संक्रामोऽत्र न भावना न च कथायुक्तिर्न चर्चा न च ध्यानं वा न च धारणा न च जपाभ्यासप्रयासो न च । तत्किं नाम सुनिश्चितं वद परं सत्यं च तच्छ्रूयतां न त्यागी न परिग्रही भज सुखं सर्वं यथावस्थितः ॥ १ ॥ संसारोऽस्ति न तत्त्वतस्तनुभृतां बन्धस्य वार्तैव का बन्धो यस्य न जातु तस्य वितथा मुक्तस्य मुक्तिक्रिया । मिथ्यामोहकृदेष रज्जुभुजगच्छायापिशाचभ्रमो मा किंचित्त्यज मा गृहाण विहर [१] स्वस्थो यथावस्थितः ॥ २ ॥ पूजपूजकपूज्यभेदसरणिः केयं कथानुत्तरे संक्रामः किल कस्य केन विदधे को वा प्रवेशक्रमः । मायेयं न चिदद्वयात्परतया भिन्नाप्यहो वर्तते सर्वं स्वानुभवस्वभावविमलं चिन्तां वृथा मा कृथाः ॥ ३ ॥ आनन्दोऽत्र न वित्तमध्यमदवन्नैवाङ्गनासङ्गवत् दीपार्केन्दुकृतप्रभाप्रकरवन्नैव प्रकाशोदयः । हर्षः संभृतभेदमुक्तिसुखभूर्भारावतारोपमः सर्वाद्वैतपदस्य विस्मृतनिधेः प्राप्तिः प्रकाशोदयः ॥ ४ ॥ रागद्वेषसुखासुखोदयलयाहङ्कारदैन्यादयो ये भावाः प्रविभान्ति विश्ववपुषो भिन्नस्वभावा न ते । व्यक्तिं पश्यसि यस्य यस्य सहसा तत्तत्तदेकात्मतासंविद्रूपम् अवेक्ष्य किं न रमसे तद्भावनानिर्भरः ॥ ५ ॥ पूर्वाभावभवक्रिया हि सहसा भावाः सदाऽस्मिन् भवे मध्याकारविकारसंकरवतां तेषां कुतः सत्यता । निःसत्ये चपले प्रपञ्चनिचये स्वप्नभ्रमे पेशले शङ्कातङ्ककलङ्कयुक्तिकलनातीतः प्रबुद्धो भव ॥ ६ ॥ भावानां न समुद्भवोऽस्ति सहजस्त्वद्भाविता भान्त्यमी निःसत्या अपि सत्यतामनुभवभ्रान्त्या भजन्ति क्षणम् । त्वत्सङ्कल्पज एष विश्वमहिमा नास्त्यस्य जन्मान्यतः तस्मात्त्वं विभवेन भासि भुवनेष्वेकोप्यनेकात्मकः ॥ ७ ॥ यत्सत्यं यदसत्यमल्पबहुलं नित्यं न नित्यं च यत् यन्मायामलिनं यदात्मविमलं चिद्दर्पणे राजते । तत्सर्वं स्वविमर्शसंविदुदयाद्रूपप्रकाशात्मकं ज्ञात्वा स्वानुभवाधिरूढमहिमा विश्वेश्वरत्वं भज ॥ ८ ॥ ॥ इति श्रीमदाचार्याभिनवगुप्तपादैर्विरचितानुत्तराष्टिका समाप्ता ॥ ___________________________ [१] वर् विलस ------------------------------------------------------------------------ ____________ गन्धर्व-नगरम् । द्सो सन्स्क्रितर्छिवे ------------------------------------------------------------------------