जगज्जन्मादिकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् । तदयुक्तम्- तद्धि न वाक्यप्रतिपाद्यम् । अनुमानेन सिद्धेः इत्याशङ्क्याह शास्त्रयोनित्वात् ॥१,१.३॥ शस्त्रं यस्य योनिः कारणं, प्रमाणम्, तच्छास्त्रयोनिः- तस्य भावश्शास्त्रयोनित्वम्- तस्मात् । ब्रह्मज्ञानकारणत्वाच्छास्त्रस्य तद्योनित्वं ब्रह्मणः । अत्यन्तातीन्द्रियत्वेन प्रत्यक्षादिप्रमाणाविषयतया ब्रह्मणश्शास्त्रैकप्रमाणकत्वादुक्तस्वरूपं ब्रह्म यतो वा इमानि भूतानीत्यादिवाक्यं बोधयत्येवेत्यर्थः ॥ ननु शास्त्रयोनित्वं ब्रह्मणो न संभवति, प्रमाणान्तरवेद्यत्वाद्ब्रहणः, अप्राप्ते तु शास्त्रमर्थवत् । किं तर्हि तत्र प्रमाणम्? न तावत्प्रत्यक्षम् । तद्धि द्विविधम् इन्द्रियसंभवं योगसंभवं चेति । इन्द्रियसंभवं च बाह्यसंभवमान्तरसंभवं चेति द्विविधा । बाह्येन्द्रियाणि विद्यमानसन्निकर्षयोग्यस्वविषयबोधजननानीति न सर्वार्थसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषविषयबोधजननानि । नाप्यान्तरम्- आन्तरसुखदुःखादिव्यतिरिक्तबहिर्विषयेषु तस्य बाह्येन्द्रियानपेक्षप्रवृत्त्यनुपपत्तेः । नापि योगजन्यम्- भावनाप्रकर्षपर्यन्तजन्मनस्तस्य विशदावभासत्वेऽपि पूर्वानुभूतविषयस्मृतिमात्रत्वान्न प्रामाण्यमिति कुतः प्रत्यक्षता ? तदतिरिक्तविषयत्वे कारणाभावात्- तथा सति तस्य भ्रमरूपवता । नाप्यनुमानं विशेषतोदृष्टं सामान्यतोदृष्टं वा । अतीन्द्रिये वस्तुनि संबन्धावधारणविरहान्न विशेषतोदृष्टम् । समस्तवस्तुसाक्षात्कारतन्निर्माणसमर्थपुरुषविशेषनियतं सामान्यतोदृष्टमपि न लिङ्गमुपलभय्ते । ननु च जगतः कार्यत्वं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकत्वव्याप्तम् । अचेतनारब्धंं जगतश्चैकचेतनाधीनत्वेन व्याप्तम् । सर्वं हि घटादिकार्यं तदुपादानोपकरणसंप्रदानप्रयोजनाभिज्ञकर्तृकं दृष्टम् । अचेतनारब्धमरोगं स्वशरीरमेकचेतनाधीनं च । सावयवत्वेन जगतः कार्यत्वम् । उच्यते । किमिदमेकचेतनाधीनत्वम् ? न तावत्तदायत्तोत्पत्तिस्थितित्वम्- दृष्टान्तो हि साध्यविकलः स्यात् । न ह्यरोगं स्वशरीरमेकचेतनायत्तोत्पत्तिस्थिति- तच्छरीरस्य भोक्तॄणां भार्यादिसर्वचेनतानामदृष्टजन्यत्वात्तदुत्पत्तिस्थित्योः । किं च, शरीरावयविनः स्वावयवसमवेततारूपा स्थितिरवयवसंश्लेषव्यतिरेकेण न चेतनमपेक्षते । प्राणनलक्षणा तु स्थितिः पक्षत्वाभिमते क्षितिजलधिमहीधरादौ न संभवतीति पक्षसपक्षानुगतामेकरूपां स्थितिं नोपलभामहे । तदायत्तप्रवृत्तित्वं तदधीनत्वमिति चेत्, अनेकचेतनसाध्येषु गुरुतररथशिलामहीरुहादिषु व्यभिचारः । चेतनमात्राधीनत्वे सिद्धसाध्यता । किं च, उभयवादिसिद्धानां जीवानामेव लाघवेन कर्तृत्वाभ्युपगमो युक्तः । न च जीवानामुपादानाद्यनभिज्ञतया कर्तृत्वासंभवः- सर्वेषामेव चेतनानां पृथिव्याद्युपादानयागाद्युपकरणसाक्षात्कारसामर्थ्यात्- यथेदानीं पृथिव्यादयो यागादयश्च प्रत्यक्षमीक्ष्यन्ते । उपकरणभूतयागादिशक्तिरूपापूर्वादिशब्दवाच्यादृष्टसाक्षात्काराभावेऽपि चेतनानां न कर्तृत्वानुपपत्तिः- तत्साक्षात्कारानपेक्षणात्कार्यारम्भस्य । भक्तिमत्साक्षात्कार एव हि कार्यारम्भोपयोगी- शक्तेस्तु ज्ञानमात्रमेवोपयुज्यते, न साक्षात्कारः । न हि कुलालादयः कार्योपकरणभूतदण्डचक्रादिवत्तच्छक्तिम् अपि साक्षात्कृत्य घटमणिकादिकार्यमारभन्ते । इह तु चेतनानामागमावगतयागादिशक्तिविशेषाणां कार्यारम्भो नानुपपन्नः । किं च, यच्छक्यक्रियं शक्योपादानादिविज्ञानं च तदेव तदभिज्ञकर्तृकं दृष्टम् । महीमहीधरमहार्णवादि त्वशक्यक्रियमशक्योपादानादिविज्ञानं चेति न चेतनकर्तृकम् । अतो घटमणिकादि सजातीयशक्यक्रियशक्योपादानादिविज्ञानवस्तुगतमेव कार्यत्वं बुद्धिमन्कर्तृपूर्वकत्वसाधने प्रभवति । किं च, घटादिकार्यमनीश्वरेणाल्पज्ञानशक्तिना सशरीरेण परिग्रहवतानाप्तकामेन निर्मितं दृष्टमिति तथाविधमेव चेतनं कर्तारं साधयन्नयं कार्यत्वहेतुस्सिषाधयिषितपुरुषसार्वज्ञ्यसर्वाइश्वर्यादिविपरीतसाधनाद्विरुद्धस्स्यात् । न चैतावता सर्वानुमानोच्छेदप्रसङ्गः । लिङ्गिनि प्रमाणान्तरगोचरे लिङ्गबलोपस्थापिता विपरीतविशेषास्तत्प्रमाणप्रतिहतगतयो निवर्तन्ते । इह तु सकलेतरप्रमाणाविषये लिङ्गिनि निखिलनिर्माणचतुरे अन्वयव्यतिरेकावगताविनाभावनियमा धर्मास्सर्व एवाविशेषेण प्रसज्यन्ते- निवर्तकप्रमाणाभावात्तथैवावतिष्ठन्ते । अत आगमादृते कथमीश्वरस्सेत्स्यति ? अत्राहुः । सावयवत्वादेव जगतः कार्यत्वं न प्रत्याख्यातुं शक्यते । भवन्ति च प्रयोगाः विवादाध्यासितं भूभूधरादि कार्यम्, सावयवत्वात्, घटादिवत् । तथा विवादाध्यासितमवनिजलधिमहीधरादि कार्यम्, महत्त्वे सति क्रियावत्त्वात्, घटवत् । तनुभुवनादि कार्यम्, महत्त्वे सति मूर्तत्वात्, घटवत् इति । सावयवेषु द्रव्येषु इदमेव क्रियते नेतरदिति कार्यत्वस्य नियामकं सावयवत्वातिरेकि रूपान्तरं नोपलभामहे । कार्यत्वप्रतिनियतं शक्यक्रियत्वं शक्योपादानादिविज्ञानत्वं चोपलभ्यत इति चेन्न- कार्यत्वेनानुमतेऽपि विषये ज्ञानशक्ती कार्यानुमेये इत्यन्यत्रापि सावयवत्वादिना कार्यत्वं ज्ञातमिति ते च प्रतिपन्ने एवेति न कश्चिद्विशेषः । तथा हि घटमणिकादिषु कृतेषु कार्यदर्शनानुमितकर्तृगततन्निर्माणशक्तिज्ञानः पुरुषोऽदृष्टपूर्वं विचित्रसन्निवेशं नरेन्द्रभवनमालोक्य अवयवसन्निवेषविशेषेण तस्य कार्यत्वं निश्चित्य तदानीमेव कर्तुस्तज्ज्ञानशक्तिवैचित्र्यमनुमिनोति । अतस्तनुभुवनादेः कार्यत्वे सिद्धे सर्वसाक्षात्कारतन्निर्माणादिनिपुणः क्वचित्पुरुषविशेषस्सिध्यत्येव । किं च सर्वचेतनानां धर्माधर्मनिमित्तेऽपि सुखदुःखोपभोगे चेतनानधिष्ठितयोस्तयोरचेतनयोः फलहेतुत्वानुपपत्तेस्सर्वकर्मानुगुणसर्वफलप्रदानचतुरः कश्चिदास्थेयः- वर्धकिनानधिष्ठितस्य वास्यादेरचेतनस्य देशकालाद्यनेकपरिकरसन्निधानेऽपि यूपादिनिर्माणसाधनत्वादर्शनात् । बीजाङ्कुअरादेः पक्षान्तर्भावेन तैर्व्यभिचारापादनं श्रोत्रियवेतालानामनभिज्ञताविजृम्भितम् । तत एव सुखादिभिर्व्यभिचारवचनमपि तथैव । न च लाघवेनोभयवादिसंप्रतिपन्नक्षेत्रज्ञानामेव ईदृशाधिष्ठातृत्वकल्पनं युक्तम्- तेषां सूक्ष्मव्यवहितविप्रकृष्टदर्शनशक्तिनिश्चयात् । दर्शनानुगुणैव हि सर्वत्र कल्पना । न च क्षेत्रज्ञवदीश्वरस्याशक्तिनिश्चयोऽस्ति । अतः प्रामाणान्तरो न तत्सिद्ध्यनुपपत्तिः । समर्थकर्तृपूर्वकत्वनियतकार्यत्वहेतुना सिध्यन् स्वाभाविकसर्वसाक्षात्कारतन्नियमनशक्तिसंपन्न एव सिध्यति । यत्त्वनैश्वर्याद्यापादनेन धर्मविशेषविपरीतसाधनत्वमुन्नीतम्, तदनुमानवृत्तानभिज्ञत्वनिबन्धनम्- सपक्षे सहदृष्टानां सर्वेषां कार्यस्याहेतुभूतानां च धर्माणां लिङ्गिन्यप्राप्तेः । एतदुक्तं भवति । केनचित्किंचित्क्रियमाणं स्वोत्पत्तये कर्तुस्स्वनिर्माणसामर्थ्यं स्वोपादानोपकरणज्ञानं चापेक्षते- न त्वन्यासामर्थ्यमन्यज्ञानं च, हेतुत्वाभावात् । स्वनिर्माणसामर्थ्यस्वोपादानोपकरणज्ञानाभ्यामेव स्वोत्पत्तावुपपन्नायां संबन्धितया दर्शनमात्रेणाकिंचित्करस्यार्थान्तराज्ञानादेः हेतुत्वकल्पनायोगादिति । न तावत्सर्वविषयम्- न हि कुलालादिः क्रियमाणव्यतिरिक्तं किमपि न जानाति । नापि कतिपयविषयम्- सर्वेषु कर्तृषु तत्तदज्ञानाशक्त्यनियमेन सर्वेषामज्ञानादीनां व्यभिचारात् । अतः कार्यत्वस्यासाधकानामनीश्वरत्वादीनां लिङ्गिन्यप्रतीतिरिति न विपरीतसाधनत्वम् । कुलालादीनां दण्डचक्राद्यधिष्ठानं शरीरद्वारेणैव दृष्टमिति जगदुपादानोपकरणाधिष्ठानमीश्वरस्याशरीरस्यानुपपन्नमिति चेन्न- संकल्पमात्रेणैव परशरीरगतभूतवेतालगरलाद्यपगमविनाशदर्शनात् । कथमशरीरस्य परप्रवर्तनरूपस्संकल्प इति चेत्- न शरीरापेक्षस्संकल्पः, शरीरस्य संकल्पहेतुत्वाभावात् । मन एव हि संकल्पहेतुः । तदभ्युपगतमीश्वरेऽपि- कार्यत्वेनैव ज्ञानशक्तिवन्मनसोऽपि प्राप्तत्वात् । मानसस्संकल्पस्सशरीरस्यैव, सशरीरस्यैव समनस्कत्वादिति चेन्न- मनसो नित्यत्वेन देहापगमेऽपि मनसस्सद्भावेनानैकान्त्यात् । अतो विचित्रावयवसन्निवेशविशेषतनुभुवनादिकार्यनिर्माणे पुण्यपापपरवशः परिमितशक्तिज्ञानः क्षेत्रज्ञो न प्रभवतीति निखिलभुवननिर्माणचतुरोऽचिन्त्यापरिमितज्ञानशक्त्यैश्वर्योऽशरीरः संकल्पमात्रसाधनपरिनिष्पन्नानन्तविस्तारविचित्ररचनप्रपञ्चः पुरुषविशेष ईश्वरोऽनुमानेनैव सिद्ध्यति । अतः प्रमाणान्तरावसेयत्वाद्ब्रह्मणो नैतद्वाक्यं ब्रह्म प्रतिपादयति । किं च, अत्यन्तभिन्नयोरेव मृद्द्रव्यकुलालयोर्निमित्तोपादानत्वदर्शनेन आकाशादेर्निरवयवद्रव्यस्य कार्यत्वानुपपत्त्या च नैकमेव ब्रह्म कृत्स्नस्य जगतो निमित्तमुपादानं च प्रतिपादयितुं शक्नोतीति ॥ एवं प्राप्ते ब्रूमः यथोक्तलक्षणं ब्रह्म जन्मादिवाक्यं बोधयत्येव । कुतः? शास्त्रैकप्रमाणकत्वाद्ब्रह्मणः । यदुक्तं सावयवत्वादिना कार्यं सर्वं जगत्, कार्यं च तदुचितकर्तृविशेषपूर्वकं दृष्टमिति निखिलजगन्निर्माणतदुपादानोपकरणवेदनचतुरः कश्चिदनुमेय इति- तदयुक्तम्- महीमहार्णवादीनां कार्यत्वेऽपि एकदैवैकेनैव निर्मिता इत्यत्र प्रमाणाभावात् । न चैकस्य घटस्येव सर्वेषामेकं कार्यत्वम्, येनैकदैकः कर्ता स्यात् । पृथग्भूतेषु कार्येषु कालभेदकर्तृभेददर्शनेन कर्तृकालाइक्यनियमादर्शनात् । न च क्षेत्रज्ञानां विचित्रजगन्निर्माणशक्त्या कार्यत्वबलेन तदतिरिक्तकल्पनायामनेककल्पनानुपपत्तेश्च एकः कर्ता भवितुमर्हतीति- क्षेत्रज्ञानामेवोपचितपुण्यविशेषाणां शक्तिवैचित्र्यदर्शनेन तेषामेवातिशयितादृष्टसंभावनया च तत्तद्विलक्षणकार्यहेतुत्वसंभवात्, तदतिरिक्तात्यन्तादृष्टपुरुषकल्पनानुपपत्तेः । न च युगपत्सर्वोत्पत्तिस्सर्वोच्छित्तिश्च प्रमाणपदवीमधिरोहतः- अदर्शनात्, क्रमेणैवोत्पत्तिविनाशदर्शनाच्च । कार्यत्वेन सर्वोत्पत्तिविनाशयोः कल्प्यमानयोः दर्शनानुगुण्येन कल्पनायां विरोधाभावाच्च । अतो बुद्धिमदेककर्तृकत्वे साध्ये कार्यत्वस्यानैकान्त्यम्, पक्षस्याप्रसिद्धविशेषणत्वम्, साध्यविकलता च दृष्टान्तस्य- सर्वनिर्माणचतुरस्यैकस्याप्रसिद्धेः । बुद्धिमत्कर्तृकत्वमात्रे साध्ये सिद्धसाधनता । सार्वज्ञ्यसर्वशक्तियुक्तस्य कस्यचिदेकस्य साधकमिदं कार्यत्वं किं युगमदुत्पद्यमानसर्ववस्तुगतम् ? उत क्रमेणोत्पद्यमानसर्ववास्तुगतम् ? युगपदुत्पद्यमानसर्ववस्तुगतत्वे कार्यत्वस्यासिद्धता । क्रमेणोत्पद्यमानसर्ववस्तुगतत्वे अनेककर्ट्र्कत्वसाधनाद्विरुद्धता । अत्राप्येककर्ट्र्कत्वसाधने प्रत्यक्षानुमानविरोधश्शास्त्रविरोधश्च- कुम्भकारो जायते, रथकारो जायत इत्यादिश्रवणात् । अपि च सर्वेषां कार्याणां शरीरादीनां च सत्त्वादिगुणकार्यरूपसुखाद्यन्वयदर्शनेन सत्त्वादिमूलत्वमवश्याश्रयणीयम् । कार्यवैचित्र्यहेतुभूताः कारणगता विशेषास्सत्त्वादयः- तेषां कार्याणां तन्मूलत्वापादनं तद्युक्तपुरुषान्तःकरणविकारद्वारेण, पुरुषस्य च तद्योगः कर्ममूलः इति कार्यविशेषारम्भायैव ज्ञानशक्तिवत्कर्तुः कर्मसंबन्धः कार्यहेतुत्वेनैवावश्याश्रयनीयः- ज्ञानशक्तिवैचित्र्यस्य च कर्ममूलत्वात् । इच्छायाः कार्यारम्भहेतुत्वेऽपि विषयविशेषविशेषितायास्तस्यास्सत्त्वाइमूलकत्वेन कर्मसंबन्धोऽवर्जनीयः । अतः क्षेत्रज्ञा एव कर्तारः, न तद्विलक्षणः कश्चिदनुमानात्सिध्यति । भवन्ति च प्रयोगाः तनुभुवनादि क्षेत्रज्ञकर्तृकम्, कार्यत्वात्, घटवत् । ईश्वरः कर्ता न भवति, प्रयोजनशून्यत्वात्, मुक्तात्मवत् । ईश्वरः कर्ता न भवति, अशरीरत्वात्, तद्वदेव । न च क्षेत्रज्ञानां स्वशरीराधिष्ठाने व्यभिचारः, तत्राप्यनादेस्सूक्ष्मशरीरस्त सद्भावात् । विमतिविषयः कालो न लोकशून्यः, कालत्वात्, वर्तमानकालवदिति । अपि च, किमीश्वरस्सशरीरोऽशरीरो वा कार्यं करोति ? न तावदशरीरः- अशरीरस्य कर्तृत्वानुपलब्धेः । मानसान्यपि कार्याणि सशरीरस्यैव भवन्ति- मनसो नित्यत्वेऽपि अशरीरेषु मुक्तेषु तत्कार्यादर्शनात् । नापि सशरीरः- विकल्पासहत्वात् तच्छरीरं किं नित्यमुतानित्यम् ? न तावन्नित्यम्- सावयवस्य तस्य नित्यत्वे जगतोऽपि नित्यत्वाविरोधादीश्वरासिद्धेः । नाप्यनित्यम्- तद्व्यतिरिक्तस्य तच्छरीरहेतोस्तदानीमभावात् । स्वयमेव हेतुरिति चेन्न- अशरीरस्य तदयोगात्- अन्येन शरीरेण सशरीर इति चेन्न- अनवस्थानात् । स किं सव्यापारो निर्व्यापारो वा ? अशरीरत्वादेव न सव्यापारः । नापि निर्व्यापारः कार्यं करोति मुक्तात्मवत् । कार्यं जगदिच्छामात्रव्यापारकर्तृकमित्युच्यमाने पक्षस्याप्रसिद्धविशेषणत्वम्, दृष्टान्तस्य च साध्यहीनता । अतो दर्शनानुगुण्येनेश्वरानुमानं दर्शनानुगुण्यपराहतमिति शास्त्रैकप्रमाणकः परब्रह्मभूतस्सर्वेश्वरः पुरुषोत्तमः । शास्त्रं तु सकलेतरप्रमाणपरिदृष्टसमस्तवस्तुविसजातीयं सार्वज्ञ्यसत्यसंकल्पत्वादिमिश्रानवधिकातिशयापरिमितोदारगुणसागरं निखिलहेयप्रत्यनीकस्वरूपं प्रतिपादयतीति न प्रमाणान्तरावसितवस्तुसाधर्म्यप्रयुक्तदोषगन्धप्रसङ्गः । यत्तु निमित्तोपादानयोरैक्यमाकाशादेर्निरवयवद्रव्यस्य कार्यत्वं चानुपलब्धमशक्यप्रतिपादनमित्युक्तम्, तदप्यविरुद्धमिति प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्, न वियदश्रुतेरित्यत्र प्रतिपादयिष्यते । अतः प्रमाणान्तरागोचरत्वेन शास्त्रैकविषयत्वाद्यतो वा इमानि भूतानीति वाक्यमुक्तलक्षणं ब्रह्म प्रतिपादयतीति सिद्धम् ॥१,१.३॥