अथातो धर्मं व्याख्यास्यामः । १,१.१ । यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १,१.२ । तद्वचनादाम्नायस्य प्रामाण्यम् । १,१.३ । धर्मविशेष प्रसूतात्द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । १,१.४ । पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । १,१.५ । रुपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । १,१.६ । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । १,१.७ । सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । १,१.८ । द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । १,१.९ । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । १,१.१० । कर्म कर्मसाध्यं न विद्यते । १,१.११ । न द्रव्यं कारणं च भवति । १,१.१२ । उभयथा गुणाः । १,१.१३ । कार्यविरोधि कर्म । १,१.१४ । क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् । १,१.१५ । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १,१.१६ । एकद्रव्यमगुणं संयोगविभागेष्वनपेक्ष कारणमिति कर्मलक्षणम् । १,१.१७ । द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १,१.१८ । तथा गुणः । १,१.१९ । संयोगविभागवेगानां कर्म समानम् । १,१.२० । न द्रव्याणां कर्म । १,१.२१ । व्यतिरेकात् । १,१.२२ । द्रव्याणां द्रव्यं कार्यं सामान्यम् । १,१.२३ । गुणवैधर्म्यान्न कर्मणां कर्म । १,१.२४ । द्वित्वप्रभृतयः संख्याः पृथक्त्व संयोग विभागाश्च । १,१.२५ । असमवायात्सामान्यकार्यं कर्म न विद्यते । १,१.२६ । संयोगानां द्रव्यम् । १,१.२७ । रूपाणां रूपम् । १,१.२८ । गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । १,१.२९ । संयोगविभागाश्च कर्मणाम् । १,१.३० । कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । १,१.३१ । कारणाभावात्कार्याभावः । १,२.१ । न तु कार्याभावात्कारणाभावः । १,२.२ । सामान्यविशेष इति बुद्ध्यपेक्षम् । १,२.३ । भावोऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव । १,२.४ । द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । १,२.५ । अन्यत्रान्त्येभ्यो विशेषेभ्यः । १,२.६ । सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । १,२.७ । द्रव्यगुणकर्मभ्योर्ऽथान्तरं सत्ता । १,२.८ । गुणकर्मसु च भावान्न कर्म न गुणः । १,२.९ । सामान्यविशेषाभावेन च । १,२.१० । अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । १,२.११ । सामान्यविशेषाभावेन च । १,२.१२ । तथा गुणेषु भावाद्गुणत्वमुक्तम् । १,२.१३ । सामान्यविशेषाभावेन च । १,२.१४ । कर्मसु भावात्कर्मत्वमुक्तम् । १,२.१५ । सामान्यविशेषाभावेन च । १,२.१६ । सदिति लिङ्गाविशेषात्विशेषलिङ्गाभावाच्चैको भावः । १,२.१७ । ______________________________________________________________________ रूपरसगन्धस्पर्शवती पृथिवी । २,१.१ । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । २,१.२ । तेजो रूपस्पर्शवत् । २,१.३ । स्पर्शवान् वायुः । २,१.४ । त आकाशे न विद्यन्ते । २,१.५ । सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । २,१.६ । त्रपुसीस लोह रजत सुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । २,१.७ । विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् । २,१.८ । स्पर्शश्च वायोः । २,१.९ । न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २,१.१० । अद्रव्यवत्त्वेन द्रव्यम् । २,१.११ । क्रियावत्त्वात्गुणवत्त्वाच्च । २,१.१२ । अद्रव्यत्वेन नित्यत्वमुक्तम् । २,१.१३ । वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् । २,१.१४ । वायुसन्निकर्षे प्रत्यक्षाभावात्दृष्टं लिङ्गं न विद्यते । २,१.१५ । सामान्यतो दृष्टाच्चाविशेषः । २,१.१६ । तस्मादागमिकम् । २,१.१७ । संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । २,१.१८ । प्रत्यक्षप्रवृत्तत्वात्संज्ञाकर्मणः । २,१.१९ । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । २,१.२० । तदलिङ्गमेकद्रव्यत्वात्कर्मणः । २,१.२१ । कारणान्तरानुकिप्ति वैधर्म्याच्च । २,१.२२ । संयोगादभावः कर्मणः । २,१.२३ । कारणगुणपूर्वकः कार्यगुणो दृष्टः । २,१.२४ । कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः । २,१.२५ । परत्र समवायात्प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २,१.२६ । परिशेषाल्लिङ्गमाकाशस्य । २,१.२७ । द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २,१.२८ । तत्त्वम्भावेन । २,१.२९ । शब्दालिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च । २,१.३० । तदनुविधानादेकपृथक्त्वञ्चेति । २,१.३१ । पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । २,२.१ । व्यवस्थितः पृथिव्यां गन्धः । २,२.२ । एतेनोष्णता व्याख्याता । २,२.३ । तेजस उष्णता । २,२.४ । अप्सु शीतता । २,२.५ । अपरस्मिन्नपरं युगपत्चिरं क्षिप्रमिति काललिङ्गानि । २,२.६ । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २,२.७ । तत्त्वम्भावेन । २,२.८ । नित्योष्वभावादनित्येषु भावात्कारणे कालाख्येति । २,२.९ । इत इदमिति यतस्तद्दिश्यं लिङ्गम् । २,२.१० । द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २,२.११ । तत्त्वम्भावेन । २,२.१२ । कार्यविशेषेण नानात्वम् । २,२.१३ । आदित्यसंयोगात्भूतपूर्वात्भविष्यतो भूताच्च प्राची । २,२.१४ । तथा दक्षिणा प्रतीची उदीची च । २,२.१५ । एतेन दिगन्तरालानि व्याख्यातानि । २,२.१६ । सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । २,२.१७ । दृष्टञ्च दृष्टवत् । २,२.१८ । यथादृष्टमयथादृष्टत्वाच्च । २,२.१९ । विद्याविद्यातश्च संशयः । २,२.२० । श्रोत्रग्रहणो योर्ऽथः स शब्दः । २,२.२१ । तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् । २,२.२२ । एकद्रव्यत्वान्न द्रव्यम् । २,२.२३ । नापि कर्माचाक्षुषत्वात् । २,२.२४ । गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । २,२.२५ । सतो लिङ्गाभावात् । २,२.२६ । नित्यवैधर्म्यात् । २,२.२७ । अनित्यश्चायं कारणतः । २,२.२८ । ज चासिद्धं विकारात् । २,२.२९ । अभिव्यक्तौ दोषात् । २,२.३० । संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः । २,२.३१ । लिङ्गाच्चानित्यः शब्दः । २,२.३२ । द्वयोस्तु प्रवृत्त्योरभावात् । २,२.३३ । प्रथमाशब्दात् । २,२.३४ । सम्प्रतिपत्तिभावाच्च । २,२.३५ । सन्दिग्धाः सति बहुत्वे । २,२.३६ । संख्याभावः सामान्यतः । २,२.३७ । ______________________________________________________________________ प्रसिद्धा इन्द्रियार्थाः । ३,१.१ । इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्ऽथान्तरस्य हेतुः । ३,१.२ । सोऽनपदेशः । ३,१.३ । कारणाज्ञानात् । ३,१.४ । कार्येषु ज्ञानात् । ३,१.५ । अज्ञानाच्च । ३,१.६ । अन्यदेव हेतुरित्यनपदेशः । ३,१.७ । अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । ३,१.८ । संयोगि समवाय्येकार्थसमवायि विरोधि च । ३,१.९ । कार्यं कार्यान्तरस्य । ३,१.१० । विरोध्यभूतं भूतस्य । ३,१.११ । भूतमभूतस्य । ३,१.१२ । भूतो भूतस्य । ३,१.१३ । प्रसिद्धिपूर्वकत्वादपदेशस्य । ३,१.१४ । अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः । ३,१.१५ । यस्माद्विषाणी तस्मादश्वः । ३,१.१६ । यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम् । ३,१.१७ । आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् । ३,१.१८ । प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । ३,१.१९ । आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् । ३,२.१ । तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते । ३,२.२ । प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् । ३,२.३ । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तर विकाराः सुखदुःखेच्छाद्वेष प्रयत्नाश्चात्मनो लिङ्गानि । ३,२.४ । तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३,२.५ । यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात्दृष्टं लिङ्गं न विद्यते । ३,२.६ । सामान्यतो दृष्टाच्चाविशेषः । ३,२.७ । तस्मादागमिकः । ३,२.८ । अहमिति शब्दस्य व्यतिरेकान्नागमिकम् । ३,२.९ । यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । ३,२.१० । दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात्प्रत्यक्षवत्प्रत्ययः । ३,२.११ । देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः । ३,२.१२ । सन्दिग्धास्तूपचाराः । ३,२.१३ । अहमिति प्रत्यगात्मनि भावात्परत्राभावादर्थान्तर प्रत्यक्षः । ३,२.१४ । देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः । ३,२.१५ । सन्दिग्धस्तूपचारः । ३,२.१६ । न तु शरीरविशेषाद्यज्ञदत्त विष्णुमित्रयोर्ज्ञानविषयः । ३,२.१७ । अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेष सिद्धेर्नागमिकः । ३,२.१८ । सुखदुःख ज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । ३,२.१९ । व्यवस्थातो नाना । ३,२.२० । शास्त्रसामर्थ्याच्च । ३,२.२१ । ______________________________________________________________________ सदकारणवन्नित्यम् । ४,१.१ । तस्य कार्यं लिङ्गम् । ४,१.२ । कारणभावात्कार्याभावः । ४,१.३ । अनित्य इति विशेषतः प्रतिषेधभावः । ४,१.४ । अविद्या । ४,१.५ । महत्यनेकद्रव्यवत्त्वात्रूपाच्चोपलब्धिः । ४,१.६ । सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः । ४,१.७ । अनेकद्रव्यसमवायात्रूपविशेषाच्च रूपोपलब्धिः । ४,१.८ । तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४,१.९ । तस्याभावादव्यभिचारः । ४,१.१० । संख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात्चाक्षुषाणि । ४,१.११ । अरूपिष्वचाक्षुषाणि । ४,१.१२ । एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् । ४,१.१३ । तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । ४,२.१ । प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात्पञ्चात्मकं न विद्यते । ४,२.२ । गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् । ४,२.३ । अणुसंयोगस्त्वप्रतिषिद्धः । ४,२.४ । तत्र शरीरं द्विविधं योनिजमयोनिजं च । ४,२.५ । अनियतदिग्देशपूर्वकत्वात् । ४,२.६ । धर्मविशेषाच्च । ४,२.७ । समाख्याभावाच्च । ४,२.८ । संज्ञाया आदित्वात् । ४,२.९ । सन्त्ययोनिजाः । ४,२.१० । वेदलिङ्गाच्च । ४,२.११ । ______________________________________________________________________ आत्मसंयोग प्रयत्नाभ्यां हस्ते कर्म । ५,१.१ । तथा हस्तसंयोगाच्च मुसले कर्म । ५,१.२ । अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः । ५,१.३ । तथात्मसंयोगो हस्तकर्मणि । ५,१.४ । अभिघातान्मुसलसंयोगाद्धस्ते कर्म । ५,१.५ । आत्मकर्म हस्तसंयोगाच्च । ५,१.६ । संयोगाभावे गुरुत्वात्पतनम् । ५,१.७ । नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम् । ५,१.८ । प्रयत्नविशेषान्नोदन विशेषः । ५,१.९ । नोदनविशेषादुदसनविशेषः । ५,१.१० । हस्तकर्मणा दारककर्म व्याख्यातम् । ५,१.११ । तथा दग्धस्य विस्फोटने । ५,१.१२ । यत्नाभावे प्रसुप्तस्य चलनम् । ५,१.१३ । तृणे कर्म वायुसंयोगात् । ५,१.१४ । मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् । ५,१.१५ । इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः । ५,१.१६ । नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च । ५,१.१७ । संस्काराभावे गुरुत्वात्पतनम् । ५,१.१८ । नोदनाभिघातात्संयुक्तसंयोगाच्च पृथिव्यां कर्म । ५,२.१ । तद्विशेषेणादृष्टकारितम् । ५,२.२ । अपां संयोगाभावे गुरुत्वात्पतनम् । ५,२.३ । द्रवत्वात्स्यन्दनम् । ५,२.४ । नाड्या वायुसंयोगादारोहणम् । ५,२.५ । नोदनापीडनात्संयुक्तसंयोगाच्च । ५,२.६ । वृक्षाभिसर्पणमित्यदृष्टकारितम् । ५,२.७ । अपां सङ्घातो विलयनं च तेजः संयोगात् । ५,२.८ । तत्र विस्फूर्जतुर्लिङ्गम् । ५,२.९ । वैदिकं च । ५,२.१० । अपां संयोगाद्विभागाच्च स्तनयित्नोः । ५,२.११ । पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् । ५,२.१२ । अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् । ५,२.१३ । हस्तकर्मणा मनसः कर्म व्याख्यातम् । ५,२.१४ । आत्मेन्द्रियमनोर्ऽथसन्निकर्षात्सुख दुःखे । ५,२.१५ । तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः संयोगः । ५,२.१६ । अपसर्पणमुपसर्पणमशित पीतसंयोगाः कार्यान्तर संयोगाश्चेत्यदृष्टकारितानि । ५,२.१७ । तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः । ५,२.१८ । द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः । ५,२.१९ । तेजसो द्रव्यान्तरेणावरणाच्च । ५,२.२० । दिक्कालावाकाशं च क्रियावद्वैधर्म्यान्निष्क्रियाणि । ५,२.२१ । एतेन कर्माणि गुणाश्च व्याख्याताः । ५,२.२२ । निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः । ५,२.२३ । कारणं त्वसमवायिनो गुणाः । ५,२.२४ । गुणैर्दिक्व्याख्याता । ५,२.२५ । कारणेन कालः । ५,२.२६ । ______________________________________________________________________ बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६,१.१ । ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् । ६,१.२ । बुद्धिपूर्वो ददातिः । ६,१.३ । तथा प्रतिग्रहः । ६,१.४ । आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् । ६,१.५ । तद्दुष्टभोजने न विद्यते । ६,१.६ । दुष्टं हिंसायाम् । ६,१.७ । तस्य समभिव्याहारतो दोषः । ६,१.८ । तददुष्टे न विद्यते । ६,१.९ । पुनर्विशिष्टे प्रवृत्तिः । ६,१.१० । समे हीने वा प्रवृत्तिः । ६,१.११ । एतेन हीनसमविशिष्ट धार्मिकेभ्यः परस्वादानं व्याख्यातम् । ६,१.१२ । तथा विरुद्धानां त्यागः । ६,१.१३ । हीने परे त्यागः । ६,१.१४ । समे आत्मत्यागः परत्यागो वा । ६,१.१५ । विशिष्टे आत्मत्याग इति । ६,१.१६ । दृष्टादृष्ट प्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय । ६,२.१ । अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थ यज्ञदान प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय । ६,२.२ । चातुराश्रम्यमुपधा अनुपधाश्च । ६,२.३ । भावदोष उपधादोषोऽनुपधा । ६,२.४ । यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि । ६,२.५ । अशुचीति शुचिप्रतिषेधः । ६,२.६ । अर्थान्तरं च । ६,२.७ । अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद्विद्यते वार्ऽथान्तरत्वाद्यमस्य । ६,२.८ । असति चाभावात् । ६,२.९ । सुखाद्रागः । ६,२.१० । तन्मयत्वाच्च । ६,२.११ । अदृष्टाच्च । ६,२.१२ । जातिविशेषाच्च । ६,२.१३ । इच्छाद्वेषपूर्विका धर्माधर्म प्रवृत्तिः । ६,२.१४ । तत्संयोगो विभागः । ६,२.१५ । आत्मकर्मसु मोक्षो व्याख्यातः । ६,२.१६ । ______________________________________________________________________ उक्ता गुणाः । ७,१.१ । पृथिव्यादि रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च । ७,१.२ । एतेन नित्येषु नित्यत्वमुक्तम् । ७,१.३ । अप्सु तेजसि वायौ च नित्या द्रव्यनित्यवात् । ७,१.४ । अनित्येष्वनित्या द्रव्यानित्यत्वात् । ७,१.५ । कारणगुणपूर्वकाः पृथिव्यां पाकजाः । ७,१.६ । एकद्रव्यत्वात् । ७,१.७ । अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । ७,१.८ । कारण बहुत्वाच्च । ७,१.९ । अतो विपरितमणु । ७,१.१० । अणु महदिति तस्मिन् विशेषभावात्विशेषाभावाच्च । ७,१.११ । एककालत्वात् । ७,१.१२ । दृष्टान्ताच्च । ७,१.१३ । अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः । ७,१.१४ । कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः । ७,१.१५ । अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः । ७,१.१६ । एतेन दीर्घत्व ह्रस्वत्वे व्याख्याते । ७,१.१७ । अनित्येऽनित्यम् । ७,१.१८ । नित्ये नित्यम् । ७,१.१९ । नित्यं परिमण्डलम् । ७,१.२० । अविद्या च विद्यालिङ्गम् । ७,१.२१ । विभवान्महानाकाशः तथा चात्मा । ७,१.२२ । तदभावादणु मनः । ७,१.२३ । गुणैर्दिग्व्याख्याता । ७,१.२४ । कारणेन कालः । ७,१.२५ । रुपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् । ७,२.१ । तथा पृथक्त्वम् । ७,२.२ । एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.३ । निः संख्यत्वात्कर्मगुणानां सर्वैकत्वं न विद्यते । ७,२.४ । भ्रान्तं तत् । ७,२.५ । एकत्वाभावाद्भक्तिस्तु न विद्यते । ७,२.६ । कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते । ७,२.७ । एतदनित्ययोर्व्याख्यातम् । ७,२.८ । अन्यतरकर्मज उभकर्मजः संयोगजश्च संयोगः । ७,२.९ । एतेन विभागो व्याख्यातः । ७,२.१० । संयोगविभागयोः संयोगविभागाभावः अणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.११ । कर्मभिः कर्माणि गुणैर्गुणा अणुत्व महत्त्वाभ्यामिति । ७,२.१२ । युतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते । ७,२.१३ । गुणत्वात् । ७,२.१४ । गुणोऽपि विभाव्यते । ७,२.१५ । निष्क्रियत्वात् । ७,२.१६ । असति नास्तीति च प्रयोगात् । ७,२.१७ । शब्दार्थावसम्बन्धौ । ७,२.१८ । संयोगिनो दण्डात्समवायिनो विशेषाच्च । ७,२.१९ । सामयिकः शब्दादर्थप्रत्ययः । ७,२.२० । एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च । ७,२.२१ । कारणपरत्वात्कारणापरत्वाच्च । ७,२.२२ । परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.२३ । कर्मभिः कर्माणि । ७,२.२४ । गुणैर्गुणाः । ७,२.२५ । इहेदमिति यतः कार्यकारणयोः स समवायः । ७,२.२६ । तत्त्वम्भावेन । ७,२.२७ । ______________________________________________________________________ द्रव्येषु ज्ञानं व्याख्यातम् । ८,१.१ । तत्रात्मा मनश्चाप्रत्यक्षे । ८,१.२ । ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः । ८,१.३ । गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेः द्रव्यं कारणम् । ८,१.४ । सामान्यविशेषेषु सामान्यविशेषाभावात्तदेव ज्ञानम् । ८,१.५ । सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८,१.६ । द्रव्ये द्रव्यगुणकर्मापेक्षम् । ८,१.७ । गुणकर्मसु गुणकर्माभावात्गुणकर्मापेक्षं न विद्यते । ८,१.८ । समवायिनः श्वैत्याच्छ्वैत्य बुद्धेश्च श्वेते बुद्विस्ते एते कार्यकारणभूते । ८,१.९ । द्रव्येष्वनितरेतरकारणाः । ८,१.१० । कारणायौगपद्यात्कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् । ८,१.११ । अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम् । ८,२.१ । दृष्टेषु भावाददृष्टेष्वभावात् । ८,२.२ । अर्थ इति द्रव्यगुणकर्मसु । ८,२.३ । द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् । ८,२.४ । भूयस्त्वात्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः । ८,२.५ । तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात् । ८,२.६ । ______________________________________________________________________ क्रियागुणव्यपदेशाभावात्प्रागसत् । ९,१.१ । सदसत् । ९,१.२ । असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् । ९,१.३ । सच्चासत् । ९,१.४ । यच्चान्यदसदतस्तदसत् । ९,१.५ । असदिति भूतप्रत्यक्षाभावात्भूतस्मृतेर्विरोधिप्रत्यक्षवत् । ९,१.६ । तथाभावे भावप्रत्यक्षाच्च । ९,१.७ । एतेनाघटोऽगौरधर्मश्च व्याख्याताः । ९,१.८ । अभूतं नास्तीत्यनर्थान्तरम् । ९,१.९ । नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः । ९,१.१० । आत्मन्यात्ममनसोः संयोगादात्मप्रत्यक्षम् । ९,१.११ । तथा द्रव्यान्तरेषु प्रत्यक्षम् । ९,१.१२ । असमाहितान्तः करणा उपसंहृतसमाधयस्तेषाञ्च । ९,१.१३ । तत्समवायात्कर्मगुणेषु । ९,१.१४ । आत्मसमवायादात्मगुणेषु । ९,१.१५ । अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् । ९,२.१ । अस्येदं कार्य कारणसम्बन्धश्चावयवाद्भवति । ९,२.२ । एतेन शाब्दं व्याख्यातम् । ९,२.३ । हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् । ९,२.४ । अस्येदमिति बुद्ध्यपेक्षितत्वात् । ९,२.५ । आत्मनः संयोगविशेषात्संस्काराच्च स्मृतिः । ९,२.६ । तथा स्वप्नः । ९,२.७ । स्वप्नान्तिकम् । ९,२.८ । धर्माच्च । ९,२.९ । इन्द्रियदोषात्संस्कारदोषाच्चाविद्या । ९,२.१० । तद्दुष्टज्ञानम् । ९,२.११ । अदुष्टं विद्या । ९,२.१२ । आर्षं सिद्धदर्शनं च धर्मेभ्यः । ९,२.१३ । ______________________________________________________________________ इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोर्थान्तरभावः । १०,१.१ । संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः । १०,१.२ । तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् । १०,१.३ । अभूदित्यपि । १०,१.४ । सति च कार्यादर्शनात् । १०,१.५ । एकार्थसमवायि कारणान्तरेषु दृष्टत्वात् । १०,१.६ । एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः । १०,१.७ । कारणमिति द्रव्ये कार्यसमवायात् । १०,२.१ । संयोगाद्वा । १०,२.२ । कारणे समवायात्कर्माणि । १०,२.३ । तथा रूपे कारणैकार्थसमवायाच्च । १०,२.४ । कारणसमवायात्संयोगः पटस्य । १०,२.५ । कारणाकारणसमवायाच्च । १०,२.६ । संयुक्तसमवायादग्नेर्वैशेषिकम् । १०,२.७ । दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । १०,२.८ । तद्वचनादाम्नायस्य प्रमाण्यमिति । १०,२.९ ।