अनस्तमितभारूपस्तेजसां तमसामपि । य एकोऽन्तर्यदन्तश्च तेजांसि च तमांसि च ॥ १ ॥ स एव सर्वभूतानां स्वभावः परमेश्वरः । भावजातं हि तस्यैव शक्तिरीश्वरतामयी ॥ २ ॥ शक्तिश्च शक्तिमद्रूपाद्व्यतिरेकं न वाञ्छति । तादात्म्यमनयोर्नित्यं वह्निदाहिकयोरिव ॥ ३ ॥ स एव भैरवो देवो जगद्भरणलक्षणः । स्वात्मादृषे समग्रं हि यच्छक्त्या प्रतिबिम्बितम् ॥ ४ ॥ तस्यैवैषा परा देवी स्वरूपामर्शनोत्सुका । पूर्णत्वं सर्वभवेषु यस्या नाल्पं न चाधिकम् ॥ ५ ॥ एष देवोऽनया देव्या नित्यं क्रीडारसोत्सुकः । विचित्रान् सृष्टिसंहारान् विधत्ते युगपद्विभुः ॥ ६ ॥ अतिदुर्घटकारित्वमस्यानुत्तरमेव यत् । एतदेव स्वतन्त्रत्वमैस्वर्यं बोधरूपता ॥ ७ ॥ परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् । जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ ८ ॥ एवमस्य स्वतन्त्रस्य निजशक्त्युपभेदिनः । स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ॥ ९ ॥ तेषु वैचित्र्यमत्यन्तमूर्ध्वाधस्तिर्यगेव यत् । भुवनानि तदंशाश्च सुखदुःखमतिश्च या ॥ १० ॥ यदेतस्यापरिज्ञानं तत्स्वातन्त्र्यं हि वर्णितम् । स एव खलु संसारो मूडानां यो विभीषकः ॥ ११ ॥ तत्प्रसादरसादेव गुर्वागमत एव वा । शास्त्राद्वा परमेशस्य यस्मात्कस्मादुपागतम् ॥ १२ ॥ यत्तत्त्वस्य परिज्ञानं स मोक्षः परमेशतः । तत्पूर्णत्वं प्रबुद्धानां जीवन्मुक्तिश्च सा स्मृता ॥ १३ ॥ एतौ बन्धविमोक्षौ च परमेशस्वरूपतः । न भिद्येते न भेदो हि तत्त्वतः परमेश्वरे ॥ १४ ॥ इत्थमिच्छाकलाज्ञानशक्तिशूलाम्बुजाश्रितः । भैरवः सर्वभावानां स्वभावः परिशील्यते ॥ १५ ॥ सुकुमारमतीन् शिष्यान् प्रबोधयितुमञ्जसा । इमेऽभिनवगुप्तेन श्लोकाः पञ्चदशोदिताः ॥ ------------------------------------------------------------------------ ____________ गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे ------------------------------------------------------------------------