वादिवागीश्वर मानमनोहर नमस्तस्यै महाभूतबद्धानमृतसेवनात् । मोचयत्यकुलस्थापि या शक्तिश्चित्स्वरूपिणी ॥ १ ॥ वागीश्वराचार्यसुतेन वादिवागीश्वरेण क्रियते गभीरः । कथासु गर्जत्प्रतिवादिगर्वप्रशान्तये मानमनोहरोऽयम् ॥ २ ॥ _______________________________________________ सिद्धिप्रकरणम् [ईश्वरसिद्धिः] १) विवादाध्यासितं कर्म प्रयत्नाधारजं कर्मत्वात्, यत्कर्म तत्प्रयत्नाधारजं यथा सम्प्रतिपन्नं कर्म, तथा विवादाध्यासितं कर्म, तस्मात्प्रयत्नाधारजम् । २) विवादाध्यासितं मूर्तं प्रयत्नाधारजम्, परमाणुव्यतिरिक्तत्वे सति मूर्तत्वात् । ३) गन्धः प्रयत्नजः, गन्धत्वात्, घटवत्तद्गतगन्धवच्च । न च शरीरिणाजन्यत्वादित्यनेन प्रकरणसमत्वम्, नापि तज्जन्यत्वमुपाधिः, अकार्यत्वस्योप्राधेः, व्यर्थविशेषणत्वाच्च । एतेन व्याप्तिदर्शनकाले कर्मत्वकार्यत्वादेरङ्करतज्जननादौ केवलस्यापि दर्शनाद्व्याप्तनिश्चय इति पराकृतम्, उपाधिसद्भावस्याऽनिरूपितत्वात् । यावदुपाधिर्न निरूप्यते, तावदेकस्मिन्नपि पिण्डेनयोः सम्बन्धनियमे प्रयोजकत्वं वाच्यम् । अन्याप्रयुक्तसम्बन्धस्यापि साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात्, निरूपाधिकसम्बन्धत्वाच्च व्याप्तेः । ४) किं च विवाध्यासिते पृथिव्युदके प्रयत्नवता घृते, गुरुत्वे सत्यपातित्वात्करतलामलकवत् । ५) ईश्वरज्ञानं नित्यम्, द्विष्ठव्यतिरिक्तत्वे सति ईश्वरनिष्ठत्वात्, तद्गतमहत्ववत् । न च ज्ञानत्वादित्यनेन प्रकरणसमत्वम्, कारणसद्भावस्योपाधेः । तस्यापि साधने बाधः न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते (बृह ४.३.२३) इत्यागमबाधः । अन्यथा जलपरमाणुरूपमनित्यम्, रूपत्वादित्यपि स्यात् । न च तत्रापि कारणसद्भाव उपाधिः, तस्यापि साधनाद्बाधाया अभावात् । ६) विवादाध्यासितं नित्यविशेषगुणाधारजं कार्यत्वादाप्यद्वय्णुकवत् । यश्च नित्यविशेषगुणाधारः, स एवेश्वरः । ७) बौद्धं प्रति ईश्वरसाधनम् विवादाध्यासितो विकल्पः तदतिरिक्ते प्रमा, प्रमात्वात्, निर्विकल्पकप्रमावत् । न चाश्रयासिद्धिस्वरूपासिद्धी, ईश्वरादिषु भक्तानां तद्धेतुल्यादिकल्पना । वासनामात्रभाविन्यो जायन्ते विविधाः स्फुटम् ॥ (त सं २८२) इति त्वयैवाभ्युपगतेः, मम सुतरामिष्टत्वात्, त्वन्मते स्वप्रकाशत्वेन सर्वज्ञानानां प्रमात्वात्, मम तु प्रकृतेऽविप्रतिपत्तेश्च । ८) एतज्ज्ञानम्, एतदुत्पादकानित्यव्यतिरिक्तज्ञानजम्, कार्यत्वात्, सम्प्रतिपन्नवत् । न चात्रैतद्व्यतिरिक्तत्वमुपाधिः, तव व्यर्थविशेषणत्वात्, मम नित्येष्वपि सम्भवात् । कार्यत्वे सतीति विशेषणे पूर्वदोषानुषङ्गः । नित्यज्ञानाधार ईश्वर इतीश्वरलक्षणम् । तदेवं कार्यत्वादिभिर्हेतुभिः सिद्ध ईश्वरः ॥ [अवयविसिद्धिः] १) सविकल्पकं सविकल्पकव्यतिरिक्ते प्रमा, प्रमात्वात्, निर्विकल्पकप्रमावत् । २) एतत्कार्यम्, एतदुत्पादकज्ञानव्यतिरिक्तजन्यम्, कार्यत्वात् । ३) निर्विकल्पकम्, निर्विकल्पकोत्पादकज्ञानव्यतिरिक्तजन्यम्, कार्यत्वाद्, ज्ञानान्तरवत्, सविकल्पकवच्च । न च निर्विकल्पकत्वमुपाधिः वैयर्थाद्विशेषणस्य । यत्प्रकाशते तज्ज्ञानम्, यथा सम्प्रतिपन्नम् । प्रकाशते विवादपदमिति नात्र प्रकरणसमत्वम्, उभयवादिसिद्धाश्रयस्य दुर्निरूपत्वात् । एतेन वस्तुत्वादयो निरस्ताः । विमतं ज्ञानात्मकम्, वस्तुत्वात्सत्त्वात्, सम्प्रतिपन्नवदिति । ४) स्थूलविकल्पो बाह्येऽर्थे प्रमा, प्रमात्वाद्, रूपदर्शनवदित्यवयविसिद्धिः । न च वृत्तिविकल्पादिबाधितत्वाद्युत्थानम्, तेषामेव प्रत्यक्षबाधितत्वात् । इन्द्रियं द्रव्यग्राहकं न भवति, इन्द्रियत्वाद्, रसनवदिति तु व्याप्त्यसिद्धिस्वरूपासिद्धिदृष्टान्तासिद्धिदुष्टत्वादसाधनम् । प्रतियोगिनोऽज्ञाने व्यतिरेकस्य ज्ञातुमशक्यत्वादिन्द्रियस्वरूपस्य द्रव्यविशेषणत्वाच्च । अपरे तु गन्धोऽगन्धोपादानः, कार्यत्वाद्रूपवदित्यवयविसिद्धिं ब्रुवते । तत्र चोपादानशब्दस्य समवायिकारणवाचकत्वे दृष्टान्ताभावः, सजातीयमात्रवाचकत्वे सिद्धसाधनता, अत्यन्तसजातीयवाचकत्वे प्रतिज्ञापदयोर्व्याघातः । कार्यत्वे सति स्पर्शवदवयवीत्यवयविलक्षणम् । [परमाणुसिद्धिः] १) विवादाध्यासितो गन्ध एतद्गन्धकारणेन जन्यते गन्धत्वात्, कार्यत्वादेतद्वत् । न च पिण्डस्येवोपाधित्वम्, तत्समानक्षणानां रूपादीनामपि तथाभावप्रसङ्गात् । २) विप्रतिपन्नं कार्यम्, एतन्नीलकारणजम्, कार्यत्वात्, गृह्यमाणनीलवत् । न चानुग्राहकतर्काभावः, अन्तेऽपि स्थिरपदार्थानभ्युपगमे कार्यकारणभावनिर्वाहात्, अन्वयव्यतिरेकप्रयोजकाभावात् । कल्पनया तत्सिद्ध्यभ्युपगमे वस्तुनोऽसत्त्वेन तन्मूलस्य कार्यकारणभावस्यासत्त्वप्राप्तौ विश्वासत्त्वप्रसङ्गः । अर्थक्रियाकारित्वस्य सत्त्वात्समर्थस्य क्षेपायोगादित्यादि सहकारिसदसद्भावप्रयुक्तत्वेन परिहरणीयम् । सहकारिणामेव हेतुत्वमस्त्विति (चेन्न) तेषामेव चरमत्वनियमे तदुपयोगः स्यात् । अत्यन्ततन्तुसंयोगादिष्वप्यवच्छेदकत्वेन तन्तूनामुपयोगात् । तेषां चानियामकत्वेऽन्यत्रापि पटोत्पत्तिप्रसङ्गः । क्रमेण कार्यकरणार्हं स्थिरं तद्विपरीतं क्षणिकमिति विप्रतिपत्तेर्विषय उद्घाटनीयः । ३) विवादाध्यासिता गन्धादयः पृथिव्यारम्भका न संभवन्ति, संयोगव्यतिरिक्तत्वे सति भूतगुणत्वाद्, विभागवत् । रस उदकारम्भको न भवति, रूपं तेज आरम्भकं न भवति, स्पर्शो वायुजनको न भवति, शब्दो द्रव्यारम्भको न भवति, भूतविशेषणगुणत्त्वाद्बाह्यैकैकेन्द्रियग्राह्यगुणत्वाद्वा गन्धवत् । न चात्रौपाधिकशङ्काऽप्यस्ति गन्धत्वस्य, तस्याभावेऽपि गुरुत्वादिषु साध्यस्य दर्शनात् । न च शब्दव्यतिरिक्तमुपाधि चरमस्यानुमानस्य, नापि प्रथमस्य रसव्यतिरिक्तत्वं प्रयोजकम्, तद्व्यतिरिक्तस्यापि संयोगादेरुदकारम्भकत्वदर्शनात् । एतेन मध्यमयोरुपाधिशङ्का निराकृता । अतो गन्धादिव्यतिरिक्तोपादानसिद्धिः । ४) विवादाध्यासितं कार्यं समवायिकारणकं भावकार्यत्वाद्घटवत् । न च व्यर्थविशेषणत्वम्, कार्यत्वमात्रस्य ध्वंसादिषु व्यभिचारात् । ५) विवादाध्यासितं कार्यं समवायिकारणकं कार्यत्वात्, महामूर्तत्वाद्वाघटवदिति केचित् । विवादाध्यासितं कार्यं महत्, समवायिकारणत्वादिति ब्रुवते । तैस्तु योगिप्रत्यक्षं समधिगम्य परमाणुष्वनैकान्तिकत्वपरिहारार्थमस्मदादीति विशेषणीयम् । तथा च व्यर्थविशेषणत्वम्, प्रतिवादिनो व्यावृत्त्यभावात्, मनसि व्यभिचारश्च । तस्मात्त्र्यणुकपरमाणुसिद्धिः । कार्यद्रव्याजन्यं मूर्त्तमणुः । नित्यो मूर्त्तः परमाणुः । _______________________________________________ [द्रव्यप्रकरणम्] [पृथिव्या निरूपणम्] १) विवादाध्यासितं पृथिवीसमवायिकारणकम्, कार्यत्वे सति गन्धत्वात्, सम्प्रतिपन्नवत् । न च सोपाधिकत्वं स्यात्, महापृथिवीत्वस्य रूपादौ साध्याव्यापकत्वात् । नित्यमूर्त्तारम्भातिरिक्तत्वे सति कार्यत्वस्योदकादिष्वपि सम्भवात् । पार्थिवत्वेन विशेषणे विशेष्यवैयर्थ्यात् । निरुपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् । तस्मात्पार्थिवेन परमाणुना पार्थिवमेवारभ्यत इति नियमः । नित्यत्वे सति गन्धवान् पार्थिवः परमाणुरिति पार्थिवपरमाणुलक्षणम् । २) देवशरीरमयोनिजं न भवति, शरीरत्वादित्यनैकान्तिकं शलभादिशरीरे । विशिष्टसंस्थानवत्वमपि तस्यासिद्धम्, त्रिनयनसहस्राक्षचतुर्भुजादिभेदभिन्नत्वात् । विवादाध्यासितः शरीरसन्तानोऽयोनिजशरीरकः, शरीरसन्तानत्वाद्, गोमयजनितवृश्चिकशरीरसन्तानवत् । न चानुकूलतर्कचिन्ता कार्या, अन्यथागमार्थस्यैवानुपपत्तिप्रसङ्गात् । हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्(ऋ सं १०.१२१.१) इति श्रुतेः । गन्धवच्छरीरं पार्थिवम् । ३) गन्धोपलब्धिः करणजन्या, कार्यत्वात्, कुंकुमगन्धाभिव्यञ्जकघृतवत् । गन्धवदिन्द्रियं घ्राणम् । गन्धवती पृथिवी । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती पृथिवी । [उदकस्य निरूपणम् ] उदकत्वसामान्यं शरीरसमवेतं परमाणुजातित्वात्, सत्तावत् । विप्रतिपन्नाः परमाणवः परम्परया शरीरारम्भकाः, गुरुपरमाणुत्वात् । न च पार्थिवपरमाणुत्वमुपाधिः, तदभावेऽपि साध्यस्यानुगमदर्शनेन द्व्यणुकादिषु समव्याप्तिकत्वाभावात् । अदृष्टविशेषाकृष्टत्वमेव तत्रापि प्रयोजकमित्यन्ये । तञ्च पूर्वानुमानेन साधयितुं शक्यते इति न कश्चिद्दोषः । शीतस्पर्शवच्छरीरमाप्यम् । रसोपलब्धिः करणजन्या, कार्यत्वाद्गन्धोपलब्धिवत् । रसनमाप्यम्, रूपरसयोर्मध्ये रसस्यैवाभिव्यञ्जकत्वाल्लालावत् । शीतस्पर्शवदिन्द्रियं रसनम् । स्नेहवद्द्रव्यमुदकम् । रूपरसस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्कारवदुदकम् । [तेजसो निरूपणम् ] १) विवादाध्यासिताः परमाणवः परम्परया शरीरारम्भकाः, रूपिपरमाणुत्वात्, पार्थिवपरमाणुवत् । न चापार्थिवपरमाणुत्वादित्यनेन मनःपरमाणुवत्प्रकरणसमत्वम्, सोऽग्नेर्देवयोन्या आहुतिभ्यः सम्बूय हिरण्यशरीर ऊर्ध्वं स्वर्गलोकमेतीत्यागमबाधात् । न च विशिष्टादृष्टाकृष्टत्वमुपाधिः साधनव्यापकत्वात् । उष्णस्पर्शवच्छरीरं तैजसम् । २) रूपोपलब्धिः करणजन्या, कार्यत्वात् । चक्षुः तैजसम्, रूपरसयोर्मध्ये रूपस्यैव व्यञ्जकत्वादालोकवत् । उष्णमिन्द्रियं तैजसम् । ३) विवादाध्यासिताः परमाणवो न पार्थिवाः, अत्यन्ताग्निसंयोगे भस्मानारम्भकत्वात्, जलपरमाणुवत् । विवादाध्यासितं तैजसम्, अशीतत्वे सति अपाकजरूपाधारपरमाणुजन्यद्रव्यत्वात्, सम्प्रतिपन्नाग्निवत् । उष्णस्पर्शवत्तेजः । रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्तेजः ॥ इति च तेजः ॥ [वायोर्निरूपणम् ] १) विवादाध्यासिताः (वायवीयाः) परमाणवः परम्परया शरीरारम्भकाः, स्पर्शवत्परमाणुत्वात्, सम्प्रतिपन्नपरमाणुवत् । अरूपं शरीरं वायवीयम्, मूर्तत्वे सति त्वगिन्द्रियान्यत्वे च सति व्याप्त्या त्वगिन्द्रियसंयोगाधारः शरीरम् । २) स्पर्शोपलब्धिः करणजन्या कार्यत्वाद्रूपोपलब्धिवत् । स्पर्शनंवायवीयम्, रूपस्पर्शयोर्मध्ये स्पर्शस्यैवाभिव्यञ्जकद्रव्यत्वाद्, व्यजनानिलवत् । अरूपावयवीन्द्रियं स्पर्शनम् । पूर्वेष्वत्र च शरीरेन्द्रियव्यतिरिक्तोऽवयवी विषयः इत्यवगन्तव्यम् । ३) वायुरस्मदादिप्रत्यक्षविषयो न भवति, वायुत्वात्परमाणुवायुवत् । न च परमाणुत्वमुपाधिः, वायुद्वयणुकादिषु साध्यस्याननुगमदर्शनात् । वायुरस्मदादिप्रत्यक्षविषयो न भवति, अरूपिद्रव्यत्वादाकाशवत् । न चास्पर्शवद्द्रव्यत्वमुपाधिः, साध्याव्यापकत्वात्तत्रैवाभावात् । न चोद्भूतस्पर्शाभावो महत्त्वे सति प्रयोजकः, वारिस्थिते तेजसि अभावात् । न च तस्यापि प्रत्यक्षत्वम्, उष्णं जलमिति विभ्रमानुपपत्तेः । ४) स्पर्शनं नीरूपद्रव्यग्राहकं न भवति, बाह्येन्द्रित्वाच्चक्षुर्वत् । न च वायुरस्मदादिप्रत्यक्षः, अनुद्भूतरूपानधिकरणत्वे सति उद्भूतस्पर्शाधिकरणत्वाद्घटवदिति साम्प्रतम्, परमाणौ व्यभिचारात् । न च महत्त्वे सतीति विशेषणीयम्, प्रत्यक्षसामग्रीसद्भावस्योपाधेः । सा चानुविचार्यमाणा उद्भूतरूपस्पर्शमहत्त्वान्नातिरिच्यते । तस्यापि साधनेऽपसिद्धन्तः । तथा नास्मदादिबाह्येन्द्रियप्रत्यक्षो वायुः, अस्मदाद्यप्रत्यक्षसंख्याधिकरणत्वान्नभोवत् । अन्यथा तस्यापि बाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गः, उभयोरपि समानसामग्रीग्राह्यत्वादिति । निरूपः स्पर्शवान् वायुः । स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान् वायुः ॥ [आकाशस्य निरूपणम् ] १) विवादाध्यासिता शब्दोपलब्धिः करणजन्या, कार्यत्वाद्रूपोपलब्धिवत् । तच्चेन्द्रियं बाह्यं बाह्यर्थप्रकाशकत्वाच्चक्षुर्वत् । शब्दः क्वचिदाश्रितः, गुणत्वाद्रूपवत् । शब्दाश्रय इतरेभ्यो भिद्यते, शब्दाश्रयत्वाद्व्यतिरेकेण रूपवत् । २) अन्ये तु शब्दोऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृतौ बाधकोपपत्तौ गुणत्वाद्व्यतिरेकेण रूपवदिति ब्रुवते । तदसत्, व्याप्तसिद्धेः । व्यतिरेकस्याभावरूपत्वेन प्रतियोगिसाध्यज्ञानाधीनज्ञानत्वात्, तज्ज्ञानेऽनुमानवैयर्थ्यात् । न च सर्वाविनाभावानामुच्छेदः, यत्र व्यतिरेकस्य भावरूपत्वं तत्रैतद्दोषस्याभावात् । आकाशगतमहत्त्वसपक्षस्यापि संभवान्न केवलव्यतिरेकित्वम् । साध्येऽष्टद्रव्यातिरिक्ताश्रितत्वमात्रप्रयोगे असाधारणत्वम्, रूपत्वादिसामान्यानामपि सपक्षत्वात्तेभ्यो हेतोर्व्यावृत्तेः । ३) विप्रतिपन्नमचाक्षुषम्, अरूपिद्रव्यत्वात्, सर्वगतत्वात्, सर्वदा स्पर्शरहितद्रव्यत्वात्, नित्येन्द्रियत्वात्, आत्मवत्मनोवच्च । आकाशरूपम्, महत्त्वे सति रूपाजनकत्वात्, नित्यमहत्तात्, सर्वदास्पर्शरहितद्रव्यत्वाद्वायुवदात्मवच्च । विप्रतिपन्नं मूर्तमनेन संयुक्तं मुर्तत्वात्सम्प्रतिपन्नवत् । अनेनेति विप्रतिपन्नविषयाभिप्रायेण । ४) आकाशं परिमाणवत्, संयोगित्वाद्घटवत् । न च क्रियावत्त्वमुपाधिः, अनुत्पन्नक्रियस्यापि कस्यचिन्नाशात् । तस्य तदाधारत्वयोग्यतां विहाय न किञ्चिदन्यदसर्वगतत्वादतिरिच्यते, तच्च परिमाणविशेषः । न च स्वात्मनि स्वस्योपाधित्वं, तदतिरिक्तसाध्याकारानभ्युपगमात् । असर्वगतत्वस्य रूपादिष्वपि संभवात्, द्रव्यत्वेन विशेषणे विशेष्यवैयर्थ्यात् । स्पर्शवत्त्वस्य प्रयोजक्त्वे मनसोऽपरिमाणत्वप्रसङ्गः, मनसि च तदभावात् । तच्चाण्विति वक्ष्यामः । आकाशमपरिमितम्, अक्रियत्वाद्रूपवदित्यत्राद्रव्यत्वमुपाधिः । ५) आकाशं संयोगि विभागि च, द्रव्यत्वाद्घटवत् । न च सावयत्वमुपाधिः, तस्य मदुक्तहेतुगर्भितत्वाद्, द्रव्यते सति आरभ्यत्वस्य तत्त्वात् । सर्वगतेन्द्रियमाकाशं तदेव श्रोत्रम् । न चैवं सर्वत्र शब्दोपलम्भः, वक्तृश्रोतृशरीरसन्निधिशब्दोपलब्धिप्रसङ्गः, तस्यापि कर्णशष्कुल्यवच्छिन्नाकाशस्य विद्यमानत्वात् । उपाधिभेदाच्च भेद इत्यनर्थबीजम्, आत्मान्तःकरणादीनामपि तथाभावे विरोधाभावत् । शब्दवदाकाशम् । शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागवत् । [दिक्कालयोर्निरूपणम् ] विवादाध्यासितः संयोगो विशेषगुणरहितेभ्यो द्रव्येभ्यो जन्यते, संयोगत्वाद्, अन्तःकरणरूपद्वयसंयोगवत् । विवादास्पदं विशेषगुणरहितद्रव्यद्वयजन्यम्, कार्यत्वात्, तद्वदेव । न चान्तःकरणद्वयसंयोगत्वमुपाधिः, व्यर्थविशेषणत्वात्तद्वदेव । न चान्तःकरणद्वयगुणत्वमुपाधिः, द्वयगुणत्वेनैवोपपत्तौ विशेषणवैयर्थ्यात् । निरुपाधिकस्य (साध्य)परित्यागे स्वाभावपरित्यागप्रसङ्गात् । न च साध्ये बहुवचनक्षेपणातिप्रसङ्ग इति वाच्यम्, दृष्टान्तासिद्धेः भूषणस्य संख्यानभ्युपगमेन मनोगतत्वस्य दूरापास्तत्वात् । न मनो मनसा संयुज्यते नित्यद्रव्यत्वादिति साधने दृष्टान्तासिद्धिः । अत एव संयोगाभ्युपगमेनास्पर्शवत्त्वाद्द्रव्यानारम्भकत्वमित्याह भाष्यकारः । अन्यथा सजातीयतंयोगाभावमेव हेतुं ब्रूयात्, कारणत्वात्संयोगस्य । तथा च व्योमशिवः ’परकीयेन च मनसा सूक्ष्मशरीरस्थं मनः मर्यायेणाभिसम्बन्धयतिऽ । न चानैकान्तिकत्वम्, अजसंयोगासिद्धेः । न च विमतिपदं विशेषगुणरहितद्रव्याभ्यां न जन्यते, अन्तःकरणसंयोगातिरिक्तत्वाद्व्योमवदिति साम्प्रतम्, अकार्यत्वस्योपाधेः । तयोश्च दिक्कालसज्ञेति । संख्यापरिमाणपृथक्त्वसंयोगविभागयुक्तौ दिक्कालौ, सर्वगतत्वादिति पूर्ववत्साधनीयम् । [आत्मनो निरूपणम् ] विवादाध्यासितोऽहंप्रत्ययोऽहंप्रत्ययव्यतिरिक्ते प्रमा प्रमात्वात्, संप्रतिपन्नवत् । [आत्मैव ज्ञानाधारः] तस्य च को विषय इति चिन्तायां परशरीरपरात्मादिष्वतिप्रसङ्गनिराकरणार्थं यत्र स्वयं समवेतः, स एव तस्य विषय इति वक्तव्यमिति स्थिते न शरीरं तत्समवायि, कार्यत्वाद्घटवत् । न चाशरीरत्वमुपाधिः, मृतशरीरे तदभावेऽपि साध्यसाधनयोरनुगमदर्शनात् । न चाजीवच्छरीरत्वमुपाधिः, सुषुप्तौ जीवच्छरीरेऽपि तदभावात् । अवस्थाविशेषवतः शरीरस्य पक्षत्वान्न दोषः, तथा शरीरत्वात्मृतशरीरवदिति वाच्यम् । विवादाध्यासितः प्राणो न ज्ञानाधारः, कार्यत्वाद्वायुत्वात्, प्राणत्वात्सुषुप्तावस्थप्राणवत् । विवादाध्यासितं बोधाधारजं कार्यत्वात्, चेष्टावत् । न च योग्यानुलब्धिबाधः, प्रयत्नाधारस्येव बोधाधारस्य योग्यत्वेनापि सम्भवात्, गौरत्वादिवद्बोधस्य परप्रत्यक्षासिद्धेः । तद्विशिष्टस्यातीन्द्रियत्वान्मनसः परबोधग्रहणे सामर्थ्याभावात् । शरीरस्य तु योग्यानुपलब्ध्या बाध इति चेत् । किं चातः? तस्यैव बोधाधारत्वात्तदभावे बोधाधारस्यापि अभाव इति चेत् । न, नियमासिद्धेः । व्याप्तत्वान्नैवमिति चेत्, तर्ह्यनुमानेन बाधो वक्यव्यः, तत्र चाश्रयनिरूपणं दुर्घटम् । विवादाध्यासितं बोधाधारजं न भवति, शरीरजन्यत्वादाकाशवदिति प्रागेव व्युदस्तम् । शरीरजन्यत्वोपाधिवादेऽपि मृतशरीरक्रियादिषु व्यभिचारवारणार्थं बोधाधारपूर्वकत्वमभ्युपगन्तव्यम् । तद्व्यतिरिक्तत्वे सतीति विशेषणं चोपादेयम् । तत्रापि सुषुप्तशरीरक्रियादिषु व्यभिचारपरिहाराय जाग्रत इति विशेषणप्राप्ते, अत्राप्युदासीनस्याकस्मिकनिपतितक्रियापरिहारार्थं कुर्वत इति वक्तव्यम् । स्वस्यैव प्रयासाधिक्यमुक्तं स्याद्व्यर्थविशेषणत्वं चोक्तं पूर्वम् । उपाधिरविनाभूतधर्मधर्मत्वेन भवत्येवैतद्दूषणम् । अन्यथानुमानान्तरेष्वपि तन्न स्यात् । निरुपाधिकस्य सम्बन्धस्य व्याप्तित्वेनोपाधिभङ्गे जाते, क्वचित्सम्बन्धे च दृष्टे, अन्यत्र केवलस्य हेतोर्दर्शनमपि न दोषमावहतीत्यवोचमित्यलम् । [प्रभाकरमतनिरासः ] अन्ये तु सर्वार्थवित्तिषु ग्राहकत्वेन आत्मसिद्धिरिति ब्रुवते । तदसत्, आत्मनोऽपि चाक्षुषत्वप्रसङ्गात्, तज्जनितज्ञाने भासमानत्वस्यैव तत्त्वात् । यदि च नीरूपद्रव्यस्यापि चाक्षुषत्वम्, तदा नभसोऽपि तथात्वप्रसङ्गात् । न चात्मा चाक्षुषज्ञाने प्रकाशते नीरूपद्रव्यत्वाद्गगनवत् । विवादाध्यासितं ज्ञानमात्मप्रतिभासम्, ज्ञानत्वादहमितिसम्प्रतिपन्नवदिति चेत्, न, कालात्ययापदेशात् । तथा हि अस्ति तावत्सौगततच्छिष्याणामनात्मवासनातो विषयेभ्यो निवृतिः, अनात्मवासनातश्च प्रवृतिरिति । न च ते प्रमाणमूले एवेति नियमः, रज्जुसर्पविवेकाग्रहणाद्वा विभ्रमाद्वा शुक्तिरजतविवेकाग्रहणाद्वा विभ्रमाद्वानयोरनुदयप्रसङ्गात् । न च ते न निवृत्ती, नापि प्रवृत्ती वा । न चाज्ञानुपूर्विका निवृत्तिः प्रवृत्तिर्वा स्वस्थस्य संभवति । न चात्मज्ञाने तेषां तदुपपद्यते, तथानभ्यासदशायां कोऽहमित्य(ध्यवसायानुपपत्तिर्निश्चीयते), अनध्यवसायेऽतिप्रसङ्गात् । किं च कः पुनस्तत्प्रतिभासे सम्बन्धार्थः? कर्मत्वम्, तदतिरिक्तं वा? प्रथमेऽपसिद्धन्तः, द्वितीये दृष्टान्तासिद्धिः* । [* एः एद्न्] विषयत्वं च प्रथमान्नातिरिच्यते । ग्राहकगृहीतिभावे तु सिद्धसाधनम् । अतोऽतिरिक्तस्यानुगतसम्बन्धमात्रस्यासिद्धिः । किं च योगिनां वियुक्तावस्थायां परमाणुरूपादिविषयचाक्षुषज्ञानस्य पक्षीकारे भवतामाश्रयैकदेशासिद्धः, अन्यथास्माकमनैकान्तः । न च मानसप्रत्यक्षत्वे तत्सामग्रयाः सर्वदा सन्निहितत्वात्सुषुप्तावस्थायामप्यात्मज्ञानप्रसङ्गः, अहं शरीरमितिविवेकाग्रहणादिषु अहंज्ञानोत्पत्तौ बाह्येन्द्रियव्यतिरिक्तकारकग्रामस्यैव त्वयापि वक्तव्यत्वात्तद्बलेनैव सर्वस्योपपत्तेः, तथाविधकर्मवैकल्याद्वा । तस्मान्न सर्ववित्तिष्वात्मनः* प्रतिभासः । [* सर्वविदिष्वा] [आत्मनो ज्ञानरूपत्वनिरासः] स च ज्ञानाश्रयो न तु विज्ञानात्मकः, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते (बृह ४.३.२३) इति श्रुतौ द्रष्टृदृष्ट्योः सम्बन्धप्रतीतेः । न चाम्नायप्रतीतो भ्रान्तो भवितुमर्हति, अविशेषात् । न च सिद्धार्थे वाचकाभावः, अपसिद्धान्तात् । न चातत्परत्वम्, तस्यान्यतोऽसिद्धत्वेन विशिष्टपरत्वात् । न च राहोः शिर इतिवदुपचरितत्वम्, मुख्ये बाधकाभावात् । न चाद्वैतश्रुतिर्बाधिका, विपर्यये प्रत्युत तस्य भेदग्राहकत्वात् । न च तत्र तस्य सामर्थ्यं नास्तीति वाच्यम्, सामर्थ्ये सति विरोधाभावात् । न च सम्बन्धाभावे ग्रहणासम्भवः, अदोषत्वात् । न चातिप्रसङ्गः, अनुपलब्धेर्नियामकत्वात् । प्रतियोगितत्प्रयुक्तव्यतिरिक्तसामग्रीसान्निध्ये सति प्रतियोगिज्ञाने च सति नियामकत्वात् । अथवा करणसम्बन्धस्यैव नियामकत्वात् । तथा हि घटसंयुक्तेन चक्षुषा जनितं ज्ञानं घटमेवावगाहते नार्थान्तरम्, असम्बद्धत्वात् । किञ्चास्ति तावदियं प्रसिद्धिः,ऽअत एव व्यवहरामःऽ इतिवचनात् । तस्याश्च कारणाभावे सति नित्यत्वं स्यात् । न चैवमप्रत्यक्षत्वं भेदस्य, सम्यगपरोक्षानुभवविषयस्यैव सत्त्वात् । नित्यत्वे च त्रयाणां सिद्धेः । न चापसिद्धान्तः, अस्माकमपि नित्यप्रतीतिसिद्धेः । न च भेदानवस्था बाधिका, भेदान्तरप्रसक्तौ मूलाभावात् । भेदभेदिनौ भिन्नाविति लोकव्यवहारदर्शनात् । न चैकभेदबलेनान्यभेदानुमानम्, दृष्टान्तभेदाविघातेनोत्थाने दोषाभावात् । सोऽयं पिण्याकयाचनार्थं गतस्यापि शाकादिनः खारिकातैलदातृत्वाभ्युपगम इव । दृष्टान्तभेदविघाते त्वनुमानानुत्थानमेव, उपजीव्यस्य प्रबलत्वेन तेनैव बाधात् । स्वात्मव्यातकत्वेन जातित्वात् । एतेनादृश्यत्वादयो निरस्ताः । न चानिर्वचनीयत्वं भेदस्य, तत्र प्रमाणाभावात् । ख्यातिबाधान्यथानुपपत्तिः प्रमाणमिति चेत्, अन्यथाप्युपपत्तौ विरोधभावात् । असतो भासमानायोगात्, बाधायोगात्सतः, अत्र चोभयं दृश्यते इति चेत्, न; प्रथमेऽसत्पदस्य बोधकत्वे भासमानायोगादित्यनेन व्याघातः । अन्यथापार्थकत्वम्, प्रयुक्तपदार्थानां सम्भूयकारित्वनियमात् । द्वितीये सत इति कोऽर्थः? किं सत्तायुक्तस्य, आहोस्विदबाधितस्य, ब्रह्मास्वरूपस्य वा? प्रथमे सत्तायुक्तस्याबाधितत्वेन व्याप्तिः कुत्रः दृष्टा? प्रपञ्चस्य बाध्यत्वाद्, ब्रह्मणो निर्धमकत्वेन सत्ताभावात् । द्वितीये साध्याविशिष्टता । तृतीये सिद्धसाधनता । तस्मान्नानिर्वचनीयत्वमपि । [अखण्डार्थत्वखण्डनम्] एतेन यदाहुरेकदण्डिनः सत्यादिपदमखण्डपरम्, लक्षणवाक्यत्वाद्, गन्धवती पृथिवीतिवत्, घटः कलश इतिवद्वा । तदपि निरस्तम्, अखण्डपरनित्यन्यूनानतिरिक्तार्थमित्यर्थो यत इति । न चार्द्वतपक्षे सत्यज्ञानानन्दादिशब्दानां सहप्रयोगो घटते, पर्यायत्वात् । अपर्यायत्वेऽद्वैतहानिः । न च ’प्रकृष्टः प्रकाशः सविताऽ इतिवत्शब्दद्वयेनापि एक एवार्थः प्रतिपाद्यते इति युक्तम्, दृष्टान्तासिद्धेः । प्रकृष्टशब्दस्येतरेतराभावादिनिमित्तसव्यपेक्षतया प्रवृत्तेः, प्रकाशशब्दस्य प्रकाशत्वबलात्, अन्यथा तत्रापि पर्यनुयोगस्य तुल्यत्वात् । किं च लोके यथा प्रकृष्टप्रकाशशब्दयोः परस्परव्यतिरेकेण प्रयोगः प्रकृष्टः पुमान्, प्रदीपः प्रकाश इति । द्वयोश्चैकत्र मयूखमालिनि प्रयुक्तयोस्तु अर्थविशेषबोधकत्वम् । न चैवं ज्ञानानन्दशब्दयोरस्ति, लौकिकज्ञानानन्दस्यापि ब्रह्मरूपत्वात् । भेदेन व्युत्पत्तौ भग्नोऽद्वैतवादः । तस्मादानन्दशब्दो दुःखभावमात्रे प्रयुक्तः, मुख्ये बाधकसम्भवात्ऽअशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छा उ ८.१२.१) इति वचनात् । न चास्य सांसारिकसुखनिषेधपरत्वम्, सुखद्वयस्याभावात् । लोकेऽपि मात्रया परमानन्दप्रतीतिरित्यभ्युपगमात् । न चात्रावच्छिन्नसुखनिषेधार्थम्, तत्राप्यवच्छेदस्यैव निषेधो न सुखस्य । न च सामान्यशब्दस्य संकोचे प्रमाणमस्ति । न चानन्दश्रुतिः प्रमाणम्, तस्या उपचरितार्थत्वात् । न च विपर्ययः, आनन्दस्य सर्वदाअदर्शनेनानित्यत्वप्राप्तौ मोक्षत्वव्याघातात् । योगर्द्धिसमासादितचिरकालोपभोगयोग्यसुखविशेषपरत्वेनाप्युपपत्तेः । अनन्तत्वादिश्रुतिस्तु आपेक्षिकसुखाद्यपेक्षया बहुकालत्वेन व्याख्येया,ऽअमृता देवाऽ इतिवत् । न च प्रवृत्त्यनुपपत्तिः, नित्यत्वे सुतरामनुपपत्तेः । न हि सिद्धस्य सम्पादनाय कश्चिद्यततेऽत्र । अवच्छेदनिवृत्त्यर्थमिति चेत्, तर्हि प्राप्ताप्राप्तविवेकिनोऽत्रावच्छेदनिवृत्तिरेव कृत्युद्देश्या, अन्यस्य विद्यमानस्याप्यतन्त्रत्वात् । न चैकनित्यसुखवादे कारणोपादानं घटते, तद्विशेषे तु कैव कथा? न चैकस्यैवातिशयानतिशयौ शङ्कार्हौ, एकत्वव्याघातात् । अवच्छेदनिवृत्त्यर्थं कारणविशेषोपादानमिति वक्तव्यम्, तत्र च दुःखाभावस्य सुखत्वेनानुभवस्य निरतिशयत्वात्, तदनुपपत्तिरिति योऽयं दोष उक्तः, स समानः । तस्माद्दुःखाभावातिरिक्तसुखसाधनपर्यालोचनया जन्यमनित्यमनेकं चाभ्युपेयम् । न च तथाविधस्य मुक्तौ कथासम्भव इति । ज्ञानशब्दश्च ज्ञायतेऽस्मिन्नित्यधिकरणवाचकः । आनन्त्यं पुनरूभयान्ताभाव एव, तत्रैव लोकव्युत्पत्तेः । एकमिति च द्वैरूप्यनिराकरणपरम्, एकत्वसंख्यां वाचष्टे, लोके तत्रैव व्युत्पत्तेः, लोकावगतशक्तेश्च वेदे बोधकत्वात् । तस्माज्ज्ञानाश्रय आत्मेति सिद्धम् । [आत्मनो नानात्वम्] विवादाध्यासितं मया सम्बद्धं मूर्तत्वात्, मच्छरीरवद् इति नित्यत्वानादित्वसर्वगतत्वसिद्धिः । तस्य चानेकत्वम्, व्यवस्थान्यथानुपपत्तेः । अनिर्वचनीयत्वे निराकृते जीवभेदेऽविप्रतिपत्तेश्च । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । (मु ३.१.१) इति श्रुतेः । अस्या अर्थः द्वौ सुपर्णौ आत्मानौ सयुजौ = सहवर्तमानौ सखायौ = एककार्यकारित्वेन, समानं वृक्षम् = एकं शरीरं परिषस्वजाते = आलिङ्गितवन्तौ । तयोरात्मनोर्मध्ये एको = भोक्ता पिप्पलं स्वादु अत्ति = सुखविशेषं भुङ्क्ते । अनश्ननन्यः = अभोक्ता ईश्वरः अभिचाकशीति = सर्वतोऽत्यर्थं प्रकाशते इति विस्पष्टो जीवब्रह्मणोर्भेदः । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः । (श्वेता ४.५) इतिवत् । न च श्रुतिप्रतीतोऽन्यथा भवितुमर्हति । कथं तर्हि ’नेह नानास्ति किंचनऽ (बृह ४.४.१९) इति, ’मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यतिऽ (कठ ४.१०) इति च, (लिङ्गात्) नानात्वदर्शने तद्भावोपचारात् । न च सति प्रयोजने निमित्ते चोपचारः प्रवर्तते, न चात्र प्रयोजनमस्तीति वाच्यम्, नियमासिद्धेः । अज्ञातमुख्येषु यववराहादिषु गौणशब्दप्रयोगेषु तदभावात् । सत्ताबोधकलाक्षणिकगोशब्दे च, यथा गौर्वाहीकः । यथाहुर्वार्तिककाराः बहुजातिगुणद्रव्यकर्मभेदावलम्बिनः । प्रत्ययान् सहसाजातान् श्रौतलाक्षणिकात्मकान् ॥ न लोकः कारणाभावान्निर्धारयितुमिच्छति । बलाबलादिसिध्यर्थं वाक्यज्ञास्तु विविञ्चते ॥ (श्लो वा??) अस्मदादिगौणप्रतीतेर्हि चिन्ता । वृद्धव्यवहारागतेषु गौणप्रयोगेषु कोऽयमाग्रहः, यथा सर्षपरसे तैलशब्दः? मुख्येषु बाधकाभावात्कथमुपचार इति नाशङ्कनीयम्, प्रत्यक्षेण श्रुत्या च भेदप्रतीतेः । आत्मा द्रव्यत्वव्यतिरिक्तापरजात्याधारभेदेन नाना, अश्रावणविशेषगुणाधिकरणत्वात्, पृथिव्यादिवत् । तत्र न मूर्तत्वमुपाधिः, रूपादौ तदभावेऽपि साध्यानुगमदर्शनात् । मकरन्दस्तु विवादपदानि शरीराणि, एकेनात्मनात्मवन्ति, शरीरत्वात्, मच्छरीरवदिति । तस्य नित्यत्वम् । विशेषगुणा द्रव्यत्वेन साधनीयाः । तस्य गुणाः बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मभावनासंख्यापरिमाणपृथक्त्वसंयोगविभागाः । प्रयत्नाश्रय आत्मा । [मनसो निरूपणम्] विवादपदमिन्द्रियजज्ञानविषयः, वस्तुत्वाद्घटवत् । विवादाध्यासितो मूर्तसंयोगासमवायिकारणकविशेषगुणाधारः, नित्यत्वे सति अनित्यविशेषणगुणवत्त्वात्, पार्थिवपरमाणुवत् । न च तत्त्वमुपाधिः, त्वन्मते घटस्याप्यग्निसंयोगजविशेषगुणाधारत्वात् । न च पार्थिवत्वमुपाधिः, त्वन्मते घटस्याप्यग्निसंयोगजविशेषगुणाधारत्वात् । न च पार्थिवत्वमुपाधिः, अपक्वनष्टघटे व्यभिचारात् । न चास्माकमाद्यमुपाधिः, नभसि तदभावेऽपि साध्यानुगमदर्शनात् । मनः परमाणु, परविशेषगुणासमवायिकारणाश्रयत्वे सति नित्यत्वात्, तैजसपरमाणुवदिति केचित् । तन्न, स्पर्शवत्त्वे सति नित्यत्वोपाधेः । अणुत्वमात्रसाधने स्पर्शवदमहत्त्वमुपाधिः । मूर्तत्वमात्रसाधने च नित्यपदवैयर्थ्यम् । तद्व्यतिरिक्त्तस्य हेतुत्वे काशिकाकृतो मते स्पर्शवत्त्वमुपाधिः । तमोद्रव्यत्वपक्षे स्पर्शवत्त्वस्य तमस्येव साध्यव्यापकत्वे द्रव्यसमवायिद्रव्यत्वमुपाधिः । एतेन मनो मूर्तं विभुसंयोगित्वाद्घटवदित्यपि निरस्तम्, उक्तोपाधिकत्वात् । सुखादयो मूर्तसंयोगासमवायिकारणकाः, अनित्यत्वे सति नित्यविशेषगुणत्वात्, पार्थिवपरमाणुरूपदिवदिति विभागजशब्दजशब्देनानैकान्तादसाधनम् । अशब्दत्वे सतीति विशेषणे परस्यैव वैयर्थ्यम् । मूर्तं मनः श्रोत्रव्यतिरिक्तेन्द्रियत्वादित्यपि निरस्तम्, पूर्वोक्तोपाधेः । अविभुत्वे च स्पर्शवत्त्वं साधनावच्छिन्नसाध्यव्यापक उपाधिः । एतेनाविभु नित्यद्रव्यत्वादित्यनेनामहत्त्वसाधने साध्यव्यापकत्वात्स्पर्शवत्त्वं नोपाधिरिति श्रीवल्लभोक्तं निरस्तम् । न च मनो विभु, १ सर्वदा स्पर्शरहितद्रव्यत्वात्(न्या कु ३.१), २ सदा विशेषगुणरहितद्रव्यत्वात्, ३ निरवयवेन्द्रियत्वात्, ४ द्रव्यानारम्भकनित्यद्रव्यत्वात्, ५ नित्येन्द्रियत्वात्, ६ विज्ञानसमवायिकारणसंयोगाधारेन्द्रियत्वात्, ७ सर्वदा स्पर्शरहितद्रव्यत्वात्, ८ नित्यगुणग्राहकेन्द्रियत्वात्, ९ अभूतत्वे सत्यरूपित्वात्, कालवद्, आत्मवद्, आकाशवदिति सत्प्रतिपक्षदूषणे कथं स्वपक्षसिद्धिरिति वाच्यम्, मनसः सर्वगतत्वाभ्युपगमे आकाशकालातिरिक्तस्य साधयितुमशक्यत्वेन धर्मिग्राहकप्रमाणबाधाश्रयासिद्धयोरन्यतराक्रान्तत्वादिति स्पष्टतरमस्मन्न्यायलक्ष्मीविलासे । प्रथमस्य तमोद्रव्यत्ववादिनस्तत्रैवानैकान्तिकत्वम्, सर्वदेत्यस्य च व्यर्थत्वात् । एतेन द्वितीयतृतीये दूषिते, सप्तमेऽपिवैयर्थ्यम्, नवमेऽपि अरूपिपदस्य परं प्रति वैयर्थ्यम्, तमसोऽभावत्वात् । किं बहुना द्रव्यत्वावान्तरजात्यैन्द्रियासजातीयद्रव्यत्वमुपाधिः । १ स्पर्शरहितत्वे सति अणु मनः, २ विज्ञानासमवायिकारणसंयोगाधारत्वे सति मूर्त्तं वा, ३ सुखग्राहकेन्द्रियं वा, ४ अण्विन्द्रियं वा, ५ ज्ञानजनकसंयोगाश्रयं जडं मनः, ६ ज्ञानासमवायिसंयोगाश्रयमिन्द्रियं वा । तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः । एषां मूर्तत्वद्रव्यत्वाभ्यां सिद्धिः । १ समवायिकारणं द्रव्यम्, २ गुणवद्द्रव्यम् । [१० तमस आलोकाभावमात्रत्वनिरूपणम्] १) तमो नाम द्रव्यन्तरमस्ति । तदपि निरूपणीयमिति चेत्, न, प्रमाणासिद्धेः । नीलं तम इति प्रतीतिः प्रमाणमिति चेत्, नीलबुद्ध्यसिद्धेः । उक्तं च शालिकनाथेनापि अप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम्ऽ (प्र पं ३२१) इति । कथं तर्हि पदप्रयोगः? सिताभाववदुपचारात् । असितं नीलमिति लौकिकः प्रयोगः । मुख्ये बाधकाभावादिति चेत्, आलोकनिरपेक्षचक्षुषो रूपप्रत्ययजनकत्वासिद्धेः । कारणाभावे कार्यं जायते इति दुर्घटमेतत् । अन्यथा नीलघटस्यापि ग्रहणप्रसङ्गः । कथं तर्हि छायायां कृष्णसर्पभ्रम इति चेत्, दोषवशात् । पूर्वदृष्टकृष्णसर्पाध्यारोपको दोष इति । किमत्र सादृश्यमिति चेत्, सिताभावत्वम् । न चैवमतिप्रसङ्गः, सादृश्यमात्रस्यैव भ्रान्तिज्ञानसामग्रीत्वासिद्धेः । उपयुज्यन्ते हि विशेषादर्शनादयोऽपि आलोकाभावसहकारिणो धर्मादयोऽपि, वक्रदीर्घावयवीन्द्रियसंयोगादयश्च दोषाः । २) मानसमेव वा स्वप्नविभ्रमादीति केचित् । न चैवमतिप्रसङ्गः, चाक्षुषलोकाभावे करितुरगादिस्मरणविशेषस्यापि तत्र हेतुत्वाभ्युपगमान्नातिप्रसङ्गः । एतेन संख्याक्रियादिप्रतीतिरपि निरस्ता, तत्रैव विप्रतिपत्तेः, शब्दप्रयोगस्योपचारेणाप्युपपत्तेः, लौकिकव्यवहारस्य च सम्युग्धत्वात् । ३) एकदेशिनः पुनर्नीलप्रतीतिमभ्युपगम्य भ्रान्तत्वमाचक्षते । यथाहुः अञ्जनपुञ्ज इव शार्वरं तम इति भ्रान्तिप्रकरणे तत्र प्रतिभासिकबाधानुपपत्तेः । अनेनापहृतविषयत्वेनानुत्थानाद्बाधकनिरूपणं दुर्घटमिति पश्यामः । ४) शब्देन विना प्रतीतिसाधनं च । तमः शब्दस्य तर्हि कोऽर्थ इति चेत्, उभयवादिप्रतिपन्न आलोकसंसर्गाभावः । आलोकविशेषे सत्यपि आलोकान्तराभावस्यापि सम्भवात्प्रयोगप्रसङ्ग इति चेत्, तत्र किमालोकाभावप्रयोगोऽस्ति, न वा? अस्ति चेत्, तमःशब्दप्रयोगोऽप्यस्तु, का नो हानिः? पर्यायशब्दत्वात् । अथ यथा ज्वालाया आशुतरविनाशित्वेन मध्ये विनाशे विद्यमानेऽपि तत्सदृशज्वालोत्पत्त्या तिरोहितत्वान्न नाशव्यवहारः, तदालोके सत्यालोकान्तराभावस्य तिरोधानान्न तदभावव्यवहार इति । लौकिकप्रतीतिस्तु भ्रमत्वेनोच्यते । तत्तुल्यं ते तर्ककर्कशमतेरप्युक्तपरिहारश्चक्षुरालोकासहकृतं रूपिग्राहकं द्रव्यग्राहकेन्द्रियत्वात्त्वग्वदिति वादिनः कालग्राहकघ्राणेनानैकान्तिकं व्यर्थविशेषणता च । चक्षुरालोकनिरपेक्षं द्रव्यं गृह्णाति, इन्द्रियत्वादिति साधने घ्राणेन प्रतिवादिनानैकान्तिकता विवक्षितासाधकत्वं च । न हि तव तथाविधं तम एवेति लक्षणं कालादेरपि आलोकनिरपेक्षेन्द्रियग्राह्यत्वात् । ५) आलोकभावस्योभयवादिसम्प्रतिपन्नत्वात्तमःशब्दवाच्यत्वे नास्ति विप्रतिपत्तिर्नात्र प्रकरणं वाच्यम् । विवादाध्यासितः आलोकभावः तमःशब्दवाच्यः, इतरेतराभावव्यतिरिक्तालोकाभावत्वात् । यदित्थं न भवति, तदित्थमपि न भवति, यथालोक एव । अन्ये तु तम आलोकाभावः, आलोकानपेक्षचक्षुषि सत्येवासति च लिङ्गादौ गृह्यमाणत्वात्, सम्प्रतिपन्नालोकाभाववदिति ब्रुवते । तत्र कौ पक्षसपक्षौ? भिन्नाभिन्नाविति चिन्तनीयमिति । योगिमानसग्राह्यत्वाच्चावधारणासम्भवेन हेत्वसिद्धिश्च । तस्मादेवं प्रयोगक्रमः तमःपदमालोकाभाववाचकम्, आलोकानपेक्षचक्षुर्ग्राह्यवाचकत्वाद्, आलोकाभावपदवत् । निरूपितो द्रव्यपदार्थ एष, नवप्रकारो मुदमातनोतु । नवात्मकस्य त्रिदशाधिपस्य, त्रिलोकपूज्यत्रिपुरान्तकस्य ॥ इति श्रीमानमनोहरे द्रव्यपदार्थः ॥ _______________________________________________ [गुणप्रकरणम्] [१४ रूपरसगन्धस्पर्शाणां निरूपणम्] १) प्रत्यक्षं रूपे प्रमाणम् । विवादपदं घटोत्पत्त्यनन्तरकाले जायते, घटगुणत्वात्, सम्प्रतिपन्नघटसंयोगवत् । न च सामान्यगुणत्वमुपाधिः, तद्गतपरिमाणादीनामपि पश्चादुत्पत्तिप्रसङ्गात् । २) विवादपदं कार्यं पार्थिवविशेषगुणत्वाद्घटरूपवत् । न च कार्यगतत्वमुपाधिः, परमाणुसंयोगसंस्काराद्यव्यापनात् । ३) विवादपदं कार्यं संख्यापरिमाणपृथक्त्वगुरुत्वसंस्कारव्यतिरिक्तत्वे सति पार्थिवगुणत्वात्पार्थिवपरमाणुसंयोगवत् । ४) विवादपदमग्निसंयोगजविशेषगुणवद्, अनित्यविशेषगुणत्वे सति नित्यत्वादात्मवत् । ५) विवादपदमवयव्याश्रयकाले न रूपजनकमाश्रयत्वाज्जलाणुवत् । ६) विवादपदमाश्रयनाशनाश्यमानकार्यव्यतिरिक्तगुणाश्रयः, गुणवत्त्वात्समवायिकारणत्वादात्मवत् । ७) रूपत्वमनाश्रितेऽपि समवेतम्, रूपजातित्वात्सत्तावत् । ८) विवादाश्रयोऽनेकरूपाधिकरणं न भवति, अवयवित्वात्, शुक्लतन्तुवत् । विवादपदं न नीलत्वाधिकरणम्, पीतारब्धत्वात्, विवादपदं न पीतत्वाधिकरणम्, नीलारब्धत्वात्पीतवन्नीलवच्च । ९) विवादपदं पीतत्वाधिकरणम्, पीतारब्धत्वात्, पीतवदिति चेत्न, विरुद्धजातिसमावेशेन बाधितत्वात्, अन्यथा विवादपदं गोत्वाधिकरणम्, पार्थिवादित्यापि स्यात् । रूपत्वावान्तरपीतत्वव्यतिरिक्तजात्यनाश्रयरूपत्वं चोपाधिः । एतेन शुक्लं रूपमेकमेवेति निरस्तम्, तरतमभावस्यापि दृष्टेः । १०) नित्यत्वे सत्यनेकार्थे वर्तमानत्वात्सामान्यमित्युक्तं स्यात्, तस्य च यावद्द्रव्यभावित्वात् । पाकजेषु रक्तप्रत्ययो दुर्घटः । तदनेकप्रकारम् । गुणत्वे सति चक्षुःस्पर्शनयोर्मध्ये चक्षुषैव ग्रहणार्हं रूपम् । एतेन रसगन्धस्पर्शा अपि निरूपिताः । चित्रा अपि तेऽवगन्तव्याः । ११) गुणत्वे सति रसनग्राह्यो रसः । १२) गुणत्वे सति घ्राणग्राह्यो गन्धः । पृथिवी स्पर्शवती रूपित्वात्, तेजोवत् । विवादपदं स्पर्शवद्, द्रव्यारम्भकत्वात्, तेजोवत् । चक्षुःस्पर्शनयोर्मध्ये स्पर्शनेनैव ग्राह्यो गुणः स्पर्शः । [५६ संख्यापृथक्त्वयोर्निरूपणम्] (ई. एकत्वैकपृथक्त्वयोः सिद्धिः) १) स्पर्शवद्गुणासमवायिकारणाद्विष्ठगुणयोराश्रयः, द्रव्यत्वाद्मूर्तत्वात्, पटारम्भकतन्तुवत् । न च स्पर्शवत्त्वमुपाधिः, स्पर्शवतां घटादीनामपि तथाविधगुणद्वयाश्रयत्वप्रसङ्गात् । न च द्रव्यासमवायिकारणत्वमुपाधिः, विशेषणवैयर्थ्यात् । निरूपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् । तत्राकाशादिषु यौ गुणौ, तयोरेकमेकत्वं, अपरमेकपृथक्त्वम् । अन्यत्रापि तौ पूर्वोक्तहेतोरेव साध्यौ । २) विप्रतिपन्नः संयोगः स्वतोऽधिकवृत्तिकार्यैकार्थसमवेतत्वार्हः, संयोगत्वात्, त्रितन्तुकारम्भकसंयोगवत् । ३) परमाणवः संयोगाधिकवृत्तिकार्यसमवायिकारणम्, अणुत्वाद्, द्व्यणुकवत् । ४) विप्रतिपन्नोऽवयवी कारणत्वार्हेण सह तुल्याश्रयः, अवयवित्वाद्, द्व्यणुकवद्द्वितन्तुकवच्च । रूपादीनामेकाश्रयवृत्तित्वात्, संयोगस्य द्विष्ठत्वात् । त्रिचतुरारब्धत्वान्न सिद्धसाधनता । अनेनैव यथा परिमाणसिद्धिरपि । (ईई. अनेकत्वानेकपृथक्त्वयोः सिद्धिः) १) विवादाध्यासितो बुद्धिजगुणयोराश्रयः, द्रव्यत्वात्समवायिकारणत्वाद्, आत्मवत् । न चात्मत्वमुपाधिः, ईश्वरे व्यभिचारात् । अत्रैकमनेकत्वसंख्या, अपरमनेकपृथक्त्वमिति । २) तदेवं सिद्धयोः संख्यापृथक्त्वयोर्व्यवहारेणापि सिद्धिः । अस्ति च तावदेकं द्वे त्रीणि इत्यादिव्यवहारः । न चासौ निर्निबन्धनः, पदत्वव्याघातप्रसङ्गात् । न चाभेद एकत्वं भेदसमुच्चयः पुनरनेकत्वमिति युक्तम् । अभेदः किं पटस्तदतिरिक्तो वा? आद्ये (एकः पट इति) सहप्रयोगानुपपत्तिः, पर्यायत्वात् । द्वितीये संप्रतिपत्तिधर्मपदार्थोऽसाविति चेत्, किमत्र प्रमाणम्? गुणादावभेदव्यवहार इति चेन्न, व्यवहारमात्रादर्थासिद्धेः, तस्य गौणस्यापि बहुशो दर्शनात् । मुख्ये बाधकाभावात्, कथं गौणत्वमिति चेत्, न; साधकस्याप्यभावात् । उत्पत्तिकारणाभावस्य विस्पष्टत्वात् । समवाय्यसमवायिकारणयोरभावात्, निमित्तकारणमात्रादेवोत्पत्तिस्तु तत्सिद्धौ सत्यां कल्पनीया, अप्रतीतेस्तदसिद्धेः । ३) यद्यप्यपेक्षाबुद्धिवैजात्यसमवायाद्द्वित्वत्रित्वदिव्यवहाराणामपि भेदसमुच्चयो न संकरमापादयति, तथाप्यननुसंहितवैजात्यादीनां बालगोपालादीनां द्वाविति व्यवहारोऽयं न तन्निबन्धनः द्व्यणुकपरिमाणं द्वित्वसंख्यया विना न घटते । नित्यपरमाणुपरिमाणाभ्यां परमाणुपरिमाणस्यानारम्भात्, प्रचयस्य चानाशङ्कनीयत्वात् । कारणपरिमाणत्वस्य न साधकतेति वाच्यम्, अत्रावान्तरातिशयवत्त्वस्योपाधेः, प्रचयजन्येऽपि परिमाणे तस्यानारम्भकत्वाच्च । तथापेक्षाबुद्ध्यापि जन्यते, इदमेकमिदमेकमिति ज्ञानान्वयव्यतिरेकानुविधायित्वात् । न च व्यञ्जकत्वेनोपपत्तिः, समानेन्द्रियग्राह्यसमानदेशावस्थितानां युगपदिन्द्रियसम्बद्धानामिन्द्रियसम्बन्धव्यतिरेकेण नियतव्यञ्जकव्यङ्ग्यत्वादर्शनात् । अतः संयोगसमानता द्वित्वस्येति । ४) एके द्वित्वं बुद्धिजं नियमेनैकप्रतिपत्तृवेद्यत्वादित्याहुः । तेषां ज्ञानप्रागभावेन व्यभिचारः गुणत्वे सतीति विशेषणे ईश्वरेच्छायाम्, कार्यत्वे सतीति विशेषणे जागरादिज्ञाने । अन्वयव्यतिरेकाभ्यां चापेक्षाबुद्ध्यभावे द्वित्वाभावोपलम्भात्तद्विनाशस्य द्वित्वविनाशहेतुत्वम् । अनुमानक्रमस्तु द्वित्वं निमित्तकारणनाशनाश्यव्यक्तिसमवेतम्, तज्जातित्वात्सत्तावत् । सत्तादिनिमित्तकारणीभूतदेहनाशनाश्यमाने युञ्जानस्यान्त्यसुखज्ञाने समवेतम् । एवं सर्वं पृथक्त्वे वक्तव्यमिति । [७ परिमाणस्य निरूपणम्] १) विवादाध्यासितं द्विष्ठगुणानसमवायिकारणानित्यविशेषणगुणव्यतिरिक्ताद्विष्ठगुणाश्रयः, द्रव्यत्वाज्जलपरमाणुवत् । न च स्पर्शवत्त्वमूर्तत्वे उपाधी, पवनपार्थिवपरमाणौ व्यभिचारात् । ईश्वरो नित्यविशेषगुणव्यतिरिक्तानसमवायिकारणाद्विष्ठगुणाश्रयः, आत्मत्वाज्जीववत् । नित्यैकत्वैकपृथक्त्वपरिमाणसाधनविवक्षायामनसमवायिकारणमिति न वाच्यम् । अद्विष्ठ इति द्विष्ठगुणत्वावान्तरजातिरहित इति बोद्धव्यम्, अन्यथा एकत्वेन सिद्धसाधनता । २) तथा व्यवहारेणापि साधनीयम् अस्ति तावदयं महान्, अयं महानिति व्यवहारः । न चात्र महत्त्वसामान्यमेव निमित्तम्, तरतमभावस्यानुपपत्तिप्रसङ्गात् । अन्यथा मधुररसस्याप्युच्छेदप्रसङ्गात्, मधुरत्वसामान्यादेव द्रव्याश्रिताद्व्यवहारोपपत्तेः । ३) प्रचयसंख्यापरिमाणानामन्वयव्यतिरेकाभ्यां तदुत्पत्तौ कारणत्वम् । विवादाध्यासितोऽणुपरिमाणव्यतिरिक्तपरिमाणाश्रयः, द्रव्यत्वात् । विवादाध्यासितो महत्परिमाणव्यतिरिक्तपरिमाणाश्रयः, द्रव्यत्वाद्घटवत्परमाणुवच्च । न चात्राणुत्वमहत्त्वे उपाधी, रूपादिषु व्यभिचारात् । द्रव्यत्वेन विशेषणे वैयर्थ्यम् । ह्रस्वदीर्घव्यवहारयोरन्यथानुपपत्तिश्च प्रमाणम् । आश्रयनाशान्नाश इत्यत्र प्राचीनमनुमानं वाच्यम् । ४) द्वित्वासमवायिकारणकवृत्तिगुणत्वावान्तरजातीयं परिमाणम् । [८ संयोगस्य निरूपणम्] १) विवादपदमसमवायिकारणजन्यं कार्यत्वाद्रूपवत् । न च प्रध्वंसे व्यभिचारः, प्रागभावप्रतियोगित्वस्य भावत्वे सतीति विशेषितस्य तत्रासिद्धेः । न चात्रोपाधिशङ्काप्यधिरोहति, विस्पष्टश्च घटौ संयुक्ताविति प्रत्ययः । निराकृतश्च क्षणभङ्ग इति नाविरलदेशे उत्पादस्तन्निमित्तत्वेनाशङ्कनीयः । कर्मसंयोगयोः तज्जनकत्वं प्रत्यक्षसिद्धमेव । २) आकाश आत्मना संयुज्यते, द्रव्यत्वादिति केचित् । तन्न, क्रियावत्त्वमूर्तत्वयोः परत्वापरत्वयोर्वोपाधित्वात् । आत्मा आकाशेन न संयुज्यते, अमूर्तत्वाद्रूपवत् । न चात्राद्रव्यत्वमुपाधिः, आकाशे तदभावेन सपक्षाव्यापकत्वात् । ३) विभागाश्रयनाशाभ्यां च तस्य नाशः । आश्रयनाशोत्तरसंयोगाभ्यां च विभागनाशः । संयोगस्य त्वाश्रयनाशविभागाभ्यामेव नाश इत्युक्तम् । नित्यत्वात्परमाण्वाकाशयोराश्रयनाशनाश्यत्वं तत्संयोगस्य न सम्भवति । सर्वमुक्तिपक्षे च विरोधिगुणप्रादुर्भावोऽपि दुर्घटः । अतो निमित्तनाशनाश्यत्वमङ्गीक्रियते इति । अनित्यः सम्बन्धः संयोगः, घटजनकतदवयवनिष्ठगुणत्वावान्तरजातीयः संयोगः । [९ विभागस्य निरूपणम्] १) कर्म संयोगव्यतिरिक्तासमवायिकारणम्, संयोगव्यतिरिक्तत्वे सति असमवायिकारणत्वाद्रूपवत् । न चाकर्मत्वमुपाधिः, आकाशादिषु व्यभिचारात् । असमवायिकारणत्वे सतीति विशेषणे केवलसंयोगारम्भकेण संयोगेन व्यभिचारात् । संयोगव्यतिरिक्तत्वे सतीति विशेषणे वैयर्थ्यम् । न च संयोगव्यतिरिक्तासमवायिकारणत्वादिति संयोगस्यैवासमवायिकारणत्वं प्रतीयते इति बाधितविषयत्वम्, भवतां कर्मणः कर्मासमवायिकारणत्वात् । न चैवं प्रथमानुमाने सिद्धसाध्यता, मन्दगतौ तदभावात्व्यतिरिक्तासिद्धेः । तव च संस्कारस्याप्यसिद्धेः । अन्त्यकर्मणः कर्माजनकत्वात्, मम तस्यैव पक्षत्वात् । २) किं चास्ति तावदयं विभागव्यवहारः । न चासौ निर्निबन्धनः । न च संयोगाभावो निमित्तम्, संयोगनाशे एव कारणभावात् । न च कर्मणः तत्र कारणत्वम्, गुणानां कर्मविनाश्यत्वादर्शनात् । विप्रतिपन्नः संयोगो न कर्मनाश्यः, गुणत्वात्सम्प्रतिपन्नवत् । न च विभागविनाश्योऽपि न भवति, तस्मादेवेति साम्प्रतम्, प्रतियोग्यसिद्ध्या व्याप्त्यसिद्धेः । सिद्धि वा तद्विनाशकत्वेनैव कल्पना, निष्कारणकार्यसिद्धेः । ३) स च द्विविधः कर्मजविभागजभेदात् । विवादाध्यासितो विभागो न कर्मासमवायिकारणकः, कर्मैकार्थसमवेतत्वाच्छब्दवत् । विवादपदमात्मातिरिक्तं द्रव्यं विभागजन्यगुणाधिकरणम्, नित्यद्रव्यत्वादात्मवत् । न चात्मत्वमुपाधिः, ईश्वरे व्यभिचारात् । आकाशे च व्याप्त्यभावात् । ४) अन्ये तु द्रव्यारम्भकसंयोगविरोधिविभागोत्पत्तिकाले नावयवकर्म आकाशादिदेशाद्विभागारम्भकम्, कर्मत्वादिति ब्रुवते । तदसत्, आकाशदेशेन विभागमारभते कर्मत्वादित्यपि वक्तुं शक्यत्वात् । तस्मान्न कारणविभागाद्विभागः स्यात् । विवादपदमात्मना विभज्यते द्रव्यत्वादिति पूर्ववद्दूषणीयम् । ५) आश्रयविनाशोत्तरसंयोगाभ्यां च तद्विनाशः । उत्तरसंयोगाद्विनाशः पश्चादपि कथं विभागप्रत्ययानुवृत्तेरपि न वाच्यम्, प्रत्ययस्यैवासिद्धेः, शब्दप्रयोगस्य चान्यथाप्युपपत्तेः, श्रवणमात्रादेव मुख्यत्वानिर्णयात् । संयोगसंसर्गाभावे विभागपदस्यापि न पृथक्संकेतः, संयोगप्रागभावेऽपि व्यवहारदर्शनात् । संयोगसमानाश्रयत्वे सति संयोगविनाशको विभागः । [१०११ परत्वापरत्वयोर्निरूपणम्] १) विवादपदं परमाणुवृत्त्यद्विष्ठगुणजनकम्, परमाणवो वा कार्यवृत्त्यद्विष्ठगुणजनका मूर्त्तत्वात्, पार्थिवपरमाणुवद्घटवच्चेति । विवादपदं स्वारब्धद्रव्ये गुणजनकम्, द्रव्यत्वे सति द्रव्यारम्भकत्वादीश्वरवत् । विवादपदं परमाणुजन्यम्, कर्महेत्वद्विष्ठगुणाश्रयम्, मूर्त्तत्वादगुणत्वात्पार्थिवपरमाणुवत् । तदेवं सिद्धयोः परापरव्यवहारादपि सिद्धिः । अन्वयव्यतिरेकाभ्यां चादित्यपरिवर्तनदेशसंयुक्तसंयोगाल्पीयस्त्वभूयस्त्वज्ञानस्य हेतुत्वम् । व्यञ्जकत्वे पूर्ववद्दोषोऽनुसन्धेयः । २) विवादाध्यासितोऽद्विष्ठबुद्धिजगुणयोराश्रयः, विज्ञानासमवायिकारणाधारत्वादात्मवत् । अश्रोत्राणामविशेषगुणवत्वात् । कार्यद्रव्येण स्वसमवायिकारणेन कृताद्विष्ठगुणेन गुणत्वावान्तरजातीयं परत्वम् । समवायिकारणेन स्वकार्ये क्रियमाणेनाद्विष्ठगुणेन गुणत्वावान्तरजातीयमपरत्वम् । कारणविनाशाद्विनाशः । [१२ बुद्धेर्निरूपणम्] १) बुद्धौ प्रमाणं न वक्तव्यम्, सर्वतन्त्रसिद्धान्तसिद्धत्वात् । तदनभ्युपगमे स्ववचनविरोधादयः प्रसञ्जनीयाः । ज्ञानत्वमस्मदादिमानसप्रत्यक्षव्यक्तिसमवेतम्, ज्ञानजातित्वात्सत्तावत् । अस्मदादीत्यविवक्षायां प्रमेयत्वादिकं योगिप्रत्यक्षसाधकमनुसन्धेयम् । प्रत्यक्षत्वानभ्युपगमे ज्ञानाभ्युपगमो निर्मूलः, तत्कारणेनैव तत्कल्पकव्यवहारोपपत्तेः । अनवस्था तु नास्ति, अदृष्टादिकारणसामग्र्या नियामकत्वात् । रूपादिवदुद्भूतत्वस्यापि ज्ञानेऽनभ्युपगतत्वात्, तथाविधस्यैव प्रत्यक्षत्वात् । २) प्रभाकरमते विवादपदं न मानसप्रत्यक्षं ज्ञानत्वादिति न साम्प्रतम्, सर्वमुक्तिपक्षे दृष्टान्तासिद्धेः, अन्यस्मिन्नपि प्रभाकरस्य सर्वदा एकत्वे निश्चायकाभावात् । न च घटं जानामीत्यत्र कल्पनालाघवादेकमेव ज्ञानं कल्पनीयम् इत्यर्थापत्त्युपन्यासो दोषः स्यात्, न हि परेणानेकत्वसाधने सोपन्यस्ता । ३) किं च ज्ञानं प्रत्यक्षं वस्तुत्वाद्घटवत् । न चाज्ञानत्वमुपाधिः, तव सर्वज्ञानस्य प्रत्यक्षत्वासिद्धेः । नञश्चेतरेतराभाववाचकत्वेऽपि विशेषणवैयर्थ्यात् । ज्ञानव्यतिरिक्तत्वमिति तस्यार्थः । तत्र च न ज्ञानपदस्योपयोगः । न च ज्ञानं मानसप्रत्यक्षं न भवति, ज्ञानत्वादिति साम्प्रतम्, असाधारणत्वात् । न च मानसप्रत्यक्षत्वेऽनवस्थादोषः, योग्यभ्युपगमवादिनां तस्यासम्भवाददोषाच्च । तस्माज्ज्ञानं मानसप्रत्यक्षमिति । (१ अख्यातिवादनिरासः) अथ केचिदख्यातिं समर्थयन्ति, विवादपदं रजतविषयं रजतज्ञानत्वादिति ब्रुवते । ते तु प्रष्टव्याः किमिदं रजतज्ञानं नाम? १ रजतस्य ज्ञानं रजतज्ञानम्? २ रजतं तज्ज्ञानं च रजतज्ञानमिति वा? ३ रजतशब्दोल्लेखि ज्ञानं वा? ४ रजतार्थिनः प्रवृत्तिहेतुभूतं ज्ञानं वा? न प्रथमः, षष्ठ्यर्थस्य विषयविषयिभावव्यतिरेकेणान्यस्यासम्भवे साध्याविशिष्टत्वात् । न द्वितीयः, उभयासिद्धेः, ज्ञानस्य निराकारत्वात् । नापि तृतीयः, उल्लेखार्थस्य विशेषणत्वेऽसिद्धेः । तज्ज्ञानजनितस्मृतिमात्रयोगित्वे पूर्वपदज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् । न चतुर्थः, विवेकाग्रहणवादिनामिदमिति ज्ञानस्यापि शुक्तिकालम्बनस्य तद्धेतुत्वेन व्यभिचारात् । एतेन रजतमिति प्रत्युक्तम्, पूर्वोक्तपक्षाद्बहिर्भावाभावात् । यच्च विमतं ज्ञानं यथार्थं ज्ञानत्वादिति ब्रुवते, तत्रोभयवादिप्रतिपन्नज्ञानव्यक्तेरसिद्धत्वादाश्रयासिद्धिः । रजतार्थिनः प्रवृत्त्यन्यथानुपपत्तिपरिकल्पिततज्जनकज्ञानमात्रस्य पक्षीकारे प्रमाणबाधः, स्वसमानविषयेष्टसाधनज्ञानजन्यत्वात्प्रवृत्तेः । त्वयाप्येतस्य सम्यग्रजतप्रवृत्तावभ्युपगमात् । तत्रापि विवेकग्रहणमात्रस्यैव प्रयोजकत्वे पदानामन्विताभिधायित्वभङ्गप्रसङ्गः । बालकस्य स्वात्मनि विवेकाग्रहणमात्रात्प्रवृत्तिं पश्यत उत्तमवृद्धवाक्यप्रयोगानन्तरं प्रवर्त्तमानमध्यमवृद्धप्रवृत्तेरपि तन्मात्रपूर्वकत्वकल्पनात् । तदकारणिभूतमपि तत्र विशिष्टज्ञानमव्यभिचारबलेन प्रवृत्तिपूर्वक्षणे कल्प्यते । तत्र च शब्दस्य कारणत्वमिति वदतोऽभ्युपगतसिद्धान्तभङ्गः, तस्य च प्रवृत्तिमात्रेणैव कल्पनाभावात् । चक्षुश्चाक्षुषसत्यज्ञानातिरिक्तज्ञानजनकम्, इन्द्रियत्वात्त्वग्वत् । विवादपदं स्वस्मारितपदार्थान्वयबोधकम्, आकाङ्क्षासन्निधिमत्पदकदम्बत्वात्सम्प्रतिपन्नवत् । न च योग्यतावत्त्वमुपाधिः, अनाकांक्षितासन्निहितपदानां योग्यतावत्त्वेऽप्यबोधकत्वात् । आकांक्षासन्निधिभ्यां विशेषणे विशेष्यवैयर्थ्यात् । तस्मादस्त्ययथार्थं ज्ञानम् । (२ अप्रमाज्ञानस्य भेदाः) तच्च लोकप्रवृत्त्यनुसारेण निश्चयानिश्चयभेदेन भिन्नम् । अनिश्चयोऽप्यनध्यवसायः संशय इति । मिथ्यानिश्चयो विपर्ययः । विरुद्धकोटिसंस्पर्श्यनिश्चयः संशयः । विरुद्धकोट्यसंस्पर्श्यनिश्चयोऽनध्यवसायः, अस्माभिरप्यनवधारणत्वस्य संशयानध्यवसाययोरभ्युपगतेः । तेन चास्मदुक्तावान्तरभेदस्याभ्युपगतत्वाद्भासर्वज्ञेन सहास्माकं नास्ति विप्रतिपत्तिरिति नात्र प्रपञ्च्यते । तर्कस्तु नान्योऽस्ति, अनध्यवसायलक्षणेनैव संगृहीतत्वात् । [३ प्रत्यक्षज्ञानस्य निरूपणम्] चक्षुश्चक्षुर्जन्यसविकल्पकव्यतिरिक्तज्ञानजनकम्, इन्द्रियत्वान्मनोवत् । विवादपदं प्रत्यक्षम्, वस्तुत्वात्प्रमेयत्वाद्घटवत् । प्रत्यक्षसामग्र्यसद्भाव उपाधिरिति कश्चित् । तन्न, तस्यापि साधनात् । अनुपपन्नमेतद्, बाधितविषयत्वाद्, बाह्येन्द्रियासम्बद्धविषयत्वात्, मनसो बाह्येऽर्थेऽस्वातन्त्र्यात् । अन्यथातिप्रसङ्गादिति चेत्, नातिप्रसङ्गो हि बाधकः स्यात्, तन्नियामकमुखेन साधकोऽपि भविष्यति । आत्मा ज्ञातव्य इति वाक्यप्रसिद्धो योगजो धर्मः सर्वदर्शित्वादिफलकः । न च नासौ धर्मकल्पकः, तेन विनानुपपत्तेरभावादिति साम्प्रतम्, योगवतां विशिष्टकुलेऽप्युत्पादस्य तत्त्वज्ञानोपयोगिनो धर्मविशेषमन्तरेणासम्भवात् । यदाह भगवान् स्वयमेव ’शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायतेऽ (गी ६.११) इति । अस्मदादिज्ञानोत्पत्त्यर्थमिन्द्रियमर्थेन संयोगसमवायावपेक्ष्य यथायोगं करोति । संयुक्तसमवायस्तु न संयोगसमवायव्यतिरेकेणान्योऽस्ति । अन्यथा पदार्थान्तरत्वप्रसङ्गादिति न प्रपञ्च्यते । नित्यमीश्वरज्ञानं यथार्थपरोक्षमिति प्रत्यक्षम् । (४ अनुमितिज्ञानस्य निरूपणम्) (४.१ स्यादेतत्) अनुमितौ किं प्रमाणमिति चेत्, प्रत्यक्षमिति ब्रूमः । भवति हि वह्निमान् पर्वत इति ज्ञानमिति हि दूरदेशस्थस्य कस्यापि मतिः । तथापि तेन तस्यानुमितित्वं कथमवगम्यते इति मा वोचः, प्रत्यक्षत्वेऽ पि समानत्वात् । तत्कारणानुमाने किं प्रमाणमित्यपि न वक्तव्यम्, तत्किं प्रमाणमात्रं सिद्धम्, येन विशेषे प्रश्नः स्यात्? तत्सिद्धौ चानेन प्रमाणेनान्वयव्यतिरेकापरनाम्ना प्रत्यक्षसामग्रीप्रविष्टेनान्येन वा सिद्धिरिति यत्किञ्चिदेतत् । (४.२ व्याप्तिस्वरूपम्) ननु करणं भवद्भिरुच्यमानमनुपपन्नम्, व्याप्तेरभावात्, सिद्धायां वा ज्ञातुमशक्यत्वात्, न, निरुपाधिकसम्बन्धस्य व्याप्तित्वात् । कः पुनरुपाधिरिति चेत्, येन विना ययोः सहभावादर्शनं तत्र येन यस्य व्यभिचारः, स तस्मिन्नुपाधिरिति । दृष्टान्तमात्रव्यापको वा, साधनव्यापकत्वे सति साध्यव्यापको वा । स द्विविधः अन्वयोपाधिर्व्यतिरेकोपाधिरिति । उभावपि शङ्कितौ निश्चितौ च । विवादपदं सत्तारहितं जातित्वात्सत्तावदित्यत्र सत्तास्वरूपमुपाधिः शङ्क्यते । अग्निषोमीयहिंसा पापसाधनं हिंसात्वादित्यत्र निषिद्धत्वमुपाधिर्निश्चीयते, साधनेनाविनाभावाभावेऽपि साध्येन सह सुवर्णस्तेयादिषुपाधेरनुगमदर्शनात् । क्षित्यादिकमकर्तृकं शरीरिणाजन्यत्वाद्व्योमवदित्यत्राजन्यत्वमुपाधिर्निश्चितः, विशिष्टस्य प्रयोजकत्वकल्पनायां प्रमाणाभावात् । सर्वं कार्यं नित्यप्रयत्नपूर्वकं कार्यत्वाद्व्यतिरेकेणाकाशवदित्यत्राप्रयत्नपूर्वकत्वमुपाधिः । साध्ये विशेषणस्योपादानमन्वयिनि दूषणम्, व्यतिरेकिणि तु तदभावस्य साधनत्वेनोपयोगे तस्य व्यवच्छेदकत्वे नोपयोग इति विशेषणवैयर्थ्यम् । धूमगतकटुकत्वादिवद्दूषणमेव । एतेन शङ्कितोपाधिरप्यूह्यः । साध्यसाधनभावश्च व्याप्तिस्थल एव विवक्षित इति । व्यतिरेकेणापि तत्रान्वयिसमानत्वमेवेति चरमलक्षणस्यापि तत्र सम्भवः । न चोपाध्यभावो ज्ञातुं न शक्यते । अदृष्टानां प्रथमपिण्ड एवाभावेनोपाधित्वानुपपत्तेः । न ह्यविद्यमानं जपाकुसुममुपाधिर्भवति । तेषां पञ्चपिण्डादर्शनेनाभावो निश्चीयते । अतीन्द्रियोपाधिप्रसञ्जनं तु नानुमानमात्रसद्भावेऽपि भवितुमर्हति, निर्बीजत्वात् । अनुमानविशेषे तु वादिप्रतिवाद्यभ्युपगतं तत्पदार्थविशेषस्वरूपनिरूपणेन निराकर्तव्यमिति । (४.३ परार्थानुमानम्) तत्र प्रतिज्ञाहेतुनिदर्शनानुसन्धानप्रत्याम्नानात्मकं वाक्यरूपं परार्थानुमानम् । तत्राकांक्षाक्रमेण लौकिकपदप्रवृत्तेः । सिद्धसाध्यतायाश्च परिहारार्थमाश्रयज्ञानस्य च प्रथममाकांक्षितत्वात्प्रथमतः प्रतिज्ञावचनम् । तदनन्तरं हेतोः, तदाश्रयत्वात् । कारणमात्रसिद्धौ विशेषे जिज्ञासायां सत्यामाकांक्षापर्यालोचनया हेतुमात्रस्यैव वचनम् । तदनु धर्मजिज्ञासायां सत्यां व्याप्तेराकांक्षितत्वात्तन्निरूपणम् । तदनन्तरं सर्ववाक्यानामेकवाक्यताप्रतिपादनाय साध्यसिद्धेरभिलषितायाः ख्यापनाय निगमनवचनम् । तथा हि शब्दोऽनित्यः कार्यत्वाद्, यत्कार्यं तदनित्यं यथा घटः, कार्यश्च शब्दः, तस्माच्छब्दोऽनित्यः । पक्षवचनं प्रतिज्ञा, हेतुवचनमपदेशः, दृष्टान्तवचनमुदाहरणम्, दृष्टान्तवचनानन्तरहेतुवचनमुपनयः, उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनम् । गम्यमानार्थत्वान्निगमनं न प्रयोक्तव्यमिति चेन्न, तस्यादूषणत्वात् । अन्यथा हेतुमात्रमेव प्रयोक्तव्यं स्याद्, विदुषां विशिष्टार्थस्यार्थादेव प्रतीतेः । (४.४ अवयवद्वयवादः) वयं तन्न बुध्यामहे, साधनानुपयुक्तवचनस्याधिकत्वात् । प्रतिवादिना हि साधनजिज्ञासा कृता किं प्रमाणमिति । तत्र यावदङ्गविशिष्टं साधनम्, तावद्वक्तव्यम् । अङ्गे च द्वे एव व्याप्तिपक्षधर्मत्वे । न हि ततोऽधिकं प्रवृत्यङ्गम् । तदधिकभूतं ज्ञातव्यं किमस्ति? कालात्ययापदिष्टस्यानैकान्तिकेऽन्तर्भावात् । निरुपाधिकानुमानद्वयस्य चैकत्रासम्भवात् । सम्भवे वा वस्तुनो द्व्यात्मकत्वं को निवारयेत्? निरुपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् । तदेवं स्थिते रूपद्वये, तत्प्रतिपादनार्थं वचनद्वयमेव वक्तव्यम्, हेतोः पक्षधर्मतावचनेन विशिष्टवाचिना तत्सिद्धेः । तस्माद्यत्कार्यम्, तदनित्यं यथा घटः, कार्यश्च शब्द इत्यन्वयिनि । यन्नित्यम्, तदकार्यं यथा व्योम, कार्यश्च शब्द इति व्यतिरेकिणि । तस्मादवयवद्वयमेव प्रयोक्तव्यम् । अन्वयव्यतिरेकीत्यपरो नेष्यते, एकेनैवानुमितिसिद्धौ समुदितस्य हेतुत्वे प्रमाणाभावात् । अविनाभावजनितपरोक्षानुभवोऽनुमितिः तत्साधकतममनुमानम् । तल्लक्षणरहितं तत्सदृशमनुमानाभासम् । (४.५ हेत्वाभासाः) तच्चासिद्धविरुद्धानैकान्तिकभेदभिन्नम् । अनिश्चितपक्षवृत्तिरसिद्धः, शब्दोऽनित्यः चाक्षुषत्वादिति । स चोभयासिद्धोऽन्यतरासिद्धश्च । पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः, नित्यः शब्दः कार्यत्वादिति । असाधकत्वज्ञापकत्वं हि दूषणम् । साध्यविपरीतानौपाधिकसम्बन्धितया विरुद्धस्य लिङ्गता । ननु साध्यविपरीतगामिता क्वचिद्व्यभिचरति, येनानौपाधिकत्वे समर्थं स्यादतो विशिष्टं न दूषणमिति चेत् । तन्न, जल्पवादयोर्हि परसाधनं निवर्त्य स्वपक्षे साधनं वाच्यम्, अतो लाघवाय विशिष्टोपन्यासः । साधनान्तरं तु न वाच्यमेव । वितण्डायां तु विपक्षवृत्तिता परमुद्भाव्या, अनुमित्युत्पत्तिप्रतिबन्धकत्वं च दूषणम् । साध्यतदभावयोर्वर्तमानत्वेन ज्ञातोऽनैकान्तिकः । स च निश्चितः, शङ्कितश्च । स कः? अनित्यः शब्दः, प्रमेयत्वादिति निश्चितः । मनो विभु, सर्वदा स्पर्शरहितद्रव्यत्वादिति शङ्कितः, सोपाधिकत्वात् । (४.६ दृष्टान्ताभासः) दृष्टान्ताभासस्तु साध्यविकलसाधनविकलव्याप्त्यकथनविपरीतव्याप्तिकथनाश्रयहीनाः । साधर्म्योदाहरणवैधर्म्योदाहरणे साध्यव्यावृत्तसाधनव्यावृत्ताव्याप्तिकथनविपरीतव्याप्तिकथनादीनामुदाहरणानि तु प्रशस्तपादैरभिहितानीति न प्रपञ्च्यन्ते । उभयविकलस्तु नास्ति, तस्य साध्यसाधनविकलाभ्यामनतिरेकात् । न हि कालात्ययापदिष्टानैकान्तिकत्वं नाम समुदितमस्ति दूषणम् । (५ आर्षज्ञानस्य निरूपणम्) आर्षसद्भावे किं प्रमाणमिति चेत्, प्रत्यक्षमिति ब्रुमः । अस्ति तावद्विप्रतिपन्ना प्रतिभा क्वचिदर्थाविसंवादिनी । तस्या अनधिगतार्थगन्तृत्वादनुभूतित्वं सिद्धम् । न चैतदतिरिक्तं प्रामाण्यं नाम यत्साधनीयमवशिष्यते । न चार्थाविसंवादित्वमेव नास्ति, बाधकाभावात् । न च प्रतिभात्वादर्थविसंवादः, अपरोक्षत्वात् । अन्यथा प्रत्यक्षस्यार्थविसंवादप्रसङ्गात् । ननु ज्ञानाविसंवादित्वग्राहकप्रत्येक्षण तत्पूर्वकाबाधिततत्प्रवृत्तिभ्यां तज्ज्ञानविषयीकृतार्थस्य यथार्थस्य क्रियाकारित्वेन बाधितविषयत्वादनुमानस्यैव दुर्बलत्वमिति चेत्, समः समाधिः । प्रतिभात्वाविशेषेऽपि कथमेकस्य संवादित्वम्, अपरस्य विसंवादित्वमिति चेत्, न, अपरोक्षत्वाविशेषेऽपि प्रत्यक्षस्य कस्यचित्संवादित्वं कस्यचिदिति कुतः? अवान्तरवैजात्यादिति चेत्, तुल्यमस्तु प्रतिभायां प्रामाण्यम् । तथापि पूर्वयोरन्तर्भाव इति चेत्, न, अविनाभावानपेक्षत्वेनानुमितावनन्तर्भावात् । परोक्षत्वान्न च प्रत्यक्षम् । कथं पुनरस्याः परोक्षत्वमिति चेत्, अनुमितेरपि परोक्षता कथम्? इन्द्रियव्यापाराभावे उत्पद्यमानत्वादिति चेत्, समानमेतत् । अन्तःकरणस्य व्यापारोऽस्तीति चेत्, समानम् । धर्मविशेषजत्वाद्योगिप्रत्यक्षान्तर्भूतमिति चेत्, न, धर्मविशेषजत्वासिद्धेः, धर्मविशेषमात्रजन्यत्वस्य व्यभिचारात् । अविनाभावनिरपेक्षः सम्यक्परोक्षानुभव आर्षः । स्वसमानविषयसंस्कारजं स्मरणम् । यथार्थस्य प्रमाणभावे नास्ति विप्रतिपत्तिः, परैरपि तस्य सम्यगनुभवत्वाभ्युपगमात्, तार्किकैरपि यथार्थज्ञानत्वस्य तत्रानिराकरणात् । तस्मात्सम्यगनुभवः प्रमेति पूर्वाचार्याः । यथार्थं ज्ञानं प्रमेति नवीनाः । अयमेव च भाष्यकर्त्तुरभिप्राय, अन्यथा प्रमाणमध्ये तत्पठनमसङ्गतं स्यात् । न हि प्रमितिविद्याशब्दयोर्लोकेऽर्थभेदोऽस्ति । तस्माच्चतुर्विधं प्रमाणम् । ((तथा श्रुतिस्मृतिप्रत्यक्षमैतिह्यमानचतुष्टयमिति । )) (६ शब्दप्रमाणस्यानुमानेऽन्तर्भावनिरूपणम्) ननु ततोऽतिरिक्तान्यपि शब्दादीनि सन्तीति चेत्, न अप्रसिद्धेः । नद्यास्तीरे पञ्च फलानि सन्तीति वाक्यादर्थप्रत्ययो जायते इति चेत्, अत्र कस्य कारणत्वमिति विभाव्यतां न प्रत्यक्षस्य, अर्थस्याविस्पष्टत्वात् । नानुमानस्य व्याप्तेरभावात् । न हि नद्यास्तीरे पञ्च फलानि सन्तीति वाक्येन नदीतीरफलसम्बन्धस्याव्यभिचरितः सम्बन्धः, अनाप्तवाक्ये तदभावात् । आप्तत्वे सतीति विशेषणे पूर्वमर्थसिद्धेरसिद्धो वाक्यार्थः, सम्यग्ज्ञानवत एव तत्त्वात् । तदेतदसत्, पुरुषविशेषोक्तत्वस्य हेतुविशेषणत्वेनैवोपादानात् । तेन च प्रोक्तस्याप्यनुमानान्नाप्रयोजकता । यत्र तु तदुक्तस्यापि व्यभिचारः क्वचित्, तत्र तद्व्यतिरिक्तत्वे सतीत्यपि विशेषणम्, विशिष्टस्य व्याप्तिबलेन साधनत्वम् । यत्र तु व्यभिचारस्थलं स्यात्, तत्र नार्थनिश्चयः, किन्तु सन्देह एव, एतावतापि लौकिकानामर्थे सन्देहादेव प्रवृत्तिसिद्धेः । (७ वेदानां पौरुषेयत्वनिरूपणम्) वेदस्य पुरुषविशेषकृतत्वाभावेन कथमनुमानमिति चेत्, तर्ह्याप्तोक्तत्वस्याप्यभावेनाप्रामाण्यप्रसङ्गात् । न च स्वतः प्रामाण्यं वेदस्य, सम्यङ्मिथ्याबोधसाधारणातिरिक्तकारणजन्यत्वात् । तथा हि प्रमा सम्यङ्मिथ्याबोधसाधारणातिरिक्तकारणजन्या, कार्यत्वाद्, अप्रमाण्यवत् । सम्यक्त्वं नियतज्ञानेऽपि कदाचिन्न निर्धार्यते, निश्चयत्वानिश्चयेऽपि सन्देहविषयत्वाद्, अप्रमावत् । विवादास्पदं कार्यम्, वेदजन्यमतिजम्, कार्यत्वाद्घटवत् । ईश्वरकृतत्वाविशेषेऽपि बुद्धादिवाक्यानामागन्तुकदोषसमवधानादप्रामाण्यम्, बुद्धादीनामनाप्तत्वात् । वेदार्थो वेदनिरपेक्षप्रमितिवेद्यो, मेयत्वाद्घटवत् । वेदार्थो वेदनिरपेक्षस्वालम्बनमत्याधारविरचितवाक्यमेयो मेयत्वात्, सम्प्रतिपन्नवत् । यच्च वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥ (श्लो वा वाक्य ३६६) तत्र च गुर्वध्ययनपूर्वकत्वमात्रे सिद्धसाध्यता । ब्रह्मणोऽपि जीवविशेषस्य सुप्तप्रबुद्धवत्कल्पान्तरानुभूतवेदस्मरणात् । न च प्रवाहविच्छेदादप्रणेतृपूर्वकत्वप्रसङ्गः, उच्चार्यमाणवाक्यसदृशवाक्यज्ञाननिरपेक्षस्यैव तत्र कर्तृत्वाभ्युपगमात् । स्वतन्त्रपुरुषप्रणेतृत्वविवक्षायां तु साध्यविकलत्वम् । उभयवादिसम्प्रतिपन्नपक्षाङ्गीकारेऽपि सिद्धसाध्यता । अपरत्र चाश्रयासिद्धिः । भारताध्ययनादेरपि एवं कुशंक्यत्वात् । तत्संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादिति तु मम? तव? उत यस्य कस्य साधारण्येन वेति? प्रथमतृतीयचतुर्थेष्वसिद्धिः । द्वितीये तु व्यभिचारः । अत एव मदनुमाने ... {Oने लिने लोस्तिन् थे ंष्.} अन्यथा सिद्धसाधनत्वादकार्यत्वं चोपाधिः । (८ उपमानप्रमाणस्यानुमानेऽन्तर्भावनम्) उपमानं तु मदीया गौरनेन सदृशीति गोसदृशगवयमालोकयतोऽनुमानमेव । कथमिति चेत्, भवति हि पूर्वं गवि गवयसादृश्यमित्यनुमितिः । अनुगतधर्मस्य गवयेऽपि वर्तमानस्य प्रत्यक्षग्रहणार्हत्वात्, मानान्तरोपनीतस्यापि विशेषणत्वोपपत्तेः । अथवा मदीया गौरनेन सदृशी, स्वसादृश्येनैतदवच्छेदकत्वाद्, भ्रातृभगिनीवत् । अन्यथा गवयसादृश्यस्याप्यग्रहणप्रसङ्गात् । प्रत्यक्षमते तदनु विशेषणविशेष्यभावस्य कामचारत्वदर्शनेन सादृश्यावच्छिन्नगव्यनुमानम् । संज्ञासंज्ञिसम्बन्धकः स्वसन्दिग्धे न्यायसम्पादितव्यक्तिः पश्चान्निश्चितवाक्यार्थमवबुध्यते इति । सादृश्यमात्रस्य गवयपदवाच्यते अप्रतीतगूनामव्यवहारप्रसङ्गपर्यालोचनया निर्निमित्तप्रश्नाननुगुण्यचिन्त्यमानाप्तस्यान्यथाकथकत्वासम्भावनेन च सादृश्यस्योपलक्षणत्वे निर्णीते तदेव वाक्यं गवयपदस्य गवयत्वनिमित्तत्वं बोधयति । गवयशब्दः गवयत्ववाचकः, असति वृत्त्यन्तरेऽभियुक्तैः प्रयुज्यमाननैमित्तिकपदत्वाद्गोत्वे गोशब्दवत् । न च विशेषणासिद्धिः, वृत्त्यन्तराभावत्वस्य त्वयाप्यभ्युपगतत्वात् । अन्यथानुमानस्याप्रवृत्तिः, अनुग्राहकतर्काभावात् । विवादपदं गवयपदनिमित्तम्, विशिष्टजातित्वाद्व्यतिरेकेण गोत्ववदिति । (९ अर्थापत्तेरप्यनुमानत्वोपवर्णम्) अर्थापत्तिरप्यनुमानम् । तथा हि सम्बन्धबोधमन्तरेणानुपपद्यमानार्थदर्शनेऽपि प्रमितेरुपपत्तिः, बुद्धे तु सम्बन्धे भवतोऽप्यनुमितिरेव । प्रमाणद्वयविरोधोऽपि सावकाशानवकाशयोः सावकाशस्य विषयसंकोच इति व्याप्तिदर्शनवतो गेहानुपलब्धिं निरवकाशां पश्यतस्तद्विरोधिजीवनवाक्यं सावकाशं पश्यतस्तस्य वाक्यस्य बहिर्विषयत्वप्रमितिरनुमितिरेव । श्रुतार्थापत्तिस्तु न शङ्कामप्यारोहति, वाक्यमन्तरेण वाक्यानुपपत्तेरभावात्न हि पीनो देवदत्तो दिवा न भुंक्तेऽ इति वाक्यं ’रात्रौ भुंक्तेऽ इति वाक्येन विनानुपपन्नम् । शाब्दी ह्याकांक्षा शब्देनैव परिपूर्यते, न हि पचतीति पदं प्रत्यक्षादिना निराकांक्षमपि तु ओदनपदेनेति चेत्, न, अस्मिन् वाक्ये आकांक्षायोग्यतयोरभावात्क्रियाकारकयोः सम्पूर्णत्वात् । पीनत्वं भोजनेन विनाऽनुपपन्नम्, भोजनकार्यत्वादिति चेत्, न तर्ह्याकांक्षाविरहः, योग्यताविरहस्तु स्यात् । न च सोऽप्यस्ति त्रैकालिकभोजननिषेधे हि स स्यात्, न ह्यभुक्त्वा पीनः क्षणमपि तिष्ठति । त्रैकालिकभोजननिषेधस्तु विशिष्टकार्याद्रात्रिभोजनकारणानुमानं स्वैरं प्रवर्तताम्, न रात्रिवाक्यकल्पनावकाशः । अस्तु तर्हि पचतीत्यत्रैवोदनपदकल्पना श्रुतार्थापत्तिरिति चेत्, तत्राप्यर्थस्यैव कल्पनात् । शब्दाक्षिप्तोऽपि शब्द एवेति नियमेऽतिप्रसङ्गः । अथवा तथाविधपदस्य विशिष्टसंसर्गेणैव व्याप्त्या तत्कल्पनमिति । अपि च केयमाकांक्षा नाम? जिज्ञासेति चेत्, सा तु कुतः? शब्दार्थयोरपर्यवसानादिति चेत्, तर्हीष्टापत्तिरेव । न चैवं शब्दविलोपप्रसङ्गः, इष्टत्वात्, तस्य वाक्यानुमानेऽन्तर्भावोऽभ्यधायि । (१० अनुपलब्धेः प्रत्यक्षेऽन्तर्भावः) अभावः प्रत्यक्षः, प्रमेयत्वाद्, घटवत् । न चेन्द्रियार्थसम्बन्धाभावो बाधकः, असम्बद्धस्यापि प्रत्यक्षत्वे को दोषः? अतिप्रसङ्ग इति चेत्, तत्परिहारिका दृश्यानुपलब्धिर्भविष्यति । न च तावन्मात्रस्य कारणत्वमस्तीति वाच्यम्, अन्धस्यापि शुक्लपटे पीतत्वाभावप्रतीतिप्रसङ्गात् । न हि प्रतियोगी येनैवेन्द्रियेण गृह्यते, तेनैवाश्रयो ग्रहीतव्यः व्योम्नि स्पर्शाभावग्रहणप्रसङ्गात् । स्मर्यमाणेऽपि देवकुले देवदत्ताभावसंविदोऽभ्युपगमात् । विस्तरस्तु न्यायलक्ष्मीविलासे इत्युपरम्यते । (१३१४ सुखदुःखयोर्निरूपणम्) प्रत्यक्षेण सुखमुपलभ्यते, अहं सुखीति व्यवहारदर्शनात् । न च दुःखाभाव एव सुखम्, सत्यपि दुःखे तद्व्यवहारदर्शनात् सन्तापवतः शीतह्रदे निमग्नार्धकायस्य सुख्यहमिति मतेः । कतिपयदुःखाभावश्च नारकीयस्याप्यस्ति । न च तन्नित्यम्, कारणविशेषोपादानवैयर्थ्यं स्यात् । ज्ञायमानं निरुपाधिकृतिव्याप्यं सुखम् । एवं दुःखमिति वक्तव्यम् निरुपाधिकहेयं दुःखम् । (१५१७ इच्छाद्वेषप्रयत्नानां निरूपणम्) कर्म प्रयत्नसाधनगुणजन्यम्, कर्मत्वाद्व्यतिरेकेण घटवत् । कर्मकारणमपि विप्रतिपन्नो गुणो ज्ञानजन्यः, कर्मकारणगुणत्वात् । तत्तत्कारणस्य सुखदुःखज्ञानस्य वैजात्यात्कार्यस्य वैजात्यमिति इच्छाद्वेषप्रयत्नसिद्धिः । तत्रेच्छाप्रयत्नावपि नित्यावनित्यौ च बुद्धिवत् । कर्मकारणगुणनिमित्तसुखज्ञानजन्येन गुणत्वावान्तरजातीयेच्छा । कर्मकारणगुणनिमित्तदुःखज्ञानजन्येन गुणत्वावान्तरजातीयो द्वेषः । अस्मदादिप्रत्यक्षचेष्टानिमित्तेन गुणत्वावान्तरजातीयः प्रयत्नः । (१८२० गुरुत्वद्रत्वस्नेहानां निरूपणम्) (१ गुरुत्वम्) विवादपदमसमवायिकारणजन्यम्, कर्मत्वात्, सम्प्रतिपन्नवत्विप्रतिपन्नमस्मदाद्यप्रत्यक्षम्, गुरुत्वाद्, व्यतिरेकेण घटवत् । आद्यपतनासमवायिकारणेन गुणत्वावान्तरजातीयं गुरुत्वम् । (२ द्रवत्वम्) स्यन्दनमसमवायिकारणजन्यम्, कार्यत्वाद्, घटवदिति द्रवत्वसिद्धिः । प्रत्यक्षेण च । आद्यस्यन्दनासमवायिकारणेन गुणत्वावान्तरजातीयं द्रवत्वम् । तैजसाः परमाणवो द्रवत्वाधाराः, रूपिपरमाणुत्वात्पार्थिवपरमाणुवत् । न च गुरुत्वरसवत्त्वे उपाधी, घटे साध्याभावात् । न च परमाणुत्वविशिष्टमेतदुपाधिः, घृतादौ साध्यसिद्धत्वेऽप्यभावात्साध्याव्यापकत्वम् । (३ स्नेहः) उदकं गुणत्वावान्तरजात्या स्वाश्रयव्यावर्त्तकगुणाश्रयः, रसवत्वात्, पृथिवीवत् । न च पृथिवीत्वमुपाधिः, सपक्षाव्यापकत्वात् । तदेवं स्थिते प्रत्यक्षेणापि स्नेहः सिद्धः । चक्षुःस्पर्शनग्राह्यत्वे सति गुणत्वावान्तरजात्या स्वाश्रयव्यवर्तकः स्नेहः । (२१ संस्कारस्य निरूपणम्) (१ वेगः) विमतिपदमद्विष्ठकर्मासमवायिकारणाश्रयः परमाणुत्वात्, पार्थिवपरमाणुवत् । न च रूपित्वमुपाधिः, आलोके व्यभिचारात् । न च रूप्यणुत्वं प्रयोजकम्, सपक्षाव्यापकत्वात् । प्रतिवद्धद्रवत्वस्य तैजसद्व्यणुकस्याप्युत्पत्तिसम्भवात्, तन्निवृत्यर्थं परमाणुत्वे सतीति विशेषणे वैयर्थ्यम् । स च वेगः प्रत्यक्षे द्रव्ये प्रत्यक्षेणैव गृह्यते, वेगेन गच्छतीति प्रतीतेः । (२ स्थितिस्थापकः) विवादाध्यासिताः परमाणवः [कर्मासमवायिकारणाद्विष्ठगुणा]धाराः, स्पर्शवत्त्वादश्रौत्रानित्यविशेषगुणत्त्वादिषुवदात्मवच्च । अन्यथाकृष्टमुक्तानां शाखादीनां पुनर्मण्डलीभावो न स्यात् । विवादाध्यासितो वेगातिरिक्तसंस्काराश्रयः, अश्रौत्रानित्यविशेषगुणवत्त्वाद्, आत्मवदिति स्थितिस्थापकसिद्धिः । उन्नमनकर्मासमवायिकारणाद्विष्ठगुणावान्तरजातीयः संस्कारः स्थितिस्थापकः । (३ भावना) स्मृत्त्यन्यथानुपपत्त्या भावनासिद्धिः । पूर्वानुभवस्य चिरातीतत्वात् । स्वोत्पादकानित्यज्ञानसमानविषयज्ञानजनकेन गुणावान्तरजातीया भावना । (२२२३ धर्माधर्मयोर्निरूपणम्) (१ धर्मः) यागः स्वर्गोत्पादनसमर्थावान्तरव्यापारकः, अन्यथा यागस्वर्गयोः साध्यसाधनभावस्य प्रतीतस्यानिर्वाहात् । प्रतीयते च कामनाविषयत्वेन साध्यत्वं स्वर्गस्य, विधिबलाद्यागस्य साधनत्वेनानुष्ठेयत्वम् । न च वाच्यं साध्यसाधनभावः क्षणिकस्य यागस्य कालान्तरभाविनि स्वर्गे विनावान्तरव्यापारमुपपद्यते इति मध्येऽपूर्वसिद्धिः । अपरे च यागस्वर्गयोः साध्यसाधनभावो नापूर्ववाक्यात्प्रतीयते, योग्यताविरहात् । अतो लिङेवापूर्वमभिधत्ते, व्युत्पत्तिस्तु लोकवेदाभ्याम् । लोकेऽपि क्रियाकार्ये लिङ्प्रयोगदर्शनादिति ब्रुवते । तत्रान्यथाख्यातिपक्षे योग्यतामन्तरेणापि प्रतिपत्तेरभ्युपगमात् । कामाधिकारेषु फलं प्रति कारणस्यैव सतस्तस्य नियोगं प्रति विषयत्वाभ्युपगमात् । अन्यथा नित्यकाम्यवैषम्यविगमः स्यात् । विहितभावार्थजात्यास्मदाद्यतीन्द्रियात्मगुणो धर्मः । (३ अधर्मः) यो ब्राह्मणायावगुरेत्तं शतेन यातयात्ऽ (तै सं २.६.१०.२) इति शतयातनायाः साध्यत्वावगमात् । अवगूर्णस्य चिरातीतत्वे तत्साधनत्वं साक्षादनुपपन्नमित्यन्तरापूर्वेण भवितव्यम् । अधर्मत्वयोगादधर्मः । (२४ शब्दस्य निरूपणम्) १ शब्दो गुणः, बाह्येन्द्रियाणां मध्ये अवयव्यग्राहकेणैव गृह्यमाणाया जातेरधिकरणत्वाद्गन्धवत् । यदि शब्दो द्रव्यं स्यात्, केनचिद्विशेषगुणेन भवितव्यम्, अन्यथा प्रत्यक्षत्वानुपपत्तेः, विशेषगुणप्रत्यक्षतानिबन्धनत्वाद्द्रव्यप्रत्यक्षतायाः । २ शब्दो द्रव्यं साक्षादिन्द्रियसम्बन्धेन गृह्यमाणत्वाद्घटवदिति चेत्, न, व्यर्थविशेषणत्वात् । न हि भेदाभेदवादिनां रूपादिभिर्व्यवहितः सम्बन्धोऽस्ति । अथ स्वसम्बद्धेन्द्रियेण गृह्यमाणत्वादिति, तथापि वैयर्थ्यमिन्द्रियपदस्य । स्वपदस्य ग्राह्यपदस्य न व्यावर्तनमस्ति अद्रव्यस्य भवतां नये सम्बन्धानभ्युपगमात्, संयोगसम्बन्धयोः पर्यायत्वात्, अन्यत्रोपचरितत्वात् । अन्यथा योग्यतासम्बन्धलक्षणेन रूपस्यापि साक्षात्सम्बन्धेनावेद्यत्वेन व्यभिचारः । सम्बन्धित्वादिति प्रतिवाद्यनैकान्तिकम् । ३ शब्दो गुणो न भवति, श्रावणत्वात्, शब्दत्ववदिति चेत्, न, अद्रव्यत्वेन ह्यस्य समानत्वात् । अनैकान्तिकश्च शब्दगतसंख्यायां भवतः । ४ शब्दो गुणः, आत्मव्यतिरिक्तत्वे सति इन्द्रियाणां मध्ये नित्येनैवाध्यक्षीकृताया जातेरधिकरणत्वात्सुखवत् । अनित्यः शब्दः, इन्द्रियविशेषगुणत्वाच्चक्षुर्गतरूपवत् । न चाकाश एव वर्तमानत्वात्, तन्महत्ववदिति सत्प्रतिपक्षत्वम्, आकाशभागविनष्टघट इव स्वसंयोगे व्यभिचारात् । अनित्य शब्दः अरसत्वे सत्यवयव्यग्राहकेणैव गृह्यमाणजातेरधिकरणत्वाद्गन्धवदिति भाट्टं प्रति । यच्च नित्यः शब्द, आत्मविशेषगुणान्यत्वे सति इन्द्रियाणां मध्ये नित्येनैव गृह्यमाणत्वादिति, [तद्] दुःखाभावेऽनैकान्तिकम् । सामान्यवत्त्वे सतीति विशेषणेऽपि तथा, परमते तत्रापि जातेरभ्युपगमात् । यदाह यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् । तस्माद्गवादिबद्धस्तु प्रमेयत्वाच्च गम्यताम् ॥ (श्लो वा अभाव ९) इति प्रतिवाद्यनैकान्तिकं च, आकाशवायुसंयोगस्यापि योग्यताकरणग्राह्यस्य तथाभावात् । अस्मदादीति विशेषणे वैयर्थ्यात्, नादैश्च व्यभिचारात् । एवं व्यवस्थिते प्रत्यक्षेणापि साध्यते नष्टः शब्द इति प्रतीतेः । आकाशविशेषगुणः शब्दः । यदपरजातीयेन विना समवायिकारणत्वाभावः, स गुणः । केवलनिमित्तकारणे च वर्तमानापरजातीयत्वं वा । समवाय्यसमवायिकारणरहितेऽपि वर्तमानापरजातीयत्वं वा । _______________________________________________ [कर्मपदार्थप्रकरणम्] १) आद्यसंयोगाविभागावसमवायिकारणजौ, कार्यत्वाद्, घटवदिति कर्मसिद्धिः । तच्च प्रत्यक्षम्, प्रमेयत्वाद्, घटवत् । विमतिपदमिन्द्रियसंयोगव्यतिरिक्तं संयोगासमवायिकारणग्राहकम्, द्रव्यग्राहकेन्द्रियत्वात्, मनोवत् । कर्म, अप्रत्यक्षम्, कर्मत्वादिति दृष्टान्तासिद्धिः । अयोगीति विशेषणेन व्याप्त्यसिद्धिः, योग्यनभ्युपगमात् । तत्कारणादेव संयोगविभागसिद्धिः । कर्मासिद्धिप्रसङ्गश्च । २) तच्चानन्तापरजातीयम्, पतनोत्क्षेपणादिप्रत्ययानां तुल्यत्वात् । आद्यविभागासमवायिकारणजातीयं कर्म संयोगविभागयोरनपेक्षकारणत्वार्हं वा । एतेन विश्वस्माद्भेदग्राहिभ्यो गुणेभ्योऽपि भेदसिद्धिः कर्मणः । _______________________________________________ [सामान्यपदार्थप्रकरणम्] यद्यप्येकाकारप्रत्ययस्य भिन्नेष्वेकनिमित्तमन्तरेणानुपपद्यमानत्वेन सामान्यसिद्धिरिति न युक्तम्, तथाविधदर्शनेऽपि विप्रतिपत्तेः । सति कल्पकस्य प्रामाण्येऽविवादात्तत्साधितमिति न युक्तम्, तद्वाधितमित्यस्यापि वक्तुं शक्यत्वात् । तथापि कारणस्य हि सिद्धत्वाद्विकल्पस्यापि भेदतः । व्यावृत्तेरपि भिन्नत्वादन्योन्याश्रयदूषणात् ॥ तस्मादस्ति जातिः । (१ सत्ता) विवादपदं द्रव्यं समानजातीयसमवायिकारणम्, समवायिकारणत्वात्, मृद्वत् । न च स्पर्शवत्त्वमुपाधिः, अन्त्यावयविनि तव व्यभिचारात् । अस्माकं तु व्याप्तिकाले सत्ताप्रतिपत्तौ चान्यत्रापि सिद्धिः, व्याप्तिविघटकत्वेन व्याप्तिकाले एवास्य दूषणत्वात् । व्याप्त्युत्तरकालभावितत्वात्पक्षादिव्यवस्थायाः । विहाय सत्तामन्त्यावयविषु साध्याभावेऽप्युपाधेर्भावात् । (२ द्रव्यत्वम्) विवादाध्यासितं रूपवृत्तिस्पर्शवज्जातिमत्, समवायिकारणत्वाद्घटवत् अत्र विप्रतिपत्तिविषयस्यैव तथाविधत्वान्न साध्ये विशेषणोपादानाद्दूषणम्, अन्यथा उद्घाटितमात्रमेव साधनीयम् । (३ पृथिवीत्वम्) विवादाध्यासितमुदकावृत्तिजातिमद्, गन्धत्वाद्घटवत् । (४ जलत्वम्) विवादाध्यासितं पृथिव्यवृत्तिजातिमद्, गुरुत्वाद्घटवत् । (५ तेजस्त्वम्) विवादाध्यासितमनुष्णावृत्तिजातिमद्, उष्णत्वाद्दीपवत् । वाय्ववृत्तित्वसाधने रूपित्वादिति वाच्यम् । (६ वायुत्वं) विवादाध्यासितमाकाशावृत्तिजातिमत्, स्पर्शत्वाद्घटवदिति । (७ आत्मत्वम्) विप्रतिपन्नमाकाशावृत्तिजातिवद्, अश्रौत्रविशेषगुणाधारत्वाद्घटवत् । (८ मनस्त्वम्) विवादपदमात्मावृत्तिजातिमद्, मूर्तत्वाद्घटवत् । (९ द्रव्यत्वादेः प्रत्यक्षत्वम्) विवादपदं कर्मावृत्तिचाक्षुषजातिग्राहकम्, इन्द्रियत्वान्मनोवत् । (१० रूपत्वम्) असमवायिकारणं पीतमपीतवृत्तिगन्धावृत्तिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति गन्धान्यत्वाद्घटवत् । (११ रूपत्वस्य प्रत्यक्षत्वम्) विप्रतिपन्नं स्पर्शनेन्द्रियाग्राह्यजातिग्राहकम्, स्पर्शनव्यतिरिक्तेन्द्रियत्वान्मनोवत् । एवं रसत्वादेरपि प्रत्यक्षत्वं वाच्यम् । (१२ नीलत्वम्) नीलमनीलरूपावृत्तिजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यनीलव्यतिरिक्तत्वाद्घटवत् । एवं पीतत्वादिष्वपि वाच्यम् । (१३ रसत्वम्) रसः संयोगावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति संयोगान्यत्वाद्घटवत् । (१४ मधुरत्वम्) मधुरोऽमधुररसावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यमधुररसव्यतिरिक्तत्वाद्घटवत् । एवं तिक्तत्वादिष्वपि वाच्यम् । (१५ गन्धत्वम्) गन्धो रूपावृत्तिजातिमान्, केवलनिमित्तकारणत्वे सति रूपान्यत्वाद्घटवत् । (१६ सुरभित्वम्) सुरभिरसुरभिगन्धावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यसुरभिगन्धान्यत्वाद्, घटवत् । (१७ स्पर्शत्वम्) स्पर्शो रसावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति रसान्यत्वाद्घटवत् । (१८ शीतत्वम्) शीतोऽशीतस्पर्शावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यस्पर्शान्यत्वाद्घटवत् । एवमशीतत्वादिष्वपि वाच्यम् । (१९ संख्यात्वम्) संख्या परिमाणावृत्तिजातिमती, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति परिमाणान्यत्वाद्, घटवत् । एवं द्वित्वादिष्वपि वाच्यम् । (२० परिमाणत्वम्) असमवायिकारणं महत्त्वं संख्यावृत्तिमहत्त्वान्यपरिमाणवृत्तिजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति संख्याव्यतिरिक्तत्वात्, तद्वत् । (२१ पृथक्त्वम्) असमवायिकारणं पृथक्त्वं परिमाणवृत्त्येकपृथक्त्वव्यतिरिक्तवृत्तिजातिमत्, परिमाणव्यतिरिक्तत्वे सति केवलनिमित्तकारणव्यतिरिक्तकारणत्वात्तद्वत् । एवं चैकपृथक्त्वादिष्वपि वाच्यम् । न च तत्र सामान्यभावः, एकपृथक्त्वद्विपृथक्त्वशब्दानामन्यथोपपत्तावपि नियामकापरजातिमन्तरेण द्विपृथक्त्वोत्पत्तावेकपृथक्त्वस्य हेतुत्वानिर्णयात् । अन्वयव्यतिरेकव्यवस्थापकाभावात् । (२२ संयोगत्वम्) विप्रतिपन्नमसमवायिकारणं पृथक्त्वावृत्तिजातिमत्केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति पृथक्त्वान्यत्वात्तद्वत् । (२३ विभागत्वम्) विभागः संयोगावृत्तिजातिमान्, संयोगव्यतिरिक्तत्वे सति द्वयासमवायिकारणत्वाद्द्वितन्तुकवत् । (२४ परत्वम्) परत्वं विभागावृत्तिजातिमत्, संयोगासमवायिकारणत्वात् । अपरत्वबुद्धित्वादिष्वप्येवं वाच्यम् । गुरुत्वद्रवत्वस्नेहसंस्कारेष्वपि प्राचीनमनुमानं वाच्यम् । (२५ ब्राह्मणत्वस्य प्रत्यक्षत्वम्) विवादाध्यासितं ब्राह्मणव्यतिरिक्तवर्णावृत्तिजातिग्राहकम्, इन्द्रियत्वात्, चक्षुर्वत् । (२६ ब्राह्मणत्वम्) ब्राह्मणोऽब्राह्ममनुष्यानाधारजात्याधारः, अब्राह्मणमनुष्यव्यतिरिक्तत्वे सत्यवयवित्वाद्, गोवत् । विवादाध्यासितः शरीरसन्तानोऽयोनिजः, शरीरसन्तानत्वाद्, गोमयजवृश्चिकशरीरसन्तानवदित्यनुमानेनाब्राह्मणपूर्वके क्वचिद्ब्राह्मणशब्दे प्राप्ते न ब्राह्मणजन्यशरीरनिबन्धनो ब्राह्मणशब्दः । एवं शूद्रत्वादिष्वप्यौपाधिकनिराकरणं वाच्यम् । (२७ कर्मत्वम्) उत्क्षेपणं गुणानाश्रयाक्षेपणत्वव्यतिरिक्तजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यगुणत्वाद्घटवत् । नन्वत्र कर्ममात्रपक्षीकारे वाय्वादिषु व्यभिचारः, अविप्रतिपन्नानामपि पक्षीकारे कर्मत्वासिद्धिः, किन्त्वन्यदेव कर्मवाय्वोरनुगतं सामान्यं स्यात् । नैवम्, न ह्यत्र परममीषामेकजातीयत्वं साध्यते, किन्तु गुणानाश्रयोत्क्षेपणत्वव्यतिरिक्तजातिमात्रम् । या चैकानेकतातीतिज्यामानांतनिर्णयथा(?) । तत्राकाशवृत्तिजातिमत्वादिति साधनैरतिरिक्तजातिप्रसक्तौ तद्विषयत्वेनाप्यस्य निर्वाहात्, न वाय्वादिष्वतिरिक्तानुगमे प्रमाणमस्ति । कर्मणि त्वनेन साध्यमानं न कर्मत्वादतिरिच्यते । गुणावृत्तित्वे सति सकलकर्मवृत्त्युत्क्षेपणत्वव्यतिरिक्तत्वस्य वा तत्त्वात् । तथाविधस्यात्र प्रतीतेः केवलकर्मत्वसाधनस्यात्र वाय्वादावनैकान्तिकत्वपरिहारार्थं विप्रतिपन्नपदोपादानम् । वाय्वादिगतं मानान्तरोपनीतं भेदमवगाहतेऽतो न कर्मत्वासिद्धिः । परन्तु वाय्वादौ प्रश्नः स्यात् । कथकानां कथान्तरहेत्वन्तराण्यप्यनुसन्धेयानि । एवं रूपत्वादिष्वप्यनुसन्धेयम् । तस्मादभिप्रेतसंसिद्धौ पीतापीतादिसमवेतत्वे सति गन्धावृत्तित्वमिति रूपत्वमित्यलम् । नित्यत्वे सत्यनेकसमवेतं सामान्यम् । _______________________________________________ [विशेषपदार्थप्रकरणम्] विवादपदं गुणसामान्यव्यतिरिक्तसमवायि, द्रव्यत्वाद्घटवत् । निःसामान्य एकेनैकसमवायी विशेषः । _______________________________________________ [समवायस्य निरूपणम्] विवादास्पदं घटसम्बद्धम्, द्रव्यत्वादात्मवत् । विवादास्पदं नित्यसंबन्धेन सम्बद्धं, द्रव्यत्वादाकाशवत् । आकाशशब्दयोश्च नित्यसम्बन्धो भाट्टैरभ्युपगम्यते, अतो न साध्यविकलता तत्र संयोगसमवायमात्रे विप्रत्तिपत्तिर्न धर्मिणि । अपरे तु संयोगः स्वव्यतिरिक्तसम्बन्धाद्भिन्नः, मेयत्वादिति ब्रुवते । कः पुनरत्रानुकूलतर्कः? [न तावत्] समानाधिकरणप्रतीत्यनुपपत्तिः, सा हि न सम्बन्धमात्रे, नाप्यसति सम्बन्धे रज्जुघटयोर्हिमवद्विन्ध्ययोश्च तदभावात् । भेदाभेदनिबन्धनासाविति चेत्, अस्ति तावद्भेदः सम्प्रतिपन्नो घटरूपयोः, अभेदः पुनः कः स्यात्? भेदाभावः, तद्विरोधस्तदन्यो वा? न तावत्प्रथमः, विरोधात् । न द्वितीयः, आश्रयकृतः स्वरूपकृतः कार्यकृतो वा विरोधः स्यात्, सर्वथा तद्विरोधानुवृत्तेः । द्वितीये तु तदेवास्तु किमनेन प्रथमेन? तृतीयः, समवायेनानतिरेकान्नास्ति तत्र विप्रतिपत्तिः । घटरूपयोरितरेतराभावो नास्तीति चेत्, भेदोऽस्ति, इतरेतराभावो नास्तीति व्याहतम्, तयोः पर्यायत्वात् । स्वरूपं भेदश्चेत्, तर्हि तत्प्रतीतेः प्रतियोगिसापेक्षत्वं दुर्घटम् । न च प्रथमद्वितीयौ, घटरूपयोरुभयोरभावप्रसङ्गात् । नापि चरमः, तयोर्हि कार्यं प्रतिपत्तिः स्यात्, तद्व्यतिरिक्तं वा किञ्चित्? तत्रैव स्थितिरितरप्रतिविरोधिनी तदतिरिक्तापेक्षिणी वा? प्रथमे न कदाचिदपि तयोः प्रतिपत्तिः स्यात्, सर्वदा तद्विरोधानुवृत्तेः । द्वितीये तु तावदेवास्तु किमनेन? तृतीये सविदां जन्मैव दुर्घटम् । यद्यस्माद्भिन्नशब्दवाच्यम्, तत्तदपेक्षया भिन्नम्, यथा घटापेक्षया घटगतं रूपमिति । विवादाध्यासिताः शब्दा आकाशसमवायेनैव समवायिनः, समवायित्वात्, शब्दाकाशवत् । न च समवायस्यैकत्वे वस्तुसङ्करप्रसङ्गः, तस्य समस्तविश्वासंकरत्वेनैव परिकल्पितत्वात् । न हि तस्याप्रत्यक्षस्य पूर्वं स्वभावो निर्धारितः । एकस्य भिन्नस्वभावत्वेऽन्य इति चेत्, न, चित्ररूपवत्तथाविधस्यैकस्वभावात् । एवं च कल्पनालाघवात्समवायस्य नियत्वं क्वचित्परेणाभ्युपगमात् । तस्मात्तत्समवायस्य नित्यत्वम्, एकत्वस्य साधितत्वात् । समवायोऽस्मदादिप्रत्यक्षो न भवति, अस्मादादिप्रत्यक्षाप्रत्यक्षसम्बन्धत्वाद्, घटाकाशसम्बन्धवत् । नित्यसम्बन्धः समवायः । इहप्रत्ययविषयीभावः । _______________________________________________ [अभावपदार्थप्रकरणम्] यदि नास्तीति प्रत्ययवेद्यमानोऽपि त्वया नेष्ट इति वक्तुं नोचितम् । केवलज्ञानं चास्माभिरभ्युपगतमिति, तदपि विकल्प्य दूषणीयम् । पतनादिकार्यं प्रतिबन्धकाभावोत्पादककारणादेवोत्पाद्यते कार्यत्वाद्दाहादिवत् । अघटं भूतलमिति व्यवहारो भूतलातिरिक्तविषयः, भूतलमात्रव्यवहारातिरिक्तत्वे सति भूतलव्यवहारत्वादिति मानं भूतलमिति व्यवहारेणानैकान्तिकम् । तथाप्यभावोऽभ्युपगन्तव्यः केवलज्ञानाभावेऽप्यभावव्यहारदर्शनात् । भवति हि घटतद्रूपयोः सहोपलम्भेऽपि रूपं घटो न भवतीति भिन्नश्चोत्पादव्यवहारः, न च तत्र केवलज्ञानमस्ति । आधाराग्रहणेऽपि सर्वेषामन्तराले आलोकाभावव्यवहारात् । करपरामर्शेणान्धकारेऽन्धस्यापि मूर्ताभावव्यवहारदर्शनात् । किञ्च चक्षुश्चक्षुर्ग्राह्यभावव्यतिरिक्तग्राहकम्, इन्द्रियत्वात् । स चतुर्विधः, प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदात् । प्रतियोगिभेदाद्भिन्नत्वमभावस्य, तादात्म्यसंसृष्टपूर्वापरसंसृष्टानां प्रतियोगित्वात् । अन्यथा प्रतिबन्धकाभावस्य कारणत्वं दुर्घटम् । अत्यन्ताभावस्यापीतरेतराभावेऽन्तर्भावात् । तस्य च सत्यपि प्रतिबन्धे भावाद्व्यभिचारः । समवायान्योऽसमवाय्यभावः । _______________________________________________ [पदार्थान्तरनिराकरणम्] (१ शक्तेः पदार्थान्तरत्वनिरासः) शक्तिरपि पदार्थान्तरमस्तीति चेत्, न, तत्सद्भावे प्रमाणाभावात् । स्फोटानुपपत्तिरिति चेत्, न, प्रतिबन्धाभावेनाप्युपपत्तेः । तत्र च प्रागभावादिविकल्पाः योग्यतानुपलब्धिसामान्येन परिहर्तव्याः । कार्यलक्षणाभ्युपगमेनोत्तम्भकमन्त्रस्य स्फोटोत्पत्तावपि नानियतहेतुत्वम् । ब्रीहीन् प्रोक्षतीति द्वितीयायाश्च न तत्समवेतसंस्कारवाचकत्वं क्रियाजन्यफलभागित्वं च न तत्समवायिनमाक्षिपति, किन्तु तादर्थ्यमात्रम् । अन्यथोपयुक्तानां प्रस्तरादीनां होमेनोत्पाद्यमानः संस्कारो न तेषां स्यात्, तेषां विनष्टत्वात् । न च तत्र संस्कार्यत्वं नास्ति, ’’भूतभाव्युपयोगं च द्रव्यं संस्कारमर्हति"इति न्यायात् । तत्र च निराश्रयस्य संस्कारस्यावस्थानानुपपत्तेरात्माश्रयत्वं कल्पनीयम् । तद्वदितरत्रापि भवतु, को दोषः? (२ ज्ञाततायाः पदार्थान्तरत्वनिरासः) घटमहं जानामीत्यत्र प्राभाकराणां नये ज्ञानजनितफलस्य घटे कस्यचिदभावात्तत्र कथं कर्मत्वमिति चिन्त्यम् । अत एव भाट्टैर्ज्ञातताऽभ्युपगम्यते इति चेत्, तेषामप्यतीतानागतेषु का वार्त्ता? तत्रापि जातेरनुवर्तमानत्वाददोष इति चेत्, कथं तर्हि व्यक्तौ ज्ञातत्वम्? तयोरभेदादिति चेत्, न, भेदस्यापि विद्यमानत्वात् । भेदेऽप्यदोष इति चेत्, न, रसनेन रसज्ञानमात्रेणैव तदाश्रयस्यापि ज्ञातत्वप्रसङ्गात् । सत्ताज्ञानत्वमात्रेणैव जात्यन्धस्यापि रूपज्ञानप्रसङ्गः । ज्ञाततानभ्युपगमात्कथं ज्ञानस्य विषयनियम इति चेत्, ज्ञातताया एव कथमाश्रयनियमः? कारणमहिम्नेति चेत्, समः समाधिः । (३ विशिष्टतयाः पदार्थान्तरतानिरासः) एतेन विशिष्टतापि निराकृता, तदुत्पादकसामग्र्या एव विजातीयज्ञानोत्पत्तावप्युपपत्तेः । न च विषयवैलक्षण्याभावे वैजात्यं दुर्घटम्, अनुभवस्मृत्योरवैजात्यप्रसङ्गात्, अधिकविषयत्वे स्मृतेरपि प्रमाणत्वप्रसङ्गात् । अन्याया विशिष्टताया अतीतानागतेष्ववस्थनं दुर्घटम्, आश्रयाभावात् । (४ विषयीभावस्य पदार्थान्तरनिरासः) एतेन विषयीभावरूपः सम्बन्धो निरस्तः, तन्नियामकेनैव ज्ञानार्थयोर्नियमोपपत्तेः । एवं सान्निध्यादयोऽपि निराकर्तव्याः । (५ सादृश्यस्य पदार्थान्तरत्वनिरासः) अस्तु तर्हि सादृश्यं पदार्थान्तरमिति चेत्, न, मानाभावात् । न च व्यवहारो मानम्, तस्य सामान्यादिसम्बन्धत्वेनाप्युपपत्तेः । कथं तर्हि सामान्ये सादृश्यव्यवहारः, कुतः श्येनचितं चिन्वीत (तै सं ५.४.११) इत्यत्रातिदेशनम्? तत्रापि व्यक्तिसादृश्यस्यैव प्रतीतेः । व्यक्तेश्च शब्दार्थत्वात्, श्येनत्वैकार्थसमवेतद्वित्रधर्मवतोऽनुष्ठानस्य सम्भवात् । संकेतग्रहस्यौपाधिकशब्दवदुपपत्तेः । (६ प्रधानस्य पदार्थान्तरत्वप्रत्याख्यानम्) एवं प्रधानादयोऽपि निराकार्याः, साधकाभावात् । न च विवादपदं साक्षात्परम्परया वा प्रकृतिजन्यम्, कार्यत्वादित्यवीतमिति वाच्यम्, व्यप्त्यसिद्धेः । न च सुखदुःखमोहाः कारणपूर्वकाः, कार्यत्वादिति साम्प्रतम्, संयोगादिषु व्यभिचारात् । न च सदुत्पत्तिपर्यालोचनया तत्सिद्धः, तत्रैव विवादात् । न च तदर्थमुपादीयमानत्वात्तत्र सत्त्वम्, निमित्तकारणे व्यभिचारात् । न च सति कारणव्यापारः असार्थकत्वादिति जातिनियमज्ञेन व्यवस्था घटते । येनैव प्रमाणेन घटभावसिद्धिस्तेनैव प्रमाणेन योग्यानुपलब्ध्या पटोत्पत्तेः पूर्वं तन्तुष्वपि पटाभावसिद्धिः । अयोग्यत्वेनानुपलब्धिशङ्कायामितरत्रापि सम्भावनां को निवारयेत्? कार्यापेक्षया चरमसहकारिकारणादुत्पत्तिरिति नानवस्थादूषणम्, मूलक्षतेरभावात् । नापि पुनरुक्तत्वविरोधो घटादिभिस्तस्याश्चोत्पत्तेरभ्युपगमात् । अभिव्यक्ते तु सर्वासामभिव्यक्तीनां सदातनत्वाद्दृष्टादृष्टव्यास्थादौःस्थ्यम् । किं बहुना ’’परस्परविरोधे हि न प्रकारान्तरस्थितिः"इति न्यायात्पदार्थान्तराणां न सम्भवः, सप्तलक्षणानां परस्परविरोधादिति । _______________________________________________ [मोक्षप्रकरणम्] तत्र हि द्रव्यादिनां हेयोपादेयस्वरूपेण ज्ञाने सति संसारस्य दुःखभूयस्त्वं पश्यतः सुखमपि दुःखानुषङ्गाद्दुःखपक्षे निक्षिप्तम् । उपनिषदा च ज्ञातजीवात्मब्रह्मणो वैशेषिकोक्तदृशा भगवद्भक्तिमनस्कस्य सद्गुरुकटाक्षपातक्षीणान्तरायस्य परमेश्वरसाक्षात्कारकुतूहलिनोऽहोरात्रं निदिध्यासनमाचरतोऽनन्तकालक्रमेण परिपक्वज्ञानस्य प्रकृष्टयोगजधर्मशालिनः कथञ्चित्साक्षात्कृतपरमेश्वरस्य प्रवृद्धप्रतिपक्षनिरवकाशीकृतमिथ्याज्ञानस्य कारणाभावादपगतरागद्वेषप्रवृत्तिसम्भावनस्याशेषदुःखाभावात्स्वेन रूपेणावस्थानं भवति । स चायं मोक्ष इति मनीषिभिरुदाह्रियते । न च सुखस्याप्यभावादप्रवृत्तिः, भवतामपि सुखस्याप्रवृत्तिकरत्वात् । न हि तत्साध्यम्, नित्यत्वव्याघातात् । न हि सिद्धार्थे कश्चित्प्रयतते इति भवतामपि अविद्यानिवृत्तिरेव कृतिसाध्या, ततश्च तदेव प्रयोजनं यथाह ’’यमर्थमधिकृत्य प्रवर्तते, तत्प्रयोजनम्"(न्या सू १.१.२४) । ’’ानन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते"इति सन्तोषजसुखभिप्रायेण गौण्या वृत्त्या दुःखाभावाभिप्रायेण वा कथंचिद्गुणवाद इति, ’’शरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः"(छा उ ८.१२.१) इति वचनात् । न च सांसारिकसुखाभिप्रायेण तत्, सांसारिकसुखस्यापि ब्रह्मसुखानतिरिक्तत्वात् । स्वयम्प्रकाशत्वे च स्वस्य मुक्तिसंसारयोरविशेषप्रसङ्गात् । अत्र केचित्दुःखपरिहारार्थं ज्ञानसुखयोः पूर्वं विषयविषयिभावोऽनुपपन्नः पश्चादुत्पाद्य इति ब्रूयुः । तदसाम्प्रतम्, तत्सद्भावे प्रमाणाभावात् । यस्य लोकेऽप्रसिद्धिः, तस्य प्रयोजकत्वमित्यपि दुर्घटमेव । नेह ज्ञानमस्ति, विषयविषयिभावो नास्तीति दृष्टपूर्वम्, ज्ञानस्य वाक्येनोत्पादकसामग्र्या एव वा तदुत्पादकत्वात् । प्रधानादिनिरासेनैव तदुक्तमोक्षस्यापि भङ्गो वेदितव्यः । विमतं कदाचिद्विशेषगुणरहितम्, विज्ञानासमवायिकारणाधारत्वादनित्यविशेषगुणाधारत्वान्मनोवद्व्योमवच्च । न च जीवा नित्यज्ञाना आत्मवदीश्वरवदिति साम्प्रतम्, ईश्वरस्वरूपस्यैवोपाधेः । पिण्डव्यभिचाराभावात् । न च नित्यविशेषगुणाधारा इति साध्यर्थः, अपार्थिवद्व्यणुकारम्भकत्वे सति विशेषगुणवत्त्वोपाधेः । विशेषणाभावाद्भवतां पुनर्विशेषगुणरहितत्वात् । सुखत्वं नित्यसमवेतम्, तज्जातित्वादिति तु तद्गतनिकर्षत्वेन व्यभिचरतात्यलमतिप्रसङ्गेन । नमस्त्रिपथगाक्रान्तजटाजूटाय शम्भवे । नमस्ते जगदुत्पत्तिस्थितिध्वंसविधायिने ॥ इति श्रीवादिवागीश्वराचार्यविरचितः मानमनोहरः समाप्तः ॥