ग्रसते कृतधीरिति ॥ २५५ ४.२५६ . सिद्धान्ते लिङ्गपूजोक्ता विश्वाध्वमयताविदे । ४.२५६ . कुलादिषु निषिद्धासौ देहे विश्वात्मताविदे ॥ २५६ ४.२५७ . इह सर्वात्मके कस्मात्तद्विधिप्रतिषेधने । ४.२५७ . नियमानुप्रवेशेन तादात्म्यप्रतिपत्तये ॥ २५७ ४.२५८ . जटादि कौले त्यागोऽस्य सुखोपायोपदेशतः । ४.२५८ . व्रतचर्या च मन्त्रार्थतादात्म्यप्रतिपत्तये ॥ २५८ ४.२५९ . तन्निषेधस्तु मन्त्रार्थसार्वात्म्यप्रतिपत्तये । ४.२५९ . क्षेत्रपीठोपपीठेषु प्रवेशो विघ्नशान्तये ॥ २५९ ४.२६० . मन्त्राद्याराधकस्याथ तल्लाभायोपदिश्यते । ४.२६० . क्षेत्रादिगमनाभावविधिस्तु स्वात्मनस्तथा ॥ २६० ४.२६१ . वैश्वरूप्येण पूर्णत्वं ज्ञातुमित्यपि वर्णितम् । ४.२६१ . समयाचारसद्भावः पाल्यत्वेनोपदिश्यते ॥ २६१ ४.२६२ . भेदप्राणतया तत्तत्त्यागात्तत्त्वविशुद्धये । ४.२६२ . समयादिनिषेधस्तु मतशास्त्रेषु कथ्यते ॥ २६२ ४.२६३ . निर्मर्यादं स्वसंबोधं संपूर्णं बुद्ध्यतामिति । ४.२६३ . परकीयमिदं रूपं ध्येयमेतत्तु मे निजम् ॥ २६३ ४.२६४ . ज्वालादिलिङ्गं चान्यस्य कपालादि तु मे निजम् । ४.२६४ . आदिशब्दात्तपश्चर्यावेलातिथ्यादि कथ्यते ॥ २६४ ४.२६५ . नाम शक्तिशिवाद्यन्तमेतस्य मम नान्यथा । ४.२६५ . गोत्रं च गुरुसंतानो मठिकाकुलशब्दितः ॥ २६५ ४.२६६ . श्रीसंततिस्त्र्यम्बकाख्या तदर्धामर्दसंज्ञिता । ४.२६६ . इत्थमर्धचतस्रोऽत्र मठिकाः शांकरे क्रमे ॥ २६६ ४.२६७ . युगक्रमेण कूर्माद्या मीनान्ता सिद्धसंततिः । ४.२६७ . आदिशब्देन च घरं पल्ली पीठोपपीठकम् ॥ २६७ ४.२६८ . मुद्रा छुम्मेति तेषां च विधानं स्वपरस्थितम् । ४.२६८ . तादात्म्यप्रतिपत्त्यै हि स्वं संतानं समाश्रयेत् ॥ २६८ ४.२६९ . भुञ्जीत पूजयेच्चक्रं परसंतानिना नहि । ४.२६९ . एतच्च मतशास्त्रेषु निषिद्धं खण्डना यतः ॥ २६९ ४.२७० . अखण्डेऽपि परे तत्त्वे भेदेनानेन जायते । ४.२७० . एवं क्षेत्रप्रवेशादि संताननियमान्ततः ॥ २७० ४.२७१ . नास्मिन्विधीयते तद्धि साक्षान्नौपयिकं शिवे । ४.२७१ . न तस्य च निषोधो य न्न तत्तत्त्वस्य खण्डनम् ॥ २७१ ४.२७२ . विश्वात्मनो हि नाथस्य स्वस्मिन्रूपे विकल्पितौ । ४.२७२ . विधिर्निषेधो वा शक्तौ न स्वरूपस्य खण्डने ॥ २७२ ४.२७३ . परतत्त्वप्रवेशे तु यमेव निकटं यदा । ४.२७३ . उपायं वेत्ति स ग्राह्यस्तदा त्याज्योऽथ वा क्वचित् ॥ २७३ ४.२७४ . न यन्त्रणात्र कार्येति प्रोक्तं श्रीत्रिकशासने । ४.२७४ . समता सर्वदेवानामोवल्लीमन्त्रवर्णयोः ॥ २७४ ४.२७५ . आगमनां गतीनां च सर्वं शिवमयं यतः । ४.२७५ . स ह्यखण्डितसद्भावं शिवतत्त्वं प्रपश्यति ॥ २७५ ४.२७६ . यो ह्यखण्डितसद्भावमात्मतत्त्वं प्रपद्यते । ४.२७६ . केतकीकुसुमसौरभे भृशं भृङ्ग एव रसिको न मक्षिका । ४.२७६ . भैरवीयपरमाद्वयार्चने कोऽपि रज्यति महेशचोदितः ॥ २७६ ४.२७७ . अस्मिंश्च योगे विश्रान्तिं कुर्वतां भवडम्बरः । ४.२७७ . हिमानीव महाग्रीष्मे स्वयमेव विलीयते ॥ २७७ ४.२७८ . अलं वातिप्रसङ्गेन भूयसातिप्रपञ्चिते । ४.२७८ . योग्योऽभिनवगुप्तोऽस्मिन्कोऽपि यागविधौ बुधः ॥ २७८ ४.२७९ . इत्यनुत्तरपदप्रविकासे शाक्तमौपयिकमद्य विविक्तम् ॥ २७९ च्५ अथ श्रीतन्त्रालोके पञ्चममाह्निकम् ५.१ . आणवेन विधिना परधाम प्रेप्सतामथ निरूप्यत एतत् ॥ १ ५.२ . विकल्पस्यैव संस्कारे जाते निष्प्रतियोगिनि । ५.२ . अभीष्टे वस्तुनि प्राप्तिर्निश्चिता भोगमोक्षयोः ॥ २ ५.३ . विकल्पः कस्यचित्स्वात्मस्वातन्त्र्यादेव सुस्थिरः । ५.३ . उपायान्तरसापेक्ष्यवियोगेनैव जायते ॥ ३ ५.४ . कस्यचित्तु विकल्पोऽसौ स्वात्मसंस्करणं प्रति । ५.४ . उपायान्तरसापेक्षस्तत्रोक्तः पूर्वको विधिः ॥ ४ ५.५ . विकल्पो नाम चिन्मात्रस्वभावो यद्यपि स्थितः । ५.५ . तथापि निश्चयात्मासावणोः स्वातन्त्र्ययोजकः ॥ ५ ५.६ . निश्चयो बहुधा चैष तत्रोपायाश्च भेदिनः । ५.६ . अणुशब्देन ते चोक्ता दूरान्तिकविभेदतः ॥ ६ ५.७ . तत्र बुद्धौ तथा प्राणे देहे चापि प्रमातरि । ५.७ . अपारमार्थिकेऽप्यस्मिन् परमार्थः प्रकाशते ॥ ७ ५.८ . यतः प्रकाशाच्चिन्मात्रात्प्राणाद्यव्यतिरेकवत् । ५.८ . तस्यैव तु स्वतन्त्रत्वाद्द्विगुणं जडचिद्वपुः ॥ ८ ५.९ . उक्तं त्रैशिरसे चैतद्देव्यै चन्द्रार्धमौलिना । ५.९ . जीवः शक्तिः शिवस्यैव सर्वत्रैव स्थितापि सा ॥ ९ ५.१० . स्वरूपप्रत्यये रूढा ज्ञानस्योन्मीलनात्परा । ५.१० . तस्य चिद्रूपतां सत्यां स्वातन्त्र्योल्लासकल्पनात् ॥ १० ५.११ . पश्यञ्जडात्मताभागं तिरोधायाद्वयो भवेत् । ५.११ . तत्र स्वातन्त्र्यदृष्ट्या वा दर्पणे मुखबिम्बवत् ॥ ११ ५.१२ . विशुद्धं निजचैतन्यं निश्चिनोत्यतदात्मकम् । ५.१२ . बुद्धिप्राणादितो भिन्नं चैतन्यं निश्चितं बलात् ॥ १२ ५.१३ . सत्यतस्तदभिन्नं स्यात्तस्यान्योन्यविभेदतः । ५.१३ . विश्वरूपाविभेदित्वं शुद्धत्वादेव जायते ॥ १३ ५.१४ . निष्ठितैकस्फुरन्मूर्तेर्मूर्त्यन्तरविरोधतः । ५.१४ . अन्तः संविदि सत्सर्वं यद्यप्यपरथा धियि ॥ १४ ५.१५ . प्राणे देहेऽथवा कस्मात्संक्रामेत्केन वा कथम् । ५.१५ . तथापि निर्विकल्पेऽस्मिन्विकल्पो नास्ति तं विना ॥ १५ ५.१६ . दृष्टेऽप्यदृष्टकल्पत्वं विकल्पेन तु निश्चयः । ५.१६ . बुद्धिप्राणशरीरेषु पारमेश्वर्यमञ्जसा ॥ १६ ५.१७ . विकल्प्यं शून्यरूपे न प्रमातरि विकल्पनम् । ५.१७ . बुद्धिर्ध्यानमयी तत्र प्राण उच्चारणात्मकः ॥ १७ ५.१८ . उच्चारणं च प्राणाद्या व्यानान्ताः पञ्च वृत्तयः । ५.१८ . आद्या तु प्राणनाभिख्यापरोच्चारात्मिका भवेत् ॥ १८ ५.१९ . शरीरस्याक्षविषयैतत्पिण्डत्वेन संस्थितिः । ५.१९ . तत्र ध्यानमयं तावदनुत्तरमिहोच्यते ॥ १९ ५.२० . यः प्रकाशः स्वतन्त्रोऽयं चित्स्वभावो हृदि स्थितः । ५.२० . सर्वतत्त्वमयः प्रोक्तमेतच्च त्रिशिरोमते ॥ २० ५.२१ . कदलीसंपुटाकारं सबाह्याभ्यन्तरान्तरम् । ५.२१ . ईक्षते हृदयान्तःस्थं तत्पुष्पमिव तत्त्ववित् ॥ २१ ५.२२ . सोमसूर्याग्निसंघट्टं तत्र ध्यायेदनन्यधीः । ५.२२ . तद्ध्यानारणिसंक्षोभान्महाभैरवहव्यभुक् ॥ २२ ५.२३ . हृदयाख्ये महाकुण्डे जाज्वलन् स्फीततां व्रजेत् । ५.२३ . तस्य शक्तिमतः स्फीतशक्तेर्भैरवतेजसः ॥ २३ ५.२४ . मातृमानप्रमेयाख्यं धामाभेदेन भावयेत् । ५.२४ . वह्न्यर्कसोमशक्तीनां तदेव त्रितयं भवेत् ॥ २४ ५.२५ . परा परापरा चेयमपरा च सदोदिता । ५.२५ . सृष्टिसंस्थितिसंहारैस्तासां प्रत्येकतस्त्रिधा ॥ २५ ५.२६ . चतुर्थं चानवच्छिन्नं रूपमासामकल्पितम् । ५.२६ . एवं द्वादश ता देव्यः सूर्यबिम्बवदास्थिताः ॥ २६ ५.२७ . एकैकमासां वह्न्यर्कसोमतच्छान्तिभासनम् । ५.२७ . एतदानुत्तरं चक्रं हृदयाच्चक्षुरादिभिः ॥ २७ ५.२८ . व्योमभिर्निःसरत्येव तत्तद्विषयगोचरे । ५.२८ . तच्चक्रभाभिस्तत्रार्थे सृष्टिस्थितिलयक्रमात् ॥ २८ ५.२९ . सोमसूर्याग्निभासात्म रूपं समवतिष्ठते । ५.२९ . एवं शब्दादिविषये श्रोत्रादिव्योमवर्त्मना ॥ २९ ५.३० . चक्रेणानेन पतता तादात्म्यं परिभावयेत् । ५.३० . अनेन क्रमयोगेन यत्र यत्र पतत्यदः ॥ ३० ५.३१ . चक्रं सर्वात्मकं तत्तत्सार्वभौममहीशवत् । ५.३१ . इत्थं विश्वाध्वपटलमयत्नेनैव लीयते ॥ ३१ ५.३२ . भैरवीयमहाचक्रे संवित्तिपरिवारिते । ५.३२ . ततः संस्कारमात्रेण विश्वस्यापि परिक्षये ॥ ३२ ५.३३ . स्वात्मोच्छलत्तया भ्राम्यच्चक्रं संचिन्तयेन्महत् । ५.३३ . ततस्तद्दाह्यविलयात्तत्संस्कारपरिक्षयात् ॥ ३३ ५.३४ . प्रशाम्यद्भावयेच्चक्रं ततः शान्तं ततः शमम् । ५.३४ . अनेन ध्यानयोगेन विश्वं चक्रे विलीयते ॥ ३४ ५.३५ . तत्संविदि ततः संविद्विलीनार्थैव भासते । ५.३५ . चित्स्वाभाव्यात्ततो भूयः सृष्टिर्यच्चिन्महेश्वरी ॥ ३५ ५.३६ . एवं प्रतिक्षणं विश्वं स्वसंविदि विलापयन् । ५.३६ . विसृजंश्च ततो भूयः शश्वद्भैरवतां व्रजेत् ॥ ३६ ५.३७ . एवं त्रिशूलात्प्रभृति चतुष्पञ्चारकक्रमात् । ५.३७ . पञ्चाशदरपर्यन्तं चक्रं योगी विभावयेत् ॥ ३७ ५.३८ . चतुष्षष्टिशतारं वा सहस्रारमथापि वा । ५.३८ . असंख्यारसहस्रं वा चक्रं ध्यायेदनन्यधीः ॥ ३८ ५.३९ . संविन्नाथस्य महतो देवस्योल्लासिसंविदः । ५.३९ . नैवास्ति काचित्कलना विश्वशक्तेर्महेशितुः ॥ ३९ ५.४० . शक्तयोऽस्य जगत्कृत्स्नं शक्तिमांस्तु महेश्वरः । ५.४० . इति माङ्गलशास्त्रे तु श्रीश्रीकण्ठो न्यरूपयत् ॥ ४० ५.४१ . इत्येतत्प्रथमोपायरूपं ध्यानं न्यरूपयत् । ५.४१ . श्रीशंभुनाथो मे तुष्टस्तस्मै श्रीसुमतिप्रभुः ॥ ४१ ५.४२ . अनयैव दिशान्यानि ध्यानान्यपि समाश्रयेत् । ५.४२ . अनुत्तरोपायधुरां यान्यायान्ति क्रमं विना ॥ ४२ ५.४३ . अथ प्राणस्य या वृत्तिः प्राणनाद्या निरूपिता । ५.४३ . तदुपायतया ब्रूमोऽनुत्तरप्रविकासनम् ॥ ४३ ५.४४ . निजानन्दे प्रमात्रंशमात्रे हृदि पुरा स्थितः । ५.४४ . शून्यतामात्रविश्रान्तेर्निरानन्दं विभावयेत् ॥ ४४ ५.४५ . प्राणोदये प्रमेये तु परानन्दं विभावयेत् । ५.४५ . तत्रानन्तप्रमेयांशपूरणापाननिर्वृतः ॥ ४५ ५.४६ . परानन्दगतस्तिष्ठेदपानशशिशोभितः । ५.४६ . ततोऽनन्तस्फुरन्मेयसंघट्टैकान्तनिर्वृतः ॥ ४६ ५.४७ . समानभूमिमागत्य ब्रह्मानन्दमयो भवेत् । ५.४७ . ततोऽपि मानमेयौघकलनाग्रासतत्परः ॥ ४७ ५.४८ . उदानवह्नौ विश्रान्तो महानन्दं विभावयत् । ५.४८ . तत्र विश्रान्तिमभ्येत्य शाम्यत्यस्मिन्महार्चिषि ॥ ४८ ५.४९ . निरुपाधिर्महाव्याप्तिर्व्यानाख्योपाधिवर्जिता । ५.४९ . तदा खलु चिदानन्दो यो जडानुपबृंहितः ॥ ४९ ५.५० . नह्यत्र संस्थितिः कापि विभक्ता जडरूपिणः । ५.५० . यत्र कोऽपि व्यवच्छेदो नास्ति यद्विश्वतः स्फुरत् ॥ ५० ५.५१ . यदनाहतसंवित्ति परमामृतबृंहितम् । ५.५१ . यत्रास्ति भावनादीनां न मुख्या कापि संगतिः ॥ ५१ ५.५२ . तदेव जगदानन्दमस्मभ्यं शंभुरूचिवान् । ५.५२ . तत्र विश्रान्तिराधेया हृदयोच्चारयोगतः ॥ ५२ ५.५३ . या तत्र सम्यग्विश्रान्तिः सानुत्तरमयी स्थितिः । ५.५३ . इत्येतद्धृदयाद्येकस्वभावेऽपि स्वधामनि ॥ ५३ ५.५४ . षट्प्राणोच्चारजं रूपमथ व्याप्त्या तदुच्यते । ५.५४ . प्राणदण्डप्रयोगेन पूर्वापरसमीकृतेः ॥ ५४ ५.५५ . चतुष्किकाम्बुजालम्बिलम्बिकासौधमाश्रयेत् । ५.५५ . त्रिशूलभूमिं क्रान्त्वातो नाडित्रितयसङ्गताम् ॥ ५५ ५.५६ . इच्छाज्ञानक्रियाशक्तिसमत्वे प्रविशेत्सुधीः । ५.५६ . एकां विकासिनीं भूयस्त्वसंकोचां विकस्वराम् ॥ ५६ ५.५७ . श्रयेद्भ्रूबिन्दुनादान्तशक्तिसोपानमालिकाम् । ५.५७ . तत्रोर्ध्वकुण्डलीभूमौ स्पन्दनोदरसुन्दरः ॥ ५७ ५.५८ . विसर्गस्तत्र विश्राम्येन्मत्स्योदरदशाजुषि । ५.५८ . रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् ॥ ५८ ५.५९ . विकाससंकोचमयं प्रविश्य हृदि हृष्यति । ५.५९ . तद्वन्मुहुर्लीनसृष्टभावव्रातसुनिर्भराम् ॥ ५९ ५.६० . श्रयेद्विकाससंकोचरूढभैरवयामलाम् । ५.६० . एकीकृतमहामूलशूलवैसर्गिके हृदि ॥ ६० ५.६१ . परस्मिन्नेति विश्रान्तिं सर्वापूरणयोगतः । ५.६१ . अत्र तत्पूर्णवृत्त्यैव विश्वावेशमयं स्थितम् ॥ ६१ ५.६२ . प्रकाशस्यात्मविश्रान्तावहमित्येव दृश्यताम् । ५.६२ . अनुत्तरविमर्शे प्राग्व्यापारादिविवर्जिते ॥ ६२ ५.६३ . चिद्विमर्शपराहंकृत्प्रथमोल्लासिनी स्फुरेत् । ५.६३ . तत उद्योगसक्तेन स द्वादशकलात्मना ॥ ६३ ५.६४ . सूर्येणाभासयेद्भावं पूरयेदथ चर्चयेत् । ५.६४ . अथेन्दुः षोडशकलो विसर्गग्रासमन्थरः ॥ ६४ ५.६५ . संजीवन्यमृतं बोधवह्नौ विसृजति स्फुरन् । ५.६५ . इच्छाज्ञानक्रियाशक्तिसूक्ष्मरन्ध्रस्रुगग्रगम् ॥ ६५ ५.६६ . तदेवम[तद]मृतं दिव्यं संविद्देवीषु तर्पकम् । ५.६६ . विसर्गामृतमेतावद्बोधाख्ये हुतभोजिनि ॥ ६६ ५.६७ . विसृष्टं चेद्भवेत्सर्वं हुतं षोढाध्वमण्डलम् । ५.६७ . यतोऽनुत्तरनाथस्य विसर्गः कुलनायिका । ५.६७ . तत्क्षोभः कादिहान्तं तत्प्रसरस्तत्त्वपद्धतिः ॥ ६७ ५.६८ . अं इति कुलेश्वर्या सहितो हि कुलेशिता । ५.६८ . परो विसर्गविश्लेषस्तन्मयं विश्वमुच्यते ॥ ६८ ५.६९ . वित्प्राणगुणदेहान्तर्बहिर्द्रव्यमयीमिमाम् । ५.६९ . अर्चयेज्जुहुयाद्ध्यायेदित्थं संजीवनीं कलाम् ॥ ६९ ५.७० . आनन्दनाडीयुगलस्पन्दनावहितौ स्थितः । ५.७० . एनां विसर्गनिःष्यन्दसौधभूमिं प्रपद्यते ॥ ७० ५.७१ . शाक्ते क्षोभे कुलावेशे सर्वनाड्यग्रगोचरे । ५.७१ . व्याप्तौ सर्वात्मसंकोचे हृदयं प्रविशेत्सुधीः ॥ ७१ ५.७२ . सोमसूर्यकलाजालपरस्परनिघर्षतः । ५.७२ . अग्नीषोमात्मके धाम्नि विसर्गानन्द उन्मिषेत् ॥ ७२ ५.७३ . अलं रहस्यकथया गुप्तमेतत्स्वभावतः । ५.७३ . योगिनीहृदयं तत्र विश्रान्तः स्यात्कृती बुधः ॥ ७३ ५.७४ . हानादानतिरस्कारवृत्तौ रूढिमुपागतः । ५.७४ . अभेदवृत्तितः पश्येद्विश्वं चितिचमत्कृतेः ॥ ७४ ५.७५ . अर्थक्रियार्थितादैन्यं त्यक्त्वा बाह्यान्तरात्मनि । ५.७५ . खरूपे निर्वृतिं प्राप्य फुल्लां नाददशां श्रयेत् ॥ ७५ ५.७६ . वक्त्रमन्तस्तया सम्यक्संविदः प्रविकासयेत् । ५.७६ . संविदक्षमरुच्चक्रं ज्ञेयाभिन्नं ततो भवेत् ॥ ७६ ५.७७ . तज्ज्ञेयं संविदाख्येन वह्निना प्रविलीयते । ५.७७ . विलीनं तत्त्रिकोणेऽस्मिञ्शक्तिवह्नौ विलीयते ॥ ७७ ५.७८ . तत्र संवेदनोदारबिन्दुसत्तासुनिर्वृतः । ५.७८ . संहारबीजविश्रान्तो योगी परमयो भवेत् ॥ ७८ ५.७९ . अन्तर्बाह्ये द्वये वापि सामान्येतरसुन्दरः । ५.७९ . संवित्स्पन्दस्त्रिशक्त्यात्मा संकोचप्रविकासवान् ॥ ७९ ५.८० . असंकोचविकासोऽपि तदाभासनतस्तथा । ५.८० . अन्तर्लक्ष्यो बहिर्दृष्टिः परमं पदमश्नुते ॥ ८० ५.८१ . ततः स्वातन्त्र्यनिर्मेये विचित्रार्थक्रियाकृति । ५.८१ . विमर्शनं विशेषाख्यः स्पन्द औन्मुख्यसंज्ञितः ॥ ८१ ५.८२ . तत्र विश्रान्तिमागच्छेद्यद्वीर्यं मन्त्रमण्डले । ५.८२ . शान्त्यादिसिद्धयस्तत्तद्रूपतादात्म्यतो यतः ॥ ८२ ५.८३ . दिव्यो यश्चाक्षसंघोऽयं बोधस्वातन्त्र्यसंज्ञकः । ५.८३ . सोऽनिमीलित एवैतत्कुर्यात्स्वात्ममयं जगत् ॥ ८३ ५.८४ . महासाहससंयोगविलीनाखिलवृत्तिकः । ५.८४ . पुञ्जीभूते स्वरश्म्योघे निर्भरीभूय तिष्ठति ॥ ८४ ५.८५ . अकिचिच्चिन्तकस्तत्र स्पष्टदृग्याति संविदम् । ५.८५ . यद्विस्फुलिङ्गाः संसारभस्मदाहैकहेतवः ॥ ८५ ५.८६ . तदुक्तं परमेशेन त्रिशिरोभैरवागमे । ५.८६ . शृणु देवि प्रवक्ष्यामि मन्त्रभूम्यां प्रवेशनम् ॥ ८६ ५.८७ . मध्यनाड्योर्ध्वगमनं तद्धर्मप्राप्तिलक्षणम् । ५.८७ . विसर्गान्तपदातीतं प्रान्तकोटिनिरूपितम् ॥ ८७ ५.८८ . अधःप्रवाहसंरोधादूर्ध्वक्षेपविवर्जनात् । ५.८८ . महाप्रकाशमुदयज्ञानव्यक्तिप्रदायकम् ॥ ८८ ५.८९ . अनुभूय परे धाम्नि मात्रावृत्त्या पुरं विशेत् । ५.८९ . निस्तरङ्गावतीर्णा सा वृत्तिरेका शिवात्मिका ॥ ८९ ५.९० . चतुष्षड्द्विर्द्विगुणितचक्रषट्कसमुज्ज्वला । ५.९० . तत्स्थं [त्स्थो] विचारयेत्खं खं खस्थं खस्थेन संविशेत् ॥ ९० ५.९१ . खं खं त्यक्त्वा खमारुह्य खस्थं खं चोच्चरेदिति । ५.९१ . खमध्यास्याधिकारेण पदस्थाश्चिन्मरीचयः ॥ ९१ ५.९२ . भावयेद्भावमन्तःस्थं भावस्थो भावनिःस्पृहः । ५.९२ . भावाभावगती रुद्ध्वा भावाभावावरोधदृक् ॥ ९२ ५.९३ . आत्माणुकुलमूलानि शक्तिर्भूतिश्चिती रतिः । ५.९३ . शक्तित्रयं द्रष्टृदृश्योपरक्तं तद्विवर्जितम् ॥ ९३ ५.९४ . एतत्खं दशधा प्रोक्तमुच्चारोच्चारलक्षणम् । ५.९४ . धामस्थं धाममध्यस्थं धामोदरपुटीकृतम् ॥ ९४ ५.९५ . धाम्ना तु बोधयेद्धाम धाम धामान्तगं कुरु । ५.९५ . तद्धाम धामगत्या तु भेद्यं धामान्तमान्तरम् ॥ ९५ ५.९६ . भेदोपभेदभेदेन भेदः कार्यस्तु मध्यतः । ५.९६ . इति प्रवेशोपायोऽयमाणवः परिकीर्तितः ॥ ९६ ५.९७ . श्रीमहेश्वरनाथेन यो हृत्स्थेन ममोदितः । ५.९७ . श्रीब्रह्मयामले चोक्तं श्रीमान् रावो दशात्मकः ॥ ९७ ५.९८ . स्थूलः सूक्ष्मः परो हृद्यः कण्ठ्यस्तालव्य एव च । ५.९८ . सर्वतश्च विभुर्योऽसौ विभुत्वपददायकः ॥ ९८ ५.९९ . जितरावो महायोगी संक्रामेत्परदेहगः । ५.९९ . परां च विन्दति व्याप्तिं प्रत्यहं ह्यभ्यसेत तम् ॥ ९९ ५.१०० . तावद्यावदरावे सा रावाल्लीयेत राविणी । ५.१०० . अत्र भावनया देहगतोपायैः परे पथि ॥ १०० ५.१०१ . विविक्षोः पूर्णतास्पर्शात्प्रागानन्दः प्रजायते । ५.१०१ . ततोऽपि विद्युदापातसदृशे देहवर्जिते ॥ १०१ ५.१०२ . धाम्नि क्षणं समावेशादुद्भवः प्रस्फुटं प्लुतिः । ५.१०२ . जलपांसुवदभ्यस्तसंविद्देहैक्यहानितः ॥ १०२ ५.१०३ . स्वबलाक्रमणाद्देहशैथिल्यात्कम्पमाप्नुयात् । ५.१०३ . गलिते देहतादात्म्यनिश्चयेऽन्तर्भुखत्वतः ॥ १०३ ५.१०४ . निद्रायते पुरा यावन्न रूढः संविदात्मनि । ५.१०४ . ततः सत्यपदे रूढो विश्वात्मत्वेन संविदम् ॥ १०४ ५.१०५ . संविदन् घूर्णते घूर्णिर्महाव्याप्तिर्यतः स्मृता । ५.१०५ . आत्मन्यनात्माभिमतौ सत्यामेव ह्यनात्मनि ॥ १०५ ५.१०६ . आत्माभिमानो देहादौ बन्धो मुक्तिस्तु तल्लयः । ५.१०६ . आदावनात्मन्यात्मत्वे लीने लब्धे निजात्मनि ॥ १०६ ५.१०७ . आत्मन्यनात्मतानाशे महाव्याप्तिः प्रवर्तते । ५.१०७ . आनन्द उद्भवः कम्पो निन्द्रा घूर्णिश्च पञ्चकम् ॥ १०७ ५.१०८ . इत्युक्तमत एव श्रीमालिनीविजयोत्तरे । ५.१०८ . प्रदर्शितेऽस्मिन्नानन्दप्रभृतौ पञ्चके यदा ॥ १०८ ५.१०९ . योगी विशेत्तदा तत्तच्चक्रेशत्वं हठाद्व्रजेत् । ५.१०९ . यथा सर्वेशिना बोधेनाक्रान्तापि तनुः क्वचित् ॥ १०९ ५.११० . किंचित्कर्तुं प्रभवति चक्षुषा रूपसंविदम् । ५.११० . तथैव चक्रे कुत्रापि प्रवेशात्कोऽपि संभवेत् ॥ ११० ५.१११ . आनन्दचक्रं वह्न्यश्रि कन्द उद्भव उच्यते । ५.१११ . कम्पो हृत्तालु निद्रा च घूर्णिः स्यादूर्ध्वकुण्डली ॥ १११ ५.११२ . एतच्च स्फुटमेवोक्तं श्रीमन्त्रैशिरसे मते । ५.११२ . एवं प्रदर्शितोच्चारविश्रान्तिहृदयं परम् ॥ ११२ ५.११३ . यत्तदव्यक्तलिङ्गं नृशिवशक्त्यविभागवत् । ५.११३ . अत्र विश्वमिदं लीनमत्रान्तःस्थं च गम्यते ॥ ११३ ५.११४ . इदं तल्लक्षणं पूर्णशक्तिभैरवसंविदः । ५.११४ . देहगाध्वसमुन्मेषे समावेशस्तु यः स्फुटः ॥ ११४ ५.११५ . अहन्ताच्छादितोन्मेषिभावेदंभावयुक्स च । ५.११५ . व्यक्ताव्यक्तमिदं लिङ्गं मन्त्रवीर्यं परापरम् ॥ ११५ ५.११६ . नरशक्तिसमुन्मेषि शिवरूपाद्विभेदितम् । ५.११६ . यन्न्यक्कृतशिवाहन्तासमावेशं विभेदवत् ॥ ११६ ५.११७ . विशेषस्पन्दरूपं तद्व्यक्तं लिङ्गं चिदात्मकम् । ५.११७ . व्यक्तात्सिद्धिप्रसवो व्यक्ताव्यक्ताद्द्वयं विमोक्षश्च । ५.११७ . अव्यक्ताद्बलमाद्यं परस्य नानुत्तरे त्वियं चर्चा ॥ ११७ ५.११८ . आत्माख्यं यद्व्यक्तं नरलिङ्गं तत्र विश्वमर्पयतः । ५.११८ . व्यक्ताव्यक्तं तस्माद्गलिते तस्मिंस्तदव्यक्तम् ॥ ११८ ५.११९ . तेनात्मलिङ्गमेतत्परमे शिवशक्त्यणुस्वभावमये । ५.११९ . अव्यक्ते विश्राम्यति नानुत्तरधामगा त्वियं चर्चा ॥ ११९ ५.१२० . एकस्य स्पन्दनस्यैषा त्रैधं भेदव्यवस्थितिः । ५.१२० . अत्र लिङ्गे सदा तिष्ठेत्पूजाविश्रान्तितत्परः ॥ १२० ५.१२१ . योगिनीहृदयं लिङ्गमिदमानन्दसुन्दरम् । ५.१२१ . बीजयोनिसमापत्त्या सूते कामपि संविदम् ॥ १२१ ५.१२२ . अत्र प्रयासविरहात्सर्वोऽसौ देवतागणः । ५.१२२ . आनन्दपूर्णे धाम्न्यास्ते नित्योदितचिदात्मकः ॥ १२२ ५.१२३ . अत्र भैरवनाथस्य ससंकोचविकासिका । ५.१२३ . भासते दुर्घटा शक्तिरसंकोचविकासिनः ॥ १२३ ५.१२४ . एतल्लिङ्गसमापत्तिविसर्गानन्दधारया । ५.१२४ . सिक्तं तदेव सद्विश्वं शश्वन्नवनवायते ॥ १२४ ५.१२५ . अनुत्तरेऽभ्युपायोऽत्र ताद्रूप्यादेव वर्णितः । ५.१२५ . ज्वलितेष्वपि दीपेषु घर्मांशुः किं न भासते ॥ १२५ ५.१२६ . अर्थेषु तद्भोगविधौ तदुत्थे दुःखे सुखे वा गलिताभिशङ्कम् । ५.१२६ . अनाविशन्तोऽपि निमग्नचित्ता जानन्ति वृत्तिक्षयसौख्यमन्तः ॥ १२६ ५.१२७ . सत्येवात्मनि चित्स्वभावमहसि स्वान्ते तथोपक्तियां तस्मै कुर्वति तत्प्रचारविवशे सत्यक्षवर्गेऽपि च । ५.१२७ . सत्स्वर्थेषु सुखादिषु स्फुटतरं यद्भेदवन्ध्योदयं योगी तिष्ठति पूर्णरश्मिविभवस्तत्तत्त्वमाचीयताम् ॥ १२७ ५.१२८ . इत्युच्चारविधिः प्रोक्तः करणं प्रविविच्यते । ५.१२८ . तच्चेत्थं त्रिशिरःशास्त्रे परमेशेन भाषितम् ॥ १२८ ५.१२९ . ग्राह्यग्राहकचिद्व्याप्तित्यागाक्षेपनिवेशनैः । ५.१२९ . करणं सप्तधा प्राहुरभ्यासं बोधपूर्वकम् ॥ १२९ ५.१३० . तद्व्याप्तिपूर्वमाक्षेपे करणं स्वप्रतिष्ठता । ५.१३० . गुरुवक्त्राच्च बोद्धव्यं करणं यद्यपि स्फुटम् ॥ १३० ५.१३१ . तथाप्यागमरक्षार्थं तदग्रे वर्णयिष्यते । ५.१३१ . उक्तो य एष उच्चारस्तत्र योऽसौ स्फुरन् स्थितः ॥ १३१ ५.१३२ . अव्यक्तानुकृतिप्रायो ध्वनिर्वर्णः स कथ्यते । ५.१३२ . सृष्टिसंहारबीजं च तस्य मुख्यं वपुर्विदुः ॥ १३२ ५.१३३ . तदभ्यासवशाद्याति क्रमाद्योगी चिदात्मताम् । ५.१३३ . तथा ह्यनच्के साच्के वा कादौ सान्ते पुनःपुनः ॥ १३३ ५.१३४ . स्मृते प्रोच्चारिते वापि सा सा संवित्प्रसूयाते । ५.१३४ . बाह्यार्थसमयापेक्षा घटाद्या ध्वनयोऽपि ये ॥ १३४ ५.१३५ . तेऽप्यर्थभावनां कुर्युर्मनोराज्यवदात्मनि । ५.१३५ . तदुक्तं परमेशेन भैरवो व्यापकोऽखिले ॥ १३५ ५.१३६ . इति भैरवशब्दस्य संततोच्चारणाच्छिवः । ५.१३६ . श्रीमत्त्रैशिरसेऽप्युक्तं मन्त्रोद्धारस्य पूर्वतः ॥ १३६ ५.१३७ . स्मृतिश्च स्मरणं पूर्वं सर्वभावेषु वस्तुतः । ५.१३७ . मन्त्रस्वरूपं तद्भाव्यस्वरूपापत्तियोजकम् ॥ १३७ ५.१३८ . स्मृतिः स्वरूपजनिका सर्वभावेषु रञ्जिका । ५.१३८ . अनेकाकाररूपेण सर्वत्रावस्थितेन तु ॥ १३८ ५.१३९ . स्वस्वभावस्य संप्राप्तिः संवित्तिः परमार्थतः । ५.१३९ . व्यक्तिनिष्ठा ततो विद्धि सत्ता सा कीर्तिता परा ॥ १३९ ५.१४० . किं पुनः समयापेक्षां विना ये बीजपिण्डकाः । ५.१४० . संविदं स्पन्दपन्त्येते नेयुः संविदुपायताम् ॥ १४० ५.१४१ . वाच्याभावादुदासीनसंवित्स्पन्दात्स्वधामतः । ५.१४१ . प्राणोल्लासनिरोधाभ्यां बीजपिण्डेषु पूर्णता ॥ १४१ ५.१४२ . सुखसीत्कारसत्सम्यक्साम्यप्रथमसंविदः । ५.१४२ . संवेदनं हि प्रथमं स्पर्शोऽनुत्तरसंविदः ॥ १४२ ५.१४३ . हृत्कण्ठ्योष्ठ्यत्रिधामान्तर्नितरां प्रविकासिनि । ५.१४३ . चतुर्दशः प्रवेशो य एकीकृततदात्मकः ॥ १४३ ५.१४४ . ततो विसर्गोच्चारांशे द्वादशान्तपथावुभौ । ५.१४४ . हृदयेन सहैकध्यं नयते जपतत्परः ॥ १४४ ५.१४५ . कन्दहृत्कण्ठताल्वग्रकौण्डिलीप्रक्रियान्ततः । ५.१४५ . आनन्दमध्यनाड्यन्तः स्पन्दनं बीजमावहेत् ॥ १४५ ५.१४६ . संहारबीजं खं हृत्स्थमोष्ठ्यं फुल्लं स्वमूर्धनि । ५.१४६ . तेजस्त्र्यश्रं तालुकण्ठे बिन्दुरूर्ध्वपदे स्थितः ॥ १४६ ५.१४७ . इत्येनया बुधो युक्त्या वर्णजप्यपरायणः । ५.१४७ . अनुत्तरं परं धाम प्रविशेदचिरात्सुधीः ॥ १४७ ५.१४८ . वर्णशब्देन नीलादि यद्वा दीक्षोत्तरे यथा । ५.१४८ . संहारन्रग्निमरुतो रुद्रबिन्दुयुतान्स्मरेत् ॥ १४८ ५.१४९ . हृदये तन्मयो लक्ष्यं पश्येत्सप्तदिनादथ । ५.१४९ . विस्फुलिङ्गाग्निवन्नीलपीतरक्तादिचित्रितम् ॥ १४९ ५.१५० . जाज्वलीति हृदम्भोजे बीजदीपप्रबोधितम् । ५.१५० . दीपवज्ज्वलितो बिन्दुर्भासते विघनार्कवत् ॥ १५० ५.१५१ . स्वयंभासात्मनानेन तादात्म्यं यात्यनन्यधीः । ५.१५१ . शिवेन हेमतां यद्वत्ताम्रं सूतेन वेधितम् ॥ १५१ ५.१५२ . उपलक्षणमेतच्च सर्वमन्त्रेषु लक्षयेत् । ५.१५२ . यद्यत्संकल्पसंभूतं वर्णजालं हि भौतिकम् ॥ १५२ ५.१५३ . तत्संविदाधिक्यवशादभौतिकमिव स्थितम् । ५.१५३ . अतस्तथाविधे रूपे रूढो रोहति संविदि ॥ १५३ ५.१५४ . अनाच्छादितरूपायामनुपाधौ प्रसन्नधीः । ५.१५४ . नीले पीते सुखे दुःखे संविद्रूपमखण्डितम् ॥ १५४ ५.१५५ . गुरुभिर्भाषितं तस्मादुपायेषु विचित्रता । ५.१५५ . उच्चारकरणध्यानवर्णैरेभिः प्रदर्शितः ॥ १५५ ५.१५६ . अनुत्तरपदप्राप्तावभ्युपायविधिक्रमः । ५.१५६ . अकिंचिच्चिन्तनं वीर्यं भावनायां च सा पुनः ॥ १५६ ५.१५७ . ध्याने तदपि चोच्चारे करणे सोऽपि तद्ध्वनौ । ५.१५७ . स स्थानकल्पने बाह्यमिति क्रममुपाश्रयेत् ॥ १५७ ५.१५८ . लङ्घनेन परो योगी मन्दबुद्धिः क्रमेण तु । ५.१५८ . वीर्यं विना यथा षण्ठस्तस्याप्यस्त्यथ वा बलम् । ५.१५८ . मृतदेह इवेयं स्याद्बाह्यान्तःपरिकल्पना ॥ १५८ ५.१५९ . इत्याणवेऽनुत्तरताभ्युपायः प्रोक्तो नयः स्पष्टपथेन बाह्यः ॥ १५९ च्६ अथ श्रीतन्त्रालोके ६.१ . स्थानप्रकल्पाख्यतया स्फुटस्तु बाह्योऽभ्युपायः प्रविविच्यतेऽथ ॥ १ ६.२ . स्थानभेदस्त्रिधा प्रोक्तः प्राणे देहे बहिस्तथा । ६.२ . प्राणश्च पञ्चधा देहे द्विधा बाह्यान्तरत्वतः ॥ २ ६.३ . मण्डलं स्थण्डिलं पात्रमक्षसूत्रं सपुस्तकम् । ६.३ . लिङ्गं तूरं पटः पुस्तं प्रतिमा मूर्तिरेव च ॥ ३ ६.४ . इत्येकादशधा बाह्यं पुनस्तद्बहुधा भवेत् । ६.४ . तत्र प्राणाश्रयं तावद्विधानमुपदिश्यते ॥ ४ ६.५ . अध्वा समस्त एवायं षड्विधोऽप्यतिविस्तृतः । ६.५ . यो वक्ष्यते स एकत्र प्राणे तावत्प्रतिष्ठितः ॥ ५ ६.६ . अध्वनः कलनं यत्तत्क्रमाक्रमतया स्थितम् । ६.६ . क्रमाक्रमौ हि चित्रैककलना भावगोचरे ॥ ६ ६.७ . क्रमाक्रमात्मा कालश्च परः संविदि वर्तते । ६.७ . काली नाम परा शक्तिः सैव देवस्य गीयते ॥ ७ ६.८ . सैव संविद्बहिः स्वात्मगर्भीभूतौ क्रमाक्रमौ । ६.८ . स्फुटयन्ती प्ररोहण प्राणवृत्तिरिति स्थिता ॥ ८ ६.९ . संविन्मात्रं हि यच्छुद्धं प्रकाशपरमार्थकम् । ६.९ . तन्मेयमात्मनः प्रोज्झ्य विविक्तं भासते नभः ॥ ९ ६.१० . तदेव शून्यरूपत्वं संविदः परिगीयते । ६.१० . नेति नेति विमर्शेन योगिनां सा परा दशा ॥ १० ६.११ . स एव खात्मा मेयेऽस्मिन्भेदिते स्वीक्रियोन्मुखः । ६.११ . पतन्समुच्छलत्त्वेन प्राणस्पन्दोर्मिसंज्ञितः ॥ ११ ६.१२ . तेनाहुः किल संवित्प्राक्प्राणे परिणता तथा । ६.१२ . अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ॥ १२ ६.१३ . इयं सा प्राणनाशक्तिरान्तरोद्योगदोहदा । ६.१३ . स्पन्दः स्फुरत्ता विश्रान्तिर्जीवो हृत्प्रतिभा मता ॥ १३ ६.१४ . सा प्राणवृत्तिः प्राणाद्यै रूपैः पञ्चभिरात्मसात् । ६.१४ . देहं यत्कुरुते संवित्पूर्णस्तेनैष भासते ॥ १४ ६.१५ . प्राणनावृत्तितादात्म्यसंवित्खचितदेहजाम् । ६.१५ . चेष्टां पश्यन्त्यतो मुग्धा नास्त्यन्यदिति मन्वते ॥ १५ ६.१६ . तामेव बालमूर्खस्त्रीप्रायवेदितृसंश्रिताम् । ६.१६ . मतिं प्रमाणीकुर्वन्तश्चार्वाकास्तत्त्वदर्शिनः ॥ १६ ६.१७ . तेषां तथा भावना चद्दार्ढ्यमेति निरन्तरम् । ६.१७ . तद्देहभङ्गे सुप्ताः स्युरातादृग्वासनाक्षयात् ॥ १७ ६.१८ . तद्वासनाक्षये त्वेषामक्षीणं वासनान्तरम् । ६.१८ . बुद्धं कुतश्चित्संसूते विचित्रां फलसम्पदम् ॥ १८ ६.१९ . अदार्ढ्यशङ्कनात्प्राच्यवासनातादवस्थ्यतः । ६.१९ . अन्यकर्तव्यशैथिल्यात्संभाव्यानुशयत्वतः ॥ १९ ६.२० . अतद्रूढान्यजनताकर्तव्यपरिलोपनात् । ६.२० . नास्तिक्यवासनामाहुः पापात्पापीयसीमिमाम् ॥ २० ६.२१ . अलमप्रस्तुतेनाथ प्रकृतं प्रविविच्यते । ६.२१ . यावान्समस्त एवायमध्वा प्राणे प्रतिष्ठितः ॥ २१ ६.२२ . द्विधा च सोऽध्वा क्रियया मूर्त्या च प्रविभज्यते । ६.२२ . प्राण एव शिखा श्रीमत्त्रिशिरस्युदिता हि सा ॥ २२ ६.२३ . बद्धा यागादिकाले तुं निष्कलत्वाच्छिवात्मिका । ६.२३ . यतोऽहोरात्रमध्येऽस्याश्चतुर्विंशतिधा गतिः ॥ २३ ६.२४ . प्राणविक्षेपरन्ध्राख्यशतैश्चित्रफलप्रदा । ६.२४ . क्षपा शशी तथापानो नाद एकत्र तिष्ठति ॥ २४ ६.२५ . जीवादित्यो न चोद्गच्छेत्तुट्यर्धं सान्ध्यमीदृशम् । ६.२५ . ऊर्ध्ववक्त्रो रविश्चन्द्रोऽधोमुखो वह्निरन्तरे ॥ २५ ६.२६ . माध्याह्निकी मोक्षदा स्याद्व्योममध्यस्थितो रविः । ६.२६ . अनस्तमितसारो हि जन्तुचक्रप्रबोधकः ॥ २६ ६.२७ . बिन्दुः प्राणो ह्यहश्चैव रविरेकत्र तिष्ठति । ६.२७ . महासन्ध्या तृतीया तु सुप्रशान्तात्मिका स्थिता ॥ २७ ६.२८ . एवं बद्धा शिखा यत्र तत्तत्फलनियोजिका । ६.२८ . अतः संविदि सर्वोऽयमध्वा विश्रम्य तिष्ठति ॥ २८ ६.२९ . अमूर्तायाः सर्वगत्वान्निष्क्रियायाश्च संविदः । ६.२९ . मूर्तिक्रियाभासनं यत्स एवाध्वा महेशितुः ॥ २९ ६.३० . अध्वा क्रमेण यातव्ये पदे संप्राप्तिकारणम् । ६.३० . द्वैतिनां भोग्यभावात्तु प्रबुद्धानां यतोऽद्यते ॥ ३० ६.३१ . इह सर्वत्र शब्दानामन्वर्थं चर्चयेद्यतः । ६.३१ . उक्तं श्रीमन्निशाचारे संज्ञात्र त्रिविधा मता ॥ ३१ ६.३२ . नैमित्तिकी प्रसिद्धा च तथान्या पारिभाषिकी । ६.३२ . पूर्वत्वे वा प्रधानं स्यात्तत्रान्तर्भावयेत्ततः ॥ ३२ ६.३३ . अतोऽध्वशब्दस्योक्तेयं निरुक्तिर्नोदितापि चेत् । ६.३३ . क्वचित्स्वबुद्ध्या साप्यूह्या कियल्लेख्यं हि पुस्तके ॥ ३३ ६.३४ . तत्र क्रियाभासनं यत्सोऽध्वा कालाह्व उच्यते । ६.३४ . वर्णमन्त्रपदाभिख्यमत्रास्तेऽध्वत्रयं स्फुटम् ॥ ३४ ६.३५ . यस्तु मूर्त्यवभासांशः स देशाध्वा निगद्यते । ६.३५ . कलातत्त्वपुराभिख्यमन्तर्भूतमिह त्रयम् ॥ ३५ ६.३६ . त्रिकद्वयेऽत्र प्रत्येकं स्थूलं सूक्ष्मं परं वपुः । ६.३६ . यतोऽस्ति तेन सर्वोऽयमध्वा षड्विध उच्यते ॥ ३६ ६.३७ . षड्विधादध्वनः प्राच्यं यदेतत्त्रितयं पुनः । ६.३७ . एष एव स कालाध्वा प्राणे स्पष्टं प्रतिष्ठितः ॥ ३७ ६.३८ . तत्तवमध्यस्थितात्कालादन्योऽयं काल उच्यते । ६.३८ . एष कालो हि देवस्य विश्वाभासनकारिणी ॥ ३८ ६.३९ . क्रियाशक्तिः समस्तानां तत्त्वानां च परं वपुः । ६.३९ . एतदीश्वरतत्त्वं तच्छिवस्य वपुरुच्यते ॥ ३९ ६.४० . उद्रिक्ताभोगकार्यात्मविश्वैकात्म्यमिदं यतः । ६.४० . एतदीश्वररूपत्वं परमात्मनि यत्किल ॥ ४० ६.४१ . तत्प्रमातरि मायीये कालतत्त्वं निगद्यते । ६.४१ . शिवादिशुद्धविद्यान्तं यच्छिवस्य स्वकं वपुः ॥ ४१ ६.४२ . तदेव पुंसो मायादिरागान्तं कञ्चुकीभवेत् । ६.४२ . अनाश्रितं यतो माया कलाविद्ये सदाशिवः ॥ ४२ ६.४३ . ईश्वरः कालनियती सद्विद्या राग उच्यते । ६.४३ . अनाश्रितः शून्यमाता बुद्धिमाता सदाशिवः ॥ ४३ ६.४४ . ईश्वरः प्राणमाता च विद्या देहप्रमातृता । ६.४४ . अनाश्रयो हि शून्यत्वं ज्ञानमेव हि बुद्धिता ॥ ४४ ६.४५ . विश्वात्मता च प्राणत्वं देहे वेद्यैकतानता । ६.४५ . तेन प्राणपथे विश्वाकलनेयं विराजते ॥ ४५ ६.४६ . येन रूपेण तद्वच्मः सद्भिस्तदवधीयताम् । ६.४६ . द्वादशान्तावधावस्मिन्देहे यद्यपि सर्वतः ॥ ४६ ६.४७ . ओतप्रोतात्मकः प्राणस्तथापीत्थं न सुस्फुटः । ६.४७ . यत्नो जीवनमात्रात्मा तत्परश्च द्विधा मतः ॥ ४७ ६.४८ . संवेद्यश्चाप्यसंवेद्यो द्विधेत्थं भिद्यते पुनः । ६.४८ . स्फुटास्फुटत्वाद्द्वैविध्यं प्रत्येकं परिभावयेत् ॥ ४८ ६.४९ . संवेद्यजीवनाभिख्यप्रयत्नस्पन्दसुन्दरः । ६.४९ . प्राणः कन्दात्प्रभृत्येव तथाप्यत्र न सुस्फुटः ॥ ४९ ६.५० . कन्दाधारात्प्रभृत्येव व्यवस्था तेन कथ्यते । ६.५० . स्वच्छन्दशास्त्रे नाडीनां वाय्वाधारतया स्फुटम् ॥ ५० ६.५१ . तत्रापि तु प्रयत्नोऽसौ न संवेद्यतया स्थितः । ६.५१ . वेद्ययत्नात्तु हृदयात्प्राणचारो विभज्यते ॥ ५१ ६.५२ . प्रभोः शिवस्य या शक्तिर्वामा ज्येष्ठा च रौद्रिका । ६.५२ . सतदन्यतमावात्मप्राणौ यत्नविधायिनौ ॥ ५२ ६.५३ . प्रभुशक्तिः क्वचिन्मुख्या यथाङ्गमरुदीरणे । ६.५३ . आत्मशक्तिः क्वचित्कन्दसंकोचस्पन्दने यथा ॥ ५३ ६.५४ . प्राणशक्तिः क्वचित्प्राणचारे हार्दे यथा स्फुटम् । ६.५४ . त्रयं द्वयं वा मुख्यं स्याद्योगिनामवधानिनाम् ॥ ५४ ६.५५ . अवधानाददृष्टांशाद्बलवत्त्वादथेरणात् । ६.५५ . विपर्ययोऽपि प्राणात्मशक्तीनां मुख्यतां प्रति ॥ ५५ ६.५६ . वामा संसारिणामीशा प्रभुशक्तिर्विधायिनी । ६.५६ . ज्येष्ठा तु सुप्रबुद्धानां बुभुत्सूनां च रौद्रिका ॥ ५६ ६.५७ . वामा संसारवमना ज्येष्ठा शिवमयी यतः । ६.५७ . द्रावयित्री रुजां रौद्री रोद्ध्री चाखिलकर्मणाम् ॥ ५७ ६.५८ . सृष्ट्यादितत्त्वमज्ञात्वा न मुक्तो नापि मोचयेत् । ६.५८ . उक्तं च श्रीयोगचारे मोक्षः सर्वप्रकाशनात् ॥ ५८ ६.५९ . उत्पत्तिस्थितिसंहारान् ये न जानन्ति योगिनः । ६.५९ . न मुक्तास्ते तदज्ञानबन्धनैकाधिवासिताः ॥ ५९ ६.६० . सृष्ट्यादयश्च ते सर्वे कालाधीना न संशयः । ६.६० . स च प्राणात्मकस्तस्मादुच्चारः कथ्यते स्फुटः ॥ ६० ६.६१ . हृदयात्प्राणचारश्च नासिक्यद्वादशान्ततः । ६.६१ . षट्त्रिंशदङ्गुलो जन्तोः सर्वस्य स्वाङ्गुलक्रमात् ॥ ६१ ६.६२ . क्षोदिष्ठे वा महिष्ठे वा देहे तादृश एव हि । ६.६२ . वीर्यमोजो बलं स्पन्दः प्राणचारः समं ततः ॥ ६२ ६.६३ . षट्त्रिंशदङ्गुले चारे यद्गमागमयुग्मकम् । ६.६३ . नालिकातिथिमासाब्दतत्सङ्घ्रोऽत्र स्फुटं स्थितः ॥ ६३ ६.६४ . तुटिः सपादाङ्गुलयुक्प्राणस्ताः षोडशोच्छ्वसन् । ६.६४ . निःश्वसंश्चात्र चषकः सपञ्चांशेऽङ्गुलेऽङ्गुले ॥ ६४ ६.६५ . श्वासप्रश्वासयोर्नाली प्रोक्ताहोरात्र उच्यते । ६.६५ . नवाङ्गुलाम्बुधितुटौ प्रहरास्तेऽब्धयो दिनम् ॥ ६५ ६.६६ . निर्गमेऽन्तर्निशेनेन्दू तयोः संध्ये तुटेर्दले । ६.६६ . केतुः सूर्ये विधौ राहुर्भौमादेर्वारभागिनः ॥ ६६ ६.६७ . प्रहरद्वयमन्येषां ग्रहाणामुदयोऽन्तरा । ६.६७ . सिद्धिर्दवीयसी मोक्षोऽभिचारः पारलौकिकी ॥ ६७ ६.६८ . ऐहिकी दूरनैकट्यातिशया प्रहराष्टके । ६.६८ . मध्याह्नमध्यनिशयोरभिजिन्मोक्षभोगदा ॥ ६८ ६.६९ . नक्षत्राणां तदन्येषामुदयो मध्यतः क्रमात् । ६.६९ . नागा लोकेशमूर्तीशा गणेशा जलतत्त्वतः ॥ ६९ ६.७० . प्रधानान्तं नायकाश्च विद्यातत्त्वाधिनायकाः । ६.७० . सकलाद्याश्च कण्ठ्योष्ठ्यपर्यन्ता भैरवास्तथा ॥ ७० ६.७१ . शक्तयः पारमेश्वर्यो वामशा वीरनायकाः । ६.७१ . अष्टावष्टौ ये य इत्थं व्याप्यव्यापकताजुषः ॥ ७१ ६.७२ . स्थूलसूक्ष्माः क्रमात्तेषामुदयः प्रहराष्टके । ६.७२ . दिने क्रूराणि सौम्यानि रात्रौ कर्माण्यसंशयम् ॥ ७२ ६.७३ . क्रूरता सौम्यता वाभिसन्धेरपि निरूपिता । ६.७३ . दिनरात्रिक्षये मुक्तिः सा व्याप्तिध्यानयोगतः ॥ ७३ ६.७४ . ते चोक्ताः परमेशेन श्रीमद्वीरावलीकुले । ६.७४ . सितासितौ दीर्घह्रस्वौ धर्माधर्मौ दिनक्षपे ॥ ७४ ६.७५ . क्षीयेते यदि तद्दीक्षा व्याप्त्या ध्यानेन योगतः । ६.७५ . अहोरात्रः प्राणचारे कथितो मास उच्यते ॥ ७५ ६.७६ . दिनं कृष्णो निशा शुक्लः पक्षौ कर्मसु पूर्ववत् । ६.७६ . याः षोडशोक्तास्तिथयस्तासु ये पूर्वपश्चिमे ॥ ७६ ६.७७ . तयोस्तु विश्रमोऽर्धेऽर्धे तिथ्यः पञ्चदशेतराः । ६.७७ . सपादे द्व्यङ्गुले तिथ्या अहोरात्रो विभज्यते ॥ ७७ ६.७८ . प्रकाशविश्रमवशात्तावेव हि दिनक्षपे । ६.७८ . संवित्प्रतिक्षणं यस्मात्प्रकाशानन्दयोगिनी ॥ ७८ ६.७९ . तौ क्लृप्तौ यावति तया तावत्येव दिनक्षपे । ६.७९ . यावत्येव हि संवित्तिरुदितोदितसुस्फुटा ॥ ७९ ६.८० . तावानेव क्षणः कल्पो निमेषो वा तदस्त्वपि । ६.८० . यावानेवोदयो वित्तेर्वेद्यैकग्रहतत्परः ॥ ८० ६.८१ . तावदेवास्तमयनं वेदितृस्वात्मचर्वणम् । ६.८१ . वेद्ये च बहिरन्तर्वा द्वये वाथ द्वयोज्झिते ॥ ८१ ६.८२ . सर्वथा तन्मयीभूतिर्दिनं वेत्तृस्थता निशा । ६.८२ . वेदिता वेद्यविश्रान्तो वेत्ता त्वन्तर्मुखस्थितिः ॥ ८२ ६.८३ . पुरा विचारयन्पश्चात्सत्तामात्रस्वरूपकः । ६.८३ . जाग्रद्वेदितृता स्वप्नो वेत्तृभावः पुरातनः ॥ ८३ ६.८४ . परः सुप्तं क्षये रात्रिदिनयोस्तुर्यमद्वयम् । ६.८४ . कदाचिद्वस्तुविश्रान्तिसाम्येनात्मनि चर्वणम् ॥ ८४ ६.८५ . वेद्यवेदकसाम्यं तत्सा रात्रिदिनतुल्यता । ६.८५ . वेद्ये विश्रान्तिरधिका दिनदैर्घ्याय तत्र तु ॥ ८५ ६.८६ . न्यूना स्यात्स्वात्मविश्रान्तिर्विपरीते विपर्ययः । ६.८६ . स्वात्मौत्सुक्ये प्रबुद्धे हि वेद्यविश्रान्तिरल्पिका ॥ ८६ ६.८७ . इत्थमेव दिवारात्रिन्यूनाधिक्यक्रमं वदेत् । ६.८७ . यथा देहेष्वहोरात्रन्यूनाधिक्यादि नो समम् ॥ ८७ ६.८८ . तथा पुरेष्वपीत्येवं तद्विशेषेण नोदितम् । ६.८८ . श्रीत्रैयम्बकसन्तानवितताम्बरभास्करः ॥ ८८ ६.८९ . दिनरात्रिक्रमं मे श्रीशंभुरित्थमपप्रथत् । ६.८९ . श्रीसन्तानगुरुस्त्वाह स्थानं बुद्धाप्रबुद्धयोः ॥ ८९ ६.९० . हृद आरभ्य यत्तेन रात्रिन्दिवविभाजनम् । ६.९० . तदसत्सितपक्षेऽन्तः प्रवेशोल्लासभागिनि ॥ ९० ६.९१ . अबुद्धस्थानमेवैतद्दिनत्वेन कथं भवेत् । ६.९१ . अलं वानेन नेदं वा मम प्राङ्मतमत्सरः ॥ ९१ ६.९२ . हेये तु दर्शिते शिष्याः सत्पथैकान्तदर्शिनः । ६.९२ . व्याख्यातः कृष्णपक्षो य स्तत्र प्राणगतः शशी ॥ ९२ ६.९३ . आप्यायनात्मनैकैकां कलां प्रतितिथि त्यजेत् । ६.९३ . द्वादशान्तसमीपे तु यासौ पञ्चदशी तुटिः ॥ ९३ ६.९४ . सामावस्यात्र स क्षीणश्चन्द्रः प्राणार्कमाविशेत् । ६.९४ . उक्तं श्रीकामिकायां च नोर्ध्वेऽधः प्रकृतिः परा । ६.९४ . अर्धार्धे क्रमते माया द्विखण्डा शिवरूपिणी ॥ ९४ ६.९५ . चन्द्रसूर्यात्मना देहं पूरयेत्प्रविलापयेत् । ६.९५ . अमृतं चन्द्ररूपेण द्विधा षोडशधा पुनः ॥ ९५ ६.९६ . पिवन्ति च सुराः सर्वे दशपञ्च पराः कलाः । ६.९६ . अमा शेषगुहान्तःस्थामावास्या विश्वतर्पिणी ॥ ९६ ६.९७ . एवं कलाः पञ्चदश क्षीयन्ते शशिनः क्रमात् । ६.९७ . आप्यायिन्यमृताब्रूपतादात्म्यात्षोडशी न तु ॥ ९७ ६.९८ . तत्र पञ्चदशी यासौ तुटिः प्रक्षीणचन्द्रमाः । ६.९८ . तदूर्ध्वगं यत्तुट्यर्धं पक्षसंधिः स कीर्तितः ॥ ९८ ६.९९ . तस्माद्विश्रमतुट्यर्धादामावस्यं पुरादलम् । ६.९९ . परं प्रातिपदं चार्धमिति संधिः स कल्प्यते ॥ ९९ ६.१०० . तत्र प्रातिपदे तस्मिंस्तुट्यर्धार्धे पुरादलम् । ६.१०० . आमावस्यं तिथिच्छेदात्कुर्यात्सूर्यग्रहं विशत् ॥ १०० ६.१०१ . तत्रार्कमण्डले लीनः शशी स्रवति यन्मधु । ६.१०१ . तप्तत्वात्तत्पिबेदिन्दुसहभूः सिंहिकासुतः ॥ १०१ ६.१०२ . अर्कः प्रमाणं सोमस्तु मेयं ज्ञानक्रियात्मकौ । ६.१०२ . राहुर्मायाप्रमाता स्यात्तदाच्छादनकोविदः ॥ १०२ ६.१०३ . तत एव तमोरूपो विलापयितुमक्षमः । ६.१०३ . तत्संघट्टाद्वयोल्लासो मुख्यो माता विलापकः ॥ १०३ ६.१०४ . अर्केन्दुराहुसंघट्टात्प्रमाणं वेद्यवेदकौ । ६.१०४ . अद्वयेन ततस्तेन पुण्य एष महाग्रहः ॥ १०४ ६.१०५ . अमावस्यां विनाप्येष संघट्टश्चेन्महाग्रहः । ६.१०५ . यथार्के मेषगे राहावश्विनीस्थेऽश्विनीदिने ॥ १०५ ६.१०६ . आमावास्यं यदा त्वर्धं लीनं प्रातिपदे दले । ६.१०६ . प्रतिपच्च विशुद्धा स्यात्तन्मोक्षो दूरगे विधौ ॥ १०६ ६.१०७ . ग्रासमोक्षान्तरे स्नानध्यानहोमजपादिकम् । ६.१०७ . लौकिकालौकिकं भूयःफलं स्यात्पारलौकिकम् ॥ १०७ ६.१०८ . ग्रास्यग्रासकताक्षोभप्रक्षये क्षणमाविशन् । ६.१०८ . मोक्षभाग्ध्यानपूजादि कुर्वंश्चन्द्रार्कयोर्ग्रहे ॥ १०८ ६.१०९ . तिथिच्छेद ऋणं कासो वृद्धिर्निःश्वसनं धनम् । ६.१०९ . अयत्नजं यत्नजं तु रेचनादथ रोधनात् ॥ १०९ ६.११० . एवं प्राणे विशति चित्सूर्य इन्दुं सुधामयम् । ६.११० . एकैकध्येन बोधांशु कलया परिपूरयेत् ॥ ११० ६.१११ . क्रमसंपूरणाशालिशशाङ्कामृतसुन्दराः । ६.१११ . तुट्यः पञ्चदशैताः स्युस्तिथयः सितपक्षगाः ॥ १११ ६.११२ . अन्त्यायां पूर्णमस्तुट्यां पूर्ववत्पक्षसन्धिता । ६.११२ . इन्दुग्रहश्च प्रतिपत्सन्धौ पूर्वप्रवेशतः ॥ ११२ ६.११३ . ऐहिकं ग्रहणे चात्र साधकानां महाफलम् । ६.११३ . प्राग्वदन्यदयं मासः प्राणचारेऽब्द उच्यते ॥ ११३ ६.११४ . षट्सु षट्स्वङ्गुलेष्वर्को हृदयान्मकरादिषु । ६.११४ . तिष्ठन्माघाढिकं षट्कं कुर्यात्तच्चोत्तरायणम् ॥ ११४ ६.११५ . संक्रान्तित्रितये वृत्ते भुक्ते चाष्टादशाङ्गुले । ६.११५ . मेषं प्राप्ते रवौ पुण्यं विषुवत्पारलौकिकम् ॥ ११५ ६.११६ . प्रवेशे तु तुलास्थेऽर्के तदेव विषुवद्भवेत् । ६.११६ . इह सिद्धिप्रदं चैतद्दक्षिणायनगं ततः ॥ ११६ ६.११७ . गर्भता प्रोद्बुभूषिष्यद्भावश्चाथोद्बुभूषुता । ६.११७ . उद्भविष्यत्त्वमुद्भूतिप्रारम्भोऽप्युद्भवस्थितिः ॥ ११७ ६.११८ . जन्म सत्ता परिणतिर्वृद्धिर्ह्रासः क्षयः क्रमात् । ६.११८ . मकरादीनि तेनात्र क्रिया सूते सदृक्फलम् ॥ ११८ ६.११९ . आमुत्रिके झषः कुम्भो मन्त्रादेः पूर्वसेवने । ६.११९ . चतुष्कं किल मीनाद्यमन्तिकं चोत्तरोत्तरम् ॥ ११९ ६.१२० . प्रवेशे खलु तत्रैव शान्तिपुष्ट्यादिसुन्दरम् । ६.१२० . कर्म स्यादैहिकं तच्च दूरदूरफलं क्रमात् ॥ १२० ६.१२१ . निर्गमे दिनवृद्धिः स्याद्विपरीते विपर्ययः । ६.१२१ . वर्षेऽस्मिंस्तिथयः पञ्च प्रत्यङ्गुलमिति क्रमः ॥ १२१ ६.१२२ . तत्राप्यहोरात्रविधिरिति सर्वं हि पूर्ववत् । ६.१२२ . प्राणीये वर्ष एतस्मिन्कार्तिकादिषु दक्षतः ॥ १२२ ६.१२३ . पितामहान्तं रुद्राः स्युर्द्वादशाग्रेऽत्र भाविनः । ६.१२३ . प्राणे वर्षोदयः प्रोक्तो द्वादशाब्दोदयोऽधुना ॥ १२३ ६.१२४ . खरसास्तिथ्य एकस्मिन्नेकस्मिन्नङ्गुले क्रमात् । ६.१२४ . द्वादशाब्दोदये ते च चैत्राद्या द्वादशोदिताः ॥ १२४ ६.१२५ . चैत्रे मन्त्रोदितिः सोऽपि तालुन्युक्तोऽधुना पुनः । ६.१२५ . हृदि चैत्रोदितिस्तेन तत्र मन्त्रोदयोऽपि हि ॥ १२५ ६.१२६ . प्रत्यङ्गुलं तिथीनां तु त्रिशते परिकल्पिते । ६.१२६ . सपञ्चांशाङ्गुलेऽब्दः स्यात्प्राणे षष्ट्यब्दता पुनः ॥ १२६ ६.१२७ . शतानि षट्सहस्राणि चैकविंशतिरित्ययम् । ६.१२७ . विभागः प्राणगः षष्टिवर्षाहोरात्र उच्यते ॥ १२७ ६.१२८ . प्रहराहर्निशामासऋत्वब्दरविषष्टिगः । ६.१२८ . यश्छेदस्तत्र यः सन्धिः स पुण्यो ध्यानपूजने ॥ १२८ ६.१२९ . इति प्राणोदये योऽयं कालः शक्त्येकविग्रहः । ६.१२९ . विश्वात्मान्तःस्थितस्तस्य बाह्ये रूपं निरूप्यते ॥ १२९ ६.१३० . षट्प्राणाश्चषकस्तेषां षष्टिर्नाली च तास्तथा । ६.१३० . तिथिस्तत्त्रिंशता मासस्ते द्वादश तु वत्सरः ॥ १३० ६.१३१ . अब्दं पित्र्यस्त्वहोरात्र उदग्दक्षिणतोऽयनात् । ६.१३१ . पितॄणां यत्स्वमानेन वर्षं तद्दिव्यमुच्यते ॥ १३१ ६.१३२ . षष्ट्यधिकं च त्रिशतं वर्षाणामत्र मानुषम् । ६.१३२ . तच्च द्वादशभिर्हत्वा माससंख्यात्र लभ्यते ॥ १३२ ६.१३३ . तां पुनस्त्रिंशता हत्वाहोरात्रकल्पना वदेत् । ६.१३३ . हत्वा तां चैकविंशत्या सहस्रैः षट्शतेन च ॥ १३३ ६.१३४ . प्राणसंख्यां वदेत्तत्र षष्ट्याद्यब्दोदयं पुनः । ६.१३४ . उक्तं च गुरुभिः श्रीमद्रौरवादिस्ववृत्तिषु ॥ १३४ ६.१३५ . देवानां यदहोरात्रं मानुषाणां स हायनः । ६.१३५ . शतत्रयेण षष्ट्या च नॄणां विबुधवत्सरः ॥ १३५ ६.१३६ . श्रीमत्स्वच्छन्दशास्त्रे च तदेव मतमीक्ष्यते । ६.१३६ . पितॄणां तदहोरात्रमित्युपक्रम्य पृष्ठतः ॥ १३६ ६.१३७ . एवं दैवस्त्वहोरात्र इति ह्यैक्योपसंहृतिः । ६.१३७ . तेन ये गुरवः श्रीमत्स्वच्छन्दोक्तिद्वयादितः ॥ १३७ ६.१३८ . पित्र्यं वर्षं दिव्यदिनमूचुर्भ्रान्ता हि ते मुधा । ६.१३८ . दिव्यार्काब्दसहस्राणि युगेषु चतुरादितः ॥ १३८ ६.१३९ . एकैकहान्या तावद्भिः शतैस्तेष्वष्ट संधयः । ६.१३९ . चतुर्युगैकसप्तत्या मन्वन्तस्ते चतुर्दश ॥ १३९ ६.१४० . ब्रह्मणोऽहस्तत्र चेन्द्राः क्रमाद्यान्ति चतुर्दश । ६.१४० . ब्रह्माहोऽन्ते कालवह्नेर्ज्वाला योजनलक्षिणी ॥ १४० ६.१४१ . दग्ध्वा लोकत्रयं धूमात्त्वन्यत्प्रस्वापयेत्त्रयम् । ६.१४१ . निरयेभ्यः पुरा कालवह्नेर्व्यक्तिर्यतस्ततः ॥ १४१ ६.१४२ . विभुरधःस्थितोऽपीश इति श्रीरौरवं मतम् । ६.१४२ . ब्रह्मनिःश्वासनिर्धूते भस्मनि स्वेदवारिणा ॥ १४२ ६.१४३ . तदीयेनाप्लुतं विश्वं तिष्ठेत्तावन्निशागमे । ६.१४३ . तस्मिन्निशावधौ सर्वे पुद्गलाः सूक्ष्मदेहगाः ॥ १४३ ६.१४४ . अग्निवेगेरिता लोके जने स्युर्लयकेवलाः । ६.१४४ . कूष्माण्डहाटकाद्यास्तु क्रीडन्ति महदालये ॥ १४४ ६.१४५ . निशाक्षये पुनः सृष्टिं कुरुते तामसादितः । ६.१४५ . स्वकवर्षशतान्तेऽस्य क्षयस्तद्वैष्णवं दिनम् ॥ १४५ ६.१४६ . रात्रिश्च तावतीत्येवं विष्णुरुद्रशताभिधाः । ६.१४६ . क्रमात्स्वस्वशतान्तेषु नश्यन्त्यत्राण्डलोपतः ॥ १४६ ६.१४७ . अबाद्यव्यक्ततत्त्वान्तेष्वित्थं वर्षशतं क्रमात् । ६.१४७ . दिनरात्रिविभागः स्यात्स्वस्वायुःशतमानतः ॥ १४७ ६.१४८ . ब्रह्मणः प्रलयोल्लाससहस्रैस्तु रसाग्निभिः । ६.१४८ . अव्यक्तस्थेषु रुद्रेषु दिनं रात्रिश्च तावती ॥ १४८ ६.१४९ . तदा श्रीकण्ठ एव स्यात्साक्षात्संहारकृत्प्रभुः । ६.१४९ . सर्वे रुद्रास्तथा मूले मायागर्भाधिकारिणः ॥ १४९ ६.१५० . अव्यक्ताख्ये ह्याविरिञ्चाच्छ्रीकण्ठेन सहासते । ६.१५० . निवृत्ताधःस्थकर्मा हि ब्रह्मा तत्राधरे धियः ॥ १५० ६.१५१ . न भोक्ता ज्ञोऽधिकारे तु वृत्त एव शिवीभवेत् । ६.१५१ . स एषोऽवान्तरलयस्तत्क्षये सृष्टिरुच्यते ॥ १५१ ६.१५२ . सांख्यवेदादिसंसिद्धाञ्छ्रीकण्ठस्तदहर्मुखे । ६.१५२ . सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी ॥ १५२ ६.१५३ . प्रधाने यदहोरात्रं तज्जं वर्षशतं विभोः । ६.१५३ . श्रीकण्ठस्यायुरेतच्च दिनं कञ्चुकवासिनाम् ॥ १५३ ६.१५४ . तत्क्रमान्नियतिः कालो रागो विद्या कलेत्यमी । ६.१५४ . यान्त्यन्योन्यं लयं तेषामायुर्गाहनिकं दिनम् ॥ १५४ ६.१५५ . तद्दिनप्रक्षये विश्वं मायायां प्रविलीयते । ६.१५५ . क्षीणायां निशि तावत्यां गहनेशः सृजेत्पुनः ॥ १५५ ६.१५६ . एवमव्यक्तकालं तु परार्धैर्दशभिर्जहि । ६.१५६ . मायाहस्तावती रात्रिर्भवेत्प्रलय एष सः ॥ १५६ ६.१५७ . मायाकालं परार्धानां गुणयित्वा शतेन तु । ६.१५७ . ऐश्वरो दिवसो नादः प्राणात्मात्र सृजेज्जगत् ॥ १५७ ६.१५८ . तावती चैश्वरी रात्रिर्यत्र प्राणः प्रशाम्यति । ६.१५८ . प्राणगर्भस्थमप्यत्र विश्वं सौषुम्नवर्त्मना ॥ १५८ ६.१५९ . प्राणे ब्रह्मविले शान्ते संविद्याप्यवशिष्यते । ६.१५९ . अंशांशिकातोऽप्येतस्याः सूक्ष्मसूक्ष्मतरो लयः ॥ १५९ ६.१६० . गुणयित्वैश्वरं कालं परार्धानां शतेन तु । ६.१६० . सादाशिवं दिनं रात्रिर्महाप्रलय एव च ॥ १६० ६.१६१ . सदाशिवः स्वकालान्ते बिन्द्वर्धेन्दुनिरोधिकाः । ६.१६१ . आक्रम्य नादे लीयेत गृहीत्वा सचराचरम् ॥ १६१ ६.१६२ . नादो नादान्तवृत्त्या तु भित्त्वा ब्रह्मबिलं हठात् । ६.१६२ . शक्तितत्त्वे लयं याति निजकालपरिक्षये ॥ १६२ ६.१६३ . एतावच्छक्तितत्त्वे तु विज्ञेयं खल्वहर्निशम् । ६.१६३ . शक्तिः स्वकालविलये व्यापिन्यां लीयते पुनः ॥ १६३ ६.१६४ . व्यापिन्या तद्दिवारात्रं लीयते साप्यनाश्रिते । ६.१६४ . परार्धकोट्या हत्वापि शक्तिकालमनाश्रिते ॥ १६४ ६.१६५ . दिनं रात्रिश्च तत्काले परार्धगुणितेऽपि च । ६.१६५ . सोऽपि याति लयं साम्यसंज्ञे सामनसे पदे ॥ १६५ ६.१६६ . स कालः साम्यसंज्ञः स्यान्नित्योऽकल्यः कलात्मकः । ६.१६६ . यत्तत्सामनसं रूपं तत्साम्यं ब्रह्म विश्वगम् ॥ १६६ ६.१६७ . अतः सामनसात्कालान्निमेषोन्मेषमात्रतः । ६.१६७ . तुट्यादिकं परार्धान्तं सूते सैवात्र निष्ठितम् ॥ १६७ ६.१६८ . दशशतसहस्रमयुतं लक्षनियुतकोटि सार्बुदं वृन्दम् । ६.१६८ . खर्वनिखर्वे शंखाब्जजलधिमध्यान्तमथ परार्धं च ॥ १६८ ६.१६९ . इत्येकस्मात्प्रभृति हि दशधा दशधा क्रमेण कलयित्वा । ६.१६९ . एकादिपरार्धान्तेष्वष्टादशसु स्थितिं ब्रूयात् ॥ १६९ ६.१७० . चत्वार एते प्रलया मुख्याः सर्गाश्च तत्कलाः । ६.१७० . भूमूलनैशशक्तिस्थास्तदेवाण्डचतुष्टयम् ॥ १७० ६.१७१ . कालाग्निर्भुवि संहर्ता मायान्ते कालतत्त्वराट् । ६.१७१ . श्रीकण्ठो मूल एकत्र सृष्टिसंहारकारकः ॥ १७१ ६.१७२ . तल्लयो वान्तरस्तस्मादेकः सृष्टिलयेशिता । ६.१७२ . श्रीमानघोरः शक्त्यन्ते संहर्ता सृष्टिकृच्च सः ॥ १७२ ६.१७३ . तत्सृष्टौ सृष्टिसंहारा निःसंख्या जगतां यतः । ६.१७३ . अन्तर्भूतास्ततः शाक्ती महासृष्टिरुदाहृता ॥ १७३ ६.१७४ . लये ब्रह्मा हरी रुद्रशतान्यष्टकपञ्चकम् । ६.१७४ . इत्यन्योन्यं क्रमाद्यान्ति लयं मायान्तकेऽध्वनि ॥ १७४ ६.१७५ . मायातत्त्वलये त्वेते प्रयान्ति परमं पदम् । ६.१७५ . मायोर्ध्वे ये सिताध्वस्थास्तेषां परशिवे लयः ॥ १७५ ६.१७६ . तत्राप्यौपाधिकाद्भेदाल्लये भेदं परे विदुः । ६.१७६ . एवं तात्त्वेश्वरे वर्गे लीने सृष्टौ पुनः परे ॥ १७६ ६.१७७ . तत्साधकाः शिवेष्टा वा तत्स्थानमधिशेरते । ६.१७७ . ब्राह्मी नाम परस्यैव शक्तिस्तां यत्र पातयेत् ॥ १७७ ६.१७८ . स ब्रह्मा विष्णुरुद्राद्या वैष्णव्यादेरतः क्रमात् । ६.१७८ . शक्तिमन्तं विहायान्यं शक्तिः किं याति नेदृशम् ॥ १७८ ६.१७९ . छादितप्रथिताशेष शक्तिरेकः शिवस्तथा । ६.१७९ . एवं विसृष्टिप्रलयाः प्राण एकत्र निष्ठिताः ॥ १७९ ६.१८० . सोऽपि संविदि संविच्च चिन्मात्रे ज्ञेयवर्जिते । ६.१८० . चिन्मात्रमेव देवी च सा परा परमेश्वरी ॥ १८० ६.१८१ . अष्टात्रिंशं च तत्तत्त्वं हृदयं तत्परापरम् । ६.१८१ . तेन संवित्त्वमेवैतत्स्पन्दमानं स्वभावतः ॥ १८१ ६.१८२ . लयोदया इति प्राणे षष्ट्यब्दोदयकीर्तनम् । ६.१८२ . इच्छामात्रप्रतिष्ठेयं क्रियावैचित्र्यचर्चना ॥ १८२ ६.१८३ . कालशक्तिस्ततो बाह्ये नैतस्या नियतं वपुः । ६.१८३ . स्वप्नस्वप्ने तथा स्वप्ने सुप्ते संकल्पगोचरे ॥ १८३ ६.१८४ . समाधौ विश्वसंहारसृष्टिक्रमविवेचने । ६.१८४ . मितोऽपि किल कालांशो विततत्वेन भासते ॥ १८४ ६.१८५ . प्रमात्रभेदे भेदेऽथ चित्रो विततिमाप्यसौ । ६.१८५ . एवं प्राणे यथा कालः क्रियावैचित्र्यशक्तिजः ॥ १८५ ६.१८६ . तथापानेऽपि हृदयान्मूलपीठविसर्पिणि । ६.१८६ . मूलाभिधमहापीठसङ्कोचप्रविकासयोः ॥ १८६ ६.१८७ . ब्रह्माद्यनाश्रितान्तानां चिनुते सृष्टिसंहृती । ६.१८७ . शश्वद्यद्यप्यपानोऽय मित्थं वहति किंत्वसौ ॥ १८७ ६.१८८ . अवेद्ययत्नो यत्नेन योगिभिः समुपास्यते । ६.१८८ . हृत्कन्दानन्दसंकोचविकासद्वादशान्तगाः ॥ १८८ ६.१८९ . ब्रह्मादयोऽनाश्रितान्ताः सेव्यन्तेऽत्र सुयोगिभिः । ६.१८९ . एते च परमेशानशक्तित्वाद्विश्ववर्तिनः ॥ १८९ ६.१९० . देहमप्यश्नुवानास्तत्कारणानीति कामिके । ६.१९० . बाल्ययौवनवृद्धत्वनिधनेषु पुनर्भवे ॥ १९० ६.१९१ . मुक्तौ च देहे ब्रह्माद्याः षडधिष्ठानकारिणः । ६.१९१ . तस्यान्ते तु परा देवी यत्र युक्तो न जायते ॥ १९१ ६.१९२ . अनेन ज्ञातमात्रेण दीक्षानुग्रहकृद्भवेत् । ६.१९२ . समस्तकारणोल्लासपदे सुविदिते यतः ॥ १९२ ६.१९३ . अकारणं शिवं विन्देद्यत्तद्विश्वस्य कारणम् । ६.१९३ . अधोवक्त्रं त्विदं द्वैतकलङ्कैकान्तशातनम् ॥ १९३ ६.१९४ . क्षीयते तदुपासायां येनोर्ध्वाधरडम्बरः । ६.१९४ . अत्रापानोदये प्राग्वत्षष्ट्यब्दोदययोजनाम् ॥ १९४ ६.१९५ . यावत्कुर्वीत तुट्यादेर्युक्ताङ्गुलविभागतः । ६.१९५ . एवं समानेऽपि विधिः स हि हार्दीषु नाडिषु ॥ १९५ ६.१९६ . संचरन्सर्वतोदिक्कं दशधैव विभाव्यते । ६.१९६ . दश मुख्या महानाडीः पूरयन्नेष तद्गताः ॥ १९६ ६.१९७ . नाड्यन्तरश्रिता नाडीः क्रामन्देहे समस्थितिः । ६.१९७ . अष्टासु दिग्दलेष्वेष क्रामंस्तद्दिक्पतेः क्रमात् ॥ १९७ ६.१९८ . चेष्टितान्यनुकुर्वाणो रौद्रः सौम्यश्च भासते । ६.१९८ . स एव नाडीत्रितये वामदक्षिणमध्यगे ॥ १९८ ६.१९९ . इन्द्वर्काग्निमये मुख्ये चरंस्तिष्ठत्यहर्निशम् । ६.१९९ . सार्धनालीद्वयं प्राणशतानि नव यत्स्थितम् ॥ १९९ ६.२०० . तावद्वहन्नहोरात्रं चतुर्विंशतिधा चरेत् । ६.२०० . विषुवद्वासरे प्रातः सांशां नालीं स मध्यगः ॥ २०० ६.२०१ . वामेतरोदक्सव्यान्यैर्यावत्संक्रान्तिपञ्चकम् । ६.२०१ . एवं क्षीणासु पादोनचतुर्दशसु नालिषु ॥ २०१ ६.२०२ . मध्याह्ने दक्षविषुवन्नवप्राणशतीं वहेत् । ६.२०२ . दक्षोदगन्योदग्दक्षैः पुनः संक्रान्तिपञ्चकम् ॥ २०२ ६.२०३ . नवासुशतमेकैकं ततो विषुवदुत्तरम् । ६.२०३ . पञ्चके पञ्चकेऽतीते संक्रान्तेर्विषुवद्बहिः ॥ २०३ ६.२०४ . यद्वत्तथान्तः सङ्क्रान्तिर्नवप्राणशतानि सा । ६.२०४ . एवं रात्रावपीत्येवं विषुवद्दिवसात्समात् ॥ २०४ ६.२०५ . आरभ्याहर्निशावृद्धिह्राससङ्क्रान्तिगोऽप्यसौ । ६.२०५ . रात्र्यन्तदिनपूर्वांशौ मध्याह्नो दिवसक्षयः ॥ २०५ ६.२०६ . स शर्वर्युदयो मध्यमुदक्तो विषुतेदृशी । ६.२०६ . व्याप्तौ विषेर्यतो वृत्तिः साम्यं च व्याप्तिरुच्यते ॥ २०६ ६.२०७ . तदर्हति च यः कालो विषुवत्तदिहोदितः । ६.२०७ . विषुवत्प्रभृति ह्रासवृद्धी ये दिनरात्रिगे ॥ २०७ ६.२०८ . तत्क्रमेणैव संक्रान्तिह्रासवृद्धी दिवानिशोः । ६.२०८ . इत्थं समानमरुतो वर्षद्वयविकल्पनम् ॥ २०८ ६.२०९ . चार एकत्र नह्यत्र श्वासप्रश्वासचर्चनम् । ६.२०९ . समानेऽपि तुटेः पूर्वं यावत्षष्ट्यब्दगोचरम् ॥ २०९ ६.२१० . कालसंख्या सुसूक्ष्मैकचारगा गण्यते बुधैः । ६.२१० . संध्यापूर्वाह्णमध्याह्नमध्यरात्रादि यत्किल ॥ २१० ६.२११ . अन्तःसंक्रान्तिगं ग्राह्यं तन्मुख्यं तत्फलोदितेः । ६.२११ . उक्तः समानगः काल उदाने तु निरूप्यते ॥ २११ ६.२१२ . प्राणव्याप्तौ यदुक्तं तदुदानेऽप्यत्र केवलम् । ६.२१२ . नासाशक्त्यन्तयोः स्थाने ब्रह्मरन्ध्रोर्ध्वधामनी ॥ २१२ ६.२१३ . तेनोदानेऽत्र हृदयान्मूर्धन्यद्वादशान्तगम् । ६.२१३ . तुट्यादिषष्टिवर्षान्तं विश्वं कालं विचारयेत् ॥ २१३ ६.२१४ . व्याने तु विश्वात्ममये व्यापके क्रमवर्जिते । ६.२१४ . सूक्ष्मसूक्ष्मोच्छलद्रूपमात्रः कालो व्यवस्थितः ॥ २१४ ६.२१५ . सृष्टिः प्रविलयः स्थेमा संहारोऽनुग्रहो यतः । ६.२१५ . क्रमात्प्राणादिके काले तं तं तत्राश्रयेत्ततः ॥ २१५ ६.२१६ . प्राणचारेऽत्र यो वर्णपदमन्त्रोदयः स्थितः । ६.२१६ . यत्नजोऽयत्नजः सूक्ष्मः परः स्थूलः स कथ्यते ॥ २१६ ६.२१७ . एको नादात्मको वर्णः सर्ववर्णाविभागवान् । ६.२१७ . सोऽनस्तमितरूपत्वादनाहत इहोदितः ॥ २१७ ६.२१८ . स तु भैरवसद्भावो मातृसद्भाव एष सः । ६.२१८ . परा सैकाक्षरा देवी यत्र लीनं चराचरम् ॥ २१८ ६.२१९ . ह्रस्वार्णत्रयमेकैकं रव्यङ्गुलमथेतरत् । ६.२१९ . प्रवेश इति षड्वर्णाः सूर्येन्दुपथगाः क्रमात् ॥ २१९ ६.२२० . इकारोकारयोरादिसन्धौ संध्यक्षरद्वयम् । ६.२२० . ए+ओ इति प्रवेशे तु ऐ+औ इति द्वयं विदुः ॥ २२० ६.२२१ . षण्ठार्णानि प्रवेशे तु द्वादशान्तललाटयोः । ६.२२१ . गले हृदि च बिन्द्वर्णविसर्गौ परितःस्थितौ ॥ २२१ ६.२२२ . कादिपञ्चकमाद्यस्य वर्णस्यान्तः सदोदितम् । ६.२२२ . एवं सस्थानवर्णानामन्तः सा सार्णसन्ततिः ॥ २२२ ६.२२३ . हृद्येष प्राणरूपस्तु सकारो जीवनात्मकः । ६.२२३ . बिन्दुः प्रकाशो हार्णश्च पूरणात्मतया स्थितः ॥ २२३ ६.२२४ . उक्तः परोऽयमुदयो वर्णानां सूक्ष्म उच्यते । ६.२२४ . प्रवेशे षोडशौन्मुख्ये रवयः षण्ठवर्जिताः ॥ २२४ ६.२२५ . तदेवेन्द्वर्कमत्रान्ये वर्णाः सूक्ष्मोदयस्त्वयम् । ६.२२५ . कालोऽर्धमात्रः कादीनां त्रयस्त्रिंशत उच्यते ॥ २२५ ६.२२६ . मात्रा ह्रस्वाः पञ्च दीर्घाष्टकं द्विस्त्रिः प्लुतं तु लॄ । ६.२२६ . एकाशीतिमिमामर्धमात्राणामाह नो गुरुः ॥ २२६ ६.२२७ . यद्वशाद्भगवानेकाशीतिकं मन्त्रमभ्यधात् । ६.२२७ . एकाशीतिपदा देवी शक्तिः प्रोक्ता शिवात्मिका ॥ २२७ ६.२२८ . श्रीमातङ्गे तथा धर्मसंघातात्मा शिवो यतः । ६.२२८ . तथा तथा परामर्शशक्तिचक्रेश्वरः प्रभुः ॥ २२८ ६.२२९ . स्थूलैकाशीतिपदजपरामर्शैर्विभाव्यते । ६.२२९ . तत एव परामर्शो यावत्येकः समाप्यते ॥ २२९ ६.२३० . तावत्तत्पदमुक्तं नो सुप्तिङ्नियमयान्त्रितम् । ६.२३० . एकाशीतिपदोदारविमर्शक्तमबृंहितः ॥ २३० ६.२३१ . स्थूलोपायः परोपायस्त्वेष मात्राकृतो लयः । ६.२३१ . अर्धमात्रा नव नव स्युश्चतुर्षु चतुर्षु यत् ॥ २३१ ६.२३२ . अङ्गुलेष्विति षट्त्रिंशत्येकाशीतिपदोदयः । ६.२३२ . अङ्गुले नवभागेन विभक्ते नवमाशकाः ॥ २३२ ६.२३३ . वेदा मात्रार्धमन्यत्तु द्विचतुःषङ्गुणं त्रयम् । ६.२३३ . एवमङ्गुलरन्ध्रांशचतुष्कद्वयगं लघु ॥ २३३ ६.२३४ . दीर्घं प्लुतं क्रमाद्द्वित्रिगुणमर्धं ततोऽपि हल् । ६.२३४ . क्षकारस्त्र्यर्धमात्रात्मा मात्रिकः सतथान्तरा ॥ २३४ ६.२३५ . विश्रान्तावर्धमात्रास्य तस्मिंस्तु कलिते सति । ६.२३५ . अङ्गुलार्धेऽद्रिभागेन त्वर्धमात्रा पुरा पुनः ॥ २३५ ६.२३६ . क्षकारः सर्वसंयोगग्रहणात्मा तु सर्वगः । ६.२३६ . सर्ववर्णोदयाद्यन्तसन्धिषूदयभाग्विभुः ॥ २३६ ६.२३७ . इत्थं षट्त्रिंशके चारे वर्णानामुदयः फले । ६.२३७ . क्रूरे सौम्ये विलोमेन हादि यावदपश्चिमम् ॥ २३७ ६.२३८ . हृद्यकारो द्वादशान्ते हकारस्तदिदं विदुः । ६.२३८ . अहमात्मकमद्वैतं यः प्रकाशात्मविश्रमः ॥ २३८ ६.२३९ . शिवशक्त्यविभागेन मात्रैकाशीतिका त्वियम् । ६.२३९ . द्वासप्ततावङ्गुलेषु द्विगुणत्वेन संसरेत् ॥ २३९ ६.२४० . उक्तः सूक्ष्मोदयस्त्रैधं द्विधोक्तस्तु परोदयः । ६.२४० . अथ स्थूलोदयोऽर्णानां भण्यते गुरुणोदितः ॥ २४० ६.२४१ . एकैकमर्धप्रहरं दिने वर्गाष्टकोदयः । ६.२४१ . रात्रौ च ह्रासवृद्ध्यत्र केचिदाहुर्न केऽपि तु ॥ २४१ ६.२४२ . एष वर्गोदयो रात्रौ दिवा चाप्यर्धयामगः । ६.२४२ . प्राणत्रयोदशशती पञ्चाशदधिका च सा ॥ २४२ ६.२४३ . अध्यर्धा किल संक्रान्तिर्वर्गे वर्गे दिवानिशोः । ६.२४३ . तदैक्ये तूदयश्चारशतानां सप्तविंशतिः ॥ २४३ ६.२४४ . नव वर्गांस्तु ये प्राहुस्तेषां प्राणशती स्वीन्[विः] । ६.२४४ . सत्रिभागैव संक्रान्तिर्वर्गे प्रत्येकमुच्यते ॥ २४४ ६.२४५ . अहर्निशं तदैक्ये तु शतानां श्रुतिचक्षुषी । ६.२४५ . स्थूलो वर्गोदयः सोऽयमथार्णोदय उच्यते ॥ २४५ ६.२४६ . एकैकवर्णे प्राणानां द्विशतं षोडशाधिकम् । ६.२४६ . बहिश्चषकषट्त्रिंशद्दिन इत्थं तथानिशि ॥ २४६ ६.२४७ . शतमष्टोत्तरं तत्र रौद्रं शाक्तमथोत्तरम् । ६.२४७ . यामलस्थितियोगे तु रुद्रशक्त्यविभागिता ॥ २४७ ६.२४८ . दिनरात्र्यविभागे तु दृग्वह्न्यब्ध्यसुचारणाः । ६.२४८ . सपञ्चमांशा नाडी च बहिर्वर्णोदयः स्मृतः ॥ २४८ ६.२४९ . इति पञ्चाशिका सेयं वर्णानां परिचर्चिता । ६.२४९ . एकोनां ये तु तामाहुस्तन्मतं संप्रचक्ष्महे ॥ २४९ ६.२५० . वेदाश्चाराः पञ्चमांशन्यूनं चारार्धमेकशः । ६.२५० . वर्णेऽधिकं तद्द्विगुणमविभागे दिवानिशोः ॥ २५० ६.२५१ . स्थूलो वर्णोदयः सोऽयं पुरा सूक्ष्मो निगद्यते ॥ २५१ ६.२५२ . इति कालतत्त्वमुदितं शास्त्रमुखागमनिजानुभवसिद्धम् ॥ २५२ च्७ अथ श्रीतन्त्रालोके ७.१ . अथ परमरहस्योऽयं चक्राणां भण्यतेऽभ्युदयः ॥ १ ७.२ . इत्ययत्नजमाख्यातं यत्नजं तु निगद्यते । ७.२ . बीजपिण्डात्मकं सर्वं संविदः स्पन्दनात्मताम् ॥ २ ७.३ . विदधत्परसंवित्तावुपाय इति वर्णितम् । ७.३ . यथारघट्टचक्राग्रघटीयन्त्रौघवाहनम् ॥ ३ ७.४ . एकानुसंधियत्नेन चित्रं यन्त्रोदयं भजेत् । ७.४ . एकानुसंधानबलाज्जाते मन्त्रोदयेऽनिशम् ॥ ४ ७.५ . तन्मन्त्रदेवता यत्नात्तादात्म्येन प्रसीदति । ७.५ . खे रसैकाक्षि नित्योत्थे तदर्धं द्विकपिण्डके ॥ ५ ७.६ . त्रिके सप्त सहस्राणि द्विशतीत्युदयो मतः । ७.६ . चतुष्के तु सहस्राणि पञ्च चैव चतुःशती ॥ ६ ७.७ . पञ्चार्णेऽब्धिसहस्राणि त्रिशती विंशतिस्तथा । ७.७ . षट्के सहस्रत्रितयं षट्शती चोदयो भवेत् ॥ ७ ७.८ . सप्तके त्रिसहस्रं तु षडशीत्यधिकं स्मृतम् । ७.८ . शतैस्तु सप्तविंशत्या वर्णाष्टकविकल्पिते ॥ ८ ७.९ . चतुर्विंशतिशत्या तु नवार्णेषूदयो भवेत् । ७.९ . अधिषष्ट्येकविंशत्या शतानां दशवर्णके ॥ ९ ७.१० . एकान्नविंशतिशतं चतुःषष्टिः शिवार्णके । ७.१० . अष्टादश शतानि स्युरुदयो द्वादशार्णके ॥ १० ७.११ . त्रयोदशार्णे द्वाषष्ट्या शतानि किल षोडश । ७.११ . त्रिचत्वारिंशता पञ्चदशेति भुवनार्णके ॥ ११ ७.१२ . चतुर्दशशती खाब्धिः स्यात्पञ्चदशवर्णके । ७.१२ . त्रयोदशशती सार्धा षोडशार्णे तु कथ्यते ॥ १२ ७.१३ . शतद्वादशिका सप्तदशार्णे सैकसप्ततिः । ७.१३ . अष्टादशार्णे विज्ञेया शतद्वादशिका बुधैः ॥ १३ ७.१४ . चतुर्विंशतिसंख्याके चक्रे नवशती भवेत् । ७.१४ . सप्तविंशतिसंख्याते तूदयोऽष्टशतात्मकः ॥ १४ ७.१५ . द्वात्रिंशके महाचक्रे षट्शती पञ्चसप्ततिः । ७.१५ . द्विचतुर्विंशके चक्रे सार्धां शतचतुष्टयीम् ॥ १५ ७.१६ . उदयं पिण्डयोगज्ञः पिण्डमन्त्रेषु लक्षयेत् । ७.१६ . चतुष्पञ्चाशके चक्रे शतानां तु चतुष्टयम् ॥ १६ ७.१७ . सप्तत्रिंशत्सहार्धेन त्रिशत्यष्टाष्टके भवेत् । ७.१७ . अर्धमर्धत्रिभागश्च षट्षष्टिर्द्विशती भवेत् ॥ १७ ७.१८ . एकाशीतिपदे चक्रे उदयः प्राणचारगः । ७.१८ . चक्रे तु षण्णवत्याख्ये सपादा द्विशती भवेत् ॥ १८ ७.१९ . अष्टोत्तरशते चक्रे द्विशतस्तूदयो भवेत् । ७.१९ . क्रमेणेत्थमिदं चक्रं षट्कृत्वो द्विगुणं यदा ॥ १९ ७.२० . ततोऽपि द्विगुणेऽष्टांशस्यार्धमध्यर्धमेककम् । ७.२० . ततोऽपि सूक्ष्मकुशलैरर्धार्धादिप्रकल्पने ॥ २० ७.२१ . भागषोडशकस्थित्या सूक्ष्मश्चारोऽभिलक्ष्यते । ७.२१ . एवं प्रयत्नसंरुद्धप्राणचारस्य योगिनः ॥ २१ ७.२२ . क्रमेण प्राणचारस्य ग्रास एवोपजायते । ७.२२ . प्राणग्रासक्रमावाप्तकालसंकर्षणस्थितिः ॥ २२ ७.२३ . संविदेकैव पूर्णा स्याज्ज्ञानभेदव्यपोहनात् । ७.२३ . तथा हि प्राणचारस्य नवस्यानुदये सति ॥ २३ ७.२४ . न कालभेदजनितो ज्ञानभेदः प्रकल्पते । ७.२४ . संवेद्यभेदान्न ज्ञानं भिन्नं शिखरिवृत्तवत् ॥ २४ ७.२५ . कालस्तु भेदकस्तस्य स तु सूक्ष्मः क्षणो मतः । ७.२५ . सौक्ष्म्यस्य चावधिर्ज्ञानं यावत्तिष्ठति स क्षणः ॥ २५ ७.२६ . अन्यथा न स निर्वक्तुं निपुणैरपि पार्यते । ७.२६ . ज्ञानं कियद्भवेत्तावत्तदभावो न भासते ॥ २६ ७.२७ . तदभावश्च नो तावद्यावत्तत्राक्षवर्त्मनि । ७.२७ . अर्थे वात्मप्रदेशे वा न संयोगविभागिता ॥ २७ ७.२८ . सा चेदुदयते स्पन्दमयी तत्प्राणगा ध्रुवम् । ७.२८ . भवेदेव ततः प्राणस्पन्दाभावे न सा भवेत् ॥ २८ ७.२९ . तदभावान्न विज्ञानाभावः सैवं तु सैव धीः । ७.२९ . न चासौ वस्तुतो दीर्घा कालभेदव्यपोहनात् ॥ २९ ७.३० . वस्तुतो ह्यत एवेयं कालं संविन्न संस्पृशेत् । ७.३० . अत एकैव संवित्तिर्नानारूपे तथातथा ॥ ३० ७.३१ . विन्दाना निर्विकल्पापि विकल्पो भावगोचरे । ७.३१ . स्पन्दान्तरं न यावत्तदुदितं तावदेव सः ॥ ३१ ७.३२ . तावानेको विकल्पः स्याद्विविधं वस्तु कल्पयन् । ७.३२ . ये त्वित्थं न विदुस्तेषां विकल्पो नोपपद्यते ॥ ३२ ७.३३ . स ह्येको न भवेत्कश्चित्त्रिजगत्यापि जातुचित् । ७.३३ . शब्दारूषणया ज्ञानं विकल्पः किल कथ्यते ॥ ३३ ७.३४ . सा च स्यात्क्रमिकैवेत्थं किं कथं को विकल्पयेत् । ७.३४ . घट इत्यपि नेयान्स्याद्विकल्पः का कथा स्थितौ ॥ ३४ ७.३५ . न विकल्पश्च कोऽप्यस्ति यो मात्रामात्रनिष्ठितः । ७.३५ . न च ज्ञानसमूहोऽस्ति तेषामयुगपत्स्थितेः ॥ ३५ ७.३६ . तेनास्तङ्गत एवैष व्यवहारो विकल्पजः । ७.३६ . तस्मात्स्पन्दान्तरं यावन्नोदियात्तावदेककम् ॥ ३६ ७.३७ . विज्ञानं तद्विकल्पात्मधर्मकोटीरपि स्पृशेत् । ७.३७ . एकाशीतिपदोदारशक्त्यामर्शात्मकस्ततः ॥ ३७ ७.३८ . विकल्पः शिवतादायी पूर्वमेव निरूपितः । ७.३८ . यथा कर्णौ नर्तयामीत्येवं यत्नात्तथा भवेत् ॥ ३८ ७.३९ . चक्रचारगताद्यत्नात्तद्वत्तच्चक्रगैव धीः । ७.३९ . जपहोमार्चनादीनां प्राणसाम्यमतो विधिः ॥ ३९ ७.४० . सिद्धामते कुण्डलिनीशक्तिः प्राणसमोन्मना । ७.४० . उक्तं च योगिनीकौले तदेतत्परमेशिना ॥ ४० ७.४१ . पदमन्त्राक्षरे चक्रे विभागं शक्तितत्त्वगम् । ७.४१ . पदेषु कृत्वा मन्त्रज्ञो जपादौ फलभाग्भवेत् ॥ ४१ ७.४२ . द्वित्रिसप्ताष्टसंख्यातं लोपयेच्छतिकोदयम् । ७.४२ . इति शक्तिस्थिता मन्त्रा विद्या वा चक्रनायकाः ॥ ४२ ७.४३ . पदपिण्डस्वरूपेण ज्ञात्वा योज्याः सदा प्रिये । ७.४३ . नित्योदये महातत्त्वे उदयस्थे सदाशिवे ॥ ४३ ७.४४ . अयुक्ताः शक्तिमार्गे तु न जप्ताश्चोदयेन ये । ७.४४ . ते न सिद्ध्यन्ति यत्नेन जप्ताः कोटिशतैरपि ॥ ४४ ७.४५ . मालामन्त्रेषु सर्वेषु मानसो जप उच्यते । ७.४५ . उपांशुर्वा शक्त्युदयं तेषां न परिकल्पयेत् ॥ ४५ ७.४६ . पदमन्त्रेषु सर्वेषु यावत्तत्पदशक्तिगम् । ७.४६ . शक्यते सततं युक्तैस्तावज्जप्यं तु साधकैः ॥ ४६ ७.४७ . तावती तेषु वै संख्या पदेषु पदसंज्ञिता । ७.४७ . तावन्तमुदयं कृत्वा त्रिपदोक्त्यादितः क्रमात् ॥ ४७ ७.४८ . द्वादशाख्ये द्वादशिते चक्रे सार्धं शतं भवेत् । ७.४८ . उदयस्तद्धि सचतुश्चत्वारिंशच्छतं भवेत् ॥ ४८ ७.४९ . षोडशाख्ये द्वादशिते द्वानवत्यधिके शते । ७.४९ . चारार्धेन समं प्रोक्तं शतं द्वादशकाधिकम् ॥ ४९ ७.५० . षोडशाख्ये षोडशिते भवेच्चतुरशीतिगः । ७.५० . उदयो द्विशतं तद्धि षट्पञ्चाशत्समुत्तरम् ॥ ५० ७.५१ . चाराष्टभागांस्त्रीनत्र कथयन्त्यधिकान्बुधाः । ७.५१ . अष्टाष्टके द्वादशिते पादार्धं विंशतिं वसून् ॥ ५१ ७.५२ . उदयः सप्तशतिका साष्टा षष्टिर्यतो हि सः । ७.५२ . एष चक्रोदयः प्रोक्तः साधकानां हितावहः ॥ ५२ ७.५३ . निरुद्ध्य मानसीर्वृत्तीश्चक्रे विश्रान्तिमागतः । ७.५३ . व्युत्थाय यावद्विश्राम्येत्तावच्चारोदयो ह्ययम् ॥ ५३ ७.५४ . पूर्णे समुदये त्वत्र प्रवेशैकात्म्यनिर्गमाः । ७.५४ . त्रय इत्यत एवोक्तः सिद्धौ मध्योदयो वरः ॥ ५४ ७.५५ . आद्यन्तोदयनिर्मुक्ता मध्यमोदयसंयुताः । ७.५५ . मन्त्रविद्याचक्रगणाः सिद्धिभाजो भवन्ति हि ॥ ५५ ७.५६ . मन्त्रचक्रोदयज्ञस्तु विद्याचक्रोदयार्थवित् । ७.५६ . क्षिप्रं सिद्ध्येदिति प्रोक्तं श्रीमद्द्विंशतिके त्रिके ॥ ५६ ७.५७ . द्विस्त्रिश्चतुर्वा मात्राभिर्विद्यां वा चक्रमेव वा । ७.५७ . तत्त्वोदययुतं नित्यं पृथग्भूतं जपेत्सदा ॥ ५७ ७.५८ . पिण्डाक्षरपदैर्मन्त्रमेकैकं शक्तितत्त्वगम् । ७.५८ . बह्वक्षरस्तु यो मन्त्रो विद्या वा चक्रमेव वा ॥ ५८ ७.५९ . शक्तिस्थं नैव तं तत्र विभागस्त्वोंनमोन्तगः । ७.५९ . अस्मिंस्तत्त्वोदये तस्मादहोरात्रस्त्रिशस्त्रिशः ॥ ५९ ७.६० . विभज्यते विभागश्च पुनरेव त्रिशस्त्रिशः । ७.६० . पूर्वोदये तु विश्रम्य द्वितीयेनोल्लसेद्यदा ॥ ६० ७.६१ . विशेच्चार्धर्धिकायोगात्तदोक्तार्धोदयो भवेत् । ७.६१ . यदा पूर्णोदयात्मा तु समः कालस्त्रिके स्फुरेत् ॥ ६१ ७.६२ . प्रवेशविश्रान्त्युल्लासे स्यात्स्वत्र्यंशोदयस्तदा । ७.६२ . एत्येष कालविभवः प्राण एव प्रतिष्ठितः ॥ ६२ ७.६३ . स स्पदे खे स तच्चित्यां तेनास्यां विश्वनिष्ठिअतिः । ७.६३ . अतः संवित्प्रतिष्ठानौ यतो विश्वलयोदयौ ॥ ६३ ७.६४ . शक्त्यन्तेऽध्वनि तत्स्पन्दासंख्याता वास्तवी ततः । ७.६४ . उक्तं श्रीमालिनीतन्त्रे गात्रे यत्रैव कुत्रचित् ॥ ६४ ७.६५ . विकार उपजायेत तत्तत्त्वं तत्त्वमुत्तमम् । ७.६५ . प्राणे प्रतिष्ठितः कालस्तदाविष्टा च यत्तनुः ॥ ६५ ७.६६ . देहे प्रतिष्ठितस्यास्य ततो रूपं निरूप्यते । ७.६६ . चित्स्पन्दप्राणवृत्तीनामन्त्या या स्थूलता सुषिः ॥ ६६ ७.६७ . सा नाडीरूपतामेत्य देहं संतानयेदिमम् । ७.६७ . श्रीस्वच्छन्देऽत एवोक्तं यथा पर्णं स्वतन्तुभिः ॥ ६७ ७.६८ . व्याप्तं तद्वत्तनुर्द्वारद्वारिभावेन नाडिभिः । ७.६८ . पादाङ्गुष्ठादिकोर्ध्वस्थब्रह्मकुण्डलिकान्तगः ॥ ६८ ७.६९ . कालः समस्तश्चतुरशीतावेवाङ्गुलेष्वितः । ७.६९ . द्वादशान्तावधिं किंचित्सूक्ष्मकालस्थितिं विदुः ॥ ६९ ७.७० . षण्णवत्यामधः षड्द्विक्रमाच्चाष्टोत्तरं शतम् । ७.७० . अत्र मध्यमसंचारिप्राणोदयलयान्तरे ॥ ७० ७.७१ . विश्वे सृष्टिलयास्ते तु चित्रा वाय्वन्तरक्रमात् । ७.७१ . इत्येष सूक्ष्मपरिमर्शनशीलनीयश्चक्रोदयोऽनुभवशास्त्रदृशा मयोक्तः ॥ ७१ च्८ अथ शीतन्त्रालोके अष्टममाह्निकं ८.१ . देशाध्वनोऽप्यथ समासविकासयोगात्संगीयते विधिरयं शिवशास्त्रदृष्टः ॥ १ ८.२ . विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः । ८.२ . मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते ॥ २ ८.३ . अध्वा समस्त एवायं चिन्मात्रे संप्रतिष्ठितः । ८.३ . यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ॥ ३ ८.४ . संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च । ८.४ . नाडीचक्रानुचक्रेषु बर्हिर्देहेऽध्वसंस्थितिः ॥ ४ ८.५ . तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम् । ८.५ . अनुसंदधदेव द्राग्योगी भैरवतां व्रजेत् ॥ ५ ८.६ . दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते । ८.६ . तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने ॥ ६ ८.७ . ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत् । ८.७ . तान् देहप्राणधीचक्रे पूर्ववद्गालयेत्क्रमात् ॥ ७ ८.८ . तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका । ८.८ . उपास्यमाना संसारसागरप्रलयानलः ॥ ८ ८.९ . श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत् । ८.९ . ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम् ॥ ९ ८.१० . रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे । ८.१० . अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः ॥ १० ८.११ . एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत । ८.११ . न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने ॥ ११ ८.१२ . त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः । ८.१२ . षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना ॥ १२ ८.१३ . अव्याहतविभागोऽस्मिभावो मूलं तु बोधगम् । ८.१३ . समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः ॥ १३ ८.१४ . बोधमध्यं भवेत्किंचिदाधाराधेयलक्षणम् । ८.१४ . तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम् ॥ १४ ८.१५ . बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम् । ८.१५ . संविदेकात्मतानीतभूतभावपुरादिकः ॥ १५ ८.१६ . अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः । ८.१६ . श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम् ॥ १६ ८.१७ . अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत् । ८.१७ . यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः ॥ १७ ८.१८ . पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी । ८.१८ . तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा ॥ १८ ८.१९ . स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः । ८.१९ . ततः प्रमातृसंकल्पनियमात्पार्थिवं विदुः ॥ १९ ८.२० . तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम् । ८.२० . तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः ॥ २० ८.२१ . नेता कटाहरुद्राणामनन्तः कामसेविनाम् । ८.२१ . पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः ॥ २१ ८.२२ . स देवं भैरवं ध्यायन्नागैश्च परिवारितः । ८.२२ . कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम् ॥ २२ ८.२३ . लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते । ८.२३ . स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम् ॥ २३ ८.२४ . नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः । ८.२४ . दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः ॥ २४ ८.२५ . तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः । ८.२५ . श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः ॥ २५ ८.२६ . अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात् । ८.२६ . एकादशैकादश च दशेत्यन्तः शराग्नि तत् ॥ २६ ८.२७ . प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम् । ८.२७ . लक्षमत्र खवेदास्यसंख्यानामन्तरा स्थितिः ॥ २७ ८.२८ . कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता । ८.२८ . शास्त्रविरुद्धाचरणात्कृष्णं ये कर्म विदधते ॥ २८ ८.२९ . तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम् । ८.२९ . ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम् ॥ २९ ८.३० . यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि । ८.३० . सहस्रनवकोत्सेधमेकान्तरमथ क्रमात् ॥ ३० ८.३१ . पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः । ८.३१ . प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः ॥ ३१ ८.३२ . सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने । ८.३२ . व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः ॥ ३२ ८.३३ . दीक्षिता अपि ये लुप्तसमया नच कुर्वते । ८.३३ . प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः ॥ ३३ ८.३४ . देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः । ८.३४ . अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः ॥ ३४ ८.३५ . ते हाटकविभोरग्रे किङ्करा विविधात्मकाः । ८.३५ . ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते ॥ ३५ ८.३६ . तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे । ८.३६ . अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः ॥ ३६ ८.३७ . ते कालवह्निसंतापदीनाक्रन्दपरायणाः । ८.३७ . गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः ॥ ३७ ८.३८ . पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम् । ८.३८ . अधमाधमदेहेषु निजकर्मानुरूपतः ॥ ३८ ८.३९ . मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात् । ८.३९ . मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः ॥ ३९ ८.४० . इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना । ८.४० . प्रोक्तं भगवता श्रीमदानन्दाधिकशासने ॥ ४० ८.४१ . पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः । ८.४१ . सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम् ॥ ४१ ८.४२ . भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः । ८.४२ . ततस्तमस्तप्तभूमिस्ततःशून्यं ततोऽहयः ॥ ४२ ८.४३ . एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम् । ८.४३ . ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश ॥ ४३ ८.४४ . मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः । ८.४४ . सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः ॥ ४४ ८.४५ . मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः । ८.४५ . भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका ॥ ४५ ८.४६ . सर्वे देवा निलीना हि तत्र तत्पूजितं सदा । ८.४६ . मध्ये मेरुसभा धातुस्तदीशदिशि केतनम् ॥ ४६ ८.४७ . ज्योतिष्कशिखरं शंभोः श्रीकण्ठांशश्च स प्रभुः । ८.४७ . अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश ॥ ४७ ८.४८ . चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः । ८.४८ . अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम् ॥ ४८ ८.४९ . अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः । ८.४९ . तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु ॥ ४९ ८.५० . विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये । ८.५० . याम्यां संयमनी तां तु पश्चिमेन क्रमात्स्थिताः ॥ ५० ८.५१ . मातृनन्दा स्वसंख्याता रुद्रास्तत्साधकास्तथा । ८.५१ . कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः ॥ ५१ ८.५२ . रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम् । ८.५२ . वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम् ॥ ५२ ८.५३ . उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात् । ८.५३ . वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः ॥ ५३ ८.५४ . वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा । ८.५४ . महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः ॥ ५४ ८.५५ . कुबेरः कर्मदेवाश्च तथा तत्साधका अपि । ८.५५ . यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः ॥ ५५ ८.५६ . दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात् । ८.५६ . मैरवे चक्रवाटेऽस्मिन्नेवं मुख्याः पुरोऽष्टधा ॥ ५६ ८.५७ . अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः । ८.५७ . इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः ॥ ५७ ८.५८ . ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम् । ८.५८ . मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः ॥ ५८ ८.५९ . मन्दरो गन्धमादश्च विपुलोऽथ सुपार्श्वकः । ८.५९ . सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः ॥ ५९ ८.६० . एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः । ८.६० . चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः ॥ ६० ८.६१ . रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम् । ८.६१ . वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः ॥ ६१ ८.६२ . एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम् । ८.६२ . मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः ॥ ६२ ८.६३ . लक्षमात्रः स नवधा जातो मर्यादपर्वतैः । ८.६३ . निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः ॥ ६३ ८.६४ . लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात् । ८.६४ . नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः ॥ ६४ ८.६५ . मेरोः षडेते मर्यादाचलाः पूर्वापरायताः । ८.६५ . पूर्वतो माल्यवान्पश्चाद्गन्धमादनसंज्ञितः ॥ ६५ ८.६६ . सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ । ८.६६ . अष्टावेते ततोऽप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात् ॥ ६६ ८.६७ . जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः । ८.६७ . एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते ॥ ६७ ८.६८ . समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम् । ८.६८ . सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम् ॥ ६८ ८.६९ . मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे । ८.६९ . केतुमालं कुलाद्रीणां सप्तकेन विभूषितम् ॥ ६९ ८.७० . मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः । ८.७० . सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम् ॥ ७० ८.७१ . पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे । ८.७१ . द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते ॥ ७१ ८.७२ . मेरोरुदक्शृङ्गवान्यस्तद्बहिः कुरुवर्षकम् । ८.७२ . चापवन्नवसाहस्रमायुस्तत्र त्रयोदश ॥ ७२ ८.७३ . कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः । ८.७३ . दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः ॥ ७३ ८.७४ . यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम् । ८.७४ . तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश ॥ ७४ ८.७५ . तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे । ८.७५ . सहस्रनवविस्तीर्णमायुर्द्वादश तानि च ॥ ७५ ८.७६ . मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे । ८.७६ . हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ ७६ ८.७७ . तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे । ८.७७ . कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम् ॥ ७७ ८.७८ . तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे । ८.७८ . भारतं नवसाहस्रं चापवत्कर्मभोगभूः ॥ ७८ ८.७९ . इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम् । ८.७९ . हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः ॥ ७९ ८.८० . अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम् । ८.८० . पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः ॥ ८० ८.८१ . संभवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि । ८.८१ . दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम् ॥ ८१ ८.८२ . स्थानान्तरेऽपि कर्मास्ति दृष्टं तच्च पुरातने । ८.८२ . तत्र त्रेता सदा कालो भारते तु चतुर्युगम् ॥ ८२ ८.८३ . भारते नवखण्डं च सामुद्रेणाम्भसात्र च । ८.८३ . स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते ॥ ८३ ८.८४ . इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान् । ८.८४ . सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः ॥ ८४ ८.८५ . कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः । ८.८५ . उपद्वीपाः षट्कुलाद्रिसप्तकेन विभूषिते ॥ ८५ ८.८६ . अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोऽगस्त्य । ८.८६ . तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः ॥ ८६ ८.८७ . द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः । ८.८७ . मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने ॥ ८७ ८.८८ . भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः । ८.८८ . शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः ॥ ८८ ८.८९ . महाकालादिका रुद्रकोटिरत्रैव भारते । ८.८९ . गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम् ॥ ८९ ८.९० . अन्यवर्षेषु पशुवद्भोगात्कर्मातिवाहनम् । ८.९० . प्राप्यं मनोरथातीतमपि भारतजन्मनाम् ॥ ९० ८.९१ . नानावर्णाश्रमाचारसुखदुःखविचित्रता । ८.९१ . कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा ॥ ९१ ८.९२ . पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः । ८.९२ . परापरौ स्वर्निरयाविति रौरववार्तिके ॥ ९२ ८.९३ . एवं मेरोरधो जम्बूरभितो यः स विस्तरात् । ८.९३ . स्यात्सप्तदशधा खण्डैर्नवभिस्तु समासतः ॥ ९३ ८.९४ . मनोः स्वायंभुवस्यासन् सुता दश ततस्त्रयः । ८.९४ . प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः ॥ ९४ ८.९५ . तस्याभवन्नव सुतास्ततोऽयं नवखण्डकः । ८.९५ . नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः ॥ ९५ ८.९६ . तस्याष्टौ तनयाः साकं कन्यया नवमोंऽशकः । ८.९६ . भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात् ॥ ९६ ८.९७ . लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरोऽद्रयः । ८.९७ . ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक् ॥ ९७ ८.९८ . वराहनन्दनाशोकाः पश्चात्सहबलाहकौ । ८.९८ . दक्षिण चक्रमैनाकौ वाडवोऽन्तस्तयोः स्थितः ॥ ९८ ८.९९ . अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद्गिरिः । ८.९९ . विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोऽत्र फलाशिनः ॥ ९९ ८.१०० . मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः । ८.१०० . नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः ॥ १०० ८.१०१ . निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये । ८.१०१ . इत्येतद्गुरुभिर्गीतं श्रीमद्रौरवशासने ॥ १०१ ८.१०२ . इत्थं य एष लवणसमुद्रः प्रतिपादितः । ८.१०२ . तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः ॥ १०२ ८.१०३ . क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः । ८.१०३ . शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः । ८.१०३ . क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः ॥ १०३ ८.१०४ . मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा । ८.१०४ . संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः ॥ १०४ ८.१०५ . गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः । ८.१०५ . पुष्करसंज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ ॥ १०५ ८.१०६ . त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम् । ८.१०६ . स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा ॥ १०६ ८.१०७ . सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम् । ८.१०७ . उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः ॥ १०७ ८.१०८ . लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम् । ८.१०८ . केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः ॥ १०८ ८.१०९ . पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ । ८.१०९ . भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति ॥ १०९ ऽसर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः.ऽ ८.११० . उदयास्तमयावित्थं सूर्यस्य परिभावयेत् ॥ ११० ८.१११ . अर्धरात्रोऽमरावत्यां याम्यायामस्तमेव च । ८.१११ . मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः ॥ १११ ८.११२ . उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये । ८.११२ . केऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते ॥ ११२ ८.११३ . पञ्चत्रिं शत्कोटिसंख्या लक्षाण्येकोनविंशतिः । ८.११३ . चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः ॥ ११३ ८.११४ . सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट् । ८.११४ . लोकालोकस्य परतो यद्गर्भे निखिलैव भूः ॥ ११४ ८.११५ . सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसंज्ञितम् । ८.११५ . मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः ॥ ११५ ८.११६ . क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः । ८.११६ . तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः ॥ ११६ ८.११७ . चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा । ८.११७ . ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः ॥ ११७ ८.११८ . ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः । ८.११८ . पञ्चाशदेवं दशसु दिचु भूर्लोकसंज्ञितम् ॥ ११८ ८.११९ . पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः । ८.११९ . व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम् ॥ ११९ ८.१२० . विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य । ८.१२० . अभिमानतो यथेष्टं भोगस्थानं निवासश्च ॥ १२० ८.१२१ . भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे । ८.१२१ . दश वायुपथास्ते च प्रत्येकमयुतान्तराः ॥ १२१ ८.१२२ . आद्यो वायुपथस्तत्र विततः परिचर्च्यते । ८.१२२ . पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः ॥ १२२ ८.१२३ . आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत् । ८.१२३ . पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु ॥ १२३ ८.१२४ . सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः । ८.१२४ . ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः ॥ १२४ ८.१२५ . तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः । ८.१२५ . पञ्चाशदूर्ध्वमोघोऽत्र विषवारिप्रवर्षिणः ॥ १२५ ८.१२६ . मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते । ८.१२६ . ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसंज्ञकाः ॥ १२६ ८.१२७ . तत्र स्थाने महादेवजन्मानस्ते विनायकाः । ८.१२७ . ये हरन्ति कृतं कर्म नराणामकृतात्मनाम् ॥ १२७ ८.१२८ . पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः । ८.१२८ . विद्याधराधमाश्चात्र वज्राङ्के संप्रतिष्ठिताः ॥ १२८ ८.१२९ . ये विद्यापौरुषे ये च श्मशानादिप्रसाधने । ८.१२९ . मृतास्तत्सिद्धिसिद्धास्ते वज्रांके मरुति स्थिताः ॥ १२९ ८.१३० . पञ्चाशदूर्ध्वं वज्रांकाद्वैद्युतोऽशनिवर्षिणः । ८.१३० . अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः ॥ १३० ८.१३१ . भृगौ वह्नौ जले ये च संग्रामे चानिवर्तिनः । ८.१३१ . गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः ॥ १३१ ८.१३२ . वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः । ८.१३२ . ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे ॥ १३२ ८.१३३ . रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते । ८.१३३ . क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः ॥ १३३ ८.१३४ . पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः । ८.१३४ . विद्याधरविशेषाश्च तथा ये परमेश्वरम् ॥ १३४ ८.१३५ . गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः । ८.१३५ . विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससंभवः ॥ १३५ ८.१३६ . ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः । ८.१३६ . पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे ॥ १३६ ८.१३७ . जीमूतमेघास्तत्संज्ञास्तथा विद्याधरोत्तमाः । ८.१३७ . ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः ॥ १३७ ८.१३८ . महावहे त्वीशकृताः प्रजाहितकराम्बुदाः । ८.१३८ . महापरिवहे मेघाः कपालोत्था महेशितुः ॥ १३८ ८.१३९ . महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः । ८.१३९ . अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः ॥ १३९ ८.१४० . द्वितीये तत्परे सिद्धचारणा निजकर्मजाः । ८.१४० . तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः ॥ १४० ८.१४१ . षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः । ८.१४१ . दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः ॥ १४१ ८.१४२ . दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे । ८.१४२ . नवयोजनसाहस्रो विग्रहोऽर्कस्य मण्डलम् ॥ १४२ ८.१४३ . त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः । ८.१४३ . स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते ॥ १४३ ८.१४४ . सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा । ८.१४४ . चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु ॥ १४४ ८.१४५ . प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः । ८.१४५ . सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा ॥ १४५ ८.१४६ . ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः । ८.१४६ . मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः ॥ १४६ ८.१४७ . अत्र बद्धानि सर्वाण्यप्यूह्यन्तेऽनिलमण्डले । ८.१४७ . स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः ॥ १४७ ८.१४८ . इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः । ८.१४८ . स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः ॥ १४८ ८.१४९ . एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च । ८.१४९ . द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान् ॥ १४९ ८.१५० . मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः । ८.१५० . निवर्तिताधिकाराश्च देवा महति संस्थिताः ॥ १५० ८.१५१ . महान्तराले तत्रान्ये त्वधिकारभुजो जनाः । ८.१५१ . अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः ॥ १५१ ८.१५२ . तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः । ८.१५२ . जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः ॥ १५२ ८.१५३ . प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम् । ८.१५३ . ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः ॥ १५३ ८.१५४ . तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः । ८.१५४ . सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः ॥ १५४ ८.१५५ . आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम् । ८.१५५ . ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम् ॥ १५५ ८.१५६ . ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम् । ८.१५६ . वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः ॥ १५६ ८.१५७ . रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि । ८.१५७ . दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः ॥ १५७ ८.१५८ . ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन । ८.१५८ . तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः ॥ १५८ ८.१५९ . अधिकारक्षये साकं रुद्रकन्यागणेन ते । ८.१५९ . पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः ॥ १५९ ८.१६० . ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च । ८.१६० . शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च ॥ १६० ८.१६१ . शर्वरुद्रौ भीमभवावुग्रो देवो महानथ । ८.१६१ . ईशान इति भूर्लोकात्सप्त लोकेश्वराः शिवाः ॥ १६१ ८.१६२ . स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः । ८.१६२ . सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत् ॥ १६२ ८.१६३ . ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः । ८.१६३ . स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः ॥ १६३ ८.१६४ . परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः । ८.१६४ . लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः ॥ १६४ ८.१६५ . कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः । ८.१६५ . अत ऊर्ध्वं कटाहोऽण्डे स घनः कोटियोजनम् ॥ १६५ ८.१६६ . पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा । ८.१६६ . एवं कोटिशतं भूः स्यात्सौवर्णस्तण्डुलस्ततः ॥ १६६ ८.१६७ . शतरुद्रावधिर्हुफट्भेदयेत्तत्तु दुःशमम् । ८.१६७ . प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः ॥ १६७ ८.१६८ . ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः । ८.१६८ . अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु ॥ १६८ ८.१६९ . व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः । ८.१६९ . आवापवाननिर्भक्तो वस्तुपिण्डोऽण्ड उच्यते ॥ १६९ ८.१७० . तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम् । ८.१७० . रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः ॥ १७० ८.१७१ . वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक् । ८.१७१ . अण्डः स्यादिति तद्व्यक्तौ संमुखीभाव उच्यते ॥ १७१ ८.१७२ . तथापि शिवमग्नानां शक्तीनामण्डता भवेत् । ८.१७२ . तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः ॥ १७२ ८.१७३ . तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम् । ८.१७३ . तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः ॥ १७३ ८.१७४ . तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः । ८.१७४ . अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम् ॥ १७४ ८.१७५ . विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत् । ८.१७५ . तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत् ॥ १७५ ८.१७६ . गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते । ८.१७६ . उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम् ॥ १७६ ८.१७७ . रूपमुक्तं यतस्तेन तत्समूहोऽण्ड उच्यते । ८.१७७ . भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः ॥ १७७ ८.१७८ . तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम् । ८.१७८ . तावन्मात्रास्ववस्थासु मायाधीनेऽध्वमण्डले ॥ १७८ ८.१७९ . मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम् । ८.१७९ . इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत् ॥ १७९ ८.१८० . तेषां स्वे पतयो रुद्रा एकादश महार्चिषः । ८.१८० . अनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः ॥ १८० ८.१८१ . शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः । ८.१८१ . मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते ॥ १८१ ८.१८२ . तद्वत्ते शिवरुद्रा ब्रह्माण्डमसंख्यपरिवाराः । ८.१८२ . शराष्टनियुतं कोटिरित्येषां सन्निवेशनम् ॥ १८२ ८.१८३ . श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च । ८.१८३ . ईश्वरत्वं दिविषदामिति रौरववार्तिके ॥ १८३ ८.१८४ . सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम् । ८.१८४ . अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम् ॥ १८४ ८.१८५ . तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः । ८.१८५ . क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम् ॥ १८५ ८.१८६ . धरातोऽत्र जलादि स्यादुत्तरोत्तरतः क्रमात् । ८.१८६ . दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः ॥ १८६ ८.१८७ . सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा । ८.१८७ . नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा ॥ १८७ ८.१८८ . कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा । ८.१८८ . ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा ॥ १८८ ८.१८९ . सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन संख्यया । ८.१८९ . व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता ॥ १८९ ८.१९० . अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः । ८.१९० . जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात् ॥ १९० ८.१९१ . ऋते ततः शिवज्ञानं परमं मोक्षकारणम् । ८.१९१ . तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने ॥ १९१ ८.१९२ . नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि । ८.१९२ . शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम् ॥ १९२ ८.१९३ . प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः । ८.१९३ . शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम् ॥ १९३ ८.१९४ . न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम् । ८.१९४ . तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः ॥ १९४ ८.१९५ . निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी । ८.१९५ . विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम् ॥ १९५ ८.१९६ . तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः । ८.१९६ . ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः ॥ १९६ ८.१९७ . विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम् । ८.१९७ . जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः ॥ १९७ ८.१९८ . ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम् । ८.१९८ . वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा ॥ १९८ ८.१९९ . रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम् । ८.१९९ . आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा ॥ १९९ ८.२०० . त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम् । ८.२०० . ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात् ॥ २०० ८.२०१ . मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः । ८.२०१ . अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात् ॥ २०१ ८.२०२ . ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ । ८.२०२ . प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत् ॥ २०२ ८.२०३ . सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम् । ८.२०३ . रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः ॥ २०३ ८.२०४ . पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती । ८.२०४ . लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः ॥ २०४ ८.२०५ . ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः । ८.२०५ . ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः ॥ २०५ ८.२०६ . भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम् । ८.२०६ . प्राणस्य भुवनं वायोर्दशधा दशधा तु तत् ॥ २०६ ८.२०७ . ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम् । ८.२०७ . तं विशन्ति महात्मानो वायुभूताः खमूर्तयः ॥ २०७ ८.२०८ . भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम् । ८.२०८ . खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात् ॥ २०८ ८.२०९ . वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम् । ८.२०९ . अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः ॥ २०९ ८.२१० . ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः । ८.२१० . धराब्धितेजोऽनिलखपुरगा दीक्षिताश्च वा ॥ २१० ८.२११ . तावत्संस्कारयोगार्थं न परं पदमीहितुम् । ८.२११ . तथाविधावतारेषु मृताश्चायतनेषु ये ॥ २११ ८.२१२ . तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम् । ८.२१२ . पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले ॥ २१२ ८.२१३ . श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः । ८.२१३ . सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे ॥ २१३ ८.२१४ . ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः । ८.२१४ . रुद्रजातय एवैते इत्याह भगवाञ्छिवः ॥ २१४ ८.२१५ . आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये । ८.२१५ . तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने ॥ २१५ ८.२१६ . पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत् । ८.२१६ . आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा ॥ २१६ ८.२१७ . एवं रसादिमात्राणां मण्डलानि स्ववर्णत । ८.२१७ . शर्वो भवः पशुपतिरीशो भीम इति क्रमात् ॥ २१७ ८.२१८ . तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः । ८.२१८ . ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान् ॥ २१८ ८.२१९ . उग्रश्चेत्येषु पतयस्तेभ्योऽर्केन्दू सयाजकौ । ८.२१९ . इत्यष्टौ तनवः शंभोर्याः पराः परिकीर्तिताः ॥ २१९ ८.२२० . अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः । ८.२२० . कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु ॥ २२० ८.२२१ . ततो वागादिकर्माक्षयुक्तं करणमण्डलम् । ८.२२१ . अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः ॥ २२१ ८.२२२ . प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम् । ८.२२२ . दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः ॥ २२२ ८.२२३ . प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम् । ८.२२३ . मनोमण्डलमेतस्मात्सोमेनाधिष्ठितं यतः ॥ २२३ ८.२२४ . बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः । ८.२२४ . मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः ॥ २२४ ८.२२५ . ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः । ८.२२५ . स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम् ॥ २२५ ८.२२६ . बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम् । ८.२२६ . पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम् ॥ २२६ ८.२२७ . एतानि देवयोनीनां स्थानान्येव पुराण्यतः । ८.२२७ . अवतीर्यात्मजन्मानं ध्यायन्तः संभवन्ति ते ॥ २२७ ८.२२८ . परमेशनियोगाच्च चोद्यमानाश्च मायया । ८.२२८ . नियामिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः ॥ २२८ ८.२२९ . व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा । ८.२२९ . स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम् ॥ २२९ ८.२३० . उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः । ८.२३० . अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः ॥ २३० ८.२३१ . तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः । ८.२३१ . चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि ॥ २३१ ८.२३२ . साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि । ८.२३२ . एतानि भक्तियोगप्राणत्यागादिगम्यानि ॥ २३२ ८.२३३ . तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा । ८.२३३ . तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु ॥ २३३ ८.२३४ . लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि । ८.२३४ . गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम् ॥ २३४ ८.२३५ . अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते । ८.२३५ . ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः ॥ २३५ ८.२३६ . क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः । ८.२३६ . तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात् ॥ २३६ ८.२३७ . अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम् । ८.२३७ . स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने ॥ २३७ ८.२३८ . योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च । ८.२३८ . ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते ॥ २३८ ८.२३९ . तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते । ८.२३९ . तत्र मायापुरं देव्या यया विश्वमधिष्ठितम् ॥ २३९ ८.२४० . प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी । ८.२४० . उमापतेः पुरं पश्चान्मातृभिः परिवारितम् ॥ २४० ८.२४१ . श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते । ८.२४१ . ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका] ॥ २४१ ८.२४२ . पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात् । ८.२४२ . अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः ॥ २४२ ८.२४३ . अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः । ८.२४३ . स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः ॥ २४३ ८.२४४ . स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः । ८.२४४ . उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम् ॥ २४४ ८.२४५ . शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः । ८.२४५ . ताभ्य ईशानमूर्तिर्या सा मेरौ संप्रतिष्ठिता ॥ २४५ ८.२४६ . श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत् । ८.२४६ . ये योगं सगुणं शम्भोः संयताः पर्युपासते ॥ २४६ ८.२४७ . तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः । ८.२४७ . गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः ॥ २४७ ८.२४८ . तारतम्याच्च योगस्य भेदात्फलविचित्रता । ८.२४८ . ततो भोगफलावाप्तिभेदाद्भेदोऽयमुच्यते ॥ २४८ ८.२४९ . मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः । ८.२४९ . वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः ॥ २४९ ८.२५० . तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः । ८.२५० . यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते ॥ २५० ८.२५१ . ततोऽप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत् । ८.२५१ . बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः ॥ २५१ ८.२५२ . महादेवाष्टकान्ते तद्योगाष्टकमिहोदितम् । ८.२५२ . तत्र श्रैकण्ठमुक्तं यत्तस्यैवोमापतिस्तथा ॥ २५२ ८.२५३ . मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः । ८.२५३ . उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसंज्ञितम् ॥ २५३ ८.२५४ . तत्त्वं तत्र तु संक्षुब्धा गुणाः प्रसुवते धियम् । ८.२५४ . न वैषम्यमनापन्नं कारणं कार्यसूतये ॥ २५४ ८.२५५ . गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत् । ८.२५५ . नन्वेवं सापि संक्षोभं विना तान्विषमान्गुणान् ॥ २५५ ८.२५६ . कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः । ८.२५६ . सांख्यस्य दोष एवायं यदि वा तेन ते गुणाः ॥ २५६ ८.२५७ . अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत् । ८.२५७ . अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसंगतम् ॥ २५७ ८.२५८ . अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः । ८.२५८ . ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा ॥ २५८ ८.२५९ . तदेव बुद्धितत्त्वं स्यात्किमन्यैः कल्पितैर्गुणैः । ८.२५९ . नैतत्कारणतारूपपरामर्शावरोधि यत् ॥ २५९ ८.२६० . क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत् । ८.२६० . क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः ॥ २६० ८.२६१ . तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः । ८.२६१ . स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः ॥ २६१ ८.२६२ . त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः । ८.२६२ . बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते ॥ २६२ ८.२६३ . रुद्राणां भुवनानां च मुख्यतोऽन्ये तदन्तरे । ८.२६३ . योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः ॥ २६३ ८.२६४ . योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः । ८.२६४ . अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी ॥ २६४ ८.२६५ . करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च । ८.२६५ . अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम् ॥ २६५ ८.२६६ . धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि । ८.२६६ . यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः ॥ २६६ ८.२६७ . तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य । ८.२६७ . सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य ॥ २६७ ८.२६८ . येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु । ८.२६८ . ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि ॥ २६८ ८.२६९ . उपसंजिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य । ८.२६९ . दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः ॥ २६९ ८.२७० . यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी । ८.२७० . अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेऽनुकल्पेन ॥ २७० ८.२७१ . पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः । ८.२७१ . गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः ॥ २७१ ८.२७२ . गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः । ८.२७२ . क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ ॥ २७२ ८.२७३ . पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते । ८.२७३ . गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम् ॥ २७३ ८.२७४ . गुणकारणमित्येते मायाप्रभवस्य पर्यायाः । ८.२७४ . यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः ॥ २७४ ८.२७५ . ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः । ८.२७५ . मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः ॥ २७५ ८.२७६ . अकृताधिष्ठानतया कृत्याशक्तानि मूढानि । ८.२७६ . प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि ॥ २७६ ८.२७७ . भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि । ८.२७७ . इच्छाधीनानि पुनर्विकरणसंज्ञानि कार्यमप्येवम् ॥ २७७ ८.२७८ . पुंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ च तत्पुरः । ८.२७८ . तावत्य एवाणिमादिभुवनाष्टकमेव च ॥ २७८ ८.२७९ . अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा । ८.२७९ . हेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः ॥ २७९ ८.२८० . आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । ८.२८० . पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसंक्षयविघातैः ॥ २८० ८.२८१ . ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः । ८.२८१ . दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ २८१ ८.२८२ . अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः । ८.२८२ . तत्रापि त्रिगुणच्छायायोगात्त्रित्वमुदाहृतम् ॥ २८२ ८.२८३ . नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम् । ८.२८३ . पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता ॥ २८३ ८.२८४ . न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम् । ८.२८४ . अकर्तर्यपि वा पुंसि सहकारितया स्थिते ॥ २८४ ८.२८५ . शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः । ८.२८५ . तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा ॥ २८५ ८.२८६ . तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति । ८.२८६ . नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते ॥ २८६ ८.२८७ . कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि । ८.२८७ . साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे ॥ २८७ ८.२८८ . भुवनं देहधर्माणां दशानां विग्रहाष्टकात् । ८.२८८ . अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः ॥ २८८ ८.२८९ . शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः । ८.२८९ . पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः ॥ २८९ ८.२९० . आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः । ८.२९० . तत्रैवाष्टावहंकारस्त्रिधा कामादिकास्तथा ॥ २९० ८.२९१ . पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः । ८.२९१ . त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः ॥ २९१ ८.२९२ . यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् । ८.२९२ . पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते ॥ २९२ ८.२९३ . तदेवं पुंस्त्वमापन्ने पूर्णेऽपि परमेश्वरे । ८.२९३ . तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः ॥ २९३ ८.२९४ . उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः । ८.२९४ . ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात् ॥ २९४ ८.२९५ . पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शंकरा दश । ८.२९५ . हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः ॥ २९५ ८.२९६ . कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः । ८.२९६ . रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम् ॥ २९६ ८.२९७ . पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम् । ८.२९७ . मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः ॥ २९७ ८.२९८ . कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम् । ८.२९८ . ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः ॥ २९८ ८.२९९ . आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः । ८.२९९ . अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि ॥ २९९ ८.३०० . चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते । ८.३०० . वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने ॥ ३०० ८.३०१ . ते मायातत्त्व एवोक्तास्तनौ शैव्यामनन्ततः । ८.३०१ . कपालव्रतिनः स्वाङ्गहोतारः कष्टतापसाः ॥ ३०१ ८.३०२ . सर्वाभयाः खड्गधाराव्रतास्तत्तत्त्ववेदिनः । ८.३०२ . क्रमात्तत्तत्त्वमायान्ति यत्रेशोऽनन्त उच्यते ॥ ३०२ ८.३०३ . उक्तं च तस्य परतः स्थानमनन्ताधिपस्य देवस्य । ८.३०३ . स्थितिविलयसर्गकर्तुर्गुहाभगद्वारपालस्य ॥ ३०३ ८.३०४ . धर्मानणिमादिगुणाञ्ज्ञानानि तपःसुखानि योगांश्च । ८.३०४ . मायाबिलात्प्रदत्ते पुंसां निष्कृष्य निष्कृष्य ॥ ३०४ ८.३०५ . तच्छक्तीद्धस्वबला गुहाधिकारान्धकारगुणदीपाः । ८.३०५ . सर्वेऽनन्तप्रमुखा दीप्यन्ते शतभवप्रमुखान्ताः ॥ ३०५ ८.३०६ . सोऽव्यक्तमधिष्ठाय प्रकरोति जगन्नियोगतः शम्भोः । ८.३०६ . शुद्धाशुद्धस्रोतोऽधिकारहेतुः शिवो यस्मात् ॥ ३०६ ८.३०७ . शिवगुणयोगे तस्मिन्महति पदे ये प्रतिष्ठिताः प्रथमम् । ८.३०७ . तेऽनन्तादेर्जगतः सर्गस्थितिविलयकर्तारः ॥ ३०७ ८.३०८ . मायाबिलमिदमुक्तं परतस्तु गुहा जगद्योनिः । ८.३०८ . उत्पत्त्या तेष्वस्याः पतिशक्तिक्षोभमनुविधीयमानेषु ॥ ३०८ ८.३०९ . योनिविवरेषु नानाकामसमृद्धेषु भगसंज्ञा । ८.३०९ . कामयते पतिरेनामिच्छानुविधायिनीं यदा देवीम् ॥ ३०९ ८.३१० . प्रतिभगमव्यक्ताद्याः प्रजास्तदास्याः प्रजायन्ते । ८.३१० . तेषामतिसूक्ष्माणामेतावत्त्वं न वर्ण्यते विधिषु ॥ ३१० ८.३११ . अववरकाण्येकस्मिन्यद्वत्साले बहूनि बद्धानि । ८.३११ . योनिबिलान्येकस्मिंस्तद्वन्मायाशिरःसाले ॥ ३११ ८.३१२ . मायापटलैः सूक्ष्मैः कुड्यैः पिहिताः परस्परमदृश्याः । ८.३१२ . निवसन्ति तत्र रुद्राः सुखिनः प्रतिबिलमसंख्याताः ॥ ३१२ ८.३१३ . स्थाने सायुज्यगताः सामीप्यगताः परे सलोकस्थाः । ८.३१३ . प्रतिभुवनमेवमयं निवासिनां गुरुभिरुद्दिष्टः ॥ ३१३ ८.३१४ . अपि सर्वसिद्धवाचः क्षीयेरन्दीर्घकालमुद्गीर्णाः । ८.३१४ . न पुनर्योन्यानन्त्यादुच्यन्ते स्रोतसां संख्याः ॥ ३१४ ८.३१५ . तस्मान्निरयाद्येकं यत्प्रोक्तं द्वारपालपर्यन्तम् । ८.३१५ . स्रोतस्तेनान्यान्यपि तुल्यविधानानि वेद्यानि ॥ ३१५ ८.३१६ . अव्यक्तकले गुहया प्रकृतिकलाभ्यां विकार आत्मीयः । ८.३१६ . ओतः प्रोतो व्याप्तः कलितः पूर्णः परिक्षिप्तः ॥ ३१६ ८.३१७ . मध्ये पुटत्रयं तस्या रुद्राः षडधरेऽन्तरे । ८.३१७ . एक ऊर्ध्वे च पञ्चेति द्वादशैते निरूपिताः ॥ ३१७ ८.३१८ . गहनासाध्यौ हरिहरदशेश्वरौ त्रिकलगोपती षडिमे । ८.३१८ . मध्येऽनन्तः क्षेमो द्विजेशविद्येशविश्वशिवाः ॥ ३१८ ८.३१९ . इति पञ्च तेषु पञ्चसु षट्सु च पुटगेषु तत्परावृत्त्या । ८.३१९ . परिवर्त्तते स्थितिः किल देवोऽनन्तस्तु सर्वथा मध्ये ॥ ३१९ ८.३२० . ऊर्ध्वाधरगकपालकपुटषट्कयुगेन तत्परावृत्त्या । ८.३२० . मध्यतोऽष्टाभिर्दिक्स्थैर्व्याप्तो ग्रन्थिर्मतङ्गशास्त्रोक्तः ॥ ३२० ८.३२१ . श्रीसारशासने पुनरेषा षट्पुटतया विनिर्दिष्टा । ८.३२१ . ग्रन्थ्याख्यमिदं तत्त्वं मायाकार्यं ततो माया ॥ ३२१ ८.३२२ . मायातत्त्वं विभु किल गहनमरूपं समस्तविलयपदम् । ८.३२२ . तत्र न भुवनविभागो युक्तो ग्रन्थावसौ तस्मात् ॥ ३२२ ८.३२३ . मायातत्त्वाधिपतिः सोऽनन्तः समुदितान्विचार्याणून् । ८.३२३ . युगपत्क्षोभयति निशां सा सूते संपुटैरनन्तैः स्वैः ॥ ३२३ ८.३२४ . तेन कलादिधरान्तं यदुक्तमावरणजालमखिलं तत् । ८.३२४ . निःसंख्यं च विचित्रं मायैवैका त्वभिन्नेयम् ॥ ३२४ ८.३२५ . उक्तं श्रीपूर्वशास्त्रे च धराव्यक्तात्मकं द्वयम् । ८.३२५ . असंख्यातं निशाशक्तिसंज्ञं त्वेकस्वरूपकम् ॥ ३२५ ८.३२६ . पाशाः पुरोक्ताः प्रणवाः पञ्चमानाष्टकं मुनेः । ८.३२६ . कुलं योनिश्च वागीशी यस्यां जातो न जायते ॥ ३२६ ८.३२७ . दीक्षाकालेऽधराध्वस्थशुद्धौ यच्चाधराध्वगम् । ८.३२७ . अनन्तस्य समीपे तु तत्सर्वं परिनिष्ठितम् ॥ ३२७ ८.३२८ . साध्यो दाता दमनो ध्यानो भस्मेति बिन्दवः पञ्च । ८.३२८ . पञ्चार्थगुह्यरुद्राङ्कुशहृदयलक्षणं च सव्यूहम् ॥ ३२८ ८.३२९ . आकर्षादर्शौ चेत्यष्टकमेतत्प्रमाणानाम् । ८.३२९ . अलुप्तविभवाः सर्वे मायातत्त्वाधिकारिणः ॥ ३२९ ८.३३० . मायामयशरीरास्ते भोगं स्वं परिभुञ्जते । ८.३३० . प्रलयान्ते ह्यनन्तेन संहृतास्ते त्वहर्मुखे ॥ ३३० ८.३३१ . अन्यानन्तप्रसादेन विबुधा अपि तं परम् । ८.३३१ . सुप्तबुद्धं मन्यमानाः स्वतन्त्रम्मन्यताजडाः ॥ ३३१ ८.३३२ . स्वात्मानमेव जानन्ति हेतुं मायान्तरालगाः । ८.३३२ . अतः परं स्थिता माया देवी जन्तुविमोहिनी ॥ ३३२ ८.३३३ . देवदेवस्य सा शक्तिरतिदुर्घटकारिता । ८.३३३ . निर्वैरपरिपन्थिन्या तया भ्रमितबुद्धयः ॥ ३३३ ८.३३४ . इदं तत्त्वमिदं नेति विवदन्तीह वादिनः । ८.३३४ . गुरुदेवाग्निशास्त्रेषु ये न भक्ता नराधमाः ॥ ३३४ ८.३३५ . सत्पथं तान्परित्याज्य सोत्पथं नयति ध्रुवम् । ८.३३५ . असद्युक्तिविचारज्ञाञ्छुष्कतर्कावलम्बिनः ॥ ३३५ ८.३३६ . भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । ८.३३६ . शिवदीक्षासिना च्छिन्ना शिवज्ञानासिना तथा ॥ ३३६ ८.३३७ . न प्ररोहेत्पुनर्नान्यो हेतुस्तच्छेदनं प्रति । ८.३३७ . महामायोर्ध्वतः शुद्धा महाविद्याथ मातृका ॥ ३३७ ८.३३८ . वागीश्वरी च तत्रस्थं वामादिनवसत्पुरम् । ८.३३८ . वामा ज्येष्ठा रौद्री काली कलविकरणीबलविकारिके तथा ॥ ३३८ ८.३३९ . मथनी दमनी मनोन्मनी च त्रिदृशः पीताः समस्तास्ताः । ८.३३९ . सप्तकोट्यो मुख्यमन्त्रा विद्यातत्त्वेऽत्र संस्थिताः ॥ ३३९ ८.३४० . एकैकार्बुदलक्षांशाः पद्माकारपुरा इह । ८.३४० . विद्याराज्ञ्यस्त्रिगुण्याद्याः सप्त सप्तार्बुदेश्वराः ॥ ३४० ८.३४१ . विद्यातत्त्वोर्ध्वमैशं तु तत्त्वं तत्र क्रमोर्ध्वगम् । ८.३४१ . शिखण्ड्याद्यमनन्तान्तं पुराष्टकयुतं पुरम् ॥ ३४१ ८.३४२ . शिखण्डी श्रीगलो मूर्तिरेकनेत्रैकरुद्रकौ । ८.३४२ . शिवोत्तमः सूक्ष्मरुद्रोऽनन्तो विद्येश्वराष्टकम् ॥ ३४२ ८.३४३ . क्रमादूर्ध्वोर्ध्वसंस्थानं सप्तानां नायको विभुः । ८.३४३ . अनन्त एव ध्येयश्च पूज्यश्चाप्युत्तरोत्तरः ॥ ३४३ ८.३४४ . मुख्यमन्त्रेश्वराणां यत्सार्धं कोटित्रयं स्थितम् । ८.३४४ . तन्नायका इमे तेन विद्येशाश्चक्रवर्तिनः ॥ ३४४ ८.३४५ . उक्तं च गुरुभिरित्थं शिवतन्वाद्येषु शासनेष्वेतत् । ८.३४५ . भगबिलशतकलितगुहामूर्धासनगोऽष्टशक्तियुग्देवः ॥ ३४५ ८.३४६ . गहनाद्यं निरयान्तं सृजति च रुद्रांश्च विनियुङ्क्ते । ८.३४६ . उद्धरति मनोन्मन्या पुंसस्तेष्वेव भवति मध्यस्थः ॥ ३४६ ८.३४७ . ते तेनोदस्तचितः परतत्त्वालोचनेऽभिनिविशन्ते । ८.३४७ . स पुनरधः पथवर्तिष्वधिकृत एवाणुषु शिवेन ॥ ३४७ ८.३४८ . अवसितपतिविनियोगः सार्धमनेकात्ममन्त्रकोटीभिः । ८.३४८ . निर्वात्यनन्तनाथस्तद्धामाविशति सूक्ष्मरुद्रस्तु ॥ ३४८ ८.३४९ . अनुगृह्याणुमपूर्वं स्थापयति पतिः शिखण्डिनः स्थाने । ८.३४९ . इत्यष्टौ परिपाट्या यावद्धामानि याति गुरुरेकः ॥ ३४९ ८.३५० . तावदसंख्यातानां जन्तूनां निर्वृतिं कुरुते । ८.३५० . तेऽष्टावपि शक्त्यष्टकयोगामलजलरुहासनासीनाः ॥ ३५० ८.३५१ . आलोकयन्ति देवं हृदयस्थं कारणं परमम् । ८.३५१ . तं भगवन्तमनन्तं ध्यायन्तः स्वहृदि कारणं शान्तम् ॥ ३५१ ८.३५२ . सप्तानुध्यायन्त्यपि मन्त्राणां कोटयः शुद्धाः । ८.३५२ . मायादिरवीच्यन्तो भवस्त्वनन्तादिरुच्यतेऽप्यभवः ॥ ३५२ ८.३५३ . शिवशुद्धगुणाधीकारान्तः सोऽप्येष हेयश्च । ८.३५३ . अत्रापि यतो दृष्टानुग्राह्याणां नियोज्यता शैवी ॥ ३५३ ८.३५४ . इष्टा च तन्निवृत्तिर्ह्यभवस्त्वधरे न भूयते यस्मात् । ८.३५४ . पत्युरपसर्पति यतः कारणता कार्यता च सिद्धेभ्यः ॥ ३५४ ८.३५५ . कञ्चुकवच्छिवसिद्धौ तावतिभवसंज्ञयातिमध्यस्थौ । ८.३५५ . धर्मज्ञानविरागैश्यचतुष्टयपुरं तु यत् ॥ ३५५ ८.३५६ . रूपावरणसंज्ञं तत्तत्त्वेऽस्मिन्नैश्वरे विदुः । ८.३५६ . वामा ज्येष्ठा च रौद्रीति भुवनत्रयशोभितम् ॥ ३५६ ८.३५७ . सूक्ष्मावरणमाख्यातमीशतत्त्वे गुरूत्तमैः । ८.३५७ . ऐशात्सादाशिवं ज्ञानक्रियायुगलमण्डितम् ॥ ३५७ ८.३५८ . शुद्धावरणमित्याहुरुक्ता शुद्धावृतेः परम् । ८.३५८ . विद्यावृतिस्ततो भावाभावशक्तिद्वयोज्ज्वला ॥ ३५८ ८.३५९ . शक्त्यावृतिः प्रमाणाख्या ततः शास्त्रे निरूपिता । ८.३५९ . शक्त्यावृतेस्तु तेजस्विध्रुवेशाभ्यामलङ्कृतम् ॥ ३५९ ८.३६० . तेजस्व्यावरणं वेदपुरा मानावृतिस्ततः । ८.३६० . मानावृतेः सुशुद्धावृत्पुरत्रितयशोभिता ॥ ३६० ८.३६१ . सुशुद्धावरणादूर्ध्व शैवमेकपुरं भवेत् । ८.३६१ . शिवावृतेरूर्ध्वमाहुर्मोक्षावरणसंज्ञितम् ॥ ३६१ ८.३६२ . अस्यां मोक्षावृतौ रुद्रा एकादश निरूपिताः । ८.३६२ . मोक्षावरणतस्त्वेकपुरमावरणं ध्रुवम् ॥ ३६२ ८.३६३ . ऊर्ध्वे ध्रुवावृतेरिच्छावरणं तत्र ते शिवाः । ८.३६३ . ईश्वरेच्छागृहान्तस्थास्तत्पुरं चैकमुच्यते ॥ ३६३ ८.३६४ . इच्छावृतेः प्रबुद्धाख्यं दिग्रुद्राष्टकचर्चितम् । ८.३६४ . प्रबुद्धावरणादूर्ध्व समयावरणं महत् ॥ ३६४ ८.३६५ . भुवनैः पञ्चभिर्गर्भीकृतानन्तसमावृति । ८.३६५ . सामयात्सौशिवं तत्र सादाख्यं भुवनं महत् ॥ ३६५ ८.३६६ . तस्मिन्सदाशिवो देवस्तस्य सव्यापसव्ययोः । ८.३६६ . ज्ञानक्रिये परेच्छा तु शक्तिरुत्सङ्गगामिनी ॥ ३६६ ८.३६७ . सृष्ट्यादिपञ्चकृत्यानि कुरुते स तयेच्छया । ८.३६७ . पञ्च ब्रह्माण्यङ्गषट्कं सकलाद्यष्टकं शिवाः ॥ ३६७ ८.३६८ . दशाष्टादश रुद्राश्च तैरेव सुशिवो वृतः । ८.३६८ . सद्यो वामाघोरौ पुरुषेशौ ब्रह्मपञ्चकं हृदयम् ॥ ३६८ ८.३६९ . मूर्धशिखावर्मदृगस्त्रमङ्गानि षट्प्राहुः । ८.३६९ . सकलाकलशून्यैः सह कलाढ्यखमलङ्कृते क्षपणमन्त्यम् ॥ ३६९ ८.३७० . कण्ठ्यौष्ठ्यमष्टमं किल सकलाष्टकमेतदाम्नातम् । ८.३७० . ओं कारशिवौ दीप्तो हेत्वीशदशेशकौ सुशिवकालौ ॥ ३७० ८.३७१ . सूक्ष्मसुतेजःशर्वाः शिवाः दशैतेऽत्र पूर्वादेः । ८.३७१ . विजयो निःश्वासश्च स्वायम्भुवो वह्निवीररौरवकाः ॥ ३७१ ८.३७२ . मुकुटविसरेन्दुविन्दुप्रोद्गीता ललितसिद्धरुद्रौ च । ८.३७२ . सन्तानशिवौ परकिरणपारमेशा इति स्मृता रुद्राः ॥ ३७२ ८.३७३ . सर्वेषामेतेषां ज्ञानानि विदुः स्वतुल्यनामानि । ८.३७३ . मन्त्रमुनिकोटिपरिवृत मथ विभुवामादिरुद्रतच्छक्तियुतम् ॥ ३७३ ८.३७४ . तारादिशक्तिजुष्टं सुशिवासनमतिसितकजमसंख्यदलम् । ८.३७४ . यः शक्तिरुद्रवर्गः परिवारे विष्टरे च सुशिवस्य ॥ ३७४ ८.३७५ . प्रत्येकमस्य निजनिजपरिवारे परार्धकोटयोऽसंख्याः । ८.३७५ . मायामलनिर्मुक्ताः केवलमधिकारमात्रसंरूढाः ॥ ३७५ ८.३७६ . सुशिवावरणे रुद्राः सर्वज्ञाः सर्वशक्तिसम्पूर्णाः । ८.३७६ . अधिकारबन्धविलये शान्ताः शिवरूपिणो पुनर्भविनः ॥ ३७६ ८.३७७ . ऊर्ध्वे बिन्द्वावृतिर्दीप्ता तत्र तत्र पद्मं शशिप्रभम् । ८.३७७ . शान्त्यतीतः शिवस्तत्र तच्छक्त्युत्सङ्गभूषितः ॥ ३७७ ८.३७८ . निवृत्त्यादिकलावर्गपरिवारसमावृतः । ८.३७८ . असंख्यरुद्रतच्छक्तिपुरकोटिभिरावृतः ॥ ३७८ ८.३७९ . श्रीमन्मतङ्गशास्त्रे च लयाख्यं तत्त्वमुत्तमम् । ८.३७९ . पारिभाषिकमित्येतन्नाम्ना बिन्दुरिहोच्यते ॥ ३७९ ८.३८० . चतुर्मूर्तिमयं शुभ्रं यत्तत्सकलनिष्कलम् । ८.३८० . तस्मिन्भोगः समुद्दिष्ट इत्यत्रेदं च वर्णितम् ॥ ३८० ८.३८१ . निवृत्त्यादेः सुसूक्ष्मत्वाद्धराद्यारब्धदेहता । ८.३८१ . मातुः स्फूर्जन्महाज्ञानलीनत्वान्न विभाव्यते ॥ ३८१ ८.३८२ . उद्रिक्त तैजसत्वेन हेम्नो भूपरमाणवः । ८.३८२ . यथा पृथङ्न भान्त्येवमूर्ध्वाधोरुद्रदेहगाः ॥ ३८२ ८.३८३ . बिन्दूर्ध्वेऽर्धेन्दुरेतस्य कला ज्योत्स्ना च तद्वती । ८.३८३ . कान्तिः प्रभा च विमला पञ्चैता रोधिकास्ततः ॥ ३८३ ८.३८४ . रुन्धनी रोधनी रोद्ध्री ज्ञानबोधा तमोपहा । ८.३८४ . एताः पञ्च कलाः प्राहुर्निरोधिन्यां गुरूत्तमाह् ॥ ३८४ ८.३८५ . अर्धमात्रः स्मृतो बिन्दुर्व्योमरूपी चतुष्कलः । ८.३८५ . तदर्धमर्धचन्द्रस्तदष्टांशेन निरोधिका ॥ ३८५ ८.३८६ . हेतून्ब्रह्मादिकान् रुन्द्धे रोधिकां तां त्यजेत्ततः । ८.३८६ . निरोधिकामिमां भित्त्वा सादाख्यं भुवनं परम् ॥ ३८६ ८.३८७ . पररूपेण यत्रास्ते पञ्चमन्त्रमहातनुः । ८.३८७ . इत्यर्धेन्दुनिरोध्यन्तबिन्द्वावृत्यूर्ध्वतो महान् ॥ ३८७ ८.३८८ . नादः किञ्जल्कसदृशो महद्भिः पुरुषैर्वृतः । ८.३८८ . चत्वारि भुवनान्यत्र दिक्षु मध्ये च पञ्चमम् ॥ ३८८ ८.३८९ . इन्धिका दीपिका चैव रोधिका मोचिकोर्ध्वगा । ८.३८९ . मध्येऽत्र पद्मं तत्रोर्ध्वगामी तच्छक्तिभिर्वृतः ॥ ३८९ ८.३९० . नादोर्ध्वतस्तु सौषुम्नं तत्र तच्छक्तिभृत्प्रभुः । ८.३९० . तदीशः पिङ्गलेलाभ्यां वृतः सव्यापसव्ययोः ॥ ३९० ८.३९१ . या प्रभोरङ्कगा देवी सुषुम्ना शशिसप्रभा । ८.३९१ . ग्रथितोऽध्वा तया सर्व ऊर्ध्वश्चाधस्तनस्तथा ॥ ३९१ ८.३९२ . नादःसुषुम्नाधारस्तु भित्त्वा विश्वमिदं जगत् । ८.३९२ . अधःशक्त्या विनिर्गच्छेदूर्ध्वशक्त्या च मूर्धतः ॥ ३९२ ८.३९३ . नाड्या ब्रह्मबिले लीनः सोऽव्यक्तध्वनिरक्षरः । ८.३९३ . नदन्सर्वेषु भूतेषु शिवशक्त्या ह्यधिष्ठितः ॥ ३९३ ८.३९४ . सुषुम्नोर्ध्वे ब्रह्मबिलसंज्ञयावरणं त्रिदृक् । ८.३९४ . तत्र ब्रह्मा सितः शूली पञ्चास्यः शशिशेखरः ॥ ३९४ ८.३९५ . तस्योत्सङ्गे परा देवी ब्रह्माणी मोक्षमार्गगा । ८.३९५ . रोद्ध्री दात्री च मोक्षस्य तां भित्त्वा चोर्ध्वकुण्डली ॥ ३९५ ८.३९६ . शक्तिः सुप्ताहिसदृशी सा विश्वाधार उच्यते । ८.३९६ . तस्यां सूक्ष्मा सुसूक्ष्मा च तथान्ये अमृतामिते ॥ ३९६ ८.३९७ . मध्यतो व्यापिनी तस्यां व्यापीशो व्यापिनीधरः । ८.३९७ . शक्तितत्त्वमिदं यस्य प्रपञ्चोऽयं धरान्तकः ॥ ३९७ ८.३९८ . शिवतत्त्वं ततस्तत्र चतुर्दिक्कं व्यवस्थिताः । ८.३९८ . व्यापी व्योमात्मकोऽनन्तोऽनाथस्तच्छक्तिभागिनः ॥ ३९८ ८.३९९ . मध्ये त्वनाश्रितं तत्र देवदेवो ह्यनाश्रितः । ८.३९९ . तच्छक्त्युत्सङ्गभृत्सूर्यशतकोटिसमप्रभः ॥ ३९९ ८.४०० . शिवतत्त्वोर्ध्वतः शक्तिः परा सा समनाह्वया । ८.४०० . सर्वेषां कारणानां सा कर्तृभूता व्यवस्थिता ॥ ४०० ८.४०१ . बिभर्त्यण्डान्यनेकानि शिवेन समधिष्ठिता । ८.४०१ . तदारूढः शिवः कृत्यपञ्चकं कुरुते प्रभुः ॥ ४०१ ८.४०२ . समना करणं तस्य हेतुकर्तुर्महोशितुः । ८.४०२ . अनाश्रितं तु व्यापारे निमित्तं हेतुरुच्यते ॥ ४०२ ८.४०३ . तयाधितिष्ठति विभुः कारणानां तु पञ्चकम् । ८.४०३ . अनाश्रितोऽनाथमयमनन्तं खवपुः सदा ॥ ४०३ ८.४०४ . स व्यापिनं प्रेरयति स्वशक्त्या करणेन तु । ८.४०४ . कर्मरूपा स्थिता माया यदधः शक्तिकुण्डली ॥ ४०४ ८.४०५ . नादबिन्द्वादिकं कार्यमित्यादिजगदुद्भवः । ८.४०५ . यत्सदाशिवपर्यन्तं पार्थिवाद्यं च शासने ॥ ४०५ ८.४०६ . तत्सर्व प्राकृतं प्रोक्तं विनाशोत्पत्तिसंयुतम् । ८.४०६ . अथ सकलभुवनमानं यन्मह्यं निगदितं निजैर्गुरुभिः ॥ ४०६ ८.४०७ . तद्वक्ष्यते समासाद्बुद्धौ येनाशु सङ्क्रामेत् । ८.४०७ . अण्डस्यान्तरनन्तः कालः कूष्माण्डहाटकौ ब्रह्महरी ॥ ४०७ ८.४०८ . रुद्राः शतं सवीरं बहिर्निवृत्तिस्तु साष्टशतभुवना स्यात् । ८.४०८ . जलतेजःसमीरनभोऽहंकृद्धीमूलसप्तके प्रत्येकम् ॥ ४०८ ८.४०९ . अष्टौ षट्पञ्चाशद्भुवना तेन प्रतिष्ठेति कला कथिता । ८.४०९ . अत्र प्राहुः शोध्यानष्टौ केचिन्निजाष्टकाधिपतीन् ॥ ४०९ ८.४१० . अन्ये तु समस्तानां शोध्यत्वं वर्णयन्ति भुवनानाम् । ८.४१० . श्रीभूतिराजमिश्रा गुरवः प्राहुः पुनर्बही रुद्रशतम् ॥ ४१० ८.४११ . अष्टावन्तः साकं शर्वेणेतीदृशी निवृत्तिरियं स्यात् । ८.४११ . रुद्राः काली वीरो धराब्धिलक्ष्म्यः सरस्वती गुह्यम् ॥ ४११ ८.४१२ . इत्यष्टकं जलेऽनौ वह्न्यतिगुह्यद्वयं मरुति वायोः । ८.४१२ . स्वपुरं गयादि खे च व्योम पवित्राष्टकं च भुवनयुगम् ॥ ४१२ ८.४१३ . अभिमानेऽहङ्कारच्छगलाद्यष्टकमथान्तरा नभोऽहंकृत् । ८.४१३ . तन्मात्रार्केन्दुश्रतिपुराष्टकं बुद्धिकर्मदेवानाम् ॥ ४१३ ८.४१४ . दश तन्मात्रसमूहे भुवनं पुनरक्षवर्गविनिपतिते । ८.४१४ . मनसश्चेत्यभिमाने द्वाविंशतिरेव भुवनानाम् ॥ ४१४ ८.४१५ . धियि दैवीनामष्टौ क्रुत्तेजोयोगसंज्ञकं त्रयं तदुमा । ८.४१५ . तत्पतिरथ मूर्त्यष्टकसुशिवद्वादशकवीरभद्राः स्युः ॥ ४१५ ८.४१६ . तदथ महादेवाष्टकमिति बुद्धौ सप्तदश संख्या । ८.४१६ . गुणतत्त्वे पङ्क्तित्रयमिति षट्पञ्चाशतं पुराणि विदुः ॥ ४१६ ८.४१७ . यद्यपि गुणसाम्यात्मनि मूले क्रोधेश्वराष्टकं तथापि धियि । ८.४१७ . तच्छोधितमिति गणनां न पुनः प्राप्तं प्रतिष्ठायाम् ॥ ४१७ ८.४१८ . इति जलतत्त्वान्मूलं तत्त्वचतुर्विंशतिः प्रतिष्ठायाम् । ८.४१८ . अम्बादितुष्टिवर्गस्ताराद्याः सिद्धयोऽणिमादिगणः ॥ ४१८ ८.४१९ . गुरवो गुरुशिष्या ऋषिवर्ग इडादिश्च विग्रहाष्टकयुक् । ८.४१९ . गन्धादिविकारपुरं बुद्धिगुणाष्टकमहंक्रिया विषयगुणाः ॥ ४१९ ८.४२० . कामादिसप्तविंशकमागन्तु तथा गणेशविद्येशमयौ । ८.४२० . इति पाशेषु पुरत्रयमित्थं पुरुषेऽत्र भुवनषोडशकम् ॥ ४२० ८.४२१ . नियतौ शङ्करदशकं काले शिवदशकमिति पुरद्वितयम् । ८.४२१ . रागे सुहृष्टभुवनं गुरुशिष्यपुरं च वित्कलायुगले ॥ ४२१ ८.४२२ . भुवनं भुवनं निशि पुटपुरत्रयं वाक्पुरं प्रमाणपुरम् । ८.४२२ . इति सप्तविंशतिपुरा विद्या पुरुषादितत्त्वसप्तकयुक् ॥ ४२२ ८.४२३ . वामेशरूपसूक्ष्मं शुद्धं विद्याथ शक्तितेजस्विमितिः । ८.४२३ . सुविशुद्धिशिवौ मोक्ष धुवेषिसंबुद्धसमयसौशिवसंज्ञाः ॥ ४२३ ८.४२४ . सप्तदशपुरा शान्ता विद्येशसदाशिवपुरत्रितययुक्ता । ८.४२४ . बिन्द्वर्धेन्दुनिरोध्यः परसौशिवमिन्धिकादिपुरसौषुम्ने ॥ ४२४ ८.४२५ . परनादो ब्रह्मबिलं सूक्ष्मादियुतोर्ध्वकुण्डली शक्तिः । ८.४२५ . व्यापिव्योमानन्तानाथानाश्रितपुराणि पञ्च ततः ॥ ४२५ ८.४२६ . षष्ठं च परममनाश्रितमथ समनाभुवनषोडशी यदि वा । ८.४२६ . बिन्द्वावरणं परसौशिवं च पञ्चेन्धिकादिभुवनानि ॥ ४२६ ८.४२७ . सौषुम्नं ब्रह्मबिलं कुण्डलिनी व्यापिपञ्चकं समना । ८.४२७ . इति षोडशभुवनेयं तत्त्वयुगं शान्त्यतीता स्यात् ॥ ४२७ ८.४२८ . श्रीमन्मतङ्गशास्त्रे च क्रमोऽयं पुरपूगगः । ८.४२८ . कालाग्निर्नरकाः खाब्धियुतं मुख्यतया शतम् ॥ ४२८ ८.४२९ . कूष्माण्डः सप्तपाताली सप्तलोकी महेश्वरः । ८.४२९ . इत्यण्डमध्यं तद्बाह्ये शतं रुद्रा इति स्थिताः ॥ ४२९ ८.४३० . स्थानानां द्विशती भूमिः सप्तपञ्चाशता युता । ८.४३० . पञ्चाष्टकस्य मध्याद्द्वात्रिंशद्भूतचतुष्टये ॥ ४३० ८.४३१ . तन्मात्रेषु च पञ्च स्युर्विश्वेदेवास्ततोऽष्टकम् । ८.४३१ . पञ्चमं सेन्द्रिये गर्वे बुद्धौ देवाष्टकं गुणे ॥ ४३१ ८.४३२ . योगाष्टकं क्रोधसंज्ञं मूले काले सनैयते । ८.४३२ . पतद्रुगाद्याश्चाङ्गुष्ठमात्राद्या रागतत्त्वगाः ॥ ४३२ ८.४३३ . द्वादशैकशिवाद्याः स्युर्विद्यायां कलने दश । ८.४३३ . वामाद्यास्त्रिशती सेयं त्रिपर्वण्यब्धिरस्ययुक् ॥ ४३३ ८.४३४ . शैवाः केचिदिहानन्ताः श्रैकण्ठा इति संग्रहः । ८.४३४ . यत्र यदा परभोगान् बुभुक्षते तत्र योजनं कार्यम् ॥ ४३४ ८.४३५ . शोधनमथ तद्धानौ शेषं त्वन्तर्गतं कार्यम् । ८.४३५ . इत्यागमं प्रथयितुं दर्शितमेतद्विकल्पितं तेन ॥ ४३५ ८.४३६ . अन्येऽपि बहुविकल्पाः स्वधियाचार्यैः समभ्यूह्याः । ८.४३६ . श्रीपूर्वशासने पुनरष्टादशाधिकं शतं कथितम् ॥ ४३६ ८.४३७ . तदिह प्रधानमधिकं संक्षेपेणोच्यते शोध्यम् । ८.४३७ . कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतलपः ॥ ४३७ ८.४३८ . ब्रह्मा मुनिलोकेशो रुद्राः पञ्चान्तरालस्थाः । ८.४३८ . अधरेऽनन्तः प्राच्याः कपालिवह्न्यन्तनिरृतिबलाख्याः ॥ ४३८ ८.४३९ . लघुनिधिपतिविद्याधिपशम्भूर्ध्वान्तं सवीरभद्रपति । ८.४३९ . एकादशभिर्बाह्ये ब्रह्माण्डं पञ्चभिस्तथान्तरिकैः ॥ ४३९ ८.४४० . इति षोडशपुरमेतन्निवृत्तिकलयेह कलनीयम् । ८.४४० . लकुलीशभारभूती दिण्ड्याषाढी च पुष्करनिमेषौ ॥ ४४० ८.४४१ . प्रभाससुरेशाविति सलिले प्रत्यात्मकं सपरिवारे । ८.४४१ . भैरवकेदारमहाकाला मध्याम्रजल्पाख्याः ॥ ४४१ ८.४४२ . श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि । ८.४४२ . भीमेन्द्राट्टहासविमलकनखलनाखलकुरुस्थितिगयाख्याः ॥ ४४२ ८.४४३ . अतिगुह्याष्टकमेतन्मरुति च सतन्मात्रके च साक्षे च । ८.४४३ . स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकः ॥ ४४३ ८.४४४ . अविमुक्तरुद्रकोटी वस्त्रापद इत्यदः पवित्रं खे । ८.४४४ . स्थूलस्थूलेशशङ्कुश्रुतिकालञ्जराश्च मण्डलभृत् ॥ ४४४ ८.४४५ . माकोटाण्डद्वितयच्छगलाण्डा अष्टकं ह्यहङ्कारे । ८.४४५ . अन्येऽहङ्कारान्तस्तन्मात्राणीन्द्रियाणि चाप्याहुः ॥ ४४५ ८.४४६ . धियि योन्यष्टकमुक्तं प्रकृतौ योगाष्टकं किलाकृतप्रभृति । ८.४४६ . इति सप्ताष्टकभुवना प्रतिष्ठितिः सलिलतो हि मूलान्ता ॥ ४४६ ८.४४७ . नरि वामो भीमोग्रौ भवेशवीराः प्रचण्डगौरीशौ । ८.४४७ . अजसानन्तैकशिवौ विद्यायां क्रोधचण्डयुग्मं स्यात् ॥ ४४७ ८.४४८ . संवर्तो ज्योतिरथो कलानियत्यां च सूरपञ्चान्तौ । ८.४४८ . वीरशिखीशश्रीकण्ठसंज्ञमेतत्त्रयं च काले स्यात् ॥ ४४८ ८.४४९ . समहातेजा वामो भवोद्भवश्चैकपिङ्गलेशानौ । ८.४४९ . भुवनेशपुरःसरकावङ्गुष्ठ इमे निशि स्थिता ह्यष्टौ ॥ ४४९ ८.४५० . अष्टाविंशतिभुवना विद्या पुरुषान्निशान्तमियम् । ८.४५० . हालाहलरुद्रक्रुदम्बिकाघोरिकाः सवामाः स्युः ॥ ४५० ८.४५१ . विद्यायां विद्येशास्त्वष्टावीशे सदाशिवे पञ्च । ८.४५१ . वामा ज्येष्ठा रौद्री शक्तिः सकला च शोन्तयम् ॥ ४५१ ८.४५२ . अष्टादश भुवना स्यात्शान्त्यतीता त्वभुवनैव । ८.४५२ . इति देशाध्वविभागः कथितः श्रीशम्भुना समादिष्टः ॥ ४५२ च्९ श्रीतन्त्रालोकस्य नवममाह्निकम् ९.१ . अथ तत्त्वप्रविभागो विस्तरतः कथ्यते क्रमप्राप्तः ॥ १ ९.२ . यान्युक्तानि पुराण्यमूनि विविधैभदैर्यदेष्वन्वितं रूपं भाति परं प्रकाशनिविडं देवः स एकः शिवः । ९.२ . तत्स्वातन्त्र्यरसात्पुनः शिवपदाद्भेदे विभाते परं यद्रूपं बहुधानुगामि तदिदं तत्त्वं विभोः शासने ॥ २ ९.३ . तथाहि कालसदनाद्वीरभद्रपुरान्तगम् । ९.३ . धृतिकाठिन्यगरिमाद्यवभासाद्धरात्मता ॥ ३ ९.४ . एवं जलादितत्त्वेषु वाच्यं यावत्सदाशिवे । ९.४ . स्वस्मिन्कार्येऽथ धर्मौघे यद्वापि स्वसदृग्गुणे ॥ ४ ९.५ . आस्ते सामान्यकल्पेन तननाद्व्याप्तृभावतः । ९.५ . तत्तत्त्वं क्रमशः पृथ्वीप्रधानं पुंशिवादयः ॥ ५ ९.६ . देहानां भुवनानां च न प्रसङ्गस्ततो भवेत् । ९.६ . श्रीमन्मतङ्गशास्त्रादौ तदुक्तं परमेशिना ॥ ६ ९.७ . तत्रैषां दर्श्यते दृष्टः सिद्धयोगीश्वरीमते । ९.७ . कार्यकारणभावो यः शिवेच्छापरिकल्पितः ॥ ७ ९.८ . वस्तुतः सर्वभावानां कर्तेशानः परः शिवः । ९.८ . अस्वतन्त्रस्य कर्तृत्वं नहि जातूपपद्यते ॥ ८ ९.९ . स्वतन्त्रता च चिन्मात्रवपुषः परमेशितुः । ९.९ . स्वतन्त्रं च जडं चेति तदन्योन्यं विरुध्यते ॥ ९ ९.१० . जाड्यं प्रमातृतन्त्रत्वं स्वात्मसिद्धिमपि प्रति । ९.१० . न कर्तृत्वादृते चान्यत्कारणत्वं हि लभ्यते ॥ १० ९.११ . तस्मिन्सति हि तद्भाव इत्यपेक्षैकजीवितम् । ९.११ . निरपेक्षेषु भावेषु स्वात्मनिष्ठतया कथम् ॥ ११ ९.१२ . स पूर्वमथ पश्चात्स इति चेत्पूर्वपश्चिमौ । ९.१२ . स्वभावेऽनतिरिक्तौ चेत्सम इत्यवशिष्यते ॥ १२ ९.१३ . बीजमङ्कुर इत्यस्मिन् सतत्त्वे हेतुतद्वतोः । ९.१३ . घटः पटश्चेति भवेत्कार्यकारणता न किम् ॥ १३ ९.१४ . बीजमङ्कुरपत्रादितया परिणमेत चेत् । ९.१४ . अतत्स्वभाववपुषः स स्वभावो न युज्यते ॥ १४ ९.१५ . स तत्स्वभाव इति चेत्तर्हि बीजाङ्कुरा निजे । ९.१५ . तावत्येव न विश्रान्तौ तदन्यात्यन्तसंभवात् ॥ १५ ९.१६ . ततश्च चित्राकारोऽसौ तावान्कश्चित्प्रसज्यते । ९.१६ . अस्तु चेत्न जडेऽन्योन्यविरुद्धाकारसंभवः ॥ १६ ९.१७ . क्रमेण चित्राकारोऽस्तु जडः किं नु विरुद्ध्यते । ९.१७ . क्रमोऽक्रमो वा भावस्य न स्वरूपाधिको भवेत् ॥ १७ ९.१८ . तथोपलम्भमात्रं तौ उपलम्भश्च किं तथा । ९.१८ . उपलब्धापि विज्ञानस्वभावो योऽस्य सोऽपि हि ॥ १८ ९.१९ . क्रमोपलम्भरूपत्वात्क्रमेणोपलभेत चेत् । ९.१९ . तस्य तर्हि क्रमः कोऽसौ तदन्यानुपलम्भतः ॥ १९ ९.२० . स्वभाव इति चेन्नासौ स्वरूपादधिको भवेत् । ९.२० . स्वरूपानधिकस्यापि क्रमस्य स्वस्वभावतः ॥ २० ९.२१ . स्वातन्त्र्याद्भासनं स्याच्चेत्किमन्यद्ब्रूमहे वयम् । ९.२१ . इत्थं श्रीशिव एवैकः कर्तेति परिभाष्यते ॥ २१ ९.२२ . कर्तृत्वं चैतदेतस्य तथामात्रावभासनम् । ९.२२ . तथावभासनं चास्ति कार्यकारणभावगम् ॥ २२ ९.२३ . यथा हि घटसाहित्यं पटस्याप्यवभासते । ९.२३ . तथा घटानन्तरता किं तु सा नियमोज्झिता ॥ २३ ९.२४ . अतो यन्नियमेनैव यस्मादाभात्यनन्तरम् । ९.२४ . तत्तस्य कारणं ब्रूमः सति रूपान्वयेऽधिके ॥ २४ ९.२५ . नियमश्च तथारूपभासनामात्रसारकः । ९.२५ . बीजादङ्कुर इत्येवं भासनं नहि सर्वदा ॥ २५ ९.२६ . योगीच्छानन्तरोद्भूततथाभूताङ्कुरो यतः । ९.२६ . इष्टे तथाविधाकारे नियमो भासते यतः ॥ २६ ९.२७ . स्वप्ने घटपटादीनां हेतुतद्वत्स्वभावता । ९.२७ . भासते नियमेनैव बाधाशून्येन तावति ॥ २७ ९.२८ . ततो यावति याद्रूप्यान्नियमो बाधवर्जितः । ९.२८ . भाति तावति ताद्रूप्याद्दृढहेतुफलात्मता ॥ २८ ९.२९ . तथाभूते च नियमे हेतुतद्वत्त्वकारिणि । ९.२९ . वस्तुतश्चिन्मयस्यैव हेतुता तद्धि सर्वगम् ॥ २९ ९.३० . अत एव घटोद्भूतौ सामग्री हेतुरुच्यते । ९.३० . सामग्री च समग्राणां यद्येकं नेष्यते वपुः ॥ ३० ९.३१ . हेतुभेदान्न भेदः स्यात्फले तच्चासमञ्जसम् । ९.३१ . यद्यस्यानुविधत्ते तामन्वयव्यतिरेकिताम् ॥ ३१ ९.३२ . तत्तस्य हेतु चेत्सोऽयं कुण्ठतर्को न नः प्रियः । ९.३२ . समग्राश्च यथा दण्डसूत्रचक्रकरादयः ॥ ३२ ९.३३ . दूराश्च भाविनश्चेत्थं हेतुत्वेनेति मन्महे । ९.३३ . यदि तत्र भवेन्मेरुर्भविष्यन्वापि कश्चन ॥ ३३ ९.३४ . न जायेत घटो नूनं तत्प्रत्यूहव्यपोहितः । ९.३४ . यथा च चक्रं नियते देशे काले च हेतुताम् ॥ ३४ ९.३५ . याति कर्किसुमेर्वाद्यास्तद्वत्स्वस्थावधि स्थिताः । ९.३५ . तथा च तेषां हेतुनां संयोजनवियोजने ॥ ३५ ९.३६ . नियते शिव एवैकः स्वतन्त्रः कर्तृतामियात् । ९.३६ . कुम्भकारस्य या संवित्चक्रदण्डादियोजने ॥ ३६ ९.३७ . शिव एव हि सा यस्मात्संविदः का विशिष्टता । ९.३७ . कौम्भकारी तु संवित्तिरवच्छेदावभासनात् ॥ ३७ ९.३८ . भिन्नकल्पा यदि क्षेप्या दण्डचक्रादिमध्यतः । ९.३८ . तस्मादेकैकनिर्माणे शिवो विश्वैकविग्रहः ॥ ३८ ९.३९ . कर्तेति पुंसः कर्तृत्वाभिमानोऽपि विभोः कृतिः । ९.३९ . अत एव तथाभानपरमार्थतया स्थितेः ॥ ३९ ९.४० . कार्यकारणभावस्य लोके शास्त्रे च चित्रता । ९.४० . मायातोऽव्यक्तकलयोरिति रौरवसंग्रहे ॥ ४० ९.४१ . श्रीपूर्वे तु कलातत्त्वादव्यक्तमिति कथ्यते । ९.४१ . तत एव निशाख्यानात्कलीभूतादलिङ्गकम् ॥ ४१ ९.४२ . इति व्याख्यास्मदुक्तेऽस्मिन्सति न्यायेऽतिनिष्फला । ९.४२ . लोके च गोमयात्कीटात्संकल्पात्स्वप्नतः स्मृतेः ॥ ४२ ९.४३ . योगीच्छातो द्रव्यमन्त्रप्रभावादेश्च वृश्चिकः । ९.४३ . अन्य एव स चेत्कामं कुतश्चित्स्वविशेषतः ॥ ४३ ९.४४ . स तु सर्वत्र तुल्यस्तत्परामर्शैक्यमस्ति तु । ९.४४ . तत एव स्वरूपेऽपि क्रमेऽप्यन्यादृशी स्थितिः ॥ ४४ ९.४५ . शास्त्रेषु युज्यते चित्रात्तथाभावस्वभावतः । ९.४५ . पुंरागवित्कलाकालमाया ज्ञानोत्तरे क्रमात् ॥ ४५ ९.४६ . नियतिर्नास्ति वैरिञ्चे कलोर्ध्वे नियतिः श्रता । ९.४६ . पुंरागवित्त्रयादूर्ध्वं कलानियतिसंपुटम् ॥ ४६ ९.४७ . कालो मायेति कथितः क्रमः किरणशास्त्रगः । ९.४७ . पुमान्नियत्या कालश्च रागविद्याकलान्वितः ॥ ४७ ९.४८ . इत्येष क्रम उद्दिष्टो मातङ्गे पारमेश्वरे । ९.४८ . कार्यकारणभावीये तत्त्वे इत्थं व्यवस्थिते ॥ ४८ ९.४९ . श्रीपूर्वशास्त्रे कथितां वच्मः कारणकल्पनाम् । ९.४९ . शिवः स्वतन्त्रदृग्रूपः पञ्चशक्तिसुनिर्भरः ॥ ४९ ९.५० . स्वातन्त्र्यभासितभिदा पञ्चधा प्रविभज्यते । ९.५० . चिदानन्देषणाज्ञानक्रियाणां सुस्फुटत्वतः ॥ ५० ९.५१ . शिवशक्तिसदेशानविद्याख्यं तत्त्वपञ्चकम् । ९.५१ . एकैकत्रापि तत्त्वेऽस्मिन् सर्वशक्तिसुनिर्भरे ॥ ५१ ९.५२ . तत्तत्प्राधान्ययोगेन स स भेदो निरूप्यते । ९.५२ . तथाहि स्वस्वतन्त्रत्वपरिपूर्णतया विभुः ॥ ५२ ९.५३ . निःसंख्यैर्बहुभी रूपैर्भात्यवच्छेदवर्जनात् । ९.५३ . शांभवाः शक्तिजा मन्त्रमहेशा मन्त्रनायकाह् ॥ ५३ ९.५४ . मन्त्रा इति विशुद्धाः स्युरमी पञ्च गणाः क्रमात् । ९.५४ . स्वस्मिन्स्वस्मिन् गणे भाति यद्यद्रूपं समन्वयि ॥ ५४ ९.५५ . तदेषु तत्त्वमित्युक्तं कालाग्न्यादेर्धरादिवत् । ९.५५ . तेन यत्प्राहुराख्यानसादृश्येन विडम्बिताः ॥ ५५ ९.५६ . गुरूपासां विनैवात्तपुस्तकाभीष्टदृष्टयः । ९.५६ . ब्रह्मा निवृत्त्यधिपतिः पृथक्तत्त्वं न गण्यते ॥ ५६ ९.५७ . सदाशिवाद्यास्तु पृथग्गण्यन्त इति को नयः । ९.५७ . ब्रह्मविष्णुहरेशानसुशिवानाश्रितात्मनि ॥ ५७ ९.५८ . षट्के कारणसंज्ञेऽर्धजरतीयमियं कुतः । ९.५८ . इति तन्मूलतो ध्वस्तं गणितं नहि कारणम् ॥ ५८ ९.५९ . यथा पृथिव्यधिपतिर्नृपस्तत्त्वान्तरं नहि । ९.५९ . तथा तत्तत्कलेशानः पृथक्तत्त्वान्तरं कथम् ॥ ५९ ९.६० . तदेवं पञ्चकमिदं शुद्धोऽध्वा परिभाष्यते । ९.६० . तत्र साक्षाच्छिवेच्छैव कर्त्र्याभासितभेदिका ॥ ६० ९.६१ . ईश्वरेच्छावशक्षुब्धभोगलोलिकचिद्गणान् । ९.६१ . संविभक्तुमघोरेशः सृजतीह सितेतरम् ॥ ६१ ९.६२ . अणूनां लोलिका नाम निष्कर्मा याभिलाषिता । ९.६२ . अपूर्णंमन्यताज्ञानं मलं सावच्छिदोज्झिता ॥ ६२ ९.६३ . योग्यतामात्रमेवैतद्भाव्यवच्छेदसंग्रहे । ९.६३ . मलस्तेनास्य न पृथक्तत्त्वभावोऽस्ति रागवत् ॥ ६३ ९.६४ . निरवच्छेदकर्मांशमात्रावच्छेदतस्तु सा । ९.६४ . रागः पुंसि धियो धर्मः कर्मभेदविचित्रता ॥ ६४ ९.६५ . अपूर्णमन्यता चेयं तथारूपावभासनम् । ९.६५ . स्वतन्त्रस्य शिवस्येच्छा घटरूपो यथा घटः ॥ ६५ ९.६६ . स्वात्मप्रच्छादनेच्छैव वस्तुभूतस्तथा मलः । ९.६६ . यथैवाव्यतिरिक्तस्य धरादेर्भावितात्मता ॥ ६६ ९.६७ . तथैवास्येति शास्त्रेषु व्यतिरिक्तः स्थितो मलः । ९.६७ . व्यतिरिक्तः स्वतन्त्रस्तु न कोऽपि शकटादिवत् ॥ ६७ ९.६८ . तत्सद्वितीया साशुद्धिः शिवमुक्ताणुगा न किम् । ९.६८ . मलस्य रोद्ध्री काप्यस्ति शक्तिः स चाप्यमुक्तगा ॥ ६८ ९.६९ . इति न्यायोज्झितो वादः श्रद्धामात्रैककल्पितः । ९.६९ . रोद्ध्री शक्तिर्जडस्यासौ स्वयं नैव प्रवर्तते ॥ ६९ ९.७० . स्वयं प्रवृत्तौ विश्वं स्यात्तथा चेशनिका प्रमा । ९.७० . मलस्य रोद्ध्रीं तां शक्तिमीशश्चेत्संयुनक्ति तत् ॥ ७० ९.७१ . कीदृशं प्रत्यणुमिति प्रश्ने नास्त्युत्तरं वचः । ९.७१ . मलश्चावरणं तच्च नावार्यस्य विशेषकम् ॥ ७१ ९.७२ . उपलम्भं विहन्त्येतद्घटस्येव पटावृतिः । ९.७२ . मलेनावृतरूपाणामणूनां यत्सतत्त्वकम् ॥ ७२ ९.७३ . शिव एव च तत्पश्येत्तस्यैवासौ मलो भवेत् । ९.७३ . विभोर्ज्ञानक्रियामात्रसारस्याणुगणस्य च ॥ ७३ ९.७४ . तदभावो मलो रूपध्वंसायैव प्रकल्पते । ९.७४ . धर्माद्धर्मिणि यो भेदः समवायेन चैकता ॥ ७४ ९.७५ . न तद्भवद्भिरुदितं कणभोजनशिष्यवत् । ९.७५ . नामूर्तेन न मूर्तेन प्रावरीतुं च शक्यते ॥ ७५ ९.७६ . ज्ञानं चाक्षुषरश्मीनां तथाभावे सरत्यपि । ९.७६ . स एव च मलो मूर्तः किं ज्ञानेन न वेद्यते ॥ ७६ ९.७७ . सर्वगेण ततः सर्वः सर्वज्ञत्वं न किं भजेत् । ९.७७ . यश्च ध्वान्तात्प्रकाशस्यावृतिस्तत्प्रतिघातिभिः ॥ ७७ ९.७८ . मूर्तानां प्रतिघस्तेजोऽणूनां नामूर्त ईदृशम् । ९.७८ . न च चेतनमात्मानमस्वतन्त्रो मलः क्षमः ॥ ७८ ९.७९ . आवरीतुं न चाच्यं च मद्यावृतिनिदर्शनम् । ९.७९ . उक्तं भवद्भिरेवेत्थं जडः कर्ता नहि स्वयम् ॥ ७९ ९.८० . स्वतन्त्रस्येश्वरस्यैताः शक्तयः प्रेरिकाः किल । ९.८० . अतः कर्मविपाकज्ञप्रभुशक्तिबलेरितम् ॥ ८० ९.८१ . मद्यं सूते मदं दुःखसुखमोहफलात्मकम् । ९.८१ . न चेशप्रेरितः पुंसो मल आवृणुयाद्यतः ॥ ८१ ९.८२ . निर्मले पुंसि नेशस्य प्रेरकत्वं तथोचितम् । ९.८२ . तुल्ये निर्मलभावे च प्रेरयेयुर्न ते कथम् ॥ ८२ ९.८३ . तमीशं प्रति युक्तं यद्भूयसां स्यात्सधर्मता । ९.८३ . तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम् ॥ ८३ ९.८४ . निर्णीतं विततं चैतन्मयान्यत्रेत्यलं पुनः । ९.८४ . मलोऽभिलाषश्चाज्ञानमविद्या लोलिकाप्रथा ॥ ८४ ९.८५ . भवदोषोऽनुप्लवश्च ग्लानिः शोषो विमूढता । ९.८५ . अहंममात्मतातङ्को मायाशक्तिरथावृतिः ॥ ८५ ९.८६ . दोषबीजं पशुत्वं च संसाराङ्कुरकारणम् । ९.८६ . इत्याद्यन्वर्थसंज्ञाभिस्तत्र तत्रैष भण्यते ॥ ८६ ९.८७ . अस्मिन् सति भवति भवो दुष्टो भेदात्मनेति भवदोषः । ९.८७ . मञ्चवदस्मिन् दुःखस्रोतोऽणून् वहति यत्प्लवस्तेन ॥ ८७ ९.८८ . शेषास्तु सुगमरूपाः शब्दास्तत्रार्थमूहयेदुचितम् । ९.८८ . संसारकारणं कर्म संसाराङ्कुर उच्यते ॥ ८८ ९.८९ . चतुर्दशविधं भूतवैचिअत्र्यं कर्मजं यतः । ९.८९ . अत एव सांख्ययोगपाञ्चरात्रादिशासने ॥ ८९ ९.९० . अहंममेति संत्यागो नैष्कर्म्यायोपदिश्यते । ९.९० . निष्कर्मा हि स्थिते मूलमलेऽप्यज्ञाननामनि ॥ ९० ९.९१ . वैचित्र्यकारणाभावान्नोर्ध्व सरति नाप्यधः । ९.९१ . केवलं पारिमित्येन शिवाभेदमसंस्पृशन् ॥ ९१ ९.९२ . विज्ञानकेवली प्रोक्तः शुद्धचिन्मात्रसंस्थितः । ९.९२ . स पुनः शांभवेच्छातः शिवाभेदं परामृशन् ॥ ९२ ९.९३ . क्रमान्मन्त्रेशतन्नेतृरूपो याति शिवात्मताम् । ९.९३ . ननु कारणमेतस्य कर्मणश्चेन्मलः कथम् ॥ ९३ ९.९४ . स विज्ञानाकलस्यापि न सूते कर्मसंततिम् । ९.९४ . मैवं स हि मलो ज्ञानाकले दिध्वंसिषुः कथम् ॥ ९४ ९.९५ . हेतुः स्याद्ध्वंसमानत्वं स्वातन्त्र्यादेव चोद्भवेत् । ९.९५ . दिध्वंसिषुध्वंसमानध्वस्ताख्यासु तिसृष्वथ ॥ ९५ ९.९६ . दशास्वन्तः कृतावस्थान्तरासु स्वक्रमस्थितेः । ९.९६ . विज्ञानाकलमन्त्रेशतदीशादित्वकल्पना ॥ ९६ ९.९७ . ततश्च सुप्ते तुर्ये च वक्ष्यते बहुभेदता । ९.९७ . अतः प्रध्वंसनौन्मुख्यखिलीभूतस्वशक्तिकः ॥ ९७ ९.९८ . कर्मणो हेतुतामेतु मलः कथमिवोच्यताम् । ९.९८ . किं च कर्मापि न मलाद्यतः कर्म क्रियात्मकम् ॥ ९८ ९.९९ . क्रिया च कर्तृतारूपात्स्वातन्त्र्यान्न पुनर्मलात् । ९.९९ . या त्वस्य कर्मणश्चित्रफलदत्वेन कर्मता ॥ ९९ ९.१०० . प्रसिद्धा सा न संकोचं विनात्मनि मलश्च सः । ९.१०० . विचित्रं हि फलं भिन्नं भोग्यत्वेनाभिमन्यते ॥ १०० ९.१०१ . भोक्तर्यात्मनि तेनेयं भेदरूपा व्यवस्थितिः । ९.१०१ . इति स्वकार्यप्रसवे सहकारित्वमाश्रयन् ॥ १०१ ९.१०२ . सामर्थ्यव्यञ्जकत्वेन कर्मणः कारणं मलः । ९.१०२ . नन्वेवं कर्मसद्भावान्मलस्यापि स्थितेः कथम् ॥ १०२ ९.१०३ . विज्ञानाकलता तस्य संकोचो ह्यस्ति तादृशः । ९.१०३ . मैवमध्वस्तसंकोचोऽप्यसौ भावनया दृढम् ॥ १०३ ९.१०४ . नाहं कर्तेति मन्वानः कर्मसंस्कारमुज्झति । ९.१०४ . फलिष्यतीदं कर्मेति या दृढा वृत्तिरात्मनि ॥ १०४ ९.१०५ . स संस्कारः फलायेह न तु स्मरणकारणम् । ९.१०५ . अप्रध्वस्तेऽपि संकोचे नाहं कर्तेति भावनात् ॥ १०५ ९.१०६ . न फलं क्षीवमूढादेः प्रायश्चित्तेऽथ वा कृते । ९.१०६ . यन्मयाद्य तपस्तप्तं तदस्मै स्यादिति स्फुटम् ॥ १०६ ९.१०७ . अभिसंधिमतः कर्म न फलेदभिसन्धितः । ९.१०७ . तथाभिसंधानाख्यां तु मानसे कर्म संस्क्रियाम् ॥ १०७ ९.१०८ . फलोपरक्तां विदधत्कल्पते फलसम्पदे । ९.१०८ . यस्तु तत्रापि दार्ढ्येन फलसंस्कारमुज्झति ॥ १०८ ९.१०९ . स तत्फलत्यागकृतं विशिष्टं फलमश्नुते । ९.१०९ . अनया परिपाट्या यः समस्तां कर्मसंततिम् ॥ १०९ ९.११० . अनहंयुतया प्रोज्झेत्ससंकोचोऽपि सोऽकलः । ९.११० . नन्वित्थं दुष्कृतं किंचिदात्मीयमभिसंधितः ॥ ११० ९.१११ . परस्मै स्यान्न विज्ञातं भवता तात्त्विकं वचः । ९.१११ . तस्य भोक्तुस्तथा चेत्स्यादभिसंधिर्यथात्मनि ॥ १११ ९.११२ . तदवश्यं परस्यापि सतस्तद्दुष्कृतं भवेत् । ९.११२ . पराभिसंधिसंवित्तौ स्वाभिसंधिर्दृढीभवेत् ॥ ११२ ९.११३ . अभिसंधानविरहे त्वस्य नो फलयोगिता । ९.११३ . न मे दुष्कृतमित्येषा रूढिस्तस्याफलाय सा ॥ ११३ ९.११४ . पराभिसन्धिविच्छेदे स्वात्मनानभिसंहितौ । ९.११४ . द्वयोरपि फलं न स्यान्नाशहेतुव्यवस्थितेः ॥ ११४ ९.११५ . सुखहेतौ सुखे चास्य सामान्यादभिसंधितः । ९.११५ . निर्विशेषादपि न्याय्या धर्मादिफलभोक्तृता ॥ ११५ ९.११६ . दुःखं मे दुःखहेतुर्वा स्तादित्येष पुनर्न तु । ९.११६ . सामान्योऽप्यभिसंधिः स्यात्तदधर्मस्य नागमः ॥ ११६ ९.११७ . प्रकृतं ब्रूमहे ज्ञानाकलस्योक्तचरस्य यत् । ९.११७ . अनहंयुतया सर्वा विलीनाः कर्मसंस्क्रियाः ॥ ११७ ९.११८ . तस्मादस्य न कर्मास्ति कस्यापि सहकारिताम् । ९.११८ . मलः करोतु तेनायं ध्वंसमानत्वमश्नुते ॥ ११८ ९.११९ . अपध्वस्तमलस्त्वन्तःशिवावेशवशीकृतः । ९.११९ . अहंभावपरोऽप्येति न कर्माधीनवृत्तिताम् ॥ ११९ ९.१२० . उक्तं श्रीपूर्वशास्त्रे च तदेतत्परमेशिना । ९.१२० . मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ॥ १२० ९.१२१ . धर्माधर्मात्मकं कर्म सुखदुःखादिलक्षणम् । ९.१२१ . लक्षयेत्सुखदुःखादि स्वं कार्य हेतुभावतः ॥ १२१ ९.१२२ . नहि हेतुः कदाप्यास्ते विना कार्य निजं क्वचित् । ९.१२२ . हेतुता योग्यतैवासौ फलानन्तर्यभाविता ॥ १२२ ९.१२३ . पूर्वकस्य तु हेतुत्वं पारम्पर्येण किं च तत् । ९.१२३ . लक्ष्यते सुखदुःखाद्यैः समाने दृष्टकारणे ॥ १२३ ९.१२४ . चित्रैर्हेत्वन्तरं किंचित्तच्च कर्मेह दर्शनात् । ९.१२४ . स्वाङ्गे प्रसादरौक्ष्यादि जायमानं स्वकर्मणा ॥ १२४ ९.१२५ . दृष्टमित्यन्यदेहस्थं कारणं कर्म कल्प्याते । ९.१२५ . इहाप्यन्यान्यदेहस्थे स्फुटं कर्मफले यतः ॥ १२५ ९.१२६ . कृषिकर्म मधौ भोगः शरद्यन्या च सा तनुः । ९.१२६ . अनुसंधातुरेकस्य संभवस्तु यतस्ततः ॥ १२६ ९.१२७ . तस्यैव तत्फलं चित्रं कर्म यस्य पुरातनम् । ९.१२७ . क्षीवोऽपि राजा सूदं चेदादिशेत्प्रातरीदृशम् ॥ १२७ ९.१२८ . भोजयेत्यनुसंधानाद्विना प्राप्नोति तत्फलम् । ९.१२८ . इत्थं जन्मान्तरोपात्तकर्माप्यद्यानुसंधिना ॥ १२८ ९.१२९ . विना भुङ्क्ते फलं हेतुस्तत्र प्राच्या ह्यकम्पता । ९.१२९ . अत एव कृतं कर्म कर्मणा तपसापि वा ॥ १२९ ९.१३० . ज्ञानेन वा निरुध्येत फलपाकेष्वनुन्मुखम् । ९.१३० . आरब्धकार्यं देहेऽस्मिन् यत्पुनः कर्म तत्कथम् ॥ १३० ९.१३१ . उच्छिद्यतामन्त्यदशं निरोद्धुं नहि शक्यते । ९.१३१ . तत्रैव देहे यत्त्वन्यदद्यगं वा पुरातनम् ॥ १३१ ९.१३२ . कर्म तज्ज्ञानदीक्षाद्यैः शण्ढीकर्तुं प्रसह्यते । ९.१३२ . तथा संस्कारदार्ढ्य हि फलाय दृढता पुनः ॥ १३२ ९.१३३ . यदा यदा विनश्येत कर्मध्वस्तं तदा तदा । ९.१३३ . अतो मोहपराधीनो यद्यप्यकृत किंचन ॥ १३३ ९.१३४ . तथापि ज्ञानकाले तत्सर्वमेव प्रदह्यते । ९.१३४ . उक्तं च श्रीपरेऽहानादानः सर्वदृगुल्वणः ॥ १३४ ९.१३५ . मुहूर्तान्निर्दहेत्सर्व देहस्थमकृतं कृतम् । ९.१३५ . देहस्थमिति देहेन सह तादात्म्यमाश्रिता ॥ १३५ ९.१३६ . स्वाच्छन्द्यात्संविदेवोक्ता तत्रस्थं कर्म दह्यते । ९.१३६ . देहैक्यवासनात्यागात्स च विश्वात्मतास्थितेः ॥ १३६ ९.१३७ . अकालकलिते व्यापिन्यभिन्ने या हि संस्क्रिया । ९.१३७ . संकोच एव सानेन सोऽपि देहैकतामयः ॥ १३७ ९.१३८ . एतत्कार्ममलं प्रोक्तं येन साकं लयाकलाः । ९.१३८ . स्युर्गुहागहनान्तःस्थाः सुप्ता इव सरीसृपाः ॥ १३८ ९.१३९ . ततः प्रबुद्धसंस्कारास्ते यथोचितभागिनः । ९.१३९ . ब्रह्मादिस्थावरान्तेऽस्मिन् संस्रन्ति पुनः पुनः ॥ १३९ ९.१४० . ये पुनः कर्मसंस्कारहान्यै प्रारब्धभावनाः । ९.१४० . भावनापरिनिष्पत्तिमप्राप्य प्रलयं गताः ॥ १४० ९.१४१ . महान्तं ते तथान्तःस्थभावनापाकसौष्ठवात् । ९.१४१ . मन्त्रत्वं प्रतिपद्यन्ते चित्राच्चित्रं च कर्मतः ॥ १४१ ९.१४२ . अस्य कार्ममलस्येयन्मायान्ताध्वविसारिणः । ९.१४२ . प्रधानं कारणं प्रोक्तमज्ञानात्माणवो मलः ॥ १४२ ९.१४३ . क्षोभोऽस्य लोलिकाख्यस्य सहकारितया स्फुटम् । ९.१४३ . तिष्ठासायोग्यतौन्मुख्यमीश्वरेच्छावशाच्च तत् ॥ १४३ ९.१४४ . न जडश्चिदधिष्ठानं विना क्वापि क्षमो यतः । ९.१४४ . अणवो नाम नैवान्यत्प्रकाशात्मा महेश्वरः ॥ १४४ ९.१४५ . चिदचिद्रूपताभासी पुद्गलः क्षेत्रवित्पशुः । ९.१४५ . चिद्रूपत्वाच्च स व्यापी निर्गुणो निष्क्रियस्ततः ॥ १४५ ९.१४६ . योगोपायेप्सको नित्यो मूर्तिवन्ध्यः प्रभाष्यते । ९.१४६ . अचित्त्वादज्ञता भेदो भोग्याद्भोक्त्रन्तरादथ ॥ १४६ ९.१४७ . तेषामणूनां स मल ईश्वरेच्छावशाद्भृशम् । ९.१४७ . प्रबुध्यते तथा चोक्तं शास्त्रे श्रीपूर्वनामनि ॥ १४७ ९.१४८ . ईश्वरेच्छावशादस्य भोगेच्छा संप्रजायते । ९.१४८ . भोगेच्छोरुपकारार्थमाद्यो मन्त्रमहेश्वरः ॥ १४८ ९.१४९ . मायां विक्षोभ्य संसारं निर्मिमीते विचित्रकम् । ९.१४९ . माया च नाम देवस्य शक्तिरव्यतिरेकिणी ॥ १४९ ९.१५० . भेदावभासस्वातन्त्र्यं तथाहि स तया कृतः । ९.१५० . आद्यो भेदावभासो यो विभागमनुपेयिवान् ॥ १५० ९.१५१ . गर्भीकृतानन्तभाविविभासा सा परा निशा । ९.१५१ . सा जडा भेदरूपत्वात्कार्यं चास्या जडं यतः ॥ १५१ ९.१५२ . व्यापिनी विश्वहेतुत्वात्सूक्ष्मा कार्यैककल्पनात् । ९.१५२ . शिवशक्त्यविनाभावान्नित्यैका मूलकारणम् ॥ १५२ ९.१५३ . अचेतनमनेकात्म सर्व कार्य यथा घटः । ९.१५३ . प्रधानं च तथा तस्मात्कार्य नात्मा तु चेतनः ॥ १५३ ९.१५४ . अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता । ९.१५४ . यथा च माया देवस्य शक्तिरभ्येति भेदिनम् ॥ १५४ ९.१५५ . तत्त्वभावं तथान्योऽपि कलादिस्तत्त्वविस्तरः । ९.१५५ . निरुद्धशक्तेर्या किंचित्कर्तृतोद्वलनात्मिका ॥ १५५ ९.१५६ . नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते । ९.१५६ . एवं विद्यादयोऽप्येते धरान्ताः परमार्थतः ॥ १५६ ९.१५७ . शिवशक्तिमया एव प्रोक्तन्यायानुसारतः । ९.१५७ . तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया ॥ १५७ ९.१५८ . ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम् । ९.१५८ . उपादानं स्मृता माया क्वचित्तत्कार्यमेव च ॥ १५८ ९.१५९ . तथावभासचित्रं च रूपमन्योन्यवर्जितम् । ९.१५९ . यद्भाति किल संकल्पे तदस्ति घटवद्वहिः ॥ १५९ ९.१६० . खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता । ९.१६० . खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः ॥ १६० ९.१६१ . धरादिवत्तथात्यन्ताभावोऽप्येवं विविच्यताम् । ९.१६१ . यत्संकल्प्यं तथा तस्य बहिर्देहोऽस्ति चेतनः ॥ १६१ ९.१६२ . चैत्रवत्सौशिवान्तं तत्सर्व तादृशदेहवत् । ९.१६२ . यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः ॥ १६२ ९.१६३ . अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः । ९.१६३ . आत्मनां तत्पुरं प्राप्यं देशत्वादन्यदेशवत् ॥ १६३ ९.१६४ . आत्मनामध्वभोक्तृत्वं ततोऽयत्नेन सिद्ध्यति । ९.१६४ . सा माया क्षोभमापन्ना विश्वं सूते समन्ततः ॥ १६४ ९.१६५ . दण्डाहतेवामलकी फलानि किल यद्यपि । ९.१६५ . तथापि तु तथा चित्रपौर्वापर्यावभासनात् ॥ १६५ ९.१६६ . मायाकार्येऽपि तत्त्वौघे कार्यकारणता मिथः । ९.१६६ . सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम् ॥ १६६ ९.१६७ . तथापि मालिनीशास्त्रदृशा तां संप्रचक्ष्महे । ९.१६७ . कलादिवसुधान्तं यन्मायान्तः संप्रचक्षते ॥ १६७ ९.१६८ . प्रत्यात्मभिन्नमेवैतत्सुखदुःखादिभेदतः । ९.१६८ . एकस्यामेव जगति भोगसाधनसंहतौ ॥ १६८ ९.१६९ . सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत् । ९.१६९ . न चासौ कर्मभेदेन तस्यैवानुपपत्तितः ॥ १६९ ९.१७० . तस्मात्कलादिको वर्गो भिन्न एव कदाचन । ९.१७० . ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने ॥ १७० ९.१७१ . एषां कलादितत्त्वानां सर्वेषामपि भाविनाम् । ९.१७१ . शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः ॥ १७१ ९.१७२ . कला हि शुद्धा तत्तादृक्कर्मत्वं संप्रसूयते । ९.१७२ . मितमप्याशु येनास्मात्संसारादेष मुच्यते ॥ १७२ ९.१७३ . रागविद्याकालयतिप्रकृत्यक्षार्थसंचयः । ९.१७३ . इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः ॥ १७३ ९.१७४ . एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते । ९.१७४ . मायातत्त्वात्कला जाता किंचित्कर्तृत्वलक्षणा ॥ १७४ ९.१७५ . माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः । ९.१७५ . सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः ॥ १७५ ९.१७६ . कला हि किंचित्कर्तृत्वं सूते स्वालिङ्गनादणोः । ९.१७६ . तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते ॥ १७६ ९.१७७ . सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती । ९.१७७ . श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित् ॥ १७७ ९.१७८ . उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च । ९.१७८ . बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात्प्रसूतिकृत् ॥ १७८ ९.१७९ . कला मायाणुसंयोगजाप्येषा निर्विकारकम् । ९.१७९ . नाणुं कुर्यादुपादानं किंतु मायां विकारिणीम् ॥ १७९ ९.१८० . मलश्चावारको माया भावोपादानकारणम् । ९.१८० . कर्म स्यात्सहकार्येव सुखदुःखोद्भवं प्रति ॥ १८० ९.१८१ . अतः संच्छन्नचैतन्यसमुद्बलनकार्यकृत् । ९.१८१ . कलैवानन्तनाथस्य शक्त्या संप्रेरिता जडा ॥ १८१ ९.१८२ . न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति । ९.१८२ . तदुपोद्बलितं तद्धि न किंचित्कर्तृतां व्रजेत् ॥ १८२ ९.१८३ . सेयं कला न करणं मुख्यं विद्यादिकं यथा । ९.१८३ . पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः ॥ १८३ ९.१८४ . अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत् । ९.१८४ . मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम् ॥ १८४ ९.१८५ . तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत् । ९.१८५ . विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान् ॥ १८५ ९.१८६ . धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे । ९.१८६ . अपि न क्षीणकर्मा स्यात्कलायां तद्धि संभवेत् ॥ १८६ ९.१८७ . अतः सांख्यदृशा सिद्धः प्रधानाधो न संसरेत् । ९.१८७ . कलापुंसोर्विवेके तु मायाधो नैव गच्छति ॥ १८७ ९.१८८ . मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत् । ९.१८८ . सर्वत्र चैश्वरः शक्तिपातोऽत्र सहकारणम् ॥ १८८ ९.१८९ . मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः । ९.१८९ . सेयं कला कार्यभेदादन्यैव ह्यनुमीयते ॥ १८९ ९.१९० . अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः । ९.१९० . इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम् ॥ १९० ९.१९१ . किंचिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः । ९.१९१ . किंचिद्रूपविशिष्टं यत्कर्तृत्वं तत्कथं भवेत् ॥ १९१ ९.१९२ . अज्ञस्येति ततः सूते किंचिज्ज्ञत्वात्मिकां विदम् । ९.१९२ . बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः ॥ १९२ ९.१९३ . सुखादीन् प्रत्ययान्मोहप्रभृतीन् कार्यकारणे । ९.१९३ . कर्मजालं च तत्रस्थं विविनक्ति निजात्मना ॥ १९३ ९.१९४ . बुद्धिस्तु गुणसंकीर्णा विवेकेन कथं सुखम् । ९.१९४ . दुःखं मोहात्मकं वापि विषयं दर्शयेदपि ॥ १९४ ९.१९५ . स्वच्छायां धियि संक्रामन्भावः संवेद्यतां कथम् । ९.१९५ . तया विनैति साप्यन्यत्करणं पुंसि कर्तरि ॥ १९५ ९.१९६ . ननु चोभयतः शुभ्रादर्शदशीयधीगतात् । ९.१९६ . पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम् ॥ १९६ ९.१९७ . जडमेव हि मुख्योऽथ पुंस्प्रकाशोऽस्य भासनम् । ९.१९७ . बहिःस्थस्यैव तस्यास्तु बुद्धेः किंकल्पना कृता ॥ १९७ ९.१९८ . अभेदभूमिरेषा च भेदश्चेह विचार्यते । ९.१९८ . तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः ॥ १९८ ९.१९९ . भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः । ९.१९९ . किंचित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत् ॥ १९९ ९.२०० . रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम् । ९.२०० . न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः ॥ २०० ९.२०१ . विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः । ९.२०१ . कालस्तुट्यादिभिश्चैतत्कर्तृत्वं कलयत्यतः ॥ २०१ ९.२०२ . कार्यावच्छेदि कर्तृत्वं कालोऽवश्यं कलिष्यति । ९.२०२ . नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले ॥ २०२ ९.२०३ . विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम् । ९.२०३ . कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम् ॥ २०३ ९.२०४ . माया कला रागविद्ये कालो नियतिरेव च । ९.२०४ . कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः ॥ २०४ ९.२०५ . देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम् । ९.२०५ . एतत्षट्कससंकोचं यदवेद्यमसावणुः ॥ २०५ ९.२०६ . उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः । ९.२०६ . आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव ॥ २०६ ९.२०७ . शिवदहनकिरणजालैर्दाह्यत्वात्सा यतोऽन्यरूपैव । ९.२०७ . अनिदंपूर्वतया यद्रञ्जयति निजात्मना ततोऽनन्या ॥ २०७ ९.२०८ . सहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः । ९.२०८ . तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा ॥ २०८ ९.२०९ . अनया विद्वस्य पशोरुपभोगसमर्थता भवति । ९.२०९ . विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत् ॥ २०९ ९.२१० . सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन । ९.२१० . रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत्समुत्पन्नः ॥ २१० ९.२११ . त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम् । ९.२११ . एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन ॥ २११ ९.२१२ . गहनोपभोगगर्भे पशुरवशमधोमुखः पतति । ९.२१२ . एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत् ॥ २१२ ९.२१३ . एवं कलाख्यतत्त्वस्य किंचित्कर्तृत्वलक्षणे । ९.२१३ . विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम् ॥ २१३ ९.२१४ . विशेषणतया योऽत्र किञ्चिद्भागस्तदोत्थितम् । ९.२१४ . वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला ॥ २१४ ९.२१५ . सममेव हि भोग्यं च भोक्तारं च प्रसूयते । ९.२१५ . कला भेदाभिसंधानादवियुक्तं परस्परम् ॥ २१५ ९.२१६ . भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम् । ९.२१६ . विलीनायां च तस्यां स्यान्मायास्यापि न किंचन ॥ २१६ ९.२१७ . ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम् । ९.२१७ . सूते कला हि युगपत्ततोऽव्यक्तमिति स्थितिः ॥ २१७ ९.२१८ . उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम् । ९.२१८ . रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते ॥ २१८ ९.२१९ . तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता । ९.२१९ . तस्यां च न क्रमः कोऽपि स्याद्वा सोऽपि विपर्ययात् ॥ २१९ ९.२२० . तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ । ९.२२० . एवं संवेद्यमात्रं यत्सुखदुःखविमोहतः ॥ २२० ९.२२१ . भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः । ९.२२१ . सुखं सत्त्वं प्रकाशत्वात्प्रकाशो ह्लाद उच्यते ॥ २२१ ९.२२२ . दुःखं रजः क्रियात्मत्वाद्क्रिया हि तदतत्क्रमः । ९.२२२ . मोहस्तमो वरणकः प्रकाशाभावयोगतः ॥ २२२ ९.२२३ . त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते । ९.२२३ . अक्षुब्धस्य विजातीयं न स्यात्कार्यमदः पुरा ॥ २२३ ९.२२४ . उक्तमेवेति शास्त्रेऽस्मिन् गुणांस्तत्त्वान्तरं विदुः । ९.२२४ . भुवनं पृथगेवात्र दर्शितं गुणभेदतः ॥ २२४ ९.२२५ . ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति । ९.२२५ . भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद्भृशम् ॥ २२५ ९.२२६ . तेन यच्चोद्यते सांख्यं मुक्ताणुं प्रति किं न सा । ९.२२६ . सूते पुंसो विकारित्वादिति तन्नात्र बाधकम् ॥ २२६ ९.२२७ . गुणेभ्यो बुद्धितत्त्वं तत्सर्वतो निर्मलं ततः । ९.२२७ . पुंस्प्रकाशः स वेद्योऽत्र प्रतिबिम्बत्वमार्छति ॥ २२७ ९.२२८ . विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः । ९.२२८ . अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी ॥ २२८ ९.२२९ . वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम् । ९.२२९ . आत्मसंवित्प्रकाशस्य बोधोऽसौ तज्जडोऽप्यलम् ॥ २२९ ९.२३० . बुद्धेरहंकृत्तादृक्षे प्रतिबिम्बितपुंस्कृतेः । ९.२३० . प्रकाशे वेद्यकलुषे यदहंमननात्मता ॥ २३० ९.२३१ . तया पञ्चविधश्चैष वायुः संरम्भरूपया । ९.२३१ . प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः ॥ २३१ ९.२३२ . अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः । ९.२३२ . अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः ॥ २३२ ९.२३३ . इत्ययं करणस्कन्धोऽहंकारस्य निरूपितः । ९.२३३ . त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः ॥ २३३ ९.२३४ . सत्त्वप्रधानाहंकाराद्भोक्त्रंशस्पर्शिनः स्फुटम् । ९.२३४ . मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते ॥ २३४ ९.२३५ . मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम् । ९.२३५ . सर्वतन्मात्रकर्तृत्वं विशेषणमहंकृतेः ॥ २३५ ९.२३६ . बुद्ध्यहंकृन्मनः प्राहुर्बोधसंरभणैषणे । ९.२३६ . करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम् ॥ २३६ ९.२३७ . प्राणश्च नान्तःकरणं जडत्वात्प्रेरणात्मनः । ९.२३७ . प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम् ॥ २३७ ९.२३८ . अवसायोऽभिमानश्च कल्पना चेति न क्रिया । ९.२३८ . एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम् ॥ २३८ ९.२३९ . न च बुद्धिरसंवेद्या करणत्वान्मनो यथा । ९.२३९ . प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः ॥ २३९ ९.२४० . शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहंकृतिः । ९.२४० . सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता ॥ २४० ९.२४१ . भौतिकत्वमतोऽप्यस्तु नियमाद्विषयेष्वलम् । ९.२४१ . अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि ॥ २४१ ९.२४२ . अहंतानुगमादाहंकारिकत्वं स्फुटं स्थितम् । ९.२४२ . करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः ॥ २४२ ९.२४३ . कर्तुर्विभिन्नं करणं प्रेर्यत्वात्करणं कुतः । ९.२४३ . करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः ॥ २४३ ९.२४४ . तस्मात्स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः । ९.२४४ . कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम् ॥ २४४ ९.२४५ . करणीकृततत्स्वांशतन्मयीभावनावशात् । ९.२४५ . करणीकुरुतेऽत्यन्तव्यतिरिक्तं कुठारवत् ॥ २४५ ९.२४६ . तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा । ९.२४६ . ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते ॥ २४६ ९.२४७ . ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता । ९.२४७ . तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः ॥ २४७ ९.२४८ . उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका । ९.२४८ . तया विना तु नान्येषां करणानां स्थितिर्यतः ॥ २४८ ९.२४९ . अतोऽसामान्यकरणवर्गात्तत्र पृथक्कृता । ९.२४९ . विद्यां विना हि नान्येषां करणानां निजा स्थितिः ॥ २४९ ९.२५० . कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः । ९.२५० . कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः ॥ २५० ९.२५१ . अत एव विहीनेऽपि बुद्धिकर्मेन्द्रियैः क्वचित् । ९.२५१ . अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते ॥ २५१ ९.२५२ . किंतु सामान्यकरणबलाद्वेद्येऽपि तादृशि । ९.२५२ . रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते ॥ २५२ ९.२५३ . तत एव त्वहंकारात्तन्मात्रस्पर्शिनोऽधिकम् । ९.२५३ . कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे ॥ २५३ ९.२५४ . वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च । ९.२५४ . इति याहंक्रिया कार्यक्षमा कर्मेन्द्रियं तु तत् ॥ २५४ ९.२५५ . तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः । ९.२५५ . तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः ॥ २५५ ९.२५६ . मुखेनापि यदादानं तत्र यत्करणं स्थितम् । ९.२५६ . स पाणिरेव करणं विना किं संभवेत्क्रिया ॥ २५६ ९.२५७ . तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम् । ९.२५७ . दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते ॥ २५७ ९.२५८ . परैर्गमौ तु करणं नेष्यते चेति विस्मयः । ९.२५८ . गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम् ॥ २५८ ९.२५९ . पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने । ९.२५९ . क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम् ॥ २५९ ९.२६० . ज्ञानं नादानमित्येतत्स्फुटमान्ध्यविजृम्भितम् । ९.२६० . तस्मात्कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः ॥ २६० ९.२६१ . तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम । ९.२६१ . नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते ॥ २६१ ९.२६२ . करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः । ९.२६२ . नन्वेतत्खेटपालाद्यैर्निराकारि न कर्मणाम् ॥ २६२ ९.२६३ . यत्साधनं तदक्षं स्यात्किंतु कस्यापि कर्मणः । ९.२६३ . एतन्नास्मत्कृतप्रश्नतृष्णासंतापशान्तये ॥ २६३ ९.२६४ . नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः । ९.२६४ . उच्यते श्रीमतादिष्टं शंभुनात्र ममोत्तरम् ॥ २६४ ९.२६५ . स्वच्छसंवेदनोदारविकलाप्रबलीकृतम् । ९.२६५ . इह कर्मानुसंधानभेदादेकं विभिद्यते ॥ २६५ ९.२६६ . तत्रानुसंधिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः । ९.२६६ . त्यागायादानसंपत्त्यै द्वयाय द्वितयं विना ॥ २६६ ९.२६७ . स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः । ९.२६७ . पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम् ॥ २६७ ९.२६८ . अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक् । ९.२६८ . उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः ॥ २६८ ९.२६९ . तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते । ९.२६९ . तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः ॥ २६९ ९.२७० . एतत्कर्तव्यचक्रं तदसांकर्येण कुर्वते । ९.२७० . अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते संकरं जडाः ॥ २७० ९.२७१ . उक्त इन्द्रियवर्गोऽयमहंकारात्तु राजसात् । ९.२७१ . तमःप्रधानाहंकाराद्भोक्त्रंशच्छादनात्मनः ॥ २७१ ९.२७२ . भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम् । ९.२७२ . मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः ॥ २७२ ९.२७३ . इत्यत्र राजसाहंकृद्योगः संश्लेषको द्वये । ९.२७३ . अन्ये त्वाहुर्मनो जातं राजसाहंकृतेर्यतः ॥ २७३ ९.२७४ . समस्तेन्द्रियसंचारचतुरं लघु वेगवत् । ९.२७४ . अन्ये तु सात्त्विकात्स्वान्तं बुद्धिकर्मेन्द्रियाणि तु ॥ २७४ ९.२७५ . राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते । ९.२७५ . खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम् ॥ २७५ ९.२७६ . राजसाहंकृतेर्जातो रजसः कर्मता यतः । ९.२७६ . श्रीपूर्वशास्त्रे तु मनो राजसात्सात्त्विकात्पुनः ॥ २७६ ९.२७७ . इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः । ९.२७७ . तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने ॥ २७७ ९.२७८ . आलोचने शक्तिरन्तर्योजने मनसः पुनः । ९.२७८ . उक्तं च गुरुणा कुर्यान्मनोऽनुव्यवसायि सत् ॥ २७८ ९.२७९ . तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति । ९.२७९ . तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहंकृतेः ॥ २७९ ९.२८० . अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि । ९.२८० . पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले ॥ २८० ९.२८१ . यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत् । ९.२८१ . व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम् ॥ २८१ ९.२८२ . स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम् । ९.२८२ . एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना ॥ २८२ ९.२८३ . विशेषाणां यतोऽवश्यं दशा प्रागविशेषिणी । ९.२८३ . क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत् ॥ २८३ ९.२८४ . नभः शब्दोऽवकाशात्मा वाच्याध्याससहो यतः । ९.२८४ . तदेतत्स्पर्शतन्मात्रयोगात्प्रक्षोभमागतम् ॥ २८४ ९.२८५ . वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता । ९.२८५ . अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते ॥ २८५ ९.२८६ . यतो वायुर्निजं रूपं लभते न विनाम्बरात् । ९.२८६ . उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः ॥ २८६ ९.२८७ . तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः । ९.२८७ . शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ ॥ २८७ ९.२८८ . तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत् । ९.२८८ . तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः ॥ २८८ ९.२८९ . तत्र प्रत्यक्षतः सिद्धो धरादिगुणसंचयः । ९.२८९ . नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः ॥ २८९ ९.२९० . यथा गुणगुणिद्वैतवादिनामेकमप्यदः । ९.२९० . चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि ॥ २९० ९.२९१ . यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता । ९.२९१ . तथैव योगिनां धर्मसामस्त्येनावभाति भूः ॥ २९१ ९.२९२ . गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः । ९.२९२ . उपायभेदाद्भात्येषा क्रमाक्रमविभागतः ॥ २९२ ९.२९३ . तत एव क्रमव्यक्तिकृतो धीभेद उच्यते । ९.२९३ . षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा ॥ २९३ ९.२९४ . तेन धर्मातिरिक्तोऽत्र धर्मी नाम न कश्चन । ९.२९४ . तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ ॥ २९४ ९.२९५ . संस्पर्शः पाकजोऽनुष्णाशीतः शब्दो विचित्रकः । ९.२९५ . शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि ॥ २९५ ९.२९६ . शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके । ९.२९६ . अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते ॥ २९६ ९.२९७ . वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे । ९.२९७ . यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते ॥ २९७ ९.२९८ . काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम् । ९.२९८ . पटहे ध्वनिरित्येव भात्यबाधितमेव यत् ॥ २९८ ९.२९९ . न च हेतुत्वमात्रेण तदादानत्ववेदनात् । ९.२९९ . श्रोत्रं चास्मन्मतेऽहंकृत्कारणं तत्र तत्र तत् ॥ २९९ ९.३०० . वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा । ९.३०० . यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम् ॥ ३०० ९.३०१ . शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते । ९.३०१ . तस्य मन्देऽपि मुरजध्वनावाकर्णके सति ॥ ३०१ ९.३०२ . अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम् । ९.३०२ . नहि शब्दजशब्दस्य दूरादूररवोदितेः ॥ ३०२ ९.३०३ . श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता । ९.३०३ . न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते ॥ ३०३ ९.३०४ . तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु । ९.३०४ . कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः ॥ ३०४ ९.३०५ . एतच्चान्यैरपाकारि बहुधेति वृथा पुनः । ९.३०५ . नायस्तं पतिताघातदाने को हि न पण्डितः ॥ ३०५ ९.३०६ . अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा । ९.३०६ . गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते ॥ ३०६ ९.३०७ . व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल । ९.३०७ . सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात् ॥ ३०७ ९.३०८ . अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम् । ९.३०८ . तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः ॥ ३०८ ९.३०९ . न लाघवं च नामास्ति किंचिदत्र स्वदर्शने । ९.३०९ . गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा ॥ ३०९ ९.३१० . यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते । ९.३१० . ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा ॥ ३१० ९.३११ . अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम् । ९.३११ . समस्ततत्त्वावलिधर्मसंचयैर्विभाति भूर्व्याप्तृतया स्थितैरलम् ॥ ३११ ९.३१२ . एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक् । ९.३१२ . किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः ॥ ३१२ ९.३१३ . अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम् । ९.३१३ . एतत्तस्मात्ततः पश्येद्विस्तरार्थी विवेचकः ॥ ३१३ ९.३१४ . इति तत्त्वस्यरूपस्य कृतं सम्यक्प्रकाशनम् ॥ ३१४ च्१० अथ श्रीतन्त्रालोके दशममाह्निकम् १०.१ . उच्यते त्रिकशास्त्रेकरहस्यं तत्त्वभेदनम् ॥ १ १०.२ . तेषाममीषां तत्त्वानां स्ववर्गेष्वनुगामिनाम् । १०.२ . भेदान्तरमपि प्रोक्तं शास्त्रेऽत्र श्रीत्रिकाभिधे ॥ २ १०.३ . शक्तिमच्छक्तिभेदेन धराद्यं मूलपश्चिमम् । १०.३ . भिद्यते पञ्चदशधा स्वरूपेण सहानरात् ॥ ३ १०.४ . कलान्तं भेदयुग्घीनं रुद्रवत्प्रलयाकलः । १०.४ . तद्वन्माया च नवधा ज्ञाकलाः सप्तधा पुनः ॥ ४ १०.५ . मन्त्रास्तदीशाः पाञ्चध्ये मन्त्रेशपतयस्त्रिधा । १०.५ . शिवो न भिद्यते स्वैकप्रकाशघनचिन्मयः ॥ ५ १०.६ . शिवो मन्त्रमहेशेशमन्त्रा अकलयुक्कली । १०.६ . शक्तिमन्तः सप्त तथा शक्तयस्तच्चतुर्दश ॥ ६ १०.७ . स्वं स्वरूपं पञ्चदशं तद्भूः पञ्चदशात्मिका । १०.७ . तथाहि तिस्रो देवस्य शक्तयो वर्णिताः पुरा ॥ ७ १०.८ . ता एव मातृमामेयत्रैरूप्येण व्यवस्थिताः । १०.८ . परांशो मातृरूपोऽत्र प्रमाणांशः परापरः ॥ ८ १०.९ . मेयोऽपरः शक्तिमांश्च शक्तिः स्वं रूपमित्यदः । १०.९ . तत्र स्वरूपं भूमेर्यत्पृथग्जडमवस्थितम् ॥ ९ १०.१० . मातृमानाद्युपधिभिरसंजातोपरागकम् । १०.१० . सकलादिशिवान्तैस्तु मातृभिर्वेद्यतास्य या ॥ १० १०.११ . शक्तिमद्भिरनुद्भूतशक्तिभिः सप्त तद्भिदः । १०.११ . सकलादिशिवान्तानां शक्तिषूद्रेचितात्मसु ॥ ११ १०.१२ . वेद्यताजनिताः सप्त भेदा इति चतुर्दश । १०.१२ . सकलस्य प्रमाणांशो योऽसौ विद्याकलात्मकः ॥ १२ १०.१३ . सामान्यात्मा स शक्तित्वे गणितो नतु तद्भिदः । १०.१३ . लयाकलस्य मानांशः स एव परमस्फुटः ॥ १३ १०.१४ . ज्ञानाकलस्य मानं तु गलद्विद्याकलावृति । १०.१४ . अशुद्धविद्याकलनाध्वंससंस्कारसंगता ॥ १४ १०.१५ . प्रबुभुत्सुः शुद्धविद्या सन्त्राणां करणं भवेत् । १०.१५ . प्रबुद्धा शुद्धविद्या तु तत्संस्कारेण संगता ॥ १५ १०.१६ . मानं मन्त्रेश्वराणां स्यात्तत्संस्कारविवर्जिता । १०.१६ . मानं मन्त्रमहेशानां करणं शक्तिरुच्यते ॥ १६ १०.१७ . स्वातन्त्र्यमात्रसद्भावा या त्विच्छा शक्तिरैश्वरी । १०.१७ . शिवस्य सैव करणं तया वेत्ति करोति च ॥ १७ १०.१८ . आ शिवात्सकलान्तं ये मातारः सप्त ते द्विधा । १०.१८ . न्यग्भूतोद्रिक्तशक्तित्वात्तद्भेदो वेद्यभेदकः ॥ १८ १०.१९ . तथाहि वेद्यता नाम भावस्यैव निजं वपुः । १०.१९ . चैत्रेण वेद्यं वेद्मीति किंह्यत्र प्रतिभासताम् ॥ १९ १०.२० . ननु चैत्रीयविज्ञानमात्रमत्र प्रकाशते । १०.२० . वेद्यताख्यस्तु नो धर्मो भाति भावस्य नीलवत् ॥ २० १०.२१ . वेद्यता च स्वभावेन धर्मो भावस्य चेत्ततः । १०.२१ . सर्वान्प्रत्येव वेद्यः स्याद्धटनीलादिधर्मवत् ॥ २१ १०.२२ . अथ वेदकसंवित्तिबलाद्वेद्यत्वधर्मभाक् । १०.२२ . भावस्तथापि दोषोऽसौ कुविन्दकृतवस्त्रवत् ॥ २२ १०.२३ . वेद्यताख्यस्तु यो धर्मः सोऽवेद्यश्चेत्खपुष्पवत् । १०.२३ . वेद्यश्चेदस्ति तत्रापि वेद्येतत्यनवस्थितिः ॥ २३ १०.२४ . ततो न किंचिद्वेद्यं स्यान्मूर्छितं तु जगद्भवेत् । १०.२४ . ननु विज्ञात्रुपाध्यं शो पस्कृतं वपुरुच्यताम् ॥ २४ १०.२५ . भावस्यार्थप्रकाशात्म यथा ज्ञानमिदं त्वसत् । १०.२५ . एकविज्ञातृवेद्यत्वे न ज्ञात्रन्तरवेद्यता ॥ २५ १०.२६ . समस्तज्ञातृवेद्यत्वे नैकविज्ञातृवेद्यता । १०.२६ . तस्मान्न वेद्यता नाम भावधर्मोऽस्ति कश्चन ॥ २६ १०.२७ . भावस्य वेद्यता सैव संविदो यः समुद्भवः । १०.२७ . अर्थग्रहणरूपं हि यत्र विज्ञानमात्मनि ॥ २७ १०.२८ . समवैति प्रकाश्योऽर्थस्तं प्रत्येषैव वेद्यता । १०.२८ . अत्र ब्रूमः पदार्थानां न धर्मो यदि वेद्यता ॥ २८ १०.२९ . अवेद्या एव ते संस्युर्ज्ञाने सत्यपि वर्णिते । १०.२९ . यथाहि पृथुबुध्नादिरूपे कुम्भस्य सत्यपि ॥ २९ १०.३० . अतदात्मा पटो नैति पृथुबुध्नादिरूपताम् । १०.३० . तथा सत्यपि विज्ञाने विज्ञातृसमवायिनि ॥ ३० १०.३१ . अवेद्यधर्मका भावाः कथं वेद्यत्वमाप्नुयुः । १०.३१ . अनर्थः सुमहांश्चैष दृश्यतां वस्तु यत्स्वयम् ॥ ३१ १०.३२ . प्रकाशात्म न तत्संविच्चाप्रकाशा तदाश्रयः । १०.३२ . अप्रकाशो मनोदीपचक्षुरादि तथैव तत् ॥ ३२ १०.३३ . किं तत्प्रकाशतां नाम सुप्ते जगति सर्वतः । १०.३३ . ज्ञानस्यार्थप्रकाशत्वं ननु रूपं प्रदीपवत् ॥ ३३ १०.३४ . अपूर्वमत्र विदितं नरीनृत्यामहे ततः । १०.३४ . अर्थप्रकाशो ज्ञानस्य यद्रूपं तन्निरूप्यताम् ॥ ३४ १०.३५ . अर्थः प्रकाशश्चेद्रूपमर्थो वा ज्ञानमेव वा । १०.३५ . अथार्थस्य प्रकाशो यस्तद्रूपमिति भण्यते ॥ ३५ १०.३६ . षष्ठी कर्तरि चेदुक्तो दोष एव दुरुद्धरः । १०.३६ . अथ कर्मणि षष्ठ्येषा ण्यर्थस्तत्र हृदि स्थितः ॥ ३६ १०.३७ . तथा चेदं दर्शयामः किं प्रकाशः प्रकाशते । १०.३७ . अप्रकाशोऽपि नैवासौ तथापि च न किंचन ॥ ३७ १०.३८ . तर्हि लोके कथं ण्यर्थः उच्यते चेतनस्थितौ । १०.३८ . मुख्यो ण्यर्थस्य विषयो जडेषु त्वौपचारिकः ॥ ३८ १०.३९ . तथाहि गन्तुं शक्तोऽपि चैत्रोऽन्यायत्ततां गतेः । १०.३९ . मन्वान एव वक्त्यस्मि गमितः स्वामिनेति हि ॥ ३९ १०.४० . स्वाम्यप्यस्य गतौ शक्तिं बुद्ध्वा स्वाधीनतां स्फुटम् । १०.४० . पश्यन्निवृत्तिमाशंक्य गमयामीति भाषते ॥ ४० १०.४१ . प्रेर्यप्रेरकयोरेवं मौलिकी ण्यर्थसंगतिः । १०.४१ . तदभिप्रायतोऽन्योऽपि लोके व्यवहरेत्तथा ॥ ४१ १०.४२ . शरं गमयतीत्यत्र पुनर्वेगाख्यसंस्क्रियाम् । १०.४२ . विदधत्प्रेरकम्मन्य उपचारेण जायते ॥ ४२ १०.४३ . वायुरद्रिं पातयतीत्यत्र द्वावपि तौ जडौ । १०.४३ . द्रष्टृभिः प्रेरकप्रेर्यवपुषा परिकल्पितौ ॥ ४३ १०.४४ . इत्थं जडेन संबन्धे न मुख्या ण्यर्थसंगतिः । १०.४४ . आस्तामन्यत्र विततमेतद्विस्तरतो मया ॥ ४४ १०.४५ . अर्थे प्रकाशना सेयमुपचारस्ततो भवेत् । १०.४५ . अस्तु चेद्भासते तर्हि स एव पतदद्रिवत् ॥ ४५ १०.४६ . उपचारे निमित्तेन केनापि किल भूयते । १०.४६ . वायुः पातयतीत्यत्र निमित्तं तत्कृता क्रिया ॥ ४६ १०.४७ . गिरौ येनैष संयोगनाशाद्भ्रंशं प्रपद्यते । १०.४७ . इह तु ज्ञानमर्थस्य न किंचित्करमेव तत् ॥ ४७ १०.४८ . उपचारः कथं नाम भवेत्सोऽपि ह्यवस्तुसन् । १०.४८ . अप्रकाशित एवार्थः प्रकाशत्वोपचारतः ॥ ४८ १०.४९ . तादृगेव शिशुः किं हि दहत्यग्न्युपचारतः । १०.४९ . शिशौ वह्न्युपचारे यद्बीजं तैक्ष्ण्यादि तच्च सत् ॥ ४९ १०.५० . प्रकाशत्वोपचारे तु किं बीजं यत्र सत्यता । १०.५० . सिद्धे हि चेतने युक्त उपचारः स हि स्फुटम् ॥ ५० १०.५१ . अध्यारोपात्मकः सोऽपि प्रतिसंधानजीवितः । १०.५१ . न चाद्यापि किमप्यस्ति चेतनं ज्ञानमप्यदः ॥ ५१ १०.५२ . अप्रकाशं तदन्येन तत्प्रकाशेऽप्ययं विधिः । १०.५२ . ननु प्रदीपो रूपस्य प्रकाशः कथमीदृशम् ॥ ५२ १०.५३ . अत्रापि न वहन्त्येताः किं नु युक्तिविकल्पनाः । १०.५३ . यादृशा स्वेन रूपेण दीपो रूपं प्रकाशयेत् ॥ ५३ १०.५४ . तादृशा स्वयमप्येष भाति ज्ञानं तु नो तथा । १०.५४ . प्रदीपश्चैष भावानां प्रकाशत्वं ददा[धा]त्यलम् ॥ ५४ १०.५५ . अन्यथा न प्रकाशेरन्नभेदे चेदृशो विधिः । १०.५५ . तस्मात्प्रकाश एवायं पूर्वोक्तः परमः शिवः ॥ ५५ १०.५६ . यथा यथा प्रकाशेत तत्तद्भाववपुः स्फुटम् । १०.५६ . एवं च नीलता नाम यथा काचित्प्रकाशते ॥ ५६ १०.५७ . तद्वच्चकास्ति वेद्यत्वं तच्च भावांशपृष्ठगम् । १०.५७ . फलं प्रकटतार्थस्य संविद्वेति द्वयं ततः ॥ ५७ १०.५८ . विपक्षतो रक्षितं च संधानं चापि तन्मिथः । १०.५८ . तथाहि निभृतश्चौरश्चैत्रवेद्यमिति स्फुटम् ॥ ५८ १०.५९ . बुद्ध्वा नादत्त एवाशु परीप्साविवशोऽपि सन् । १०.५९ . सेयं पश्यति मां नेत्रत्रिभागेनेति सादरम् ॥ ५९ १०.६० . स्वं देहममृतेनेव सिक्तं पश्यति कामुकः । १०.६० . न चैतज्ज्ञानसंवित्तिमात्रं भावांशपृष्ठगम् ॥ ६० १०.६१ . अर्थक्रियाकरं तच्चेन्न धर्मः कोन्वसौ भवेत् । १०.६१ . यच्चोक्तं वेद्यताधर्मा भावः सर्वानपि प्रति ॥ ६१ १०.६२ . स्यादित्येतत्स्वपक्षघ्नं दुष्प्रयोगास्त्रवत्तव । १०.६२ . अस्माकं तु स्वप्रकाशशिवतामात्रवादिनाम् ॥ ६२ १०.६३ . अन्यं प्रति चकास्तीति वच एव न विद्यते । १०.६३ . सर्वान्प्रति च तन्नीलं स घटश्चेति यद्वचः ॥ ६३ १०.६४ . तदप्यविदितप्रायं गृहीतं मुग्धबुद्धिभिः । १०.६४ . नहि कालाग्निरुद्रीयकायावगतनीलिमा ॥ ६४ १०.६५ . तव नीलः किं नु पीतो मैवं भून्नतु नीलकः । १०.६५ . न कंचित्प्रति नीलोऽसौ नीलो वा यं प्रति स्थितः ॥ ६५ १०.६६ . तं प्रत्येव स वेद्यः स्यात्संकल्पद्वारकोऽन्ततः । १०.६६ . यथा चार्थप्रकाशात्म ज्ञानं संगीर्यते त्वया ॥ ६६ १०.६७ . तथा तज्ज्ञातृवेद्यत्वं भावीयं रूपमुच्यताम् । १०.६७ . न च ज्ञातात्र नियतः कश्चिज्ज्ञाने यथा तव ॥ ६७ १०.६८ . अर्थे ज्ञाता यदा यो यस्तद्वेद्यं वपुरुच्यताम् । १०.६८ . तत्तद्विज्ञातृवेद्यत्वं सर्वान्प्रत्येव भासताम् ॥ ६८ १०.६९ . इत्येवं चोदयन्मन्ये व्रजेद्बधिरधुर्यताम् । १०.६९ . नह्यन्यं प्रति वै कंचिद्भाति सा वेद्यता तथा ॥ ६९ १०.७० . भावस्य रूपमित्युक्ते केयमस्थानवैधुरी । १०.७० . अनेन नीतिमार्गेण निर्मूलमपसारिता ॥ ७० १०.७१ . अनवस्था तथा ह्यन्यैर्नीलाद्यैः सदृशी न सा । १०.७१ . वेद्यता किंतु धर्मोऽसौ यद्योगात्सर्वधर्मवान् ॥ ७१ १०.७२ . धर्मी वेद्यत्वमभ्येति स सत्तासमवायवत् । १०.७२ . ब्रूषे यथा हि कुरुते सत्ता सत्यसतः सतः ॥ ७२ १०.७३ . समवायोऽपि संश्लिष्टः श्लिष्टानश्लिष्टताजुषः । १०.७३ . अन्त्यो विशेषो व्यावृत्तिरूपो व्यावृत्तिवर्जितान् ॥ ७३ १०.७४ . व्यावृत्तान् श्वेतिमा शुक्लमशुक्लं गमनं तथा । १०.७४ . तद्वन्नीलादिधर्मांशयुक्तो धर्मी स्वयं स्थितः ॥ ७४ १०.७५ . अवेद्यो वेद्यतारूपाद्धर्माद्वेद्यत्वमागतः । १०.७५ . वेद्यता भासमाना च स्वयं नीलादिधर्मवत् ॥ ७५ १०.७६ . अप्रकाशा स्वप्रकाशाद्धर्मादेति प्रकाशताम् । १०.७६ . प्रकाशे खलु विश्रान्तिं विश्वं श्रयति चेत्ततः ॥ ७६ १०.७७ . नान्या काचिदपेक्षास्य कृतकृत्यस्य सर्वतः । १०.७७ . यथा च शिवनाथेन स्वातन्त्र्याद्भास्यते भिदा ॥ ७७ १०.७८ . नीलादिवत्तथैवायं वेद्यता धर्म उच्यते । १०.७८ . एवं सिद्धं हि वेद्यत्वं भावधर्मोऽस्तु का घृणा ॥ ७८ १०.७९ . इदं तु चिन्त्यं सकलपर्यन्तोक्तप्रमातृभिः । १०.७९ . वेद्यत्वमेकरूपं स्याच्चातुर्दश्यमतः कुतः ॥ ७९ १०.८० . उच्यते परिपूर्णं चेद्भावीयं रूपमुच्यते । १०.८० . तद्विभुर्भैरवो देवो भगवानेव भण्यते ॥ ८० १०.८१ . अथ तन्निजमाहात्म्यकल्पितोंऽशांशिकाक्रमः । १०.८१ . सह्यते किं कृतं तर्हि प्रोक्तकल्पनयानया ॥ ८१ १०.८२ . अत एव यदा येन वपुषा भाति यद्यथा । १०.८२ . तदा तथा तत्तद्रूपमित्येषोपनिषत्परा ॥ ८२ १०.८३ . चैत्रेण वेद्यं जानामि द्वाभ्यां बहुभिरप्यथ । १०.८३ . मन्त्रेण तन्महेशेन शिवेनोद्रिक्तशक्तिना ॥ ८३ १०.८४ . अन्यादृशेन वेत्येवं भावो भाति यथा तथा । १०.८४ . अर्थक्रियादिवैचित्र्यमभ्येत्यपरिसंख्यया ॥ ८४ १०.८५ . तथा ह्येकाग्रसकलसामाजिकजनः खलु । १०.८५ . नृत्तं गीतं सुधासारसागरत्वेन मन्यते ॥ ८५ १०.८६ . तत एवोच्यते मल्लनटप्रेक्षोपदेशने । १०.८६ . सर्वप्रमातृतादात्म्यं पूर्णरूपानुभावकम् ॥ ८६ १०.८७ . तावन्मात्रार्थसंवित्तितुष्टाः प्रत्येकशो यदि । १०.८७ . कः संभूय गुणस्तेषां प्रमात्रैक्यं भवेच्च किम् ॥ ८७ १०.८८ . यदा तु तत्तद्वेद्यत्वधर्मसंदर्भगर्भितम् । १०.८८ . तद्वस्तु शुष्कात्प्राग्रूपादन्यद्युक्तमिदं तदा ॥ ८८ १०.८९ . शास्त्रेऽपि तत्तद्वेद्यत्वं विशिष्टार्थक्रियाकरम् । १०.८९ . भूयसैव तथाच श्रीमालिनीविजयोत्तरे ॥ ८९ १०.९० . तथा षड्विधमध्वानमनेनाधिष्ठितं स्मरेत् । १०.९० . अधिष्ठानं हि देवेन यद्विश्वस्य प्रवेदनम् ॥ ९० १०.९१ . तदीशवेद्यत्वेनेत्थं ज्ञातं प्रकृतकार्यकृत् । १०.९१ . एवं सिद्धं वेद्यताख्यो धर्मो भावस्य भासते ॥ ९१ १०.९२ . तदनाभासयोगे तु स्वरूपमिति भण्यते । १०.९२ . उपाधियोगिताशङ्कामपहस्तयतोऽस्फुटम् ॥ ९२ १०.९३ . स्वात्मनो येन वपुषा भात्यर्थस्तत्स्वकं वपुः । १०.९३ . जानामि घटमित्यत्र वेद्यतानुपरागवान् ॥ ९३ १०.९४ . घट एव स्वरूपेण भात इत्यपदिश्यते । १०.९४ . ननु तत्र स्वयंवेद्यभावो मन्त्राद्यपेक्षया ॥ ९४ १०.९५ . अपि चास्त्येव नन्वस्तु नतु सन्प्रतिभासते । १०.९५ . अवेद्यमेव कालाग्निवपुर्मेरोः परा दिशः ॥ ९५ १०.९६ . ममेति संविदि परं शुद्धं वस्तु प्रकाशते । १०.९६ . भातत्वाद्वेद्यमपि तन्न वेद्यत्वेन भासनात् ॥ ९६ १०.९७ . अवेद्यमेव भानं हि तथा कमनुयुञ्ज्महे । १०.९७ . एवं पञ्चदशात्मेयं धरा तद्वज्जलादयः ॥ ९७ १०.९८ . अव्यक्तान्ता यतोऽस्त्येषां सकलं प्रति वेद्यता । १०.९८ . यत्तूच्यते कलाद्येन धरान्तेन समन्विताः ॥ ९८ १०.९९ . सकला इति तत्कोशषट्कोद्रेकोपलक्षणम् । १०.९९ . उद्भूताशुद्धचिद्रागकलादिरसकञ्चुकाः ॥ ९९ १०.१०० . सकलालयसंज्ञास्तु न्यग्भूताखिलकञ्चुकाः । १०.१०० . ज्ञानाकलास्तु ध्वस्तैतत्कञ्चुका इति निर्णयः ॥ १०० १०.१०१ . तेन प्रधाने वेद्येऽपि पुमानुद्भूतकञ्चुकः । १०.१०१ . प्रमातास्त्येव सकलः पाञ्चदश्यमतः स्थितम् ॥ १०१ १०.१०२ . पाञ्चदश्यं धराधन्तर्निविष्टे सकलेऽपि च । १०.१०२ . सकलान्तरमस्त्येव प्रमेयेऽत्रापि मातृ हि ॥ १०२ १०.१०३ . स्थूलावृतादिसंकोचतदन्यव्याप्तृताजुषः । १०.१०३ . पीताद्याः स्थिरकम्प्रत्वाच्चतुर्दश धरादिषु ॥ १०३ १०.१०४ . स्वरूपीभूतजडताः प्राणदेहपथे ततः । १०.१०४ . प्रमातृताजुषः प्रोक्ता धारणा विजयोत्तरे ॥ १०४ १०.१०५ . यदा तु मेयता पुंसः कलान्तस्य प्रकल्प्यते । १०.१०५ . तदुद्भूतः कञ्चुकांशो मेयो नास्य प्रमातृता ॥ १०५ १०.१०६ . अतः सकलसंज्ञस्य प्रमातृत्वं न विद्यते । १०.१०६ . त्रयोदशत्वं तच्छक्तिशक्तिमद्द्वयवर्जनात् ॥ १०६ १०.१०७ . न्यग्भूतकञ्चुको माता युक्त[यत]स्तत्र लयाकलः । १०.१०७ . मायानिविष्टो विज्ञानाकलाद्याः प्राग्वदेव तु ॥ १०७ १०.१०८ . मायातत्त्वे ज्ञेयरूपे कञ्चुकन्यग्भवोऽपि यः । १०.१०८ . सोऽपि मेयः कञ्चुकैक्यं यतो माया सुसूक्ष्मिका ॥ १०८ १०.१०९ . विज्ञानाकल एवात्र ततो मातापकञ्चुकः । १०.१०९ . मायानिविष्टेऽप्यकले तथेत्येकादशात्मता ॥ १०९ १०.११० . विज्ञानकेवले वेद्ये कञ्चुकध्वंससुस्थिते । १०.११० . उद्बुभूषुप्रबोधानां मन्त्राणामेव मातृता ॥ ११० १०.१११ . तेऽपि मन्त्रा यदा मेयास्तदा माता तदीश्वरः । १०.१११ . स ह्युद्भवात्पूर्णबोधस्तस्मिन्प्राप्ते तु मेयताम् ॥ १११ १०.११२ . उद्भूतपूर्णरूपोऽसौ माता मन्त्रमहेश्वरः । १०.११२ . तस्मिन्विज्ञेयतां प्राप्ते स्वप्रकाशः परः शिवः ॥ ११२ १०.११३ . प्रमाता स्वकतादात्म्यभासिताखिलवेद्यकः । १०.११३ . शिवः प्रमाता नो मेयो ह्यन्याधीनप्रकाशता ॥ ११३ १०.११४ . मेयता सा न तत्रास्ति स्वप्रकाशो ह्यसौ प्रभुः । १०.११४ . स्वप्रकाशेऽत्र कस्मिंश्चिदनभ्युपगते सति ॥ ११४ १०.११५ . अप्रकाशात्प्रकाशत्वे ह्यनवस्था दुरुत्तरा । १०.११५ . ततश्च सुप्तं विश्वं स्यान्न चैवं भासते हि तत् ॥ ११५ १०.११६ . अन्याधीनप्रकाशं हि तद्भात्यन्यस्त्वसौ शिवः । १०.११६ . इत्यस्य स्वप्रकाशत्वे किमन्यैर्युक्तिडम्बरैः ॥ ११६ १०.११७ . मानानां हि परो जीवः स एवेत्युक्तमादितः । १०.११७ . नन्वस्ति स्वप्रकाशेऽपि शिवे वेद्यत्वमीदृशः ॥ ११७ १०.११८ . उपदेशो[श्यो]पदेष्टृत्वव्यवहारोऽन्यथा कथम् । १०.११८ . सत्यं स तु तथा सृष्टः परमेशेन वेद्यताम् ॥ ११८ १०.११९ . नीतो मन्त्रमहेशादिकक्ष्यां समधिशाय्यते । १०.११९ . तथाभूतश्च वेद्योऽसौ नानवच्छिन्नसंविदः ॥ ११९ १०.१२० . पूर्णस्य वेद्यता युक्ता परस्परविरोधतः । १०.१२० . तथा वेद्यस्वभावेऽपि वस्तुतो न शिवात्मताम् ॥ १२० १०.१२१ . कोऽपि भावः प्रोज्झतीति सत्यं तद्भावना फलेत् । १०.१२१ . श्रीपूर्वशास्त्रे तेनोक्तं शिवः साक्षान्न भिद्यते ॥ १२१ १०.१२२ . साक्षात्पदेनायमर्थः समस्तः प्रस्फुटीकृतः । १०.१२२ . नन्वेकरूपतायुक्तः शिवस्तद्वशतो भवेत् ॥ १२२ १०.१२३ . त्रिवेदतामन्त्रमहानाथे कात्र विवादिता । १०.१२३ . महेश्वरेशमन्त्राणां तथा केवलिनोर्द्वयोः ॥ १२३ १०.१२४ . अनन्तभेदतैकैकं स्थिता सकलवत्किल । १०.१२४ . ततो लयाकले मेये प्रमातास्ति लयाकलः ॥ १२४ १०.१२५ . अतस्त्रयोदशत्वं स्यादित्थं नैकादशात्मता । १०.१२५ . विज्ञानाकलवेद्यत्वेऽप्यन्यो ज्ञानाकलो भवेत् ॥ १२५ १०.१२६ . माता तदेकादशता स्यान्नैव तु नवात्मता । १०.१२६ . एवं मन्त्रतदीशानां मन्त्रेशान्तरसंभवे ॥ १२६ १०.१२७ . वेद्यत्वान्नव सप्त स्युः सप्त पञ्च तु ते कथम् । १०.१२७ . उच्यते सत्यमस्त्येषा कलना किंतु सुस्फुटः ॥ १२७ १०.१२८ . यथात्र सकले भेदो न तथा त्वकलादिके । १०.१२८ . अनन्तावान्तरेदृक्षयोनिभेदवतः स्फुटम् ॥ १२८ १०.१२९ . चतुर्दशविधस्यास्य सकलस्यास्ति भेदिता । १०.१२९ . लयाकले तु संस्कारमात्रात्सत्यप्यसौ भिदा ॥ १२९ १०.१३० . अकलेन विशेषाय सकलस्यैव युज्यते । १०.१३० . विज्ञानकेवलादीनां तावत्यपि न वै भिदा ॥ १३० १०.१३१ . शिवस्वाच्छन्द्यमात्रं तु भेदायैषां विजृम्भते । १०.१३१ . इत्याशयेन संपश्यन्विशेषं सकलादिह ॥ १३१ १०.१३२ . लयाकलादौ नोवाच त्रायोदश्यादिकं विभुः । १०.१३२ . नन्वस्तु वेद्यता भावधर्मः किंतु लयाकलौ ॥ १३२ १०.१३३ . मन्वाते नेह वै किंचित्तदपेक्षा त्वसौ कथम् । १०.१३३ . श्रूयतां संविदैकात्म्यतत्त्वेऽस्मिन्संव्यवस्थिते ॥ १३३ १०.१३४ . जडेऽपि चितिरस्त्येव भोत्स्यमाने तु का कथा । १०.१३४ . स्वबोधावसरे तावद्भोत्स्यते लयकेवली ॥ १३४ १०.१३५ . द्विविधश्च प्रबोधोऽस्य मन्त्रत्वाय भवाय च । १०.१३५ . भावनादिबलादन्यवैष्णवादिनयोदितात् ॥ १३५ १०.१३६ . यथास्वमाधरौत्तर्यविचित्रात्संस्कृतस्तथा । १०.१३६ . लीनः प्रबुद्धो मन्त्रत्वं तदीशत्वमथैति वा ॥ १३६ १०.१३७ . स्वातन्त्र्यवर्जिता ये तु बलान्मोहवशीकृताः । १०.१३७ . लयाकलात्स्वसंस्कारात्प्रबुद्ध्यन्ते भवाय ते ॥ १३७ १०.१३८ . ज्ञानाकलोऽपि मन्त्रेशमहेशत्वाय बुध्यते । १०.१३८ . मन्त्रादित्वाय वा जातु जातु संसृतयेऽपि वा ॥ १३८ १०.१३९ . अवतारो हि विज्ञानियोगिभावेऽस्य भिद्यते । १०.१३९ . उक्तं च बोधयामास स सिसृक्षुर्जगत्प्रभुः ॥ १३९ १०.१४० . विज्ञानकेवलानष्टाविति श्रीपूर्वशासने । १०.१४० . अतः प्रभोत्स्यमानत्वे यानयोर्बोधयोग्यता ॥ १४० १०.१४१ . तद्बलाद्वेद्यतायोग्यभावेनैवात्र वेद्यता । १०.१४१ . तथाहि गाढनिद्रेऽपि प्रियेऽनाशङ्कितागताम् ॥ १४१ १०.१४२ . मां द्रक्ष्यतीति नाङ्गेषु स्वेषु मात्यभिसारिका । १०.१४२ . एवं शिवोऽपि मनुते एतस्यैतत्प्रवेद्यताम् ॥ १४२ १०.१४३ . यास्यतीति सृजामीति तदानीं योग्यतैव सा । १०.१४३ . वेद्यता तस्य भावस्य भोक्तृता तावती च सा ॥ १४३ १०.१४४ . लयाकलस्य चित्रो हि भोगः केन विकल्प्यते । १०.१४४ . यथा यथा हि सम्वित्तिः स हि भोगः स्फुटोऽस्फुटः ॥ १४४ १०.१४५ . स्मृतियोग्योऽप्यन्यथा वा भोग्यभावं न तूज्झति । १०.१४५ . गाढनिद्राविमूढोऽपि कान्तालिङ्गितविग्रहः ॥ १४५ १०.१४६ . भोक्तैव भण्यते सोऽपि मनुते भोक्तृतां पुरा । १०.१४६ . उत्प्रेक्षामात्रहीनोऽपि कांचित्कुलवधूं पुरः ॥ १४६ १०.१४७ . संभोक्ष्यमाणां दृष्ट्वैव रभसाद्याति संमदम् । १०.१४७ . तामेव दृष्ट्वा च तदा समानाशयभागपि ॥ १४७ १०.१४८ . अन्यस्तथा न संवित्ते कमत्रोपलभामहे । १०.१४८ . लोके रूढमिदं दृष्टिरस्मिन्कारणमन्तरा ॥ १४८ १०.१४९ . प्रसीदतीव मग्नेव निर्वातीवेतिवादिनि । १०.१४९ . इत्थं विस्तरतस्तत्त्वभेदोऽयं समुदाहृतः ॥ १४९ १०.१५० . शक्तिशक्तिमतां भेदादन्योन्यं तत्कृतेष्वपि । १०.१५० . भेदेष्वन्योन्यतो भेदात्तथा तत्त्वान्तरैः सह ॥ १५० १०.१५१ . भेदोपभेदगणनां कर्वतो नावधिः क्वचित् । १०.१५१ . तत एव विचित्रोऽयं भुवनादिविधिः स्थितः ॥ १५१ १०.१५२ . पार्थिवत्वेऽपि नो साम्यं रुद्रवैष्णवलोकयोः । १०.१५२ . का कथान्यत्र तु भवेद्भोगे वापि स्वरूपके ॥ १५२ १०.१५३ . स च नो विस्तरः साक्षाच्छक्यो यद्यपि भाषितुम् । १०.१५३ . तथापि मार्गमात्रेण कथ्यमानो विविच्यताम् ॥ १५३ १०.१५४ . सप्तानां मातृशक्तीनामन्योन्यं भेदने सति । १०.१५४ . रूपमेकान्नपञ्चाशत्स्वरूपं चाधिकं ततः ॥ १५४ १०.१५५ . सर्वं सर्वात्मकं यस्मात्तस्मात्सकलमातरि । १०.१५५ . लयाकलादिशक्तीनां संभवोऽस्त्येव तत्त्वतः ॥ १५५ १०.१५६ . स त्वस्फुटोऽस्तु भेदांशं दातुं तावत्प्रभुर्भवेत् । १०.१५६ . तेषामपि च भेदानामन्योन्यं बहुभेदता ॥ १५६ १०.१५७ . मुख्यानां भेदभेदानां जलाद्यैर्भेदने सति । १०.१५७ . मुख्यभेदप्रकारेण विधेरानन्त्यमुच्यते ॥ १५७ १०.१५८ . सकलस्य समुद्भूताश्चक्षुरादिस्वशक्तयः । १०.१५८ . न्यग्भूताश्च प्रतन्वन्ति भेदान्तरमपि स्फुटम् ॥ १५८ १०.१५९ . एवं लयाकलादीनां तत्संस्कारपदोदितात् । १०.१५९ . पाटवात्प्रक्षयाद्वापि भेदान्तरमुदीयते ॥ १५९ १०.१६० . न्यक्कृतां शक्तिमास्थायाप्युदासीनतया स्थितिम् । १०.१६० . अनाविश्येव यद्वेत्ति तत्रान्या वेद्यता खलु ॥ १६० १०.१६१ . आविश्येव निमज्ज्येव विकास्येव विघूर्ण्य च । १०.१६१ . विदतो वेद्यतान्यैव भेदोऽत्रार्थक्रियोचितः ॥ १६१ १०.१६२ . अन्यशक्तितिरोभावे कस्याश्चित्सुस्फुटोदये । १०.१६२ . भेदान्तरमपि ज्ञेयं वीणावादकदृष्टिवत् ॥ १६२ १०.१६३ . तिरोभावोद्भवौ शक्तेः स्वशक्त्यन्तरतोऽन्यतः । १०.१६३ . चेत्यमानादचेत्याद्वा तन्वाते बहुभेदताम् ॥ १६३ १०.१६४ . एवमेतद्धरादीनां तत्त्वानां यावती दशा । १०.१६४ . काचिदस्ति घटाख्यापि तत्र संदर्शिता भिदः ॥ १६४ १०.१६५ . अत्रापि वेद्यता नाम तादात्म्यं वेदकैः सह । १०.१६५ . ततः सकलवेद्योऽसौ घटः सकल एव हि ॥ १६५ १०.१६६ . यावच्छिवैकवेद्योऽसौ शिव एवावभासते । १०.१६६ . तावदेकशरीरो हि बोधो भात्येव यावता ॥ १६६ १०.१६७ . अधुनात्र समस्तस्य धरातत्त्वस्य दर्श्यते । १०.१६७ . सामस्त्य एवाभिहितं पाञ्चदश्यं पुरोदितम् ॥ १६७ १०.१६८ . धरातत्त्वाविभेदेन यः प्रकाशः प्रकाशते । १०.१६८ . स एव शिवनाथोऽत्र पृथिवी ब्रह्म तन्मतम् ॥ १६८ १०.१६९ . धरातत्त्वगताः सिद्धीर्वितरीतुं समुद्यतान् । १०.१६९ . प्रेरयन्ति शिवेच्छातो ये ते मन्त्रमहेश्वराः ॥ १६९ १०.१७० . प्रेर्यमाणास्तु मन्त्रेशा मन्त्रास्तद्वाचकाः स्फुटम् । १०.१७० . धरातत्त्वगतं योगमभ्यस्य शिवविद्यया ॥ १७० १०.१७१ . न तु पाशवसांख्यीयवैष्णवादिद्वितादृशा । १०.१७१ . अप्राप्तध्रुवधामानो विज्ञानाकलताजुषः ॥ १७१ १०.१७२ . तावत्तत्त्वोपभोगेन ये कल्पान्ते लयं गताः । १०.१७२ . सौषुप्तावस्थयोपेतास्तेऽत्र प्रलयकेवलाः ॥ १७२ १०.१७३ . सौषुप्ते तत्त्वलीनत्वं स्फुटमेव हि लक्ष्यते । १०.१७३ . अन्यथा नियतस्वप्नसंदृष्टिर्जायते कुतः ॥ १७३ १०.१७४ . सौषुप्तमपि चित्रं च स्वच्छास्वच्छादि भासते । १०.१७४ . अस्वाप्सं सुखमित्यादिस्मृतिवैचित्र्यदर्शनात् ॥ १७४ १०.१७५ . यदैव स क्षणं सूक्ष्मं निद्रायैव प्रबुद्ध्यते । १०.१७५ . तदैव स्मृतिरेषेति नार्थजज्ञानजा स्मृतिः ॥ १७५ १०.१७६ . तेन मूढैर्यदुच्येत प्रबुद्धस्यान्तरान्तरा । १०.१७६ . तूलिकादिसुखस्पर्शस्मृतिरेषेति तत्कुतः ॥ १७६ १०.१७७ . माहाकर्मसमुल्लाससंमिश्रितमलाबिलाः । १०.१७७ . धराधिरोहिणो ज्ञेयाः सकला इह पुद्गलाः ॥ १७७ १०.१७८ . अस्यैव सप्तकस्य स्वस्वव्यापारप्रकल्पने । १०.१७८ . प्रक्षोभो यस्तदेवोक्तं शक्तीनां सप्तकं स्फुटम् ॥ १७८ १०.१७९ . शिवो ह्यच्युतचिद्रूपस्तिस्रस्तच्छक्तयस्तु याः । १०.१७९ . ताः स्वातन्त्र्यवशोपात्तग्रहीत्राकारतावशात् ॥ १७९ १०.१८० . त्रिधा मन्त्रावसानाः स्युरुदासीना इव स्थिताः । १०.१८० . ग्राह्याकारोपरागात्तु ग्रहीत्राकारतावशात् ॥ १८० १०.१८१ . सकलान्तास्तु तास्तिस्र इच्छाज्ञानक्रिया मताः । १०.१८१ . सप्तधेत्थं प्रमातृत्वं तत्क्षोभो मानता तथा ॥ १८१ १०.१८२ . यत्तु ग्रहीतृतारूपसंवित्संस्पर्शवर्जितम् । १०.१८२ . शुद्धं जडं तत्स्वरूपमित्थं विश्वं त्रिकात्मकम् ॥ १८२ १०.१८३ . एवं जलाद्यपि वदेद्भेदैर्भिन्नं महामतिः । १०.१८३ . अनया तु दिशा प्रायः सर्वभेदेषु विद्यते ॥ १८३ १०.१८४ . भेदो मन्त्रमहेशान्तेष्वेष पञ्चदशात्मकः । १०.१८४ . तथापि स्फुटताभावात्सन्नप्येष न चर्चितः ॥ १८४ १०.१८५ . एतच्च सूत्रितं धात्रा श्रीपूर्वे यद्ब्रवीति हि । १०.१८५ . सव्यापाराधिपत्वेनेत्यादिना जाग्रदादिताम् ॥ १८५ १०.१८६ . अभिन्नेऽपि शिवेऽन्तःस्थसूक्ष्मबोधानुसारतः । १०.१८६ . अधुना प्राणशक्तिस्थे तत्त्वजाले विविच्यते ॥ १८६ १०.१८७ . भेदोऽयं पाञ्चदश्यादिर्यथा श्रीशंभुरादिशत् । १०.१८७ . समस्तेऽर्थेऽत्र निर्ग्राह्ये तुटयः षोडश क्षणाः ॥ १८७ १०.१८८ . षट्त्रिंशदङ्गुले चारे सांशद्व्यङ्गुलकल्पिताः । १०.१८८ . तत्राद्यः परमाद्वैतो निर्विभागरसात्मकः ॥ १८८ १०.१८९ . द्वितीयो ग्राहकोल्लासरूपः प्रतिविभाव्यते । १०.१८९ . अन्त्यस्तु ग्राह्यतादात्म्यात्स्वरूपीभावमागतः ॥ १८९ १०.१९० . प्रविभाव्यो न हि पृथगुपान्त्यो ग्राहकः क्षणः । १०.१९० . तृतीयं क्षणमारभ्य क्षणषट्कं तु यत्स्थितम् ॥ १९० १०.१९१ . तन्निर्विकल्पं प्रोद्गच्छद्विकल्पाच्छादनात्मकम् । १०.१९१ . तदेव शिवरूपं हि परशक्त्यात्मकं विदुः ॥ १९१ १०.१९२ . द्वितीयं मध्यमं षट्कं परापरपदात्मकम् । १०.१९२ . विकल्परूढिरप्येषा क्रमात्प्रस्फुटतां गता ॥ १९२ १०.१९३ . षट्केऽत्र प्रथमे देव्यस्तिस्रः प्रोन्मेषवृत्तिताम् । १०.१९३ . निमेषवृत्तितां चाशु स्पृशन्त्यः षट्कतां गताः ॥ १९३ १०.१९४ . एवं द्वितीयषट्केऽपि किं त्वत्र ग्राह्यवर्त्मना । १०.१९४ . उपरागपदं प्राप्य परापरतया स्थिताः ॥ १९४ १०.१९५ . आद्येऽत्र षट्के ता देव्यः स्वातन्त्र्योल्लासमात्रतः । १०.१९५ . जिघृक्षितेऽप्युपाधौ स्युः पररूपादविच्युताः ॥ १९५ १०.१९६ . अस्ति चातिशयः कश्चित्तासामप्युत्तरोत्तरम् । १०.१९६ . यो विवेकधनैर्धीरैः स्फुटीकृत्यापि दर्श्यते ॥ १९६ १०.१९७ . केचित्त्वेकां तुटिं ग्राह्ये चैकामपि ग्रहीतरि । १०.१९७ . तादात्म्येन विनिक्षिप्य सप्तकं सप्तकं विदुः ॥ १९७ १०.१९८ . तदस्यां सूक्ष्मसंवित्तौ कलनाय समुद्यताः । १०.१९८ . संवेदयन्ते यद्रूपं तत्र किं वाग्विकत्थनैः ॥ १९८ १०.१९९ . एवं धरादिमूलान्तं प्रक्रिया प्राणगामिनी । १०.१९९ . गुरुपर्वक्रमात्प्रोक्ता भेदे पञ्चदशात्मके ॥ १९९ १०.२०० . क्रमात्तु भेदन्यूनत्वे न्यूनता स्यात्तुटिष्वपि । १०.२०० . तस्यां ह्रासो विकल्पस्य स्फुटता चाविकल्पिनः ॥ २०० १०.२०१ . यथा हि चिरदुःखार्तः पश्चादात्तसुखस्थितिः । १०.२०१ . विस्मरत्येव तद्दुःखं सुखविश्रान्तिवर्त्मना ॥ २०१ १०.२०२ . तथा गतविकल्पेऽपि रूढाः संवेदने जनाः । १०.२०२ . विकल्पविश्रान्तिबलात्तां सत्तां नाभिमन्वते ॥ २०२ १०.२०३ . विकल्पनिर्ह्रासवशेन याति विकल्पवन्ध्या परमार्थसत्या । १०.२०३ . संवित्स्वरूपप्रकटत्वमित्थं तत्रावधाने यततां सुबुद्धिः ॥ २०३ १०.२०४ . ग्राह्यग्राहकसंवित्तौ संबन्धे सावधानता । १०.२०४ . इयं सा तत्र तत्रोक्ता सर्वकामदुघा यतः ॥ २०४ १०.२०५ . एवं द्वयं द्वयं यावन्न्यूनीभवति भेदगम् । १०.२०५ . तावत्तुटिद्वयं याति न्यूनतां क्रमशः स्फुटम् ॥ २०५ १०.२०६ . अत एव शिवावेशे द्वितुटिः परिगीयते । १०.२०६ . एका तु सा तुटिस्तत्र पूर्णा शुद्धैव केवलम् ॥ २०६ १०.२०७ . द्वितीया शिव(शक्ति)रूपैव सर्वज्ञानक्रियात्मिका । १०.२०७ . तस्यामवहितो योगी किं न वेत्ति करोति वा ॥ २०७ १०.२०८ . तथा चोक्तं कल्लटेन श्रीमता तुटिपातगः । १०.२०८ . लाभः सर्वज्ञकर्तृत्वे तुटेः पातोऽपरा तुटिः ॥ २०८ १०.२०९ . आद्यायां तु तुटौ सर्वं सर्वतः पूर्णमेकताम् । १०.२०९ . गतं किं तत्र वेद्यं वा कार्यं वा व्यपदेशभाक् ॥ २०९ १०.२१० . अतो भेदसमुल्लासकलां प्राथमिकीं बुधाः । १०.२१० . चिन्वन्ति प्रतिभां देवीं सर्वज्ञत्वादिसिद्धये ॥ २१० १०.२११ . सैव शक्तिः शिवस्योक्ता तृतीयादितुटिष्वथ । १०.२११ . मन्त्रादि(धि)नाथतच्छक्तिमन्त्रेशाद्याः क्रमोदिताः ॥ २११ १०.२१२ . तासु संदधतश्चित्तमवधानैकधर्मकम् । १०.२१२ . तत्तत्सिद्धिसमावेशः स्वयमेवोपजायते ॥ २१२ १०.२१३ . अत एव यथा भेदबहुत्वं दूरता तथा । १०.२१३ . संवित्तौ तुटिबाहुल्यादक्षार्थासंनिकर्षवत् ॥ २१३ १०.२१४ . यथा यथा हि न्यूनत्वं तुटीनां ह्रासतो भिदः । १०.२१४ . तथा तथातिनैकट्यं संविदः स्याच्छिवावधि ॥ २१४ १०.२१५ . शिवतत्त्वमतः प्रोक्तमन्तिकं सर्वतोऽमुतः । १०.२१५ . अत एव प्रयत्नोऽयं तत्प्रवेशे न विद्यते ॥ २१५ १०.२१६ . यथा यथा हि दूरत्वं यत्नयोगस्तथा तथा । १०.२१६ . भावनाकरणादीनां शिवे निरवकाशताम् ॥ २१६ १०.२१७ . अत एव हि मन्यन्ते संप्रदायधना जनाः । १०.२१७ . तथा हि दृश्यतां लोको घटादेर्वेदने यथा ॥ २१७ १०.२१८ . प्रयत्नवानिवाभाति तथा किं सुखवेदने । १०.२१८ . आन्तरत्वमिदं प्राहुः संविन्नैकट्यशालिताम् ॥ २१८ १०.२१९ . तां च चिद्रूपतोन्मेषं बाह्यत्वं तन्निमेषताम् । १०.२१९ . भविनां त्वन्तिकोऽप्येवं न भातीत्यतिदूरता ॥ २१९ १०.२२० . दूरेऽपि ह्यन्तिकीभूते भानं स्यात्त्वत्र तत्कथम् । १०.२२० . न च बीजाङ्कुरलतादलपुष्पफलादिवत् ॥ २२० १०.२२१ . क्रमिकेयं भवेत्संवित्सूतस्तत्र किलाङ्कुरः । १०.२२१ . बीजाल्लता त्वङ्कुरान्नो बीजादिह सर्वतः ॥ २२१ १०.२२२ . संवित्तत्त्वं भासमानं परिपूर्णं हि सर्वतः । १०.२२२ . सर्वस्य कारणं प्रोक्तं सर्वत्रैवोदितं यतः ॥ २२२ १०.२२३ . तत एव घटेऽप्येषा प्राणवृत्तिर्यदि स्फुरेत् । १०.२२३ . विश्राम्येच्चाशु तत्रैव शिवबीजे लयं व्रजेत् ॥ २२३ १०.२२४ . न तु क्रमिकता काचिच्छिवात्मत्वे कदाचन । १०.२२४ . अन्यन्मन्त्रादि(धि)नाथादि कारणं तत्तु संनिधेः ॥ २२४ १०.२२५ . शिवाभेदाच्च किं चाथ द्वैते नैकट्यवेदनात् । १०.२२५ . अनया च दिशा सर्व सर्वदा प्रविवेचयन् ॥ २२५ १०.२२६ . भैरवायत एव द्राक्चिच्चक्रेश्वरतां गतः । १०.२२६ . स इत्थं प्राणगो भेदः खेचरीचक्रगोपितः ॥ २२६ १०.२२७ . मया प्रकटितः श्रीमच्छाम्भवाज्ञानुवर्तिना । १०.२२७ . अत्रैवाध्वनि वेद्यत्वं प्राप्ते या संविदुद्भवेत् ॥ २२७ १०.२२८ . तस्याः स्वकं यद्वैचित्र्यं तदवस्थापदाभिधम् । १०.२२८ . जाग्रत्स्वप्नः सुषुप्तं च तुर्यं च तदतीतकम् ॥ २२८ १०.२२९ . इति पञ्च पदान्याहुरेकस्मिन्वेदके सति । १०.२२९ . तत्र यैषा धरातत्त्वाच्छिवान्ता तत्त्वपद्धतिः ॥ २२९ १०.२३० . तस्यामेकः प्रमाता चेदवश्यं जाग्रदादिकम् । १०.२३० . तद्दर्श्यते शंभुनाथप्रसादाद्विदितं मया ॥ २३० १०.२३१ . यदधिष्ठेयमेवेह नाधिष्ठातृ कदाचन । १०.२३१ . संवेदनगतं वेद्यं तज्जाग्रत्समुदाहृतम् ॥ २३१ १०.२३२ . चैत्रमैत्रादिभूतानि तत्त्वानि च धरादितः । १०.२३२ . अभिधाकरणीभूताः शब्दाः किं चाभिधा प्रमा ॥ २३२ १०.२३३ . प्रमातृमेयतन्मानप्रमारूपं चतुष्टयम् । १०.२३३ . विश्वमेतदधिष्ठेयं यदा जाग्रत्तदा स्मृतम् ॥ २३३ १०.२३४ . तथा हि भासते यत्तन्नीलमन्तः प्रवेदने । १०.२३४ . संकल्परूपे बाह्यस्य तदधिष्ठातृ बोधकम् ॥ २३४ १०.२३५ . यत्तु बाह्यतया नीलं चकास्त्यस्य न विद्यते । १०.२३५ . कथंचिदप्यधिष्ठातृभावस्तज्जाग्रदुच्यते ॥ २३५ १०.२३६ . तत्र चैत्रे भासमाने यो देहांशः स कथ्यते । १०.२३६ . अबुद्धो यस्तु मानांशः स बुद्धो मितिकारकः ॥ २३६ १०.२३७ . प्रबुद्धः सुप्रबुद्धश्च प्रमामात्रेति च क्रमः । १०.२३७ . चातुर्विध्यं हि पिण्डस्थनाम्नि जाग्रति कीर्तितम् ॥ २३७ १०.२३८ . जाग्रदादि चतुष्कं हि प्रत्येकमिह विद्यते । १०.२३८ . जाग्रज्जाग्रदबुद्धं तज्जाग्रत्स्वप्नस्तु बुद्धता ॥ २३८ १०.२३९ . इत्यादि तुर्यातीतं तु सर्वगत्वात्पृथक्कुतः । १०.२३९ . उक्तं च पिण्डगं जाग्रदबुद्धं बुद्धमेव च ॥ २३९ १०.२४० . प्रबुद्धं सुप्रबुद्धं च चतुर्विधमिदं स्मृतम् । १०.२४० . मेयभूमिरियं मुख्या जाग्रदाख्यान्यदन्तरा ॥ २४० १०.२४१ . भूततत्त्वाभिधानानां योंऽशोऽधिष्ठेय उच्यते । १०.२४१ . पिण्डस्थमिति तं प्राहुरिति श्रीमालिनीमते ॥ २४१ १०.२४२ . लौकिकी जाग्रदित्येषा संज्ञा पिण्डस्थमित्यपि । १०.२४२ . योगिनां योगसिद्ध्यर्थं संज्ञेयं परिभाष्यते ॥ २४२ १०.२४३ . अधिष्ठेयसमापत्तिमध्यासीनस्य योगिनः । १०.२४३ . तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥ २४३ १०.२४४ . प्रसंख्यानैकरूढानां ज्ञानिनां तु तदुच्यते । १०.२४४ . सर्वतोभद्रमापूर्णं सर्वतो वेद्यसत्तया ॥ २४४ १०.२४५ . सर्वसत्तासमापूर्ण विश्वं पश्येद्यतो यतः । १०.२४५ . ज्ञानी ततस्ततः संवित्तत्वमस्य प्रकाशते ॥ २४५ १०.२४६ . लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल । १०.२४६ . नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥ २४६ १०.२४७ . यत्त्वधिष्ठानकरणभावमध्यास्य वर्तते । १०.२४७ . वेद्यं सत्पूर्वकथितं भूततत्त्वाभिधामयम् ॥ २४७ १०.२४८ . तत्स्वप्नो मुख्यतो ज्ञेयं तच्च वैकल्पिके पथि । १०.२४८ . वैकल्पिकपथारूढवेद्यसाम्यावभासनात् ॥ २४८ १०.२४९ . लोकरूढोऽप्यसौ स्वप्नः साम्यं चाबाह्यरूपता । १०.२४९ . उत्प्रेक्षास्वप्नसंकल्पस्मृत्युन्मादादिदृष्टिषु ॥ २४९ १०.२५० . विस्पष्टं यद्वेद्यजातं जाग्रन्मुख्यतयैव तत् । १०.२५० . यत्तु तत्राप्यविस्पष्टं स्पष्टाधिष्ठातृ भासते ॥ २५० १०.२५१ . विकल्पान्तरगं वेद्यं तत्स्वप्नपदमुच्यते । १०.२५१ . तदैव तस्य वेत्त्येव स्वयमेव ह्यबाह्यताम् ॥ २५१ १०.२५२ . प्रमात्रन्तरसाधारभावहान्यस्थिरात्मते । १०.२५२ . तत्रापि चातुर्विध्यं तत्प्राग्दिशैव प्रकल्पयेत् ॥ २५२ १०.२५३ . गतागतं सुविक्षिप्तं संगतं सुसमाहितम् । १०.२५३ . अत्रापि पूर्ववन्नाम लौकिकं स्वप्न इत्यदः ॥ २५३ १०.२५४ . बाह्याभिमतभावानां स्वापो ह्यग्रहणं मतम् । १०.२५४ . सर्वाध्वनः पदं प्राणः संकल्पोऽवगमात्मकः ॥ २५४ १०.२५५ . पदं च तत्समापत्ति पदस्थं योगिनो विदुः । १०.२५५ . वेद्यसत्तां बहिर्भूतामनपेक्ष्यैव सर्वतः ॥ २५५ १०.२५६ . वेद्ये स्वातन्त्र्यभाग्ज्ञानं स्वप्नं व्याप्तितया भजेत् । १०.२५६ . मानभूमिरियं मुख्या स्वप्नो ह्यामर्शनात्मकः ॥ २५६ १०.२५७ . वेद्यच्छायोऽवभासो हि मेयेऽधिष्ठानमुच्यते । १०.२५७ . यत्त्वधिष्ठातृभूतादेः पूर्वोक्तस्य वपुर्ध्रुवम् ॥ २५७ १०.२५८ . बीजं विश्वस्य तत्तूष्णींभूतं सौषुप्तमुच्यते । १०.२५८ . अनुभूतौ विकल्पे च योऽसौ द्रष्टा स एव हि ॥ २५८ १०.२५९ . न भावग्रहणं तेन सुष्ठु सुप्तत्वमुच्यते । १०.२५९ . तत्साम्याल्लौकिकीं निद्रां सुषुप्तं मन्वते बुधाः ॥ २५९ १०.२६० . बीजभावोऽथाग्रहणं साम्यं तूष्णींस्वभावता । १०.२६० . मुख्या मातृदशा सेयं सुषुप्ताख्या निगद्यते ॥ २६० १०.२६१ . रूपकत्वाच्च रूपं तत्तादात्म्यं योगिनः पुनः । १०.२६१ . रूपस्थं तत्समापत्त्यौदासीन्यं रूपिणां विदुः ॥ २६१ १०.२६२ . प्रसंख्यानवतः कापि वेद्यसंकोचनात्र यत् । १०.२६२ . नास्ति तेन महाव्याप्तिरियं तदनुसारतः ॥ २६२ १०.२६३ . उदासीनस्य तस्यापि वेद्यं येन चतुर्विधम् । १०.२६३ . भूतादि तदुपाध्युत्थमत्र भेदचतुष्टयम् ॥ २६३ १०.२६४ . उदितं विपुलं शान्तं सुप्रसन्नमथापरम् । १०.२६४ . यत्तु प्रमात्मकं रूपं प्रमातुरुपरि स्थितम् ॥ २६४ १०.२६५ . पूर्णतागमनौन्मुख्यमौदासीन्यात्परिच्युतिः । १०.२६५ . तत्तुर्यमुच्यते शक्तिसमावेशो ह्यसौ मतः ॥ २६५ १०.२६६ . सा संवित्स्वप्रकाशा तु कैश्चिदुक्ता प्रमेयतः । १०.२६६ . मानान्मातुश्च भिन्नैव तदर्थं त्रितयं यतः ॥ २६६ १०.२६७ . मेयं माने मातरि तत्सोऽपि तस्यां मितौ स्फुटम् । १०.२६७ . विश्राम्यतीति सैवैषा देवी विश्वैकजीवितम् ॥ २६७ १०.२६८ . रूपं दृशाहमित्यंशत्रयमुत्तीर्य वर्तते । १०.२६८ . द्वारमात्राश्रितोपाया पश्यामीत्यनुपायिका ॥ २६८ १०.२६९ . प्रमातृता स्वतन्त्रत्वरूपा सेयं प्रकाशते । १०.२६९ . संवित्तुरीयरूपैवं प्रकाशात्मा स्वयं च सा ॥ २६९ १०.२७० . तत्समावेशतादात्म्ये मातृत्वं भवति स्फुटम् । १०.२७० . तत्समावेशोपरागान्मानत्वं मेयता पुनः ॥ २७० १०.२७१ . तत्समावेशनैकट्यात्त्रयं तत्तदनुग्रहात् । १०.२७१ . वेद्यादिभेदगलनादुक्ता सेयमनामया ॥ २७१ १०.२७२ . मात्राद्यनुग्रहादा(धा)नात्सव्यापारेति भण्यते । १०.२७२ . जाग्रदाद्यपि देवस्य शक्तित्वेन व्यवस्थितम् ॥ २७२ १०.२७३ . अपरं परापरं च द्विधा तत्सा परा त्वियम् । १०.२७३ . रूपकत्वादुदासीनाच्च्युतेयं पूर्णतोन्मुखी ॥ २७३ १०.२७४ . दशा तस्यां समापत्ती रूपातीतं तु योगिनः । १०.२७४ . पूर्णतौन्मुख्ययोगित्वाद्विश्वं पश्यति तन्मयः ॥ २७४ १०.२७५ . प्रसंख्याता प्रचयतस्तेनेयं प्रचयो मता । १०.२७५ . नैतस्यामपरा तुर्यदशा संभाव्यते किल ॥ २७५ १०.२७६ . संविन्न किल वेद्या सा वित्त्वेनैव हि भासते । १०.२७६ . जाग्रदाद्यास्तु संभाव्यास्तिस्रोऽस्याः प्राग्दशा यतः ॥ २७६ १०.२७७ . त्रितयानुग्रहात्सेयं तेनोक्ता त्रिकशासने । १०.२७७ . मनोन्मनमनन्तं च सर्वार्थमिति भेदतः ॥ २७७ १०.२७८ . यत्तु पूर्णानवच्छिन्नवपुरानन्दनिर्भरम् । १०.२७८ . तुर्यातीतं तु तत्प्राहुस्तदेव परमं पदम् ॥ २७८ १०.२७९ . नात्र योगस्य सद्भावो भावनादेरभावतः । १०.२७९ . अप्रमेयेऽपरिच्छिन्ने स्वतन्त्रे भाव्यता कुतः ॥ २७९ १०.२८० . योगाद्यभावतस्तेन नामास्मिन्नादिशद्विभुः । १०.२८० . प्रसंख्यानबलात्त्वेतद्रूपं पूर्णत्वयोगतः ॥ २८० १०.२८१ . अनुत्तरादिह प्रोक्तं महाप्रचयसंज्ञितम् । १०.२८१ . पूर्णत्वादेव भेदानामस्यां संभावना न हि ॥ २८१ १०.२८२ . तन्निरासाय नैतस्यां भेद उक्तो विशेषणम् । १०.२८२ . सततोदितमित्येतत्सर्वव्यापित्वसूचकम् ॥ २८२ १०.२८३ . न ह्येक एव भवति भेदः क्वचन कश्चन । १०.२८३ . तुर्यातीते भेद एकः सततोदित इत्ययम् ॥ २८३ १०.२८४ . मूढवादस्तेन सिद्धमविभेदित्वमस्य तु । १०.२८४ . श्रीपूर्वशास्त्रे तेनोक्तं पदस्थमपरं विदुः ॥ २८४ १०.२८५ . मन्त्रास्तत्पतयः सेशा रूपस्थमिति कीर्त्यते । १०.२८५ . रूपातीतं परा शक्तिः सव्यापाराप्यनामया ॥ २८५ १०.२८६ . निष्प्रपञ्चो निराभासः शुद्धः स्वात्मन्यवस्थितः । १०.२८६ . सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ २८६ १०.२८७ . इति श्रीसुमतिप्रज्ञाचन्द्रिकाशान्ततामसः । १०.२८७ . श्रीशंभुनाथः सद्भावं जाग्रदादौ न्यरूपयत् ॥ २८७ १०.२८८ . अन्ये तु कथयन्त्येषां भङ्गीमन्यादृशीं श्रिताः । १०.२८८ . यद्रूपं जाग्रदादीनां तदिदानीं निरूप्यते ॥ २८८ १०.२८९ . तत्राक्षवृत्तिमाश्रित्य बाह्याकारग्रहो हि यः । १०.२८९ . तज्जाग्रत्स्फुटमासीनमनुबन्धि पुनः पुनः ॥ २८९ १०.२९० . आत्मसंकल्पनिर्माणं स्वप्नो जाग्रद्विपर्ययः । १०.२९० . लयाकलस्य भोगोऽसौ मलकर्मवशान्नतु ॥ २९० १०.२९१ . स्थिरीभवेन्निशाभावात्सुप्तं सौख्याद्यवेदने । १०.२९१ . ज्ञानाकलस्य मलतः केवलाद्भोगमात्रतः ॥ २९१ १०.२९२ . भेदवन्तः स्वतोऽभिन्नाश्चिकीर्ष्यन्ते जडाजडाः । १०.२९२ . तुर्ये तत्र स्थिता मन्त्रतन्नाथाधीश्वरास्त्रयः ॥ २९२ १०.२९३ . यावद्भैरवबोधान्तःप्रवेशनसहिष्णवः । १०.२९३ . भावा विगलदात्मीयसाराः स्वयमभेदिनः ॥ २९३ १०.२९४ . तुर्यातीतपदे संस्युरिति पञ्चदशात्मके । १०.२९४ . यस्य यद्यत्स्फुटं रूपं तज्जाग्रदिति मन्यताम् ॥ २९४ १०.२९५ . यदेवास्थिरमाभाति सपूर्वं स्वप्न ईदृशः । १०.२९५ . अस्फुटं तु यदाभाति सुप्तं तत्तत्पुरोऽपि यत् ॥ २९५ १०.२९६ . त्रयस्यास्यानुसंधिस्तु यद्वशादुपजायते । १०.२९६ . स्रक्सूत्रकल्पं तत्तुर्यं सर्वभेदेषु गृह्यताम् ॥ २९६ १०.२९७ . यत्त्वद्वैतभरोल्लासद्राविताशेषभेदकम् । १०.२९७ . तुर्यातीतं तु तत्प्राहुरित्थं सर्वत्र योजयेत् ॥ २९७ १०.२९८ . लयाकले तु स्वं रूपं जाग्रत्तत्पूर्ववृत्ति तु । १०.२९८ . स्वप्नादीति क्रमं सर्वं सर्वत्रानुसरेद्बुधः ॥ २९८ १०.२९९ . एकत्रापि प्रभौ पूर्णे चित्तुर्यातीतमुच्यते । १०.२९९ . आनन्दस्तुर्यमिच्छैव बीजभूमिः सुषुप्तता ॥ २९९ १०.३०० . ज्ञानशक्तिः स्वप्न उक्तः क्रियाशक्तिस्तु जागृतिः । १०.३०० . न चैवमुपचारः स्यात्सर्वं तत्रैव वस्तुतः ॥ ३०० १०.३०१ . न चेन्न क्वापि मुख्यत्वं नोपचारोऽपि तत्क्वचित् । १०.३०१ . एतच्छ्रीपूर्वशास्त्रे च स्फुटमुक्तं महेशिना ॥ ३०१ १०.३०२ . तत्र स्वरूपं शक्तिश्च सकलश्चेति तत्त्रयम् । १०.३०२ . इति जाग्रदवस्थेयं भेदे पञ्चदशात्मके ॥ ३०२ १०.३०३ . अकलौ स्वप्नसौषुप्ते तुर्यं मन्त्रादिवर्गभाक् । १०.३०३ . तुर्यातीतं शक्तिशंभू त्रयोदशाभिधे पुनः ॥ ३०३ १०.३०४ . स्वरूपं जाग्रदन्यत्तु प्राग्वत्प्रलयकेवले । १०.३०४ . स्वं जाग्रत्स्वप्नसुप्ते द्वे तुर्याद्यत्र च पूर्ववत् ॥ ३०४ १०.३०५ . विज्ञानाकलभेदेऽपि स्वं मन्त्रा मन्त्रनायकाः । १०.३०५ . तदीशाः शक्तिशंभ्वित्थं पञ्च स्युर्जाग्रदादयः ॥ ३०५ १०.३०६ . सप्तभेदे तु मन्त्राख्ये स्वं मन्त्रेशा महेश्वराः । १०.३०६ . शक्तिः शंभुश्च पञ्चोक्ता अवस्था जाग्रदादयः ॥ ३०६ १०.३०७ . स्वरूपं मन्त्रमाहेशी शक्तिर्मन्त्रमहेश्वरः । १०.३०७ . शक्तिः शंभुरिमाः पञ्च मन्त्रेशे पञ्चभेदके ॥ ३०७ १०.३०८ . स्वं क्रिया ज्ञानमिच्छा च शंभुरत्र च पञ्चमी । १०.३०८ . महेशभेदे त्रिविधे जाग्रदादि निरूपितम् ॥ ३०८ १०.३०९ . व्यापारादाधिपत्याच्च तद्धान्या प्रेरकत्वतः । १०.३०९ . इच्छानिवृत्तेः स्वस्थत्वाच्छिव एकोऽपि पञ्चधा ॥ ३०९ १०.३१० . इत्येष दर्शितोऽस्माभिस्तत्त्वाध्वा विस्तरादथ । च्११ अथ श्रीतन्त्रालोके एकादशमाह्निकम् ११.१ . कलाध्वा वक्ष्यते श्रीमच्छांभवाज्ञानुसारतः ॥ १ ११.२ . यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम् । ११.२ . अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते ॥ २ ११.३ . तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम् । ११.३ . व्यावृत्तं परवर्गाच्च कलेति शिवशासने ॥ ३ ११.४ . केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका । ११.४ . तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा ॥ ४ ११.५ . अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः । ११.५ . अनुगामि न सामान्यमिष्टं नैयायिकादिवत् ॥ ५ ११.६ . अन्ये वदन्ति दीक्षादौ सुखसंग्रहणार्थतः । ११.६ . शिवेन कल्पितो वर्गः कलेति समयाश्रयः ॥ ६ ११.७ . कृतश्च देवदेवेन समयोऽपरमार्थताम् । ११.७ . न गच्छतीति नासत्यो न चान्यसमयोदयः ॥ ७ ११.८ . निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे । ११.८ . विद्या निशान्ते शान्ता च शक्त्यन्तेऽण्डमिदं चतुः ॥ ८ ११.९ . शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः । ११.९ . नह्यत्र वर्गीकरणं समयः कलनापि वा ॥ ९ ११.१० . युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि । ११.१० . स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम् ॥ १० ११.११ . उपदेशतदावेशपरमार्थत्वसिद्धये । ११.११ . बोध्यतामानयन्देवः स्फुटमेव विभाव्यते ॥ ११ ११.१२ . यतोऽतः शिवतत्त्वेऽपि कलासंगतिरुच्यते । ११.१२ . अण्डं च नाम भुवनविभागस्थितिकारणम् ॥ १२ ११.१३ . प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि । ११.१३ . यद्यपि प्राक्शिवाख्येऽपि तत्त्वे भुवनपद्धतिः ॥ १३ ११.१४ . उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसंभवः । ११.१४ . नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः ॥ १४ ११.१५ . अपि चाप्रतिघत्वेऽपि कथमण्डस्य संभवः । ११.१५ . अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम् ॥ १५ ११.१६ . प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किंचन । ११.१६ . मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः ॥ १६ ११.१७ . कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम् । ११.१७ . त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता ॥ १७ ११.१८ . कार्यत्वकरणत्वादिविभागगलने सति । ११.१८ . विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः ॥ १८ ११.१९ . श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा । ११.१९ . पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत् ॥ १९ ११.२० . पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते । ११.२० . ईशानान्तं तत्र तत्र धरादिगगनान्तकम् ॥ २० ११.२१ . शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम् । ११.२१ . यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम् ॥ २१ ११.२२ . सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम् । ११.२२ . तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते ॥ २२ ११.२३ . यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते । ११.२३ . न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः ॥ २३ ११.२४ . यद्वेद्यं किंचिदाभाति तत्क्षये यत्प्रकाशते । ११.२४ . तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते ॥ २४ ११.२५ . तत्किं न किंचिद्वा किंचिदित्याकाङ्क्षावशे वपुः । ११.२५ . चिदानन्दस्वतन्त्रैकरूपं तदिति देशने ॥ २५ ११.२६ . सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा । ११.२६ . तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः ॥ २६ ११.२७ . अष्टात्रिंशत्तमः सोऽपि भावनायोपदिश्यते । ११.२७ . यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत् ॥ २७ ११.२८ . अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता । ११.२८ . समैव वेद्यीकरणं केवलं त्वधिकं यतः ॥ २८ ११.२९ . धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः । ११.२९ . गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु ॥ २९ ११.३० . इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक् । ११.३० . स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः ॥ ३० ११.३१ . तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी । ११.३१ . यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम् ॥ ३१ ११.३२ . अतो विन्दुरतो नादो रूपमस्मादतो रसः । ११.३२ . इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा ॥ ३२ ११.३३ . मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत । ११.३३ . धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा ॥ ३३ ११.३४ . एभिः शब्दैर्व्यवहरन्निवृत्त्यादेर्निजं वपुः । ११.३४ . पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते ॥ ३४ ११.३५ . विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम् । ११.३५ . शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम् ॥ ३५ ११.३६ . इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति । ११.३६ . तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः ॥ ३६ ११.३७ . प्रकृत्पुमान्यतिः कालो माया विद्येशसौशिवौ । ११.३७ . शिवश्च नवतत्त्वेऽपि विधौ तत्त्वाध्वरूपता ॥ ३७ ११.३८ . एवमष्टादशाख्येऽपि विधौ न्यायं वदेत्सुधीः । ११.३८ . यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः ॥ ३८ ११.३९ . अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक् । ११.३९ . तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत् ॥ ३९ ११.४० . तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः । ११.४० . एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति ॥ ४० ११.४१ . शिष्यं च गतभोगाशमुदितः शंभुना यतः । ११.४१ . भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया ॥ ४१ ११.४२ . स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन् स्थितः । ११.४२ . इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः ॥ ४२ ११.४३ . मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः । ११.४३ . अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते ॥ ४३ ११.४४ . यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम् । ११.४४ . पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते ॥ ४४ ११.४५ . तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा । ११.४५ . गुप्तभाषी यतो माता तूष्णींभूतो व्यवस्थितः ॥ ४५ ११.४६ . तथापि न विमर्शात्म रूपं त्यजति तेन सः । ११.४६ . प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु ॥ ४६ ११.४७ . मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने । ११.४७ . अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम् ॥ ४७ ११.४८ . औदासीन्यपरित्यागे प्रक्षोभानवरोहणे । ११.४८ . वर्णाध्वा मातृभागे स्यात्पूर्वं या कथिता प्रमा ॥ ४८ ११.४९ . सा तु पूर्णस्वरूपत्वादविभागमयी यतः । ११.४९ . तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः ॥ ४९ ११.५० . कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः । ११.५० . तत्र शक्तिपरिस्पन्दस्तावान् प्राक्च निरूपितः ॥ ५० ११.५१ . संकलय्योच्यते सर्वमधुना सुखसंविदे । ११.५१ . पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः । ११.५१ . तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥ ५१ ११.५२ . मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला । ११.५२ . अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या ॥ ५२ ११.५३ . षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् । ११.५३ . अभिनवगुप्तेनार्यात्रयमुक्तं संग्रहाय शिष्येभ्यः ॥ ५३ ११.५४ . सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान् । ११.५४ . तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते ॥ ५४ ११.५५ . तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः । ११.५५ . तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा ॥ ५५ ११.५६ . शिवज्ञानक्रियायत्तमननत्राणतत्परा । ११.५६ . अशेषशक्तिपटलीलीलालाम्पट्यपाटवात् ॥ ५६ ११.५७ . च्युता मानमयाद्रूपात्संविन्मन्त्राध्वतां गता । ११.५७ . प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम् ॥ ५७ ११.५८ . तथा हि मातुर्विश्रान्तिर्वर्णान्संघट्य तान्बहून् । ११.५८ . संघट्टनं च क्रमिकं संजल्पात्मकमेव तत् ॥ ५८ ११.५९ . विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम् । ११.५९ . अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ ॥ ५९ ११.६० . प्रमाणरूपतावेशमपरित्यज्य मेयताम् ॥ ६० ११.६१ . गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः । ११.६१ . शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि ॥ ६१ ११.६२ . तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः । ११.६२ . प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम् ॥ ६२ ११.६३ . प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल । ११.६३ . उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः ॥ ६३ ११.६४ . सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः । ११.६४ . सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि ॥ ६४ ११.६५ . आमृशन्तः स्वचिद्भूमौ तावतोऽर्थानभेदतः । ११.६५ . वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम् ॥ ६५ ११.६६ . बालास्तिर्यक्प्रमातारो येऽप्यसंकेतभागिनः । ११.६६ . तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम् ॥ ६६ ११.६७ . भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम् । ११.६७ . अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम् ॥ ६७ ११.६८ . संकेता यान्ति चेत्तेऽपि यान्त्यसंकेतवृत्तिताम् । ११.६८ . अनया तु विना सर्वे संकेता बहुशः कृताः ॥ ६८ ११.६९ . अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम् । ११.६९ . बालो व्युत्पाद्यते येन तत्र संकेतमार्गणात् ॥ ६९ ११.७० . अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः । ११.७० . विकल्पः शब्दमूलश्च शब्दः संकेतजीवितः ॥ ७० ११.७१ . तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः । ११.७१ . संविद्विमर्शसचिवः सदैव स हि जृम्भते ॥ ७१ ११.७२ . यत एव च मायीया वर्णाः सूतिं वितेनिरे । ११.७२ . ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः ॥ ७२ ११.७३ . संकेतनिरपेक्षास्ते प्रमेति परिगृह्यताम् । ११.७३ . तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा ॥ ७३ ११.७४ . प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम् । ११.७४ . शुकवत्स पठत्येव परं तत्क्रमितैकभाक् ॥ ७४ ११.७५ . स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता । ११.७५ . यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात् ॥ ७५ ११.७६ . वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत् । ११.७६ . यथा यथा चाकृतकं तद्रूपमतिरिच्यते ॥ ७६ ११.७७ . तथा तथा चमत्कारतारतम्यं विभाव्यते । ११.७७ . आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे ॥ ७७ ११.७८ . सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः । ११.७८ . आद्योद्रेकमहत्त्वेऽपि प्रतिभात्मनि निष्ठिताः ॥ ७८ ११.७९ . ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः । ११.७९ . यावद्धामनि संकेतनिकारकलनोज्झिते ॥ ७९ ११.८० . विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा । ११.८० . अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता ॥ ८० ११.८१ . सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी । ११.८१ . तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते ॥ ८१ ११.८२ . तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम् । ११.८२ . एवं मामातृमानत्वमेयत्वैर्योऽवभासते ॥ ८२ ११.८३ . षड्विधः स्ववपुःशुद्धौ शुद्धिं सोऽध्वाधिगच्छति । ११.८३ . एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम् ॥ ८३ ११.८४ . अन्तर्भाव्याचरेच्छुद्धिमनुसंधानवान् गुरुः । ११.८४ . अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत् ॥ ८४ ११.८५ . तद्विशुद्धं बीजभावात्सूते नोत्तरसंततिम् । ११.८५ . शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता ॥ ८५ ११.८६ . तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम् । ११.८६ . तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात् ॥ ८६ ११.८७ . अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः । ११.८७ . सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते ॥ ८७ ११.८८ . अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल । ११.८८ . ते सर्वे सर्वदाः किन्तु कस्याचित्क्वापि मुख्यता ॥ ८८ ११.८९ . अतः शोधकभावेन शास्त्रे श्रीपूर्वसंज्ञिते । ११.८९ . परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः ॥ ८९ ११.९० . शोधकत्वं च मालिन्या देवीनां त्रितयस्य च । ११.९० . देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च ॥ ९० ११.९१ . किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे । ११.९१ . लोकपास्त्रविधौ मन्त्रान्मुक्त्वा सर्वं विशोधकम् ॥ ९१ ११.९२ . यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या । ११.९२ . सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने ॥ ९२ ११.९३ . सर्वमेतद्विभात्येव परमेशितरि ध्रुवे । ११.९३ . प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः ॥ ९३ ११.९४ . चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी । ११.९४ . भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत् ॥ ९४ ११.९५ . यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः । ११.९५ . देहान्तरादिर्मरणे कीदृग्वा देहसंभवः ॥ ९५ ११.९६ . स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात् । ११.९६ . विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा ॥ ९६ ११.९७ . शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा । ११.९७ . तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः ॥ ९७ ११.९८ . नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः । ११.९८ . न स्वयं सदसन्तो नो कारणाकारणात्मकाः ॥ ९८ ११.९९ . नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात् । ११.९९ . अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः ॥ ९९ ११.१०० . एकचिन्मात्रसंपूर्णभैरवाभेदभागिनि । ११.१०० . एवमस्मीत्यनामर्शो भेदको भावमण्डले ॥ १०० ११.१०१ . सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा । ११.१०१ . स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम् ॥ १०१ ११.१०२ . चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः । ११.१०२ . अहमेव स्थितो भूतभावतत्त्वपुरैरिति ॥ १०२ ११.१०३ . एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः । ११.१०३ . अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः ॥ १०३ ११.१०४ . परेहसंविदामात्रं परलोकेहलोकते । ११.१०४ . वस्तुतः संविदो देशः कालो वा नैव किंचन ॥ १०४ ११.१०५ . अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः । ११.१०५ . तदवेक्ष्यत तन्मध्यात्केनैकोऽपि धराधरः ॥ १०५ ११.१०६ . भूततन्मात्रवर्गादेराधाराधेयताक्रमे । ११.१०६ . अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी ॥ १०६ ११.१०७ . तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः । ११.१०७ . ततो भावास्तत्र भावाः शक्तिराधारिका ततः ॥ १०७ ११.१०८ . सांकल्पिकं निराधारमपि नैव पतत्यधः । ११.१०८ . स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम् ॥ १०८ ११.१०९ . अस्या घनाहमित्यादिरूढिरेव धरादिता । ११.१०९ . यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता ॥ १०९ ११.११० . मणाविन्द्रायुधे भास इव नीलादयः शिवे । ११.११० . परमार्थत एषां तु नोदयो न व्ययः क्वचित् ॥ ११० ११.१११ . देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम् । ११.१११ . चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि ॥ १११ ११.११२ . जागराभिमते सार्धहस्तत्रितयगोचरे । ११.११२ . प्रहरे च पृथक्स्वप्नाश्चित्रदिक्कालमानिनः ॥ ११२ ११.११३ . अत एव क्षणं नाम न किंचिदपि मन्महे । ११.११३ . क्रियाक्षणे वाप्येकस्मिन् बह्व्यः संस्युर्द्रुताः क्रियाः ॥ ११३ ११.११४ . तेन ये भावसंकोचं क्षणान्तं प्रतिपेदिरे । ११.११४ . ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः ॥ ११४ ११.११५ . तद्य एष सतो भावाञ्शून्यीकर्तुं तथासतः । ११.११५ . स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः ॥ ११५ ११.११६ . तदित्थं परमेशानो विश्वरूपः प्रगीयते । ११.११६ . न तु भिन्नस्य कस्यापि धरादेरुपपन्नता ॥ ११६ ११.११७ . उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते । ११.११७ . भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत ॥ ११७ ११.११८ . तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः ॥ ११८ च्१२ अथ श्रीतन्त्रालोके द्वादशमाह्निकम् १२.१ . अथाध्वनोऽस्य प्रकृत उपयोगः प्रकाश्यते ॥ १ १२.२ . इत्थमध्वा समस्तोऽयं यथा संविदि संस्थितः । १२.२ . तद्द्वारा शून्यधीप्राणनाडीचक्रतनुष्वथो ॥ २ १२.३ . बहिश्च लिङ्गमूर्त्यग्निस्थण्डिलादिषु सर्वतः । १२.३ . तथा स्थितः समस्तश्च व्यस्तश्चैष क्रमाक्रमात् ॥ ३ १२.४ . आसंवित्तत्त्वमाबाह्यं योऽयमध्वा व्यवस्थितः । १२.४ . तत्र तत्रोचितं रूपं स्वं स्वातन्त्र्येण भासयेत् ॥ ४ १२.५ . सर्वं सर्वत्र रूपं च तस्यापि न न भासते । १२.५ . नह्यवच्छेदितां क्वापि स्वप्नेऽपि विषहामहे ॥ ५ १२.६ . एवं विश्वाध्वसंपूर्णं कालव्यापारचित्रितम् । १२.६ . देशकालमयस्पन्दसद्म देहं विलोकयेत् ॥ ६ १२.७ . तथा विलोक्यमानोऽसौ विश्वान्तर्देवतामयः । १२.७ . ध्येयः पूज्यश्च तर्प्यश्च तदाविष्टो विमुच्यते ॥ ७ १२.८ . इत्थं घटं पटं लिङ्गं स्थण्डिलं पुस्तकं जलम् । १२.८ . यद्वा किंचित्क्वचित्पश्येत्तत्र तन्मयतां व्रजेत् ॥ ८ १२.९ . तत्रार्पणं हि वस्तूनामभेदेनार्चनं मतम् । १२.९ . तथा संपूर्णरूपत्वानुसंधिर्ध्यानमुच्यते ॥ ९ १२.१० . संपूर्णत्वानुसंधानमकम्पं दार्ढ्यमानयन् । १२.१० . तथान्तर्जल्पयोगेन विमृशञ्जपभाजनम् ॥ १० १२.११ . तत्रार्पितानां भावानां स्वकभेदविलापनम् । १२.११ . कुर्वंस्तद्रश्मिसद्भावं दद्याद्धोमक्रियापरः ॥ ११ १२.१२ . तथैवंकुर्वतः सर्वं समभावेन पश्यतः । १२.१२ . निष्कम्पता व्रतं शुद्धं साम्यं नन्दिशिखोदितम् ॥ १२ १२.१३ . तथार्चनजपध्यानहोमव्रतविधिक्रमात् । १२.१३ . परिपूर्णां स्थितिं प्राहुः समाधिं गुरवः पुरा ॥ १३ १२.१४ . अत्र पूजाजपाद्येषु बहिरन्तर्द्वयस्थितौ । १२.१४ . द्रव्यौघे न विधिः कोऽपि न कापि प्रतिषिद्धता ॥ १४ १२.१५ . कल्पनाशुद्धिसंध्यादेर्नोपयोगोऽत्र कश्चन । १२.१५ . उक्तं श्रीत्रिकसूत्रे च जायते यजनं प्रति ॥ १५ १२.१६ . अविधिज्ञो विधिज्ञश्चेत्येवमादि सुविस्तरम् । १२.१६ . यदा यथा येन यत्र स्वा सम्वित्तिः प्रसीदति ॥ १६ १२.१७ . तदा तथा तेन तत्र तत्तद्भोग्यं विधिश्च सः । १२.१७ . लौकिकालौकिकं सर्वं तेनात्र विनियोजयेत् ॥ १७ १२.१८ . निष्कम्पत्वे सकम्पस्तु कम्पं निर्ह्रासयेद्बलात् । १२.१८ . यथा येनाभ्युपायेन क्रमादक्रमतोऽपि वा ॥ १८ १२.१९ . विचिकित्सा गलत्यन्तस्तथासौ यत्नवान्भवेत् । १२.१९ . धीकर्माक्षगता देवीर्निषिद्धैरेव तर्पयेत् ॥ १९ १२.२० . वीरव्रतं चाभिनन्देदिति भर्गशिखावचः । १२.२० . तथाहि शङ्का मालिन्यं ग्लानिः संकोच इत्यदः ॥ २० १२.२१ . संसारकारागारान्तः स्थूलस्थूणाघटायते । १२.२१ . मन्त्रा वर्णस्वभावा ये द्रव्यं यत्पाञ्चभौतिकम् ॥ २१ १२.२२ . यच्चिदात्म प्राणिजातं तत्र कः संकरः कथम् । १२.२२ . संकराभावतः केयं शङ्का तस्यामपि स्फुटम् ॥ २२ १२.२३ . न शङ्केत तथा शङ्का विलीयेतावहेलया । १२.२३ . श्रीसर्वाचारवीरालीनिशाचरक्रमादिषु ॥ २३ १२.२४ . शास्त्रेषु विततं चैतत्तत्र तत्रोच्यते यतः । १२.२४ . शङ्कया जायते ग्लानिः शङ्कया विघ्नभाजनम् ॥ २४ १२.२५ . उवाचोत्पलदेवश्च श्रीमानस्मद्गुरोर्गुरुः । १२.२५ . सर्वाशङ्काशनिं मार्गं नुमो माहेश्वरं त्विति ॥ २५ १२.२६ . अनुत्तरपदाप्तये तदिदमाणवं दर्शिताभ्युपायमतिविस्तरान्ननु विदांकुरुध्वं बुधाः । च्१३ अथ श्रीतन्त्रालोके त्रयोदशमाह्निकम् १३.१ . अथाधिकृतिभाहनं क इह वा कथं वेत्यलं विवेचयितुमुच्यते विविधशक्तिपातक्रमः ॥ १ १३.२ . तत्र केचिदिह प्राहुः शक्तिपात इमं विधिम् । १३.२ . तं प्रदर्श्य निराकृत्य स्वमतं दर्शयिष्यते ॥ २ १३.३ . तत्रेदं दृश्यमानं सत्सुखदुःखविमोहभाक् । १३.३ . विषमं सत्तथाभूतं समं हेतुं प्रकल्पयेत् ॥ ३ १३.४ . सोऽव्यक्तं तच्च सत्त्वादिनानारूपमचेतनम् । १३.४ . घटादिवत्कार्यमिति हेतुरेकोऽस्य सा निशा ॥ ४ १३.५ . सा जडा कार्यताद्रूप्यात्कार्यं चास्यां सदेव हि । १३.५ . कलादिधरणीप्रान्तं जाड्यात्सा सूतयेऽक्षमा ॥ ५ १३.६ . तेनेशः क्षोभयेदेनां क्षोभोऽस्याः सूतियोग्यता । १३.६ . पुंसः प्रति च सा भोग्यं सूतेऽनादीन् पृथग्विधान् ॥ ६ १३.७ . पुंसश्च निर्विशेषत्वे मुक्ताणून् प्रति किं न तत् । १३.७ . निमित्तं कर्मसंस्कारः स च तेषु न विद्यते ॥ ७ १३.८ . इति चेत्कर्मसंस्काराभावस्तेषां कुतः किल । १३.८ . न भोगादन्यकर्मांशप्रसङ्गो हि दुरत्ययः ॥ ८ १३.९ . युगपत्कर्मणां भोगो नच युक्तः क्रमेण हि । १३.९ . फलेद्यत्कर्म तत्कस्मात्स्वं रूपं संत्यजेत्क्वचित् ॥ ९ १३.१० . ज्ञानात्कर्मक्षयश्चेत्तत्कुत ईश्वरचोदितात् । १३.१० . धर्माद्यदि कुतः सोऽपि कर्मतश्चेत्तदुच्यताम् ॥ १० १३.११ . नहि कर्मास्ति तादृक्षं येन ज्ञानं प्रवर्तते । १३.११ . कर्मजत्वे च तज्ज्ञानं फलराशौ पतेद्ध्रुवम् ॥ ११ १३.१२ . अन्यकर्मफलं प्राच्यं कर्मराशिं च किं दहेत् । १३.१२ . ईशस्य द्वेषरागादिशून्यस्यापि कथं क्वचित् ॥ १२ १३.१३ . तथाभिसंधिर्नान्यत्र भेदहेतोरभावतः । १३.१३ . नन्वित्थं प्रदहेज्ज्ञानं कर्मजालानि कर्म हि ॥ १३ १३.१४ . अज्ञानसहकारीदं सूते स्वर्गादिकं फलम् । १३.१४ . अज्ञानं ज्ञानतो नश्येदन्यकर्मफलादपि ॥ १४ १३.१५ . उपवासादिकं चान्यद्दुष्टकर्मफलं भवेत् । १३.१५ . निष्फलीकुरुते दुष्टं कर्मेत्यङ्गीकृतं किल ॥ १५ १३.१६ . अज्ञानमिति यत्प्रोक्तं ज्ञानाभावः स चेत्स किम् । १३.१६ . प्रागभावोऽथवा ध्वंस आद्ये किं सर्वसंविदाम् ॥ १६ १३.१७ . कस्यापि वाथ ज्ञानस्य प्राच्यः पक्षस्त्वसंभवी । १३.१७ . न किंचिद्यस्य विज्ञानमुदपादि तथाविधः ॥ १७ १३.१८ . नाणुरस्ति भवे ह्यस्मिन्ननादौ कोऽन्वयं क्रमः । १३.१८ . भाविनः प्रागभावश्च ज्ञानस्येति स्थिते सति ॥ १८ १३.१९ . मुक्ताणोरपि सोऽस्त्येव जन्मतः प्रागसौ नच । १३.१९ . ज्ञानं भावि विमुक्तेऽस्मिन्निति चेच्चर्च्यतामिदम् ॥ १९ १३.२० . कस्माज्ज्ञानं न भाव्यत्र ननु देहाद्यजन्मतः । १३.२० . तत्कस्मात्कर्मणः क्षैण्यात्तत्कुतोऽज्ञानहानितः ॥ २० १३.२१ . अज्ञानस्य कथं हानिः प्रागभावे हि संविदः । १३.२१ . अज्ञानं प्रागभावोऽसौ न भाव्युत्पत्त्यसंभवात् ॥ २१ १३.२२ . कस्मान्न भावि तज्ज्ञानं ननु देहाद्यजन्मतः । १३.२२ . इत्येष सर्वपक्षघ्नो निशितश्चक्रकभ्रमः ॥ २२ १३.२३ . अथ प्रध्वंस एवेदमज्ञानं तत्सदा स्थितम् । १३.२३ . मुक्ताणुष्विति तेष्वस्तु मायाकार्यविजृम्भितम् ॥ २३ १३.२४ . अथाज्ञानं नह्यभावो मिथ्याज्ञानं तु तन्मतम् । १३.२४ . तदेव कर्मणां स्वस्मिन्कर्तव्ये सहकारणम् ॥ २४ १३.२५ . वक्तव्यं तर्हि किं कर्म यदा सूते स्वकं फलम् । १३.२५ . तदैव मिथ्याज्ञानेन सता हेतुत्वमाप्यते ॥ २५ १३.२६ . अथ यस्मिन्क्षणे कर्म कृतं तत्र स्वरूपसत् । १३.२६ . मिथ्याज्ञानं यदि ततस्तादृशात्कमर्णः फलम् ॥ २६ १३.२७ . प्राक्पक्षे प्रलये वृत्ते प्राच्यसृष्टिप्रवर्तने । १३.२७ . देहाद्यभावान्नो मिथ्याज्ञानस्य क्वापि संभवः ॥ २७ १३.२८ . उत्तरस्मिन्पुनः पक्षे यदा यद्येन यत्र वा । १३.२८ . क्रियते कर्म तत्सर्वमज्ञानसचिवं तदा ॥ २८ १३.२९ . अवश्यमिति कस्यापि न कर्मप्रक्षयो भवेत् । १३.२९ . यद्यपि ज्ञानवान्भूत्वा विधत्ते कर्म किंचन ॥ २९ १३.३० . विफलं स्यात्तु तत्पूर्वकर्मराशौ तु का गतिः । १३.३० . अथ प्रलयकाले ऽपि चित्स्वभावत्वयोगतः ॥ ३० १३.३१ . अणूना संभवत्येव ज्ञानं मिथ्येति तत्कुतः । १३.३१ . स्वभावादिति चेन्मुक्ते शिवे वा किं तथा नहि ॥ ३१ १३.३२ . यच्चादर्शनमाख्यातं निमित्तं परिणामिनि । १३.३२ . प्रधाने तद्धि संकीर्णवैवित्तयोभययोगतः ॥ ३२ १३.३३ . दर्शनाय पुमर्थैकयोग्यतासचिवं धियः । १३.३३ . आरभ्य सते धरणीपर्यन्तं तत्र यच्चितः ॥ ३३ १३.३४ . बुद्धिवृत्त्यविशिष्टत्वं पुंस्प्रयाशर्प्रसादतः । १३.३४ . प्रकाशनाद्धियोऽर्थेन सह भोगः स भण्यते ॥ ३४ १३.३५ . बुद्धिरेवास्मि विकृतिधर्मिकान्यस्तु कोऽप्यसौ । १३.३५ . मद्विलक्षण एकात्मेत्येवं वैवि यसंविदि ॥ ३५ १३.३६ . पुमर्थस्य कृतत्वेन सहकारिवियोगतः । १३.३६ . तं पुमांसं प्रति नैव सूते किंत्वन्यमेव हि ॥ ३६ १३.३७ . अत्र पुंसोऽथ मूलस्य धर्मोऽदर्शनता द्वयोः । १३.३७ . अथवेति विकल्पोऽयमास्तामेतत्तु भण्यताम् ॥ ३७ १३.३८ . भोगो विवेकपर्यन्त इति यत्तत्र कोऽवधिः । १३.३८ . विवेकलाभे निखिलसूतिदृग्यदि सापि किम् ॥ ३८ १३.३९ . सामान्येन विशेषैर्वा प्राच्ये स्यादेकजन्मतः । १३.३९ . उत्तरे न कदाचित्स्याद्भाविकालस्य योगतः ॥ ३९ १३.४० . कैश्चिदेव विशेषैश्चेत्सर्वेषां युगपद्भवेत् । १३.४० . विवेकोऽनादिसंयोगात्का ह्यन्योन्यं विचित्रता ॥ ४० १३.४१ . तस्मात्सांख्यदृशापीदमज्ञानं नैव युज्यते । १३.४१ . अज्ञानेन विना बन्धमोक्षौ नैव व्यवस्थया ॥ ४१ १३.४२ . युज्येते तच्च कथितयुक्तिभिर्नोपपद्यते । १३.४२ . भायाकर्माणुदेवेच्छासद्भावेऽपि स्थिते ततः ॥ ४२ १३.४३ . न बन्धमोक्षयोर्योगो भेदहेतोरसंभवात् । १३.४३ . तस्मादज्ञानशब्देन ज्ञत्वकर्तृत्वधर्मणाम् ॥ ४३ १३.४४ . चिदणूनामावरणं किंचिद्वाच्यं विपश्चिता । १३.४४ . आवारणात्मना सिद्धं तत्स्वरूपादभेदवत् ॥ ४४ १३.४५ . भेदे प्रमाणाभावाच्च तदेकं निखिलात्मसु । १३.४५ . तच्च कस्मात्प्रसूतं स्यान्मायातश्चेत्कथं नु सा ॥ ४५ १३.४६ . क्वचिदेव सुवीतैतन्न तु मुक्तात्मनीत्ययम् । १३.४६ . प्राच्यः पर्यनुयोगः स्यान्निमित्तं चेन्न लभ्यते ॥ ४६ १३.४७ . उत्पत्त्यभावतस्तेन नित्यं नच विनश्यति । १३.४७ . तत एवैकतायां चान्यात्मसाधारणत्वतः ॥ ४७ १३.४८ . न वावस्त्वर्थकारित्वान्न चित्तत्संवृतित्वतः । १३.४८ . न चैतेनात्मनां योगो हेतुमांस्तदसंभवात् ॥ ४८ १३.४९ . तेनैकं वस्तु सन्नित्यं नित्यसंबद्धमात्मभिः । १३.४९ . जडं मलं तदज्ञानं संसाराङ्कुरकारणम् ॥ ४९ १३.५० . तस्य रोद्ध्री यदा शक्तिरुदास्ते शिवरश्मिभिः । १३.५० . तदाणुः स्पृश्यते स्पृष्टः स्वके ज्ञानक्रिये स्फुटे ॥ ५० १३.५१ . समाविशेदयं सूर्यकान्तोऽर्केणेव चोदितः । १३.५१ . रोद्ध्र्याश्च शक्तेर्माध्यस्थ्यतारतम्यवशक्रमाअत् ॥ ५१ १३.५२ . विचित्रत्वमतः प्राहुरभिव्यक्तौ स्वसंविदः । १३.५२ . स एष शक्तिपाताख्यः शास्त्रेषु परिभाष्यते ॥ ५२ १३.५३ . अत्रोच्यते मलस्तावदित्थमेष न युज्यते । १३.५३ . इति पूर्वाह्णिके प्रोक्तं पुनरुक्तौ तु किं फलम् ॥ ५३ १३.५४ . मलस्य पाकः को ऽयं स्यान्नाशश्चेदितरात्मनाम् । १३.५४ . स एको मल इत्युक्तेर्नैर्मल्यमनुषज्यते ॥ ५४ १३.५५ . अथ प्रत्यात्मनियतोऽनादिश्च प्रागभाववत् । १३.५५ . मलो नश्येत्तथाप्येष नाशो यदि सहेतुकः ॥ ५५ १३.५६ . हेतुः कर्मेश्वरेच्छा वा कर्म तावन्न तादृशम् । १३.५६ . ईश्वरेच्छा स्वतन्त्रा च क्वचिदेव तथैव किम् ॥ ५६ १३.५७ . अहेतुकोऽस्य नाशश्चेत्प्रागेवैष विनश्यतु । १३.५७ . क्षणान्तरं सदृक्सूते इति चेत्स्थिरतैव सा ॥ ५७ १३.५८ . न च नित्यस्य भावस्य हेत्वनायत्तजन्मनः । १३.५८ . नाशो दृष्टः प्रागभावस्त्ववस्त्विति तथास्तु सः ॥ ५८ १३.५९ . अथास्य पाको नामैष स्वशक्तिप्रतिबद्धता । १३.५९ . सर्वान्प्रति तथैष स्याद्रुद्धशक्तिर्विषाग्निवत् ॥ ५९ १३.६० . पुनरुद्भूतशक्तौ च स्वकार्यं स्याद्विषाग्निवत् । १३.६० . मुक्ता अपि न मुक्ताः स्युः शक्तिं चास्य न मन्महे ॥ ६० १३.६१ . रोद्ध्रीति चेत्कस्य नृणां ज्ञत्वकर्तृत्वयोर्यदि । १३.६१ . सद्भावमात्राद्रोद्धृत्वे शिवमुक्ताण्वसंभवः ॥ ६१ १३.६२ . संनिधानातिरिक्तं च न किंचित्कुरुते मलः । १३.६२ . आत्मना परिणामित्वादनित्यत्वप्रसङ्गतः ॥ ६२ १३.६३ . ज्ञत्वकर्तृत्वमात्रं च पुद्गला न तदाश्रयाः । १३.६३ . तच्चेदावारितं हन्त रूपनाशः प्रसज्यते ॥ ६३ १३.६४ . आवारणं चादृश्यत्वं न च तद्वस्तुनोऽन्यताम् । १३.६४ . करोति घटवज्ज्ञानं नावरीतुं च शक्यते ॥ ६४ १३.६५ . ज्ञानेनावरणीयेन तदेवावरणं कथम् । १३.६५ . न ज्ञायते तथा च स्यादावृतिर्नाममात्रतः ॥ ६५ १३.६६ . रोद्ध्र्याश्च शक्तेः कस्तस्य प्रतिबन्धक ईश्वरः । १३.६६ . यद्यपेक्षाविरहितस्तत्र प्राग्दत्तमुत्तरम् ॥ ६६ १३.६७ . कर्मसाम्यमपेक्ष्याथ तस्येच्छा संप्रवर्तते । १३.६७ . तस्यापि रूपं वक्तव्यं समता कर्मणां हि का ॥ ६७ १३.६८ . भोगपर्यायमाहात्म्यात्काले क्वापि फलं प्रति । १३.६८ . विरोधात्कर्मणी रुद्धे तिष्ठतः साम्यमीदृशम् ॥ ६८ १३.६९ . तं च कालांशकं देवः सर्वज्ञो वीक्ष्य तं मलम् । १३.६९ . रुन्द्धे लक्ष्यः स कालश्च सुखदुःखादिवर्जनैः ॥ ६९ १३.७० . नैतत्क्रमिकसंशुद्धव्यामिश्राकारकर्मभिः । १३.७० . तथैव देये स्वफले केयमन्योन्यरोद्धृता ॥ ७० १३.७१ . रोधे तयोश्च जात्यायुरपि न स्यादतः पतेत् । १३.७१ . देहो भोगदयोरेव निरोध इति चेन्ननु ॥ ७१ १३.७२ . जात्यायुष्प्रदकर्मांशसंनिधौ यदि शंकरः । १३.७२ . मलं रुन्द्धे भोगदातुः कर्मणः किं बिभेति सः ॥ ७२ १३.७३ . शतशोऽपि ह्लादतापशून्यां संचिन्वते दशाम् । १३.७३ . न च भक्तिरसावेशमिति भूम्ना विलोकितम् ॥ ७३ १३.७४ . अथापि कालमाहात्म्यमपेक्ष्य परमेश्वरः । १३.७४ . तथा करोति वक्तव्यं कालोऽसौ कीदृशस्त्विति ॥ ७४ १३.७५ . किं चानादिरयं भोगः कर्मानादि सपुद्गलम् । १३.७५ . ततश्च भोगपर्यायकालः सर्वस्य निःसमः ॥ ७५ १३.७६ . आदिमत्त्वे हि कस्यापि वर्गादस्माद्भवेदियम् । १३.७६ . वैचित्री भुक्तमेतेन कल्पमेतेन तु द्वयम् ॥ ७६ १३.७७ . इयतो भोगपर्यायात्स्यात्साम्यं कर्मणामिति । १३.७७ . अनेन नयबीजेन मन्ये वैचित्र्यकारणम् ॥ ७७ १३.७८ . जगतः कर्म यत्क्लप्तं तत्तथा नावकल्पते । १३.७८ . अनादिमलसंच्छन्ना अणवो दृक्क्रियात्मना ॥ ७८ १३.७९ . सर्वे तुल्याः कथं चित्रां श्रिताः कर्मपरम्पराम् । १३.७९ . भोगलोलिकया चेत्सा विचित्रेति कुतो ननु ॥ ७९ १३.८० . अनादि कर्मसंस्कारवैचित्र्यादिति चेत्पुनः । १३.८० . वाच्यं तदेव वैचित्र्यं कुतो नियतिरागयोः ॥ ८० १३.८१ . महिमा चेदयं तौ किं नासमञ्जस्यभागिनौ । १३.८१ . ईश्वरेच्छानपेक्षा तु भेदहेतुर्न कल्पते ॥ ८१ १३.८२ . अथानादित्वमात्रेण युक्तिहीनेन साध्यते । १३.८२ . व्यवस्थेयमलं तर्हि मलेनास्तु वृथामुना ॥ ८२ १३.८३ . तथाहि कर्म तावन्नो यावन्माया न पुद्गले । १३.८३ . व्याप्रियेत न चाहेतुस्तद्वृत्तिस्तन्मितो मलः ॥ ८३ १३.८४ . इत्थं च कल्पिते मायाकार्ये कर्मणि हेतुताम् । १३.८४ . अनादि कर्म चेद्गच्छेत्किं मलस्योपकल्पनम् ॥ ८४ १३.८५ . ननु माभून्मलस्तर्हि चित्राकारेषु कर्मसु । १३.८५ . सन्तत्यावर्तमानेषु व्यवस्था न प्रकल्पते ॥ ८५ १३.८६ . आदौ मध्ये च चित्रत्वात्कर्मणां न यथा समः । १३.८६ . आत्माकारोऽपि कोऽप्येष भाविकाले तथा भवेत् ॥ ८६ १३.८७ . इत्थमुच्छिन्न एवायं बन्धमोक्षादिकः क्रमः । १३.८७ . अज्ञानाद्बन्धनं मोक्षो ज्ञानादिति परीक्षितम् ॥ ८७ १३.८८ . विरोधे स्वफले चैते कर्मणी समये क्वचित् । १३.८८ . उदासाते यदि ततः कर्मैतत्प्रतिबुध्यताम् ॥ ८८ १३.८९ . शिवशक्तिनिपातस्य कोऽवकाशस्तु तावता । १३.८९ . क्वापि काले तयोरेतदौदासीन्यं यदा ततः ॥ ८९ १३.९० . कालान्तरे तयोस्तद्वद्विरोधस्यानिवृत्तितः । १३.९० . अतश्च न फलेतान्ते ताभ्यां कर्मान्तरणि च ॥ ९० १३.९१ . रुद्धानि प्राप्तकालत्वाद्गताभ्यामुपभोग्यताम् । १३.९१ . एवं सदैव वार्तायां देहपाते तथैव च ॥ ९१ १३.९२ . जाते विमोक्ष इत्यास्तां शक्तिपातादिकल्पना । १३.९२ . अथोदासीनतत्कर्मद्वययोगक्षणान्तरे ॥ ९२ १३.९३ . कर्मान्तरं फलं सूते तत्क्षणेऽपि तथा न किम् । १३.९३ . क्षणान्तरेऽथ ते एव प्रतिबन्धविवर्जिते ॥ ९३ १३.९४ . फलतः प्रतिबन्धस्य वर्जनं किंकृतं तयोः । १३.९४ . कर्मसाम्यं स्वरूपेण न च तत्तारतम्यभाक् ॥ ९४ १३.९५ . न शिवेच्छेति तत्कार्ये शक्तिपाते न तद्भवेत् । १३.९५ . तिरोभावश्च नामायं स कस्मादुद्भवेत्पुनः ॥ ९५ १३.९६ . कर्मसाम्येन यत्कृत्यं प्रागेवैतत्कृतं किल । १३.९६ . हेतुत्वे चेश्वरेच्छाया वाच्यं पूर्ववदेव तु ॥ ९६ १३.९७ . एतेनान्येऽपि येऽपेक्ष्या ईशेच्छायां प्रकल्पिताः । १३.९७ . ध्वस्तास्तेऽपि हि नित्यान्यहेत्वहेत्वादिदूषणात् ॥ ९७ १३.९८ . वैराग्यं भोगवैरस्यं धर्मः कोऽपि विवेकिता । १३.९८ . सत्सङ्गः परमेशानपूजाद्यभ्यासनित्यता ॥ ९८ १३.९९ . आपत्प्राप्तिस्तन्निरीक्षा देहे किंचिच्च लक्षणम् । १३.९९ . शास्त्रसेवा भोगसंघपूर्णता ज्ञानमैश्वरम् ॥ ९९ १३.१०० . इत्यपेक्ष्यं यदीशस्य दूष्यमेतच्च पूर्ववत् । १३.१०० . व्यभिचारश्च सामस्त्यव्यस्तत्वाभ्यां स्वरूपतः ॥ १०० १३.१०१ . अन्योन्यानुप्रवेशश्चानुपपत्तिश्च भूयसी । १३.१०१ . तस्मान्न मन्महे कोऽयं शक्तिपातविधेः क्रमः ॥ १०१ १३.१०२ . इत्थं भ्रान्तिविषावेशमूर्च्छानिर्मोकदायिनीम् । १३.१०२ . श्रीशंभुवदनोद्गीर्णां वच्म्यागममहौषधीम् ॥ १०२ १३.१०३ . देवः स्वतन्त्रश्चिद्रूपः प्रकाशात्मा स्वभावतः । १३.१०३ . रूपप्रच्छादनक्रीडायोगादणुरनेककः ॥ १०३ १३.१०४ . स स्वयं कल्पिताकारविकल्पात्मककर्मभिः । १३.१०४ . बध्नात्यात्मानमेवेह स्वातन्त्र्यादिति वर्णितम् ॥ १०४ १३.१०५ . स्वातन्त्र्यमहिमैवायं देवस्य यदसौ पुनः । १३.१०५ . स्वं रूपं परिशुद्धं सत्स्पृशत्यप्यणुतामयः ॥ १०५ १३.१०६ . न वाच्यं तु कथं नाम कस्मिंश्चित्पुंस्यसौ तथा । १३.१०६ . नहि नाम पुमान्कश्चिद्यस्मिन्पर्यनुयुज्यते ॥ १०६ १३.१०७ . देव एव तथासौ चेत्स्वरूपं चास्य तादृशम् । १३.१०७ . तादृक्प्रथास्वभावस्य स्वभावे कानुयोज्यता ॥ १०७ १३.१०८ . आहास्मत्परमेष्ठी च शिवदृष्टौ गुरूत्तमः । १३.१०८ . पञ्चप्रकारकृत्योक्तिशिवत्वान्निजकर्मणे ॥ १०८ १३.१०९ . प्रवृत्तस्य निमित्तानामपरेषां क्व मार्गणम् । १३.१०९ . छन्नस्वरूपताभासे पुंसि यद्यादृशं फलम् ॥ १०९ १३.११० . तत्राणोः सत एवास्ति स्वातन्त्र्यं कर्मतोहि तत् । १३.११० . ईश्वरस्य च या स्वात्मतिरोधित्सा निमित्तताम् ॥ ११० १३.१११ . साभ्येति कर्ममलयोरतोऽनादिव्यवस्थितिः । १३.१११ . तिरोधिः पूर्णरूपस्यापूर्णत्वं तच्च पूरणम् ॥ १११ १३.११२ . प्रति भिन्नेन भावेन स्पृहातो लोलिका मलः । १३.११२ . विशुद्धस्वप्रकाशात्मशिवरूपतया विना ॥ ११२ १३.११३ . न किंचिद्युज्यते तेन हेतुरत्र महेश्वरः । १३.११३ . इत्थं सृष्टिस्थितिध्वंसत्रये मायामपेक्षते ॥ ११३ १३.११४ . कृत्यै मलं तथा कर्म शिवेच्छैवेति सुस्थितम् । १३.११४ . यत्तु कस्मिंश्चन शिवः स्वेन रूपेण भासते ॥ ११४ १३.११५ . तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी । १३.११५ . अणुस्वरूपताहानौ तद्गतं हेतुतां कथम् ॥ ११५ १३.११६ . व्रजेन्मायानपेक्षत्वमत एवोपपादयेत् । १३.११६ . तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम् ॥ ११६ १३.११७ . स च स्वाच्छन्द्यमात्रेण तारतम्यप्रकाशकः । १३.११७ . कुलजातिवपुष्कर्मवयोनुष्ठानसंपदः ॥ ११७ १३.११८ . अनपेक्ष्य शिवे भक्तिः शक्तिपातोऽफलार्थिनाम् । १३.११८ . या फलार्थितया भक्तिः सा कर्माद्यमपेक्षते ॥ ११८ १३.११९ . ततोऽत्र स्यात्फले भेदो नापवर्गे त्वसौ तथा । १३.११९ . भोगापवर्गद्वितयाभिसंधातुरपि स्फुटम् ॥ ११९ १३.१२० . प्राग्भागेऽपेक्षते कर्म चित्रत्वान्नोत्तरे पुनः । १३.१२० . अनाभासितरूपोऽपि तदाभासितयेव यत् ॥ १२० १३.१२१ . स्थित्वा मन्त्रादि संगृह्य त्यजेत्सोऽस्य तिरोभवः । १३.१२१ . श्रीसारशास्त्रे भगवान्वस्त्वेतत्समभाषत ॥ १२१ १३.१२२ . धर्माधर्मात्मकैर्भावैरनेकैर्वेष्टयेत्स्वयम् । १३.१२२ . असन्देहं स्वमात्मानमवीच्यादिशिवान्तके ॥ १२२ १३.१२३ . तद्वच्छक्तिसमूहेन स एव तु विवेष्टयेत् । १३.१२३ . स्वयं बध्नाति देवेशः स्वयं चैव विमुञ्चति ॥ १२३ १३.१२४ . स्वयं भोक्ता स्वयं ज्ञाता स्वयं चैवोपलक्षयेत् । १३.१२४ . स्वयं भुक्तिश्च मुक्तिश्च स्वयं देवी स्वयं प्रभुः ॥ १२४ १३.१२५ . स्वयमेकाक्षरा चैव यथोष्मा कृष्णवर्त्मनः । १३.१२५ . वस्तूक्तमत्र स्वातन्त्र्यात्स्वात्मरूपप्रकाशनम् ॥ १२५ १३.१२६ . श्रीमन्निशाकुलेऽप्युक्तं मिथ्याभावितचेतसः । १३.१२६ . मलमायाविचारेण क्लिश्यन्ते स्वल्पबुद्धयः ॥ १२६ १३.१२७ . स्फटिकोपलगो रेणुः किं तस्य कुरुतां प्रिये । १३.१२७ . व्योम्नीव नीलं हि मलं मलशंकां ततस्त्यजेत् ॥ १२७ १३.१२८ . श्रीमान्विद्यागुरुश्चाह प्रमाणस्तुतिदर्शने । १३.१२८ . धर्माधर्मव्याप्तिविनाशान्तरकाले शक्तेः पातो गाहनिकैर्यः प्रतिपन्नः ॥ १२८ १३.१२९ . तं स्वेच्छातः संगिरमाणाः स्तवकाद्याः स्वातन्त्र्यं तत्त्वय्यनपेक्षं कथयेयुः । १३.१२९ . तारतम्यप्रकाशो यस्तीव्रमध्यममन्दताः ॥ १२९ १३.१३० . ता एव शक्तिपातस्य प्रत्येकं त्रैधमास्थिताः । १३.१३० . तीव्रतीव्रः शक्तिपातो देहपातवशात्स्वयम् ॥ १३० १३.१३१ . मोक्षप्रदस्तदैवान्यकाले वा तारतम्यतः । १३.१३१ . मध्यतीव्रात्पुनः सर्वमज्ञानं विनिवर्तते ॥ १३१ १३.१३२ . स्वयमेव यतो वेत्ति बन्धमोक्षतयात्मताम् । १३.१३२ . तत्प्रातिभं महाज्ञानं शास्त्राचार्यानपेक्षि यत्. ॥ १३२ १३.१३३ . प्रतिभाचन्द्रिकाशान्तध्वान्तश्चाचार्यचन्द्रमाः । १३.१३३ . तमस्तापौ हन्ति दृशं विस्फार्यानन्दनिर्भराम् ॥ १३३ १३.१३४ . स शिष्टः कर्मकर्तृत्वाच्छिष्योऽन्यः कर्मभावतः । १३.१३४ . शिष्टः सर्वत्र च स्मार्तपदकालकुलादिषु ॥ १३४ १३.१३५ . उक्तः स्वयंभूः शास्त्रार्थप्रतिभापरिनिष्ठितः । १३.१३५ . यन्मूलं शासनं तेन न रिक्तः कोऽपि जन्तुकः ॥ १३५ १३.१३६ . तत्रापि तारतम्योत्थमानन्त्यं दार्ढ्यकम्प्रते । १३.१३६ . युक्तिः शास्त्रं गुरुर्वादोऽभ्यास इत्याद्यपेक्षते ॥ १३६ १३.१३७ . कम्पमानं हि विज्ञानं स्वयमेव पुनर्व्रजेत् । १३.१३७ . कस्यापि दार्ढ्यमन्यस्य युक्त्याद्यैः केवलेतरैः ॥ १३७ १३.१३८ . यथा यथा परापेक्षातानवं प्रातिभे भवेत् । १३.१३८ . तथा तथा गुरुरसौ श्रेष्ठो विज्ञानपारगः ॥ १३८ १३.१३९ . अन्यतः शिक्षितानन्तज्ञानोऽपि प्रतिभाबलात् । १३.१३९ . यद्वेत्ति तत्र तत्रास्य शिवता ज्यायसी च सा ॥ १३९ १३.१४० . न चास्य समयित्वादिक्रमो नाप्यभिषेचनम् । १३.१४० . न सन्तानादि नो विद्याव्रतं प्रातिभवर्त्मनः ॥ १४० १३.१४१ . आदिविद्वान्महादेवस्तेनैषोऽधिष्ठितो यतः । १३.१४१ . संस्कारास्तदधिष्ठानसिद्ध्यै तत्तस्य तु स्वतः ॥ १४१ १३.१४२ . देवीभिर्दीक्षितस्तेन सभक्तिः शिवशासने । १३.१४२ . दृढताकम्प्रताभेदैः सोऽपि स्वयमथ व्रतात् ॥ १४२ १३.१४३ . तपोजपादेर्गुरुतः स्वसंस्कारं प्रकल्पयेत् । १३.१४३ . यतो वाजसिनेयाख्य उक्तं सिञ्चेत्स्वयं तनुम् ॥ १४३ १३.१४४ . इत्याद्युपक्रमं यावदन्ते तत्परिनिष्ठितम् । १३.१४४ . अभिषिक्तो भवेदेवं न बाह्यकलशाम्बुभिः ॥ १४४ १३.१४५ . श्रीसर्ववीरश्रीब्रह्मयामलादौ च तत्तथा । १३.१४५ . निरूपितं महेशेन कियद्वा लिख्यतामिदम् ॥ १४५ १३.१४६ . इत्थं प्रातिभविज्ञानं किं किं कस्य न साधयेत् । १३.१४६ . यत्प्रातिभाद्वा सर्वं चेत्यूचे शेषमहामुनिः ॥ १४६ १३.१४७ . अन्ये त्वाहुरकामस्य प्रातिभो गुरुरीदृशः । १३.१४७ . सामग्रीजन्यता काम्ये तेनारिमन्संस्कृतो गुरुः ॥ १४७ १३.१४८ . नियतेर्महिमा नैव फले साध्ये निवर्तते । १३.१४८ . अभिषिक्तश्चीर्णविद्याव्रतस्तेन फलप्रदः ॥ १४८ १३.१४९ . असदेतदिति प्राहुर्गुरवस्तत्त्वदर्शिनः । १३.१४९ . श्रीसोमानन्दकल्याणभवभूतिपुरोगमाः ॥ १४९ १३.१५० . तथाहि त्रीशिकाशास्त्रविवृतौ तेऽभ्यधुर्बुधाः । १३.१५० . सांसिद्धिकं यद्विज्ञानं तच्चिन्तारत्नमुच्यते ॥ १५० १३.१५१ . तदभावे तदर्थं तदाहृतं ज्ञानमादृतम् । १३.१५१ . एवं यो वेद तत्त्वेन तस्य निर्वाणगामिनी ॥ १५१ १३.१५२ . दीक्षा भवत्यसन्दिग्धा तिलाज्याहुतिवर्जिता । १३.१५२ . अदृष्टमण्डलोऽप्येवं यः कश्चिद्वेत्ति तत्त्वतः ॥ १५२ १३.१५३ . स सिद्धिभाग्भवेन्नित्यं स योगी स च दीक्षितः । १३.१५३ . अविधिज्ञो विधानज्ञो जायते यजनं प्रति ॥ १५३ १३.१५४ . इत्यादिभिस्त्रीशिकोक्तैर्वाक्यैर्माहेश्वरैः स्फुटम् । १३.१५४ . ज्ञानं दीक्षादिसंस्कारसतत्त्वमिति वर्णितम् ॥ १५४ १३.१५५ . ज्ञानोपायस्तु दीक्षादिक्रिया ज्ञानवियोगिनाम् । १३.१५५ . इत्येतदधुनैवास्ता स्वप्रस्तावे भविष्यति ॥ १५५ १३.१५६ . गुरुशास्त्रप्रमाणादेरप्युपायत्वमंजसा । १३.१५६ . प्रतिभा परमेवैषा सर्वकामदुघा यतः ॥ १५६ १३.१५७ . उपाययोगक्रमतो निरुपायमथाक्रमम् । १३.१५७ . यद्रूपं तत्परं तत्त्वं तत्र तत्र सुनिश्चितम् ॥ १५७ १३.१५८ . यस्तु प्रातिभबाह्यात्मसंस्कारद्वयसुन्दरः । १३.१५८ . उक्तोऽनन्योपकार्यत्वात्स साक्षाद्वरदो गुरुः ॥ १५८ १३.१५९ . स्वमुक्तिमात्रे कस्यापि यावद्विश्वविमोचने । १३.१५९ . प्रतिभोदेति खद्योतरत्नतारेन्दुसूर्यवत् ॥ १५९ १३.१६० . ततः प्रातिभसंवित्त्यै शास्त्रमस्मत्कृतं त्विदम् । १३.१६० . योऽभ्यस्येत्स गुरुर्नैव वस्त्वर्था हि विडम्बकाः ॥ १६० १३.१६१ . परोपजीविताबुद्ध्या सर्व इत्थं न भासते । १३.१६१ . तदुक्त्या न विना वेत्ति शक्तिपातस्य मान्द्यतः ॥ १६१ १३.१६२ . स्फुटमेतच्च शास्त्रेषु तेषु तेषु निरूप्यते । १३.१६२ . किरणायां तथोक्तं च गुरुतः शास्त्रतः स्वतः ॥ १६२ १३.१६३ . ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । १३.१६३ . श्रीमन्नन्दिशिखातन्त्रे वितत्यैतन्निरूपितम् ॥ १६३ १३.१६४ . प्रश्नोत्तरमुखेनेति तदभग्नं निरूप्यते । १३.१६४ . अनिर्देश्यः शिवस्तत्र कोऽभ्युपायो निरूप्यताम् ॥ १६४ १३.१६५ . इति प्रश्ने कृते देव्या श्रीमाञ्छंभुर्न्यरूपयम् । १३.१६५ . उपायोऽत्र विवेकैकः स हि हेयं विहापयन् ॥ १६५ १३.१६६ . ददात्यस्य च सुश्रोणि प्रातिभं ज्ञानमुत्तमम् । १३.१६६ . यदा प्रतिभया युक्तस्तदा मुक्तश्च मोचयेत् ॥ १६६ १३.१६७ . परशक्तिनिपातेन ध्वस्तमायामलः पुमान् । १३.१६७ . ननु प्राग्दीक्षया मोक्षोऽधुना तु प्रातिभात्कथम् ॥ १६७ १३.१६८ . इति देव्या कृते प्रश्ने प्रावर्तत विभोर्वचः । १३.१६८ . दीक्षया मुच्यते जन्तुः प्रातिभेन तथा प्रिये ॥ १६८ १३.१६९ . गुर्वायत्ता तु सा दीक्षा बध्यबन्धनमोक्षणे । १३.१६९ . प्रातिभोऽस्य स्वभावस्तु केवलीभावसिद्धिदः ॥ १६९ १३.१७० . केवलस्य ध्रुवं मुक्तिः परतत्त्वेन सा ननु । १३.१७० . नृशक्तिशिवमुक्तं हि तत्त्वत्रयमिदं त्वया ॥ १७० १३.१७१ . ना बध्यो बन्धने शक्तिः करणं कर्तृतां स्पृशत् । १३.१७१ . शिवः कर्तेति तत्प्रोक्तं सर्वं गुर्वागमादणोः ॥ १७१ १३.१७२ . पुनर्विवेकादुक्तं तदुत्तरोत्तरमुच्यताम् । १३.१७२ . कथं विवेकः किं वास्य देवदेव विविच्यते ॥ १७२ १३.१७३ . इत्युक्ते परमेशान्या जगादादिगुरुः शिवः । १३.१७३ . शिवादितत्त्वत्रितयं तदागमवशाद्गुरोः ॥ १७३ १३.१७४ . अध्रोत्तरगैर्वाक्यैः सिद्धं प्रातिभतां व्रजेत् । १३.१७४ . दीक्षासिच्छिन्नपाशत्वाद्भावनाभावितस्य हि ॥ १७४ १३.१७५ . विकासं तत्त्वमायाति प्रातिभं तदुदाहृतम् । १३.१७५ . भस्मच्छन्नाग्निवत्स्फौट्यं प्रातिभे गौरवागमात् ॥ १७५ १३.१७६ . बीजं कालोप्तसंसिक्तं यथा वर्धेत तत्तथा । १३.१७६ . योगयागजपैरुक्तैर्गुरुणा प्रातिभं स्फुटेत् ॥ १७६ १३.१७७ . विवेकोऽतीन्द्रियस्त्वेष यदायाति विवेचनम् । १३.१७७ . पशुपाशपतिज्ञानं स्वयं निर्भासते तदा ॥ १७७ १३.१७८ . प्रातिभे तु समायाते ज्ञानमन्यत्तु सेन्द्रियम् । १३.१७८ . वागक्षिश्रुतिगम्यं चाप्यन्यापेक्षं वरानने ॥ १७८ १३.१७९ . तत्त्यजेद्बुद्धिमास्थाय प्रदीपं तु यथा दिवा । १३.१७९ . प्रादुर्भूतविवेकस्य स्याच्चिदिन्द्रियगोचरे ॥ १७९ १३.१८० . दूराच्छ्रुत्यादिवेधादिवृद्धिक्रीडाविचित्रिता । १३.१८० . सर्वभावविवेकात्तु सर्वभावपराङ्मुखः ॥ १८० १३.१८१ . क्रीडासु सुविरक्तात्मा शिवभावैकभावितः । १३.१८१ . माहात्म्यमेतत्सुश्रोणि प्रातिभस्य विधीयते ॥ १८१ १३.१८२ . स्वच्छायादर्शवत्पश्येद्बहिरन्तर्गतं शिवम् । १३.१८२ . हेयोपादेयतत्त्वज्ञस्तदा ध्यायेन्निजां चितिम् ॥ १८२ १३.१८३ . सिद्धिजालं हि कथितं परप्रत्ययकारणम् । १३.१८३ . इहैव सिद्धाः कायान्ते मुच्येरन्निति भावनात् ॥ १८३ १३.१८४ . परभावनदार्ढ्यात्तु जीवन्मुक्तो निगद्यते । १३.१८४ . एतत्ते प्रातिभे भेदे लक्षणं समुदाहृतम् ॥ १८४ १३.१८५ . शापानुग्रहकार्येषु तथाभ्यासेन शक्तया । १३.१८५ . तेषूदासीनतायां तु मुच्यते मोचयेत्परान् ॥ १८५ १३.१८६ . भूतेन्द्रियादियोगेन बद्धोऽणुः संसरेद्ध्रुवम् । १३.१८६ . स एव प्रतिभायुक्तः शक्तितत्त्वं निगद्यते ॥ १८६ १३.१८७ . तत्पातावेशतो मुक्तः शिव एव भवार्णवात् । १३.१८७ . नन्वाचार्यात्सेन्द्रियं तज्ज्ञानमुक्तमतीन्द्रियम् ॥ १८७ १३.१८८ . विवेकजं च तद्बुद्ध्या तत्कथं स्यान्निरिन्द्रियम् । १३.१८८ . इति पृष्टोऽभ्यधात्स्वान्तधियोर्जाड्यैकवासनात् ॥ १८८ १३.१८९ . अक्षत्वं प्रविवेकेन तच्छित्तौ भासकः शिवः । १३.१८९ . संस्कारः सर्वभावानां परता परिकीर्तिता ॥ १८९ १३.१९० . मनोबुद्धी न भिन्ने तु कस्मिंश्चित्कारणान्तरे । १३.१९० . विवेके कारणे ह्येते प्रभुशक्त्युपवृंहिते ॥ १९० १३.१९१ . न मनोबुद्धिहीनस्तु ज्ञानस्याधिगमः प्रिये । १३.१९१ . परभावात्तु तत्सूक्ष्मं शक्तितत्त्वं निगद्यते ॥ १९१ १३.१९२ . विवेकः सर्वभावानां शुद्धभावान्महाशयः । १३.१९२ . बुद्धितत्त्वं तु त्रिगुणमुत्तमाधममध्यमम् ॥ १९२ १३.१९३ . अणिमादिगतं चापि बन्धकं जडमिन्द्रियम् । १३.१९३ . ननु प्रातिभतो मुक्तौ दीक्षया किं शिवाध्वरे ॥ १९३ १३.१९४ . ऊचेऽज्ञाना हि दीक्षायां बालवालिशयोषितः । १३.१९४ . पाशच्छेदाद्विमुच्यन्ते प्रबुद्ध्यन्ते शिवाध्वरे ॥ १९४ १३.१९५ . तस्माद्दीक्षा भवत्येषु कारणत्वेन सुन्दरि । १३.१९५ . दीक्षया पाशमोक्षे तु शुद्धभावाद्विवेकजम् ॥ १९५ १३.१९६ . इत्येष पठितो ग्रन्थः स्वयं ये बोद्धुमक्षमाः । १३.१९६ . तेषां शिवोक्तिसंवादाद्बोधो दार्ढ्यं व्रजेदिति ॥ १९६ १३.१९७ . श्रीमन्निशाटने चात्मगुरुशास्त्रवशात्त्रिधा । १३.१९७ . ज्ञानं मुख्यं स्वोपलब्धि विकल्पार्णवतारणम् ॥ १९७ १३.१९८ . मन्त्रात्मभूतद्रव्याशदिव्यतत्त्वादिगोचरा । १३.१९८ . शंका विकल्पमूला हि शाम्येत्स्वप्रत्ययादिति ॥ १९८ १३.१९९ . एनमेवार्थमन्तःस्थं गृहीत्वा मालिनीमते । १३.१९९ . एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥ १९९ १३.२०० . शैवी संबध्यते शक्तिः शान्ता मुक्तिफलप्रदा । १३.२०० . तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते ॥ २०० १३.२०१ . इत्युक्त्वा तीव्रतीव्राख्यविषयं भाषते पुनः । १३.२०१ . अज्ञानेन सहैकत्वं कस्यचिद्विनिवर्तते ॥ २०१ १३.२०२ . रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया । १३.२०२ . भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति ॥ २०२ १३.२०३ . तमाराध्य ततस्तुष्टाद्दीक्षामासाद्य शाङ्करीम् । १३.२०३ . तत्क्षणाद्वोपभोगाद्वा देहपाताच्छिवं व्रजेत् ॥ २०३ १३.२०४ . अस्यार्था आत्मनः काचित्कलनामर्शनात्मिका । १३.२०४ . स्वं रूपं प्रति या सैव कोऽपि काल इहोदितः ॥ २०४ १३.२०५ . योग्यता शिवतादात्म्ययोगार्हत्वमिहोच्यते । १३.२०५ . पूर्वं किं न तथा कस्मात्तदैवेति न संगतम् ॥ २०५ १३.२०६ . तथाभासनमुज्झित्वा न हि कालोऽस्ति कश्चन । १३.२०६ . स्वातन्त्र्यात्तु तथाभासे कालशक्तिर्विजृम्भताम् ॥ २०६ १३.२०७ . नतु पर्यनुयुक्त्यै सा शिवे तन्महिमोदिता । १३.२०७ . ननु शैवी महाशक्तिः संबद्धैवात्मभिः स्थिता । १३.२०७ . सत्यं साच्छादनात्मा तु शान्ता त्वेषा स्वरूपदृक् ॥ २०७ १३.२०८ . क्षोभो हि भेद एवैक्यं प्रशमस्तन्मयी ततः ॥ २०८ १३.२०९ . तया शान्त्या तु संबद्धः स्थितः शक्तिस्वरूपभाक् । १३.२०९ . त्यक्ताणुभावो भवति शिवस्तच्छक्तिदार्ढ्यतः ॥ २०९ १३.२१० . तत्रापि तारतम्यादिवशाच्छीघ्रचिरादितः । १३.२१० . देहपातो भवेदस्य यद्वा काष्ठादितुल्यता ॥ २१० १३.२११ . समस्तव्यवहारेषु पराचीनितचेतनः । १३.२११ . तीव्रतीव्रमहाशक्तिसमाविष्टः स सिध्यति ॥ २११ १३.२१२ . एवं प्राग्विषयो ग्रन्थ इयानन्यत्र तु स्फुटम् । १३.२१२ . ग्रन्थान्तरं मध्यतीव्रशक्तिपातांशसूचकम् ॥ २१२ १३.२१३ . अज्ञानरूपता पुंसि बोधः संकोचिते हृदि । १३.२१३ . संकोचे विनिवृत्ते तु स्वस्वभावः प्रकाशते ॥ २१३ १३.२१४ . रुद्रशक्तिसमाविष्ट इत्यनेनास्य वर्ण्यते । १३.२१४ . चिह्नवर्गो य उक्तोऽत्र रुद्रे भक्तिः सुनिश्चला ॥ २१४ १३.२१५ . मन्त्रसिद्धिः सर्वतत्त्ववशित्वं कृत्यसंपदः । १३.२१५ . कवित्वं सर्वशास्त्रार्थबोद्धृत्वमिति तत्क्रमात् ॥ २१५ १३.२१६ . स्वतारतम्ययोगात्स्यादेषां व्यस्तसमस्तता । १३.२१६ . तत्रापि भुक्तौ मुक्तौ च प्राधान्यं चर्चयेद्बुधः ॥ २१६ १३.२१७ . स इत्यन्तो ग्रन्थ एष द्वितीयविषयः स्फुटः । १३.२१७ . अन्यस्तु मन्दतीव्राख्यशक्तिपातविधिं प्रति ॥ २१७ १३.२१८ . मन्दतीव्राच्छक्तिबलाद्यियासास्योपजायते । १३.२१८ . शिवेच्छावशयोगेन सद्गुरुं प्रति सोऽपि च ॥ २१८ १३.२१९ . अत्रैव लक्षितः शास्त्रे यदुक्तं परमेष्ठिना । १३.२१९ . यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥ २१९ १३.२२० . स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः । १३.२२० . दृष्टाः संभावितास्तेन स्पृष्टाश्च प्रीतचेतसा ॥ २२० १३.२२१ . नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि । १३.२२१ . ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः ॥ २२१ १३.२२२ . ते यथेष्टं फलं प्राप्य पदं गच्छन्त्यनामयम् । १३.२२२ . किं तत्त्वं तत्त्ववेदी क इत्यामर्शनयोगतः ॥ २२२ १३.२२३ . प्रतिभानात्सुःृत्सङ्गाद्गुरौ जिगमिषुर्भवेत् । १३.२२३ . एवं जिगमिषायोगादाचार्यः प्राप्यते स च ॥ २२३ १३.२२४ . तारतम्यादियोगेन संसिद्धः संस्कृतोऽपि च । १३.२२४ . प्राग्भेदभागी झटिति क्रमात्सामस्त्यतोंशतः ॥ २२४ १३.२२५ . इत्यादिभेदभिन्नो हि गुरोर्लाभ इहोदितः । १३.२२५ . तस्माद्दीक्षां स लभते सद्य एव शिवप्रदाम् ॥ २२५ १३.२२६ . ज्ञानरूपां यथा वेत्ति सर्वमेव यथार्थतः । १३.२२६ . जीवन्मुक्तः शिवीभूतस्तदैवासौ निगद्यते ॥ २२६ १३.२२७ . देहसंबन्धिताप्यस्य शिवतायै यतः स्फुटा । १३.२२७ . अस्यां भेदो हि कथनात्सङ्गमादवलोकनात् ॥ २२७ १३.२२८ . शास्त्रात्संक्रमणात्साम्यचर्यासंदर्शनाच्चरोः । १३.२२८ . मन्त्रमुद्रादिमाहात्म्यात्समस्तव्यस्तभेदतः ॥ २२८ १३.२२९ . क्रियया वान्तराकाररूपप्राणप्रवेशतः । १३.२२९ . तदा च देहसंस्थोऽपि स मुक्त इति भण्यते ॥ २२९ १३.२३० . उक्तं च शास्त्रयोः श्रीमद्रत्नमालागमाख्ययोः । १३.२३० . यस्मिन्काले तु गुरुणा निर्विकल्पं प्रकाशितम् ॥ २३० १३.२३१ . तदैव किल मुक्तोऽसौ यन्त्रं तिष्ठति केवलम् । १३.२३१ . प्रारब्धृकर्मसंबन्धाद्देहस्य सुखिदुःखिते ॥ २३१ १३.२३२ . न विशङ्केत तच्च श्रीगमशास्त्रे निरूपितम् । १३.२३२ . अविद्योपासितो देहो ह्यन्यजन्मसमुद्भुवा ॥ २३२ १३.२३३ . कर्मणा तेन बाध्यन्ते ज्ञानिनोऽपि कलेवरे । १३.२३३ . जात्यायुर्भोगदस्यैकप्रघट्टकतया स्थितिः ॥ २३३ १३.२३४ . उक्तैकवचनाद्धिश्च यतस्तेनेतिसंगतिः । १३.२३४ . अभ्यासयुक्तिसंक्रान्तिवेधघट्टनरोधतः ॥ २३४ १३.२३५ . हुतेर्वा मन्त्रसामर्थ्यात्पाशच्छेदप्रयोगतः । १३.२३५ . सद्योनिर्वाणदां कुर्यात्सद्यःप्राणवियोजिकाम् ॥ २३५ १३.२३६ . तत्र त्वेषोऽस्ति नियम आसन्ने मरणक्षणे । १३.२३६ . तां कुर्यान्नान्यथारब्धृ कर्म यस्मान्न शुद्ध्यति ॥ २३६ १३.२३७ . उक्तं च पूर्वमेवैतन्मंत्रसामर्थ्ययोगतः । १३.२३७ . प्राणैर्वियोजितोऽप्येष भुङ्क्ते शेषफलं यतः ॥ २३७ १३.२३८ . तज्जन्मशेषं विविधमतिवाह्य ततः स्फुटम् । १३.२३८ . कर्मान्तरनिरोधेन शीघ्रमेवापवृज्यते ॥ २३८ १३.२३९ . तस्मात्प्राणहरीं दीक्षां नाज्ञात्वा मरणक्षणम् । १३.२३९ . विदध्यात्परमेशाज्ञालङ्घनैकफला हि सा ॥ २३९ १३.२४० . एकस्त्रिकोऽयं निर्णीतः शक्तिपातेऽप्यथापरः । १३.२४० . तीव्रमध्ये तु दीक्षायां कृतायां न तथा दृढाम् ॥ २४० १३.२४१ . स्वात्मनो वेत्ति शिवतां देहान्ते तु शिवो भवेत् । १३.२४१ . उक्तं च निशिसंचारयोगसंचारशास्त्रयोः ॥ २४१ १३.२४२ . विकल्पात्तु तनौ स्थित्वा दहान्ते शिवतां व्रजेत् । १३.२४२ . मध्यमध्ये शक्तिपाते शिवलाभोत्सुकोऽपि सन् ॥ २४२ १३.२४३ . बुभुक्षुर्यत्र युक्तस्तद्भुक्त्वा देहक्षये शिवः । १३.२४३ . मन्दमध्ये तु तत्रैव तत्त्वे क्वापि नियोजितः ॥ २४३ १३.२४४ . देहान्ते तत्त्वगं भोगं भुक्त्वा पश्चाच्छिवं व्रजेत् । १३.२४४ . तत्रापि तारतम्यस्य संभवाच्चिरशीघ्रता ॥ २४४ १३.२४५ . बह्वल्पभोगयोगश्च देहभूमाल्पताक्रमः । १३.२४५ . तीव्रमन्दे मध्यमन्दे मन्दमन्दे बुभुक्षुता ॥ २४५ १३.२४६ . क्रमान्मुख्यातिमात्रेण विधिनैत्यन्ततः शिवम् । १३.२४६ . अन्ये यियासुरित्यादिग्रन्थं प्राग्ग्रन्थसंगतम् ॥ २४६ १३.२४७ . कुर्वन्ति मध्यतीव्राख्यशक्तिसंपातगोचरम् । १३.२४७ . यदा प्रतिभयाविष्टोऽप्येष संवादयोजनाम् ॥ २४७ १३.२४८ . इच्छन्यियासुर्भवति तदा नीयेत सद्गुरुम् । १३.२४८ . न सर्वः प्रतिभाविष्टः शक्त्या नीयेत सद्गुरुम् ॥ २४८ १३.२४९ . इति ब्रूते यियासुत्वं वक्तव्यं नान्यथा ध्रुवम् । १३.२४९ . रुद्रशक्तिसमाविष्टो नीयते सद्गुरुं प्रति ॥ २४९ १३.२५० . तेन प्राप्तविवेकोत्थज्ञानसंपूर्णमानसः । १३.२५० . दार्ढ्यसंवादरूढ्यादेर्यियासुर्भवति स्फुटम् ॥ २५० १३.२५१ . उक्तं नन्दिशिखातन्त्रे प्राच्यषट्के महेशिना । १३.२५१ . अभिलाषः शिवे देवे पशूनां भवते तदा ॥ २५१ १३.२५२ . यदा शैवाभिमानेन युक्ता वै परमाणवः । १३.२५२ . तदैव ते विमुक्तास्तु दीक्षिता गुरुणा यतः ॥ २५२ १३.२५३ . प्राप्तिमात्राच्च ते सिद्धसाध्या इति हि गम्यते । १३.२५३ . तमाराध्येति तु ग्रन्थो मन्दतीव्रैकगोचरः ॥ २५३ १३.२५४ . नवधा शक्तिपातोऽयं शंभुनाथेन वर्णितः । १३.२५४ . इदं सारमिह ज्ञेयं परिपूर्णचिदात्मनः ॥ २५४ १३.२५५ . प्रकाशः परमः शक्तिपातोऽवच्छेदवर्जितः । १३.२५५ . तथाविधोऽपि भोगांशावच्छेदेनोपलक्षितः ॥ २५५ १३.२५६ . अपरः शक्तिपातोऽसौ पर्यन्ते शिवताप्रदः । १३.२५६ . उभयत्रापि कर्मादेर्मायान्तर्वर्तिनो यतः ॥ २५६ १३.२५७ . नास्ति व्यापार इत्येवं निरपेक्षः स सर्वतः । १३.२५७ . तेन मायान्तराले ये रुद्रा ये च तदूर्ध्वतः ॥ २५७ १३.२५८ . स्वाधिकारक्षये तैस्तैर्भैरवीभूयते हठात् । १३.२५८ . ये मायया ह्यनाक्रान्तास्ते कर्माद्यनपेक्षिणः ॥ २५८ १३.२५९ . शक्तिपातवशादेव तां तां सिद्धिमुपाश्रिताः । १३.२५९ . ननु पूजाजपध्यानशंकरासेवनादिभिः ॥ २५९ १३.२६० . ते मन्त्रादित्वमापन्नाः कथं कर्मानपेक्षिणः । १३.२६० . मैवं तथाविधोत्तीर्णशिवध्यानजपादिषु ॥ २६० १३.२६१ . प्रवृत्तिरेव प्रथममेषां कस्माद्विविच्यताम् । १३.२६१ . कर्मतत्साम्यवैराग्यमलपाकादि दूषितम् ॥ २६१ १३.२६२ . ईश्वरेच्छा निमित्तं चेच्छक्तिपातैकहेतुता । १३.२६२ . जपादिका क्रियाशक्तिरेवेत्थं नतु कर्म तत् ॥ २६२ १३.२६३ . कर्म तल्लोकरूढं हि यद्भोगमवरं ददत् । १३.२६३ . तिरोधत्ते भोक्तृरूपं संज्ञाया तु न नो भरः ॥ २६३ १३.२६४ . तेषां भोगोत्कता कस्मादिति चेद्दत्तमुत्तरम् । १३.२६४ . चित्राकारप्रकाशोऽयं स्वतन्त्रः परमेश्वरः ॥ २६४ १३.२६५ . स्वातन्त्र्यात्तु तिरोभावबन्धो भोगेऽस्य भोक्तृताम् । १३.२६५ . पुष्णन्स्वं रूपमेव स्यान्मलकर्मादिवर्जितम् ॥ २६५ १३.२६६ . उक्तं सेयं क्रियाशक्तिः शिवस्य पशुवर्तिनी । १३.२६६ . बन्धयित्रीति तत्कर्म कथ्यते रूपलोपकृत् ॥ २६६ १३.२६७ . ज्ञाता सा च क्रियाशक्तिः सद्यः सिद्ध्युपपादिका । १३.२६७ . अविच्छिन्नस्वात्मसंवित्प्रथा सिद्धिरिहोच्यते ॥ २६७ १३.२६८ . सा भोगमोक्षस्वातन्त्र्यमहालक्ष्मीरिहाक्षया । १३.२६८ . विष्ण्वादिरूपता देवे या काचित्सा निजात्मना ॥ २६८ १३.२६९ . भेदयोगवशान्मायापदमध्यव्यवस्थिता । १३.२६९ . तेन तद्रूपतायोगाच्छक्तिपातः स्थितोऽपि सन् ॥ २६९ १३.२७० . तावन्तं भोगमाधत्ते पर्यन्ते शिवतां नतु । १३.२७० . यथा स्वातन्त्र्यतो राजाप्यनुगृह्णाति कंचन ॥ २७० १३.२७१ . ईशशक्तिसमावेशात्तथा विष्ण्वादयोऽप्यलम् । १३.२७१ . मायागर्भाधिकारीयशक्तिपातवशात्ततः ॥ २७१ १३.२७२ . कोऽपि प्रधानपुरुषविवेकी प्रकृतेर्गतः । १३.२७२ . उत्कृष्टात्तत एवाशु कोऽपि बुद्धा विवेकिताम् ॥ २७२ १३.२७३ . क्षणात्पुंसः कलायाश्च पुंमायान्तरवेदकः । १३.२७३ . कलाश्रयस्याप्यत्यन्तं कर्मणो विनिवर्तनात् ॥ २७३ १३.२७४ . ज्ञानाकलः प्राक्तनस्तु कर्मी तस्याश्रयस्थितेः । १३.२७४ . स परं प्रकृतेर्बुध्ने सृष्टिं नायाति जातुचित् ॥ २७४ १३.२७५ . मायाधरे तु सृज्येतानन्तेशेन प्रचोदनात् । १३.२७५ . विज्ञानाकलतां प्राप्तः केवलादधिकारतः ॥ २७५ १३.२७६ . मलान्मन्त्रतदीशादिभावमेति सदा शिवात् । १३.२७६ . पत्युः परस्माद्यस्त्वेष शक्तिपातः स वै मलात् ॥ २७६ १३.२७७ . अज्ञानाख्याद्वियोक्तेति शिवभावप्रकाशकः । १३.२७७ . नान्येन शिवभावो हि केनचित्संप्रकाशते ॥ २७७ १३.२७८ . स्वच्छन्दशास्त्रे तेनोक्तं वादिनां तु शतत्रयम् । १३.२७८ . त्रिषष्ट्यभ्यधिकं भ्रान्तं वैष्णवाद्यं निशान्तरे ॥ २७८ १३.२७९ . शिवज्ञानं केवलं च शिवतापत्तिदायकम् । १३.२७९ . शिवतापत्तिपर्यन्तः शक्तिपातश्च चर्च्यते ॥ २७९ १३.२८० . अन्यथा किं हि तत्स्याद्यच्छैव्या शक्त्यानधिष्ठितम् । १३.२८० . तेनेह वैष्णवादीनां नाधिकारः कथंचन ॥ २८० १३.२८१ . ते हि भेदैकवृत्तित्वादभेदे दूरवर्जिताः । १३.२८१ . स्वातन्त्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः ॥ २८१ १३.२८२ . द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया । १३.२८२ . दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते ॥ २८२ १३.२८३ . द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः । १३.२८३ . इत्थं श्रीशक्तिपातोऽयं निरपेक्ष इहोदितः ॥ २८३ १३.२८४ . अनयैव दिशा नेयं मतङ्गकिरणादिकम् । १३.२८४ . ग्रन्थगौरवभीत्या तु तल्लिखित्वा न योजितम् ॥ २८४ १३.२८५ . पुराणेऽपि च तस्यैव प्रसादाद्भक्तिरिष्यते । १३.२८५ . यया यान्ति परां सिद्धिं तद्भावगतमानसाः ॥ २८५ १३.२८६ . एवकारेण कर्मादिसापेक्षत्वं निषिध्यते । १३.२८६ . प्रसादो निर्मलीभावस्तेन संपूर्णरूपता ॥ २८६ १३.२८७ . आत्मना तेन हि शिवः स्वयं पूर्णः प्रकाशते । १३.२८७ . शिवीभावमहासिद्धिस्पर्शवन्ध्ये तु कुत्रचित् ॥ २८७ १३.२८८ . वैष्णवादौ हि या भक्तिर्नासौ केवलतः शिवात् । १३.२८८ . शिवो भवति तत्रैष कारणं न तु केवलः ॥ २८८ १३.२८९ . निर्मलश्चापि तु प्राप्तावच्छित्कर्माद्यपेक्षकः । १३.२८९ . यया यान्ति परां सिद्धिमित्यस्येदं तु जीवितम् ॥ २८९ १३.२९० . श्रीमानुत्पलदेवश्चाप्यस्माकं परमो गुरुः । १३.२९० . शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित् ॥ २९० १३.२९१ . अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे । १३.२९१ . कर्हिचित्प्राप्तशब्दाभ्यामनपेक्षित्वमूचिवान् ॥ २९१ १३.२९२ . दुर्लभत्वमरागित्वं शक्तिपातविधौ विभोः । १३.२९२ . अपरार्धेन तस्यैव शक्तिपातस्य चित्रताम् ॥ २९२ १३.२९३ . व्यवधानचिरक्षिप्रभेदाद्यैरुपवर्णितैः । १३.२९३ . श्रीमताप्यनिरुद्धेन शक्तिमुन्मीलिनीं विभोः ॥ २९३ १३.२९४ . व्याचक्षाणेन मातङ्गे वर्णिता निरपेक्षता । १३.२९४ . स्थावरान्तेऽपि देवस्य स्वरूपोन्मीलनात्मिका ॥ २९४ १३.२९५ . शक्तिः पतन्ती सापेक्षा न क्वापीति सुविस्तरात् । १३.२९५ . एवं विचित्रेऽप्येतस्मिञ्छक्तिपाते स्थिते सति ॥ २९५ १३.२९६ . तारतम्यादिभिर्भेदैः समय्यादिविचित्रता । १३.२९६ . कश्चिद्रुद्राशतामात्रापादनात्तत्प्रसादतः ॥ २९६ १३.२९७ . शिवत्वं क्रमशो गच्छेत्समयी यो निरूप्यते । १३.२९७ . कश्चिच्छुद्धाध्वबन्धः सन् पुत्रकः शीघ्रमक्रमात् ॥ २९७ १३.२९८ . भोगव्यवधिना कोऽपि साधकश्चिरशीघ्रतः । १३.२९८ . कश्चित्संपूर्णकर्तव्यः कृत्यपञ्चकभागिनि ॥ २९८ १३.२९९ . रूपे स्थितो गुरुः सोऽपि भोगमोक्षादिभेदभाक् । १३.२९९ . समय्यादिचतुष्कस्य समासव्यासयोगतः ॥ २९९ १३.३०० . क्रमाक्रमादिभिर्भेदैः शक्तिपातस्य चित्रता । १३.३०० . क्रमिकः शक्तिपातश्च सिद्धान्ते वामके ततः ॥ ३०० १३.३०१ . दक्षे मते कुले कौले षडर्धे हृदये ततः । १३.३०१ . उल्लङ्घनवशाद्वापि झटित्यक्रममेव वा ॥ ३०१ १३.३०२ . उक्तं श्रीभैरवकुले पञ्चदीक्षासुसंस्कृतः । १३.३०२ . गुरुरुल्लङ्घिताधःस्थस्रोता वै त्रिकशास्त्रगः ॥ ३०२ १३.३०३ . ज्ञानाचारादिभेदेन ह्युत्तराधरता विभुः । १३.३०३ . शास्त्रेष्वदीदृशच्छ्रीमत्सर्वाचारहृदादिषु ॥ ३०३ १३.३०४ . वाममार्गाभिषिक्तस्तु दैशिकः परतत्त्ववित् । १३.३०४ . तथापि भैरवे तन्त्रे पुनः संस्कारमर्हति ॥ ३०४ १३.३०५ . शैववैमलसिद्धान्ता आर्हताः कारुकाश्च ये । १३.३०५ . सर्वे ते पशवो ज्ञेया भैरवे मातृमण्डले ॥ ३०५ १३.३०६ . कुलकालीविधौ चोक्तं वैष्णवाना विशेषतः । १३.३०६ . भस्मनिष्ठाप्रपन्नानामित्यादौ नैव योग्यता ॥ ३०६ १३.३०७ . स्वच्छन्दशास्त्रे संक्षेपादुक्तं च श्रीमहेशिना । १३.३०७ . अन्यशास्त्ररतो यस्तु नासौ सिद्धिफलप्रदः ॥ ३०७ १३.३०८ . समय्यादिक्रमाल्लब्धाभिषेको हि गुरुर्मतः । १३.३०८ . स च शक्तिवशादित्थं वैष्णवादिषु कोऽन्वयः ॥ ३०८ १३.३०९ . छद्मापश्रवणाद्यैस्तु तज्ज्ञानं गृह्णतो भवेत् । १३.३०९ . प्रायश्चित्तमतस्तादृगधिकार्यत्र किं भवेत् ॥ ३०९ १३.३१० . फलाकाङ्क्षायुतः शिष्यस्तदेकायत्तसिद्धिकः । १३.३१० . ध्रुवं पच्येत नरके प्रायश्चित्त्युपसेवनात् ॥ ३१० १३.३११ . तिरोभावप्रकारोऽयं यत्तादृशि नियोजितः । १३.३११ . गुरौ शिवेन तद्भक्तिः शक्तिपातोऽस्य नोच्यते ॥ ३११ १३.३१२ . यदातु वैचित्र्यवशाज्जानीयात्तस्य तादृशम् । १३.३१२ . विपरीतप्रवृत्तत्वं ज्ञानं तस्मादुपाहरेत् ॥ ३१२ १३.३१३ . तं च त्यजेत्पापवृत्तिं भवेत्तु ज्ञानतत्परः । १३.३१३ . यथा चौराद्गृहीत्वार्थं तं निगृह्णाति भूपतिः ॥ ३१३ १३.३१४ . वैष्णवादेस्तथा शैवं ज्ञानमाहृत्य सन्मतिः । १३.३१४ . स हि भेदैकवृत्तित्वं शिवज्ञाने श्रुतेऽप्यलम् ॥ ३१४ १३.३१५ . नोज्झतीति दृढं वामाधिष्ठितस्तत्पशूत्तमः । १३.३१५ . शिवेनैव तिरोभाव्य स्थापितो नियतेर्बलात् ॥ ३१५ १३.३१६ . कथङ्कारं पतिपदं प्रयातु परतन्त्रितः । १३.३१६ . स्वच्छन्दशास्त्रे प्रोक्तं च वैष्णवादिषु ये रताः ॥ ३१६ १३.३१७ . भ्रमयत्येव तान्माया ह्यमोक्षे मोक्षलिप्सया । १३.३१७ . वैष्णवादिः शैवशास्त्रं मेलयन्निजशासने ॥ ३१७ १३.३१८ . ध्रुवं संशयमापन्न उभयभ्रष्टतां व्रजेत् । १३.३१८ . स्वदृष्टौ परदृष्टौ च समयोल्लङ्घनादसौ ॥ ३१८ १३.३१९ . प्रत्यवायं यतोऽभ्येति चरेत्तन्नेदृशं क्रमम् । १३.३१९ . उक्तं श्रीमद्गह्वरे च परमेशेन तादृशम् ॥ ३१९ १३.३२० . नान्यशास्त्राभियुक्तषु शिवज्ञानं प्रकाशते । १३.३२० . तन्न सैद्धान्तिको वामे नासौ दक्षे स नो मते ॥ ३२० १३.३२१ . कुलकौले त्रिके नासौ पूर्वः पूर्वः परत्र तु । १३.३२१ . अवच्छिन्नोऽनवच्छेदं नो वेत्त्यानन्त्यसंस्थितः ॥ ३२१ १३.३२२ . सर्वंसहस्ततोऽधःस्थ ऊर्ध्वस्थोऽधिकृतो गुरुः । १३.३२२ . स्वात्मीयाधरसंस्पर्शात्प्राणयन्नधराः क्रियाः ॥ ३२२ १३.३२३ . सफलीकुरुते यत्तदूर्ध्वस्थो गुरुरुत्तमः । १३.३२३ . अधःस्थदृक्स्थोऽप्येतादृग्गुरुसेवी भवेत्स यः ॥ ३२३ १३.३२४ . तादृक्शक्तिनिपातेद्धो यो द्रागूर्ध्वमिमं नयेत् । १३.३२४ . तत्तद्गिरिनदीप्रायावच्छिन्ने क्षेत्रपीठके ॥ ३२४ १३.३२५ . उत्तरोत्तरविज्ञाने नाधिकार्यधरोऽधरः । १३.३२५ . उत्तरोत्तरमाचार्यं विदन्नप्यधरोऽधरः ॥ ३२५ १३.३२६ . कुर्वन्नधिक्रियां शास्त्रलङ्घी निग्रहभाजनम् । १३.३२६ . शक्तिपातबलादेव ज्ञानयोग्यविचित्रता ॥ ३२६ १३.३२७ . श्रौतं चिन्तामयं द्व्यात्म भावनामयमेव च । १३.३२७ . ज्ञानं तदुत्तरं ज्यायो यतो मोक्षैककारणम् ॥ ३२७ १३.३२८ . तत्त्वेभ्य उद्धृतिं क्वापि योजनं सकलेऽकले । १३.३२८ . कथं कुर्याद्विना ज्ञानं भावनामयमुत्तमम् ॥ ३२८ १३.३२९ . योगी तु प्राप्ततत्तत्त्वसिद्धिरप्युत्तमे पदे । १३.३२९ . सदाशिवाद्ये स्वभ्यस्तज्ञानित्वादेव योजकः ॥ ३२९ १३.३३० . अधरेषु च तत्त्वेषु या सिद्धिर्योगजास्य सा । १३.३३० . विमोचनायां नोपायः स्थितापि धनदारवत् ॥ ३३० १३.३३१ . यस्तूत्पन्नसमस्ताध्वसिद्धिः सहि सदाशिवः । १३.३३१ . साक्षादेष कथं मर्त्यान्मोचयेद्गुरुतां व्रजन् ॥ ३३१ १३.३३२ . तेनोक्तं मालिनीतन्त्रे विचार्य ज्ञानयोगिते । १३.३३२ . यतश्च मोक्षदः प्रोक्तः स्वभ्यस्तज्ञानवान्बुधैः ॥ ३३२ १३.३३३ . तस्मात्स्वभ्यस्तविज्ञानतैवैकं गुरुलक्षणम् । १३.३३३ . विभागस्त्वेष मे प्रोक्तः शंभुनाथेन दर्श्यते ॥ ३३३ १३.३३४ . मोक्षज्ञानपरः कुर्याद्गुरुं स्वभ्यस्तवेदनम् । १३.३३४ . अन्यं त्यजेत्प्राप्तमपि तथाचोक्तं शिवेन तत् ॥ ३३४ १३.३३५ . आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् । १३.३३५ . विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं व्रजेत् ॥ ३३५ १३.३३६ . शक्तिहीनं गुरुं प्राप्य मोक्षज्ञाने कथं श्रयेत् । १३.३३६ . नष्टमूले द्रुमे देवि कुतः पुष्पफलादिकम् ॥ ३३६ १३.३३७ . उत्तरोत्तरमुत्कर्षलक्ष्मीं पश्यन्नपि स्थितः । १३.३३७ . अधमे यः पदे तस्मात्कोऽन्यः स्याद्दैवदग्धकः ॥ ३३७ १३.३३८ . यस्तु भोगं च मोक्षं च वाञ्छेद्विज्ञानमेव च । १३.३३८ . स्वभ्यस्तज्ञानिनं योगसिद्धं स गुरुमाश्रयेत् ॥ ३३८ १३.३३९ . तदभावे तु विज्ञानमोक्षयोर्ज्ञानिनं श्रयेत् । १३.३३९ . भुक्त्यंशे योगिनं यस्तत्फलं दातुं भवेत्क्षमः ॥ ३३९ १३.३४० . फलदानाक्षमे योगिन्यपायैकोपदेशिनि । १३.३४० . वरं ज्ञानी योऽभ्युपायं दिशेदपिच मोचयेत् ॥ ३४० १३.३४१ . ज्ञानी न पूर्ण एवैको यदि ह्यंशांशिकाक्रमात् । १३.३४१ . ज्ञानान्यादाय विज्ञानं कुर्वीताखण्डमण्डलम् ॥ ३४१ १३.३४२ . तेनासंख्यान्गुरून्कुर्यात्पूरणाय स्वसंविदः । १३.३४२ . धन्यस्तु पूर्णविज्ञानं ज्ञानार्थी लभते गुरुम् ॥ ३४२ १३.३४३ . नानागुर्वागमस्रोतःप्रतिभामात्रमिश्रितम् । १३.३४३ . कृत्वा ज्ञानार्णवं स्वाभिर्विप्रुङ्गिः प्लावयेन्न किम् ॥ ३४३ १३.३४४ . आ तपनान्मोटकान्तं यस्य मेऽस्ति गुरुक्रमः । १३.३४४ . तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ॥ ३४४ १३.३४५ . श्रीमता कल्लटेनेत्थं गुरुणा तु न्यरूप्यत । १३.३४५ . अहमप्यत एवाधःशास्त्रदृष्टिकुतूहलात् ॥ ३४५ १३.३४६ . तार्किकश्रौतबौद्धार्हद्वैष्णवादीन्नसेविषि । १३.३४६ . लोकाध्यात्मातिमार्गादिकर्मयोगविधानतः ॥ ३४६ १३.३४७ . संबोधोत्कर्षबाहुल्यात्क्रमोत्कृष्टान्विभावयेत् । १३.३४७ . श्रीपूर्वशास्त्रे प्रष्टारो मुनयो नारदादयः ॥ ३४७ १३.३४८ . प्राग्वैष्णवाः सौगताश्च सिद्धान्तादिविदस्ततः । १३.३४८ . क्रमात्त्रिकार्थविज्ञानचन्द्रोत्सुकितदृष्टयः ॥ ३४८ १३.३४९ . तस्मान्न गुरुभूयस्त्वे विशङ्केत कदाचन । १३.३४९ . गुर्वन्तररते मूढे आगमान्तरसेवके ॥ ३४९ १३.३५० . प्रत्यवायो य आम्नातः स इत्थमिति गृह्यताम् । १३.३५० . यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुरुच्यते ॥ ३५० १३.३५१ . तत्रानधिकृतो यस्तु तद्गुर्वन्तरमुच्यते । १३.३५१ . यथा तन्मण्डलासीनो मण्डलान्तरभूपतिम् ॥ ३५१ १३.३५२ . स्वमण्डलजिगीषुः सन्सेवमानो विनश्यति । १३.३५२ . तथोत्तरोत्तरज्ञानसिद्धिप्रेप्सुः समाश्रयन् ॥ ३५२ १३.३५३ . अधराधरमाचार्यं विनाशमधिगच्छति । १३.३५३ . एवमेवोर्ध्ववर्तिष्णोरागमात्सिद्धिवाञ्छकः ॥ ३५३ १३.३५४ . मायीयशास्त्रनिरतो विनाशं प्रतिपद्यते । १३.३५४ . उक्तं च श्रीमदानन्दे कर्म संश्रित्य भावतः ॥ ३५४ १३.३५५ . जुगुप्सते तत्तस्मिंश्च विफलेऽन्यत्समाश्रयेत् । १३.३५५ . दिनाद्दिनं ह्रसंस्त्वेवं पच्यते रौरवादिषु ॥ ३५५ १३.३५६ . यस्तूर्ध्वोर्ध्वपथप्रेप्सुरधरं गुरुमागमम् । १३.३५६ . जिहासेच्छक्तिपातेन स धन्यः प्रोन्मुखीकृतः ॥ ३५६ १३.३५७ . अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते । १३.३५७ . शास्त्रान्तरार्थानाश्वस्तान्प्रति संस्कारको विधिः ॥ ३५७ १३.३५८ . अतश्चाप्युत्तमं शैवं योऽन्यत्र पतितः सहि । १३.३५८ . इहानुग्राह्य ऊर्ध्वोर्ध्वं नेतस्तु पतितः क्वचित् ॥ ३५८ १३.३५९ . अत एव हि सर्वज्ञैर्ब्रह्मविष्ण्वादिभिर्निजे । १३.३५९ . न शासने समाम्नातं लिङ्गोद्धारादि किंचन ॥ ३५९ १३.३६० . इत्थं विष्ण्वादयः शैवपरमार्थैकवेदिनः । १३.३६० . कांश्चित्प्रति तथादिक्षुस्ते मोहाद्विमतिं श्रिताः ॥ ३६० १३.३६१ . तथाविधामेव मतिं सत्यसंस्पर्शनाक्षमाम् । १३.३६१ . दृष्ट्वैषां ब्रह्मविष्ण्वाद्यैर्बुद्धैरपि तथोदितम् ॥ ३६१ १३.३६२ . इत्येष युक्त्यागमतः शक्तिपातो विवेचितः । च्१४ अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम् १४.१ . तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम् । १४.१ . स्वभावात्परमेशानो नियत्यनियतिक्रमम् ॥ १ १४.२ . स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते । १४.२ . नियतिं कर्मफलयोराश्रित्यैष महेश्वरः ॥ २ १४.३ . सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन् । १४.३ . महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि ॥ ३ १४.४ . एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः । १४.४ . अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम् ॥ ४ १४.५ . नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत् । १४.५ . नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात् ॥ ५ १४.६ . भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः । १४.६ . त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम् ॥ ६ १४.७ . बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः । १४.७ . यथा प्रकाशस्वातन्त्र्यात्प्रतिबुद्धोऽप्यबुद्धवत् ॥ ७ १४.८ . आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते । १४.८ . यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन् ॥ ८ १४.९ . हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम् । १४.९ . श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम् ॥ ९ १४.१० . ये यौष्माके शासनमार्गे कृतदीक्षाः संगच्छन्तो मोहवशाद्विप्रतिपत्तिम् । १४.१० . नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम् ॥ १० १४.११ . ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि न सम्यक । १४.११ . प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः ॥ ११ १४.१२ . यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात् । १४.१२ . नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन् ॥ १२ १४.१३ . ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका । १४.१३ . द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः ॥ १३ १४.१४ . न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः । १४.१४ . किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः ॥ १४ १४.१५ . तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा । १४.१५ . अनन्तकालसंवेद्यदुःखपात्रत्वमीहते ॥ १५ १४.१६ . तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः । १४.१६ . दुःखस्यापि विभेदोऽस्ति चिरशैघ्र्यकृतस्तथा ॥ १६ १४.१७ . कालकामान्धकादीनां पौलस्त्यपुरवासिनाम् । १४.१७ . तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च ॥ १७ १४.१८ . अन्योऽपि च तिरोभावः समयोल्लङ्घनात्मकः । १४.१८ . यदुक्तं परमेशेन श्रीमदानन्दगह्वरे ॥ १८ १४.१९ . समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः । १४.१९ . तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः ॥ १९ १४.२० . स्वातन्त्र्याच्च महेशस्य तिरोभूतोऽप्यसौ स्वयम् । १४.२० . परद्वारेण वाभ्येति भूयोऽनुग्रहमप्यलम् ॥ २० १४.२१ . भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति । १४.२१ . अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः ॥ २१ १४.२२ . तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून् । १४.२२ . आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते ॥ २२ १४.२३ . तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम् । १४.२३ . तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम् ॥ २३ १४.२४ . इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः । १४.२४ . इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः ॥ २४ १४.२५ . पञ्चकृत्यस्वतन्त्रत्वसंपूर्णस्वात्ममानिनः । १४.२५ . योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः ॥ २५ १४.२६ . ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन । १४.२६ . सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम् ॥ २६ १४.२७ . ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते । १४.२७ . कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः ॥ २७ १४.२८ . इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना । १४.२८ . शिवोऽहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति ॥ २८ १४.२९ . ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत् । १४.२९ . शिवो वा परमेशानो देहादिरथ निर्मितः ॥ २९ १४.३० . शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया । १४.३० . कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम् ॥ ३० १४.३१ . उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले । १४.३१ . पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः ॥ ३१ १४.३२ . कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे । १४.३२ . सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये ॥ ३२ १४.३३ . प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता । १४.३३ . यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति ॥ ३३ १४.३४ . अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत् । १४.३४ . उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते ॥ ३४ १४.३५ . निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसंगतिः । १४.३५ . यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः ॥ ३५ १४.३६ . आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना । १४.३६ . तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया ॥ ३६ १४.३७ . श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत् । १४.३७ . मुक्त्युपायतया किंतु भोगहान्यै तथैषणात् ॥ ३७ १४.३८ . जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः । १४.३८ . भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति ॥ ३८ १४.३९ . स्वच्छन्दमृत्योरपि यद्भीष्मादेः श्रूयते किल । १४.३९ . भोगवैरस्यसंप्राप्तौ जीवितान्तोपसर्पणम् ॥ ३९ १४.४० . योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः । १४.४० . हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः ॥ ४० १४.४१ . उक्तं च मालिनीतन्त्रे परमेशेन तादृशम् । १४.४१ . सर्वमप्यथवा भोगं मन्यमानो विरूपकम् ॥ ४१ १४.४२ . इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम् । १४.४२ . एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम् ॥ ४२ १४.४३ . यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी । १४.४३ . उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा ॥ ४३ १४.४४ . व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः । १४.४४ . विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत् ॥ ४४ १४.४५ . बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः । १४.४५ . अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः ॥ ४५ १४.४६ . संसारजीर्णतरुमूलकलापकल्पसंकल्पसान्तरतया परमार्थवह्नेः । १४.४६ . स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः ॥ ४६ १४.४७ . इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसंमतः । च्१५ अथ श्रीतन्त्रालोके पञ्चदशमाह्निकम् १५.१ . अथैतदुपयोगाय यागस्तावन्निरूप्यते । १५.१ . तत्र दीक्षैव भोगे च मुक्तौ चायात्युपायताम् ॥ १ १५.२ . स्वयं संस्कारयोगाद्वा तदङ्गं तत्प्रदर्श्यते । १५.२ . यो यत्राभिलषेद्भोगान् स तत्रैव नियोजितः ॥ २ १५.३ . सिद्धिभाङ्मन्त्रशक्त्येति श्रीमत्स्वायंभुवे विभुः । १५.३ . योग्यतावशतो यत्र वासना यस्य तत्र सः ॥ ३ १५.४ . योज्यो न च्यवते तस्मादिति श्रीमालिनीमते । १५.४ . वदन्भोगाद्युपायत्वं दीक्षायाः प्राह नो गुरुः ॥ ४ १५.५ . न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे । १५.५ . न च योगाधिकारित्वमेकमेवानया भवेत् ॥ ५ १५.६ . अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । १५.६ . इत्यस्मिन्मालिनीवाक्ये साक्षान्मोक्षाभ्युपायता ॥ ६ १५.७ . दीक्षायाः कथिता प्राच्यग्रन्थेन पुनरुच्यते । १५.७ . पारम्पर्येण संस्कृत्या मोक्षभोगाभ्युपायता ॥ ७ १५.८ . येषामध्यवसायोऽस्ति न विद्यां प्रत्यशक्तितः । १५.८ . सुखोपायमिदं तेषां विधानमुदितं गुरोः ॥ ८ १५.९ . इति श्रीमन्मतङ्गाख्ये ह्युक्ता मोक्षाभ्युपायता । १५.९ . सम्यग्ज्ञानस्वभावा हि विद्या साक्षाद्विमोचिका ॥ ९ १५.१० . उक्तं तत्रैव तत्त्वानां कार्यकारणभावतः । १५.१० . हेयादेयत्वकथने विद्यापाद इति स्फुटम् ॥ १० १५.११ . तत्राशक्तास्तु ये तेषां दीक्षाचर्यासमाधयः । १५.११ . ते विद्यापूर्वका यस्मात्तस्माज्ज्ञान्युत्तमोत्तमः ॥ ११ १५.१२ . ज्ञानं च शास्त्रात्तच्चापि श्राव्यो नादीक्षितो यतः । १५.१२ . अतोऽस्य संस्क्रियामात्रोपयोगो दीक्षया कृतः ॥ १२ १५.१३ . यत्र तत्रास्तु गुरुणा योजितोऽसौ फलं पुनः । १५.१३ . स्वविज्ञानोचितं याति ज्ञानीत्युक्तं पुरा किल ॥ १३ १५.१४ . यस्य त्वीशप्रसादेन दिव्या काचन योग्यता । १५.१४ . गुरोः शिशोश्च तौ नैव प्रति दीक्षोपयोगिता ॥ १४ १५.१५ . ज्ञानमेव तदा दीक्षा श्रीत्रैशिकनिरूपणात् । १५.१५ . सर्वशास्त्रार्थवेत्तृत्वमकस्माच्चास्य जायते ॥ १५ १५.१६ . इति श्रीमालिनीनीत्या यः सांसिद्धिकसंविदः । १५.१६ . स उत्तमाधिकारी स्याज्ज्ञानवान्हि गुरुर्मतः ॥ १६ १५.१७ . आत्मने वा परेभ्यो वा हितार्थी चेतयेदिदम् । १५.१७ . इत्युक्त्या मालिनीशास्त्रे तत्सर्वं प्रकटीकृतम् ॥ १७ १५.१८ . ज्ञानयोग्यास्तथा केचिच्चर्यायोग्यास्तथापरे । १५.१८ . दीक्षायोग्या योगयोग्या इति श्रीकैरणे विधौ ॥ १८ १५.१९ . तत्रोक्तलक्षणः कर्मयोगज्ञानविशारदः । १५.१९ . उत्तरोत्तरताभूम्युत्कृष्टो गुरुरुदीरितः ॥ १९ १५.२० . स च प्रागुक्तशक्त्यन्यतमपातपवित्रितम् । १५.२० . परीक्ष्य पृष्ट्वा वा शिष्यं दीक्षाकर्म समाचरेत् ॥ २० १५.२१ . उक्तं स्वच्छन्दशास्त्रे च शिष्यं पृच्छेद्गुरुः स्वयम् । १५.२१ . फलं प्रार्थयसे यादृक्तादृक्साधनमारभे ॥ २१ १५.२२ . वासनाभेदतः साध्यप्राप्तिर्मन्त्रप्रचोदिता । १५.२२ . मन्त्रमुद्राध्वद्रव्याणां होमे साधारणा स्थितिः ॥ २२ १५.२३ . वासनाभेदतो भिन्नं शिष्याणां च गुरोः फलम् । १५.२३ . साधको द्विविधः शैवधर्मा लोकोज्झितस्थितिः ॥ २३ १५.२४ . लोकधर्मी फलाकांक्षी शुभस्थश्चाशुभोज्झितः । १५.२४ . द्विधा मुमुक्षुर्निर्बीजः समयादिविवर्जितः ॥ २४ १५.२५ . बालबालिशवृद्धस्त्रीभोगभुग्व्याधितादिकः । १५.२५ . अन्यः सबीजो यस्येत्थं दीक्षोक्ता शिवशासने ॥ २५ १५.२६ . विद्वद्द्वन्द्वसहानां तु सबीजा समयात्मिका । १५.२६ . दीक्षानुग्राहिका पाल्या विशेषसमयास्तु तैः ॥ २६ १५.२७ . अभावं भावयेत्सम्यक्कर्मणां प्राच्यभाविनाम् । १५.२७ . मुमुक्षोर्निरपेक्षस्य प्रारब्ध्रेकं न शाधयेत् ॥ २७ १५.२८ . साधकस्य तु भूत्यर्थमित्थमेव विशोधयेत् । १५.२८ . शिवधर्मिण्यसौ दीक्षा लोकधर्मापहारिणी ॥ २८ १५.२९ . अधर्मरूपिणामेव न शुभानां तु शोधनम् । १५.२९ . लोकधर्मिण्यसौ दीक्षा मन्त्राराधनवर्जिता ॥ २९ १५.३० . प्रारब्धदेहभेदे तु भुङ्क्तेऽसावणिमादिकम् । १५.३० . भुक्त्वोर्ध्वं याति यत्रैष युक्तोऽथ सकलेऽकले ॥ ३० १५.३१ . समयाचारपाशं तु निर्बीजायां विशोधयेत् । १५.३१ . दीक्षामात्रेण मुक्तिः स्याद्भक्त्या देवे गुरौ सदा ॥ ३१ १५.३२ . सद्योनिर्वाणदा सेयं निर्बीजा येति भण्यते । १५.३२ . अतीतानागतारब्धपाशत्रयवियोजिका ॥ ३२ १५.३३ . दीक्षावसाने शुद्धस्य देहत्यागे परं पदम् । १५.३३ . देहत्यागे सबीजायां कर्माभावाद्विपद्यते ॥ ३३ १५.३४ . समयाचारपाशं तु दीक्षितः पालयेत्सदा । १५.३४ . एवं पृष्ट्वा परिज्ञाय विचार्य च गुरुः स्वयम् ॥ ३४ १५.३५ . उचितां संविधित्सुस्तां वासनां तादृशीं श्रयेत् । १५.३५ . आयातशक्तिपातस्य दीक्षां प्रति न दैशिकः ॥ ३५ १५.३६ . अवज्ञां विदधीतेति शंभुनाज्ञा निरूपिता । १५.३६ . स्वधनेन दरिद्रस्य कुर्याद्दीक्षां गुरुः स्वयम् ॥ ३६ १५.३७ . अपि दूर्वाम्बुभिर्यद्वा दीक्षायै भिक्षते शिशुः । १५.३७ . भिक्षोपात्तं निजं वाथ धनं प्राग्गुरवे शिशुः ॥ ३७ १५.३८ . दद्याद्येन विशुद्धं तद्यागयोग्यत्वमश्नुते । १५.३८ . तत्रादौ शिवतापत्तिस्वातन्त्र्यावेश एव यः ॥ ३८ १५.३९ . स एव हि गुरुः कार्यस्ततोऽसौ दीक्षणे क्षमः । १५.३९ . शिवतावेशिता चास्य बहूपाया प्रदर्शिता ॥ ३९ १५.४० . क्रमिका बाह्यरूपा तु स्नानन्यासार्चनादिभिः । १५.४० . बह्वीषु तासु तास्वेष क्रियासु शिवतां हृदि ॥ ४० १५.४१ . संदधद्दृढमभ्येति शिवभावं प्रसन्नधीः । १५.४१ . शिवीभूतो यद्यदिच्छेत्तत्तत्कर्तुं समीहते ॥ ४१ १५.४२ . शिवाभिमानितोपायो बाह्यो हेतुर्न मोक्षदः । १५.४२ . शिवोऽयं शिव एवास्मीत्येवमाचार्यशिष्ययोः ॥ ४२ १५.४३ . हेतुतद्वत्तया दार्ढ्याभिमानो मोचको ह्यणोः । १५.४३ . नाध्यात्मेन विना बाह्यं नाध्यात्मं बाह्यवर्जितम् ॥ ४३ १५.४४ . सिद्ध्येज्ज्ञानक्रियाभ्यां तद्द्वितीयं संप्रकाशते । १५.४४ . श्रीब्रह्मयामले देव इति तेन न्यरूपयत् ॥ ४४ १५.४५ . श्रीमदानन्दशास्त्रे च नाशुद्धिः स्याद्विपश्चितः । १५.४५ . किन्तु स्नानं सुवस्त्रत्वं तुष्टिसंजननं भवेत् ॥ ४५ १५.४६ . तत्र प्रसिद्धदेहादिमातृनिर्मलताक्रमात् । १५.४६ . अयत्नतोऽन्तरन्तः स्यान्नैर्मल्य स्नायतां ततः ॥ ४६ १५.४७ . स्नानं च देवदेवस्य यन्मूर्त्यष्टकमुच्यते । १५.४७ . तत्रैवं मन्त्रदीप्तेऽन्तर्मलदाहे निमज्जनम् ॥ ४७ १५.४८ . तत्रेष्टमन्त्रहृदयो गोरजोऽन्तः पदत्रयम् । १५.४८ . गत्वागत्य भजेत्स्नानं पार्थिवं धृतिदायकम् ॥ ४८ १५.४९ . अस्त्रमन्त्रितमृद्धूतमलः पञ्चाङ्गमन्त्रितैः । १५.४९ . जलैर्मूर्धादिपादान्तं क्रमादाक्षालयेत्ततः ॥ ४९ १५.५० . निमज्जेत्साङ्गमूलाख्यं जपन्ना तन्मयत्वतः । १५.५० . उत्थायाशेषसज्ज्योतिर्देवतागर्भमम्बरे ॥ ५० १५.५१ . सूर्यं जलेन मालिन्या तर्पयेद्विश्वतर्पकम् । १५.५१ . देवान्पितॄन्मुनीन्यक्षान् रक्षांस्यन्यच्च भौतिकम् ॥ ५१ १५.५२ . सर्वं संतर्पयेत्प्राणो वीर्यात्मा स च भास्करः । १५.५२ . ततो जपेत्परामेकां प्रागुक्तोच्चारयोगतः ॥ ५२ १५.५३ . आ तन्मयत्वसंवित्तेर्जलस्नानमिदं मतम् । १५.५३ . अग्न्युत्थं भस्म शस्त्रेण जप्त्वा मलनिवर्हणम् ॥ ५३ १५.५४ . कवक्त्रहृद्गुह्यपदे पञ्चाङ्गैर्भस्म मन्त्रितम् । १५.५४ . भस्ममुष्टिं साङ्गमूलजप्तां मूर्ध्नि क्षिपेत्ततः ॥ ५४ १५.५५ . हस्तपादौ जलेनैव प्रक्षाल्याचमनादिकम् । १५.५५ . तर्पणं जप इत्येवं भस्मस्नानं हि तैजसम् ॥ ५५ १५.५६ . गोरजोवत्यनुद्रिक्ते वायौ ह्लादिनि मन्त्रवाक् । १५.५६ . गत्यागतिप्रयोगे वा वायव्यं स्नानमाचरेत् ॥ ५६ १५.५७ . अमले गगने व्यापिन्येकाग्रीभूतदृष्टिकः । १५.५७ . स्मरन्मन्त्रं यदासीत कान्या निर्मलता ततः ॥ ५७ १५.५८ . यदि वा निर्मलाद्व्योम्नः पतता वारिणा तनुम् । १५.५८ . स्पर्शयेन्मन्त्रजपयुङ्नाभसं स्नानमीदृशम् ॥ ५८ १५.५९ . एवं सोमार्कतेजःसु शिवभावेन भावनात् । १५.५९ . निमज्जन्धौतमालिन्यः क्व वा योग्यो न जायते ॥ ५९ १५.६० . आत्मैव परमेशानो निराचारमहाह्रदः । १५.६० . विश्वं निमज्ज्य तत्रैव तिष्ठेच्छुद्धश्च शोधकः ॥ ६० १५.६१ . इति स्नानाष्टकं शुद्धावुत्तरोत्तरमुत्तमम् । १५.६१ . सर्वत्र पश्चात्तं मन्त्रमेकीभूतमुपाहरेत् ॥ ६१ १५.६२ . घृत्याप्यायमलप्लोषवीर्यव्याप्तिमृजिस्थितीः । १५.६२ . अभेदं च क्रमादेति स्नानाष्टकपरो मुनिः ॥ ६२ १५.६३ . एता ह्यनुग्रहात्मानो मूर्तयोऽष्टौ शिवात्मिकाः । १५.६३ . स्वरूपशिवरूपाभ्यां ध्यानात्तत्तत्फलप्रदाः ॥ ६३ १५.६४ . अनेन विधिनार्चायां कन्दाधारादियोजनाम् । १५.६४ . कुर्वन्व्याससमासाभ्यां धरादेस्तत्फलं भजेत् ॥ ६४ १५.६५ . तथाहि योगसंचारे मन्त्राः स्युर्भुवि पार्थिवाः । १५.६५ . आप्ये आप्या यावदमी शिवे शिवमया इति ॥ ६५ १५.६६ . श्रीनिर्मर्यादशास्त्रेऽपि तदित्थं सुनिरूपितम् । १५.६६ . धरादेश्च विशेषोऽस्ति वीरसाधकसंमतः ॥ ६६ १५.६७ . रणरेणुर्वीरजलं वीरभस्म महामरुत् । १५.६७ . श्मशानारण्यगगनं चन्द्रार्कौ तदुपाहितौ ॥ ६७ १५.६८ . आत्मा निर्धूतनिःशेषविकल्पातङ्कसुस्थितः । १५.६८ . स्नानार्चादावित्युपास्यं वीराणां विग्रहाष्टकम् ॥ ६८ १५.६९ . श्रीमन्त्रिशिरसि प्रोक्तं मद्यशीधुसुरादिना । १५.६९ . सुस्वादुना प्रसन्नेन तनुना सुसुगन्धिना ॥ ६९ १५.७० . कन्दलादिगतेनान्तर्बहिः संस्कारपञ्चकम् । १५.७० . कृत्वा निरीक्षणं प्रोक्ष्य ताडनाप्यायगुण्ठनम् ॥ ७० १५.७१ . मन्त्रचक्रस्य तन्मध्ये पूजां विप्रुट्प्रतर्पणम् । १५.७१ . तेनात्मसेकः कलशमुद्रया चाभिषेचनम् ॥ ७१ १५.७२ . देवतातर्पणं देहप्राणोभयपथाश्रितम् । १५.७२ . सर्वतीर्थतपोयज्ञदानादि फलमश्नुते ॥ ७२ १५.७३ . मद्यस्नाने साधकेन्द्रो मुमुक्षुः केवलीभवेत् । १५.७३ . यतः शिवमयं मद्यं सर्वे मन्त्राः शिवोद्भवाः ॥ ७३ १५.७४ . शिवशक्त्योर्न भेदोऽस्ति शक्त्युत्थास्तु मरीचयः । १५.७४ . तासामानन्दजनकं मद्यं शिवमयं ततः ॥ ७४ १५.७५ . प्रबुद्धे संविदः पूर्णे रूपेऽधिकृतिभाजनम् । १५.७५ . मन्त्रध्यानसमाधानभेदात्स्नानं तु यन्न तत् ॥ ७५ १५.७६ . युक्तं स्नानं यतो न्यासकर्मादौ योग्यतावहम् । १५.७६ . अस्य स्नानाष्टकस्यास्ति बाह्यान्तरतया द्विता ॥ ७६ १५.७७ . आन्तरं तद्यथोर्ध्वेन्दुधारामृतपरिप्लवः । १५.७७ . यतो रन्ध्रोर्ध्वगाः सार्धमङ्गुलं व्याप्य संस्थिताः ॥ ७७ १५.७८ . मूर्तयोऽष्टावपि प्रोक्ताः प्रत्येकं द्वादशान्ततः । १५.७८ . एषामेकतमं स्नानं कुर्याद्द्वित्र्यादिशोऽपिवा ॥ ७८ १५.७९ . इति स्नानविधिः प्रोक्तो भैरवेणामलीकृतौ । १५.७९ . स्नानानन्तरकर्तव्यमथेदमुपदिश्यते ॥ ७९ १५.८० . भावं प्रसन्नमालोच्य व्रजेद्यागगृहं ततः । १५.८० . पर्वताग्रनदीतीरैकलिङ्गादि यदुच्यते ॥ ८० १५.८१ . तद्बाह्यमिह तत्सिद्धिविशेषाय न मुक्तये । १५.८१ . आभ्यन्तरं नगाग्रादि देहान्तः प्राणयोजनम् ॥ ८१ १५.८२ . साधकानामुपायः स्यात्सिद्धये नतु मुक्तये । १५.८२ . पीठस्थानं सदा यागयोग्यं शास्त्रेषु भण्यते ॥ ८२ १५.८३ . तच्च बाह्यान्तराद्रूपाद्बहिर्देहे च सुस्फुटम् । १५.८३ . यतः श्रीनैशसञ्चारे परमेशो न्यरूपयत् ॥ ८३ १५.८४ . तस्येच्छा पीठमाधारो यत्रस्थं सचराचरम् । १५.८४ . अग्र्यं तत्कामरूपं स्याद्बिन्दुनादद्वयं ततः ॥ ८४ १५.८५ . नादपीठं पूर्णगिरिर्दक्षिणे वामतः पुनः । १५.८५ . पीठमुड्डयनं बिन्दुर्मुख्यं पीठत्रयं त्विदम् ॥ ८५ १५.८६ . ज्ञेयं संकल्पनारूपमर्धपीठमतः परम् । १५.८६ . शाक्तं कुण्डलिनी वेदकलं च त्र्युपपीठकम् ॥ ८६ १५.८७ . देवीकोट्टोज्जयिन्यौ द्वे तथा कुलगिरिः परः । १५.८७ . लालनं बैन्दवं व्याप्तिरिति संदोहकत्रयम् ॥ ८७ १५.८८ . पुण्ड्रवर्धनवारेन्द्रे तथैकाम्रमिदं बहिः । १५.८८ . नवधा कथितं पीठमन्तर्बाह्यक्रमेण तत् ॥ ८८ १५.८९ . क्षेत्राष्टकं क्षेत्रविदो हृदम्भोजदलाष्टकम् । १५.८९ . प्रयागो वरणा पश्चादट्टहासो जयन्तिका ॥ ८९ १५.९० . वाराणसी च कालिङ्गं कुलूता लाहुला तथा । १५.९० . उपक्षेत्राष्टकं प्राहुर्हृत्पद्माग्रदलाष्टकम् ॥ ९० १५.९१ . विरजैरुडिका हाला एला पूः क्षीरिका पुरी । १५.९१ . मायाख्या मरुदेशश्च बाह्याभ्यन्तररूपतः ॥ ९१ १५.९२ . हृत्पद्मदलसन्धीनामुपसंदोहकाष्टता । १५.९२ . जालन्धरं च नैपालं कश्मीरा गर्गिका हरः ॥ ९२ १५.९३ . म्लेच्छदिग्द्वारवृत्तिश्च कुरुक्षेत्रं च खेटकम् । १५.९३ . द्विपथं द्वयसंघट्टात्त्रिपथं त्रयमेलकात् ॥ ९३ १५.९४ . चतुष्पथं शक्तिमतो लयात्तत्रैव मन्वते । १५.९४ . नासान्ततालुरन्ध्रान्तमेतद्देहे व्यवस्थितम् ॥ ९४ १५.९५ . भ्रूमध्यकण्ठहृत्संज्ञं मध्यमं तदुदाहृतम् । १५.९५ . नाभिकन्दमहानन्दधाम तत्कौलिकं त्रयम् ॥ ९५ १५.९६ . पर्वताग्रं नदीतीरमेकलिङ्गं तदेव च । १५.९६ . किं वातिबहुना सर्वं संवित्तौ प्राणगं ततः ॥ ९६ १५.९७ . ततो देहस्थितं तस्माद्देहायतनगो भवेत् । १५.९७ . बाह्ये तु तादृशान्तःस्थयोगमार्गविशारदाः ॥ ९७ १५.९८ . देव्यः स्वभावाज्जायन्ते पीठं तद्वाह्यमुच्यते । १५.९८ . यथा स्वभावतो म्लेच्छा अधर्मपथवर्तिनः ॥ ९८ १५.९९ . तत्र देशे नियत्येत्थं ज्ञानयोगौ स्थितौ क्वचित् । १५.९९ . यथाचातन्मयोऽप्येति पापितां तैः समागमात् ॥ ९९ १५.१०० . तथा पीठस्थितोऽप्येति ज्ञानयोगादिपात्रताम् । १५.१०० . मुख्यत्वेन शरीरेऽन्तः प्राणे संविदि पश्यतः ॥ १०० १५.१०१ . विश्वमेतत्किमन्यैः स्याद्बहिर्भ्रमणडम्बरैः । १५.१०१ . इत्येवमन्तर्बाह्ये च तत्तच्चक्रफलार्थिनाम् ॥ १०१ १५.१०२ . स्थानभेदो विचित्रश्च स शास्त्रे संख्ययोज्झितः । १५.१०२ . श्रीवीरावलिहृदये सप्त स्थानानि शक्तिकमलयुगम् ॥ १०२ १५.१०३ . सुरपथचतुष्पथाख्यश्मशानमेकान्तशून्यवृक्षौ च । १५.१०३ . इति निर्वचनगुणस्थित्युपचारदृशा विबोध एवोक्तः ॥ १०३ १५.१०४ . तदधिष्ठिते च चक्रे शारीरे बहिरथो भवेद्यागः । १५.१०४ . मुक्तये तन्न यागस्य स्थानभेदः प्रकल्प्यते ॥ १०४ १५.१०५ . देशोपाया न सा यस्मात्सा हि भावप्रसादतः । १५.१०५ . उक्तं च श्रीनिशाचारे सिद्धिसाधनकाङ्क्षिणाम् ॥ १०५ १५.१०६ . स्थानं मुमुक्षुणा त्याज्यं सर्पकञ्चुकवत्त्विदम् । १५.१०६ . मुक्तिर्न स्थानजनिता यदा श्रोत्रपथं गतम् ॥ १०६ १५.१०७ . गुरोस्तत्त्वं तदा मुक्तिस्तद्दार्ढ्याय तु पूजनम् । १५.१०७ . यत्र यत्र हृदम्भोजं विकासं प्रतिपद्यते ॥ १०७ १५.१०८ . तत्रैव धाम्नि बाह्येऽन्तर्यागश्रीः प्रतितिष्ठति । १५.१०८ . नान्यत्रगत्या मोक्षोऽस्ति सोऽज्ञानग्रन्थिकर्तनात् ॥ १०८ १५.१०९ . तच्च संविद्विकासेन श्रीमद्वीरावलीपदे । १५.१०९ . गुरवस्तु विमुक्तौ वा सिद्धौ वा विमला मतिः ॥ १०९ १५.११० . हेतुरित्युभयत्रापि यागौको यन्मनोरमम् । १५.११० . नियतिप्राणतायोगात्सामग्रीतस्तु यद्यपि ॥ ११० १५.१११ . सिद्धयो भाववैमल्यं तथापि निखिलोत्तमम् । १५.१११ . विमलीभूतहृदयो यत्तत्र प्रतिबिम्बयेत् ॥ १११ १५.११२ . साध्यं तदस्य दार्ढ्येन सफलत्वाय कल्पते । १५.११२ . उक्तं श्रीसारशास्त्रे च निर्विकल्पो हि सिध्यति ॥ ११२ १५.११३ . क्लिश्यन्ते सविकल्पास्तु कल्पोक्तेऽपि कृते सति । १५.११३ . तदाक्रम्य बलं मन्त्रा अयमेवोदयः स्फुटः ॥ ११३ १५.११४ . इत्यादिभिः स्पन्दवाक्यैरेतदेव निरूपितम् । १५.११४ . तस्मात्सिद्ध्यै विमुक्त्यै वा पूजाजपसमाधिषु ॥ ११४ १५.११५ . तत्स्थानं यत्र विश्रान्तिसुन्दरं हृदयं भवेत् । १५.११५ . यागौकः प्राप्य शुद्धात्मा बहिरेव व्यवस्थितः ॥ ११५ १५.११६ . न्यासं सामान्यतः कुर्याद्बहिर्यागप्रसिद्धये । १५.११६ . मातृकां मालिनीं वाथ द्वितयं वा क्रमाक्रमात् ॥ ११६ १५.११७ . सृष्ट्यप्ययद्वयैः कुर्यादेकैकं संघशो द्विशः । १५.११७ . ललाटवक्त्रे दृक्कर्णनासागण्डरदौष्ठगे ॥ ११७ १५.११८ . द्वये द्वये शिखाजिह्वे विसर्गान्तास्तु षोडश । १५.११८ . दक्षान्ययोः स्कन्धबाहुकराङ्गुलिनखे कचौ ॥ ११८ १५.११९ . वर्गौ टतौ क्रमात्कट्यामूर्वादिषु नियोजयेत् । १५.११९ . पवर्गं पार्श्वयोः पृष्ठे जठरे हृद्यथो नव ॥ ११९ १५.१२० . त्वग्रक्तमांससूत्रास्थिवसाशुक्रपुरोगमान् । १५.१२० . इत्येष मातृकान्यासो मालिन्यास्तु निरूप्यते ॥ १२० १५.१२१ . न शिखा ऋ ॠ ळ ळॢ च शिरोमाला थ मस्तकम् । १५.१२१ . नेत्राणि चोर्ध्वे धोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती ॥ १२१ १५.१२२ . बकवर्ग+इ+आ वक्त्रदन्तजिह्वागिरि क्रमात् । १५.१२२ . वभयाः कण्ठदक्षादिस्कन्धयोर्भुजयोर्डढौ ॥ १२२ १५.१२३ . ठो हस्तयोर्झञौ शाखा ज्रटौ शूलकपालके । १५.१२३ . प हृच्छलौ स्तनौ क्षीरमा स जीवो विसर्गयुक् ॥ १२३ १५.१२४ . प्राणो हवर्णः कथितः षक्षावुदरनाभिगौ । १५.१२४ . मशान्ता कटिगुह्योरुयुग्मगा जानुनी तथा ॥ १२४ १५.१२५ . एऐकारौ तत्परौ तु जङ्घे चरणगौ दफौ । १५.१२५ . इत्येषा मालिनी देवी शक्तिमत्क्षोभिता यतः ॥ १२५ १५.१२६ . कृत्यावेशात्ततः शाक्ती तनुः सा परमार्थतः । १५.१२६ . अन्योन्यं बीजयोनीनां क्षोभाद्वैसर्गिकोदयात् ॥ १२६ १५.१२७ . कां कां सिद्धिं न वितरेत्किं वा न्यूनं न पूरयेत् । १५.१२७ . योनिबीजार्णसांकर्यं बहुधा यद्यपि स्थितम् ॥ १२७ १५.१२८ . तथापि नादिफान्तोऽयं क्रमो मुख्यः प्रकीर्तितः । १५.१२८ . फकारादिसमुच्चारान्नकारान्तेऽध्वमण्डलम् ॥ १२८ १५.१२९ . संहृत्य संविद्या पूर्णा सा शब्दैर्वर्ण्यते कथम् । १५.१२९ . अतः शास्त्रेषु बहुधा कुलपुत्तलिकादिभिः ॥ १२९ १५.१३० . भेदैर्गीता हि मुख्येयं नादिफान्तेति मालिनी । १५.१३० . शब्दराशेर्भैरवस्य यानुच्छूनतयान्तरी ॥ १३० १५.१३१ . सा मातेव भविष्यत्त्वात्तेनासौ मातृकोदिता । १५.१३१ . मालिनी मालिता रुद्रैर्धारिका सिद्धिमोक्षयोः ॥ १३१ १५.१३२ . फलेषु पुष्पिता पूज्या संहारध्वनिषट्पदी । १५.१३२ . संहारदानादानादिशक्तियुक्ता यतो रलौ ॥ १३२ १५.१३३ . एकत्वेन स्मरन्तीति शंभुनाथो निरूचिवान् । १५.१३३ . शब्दराशिर्मालिनी च शिवशक्त्यात्मकं त्विदम् ॥ १३३ १५.१३४ . एकैकत्रापि पूर्णत्वाच्छिवशक्तिस्वभावता । १५.१३४ . तेन भ्रष्टे विधौ वीर्ये स्वरूपे वानया परम् ॥ १३४ १५.१३५ . मन्त्रा न्यस्ताः पुनर्न्यासात्पूर्यन्ते तत्फलप्रदाः । १५.१३५ . उक्तं श्रीपूर्वतन्त्रे च विशेषविधिहीनिते ॥ १३५ १५.१३६ . न्यस्येच्छाक्तशरीरार्थं भिन्नयोनि तु मालिनीम् । १५.१३६ . विशेषणमिदं हेतौ हेत्वर्थश्च निरूपितः ॥ १३६ १५.१३७ . यथेष्टफलसिद्ध्यै चेत्यत्रैवेदमभाषत । १५.१३७ . साञ्जना अपि ये मन्त्रा गारुडाद्या न ते परम् ॥ १३७ १५.१३८ . मालिन्या पूरिताः सिध्द्यै बलादेव तु मुक्तये । १५.१३८ . तस्मात्फलेप्सुरप्यन्य मन्त्रं न्यस्यात्र मालिनीम् ॥ १३८ १५.१३९ . न्यस्येज्जप्त्वापिच जपेदयत्नादपवृक्तये । १५.१३९ . इत्येवं मातृकां न्यस्येन्मालिनीं वा क्रमाद्द्वयम् ॥ १३९ १५.१४० . सिद्धिमुक्त्यनुसाराद्वा वर्णान्वा युगपद्द्वयोः । १५.१४० . अक्षह्रीं नफह्रीमेतौ पिण्डौ संघाविहानयोः ॥ १४० १५.१४१ . वाचकौ न्यास एताभ्यां कृते न्यासेऽथवैककः । १५.१४१ . एष चाङ्गतनुब्रह्मयुक्तो वा तद्विपर्ययः ॥ १४१ १५.१४२ . सामुदायिकविन्यासे पृथक्पिण्डाविमौ क्रमात् । १५.१४२ . अक्रमादथवा न्यस्येदेकमेवाथ योजयेत् ॥ १४२ १५.१४३ . क्रियया सिद्धिकामो यः स क्रियां भूयसीं चरेत् । १५.१४३ . अनीप्सुरपि यस्तस्मै भूयसे स्वफलाय सा ॥ १४३ १५.१४४ . यस्तु ध्यानजपाभ्यासैः सिद्धीप्सुः स क्रियां परम् । १५.१४४ . संस्कृत्यै स्वेच्छया कुर्यात्प्राङ्नयेनाथ भूयसीम् ॥ १४४ १५.१४५ . मुमुक्षुरथ तस्मै वा यथाभीष्टं समाचरेत् । १५.१४५ . शिवतापत्तिरेवार्थो ह्येषां न्यासादिकर्मणाम् ॥ १४५ १५.१४६ . एवं न्यासं विधायार्घपात्रे विधिमुपाचरेत् । १५.१४६ . उक्तनीत्यैव तत्पश्चात्पूजयेन्न्यस्तवाचकैः ॥ १४६ १५.१४७ . यतः समस्तभावानां शिवात्सिद्धिमयादथो । १५.१४७ . पूर्णादव्यतिरेकित्वं कारकाणामिहार्चया ॥ १४७ १५.१४८ . समस्तं कारकव्रातं शिवाभिन्नं प्रदर्शितम् । १५.१४८ . पूजोदाहरणे सर्वं व्यश्नुते गमनाद्यपि ॥ १४८ १५.१४९ . यथाहि वाहकटकभ्रमस्वातन्त्र्यमागतः । १५.१४९ . अश्वः संग्रामरूढोऽपि तां शिक्षां नातिवर्तते ॥ १४९ १५.१५० . तथार्चनक्रियाभ्यासशिवीभावितकारकः । १५.१५० . गच्छंस्तिष्ठन्नपि द्वैतं कारकाणां व्यपोज्झति ॥ १५० १५.१५१ . तथैक्याभ्यासनिष्ठस्याक्रमाद्विश्वमिदं हठात् । १५.१५१ . संपूर्णशिवताक्षोभनरीनर्तदिव स्फुरेत् ॥ १५१ १५.१५२ . उवाच पूजनस्तोत्रे ह्यस्माकं परमो गुरुः । १५.१५२ . अहो स्वादुरसः कोऽपि शिवपूजामयोत्सवः ॥ १५२ १५.१५३ . षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम् । १५.१५३ . तदेतादृक्पूर्णशिवविश्वावेशाय येऽर्चनम् ॥ १५३ १५.१५४ . कुर्वन्ति ते शिवा एव तान्पूर्णान्प्रति किं फलम् । १५.१५४ . विनापि ज्ञानयोगाभ्यां क्रिया न्यासार्चनादिका ॥ १५४ १५.१५५ . इत्थमैक्यसमापत्तिदानात्परफलप्रदा । १५.१५५ . साधकस्यापि तत्सद्विप्रदमन्त्रैकतां गतम् ॥ १५५ १५.१५६ . विश्वं व्रजदविघ्नत्वं स्वां सिद्धिं शीघ्रमावहेत् । १५.१५६ . उक्तं च परमेशेन न विधिर्नार्चनक्रमः ॥ १५६ १५.१५७ . केवलं स्मरणात्सिद्धिर्वाञ्छितेति मतादिषु । १५.१५७ . तदेवं तन्मयीभावदायिन्यर्चाक्रिया यतः ॥ १५७ १५.१५८ . समस्तकारकैकात्म्यं तेनास्याः परमं वपुः । १५.१५८ . यष्ट्राधारस्य तादात्म्यं स्थानशुद्धिविधिक्रमात् ॥ १५८ १५.१५९ . यष्टृयाज्यतदाधारकरणादानसंप्रदाः । १५.१५९ . न्यासक्रमेण शिवतातादात्म्यमधिशेरते ॥ १५९ १५.१६० . अर्घपात्रमपादानं तस्मादादीयते यतः । १५.१६० . यच्च तत्स्थं जलाद्येतत्करणं शोधनेऽर्चने ॥ १६० १५.१६१ . अर्घपात्राम्बुविप्रुड्भिः स्पृष्टं सर्वं हि शुध्यति । १५.१६१ . शिवार्ककरसंस्पर्शात्कान्या शुद्धिर्भविष्यति ॥ १६१ १५.१६२ . ऊचे श्रीपूर्वशास्त्रे तदर्घपात्रविधौ विभुः । १५.१६२ . न चासंशोधितं वस्तु किंचिदप्युपकल्पयेत् ॥ १६२ १५.१६३ . तेन शुद्धं तु सर्वं यदशुद्धमपि तच्छुचि । १५.१६३ . अशुद्धता च विज्ञेया पशुतच्छासनाशयात् ॥ १६३ १५.१६४ . स्वतादवस्थ्यात्पूर्वस्मादथवाप्युपकल्पितात् । १५.१६४ . तेन यद्यदिहासन्नं संविदश्चिदनुग्रहात् ॥ १६४ १५.१६५ . कियतोऽपि तदत्यन्तं योग्यं यागेऽत्र जीववत् । १५.१६५ . अनेन नययोगेन यदासत्तिविदूरते ॥ १६५ १५.१६६ . संविदेति तदा तत्र योग्यायोग्यत्वमादिशेत् । १५.१६६ . वीराणामत एवेह मिथः स्वप्रतिमामृतम् ॥ १६६ १५.१६७ . तत्तद्यागविधाविष्टं गुरुभिर्भावितात्मभिः । १५.१६७ . उन्मज्जयति निर्मग्नां संविदं यत्तु सुष्ठु तत् ॥ १६७ १५.१६८ . अर्चायै योग्यमानन्दो यस्मादुन्मग्नता चितः । १५.१६८ . तेनाचिद्रूपदेहादिप्राधान्यविनिमज्जकम् ॥ १६८ १५.१६९ . आनन्दजननं पूजायोग्यं हृदयहारि यत् । १५.१६९ . अतः कुलक्रमोत्तीर्णत्रिकसारमतादिषु ॥ १६९ १५.१७० . मद्यकादम्बरीशीधुद्रव्यादेर्महिमा परम् । १५.१७० . लोकस्थितिं रचयितुं मद्यादेः पशुशासने ॥ १७० १५.१७१ . प्रोक्ता ह्यशुद्धिस्तत्रैव तस्य क्वापि विशुद्धता । १५.१७१ . पञ्चगव्ये पवित्रत्वं सोमचर्णनपात्रयोः ॥ १७१ १५.१७२ . विधिश्चावभृथस्नानं हस्ते कृष्णविषाणिता । १५.१७२ . न पत्न्या च विना यागः सर्वदैवततुल्यता ॥ १७२ १५.१७३ . सुराहुतिर्ब्रह्मसत्रे वपान्त्रहृदयाहुतिः । १५.१७३ . पाशवेष्वपि शास्त्रेषु तददर्शि महेशिना ॥ १७३ १५.१७४ . घोरान्ध्यहैमननिशामध्यगाचिरदीप्तिवत् । १५.१७४ . भक्ष्यो हंसो न भक्ष्योऽसाविति रिप्रतिपत्तिषु ॥ १७४ १५.१७५ . स्मार्तीषु विजयत्येको यः शिवाभेदशुद्धिकः । १५.१७५ . अज्ञत्ववेदादर्शित्वरागद्वेषादयो ह्यमी ॥ १७५ १५.१७६ . मुनीनां वचसि स्वस्मिन्प्रामाण्योन्मूलनक्षमाः । १५.१७६ . वेदेऽपि यदभक्ष्यं तद्भक्ष्यमित्युपदिश्यते ॥ १७६ १५.१७७ . न विधिप्रतिषेधाख्यधर्मयोरेकमास्पदम् । १५.१७७ . अथ तत्र न तद्भक्ष्यं तदा तेन तथा ततः ॥ १७७ १५.१७८ . एवं विषयभेदान्नो शिवोक्तेर्बाधिका श्रुतिः । १५.१७८ . क्वचिद्विषयतुल्यत्वाद्बाध्यबाधकता यदि ॥ १७८ १५.१७९ . तद्बाध्या श्रुतिरेवेति प्रागेवैतन्निरूपितम् । १५.१७९ . प्रकृतं ब्रूमहे कृत्वा न्यासं देहार्घपात्रयोः ॥ १७९ १५.१८० . सामान्यमर्घपात्राम्भोविप्रुड्भिः प्रोक्ष्य चाखिलम् । १५.१८० . यागोपकरणं पश्चाद्बाह्ययागं समाचरेत् ॥ १८० १५.१८१ . प्रभामण्डलके खे वा सुलिप्तायां च वा भुवि । १५.१८१ . त्रिशूलार्कवृषान्दिकस्था मातरः क्षेत्रपं यजेत् ॥ १८१ १५.१८२ . योगिनीश्च पृथङ्मन्त्रैरोंनमोनामयोजितैः । १५.१८२ . एकोच्चारेण वा बाह्यपरिवारेतिशब्दिताः ॥ १८२ १५.१८३ . तारो नाम चतुर्थ्यन्तं नमश्चेत्यर्चने मनुः । १५.१८३ . एवं बहिः पूजयित्वा द्वारं प्रोक्ष्य प्रपूजयेत् ॥ १८३ १५.१८४ . त्रिशिरःशासनादौ च स दृष्टो विधिरुच्यते । १५.१८४ . गणेशलक्ष्म्यौ द्वारोर्ध्वे दक्षे वामे तयोः पुनः ॥ १८४ १५.१८५ . मध्ये वागीश्वरीं दिण्डिमहोदरयुगं तथा । १५.१८५ . क्रमात्स्वदक्षवामस्थं तथैतेन क्रमेण च ॥ १८५ १५.१८६ . एकैकं पूजयेत्सम्यङ्नन्दिकालौ त्रिमार्गगाम् । १५.१८६ . कालिन्दीं छागमेषास्यौ स्वदक्षाद्द्वाःस्थशाखयोः ॥ १८६ १५.१८७ . अधोदेहल्यनन्तेशाधारशक्तीश्च पूजयेत् । १५.१८७ . द्वारमध्ये सरस्वत्या महास्त्रं पूजयेदमी ॥ १८७ १५.१८८ . पद्माधारगताः सर्वेऽप्युदिता विघ्ननाशकाः । १५.१८८ . पूजने पूर्ववन्मन्त्रो दीपकद्वयकल्पितः ॥ १८८ १५.१८९ . अर्घपुष्पसमालम्भधूपनैवेद्यवन्दनैः । १५.१८९ . पूजां कुर्यादिहार्घश्चाप्युत्तमद्रव्ययोजितः ॥ १८९ १५.१९० . एकोच्चारेण वा कुर्याद्द्वाःस्थदैवतपूजनम् । १५.१९० . रहस्यपूजां चेत्कुर्यात्तद्बाह्यपरिवारकम् ॥ १९० १५.१९१ . द्वाःस्थांश्च पूजयेदन्तर्देवाग्रे कल्पनाक्रमात् । १५.१९१ . क्षिप्त्वास्त्रजप्तं कुसुमं ज्वलद्वेश्मनि व्घ्ननुत् ॥ १९१ १५.१९२ . प्रविश्य शिवरश्मीद्धदृशा वेश्मावलोकयेत् । १५.१९२ . दिशोऽस्त्रेण च बध्नीयाच्छादयेद्वर्मणाखिलाः ॥ १९२ १५.१९३ . तत्रोत्तराशाभिमुखो मुमुक्षुस्तादृशाय वा । १५.१९३ . विशेत्तथा ह्यघोराग्निः पाशान्प्लुष्यति बन्धकान् ॥ १९३ १५.१९४ . यद्यप्यस्ति न दिङ्नाम काचित्पूर्वापरादिका । १५.१९४ . प्रत्ययो हि न तस्याः स्यादेकस्या अनुपाहितेः ॥ १९४ १५.१९५ . उपाधिः पूर्वतादिष्ट इति चेत्तत्कृतं दिशा । १५.१९५ . उपाधिमात्रं तु तथा वैचित्र्याय कथं भवेत् ॥ १९५ १५.१९६ . तस्मात्संवित्प्रकाशोऽयं मूर्त्याभासनभागतः । १५.१९६ . पूर्वादिदिग्विभागाख्यवैचित्र्योल्लेखदुर्मदः ॥ १९६ १५.१९७ . तत्र यद्यत्प्रकाशेन सदा स्वीकरणे क्षमम् । १५.१९७ . तदेवोर्ध्वं प्रकाशात्म स्पर्शायोग्यमधः पुनः ॥ १९७ १५.१९८ . किंचित्प्रकाशता मध्यं ततो वै दिक्समुद्भवः । १५.१९८ . किंचित्प्रकाशयोग्यस्य संमुखं प्रसरत्पुरः ॥ १९८ १५.१९९ . पराङ्मुखं तु तत्पश्चादिति दिग्द्वयमागतम् । १५.१९९ . प्रकाशः संमुखं वस्तु गृहीत्वोद्रिक्तरश्मिकः ॥ १९९ १५.२०० . यत्र तिष्ठोद्दक्षिणं तत्प्रकाशस्यानुकूल्यतः । १५.२०० . दक्षिणस्य पुरःसंस्थं वाममित्युपदिश्यते ॥ २०० १५.२०१ . तत्प्रकाशितमेयेन्दुस्पर्शसौम्यं तदेव हि । १५.२०१ . एवमाशाचतुष्केऽस्मिन्मध्यविश्रान्तियोगतः ॥ २०१ १५.२०२ . चतुष्कमन्यत्तेनाष्टौ दिशस्तत्तदधिष्ठिताः । १५.२०२ . एवं प्रकाशमात्रेऽस्मिन्वरदे परमे शिवे ॥ २०२ १५.२०३ . दिग्विभागः स्थितो लोके शास्त्रेऽपिच तथोच्यते । १५.२०३ . क्रमात्सदाशिवाधीशः पञ्चमन्त्रतनुर्यतः ॥ २०३ १५.२०४ . ईशन्रघोरवामाख्यसद्योऽधोभेदतो दिशः । १५.२०४ . ईश ऊर्ध्वं प्रकाशत्वात्पूर्वं वक्त्रं प्रसारि यत् ॥ २०४ १५.२०५ . पुरुषो दक्षिणाचण्डो वामा वामस्तु सौम्यकः । १५.२०५ . पराङ्मुखतया सद्यः पश्चिमा परिभाष्यते ॥ २०५ १५.२०६ . पातालवक्त्रमधरमप्रकाशतया स्थितेः । १५.२०६ . खमरुद्वह्निजलभूखानि वक्त्राण्यमुष्य हि ॥ २०६ १५.२०७ . मुख्यत्वेन खमेवोर्ध्वं प्रकाशमयमुच्यते । १५.२०७ . तदेव मुख्यतोऽधस्तादप्रकाशं यतः स्फुटम् ॥ २०७ १५.२०८ . मध्ये तु यत्प्रकाशं तन्न प्रकाश्यं न चेतरत् । १५.२०८ . प्रकाशत्वाद्दिश्यमानमतोऽस्मिन्दिक्चतुष्टयम् ॥ २०८ १५.२०९ . पञ्चमन्त्रतनुर्नाथ इत्थं विश्वदिगीश्वरः । १५.२०९ . ततोऽपीशस्तथा रुद्रो विष्णुर्ब्रह्मा तथा स्थितः ॥ २०९ १५.२१० . ऊर्ध्वाभिव्यक्त्ययोग्यत्वाद्विष्णोर्धातुश्च पञ्चमम् । १५.२१० . न वक्त्रं तौ भेदमयौ सृष्टिस्थितिप्रभू यतः ॥ २१० १५.२११ . दिग्विभागस्तु तज्जोऽस्ति वदनानां चतुष्टयात् । १५.२११ . पञ्चमस्य युजित्वे तौ परित्यक्तनिजात्मकौ ॥ २११ १५.२१२ . ततो ब्रह्माण्डमध्येऽपि ज्ञानशक्तिर्विभो रविः । १५.२१२ . दिशां विभागं कुरुते प्रकाशघनवृत्तिमान् ॥ २१२ १५.२१३ . तथाहि विषुवद्योगे यतः पूर्वं प्रदृश्यते । १५.२१३ . तत्पूर्व यत्र तच्छाया तत्पश्चिममुदाहृतम् ॥ २१३ १५.२१४ . तस्मिञ्जिगमिषोरस्य यत्सव्यं तत्तु दक्षिणम् । १५.२१४ . तत्रैष चण्डतेजोभिर्भाति जाज्वल्यमानवत् ॥ २१४ १५.२१५ . तत्पुरोवर्ति वामं तु तद्भासा खचितं मनाक् । १५.२१५ . तत एव हि सोम्यं तन्नचापि ह्यप्रकाशकम् ॥ २१५ १५.२१६ . यत्रासावस्तमभ्येति तत्पश्चिममिति स्थितिः । १५.२१६ . तत्रैव पश्चिमे येषां प्राक्प्रकाशावलोकनम् ॥ २१६ १५.२१७ . तदेव पूर्वमेतेषां यथाध्वनि निरूपितम् । १५.२१७ . सा सा दिक्च तथा तस्य फलदापि विपर्यये ॥ २१७ १५.२१८ . विचित्रे फलसंपत्तिः प्रकाशाधीनिका यतः । १५.२१८ . इत्थं सूर्याश्रया दिक्स्यात्सा विचित्रापि तादृशी ॥ २१८ १५.२१९ . अधिष्ठिता महेशेन चित्रतद्रूपधारिणा । १५.२१९ . किं वातिबहुना योऽसौ यष्टा तत्संमुखादितः ॥ २१९ १५.२२० . दिशोऽपि प्रविभज्यन्ते प्राक्सव्योत्तरपश्चिमाः । १५.२२० . स्वानुसारकृतं तं च दिग्विभागं सदा शिवः ॥ २२० १५.२२१ . अधितिष्ठत्यर्कमिव स विचित्रवपुर्यतः । १५.२२१ . स्वोत्था अपि दिशः स्वेशाः शक्राद्या ह्यधिशेरते ॥ २२१ १५.२२२ . ते हि प्रकाशशक्त्यंशाः प्रकाशानुविधायिनः । १५.२२२ . प्रकाशस्य यदैश्वर्यं स इन्द्रो यत्तु तन्महः ॥ २२२ १५.२२३ . सोऽग्निर्यन्तृत्वभीमत्वे यमो रक्षस्तदूनिमा । १५.२२३ . प्रकाश्यं वरुणस्तच्च चाञ्चल्याद्वायुरुच्यते ॥ २२३ १५.२२४ . भावसञ्चययोगेन वित्तेशस्तत्क्षये विभुः । १५.२२४ . अदृष्टविग्रहोऽनन्तो ब्रह्मोर्ध्वे वृंहको विभुः ॥ २२४ १५.२२५ . प्रकाशस्यैव शक्त्यंशा लोकपास्तेन कीर्तिताः । १५.२२५ . इत्थं स्वाधीनरूपापि दिक्सौरी तूपदिश्यते ॥ २२५ १५.२२६ . तत्र सर्वो हि निष्कम्पं प्रकाशत्वं प्रपद्यते । १५.२२६ . सर्वगोऽप्यनिलो यद्वद्व्यजनेनोपवीजितः ॥ २२६ १५.२२७ . प्रबुद्धः स्वां क्रियां कुर्याद्धर्मनिर्णोदनादिकाम् । १५.२२७ . तद्वत्सर्वगताः सर्वा ऐन्द्याद्याः शक्तयः स्फुटम् ॥ २२७ १५.२२८ . साधकाश्वाससंबुद्धास्तत्तत्स्वेष्टफलप्रदाः । १५.२२८ . एवं सौरी दिगीशानब्रह्मविष्ण्वीशसौशिवैः ॥ २२८ १५.२२९ . अधिष्ठिता समाश्वासदार्ढ्यात्तत्तत्फलप्रदा । १५.२२९ . साधको यच्च वा क्षेत्रं मण्डलं वेश्म वा भजेत् ॥ २२९ १५.२३० . स्थितस्तदनुसारेण मध्यीभवति शंकरः । १५.२३० . स हि सर्वमधिष्ठाता माध्यस्थ्येनेति तस्य यः ॥ २३० १५.२३१ . सौरः प्रकाशस्तत्पूर्वमित्थं स्याद्दिग्व्यवस्थितिः । १५.२३१ . तन्मध्यस्थितनाथस्य ग्रहीतुं दक्षिणं महः ॥ २३१ १५.२३२ . उदङ्मुखः स्यात्पाश्चात्यं ग्रहीतुं पूर्वतोमुखः । १५.२३२ . उपविश्य निजस्थाने देहशुद्धिं समाचरेत् ॥ २३२ १५.२३३ . अङ्गुष्ठाग्रात्कालवह्निज्वालाभास्वरमुत्थितम् । १५.२३३ . अस्त्रं ध्यात्वा तच्छिखाभिर्बहिरन्तर्दहेत्तनुम् ॥ २३३ १५.२३४ . दाहश्च ध्वंस एवोक्तो ध्वंसकं मन्त्रसंज्ञितम् । १५.२३४ . तेजस्तथाभिलापाख्यस्वविकल्परसोम्भितम् ॥ २३४ १५.२३५ . तेन मन्त्राग्निना दाहो देहे पुर्यष्टके तथा । १५.२३५ . देहपुर्यष्टकाहन्ताविध्वंसादेव जायते ॥ २३५ १५.२३६ . नहि सद्भावमात्रेण देहोऽसावन्यदेहवत् । १५.२३६ . अहन्तायां हि देहत्वं सा ध्वस्ता तद्दहेद्ध्रुवम् ॥ २३६ १५.२३७ . तद्देहसंस्कारभरो भस्मत्वेनाथ यः स्थितः । १५.२३७ . तं वर्मवायुनाधूय तिष्ठेच्छुद्धचिदात्मनि ॥ २३७ १५.२३८ . तस्मिन्ध्रुवे निस्तरङ्गे समापत्तिमुपागतः । १५.२३८ . संविदः सृष्टिधर्मित्वादाद्यामेति तरङ्गिताम् ॥ २३८ १५.२३९ . सैव मूर्तिरिति ख्याता तारसद्बिन्दुहात्मिका । १५.२३९ . ततो नवात्मदेवेन न्यासस्तत्त्वोदयात्मकः ॥ २३९ १५.२४० . अङ्गवक्त्राणि तस्यैव स्वस्थानेषु नियोजयेत् । १५.२४० . अथ मातृकया प्राग्वत्तत्तत्त्वस्फुटतात्मकः ॥ २४० १५.२४१ . त्रितत्त्वन्यासता चास्य पृष्ठे कक्ष्यात्रयागते । १५.२४१ . ततोऽघोराष्टकन्यासः शिरस्तच्चरणात्मकम् ॥ २४१ १५.२४२ . ततोऽपि शिवसद्भावन्यासः स्वांगस्य संयुतः । १५.२४२ . इत्थ कृते पञ्चकेऽस्मिन्यत्तन्मुख्यतया भवेत् ॥ २४२ १५.२४३ . उपास्यमर्च्यं तत्साङ्गं षष्ठे न्यासे नियोजयेत् । १५.२४३ . तेनात्र न्यासयोग्योऽसौ भगवान्रतिशेखरः ॥ २४३ १५.२४४ . ऊर्ध्वे न्यास्यो नवाख्यस्य मुख्यत्वेऽन्योन्यधामता । १५.२४४ . एवं भैरवसद्भावनाथे मुख्यतया यदि ॥ २४४ १५.२४५ . उपास्यता तत्तत्स्थान प्राङ्न्यास्यो रतिशेखरः । १५.२४५ . इत्थं श्रीपूर्वशास्त्रे मे संप्रदायं न्यरूपयत् ॥ २४५ १५.२४६ . शंभुनाथो न्यासविधौ देवो हि कथमन्यथा । १५.२४६ . न्यास विवर्ज्यतेऽमुष्मिन्नङ्गान्यप्यस्य सन्ति हि ॥ २४६ १५.२४७ . मूर्तिः सृष्टिस्त्रितत्त्वं चेत्यष्टौ मूर्त्यङ्गसंयुताः । १५.२४७ . शिवः साङ्गश्च विज्ञेयो न्यासः षोढा प्रकीर्तितः ॥ २४७ १५.२४८ . अस्योपरि ततः शाक्तं न्यासं कुर्याच्च षड्विधम् । १५.२४८ . परापरां सवक्त्रां प्राक्ततः प्रागिति मालिनीम् ॥ २४८ १५.२४९ . पश्चात्परादित्रितयं शिखाहृत्पादगं क्रमात् । १५.२४९ . ततः कवक्त्रकण्ठेषु हृन्नाभीगुह्य+ऊरुतः ॥ २४९ १५.२५० . जानुपादेऽप्यघोर्याद्यं ततो विद्याङ्गपञ्चकम् । १५.२५० . ततस्त्वावाहयेच्छक्तिं मातृसद्भावरूपिणीम् ॥ २५० १५.२५१ . योगेश्वरीं परां पूर्णां कालसंकर्षिणीं ध्रुवाम् । १५.२५१ . अङ्गवक्त्रपरीवारशक्तिद्वादशकाधिकाम् ॥ २५१ १५.२५२ . साध्यानुष्ठानभेदेन न्यासकाले स्मरेद्गुरुः । १५.२५२ . परैव देवीत्रितयमध्ये याभेदिनी स्थिता ॥ २५२ १५.२५३ . सानवच्छेदचिन्मात्रसद्भावेयं प्रकीर्तिता । १५.२५३ . सारशास्त्रे यामले च देव्यास्तेन प्रकीर्तितः ॥ २५३ १५.२५४ . मूर्तिः सवक्त्रा शक्तिश्च शक्तित्रयमथाष्टकम् । १५.२५४ . पञ्चाङ्गानि परा शक्तिर्न्यासः शाक्तोऽपि षड्विधः ॥ २५४ १५.२५५ . यामलोऽयं महान्यासः सिद्धिमुक्तिफलप्रदः । १५.२५५ . मुक्त्येकार्थी पुनः पूर्वं शाक्तं न्यासं समाचरेत् ॥ २५५ १५.२५६ . गुरवस्त्वाहुरित्थं यन्न्यासद्वयमुदाहृतम् । १५.२५६ . मुमुक्षुणा तु पादादि तत्कार्यं संहृतिक्रमात् ॥ २५६ १५.२५७ . यावन्तः कीर्तिता भेदाः शंभुशक्त्यणुवाचकाः । १५.२५७ . तावत्स्वप्येषु मन्त्रेषु न्यासः षोढैव कीर्तितः ॥ २५७ १५.२५८ . किंत्वावाह्यस्तु यो मन्त्रः स तत्राङ्गसमन्वितः । १५.२५८ . षष्ठः स्यादिति सर्वत्र षोढैवायमुदाहृतः ॥ २५८ १५.२५९ . मुद्राप्रदर्शनं पश्चात्कायेन मनसा गिरा । १५.२५९ . पञ्चावस्था जाग्रदाद्याः षष्ठ्यनुत्तरनामिका ॥ २५९ १५.२६० . षट्कारणषडात्मत्वात्षट्त्रिंशत्तत्त्वयोजनम् । १५.२६० . एवं षोढामहान्यासे कृते विश्वमिदं हठात् ॥ २६० १५.२६१ . देहे तादात्म्यमापन्नं शुद्धां सृष्टिं प्रकाशयेत् । १५.२६१ . मूर्तिन्यासात्समारभ्य या सृष्टिः प्रसृतात्र सा ॥ २६१ १५.२६२ . अभेदमानीय कृता शुद्धा न्यासबलक्रमात् । १५.२६२ . तेन येऽचोदयन्मूढाः पाशदाहविधूनने ॥ २६२ १५.२६३ . कृते शान्ते शिवे रूढः पुनः किमवरोहति । १५.२६३ . इति ते दूरतो ध्वस्ताः परमार्थं हि शांभवम् ॥ २६३ १५.२६४ . न विदुस्त स्वसंवित्तिस्फुरत्तासारवर्जिताः । १५.२६४ . न खल्वेष शिवः शान्तो नाम कश्चिद्विभेदवान् ॥ २६४ १५.२६५ . सर्वेतराध्वव्यावृत्तो घटतुल्योऽस्ति कुत्रचित् । १५.२६५ . महाप्रकाशरूपा हि येयं संविद्विजृम्भते ॥ २६५ १५.२६६ . स शिवः शिवतैवास्य वैश्वरूप्यावभासिता । १५.२६६ . तथाभासनयोगोऽतः स्वरसेनास्य जृम्भते ॥ २६६ १५.२६७ . भास्यमानोऽत्र चाभेदः स्वात्मनो भेद एव च । १५.२६७ . भेदे विजृम्भिते माया मायामातुर्विजृम्भते ॥ २६७ १५.२६८ . अभेदे जृम्भतेऽस्यैव मायामातुः शिवात्मता । १५.२६८ . मायाप्रमाता तद्रूपविकल्पाभ्यासपाटवात् ॥ २६८ १५.२६९ . शिव एव तदभ्यासफलं न्यासादि कीर्तितम् । १५.२६९ . यथाहि दुष्टकर्मास्मीत्येवं भावयतस्तथा ॥ २६९ १५.२७० . तथा शिवोऽहं नान्योऽस्मीत्येवं भावयतस्तथा । १५.२७० . एतदेवोच्यते दार्ढ्यं विमर्शहृदयङ्गमम् ॥ २७० १५.२७१ . शिवैकात्म्यविकल्पौघद्वारिका निर्विकल्पता । १५.२७१ . अन्यथा तस्य शुद्धस्य विमर्शप्राणवर्तिनः ॥ २७१ १५.२७२ . कथं नामाविमृष्टं स्याद्रूपं भासनधर्मणः । १५.२७२ . तेनातिदुर्घटघटास्वतन्त्रेच्छावशादयम् ॥ २७२ १५.२७३ . भानपि प्राणबुद्ध्यादिः स्वं तथा न विकल्पयेत् । १५.२७३ . प्रत्युतातिस्वतन्त्रात्मविपरीतस्वधर्मताम् ॥ २७३ १५.२७४ . विनाश्यनीशायत्तत्वरूपां निश्चित्य मज्जति । १५.२७४ . ततः संसारभागीयतथानिश्चयशातिनीम् ॥ २७४ १५.२७५ . नित्यादिनिश्चयद्वारामविकल्पां स्थितिं श्रयेत् । १५.२७५ . ये तु तीव्रतमोद्रिक्तशक्तिनिर्मलताजुषः ॥ २७५ १५.२७६ . न ते दीक्षामनुन्यासकारिणश्चेति वर्णितम् । १५.२७६ . एवं विश्वशरीरः सन्विश्वात्मत्वं गतः स्फुटम् ॥ २७६ १५.२७७ . न्यासमात्रात्तथाभूतं देहं पुष्पादिनार्चयेत् । १५.२७७ . पृथङ्मन्त्रैर्विस्तरेण संक्षेपान्मूलमन्त्रतः ॥ २७७ १५.२७८ . धूपनैवेद्यतृप्त्याद्यैस्तथा व्याससमासतः । १५.२७८ . संसारवामाचारत्वात्सर्वं वामकरेण तु ॥ २७८ १५.२७९ . कुर्यात्तर्पणयोगं च दैशिकस्तदनामया । १५.२७९ . वामशब्देन गुह्यं श्रीमतङ्गादावपीरितम् ॥ २७९ १५.२८० . वामाचारपरो मन्त्री यागं कुर्यादिति स्फुटम् । १५.२८० . श्रीमद्भर्गशिखाशास्त्रे तथा श्रीगमशासने ॥ २८० १५.२८१ . सर्वतीर्थेषु यत्पुण्यं सर्वयज्ञेषु यत्फलम् । १५.२८१ . तत्फलं कोटिगुणितमनामातर्पणात्प्रिये ॥ २८१ १५.२८२ . श्रीमन्नन्दिशिखायां च श्रीमदानन्दशासने । १५.२८२ . तदुक्तं स्रुक्च पूर्णायां स्रुवश्वाज्याहुतौ भवेत् ॥ २८२ १५.२८३ . शेषं वामकरेणैव पूजाहोमजपादिकम् । १५.२८३ . एवमानन्दसंपूर्णं सर्वौन्मुख्यविवर्जितम् ॥ २८३ १५.२८४ . यागेन देहं मिष्पाद्य भावयेत शिवात्मकम् । १५.२८४ . गलिते विषयौन्मुख्ये पारिमित्ये विलापिते ॥ २८४ १५.२८५ . देहे किमवशिष्येत शिवानन्दरसादृते । १५.२८५ . शिवानन्दरसापूर्णं षट्त्रिंशत्तत्त्वनिर्भरम् ॥ २८५ १५.२८६ . देहं दिवानिशं पश्यन्नर्चयन्स्याच्छिवात्मकः । १५.२८६ . विश्वात्मदेहविश्रान्तितृप्तस्तल्लिङ्गनिष्ठितः ॥ २८६ १५.२८७ . बाह्यं लिङ्गव्रतक्षेत्रचर्यादि नहि वाञ्छति । १५.२८७ . तावन्मात्रात्त्वविश्रान्तेः संविदः कथिताः क्रियाः ॥ २८७ १५.२८८ . उत्तरा बाह्ययागान्ताः साध्या त्वत्र शिवात्मता । १५.२८८ . ततोऽर्घपात्रं कर्तव्यं शिवाभेदमयं परम् ॥ २८८ १५.२८९ . आनन्दरससंपूर्णं विश्वदैवततर्पणम् । १५.२८९ . यथैव देहे दाहादिपूजान्तं तद्वदेव हि ॥ २८९ १५.२९० . अर्घपात्रेऽपि कर्तव्यं समासव्यासयोगतः । १५.२९० . कानि द्रव्याणि यागाय को न्वर्घ इति नोदितम् ॥ २९० १५.२९१ . सिद्धिकामस्य तत्सिद्धौ साधनैव हि कारणम् । १५.२९१ . मुक्तिकामस्य नो किंचिन्निषिद्धं विहितं च नो ॥ २९१ १५.२९२ . यदेव हृद्यं तद्योग्यं शिवसंविदभेदने । १५.२९२ . कृत्वार्घपात्रं तद्विप्रुट्प्रोक्षितं कुसुमादिकम् ॥ २९२ १५.२९३ . कृत्वा च तेन स्वात्मानं पूजयेत्परमं शिवम् । १५.२९३ . अर्घपात्रार्चनादत्तपुष्पसंकीर्णताभयात् ॥ २९३ १५.२९४ . नार्घपात्रेऽत्र कुसुमं कुर्याद्देवार्चनाकृते । १५.२९४ . अर्घपात्रे तदमृतीभूतमम्ब्वेव पूजितम् ॥ २९४ १५.२९५ . मन्त्राणां तृप्तये यागद्रव्यशुद्ध्यै च केवलम् । १५.२९५ . एवं देहं पूजयित्वा प्राणधीशून्यविग्रहान् ॥ २९५ १५.२९६ . अन्योन्यतन्मयीभूतान् पूजयेच्छिवतादृशे । १५.२९६ . तत्र प्राणाश्रये नयासे बुद्ध्या विरचिते सति ॥ २९६ १५.२९७ . शून्याधिष्ठानतः सर्वमेकयत्नेन पूज्यते । १५.२९७ . न्यस्येदाधारशक्तिं तु नाभ्यधश्चतुरङ्गुलाम् ॥ २९७ १५.२९८ . धरां सुरोदं तेजश्च मेयपारप्रतिष्ठितेः । १५.२९८ . पोतरूपं मरुत्कन्दस्वभावं विश्वसूत्रणात् ॥ २९८ १५.२९९ . प्रत्येकमङ्गुलं न्यस्येच्चतुष्कं व्योमगर्भकम् । १५.२९९ . ईषत्समन्तादमलमिदमामलसारकम् ॥ २९९ १५.३०० . ततो दण्डमनन्ताख्यं कल्पयेल्लम्बिकावधि । १५.३०० . तन्मात्रादिकलान्तं तदूर्ध्वे ग्रन्थिर्निशात्मकः ॥ ३०० १५.३०१ . तत्र मायामये ग्रन्थौ धर्माधर्माद्यमष्टकम् । १५.३०१ . वह्निप्रागादि माया हि तत्सूतिर्विभवस्तु धीः ॥ ३०१ १५.३०२ . मायाग्रन्थेरूर्ध्वभूमौ त्रिशूलाधश्चतुष्किकाम् । १५.३०२ . शुद्धविद्यात्मिकां ध्यायेच्छदनद्वयसंयुताम् ॥ ३०२ १५.३०३ . तच्च तत्त्वं स्थितं भाव्यं लम्बिकाब्रह्मरन्ध्रयोः । १५.३०३ . प्रकाशयोगो ह्यत्रैवं दृक्श्रोत्ररसनादिकः ॥ ३०३ १५.३०४ . दक्षान्यावर्ततो न्यस्येच्छक्तीनां नवकद्वयम् । १५.३०४ . विद्यापद्मेऽत्र तच्चोक्तमपि प्राग्दर्श्यते पुनः ॥ ३०४ १५.३०५ . वामा ज्येष्ठा रौद्री काली कलबलविकरिके बलमथनी । १५.३०५ . भूतदमनी च मनोन्मनिका शान्ता शक्रचापरुचिरत्र स्यात् ॥ ३०५ १५.३०६ . विभ्वी ज्ञप्तिकृतीच्छा वागीशी ज्वालिनी तथा वामा । १५.३०६ . ज्येष्ठा रौद्रीत्येताः प्राग्दलतः कालदहनवत्सर्वाः ॥ ३०६ १५.३०७ . दलकेसरमध्येषु सूर्येन्दुदहनत्रयम् । १५.३०७ . निजाधिपैर्ब्रह्मविष्णुहरैश्चाधिष्ठितं स्मरेत् ॥ ३०७ १५.३०८ . मायोत्तीर्णं हि यद्रूपं ब्रह्मादीनां पुरोदितम् । १५.३०८ . आसनं त्वेतदेव स्यान्नतु मायाञ्जनाञ्जितम् ॥ ३०८ १५.३०९ . रुद्रोर्ध्वे चेश्वरं देवं तदूर्ध्वे च सदाशिवम् । १५.३०९ . न्यस्येत्स च महाप्रेत इति शास्त्रेषु भण्यते ॥ ३०९ १५.३१० . समस्ततत्त्वव्याप्तृत्वान्महाप्रेतः प्रबोधतः । १५.३१० . प्रकर्षगमनाच्चैष लीनो यन्नाधरं व्रजेत् ॥ ३१० १५.३११ . विद्याविद्येशिनः सर्वे ह्युत्तरोत्तरतां गताः । १५.३११ . सदाशिवीभूय ततः परं शिवमुपाश्रिताः ॥ ३११ १५.३१२ . अतः सदाशिवो नित्यमूर्ध्वदृग्भास्वरात्मकः । १५.३१२ . कृशो मेयत्वदौर्बल्यात्प्रेतोऽट्टहसनादितः ॥ ३१२ १५.३१३ . तस्य नाभ्युत्थितं मूर्धरन्ध्रत्रयविनिर्गतम् । १५.३१३ . नादान्तात्म स्मरेच्छक्तिव्यापिनीसमनोज्ज्वलम् ॥ ३१३ १५.३१४ . अरात्रयं द्विषट्कान्तं तत्राप्यौन्मनसं त्रयम् । १५.३१४ . पङ्कजानां सितं सप्तत्रिंशदात्मेदमासनम् ॥ ३१४ १५.३१५ . अत्र सर्वाणि तत्त्वानि भेदप्राणानि यत्ततः । १५.३१५ . आसनत्वेन भिन्नं हि संविदो विषयः स्मृतः ॥ ३१५ १५.३१६ . एतान्येव तु तत्त्वानि लीनानि परभैरवे । १५.३१६ . तादात्म्येनाथ सृष्टानि भिदेवार्च्यत्वयोजने ॥ ३१६ १५.३१७ . श्रीमद्भैरवबोधैक्यलाभस्वातन्त्र्यवन्ति तु । १५.३१७ . एतान्येव तु तत्त्वानि पूजकत्वं प्रयान्त्यलम् ॥ ३१७ १५.३१८ . पूजकः परतत्त्वात्मा पूज्यं तत्त्वं परापरम् । १५.३१८ . सृष्टत्वादपरं तत्त्वजालमासनतास्पदम् ॥ ३१८ १५.३१९ . विद्याकलान्तं सिद्धान्ते वामदक्षिणशास्त्रयोः । १५.३१९ . सदाशिवान्तं समनापर्यन्तं मतयामले ॥ ३१९ १५.३२० . उन्मनान्तमिहाख्यातमित्येतत्परमासनम् । १५.३२० . अर्चयित्वासनं पूज्या गुरुपङ्क्तिस्तु भाविवत् ॥ ३२० १५.३२१ . तत्रासने पुरा मूर्तिभूतां सार्धाक्षरां द्वयीम् । १५.३२१ . न्यस्येद्व्याप्तृतयेत्युक्तं सिद्धयोगीश्वरीमते ॥ ३२१ १५.३२२ . सदाशिवं महाप्रेतं मूर्तिं सार्धाक्षरां यजेत् । १५.३२२ . परत्वेन परामूर्ध्वे गन्धपुष्पादिभिस्त्विति ॥ ३२२ १५.३२३ . विद्यामूर्तिमथात्माख्यां द्वितीयां परिकल्पयेत् । १५.३२३ . मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम् ॥ ३२३ १५.३२४ . नवात्मानं वामतस्तद्देवीवद्भैरवत्रयम् । १५.३२४ . मध्ये परां पूर्णचन्द्रप्रतिमां दक्षिणे पुनः ॥ ३२४ १५.३२५ . परापरां रक्तवर्णां किंचिदग्रां न भीषणाम् । १५.३२५ . अपरां वामशृङ्गे तु भीषणां कृष्णपिङ्गलाम् ॥ ३२५ १५.३२६ . प्राग्वद्द्विधात्र षोढैव न्यासो देहे यथा कृतः । १५.३२६ . ततः सांकल्पिकं युक्तं वपुरासां विचिन्तयेत् ॥ ३२६ १५.३२७ . कृत्यभेदानुसारेण द्विचतुःषड्भुजादिकम् । १५.३२७ . कपालशूलखट्वाङ्गवराभयघटादिकम् ॥ ३२७ १५.३२८ . वामदक्षिणसंस्थानचित्रत्वात्परिकल्पयेत् । १५.३२८ . वस्तुतो विश्वरूपास्ता देव्यो बोधात्मिका यतः ॥ ३२८ १५.३२९ . अनवच्छिन्नचिन्मात्रसाराः स्युरपवृक्तये । १५.३२९ . सर्वं ततोऽङ्गवक्त्रादि लोकपालास्त्रपश्चिमम् ॥ ३२९ १५.३३० . मध्ये देव्यभिधा पूज्या त्रयं भवति पूजितम् । १५.३३० . ततो मध्यगतात्तस्माद्बोधराशेः सदैवतात् ॥ ३३० १५.३३१ . अङ्गादि निःसृतं पूज्यं विस्फुलिङ्गात्मकं पृथक् । १५.३३१ . मध्यगा किल या देवी सैव सद्भावरूपिणी ॥ ३३१ १५.३३२ . कालसंकर्षिणी घोरा शान्ता मिश्रा च सर्वतः । १५.३३२ . सिद्धातन्त्रे च सैकार्णा परा देवीति कीर्तिता ॥ ३३२ १५.३३३ . परा तु मातृका देवी मालिनी मध्यगोदिता । १५.३३३ . मध्ये न्यस्येत्सूर्यरुचिं सर्वाक्षरमयीं पराम् ॥ ३३३ १५.३३४ . तस्याः शिखाग्रे त्वैकार्णां तस्याश्चाङ्गादिकं त्विति । १५.३३४ . ततो विश्वं विनिष्क्रान्तं पूजितं दक्षिणोत्तरे ॥ ३३४ १५.३३५ . स्यादेव पूजितं तेन सकृन्मध्ये प्रपूजयेत् । १५.३३५ . श्रीदेव्यायामले चोक्तं यागे डामरसंज्ञिते ॥ ३३५ १५.३३६ . नासाग्रे त्रिविधं कालं कालसंकर्षिणी सदा । १५.३३६ . मुखस्था श्वासनिःश्वासकलनी हृदि कर्षति ॥ ३३६ १५.३३७ . पूरकैः कुम्भकैर्धत्ते ग्रसते रेचकेन तु । १५.३३७ . कालं संग्रसते सर्वं रेचकेनोत्थिता क्षणात् ॥ ३३७ १५.३३८ . इच्छाशक्तिः परा नाम्ना शक्तित्रितयबोधिनी । १५.३३८ . याज्या कर्षति यत्सर्वं कालाधारप्रभञ्जनम् ॥ ३३८ १५.३३९ . इह किल दृक्कर्मेच्छाः शिव उक्तास्तास्तु वेद्यखण्डनके । १५.३३९ . स्थूले सूक्ष्मे क्रमशः सकलप्रलयाकलौ भवतः ॥ ३३९ १५.३४० . शुद्धा एव तु सुप्ता ज्ञानाकलतां गताः प्रबुद्धास्तु । १५.३४० . प्रविभिन्नकतिपयात्मकवेद्यविदो मन्त्र उच्यन्ते ॥ ३४० १५.३४१ . भिन्ने त्वखिले वेद्ये मन्त्रेशास्तन्महेशास्तु । १५.३४१ . भिन्नाभिन्ने तदियान् सुशिवान्तोऽध्वोदितः प्रेते ॥ ३४१ १५.३४२ . ता एव गलति भेदप्रसरे क्रमशो विकासमायान्त्यः । १५.३४२ . अन्योन्यासंकीर्णास्त्वरात्रयं गलितभेदिकास्तु ततः ॥ ३४२ १५.३४३ . पद्मत्रय्यौन्मनसी तदिदं स्यादासनत्वेन । १५.३४३ . ता एवान्योन्यात्मकभेदावच्छेदनाजिहासुतया ॥ ३४३ १५.३४४ . किल शक्तितद्वदादिप्रभिदा पूज्यत्वमायाताः । १५.३४४ . भेदगलनाद्यकोटेरारभ्य यतो निजं निजं रूपम् ॥ ३४४ १५.३४५ . बिभ्रति तास्तु त्रित्वं तासां स्फुटमेव लक्ष्येत । १५.३४५ . संभाव्यवेद्यकालुष्ययोगतोऽन्योन्यलब्धसंकरतः ॥ ३४५ १५.३४६ . प्राक्प्रस्फुटं त्रिभावं नागच्छन्नत्र तु तथा न । १५.३४६ . अन्योन्यात्मकभेदावच्छेदनकलनसंग्रसिष्णुतया । १५.३४६ . स्वातन्त्र्यमात्रसारा संवित्सा कालकर्षिणी कथिता ॥ ३४६ १५.३४७ . सैव च भूयः स्वस्मात्संकर्षति कालमिह बहिष्कुरुते । १५.३४७ . संकर्षिणीति कथिता मातृष्वेतेषु सद्भावः ॥ ३४७ १५.३४८ . तत्त्वं सत्ता प्राप्तिर्मातृषु मेयोऽनया संश्च । १५.३४८ . विश्वजननीषु शक्तिषु परमार्थो हि स्वतन्त्रतामात्रम् ॥ ३४८ १५.३४९ . एषणविदिक्रियात्मकमेतत्पूज्यं यतोऽनवच्छिन्नम् । १५.३४९ . यस्मिन्सर्वावच्छेददिशोऽपि स्युः समाक्षिप्ताः ॥ ३४९ १५.३५० . अविकल्पमिह न याति हि पूज्यत्वं नच विकल्प एकत्र । १५.३५० . बहवो धर्मास्तस्माद्यो धर्मस्तावतो धर्मान् ॥ ३५० १५.३५१ . आक्षिपति तत्र रूढः सर्वोत्कृष्टोऽधरस्थितास्त्वन्ये । १५.३५१ . इति भैरवपरपूजातत्त्वं श्रीडामरे महायागे ॥ ३५१ १५.३५२ . स्वयमेव सुप्रसन्नः श्रीमान् शंभुर्ममादिक्षत् । १५.३५२ . बाह्ययागे तु पद्मानां त्रितयेऽपि प्रपूजयेत् ॥ ३५२ १५.३५३ . अस्त्रान्तं परिवारौघमिति नो दैशिकागमः । १५.३५३ . अग्नीशरक्षोवाय्वन्तदिक्षु विद्याङ्गपञ्चकम् ॥ ३५३ १५.३५४ . शक्त्यङ्गानि शिवाङ्गानि तथैवात्र पुनर्द्वये । १५.३५४ . अस्त्रं न्यस्येच्चतुर्दिक्कं मध्ये लोचनसंज्ञकम् ॥ ३५४ १५.३५५ . पत्राष्टकेऽष्टकयुगमघोरादेः स्वयामलम् । १५.३५५ . तथा द्वादशकं षट्कं चतुष्कं मिश्रितं द्विशः ॥ ३५५ १५.३५६ . सर्वशो द्विगुणादीत्थमावृतित्वेन पूजयेत् । १५.३५६ . लोकपालांस्ततः सास्त्रान्स्वदिक्षु दशसु क्रमात् ॥ ३५६ १५.३५७ . इत्थं त्रिशूलपर्यन्तदेवीतादात्म्यवृत्तितः । १५.३५७ . तिष्ठन्नत्रार्पयन्विश्वं तर्पयेद्देवतागणम् ॥ ३५७ १५.३५८ . ततो जपं प्रकुर्वीत प्रतिमन्त्रं द्विपञ्चधा । १५.३५८ . एकैकस्य त्र्यात्मकत्वादभेदाच्चापि सर्वशः ॥ ३५८ १५.३५९ . नाभिहृत्कण्ठतालूर्ध्वकुण्डे ज्वलनवत्स्मरन् । १५.३५९ . मन्त्रचक्रं तत्र विश्वं ज्वह्वन्संपादयेद्धुतिम् ॥ ३५९ १५.३६० . दीक्षाकर्मणि कर्तव्ये दीक्षां येनाध्वना गुरुः । १५.३६० . चिकीर्षुर्देह एवादौ भूयस्तं मुख्यतोऽर्पयेत् ॥ ३६० १५.३६१ . द्वादशान्तमिदं प्राग्रं त्रिशूलं मूलतः स्मरन् । १५.३६१ . देवीचक्राग्रगं त्यक्तक्रमः खेचरतां व्रजेत् ॥ ३६१ १५.३६२ . मूलाधाराद्द्विषट्कान्तव्योमाग्रापूरणात्मिका । १५.३६२ . खेचरीयं खसंचारस्थितिभ्यां खामृताशनात् ॥ ३६२ १५.३६३ . अमुष्माच्छाम्भवाच्छूलाद्ध्रासयेच्चतुरङ्गुलम् । १५.३६३ . शाक्ते ततोऽप्याणवे तत्त्रिशूलत्रितयं स्थितम् ॥ ३६३ १५.३६४ . तत्त्रिशूलत्रयोर्ध्वोर्ध्वदेवीचक्रार्पितात्मकः । १५.३६४ . किं किं न जायते किं वा न वेत्ति न करोति वा ॥ ३६४ १५.३६५ . एकैकामथवा देवीं मन्त्रं वा पद्मगं यजेत् । १५.३६५ . यामलैक्याङ्गवक्त्रादिसदसत्ताविकल्पतः ॥ ३६५ १५.३६६ . इत्थं प्राणाद्व्योमपदपर्यन्तं चेतनं निजम् । १५.३६६ . शिवीभाव्यार्चनायोगात्ततो बाह्यं विधिं चरेत् ॥ ३६६ १५.३६७ . बहिर्यागस्य मुख्यत्वे सिद्ध्यादिपरिकल्पिते । १५.३६७ . अन्तर्यागः संस्क्रियायै ह्यन्यथार्चयिता पशुः ॥ ३६७ १५.३६८ . यस्तु सिद्ध्यादिविमुखः स बहिर्यजति प्रभुम् । १५.३६८ . अन्तर्महायागरूढ्यै तयैवासौ कृतार्थकः ॥ ३६८ १५.३६९ . कृत्वान्तर्यागमादाय धान्याद्यस्त्रेण मन्त्रितम् । १५.३६९ . दिक्षु क्षिपेद्विघ्ननुदे संहृत्यैशीं दिशं नयेत् ॥ ३६९ १५.३७० . निरीक्षणं प्रोक्षणं च ताडनाप्यायने तथा । १५.३७० . विगुण्ठनं च संस्काराः साधारास्त्रिशिरोमते ॥ ३७० १५.३७१ . गोमूत्रगोमयदधिक्षीराज्यं मन्त्रयेन्मुखैः । १५.३७१ . ऊर्ध्वान्तैरङ्गषट्केन कुशाम्ब्वेतेन चोक्षयेत् ॥ ३७१ १५.३७२ . भूमिं शेषं च शिष्यार्थं स्थापयेत्पञ्चगव्यकम् । १५.३७२ . पञ्च गव्यानि यत्रास्मिन्कुशाम्बुनि तदुच्यते ॥ ३७२ १५.३७३ . पञ्चगव्यं जलं शास्त्रे बाह्याशुद्धिविमर्दकम् । १५.३७३ . लौकिक्यामविशुद्धौ हि मृदितायामथान्तरीम् ॥ ३७३ १५.३७४ . अशुद्धिं दग्धुमास्थेयं मन्त्रादि यदलौकिकम् । १५.३७४ . फादिनान्तां स्मरेद्देवीं पृथिव्यादिशिवान्तगाम् ॥ ३७४ १५.३७५ . पुष्पाञ्जलिं क्षिपेन्मध्ये धूपगन्धासवादि च । १५.३७५ . तथैव दद्याद्यागौकोमध्ये तेनाशु विग्रहम् ॥ ३७५ १५.३७६ . समस्तं देवताचक्रमधिष्ठातृ प्रकल्प्यते । १५.३७६ . अनन्तनाले धर्मादिपत्रे सद्वैद्यकर्णिके ॥ ३७६ १५.३७७ . षडुत्थे गन्धपुष्पाद्यैर्गणेशं ह्यैशगं यजेत् । १५.३७७ . अत्थितं विघ्नसंशान्त्यै पूजयित्वा विसर्जयेत् ॥ ३७७ १५.३७८ . ................................................. । १५.३७८ . ................................................. । १५.३७८ . । १५.३७८ . ततः कुम्भं परामोदिद्रवद्रव्यप्रपूरितम् ॥ ३७८ १५.३७९ . पूजितं चर्चितं मूलमनुना मन्त्रयेच्छतम् । १५.३७९ . असिना कर्करीं पूर्वमस्त्रयागो न चेत्कृतः ॥ ३७९ १५.३८० . तमैशान्यां यजेत्कुम्भं वामस्थकलशान्वितम् । १५.३८० . ततः सौरदिगाश्रित्या सास्त्रांल्लोकेश्वरान्यजेत् ॥ ३८० १५.३८१ . गन्धपुष्पोपहाराद्यैर्विधिना मन्त्रपूर्वकम् । १५.३८१ . ततः शिष्योऽसिकलशीहस्तो धारां प्रपातयन् ॥ ३८१ १५.३८२ . गुरुणा कुम्भहस्तेनानुव्रज्यो वदता त्विदम् । १५.३८२ . भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये ॥ ३८२ १५.३८३ . सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया । १५.३८३ . त्र्यक्षरे निरृतिप्राये नाम्नि भोःशब्दमेककम् ॥ ३८३ १५.३८४ . अपासयेद्यतो मन्त्रश्छन्दोबद्धोऽयमीरितः । १५.३८४ . तत ऐश्यां दिशि स्थाप्यः स कुम्भो विकिरोपरि ॥ ३८४ १५.३८५ . दक्षिणे चास्त्रवार्धानी स्थाप्या कुम्भस्य सांप्रतम् । १५.३८५ . कुम्भस्थाम्बुसमापत्तिवृंहितं मन्त्रवृन्दकम् ॥ ३८५ १५.३८६ . तेजोमात्रात्मना ध्यातं सर्वमाप्याययेद्विधिम् । १५.३८६ . अतः कुम्भे मन्त्रगणं सर्वं संपूजयेद्गुरुः ॥ ३८६ १५.३८७ . पूर्वेण विधिनास्त्रं च कर्कर्यां विघ्ननुद्यजेत् । १५.३८७ . मध्येगृहं ततो गन्धमण्डले पूजयेद्गुरुः ॥ ३८७ १५.३८८ . त्रिकं यामलतैक्याभ्यामेकं वा मन्त्रदैवतम् । १५.३८८ . अग्निकार्यविधानाय ततः कुण्डं प्रकल्पयेत् ॥ ३८८ १५.३८९ . शुद्धमन्त्रादिसंजल्पसंकल्पोत्थमपूर्वकम् । १५.३८९ . शिवस्य या क्रियाशक्तिस्तत्कुण्डमिति भावनात् ॥ ३८९ १५.३९० . परमः खलु संस्कारो विनाप्यन्यैः क्रियाक्रमैः । १५.३९० . एवं देहे स्थण्डिले वा लिङ्गे पात्रे जलेऽनले ॥ ३९० १५.३९१ . पुष्पादिषु शिशौ मुख्यः संस्कारः शिवतादृशे । १५.३९१ . उक्तं श्रीयोगसंचारे तथाहि परमेशिना ॥ ३९१ १५.३९२ . चतुर्दशविधे भूते पुष्पे धूपे निवेदने । १५.३९२ . दीपे जपे तथा होमे सर्वत्रैवात्र चण्डिका ॥ ३९२ १५.३९३ . जुहोति जपति प्रेद्धे पूजयेद्विहसेद्व्रजेत् । १५.३९३ . आहारे मैथुने सैव देहस्था कर्मकारिणी ॥ ३९३ १५.३९४ . तादृशीं ये तु नो रूढां संवित्तिमधिशेरते । १५.३९४ . अक्रमात्तत्प्रसिद्ध्यर्थं क्रमिको विधिरुच्यते ॥ ३९४ १५.३९५ . अहं शिवो मन्त्रमयः संकल्पा मे तदात्मकाः । १५.३९५ . तज्जं च कुण्डवह्न्यादि शिवात्मेति स्फुटं स्मरेत् ॥ ३९५ १५.३९६ . अत एव हि तत्रापि दार्ढ्यादार्ढ्यावलोकनात् । १५.३९६ . क्रियमाणे कृते वापि संस्क्रियाल्पेतरापिवा ॥ ३९६ १५.३९७ . यथाहि कश्चित्प्रतिभादरिद्रोऽभ्यासपाटवात् । १५.३९७ . वाक्यं गृह्णाति कोऽप्यादौ तथात्राप्यवबुध्यताम् ॥ ३९७ १५.३९८ . उल्लेखसेककुट्टनलेपचतुर्मार्गमक्षवृतिपरिकलनम् । १५.३९८ . स्तरपरिधिविष्टरस्थितिसंस्कारा दशास्त्रतः कुण्डगताः ॥ ३९८ १५.३९९ . मध्यग्रहणं दर्भद्वयेन कुशसंवृतिश्च भित्तीनाम् । १५.३९९ . प्राङ्मुखरेखात्रितयोर्ध्वरेखिकाः कुशसमावृतिश्च बहिः ॥ ३९९ १५.४०० . शस्तलताश्चतुरश्रं दशलोकेशार्चनासनविधिश्च । १५.४०० . सद्मासादनमस्त्राग्नितेजसा रक्षणं च कुण्डस्य ॥ ४०० १५.४०१ . भूमेः शिवाग्निधृत्यै शक्तिर्विघ्नापसारणं चार्थाः । १५.४०१ . ततस्तु पूजिते कुण्डे क्रियाशक्तितया स्फुटम् ॥ ४०१ १५.४०२ . मातृकां मालिनीं वापि न्यस्येत्संकल्परूपिणीम् । १५.४०२ . संकल्पदेव्या यत्सृष्टिधाम त्र्यश्रं क्रियात्मकम् ॥ ४०२ १५.४०३ . ज्ञानशुक्रकणं तत्र त्रिः प्रक्षोभ्य विनिक्षिपेत् । १५.४०३ . इच्छातः क्षुभितं ज्ञानं विमर्शात्मक्रियापदे ॥ ४०३ १५.४०४ . रूढं ज्ञत्वादिपञ्चाङ्गविस्पष्टं जाज्वलीत्यलम् । १५.४०४ . तेनाङ्गपञ्चकैरेव हुतिं दद्यात्सकृत्सकृत् ॥ ४०४ १५.४०५ . जन्माद्यखिलसंस्कारशुद्धोऽग्निस्तावता भवेत् । १५.४०५ . पञ्चाङ्गमेव पृथ्व्यादिरूपं कठिनतादिकाः ॥ ४०५ १५.४०६ . शक्तीर्दधद्वह्निगताः कुर्याद्गर्भादिकाः क्रियाः । १५.४०६ . ततोऽखिलाध्वसद्देवीचक्रगर्भां परापराम् ॥ ४०६ १५.४०७ . स्मरन्पूर्णाहुतिवशात्पूरयेदग्निसंस्क्रियाः । १५.४०७ . तथा मन्त्रेशयुक्सत्यसंकल्पमहसा ज्वलन् ॥ ४०७ १५.४०८ . वह्निस्तच्छिवसंकल्पतादात्म्याच्छिवतात्मकः । १५.४०८ . इत्येतत्संस्क्रियातत्त्वं श्रीशंभुर्मे न्यरूपयत् ॥ ४०८ १५.४०९ . मयापि दर्शितं शुद्धबुद्धयः प्रविविञ्चताम् । १५.४०९ . तेनात्र ये चोदयन्ति यथा बालस्य संस्क्रिया ॥ ४०९ १५.४१० . बह्नौ वह्नेस्तथान्यत्रेत्यनवस्थैव संस्कृतेः । १५.४१० . ते निरुत्थानविहता नयेऽस्मिन्गुरुदर्शने ॥ ४१० १५.४११ . जातेऽग्नौ संस्कृते शैवे शब्दराशिं च मालिनीम् । १५.४११ . पितरौ पूजयित्वा स्वं शुद्धं धाम विसर्जयेत् ॥ ४११ १५.४१२ . शुद्धाग्नेर्भागमादाय चर्वर्थं स्थापयेत्पृथक् । १५.४१२ . अथवाग्नेः शिखां वामप्राणेनादाय हृज्जुषा ॥ ४१२ १५.४१३ . चिदग्निनैक्यमानीय क्षिपेद्दक्षेण संस्कृताम् । १५.४१३ . शिव इत्यभिमानेन दृढेन हि विलोकनम् ॥ ४१३ १५.४१४ . सर्वस्य संस्क्रिया तत्त्वं तत्तस्मै यद्यतोऽमलम् । १५.४१४ . नवाहुतीरथो दद्यान्नवात्मसहितेन तु ॥ ४१४ १५.४१५ . शिवाग्नये तारपूर्वं स्वाहान्तं संस्क्रिया भवेत् । १५.४१५ . शिवचैतन्यसामान्यव्योपरूपेऽनले ततः ॥ ४१५ १५.४१६ . प्राग्वदाधारमाधेयं देवीचक्रं च योजयेत् । १५.४१६ . स्रुवं स्रुचं च संपश्येदधोवक्त्रौ क्रमाद्गुरुः ॥ ४१६ १५.४१७ . शिवशक्तितयाभ्यर्च्यौ तथेत्थं संस्क्रियानयोः । १५.४१७ . तत्त्वसंदर्शनान्नान्यत्संस्कारस्यास्ति जीवितम् ॥ ४१७ १५.४१८ . इति वक्तुं स्रुवादीशः श्रीपूर्वे न समस्करोत् । १५.४१८ . ततस्तिलैर्मृगीं मध्यानामाङ्गुष्ठवशाद्गुरुः ॥ ४१८ १५.४१९ . कृत्वा मूलं तर्पयेत्शतेनाज्यस्रुवैस्तथा । १५.४१९ . अङ्गवक्त्रं षडंशेन शेषांश्चापि दशांशतः ॥ ४१९ १५.४२० . सहस्रादिकहोमोऽपि तृप्त्यै वित्तानुसारतः । १५.४२० . सति वित्तेऽपि लोभादिग्रस्तो बाह्यप्रधानताम् ॥ ४२० १५.४२१ . प्रथयंश्चिद्गुणीभावाच्छक्तिपातं न विन्दति । १५.४२१ . उक्तं स्वच्छन्दतन्त्रे तद्दीक्षितोऽपि न मोक्षभाक् ॥ ४२१ १५.४२२ . ननु यत्तस्य दीक्षायां कृतं कर्मास्य किं फलम् । १५.४२२ . तत्राहुर्गमशास्त्रज्ञा वामाशक्तिमयास्तदा ॥ ४२२ १५.४२३ . मन्त्रा बध्नन्ति तं सम्यग्भवकारामहागृहे । १५.४२३ . या त्वनुग्राहिका शक्तिस्तेषां सा गुरुदीपिता ॥ ४२३ १५.४२४ . शोधयेत स्वशास्त्रस्थनिष्कामोल्लङ्घनक्रियाम् । १५.४२४ . तत ऊर्ध्वाधरन्यासादन्योन्यौन्मुख्यसुन्दरम् ॥ ४२४ १५.४२५ . स्रुक्स्रुवं शिवशक्त्यात्मादायाज्यामृतपूरितम् । १५.४२५ . समचित्तप्राणतनुरैकात्म्यविधियोगतः ॥ ४२५ १५.४२६ . वामं स्रुग्दण्डगं हस्तं दक्षिणं सोपयामकम् । १५.४२६ . कण्ठाधोगं विनिक्षिप्य दृढमापीड्य यत्नवान् ॥ ४२६ १५.४२७ . अधः कुर्यात्स्रुचं प्राणमूर्ध्वोर्ध्वं संनियोजयन् । १५.४२७ . यावद्द्विषट्कपर्यन्ते बोधाग्नौ चन्द्रचक्रतः ॥ ४२७ १५.४२८ . स्रुगग्रात्परमं ह्लादि पतेदमृतमुत्तमम् । १५.४२८ . तावद्वह्नौ मन्त्रमुखे वौषडन्तां हुतिं क्षिपेत् ॥ ४२८ १५.४२९ . य ऊर्ध्वे किल संबोधः कुण्डे स प्रतिबिम्बितः । १५.४२९ . वह्निः प्राणः स्रुक्स्रुवौ च स्नेहः संकल्पचिद्रसः ॥ ४२९ १५.४३० . इत्थं ज्ञात्वादितः कुण्डस्रुक्स्रुवाज्यमनून्भृशम् । १५.४३० . द्वादशान्तविबोधाग्नौ रुद्ध्वा पूर्णाहुतिं क्षिपेत् ॥ ४३० १५.४३१ . यथा यथा हि गगनमुत्पतेत्कलहंसकः । १५.४३१ . जले बिन्बं ब्रुडत्यस्य तथेत्यत्राप्ययं विधिः ॥ ४३१ १५.४३२ . स्वाभाविकं स्थिरं चैव द्रवं दीप्तं चलं नभः । १५.४३२ . माया बिन्दुस्तथैवात्मा नादः शक्तिः शिवस्तथा ॥ ४३२ १५.४३३ . इत्थं व्याप्यव्यापकतो विभेद्याभ्यन्तरान्तम् । १५.४३३ . तदधःस्थानि पृथ्व्यादिमूलान्तानि तथा पुमान् ॥ ४३३ १५.४३४ . अविद्यारागनियतिकालमायाकलास्तथा । १५.४३४ . अणुर्विद्या तदीशेशौ सादाख्यं शक्तिकुण्डली ॥ ४३४ १५.४३५ . व्यापिनी समनौन्मन्यं ततोऽनामनि योजयेत् । १५.४३५ . रेचकस्थो मध्यनाडीसन्धिविद्गुरुरित्यदः ॥ ४३५ १५.४३६ . प्रोक्तं त्रैशिरसे तन्त्रे परयोजनवर्णने । १५.४३६ . ततः प्राक्स्थापितान्यस्तमन्त्रसंस्कृतवह्निना ॥ ४३६ १५.४३७ . चरुः साध्योऽथवा शिष्यैर्होमेन समकालकः । १५.४३७ . चरौ च वीरद्रव्याणि लौकिकान्यथवेच्छया ॥ ४३७ १५.४३८ . चरुसिद्धौ समस्ताश्च क्रिया हृन्मन्त्रयोगतः । १५.४३८ . ततश्चरुं समादाय गुरुराज्येन पूरिताम् ॥ ४३८ १५.४३९ . स्रुचं स्रुवं वा कृत्वैव भुक्तिमुक्त्यनुसारतः । १५.४३९ . देवानामथ शक्तीनां यन्त्राणां तु त्रयं त्रयम् ॥ ४३९ १५.४४० . सप्तमं मातृसद्भावं क्रमादेकैकशः पठन् । १५.४४० . स्वा इत्यमृतवर्णेन वह्नौ हुत्वाज्यशेषकम् ॥ ४४० १५.४४१ . चरौ हेत्यग्निरूपेण जुहुयात्तत्पुनः पुनः । १५.४४१ . भोज्यभोजकचर्वग्न्योरित्थमेकानुसन्धितः ॥ ४४१ १५.४४२ . स्वाहाप्रत्यवमर्शात्स्यात्समन्त्रादद्वयं परम् । १५.४४२ . एष संपातसंस्कारश्चरोर्भोक्ता ह्यधिष्ठितः ॥ ४४२ १५.४४३ . भोग्यस्य परमं सारं भोग्यं नर्नर्ति यत्नतः । १५.४४३ . सममेकानुसन्धानात्पाततो भोक्तृभोग्ययोः ॥ ४४३ १५.४४४ . अन्योऽन्यत्र च संपातात्संगमाच्चेत्थमुच्यते । १५.४४४ . स्थण्डिले कुभ्भकर्कर्योर्भागं भागं निवेदयेत् ॥ ४४४ १५.४४५ . भागेनाग्नौ मन्त्रतृप्तिर्द्वयं शिष्यात्मनोरथ । १५.४४५ . इत्थं विहितकर्तव्यो विज्ञाप्येशं तदीरितः ॥ ४४५ १५.४४६ . शक्तिपातक्रमाच्छिष्यान्संस्कर्तुं निःसरेद्बहिः । १५.४४६ . तत्रैषां पञ्चगव्यं च चरुं दशनमार्जनम् ॥ ४४६ १५.४४७ . तस्य पातः शुभः प्राचीसौम्यैशाप्योर्ध्वदिग्गतः । १५.४४७ . अशुभोऽन्यत्र तत्रास्त्रहोमोऽप्यष्टशतं भवेत् ॥ ४४७ १५.४४८ . नेत्रमन्त्रितसद्वस्त्रबद्धनेत्रानचञ्चलान् । १५.४४८ . अनन्यहृदयीभूतान्बलादित्थं निरोधतः ॥ ४४८ १५.४४९ . मुक्तारत्नादिकुसुमसंपूर्णाञ्जलिकान्गुरुः । १५.४४९ . प्रवेश्य स्थण्डिलोपाग्र उपवेश्यैव जानुभिः ॥ ४४९ १५.४५० . प्रक्षेपयेदञ्जलिं तं तैः शिष्यैर्भावितात्मभिः । १५.४५० . अञ्जलि पुनरापूर्य तेषां लाघवतः पटम् ॥ ४५० १५.४५१ . दृशोर्निवारयेत्सोऽपि शिष्यो झटिति पश्यति । १५.४५१ . झटित्यालोकिते मान्त्रप्रभावोल्लासिते स्थले ॥ ४५१ १५.४५२ . तदावेशवशाच्छिष्यस्तन्मयत्वं प्रपद्यते । १५.४५२ . यथा हि रक्तहृदयस्तांस्तान्कान्तागुणान्स्वयम् ॥ ४५२ १५.४५३ . पश्यत्येवं शक्तिपातसंस्कृतो मन्त्रसन्निधिम् । १५.४५३ . चक्षुरादीन्द्रियाणां हि सहकारिणि तादृशे ॥ ४५३ १५.४५४ . सत्यत्यन्तमदृष्टे प्रागपि जायेत योग्यता । १५.४५४ . कृतप्रज्ञा हि विन्यस्तमन्त्रं देहं जलं स्थलम् ॥ ४५४ १५.४५५ . प्रतिमादि च पश्यन्तो विदुः संनिध्यसंनिधी । १५.४५५ . न्यस्तमन्त्रांशुसुभगात्किंचिद्भूतादिमुद्रिताः ॥ ४५५ १५.४५६ . त्रस्यन्तीवेति तत्तच्चिदक्षैस्तत्सहकारिभिः । १५.४५६ . ततः स दक्षिणे हस्ते दीप्तं सर्वाध्वपूरितम् ॥ ४५६ १५.४५७ . मन्त्रचक्रं यजेद्वामपाणिना पाशदाहकम् । १५.४५७ . तं शिष्यस्य करं मूर्ध्नि देहन्यस्ताध्वसंततेः ॥ ४५७ १५.४५८ . न्यस्येत्क्रमेण सर्वांङ्गं तेनैवास्य च संस्पृशेत् । १५.४५८ . उक्तं दीक्षोत्तरे चैतज्ज्वालासंपातशोभिना ॥ ४५८ १५.४५९ . दत्तेन शिवहस्तेन समयी स विधीयते । १५.४५९ . सायुज्यमीश्वरे तत्त्वे जीवतोऽधीतियोग्यता ॥ ४५९ १५.४६० . श्रीदेव्याथामले तूक्तमष्टारान्तस्त्रिशूलके । १५.४६० . चक्रे भैरवसन्नाभावघोराद्यष्टकारके ॥ ४६० १५.४६१ . बाह्यापरे परानेमौ मध्यशूलपरापरे । १५.४६१ . ज्वालाकुलेऽरुणे भ्राम्यन्मातृप्रणवभीषणे ॥ ४६१ १५.४६२ . चिन्तिते तु बहिर्हस्ते संदृष्टे समयी भवेत् । १५.४६२ . पाशस्तोभाद्यस्तु सद्य उच्चिक्रमिषुरस्य तम् ॥ ४६२ १५.४६३ . प्राणैर्वियोजकं मूर्ध्नि क्षिपेत्संपूज्य तद्बहिः । १५.४६३ . अनेन शिवहस्तेन समयी भवति स्फुटम् ॥ ४६३ १५.४६४ . तस्यैव भाविविधिवत्तत्त्वपाशवियोजने । १५.४६४ . पुत्रकत्वं स च परे तत्त्वे योज्यस्तु दैशिकैः ॥ ४६४ १५.४६५ . स एव मन्त्रजातिज्ञो जपहोमादितत्त्ववित् । १५.४६५ . निर्वाणकलशेनादौ तत ईश्वरसंज्ञिना ॥ ४६५ १५.४६६ . अभिषिक्तः साधकः स्याद्भोगान्तेऽस्य परे लयः । १५.४६६ . एतैर्गुणैः समायुक्तो दीक्षितः शिवशासने ॥ ४६६ १५.४६७ . चतुष्पात्संहिताभिज्ञस्तन्त्राष्टादशतत्परः । १५.४६७ . दशतन्त्रातिमार्गज्ञ आचार्यः स विधीयते ॥ ४६७ १५.४६८ . पृथिवीमादितः कृत्वा निर्वाणान्तेऽस्य योजनाम् । १५.४६८ . अभिषेकविधौ कुर्यादाचार्यस्य गुरूत्तमः ॥ ४६८ १५.४६९ . एतैर्वाक्यैरिदं चोक्तं समयी राजपुत्रवत् । १५.४६९ . सर्वत्रैवाधिकारी स्यात्पुत्रकादिपदत्रये ॥ ४६९ १५.४७० . पुत्रको दैशिकत्वे तु तुल्ययोजनिको भवेत् । १५.४७० . अधिकारी स न पुनः साधने भिन्नयोजने ॥ ४७० १५.४७१ . एतत्तन्त्रे समय्यादिक्रमादाप्तोत्तरक्रियः । १५.४७१ . आचार्यो न पुनर्बौद्धवैष्णवादिः कदाचन ॥ ४७१ १५.४७२ . एवं प्रसङ्गान्निर्णीतं प्रकृतं तु निरूप्यते । १५.४७२ . शिवहस्तविधिं कृत्वा तेन संप्लुष्टपाशकम् ॥ ४७२ १५.४७३ . शिष्यं विधाय विश्रान्तिपर्यन्तं ध्यानयोगतः । १५.४७३ . ततः कुम्भेऽस्त्रकलशे वह्नौ स्वात्मनि तं शिशुम् ॥ ४७३ १५.४७४ . प्रणामं कारयेत्पश्चाद्भूतमातृबलिं क्षिपेत् । १५.४७४ . ततः शंकरमभ्यर्च्य शय्यामस्त्राभिमन्त्रिताम् ॥ ४७४ १५.४७५ . कृत्वास्यां शिष्यमारोप्य न्यस्तमन्त्रं विधाय च । १५.४७५ . शिष्यहृच्चक्रविश्रान्तिं कृत्वा तद्द्वादशान्तगः ॥ ४७५ १५.४७६ . भवेत्क्षीणकलाजालः स्वरद्वादशकोदयात् । १५.४७६ . ततः प्रवेशप्रचितकलाषोडशकोज्ज्वलः ॥ ४७६ १५.४७७ . संपूर्णस्वात्मचिच्चन्द्रो विश्राम्येद्धृदये शिशोः । १५.४७७ . स्वयं व्युत्थानपर्यन्तं द्वादशान्तं ततो व्रजेत् ॥ ४७७ १५.४७८ . पुनर्विशेच्च हृच्चक्रमित्थं निद्राविधिक्रमः । १५.४७८ . आयातनिद्रः शिष्योऽसौ निर्मलौ शशिभास्करौ ॥ ४७८ १५.४७९ . हृच्चक्रे प्रतिसंधत्ते बलात्पूर्णकृशात्मकौ । १५.४७९ . हठनिर्मलचन्द्रार्कप्रकाशः सत्यमीक्षते ॥ ४७९ १५.४८० . स्वप्नं भाविशुभान्यत्वस्फुटीभावनकोविदम् । १५.४८० . उक्तं च पूर्णां च कृशां ध्यात्वा द्वादशगोचरे ॥ ४८० १५.४८१ . प्रविश्य हृदये ध्याये त्सुप्तः स्वाच्छन्द्यमाप्नुयात् । १५.४८१ . आयातनिद्रे च शिशौ गुरुरभ्यर्च्य शङ्करम् ॥ ४८१ १५.४८२ . चरुं भुञ्जीत ससखा ततोऽद्याद्दन्तधावनम् । १५.४८२ . स्वप्याच्च मन्त्ररश्मीद्धहृच्चक्रार्पितमानसः ॥ ४८२ १५.४८३ . प्रातर्गुरुः कृताशेषनित्योऽभ्यर्चितशंकरः । १५.४८३ . शिष्यात्मनोः स्वप्नदृष्टावर्थौ वित्ते बलाबलात् ॥ ४८३ १५.४८४ . स्वदृष्टं बलवन्नान्यत्संबोधोद्रेकयोगतः । १५.४८४ . बोधसाम्ये पुनः स्वप्नसाम्यं स्याद्गुरुशिष्ययोः ॥ ४८४ १५.४८५ . देवाग्निगुरुतत्पूजाकारणोपस्करादिकम् । १५.४८५ . हृद्या स्त्री मद्यपानं चाप्याममांसस्य भक्षणम् ॥ ४८५ १५.४८६ . रक्तपानं शिरश्छेदो रक्तविण्मूत्रलेपनम् । १५.४८६ . पर्वताश्वगजप्रायहृद्ययुग्याधिरोहणम् ॥ ४८६ १५.४८७ . यत्प्रीत्यै स्यादपि प्रायस्तत्तच्छुभमुदाहृतम् । १५.४८७ . तं ख्यापयेत्तुष्टिवृद्ध्यै ह्लादो हि परमं फलम् ॥ ४८७ १५.४८८ . अतोऽन्यदशुभं तत्र होमोऽष्टशतकोऽस्त्रतः । १५.४८८ . अशुभं नाशुभमिति शिष्येभ्यो कथयेद्गुरुः ॥ ४८८ १५.४८९ . रूढां हि शङ्कां विच्छेत्तुं यत्नः संघटते महान् । १५.४८९ . येषां तु शङ्काविलयस्तेषां स्वप्नवशोत्थितम् ॥ ४८९ १५.४९० . शुभाशुभं न किंचित्स्यात्स्युश्चेत्थं चित्रतावशात् । १५.४९० . स्फुटं पश्यति सत्त्वात्मा राजसो लिङ्गमात्रतः ॥ ४९० १५.४९१ . न किंचित्तामसस्तस्य सुखदुःखाच्छुभाशुभम् । १५.४९१ . नन्वत्र तामसो नाम कथं योग्यो विधौ भवेत् ॥ ४९१ १५.४९२ . मैव मा विग्रहं कश्चित्क्वचित्कस्यापि वै गुणः । १५.४९२ . सर्वसात्त्विकचेष्टोऽपि भोजने यदि तामसः ॥ ४९२ १५.४९३ . किं ततः सोऽधमः किवाप्युत्कृष्टस्तद्विपर्ययः । १५.४९३ . आयातशक्तिपातोऽपि दीक्षितोऽपि गुणस्थितेः ॥ ४९३ १५.४९४ . विचित्रात्मा भवेदेव मुख्ये त्वर्थे समाहितः । १५.४९४ . ततो गुरुः शिशोर्मन्त्रपूर्वकं देवतार्चनम् ॥ ४९४ १५.४९५ . देशयेत्स च तत्कुर्यात्संस्कुर्यात्तं ततो गुरुः । १५.४९५ . हृदादिचक्रषट्कस्थान्ब्रह्मादीन् षट्समाहितः ॥ ४९५ १५.४९६ . स्पृशेच्छिशोः प्राणवृत्त्या प्रत्येकं चाष्ट संस्क्रियाः । १५.४९६ . हृदयादिद्विषट्कान्तं बोधस्पर्शपवित्रितः ॥ ४९६ १५.४९७ . आहारबीजभावादिदोषध्वंसाद्भवेद्द्विजः । १५.४९७ . वसुवेदाख्यसंस्कारपूर्ण इत्थं द्विजः स्थितः ॥ ४९७ १५.४९८ . गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । १५.४९८ . नाम निष्क्रामणं चान्नप्रशश्चूडा तथाष्टमी ॥ ४९८ १५.४९९ . व्रतबन्धैष्टिके मौज्जीभौतिके सौमिकं क्रमात् । १५.४९९ . गोदानमिति वेदेन्दुसंस्क्रिया ब्रह्मचर्यतः ॥ ४९९ १५.५०० . प्रत्युद्वाहः पञ्चदशः सप्त पाकमखास्त्वतः । १५.५०० . अष्टकाः पार्वणी श्राद्धं श्रावण्याग्रायणीद्वयम् ॥ ५०० १५.५०१ . चैत्री चाश्वयुजी पश्चात्सप्तैव तु हविर्मखाः । १५.५०१ . आधेयमग्निहोत्रं च पौर्णमासः सदर्शकः ॥ ५०१ १५.५०२ . चातुर्मास्यं पशूद्बन्धः सौत्रामण्या सह त्वमी । १५.५०२ . अग्निष्टोमोऽतिपूर्वोऽथ सोक्य्यः षोडशिवाजपौ ॥ ५०२ १५.५०३ . आप्तोर्यामातिरात्रौ च सप्तैताः सोमसंस्थिताः । १५.५०३ . हिरण्यपादादिमखः सहस्रेण समावृतः ॥ ५०३ १५.५०४ . अष्टत्रिंशस्त्वश्वमेधो गार्हस्थ्यमियता भवेत् । १५.५०४ . वानस्थ्यपारिव्राज्ये च चत्वारिंशदमी मताः ॥ ५०४ १५.५०५ . दया क्षमानसूया च शुद्धिः सत्कृतिमङ्गले । १५.५०५ . अकार्पण्यास्पृहे चात्मगुणाष्टकमिदं स्मृतम् ॥ ५०५ १५.५०६ . मेखला दण्डमजिनत्र्यायुषे वह्न्युपासनम् । १५.५०६ . संध्या भिक्षेति संस्काराः सप्त सप्त व्रतानि च ॥ ५०६ १५.५०७ . भौतेशपाशुपत्ये द्वे गाणेशं गाणपत्यकम् । १५.५०७ . उन्मत्तकासिधाराख्यघृतेशानि चतुर्दश ॥ ५०७ १५.५०८ . एते तु व्रतबन्धस्य संस्कारा अङ्गिनः स्मृताः । १५.५०८ . पारिव्राज्यस्य गर्भे स्यादन्त्येष्टिरिति संस्कृतः ॥ ५०८ १५.५०९ . द्विजो भवेत्ततो योग्यो रुद्रांशापादनाय सः । १५.५०९ . एतान्प्राणक्रमेणैव संस्कारान्योजयेद्गुरुः ॥ ५०९ १५.५१० . अथवाहुतियोगेन तिलाद्यैर्मन्त्रपूर्वकैः । १५.५१० . प्रणवो हृदयं नाम शोधयाम्यग्निवल्लभा ॥ ५१० १५.५११ . एवं क्रमेण मूर्धाद्यैरङ्गैरतत्पुनः पुनः । १५.५११ . यतश्चिद्धर्म एवासौ शान्त्याद्यात्मा द्विजन्मता ॥ ५११ १५.५१२ . तेन रुद्रतया संवित्तत्क्रमेणैव जायते । १५.५१२ . यथा हेमादिधातूनां पाके क्रमवशाद्भवेत् ॥ ५१२ १५.५१३ . रजतादि तथा संवित्संस्कारे द्विजतान्तरे । १५.५१३ . योनिर्न कारणं तत्र शान्तात्मा द्विज उच्यते ॥ ५१३ १५.५१४ . मुनिना मोक्षधर्मादावेतच्च प्रविवेचितम् । १५.५१४ . मुकुटादिषु शास्त्रेषु देवेनापि निरूपितम् ॥ ५१४ १५.५१५ . संविदो देहसंभेदात्सदृशात्सदृशोदयात् । १५.५१५ . भूमाभिप्रायतः स्मार्ते द्विजन्मा द्विजयोः सुतः ॥ ५१५ १५.५१६ . अन्त्यजातीयधीवादिजननीजन्मलाभतः । १५.५१६ . उत्कृष्टचित्ता ऋषयः किं ब्राह्मण्येन भाजनम् ॥ ५१६ १५.५१७ . अत एवार्थसत्तत्त्वदेशिन्यस्मिन्न दिश्यते । १५.५१७ . रहस्यशास्त्रे जात्यादिसमाचारो हि शाम्भवे ॥ ५१७ १५.५१८ . पाशवानि तु शास्त्राणि वामशक्त्यात्मकान्यलम् । १५.५१८ . सृष्ट्यांचिसिद्धये शंभोः शङ्कातत्फलकॢप्तये ॥ ५१८ १५.५१९ . आपादितद्विजत्वस्य द्वादशान्ते निजैक्यतः । १५.५१९ . स्पर्शमात्रान्न विश्रान्त्या झटित्येवावरोहतः ॥ ५१९ १५.५२० . रुद्रांशापादनं येन समयी संस्कृतो भवेत् । १५.५२० . अधीतौ श्रवणे नित्यं पूजायां गुरुसेवने ॥ ५२० १५.५२१ . समय्यधिकृतोऽन्यत्र गुरुणा विभुमर्चयेत् । १५.५२१ . तमापादितरुद्रांशं समयान् श्रावयेद्गुरुः ॥ ५२१ १५.५२२ . अष्टाष्टकात्मकान्देव्यायामलादौ निरूपितान् । १५.५२२ . अवादोऽकरणं गूढिः पूजा तर्पणभावने ॥ ५२२ १५.५२३ . हननं मोहनं चेति समयाष्टकमष्टधा । १५.५२३ . स्वभावं मन्त्रतन्त्राणां समयाचारमेलकम् ॥ ५२३ १५.५२४ . असत्प्रलापं परुषमनृतं नाष्टधा वदेत् । १५.५२४ . अफलं चेष्टितं हिंसां परदाराभिमर्शनम् ॥ ५२४ १५.५२५ . गर्वं दम्भं भूतविषव्याधितन्त्रं नचाचरेत् । १५.५२५ . स्वं मन्त्रमक्षसूत्रं च विद्यां ज्ञानस्वरूपकम् ॥ ५२५ १५.५२६ . समाचारान्गुणान्क्लेशान्सिद्धिलिङ्गानि गूहयेत् । १५.५२६ . गुरुं शास्त्रं देववह्नी ज्ञानवृद्धांस्त्रियो व्रतम् ॥ ५२६ १५.५२७ . गुरुवर्गं यथाशक्त्या पूजयेदष्टकं त्विदम् । १५.५२७ . दीनान्क्लिष्टान्पितॄन्क्षेत्रपालान्प्राणिगणान् खगान् ॥ ५२७ १५.५२८ . श्माशानिकं भूतगणं देहदेवीश्च तर्पयेत् । १५.५२८ . शिवं शक्तिं तथात्मानं मुद्रां मन्त्रस्वरूपकम् ॥ ५२८ १५.५२९ . संसारभुक्तिमुक्तीश्च गुरुवक्त्रात्तु भावयेत् । १५.५२९ . रागं द्वेषमसूयां च संकोचेर्ष्याभिमानिताः ॥ ५२९ १५.५३० . समयप्रतिभेत्तॄंस्तदनाचारांश्च घातयेत् । १५.५३० . पशुमार्गस्थितान्क्रूरान्द्वेषिणः पिशुनाञ्जडान् ॥ ५३० १५.५३१ . राज्ञश्चानुचरान्पापान्विघ्नकर्तॄंश्च मोहयेत् । १५.५३१ . शाकिन्यः पूजनीयाश्च ताश्चेत्थं श्रीगमोदिताः ॥ ५३१ १५.५३२ . साहसं द्विगुणं यासां कामश्चैव चतुर्गुणः । १५.५३२ . लोभश्चाष्टगुणस्तासां शङ्क्यं शाकिन्य इत्यलम् ॥ ५३२ १५.५३३ . कुलाम्नायस्थिता वीरद्रव्यबाह्यास्तु ये न तैः । १५.५३३ . पशुभिः सह वस्तव्यमिति श्रीमाधवे कुले ॥ ५३३ १५.५३४ . देवताचक्रगुर्वग्निशास्त्रं साम्यात्सदार्चयेत् । १५.५३४ . अनिवेदितमेतेभ्यो न किंचिदपि भक्षयेत् ॥ ५३४ १५.५३५ . एतद्द्रव्यं नापहरेद्गुरुवर्गं प्रपूजयेत् । १५.५३५ . स च तद्भ्रातृभार्यातुक्प्रायो विद्याकृतो भवेत् ॥ ५३५ १५.५३६ . न योनिसंबन्धकृतो लौकिकः स पशुर्यतः । १५.५३६ . तस्याभिष्वङ्गभूमिस्तु गुर्वाराधनसिद्धये ॥ ५३६ १५.५३७ . अर्च्यो न स्वमहिम्ना तु तद्वर्गो गुरुवत्पुनः । १५.५३७ . गुरोर्निन्दां न कुर्वीत तस्यै हेतुं नचाचरेत् ॥ ५३७ १५.५३८ . नच तां शृणुयान्नैनं कोपयेन्नाग्रतोऽस्य च । १५.५३८ . विनाज्ञया प्रकुर्वीत किंचित्तत्सेवनादृते ॥ ५३८ १५.५३९ . लौकिकालौकिकं कृत्यं क्रोधं क्रीडां तपो जपम् । १५.५३९ . गुरूपभुक्तं यत्किंचिच्छय्यावस्त्रासनादिकम् ॥ ५३९ १५.५४० . नोपभुञ्जीत तत्पद्भ्यां न स्पृशेत्किंतु वन्दयेत् । १५.५४० . श्रीमत्त्रैशिरसेऽप्युक्तं कृच्छ्रचान्द्रायणादिभिः ॥ ५४० १५.५४१ . अरण्ये काष्ठवत्तिष्ठेदसिधाराव्रतोऽपि सन् । १५.५४१ . नियमस्थो यमस्थोऽपि तत्पदं नाश्नुते परम् ॥ ५४१ १५.५४२ . गुर्वाराधनसक्तस्तु मनसा कर्मणा गिरा । १५.५४२ . प्राप्नोति गुरुतस्तुष्टात्पूर्णं श्रेयो महाद्भुतम् ॥ ५४२ १५.५४३ . हिमपातैर्यथा भूमिश्छादिता सा समन्ततः । १५.५४३ . मारुतश्लेषसंयोगादश्मवत्तिष्ठते सदा ॥ ५४३ १५.५४४ . यमादौ निश्चले तद्वद्भाव एकस्तु गृह्यते । १५.५४४ . गुरोस्त्वाराधितात्पूर्णं प्रसरज्ज्ञानमाप्यते ॥ ५४४ १५.५४५ . सर्वतोऽवस्थितं चित्त्वं ज्ञेयस्थं यस्य तत्कथा । १५.५४५ . सद्य एव नयेदूर्ध्वं तस्मादाराधयेद्गुरुम् ॥ ५४५ १५.५४६ . श्रीसारेऽप्यस्य संभाषात्पातकं नश्यति क्षणात् । १५.५४६ . तस्मात्परीक्ष्य यत्नेन शास्त्रोक्त्या ज्ञानलक्षणैः ॥ ५४६ १५.५४७ . शास्त्राचारेण वर्तेत तेन सङ्गं तथा कुरु । १५.५४७ . स्नेहाज्जातु वदेज्ज्ञानं लोभान्न ह्रियते हि सः ॥ ५४७ १५.५४८ . तेन तुष्टेन तृप्यन्ति देवाः पितर एवच । १५.५४८ . उत्तीर्य नरकाद्यान्ति सद्यः शिवपुरं महत् ॥ ५४८ १५.५४९ . भुङ्क्ते तिष्ठेद्यत्र गृहे व्रजेच्छिवपुरं तु सः । १५.५४९ . इति ज्ञात्वा सदा पित्र्ये श्राद्धे स्वं गुरुमर्चयेत् ॥ ५४९ १५.५५० . भुञ्जीत स स्वयं चान्यानादिशेत्तत्कृते गुरुः । १५.५५० . यो दीक्षितस्तु श्राद्धादौ स्वतन्त्रं विधिमाचरेत् ॥ ५५० १५.५५१ . तस्य तन्निष्फलं सर्वं समयेन च लङ्घ्यते । १५.५५१ . सैद्धान्तिकार्पितं चण्डीयोग्यं द्रव्यं विवर्जयेत् ॥ ५५१ १५.५५२ . शाकिनीवाचकं शब्दं न कदाचित्समुच्चरेत् । १५.५५२ . स्त्रियः पूज्या विरूपास्तु वृद्धाः शिल्पोपजीविकाः ॥ ५५२ १५.५५३ . अन्त्या विकारिताङ्ग्यश्च वेश्याः स्वच्छन्दचेष्टिताः । १५.५५३ . तथाच श्रीगमे प्रोक्तं पूजनीयाः प्रयत्नतः ॥ ५५३ १५.५५४ . निराचाराः सर्वभक्ष्या धर्माधर्मविवर्जिताः । १५.५५४ . स्वच्छन्दगाः पलाशिन्यो लम्पटा देवता इव ॥ ५५४ १५.५५५ . वेश्याः पूज्यास्तद्गृहं च प्रयागोऽत्र यजेत्क्रमम् । १५.५५५ . स्त्रीषु तन्नाचरेत्किचिद्येन ताभ्यो जुगुप्सते ॥ ५५५ १५.५५६ . अतो न नग्नास्ताः पश्येन्नचापि प्रकटस्तनीः । १५.५५६ . वृद्धायाः संस्थिताया वा न जुगुप्सेत मुद्रिकाम् ॥ ५५६ १५.५५७ . वैकृत्यं तत्र सौरूप्यं मेलकं न प्रकाशयेत् । १५.५५७ . देवमूर्तिं शून्यतनुं पूजयेत्त्रिपथादिषु ॥ ५५७ १५.५५८ . सर्वपर्वसु सामान्यविशेषेषु विशेषतः । १५.५५८ . पूजा गुरोरनध्यायो मेलके लोभवर्जनम् ॥ ५५८ १५.५५९ . न जुगुप्सेत मद्यादि वीरद्रव्यं कदाचन । १५.५५९ . न निन्देदथ वन्देत नित्यं तज्जोषिणस्तथा ॥ ५५९ १५.५६० . उपदेशाय न दोषा हृदयं चेन्न विद्विषेत् । १५.५६० . विजातीयविकल्पांशोत्पुंसनाय यतेत च ॥ ५६० १५.५६१ . गुरोः शास्त्रस्य देवीनां नाम मन्त्रे यतस्ततः । १५.५६१ . अर्चातोऽन्यत्र नोच्चार्यमाहूतं तर्पयेत्ततः ॥ ५६१ १५.५६२ . आगतस्य च मन्त्रस्य न कुर्यात्तर्पणं यदि । १५.५६२ . हरत्यर्धशरीरं तदित्यूचे भगवान्यतः ॥ ५६२ १५.५६३ . श्रीमदूर्मौ च देवीनां वीराणां चेष्टितं न वै । १५.५६३ . प्रथयेन्न जुगुप्सेत वदेन्नाद्रव्यपाणिकः ॥ ५६३ १५.५६४ . श्रीपूर्वं नाम वक्तव्यं गुरोर्द्रव्यकरेण च । १५.५६४ . गुर्वादीनां न लङ्घ्या च छाया न तैर्थिकैः सह ॥ ५६४ १५.५६५ . जल्पं कुर्वन्स्वशास्त्रार्थं वदेन्नापिच सूचयेत् । १५.५६५ . नित्याद्विशेषपूजां च कुर्यान्नैमित्तिके विधौ ॥ ५६५ १५.५६६ . ततोऽपि मध्ये वर्षस्य ततोऽपि हि पवित्रके । १५.५६६ . अन्यस्तमन्त्रो नासीत सेव्यं शास्त्रान्तरं च नो ॥ ५६६ १५.५६७ . अप्ररूढं हि विज्ञानं कम्पेतेतरभावनात् । १५.५६७ . गृहोपस्करणास्त्राणि दवतायागयोगतः ॥ ५६७ १५.५६८ . अर्च्यानीति न पद्भ्यां वै स्पृशेन्नापि विलङ्घ्येत् । १५.५६८ . गुरुवर्गे गृहायाते विशेषं कंचिदाचरेत् ॥ ५६८ १५.५६९ . दीक्षितानां न निन्दादि कुर्याद्विद्वेषपूर्वकम् । १५.५६९ . उपदेशाय नो दोषः स ह्यविद्वेषपूर्वकः ॥ ५६९ १५.५७० . न वष्णवादिकाधःस्थदृष्टिभिः संवसेदलम् । १५.५७० . सहभोजनशय्याद्यर्नैषां प्रकटयेत्स्थितिम् ॥ ५७० १५.५७१ . उक्तं श्रींमाधवकुले शासनान्तरसंस्थितान् । १५.५७१ . वेदोक्तिं वैष्णवोक्तिं च तैरुक्तं वर्जयेत्सदा ॥ ५७१ १५.५७२ . अकुलीनेषु संपर्कात्तत्कुलात्पतनाद्भयम् । १५.५७२ . एकपात्रे कुलाम्नाये तस्मात्तान्परिवर्जयेत् ॥ ५७२ १५.५७३ . प्रमादाच्च कृते सख्ये गोष्ठ्यां चक्रं तु पूजयेत् । १५.५७३ . श्रीमदूर्मौ च कथितमागमान्तरसेवके ॥ ५७३ १५.५७४ . गुर्वन्तररते मूढे देवद्रव्योपजीवके । १५.५७४ . शक्तिहिंसाकरे दुष्टे संपर्कं नैव कारयेत् ॥ ५७४ १५.५७५ . न विकल्पेन दीक्षादौ व्रजेदायतनादिकम् । १५.५७५ . उक्तास्थाशिथिलत्वे यन्निमित्तं नैव तच्चरेत् ॥ ५७५ १५.५७६ . शासनस्थान्पुराजात्या न पश्येन्नाप्युदीरयेत् । १५.५७६ . नच व्यवहरेत्सर्वाञ्छिवाभेदेन केवलम् ॥ ५७६ १५.५७७ . सद्विद्यैः साकमासीत ज्ञानदीप्त्यै यतेत च । १५.५७७ . नासंस्कृतां व्रजेत्तज्जं विफलत्वं नचानयेत् ॥ ५७७ १५.५७८ . मेलकार्धनिशाचर्या जनवर्जं च तन्नहि । १५.५७८ . मांसादिदाहगन्धं च जिघ्रेद्देवीप्रियो ह्यसौ ॥ ५७८ १५.५७९ . गुर्वाज्ञां पालयन्सर्वं त्यजेन्मन्त्रमयो भवेत् । १५.५७९ . शास्त्रपूजाजपध्यानविवेकतदुपक्रियाः ॥ ५७९ १५.५८० . अकुर्वन्निष्फलां नैव चेष्टेत त्रिविधां क्रियाम् । १५.५८० . मन्त्रतन्त्रैर्न वादं च कुर्यान्नो भक्षयेद्विषम् ॥ ५८० १५.५८१ . समयानां विलोपे च गुरुं पृच्छेदसन्निधौ । १५.५८१ . तद्वर्गं निजसन्तानमन्यं तस्याप्यसंनिधौ ॥ ५८१ १५.५८२ . तेनोक्तमनुतिष्ठेच्च निर्विकल्पं प्रयत्नतः । १५.५८२ . यतः शास्त्रादिसंबोधतन्मयीकृतमानसः ॥ ५८२ १५.५८३ . शिव एव गुरुर्नास्य वागसत्या विनिःसरेत् । १५.५८३ . शिवस्य स्वात्मसंस्कृत्यै प्रह्वीभावो गुरोः पुनः ॥ ५८३ १५.५८४ . ह्लादायेत्युभयार्थाय तत्तुष्टिः फलदा शिशोः । १५.५८४ . गुर्वायत्तैकसिद्धिर्हिसमय्यपि विबोधभाक् ॥ ५८४ १५.५८५ . तद्बोधबहुमानेन विद्याद्गुरुतमं गुरुम् । १५.५८५ . अतः संप्राप्य विज्ञानं यो गुरौ बाह्यमानवान् ॥ ५८५ १५.५८६ . नासौ विज्ञानविश्वस्तो नासत्यं भ्रष्ट एव सः । १५.५८६ . ज्ञानानाश्वस्तचित्तं तं वचोमात्रेण शास्त्रितम् ॥ ५८६ १५.५८७ . भक्तं च नार्चयेज्जातु हृदा विज्ञानदूषकम् । १५.५८७ . तादृक्च न गुरुः कार्यस्तं कृत्वापि परित्यजेत् ॥ ५८७ १५.५८८ . मुख्यबुद्ध्या न संपश्येद्वैष्णवादिगतान्गुरून् । १५.५८८ . तथाच श्रीमदूर्म्याख्ये गुरोरुक्तं विशेषणम् ॥ ५८८ १५.५८९ . गुर्वाज्ञा प्राणसंदेहे नोपेक्ष्या नो विकल्प्यते । १५.५८९ . कौलदीक्षा कौलशास्त्रं तत्त्वज्ञानं प्रकाशितम् ॥ ५८९ १५.५९० . येनासौ गुरुरित्युक्तो ह्यन्ये वै नामधारिणः । १५.५९० . श्रीमदानन्दशास्त्रे च तथैवोक्तं विशेषणम् ॥ ५९० १५.५९१ . यस्माद्दीक्षा मन्त्रशास्त्रं तत्त्वज्ञानं स वै गुरुः । १५.५९१ . तिष्ठेदव्यक्तलिङ्गश्च न लिङ्गं धारयेत्क्वचित् ॥ ५९१ १५.५९२ . न लिङ्गिभिः समं कैश्चित्कुर्यादाचारमेलनम् । १५.५९२ . केवलं लिङ्गिनः पाल्या न बीभत्स्या विरूपकाः ॥ ५९२ १५.५९३ . श्रीमद्रात्रिकुले चोक्तं मोक्षः शङ्कापहानितः । १५.५९३ . अशुद्धवासस्नयैषा मोक्षवार्तापि दुर्लभा ॥ ५९३ १५.५९४ . न लिखेन्मन्त्रहृदयं श्रीमन्मालोदितं किल । १५.५९४ . तदङ्गादुद्धरेन्मन्त्रं नतु लेखे विलेखयेत् ॥ ५९४ १५.५९५ . अतत्त्वेऽभिनिवेशं च न कुर्यात्पक्षपाततः । १५.५९५ . जातिविद्याकुलाचारदेहदेशगुणार्थजान् ॥ ५९५ १५.५९६ . ग्रहान्ग्रहानिवाष्टौ द्राक्त्यजेद्गह्वरर्शितान् । १५.५९६ . तथा श्रीनिशिचारादौ हयत्वेनोपदर्शितान् ॥ ५९६ १५.५९७ . ब्राह्मणोऽहं मया वेदशास्त्रोक्तादपरं कथम् । १५.५९७ . अनुष्ठेयमयं जातिग्रहः परनिरोधकः ॥ ५९७ १५.५९८ . एवमन्येऽप्युदाहार्याः कुलगह्वरवर्त्मना । १५.५९८ . अतत्स्वभावे ताद्रूप्यं दर्शयन्नवशेऽपि यः ॥ ५९८ १५.५९९ . स्वरूपाच्छादकः सोऽत्र ग्रहो ग्रह इवोदितः । १५.५९९ . संवित्स्वभावे नो जातिप्रभृतिः कापि कल्पना ॥ ५९९ १५.६०० . रूपं सा त्वस्वरूपेण तद्रूपं छादयत्यलम् । १५.६०० . या काचित्कल्पना संवित्तत्त्वस्याखण्डितात्मनः ॥ ६०० १५.६०१ . संकोचकारिणी सर्वः स ग्रहस्तां परित्यजेत् । १५.६०१ . श्रीमदानन्दशास्त्रे च कथितं परमेष्ठिना ॥ ६०१ १५.६०२ . निरपेक्षः प्रभुर्वामो न शुद्ध्या तत्र कारणम् । १५.६०२ . देवीतृप्तिर्मखे रक्तमांसैर्नो शौचयोजनात् ॥ ६०२ १५.६०३ . द्विजान्त्यजैः समं कार्या चर्चान्तेऽपि मरीचयः । १५.६०३ . अविकारकृतस्तेन विकल्पान्निरयो भवेत् ॥ ६०३ १५.६०४ . सर्वदेवमयः कायः सर्वप्राणिष्विति स्फुटम् । १५.६०४ . श्रीमद्भिर्नकुलेशाद्यैरप्येतत्सुनिरूपितम् ॥ ६०४ १५.६०५ . शरीरमेवायतनं नान्यदायतनं व्रजेत् । १५.६०५ . तीर्थमेकं स्मरेन्मन्त्रमन्यतीर्थानि वर्जयेत् ॥ ६०५ १५.६०६ . विधिमेनं सुखं ज्ञात्वा विधिजालं परित्यजेत् । १५.६०६ . समाधिर्निश्चयं मुक्त्वा न चान्येनोपलभ्यते ॥ ६०६ १५.६०७ . इति मत्वा विधानज्ञः संमोहं परिवर्जयेत् । १५.६०७ . मन्त्रस्य हृदयं मुक्त्वा न चान्यत्परमं क्वचित् ॥ ६०७ १५.६०८ . इति मत्वा विधानज्ञो मन्त्रजालं परित्यजेत् । १५.६०८ . नैवेद्यं प्राशयेन्नद्यास्तच्छेषं च जले क्षिपेत् ॥ ६०८ १५.६०९ . तैर्भुक्ते न भवेद्दोषो जलजैः पूर्वदीक्षितैः । १५.६०९ . अवयश्पालनीयत्वात्परत्त्वेन संगमात् ॥ ६०९ १५.६१० . ज्ञानप्राप्त्यभ्युपायत्वात्समयास्ते प्रकीर्तिताः । १५.६१० . एवं संश्राव्य समयान्देवं संपूज्य दैशिकः ॥ ६१० १५.६११ . विसर्जयेत्स्वचिद्व्योम्नि शान्ते मूर्तिविलापनात् । १५.६११ . यदि पुत्रकदीक्षास्य न कार्या समनन्तरम् ॥ ६११ १५.६१२ . तदाभिषिञ्चेत्सास्त्रेण शिवकुम्भेन तं शिशुम् । १५.६१२ . आत्मानं च ततो यस्माज्जलमूर्तिर्महेश्वरः ॥ ६१२ १५.६१३ . मन्त्रयुङ्निखिलाप्यायी कार्यं तदभिषेचनम् । १५.६१३ . इति समयदीक्षणमिदं प्रकाशितं विस्तराच्च संक्षेपात् ॥ च्१६ अथ श्रीतन्त्रालोके षोडशमाह्निकम् १६.१ . अथ पुत्रकत्वसिद्ध्यै निरूप्यते शिवनिरूपितो ऽत्र विधिः । १६.१ . यदा तु समयस्थस्य पुत्रकत्वे नियोजनम् । १६.१ . गुरुत्वे साधकत्वे वा कर्तुमिच्छति दैशिकः ॥ १ १६.२ . तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् । १६.२ . सामुदायिकयागेऽथ तथान्यत्र यथोदितम् ॥ २ १६.३ . षडष्टतद्द्विगुणितचतुर्विंशतिसंख्यया । १६.३ . चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥ ३ १६.४ . द्वात्रिंशत्तद्द्विगुणितं श्रीमत्त्रैशिरसे मते । १६.४ . असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः ॥ ४ १६.५ . तस्माद्यथातथा यागं यावच्चक्रेण संमितम् । १६.५ . पूजयेद्येन तेनात्र त्रिशूलत्रयमालिखेत् ॥ ५ १६.६ . त्रिशूलत्रितये देवीत्रयं पर्यायवृत्तितः । १६.६ . मध्यसव्यान्यभेदेन पूर्णं संपूजितं भवेत् ॥ ६ १६.७ . वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते । १६.७ . आलिख्य मण्डलं गन्धवस्त्रेणैवास्य मार्जनम् ॥ ७ १६.८ . कृत्वा स्नातो गुरुः प्राग्वन्मण्डलाग्रेऽत्र देवताः । १६.८ . बाह्यगाः पूजयेद्द्वारदेशे च द्वारदेवताः ॥ ८ १६.९ . मण्डलस्य पुरोभागे तदैशानदिशः क्रमात् । १६.९ . आग्नेय्यन्तं गणेशादीन् क्षेत्रपान्तान्प्रपूजयेत् ॥ ९ १६.१० . गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः । १६.१० . इति सप्तकमाख्यातं गुरुपङ्क्तिविधौ प्रपूज्यमस्मद्गुरुभिः ॥ १० १६.११ . तत आज्ञां गृहीत्वा तु पुष्पधूपादिपूजितम् । १६.११ . पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥ ११ १६.१२ . शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये क्रमात् । १६.१२ . मध्यशूले मध्यगः स्यात्सद्भावः परया सह ॥ १२ १६.१३ . वामे चापरया साकं नवात्मा दक्षगं परम् । १६.१३ . त्रिशूले दक्षिणे मध्यशृङ्गस्थो रतिशेखरः ॥ १३ १६.१४ . स्यात्परापरया साकं दक्षे भैरवसत्परे । १६.१४ . वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥ १४ १६.१५ . स्यात्परे परया साकं वामारे संश्च भैरवः । १६.१५ . इत्थं सर्वगतत्वे श्रीपरादेव्याः स्थिते सति ॥ १५ १६.१६ . यागो भवेत्सुसंपूर्णस्तदधिष्ठानमात्रतः । १६.१६ . एकशूलेऽप्यतो यागे चिन्तयेत्तदधिष्ठितम् ॥ १६ १६.१७ . अविधिज्ञो विधानज्ञ इत्येवं त्रीशिकोदितम् । १६.१७ . ततो मध्ये तथा दक्षे वामे शृङ्गे च सर्वतः ॥ १७ १६.१८ . लोकपालास्त्रपर्यन्तमेकात्मत्वेन पूजयेत् । १६.१८ . परत्वेन च सर्वासां देवतानां प्रपूजयेत् ॥ १८ १६.१९ . श्रीमन्तं मातृसद्भावभट्टारकमनामयम् । १६.१९ . ततोऽपि भोगयागेन विद्याङ्गं भैरवाष्टकम् ॥ १९ १६.२० . यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः । १६.२० . लोकपालानस्त्रयुतान्गन्धपुष्पासवादिभिः ॥ २० १६.२१ . पूजयेत्परया भक्त्या वित्तशाठ्यविवर्जितः । १६.२१ . ततः कुम्भास्त्रकलशीमण्डलस्थानलात्मनाम् ॥ २१ १६.२२ . पञ्चानामनुसन्धानं कुर्यादद्वयभावनात् । १६.२२ . ये तु तामद्वयव्याप्तिं न विन्दन्ति शिवात्मिकाम् ॥ २२ १६.२३ . मन्त्रनाडीप्रयोगेण ते विशन्त्यद्वये पथि । १६.२३ . स्वदक्षिणेन निःसृत्य मण्डलस्थस्य वामतः ॥ २३ १६.२४ . प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते । १६.२४ . वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥ २४ १६.२५ . मूलानुसन्धानबलात्प्राणतन्तूम्भने सति । १६.२५ . इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥ २५ १६.२६ . ततो विशेषपूजां च कुर्यादद्वयभाविताम् । १६.२६ . यच्छिवाद्वयपीयूषसंसिक्तं परमं हि तत् ॥ २६ १६.२७ . तेनार्घपुष्पगन्धादेरासवस्य पशोरथ । १६.२७ . या शिवाद्वयतादृष्टिः सा शुद्धिः परमीकृतिः ॥ २७ १६.२८ . निवेदयेद्विभोरग्रे जीवान्धातूंस्तदुत्थितान् । १६.२८ . सिद्धानसिद्धान्व्यामिश्रान्यद्वा किंचिच्चराचरम् ॥ २८ १६.२९ . दृष्टप्रोक्षितसंद्रष्टृप्रालब्धोपात्तयोजितः । १६.२९ . निर्वापितो वीरपशुः सोऽष्टधोत्तरतोत्तमः ॥ २९ १६.३० . यथोत्तरं न दातव्यमयोग्येभ्यः कदाचन । १६.३० . शिवोपयुक्तं हि हविर्न सर्वो भोक्तुमर्हति ॥ ३० १६.३१ . यस्तु दीक्षाविहीनोऽपि शिवेच्छाविधिचोदितः । १६.३१ . भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः ॥ ३१ १६.३२ . दृष्टोऽवलोकितश्चैव किरणेद्धदृगर्पणात् । १६.३२ . प्रोक्षितः केवलं ह्यर्घपात्रविप्रुड्भिरुक्षितः ॥ ३२ १६.३३ . संद्रष्टा दर्शिताशेषसम्यक्पूजितमण्डलः । १६.३३ . प्रालब्ध उक्तत्रितयसंस्कृतः सोऽपि धूनयेत् ॥ ३३ १६.३४ . कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् । १६.३४ . उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः ॥ ३४ १६.३५ . योजितः कारणत्यागक्रमेण शिवयोजनात् । १६.३५ . निर्वापितः कृताभ्यासगुरुप्राणमनोर्पणात् ॥ ३५ १६.३६ . दक्षिणेनाग्निना सौम्यकलाजालविलापनात् । १६.३६ . तथाह्यादौ परं रूपमेकीभावेन संश्रयेत् ॥ ३६ १६.३७ . तस्मादाग्नेयचारेण ज्वालामालामुचाविशेत् । १६.३७ . पशोर्वामेन चन्द्रांशुजालं तापेन गालयेत् ॥ ३७ १६.३८ . नाभिचक्रेऽथ विश्राम्येत्प्राणरश्मिगणैः सह । १६.३८ . परो भूत्वा स्वशक्त्यात्र जीवं जीवेन वेष्टयेत् ॥ ३८ १६.३९ . स्वचित्सूर्येण संताप्य द्रावयेत्कलां कलाम् । १६.३९ . ततो द्रुतं कलाजालं प्रापय्यैकत्वमात्मनि ॥ ३९ १६.४० . समस्ततत्त्वसंपूर्णमाप्यायनविधायिनम् । १६.४० . उन्मूलयेत संरम्भात्कर्मबद्धममुं रसात् ॥ ४० १६.४१ . तत उन्मूलनोद्वेष्टयोगाद्वामं परिभ्रमन् । १६.४१ . कुण्डल्यमृतसंपूर्णस्वकप्राणप्रसेवकः ॥ ४१ १६.४२ . वामावर्तक्रमोपात्तहृत्पद्मामृतकेसरः । १६.४२ . हृत्कर्णिकारूढिलाभादोजोधातुं विलापितम् ॥ ४२ १६.४३ . शुद्धसोमात्मकं सारमीषल्लोहितपीतलम् । १६.४३ . आदाय करिहस्ताग्रसदृशे प्राणविग्रहे ॥ ४३ १६.४४ . निःसृत्य झटिति स्वात्मवाममार्गेण संविशेत् । १६.४४ . आप्याययन्नपानाख्यचन्द्रचक्रहृदम्बुजे ॥ ४४ १६.४५ . स्थितं तद्देवताचक्रं तेन सारेण तर्पयेत् । १६.४५ . अनेन विधिना सर्वान्रसरक्तादिकांस्तथा ॥ ४५ १६.४६ . धातून्समाहरेत्संघक्रमादेकैकशोऽथवा । १६.४६ . केवलं त्वथवाग्नीन्दुरविसंघट्टमध्यगम् ॥ ४६ १६.४७ . ज्योतीरूपमथ प्राणशक्त्याख्यं जीवमाहरेत् । १६.४७ . जीवं समरसीकुर्याद्देवीचक्रेण भावनात् ॥ ४७ १६.४८ . तदेव तर्पणं मुख्यं भोग्यभोक्त्रात्मतैव सा । १६.४८ . अग्निसंपुटफुल्लार्णत्र्यश्रकालात्मको महान् ॥ ४८ १६.४९ . पिण्डो रक्तादिसारौघचालनाकर्षणादिषु । १६.४९ . इत्थं विश्रान्तियोगेन घटिकार्धक्रमे सति ॥ ४९ १६.५० . आवृत्तिशतयोगेन पशोर्निर्वापणं भवेत् । १६.५० . कृत्वा कतिपयं कालं तत्राभ्यासमनन्यधीः ॥ ५० १६.५१ . यथा चिन्तामणौ प्रोक्तं तेन रूपेण योगवित् । १६.५१ . निःशङ्कः सिद्धिमाप्नोति गोप्यं तत्प्राणवत्स्फुटम् ॥ ५१ १६.५२ . परोक्षेऽपि पशावेवं विधिः स्याद्योजनं प्रति । १६.५२ . प्रवेशितो यागभुवि हतस्तत्रैव साधितः ॥ ५२ १६.५३ . चक्रजुष्टश्च तत्रैव स वीरपशुरुच्यते । १६.५३ . यस्त्वन्यत्रापि निहतः सामस्त्येनांशतोऽपिवा ॥ ५३ १६.५४ . देवाय विनिवेद्येत स वै बाह्यपशुर्मतः । १६.५४ . राज्यं लाभोऽथ तत्स्थैर्यं शिवे भक्तिस्तदात्मता ॥ ५४ १६.५५ . शिवज्ञानं मन्त्रलोकप्राप्तिस्तत्परिवारता । १६.५५ . तत्सायुज्यं पशोः साम्याद्बाह्यादेर्वीरधर्मणः ॥ ५५ १६.५६ . पुष्पादयोऽपि तल्लाभभागिनः शिवपूजया । १६.५६ . एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥ ५६ १६.५७ . यागेनैवानुगृह्णाति किं किं यन्न चराचरम् । १६.५७ . तेनावीरोऽपि शङ्कादियुक्तः कारुणिकोऽपिच ॥ ५७ १६.५८ . न हिंसाबुद्धिमादध्यात्पशुकर्मणि जातुचित् । १६.५८ . पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत् ॥ ५८ १६.५९ . व्याधिच्छेदौषधतपोयोजनात्र निदर्शनम् । १६.५९ . श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः ॥ ५९ १६.६० . मलत्रयवियोगेन शरीरं न प्ररोहति । १६.६० . धर्माधर्मौघविच्छेदाच्छरीरं च्यचते किल ॥ ६० १६.६१ . तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी । १६.६१ . रूढपाशस्य यः प्राणैर्वियोगो मारणं हि तत् ॥ ६१ १६.६२ . इयं तु योजनैव स्यात्पशोर्देवाय तर्पणे । १६.६२ . तस्माद्देवोक्तिमाश्रित्य पशून्दद्याद्बहूनिति ॥ ६२ १६.६३ . निवेदितः पुनःप्राप्तदेहो भूयोनिवेदितः । १६.६३ . षट्कृत्व इत्थं यः सोऽत्र षड्जन्मा पशुरुत्तमः ॥ ६३ १६.६४ . यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः । १६.६४ . कां सिद्धिं नैव वितरेत्स्वयं किंवा न मुच्यते ॥ ६४ १६.६५ . उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् । १६.६५ . समयान्कुत्सयेद्देवीर्दद्यान्मन्त्रान्विना नयात् ॥ ६५ १६.६६ . दीक्षामन्त्रादिकं प्राप्य त्यजेत्पुत्रादिमोहितः । १६.६६ . ततो मनुष्यतामेत्य पुनरेवं करोत्यपि ॥ ६६ १६.६७ . इत्थमेकादिसप्तान्तजन्मासौ द्विविधो द्विपात् । १६.६७ . चतुष्पाद्वा पशुर्देवीचरुकार्थं प्रजायते ॥ ६७ १६.६८ . दात्रर्पितोऽसौ तद्द्वारा याति सायुज्यतः शिवम् । १६.६८ . इति संभाव्य चित्रं तत्पशूनां प्रविचेष्टितम् ॥ ६८ १६.६९ . भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् । १६.६९ . नापि नैष भवेद्योग्य इति बुद्ध्वापसारयेत् ॥ ६९ १६.७० . तं पशुं किंतु काङ्क्षा चेद्विशेषे तं तु ढौकयेत् । १६.७० . तावतस्तान्पशून्दद्यात्तथाचोक्तं महेशिना ॥ ७० १६.७१ . पशोर्वपामेदसी च गालिते वह्निमध्यतः । १६.७१ . अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥ ७१ १६.७२ . हृदन्त्रमुण्डांसयकृत्प्रधानं विनिवेदयेत् । १६.७२ . कर्णिकाकुण्डलीमज्जपर्शु मुख्यतरं च वा ॥ ७२ १६.७३ . ततोऽग्नौ तर्पणं कुर्यान्मन्त्रचक्रस्य दैशिकः । १६.७३ . तन्निवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥ ७३ १६.७४ . गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर । १६.७४ . साक्षात्स्वप्नोपदेशाद्यैर्जपैर्गुरुमुखेन वा ॥ ७४ १६.७५ . अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । १६.७५ . तदेते तद्विधाः प्राप्तास्त्वमेभ्यः कुर्वनुग्रहम् ॥ ७५ १६.७६ . समावेशय मां स्वात्मरश्मिभिर्यदहं शिवः । १६.७६ . एवं भवत्विति ततः शिवोक्तिमभिनन्दयेत् ॥ ७६ १६.७७ . शिवाभिन्नमथात्मानं पञ्चकृत्यकरं स्मरेत् । १६.७७ . स्वात्मनः करणं मन्त्रान्मूर्तिं चानुजिघृक्षया ॥ ७७ १६.७८ . ततो बद्ध्वा सितोष्णीषं हस्तयोरर्चयेत्क्रमात् । १६.७८ . अन्योन्यं पाशदाहाय शुद्धतत्त्वविसृष्टये ॥ ७८ १६.७९ . तेजोरूपेण मन्त्रांश्च शिवहस्ते समर्चयेत् । १६.७९ . गर्भावरणगानङ्गपरिवारासनोज्झितान् ॥ ७९ १६.८० . आत्मानं भावयेत्पश्चादेककं जलचन्द्रवत् । १६.८० . कृत्योपाधिवशाद्भिन्नं षोढाभिन्नं तु वस्तुतः ॥ ८० १६.८१ . मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम् । १६.८१ . शुद्धा हि द्रष्टृता शम्भोर्मण्डले कल्पिता मया ॥ ८१ १६.८२ . होमाधिकरणत्वेन वह्नावहमवस्थितः । १६.८२ . यदात्मतेद्धा मन्त्राः स्युः पाशप्लोषविधावलम् ॥ ८२ १६.८३ . सामान्यतेजोरूपान्तराहूता भुवनेश्वराः । १६.८३ . तर्पिताः श्राविताश्चाणोर्नाधिकारं प्रतन्वते ॥ ८३ १६.८४ . आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये । १६.८४ . सामान्यरूपता येन विशेषाप्यायकारिणी ॥ ८४ १६.८५ . शिष्यदेहे च तत्पाशशिथिलत्वप्रसिद्धये । १६.८५ . स हि स्वेच्छावशात्पाशान्विधुन्वन्निव वर्तते ॥ ८५ १६.८६ . साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम् । १६.८६ . ज्ञानक्रियास्वतन्त्रत्वाद्दीक्षाकर्मणि पेशलः ॥ ८६ १६.८७ . भिन्नकार्याकृतिव्रातेन्द्रियचक्रानुसन्धिमान् । १६.८७ . एको यथाहं वह्न्यादिषड्रूपोऽस्मि तथा स्फुटम् ॥ ८७ १६.८८ . एवमालोच्य येनैषोऽध्वना दीक्षां चिकीर्षति । १६.८८ . अनुसंहितये शिष्यवर्जं पञ्चसु तं यजेत् ॥ ८८ १६.८९ . अनुसन्धिबलान्ते च समासव्यासभेदतः । १६.८९ . कुर्यादत्यन्तमभ्यस्तमन्यान्तर्भावपूरितम् ॥ ८९ १६.९० . ततोऽपि चिन्तया भूयोऽनुसन्दध्याच्छिवात्मताम् । १६.९० . अहमेव परं तत्त्वं नच पद्धटवत्क्वचित् ॥ ९० १६.९१ . महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् । १६.९१ . नच तत्केनचिद्बाह्यप्रतिबिम्बवदर्पितम् ॥ ९१ १६.९२ . कर्ताहमस्य तन्नान्याधीनं च मदधिष्ठितम् । १६.९२ . इत्थंभूतमहाव्याप्तिसंवेदनपवित्रितः ॥ ९२ १६.९३ . मत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते । १६.९३ . तापनिर्घर्षसेकादिपारम्पर्येण वह्निताम् ॥ ९३ १६.९४ . यथायोगोलको याति गुरुरेवं शिवात्मताम् । १६.९४ . ततः पुरःस्थितं यद्वा पुरोभावितविग्रहम् ॥ ९४ १६.९५ . परोक्षदीक्षणे यद्वा दर्भाद्यैः कल्पिते मृते । १६.९५ . शिष्ये वीक्ष्यार्च्य पुष्पाद्यैर्न्यसेदध्वानमस्य तम् ॥ ९५ १६.९६ . येनाध्वना मुख्यतया दीक्षामिच्छति दैशिकः । १६.९६ . तं देहे न्यस्य तत्रान्तर्भाव्यमन्यदिति स्थितिः ॥ ९६ १६.९७ . शोध्याध्वनि च विन्यस्ते तत्रैव परिशोधकम् । १६.९७ . न्यसेद्यथेप्सितं मन्त्रं शोध्यौचित्यानुसारतः ॥ ९७ १६.९८ . क्वचिच्छोध्यं त्वविन्यस्य शोधकन्यासमात्रतः । १६.९८ . स्वयं शुद्ध्यति संशोध्यं शोधकस्य प्रभावतः ॥ ९८ १६.९९ . अपरं परापरं च परं च विधिमिच्छया । १६.९९ . तद्योजनानुसारेण श्रित्वा न्यासः षडध्वनः ॥ ९९ १६.१०० . ललाटान्तं वेदवसौ रन्ध्रान्तं रसरन्ध्रके । १६.१०० . वसुखेन्दौ द्वादशान्तमित्येष त्रिविधो विधिः ॥ १०० १६.१०१ . क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते । १६.१०१ . तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥ १०१ १६.१०२ . धरा जलादिमूलान्तं प्रत्येकं द्व्यङ्गुलं क्रमात् । १६.१०२ . रसश्रुत्यङ्गुलं नाभेरूर्ध्वमित्थं षडङ्गुले ॥ १०२ १६.१०३ . पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् । १६.१०३ . अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥ १०३ १६.१०४ . सदाशिवान्तं मायादिचतुष्कं चतुरङ्गुले । १६.१०४ . प्रत्येकमित्यब्धिवसुसंख्यमालिकदेशतः ॥ १०४ १६.१०५ . शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम् । १६.१०५ . सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥ १०५ १६.१०६ . जलाद्ध्यन्तं सार्धयुग्मं मूलं त्र्यङ्गुलमित्यतः । १६.१०६ . द्वादशाङ्गुलताधिक्याद्विधिरेष परापरः ॥ १०६ १६.१०७ . जलाद्ध्यन्तं त्र्यङ्गुले चेदव्यक्तं तु चतुष्टये । १६.१०७ . तच्चतुर्विंशत्याधिक्यात्परोऽप्यष्टशते विधिः ॥ १०७ १६.१०८ . त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् । १६.१०८ . मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥ १०८ १६.१०९ . नवपञ्चचतुस्त्र्येकतत्त्वन्यासे स्वयं धिया । १६.१०९ . न्यासं प्रकल्पयेत्तावत्तत्त्वान्तर्भावचिन्तनात् ॥ १०९ १६.११० . कलापञ्चकवेदाण्डन्यासोऽनेनैव लक्षितः । १६.११० . उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम् ॥ ११० १६.१११ . द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः । १६.१११ . द्वासप्ततिर्दश द्वे च देहस्थं शिरसोऽन्ततः ॥ १११ १६.११२ . पादादारभ्य सुश्रोणि अनाहतपदावधि । १६.११२ . देहातीतेऽपि विश्रान्त्या संवित्तेः कल्पनावशात् ॥ ११२ १६.११३ . देहत्वमिति तस्मात्स्यादुत्थानं द्वादशाङ्गुलम् । १६.११३ . इति निर्णेतुमत्रैतदुक्तमष्टोत्तरं शतम् ॥ ११३ १६.११४ . पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश । १६.११४ . तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः ॥ ११४ १६.११५ . द्विरण्डान्तं त्र्यङ्गुलं तु च्छगलाण्डमथाब्धिषु । १६.११५ . देवयोगाष्टके द्वे हि प्रत्येकाङ्गुलपादतः ॥ ११५ १६.११६ . इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् । १६.११६ . षट्पञ्चाशत्पुराणीत्थं प्राग्धरायां तु षोडश ॥ ११६ १६.११७ . ततोऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये । १६.११७ . चत्वारि युग्म एकस्मिन्नेकं च पुरमङ्गुले ॥ ११७ १६.११८ . सरागे पुंस्पुराणीशसंख्यानीत्थं षडङ्गुले । १६.११८ . क्रोधेशपुरमेकस्मिन्द्वये चाण्डमियं च वित् ॥ ११८ १६.११९ . संवर्तज्योतिषोरेवं कलातत्त्वगयोः क्रमात् । १६.११९ . शूरपञ्चान्तपुरयोर्नियतौ चैकयुग्मता ॥ ११९ १६.१२० . श्रीपूर्वशास्त्रे तच्चोक्तं परमेशेन शंभुना । १६.१२० . उत्तरादिक्रमादद्व्येकभेदो विद्यादिके त्रये ॥ १२० १६.१२१ . असारत्वात्क्रमस्यादौ नियतिः परतः कला । १६.१२१ . अथवान्योन्यसंज्ञाभ्यां तत्त्वयोर्व्यपदेश्यता ॥ १२१ १६.१२२ . एकवीरशिखेशश्रीकण्ठाः काले त्रयस्त्रये । १६.१२२ . कालस्य पूर्वं विन्यासो नियतेरभिधीयते ॥ १२२ १६.१२३ . अथवान्योन्यसंज्ञाभिर्व्यपदेशो हि दृश्यते । १६.१२३ . एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥ १२३ १६.१२४ . ततोऽप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् । १६.१२४ . प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥ १२४ १६.१२५ . इत्थं द्व्यक्ष्णि पुराण्यष्टाविंशतिः पुरुषान्निशि । १६.१२५ . पुरत्रयं द्वयोस्त्र्यंशन्यूनाङ्गुलमिति क्रमात् ॥ १२५ १६.१२६ . द्वयोर्द्वयं पञ्चपुरी वैद्यीये चतुरङ्गुले । १६.१२६ . तत ऐशपुराण्यष्टौ चतुष्केऽर्धाङ्गुलक्रमात् ॥ १२६ १६.१२७ . ततस्त्रीणि द्वये द्वे च द्वयोरित्थं चतुष्टये । १६.१२७ . सादाशिवं पञ्चकं स्यादित्थं वस्वेककं रवौ ॥ १२७ १६.१२८ . षोडशकं रसविशिखं वसुद्विकं वसुशशीति पुरवर्गाः । १६.१२८ . वेदा रसाब्धि युग्माक्षि च रवयस्तत्र चाङ्गुलाः क्रमशः ॥ १२८ १६.१२९ . अष्टादशाधिकशतं पुराणि देहेऽत्र चतुरशीतिमिते । १६.१२९ . विन्यस्तानि तदित्थं शेषे तु व्यापकं शिवं तत्त्वम् ॥ १२९ १६.१३० . इति विधिरपरः कथितः परापराख्यो रसश्रुतिस्थाने । १६.१३० . अष्टशरं संख्यानं खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥ १३० १६.१३१ . लकुलादेर्योगाष्टकपर्यन्तस्यात्र भुवनपूगस्य । १६.१३१ . अधिकीकुर्याद्गणनावशेन भागं विधिद्वये क्रमशः ॥ १३१ १६.१३२ . अपरादिविधित्रैतादथ न्यासः पदाध्वनः । १६.१३२ . पूर्वं दशपदी चोक्ता स्वतन्त्रा न्यस्यते यदा ॥ १३२ १६.१३३ . तयैव दीक्षा कार्या चेत्तदेयं न्यासकल्पना । १६.१३३ . तत्त्वादिमुख्यतायोगाद्दीक्षायां तु पदावली ॥ १३३ १६.१३४ . तत्तत्त्वाद्यनुसारेण तत्रान्तर्भाव्यते तथा । १६.१३४ . स्वप्रधानत्वयोगे तु दीक्षायां पदपद्धतिम् ॥ १३४ १६.१३५ . न्यस्येत्क्रमेण तत्त्वादिवदनानवलोकिनीम् । १६.१३५ . चतुर्ष्वष्टासु चाष्टासु दशस्वथ दशस्वथ ॥ १३५ १६.१३६ . दशस्वथो पञ्चदशस्वथ वेदशरेन्दुषु । १६.१३६ . धरापदान्नवपदीं मातृकामालिनीगताम् ॥ १३६ १६.१३७ . योजयेद्व्याप्तृ दशमं पदं तु शिवसंज्ञितम् । १६.१३७ . धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥ १३७ १६.१३८ . विधिद्वयं स्यान्निक्षिप्य द्वादश द्वादशाङ्गुलान् । १६.१३८ . मन्त्राध्वनोऽप्येष एव विधिर्विन्यासयोजने ॥ १३८ १६.१३९ . व्याप्तिमात्रं हि भिद्येतेत्युक्तं प्रागेव तत्तथा । १६.१३९ . वर्णाध्वनोऽथ विन्यासः कथ्यतेऽत्र विधित्रये ॥ १३९ १६.१४० . एकं चतुर्षु प्रत्येकं द्वयोरङ्गुलयोः क्रमात् । १६.१४० . त्रयोविंशतिवर्णी स्यात्षड्वर्ण्येकैकशस्त्रिषु ॥ १४० १६.१४१ . प्रत्येकमथ चत्वारश्चतुर्ष्विति विलोमतः । १६.१४१ . मालिनीमातृकार्णाः स्युर्व्याप्तृ शैवं रसेन्दुतः ॥ १४१ १६.१४२ . वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीन्नवीन् । १६.१४२ . तां त्रयोविंशतौ वर्णेष्वप्यन्यत्स्याद्विधिद्वयम् ॥ १४२ १६.१४३ . श्रीपूर्वशास्त्रे तेनादौ तत्त्वेषूक्तं विधित्रयम् । १६.१४३ . अतिदिष्टं तु तद्भिन्नाभिन्नवर्णद्वये समम् ॥ १४३ १६.१४४ . द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते । १६.१४४ . तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥ १४४ १६.१४५ . उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु । १६.१४५ . भूयोऽतिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे ॥ १४५ १६.१४६ . पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः । १६.१४६ . त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥ १४६ १६.१४७ . उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते । १६.१४७ . चतुर्षु रसवेदे द्वाविंशतौ द्वादशस्वथ ॥ १४७ १६.१४८ . निवृत्त्याद्याश्चतस्रः स्युर्व्याप्त्री स्याच्छान्त्यतीतिका । १६.१४८ . द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥ १४८ १६.१४९ . क्रमात्क्षिप्त्वा विधिद्वैतं परापरपरात्मकम् । १६.१४९ . चतुरण्डविधिस्त्वादिशब्देनेह प्रगृह्यते ॥ १४९ १६.१५० . कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् । १६.१५० . एवं षड्विधमध्वानं शोध्यशिष्यतनौ पुरा ॥ १५० १६.१५१ . न्यस्यैकतममुख्यत्वान्न्यस्येच्छोधकसंमतम् । १६.१५१ . अध्वन्यासनमन्त्रौघः शोधको ह्येक आदितः ॥ १५१ १६.१५२ . शब्दराशिर्मालिनी च समस्तव्यस्ततो द्विधा । १६.१५२ . एकवीरतया यद्वा षट्कं यामलयोगतः ॥ १५२ १६.१५३ . पञ्चवक्त्री शक्तितद्वद्भेदात्षोढा पुनर्द्विधा । १६.१५३ . एकाकियामलत्वेनेत्येवं सा द्वादशात्मिका ॥ १५३ १६.१५४ . षडङ्गी सकलान्यत्वाद्द्विविधा वक्त्रवत्पुनः । १६.१५४ . द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥ १५४ १६.१५५ . अघोराद्यष्टके द्वे च तृतीयं यामलोदयात् । १६.१५५ . मातृसद्भावमन्त्रश्च केवलः श्रुतिचक्रगः ॥ १५५ १६.१५६ . एकद्वित्रिचतुर्भेदात्त्रयोदशभिदात्मकः । १६.१५६ . एकवीरतया सोऽयं चतुर्दशतया स्थितः ॥ १५६ १६.१५७ . अनामसंहृतिस्थैर्यसृष्टिचक्रं चतुर्विधम् । १६.१५७ . देवताभिर्निजाभिस्तन्मातृसद्भाववृंहितम् ॥ १५७ १६.१५८ . इत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता । १६.१५८ . षडर्धशास्त्रेषु श्रीमत्सारशास्त्रे च कथ्यते ॥ १५८ १६.१५९ . अघोराद्यष्टकेनेह शोधनीयं विपश्चिता । १६.१५९ . अथवैकाक्षरामन्त्रैरथवा मातृकाक्रमात् ॥ १५९ १६.१६० . भैरवीयहृदा वापि खेचरीहृदयेन वा । १६.१६० . भैरवेण महादेवि त्वथ वक्त्राङ्गपञ्चकैः ॥ १६० १६.१६१ . येन येन हि मन्त्रेण तन्त्रेऽस्मिन्नुद्भवः कृतः । १६.१६१ . तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥ १६१ १६.१६२ . एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः । १६.१६२ . शोध्यन्यासं विना मन्त्रैरेतैर्दीक्षा यदा भवेत् ॥ १६२ १६.१६३ . तदा सप्ततिधा ज्ञेया जननादिविवर्जिता । १६.१६३ . शोध्यभेदोऽथ वक्तव्यः संक्षेपात्सोऽपि कथ्यते ॥ १६३ १६.१६४ . एकत्रिपञ्चषट्त्रिंशद्भेदात्तात्त्वश्चतुर्विधः । १६.१६४ . पञ्चैकभेदाच्चाध्वानस्तथैवाण्डचतुष्टयम् ॥ १६४ १६.१६५ . एवं दशविधं शोध्यं त्रिंशद्धा तद्विधित्रयात् । १६.१६५ . शोध्यशोधकभेदेन शतानि त्वेकविंशतिः ॥ १६५ १६.१६६ . अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः । १६.१६६ . शतैकविंशतिभिदा जननाद्युज्झिता भवेत् ॥ १६६ १६.१६७ . जननादिमयी तावत्येवं शतदृशि श्रुतिः । १६.१६७ . स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः ॥ १६७ १६.१६८ . द्विधेति पञ्चाशीतिः स्याच्छतान्यधिकखाब्धिका । १६.१६८ . भोगमोक्षानुसन्धानाद्द्विविधा सा प्रकीर्तिता ॥ १६८ १६.१६९ . अशुभस्यैव संशुद्ध्या शुभस्याप्यथ शोधनात् । १६.१६९ . द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥ १६९ १६.१७० . एकद्विसामस्त्यवशात्सप्तधेत्यष्टधा भुजिः । १६.१७० . गुरुशिष्यक्रमात्सोऽपि द्विधेत्येवं विभिद्यते ॥ १७० १६.१७१ . प्रत्यक्षदीक्षणे यस्माद्द्वयोरेकानुसन्धितः । १६.१७१ . तादृग्दीक्षाफलं पूर्णं विसंवादे तु विप्लवः ॥ १७१ १६.१७२ . परोक्षमृतदीक्षादौ गुरुरेवानुसन्धिमान् । १६.१७२ . क्रियाज्ञानमहिम्ना तं शिष्यं धाम्नीप्सिते नयेत् ॥ १७२ १६.१७३ . अविभिन्ने क्रियाज्ञाने कर्मशुद्धौ तथैव ते । १६.१७३ . अनुसन्धिः पुनर्भिन्नः कर्म यस्मात्तदात्मकम् ॥ १७३ १६.१७४ . श्रीमत्स्वच्छन्दशास्त्रे च वासनाभेदतः फलम् । १६.१७४ . शिष्याणां च गुरोश्चोक्तमभिन्नेऽपि क्रियादिके ॥ १७४ १६.१७५ . भोगस्य शोधकाच्छोध्यादनुसन्धेश्च तादृशात् । १६.१७५ . वैचित्र्यमस्ति भेदस्य वैचित्र्यप्राणता यतः ॥ १७५ १६.१७६ . तथाहि वक्त्रैर्यस्याध्वा शुद्धस्तैरेव योजितः । १६.१७६ . भोक्तुमिष्टे क्वचित्तत्त्वे स भोक्ता तद्बलान्वितः ॥ १७६ १६.१७७ . शुभानां कर्मणां चात्र सद्भावे भोगचित्रता । १६.१७७ . तादृगेव भवेत्कर्मशुद्धौ त्वन्यैव चित्रता ॥ १७७ १६.१७८ . भोगश्च सद्य+उत्क्रान्त्या देहेनैवाथ संगतः । १६.१७८ . तदैवाभ्यासतो वापि देहान्ते वेत्यसौ चतुः ॥ १७८ १६.१७९ . प्राक्तनाष्टभिदा योगाद्द्वात्रिंशद्भेद उच्यते । १६.१७९ . मोक्ष एकोऽपि बीजस्य समयाख्यस्य तादृशम् ॥ १७९ १६.१८० . बालादिकं ज्ञातशीघ्रमरणं शक्तिवर्जितम् । १६.१८० . वृद्धं वोद्दिश्य शक्तं वा शोधनाशोधनाद्द्विधा ॥ १८० १६.१८१ . सद्य+उत्क्रान्तितस्त्रैधं सा चासन्नमृतौ गुरोः । १६.१८१ . कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥ १८१ १६.१८२ . दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । १६.१८२ . उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ १८२ १६.१८३ . पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः । १६.१८३ . उक्तद्वैविध्यकलनात्सप्ततिः परिकीर्तिताः ॥ १८३ १६.१८४ . एतैर्भेदैः पुरोक्तांस्तान्भेदान्दीक्षागतान्गुरुः । १६.१८४ . हत्वा वदेत्प्रसंख्यानं स्वभ्यस्तज्ञानसिद्धये ॥ १८४ १६.१८५ . पञ्चाशीतिशती या चत्वारिंशत्समुत्तरा कथिता । १६.१८५ . तां सप्तत्या भित्त्वा दीक्षाभेदान्स्वयं कलयेत् ॥ १८५ १६.१८६ . पञ्चकमिह लक्षाणां च सप्तनवतिः सहस्रपरिसंख्या । १६.१८६ . अष्टौ शतानि दीक्षाभेदोऽयं मालिनीतन्त्रे ॥ १८६ १६.१८७ . सप्ततिधा शोद्धृगणस्त्रिंशद्धा शोध्य एकतत्त्वादिः । १६.१८७ . साण्डः षडध्वरूपस्तथेतिकर्तव्यता चतुर्भेदा ॥ १८७ १६.१८८ . द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता । १६.१८८ . पञ्चत्रिंशद्धा पुनरेषा भोगापवर्गसन्धानात् ॥ १८८ १६.१८९ . यस्माद्द्वात्रिंशद्धा भोगः शुभशुद्ध्यशुद्धिकालभिदा । १६.१८९ . मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः ॥ १८९ १६.१९० . शोधनशोध्यविभेदादितिकर्तव्यत्वभेदतश्चैषा । १६.१९० . दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा ॥ १९० १६.१९१ . मन्त्राणां सकलेतरसाङ्गनिरङ्गादिभेदसंकलनात् । १६.१९१ . श्योध्यस्य च तत्त्वादेः पञ्चदशाद्युक्तभेदपरिगणनात् ॥ १९१ १६.१९२ . भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः । १६.१९२ . भेदाः संकीर्णाः पुनरन्ये भूयस्त्वकारिणो बहुधा ॥ १९२ १६.१९३ . शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् । १६.१९३ . भोगे साध्ये यद्यद्बहु कर्तव्यं तदाश्रयेन्मतिमान् ॥ १९३ १६.१९४ . कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् । १६.१९४ . अपवर्गे नतु भेदस्तेनास्मिन्वासनादृढत्वजुषा ॥ १९४ १६.१९५ . अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा । १६.१९५ . अभिनवगुप्तगुरुः पुनराह हि सति वित्तदेशकालादौ ॥ १९५ १६.१९६ . अपवर्गेऽपि हि विस्तीर्णकर्मविज्ञानसंग्रहः कार्यः । १६.१९६ . चिद्वृत्तेर्वैचित्र्याच्चाञ्चल्येऽपि क्रमेण सन्धानात् ॥ १९६ १६.१९७ . तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति । १६.१९७ . तत्त्वमिदमेतदात्मकमेतस्मात्प्रोद्धृतो मया शिष्यः ॥ १९७ १६.१९८ . इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति । १६.१९८ . क्रमिकतथाविधशिवतानुग्रहसुभगं च दैशिकं पश्यन् ॥ १९८ १६.१९९ . शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् । १६.१९९ . यद्यपि विकल्पवृत्तेरपि मोक्षं दीक्षयैव देहान्ते ॥ १९९ १६.२०० . शास्त्रे प्रोवाच विभुस्तथापि दृढवासना युक्ता । १६.२०० . मोक्षेऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजः सलोकादिः ॥ २०० १६.२०१ . इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् । १६.२०१ . संस्कारशेषवर्तनजीवितमध्येऽस्य समयलोपाद्यम् ॥ २०१ १६.२०२ . नायाति विघ्नजालं क्रियाबहुत्वं मुमुक्षोस्तत् । १६.२०२ . यस्मात्सबीजदीक्षासंस्कृतपुरुषस्य समयलोपाद्ये ॥ २०२ १६.२०३ . भुक्ते भोगान्मोक्षो नैवं निर्बीजदीक्षायाम् । १६.२०३ . इति केचिन्मन्यन्ते युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥ २०३ १६.२०४ . समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः ॥ २०४ १६.२०५ . तस्मादुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् । १६.२०५ . क्रमिकं तत्त्वोद्धरणादि कर्म मोक्षेऽपि युक्तमतिविततम् ॥ २०५ १६.२०६ . यस्तु सदा भावनया स्वभ्यस्तज्ञानवान्गुरुः स शिशोः । १६.२०६ . अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥ २०६ १६.२०७ . एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम् । १६.२०७ . शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः ॥ २०७ १६.२०८ . द्वयोर्मातृकयोस्तत्त्वस्थित्या वर्णक्रमः पुरा । १६.२०८ . कथितस्तं तथा न्यस्येत्तत्तत्तत्त्वविशुद्धये ॥ २०८ १६.२०९ . वर्णाध्वा यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः । १६.२०९ . मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः ॥ २०९ १६.२१० . उवाच सद्योज्योतिश्च वृत्तौ स्वायम्भुवस्य तत् । १६.२१० . बाढमेको हि पाशात्मा शब्दोऽन्यश्च शिवात्मकः ॥ २१० १६.२११ . तस्मात्तस्यैव वर्णस्य युक्ता शोधकशोध्यता । १६.२११ . श्रीपूर्वशास्त्रे चाप्युक्तं ते तैरालिङ्गिता इति ॥ २११ १६.२१२ . सद्योजातादिवक्त्राणि हृदाद्यङ्गानि पञ्च च । १६.२१२ . षट्कृत्वो न्यस्य षट्त्रिंशन्न्यासं कुर्याद्धरादितः ॥ २१२ १६.२१३ . परापराया वैलोम्याद्धरायां स्यात्पदत्रयम् । १६.२१३ . ततो जलादहङ्कारे पञ्चाष्टकसमाश्रयात् ॥ २१३ १६.२१४ . पदानि पञ्च धीमूलपुंरागाख्ये त्रये त्रयम् । १६.२१४ . एकं त्वशुद्धवित्कालद्वये चैकं नियामके ॥ २१४ १६.२१५ . कलामायाद्वये चैकं पदमुक्तमिह क्रमात् । १६.२१५ . विद्येश्वरसदाशक्तिशिवेषु पदपञ्चकम् ॥ २१५ १६.२१६ . एकोनविंशतिः सेयं पदानां स्यात्परापरा । १६.२१६ . सार्धं चैकं चैकं सार्धं द्वे द्वे शशी दृगथ युग्मम् ॥ २१६ १६.२१७ . त्राणि दृगब्धिश्चन्द्रः श्रुतिः शशी पञ्च विधुमहश्चन्द्राः । १६.२१७ . एकान्नविंशतौ स्यादक्षरसंख्या पदेष्वियं देव्याः ॥ २१७ १६.२१८ . हल्द्वययुतवसुचित्रगुपरिसंख्यातस्ववर्णायाः । १६.२१८ . मूलान्तं सार्धवर्णं स्यान्मायान्तं वर्णमेककम् ॥ २१८ १६.२१९ . शक्त्यन्तमेकमपरान्यासे विधिरुदीरितः । १६.२१९ . मायान्तं हल्ततः शक्तिपर्यन्ते स्वर उच्यते ॥ २१९ १६.२२० . निष्कले शिवतत्त्वे वै परो न्यासः परोदितः । १६.२२० . परापरापदान्येव ह्यघोर्याद्यष्टकद्वये ॥ २२० १६.२२१ . मन्त्रास्तदनुसारेण तत्त्वेष्वेतद्द्वयं क्षिपेत् । १६.२२१ . पिण्डाक्षराणां सर्वेषां वर्णसंख्या विभेदतः ॥ २२१ १६.२२२ . अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् । १६.२२२ . बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥ २२२ १६.२२३ . पिण्डानां बीजवन्न्यासमन्ये तु प्रतिपेदिरे । १६.२२३ . अकृते वाथ शोध्यस्य न्यासे वस्तुबलात्स्थितेः ॥ २२३ १६.२२४ . शोधकन्यासमात्रेण सर्वं शोध्यं विशुध्यति । १६.२२४ . श्रीमन्मृत्युञ्जयादौ च कथितं परमेष्ठिना ॥ २२४ १६.२२५ . अधुना न्यासमात्रेण भूतशुद्धिः प्रजायते । १६.२२५ . देहशुद्ध्यर्थमप्येतत्तुल्यमेतेन वस्तुतः ॥ २२५ १६.२२६ . अन्यप्रकरणोक्तं यद्युक्तं प्रकरणान्तरे । १६.२२६ . ज्ञापकत्वेन साक्षाद्वा तत्किं नान्यत्र गृह्यते ॥ २२६ १६.२२७ . मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा । १६.२२७ . प्रोक्तः केवलसंशोद्धृमन्त्रन्यासे स एव तु ॥ २२७ १६.२२८ . त्रिपदी द्वयोर्द्वयोः स्यात्प्रत्येकमथाष्टसु श्रुतिपदानि । १६.२२८ . दिक्चन्द्रचन्द्ररसरविशरशरदृग्दृङ्मृगाङ्कशशिगणने ॥ २२८ १६.२२९ . अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् । १६.२२९ . अपरं मानमिदं स्यात्केवलशोधकमनुन्यासे ॥ २२९ १६.२३० . तुर्यपदात्पदषट्के मानद्वितयं परापरपराख्यम् । १६.२३० . द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥ २३० १६.२३१ . केवलशोधकमन्त्रन्यासाभिप्रायतो महादेवः । १६.२३१ . तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि ॥ २३१ १६.२३२ . निष्कले पदमेकार्णं यावत्त्रीणि तु पार्थिवे । १६.२३२ . इत्यादिना तत्त्वगतक्रमन्यास उदीरितः ॥ २३२ १६.२३३ . पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः । १६.२३३ . द्विधा पदानीत्युक्त्वाख्यन्न्यासमन्यादृशं विभुः ॥ २३३ १६.२३४ . एकैकं द्व्यङ्गुलं ज्ञेयं तत्र पूर्वं पदत्रयम् । १६.२३४ . अष्टाङ्गुलानि चत्वारि दशाङ्गुलमतः परम् ॥ २३४ १६.२३५ . द्व्यङ्गुले द्वे पदे चान्ये षडङ्गुलमतः परम् । १६.२३५ . द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक् ॥ २३५ १६.२३६ . पदद्वयं चतुष्पर्व तथान्ये द्वे द्विपर्वणी । १६.२३६ . एवं परापरादेव्याः स्वतन्त्रो न्यास उच्यते ॥ २३६ १६.२३७ . विद्याद्वयं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् । १६.२३७ . इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥ २३७ १६.२३८ . एवं शोधकमन्त्रस्य न्यासे तद्रश्मियोगतः । १६.२३८ . पाशजालं विलीयेत तद्ध्यानबलतो गुरोः ॥ २३८ १६.२३९ . शोध्यतत्त्वे समस्तानां योनीनां तुल्यकालतः । १६.२३९ . जननाद्भोगतः कर्मक्षये स्यादपवृक्तता ॥ २३९ १६.२४० . देहैस्तावद्भिरस्याणोश्चित्रं भोक्तुरपि स्फुटम् । १६.२४० . मनोऽनुसन्धिर्नो विश्वसंयोगप्रविभागवत् ॥ २४० १६.२४१ . नियत्या मनसो देहमात्रे वृत्तिस्ततः परम् । १६.२४१ . नानुसन्धा यतः सैकस्वान्तयुक्ताक्षकल्पिता ॥ २४१ १६.२४२ . प्रदेशवृत्ति च ज्ञानमात्मनस्तत्र तत्र तत् । १६.२४२ . भोग्यज्ञानं नान्यदेहेष्वनुसन्धानमर्हति ॥ २४२ १६.२४३ . यदा तु मनसस्तस्य देहवृत्तेरपि ध्रुवम् । १६.२४३ . योगमन्त्रक्रियादेः स्याद्वैमल्यं तद्विदा तदा ॥ २४३ १६.२४४ . यथामलं मनो दूरस्थितमप्याशु पश्यति । १६.२४४ . तथा प्रत्ययदीक्षायां तत्तद्भुवनदर्शनम् ॥ २४४ १६.२४५ . जननादिवियुक्तां तु यदा दीक्षां चिकीर्षति । १६.२४५ . तदास्मादुद्धरामीति युक्तमूहप्रकल्पनम् ॥ २४५ १६.२४६ . यदा शोध्यं विना शोद्धृन्यासस्तत्रापि मन्त्रतः । १६.२४६ . जननादिक्रमं कुर्यात्तत्त्वसंश्लेषवर्जितम् ॥ २४६ १६.२४७ . एकाकिशोद्धृन्यासे च जननादिविवर्जने । १६.२४७ . तच्छोद्धृसंपुटं नाम केवलं परिकल्पयेत् ॥ २४७ १६.२४८ . द्रव्ययोगेन दीक्षायां तिलाज्याक्षततण्डुलम् । १६.२४८ . तत्तन्मन्त्रेण जुहुयाज्जन्मयोगवियोगयोः ॥ २४८ १६.२४९ . यदा विज्ञानदीक्षां तु कुर्याच्छिष्यं तदा भृशम् । १६.२४९ . तन्मन्त्रसंजल्पबलात्पश्येदा चाविकल्पकात् ॥ २४९ १६.२५० . विकल्पः किल संजल्पमयो यत्स विमर्शकः । १६.२५० . मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः ॥ २५० १६.२५१ . नित्यश्चानादिवरदशिवाभेदोपकल्पितः । १६.२५१ . तद्योगाद्दैशिकस्यापि विकल्पः शिवतां व्रजेत् ॥ २५१ १६.२५२ . श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् । १६.२५२ . अर्थस्य प्रतिपत्तिर्या ग्राह्यग्राहकरूपिणी ॥ २५२ १६.२५३ . सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ । १६.२५३ . परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥ २५३ १६.२५४ . परामर्शो द्विधा शुद्धाशुद्धत्वान्मन्त्रभेदकः । १६.२५४ . उक्तं श्रीपौष्करेऽन्ये च ब्रह्मविष्ण्वादयोऽण्डगाः ॥ २५४ १६.२५५ . प्राधानिकाः साञ्जनास्ते सात्त्वराजसतामसाः । १६.२५५ . तैरशुद्धपरामर्शात्तन्मयीभावितो गुरुः ॥ २५५ १६.२५६ . वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने । १६.२५६ . ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥ २५६ १६.२५७ . श्रीमन्मतङ्गादिदृशा तन्मयो हि गुरुः शिवः । १६.२५७ . ननु स्वतन्त्रसंजल्पयोगादस्तु विमर्शिता ॥ २५७ १६.२५८ . प्राक्कुतः स विमर्शाच्चेत्कुतः सोऽपि निरूपणे । १६.२५८ . आद्यस्तथाविकल्पत्वप्रदः स्यादुपदेष्टृतः ॥ २५८ १६.२५९ . यः संक्रान्तोऽभिजल्पः स्यात्तस्याप्यन्योपदेष्टृतः । १६.२५९ . पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥ २५९ १६.२६० . संजल्पो ह्यभिसंक्रान्तः सोऽद्याप्यस्तीति गृह्यताम् । १६.२६० . यस्तथाविधसंजल्पबलात्कोऽपि स्वतन्त्रकः ॥ २६० १६.२६१ . विमर्शः कल्प्यते सोऽपि तदात्मैव सुनिश्चितः । १६.२६१ . घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥ २६१ १६.२६२ . सोऽप्यन्यकल्पनादायी ह्यनादृत्यः प्रयत्नतः । १६.२६२ . पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥ २६२ १६.२६३ . करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल । १६.२६३ . शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥ २६३ १६.२६४ . व्यवहारात्तु सा साक्षाच्चित्रोपाख्याविमर्शिनी । १६.२६४ . तद्विमर्शोदयः प्राच्यस्वविमर्शमयः स्फुरेत् ॥ २६४ १६.२६५ . यावद्बालस्य संवित्तिरकृत्रिमविमर्शने । १६.२६५ . तेन तन्मन्त्रशब्दार्थविशेषोत्थं विकल्पनम् ॥ २६५ १६.२६६ . शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आदृतः । १६.२६६ . यच्चापि बीजपिण्डादेरुक्तं प्राग्बोधरूपकम् ॥ २६६ १६.२६७ . तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना । १६.२६७ . एतदर्थं गुरोर्यत्नाल्लक्षणे तत्र तत्र तत् ॥ २६७ १६.२६८ . लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः । १६.२६८ . तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥ २६८ १६.२६९ . ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् । १६.२६९ . मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥ २६९ १६.२७० . गुरुं कुर्यात्तदभ्यासात्तत्संकल्पमयो ह्यसौ । १६.२७० . तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥ २७० १६.२७१ . गुरोर्भवेत्तदा सर्वसाम्ये को भेद उच्यताम् । १६.२७१ . अंशेनाप्यथ वैषम्ये न ततोऽर्थक्रिया हि सा ॥ २७१ १६.२७२ . गोमयात्कीटतः कीट इत्येवं न्यायतो यदा । १६.२७२ . संजल्पान्तरतोऽप्यर्थक्रियां तामेव पश्यति ॥ २७२ १६.२७३ . तदैष सत्यसंजल्पः शिव एवेति कथ्यते । १६.२७३ . स यद्वक्ति तदेव स्यान्मन्त्रो भोगापवर्गदः ॥ २७३ १६.२७४ . नैषोऽभिनवगुप्तस्य पक्षो मन्त्रार्पितात्मनः । १६.२७४ . योऽर्थक्रियामाह भिन्नां कीटयोरपि तादृशोः ॥ २७४ १६.२७५ . मन्त्रार्पितमनाः किंचिद्वदन्यत्तु विषं हरेत् । १६.२७५ . तन्मन्त्र एव शब्दः स परं तत्र घटादिवत् ॥ २७५ १६.२७६ . कान्तासंभोगसंजल्पसुन्दरः कामुकः सदा । १६.२७६ . तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति ॥ २७६ १६.२७७ . तथा तन्मन्त्रसंजल्पभावितोऽन्यदपि ब्रुवन् । १६.२७७ . अनिच्छुरपि तद्रूपस्तथा कार्यकरो ध्रुवम् ॥ २७७ १६.२७८ . विकल्पयन्नप्येकार्थं यतोऽन्यदपि पश्यति । १६.२७८ . विषापहारिमन्त्रादीत्युक्तं श्रीपूर्वशासने ॥ २७८ १६.२७९ . यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता । १६.२७९ . धात्वाप्यायादिकानन्तकार्यभेदाद्भविष्यति ॥ २७९ १६.२८० . तदेवं मन्त्रसंजल्पविकल्पाभ्यासयोगतः । १६.२८० . भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥ २८० १६.२८१ . वस्त्वेव भावयत्येष न संजल्पमिमं पुनः । १६.२८१ . गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥ २८१ १६.२८२ . एवं संजल्पनिर्ह्रासे सुपरिस्फुटतात्मकम् । १६.२८२ . अकृत्त्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥ २८२ १६.२८३ . निर्विकल्पा च सा संविद्यद्यथा पश्यति स्फुटम् । १६.२८३ . तत्तथैव तथात्मत्वाद्वस्तुनोऽपि बहिःस्थितेः ॥ २८३ १६.२८४ . विशेषतस्त्वमायीयशिवताभेदशालिनः । १६.२८४ . मोक्षेऽभ्युपायः संजल्पो बन्धमोक्षौ ततः किल ॥ २८४ १६.२८५ . विकल्पेऽपि गुरोः सम्यगभिन्नशिवताजुषः । १६.२८५ . अविकल्पकपर्यन्तप्रतीक्षा नोपयुज्यते ॥ २८५ १६.२८६ . तद्विमर्शस्वभावा हि सा वाच्या मन्त्रदेवता । १६.२८६ . महासंवित्समासन्नेत्युक्तं श्रीगमशासने ॥ २८६ १६.२८७ . निकटस्था यथा राज्ञामन्येषां साधयन्त्यलम् । १६.२८७ . सिद्धिं राजोपगां शीघ्रमेवं मन्त्रादयः पराम् ॥ २८७ १६.२८८ . उक्ताभिप्रायगर्भं तदुक्तं श्रीमालिनीमते । १६.२८८ . मन्त्राणां लक्षणं कस्मादित्युक्ते मुनिभिः किल ॥ २८८ १६.२८९ . योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना । १६.२८९ . तद्वस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥ २८९ १६.२९० . तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् । १६.२९० . सबीजयोगसंसिद्ध्यै मन्त्रलक्षणमप्यलम् ॥ २९० १६.२९१ . न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे । १६.२९१ . क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥ २९१ १६.२९२ . द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् । १६.२९२ . नच योगाधिकारित्वमेकमेवानया भवेत् ॥ २९२ १६.२९३ . अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । १६.२९३ . अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥ २९३ १६.२९४ . मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमादृतः । १६.२९४ . मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् ॥ २९४ १६.२९५ . तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् । १६.२९५ . तेन मन्त्रज्ञानयोगबलाद्यद्यत्प्रसाधयेत् ॥ २९५ १६.२९६ . तत्स्यादस्यान्यतत्त्वेऽपि युक्तस्य गुरुणा शिशोः । १६.२९६ . दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः ॥ २९६ १६.२९७ . स्वबलेनैव भोगं वा मोक्षं वा लभते बुधः । १६.२९७ . तेन विज्ञानयोगादिबली प्राक्समयी भवन् ॥ २९७ १६.२९८ . पुत्रको वा न तावान्स्यादपितु स्वबलोचितः । १६.२९८ . यस्तु विज्ञानयोगादिवन्ध्यः सोऽन्धो यथा पथि ॥ २९८ १६.२९९ . दैशिकायत्त एव स्याद्भोगे मुक्तौ च सर्वथा । १६.२९९ . दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥ २९९ १६.३०० . मोचिकैवेति कथितं युक्त्या चागमतः पुरा । १६.३०० . यस्तु दीक्षाकृतामेवापेक्ष्य योजनिकां शिशुः ॥ ३०० १६.३०१ . स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः । १६.३०१ . सोऽपि यत्रैव युक्तः स्यात्तन्मयत्वं प्रपद्यते ॥ ३०१ १६.३०२ . गुरुदीक्षामन्त्रशास्त्राधीनसर्वस्थितिस्ततः । १६.३०२ . दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥ ३०२ १६.३०३ . कर्मणां शोधनं कार्यं बुभुक्षोर्न शुभात्मनाम् । १६.३०३ . यः पुनर्लौकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥ ३०३ १६.३०४ . त्यक्त्वा लोकोत्तरं भोगमीप्सुस्तस्य शुभेष्वपि । १६.३०४ . तत्र द्रव्यमयीं दीक्षां कुर्वन्नाज्यतिलादिकैः ॥ ३०४ १६.३०५ . कर्मास्य शोधयामीति जुहुयाद्दैशिकोत्तमः । १६.३०५ . ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥ ३०५ १६.३०६ . गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् । १६.३०६ . यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ॥ ३०६ १६.३०७ . स्वतारतम्याश्रयणादध्वमध्ये प्रसूतिदम् । १६.३०७ . शुभपाकक्रमोपात्तफलभोगसमाप्तितः ॥ ३०७ १६.३०८ . यत्रैष योजितस्तत्स्थो भाविकर्मक्षये कृते । १६.३०८ . भाविनां चाद्यदेहस्थदेहान्तरविभेदिनाम् ॥ ३०८ १६.३०९ . अशुभांशविशुद्धौ स्याद्भोगस्यैवानुपक्षयः । १६.३०९ . भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः ॥ ३०९ १६.३१० . न दुःखफलदं देहाद्यध्वमध्येऽपि किंचन । १६.३१० . ततो मायालये भुक्तसमस्तसुखभोगकः ॥ ३१० १६.३११ . निष्कले सकले वैति लयं योजनिकाबलात् । १६.३११ . इति प्रमेयं कथितं दीक्षा काले गुरोर्यथा ॥ ३११ च्१७ अथ श्रीतन्त्रालोके सप्तदशमाह्निकम् १७.१ . अथ भैरवतादात्म्यदायिनीं प्रक्रियां ब्रुवे । १७.१ . एवं मण्डलकुम्भाग्निशिष्यस्वात्मसु पञ्चसु ॥ १ १७.२ . गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् । १७.२ . कर्ममायाणुमलिनत्रयं बाहौ गले तथा ॥ २ १७.३ . शिखायां च क्षिपेत्सूत्रग्रन्थियोगेन दैशिकः । १७.३ . तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥ ३ १७.४ . इतिप्रतीतिदार्ढ्यार्थं बहिर्ग्रन्थ्युपकल्पनम् । १७.४ . बाहू कर्मास्पदं विष्णुर्मायात्मा गलसंश्रितः ॥ ४ १७.५ . अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता । १७.५ . नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥ ५ १७.६ . वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् । १७.६ . तेजोजलान्नत्रितयं त्रेधा प्रत्येकमप्यदः ॥ ६ १७.७ . श्रुत्यन्ते केऽप्यतः शुक्लकृष्णरक्तं प्रपेदिरे । १७.७ . ततोऽग्नौ तर्पिताशेषमन्त्रे चिद्व्योममात्रके ॥ ७ १७.८ . सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत् । १७.८ . तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥ ८ १७.९ . इष्ट्वा पुष्पादिभिः सर्पिस्तिलाद्यैरथ तर्पयेत् । १७.९ . तत्तत्त्वव्यापिकां पश्चान्मायातत्त्वाधिदेवताम् ॥ ९ १७.१० . मायाशक्तिं स्वमन्त्रेणावाह्याभ्यर्च्य प्रतर्पयेत् । १७.१० . आवाहने मातृकार्णं मालिन्यर्णं च पूजने ॥ १० १७.११ . कुर्यादिति गुरुः प्राह स्वरूपाप्यायनद्वयात् । १७.११ . तारो वर्णोऽथ संबुद्धिपदं त्वामित्यतः परम् ॥ ११ १७.१२ . उत्तमैकयुतं कर्मपदं दीपकमप्यतः । १७.१२ . तभ्यं नाम चतुर्थ्यन्तं ततोऽप्युचितदीपकम् ॥ १२ १७.१३ . इत्यूहमन्त्रयोगेन तत्तत्कर्म प्रवर्तयेत् । १७.१३ . आवाहनानन्तरं हि कर्म सर्वं निगद्यते ॥ १३ १७.१४ . आवाहनं च संबोधः स्वस्वभावव्यवस्थितेः । १७.१४ . भावस्याहंमयस्वात्मतादात्म्यावेश्यमानता ॥ १४ १७.१५ . शाक्ती भूमिश्च सैवोक्ता यस्यां मुख्यास्ति पूज्यता । १७.१५ . अभातत्वादभेदाच्च नह्यसौ नृशिवात्मनोः ॥ १५ १७.१६ . जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः । १७.१६ . आवाहनविभक्तिं प्राक्कृत्वा तुर्यविभक्तितः ॥ १६ १७.१७ . नमस्कारान्ततायोगात्पूर्णां सत्तां प्रकल्पयेत् । १७.१७ . ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥ १७ १७.१८ . ध्येयोद्रेको भवेद्ध्यातृप्रह्वीभाववशाद्यतः । १७.१८ . आवाह्येष्ट्वा प्रतर्प्येति श्रीस्वच्छन्दे निरूपितम् ॥ १८ १७.१९ . अनेनैव पथानेयमित्यस्मद्गुरवो जगुः । १७.१९ . परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥ १९ १७.२० . अनवच्छित्प्रकाशत्वान्न प्रकाश्यं तु कुत्रचित् । १७.२० . तस्य ह्येतत्प्रपूज्यत्वध्येयत्वादि यदुल्लसेत् ॥ २० १७.२१ . तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता । १७.२१ . संबोधरूपे तत्तस्मिन् कथं संबोधना भवेत् ॥ २१ १७.२२ . प्रकाशनायां न स्यात्प्रकाशस्य प्रकाशता । १७.२२ . संबोधनविभक्त्यैव विना कर्मादिशक्तिताम् ॥ २२ १७.२३ . स्वातन्त्र्यात्तं दर्शयितुं तत्रोहमिममाचरेत् । १७.२३ . देवमावाहयामीति ततो देवाय दीपकम् ॥ २३ १७.२४ . प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् । १७.२४ . नुतिः पूर्णत्वमग्नीन्दुसंघट्टाप्यायता परम् ॥ २४ १७.२५ . आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् । १७.२५ . तत्र बाह्येऽपि तादात्म्यप्रसिद्धं कर्म चोद्यते ॥ २५ १७.२६ . यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्क्वचित् । १७.२६ . अनाभासिततद्वस्तुभासनाय नियुज्यते ॥ २६ १७.२७ . मन्त्रः किं तेन तत्र स्यात्स्फुटं यत्रावभासि तत् । १७.२७ . तेन प्रोक्षणसंसेकजपादिविधिषु ध्रुवम् ॥ २७ १७.२८ . तत्कर्माभ्यूहनं कुर्यात्प्रत्युत व्यवधातृताम् । १७.२८ . बहिस्तथात्मताभावे कार्यं कर्मपदोहनम् ॥ २८ १७.२९ . तृप्तावाहुतिहुतभुक्पाशप्लोषच्छिदादिषु । १७.२९ . यत्रोद्दिष्टे विधौ पश्चात्तदनन्तैः क्रियात्मकैः ॥ २९ १७.३० . अंशैः साध्यं न तत्रोहो दीक्षणादिविधिष्विव । १७.३० . ततः शिष्यस्य तत्तत्त्वस्थानेऽस्त्रेण प्रताडनम् ॥ ३० १७.३१ . कृत्वाथ शिवहस्तेन हृदयं परिमर्शयेत् । १७.३१ . ततः स्वनाडीमार्गेण हृदयं प्राप्य वै शिशोः ॥ ३१ १७.३२ . शिष्यात्मना सहैकत्वं गत्वादाय च तं हृदा । १७.३२ . पुटितं हंसरूपाख्यं तत्र संहारमुद्रया ॥ ३२ १७.३३ . कुर्यादात्मीयहृदयस्थितमप्यवभासकम् । १७.३३ . शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥ ३३ १७.३४ . स्वबन्धस्थानचलनात्स्वतन्त्रस्थानलाभतः । १७.३४ . स्वकर्मापरतन्त्रत्वात्सर्वत्रोत्पत्तिमर्हति ॥ ३४ १७.३५ . तेनात्महृदयानीतं प्राक्कृत्वा पुद्गलं ततः । १७.३५ . मायायां तद्धरातत्त्वशरीराण्यस्य संसृजेत् ॥ ३५ १७.३६ . तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः । १७.३६ . गर्भनिष्क्रामपर्यन्तैरेकां कुर्वीत संस्क्रियाम् ॥ ३६ १७.३७ . जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया । १७.३७ . ततोऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥ ३७ १७.३८ . ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत् । १७.३८ . संस्काराणां चतुष्केऽस्मिन्नपरां च परापराम् ॥ ३८ १७.३९ . मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् । १७.३९ . पिवन्याद्यष्टकं शस्त्रादिकं षट्कं परा तथा ॥ ३९ १७.४० . इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ । १७.४० . अपरामन्त्रमुक्त्वा प्रागमुकात्मन इत्यथ ॥ ४० १७.४१ . गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च । १७.४१ . स्वाहान्तमुच्चरन्दद्यादाहुतित्रितयं गुरुः ॥ ४१ १७.४२ . परं परापरामन्त्रममुकात्मन इत्यथ । १७.४२ . जातस्य भोगभोक्तृत्वं करोम्यथ परापराम् ॥ ४२ १७.४३ . अन्ते स्वाहेति प्रोच्चार्य वितरेत्तिस्र आहुतीः । १७.४३ . उच्चार्य पिवनीमन्त्रममुकात्मन इत्यथ ॥ ४३ १७.४४ . भोगे लयं करोमीति पुनर्मन्त्रं तमेव च । १७.४४ . स्वाहान्तमाहुतीस्तिस्रो दद्यादाज्यतिलादिभिः ॥ ४४ १७.४५ . एष एव वमन्यादौ विधिः पञ्चदशान्तके । १७.४५ . पूर्वं परात्मकं मन्त्रममुकात्मन इत्यथ ॥ ४५ १७.४६ . पाशाच्छेदं करोमीति परामन्त्रः पुनस्ततः । १७.४६ . हुं स्वाहा फट्समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः ॥ ४६ १७.४७ . संस्काराणां चतुष्केऽस्मिन्ये मन्त्राः कथिता मया । १७.४७ . तेषु कर्मपदात्पूर्वं धरातत्त्वपदं वदेत् ॥ ४७ १७.४८ . ततो धरातत्त्वपतिमामन्त्र्येष्ट्वा प्रतर्प्य च । १७.४८ . शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥ ४८ १७.४९ . तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया । १७.४९ . प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम् ॥ ४९ १७.५० . ततो यदि समीहेत धरातत्त्वान्तरालगम् । १७.५० . पृथक्शोधयितुं मन्त्री भुवनाद्यध्वपञ्चकम् ॥ ५० १७.५१ . अपरामन्त्रतः प्राग्वत्तिस्रस्तिस्रस्तदाहुतीः । १७.५१ . दद्यात्पुरं शोधयामीत्यूहयुक्तं प्रसन्नधीः ॥ ५१ १७.५२ . एवं कलामन्त्रपदवर्णेष्वपि विचक्षणः । १७.५२ . तिस्रस्तिस्रो हुतीर्दद्यात्पृथक्सामस्त्यतोऽपिवा ॥ ५२ १७.५३ . ततः पूर्णाहुतिं दत्त्वा परया वौषडन्तया । १७.५३ . अपरामन्त्रतः शिष्यमुद्धृत्यात्महृदं नयेत् ॥ ५३ १७.५४ . यदा त्वेकेन शुद्धेन तदन्तर्भावचिन्तनात् । १७.५४ . न पृथक्शोधयेत्तत्त्वनाथसंश्रवणात्परम् ॥ ५४ १७.५५ . तदा पूर्णां वितीर्याणुमुत्क्षिप्यात्मनि योजयेत् । १७.५५ . तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः ॥ ५५ १७.५६ . सकर्मपदया दद्यादिति केचित्तु मन्वते । १७.५६ . अन्ये तु गुरवः प्राहुर्भावनामयमीदृशम् ॥ ५६ १७.५७ . नात्र बाह्याहुतिर्देया दैशिकस्य पृथक्पुनः । १७.५७ . दद्याद्वा यदि नो दोषः स्यादुपायः स भावने ॥ ५७ १७.५८ . एवं प्राक्तनतात्स्थ्यात्मसंस्थत्वे योजयेद्गुरुः । १७.५८ . ततः शिष्यहृदं नेयः स आत्मा तावतोऽध्वनः ॥ ५८ १७.५९ . शुद्धस्तद्दार्ढ्यसिद्ध्यै च पूर्णा स्यात्परया पुनः । १७.५९ . महापाशुपतं पूर्वं विलोमस्य विशुद्धये ॥ ५९ १७.६० . जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् । १७.६० . पुनः पूर्णां ततो मायामभ्यर्च्याथ विसर्जयेत् ॥ ६० १७.६१ . धरातत्त्वं विशुद्धं सज्जलेन शुद्धरूपिणा । १७.६१ . भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥ ६१ १७.६२ . तथा तत्तत्पुरातत्त्वमिश्रणादुत्तरोत्तरम् । १७.६२ . सर्वा शिवीभवेत्तत्त्वावली शुद्धान्यथा पृथक् ॥ ६२ १७.६३ . पृथक्त्वं च मलो मायाभिधानस्तस्य संभवे । १७.६३ . कर्मक्षयेऽपि नो मुक्तिर्भवेद्विद्येश्वरादिवत् ॥ ६३ १७.६४ . ततोऽपि जलतत्त्वस्य वह्नौ व्योम्नि चिदात्मके । १७.६४ . आह्वानाद्यखिलं यावत्तेजस्यस्य विमश्रणम् ॥ ६४ १७.६५ . एवं क्रमात्कलातत्त्वे शुद्धे पाशं भुजाश्रितम् । १७.६५ . छिन्द्यात्कला हि सा किंचित्कर्तृत्वोन्मीलनात्मिका ॥ ६५ १७.६६ . कर्माख्यमलजृम्भात्मा तं च ग्रन्थिं स्रुगग्रगम् । १७.६६ . पूर्णाहुत्या समं वह्निमन्त्रतेजसि निर्दहेत् ॥ ६६ १७.६७ . मन्त्रो हि विश्वरूपः सन्नुपाश्रयवशात्तथा । १७.६७ . व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥ ६७ १७.६८ . प्लुष्टो लीनस्वभावोऽसौ पाशस्तं प्रति शम्भुवत् । १७.६८ . परमेशमहातेजःशेषमात्रत्वमश्नुते ॥ ६८ १७.६९ . कर्मपाशेऽत्र होतव्ये पूर्णयास्य शुभाशुभम् । १७.६९ . अशुभं वा भवद्भूतं भावि वाथ समस्तकम् ॥ ६९ १७.७० . दहामि फट्त्रयं वौषडिति पूर्णां विनिक्षिपेत् । १७.७० . एवं मायान्तसंशुद्धौ कण्ठपाशं च होमयेत् ॥ ७० १७.७१ . पूर्णस्य तस्य मायाख्यं पाशभेदप्रथात्मकम् । १७.७१ . दहामि फट्त्रयं वौषडिति पूर्णां क्षिपेद्गुरुः ॥ ७१ १७.७२ . निर्बीजा यदि कार्या तु तदात्रैवापरां क्षिपेत् । १७.७२ . पूर्णां समयपाशाख्यबीजदाहपदान्विताम् ॥ ७२ १७.७३ . गुरौ देवे तथा शास्त्रे भक्तिः कार्यास्य नह्यसौ । १७.७३ . समयः शक्तिपातस्य स्वभावो ह्येष नो पृथक् ॥ ७३ १७.७४ . मायान्ते शुद्धिमायाते वागीशी या पुराभवत् । १७.७४ . माया शक्तिमयी सैव विद्याशक्तित्वमश्नुते ॥ ७४ १७.७५ . तच्छुद्धविद्यामाहूय विद्याशक्तिं नियोजयेत् । १७.७५ . एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् ॥ ७५ १७.७६ . शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् । १७.७६ . यतोऽधिकारभोगाख्यौ द्वौ पाशौ तु सदाशिवे ॥ ७६ १७.७७ . इत्युक्त्याणवपाशोऽत्र मायीयस्तु निशावधिः । १७.७७ . शिष्यो यथोचितं स्नायादाचामेद्दैशिकः स्वयम् ॥ ७७ १७.७८ . आणवाख्ये विनिर्दग्धे ह्यधोवाहिशिखामले । १७.७८ . ततः प्रागुक्तसकलप्रमेयं परिचिन्तयन् ॥ ७८ १७.७९ . शिष्यदेहादिमात्मीयदेहप्राणादियोजितम् । १७.७९ . कृत्वात्मदेहप्राणादेर्विश्वमन्तरनुस्मरेत् ॥ ७९ १७.८० . उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः । १७.८० . प्राणस्थं देशकालाध्वयुगं प्राणं च शक्तिगम् ॥ ८० १७.८१ . तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् । १७.८१ . शिष्यसंविदभिन्नां च मन्त्रवह्न्याद्यभेदिनीम् ॥ ८१ १७.८२ . ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् । १७.८२ . द्व्यात्मकं वा क्षिपेत्पूर्णां प्रशान्तकरणेन तु ॥ ८२ १७.८३ . उक्तं त्रैशिरसे तन्त्रे सर्वसंपूरणात्मकम् । १७.८३ . मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥ ८३ १७.८४ . जन्मान्तमध्यकुहरमूलस्रोतःसमुत्थितम् । १७.८४ . शिवार्करश्मिभिस्तीव्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥ ८४ १७.८५ . तेन संतर्पयेत्सम्यक्प्रशान्तकरणेन तु । १७.८५ . शून्यधामाब्जमध्यस्थप्रभाकिरणभास्वरः ॥ ८५ १७.८६ . आधेयाधारनिःस्पन्दबोधशास्त्रपरिग्रहः । १७.८६ . जन्माधेयप्रपञ्चैकस्फोटसंघट्टघट्टनः ॥ ८६ १७.८७ . मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम् । १७.८७ . खमिवातिष्ठते यावत्प्रशान्तं तावदुच्यते ॥ ८७ १७.८८ . उक्तं श्रीपूर्वशास्त्रे च स्रुचमापूर्य सर्पिषा । १७.८८ . कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरन् ॥ ८८ १७.८९ . शिवं शक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम् । १७.८९ . एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः ॥ ८९ १७.९० . तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम् । १७.९० . तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भ्वेत् ॥ ९० १७.९१ . एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना । १७.९१ . न भूयः पशुतामेति दग्धमायानिबन्धनः ॥ ९१ १७.९२ . देहपाते पुनः प्रेप्सेद्यदि तत्त्वेषु कुत्रचित् । १७.९२ . भोगान् समस्तव्यस्तत्वभेदैरन्ते परं पदम् ॥ ९२ १७.९३ . तदा तत्तत्त्वभूमौ तु तत्संख्यायामनन्यधीः । १७.९३ . पुनर्योजनिकां कुर्यात्पूर्णाहुत्यन्तरेण तु ॥ ९३ १७.९४ . मुक्तिप्रदा भोगमोक्षप्रदा वा या प्रकीर्तिता । १७.९४ . दीक्षा सा स्यात्सबीजत्वनिर्बीजात्मतया द्विधा ॥ ९४ १७.९५ . बाले निर्ज्ञातमरणे त्वशक्ते वा जरादिभिः । १७.९५ . कार्या निर्बीजिका दीक्षा शक्तिपातबलोदये ॥ ९५ १७.९६ . निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् । १७.९६ . कृतनिर्बीजदीक्षस्तु देवाग्निगुरुभक्तिभाक् ॥ ९६ १७.९७ . इयतैव शिवं यायात्सद्यो भोगान् विभुज्य वा । १७.९७ . श्रीमद्दीक्षोत्तरे चोक्तं चारे षट्त्रिंशदङ्गुले ॥ ९७ १७.९८ . तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् । १७.९८ . तुटिमात्रं निष्कलं तददेहं तदहंपरम् ॥ ९८ १७.९९ . शक्त्या तत्र क्षिपाम्येनमिति ध्यायंस्तु दीक्षयेत् । १७.९९ . सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥ ९९ १७.१०० . विशेषस्त्वयमेतस्यां यावज्जीवं शिशोर्गुरुः । १७.१०० . शेषवृत्त्यै शुद्धतत्त्वसृष्टिं कुर्वीत पूर्णया ॥ १०० १७.१०१ . अभिन्नाच्छिवसंबोधजलधेर्युगपत्स्फुरत् । १७.१०१ . पूर्णां क्षिपंस्तत्त्वजालं ध्यायेद्भारूपकं सृतम् ॥ १०१ १७.१०२ . विशुद्धतत्त्वसृष्टिं वा कुर्यात्कुम्भाभिषेचनात् । १७.१०२ . तथा ध्यानबलादेव यद्वा पूर्णाभिषेचनैः ॥ १०२ १७.१०३ . पृथिवी स्थिररूपास्य शिवरूपेण भाविता । १७.१०३ . स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥ १०३ १७.१०४ . जलमाप्याययत्येनां तेजो भास्वरतां नयेत् । १७.१०४ . मरुदानन्दसंस्पर्शं व्योम वैतत्यमावहेत् ॥ १०४ १७.१०५ . एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते । १७.१०५ . परानन्दमहाव्याप्तिरशेषमलविच्युतिः ॥ १०५ १७.१०६ . शिवे गन्तृत्वमादानमुपादेयशिवस्तुतिः । १७.१०६ . शिवामोदभरास्वाददर्शनस्पर्शनान्यलम् ॥ १०६ १७.१०७ . तदाकर्णनमित्येवमिन्द्रियाणां विशुद्धता । १७.१०७ . संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती ॥ १०७ १७.१०८ . शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके । १७.१०८ . नियमो रञ्जनं कर्तृभावः कलनया सह ॥ १०८ १७.१०९ . वेदनं हेयवस्त्वंशविषये सुप्तकल्पता । १७.१०९ . इत्थं शिवैक्यरूढस्य षट्कञ्चुकगणोऽप्ययम् ॥ १०९ १७.११० . शुद्ध एव पुमान् प्राप्तशिवभावो विशुद्ध्यति । १७.११० . विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता ॥ ११० १७.१११ . इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योऽपि तन्मयः । १७.१११ . भवेद्ध्येतत्सूचितं श्रीमालिनीविजयोत्तरे ॥ १११ १७.११२ . बन्धमोक्षावुभावेताविन्द्रियाणि जगुर्बुधाः । १७.११२ . निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥ ११२ १७.११३ . एतानि व्यापके भावे यदा स्युर्मनसा सह । १७.११३ . मुक्तानि क्वापि विषये रोधाद्बन्धाय तानि तु ॥ ११३ १७.११४ . इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः । १७.११४ . इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥ ११४ १७.११५ . श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने । १७.११५ . समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥ ११५ १७.११६ . मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा । १७.११६ . द्व्यात्मया सकलान्ते तु निष्कले परयैव तु ॥ ११६ १७.११७ . ईशान्ते च पिवन्यादि सकलान्तेऽङ्गपञ्चकम् । १७.११७ . इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥ ११७ १७.११८ . पुराध्वनि हुतीनां या संख्येयं तत्त्ववर्णयोः । १७.११८ . तामेव द्विगुणीकुर्यात्पदाध्वनि चतुर्गुणाम् ॥ ११८ १७.११९ . क्रमान्मन्त्रकलामार्गे द्विगुणा द्विगुणा क्रमात् । १७.११९ . यावत्त्रितत्त्वसंशुद्धौ स्याद्विंशतिगुणा ततः ॥ ११९ १७.१२० . प्रतिकर्म भवेत्षष्टिराहुतीनां त्रितत्त्वके । १७.१२० . एकतत्त्वे शतं प्राहुराहुतीनां तु साष्टकम् ॥ १२० १७.१२१ . विलोमकर्मणा साकं याः पूर्णाहुतयः स्मृताः । १७.१२१ . तासां सर्वाध्वसंशुद्धौ संख्यान्यत्वं न किंचन ॥ १२१ १७.१२२ . इत्येषा कथिता दीक्षा जननादिसमन्विता ॥ १२२ च्१८ अथ श्रीतन्त्रालोके अष्टादशमाह्निकम् १८.१ . अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते । १८.१ . न रजो नाधिवासोऽत्र न भूक्षेत्रपरिग्रहः । १८.१ . यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥ १ १८.२ . अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः । १८.२ . जननादिविहीनां तु येन येनाध्वना गुरुः ॥ २ १८.३ . कुर्यात्स एकतत्त्वान्तां शिवभावैकभावितः । १८.३ . परामन्त्रस्ततोऽस्येति तत्त्वं संशोधयाम्यथ ॥ ३ १८.४ . स्वाहेति प्रतितत्त्वं स्याच्छुद्धे पूर्णाहुतिं क्षिपेत् । १८.४ . एवं मन्त्रान्तरैः कुर्यात्समस्तैरथवोक्तवत् ॥ ४ १८.५ . परासंपुटितं नाम स्वाहान्तं प्रथमान्तकम् । १८.५ . शतं सहस्रं साष्टं वा तेन शक्त्यैव होमयेत् ॥ ५ १८.६ . ततः पूर्णेति संशोध्यहीनमुत्तममीदृशम् । १८.६ . दीक्षाकर्मोदितं तत्र तत्र शास्त्रे महेशिना ॥ ६ १८.७ . प्रत्येकं मातृकायुग्मवर्णैस्तत्त्वानि शोधयेत् । १८.७ . यदि वा पिण्डमन्त्रेण सर्वमन्त्रेष्वयं विधिः ॥ ७ १८.८ . यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः । १८.८ . गुरुस्तथा तथा कुर्यात्संक्षिप्तं कर्म नान्यथा ॥ ८ १८.९ . श्रीब्रह्मयामले चोक्तं संक्षिप्तेऽपि हि भावयेत् । १८.९ . व्याप्तिं सर्वाध्वसामान्यां किंतु यागे न विस्तरः ॥ ९ १८.१० . अतन्मयीभूतमिति विक्षिप्तं कर्म सन्दधत् । १८.१० . क्रमात्तादात्म्यमेतीति विक्षिप्तं विधिमाचरेत् ॥ १० १८.११ . संक्षिप्तो विधिरुक्तोऽयं कृपया यः शिवोदितः । १८.११ . दीक्षोत्तरे कैरणे च तत्र तत्रापि शासने ॥ ११ च्१९ अथ श्रीतन्त्रालोके एकान्नविंशमाह्निकम् १९.१ . अथ सद्यःसमुत्क्रान्तिप्रदा दीक्षा निरूप्यते । १९.१ . तत्क्षणाच्चोपभोगाद्वा देहपाते शिवं व्रजेत् । १९.१ . इत्युक्त्या मालिनीशास्त्रे सूचितासौ महेशिना ॥ १ १९.२ . देहपाते समीपस्थे शक्तिपातस्फुटत्वतः । १९.२ . आसाद्य शांकरीं दीक्षां तस्माद्दीक्षाक्षणात्परम् ॥ २ १९.३ . शिवं व्रजेदित्यर्थोऽत्र पूर्वापरविवेचनात् । १९.३ . व्याख्यातः श्रीमतास्माकं गुरुणा शम्भुमूर्तिना ॥ ३ १९.४ . यदा ह्यासन्नमरणे शक्तिपातः प्रजायते । १९.४ . तत्र मन्देऽथ गुर्वादिसेवयायुः क्षयं व्रजेत् ॥ ४ १९.५ . अथवा बन्धुमित्रादिद्वारा सास्य विभोः पतेत् । १९.५ . पूर्वं वा समयी नैव परां दीक्षामवाप्तवान् ॥ ५ १९.६ . आप्तदीक्षोऽपि वा प्राणाञ्जिहासुः क्लेशवर्जितम् । १९.६ . अन्त्यान्गुरुस्तदा कुर्यात्सद्य+उत्क्रान्तिदीक्षणम् ॥ ६ १९.७ . नत्वपक्वमले नापि शेषकार्मिकविग्रहे । १९.७ . कुर्यादुत्क्रमणं श्रीमद्गह्वरे च निरूपितम् ॥ ७ १९.८ . दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । १९.८ . उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥ ८ १९.९ . विशेषणविशेष्यत्वे कामचारविधानतः । १९.९ . पूर्वोक्तमर्थजातं श्रीशम्भुनात्र निरूपितम् ॥ ९ १९.१० . विधिं पूर्वोदितं सर्वं कृत्वा समयशुद्धितः । १९.१० . क्षुरिकामस्य विन्यस्येज्ज्वलन्तीं मर्मकर्तरीम् ॥ १० १९.११ . कृत्वा पूर्वोदितं न्यासं कालानलसमप्रभम् । १९.११ . संहृतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु ॥ ११ १९.१२ . आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् । १९.१२ . पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तकम् ॥ १२ १९.१३ . तमुत्कृष्य ततोऽङ्गुष्ठादूर्ध्वान्तं वक्ष्यमाणया । १९.१३ . कृन्तेन्मर्माणि रन्ध्रान्तात्कालरात्र्या विसर्जयेत् ॥ १३ १९.१४ . अनेन क्रमयोगेन योजितो हुतिवर्जितः । १९.१४ . समय्यप्येति तां दीक्षामिति श्रीमालिनीमते ॥ १४ १९.१५ . षोडशाधारषट्चक्रलक्ष्यत्रयखपञ्चकात् । १९.१५ . क्वचिदन्यतरत्राथ प्रागुक्तपशुकर्मवत् ॥ १५ १९.१६ . प्रविश्य मूलं कन्दादेश्छिन्दन्नैक्यविभावनात् । १९.१६ . पूर्णाहुतिप्रयोगेण स्वेष्टे धाम्नि नियोजयेत् ॥ १६ १९.१७ . ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्ज्वलम् । १९.१७ . चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥ १७ १९.१८ . दीपनं ताडनं तोदं चलनं च पुनः पुनः । १९.१८ . कन्दादिचक्रगं कुर्याद्विशेषेण हृदम्बुजे ॥ १८ १९.१९ . द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् । १९.१९ . निर्लक्ष्ये वा परे धाम्नि संयुक्तः परमेश्वरः ॥ १९ १९.२० . न तस्य कुर्यात्संस्कारं कंचिदित्याह गह्वरे । १९.२० . देवः किमस्य पूर्णस्य श्राद्धाद्यैरिति भावितः ॥ २० १९.२१ . श्रीमद्दीक्षोत्तरे त्वेष विधिर्वह्निपुटीकृतः । १९.२१ . हंसः पुमानधस्तस्य रुद्रबिन्दुसमन्वितः ॥ २१ १९.२२ . शिष्यदेहे नियोज्यैतदनुद्वग्नः शतं जपेत् । १९.२२ . उत्क्रम्योर्ध्वनिमेषेण शिष्य इत्थं परं व्रजेत् ॥ २२ १९.२३ . एष एव विधिः श्रीमत्सिद्धयोगीश्वरीमते । १९.२३ . इयमुत्क्रामणी दीक्षा कर्तव्या योगिनो गुरोः ॥ २३ १९.२४ . अनभ्यस्तप्राणचारः कथमेनां करिष्यति । १९.२४ . वक्ष्यमाणां ब्रह्मविद्यां सकलां निष्कलोम्भिताम् ॥ २४ १९.२५ . कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् । १९.२५ . स्वयं च कर्म कुर्वीत तत्त्वशुद्ध्यादिकं गुरुः ॥ २५ १९.२६ . मन्त्रक्रियाबलात्पूर्णाहुत्येत्थं योजयेत्परे । १९.२६ . योगाभ्यासमकृत्वापि सद्य+उत्क्रान्तिदां गुरुः ॥ २६ १९.२७ . ज्ञानमन्त्रक्रियाध्यानबलात्कर्तुं भवेत्प्रभुः । १९.२७ . अनयोत्क्रम्यते शिष्यो बलादेवैककं क्षणम् ॥ २७ १९.२८ . कालस्योल्लङ्घ्य भोगो हि क्षणिकोऽस्यास्तु किं ततः । १९.२८ . सद्य+उत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥ २८ १९.२९ . दद्याद्यदास्य प्राणाः स्युर्ध्रुवं निष्क्रमणेच्छवः । १९.२९ . विनापि क्रियया भाविब्रह्मविद्याबलाद्गुरुः ॥ २९ १९.३० . कर्णजापप्रयोगेण तत्त्वकञ्चुकजालतः । १९.३० . निःसारयन्यथाभीष्टे सकले निष्कले द्वये ॥ ३० १९.३१ . तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् । १९.३१ . समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥ ३१ १९.३२ . तत्पाठात्तु समय्युक्तां रुद्रांशापत्तिमश्नुते । १९.३२ . एतौ जपे चाध्ययने यस्मादधिकृतावुभौ ॥ ३२ १९.३३ . नाध्यापनोपदेशे वा स एषोऽध्ययनादृते । १९.३३ . पठतोस्त्वनयोर्वस्तुस्वभावात्तस्य सा गतिः ॥ ३३ १९.३४ . यथा निषिद्धभूतादिकर्मा मन्त्रं स्मरन्स्वयम् । १९.३४ . आविष्टेऽपि क्वचिन्नैति लोपं कर्तृत्ववर्जनात् ॥ ३४ १९.३५ . यथा च वाचयञ्शास्त्रं समयी शून्यवेश्मनि । १९.३५ . न लुप्यते तदन्तःस्थप्राणिवर्गोपकारतः ॥ ३५ १९.३६ . तथा स्वयं पठन्नेष विद्यां वस्तुस्वभावतः । १९.३६ . तस्मिन्मुक्ते न लुप्येत यतो किंचित्करोऽत्र सः ॥ ३६ १९.३७ . ननु चादीक्षिताग्रे स नोच्चरेच्छास्त्रपद्धतिम् ॥ ३७ १९.३८ . हन्त कुड्याग्रतोऽप्यस्य निषेधस्त्वथ कथ्यते । १९.३८ . पर्युदासेन यः श्रोतुमवधारयितुं क्षमः ॥ ३८ १९.३९ . स एवात्र निषिद्धो नो कुड्यकीटपतत्रिणः । १९.३९ . तर्हि पाषाणतुल्योऽसौ विलीनेन्द्रियवृत्तिकः ॥ ३९ १९.४० . तस्याग्रे पठतस्तस्य निषेधोल्लङ्घना कथम् । १९.४० . स तु वस्तुस्वभावेन गलिताक्षोऽपि बुध्यते ॥ ४० १९.४१ . अक्षानपेक्षयैवान्तश्चिच्छक्त्या स्वप्रकाशया । १९.४१ . प्राग्देहं किल तित्यक्षुर्नोत्तरं चाधितष्ठिवान् ॥ ४१ १९.४२ . मध्ये प्रबोधकबलात्प्रतिबुध्येत्पुद्गलः । १९.४२ . मन्त्राः शब्दमयाः शुद्धविमर्शात्मतया स्वयम् ॥ ४२ १९.४३ . अर्थात्मना चावभान्तस्तदर्थप्रतिबोधकाः । १९.४३ . तेनास्य गलिताक्षस्य प्रबोधो जायते स्वयम् ॥ ४३ १९.४४ . स्वचित्समानजातीयमन्त्रामर्शनसंनिधेः । १९.४४ . यथा ह्यल्पजवो वायुः सजातीयविमिश्रितः ॥ ४४ १९.४५ . जवी तथात्मा संसुप्तामर्शोऽप्येवं प्रबुध्यते । १९.४५ . प्रबुद्धः स च संजातो न चादीक्षित उच्यते ॥ ४५ १९.४६ . दीक्षा हि नाम संस्कारो न त्वन्यत्सोऽस्ति चास्य हि । १९.४६ . अत एव निजं शास्त्रं पठति क्वापि सामये ॥ ४६ १९.४७ . तच्छ्रुत्वा कोऽपि धन्यश्चेन्मुच्यते नास्य सा क्षतिः । १९.४७ . शास्त्रनिन्दां मैष कार्षीद्द्वयोः पातित्यदायिनीम् ॥ ४७ १९.४८ . इत्येवंपरमेतन्नादीक्षिताग्रे पठेदिति । १९.४८ . यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥ ४८ १९.४९ . कुर्वंस्तस्मिंश्चलत्येति न लोपं तद्वदत्र हि । १९.४९ . यतोऽस्य प्रत्ययप्राप्तिप्रेप्सोः समयिनस्तथा ॥ ४९ १९.५० . प्रवृत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः । १९.५० . साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥ ५० १९.५१ . मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् । १९.५१ . इत्थं सद्यःसमुत्क्रान्तिर्योक्ता तामाज्ञया गुरोः ॥ ५१ १९.५२ . समय्यादिरपि प्रोक्तकाले प्रोक्तार्थसिद्धये । १९.५२ . स्वयं कुर्यात्समभ्यस्तप्राणचारगमागमः ॥ ५२ १९.५३ . अकृताधिकृतिर्वापि गुरुः समयशुद्धये । १९.५३ . अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥ ५३ १९.५४ . इतीयं सद्य+उत्क्रान्तिः सूचिता मालिनीमते । १९.५४ . स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥ ५४ १९.५५ . सर्वं भोगं विरूपं तु मत्वा देहं त्यजेद्यदि । १९.५५ . तदा तेन क्रमेणाशु योजितः समयी शिवः ॥ ५५ १९.५६ . उक्तेयं सद्य+उत्क्रान्तिर्या गोप्या प्राणवद्बुधैः ॥ ५६ च्२० अथ श्रीतन्त्रालोके विंशतितममाह्निकम् २०.१ . अथ दीक्षां ब्रुवे मूढजनाश्वासप्रदायिनीम् ॥ १ २०.२ . त्रिकोणे वह्निसदने वह्निवर्णोज्ज्वलेऽभितः । २०.२ . वायव्यपुरनिर्धूते करे सव्ये सुजाज्वले ॥ २ २०.३ . बीजं किंचिद्गृहीत्वैतत्तथैव हृदयान्तरे । २०.३ . करे च दह्यमानं सच्चिन्तयेत्तज्जपैकयुक् ॥ ३ २०.४ . वह्निदीपितफट्कारधोरणीदाहपीडितम् । २०.४ . बीजं निर्बीजतामेति स्वसूतिकरणाक्षमम् ॥ ४ २०.५ . तप्तं नैतत्प्ररोहाय तेनैव प्रत्ययेन तु । २०.५ . मलमायाख्यकर्माणि मन्त्रध्यानक्रियाबलात् ॥ ५ २०.६ . दग्धानि न स्वकार्याय निर्बीजप्रत्ययं त्विमम् । २०.६ . स श्रीमान्सुप्रसन्नो मे शंभुनाथो न्यरूपयत् ॥ ६ २०.७ . बीजस्याप्यत्र कार्या च योजना कृपया गुरोः । २०.७ . यतो दीक्षा सुदीप्तत्वात्स्थावराण्यपि मोचयेत् ॥ ७ २०.८ . यो गुरुर्जपहोमार्चाध्यानसिद्धत्वमात्मनि । २०.८ . ज्ञात्वा दीक्षां चरेत्तस्य दीक्षा सप्रत्यया स्मृता ॥ ८ २०.९ . अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः । २०.९ . साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥ ९ २०.१० . निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते । २०.१० . ज्ञानं स्वप्रत्ययं यस्मान्न फलान्तरमर्हति ॥ १० २०.११ . ध्यानादि तु फलात्साध्यमिति सिद्धामतोदितम् । २०.११ . तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥ ११ २०.१२ . यथा श्रीतन्त्रसद्भावे कथिता परमेशिना । २०.१२ . श्रीपूर्वशास्त्रेऽप्येषा च सूचिता परमेशिना ॥ १२ २०.१३ . आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी । २०.१३ . इत्येवंवदता शक्तितारतम्याभिधायिना ॥ १३ २०.१४ . उद्भवो लघुभावेन देहग्रहतिरोहितेः । २०.१४ . देहो हि पार्थिवो मुख्यस्तदा मुख्यत्वमुज्झति ॥ १४ २०.१५ . भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् । २०.१५ . कर्माणि तत्राशेषाणि पूर्वोक्तान्याचरेद्गुरुः ॥ १५ २०.१६ . उक्ता सेयं तुलाशुद्धिदीक्षा प्रत्ययदायिनी । च्२१ अथ श्रीतन्त्रालोके एकविंशतितममाह्निकम् २१.१ . परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥ १ २१.२ . भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति । २१.२ . इत्यस्मिन्मालिनीवाक्ये प्रतिः सांमुख्यावाचकः ॥ २ २१.३ . सांमुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम् । २१.३ . तमाराध्येति वचनं कृपाहेतूपलक्षणम् ॥ ३ २१.४ . तत्संबन्धात्ततः कश्चित्तत्क्षणादपवृज्यते । २१.४ . इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥ ४ २१.५ . तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् । २१.५ . किंत्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत् ॥ ५ २१.६ . गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम् । २१.६ . गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः ॥ ६ २१.७ . अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः । २१.७ . प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥ ७ २१.८ . डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः । २१.८ . मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा ॥ ८ २१.९ . भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम् । २१.९ . बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः ॥ ९ २१.१० . स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा । २१.१० . विज्ञाततन्मुखायातशक्तिपातांशधर्मणः ॥ १० २१.११ . गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम् । २१.११ . श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥ ११ २१.१२ . अदीक्षिते नृपत्यादावलसे पतिते मृते । २१.१२ . बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥ १२ २१.१३ . विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते । २१.१३ . गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः ॥ १३ २१.१४ . अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने । २१.१४ . नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये ॥ १४ २१.१५ . मन्त्रसंनिधिसंतृप्तियोगायात्र तु मण्डलम् । २१.१५ . भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥ १५ २१.१६ . क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः । २१.१६ . ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः ॥ १६ २१.१७ . तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा । २१.१७ . एकादशैते कथिताः संनिधानाय हेतवः ॥ १७ २१.१८ . उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात् । २१.१८ . क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम् ॥ १८ २१.१९ . एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति । २१.१९ . मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले ॥ १९ २१.२० . अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम् । २१.२० . तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम् ॥ २० २१.२१ . येन संदृष्टमात्रेति सिद्धमात्रपदद्वयात् । २१.२१ . आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥ २१ २१.२२ . शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः । २१.२२ . कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥ २२ २१.२३ . गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत् । २१.२३ . ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात् ॥ २३ २१.२४ . प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत् । २१.२४ . महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥ २४ २१.२५ . चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते । २१.२५ . मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे । २१.२५ . यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः ॥ २५ २१.२६ . एतेनाच्छादनीयं व्रजति परवशं संमुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम् । २१.२६ . आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः ॥ २६ २१.२७ . चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति । २१.२७ . करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः ॥ २७ २१.२८ . महाजालसमाकृष्टो जीवो विज्ञानशालिना । २१.२८ . स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति ॥ २८ २१.२९ . तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम् । २१.२९ . योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति ॥ २९ २१.३० . स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः । २१.३० . त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥ ३० २१.३१ . अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः । २१.३१ . न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत् ॥ ३१ २१.३२ . तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा । २१.३२ . भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात् ॥ ३२ २१.३३ . तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम् । २१.३३ . दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥ ३३ २१.३४ . योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः । २१.३४ . मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥ ३४ २१.३५ . सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः । २१.३५ . आकृष्टो दार्भमायाति देहं फलमयं च वा ॥ ३५ २१.३६ . जातीफलादि यत्किंचित्तेन वा देहकल्पना । २१.३६ . अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते ॥ ३६ २१.३७ . ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः । २१.३७ . मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः ॥ ३७ २१.३८ . न स्पन्दते न जानाति न वक्ति न किलेच्छति । २१.३८ . तादृशस्यैव संस्कारान् सर्वान् प्राग्वत्प्रकल्पयेत् ॥ ३८ २१.३९ . निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम् । २१.३९ . विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम् ॥ ३९ २१.४० . दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह । २१.४० . मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः ॥ ४० २१.४१ . सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः । २१.४१ . तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत् ॥ ४१ २१.४२ . साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते । २१.४२ . मृतोद्धारोदितैरेव यथासंभूति हेतुभिः ॥ ४२ २१.४३ . जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा । २१.४३ . तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः ॥ ४३ २१.४४ . संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः । २१.४४ . शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम् ॥ ४४ २१.४५ . पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात् । २१.४५ . जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते ॥ ४५ २१.४६ . परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः । २१.४६ . तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम् ॥ ४६ २१.४७ . भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा । २१.४७ . कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः ॥ ४७ २१.४८ . परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत् । २१.४८ . भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥ ४८ २१.४९ . उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा । २१.४९ . बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥ ४९ २१.५० . श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ । २१.५० . परोक्षदीक्षणे सम्यक्पूर्णाहुतिविधौ यदि ॥ ५० २१.५१ . अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति । २१.५१ . धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति ॥ ५१ २१.५२ . विस्तरो घोररूपश्च महीं धावति चाप्यधः । २१.५२ . ध्वांक्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः ॥ ५२ २१.५३ . ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः । २१.५३ . तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ ॥ ५३ २१.५४ . नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः । २१.५४ . अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥ ५४ २१.५५ . इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः । २१.५५ . अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः ॥ ५५ २१.५६ . परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् । २१.५६ . प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम् ॥ ५६ २१.५७ . शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत् । २१.५७ . यदि वा दैशिकः सम्यङ्न दीप्तस्तस्य तत्पुरा ॥ ५७ २१.५८ . प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम् । २१.५८ . कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः ॥ ५८ २१.५९ . सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून् । २१.५९ . इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा ॥ ५९ २१.६० . शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः । २१.६० . न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत् ॥ ६० २१.६१ . निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः । २१.६१ . एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन ॥ ६१ च्२२ अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम् २२.१ . लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम् ॥ १ २२.२ . उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम् । २२.२ . उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते ॥ २ २२.३ . योग्यतावशसंजाता यस्य यत्रैव शासना । २२.३ . स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ ॥ ३ २२.४ . फलं सर्वं समासाद्य शिवे युक्तोऽपवृज्यते । २२.४ . अयुक्तोऽप्यूर्ध्वसंशुद्धिं संप्राप्य भुवनेशतः ॥ ४ २२.५ . शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः । २२.५ . उक्त्वा पुंधारणां चोक्तमेतद्वैदान्तिकं मया ॥ ५ २२.६ . कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा । २२.६ . अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥ ६ २२.७ . न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति । २२.७ . अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि ॥ ७ २२.८ . तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता । २२.८ . समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः ॥ ८ २२.९ . शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता । २२.९ . शिवज्ञानेन च विना भूयोऽपि पशुतोद्भवः ॥ ९ २२.१० . क्रमश्च शक्तिसंपातो मलहानिर्यियासुता । २२.१० . दीक्षा बोधो हेयहानिरुपादेयलयात्मता ॥ १० २२.११ . भोग्यत्वपाशवत्यागः पतिकर्तृत्वसंक्षयः । २२.११ . स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः ॥ ११ २२.१२ . प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि । २२.१२ . अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम् ॥ १२ २२.१३ . यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम् । २२.१३ . लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम् ॥ १३ २२.१४ . प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां व्रजेत् । २२.१४ . तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः ॥ १४ २२.१५ . स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम् । २२.१५ . एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥ १५ २२.१६ . प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् । २२.१६ . स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत् ॥ १६ २२.१७ . अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम् । २२.१७ . एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत् ॥ १७ २२.१८ . अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः । २२.१८ . स्नातं संप्रोक्षयेदर्घपात्राम्भोभिरनन्तरम् ॥ १८ २२.१९ . पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत् । २२.१९ . ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत् ॥ १९ २२.२० . प्रणवो मातृका माया व्योमव्यापी षडक्षरः । २२.२० . बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी ॥ २० २२.२१ . तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत् । २२.२१ . सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक् ॥ २१ २२.२२ . मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते । २२.२२ . वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत् ॥ २२ २२.२३ . पूजितेनैव मन्त्रेण कृत्वा नामास्य संपुटम् । २२.२३ . प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः ॥ २३ २२.२४ . शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा । २२.२४ . प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम् ॥ २४ २२.२५ . तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत् । २२.२५ . श्रावयेच्च त्वया नास्य कार्यं किंचिच्छिवाज्ञया ॥ २५ २२.२६ . ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः । २२.२६ . क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम् ॥ २६ २२.२७ . तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् । २२.२७ . ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः ॥ २७ २२.२८ . अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः । २२.२८ . प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥ २८ २२.२९ . साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः । २२.२९ . पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम् ॥ २९ २२.३० . मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः । २२.३० . इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः ॥ ३० २२.३१ . श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः । २२.३१ . गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम् ॥ ३१ २२.३२ . कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल । २२.३२ . अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत् ॥ ३२ २२.३३ . स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः । २२.३३ . तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत् ॥ ३३ २२.३४ . अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत् । २२.३४ . जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात् ॥ ३४ २२.३५ . ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत् । २२.३५ . अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥ ३५ २२.३६ . तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम् । २२.३६ . तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥ ३६ २२.३७ . दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः । २२.३७ . प्राप्तोऽपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत् ॥ ३७ २२.३८ . विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम् । २२.३८ . सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम् ॥ ३८ २२.३९ . अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत् । २२.३९ . न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना ॥ ३९ २२.४० . अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम् । २२.४० . सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि ॥ ४० २२.४१ . भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके । २२.४१ . सिद्धवीरावलीसारे भैरवीये कुलेऽपि च ॥ ४१ २२.४२ . पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसंज्ञिता । २२.४२ . तेन सर्वोऽधरस्थोऽपि लिङ्गोद्धृत्यानुगृह्यते ॥ ४२ २२.४३ . योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम् । २२.४३ . शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून् ॥ ४३ २२.४४ . तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः । २२.४४ . ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः ॥ ४४ २२.४५ . उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा । २२.४५ . आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत् ॥ ४५ २२.४६ . विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति । २२.४६ . गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम् ॥ ४६ २२.४७ . प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि । २२.४७ . सर्वज्ञाननिधानं तु गुरुं संप्राप्य सुस्थितः ॥ ४७ २२.४८ . तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः । २२.४८ . इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः ॥ ४८ च्२३ अथ श्रीतन्त्रालोके त्रयोविंशतितममाह्निकम् २३.१ . अथाभिषेकस्य विधिः कथ्यते पारमेश्वरः ॥ १ २३.२ . यैषा पुत्रकदीक्षोक्ता गुरुसाधकयोरपि । २३.२ . सैवाधिकारिणी भोग्यतत्त्वयुक्तिमती क्रमात् ॥ २ २३.३ . स्वभ्यस्तज्ञानिनं सन्तं बुभूषुमथ भाविनम् । २३.३ . योग्यं ज्ञात्वा स्वाधिकारं गुरुस्तस्मै समर्पयेत् ॥ ३ २३.४ . यो नैवं वेद नैवासावभिषिक्तोऽपि दैशिकः । २३.४ . समय्यादिक्रमेणेति श्रीमत्कामिक उच्यते ॥ ४ २३.५ . यो न वेदाध्वसन्धानं षोढा बाह्यान्तरस्थितम् । २३.५ . स गुरुर्मोचयेन्नेति सिद्धयोगीश्वरीमते ॥ ५ २३.६ . सर्वलक्षणहीनोऽपि ज्ञानवान् गुरुरिष्यते । २३.६ . ज्ञानप्राधान्यमेवोक्तमिति श्रीकचभार्गवे ॥ ६ २३.७ . पदवाक्यप्रमाणज्ञः शिवभक्त्येकतत्परः । २३.७ . समस्तशिवशास्त्रार्थबोद्धा कारुणिको गुरुः ॥ ७ २३.८ . न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना । २३.८ . अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः ॥ ८ २३.९ . पश्चात्मना स्वयंभूष्णुर्नाधिकारी स कुत्रचित् । २३.९ . भस्माङ्कुरो व्रतिसुतो दुःशीलातनयस्तथा ॥ ९ २३.१० . कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले । २३.१० . पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः ॥ १० २३.११ . श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः । २३.११ . यथार्थतत्त्वसंघज्ञस्तथा शिष्ये प्रकाशकः ॥ ११ २३.१२ . यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् । २३.१२ . योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥ १२ २३.१३ . तथैव सिद्धये सेयमाज्ञेति किल वर्णितम् । २३.१३ . यस्तु कर्मितयाचार्यस्तत्र काणादिवर्जनम् ॥ १३ २३.१४ . यतः कारकसामग्र्यात्कर्मणो नाधिकः क्वचित् । २३.१४ . देव्या यामलशास्त्रे च काञ्च्यादिपरिवर्जनम् ॥ १४ २३.१५ . तद्दृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः । २३.१५ . गुरवस्तु स्वयंभ्वादि वर्ज्यं यद्यामलादिषु ॥ १५ २३.१६ . कर्म्यभिप्रायतः सर्वं तदिति व्याचचक्षिरे । २३.१६ . अतो देशकुलाचारदेहलक्षणकल्पनाम् ॥ १६ २३.१७ . अनादृत्यैव संपूर्णज्ञानं कुर्याद्गुरुर्गुरुम् । २३.१७ . प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥ १७ २३.१८ . ततोऽभिषिञ्चेत्तं शिष्यं चतुःषष्ट्या ततः सकृत् । २३.१८ . तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥ १८ २३.१९ . विभवेन सुविस्तीर्णं ततस्तस्मै वदेत्स्वकम् । २३.१९ . सर्वं कर्तव्यसारं यच्छास्त्राणां परमं रहः ॥ १९ २३.२० . अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः । २३.२० . उक्तं ज्ञानोत्तरे चैतद्ब्राह्मणाः क्षत्रिया विशः ॥ २० २३.२१ . नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः । २३.२१ . ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥ २१ २३.२२ . ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्रीं प्रवर्तयेत् । २३.२२ . दीक्षा व्याख्या कृपा मैत्री शास्त्रचिन्ता शिवैकता ॥ २२ २३.२३ . अन्नादिदानमित्येतत्पालयेत्सप्तसत्रकम् । २३.२३ . अभिषेकविधौ चास्मै करणीखटिकादिकम् ॥ २३ २३.२४ . सर्वोपकरणव्रातमर्पणीयं विपश्चिते । २३.२४ . सोऽभिषिक्तो गुरुं पश्चाद्दक्षिणाभिः प्रपूजयेत् ॥ २४ २३.२५ . ज्ञानहीनो गुरुः कर्मी स्वाधिकारं समर्प्य नो । २३.२५ . दीक्षाद्यधिकृतिं कुर्याद्विना तस्याज्ञया पुनः ॥ २५ २३.२६ . इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत् । २३.२६ . ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः ॥ २६ २३.२७ . यथेच्छं विचरेद्व्याख्यादीक्षादौ यन्त्रणोज्झितः । २३.२७ . कुर्वन्न बाध्यते यस्माद्दीपाद्दीपवदीदृशः ॥ २७ २३.२८ . सन्तानो नाधिकारस्य च्यवोऽकुर्वन्न बाध्यते । २३.२८ . प्राक्च कुर्वन्विहन्येत सिद्धातन्त्रे तदुच्यते ॥ २८ २३.२९ . यथार्थमुपदेशं तु कुर्वन्नाचार्य उच्यते । २३.२९ . न चावज्ञा क्रियाकाले संसारोद्धरणं प्रति ॥ २९ २३.३० . न दीक्षेत गुरुः शिष्यं तत्त्वयुक्तस्तु गर्वतः । २३.३० . योऽस्य स्यान्नरके वास इह च व्याधितो भवेत् ॥ ३० २३.३१ . प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् । २३.३१ . सर्वां तन्त्रोदितां ध्यायेज्जपेच्चातन्मयत्वतः ॥ ३१ २३.३२ . यदैव तन्मयीभूतस्तदा वीर्यमुपागतः । २३.३२ . छिन्द्यात्पाशांस्ततो यत्नं कुर्यात्तन्मयतास्थितौ ॥ ३२ २३.३३ . हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा । २३.३३ . लेखाकारा नादरूपा प्रशान्ता चक्रपङ्क्तिगा ॥ ३३ २३.३४ . द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे । २३.३४ . तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥ ३४ २३.३५ . चक्षुर्लोमादिरन्ध्रौघवहज्ज्वालौर्वसंनिभम् । २३.३५ . यावच्छान्तशिखाकीर्णं विश्वाज्यप्रविलापकम् ॥ ३५ २३.३६ . तदाज्यधारासंतृप्तमानाभिकुहरान्तरम् । २३.३६ . एवं मन्त्रा मोक्षदाः स्युर्दीप्ता बुद्धाः सुनिर्मलाः ॥ ३६ २३.३७ . मूलकन्दनभोनाभिहृत्कण्ठालिकतालुगम् । २३.३७ . अर्धेन्दुरोधिकानादतदन्तव्यापिशक्तिगम् ॥ ३७ २३.३८ . समनोन्मनशुद्धात्मपरचक्रसमाश्रितम् । २३.३८ . यत्र यत्र जपेच्चक्रे समस्तव्यस्तभेदनात् ॥ ३८ २३.३९ . तत्र तत्र महामन्त्र इति देव्याख्ययामले । २३.३९ . विद्याव्रतमिदं प्रोक्तं मन्त्रवीर्यप्रसिद्धये ॥ ३९ २३.४० . तच्च तादात्म्यमेवेति यदुक्तं स्पन्दशासने । २३.४० . तदाक्रम्य बलं मन्त्राः सर्वज्ञबलशालिनः ॥ ४० २३.४१ . प्रवर्तन्तेऽधिकाराय करणानीव देहिनाम् । २३.४१ . कृतविद्याव्रतः पश्चाद्दीक्षाव्याख्यादि सर्वतः ॥ ४१ २३.४२ . कुर्याद्योग्येषु शिष्येषु नायोग्येषु कदाचन । २३.४२ . रहस्ये योजयेद्विप्रं परीक्ष्य विपरीततः ॥ ४२ २३.४३ . आचाराच्छक्तिमप्येव नान्यथेत्यूर्मिशासने । २३.४३ . नित्याद्यल्पाल्पकं कुर्याद्यदुक्तं ब्रह्मयामले ॥ ४३ २३.४४ . चीर्णविद्याव्रतः सर्वं मनसा वा स्मरेत्प्रिये । २३.४४ . देहसंबन्धसंछन्नसार्वज्ञ्यो दम्भभाजनम् ॥ ४४ २३.४५ . अविदन्दीक्षमाणोऽपि न दुष्येद्दैशिकः क्वचित् । २३.४५ . ज्ञात्वा त्वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥ ४५ २३.४६ . बुद्ध्वा ज्ञाने शास्त्रसिद्धिगुरुत्वादौ च तं पुनः । २३.४६ . भूय एव परीक्षेत तत्तदौचित्यशालिनम् ॥ ४६ २३.४७ . तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् । २३.४७ . ननु तद्वस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥ ४७ २३.४८ . तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् । २३.४८ . सत्यं कापि प्रबुद्धासाविच्छा रूढिं न गच्छति ॥ ४८ २३.४९ . विद्युद्वत्पापशीलस्य यथा पापापवर्जने । २३.४९ . रूढ्यरूढी तदिच्छाया अपि शंभुप्रसादतः ॥ ४९ २३.५० . अप्ररूढतथेच्छाकस्तत एव न भाजनम् । २३.५० . यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः ॥ ५० २३.५१ . लोकं विप्लावयेन्नास्मिञ्ज्ञाते विज्ञानमर्पयेत् । २३.५१ . अज्ञातेऽपि पुनर्ज्ञाते विज्ञानहरणं चरेत् ॥ ५१ २३.५२ . पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः । २३.५२ . तदा तमग्रतो ध्यायेत्स्फुरन्तं चन्द्रसूर्यवत् ॥ ५२ २३.५३ . ततो निजहृदम्भोजबोधाम्बरतलोदिताम् । २३.५३ . स्वर्भानुमलिनां ध्यायेद्वामां शक्तिं विमोहनीम् ॥ ५३ २३.५४ . वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् । २३.५४ . चिन्तयित्वा तया ग्रस्तप्रकाशं तं विचिन्तयेत् ॥ ५४ २३.५५ . अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः । २३.५५ . विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥ ५५ २३.५६ . ननु विज्ञानमात्मस्थं कथं हर्तुं क्षमं भवेत् । २३.५६ . अतो विज्ञानहरणं कथं श्रीपूर्व उच्यते ॥ ५६ २३.५७ . उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् । २३.५७ . तथात्वे हरणं कस्मात्पूर्णयोग्यत्वशालिनः ॥ ५७ २३.५८ . किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः । २३.५८ . स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥ ५८ २३.५९ . गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम् । २३.५९ . कुर्याद्यदि ततः पूर्णमधिकारित्वमस्य तत् ॥ ५९ २३.६० . अतो यथा शुद्धतत्त्वसृष्टिस्थित्योर्मलात्यये । २३.६० . योजनानुग्रहे कार्यचतुष्केऽधिकृतो गुरुः ॥ ६० २३.६१ . शिवाभेदेन तत्कुर्यात्तद्वत्पञ्चममप्ययम् । २३.६१ . तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥ ६१ २३.६२ . अत एव शिवे शास्त्रे ज्ञाने चाश्वासभाजनम् । २३.६२ . गुरोर्मूढतया कोपधामापि न तिरोहितः ॥ ६२ २३.६३ . गुरुर्हि कुपितो यस्य स तिरोहित उच्यते । २३.६३ . संसारी सतु देवो हि गुरुर्न च मृषाविदः ॥ ६३ २३.६४ . तत एव च शास्त्रादिदूषको यद्यपि क्रुधा । २३.६४ . न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः ॥ ६४ २३.६५ . अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ । २३.६५ . न कुप्येन्न शपेद्धीमान् स ह्यनुग्राहकः सदा ॥ ६५ २३.६६ . ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत् । २३.६६ . किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥ ६६ २३.६७ . शिवाभिन्नोऽपि हि गुरुरनुग्रहमयीं विभोः । २३.६७ . मुख्यां शक्तिमुपासीनोऽनुगृह्णीयात्स सर्वथा ॥ ६७ २३.६८ . स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् । २३.६८ . न कार्यं पततां हस्तालम्बः सह्यो न पातनम् ॥ ६८ २३.६९ . अत एव स्वतन्त्रत्वादिच्छायाः पुनरुन्मुखम् । २३.६९ . प्रायश्चित्तैर्विशोध्यैनं दीक्षेत कृपया गुरुः ॥ ६९ २३.७० . ऊर्ध्वदृष्टौ प्रपन्नः सन्ननाश्वस्तस्ततः परम् । २३.७० . अधःशास्त्रं प्रपद्यापि न श्रेयःपात्रतामियात् ॥ ७० २३.७१ . अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः । २३.७१ . ऊर्ध्वशासनभाक्पापं तच्चोज्झेच्च शिवीभवेत् ॥ ७१ २३.७२ . राज्ञे द्रुह्यन्नमात्याङ्गभूतोऽपि हि विहन्यते । २३.७२ . विपर्ययस्तु नेत्येवमूर्ध्वां दृष्टिं समाश्रयेत् ॥ ७२ २३.७३ . श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः । २३.७३ . अत्र ह्यर्थोऽयमेतावत्पूर्वोक्तज्ञानवृंहितः ॥ ७३ २३.७४ . गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते । २३.७४ . तादृक्स्वभ्यस्तविज्ञानभाजोर्ध्वपदशालिना ॥ ७४ २३.७५ . अनुद्धृतस्य न श्रेय एतदन्यगुरूद्धृतेः । २३.७५ . अत एवाम्बुजन्मार्कदृष्टान्तोऽत्र निरूपितः ॥ ७५ २३.७६ . त्रिजगज्ज्योतिषो ह्यन्यत्तेजोऽन्यच्च निशाकृतः । २३.७६ . ज्ञानमन्यत्त्रिकगुरोरन्यत्त्वधरवर्तिनाम् ॥ ७६ २३.७७ . अत एव पुराभूतगुर्वभावो यदा तदा । २३.७७ . तदन्यं लक्षणोपेतमाश्रयेत्पुनरुन्मुखः ॥ ७७ २३.७८ . सति तस्मिंस्तून्मुखः सन्कस्माज्जह्याद्यदि स्फुटम् । २३.७८ . स्यादन्यतरगो दोषो योऽधिकारापघातकः ॥ ७८ २३.७९ . दोषश्चेह न लोकस्थो दोषत्वेन निरूप्यते । २३.७९ . अज्ञानख्यापनायुक्तख्यापनात्मा त्वसौ मतः ॥ ७९ २३.८० . शिष्यस्यापि तथाभूतज्ञानानाश्वस्तरूपता । २३.८० . मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥ ८० २३.८१ . न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते । २३.८१ . असूयुर्नूनमध्वस्तव्याधिः स्वस्थायते बलात् ॥ ८१ २३.८२ . एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत् । २३.८२ . नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥ ८२ २३.८३ . अज्ञानादय एवैते दोषा न लौकिका गुरोः । २३.८३ . इति ख्यापयितुं प्रोक्तं मालिनीविजयोत्तरे ॥ ८३ २३.८४ . न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम् । २३.८४ . स एव तद्विजानाति युक्तं चायुक्तमेव वा ॥ ८४ २३.८५ . अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु । २३.८५ . तदा निवारणीयोऽसौ प्रणतेन विपश्चिता ॥ ८५ २३.८६ . विशेषणमकार्याणामुक्ताभिप्रायमेव यत् । २३.८६ . तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते ॥ ८६ २३.८७ . तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत् । २३.८७ . न ह्यस्य स गुरुत्वे स्याद्दोषो येनोषरे कृषिम् ॥ ८७ २३.८८ . कुर्याद्व्रजेन्निशायां वा स त्वर्थप्राणहारकः । २३.८८ . तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥ ८८ २३.८९ . यतस्तदप्रियं नैष शृणुयादिति भाषितम् । २३.८९ . श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः ॥ ८९ २३.९० . यच्चैतदुक्तमेतावत्कर्तव्यमिति तद्ध्रुवम् । २३.९० . तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥ ९० २३.९१ . उपदेशस्त्वयं मन्दमध्यशक्तेर्निजां क्रमात् । २३.९१ . शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवं जाज्वलीत्यलम् ॥ ९१ २३.९२ . दृढानुरागसुभगसंरम्भाभोगभागिनः । २३.९२ . स्वोल्लासि स्मरसर्वस्यं दार्ढ्यायान्यत्र दृश्यते ॥ ९२ २३.९३ . नन्वेष कस्माद्दृष्टान्तः किमेतेनाशुभं कृतम् । २३.९३ . चित्स्पन्दः सर्वगो भिन्नादुपाधेः स तथा तथा ॥ ९३ २३.९४ . भवेत्कोऽपि तिरोभूतः पुनरुन्मुखितोऽपि सन् । २३.९४ . विनापि दैशिकात्प्राग्वत्स्वयमेव विमुच्यते ॥ ९४ २३.९५ . प्रकारस्त्वेष नात्रोक्तः शक्तिपातबलाद्गतः । २३.९५ . असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥ ९५ २३.९६ . इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः । २३.९६ . अन्यथा न शिवं यायाच्छ्रीमत्सारे च वर्णितम् ॥ ९६ २३.९७ . अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् । २३.९७ . तेऽर्धनारीशपुरगा गुरवः समयच्युताः ॥ ९७ २३.९८ . अन्यत्राप्यधिकारं च नेयाद्विद्येशतां व्रजेत् । २३.९८ . अन्यत्र समयत्यागात्क्रव्यादत्वं शतं समाः ॥ ९८ २३.९९ . इयत्तत्रत्यतात्पर्यं सिद्धान्तगुरुरुन्नयः । २३.९९ . भवेत्पिशाचविद्येशः शुद्ध एव तु तान्त्रिकः ॥ ९९ २३.१०० . षडर्धदैशिकश्चार्धनारीशभुवनस्थितिः । २३.१०० . एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥ १०० २३.१०१ . ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् । २३.१०१ . साधकस्याभिषेकेऽपि सर्वोऽयं कथ्यते विधिः ॥ १०१ २३.१०२ . अधिकारार्पणं नात्र नच विद्याव्रतं किल । २३.१०२ . साध्यमन्त्रार्पणं त्वत्र स्वोपयोगिक्रियाक्रमे ॥ १०२ २३.१०३ . समस्तेऽप्युपदेशः स्यान्निजोपकरणार्पणम् । २३.१०३ . अभिषेकविधिर्निरूपितः परमेशेन यथा निरूपितः ॥ १०३ च्२४ अथ श्रीतन्त्रालोके चतुर्विंशतितममाह्निकम् २४.१ . अथ शाम्भवशासनोदितां सरहस्यां शृणुतान्त्यसंस्क्रियाम् ॥ १ २४.२ . सर्वेषामधरस्थानां गुर्वन्तानामपि स्फुटम् । २४.२ . शक्तिपातात्पुराप्रोक्तात्कुर्यादन्त्येष्टिदीक्षणम् ॥ २ २४.३ . ऊर्ध्वशासनगानां च समयोपहतात्मनाम् । २४.३ . अन्त्येष्टिदीक्षा कर्तव्या गुरुणा तत्त्ववेदिना ॥ ३ २४.४ . समयाचारदोषेषु प्रमादात्स्खलितस्य हि । २४.४ . अन्त्येष्टिदीक्षा कार्येति श्रीदीक्षोत्तरशासने ॥ ४ २४.५ . यत्किंचित्कथितं पूर्वं मृतोद्धाराभिधे विधौ । २४.५ . प्रतिमायां तदेवात्र सर्वं शवतनौ चरेत् ॥ ५ २४.६ . श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते । २४.६ . अन्तिमं यद्भवेत्पूर्वं तत्कृत्वान्तिममादिमम् ॥ ६ २४.७ . संहृत्यैकैकमिष्टिर्या सान्त्येष्टिर्द्वितयी मता । २४.७ . पूजाध्यानजपाप्लुष्टसमये नतु साधके ॥ ७ २४.८ . पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये । २४.८ . आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥ ८ २४.९ . अन्त्येष्टिर्नैव विद्येत शुद्धचेतस्यमूर्धनि । २४.९ . मन्त्रयोगादिभिर्ये च मारिता नरके तु ते ॥ ९ २४.१० . कार्या तेषामिहान्त्येष्टिर्गुरुणातिकृपालुना । २४.१० . न मण्डलादिकं त्वत्र भवेच्छमाशानिके विधौ ॥ १० २४.११ . केचित्तदपि कर्तव्यमूचिरे प्रेतसद्मनि । २४.११ . पूजयित्वा विभुं सर्वं न्यासं पूर्ववदाचरेत् ॥ ११ २४.१२ . संहारक्रमयोगेन चरणान्मूर्धपश्चिमम् । २४.१२ . तथैव बोधयेदेनं क्रियाज्ञानसमाधिभिः ॥ १२ २४.१३ . बिन्दुना रोधयेत्तत्त्वं शक्तिबीजेन वेधयेत् । २४.१३ . घट्टयेन्नाददेशे तु त्रिशूलेन तु ताडयेत् ॥ १३ २४.१४ . सुषुम्नान्तर्गतेनैव विसर्गेण पुनः पुनः । २४.१४ . ताडयेत कलाः सर्वाः कम्पतेऽसौ ततः पशुः ॥ १४ २४.१५ . उत्क्षिपेद्वामहस्तं वा ततस्तं योजयेत्परे । २४.१५ . प्रत्ययेन विना मोक्षो ह्यश्रद्धेयो विमोहितैः ॥ १५ २४.१६ . तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः । २४.१६ . इत्यूचे परमेशः श्रीकुलगह्वरशासने ॥ १६ २४.१७ . साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः । २४.१७ . दीक्षोत्तरे च पुर्यष्टवर्गार्पणमिहोदितम् ॥ १७ २४.१८ . तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम् । २४.१८ . ईशरुद्रहरिब्रह्मचतुष्कं प्राग्दिगादितः ॥ १८ २४.१९ . पूजयित्वा श्रुतिस्पर्शौ रसं गन्धं वपुर्द्वयम् । २४.१९ . ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥ १९ २४.२० . एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः । २४.२० . एषा सांन्यासिकी दीक्षा पुर्यष्टकविशोधनी ॥ २० २४.२१ . पुर्यष्टकस्याभावे च न स्वर्गनरकादयः । २४.२१ . तथा कृत्वा न कर्तव्यं लौकिकं किंचनापि हि ॥ २१ २४.२२ . उक्तं श्रीमाधवकुले शासनस्थो मृतेष्वपि । २४.२२ . पिण्डपातोदकास्र्वादि लौकिकं परिवर्जयेत् ॥ २२ २४.२३ . शिवं संपूज्य चक्रार्चां यथाशक्ति समाचरेत् । २४.२३ . क्रमात्त्रिदशमत्रिंशत्रिंशवत्सरवासरे ॥ २३ २४.२४ . इत्युक्तोऽन्त्येष्टियागोऽयं परमेश्वरभाषितः ॥ २४ च्२५ अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम् २५.१ . अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते ॥ १ २५.२ . सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे । २५.२ . अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः ॥ २ २५.३ . त्र्यहे तुर्येऽह्नि दशमे मासि मास्याद्यवत्सरे । २५.३ . वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत् ॥ ३ २५.४ . तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा । २५.४ . ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे ॥ ४ २५.५ . गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् । २५.५ . ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥ ५ २५.६ . ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत् । २५.६ . भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥ ६ २५.७ . भोग्यतान्या तनुर्देह इति पाशात्मका मताः । २५.७ . श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः ॥ ७ २५.८ . एकेनैव विधानेन यद्यपि स्यात्कृतार्थता । २५.८ . तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत् ॥ ८ २५.९ . बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि । २५.९ . हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत् ॥ ९ २५.१० . तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोऽप्ययम् । २५.१० . अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन ॥ १० २५.११ . तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम् । २५.११ . तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत् ॥ ११ २५.१२ . यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात् । २५.१२ . जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥ १२ २५.१३ . पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः । २५.१३ . तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः ॥ १३ २५.१४ . नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम् । २५.१४ . श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥ १४ २५.१५ . तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये । २५.१५ . स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत् ॥ १५ २५.१६ . यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम् । २५.१६ . सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः ॥ १६ २५.१७ . श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः । २५.१७ . प्रत्येति वैदिके भग्नघण्टावन्न स किंचन ॥ १७ २५.१८ . तथोक्तदेवपूजादिचक्रयागान्तकर्मणा । २५.१८ . रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते ॥ १८ २५.१९ . अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम् । २५.१९ . या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥ १९ २५.२० . भावनातन्मयीभावे सा नाडी वहति स्फुटम् । २५.२० . यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना ॥ २० २५.२१ . आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात् । २५.२१ . एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम् ॥ २१ २५.२२ . कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना । २५.२२ . शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः ॥ २२ २५.२३ . करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते । २५.२३ . उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः ॥ २३ २५.२४ . उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत् । २५.२४ . उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम् ॥ २४ २५.२५ . मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि । २५.२५ . चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम् ॥ २५ २५.२६ . प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः । २५.२६ . सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल ॥ २६ २५.२७ . प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम् । २५.२७ . अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम् ॥ २७ २५.२८ . मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु । २५.२८ . इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥ २८ २५.२९ . इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत् । २५.२९ . उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः ॥ २९ च्२६ अथ श्रीतन्त्रालोके षड्विंशमाह्निकम् २६.१ . अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी ॥ १ २६.२ . दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता । २६.२ . सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥ २ २६.३ . तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी । २६.३ . अनुसंधिवशाद्या च साक्षान्मोक्त्री सबीजिका ॥ ३ २६.४ . तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् । २६.४ . वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥ ४ २६.५ . बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः । २६.५ . प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता ॥ ५ २६.६ . ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने । २६.६ . तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते ॥ ६ २६.७ . आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् । २६.७ . तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥ ७ २६.८ . स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि । २६.८ . शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये ॥ ८ २६.९ . यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात् । २६.९ . प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात् ॥ ९ २६.१० . तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये । २६.१० . क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ ॥ १० २६.११ . तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे । २६.११ . काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः ॥ ११ २६.१२ . तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे । २६.१२ . गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥ १२ २६.१३ . नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः । २६.१३ . विशेषवशतः किंच पवित्रकविधिक्रमः ॥ १३ २६.१४ . आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता । २६.१४ . व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम् ॥ १४ २६.१५ . तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम् । २६.१५ . तद्योग्यतां समालोक्य वितताविततात्मनाम् ॥ १५ २६.१६ . मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम् । २६.१६ . दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत् ॥ १६ २६.१७ . तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः । २६.१७ . न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता ॥ १७ २६.१८ . साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपिवा । २६.१८ . पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये ॥ १८ २६.१९ . वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः । २६.१९ . ज्ञात्वास्मै योग्यतां सारं संक्षिप्तं विधिमाचरेत् ॥ १९ २६.२० . तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः । २६.२० . लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने ॥ २० २६.२१ . मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच । २६.२१ . गुरुसंविदभिन्नश्वेत्संक्रामेत्सा ततः शिशौ ॥ २१ २६.२२ . लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः । २६.२२ . संकेतबलतो नास्य पुस्तकात्प्रथते महः ॥ २२ २६.२३ . पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः । २६.२३ . ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते ॥ २३ २६.२४ . ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति । २६.२४ . इति ज्ञात्वा गुरुः सम्यक्परमानन्दघूर्णितः ॥ २४ २६.२५ . तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत् । २६.२५ . यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥ २५ २६.२६ . तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः । २६.२६ . देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः ॥ २६ २६.२७ . देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम् । २६.२७ . तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम् ॥ २७ २६.२८ . अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम् । २६.२८ . ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम् ॥ २८ २६.२९ . न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः । २६.२९ . तत्र प्रभाते संबुध्य स्वेष्टां प्राग्देवतां स्मरेत् ॥ २९ २६.३० . कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् । २६.३० . आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये ॥ ३० २६.३१ . शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम् । २६.३१ . मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः ॥ ३१ २६.३२ . देहासुधीव्योमभूषु मनसा तत्र चार्चनम् । २६.३२ . जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥ ३२ २६.३३ . तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत् । २६.३३ . अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम् ॥ ३३ २६.३४ . सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् । २६.३४ . यासौ कालाधिकारे प्राक्सन्ध्या प्रोक्ता चतुष्टयी ॥ ३४ २६.३५ . तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् । २६.३५ . सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः ॥ ३५ २६.३६ . कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः । २६.३६ . सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः ॥ ३६ २६.३७ . तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ । २६.३७ . ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥ ३७ २६.३८ . स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः । २६.३८ . सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम् ॥ ३८ २६.३९ . अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः । २६.३९ . तेन स्थण्डिलपुष्पादि सर्वं संप्रोक्षयेद्बुधः ॥ ३९ २६.४० . ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम् । २६.४० . पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥ ४० २६.४१ . ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम् । २६.४१ . बोधात्मकं समालोक्य तत्र स्वं देवतागणम् ॥ ४१ २६.४२ . प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः । २६.४२ . एतदावाहनं मुख्यं व्यजनान्मरुतामिव ॥ ४२ २६.४३ . सर्वगोऽपि मरुद्यद्वद्व्यजनेनोपजीवितः । २६.४३ . अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत् ॥ ४३ २६.४४ . चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते । २६.४४ . श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥ ४४ २६.४५ . देवः सर्वगतो देव निर्मर्यादः कथं शिवः । २६.४५ . आवाह्यते क्षम्यते वेत्येवंपृष्टोऽब्रवीद्विभुः ॥ ४५ २६.४६ . वासनावाह्यते देवि वासना च विसृज्यते । २६.४६ . परमार्थेन देवस्य नावाहनविसर्जने ॥ ४६ २६.४७ . आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः । २६.४७ . पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥ ४७ २६.४८ . प्राणिनामप्रबुद्धानां सन्तोषजननाय वै । २६.४८ . आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥ ४८ २६.४९ . कालेन तु विजानन्ति प्रवृत्ताः पतिशासने । २६.४९ . अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥ ४९ २६.५० . ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः । २६.५० . कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः ॥ ५० २६.५१ . स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः । २६.५१ . आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः ॥ ५१ २६.५२ . धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः । २६.५२ . दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः ॥ ५२ २६.५३ . रक्तैः प्राक्तर्पण पश्चात्पुष्पधूपादिविस्तरैः । २६.५३ . आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥ ५३ २६.५४ . हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना । २६.५४ . यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥ ५४ २६.५५ . तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः । २६.५५ . साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः ॥ ५५ २६.५६ . मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः । २६.५६ . कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत् ॥ ५६ २६.५७ . रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत् । २६.५७ . सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥ ५७ २६.५८ . देशकालानुसन्धानगुणद्रव्यक्रियादिभिः । २६.५८ . स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः ॥ ५८ २६.५९ . बाह्यैः संकल्पजैर्वापि कारकैः परिकल्पिता । २६.५९ . मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥ ५९ २६.६० . नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः । २६.६० . चितः स्वातन्त्र्यसारत्वात्तस्यानन्दघनत्वतः ॥ ६० २६.६१ . क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः । २६.६१ . शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम् ॥ ६१ २६.६२ . तमेव परमे धाम्नि पूजनायार्पयेद्बुधः । २६.६२ . स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके ॥ ६२ २६.६३ . अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति । २६.६३ . या परमामृतदृक्त्वां तयार्चयन्ते रहस्यविदः ॥ ६३ २६.६४ . कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । २६.६४ . आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ ६४ २६.६५ . नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम् । २६.६५ . यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे संतर्पयेऽहर्निशम् ॥ ६५ २६.६६ . इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन् । २६.६६ . येन केनापि भावेन तर्पयेद्देवतागणम् ॥ ६६ २६.६७ . मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः । २६.६७ . वचसा मन्त्रयोगेन वपुषा संनिवेशतः ॥ ६७ २६.६८ . कृत्वा जपं ततः सर्वं देवतायै समर्पयेत् । २६.६८ . तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा ॥ ६८ २६.६९ . ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः । २६.६९ . कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः ॥ ६९ २६.७० . द्वारपीठगुरुव्रातसमर्पितनिवेदनात् । २६.७० . ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत् ॥ ७० २६.७१ . प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम् । २६.७१ . विधिना भाविना श्रीमन्मीननाथावतारिणा ॥ ७१ २६.७२ . मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम् । २६.७२ . तच्छङ्कातङ्कदानेन व्याधये नरकाय च ॥ ७२ २६.७३ . अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः । २६.७३ . प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया ॥ ७३ २६.७४ . श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम् । २६.७४ . स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः ॥ ७४ २६.७५ . भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत् । २६.७५ . मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत् ॥ ७५ २६.७६ . पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत् । २६.७६ . उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना ॥ ७६ च्२७ अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम् २७.१ . अथोच्यते लिङ्गपूजा सूचिता मालिनीमते ॥ १ २७.२ . एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम् । २७.२ . बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः ॥ २ २७.३ . स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम् । २७.३ . ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः ॥ ३ २७.४ . किंच चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः । २७.४ . भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः ॥ ४ २७.५ . शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः । २७.५ . स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति ॥ ५ २७.६ . उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना । २७.६ . शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः ॥ ६ २७.७ . तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः । २७.७ . न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः ॥ ७ २७.८ . अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता । २७.८ . सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः ॥ ८ २७.९ . आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् । २७.९ . पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥ ९ २७.१० . पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् । २७.१० . यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत् ॥ १० २७.११ . गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत् । २७.११ . जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥ ११ २७.१२ . लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् । २७.१२ . पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥ १२ २७.१३ . नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत् । २७.१३ . धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत् ॥ १३ २७.१४ . न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते । २७.१४ . उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत् ॥ १४ २७.१५ . तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत् । २७.१५ . मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः ॥ १५ २७.१६ . अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः । २७.१६ . दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः ॥ १६ २७.१७ . सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम् । २७.१७ . तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥ १७ २७.१८ . सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते । २७.१८ . नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना ॥ १८ २७.१९ . पीठप्रसादमन्त्रांशवेलादिनियमो नच । २७.१९ . व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥ १९ २७.२० . अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः । २७.२० . अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम् ॥ २० २७.२१ . पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत् । २७.२१ . तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम् ॥ २१ २७.२२ . तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते । २७.२२ . जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा ॥ २२ २७.२३ . युक्ते च तूरे हानिः स्यात्तद्धीने याग उत्तमः । २७.२३ . काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे ॥ २३ २७.२४ . गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति । २७.२४ . व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः ॥ २४ २७.२५ . श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम् । २७.२५ . एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥ २५ २७.२६ . पद्मगोरोचनामुक्तानीरस्फटिकसंनिभे । २७.२६ . एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे ॥ २६ २७.२७ . न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके । २७.२७ . श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥ २७ २७.२८ . सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम् । २७.२८ . एतदेवानुसर्तव्यमर्घपात्रेऽपि लक्षणम् ॥ २८ २७.२९ . श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम् । २७.२९ . गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति ॥ २९ २७.३० . अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम् । २७.३० . वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम् ॥ ३० २७.३१ . अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः । २७.३१ . शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम् ॥ ३१ २७.३२ . तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत् । २७.३२ . वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसंगतेः ॥ ३२ २७.३३ . पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः । २७.३३ . शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते ॥ ३३ २७.३४ . ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् । २७.३४ . ततोऽपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम् ॥ ३४ २७.३५ . मातृकां मालिनीं वाथ न्यस्येत्खशरसंमिते । २७.३५ . उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान् ॥ ३५ २७.३६ . दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः । २७.३६ . यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः ॥ ३६ २७.३७ . संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् । २७.३७ . कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत् ॥ ३७ २७.३८ . पूजितेन च तेनैव जपं कुर्यादतन्द्रितः । २७.३८ . विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे ॥ ३८ २७.३९ . चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत् । २७.३९ . यदीक्षते जुहोत्येतद्बोधाग्नौ संप्रवेशनात् ॥ ३९ २७.४० . अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम् । २७.४० . नारिकेलमथो बैल्वं सौवर्णं राजतं च वा ॥ ४० २७.४१ . तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः । २७.४१ . तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम् ॥ ४१ २७.४२ . अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः । २७.४२ . तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम् ॥ ४२ २७.४३ . पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत् । २७.४३ . अधोमुखं च संपूज्य स्थापयेत्विचक्षणः ॥ ४३ २७.४४ . खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा । २७.४४ . विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम् ॥ ४४ २७.४५ . श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने । २७.४५ . स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले ॥ ४५ २७.४६ . मूर्तौ घटेऽस्त्रसंघाते धटे सूत्रेऽथ पूजयेत् । २७.४६ . स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥ ४६ २७.४७ . यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम् । २७.४७ . शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः ॥ ४७ २७.४८ . अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम् । २७.४८ . पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः ॥ ४८ २७.४९ . अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम् । २७.४९ . सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः ॥ ४९ २७.५० . इत्थं स्वयंप्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत् । २७.५० . विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम् ॥ ५० २७.५१ . अत एव यदा भूरिदिनं मण्डलकल्पनम् । २७.५१ . तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु ॥ ५१ २७.५२ . प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् । २७.५२ . सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥ ५२ २७.५३ . सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः । २७.५३ . अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते ॥ ५३ २७.५४ . तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा । २७.५४ . अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥ ५४ २७.५५ . इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः । २७.५५ . परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि ॥ ५५ २७.५६ . सर्वमासनपक्षे प्राङ्न्यस्य संपूजयेत्क्रमम् । २७.५६ . शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥ ५६ २७.५७ . अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम् । २७.५७ . आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥ ५७ २७.५८ . उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा । २७.५८ . अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः ॥ ५८ २७.५९ . कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत् । २७.५९ . बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता ॥ ५९ च्२८ अथ श्रीतन्त्रालोके अष्टाविंशमाह्निकम् २८.१ . इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥ १ २८.२ . नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते । २८.२ . मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः ॥ २ २८.३ . दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता । २८.३ . दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा ॥ ३ २८.४ . अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम् । २८.४ . प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः ॥ ४ २८.५ . सन्ध्यादि पर्वसंपूजा पवित्रकमिदं सदा । २८.५ . नित्यं नियतरूपत्वात्सर्वस्मिन् शासनाश्रिते ॥ ५ २८.६ . ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा । २८.६ . तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसंगतिः ॥ ६ २८.७ . श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम् । २८.७ . योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम् ॥ ७ २८.८ . शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः । २८.८ . देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः ॥ ८ २८.९ . इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम् । २८.९ . त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम् ॥ ९ २८.१० . तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम् । २८.१० . कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसंचरे ॥ १० २८.११ . अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः । २८.११ . प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक् ॥ ११ २८.१२ . अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी । २८.१२ . वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम् ॥ १२ २८.१३ . द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः । २८.१३ . तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता ॥ १३ २८.१४ . अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम् । २८.१४ . कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले ॥ १४ २८.१५ . हैडरे त्रिकसद्भावे त्रिककालीकुलादिके । २८.१५ . योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात् ॥ १५ २८.१६ . स चक्रभेदसंचारे कांचित्सूते स्वसंविदम् । २८.१६ . स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते ॥ १६ २८.१७ . पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः । २८.१७ . पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥ १७ २८.१८ . हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः । २८.१८ . तच्चक्रचारनिष्णाता ये केचित्पूर्णसंविदः ॥ १८ २८.१९ . तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा । २८.१९ . योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् ॥ १९ २८.२० . तद्योगिनीसिद्धसङ्घमेलकात्तन्मयीभवेत् । २८.२० . यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम् ॥ २० २८.२१ . क्रमोदितां सद्य एव लभते तत्प्रवेशनात् । २८.२१ . योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम् ॥ २१ २८.२२ . लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात् । २८.२२ . तत्कालं चापि संवित्तेः पूर्णत्वात्कामदोग्धृता ॥ २२ २८.२३ . तेन तत्तत्फलं तत्र काले संपूजयाचिरात् । २८.२३ . यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥ २३ २८.२४ . अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम् । २८.२४ . तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः ॥ २४ २८.२५ . यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते । २८.२५ . उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥ २५ २८.२६ . यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया । २८.२६ . मन्त्रो योगः क्रमश्चैव पूजनात्सिद्धिदो भवेत् ॥ २६ २८.२७ . कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये । २८.२७ . ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥ २७ २८.२८ . गुरूणां देवतानां च न कुर्वन्ति प्रमादतः । २८.२८ . दुराचारा हि ते दुष्टाः पशुतुल्या वरानने ॥ २८ २८.२९ . अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत् । २८.२९ . अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम् ॥ २९ २८.३० . शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम् । २८.३० . तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति ॥ ३० २८.३१ . तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम् । २८.३१ . मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते ॥ ३१ २८.३२ . उत्कृष्टत्वात्पर्वदिनं श्रीपूर्वत्वेन भाष्यते । २८.३२ . समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥ ३२ २८.३३ . तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि । २८.३३ . पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम् ॥ ३३ २८.३४ . यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः । २८.३४ . उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता ॥ ३४ २८.३५ . सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता । २८.३५ . सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत् ॥ ३५ २८.३६ . कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः । २८.३६ . अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ॥ ३६ २८.३७ . परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः । २८.३७ . मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ॥ ३७ २८.३८ . रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् । २८.३८ . प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम् ॥ ३८ २८.३९ . प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु । २८.३९ . कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥ ३९ २८.४० . व्याससमासात्क्रमशः पूज्याश्चक्रेऽनुयागाख्ये । २८.४० . सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः ॥ ४० २८.४१ . गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम् । २८.४१ . अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥ ४१ २८.४२ . अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः । २८.४२ . भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ॥ ४२ २८.४३ . वेलाभग्रहकलना कथितैकादशसु मासेषु । २८.४३ . फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥ ४३ २८.४४ . अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र । २८.४४ . दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः ॥ ४४ २८.४५ . पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः । २८.४५ . यदि संघटेत वेला मुख्यतमा भग्रहौ तथा चक्रम् ॥ ४५ २८.४६ . तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत् । २८.४६ . दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥ ४६ २८.४७ . ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात् । २८.४७ . उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात् ॥ ४७ २८.४८ . तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित् । २८.४८ . नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ॥ ४८ २८.४९ . संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः । २८.४९ . यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ॥ ४९ २८.५० . तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन । २८.५० . वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥ ५० २८.५१ . श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु । २८.५१ . वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥ ५१ २८.५२ . तिथिस्तु पूज्या प्रधानरूपत्वात् । २८.५२ . श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति ॥ ५२ २८.५३ . यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् । २८.५३ . मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने ॥ ५३ २८.५४ . कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा । २८.५४ . आदेशः फलति तथा माघे चक्राद्वचः फलति ॥ ५४ २८.५५ . अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः । २८.५५ . चक्रस्थाने क्रोधात्पाषाणस्फोटनेन रिपुनाशः ॥ ५५ २८.५६ . सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना । २८.५६ . भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥ ५६ २८.५७ . सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् । २८.५७ . भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम् ॥ ५७ २८.५८ . यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत् । २८.५८ . नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः ॥ ५८ २८.५९ . समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च । २८.५९ . दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः ॥ ५९ २८.६० . नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम् । २८.६० . तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते ॥ ६० २८.६१ . मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते । २८.६१ . नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना ॥ ६१ २८.६२ . सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः । २८.६२ . ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसंज्ञके ॥ ६२ २८.६३ . योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम् । २८.६३ . तत्संपर्कात्पूर्णता स्यादिति त्रैशिरसादिषु ॥ ६३ २८.६४ . तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम् । २८.६४ . ज्ञानिने योगिने वापि यो ददाति करोति वा ॥ ६४ २८.६५ . दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः । २८.६५ . भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत् ॥ ६५ २८.६६ . सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः । २८.६६ . तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥ ६६ २८.६७ . अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत्प्रिये । २८.६७ . परिसंख्या न विद्येत तदाह भगवाञ्छिवः ॥ ६७ २८.६८ . भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम् । २८.६८ . एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥ ६८ २८.६९ . तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे । २८.६९ . निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥ ६९ २८.७० . यदस्य वक्त्रं संप्राप्ता यास्यामः परमं पदम् । २८.७० . अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः ॥ ७० २८.७१ . तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि । २८.७१ . आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥ ७१ २८.७२ . श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि । २८.७२ . श्रोत्राभ्यन्तरसंप्राप्ते गुरुवक्त्राद्विनिर्गते ॥ ७२ २८.७३ . मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम् । २८.७३ . सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः ॥ ७३ २८.७४ . अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा । २८.७४ . पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः ॥ ७४ २८.७५ . तत्र संनिहितो देवः सदेवीकः सकिङ्करः । २८.७५ . तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम् ॥ ७५ २८.७६ . मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते । २८.७६ . पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम् ॥ ७६ २८.७७ . सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु । २८.७७ . उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि ॥ ७७ २८.७८ . दीक्षायां च प्रतिष्ठायां समयानां विशोधने । २८.७८ . कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा ॥ ७८ २८.७९ . केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः । २८.७९ . केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥ ७९ २८.८० . साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः । २८.८० . पत्नीयोगात्क्रयानीतवेश्यासंयोगतोऽथवा ॥ ८० २८.८१ . चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः । २८.८१ . तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥ ८१ २८.८२ . सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते । २८.८२ . मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः ॥ ८२ २८.८३ . तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम् । २८.८३ . पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा ॥ ८३ २८.८४ . तदा तद्गन्धधूपस्रक्समालम्भनवाससा । २८.८४ . पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति ॥ ८४ २८.८५ . एकारके यथा चक्रे एकवीरविधिं स्मरेत् । २८.८५ . द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके ॥ ८५ २८.८६ . षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा । २८.८६ . अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥ ८६ २८.८७ . ततः पात्रेऽलिसंपूर्णे पूर्वं चक्रं यजेत्सुधीः । २८.८७ . आधारयुक्ते नाधाररहितं तर्पणं क्वचित् ॥ ८७ २८.८८ . आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः । २८.८८ . प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः ॥ ८८ २८.८९ . भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः । २८.८९ . अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥ ८९ २८.९० . ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात् । २८.९० . प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥ ९० २८.९१ . यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते । २८.९१ . तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः ॥ ९१ २८.९२ . वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः । २८.९२ . ततोऽवदंशान्विविधान्मांसमत्स्यादिसंयुतान् ॥ ९२ २८.९३ . अग्रे तत्र प्रविकिरेत्तृप्त्यन्तं साधकोत्तमः । २८.९३ . पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च ॥ ९३ २८.९४ . पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः । २८.९४ . दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते ॥ ९४ २८.९५ . दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम् । २८.९५ . तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः ॥ ९५ २८.९६ . निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते । २८.९६ . ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम् ॥ ९६ २८.९७ . तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः । २८.९७ . धारया भैरवस्तुष्येत्करपानं परं ततः ॥ ९७ २८.९८ . प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित् । २८.९८ . प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥ ९८ २८.९९ . एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम् । २८.९९ . समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः ॥ ९९ २८.१०० . रूपकार्धात्परं हीनां न दद्याद्दक्षिणां सुधीः । २८.१०० . समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत् ॥ १०० २८.१०१ . एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः । २८.१०१ . काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः ॥ १०१ २८.१०२ . जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् । २८.१०२ . बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः ॥ १०२ २८.१०३ . ततोऽपि संनिधीयन्ते प्रीयन्ते वरदास्ततः । २८.१०३ . देवीनामथ नाथस्य परिवारयुजोऽप्यलम् ॥ १०३ २८.१०४ . वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता । २८.१०४ . राक्तौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् ॥ १०४ २८.१०५ . असंकेतयुजो योज्या देवताशब्दकीर्तनात् । २८.१०५ . अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥ १०५ २८.१०६ . काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा । २८.१०६ . प्रतिपच्छ्रुतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥ १०६ २८.१०७ . हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ । २८.१०७ . सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥ १०७ २८.१०८ . मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा । २८.१०८ . धनिष्ठायाममावस्या सोऽयमेकादशात्मकः ॥ १०८ २८.१०९ . अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः । २८.१०९ . योगपर्वेति विख्यातो रात्रौ वा दिन एव वा ॥ १०९ २८.११० . योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा । २८.११० . यः सर्वान्योगपर्वाख्यान् वासरान् पूजयेत्सुधीः ॥ ११० २८.१११ . मूर्तियागेन सोऽपि स्यात्समयी मण्डलं विना । २८.१११ . इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते ॥ १११ २८.११२ . अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः । २८.११२ . श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः ॥ ११२ २८.११३ . श्रीसिद्धाटनसद्भावमालिनीसारशासने । २८.११३ . तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते ॥ ११३ २८.११४ . क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः । २८.११४ . नागराजः स्वभुवने मेघकाले स्म नावसत् ॥ ११४ २८.११५ . केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम् । २८.११५ . दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत् ॥ ११५ २८.११६ . व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे । २८.११६ . पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः ॥ ११६ २८.११७ . नागं निजजटाजूटपीठगं पर्यकल्पयत् । २८.११७ . ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि ॥ ११७ २८.११८ . महतां महितानां हि नाद्भुत विश्वपूज्यता । २८.११८ . तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥ ११८ २८.११९ . आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् । २८.११९ . दश कोट्यो न पूजानां पवित्रारोहणे समाः ॥ ११९ २८.१२० . वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च । २८.१२० . विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया ॥ १२० २८.१२१ . तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः । २८.१२१ . आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः ॥ १२१ २८.१२२ . कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा । २८.१२२ . तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥ १२२ २८.१२३ . कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते । २८.१२३ . नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम् ॥ १२३ २८.१२४ . कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम् । २८.१२४ . माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम् ॥ १२४ २८.१२५ . पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा । २८.१२५ . दक्षिणोत्तरगः कालः कुलाकुलतयोदितः ॥ १२५ २८.१२६ . कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते । २८.१२६ . दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ ॥ १२६ २८.१२७ . पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः । २८.१२७ . तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥ १२७ २८.१२८ . एकेनैव पदेन श्रीरत्नमालाकुलागमे । २८.१२८ . तदत्र समये सर्वविधिसंपूरणात्मकः ॥ १२८ २८.१२९ . पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा । २८.१२९ . पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम् ॥ १२९ २८.१३० . दक्षिणायनसाजात्यात्तेन तद्विधिरुच्यते । २८.१३० . एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत् ॥ १३० २८.१३१ . हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् । २८.१३१ . सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥ १३१ २८.१३२ . परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि । २८.१३२ . प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥ १३२ २८.१३३ . अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् । २८.१३३ . विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत्पुनः ॥ १३३ २८.१३४ . वटुके कनकाभावे रौप्यं तु परिकल्पयेत् । २८.१३४ . पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम् ॥ १३४ २८.१३५ . तस्मान्नवगुणात्सूत्रात्त्रिगुणादिक्रमात्कुरु । २८.१३५ . चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा ॥ १३५ २८.१३६ . तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः । २८.१३६ . अष्टोत्तरशतं तस्मात्त्रिगुणं तूत्तमं मतम् ॥ १३६ २८.१३७ . ग्रन्थयस्तत्त्वसंख्याताः षडध्वकलनावशात् । २८.१३७ . यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः ॥ १३७ २८.१३८ . विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः । २८.१३८ . पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात् ॥ १३८ २८.१३९ . गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा । २८.१३९ . ततो महोत्सवः कार्यो गुरुपूजापुरःसरः ॥ १३९ २८.१४० . तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः । २८.१४० . महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥ १४० २८.१४१ . चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः । २८.१४१ . तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥ १४१ २८.१४२ . वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः । २८.१४२ . मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥ १४२ २८.१४३ . सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम् । २८.१४३ . वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः ॥ १४३ २८.१४४ . सति वित्ते पुनः शाठ्यं व्याधये नरकाय च । २८.१४४ . नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥ १४४ २८.१४५ . तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् । २८.१४५ . पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः ॥ १४५ २८.१४६ . सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः । २८.१४६ . अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः ॥ १४६ २८.१४७ . त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा । २८.१४७ . दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥ १४७ २८.१४८ . ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः । २८.१४८ . नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः ॥ १४८ २८.१४९ . अकामात्कामतो वापि सूक्ष्मपापप्रवर्तिनः । २८.१४९ . तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे ॥ १४९ २८.१५० . श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे । २८.१५० . नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु ॥ १५० २८.१५१ . पाट्टसूत्रं तु कौशेयं कार्पासं क्षौममेव च । २८.१५१ . चातुराश्रमिकाणां तु सुभ्रुवा कर्तितोक्षितम् ॥ १५१ २८.१५२ . त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् । २८.१५२ . अष्टोत्तरं तन्तुशतं तदर्धं वा तदर्धकम् ॥ १५२ २८.१५३ . ह्रासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् । २८.१५३ . नवभिः पञ्चभिः सप्तविंशत्या वा शिवादितः ॥ १५३ २८.१५४ . यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः । २८.१५४ . चतुःसमविलिप्तांस्तानथवा कुङ्कुमेन तु ॥ १५४ २८.१५५ . व्यक्ते जानुतटान्तं स्याल्लिङ्गे पीठावसानकम् । २८.१५५ . अर्चासु शोभनं मूर्घ्नि त्रितत्त्वपरिकल्पनात् ॥ १५५ २८.१५६ . द्वादशग्रन्थिशक्तीनां ब्रह्मवक्त्रार्चिषामपि । २८.१५६ . विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥ १५६ २८.१५७ . घण्टायां स्रुक्स्रुवे शिष्यलिङ्गिषु द्वारतोरणे । २८.१५७ . स्वदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥ १५७ २८.१५८ . प्रासादे यागगेहे च कारयेन्नवरङ्गिकम् । २८.१५८ . विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥ १५८ २८.१५९ . वसुवेदं च घण्टायां शराक्ष्यष्टादश स्रुवे । २८.१५९ . वेदाक्षि स्रुचि षट्त्रिंशत्प्रासादे मण्डपे रविः ॥ १५९ २८.१६० . रसेन्दु स्नानगेहेऽब्धिनेत्रे ध्यानगृहे गुरौ । २८.१६० . सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥ १६० २८.१६१ . चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते । २८.१६१ . लिङ्गिनां केवलो ग्रन्थिस्तोरणे दश कल्पयेत् ॥ १६१ २८.१६२ . द्वारेष्वष्टौ ग्रन्थयः स्युः कृत्वेत्थं तु पवित्रकम् । २८.१६२ . पूजयित्वा मन्त्रजालं तत्स्थत्वात्मस्थते ततः ॥ १६२ २८.१६३ . पवित्रकाणां संपाद्य कुर्यात्संपातसंस्क्रियाम् । २८.१६३ . ततः संवत्सरं ध्यायेद्भैरवं छिद्रसाक्षिणम् ॥ १६३ २८.१६४ . दत्त्वा पूर्णाहुतिं देवि प्रणमेन्मन्त्रभैरवम् । २८.१६४ . ओं समस्तक्रियादोषपूरणेश व्रतं प्रति ॥ १६४ २८.१६५ . यत्किंचिदकृतं दुष्टं कृतं वा मातृनन्दन । २८.१६५ . तत्सर्वं मम देवेश त्वत्प्रसादात्प्रणश्यतु ॥ १६५ २८.१६६ . सर्वथा रश्मिचक्रेश नमस्तुभ्यं प्रसीद मे । २८.१६६ . अनेन दद्याद्देवाय निमन्त्रणपवित्रकम् ॥ १६६ २८.१६७ . योगिनीक्षेत्रमातॄणां बलिं दद्यात्ततो गुरुः । २८.१६७ . पञ्चगव्यं चरुं दन्तकाष्ठं शिष्यैः समन्ततः ॥ १६७ २८.१६८ . आचार्य निद्रां कुर्वीत प्रातरुत्थाय चाह्निकम् । २८.१६८ . ततो विधिं पूजयित्वा पवित्राणि समाहरेत् ॥ १६८ २८.१६९ . दन्तकाष्ठं मृच्च धात्री समृद्धात्री सहाम्बुना । २८.१६९ . चतुःसमं च तैः सार्धं भस्म पञ्चसु योजयेत् ॥ १६९ २८.१७० . प्राग्दक्षपश्चिमोर्ध्वस्थवामवक्त्रेषु वै क्रमात् । २८.१७० . पञ्चैतानि पवित्राणि स्थापयेच्चेशगोचरे ॥ १७० २८.१७१ . कुशेध्म पञ्चगव्यं च शर्वाग्रे विनियोजयेत् । २८.१७१ . वामामृतादिसंयुक्तं नैवेद्यं त्रिविधं ततः ॥ १७१ २८.१७२ . दद्यादसृक्तथा मद्यं पानानि विविधानि च । २८.१७२ . ततो होमो महाक्ष्माजमांसैस्तिलयुतैरथो ॥ १७२ २८.१७३ . तिलैर्घृतयुतैर्यद्वा तण्डुलैरथ धान्यकैः । २८.१७३ . शर्कराखण्डसंयुक्तपञ्चामृतपरिप्लुतैः ॥ १७३ २८.१७४ . मूलं सहस्रं साष्टोक्तं त्रिशक्तौ ब्रह्मवक्त्रकम् । २८.१७४ . अर्चिषां तु शतं साष्टं ततः पूर्णाहुतिं क्षिपेत् ॥ १७४ २८.१७५ . ततोऽञ्जलौ पवित्रं तु गृहीत्वा प्रपठेदिदम् । २८.१७५ . अकामादथवा कामाद्यन्मया न कृतं विभो ॥ १७५ २८.१७६ . तदच्छिद्रं ममास्त्वीश पवित्रेण तवाज्ञया । २८.१७६ . मूलमन्त्रः पूरयेति क्रियानियममित्यथ ॥ १७६ २८.१७७ . वौषडन्तं पवित्रं च दद्याद्बिन्द्ववसानकम् । २८.१७७ . नादान्तं समनान्तं चाप्युन्मनान्तं क्रमात्त्रयम् ॥ १७७ २८.१७८ . एवं चतुष्टयं दद्यादनुलोमेन भौतिकः । २८.१७८ . नैष्ठिकस्तु विलोमेन पवित्रकचतुष्टयम् ॥ १७८ २८.१७९ . यत्किञ्चिद्विविधं वस्त्रच्छत्रालङ्करणादिकम् । २८.१७९ . तन्निवेद्यं दीपमालाः सुवर्णतिलभाजनम् ॥ १७९ २८.१८० . वस्त्रयुग्मयुतं सर्वसम्पूरणनिमित्ततः । २८.१८० . भोजनीयाः पूजनीयाः शिवभक्तास्तु शक्तितः ॥ १८० २८.१८१ . चतुस्त्रिद्व्येकमासादिदिनैकान्तं महोत्सवम् । २८.१८१ . कुर्यात्ततो न व्रजेयुरन्यस्थानं कदाचन ॥ १८१ २८.१८२ . ततस्तु दैशिकः पूज्यो गामस्मै क्षीरिणीं नवाम् । २८.१८२ . दद्यात्सुवर्णरत्नादिरुप्यवस्त्रविभूषिताम् ॥ १८२ २८.१८३ . वदेद्गुरुश्च संपूर्णो विधिस्तव भवत्विति । २८.१८३ . वक्तव्यं देवदेवस्य पुनरागमनाय च ॥ १८३ २८.१८४ . ततो विसर्जनं कार्यं गुप्तमाभरणादिकम् । २८.१८४ . नैवेद्यं गुरुरादाय यागार्थे तन्नियोजयेत् ॥ १८४ २८.१८५ . चतुर्णामपि सामान्यं पवित्रकमिति स्मृतम् । २८.१८५ . नास्माद्व्रतं परं किञ्चित्का वास्य स्तुतिरुच्यते ॥ १८५ २८.१८६ . शेषं त्वगाधे वार्योघे क्षिपेन्न स्थापयेत्स्थिरम् । २८.१८६ . अथ नैमित्तिकविधिर्यः पुरासूत्रितो मया ॥ १८६ २८.१८७ . स भण्यते तत्र कार्या देवस्यार्चा विशेषतः । २८.१८७ . चक्रयागश्च कर्तव्यः पूर्वोक्तविधिना बुधैः ॥ १८७ २८.१८८ . तत्र यद्यन्निजाभीष्टभोगमोक्षोपकारकम् । २८.१८८ . पारम्पर्येण साक्षाद्वा भवेच्चिदचिदात्मकम् ॥ १८८ २८.१८९ . तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये । २८.१८९ . तदुपायोऽपि संपूज्यो मूर्तिकालक्रियादिकः ॥ १८९ २८.१९० . उपेयसूतिसामर्थ्यमुपायत्वं तदर्चनात् । २८.१९० . तद्रूपतन्मयीभावादुपेयं शीघ्रमाप्नुयात् ॥ १९० २८.१९१ . यथा यथा च नैकट्यमुपायेषु तथा तथा । २८.१९१ . अवश्यंभावि कार्यत्वं विशेषाच्चार्चनादिके ॥ १९१ २८.१९२ . ज्ञानस्य कस्यचित्प्राप्तिर्भोगमोक्षोपकारिणः । २८.१९२ . यदा तन्मुख्यमेवोक्तं नैमित्तिकदिनं बुधैः ॥ १९२ २८.१९३ . तदुपायः शास्त्रमत्र वक्ताप्यौपयिको गुरुः । २८.१९३ . तद्विद्योऽपि गुरुभ्राता संवादाज्ज्ञानदायकः ॥ १९३ २८.१९४ . गुरोः पत्नी तथा भ्राता पुत्र इत्यादिको गणः । २८.१९४ . न योनिसंबन्धवशाद्विद्यासंबन्धजस्तु सः ॥ १९४ २८.१९५ . वीर्यारुणपरीणामदेहाहन्ताप्रतिष्ठिताः । २८.१९५ . देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥ १९५ २८.१९६ . तथाच स्मृतिशास्त्रेषु सन्ततेर्दायहारिता । २८.१९६ . युक्तैव तावान्स ह्युक्तो भेदाद्दूरान्तिकत्वतः ॥ १९६ २८.१९७ . ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः । २८.१९७ . बोधोपकारसन्तानद्वयात्ते बन्धुताजुषः ॥ १९७ २८.१९८ . तत्रेत्थं प्राग्यदा पश्येच्छक्त्युन्मीलितदृक्क्रियः । २८.१९८ . देहस्तावदयं पूर्वपूर्वोपादाननिर्मितः ॥ १९८ २८.१९९ . आत्मा विकाररहितः शाश्वतत्वादहेतुकः । २८.१९९ . स्वातन्त्र्यात्पुनरात्मीयादयं छन्न इव स्थितः ॥ १९९ २८.२०० . पुनश्च प्रकटीभूय भैरवीभावभाजनम् । २८.२०० . तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् ॥ २०० २८.२०१ . य उपायः समुचितो ज्ञानसन्तान एष सः । २८.२०१ . क्रमस्फुटीभवत्तादृक्सदृशज्ञानधारया ॥ २०१ २८.२०२ . गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते । २८.२०२ . एवं चानादिसंसारोचितविज्ञानसन्ततेः ॥ २०२ २८.२०३ . ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् । २८.२०३ . असंसारोचितोदारतथाविज्ञानसन्ततेः ॥ २०३ २८.२०४ . कारणं मुख्यमाद्यं तद्गुरुविज्ञानमात्मगम् । २८.२०४ . अत्यन्तं स्वविशेषाणां तत्रार्पणवशात्स्फुटम् ॥ २०४ २८.२०५ . उपादानं हि तद्युक्तं देहभेदे हि सत्यपि । २८.२०५ . देहसन्ततिगौ भेदाभेदौ विज्ञानसन्ततेः ॥ २०५ २८.२०६ . न तथात्वाय योगीच्छाविष्टशावशरीरवत् । २८.२०६ . योगिनः परदेहादिजीवत्तापादने निजम् ॥ २०६ २८.२०७ . देहमत्यजतो नानाज्ञानोपादानता न किम् । २८.२०७ . तेन विज्ञानसन्तानप्राधान्याद्यौनसन्ततेः ॥ २०७ २८.२०८ . अन्योन्यं गुरुसन्तानो यः शिवज्ञाननिष्ठितः । २८.२०८ . इत्थं स्थिते त्रयं मुख्यं कारणं सहकारि च ॥ २०८ २८.२०९ . एककारणकार्यं च वस्त्वित्येष गुरोर्गणः । २८.२०९ . गुरुः कारणमत्रोक्तं तत्पत्नी सहकारिणी ॥ २०९ २८.२१० . यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत् । २८.२१० . अन्तःस्थोदारसंवित्तिशक्तेर्बाह्यां विनापि ताम् ॥ २१० २८.२११ . सामर्थ्यं योगिनो यद्वद्विनापि सहकारिणम् । २८.२११ . एकजन्या भ्रातरः स्युस्तत्सदृग्यस्तु कोऽपि सः ॥ २११ २८.२१२ . पुनः परम्परायोगाद्गुरुवर्गोऽपि भण्यते । २८.२१२ . मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा ॥ २१२ २८.२१३ . गुर्वादीनां च सम्भूतौ दीक्षायां प्रायणेऽपि च । २८.२१३ . यदहस्तद्धि विज्ञानोपायदेहादिकारणम् ॥ २१३ २८.२१४ . एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते । २८.२१४ . तादृग्भोगापवर्गादिहेतोर्देहस्य कारणम् ॥ २१४ २८.२१५ . दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् । २८.२१५ . भवेज्जन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः ॥ २१५ २८.२१६ . स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति । २८.२१६ . नैमित्तिकं मृतो यस्माच्छिवाभिन्नस्तदा भवेत् ॥ २१६ २८.२१७ . तत्र प्रसङ्गान्मरणस्वरूपं ब्रूमहे स्फुटम् । २८.२१७ . व्यापकोऽपि शिवः स्वेच्छाकॢप्तसङ्कोचमुद्रणात् ॥ २१७ २८.२१८ . विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् । २८.२१८ . शरीरभाक्त्वं चैतावद्यत्तद्गर्भस्थदेहगः ॥ २१८ २८.२१९ . संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः । २८.२१९ . गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥ २१९ २८.२२० . असङ्कोचस्य तन्वादिकर्ता तेनेश उच्यते । २८.२२० . स वाय्वात्मा दृढे तस्मिन्देहयन्त्रे चिदात्मना ॥ २२० २८.२२१ . प्रेर्यमाणो विचरति भस्त्रायन्त्रगवायुवत् । २८.२२१ . अतः प्राग्गाढसंसुप्तोत्थितवत्स प्रबुद्ध्यते ॥ २२१ २८.२२२ . क्रमाद्देहेन साकं च प्राणना स्याद्बलीयसी । २८.२२२ . तत्रापि कर्मनियतिबलात्सा प्राणनाक्षताम् ॥ २२२ २८.२२३ . गृह्णाति शून्यसुषिरसंवित्स्पर्शाधिकत्वतः । २८.२२३ . एवं क्रमेण संपुष्टदेहप्राणबलो भृशम् ॥ २२३ २८.२२४ . भोगान्कर्मकृतान्भुङ्क्ते योन्ययोनिजदेहगः । २८.२२४ . उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥ २२४ २८.२२५ . यथा गृहं विनिष्पाद्य गृही समधितिष्ठति । २८.२२५ . तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥ २२५ २८.२२६ . किञ्चित्स्फुरणमात्रः प्राग्निष्कलः सोऽपि शब्द्यते । २८.२२६ . स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥ २२६ २८.२२७ . इत्यादि श्रीगह्वरोक्तं तत एव पठेद्बहु । २८.२२७ . क्षये तु कर्मणां तेषां देहयन्त्रेऽन्यथागते ॥ २२७ २८.२२८ . प्राणयन्त्रं विघटते देहः स्यात्कुड्यवत्ततः । २८.२२८ . नाडीचक्रेषु सङ्कोचविकासौ विपरीततः ॥ २२८ २८.२२९ . भङ्गः शोषः क्लिदिर्वातश्लेष्माग्न्यपचयोच्चयैः । २८.२२९ . इत्येवमादि यत्किञ्चित्प्राक्संस्थानोपमर्दकम् ॥ २२९ २८.२३० . देहयन्त्रे विघटनं तदेवोक्तं मनीषिभिः । २८.२३० . तस्मिन्विघटिते यन्त्रे सा संवित्प्राणनात्मताम् ॥ २३० २८.२३१ . गृह्णाति योनिजेऽन्यत्र वा देहे कर्मचित्रिते । २८.२३१ . स देहः प्रतिबुध्येत प्रसुप्तोत्थितवत्तदा ॥ २३१ २८.२३२ . तस्यापि भोगतद्धानिमृतयः प्राग्वदेव हि । २८.२३२ . विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥ २३२ २८.२३३ . अतो नियतिकालादिवैचित्र्यानुविधायिनः । २८.२३३ . अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे ॥ २३३ २८.२३४ . ज्ञप्त्यात्मेति कथं कर्मनियत्यादि प्रतीक्षते । २८.२३४ . कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥ २३४ २८.२३५ . सङ्कोचहानिरूपेऽस्मिन्कथं हेतुरनुग्रहे । २८.२३५ . अनुग्रहश्च क्रमिकस्तीव्रश्चेति विभिद्यते ॥ २३५ २८.२३६ . प्राक्चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः । २८.२३६ . तेन दीक्षाशिवज्ञानदग्धसङ्कोचबन्धनः ॥ २३६ २८.२३७ . देहान्ते शिव एवेति नास्य देहान्तरस्थितिः । २८.२३७ . येऽपि तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥ २३७ २८.२३८ . स्वयम्भूमुनिदेवर्षिमनुजादिभुवां गृहे । २८.२३८ . मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥ २३८ २८.२३९ . मर्त्येऽवतीर्य वा नो वा शिवं यान्त्यपुनर्भवाः । २८.२३९ . तत्र स्वयम्भुवो द्वेधा केऽप्यनुग्रहतत्पराः ॥ २३९ २८.२४० . केऽपि स्वकृत्यायातांशस्थानमात्रोपसेविनः । २८.२४० . येऽनुग्रहार्थमाज्ञप्तास्तेषु यो म्रियते नरः ॥ २४० २८.२४१ . सोऽनुग्रहं स्फुटं याति विना मर्त्यावतारतः । २८.२४१ . यस्तु स्वकार्यं कुर्वाणस्तत्स्थानं नांशतस्त्यजेत् ॥ २४१ २८.२४२ . यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता । २८.२४२ . तत्रैव वा यथा ध्यानोड्डारे नरहरिर्विभुः ॥ २४२ २८.२४३ . वितस्तां नयतो दैत्यांस्त्रासयन्दृप्त उत्थितः । २८.२४३ . सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः ॥ २४३ २८.२४४ . तपस्यन्तौ बदर्यां च नरनारायणौ तथा । २८.२४४ . इत्येवमादयो देवाः स्वकृत्यांशस्थितास्तथा ॥ २४४ २८.२४५ . आराधिताः स्वोचितं तच्छीघ्रं विदधते फलम् । २८.२४५ . स्वकृत्यांशस्थितानां च धाम्नि येऽन्तं व्रजन्ति ते ॥ २४५ २८.२४६ . तत्र भोगांस्तथा भुक्त्वा मर्त्येष्ववतरन्त्यपि । २८.२४६ . मर्त्यावतीर्णास्ते तत्तदंशकास्तन्मयाः पुनः ॥ २४६ २८.२४७ . तद्दीक्षाज्ञानचर्यादिक्रमाद्यान्ति शिवात्मताम् । २८.२४७ . स्थावराद्यास्तिर्यगन्ताः पशवोऽस्मिन्द्वये मृताः ॥ २४७ २८.२४८ . स्वकर्मसंस्क्रियावेधात्तल्लोके चित्रताजुषः । २८.२४८ . पुंसां च पशुमात्राणां सालोक्यमविवेकतः ॥ २४८ २८.२४९ . अविवेकस्तद्विशेषानुन्मेषान्मौढ्यतस्तथा । २८.२४९ . स्थावराद्यास्तथाभावमुत्तरोत्तरतां च वा ॥ २४९ २८.२५० . प्रपद्यन्ते न ते साक्षाद्रुद्रतां तां क्रमात्पुनः । २८.२५० . हंसकारण्डवाकीर्णे नानातरुकुलाकुले ॥ २५० २८.२५१ . इत्येतदागमेषूक्तं तत एव पुरे पुरे । २८.२५१ . क्षेत्रमानं ब्रुवे श्रीमत्सर्वज्ञानादिषूदितम् ॥ २५१ २८.२५२ . लिङ्गाद्धस्तशतं क्षेत्रमाचार्यस्थापिते सति । २८.२५२ . स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥ २५२ २८.२५३ . तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् । २८.२५३ . अतत्त्वविद्यदाचार्यो लिङ्गं स्थापयते तदा ॥ २५३ २८.२५४ . पुनर्विधिर्भवेद्दोषो ह्यन्यथोभयदूषकः । २८.२५४ . अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः ॥ २५४ २८.२५५ . न मोचयेन्न मुक्तश्च सर्वमात्ममयं यतः । २८.२५५ . तस्मात्तत्त्वविदा यद्यत्स्थापितं लिङ्गमुत्तमम् ॥ २५५ २८.२५६ . तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये । २८.२५६ . उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् ॥ २५६ २८.२५७ . मोक्षार्थी न भयं गच्छेत्त्यजेद्देहमशङ्कितः । २८.२५७ . तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥ २५७ २८.२५८ . अयोगिनामयं पन्था योगी योगेन वञ्चयेत् । २८.२५८ . वञ्चने त्वसमर्थः सन् क्षेत्रमायतनं व्रजेत् ॥ २५८ २८.२५९ . तीर्थे समाश्रयात्तस्य वञ्चनं तु विजायते । २८.२५९ . अनेन च धराद्येषु तत्त्वेष्वभ्यासयोगतः ॥ २५९ २८.२६० . तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता । २८.२६० . सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥ २६० २८.२६१ . पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः । २८.२६१ . ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः ॥ २६१ २८.२६२ . योग्यतावशसंजाता यस्य यत्रैव वासना । २८.२६२ . स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक् ॥ २६२ २८.२६३ . इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपिच । २८.२६३ . यो यत्राभिलषेद्भोगान्स तत्रैव नियोजितः ॥ २६३ २८.२६४ . सिद्धिभाङ्मन्त्रसामर्थ्यादित्याद्यन्यत्र वर्णितम् । २८.२६४ . ये तु तत्तत्त्वविज्ञानमन्त्रचर्यादिवर्तिनः ॥ २६४ २८.२६५ . मृतास्ते तत्र तद्रुद्रसयुक्त्वं यान्ति कोविदाः । २८.२६५ . तेषां सयुक्त्वं यातानामपि संस्कारतो निजात् ॥ २६५ २८.२६६ . तथा तथा विचित्रः स्यादवतारस्तदंशतः । २८.२६६ . सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥ २६६ २८.२६७ . तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः । २८.२६७ . अनेकशक्तिखचितं यतो भावस्य यद्वपुः ॥ २६७ २८.२६८ . शक्तिभ्योऽर्थान्तरं नैष तत्समूहादृते भवेत् । २८.२६८ . तेन शक्तिसमूहाख्यात्तस्माद्रुद्राद्यदंशतः ॥ २६८ २८.२६९ . कृत्यं तदुचितं सिद्ध्येत्सोंऽशोऽवतरति स्फुटम् । २८.२६९ . ये चाधरप्राप्तदीक्षास्तदास्थानुज्झिताः परे ॥ २६९ २८.२७० . तत्त्वे मृताः काष्ठवत्तेऽधरेऽप्युत्कर्षभागिनः । २८.२७० . ये तूज्झिततदुत्कर्षास्ते तदुत्तरभागिनः ॥ २७० २८.२७१ . येऽप्यूर्ध्वतत्त्वदीक्षास्ते विना तावद्विवेकतः । २८.२७१ . प्राप्ताधरान्ता अपि तद्दीक्षाफलसुभागिनः ॥ २७१ २८.२७२ . अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् । २८.२७२ . विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः ॥ २७२ २८.२७३ . पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु । २८.२७३ . तत्परस्य तु सायुज्यमित्युक्तं परमेशिना ॥ २७३ २८.२७४ . यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः । २८.२७४ . व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥ २७४ २८.२७५ . उक्तं तद्विषयं चैतद्देवदेवेन यद्वृथा । २८.२७५ . दीक्षा ज्ञानं तथा तीर्थं तस्येत्यादि सविस्तरम् ॥ २७५ २८.२७६ . यस्तु तावदयोग्योऽपि तथास्ते स शिवालये । २८.२७६ . पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥ २७६ २८.२७७ . नदीनगह्रदप्रायं यच्च पुण्यं न तन्मृतौ । २८.२७७ . उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥ २७७ २८.२७८ . ये पुनः प्राप्तविज्ञानविवेका मरणान्तिके । २८.२७८ . अधरायतनेष्वास्थां श्रितास्तेऽत्र तिरोहिताः ॥ २७८ २८.२७९ . तज्ज्ञानदूषणोक्तं यत्तेषां स्यात्किल पातकम् । २८.२७९ . तत्तत्पुरेशदीक्षादिक्रमान्नश्येदिति स्थितिः ॥ २७९ २८.२८० . दीक्षायतनविज्ञानदूषिणो ये तु चेतसा । २८.२८० . आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः ॥ २८० २८.२८१ . ज्ञानायतनदीक्षादावास्थाबन्धपरिच्युतिः । २८.२८१ . व्यापारव्याहृतैर्ज्ञेया तान्यपि द्विविधानि च ॥ २८१ २८.२८२ . यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः । २८.२८२ . अस्वास्थ्ये धातुदोषोत्थान्येव तद्भोगमात्रकम् ॥ २८२ २८.२८३ . धातुदोषाच्च संसारसंस्कारास्ते प्रबोधिताः । २८.२८३ . छिद्रगा अपि भूयिष्ठज्ञानदग्धा न रोहिणः ॥ २८३ २८.२८४ . ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा । २८.२८४ . अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः ॥ २८४ २८.२८५ . यतः सांसारिकाः पूर्वगाढाभ्यासोपसंस्कृताः । २८.२८५ . इत्यूचे भुजगाधीशस्तच्छिद्रेष्विति सूत्रतः ॥ २८५ २८.२८६ . ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् । २८.२८६ . अभ्यस्ताः संसृतेर्भावात्तेनैते शक्तिपाततः ॥ २८६ २८.२८७ . व्यापारव्याहृतैस्तेन धातुदोषप्रकोपितैः । २८.२८७ . अप्राप्तनिश्चयामर्शैः सुप्तमत्तोपमानकैः ॥ २८७ २८.२८८ . विपरीतैरपि ज्ञानदीक्षागुर्वादिदूषकैः । २८.२८८ . तिरोभावो न विज्ञेयो हृदये रूढ्यभावतः ॥ २८८ २८.२८९ . अत एव प्रबुद्धोऽपि कर्मोत्थान्भोगरूपिणः । २८.२८९ . यमकिङ्करसर्पादिप्रत्ययान्देहगो भजेत् ॥ २८९ २८.२९० . नैतावता न मुक्तोऽसौ मृतिर्भोगो हि जन्मवत् । २८.२९० . स्थितिवच्च ततो दुःखसुखाभ्यां मरणं द्विधा ॥ २९० २८.२९१ . अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः । २८.२९१ . स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः ॥ २९१ २८.२९२ . ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः । २८.२९२ . चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः ॥ २९२ २८.२९३ . श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः । २८.२९३ . इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥ २९३ २८.२९४ . एतेषां मरणाभिख्यो भोगो नास्ति तु ये तनुम् । २८.२९४ . धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥ २९४ २८.२९५ . एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा । २८.२९५ . ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥ २९५ २८.२९६ . तथाहि मानसं यत्नं तावत्समधितिष्ठति । २८.२९६ . अहंरूढ्या परे देहे यावत्स्याद्बुद्धिसंचरः ॥ २९६ २८.२९७ . प्राणचक्रं तदायत्तमपि संचरते पथा । २८.२९७ . तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् ॥ २९७ २८.२९८ . मक्षिका मक्षिकाराजं यथोत्थितमनूत्थिताः । २८.२९८ . स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥ २९८ २८.२९९ . अतोऽस्य परदेहादिसंचारे नास्ति मेलनम् । २८.२९९ . अक्षाणां मध्यगं सूक्ष्मं स्यादेतद्देहवत्पुनः ॥ २९९ २८.३०० . एवं परशरीरादिचारिणामिव योगिनाम् । २८.३०० . तत्तत्तत्त्वशरीरान्तश्चारिणां नास्ति मूढता ॥ ३०० २८.३०१ . ते चापि द्विविधा ज्ञेया लौकिका दीक्षितास्तथा । २८.३०१ . पूर्वे शिवाः स्युः क्रमशः परे तद्भोगमात्रतः ॥ ३०१ २८.३०२ . दीक्षाप्यूर्ध्वाधरानेकभेदयोजनिकावशात् । २८.३०२ . भिद्यमाना योगिनां स्याद्विचित्रफलदायिनी ॥ ३०२ २८.३०३ . ये तु विज्ञानिनस्तेऽत्र द्वेधा कम्प्रेतरत्वतः । २८.३०३ . तत्र ये कम्प्रविज्ञानास्ते देहान्तेद्शिवाः स्फुटम् ॥ ३०३ २८.३०४ . यतो विज्ञानमेतेषामुत्पन्नं नच सुस्फुटम् । २८.३०४ . विकल्पान्तरयोगेन नचाप्युन्मूलितात्मकम् ॥ ३०४ २८.३०५ . अतो देहे प्रमादोत्थो विकल्पो देहपाततः । २८.३०५ . नश्येदवश्यं तच्चापि बुध्यते ज्ञानमुत्तमम् ॥ ३०५ २८.३०६ . संस्कारकल्पनातिष्ठदध्वस्तीकृतमन्तरा । २८.३०६ . प्राप्तपाकं संवरीतुरपाये भासते हि तत् ॥ ३०६ २८.३०७ . ये तु स्वभ्यस्तविज्ञानमयाः शिवमयाः सदा । २८.३०७ . जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥ ३०७ २८.३०८ . यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा । २८.३०८ . सुखिदुःखिविमूढत्वे, मृतावपि तथा न सा ॥ ३०८ २८.३०९ . श्रीरत्नमालाशास्त्रे तदुवाच परमेश्वरः । २८.३०९ . स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥ ३०९ २८.३१० . रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने । २८.३१० . सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षं लभतेऽपि चान्ते ॥ ३१० २८.३११ . अपिचेति ध्वनिर्जीवन्मुक्ततामस्य भाषते । २८.३११ . सचिन्ताचिन्तकत्वोक्तिरेतावत्संभवस्थितिम् ॥ ३११ २८.३१२ . तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेद्देहम् । २८.३१२ . ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ ३१२ २८.३१३ . अनन्तकारिका चैषा प्राहेदं बन्धकं किल । २८.३१३ . सुकृतं दुष्कृतं चास्य शङ्क्यं तच्चास्य नो भवेत् ॥ ३१३ २८.३१४ . अपिशब्दादलुप्तस्मृत्या वा संभाव्यते किल । २८.३१४ . मृतिर्नष्टस्मृतेरेव मृतेः प्राक्सास्तु किं तया ॥ ३१४ २८.३१५ . लिङ्च संभावनायां स्यादियत्संभाव्यते किल । २८.३१५ . सच कालध्वनिः प्राह मृतेर्मुक्तावहेतुताम् ॥ ३१५ २८.३१६ . कैवल्यमिति चाशङ्कापदं याप्यभवत्तनुः । २८.३१६ . भेदप्रदत्वेनैषापि ध्वस्ता तेन विशोकता ॥ ३१६ २८.३१७ . परदेहादिसंबन्धो यथा नास्य विभेदकः । २८.३१७ . तथा स्वदेहसंबन्धो जीवन्मुक्तस्य यद्यपि ॥ ३१७ २८.३१८ . अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः । २८.३१८ . शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल ॥ ३१८ २८.३१९ . तथापि प्राच्यतद्भेदसंस्काराशङ्कनस्थितेः । २८.३१९ . अधुनोक्तं केवलत्वं यद्वा मात्रन्तराश्रयात् ॥ ३१९ २८.३२० . तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते । २८.३२० . श्रीमत्त्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते ॥ ३२० २८.३२१ . जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवत्स्थिते । २८.३२१ . सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥ ३२१ २८.३२२ . तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः । २८.३२२ . प्रधानं घट आकाश आत्मा मष्टे घटेऽपि खम् ॥ ३२२ २८.३२३ . न नश्येत्तद्वदेवासावात्मा शिवमयो भवेत् । २८.३२३ . स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु ॥ ३२३ २८.३२४ . तस्य भावो नचाभावः संस्थानं नच कल्पना । २८.३२४ . एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥ ३२४ २८.३२५ . यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । २८.३२५ . तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ३२५ २८.३२६ . तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । २८.३२६ . यदा सत्त्वे विवृद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥ ३२६ २८.३२७ . क्रमाद्रजस्तमोलीनः कर्मयोनिविमूढगः । २८.३२७ . तत्रेन्द्रियाणां संमोहश्वासायासपरीतता ॥ ३२७ २८.३२८ . इत्यादिमृतिभोगोऽयं देहे न त्यजनं तनोः । २८.३२८ . यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥ ३२८ २८.३२९ . यदनन्तरमेवैष देहः स्यात्काष्ठकुड्यवत् । २८.३२९ . सा देहत्यागकालांशकला देहवियोगिनी ॥ ३२९ २८.३३० . तत एव हि तद्देहसुखदुःखादिकोज्झिता । २८.३३० . तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥ ३३० २८.३३१ . अदृष्टाभ्यासभूयस्त्वशक्तिपातादिहेतुकात् । २८.३३१ . तदेव रूपमभ्येति सुखिदुःखिविमूढकम् ॥ ३३१ २८.३३२ . यद्वा निःसुखदुःखादि यदि वानन्दरूपकम् । २८.३३२ . कस्मादेति तदेवैष यतः स्मरति संविदि ॥ ३३२ २८.३३३ . प्राक्प्रस्फुरेद्यदधिकं देहोऽसौ चिदधिष्ठितेः । २८.३३३ . यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः ॥ ३३३ २८.३३४ . सैवात्र लीनता प्रोक्ता सत्त्वे रजसि तामसे । २८.३३४ . नीलपीतादिके ज्ञेये यतः प्राक्कल्पितां तनुम् ॥ ३३४ २८.३३५ . अधिष्ठायैव संवित्तिरधिष्ठानं करोत्यलम् । २८.३३५ . अतोऽधिष्ठेयमात्रस्य शरीरत्वेऽपि कुड्यतः ॥ ३३५ २८.३३६ . देहस्यास्ति विशेषो यत्सर्वाधिष्ठेयपूर्वता । २८.३३६ . तादात्म्यवृत्तिरन्येषां तन्न सत्यपि वेद्यते ॥ ३३६ २८.३३७ . वेद्यानां किन्तु देहस्य नित्याव्यभिचरित्वतः । २८.३३७ . सा च तस्यैव देहस्य पूर्वमृत्यन्तजन्मना ॥ ३३७ २८.३३८ . स्मृत्या प्राच्यानुभवनकृतसंस्कारचित्रया । २८.३३८ . युक्त्यानयास्मत्सन्तानगुरुणा कल्लटेन यत् ॥ ३३८ २८.३३९ . देहाविशेषे प्राणाख्यदार्ढ्यं हेतुरुदीरितम् । २८.३३९ . तद्युक्तमन्यथा प्राणदार्ढ्ये को हेतुरेकतः ॥ ३३९ २८.३४० . देहत्वस्याविशेषेऽपीत्येष प्रश्नो न शाम्यति । २८.३४० . स्मरन्निति शता हेतौ तद्रूपं प्रतिपद्यते ॥ ३४० २८.३४१ . प्राक्स्मर्यते यतो देहः प्राक्चिताधिष्ठितः स्फुरन् । २८.३४१ . अतः स्मरणमन्त्यं यत्तदसर्वज्ञमातृषु ॥ ३४१ २८.३४२ . न जातु गोचरो यस्माद्देहान्तरविनिश्चयः । २८.३४२ . यत्तु बन्धुप्रियापुत्रपानादिस्मरणं स्फुटम् ॥ ३४२ २८.३४३ . न तद्देहान्तरासङ्गि न तदन्त्यं यतो भवेत् । २८.३४३ . कस्यापि तु शरीरान्ते वासना या प्रभोत्स्यते ॥ ३४३ २८.३४४ . देहसत्त्वे तदौचित्याज्जायेतानुभवः स्फुटः । २८.३४४ . यथा पुराणे कथितं मृगपोतकतृष्णया ॥ ३४४ २८.३४५ . मुनिः कोऽपि मृगीभावमभ्युवाहाधिवासितः । २८.३४५ . तत्र सोऽनुभवो हेतुर्न जन्मान्तरसूतये ॥ ३४५ २८.३४६ . तस्यैतद्वासना हेतुः काकतालीयवत्स तु । २८.३४६ . ननु कस्मात्तदेवैष स्मरति इत्याह यत्सदा ॥ ३४६ २८.३४७ . तद्भावभावितस्तेन तदेवैष स्मरत्यलम् । २८.३४७ . एवमस्मि भविष्यामीत्येष तद्भाव उच्यते ॥ ३४७ २८.३४८ . भविष्यतो हि भवनं भाव्यते न सतः क्वचित् । २८.३४८ . क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥ ३४८ २८.३४९ . स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् । २८.३४९ . तदहर्जातबालस्य पशोः कीटस्य वा तरोः ॥ ३४९ २८.३५० . मूढत्वेऽपि तदानीं प्राग्भावना ह्यभवत्स्फुटा । २८.३५० . सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥ ३५० २८.३५१ . स्मृतिद्वारेण तद्देहवैचित्र्यफलदायिनी । २८.३५१ . देशादिव्यवधानेऽपि वासनानामुदीरितात् ॥ ३५१ २८.३५२ . आनन्तर्यैकरूपत्वात्स्मृतिसंस्कारयोरतः । २८.३५२ . तथानुभवनारूढ्या स्फुटस्यापि तु भाविता ॥ ३५२ २८.३५३ . भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः । २८.३५३ . तत्तादृक्तादृशैर्बन्धुपुत्रमित्रादिभिः सह ॥ ३५३ २८.३५४ . भासतेऽपि परे लोके स्वप्नवद्वासनाक्रमात् । २८.३५४ . ननु मात्रन्तरैर्बन्धुपुत्राद्यैस्तत्तथा न किम् ॥ ३५४ २८.३५५ . वेद्यते क इदं प्राह स तावद्वेद वेद्यताम् । २८.३५५ . व्यापारव्याहृतिव्रातवेद्ये मात्रन्तरव्रजे ॥ ३५५ २८.३५६ . स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता । २८.३५६ . य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः ॥ ३५६ २८.३५७ . स्वप्न इत्यस्तु मिथ्यैतत्तत्प्रमातृवचोबलात् । २८.३५७ . यानपश्यमहं स्वप्ने प्रमातॄंस्ते न केचन ॥ ३५७ २८.३५८ . न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा । २८.३५८ . यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥ ३५८ २८.३५९ . प्रमात्रन्तरसद्भावः संविन्निष्ठो न तद्गतः । २८.३५९ . घटादेरस्तिता संविन्निष्ठिता नतु तद्गता ॥ ३५९ २८.३६० . तद्वन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता । २८.३६० . तेन स्थितमिदं यद्यद्भाव्यते तत्तदेव हि ॥ ३६० २८.३६१ . देहान्ते बुध्यते नो चेत्स्यादन्यादृक्प्रबोधनम् । २८.३६१ . तथाह्यन्त्यक्षणे ब्रह्मविद्याकर्णनसंस्कृतः ॥ ३६१ २८.३६२ . मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः । २८.३६२ . निपाताभ्यामन्तशब्दात्स्मरणाच्छतुरन्त्यतः ॥ ३६२ २८.३६३ . पादाच्च निखिलादर्धश्लोकाच्च समनन्तरात् । २८.३६३ . लीनशब्दाच्च सर्वं तदुक्तमर्थसतत्त्वकम् ॥ ३६३ २८.३६४ . अज्ञात्वैतत्तु सर्वेऽपि कुशकाशावलम्बिनः । २८.३६४ . यत्तदोर्व्यत्ययं केचित्केचिदन्यादृशं क्रमम् ॥ ३६४ २८.३६५ . भिन्नक्रमौ निपातौ च त्यजतीति च सप्तमीम् । २८.३६५ . व्याचक्षते तच्च सर्वं नोपयोग्युक्तयोजने ॥ ३६५ २८.३६६ . नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम् । २८.३६६ . तदित्थंप्रायणस्यैतत्तत्त्वं श्रीशम्भुनाथतः ॥ ३६६ २८.३६७ . अधिगम्योदितं तेन मृत्योर्भीतिर्विनश्यति । २८.३६७ . विदितमृतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् । २८.३६७ . अमृतमिति निगीर्णे कालकूटेऽत्र देवा यदि पिवथ तदानीं निश्चितं वः शिवत्वम् ॥ ३६७ २८.३६८ . उत्सवोऽपि हि यः कश्चिल्लौकिकः सोऽपि संमदम् । २८.३६८ . संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥ ३६८ २८.३६९ . एतेन च विपद्ध्वंसप्रमोदादिषु पर्वता । २८.३६९ . व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥ ३६९ २८.३७० . पुरक्षोभाद्यद्भुतं यत्तत्स्वातन्त्र्ये स्वसंविदः । २८.३७० . दार्ढ्यदायीति तल्लाभदिने वैशेषिकार्चनम् ॥ ३७० २८.३७१ . योगिनीमेलको द्वेधा हठतः प्रियतस्तथा । २८.३७१ . प्राच्ये च्छिद्राणि संरक्षेत्कामचारित्वमुत्तरे ॥ ३७१ २८.३७२ . स च द्वयोऽपि मन्त्रोद्धृत्प्रसङ्गे दर्शयिष्यते । २८.३७२ . योगिनीमेलकाच्चैषोऽवश्यं ज्ञानं प्रपद्यते ॥ ३७२ २८.३७३ . तेन तत्पर्व तद्वच्च स्वसन्तानादिमेलनम् । २८.३७३ . संवित्सर्वात्मिका देहभेदाद्या सङ्कुचेत्तु सा ॥ ३७३ २८.३७४ . मेलकेऽन्योन्यसङ्घट्टप्रतिबिम्बाद्विकस्वरा । २८.३७४ . उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः ॥ ३७४ २८.३७५ . बहुदर्पणवद्दीप्तः सर्वायेताप्ययत्नतः । २८.३७५ . अत एव गीतगीतप्रभृतौ बहुपर्षदि ॥ ३७५ २८.३७६ . यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः । २८.३७६ . आनन्दनिर्भरा संवित्प्रत्येकं सा तथैकताम् ॥ ३७६ २८.३७७ . नृत्तादौ विषये प्राप्ता पूर्णानन्दत्वमश्नुते । २८.३७७ . ईर्ष्यासूयादिसङ्कोचकारणाभावतोऽत्र सा ॥ ३७७ २८.३७८ . विकस्वरा निष्प्रतिघं संविदानन्दयोगिनी । २८.३७८ . अतन्मये तु कस्मिंश्चित्तत्रस्थे प्रतिहन्यते ॥ ३७८ २८.३७९ . स्थपुटस्पर्शवत्संविद्विजातीयतया स्थिते । २८.३७९ . अतश्चक्रार्चनाद्येषु विजातीयमतन्मयम् ॥ ३७९ २८.३८० . नैव प्रवेशयेत्संवित्सङ्कोचननिबन्धनम् । २८.३८० . यावन्त्येव शरीराणि स्वाङ्गवत्स्युः सुनिर्भराम् ॥ ३८० २८.३८१ . एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् । २८.३८१ . प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः ॥ ३८१ २८.३८२ . प्रस्तुतं स्वसमाचारं तेन साकं समाचरेत् । २८.३८२ . स त्वनुग्रहशक्त्या चेद्विद्धस्तत्तन्मयीभवेत् ॥ ३८२ २८.३८३ . वामाविद्धस्तु तन्निन्देत्पश्चात्तं घातयेदपि । २८.३८३ . श्रीमत्पिचुमते चोक्तमादौ यत्नेन रक्षयेत् ॥ ३८३ २८.३८४ . प्रवेशं संपविष्टस्य न विचारं तु कारयेत् । २८.३८४ . लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः ॥ ३८४ २८.३८५ . अकृत्वा तं समाचारं पुनश्चक्रं प्रपूजयेत् । २८.३८५ . अथ वच्मि गुरोः शास्त्रव्याख्याक्रममुदाहृतम् ॥ ३८५ २८.३८६ . देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना । २८.३८६ . कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥ ३८६ २८.३८७ . सर्वशास्त्रार्थविच्चेति गुरुर्भिन्नोऽपदिश्यते । २८.३८७ . यो यत्र शास्त्रे स्वभ्यस्तज्ञानो व्याख्यां चरेत्तु सः ॥ ३८७ २८.३८८ . नान्यथा तदभावश्चेत्सर्वथा सोऽप्यथाचरेत् । २८.३८८ . श्रीभैरवकुले चोक्तं कल्पादिज्ञत्वमीदृशम् ॥ ३८८ २८.३८९ . गुरोर्लक्षणमेतावत्संपूर्णज्ञानतैव या । २८.३८९ . तत्रापि यास्य चिद्वृत्तिकर्मिभित्साप्यवान्तरा ॥ ३८९ २८.३९० . देव्यायामल उक्तं तद्द्वापञ्चाशाह्व आह्निके । २८.३९० . देव एव गुरुत्वेन तिष्ठासुर्दशधा भवेत् ॥ ३९० २८.३९१ . उच्छुष्मशवरचण्डगुमतङ्गघोरान्तकोग्रहलहलकाः । २८.३९१ . क्रोधी हुलुहुलुरेते दश गुरवः शिवमयाः पूर्वे ॥ ३९१ २८.३९२ . ते स्वांशचित्तवृत्तिक्रमेण पौरुषशरीरमास्थाय । २८.३९२ . अन्योन्यभिन्नसंवित्क्रिया अपि ज्ञानपरिपूर्णाः ॥ ३९२ २८.३९३ . सर्वेऽलिमांसनिधुवनदीक्षार्चनशास्त्रसेवने निरताः । २८.३९३ . अभिमानशमक्रोधक्षमादिरवान्तरो भेदः ॥ ३९३ २८.३९४ . इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् । २८.३९४ . व्याख्यायै गुरुमभ्यर्थयेत पूजापुरःसरं मतिमान् ॥ ३९४ २८.३९५ . सोऽपि स्वशासनीये परशिष्येऽपिवापि तादृशं शास्त्रम् । २८.३९५ . श्रोतुं योग्ये कुर्याद्व्याख्यानं वैष्णवाद्यधरे ॥ ३९५ २८.३९६ . करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् । २८.३९६ . अधमेऽपि हि व्याकुर्यात्सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥ ३९६ २८.३९७ . लिप्तायां भुवि पीठे चतुरस्रे पङ्कजत्रयं कजगे । २८.३९७ . कुर्याद्विद्यापीठं स्याद्रसवह्न्यङ्गुलं त्वेतत् ॥ ३९७ २८.३९८ . मध्ये वागीशानीं दक्षोत्तरयोर्गुरून्गणेशं च । २८.३९८ . अधरे कजे च कल्पेश्वरं प्रपूज्यार्घपुष्पतर्पणकैः ॥ ३९८ २८.३९९ . सामान्यविधिनियुक्तार्घपात्रयोगेन चक्रमथ सम्यक् । २८.३९९ . सन्तर्प्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ॥ ३९९ २८.४०० . सूत्रपदवाक्यपटलग्रन्थक्रमयोजनेन सम्बन्धात् । २८.४०० . अव्याहतपूर्वापरमुपवृह्य नयेत वाक्यानि ॥ ४०० २८.४०१ . मण्डूकप्लवसिंहावलोकनाद्यैर्यथायथं न्यायैः । २८.४०१ . अविहतपूर्वापरकं शास्त्रार्थं योजयेदसङ्कीर्णम् ॥ ४०१ २८.४०२ . तन्त्रावर्तनबाधप्रसङ्गतर्कादिभिश्च सन्न्यायैः । २८.४०२ . वस्तु वदेद्वाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत् ॥ ४०२ २८.४०३ . यद्यद्व्याहृतिपदवीमायाति तदेव दृढतरैर्न्यायैः । २८.४०३ . बलवत्कुर्याद्दूष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥ ४०३ २८.४०४ . दृढरचितपूर्वपक्षप्रोद्धरणपथेन वस्तु यद्वाच्यम् । २८.४०४ . शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥ ४०४ २८.४०५ . भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य । २८.४०५ . सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥ ४०५ २८.४०६ . वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चक्रे । २८.४०६ . पुनरपरं वस्तु वदेत्पटलादूर्ध्वं तु नो जल्पेत् ॥ ४०६ २८.४०७ . व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले । २८.४०७ . शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥ ४०७ २८.४०८ . विशेषपूजनं कुर्यात्समयेभ्यश्च निष्कृतौ । २८.४०८ . अविकल्पमतेर्न स्युः प्रायश्चित्तानि यद्यपि ॥ ४०८ २८.४०९ . तथाप्यतत्त्वविद्वर्गानुग्रहाय तथा चरेत् । २८.४०९ . श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥ ४०९ २८.४१० . प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते । २८.४१० . सत्यं स्मरणमेवेह सकृज्जप्तं विमोचयेत् ॥ ४१० २८.४११ . सर्वस्मात्कर्मणो जालात्स्मृतितत्त्वकलाविदः । २८.४११ . तथापि स्थितिरक्षार्थं कर्तव्यश्चोदितो विधिः ॥ ४११ २८.४१२ . अतत्त्ववेदिनो ये हि चर्यामात्रैकनिष्ठिताः । २८.४१२ . तेषां दोलायिते चित्ते ज्ञानहानिः प्रजायते ॥ ४१२ २८.४१३ . तस्माद्विकल्परहितः संवृत्युपरतो यदि । २८.४१३ . शास्त्रचर्यासदायत्तैः सङ्करं तद्विवर्जयेत् ॥ ४१३ २८.४१४ . सङ्करं वा समन्विच्छेत्प्रायश्चित्तं समाचरेत् । २८.४१४ . यथा तेषां न शास्त्रार्थे दोलारूढा मतिर्भवेत् ॥ ४१४ २८.४१५ . यत्स्वयं शिवहस्ताख्ये विधौ संचोदितं पुरा । २८.४१५ . शतं जप्त्वास्य चास्त्रस्य मुच्यते स्त्रीवधादृते ॥ ४१५ २८.४१६ . शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये । २८.४१६ . इति श्रीरत्नमालायां समयोल्लङ्घने कृते ॥ ४१६ २८.४१७ . कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी । २८.४१७ . श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥ ४१७ २८.४१८ . मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् । २८.४१८ . प्रतिष्ठितस्य पूरादेर्दर्शनेऽनधिकारिणा ॥ ४१८ २८.४१९ . प्रायश्चित्तं प्रकर्तव्यमिति श्रीब्रह्मयामले । २८.४१९ . ब्रह्मघ्नो गुरुतल्पस्थो वीरद्रव्यहरस्तथा ॥ ४१९ २८.४२० . देवद्रव्यहृदाकारप्रहर्ता लिङ्गभेदकः । २८.४२० . नित्यादिलोपकृद्भ्रष्टस्वकमात्रापरिच्छदः ॥ ४२० २८.४२१ . शक्तिव्यङ्गत्वकृद्योगिज्ञानिहन्ता विलोपकः । २८.४२१ . नैमित्तिकानां लक्षादिक्रमाद्द्विद्विगुणं जपेत् ॥ ४२१ २८.४२२ . व्रतेन केनचिद्युक्तो मितभुग्ब्रह्मचर्यवान् । २८.४२२ . दूतीपरिग्रहेऽन्यत्र गतश्चेत्काममोहितः ॥ ४२२ २८.४२३ . लक्षजापं ततः कुर्यादित्युक्तं ब्रह्मयामले । २८.४२३ . दीक्षाभिषेकनैमित्तविध्यन्ते गुरुपूजनम् ॥ ४२३ २८.४२४ . अपरेद्युः सदा कार्यं सिद्धयोगीश्वरीमते । २८.४२४ . पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥ ४२४ २८.४२५ . स गुरुः सर्वदा ग्राह्यस्त्यक्त्वान्यं तत्स्थितं त्वपि । २८.४२५ . मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥ ४२५ २८.४२६ . कृत्वार्चयेत तत्रस्थमध्वानं सकलान्तकम् । २८.४२६ . ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥ ४२६ २८.४२७ . स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः । २८.४२७ . समालम्भनसद्वस्त्रैर्नैवेद्यैस्तर्पणैः क्रमात् ॥ ४२७ २८.४२८ . आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः । २८.४२८ . सर्वस्वमस्मै संदद्यादात्मानमपि भावितः ॥ ४२८ २८.४२९ . अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः । २८.४२९ . तत्त्वज्ञोऽप्यृणबन्धेन तेन यात्यधिकारिताम् ॥ ४२९ २८.४३० . गुरुपूजामकुर्वाणः शतं जन्मानि जायते । २८.४३० . अधिकारी ततो मुक्तिं यातीति स्कन्दयामले ॥ ४३० २८.४३१ . तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः । २८.४३१ . पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥ ४३१ २८.४३२ . तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः । २८.४३२ . ततः प्रपूजयेच्चक्रं यथाविभवसम्भवम् ॥ ४३२ २८.४३३ . अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः । २८.४३३ . तस्मात्प्रयत्नतः कार्यो गुरुयागो यथाबलम् ॥ ४३३ २८.४३४ . अतत्रस्थोऽपि हि गुरुः पूज्यः संकल्प्य पूर्ववत् । २८.४३४ . तद्द्रव्यं देवताकृत्ये कुर्याद्भक्तजनेष्वथ ॥ ४३४ २८.४३५ . पर्वपवित्रप्रभृतिप्रभेदि नैमित्तिकं त्विदं कर्म । च्२९ अथ श्रीतन्त्रालोके एकोनत्रिंशमाह्निकम् २९.१ . अथ समुचिताधिकारिण उद्दिश्य रहस्य उच्यतेऽत्र विधिः । २९.१ . अथ सर्वाप्युपासेयं कुलप्रक्रिययोच्यते ॥ १ २९.२ . तथा धाराधिरूढेषु गुरुशिष्येषु योचिता । २९.२ . उक्तं च परमेशेन सारत्वं क्रमपूजने ॥ २ २९.३ . सिद्धक्रमनियुक्तस्य मासेनैकेन यद्भवेत् । २९.३ . न तद्वर्षसहस्रैः स्यान्मन्त्रौघैर्विविधैरिति ॥ ३ २९.४ . कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्ध्वता । २९.४ . स्वातन्त्र्यमोजो वीर्यं च पिण्डः संविच्छरीरकम् ॥ ४ २९.५ . तथात्वेन समस्तानि भावजातानि पश्यतः । २९.५ . ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः ॥ ५ २९.६ . तादृग्रूपनिरूढ्यर्थं मनोवाक्कायवर्त्मना । २९.६ . यद्यत्समाचरेद्वीरः कुलयागः स स स्मृतः ॥ ६ २९.७ . बहिः शक्तौ यामले च देहे प्राणपथे मतौ । २९.७ . इति षोढा कुलेज्या स्यात्प्रतिभेदं विभेदिनी ॥ ७ २९.८ . स्नानमण्डलकुण्डादि षोढान्यासादि यन्न तत् । २९.८ . किञ्चिदत्रोपयुज्येत कृतं वा खण्डनाय नो ॥ ८ २९.९ . षण्मण्डलविनिर्मुक्तं सर्वावरणवर्जितम् । २९.९ . ज्ञानज्ञेयमयं कौलं प्रोक्तं त्रैशिरसे मते ॥ ९ २९.१० . अत्र यागे च यद्द्रव्यं निषिद्धं शास्त्रसन्ततौ । २९.१० . तदेव योजयेद्धीमान्वामामृतपरिप्लुतम् ॥ १० २९.११ . श्रीब्रह्मयामलेऽप्युक्तं सुरा शिवरसो बहिः । २९.११ . तां विना भुक्तिमुक्ती नो पिष्टक्षौद्रगुडैस्तु सा ॥ ११ २९.१२ . स्त्रीनपुंसकपुंरूपा तु पूर्वापरभोगदा । २९.१२ . द्राक्षोत्थं तु परं तेजो भैरवं कल्पनोज्झितम् ॥ १२ २९.१३ . एतत्स्वयं रसः शुद्धः प्रकाशानन्दचिन्मयः । २९.१३ . देवतानां प्रियं नित्यं तस्मादेतत्पिवेत्सदा ॥ १३ २९.१४ . श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना । २९.१४ . अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥ १४ २९.१५ . रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् । २९.१५ . भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक्क्रमात् ॥ १५ २९.१६ . दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः । २९.१६ . इति ज्ञात्वा त्रयेऽमुष्मिन्यत्नवान्कौलिको भवेत् ॥ १६ २९.१७ . तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना । २९.१७ . यान्युक्तान्यविशङ्कोऽत्र भवेच्छङ्का हि दूषिका ॥ १७ २९.१८ . यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदङ्मुखः । २९.१८ . परया वाऽथ मालिन्या विलोमाच्चानुलोमतः ॥ १८ २९.१९ . दाहाप्यायमयीं शुद्धिं दीप्तसौम्यविभेदतः । २९.१९ . क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः ॥ १९ २९.२० . दीक्षां चेत्प्रचिकीर्षुस्तच्छोध्याध्वन्यासकल्पनम् । २९.२० . ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥ २० २९.२१ . परासम्पुटगा यद्वा मातृसम्पुटगाप्यथो । २९.२१ . केवला मालिनी यद्वा ताः समस्तेषु कर्मसु ॥ २१ २९.२२ . नन्दहेतुफलैर्द्रव्यैरर्घपात्रं प्रपूरयेत् । २९.२२ . तत्रोक्तमन्त्रतादात्म्याद्भैरवात्मत्वमानयेत् ॥ २२ २९.२३ . तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् । २९.२३ . विप्रुड्भिरूर्ध्वाधरयोरन्तः पीत्या च तर्पयेत् ॥ २३ २९.२४ . तथा पूर्णस्वरश्म्योघः प्रोच्छलद्वृत्तितावशात् । २९.२४ . बहिस्तादृशमात्मानं दिदृक्षुर्बहिरर्चयेत् ॥ २४ २९.२५ . अर्काङ्गुलेऽथ तद्द्वित्रिगुणे रक्तपटे शुभे । २९.२५ . व्योम्नि सिन्दूरसुभगे राजवर्त्तभृतेऽथवा ॥ २५ २९.२६ . नारिकेलात्मके काद्ये मद्यपूर्णेऽथ भाजने । २९.२६ . यद्वा समुदिते रूपे मण्डलस्थे च तदृशि ॥ २६ २९.२७ . यागं कुर्वीत मतिमांस्तत्रायं क्रम उच्यते । २९.२७ . दिश्युदीच्यां रुद्रकोणाद्वायव्यन्तं गणेश्वरम् ॥ २७ २९.२८ . वटुकं त्रीन् गुरून्सिद्धान्योगिनीः पीठमर्चयेत् । २९.२८ . प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः ॥ २८ २९.२९ . सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् । २९.२९ . खगेन्द्रः सहविज्जाम्ब इल्ला+ई+अम्बया सह ॥ २९ २९.३० . वक्तष्टिर्विमलोऽनन्तमेखलाम्बायुतः पुरा । २९.३० . शक्त्या मङ्गलया कूर्म इल्ला+ई+अम्बया सह ॥ ३० २९.३१ . जैत्रो याम्ये ह्यविजितस्तथा सानन्दमेखलः । २९.३१ . काममङ्गलया मेषः कुल्ला+ई+अम्बया सह ॥ ३१ २९.३२ . विन्ध्योऽजितोऽप्यजरया सह मेखलया परे । २९.३२ . मच्छन्दः कुङ्कुणाम्बा च षड्युग्मं साधिकारकम् ॥ ३२ २९.३३ . सौम्ये मरुत्त ईशान्तं द्वितीया पङ्क्तिरीदृशी । २९.३३ . अमरवरदेवचित्रालिविन्ध्यगुडिका इति क्रमात्षडमी ॥ ३३ २९.३४ . सिल्ला+ई एरुणया तथा कुमारी च बोधा+ई । २९.३४ . समहालच्छी चापरमेखलया शक्तयः षडिमाः ॥ ३४ २९.३५ . एते हि साधिकाराः पूज्या येषामियं बहुविभेदा । २९.३५ . सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥ ३५ २९.३६ . आनन्दावलिबोधिप्रभुपादान्ताथ योगिशब्दान्ता । २९.३६ . एता ओवल्ल्यः स्युर्मुद्राषट्कं क्रमात्त्वेतत् ॥ ३६ २९.३७ . दक्षाङ्गुष्ठादिकनिष्ठिकान्तमथ सा कनीयसी वामात् । २९.३७ . द्विदशान्तोर्ध्वगकुण्डलिबैन्दवहृन्नाभिकन्दमिति छु म्माः ॥ ३७ २९.३८ . शवराडबिल्लपट्टिल्लाः करबिल्लाम्बिशरबिल्लाः । २९.३८ . अडबीडोम्बीदक्षिणबिल्लाः कुम्भारिकाक्षराख्याच ॥ ३८ २९.३९ . देवीकोट्टकुलाद्रित्रिपुरीकामाख्यमट्टहासश्च । २९.३९ . दक्षिणपीठं चैतत्षट्कं घरपल्लिपीठगं क्रमशः ॥ ३९ २९.४० . इति सङ्केताभिज्ञो भ्रमते पीठेषु यदि स सिद्धीप्सुः । २९.४० . अचिराल्लभते तत्तत्प्राप्यं यद्योगिनीवदनात् ॥ ४० २९.४१ . भट्टेन्द्रवल्कलाहीन्द्रगजेन्द्राः समहीधराः । २९.४१ . ऊर्ध्वरेतस एते षडधिकारपदोज्झिताः ॥ ४१ २९.४२ . अधिकारो हि वीर्यस्य प्रसरः कुलवर्त्मनि । २९.४२ . तदप्रसरयोगेन ते प्रोक्ता ऊर्ध्वरेतसः ॥ ४२ २९.४३ . अन्याश्च गुरुतत्पत्न्यः श्रीमत्कालीकुलोदिताः । २९.४३ . अनात्तदेहाः क्रीडन्ति तैस्तैर्देहैरशङ्किताः ॥ ४३ २९.४४ . प्रबोधिततथेच्छाकैस्तज्जे कौलं प्रकाशते । २९.४४ . तथारूपतया तत्र गुरुत्वं परिभाषितम् ॥ ४४ २९.४५ . ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम् । २९.४५ . ततोऽभ्यन्तरतो वायुवह्न्योर्मातृकया सह ॥ ४५ २९.४६ . मालिनी क्रमशः पूज्या ततोऽन्तर्मन्त्रचक्रकम् । २९.४६ . मन्त्रसिद्धप्राणसंवित्करणात्मनि या कुले ॥ ४६ २९.४७ . चक्रात्मके चितिः प्रभ्वी प्रोक्ता सेह कुलेश्वरी । २९.४७ . सा मध्ये श्रीपरा देवी मातृसद्भावरूपिणी ॥ ४७ २९.४८ . पूज्याथ तत्समारोपादपराथ परापरा । २९.४८ . एकवीरा च सा पूज्या यदिवा सकुलेश्वरा ॥ ४८ २९.४९ . प्रसरेच्छक्तिरुच्छूना सोल्लासो भैरवः पुनः । २९.४९ . सङ्घट्टानन्दविश्रान्त्या युग्ममित्थं प्रपूजयेत् ॥ ४९ २९.५० . महाप्रकाशरूपायाः संविदो विस्फुलिङ्गवत् । २९.५० . यो रश्म्योघस्तमेवात्र पूजयेद्देवतागणम् ॥ ५० २९.५१ . अन्तर्द्वादशकं पूज्यं ततोऽष्टाष्टाकमेव च । २९.५१ . चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥ ५१ २९.५२ . माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिक्कम् । २९.५२ . ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु ॥ ५२ २९.५३ . पवनान्तमघोरादिकमष्टकमस्मिन्नथाष्टके क्रमशः । २९.५३ . सङ्घट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥ ५३ २९.५४ . अष्टाष्टकेऽपि हि विधौ नानानामप्रपञ्चिते बहुधा । २९.५४ . विधिरेष एव विहितस्तत्संख्या दीपमाला स्यात् ॥ ५४ २९.५५ . श्रीरत्नमालाशास्त्रे तु वर्णसंख्याः प्रदीपकाः । २९.५५ . वर्णांश्च मुख्यपूज्याया विद्याया गणयेत्सुधीः ॥ ५५ २९.५६ . पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् । २९.५६ . यथा श्रीमाधवकुले परमेशेन भाषितम् ॥ ५६ २९.५७ . सृष्टिसंस्थितिसंहारानामक्रमचतुष्टयम् । २९.५७ . पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥ ५७ २९.५८ . आत्मनो वाथवा शक्तेश्चक्रस्याथ स्मरेदिमम् । २९.५८ . न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥ ५८ २९.५९ . अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके । २९.५९ . श्रुत्योः कौलगिरिं नासारन्ध्रयोश्च जयन्तिकाम् ॥ ५९ २९.६० . भ्रुवोरुज्जयिनीं वक्त्रे प्रयागं हृदये पुनः । २९.६० . वाराणसीं स्कन्धयुगे श्रीपीठं विरजं गले ॥ ६० २९.६१ . एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् । २९.६१ . उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥ ६१ २९.६२ . एलापुरं पुरस्तीरं सक्थ्यूर्वोर्दक्षिणादितः । २९.६२ . कुड्याकेशीं च सोपानं मायापूक्षीरके तथा ॥ ६२ २९.६३ . जानुजङ्घे गुल्फयुग्मे त्वाम्रातनृपसद्मनी । २९.६३ . पादाधारे तु वैरिञ्चीं कालाग्न्यवधिदारिकाम् ॥ ६३ २९.६४ . नाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्वहम् । २९.६४ . इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥ ६४ २९.६५ . न तिथिर्न च नक्षत्रं नोपवासो विधीयते । २९.६५ . ग्राम्यधर्मरतः सिद्ध्येत्सर्वदा स्मरणेन हि ॥ ६५ २९.६६ . मातङ्गकृष्णसौनिककार्मुकचार्मिकविकोषिधातुविभेदाः । २९.६६ . मात्स्यिकचाक्रिकदयितास्तेषां पत्न्यो नवात्र नवयागे ॥ ६६ २९.६७ . सङ्गमवरुणाकुलगिर्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् । २९.६७ . हैमपुरं नवमं स्यान्मध्ये तासां च चक्रिणी मुख्या ॥ ६७ २९.६८ . बीजं सा पीडयते रसशल्कविभागतोऽत्र कुण्डलिनी । २९.६८ . अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥ ६८ २९.६९ . इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी । २९.६९ . सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥ ६९ २९.७० . एकवीरा चक्रयुक्ता चक्रयामलगापि वा । २९.७० . ईशेन्द्राग्नियमक्रव्यात्कवायूदक्षु हासतः ॥ ७० २९.७१ . त्रिकं त्रिकं यजेदेतद्भाविस्वत्रिकसंयुतम् । २९.७१ . हृत्कुण्डली भ्रुवोर्मध्यमेतदेव क्रमात्त्रयम् ॥ ७१ २९.७२ . श्मशानानि क्रमात्क्षेत्रभवं सद्योगिनीगणम् । २९.७२ . वस्वङ्गुलोन्नतानूर्ध्ववर्तुलान् क्षाममध्यकान् ॥ ७२ २९.७३ . रक्तवर्तीञ्श्रुतिदृशो दीपान्कुर्वीत सर्पिषा । २९.७३ . यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥ ७३ २९.७४ . अद्वैतमेव न द्वैतमित्याज्ञा परमेशितुः । २९.७४ . सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः ॥ ७४ २९.७५ . तावत्तेजोऽसहिष्णुत्वान्निर्जीवाः स्युरिहाद्वये । २९.७५ . कलशं नेत्रबन्धादि मण्डलं स्रुक्स्रुवानलम् ॥ ७५ २९.७६ . हित्वात्र सिद्धिः सन्मद्ये पात्रे मध्ये कृशां यजेत् । २९.७६ . अहोरात्रमिमं यागं कुर्वतश्चापरेऽहनि ॥ ७६ २९.७७ . वीरभोज्ये कृतेऽवश्यं मन्त्राः सिद्ध्यन्त्ययत्नतः । २९.७७ . पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये ॥ ७७ २९.७८ . मूर्तीरेवाथवा युग्मरूपा वीरस्वरूपिणीः । २९.७८ . अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥ ७८ २९.७९ . एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः । २९.७९ . शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥ ७९ २९.८० . क्रमो नाम न कश्चित्स्यात्प्रकाशमयसंविदि । २९.८० . चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥ ८० २९.८१ . अत्र क्रमे भेदतरोः समूलमुन्मूलनादासनपक्षचर्चा । २९.८१ . पृथङ्न युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति ॥ ८१ २९.८२ . ततो जपः प्रकर्तव्यस्त्रिलक्षादिविभेदतः । २९.८२ . उक्तं श्रीयोगसञ्चारे स च चित्रस्वरूपकः ॥ ८२ २९.८३ . उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते । २९.८३ . आस्ये गमागमे सूत्रे हंसाख्ये शैवयुग्मके ॥ ८३ २९.८४ . पञ्चलक्षा इमे प्रोक्ता दशांशं होममाचरेत् । २९.८४ . नेत्रे गमागमे वक्त्रे हंसे चैवाक्षसूत्रके ॥ ८४ २९.८५ . शिवशक्तिसमायोगे षड्लक्षो जप उच्यते । २९.८५ . नेत्रे गमागमे कर्णे हंसे वक्त्रे च भामिनि ॥ ८५ २९.८६ . हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः । २९.८६ . नेत्रे गमागमे कर्णावास्यं गुह्यं च गुह्यकम् ॥ ८६ २९.८७ . शतारेषु च मध्यस्थं सहस्रारेषु भामिनि । २९.८७ . जप एष रुद्रलक्षो होमोऽप्यत्र दशांशतः ॥ ८७ २९.८८ . नेत्रे गमागमे कर्णौ मुखं ब्रह्मबिलान्तरम् । २९.८८ . स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥ ८८ २९.८९ . यत्र यत्र गतं चक्षुर्यत्र यत्र गतं मनः । २९.८९ . हंसस्तत्र द्विरभ्यस्यो विकासाकुञ्चनात्मकः ॥ ८९ २९.९० . स आत्मा मातृका देवी शिवो देहव्यवस्थितः । २९.९० . अन्यः सोऽन्योऽहमित्येवं विकल्पं नाचरेद्यतः ॥ ९० २९.९१ . यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः । २९.९१ . अथ षोडशलक्षादिप्राणचारे पुरोक्तवत् ॥ ९१ २९.९२ . शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते । २९.९२ . तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥ ९२ २९.९३ . जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी । २९.९३ . तदामृष्टस्य चिद्वह्नौ लयो होमः प्रकीर्तितः ॥ ९३ २९.९४ . आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः । २९.९४ . द्वे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥ ९४ २९.९५ . दशान्यास्तदुपायायेत्येवं होमे दशांशताम् । २९.९५ . श्रीशम्भुनाथ आदिक्षत्त्रिकार्थाम्भोधिचन्द्रमाः ॥ ९५ २९.९६ . साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् । २९.९६ . तदायं परमेशोक्तो रहस्यो भण्यते विधिः ॥ ९६ २९.९७ . उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् । २९.९७ . आनन्दो ब्रह्म परमं तच्च देहे त्रिधा स्थितम् ॥ ९७ २९.९८ . उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् । २९.९८ . ओष्ठ्यान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते ॥ ९८ २९.९९ . तद्वर्जिता ये पशव आनन्दपरिवर्जिताः । २९.९९ . आनन्दकृत्त्रिमाहारास्तद्वर्जं चक्रयाजकाः ॥ ९९ २९.१०० . द्वयेऽपि निरये यान्ति रौरवे भीषणे त्विति । २९.१०० . शक्तेर्लक्षणमेतावत्तद्वतो ह्यविभेदिता ॥ १०० २९.१०१ . तादृशीं तेन तां कुर्यान्नतु वर्णाद्यपेक्षणम् । २९.१०१ . लौकिकालौकिकद्व्यात्मसङ्गात्तादात्म्यतोऽधिकात् ॥ १०१ २९.१०२ . कार्यहेतुसहोत्था सा त्रिधोक्ता शासने गुरोः । २९.१०२ . साक्षात्परम्परायोगात्तत्तुल्येति त्रिधा पुनः ॥ १०२ २९.१०३ . श्रीसर्वाचारहृदये तदेतदुपसंहृतम् । २९.१०३ . षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥ १०३ २९.१०४ . द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् । २९.१०४ . तामाहृत्य मिथोऽभ्यर्च्य तर्पयित्वा परस्परम् ॥ १०४ २९.१०५ . अन्तरङ्गक्रमेणैव मुख्यचक्रस्य पूजनम् । २९.१०५ . यदेवानन्दसन्दोहि संविदो ह्यन्तरङ्गकम् ॥ १०५ २९.१०६ . तत्प्रधानं भवेच्चक्रमनुचक्रमतोऽपरम् । २९.१०६ . विकासात्तृप्तितः पाशोत्कर्तनात्कृतिशक्तितः ॥ १०६ २९.१०७ . चक्रं कसेश्चकेः कृत्या करोतेश्च किलोदितम् । २९.१०७ . यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥ १०७ २९.१०८ . चक्रानुचक्रान्तरगाच्छक्तिमत्परिकल्पितात् । २९.१०८ . प्राणगादप्यथानन्दस्यन्दिनोऽभ्यवहारतः ॥ १०८ २९.१०९ . गन्धधूपस्रगादेश्च बाह्यादुच्छलनं चितः । २९.१०९ . इत्थं स्वोचितवस्त्वंशैरनुचक्रेषु तर्पणम् ॥ १०९ २९.११० . कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते । २९.११० . उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः ॥ ११० २९.१११ . अक्षषट्कस्य मध्ये तु रुद्रस्थानं समाविशेत् । २९.१११ . निजनिजभोगाभोगप्रविकासिनिजस्वरूपपरिमर्शे ॥ १११ २९.११२ . क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति । २९.११२ . स्वस्थतनोरपरस्य तु ता देहाधिष्ठितं विहाय यतः ॥ ११२ २९.११३ . आसत इति तदहंयुर्नो पूर्णो नापि चोच्छलति । २९.११३ . अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ॥ ११३ २९.११४ . तच्छक्तिशक्तिमद्युगमन्योन्यसमुन्मुखं भवति । २९.११४ . तद्युगलमूर्ध्वधामप्रवेशसंस्पर्शजातसङ्क्षोभम् ॥ ११४ २९.११५ . क्षुभ्नात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु । २९.११५ . इत्थं यामलमेतद्गलितभिदासंकथं यदेव स्यात् ॥ ११५ २९.११६ . क्रमतारतम्ययोगात्सैव हि संविद्विसर्गसङ्घट्टः । २९.११६ . तद्ध्रुवधामानुत्तरमुभयात्मकजगदुदारसानन्दम् ॥ ११६ २९.११७ . नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् । २९.११७ . अनवच्छिन्नपदेप्सुस्तां संविदमात्मसात्सदा कुर्यात् ॥ ११७ २९.११८ . अनवच्छिन्नं परमार्थतो हि रूपं चितो देव्याः । २९.११८ . ईदृक्तादृक्प्रायप्रशमोदयभावविलयपरिकथया ॥ ११८ २९.११९ . अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः । २९.११९ . शान्तोदितात्मकं द्वयमथ युगपदुदेति शक्तिशक्तिमतोः ॥ ११९ २९.१२० . रूपमुदितं परस्परधामगतं शान्तमात्मगतमेव । २९.१२० . उभयमपि वस्तुतः किल यामलमिति तथोदितं शान्तम् ॥ १२० २९.१२१ . शक्तिस्तद्वदुचितां सृष्टिं पुष्णाति नो तद्वान् । २९.१२१ . शान्तोदितात्मकोभयरूपपरामर्शसाम्ययोगेऽपि ॥ १२१ २९.१२२ . प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता । २९.१२२ . तस्यामेव कुलार्थं सम्यक्संचारयेद्गुरुस्तेन ॥ १२२ २९.१२३ . तद्द्वारेण च कथितक्रमेण संचारयेत नृषु । २९.१२३ . स्वशरीराधिकसद्भावभावितामिति ततः प्राह ॥ १२३ २९.१२४ . श्रीमत्कल्लटनाथः प्रोक्तसमस्तार्थलब्धये वाक्यम् । २९.१२४ . तन्मुख्यचक्रमुक्तं महेशिना योगिनीवक्त्रम् ॥ १२४ २९.१२५ . तत्रैष सम्प्रदायस्तस्मात्संप्राप्यते ज्ञानम् । २९.१२५ . तदिदमलेख्यं भणितं वक्त्राद्वक्त्रस्थमुक्तयुक्त्या च ॥ १२५ २९.१२६ . वक्त्रं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् । २९.१२६ . अथ सृष्टे द्वितयेऽस्मिन् शान्तोदितधाम्नि येऽनुसंदधते ॥ १२६ २९.१२७ . प्राच्यां विसर्गसत्तामनवच्छिदि ते पदे रूढाः । २९.१२७ . ये सिद्धिमाप्तुकामास्तेऽभ्युदितं रूपमाहरेयुरथो ॥ १२७ २९.१२८ . तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा । २९.१२८ . तदपिच मिथो हि वक्त्रात्प्रधानतो वक्त्रगं यतो भणितम् ॥ १२८ २९.१२९ . अजरामरपददानप्रवणं कुलसंज्ञितं परमम् । २९.१२९ . येऽप्यप्राप्तविबोधास्तेऽभ्युदितोत्फुल्लयागसंरूढाः ॥ १२९ २९.१३० . तत्परिकल्पितचक्रस्थदेवताः प्राप्नुवन्ति विज्ञानम् । २९.१३० . ते तत्र शक्तिचक्रे तेनैवानन्दरसमयेन बहिः ॥ १३० २९.१३१ . दिक्षु चतसृषु प्रोक्तक्रमेण गणनाथतः प्रभृति सर्वम् । २९.१३१ . संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥ १३१ २९.१३२ . बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् । २९.१३२ . अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः ॥ १३२ २९.१३३ . निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् । २९.१३३ . यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥ १३३ २९.१३४ . शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् । २९.१३४ . तच्छान्तपदाध्यासाच्चक्रस्थो देवतागणः सर्वः ॥ १३४ २९.१३५ . तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः । २९.१३५ . योऽप्यनुचक्रदृगादिस्वरूपभाक्सोऽपि यत्तदायत्तः ॥ १३५ २९.१३६ . तेनानन्दे मग्नस्तिष्ठत्यानन्दसाकाङ्क्षः । २९.१३६ . परतत्स्वरूपसङ्घट्टमन्तरेणैष करणरश्मिगणः ॥ १३६ २९.१३७ . आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः । २९.१३७ . रणरणकरसान्निजरसभरितबहिर्भावचर्वणवशेन ॥ १३७ २९.१३८ . विश्रान्तिधाम किञ्चिल्लब्ध्वा स्वात्मन्यथार्पयते । २९.१३८ . तन्निजविषयार्पणतः पूर्णसमुच्छलितसंविदासारः ॥ १३८ २९.१३९ . अनुचक्रदेवतागणपरिपूरणजातवीर्यविक्षोभः । २९.१३९ . चक्रेश्वरोऽपि पूर्वोक्तयुक्तितः प्रोच्छलेद्रभसात् ॥ १३९ २९.१४० . त्रिविधो विसर्ग इत्थं सङ्घट्टः प्रोदितस्तथा शान्तः । २९.१४० . विसृजति यतो विचित्रः सर्गो विगतश्च यत्र सर्ग इति ॥ १४० २९.१४१ . श्रीतत्त्वरक्षणे श्रीनिगमे त्रिशिरोमते च तत्प्रोक्तम् । २९.१४१ . कुण्डं शक्तिः शिवो लिङ्गं मेलकं परमं पदम् ॥ १४१ २९.१४२ . द्वाभ्यां सृष्टिः संहृतिस्तद्विसर्गस्त्रिविधो गमे । २९.१४२ . स्रोतोद्वयस्य निष्ठान्तमूर्ध्वाधश्चक्रबोधनम् ॥ १४२ २९.१४३ . विश्रामं च समावेशं सुषीणां मरुतां तथा । २९.१४३ . गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥ १४३ २९.१४४ . द्वासप्ततिपदे देहे सहस्रारे च नित्यशः । २९.१४४ . गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥ १४४ २९.१४५ . तत्प्रयत्नात्सदा तिष्ठेत्सङ्घट्टे भैरवे पदे । २९.१४५ . उभयोस्तन्निराकारभावसंप्राप्तिलक्षणम् ॥ १४५ २९.१४६ . मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् । २९.१४६ . अभ्यस्येद्भावसंवित्तिं सर्वभावनिवर्तनात् ॥ १४६ २९.१४७ . सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः । २९.१४७ . एवं त्रिविधविमर्शावेशसमापत्तिधाम्नि य उदेति ॥ १४७ २९.१४८ . संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्यं स्यात् । २९.१४८ . तत्रैवोदिततादृशफललाभसमुत्सुकः स्वकं मन्त्रम् ॥ १४८ २९.१४९ . अनुसन्धाय सदा चेदास्ते मन्त्रोदयं स वै वेत्ति । २९.१४९ . अत्रैव जपं कुर्यादनुचक्रैकत्वसंविदागमने ॥ १४९ २९.१५० . युगपल्लक्षविभेदप्रपञ्चितं नादवृत्त्यैव । २९.१५० . श्रीयोगसञ्चरेऽपिच मुद्रेयं योगिनीप्रिया परमा ॥ १५० २९.१५१ . कोणत्रयान्तराश्रितनित्योन्मुखमण्डलच्छदे कमले । २९.१५१ . सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् ॥ १५१ २९.१५२ . मध्यस्थनालगुम्फितसरोजयुगघट्टनक्रमादग्नौ । २९.१५२ . मध्यस्थपूर्णसुन्दरशशधरदिनकरकलौघसङ्घट्टात् ॥ १५२ २९.१५३ . त्रिदलारुणवीर्यकलासङ्गान्मध्येऽङ्कुरः सृष्टिः । २९.१५३ . इति शशधरवासरपतिचित्रगुसंघट्टमुद्रया झटिति ॥ १५३ २९.१५४ . सृष्ट्यादिक्रममन्तः कुर्वंस्तुर्ये स्थितिं लभते । २९.१५४ . एतत्खेचरमुद्रावेशेऽन्योन्यस्य शक्तिशक्तिमतोः ॥ १५४ २९.१५५ . पानोपभोगलीलाहासादिषु यो भवेद्विमर्शमयः । २९.१५५ . अव्यक्तध्वनिरावस्फोटश्रुतिनादनादान्तैः ॥ १५५ २९.१५६ . अव्युच्छिन्नानाहतरूपैस्तन्मन्त्रवीर्यं स्यात् । २९.१५६ . इति चक्राष्टकरूढः सहजं जपमाचरन् परे धाम्नि ॥ १५६ २९.१५७ . यद्भैरवाष्टकपदं तल्लभतेऽष्टककलाभिन्नम् । २९.१५७ . गमनागमनेऽवसितौ कर्णे नयने द्विलिङ्गसंपर्के ॥ १५७ २९.१५८ . तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे । २९.१५८ . कुचमध्यहृदयदेशादोष्ठान्तं कण्ठगं यदव्यक्तम् ॥ १५८ २९.१५९ . तच्चक्रद्वयमध्यगमाकर्ण्य क्षोभविगमसमये यत् । २९.१५९ . निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः ॥ १५९ २९.१६० . ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा । २९.१६० . सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकं च ॥ १६० २९.१६१ . अन्तःस्थं कण्ठ्योष्ठ्यं चन्द्राद्व्याप्तिस्तथोन्मनान्तेयम् । २९.१६१ . एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥ १६१ २९.१६२ . सततमलेपो जीवन्मुक्तः परभैरवीभवति । २९.१६२ . तादृङ्मेलककलिकाकलिततनुः कोऽपि यो भवेद्गर्भे ॥ १६२ २९.१६३ . उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः । २९.१६३ . श्रीवीरावलिशास्त्रे बालोऽपि च गर्भगो हि शिवरूपः ॥ १६३ २९.१६४ . आदीयते यतः सारं तस्य मुख्यस्य चैष यत् । २९.१६४ . मुख्यश्च यागस्तेनायमादियाग इति स्मृतः ॥ १६४ २९.१६५ . तत्र तत्र च शास्त्रेऽस्य स्वरूपं स्तुतवान् विभुः । २९.१६५ . श्रीवीरावलिहार्देशखमतार्णववर्तिषु ॥ १६५ २९.१६६ . श्रीसिद्धोत्फुल्लमर्यादाहीनचर्याकुलादिषु । २९.१६६ . युग्मस्यास्य प्रसादेन व्रतयोगविवर्जितः ॥ १६६ २९.१६७ . सर्वदा स्मरणं कृत्वा आदियागैकतत्परः । २९.१६७ . शक्तिदेहे निजे न्यस्येद्विद्यां कूटमनुक्रमात् ॥ १६७ २९.१६८ . ध्यात्वा चन्द्रनिभं पद्ममात्मानं भास्करद्युतिम् । २९.१६८ . विद्यामन्त्रात्मकं पीठद्वयमत्रैव मेलयेत् ॥ १६८ २९.१६९ . न पठ्यते रहस्यत्वात्स्पष्टैः शब्दैर्मया पुनः । २९.१६९ . कुतूहली तूक्तशास्त्रसंपाठादेव लक्षयेत् ॥ १६९ २९.१७० . यद्भजन्ते सदा सर्वे यद्वान् देवश्च देवता । २९.१७० . तच्चक्रं परमं देवीयागादौ संनिधापकम् ॥ १७० २९.१७१ . देह एव परं लिङ्गं सर्वतत्त्वात्मकं शिवम् । २९.१७१ . देवताचक्रसंजुष्टं पूजाधाम तदुत्तमम् ॥ १७१ २९.१७२ . तदेव मण्डलं मुख्यं त्रित्रिशूलाब्जचक्रखम् । २९.१७२ . तत्रैव देवताचक्रं बहिरन्तः सदा यजेत् ॥ १७२ २९.१७३ . स्वस्वमन्त्रपरामर्शपूर्वं तज्जन्मभी रसैः । २९.१७३ . आनन्दबहुलैः सृष्टिसंहारविधिना स्पृशेत् ॥ १७३ २९.१७४ . तत्स्पर्शरभसोद्बुद्धसंविच्चक्रं तदीश्वरः । २९.१७४ . लभते परमं धाम तर्पिताशेषदैवतः ॥ १७४ २९.१७५ . अनुयागोक्तविधिना द्रव्यैर्हृदयहारिभिः । २९.१७५ . तथैव स्वस्वकामर्शयोगादन्तः प्रतर्पयेत् ॥ १७५ २९.१७६ . कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः । २९.१७६ . आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ १७६ २९.१७७ . श्रीवीरावल्यमर्यादप्रभृतौ शास्त्रसञ्चये । २९.१७७ . स एष परमो यागः स्तुतः शीतांशुमौलिना ॥ १७७ २९.१७८ . अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् । २९.१७८ . पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥ १७८ २९.१७९ . प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः । २९.१७९ . करन्ध्रैर्विशतापानचान्द्रचक्रेण तर्पणम् ॥ १७९ २९.१८० . एवं प्राणक्रमेणैव तर्पयेद्देवतागणम् । २९.१८० . अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥ १८० २९.१८१ . संविन्मात्रस्थितं देवीचक्रं वा संविदर्पणात् । २९.१८१ . विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥ १८१ २९.१८२ . यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः । २९.१८२ . तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥ १८२ २९.१८३ . शून्यरूपे श्मशानेऽस्मिन् योगिनीसिद्धसेविते । २९.१८३ . क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे ॥ १८३ २९.१८४ . स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ । २९.१८४ . सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥ १८४ २९.१८५ . असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे । २९.१८५ . समस्तदेवताधारे प्रविष्टः को न सिद्ध्यति ॥ १८५ २९.१८६ . श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी । २९.१८६ . इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥ १८६ २९.१८७ . लक्षैकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे । २९.१८७ . रुद्रशक्त्या तु तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥ १८७ २९.१८८ . भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् । २९.१८८ . तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥ १८८ २९.१८९ . निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् । २९.१८९ . रुद्रशक्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥ १८९ २९.१९० . ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् । २९.१९० . स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥ १९० २९.१९१ . ततोऽस्य मुखमुद्धाट्य पादयोः प्रणिपातयेत् । २९.१९१ . हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥ १९१ २९.१९२ . आकर्ष्याकर्षकत्वेन प्रेर्यप्रेरकभावतः । २९.१९२ . उक्तं श्रीरत्नमालायां नाभिं दण्डेन संपुटम् ॥ १९२ २९.१९३ . वामभूषणजङ्घाभ्यां नितम्बेनाप्यलङ्कृतम् । २९.१९३ . शिष्यहस्ते पुष्पभृते चोदनास्त्रं तु योजयेत् ॥ १९३ २९.१९४ . यावत्स स्तोभमायातः स्वयं पतति मूर्धनि । २९.१९४ . शिवहस्तः स्वयं सोऽयं सद्यःप्रत्ययकारकः ॥ १९४ २९.१९५ . अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः । २९.१९५ . शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु ॥ १९५ २९.१९६ . करस्तोभो नेत्रपटग्रहात्प्रभृति यः किल । २९.१९६ . दन्तकाष्ठसमादानपर्यन्तस्तत्र लक्षयेत् ॥ १९६ २९.१९७ . तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् । २९.१९७ . इत्येष समयी प्रोक्तः श्रीपूर्वे करकम्पतः ॥ १९७ २९.१९८ . समयी तु करस्तोभादिति श्रीभोगहस्तके । २९.१९८ . चर्वेव वा गुरुर्दद्याद्वामामृतपरिप्लुतम् ॥ १९८ २९.१९९ . निःशङ्कं ग्रहणाच्छक्तिगोत्रो मायोज्झितो भवेत् । २९.१९९ . सकम्पस्त्वाददानः स्यात्समयी वाचनादिषु ॥ १९९ २९.२०० . कालान्तरेऽध्वसंशुद्ध्या पालनात्समयस्थितेः । २९.२०० . सिद्धिपात्रमिति श्रीमदानन्देश्वर उच्यते ॥ २०० २९.२०१ . यदा तु पुत्रकं कुर्यात्तदा दीक्षां समाचरेत् । २९.२०१ . उक्तं श्रीरत्नमालायां नादिफान्तां ज्वलत्प्रभाम् ॥ २०१ २९.२०२ . न्यस्येच्छिखान्तं पतति तेनात्रेदृक्क्रमो भवेत् । २९.२०२ . प्रोक्षितस्य शिशोर्न्यस्तप्रोक्तशोध्याध्वपद्धतेः ॥ २०२ २९.२०३ . ऋजुदेहजुषः शक्तिं पादान्मूर्धान्तमागताम् । २९.२०३ . पाशान्दहन्तीं संदीप्तां चिन्तयेत्तन्मयो गुरुः ॥ २०३ २९.२०४ . उपविश्य ततस्तस्य मूलशोध्यात्प्रभृत्यलम् । २९.२०४ . अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेत्क्रमात् ॥ २०४ २९.२०५ . एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् । २९.२०५ . दग्ध्वा लीनां शिवे ध्यायेन्निष्कले सकलेऽथवा ॥ २०५ २९.२०६ . योगिना योजिता मार्गे सजातीयस्य पोषणम् । २९.२०६ . कुरुते निर्दहत्यन्तद्भिन्नजातिकदम्बकम् ॥ २०६ २९.२०७ . अनया शोध्यमानस्य शिशोस्तीव्रादिभेदतः । २९.२०७ . शक्तिपाताच्चितिव्योमप्राणनान्तर्बहिस्तनूः ॥ २०७ २९.२०८ . आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम् । २९.२०८ . आनन्दमुद्भवं कम्पं निद्रां घूर्णिं च देहगाम् ॥ २०८ २९.२०९ . एवं स्तोभितपाशस्य योजितस्यात्मनः शिवे । २९.२०९ . शेषभोगाय कुर्वीत सृष्टिं संशुद्धतत्त्वगाम् ॥ २०९ २९.२१० . अथवा कस्यचिन्नैवमावेशस्तद्दहेदिमम् । २९.२१० . बहिरन्तश्चोक्तशक्त्या पतेदित्थं स भूतले ॥ २१० २९.२११ . यस्य त्वेवमपि स्यान्न तमत्रोपलवत्त्यजेत् । २९.२११ . अथ सप्रत्ययां दीक्षां वक्ष्ये तुष्टेन धीमता ॥ २११ २९.२१२ . शंभुनाथेनोपदिष्टां दृष्टां सद्भावशासने । २९.२१२ . सुधाग्निमरुतो मन्दपरकालाग्निवायवः ॥ २१२ २९.२१३ . वह्निसौधासुकूटाग्निवायुः सर्वे सषष्ठकाः । २९.२१३ . एतत्पिण्डत्रयं स्तोभकारि प्रत्येकमुच्यते ॥ २१३ २९.२१४ . शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् । २९.२१४ . हृच्चक्रे न्यस्यते मन्त्रो द्वादशस्वरभूषितः ॥ २१४ २९.२१५ . जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः । २९.२१५ . वायुना प्रेरितं चक्रं वह्निना परिदीपितम् ॥ २१५ २९.२१६ . तद्ध्यायेच्च जपेन्मन्त्रं नामान्तरितयोगतः । २९.२१६ . निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥ २१६ २९.२१७ . आत्मानं प्रेक्षते देवि तत्त्वे तत्त्वे नियोजितः । २९.२१७ . यावत्प्राप्तः परं तत्त्वं तदा त्वेष न पश्यति ॥ २१७ २९.२१८ . अनेन क्रमयोगेन सर्वाध्वानं स पश्यति । २९.२१८ . अथवा सर्वशास्त्राण्यप्युद्ग्राहयति तत्क्षणात् ॥ २१८ २९.२१९ . पृथक्तत्त्वविधौ दीक्षां योग्यतावशवर्तिनः । २९.२१९ . तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥ २१९ २९.२२० . इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने । २९.२२० . कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता ॥ २२० २९.२२१ . जाग्रदादिषु संवित्तिर्यथा स्यादनपायिनी । २९.२२१ . कुलयागस्तथादेश्यो योगिनीमुखसंस्थितः ॥ २२१ २९.२२२ . सर्वं जाग्रति कर्तव्यं स्वप्ने प्रत्येकमन्त्रगम् । २९.२२२ . निवार्य सुप्ते मूलाख्यः स्वशक्तिपरिबृंहितः ॥ २२२ २९.२२३ . तुर्ये त्वेकैव दूत्याख्या तदतीते कुलेशिता । २९.२२३ . स्वशक्तिपरिपूर्णानामित्थं पूजा प्रवर्तते ॥ २२३ २९.२२४ . पिण्डस्थादि च पूर्वोक्तं सर्वातीतावसानकम् । २९.२२४ . अवस्थापञ्चकं प्रोक्तभेदं तस्मै निरूपयेत् ॥ २२४ २९.२२५ . साधकस्य बुभुक्षोस्तु सम्यग्योगाभिषेचनम् । २९.२२५ . तत्रेष्ट्वा विभवैर्देवं हेमादिमयमव्रणम् ॥ २२५ २९.२२६ . दीपाष्टकं रक्तवर्तिसर्पिषापूर्य बोधयेत् । २९.२२६ . कुलाष्टकेन तत्पूज्यं शङ्खे चापि कुलेश्वरौ ॥ २२६ २९.२२७ . आनन्दामृतसंपूर्णे शिवहस्तोक्तवर्त्मना । २९.२२७ . तेनाभिषिञ्चेत्तं पश्चात्स कुर्यान्मन्त्रसाधनम् ॥ २२७ २९.२२८ . आचार्यस्याभिषेकोऽयमधिकारान्वितः स तु । २९.२२८ . कुर्यात्पिष्टादिभिश्चास्य चतुष्षष्टिं प्रदीपकान् ॥ २२८ २९.२२९ . अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत्कुलेश्वरौ । २९.२२९ . शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥ २२९ २९.२३० . अभिषिक्ताविमावेवं सर्वयोगिगणेन तु । २९.२३० . विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत् ॥ २३० २९.२३१ . तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति । २९.२३१ . गुरुर्यः साधकः प्राक्स्यादन्यो मोक्षं ददात्यलम् ॥ २३१ २९.२३२ . अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम् । २९.२३२ . स्वकीयाज्ञां च वितरेत्स्वक्रियाकरणं प्रति ॥ २३२ २९.२३३ . षट्कं कारणसंज्ञं यत्तथा यः परमः शिवः । २९.२३३ . साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥ २३३ २९.२३४ . प्रत्येकं तस्य सार्वात्म्यं पश्यंस्तां वृत्तिमात्मगाम् । २९.२३४ . चक्षुरादौ संक्रमयेद्यत्र यत्रेन्द्रिये गुरुः ॥ २३४ २९.२३५ . स एव पूर्णैः कलशैरभिषेकः परः स्मृतः । २९.२३५ . विना बाह्यैरपीत्युक्तं श्रीवीरावलिभैरवे ॥ २३५ २९.२३६ . सद्य एव तु भोगेप्सोर्योगात्सिद्धतमो गुरुः । २९.२३६ . कुर्यात्सद्यस्तथाभीष्टफलदं वेधदीक्षणम् ॥ २३६ २९.२३७ . वेधदीक्षा च बहुधा तत्र तत्र निरूपिता । २९.२३७ . सा चाभ्यासवता कार्या येनोर्ध्वोर्ध्वप्रवेशतः ॥ २३७ २९.२३८ . शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः । २९.२३८ . येनाणिमादिका सिद्धिः श्रीमालायां च चोदिता ॥ २३८ २९.२३९ . ऊर्ध्वचक्रदशालाभे पिशाचावेश एव सा । २९.२३९ . मन्त्रनादबिन्दुशक्तिभुजङ्गमपरात्मिका ॥ २३९ २९.२४० . षोढा श्रीगह्वरे वेधदीक्षोक्ता परमेशिना । २९.२४० . ज्वालाकुलं स्वशास्त्रोक्तं चक्रमष्टारकादिकम् ॥ २४० २९.२४१ . ध्यात्वा तेनास्य हृच्चक्रवेधनान्मन्त्रवेधनम् । २९.२४१ . आकारं नवधा देहे न्यस्य संक्रमयेत्ततः ॥ २४१ २९.२४२ . न्यासयोगेन शिष्याय दीप्यमानं महार्चिषम् । २९.२४२ . पाशस्तोभात्ततस्तस्य परतत्त्वे तु योजनम् ॥ २४२ २९.२४३ . इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः । २९.२४३ . नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥ २४३ २९.२४४ . नादेन वेधयेच्चित्तं नादवेध उदीरितः । २९.२४४ . बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥ २४४ २९.२४५ . हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् । २९.२४५ . तेन संबोधयेत्साध्यं बिन्द्वाख्योऽयं प्रकीर्तितः ॥ २४५ २९.२४६ . शाक्तं शक्तिमदुच्चाराद्गन्धोच्चारेण सुन्दरि । २९.२४६ . शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥ २४६ २९.२४७ . अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् । २९.२४७ . एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥ २४७ २९.२४८ . सा चैव परमा शक्तिरानन्दप्रविकासिनी । २९.२४८ . जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥ २४८ २९.२४९ . कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च । २९.२४९ . ब्रह्मादिकारणान्यक्षाण्येव सा पञ्चकात्मिका ॥ २४९ २९.२५० . एवं पञ्चप्रकारा सा ब्रह्मस्थानविनिर्गता । २९.२५० . ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥ २५० २९.२५१ . प्रविष्टा वेधयेत्कायमात्मानं प्रतिभेदयेत् । २९.२५१ . एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥ २५१ २९.२५२ . तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् । २९.२५२ . क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥ २५२ २९.२५३ . नेन्द्रियाणि न वै प्राणा नान्तःकरणगोचरः । २९.२५३ . न मनो नापि मन्तव्यं न मन्ता न मनिक्रिया ॥ २५३ २९.२५४ . सर्वभावपरिक्षीणः परवेध उदाहृतः । २९.२५४ . मनुशक्तिभुवनरूपज्ञापिण्डस्थाननाडिपरभेदात् ॥ २५४ २९.२५५ . नवधा कलयन्त्यन्ये वेदं गुरवो रहस्यविदः । २९.२५५ . मायागर्भाग्निवर्णौघयुक्ते त्र्यश्रिणि मण्डले ॥ २५५ २९.२५६ . ध्यात्वा ज्वालाकरालेन तेन ग्रन्थीन् विभेदयेत् । २९.२५६ . पुष्पैर्हन्याद्योजयेच्च परे मन्त्राभिधो विधिः ॥ २५६ २९.२५७ . नाड्याविश्यान्यतरया चैतन्यं कन्दधामनि । २९.२५७ . पिण्डीकृत्य परिभ्रम्य पञ्चाष्टशिखया हठात् ॥ २५७ २९.२५८ . शक्तिशूलाग्रगमितं क्वापि चक्रे नियोजयेत् । २९.२५८ . शक्त्येति शाक्तो वेधोऽयं सद्यःप्रत्ययकारकः ॥ २५८ २९.२५९ . आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् । २९.२५९ . अङ्गुष्ठमूलपीठक्रमेण शिष्यस्य लीनया व्योम्नि ॥ २५९ २९.२६० . देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् । २९.२६० . निजमण्डलनिर्ध्यानात्प्रतिबिम्बयते भुवनवेधः ॥ २६० २९.२६१ . भ्रूमध्योदितबैन्दवधामान्तः कांचिदाकृतिं रुचिराम् । २९.२६१ . तादात्म्येन ध्यायेच्छिष्यं पश्चाच्च तन्मयीकुर्यात् ॥ २६१ २९.२६२ . इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् । २९.२६२ . अन्ते तत्सायुज्यं शिष्यश्चायाति तन्मयीभूतः ॥ २६२ २९.२६३ . विज्ञानमष्टधा यद्ध्राणादिकबुद्धिसंज्ञकरणान्तः । २९.२६३ . तत्स्वस्वनाडिसूत्रक्रमेण संचारयेच्छिष्ये ॥ २६३ २९.२६४ . अभिमानदार्ढ्यबन्धक्रमेण विज्ञानसंज्ञको वेधः । २९.२६४ . हृदयव्योमनि सद्यो दिव्यज्ञानार्कसमुदयं धत्ते ॥ २६४ २९.२६५ . पिण्डः परः कलात्मा सूक्ष्मः पुर्यष्टको बहिः स्थूलः । २९.२६५ . छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः ॥ २६५ २९.२६६ . इति यः पिण्डविभेदस्तं रभसादुत्तरोत्तरे शमयेत् । २९.२६६ . तत्तद्नलने क्रमशः परमपदं पिण्डवेधेन ॥ २६६ २९.२६७ . यद्यद्देहे चक्रं तत्र शिशोरेत्य विश्रमं क्रमशः । २९.२६७ . उज्ज्वलयेत्तच्चक्रं स्थानाख्यस्तत्फलप्रदो वेधः ॥ २६७ २९.२६८ . नाड्यः प्रधानभूतास्तिस्रोऽन्यास्तद्गतास्त्वसंख्येयाः । २९.२६८ . एकीकारस्ताभिर्नाडीवेधोऽत्र तत्फलकृत् ॥ २६८ २९.२६९ . अभिलषितनाडिवाहो मुख्याभिश्चक्षुरादिनिष्ठाभिः । २९.२६९ . अद्बोधप्राप्तिः स्यान्नाडीवेधे विचित्रबहुरूपा ॥ २६९ २९.२७० . लाङ्गूलाकृतिबलवत्स्वनाडिसंवोष्टितामपरनाडीम् । २९.२७० . आस्फोट्य सिद्धमपि भुवि पातयति हठान्महायोगी ॥ २७० २९.२७१ . परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन् । २९.२७१ . परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः ॥ २७१ २९.२७२ . श्रीमद्वीरावलिकुले तथा चेत्थं निरूपितम् । २९.२७२ . अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते ॥ २७२ २९.२७३ . तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत्पशून् । २९.२७३ . गुरोरग्रे विशेच्छिष्यो वक्त्रं वक्त्रे तु वेधयेत् ॥ २७३ २९.२७४ . रूपं रूपे तु विषयैर्यावत्समरसीभवेत् । २९.२७४ . चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः ॥ २७४ २९.२७५ . उभयोश्चोन्मनोगत्या तत्काले दीक्षितो भवेत् । २९.२७५ . शशिभास्करसंयोगे जीवस्तन्मयतां व्रजेत् ॥ २७५ २९.२७६ . अत्र ब्रह्मादयो देवा मुक्तये मोक्षकाङ्क्षिणः । २९.२७६ . निरुध्य रश्मिचक्रं स्वं भोगमोक्षावुभावपि ॥ २७६ २९.२७७ . ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता । २९.२७७ . स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥ २७७ २९.२७८ . अग्नीषोमकलाघातसङ्घातात्स्पन्दनं हरेत् । २९.२७८ . बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः ॥ २७८ २९.२७९ . निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः । २९.२७९ . मध्यं निर्लक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः ॥ २७९ २९.२८० . संघट्टोत्पाटयोगेन वेधयेद्ग्रन्थिपञ्चकम् । २९.२८० . संघट्टवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥ २८० २९.२८१ . नात्मव्योमबहिर्मन्त्रदेहसंधानमाचरेत् । २९.२८१ . दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥ २८१ २९.२८२ . दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह । २९.२८२ . चरुः प्राश्यः कुलाचार्यैर्महापातकनाशनः ॥ २८२ २९.२८३ . इति श्रीरत्नमालायामूनाधिकविधिस्तु यः । २९.२८३ . स एव पातकं तस्य प्रशमोऽयं प्रकीर्तितः ॥ २८३ २९.२८४ . परेऽहनि गुरोः कार्यो यागस्तेन विना यतः । २९.२८४ . न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः ॥ २८४ २९.२८५ . येन येन गुरुस्तुष्येत्तत्तदस्मै निवेदयेत् । २९.२८५ . चक्रचर्यान्तरालेऽस्या विधिः संचार उच्याते ॥ २८५ २९.२८६ . अलिपात्रं सुसंपूर्णं वीरेन्द्रकरसंस्थितम् । २९.२८६ . अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः ॥ २८६ २९.२८७ . तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् । २९.२८७ . कृत्वा भुवि गुरुं नत्वादाय संतर्प्य खेचरीः ॥ २८७ २९.२८८ . स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणप्तिं गुरून् । २९.२८८ . क्षेत्रपं वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥ २८८ २९.२८९ . वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् । २९.२८९ . परब्रह्मण्यवेत्तारोऽगमागमविवर्जिताः ॥ २८९ २९.२९० . लोभमोहमदक्रोधरागमायाजुषश्च ये । २९.२९० . तैः साकं न च कर्तव्यमेतच्छ्रेयोर्थिनात्मनि ॥ २९० २९.२९१ . यागादौ यागमध्ये च यागान्ते गुरुपूजने । २९.२९१ . नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥ २९१ २९.२९२ . इति रहस्यविधिः परिचर्चितो गुरुमुखानुभवैः सुपरिस्फुटः । च्३० अथ श्रीतन्त्रालोके त्रिंशमाह्निकम् ३०.१ . अथ यथोचितमन्त्रकदम्बकं त्रिककुलक्रमयोगि निरूप्यते । ३०.१ . तावद्विमर्शानारूढधियां तात्सिद्धये क्रमात् ॥ १ ३०.२ . प्रतिबुद्धा हि ते मन्त्रा विमर्शैकस्वभावकाः । ३०.२ . स्वतन्त्रस्यैव चिद्धाम्नः स्वातन्त्र्यात्कर्तृतामयाः ॥ २ ३०.३ . यमाविशन्ति चाचार्यं तं तादात्म्यनिरूढितः । ३०.३ . स्वतन्त्रीकुर्वते यान्ति करणान्यपि कर्तृताम् ॥ ३ ३०.४ . आधारशक्तौ ह्रीं पृथ्वीप्रभृतौ तु चतुष्टये । ३०.४ . क्ष्लां क्ष्वीं वं क्षमिति प्राहुः क्रमाद्वर्णचतुष्टयम् ॥ ४ ३०.५ . हं नाले यं तथा रं लं वं धर्मादिचतुष्टये । ३०.५ . ऋं ॠं ळं ळॢं चतुष्के च विपरीतक्रमाद्भवेत् ॥ ५ ३०.६ . ओमौं हस्त्रयमित्येतद्विद्यामायाकलात्रये । ३०.६ . अनुस्वारविसर्गौ च विद्येशेश्वरतत्त्वयोः ॥ ६ ३०.७ . कादिभान्ताः केसरेषु प्राणोऽष्टस्वरसंयुतः । ३०.७ . सबिन्दुको दलेष्वष्टस्वथ स्वं नाम दीपितम् ॥ ७ ३०.८ . शक्तीनां नवकस्य स्याच्छषसा मण्डलत्रये । ३०.८ . सबिन्दुकाः क्ष्मं प्रेते ज्रं शूलशृङ्गेषु कल्पयेत् ॥ ८ ३०.९ . पृथगासनपूजायां क्रमान्मन्त्रा इमे स्मृताः । ३०.९ . संक्षेपपूजने तु प्रागाद्यमन्त्यं च बीजकम् ॥ ९ ३०.१० . आदायाधारशक्त्यादिशूलशृङ्गान्तमर्चयेत् । ३०.१० . अग्निमारुतपृथ्व्यम्बुसषष्ठस्वरबिन्दुकम् ॥ १० ३०.११ . रतिशेखरमन्त्रोऽस्य वक्त्राङ्गं ह्रस्वदीर्घकैः । ३०.११ . अग्निप्राणाग्निसंहारकालेन्द्राम्बुसमीरणाः ॥ ११ ३०.१२ . सषष्ठस्वरबिर्न्द्वधचन्द्राद्याः स्युर्नवात्मनः । ३०.१२ . बिन्दुनादादिका व्याप्तिः श्रीमत्त्रैशिरसे मते ॥ १२ ३०.१३ . क्षेपाक्रान्तिचिदुद्बोधदीपनस्थापनान्यथ । ३०.१३ . तत्संवित्तिस्तदापत्तिरिति संज्ञाभिशब्दिता ॥ १३ ३०.१४ . एतावती महाव्याप्तिर्मूर्तित्वेनात्र कीर्तिता । ३०.१४ . परिणामस्तल्लयश्च नमस्कारः स उच्यते ॥ १४ ३०.१५ . एष त्र्यर्णोज्झितोऽधस्ताद्दीर्घैः षड्भिः स्वरैर्युतः । ३०.१५ . षडङ्गानि हृदादीनि वक्त्राण्यस्य च कल्पयेत् ॥ १५ ३०.१६ . क्षयरवलबीजैस्तु दीप्तैर्बिन्दुविभूषितैः । ३०.१६ . झकारसंहृतिप्राणाः सषष्ठस्वरबिन्दुकाः ॥ १६ ३०.१७ . एष भैरवसद्मावश्चन्द्रार्धादिविभूषितः । ३०.१७ . मातृकामालिनीमन्त्रौ प्रागेव समुदाहृतौ ॥ १७ ३०.१८ . ओंकारोऽथ चतुर्थ्यन्ता संज्ञा नतिरिति क्रमात् । ३०.१८ . गणेशादिषु मन्त्रः स्याद्बीजं येषु न चोदितम् ॥ १८ ३०.१९ . नामाद्यक्षरमाकारबिन्दुचन्द्रादिदीपितम् । ३०.१९ . सर्वेषामेव बीजानां तच्चतुर्दशषष्ठयुक् ॥ १९ ३०.२० . आमन्त्रितान्यघोर्यादित्रितयस्य क्रमोदितैः । ३०.२० . बीजैर्विसर्गिणी माया हुं हकारो विसर्गवान् ॥ २० ३०.२१ . पुनर्देवीत्रयस्यापि क्रमादामन्त्रणत्रयम् । ३०.२१ . द्वितीयस्मिन्पदेऽकार एकारस्येह च स्मृतः ॥ २१ ३०.२२ . ततः शक्तिद्वयामन्त्रो लुप्तं तत्रान्त्यमक्षरम् । ३०.२२ . हेऽग्निवर्णावुभौ पञ्चस्वरयुक्तौ परौ पृथक् ॥ २२ ३०.२३ . अकारयुक्तावस्त्रं हुं ह विसर्गी पुनः शरः । ३०.२३ . तारेण सह वस्वग्निवर्णार्धार्णद्वयाधिका ॥ २३ ३०.२४ . एषा परापरादेव्या विद्या श्रीत्रिकशासने । ३०.२४ . पञ्चषट्पञ्चवेदाक्षिवह्निनेत्राक्षरं पदम् ॥ २४ ३०.२५ . अघोर्यादौ सप्तके स्यात्पिवन्याः परिशिष्टकम् । ३०.२५ . प्रत्येकवर्णगोऽप्युक्तः सिद्धयोगीश्वरीमते ॥ २५ ३०.२६ . देवताचक्रविन्यासः स बहुत्वान्न लिप्यते । ३०.२६ . माया विसर्गिणी हुं फट्चेति मन्त्रोऽपरात्मकः ॥ २६ ३०.२७ . परायास्तूक्तसद्व्याप्तिर्जीवः सहचतुर्दशः । ३०.२७ . सानेकभेदा त्रिशिरःशास्त्रे प्रोक्ता महेशिना ॥ २७ ३०.२८ . स्वरूपतो विभिन्नापि रचनानेकसङ्कुला । ३०.२८ . जीवः प्राणस्थ एवात्र प्राणो वा जीवसंस्थितः ॥ २८ ३०.२९ . आधाराधेयभावेन अविनाभावयोगतः । ३०.२९ . हंसं चामृतमध्यस्थं कालरुद्रविभेदितम् ॥ २९ ३०.३० . भुवनेशशिरोयुक्तमनङ्गद्वययोजितम् । ३०.३० . दीप्ताद्दीप्ततरं ज्ञेयं षट्चक्रक्रमयोजितम् ॥ ३० ३०.३१ . प्राणं दण्डासनस्थं तु गुह्यशक्तीच्छया युतम् । ३०.३१ . परेयं वाचिकोद्दिष्टा महाज्ञानस्वरूपतः ॥ ३१ ३०.३२ . स्फुटं भैरवहृज्ज्ञानमिदं त्वेकाक्षरं परम् । ३०.३२ . अमृतं केवलं खस्थं यद्वा सावित्रिकायुतम् ॥ ३२ ३०.३३ . शून्यद्वयसमोपेतं पराया हृदयं परम् । ३०.३३ . युग्मयागे प्रसिद्धं तु कर्तव्यं तत्त्ववेदिभिः ॥ ३३ ३०.३४ . अन्येऽप्येकाक्षरा ये तु एकवीरविधानतः । ३०.३४ . गुप्ता गुप्ततरास्ते तु अंगाभिजनवर्जिताः ॥ ३४ ३०.३५ . यष्टव्याः साधकेन्द्रैस्तु कुलस्थाः सिद्धिदायकाः । ३०.३५ . कुलक्रमविधानेन सूक्ष्मविज्ञानयोगतः ॥ ३५ ३०.३६ . अनुष्ठेयाः सदा देवि स्त्रिया वा पुरुषेण वा । ३०.३६ . सकारो दीर्घषट्केन युक्तोऽङ्गान्याननानि तु ॥ ३६ ३०.३७ . स्यात्स एव परं ह्रस्वपञ्चस्वरखसंयुतः । ३०.३७ . ओंकारैः पञ्चभिर्मन्त्रो विद्याङ्गहृदयं भवेत् ॥ ३७ ३०.३८ . प्रणवश्चामृते तेजोमालिनि स्वाहया सह । ३०.३८ . एकादशाक्षरं ब्रह्मशिरस्तन्मालिनीमते ॥ ३८ ३०.३९ . वेदवेदनि हूं फट्च प्रणवादियुता शिखा । ३०.३९ . वज्रिणे वज्रधराय स्वाहेत्योंकारपूर्वकम् ॥ ३९ ३०.४० . एकादशाक्षरं वर्म पुरुष्टुतमिति स्मृतम् । ३०.४० . तारो द्विजिह्वः खशरस्वरयुग्जीव एव च ॥ ४० ३०.४१ . नेत्रमेतत्प्रकाशात्म सर्वसाधारणं स्मृतम् । ३०.४१ . तारः श्लीं पशु हुं फत्च तदस्त्रं रसवर्णकम् ॥ ४१ ३०.४२ . लरटक्षवयैर्दीर्घैः समयुक्तैः सबिन्दुकैः । ३०.४२ . इन्द्रादयस्तदस्त्राणि ह्रस्वैर्विष्णुप्रजापती ॥ ४२ ३०.४३ . स्मृतौ तुर्यद्वितीयाभ्यां ह्रस्वाभ्यां पद्मचक्रके । ३०.४३ . नमः स्वाहा तथा वौषठुं वषट्फट्च जातयः ॥ ४३ ३०.४४ . अङ्गेषु क्रमशः षट्सु कर्मस्वथ तदात्मिकाः । ३०.४४ . जपे होमे तथाप्याये समुच्चाटेऽथ शान्तिके ॥ ४४ ३०.४५ . अभिचारे च मन्त्राणां नमस्कारादिजातयः । ३०.४५ . अक्षिषण्मुनिवर्गेभ्यो द्वितीयाः सह बिन्दुना ॥ ४५ ३०.४६ . योन्यर्णेन च मातॄणां सद्मावः कालकर्षिणी । ३०.४६ . आद्योज्झितो वाप्यन्तेन वर्जितो वाथ संमतः ॥ ४६ ३०.४७ . जीवः प्राणपुटान्तःस्थः कालानलसमद्युतिः । ३०.४७ . अतिदीप्तस्तु वामांघ्रिर्भूषितो मूर्ध्नि बिन्दुना ॥ ४७ ३०.४८ . दक्षजानुगतश्चायं सर्वमातृगणार्चितः । ३०.४८ . अनेन प्राणिताः सर्वे ददते वाञ्छितं फलम् ॥ ४८ ३०.४९ . सद्भावः परमो ह्येष मातॄणां भैरवस्य च । ३०.४९ . तस्मादेनं जपेन्मन्त्री य इच्छेत्सिद्धिमुत्तमाम् ॥ ४९ ३०.५० . रुद्रशक्तिसमावेशो नित्यमत्र प्रतिष्ठितः । ३०.५० . यस्मादेषा परा शक्तिर्भेदेनान्येन कीर्तिता ॥ ५० ३०.५१ . यावत्यः सिद्धयस्तन्त्रे ताः सर्वाः कुरुते त्वियम् । ३०.५१ . अङ्गवक्त्राणि चाप्यस्याः प्राग्वत्स्वरनियोगतः ॥ ५१ ३०.५२ . दण्डो जीवस्त्रिशूलं च दक्षाङ्गुल्यपरस्तनौ । ३०.५२ . नाभिकण्ठौ मरुद्रुद्रौ विसर्गः सत्रिशूलकः ॥ ५२ ३०.५३ . सर्वयोगिनिचक्राणामधिपोऽयमुदाहृतः । ३०.५३ . अस्याप्युच्चारणादेव संवित्तिः स्यात्पुरोदिता ॥ ५३ ३०.५४ . महाचण्डेति तु योगेश्वऋ इत्यष्टवर्णकम् । ३०.५४ . नवार्णेयं गुप्ततरा सद्भावः कालकर्षिणी ॥ ५४ ३०.५५ . श्रीडामरे महायागे परात्परतरोदिता । ३०.५५ . सुधाच्छेदकषण्ठाद्यैर्बीजं छेदकमस्वरम् ॥ ५५ ३०.५६ . अध्यर्धार्णा कालरात्रिः क्षुरिका मालिनीमते । ३०.५६ . शतावर्तनया ह्यस्या जायते मूर्ध्नि वेदना ॥ ५६ ३०.५७ . एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत् । ३०.५७ . नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम् ॥ ५७ ३०.५८ . द्विर्दण्डाग्नी शूलनभःप्राणाश्छेत्त्रनलौ तथा । ३०.५८ . कूटाग्नी सविसर्गाश्च पञ्चाप्येतेऽथ पञ्चसु ॥ ५८ ३०.५९ . व्योमस्विति शिवेनोक्तं तन्त्रसद्भावशासने । ३०.५९ . छेदिनी क्षुरिकेयं स्याद्यया योजयते परे ॥ ५९ ३०.६० . बिन्द्विन्द्वनलकूटाग्निमरुत्षष्ठस्वरैर्युतम् । ३०.६० . आपादतलमूर्धान्तं स्मरेदस्त्रमिदं ज्वलत् ॥ ६० ३०.६१ . कुञ्चनं चाङ्गुलीनां तु कर्तव्यं चोदनं ततः । ३०.६१ . जान्वादिपरचक्रान्तं चक्राच्चक्रं तु कुञ्चयेत् ॥ ६१ ३०.६२ . कथितं सरहस्यं तु सद्योनिर्वाणकं परम् । ३०.६२ . अथोच्यते ब्रह्मविद्या सद्यःप्रत्ययदायिनी ॥ ६२ ३०.६३ . शिवः श्रीभूतिराजो यामस्मभ्यं प्रत्यपादयत् । ३०.६३ . सर्वेषामेव भूतानां मरणे समुपस्थिते ॥ ६३ ३०.६४ . यया पठितयोत्क्रम्य जीवो याति निरञ्जनम् । ३०.६४ . या ज्ञानिनोऽपि संपूर्णकृत्यस्यापि श्रुता सती ॥ ६४ ३०.६५ . प्राणादिच्छेदजां मृत्युव्यथां सद्यो व्यपोहति । ३०.६५ . यामाकर्ण्य महामोहविवशोऽपि क्रमाद्गतः ॥ ६५ ३०.६६ . प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् । ३०.६६ . परमपदात्त्वमिहागाः सनातनस्त्वं जहीहि देहान्तम् ॥ ६६ ३०.६७ . पादाङ्गुष्ठादि विभो निबन्धनं बन्धनं ह्युग्रम् । ३०.६७ . आर्यावाक्यमिदं पूर्वं भुवनाख्यैः पदैर्भवेत् ॥ ६७ ३०.६८ . गुल्फान्ते जानुगतं जत्रुस्थं बन्धनं तथा मेढ्रे । ३०.६८ . जहिहि पुरमग्र्यमध्यं हृत्पद्मात्त्वं समुत्तिष्ठ ॥ ६८ ३०.६९ . एतावद्भिः पदैरेतदार्यावाक्यं द्वितीयकम् । ३०.६९ . हंस हयग्रीव विभो सदाशिवस्त्वं परोऽसि जीवाख्यः ॥ ६९ ३०.७० . रविसोमवह्निसङ्घदृबिन्दुदेहो हहह समुत्क्राम । ३०.७० . तृतीयमार्यावाक्यं प्राक्संख्यैरेकाधिकैः पदैः ॥ ७० ३०.७१ . हंसमहामन्त्रमयः सनातनस्त्वं शुभाशुभापेक्षी । ३०.७१ . मण्डलमध्यनिविष्टः शक्तिमहासेतुकारणमहार्थः ॥ ७१ ३०.७२ . कमलोभयविनिविष्टः प्रबोधमायाहि देवतादेह । ३०.७२ . आर्यावाक्यमिदं सार्धं रुद्रसंख्यपदेरितम् ॥ ७२ ३०.७३ . निःश्वासे त्वपशब्दस्य स्थानेऽस्त्युप इति ध्वनिः । ३०.७३ . अज्ञानात्त्वं बद्धः प्रबोधितोत्तिष्ठ देवादे ॥ ७३ ३०.७४ . एतत्पञ्चममार्यार्धवाक्यं स्यात्सप्तभिः पदैः । ३०.७४ . व्रज तालुसाह्वयान्तं ह्यौडम्बरघट्टितं महाद्वारम् ॥ ७४ ३०.७५ . प्राप्य प्रयाहि हंहो हंहो वा वामदेवपदम् । ३०.७५ . आर्य्यावाक्यमिदं षष्ठं स्याच्चतुर्दशभिः पदैः ॥ ७५ ३०.७६ . ग्रन्थीश्वर परमात्मन् शान्त महातालुरन्ध्रमासाद्य । ३०.७६ . उत्क्रम हे देहेश्वर निरञ्जनं शिवपदं प्रयाह्याशु ॥ ७६ ३०.७७ . आर्यावाक्यं सप्तमं स्यात्तच्चतुर्दशभिः पदैः । ३०.७७ . प्रभञ्जनस्त्वमित्येवं पाठो निःश्वासशासने ॥ ७७ ३०.७८ . आक्रम्य मध्यमार्गं प्राणापानौ समाहृत्य । ३०.७८ . धर्माधर्मौ त्यक्त्वा नारायण याहि शान्तान्तम् ॥ ७८ ३०.७९ . आर्यावाक्यमिदं प्रोक्तमष्टमं नवभिः पदैः । ३०.७९ . हे ब्रह्मन् हे विष्णो हे रुद्र शिवोऽसि वासुदेवस्त्वम् ॥ ७९ ३०.८० . अग्नीषोमसनातनमृत्पिण्डं जहिहि हे महाकाश । ३०.८० . एतद्भुवनसंख्यातैरार्य्यावाक्यं प्रकीर्तितम् ॥ ८० ३०.८१ . सनात्म त्रिपिण्डमिति महाकोशमिति स्थितम् । ३०.८१ . पदत्रयं तु निःश्वासमुकुटोत्तरकादिषु ॥ ८१ ३०.८२ . अङ्गुष्ठमात्रममलमावरणं जहिहि हे महासूक्ष्म । ३०.८२ . आर्य्यावाक्यमिदं षड्भिः पदैर्दशममुच्यते ॥ ८२ ३०.८३ . अलं द्विरिति सूक्ष्मं चेत्येवं श्रीमुकुटोत्तरे । ३०.८३ . पुरुषस्त्वं प्रकृतिमयैर्बद्धोऽहङ्कारतन्तुना बन्धैः ॥ ८३ ३०.८४ . अभवाभव नित्योदित परमात्मंस्त्यज सरागमध्वानम् । ३०.८४ . एतत्त्रयोदशपदं स्यादार्यावाक्यमुत्तमम् ॥ ८४ ३०.८५ . ह्रींहूंमन्त्रशरीरमविलम्बमाशु त्वमेहि देहान्तम् । ३०.८५ . आर्यार्धवाक्यमेतत्स्याद्द्वादशं षट्पदं परम् ॥ ८५ ३०.८६ . तदिदं गुणभूतमयं त्यज स्व षोट्कोशिकं पिण्डम् । ३०.८६ . स्यात्त्रयोदशमार्यार्धं पदैः सप्तभिरीदृशम् ॥ ८६ ३०.८७ . मा देहं भूतमयं प्रगृह्यतां शाश्वतं महादेहम् । ३०.८७ . आर्यार्धवाक्यं तावद्भिः पदैरेतच्चतुर्दशम् ॥ ८७ ३०.८८ . मण्डलममलमनन्तं त्रिधा स्थितं गच्छ भित्त्वैतत् । ३०.८८ . आर्यार्धवाक्यमष्टाभिः पदैः पञ्चदशं त्विदम् ॥ ८८ ३०.८९ . सकलेयं ब्रह्मविद्या स्यात्पञ्चदशभिः स्फुटैः । ३०.८९ . वाक्यैः पञ्चाक्षरैस्त्वस्या निष्कला परिकीर्त्यते ॥ ८९ ३०.९० . प्रतिवाक्यं ययाद्यन्तयोजिता परिपठ्यते । ३०.९० . तारो माया वेदकलो मातृतारो नवात्मकः ॥ ९० ३०.९१ . इति पञ्चाक्षराणि स्युः प्रोक्तव्याप्त्यनुसारतः । ३०.९१ . बिन्दुप्राणामृतजलं मरुत्षष्ठस्वरान्वितम् ॥ ९१ ३०.९२ . एतेन शक्त्युच्चारस्थबीजेनालभ्यते पशुः । ३०.९२ . कृतदीक्षाविधिः पूर्वं ब्रह्मघ्नोऽपि विशुद्ध्यति ॥ ९२ ३०.९३ . लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी । ३०.९३ . तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ॥ ९३ ३०.९४ . शाकिनीस्तोभनं मर्म हृदयं जीवितं त्विदम् । ३०.९४ . षष्ठप्राणत्रिकूटोर्ध्वबाहुशूलाख्यबिन्दुभिः ॥ ९४ ३०.९५ . अनच्कनासाधोवक्त्रचन्द्रखण्डैश्च मण्डितम् । ३०.९५ . हृदयं भैरवाख्यं तु सर्वसंहारकारकम् ॥ ९५ ३०.९६ . अग्निमण्डलमध्यस्थभैरवानलतापिताः । ३०.९६ . वशमायान्ति शाकिन्यः स्थानमेतेन चेद्दहेत् ॥ ९६ ३०.९७ . विसर्जयेत्ताः प्रथममन्यथा च्छिद्रयन्ति ताः । ३०.९७ . ह्रीं क्लीं व्लें क्लेमेभिर्वर्णैर्द्वादशस्वरभूषितैः ॥ ९७ ३०.९८ . प्रियमेलापनं नाम हृदयं सम्पुटं जपेत् । ३०.९८ . प्रत्येकमथवा द्वाभ्यां सर्वैर्वा विधिरुत्तमः ॥ ९८ ३०.९९ . तुलामेलकयोगः श्रीतन्त्रसद्भावशासने । ३०.९९ . य उक्तः शम्भुनाथेन स मया दर्शितः क्रमात् ॥ ९९ ३०.१०० . अथ वित्तविहीनानां प्रपन्नानां च तत्त्वतः । ३०.१०० . देशकालादिदोषेण न तथाध्यवसायिनाम् ॥ १०० ३०.१०१ . प्रकर्तव्या यथा दीक्षा श्रीसन्तत्यागमोदिता । ३०.१०१ . कथ्यते हाटकेशानपातालाधिपचोदिता ॥ १०१ ३०.१०२ . श्रीनाथ आर्य भगवन्नेतत्त्रितयं हि कन्द आधारे । ३०.१०२ . वरुणो मच्छन्दो भगवत्त इति त्रयमिदं हृदये ॥ १०२ ३०.१०३ . धर्मादिवर्गसंज्ञाश्चत्वारः कण्ठदेशगाः पूज्याः । ३०.१०३ . ह्रींश्रींपूर्वाः सर्वे सम्बोधजुषश्च पादशब्दान्ताः ॥ १०३ ३०.१०४ . मूर्धतले विद्यात्रयमुक्तं भाव्यथ मनोऽभियोगेन । ३०.१०४ . कुसुमैरानन्दैर्वा भावनया वापि केवलया ॥ १०४ ३०.१०५ . गुरुणा तत्त्वविदा किल शिष्यो यदि मोक्षमात्रकृतहृदयः । ३०.१०५ . मोक्षैकदानचतुरा दीक्षा सेयं परोपनिषदुक्ता ॥ १०५ ३०.१०६ . एतद्दीक्षादीक्षित एतद्विद्यात्रयं स्मरन् हृदये । ३०.१०६ . बाह्यार्चादि विनैव हि व्रजति परं धाम देहान्ते ॥ १०६ ३०.१०७ . प्रणवो माया बिन्दुर्वर्णत्रयमादितः कुर्यात् । ३०.१०७ . पदपञ्चकस्य संबोधनयुक्तस्याग्निदयितान्ते ॥ १०७ ३०.१०८ . सिद्धसाधनि तत्पूर्वं शब्दब्रह्मस्वरूपिणि । ३०.१०८ . समस्तबन्धशब्देन सहितं च निकृन्तनि ॥ १०८ ३०.१०९ . बोधनि शिवसद्भावजनन्यामन्त्रितं च तत् । ३०.१०९ . पञ्चाष्टरन्ध्रत्र्यष्टार्णक्रमेण पदपञ्चकम् ॥ १०९ ३०.११० . खपञ्चार्णा परब्रह्मविद्येयं मोक्षदा शिवा । ३०.११० . अनुत्तरेच्छे घान्तश्च सत्रयोदशसुस्वरः ॥ ११० ३०.१११ . अस्य वर्णत्रयस्यान्ते त्वन्तःस्थानां चतुष्टयम् । ३०.१११ . वर्गाद्यश्वौ त्र्यस्रबिन्दुयुक्पान्तोऽर्णत्रयादतः ॥ १११ ३०.११२ . महाहाटकशब्दाद्यमीश्वरीत्यर्णसप्तकम् । ३०.११२ . आमन्त्रितं क्षमस्वेति त्र्यर्णं पापान्तकारिणि ॥ ११२ ३०.११३ . षडर्णं पापशब्दादिविमोहनिपदं ततः । ३०.११३ . पापं हन धुन द्विर्द्विर्दशार्णं पदमीदृशम् ॥ ११३ ३०.११४ . पञ्चम्यन्तं षडर्णं स्याद्रुद्रशक्तिवशादिति । ३०.११४ . तत एकाक्षरं यत्तद्विसर्गब्रह्म कीर्तितम् ॥ ११४ ३०.११५ . तदनच्कतकारेण सहैकीभावतः पठेत् । ३०.११५ . रन्ध्राब्धिवर्णा विद्येयं दीक्षाविद्येति कीर्तिता ॥ ११५ ३०.११६ . मायार्णञ्च परे ब्रह्मे चतुर्विद्ये पदत्रयम् । ३०.११६ . अष्टार्णमथ पञ्चार्णं योगधारिणिसंज्ञितम् ॥ ११६ ३०.११७ . आत्मान्तरात्मपरमात्मरूपं च पदत्रयम् । ३०.११७ . एकारान्तं बोधनस्थं दशार्णं परिकीर्तितम् ॥ ११७ ३०.११८ . रुद्रशक्तीति वेदार्णं स्याद्रुद्रदयितेऽथ मे । ३०.११८ . पापं दहदहेत्येषा द्वादशार्णा चतुष्पदी ॥ ११८ ३०.११९ . सौम्ये सदाशिवे युग्मं षट्कं बिन्द्विषुसावहा । ३०.११९ . सार्धवर्णचतुष्कं तदित्येषा समयापहा ॥ ११९ ३०.१२० . विद्या सार्धार्णखशरसंख्या सा पारमेश्वरी । ३०.१२० . एतद्विद्यात्रयं श्रीमद्भूतिराजो न्यरूपयत् ॥ १२० ३०.१२१ . यः साक्षादभजच्छ्रीमाञ्श्रीकण्ठो मानुषीं तनुम् । ३०.१२१ . अत्र वीर्यं पुरैवोक्तं सर्वत्रानुसरेद्गुरुः ॥ १२१ ३०.१२२ . अर्थबीजप्रवेशान्तरुच्चाराद्यनुसारतः । ३०.१२२ . नहि तत्किंचनाप्यस्ति यत्पुरा न निरूपितम् ॥ १२२ ३०.१२३ . निष्फला पुनरुक्तिस्तु नास्मभ्यं जातु रोचते । ३०.१२३ . इत्येवं मन्त्रविद्यादिस्वरूपमुपवर्णितम् ॥ १२३ च्३१ अथ श्रीतन्त्रालोके एकत्रिंशमाह्निकम् ३१.१ . अथ मण्डलसद्भावः संक्षेपेणाभिधीयते । ३१.१ . साधयित्वा दिशं पूर्वां सूत्रमास्फालयेत्समम् ॥ १ ३१.२ . तदर्धयित्वा मध्यप्राक्प्रतीचीष्वङ्कयेत्पुनः । ३१.२ . ततोऽप्यर्धतदर्धार्धमानतः पूर्वपश्चिमौ ॥ २ ३१.३ . अङ्कयेत्तावता दद्यात्सूत्रेण भ्रमयुग्मकम् । ३१.३ . मत्स्यसन्धिद्वयं त्वेवं दक्षिणोत्तरयोर्भवेत् ॥ ३ ३१.४ . तन्मध्ये पातयेत्सूत्रं दक्षिणोत्तरसिद्धये । ३१.४ . यदि वा प्राक्पराक्तुल्यसूत्रेणोत्तरदक्षिणे ॥ ४ ३१.५ . अङ्कयेदपरादङ्कात्पूर्वादपि तथैव ते । ३१.५ . मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे ॥ ५ ३१.६ . मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्ततः । ३१.६ . सूत्राभ्यां दिग्द्वयोत्थाभ्यां मत्स्यः स्यात्प्रतिकोणगः ॥ ६ ३१.७ . मत्स्येषु वेदाः सूत्राणीत्येवं स्याच्चतुरस्रकम् । ३१.७ . एकस्मात्प्रभृति प्रोक्तं शतान्तं मण्डलं यतः ॥ ७ ३१.८ . सिद्धातन्त्रे मण्डलानां शतं तत्पीठ उच्यते । ३१.८ . यत्तन्मध्यगतं मुख्यं मण्डलानां त्रयं स्मृतम् ॥ ८ ३१.९ . मध्यशूलं त्रित्रिशूलं नवशूलमिति स्फुटम् । ३१.९ . तत्र शूलविधानं यदुक्तं भेदैरनन्तकैः ॥ ९ ३१.१० . तद्योनि मण्डलं ब्रूमः सद्भावक्रमदर्शितम् । ३१.१० . वेदाश्रिते चतुर्हस्ते त्रिभागं सर्वतस्त्यजेत् ॥ १० ३१.११ . भागैः षोडशभिः सर्वं तत्तत्क्षेत्रं विभाजयेत् । ३१.११ . ब्रह्मसूत्रद्वयस्याथ मध्यं ब्रह्मपदं स्फुटम् ॥ ११ ३१.१२ . कृत्वावधिं ततो लक्ष्यं चतुर्थं सूत्रमादितः । ३१.१२ . ततस्तिर्यग्व्रजेत्सूत्रं चतुर्थं तदनन्तरे ॥ १२ ३१.१३ . कोष्ठे चेन्दुद्वयं कुर्याद्बहिर्भागार्धभागतः । ३१.१३ . तयोर्लग्नं ब्रह्मसूत्रात्तृतीये मर्मणि स्थितम् ॥ १३ ३१.१४ . कोष्ठकार्धेऽपरं चेति युग्ममन्तर्मुखं भवेत् । ३१.१४ . ब्रह्मसूत्राद्द्वितीयस्मिन् हस्ते मर्मणि निश्चलम् ॥ १४ ३१.१५ . कृत्वा पूर्णेन्दुयुगलं वर्तयेत विचक्षणः । ३१.१५ . ब्रह्मसूत्रगतात्षष्ठात्तिर्यग्भागात्तृतीयके ॥ १५ ३१.१६ . कृत्वार्धकोष्ठके सूत्रं पूर्णचन्द्राग्रलम्बितम् । ३१.१६ . भ्रमयेदुन्मुखं खण्डचन्द्रयुग्वह्निभागगम् ॥ १६ ३१.१७ . तिर्यग्भागद्वयं त्यक्त्वा खण्डेन्दोः पश्चिमात्ततः । ३१.१७ . कोणं यावत्तथा स्याच्च कुर्यात्खण्डं भ्रमद्वयम् ॥ १७ ३१.१८ . सुतीक्ष्णकुटिलाग्रं तदेकं शृङ्गं प्रजायते । ३१.१८ . द्वितीयस्मिन्नपि प्रोक्तः शृङ्ग एष विधिः स्फुटः ॥ १८ ३१.१९ . मध्यशृङ्गेऽथ कर्तव्ये तृतीये ऊर्ध्वकोष्ठके । ३१.१९ . चतुर्थार्धे च चन्द्रार्धद्वयमन्तर्मुखं भवेत् ॥ १९ ३१.२० . तच्च पूर्णेन्दुमेकं प्राग्वर्तितं प्राप्नुयाद्यथा । ३१.२० . अन्योन्यग्रन्थियोगेन बद्धारत्वं प्रजायते ॥ २० ३१.२१ . एवं द्वितीयपार्श्वेऽस्य खण्डेन्दुद्वयवर्तनात् । ३१.२१ . मध्याभ्यां गण्डिका श्लिष्टा पराभ्यामग्रतो नयेत् ॥ २१ ३१.२२ . सूत्रं पार्श्वद्वये येन तीक्ष्णं स्यान्मध्यशृङ्गगम् । ३१.२२ . पार्श्वद्वयाधरे पश्चाद्ब्रह्मसूत्रं द्वितीयकम् ॥ २२ ३१.२३ . अवधानेन संग्राह्यमाचार्येणोहवेदिना । ३१.२३ . भवेत्पश्चान्मुखो मन्त्री तस्मिंश्च ब्रह्मसूत्रके ॥ २३ ३१.२४ . मध्यशृङ्गं वर्जयित्वा सर्वः पूर्वोदितो विधिः । ३१.२४ . ततो यदुन्मुखं खण्डचन्द्रयुग्मं पुरोदितम् ॥ २४ ३१.२५ . ततो द्वयेन कर्तव्या गण्डिकान्तःसुसंगता । ३१.२५ . द्वयेनाग्रगसूत्राभ्यां मध्यशृङ्गद्वयं भवेत् ॥ २५ ३१.२६ . अधो भागविवृद्ध्यास्य पद्मं वृत्तचतुष्टयम् । ३१.२६ . ततश्चक्रं षोडशारं द्वादशारं द्विधाथ तत् ॥ २६ ३१.२७ . मध्ये कुलेश्वरीस्थानं व्योम वा तिलकं च वा । ३१.२७ . पद्मं वाथ षडरं वा वियद्द्वादशकं च वा ॥ २७ ३१.२८ . त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः । ३१.२८ . पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ २८ ३१.२९ . मिश्रितं वाथ संकीर्णं समासव्यासभेदतः । ३१.२९ . ततः क्षेत्रार्धमानेन क्षेत्रं तत्राधिकं क्षिपेत् ॥ २९ ३१.३० . तत्र दण्डः स्मृतो भागः षडरामलसारकः । ३१.३० . सुतीक्ष्णाग्रः सुरक्ताभः क्षणादावेशकारकः ॥ ३० ३१.३१ . या सा कुण्डलिनी देवी तरङ्गाख्या महोर्मिणी । ३१.३१ . सा षडश्रेण कन्दाख्ये स्थिता षड्देवतात्मिका ॥ ३१ ३१.३२ . अष्टभागैश्च विस्तीर्णो दीर्घश्चापि तदर्धतः । ३१.३२ . ततो द्वाराणि कार्याणि चित्रवर्तनया क्रमात् ॥ ३२ ३१.३३ . वेदाश्रायतरूपाणि यदिवा वृत्तमात्रतः । ३१.३३ . स्पष्टशृङ्गमथो कुर्याद्यदिवा वैपरीत्यतः ॥ ३३ ३१.३४ . उन्मुखं चन्द्रयुग्मं वा भङ्क्त्वा कुर्याच्चतुष्टयम् । ३१.३४ . कुटिलो मध्यतः स्पष्टोऽधोमुखः पार्श्वगः स्थितः ॥ ३४ ३१.३५ . उत्तानोऽर्धोऽसमः पूर्णः श्लिष्टो ग्रन्थिगतस्तथा । ३१.३५ . चन्द्रस्येत्थं द्वादशधा वर्तना भ्रमभेदिनी ॥ ३५ ३१.३६ . अन्तर्बहिर्मुखत्वेन सा पुनर्द्विविधा मता । ३१.३६ . तद्भेदान्मण्डलानां स्यादसङ्ख्यो भेदविस्तरः ॥ ३६ ३१.३७ . पीठवीथीबहिअर्भूमिकण्ठकर्णकपोलतः । ३१.३७ . शोभोपशोभासंभेदाद्गुणरेखाविकल्पतः ॥ ३७ ३१.३८ . स्वस्तिकद्वितयाद्यष्टतयापर्यन्तभेदतः । ३१.३८ . भावाभावविकल्पेन मण्डलानामनन्तता ॥ ३८ ३१.३९ . ततो रजांसि देयानि यथाशोभानुसारतः । ३१.३९ . सिन्दूरं राजवर्तं च खटिका च सितोत्तमा ॥ ३९ ३१.४० . उत्तमानि रजांसीह देवतात्रययोगतः । ३१.४० . परा चन्द्रसमप्रख्या रक्ता देवी परापरा ॥ ४० ३१.४१ . अपरा सा परा काली भीषणा चण्डयोगिनी । ३१.४१ . दृष्ट्वैतन्मण्डलं देव्यः सर्वा नृत्यन्ति सर्वदा ॥ ४१ ३१.४२ . अनर्चितेऽप्यदीक्षेण दृष्टे दीक्ष्येत मातृभिः । ३१.४२ . किंवातिबहुनोक्तेन त्रित्रिशूलारसप्तकाः ॥ ४२ ३१.४३ . शूलयागाः षट्सहस्राण्येवं सार्धशतद्वयम् । ३१.४३ . या सा देवी परा शक्तिः प्राणवाहा व्यवस्थिता ॥ ४३ ३१.४४ . विश्वान्तः कुण्डलाकारा सा साक्षादत्र वर्तिता । ३१.४४ . तत्त्वानि तत्त्वदेव्यश्च विश्वमस्मिन्प्रतिष्ठितम् ॥ ४४ ३१.४५ . अत्रोर्ध्वे तन्तुमात्रेण तिस्रः शूलारगाः स्थिताः । ३१.४५ . आसनत्वेन चेच्छाद्या भोगमोक्षप्रसाधिकाः ॥ ४५ ३१.४६ . तास्तु मोक्षैककामस्य शूलाराविद्धमध्यकाः । ३१.४६ . तस्मादेनं महायागं महाविभवविस्तरैः ॥ ४६ ३१.४७ . पूजयेद्भूतिकामो वा मोक्षकामोऽपिवा बुधः । ३१.४७ . अस्य दर्शनमात्रेण भूतवेतालगुह्यकाः ॥ ४७ ३१.४८ . पलायन्ते दश दिशः शिवः साक्षात्प्रसीदति । ३१.४८ . मन्दशक्तिबलाविद्धोऽप्येतन्मण्डलपूजनात् ॥ ४८ ३१.४९ . सततं मासषट्केन त्रिकज्ञानं समश्नुते । ३१.४९ . यत्प्राप्य हेयोपादेयं स्वयमेव विचार्य सः ॥ ४९ ३१.५० . देहान्ते स्याद्भैरवात्मा सिद्धिकामोऽथ सिद्ध्यति । ३१.५० . मण्डलस्यास्य यो व्याप्तिं देवतान्यासमेव च ॥ ५० ३१.५१ . वर्तनां च विजानाति स गुरुस्त्रिकशासने । ३१.५१ . तस्य पादरजो मूर्ध्नि धार्यं शिवसमीहिना ॥ ५१ ३१.५२ . अत्र सृष्टिस्थितिध्वंसान् क्रमात्त्रीनपि पूजयेत् । ३१.५२ . तुर्यं तु मध्यतो यद्वा सर्वेषु परिपूरकम् ॥ ५२ ३१.५३ . चतुस्त्रिशूलं वा गुप्तदण्डं यागं समाचरेत् । ३१.५३ . तत्र तत्पूजयेत्सम्यक्स्फुटं क्रमचतुष्टयम् ॥ ५३ ३१.५४ . इत्येतत्कथितं गुप्ते षडर्धहृदये परे । ३१.५४ . षट्के प्रोक्तं सूचितं श्रीसिद्धयोगीश्वरीमते ॥ ५४ ३१.५५ . अग्रतः सूत्रयित्वा तु मण्डलं सर्वकामदम् । ३१.५५ . महाशूलसमोपेतं पद्मचक्रादिभूषितम् ॥ ५५ ३१.५६ . द्वारे द्वारे लिखेच्छूलं वर्जयित्वा तु पश्चिमम् । ३१.५६ . कोणेष्वपिच वा कार्यं महाशूलं द्रुमान्वितम् ॥ ५६ ३१.५७ . अमृताम्भोभवारीणां शूलाग्रे तु त्रिकं त्रिकम् । ३१.५७ . शूल इत्थं प्रकर्तव्यमष्टधा तत्त्रिधापिवा ॥ ५७ ३१.५८ . एवं संसूचितं दिव्यं खेचरीणां पुरं त्विति । ३१.५८ . स्थानान्तरेऽपि कथितं श्रीसिद्धातन्त्रशासने ॥ ५८ ३१.५९ . कजं मध्ये तदर्धेन शूलशृङ्गाणि तानि तु । ३१.५९ . शूलाङ्कं मण्डलं कल्प्यं कमलाङ्कं च पूरणे ॥ ५९ ३१.६० . अथ शूलाब्जविन्यासः श्रीपूर्वे त्रिशिरोमते । ३१.६० . सिद्धातन्त्रे त्रिककुले देव्यायामलमालयोः ॥ ६० ३१.६१ . यथोक्तः सारशास्त्रे च तन्त्रसद्भावगुह्ययोः । ३१.६१ . तथा प्रदर्श्यते स्पष्टं यद्यप्युक्तक्रमाद्गतः ॥ ६१ ३१.६२ . वेदाश्रिते त्रिहस्ते प्राक्पूर्वमर्ध विभाजयेत् । ३१.६२ . हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्याम्यदिग्गतम् ॥ ६२ ३१.६३ . त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक्चाष्टद्विधात्मकैः । ३१.६३ . द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ ॥ ६३ ३१.६४ . ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात्पूर्वतस्तथा । ३१.६४ . भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम् ॥ ६४ ३१.६५ . तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः । ३१.६५ . जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः ॥ ६५ ३१.६६ . तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम् । ३१.६६ . बहिर्मुखं भ्रमं कुर्यात्खण्डचन्द्रद्वयं द्वयम् ॥ ६६ ३१.६७ . तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम् । ३१.६७ . ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः ॥ ६७ ३१.६८ . द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः । ३१.६८ . एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम् ॥ ६८ ३१.६९ . सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये । ३१.६९ . तदग्रपार्श्वयोर्जीवात्सूत्रमेकान्तरे धृतम् ॥ ६९ ३१.७० . आदिद्वितीयखण्डेन्दुकोणात्कोणान्तमानयेत् । ३१.७० . तयोरेवापराज्जीवात्प्रथमार्धेन्दुकोणतः ॥ ७० ३१.७१ . तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये । ३१.७१ . क्षेत्रार्धे चापरे दण्डो द्विकरश्छन्नपञ्चकः ॥ ७१ ३१.७२ . षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम् । ३१.७२ . वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते ॥ ७२ ३१.७३ . आदिक्षेत्रस्य कुर्वीत दिक्षु द्वारचतुष्टयम् । ३१.७३ . हस्तायामं तदर्धं वा विस्तारादपि तत्समम् ॥ ७३ ३१.७४ . द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु । ३१.७४ . एकैकभागमानानि कुर्याद्वृत्तानि वेदवत् ॥ ७४ ३१.७५ . दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश । ३१.७५ . द्वयोर्द्वयोः पुनर्मध्ये तत्संख्यातानि पातयेत् ॥ ७५ ३१.७६ . एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम् । ३१.७६ . एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत् ॥ ७६ ३१.७७ . यत्रैव कुत्रचित्सङ्गस्तत्संबन्धे स्थिरीकृते । ३१.७७ . तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये ॥ ७७ ३१.७८ . एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम् । ३१.७८ . द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम् ॥ ७८ ३१.७९ . कर्णिका पीतवर्णेन मूलमध्याग्रभेदतः । ३१.७९ . सितं रक्तं तथा पीतं कार्यं केसरजालकम् ॥ ७९ ३१.८० . दलानि शुक्लवर्णानि प्रतिवारणया सह । ३१.८० . पीठं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः ॥ ८० ३१.८१ . सितरक्तपीतकृष्णैस्तत्पादान् वह्नितः क्रमात् । ३१.८१ . चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते ॥ ८१ ३१.८२ . दण्डः स्यान्नीलरक्तेन पीतमामलसारकम् । ३१.८२ . रक्तं शूलं प्रकुर्वीत यत्तत्पूर्वं प्रकल्पितम् ॥ ८२ ३१.८३ . पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । ३१.८३ . द्वारं वेदाश्रि वृत्तं वा संकीर्णं वा विचित्रितम् ॥ ८३ ३१.८४ . एकद्वित्रिपुरं तुल्यं सामुद्गमथवोभयम् । ३१.८४ . कपोलकण्ठशोभोपशोभादिबहुचित्रितम् ॥ ८४ ३१.८५ . विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम् । ३१.८५ . श्रीदेव्यायामले तूक्तं क्षेत्रे वेदाश्रिते सति ॥ ८५ ३१.८६ . अर्धं द्वादशधा कृत्वा तिर्यगूर्ध्वं च तिर्यजम् । ३१.८६ . भागमेकं स्वपार्श्वोर्ध्वं गुरुः समवतारयेत् ॥ ८६ ३१.८७ . मध्यस्थं तं त्रिभागं च तदन्ते भ्रमयेदुभौ । ३१.८७ . भागमेकं परित्यज्य तन्मध्ये भ्रमयेत्पुनः ॥ ८७ ३१.८८ . तृतीयांशोर्ध्वतो भ्राम्यमूर्ध्वांशं यावदन्ततः । ३१.८८ . चतुर्थांशात्तदूर्ध्वं तु ऊर्ध्वाधो योजयेत्पुनः ॥ ८८ ३१.८९ . तन्मानादूर्ध्वमाभ्राम्य चतुर्थेन नियोजयेत् । ३१.८९ . ऊर्ध्वाद्योजयते सूत्रं ब्रह्मसूत्रावधि क्रमात् ॥ ८९ ३१.९० . क्रमाद्वैपुल्यतः कृत्वा अंशं वै ह्रासयेत्पुनः । ३१.९० . अर्धभागप्रमाणस्तु दण्डो द्विगुण इष्यते ॥ ९० ३१.९१ . भागं भागं गृहीत्वा तु उभयोरथ गोचरात् । ३१.९१ . भ्राम्यं पिप्पलवत्पत्रं वर्तनैषा त्वधो भवेत् ॥ ९१ ३१.९२ . षोडशांशे लिखेत्पद्मं द्वादशाङ्गुललोपनात् । ३१.९२ . तदूर्ध्वं मध्यभागे तु वारिजन्म समालिखेत् ॥ ९२ ३१.९३ . मध्यशृङ्गावसाने तु तृतीयं विलिखेत्ततः । ३१.९३ . सव्यासव्ये तथैवेह कटिस्थाब्जे समालिखेत् ॥ ९३ ३१.९४ . कर्णिका पीतला रक्तपीतशुक्लं च केसरम् । ३१.९४ . दलानि पद्मबाह्यस्था शुक्ला च प्रतिवारणी ॥ ९४ ३१.९५ . शूलं कृष्णेन रजसा ब्रह्मरेखा सिता पुनः । ३१.९५ . शूलाग्रं ज्वालया युक्तं शूलदण्डस्तु पीतलः ॥ ९५ ३१.९६ . शूलमध्ये च यत्पद्मं तत्रेशं पूजयेत्सदा । ३१.९६ . अस्योर्ध्वे तु परां दक्षेऽन्यां वामे चापरां बुधः ॥ ९६ ३१.९७ . या सा कालान्तका देवी परातीता व्यवस्थिता । ३१.९७ . ग्रसते शूलचक्रं सा त्विच्छामात्रेण सर्वदा ॥ ९७ ३१.९८ . शान्तिरूपा कला ह्येषा विद्यारूपा परा भवेत् । ३१.९८ . अपरा तु प्रतिष्ठा स्यान्निवृत्तिस्तु परापरा ॥ ९८ ३१.९९ . भैरवं दण्ड ऊर्ध्वस्थं रूपं सादाशिवात्मकम् । ३१.९९ . चतस्रः शक्तयस्त्वस्य स्थूलाः सूक्ष्मास्त्वनेकधा ॥ ९९ ३१.१०० . एष यागः समाख्यातो डामराख्यस्त्रिशक्तिकः । ३१.१०० . अथ त्रैशिरसे शूलाब्जविधिर्दृष्टोऽभिलिख्यते ॥ १०० ३१.१०१ . वामामृतादिभिर्मुख्यैः पवित्रैः सुमनोरमैः । ३१.१०१ . भूमिं रजांसि करणीं खटिकां मूलतोऽर्चयेत् ॥ १०१ ३१.१०२ . चतुरश्रे चतुर्हस्ते मध्ये शूलं करत्रयम् । ३१.१०२ . चण्डो द्विहस्त ऊर्ध्वाधःपीठयुग्विपुलस्त्वसौ ॥ १०२ ३१.१०३ . वस्वङ्गुलः प्रकर्तव्यः सूत्रत्रयसमन्वितः । ३१.१०३ . द्वादशाङ्गुलमानेन दण्डमूले तु पीठिका ॥ १०३ ३१.१०४ . दैर्घ्यात्तूच्छ्रायाच्चोर्ध्वे च चतुरङ्गुलमानतः । ३१.१०४ . ऊर्ध्वेऽप्युच्छ्रायतो वेदाङ्गुला दैर्घ्याद्दशाङ्गुला ॥ १०४ ३१.१०५ . शूलमूलगतं पीठीमध्यं खाब्धिसमाङ्गुलम् । ३१.१०५ . कृत्वा दण्डं त्रिशूलं तु त्रिभिर्भागैः समन्ततः ॥ १०५ ३१.१०६ . अष्टाङ्गुलप्रमाणैः स्याद्धस्तमात्रं समन्ततः । ३१.१०६ . शूलाग्रं शूलमध्यं तच्छूलमूलं तु तद्भवेत् ॥ १०६ ३१.१०७ . वेदी मध्ये प्रकर्तव्या उभयोश्च षडङ्गुलम् । ३१.१०७ . द्वादशाङ्गुलदीर्घा तु उभयोः पार्श्वयोस्तथा ॥ १०७ ३१.१०८ . चतुरङ्गुलमुच्छ्रायान्मूले वेदीं प्रकल्पयेत् । ३१.१०८ . उभयोः पार्श्वयोश्चैवमर्धचन्द्राकृतिं तथा ॥ १०८ ३१.१०९ . भ्रामयेत्खटिकासूत्रं कटिं कुर्याद्द्विरङ्गुलाम् । ३१.१०९ . वैपुल्याद्दैर्घ्यतो देवि चतुरङ्गुलमानतः ॥ १०९ ३१.११० . यादृशं दक्षिणे भागे वामे तद्वत्प्रकल्पयेत् । ३१.११० . मध्ये शूलाग्रवैपुल्यादङ्गुलश्च अधोर्ध्वतः ॥ ११० ३१.१११ . चतुरङ्गुलमानेन वैपुल्यात्तु षडङ्गुला । ३१.१११ . उच्छ्रायात्तु ततः कार्या गण्डिका तु स्वरूपतः ॥ १११ ३१.११२ . पीठोर्ध्वे तु प्रकर्तव्यं शूलमूलं तु सुव्रते । ३१.११२ . शूलाग्रमङ्गुलं कार्यं सुतीक्ष्णं तु षडङ्गुलम् ॥ ११२ ३१.११३ . अरामध्यं प्रकर्तव्यमराधस्तु षडङ्गुलम् । ३१.११३ . चतुरङ्गुलनिम्नं तु मध्यं तु परिकल्पयेत् ॥ ११३ ३१.११४ . पूर्वापरं तदेवेह मध्ये शूलं तु तद्बहिः । ३१.११४ . कारयेत त्रिभिः सूत्रैरेकैकं वर्तयेत च ॥ ११४ ३१.११५ . कजत्रयं तु शूलाग्रं वेदांशैर्द्वादशाङ्गुलम् । ३१.११५ . क्रमाद्दक्षान्यमध्येषु त्र्यष्टद्वादशपत्रकम् ॥ ११५ ३१.११६ . चक्रत्रयं वातपुरं पद्ममष्टाङ्गुलारकम् । ३१.११६ . विद्याभिख्यं शूलमूले रजः पश्चात्प्रपातयेत् ॥ ११६ ३१.११७ . त्रिशूलं दण्डपर्यन्तं राजवर्तेन पूरयेत् । ३१.११७ . सूत्रत्रयस्य पृष्ठे तु शुक्लं चारात्रयं भवेत् ॥ ११७ ३१.११८ . शुक्लेन रजसा शूलमूले विद्याम्बुजं भवेत् । ३१.११८ . रक्तं रक्तासितं शुक्लं क्रमादूर्ध्वाम्बुजत्रयम् ॥ ११८ ३१.११९ . शुक्लेन व्योमरेखा स्यात्सा स्थौल्यादङ्गुलं बहिः । ३१.११९ . तां त्यक्त्वा वेदिका कार्या हस्तमात्रं प्रमाणातः ॥ ११९ ३१.१२० . वैपुल्यत्रिगुणं दैर्घ्यात्प्राकारं चतुरश्रकम् । ३१.१२० . समन्ततोऽथ दिक्षु स्युर्द्वाराणि करमात्रतः ॥ १२० ३१.१२१ . त्रिधा विभज्य क्रमशो द्वादशाङ्गुलमानतः । ३१.१२१ . कण्ठं कपोलं शोभां तु उपशोभां तदन्ततः ॥ १२१ ३१.१२२ . प्राकारं चतुरश्रं तु सभूरेखासमन्वितम् । ३१.१२२ . सितरक्तपीतकृष्णै रजोभिः कारयेत्ततः ॥ १२२ ३१.१२३ . रक्तै रजोभिर्मध्यं तु यथाशोभं तु पूरयेत् । ३१.१२३ . अस्या व्याप्तौ पुरा चोक्तं तत्रैवानुसरेच्च तत् ॥ १२३ ३१.१२४ . अरात्रयविभागस्तु प्रवेशो निर्गमो भ्रमः । ३१.१२४ . अनाहतपदव्याप्तिः कुण्डल्या उदयः परः ॥ १२४ ३१.१२५ . हृदि स्थाने गता देव्यस्त्रिशूलस्य सुमध्यमे । ३१.१२५ . नाभिस्थः शूलदण्डस्तु शूलमूलं हृदि स्थितम् ॥ १२५ ३१.१२६ . शक्तिस्थानगतं प्रान्तं प्रान्ते चक्रत्रयं स्मरेत् । ३१.१२६ . उत्क्षिप्योत्क्षिप्य कलया देहमध्यस्वरूपतः ॥ १२६ ३१.१२७ . शूलदण्डान्तमध्यस्थशूलमध्यान्तगोचरम् । ३१.१२७ . प्रविशेन्मूलमध्यान्तं प्रान्तान्ते शक्तिवेश्मनि ॥ १२७ ३१.१२८ . अस्पन्दकरणं कृत्वा एकदा स्पन्दवर्तनम् । ३१.१२८ . मूलमानन्दमापीड्य शक्तित्रयपदं विशेत् ॥ १२८ ३१.१२९ . तत्र पूज्यं प्रयत्नेन जायन्ते सर्वसिद्धयः । ३१.१२९ . समस्ताध्वसमायोगात्षोढाध्वव्याप्तिभावतः ॥ १२९ ३१.१३० . समस्तमन्त्रचक्राद्यैरेवमादिप्रयत्नतः । ३१.१३० . षट्त्रिंशत्तत्त्वरचितं त्रिशूलं परिभावयेत् ॥ १३० ३१.१३१ . विषुवत्स्थेन विन्यासो मन्त्राणां मण्डलोत्तमे । ३१.१३१ . कार्योऽस्मिन् पूजिते यत्र सर्वेश्वरपदं भजेत् ॥ १३१ ३१.१३२ . स्वस्तिकेनाथ कर्तव्यं युक्तं तस्योच्यते विधिः । ३१.१३२ . नाडिकाः स्थापयेत्पूर्वं मुहूर्तं परिमाणतः ॥ १३२ ३१.१३३ . शक्रवारुणदिक्स्थाश्च याम्यसौम्यगतास्तथा । ३१.१३३ . एकोनत्रिंशद्वंशाः स्युरृजुतिर्यग्गतास्तथा ॥ १३३ ३१.१३४ . अष्टौ मर्मशतान्येकचत्वारिंशच्च जायते । ३१.१३४ . वंशैर्विषयसंख्यैश्च पद्मं युग्मेन्दुमण्डलम् ॥ १३४ ३१.१३५ . रससंख्यैर्भवेत्पीठं स्वस्तिकं सर्वकामदम् । ३१.१३५ . वसुसंख्यैर्द्वारवीथावेवं भागपरिक्रमः ॥ १३५ ३१.१३६ . रन्ध्रविप्रशराग्नींश्च लुप्येद्बाह्यान्तरं क्रमात् । ३१.१३६ . मर्माणि च चतुर्दिक्षु मध्याद्द्वारेषु सुन्दरि ॥ १३६ ३१.१३७ . वह्निभूतमुनिव्योमबाह्यगर्भे पुरीषु च । ३१.१३७ . लोपयेच्चैव मर्माणि अन्तर्नाडिविवर्जितान् ॥ १३७ ३१.१३८ . द्वारप्राकारकोणेषु नेत्रानलशरानृतून् । ३१.१३८ . नाडयो ब्रह्मवंशस्य लोप्या नेत्राद्रसस्थिताः ॥ १३८ ३१.१३९ . वह्नेर्नेत्रानलौ लोप्यौ वेदान्नेत्रयुगं रसात् । ३१.१३९ . नेत्रं सौम्यगतं लोप्यं पूर्वाद्वेदानलौ रसात् ॥ १३९ ३१.१४० . लोकस्था नाडिका हित्वा नेत्राद्वेदाग्नयः क्रमात् । ३१.१४० . शरैर्वह्निगतं चैव युगं नेत्राग्नयो रसात् ॥ १४० ३१.१४१ . नेत्रात्पूर्वगताच्चैव सुमेरुर्द्वारसंज्ञितः । ३१.१४१ . स्वस्तिका च पुरी रम्या चतुर्दिक्षु स्थितावुभौ ॥ १४१ ३१.१४२ . मर्मणां च शते द्वे च ऋषिभिर्गुणिता दिशः । ३१.१४२ . नेत्रादिकांश्च संमार्ज्य मार्गमध्यात्सुशोभने ॥ १४२ ३१.१४३ . ऋषित्रयकृते मध्ये विषयैः कर्णिका भवेत् । ३१.१४३ . नेत्रीकृतान्वसून् पत्रं नेत्रं सकृद्विभाजितम् ॥ १४३ ३१.१४४ . वह्निं वसुगतं कृत्वा शशाङ्कस्थांश्च लोपयेत् । ३१.१४४ . वह्नीषुऋषिमध्याच्च लोप्यं पीठेन्दुकावधि ॥ १४४ ३१.१४५ . ब्रह्मणो नेत्रविषयान्नेत्राद्वेदानलौ हरेत् । ३१.१४५ . सागरे नेत्रकं लोप्यं नाडयः पूर्वदिग्गताः ॥ १४५ ३१.१४६ . भूतनेत्रगतान्मूर्ध्ना नेत्राद्द्विवह्निदृक्त्रिकात् । ३१.१४६ . सौम्यगात्पीठकोणेषु लोपयेत चतुर्ष्वपि ॥ १४६ ३१.१४७ . दलानि कार्याणि सितैः केसरं रक्तपीतलैः । ३१.१४७ . कर्णिका कनकप्रख्या पल्लवान्ताश्च लोहिताः ॥ १४७ ३१.१४८ . व्योमरेखा तु सुसिता वर्तुलाब्जान्तनीलभाः । ३१.१४८ . पीठं रेखात्रयोपेतं सितलोहितपीतलम् ॥ १४८ ३१.१४९ . स्वस्तिकाश्च चतुर्वर्णा अग्नेरीशानगोचराः । ३१.१४९ . वीथी विद्रुमसंकाशा स्वदिक्ष्वस्त्राणि बाह्यतः ॥ १४९ ३१.१५० . इन्द्रनीलनिभं वज्रं शक्तिं पद्ममणिप्रभाम् । ३१.१५० . दण्डं हाटकसंकाशं वक्त्रं तस्यातिलोहितम् ॥ १५० ३१.१५१ . नीलद्युतिसमं खड्गं पाशं वत्सकसप्रभम् । ३१.१५१ . ध्वजं पुष्पफलोपेतं पञ्चरङ्गैश्च शोभितम् ॥ १५१ ३१.१५२ . गदा हेमनिभात्युग्रा नानारत्नविभूषिता । ३१.१५२ . शूलं नीलाम्बुजसमं ज्वलद्वह्न्युग्रशेखरम् ॥ १५२ ३१.१५३ . तस्योपरि सितं पद्ममीषत्पीतारुणप्रभम् । ३१.१५३ . चक्रं हेमनिभं दीप्तमरा वैडूर्यसंनिभाः ॥ १५३ ३१.१५४ . अरामध्यं सुपीतं च बाह्यं ज्वालारुणं भवेत् । ३१.१५४ . मन्दिरं देवदेवस्य सर्वकामफलप्रदम् ॥ १५४ ३१.१५५ . श्रीसिद्धायां शूलविधिः प्राक्क्षेत्रे चतुरश्रिते । ३१.१५५ . हस्तमात्रं त्रिधा सूर्यान्नवखण्डं यथा भवेत् ॥ १५५ ३१.१५६ . मध्ये शूलं च तत्रेत्थं मध्यभागं त्रिधा भजेत् । ३१.१५६ . नवभिः कोष्ठकैर्युक्तं ततोऽयं विधिरुच्यते ॥ १५६ ३१.१५७ . मध्यभागत्रयं त्यक्त्वा मध्ये भागद्वयस्य तु । ३१.१५७ . अधस्ताद्भ्रामयेत्सूत्रं शशाङ्कशकलाकृति ॥ १५७ ३१.१५८ . उभयतो भ्रामयेत्तत्र यथाग्रे हाकृतिर्भवेत् । ३१.१५८ . कोट्यां तत्र कृतं सूत्रं नयेद्रेखां तु पूर्विकाम् ॥ १५८ ३१.१५९ . अपरद्वारपूर्वेण त्यक्त्वाङ्गुलचतुष्टयम् । ३१.१५९ . रेखां विनाशयेत्प्राज्ञो यथा शूलाकृतिर्भवेत् ॥ १५९ ३१.१६० . शूलाग्रे त्वर्धहस्तेन त्यक्त्वा पद्मानि कारयेत् । ३१.१६० . अधः शृङ्गत्रयं हस्तमध्ये पद्मं सकर्णिकम् ॥ १६० ३१.१६१ . मुखाग्रे धारयेत्सूत्रं त्रिभिर्हस्तैस्तु पातयेत् । ३१.१६१ . मध्ये चोर्ध्वं ततः कुर्यादधस्तादङ्गुलद्वयम् ॥ १६१ ३१.१६२ . रेखाद्वयं पातयेत यथा शूलं भवत्यपि । ३१.१६२ . अधोभागादिभिश्चोर्ध्वं तत्र रेखा प्रपद्यते ॥ १६२ ३१.१६३ . समीकृत्य ततः सूत्रे ऊर्ध्वे द्वे एवमेव तु । ३१.१६३ . मध्यं पद्मं प्रतिष्ठाप्यं शूलाधस्ताद्यशस्विनि ॥ १६३ ३१.१६४ . इत्येष मण्डलविधिः कथितः संक्षेपयोगतो महागुरुभिः । च्३२ अथ श्रीतन्त्रालोके द्वात्रिंशमाह्निकम् ३२.१ . अथ कथये मुद्राणां गुर्वागमगीतमत्र विधिम् । ० ३२.१ . मुद्रा च प्रतिबिम्बात्मा श्रीमद्देव्याख्ययामले । ३२.१ . उक्ता बिम्बोदयश्रुत्या वाच्यद्वयविवेचनात् ॥ १ ३२.२ . बिम्बात्समुदयो यस्या इत्युक्ता प्रतिबिम्बता । ३२.२ . विम्बस्य यस्या उदय इत्युक्ता तदुपायता ॥ २ ३२.३ . मुदं स्वरूपलाभाख्यं देहद्वारेण चात्मनाम् । ३२.३ . रात्यर्पयति यत्तेन मुद्रा शास्त्रेषु वर्णिता ॥ ३ ३२.४ . तत्र प्रधानभूता श्रीखेचरी देवतात्मिका । ३२.४ . निष्कलत्वेन विख्याता साकल्येन त्रिशूलिनी ॥ ४ ३२.५ . करङ्किणी क्रोधना च भैरवी लेलिहानिका । ३२.५ . महाप्रेता योगमुद्रा ज्वालिनी क्षोभिणी ध्रुवा ॥ ५ ३२.६ . इत्येवंबहुभेदेयं श्रीखेचर्येव गीयते । ३२.६ . अन्यास्तदङ्गभूतास्तु पद्माद्या मालिनीमते ॥ ६ ३२.७ . तासां बहुत्वामुख्यत्वयोगाभ्यां नेह वर्णनम् । ३२.७ . श्रीखेचरीसमाविष्टो यद्यत्स्थानं समाश्रयेत् ॥ ७ ३२.८ . देवीसंनिधये तत्स्यादलं किं डम्बरैर्वृथा । ३२.८ . काम्ये कर्मणि ताश्च स्युर्मुख्याः कस्यापि जातुचित् ॥ ८ ३२.९ . मुद्रा चतुर्विधा कायकरवाक्चित्तभेदतः ॥ ९ ३२.१० . तत्र पूर्णेन रूपेण खेचरीमेव वर्णये । ३२.१० . बद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं क्षिपेत् ॥ १० ३२.११ . दण्डाकारं तु तं तावन्नयेद्यावत्कखत्रयम् । ३२.११ . निगृह्य तत्र तत्तूर्णं प्रेरयेत्खत्रयेण तु ॥ ११ ३२.१२ . एतां बद्ध्वा खे गतिः स्यादिति श्रीपूर्वशासने । ३२.१२ . ध्वनिज्योतिर्मरुद्युक्तं चित्तं विश्रम्य चोपरि ॥ १२ ३२.१३ . अनेनाभ्यासयोगेन शिवं भित्त्वा परं व्रजेत् । ३२.१३ . जत्र्वधस्तात्करौ कृत्वा वामपादं च दक्षिणे ॥ १३ ३२.१४ . विदार्यास्यं कनिष्ठाभ्यां मध्यमाभ्यां तु नासिकाम् । ३२.१४ . अनामे कुञ्चयेत्प्राज्ञो भ्रूभङ्गं तर्जनीद्वयम् ॥ १४ ३२.१५ . जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत् । ३२.१५ . त्रिशूलेन प्रयोगेण ब्रह्मरन्ध्रमुपस्थितः ॥ १५ ३२.१६ . पदं सन्त्यज्य तन्मात्रं सद्यस्त्यजति मेदिनीम् । ३२.१६ . शून्याशून्यलये कृत्वा एकदण्डेऽनिलानलौ ॥ १६ ३२.१७ . शक्तित्रितयसम्बद्धे अधिष्ठातृत्रिदैवते । ३२.१७ . त्रिशूलं तद्विजानीयाद्येन व्योमोत्पतेद्बुधः ॥ १७ ३२.१८ . आकाशभावं सन्त्यज्य सत्तामात्रमुपस्थितः । ३२.१८ . शूलं समरसं कृत्वा रसे रस इव स्थितः ॥ १८ ३२.१९ . एकदण्डं स विज्ञाय त्रिशूलं खचरं प्रिये । ३२.१९ . बद्ध्वा तु खेचरीं मुद्रां ध्यात्वात्मानं च भैरवम् ॥ १९ ३२.२० . खेचरीचक्रसंजुष्टं सद्यस्त्यजति मेदिनीम् । ३२.२० . त्यक्तांशको निराचारो निःशङ्को लोकवर्जितः ॥ २० ३२.२१ . अवधूतो निराचारो नाहमस्मीति भावयम् । ३२.२१ . मन्त्रैकनिष्ठः संपश्यन् देहस्थाः सर्वदेवताः ॥ २१ ३२.२२ . ह्लादोद्वेगास्मिताक्रुष्टनिद्रामैथुनमत्सरे । ३२.२२ . रूपादौ वा कर्तृकर्मकरणेषु च सर्वशः ॥ २२ ३२.२३ . नाहमस्मीति मन्वान एकीभूतं विचिन्तयन् । ३२.२३ . कर्णाक्षिमुखनासादिचक्रस्थं देवतागणम् ॥ २३ ३२.२४ . ग्रहीतारं सदा पश्यन् खेचर्या सिद्ध्यति स्फुटम् । ३२.२४ . विद्याशङ्की मलाशङ्की शास्त्रशङ्की न सिद्ध्यति ॥ २४ ३२.२५ . शिवो रविः शिवो वह्निः पक्तृत्वात्स पुरोहितः । ३२.२५ . तत्रस्था देवताः सर्वा द्योतयन्त्योऽखिलं जगत् ॥ २५ ३२.२६ . कनिष्ठया विदार्यास्यं तर्जनीभ्यां भ्रुवौ तथा । ३२.२६ . अनामे मध्यमे वक्त्रे जिह्वया तालुकं स्पृशेत् ॥ २६ ३२.२७ . एषा करङ्किणी देवी ज्वालिनीं शृणु सांप्रतम् । ३२.२७ . हनुर्ललाटगौ हस्तौ प्रसार्याङ्गुलितः स्फुटौ ॥ २७ ३२.२८ . चालयेद्वायुवेगेन कृत्वान्तर्भ्रुकुटीं बुधः । ३२.२८ . विदार्यास्यं सजिह्वं च हाहाकारं तु कारयेत् ॥ २८ ३२.२९ . एषा ज्वालिन्यग्निचक्रे तया चाष्टोत्तरं शतम् । ३२.२९ . जपेद्यदि ततः सिद्ध्येत्त्रैलोक्यं सचराचरम् ॥ २९ ३२.३० . परदेहेषु चात्मानं परं चात्मशरीरतः । ३२.३० . पश्येच्चरन्तं हानादाद्गमागमपदस्थितम् ॥ ३० ३२.३१ . नवच्छिद्रगतं चैकं नदन्तं व्यापकं ध्रुवम् । ३२.३१ . अनया हि खचारी श्रीयोगसञ्चार उच्यते ॥ ३१ ३२.३२ . कुलकुण्डलिकां बद्ध्वा अणोरन्तरवेदिनीम् । ३२.३२ . वामो योऽयं जगत्यस्मिंस्तस्य संहरणोद्यताम् ॥ ३२ ३२.३३ . स्वस्थाने निर्वृतिं लब्ध्वा ज्ञानामृतरसात्मकम् । ३२.३३ . व्रजेत्कन्दपदं मध्ये रावं कृत्वा ह्यरावकम् ॥ ३३ ३२.३४ . यावज्जीवं चतुष्कोणं पिण्डाधारं च कामिकम् । ३२.३४ . तत्र तां बोधयित्वा तु गतिं बुद्ध्वा क्रमागताम् ॥ ३४ ३२.३५ . चक्रोभयनिबद्धां तु शाखाप्रान्तावलम्बिनीम् । ३२.३५ . मूलस्थानाद्यथा देवि तमोग्रन्थिं विदारयेत् ॥ ३५ ३२.३६ . वज्राख्यां ज्ञानजेनैव तथा शाखोभयान्ततः । ३२.३६ . कोणमध्यविनिष्क्रान्तं लिङ्गमूलं विभेदयेत् ॥ ३६ ३२.३७ . तत्र सङ्घट्टितं चक्रयुग्ममैक्येन भासते । ३२.३७ . वैपरीत्यात्तु निक्षिप्य द्विधाभावं व्रजत्यतः ॥ ३७ ३२.३८ . ऊर्वाद्यङ्गुष्ठकालाग्निपर्यन्ते सा विनिक्षिपेत् । ३२.३८ . गमागमनसञ्चारे चरेत्सा लिङ्गलिङ्गिनी ॥ ३८ ३२.३९ . तत्र तत्पदसंयोगादुन्मीलनविधायिनी । ३२.३९ . यो जानाति स सिद्ध्येत्तु रसादानविसर्गयोः ॥ ३९ ३२.४० . ससङ्गममिदं स्थानमूर्मिण्युन्मीलनं परम् । ३२.४० . एष क्रमस्ततोऽन्योऽपि व्युत्क्रमः खेचरी परा ॥ ४० ३२.४१ . योन्याधारेति विख्याता शूलमूलेति शब्द्यते । ३२.४१ . वर्णास्तत्र लयं यान्ति ह्यवर्णे वर्णरूपिणि ॥ ४१ ३२.४२ . नादिफान्तं समुच्चार्य कौलेशं देहसंनिभम् । ३२.४२ . आक्रम्य प्रथमं चक्रं खे यन्त्रे पादपीडितम् ॥ ४२ ३२.४३ . नादं वै शक्तिसद्गर्भं सद्गर्भात्कौलिनीपदम् । ३२.४३ . बीजपञ्चकचारेण शूलभेदक्रमेण तु ॥ ४३ ३२.४४ . हृच्छूलग्रन्थिभेदैश्चिद्रुद्रशक्तिं प्रबोधयेत् । ३२.४४ . वायुचक्रान्तनिलयं बिन्द्वाख्यं नाभिमण्डलम् ॥ ४४ ३२.४५ . आगच्छेल्लम्बिकास्थानं सूत्रद्वादशनिर्गतम् । ३२.४५ . चन्द्रचक्रविलोमेन प्रविशेद्भूतपञ्जरे ॥ ४५ ३२.४६ . भूयस्तु कुरुते लीलां मायापञ्जरवर्तिनीम् । ३२.४६ . पुनः सृष्टिः संहृतिश्च खेचर्या क्रियते बुधैः ॥ ४६ ३२.४७ . श्रीमद्वीरावलीयोग एष स्यात्खेचरीविधिः । ३२.४७ . चुम्बाकारेण वक्त्रेण यत्तत्त्वं श्रूयते परम् ॥ ४७ ३२.४८ . ग्रसमानमिदं विश्वं चन्द्रार्कपुटसंपुटे । ३२.४८ . तेनैव स्यात्खगामीति श्रीमत्कामिक उच्यते ॥ ४८ ३२.४९ . भवान्मुक्त्वा द्रावयन्ति पाशान्मुद्रा हि शक्तयः । ३२.४९ . मुख्यासां खेचरी सा च त्रिधोच्चारेण वाचिकी ॥ ४९ ३२.५० . त्रिशिरोमुद्गरो देवि कायिकी परिपठ्यते । ३२.५० . नासां नेत्रद्वयं चापि हृत्स्तनद्वयमेव च ॥ ५० ३२.५१ . वृषणद्वयलिङ्गं च प्राप्य कायं गता त्वियम् । ३२.५१ . भवस्थानाभवस्थानमुच्चारेणावधारयेत् ॥ ५१ ३२.५२ . मानसीयमितस्त्वन्याः पद्माद्या अष्ट मुद्रिकाः । ३२.५२ . मातृव्यूहकुले ताः स्युरस्यास्तु परिवारगाः ॥ ५२ ३२.५३ . शरीरं तु समस्तं यत्कूटाक्षरसमाकृति । ३२.५३ . एषा मुद्रा महामुद्रा भैरवस्येति गह्वरे ॥ ५३ ३२.५४ . सूपविष्टः पद्मके तु हस्ताग्राङ्गुलिरश्मिभिः । ३२.५४ . पराङ्मुखैर्झटित्युद्यद्रश्मिभिः पृष्ठसंस्थितैः ॥ ५४ ३२.५५ . अन्तःस्थितिः खेचरीयं संकोचाख्या शशाङ्किनी । ३२.५५ . तस्मादेव समुत्तम्ब्य बाहू चैवावकुञ्चितौ ॥ ५५ ३२.५६ . सम्यग्व्योमसु संस्थानाद्व्योमाख्या खेचरी मता । ३२.५६ . मुष्टिद्वितयसङ्घट्टाद्धृदि सा हृदयाह्वाया ॥ ५६ ३२.५७ . शान्ताख्या सा हस्तयुग्ममूर्ध्वाधः स्थितमुद्गतम् । ३२.५७ . समदृष्ट्यावलोक्यं च बहिर्योजितपाणिकम् ॥ ५७ ३२.५८ . एषैव शक्तिमुद्रा चेदधोधावितपाणिका । ३२.५८ . दशानामङ्गुलीनां तु मुष्टिबन्धादनन्तरम् ॥ ५८ ३२.५९ . द्राक्क्षेपात्खेचरी देवी पञ्चकुण्डलिनी मता । ३२.५९ . संहारमुद्रा चैषैव यद्यूर्ध्वं क्षिप्यते किल ॥ ५९ ३२.६० . उत्क्रामणी झगित्येव पशूनां पाशकर्तरी । ३२.६० . श्वभ्रे सुदूरे झटिति स्वात्मानं पातयन्निव ॥ ६० ३२.६१ . साहसानुप्रवेशेन कुञ्चितं हस्तयुग्मकम् । ३२.६१ . अधोवीक्षणशीलं च सम्यग्दृष्टिसमन्वितम् ॥ ६१ ३२.६२ . वीरभैरवसंज्ञेयं खेचरी बोधवर्धिनी । ३२.६२ . अष्टधेत्थं वर्णिता श्रीभर्गाष्टकशिखाकुले ॥ ६२ ३२.६३ . एवं नानाविधान्भेदानाश्रित्यैकैव या स्थिता । ३२.६३ . श्रीखेचरी तयाविष्टः परं बीजं प्रपद्यते ॥ ६३ ३२.६४ . एकं सृष्टिमयं बीजं यद्वीर्यं सर्वमन्त्रगम् । ३२.६४ . एका मुद्रा खेचरी च मुद्रौघः प्राणितो यया ॥ ६४ ३२.६५ . तदेवं खेचरीचक्ररूढौ यद्रूपमुल्लसेत् । ३२.६५ . तदेव मुद्रा मन्तव्या शेषः स्याद्देहविक्रिया ॥ ६५ ३२.६६ . यागादौ तन्मध्ये तदवसितौ ज्ञानयोगपरिमर्शे । ३२.६६ . विघ्नप्रशमे पाशच्छेदे मुद्राविधेः समयः ॥ ६६ ३२.६७ . बोधावेशः सन्निधिरैक्येन विसर्जनं स्वरूपगतिः । ३२.६७ . शङ्कादलनं चक्रोदयदीप्तिरिति क्रमात्कृत्यम् ॥ ६७ ३२.६८ . इति मुद्राविधिः प्रोक्तः सुगूढो यः फलप्रदः । च्३३ अथ श्रीतन्त्रालोके त्रयस्त्रिंशमाह्निकम् ३३.१ . अथावसरसंप्राप्त एकीकारो निगद्यते । ० ३३.१ . यदुक्तं चक्रभेदेन सार्धं पूज्यमिति त्रिकम् । ३३.१ . तत्रैष चक्रभेदानामेकीकारो दिशानया ॥ १ ३३.२ . विश्वा तदीशा हारौद्री वीरनेत्र्यम्बिका तथा । ३३.२ . गुर्वीति षडरे देव्यः श्रीसिद्धावीरदर्शिताः ॥ २ ३३.३ . माहेशी ब्राह्मणी स्कान्दी वैष्णव्यैन्द्री यमात्मिका । ३३.३ . चामुण्डा चैव योगीशीत्यष्टाघोर्यादयोऽथवा ॥ ३ ३३.४ . अग्निनिरृतिवाय्वीशमातृभिर्द्वादशान्विताः । ३३.४ . नन्दा भद्रा जया काली कराली विकृतानना ॥ ४ ३३.५ . क्रोष्टुकी भीममुद्रा च वायुवेगा हयानना । ३३.५ . गम्भीरा घोषणी चेति चतुर्विंशत्यरे विधिः ॥ ५ ३३.६ . सिद्धिर्वृद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः सुधा धृतिः । ३३.६ . दीप्तिः पुष्टिर्मतिः कीर्तिः सुस्थितिः सुगतिः स्मृतिः ॥ ६ ३३.७ . सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः । ३३.७ . बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः ॥ ७ ३३.८ . माधवः षडरे चक्रे द्वादशारे त्वमी स्मृताः । ३३.८ . दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ ॥ ८ ३३.९ . शकुनिः सुमतिर्नन्दो गोपालश्च पितामहः । ३३.९ . श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शंबरेश्वरः ॥ ९ ३३.१० . अर्घीशो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा । ३३.१० . झण्ठिभौतिकसद्योजानुग्रहक्रूरसैनिकाः ॥ १० ३३.११ . द्व्यष्टौ यद्वामृतस्तेन युक्ताः पूर्णाभतद्द्रवाः । ३३.११ . ओघोर्मिस्यन्दनाङ्गाश्च वपुरुद्गारवक्त्रकाः ॥ ११ ३३.१२ . तनुसेचनमूर्तीशाः सर्वामृतधरोऽपरः । ३३.१२ . श्रीपाठाच्छक्तयश्चैताः षोडशैव प्रकीर्तिताः ॥ १२ ३३.१३ . संवर्तलकुलिभृगुसितबकखङ्गिपिनाकिभुजगबलिकालाः । ३३.१३ . द्विश्छगलाण्डौ शिखिशोणमेषमीनत्रिदण्डि साषाढि ॥ १३ ३३.१४ . देवीकान्ततदर्धौ दारुकहलिसोमनाथशर्माणः । ३३.१४ . जयविजयजयन्ताजितसुजयजयरुद्रकीर्तनावहकाः ॥ १४ ३३.१५ . तन्मूर्त्युत्साहदवर्धनाश्च बलसुबलभद्रदावहकाः । ३३.१५ . तद्वान्दाता चेशो नन्दनसमभद्रतन्मूर्तिः ॥ १५ ३३.१६ . शिवदसुमनःस्पृहणका दुर्गो भद्राख्यकालश्च । ३३.१६ . चेतोऽनुगकौशिककालविश्वसुशिवास्तथापरः कोपः ॥ १६ ३३.१७ . श्रुत्यग्न्यरे स्युरेते स्त्रीपाठाच्छक्तयस्त्वेताः । ३३.१७ . जुंकारोऽथाग्निपत्नीति षडरे षण्ठवर्जिताः ॥ १७ ३३.१८ . द्वादशारे तत्सहिताः षोडशारे स्वराः क्रमात् । ३३.१८ . हलस्तद्द्विगुणेऽष्टारे याद्यं हान्तं तु तत्त्रिके ॥ १८ ३३.१९ . द्वात्रिंशदरके सान्तं बिन्दुः सर्वेषु मूर्धनि । ३३.१९ . एवमन्यान्बहूंश्चक्रभेदानस्मात्प्रकल्पयेत् ॥ १९ ३३.२० . एक एव चिदात्मैष विश्वामर्शनसारकः । ३३.२० . शक्तिस्तद्वानतो माता शब्दराशिः प्रकीर्तितौ ॥ २० ३३.२१ . तयोरेव विभागे तु शक्तितद्वत्प्रकल्पने । ३३.२१ . शब्दराशिर्मालिनी च क्षोभात्म वपुरीदृशम् ॥ २१ ३३.२२ . तथान्तःस्थपरामर्शभेदने वस्तुतस्त्रिकम् । ३३.२२ . अनुत्तरेच्छोन्मेषाख्यं यतो विश्वं विमर्शनम् ॥ २२ ३३.२३ . आनन्देशोर्मियोगे तु तत्षट्कं समुदाहृतम् । ३३.२३ . अन्तःस्थोष्मसमायोगात्तदष्टकमुदाहृतम् ॥ २३ ३३.२४ . तदामृतचतुष्कोनभावे द्वादशकं भवेत् । ३३.२४ . तद्योगे षोडशाख्यं स्यादेवं यावदसंख्यता ॥ २४ ३३.२५ . विश्वमेकपरामर्शसहत्वात्प्रभृति स्फुटम् । ३३.२५ . अंशांशिकापरामर्शान् पर्यन्ते सहते यतः ॥ २५ ३३.२६ . अतः पञ्चाशदैकात्म्यं स्वरव्यक्तिविरूपता । ३३.२६ . वर्गाष्टकं वर्णभेद एकाशीतिकलोदयः ॥ २६ ३३.२७ . इति प्रदर्शितं पूर्वमर्धमात्रासहत्वतः । ३३.२७ . स्वरार्धमप्यस्ति यतः स्वरितस्यार्धमात्रकम् ॥ २७ ३३.२८ . तस्यादित उदात्तं तत्कथितं पदवेदिना । ३३.२८ . इत्थं संविदियं याज्यस्वरूपामर्शरूपिणी ॥ २८ ३३.२९ . अभिन्नं संविदश्चैतच्चक्राणां चक्रवालकम् । ३३.२९ . स्वाम्यावरणभेदेन बहुधा तत्प्रयोजयेत् ॥ २९ ३३.३० . परापरा परा चान्या सृष्टिस्थितितिरोधयः । ३३.३० . मातृसद्भावरूपा तु तुर्या विश्रान्तिरुच्यते ॥ ३० ३३.३१ . तच्च प्रकाशं वक्त्रस्थं सूचितं तु पदे पदे । ३३.३१ . तुर्ये विश्रान्तिराधेया मातृसद्भावसारिणि ॥ ३१ ३३.३२ . तथास्य विश्वमाभाति स्वात्मतन्मयतां गतम् । ३३.३२ . इत्येष शास्त्रार्थस्योक्त एकीकारो गुरूदितः ॥ ३२ च्३४ अथ श्रीतन्त्रालोके चतुस्त्रिंशमाह्निकम् ३४.१ . उच्यतेऽथ स्वस्वरूपप्रवेशः क्रमसङ्गतः । ० ३४.१ . यदेतद्बहुधा प्रोक्तमाणवं शिवताप्तये । ३४.१ . तत्रान्तरन्तराविश्य विश्राम्येत्सविधे पदे ॥ १ ३४.२ . ततोऽप्याणवसंत्यागाच्छाक्तीं भूमिमुपाश्रयेत् । ३४.२ . ततोऽपि शाम्भवीमेवं तारतम्यक्रमात्स्फुटम् ॥ २ ३४.३ . इत्थं क्रमोदितविबोधमहामरीचिसंपूरितप्रसरभैरवभावभागी । ३४.३ . अन्तेऽभ्युपायनिरपेक्षतयैव नित्यं स्वात्मानमाविशति गर्भितविश्वरूपम् ॥ ३ ३४.४ . कथितोऽयं स्वस्वरूपप्रवेशः परमेष्ठिना । च्३५ अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम् ३५.१ . अथोच्यते समस्तानां शास्त्राणामिह मेलनम् । ३५.१ . इह तावत्सम स्तोऽयं व्यवहारः पुरातनः ॥ १ ३५.२ . प्रसिद्धिमनुसन्धाय सैव चागम उच्यते । ३५.२ . अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ ॥ २ ३५.३ . स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः । ३५.३ . प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम् ॥ ३ ३५.४ . अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम् । ३५.४ . अभितःसंवृते जात एकाकी क्षुधितः शिशुः ॥ ४ ३५.५ . किं करोतु किमादत्तां केन पश्यतु किं व्रजेत् । ३५.५ . ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि ॥ ५ ३५.६ . पश्यतो जिघ्रतो वापि स्पृशतः संप्रसीदति । ३५.६ . चेतस्तदेवादाय द्राक्सोऽन्वयव्यतिरेकभाक् ॥ ६ ३५.७ . हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः । ३५.७ . सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः ॥ ७ ३५.८ . न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः । ३५.८ . प्राग्वासनोपजीव्येतत्प्रतिभामात्रमेव न ॥ ८ ३५.९ . न मृदभ्यवहारेच्छा पुंसो बालस्य जायते । ३५.९ . प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना ॥ ९ ३५.१० . प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी । ३५.१० . नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः ॥ १० ३५.११ . मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम् । ३५.११ . पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम् ॥ ११ ३५.१२ . सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा । ३५.१२ . व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि ॥ १२ ३५.१३ . तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति । ३५.१३ . बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किंचन ॥ १३ ३५.१४ . भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः । ३५.१४ . तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः ॥ १४ ३५.१५ . ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम् । ३५.१५ . शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत् ॥ १५ ३५.१६ . तयैवाशैशवात्सर्वे व्यवहारधराजुषः । ३५.१६ . सन्तः समुपजीवन्ति शैवमेवाद्यमागमम् ॥ १६ ३५.१७ . अपूर्णास्तु परे तेन न मोक्षफलभागिनः । ३५.१७ . उपजीवन्ति यावत्तु तावत्तत्फलभागिनः ॥ १७ ३५.१८ . बाल्यापायेऽपि यद्भोक्तुमन्नमेष प्रवर्तते । ३५.१८ . तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात् ॥ १८ ३५.१९ . नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः । ३५.१९ . प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका ॥ १९ ३५.२० . मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित् । ३५.२० . स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः ॥ २० ३५.२१ . यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम् । ३५.२१ . तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते ॥ २१ ३५.२२ . अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते । ३५.२२ . एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम् ॥ २२ ३५.२३ . एक एवागमश्चायं विभुना सर्वदर्शिना । ३५.२३ . दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः ॥ २३ ३५.२४ . धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः । ३५.२४ . विचित्रेषु फलेष्वेक उपायः शाम्भवागमः ॥ २४ ३५.२५ . तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि । ३५.२५ . चित्रोपायोपदेशोऽपि न विरोधावहो भवेत् ॥ २५ ३५.२६ . लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम् । ३५.२६ . बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम् ॥ २६ ३५.२७ . सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः । ३५.२७ . श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः ॥ २७ ३५.२८ . यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः । ३५.२८ . संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम् ॥ २८ ३५.२९ . यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात् । ३५.२९ . फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम् ॥ २९ ३५.३० . एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः । ३५.३० . प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम् ॥ ३० ३५.३१ . तस्य यत्तत्परं प्राप्यं धाम तत्त्रिकशब्दितम् । ३५.३१ . सर्वाविभेदानुच्छेदात्तदेव कुलमुच्यते ॥ ३१ ३५.३२ . यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु । ३५.३२ . एकं प्राणितमेवं स्यात्त्रिकं सर्वेषु शास्त्रतः ॥ ३२ ३५.३३ . श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम् । ३५.३३ . दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम् ॥ ३३ ३५.३४ . पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम् । ३५.३४ . यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम् ॥ ३४ ३५.३५ . तदेक एवागमोऽयं चित्रश्चित्रेऽधिकारिणि । ३५.३५ . तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा ॥ ३५ ३५.३६ . सांख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत् । ३५.३६ . यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने ॥ ३६ ३५.३७ . एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः । ३५.३७ . लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः ॥ ३७ ३५.३८ . अनेकागमपक्षेऽपि वाच्या विषयभेदिता । ३५.३८ . अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये ॥ ३८ ३५.३९ . अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम् । ३५.३९ . नित्यत्वमविसंवाद इति नो मानकारणम् ॥ ३९ ३५.४० . अस्मिन्नंशेऽप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः । ३५.४० . अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने ॥ ४० ३५.४१ . अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः । ३५.४१ . अवश्योपेत्य इत्यस्मिन्मान आगमनामनि ॥ ४१ ३५.४२ . अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम् । ३५.४२ . प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः ॥ ४२ ३५.४३ . अतोऽस्मिन् यत्नवान् कोऽपि भवेच्छंभुप्रचोदितः । ३५.४३ . तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना ॥ ४३ ३५.४४ . एतावत्यधिकारी यः स दुर्लभ इति स्फुटम् । ३५.४४ . इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम् ॥ ४४ च्३६ अथ श्रीतन्त्रालोके षट्त्रिंशमाह्निकम् ३६.१ . आयातिरथ शास्त्रस्य कथ्यतेऽवसरागता ।० ३६.१ . श्रीसिद्धादिविनिर्दिष्टा गुरुभिश्च निरूपिता । ३६.१ . भैरवो भैरवी देवी स्वच्छन्दो लाकुलोऽणुराट् ॥ १ ३६.२ . गहनेशोऽब्जजः शक्रो गुरुः कोट्यपकर्षतः । ३६.२ . नवभिः क्रमशोऽधीतं नवकोटिप्रविस्तरम् ॥ २ ३६.३ . एतैस्ततो गुरुः कोटिमात्रात्पादं वितीर्णवान् । ३६.३ . दक्षादिभ्य उभौ पादौ संवर्तादिभ्य एव च ॥ ३ ३६.४ . पादं च वामनादिभ्यः पादार्धं भार्गवाय च । ३६.४ . पादपादं तु बलये पादपादस्तु योऽपरः ॥ ४ ३६.५ . सिंहायार्धं ततः शिष्टाद्द्वौ भागौ विनताभुवे । ३६.५ . पादं वासुकिनागाय खण्डाः सप्तदश त्वमी ॥ ५ ३६.६ . स्वर्गादर्धं रावणोऽथ जह्रे रामोऽर्धमप्यतः । ३६.६ . विभीषणमुखादाप गुरुशिष्यविधिक्रमात् ॥ ६ ३६.७ . खण्डैरेकान्नविंशत्या विभक्तं तदभूत्ततः । ३६.७ . खण्डं खण्डं चाष्टखण्डं प्रोक्तपादादिभेदतः ॥ ७ ३६.८ . पादो मूलोद्धारावुत्तरवृहदुत्तरे तथा कल्पः । ३६.८ . सांहितकल्पस्कन्दावनुत्तरं व्यापकं त्रिधा तिस्रः ॥ ८ ३६.९ . देव्योऽत्र निरूप्यन्ते क्रमशो विस्तारिणैव रूपेण । ३६.९ . नवमे पदे तु गणना न काचिदुक्ता व्यवच्छिदाहीने ॥ ९ ३६.१० . रामाच्च लक्ष्मणस्तस्मात्सिद्धास्तेभ्योऽपि दानवाः । ३६.१० . गुह्यकाश्च ततस्तेभ्यो योगिनो नृवरास्ततः ॥ १० ३६.११ . तेषां क्रमेण तन्मध्ये भ्रष्टं कालान्तराद्यदा । ३६.११ . तदा श्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरम् ॥ ११ ३६.१२ . त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये । ३६.१२ . द्वयाद्वये च निपुणाः क्रमेण शिवशासने ॥ १२ ३६.१३ . आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् । ३६.१३ . स चार्धत्र्यम्बकाभिख्यः संतानः सुप्रतिष्ठितः ॥ १३ ३६.१४ . अतश्चार्धचतस्रोऽत्र मठिकाः संततिक्रमात् । ३६.१४ . शिष्यप्रशिष्यैर्विस्तीर्णाः शतशाखं व्यवस्थितैः ॥ १४ ३६.१५ . अध्युष्टसंततिस्रोतःसारभूतरसाहृतिम् । ३६.१५ . विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥ १५ ३६.१६ . उक्तायातिरुपादेयभावो निर्णीयतेऽधुना । च्३७ अथ श्रीतन्त्रालोके सप्तत्रिंशमाह्निकम् ३७.१ . उक्तनीत्यैव सर्वत्र व्यवहारे प्रवर्तिते । ३७.१ . प्रसिद्धावुपजीव्यायामवश्यग्राह्य आगमः ॥ १ ३७.२ . यथा लौकिकदृष्ट्यान्यफलभाक्तत्प्रसिद्धितः । ३७.२ . सम्यग्व्यवहरंस्तद्वच्छिवभाक्तत्प्रसिद्धितः ॥ २ ३७.३ . तदवश्यग्रहीतव्ये शास्त्रे स्वांशोपदेशिनि । ३७.३ . मनाक्फलेऽभ्युपादेयतमं तद्विपरीतकम् ॥ ३ ३७.४ . यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् । ३७.४ . क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः ॥ ४ ३७.५ . यदार्षे पातहेतूक्तं तदस्मिन्वामशासने । ३७.५ . आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् ॥ ५ ३७.६ . तच्च यत्सर्वसर्वज्ञदृष्टं तच्चापि किं भवेत् । ३७.६ . यदशेषोपदेशेन सूयतेऽनुत्तरं फलम् ॥ ६ ३७.७ . यथाधराधरप्रोक्तवस्तुतत्त्वानुवादतः । ३७.७ . उत्तरं कथितं संवित्सिद्धं तद्धि तथा भवेत् ॥ ७ ३७.८ . यदुक्ताधिकसंवित्तिसिद्धवस्तुनिरूपणात् । ३७.८ . अपूर्णसर्ववित्प्रोक्तिर्ज्ञायतेऽधरशासने ॥ ८ ३७.९ . ऊर्ध्वशासनवस्त्वंशे दृष्ट्वापिच समुज्झिते । ३७.९ . अधः शास्त्रेषु मायात्वं लक्ष्यते सर्गरक्षणात् ॥ ९ ३७.१० . श्रीमदानन्दशास्त्रादौ प्रोक्तं च परमेशिना । ३७.१० . ऋषिवाक्यं बहुक्लेशमध्रुवाल्पफलं मितम् ॥ १० ३७.११ . नैव प्रमाणयेद्विद्वान् शैवमेवागमं श्रयेत् । ३७.११ . तदार्षे पातहेतूक्तं तदस्मिन् वामशासने ॥ ११ ३७.१२ . आशुसिद्ध्यै यतः सर्वमार्षं मायोदरस्थितम् । ३७.१२ . यथा खगेश्वरीभावनिःशङ्कत्वाद्विषं व्रजेत् ॥ १२ ३७.१३ . क्षयं कर्मस्थितिस्तद्वदशङ्काद्भैरवत्वतः । ३७.१३ . अज्ञत्वानुपदेष्टृत्वसंदष्टेऽधरशासने ॥ १३ ३७.१४ . एतद्विपर्ययाद्ग्राह्यमवश्यं शिवशासनम् । ३७.१४ . द्वावाप्तौ तत्र च श्रीमच्छ्रीकण्ठलकुलेश्वरौ ॥ १४ ३७.१५ . द्विप्रवाहमिदं शास्त्रं मम्यङ्निःश्रेयसप्रदम् । ३७.१५ . प्राच्यस्य तु यथाभीष्टभोगदत्वमपि स्थितम् ॥ १५ ३७.१६ . तच्च पञ्चविधं प्रोक्तं शक्तिवैचित्र्यचित्रितम् । ३७.१६ . पञ्चस्रोत इति प्रोक्तं श्रीमच्छ्रीकण्ठशासनम् ॥ १६ ३७.१७ . दशाष्टादशधा स्रोतःपञ्चकं यत्ततोऽप्यलम् । ३७.१७ . उत्कृष्टं भैरवाभिख्यं चतुःषष्टिविभेदितम् ॥ १७ ३७.१८ . श्रीमदानन्दशास्त्रादौ प्रोक्तं भगवता किल । ३७.१८ . समूहः पीठमेतच्च द्विधा दक्षिणवामतः ॥ १८ ३७.१९ . मन्त्रो विद्येति तस्माच्च मुद्रामण्डलगं द्वयम् । ३७.१९ . मननत्राणदं यत्तु मन्त्राख्यं तत्र विद्यया ॥ १९ ३७.२० . उपोद्बलनमाप्यायः सा हि वेद्यार्थभासिनी । ३७.२० . मन्त्रप्रतिकृतिर्मुद्रा तदाप्यायनकारकम् ॥ २० ३७.२१ . मण्डलं सारमुक्तं हि मण्डश्रुत्या शिवाह्वयम् । ३७.२१ . एवमन्योन्यसंभेदवृत्ति पीठचतुष्टयम् ॥ २१ ३७.२२ . यतस्तस्माद्भवेत्सर्वं पीठे पीठेऽपि वस्तुतः । ३७.२२ . प्रधानत्वात्तस्य तस्य वस्तुनो भिन्नता पुनः ॥ २२ ३७.२३ . कथिता साधकेन्द्राणां तत्तद्वस्तुप्रसिद्धये । ३७.२३ . प्रत्येकं तच्चतुर्धैवं मण्डलं मुद्रिका तथा ॥ २३ ३७.२४ . मन्त्रो विद्येति च पीठमुत्कृष्टं चोत्तरोत्तम् । ३७.२४ . विद्यापीठप्रधानं च सिद्धयोगीश्वरीमतम् ॥ २४ ३७.२५ . तस्यापि परमं सारं मालिनीविजयोत्तरम् । ३७.२५ . उक्तं श्रीरत्नमालायामेतच्च परमेशिना ॥ २५ ३७.२६ . अशेषतन्त्रसारं तु वामदक्षिणमाश्रितम् । ३७.२६ . एकत्र मिलितं कौलं श्रीषडर्धकशासने ॥ २६ ३७.२७ . सिद्धान्ते कर्म बहुलं मलमायादिरूषितम् । ३७.२७ . दक्षिणं रौद्रकर्माढ्यं वामं सिद्धिसमाकुलम् ॥ २७ ३७.२८ . स्वल्पपुण्यं बहुक्लेशं स्वप्रतीतिविवर्जितम् । ३७.२८ . मोक्षविद्याविहीनं च विनयं त्यज दूरतः ॥ २८ ३७.२९ . यस्मिन्काले च गुरुणा निर्विकल्पं प्रकाशितम् । ३७.२९ . मुक्तस्तेनैव कालेन यन्त्रं तिष्ठति केवलम् ॥ २९ ३७.३० . मयैतत्स्रोतसां रूपमनुत्तरपदाद्ध्रुवात् । ३७.३० . आरभ्य विस्तरेणोक्तं मालिनीश्लोकवार्तिके ॥ ३० ३७.३१ . जिज्ञासुस्तत एवेदमवधारयितुं क्षमः । ३७.३१ . वयं तूक्तानुवचनमफलं नाद्रियामहे ॥ ३१ ३७.३२ . इत्थं दददनायासाज्जीवन्मुक्तिमहाफलम् । ३७.३२ . यथेप्सितमहाभोगदातृत्वेन व्यवस्थितम् ॥ ३२ ३७.३३ . षडर्धसारं सच्छास्त्रमुपादेयमिदं स्फुटम् । ३७.३३ . षट्त्रिंशता तत्त्वबलेन सूता यद्यप्यनन्ता भुवनावलीयम् । ३७.३३ . ब्रह्माण्डमत्यन्तमनोहरं तु वैचित्र्यवर्जं नहि रम्यभावः ॥ ३३ ३७.३४ . भूरादिसप्तपुरपूर्णतमेऽपि तस्मिन्मन्ये द्वितीयभुवनं भवनं सुखस्य । ३७.३४ . क्वान्यत्र चित्रगतिसूर्यशशाङ्कशोभिरात्रिन्दिवप्रसरभोगविभागभूषा ॥ ३४ ३७.३५ . तत्रापिच त्रिदिवभोगमहार्घवर्षद्वीपान्तरादधिकमेव कुमारिकाह्वम् । ३७.३५ . यत्राधराधरपदात्परमं शिवान्तमारोढुमप्यधिकृतिः कृतिनामनर्घा ॥ ३५ ३७.३६ . प्राक्कर्मभोगिपशुतोचितभोगभाजा किं जन्मना ननु सुखैकपदेऽपि धाम्नि । ३७.३६ . सर्वो हि भाविनि परं परितोषमेति संभाविते नतु निमेषिणि वर्तमाने ॥ ३६ ३७.३७ . कन्याह्वयेऽपि भुवनेऽत्र परं महीयान् देशः स यत्र किल शास्त्रवराणि चक्षुः । ३७.३७ . जात्यन्धसद्मनि न जन्म न कोऽभिनिन्देद्भिन्नाञ्जनायितरविप्रमुखप्रकाशे ॥ ३७ ३७.३८ . निःशेषशास्त्रसदनं किल मध्यदेशस्तस्मिन्नजायत गुणाभ्यधिको द्विजन्मा । ३७.३८ . कोऽप्यत्रिगुप्त इति नामनिरुक्तगोत्रः शास्त्राब्धिचर्वणकलोद्यदगस्त्यगोत्रः ॥ ३८ ३७.३९ . तमथ ललितादित्यो राजा निजं पुरमानयत्प्रणयरभसात्कश्मीराख्यं हिमालयमूर्धगम् । ३७.३९ . अधिवसति यद्गौरीकान्तः करैर्विजयादिभिर्युगपदखिलं भोगासारं रसात्परिचर्चितुम् ॥ ३९ ३७.४० . स्थाने स्थाने मुनिभिरखिलैश्चक्रिरे यन्निवासा यच्चाध्यास्ते प्रतिपदमिदं स स्वयं चन्द्रचूडः । ३७.४० . तन्मन्येऽहं समभिलषिताशेषसिद्धेर्नसिद्ध्यै कश्मीरेभ्यः परमथ पुरं पूर्णवृत्तेर्न तुष्ट्यै ॥ ४० ३७.४१ . यत्र स्वयं शारदचन्द्रशुभ्रा श्रीशारदेति प्रथिता जनेषु । ३७.४१ . शाण्डिल्यसेवारससुप्रसन्ना सर्वं जनं स्वैर्विभवैर्युनक्ति ॥ ४१ ३७.४२ . नारङ्गारुणकान्ति पाण्डुविकचद्बल्लावदातच्छवि प्रोद्भिन्नामलमातुलुङ्गकनकच्छायाभिरामप्रभम् । ३७.४२ . केरीकुन्तलकन्दलीप्रतिकृतिश्यामप्रभाभास्वरं यस्मिञ्शक्तिचतुष्टयोज्ज्वलमलं मद्यं महाभैरवम् ॥ ४२ ३७.४३ . त्रिनयनमहाकोपज्वालाविलीन इह स्थितो मदनविशिखव्रातो मद्यच्छलेन विजृम्भते । ३७.४३ . कथमितरथा रागं मोहं मदं मदनज्वरं विदधदनिशं कामातङ्कैर्वशीकुरुते जगत् ॥ ४३ ३७.४४ . यत्कान्तानां प्रणयवचसि प्रौढिमानं विदत्ते यन्निर्विघ्नं निधुवनविधौ साध्वसं संधुनोति । ३७.४४ . यस्मिन् विश्वाः कलितरुचयो देवताश्चक्रचर्यस्तन्मार्द्वीकं सपदि तनुते यत्र भोगापबर्गौ ॥ ४४ ३७.४५ . उद्यद्गौराङ्कुरविकसितैः श्यामरक्तैः पलाशैरन्तर्गाढारुणरुचिलसत्केसरालीविचित्रैः । ३७.४५ . आकीर्णा भूः प्रतिपदमसौ यत्र काश्मीरपुष्पैः सम्यग्देवीत्रितययजनोद्यानमाविष्करोति ॥ ४५ ३७.४६ . सर्वो लोकः कविरथ बुधो यत्र शूरोऽपि वाग्मी चन्द्रोद्द्योता मसृणगतयः पौरनार्यश्च यत्र । ३७.४६ . यत्राङ्गारोज्ज्वलविकसितानन्तसौषुम्णमार्गग्रस्तार्केन्दुर्गगनविमलो योगिनीनां च वर्गः ॥ ४६ ३७.४७ . श्रीमत्परं प्रवरनाम पुरं च तत्र यन्निर्ममे प्रवरसेन इति क्षितीशः । ३७.४७ . यः स्वप्रतिष्ठितमहेश्वरपूजनान्ते व्योमोत्पतन्नुदसृजत्किल धूपघण्टाम् ॥ ४७ ३७.४८ . आन्दोलनोदितमनोहरवीरनादैः सा चास्य तत्सुचरितं प्रथयांबभूव । ३७.४८ . सद्वृत्तसारगुरुतैजसमूर्तयो हि त्यक्ता अपि प्रभुगुणानधिकं ध्वनन्ति ॥ ४८ ३७.४९ . संपूर्णचन्द्रविमलद्युतिवीरकान्तागाढाङ्गरागघनकुङ्कुमपिञ्जरश्रीः । ३७.४९ . प्रोद्धूतवेतसलतासितचामरौघैराज्याभिषेकमनिशं ददती स्मरस्य ॥ ४९ ३७.५० . रोधःप्रतिष्ठितमहेश्वरसिद्धलिङ्गस्वायंभुवार्चनविलेपनगन्धपुष्पैः । ३७.५० . आवर्ज्यमानतनुवीचिनिमज्जनौघविध्वस्तपाप्ममुनिसिद्धमनुष्यवन्द्या ॥ ५० ३७.५१ . भोगापवर्गपरिपूरणकल्पवल्ली भोगैकदानरसिकां सुरसिद्धसिन्धुम् । ३७.५१ . न्यक्कुर्वती हरपिनाककलावतीर्णा यद्भूषयत्यविरतं तटिनी वितस्ता ॥ ५१ ३७.५२ . तस्मिन् कुवेरपुरचारिसिंतांशुमौलिसांमुख्यदर्शनविरूढपवित्रभावे । ३७.५२ . वैतस्तरोधसि निवासममुष्य चक्रे राजा द्विजस्य परिकल्पितभूरिसंपत् ॥ ५२ ३७.५३ . तस्यान्वये महति कोऽपि वराहगुप्तनामा बभूव भगवान् स्वयमन्तकाले । ३७.५३ . गीर्वाणसिन्धुलहरीकलिताग्रमूर्धा यस्याकरोत्परमनुग्रहमाग्रहेण ॥ ५३ ३७.५४ . तस्यात्मजश्चुखलकेति जने प्रसिद्धश्चन्द्रावदातधिषणो नरसिंहगुप्तः । ३७.५४ . यं सर्वशास्त्ररसमज्जनशुभ्रचित्तं माहेश्वरी परमलंकुरुते स्म भक्तिः ॥ ५४ ३७.५५ . तारुण्यसागरतरङ्गभरानपोह्य वैराग्यपोतमधिरुह्य दृढं हठेन । ३७.५५ . यो भक्तिरोहणमवाप्य महेशचिन्तारत्नैरलं दलयति स्म भवापदस्ताः ॥ ५५ ३७.५६ . तस्यात्मजोऽभिनवगुप्त इति प्रसिद्धः श्रीचन्द्रचूडचरणाब्जपरागपूतः । ३७.५६ . माता व्ययूयुजदमुं किल बाल्य एव दैवं हि भाविपरिकर्मणि संस्करोति ॥ ५६ ३७.५७ . माता परं बन्धुरिति प्रवादः स्नोहोऽतिगाढीकुरुते हि पाशान् । ३७.५७ . तन्मूलबन्धे गलिते किलास्य मन्ये स्थिता जीवत एव मुक्तिः ॥ ५७ ३७.५८ . पित्रा स शब्दगहने कृतसंप्रवेशस्तर्कार्णवोर्मिपृषतामलपूतचित्तः । ३७.५८ . साहित्यसान्द्ररसभोगपरो महेशभक्त्या स्वयंग्रहणदुर्मदया गृहीतः ॥ ५८ ३७.५९ . स तन्मयीभूय न लोकवर्तनीमजीगणत्कामपि केवलं पुनः । ३७.५९ . तदीयसंभोगविवृद्धये पुरा करोति दास्यं गुरुवेश्मसु स्वयम् ॥ ५९ ३७.६० . आनन्दसंततिमहार्णवकर्णधारः सद्दैशिकैरकवरात्मजवामनाथः । ३७.६० . श्रीनाथसंततिमहाम्बरघर्मकान्तिः श्रीभूतिराजतनयः स्वपितृप्रसादः ॥ ६० ३७.६१ . त्रैयम्बकप्रसरसागरशायिसोमानन्दात्मजोत्पलजलक्ष्मणगुप्तनाथः । ३७.६१ . तुर्याख्यसंततिमहोदधिपूर्णचन्द्रः श्रीसोमतः सकलवित्किल शंभुनाथः ॥ ६१ ३७.६२ . श्रीचन्द्रशर्मभवभक्तिविलासयोगानन्दाभिनन्दशिवशक्तिविचित्रनाथाः । ३७.६२ . अन्येऽपि धर्मशिववामनकोद्भटश्रीभूतेशभास्करमुखप्रमुखा महान्तः ॥ ६२ ३७.६३ . एते सेवारसविरचितानुग्रहाः शास्त्रसारपौढादेशप्रकटसुभगं स्वाधिकारं किलास्मै । ३७.६३ . यत्संप्रादुर्यदपि च जनान्नैक्षताक्षेत्रभूतान् स्वात्मारामस्तदयमनिशं तत्त्वसेवारसोऽभूत् ॥ ६३ ३७.६४ . सोऽनुग्रहीतुमथ शांभवभक्तिभाजं स्वं भ्रातरमखिलशास्त्रविमर्शपूर्णम् । ३७.६४ . यावन्मनः प्रणिदधाति मनोरथाख्यं तावज्जनः कतिपयस्तमुपाससाद ॥ ६४ ३७.६५ . श्रीशौरिसंज्ञतनयः किल कर्णनामा यो यौवने विदितशांभवतत्त्वसारः । ३७.६५ . देहं त्यजन् प्रथयति स्म जनस्य सत्यं योगच्युतं प्रति महामुनिकृष्णवाक्यम् ॥ ६५ ३७.६६ . तद्बालमित्रमथ मन्त्रिसुतः प्रसिद्धः श्रीमन्द्र इत्यखिलसारगुणाभिरामः । ३७.६६ . लक्ष्मीसरस्वति समं यमलंचकार सापत्नकं तिरयते सुभगप्रभावः ॥ ६६ ३७.६७ . अन्ये पितृव्यतनयाः शिवशक्तिशुभ्राः क्षेमोत्पलाभिनवचक्रकपद्मगुप्ताः । ३७.६७ . ये संपदं तृणममंसत शंभुसेवासंपूरितं स्वहृदयं हृदि भावयन्तः ॥ ६७ ३७.६८ . षडर्धशास्त्रेषु समस्तमेव येनाधिजग्मे विधिमण्डलादि । ३७.६८ . स रामगुप्तो गुरुशंभुशास्त्रसेवाविधिव्यग्रसमग्रमार्गः ॥ ६८ ३७.६९ . अन्योऽपि कश्चन जनः शिवशक्तिपातसंप्रेरणापरवशस्वकशक्तिसार्थः । ३७.६९ . अभ्यर्थनाविमुखभावमशिक्षितेन तेनाप्यनुग्रहपदं कृत एष वर्गः ॥ ६९ ३७.७० . आचार्यमभ्यर्थयते स्म गाढं संपूर्णतन्त्राधिगमाय सम्यक् । ३७.७० . जायेत दैवानुगृहीतबुद्धेः संपत्प्रबन्धैकरसैव संपत् ॥ ७० ३७.७१ . सोऽप्यभ्युपागमदभीप्सितमस्य यद्वा स्वातोद्यमेव हि निनर्तिषतोऽवतीर्णम् । ३७.७१ . सोऽनुग्रहप्रवण एव हि सद्गुरूणामाज्ञावशेन शुभसूतिमहाङ्कुरेण ॥ ७१ ३७.७२ . विक्षिप्तभावपरिहारमथो चिकीर्षन्मन्द्रः स्वके पुरवरे स्थितिमस्य वव्रे । ३७.७२ . आबालगोपमपि यत्र महेश्वरस्य दास्यं जनश्चरति पीठनिवासकल्पे ॥ ७२ ३७.७३ . तस्याभवत्किल पितृव्यवधूर्विधात्रा या निर्ममे गलितसंसृतिचित्रचिन्ता । ३७.७३ . शीतांशुमौलिचरणाब्जपरागमात्रभूषाविधिर्विहितवत्सलिकोचिताख्या ॥ ७३ ३७.७४ . मूर्ता क्षमेव करुणेव गृहीतदेहा धारेव विग्रहवती शुभशीलतायाः । ३७.७४ . वैराग्यसारपरिपाकदशेव पूर्णा तत्त्वार्थरत्नरुचिरस्थितिरोहणोर्वी ॥ ७४ ३७.७५ . भ्रातापि तस्याः शशिशुभ्रमौलेर्भक्त्या परं पावितचित्तवृत्तिः । ३७.७५ . स शौरिरात्तेश्वरमन्त्रिभावस्तत्याज यो भूपतिमन्त्रिभावम् ॥ ७५ ३७.७६ . तस्य स्नुषा कर्णवधूर्विधूतसंसारवृत्तिः सुतमेकमेव । ३७.७६ . यासूत योगेश्वरिदत्तसंज्ञं नामानुरूपस्फुरदर्थतत्त्वम् ॥ ७६ ३७.७७ . यामग्रगे वयसि भर्तृवियोगदीनामन्वग्रहीत्त्रिनयनः स्वयमेव भक्त्या । ३७.७७ . भाविप्रभावरभसेषु जनेष्वनर्थः सत्यं समाकृषति सोऽर्थपरम्पराणाम् ॥ ७७ ३७.७८ . भक्त्युल्लसत्पुलकतां स्फुटमङ्गभूषां श्रीशंभुनाथनतिमेव ललाटिकां च । ३७.७८ . शैवश्रुतिं श्रवणभूषणमप्यवाप्य सौभाग्यमभ्यधिकमुद्वहति स्म यान्तः ॥ ७८ ३७.७९ . अम्बाभिधाना किल सा गुरुं तं स्वं भ्रातरं शंभुदृशाभ्यपश्यत् । ३७.७९ . भाविप्रभावोज्ज्वलभव्यबुद्धिः सतोऽवजानाति न बन्धुबुद्ध्या ॥ ७९ ३७.८० . भ्राता तदीयोऽभिनवश्च नाम्ना न केवलं सच्चरितैरपि स्वैः । ३७.८० . पीतेन विज्ञानरसेन यस्य तत्रैव तृष्णा ववृधे निकामम् ॥ ८० ३७.८१ . सोऽन्यश्च शांभवमरीचिचयप्रणश्यत्संकोचहार्दनलिनीघटितोज्ज्वलश्रीः । ३७.८१ . तं लुम्पकः परिचचार समुद्यमेषु साधुः समावहति हन्त करावलम्बम् ॥ ८१ ३७.८२ . इत्थं गृहे वत्सलिकावितीर्णे स्थितः समाधाय मतिं बहूनि । ३७.८२ . पूर्वश्रुतान्याकलयन् स्वबुद्ध्या शास्त्राणि तेभ्यः समवाप सारम् ॥ ८२ ३७.८३ . स तन्निबन्धं विदधे महार्थं युक्त्यागमोदीरिततन्त्रतत्त्वम् । ३७.८३ . आलोकमासाद्य यदीयमेष लोकः सुखं संचरिता क्रियासु ॥ ८३ ३७.८४ . सन्तोऽनुगृह्णीत कृतिं तदीयां हृह्णीत पूर्वं विधिरेष तावत् । ३७.८४ . ततोऽपि गृह्णातु भवन्मतिं सा सद्योऽनुगृह्णातु च तत्त्वदृष्ट्या ॥ ८४ ३७.८५ . इदमभिनवगुप्तप्रोम्भितं शास्त्रसारं शिव निशमय तावत्सर्वतःश्रोत्रतन्त्रः । ३७.८५ . तव किल नुतिरेषा सा हि त्वद्रूपचर्चेत्यभिनवपरितुष्टो लोकमात्मीकुरुष्व ॥ ८५