मण्डनमिश्र विभ्रमविवेक आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात्सा विविच्यते ॥ १ ॥ असच्चकस्ति न व्योमकुसुम? न ............. । अर्थः प्रकाशतेऽतो धीस्तदाकारेति केचन ॥ २ ॥ असंभवि च यावच्च तावत्संपरिहीयताम् । संवेद्याकारसंत्यागो न भ्रान्तित्वेऽवकल्पते ॥ ३ ॥ एकदेशापबाधेन कल्पमाने च बाधके । न सर्वबाधनं युक्तमिति न्यायविदः स्थिताः ॥ ४ ॥ अन्यो बहिर्भासमानो नान्तरर्हति धारणम् । असत्तैव वरं तस्य भ्रान्तित्वानुगुणा हि सा ॥ ५ ॥ नान्तर्वर्तितया भ्रान्तिरसत्त्वेन तु सेष्यते । अकल्पयित्वान्तस्तस्मादसत्तां खल्वचीकॢपत् ॥ ६ ॥ नान्तर्वर्तिबहिर्भासो भ्रान्तित्वानुपपत्तितः । असत्त्वेनैव तत्कॢप्तौ न प्रमाणवती हि सा ॥ ७ ॥ यथावभासमानस्य कल्प्यासत्ता नियोगतः । अन्तर्भावेऽपि च बहिर्भावे भ्रान्तिर्न युज्यते ॥ ८ ॥ अख्यातेरविशेषेण स्यात्सुषुप्तेऽपि विभ्रमः । अख्यातिः खलु तत्रापि न चाख्यातिर्विशिष्यते ॥ ९ ॥ उपालम्भस्य न पदमसतोऽत्र प्रकाशनम् । अत एव यतो भ्रान्तिः सम्यक्ख्यातौ तथा भवेत् ॥ १० ॥ युज्यते नान्यथाख्यातिर्निरधिष्ठानविभ्रमे । स्वप्ने हि निरधिष्ठानो विभ्रमो वीतसंशयः ॥ ११ ॥ तत्राप्यवर्तमानं चेद्गृह्यते वर्तमानवत् । अवर्तमानस्यासत्ता खपुष्पान्न विशिष्यते ॥ १२ ॥ अत्यन्ताननुभूतानां परस्परपराणुदाम् । दृष्टेश्चावर्तमानस्य न ख्यानं वर्तमानवत् ॥ १३ ॥ खपुष्पतुल्ये का ख्यातिर्नीरूपेणैव भासनात् । तदपि व्यवहाराङ्गं रूपवत्त्वेन भासनात् ॥ १४ ॥ कल्पनायामपि त्वेवं नासत्ख्यातिविवर्जनम् । प्रकारान्तरसंसर्गो नन्वसन्नेव भासते ॥ १५ ॥ तस्मादसत एवेदं रूपवत्त्वेन भासनम् । अवश्यकल्पनीयत्वात्कल्पनायाश्च लाघवात् ॥ १६ ॥ प्राक्तत्त्वज्ञानसंस्कारस्तत्प्रबोधस्सकारनः । स्मरामीति प्रमोषस्सहेतुरिन्द्रिययोगिनः ॥ १७ ॥ भ्रान्तौ सहाक्षैर्मनसो दुष्टतान्तर्विवर्तिता । कामप्रकर्षमरणमूर्च्छाशोकामयादिषु ॥ १८ ॥ उच्छेदकेषु बहुलं संस्कारस्यानुवर्तनम् । परपक्षेषु कल्प्यानि भूयिष्ठानीति दृश्यते ॥ १९ ॥ सर्वसंस्कारविच्छेदिमरणान्तरितेऽस्मृतेः । जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् ॥ २० ॥ ........ ........ । प्राक्[ ....... ........ ] ॥ २१ ॥ मन्दसंस्कारसहकृदुच्छेदे तेन वा विना । दोषैः क्षतं मनः कार्यि प्रणिधानादिवर्जितम् ॥ २२ ॥ दोषैरविकृतं स्वस्थं प्रणिधानादिसंस्कृतम् । न कार्यवज्जागरायामहो नयविदां परः ॥ २३ ॥ दोषक्षतिः कार्यशक्तिहानिरूपा च विद्यते । अतिरेकश्च कार्यस्येत्यहो न्यायविवेकिता ॥ २४ ॥ अध्यारोपे भवेद्गौणी वाहीके गोमतिर्यथा । न संविदानुगुण्यं स्यान्न विवेकमतिर्यदि ॥ २५ ॥ अख्यातिरपि संवित्तिं नैवान्वेति यतो मतिः । सामानाधिकरण्येन रूप्यमेतदिति स्थिता ॥ २६ ॥ तस्माद्विभ्रम एवायमिति युक्तो विनिश्चयः । न संविदनुसारेण निमित्तं तस्य युज्यते ॥ २७ ॥ अतोऽनिर्वचनीयत्वं वरं ब्रह्मविदो विदुः । अविद्याया अविद्यात्वमन्यथा परिहीयते ॥ २८ ॥ सत्त्वे न मिथ्या शून्यत्वे दुर्निरूपं प्रकाशनम् । सदसत्भ्यामनिर्वाच्यां तामविद्यां प्रचक्षते ॥ २९ ॥ वस्तुनोऽन्वेषणा तस्यां बाह्याभ्यन्तरवर्तिनः । न युज्यते यत्र तत्र वेद्यवस्तुनि तत्क्षतेः ॥ ३० ॥ नामरूपप्रपञ्चोऽयमविद्यैव च वर्ण्यते । अन्यस्य त्वन्यथा ख्यातौ न प्रपञ्चव्यपह्नवः ॥ ३१ ॥ अख्यातौ शून्यमेव स्यात्प्रपञ्चः किंनिबन्धनः । अप्रपञ्चः सप्रपञ्चरूपो भातीति युज्यते ॥ ३२ ॥ अस्फुटाग्रहणे कामं मा भसि स्फुटमात्मना । अविद्यमाने त्वध्यस्ये वैश्वरूप्यं वृथाकृतम् ॥ ३३ ॥ चितौ विचित्राकारायां प्रपञ्चात्मतयैव हि । अनिर्मोक्षस्तथा च स्यादथवानित्यतापतेत् ॥ ३४ ॥ अनेकाकारविभ्रान्तौ गन्धर्वनगरादिषु । आकारा व्यक्तमेकस्या धियोऽसत्याश्चकासति ॥ ३५ ॥ न भूतं चेतसो रूपं नाध्यारोपास्फुटग्रहौ । विभ्रमेषु विवर्तत्वमतो ब्रह्मविदां मतम् ॥ ३६ ॥ असतो भासनायोगाद्विरोधात्संविदोऽपरः । अवोचन्निपुणंमन्यो विभ्रमं सम्यगग्रहम् ॥ ३७ ॥ न किञ्चिद्भासते चेति विरुद्धमिव दृश्यते । भासने रूपवत्त्वेन नासत्संविद्विरोधतः ॥ ३८ ॥ अन्यस्याप्यन्यथा ख्यातिरत एव न युज्यते । अन्यत्प्रकाशते चान्यद्ग्राह्यमित्यतिदुर्घटम् ॥ ३९ ॥ आलम्बनं न हेतुत्वमात्रादक्षेऽपि तद्यतः । आलम्बनं न हेतुत्वमात्रेण व्यवतिष्ठते ॥ ४० ॥ यद्यालम्बनरूपाच्च धीरन्यदवभासते । ततोऽनालम्बनैव स्यात्तस्य तल्लक्षणच्युतेः ॥ ४१ ॥ तथा च तत्स्वभावाया नार्थतत्त्वविनिश्चयः । सापेक्षाया अपि ग्राह्यहीना सा चेदवेदिका ॥ ४२ ॥ ........ ........ ॥ ४३ ॥ स्मृतित्वाशङ्कया नात्र वर्तमाने न निश्चयः । विवेकाग्रहणं यस्माद्धेतुभावे न युज्यते ॥ ४४ ॥ हेतूपघाते खलु तत्तदभावे स्फुटग्रहः । यत्नेनानुपलब्धेश्च तदभावे च निश्चयः ॥ ४५ ॥ सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः । स्मरामीति च प्रमोषात्प्रायेणाध्यक्षविभ्रमः ॥ ४६ ॥ इति पूर्वः पक्षः ॥ एकान्तसत्त्वे का भ्रान्तिरसत्त्वे किं प्रकाशताम् । द्वयानुगुण्याद्वृद्धानां संमता ख्यातिरन्यथा ॥ ४७ ॥ यत्र न प्रथते किञ्चित्तत्र तावन्न विभ्रमः । सुषुप्ताविव भूच्छाया तमो भावो यथेक्ष्यते ॥ ४८ ॥ द्वयोरेकस्य वा ख्यातिरसम्यग्विभ्रमो मतः । तत्र केयमसम्यक्ता विज्ञानस्थमपाटवम् ॥ ४९ ॥ अथ सर्वप्रकाराणामग्रहः कस्यचिद्ग्रहः । वस्तुनोऽतत्प्रकारस्य तथा ख्यातिस्तु नेष्यते ॥ ५० ॥ तत्र दूरस्थिते सूक्ष्मे भवत्यपटुदर्शनम् । सामान्यमात्रख्यातिर्वा न भ्रमश्च प्रतीयते ॥ ५१ ॥ न च सर्वात्मनार्थस्य ज्ञानं किञ्चन बोधकं । सर्वविज्ञानमिथ्यात्वमापन्नं पुनरन्यथा ॥ ५२ ॥ अतो नावर्तमानत्वाज्ञानात्स्वप्नमतिर्मृषा । वर्तमानत्वबोधात्तु तथैकत्वाधिरोपणात् ॥ ५३ ॥ मिथ्या रजतधीर्नात्र विवेकानवधारणात् । प्रत्यभिज्ञानविभ्रान्तौ न स्मृतित्वं न गम्यते ॥ ५४ ॥ एकस्य च विविक्तत्वादितरस्य विविक्तता । प्रत्यक्षादविवेकाच्च युक्तः प्रत्यक्षविभ्रमः ॥ ५५ ॥ स्यात्स्मृतादविवेकाच्च स्मृतिगोचरविभ्रमः । ........ ........ ॥ ५६ ॥ ........ ........ । नियता न प्रवृत्तिः स्यान्नेष्टा चेत्ख्यातिरन्यथा ॥ ५७ ॥ न दृश्यादृश्ययोर्भेदः ख्यातिश्चेन्नेप्सितात्मनः । ननु नो विपरीतार्था धीः प्रतीतिविरोधतः ॥ ५८ ॥ अनाश्वासाच्च रजतप्रत्ययो रजते स्मृतिः । नैतन्न हि प्रवर्तेत शुक्तिकाशकले तदा ॥ ५९ ॥ रजते सा प्रवृत्तिश्चेन्न तस्यासंनिधानतः । असंनिधानाबोधाच्चेत्प्रवृत्तिनियमः कुतः ॥ ६० ॥ प्रवर्तते यत्तत्रैव तत्तत्संनिधिकारितम् । अन्यत्र भेदग्रहणाद्विवेकाग्रहणात्तथा ॥ ६१ ॥ प्रवृत्तिभेदः सादृश्याद्विवेकाग्रहणं यदि । अदृष्टेषु प्रवर्तेत लोष्टादिष्वविवेकतः ॥ ६२ ॥ न तत्र यदि तद्बुद्धिः शुक्तिकाशकलेऽपि न । अथास्ति विपरीतार्था ख्यातिर्निह्नूयते कथम् ॥ ६३ ॥ अदृष्टत्वादप्रवृत्तिः शुक्तिकाशकले समा । दृष्टं तद्येन रूपेण तत्प्रवृत्तेरकारणम् ॥ ६४ ॥ दृष्टस्मृताविवेकाच्चेदिदमत्र परीक्ष्यताम् । तत्त्वबोधादपातत्वबोधाद्रजतवेदनात् ॥ ६५ ॥ दृष्टे प्रवृत्तिः पूर्वस्मिन् विपरीतार्थता मतेः । न दृष्टादृष्टयोर्भेदः परस्मिन्नोपयोगिनी ॥ ६६ ॥ खयोगदर्शने ते हि समारोपोपयोगिनी । नादृष्टेऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः ॥ ६७ ॥ स्मृतिप्रमाणफलयोर्नानात्वं यदि चेष्यते । विवेचितस्तयोस्स्वार्थोऽविवेकः किंनिबन्धनः ॥ ६८ ॥ अन्यस्मात्सा स्वविषयं विविनक्ति स्मृतिर्न चेत् । सामान्यदृष्टौ चान्यस्य स्मृतौ स्याद्वा सदा भ्रमः ॥ ६९ ॥ स्मरामीति विवेकान्न यदि नैतत्प्रकल्पते । फलाभेदे फलोन्नेयज्ञानभेदमतिः कुतः ॥ ७० ॥ स्मरामीति च विज्ञानं स्मृतेरन्यदुदाहृतम् । न च मानफलाद्भिन्ना तत्सिद्ध्यति फलादृते ॥ ७१ ॥ मनोदोषाद्यदि स्वार्थो न स्मृत्या प्रविविच्यते । तिमिरादौ कथं स्वस्थे स्वान्ते केशादिविभ्रमः ॥ ७२ ॥ न तत्रापि मनो दुष्टमर्थान्तरविवेचनात् । ज्ञानादेव हि दृष्टत्वकल्पनायाश्च गौरवात् ॥ ७३ ॥ बुध्यमानो विवेकं च पश्यामीन्द्रियदोषतः । चित्रादिरूपान् दीपादीनिति लोकः प्रभाषते ॥ ७४ ॥ इन्द्रियाणां दोषभेदान्नियतभ्रान्तिदर्शनम् । न स्याद्यस्याग्रहे दोषव्यापार इति निश्चयः ॥ ७५ ॥ न च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना । श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः ॥ ७६ ॥ अव्यापृतौ च तत्प्राप्तेर्नातःपित्तप्रवेदनम् । अत्यासन्नस्य संवित्तिर्दुर्लभा चाञ्जनादिवत् ॥ ७७ ॥ न चाक्षवृत्तितज्जन्मज्ञानभेदाविवेकजाः । द्विचन्द्रादिभ्रमास्ते हि न प्रत्यक्षे न च स्मृते ॥ ७८ ॥ अन्यथालम्बनत्वे च न निरालम्बना मतिः । अन्येनापि हि रूपेण चक्षुर्नालम्बतेऽक्षधीः ॥ ७९ ॥ आलम्बनार्थस्तद्युक्तव्यवहारस्य योग्यता । अन्यस्यापि हि नैवान्यस्स इत्येव हि दर्शितम् ॥ ८० ॥ प्रवृत्तिश्शुक्तिशकले तथा च रजतार्थिनः । आभासते कथञ्चिच्च तन्नात्यन्तं न भासते ॥ ८१ ॥ तेन नावेआदिका यत्तु तद्रूपाव्यभिचारतः । प्रामाण्यमानपेक्ष्यं हि स्यादन्यथा त्रपाकरम् ॥ ८२ ॥ त्रपाकरं कथं तन्नः स्वतःप्रामाण्यवादिनाम् । अप्यन्योऽव्यभिचारेण धीप्रामाण्यमुपागमत् ॥ ८३ ॥ बोधादेव प्रमाणत्वमिति मीमांसकस्थितिम् । विदन्नव्यभिचारेण तां व्युदस्यत्यपण्डितः ॥ ८४ ॥ अर्थेनाव्यभिचारश्चेन्नाबुद्धेन प्रमीयते । ज्ञानस्याव्यभिचाराच्च तद्बोध इति दुर्घटम् ॥ ८५ ॥ उपास्योऽव्यतिरेकश्च तज्ज्ञानस्य तथान्यथा । नासिद्धाव्यतिरेकेण स परामृश्यते .......... ॥ ८६ ॥ अपि चाव्यतिरेकोऽपि ज्ञानरूपेण वेद्यते । ख्यातौ च विपरीतायां तद्विरोधप्रसङ्गतः ॥ ८७ ॥ तथा सति तदेवास्तु विषयस्यावबोधकम् । अर्थो नाव्यतिरेकेण तत्सामर्थ्याप्तसंविदा ॥ ८८ ॥ व्यभिचाराप्रतीत्या चेदप्रामाण्यनिराकृतिः । दूषिते व्यभिचारेण न स्याज्ज्ञाने प्रमाणता ॥ ८९ ॥ नैतदव्यभिचारेण प्रामाण्यं यस्य दुष्यति । व्यभिचारादसौ लिङ्गं यथा नाक्षं तथापि तत् ॥ ९० ॥ संबन्धज्ञानसापेक्षं यदुपैत्युपयोगिताम् । दूषितं व्यभिचारेण तत्स्यात्संशयकारणम् ॥ ९१ ॥ दुष्यति व्यभिचारेण बोधकं सत्तयैव न । विज्ञानाच्चार्थसंवित्तिस्सत्तयैवेन्द्रियादिवत् ॥ ९२ ॥ लिङ्गस्याव्यभिचाराद्यत्प्राप्यते रूपतोऽस्य तत् । सिद्धप्रत्ययसामर्थ्यपूर्वौ नेतो निमित्तताम् ॥ ९३ ॥ प्रामाण्ये तदभावे चाव्यतिरेकविपर्ययौ । तथा ह्यव्यतिरेकोऽपि बोधादेवोपवर्णितः ॥ ९४ ॥ व्यतिरेको बाधबोधादिति तच्छ्रुतियुक्तता । असिद्धे ज्ञानसामर्थ्ये सोऽसिद्धो दूषकः कथम् ॥ ९५ ॥ सिद्धेऽपि सिद्धसामर्थ्यमसामर्थ्यं कथं नयेत् । ननु च व्यभिचारित्वे बाधकज्ञानसंमते ॥ ९६ ॥ ज्ञानरूपस्य तेनैव विहन्येत प्रमाणता । अर्थो यथा ज्ञानरूपात्तथैवेत्यवसीयते ॥ ९७ ॥ व्यभिचारमतेरेव न तथैवेति गम्यते । तत्सत्यं बाधकज्ञानं यत्र तत्र विहन्यते ॥ ९८ ॥ अन्यत्र तु विघातः स्यान्न साक्षान्नापि चार्थतः । अनुमानं भवेत्तच्च तेनापहृतगोचरम् ॥ ९९ ॥ नोदेति जाग्रतो बुद्धिरिति भाष्ये निदर्शितम् । व्यभिचारज्ञानमात्रात्प्रामाण्यस्य न नः क्षतिः ॥ १०० ॥ व्यभिचारिणि नाश्वासः ........ । ........ ........ ॥ १०१ ॥ त्रिधापि व्यभिचारेण प्रामाण्यं नोपहन्यते । उक्तं नाव्यतिरेकस्य प्रमाणत्वनिमित्तता ॥ १०२ ॥ येन स्याद्धेत्वभावेन व्यभिचारे विपर्ययः । धूमादीनामपि न तद्वर्ण्यतेऽव्यभिचारतः ॥ १०३ ॥ बोधादेव तदुत्पत्तावङ्गभावोऽस्य सम्मतः । तथा ह्यव्यभिचाराणां कुतश्चन निमित्ततः ॥ १०४ ॥ बोधस्यानुदये कश्चित्प्रामाण्यं नानुमन्यते । एकार्थनियतं बोधं जनयद्व्यभिचार्यपि ॥ १०५ ॥ प्रमाणमिष्यते चक्षुर्नीले भावे सिते भवत् । न चापि व्यभिचारस्य साक्षात्प्रामाण्यघातिता ॥ १०६ ॥ क्वचिद्दृष्टा भ्रान्तिबोधे बाधधीरुपघातिका । प्रमेयत्वोर्ध्वतादीनां बोध एवावधारकः ॥ १०७ ॥ नास्तीति न प्रमाणत्वं हेत्वभावाच्च नास्त्यसौ । तद्भावाच्च प्रमाणत्वमक्षाणां व्यभिचारिणाम् ॥ १०८ ॥ न चावधारिते युक्तो द्वैविध्यात्संशयोद्भवः । न निश्चितेऽपि हि स्थाणावूर्ध्वत्वेन विशेरते ॥ १०९ ॥ ........ ........ । न चावधारणादेव तत्त्वतोऽनवधारणम् ॥ ११० ॥ एवं यतस्ततो नैवं भवेदतिसुभाषितम् । उत्पत्त्यैव च विज्ञानं तथात्वस्यावधारकम् ॥ १११ ॥ न चेत्तथा नान्यतोऽपि तस्य प्रामाण्यसम्भवः । प्रमाणत्वाप्रमाणत्वेऽव्यतिरेकविपर्ययौ ॥ ११२ ॥ अनङ्गे इति मोघैव तयोरत्र विचारणा । अतोऽवधारणाभासव्यभिचारात्परीक्षणम् ॥ ११३ ॥ प्रस्तुत्य ..... ........ । हेत्वभावे फलाभावनियमो स्यात्ततो गते ॥ ११४ ॥ अभावे हेतुदोषाणां तथाख्यातिविनिश्चयः । हेतौ फलं न नियतं परिणामाद्यपेक्षिणि ॥ ११५ ॥ अदुष्टेऽपि ततो हेतौ न स्फुटग्रहनिश्चयः । प्रत्यक्षोऽनुभवः साध्यो न हेतोर्व्यभिचारिणः ॥ ११६ ॥ विपर्ययफलाभावो हेत्वभावात्तु युज्यते । निरोधाद्युक्तकार्यस्य विपरीतस्य साधनात् ॥ ११७ ॥ दोषाणां नितरां दोषभावोऽभिव्यक्तिमृच्छति । कार्यातिरेको जठरे वह्नौ दृष्टश्च भस्मके ॥ ११८ ॥ कामाद्युपप्लुते चित्ते दृष्टिता स्मरणात्मनि । सामानाधिकरण्येनामुख्यरूप्य प्रतीतितः ॥ ११९ ॥ अभिन्नैका च सा संवित्कं पक्षमपबधताम् । शून्यं प्रकाशते चेति द्वयं विप्रतिषेधवत् ॥ १२० ॥ भासने रूपवत्त्वेन शून्यैवोच्येत शून्यता । सर्वरूपविवेको हि शून्यमित्यभिभाष्यते ॥ १२१ ॥ परै रूपाभ्युपगमे तत्र शून्यैव शून्यधीः । अभावो भावरूपेण भातीति यदि मन्यते ॥ १२२ ॥ अन्यथा ख्यातिरेवेष्टा शून्यं तदपि चेन्मतम् । नैतद्विप्रतिषिध्येते शून्यताभावरूपते ॥ १२३ ॥ अतोऽतद्देशकालत्वमात्रं तस्येह शून्यता । नन्वस्ति यद्यथा वस्तु तथा ख्यातौ न विभ्रमः ॥ १२४ ॥ न यथास्ति तथा ख्यातौ शून्यख्यातेर्न मुच्यते । केचिदाहुः प्रकारिभ्यः प्रकारा न चकासति ॥ १२५ ॥ विविक्तास्ते तथा भान्ति ते च सन्त इति स्थितिः । अन्ये तन्मात्रशून्यत्वं मन्वते नान्यथा भ्रमः ॥ १२६ ॥ नान्यथा धीर्वस्तुनिष्ठा वस्त्वालम्बाद्विना न सा । स्वयं तु वार्त्तिककृता समाधिरिह वर्णितः ॥ १२७ ॥ भावान्तरमभावोऽन्यो न कश्चिदनिरूपणात् । सत्यं यथास्ति न तथा भासने विभ्रमो मतः ॥ १२८ ॥ न येनास्ति प्रकारेण न तु तुच्छः प्रतीयते । तथा कथमभाव्योऽस्य स हि भाति तथा च सः ॥ १२९ ॥ भावान्तरमभावो हि कयाचित्तु व्यपेक्षया । अन्यथाख्यातिपक्षे च न प्रकारान्तरं न सत् ॥ १३० ॥ अन्यस्य च न तस्येति ख्यातिर्युक्ता मृषा च सा । प्रकारान्तरसंसर्गो नन्वसन्नेव भासते ॥ १३१ ॥ संवेद्यं नन्यरुपत्वमन्यस्य .............. । भिन्नयोरत्र संसर्गो न कश्चिदवभासते ॥ १३२ ॥ अन्यात्मनापरख्यातिः स चाभावेऽस्य तन्मृषा । अभावग्राहिणी बुद्धिर्भावान्तरमुपाश्रिता ॥ १३३ ॥ तदन्यस्मात्पृथक्त्वेन निरुपाख्यो न विद्यते । अतो भावान्तरं मुक्त्वा तत्राभावानिरूपणात् ॥ १३४ ॥ न बुद्ध्या भावशून्यत्वं मृषा चेति विपश्चितः । न वै शशविषाणेऽपि ख्यातस्य निरुपाख्यता ॥ १३५ ॥ शशसंसर्गिरूपं हि विषाणं तत्र गम्यते । अवस्तु तच्च नो येन खुरधर्मिणि वीक्षितम् ॥ १३६ ॥ असंसृष्टस्य सोऽभाव इति ख्यातिर्मृषा च सा । अङ्गुल्यग्रे हस्तियूथमित्येषा प्रतिभा तथा ॥ १३७ ॥ स्वप्नेऽप्यवर्तमानस्य ग्रहणं वर्तमानवत् । नाविशेषः खपुष्पाच्च स्वकाले तस्य वस्तुता ॥ १३८ ॥ तत्कालमेव हि ज्ञेयं ज्ञानमेव तु संप्रति । वर्तमानत्वमप्यत्र दृष्टमन्यत्र रूप्यते ॥ १३९ ॥ अन्यस्याप्यन्यथा दृष्टिः परस्परविरोधिनाम् । अत्यन्ताननुभूतत्वमस्ति तत्कारितं यतः ॥ १४० ॥ न ज्ञेयशून्यं विज्ञानं स्वात्महानिप्रसङ्गतः । निरुपाख्यादात्मयोगादस्वातन्त्र्याच्च चेतसः ॥ १४१ ॥ प्रमाणवन्त्यदृष्टानि कल्प्यन्ते सुबहून्यपि । संस्कारच्छेदहेतूनां तत्त्वं नैकान्ततः स्थितम् ॥ १४२ ॥ जन्मान्तरानुभूतं च न स्मर्यत इति स्थितम् । तत्कर्मफलसंबन्धं प्रतीति प्रतिजानते ॥ १४३ ॥ तथा ह्यनादौ संसारे कर्मभेदान् स्मरन्नपि । अनन्तकृतकर्मत्वात्को विद्यात्कस्य किं फलम् ॥ १४४ ॥ स्वान्तस्योपप्लवः स्वप्ने स्मृतिबीजस्य बोधकः । तस्य च जग्रतोऽभावान्नोदेति स्वप्नदर्शनम् ॥ १४५ ॥ कामाद्युपप्लवेऽप्येवं कार्याधिक्यमुदाहृतम् । अग्राह्यमेव गृह्णाति स्वयं कल्पयति ह्ययम् ॥ १४६ ॥ दोषक्षतस्य मनसस्तत्कार्यं ................. । तदध्यारोपे नो गौणी तथेत्यध्यवसायतः ॥ १४७ ॥ ख्याति सन्निहितेऽशून्यं सद्भावान्तरघट्टितम् । प्रभासतामसत्ता तु नो शून्यं तदनात्मकम् ॥ १४८ ॥ ........ ........ ॥ १४९ ॥ एवं निर्वचनीया च नाविद्या परिहास्यते । अविद्यात्वं यतोऽन्यस्य सान्यरूपं प्रकाशयेत् ॥ १५० ॥ ........ ........ ॥ १५१ ॥ ........ ........ ॥ १५२ ॥ ........ ........ ॥ १५३ ॥ बाध्यज्ञानस्य मिथ्यात्वं नान्यथा व्यवतिष्ठते । तेन यावद्बाधनीयं तावन्मिथ्येति युज्यते ॥ १५४ ॥ भ्रान्तिज्ञेये च बाह्यत्वं बाधकैर्न निरस्यते । न गम्यतेऽन्तर्वर्तित्वं नानिर्वाच्यतया मतिः ॥ १५५ ॥ किं त्वतद्देशकालत्वं गम्यते बाह्यवस्तुनः । तस्मान्न बाह्यवस्तुत्वं मृषा बोधान्न बाधनात् ॥ १५६ ॥ प्रसक्तप्रतिषेधात्मा बाधोऽख्यातौ न युज्यते । साधयत्यन्यथा ख्यातिं बाध एव च नः स्फुटम् ॥ १५७ ॥ प्रसञ्जिका हि नाख्यातिरस्मत्पक्षे तु युज्यते । न चाग्रहनिषेधोऽयं सर्वज्ञानप्रसङ्गतः ॥ १५८ ॥ विवेकधीर्निषेधोऽयं न प्रतीत्यानुगम्यते । न क्रमे यौगपद्ये वा विवेकमतिरीदृशी ॥ १५९ ॥ अविवेकग्रहे स्याच्चेत्सत्यं न तु विविक्तयोः । अग्रहे प्राप्त्यभावेन प्राप्तेः पूर्वं तु युज्यते ॥ १६० ॥ ........ ........ । द्वयोरभावात्स्वप्ने च विवेको गम्यते कयोः ॥ १६१ ॥ स्मृतत्वेनाविविक्ते चेत्तथा बाधा विहन्यते । स्यात्सर्वैवंविधा बाधा पश्चात्धर्मिणि धर्मधीः ॥ १६२ ॥ तद्युक्तं बाधकज्ञानाद्वाचोयुक्तिरियं भवेत् । अर्थेऽन्यथापि सत्येष धियाकारः प्रतीयते ॥ १६३ ॥ आत्मख्यातौ सर्वमेवान्तराहुः शून्यख्यातौ शून्यमेवेति केचित् । अख्यातौ नो तत्त्वमिथ्याविभागस्तस्मादेषां विभ्रमाणां विवेकः ॥ १६४ ॥