ओं स्वातन्त्र्याख्यगुणेरितेन सततं सङ्क्षोभ्यमाणान्निजाद् इच्छामन्दरकेण सारभरिताद्रूपादलोलात्सदा । स्वान्तःस्थं स्वमयं स्वभिन्नसदृशं तत्त्वालिरत्नोच्चयम् बोधाह्वः प्रतिभासयन् परसरिन्नाथो जयत्यद्भुतः ॥ *१ ॥ शुद्धं स्फाटिकदर्पणेन सदृशं नित्यं स्वशक्त्युत्थितैर् अच्छत्वात्स्वमयीकृतं बहुविधैर्बाह्यान्तरैः स्वैर्मलैः । शक्त्यैतानपि सर्वदात्मनि लयीकुर्वाणमाद्यं शिवम् बोधाह्वं प्रणतोऽस्मि देवमनघं षट्कोशदावानलम् ॥ *२ ॥ बोधाबोधविभेदभासनपरं बोधान्वितैर्बोधितम् बोधाबोधविहीनमूर्तिममलं बोधैकसारं विभुम् । बोधाबोधविभेदगोपनकरं स्वस्मिंस्तु तस्याप्यनु बोधं तं शरणं श्रयामि सततं सद्बोधसम्प्राप्तये ॥ *३ ॥ स्वच्छत्वाश्रयमातृभावभजनाद्वैडूर्यनामार्हताम् आसाद्यान्ववतारनामकलनामेत्याच्छमेयास्पदाम् । तत्त्वं स्वं प्रकटं विधाय च ततः स्वं भावमेवागतो यस्तस्मै सततं स्वभावगुरवे नैर्गुण्यधाम्ने नमः ॥ *४ ॥ अच्छाच्छस्वविमर्शनेऽपि कुशलो वैडूर्यनाम्नाश्रितो यातोऽतोऽन्ववतारभावममलं तत्त्वोपदेशेच्छया । शिष्याणामुपदिश्य तत्त्वमथ यः स्वं रूपमेवागतस् तस्मै श्रीनिधये प्रकाशगुरवे सद्बोधदात्रे नमः ॥ *५ ॥ देहाद्रिस्थमनोद्रुमोत्थकलनाशाखालिसन्ध्यन्तराद् द्रष्टुं जाड्यहरं विमर्शविभवादुन्मेषरूपं रविम् । लग्ना ये सततं तदेकमयतां पश्यन्त आत्मन्यथो संसारेऽपि च तत्प्रकाशवशतो भातेऽस्तु तेभ्यो नमः ॥ *६ ॥ अपूर्वं सामर्थ्यं किमपि हृदयागोचर इदम् परिच्छेदातीतं जयति लघुमुख्यं भगवतः । विवृत्त्याख्ये कर्मण्यतिमहति वाक्पत्यविषये यदाविष्टोऽमुष्मिन्नपि भजति मूकोऽप्यधिकृतिम् ॥ *७ ॥ स्वतःसिद्धाल्लब्धं परमगहनं यत्स्वजनकाद् रहस्यं सङ्क्षेपान्निरतिशयमाभ्यन्तरमलम् । तदेतत्सर्वेषु प्रकटयितुमेवात्र विहितो मयासावुद्योगो न निजधिषणाख्यापनधिया ॥ *८ ॥ स्वभावेनैवान्धाः कतिचिदपरे रोषतमसा परेषां नापेक्षा भवति च निजालोकविभवात् । अतो व्याख्यादीपेऽप्रकट इव नात्रास्त्यधिकृतो भवेद्वा कोऽपीति भ्रमत इह यत्नस्तु रचितः ॥ *९ ॥ अवतारकण्ठपुत्रः पौत्रो वैडूर्यकण्ठपादानाम् । भास्करकण्ठो रचयति विद्वत्कण्ठे विभूषणं व्याख्याम् ॥ *१० ॥ शक्त्यादीनामभावे मे प्रवृत्तस्य पदे पदे । स्खलितानि भविष्यन्ति सन्तु सन्तोऽवलम्बनम् ॥ *११ ॥ नुत्वा गणेशं विबुधेशवन्द्यं वाग्देवतां च प्रतिभास्वरूपाम् । गुरूंस्तथा कौलनरोत्तमादीन् करोमि टीकां श्रुतिपात्रपेयाम् ॥ *१२ ॥ गुरूणां चरणौ स्मृत्वा कृत्वा स्वात्मार्चनं स्वतः । मोक्षोपायाभिधे ग्रन्थे व्याख्यां कुर्वे समासतः ॥ *१३ ॥ ************************************************************************ इह खलु कश्चिन्महापुरुषः श्रीवाल्मीकिनिबद्धश्रीमहारामायणाख्यसागरादिकाण्डस्थश्रीरामज्ञानोत्पादकश्रीवसिष्ठोपदेशरत्नैः स्वयमासादितसम्यग्ज्ञानाख्यप्रकाशः अथान्यान् प्रति दयया प्रकटीकरणार्थं प्रोक्तसागरात्तान्युद्धर्तुकामस्तदुद्धृतिनिर्विघ्नसमाप्तिगमनाय परदेवतास्वरूपं परमात्मानं स्तौति दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः । योऽवभात्यवभासात्मा तस्मै विश्वात्मने नमः ॥ ंो_१,१.१ ॥ "तस्मै" प्रसिद्धाय । "विश्वात्मने" सर्वसारत्वेन स्थितत्वात्सर्वेषामात्मभूतायार्थात्परमात्मने "नमः" । अपरिमितायां तत्सत्तायां परिमितस्वसत्तान्यग्भावरूपः प्रह्वीभावः अस्तु । तत्सत्तायामेव स्वसत्तां लीनां भावयामीति यावत् । "तस्मै" कस्मै । "अवभासात्मा" बाह्यान्तरालोकगतनानाविधबाह्यान्तरपदार्थवृन्दविषयज्ञानसारभूतः । "यः "विश्वात्मा । "अवभाति" प्रत्यक्षमेव स्फुरति । यतः प्रत्यक्षं स्फुरन्तः नानाभासाः विचारविषयीकृताः सन्तः अनिर्वाच्यतास्वरूपायां परमात्मतायामेव विश्राम्यन्ति । ततः नानावभासावभासेन परमात्मैवावभातीति भावः । "यः" कथम्भूतः । "विभुः" व्यापकः । कुत्र । "मे" परिमितप्रमातृतासादनेन चिन्मात्ररूपापरिमितप्रमातृभावाच्च्युतस्यात एव परिच्छिन्नवाचकास्मच्छब्दवाच्यतां गतस्य परिमितप्रमातुः । "बहिः "बाह्ये । अहन्ताविषयतामनीते प्रदेशे इति यावत् । पुनः कुत्र । "अन्तश्च" अहन्ताविषयतां नीते प्रदेशे च । "बहिः" किंरूपे । "दिवि" समस्तसुराधारभूतस्वर्गलोकरूपे । तथा "भूमौ" समस्तनरादिनानाविधभूताधारभूतभूलोकरूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारभूताकाशलोकस्वरूपे । एतेन चतुर्दशभुवनानां ग्रहणं ज्ञेयम् । "अन्तश्च" किंरूपे । "दिवि" द्योतनमात्रस्वरूपस्वप्नावस्थारूपे । "भूमौ" स्थूलत्वसादृश्याज्जाग्रदवस्थारूपे । "तथा" तद्वत् । "आकाशे" शून्यमात्राधारत्वसादृश्यात्सुषुप्त्यवस्थास्वरूपे । अत्र च परमात्मनः व्यापकत्वं शक्तिप्राधान्येनोपादानतया स्थितत्वात्स्वप्राधान्येन साक्षितया स्थितत्वाच्चेति द्विविधं ज्ञेयम् । एवमभीष्टसमुचितदेवतानमस्कारलक्षणं मङ्गलं कृत्वा उद्धरिष्यमाणस्यास्य ग्रन्थस्याधिकार्याद्यनुबन्धचतुष्टयं वक्तुकामः स एवोद्धृतिकारः अभिधेयसम्बन्धप्रयोजनान्यर्थात्सूचयनधिकारिनिरूपणं साक्षात्करोति ॥ ंोट्_१,१.१ ॥ अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः । नात्यन्ततज्ज्ञो नातज्ज्ञः सोऽस्मिञ्शास्त्रेऽधिकारवान् ॥ ंो_१,१.२ ॥ श्रीभगवत्कृपाकटाक्षपात्रीभूतस्य "यस्य" पुरुषस्य । अहम्परिमितप्रमातृरूपः "अहं बद्धः" स्वात्मभावेन निश्चितदेहोपयोगिभोगजालासक्तचित्तः । अस्मि कथमिति शेषः । प्रोक्तजालानासक्तचित्तः कथं "स्याम्" भवेयम् । "इति" एवम् ।" निश्चयः" मनसि सततमनुसन्धानम् । स्यात् । "सः" पुरुषः । "अस्मिन्न्" उद्धरिष्यमाणे मोक्षोपायाख्ये ग्रन्थे । "अधिकारवान्" स्यात् । तस्यैवेदं शास्त्रं विचारणीयमित्यर्थः । "सः" कथम्भूतः । नात्यन्तं तज्ज्ञः "नात्यन्ततज्ज्ञः" । मुक्तिकामत्वेन सम्यग्ज्ञानरहित ४ त्यर्थः । सम्यग्ज्ञानी हि मुक्तिमपि न काङ्क्षति । काङ्क्षामात्रस्यैव बन्धत्वात् । पुनः कथम्भूतः । "नातज्ज्ञः" । भोगाकाङ्क्षायाः मुक्तत्वात् । अतज्ज्ञो हि भोगाकाङ्क्षां त्यक्तुं न शक्नोति । अत्यन्ततज्ज्ञे कृतकृत्यत्वात्"अस्मिञ्शास्त्रे" अनधिकारः । अतज्ज्ञे तु अयोग्यतयेति विभागः । अत्र परमात्मतत्त्वैक्यमभिधेयम् । पदे पदे तस्यैवाभिधानात्स्वविषयज्ञानद्वारेण मोक्षाख्यपरमप्रयोजनसाधकत्वाच्च । सर्वशास्त्रेष्वभिधेयस्यैव परमप्रयोजनसाधकत्वदर्शनात् । तद्विषयं सम्यग्ज्ञानमवान्तरप्रयोजनम् । अन्यथा तत्काङ्क्षिणः अमूर्खस्यावान्तराधिकारित्वं न स्यात् । परमप्रयोजणं मुक्तिर् । अन्यथा तत्काङ्क्षिणः मुमुक्षोः परमाधिकारित्वं न स्यात् । शास्त्रावान्तरप्रयोजनयोः अभिधेयपरमप्रयोजनयोश्च साध्यसाधनभावः सम्बन्धः । अधिकारी तु स्वकण्ठेनैवोक्त इति सर्वं स्वस्थम् ॥ ंोट्_१,१.२ ॥ एवमधिकार्यादि निरूप्य शास्त्रोद्धारमारभते वाल्मीकिरुवाच इति । "वाल्मीकिः" वाल्मीकिनामा ऋषिः । "उवाच" उक्तवान् । श्रीरामं प्रति इति शेषः । किमुवाचेत्याशङ्कायामाह कथोपायान् विचार्यादौ मोक्षोपायानिमानथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते ॥ ंोट्_१,१.३ ॥ कथारूपा उपायाः "कथोपायाः" । तान् । कथानामपि सम्यग्ज्ञानं प्रति प्रवर्तकत्वेनोपायत्वं ज्ञेयम् । "इमान्" वक्ष्यमाणान् । ननु श्रीवाल्मीकिः श्रीरामवृत्तान्तमयं श्रीमहारामायणं श्रीरामं प्रत्येव कथमुवाचान्यस्यैव ह्यन्यवृत्तान्तकथनमुचितमिति चेत् । सत्यम् । अद्यकल्पे भवः श्रीवाल्मीकिरद्यकल्पे भवं श्रीरामं प्रति पुरातनकल्पश्रीवाल्मीकिकृतं पुरातनश्रीरामवृत्तान्तमयं श्रीमहारामायणमुवाचेति केचिदत्र समादधते । किमस्माकं व्याख्यामात्रप्रवृत्तानामेतद्युक्तत्वायुक्तत्वचिन्तनेन । अस्ति चात्र किमपि निगूढं बीजम् "अपि पौरुषमादेयम्" इत्यादिवक्ष्यमाणश्लोकसूचितम् । तच्च प्रतिभावतां स्वयमेव गम्यम् । अन्येषां तत्कथनमयुक्तम् । इत्यलं रहस्योद्घाटनेन ॥ ंोट्_१,१.३ ॥ अस्मिन् रामायणे राम कथोपायान्महाफलान् । एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ंो_१,१.४ ॥ शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवान् रम्यान्मणीनब्धिरिवार्थिने ॥ ंो_१,१.५ ॥ "रामे"त्यामन्त्रणम् । रामस्यैव प्रतिपाद्यत्वात् । "एतान्" त्वया "अस्मिन्" समय एव दृष्टान् । आदौ "कृत्वा" सम्पाद्य । "अस्मै" अग्रे स्थिताय । "एकाग्रः" एतस्य विनयेन एतस्मिंल्लग्नचित्तः । युगलकम् ॥ ंोट्_१,१.४५ ॥ तत एते कथोपाया भरद्वाजेन धीमता । कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ंो_१,१.६ ॥ "उदाहृताः" कथिताः ॥ ंोट्_१,१.६ ॥ अथास्य तुष्टो भगवान् ब्रह्मा लोकपितामहः । वरं पुत्र गृहाणेति समुवाच महाशयः ॥ ंो_१,१.७ ॥ स्पष्टम् ॥ ंोट्_१,१.७ ॥ भरद्वाजः कथयति भगवन् भूतभव्येश वरोऽयं मेऽद्य रोचते । येनेयं जनता दुःकान्मुच्यते तदुदाहर ॥ ंो_१,१.८ ॥ "भूतभव्येशा"तीतानागतयोरीशातीतानागतज्ञेति यावत् । "उदाहर" कथय ॥ ंोट्_१,१.८ ॥ भरद्वाजवाक्यं श्रुत्वा श्रीब्रह्मा कथयति गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्नतः । तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ंो_१,१.९ ॥ तस्मिञ्ज्ञाते नरो मोहात्समग्रात्सन्तरिष्यति । सेतुनेवाम्बुधेः पारमपारगुणशालिना ॥ ंो_१,१.१० ॥ युगलकम् । "पारम्" इति पूर्वार्धेनापि योज्यम् । "अम्बुधेर्" इति पञ्चमी ब्रह्मवाक्यमुपसंहरति ॥ ंोट्_१,१.९१० ॥ इत्युक्त्वा स भरद्वाजं परमेष्ठी ममाश्रमम् । अभ्यागमत्समं तेन भरद्वाजेन भूतकृत् ॥ ंो_१,१.११ ॥ परमे चिन्मात्राख्ये उत्तमे पदे तिष्ठति शुद्धमनोरूपत्वादिति "परमेष्ठी" ॥ ंोट्_१,१.११ ॥ तूर्णं सम्पूजितो देवः सोऽर्घ्यपाद्यादिना मया । अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ ंो_१,१.१२ ॥ [भगवद्गीता V २५ ] स्पष्टम् ॥ ंोट्_१,१.१२ ॥ ब्रह्मा कथयति रामस्वभावकथनादस्माद्वरमुने त्वया । नोद्योगः सम्परित्याज्य आ समाप्तेरनिन्दितात् ॥ ंो_१,१.१३ ॥ "आ समाप्तेः "समाप्तिपर्यन्तम् ॥ ंोट्_१,१.१३ ॥ ननु किमर्थमुद्योगं न त्यजामीत्य् । अत्राह ज्ञातेनानेन लोकोऽयमस्मात्संसारसङ्कटात् । समुत्तरिष्यति क्षिप्रं पोतेनेवाथ सागरात् ॥ ंो_१,१.१४ ॥ "अथ"शब्दः पादपूरणार्थः ॥ ंोट्_१,१.१४ ॥ वक्तुं तवैतमेवार्थमहमागतवानयम् । कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ ंो_१,१.१५ ॥ स्पष्टम् । ब्रह्मणो वाक्यमुपसंहरति "इत्युक्तवान्" इति ॥ ंोट्_१,१.१५ ॥ राम पुण्याश्रमात्तस्मात्क्षणादन्तर्धिमागतः । मुहूर्तादुद्यतः प्रोच्चैस्तरङ्ग इव वारिणः ॥ ंो_१,१.१६ ॥ "पुण्याश्रमात्" पवित्रात्मदाश्रमात् । "तस्मात्" तस्मिन् समये गृहीतात् । मुनयो हि नवीनानि नवीनान्याश्रमाणि गृह्णन्ति । ब्रह्मा क "इव" । "तरङ्ग इव" । यथा "वारिणः" "उद्यतः" पूर्वमुत्थितः "तरङ्गः" । "मुहूर्तादन्तर्धिम्" आगच्छति तथेत्यर्थः ॥ ंोट्_१,१.१६ ॥ तस्मिन् प्रयाते भगवत्यहं विस्मयमागतः । पुनस्तत्र भरद्वाजमपृच्छं स्वच्छया धिया ॥ ंो_१,१.१७ ॥ "भरद्वाजं" कथम्भूतम् । उपलक्षितं कया । "स्वच्छया धिया" । अन्यथा पृच्छनमयुक्तमेव स्यादिति भावः ॥ ंोट्_१,१.१७ ॥ किमपृच्छ इत्य् । अत्राह किमेतद्ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे । इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन मेऽनघ ॥ ंो_१,१.१८ ॥ "अनघ" हे दोषरहित राम ॥ ंोट्_१,१.१८ ॥ भरद्वाजः कथयति एतदुक्तं भगवता यथा रामायणं कुरु । सर्वलोकहितायाशु संसारार्णवपोतकम् ॥ ंो_१,१.१९ ॥ "एतत्"पदाकाङ्क्षां पूरयति "यथे"ति ॥ ंोट्_१,१.१९ ॥ ननु ततस्तव किमित्य् । अत्राह मह्यं च भगवन् ब्रूहि कथं संसारसङ्कटे । रामो व्यवहृतोऽप्यस्मिन् भरतश्च महामनाः ॥ ंो_१,१.२० ॥ "व्यवहृतः" व्यवहारं कृतवान् । "अपि"शब्दः असम्भावनाद्योतकः "संसारसङ्कटे" इत्यनेन सम्बध्यते ॥ ंोट्_१,१.२० ॥ शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी । रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ ंो_१,१.२१ ॥ स्पष्टम् ॥ ंोट्_१,१.२१ ॥ निर्दुःखतां यथैते तु प्राप्तास्तद्ब्रूहि मे स्फुटम् । तथैवाहं तरिष्यामि ततो जनतया सह ॥ ंो_१,१.२२ ॥ "एते" रामादयः ॥ ंोट्_१,१.२२ ॥ श्रीवाल्मीकिः श्रीरामं प्रति कथयति भरद्वाजेन राजेन्द्र यदेत्युक्तोऽस्मि सादरम् । तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ ंो_१,१.२३ ॥ "अस्मि" अहम् । "इति" पूर्वोक्तप्रकारेण । "उक्तः" कथितः । "विभोः" ब्रह्मणः ॥ ंोट्_१,१.२३ ॥ प्रवृत्तिमेव स्फुटयति शृणु वत्स भरद्वाज यथापृष्टं वदामि ते । श्रुतेन येन सम्मोहमलं दूरे करिष्यसि ॥ ंो_१,१.२४ ॥ "अलम्" अतिशयेन । "शृण्व्" इति प्रतिज्ञां सम्पादयितुं प्रस्तावं करोति ॥ ंोट्_१,१.२४ ॥ तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी । सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ ंो_१,१.२५ ॥ "सर्वासंसक्तया" समस्तफलासङ्गरहितया ॥ ंोट्_१,१.२५ ॥ न केवलं राम एव किं त्वन्येऽपीत्यभिप्रायेण कथयति लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः । कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥ ंोट्_१,१.२६ ॥ स्पष्टम् ॥ ंोट्_१,१.२६ ॥ कृतास्थश्चाविरोधश्च बोधपारमुपागतः । वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ ंो_१,१.२७ ॥ "कृतास्थ" इति नाम "अविरोध" इति च । "अष्टौ मन्त्रिणः" अष्टावमात्यास्। "तथेतरे" अन्येऽप्यष्टौ मन्त्रिणः । तेन षोडश मन्त्रिण इति परमार्थः ॥ ंोट्_१,१.२७ ॥ "इतर" इत्यस्यार्थं स्फुटं कथयति घृष्टिर्विकुन्तो भामश्च सत्यवर्धन एव च । विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ ंो_१,१.२८ ॥ स्पष्टम् ॥ ंोट्_१,१.२८ ॥ एतेऽष्टाविंशतिः प्रोक्ताः समनीरागचेतसः । जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ ंो_१,१.२९ ॥ "यथाप्राप्तानुवर्तिनः" । न तु स्वप्रयत्ननिष्ठा इति यावत् ॥ ंोट्_१,१.२९ ॥ एभिर्यथा हृतं दत्तं गृहीतमुषितं स्मृतम् । तथा चेद्वर्तसे पुत्र मुक्त एवासि सङ्कटात् ॥ ंो_१,१.३० ॥ "एभिः" रामादिभिः ॥ ंोट्_१,१.३० ॥ भरद्वाजस्य प्रश्नावसरदानार्थं सर्गान्तश्लोकेन तावत्स्ववाक्यमुपसंहरति अपारसंसारसमुद्रपाती लब्ध्वा परां युक्तिमुदारसत्त्वः । न शोकमायाति न दैन्यमेति गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ंो_१,१.३१ ॥ "अपारः" यः "संसारसमुद्रः" । तत्र "पाती" पतनशीलः । "उदारसत्त्वः" उत्कृष्टधैर्ययुक्तः "पुरुषः" । "पराम्" उत्कृष्टाम् । "युक्तिं" दृश्यात्यन्ताभावज्ञानलक्षणां वक्ष्यमाणां युक्तिम् । प्राप्य । "शोकम्" अपेक्षालक्षणं शोकम् । "नायाति" । तथा "दैन्यम्" दीनत्वम् । अतृप्तिमिति यावत् । "नैति" । प्रत्युत "गतज्वरः" अपेक्षास्वरूपज्वररहितः । अत एव "नित्यतृप्तः" "तिष्ठती"ति शिवम् ॥ ंोट्_१,१.३१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे प्रथमः सर्गः ॥ १,१ ॥ ************************************************************************ भरद्वाजः पृच्छति जीवन्मुक्तस्थितिं ब्रह्मन् कृत्वा राघवमादितः । क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ ंो_१,२.१ ॥ "ब्रह्मन्" श्रीवाल्मीके । त्वम् । "जीवन्मुक्तस्थितिं" जीवन्मुक्तमर्यादाम् । "राघवं" श्रीरामम् । "आदितः" "कृत्वा" । "मे कथय" श्रीरामवृत्तान्तद्वारेण कथयेति भावः । ननु किमर्थं कथयामीत्य् । अत्राह । "भविष्यामी"ति । अहं "यथा" येन जीवन्मुक्तस्थितिकथनेन । "नित्यसुखी" जीवन्मुक्त्याख्यमहासुखयुक्तो । "भविष्यामि" ॥ ंोट्_१,२.१ ॥ श्रीवाल्मीकिः श्रीरामवृत्तान्तश्रवणाधिकारित्वसम्पादनार्थं तावत्सामान्येनोपदेशं करोति भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् ॥ ंो_१,२.२ ॥ हे "साधो" । अहम् "अस्य" पुरः स्फुरतः । "जागतस्य" जगत्सम्बन्धिनः । तद्विषयस्येति यावत् । तथा "आकाशवर्णवत्" आकाशनीलिमवत् । "जातस्य" प्रादुर्भूतस्य । मिथ्याभातस्येति यावत् । "भ्रमस्य" जगत्त्वज्ञानरूपस्य मिथ्याज्ञानस्य । "अपुनःस्मरणम्" पुनःस्मृतिविषयभावानयनम् । उपेक्षामिति यावत् । "वरम्" उत्कृष्टम् । "विस्मरणम्" विस्मृतिम् । "मन्ये" । उपेक्षा एवात्र युक्ता । न विस्मृतिः । तस्याः जाड्यव्याप्तत्वादिति भावः ॥ ंोट्_१,२.२ ॥ ननु तद्"अपुनःस्मरणं "केनोपायेन भविष्यतीत्य् । अत्राह दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते । कदाचित्केनचिन्नाम स बोधोऽन्विष्यतामतः ॥ ंो_१,२.३ ॥ "नाम" निश्चये । "केनचित्" पुरुषेण । "तद्" अपुनःस्मरणम् । दृश्यस्य ... ... अज्ञानसुघनाकारा घनाहङ्कारशालिनी । पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ ंो_१,२.१२ ॥ पण्डितैः "वासना" "मलिना" "उक्ता" । कथम्भूता । "अज्ञानसुघनाकारा" । "अज्ञानेन" चिन्मात्राज्ञानेन । "सुघनः आकारः" यस्याः । सा । चिन्मात्राज्ञानेनैव हि वासना घनीभवन्ति । अन्यथा शुद्धचिन्मात्रैक्येन वासना किंविषया स्यात् । पुनः कथम्भूता । "घनः" अच्छिन्नः । यः "अहङ्कारः" देहादिविषयः अहम्भावः । तेन "शालिनी" । वासनावशेनैव हि देहादिनिष्ठः अहङ्कारो घनीभवति । पुनः कथम्भूता । "पुनः जन्मकरी" पुनरपि भवकरी । पदार्थभावेन व्यक्तीभावात् ॥ ंोट्_१,२.१२ ॥ शुद्धायाः स्वरूपं कथयति पुनर्जन्माङ्कुरत्यक्ता स्थिता सम्भृष्टबीजवत् । देहान्तं ध्रियते ज्ञातज्ञेया शुद्धेति सोच्यते ॥ ंो_१,२.१३ ॥ पण्डितैः "सा" वासना । "शुद्धेति" कथ्यते । "सा" का । या "देहान्तं" देहस्थितिपर्यन्तमेव । न तु तदनन्तरमपि । "ध्रियते" अवतिष्ठते । या कथम्भूता ।" पुनर्जन्मा"ख्येन्"आङ्कुरेण" "त्यक्ता" । यतः "सम्भृष्टबीजवत्" भर्जितबीजवत् । "स्थिता" । यथा सम्भृष्टं बीजमाकारमात्रेण तिष्ठति । अङ्कुरसमर्थं न भवति । तथा शुद्धा वासनाप्याकारमात्रेणैव तिष्ठति । जन्माङ्कुरोत्पादनसमर्था न भवतीत्यर्थः । पुनः कथम्भूता । "ज्ञातं ज्ञेयम्" अवश्यज्ञेयत्वेन स्थितं परमात्मतत्त्वम् । यया हेतुभूतया । तादृशी । शास्त्रविचारादिरूपया शुद्धया वासनयैव हि परमात्मतत्त्वं ज्ञायते ॥ ंोट्_१,२.१३ ॥ शुद्धाया आश्रयविशेषं कथयति अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु । वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥ ंो_१,२.१४ ॥ "जीवन्मुक्तेषु देहिषु" जीवेषु । "अपुनर्जन्मकरणी" पुनर्जन्माकारिका । "शुद्धा" "वासना देहे विद्यते" । न तु चित्ते । का "इव "। "भ्रमः" "इव" । यथा "भ्रमः" चाक्राकारेण भ्रमणम् । "चक्रे" विद्यते । तथेत्यर्थः । जीवन्मुक्तानां वासना फलाद्यनुसन्धानानुत्पादिका एवास्तीति भावः ॥ ंोट्_१,२.१४ ॥ जीवन्मुक्तलक्षणं कथयति ये शुद्धवासना भूयो न जन्मानर्थभाजनम् । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ ंो_१,२.१५ ॥ "शुद्धा वासना" येषाम् । ते । तादृशाः ॥ ंोट्_१,२.१५ ॥ सामान्येनोपदेशं कृत्वा श्रीरामवृत्तान्तमारभते जीवन्मुक्तपदं प्राप्तो यथा रामो महामतिः । तत्तेऽहं सम्प्रवक्ष्यामि जरामरणशान्तये ॥ ंो_१,२.१६ ॥ ननु किमर्थं श्रीरामजीवन्मुक्तिप्राप्तिं कथयसीत्य् । अत्राह "जरे"ति । श्रीरामजीवन्मुक्तिपदप्राप्तिश्रवणेन हि तवापि तद्व्यवहारानुसारेण जरादिशान्तिर्भवतीति भावः ॥ ंोट्_१,२.१६ ॥ ननु बहूपदेशकाङ्क्षिणो मम किं रामक्रममात्रकथनेनेत्य् । अत्राह भरद्वाज महाबुद्धे रामक्रममिमं शुभम् । शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वथा ॥ ंो_१,२.१७ ॥ "सर्वथे"त्यनेन ततः काप्याकाङ्क्षा तव न स्यादिति भावः ॥ ंोट्_१,२.१७ ॥ तदेव कथयति विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः । दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥ ंो_१,२.१८ ॥ "दिवसानि" । न तु मासान् । अविद्यमानं कुतोऽपि भयं यस्य सः "अकुतोभयः "। निर्भय इत्यर्थः ॥ ंोट्_१,२.१८ ॥ अथ गच्छति कालेऽत्र पालयत्यवनिं नृपे । प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ ंो_१,२.१९ ॥ तीर्थमुन्याश्रमश्रेणीं द्रष्टुमुत्कण्ठितं मनः । रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥ ंो_१,२.२० ॥ स्पष्टम् । युग्मम् ॥ ंोट्_१,२.१९२० ॥ राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः । हंसः पद्माविव नवौ जग्राह नवकेसरौ ॥ ंो_१,२.२१ ॥ पादवन्दनं चकारेत्यर्थः ॥ ंोट्_१,२.२१ ॥ श्रीरामः पितरं प्रति कथयति तीर्थानि देवसद्मानि वनान्यायतनानि च । द्रष्टुमुत्कण्ठितं तात ममेदं हि भृशं मनः ॥ ंो_१,२.२२ ॥ "हि" निश्चये ॥ ंोट्_१,२.२२ ॥ तदेतामर्थनां पूर्वां सफलीकर्तुमर्हसि । न सोऽस्ति भुवने तात त्वया योऽर्थी विमानितः ॥ ंो_१,२.२३ ॥ मयाद्य तावत्तव कापि प्रार्थना न कृतेति "पूर्वाम्" इत्यस्याभिप्रायः ॥ ंोट्_१,२.२३ ॥ श्रीरामप्रार्थनामुपसंहरति इति सम्प्रार्थितो राजा वसिष्ठेन समं तदा । विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ ंो_१,२.२४ ॥ "विचार्यै"व । न तु "विचारम्" अकृत्वा । "प्रथममर्थिनं" तत्पूर्वमर्थिभूतम् ॥ ंोट्_१,२.२४ ॥ शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः । मङ्गलालङ्कृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ ंो_१,२.२५ ॥ वसिष्ठप्रहितैर्विप्रैः शास्त्रतज्ज्ञैः समन्वितः । स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥ ंो_१,२.२६ ॥ अम्बाभिर्विहिताशीर्भिरालिङ्ग्यालिङ्ग्य भूषितः । निरगात्स गृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥ ंो_१,२.२७ ॥ "आलिङ्ग्यालिङ्ग्ये"त्यनेन स्नेहातिशयो द्योत्यते । "निरगात्" निर्ययौ ॥ ंोट्_१,२.२५२७ ॥ निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वर्धितः । पीयमानः पुरन्ध्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥ ंो_१,२.२८ ॥ ग्रामीणललनालोकहस्तपद्मापवर्जितैः । लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ ंो_१,२.२९ ॥ आवर्जयन् विप्रगणान् परिशृण्वन् प्रजाशिषः । आलोकयन् दिगन्तांश्च परिचक्राम जङ्गले ॥ ंो_१,२.३० ॥ "परिचक्राम" पादचारेण गतवान् । तीर्थयात्रायां हि पादचारेण गमनं पुण्यावहम् ॥ ंोट्_१,२.२८३० ॥ अथारभ्य स्वकात्तस्मात्क्रमात्कोसलमण्डलात् । स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ंो_१,२.३१ ॥ "ह"शब्दः निपातः ॥ ंोट्_१,२.३१ ॥ किं "ददर्शे"ति कर्मापेक्षायामाह नदीस्तीर्थानि पुण्यानि वनान्यायतनानि च । जङ्गलानि वनान्तेषु तटान्यब्धिमहीभृताम् ॥ ंो_१,२.३२ ॥ "वनान्तेषु" स्थितानि "जङ्गलानि" सजलाः देशाः ॥ ंोट्_१,२.३२ ॥ मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् । सरस्वतीं शतद्रुं च चन्द्रभागामिरावतीम् ॥ ंो_१,२.३३ ॥ स्पष्टम् ॥ ंोट्_१,२.३३ ॥ वेणां च कृष्णवेणां च निर्विन्ध्यां सरयूं तथा । चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ंो_१,२.३४ ॥ स्पष्टम् ॥ ंोट्_१,२.३४ ॥ प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा । वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ंो_१,२.३५ ॥ स्पष्टम् ॥ ंोट्_१,२.३५ ॥ मानसं च क्रमसरस्तथैवोत्तरमानसम् । वडवां मडवां चैव तीर्थवृन्दं ससोदरम् ॥ ंो_१,२.३६ ॥ "तीर्थवृन्दं" कथम्भूतम् । "ससोदरं" सोदराख्यतीर्थसहितम् ॥ ंोट्_१,२.३६ ॥ अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा । सरांसि सरसीश्चैव तथा वापीह्रदावलीम् ॥ ंो_१,२.३७ ॥ स्पष्टम् ॥ ंोट्_१,२.३७ ॥ स्वामिनं कार्त्तिकेयं च सालिग्रामहरिं तथा । स्थानानि च चतुष्षष्टिं हरस्य गिरिजापतेः ॥ ंो_१,२.३८ ॥ स्पष्टम् ॥ ंोट्_१,२.३८ ॥ नानाश्चर्यविचित्राणि चतुरब्धितटानि च । विन्द्यकन्दरकुञ्जांश्च कुलशैलस्थलानि च ॥ ंो_१,२.३९ ॥ स्पष्टम् ॥ ंोट्_१,२.३९ ॥ राजर्षीणां च महतां ब्रह्मर्षीणां तथैव च । देवानां ब्राह्मणानां च पावनानाश्रमाञ्शुभान् ॥ ंो_१,२.४० ॥ स्पष्टम् ॥ ंोट्_१,२.४० ॥ भूयो भूयः स बभ्राम भ्रातृभ्यां सह मानदः । चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ंो_१,२.४१ ॥ स्पष्टम् ॥ ंोट्_१,२.४१ ॥ सर्गान्तश्लोकेन तीर्थयात्राभ्रमणमुपसंहरति अमरकिन्नरमानवमानितः समवलोक्य महीमखिलामिमाम् । उपययौ स्वगृहं रघुनन्दनो विहृतदिक्शिवलोकमिवेश्वरः ॥ ंो_१,२.४२ ॥ "ईश्वरः" कथम्भूतः । "विहृतदिक्" विहृताः विहारविषयीकृताः दिशः येन । तादृशः । इति शिवम् ॥ ंोट्_१,२.४२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वितीयः सर्गः ॥ १,२ ॥ ************************************************************************ श्रीरामस्य गृहप्रवेशं कथयति लाजपुष्पाञ्जलिव्रातैर्विकीर्णः पौरवासिभिः । स विवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ ंो_१,३.१ ॥ "विकीर्णः" भरितः ।" जयन्तः" इन्द्रपुत्रः ॥ ंोट्_१,३.१ ॥ प्रणनामाथ पितरं वसिष्ठं मातृबान्धवान् । ब्राह्मणान् गुरुवृद्धांश्च राघवः प्रथमागतः ॥ ंो_१,३.२ ॥ स्पष्टम् ॥ ंोट्_१,३.२ ॥ सुहृद्भिर्मातृभिश्चैव पित्रा द्विजगणेन च । मुहुरालिङ्गनाचारै राघवो न ममौ तदा ॥ ंो_१,३.३ ॥ "राघवस्" "तदा" "सुहृद्"आदि"भिः" सहकृतैः "आलिङ्गनाचारैः" आलिङ्गनरूपैः लोकाचारैः ।" न" "ममौ" महानन्दयुक्तो जात इति भावः ॥ ंोट्_१,३.३ ॥ तस्मिन् दृढैर्दाशरथौ प्रियप्रकथनैर्मिथः । जुघूर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ंो_१,३.४ ॥ "तस्मिन्" "दाशरथौ" "मिथः" "प्रियप्रकथनैः" श्रीरामविषयैः अन्योऽन्यं प्रियकथनैः । श्रीरामो गृहं प्राप्त इत्येवंरूपैः परस्परं प्रियकथनैरिति यावत् ।" आशाः" दिशः । "जुघूर्णुः" घूर्णिं प्रापुः । मङ्गलवाचिभूकम्पोत्थानादियमुक्तिः ।" प्रियप्रकथनैः" कथम्भूतैः । "दृढैस्" तथा "मधुरैः" कर्णसुखैः । "प्रियप्रकथनैः" कैर्"इव" । "मृदुवंशस्वनैर्" "इव" । यथा तैः पुरुषाः घूर्णन्ति । तथेत्यर्थः ॥ ंोट्_१,३.४ ॥ बहून्यास दिनान्यत्र रामागमनमुत्सवः । महानन्दे जनान्मुञ्चन् केलिकोलाहलाकुलः ॥ ंो_१,३.५ ॥ "अत्र" दशरथपुरे ।" रामागमनम्" " उत्सवः" "आस" अभूत् । कियन्तं कालम् । "बहूनि" "दिनानि" । बहुदिनपर्यन्तमित्यर्थः ।" उत्सवः" किं कुर्वन् । "जनान्महानन्दे" "मुञ्चन्" । "आसे"ति प्रयोग आर्षः ॥ ंोट्_१,३.५ ॥ उवास स सुखं गेहे ततः प्रभृति राघवः । वर्णयन् विविधाचारान् देशाचारानितस्ततः ॥ ंो_१,३.६ ॥ "इतस्ततः" यत्र तत्र ॥ ंोट्_१,३.६ ॥ प्रातरुत्थाय रामोऽसौ कृत्वा सन्ध्यां यथाविधि । सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तदा ॥ ंो_१,३.७ ॥ स्पष्टम् ॥ ंोट्_१,३.७ ॥ कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह । स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ंो_१,३.८ ॥ जगाम पित्रनुज्ञातो महत्या सेनयावृतः । वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥ ंो_१,३.९ ॥ "आखेटेच्छया" मृगयाकाङ्क्षया ॥ ंोट्_१,३.८९ ॥ तत आगत्य सदने कृत्वा स्नानादिकं क्रमात् । समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ ंो_१,३.१० ॥ स्पष्टम् ॥ ंोट्_१,३.१० ॥ एवंरूपमाचारमसौ नैकस्मिन्नेव दिने कृतवानपि तु सर्वदैवेत्यभिप्रायेण कथयति एवम्प्रायदिनाचारो भ्रातृभ्यां सह राघवः । आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ंो_१,३.११ ॥ स्पष्टम् ॥ ंोट्_१,३.११ ॥ सर्गान्तश्लोकेनैतदुपसंहरति नृपतिसंव्यवहारमनोज्ञया सुजनचेतसि चन्द्रिकया तथा । परिनिनाय दिनानि स चेष्टया श्रुतसुधारसपेशलयानघः ॥ ंो_१,३.१२ ॥ "सः अनघः" दोषरहितः श्रीरामः । एवंविधया "चेष्टया दिनानि परिनिनाय" लङ्घितवान् । किंविधया । "नृपतिव्यवहारेण" प्रजाविचारादिना राजव्यवहारेण । "मनोज्ञया" हृद्यया । तथा "सुजनचेतसि" सत्पुरुषमनसि । "चन्द्रिकया" सुजनहृदयाह्लादिकयेति यावत् । तथा "श्रुते" श्रवणे । "सुधारस"वत्"पेशलया" । दृष्टत्वे तु किं वाच्यमिति भावः । इति शिवम् ॥ ंोट्_१,३.१२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे तृतीयः सर्गः ॥ १,३ ॥ ************************************************************************ अथोनषोडशे वर्षे वर्तमाने रघूद्वहे । रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ ंो_१,४.१ ॥ भरते संस्थिते नित्यं मातामहगृहे सुखम् । पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ ंो_१,४.२ ॥ जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः । कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ंो_१,४.३ ॥ कृतायां तीर्थयात्रायां रामो निजगृहस्थितः । जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ंो_१,४.४ ॥ "तथा" ऊनषोडशवर्षे सतीत्यर्थः । "जन्यत्रार्थं" विवाहार्थम् । "कार्श्यं" क्षीणताम् ॥ ंोट्_१,४.१४ ॥ कार्श्यमेव कथयति क्रमादस्य विशालाक्षं पाण्डुतां मुखमादधे । पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ंो_१,४.५ ॥ कृशतायां हि मुखस्य पाण्डिमा जायते ॥ ंोट्_१,४.५ ॥ कपोलतलसंलीनपाणिः पद्मासनस्थितः । चिन्तापरवशस्तूष्णीमव्यापारो बभूव सः ॥ ंो_१,४.६ ॥ "सः" श्रीरामः ॥ ंोट्_१,४.६ ॥ कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः । नोवाच कस्यचित्किञ्चिल्लिपिकर्मार्पितोपमः ॥ ंो_१,४.७ ॥ स्पष्टम् ॥ ंोट्_१,४.७ ॥ खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः । चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ंो_१,४.८ ॥ स्पष्टम् ॥ ंोट्_१,४.८ ॥ एवं मुनिविशिष्टं तं रामं गुणगणाकरम् । आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥ ंो_१,४.९ ॥ "मुनिविशिष्टम्" उत्कृष्टं मुनिम् । वैराग्यवत्त्वात् । "अस्य ताम्" "एव" "दशां" रामसम्बन्धिनीं कार्श्यादिरूपामेवावस्थाम् ॥ ंोट्_१,४.९ ॥ तथा तेषु तनूजेषु खेदवत्सु कृशेषु च । सपत्नीको महीपालश्चिन्ताविवशतां ययौ ॥ ंो_१,४.१० ॥ स्पष्टम् ॥ ंोट्_१,४.१० ॥ का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः । अपृच्छत्स्निग्धया वाचा न चाकथयदस्य सः ॥ ंो_१,४.११ ॥ "सः" रामः । "अस्य" पितुः ॥ ंोट्_१,४.११ ॥ न किञ्चित्तात मे दुःकमित्युक्त्वा पितुरङ्कगः । रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ ंो_१,४.१२ ॥ स्पष्टम् ॥ ंोट्_१,४.१२ ॥ ततो दशरथो राजा रामः किं खेदवानिति । अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ ंो_१,४.१३ ॥ "सर्वकार्यज्ञं" सर्वेषु कार्येषु निपुणम् । अन्यथा पृच्छनमयुक्तमेव स्यादिति भावः ॥ ंोट्_१,४.१३ ॥ अस्त्यत्र कारणं श्रीमन्मा राजन् दुःखमस्तु ते । इत्युक्तश्चिन्तया युक्तो वसिष्ठमुनिना नृपः ॥ ंो_१,४.१४ ॥ "श्रीमत्" ज्ञानाख्यफलकारित्वात् । "कारणं" वैराग्याख्यं किञ्चिद् । अस्मिन् समये वक्तुमयुक्तमिति भावः ॥ ंोट्_१,४.१४ ॥ उपसंहृतमपि वसिष्ठवाक्यं सर्गान्तश्लोकेन पुनः कथयति कोपं विषादकलनां विततं च हर्षं नाल्पेन कारणवशेन वहन्ति सन्तः । सर्गेण संहतिजवेन विना जगत्याम् भूतानि भूप न महान्ति विकारयन्ति ॥ ंोट्_१,४.१५ ॥ "सन्तः" साधवः । "अल्पेन" स्तोकेन । "कारणवशेन" विततं "कोपं" विततां "विषादकलनां" "विततं" "हर्षं" "च" । "न" "वहन्ति" न धारयन्ति । "अल्पेने"ति विशेषणस्य "कारणे"त्यनेनार्थिकः सम्बन्धः । अत्र व्यतिरेकेण दृष्टान्तमाह "सर्गेणे"ति । हे "भूप" । "महान्ति भूतानि" महाभूतानि । "जगत्यां" जगति । "सर्गेण विना" महासृष्टिं "विना" । तथा "संहतिजवेन विना" संहाराख्यवेगेन विना । "न विकारयन्ति" कार्योत्पत्त्याख्यविकारयुक्तानि तथा नाशाख्यविकारयुक्तानि च न भवन्ति । तत्करोति तदाचष्टे इति णिच् । "विकारवन्ती"ति वा पाठः । स्थित्यवस्थायामवान्तरसर्गसंहतिरूपेणाल्पेन कारणेन न भवन्तीति भावः । इति शिवम् ॥ ंोट्_१,४.१५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्थः सर्गः ॥ १,४ ॥ ************************************************************************ श्रीवाल्मीकिर्भरद्वाजं प्रति कथयति इत्युक्ते मुनिनाथेन सन्देहवति पार्थिवे । खेदवत्यास्थिते मौनं कञ्चित्कालं प्रतीक्षिणि ॥ ंो_१,५.१ ॥ परिखिन्नासु सर्वासु राज्ञीषु नृपसद्मसु । स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ ंो_१,५.२ ॥ एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः । महर्षिरागमद्द्रष्टुं तमयोध्यां नराधिपम् ॥ ंो_१,५.३ ॥ "आगमत्" आगच्छति स्म ॥ ंोट्_१,५.१३ ॥ ननु किमर्थमसौ आगत इत्य् । अत्राह तस्य यज्ञोऽथ रक्षोभिस्तदा विलुलुपे किल । मायावीर्यबलोन्मत्तैर्धर्मकामस्य धीमतः ॥ ंो_१,५.४ ॥ रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् । न हि शक्तो ह्यविघ्नेन तमाप्तुं स मुनिः क्रतुम् ॥ ंो_१,५.५ ॥ ननु किमर्थं तं "रक्षार्थं" "द्रष्टुमैच्छद्" इत्य् । अत्राह "न ही"ति ॥ ंोट्_१,५.४५ ॥ ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः । विश्वामित्रो महातेजा अयोध्यामभ्ययात्पुरीम् ॥ ंो_१,५.६ ॥ [ऋआमी १७, २३] "अभ्ययात्" अभिगच्छति स्म ॥ ंोट्_१,५.६ ॥ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ंो_१,५.७ ॥ [ऋआमी १७, २४] "ह"शब्दः निपातः । किम् "उवाचे"ति कर्मापेक्षायामुत्तरार्धं कर्मत्वेन कथयति "शीघ्रम्" इति । "आख्यात" कथयत । यूयमिति शेषः । "गाधिनः" गाधिराजस्य ॥ ंोट्_१,५.७ ॥ तस्य तद्वचनं श्रुत्वा द्वाःस्था राजगृहं ययुः । सम्भ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ंो_१,५.८ ॥ [ऋआमी १७, २५] "तेन" "वाक्येन" विश्वामित्रोक्तेन वाक्येन ॥ ंोट्_१,५.८ ॥ ते गत्वा राजभवनं विश्वामित्रमृषिं ततः । प्राप्तमावेदयामासुः प्रतीहारपतिं तदा ॥ ंो_१,५.९ ॥ [ऋआमी १७, २६] "प्रतीहारपतिं" द्वास्थाधिकारिणम् ॥ ंोट्_१,५.९ ॥ अथास्थानगतं भूपं राजमण्डलमास्थितम् । समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ ंो_१,५.१० ॥ "असौ याष्टीकः" प्रतीहारपतिः ॥ ंोट्_१,५.१० ॥ किं "व्यजिज्ञपद्" इत्य् । अत्राह देव द्वारि महातेजा बालभास्करसन्निभः । ज्वालारुणजटाजूटः पुमाञ्श्रीमानवस्थितः ॥ ंो_१,५.११ ॥ स्पष्टम् ॥ ंोट्_१,५.११ ॥ स चामरपताकाढ्यं साश्वेभपुरुषायुधम् । कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ ंो_१,५.१२ ॥ स्पष्टम् ॥ ंोट्_१,५.१२ ॥ वक्त्यस्मानाशु याष्टीका निवेदयत राजनि । विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ ंो_१,५.१३ ॥ असौ पुरुषः "अस्मान्" "अनुद्धतया" "गिरे"ति "वक्ती"ति सम्बन्धः । याष्टीका इत्यामन्त्रणम् । यूयमित्यध्याहार्यम् ॥ ंोट्_१,५.१३ ॥ इति याष्टीकवचनमाकर्ण्य नृपसत्तमः । स समन्त्री ससामन्तः प्रोत्तस्थे हेमविष्टरात् ॥ ंो_१,५.१४ ॥ "हेमविष्टरात्" सुवर्णपीठात् ॥ ंोट्_१,५.१४ ॥ पदातिरेव महतां राज्ञां वृन्देन पालितः । वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ ंो_१,५.१५ ॥ स्पष्टम् ॥ ंोट्_१,५.१५ ॥ जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः । ददर्श मुनिशार्दूलं द्वारभूमावधिष्ठितम् ॥ ंो_१,५.१६ ॥ स्पष्टम् ॥ ंोट्_१,५.१६ ॥ कीदृशं ददर्शेत्यपेक्षायामाह केनापि कारणेनोर्वीतलमर्कमिवागतम् । ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ ंो_१,५.१७ ॥ स्पष्टम् ॥ ंोट्_१,५.१७ ॥ जराजरढया नित्यं तपःप्रसररूक्षया । जटावल्ल्या वृतस्कन्धं ससन्ध्याभ्रमिवाचलम् ॥ ंो_१,५.१८ ॥ स्पष्टम् ॥ ंोट्_१,५.१८ ॥ उपशान्तं च कान्तं च दीप्तमप्रतिघं तथा । निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ ंो_१,५.१९ ॥ "अप्रतिघम्" अप्रतिघाताकारम् । "निभृतं" कोमलम् ॥ ंोट्_१,५.१९ ॥ पेशलेनातिभीमेन प्रसन्नेनाकुलेन च । गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रजम् ॥ ंो_१,५.२० ॥ स्पष्टम् ॥ ंोट्_१,५.२० ॥ अनन्तजीवितदशासखीमेकामनिन्दिताम् । धारयन्तं करे श्लक्ष्णां वीणामम्लानमानसम् ॥ ंो_१,५.२१ ॥ "श्लक्ष्णाम्" पेशलाम् ॥ ंोट्_१,५.२१ ॥ करुणाक्रान्तचेतस्त्वात्प्रसन्नमधुरेक्षितैः । ईक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥ ंो_१,५.२२ ॥ स्पष्टम् ॥ ंोट्_१,५.२२ ॥ सितासितततापाङ्गं धवलप्रोन्नतभ्रुवम् । आनन्दं च भयं चान्तः प्रयच्छन्तमवेक्षितुः ॥ ंो_१,५.२३ ॥ "अवेक्षितुः" पश्यतः । अतिपेशलत्वात्"आनन्द"दानम् । सतेजस्कत्वात्"भय"दानम् ॥ ंोट्_१,५.२३ ॥ मुनिमालोक्य भूपालो दूरादेवानताकृतिः । प्रणनाम गलन्मौलिमणिमालितभूतलम् ॥ ंो_१,५.२४ ॥ "गलद्" इत्यादि क्रियाविशेषणम् ॥ ंोट्_१,५.२४ ॥ मुनिरप्यवनेरीशं भास्वानिव शतक्रतुम् । तत्राभिवादयां चक्रे मधुरोदारया गिरा ॥ ंो_१,५.२५ ॥ स्पष्टम् ॥ ंोट्_१,५.२५ ॥ ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः । स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ ंो_१,५.२६ ॥ "एनं" विश्वामित्रम् ॥ ंोट्_१,५.२६ ॥ दशरथः कथयति अशङ्कितोपनीतेन भास्वता दर्शनेन ते । साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ ंो_१,५.२७ ॥ "अशङ्कितम्" शङ्कराहितम् । "उपनीतेन" प्राप्तेन ॥ ंोट्_१,५.२७ ॥ यदनादि यदक्षुब्धं यदपायविवर्जितम् । तदानन्दसुखं प्राप्ता अद्य त्वद्दर्शनान्मुने ॥ ंो_१,५.२८ ॥ "त्वद्दर्शनेन" वयं ब्रह्मानन्दम् "प्राप्ता" इति भावः ॥ ंोट्_१,५.२८ ॥ अद्य वर्तामहे नूनं धर्म्याणां धुरि धर्मतः । भवदागमनस्येमे यद्वयं लक्ष्यतां गताः ॥ ंो_१,५.२९ ॥ "वर्तामहे" तिष्ठामः । "लक्ष्यताम्" आश्रयत्वम् । विषयत्वमिति यावत् ॥ ंोट्_१,५.२९ ॥ एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः । आसनेषु सभास्थानमास्थाय समुपाविशन् ॥ ंो_१,५.३० ॥ "समुपाविशन्" उपविष्टाः ॥ ंोट्_१,५.३० ॥ स दृष्ट्वा ज्वलितं लक्ष्म्या भीतस्तमृषिमागतम् । प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ंो_१,५.३१ ॥ [ऋआमी १७, २८] "न्यवेदयद्" अर्पितवान् ॥ ंोट्_१,५.३१ ॥ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा । प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ंो_१,५.३२ ॥ [ऋआमी १७, २९ ब्(*५३९ द्)] स्पष्टम् ॥ ंोट्_१,५.३२ ॥ स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा । कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ंो_१,५.३३ ॥ [ऋआमी १७, २९ द्] स्पष्टम् ॥ ंोट्_१,५.३३ ॥ वसिष्ठेन समागम्य प्रहस्य मुनिपुङ्गवः । यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ंो_१,५.३४ ॥ [ऋआमी १७, ३० ब्(*५४१ ब्)] स्पष्टम् ॥ ंोट्_१,५.३४ ॥ क्षणं यथार्हमन्योऽन्यं पूजयित्वा समेत्य च । ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ंो_१,५.३५ ॥ [ऋआमी १७, ३१ ब्(*५४१ द्)] स्पष्टम् ॥ ंोट्_१,५.३५ ॥ यथोचितासनगता मिथः संवृद्धतेजसः । परस्परेण पप्रच्छुः सर्वेऽनामयमादरात् ॥ ंो_१,५.३६ ॥ स्पष्टम् ॥ ंोट्_१,५.३६ ॥ उपविष्टाय तस्मै स विश्वामित्राय धीमते । पाद्यमर्घ्यं च गाश्चैव भूयो भूयो न्यवेदयत् ॥ ंो_१,५.३७ ॥ [ऋआमी *५४२ ब्॑ेf] स्पष्टम् ॥ ंोट्_१,५.३७ ॥ अर्चयित्वा च विधिवद्विश्वामित्रमभाषत । प्राञ्जलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥ ंो_१,५.३८ ॥ [ऋआमी *५४२ ज्] स्पष्टम् ॥ ंोट्_१,५.३८ ॥ यथामृतस्य सम्प्राप्तिर्यथा वर्षमवर्षके । [ऋआमी १७, ३३ ब्] यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ंोट्_१,५.३९ ॥ स्पष्टम् ॥ ंोट्_१,५.३९ ॥ यथेष्टधनसम्पर्कः पुत्रजन्माप्रजावतः । [ऋआमी १७, ३३ द्] स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ंोट्_१,५.४० ॥ [ऋआमी *५४५ ] स्पष्टम् ॥ ंोट्_१,५.४० ॥ यथेप्सितेन संयोग इष्टस्यागमनं यथा । [ऋआमी *५४४] प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ंोट्_१,५.४१ ॥ [ऋआमी १७, ३३ ] स्पष्टम् ॥ ंोट्_१,५.४१ ॥ यथा हर्षो नभोगत्या मृतस्य पुनरागमात् । तथा त्वदागमाद्ब्रह्मन् स्वागतं ते महामुने ॥ ंो_१,५.४२ ॥ [ऋआमी १७, ३३ ह्(*५४५ )] "मृतस्य" "पुनरागमाद्" । इत्यत्र यथेति शेषः । हे महामुने । "ते" "स्वागतम्" अस्तु ॥ ंोट्_१,५.४२ ॥ ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् । मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ंो_१,५.४३ ॥ [ऋआमी *५४५ f॑*५४६] स्पष्टम् ॥ ंोट्_१,५.४३ ॥ कश्च ते परमः कामः किं च ते करवाण्यहम् । पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ंो_१,५.४४ ॥ [ऋआमी १७, ३४ द्] हे "विप्र" । "असि" त्वम् । "मे पात्रभूतः प्राप्तः" ॥ ंोट्_१,५.४४ ॥ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रजः । ब्रह्मर्षित्वमनु प्राप्तः पूज्योऽसि भगवन्मम ॥ ंो_१,५.४५ ॥ [ऋआमी १७, ३५] हे "भगवन्" । "पूर्वं" "राजर्षिशब्देनै"व पूज्यः । "अनु" पश्चात् । "तपसा द्योतितप्रजः" सन् । "ब्रह्मर्षित्वम्" "प्राप्तः" त्वम् । "मम पूज्यः असि" ॥ ंोट्_१,५.४५ ॥ गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम । तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ंो_१,५.४६ ॥ [ऋआमी *५५१ च्] "अन्तः" मनसि ॥ ंोट्_१,५.४६ ॥ विगतेच्छाभयक्रोधो वीतरागो निरामयः । इदमत्यद्भुतं ब्रह्मन् यद्भवान्मामुपागतः ॥ ंो_१,५.४७ ॥ "माम्" उपागमानर्हमिति भावः ॥ ंोट्_१,५.४७ ॥ शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् । [ऋआमी १७, ३६ ] चन्द्रबिम्ब इवोन्मग्नं वेद्मि वेद्यविदां वर ॥ ंोट्_१,५.४८ ॥ "उन्मग्नम्" उदितम् ॥ ंोट्_१,५.४८ ॥ साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् । पूतोऽस्म्यनुगृहीतोऽस्मि तवाभ्यागमनान्मुने ॥ ंो_१,५.४९ ॥ [ऋआमी *५५५] स्पष्टम् ॥ ंोट्_१,५.४९ ॥ त्वदागमनपुण्येन साधो यदनुरञ्जितम् । अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ंो_१,५.५० ॥ [ऋआमी १७, ३४ f] "त्वदागमनात्" उत्पन्नेन "पुण्येन" । "मे जन्म मे जीवितं" च । "यत्" "अनुरञ्जितम्" स्वोपरक्तं कृतम् । "तत्" ततो हेतोः । "मे जन्म सफलम्" भवति । "मे जीवितं सुजीवितम्" भवति ॥ ंोट्_१,५.५० ॥ त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च । [ऋआमी *५५२] आत्मन्येव नमाम्यन्तर्दृष्टेन्दुर्जलधिर्यथा ॥ ंोट्_१,५.५१ ॥ स्पष्टम् ॥ ंोट्_१,५.५१ ॥ यत्कार्यं येन चार्थेन प्राप्तोऽसि मुनिपुङ्गव । कृतमित्येव तद्विद्धि मान्योऽसि हि भृशं मम ॥ ंो_१,५.५२ ॥ [ऋआमी *५५७] स्पष्टम् ॥ ंोट्_१,५.५२ ॥ स्वकार्येण विमर्शं त्वं कर्तुमर्हसि कौशिक । भगवन्नास्त्यदेयं हि त्वयि यत्प्रतिपद्यते ॥ ंो_१,५.५३ ॥ [ऋआमी १७, ३८ ब्(*५५८)] हे "कौशिक" । "त्वं" । "स्वकार्येण" सह "विमर्शं कर्तुमर्हसि" किं मम कार्यमस्तीति विचारं कर्तुमर्हसीति भावः । ननु किमर्थमहं "स्वकार्येण" सह "विमर्शं" करोमीत्य् । अत्राह "भगवन्न्" इति । "हि" यस्मात् । हे "भगवन्" । "त्वयि यत्प्रतिपद्यते" उपयुज्यते । तत्"अदेयं नास्ति" । तद्ददाम्येवेत्यर्थः ॥ ंोट्_१,५.५३ ॥ कार्यस्य च विचारं त्वं कर्तुमर्हसि धर्मतः । कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ंो_१,५.५४ ॥ [ऋआमी १७, ३८] स्पष्टम् ॥ ंोट्_१,५.५४ ॥ सर्गान्तश्लोकेन दशरथविनयोक्त्या मुनेर्हर्षगमनं कथयति इदमतिमधुरं निशम्य वाक्यं श्रुतिसुखमर्थविदा विनीतमुक्तम् । प्रथितगुणवशाद्गुणैर्विशिष्टं मुनिवृषभः परमं जगाम हर्षम् ॥ ंो_१,५.५५ ॥ [ऋआमी १७, ३९] "अतिमधुरम्" उत्कृष्टमधुराख्यगुणविशिष्टम् । "श्रुतिसुखं" कर्णसुखम् । "अर्थविदा" परमार्थज्ञेन दशरथेन । "विनीतं" सविनयं यथा भवति तथ्"ओक्तं" कथितम् । तथा "प्रथिताः" ये "गुणाः" वाक्यगुणास्। तद्"वशात्" "गुणैः विशिष्टम्" । प्रथितगुणविशिष्टमिति यावत् । ईदृशं "वाक्यं निशम्य" सः "मुनिवृषभः" मुनिश्रेष्ठः कौशिकः । "परमं हर्षं जगाम" । दातृविनयेन हि अर्थिनो महान् हर्षो जायते । इति शिवम् ॥ ंोट्_१,५.५५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चमः सर्गः ॥ १,५ ॥ ************************************************************************ तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् । हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ ंो_१,६.१ ॥ [ऋआमी १८, १] स्पष्टम् ॥ ंोट्_१,६.१ ॥ सदृशं राजशार्दूल तवैवैतन्महीतले । महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ ंो_१,६.२ ॥ [ऋआमी १८, २] "तवैव" न त्वन्यस्येत्यर्थः ॥ ंोट्_१,६.२ ॥ यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम् । कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ंो_१,६.३ ॥ [ऋआमी १८, ३] "तु"शब्दः "वाक्य"वाच्यस्य "कार्य"स्यातिकष्टं सम्पादनीयतां द्योतयति । तस्य "कार्यनिर्णयम्" हृद्गतवाक्यवाच्यकार्यनिर्णयमित्यर्थः । ननु किमर्थं करोमीत्य् । अत्राह "धर्मम्" इति । तवानेन धर्मपालनं भविष्यतीति भावः ॥ ंोट्_१,६.३ ॥ "हृद्गतं वाक्यम्" प्रकटीकरोति अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ । तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ंो_१,६.४ ॥ [ऋआमी १८, ४] "आतिष्ठे" आश्रयामि ॥ ंोट्_१,६.४ ॥ यदा यदा तु यज्ञेन यजेऽहं विबुधव्रजम् । तदा तदा मे यज्ञं तं विनिघ्नन्ति निशाचराः ॥ ंो_१,६.५ ॥ "यजे" पूजयामि ॥ ंोट्_१,६.५ ॥ बहुशो विहिते तस्मिन्मम राक्षसनायकाः । अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ंो_१,६.६ ॥ [ऋआमी १८, ५ (*५६२)] स्पष्टम् ॥ ंोट्_१,६.६ ॥ अवधूते तथाभूते तस्मिन् यागकदम्बके । कृतश्रमो निरुत्साहस्तस्माद्देशादपागमम् ॥ ंो_१,६.७ ॥ [ऋआमी १८, ६] "अपागमम्" अपगतः ॥ ंोट्_१,६.७ ॥ न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव । तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ंो_१,६.८ ॥ [ऋआमी १८, ७] शापदानेन स यज्ञः नश्यतीति भावः ॥ ंोट्_१,६.८ ॥ ईदृशी च क्षमा राजन्मम तस्मिन्महाक्रतौ । त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥ ंो_१,६.९ ॥ हे "राजन्" । अतः "मम तस्मिन्महाक्रतौ ईदृशी क्षमा" भवति । अतः अहम् "महाफलम्" तं क्रतुम् । "त्वत्प्रसादात्प्रापयेयम्" प्राप्नुयाम् । "प्रापयेयम्" इति स्वार्थे णिचार्षः ॥ ंोट्_१,६.९ ॥ त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् । अर्थिनां यन्निराशत्वं सतामभिभवो हि सः ॥ ंो_१,६.१० ॥ स्पष्टम् ॥ ंोट्_१,६.१० ॥ ननु केन प्रकारेणाहं त्वत्त्राणं करोमीत्य् । अत्राह तवास्ति तनयः श्रीमान् दृप्तशार्दूलविक्रमः । महेन्द्रसदृशो वीरो रामो रक्षोविदारणः ॥ ंो_१,६.११ ॥ स्पष्टम् ॥ ंोट्_१,६.११ ॥ ननु ततः किमित्य् । अत्राह तं पुत्रं राजशार्दूल रामं सत्यपराक्रमम् । काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ ंो_१,६.१२ ॥ [ऋआमी १८, ८] तेनैव रक्षापरपर्यायं त्राणं मे भविष्यतीति भावः ॥ ंोट्_१,६.१२ ॥ ननु कथं शिशुरूपोऽसौ राक्षसेभ्यस्तव मखं रक्षिष्यतीत्य् । अत्राह शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा । राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ ंो_१,६.१३ ॥ [ऋआमी १८, ९] स्पष्टम् ॥ ंोट्_१,६.१३ ॥ श्रेयश्चास्मिन् करिष्यामि बहुरूपमनन्तकम् । त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ ंो_१,६.१४ ॥ [ऋआमी १८, १०] स्पष्टम् ॥ ंोट्_१,६.१४ ॥ ननु कथमसौ तादृशानां राक्षसानां पुरः स्थातुं शक्नोतीत्य् । अत्राह न च तेन समासाद्य स्थातुं शक्ता निशाचराः । [ऋआमी १८, ११ ब्] क्रुद्धं केसरिणं दृष्ट्वा रणे वन इवैणकाः ॥ ंोट्_१,६.१५ ॥ "तेन" इति द्वितीयास्थाने तृतीया आर्षी ॥ ंोट्_१,६.१५ ॥ तेषां च नान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् । [ऋआमी १८, ११ द्] ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ ंोट्_१,६.१६ ॥ स्पष्टम् ॥ ंोट्_१,६.१६ ॥ वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे । [ऋआमी १८, १२ ब्] खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ ंोट्_१,६.१७ ॥ स्पष्टम् ॥ ंोट्_१,६.१७ ॥ रामस्य राजशार्दूल सहिष्यन्ते न सायकान् । [ऋआमी १८, १२ द्] अनारतागता धारा जलदस्येव पांसवः ॥ ंोट्_१,६.१८ ॥ स्पष्टम् ॥ ंोट्_१,६.१८ ॥ न च पुत्रगतं स्नेहं कर्तुमर्हसि पार्थिव । [ऋआमी १८, १३ ब्] न तदस्ति जगत्यस्मिन् यन्न देयं महात्मनः ॥ ंोट्_१,६.१९ ॥ स्पष्टम् ॥ ंोट्_१,६.१९ ॥ हन्त नूनं विजानामि हतांस्तान् विद्धि राक्षसान् । [ऋआमी १८, १३ द्] न ह्यस्मदादयः प्राज्ञाः सन्दिग्धे सम्प्रवृत्तयः ॥ ंोट्_१,६.२० ॥ "हन्त" हर्षे ।" नूनं" निश्चये । अहं तान् "राक्षसान्" "हतान्" जानामि । त्वमपि "विद्धि" । ननु कथमहं त्वत्कथनमात्रेण जानामीत्य् । अत्राह "न" "ही"ति । "सं" सम्यक् । "प्रवृत्तिः" । येषाम् । ते तादृशाः ॥ ंोट्_१,६.२० ॥ अहं वेद्मि महात्मानं रामं राजीवलोचनम् । वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ ंो_१,६.२१ ॥ [ऋआमी १८, १४] स्पष्टम् ॥ ंोट्_१,६.२१ ॥ यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् । तन्मह्यं स्वमभिप्रेतमात्मजं दातुमर्हसि ॥ ंो_१,६.२२ ॥ [ऋआमी १८, १५] "मनसि स्थितं" काङ्क्षितम् । "अभिप्रेतम्" प्रोक्तं कार्यार्थमिष्टम् ॥ ंोट्_१,६.२२ ॥ दशरात्रश्च मे यज्ञो यस्मिन् रामेण राक्षसाः । [ऋआमी १८, १७ द्] हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ ंोट्_१,६.२३ ॥ स्पष्टम् ॥ ंोट्_१,६.२३ ॥ अत्राभ्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः । वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ ंो_१,६.२४ ॥ [ऋआमी १८, १६] स्पष्टम् ॥ ंोट्_१,६.२४ ॥ नात्येति कालः कालज्ञ यथायं मम राघव । तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ ंो_१,६.२५ ॥ [ऋआमी १८, १८] "अत्येति" गच्छति ॥ ंोट्_१,६.२५ ॥ कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महदप्युपकारेण रिक्ततामेत्यकालतः ॥ ंो_१,६.२६ ॥ "अकालतः" अकाले ॥ ंोट्_१,६.२६ ॥ इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः । विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥ ंो_१,६.२७ ॥ [ऋआमी १८, १९] स्पष्टम् ॥ ंोट्_१,६.२७ ॥ सर्गान्तश्लोकेन दशरथतूष्णीम्भावं कथयति श्रुत्वा वचो मुनिवरस्य महाप्रभावस् तूष्णीमतिष्ठदुपपन्नमिदं स वक्तुम् । नो युक्तियुक्तकथनेन विनैति तोषं धीमानपूरितमनोऽभिमतश्च लोकः ॥ ंो_१,६.२८ ॥ "महाप्रभावो" महानुभावयुक्तः । "स" दशरथः । "मुनिवरस्य" विश्वामित्रस्य । "वचः" "श्रुत्वा" "तूष्णीमतिष्ट्ःत्" । नो किञ्चिदप्युक्तवानित्यर्थः । "इदं" तूष्णीमासनम् । "उपपन्नं" युक्तम् । भवति । यतः "धीमान्" बुद्धियुक्तः । "युक्तियुक्तकथनेन" "विना" "वक्तुं" कथयितुं "तोषं" "नैति" । न कथयतीत्यर्थः । "लोकश्" "च" लोकस्तु । "अपूरितमनोऽभि"लषितः "वक्तुं" "तोषं" "नैति" । अतः युक्तिरहितं विश्वामित्रस्य वाक्यं श्रुत्वा दशरथः तुष्णीमभूदिति भावः । इति शिवम् ॥ ंोट्_१,६.२८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षष्ठः सर्गः ॥ १,६ ॥ ************************************************************************ तच्छ्रुत्वा राजशार्दूलो विश्वामित्रस्य भाषितम् । मुहूर्तमासीन्निश्चेष्टः सदैन्यं चैवमब्रवीत् ॥ ंो_१,७.१ ॥ [ऋआमी १९, १] स्पष्टम् ॥ ंोट्_१,७.१ ॥ ऊनषोडशवर्षोऽयं रामो राजीवलोचनः । न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ ंो_१,७.२ ॥ [ऋआमी १९, २] स्पष्टम् ॥ ंोट्_१,७.२ ॥ इयमक्षौहिणी पूर्णा यस्याः पतिरहं प्रभो । तया परिवृतो युद्धं दास्यामि पिशिताशिनाम् ॥ ंो_१,७.३ ॥ [ऋआमी १९, ३] "पिशिताशिनां" राक्षसानाम् ॥ ंोट्_१,७.३ ॥ इमे हि शूरा विक्रान्ता भृत्या अस्त्रविशारदाः । [ऋआमी १९, ४ ब्] अहं चैषां धनुष्पाणिर्गोप्ता समरमूर्धनि ॥ ंोट्_१,७.४ ॥ [ऋआमी १९, ५ ब्] स्पष्टम् ॥ ंोट्_१,७.४ ॥ एभिः सह तवारीणां महेन्द्रमहतामपि । ददामि युद्धं मत्तानां करिणामिव केसरी ॥ ंो_१,७.५ ॥ "हि" यस्माद् । एते "भृत्या" भवन्ति । "अहं चैषां समरमूर्धनि गोप्ता"स्मि । अतः अहम् "एभिः" "सह तवारीणां युद्धं ददामी"ति सम्बन्धः ॥ ंोट्_१,७.५ ॥ बालो रामस्त्वनीकेषु न जानाति बलाबलम् । [ऋआमी १९, ७ ब्] अन्तःपुरादृते दृष्टा नानेनान्या रणावनिः ॥ ंोट्_१,७.६ ॥ स्पष्टम् ॥ ंोट्_१,७.६ ॥ न चास्त्रैः परमैर्युक्तो न च युद्धविशारदः । न भटभ्रूकुटीनां च तज्ज्ञः समरमूर्धसु ॥ ंो_१,७.७ ॥ एष इति शेषः ॥ ंोट्_१,७.७ ॥ केवलं पुष्पषण्डेषु नगरोपवनेषु च । उद्यानवनकुञ्जेषु सदैव परिशीलितः ॥ ंो_१,७.८ ॥ स्पष्टम् ॥ ंोट्_१,७.८ ॥ विहर्तुमेष जानाति सह राजकुमारकैः । कीर्णपुष्पोपकारासु स्वकास्वजिरभूमिषु ॥ ंो_१,७.९ ॥ स्पष्टम् ॥ ंोट्_१,७.९ ॥ अद्य त्वतितरां ब्रह्मन्मम भाग्यविपर्ययात् । हिमेनेवाहतः पद्मस्सम्पन्नो हरितः कृशः ॥ ंो_१,७.१० ॥ "हरितः" पाण्डुः ॥ ंोट्_१,७.१० ॥ नात्तुमन्नानि शक्नोति न विहर्तुं गृहावनौ । अन्तःखेदपरीतात्मा तूष्णीं तिष्ठति केवलम् ॥ ंो_१,७.११ ॥ "अत्तुम्" भक्षितुम् ॥ ंोट्_१,७.११ ॥ सदारः सहभृत्योऽहं तत्कृते मुनिनायक । शरदीव पयोवाहो नूनं निःसहतां गतः ॥ ंो_१,७.१२ ॥ "निःसहताम्" उत्कृशताम् । सोढुमशक्तत्वम् ॥ ंोट्_१,७.१२ ॥ ईदृशोऽसौ सुतो बाल आधिना विवशीकृतः । कथं ददामि तं तुभ्यं योद्धुं सह निशाचरैः ॥ ंो_१,७.१३ ॥ स्पष्टम् ॥ ंोट्_१,७.१३ ॥ अपि बालाङ्गनासङ्गादपि साधो सुधारसात् । राज्यादपि सुखायैष पुत्रस्नेहो महामते ॥ ंो_१,७.१४ ॥ स्पष्टम् ॥ ंोट्_१,७.१४ ॥ ये दुरन्ता महारम्भास्त्रिषु लोकेषु खेददाः । पुत्रस्नेहेन सन्तोऽपि कुर्वते ते न संश्रयम् ॥ ंो_१,७.१५ ॥ "सन्तः अपि" स्थिता अपि । "संश्रयं" स्थितिम् । "पुत्रस्नेहेन ते" विस्मृतिं गच्छन्तीति भावः ॥ ंोट्_१,७.१५ ॥ असवोऽथ धनं दारास्त्यज्यन्ते मानवैः सुखम् । न पुत्रा मुनिशार्दूल स्वभावो ह्येष जन्तुषु ॥ ंो_१,७.१६ ॥ स्पष्टम् ॥ ंोट्_१,७.१६ ॥ राक्षसाः क्रूरकर्माणः कूटयुद्धविशारदाः । [ऋआमी १९, ७ f] रामस्तान् योधयत्वित्थमुक्तिरेवातिदुःसहा ॥ ंोट्_१,७.१७ ॥ "कूटयुद्धं" छलयुद्धम् । "उक्तिरेवे"ति अनुष्ठानस्य का कथेति भावः ॥ ंोट्_१,७.१७ ॥ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे । जीवितुं जीविताकाङ्क्षी न रामं नेतुमर्हसि ॥ ंो_१,७.१८ ॥ [ऋआमी १९, ८] "नोत्सहे" समर्थो न भवामि । "जीवितुं" जीवनक्रियाकर्तृतामनुभवितुम् । "जीविताकाङ्क्षी" मम जीविताकाङ्क्षीत्यर्थः ॥ ंोट्_१,७.१८ ॥ नववर्षसहस्राणि मम यातानि कौशिक । दुःखेनोत्पादितास्त्वेते चत्वारः पुत्रका मया ॥ ंो_१,७.१९ ॥ [ऋआमी १९, १०] अनुकम्पिताः पुत्राः "पुत्रकाः" ॥ ंोट्_१,७.१९ ॥ प्रधानभूतस्तेष्वेषु रामः कमललोचनः । तं विना ते त्रयोऽप्यन्ये धारयन्ति न जीवितम् ॥ ंो_१,७.२० ॥ स्पष्टम् ॥ ंोट्_१,७.२० ॥ स एव रामो भवता नीयते राक्षसान् प्रति । यदि तत्पुत्रहीनं त्वं मृतमेवाशु विद्धि माम् ॥ ंो_१,७.२१ ॥ स्पष्टम् ॥ ंोट्_१,७.२१ ॥ चतुर्णामात्मजानां हि प्रीतिरत्र हि मे परा । ज्येष्ठं धर्ममयं तस्मान्न रामं नेतुमर्हसि ॥ ंो_१,७.२२ ॥ [ऋआमी १९, ११] निर्धारणे षष्ठी ॥ ंोट्_१,७.२२ ॥ निशाचरबलं हन्तुं मुने यदि तवेप्सितम् । चतुरङ्गसमायुक्तं मया सह बलं नय ॥ ंो_१,७.२३ ॥ स्पष्टम् ॥ ंोट्_१,७.२३ ॥ किंवीर्या राक्षसास्ते तु कस्य पुत्राः कथं च ते । कियत्प्रमाणाः के चैते इति वर्णय मे स्फुटम् ॥ ंो_१,७.२४ ॥ [ऋआमी १९, १२] स्पष्टम् ॥ ंोट्_१,७.२४ ॥ कथं तेन प्रहर्तव्यं तेषां रामेण राक्षसाम् । । मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम् ॥ ंो_१,७.२५ ॥ [ऋआमी १९, १३] रामस्याग्रे स्थितत्वाभावात्"तेने"त्युक्तम् ॥ ंोट्_१,७.२५ ॥ सर्वं मे शंस भगवन् यथा तेषां मया रणे । स्थातव्यं दुष्टसत्त्वानां वीर्योत्सिक्ता हि राक्षसाः ॥ ंो_१,७.२६ ॥ [ऋआमी १९, १४] स्पष्टम् ॥ ंोट्_१,७.२६ ॥ श्रूयते हि महावीरो रावणो नाम राक्षसः । साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः ॥ ंो_१,७.२७ ॥ [ऋआमी १९, १७] स्पष्टम् ॥ ंोट्_१,७.२७ ॥ अस्तु सः । ततः किमित्य् । अत्राह स चेत्तव मखे विघ्नं करोति किल दुर्मतिः । तत्सङ्ग्रामे न शक्ताःऽस्मो वयं तस्य दुरात्मनः ॥ ंो_१,७.२८ ॥ [ऋआमी १९, १९ द्] "तत्" तदा ॥ ंोट्_१,७.२८ ॥ ननु कथमसौ तादृग्वीर्यः अस्तीत्य् । अत्राह काले काले पृथग्ब्रह्मन् भूरिवीर्यविभूतयः । । भूतेष्वभ्युदयं यान्ति प्रलीयन्ते च कालतः ॥ ंो_१,७.२९ ॥ "भूरिवीर्यविभूतयः" महद्वीर्यसम्पद्युक्ताः । "भूतेष्व्" इति निर्धारणे सप्तमी ॥ ंोट्_१,७.२९ ॥ अद्यास्मिंस्ते वयं काले रावणादिषु शत्रुषु । न समर्थाः पुरः स्थातुं नियतेरेष निश्चयः ॥ ंो_१,७.३० ॥ स्पष्टम् ॥ ंोट्_१,७.३० ॥ तस्मात्प्रसादं धर्मज्ञ कुरु त्वं मम पुत्रके । मम चैवाल्पभाग्यस्य भवान् ह्यसमदैवतम् ॥ ंो_१,७.३१ ॥ [ऋआमी १९, २०] "अल्पभाग्यस्ये"ति । अन्यथा त्वं रामं न याचितवानिति भावः ॥ ंोट्_१,७.३१ ॥ देवदानवगन्धर्वा यक्षप्लवगपन्नगाः । न शक्ता रावणं योद्धुं किं पुनः पुरुषा युधि ॥ ंो_१,७.३२ ॥ स्पष्टम् ॥ ंोट्_१,७.३२ ॥ महावीर्यवतां वीर्यमादत्ते स सुधाभुजाम् । तेन सार्धं न शक्ता स्मस्संयुगे तस्य वावराः ॥ ंो_१,७.३३ ॥ [ऋआमी १९, २२ द्] "आदत्ते" गृह्णाति । प्रतिबध्नातीति यावत् । महावीर्यान् सुधाभुजोऽप्यसौ वीर्यरहितान् करोतीति भावः । "अवरास्" तदपेक्षया नीचाः । "वा"शब्दः पादपूरणार्थः ॥ ंोट्_१,७.३३ ॥ ननु रामस्य सज्जनत्वेनैवावश्यं जयः स्यादित्य् । अत्राह अयमन्यतमः कालः पेलवीकृतसज्जनः । राघवोऽपि गतो दैन्यं यत्र वार्धकजर्जरः ॥ ंो_१,७.३४ ॥ "अपि"शब्दः राघवस्य महासज्जनत्वं द्योतयति । वार्धकेनेव जर्जरः "वार्धकजर्जरः" ॥ ंोट्_१,७.३४ ॥ अथ वा लवणं ब्रह्मन् यज्ञघ्नं तं मधोः सुतम् । कथय त्वं सुरप्रख्य क्वेव मोक्ष्यामि पुत्रकम् ॥ ंो_१,७.३५ ॥ "अथ वा मधोः सुतं तं" प्रसिद्धम् । "यज्ञघ्नं लवणं" योद्धुं "न शक्ताः" स्मः इति व्यवहिताध्याहृतैः सह सम्बन्धः । लवणोऽपि चेत्तव यज्ञविघ्नकारी अस्ति तमपि योद्धुं न शक्ताः स्म इति भावः । हे "सुरप्रख्य" । "त्वं कथय" । अहं "पुत्रकं क्वेव" कुत्रेव । "मोक्ष्यामि" । न मोक्ष्यामीति भावः ॥ ंोट्_१,७.३५ ॥ अथ नेच्छसि चेद्ब्रह्मंस्तद्विधेयोऽहमेव ते । अन्यथा तु न पश्यामि शाश्वतं जयमात्मनः ॥ ंो_१,७.३६ ॥ "अथ" पक्षान्तरे । त्वं पुत्रामोक्षणं "चेत्" यदि । "नेच्छसि" । "तदहं ते" तव । "विधेयः" आयत्तः । "एवा"स्मि । तदा अहमेवागच्छामीत्यर्थः । "अन्यथा" सहजविचारे क्रियमाणे । अहम् "आत्मनः शाश्वतं जयं न पश्यामि" । न जानामीत्यर्थः ॥ ंोट्_१,७.३६ ॥ सर्गान्तश्लोकेन दशरथवचनमुपसंहरति इत्युक्त्वा मृदुवचनं भयाकुलोऽसाव् आलोले मुनिमतसंशये निमग्नः । नाज्ञासीत्कणमपि निश्चयं महात्मा प्रोद्वीचाविव जलधौ समुह्यमानः ॥ ंो_१,७.३७ ॥ "मुनिमतस्य संशये"ऽनुष्ठानाननुष्ठानरूपे सन्देहे । "मग्नः" । अत एव "भयाकुलः" । "महात्मा असौ" दशरथः । "इत्य्" एवम् । "मृदुवचनं" कोमलवचनम् । "उक्त्वा" । "कणमपि" स्तोकमपि । "निश्चयं न अज्ञासीत्" न ज्ञातवान् । "असौ" कथम्भूतः "इव" । "प्रोद्वीचौ जलधौ समुह्यमान इव" । जलधौ समुह्यमानोऽपि कुत्र गच्छामीति निश्चयं न जानातीति शिवम् ॥ ंोट्_१,७.३७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तमः सर्गः ॥ १,७ ॥ ************************************************************************ तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् । समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥ ंो_१,८.१ ॥ [ऋआमी २०, १] "तस्य" दशरथस्य ॥ ंोट्_१,८.१ ॥ विश्वामित्रः कथयति करिष्यामीति संश्रुत्य प्रतिज्ञां हातुमिच्छसि । [ऋआमी २०, २ ब्] सत्त्ववान् केसरी भूत्वा मृगतामभिवाञ्छसि ॥ ंोट्_१,८.२ ॥ स्पष्टम् ॥ ंोट्_१,८.२ ॥ राघवानामयुक्तोऽयं कुलस्यास्य विपर्ययः । [ऋआमी २०, २ द्] न कदाचन जायन्ते शीतांशौ कृष्णरश्मयः ॥ ंोट्_१,८.३ ॥ ननु कथं "राघवानां कुलस्यायं विपर्ययः अयुक्तो" भवतीत्य् । अत्र दृष्टान्तमाह । "न कदाचने"ति ॥ ंोट्_१,८.३ ॥ यदि त्वं न क्षमो राजन् गमिष्यामि यथागतः । हीनप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः ॥ ंो_१,८.४ ॥ [ऋआमी २०, ३] स्पष्टम् ॥ ंोट्_१,८.४ ॥ श्रीवाल्मीकिः भरद्वाजं प्रति कथयति तस्मिन् कोपपरीतेऽथ विश्वामित्रे महात्मनि । चचाल वसुधा कृत्स्ना सुराश्च भयमाविशन् ॥ ंो_१,८.५ ॥ [ऋआमी २०, ४] स्पष्टम् ॥ ंोट्_१,८.५ ॥ क्रोधाभिभूतं विज्ञाय जगन्मित्रं महामुनिम् । धृतिमान् सुव्रतो धीमान् वसिष्ठो वाक्यमब्रवीत् ॥ ंो_१,८.६ ॥ [ऋआमी २०, ५] "जगन्मित्रं" विश्वामित्रम् ॥ ंोट्_१,८.६ ॥ श्रीवसिष्ठः कथयति इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः । [ऋआमी २०, ६ ब्] भवान् दशरथः श्रीमांस्त्रैलोक्ये गुणभूषितः ॥ ंोट्_१,८.७ ॥ स्पष्टम् ॥ ंोट्_१,८.७ ॥ नीतिमान् सुव्रतो भूत्वा न धर्मं हातुमर्हसि । [ऋआमी २०, ६ द्] मुनेस्त्रिभुवनेशस्य वचनं कर्तुमर्हसि ॥ ंोट्_१,८.८ ॥ स्पष्टम् । युग्मम् ॥ ंोट्_१,८.८ ॥ त्रिषु लोकेषु विख्यातो धर्मेण यशसा युतः । स्वधर्मं प्रतिपद्यस्व न धर्मं हातुमर्हसि ॥ ंो_१,८.९ ॥ [ऋआमी २०, ७] "प्रतिपद्यस्व" स्वीकुरु ॥ ंोट्_१,८.९ ॥ करिष्यामीति संश्रुत्य तत्ते राजन्नकुर्वतः । इष्टापूर्तः पतेद्धर्मस्तस्माद्रामं विसर्जय ॥ ंो_१,८.१० ॥ [ऋआमी २०, ८] "इष्टापूर्तः" इष्टापूर्तस्वरूपः । प्रतिज्ञाताकरणेन हि सर्वो धर्मः नश्यति ॥ ंोट्_१,८.१० ॥ गुप्तं पुरुषसिंहेन ज्वलनेनामृतं यथा । [ऋआमी २०, ९ द्] कृतास्त्रमकृतास्त्रं वा नैनं द्रक्ष्यन्ति राक्षसाः ॥ ंोट्_१,८.११ ॥ [ऋआमी २०, ९ ब्] "कृतास्त्रं" शिक्षितास्त्रम् ॥ ंोट्_१,८.११ ॥ इक्ष्वाकुवंशजातोऽपि स्वयं दशरथोऽपि सन् । न पालयसि चेद्वाक्यं कोऽपरः पालयिष्यति ॥ ंो_१,८.१२ ॥ स्पष्टम् ॥ ंोट्_१,८.१२ ॥ युष्मदादिप्रणीतेन व्यवहारेण जन्तवः । मर्यादां न विमुञ्चन्ति तां न हातुमिहार्हसि ॥ ंो_१,८.१३ ॥ "ताम्" मर्यादाम् ॥ ंोट्_१,८.१३ ॥ एष विग्रहवान् धर्म एष वीर्यवतां वरः । एष बुद्ध्याधिको लोके तपसां च परायणः ॥ ंो_१,८.१४ ॥ [ऋआमी २०, १०] "परायणः" आश्रयः ॥ ंोट्_१,८.१४ ॥ एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । नैतदन्यः पुमान् वेत्ति न च वेत्स्यति कश्चन ॥ ंो_१,८.१५ ॥ [ऋआमी २०, ११] स्पष्टम् ॥ ंोट्_१,८.१५ ॥ न च देवर्षयः केचिन्नामरा न च राक्षसाः । न नागयक्षगन्धर्वा अनेन सदृशा नृप ॥ ंो_१,८.१६ ॥ [ऋआमी २०, १२] स्पष्टम् ॥ ंोट्_१,८.१६ ॥ अस्त्रमस्मै कृशाश्वेन परैः परमदुर्जयम् । [ऋआमी २०, १३॑५९९*] कौशिकाय पुरा दत्तं यदा राज्यं समन्वशात् ॥ ंोट्_१,८.१७ ॥ [ऋआमी २०, १३ द्] "परैः" अन्यैः । "परमदुर्जयम्" अत्यन्तं जेतुमशक्यम् । "समन्वशात्" समपालयत् ॥ ंोट्_१,८.१७ ॥ ननु किमर्थं कृशाश्वेनास्मै अस्त्राणि दत्तानीत्य् । अत्राह ते हि पुत्राः कृशाश्वस्य प्रजापतिसुतोपमाः । एनमन्वचरन् वीरा दीप्तिमन्तो महौजसः ॥ ंो_१,८.१८ ॥ [ऋआमी २०, १४] "हि" यस्मात् । "प्रजापतिसुतोपमास्ते" प्रसिद्धाः । "कृशाश्वस्य पुत्राः" । "एनं" विश्वामित्रम् । "अन्वचरन्" अनुचरन्ति स्म । अतः पुत्रस्नेहेन दत्तवानिति भावः ॥ ंोट्_१,८.१८ ॥ ते पुत्राः के इत्यपेक्षायामाह जया च सुप्रभा चैव दाक्षायण्यौ सुमध्यमे । तयोस्तु यान्यपत्यानि शतं परमदुर्जयम् ॥ ंो_१,८.१९ ॥ "जया च सुप्रभा चैवे"ति ये । "दाक्षायण्यौ" दक्षस्य स्त्रीरूपे अपत्ये । "सुमध्यमे" स्त्रियौ । आस्ताम् । "तयोः" "यानि" "परमदुर्जयं" "शतं" "अपत्यानि" आसन् । अत्र च पूर्वश्लोकापेक्षयोत्तरवाक्यगतत्वाद्यच्छब्दस्य तच्छब्दापेक्षा नास्ति ॥ ंोट्_१,८.१९ ॥ ननु कस्याः कत्यपत्यानि आसन्नित्यपेक्षायामाह पञ्चाशतः सुताञ्जज्ञे जया लब्धवरा पुरा । वधायासुरसैन्यानां तेऽक्षयाः कामरूपिणः ॥ ंो_१,८.२० ॥ [ऋआमी २०, १६] "अक्षयाः" नाशरहिताः ॥ ंोट्_१,८.२० ॥ सुप्रभा जनयामास पुत्रान् पञ्चाशतः परान् । सङ्घर्षान्नाम दुर्धर्षान् दुराक्रोशान् बलीयसः ॥ ंो_१,८.२१ ॥ [ऋआमी २०, १७] "दुर्धर्षान्" पराभवितुमशक्यान् । "दुराक्रोशान्" शत्रुभिः समरे आह्वातुमशक्यान् ॥ ंोट्_१,८.२१ ॥ प्रासङ्गिकमुपसंहृत्य प्रकृतमनुसरति एवंवीर्यो महातेजा विश्वामित्रो महामुनिः । न रामगमने बुद्धिं विक्लवां कर्तुमर्हसि ॥ ंो_१,८.२२ ॥ [ऋआमी २०, १९] पूर्वार्धमुत्तरार्धस्य हेतुत्वेन योज्यम् ॥ ंोट्_१,८.२२ ॥ सर्गान्तश्लोकेन श्रीवसिष्ठो वाक्यं समापयति अस्मिन्महासत्त्वमये मुनीन्द्रे स्थिते समीपे पुरुषस्तु साधुः । प्राप्तेऽपि मृत्यावमरत्वमेति मा दीनतां गच्छ यथा विमूढः ॥ ंो_१,८.२३ ॥ "यथा विमूढः" । मूढवदित्यर्थः । इति शिवम् ॥ ंोट्_१,८.२३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टमः सर्गः ॥ १,८ ॥ ************************************************************************ श्रीवाल्मीकिर्भरद्वाजं प्रति कथयति तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम् । समुत्स्रष्टुमना राममाजुहाव सलक्ष्मणम् ॥ ंो_१,९.१ ॥ [ऋआमी २१, १] "समुत्स्रष्टुमनाः" दातुमनाः ॥ ंोट्_१,९.१ ॥ दशरथः प्रतीहारं प्रति कथयति प्रतीहार महाबाहुं रामं सत्यपराक्रमम् । सलक्ष्मणमविघ्नेन मुन्यर्थं शीघ्रमानय ॥ ंो_१,९.२ ॥ स्पष्टम् ॥ ंोट्_१,९.२ ॥ दशरथवाक्यमुपसंहरति इति राज्ञा विसृष्टोऽसौ गत्वान्तःपुरमन्दिरम् । मुहूर्तमात्रेणागत्य समुवाच महीपतिम् ॥ ंो_१,९.३ ॥ स्पष्टम् ॥ ंोट्_१,९.३ ॥ प्रतीहारः कथयति देव दोर्दलिताशेषरिपो रामः स्वमन्दिरे । विमनाः संस्थितो रात्रौ षट्पदः कमले यथा ॥ ंो_१,९.४ ॥ स्पष्टम् ॥ ंोट्_१,९.४ ॥ आगच्छामि क्षणेनेति वक्ति ध्यायति चैककः । न कस्यचिच्च निकटे स्थातुमिच्छति खिन्नधीः ॥ ंो_१,९.५ ॥ स्पष्टम् ॥ ंोट्_१,९.५ ॥ इत्युक्ते तेन भूपालस्तं रामानुचरं जनम् । सर्वमाश्वासयामास पप्रच्छ च यथाक्रमम् ॥ ंो_१,९.६ ॥ स्पष्टम् ॥ ंोट्_१,९.६ ॥ राजप्रश्नमेव कथयति कथं कीदृक्स्थितो राम इति पृष्टो महीभृता । रामभृत्यजनः खिन्नो वाक्यमाह महीपतिम् ॥ ंो_१,९.७ ॥ स्पष्टम् ॥ ंोट्_१,९.७ ॥ देहयष्टिमिमां देव धारयन्त इमे वयम् । खिन्नाः खेदपरिम्लाने विभो रामे सुते तव ॥ ंो_१,९.८ ॥ हे "देव" हे राजन् । "देहयष्टिं" देहलताम् । "रामे" रामाख्ये । "तव सुते" तव सुतनिमित्तम् । चर्मणि द्वीपिनं हन्तीतिवत् ॥ ंोट्_१,९.८ ॥ रामो राजीवपत्राक्षो यतःप्रभृति चागतः । सविप्रस्तीर्थयात्रायास्ततःप्रभृति दुर्मनाः ॥ ंो_१,९.९ ॥ स्पष्टम् ॥ ंोट्_१,९.९ ॥ यत्नप्रार्थनयास्माकं निजव्यापारमाह्निकम् । सायमम्लानवदनः करोति न करोति वा ॥ ंो_१,९.१० ॥ स्पष्टम् ॥ ंोट्_१,९.१० ॥ स्नानदेवार्चनाचारपर्यन्ते परिखेदवान् । प्रार्थितोऽपि हि ना तृप्तेरश्नात्यशनमीश्वरः ॥ ंो_१,९.११ ॥ "आ तृप्तेः" तृप्तिपर्यन्तम् ॥ ंोट्_१,९.११ ॥ लोलान्तःपुरनारीभिः कृतदोलाभिरङ्गने । न च क्रीडति लीलाभिर्वराद्भिरिव चातकः ॥ ंो_१,९.१२ ॥ "वराद्भिः" सरोजलैः । "चातकः" पक्षिविशेषः । स हि वर्षाबिन्दूनेव पिबति ॥ ंोट्_१,९.१२ ॥ माणिक्यमुक्तासम्प्रोता केयूरकटकावली । नानन्दयति तं राजन् द्यौः पातविवशं यथा ॥ ंो_१,९.१३ ॥ "पातविवशम्" पतन्तम् ॥ ंोट्_१,९.१३ ॥ क्रीडद्वधूविलोलेषु वहत्कुसुमवायुषु । लतावलयगेहेषु भवत्यतिविषादवान् ॥ ंो_१,९.१४ ॥ "लतावलयगेहेषु" लतामण्डलयुक्तेषु गृहेषु ॥ ंोट्_१,९.१४ ॥ यद्रम्यमुचितं स्वादु पेशलं चित्तहारि वा । बाष्पपूरेक्षण इव तेनैव परिखिद्यते ॥ ंो_१,९.१५ ॥ स्पष्टम् ॥ ंोट्_१,९.१५ ॥ किमिमा दुःखदायिन्यः प्रस्फुरन्ति पुरोगताः । इति नृत्तविलासेषु कामिनीः परिनिन्दति ॥ ंो_१,९.१६ ॥ "इमाः" एताः कामिन्यः ॥ ंोट्_१,९.१६ ॥ भोजनं शयनं पानं विलासं स्नानमासनम् । उन्मत्तवेष्टितमिव नाभिनन्दति निन्दितम् ॥ ंो_१,९.१७ ॥ "निन्दितं" निन्दाविषयीकृतम् ॥ ंोट्_१,९.१७ ॥ किं सम्पदा किं विपदा किं गेहेन किमीहितैः । सर्वमेवासदित्युक्त्वा तूष्णीमेकोऽवतिष्ठते ॥ ंो_१,९.१८ ॥ स्पष्टम् ॥ ंोट्_१,९.१८ ॥ नोदेति परिहासेषु न भोगेषु निमज्जति । न च तिष्ठति कार्येषु मौनमेवावलम्बते ॥ ंो_१,९.१९ ॥ स्पष्टम् ॥ ंोट्_१,९.१९ ॥ विलोलालकवल्लर्यो हेलावलितलोचनाः । नानन्दयन्ति तं नार्यो मृग्यो वनतरुं यथा ॥ ंो_१,९.२० ॥ स्पष्टम् ॥ ंोट्_१,९.२० ॥ एकान्तेषु दिगन्तेषु तीरेषु विपिनेषु च । रतिमायात्यरण्येषु विक्रीतवदजन्तुषु ॥ ंो_१,९.२१ ॥ "विक्रीतो" हि पलायनार्थं "जन्तुरहिते" एव देशे "रतिमायाति" ॥ ंोट्_१,९.२१ ॥ वस्त्रपानाशनादानपराङ्मुखतया तया । परिव्रड्धर्मिणां राजन् सोऽनुयाति तपस्विनाम् ॥ ंो_१,९.२२ ॥ "तपस्विनामनुयाति" तपस्विसम्बन्धिचरितमनुकरोतीत्यर्थः । न माषाणामश्नीयादितिवत्प्रयोगः ॥ ंोट्_१,९.२२ ॥ एक एव वसन् देशे जनशून्ये जनेश्वर । न हसत्येकया बुद्ध्या न गायति न रोदिति ॥ ंो_१,९.२३ ॥ "एकया बुद्ध्या" सर्वत्यागरूपया मत्या उपलक्षितः ॥ ंोट्_१,९.२३ ॥ पुनः किं करोतीत्यपेक्षायामाह बद्धपद्मासनः शून्यमना वामकरस्थले । कपोलतलमादाय केवलं परितिष्ठति ॥ ंो_१,९.२४ ॥ स्पष्टम् ॥ ंोट्_१,९.२४ ॥ नाभिमानमुपादत्ते नापि वाञ्छति राजताम् । नोदेति नास्तमायाति सुखदुःखानुवृत्तिषु ॥ ंो_१,९.२५ ॥ स्पष्टम् ॥ ंोट्_१,९.२५ ॥ न विद्मः किमसौ जातः किं करोति किमीहते । किं ध्यायति किमायाति कथं किमनुधावति ॥ ंो_१,९.२६ ॥ "न विद्म" इत्यस्य कर्मापेक्षायामाह "किमसौ जातः" किमर्थमसौ जातः । जननं हि भोगादिसेवनार्थमिति भावः ॥ ंोट्_१,९.२६ ॥ प्रत्यहं कृशतां याति प्रत्यहं याति पाण्डुताम् । विरागं प्रत्यहं याति शरदन्त इव द्रुमः ॥ ंो_१,९.२७ ॥ स्पष्टम् ॥ ंोट्_१,९.२७ ॥ अनुयातौ तमेवैतौ राजञ्शत्रुघ्नलक्ष्मणौ । तादृशावेव तस्यैव प्रतिबिम्बाविव स्थितौ ॥ ंो_१,९.२८ ॥ स्पष्टम् ॥ ंोट्_१,९.२८ ॥ भृत्यै राजभिरम्बाभिः स पृष्टोऽपि पुनः पुनः । उक्त्वा न किञ्चिदेवेति तूष्णीमास्ते निरीहितः ॥ ंो_१,९.२९ ॥ "सः" श्रीरामः । निरीहितः चेष्टितरहितः । "इति"शब्दः पादपूरणार्थः श्रीरामोत्तरवाक्यस्वरूपनिर्देशपरो वा ज्ञेयः ॥ ंोट्_१,९.२९ ॥ आपातमात्रहृद्येषु मा भोगेषु मनः कृथाः । इति पार्श्वगतं भव्यमनुशास्ति सुहृज्जनम् ॥ ंो_१,९.३० ॥ "भव्यम्" अनुशासनयोग्यम् ॥ ंोट्_१,९.३० ॥ नानाविभवरम्यासु स्त्रीषु गोष्ठीकथासु च । पुरःस्थितमिवास्नेहो नाशमेवानुपश्यति ॥ ंो_१,९.३१ ॥ स्पष्टम् ॥ ंोट्_१,९.३१ ॥ रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः । चेष्टितैरेव काकल्या भूयो भूयः प्रगायति ॥ ंो_१,९.३२ ॥ सः रामः । "रीतिमाधुर्यसायासपदसंस्थितिवर्जितैः" "चेष्टितैरेव" केवलैः अभिनयैरेवोपलक्षितया "काकल्या" कलसूक्ष्मध्वनिना । "गायति" ॥ ंोट्_१,९.३२ ॥ सम्राड्भवेति पार्श्वस्थं वदन्तमनुजीविनम् । प्रलपन्तमिवोन्मत्तं हसत्यन्यमना मुनिः ॥ ंो_१,९.३३ ॥ स्पष्टम् ॥ ंोट्_१,९.३३ ॥ न प्रोक्तमाकर्णयति प्रेक्षते न पुरोगतम् । करोत्यवज्ञां सर्वत्र सुमहत्यपि वस्तुनि ॥ ंो_१,९.३४ ॥ स्पष्टम् ॥ ंोट्_१,९.३४ ॥ अप्याकाशसरोजिन्यामप्याकाशमहावने । इत्थमेतत्कथमिति विस्मयोऽस्य न जायते ॥ ंो_१,९.३५ ॥ विस्मयस्य स्वरूपं दर्शयति "इत्थमेतत्कथम्" इति ॥ ंोट्_१,९.३५ ॥ कान्तामध्यगतस्यापि मनोऽस्य मदनेषवः । न भेदयन्ति दुर्भेदं धारा इव महोपलम् ॥ ंो_१,९.३६ ॥ स्पष्टम् ॥ ंोट्_१,९.३६ ॥ आपदामेकमावासमभिवाञ्छसि किं धनम् । अनुशास्येति सर्वस्वमर्थिने सम्प्रयच्छति ॥ ंो_१,९.३७ ॥ "अनुशास्य" अनुशासनं कृत्वा ॥ ंोट्_१,९.३७ ॥ इयमापदियं संपदित्ययं कल्पनामयः । मनस्यभ्युदितो मोह इति शोकात्प्रगायति ॥ ंो_१,९.३८ ॥ स्पष्टम् ॥ ंोट्_१,९.३८ ॥ हा हतोऽहमनाथोऽहमित्याक्रन्दपरोऽपि सन् । न जनो याति वैराग्यं चित्रमित्येव वक्त्यसौ ॥ ंो_१,९.३९ ॥ आक्रन्दपरस्य वैराग्यं युक्तमेवेत्य्"अपि"शब्देन द्योत्यते ॥ ंोट्_१,९.३९ ॥ रघुकाननसालेन रामेण रिपुघातिना । भृशमित्थं स्थितेनैव वयं खेदमुपागताः ॥ ंो_१,९.४० ॥ स्पष्टम् ॥ ंोट्_१,९.४० ॥ न विद्मः किं महाबाहो तस्य तादृशचेतसः । कुर्मः कमलपत्राक्ष गतिरत्र हि नो भवान् ॥ ंो_१,९.४१ ॥ स्पष्टम् ॥ ंोट्_१,९.४१ ॥ राजानमथ वा विप्रमुपदेष्टारमग्रगम् । हसन् पशुमिवाव्यग्रः सोऽवधीरयति प्रभो ॥ ंो_१,९.४२ ॥ स्पष्टम् ॥ ंोट्_१,९.४२ ॥ प्रपञ्चोऽयमिह स्फारं जगन्नाम यदुत्थितम् । नैतद्वस्तु न चैवाहमिति निर्णीय संस्थितः ॥ ंो_१,९.४३ ॥ यः "अयं प्रपञ्चः उत्थितम्" इदं "स्फारं जगन्नाम" भवति । "एतद्" "वस्तु" परमार्थसत् । "न" भवति । "एव"शब्दः अपिशब्दस्यार्थे । "अहम्" अपि "वस्तु न च" भवामि । "इति" एवम् । "निर्णीया"सौ रामः "संस्थितः" ॥ ंोट्_१,९.४३ ॥ नारौ नात्मनि नो मित्रे न राज्ये न च मातरि । न संपदापदोर्नान्तस्तस्यास्था न विभोर्बहिः ॥ ंो_१,९.४४ ॥ "आस्था" रतिः ॥ ंोट्_१,९.४४ ॥ निरस्तास्थो निराशोऽसौ निरीहोऽसौ निरास्पदः । मोहे न च विमुक्तोऽसौ तेन तप्यामहे वयम् ॥ ंो_१,९.४५ ॥ स्पष्टम् ॥ ंोट्_१,९.४५ ॥ किं धनेन किमम्बाभिः किं राज्येन किमीहया । इति निश्चयवानन्तः प्राणत्यागमनाः स्थितः ॥ ंो_१,९.४६ ॥ स्पष्टम् ॥ ंोट्_१,९.४६ ॥ भोगेष्वायुषि राज्ये च मित्रे पितरि मातरि । परमुद्वेगमायातश्चातकोऽवग्रहे यथा ॥ ंो_१,९.४७ ॥ स्पष्टम् ॥ ंोट्_१,९.४७ ॥ तस्य तादृक्स्वभावस्य समग्रविभवान्वितम् । संसारजालमाभोगि प्रभो प्रतिविषायते ॥ ंो_१,९.४८ ॥ प्रतिविषमिवाचरते "प्रतिविषायते" ॥ ंोट्_१,९.४८ ॥ तादृशः स्यान्महासत्त्वः क इवास्मिन्महीतले । प्रकृते व्यवहारे तं यो निवेशयितुं क्षमः ॥ ंो_१,९.४९ ॥ स्पष्टम् ॥ ंोट्_१,९.४९ ॥ इति नो येयमायाता शाखाप्रसरशालिनी । आपत्तामलमुद्धर्तुं समुदेतु दया परा ॥ ंो_१,९.५० ॥ "समुदेतु" तवेति शेषः ॥ ंोट्_१,९.५० ॥ सर्गान्तश्लोकेन रामभृत्यवचनं समापयति मनसि मोहमपास्य महामनाः सकलमार्तिमतः किल साधुताम् । सफलतां नयतीह तमो हरन् दिनकरो भुवि भास्करतामिव ॥ ंो_१,९.५१ ॥ "महामनाः" पुरुषः । "आर्तिमतः" आर्तियुक्तस्य पुरुषस्य । "मनसि सकलं मोहम्" आर्तिस्वरूपं समस्तं मोहम् । "अपास्य" दूरीकृत्य । "साधुताम्" स्वस्मिन् स्थितं साधुभावम् । "सफलतां नयति" । क "इव" । "दिनकर इव" । यथा "दिनकरः" "भुवि" "तमः" "हरन्" "भास्करताम्" "सफलतां" "नयति" । तथेत्यर्थः । इति शिवम् ॥ ंोट्_१,९.५१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे नवमः सर्गः ॥ १,९ ॥ ************************************************************************ रामभृत्यवचनं श्रुत्वा विश्वामित्रः कथयति एवं चेत्तन्महाप्राज्ञं भवन्तो रघुनन्दनम् । इहानयन्तु त्वरितं हरिणं हरिणा इव ॥ ंो_१,१०.१ ॥ स्पष्टम् ॥ ंोट्_१,१०.१ ॥ एष मोहो रघुपतेर्नापद्भ्यो न च रागतः । विवेकवैराग्यकृतो बोध एष महोदयः ॥ ंो_१,१०.२ ॥ महानुदयः मुक्तिलक्षणः यस्मात्"सः" "महोदयः" ॥ ंोट्_१,१०.२ ॥ इहायातु क्षणाद्रामस्तदिहैव वयं क्षणात् । मोहं तस्यापनेष्यामो मरुतोऽद्रेर्घनं यथा ॥ ंो_१,१०.३ ॥ "वयं" के इव । "मरुत" इव । "यथा" "मरुतः" वायवः । "अद्रेः" "घनं" मेघम् । अपनयन्ति । तथेत्यर्थः ॥ ंोट्_१,१०.३ ॥ एतस्मिन्मार्जिते युक्त्या मोहे च रघुनन्दनः । विश्रान्तिमेष्यति पदे तस्मिन् वयमिवोत्तमे ॥ ंो_१,१०.४ ॥ "तस्मिन् पदे" चिन्मात्राख्ये विश्रान्तिस्थाने ॥ ंोट्_१,१०.४ ॥ सत्यतां मुदितां प्रज्ञां विश्रान्तिं च समेत्य सः । पीनतां वरवर्णत्वं पीतामृत इवैष्यति ॥ ंो_१,१०.५ ॥ स्पष्टम् ॥ ंोट्_१,१०.५ ॥ निजां च प्रकृतामेव व्यवहारपरम्पराम् । परिपूर्णमना मान्य आचरिष्यत्यखण्डिताम् ॥ ंो_१,१०.६ ॥ स्पष्टम् ॥ ंोट्_१,१०.६ ॥ भविष्यति महासत्त्वो ज्ञातलोकपरावरः । सुखदुःखदशाहीनः समलोष्टाश्मकाञ्चनः ॥ ंो_१,१०.७ ॥ [भगवद्गीता Vई ८ ॑ XईV २४ ] "ज्ञाते" सम्यक्निश्चिते । "लोकानाम्" "परावरे" परावाची । पारद्वयमिति यावत् । येन । सः ॥ ंोट्_१,१०.७ ॥ विश्वामित्रवाक्यमुपसंहरति इत्युक्ते मुनिनाथेन राजा सम्पूर्णमानसः । प्राहिणोद्राममानेतुं भूयो दूतपरम्पराम् ॥ ंो_१,१०.८ ॥ स्पष्टम् ॥ ंोट्_१,१०.८ ॥ एतावता च कालेन रामो निजगृहासनात् । पितुः सकाशमागन्तुमुत्थितोऽर्क इवाचलात् ॥ ंो_१,१०.९ ॥ स्पष्टम् ॥ ंोट्_१,१०.९ ॥ वृतः कतिपयैर्भृत्यैर्भ्रातृभ्यां चाजगाम ह । तत्पुण्यं पितुरास्थानं स्वर्गं सुरपतेरिव ॥ ंो_१,१०.१० ॥ स्पष्टम् ॥ ंोट्_१,१०.१० ॥ दूरादेव ददर्शासौ रामो दशरथं तदा । वृतं राजसमूहेन देवौघेनेव वासवम् ॥ ंो_१,१०.११ ॥ स्पष्टम् ॥ ंोट्_१,१०.११ ॥ वसिष्ठविश्वामित्राभ्यां सेवितं पार्श्वयोर्द्वयोः । सर्वशास्त्रार्थतज्ज्ञेन मन्त्रिवृन्देन पालितम् ॥ ंो_१,१०.१२ ॥ स्पष्टम् ॥ ंोट्_१,१०.१२ ॥ चारुचामरहस्ताभिः कान्ताभिः समुपासितम् । ककुब्भिरिव मूर्ताभिः संस्थिताभिर्यथोचितम् ॥ ंोट्_१,१०.१३ ॥ "ककुब्भिः" दिग्भिः ॥ ंोट्_१,१०.१३ ॥ वसिष्ठविश्वामित्राद्यास्तथा दशरथादयः । ददृशू राघवं दूरादुपायान्तं गुहोपमम् ॥ ंो_१,१०.१४ ॥ "गुहोपमं" कुमारसदृशम् ॥ ंोट्_१,१०.१४ ॥ सत्त्वावष्टम्भगर्वेण शैत्येनेव हिमालयम् । श्रितं सकलसेव्येन गम्भीरेण स्वरेण च ॥ ंो_१,१०.१५ ॥ "सत्त्वस्यावष्टम्भेन" हस्तावलम्बेन यः "गर्वः" । तेन । पूर्वस्य श्लोकस्य विशेषणत्वेन योज्यम् ॥ ंोट्_१,१०.१५ ॥ सौम्यं समशुभाकारं विनयोदारमूर्जितम् । कान्तोपशान्तवपुषं परस्यार्थस्य भाजनम् ॥ ंो_१,१०.१६ ॥ "परस्यार्थस्य" मोक्षस्य ॥ ंोट्_१,१०.१६ ॥ समुद्यद्यौवनारम्भमुद्योगशमशोभितम् । अनुद्विग्नमनायासं पूर्णप्रायमनोरथम् ॥ ंो_१,१०.१७ ॥ स्पष्टम् ॥ ंोट्_१,१०.१७ ॥ विचारितजगद्यात्रं पवित्रगुणगोचरम् । महासत्त्वैकलोभेन गुणैरिव समाश्रितम् ॥ ंो_१,१०.१८ ॥ "महासत्त्वस्य" महाधैर्यस्य । यः "एको" "लोभः" । तत्सङ्गलोभः इति यावत् । तेन ॥ ंोट्_१,१०.१८ ॥ उदारसारमापूर्णमन्तःकरणकोटरम् । अविक्षुभितया वृत्त्या दर्शयन्तमनुत्तमम् ॥ ंो_१,१०.१९ ॥ रामं पुनः कथम्भूतम् । ईदृश्या "वृत्त्या" ईदृशम् "अन्तःकरणं" "दर्शयन्तम्" इति सम्बन्धः । "आपूर्णम्" भोगान् प्रति अलौल्येन समन्तात्पूर्णम् ॥ ंोट्_१,१०.१९ ॥ श्रीरामविशेषणान्युपसंहरति एवं गुणगणाकीर्णो दूरादेव रघूद्वहः । परिमेयसिताच्छाच्छस्वहाराम्बरपल्लवः ॥ ंो_१,१०.२० ॥ प्रणनाम चलच्चारुचूडामणिमरीचिना । शिरसा वसुधाकम्पलोलमानाचलश्रिया ॥ ंो_१,१०.२१ ॥ "परिमेयाः" परिमिताः । "सिताः" "अच्छाच्छाः" "स्वहाराम्बरपल्लवाः" यस्य । सः तादृशः । "शिरसा" कथम्भूतेन । "वसुधायां" यः "कम्पः" । तेन "लोलमानस्याचलस्य" "श्रीः" यस्य । तत् । तादृशेन । युग्मम् ॥ ंोट्_१,१०.२०२१ ॥ कान् प्रणनामेत्यपेक्षायामाह प्रथमं पितरं पश्चान्मुनीन्मान्यैकमानतः । ततो विप्रांस्ततो बन्धूंस्ततोऽधिकगुणान् गुरून् ॥ ंो_१,१०.२२ ॥ "पितरं" कथम्भूतम् । मान्यानां मध्ये एकम् "मान्यैकम्" ॥ ंोट्_१,१०.२२ ॥ जग्राह चात्मना दृष्ट्वा मनाक्स्वादुगिरा तथा । राजलोकेन विहितां स प्रणामपरस्पराम् ॥ ंो_१,१०.२३ ॥ स्पष्टम् ॥ ंोट्_१,१०.२३ ॥ विहिताशीर्मुनिभ्यां तु रामः सशममानसः । आससाद पितुः पुण्यं समीपं सुरसुन्दरः ॥ ंो_१,१०.२४ ॥ "समीपं" निकटम् ॥ ंोट्_१,१०.२४ ॥ पादाभिवन्दनरतं तमथासौ महीपतिः । शिरस्यभ्यालिलिङ्गाशु चुचुम्ब च पुनः पुनः ॥ ंो_१,१०.२५ ॥ शत्रुघ्नं लक्ष्मणं चैव तथैव परवीरहा । आलिलिङ्ग घनस्नेहं राजहंसोऽम्बुजं यथा ॥ ंो_१,१०.२६ ॥ स्पष्टम् । युग्मम् ॥ ंोट्_१,१०.२५२६ ॥ उत्सङ्गे वत्स तिष्ठेति वदत्यथ महीपतौ । भूमौ परिजनास्तीर्णे सोऽंशुकेऽथ न्यविक्षत ॥ ंो_१,१०.२७ ॥ "न्यविक्षत" उपाविशत् । "अथ"शब्दद्वयं सम्बन्धिभेदेनानन्तर्यद्वयवाचकम् ॥ ंोट्_१,१०.२७ ॥ दशरथः कथयति पुत्र प्राप्तविवेकस्त्वं कल्याणानां च भाजनम् । जनवज्जीर्णया बुद्ध्या खेदायात्मा न दीयते ॥ ंो_१,१०.२८ ॥ त्वया "न दीयते" न देय इत्यर्थः । "खेदाय्"एति सम्प्रदाने चतुर्थी ॥ ंोट्_१,१०.२८ ॥ वृद्धविप्रगुरुप्रोक्तं त्वादृशेनानुतिष्ठता । पदमासाद्यते पुण्यं न मोहमनुधावता ॥ ंो_१,१०.२९ ॥ स्पष्टम् ॥ ंोट्_१,१०.२९ ॥ तावदेवापदो दूरे तिष्ठन्ति परिपेलवाः । यावदेव न मोहस्य प्रसरः पुत्र दीयते ॥ ंो_१,१०.३० ॥ स्पष्टम् ॥ ंोट्_१,१०.३० ॥ श्रीवसिष्ठः कथयति राजपुत्र महाबाहो शूरस्त्वं विजितास्त्वया । दुरुच्छेदा दुरारम्भा अप्यमी विषयारयः ॥ ंो_१,१०.३१ ॥ स्पष्टम् ॥ ंोट्_१,१०.३१ ॥ किमतज्ज्ञ इवाज्ञानां योग्ये वा मोहसागरे । विनिमज्जसि कल्लोलगहने जाड्यशालिनि ॥ ंो_१,१०.३२ ॥ स्पष्टम् ॥ ंोट्_१,१०.३२ ॥ विश्वामित्र आह चलन्नीलोत्पलव्यूहसमलोचन लोलताम् । ब्रूहि चेतःकृतां त्यक्त्वा हेतुना केन मुह्यसि ॥ ंो_१,१०.३३ ॥ हे "चलन्नीलोत्पलव्यूहसमलोचन "त्वम् । "चेतःकृतां" "लोलतां" "त्यक्त्वा" "ब्रूहि" । कर्मापेक्षायां वाक्यं कर्मत्वेन कथयति "हेतुने"ति । त्वं किमर्थं "मुह्यसी"त्यर्थः ॥ ंोट्_१,१०.३३ ॥ किंनिष्ठाः कियता केन कियन्तः कारणेन ते । आधयो नु विलुम्पन्ति मनो गेहमिवाखवः ॥ ंो_१,१०.३४ ॥ "ते" "कियन्तः" "आधयः" । "किंनिष्ठाः" किंविषयाः सन्तः । "कियता" "केन" "कारणेन" "मनः" "नु" "विलुम्पन्ति" । के "इव" । "आखव" "इव" । यथा "आखवः गेहं विलुम्पन्ति" । तथेत्यर्थः । "नु"शब्दः प्रश्नद्योतकः ॥ ंोट्_१,१०.३४ ॥ मन्ये नानुचितानां त्वमाधीनां पदमुत्तमः । आपत्सु चाप्तो यो धीरो निर्जितास्तेन चाधयः ॥ ंो_१,१०.३५ ॥ "आप्तः" विचारकारी । न ह्युचितस्य्"आनुचितपदत्वं" युक्तमिति भावः ॥ ंोट्_१,१०.३५ ॥ यथाभिमतमाशु त्वं ब्रूहि प्राप्स्यसि चानघम् । सर्वमेव पुनर्येन तव भेत्स्यन्ति नाधयः ॥ ंो_१,१०.३६ ॥ "येन" सर्वप्रापणेन ॥ ंोट्_१,१०.३६ ॥ विश्वामित्रवाक्यं सर्गान्तश्लोकेनोपसंहरति इत्युक्तमस्य स मुने रघुवंशकेतुर् आकर्ण्य वाक्यमुचितार्थविलासगर्भम् । तत्याज खेदमभिगर्जति वारिवाहे बर्ही यथाभ्यनुमिताभिमतार्थसिद्धिः ॥ ंो_१,१०.३७ ॥ "अभ्यनुमिता" गर्जनहेतुकेनानुमानेन ज्ञाता । "अभिमतार्थस्य सिद्धिः" यस्य । स । इति शिवम् ॥ ंोट्_१,१०.३७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे दशमः सर्गः ॥ १,१० ॥ ************************************************************************ इति पृष्टो मुनीन्द्रेण समाश्वास्य च राघवः । उवाच वचनं चारु धीरपूर्णार्थमन्थरम् ॥ ंो_१,११.१ ॥ "धीरं" च तत्"पूर्णार्थेन" "मन्थरं" निर्भरं च "धीरपूर्णार्थमन्थरम्" ॥ ंोट्_१,११.१ ॥ इतः परं वैराग्यप्रकरणारम्भः । स्मृत्वा तत्त्वं परमगहनं स्वस्वरूपाख्यमाद्यं स्पृष्ट्वा मूर्ध्ना गुरुचरणयोर्धूलिपुञ्जं प्रयत्नात्* कृत्वा देवं शरणमनिशं विघ्नराजं च टीका वैराग्याख्ये प्रकरणवरे तन्यते भास्करेण ** १४ ** समाश्वासनपरं श्रीवसिष्ठश्रीविश्वामित्रयोर्वाक्यं श्रुत्वा श्रीरामो हृद्गतं वैराग्यं प्रकटीकरोति भगवन् भवता पृष्टो यथावदधुना किल । कथयाम्यहमज्ञोऽपि को लङ्घयति सद्वचः ॥ ंो_१,११.२ ॥ "भवते"ति कुलगुरुं वसिष्ठं प्रत्युक्तिः । किमर्थं कथयसीत्य् । अत्राह "को" "लङ्घयती"ति ॥ ंोट्_१,११.२ ॥ स्वयं कृतां प्रतिज्ञां सम्पादयति अहं तावदयं जातो निजेऽस्मिन् पितृसद्मनि । क्रमेण वृद्धिं सम्प्राप्तः प्राप्तविद्यश्च संस्थितः ॥ ंो_१,११.३ ॥ "तावच्"छब्दो विप्रतिपत्त्यभाववाचकः ॥ ंोट्_१,११.३ ॥ ततः सदाचारपरो भूत्वाहं मुनिनायक । विहृतस्तीर्थयात्रार्थमुर्वीमम्बुधिमेखलाम् ॥ ंो_१,११.४ ॥ स्पष्टम् ॥ ंोट्_१,११.४ ॥ एतावताथ कालेन संसारास्थामिमां मम । स्वविवेको जहारान्तरोघस्तटलतामिव ॥ ंो_१,११.५ ॥ "स्वविवेकः" कोऽहमिति विचारः ॥ ंोट्_१,११.५ ॥ विवेकेन परीतात्मा तेनाहं तदनु स्वयम् । भोगनीरसया बुद्ध्या प्रविचारितवानिदम् ॥ ंो_१,११.६ ॥ स्पष्टम् ॥ ंोट्_१,११.६ ॥ किं त्वया "प्रविचारितम्" इत्य् । अत्राह किं नामेदं वत सुखं योऽयं संसारसंसृतिः । जायते मृतये लोको म्रियते जननाय च ॥ ंो_१,११.७ ॥ "वत" कष्टे । "इदं" "सुखं" "किं" "नाम" भवति । न भवतीत्यर्थः । "इदं" किम् । "संसारे" "संसृतिः" संसरणं यस्य । सः तादृशः । "यः" "अयं" "लोकः" । "मृतये" यत्"जायते" । "जननाय" च यन् "म्रियते" ॥ ंोट्_१,११.७ ॥ मृतिजननरूपस्य संसरणस्य दुःखत्वमुक्त्वा तदाश्रयभूतानां भावानां दुःखयुक्तत्वं कथयति स्वस्थिताः सर्व एवेमे सचराचरचेष्टिताः । आपदां पतयः पापा भावा विभवभूमयः ॥ ंो_१,११.८ ॥ "सचराचरचेष्टिताः" चलनस्थितिरूपक्रियायुक्ताः । "सर्वे" "एवेमे"ऽनुभूयमानाः । "भावाः" स्थावरजङ्गमरूपाः पदार्थाः । "आपदाम्" "पतयः" आपद्युक्ताः भवन्ति । पूर्वश्लोकोक्तजननमरणरूपदुःखाश्रयत्वादित्यर्थः । "भावाः" कथम्भूताः । "स्वस्थिताः" स्वस्मिन् स्थिताः । न तु परस्परं सम्बन्धयुक्ताः । पुनः कथम्भूताः । "विभवभूमयः" यथास्वं शक्तियुक्ताः ॥ ंोट्_१,११.८ ॥ ननु कथम् "भावाः" "स्वस्थिताः" भवन्ति । परस्परं तेषां नानाविधसम्बन्धदर्शनादित्य् । अत्राह अयःशलाकासदृशाः परस्परमसङ्गिनः । श्लिष्यन्ते केवलं भावा मनःकल्पनया स्वया ॥ ंो_१,११.९ ॥ अयं मम पुत्रादिः अयं मम पित्रादिरिति "मनःकल्पितेन" सङ्कल्पेनैव भावानाम् "परस्परं" सम्बन्धोऽस्ति । न तु परमार्थत इति भावः ॥ ंोट्_१,११.९ ॥ ननु मनसः कथमेतावती शक्तिरस्तीत्य् । अत्राह मनःसमायत्तमिदं जगदाभोगि दृश्यते । मनश्चासदिहाभाति केन स्मः परिमोहिताः ॥ ंो_१,११.१० ॥ "आभोगि" विस्तारयुक्तम् । "मनसः" "असत्त्वम्" असत्यभूतपदार्थानुसन्धानमात्ररूपत्वेन ज्ञेयम् ॥ ंोट्_१,११.१० ॥ असतैव वयं कष्टं विक्रीता मूढबुद्धयः । मृगतृष्णाम्भसा दूरे वने मुग्धमृगा इव ॥ ंो_१,११.११ ॥ "असता" "एव" । न तु सत्यभूतेन । मनसेति शेषः ॥ ंोट्_१,११.११ ॥ न केनचिच्च विक्रीता विक्रीता इव संस्थिताः । वत मूढा वयं सर्वे जनाना अपि शम्बरम् ॥ ंो_१,११.१२ ॥ "शम्बरम्" मायाम् ॥ ंोट्_१,११.१२ ॥ किमेतेषु प्रपञ्चेषु भोगा नाम सुदुर्भगाः । मुधैव हि वयं मोहात्संस्थिता बद्धभावनाः ॥ ंो_१,११.१३ ॥ "एतेषु प्रपञ्चेषु" मध्ये ।" सुदुर्भगाः" अतिशयेन दुर्भगत्वाख्यगुणयुक्ताः । "भोगा नाम किम्" भवन्ति । आपातमात्ररमणीयत्वात्न किञ्चिदपि भवन्तीत्यर्थः । "हि"शब्दः अतःशब्दार्थे । "हि" अतः । "वयम्" "एतेषु" भोगेषु । "बद्धभावनाः" । "मोहात्" "मुधैव" "संस्थिताः" व्यर्थत्वात् ॥ ंोट्_१,११.१३ ॥ अज्ञाते बहुकालेन व्यर्थ एव वयं घने । मोहे निपतिता मुग्धाः श्वभ्रे मुग्धमृगा इव ॥ ंो_१,११.१४ ॥ "मोहे" भोगभावनाख्ये मोहे । "बहुकालेन" बहुकालं तावत् ॥ ंोट्_१,११.१४ ॥ किं मे राज्येन किं भोगैः कोऽहं किमिदमागतम् । यन्मिथ्यैवास्तु तन्मिथ्या कस्य नाम किमागतम् ॥ ंो_१,११.१५ ॥ [भगवद्गीता ई ३२ द्] "यत्मिथ्या" भवति "तत्मिथ्यैवास्तु" इति सम्बन्धः ॥ ंोट्_१,११.१५ ॥ अवान्तरमुपसंहारं करोति एवं विमृशतो ब्रह्मन् सर्वेष्वेव ततो मम । भावेष्वरतिरायाता पथिकस्य मरुष्विव ॥ ंो_१,११.१६ ॥ स्पष्टम् ॥ ंोट्_१,११.१६ ॥ स्वाभिमतमाविष्करोति तदेतद्भगवन् ब्रूहि किमिदं परिनश्यति । किमिदं जायते भूयः किमिदं परिवर्धते ॥ ंो_१,११.१७ ॥ "किम्" इति कथमित्यस्यार्थे ॥ ंोट्_१,११.१७ ॥ जरामरणमापच्च जननं सम्पदस्तथा । आविर्भावतिरोभावैर्विवर्तन्ते पुनः पुनः ॥ ंो_१,११.१८ ॥ भावेषु इति शेषः । "भावैर्" इति इत्थम्भावे तृतीया । "विवर्तन्ते" रूपान्तरं गच्छन्ति ॥ ंोट्_१,११.१८ ॥ भावैस्तैरेव तैरेव तुच्छैर्वयमिमे किल । पश्य जर्जरतां नीता वातैरिव गिरिद्रुमाः ॥ ंो_१,११.१९ ॥ स्पष्टम् ॥ ंोट्_१,११.१९ ॥ अचेतना इव जनाः पवनैः प्राणनामभिः । ध्वनन्तः संस्थिता व्यर्थं यथा कीचकवेणवः ॥ ंो_१,११.२० ॥ "कीचकवेणवो" हि व्यर्थं ध्वनन्ति ॥ ंोट्_१,११.२० ॥ शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चिन्तया । जरद्द्रुम इवोग्रेण कोटरस्थेन वह्निना ॥ ंो_१,११.२१ ॥ स्पष्टम् ॥ ंोट्_१,११.२१ ॥ संसारदुःखपाषाणनीरन्ध्रहृदयोऽप्यहम् । निजलोकभयादेव गलद्बाष्पैर्न रोदिमि ॥ ंो_१,११.२२ ॥ "संसारदुःखान्य्" एव "पाषाणाः" । तैः "नीरन्ध्रं" "हृदयं" यस्य । सः तादृशः ॥ ंोट्_१,११.२२ ॥ शून्यसन्मुखवृत्तीस्तु शुष्करोदननीरसाः । विवेक एव हृत्संस्थो ममैकान्तेषु पश्यति ॥ ंो_१,११.२३ ॥ "शून्या" व्यर्थाश्च ताः । "सन्मुखवृत्तयः" सन्मुखव्यापाराः ताः । "एकान्तेषु" "विवेकै"कपर "एवा"स्मीति भावः ॥ ंोट्_१,११.२३ ॥ भृशं मुह्यामि संस्मृत्य भावाभावमयीं स्थितिम् । दारिद्र्येणेव सुभगो दूरे संसारचिन्तया ॥ ंो_१,११.२४ ॥ "स्थितिं" जगदाख्यां स्थितिम् । अहं क "इव" । "सुभग इव" । यथा "सुभगः" "दारिद्र्येण" "मुह्यति" । तथेत्यर्थः । अतः "संसारचिन्तया" "दूरे" । सा दूरे भवत्वित्यर्थः ॥ ंोट्_१,११.२४ ॥ एवं सामान्येन संसारपदार्थानां दुःखदतामुक्त्वा तद्विशेषेषु प्रधानभूतायाः श्रियः कथयति मोहयन्ति मनोवृत्तिं खण्डयन्ति गुणानलम् । दुःखजालं प्रयच्छन्ति विप्रलम्भपराः श्रियः ॥ ंो_१,११.२५ ॥ "मोहयन्ति" अविवेकयुक्ततां कुर्वन्ति । ऐश्वर्यमदग्रस्ता हि पूर्वापरविचारशून्या एव भवन्ति । "विप्रलम्भपराः" वञ्चनपराः ॥ ंोट्_१,११.२५ ॥ एवं श्रियः दुःखदत्वमुक्त्वा तत्प्रधानावयवभूतस्य धनस्यापि दुःखदत्वं कथयति चिन्तानिचयवक्राणि नानन्दाय धनानि मे । सम्प्रसूतकलत्राणि गृहाण्युग्रापदां यथा ॥ ंो_१,११.२६ ॥ "चिन्तानिचयेना"र्जनाद्यर्थं प्रयुक्तेन चिन्तासमूहेन । "वक्राणि" कुटिलानि । "उग्रापदां" हि बहु"कलत्राणि" "गृहाणि" दुःखायैव भवन्ति ॥ ंोट्_१,११.२६ ॥ सङ्ग्रहेण स्वास्वास्थ्यं कथयति विविधदोषदशापरिचिन्तनैः सततभङ्गुरकारणकल्पितैः । मम न निर्वृतिमेति मनो मुने निगडितस्य यथा वनहस्तिनः ॥ ंो_१,११.२७ ॥ "विविधा" याः "दोषदशाः" । तासाम् "परिचिन्तनैः" । कथम्भूतैः । "सततं" "भङ्गुराणि" यानि "कारणानि" भोगरूपाणि कारणानि । तैः "कल्पितैः" स्वविषयतया प्रकटीकृतैः ॥ ंोट्_१,११.२७ ॥ सर्वदोषमूलकारणभूतान् विषयान् सर्गान्तश्लोकेन निन्दति खलाः काले काले निशि निशितमोहैकमिहिका गतालोके लोके विषयहठचौराः सुचतुराः । प्रवृत्ताः प्रोद्युक्ता दिशि दिशि विवेकैकहरणे रणे शक्तास्तेषां वदत विबुधाः केऽद्य सुभटाः ॥ ंो_१,११.२८ ॥ "खलाः" अत्यन्तदुःखकारित्वात्दुर्जनसदृशास्। तथा "सुचतुराः" अतिचातुर्ययुक्ताः । "विषयहठचौराः" । "निशि" लक्षणया अविद्यारूपायां रात्रौ । "निशिता" तीक्ष्णा या "मोहैकमिहिका" । तया "गतालोके" दूरे गतविचाराख्यप्रकाशे । "लोके" अस्मिन् संसारे । "काले काले" सर्वेषु कालेषु । "दिशि दिशि" सर्वासु दिक्षु । "प्रोद्युक्ताः" प्रकृष्टोद्योगभाजः । अत एव "विवेकस्य" सम्यग्विचारस्य । यद्"एकं" "हरणं" केवलं हरणम् । तत्र "प्रवृत्ताः" भवन्ति । हे "विबुधाः" यूयम् । "वदताद्य" अस्मिन् समये । "तेषां" "विषयहठचौराणां" "रणे के सुभटाः" "शक्ताः" भवन्ति । न केऽपीति भावः । इति शिवम् ॥ ंोट्_१,११.२८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकादशः सर्गः ॥ १,११ ॥ ************************************************************************ समनन्तरमेव प्रकृतां श्रीनिन्दां विस्तरेण कथयति इयमस्मिन् विनोदाय संसारे परिकल्पिता । श्रीर्मुने परिमोहाय सापि नूनमनर्थदा ॥ ंो_१,१२.१ ॥ "नूनं" निश्चयेन । "अनर्थदे"ति विशेषणद्वारहेतुः ॥ ंोट्_१,१२.१ ॥ अनर्थदत्वमेवास्याः कथयति उल्लासबहुलानन्तः कल्लोलानक्रमाकुलान् । जडान् प्रस्रवति स्फारान् प्रावृषीव तरङ्गिणी ॥ ंो_१,१२.२ ॥ इयं श्रीः "उल्लासबहुलान्" उल्लासपूर्णान् । "अक्रमाकुलान्" क्रमोल्लङ्घननिर्भरान् । तथा "जडान्" जाड्यदायित्वात्जडरूपान् । "कल्लोलान्" दर्पाख्यान्महातरङ्गान् । "प्रस्रवति" उत्पादयति । का "इव" । "तरङ्गिणीव" । यथा "तरङ्गिणी" "प्रावृषि" वर्षाकाले । उक्तविशेषणान्महातरङ्गान् प्रस्रवति । तथेत्यर्थः ॥ ंोट्_१,१२.२ ॥ चिन्तादुहितरो बह्व्यो भूरिदुर्ललितेरिताः । चञ्चलाः प्रभवन्त्यस्यास्तरङ्गाः सरितो यथा ॥ ंो_१,१२.३ ॥ "भूरीणि" यानि "दुर्ललितानि" दुर्विलासाः । तैर्"ईरिताः" चञ्चलिताः । उत्थापिता इति यावत् ॥ ंोट्_१,१२.३ ॥ एषा हि पदमेकत्र न निबध्नाति दुर्भगा । मुग्धेवानियताचारमितश्चेतश्च धावति ॥ ंो_१,१२.४ ॥ "हि" निश्चये । "अनियताचारं" कामचारत इत्यर्थः । क्रियाविशेषणमेतत् ॥ ंोट्_१,१२.४ ॥ जनयन्ती परं दाहं परामृष्टाङ्गिका सती । विनाशमेव धत्तेऽन्तर्दीपलेखेव कज्जलम् ॥ ंो_१,१२.५ ॥ स्पष्टम् ॥ ंोट्_१,१२.५ ॥ गुणागुणविचारेण विनैव किल पार्श्वगम् । राजप्रकृतिवन्मूढा दुरारूढावलम्बते ॥ ंो_१,१२.६ ॥ "राजप्रकृतिवत्" राजस्वभाववत् । राजापि हि "गुणागुणविचार"रहितमेव "पार्श्वगम्" "अवलम्बते" ॥ ंोट्_१,१२.६ ॥ कर्मणा तेन तेनैषा विस्तारमुपगच्छति । दोषाशीविषवेगस्य यत्क्षीरविसरायते ॥ ंो_१,१२.७ ॥ "क्षीरस्य" "विसरः" सेकः । स इवाचरते "क्षीरविसरायते" ॥ ंोट्_१,१२.७ ॥ तावच्छीतमृदुस्पर्शः परस्वे च जने जनः । वात्ययेव हिमं यावच्छ्रिया न परुषीकृतः ॥ ंो_१,१२.८ ॥ श्रीस्पर्शे "जनः" "स्वस्मिन् परे च" महाकठिन एव भवतीति पिण्डार्थः । "वात्या" हि "हिमम्" "परुषीकरोती"त्युपमानत्वेन गृहीता ॥ ंोट्_१,१२.८ ॥ प्राज्ञाः शूराः कृतज्ञाश्च पेशला मृदवश्च ये । पांसुमुष्ट्येव मणयः श्रिया ते मलिनीकृताः ॥ ंो_१,१२.९ ॥ स्पष्टम् ॥ ंोट्_१,१२.९ ॥ न श्रीः सुखाय भगवन् दुःखायैव हि कल्पते । गुप्तं विनाशनं धत्ते मृतिं विषलता यथा ॥ ंो_१,१२.१० ॥ स्पष्टम् ॥ ंोट्_१,१२.१० ॥ श्रीमानजननिन्द्यश्च शूरश्चाप्यविकत्थनः । समदृष्टिः प्रभुश्चैव दुर्लभाः पुरुषास्त्रयः ॥ ंो_१,१२.११ ॥ श्रिया स्पृष्टः साहङ्कारत्वेन जननिन्द्य एव भवतीति भावः ॥ ंोट्_१,१२.११ ॥ एषा हि विषमा दुःखभोगिनां गहना गुहा । घनमोहगजेन्द्राणां विन्ध्यशैलमहाटवी ॥ ंो_१,१२.१२ ॥ स्पष्टम् ॥ ंोट्_१,१२.१२ ॥ पुनः कीदृश्यस्तीत्यपेक्षायामाह सत्कार्यपद्मरजनी दुःखकैरवचन्द्रिका । सद्दृष्टिदीपिकावात्या कल्लोलौघतरङ्गिणी ॥ ंो_१,१२.१३ ॥ "कल्लोलाः" दर्परूपाः महातरङ्गाः ॥ ंोट्_१,१२.१३ ॥ सम्भ्रमाभ्रादिपदवी विषादविषवर्धिनी । केदारिका विकल्पानां खदा कुभयभोगिनाम् ॥ ंो_१,१२.१४ ॥ "खदा" गुहा । "कुभयानि" एव "भोगिनः" सर्पाः । तेषाम् ॥ ंोट्_१,१२.१४ ॥ हिमं वैराग्यवल्लीनां विकारोलूकयामिनी । राहुदंष्ट्रा विवेकेन्दोः सौजन्याम्भोजचन्द्रिका ॥ ंो_१,१२.१५ ॥ स्पष्टम् ॥ ंोट्_१,१२.१५ ॥ इन्द्रायुधवदालोलनानारागमनोहरा । लोला तडिदिवोत्पन्नध्वंसिनी जडसंश्रया ॥ ंो_१,१२.१६ ॥ स्पष्टम् ॥ ंोट्_१,१२.१६ ॥ चपला वर्जिता रत्या नकुली नकुलीनजा । विप्रलम्भनतात्पर्यहेतूग्रमृगतृष्णिका ॥ ंो_१,१२.१७ ॥ "चपला" चापल्यगुणसहिता । अत एव "रत्या" "वर्जिता" कुत्रापि रतिमकुर्वतीत्यर्थः । तथा "नकुली" अतिचापलत्वेन नकुलस्त्रीसरूपा । तथा "नकुलीनजा" दुष्टा । अकुलीनजो हि दुष्टो भवति । तथा "विप्रलम्भने" परवञ्चने । यत्"तात्पर्यम्" । तस्य "हेतुश्" चासौ "उग्रमृगतृष्णिका" कठिनमृगतृष्णास्वरूपा ॥ ंोट्_१,१२.१७ ॥ लहरीवैकरूपेण क्षणं पदमकुर्वती । चला दीपशिखेवाति दुर्ज्ञेयागतिगोचरा ॥ ंो_१,१२.१८ ॥ न "गतौ" गमने गोचरा "अगतिगोचरा" । "दीपशिखा"पि गतौ अगोचरा एव भवति ॥ ंोट्_१,१२.१८ ॥ सिंहीव विग्रहव्यग्रकरीन्द्रकुलपातिनी । खड्गधारेव शिशिरा तीक्ष्णा तीक्ष्णाशयाश्रया ॥ ंो_१,१२.१९ ॥ "विग्रहव्यग्रं" युद्धव्यग्रम् । यत्"करीन्द्रकुलं" हस्तिकुलम् । तत्र पततीति तादृशी तत्साध्यत्वात् । "सिंही" चेदृशी भवति । "शिशिरा" आमुखे सन्तापहरित्वात् । "तीक्ष्णाशयाः" कठिनचिन्ताः । "आश्रयः" यस्याः । सा ॥ ंोट्_१,१२.१९ ॥ नानयोपहतार्थिन्या दुराधिपरिपीनया । पश्याम्यभव्यया लक्ष्म्या किञ्चिद्दुःखादृते सुखम् ॥ ंो_१,१२.२० ॥ "उपहतान्" अज्ञानबाधितान् । "अर्थते" आलम्बनत्वेन काङ्क्षतीति तादृश्या ॥ ंोट्_१,१२.२० ॥ द्वारेणोत्सारिता लक्ष्मीः पुनरेति तमोऽरिणा । अहो वत हृतस्थाना निर्लज्जा दुर्जनास्पदा ॥ ंो_१,१२.२१ ॥ "तमोऽरिणा" गेहान्तर्गततमोनिवारणार्थं कल्पितेन क्षुद्रद्वारेण ॥ ंोट्_१,१२.२१ ॥ सर्गान्तश्लोकेन श्रीनिन्दां समापयति मनोरमा कर्षति चित्तवृत्तिं कदर्यसाध्या क्षणभङ्गुरा च । व्यालावलीगर्भनिवृत्तदेहा श्वभ्रोत्थिता पुष्पलतेव लक्ष्मीः ॥ ंो_१,१२.२२ ॥ "कदर्यसाध्या" कुकर्मसाध्या । श्रीपक्षे "व्यालावली" दुःखावली । इति शिवम् ॥ ंोट्_१,१२.२२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वादशः सर्गः ॥ १,१२ ॥ ************************************************************************ एवं श्रीनिन्दां कृत्वा जीवितनिन्दां करोति आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् । उन्मत्तमिव सन्त्यज्य यात्यकाण्डे शरीरकम् ॥ ंो_१,१३.१ ॥ "आयुः" जीवितम् । "याती"ति सम्बन्धः । "अकाण्डे" असमये । तत्सम्मतिरूपं समयमुल्लङ्घ्येति यावत् ॥ ंोट्_१,१३.१ ॥ विषयाशीर्विषासङ्गपरिजर्जरचेतसाम् । अप्रौढात्मविवेकानामायुरायासकारणम् ॥ ंो_१,१३.२ ॥ स्पष्टम् ॥ ंोट्_१,१३.२ ॥ ये तु विज्ञातविज्ञेया विश्रान्ता वितते पदे । भावाभावसमाश्वस्ता आयुस्तेषां सुखायते ॥ ंो_१,१३.३ ॥ "विश्रान्ता" आत्मत्वे निश्चिताः । "वितते" अपरिमिते । "भावाभावेषु" प्रवाहागतेषु नाशोत्पादेषु । "समाश्वस्ताः" स्वभावादप्रच्युताः ॥ ंोट्_१,१३.३ ॥ वयं परिमिताकारपरिनिष्ठितनिश्चयाः । संसाराभ्रतडित्पुञ्जे मुने नायुषि निर्वृताः ॥ ंो_१,१३.४ ॥ "परिमितः" पारिमित्ययुक्तः । यः "आकारः" देहादिरूपः आकारः । तत्र "परिनिष्ठितः" निष्ठां गतः । "निश्चयः" आत्मनिश्चयः । येषाम् । ते । "निर्वृतिर्" हि अपरिमितस्वरूपनिष्ठत्वमिति भावः ॥ ंोट्_१,१३.४ ॥ युज्यते वेष्टनं वायावाकाशस्य च खण्डनम् । ग्रथनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ंो_१,१३.५ ॥ "आस्था" दृढताविश्वासः ॥ ंोट्_१,१३.५ ॥ पेलवं शरदीवाभ्रमस्नेहमिव दीपकम् । तरङ्गकमिवालोलं गतमेवोपलक्ष्यते ॥ ंो_१,१३.६ ॥ आयुरिति शेषः । "पेलवं" लघु ॥ ंोट्_१,१३.६ ॥ तरङ्गप्रतिबिम्बेन्दुं तडित्पुञ्जं नभोऽम्बुदम् । ग्रहीतुमास्थां बध्नामि न त्वायुषि गतस्थितौ ॥ ंो_१,१३.७ ॥ स्पष्टम् ॥ ंोट्_१,१३.७ ॥ अविश्रान्तमनाः शून्यमायुराततमीहते । दुःखायैव विमूढोऽन्तर्गर्भमश्वतरी यथा ॥ ंो_१,१३.८ ॥ "अश्वतरी" खरस्त्रियामश्वाज्जाता वडवा । तस्या "गर्भः" कुक्षिपाटनं विना न निर्याति ॥ ंोट्_१,१३.८ ॥ संसारसंसृतावम्भःफेनोऽस्मिन् सर्गसागरे । कायवल्ल्यां रसो राजञ्जीवितं मे न रोचते ॥ ंो_१,१३.९ ॥ "सर्गसागरे" कथम्भूते । "संसारे" "संसृतिः" संसरणम् । यस्य । तादृशे । "अम्भःफेनः" अम्भोविकारः फेनः । दशरथं प्रति इयमुक्तिः ॥ ंोट्_१,१३.९ ॥ प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते । पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ ंो_१,१३.१० ॥ "पराया" उत्कृष्टायाः ॥ ंोट्_१,१३.१० ॥ तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेन न जीवति ॥ ंो_१,१३.११ ॥ "मननेन" भोगानुसन्धानेन ॥ ंोट्_१,१३.११ ॥ जातास्त एव जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जानीत गर्दभाः ॥ ंो_१,१३.१२ ॥ यूयं "जानीत" । किमित्यपेक्षायामाह । "शेषा" इति । "शेषा" "गर्दभाः" भवन्ति ॥ ंोट्_१,१३.१२ ॥ भारोऽविवेकिनः शास्त्रं भारो ज्ञानं च रागिणः । अशान्तं च मनो भारो भारोऽनात्मविदो वपुः ॥ ंो_१,१३.१३ ॥ "अविवेकिनः" विवेकरहितस्य । "भार"त्वं च "शास्त्रा"देः सम्यग्ज्ञानाद्यर्थक्रियाकारित्वाभावेन ज्ञेयम् ॥ ंोट्_१,१३.१३ ॥ रूपमायुर्मनो बुद्धिरहङ्कारस्तथेहितम् । भारो भारधरस्येव सर्वं दुःखाय दुर्धियः ॥ ंो_१,१३.१४ ॥ "दुर्धियः" बुद्धिरहितस्य । बुद्धिरहितो हि "रूपा"दौ समतया पारवश्यं याति । ततश्च दुःखे निमज्जति ॥ ंोट्_१,१३.१४ ॥ अविश्रान्तमनःपूर्णमापदां परमास्पदम् । नीडो रोगविहङ्गानामायुरायासनं दृढम् ॥ ंो_१,१३.१५ ॥ "आयुः" कथम्भूतम् । "अविश्रान्तम्" परमपदविश्रान्तिरहितम् । यन् "मनस्" । तेन "पूर्णम्" ॥ ंोट्_१,१३.१५ ॥ प्रत्यहं खेदमुत्सृज्य शनैरलमनारतम् । आश्वेव जन्मनः श्वभ्रं कालेन विनिखन्यते ॥ ंो_१,१३.१६ ॥ कालनाश्यत्वं हि आयुषः प्रसिद्धम् ॥ ंोट्_१,१३.१६ ॥ शरीरबिलविश्रान्तैर्विषदाहप्रदायिभिः । रोगैर्निपीयते रौद्रैर्व्यालैरिव वनानिलः ॥ ंो_१,१३.१७ ॥ आयुरिति शेषः ॥ ंोट्_१,१३.१७ ॥ प्रसुवानैरवच्छेदं तुच्छैरन्तरवासिभिः । दुःखैराकृष्यते क्रूरैर्घुणैरिव जरद्द्रुमः ॥ ंो_१,१३.१८ ॥ "अवच्छेदं" छेदनम् । "प्रसुवानैर्" उत्पादयद्भिः । "आकृष्यते" स्ववशं नीयते ॥ ंोट्_१,१३.१८ ॥ नूनं निगिरणायाशु घनगर्वमनारतम् । आखुर्मार्जारकेणेव मरणेनावलोक्यते ॥ ंो_१,१३.१९ ॥ "अवलोक्यते" कदा एतत्ग्रसे इति दृश्यते ॥ ंोट्_१,१३.१९ ॥ गर्वादिगुणगर्भिण्या शून्ययाशक्तिवश्यया । अन्नं महाशनेनेव जरसा परिजीर्यते ॥ ंो_१,१३.२० ॥ "अशक्तिवश्यया" अशक्तिग्रस्तया ॥ ंोट्_१,१३.२० ॥ दिनैः कतिपयैरेव परिज्ञाय गतादरम् । दुर्जनः सज्जनेनेव यौवनेनावमुच्यते ॥ ंो_१,१३.२१ ॥ स्पष्टम् ॥ ंोट्_१,१३.२१ ॥ विनाशसुहृदा नित्यं जरामरणबन्धुना । रूपं शिड्गवरेणेव कृतान्तेनाभिलष्यते ॥ ंो_१,१३.२२ ॥ स्पष्टम् ॥ ंोट्_१,१३.२२ ॥ सर्गान्तश्लोकेन जीवितनिन्दां समापयति स्थिरतया सुखहारितया तया सततमुज्झितमुत्तम फल्गु च । जगति नास्ति तथा गुणवर्जितम् मरणमार्जितमायुरिदं यथा ॥ ंो_१,१३.२३ ॥ "उत्तमे"त्यामन्त्रणम् । "फल्गु" निःसारम् । "मरणेन" "मार्जितं" सङ्क्षिप्तम् । इति शिवम् ॥ ंोट्_१,१३.२३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोदशः सर्गः ॥ १,१३ ॥ ************************************************************************ अधुनाहङ्कारनिन्दां प्रस्तौति मुधैवाभ्युत्थितो मोहान्मुधैव परिवर्धते । मिथ्यामयेन भीतोऽस्मि दुरहङ्कारशत्रुणा ॥ ंो_१,१४.१ ॥ "मिथ्यामयेन" मिथ्यास्वरूपेण ॥ ंोट्_१,१४.१ ॥ अहङ्कारवशादेव दोषकोशः कदर्थनाम् । ददाति दीनदीनानां संसारो विविधाकृतिः ॥ ंो_१,१४.२ ॥ "कदर्थनां" दुःखम् ॥ ंोट्_१,१४.२ ॥ अहङ्कारवशादापदहङ्काराद्दुराधयः । अहङ्कारवशादीहाप्यहङ्कारो महामयः ॥ ंो_१,१४.३ ॥ "ईहा" भोगार्थं चेष्टा ॥ ंोट्_१,१४.३ ॥ तमहङ्कारमाश्रित्य परमं चिरवैरिणम् । न भुञ्जे न पिबाम्यम्भः किमु भोगान् भजे मुने ॥ ंो_१,१४.४ ॥ स्पष्टम् ॥ ंोट्_१,१४.४ ॥ संसाररज्जुरादीर्घा मम चेतसि मोहिनी । तताहङ्कारदोषेण किरातेनेव वागुरा ॥ ंो_१,१४.५ ॥ "अहङ्कारदोषेणा"हङ्काराख्येन दोषेण ॥ ंोट्_१,१४.५ ॥ यानि दुःखानि दीर्घाणि विषमाणि महान्ति च । अहङ्कारात्प्रसूतानि तान्यगात्खदिरा इव ॥ ंो_१,१४.६ ॥ "अगात्" पर्वतात् ॥ ंोट्_१,१४.६ ॥ शमेन्दोः सैंहिकेयास्यं गुणिपद्ममहाशनिम् । ज्ञानमेघशरत्कालमहङ्कारं त्यजाम्यहम् ॥ ंो_१,१४.७ ॥ स्पष्टम् ॥ ंोट्_१,१४.७ ॥ अहङ्कारत्यागमेव करोति नाहं रामो न मे वाञ्छा भावेषु न च मे मनः । शान्त आसितुमिच्छामि स्वात्मन्येव जिनो यथा ॥ ंो_१,१४.८ ॥ देहस्यैव रामत्वात् । मम चिन्मात्रत्वादिति भावः । "शान्तः" अहङ्काररहितः ॥ ंोट्_१,१४.८ ॥ अहङ्कारवशाद्यद्यन्मया भुक्तं कृतं हृतम् । सर्वं तत्तदवस्त्वेव वस्त्वहङ्काररिक्तता ॥ ंो_१,१४.९ ॥ "अहङ्काररिक्तता" अहङ्कारराहित्यम् ॥ ंोट्_१,१४.९ ॥ अहमित्यस्ति चेद्ब्रह्मन्नहमापदि दुःखितः । सम्पत्सु सुखितस्तस्मादनहङ्कारिता धनः ॥ ंो_१,१४.१० ॥ धनयुक्तस्य एव हि आपत्सु सम्पत्सु च दुःखादिस्पर्शो न भवतीति पूर्ववाक्ये भावः । फलितमाह "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनहङ्कारिता धनः" धनं भवति । देहात्मत्वे निश्चितः पुरुषो हि देहार्थं भोगजालमिच्छन् भोगराहित्यरूपायामापदि दुःखी भवति । तत्सम्पत्तिरूपायां सम्पदि सुखी भवति । चिन्मात्रात्मत्वे निश्चितोऽहं न तादृशो भवामीति भावः ॥ ंोट्_१,१४.१० ॥ अहङ्कारं परित्याज्य मुने शान्तमनास्तथा । अवतिष्ठे गतोद्वेगो भोगौघेऽभङ्गुरास्पदम् ॥ ंो_१,१४.११ ॥ "अवतिष्ठे" तिष्ठामि । "अहङ्कारं" कथम्भूतम् । "भोगौघे" भोगसमूहे । "अभङ्गुरास्पदम्" अनश्वरप्रतिष्ठम् ॥ ंोट्_१,१४.११ ॥ ब्रह्मन् यावदहङ्कारवारिदः प्रविजृम्भते । तावद्विकासमायाति तृष्णाकुटजमञ्जरी ॥ ंो_१,१४.१२ ॥ स्पष्टम् ॥ ंोट्_१,१४.१२ ॥ अहङ्कारघने शान्ते तृष्णानवतडिल्लता । शान्तदीपशिखावृत्त्या क्वापि यास्यति सत्वरम् ॥ ंो_१,१४.१३ ॥ स्पष्टम् ॥ ंोट्_१,१४.१३ ॥ अहङ्कारमहाविन्ध्ये मनोमत्तमतङ्गजः । विस्फूर्जति घनास्फोटैः स्तनितैरिव वारिदः ॥ ंो_१,१४.१४ ॥ "विस्फूर्जति" विलसति । "घनास्फोटैः" निविडकर्णतालैः ॥ ंोट्_१,१४.१४ ॥ इह देहमहादर्यां घनाहङ्कारकेसरी । योऽयमुल्लसति स्फारं तेनेदं जगदाततम् ॥ ंो_१,१४.१५ ॥ अनहङ्कारित्वे हि सदपि जगन्नास्ति अपेक्षाविषयत्वाभावात् ॥ ंोट्_१,१४.१५ ॥ तृष्णातन्तुलवप्रोता बहुजन्मपरम्परा । अहङ्कारोग्रशिड्गेन कण्ठे मुक्तावली कृता ॥ ंो_१,१४.१६ ॥ "शिड्गो" हि "तन्तुप्रोताम्" "मुक्तावलीं" "कण्ठे" करोति ॥ ंोट्_१,१४.१६ ॥ पुत्रदारकलत्राणि तन्त्रं मन्त्रविवर्जितम् । प्रसारितमनेनेह दुरहङ्कारवैरिणा ॥ ंो_१,१४.१७ ॥ स्पष्टम् ॥ ंोट्_१,१४.१७ ॥ प्रमार्जितेऽहमित्यस्मिन् पदे स्वयमखिद्यता । प्रमार्जिता भवन्त्येव सर्वा एव दुराधयः ॥ ंो_१,१४.१८ ॥ स्पष्टम् ॥ ंोट्_१,१४.१८ ॥ अहमित्यम्बुदे शान्ते शनैः सुशमशालिनि । मनोमननसम्मोहमिहिका क्वापि गच्छति ॥ ंो_१,१४.१९ ॥ "मनसः" यः "मननसम्मोहः" मननरूपः । स एव "मिहिका" नीहारः ॥ ंोट्_१,१४.१९ ॥ निरहङ्कारवृत्तेर्मे मौर्ख्याच्छोकेन सीदतः । यत्किञ्चिदुचितं ब्रह्मंस्तदाख्यातुमिहार्हसि ॥ ंो_१,१४.२० ॥ प्रथममहङ्कारं स्वयमेव त्यजामि । पश्चात्त्वदुक्तं करोमीति भावः ॥ ंोट्_१,१४.२० ॥ सर्गान्तश्लोकेनाहङ्कारनिन्दां समापयति सर्वापदां निलयमध्रुवमन्तरस्थम् उन्मुक्तमुत्तमगुणेन न संश्रयामि । यत्नादहङ्कृतिपदं परितोऽतिदुःखम् शेषेण मां समनुशाधि महानुभाव ॥ ंो_१,१४.२१ ॥ "अहङ्कृतिपदम्" अहङ्कृत्याख्यं स्थानम् । "शेषेणे"ति अहङ्काराश्रयणं त्यक्त्वा यत्किञ्चित्समाज्ञापयसि तत्सम्पादयामीति भावः । अहङ्कारश्च इदन्ताविषयत्वयोग्ये देहे अहन्ताविषयत्वसञ्जननं ज्ञेयम् । इति शिवम् ॥ ंोट्_१,१४.२१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्दशः सर्गः ॥ १,१४ ॥ ************************************************************************ एवमहङ्कारनिन्दां कृत्वा चित्तनिन्दां प्रस्तौति दोषैर्जर्जरतां यातं सत्कार्यादार्यसेवितात् । वातात्तपिञ्छलववच्चेतश्चलति चञ्चलम् ॥ ंो_१,१५.१ ॥ "दोषैः" रागादिदोषैः । "सत्कार्यात्" "चलति" सत्कार्ये स्थैर्येण न तिष्ठतीत्यर्थः ॥ ंोट्_१,१५.१ ॥ इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति । दूराद्दूरतरं दीनं ग्रामे कौलेयको यथा ॥ ंो_१,१५.२ ॥ "कौलेयकः" श्वा ॥ ंोट्_१,१५.२ ॥ न प्राप्नोति क्वचित्किञ्चित्प्राप्तैरपि महाधनैः । नान्तः सम्पूर्णतामेति करण्डक इवाम्बुभिः ॥ ंो_१,१५.३ ॥ किञ्चित्प्राप्तो हि पुनः किञ्चिद्"अपि" न प्रार्थयेदिति भावः ॥ ंोट्_१,१५.३ ॥ नित्यमेव मनः शून्यं कदाशावागुरावृतम् । न मनाङ्निर्वृतिं याति मृगो यूथादिव च्युतः ॥ ंो_१,१५.४ ॥ "शून्यं" निःसारम् ॥ ंोट्_१,१५.४ ॥ तरङ्गतरलां वृत्तिं दधदालूनशीर्णताम् । परित्यज्य क्षणमपि न मनो याति निर्वृतिम् ॥ ंो_१,१५.५ ॥ "आलूनशीर्णतां" हस्तस्पर्शासहत्वम् । मतिचाञ्चल्यमिति यावत् ॥ ंोट्_१,१५.५ ॥ मनो मननविक्षुब्धं दिशो दश विधावति । मन्दराहननोद्भूतं क्षीरार्णवपयो यथा ॥ ंो_१,१५.६ ॥ "मननविक्षुब्धम्" भोगानुसन्धानक्षुब्धम् ॥ ंोट्_१,१५.६ ॥ कल्लोलकलनावर्तं मायामकरमालितम् । न निरोद्धुं समर्थोऽस्मि मनोमोहमहार्णवम् ॥ ंो_१,१५.७ ॥ "कल्लोल"रूपा या "कलना" सङ्कल्पः । सैव्"आवर्तः" यस्य । तत् । "माया" विपर्ययज्ञानम् ॥ ंोट्_१,१५.७ ॥ भोगदूर्वाङ्कुराकाङ्क्षी श्वभ्रपातमचिन्तयन् । मनोहरिणको ब्रह्मन् दूरं विपरिधावति ॥ ंो_१,१५.८ ॥ स्पष्टम् ॥ ंोट्_१,१५.८ ॥ न कदाचन मे चेतस्तामालूनविशीर्णताम् । त्यजत्याकुलया वृत्त्या चञ्चलत्वमिवार्णवः ॥ ंो_१,१५.९ ॥ "आलूनविशीर्णतां" हस्तस्पर्शासहत्वम् । मतिचाञ्चल्यमिति यावत् ॥ ंोट्_१,१५.९ ॥ चेतश्चञ्चलया वृत्त्या चिन्तानिचयचञ्चुरम् । धृतिं बध्नाति नैकत्र केसरी पञ्जरे यथा ॥ ंो_१,१५.१० ॥ "चिन्तानिचयेन" चिन्तासमूहेन । "चञ्चुरं" निर्भरम् ॥ ंोट्_१,१५.१० ॥ मनो मोहरथारूढं शरीराच्छमतासुखम् । हरत्युपगतोद्योगं हंसः क्षीरमिवाम्भसः ॥ ंो_१,१५.११ ॥ स्पष्टम् ॥ ंोट्_१,१५.११ ॥ अनल्पकल्पनातल्पे निलीनाश्चित्तवृत्तयः । मुनीन्द्र न प्रबुध्यन्ते तेन तप्तोऽहमाकुलः ॥ ंो_१,१५.१२ ॥ कल्पनाग्रस्तमेव सदासन्मनोऽस्तीति भावः ॥ ंोट्_१,१५.१२ ॥ क्रोडीकृतदृढग्रन्थितृष्णासूत्रोम्भितात्मना । विहगो जालकेनेव ब्रह्मन् बद्धोऽस्मि चेतसा ॥ ंो_१,१५.१३ ॥ "ग्रन्थयो"ऽत्र रागादिरूपा ज्ञेयाः ॥ ंोट्_१,१५.१३ ॥ सततामर्षधूमेन चिन्ताज्वालाबिलेन च । वह्निनेव तृणं शुष्कं मुने दग्धोऽस्मि चेतसा ॥ ंो_१,१५.१४ ॥ "सततममर्षः" क्रोध एव । "धूमः" यस्य । तादृशेन ॥ ंोट्_१,१५.१४ ॥ क्रूरेण जडतां यातस्तृष्णाभार्यानुगामिना । शवः कौलेयकेनेव ब्रह्मन् भुक्तोऽस्मि चेतसा ॥ ंो_१,१५.१५ ॥ स्पष्टम् ॥ ंोट्_१,१५.१५ ॥ तरङ्गतरलास्फालवृत्तिना जडरूपिणा । तटवृक्ष इवौघेन ब्रह्मन्नीतोऽस्मि चेतसा ॥ ंो_१,१५.१६ ॥ "तरङ्ग"वत्"तरलास्फाला" अत्यन्तचञ्चला । "वृत्तिः" यस्य । तादृशेन ॥ ंोट्_१,१५.१६ ॥ अवान्तरनिपाताय शून्येनाक्रमणाय च । तृणं चण्डानिलेनेव दूरे नुन्नोऽस्मि चेतसा ॥ ंो_१,१५.१७ ॥ "अवान्तरेषु" भोगरूपेषु परमविश्रान्तिरहितेषु पदेषु । यः "निपातस्" । तस्मै । "आक्रमणाय" आक्रमणार्थम् । "शून्येने"ति मनोविशेषणम् ॥ ंोट्_१,१५.१७ ॥ संसारजलधेरस्मान्नित्यमुत्तरणोन्मुखः । सेतुनेव पयःपूरो रोधितोऽस्मि कुचेतसा ॥ ंो_१,१५.१८ ॥ स्पष्टम् ॥ ंोट्_१,१५.१८ ॥ पातालाद्गच्छता पृष्ठं पृष्ठात्पातालगामिना । कूपकाष्ठं कुदाम्नेव वेष्टितोऽस्मि कुचेतसा ॥ ंो_१,१५.१९ ॥ स्पष्टम् ॥ ंोट्_१,१५.१९ ॥ मिथ्यैव स्फाररूपेण विचारविशरारुणा । बालो वेतालकेनेव गृहीतोऽस्मि स्वचेतसा ॥ ंो_१,१५.२० ॥ "गृहीतः" स्ववशीकृतः ॥ ंोट्_१,१५.२० ॥ वह्नेरुष्णतरः शैलादपि कष्टतरक्रमः । वज्रादपि दृढो ब्रह्मन् दुर्निग्रहमनोग्रहः ॥ ंो_१,१५.२१ ॥ "कष्टतरः" "क्रमः" उल्लङ्घनं यस्य । सः "कष्टतरक्रमः" । "दुर्निग्रहं" दुःखेन निर्ग्रहीतुं शक्यम् । यत्"मनः" । तस्य "ग्रहः" ग्रहनम् । "दुर्निग्रहमनोग्रहः" ॥ ंोट्_१,१५.२१ ॥ चेतः पतति कार्येषु विहगश्चामिषेष्विव । क्षणेन विरतिं याति बालः क्रीडनकादिव ॥ ंो_१,१५.२२ ॥ स्पष्टम् ॥ ंोट्_१,१५.२२ ॥ जडप्रकृतिरालोलो विततावर्तवृत्तिमान् । मनोऽब्धिरीहितव्यालो दूरान्नयति तात माम् ॥ ंो_१,१५.२३ ॥ "जडप्रकृतिः" जडस्वभावः शीतप्रकृतिश्च । "विततावर्ता" एव "वृत्तयः" यस्य । सः । "ईहितानि" काङ्क्षितानि एव "व्यालाः" सर्पाः । यस्य । सः । चेष्टायुक्तसर्पाश्च यस्मिन् । सः । "दूरान्" "नयति" नानाविषयेषु भ्रमयति ॥ ंोट्_१,१५.२३ ॥ यदीदृशं मनस्तवास्ति तर्हि तस्य निग्रहं कुर्वित्य् । अत्राह अप्यब्धिपानान्महतः सुमेरूल्लङ्घनादपि । अपि वह्न्यशनात्साधो विषमश्चित्तनिग्रहः ॥ ंो_१,१५.२४ ॥ स्पष्टम् ॥ ंोट्_१,१५.२४ ॥ ननु चित्तनिग्रहो दुःसाध्य एव भवतु । किं तेन सेत्स्यतीत्य् । अत्राह चित्तं कारणमर्थानां तस्मिन् सति जगत्त्रयम् । तस्मिन् क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ ंो_१,१५.२५ ॥ स्पष्टम् ॥ ंोट्_१,१५.२५ ॥ चित्तादिमानि सुखदुःखशतानि नूनम् अभ्यागतान्यगवरादिव काननानि । तस्मिन् विवेकवशतस्तनुतां प्रयाते मन्ये मुने निपुणमेव गलन्ति तानि ॥ ंो_१,१५.२६ ॥ "इमानि" अनुभूयमानानि । "अगवरात्" पर्वतश्रेष्ठात् । "निपुणं" सम्यक् ॥ ंोट्_१,१५.२६ ॥ सर्गान्तश्लोकेन चित्तनिन्दां समापयति सकलगुणजयाशा यत्र बद्धा महद्भिस् तमरिमिह विजेतुं चित्तमभ्युत्थितोऽहम् । विगतरतितयान्तर्नाभिनन्दामि लक्ष्मीं जडमलिनविशालां मेघमालामिवेन्दुः ॥ ंो_१,१५.२७ ॥ "यत्र" यस्मिन्मनसि । "अभ्युत्थितः" उद्योगयुक्तो जातः । इति शिवम् ॥ ंोट्_१,१५.२७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चदशः सर्गः ॥ १,१५ ॥ ************************************************************************ एवं मनोनिन्दां कृत्वा तृष्णानिन्दां प्रस्तौति हार्दान्धकारशर्वर्या तृष्णयेह दुरन्तया । चरन्ति चेतनाकाशे दोषकौशिकपङ्क्तयः ॥ ंो_१,१६.१ ॥ "चेतनाकाशे" चित्ताकाशे । "दोषाः" रागादयः । युक्तं च शर्वर्यां कौशिकचरणम् ॥ ंोट्_१,१६.१ ॥ अन्तर्दाहप्रदायिन्या समूढरसमार्दवः । पङ्क आदित्यदीप्त्येव शोषं नीतोऽस्मि चिन्तया ॥ ंो_१,१६.२ ॥ "समूढं" धृतम् । "रसमार्दवम्" आस्वादकृतं जलकृतं च मार्दवं येन । सः । "चिन्ता" चात्र तृष्णा एव ज्ञेया । तृष्णायाः चिन्तारूपत्वानपायात् । एवमुत्तरत्रापि ज्ञेयम् ॥ ंोट्_१,१६.२ ॥ मम चित्तमहारण्ये व्यामोहतिमिराकुले । शून्ये ताण्डविनी मत्ता भृशमाशा पिशाचिका ॥ ंो_१,१६.३ ॥ "आशा" तृष्णा ॥ ंोट्_१,१६.३ ॥ रजोरचितनीहारा काञ्चनावचयोज्ज्वला । नूनं विकासमायाति चिन्ता मेऽशोकमञ्जरी ॥ ंो_१,१६.४ ॥ "नूनं" निश्चये । "चिन्ता" "अशोकमञ्जरी" "मे" "विकासम्" "आयाति" । कथम्भूता । "रजसा" स्वयमुत्पादितेन लोभेन । "रचितः" "नीहारः" जाड्यं यया । सा । "रजसा" परागेण । "रचितः" उत्पादितः । "नीहारः" यया सेति च । "काञ्चनावचयेन" काञ्चनसङ्ग्रहेण । "उज्ज्वला" ज्वलन्ती । काञ्चनावचयवतुज्ज्वला च ॥ ंोट्_१,१६.४ ॥ अलमन्तर्भ्रमायैषा तृष्णा कवलिताशया । आयाता विमलोल्लासमूर्मिरम्बुनिधाविव ॥ ंो_१,१६.५ ॥ "अन्तर्" मनसि । "भ्रमाय" मिथ्याज्ञानाय ॥ ंोट्_१,१६.५ ॥ उद्दामकल्लोलरवा देहाद्रौ वहतीव मे । तरङ्गिततराकारा तरतृष्णातरङ्गिणी ॥ ंो_१,१६.६ ॥ तरन्ती चासौ तृष्णातरङ्गिणी "तरतृष्णातरङ्गिणी" ॥ ंोट्_१,१६.६ ॥ वेगं संरोद्धुमुदितो वात्ययेव जरत्तृणम् । नीतः कलुषया क्वापि धियायं चित्तचातकः ॥ ंो_१,१६.७ ॥ "वेगं" स्वकीयं वेगम् । "धिया" तृष्णाविष्टया बुद्ध्या ॥ ंोट्_१,१६.७ ॥ यां यामहमधीतास्थामाश्रयामि गुणश्रियम् । तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ ंो_१,१६.८ ॥ "अधीतास्थाम्" शिक्षितदार्ढ्यम् । दृढामिति यावत् ॥ ंोट्_१,१६.८ ॥ पयसीव जरत्पर्णं वायाविव जरत्तृणम् । नभसीव शरन्मेघश्चिन्ताचक्रे भ्रमाम्यहम् ॥ ंो_१,१६.९ ॥ "चिन्ताचक्रे" तृष्णाचक्रे ॥ ंोट्_१,१६.९ ॥ गन्तुमास्पदमात्मीयमसमर्थधियो वयम् । चिन्ताजाले विमुह्यामो जाले शकुनयो यथा ॥ ंो_१,१६.१० ॥ "आत्मीयमास्पदम्" परमात्मतत्त्वाख्यं निजं स्थानम् ॥ ंोट्_१,१६.१० ॥ तृष्णाभिधानया तात दग्धोऽस्मि ज्वालया तथा । यथा दाहोपशमनमाशङ्के नामृतैरपि ॥ ंो_१,१६.११ ॥ स्पष्टम् ॥ ंोट्_१,१६.११ ॥ दूरं दूरमितो गत्वा समेत्य च पुनः पुनः । भ्रमत्याशु दिगन्तेषु तृष्णोन्मत्ता तुरङ्गमी ॥ ंो_१,१६.१२ ॥ स्पष्टम् ॥ ंोट्_१,१६.१२ ॥ जडसंसङ्गिणी तृष्णा कृतोर्ध्वाधोगमागमा । क्षुब्धा ग्रन्थिमती नित्यमरघट्टोग्ररज्जुवत् ॥ ंो_१,१६.१३ ॥ "ग्रन्थिमती" रागादिग्रन्थियुक्ता ॥ ंोट्_१,१६.१३ ॥ अन्तर्ग्रथितया देहे सम्भ्रमोच्छिद्यमानया । रज्ज्वेवाशु बलीवर्दस्तृष्णया वाह्यते जनः ॥ ंो_१,१६.१४ ॥ "देहे" शरीरे । "सम्भ्रमेण" न तु युक्त्या । "उच्छिद्यमानया" नाशयितुमारब्धया । "वाह्यते" यत्र तत्र नीयते ॥ ंोट्_१,१६.१४ ॥ पुत्रदारकलत्रादितृष्णया नित्यकृष्णया । खगेष्विव किरात्येह जालं लोकेषु रच्यते ॥ ंो_१,१६.१५ ॥ "पुत्रादिभिर्" एव हि लोकः संसारे बन्धमाप्नोति ॥ ंोट्_१,१६.१५ ॥ भाययत्यपि धीरेहमन्धयत्यपि सेक्षणम् । खेदयत्यपि सानन्दं तृष्णा कृष्णेव शर्वरी ॥ ंो_१,१६.१६ ॥ स्पष्टम् ॥ ंोट्_१,१६.१६ ॥ कुटिला कोमलस्पर्शा विषवैषम्यशंसिनी । दहत्यपि मनाक्स्पृष्टा तृष्णा कृष्णेव भोगिनी ॥ ंो_१,१६.१७ ॥ स्पष्टम् ॥ ंोट्_१,१६.१७ ॥ भिनत्ति हृदयं पुंसां मायामयविधायिनी । दौर्भाग्यदायिनी दीना तृष्णा कृष्णेव राक्षसी ॥ ंो_१,१६.१८ ॥ "माया" एव्"आमयः" रोगस्। तं करोतीति तादृशी । "दौर्भाग्यदायिनी" वैवर्ण्यकारिणी ॥ ंोट्_१,१६.१८ ॥ तन्द्रातन्त्रीगणं कोशे दधाना परिवेष्टितम् । नानन्दे राजते ब्रह्मंस्तृष्णाजर्जरवल्लकी ॥ ंो_१,१६.१९ ॥ "तन्द्राः" विषयेष्ववसादाः । ता एव "तन्त्र्यस्" । तासां "गणस्" । तं "परिवेष्टितं" सम्यक्बद्धम् । "आनन्दे" विश्रान्त्यवस्थारूपे आनन्दे नाट्ये च ॥ ंोट्_१,१६.१९ ॥ नित्यमेवातिमलिना कटुकोन्मादशालिनी । दीर्घा तन्वी घनस्नेहा तृष्णागह्वरवल्लरी ॥ ंो_१,१६.२० ॥ "तृष्णा" एव "गह्वरवल्लरी" श्वभ्रलता ॥ ंोट्_१,१६.२० ॥ अनानन्दकरी शून्या निष्फलात्यर्थमुन्नता । अमङ्गलकरी क्रूरा तृष्णा क्षीणेव मञ्जरी ॥ ंो_१,१६.२१ ॥ "क्षीणा मञ्जरी" निस्सारा मञ्जरी ॥ ंोट्_१,१६.२१ ॥ अनावर्जितचित्तापि सर्वमेवानुधावति । न चाप्नोति फलं किञ्चित्तृष्णा जीर्णेव कामिनी ॥ ंो_१,१६.२२ ॥ "अनावर्जितचित्ता" अरम्यत्वादवशीकृतजनहृदया ॥ ंोट्_१,१६.२२ ॥ संसारनृत्ते महति नानारससमाकुले । भुवनाभोगरङ्गेषु तृष्णा जरढनर्तकी ॥ ंो_१,१६.२३ ॥ "नानारसाः" सुखादिरूपाः शृङ्गारादिरूपाश्च ॥ ंोट्_१,१६.२३ ॥ जरा कुसुमिता रूढा पातोत्पातफलावलिः । संसारजङ्गले दीर्घे तृष्णाविषलता तता ॥ ंो_१,१६.२४ ॥ "रूढा" प्ररोहं गता ॥ ंोट्_१,१६.२४ ॥ यन्न शक्नोति तत्रापि धत्ते ताण्डवितां गतिम् । नृत्यत्यानन्दरहितं तृष्णा जीर्णेव नर्तकी ॥ ंो_१,१६.२५ ॥ स्पष्टम् ॥ ंोट्_१,१६.२५ ॥ भृशं स्फुरति नीहारे शाम्यत्यालोक आगते । दुःखौघेषु पदं धत्ते तृष्णाचपलवर्हिणी ॥ ंो_१,१६.२६ ॥ "नीहारे" मोहे । "आलोके" ज्ञाने ॥ ंोट्_१,१६.२६ ॥ जडकल्लोलबहला चिरं शून्यतरान्तरा । क्षणमुल्लासमायाति तृष्णाप्रावृट्तरङ्गिणी ॥ ंो_१,१६.२७ ॥ "जडकल्लोलैः" जाड्यरूपैः कल्लोलैः जलकल्लोलैश्च ॥ ंोट्_१,१६.२७ ॥ नष्टमुत्सृज्य तिष्ठन्तं वृक्षाद्वृक्षमिवा परम् । पुरुषात्पुरुषं याति तृष्णा लोलेव पक्षिणी ॥ ंो_१,१६.२८ ॥ "तृष्णा" "नष्टम्" "पुरुषम्" "उत्सृज्य" "पुरुषात्" तस्मान्नष्टात्पुरुषात् । "परम्" अन्यरूपम् । "तिष्ठन्तं" स्थितियुक्तम् । "पुरुषमा याति" । का "इव" । "पक्षिणीव" । यथा "पक्षिणी" "नष्टं वृक्षम्" परित्यज्य "वृक्षात्" तस्मात्नष्टात् । "अपरम्" अन्यरूपम् । "तिष्ठन्तं वृक्षं याति" । तथेत्यर्थः ॥ ंोट्_१,१६.२८ ॥ पदं करोत्यलङ्घ्येऽपि तृप्तापि फलमीहते । चिरं तिष्ठति नैकत्र तृष्णाचपलमर्कटी ॥ ंो_१,१६.२९ ॥ स्पष्टम् ॥ ंोट्_१,१६.२९ ॥ इदं कृत्वेदमायाति सर्वमेवासमञ्जसम् । अनारतं च यतते तृष्णा चेष्टेव दैविकी ॥ ंो_१,१६.३० ॥ "दैविकी" दैवसम्बन्धिनी ॥ ंोट्_१,१६.३० ॥ क्षणमायाति पातालं क्षणं याति नभस्तलम् । क्षणं भ्रमति दिक्कुञ्जे तृष्णाहृत्पद्मषट्पदी ॥ ंो_१,१६.३१ ॥ स्पष्टम् ॥ ंोट्_१,१६.३१ ॥ सर्वसंसारदोषाणां तृष्णैका दीर्घदुःखदा । अन्तःपुरस्थमपि या योजयत्यतिसङ्कटे ॥ ंो_१,१६.३२ ॥ "दोषाणाम्" इति निर्धारणे षष्ठी । दीर्घदुःखत्वमेवोत्तरार्धेन कथयति "अन्तःपुरस्थम्" इति ॥ ंोट्_१,१६.३२ ॥ प्रयच्छति परं जाड्यं परमालोकरोधिनी । मोहनीहारगहना तृष्णाजलदमालिका ॥ ंो_१,१६.३३ ॥ स्पष्टम् ॥ ंोट्_१,१६.३३ ॥ सर्वेषां जन्तुजालानां संसारव्यवहारिणाम् । परिप्रोतमनोमालास्तृष्णा बन्धनरज्जवः ॥ ंो_१,१६.३४ ॥ स्पष्टम् ॥ ंोट्_१,१६.३४ ॥ विचित्रवर्णा विगुणा दीर्घा मलिनसंस्थितिः । शून्याशून्यास्पदा तृष्णा शक्रकार्मुकधर्मिणी ॥ ंो_१,१६.३५ ॥ मलिनास्पदत्वं शक्रकार्मुकपक्षे मेघाश्रयत्वेन ज्ञेयम् ॥ ंोट्_१,१६.३५ ॥ अशनिर्गुणसस्यानां फलिता शरदापदे । हिमं सम्पत्सरोजिन्यास्तमसां दीर्घयामिनी ॥ ंो_१,१६.३६ ॥ तृष्णा का । "आपदे" आपदर्थम् । "फलिता" "शरत्" फलयुक्ता शरद् । आपत्प्रदेत्यर्थः ॥ ंोट्_१,१६.३६ ॥ संसारनाटकनटी कायालयविहङ्गमी । मानसारण्यहरिणी स्मरसङ्गीतवल्लकी ॥ ंो_१,१६.३७ ॥ स्पष्टम् ॥ ंोट्_१,१६.३७ ॥ व्यवहाराब्धिलहरी मोहमातङ्गशृङ्खला । मार्गन्यग्रोधसुभगा दुःखकैरवचन्द्रिका ॥ ंो_१,१६.३८ ॥ "मार्गे" "न्यग्रोध"च्छायावत्परिणामदुःखावहेत्यर्थः ॥ ंोट्_१,१६.३८ ॥ जरामरणदुःखानामेका रत्नसमुद्गिका । आधिव्याधिविलासानां नित्यमत्ता विलासिनी ॥ ंो_१,१६.३९ ॥ "समुद्गिका" पेटिका ॥ ंोट्_१,१६.३९ ॥ क्षणमालोकविमला सान्धकारलवा क्षणम् । व्योमवीथीसमा तृष्णा नीहारगहना क्षणम् ॥ ंो_१,१६.४० ॥ स्पष्टम् ॥ ंोट्_१,१६.४० ॥ गच्छतूपशमं तृष्णा कार्यव्यायामशान्तये । तमी घनतमःकृष्णा यथा रक्षोनिवृत्तये ॥ ंो_१,१६.४१ ॥ "कार्य"कृतः यः "व्यायामः" । तस्य "शान्तये" । "तमी" रात्रिः ॥ ंोट्_१,१६.४१ ॥ तावन्मुह्यत्ययं लोको मूको विलुलिताशयः । यावदेवानुसन्धत्ते तृष्णाविषविषूचिकाम् ॥ ंो_१,१६.४२ ॥ "विषविषूचिका" विषभक्षणकृतो रोगविशेषः ॥ ंोट्_१,१६.४२ ॥ लोकोऽयमखिलं दुःखं चिन्तयोज्झित उज्झति । चिन्ताविषूचिकामन्त्रश्चिन्तात्यागो हि कथ्यते ॥ ंो_१,१६.४३ ॥ "दुःखं" चिन्तास्वरूपं दुःखम् ॥ ंोट्_१,१६.४३ ॥ तृणपाषाणकाष्ठादि सर्वमामिषशङ्कया । आदधाना स्फुरत्यन्तस्तृष्णा मत्स्यी ह्रदे यथा ॥ ंो_१,१६.४४ ॥ स्पष्टम् ॥ ंोट्_१,१६.४४ ॥ रोगार्तिरङ्गगा तृष्णा गम्भीरमपि मानवम् । उत्तानतां नयत्याशु सूर्यांशव इवाम्बुजम् ॥ ंो_१,१६.४५ ॥ "उत्तानताम्" उत्तानपाणित्वम् । याचकभावमिति यावत् ॥ ंोट्_१,१६.४५ ॥ अहो बत महच्चित्रं तृष्णामपि महाधियः । दुश्छेदामपि कृन्तन्ति विवेकेनामलासिना ॥ ंो_१,१६.४६ ॥ स्पष्टम् ॥ ंोट्_१,१६.४६ ॥ नासिधारा न वज्राग्निर्न तप्तायःकणार्चिषः । तथा तीक्ष्णा यथा ब्रह्मंस्तृष्णेयं हृदि संस्थिता ॥ ंो_१,१६.४७ ॥ स्पष्टम् ॥ ंोट्_१,१६.४७ ॥ कज्जलासिततीक्ष्णाग्राः स्नेहदीर्घदशापराः । प्रकाशा दाहदस्पर्शास्तृष्णा दीपशिखा इव ॥ ंो_१,१६.४८ ॥ "कज्जलासिताश्" च ताः "तीक्ष्णाग्राश्" च । "स्नेहः" रागः तैलं च । "दशा" अवस्था वर्तिश्च ॥ ंोट्_१,१६.४८ ॥ अपि मेरूपमं प्राज्ञमपि शूरमपि स्थिरम् । तृणीकरोति तृष्णैका निमेषेण नरोत्तमम् ॥ ंो_१,१६.४९ ॥ "तृणीकरोति" लघूकरोतीत्यर्थः ॥ ंोट्_१,१६.४९ ॥ विस्तीर्णगहना भीमा घनजालरजोमयी । सान्धकारोग्रनीहारा तृष्णा विन्ध्यमहाटवी ॥ ंो_१,१६.५० ॥ "विस्तीर्णा" चासौ "गहना" च । विन्ध्यमहाटवीपक्षे "विस्तीर्णानि गहनानि" यस्याः । सेति । "घना" चासौ बन्धकत्वात्"जाल"रूपा च । तादृशी चासौ "रजोमयी" च रजोगुणमयी च । मेघजालेन रजसा च व्याप्तेत्यटवीपक्षे । "सान्धकारा" अज्ञानान्ध्ययुक्ता । "उग्रनीहारा" कठिनमोहयुक्ता ॥ ंोट्_१,१६.५० ॥ सर्गान्तश्लोकेन तृष्णानिन्दां समापयति एकैव सर्वभुवनान्तरलब्धलक्ष्या दुर्लक्षतामुपगतैव पुरःस्थितेव । तृष्णा स्थिता जगति चञ्चलवीचिमाले क्षीरार्णवाम्बुपटले मधुरेव शक्तिः ॥ ंो_१,१६.५१ ॥ "दुर्लक्षताम्" "उपगतैवा"त्यन्तासत्त्वादिति भावः । "मधुरा शक्तिः" माधुर्याख्यो गुणः । इति शिवम् ॥ ंोट्_१,१६.५१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षोडशः सर्गः ॥ १,१६ ॥ ************************************************************************ एवं तृष्णानिन्दां कृत्वा शरीरनिन्दां प्रस्तौति आर्द्रान्त्रतन्त्रीगहनो विकारी परितापवान् । देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ॥ ंो_१,१७.१ ॥ "आर्द्रा" रक्तार्द्राः । याः "अन्त्रतन्त्र्यः" । ताभिः "गहनः" दुर्गमः । "विकारी" रोगवान् ॥ ंोट्_१,१७.१ ॥ देहमेव विस्तरेण विशिनष्टि अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः । युक्त्या भव्योऽप्यभव्यो मे न जडो नापि चेतनः ॥ ंो_१,१७.२ ॥ "अज्ञोऽपि" पाषाणतुल्यत्वेनाचेतनोऽपि । "तज्ज्ञसदृशः" प्रमातृत्वेन भासमानत्वात् । "वलिते"ति देहाहम्भावनयैव परम्"आत्मचमत्कारो" व्यवधानं याति । "युक्त्या" योगादिरूपया युक्त्या । "भव्योऽपि" श्रेष्ठोऽपि मोक्षसाधनत्वात् । "मे अभव्यः" मद्दृष्ट्याभव्यः ॥ ंोट्_१,१७.२ ॥ जडाजडदृशोर्मध्ये दोलायितदुराशयः । न विवेकी न मूढात्मा मोहमेव प्रयच्छति ॥ ंो_१,१७.३ ॥ "जडत्वे" पाषाणवत्चेष्टाश्रयो न स्यात् । "अजडत्वे" ग्राह्यतां न यायादिति भावः ॥ ंोट्_१,१७.३ ॥ स्तोकेनानन्दामायाति स्तोकेनायाति खिन्नताम् । नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ॥ ंो_१,१७.४ ॥ "नीचो" हि "स्तोकेनानन्दमायाति खिन्नतां" च्"आयाति" ॥ ंोट्_१,१७.४ ॥ आगमापायिना नित्यं दन्तकेसरशालिना । विकासिस्मितपुष्पेण प्रतिक्षणमलङ्कृतः ॥ ंो_१,१७.५ ॥ स्पष्टम् ॥ ंोट्_१,१७.५ ॥ भुजशाखौघनमितो द्विजानुस्तम्भसुस्थितः । लोचनालिवनाक्रान्तः शिरःपीठबृहत्फलः ॥ ंो_१,१७.६ ॥ स्पष्टम् ॥ ंोट्_१,१७.६ ॥ स्रवदस्रुरसस्रोता हस्तपादसुपल्लवः । गुल्फवान् कार्यसङ्घातविहङ्गमततास्पदम् ॥ ंो_१,१७.७ ॥ "कार्यसङ्घातविहङ्गमानां ततं" विस्तीर्णम् । "आस्पदम्" ॥ ंोट्_१,१७.७ ॥ सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदम् । कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ॥ ंो_१,१७.८ ॥ "आस्थानास्थे" इति उपेक्षा एवात्र युक्तेति भावः ॥ ंोट्_१,१७.८ ॥ भारसन्तारणार्थेन गृहीतायां पुनः पुनः । नावि देहलतायां च कस्य स्यादात्मभावना ॥ ंो_१,१७.९ ॥ देहपक्षे "भारसन्तारणार्थेन" संसारभारसमाप्तये । देहं विना हि संसारो नश्यति ॥ ंोट्_१,१७.९ ॥ देहनाम्नि वने शून्ये बहुगर्तसमाकुले । तनूरुहासङ्ख्यतरौ विश्वासं कोऽधिगच्छति ॥ ंो_१,१७.१० ॥ "गर्ताः" अत्र विषयाः ॥ ंोट्_१,१७.१० ॥ चर्मस्नाय्वस्थिवलिते शरीरपटहे दृढे । मार्जारवदहं नान्तस्तिष्ठाम्यविरतध्वनौ ॥ ंो_१,१७.११ ॥ "स्नायवः" सूक्ष्मनाड्यः "पटहा"न्तरे । "मार्जारो" हि तत्र "न" तिष्ठति ॥ ंोट्_१,१७.११ ॥ संसारारण्यसंरूढो विलसच्चित्तमर्कटः । चिन्तामञ्जरिकाकारो दीर्घदुःखघुणक्षतः ॥ ंो_१,१७.१२ ॥ तृष्णाभुजङ्गमीदेहः कोपकाककृतालयः । स्मितपुष्पो द्रुमः श्रीमाञ्शुभाशुभमहाफलः ॥ ंो_१,१७.१३ ॥ सुस्कन्धो दोर्लताजालो हस्तस्तबकसुन्दरः । पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ॥ ंो_१,१७.१४ ॥ सर्वेन्द्रियखगाधारः सुजानुः सुत्वगुन्नतः । सरसच्छायया युक्तः कामपान्थनिषेवितः ॥ ंो_१,१७.१५ ॥ मूर्ध्नि सञ्जनितादीर्घशिरोरुहतृणावलिः । अहङ्कारजरद्गृद्धकुलायसुषिरोदरः ॥ ंो_१,१७.१६ ॥ उच्छिन्नवासनाजालमूलत्वाद्दुर्बलाकृतिः । व्यायामविरमः कायवृक्षोऽयं न सुखाय मे ॥ ंो_१,१७.१७ ॥ "अहङ्कार" एव "गृद्धः" । तस्य "कुलाय"भूतं यत्"सुषिरं" विवरम् । तत्"उदरे" यस्य । तत्तादृशम् । "दुर्बलाकृतिः" शिथिलाकृतिः । "वासनया" अहम्भावेन गृहीत एव हि देहः दृढाकृतिः भवति । "व्यायामेन" आघातेन । "विरमः" नाशो यस्य । तादृशः । कुलकम् ॥ ंोट्_१,१७.१२१७ ॥ कलेवरमहङ्कारगृहस्थस्य महागृहम् । लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने हि मे ॥ ंो_१,१७.१८ ॥ न हि परगृहस्य लुठने स्थैर्ये वा सुखदुःखे युक्ते इति भावः ॥ ंोट्_१,१७.१८ ॥ पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गनम् । रजोरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ॥ ंो_१,१७.१९ ॥ अनेन देहस्य ग्रामीणगृहसदृशत्वमुक्तम् ॥ ंोट्_१,१७.१९ ॥ काष्ठास्थिकाष्ठसङ्घट्टपरिसङ्कटकोटरम् । अन्त्रदामभिराबद्धं नेष्टं देहगृहं मम ॥ ंो_१,१७.२० ॥ "काष्ठ" इति काष्ठरूपम् "अस्थिकाष्ठं" । तस्य यः "सङ्घट्टः" निःसन्धिबन्धमवस्थानम् । तेन "परिसङ्कटं" परितः सम्बाधम् । "कोटरं" यस्य । तादृशम् । "अन्त्रदामभिर्" अन्त्ररज्जुभिः ॥ ंोट्_१,१७.२० ॥ प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् । जरामक्कोलधवलं नेष्टं देहगृहं मम ॥ ंो_१,१७.२१ ॥ स्पष्टम् ॥ ंोट्_१,१७.२१ ॥ चित्रकृत्यभृतानन्तचेष्टावष्टब्धसंस्थिति । मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ॥ ंो_१,१७.२२ ॥ "चित्रकृत्येषु" नानाविधकार्येषु । "भृताः" धारिताः । याः "अनन्तचेष्टाः" । ताभिर्"अवष्टब्धा" भरिता । "संस्थितिः" यस्य । तत् । गृहपक्षे "चित्रकृत्यानि" आलेख्यानि । "मिथ्यामोहः" मिथ्याज्ञानमेव "महास्थूणा" यस्य । तत्तादृशम् । मिथ्याज्ञानेनैव हि देहो धार्यते ॥ ंोट्_१,१७.२२ ॥ दुःखार्भककृताक्रन्दं सुखशय्यामनोहरम् । दुरीहादग्धदासीकं नेष्टं देहगृहं मम ॥ ंो_१,१७.२३ ॥ "सुखान्य्" एव "शय्याः" । ताभिः "मनोहरम्" । "दुरीहाः" कुत्सिताः काङ्क्षा एव "दग्धदास्यः" हतदास्यः यस्य ॥ ंोट्_१,१७.२३ ॥ मलाढ्यविषयिव्यूहभाण्डोपस्करसङ्कटम् । अज्ञानक्षारवलितं नेष्टं देहगृहं मम ॥ ंो_१,१७.२४ ॥ "विषयीणि" इन्द्रियाणि । "क्षारम्" भस्म ॥ ंोट्_१,१७.२४ ॥ गुल्फगुल्गुलुविश्रान्तजानूच्चस्तम्भमस्तकम् । दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ॥ ंो_१,१७.२५ ॥ "गुल्गुलुः" स्तम्भाधारभूता शिला ॥ ंोट्_१,१७.२५ ॥ प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् । चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ॥ ंो_१,१७.२६ ॥ स्पष्टम् ॥ ंोट्_१,१७.२६ ॥ मूर्धजच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् । आदीर्घाङ्गुलिनिर्यूहं नेष्टं देहगृहं मम ॥ ंो_१,१७.२७ ॥ "छन्ना" आवृता । "चन्द्रशालिका" शिरोगृहम् । "निर्यूहः" बहिर्गतदारु ॥ ंोट्_१,१७.२७ ॥ सर्वाङ्गकुड्यसञ्जातघनरोमयवाङ्कुरम् । संशून्यपीठपिठिरं नेष्टं देहगृहं मम ॥ ंो_१,१७.२८ ॥ "पीठपिठिरम्" मध्यदेशः ॥ ंोट्_१,१७.२८ ॥ नखोर्णनाभनिलयैः शारमारणितान्तरम् । भाङ्कारकारिपवनं नेष्टं देहगृहं मम ॥ ंो_१,१७.२९ ॥ "निलयाः" आलयाः । "शारं" शवलम् ॥ ंोट्_१,१७.२९ ॥ प्रवेशनिर्गमव्यग्रवातवेगमनारतम् । वितताक्षगवाक्षं च नेष्टं देहगृहं मम ॥ ंो_१,१७.३० ॥ "वातः" प्राणवातः ॥ ंोट्_१,१७.३० ॥ जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् । दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ंो_१,१७.३१ ॥ स्पष्टम् ॥ ंोट्_१,१७.३१ ॥ त्वक्सुधालेपमसृणं यन्त्रसञ्चारचञ्चलम् । मनोमन्दाखुनोत्खातं नेष्टं देहगृहं मम ॥ ंो_१,१७.३२ ॥ "यन्त्र"वद्यः "सञ्चारः" । तेन "चञ्चलम्" ॥ ंोट्_१,१७.३२ ॥ स्मितदीपप्रभाभासि क्षणमानन्दसुन्दरम् । क्षणं व्याप्तं प्रभापूरैर्नेष्टं देहगृहं मम ॥ ंो_१,१७.३३ ॥ स्पष्टम् ॥ ंोट्_१,१७.३३ ॥ समस्तरोगायतनं वलीपलितपत्तनम् । सर्वाधिसारङ्गवनं नेष्टं मम कलेवरम् ॥ ंो_१,१७.३४ ॥ "सर्वाधय" एव "सारन्गाः" । तेषां "वनम्" ॥ ंोट्_१,१७.३४ ॥ अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा । तमोगहनहृत्कुञ्जा नेष्टा देहाटवी मम ॥ ंो_१,१७.३५ ॥ "अक्षाणि" एव "ऋक्षास्" । तेषां यः "क्षोभः" । तेन "विषमा" । "तमः" अज्ञानमन्धकारं च ॥ ंोट्_१,१७.३५ ॥ देहालयं धारयितुं न शक्तोऽस्मि मुनीश्वर । पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ॥ ंो_१,१७.३६ ॥ "देहालयं" देहाख्यं गृहम् ॥ ंोट्_१,१७.३६ ॥ किं श्रिया किं च कायेन किं मानेन किमीहया । दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ॥ ंो_१,१७.३७ ॥ स्पष्टम् ॥ ंोट्_१,१७.३७ ॥ रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने । नाशैकधर्मिणो ब्रूहि केव कायस्य रम्यता ॥ ंो_१,१७.३८ ॥ नाशस्य एकः धर्मी "नाशैकधर्मी" । तस्य ॥ ंोट्_१,१७.३८ ॥ मरणावसरे काया जीवं नानुसरन्ति ये । तेषु तात कृतघ्नेषु केवास्था वत धीमतः ॥ ंो_१,१७.३९ ॥ स्पष्टम् ॥ ंोट्_१,१७.३९ ॥ मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः । न सन्त्यजति मां यावत्तावदेनं त्यजाम्यहम् ॥ ंो_१,१७.४० ॥ अहन्ताविषयत्वेनाग्रहणादिति भावः ॥ ंोट्_१,१७.४० ॥ पवनस्पन्दतरलः पेलवः कायपल्लवः । जर्जरस्तनुवृत्तश्च नेष्टोऽयं कटुनीरसः ॥ ंो_१,१७.४१ ॥ तनुश्चासौ वृत्तश्च "तनुवृत्तः" ॥ ंोट्_१,१७.४१ ॥ भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवम् । तनुतामेत्ययत्नेन विनाशमनुधावति ॥ ंो_१,१७.४२ ॥ आदौ "तनुताम्" "एति" । ततोऽ"यत्नेन" "विनाशम्" "अनुधावति" ॥ ंोट्_१,१७.४२ ॥ तान्येव सुखदुःखानि भावाभावमयान्यसौ । भूयोऽप्यनुभवन् कायः प्राकृतो हि न लज्जते ॥ ंो_१,१७.४३ ॥ स्पष्टम् ॥ ंोट्_१,१७.४३ ॥ सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् । नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ॥ ंो_१,१७.४४ ॥ "किमिति" किमर्थम् । "पाल्यते" रक्ष्यते ॥ ंोट्_१,१७.४४ ॥ जराकाले जरामेति मृत्युकाले तथा मृतिम् । सममेव विशेषज्ञ कायो भोगिदरिद्रयोः ॥ ंो_१,१७.४५ ॥ हे "विशेषज्ञ" । "भोगिदरिद्रयोः" "कायः" "सममेव" निर्विशेषमेव । "जराकाले" "जराम्" "एति" । "तथा" "मृतिकाले" "मृतिम्" एति । अतः शरीरभोगसाधनार्थं यत्नो व्यर्थ एवेति भावः ॥ ंोट्_१,१७.४५ ॥ संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे । सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ॥ ंो_१,१७.४६ ॥ "कच्छपः" कूर्मः । "कुहरकं" रन्ध्रम् ॥ ंोट्_१,१७.४६ ॥ दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः । संसाराब्धाविवोह्यन्ते कञ्चित्तेषु नरं विदुः ॥ ंो_१,१७.४७ ॥ "दहना"ख्यो यः "एकः अर्थः" प्रयोजनम् । तत्र "योग्यानि" । कञ्चित्ज्ञातज्ञेयजीवाश्रयमित्यर्थः । "तेषु" इति निर्धारणे सप्तमी । अन्ये पशव इव इति भावः ॥ ंोट्_१,१७.४७ ॥ दीर्घदौरात्म्यचलया निपातफलयानया । न देहलतया कार्यं किञ्चिदस्ति विवेकिनः ॥ ंो_१,१७.४८ ॥ "निपातफलया" नाशफलया । "विवेकिनः" आत्मविचारयुक्तस्य ॥ ंोट्_१,१७.४८ ॥ मज्जन् कर्दमकोशेषु झगित्येवं जरां गतः । न ज्ञायते यात्यचिरात्क्व कथं देहदर्दुरः ॥ ंो_१,१७.४९ ॥ "देह" एव "दर्दुरः" भेकः ॥ ंोट्_१,१७.४९ ॥ निःसारसकलारम्भाः कायाश्चपलवायवः । रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ॥ ंो_१,१७.५० ॥ "रजोमार्गेण" लोभमार्गेण धूलिमर्गेण च ॥ ंोट्_१,१७.५० ॥ वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः । आगच्छतश्च भगवन्न शरीरशरस्य नः ॥ ंो_१,१७.५१ ॥ "नः" अस्मत्सम्बन्धिन इत्यर्थः ॥ ंोट्_१,१७.५१ ॥ बद्धाशा ये शरीरेषु बद्धाशा ये जगत्स्थितौ । तान्मोहमदिरोन्मत्तान् धिग्धिगस्तु पुनः पुनः ॥ ंो_१,१७.५२ ॥ स्पष्टम् ॥ ंोट्_१,१७.५२ ॥ नाहं देहस्य नो देहो मम नायमहं तथा । इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ॥ ंो_१,१७.५३ ॥ "अहं तथा" तद्वत् । "अयं" देहो । नास्मि ॥ ंोट्_१,१७.५३ ॥ मानावमानबहुला बहुलाभमनोरमाः । शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ॥ ंो_१,१७.५४ ॥ "दोषदृशः" रागादिरूपाः । "बहुलाभमनोरम"त्वमामुखे ज्ञेयम् ॥ ंोट्_१,१७.५४ ॥ शरीरसङ्गशायिन्या पिशाच्या पेशलाङ्गया । अहङ्कारचमत्कृत्या छलेन च्छलिता वयम् ॥ ंो_१,१७.५५ ॥ शरीरोत्सङ्गेति वा पाठः ॥ ंोट्_१,१७.५५ ॥ प्रज्ञा वराकी सर्वैव कायबद्धास्थयानया । मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ॥ ंो_१,१७.५६ ॥ राक्षसी हि एककमेव च्छलयति ॥ ंोट्_१,१७.५६ ॥ न किञ्चिदपि यस्यास्ति सत्यं तेन हतात्मना । चित्रं दग्धशरीरेण जनता विप्रलभ्यते ॥ ंो_१,१७.५७ ॥ "किञ्चिदपि" विप्रलम्भकरणं किमपि वस्तु । "विप्रलभ्यते" वञ्च्यते ॥ ंोट्_१,१७.५७ ॥ दिनैः कतिपयैरेव निर्झराम्बुकणो यथा । पतत्ययमयत्नेन जर्जरः कायपल्लवः ॥ ंो_१,१७.५८ ॥ स्पष्टम् ॥ ंोट्_१,१७.५८ ॥ कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव । व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ॥ ंो_१,१७.५९ ॥ "कार्यपरावर्ते" संसारे ॥ ंोट्_१,१७.५९ ॥ मिथ्याज्ञानविकारेऽस्मिन् स्वप्नसम्भ्रमपत्तने । काये स्फुटतरापाये क्षणमास्था न मे द्विज ॥ ंो_१,१७.६० ॥ "स्वप्नसम्भ्रमपत्तने" स्वप्नसम्भ्रमदृष्टपत्तनतुल्ये इत्यर्थः ॥ ंोट्_१,१७.६० ॥ तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च । स्थैर्यं येन विनिर्णीतं स विश्वसिति विग्रहे ॥ ंो_१,१७.६१ ॥ "विश्वसिति" विश्वासं करोति ॥ ंोट्_१,१७.६१ ॥ सर्गान्तश्लोकेन शरीरनिन्दां समापयति सततभङ्गुरकार्यपरम्परा विजयि जातजयं शठवृत्तिषु । सकलदोषमिदं कुकलेवरं तृणमिवाहमुपोज्झ्य सुखं स्थितः ॥ ंो_१,१७.६२ ॥ "सततभङ्गुराः" याः "कार्यपरम्पराः" । तासु "विजयः" अस्यास्तीति तादृशम् । भङ्गुरकार्यपरम्परासाधनमिति यावत् । अत एव "शठवृत्तिषु" कुत्सितव्यापारेषु । "जातजयम्" । इति शिवम् ॥ ंोट्_१,१७.६२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तदशः सर्गः ॥ १,१७ ॥ ************************************************************************ एवं शरीरनिन्दां कृत्वा तत्प्रथमावस्थारूपस्य बाल्यस्य निन्दां प्रस्तौति लब्ध्वापि तरलाकारे कार्यभारतरङ्गिणि । संसारसागरे जन्म बाल्यं दुःकाय केवलम् ॥ ंो_१,१८.१ ॥ स्पष्टम् ॥ ंोट्_१,१८.१ ॥ तत्कृतं दुःखमेव विस्तरेण कथयति अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता । गृध्नुता लोलता दैन्यं सर्वं बाल्ये प्रवर्तते ॥ ंो_१,१८.२ ॥ स्पष्टम् ॥ ंोट्_१,१८.२ ॥ रोषरोदनरौद्रीषु दैन्यजर्जरितासु च । दशासु बन्धनं बाल्यमालानं करिणीष्विव ॥ ंोट्_१,१८.३ ॥ "दशास्व्" इति वैषयिके आधारे सप्तमी । बध्यते अस्मिन्निति "बन्धनम्" ॥ ंोट्_१,१८.३ ॥ न मृतौ न जरारोगे न चापदि न यौवने । ताश्चिन्ता न निकृन्तन्ति हृदयं शैशवेषु याः ॥ ंो_१,१८.४ ॥ जरा एव रोगः "जरारोगस्" । तस्मिन् ॥ ंोट्_१,१८.४ ॥ तिर्यग्जातिसमारम्भः सर्वैरेवावधीरितः । लोलो बालजनाचारो मरणादपि दुःखदः ॥ ंो_१,१८.५ ॥ "तिर्यग्जाति"वत्"समारम्भः" यस्य । सः । पशुजातितुल्यसमारम्भ इत्यर्थः ॥ ंोट्_१,१८.५ ॥ प्रतिबिम्बं घनाज्ञानां नानासङ्कल्पपेलवम् । बाल्यमालूनसंशीर्णमनः कस्य सुखावहम् ॥ ंो_१,१८.६ ॥ "बाल्यं" कथम्भूतम् । "आलूनसंशीर्णम्" अत्यन्तचञ्चलम् । "मनः" यस्मिन् । तत्तादृशम् । "घनाज्ञानाम्" अत्यन्तजडानाम् । "प्रतिबिम्बं" दृष्टान्तः ॥ ंोट्_१,१८.६ ॥ जडश्यामलयाजस्रं जातभीत्या पदे पदे । यद्भयं शैशवे बुद्ध्या कस्यामापदि तद्भवेत् ॥ ंो_१,१८.७ ॥ "बुद्ध्या" "भयं" बुद्धिकृतं भयम् । न कस्यामपीति भवः ॥ ंोट्_१,१८.७ ॥ लीलासु दुर्विलासेषु दुरीहासु दुराशये । परमं मोहमादत्ते बालो बलवदापदम् ॥ ंो_१,१८.८ ॥ "दुराशये" कुत्सिते चित्ते । "मोहं" कथम्भूतम् "बलवती" "आपद्" यस्मात् । तत्तादृशम् ॥ ंोट्_१,१८.८ ॥ विकल्पकलिलारम्भं दुर्विलासं दुरास्पदम् । शैशवं शासनायैव पुरुषस्य न शान्तये ॥ ंो_१,१८.९ ॥ "शासनाय" मारणाय । "शान्तये" सुखाय ॥ ंोट्_१,१८.९ ॥ ये दोषा ये दुराचारा दुष्क्रमा ये दुराधयः । ते सर्वे संस्थिता बाल्ये दुर्गर्त इव कौशिकाः ॥ ंो_१,१८.१० ॥ "कौशिकाः "घूकाः ॥ ंोट्_१,१८.१० ॥ बाल्यं रम्यमिति व्यर्थबुद्धयः कथयन्ति ये । तान्मूर्खपुरुषान् ब्रह्मन् धिगस्तु हतचेतसः ॥ ंो_१,१८.११ ॥ स्पष्टम् ॥ ंोट्_१,१८.११ ॥ यत्र लोलाकृति मनः परिस्फुरति वृत्तिषु । त्रैलोक्यराज्यमपि तत्कथं वहति तुष्टये ॥ ंो_१,१८.१२ ॥ "त्रैलोक्यराज्यम्" "अपि" त्रैलोक्यराज्यरूपमपि । "वहति" प्रभवति ॥ ंोट्_१,१८.१२ ॥ सर्वेषामेव सत्त्वानां सर्वावस्थासु चैव हि । मनश्चञ्चलतामेति बाल्ये दशगुणं मुने ॥ ंो_१,१८.१३ ॥ "तु"शब्दोऽध्याहार्यः । हे "मुने" । "बाल्ये" तु "मनः" "दशगुणं" "चञ्चलताम्" "एति" ॥ ंोट्_१,१८.१३ ॥ मनः प्रकृत्यैव चलं बाल्यं च चलतावरम् । तयोः संश्लिष्टयोः तात केनैवान्तः कुचापले ॥ ंो_१,१८.१४ ॥ "चलतायां वरम्" प्रधानम् । बहुचलमित्यर्थः । हे "तात" । "तयोः" मनोबालतयोः । "संश्लिष्टयोः" सत्योः । "कुचापले" "केनैव" प्रकारेण्"आन्तः" अवसानं स्यात् । न केनापीत्यर्थः ॥ ंोट्_१,१८.१४ ॥ स्त्रीलोचनैस्तडित्पुञ्जैर्ज्वालामालैस्तरङ्गकैः । चापलं शिक्षितं ब्रह्मञ्शैशवान्मनसोऽथ वा ॥ ंो_१,१८.१५ ॥ "स्त्रीलोचना"दिभ्योऽपि "शैशवं" चलमिति भावः ॥ ंोट्_१,१८.१५ ॥ शैशवं च मनश्चैव सर्वास्वेव हि वृत्तिषु । भ्रातराविव लक्ष्येते सततं भङ्गुरस्थिती ॥ ंो_१,१८.१६ ॥ "भङ्गुरस्थिती" चलस्थिती ॥ ंोट्_१,१८.१६ ॥ सर्वाणि दुष्टभूतानि सर्वे दोषा दुराशयाः । बाल्यमेवोपजीवन्ति श्रीमन्तमिव मानवाः ॥ ंो_१,१८.१७ ॥ "दुराशयाः" कठिनाः । "उपजीवन्ति" अपेक्षन्ते ॥ ंोट्_१,१८.१७ ॥ नवं नवं प्रीतिकरं न शिशुः प्रत्यहं यदि । प्राप्नोति तदसौ याति विषवेगस्य मूर्छनाम् ॥ ंो_१,१८.१८ ॥ "नवं नवं" नवीनं नवीनं वस्तु ॥ ंोट्_१,१८.१८ ॥ स्तोकेन वशमायाति स्तोकेनैति विकारिताम् । अमेध्य एव रमते बालः कौलेयको यथा ॥ ंो_१,१८.१९ ॥ स्पष्टम् ॥ ंोट्_१,१८.१९ ॥ अजस्रं बाष्पवदनः कर्दमान्तर्जडाशयः । वर्षोक्षितस्य तप्तस्य स्थलस्य सदृशः शिशुः ॥ ंो_१,१८.२० ॥ "कर्दमान्तः" कर्दममध्ये । "जडः आशयः" यस्य । सः तादृशः । "वर्षोक्षितं" "तप्तस्थलम्" अपीदृशमेव भवति ॥ ंोट्_१,१८.२० ॥ भयाहारपरं दीनं यथादृष्टाभिलाषि च । लोलबुद्धिः वपुर्धत्ते बालो दुःखाय केवलम् ॥ ंो_१,१८.२१ ॥ स्पष्टम् ॥ ंोट्_१,१८.२१ ॥ स्वसङ्कल्पाभिलषितान् भावानप्राप्य तप्तधीः । दुःखमेत्यबलो बालो विनिकृत्त इवाशये ॥ ंो_१,१८.२२ ॥ स्पष्टम् ॥ ंोट्_१,१८.२२ ॥ दुरीहालब्धलक्ष्याणि बहुपक्षोल्वणानि च । बालस्य यानि दुःखानि मुने तानि न कस्यचित् ॥ ंो_१,१८.२३ ॥ "दुरीहाभिस्" तत्कर्तृकाभिः दुश्चेष्टाभिः । "लब्धं लक्ष्यम्" आस्पदं यैः । तानि । "बहुः" यः "पक्षः" स्ववर्गः । तेन "उल्वणानि" कठिनानि । शराणामत्रोपमानत्वं व्यङ्ग्यम् ॥ ंोट्_१,१८.२३ ॥ बालो बलवताश्वेन मनोरथविलासिना । मनसा तप्यते नित्यं ग्रीष्मेणेव वनस्थलम् ॥ ंो_१,१८.२४ ॥ "अश्वेने"त्य् । अत्राश्वेवेति पाठः ॥ ंोट्_१,१८.२४ ॥ विद्यागृहगतो बालः परामेति कदर्थनाम् । आलान इव नागेन्द्रो विषवैषम्यभीषणम् ॥ ंो_१,१८.२५ ॥ स्पष्टम् ॥ ंोट्_१,१८.२५ ॥ नानामनोरथमयी मिथ्याकल्पितकल्पना । दुःखायात्यन्तदीर्घाय बालता पेलवाशया ॥ ंो_१,१८.२६ ॥ "पेलवः" जडः । "आशयः" यस्याम् । सा तादृशी ॥ ंोट्_१,१८.२६ ॥ सम्भृष्टं तुहिनं भोक्तुमिन्दुमादातुमम्बरात् । वाञ्छ्यते येन मौर्ख्येण तत्सुखाय कथं भवेत् ॥ ंो_१,१८.२७ ॥ "सम्भृष्टम्" भर्जितम् ॥ ंोट्_१,१८.२७ ॥ अन्तश्चितेरशक्तस्य शीतातपनिवारणे । को विशेषो महाबुद्धे बालस्योर्वीरुहस्य च ॥ ंो_१,१८.२८ ॥ "अन्तश्चितेः" न तु विकसितचितेः । "चितिः" शीतातपज्ञानम् ॥ ंोट्_१,१८.२८ ॥ उड्डीनमभिवाञ्छन्ति पक्षाभ्यां क्षुत्परायणाः । भयाहारपरा नित्यं बाला विहगधर्मिणः ॥ ंो_१,१८.२९ ॥ भयाहारयोः पराः "भयाहारपराः" ॥ ंोट्_१,१८.२९ ॥ शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा । जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥ ंो_१,१८.३० ॥ ज्येष्ठबालो हि कनिष्ठबालं पराभवतीति "ज्येष्ठबालाच्" "चे"त्युक्तम् ॥ ंोट्_१,१८.३० ॥ सर्गान्तश्लोकेन बाल्यनिन्दां समापयति सकलदोषदशाविहताशयं शरणमप्यविवेकविलासिनः । इह न कस्यचिदेव महामुने भवति बाल्यमलं परितुष्टिदम् ॥ ंो_१,१८.३१ ॥ "अविवेक" एव "विलासी" । तस्य "शरणं" गृहम् । अविवेकास्पदमित्यर्थः । "अपि"शब्दः पादपूरणार्थः । इति शिवम् ॥ ंोट्_१,१८.३१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणेऽष्टादशः सर्गः ॥ १,१८ ॥ ************************************************************************ एवं बाल्यनिन्दां कृत्वा क्रमप्राप्तां यौवननिन्दां प्रस्तौति बाल्यानर्थमथ त्यक्त्वा पुमानभिहताशयः । आरोहति निपाताय यौवनं श्वभ्रसम्भ्रमम् ॥ ंो_१,१९.१ ॥ "श्वभ्र"वत्"सम्भ्रमो" यस्मिंस्तादृशम् । "पातश्" चात्र जरागमनरूपः ज्ञेयः ॥ ंोट्_१,१९.१ ॥ तत्रत्यं निपातं विस्तरेण कथयति तत्रानन्तविलासस्य लोलस्य स्वस्य चेतसः । वृत्तीरनुसरन् याति दुःखाद्दुःखान्तरं जडः ॥ ंो_१,१९.२ ॥ "जडः" न तु ज्ञानी ॥ ंोट्_१,१९.२ ॥ स्वचित्तबिलसंस्थेन नानासम्भ्रमकारिणा । बलात्कामपिशाचेन विवशः परिभूयते ॥ ंो_१,१९.३ ॥ पूर्वश्लोकस्थं "तत्रे"ति पदमत्राप्यनुवर्तनीयम् ॥ ंोट्_१,१९.३ ॥ चिन्तानां लोलवृत्तीनां ललनानामिवाभितः । अर्पयत्यवशश्चेतो ज्वालानामात्मजो यथा ॥ ंो_१,१९.४ ॥ "चिन्तानां" कुटुम्बभरणादिविषयाणाम् । यौवने पुरुषः यथा "ललनानां" "चेतः" "अर्पयति" तथा "चिन्तानाम्" अपीति पिण्डार्थः । को यथ्"आत्मजो" बालः "यथा" । "यथा" सः "ज्वालानां" "चेतः अर्पयति" । तथेत्यर्थः ॥ ंोट्_१,१९.४ ॥ ते ते दोषा दुरारम्भास्तत्र तं तादृशाशयम् । तरुणं प्रविलुम्पन्ति दृश्यास्ते नैव ये मुने ॥ ंो_१,१९.५ ॥ "तरुणं" यौवनाविष्टं पुरुषम् । "प्रविलुम्पन्ति" विश्रान्तेः च्यावयन्ति । "ते ते" के । हे "मुने" । "ते" तव । "ये" "दोषाः" "दृश्याः" "नैव" भवन्ति । तेभ्यो निष्क्रान्तत्वादिति भावः । अथ वा "ये दोषाः ते नैव" नान्येन "दृश्याः" भवन्तीति योज्यम् ॥ ंोट्_१,१९.५ ॥ महानरकबीजेन सन्ततभ्रमदायिना । यौवनेन न ये नष्टा नष्टा नान्येन ते जनाः ॥ ंो_१,१९.६ ॥ स्पष्टम् ॥ ंोट्_१,१९.६ ॥ नानारसमयी चिन्तावृत्तान्तनिचयोम्भिता । भीमा यौवनभूर्येन तीर्णा धीरः स उच्यते ॥ ंो_१,१९.७ ॥ स्पष्टम् ॥ ंोट्_१,१९.७ ॥ निमेषभासुराकारमालोलघनगर्जितम् । विद्युत्प्रकाशमनिशं यौवनं मे न रोचते ॥ ंो_१,१९.८ ॥ स्पष्टम् ॥ ंोट्_१,१९.८ ॥ विविधावर्तबहुलं पङ्कलग्नं जडाशयम् । तरङ्गभङ्गुरं भीमं यौवनं मे न रोचते ॥ ंो_१,१९.९ ॥ "आवर्ताः" कामवेगाः । "पङ्कलग्नम्" पापग्रस्तम् । "जडः आशयः" यस्मिंस्। तादृशम् ॥ ंोट्_१,१९.९ ॥ सर्वस्याग्रेसरं पुंसः क्षणमात्रमनोहरम् । गन्धर्वनगरप्रख्यं यौवनं मे न रोचते ॥ ंो_१,१९.१० ॥ "सर्वस्य" "पुंस" इति जातौ एकवचनम् । "अग्रेसरम्" अव्यभिचारीत्यर्थः ॥ ंोट्_१,१९.१० ॥ इषुप्रपातमात्रं हि सुखदं दुःखभासुरम् । दाहदोषप्रदं नित्यं यौवनं मे न रोचते ॥ ंो_१,१९.११ ॥ "इषुप्रपातमात्रं" क्षनमात्रमित्यर्थः ॥ ंोट्_१,१९.११ ॥ मधुरं स्वादु तिक्तं च दूषणं दोषभूषणम् । सुराकल्लोलसदृशं यौवनं मे न रोचते ॥ ंो_१,१९.१२ ॥ "मधुरम्" आपाते । "तिक्तम्" परिणामे ॥ ंोट्_१,१९.१२ ॥ असत्यं सत्यसङ्काशमचिराद्विप्रलम्भदम् । स्वप्नाङ्गनासङ्गसमं यौवनं मे न रोचते ॥ ंो_१,१९.१३ ॥ स्पष्टम् ॥ ंोट्_१,१९.१३ ॥ क्षणप्रकाशतरलं मिथ्यारचितचक्रिकम् । अलातचक्रप्रतिमं यौवनं मे न रोचते ॥ ंो_१,१९.१४ ॥ स्पष्टम् ॥ ंोट्_१,१९.१४ ॥ मृदुस्फारतरोदारमन्तःशून्यं क्षणात्क्षतम् । शरदम्बुदसङ्काशं यौवनं मे न रोचते ॥ ंो_१,१९.१५ ॥ स्पष्टम् ॥ ंोट्_१,१९.१५ ॥ आपातमात्ररमणं सद्भावरहितान्तरम् । वेश्यास्त्रीसङ्गमप्रख्यं यौवनं मे न रोचते ॥ ंो_१,१९.१६ ॥ "सद्भावः" सत्त्वं स्नेहश्च ॥ ंोट्_१,१९.१६ ॥ ये केचन दुरारम्भास्ते सर्वे सर्वदुःखदाः । तारुण्ये सन्निधिं यान्ति महोत्पाता इव क्षये ॥ ंो_१,१९.१७ ॥ स्पष्टम् ॥ ंोट्_१,१९.१७ ॥ हार्दान्धकारकारिण्या भैरवाकारवानपि । यौवनाकारयामिन्या बिभेति भगवानपि ॥ ंो_१,१९.१८ ॥ "हार्दं" हृत्सम्बन्धि । "अन्धकारं" करोतीति तादृश्या । "भगवान्" श्रीमहादेवः । अन्येषां तु का कथेत्य्"अपि"शब्दाभिप्रायः ॥ ंोट्_१,१९.१८ ॥ सुविस्मृतशुभाचारं बुद्धिवैधुर्यदायिनम् । ददात्यतितरामेष भ्रमं यौवनविभ्रमः ॥ ंो_१,१९.१९ ॥ "सुविस्मृतः" "शुभाचारः" यस्मिंस्। तम् ॥ ंोट्_१,१९.१९ ॥ कान्तावियोगजातेन हृदि दुर्धर्षवह्निना । यौवने दह्यते जन्तुस्तरुर्दावाग्निना यथा ॥ ंो_१,१९.२० ॥ "दुर्धर्षवह्निना" दुर्निवार्येण कामाग्निना ॥ ंोट्_१,१९.२० ॥ विस्तीर्णापि प्रसन्नापि पावन्यपि हि यौवने । मतिः कलुषतामेति प्रावृषीव तरङ्गिणी ॥ ंो_१,१९.२१ ॥ स्पष्टम् ॥ ंोट्_१,१९.२१ ॥ शक्यते घनकल्लोलभीमा रोधयितुं नदी । न तु तारुण्यतरला तृष्णातरलितान्तरा ॥ ंो_१,१९.२२ ॥ "तारुण्यतरले"त्यनेन यौवननिन्दैवेयं ज्ञातव्या ॥ ंोट्_१,१९.२२ ॥ सा कान्ता तौ स्तनौ पीनौ ते विलासास्तदाननम् । तारुण्य इति चिन्ताभिर्याति जर्जरतां जनः ॥ ंो_१,१९.२३ ॥ "तारुण्ये" यौवने ॥ ंोट्_१,१९.२३ ॥ तरत्तरलतृष्णार्तं युवानमिह साधवः । पूजयन्ति न तुच्छेहं जरत्तृणलवं यथा ॥ ंो_१,१९.२४ ॥ "तरन्ती" चञ्चलतां गच्छन्ती । या "तरला तृष्णा" । तया "आर्तं" दीनम् ॥ ंोट्_१,१९.२४ ॥ नाशायैव मदान्धस्य दोषमौक्तिकधारिणः । अभिमानमहेभस्य नित्यालानं हि यौवनम् ॥ ंो_१,१९.२५ ॥ "दोषाः" रागादयः । "अभिमान" एवाहङ्कार एव "महेभस्" । तस्य ॥ ंोट्_१,१९.२५ ॥ मनोविपुलमूलानां दोषाशीविषधारिणाम् । रोषरोदनवृक्षाणां यौवनं नवकाननम् ॥ ंो_१,१९.२६ ॥ "रोषेण" यानि "रोदनानि" । तान्येव "वृक्षास्" । तेषाम् ॥ ंोट्_१,१९.२६ ॥ रसकेसरसम्बाधं कुविकल्पदलाकुलम् । दुश्चिन्ताचञ्चरीकाणां पुष्करं विद्धि यौवनम् ॥ ंो_१,१९.२७ ॥ त्वं "यौवनं" । "दुश्चिन्ताः" एव भोगविषयाः कुचिन्ता एव । "चञ्चरीकाः" भ्रमराः । तेषाम् "पुष्करम्" आधारभूतं पद्मम् । "विद्धि" जानीहि । कथम्भूतम् । "रसाः" विषयास्वादा एव । "केसराः" किञ्जल्कास्। तैः "सम्बाधं" सङ्कटम् । तथा "कुविकल्पाः" कुत्सिताः विकल्पा एव "दलानि" । तैः "आकुलं" निर्भरितम् ॥ ंोट्_१,१९.२७ ॥ कृताकृतकुपक्षाणां हृत्सरस्तीरचारिणाम् । आधिव्याधिविहङ्गानामालयो नवयौवनम् ॥ ंो_१,१९.२८ ॥ "कृताकृतौ" विहिताविहितौ एव । "कुपक्षौ" येषाम् । तादृशानाम् । विहितस्यापि धर्माख्यशुद्धाशुद्धिव्युत्थापकत्वेन "कृताकृते"त्युक्तम् ॥ ंोट्_१,१९.२८ ॥ जडानां गतसङ्ख्यानां कल्लोलानां विलासिनाम् । अनपेक्षितमर्यादो वारिधिः पूर्णयौवनम् ॥ ंो_१,१९.२९ ॥ "अनपेक्षितमर्यादः" मर्यादरहित इत्यर्थः ॥ ंोट्_१,१९.२९ ॥ सर्वेषां गुणपर्णानामपनेतुं रजस्ततः । अपनेतुं स्थितो दक्षो विषमो यौवनानिलः ॥ ंो_१,१९.३० ॥ "अपनेतुं" "स्थितः" सर्वापनयनशीलः । "रजसा" रजोगुणेन धूल्या च । "ततः" व्याप्तः । "विषमः" "यौवनानिलः" "सर्वेषां" "गुणपर्णानाम्" "अपनेतुं" दूरीकर्तुम् । "दक्षः" भवति ॥ ंोट्_१,१९.३० ॥ नयन्ति पाण्डुतां वक्त्रमाकुलावकरोत्कटाः । आरोहन्ति परां कोटिं रूक्षा यौवनपांसवः ॥ ंो_१,१९.३१ ॥ "आकुलः" चञ्चलः । यः "अवकरः" सङ्करः । मर्जनीसङ्क्षिप्तं रज इति यावत् । तद्वत्"उत्कटाः" उद्भटाः ॥ ंोट्_१,१९.३१ ॥ उद्बोधयति दोषालीं निकृन्तति गुणावलिम् । नराणां यौवनोल्लासो विलासो दुष्कृतश्रियाः ॥ ंो_१,१९.३२ ॥ स्पष्टम् ॥ ंोट्_१,१९.३२ ॥ शरीरपङ्कजरजश्चञ्चलां मतिषट्पदीम् । निबध्य मोहयत्येष नरं यौवनचन्द्रमाः ॥ ंो_१,१९.३३ ॥ "यौवन"वशेनैव पुरुषः "शरीरा"सक्तो भवतीति भावः ॥ ंोट्_१,१९.३३ ॥ शरीरषण्डकोद्भूता रम्या यौवनवल्लरी । लग्नमेव मनोभृङ्गं मदयत्युन्नतिं गता ॥ ंो_१,१९.३४ ॥ स्पष्टम् ॥ ंोट्_१,१९.३४ ॥ शरीरमरुतापोत्थां युवतां मृगतृष्णिकाम् । मनोमृगाः प्रधावन्तः पतन्ति विषमाटवीम् ॥ ंो_१,१९.३५ ॥ "शरीरम्" एव "मरुः" । तत्र तापोत्थां "शरीरमरुतापोत्थां" । "विषमाटवीं" स्त्रीत्यादिविषयरूपं विषमारण्यम् ॥ ंोट्_१,१९.३५ ॥ शरीरशर्वरीज्योत्स्ना चित्तकेसरिणः सटा । लहरी जीविताम्भोधेर्युवता मे न रोचते ॥ ंो_१,१९.३६ ॥ स्पष्टम् ॥ ंोट्_१,१९.३६ ॥ दिनानि कतिचिद्येयं फलिता देहजङ्गले । युवताशरदस्यां हि न समाश्वासमर्हथ ॥ ंो_१,१९.३७ ॥ "फलिता" कान्ताभोगादिफलयुक्ता ॥ ंोट्_१,१९.३७ ॥ झगित्येष प्रयात्येव शरीराद्युवताखगः । क्षणेनैवाल्पभाग्यस्य हस्ताच्चिन्तामणिर्यथा ॥ ंो_१,१९.३८ ॥ स्पष्टम् ॥ ंोट्_१,१९.३८ ॥ यदा यदा परां कोटिमभ्यारोहति यौवनम् । वल्गन्ति सरसाः कामास्तदा नाशाय केवलम् ॥ ंो_१,१९.३९ ॥ "सरसाः" विषयरसपूर्णाः । "कामाः" अभिलाषाः ॥ ंोट्_१,१९.३९ ॥ तावदेव विवल्गन्ति रागद्वेषपिशाचिकाः । नास्तमेति समस्तैषा यावद्यौवनयामिनी ॥ ंो_१,१९.४० ॥ स्पष्टम् ॥ ंोट्_१,१९.४० ॥ नानाधिकारबहले वराके क्षणनाशिनि । कारुन्यं कुरु तारुण्ये म्रियमाणे सुते यथा ॥ ंो_१,१९.४१ ॥ स्पष्टम् ॥ ंोट्_१,१९.४१ ॥ हर्षमायाति यो मोहात्पुरुषः क्षणभङ्गिना । यौवनेन महामुग्धः स वै नरमृगः स्मृतः ॥ ंो_१,१९.४२ ॥ स्पष्टम् ॥ ंोट्_१,१९.४२ ॥ मानमोहमदोन्मत्तं यौवनं योऽभिलष्यति । अचिरेण सुदुर्बुद्धिः पश्चात्तापेन युज्यते ॥ ंो_१,१९.४३ ॥ "पश्चात्तापेन" तन्नाशकृतेन इत्यर्थः ॥ ंोट्_१,१९.४३ ॥ ते धर्म्यास्ते महात्मानस्त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णाः साधो यौवनसङ्कटात् ॥ ंो_१,१९.४४ ॥ स्पष्टम् ॥ ंोट्_१,१९.४४ ॥ सुखेन तीर्यतेऽम्भोधिरुत्कृष्टमकराकरः । न कल्लोलवनोल्लासि सदोषं हतयौवनम् ॥ ंो_१,१९.४५ ॥ स्पष्टम् ॥ ंोट्_१,१९.४५ ॥ सर्गान्तश्लोकेन यौवननिन्दां समापयति विनयभूषितमार्यजनास्पदं करुणयोज्ज्वलमावलितं गुणैः । इह हि दुर्लभमङ्ग सुयौवनं जगति काननमम्बरगं यथा ॥ ंो_१,१९.४६ ॥ एतादृशं यौवनं प्रशस्तमेवेति भावः । इति शिवम् ॥ ंोट्_१,१९.४६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनविंशः सर्गः ॥ १,१९ ॥ ************************************************************************ एवं यौवननिन्दां सम्पाद्य तत्प्रसङ्गेन स्त्रीनिन्दां प्रस्तौति मांसपुत्तलिकायाश्च यन्त्रलोलाङ्गपञ्जरे । स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् ॥ ंो_१,२०.१ ॥ "पुत्तलिकायाः" पुत्रिकायाः । "यन्त्र"वत्"लोलं" यत्"अङ्गपञ्जरं" । तस्मिन् । पुत्रिकापि यन्त्रस्था भवति । न हि किञ्चिदपि स्त्रियाः शोभनमिति भावः ॥ ंोट्_१,२०.१ ॥ त्वङ्मांसरक्तबाष्पास्रु पृथक्कृत्वा विलोचनम् । समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ंो_१,२०.२ ॥ सर्वाङ्गानामुपलक्षणमेतत् ॥ ंोट्_१,२०.२ ॥ इतः केशा इतो रक्तमितीयं प्रमदातनुः । किमेतया निन्दितया करोतु विपुलाशयः ॥ ंो_१,२०.३ ॥ "विपुलाशयस्या"त्र रतिर्न युक्तेति भावः ॥ ंोट्_१,२०.३ ॥ वासोविलेपनैर्यानि लालितानि पुनः पुनः । तान्यङ्गान्यवलुम्पन्ति क्रव्यादाः सर्वदेहिनाम् ॥ ंो_१,२०.४ ॥ अतः स्त्रीणामपि "क्रव्यादा अवलुम्पन्ती"ति भावः ॥ ंोट्_१,२०.४ ॥ मेरोः शृङ्गतटोल्लासिगङ्गाजलरयोपमा । दृष्टा यस्मिन् स्तने मुक्ता हारस्योल्लासशालिनः ॥ ंो_१,२०.५ ॥ श्मशानेषु दिगन्तेषु स एव ललनास्तनः । श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ंो_१,२०.६ ॥ स्पष्टम् । युग्मम् ॥ ंोट्_१,२०.५६ ॥ रक्तमांसादिदिग्धानि करभस्य यथा वने । तथैवाङ्गानि कामिन्यास्तत्प्रत्यपि हि को ग्रहः ॥ ंो_१,२०.७ ॥ स्पष्टम् ॥ ंोट्_१,२०.७ ॥ आपातरमणीयत्वं कल्प्यते केवलं स्त्रियाः । मन्ये तदपि नास्त्यत्र मुने मोहैककारणे ॥ ंो_१,२०.८ ॥ "अत्र" स्त्रीशरीरे ॥ ंोट्_१,२०.८ ॥ विपुलोल्लासदायिन्या मदोन्मथनपूर्वकम् । को विशेषो विकारिण्या मदिराया इह स्त्रियाः ॥ ंो_१,२०.९ ॥ "मदिराया" इति पञ्चमी ॥ ंोट्_१,२०.९ ॥ ललनालानसंलीना मुने मानवदन्तिनः । प्रबोधं नाधिगच्छन्ति दीर्घैरपि शमाङ्कुशैः ॥ ंो_१,२०.१० ॥ स्पष्टम् ॥ ंोट्_१,२०.१० ॥ केशकज्जलधारिण्यस्तीक्ष्णाः प्रकृतितः सदा । दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ंो_१,२०.११ ॥ स्पष्टम् ॥ ंोट्_१,२०.११ ॥ ते वन्द्यास्ते महात्मानस्त एव पुरुषा भुवि । ये सुखेन समुत्तीर्णाः साधो यौवतसङ्कटात् ॥ ंो_१,२०.१२ ॥ "यौवतसङ्कटात्" स्त्रीसमूहाख्यात् ॥ ंोट्_१,२०.१२ ॥ ज्वलतामतिदूरेऽपि सरसा अपि नीरसम् । स्त्रियो हि नरकाग्नीनां दारु चारु च दारुणम् ॥ ंो_१,२०.१३ ॥ "सरसा अपि" "स्त्रियः" "नीरसं" "दारु" भवन्तीति विरोधाभासः ॥ ंोट्_१,२०.१३ ॥ कीर्णान्धकारकवरी तरत्तारकलोचना । पूर्णेन्दुबिम्बवदना कुमुदोत्करहासिनी ॥ ंो_१,२०.१४ ॥ लीलाविलोलपुरुषा कार्यसंहारकारिणी । परं विमोहनं बुद्धेः कामिनी दीर्घयामिनी ॥ ंो_१,२०.१५ ॥ स्पष्टम् ॥ ंोट्_१,२०.१४१५ ॥ पुष्पाभिराममधुरा करपल्लवलासिनी । भ्रमरभ्रूविलासाढ्या स्तबकस्तनधारिणी ॥ ंो_१,२०.१६ ॥ पुष्पकेसरगौराङ्गी नरमारणतत्परा । ददात्युत्तमवैवश्यं कान्ता विषमहालता ॥ ंो_१,२०.१७ ॥ स्पष्टम् ॥ ंोट्_१,२०.१६१७ ॥ सीत्कारोच्छ्वासमात्रेण भुजङ्गदलनोत्कया । कान्तयोद्ध्रियते जन्तुः करिण्येवोरगो बिलात् ॥ ंो_१,२०.१८ ॥ "भुजङ्गाः" विटाः सर्पाश्च । "उद्ध्रियते" आकृष्यते ॥ ंोट्_१,२०.१८ ॥ कामनाम्ना किरातेन विकीर्णा मुग्धचेतसाम् । नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ंो_१,२०.१९ ॥ स्पष्टम् ॥ ंोट्_१,२०.१९ ॥ ललनाविपुलालाने मनोमत्तमतङ्गजः । रतिशृङ्खलया ब्रह्मन् बद्धस्तिष्ठति मूकवत् ॥ ंो_१,२०.२० ॥ स्पष्टम् ॥ ंोट्_१,२०.२० ॥ जन्मपल्वलमत्स्यानां कर्मकोटरवारिणाम् । पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ ंो_१,२०.२१ ॥ "बडिशे" हि मत्स्यग्रहणार्थमन्नादि"पिण्डिका" स्थाप्यते ॥ ंोट्_१,२०.२१ ॥ मन्दुरेव तुरङ्गानामालानमिव दन्तिनाम् । पुंसामब्जमिवालीनां बन्धनं वामलोचनाः ॥ ंो_१,२०.२२ ॥ स्पष्टम् ॥ ंोट्_१,२०.२२ ॥ नानारसमयी चित्रा भोगभूमिरियं मुने । स्त्रियमाश्रित्य संयाता परामिह हि संस्थितिम् ॥ ंो_१,२०.२३ ॥ स्पष्टम् ॥ ंोट्_१,२०.२३ ॥ सर्वेषां दोषरत्नानां सुसमुद्गिकयानया । दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ ंो_१,२०.२४ ॥ "अलमस्तु" दूरे भवतु ॥ ंोट्_१,२०.२४ ॥ किं स्तनेन किमक्ष्णा वा किं नितम्बेन किं भ्रुवा । मांसमात्रैकसारेण करोम्यहमवस्तुना ॥ ंो_१,२०.२५ ॥ स्पष्टम् ॥ ंोट्_१,२०.२५ ॥ इतो मांसमितो रक्तमितोऽस्थीनि च वासरैः । ब्रह्मन् कतिपयैरेव याति स्त्री विशरारुताम् ॥ ंो_१,२०.२६ ॥ "इति"शब्द अध्याहार्यः ॥ ंोट्_१,२०.२६ ॥ यास्ता निष्परुषैस्तूलैर्लालिताः पतिभिः स्त्रियः । ता मुने प्रविभक्ताङ्ग्यः स्वपन्ति पितृभूमिषु ॥ ंो_१,२०.२७ ॥ "निष्परुषैः" कोमलैः । "तूलैः" तूलविकारैः शयनीयैः । "पितृभूमिषु" श्मशानेषु ॥ ंोट्_१,२०.२७ ॥ यस्मिन् घननवस्नेहं मुखे पत्त्राङ्कुरश्रियः । कान्तेन रचिता ब्रह्मञ्शीर्यते तत्तु जङ्गले ॥ ंो_१,२०.२८ ॥ "घनः" "नवः" "स्नेहः" यत्र । तत् । क्रियाविशेषणमेतत् ॥ ंोट्_१,२०.२८ ॥ केशाः श्मशानवृक्षेषु यान्ति चामरलेशताम् । अस्थीन्युडुवदाभान्ति दिनैरवनिमण्डले ॥ ंो_१,२०.२९ ॥ "दिनैः" स्वल्पकालेनेत्यर्थः ॥ ंोट्_१,२०.२९ ॥ पिबन्ति पांसवो रक्तं क्रव्यादाश्चाप्यनेकशः । चर्मानलशिखा भुङ्क्ते खं यान्ति प्राणवायवः ॥ ंो_१,२०.३० ॥ इत्येषा ललनाङ्गानामचिरेणैव भाविनी । स्थितिर्मया वः कथिता किं भ्रान्तिमनुधावथ ॥ ंो_१,२०.३१ ॥ स्पष्टम् ॥ ंोट्_१,२०.३०३१ ॥ भूतपञ्चकसङ्घट्टसंस्थानं ललनाभिधम् । रसादभिवहत्वेतत्कथं नाम धियान्वितः ॥ ंो_१,२०.३२ ॥ "भूतपञ्चकस्य" यः "सङ्घट्टः" । तस्य "संस्थानं" रचनाविशेषः । "रसाद्" अभिलाषात् । "अभिवहतु" अनुयातु ॥ ंोट्_१,२०.३२ ॥ शाखावितानगहना कट्वम्लफलशालिनी । प्रतानोत्तालतामेति चिन्ता कान्तानुसारिणी ॥ ंो_१,२०.३३ ॥ "वितानं" समूहः । "प्रतानैर्" उपशाखाभिर् । या "उत्तालता" उद्भटता । ताम् । "कान्तानुसारिणी" कान्ताविषया । "कान्तानुसारिणी" "चिन्ता" अत्यन्तं घनीभवतीति भावः ॥ ंोट्_१,२०.३३ ॥ शोच्यतां परमामेति तरुणस्तरुणीरतः । निबद्धः करिणीलोभाद्विन्ध्यखाते यथा द्विपः ॥ ंो_१,२०.३४ ॥ स्पष्टम् ॥ ंोट्_१,२०.३४ ॥ यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य न भोगभूः । स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ंो_१,२०.३५ ॥ "भोगेषु" स्त्र्यादिरूपेषु । "भोगभूः" भोगेच्छा ॥ ंोट्_१,२०.३५ ॥ सर्गान्तश्लोकेन स्त्रीनिन्दां समापयति आपातमात्रमधुरेषु दुरुत्तरेषु भोगेषु नाहमलिपक्षतिपेलवेषु । ब्रह्मन् रमे मरणरोगजरादिभीत्या शाम्याम्यहं परमुपैमि वनं प्रयत्नात् ॥ ंो_१,२०.३६ ॥ स्पष्टम् । इति शिवम् ॥ ंोट्_१,२०.३६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे विंशः सर्गः ॥ १,२० ॥ ************************************************************************ एवं प्रसङ्गायातां स्त्रीनिन्दां कृत्वा प्रकरणप्राप्तं जरानिन्दां प्रस्तौति अपर्याप्तं हि बालत्वं बाल्यं पिबति यौवनम् । यौवनं च जरा पश्चात्पश्य कर्कशतां मिथः ॥ ंो_१,२१.१ ॥ "पिबति" ग्रसते ॥ ंोट्_१,२१.१ ॥ हिमाशनिरिवाम्भोजं वात्येव शरदम्बुदम् । देहं जरा जरयति सरित्तीरतरुं यथा ॥ ंो_१,२१.२ ॥ "जरयति" जीर्णतां नयति ॥ ंोट्_१,२१.२ ॥ शिथिलादीर्घसर्वाङ्गं जराजीर्णकलेवरम् । समं पश्यन्ति कामिन्यः पुरुषं करभं तथा ॥ ंो_१,२१.३ ॥ "तथा"शब्दः समुच्चये ॥ ंोट्_१,२१.३ ॥ श्वासायासकदर्थिन्या गृहीते जरसा जने । पलाय्य गच्छति प्रज्ञा सपत्न्येव हताङ्गना ॥ ंो_१,२१.४ ॥ "श्वासायासैः" "कदर्थयती"ति तादृश्या ॥ ंोट्_१,२१.४ ॥ दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा । हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ंो_१,२१.५ ॥ स्पष्टम् ॥ ंोट्_१,२१.५ ॥ दुष्प्रज्ञं जरढं दीनं हीनं गुणपराक्रमैः । गृध्रो वृक्षमिवादीर्घं गर्धो ह्यभ्येति वृद्धताम् ॥ ंो_१,२१.६ ॥ दैन्यदोषमयी दीर्घा हृदि दाहप्रदायिनी । सर्वापदामेकसखी वर्धते वार्धके स्पृहा ॥ ंो_१,२१.७ ॥ "आदीर्घं" समन्ताद्दीर्घम् । "गर्धः" लोभः । "अभ्येति" आश्रयति । "वृद्धताम्" वार्धकम् । युग्मम् ॥ ंोट्_१,२१.६७ ॥ कर्तव्यं किं मया कष्टं परत्रेत्यतिदारुणम् । अप्रतीकारयोग्यं हि वार्धके वर्धते भयम् ॥ ंो_१,२१.८ ॥ स्पष्टम् ॥ ंोट्_१,२१.८ ॥ कोऽहं वराकः किमिव करोमि कथमेव वा । तिष्ठामि मौनमेवेति दीनतोदेति वार्धके ॥ ंो_१,२१.९ ॥ स्पष्टम् ॥ ंोट्_१,२१.९ ॥ गर्धोऽभ्युदेति सोल्लासमुपभोक्तुं न शक्यते । हृदयं दह्यते नूनं शक्तिदौस्थ्येन वार्धके ॥ ंो_१,२१.१० ॥ "गर्धः" उपभोगलोभः । "सोल्लासम्" इति क्रियाविशेषणम् ॥ ंोट्_१,२१.१० ॥ जराजीर्णबकी यावत्कासक्रेङ्कारकारिणी । रौति रोगोरगाकीर्णा कायद्रुमशिरःस्थिता ॥ ंो_१,२१.११ ॥ तावदागत एवाशु कुतोऽपि परिदृश्यते । घनान्धतिमिराकाङ्क्षी मुने मरणकौशिकः ॥ ंो_१,२१.१२ ॥ "कासः" रोगविशेषः ॥ ंोट्_१,२१.१११२ ॥ सायंसन्ध्याप्रजातैव तमः समनुधावति । जरा वपुषि दृष्टैव मृतिं समनुधावति ॥ ंो_१,२१.१३ ॥ स्पष्टम् ॥ ंोट्_१,२१.१३ ॥ जराकुसुमितं देहद्रुमं दृष्ट्वैव दूरतः । मृतिभृङ्गी द्रुतं ब्रह्मन्नरस्यायाति सूत्सुका ॥ ंो_१,२१.१४ ॥ सुष्ठु उत्सुका "सूत्सुका" ॥ ंोट्_१,२१.१४ ॥ शून्यं नगरमाभाति भाति च्छिन्नलतो द्रुमः । भात्यनावृष्टिमान् देशो न जराजर्जरं वपुः ॥ ंो_१,२१.१५ ॥ "शून्यनगरा"दिभ्योऽपि अशुभमेव वृद्धत्वमिति भावः ॥ ंोट्_१,२१.१५ ॥ क्षणान्निगिरणायैव कासक्वणितकारिणी । गृध्रीवामिषमादत्ते तरसैव नरं जरा ॥ ंो_१,२१.१६ ॥ स्पष्टम् ॥ ंोट्_१,२१.१६ ॥ दृष्ट्वैव सूत्सुकेवाशु प्रगृह्य शिरसि क्षणात् । प्रलुनाति जरा देहं कुमारी कैरवं यथा ॥ ंो_१,२१.१७ ॥ स्पष्टम् ॥ ंोट्_१,२१.१७ ॥ सीत्कारकारिणी पांसुपरुषा परिजर्जरम् । शरीरं शातयत्येषा वात्येव तरुपल्लवम् ॥ ंो_१,२१.१८ ॥ "एषा" जरा । जरागृहीतः "वात"गृहीतश्च पुरुषः "सीत्कारं करोति" ॥ ंोट्_१,२१.१८ ॥ जरसोपहतो देहो धत्ते जर्जरतां गतः । तुषारनिकराकीर्णपरिम्लानाम्बुजश्रियम् ॥ ंो_१,२१.१९ ॥ स्पष्टम् ॥ ंोट्_१,२१.१९ ॥ जराज्योत्स्नोदितैवेयं शिरःशिखरिपृष्ठतः । विकासयति संरब्धवातां कासकुमुद्वतीम् ॥ ंो_१,२१.२० ॥ "संरब्धः" आरब्धः । "वातः" वातरोगः यया । सा । ताम् ॥ ंोट्_१,२१.२० ॥ परिपक्वं समालोक्य जराक्षारविधूसरम् । शिरःकुष्माण्डकं भुङ्क्ते पुंसः कालः किलेश्वरः ॥ ंो_१,२१.२१ ॥ "शिर" एव "कुष्माण्डकम्" फलविशेषः ॥ ंोट्_१,२१.२१ ॥ जराजह्नुसुतोद्युक्ता मूलान्यस्य निकृन्तति । शरीरतीरवृक्षस्य चलस्यायूंषि सत्वरम् ॥ ंो_१,२१.२२ ॥ "उद्युक्ता" प्रवृत्ता । "आयूंषि" "मूलानि" आयुराख्यानि मूलानि ॥ ंोट्_१,२१.२२ ॥ जरामार्जारिका भुक्तयौवनाखुतयेन्धिता । परमुल्लासमायाति शरीरामिषगर्धिनी ॥ ंो_१,२१.२३ ॥ स्पष्टम् ॥ ंोट्_१,२१.२३ ॥ काचिदस्ति जगत्यस्मिन्नामङ्गलकरी तथा । यथा जराक्रोशकरी देहजङ्गलजम्बुकी ॥ ंो_१,२१.२४ ॥ स्पष्टम् ॥ ंोट्_१,२१.२४ ॥ कासश्वासससीत्कारा दुःखधूमतमोमयी । जराज्वाला ज्वलत्येषा ययासौ दग्ध एव हि ॥ ंो_१,२१.२५ ॥ "असौ" वृद्धः ॥ ंोट्_१,२१.२५ ॥ जरसा वक्रतामेति शुक्लावयवपल्लवा । तात तन्वी तनुर्नॄणां लता पुष्पानता यथा ॥ ंो_१,२१.२६ ॥ स्पष्टम् ॥ ंोट्_१,२१.२६ ॥ जराकर्पूरधवलं देहकर्पूरपादपम् । मुने मरणमातङ्गो नूनमुद्धरति क्षणात् ॥ ंो_१,२१.२७ ॥ स्पष्टम् ॥ ंोट्_१,२१.२७ ॥ मरणस्य मुने राज्ञो जराधवलचामरा । आगच्छतोऽग्रे निर्याति स्वाधिव्याधिपताकिनी ॥ ंो_१,२१.२८ ॥ स्पष्टम् ॥ ंोट्_१,२१.२८ ॥ न जिताः शत्रुभिः सङ्ख्ये ये निष्पिष्टाद्रिकोटयः । ते जराजीर्णराक्षस्या पश्याशु विजिता मुने ॥ ंो_१,२१.२९ ॥ स्पष्टम् ॥ ंोट्_१,२१.२९ ॥ जरातुषारधवले शरीरसदनान्तरे । शक्नुवन्त्यक्षशिशवः स्पन्दितुं न मनागपि ॥ ंो_१,२१.३० ॥ "अक्षशिशवः" इन्द्रियबालकाः ॥ ंोट्_१,२१.३० ॥ संसारसंसृतेरस्या गन्धकुट्याः शिरोगता । देहयष्ट्या जरानाम्नी चामरश्रीर्विराजते ॥ ंो_१,२१.३१ ॥ "गन्धकुट्याः" "शिरसि" "चामरं" स्थाप्यते । घटकुट्या इति वा पाठः ॥ ंोट्_१,२१.३१ ॥ जराचन्द्रोदयसिते शरीरनगरे स्थिते । क्षणाद्विकासमायाति मुने मरणकैरवम् ॥ ंो_१,२१.३२ ॥ स्पष्टम् ॥ ंोट्_१,२१.३२ ॥ जरासुधालेपसिते शरीरान्तःपुरान्तरे । अशक्तिराधिरार्तिश्च तिष्ठन्ति सुखमङ्गनाः ॥ ंो_१,२१.३३ ॥ स्पष्टम् ॥ ंोट्_१,२१.३३ ॥ अभावाग्रे सरा यत्र जरा जयति जन्तुषु । कस्तत्रेह समाश्वासो मम मन्दमतेर्मुने ॥ ंो_१,२१.३४ ॥ "अभावस्य" मरणस्य्"आग्रे सरा" ॥ ंोट्_१,२१.३४ ॥ सर्गान्तश्लोकेन जरानिन्दां समापयति किं तेन दुर्जीवितदुर्ग्रहेण जरां गतेनापि हि जीव्यते यत् । जरा जगत्यामजिता नराणां सर्वैषणास्तात तिरस्करोति ॥ ंो_१,२१.३५ ॥ "तेन" प्रसिद्धेन । "दुर्जीवितदुर्ग्रहेण" कुत्सितजीविताख्येन दुष्टग्रहेण । "जरागतेनापि" सता "किं" "जीव्यते" किमर्थं जीव्यते । व्यर्थं जीव्यते इति यावत् । "हि" निश्चये । हे "तात" । "यद्" यस्मात्कारणात् । "जगत्यां" जगति । "अजिता" "जरा नराणां" "सर्वैषणाः" समस्ताः चेष्टाः । "तिरस्करोति" नयति । इति शिवम् ॥ ंोट्_१,२१.३५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकविंशः सर्गः ॥ १,२१ ॥ ************************************************************************ एवं जरानिन्दां कृत्वा कालनिन्दां प्रस्तौति विकल्पकल्पनानल्पकल्पितैरल्पबुद्धिभिः । भेदैरुद्धरतां नीतः संसारकुहकभ्रमः ॥ ंो_१,२२.१ ॥ "भेदैः" कथम्भूतैः । विकल्पकल्पनाभिः "अनल्पम्" अत्यन्तम् । "कल्पितैः" । असत्यभूतैरित्यर्थः । "संसार "एव "कुहकभ्रमः" मिथ्याभ्रमः ॥ ंोट्_१,२२.१ ॥ सतां कथमिवास्थेह जायते जालपञ्जरे । बाला एवात्तुमिच्छन्ति फलं मकुरबिम्बितम् ॥ ंो_१,२२.२ ॥ "इह" "जालपञ्जरे" इन्द्रजालपञ्जररूपे संसारे इत्यर्थः । भामेतिवत्प्रयोगः । "अत्तुम्" भक्षितुम् ॥ ंोट्_१,२२.२ ॥ इहापि विद्यते यैषा पेलवा सुखभावना । आखुस्तन्तुमिवाशेषं कालस्तामपि कृन्तति ॥ ंो_१,२२.३ ॥ "अशेषम्" इति क्रियाविशेषणम् । "तां" सुखभावनाम् ॥ ंोट्_१,२२.३ ॥ न तदस्तीह यदयं कालस्सकलघस्मरः । ग्रसते न जगज्जातं महाब्धिमिव वाडवः ॥ ंो_१,२२.४ ॥ स्पष्टम् ॥ ंोट्_१,२२.४ ॥ समस्तसामान्यतया भीमः कालो महेश्वरः । दृश्यसत्तामिमां सर्वां कवलीकर्तुमुद्यतः ॥ ंो_१,२२.५ ॥ स्पष्टम् ॥ ंोट्_१,२२.५ ॥ महतामपि नो देवः प्रतिपालयति क्षणात् । कालः कवलितानन्तविश्वो विश्वात्मतां गतः ॥ ंो_१,२२.६ ॥ "नो" "प्रतिपालयति" न प्रतीक्षते । "विश्वात्मतां" व्यापकताम् ॥ ंोट्_१,२२.६ ॥ युगवत्सरकल्पाख्यैः किञ्चित्प्रकटतां गतः । रूपैरलक्ष्यरूपात्मा सर्वमाक्रम्य तिष्ठति ॥ ंो_१,२२.७ ॥ सूर्यवारादिवशेन ज्ञातैरिति शेषः ॥ ंोट्_१,२२.७ ॥ ये रम्या ये शुभारम्भाः सुमेरुगुरवोऽपि ये । कालेन विनिगीर्णास्ते करभेणेव पल्लवाः ॥ ंो_१,२२.८ ॥ स्पष्टम् ॥ ंोट्_१,२२.८ ॥ निर्दयः कठिनः क्रूरः कर्कशः कृपणोऽधमः । न तदस्ति यदद्यापि न कालो निगिरत्ययम् ॥ ंो_१,२२.९ ॥ पौनरुक्त्यप्रयोगः क्रोधावेशबाहुल्यं सूचयति ॥ ंोट्_१,२२.९ ॥ कालः कवलनैकान्तमतिरत्ति गिरीनपि । अनन्तैरपि भोगौघैर्नायं तृप्तो महाशनः ॥ ंो_१,२२.१० ॥ "महाशनः" बह्वाशी ॥ ंोट्_१,२२.१० ॥ हरत्ययं नाशयति करोत्यत्ति निहन्ति च । कालः संसारनृत्ये हि नानारूपैर्यथा नटः ॥ ंो_१,२२.११ ॥ स्पष्टम् ॥ ंोट्_१,२२.११ ॥ भिनत्ति प्रविभागस्थो भूतबीजान्यनारतम् । जगत्यसत्तया चञ्च्वा दाडिमानि यथा शुकः ॥ ंो_१,२२.१२ ॥ "प्रविभागे" ति"ष्ठ"तीति तादृशः । प्रविभागकारीत्यर्थः ॥ ंोट्_१,२२.१२ ॥ शुभाशुभविषाणाग्रविलूनजनपल्लवः । स्फूर्जति स्फीतजनताजीवराजीविनीगजः ॥ ंो_१,२२.१३ ॥ "स्फीता" स्फारत्वं गता । "जीवराजीविनी" जीवयुक्ता पद्मिनी ॥ ंोट्_१,२२.१३ ॥ विरिञ्चमज्जब्रह्माण्डबृहद्विल्वफलद्रुमम् । ब्रह्मकाननमाभोगि परमावृत्य तिष्ठति ॥ ंो_१,२२.१४ ॥ "ब्रह्माण्डे" हि "विरिञ्च" एव सारभूतो भवतीति "विरिञ्चमज्जे"त्युक्तम् । "आवृत्य" आच्छाद्य । एतेन ब्रह्मण्यपि कालस्पर्श उक्तः ॥ ंोट्_१,२२.१४ ॥ यामिनीभ्रमरीपूर्णा रचयन् दिनमञ्जरीः । वर्षकल्पकलावल्लीर्न कदाचन खिद्यते ॥ ंो_१,२२.१५ ॥ काल इति शेषः । कालः किं कुर्वन् । "वर्षकल्पकलावल्ली" "रचयन्न्" इति योज्यम् ॥ ंोट्_१,२२.१५ ॥ भिद्यते नावभग्नोऽपि दग्धोऽपि हि न दह्यते । दृश्यते नातिदृश्योऽपि धूर्तचूडामणिर्मुने ॥ ंो_१,२२.१६ ॥ "अतिदृश्य"त्वं कालस्य ऋतुगुणादिदर्शनेन ज्ञेयम् । "न दृश्यते" आकाराभावात् । "धूर्तोऽपि" एवंविधो भवतीति "धूर्तचूडामणिर्" इत्युक्तम् ॥ ंोट्_१,२२.१६ ॥ एकेनैव निमेषेण किञ्चिदुत्थापयत्यलम् । किञ्चिद्विनाशयत्युच्चैर्मनोराज्यवदाततः ॥ ंो_१,२२.१७ ॥ स्पष्टम् ॥ ंोट्_१,२२.१७ ॥ दुर्विलासविलासिन्या चेष्टया परिपुष्टया । दर्व्येव सूपकृत्सूपं जनमावर्तयन् स्थितः ॥ ंो_१,२२.१८ ॥ "आवर्तयन्" भ्रमयन् ॥ ंोट्_१,२२.१८ ॥ तृणं पांसुं महेन्द्रं च सुमेरुं पर्णमर्णवम् । आत्मस्फारतया सर्वमात्मसात्कर्तुमुद्यतः ॥ ंो_१,२२.१९ ॥ "आत्मनः" या "स्फारता" व्यापकता । तया । "आत्मसात्कर्तुम्" स्वाधीनं कर्तुम् ॥ ंोट्_१,२२.१९ ॥ क्रौर्यमत्रैव पर्याप्तं लुब्धतात्रैव संस्थिता । सर्वं दौर्भाग्यमत्रैव सर्वमत्रैव चापलम् ॥ ंो_१,२२.२० ॥ "अत्रैव" अस्मिन् काले एव । "पर्याप्तम्" पूर्णम् ॥ ंोट्_१,२२.२० ॥ प्रेरयंल्लीलयार्केन्दू क्रीडतीह नभस्तले । निक्षिप्तवीटायुगलो निजे बाल इवाङ्गने ॥ ंो_१,२२.२१ ॥ "वीटा" कन्दुकम् ॥ ंोट्_१,२२.२१ ॥ सर्वभूतास्थिमालाभिरापादवलिताकृतिः । विलसत्येष कल्पान्ते कालः कल्पितकल्पनः ॥ ंो_१,२२.२२ ॥ "कल्पिताः" "कल्पनाः" जगद्रूपाः कल्पनाः । येन । सः ॥ ंोट्_१,२२.२२ ॥ अस्योड्डामरनृत्तस्य कल्पान्तेऽङ्गविनिर्गतैः । प्रस्फुरत्यम्बरे मेरुर्भूर्जत्वगिव वायुभिः ॥ ंो_१,२२.२३ ॥ "स्फुरति" आकाशे भ्रमति ॥ ंोट्_१,२२.२३ ॥ रुद्रो भूत्वा भवत्येष महेन्द्रोऽथ पितामहः । शुक्रो वैश्रवणश्चापि पुनरेव न किञ्चन ॥ ंो_१,२२.२४ ॥ स्पष्टम् ॥ ंोट्_१,२२.२४ ॥ धत्तेऽजस्रोत्थितध्वस्तान् सर्गानमितभासुरान् । अन्यानन्यानप्यनन्यान् वीचीनब्धिरिवात्मनि ॥ ंो_१,२२.२५ ॥ "अजस्रम्" "उत्थितांश्" च तान् "ध्वस्तांश्" च "सर्गान्" सृष्टीन् । "अन्यानन्यान्" इति वीप्सा । "अपि"शब्दः "अनन्यान्" इत्यनेन सम्बध्यते ॥ ंोट्_१,२२.२५ ॥ महाकल्पाभिधानेभ्यो वृक्षेभ्यः परिशातयन् । देवासुरगणान् पक्वान् फलभारानवस्थितः ॥ ंो_१,२२.२६ ॥ "परिशातयन्" छेदयन् ॥ ंोट्_१,२२.२६ ॥ आलोलभूतमषकघुङ्घुमानां प्रपातिनाम् । ब्रह्माण्डोडुम्बरौघानां बृहत्पादपतां गतः ॥ ंो_१,२२.२७ ॥ "घुङ्घुमे"ति शब्दानुकरणम् । "उडुम्बरः" फलविशेषः । तत्र हि मषकाः बाहुल्येन तिष्ठन्ति ॥ ंोट्_१,२२.२७ ॥ सत्तामात्रकुमुद्वत्या चिज्ज्योत्स्नापरिफुल्लया । वपुर्विनोदयत्येषः क्रियाप्रियतमान्वितः ॥ ंो_१,२२.२८ ॥ "क्रियाप्रियतमान्वितः" "सः" कालः । "चिद्" एव प्रकाशरूपत्वात्"ज्योत्स्ना" । तया "परिफुल्लया" प्रकटीभूतया । "सत्तामात्रकुमुद्वत्या" । "वपुः" आत्मानम् । "विनोदयति" सदासत्तया क्रियया युतो भवतीति ॥ ंोट्_१,२२.२८ ॥ अनन्तापायपर्यन्तं बद्धपीठं निजं वपुः । महाशैलवदुत्तुङ्गमवलम्ब्य व्यवस्थितः ॥ ंो_१,२२.२९ ॥ "अनन्तापायपर्यन्तम्" अन्तापायपर्यन्तरहितम् । नाशरहितमित्यर्थः ॥ ंोट्_१,२२.२९ ॥ क्वचिच्छ्यामतमःश्यामं क्वचित्कान्तियुतं ततम् । द्वयेनापि क्रमाद्रिक्तं स्वभावं भावयन् स्थितः ॥ ंो_१,२२.३० ॥ "श्यामं" यत्"तमः" । तेन "श्यामं" । ["स्वभावम्" "भावयन्"] स्वरूपं सम्पादयन्निति यावत् । एतेन रात्रिदिवसे सन्ध्या चेति त्रयमुक्तम् ॥ ंोट्_१,२२.३० ॥ संलीनासङ्ख्यसंसारसारया स्वात्मसत्तया । गुर्वीव भारघनया निबद्धपदतां गतः ॥ ंो_१,२२.३१ ॥ "संलीनः" "असङ्ख्यसंसाराणां" "सारो" यस्याम् । सा । तया । गुर्वी हि "निबद्धपदतां" गच्छति इति "गुर्वी"त्युक्तम् ॥ ंोट्_१,२२.३१ ॥ न खिद्यते न म्रियते न तिष्ठति न गच्छति । नास्तमेति न चोदेति महाकल्पशतैरपि ॥ ंो_१,२२.३२ ॥ स्पष्टम् ॥ ंोट्_१,२२.३२ ॥ केवलं जगदारम्भलीलया घनहेलया । यापयत्यात्मनात्मानमनहङ्कारमानतम् ॥ ंो_१,२२.३३ ॥ "घना" "हेला" यस्याम् । तादृश्या । "यापयति" समापयति । अहङ्काराभवे हि कालो नश्यति । स्वनाशक्रीडामपि स्वयमेव करोतीति भावः ॥ ंोट्_१,२२.३३ ॥ यामिनीपङ्ककलिलां दिनकोकनदावलीम् । क्रियाभ्रमरिकां मन्दं सरःसु आरोपयन् स्थितः ॥ ंो_१,२२.३४ ॥ "सरःसु" अर्थात्भुवनरूपेषु । "आरोपयन्" कल्पयन् । सूर्यरूपेणेति शेषः ॥ ंोट्_१,२२.३४ ॥ गृहीत्वा भीषणः कृष्णां रजनीं जीर्णमार्जनीम् । आलोककनकक्षोदमाहरत्यभितोऽवनिम् ॥ ंो_१,२२.३५ ॥ "आहरति" सम्मार्जयति । रात्रिं विधाय प्रकाशमुपसंहरतीति भावः ॥ ंोट्_१,२२.३५ ॥ सञ्चारयन् क्रियाङ्गुल्या कोणकेष्वर्कदीपिकाम् । जगत्सद्मनि कारुण्यात्क्व किमस्तीति वीक्षते ॥ ंो_१,२२.३६ ॥ "कोणकेषु" दिक्कोणेषु । अन्योऽपि हि दीपिकां प्रज्वाल्य सद्मनि क्व किमस्तीति पश्यति ॥ ंोट्_१,२२.३६ ॥ प्रेक्ष्याहानि निमेषेण सूर्याक्ष्णा पाकवन्त्यलम् । लोकपालफलान्यत्ति जगज्जीर्णवनादयम् ॥ ंो_१,२२.३७ ॥ "सूर्याक्ष्णा" सूर्याख्येन चक्षुषा । "अहानि" "प्रेक्ष्य" कञ्चित्कालं प्रतीक्ष्येत्यर्थः ॥ ंोट्_१,२२.३७ ॥ जगज्जीर्णकुटीकीर्णानर्पयत्युग्रकोटरे । क्रमेण गुणवल्लोकमणीन्मृत्युसमुद्गके ॥ ंो_१,२२.३८ ॥ "जगज्जीर्णकुट्यां कीर्णान्" विक्षिप्तान् । अन्योऽपि हि कुट्यां विक्षिप्तान्मणीन् समुद्गकेऽर्पयति ॥ ंोट्_१,२२.३८ ॥ गुणैरापूर्यते यैव लोकरत्नावली भृशम् । भूषार्थमिव तामङ्गे कृत्वा भूयो निकृन्तति ॥ ंो_१,२२.३९ ॥ अन्योऽपि राजादिः रत्नावलीमङ्गे कृत्वा लीलया कृन्तति ॥ ंोट्_१,२२.३९ ॥ दिनहंसानुसृतया निशेन्दीवरमालया । ताराकेसरयाजस्रं चपलो वलयत्यलम् ॥ ंो_१,२२.४० ॥ "वलयति" आवृत्तं सम्पादयति । भुवनमिति शेषः ॥ ंोट्_१,२२.४० ॥ शैलोर्णद्युधराशृङ्गजगदूर्णायुसौनिकः । प्रत्यहं पिबति प्रेक्ष्य तारारक्तकणानपि ॥ ंो_१,२२.४१ ॥ "शैला" एव "ऊर्णा" यस्य । तत् । तादृशम् । "द्युधरे" द्यावापृथिव्यौ एव "शृङ्गे" यस्य । तत् । तादृशं च । ईदृशं च यत्"जगत्" तदेव "ऊर्णायुः" मेषः । तस्य "सौनिकः" हिंसकः ॥ ंोट्_१,२२.४१ ॥ तारुण्यनलिनीसोम आयुर्मातङ्गकेसरी । न तदस्ति न यस्यायं तुच्छातुच्छस्य तस्करः ॥ ंो_१,२२.४२ ॥ स्पष्टम् ॥ ंोट्_१,२२.४२ ॥ कल्पकेलिविलासेन पिष्टपातितजन्तुना । न्यग्भावोद्भवहासेन रमते स्वात्मनात्मनि ॥ ंो_१,२२.४३ ॥ "पिष्टाः" चूर्णीकृताः । अत एव "पातिताः" "जन्तवो" येन । सः । तादृशेन । काल इति शेषः । तृतीयान्तत्रयं "स्वात्मने"त्यस्य विशेषणत्वेन योज्यम् ॥ ंोट्_१,२२.४३ ॥ कर्ता भोक्ताथ संहर्ता स्मर्ता सर्वं पदं गतः । सर्वमेव करोतीदं न करोति च किञ्चन ॥ ंो_१,२२.४४ ॥ नकिञ्चिद्रूपत्वात्न किञ्चित्करणं ज्ञेयम् ॥ ंोट्_१,२२.४४ ॥ सर्गान्तश्लोकेन कालनिन्दां समापयति सकलमप्यकलाकलितान्तरं सुभगदुर्भगरूपधरं वपुः । प्रकटयन् सहसैव च गोपयन् विलसतीह हि कालबलं नृषु ॥ ंो_१,२२.४५ ॥ "सकलत्वाकल"त्वादिकं विषयविभागेन ज्ञेयम् । "प्रकटयन्" "गोपयन्" इत्यत्र सर्वनामस्थानाभावेऽपि नुमागम आर्षः । इति शिवम् ॥ ंोट्_१,२२.४५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वाविंशः सर्गः ॥ १,२२ ॥ ************************************************************************ एवं कालनिन्दां कृत्वा कालविलासं कथयति अस्योड्डामरलीलस्य दूरास्तसकलापदः । संसारे राजपुत्रस्य कालस्याकलितौजसः ॥ ंो_१,२३.१ ॥ अस्मिन्नाचरतो दीनैर्मुग्धैर्भूतमृगव्रजैः । आखेटकं जर्जरिते जगज्जङ्गलजालके ॥ ंो_१,२३.२ ॥ एकदेशोल्लसच्चारुवडवानलपङ्कजा । क्रीडापुष्करिणी रम्या कल्पकालमहार्णवः ॥ ंो_१,२३.३ ॥ स्पष्टम् ॥ ंोट्_१,२३.१३ ॥ कटुतिक्ताम्लभूताढ्यैः सदधिक्षीरसागरैः । तैरेव तैः पर्युषितैर्जगद्भिः काल्यवर्तनम् ॥ ंो_१,२३.४ ॥ "कटुतिक्ताम्लाः" अत्यन्ततामसिकतामसिकराजसिकाः । कट्वादिरसविशेषयुक्ताश्च ये "भूताः" चराचराः भूताः सिद्धद्रव्याणि च । तैः "आढ्यैः" युक्तैः । परेद्युः उषितैः "पर्युषितैः" । न तु नवैरित्यर्थः । "काल्यवर्तनम्" प्राभातिकभोजनम् । "अस्ये"ति सर्गाद्यश्लोकस्थं सर्वत्र योज्यम् ॥ ंोट्_१,२३.४ ॥ चण्डी चतुरसञ्चारा सर्वमातृगणान्विता । संसारवनविन्यस्तनरैणाकर्षणी वृकी ॥ ंो_१,२३.५ ॥ अस्य कालस्य "चण्डी"ति नामधेया शक्तिः । "वृकी" भवतीति सम्बन्धः । "मातृगणः" प्रसिद्धः । राजपुत्रोऽपि आखेटकार्थं वृकीं पालयति ॥ ंोट्_१,२३.५ ॥ पृथ्वी करतले पृथ्वी पानपात्री रसान्विता । कमलोत्पलकल्हारलोलजालकमालिता ॥ ंो_१,२३.६ ॥ "पृथ्वी" विस्तीर्णा ॥ ंोट्_१,२३.६ ॥ विरावी विकटास्फालो नृसिंहो भुजपञ्जरे । सटाविकटपीनांसः कान्तः क्रीडाशकुन्तकः ॥ ंो_१,२३.७ ॥ "नृसिंहः" नरसिंहः । राजपुत्रस्यापि विलासार्थं पञ्जरे सिंहो भवति ॥ ंोट्_१,२३.७ ॥ अलाबुवीणामधुरः शरद्व्योमामलच्छविः । देवः किल महाकालो लीलाकोकिलबालकः ॥ ंो_१,२३.८ ॥ "महाकालः" संहाराधिकारी "देव"विशेषः ॥ ंोट्_१,२३.८ ॥ अजस्रस्फूर्जिताकारो वान्तदुःखशराशनिः । अभावनामकोदण्डः परिस्फुरति सर्वतः ॥ ंो_१,२३.९ ॥ "वान्ताः" उद्गीर्णाः । "दुःखान्य्" एव "शराशनयः" । येन । सः । अभावनामा चासौ कोदण्डः "अभावनामकोदण्डः" ॥ ंोट्_१,२३.९ ॥ सर्गान्तश्लोकेन कालविलासवर्णनं समापयति अनुत्तमस्फुरितविलासवर्धितो भ्रमन् हरन् परिविलसन् विदारयन् । जरज्जगज्जरढविलोलमर्कटः परिस्फुरद्वपुरिह काल ईहते ॥ ंो_१,२३.१० ॥ "ईहते" नानाविधाः चेष्टाः करोति । इति शिवम् ॥ ंोट्_१,२३.१० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रयोविंशः सर्गः ॥ १,२३ ॥ ************************************************************************ एवं कालविलासमुक्त्वा दैवविलासं प्रस्तौति अत्रैव दुर्विलासानां चूडामणिरिवापरः । करोत्यस्तीति लोकेन दैवं कालश्च कथ्यते ॥ ंो_१,२४.१ ॥ "करोति" इति क्रियाकथनम् । "अस्तीति" सत्ताकथनम् । "कालो"ऽत्र कृतान्तोऽभिप्रेतः । तस्यैव "दैव"पर्यायत्वात् ॥ ंोट्_१,२४.१ ॥ क्रियामात्रादृते यस्य स्वपरिस्पन्दरूपिणः । नान्यदालक्ष्यते रूपं कर्मणो न समीहितम् ॥ ंो_१,२४.२ ॥ तेनेयमखिला भूतसन्ततिर्नित्यपेलवा । तापेन हिममालेव नीता विधुरतां भृशम् ॥ ंो_१,२४.३ ॥ "यस्य" दैवस्य । "क्रियामात्रं" विना । "न रूपमालक्ष्यते" । "ना"पि "कर्मणः" "समीहितं" कर्मालम्बनं काङ्क्षितम् । "आलक्ष्यते" । किमर्थम् । अयं किञ्चित्करोतीति "तेनेयम्" "भूतसन्ततिर्विधुरतां नीता" ॥ ंोट्_१,२४.२३ ॥ यदिदं दृश्यते किञ्चिज्जगदाभोगिमण्डलम् । तत्तस्य नर्तनागारमिहासावभिनृत्यति ॥ ंो_१,२४.४ ॥ "तस्य" दैवस्य ॥ ंोट्_१,२४.४ ॥ अस्य नामान्तरकथनाभिप्रायेणाह तृतीयं च कृतान्तेति नाम बिभ्रत्सुदारुणम् । कापालिकवपुर्मत्तं दैवं जगति नृत्यति ॥ ंो_१,२४.५ ॥ "कापालिकवपुः" कापालिकतुल्यः ॥ ंोट्_१,२४.५ ॥ अस्यैव सर्वाधारत्वं कथयति नृत्यतो हि कृतान्तस्य नितान्तमविरागिणः । नित्यं नियतिकान्ताया मुने परमकामिनः ॥ ंो_१,२४.६ ॥ शेषः शशिकलाशुभ्रो गङ्गावाहश्च तौ त्रिधा । उपवीते अवीताभे उभे संसारवक्षसि ॥ ंो_१,२४.७ ॥ "तौ" कौ । "शेषः गङ्गावाहश्" च । "अवीताभे" शोभायुक्ते । "संसार" एव "वक्षस्" । तत्र ॥ ंोट्_१,२४.६७ ॥ चन्द्रार्कमण्डले हेमकटके करमूलयोः । लीलासरसिजं हस्ते ब्राह्मं ब्रह्माण्डकर्णिकम् ॥ ंो_१,२४.८ ॥ "ब्राह्मम्" ब्रह्मणः आसनभूतं पद्मम् । "ब्रह्माण्डस्य कर्णिकम्" कर्निकाभूतम् । तन्मध्यवर्तित्वात् ॥ ंोट्_१,२४.८ ॥ ताराबिन्दुचितं लोलपुष्करावर्तपल्लवम् । एकार्णवपयोधौतमेकमम्बरमम्बरम् ॥ ंो_१,२४.९ ॥ "अम्बरम्" आकाशम् । "अम्बरं" वस्त्रम् ॥ ंोट्_१,२४.९ ॥ एवंरूपस्य तस्याग्रे नियतिर्नित्यकामिनी । अनस्तमितसंरम्भमारम्भैः परिनृत्यति ॥ ंो_१,२४.१० ॥ "आरम्भैः" यमनियमरूपैः । नर्तकस्य समीपे हि नर्तकी अपि नृत्यति ॥ ंोट्_१,२४.१० ॥ तस्या नर्तनलोलाया जगन्मण्डपकोटरे । अरुद्धस्पन्दरूपाया आगमापायचञ्चुरे ॥ ंो_१,२४.११ ॥ चारुभूषणमङ्गेषु देवलोकान्तरावली । आपातालं नभो लम्बं कवरीमण्डलं बृहत् ॥ ंो_१,२४.१२ ॥ "देवानाम्" यानि "लोकान्तराणि" । तेषाम् "आवली" "अङ्गेषु" "चारुभूषणम्" भवति । "नभः" कथम्भूतम् । "आपातालम्" पातालं तावत् । "लम्बं" व्यापकम् । नृत्यन्त्याश्च "कवरी" लम्बा भवति ॥ ंोट्_१,२४.१११२ ॥ नरकाली च मञ्जीरमाला कलकलाकुला । प्रोता दुष्कृतसूत्रेण पातालचरणे चला ॥ ंो_१,२४.१३ ॥ "मञ्जीरमाला" किङ्किणीमाला ॥ ंोट्_१,२४.१३ ॥ कस्तूरिकातिलककं क्रियासख्योपकल्पितम् । चित्रितं चित्रगुप्तेन यामे वदनपट्टके ॥ ंो_१,२४.१४ ॥ "यामे" यमसम्बन्धिनि । "वदनपट्टके" मुखपट्टके ।ऽर्थात्यमशासनपट्टरूपके मुखे । "चित्रगुप्तेन चित्रितं" चित्रगुप्तकर्तृकं चित्रितम् । चित्रगुप्तलिखिता लिपिरिति यावत् । "कस्तूरिकातिलकम्" भवति । कथम्भूतम् । "क्रियासख्या" क्रियाशक्तिरूपया सख्या । "उपकल्पितम्" चित्रगुप्तमाविश्य रचितम् । "सखी" हि सख्यास्तिलकं करोति ॥ ंोट्_१,२४.१४ ॥ कालीरूपमुपस्थाय कल्पान्तेषु क्रियाकुलम् । नृत्यत्येषा पुनर्देवी स्फुटच्छैलघनारवम् ॥ ंो_१,२४.१५ ॥ "काली" कालशक्तिः । तस्या "रूपमुपस्थाय" आश्रित्य । पूर्ववृत्तापेक्षया "पुनर्" इति प्रयोगः ॥ ंोट्_१,२४.१५ ॥ पश्चात्प्रलम्बविभ्रान्तकौमाररथबर्हिभिः । नेत्रत्रयबृहद्रन्ध्रभूरिभाङ्कारभीषणैः ॥ ंो_१,२४.१६ ॥ लम्बलोलशरच्चन्द्रवितीर्णहरमूर्धजैः । उच्चरच्चारुमन्दारगौरीकवरिचामरैः ॥ ंो_१,२४.१७ ॥ उत्ताण्डवाचलाकारभैरवादरतुम्बकैः । रणत्सहस्ररन्ध्रेन्द्रदेहभिक्षाकपालकैः ॥ ंो_१,२४.१८ ॥ शुष्का शरीरखट्वाङ्गभङ्गैरापूरिताम्बरम् । भाययत्यात्मनात्मानमपि कृष्णैर्घनासितम् ॥ ंो_१,२४.१९ ॥ कुलकम् । "शुष्का" शोषणधर्मयुक्ता । प्रकृतत्वातियं नियतिः । "आत्मना" "घनासितम्" अत्यन्तकृष्णम् । "आत्मानमपि भाययति" भयाविष्टं करोति । अन्येषां तु का कथेति भावः । "आत्मानम्" कथम्भूतम् । "शरीरस्य" ये "खट्वाङ्गभङ्गाः" अर्थात्खट्वाङ्गभङ्गरूपाः अवयवाः । तैः "आपूरिताम्बरम्" । "शरीरखट्वाङ्गैः" कथम्भूतैः । "पश्चाद्" इत्यादि । "पश्चात्प्रलम्बः" अत एव "विभ्रान्तः" भ्रमन् । "कौमारः" कुमारसम्बन्धी । "रथबर्ही" येषाम् । तैः । "भाङ्काराः" वातकृताः ज्ञेयाः । "लम्बश्" चासौ "लोलश्"च यः "शरच्चन्द्रस्" । तेन "वितीर्णाः" दत्ताः । कृता इति यावत् । "हर"वत्"मूर्धजाः" येषाम् । तैः । यथा हरस्य केशाः चन्द्रकलया भासिताः भवन्ति । तथास्याः पूर्णेन शरच्चन्द्रेणेति भावः । "उच्चरच्चारुमन्दारा" विलसच्चारुमन्दारा । या "गौरीकवरी" । सा एव "चामरं" येषाम् । तैः । "उत्ताण्डवः" चासौ "अचलाकारः "। "भैरवः" महाभैरवः । स एव्"आदरतुम्बकः" आदरविषयः वाद्यभाण्डविशेषः येषाम् । तैः । "रणन्ति सहस्ररन्ध्राणि" नेत्ररूपाणि रन्ध्रसहस्राणि यस्य । तादृशः यः "इन्द्रदेहः" । स एव "भिक्षाकपालकं" येषाम् । तैः । तथा "कृष्णैः" । इदं च स्थूलदृष्ट्यर्थं बाह्यध्यानमुक्तम् । सूक्ष्मदृष्टीन् प्रति तु भङ्ग्या कुमारादिष्वपि नियतिस्पर्शः उक्तः ॥ ंोट्_१,२४.१६१९ ॥ विश्वरूपशिरश्चक्रचारुपुष्करमालया । ताण्डवेषु विवल्गन्ती महाकल्पेषु राजते ॥ ंो_१,२४.२० ॥ "विश्वरूपस्य" विराजो । यत्"शिरश्चक्रं" । तदेव "चारुपुष्करमाला" । तया ॥ ंोट्_१,२४.२० ॥ प्रमत्तपुष्करावर्तडमरूड्डामरारवैः । तस्याः किल पलायन्ते कल्पान्ते तुम्बुरादयः ॥ ंो_१,२४.२१ ॥ "डमरवः" वाद्यभाण्डविशेषाः । "उड्डामराः" उद्भटाः । "तुम्बुरे"ति गन्धर्वनाम ॥ ंोट्_१,२४.२१ ॥ नृत्यतोऽन्ते कृतान्तस्य चन्द्रमण्डलहासिनः । तारकाचन्द्रकाचारुव्योमपिञ्छावचूलिनः ॥ ंो_१,२४.२२ ॥ एकस्मिञ्श्रवणे दीर्घा हिमवानस्ति मुद्रिका । अपरेऽपि महामेरुः कान्ता काञ्चनकर्णिका ॥ ंो_१,२४.२३ ॥ "अन्ते" कल्पान्ते । "चन्द्रमण्डलम्" एव "हासः" । तद्युक्तस्य । "चन्द्रकाणि" [...] । ताभिः "चारु" यत् । "व्योमै"व "पिञ्छं" । तद्"अवचूलं" शिरोभूषणं यस्य । तादृशस्य । "मुद्रिका" श्वेतः कर्णाभरणविशेषः ॥ ंोट्_१,२४.२२२३ ॥ अत्रैव कुण्डले लोले चन्द्रार्कौ गण्डमण्डले । लोकालोकाचलश्रेणी सर्वतः कटिमेखला ॥ ंो_१,२४.२४ ॥ "गण्डमण्डले" गण्डभित्तौ । कटिस्था मेखला "कटिमेखला" ॥ ंोट्_१,२४.२४ ॥ इतश्चेतश्च गच्छन्ती विद्युद्वलयवर्णिका । अनिलान्दोलिता भाति नीरदांशुकपट्टिका ॥ ंो_१,२४.२५ ॥ "विद्युद्वलय" एव "वर्णिका" भूषणविशेषः यस्यास्। तादृशी "विद्युद्वलयवर्णिका" ॥ ंोट्_१,२४.२५ ॥ मुसुलैः पट्टिसैः शूलैः प्रासैस्तोमरमुद्गरैः । तीक्ष्णैः क्षीणजगद्व्रातकृतान्तैरिव सम्भृतैः ॥ ंो_१,२४.२६ ॥ संसारबन्धनादीर्घे पाशे कालकरच्युते । शेषभोगमहासूत्रे प्रोतैर्मालास्य शोभते ॥ ंो_१,२४.२७ ॥ "संसारबन्धना"र्थम् । "आ" समन्ताद् । "दीर्घे" । "अस्य" समनन्तरोक्तस्य । दैवापरपर्यायस्य कृतान्तस्य ॥ ंोट्_१,२४.२६२७ ॥ जीवोल्लसन्मकरिकारत्नतेजोभिरुज्ज्वला । सप्ताब्धिकङ्कणश्रेणी भुजयोरस्य भूषणम् ॥ ंो_१,२४.२८ ॥ "जीवेन उल्लसन्तः" । सजीवा इति यावत् । "मकराः" यासाम् । ताः । "कङ्कणेष्व्" अपि मकरिकाः भवन्ति । किं तु निर्जीवाः ॥ ंोट्_१,२४.२८ ॥ व्यवहारमहावर्ता सुखदुःखपरम्परा । रजःपूर्णा तमःश्यामा रोमाली तस्य राजते ॥ ंो_१,२४.२९ ॥ "व्यवहाराणां महावर्ताः" पुनः पुनरागमनानि यस्याम् । सा । तादृशी "सुखदुःखपरम्परा" "तस्य" "रोमाली" "राजते" । कथम्भूता । "रजःपूर्णा" रजोगुणभरिता । तथा "तमःश्यामा" तमोगुणमलिना । "रोमाली" अपि आवर्तयुक्ता रजःपूर्णा तमःश्यामा च भवति ॥ ंोट्_१,२४.२९ ॥ एवम्प्रायां स कल्पान्ते कृतान्तस्ताण्डवोद्भटाम् । उपसंहृत्य नृत्येहां सृष्ट्या सह महेश्वरः ॥ ंो_१,२४.३० ॥ पुनर्हास्यमयीं नृत्तलीलां सर्वस्वरूपिणीम् । तनोतीमां जरादुःखशोकाभिनयभूषिताम् ॥ ंो_१,२४.३१ ॥ "सृष्ट्या सह" नियत्या सह । "पुनः" सर्गारम्भे । "इमां" जगद्रूपाम् ॥ ंोट्_१,२४.३०३१ ॥ सर्गान्तश्लोकेनैतत्समापयति भूयः करोति भुवनानि वनान्तराणि लोकान्तराणि जनजालककल्पनां च । आचारचारुकलनां च चलाचलां च पङ्काद्यथार्भकजनो रचनामखिन्नः ॥ ंो_१,२४.३२ ॥ "चलाचलाम्" अत्यन्तचलाम् । इति शिवम् ॥ ंोट्_१,२४.३२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे चतुर्विंशः सर्गः ॥ १,२४ ॥ ************************************************************************ एवं दैवविलासमुक्त्वा फलितमाह वृत्तेऽस्मिन्नेव चैतेषां कालादीनां महामुने । संसारनाम्नि कैवास्था मादृशानां भवत्विह ॥ ंो_१,२५.१ ॥ अत इति शेषः । "वृत्ते" चरिते । "आदि"शब्देन दैवादीनां ग्रहणम् ॥ ंोट्_१,२५.१ ॥ विक्रीता इव तिष्ठाम एतैर्दैवादिभिर्वयम् । धूर्तैः प्रपञ्चचतुरैर्मुग्धा वनमृगा इव ॥ ंो_१,२५.२ ॥ स्पष्टम् ॥ ंोट्_१,२५.२ ॥ एषोऽनार्यसमाचारः कालः कवलनोन्मुखः । जगत्यविरतं लोकं पातयत्यापदर्णवे ॥ ंो_१,२५.३ ॥ स्पष्टम् ॥ ंोट्_१,२५.३ ॥ दहत्यन्ते दुराशाभिर्दैवो दारुणचेष्टया । लोकं पुष्पनिकाशाभिर्ज्वालाभिर्दहनो यथा ॥ ंो_१,२५.४ ॥ स्पष्टम् ॥ ंोट्_१,२५.४ ॥ धृतिं विधुरयत्येकामयदारूपवल्लभा । स्त्रीत्वात्स्वभावचपला नियतिर्नियमोन्मुखी ॥ ंो_१,२५.५ ॥ "आमयदा" रोगदायिनी । न रूपेण वल्लभा "अरूपवल्लभा" ॥ ंोट्_१,२५.५ ॥ ग्रसतेऽविरतं भूतजालं सर्प इवानिलम् । कृतान्तः कर्कशाचारो जरां नीत्वा जगद्वपुः ॥ ंो_१,२५.६ ॥ "जगद्" एव "वपुः" यस्य । तादृशः ॥ ंोट्_१,२५.६ ॥ यमनिर्घृणराजेन्द्रो नार्तं नामानुकम्पते । सर्वभूतदयाचारो जनो दुर्लभतां गतः ॥ ंो_१,२५.७ ॥ "आर्तं" दीनम् ॥ ंोट्_१,२५.७ ॥ सर्वा एव मुने फल्गुविभवा भूतजातयः । दुःखायैव दुरन्ताय दारुणा लोभभूमयः ॥ ंो_१,२५.८ ॥ "फल्गुविभवाः" निस्सारविभवयुक्ताः ॥ ंोट्_१,२५.८ ॥ आयुरत्यन्ततरलं मृत्युरेकस्तु निष्ठुरः । तारुण्यं चातितरलं बाल्यं जडतया हृतम् ॥ ंो_१,२५.९ ॥ स्पष्टम् ॥ ंोट्_१,२५.९ ॥ कलाकलङ्कितो लोको बन्धवो भवबन्धनम् । भोगा भवमहारोगास्तृष्णा च मृगतृष्णिका ॥ ंो_१,२५.१० ॥ "कलाभिः" परवञ्चनाख्याभिः कलाभिः । "कलङ्कितः" ॥ ंोट्_१,२५.१० ॥ शत्रवश्चेन्द्रियाण्येव सत्यं यातमसत्यताम् । प्रहरत्यात्मनैवात्मा मन एव मनोरिपुः ॥ ंो_१,२५.११ ॥ "आत्मा" । "आत्मना" स्वयम् । "प्रहरत्य्" आत्मानम् । दुर्विकल्पैरिति शेषः । "मन" "एव" अशुद्धमनः एव । न त्वन्यः । "मनोरिपुः" शुद्धस्य मनसो रिपुः भवति ॥ ंोट्_१,२५.११ ॥ अहङ्कारः कलङ्काय बुद्धयः परिपेलवाः । क्रिया दुष्फलदायिन्यो लीलाः स्त्रीनिष्ठतां गताः ॥ ंो_१,२५.१२ ॥ "परिपेलवा" अतीक्ष्णाः ॥ ंोट्_१,२५.१२ ॥ वाञ्छाविषयशालिन्यः सचमत्कृतयः कृताः । नार्यो दोषपताकिन्यो रसा नीरसतां गताः ॥ ंो_१,२५.१३ ॥ "वाञ्छाविषयाश्" च ताः "शालिन्यश्" च आपातरमणीयाश्च । तादृश्यः "नार्यः" । "सचमत्कृतयः" चमत्कारयुक्ताः । "कृताः" कल्पिताः । भाविता इति यावत् । कीदृश्यः "नार्यः" । "दोषपताकिन्यः" । रागादिदोषमयत्वात्रागादि"दोषपताकिन्यः" । "रसाः" शास्त्रादिविषयाः अभिलाषाः । "नीरसतां" शुष्कतां "गताः" ॥ ंोट्_१,२५.१३ ॥ वस्त्ववस्तुतया चात्तं दत्तं चित्तमहङ्कृतौ । अभावरोधिता भावा भवान्तो नाधिगम्यते ॥ ंो_१,२५.१४ ॥ अस्माभिः । "वस्तु" सत्यं वस्तु । "अवस्तुतया" देहोऽहमित्येवंरूपेण अवस्तुभावेन्"आत्तं" गृहीतम् । तथा "चित्तम्" "अहङ्कृतौ" "दत्तम्" अहङ्कारग्रस्तं कृतमित्यर्थः । "भावाः" "अभावरोधिताः" नाशगृहीताः । न ज्ञाता इति शेषः । अतः "भवान्तः" "नाधिगम्यते" न प्राप्यते ॥ ंोट्_१,२५.१४ ॥ तप्यते केवलं साधो मतिराकुलितान्तरा । रागोरगो विलसति विरागं नोपगच्छति ॥ ंो_१,२५.१५ ॥ "विरागं" रागाभावः । "नोपगच्छति" नागच्छति ॥ ंोट्_१,२५.१५ ॥ रजोगुणहता दृष्टिस्तमः सम्परिवर्धते । न चाधिगम्यते सत्त्वं तत्त्वमत्यन्तदूरतः ॥ ंो_१,२५.१६ ॥ "तत्त्वम्" परमार्थः ॥ ंोट्_१,२५.१६ ॥ स्थितिरस्थिरतां याता मृतिरागमनोन्मुखी । धृतिर्वैधुर्यमायाति रतिर्नित्यमवस्तुनि ॥ ंो_१,२५.१७ ॥ "अवस्तुनि" अवस्तुभूते देहादौ ॥ ंोट्_१,२५.१७ ॥ मतिर्मान्द्येन मलिना पातैकपरमं वपुः । ज्वलतीव जरा देहे प्रविस्फूर्जति दुष्कृतम् ॥ ंो_१,२५.१८ ॥ "मान्द्येन" जाड्येन ॥ ंोट्_१,२५.१८ ॥ यत्नेनायाति युवता दूरे सज्जनसङ्गतिः । गतिर्न विद्यते काचित्क्वचिन्नोदेति सत्यता ॥ ंो_१,२५.१९ ॥ "युवता" लक्षणया स्त्र्यासक्तिः ॥ ंोट्_१,२५.१९ ॥ मनो विमुह्यतीवान्तर्मुदिता दूरतो गता । नोज्ज्वला करुणोदेति दूरादायाति नीचता ॥ ंो_१,२५.२० ॥ स्पष्टम् ॥ ंोट्_१,२५.२० ॥ धीरताधीरतामेति पातोत्पातपरो जनः । सुलभो दुर्जनाश्लेषो दुर्लभः साधुसङ्गमः ॥ ंो_१,२५.२१ ॥ "धीरता" "अधीरताम्" "एति" नश्यतीत्यर्थः ॥ ंोट्_१,२५.२१ ॥ आगमापायिनो भावा भावना भवबन्धनी । नीयते केवलं क्वापि नित्यं भूतपरम्परा ॥ ंो_१,२५.२२ ॥ "नीयते" । कालेनेति शेषः ॥ ंोट्_१,२५.२२ ॥ दिशोऽपि हि न दृश्यन्ते देशोऽप्यव्यपदेशभाक् । शैला अपि हि शीर्यन्ते कैवास्था मादृशे जने ॥ ंो_१,२५.२३ ॥ "देशः" "अव्यपदेशभाक्" देशेति व्यपदेशं न भजतीति तादृक्स्यात् । देशस्यापि देशेति नाम कालेन न स्यादित्यर्थः । यत्रेदृशानामीदृशा दशा भविष्यन्ति तत्र "मादृशे जने का एव आस्था" को विश्वासः स्यादिति भावः ॥ ंोट्_१,२५.२३ ॥ द्रवन्त्यपि समुद्राश्च शीर्यन्ते तारका अपि । सिद्धा अपि न सिध्यन्ति कैवास्था मादृशे जने ॥ ंो_१,२५.२४ ॥ स्पष्टम् ॥ ंोट्_१,२५.२४ ॥ अद्यतेऽसत्तयापि द्यौर्भुवनं चापि भज्यते । धरापि याति वैधुर्यं कैवास्था मादृशे जने ॥ ंो_१,२५.२५ ॥ "असत्तया" नाशेन । "द्यौर्" "अपि" "अद्यते" ग्रस्यते ॥ ंोट्_१,२५.२५ ॥ दानवा अपि दीर्यन्ति ध्रुवोऽप्यध्रुवजीवितः । अमरा अपि मार्यन्ते कैवास्था मादृशे जने ॥ ंो_१,२५.२६ ॥ "मार्यन्ते" । कालेनेति शेषः ॥ ंोट्_१,२५.२६ ॥ शक्रोऽप्याक्रम्यते शक्रैर्यमोऽपि हि नियम्यते । वायोरप्यस्त्यवायुष्ट्वं कैवास्था मादृशे जने ॥ ंो_१,२५.२७ ॥ "शक्रैः" नवीनैः शक्रैः ॥ ंोट्_१,२५.२७ ॥ सोमोऽपि व्योमतामेति मार्ताण्डोऽप्येति खण्डनम् । रुग्णतामग्निरप्येति कैवास्था मादृशे जने ॥ ंो_१,२५.२८ ॥ "व्योमताम्" । नाशमित्यर्थः ॥ ंोट्_१,२५.२८ ॥ परमेष्ठ्यप्यनिष्ठावान् हरते हरिमप्यजः । भवोऽप्यभवतां याति कैवास्था मादृशे जने ॥ ंो_१,२५.२९ ॥ "भवोऽप्य्" श्रीमहादेवोऽपि । "अभवताम्" अमहादेवभावम् ॥ ंोट्_१,२५.२९ ॥ कालः शकलतामेति नियतिश्चापि नीयते । खमप्यालीयतेऽनन्ते कैवास्था मादृशे जने ॥ ंो_१,२५.३० ॥ "अनन्ते" अन्तरहिते कस्मिंश्चिद्वस्तुनि ॥ ंोट्_१,२५.३० ॥ अश्रव्यावाच्यदुर्दर्शतन्त्रेणाज्ञातमूर्तिना । भुवनानि विडम्ब्यन्ते केनापि भ्रमदायिना ॥ ंो_१,२५.३१ ॥ "अश्रव्यं" तथा "अवाच्यं" तथा "दुर्दर्शं" "तन्त्रं" वञ्चनोपायः । यस्य । तादृशेन । "केना"पीति अनिर्वाच्येनेत्यर्थः ॥ ंोट्_१,२५.३१ ॥ अहङ्कारकलामेत्य सर्वत्रान्तरवासिना । न सोऽस्ति त्रिषु लोकेषु यस्तेनेह न बध्यते ॥ ंो_१,२५.३२ ॥ देहादौ आत्मभावः "अहङ्कारः" । "तेन" केनापीत्यर्थः ॥ ंोट्_१,२५.३२ ॥ शिलाशैलकटप्रेषु साश्वसूतो दिवाकरः । वनपाषाणवन्नित्यमवशः परिदोल्यते ॥ ंो_१,२५.३३ ॥ शिलायुक्ताः शैलाः "शिलाशैलाः" । तेषां "कटप्राः" समूहाः । तेषु "परिदोल्यते" दोलनं कार्यते ॥ ंोट्_१,२५.३३ ॥ धरागोलकमन्तःस्थसुरासुरगणास्पदम् । वेष्ट्यते धिष्ण्यचक्रेण पक्वाक्षोटमिव त्वचा ॥ ंो_१,२५.३४ ॥ "धरागोलकम्" भूगोलम् । "वेष्ट्यते" वेष्टनयुक्तं क्रियते । "धिष्ण्यचक्रेणे"ति करणे तृतीया ॥ ंोट्_१,२५.३४ ॥ दिवि देवा भुवि नराः पातालेऽसुरभोगिनः । कल्पिताः कल्पमात्रेण नीयन्ते जर्जरां दशाम् ॥ ंो_१,२५.३५ ॥ "असुरभोगिनः" दैत्यसर्पाः । "कल्पमात्रेण" कल्पमात्रपरिमाणेन ॥ ंोट्_१,२५.३५ ॥ कामश्च जगतीशानरणलब्धपराक्रमः । अक्रमेणैव विक्रान्तो लोकमाक्रम्य वल्गति ॥ ंो_१,२५.३६ ॥ "ईशानेन" यः "रणः" । तेन "लब्धः" "पराक्रमः" । येन । तादृशः ॥ ंोट्_१,२५.३६ ॥ वसन्तो मत्तमातङ्गो मदैः कुसुमवर्षनः । आमोदितककुप्चक्रश्चेतो नयति वक्रताम् ॥ ंो_१,२५.३७ ॥ "मदैः" मदवारिभिः । "वक्रतां" कामकलाविदग्धत्वम् । कामप्रसङ्गेनेह वसन्ताभिधानम् ॥ ंोट्_१,२५.३७ ॥ अनुरक्ताङ्गनालोकलोचनालोकिताकृति । स्पष्टीकर्तुं मनः शक्तो न विवेको महानपि ॥ ंो_१,२५.३८ ॥ "महानपि विवेकः मनः स्पष्टीकर्तुं" शुद्धीकर्तुम् । "शक्तो न" भवति । "मनः" कथम्भूतम् । "अनुरक्तो" यः "अङ्गनालोकः" । तस्य यत्"लोचनालोकितम्" दृष्टिपातस्। तद्वद्"आकृतिः" यस्य । तादृशम् । अत्यन्तचलमित्यर्थः ॥ ंोट्_१,२५.३८ ॥ परोपकारकारिण्या परार्त्या परितप्तया । बुद्ध एव सुखी मन्ये स्वार्थशीतलया धिया ॥ ंो_१,२५.३९ ॥ "बुद्धः" ज्ञानी । "स्वार्थे" स्वप्रयोजने । "शीतलया" । न स्वार्थनिमित्तं परितप्तयेति यावत् ॥ ंोट्_१,२५.३९ ॥ उत्पन्नध्वंसिनः कालवडवानलपातिनः । सङ्ख्यातुं केन शक्यन्ते कल्लोला जीविताम्बुधेः ॥ ंो_१,२५.४० ॥ "जीविताम्बुधेः" "कल्लोलाः" जीवा इत्यर्थः ॥ ंोट्_१,२५.४० ॥ सर्व एव नरा मोहाद्दुराशापाशपातिनः । दोषगुल्मकसारङ्गा निगीर्णा जन्मजङ्गले ॥ ंो_१,२५.४१ ॥ "दोषगुल्मकसारङ्गाः" दोषप्रिया इत्यर्थः । मृगो गुल्मप्रियो भवति । "निगीर्णाः" ग्रस्ताः । मोहेनेति शेषः । सारङ्गा अपि पाशपातिनः "जङ्गले" किरातेन ग्रस्ता भवन्ति ॥ ंोट्_१,२५.४१ ॥ सङ्क्षीयते जगति जन्मपरम्परासु लोकस्य तैरिह कुकर्मभिरायुरेतत् । आकाशपादपलताकृतपाशकल्पं येषां फलं न हि विचारविदोऽपि विद्मः ॥ ंो_१,२५.४२ ॥ "आकाशपादपलताकृतपाशकल्पम्" असदित्यर्थः । "इह" कर्म कुर्वन्तीति भावः ॥ ंोट्_१,२५.४२ ॥ सर्गान्तश्लोकेनैतत्समापयति अद्योत्सवोऽयमृतुरेष तथेह यात्रा ते बान्धवाः सुखमिदं स विशेषभोगः । इत्थं मुधैव कलयन् स्वविकल्पजालम् आलोलपेलवमतिर्गलतीह लोकः ॥ ंो_१,२५.४३ ॥ "आलोलपेलवमतिर्" अतिचञ्चलस्वल्पबुद्धिरित्यर्थः । "स्वविकल्पजालम्" इत्यनेन "उत्सवा"दीनामत्यन्तासत्त्वमुक्तम् । इति शिवम् ॥ ंोट्_१,२५.४३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे पञ्चविंशः सर्गः ॥ १,२५ ॥ ************************************************************************ पुनरपि संसारदुर्विलसितमेव कथयति अन्यच्च तातातितरामरम्ये मनोरमे वेह जगत्स्वरूपे । न किञ्चिदप्येति तदर्थजातं येनातिविश्रान्तिमुपैति चेतः ॥ ंो_१,२६.१ ॥ अहं ब्रवीमीति शेषः । हे "ताता"हम् "अन्यच्च" ब्रवीमि । किं ब्रवीषीत्यपेक्षायामाह्"आतितराम्" इति । "मनोरमे वा" मनोरमे इव । "अर्थजातम्" पदार्थसमूहः । अत्यन्तविश्रान्तौ हि सत्यामन्यार्थविषयाकाङ्क्षा न पुनरुद्भवेदिति भावः ॥ ंोट्_१,२६.१ ॥ बाल्ये गते कल्पितकेलिलोले वयोमृगे दारदरीषु कीर्णे । शरीरके जर्जरतां प्रयाते विदूयते केवलमेव लोकः ॥ ंो_१,२६.२ ॥ "वयोमृगे" यौवनाख्ये मृगे । "जर्जरतां" वृद्धत्वम् । "विदूयते" सन्तप्यते ॥ ंोट्_१,२६.२ ॥ जरातुषाराभिहतां शरीर सरोजिनीं दूरतरे विहाय । क्षणाद्गते जीवितचञ्चरीके जनस्य संसारसरो विशुष्कम् ॥ ंो_१,२६.३ ॥ "विहाय" त्यक्त्वा । "जीवितचञ्चरीके" जीविताख्ये भ्रमरे ॥ ंोट्_१,२६.३ ॥ यदा यदा पाकमुपैति नूनं तदा तदेयं नवमातनोति । जराभरानल्पनवप्रसूनं विजर्जरा कायलता नराणाम् ॥ ंो_१,२६.४ ॥ "नूनं" निश्चये । "नवम्" इति क्रियाविशेषणम् । तेन न पौनरुक्त्यम् । आश्चर्यं च पाकं गतायाः लतायाः नवप्रसूनस्य नवमातननम् ॥ ंोट्_१,२६.४ ॥ तृष्णानदी सारतरप्रवाह ग्रस्ताखिलानन्तपदार्थजाता । तटस्थसन्तोषसुवृक्षमूल निकाषदक्षा वहतीह लोके ॥ ंो_१,२६.५ ॥ स्पष्टम् ॥ ंोट्_१,२६.५ ॥ शरीरनौश्चर्मनिबद्धबन्धा भवाम्बुधावालुलिता भ्रमन्ती । प्रव्रोड्यते पञ्चभिरिन्द्रियाख्यैर् अधो वहन्ती मकरैरधीना ॥ ंो_१,२६.६ ॥ "पञ्चभिर्" "इन्द्रियाख्यैः" "मकरैः" "शरीरनौः" "प्रव्रोड्यते" मग्ना सम्पाद्यते इति सम्बन्धः । "आलुलितं" समन्ताच्चञ्चलम् ॥ ंोट्_१,२६.६ ॥ तृष्णालताकाननचारिणोऽमी शाखाशतं काममहीरुहेषु । परिभ्रमन्तः क्षपयन्ति कामम् मनोमृगा नो फलमाप्नुवन्ति ॥ ंो_१,२६.७ ॥ "कामं" निश्चये । "तृष्णालतानां" यत्"काननम्" । तत्र "चरन्ती"ति तादृशास्। तथा "परिभ्रमन्तः" परिभ्रमणशीलाः । "अमी" "मनोमृगाः" । "काममहीरुहेषु" काननगतेषु परमकामाख्यवृक्षेषु । गतम् "शाखाशतं" । अर्थातवान्तरकामरूपं "शाखाशतं" । "क्षपयन्ति" चालयन्ति । स्वविषयं कुर्वन्तीति यावत् । तथापि "फलं" "नो" "आप्नुवन्ति" ॥ ंोट्_१,२६.७ ॥ कृच्छ्रेषु दूरास्तविषादमोहाः स्वाम्येष्वनुत्सिक्तमनोऽभिरामाः । सुदुर्लभाः सम्प्रति सुन्दरीभिर् अनाहतान्तःकरणा महान्तः ॥ ंो_१,२६.८ ॥ "कृच्छ्रेषु" आपत्सु । "स्वाम्येषु" सम्पत्सु । "अनुत्सिक्तं" दर्परहितं सत् । "मनः" । तेन्"आभिरामाः" ॥ ंोट्_१,२६.८ ॥ तरन्ति मातङ्गघटातरङ्गं रणाम्बुधिं ये मयि ते न शूराः । शूरास्त एवेह मनस्तरङ्गं ये स्वेन्द्रियाम्भोधिमिमं तरन्ति ॥ ंो_१,२६.९ ॥ स्पष्टम् ॥ ंोट्_१,२६.९ ॥ अक्लिष्टपर्यन्तफलाभिरामा न दृश्यते कस्यचिदेव काचित् । क्रिया दुराशाहतचित्तवृत्तेर् यामेत्य विश्रान्तिमुपैति लोकः ॥ ंो_१,२६.१० ॥ स्पष्टम् ॥ ंोट्_१,२६.१० ॥ कीर्त्या जगद्दिक्कुहरं प्रतापैः श्रिया गृहं सत्त्वबलेन लक्ष्मीम् । ये पूरयन्त्यक्षतधैर्यबन्धा न ते जगत्यां सुलभा महान्तः ॥ ंो_१,२६.११ ॥ स्पष्टम् ॥ ंोट्_१,२६.११ ॥ अप्यन्तरस्थं गिरिशैलभित्तेर् वज्रालयाभ्यन्तरसंस्थितं वा । सर्वं समायान्ति समिद्धवेगाः सर्वाः श्रियः सन्ततमापदश्च ॥ ंो_१,२६.१२ ॥ शिलानामियं शैला । सा चासौ भित्तिः "शैलभित्तिः" । गिरेः शैलभित्तिः "गिरिशैलभित्तिस्" । तस्याः ॥ ंोट्_१,२६.१२ ॥ पुत्राश्च दाराश्च धनं च बुद्ध्या प्रकल्प्यते तात रसायनं च । सर्वं तु तन्नाम करोत्यथान्ते यत्रातिरम्या विषमूर्छनैव ॥ ंो_१,२६.१३ ॥ "प्रकल्प्यते" कल्पनया भाव्यते । "रसायनम्" । अमृतमिव । "च"शब्द इवार्थः । "अन्ते" परिणामे ॥ ंोट्_१,२६.१३ ॥ विषादयुक्तो विषमामवस्थाम् उपागतः कायवयोऽवसाने । भावान् स्मरन् स्वानभिधर्मरिक्ताञ् जनो जरावानभिदह्यतेऽन्तः ॥ ंो_१,२६.१४ ॥ "कायवयोऽवसाने" वृद्धत्वे । "भावान्" अभिलाषान् । अभितः धर्मेण रिक्तान् "अभिधर्मरिक्तान्" । "अन्तः" मनसि ॥ ंोट्_१,२६.१४ ॥ कामार्थधर्माप्तिकृशान्तराभिः क्रियाभिरादौ दिवसानि नीत्वा । चेतश्चलद्बर्हिणपिञ्छलोलं विश्रान्तिमागच्छतु केन पुंसाम् ॥ ंो_१,२६.१५ ॥ "कामार्थधर्माणां" या "आप्तिः" । तया "कृशान्तराभिः" निःसाराभिः । मोक्षार्थं न कश्चित्क्रियां करोतीति भावः ॥ ंोट्_१,२६.१५ ॥ पुरोगतैरप्यनवाप्तरूपैस् तरङ्गिणीतुङ्गतरङ्गकल्पैः । क्रियाफलैः दैववशादुपेतैर् विडम्ब्यते भिन्नरुचिर्हि लोकः ॥ ंो_१,२६.१६ ॥ "हि" निश्चये । "विडम्ब्यते" वञ्च्यते । "क्रियाफलानां" च "अनवाप्तरूप"त्वं क्षणनश्वरत्वेन ज्ञेयम् ॥ ंोट्_१,२६.१६ ॥ इमान्यमूनीति विभावितानि कार्याण्यपर्यन्तमनोरमाणि । जनस्य जायाजनरञ्जनेन जटाजरान्तं जरयन्ति चेतः ॥ ंो_१,२६.१७ ॥ "जायाजनरञ्जनेने"ति हेतौ तृतीया । "जटानां" या "जरा" । तद्"अन्तम्" ॥ ंोट्_१,२६.१७ ॥ पर्णानि शीर्णानि यथा तरूणां समेत्य जन्माशु लयं प्रयान्ति । तथैव लोकाः स्वविवेकहीनाः समेत्य गच्छन्ति कुतोऽप्यहोभिः ॥ ंो_१,२६.१८ ॥ "स्वविवेकहीनाः" आत्मविचाररहिताः ॥ ंोट्_१,२६.१८ ॥ इतस्ततो दूरतरं विहृत्य प्रविश्य गेहं दिवसावसाने । विवेकिलोकाश्रयिसाधुकर्म रिक्तेऽह्नि याते क उपैति निद्राम् ॥ ंो_१,२६.१९ ॥ स्पष्टम् ॥ ंोट्_१,२६.१९ ॥ विद्राविते शत्रुजने समस्ते समागतायामभितश्च लक्ष्म्याम् । सेव्यन्त एतानि सुखानि यावत् तावत्समायाति कुतोऽपि मृत्युः ॥ ंो_१,२६.२० ॥ स्पष्टम् ॥ ंोट्_१,२६.२० ॥ कुतोऽपि संवर्धिततुच्छरूपैर् भावैरमीभिः क्षणदृष्टनष्टैः । विलोभ्यमाना जनता जगत्यां न वेत्त्युपायातमहो न यातम् ॥ ंो_१,२६.२१ ॥ "कुतोऽपि" अनिर्वाच्यात्कस्माच्चिद्वस्तुनः । "भावैः" पदार्थैः । "उपायातम्" भावविषयजन्म । "यातम्" भावविषयसरणम् ॥ ंोट्_१,२६.२१ ॥ यियासुभिः कालमुखं क्रियन्ते जनैडकैस्ते हतकर्मबन्धाः । ये पीनतामेव बलादुपेत्य शरीरबन्धे ननु ते भवन्ति ॥ ंो_१,२६.२२ ॥ "जनैडकैः" जनाख्यैः मेषैः । "ते" "हतकर्मबन्धाः" कुत्सितकर्मप्रपञ्चाः । "क्रियन्ते" । "ते" के । "ये" प्रतिस्वं स्थिताः" "ये "बलाद्" हठेन । "पीनताम्" "एव" न तु क्षीनताम् । "एत्य" आगत्य । "ते" तव । "शरीरबन्धे" शरीरबन्धार्थम् । "ननु" "भवन्ति" निश्चयेन भवन्तीत्यर्थः । कर्मवशादेव हि पुरुषः देहबन्धं प्राप्नोति ॥ ंोट्_१,२६.२२ ॥ अजस्रमागच्छति सत्वरेयम् अनारतं गच्छति सत्वरैव । कुतोऽपि लोला जनता जगत्यां तरङ्गमाला क्षणभङ्गुरेव ॥ ंो_१,२६.२३ ॥ "जनता" जनसमूहः ॥ ंोट्_१,२६.२३ ॥ प्राणापहारैकपरा नराणाम् मनो मनोहारितया हरन्ति । रक्तच्छदाः षट्पदचञ्चलाक्ष्यो विषद्रुमालोललताः स्त्रियश्च ॥ ंो_१,२६.२४ ॥ "हरन्ति" स्ववशीकुर्वन्ति मोहयन्ति च । "रक्तच्छदाः" रक्तपत्त्राः रक्ताधराश्च । "लोललताः" लोलशाखाः । लक्षणया लोलभुजाश्च ॥ ंोट्_१,२६.२४ ॥ इतोऽन्यतश्चोपगता मुधैव समानसङ्केतनिबन्धभावा । यात्रासमासङ्गसमा नराणां कलत्रमित्रव्यवहारमाया ॥ ंो_१,२६.२५ ॥ "सङ्केतः" गन्तव्यो देशः । यथा "यात्रायाम्" मार्गे जना अन्योऽन्यं रात्रौ मिलित्वा प्रभाते "समानं" गन्तव्यं देशं गच्छन्ति । तथा संसारेऽपि पुत्रादिभिः मिलित्वा मृत्वा परलोकाख्यं देशं गच्छन्ति । अतस्तेषु भावबन्धनं न युक्तमिति भावः ॥ ंोट्_१,२६.२५ ॥ प्रदीपशान्तिष्विव भुक्तभूरि दशास्वतिस्नेहनिबन्धनीषु । संसारमायासु चलाचलासु न ज्ञायते तत्त्वमतात्त्विकीषु ॥ ंो_१,२६.२६ ॥ "अतिस्नेहः" रागाधिक्यं तैलाधिक्यं च । स "निबन्धनं" कारणं यासाम् । ताः । तादृशीषु "चलाचलासु" अतिचञ्चलासु । "अतात्त्विकीषु" असत्यासु ॥ ंोट्_१,२६.२६ ॥ संसारसंरम्भकुचक्रिकेयम् प्रावृट्पयोबुद्बुदभङ्गुरापि । असावधानस्य जनस्य बुद्धौ चिरस्थिरप्रत्ययमातनोति ॥ ंो_१,२६.२७ ॥ अत्यन्तं भ्रम्यमाणा "चक्रिकापि" "असावधानस्य" "जनस्य" "बुद्धौ" "स्थिरताप्रत्ययम्" आदधाति । अत्यन्तवैराग्याविष्टत्वात्"कु"शब्दप्रयोगः ॥ ंोट्_१,२६.२७ ॥ शोभोज्ज्वला दैन्यवशाद्विनष्टा गुणाः स्थिताः सम्प्रति जर्जरत्वे । आश्वासना दूरतरं प्रयाता जनस्य हेमन्त इवाम्बुजस्य ॥ ंो_१,२६.२८ ॥ "जर्जरत्वे "नाशौन्मुख्ये । "जनस्याश्वासना" जनकर्तृकम् "आश्वासनम्" ॥ ंोट्_१,२६.२८ ॥ पुनः पुनर्दैववशादुपेत्य स्वदेहभारेण कृतापकारः । विलूयते यत्र तरुः कुठारैर् आश्वासने तत्र हि कः प्रसङ्गः ॥ ंो_१,२६.२९ ॥ "यत्र" "दैववशात्" "पुनः पुनः उपेत्य" उपागत्य । "स्वदेहभारेण" शाखोपशाखभारेण । "कृतः अपकारो" यस्य । सः "तरुः कुठारैः" जनेन "लूयते" । "हि" निश्चये । "तत्र" तस्मिन् संसारे । "आश्वासने कः प्रसङ्गः" का युक्तता भवति । "उपेत्ये"त्यस्य "कृते"त्यनेन सहैककर्तृत्वं बृहद्भयाय एव भवतीति भावः ॥ ंोट्_१,२६.२९ ॥ मनोरमस्याप्यतिदोषवृत्तेर् अन्तर्विघाताय समुत्थितस्य । विषद्रुमस्येव जनस्य सङ्गाद् आसाद्यते सम्प्रति मूर्च्छनैव ॥ ंो_१,२६.३० ॥ "अति"शयेन "दोषे वृत्तिर्" यस्य । सः । तस्य ॥ ंोट्_१,२६.३० ॥ कास्ता दृशो यासु न सन्ति दोषाः कास्ता दिशो यासु न दुःखदाहः । कास्ताः प्रजा यासु न भङ्गुरत्वं कास्ताः क्रिया यासु न नाम माया ॥ ंो_१,२६.३१ ॥ "माया" कपटः ॥ ंोट्_१,२६.३१ ॥ कल्पाभिधानक्षणजीविनोऽपि कल्पौघसङ्ख्याकलने विरिञ्चाः । अतः कलाशालिनि कालजाले लघुत्वदीर्घत्वधियोऽप्यसत्याः ॥ ंो_१,२६.३२ ॥ "कल्पौघानां" "कलने" गणने । क्रियमाणे इति शेषः । क्रियमाणे सति "विरिञ्चा" "अपि" ब्रह्माणः अपि । "कल्पाभिधानक्षणजीविनः" भवन्ति । फलितमाह्"आत" इति । "कलाः" कल्पादिरूपाः । ताभिह्"शालिनि" ॥ ंोट्_१,२६.३२ ॥ सर्वत्र पाषाणमया महीध्रा मृदा मही दारुभिरेव वृक्षाः । मांसैर्जनाः पौरुषबद्धभावा नापूर्वमस्तीह विकारहीनम् ॥ ंो_१,२६.३३ ॥ "पौरुषे" पुरुषकारे । "बद्धाः" "भावाः" येषाम् । ते ॥ ंोट्_१,२६.३३ ॥ आलोक्यते चेतनयानुविद्धः पयोनिबद्धोऽणुचयो नभःस्थः । पृथग्विभागेन पदार्थलक्ष्म्या एतज्जगन्नेतरदस्ति किञ्चित् ॥ ंो_१,२६.३४ ॥ "चेतनया" "अनुविद्धः" व्याप्तः । "नभःस्थः पयोनिबद्धः" जलावष्टब्धः । "अणुचयः" परमाणुसमूहः । "पदार्थलक्ष्म्याः पृथग्विभागेन" पदार्थलक्ष्मीसम्बन्धिना पृथक्विभागेन । "आलोक्यते" । उक्तविशेषणाः परमाणव एव नानार्थभावेन दृश्यन्ते इति यावत् । "एतज्जगद्" अस्ति । "इतरत्" अन्यत् । "किञ्चिज्जगन्" "नास्ति" । पदार्थनानाभावस्यैव जगत्त्वात् । अतश्चात्र किं रम्यत्वं किं वारम्यत्वमिति भावः ॥ ंोट्_१,२६.३४ ॥ चमत्कृतिश्चेह मनस्विलोके चेतश्चमत्कारकरी नराणाम् । स्वप्नेऽपि साधो विषयं कदाचित् केषाञ्चिदप्येति न चित्ररूपा ॥ ंो_१,२६.३५ ॥ "इह" संसारे । "मनस्विलोके" इति निर्धारणे । तेषामपि मनस्विनां मध्ये संसारे चित्तानन्दकरी "केषामपि" "चमत्कृतिर्" नास्तीति पिण्डार्थः ॥ ंोट्_१,२६.३५ ॥ अद्यापयाते त्वपि कल्पनाया आकाशवल्लीफलवन्महत्त्वे । उदेति नालोभलवाहतानाम् उदारवृत्तान्तमयी कथैव ॥ ंो_१,२६.३६ ॥ "अद्या"स्मिन् वैराग्यसमये । "कल्पनायाः" संसारकल्पनायाः । "उदारवृत्तान्तमयी" "कथा" अध्यात्मशास्त्रकथा । "अलोभलवाहतानां" लोभरहितानामस्माकमित्यर्थः । एतदनुभवे तु का कथेत्य्"एव"शब्दाभिप्रायः ॥ ंोट्_१,२६.३६ ॥ आदातुमिच्छन् पदमुत्तमानां स्वचेतसैवोपहतोऽद्य लोकः । पतत्यशङ्कं पशुरद्रिकूटाद् आनीलवल्लीदलवाञ्छयेव ॥ ंो_१,२६.३७ ॥ स्पष्टम् ॥ ंोट्_१,२६.३७ ॥ अवान्तरन्यस्तनिरर्थकांस च्छायालतापत्त्रफलप्रसूनाः । शरीर एव क्षतसम्पदश्च श्वभ्रद्रुमा अद्यतना नराश्च ॥ ंो_१,२६.३८ ॥ "श्वभ्रद्रुमाः" कथम्भूताः । "अवान्तरे" न तु विश्रान्तिस्थाने । "न्यस्तानि" स्थापितानि । "निरर्थकानि" अन्येषामुपयोगित्वाभावेन अर्थशून्यानि । "अंसच्छायालतापत्त्रफलप्रसूनानि" यैः । ते । "अद्यतनाः" "नराः" कथम्भूताः । "शरीरे एव "स्वशरीरार्थमेव । न तु परोपकारार्थम् । "क्षतसम्पदः" । "अंस"शब्दोऽत्र लक्षणया द्रुमस्कन्दवाचकः । अन्यत्स्वयमभ्यूहम् ॥ ंोट्_१,२६.३८ ॥ क्वचिज्जना मार्दवसुन्दरेषु क्वचित्करालेषु च सञ्चरन्ति । दशान्तरालेषु निरन्तरेषु वनान्तषण्डेष्विव कृष्णशाराः ॥ ंो_१,२६.३९ ॥ "दशान्तरालेषु" दशामध्येषु ॥ ंोट्_१,२६.३९ ॥ धातुर्नवानि दिवसं प्रति भीषणानि रम्याणि चावलुलिताखिलमानवानि । कार्याणि कष्टफलपाकहतोदयानि विस्मापयन्ति न शठस्य मनांसि केषाम् ॥ ंो_१,२६.४० ॥ "धातुः" दैवस्य । "दिवसम्" "प्रति" प्रतिदिवसम् । "अवलुलिताः" चाञ्चल्यं नीताः । "अखिलाः" "मानवाः" यैः । तानि । "शठस्ये"ति धातारं प्रति कोपातिशयं सूचयति ॥ ंोट्_१,२६.४० ॥ सर्गान्तश्लोकेनैतत्समापयति जनः कामासक्तो विविधकुकलावेदनपरः समः स्वप्नेऽप्यस्मिञ्जगति सुलभो नाद्य सुजनः । क्रिया दुःखासङ्गाद्विधुरविधुरा नूनमखिला न जाने नेतव्या कथमिव दशा जीवितमयी ॥ ंो_१,२६.४१ ॥ "कामासक्तः" स्वप्नयोजनमात्रपरः । "आवेदनम्" प्रकटीकरणम् । इति शिवम् ॥ ंोट्_१,२६.४१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे षड्विंशः सर्गः ॥ १,२६ ॥ ************************************************************************ एवं जगतो नित्यतामुक्त्वाथ तद्विपर्यासं कथयति यच्चेदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् । तत्सर्वमस्थिरं ब्रह्मन् स्वप्नसङ्गमसन्निभम् ॥ ंो_१,२७.१ ॥ स्पष्टम् ॥ ंोट्_१,२७.१ ॥ अस्थिरत्वमेव विस्तरतः कथयति शुष्कसागरसङ्काशो निखातो योऽद्य दृश्यते । स प्रातरभ्रसंवीतो नगः सम्पद्यते मुने ॥ ंो_१,२७.२ ॥ "निखातः" गर्तः ॥ ंोट्_१,२७.२ ॥ यो वनव्यूहविस्तीर्णो विलीढगगनोऽचलः । दिनैरेव स यात्युर्वीसमतां कूपतां च वा ॥ ंो_१,२७.३ ॥ "विलीढगगनः" व्याप्ताकाशः ॥ ंोट्_१,२७.३ ॥ यदङ्गमद्य संवीतं कौशेयस्रग्विलेपनैः । दिगम्बरं तदेव श्वो दूरे विशरितावटे ॥ ंो_१,२७.४ ॥ "श्वो" दिने । "विशरिता" विशीर्णो भविता ॥ ंोट्_१,२७.४ ॥ यत्राद्य नगरं दृष्टं विचित्राचारचञ्चलम् । तत्रैवोदेति दिवसैः संशून्यारण्यधन्वता ॥ ंो_१,२७.५ ॥ "धन्वा" मरुः ॥ ंोट्_१,२७.५ ॥ यः पुमानद्य तेजस्वी मण्डलान्यधितिष्ठति । स भस्मकूटतां राजन् दिवसैरधिगच्छति ॥ ंो_१,२७.६ ॥ "मण्डलानि" देशान् । "भस्मकूटताम्" भस्मचयभावम् ॥ ंोट्_१,२७.६ ॥ अरण्यानी महाभीमा या नभोमण्डलोपमा । पताकाच्छादिताकाशा सैव सम्पद्यते पुरी ॥ ंो_१,२७.७ ॥ स्पष्टम्॥ ंोट्_१,२७.७ ॥ या लतावलिता भीमा भात्यद्य विपिनावली । दिवसैरेव सा याति मुने मरुमहीपदम् ॥ ंो_१,२७.८ ॥ "मरुमहीपदम्" मरुमहीभावम् ॥ ंोट्_१,२७.८ ॥ सलिलं स्थलतां याति स्थली भवति वारिभूः । विपर्यस्यति सर्वं हि सकाष्ठाम्बुतृणं जगत् ॥ ंो_१,२७.९ ॥ "विपर्यस्यति" विपर्यासं याति ॥ ंोट्_१,२७.९ ॥ अनित्यं यौवनं बाल्यं शरीरं द्रव्यसञ्चयाः । भावाद्भावान्तरं यान्ति तरङ्गवदनारतम् ॥ ंो_१,२७.१० ॥ "भावात्" एकस्मात्स्वरूपात् । "भावान्तरम्" अन्यत्स्वरूपम् ॥ ंोट्_१,२७.१० ॥ वातात्तदीपकशिखालोलं जगति जीवितम् । तडित्स्फुरणसङ्काशा पदार्थश्रीर्जगत्त्रये ॥ ंो_१,२७.११ ॥ "वातात्ता" वातगृहीता ॥ ंोट्_१,२७.११ ॥ विपर्यासमियं याति भूरिभूतपरम्परा । बीजराशिरिवाजस्रं प्रथमानः पुनः पुनः ॥ ंो_१,२७.१२ ॥ "प्रथमानः" उप्यमानः ॥ ंोट्_१,२७.१२ ॥ मनःपवनपर्यस्तभूरिभूतरजःपटा । पातोत्पातपरावर्तवराभिनयभूषिता ॥ ंो_१,२७.१३ ॥ आलक्ष्यते स्थितिरियं जागती जनितभ्रमा । नृत्तावेशविवृत्तेव संसारारभटीनटी ॥ ंो_१,२७.१४ ॥ "मनःपवनेन पर्यस्ताः" ईरिताः । ये "भूरिभूतास्" । ते एव "रजःपटः" रजोवृतः पटः । यस्याः । सा । "परावर्तः" पुनरावृत्तिरूपो भ्रमः । "जागती स्थितिः" जगद्रूपा स्थितिः । "नृत्ते" य "आवेशः" । तत्र "विवृत्ता" प्रवृत्ता । "संसारे" संसाराख्ये रङ्गे । या "आरभटी" । तस्याः "नटी" । "आरभटी" रौद्ररसवृत्तिविशेषः ॥ ंोट्_१,२७.१३१४ ॥ गन्धर्वनगराकारविपर्यासविधायिनी । अपाङ्गभङ्गुरोदारव्यवहारमनोरमा ॥ ंो_१,२७.१५ ॥ तडित्तरलमालोकमातन्वाना पुनः पुनः । संसाररञ्जना ब्रह्मन्नृत्तमत्तेव राजते ॥ ंो_१,२७.१६ ॥ "संसारस्य" "रञ्जना" रागः । "नृत्तमत्तेव राजते" । कथम्भूता । "गन्धर्वनगराकारः" यः "विपर्यासः" । तं "विदधाती"ति तादृशी । तथ्"आपाङ्ग"वत्"भङ्गुरः" । "अपाङ्गेषु" च "भङ्गुरः" । यः "उदारव्यवहारः" । तेन "मनोरमा" । तथा "तडित्तरलम्" अतिचञ्चलम् । "आलोकं" स्वविषयं ज्ञानं स्वशरीरप्रकाशनं च । "पुनः" "पुनः आतन्वाना" ॥ ंोट्_१,२७.१५१६ ॥ दिवसास्ते महान्तस्ते संपदस्ताः क्रियाश्च ताः । सर्वं स्मृतिपदं यातं यामो वयमपि क्षणात् ॥ ंो_१,२७.१७ ॥ "ते दिवसा" इति सम्बन्धः । "तच्"छब्देन पूर्वानुभूतानां दिवसानां स्मरणम् ॥ ंोट्_१,२७.१७ ॥ प्रत्यहं क्षयमायाति प्रत्यहं जायते पुनः । अद्यापि हतरूपाया नान्तोऽस्या दग्धसंसृतेः ॥ ंो_१,२७.१८ ॥ स्पष्टम् ॥ ंोट्_१,२७.१८ ॥ तिर्यक्त्वं पुरुषा यान्ति तिर्यञ्चो नरतामपि । देवाश्चादेवतां चैते किमेवेह विभो स्थिरम् ॥ ंो_१,२७.१९ ॥ "तिर्यग्"आदीनाम् "पुरुषत्वा"दिगमनं स्वभावद्वारेण ज्ञेयमथ वा जन्मद्वारेण ॥ ंोट्_१,२७.१९ ॥ रचयन् रश्मिजालेन रात्र्यहानि पुनः पुनः । अतिवाह्य रविः कायं विनाशावधिमीक्षते ॥ ंो_१,२७.२० ॥ "अतिवाह्य" प्रवर्तयित्वा ॥ ंोट्_१,२७.२० ॥ ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः । नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ ंो_१,२७.२१ ॥ स्पष्टम् ॥ ंोट्_१,२७.२१ ॥ द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः । विनाशवाडवस्यैतत्सर्वं संशुष्कमिन्धनम् ॥ ंो_१,२७.२२ ॥ सुदाह्यत्वसूचकं "संशुष्कम्" इति ॥ ंोट्_१,२७.२२ ॥ धनानि बन्धवो भृत्या मित्राणि विभवाश्च ये । विनाशभयभीतस्य सर्वं नीरसतां गतम् ॥ ंो_१,२७.२३ ॥ ममेति शेषः ॥ ंोट्_१,२७.२३ ॥ स्वदन्ते तावदेवैते भावा जगति धीमतः । यावत्स्मृतिपथं याति न विनाशकुराक्षसः ॥ ंो_१,२७.२४ ॥ स्पष्टम् ॥ ंोट्_१,२७.२४ ॥ क्षणमैश्वर्यमायाति क्षणमेति दरिद्रता । क्षणं विगतरोगत्वं क्षणमागतरोगता ॥ ंो_१,२७.२५ ॥ स्पष्टम् ॥ ंोट्_१,२७.२५ ॥ प्रतिक्षणं विपर्यासदायिना महतामुना । जगद्भ्रमेण के नाम धीमन्तोऽपि न मोहिताः ॥ ंो_१,२७.२६ ॥ स्पष्टम् ॥ ंोट्_१,२७.२६ ॥ तमःपङ्कसमालब्धं क्षणमाकाशमण्डलम् । क्षणं कनकनिःष्यन्दकोमलालोकसुन्दरम् ॥ ंो_१,२७.२७ ॥ क्षणं जलदनीलाब्जमालावलितकोटरम् । क्षणमुड्डामररवं क्षणं मूकमवस्थितम् ॥ ंो_१,२७.२८ ॥ क्षणं ताराविलसितं क्षणमर्केण भूषितम् । क्षणमिन्दुकृताह्लादं क्षणं सर्वबहिष्कृतम् ॥ ंो_१,२७.२९ ॥ आगमापायपरया स्थित्या संस्थितनाशया । न बिभेतीह संसारे धीरोऽपि क इवानया ॥ ंो_१,२७.३० ॥ "स्थित्या" जगत्स्थित्या । अधीरस्य तु का कथेति भावः ॥ ंोट्_१,२७.२७३० ॥ आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः । क्षणं जन्माथ मरणं मुने किमिव न क्षणम् ॥ ंो_१,२७.३१ ॥ सर्वं क्षणे एवेति भावः ॥ ंोट्_१,२७.३१ ॥ प्रागासीदन्य एवेह तातस्त्वन्येतरो दिनैः । अप्येकरूपं भगवन् किञ्चिदस्ति न सुस्थितम् ॥ ंो_१,२७.३२ ॥ "तातः" दशरथः । अन्यस्मातितरः "अन्येतरः" ॥ ंोट्_१,२७.३२ ॥ घटस्य पटता दृष्टा पटस्यापि घटस्थितिः । न तदस्ति न यद्दृष्टं विपर्यस्यति संसृतौ ॥ ंो_१,२७.३३ ॥ "दृष्टे"ति कालान्तरे मृत्त्वादिद्वारेण "विपर्यस्यति" विपर्यासं गच्छति ॥ ंोट्_१,२७.३३ ॥ अशूरेण हतः शूर एकेनापि शतं हतम् । प्राकृताः प्रभुतां याताः सर्वमावर्तते जगत् ॥ ंो_१,२७.३४ ॥ "आवर्तते" परिवृत्तिं भजते ॥ ंोट्_१,२७.३४ ॥ जनतेयं विपर्यासमजस्रमनुगच्छति । जडस्पन्दपरामर्शात्तरङ्गानामिवावली ॥ ंो_१,२७.३५ ॥ "जनता" जनसमूहः । "जडः" यः "स्पन्दः" । तेन "परामर्शात्" स्पर्शात् । जाड्यादिति यावत् । "जलस्पन्दे" यः "परामर्शः" । तस्मादिति च ॥ ंोट्_१,२७.३५ ॥ बाल्यमद्य दिनैरेव यौवनश्रीस्ततो जरा । देहेऽपि नैकरूपत्वं कास्था बाह्येषु वस्तुषु ॥ ंो_१,२७.३६ ॥ स्पष्टम् ॥ ंोट्_१,२७.३६ ॥ क्षणमानन्दितामेति क्षणमेति विषादिताम् । क्षणं सौम्यत्वमायाति सर्वस्मिन्नटवन्मनः ॥ ंो_१,२७.३७ ॥ "सर्वस्मिन्" सर्वेषु प्राणिषु ॥ ंोट्_१,२७.३७ ॥ इतश्चान्यदितश्चान्यदितश्चान्यदयं विधिः । रचयन् वस्तु नायाति खेदं लीलास्विवार्भकः ॥ ंो_१,२७.३८ ॥ स्पष्टम् ॥ ंोट्_१,२७.३८ ॥ चिनोत्युन्मादयत्यत्ति निहन्त्याहन्ति चात्मसात् । जगज्जातमिदं धाता पातोत्पातशतैरिह ॥ ंो_१,२७.३९ ॥ "चिनोति" वर्धयति । "उन्मादयति" उन्मादयुक्तं करोति । "अत्ति" भक्षयति । "निहन्ति" नाशयति । "आत्मसात्" स्वाधीनं करोति । "आहन्ति" समन्तान्नाशयति ॥ ंोट्_१,२७.३९ ॥ क्षणेनान्यद्दिनेनान्यत्प्रातरन्यदितस्ततः । रचयन् वञ्चनादक्षो विधिर्दृष्टो न केनचित् ॥ ंो_१,२७.४० ॥ "न दृष्टः" इन्द्रियाविषयत्वात् ॥ ंोट्_१,२७.४० ॥ यदद्य तत्तु न प्रातर्यत्प्रातस्तत्तु नाद्य च । यदन्यदा तु तन्नाद्य सर्वमावर्ततेतराम् ॥ ंो_१,२७.४१ ॥ स्पष्टम् ॥ ंोट्_१,२७.४१ ॥ सन्ततानीह दुःखानि सुखानि विरलानि च । सततं रात्र्यहानीव विवर्तन्ते नरं प्रति ॥ ंो_१,२७.४२ ॥ "सन्ततानि" अविच्छिन्नानि । "नरम्" "प्रति" प्रतिपुरुषम् ॥ ंोट्_१,२७.४२ ॥ आविर्भावतिरोभावभागिनो भवभाविनः । जनस्य स्थिरतां यान्ति नापदो न च सम्पदः ॥ ंो_१,२७.४३ ॥ "आविर्भावतिरोभावौ" भजतीति तादृशस्य । "भवे" संसारे । "भावः" प्रादुर्भावः अस्यास्तीति तादृशस्य ॥ ंोट्_१,२७.४३ ॥ पदात्पदमयं पापः सर्वमापदि पातयन् । हेलाविवलिताशेषः खलः काललवः स्थितः ॥ ंो_१,२७.४४ ॥ गच्छन्निति शेषः । "हेलया" न तु यत्नेन । "विवलितं" रूपान्तरं नीतम् । "अशेषम्" । येन । सः ॥ ंोट्_१,२७.४४ ॥ सर्गान्तश्लोकेनैतत्समापयति समविषमदशाविपाकभिन्नास् त्रिभुवनभूतपरम्पराफलौघाः । समयपवनपातिताः पतन्ति प्रतिदिनमाततसंसृतिद्रुमेभ्यः ॥ ंो_१,२७.४५ ॥ "समविषमदशानां" यः "विपाकः" परिणामः । तेन "भिन्नाः" । तद्युक्ता इति यावद् । इति शिवम् ॥ ंोट्_१,२७.४५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे सप्तविंशः सर्गः ॥ १,२७ ॥ ************************************************************************ एवं जगद्विपर्यासमुक्त्वा तत्कृतां विरक्ततां प्रतिपादयति इति मेधोपदावाग्निदग्धे महति चेतसि । प्रस्फुरन्ति न भोगाशा मृगतृष्णाः सरस्स्विव ॥ ंो_१,२८.१ ॥ "इति मेधा" एव "उपदावाग्नि" दवाग्निसमीपम् । तेन "दग्धे" ॥ ंोट्_१,२८.१ ॥ प्रत्यहं चातिकटुतामेति संसारसंस्थितिः । कालपाकवशोल्लासिरसा निम्बलता यथा ॥ ंो_१,२८.२ ॥ "कालेन" यः "पाकः" । तस्य "वशेन" "उल्लासी रसः" । यस्याः । सा ॥ ंोट्_१,२८.२ ॥ वृद्धिमायाति दौर्जन्यं सौजन्यं याति तानवम् । करञ्जकर्कशे राजन् प्रत्यहं जनचेतसि ॥ ंो_१,२८.३ ॥ "राजन्न्" इति दशरथं प्रति कथनम् । "करञ्ज"वत्कण्टकवत् । "कर्कशे" । अतो जनसङ्गान्मम विरतिः जातेति भावः । एवमुत्तरत्रापि भावयोजना कार्या ॥ ंोट्_१,२८.३ ॥ भज्यते भुवि मर्यादा झगित्येव दिशं प्रति । शुष्केव माषशिमिका टाङ्कारकठिनारवम् ॥ ंो_१,२८.४ ॥ स्पष्टम् ॥ ंोट्_१,२८.४ ॥ राज्येभ्यो भोगपूगेभ्यश्चिन्तावन्तो महीश्वराः । निरस्तचिन्ताकलिका वरमेकान्तशीलता ॥ ंो_१,२८.५ ॥ "राज्येभ्यः" राज्यार्थम् । फलितमाह "निरस्ते"ति । अत इत्यध्याहार्यम् ॥ ंोट्_१,२८.५ ॥ नानन्दाय ममोद्यानं न सुखाय मम श्रियः । न हर्षाय ममार्थाशा शाम्यामि मनसा सह ॥ ंो_१,२८.६ ॥ "शाम्यामि" नकिञ्चिद्भावनारूपां शान्तिं गच्छामि ॥ ंोट्_१,२८.६ ॥ अनित्यश्चासुखो लोकस्तृष्णा तात दुरुत्सहा । चापलोपहतं चेतः कथं यास्यामि निर्वृतिम् ॥ ंो_१,२८.७ ॥ स्पष्टम् ॥ ंोट्_१,२८.७ ॥ नाभिनन्दामि मरणं नाभिनन्दामि जीवितम् । यथा तिष्ठामि तिष्ठामि तथैव विगतज्वरम् ॥ ंो_१,२८.८ ॥ अनेन च जीवन्मुक्तपदप्राप्तिः सूचिता । यथास्थितत्वं हि जीवन्मुक्तिं विना न सम्भवति ॥ ंोट्_१,२८.८ ॥ किं मे राज्येन किं भोगैः किमर्थेन किमीहितैः । अहङ्कारवशादेतत्स एव गलितो मम ॥ ंो_१,२८.९ ॥ अहङ्काराभावे हि नकिञ्चिद्रूपः पुरुषः किं राज्यादिभिः करोति ॥ ंोट्_१,२८.९ ॥ जन्मावलिवरत्रायामिन्द्रियग्रन्थयो दृढाः । ये लग्नास्तद्विमोक्षार्थं ये यतन्ते त उत्तमाः ॥ ंो_१,२८.१० ॥ "तद्विमोक्षार्थम्" इन्द्रियग्रन्थीनां विमोक्षार्थम् ॥ ंोट्_१,२८.१० ॥ दलितं मानिनीलोकैर्मनो मकरकेतुना । कोमलं खुरनिष्पेषैः कमलं करिणा यथा ॥ ंो_१,२८.११ ॥ "मानिनीलोकैर्" इति करणे तृतीया । "मकरकेतुने"ति कर्तरि ॥ ंोट्_१,२८.११ ॥ अद्य चेत्स्वस्थया बुद्ध्या मुनीन्द्र न चिकित्स्यते । भूयश्चित्तचिकित्सायां कः किलावसरः कुतः ॥ ंो_१,२८.१२ ॥ "अद्य" सकलसामग्र्यान्विते समये ।" स्वस्थया" सामग्रीचिन्ताहीनया ॥ ंोट्_१,२८.१२ ॥ ननु विषयसेवनं त्यक्त्वा किमर्थं चिकित्सापरो भवतीत्य् । अत्राह विषं विषयवैषम्यं न विषं विषमुच्यते । जन्मान्तरघ्ना विषया एकदेहहरं विषम् ॥ ंो_१,२८.१३ ॥ "विषय"कृतं "वैषम्यम्" "विषयवैषम्यम्" । जन्मान्तरे घ्नन्ति "जन्मान्तरघ्नाः" वासनारूपेण स्थितत्वात् ॥ ंोट्_१,२८.१३ ॥ ते एव त्वां कथं त्यजन्तीत्य् । अत्राह न सुखानि न दुःखानि न मित्राणि न बन्धवः । न जीवितं न मरणं बन्धाय ज्ञस्य चेतसः ॥ ंो_१,२८.१४ ॥ "बन्धाय" रागद्वेषरूपबन्धार्थम् । "ज्ञस्य" विवेकयुक्तस्य ॥ ंोट्_१,२८.१४ ॥ ननु तव ज्ञत्वं कुतोऽस्तीत्यपेक्षायां ज्ञत्वकरणमेव प्रार्थयते तद्भवामि यथा ब्रह्मन् पूर्वापरविदां वर । वीतशोकभयायासो ज्ञस्तथोपदिशाशु मे ॥ ंो_१,२८.१५ ॥ स्पष्टम् ॥ ंोट्_१,२८.१५ ॥ वासनाजालवलिता दुःखकण्टकसङ्कटा । निपातोत्पातबहला भीमरूपाज्ञताटवी ॥ ंो_१,२८.१६ ॥ स्पष्टम् ॥ ंोट्_१,२८.१६ ॥ क्रकचोग्रविनिष्पेषं सोढुं शक्तोऽस्म्यहं मुने । संसारव्यवहारोत्थं नाशाविषमवैशसम् ॥ ंो_१,२८.१७ ॥ "आशया" कृतं "विषमं" कठिनम् ।" वैशसं" हिंसनम् । "आशाविषमवैशसम्" ॥ ंोट्_१,२८.१७ ॥ इदं नास्तीदमस्तीति व्यवहारिजनभ्रमः । धुनोतीदं चलं चेतो रजोराशिमिवानिलः ॥ ंो_१,२८.१८ ॥ "धुनोति" कम्पयति ॥ ंोट्_१,२८.१८ ॥ तृष्णातन्तुलवप्रोतजीवसञ्चयमौक्तिकम् । चिदच्छाङ्गतया नित्यं प्रकटं चित्तनायकम् ॥ ंो_१,२८.१९ ॥ संसारहारमरतिः कालव्यालविभूषणम् । त्रोटयाम्यहमक्रूरां वागुरामिव केसरी ॥ ंो_१,२८.२० ॥ "चिद्" एव "अच्छम्" "अङ्गं" स्वरूपम् । यस्य । सः । तस्य भावः तत्"ता" । तया । चिन्मयत्वेनेत्यर्थः । "प्रकटं" वेद्यतां गतम् । अन्यथा ह्यचिन्मयत्वाद्वेद्यं कथं स्यात् । चिदविरुद्धस्य चिद्विषयीभूतस्यैव वेद्यत्वयोगात् । हारोऽपि "प्रकटो" विशदो भवति । "चित्तम्" एव "नायकः" उत्पादकः मध्यमणिश्च यस्य । तम् । "अक्रूरां" कोमलाम् ॥ ंोट्_१,२८.१९२० ॥ नीहारं हृदयाटव्यां मनस्तिमिरमाशु मे । केनचिज्ज्ञानदीपेन भिन्द्धि तत्त्वविदां वर ॥ ंो_१,२८.२१ ॥ "हृदयं" हृत्कमलमेव "अटवी" अरण्यम् । तत्र "नीहारं" । "केनचित्" मया वक्तुमशक्येनेत्यर्थः ॥ ंोट्_१,२८.२१ ॥ विद्यन्त एवेह न ते महात्मन् दुराधयो न क्षयमाप्नुवन्ति । ये सङ्गमेनोत्तममानसानां निशातमांसीव निशाकरेण ॥ ंो_१,२८.२२ ॥ हे "महात्मन्" । "इह" लोके । "ते" "दुराधयो न" "विद्यन्ते" "ये उत्तमानां सङ्गमेन क्षयं नाप्नुवन्ति" उत्तममानससङ्गमेन दुराधयो नश्यन्तीति भवः ॥ ंोट्_१,२८.२२ ॥ सर्गान्तश्लोकेनैतत्समापयति आयुर्वायुविघट्टिताब्जपटलीलम्बाम्बुवद्भङ्गुरम् भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः । लोलो यौवनलालनाजलरयश्चेत्याकलय्य द्रुतम् मुद्रैवाद्रिदृढार्पिता ननु मया चित्ते चिरं शान्तये ॥ ंो_१,२८.२३ ॥ "वितानं" समूहः । "लालना "विलासः । "मुद्रा "मौनम् । विषयावेदनमिति यावत् । कथम्भूता । "अद्रि"वत्पर्वतवत् । "दृढा" । इति शिवम् ॥ ंोट्_१,२८.२३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे अष्टाविंशः सर्गः ॥ १,२८ ॥ ************************************************************************ एवं विरक्ततां प्रतिपाद्य वैराग्यकृतावस्थाकथनं प्रस्तौति एवमभ्युत्थितानर्थसार्थसङ्कटकोटरम् । जगदालोक्य निर्मग्नं मनोमननकर्दमे ॥ ंो_१,२९.१ ॥ मनो मे भ्रमतीवेदं सम्भ्रमश्चोपजायते । गात्राणि परिकम्पन्ते पत्त्राणीव जरत्तरोः ॥ ंो_१,२९.२ ॥ "अभ्युत्थितः" अभ्युदयं गतः । यः "अनर्थसार्थ" अनर्थसमूहः । तेन "सङ्कटं" सम्बाधम् । "कोटरम्" मध्यं यस्य । तत् । "मनसः" यत्"मननम्" सङ्कल्पापरपर्यायो मननाख्यो धर्मः । स एव "कर्दमः" । तस्मिन् । "सम्भ्रमः" आवेगः । "गात्राणि" अङ्गानि ॥ ंोट्_१,२९.१२ ॥ अनाप्तोत्तमसन्तोषचर्योत्सङ्गाकुला मतिः । शून्यास्पदा बिभेतीह बालेवाल्पबलेश्वरा ॥ ंो_१,२९.३ ॥ "अनाप्तः" । "उत्तमसन्तोषस्य" "चर्यायाः" क्रियायाः । "उत्सङ्गः" अङ्कः । यया । सा । तादृशी चासौ । अत एव्"आकुला" च । बालापि अनाप्तप्रियसख्युत्सङ्गा आकुला भवति । "अल्पबलः ईश्वरः" पतिर् । यस्याः । सा । तादृशी । "अल्पबलेश्वरा" "शून्यास्पदा" च "बाला" हि स्फुटमेव "बिभेति" ॥ ंोट्_१,२९.३ ॥ विकल्पेभ्यो लुठन्त्येताश्चान्तःकरणवृत्तयः । श्वभ्रेभ्य इव सारङ्ग्यस्तुच्छालम्बविडम्बिताः ॥ ंो_१,२९.४ ॥ "विकल्पेभ्यः लुठन्ति" अन्यस्माद्विकल्पादन्यं विकल्पं यान्तीत्यर्थः । अथ वा मोहं गच्छन्तीति । "अन्तःकरणवृत्तयः" कथम्भूताः । "तुच्छाः" आपातमात्रमधुरत्वेन निःसाराः । ये "आलंबाः" विषयास्। तैर्"विडम्बिताः" वञ्चिताः । स्वोन्मुखाः कृता इति यावत् ॥ ंोट्_१,२९.४ ॥ अविवेकास्पदभ्रष्टाः कष्टे रूढा न सत्पदे । अन्धकूपमिवापन्ना वराकाश्चक्षुरादयः ॥ ंो_१,२९.५ ॥ "कष्टे" विषयाख्ये कठिने पदे इत्यर्थः ॥ ंोट्_१,२९.५ ॥ नावस्थितिमुपायाति न च याति यथेप्सितम् । चिन्ता जीवेश्वरायत्ता कान्तेवाप्रियसद्मनि ॥ ंो_१,२९.६ ॥ "अवस्थितिं" स्थैर्यम् । "यथेप्सितं" स्वेप्सितमर्थम् । "जीव" एव "ईश्वरः" पतिः । तस्य्"आयत्ता" वश्या । न तु स्वाधीना ॥ ंोट्_१,२९.६ ॥ जर्जरीकृत्य वस्तूनि त्यजन्ती बिभ्रती तथा । मार्गशीर्षान्तवल्लीव धृतिर्विधुरतां गता ॥ ंो_१,२९.७ ॥ "जर्जरीकृत्य" निर्विद्य । "बिभ्रती" । नवानीति शेषः । "धृतिः" लक्षणया धैर्ययुक्ता बुद्धिः ॥ ंोट्_१,२९.७ ॥ अपहस्तितसर्वार्थमनवस्थितिरास्थिता । गृहीत्वोत्सृज्य चात्मानमवस्थितिरवस्थिता ॥ ंो_१,२९.८ ॥ "अपहस्तिताः" हस्तादतीताः । "सर्वे अर्थाः" यत्र । तत् । निष्प्रयोजनमित्यर्थः । "अनवस्थितिः" अरतिः । "आस्थिता" दृढीभूता । "अवस्थितिः" रतिः । "आत्मानं गृहीत्वा" "उत्सृज्य" "चावस्थिता" शिथिलास्थितेत्यर्थः ॥ ंोट्_१,२९.८ ॥ चलिताचलितेनान्तरवष्टम्भेन मे मतिः । दरिद्राच्छिनवृक्षस्य मूलेनेव विडम्ब्यते ॥ ंो_१,२९.९ ॥ "दरिद्रैर्" "आच्छिन्नो" मूलदेशं तावच्छिन्नश्चासौ "वृक्षस्" । तस्य । "मूलेन" कर्त्रा । "चलिताचलितेन" क्षणमचलितेन । अवष्टम्भेन धैर्येण । उपलक्षिता "मे मतिः" कर्मभूता । "विडम्ब्यते"ऽनुक्रियते । मम मतिः छिन्नवृक्षमूलवदङ्कुरजननासमर्थास्तीति भावः ॥ ंोट्_१,२९.९ ॥ चेतश्चञ्चलमाभोगि भुवनान्तर्विहारि च । सम्भ्रमं न जहातीदं स्वविमानमिवामरः ॥ ंो_१,२९.१० ॥ "आभोगि" विकल्पाख्याभोगयुक्तम् ॥ ंोट्_१,२९.१० ॥ अतोऽतुच्छमनायासमनुपाधि गतभ्रमम् । किं तत्स्थितिपदं साधु यत्र शङ्का न विद्यते ॥ ंो_१,२९.११ ॥ स्थितेः योग्यं पदं "स्थितिपदं" । "शङ्का" नाशशङ्का ॥ ंोट्_१,२९.११ ॥ सर्वारम्भसमारम्भाः सुजना जनकादयः । व्यवहारपरा एव कथमुत्तमतां गताः ॥ ंो_१,२९.१२ ॥ "सर्वारम्भेषु" "समारम्भः" येषाम् । ते । सर्वकारिण इति यावत् । "सुजनाः" सज्जनाः ॥ ंोट्_१,२९.१२ ॥ लग्नेनापि किलाङ्गेषु बहुना बहुमानद । कथं संसारपङ्केन पुमानिह न लिप्यते ॥ ंो_१,२९.१३ ॥ "न लिप्यते" स्वावेशेनोत्पादितैः सुखदुःखैः पापपुण्यैः वा न गृह्यते ॥ ंोट्_१,२९.१३ ॥ कां दृष्टिं समुपाश्रित्य भवन्तो वीतकल्मषाः । महान्तो विचरन्तीह जीवन्मुक्ता महाशयाः ॥ ंो_१,२९.१४ ॥ तां ममापि कथयेति भावः ॥ ंोट्_१,२९.१४ ॥ लोभयन्तो भयायैव विषयाभोगभोगिनः । भङ्गुराकारविभवाः कथमायान्ति भव्यताम् ॥ ंो_१,२९.१५ ॥ "भयायैव" न तु सुखाय । "विषयाः" "भोगाः" । भोगयुक्ताः भोगिनः "भोगभोगिनः" । पुष्टशरीरयुक्तसर्पस्वरूपा इत्यर्थः । "भङ्गुराकारः" नश्वरस्वभावः । "विभवः" उत्पत्तिस्थानं येषाम् । तादृशाः । "भव्यताम्" रागानुत्पादकत्वेन रमणीयताम् ॥ ंोट्_१,२९.१५ ॥ मोहमातङ्गमृदिता कलङ्ककलितान्तरा । परं प्रसादमायाति शेमुषीसरसी कथम् ॥ ंो_१,२९.१६ ॥ "कलङ्को"ऽत्र भोगानुसन्धानरूपो ज्ञेयः । "शेमुषी" बुद्धिः । सा एव "सरसी" ॥ ंोट्_१,२९.१६ ॥ संसार एव निवसञ्जनो व्यवहरन्नपि । न बन्धं कथमायाति पद्मपत्त्रे पयो यथा ॥ ंो_१,२९.१७ ॥ स्पष्टम् ॥ ंोट्_१,२९.१७ ॥ आत्मवत्तृणवद्वेदं सकलं जनयञ्जगत् । कथमुत्तमतामेति मनोमन्मथमस्पृशन् ॥ ंो_१,२९.१८ ॥ "जनयन्" उत्पादयन् । लक्षणया जाननित्यर्थः । मनो हि ज्ञानद्वारेणैव सर्वं जनयति । उभयथापि मोक्ष एवेति भावः ॥ ंोट्_१,२९.१८ ॥ कं महापुरुषं पारमुपयातं भवोदधेः । आचारेणानुसृत्यायं जनो याति न दुष्कृतम् ॥ ंो_१,२९.१९ ॥ स्पष्टम् ॥ ंोट्_१,२९.१९ ॥ किं तद्यदुचितं श्रेयः किं तत्स्यादुचितं फलम् । वर्तितव्यं च संसारे कथं नामासमञ्जसे ॥ ंो_१,२९.२० ॥ "असमञ्जसे" विषमे ॥ ंोट्_१,२९.२० ॥ तत्त्वं कथय मे किञ्चिद्येनास्य जगतः प्रभो । वेद्मि पूर्वापरां धातुश्चेष्टितस्यासमस्थितिम् ॥ ंो_१,२९.२१ ॥ "येन" कथितेन । "पूर्वापराम्" अन्तद्वययुक्ताम् । समग्रामिति यावत् । "असमस्थितिं" विषमां स्थितिम् । "जगतः" कथम्भूतस्य । "धातुश्चेष्टितस्य" ब्रह्मचेष्टितरूपस्य ॥ ंोट्_१,२९.२१ ॥ हृदयाकाशशशिनश्चेतसो मलमार्जनम् । यथा मे जायतां ब्रह्मंस्तथा निर्विघ्नमाचर ॥ ंो_१,२९.२२ ॥ "मलमार्जनम्" संशयाख्यमलमार्जनम् ॥ ंोट्_१,२९.२२ ॥ किमिह स्यादुपादेयं किं वा हेयमथेतरत् । कथं विश्रान्तिमायातु चेतश्चपलमद्रिवत् ॥ ंो_१,२९.२३ ॥ "अथ इतरद्" उपेक्ष्यं किमस्ति ॥ ंोट्_१,२९.२३ ॥ केन पावनमन्त्रेण दुःसंसृतिविषूचिका । शाम्यतीयमनायासमायासशतकारिणी ॥ ंो_१,२९.२४ ॥ स्पष्टम् ॥ ंोट्_१,२९.२४ ॥ कथं शीतलतामन्तरानन्दतरुमञ्जरीम् । पूर्णचन्द्र इवाक्षीणां राकामासादयाम्यहम् ॥ ंो_१,२९.२५ ॥ "राकाम्" पूर्णिमाम् ॥ ंोट्_१,२९.२५ ॥ प्राप्यान्तःपूर्णतामन्तर्न शोचामि यथा पुनः । सन्तो भवन्तस्तत्त्वज्ञास्तथैवोपदिशन्तु माम् ॥ ंो_१,२९.२६ ॥ स्पष्टम् ॥ ंोट्_१,२९.२६ ॥ सर्गान्तश्लोकेनैतत्समापयति अनुत्तमानन्दपदप्रधान विश्रान्तिरिक्तं हि मनो महात्मन् । कदर्थयन्तीह भृशं विकल्पाः श्वानो वने देहमिवाल्पजीवम् ॥ ंो_१,२९.२७ ॥ "कदर्थयन्ति" मथ्नन्ति । इति शिवम् ॥ ंोट्_१,२९.२७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकोनत्रिंशः सर्गः ॥ १,२९ ॥ ************************************************************************ एवं वैराग्यकृतामवस्थामुक्त्वोपायं प्रष्टुं प्रस्तावं करोति प्रोच्चवृक्षचलत्पत्त्रलम्बाम्बुलवभङ्गुरे । आयुषीशानशीतांशुकलामृदुनि देहके ॥ ंो_१,३०.१ ॥ केदारविरटद्भेककण्ठत्वक्कोणभङ्गुरे । वागुरावलये जन्तोः सुहृत्स्वजनसङ्गमे ॥ ंो_१,३०.२ ॥ वासनावातवलितकदाशातडिति स्फुटे । मोहौघमिहिकामेघे घनं स्फूर्जति गर्जति ॥ ंो_१,३०.३ ॥ नृत्यत्युत्ताण्डवं चण्डे लोले लोभकलापिनि । सुविकासिनि सस्फोटमनर्थकुटजद्रुमे ॥ ंो_१,३०.४ ॥ क्रूरे कृतान्तमार्जारे सर्वभूताखुहारिणि । अश्रुतस्पन्दसञ्चारे कुतोऽप्युपरिपातिनि ॥ ंो_१,३०.५ ॥ क उपायो गतिः का वा का चिन्ता कः समाश्रयः । केनेयमशुभोदर्का न भवेज्जीविताटवी ॥ ंो_१,३०.६ ॥ "ईशानशीतांशुकला" श्रीमहादेवशिरःस्था चन्द्रकला । "रटतः" "भेकस्य" "कण्ठत्वक्" अत्यन्त"भङ्गुरा" भवति । इति तस्या उपमानत्वेन ग्रहणम् । "मिहिकामेघे" नीहारयुक्ते मेघे । कथम्भूते । "वासनावातेन" "वलिता" या "कदाशा" । सा एव "तडित्" यस्य । तादृशे । "स्फुटे" प्रकटे । "उत्ताण्डवम्" उद्भटम् । "सस्फोटं" स्फोटनयुक्तम् । सशब्दमित्यर्थः । "कृतान्तमार्जारे" कथम्भूते । "अश्रुतस्पन्दः सञ्चारो" यस्य । तादृशे । "अशुभोदर्का" अशुभोत्तरफला । "जीवितम्" एव्"आटवी "वनम् ॥ ंोट्_१,३०.१६ ॥ न तदस्ति पृथिव्यां वा दिवि देवेषु वा क्वचित् । सुधियस्तुच्छमप्येतद्यन्न याति नरम्यताम् ॥ ंो_१,३०.७ ॥ "नरम्यताम्" इति नसमासोऽयम् । अरम्यतामित्यर्थः । सर्वत्र सर्वं "सुधियः" अरम्यतामेव यातीति भावः । "अपि"शब्दः पादपूरणार्थः ॥ ंोट्_१,३०.७ ॥ अयं हि दग्धसंसारो नीरन्ध्रकलनाकुलः । कथं सुस्वादुतामेति नीरसो मूर्खतां विना ॥ ंो_१,३०.८ ॥ मूर्खताभावे तु सुस्वादुतां नैतीति भावः ॥ ंोट्_१,३०.८ ॥ आशाप्रतिविषा केन क्षीरस्नानेन रम्यताम् । उपैति पुष्पशुभ्रेण मधुनेव सुवल्लरी ॥ ंो_१,३०.९ ॥ "आशा" एव "प्रतिविषा" तिक्तद्रव्यविशेषः । "केन" किंरूपेण ॥ ंोट्_१,३०.९ ॥ अपमृष्टमलोदेति क्षालनेनामृतद्युतिः । मनश्चन्द्रमसः केन तेन कामकलङ्किनः ॥ ंो_१,३०.१० ॥ "अपमृष्टं" नष्टम् । "मलं" यस्याः । सा । "तेन केने"ति प्रश्नः । "मनश्चन्द्रमसः" कथम्भूतस्य । "काम" एव "कलङ्कः" अस्यास्तीति तादृशस्य ॥ ंोट्_१,३०.१० ॥ दृष्टसंसारगतिना दृष्टादृष्टविनाशिना । केन वा व्यवहर्तव्यं संसारवनवीथिषु ॥ ंो_१,३०.११ ॥ "दृष्टा संसारगतिः" येन । सः । तादृशेन । तथा "दृष्टादृष्टयोः" "विनाशः" अस्यास्तीति तादृशेन । पदार्थधर्माधर्माद्यतीतेन जीवन्मुक्तेनेति यावत् । "केन" केन प्रकारेण । "संसारवनवीथिषु" "व्यवहर्तव्यं" व्यवहारः कर्तव्यः ॥ ंोट्_१,३०.११ ॥ रागद्वेषमहारोगा भोगपूर्वातिपूतयः । कथं जन्तोर्न बाधन्ते संसारारण्यचारिणः ॥ ंो_१,३०.१२ ॥ "रागद्वेषा" एव "महारोगाः" । ते "संसारारण्यचारिणो" "जन्तोः" "कथं न बाधन्ते" । कथम्भूताः । "भोगाः" "पूर्वं" कारणं येषाम् । ते । तादृशाश्च तेऽ"तिपूतयश्" चातिशयेन पूतिगन्धाश्च । रागादिगतः पूतिः । अर्थाद्धर्षामर्षौ ज्ञेयौ । रोगपक्षे तु प्रसिद्धार्थ एव ॥ ंोट्_१,३०.१२ ॥ कथं च वीरवैराग्नौ पततापि न दह्यते । पावके पारतेनेव रसेन रसशालिना ॥ ंो_१,३०.१३ ॥ क्षत्रियजातित्वादियमुक्तिः । "पारतेन" "रसेन" पारताख्येन रसेन ॥ ंोट्_१,३०.१३ ॥ तर्हि व्यवहारमेव मा कुर्वित्य् । अत्राह यस्मात्किल जगत्यस्मिन् व्यवहारक्रियां विना । न स्थितिः सम्भवत्यब्धौ पतितस्याजला यथा ॥ ंो_१,३०.१४ ॥ "स्थितिः" अवस्थानम् ॥ ंोट्_१,३०.१४ ॥ रागद्वेषविनिर्मुक्ता सुखदुःखविवर्जिता । कृशानोर्दाहहीनेव शिखा नास्तीह सत्क्रिया ॥ ंो_१,३०.१५ ॥ स्पष्टम् ॥ ंोट्_१,३०.१५ ॥ मनोमननमानिन्याः सतापाभुवनत्रये । क्षययुक्तिं विना नास्ति ब्रूत तामलमुत्तमाः ॥ ंो_१,३०.१६ ॥ "सतापम्" "आ" समन्ताद् । "भुवनत्रयं" । तस्मिन् । "मनोमननमानिन्याः क्षययुक्तिं विना नास्ति" । तापनिवारकमिति शेषः । अतः हे "उत्तमाः" । यूयं "तां" क्षययुक्तिम् । "ब्रूत" कथयतेत्यर्थः । "आभुवनत्रयम्" इत्यत्र आङ्शब्दोऽभिव्यापकत्वे समस्यते । आनगरमितिवत् ॥ ंोट्_१,३०.१६ ॥ व्यवहारवतो युक्त्या दुःखं नायाति मे यया । अथ वाव्यवहारस्य ब्रूत तां गतिमुत्तमाः ॥ ंो_१,३०.१७ ॥ "अव्यवहारस्य" व्यवहाररहितस्य । "गतिं" युक्तिम् ॥ ंोट्_१,३०.१७ ॥ तत्कथं केन वा किं वा कृतमुत्तमचेतसा । पूर्वं येनैति विश्रामं परमं पावनं मनः ॥ ंो_१,३०.१८ ॥ "केनोत्तमचेतसा" "पूर्वं" "तत्किं" "कृतं कथं वा कृतं" । "तत्किम्" ममेति शेषः । "येन" मम "मनः" "पावनं" सत्"परमं" "विश्रामम्" "एति" ॥ ंोट्_१,३०.१८ ॥ यथा जानासि भगवंस्तथा मोहनिवृत्तये । ब्रूहि मे साधवो येन यूयं निर्दुःखतां गताः ॥ ंो_१,३०.१९ ॥ ननु कथमहं वक्तुं शक्नोमीत्यत्राह "साधव" इति ॥ ंोट्_१,३०.१९ ॥ अथ वा तादृशी ब्रह्मन् युक्तिर्यदि न विद्यते । न युक्तिं मम वा कश्चिद्विद्यमानामपि स्फुटम् ॥ ंो_१,३०.२० ॥ स्वयं चैव न चाप्नोमि तां विश्रान्तिमनुत्तमाम् । तदहं त्यक्तसर्वेहो निरहङ्कारतां गतः ॥ ंो_१,३०.२१ ॥ न भोक्ष्ये न पिबाम्यम्बु नाहं परिदधेऽम्बरम् । करोमि नाहं व्यापारं स्नानदानाशनादिकम् ॥ ंो_१,३०.२२ ॥ हे "ब्रह्मन्न्" । "अथ वा यदि तादृशी युक्तिर्न विद्यते" । "विद्यमानामपि" "युक्तिं कश्चिन्मम" "न" । ब्रूयादिति शेषः । "स्वयं च" "तां विश्रान्तिं" यथातथालब्धया युक्त्या कृतं विश्रामम् । अतिजाड्यान् "नाप्नोमि" । "तदाहं" "निरहङ्कारतां गतो"ऽत एव "त्यक्तसर्वेहः "सन् । "न भोक्ष्ये" । तिलकम् ॥ ंोट्_१,३०.२०२२ ॥ " " न च तिष्ठामि कार्येषु सम्पत्स्वापद्दशासु च । न किञ्चिदपि वाञ्छामि देहत्यागादृते मुने ॥ ंो_१,३०.२३ ॥ स्पष्टम् ॥ ंोट्_१,३०.२३ ॥ केवलं विगताशङ्को निर्ममो गतमत्सरः । मौनमेवेह तिष्ठामि लिपिकर्मस्विवार्पितः ॥ ंो_१,३०.२४ ॥ स्पष्टम् ॥ ंोट्_१,३०.२४ ॥ अथ क्रमेण सन्त्यज्य सश्वासोच्छ्वाससंविदम् । सन्निवेशं त्यजामीममनर्थं देहनामकम् ॥ ंो_१,३०.२५ ॥ श्वासश्चोच्छ्वासश्च । तौ "श्वासोच्छ्वासौ" । ताभ्यां सह वर्तते इति "सश्वासोच्छ्वासा" । तादृशी "संवित्" । ताम् । "सन्निवेशं" संस्थानम् ॥ ंोट्_१,३०.२५ ॥ ननु समताविषयत्वेन स्वसम्बन्धितया स्थितस्य देहस्य त्यागः कथं सिध्यतीत्य् । अत्राह नाहमस्य न मे देहः शाम्याम्यस्नेहदीपवत् । सर्वमेव परित्यज्य त्यजामीदं कलेवरम् ॥ ंो_१,३०.२६ ॥ स्पष्टम् ॥ ंोट्_१,३०.२६ ॥ सर्गान्तश्लोकेन श्रीरामवाक्यमुपसंहरति इत्युक्तवानमलशीतकराभिरामो रामो महत्तरविवेकविकासिचेताः । तूष्णीं बभूव पुरतो महतां घनानां केकारवश्रमवशादिव नीलकण्ठः ॥ ंो_१,३०.२७ ॥ "नीलकण्ठः" मयूरः । इति शिवम् ॥ ंोट्_१,३०.२७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे त्रिंशः सर्गः ॥ १,३० ॥ ************************************************************************ श्रीवाल्मीकिः श्रीभरद्वाजं प्रति कथयति वदत्येवं मनोमोहविनिवृत्तिकरं वचः । रामे राजीवपत्त्राक्षे तस्मिन् राजकुमारके ॥ ंो_१,३१.१ ॥ सर्वे बभूवुस्तत्रस्था विस्मयोत्फुल्ललोचनाः । धृताम्बरा देहरुहैर्गिरः श्रोतुमिवोद्गतैः ॥ ंो_१,३१.२ ॥ विरामवासनापास्तसमस्तभववासनाः । मुहूर्तममृताम्भोधिवीचीविलुलिता इव ॥ ंो_१,३१.३ ॥ "देहरुहैः" रोमभिः । "धृताम्बराः" धृतवस्त्राः । रोमकञ्चुकान्विताः इत्यर्थः । "देहरुहैः" कथम्भूतैर्"इव" । "गिरः" श्रीराम"गिरः" "श्रोतुमुद्गतैः" उत्थितैर्"इव" । "विरामवासनया" निवृत्तिवासनया । "अपास्ताः" त्यक्ताः । "समस्ताः" "भववासनाः" यैः । ते "विलुलिताः" चञ्चलीकृताः ॥ ंोट्_१,३१.१३ ॥ ता गिरो रामभद्रस्य तस्य चित्रार्पितैरिव । संश्रुताः शृणुकैरन्तरानन्दपरिपीवरैः ॥ ंो_१,३१.४ ॥ "शृणुकैः" श्रोतृभिः ॥ ंोट्_१,३१.४ ॥ शृणुकानेव विशेषेण कथयति वसिष्ठविश्वामित्राद्यैर्मुनिभिः संसदि स्थितैः । जयन्तघृष्टिप्रमुखैर्मन्त्रिभिर्मन्त्रकोविदैः ॥ ंो_१,३१.५ ॥ स्पष्टम् ॥ ंोट्_१,३१.५ ॥ नृपैर्दशरथप्रख्यैः पौरैः पारशवादिभिः । सामन्तै राजपुत्रैश्च ब्राह्मणैर्ब्रह्मवादिभिः ॥ ंो_१,३१.६ ॥ स्पष्टम् ॥ ंोट्_१,३१.६ ॥ तथा भृत्यैरमात्यैश्च पञ्जरस्थैश्च पक्षिभिः । क्रीडामृगैर्गतस्पन्दैस्तुरङ्गैर्गतचर्वणैः ॥ ंो_१,३१.७ ॥ "गतचर्वणैः" त्यक्तभोजनैः ॥ ंोट्_१,३१.७ ॥ कौसल्याप्रमुखैश्चैव निजवातायनस्थितैः । संशान्तभूषणारावैरस्पन्दैर्वनितागणैः ॥ ंो_१,३१.८ ॥ स्पष्टम् ॥ ंोट्_१,३१.८ ॥ उद्यानवल्लीनिलयैर्विटङ्कनिलयैरपि । अक्षुब्धपक्षततिभिर्विहगैर्विरतारवैः ॥ ंो_१,३१.९ ॥ सिद्धैर्नभश्चरैश्चैव तथा गन्धर्वकिन्नरैः । नारदव्यासपुलहप्रमुखैर्मुनिपुङ्गवैः ॥ ंो_१,३१.१० ॥ स्पष्टम् ॥ ंोट्_१,३१.९१० ॥ अन्यैश्च देवदेवेशविद्याधरमहोरगैः । रामस्य ता विचित्रार्था महोदारा गिरः श्रुताः ॥ ंो_१,३१.११ ॥ स्पष्टम् ॥ ंोट्_१,३१.११ ॥ अथ तूष्णीं स्थितवति रामे राजीवलोचने । तस्मिन् रघुकुलाकाशशशाङ्कसमसुन्दरे ॥ ंो_१,३१.१२ ॥ साधुवादगिरा सार्धं सिद्धसार्थसमीरिता । वितानकसमा व्योम्नः पुष्पवृष्टिः पपात ह ॥ ंो_१,३१.१३ ॥ स्पष्टम् ॥ ंोट्_१,३१.१२१३ ॥ पुष्पवृष्टिं विशिनष्टि मन्दारकोशविश्रान्तभ्रमरद्वन्द्वनादिनी । मदिरामोदसौन्दर्यमुदितोन्मदमानवा ॥ ंो_१,३१.१४ ॥ स्पष्टम् ॥ ंोट्_१,३१.१४ ॥ व्योमवातविनुन्नेव तारकाणां परम्परा । पतितेव धरापीठं स्वर्गस्त्रीहसितच्छटा ॥ ंो_१,३१.१५ ॥ स्पष्टम् ॥ ंोट्_१,३१.१५ ॥ वृष्टिष्वेकशरन्मेघलवावलिरिव च्युता । हैयङ्गवीनपिण्डानामीरितेव परम्परा ॥ ंो_१,३१.१६ ॥ "वृष्टिषु" "वृष्ट्य्"अन्तः ॥ ंोट्_१,३१.१६ ॥ हिमवृष्टिरिवोदारा मुक्ताहारचयोपमा । ऐन्दवीरश्मिमालेव क्षीरोर्मीणामिवाततिः ॥ ंो_१,३१.१७ ॥ स्पष्टम्॥ ंोट्_१,३१.१७ ॥ किञ्जल्कामोदवलिता भ्रमद्भृङ्गकदम्बका । सीत्कारगायदामोदमधुरानिलदोलिता ॥ ंो_१,३१.१८ ॥ "सीत्कारेति" शब्दानुकरणम् ॥ ंोट्_१,३१.१८ ॥ प्रभ्रमत्केतकव्यूहा प्रसरत्कैरवोत्करा । प्रपतत्कुन्दवलया वलत्कुवलयालया ॥ ंो_१,३१.१९ ॥ स्पष्टम् ॥ ंोट्_१,३१.१९ ॥ आपूरिताङ्गनारामगृहच्छादनचत्वरा । उद्ग्रीवपुरवास्तव्यवरनारीविलोकिता ॥ ंो_१,३१.२० ॥ "अङ्गनानि" च्"आरामाश्" च "गृहच्छादनानि" च "चत्वराणि" च । तानि "आपूरितानि" "अङ्गना"दीनि यया । सा । दर्शनोत्सुको हि "उद्ग्रीवो" भवति ॥ ंोट्_१,३१.२० ॥ निरभ्रोत्पलसङ्काशव्योमवृष्टिरनाकुला । अदृष्टपूर्वा सर्वस्य जनस्य जनितस्मया ॥ ंो_१,३१.२१ ॥ स्पष्टम् ॥ ंोट्_१,३१.२१ ॥ अदृष्टपूर्वसिद्धौघकरोत्करसमीरिता । सा मुहूर्तचतुर्भागे पुष्पवृष्टिः पपात ह ॥ ंो_१,३१.२२ ॥ "ह" इति निपातः पादपूरणार्थः ॥ ंोट्_१,३१.२२ ॥ आपूरितसभालोके शान्ते कुसुमवर्षणे । इमान् सिद्धगणालापाञ्शुश्रुवुस्ते सभागताः ॥ ंो_१,३१.२३ ॥ स्पष्टम् ॥ ंोट्_१,३१.२३ ॥ सिद्धगिर एव कथयति आकल्पं सिद्धसेनासु भ्रमद्भिरभितो दिवम् । अपूर्वमद्य त्वस्माभिः श्रुतं श्रुतिरसायनम् ॥ ंो_१,३१.२४ ॥ "श्रुत्"औ कर्णे । "रसायनम्" अमृतम् ॥ ंोट्_१,३१.२४ ॥ यदनेन किलोदारमुक्तं रघुकुलेन्दुना । वीतरागतया तद्धि वाक्पतेरप्यगोचरम् ॥ ंो_१,३१.२५ ॥ स्पष्टम् ॥ ंोट्_१,३१.२५ ॥ अहो वत महत्पुण्यमद्यास्माभिरिदं श्रुतम् । वचो राममुखोद्भूतममृताह्लादकं धियः ॥ ंो_१,३१.२६ ॥ स्पष्टम् ॥ ंोट्_१,३१.२६ ॥ सर्गान्तश्लोकं कथयति उपशमामृतसुन्दरमादराद् अधिगतोत्तमतापदमेष यत् । कथितवानुचितं रघुनन्दनः सपदि तेन वयं प्रतिबोधिताः ॥ ंो_१,३१.२७ ॥ "प्रतिबोधिताः" ज्ञानयुक्ताः सम्पादिताः । इति शिवम् ॥ ंोट्_१,३१.२७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे एकत्रिंशः सर्गः ॥ १,३१ ॥ ************************************************************************ सिद्धा एव परस्परं कथयन्ति पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना । निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः ॥ ंो_१,३२.१ ॥ नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः । आगच्छताश्वविघ्नेन सर्व एव महर्षयः ॥ ंो_१,३२.२ ॥ पतामः परितः पुण्यामेतां दाशरथीं सभाम् । नीरन्ध्रकनकाम्भोजां पद्मिनीमिव षट्पदाः ॥ ंो_१,३२.३ ॥ स्पष्टम् ॥ ंोट्_१,३२.१३ ॥ श्रीवाल्मीकिः श्रीभरद्वाजं प्रति कथयति इत्युक्त्वा सा समस्तैव व्योमावासनिवासिनी । तां पपात सभां तत्र दिव्या मुनिपरम्परा ॥ ंो_१,३२.४ ॥ "व्योम्नि" यः "आवासः" । तत्र "निवस"तीति तादृशी ॥ ंोट्_१,३२.४ ॥ मुनिपरम्परां विशिनष्टि अग्रस्थितमरुत्पृष्ठरणद्वीणमुनीश्वरा । पयःपीनघनश्यामव्यासमेचकिताम्बरा ॥ ंो_१,३२.५ ॥ "अग्रे स्थिताः" "मरुतः" यस्याम् । सा । तादृशी चासौ "पृष्ठे" च "रणद्वीणाः" "मुनीश्वराः" यस्याम् । सा । तादृशी ॥ ंोट्_१,३२.५ ॥ भृग्वङ्गिरःपुलस्त्यादिमुनिनायकमण्डिता । च्यवनोद्दालकोशीरशरलोमादिपालिता ॥ ंो_१,३२.६ ॥ स्पष्टम् ॥ ंोट्_१,३२.६ ॥ परस्परपरामर्शाद्दुःसंस्थानमृगाजिना । लोलाक्षमालावलया सुकमण्डलुधारिणी ॥ ंो_१,३२.७ ॥ "परामर्शात्" सङ्घट्टात् ॥ ंोट्_१,३२.७ ॥ तारावलिरिवान्योन्यकृतशोभातिशायिनी । कौसुमी वृष्टिरन्येव द्वितीयेवार्कमण्डली ॥ ंो_१,३२.८ ॥ स्पष्टम् ॥ ंोट्_१,३२.८ ॥ ताराजाल इवाम्भोदो व्यासो ह्यत्र व्यराजत । तारौघ इव शीतांशुर्नारदोऽत्र व्यराजत ॥ ंो_१,३२.९ ॥ स्पष्टम् ॥ ंोट्_१,३२.९ ॥ देवेष्विव स्वराधीशः पुलस्त्योऽत्र व्यराजत । आदित्य इव देवानामङ्गिराश्च व्यराजत ॥ ंो_१,३२.१० ॥ स्पष्टम् ॥ ंोट्_१,३२.१० ॥ अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसात् । उत्तस्थौ मुनिसम्पूर्णा तदा दाशरथी सभा ॥ ंो_१,३२.११ ॥ स्पष्टम् ॥ ंोट्_१,३२.११ ॥ मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः । परस्परवृताङ्गाभा भासयन्तो दिशो दश ॥ ंो_१,३२.१२ ॥ "परस्परं वृता" "अङ्गानाम्" "आभा" यैः । ते ॥ ंोट्_१,३२.१२ ॥ नभश्चरमहीचरान् विशिनष्टि वेणुघण्टावृतकरा लीलाकमलधारिणः । दूर्वाङ्कुराक्रान्तशिखाः सचुडामणिमूर्धजाः ॥ ंो_१,३२.१३ ॥ स्पष्टम् ॥ ंोट्_१,३२.१३ ॥ जटाकटप्रकपिला मौलिमालितमस्तकाः । प्रकोष्ठगाक्षवलया माणिक्यवलयान्विताः ॥ ंो_१,३२.१४ ॥ "जटाकटप्रेण" जटासमूहेन । "कपिलाः" ॥ ंोट्_१,३२.१४ ॥ चीरवल्कलसंवीताः स्रक्कौशेयावलुण्ठिताः । विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः ॥ ंो_१,३२.१५ ॥ स्पष्टम् ॥ ंोट्_१,३२.१५ ॥ वसिष्ठविश्वामित्रौ तान् पूजयामासतुः क्षणात् । अर्घ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणान् ॥ ंो_१,३२.१६ ॥ स्पष्टम् ॥ ंोट्_१,३२.१६ ॥ सर्वाचारेण सिद्धौघं पूजयामास भूपतिः । सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ॥ ंो_१,३२.१७ ॥ स्पष्टम् ॥ ंोट्_१,३२.१७ ॥ तैस्तैः प्रणयसंरम्भैरन्योऽन्यं प्राप्तसत्क्रियाः । उपाविशन् विष्टरेषु नभश्चरमहीचराः ॥ ंो_१,३२.१८ ॥ "प्रणयसंरम्भैः" स्नेहसंरम्भैः ॥ ंोट्_१,३२.१८ ॥ वचोभिः पुष्पवर्षेण साधुवादेन चाभितः । रामं तं पूजयामासुः पुरः प्रणतमास्थितम् ॥ ंो_१,३२.१९ ॥ स्पष्टम् ॥ ंोट्_१,३२.१९ ॥ आसां चक्रे च तत्रासौ राजलक्ष्म्या विराजितः । विश्वामित्रो वसिष्ठश्च वामदेवश्च मन्त्रिणः ॥ ंो_१,३२.२० ॥ "असौ" श्रीरामः ॥ ंोट्_१,३२.२० ॥ नारदो देवपुत्रश्च व्यासश्च मुनिपुङ्गवः । मरीचिरथ दुर्वासा मुनिराङ्गिरसस्तथा ॥ ंो_१,३२.२१ ॥ स्पष्टम् ॥ ंोट्_१,३२.२१ ॥ क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः । वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुङ्गवः ॥ ंो_१,३२.२२ ॥ स्पष्टम् ॥ ंोट्_१,३२.२२ ॥ उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा । ऊष्मपाश्च घृतार्चिश्च शालुडिर्वालुडिस्तथा ॥ ंो_१,३२.२३ ॥ स्पष्टम् ॥ ंोट्_१,३२.२३ ॥ एते चान्ये च बहवो वेदवेदाङ्गपारगाः । ज्ञातज्ञेया महात्मानः संस्थितास्तत्र नायकाः ॥ ंो_१,३२.२४ ॥ "नायकाः" श्रेष्ठाः ॥ ंोट्_१,३२.२४ ॥ वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः । इदमूचुरनूचाना राममानमिताननम् ॥ ंो_१,३२.२५ ॥ "अनूचानाः" साङ्गवेदज्ञाः ॥ ंोट्_१,३२.२५ ॥ अहो वत कुमारेण कल्याणगुणशालिनी । वागुक्ता परमोदारविरागरसगर्भिणी ॥ ंो_१,३२.२६ ॥ स्पष्टम् ॥ ंोट्_१,३२.२६ ॥ परिनिष्ठितवाक्यार्थसुबोधमुचितं स्फुटम् । उदारं प्रियचर्यार्हमविह्वलमविप्लुतम् ॥ ंो_१,३२.२७ ॥ अभिव्यक्तपदं चैव निष्ठं स्पष्टं च तुष्टिमत् । करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ॥ ंो_१,३२.२८ ॥ "परिनिष्ठितः" आकाङ्क्षारहितः । "वाक्यार्थः" यस्मिन् । तत्"परिनिष्ठितवाक्यार्थं" । तादृशं च तत्"सुबोधं" च तत् । "स्फुटम्" प्रकटार्थम् । "प्रियचर्याम्" प्रियव्यवहारम् "अर्हती"ति तादृशम् । "अविह्वलं" व्याकुलतारहितम् । "अविप्लुतं" केनापि बाधितुमशक्यम् । "तुष्टिमत्" श्रोतुः तुष्टिकारित्वेन तुष्टिमत् ॥ ंोट्_१,३२.२७२८ ॥ शतादेकतमस्यैव सर्वोदारचमत्कृतेः । ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ॥ ंो_१,३२.२९ ॥ "सर्वेभ्यः उदारा" उद्भटा । "चमत्कृतिः" चमत्कारो । यस्य । तादृशस्य । न तु सर्वे एतादृशाः भवन्तीति भावः ॥ ंोट्_१,३२.२९ ॥ श्रीरामं प्रति कथयति कुमार त्वां विना कस्य विवेकफलशालिनी । एवं विकासमायाति प्रज्ञा वनलता यथा ॥ ंो_१,३२.३० ॥ स्पष्टम् ॥ ंोट्_१,३२.३० ॥ प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता । प्रज्वलत्यलमालोककारिणी स पुमान् स्मृतः ॥ ंो_१,३२.३१ ॥ स्पष्टम् ॥ ंोट्_१,३२.३१ ॥ रक्तमांसास्थियन्त्राणि बहून्यतिततानि च । पदार्थानपकर्षन्ति नास्ति तेषु सचेतनम् ॥ ंो_१,३२.३२ ॥ "अतिततानि बहूनि रक्तमांसास्थियन्त्राणि" देहनिष्ठाः पुरुषा इति यावत् । सन्ति कथम्भूतानि । "पदार्थान्" "अपकर्षन्ति" जाड्येन जेतॄणि । किं तु "तेषु" किञ्चिदपि "रक्तमांसास्थियन्त्रम्" "सचेतनं" विचारयुक्तम् । "नास्ति" । कश्चिदपि पुरुषः सचेतनो नास्तीत्यर्थः ॥ ंोट्_१,३२.३२ ॥ जन्ममृत्युजरादुःखमनुयान्ति पुनः पुनः । विमृशन्ति न संसारपशवः परिमोहिताः ॥ ंो_१,३२.३३ ॥ "विमृशन्ती"त्यत्रापि "जन्ममृत्युजरादुःखम्" इत्येतदेव कर्म । "संसारपशवः" अज्ञानिनः ॥ ंोट्_१,३२.३३ ॥ कथञ्चित्क्वचिदेवैको दृश्यते विमलाशयः । पूर्वापरविचारार्हो यथायमरिसूदनः ॥ ंो_१,३२.३४ ॥ "पूर्वापरविचारार्हः" सम्यग्विचारयोग्यः ॥ ंोट्_१,३२.३४ ॥ अनुत्तमचमत्कारफलाः सुभगमूर्तयः । भव्या हि विरला लोके सहकारद्रुमा इव ॥ ंो_१,३२.३५ ॥ "भव्याः" विवेकयुक्ताः ॥ ंोट्_१,३२.३५ ॥ सम्यग्दृष्टिर्जगज्जातौ स्वविवेकचमत्कृतिः । अस्मिन् भव्यमतावन्तरियमन्येव दृश्यते ॥ ंो_१,३२.३६ ॥ अस्माभिः । "भव्यमतौ" "अस्मिन्" गर्भरूपे श्रीरामे । "सम्यग्दृष्टिः" सम्यग्दृष्टिस्वरूपा । "इयं" "स्वविवेकचमत्कृतिः" आत्मविवेकचमत्कारः । "जगज्जातौ" जगत्स्थितौ । "अन्या इव" नवीना इव । "दृश्यते" ॥ ंोट्_१,३२.३६ ॥ सुलभाः सुभगा लोकाः फलपल्लवशालिनः । जायन्ते तरवो देशे न तु चन्दनपादपाः ॥ ंो_१,३२.३७ ॥ "सुभगाः" आकारमात्रेण मनोहराः ॥ ंोट्_१,३२.३७ ॥ वृक्षाः प्रतिवने सन्ति सत्यं सुफलपल्लवाः । न त्वपूर्वचमत्कारो लवङ्गः सुलभः सदा ॥ ंो_१,३२.३८ ॥ स्पष्टम् ॥ ंोट्_१,३२.३८ ॥ ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी । पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः ॥ ंो_१,३२.३९ ॥ "चमत्कृतिः" वैराग्यरूपेत्यर्थः ॥ ंोट्_१,३२.३९ ॥ अस्मादुद्दामदौरात्म्यदैवनिर्माणनिर्मितेः । द्विजेन्द्रा दग्धसंसारात्सारो ह्यत्यन्तदुर्लभः ॥ ंो_१,३२.४० ॥ हे "द्विजेन्द्राः" । "दग्धसंसारात्" कथम्भूतात् । अत्यन्तवैषम्यकारित्वेन "उद्दामदौरात्म्यं" यद्"दैवं" विधिः । तस्य यत्"निर्माणं" रचनम् । ततः "निर्मितिः" सम्पत्तिर् । यस्य । सः । तादृशात् । निर्माणनिर्मित्योः सामान्यविशेषभावेन भेदो द्रष्टव्यः । अत्र वैराग्योत्कर्षात्दैवं प्रति असूया न युक्तेति नान्यथा शङ्कितव्यम् ॥ ंोट्_१,३२.४० ॥ यतन्ते सारसम्प्राप्तौ ये यशोनिधयो धिया । धन्या धुरि सतां गण्यास्ता एव पुरुषोत्तमाः ॥ ंो_१,३२.४१ ॥ स्पष्टम् ॥ ंोट्_१,३२.४१ ॥ न रामेण समोऽस्तीह त्रिषु लोकेषु कश्चन । विवेकवानुदारात्मा महात्मा चेति नो मतिः ॥ ंो_१,३२.४२ ॥ स्पष्टम् ॥ ंोट्_१,३२.४२ ॥ सर्गान्तश्लोकेन वैराग्यप्रकरणं समापयति सकललोकचमत्कृतिकारिणो ऽप्यभिमतं यदि राघवचेतसः । फलति नो तदिमे वयमेव हि स्फुटतरं मुनयो हतबुद्धयः ॥ ंो_१,३२.४३ ॥ "अभिमतं" समनन्तरोक्तस्य प्रश्नस्योत्तरम् । इति शिवम् ॥ ंोट्_१,३२.४३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्यप्रकरणे द्वात्रिंशः सर्गः ॥ १,३२ ॥ ************************************************************************ श्रोतॄणां भावनावेशसत्कृतस्वान्तशालिनाम् * वैराग्याख्यप्रकरणव्याख्या सत्फलदास्त्वियम् ** १५ ** यच्छक्त्यावेशवशतः सामर्थ्यं कार्यगोचरम् * भावानामस्तु यत्नोऽयं तत्कार्यत्वेन निश्चितः ** १६ ** वासनाबीजरागाख्यद्रुमोन्मूलनपण्डितः * वैराग्याख्यः पयःपूरः स्फुरतान्मम मानसे ** १७ ** इति शिवम् ॥ इति श्रीकाश्मीरमण्डलान्तर्वर्त्याराध्यपादमहामाहेश्वरवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्रश्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां वैराग्याख्यं प्रकरणं समाप्तम् ॥ तदेवाह अनर्थः प्राप्यते यत्र शास्त्रितादपि पौरुषात् । अनर्थकं तु बलवत्तत्र ज्ञेयं स्वपौरुषम् ॥ ंो_२,५.६ ॥ "यत्र" पुरुषेण "शास्त्रितादपि पौरुषातनर्थः प्राप्यते तत्र अनर्थकम्" अनर्थोत्पादकं "स्वपौरुषम्" अशास्त्रीयं पौरुषम् । "बलवज्ज्ञेयम्" । तन्मध्ये प्रविष्टाद्बलवतः स्वपौरुषादेवासौ अनर्थ उत्पन्न इति "ज्ञेयम्" इति भावः । अर्थात्तु यत्र अनर्थः न प्राप्यते तत्र शास्त्रीयमेव बलवज्ज्ञेयम् । द्वयोः पौरुषयोश्च सर्वत्र सन्धिरस्ति असहायस्यैककस्योत्थानासंभवात् ॥ ंोट्_२,५.६ ॥ पुरुषस्य कर्तव्यं दर्शयति परं पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् । शुभेनाशुभमुद्युक्तः प्राक्तनं पौरुषं जयेत् ॥ ंो_२,५.७ ॥ "परं पौरुषम्" शास्त्रोक्तं पौरुषम् । "उद्युक्तः" उद्योगयुक्तः । "प्राक्तनं पौरुषम्" वासनाख्यं प्राक्तनम् । अपि "शुभं" शुभकार्येव । यतः शुभा वासनैव मोक्षदायिनी प्रोक्तेत्य्"अशुभम्" इत्युक्तम् ॥ ंोट्_२,५.७ ॥ प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः । बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ॥ ंो_२,५.८ ॥ प्रत्यक्षेण तु पौरुषस्यैव नियोजने सामर्थ्यं दृष्टमित्येतदभिप्रेत्य "प्रत्यक्षादधिका न से"त्युक्तम् ॥ ंोट्_२,५.८ ॥ तावत्तावत्प्रयत्नेन यतितव्यं स्वपौरुषम् । प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ॥ ंो_२,५.९ ॥ "स्वपौरुषं यतितव्यम्" शास्त्रानुसारेण स्वविषयं प्रति यत्नयुक्तं कार्यम् । "यतितव्यम्" इति णिच्युक्तः प्रयोगः ॥ ंोट्_२,५.९ ॥ दोषः शाम्यत्यसन्देहं प्राक्तनोऽद्यतनैर्गुणैः । दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याद्यगुणैः क्षयः ॥ ंो_२,५.१० ॥ स्पष्टम् ॥ ंोट्_२,५.१० ॥ असद्दैवमधः कृत्वा नित्यमुद्युक्तया धिया । संसारोत्तरणं भूत्यै यतेताधातुमात्मनि ॥ ंो_२,५.११ ॥ "भूत्यै" मुक्तिरूपायैश्वर्याय ॥ ंोट्_२,५.११ ॥ न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः । उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ॥ ंो_२,५.१२ ॥ स्पष्टम् ॥ ंोट्_२,५.१२ ॥ संसारकुहरादस्मान्निर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवारिपञ्जरात् ॥ ंो_२,५.१३ ॥ "संसारकुहरात्" संसारश्वभ्रात् । "हरिणा" सिंहेन । "अरिपञ्जरात्" अरिभूतात्पञ्जरात् ॥ ंोट्_२,५.१३ ॥ प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । संत्यजेत्पशुभिस्तुल्यं श्रयेत्सत्पुरुषोचितम् ॥ ंो_२,५.१४ ॥ "प्रत्यवेक्षेत" कीदृशमिति विमर्शविषयं कुर्यात् ॥ ंोट्_२,५.१४ ॥ किंचित्कान्तान्नपानादिकलिलं कोमलं गृहे । व्रणे कीट इवास्वाद्य वयः कार्यं न भस्मसात् ॥ ंो_२,५.१५ ॥ "कलिलं" पापजनकम् । "कोमलं" आमुखे कोमलतया प्रतिभासमानम् । "व्रणे" रन्ध्रे ॥ ंोट्_२,५.१५ ॥ शुभेन पौरुषेणाशु शुभमासाद्यते फलम् । अशुभेनाशुभं नित्यं दैवं नाम न किंचन ॥ ंो_२,५.१६ ॥ स्पष्टम् ॥ ंोट्_२,५.१६ ॥ प्रत्यक्षदृष्टमुत्सृज्य योऽनुमानमनास्त्वसौ । स्वभुजाभ्यामिमौ सर्पाविति प्रेक्ष्य पलायताम् ॥ ंो_२,५.१७ ॥ "स्वभुजाभ्याम्" इति पञ्चमी ॥ ंोट्_२,५.१७ ॥ दैवं संप्रेरयति मामिति मुग्धधियां मुखम् । अदृष्टश्रेष्ठदृष्टीनां दृष्ट्वा लक्ष्मीर्निवर्तते ॥ ंो_२,५.१८ ॥ "अदृष्टा" । "श्रेष्ठा" उत्तमा । "दृष्टिः" पौरुषाख्या दृष्टिः । यैः तेषाम् ॥ ंोट्_२,५.१८ ॥ तस्मात्पुरुषयत्नेन विवेकं पूर्णमाश्रयेत् । आत्मज्ञानमहार्थानि शास्त्राणि प्रविचारयेत् ॥ ंो_२,५.१९ ॥ "आत्मज्ञानम्" एव "महानर्थः" येषां तानि ॥ ंोट्_२,५.१९ ॥ चित्ते चिन्तयतामर्थं यथाशास्त्रं निजेहितैः । असंसाधयतामेव मूढानां धिग्दुरीप्सितम् ॥ ंो_२,५.२० ॥ "निजेहितैः" स्वपौरुषैः । "दुरीप्सितम्" दुष्टकाङ्क्षितम् ॥ ंोट्_२,५.२० ॥ पौरुषं च न चानन्तं न यत्नमभिवाञ्छते । न यत्नेनापि महता तैलमासाद्यतेऽश्मनः ॥ ंो_२,५.२१ ॥ "पौरुषमनन्तं" अन्तरहितम् । "न च" भवति । किं तु नियतमेव भवति । "पौरुषं" कर्तृ । "यत्नं न अभिवाञ्छते" न स्वोत्पादकत्वेन काङ्क्षते । यत्नेन स्वस्य नियमं न लङ्घयति इति यावत् । पुरुषो "महतापि यत्नेन" स्वस्मिन्नियतं पौरुषं न लङ्घयितुं शक्नोतीति भावः । एतद्दृष्टान्तेन सुगमं करोति । "न यत्नेने"ति ॥ ंोट्_२,५.२१ ॥ पूर्वोक्तमेवार्थं स्फुटयति यथा घटः परिमितो यथा परिमितः पटः । नियतः परिमाणस्थः पुरुषार्थस्तथैव वः ॥ ंो_२,५.२२ ॥ अतः स्वपौरुषाविषये आकाशगमनादौ न यतितव्यमिति भावः ॥ ंोट्_२,५.२२ ॥ स च शास्त्रार्थसत्सङ्गसमाचारैर्निजं फलम् । ददातीति स्वभावोऽयमन्यथानर्थसिद्धये ॥ ंो_२,५.२३ ॥ "अन्यथा" शास्त्रार्थसत्सङ्गसमाचाराणामभावे ॥ ंोट्_२,५.२३ ॥ स्वरूपं पौरुषस्यैतद्दैवं व्यवहरन्नरः । याति निष्फलयत्नत्वं न कदाचन कश्चन ॥ ंो_२,५.२४ ॥ "पौरुषस्य स्वरूपं दैवं व्यवहरन्" दैवमिति नाम्ना व्यवहरन् । न तु परमार्थतो दैवमिति जानन्निति यावत् ॥ ंोट्_२,५.२४ ॥ दैन्यदारिद्र्यदुःखार्ता अप्यन्ये पुरुषोत्तमाः । पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ ंो_२,५.२५ ॥ स्पष्टम् ॥ ंोट्_२,५.२२ ॥ आ बाल्याच्चैवमभ्यस्तैः शास्त्रसत्सङ्गमादिभिः । गुणैः पुरुषयत्नेन स्वोऽर्थः संप्राप्यते हि तैः ॥ ंो_२,५.२६ ॥ "स्वोऽर्थः" मोक्षाख्यः काङ्क्षितोऽर्थः । "पुरुषेणे"ति शेषः । "हि"शब्दः निश्चये । "तैः" प्रसिद्धैः "गुणैर्" इति करणे तृतीया । "यत्नेने"ति तु हेतौ ॥ ंोट्_२,५.२६ ॥ उपसंहारं करोति इति प्रत्यक्षतो दृष्टमनुभूतं कृतं श्रुतम् । दैवोत्थमिति मन्यन्ते ये हतास्ते कुबुद्धयः ॥ ंो_२,५.२७ ॥ "कृतं श्रुतम्" अनुष्ठितम् । सर्वम् "दैवातुत्थम्" अस्ति । "इति ये मन्यन्ते" । "ते कुबुद्धयः हताः" नष्टाः ॥ ंोट्_२,५.२७ ॥ आलस्यं यदि न भवेज्जगत्यनर्थः को न स्याद्बहुधनिको बहुश्रुतो वा । आलस्यादियमवनिः ससागरान्ता संपूर्णा नरपशुभिश्च निर्धनैश्च ॥ ंो_२,५.२८ ॥ "नरपशुभिः" अज्ञानिभिः । "निर्धनैः" दरिद्रैः । तस्माद्धनकाङ्क्षिभिः मोक्षकाङ्क्षिभिर्वा पौरुषमेव कार्यमिति भावः ॥ ंोट्_२,५.२८ ॥ पौरुषानुष्ठानप्रकारं कथयति बाल्ये गतेऽविरतकल्पितकेलिलोले पौगण्डमण्डनवयःप्रभृति प्रयत्नात् । सत्सङ्गमैः पदपदार्थविबुद्धबुद्धिः कुर्यान्नरः स्वगुणदोषविचारणानि ॥ ंो_२,५.२९ ॥ "अविरतं कल्पिता" या "केलिः" । तया "लोले बाल्ये" । बालभावे "गते" सति । पुरुषः "पौगण्डस्या"वस्थाविशेषस्य "मण्डन"भूतं यत्"वयः" । ततः "प्रभृति" यौवनात्प्रभृति इति यावत् । "प्रयत्नात्" यत्नेन । "स्वगुणदोषविचारणानि कुर्यात्" । कैः कृत्वा । "सत्सङ्गमैः" साधुसङ्गमैः । सत्सङ्गमाभावे हि स्वगुणदोषविचारणमशक्यक्रियमेव । पुरुषः कथंभूतः । "पदपदार्थविबुद्धबुद्धिः" । पदपदार्थयोः विबुद्धा बुद्धिः यस्य । तादृशः । पदपदार्थज्ञ इत्यर्थः ॥ ंोट्_२,५.२९ ॥ श्रीवाल्मीकिः सर्गान्तश्लोकेन भरद्वाजं प्रति तत्रत्यं दिनावसानं कथयति इत्युक्तवत्यथ मुनौ दिवसो जगाम सायन्तनाय विधयेऽस्तमिनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥ ंो_२,५.३० ॥ "मुनौ" वसिष्ठे । "इति" एवम् । "उक्तवति" सति । "दिवसः जगाम" अवसानं गतः । यतः "इनः" सूर्यः । "अस्तं जगाम" । "सभा" दाशरथी सभा । "कृतनमस्करणा" कृतमुनिनमस्कारा सती । "सायन्तनाय" "विधये" सायं सन्ध्यार्थम् । "स्नातुं जगाम" । सा "सभा श्यामाक्षये" रात्रिक्षये । "रविकरैः" सूर्यकरैः । "सह आजगाम च" । इति शिवम् ॥ ंोट्_२,५.३० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चमः सर्गः ॥ २,५ ॥ ************************************************************************ प्रभाते श्रीवसिष्ठः श्रीरामं प्रति पूर्वसर्गोक्तवस्तुफलितं कथयति तस्मात्प्राक्पौरुषं दैवं नान्यत्तत्प्रोज्झ्य दूरतः । साधुसङ्गमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् ॥ ंो_२,६.१ ॥ "तस्मात्" पूर्वसर्गोक्ताथेतोः । "प्राक्पौरुषं" प्राक्तनं पौरुषम् । "दैवम्" भवति । "अन्यत्" पौरुषाद्भिन्नं किंचिद्दैवम् । "न" भवति । अतः पुरुषः "तत्" दैवम् । "दूरतः प्रोज्झ्य" अर्थातद्यतनं शुभं पौरुषमाश्रित्य । "साधुसङ्गमसच्छास्त्रैः" हेतुभूतैः । "जीवं बलात्" हठेन । "उत्तारयेत्" । "संसाराद्" इति शेषः ॥ ंोट्_२,६.१ ॥ यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा । इति पौरुषमेवास्ति दैवमस्तु तदेव वः ॥ ंो_२,६.२ ॥ "प्रयत्नः" पौरुषम् । "तत्" युष्माभिः अङ्गीकृतं "दैवम्" । "वः एव" युष्माकमेव्"आस्तु" ॥ ंोट्_२,६.२ ॥ दुःखाद्यथा दुःखकाले हा कष्टमिति कथ्यते । हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि ॥ ंो_२,६.३ ॥ "तथा हा कष्टमिति"वत्"हा दैवमिति" दीनानामेवोक्तिरस्तीति भावः ॥ ंोट्_२,६.३ ॥ प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते । बालः प्रबलपुंसेव तज्जेतुमिव शक्यते ॥ ंो_२,६.४ ॥ "प्राक्स्वकर्मणः" प्राक्तनस्वकर्मणः । "इतराकारं दैवं नाम न विद्यते" । प्राक्तनात्स्वकर्मणः पृथक्सत्तां न भजते इत्यर्थः । अतः पुंसा "तत्" दैवम् । "जेतुं शक्यते" केन्"एव" । "प्रबलपुंसा इव" । यथा तेन "बालो जेतुं शक्यते" तथेत्यर्थः ॥ ंोट्_२,६.४ ॥ ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा । यथाशु शुभतां याति प्राक्तनं कुकृतं तथा ॥ ंो_२,६.५ ॥ "अद्याचारेण" अद्य कृतेनाचारेण । "तथा" तद्वत् । "प्राक्तनं कुकृतम्" अद्यतनेन सुकृतेन "शुभतां याति" ॥ ंोट्_२,६.५ ॥ तज्जयाय यतन्ते ये न लाभलवलम्पटाः । ते मूढाः प्राकृता दीनाः स्थिता दैवपरायणाः ॥ ंो_२,६.६ ॥ "तज्जयाय" कुवासनारूपप्राक्तनाशुभपौरुषजयाय । "लाभलवे" सांसारिकपदार्थाप्तिरूपे लाभलेशे । "लंपटाह्" लोभयुक्ताः । "प्राकृताः" नीचाः ॥ ंोट्_२,६.६ ॥ पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति । तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् ॥ ंो_२,६.७ ॥ "नाशयितुः" नाशकस्य कालादेः ॥ ंोट्_२,६.७ ॥ यदेकवृन्तफलयोरप्येकं शून्यकोटरम् । तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः ॥ ंो_२,६.८ ॥ एकस्मिन् वृन्ते स्थितौ फलौ "एकवृन्तफलौ" । तयोः "अपि" मध्यात्"एक"फलं "शून्यकोटरम्" साररहितमध्यं "यत्" भवति । अर्थात्द्वितीयं सारभरितमध्यं ज्ञेयम् । "तत्र" तस्मिन् स्थाने । "तद्रससंविदः" तयोः फलयोः या रसरूपा संवित् । तस्याः तद्रसस्येति यावत् । "तथा" तेन प्रकारेण । "यत्नः" पौरुषं "स्फुरितः" । रसेनेव तादृशं पौरुषं कृतं येनैकं फलं साररहितं संपन्नम् । न त्वन्यशङ्कितस्य दैवस्यात्र कापि शक्तिरस्तीति भावः ॥ ंोट्_२,६.८ ॥ यत्प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् । क्षयकारकयत्नस्य तत्र ज्ञेयं महद्बलम् ॥ ंो_२,६.९ ॥ "क्षयकारकस्य" नाशकर्तुः कालस्य । यः "यत्नः" पौरुषम् । तस्य ॥ ंोट्_२,६.९ ॥ भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् । तदमात्येभपौराणां प्रयत्नस्य महत्फलम् ॥ ंो_२,६.१० ॥ "मङ्गलेभेन" मङ्गलहस्तिना । "भिक्षुकः नृपः" राजा । "बलात्यत्क्रियते अमात्येभपौराणां" राज्यप्रदातॄणां मन्त्रिमङ्गलहस्तिनागराणाम् । "प्रयत्नस्य" तद्राज्यदानरूपस्य पौरुषस्य सह"फलं" भवति । न दैवस्य ॥ ंोट्_२,६.१० ॥ पौरुषेनान्नमाक्रम्य यथा दन्तैर्विचूर्ण्यते । अल्पं पौरुषमाक्रम्य तथा शूरेण चूर्ण्यते ॥ ंो_२,६.११ ॥ "यथा दन्तैः पौरुषेण अन्नमाक्रम्य" स्ववशीकृत्य । "चूर्ण्यते" । "तथा शूरेणा"द्यतनपौरुषयुक्तेन पुरुषेण । "अल्पं" प्राक्तनत्वेन जीर्णप्रायम् । "पौरुषमाक्रम्य चूर्ण्यते" ॥ ंोट्_२,६.११ ॥ अनुभूतं हि महतां लाघवं यत्नशालिनाम् । यथेष्टं विनियुज्यन्ते ते तैः कर्मसु लोष्टवत् ॥ ंो_२,६.१२ ॥ "हि" यस्मात् । अस्माभिः "यत्नशालिनां" पौरुषशालिनाम् । "महतां लाघवं" चातुर्यम् । "अनुभूतं" प्रत्यक्षं दृष्टम् । कथमनुभूतमित्य् । अत्राह । "यथेष्टम्" इति । यतः "तैः" यत्नशालिभिः । "ते" अर्थात्पौरुषरहिताः पुरुषाः । "यथेष्टं" स्वेच्छानुसारेण । "लोष्टवत्कर्मसु विनियुज्यन्ते" ॥ ंोट्_२,६.१२ ॥ शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् । तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना ॥ ंो_२,६.१३ ॥ "शक्तस्य" महता पौरुषेण युक्तस्य । दृश्यस्य पुरुषादेरदृश्यस्य कालादेश्च । "दृश्यमदृश्यं वा यत्पौरुषं भवेत्" । "अबुद्धिना" सम्यग्ज्ञानरहितेन । "अशक्तेन" तदपेक्षया शक्तिरहितेन पुरुषेण । "तत्" शक्तस्य पौरुषम् । "आत्मनि" स्वस्मिन् विषये । "दैवं बुद्धम्" ज्ञातम् । अन्यथा दैवेन मे कृतमिति न ब्रूयात् ॥ ंोट्_२,६.१३ ॥ भूतानां बलवद्भूतयत्नो दैवमिति स्थितम् । तस्थुषामप्यधिष्ठातृवतामेतत्स्फुटं मिथः ॥ ंो_२,६.१४ ॥ "बलवद्भूतयत्नः" । "भूतानाम्" क्षुद्रभूतानामुपरि । "दैवमिति स्थितम्" भवति । पुरुषो हि यत्र न पर्याप्तो भवति तत्रैव दैवेन मे कृतमिति कथयति । न केवलमेतन्मयैव ज्ञातं किंत्वन्यैरपीत्याह । "तस्थुषाम्" इति । "अपि"शब्दः समुच्चये । "मिथः" अन्योऽन्यम् । "अधिष्ठातृवतां तस्थुषाम्" प्रेरकयुक्तानां स्थितानां पुरुषाणाम् "अपि" । "एतत्" मया उक्तः अर्थः । "स्फुटं" प्रकटो भवति । ते हि परस्परं क्षुद्रतरतमादिभेदेनाधिष्ठेयाः भवन्ति । उत्कृष्टतरतमादिभेदेन त्वधिष्ठातारः । अधिष्ठाता एव चाधिष्ठेयं प्रति दैवम् । अतः एतेषु मदुक्तोऽर्थः स्फुट एव भवति इति भावः ॥ ंोट्_२,६.१४ ॥ ननु भिक्षुकराज्यविषयेऽयं न्यायो नास्तीत्य् । अत्राह शास्त्रमात्येभपौराणामविकल्प्या स्वभावधीः । सा या भिक्षुकराज्यस्य कर्त्री धर्त्री प्रजास्थितेः ॥ ंो_२,६.१५ ॥ "शास्ता" पुरोहितः । स च "अमात्यश्" च । "इभश्" च मङ्गलहस्ती च । "पौराश्" च । तेषाम् । "सा स्वभावधीः" स्वभावातुत्थिता भिक्षुराज्यदानरूपा बुद्धिः । "अविकल्प्या" नाशयितुमशक्याशक्ता इति यावत्भवति । "सा" का । "या भिक्षुकराज्यस्य कर्त्री" भवति । तद्द्वारेण "प्रजास्थितेः धर्त्री" च भवति । अतोऽत्राप्ययमेव न्याय इति भावः । इयं हि रीतिः । यत्र देशे राजा म्रियते । तस्य पुत्रश्च न स्यात् । तत्र मङ्गलहस्ती यं नमति । तमेव राजानं कुर्वन्तीति ॥ ंोट्_२,६.१५ ॥ ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् । सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ॥ ंो_२,६.१६ ॥ "पुरुषस्पन्दः" पौरुषम् । "तत्र" द्वयोः पौरुषयोः मध्ये । "अनुद्वेगवान्" उद्वेगरहितः । लक्षणया अतिबल इत्यर्थः ॥ ंोट्_२,६.१६ ॥ ननु तत्र कः प्रायः बलवानस्तीत्य् । अत्राह द्वयोरद्यतनस्यैव प्रत्यक्षाद्बलिता भवेत् । दैवं जेतुमतो यत्नैर्बालो यूनेव शक्यते ॥ ंो_२,६.१७ ॥ "प्रत्यक्षात्" प्रत्यक्षप्रमाणेन । दृश्यते हि अद्यतनः शुभाचारः ह्यस्तनमशुभं नाशयन् । फलितमाह । "दैवम्" इति । "अतः यत्नैः" अद्यतनैः पौरुषैः । "दैवं" प्राक्तनं पौरुषम् । "जेतुं शक्यते" । केनेव । "यूनेव" । यथा "यूना बालः जेतुं शक्यते" तथेत्यर्थः ॥ ंोट्_२,६.१७ ॥ मेघेन नीयते यद्वा वत्सरोपार्जिता कृषिः । मेघस्य पुरुषार्थोऽसौ जयत्यधिकयत्नवान् ॥ ंो_२,६.१८ ॥ अत्रापि न दैवस्य काचिच्छक्तिरस्तीति भावः ॥ ंोट्_२,६.१८ ॥ क्रमेणोपार्जितेऽप्यर्थे नष्टे कार्या न खेदिता । न बलं यत्र मे शक्तं तत्र का परिदेवना ॥ ंो_२,६.१९ ॥ "बलम्" पौरुषम् । न हि जनः अशक्यः राज्यादिवस्तुप्राप्त्यर्थं प्रत्यहं "परिदेवना"युक्तो भवतीति भावः ॥ ंोट्_२,६.१९ ॥ यन्न शक्नोमि तस्यार्थे यदि दुःखं करोम्यहम् । तदमानितमृत्योर्मे युक्तं प्रत्यहरोदनम् ॥ ंो_२,६.२० ॥ "अमानितमृत्योः" तावद्मृत्युपातमपि अनङ्गीकुर्वतः ॥ ंोट्_२,६.२० ॥ देशकालक्रियाद्रव्यवशतो विस्फुरन्त्यमी । सर्व एव जगद्भावा जयत्यधिकयत्नवान् ॥ ंो_२,६.२१ ॥ "भावाः" मृत्य्वादिरूपाः पदार्थाः ॥ ंोट्_२,६.२१ ॥ फलितं कथयति तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः । प्रज्ञाममलतां नीत्वा संसाराम्बुनिधिं तर ॥ ंो_२,६.२२ ॥ "अमलताम्" रागादिमलराहित्यम् ॥ ंोट्_२,६.२२ ॥ प्राक्तनश्चैहिकश्चासौ पुरुषार्थौ फलद्रुमौ । ऐहिकः पुरुषार्थश्च जगत्यभ्यधिकस्तयोः ॥ ंो_२,६.२३ ॥ फलोत्पादकौ द्रुमौ "फलद्रुमौ" ॥ ंोट्_२,६.२३ ॥ कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः । अज्ञो जन्तुरनीशोऽसौ वाङ्मनःसुखदुःखयोः ॥ ंो_२,६.२४ ॥ "कर्म" पौरुषम् । "अनीशः" असमर्थः । "वाङ्मनःसुखदुःखौ" अप्य्"असौ" नाशयितुं न शक्नोति । शरीरदुःखनाशे तु का कथेति भावः ॥ ंोट्_२,६.२४ ॥ यस्तूदारचमत्कारः सदाचारविहारवान् । स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जरादिव ॥ ंो_२,६.२५ ॥ "सदाचारेण" साध्वाचारेण । "विहारः" विद्यते यस्य । तादृशः । "स" इति । "स" एव शुभपौरुषभाजनमिति भावः ॥ ंोट्_२,६.२५ ॥ कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने । यः स्थितो दृष्टमुत्सृज्य त्याज्योऽसौ दूरतोऽधमः ॥ ंो_२,६.२६ ॥ "दृष्टम्" प्रत्यक्षदृष्टफलं पौरुषम् ॥ ंोट्_२,६.२६ ॥ व्यवहारसहस्राणि यान्युपायान्ति यान्ति च । यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥ ंो_२,६.२७ ॥ "यथाशास्त्रम्" स्वशास्त्रानतिक्रमेण । "विहर्तव्यं" विहारः कार्यः ॥ ंोट्_२,६.२७ ॥ यथाशास्त्रमनुच्छिन्नां मर्यादां स्वामनुज्झतः । उपतिष्ठन्ति सर्वाणि रत्नान्यम्बुनिधेरिव ॥ ंो_२,६.२८ ॥ "स्वाम्" स्वजात्यनुसारिणीम् । "उपतिष्ठन्ति" समीपमागच्छन्ति । "सर्वाणि" सकलानि श्रेयांसि ॥ ंोट्_२,६.२८ ॥ स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥ ंो_२,६.२९ ॥ "स्वार्थप्रापके" स्वप्रयोजनसाधके "कार्ये" । "एकम्" अत्यन्तम् । "प्रयत्नपरता" "शास्त्रयन्त्रिता" शास्त्रबुद्धा ॥ ंोट्_२,६.२९ ॥ क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् । साधुसङ्गमशास्त्रार्थतीक्ष्णयाभ्यूह्यते धिया ॥ ंो_२,६.३० ॥ "स्पन्दधर्मिण्याः" स्पन्दस्वरूपायाः "क्रियायाः" । "स्वार्थसाधकता स्वयम्" अन्यनिरपेक्षं भवति । "साधुसङ्गमशास्त्रार्थतीक्ष्णया धिया" सम्बन्धिनी "स्वार्थसाधकता" "अभ्यूह्यते" विवेच्यते । का "स्वार्थसाधकता" । शुभा । का शुभेति व्यवस्थाप्यते इत्यर्थः ॥ ंोट्_२,६.३० ॥ अनन्तं समतानन्दं परमार्थं विदुर्बुधाः । स येभ्यः प्राप्यतेऽनन्तं ते सेव्याः शास्त्रसाधवः ॥ ंो_२,६.३१ ॥ सर्वत्र समदर्शित्वं "समता" । तद्रूपः "आनन्दः" "समतानन्दः" । "परमार्थम्" परमोपादेयम् । "सः" समतानन्दः । पौरुषमाश्रित्योपास्यः ॥ ंोट्_२,६.३१ ॥ प्राक्तनं पौरुषं तच्चेद्दैवशब्देन कथ्यते । तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे ॥ ंो_२,६.३२ ॥ "तत्" प्रसिद्धम् । "प्राक्तनं पौरुषं दैवशब्देन चेत्" यदि । "कथ्यते" । "युष्माभिर्" इति शेषः । "तत्" कथनम् । "युक्तं" भवति । यत "एतत्" समतानन्दप्राप्त्युपायत्वम् । "एतस्मिन्नास्ति" । अतः वयं "नापवदामहे" तदपवादं न कुर्मः । उपेक्षाविषयत्वादिति भावः ॥ ंोट्_२,६.३२ ॥ मूढैः प्रकल्पितं दैवमन्यद्यैस्ते क्षयं गताः । नित्यं स्वपौरुषादेव लोकद्वयहितं भवेत् ॥ ंो_२,६.३३ ॥ "अन्यत्" प्राक्तनपौरुषात् । "क्षयम्" अनुद्योगकृतं नाशम् ॥ ंोट्_२,६.३३ ॥ ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान् भव ॥ ंो_२,६.३४ ॥ "अद्यतनये"ति शेषः । "यथा" अद्यतनया "सत्क्रियया ह्यस्तनी दुष्क्रिया शोभामभ्येति" । "एवम्" तथा । "प्राक्तनी" प्राग्जन्मभवा वासनारूपा "दुष्क्रिया" । "अद्य" अद्यतनया सच्छास्त्रसेवनादिरूपया "सत्क्रियया" । "शोभाम्" शुद्धत्वम् "अभ्येति" । अतः त्वम् "सत्कार्यवान् भव" ॥ ंोट्_२,६.३४ ॥ करामलकवद्दृष्टं पौरुषादेव यत्फलम् । मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति ॥ ंो_२,६.३५ ॥ "मूढः" दैवात्फलवादी अज्ञानी । "प्रत्यक्षम्" प्रत्यक्षप्रमाणसिद्धं पौरुषम् "उत्सृज्य" । "दैवमोहे" दैवरूपे भ्रमे "मज्जति" । कुतः तत् । तत्कुतः "यत्" यतः । अस्माभिः "फलं करामलकवत्पौरुषादेव दृष्टम्" प्रत्यक्षमनुभूतम् ॥ ंोट्_२,६.३५ ॥ सकलकारणकार्यविवर्जितं निजविकल्पबलादुपकल्पितम् । तदनपेक्ष्य हि दैवमसन्मयं श्रय शुभाशय पौरुषमात्मनः ॥ ंो_२,६.३६ ॥ "सकलानि" यानि "कार्यकारणानि" । तैः "वर्जितम्" । अत्यन्तासत्स्वरूपमित्यर्थः । अत एव "निजविकल्पबलातुपकल्पितम्" संपादितम् । "ततसन्मयं दैवमनपेक्ष्य" । हे "शुभाशय" । त्वम् "आत्मनः पौरुषमाश्रय" । दैववशो मा भवेति भावः ॥ ंोट्_२,६.३६ ॥ शास्त्रैः सदाचरितजृंभितदेशधर्मैर् यत्कल्पितं फलमतीव चिरप्ररूढम् । तस्मिन् हृदि स्फुरति नोऽपरमेति चित्तम् अङ्गावली तदनु पौरुषमेतदाहुः ॥ ंो_२,६.३७ ॥ "शास्त्रैः" सच्छास्त्रैः । "सतां" साधूनाम् । यत्"आचरितं" आचारः । तेन प्रवृत्तः । अविच्छिन्नप्रवाहेणागताः ये "देशधर्माः" । तैः च्"आतीव चिरप्ररूढं" अत्यन्तबहुकालात्प्रभृति प्रसिद्धम् । "यत्फलं कल्पितम्" साध्यत्वेन निश्चितं भवति । "तस्मिन्" फले । "हृदि स्फुरति" संपादनीयतया विलसति सति । "चित्तम्" "अपरम्" प्रोक्तफलेतरं वस्तु यत् । "नो एति" न गच्छति । "तदनु" चित्तानन्तरम् । "अङ्गावली" हस्ताद्यवयवपङ्क्तिर् । अपि "अपरं" यत् । "नो एति" । अपि तु तत्साधनैकपरं भवति । पण्डिताः "एतत्पौरुषमाहुः" कथयन्ति । न तु यथा तथा हस्तादिचालनमिति भावः ॥ ंोट्_२,६.३७ ॥ बुद्ध्वैव पौरुषफलं पुरुषत्वमेतद् आत्मप्रयत्नपरतैव सदैव कार्या । नेया ततः सफलतां परमामथासौ सच्छास्त्रसाधुजनपण्डितसेवनेन ॥ ंो_२,६.३८ ॥ पुरुषेण "एतत्" स्वेनानुभूयमानम् । "पुरुषत्वम्" पुरुषभावम् । "पौरुषफलं" । "पौरुषं" पूर्वश्लोकोक्तस्वरूपपौरुषम् । "फलं" यस्य । तादृक् । "बुद्ध्वा" एव । "आत्मप्रयत्नपरता" पौरुषनिर्वृत्तत्वम् । "सदा एव कार्या" । "ततः" करणानन्तरम् । पुरुषेण्"आसौ" आत्मप्रयत्नपरता । "सच्छास्त्रसाधुजनपण्डितसेवनेन" "परमाम्" उत्कृष्टाम् । "सफलताम्" मोक्षाख्यफलयुक्तताम् "नेया" । "अथ"शब्दः पादपूरणार्थः ॥ ंोट्_२,६.३८ ॥ दैवपौरुषविचारचारुभिश्चेतसा चरितमात्मपौरुषम् । नित्यमेव जयतीति भावितैः कार्य आर्यजनसेवनोद्यमः ॥ ंो_२,६.३९ ॥ पुरुषैः "आर्यजनसेवनोद्यमः कार्यः" । कथंभूतैः । "दैवपौरुषयोः" यः "विचारः" स्वरूपविवेचनम् । तेन "चारुभिः " । पुनः कथंभूतैः । मनसा "इति" एवम् । "भावितैः" निश्चितैः इति । किम् "इति" । "चरितम्" अनुष्ठितम् । "आत्मपौरुषं नित्यम्" सदा "जयति" । सर्वफलजनकत्वात्सर्वोत्कर्षेण वर्तत इति ॥ ंोट्_२,६.३९ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति जन्मप्रबन्धमयमामयमेष जीवो बुद्ध्वैहिकं सहजपौरुषमेव सिद्ध्यै । शान्तिं नयत्ववितथेन वरौषधेन पृष्टेन तुष्टिपरपण्डितसेवनेन ॥ ंो_२,६.४० ॥ "जीवः" पुरुषः । "ऐहिकं" इह लोके शक्यत्वेन स्थितं "पौरुषं" । "सिद्ध्यै" सिद्ध्यर्थं "बुद्ध्वा" । ततः तदाश्रयणेनानुष्ठितेन "तुष्टिपरपण्डितसेवनेन" हेतुना । "पृष्टेन" तस्मादेव पण्डितात्"पृष्टेन" । "अवितथेन" सफलेन । "वरौषधेन" सम्यग्ज्ञानाख्यवरौषधेन । "जन्मप्रबन्धमयम्" जन्मसन्तानरूपम् । "आमयम्" रोगम् । "शान्तिं नयतु" । इति शिवम् ॥ ंोट्_२,६.४० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे षष्ठः सर्गः ॥ २,६ ॥ ************************************************************************ ओमत्यन्तोपादेयत्वेन पुनरपि पौरुषचर्चामेव प्रस्तौति प्राप्य व्याधिविनिर्मुक्तं देहमल्पाधिवेधितम् । तथात्मानं समादध्याद्यथा भूयो न जायते ॥ ंो_२,७.१ ॥ "अल्पो" यः "आधिः" जीवनोपायादिनिमित्ता चित्तपीडा । तेन "वेधितम्" ताडनायुक्तं कृतम् । "समादध्यात्" चिन्मात्रतत्त्वे समाधानयुक्तं कुर्यात् ॥ ंोट्_२,७.१ ॥ दैवं पुरुषकारेण योऽतिवर्तितुमिच्छति । इह चामुत्र च जयेत्स संपूर्णाभिवाञ्छितः ॥ ंो_२,७.२ ॥ "दैवम्" अनुद्योगरूपं दैवम् । "संपूर्णे अभिवाञ्छिते" भोगमोक्षरूपे काङ्क्षिते यस्य "सः" ॥ ंोट्_२,७.२ ॥ ये समुद्योगमुत्सृज्य स्थिता दैवपरायणाः । ते धर्ममर्थकामौ च नाशयन्त्यात्मविद्विषः ॥ ंो_२,७.३ ॥ "आत्मविद्विट्त्वं" च तेषां भोगमोक्षरूपात्मककार्यनाशकत्वाज्ज्ञेयम् ॥ ंोट्_२,७.३ ॥ संवित्स्पन्दो मनःस्पन्द इन्द्रियस्पन्द एव च । एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदयः ॥ ंो_२,७.४ ॥ "एभ्यः" संविदादिस्पन्देभ्यः ॥ ंोट्_२,७.४ ॥ संवित्तत्त्वादेव पौरुषोत्थानं कथयति यथा संवेदनं चेतस्तथान्तःस्पन्दमृच्छति । तथैव कायश्चलति तथैव फलभोक्तृता ॥ ंो_२,७.५ ॥ "यथा" येन प्रकारेण । "संवेदनम्" संविदः स्फुरणं स्यात् । "तथा" तेन प्रकारेण । "चेतः अन्तःस्पन्दम्" संकल्पाख्यां चेष्टाम् । "ऋच्छति" गच्छति । "तथैव" चित्तस्पन्दानुसारेण एव । "कायः चलति" हिताहितप्राप्तिपरिहाररूपां क्रियां प्रति चेष्टते । ततः "तथैव" कायचलनानुसारेणैव । "फलभोक्तृता" भवति । "जीवस्ये"ति शेषः ॥ ंोट्_२,७.५ ॥ आबालमेतत्संसिद्धं यत्र यत्र यथा तथा । दैवं तु न क्वचिद्दृष्टमतो जयति पौरुषम् ॥ ंो_२,७.६ ॥ "आबालं" बालपर्यन्तम् । "एतत्" मदुक्तम् । फलितमाह्"आत" इति ॥ ंोट्_२,७.६ ॥ पुरुषार्थेन देवेशगुरुरेष बृहस्पतिः । शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥ ंो_२,७.७ ॥ देवेशस्य गुरुः "देवेशगुरुः" ॥ ंोट्_२,७.७ ॥ दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः । पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥ ंो_२,७.८ ॥ "देवेन्द्रतुल्यताम्" इन्द्रसाम्यम् ॥ ंोट्_२,७.८ ॥ महान्तो विभवाढ्या ये नानाश्चर्यसमाश्रयाः । पौरुषेणैव दोषेण नरकातिथितां गताः ॥ ंो_२,७.९ ॥ "दोषेण" दोषहेतुना । उच्छास्त्रितेनेति यावत् ॥ ंोट्_२,७.९ ॥ भावाभावसहस्रेषु दशासु विविधासु च । स्वपौरुषवशादेव विवृत्ता भूतजातयः ॥ ंो_२,७.१० ॥ "विवृत्ताः" रूपान्तरं गताः । "भावाभावा"द्याविष्टाः संपन्ना इति यावत् ॥ ंोट्_२,७.१० ॥ शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धिता । सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥ ंो_२,७.११ ॥ त्रिभिः प्रकारैः सिद्धिता "त्रिसिद्धिता" । "फलम्" इति शेषः । "स्वतः" शास्त्रादि विना स्वप्रतिभामात्रादेव । केचिद्धि "शास्त्रात्" सिद्धा भवन्ति । केचित्"गुरुतः" । केचित्"स्वतः" ॥ ंोट्_२,७.११ ॥ अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । यत्नेन चित्तमित्याशु सर्वशास्त्रार्थसंग्रहः ॥ ंो_२,७.१२ ॥ "अशुभेषु" भोगार्जनरूपेष्वशुभकार्येषु ॥ ंोट्_२,७.१२ ॥ यच्छ्रेयो यदतुच्छं च यदपायविवर्जितम् । तत्तदाचर यत्नेन पुत्रेति गुरवः स्थिताः ॥ ंो_२,७.१३ ॥ "पुत्र" हे शिष्य । "स्थिताः" । "उपदेष्टृत्वेने"ति शेषः ॥ ंोट्_२,७.१३ ॥ यथा यथा प्रयत्नो मे फलमाशु तथा तथा । इत्यहं पौरुषादेव फलभाङ्न तु दैवतः ॥ ंो_२,७.१४ ॥ "इत्य्" एवम् । निश्चयवान् भवेदिति भावः ॥ ंोट्_२,७.१४ ॥ पौरुषाद्दृश्यते सिद्धिः पौरुषं धीमतां क्रमः । दैवमाश्वासनामात्रं दुःखपेलवबुद्धिषु ॥ ंो_२,७.१५ ॥ "दुःखेन पेलवा" उद्योगासहा । "बुद्धिः" येषां तेषु ॥ ंोट्_२,७.१५ ॥ प्रत्यक्षप्रमुखान्नित्यं प्रमाणं पौरुषः क्रमः । फलतो दृश्यते लोके देशान्तरगमादिकात् ॥ ंो_२,७.१६ ॥ अस्माभिः "पौरुषः" पुरुषसम्बन्धी "क्रमः" । पादचालनादिरूपं पौरुषमिति यावत् । "देशान्तरगमादिकात्फलतः" फलात् । "नित्यं प्रमाणं" अर्थक्रियाकारि "दृश्यते" । "फलतः" कथंभूतात् । "प्रत्यक्षं" प्रत्यक्षप्रमाणम् । "प्रमुखं" ग्राहकत्वेन प्रधानं यस्य । तादृशात्प्रत्यक्षदृष्टादित्यर्थः । अतः पौरुषमेव सफलम् । न दैवमिति भावः ॥ ंोट्_२,७.१६ ॥ भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः । वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥ ंो_२,७.१७ ॥ स्पष्टम् ॥ ंोट्_२,७.१७ ॥ पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः । समुत्तरन्त्ययत्नेन न तु मूकतयानया ॥ ंो_२,७.१८ ॥ "मूकतया" दैवपरत्वरूपेण उद्योगराहित्येन ॥ ंोट्_२,७.१८ ॥ यो यो यथा प्रयतते स स तद्वत्फलैकभाक् । न तु तूष्णीं स्थितेनेह केनचित्प्राप्यते फलम् ॥ ंो_२,७.१९ ॥ "तद्वत्" तथा । "तूष्णीं स्थितेन" उद्योगरहितेन तिष्ठता ॥ ंोट्_२,७.१९ ॥ शुभेन पुरुषार्थेन शुभमासाद्यते फलम् । अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥ ंो_२,७.२० ॥ स्पष्टम् ॥ ंोट्_२,७.२० ॥ पुरुषार्थफलप्राप्तिर्देशकालवशादिह । प्राप्ता चिरेण शीघ्रं वा यासौ दैवमिति स्मृता ॥ ंो_२,७.२१ ॥ "प्राप्तिः" "प्राप्ते"ति कार्यं करोति इतिवत्प्रयोगः । "असौ" "पुरुषार्थफलप्राप्तिः" ॥ ंोट्_२,७.२१ ॥ न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् । उक्तं दैवाभिधानेन स्वं लोके कर्मणः फलम् ॥ ंो_२,७.२२ ॥ स्पष्टम् ॥ ंोट्_२,७.२२ ॥ पुरुषो जायते लोके वर्धते क्षीयते पुनः । न तत्र दृश्यते दैवं जरायौवनबाल्यवान् ॥ ंो_२,७.२३ ॥ "तत्र" पुरुषे ॥ ंोट्_२,७.२३ ॥ देशाद्देशान्तरप्राप्तिर्हस्तस्थद्रव्यधारणम् । व्यापारश्च तथाङ्गानां पौरुषेण न दैवतः ॥ ंो_२,७.२४ ॥ स्पष्टम् ॥ ंोट्_२,७.२४ ॥ अर्थप्रापककार्यैकप्रयत्नपरता बुधैः । प्रोक्ता पौरुषशब्देन सर्वमासाद्यतेऽनया ॥ ंो_२,७.२५ ॥ "अर्थप्रापकं" यत्"कार्यं" । तत्र "एकम्" केवलम् । "प्रयत्नपरता" ॥ ंोट्_२,७.२५ ॥ अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या । सोक्ता प्रोन्मत्तचेष्टेति न किंचित्प्राप्यतेऽनया ॥ ंो_२,७.२६ ॥ "अनर्थप्राप्तौ" अनर्थप्राप्त्यर्थं यत्"कार्यम्" । तत्र "एकं प्रयत्नपरता" ॥ ंोट्_२,७.२६ ॥ क्रियायाः स्पन्दधर्मिण्याः स्वार्थसाधकता स्वयम् । साधुसङ्गमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥ ंो_२,७.२७ ॥ "उन्नीयते" निश्चीयते ॥ ंोट्_२,७.२७ ॥ अनन्तं समतानन्दं परमार्थं स्वकं विदुः । तद्येभ्यः प्राप्यते यत्नात्सेव्यास्ते शास्त्रसाधवः ॥ ंो_२,७.२८ ॥ "स्वकं परमार्थम्" निजं परमप्रयोजनम् ॥ ंोट्_२,७.२८ ॥ सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान्मतिः । वर्धेते ते मिथोऽभ्यासात्सरोब्दाविव कालतः ॥ ंो_२,७.२९ ॥ "सच्छास्त्रादि"रूपः "गुणः मत्या" भवति । बुद्धिरहितस्य "सच्छास्त्रादौ" प्रवृत्त्यभावात् । "मतिः सच्छास्त्रादिगुणात्" भवति । "ते" सच्छास्त्रादिगुणमती । "मिथः" अन्योन्यम् । "अभ्यासात्वर्धेते" वृद्धिं गच्छतः । काव्"इव" । "सरोब्दाविव" । यथा "सरोब्दौ" सरोमेघौ । "कालतः मिथः वर्धेते" तथेत्यर्थः । कदाचिद्धि सरः मेघवृष्टेन जलेन वर्धते । कदाचित्तु मेघः सरसः गृहीतेन जलेनेति ॥ ंोट्_२,७.२९ ॥ आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः । गुणैः पुरुषयत्नेन स्वोऽर्थः संप्राप्यते हितः ॥ ंो_२,७.३० ॥ "पुरुषयत्नेन" पौरुषेण्"आभ्यस्तैः" अनुशीलितैः । "स्वः अर्थः" मोक्षाख्यं निजं प्रयोजनम् ॥ ंोट्_२,७.३० ॥ पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः । रचितानि जगन्तीह विष्णुना न तु दैवतः ॥ ंो_२,७.३१ ॥ स्पष्टम् ॥ ंोट्_२,७.३१ ॥ सर्गान्तश्लोकेन श्रीरामस्य पौरुषं कर्तव्यत्वेनोपदिशति जगति पुरुषकारकारणेऽस्मिन् कुरु रघुनाथ चिरं तथा प्रयत्नम् । व्रजसि तरुसरीसृपाभिधानां सुभग यथा न दशामशङ्कमेव ॥ ंो_२,७.३२ ॥ "जगति" कथंभूते । "पुरुषकारः" पौरुषं "कारणं" यस्य । तादृशे । चिन्मात्रपौरुषादेव हि जगदुत्पन्नम् । "प्रयत्नम्" पौरुषम् । "तरुसरीसृपाभिधानां दशां" तर्वादिरूपतामित्यर्थः । तर्वादयो हि पौरुषराहित्येनैव दुःखमनुभवन्तीति तेषां ग्रहणं कृतम् । इति शिवम् ॥ ंोट्_२,७.३२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे सप्तमः सर्गः ॥ २,७ ॥ ************************************************************************ ओं पुनः दैवनिराकरणं करोति । ओं नाकृतिर्न च कर्माणि नास्पदं न पराक्रमः । तन्मिथ्याज्ञानवत्प्रौढं दैवं नाम किमुच्यते ॥ ंो_२,८.१ ॥ पूर्वार्धे "यस्ये"ति शेषः ॥ ंोट्_२,८.१ ॥ स्वकर्मफलसंप्राप्ताविदमित्थमितीह याः । गिरस्ता दैवनाम्नैताः प्रसिद्धिं समुपागताः ॥ ंो_२,८.२ ॥ "इदमित्थमिति गिर" इदमित्थं संपन्नमिति वाचः ॥ ंोट्_२,८.२ ॥ तथैव मूढमतिभिर्दैवमस्तीति निश्चयः । आत्तो दुरवबोधेन रज्जाविव भुजङ्गमः ॥ ंो_२,८.३ ॥ "आत्तो" गृहीतः । "दुरवबोधेन" अज्ञानेन । "इव"शब्दः यथाशाब्दार्थे ॥ ंोट्_२,८.३ ॥ ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा । अद्यैवं प्राक्तनी तस्माद्यत्नात्सत्कार्यवान् भव ॥ ंो_२,८.४ ॥ गतार्थोऽयम् ॥ ंोट्_२,८.४ ॥ मूढानुमानसंसिद्धं दैवं यस्यास्ति दुर्मतेः । दैवाद्दाहोऽस्तु मा वेति वक्तव्यं तेन पावके ॥ ंो_२,८.५ ॥ "मूढानुमानसंसिद्धं दैवं यस्य दुर्मतेः" अज्ञानिनः । "अस्ति" परमार्थसदस्ति । "तेन" दुर्मतिना । "पावके" अग्नौ स्थित्वा । "दैवाद्दाहः अस्तु मा"स्तु "वेति वक्तव्यम्" । तत्र त्वसौ नैतद्वक्तुं शक्नोति दाहैकलब्धेरिति भावः ॥ ंोट्_२,८.५ ॥ दैवमेवेह चेत्कर्म पुंसः किमिव चेष्टया । स्नानदानाशनादारान् दैवमेव करिष्यति ॥ ंो_२,८.६ ॥ "कर्म" कर्मसंपादकमित्यर्थः । न चैतत्संभवति अकिंचित्कुर्वतः "स्नाना"द्यनुपपत्तेरिति भावः ॥ ंोट्_२,८.६ ॥ किं वा शास्त्रोपदेशेन मूकोऽयं पुरुषः किल । संचार्यते तु दैवेन किं कस्येहोपदिश्यते ॥ ंो_२,८.७ ॥ "संचार्यते" संचरणशीलः संपाद्यते । "किम्" इति । "केन" इति शेषः । दैवाङ्गीकारे न कोऽपि "कस्या"प्युपदेशं कुर्यादिति भावः ॥ ंोट्_२,८.७ ॥ न च निःस्पन्दता लोके दृष्टेह शवतां विना । स्पन्दश्च फलसंप्राप्तिस्तस्माद्दैवं निरर्थकम् ॥ ंो_२,८.८ ॥ स्पष्टम् ॥ ंोट्_२,८.८ ॥ ननु दैवेन सहैव पुरुषः कार्यं करोतीत्य् । अत्राह न चामूर्तेन दैवेन मूर्तस्य सहकर्तृता । हस्तादीनीहतश्चैव न दैवेन क्वचित्कृतम् ॥ ंोट्_२,८.९ ॥ "अमूर्तेन" मूर्तिरहितेन "दैवेन" । "हस्तादीनीहतः" चेष्टतः । "मूर्तस्य" पुरुषस्य । "सहकर्तृता च न" भवति । अतः "दैवेन कृतम्" दैवकर्तृकं कार्यम् । "क्वचित्न" भवति ॥ ंोट्_२,८.९ ॥ ननु मनोबुद्ध्यादिवदमूर्तस्यापि दैवस्य मूर्तेन सह कर्तृत्वमस्त्येवेत्य् । अत्राह मनोबुद्धिवदप्येतद्दैवं नेहानुभूयते । आगोपालं किल प्राज्ञैस्तेन दैवमसत्सदा ॥ ंो_२,८.१० ॥ मृतशरीरे कर्तृत्वादर्शनान् "मनोबुद्धी" कल्प्येते । न च दैवस्यात्र कश्चिदुपयोग इति । न तत्कल्पनावसर इति भावः ॥ ंोट्_२,८.१० ॥ ननु कदाचित्तस्मादेव दृश्यात्शरीरादेः कार्यं दृष्टं कदाचिन्न दृष्टमिति अदृष्टस्य दैवस्य कल्पना युक्तैवेत्य् । अत्राह पृथक्चेद्बुद्धिरन्योऽर्थः सैव चेत्कान्यता तयोः । कल्पना वा प्रमाणं चेत्पौरुषं किं न कल्प्यते ॥ ंो_२,८.११ ॥ "बुद्धिः" ज्ञानम् । "पृथक्चेत्" यद्यस्ति । तद्"आर्थः अन्य" एकस्मात्द्वितीयः पृथगिति यावत् । अस्ति बुद्धिः "सा एव" । न तु भिन्ना "चेद्" भवति । तदा "तयोः" अर्थयोः "का अन्यता" भवति । अतोऽत्र केवलसद्दृश्याच्छरीरादेरेव कार्यं भवत्विति भावः । नन्वत्र बुद्धिपृथक्त्वोपयोगो नास्ति । कल्पनाया एव प्रमाणत्वादित्य् । अत्राह । "कल्पने"ति । "कल्पना" प्रथमं "प्रमाणं" नास्ति "चेद्" । "वा"स्ति । तदा "पौरुषं किं न कल्प्यते" । कल्पनया संभाव्यते समानन्यायत्वात् ॥ ंोट्_२,८.११ ॥ पुनरपि प्रकृतं मूर्तामूर्तयोः सहकर्तृत्वासंभवमेव कथयति नामूर्तेन च सङ्गोऽस्ति नभसेव वपुष्मतः । मूर्तं च दृश्यते लग्नं तस्माद्दैवं न विद्यते ॥ ंो_२,८.१२ ॥ "वपुष्मतः" मूर्तस्य शरीरिणः । "अमूर्तेन" मूर्तिरहितेन दैवेन । "सङ्गः" सहकर्तृत्वं "नास्ति" । केन्"एव" । "नभसा इव" । ननु तथापि अमूर्तमेव कर्तृ भवत्वित्य् । अत्राह । "मूर्तं चे"ति । अस्माभिः "मूर्तम्" एव "लग्नं" कार्यलग्नं "दृश्यते" । अतः तस्यैव कर्तृत्वं युक्तमिति भावः । फलितं कथयति । "तस्माद्" इति । "तस्मात्" ततो हेतोः । "दैवं न विद्यते" । तत्कल्पनायाः निरस्तत्वात् ॥ ंोट्_२,८.१२ ॥ विनियोक्ताथ भूतानामस्त्यन्यत्तज्जगत्त्रये । शेरतां भूतवृन्दानि दैवं सर्वं करिष्यति ॥ ंो_२,८.१३ ॥ "विनियोक्ता" प्रेरकः । "अन्यद्" दैवाख्यमन्यत्वस्तु । "शेरताम्" कार्येष्वनुद्योगं भजन्ताम् ॥ ंोट्_२,८.१३ ॥ दैवेनेत्थं नियुक्तोऽस्मि किं करोमीदृशं स्थितम् । समाश्वासनवागेषा न दैवं परमार्थतः ॥ ंो_२,८.१४ ॥ "ईदृशं स्थितम्" ईदृशं संपन्नम् ॥ ंोट्_२,८.१४ ॥ मूढैः प्रकल्पितं दैवं तत्परास्ते क्षयं गताः । प्राज्ञास्तु पुरुषार्थेन पदमुत्तममागताः ॥ ंो_२,८.१५ ॥ "तत्पराः" स्वयंकल्पितदैवपराः । "ते" मूढाः । "पुरुषार्थेन" पौरुषेण । "उत्तमं पदम्" मोक्षाख्यमुत्कृष्टं स्थानम् ॥ ंोट्_२,८.१५ ॥ ये शूरा ये च विक्रान्ता ये प्राज्ञा ये च पण्डिताः । तैस्तैः कैरिव लोकेऽस्मिन् वद दैवं प्रचक्ष्यते ॥ ंो_२,८.१६ ॥ "प्रचक्ष्यते" कथ्यते । न केनापि प्रचक्ष्यते इति भावः ॥ ंोट्_२,८.<१६ ॥ कालविद्भिर्विनिर्णीता यस्यास्ति चिरजीविता । स चेज्जीवति संछिन्नशिरास्तद्दैवमुत्तमम् ॥ ंो_२,८.१७ ॥ "कालविद्भिः" दैवज्ञैः ॥ ंोट्_२,८.१७ ॥ कालविद्भिर्विनिर्णीतं पाण्डित्यं यस्य राघव । अनध्यापित एवासौ तज्ज्ञश्चेद्दैवमुत्तमम् ॥ ंो_२,८.१८ ॥ "तज्ज्ञः" पण्डितः ॥ ंोट्_२,८.१८ ॥ विश्वामित्रेण मुनिना दैवमुत्सृज्य दूरतः । पौरुषेणैव संप्राप्तं ब्राह्मण्यं राम नान्यथा ॥ ंो_२,८.१९ ॥ स्पष्टम् ॥ ंोट्_२,८.१९ ॥ अमीभिर्न परै राम पुरुषैर्मुनितां गतैः । पौरुषेणैव संप्राप्ता चिरं गगनगमिता ॥ ंो_२,८.२० ॥ "अमीभिः" पौरुषयुक्तैरेभिरेव । "परैः" पौरुषरहितैः सामान्यजन्तुभिः । "गगनगमिता" परमाकाशचारित्वम् ॥ ंोट्_२,८.२० ॥ उत्साद्य देवसंघातांश्चक्रुस्त्रिभुवनोदरे । पौरुषेणैव यत्नेन साम्राज्यं दानवेश्वराः ॥ ंो_२,८.२१ ॥ "उत्साद्य" बाधित्वा । "देवसंघातान्" देवसमूहान् । "दानवेश्वराः" हिरण्याक्ष्यादयः ॥ ंोट्_२,८.२१ ॥ आलूनशीर्णमाभोगि जगदाजह्रुरोजसा । पौरुषेणैव यत्नेन दानवेभ्यः सुरेश्वराः ॥ ंो_२,८.२२ ॥ "आलूनशीर्णम्" अतिचञ्चलम् ॥ ंोट्_२,८.२२ ॥ राम पौरुषयुक्त्यैव सलिलं धार्यते न वा । चिरं करण्डके युक्त्या न दैवं तत्र कारणम् ॥ ंो_२,८.२३ ॥ "करण्डके" रन्ध्रयुक्ते काण्डसाधिते द्रव्यविशेषे । केनचित्प्रयोगेन हि करण्डेऽपि जलं तिष्ठति ॥ ंोट्_२,८.२३ ॥ हरणादानसंरम्भविभ्रमभ्रमभूमिषु । शक्तता दृश्यते राम न दैवस्यौषधेरिव ॥ ंो_२,८.२४ ॥ "हरणे"त्याद्युपलक्षणं सर्वक्रियाणाम् ॥ ंोट्_२,८.२४ ॥ सर्गान्तश्लोकेनैतत्समापयति सकलकारणकार्यविवर्जितं निजविकल्पवशादुपकल्पितम् । त्वमनवेक्ष्य हि दैवमसन्मयं श्रय शुभाशय पौरुषमुत्तमम् ॥ ंो_२,८.२५ ॥ गतार्थोऽयम् । इति शिवम् ॥ ंोट्_२,८.२५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणेऽष्टमः सर्गः ॥ २,८ ॥ ************************************************************************ ओमत्र श्रीरामः पृच्छति भगवन् सर्वधर्मज्ञ प्रतिष्ठामलमागतम् । यल्लोके तद्वद ब्रह्मन् दैवमेवं किमुच्यते ॥ ंो_२,९.१ ॥ हे "भगवन्" । "ब्रह्मन्" वसिष्ठ । कथंभूत । "सर्वधर्मज्ञ" । त्वम् "वद" । "यत्दैवं लोके एवं प्रतिष्ठाम्" प्रसिद्धिम् । "आगतं" । "तत्" पण्डितैः "किं"रूपं कथ्यते । न हि असिद्धं वस्तु प्रसिद्धिमायाति इति भावः ॥ ंोट्_२,९.१ ॥ श्रीवसिष्ठः उत्तरं कथयति पौरुषं सर्वकार्याणां कर्तृ राघव नेतरत् । फलभोक्तृ च सर्वत्र न दैवं तत्र कारणम् ॥ ंो_२,९.२ ॥ हे "राघव" । "पौरुषं सर्वकार्याणां कर्तृ" भवति । "इतरत्" अन्यत्दैवादि । कर्तृ "न" भवति । न केवलं कर्त्रेव । किं तु "फलभोक्तृ च" भवति । स्वाविष्टपुरुषद्वारेणेति भावः । "दैवं तत्र कारणं न" भवति । अतो दैवं नास्तीति भावः ॥ ंोट्_२,९.२ ॥ दैवं न किंचित्कुरुते न च भुङ्क्ते न विद्यते । न दृश्यते नाद्रियते केवलं कल्पनेदृशी ॥ ंो_२,९.३ ॥ "ईदृशी" दैवमेव सर्वं करोतीत्येवंरूपा । न च कल्पनायाः सत्यत्वमिति भावः ॥ ंोट्_२,९.३ ॥ सिद्धस्य पौरुषेणेह फलस्य फलशालिनाम् । शुभाशुभा वा संपत्तिर्दैवशब्देन कथ्यते ॥ ंो_२,९.४ ॥ पण्डितैः "फलशालिनां" फलभाजाम् । "पौरुषेण" शुभाशुभेन पौरुषेण । "सिद्धस्य फलस्य शुभा अशुभा वा संपत्तिः दैवशब्देन कथ्यते" । "अज्ञव्यवहारार्थम्" इति शेषः ॥ ंोट्_२,९.४ ॥ पौरुषोपरता नित्यमिष्टानिष्टस्य वस्तुनः । प्राप्तिरिष्टाप्यनिष्टा वा दैवशब्देन कथ्यते ॥ ंो_२,९.५ ॥ पण्डितैः "पौरुषे उपरता" निष्ठां गता । "इष्टानिष्टस्य वस्तुनः इष्टा अनिष्टा वा प्राप्तिः दैवशब्देन कथ्यते" । "अपि"शब्दः पादपूरणार्थः ॥ ंोट्_२,९.५ ॥ भावी त्ववश्यमेवार्थः पुरुषार्थैकसाधनः । यः सोऽस्मिंल्लोकसंघाते दैवशब्देन कथ्यते ॥ ंो_२,९.६ ॥ "भावी" भवनशीलः । "पुरुषार्थः" पौरुषम् "एकं साधनं" यस्य । तादृशः । "लोकसंघाते" लोकसमूहे ॥ ंोट्_२,९.६ ॥ न तु राघव लोकस्य कस्यचित्किंचिदेव हि । दैवमाकाशकल्पं हि करोति न करोति वा ॥ ंो_२,९.७ ॥ "हि" यस्मादर्थे । "आकाशकल्पम्" आकाशवदत्यन्ततुच्छम् । न हि वन्ध्यासुतः "कस्यचित्किंचित्" "करोति न करोति वे"ति भावः । द्वितीयो "हि"शब्दः निश्चये ॥ ंोट्_२,९.७ ॥ पुरुषार्थस्य सिद्धस्य शुभाशुभफलोदये इदमित्थं स्थितमिति योक्तिस्तद्दैवमुच्यते ॥ ंोट्_२,९.८ ॥ "उक्तेः" स्वरूपं कथयति । "इदमित्थं स्थितम्" " इती"ति । "सिद्धम्" संपन्नम् ॥ ंोट्_२,९.८ ॥ इत्थं ममाभवद्बुद्धिरित्थं मे निश्चयो ह्यभूत् । इति कर्मफलावाप्तौ योक्तिस्तद्दैवमुच्यते ॥ ंो_२,९.९ ॥ "इत्थं" कर्मफलसाधनरूपा । "कर्मफलस्यावाप्तौ" प्राप्तौ । "उक्ति"मात्रमेव "दैवम्" इति भावः ॥ ंोट्_२,९.९ ॥ इष्टानिष्टफलप्राप्तावेवमित्यर्थवाचकम् । आश्वासनामात्रवचो दैवमित्येव कथ्यते ॥ ंो_२,९.१० ॥ "आश्वासनामात्रवचः" कथंभूतम् । "एवम्" । "इति" यः "अर्थः" । तस्य "वाचकम्" नियमवाचकमित्यर्थः ॥ ंोट्_२,९.१० ॥ श्रीरामः पृच्छति भगवन् सर्वधर्मज्ञ प्राग्यत्कर्मोपसंचितम् । । तदेतद्दैवमित्युक्तमपमृष्टं कथं त्वया ॥ ंो_२,९.११ ॥ "प्राक्" पित्रन्तर्गतबीजतावस्थायाम् । "अपमृष्टम्" नाशितम् ॥ ंोट्_२,९.११ ॥ श्रीवसिष्ठः उत्तरं कथयति साधु राघव जानासि शृणु वक्ष्यामि तेऽखिलम् । दैवं नास्तीति ते येन स्थिरा बुद्धिर्भविष्यति ॥ ंो_२,९.१२ ॥ स्पष्टम् ॥ ंोट्_२,९.१२ ॥ तदेव कथयति या मग्ना वासना पूर्वं बभूव किल भूरिशः । सैवेयं कर्मभावेन नॄणां परिणतिं गता ॥ ंो_२,९.१३ ॥ "पूर्वम्" पित्रन्तर्गतबीजतावस्थायाम् । "भूरिशः" भूरिप्रकारेण । वर्तमाना "या वासना" शुभाशुभा वा भावना । "मग्ना" । "बीजे" इति शेषः भवति । "सा एवेयं नॄणां कर्मभावेन" कर्मरूपेण । "परिणतिं" रूपान्तरम् । "गता" । तदनुरूपमेव सर्वे कर्म कुर्वन्तीति भावः ॥ ंोट्_२,९.१३ ॥ जन्तुर्यद्वासनो नाम तत्कर्मा भवति क्षणात् । अन्यकर्मान्यभावश्चेत्येतन्नैवोपपद्यते ॥ ंो_२,९.१४ ॥ "अन्यभावः" अन्यवासना ॥ ंोट्_२,९.१४ ॥ ग्रामगो ग्राममाप्नोति पत्तनार्थी च पत्तनम् । यो यो यद्वासनस्तत्तत्स स प्रयतते तथा ॥ ंो_२,९.१५ ॥ "ग्रामगस्य च " ग्रामगमनवासना स्फुटा एवान्यथा न यायात् ॥ ंोट्_२,९.१५ ॥ यदेव तीव्रसंवेगादिह कर्म कृतं पुरा । तदेव दैवशब्देन पर्यायेण हि कथ्यते ॥ ंो_२,९.१६ ॥ "इह" इहलोकपरलोकतया द्विरूपे संसारे । "पुरा" पित्रन्तर्गतबीजतावस्थायाम् । "कर्म"करणं चात्र पितृद्वारेणैव ज्ञेयम् ॥ ंोट्_२,९.१६ ॥ उपसंहारं करोति एवं दैवं स्वकर्माणि कर्म प्रौढा स्ववासना । वासना मनसो नान्या मनो हि पुरुषः स्मृतः ॥ ंो_२,९.१७ ॥ "एवम्" अनेन प्रकारेण । "स्वकर्माणि" प्राक्कृतानि निजकर्माणि । "दैवं" भवति । "प्रौढा वासना कर्म" भवति । तदनुसारेणैव तस्य प्रकृतत्वात् । "वासना मनसः अन्या न" भवति । "हि" निश्चये । "मनः पुरुषः" भवति । अतः दैवस्य पुरुषाद्व्यतिरिक्ता सत्ता नास्तीति भावः ॥ ंोट्_२,९.१७ ॥ पुनरप्येतदेव कथयति यद्दैवं तानि कर्माणि कर्म साधो मनो हि तत् । मनो हि पुरुषस्तस्माद्दैवं नास्तीति निश्चयः ॥ ंो_२,९.१८ ॥ "कर्मे"त्यत्र यच्छब्दाध्याहारः । "यत्" "कर्म" । "तत्मनो" भवति ॥ ंोट्_२,९.१८ ॥ एकमेव मनो जन्तोर्यथा प्रयतते हि यत् । नूनं तत्तदवाप्नोति स्वत एव न दैवतः ॥ ंो_२,९.१९ ॥ स्पष्टम् ॥ ंोट्_२,९.१९ ॥ मनश्चित्तं वासना च कर्म दैवं स्वनिश्चयः । राम पुंनिश्चयस्यैताः संज्ञाः सद्भिरुदाहृताः ॥ ंो_२,९.२० ॥ "पुंनिश्चयस्य" पुंरूपस्य निश्चयस्य । पुरुषस्येति यावत् ॥ ंोट्_२,९.२० ॥ एवंनामा हि पुरुषो दृढभावनया यथा । नित्यं प्रयतते राम फलमाप्नोत्यलं तथा ॥ ंो_२,९.२१ ॥ "एवंनामा" मन इत्यादिनामयुक्तः ॥ ंोट्_२,९.२१ ॥ उपसंहारं करोति एवं पुरुषकारेण सर्वमेव रघूद्वह । प्राप्यते नेतरेणेह तस्मात्स शुभदोऽस्तु ते ॥ ंो_२,९.२२ ॥ "सः" पुरुषकारः । "शुभदो" जीवन्मुक्ताख्यशुभफलप्रदः । "ते" इत्युपलक्षणम् । तेन सर्वेषां शुभफलप्रदः भवतु इत्यर्थः ॥ ंोट्_२,९.२२ ॥ श्रीरामः पृच्छति प्राक्तनं वासनाजालं नियोजयति मां यथा । मुने तथैव तिष्ठामि कृपणः किं करोम्यहम् ॥ ंो_२,९.२३ ॥ अतः पौरुषं किंचिदपि नास्तीति भावः ॥ ंोट्_२,९.२३ ॥ श्रीवसिष्ठः उत्तरं कथयति अत एव हि हे राम श्रेयः प्राप्नोषि शाश्वतम् । स्वप्रयत्नोपनीतेन पौरुषेणैव नान्यथा ॥ ंो_२,९.२४ ॥ "हि" निश्चये । "अत एव" पूर्वोक्तात्कारणादेव । "पौरुषेण" कथंभूतेन । "स्वप्रयत्नोपनीतेन" । राहोः शिर इतिवदयं प्रयोगः ॥ ंोट्_२,९.२४ ॥ द्विविधो वासनाव्यूहः शुभश्चैवाशुभश्च ते । प्राक्तनो विद्यते राम द्वयोरेकतरोऽथ वा ॥ ंो_२,९.२५ ॥ "वासनाव्यूहः" वासनासमूहः । "अथ वा" पक्षान्तरे । "द्वयोः" मध्ये । "एकतरः" शुभः अशुभो वा अस्ति ॥ ंोट्_२,९.२५ ॥ वासनौघेन शुद्धेन तत्र चेदद्य नीयसे । तत्क्रमेण शुभेनैव पदं प्राप्नोषि शाश्वतम् ॥ ंो_२,९.२६ ॥ "नीयसे" स्वानुसारेण कर्म कार्यसे । "पदम्" मोक्षाख्यं स्थानम् ॥ ंोट्_२,९.२६ ॥ अथ चेदशुभो भावस्त्वां योजयति सङ्कटे । प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता बलात् ॥ ंो_२,९.२७ ॥ "अशुभो भावः" अशुभा वासना । "बलात्" हठात् ॥ ंोट्_२,९.२७ ॥ नन्वन्यः चेतनारूपः कश्चिन्मां प्रेरयति । तत्कथमहं स्वयं किंचित्कर्तुं शक्नोमीत्य् । अत्राह प्राज्ञ चेतनामात्रस्त्वं न देहस्त्वं जडात्मकः । तदेव चेतस्यन्येन चेत्तत्त्वं क्वेव विद्यसे ॥ ंो_२,९.२८ ॥ हे "प्राज्ञ" । अस्मिञ्श्लोके वक्ष्यमाणे उपदेशे योग्यत्वम् । "चेतनामात्रः" असि "त्वम्" । "जडः देहः ना"सि । "तदेव" चेतनामात्रमेव सन् । "त्वमन्येन" हेतुकर्तृभूतेन कृत्वा । "चेत्" यदि । "चेतसि" चितिक्रियां प्रति कर्तृत्वं भजसि । "तत्" तदा । "त्वम्" न "विद्यसे" नासि । तस्यैव सत्त्वात् । न हि द्वयोः सत्ता युक्ता व्यर्थत्वात् ॥ ंोट्_२,९.२८ ॥ पुनरपि पूर्वश्लोकोत्तरार्धनिश्चितमर्थमेव कथयति अन्यस्त्वां चेतयति चेत्तत्त्वय्यसति कोऽपरः । कमिमं चेतयेत्तस्मादनवस्था न वास्तवी ॥ ंो_२,९.२९ ॥ "अन्यः त्वां चेत्चेतयति" चितिक्रियाकर्तृत्वं प्रेरयति । "तत्" तदा । "त्वयि असति" पूर्वोक्तयुक्त्या सत्तामभजति सति । स इति "कमिमम्" किंरूपम् । इदन्तास्पन्दं त्वाम् । "चेतयेत्" चितिक्रियाकर्तृत्वं प्रति प्रेरयेत् । न ह्यसतः प्रेरणं युक्तमिति भावः । अतः अन्यः कश्चित्प्रेर्यः कल्पनीयः । सोऽपि त्वत्समानयोगक्षेम एवेति कुत्रापि प्रेर्यतया विश्रान्तिर्न स्याद् । अतः त्वमेव प्रेर्यप्रेरकभावेन स्थितोऽसीत्यभिप्रायेणोपसंहारं करोति । "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अनवस्था" प्रेर्यानवस्थितिः । "वास्तवी" परमार्थभूता । "न" भवति । तवैव प्रेर्यप्रेरकत्वाभ्यां स्थितत्वात् । अतो न कश्चित्तवान्यः प्रेरकः अस्तीति भावः ॥ ंोट्_२,९.२९ ॥ प्रकृतमनुसरति शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ ंो_२,९.३० ॥ "योजनीया" प्रवर्तनीया । भोगत्यागपरामर्शाख्यं शुभानुसन्धानमेव सततं कार्यमिति भावः ॥ ंोट्_२,९.३० ॥ अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ ंो_२,९.३१ ॥ "समाविष्टम्" संलीनम् । "अवतारयेत्" नयेत् ॥ ंोट्_२,९.३१ ॥ अशुभाच्चलितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं तु पशुवत्तस्मात्तत्पालयेद्बलात् ॥ ंो_२,९.३२ ॥ "अशुभात्" भोगार्जनपरामर्शरूपातशुभानुसन्धानात् । "तस्मादपि" शुभादपि । "पालयेद्" अशुभात्रक्षेत् ॥ ंोट्_२,९.३२ ॥ समतासान्त्वनेनाशु न द्रागिति शनैः शनैः । पौरुषेण प्रयत्नेन पालयेच्चित्तबालकम् ॥ ंो_२,९.३३ ॥ "समता" सर्वमिदं ब्रह्मेत्येवंरूपा बुद्धिः । तया यत्"सान्त्वनम्" समाश्वासनं तेन । "न द्रागिति" न झटिति । एतस्यार्थं स्वकण्ठेन कथयति । "शनैः शनैर्" इति सम्यग्विचारेण । न तु प्राणरोधनादिरूपेण हठेनेत्यर्थः ॥ ंोट्_२,९.३३ ॥ वासनौघस्त्वया पूर्वमभ्यासेन घनीकृतः । शुभो वाप्यशुभो राम शुभमद्य घनीकुरु ॥ ंो_२,९.३४ ॥ "अद्य" । "मदुपदेशेने"ति शेषः ॥ ंोट्_२,९.३४ ॥ प्रागभ्यासवशाद्याता यदा ते वासनोदयम् । तदाभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन ॥ ंो_२,९.३५ ॥ "अभ्यासस्य" समस्तस्याभ्यासस्य ॥ ंोट्_२,९.३५ ॥ इदानीमपि ते याति घनतां वासनानघ । अभ्यासवशतस्तस्माच्छुभाभ्यासमुपाहर ॥ ंो_२,९.३६ ॥ "इदानीम्" अस्मिन् जन्मनि । "उपाहर" आनय ॥ ंोट्_२,९.३६ ॥ पूर्वं चेद्घनतां याता नाभ्यासात्तव वासना । वर्धिष्यते तु नेदानीमपि तात सुखी भव ॥ ंो_२,९.३७ ॥ वासनाराहित्यमात्रस्यैव परमे पदे यतत्वातिति भावः ॥ ंोट्_२,९.३७ ॥ संदिग्धायामपि भृशं शुभमेव समाहर । अस्यां तु वासनावृद्धौ शुभाद्दोषो न कश्चन ॥ ंो_२,९.३८ ॥ "अस्यां वासनावृद्धौ संदिग्धायाम्" किमभ्यासाद्वर्धते न वेति सन्देहविषयायाम् "अपि" सत्याम् । त्वं "भृशं शुभमेव समाहर" अभ्यासविषयीकुरु । यतः "शुभात्कश्चन दोषो न" भवति ॥ ंोट्_२,९.३८ ॥ सन्देहस्यायुक्ततां कथयति यद्यदभ्यस्यते लोके तन्मयेनैव भूयते । इत्याकुमारं प्रज्ञेषु दृष्टं सन्देहवर्जितम् ॥ ंो_२,९.३९ ॥ "लोके" संसारे । "पुरुषेणे"ति शेषः ॥ ंोट्_२,९.३९ ॥ शुभवासनया युक्तस्तदत्र भव भूतये । परं पौरुषमाश्रित्य विजित्येन्द्रियपञ्चकम् ॥ ंो_२,९.४० ॥ "भूतये" जीवन्मुक्ताख्यसंपत्प्राप्तये ॥ ंोट्_२,९.४० ॥ अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः । गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर ॥ ंो_२,९.४१ ॥ "अव्युत्पन्नमनाः" ज्ञानरहितः । अत एव्"आज्ञाततत्पदः" अज्ञातब्रह्माख्योत्कृष्टस्थानः । "निर्णीतम्" तत्पदनिर्णयम् । भावे क्तप्रयोगे "निर्णीतम्" इति सिद्धम् ॥ ंोट्_२,९.४१ ॥ ततः कषायपाकेन नूनं विज्ञातवस्तुना । शुभोऽप्यसौ त्वया त्याज्यो भावनौघो निराधिना ॥ ंो_२,९.४२ ॥ "कषायपाकेन" लक्षणया परकोटिप्राप्त्या । "भावनौघः" निर्णयरूपः वासनासमूहः । "निराधिना" शुभवासनाख्यचित्तपीडारहितेन ॥ ंोट्_२,९.४२ ॥ सर्गान्तश्लोकेन श्रीरामस्यावस्थानमनुष्ठेयत्वेनोपदिशति यदतिसुभगमार्यसेवितं तच् छुभमनुसृत्य मनोज्ञभावबुद्ध्या । अधिगमय पदं सदाविशोकं तदनु तदप्यवमुच्य साधु तिष्ठ ॥ ंो_२,९.४३ ॥ त्वम् । "यततिसुभगम्" अत एव्"आर्यसेवितम्" भवति । "तच्छुभं" पौरुषम् । "मनोज्ञभावा" शुभवासना या मतिः । तया करणभूतया । "अनुसृत्य" सततानुष्ठानविषयतां नीत्वा । "अविशोकं" दुःखरहितम् । "पदं" जीवन्मुक्तिरूपं स्थानम् । "अधिगमय" प्राप्नुहि । आर्षः स्वार्थे णिच् । "तदनु" कालान्तरे । "तदपि" जीवन्मुक्तिपदमपि "अवमुच्य" । "साधु" सम्यक् । "तिष्ठ" विदेहमुक्तौ स्थिरीभवेत्यर्थः । इति शिवम् ॥ ंोट्_२,९.४३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे नवमः सर्गः ॥ २,९ ॥ ************************************************************************ ओं परममुपसंहारं करोति अतः पौरुषमाश्रित्य श्रेयसे नित्यबान्धवम् । एकाग्रं कुरु चित्तं त्वं शृणु चोक्तमिदं मम ॥ ंो_२,१०.१ ॥ "उक्तम्" उपदेशम् ॥ ंोट्_२,१०.१ ॥ अवान्तराभिपातीनि स्वारूढानि मनोरथम् । पौरुषेणेन्द्रियाण्याशु संयम्य समतां नय ॥ ंो_२,१०.२ ॥ "अवान्तरेषु" भोगरूपेषु मध्यमेषु विश्रान्तिस्थानेषु । न तु परमात्मरूपे परमे विश्रान्तिस्थाने । "अभिपातीनि" पतनशीलानि । "मनोरथं" चित्तानुसन्धानम् । "स्वारूढानि" सुष्ठु आरूढानि । "इन्द्रियाणि संयम्य" प्रत्याहृत्य । "समतां" रागद्वेषरहितत्वम् "नय" । अन्यथा न श्रोष्यसीति भावः ॥ ंोट्_२,१०.२ ॥ इहामुत्र च सिद्ध्यर्थं पुरुषार्थफलप्रदाम् । मोक्षोपायमयीं वक्ष्ये संहितां सारसम्मिताम् ॥ ंो_२,१०.३ ॥ "मोक्षोपायमयीं" मोक्षस्य यः उपायः तन्मयीं तद्वाचकामित्यर्थः । "संहिताम्" शास्त्रम् । "सारसम्मिताम्" सारतुल्याम् ॥ ंोट्_२,१०.३ ॥ अपुनर्ग्रहणायान्तस्त्यक्त्वा संसारवासनाम् । संपूर्णौ शमसन्तोषावादायोदारया धिया ॥ ंो_२,१०.४ ॥ सपूर्वापरवाक्यार्थविचारविषयादृतम् । मनः समरसं कृत्वा सानुसन्धानमात्मनि ॥ ंो_२,१०.५ ॥ सुखदुःखक्षयकरं महानन्दैकसाधनम् । मोक्षोपायमिमं राम वक्ष्यमाणं मया शृणु ॥ ंो_२,१०.६ ॥ हे "राम" । त्वं "मया वक्ष्यमाणं मोक्षोपायं शृणु" । किं कृत्वा । "अपुनर्ग्रहणाये"त्यादि । सुषुप्तौ त्यक्तामपि वासनां पुरुषः पुनः गृह्णातीति "अपुनर्ग्रहणाये"त्युक्तम् । "अन्तः" मनसि । अन्यथा न श्रोतुं शक्नोषीति भावः । "आदाय" गृहीत्वा । "मनः" कथंभूतम् । "आत्मनि समरसम्" एकरसम् । न तु विषयेषु विक्षिप्तम् । तथा "सपूर्वापरः" संपूर्णः यः "वाक्यार्थविचारः" । स एव "विषयः" संचारस्थानम् । तत्र्"आदृतम्" ॥ ंोट्_२,१०.४६ ॥ इमां मोक्षकथां श्रुत्वा सह सर्वैर्विवेकिभिः । पदं यास्यसि निर्दुःखं नाशो यत्र न विद्यते ॥ ंो_२,१०.७ ॥ "पदम्" विश्रान्तिस्थानम् ॥ ंोट्_२,१०.७ ॥ एवं श्रीरामस्य पौरुषमाश्रयणीयत्वेनोपदिश्य विश्वामित्रप्रेरणया स्मृतं ब्रह्मोक्तमुपदेशं कथयितुं प्रस्तावं करोति इदमुक्तं पुराकल्पे ब्रह्मणा परमेष्ठिना । सर्वदुःखक्षयकरं परमाश्वासनं धियः ॥ ंो_२,१०.८ ॥ "इदं" वक्ष्यमाणम् । "धियः" बुद्धेः । "परमाश्वासनम्" उत्कृष्टमाश्वासनकारि ॥ ंोट्_२,१०.८ ॥ श्रीरामः पृच्छति केनोक्तं कारणेनेदं ब्रह्मन् पूर्वं स्वयंभुवा । कथं च भवता प्राप्तमेतत्कथय मे प्रभो ॥ ंो_२,१०.९ ॥ "इदं" वक्ष्यमाणं ज्ञानम् ॥ ंोट्_२,१०.९ ॥ श्रीवसिष्ठः उत्तरं कथयति अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः । चिदाकाशोऽविनाशात्मा प्रदीपः सर्ववस्तुषु ॥ ंो_२,१०.१० ॥ "चिदाकाशः" चिदिति नामधेयः आकाशः "चिदाकाशः" । सः "अस्ति" परमार्थसन् भवति । कथंभूतः । "अनन्ताः" अपरिच्छिन्नाः । ये "विलासाः" सर्गावभासनसंकोचनरूपाः विलासाः ते । "आत्मा" स्वरूपं यस्य सः । तथा "सर्वगः" सर्वव्यापकत्वातुपचारेण सर्वगन्ता । न हि मुख्यं सर्वगत्वमस्य संभवति निष्क्रियत्वेन गमिक्रियानाश्रयत्वात् । पुनः कथंभूतः । "सर्वेषाम्" समस्तानां भावाभावस्वरूपाणां पदार्थानाम् । "संश्रयः" स्फूर्तिप्रदत्वेन सत्ताप्रदत्वेन चाश्रयः । पुनः कथंभूतः । "अविनाशात्मा" विनाशस्यापि साक्षितया सत्ताप्रदत्वेन च तेन रहितः आत्मा यस्य सः । न हि स्वस्फूर्तिप्रदस्य स्वसत्तापादकस्य च कश्चितावरणं कर्तुं शक्तः तदावृतौ स्वस्याप्यसिद्धत्वात् । पुनः कथंभूतः । "सर्ववस्तुषु प्रदीपः" प्रकाशकत्वात् । ननु कुत्रासावस्तीति चेन् । न । सर्वत्र वर्तमानस्य कुत्रेति वक्तुमशक्यत्वात् । ननु तथापि कथं नासौ सर्वत्र दृश्यते इति चेद् । असदेतत् । द्रष्ट्रेकस्वरूपे तस्मिन् कथं न दृश्यत इत्यस्यापि वक्तुमशक्यत्वात् । तथापि कोऽसाविति चेत् । यः पृच्छति स एवेति ब्रूमः । ननु कः पृच्छति इति चेत् । अहन्तया अतिप्राकट्येन भासमानः सः स्वयमेव स्वान्तः विचार्यतामित्यलं रहस्योद्घाटनेन ॥ ंोट्_२,१०.१० ॥ ततः किमित्य् । अत्राह स्पन्दास्पन्दसमाकारात्ततो विष्णुरजायत । स्पन्दमानरसापूरात्तरङ्गः सागरादिव ॥ ंो_२,१०.११ ॥ "स्पन्दास्पन्दयोः" सृष्ट्यावेशौदासीन्ययोः "समाकारात्" चित्त्वाख्यसमानाकारयुक्तात् । "ततः" तस्माच्चिदाकाशात् । "विष्णुः" भाविसृष्टिस्थितिकारी नारायणाख्यो देवताविशेषः । समष्टिरूपं शुद्धबुद्धितत्त्वं च्"आजायत" । संहारकारणस्य शुद्धाहङ्काररूपस्य रुद्रस्य कथनं सृष्टिमात्रकथनाकाङ्क्षया न कृतम् । विष्णुः क "इव" । "तरङ्ग इव" । यथा "स्पन्दमानरसापूरात्सागरात्तरङ्गः" जायते तथेत्यर्थः ॥ ंोट्_२,१०.११ ॥ सुमेरुकर्णिकात्तस्य दिग्दलाद्धृदयाम्बुजात् । तारकाकेसरवतः परमेष्ठी व्यजायत ॥ ंो_२,१०.१२ ॥ "तस्य" नारायणस्य शुद्धबुद्धितत्त्वस्य च । "सुमेरुकर्णिकात्" तथा "तारकाकेसराथृदयाम्बुजात्" हृत्कमलात्तदन्तर्गतात्ब्रह्माण्डातिति यावत् । भाविसर्वजगदाधारत्वयोग्यात्स्वरूपलेशाच्च । "परमेष्ठी" भाविसृष्ट्युत्पत्तिकारी ब्रह्माख्यो देवताविशेषः । समष्टिरूपं शुद्धमनस्तत्त्वं च "व्यजायत" ॥ ंोट्_२,१०.१२ ॥ वेदवेदार्थदेवेशमुनिमण्डलमालितम् । सोऽसृजत्सकलं सर्गं विकल्पौघं यथा मनः ॥ ंो_२,१०.१३ ॥ "सकलं" जगत्बाह्यत्वेन भासमानं समस्तं जगत् । समष्टिभूतशुद्धमनस्तत्त्वरूपात् । परमेष्ठिन एव हि सर्वं जगदुत्पन्नम् । अत्रोपमानत्वं व्यष्टिरूपस्य "मनसः" ज्ञेयम् । समष्टिरूपस्य मनसः उपमेयत्वात् ॥ ंोट्_२,१०.१३ ॥ जम्बुद्वीपस्य कोणेऽस्मिन् वर्षे भारतनामनि । स ससर्ज जनं पुत्रैराधिव्याधिपरिप्लुतम् ॥ ंो_२,१०.१४ ॥ "जनम्" मानवजनम् । "पुत्रैः" प्रजापतिभिः कृत्वा सामान्यजनैश्च ॥ ंोट्_२,१०.१४ ॥ जनं विशिनष्टि भावाभावविषण्णाङ्गमुत्पातध्वंसतत्परम् । सर्गेऽस्मिन् भूतजातीनामाप्यायनकरं परम् ॥ ंो_२,१०.१५ ॥ "भूतजातीनां" देवादीनाम् । "आप्यायनकरम्" हव्यकव्यादिद्वारेण तृप्तिकरम् ॥ ंोट्_२,१०.१५ ॥ जनस्य तस्य दुःखं सद्दृष्ट्वा सकललोककृत् । जगाम करुणामीशः पुत्रदुःखाद्यथा पिता ॥ ंो_२,१०.१६ ॥ "तस्य जनस्य" मानवजनस्य । "ईशः" ब्रह्मा शुद्धमनस्तत्त्वं च । "करुणां" दयाम् । अत्र च शुद्धमनसः करुणा सृज्यमानस्मृतिकारचित्तावेशद्वारेण ज्ञेयेत्यलं रहस्योद्घाटनेन ॥ ंोट्_२,१०.१६ ॥ ननु ततः किमकरोदित्य् । अत्राह क एतेषां हताशानां दुःखस्यान्तो हतायुषाम् । स्यादिति क्षणमेकाग्रश्चिन्तयामास भूतपः ॥ ंो_२,१०.१७ ॥ "हताशानां" नष्टानाम् । "हतायुषां" नश्वराणाम् । "अन्तः" अवसानम् ॥ ंोट्_२,१०.१७ ॥ ब्रह्मणः चिन्तामुपसंहरति इति संचिन्त्य भगवान् ससर्ज पुनरीश्वरः । तपो धर्मं च दानं च सत्यं तीर्थानि चैव ह ॥ ंो_२,१०.१८ ॥ "ससर्ज" स्वयम् । कृतेषु स्मृतिशास्त्रेषु जनान् प्रति कर्तव्यत्वेन दृष्टवानित्यर्थः ॥ ंोट्_२,१०.१८ ॥ एतत्सृष्ट्वा पुनर्देवश्चिन्तयामास भूतकृत् । पुंसां नानेन सर्वस्य दुःखस्यान्त इति स्वयम् ॥ ंो_२,१०.१९ ॥ स्पष्टम् ॥ ंोट्_२,१०.१९ ॥ पुनः केन पुंसां सर्वस्य दुःखस्यान्तः भविष्यतीत्याशङ्क्य चिन्तयति निर्वाणं नाम परमं सुखं येन पुनर्जनः । न जायते न म्रियते तज्ज्ञानादेव लभ्यते ॥ ंो_२,१०.२० ॥ तन्निर्वाणं केन स्यादित्याशङ्क्य चिन्तयति । "तज्ज्ञानाद्" इति । "तत्" निर्वाणम् । "ज्ञानातेव" परमात्मतत्त्वज्ञानातेव । न तु तपःप्रभृतिभ्यः "लभ्यते" ॥ ंोट्_२,१०.२० ॥ "एव"कारप्रयोगयोग्यतां स्वयमेव साधयति संसारोत्तरणे जन्तोरुपायो ज्ञानमेव हि । तपो दानं तथा तीर्थमणूपायः प्रकीर्तितः ॥ ंो_२,१०.२१ ॥ "अणूपायः" अवान्तरोपायः ॥ ंोट्_२,१०.२१ ॥ तर्हि जनानां ज्ञानं कथं सेत्स्यतीत्याशङ्क्य चिन्तयति तत्तावद्दुःखमोक्षार्थं जनस्यास्य महात्मनः । प्रत्यग्रं तरुणोपायमाशु प्रकटयाम्यहम् ॥ ंो_२,१०.२२ ॥ इयं चिन्ता तु उत्पादयिष्यमाणज्ञानोपदेशकारचिन्तावेशद्वारेण ज्ञेया ॥ ंोट्_२,१०.२२ ॥ परमेष्ठिचिन्तामुपसंहरति इति संचिन्त्य भगवान् ब्रह्मा कमलसंभवः । मनसा परिसंकल्प्य मामुत्पादितवानिमम् ॥ ंो_२,१०.२३ ॥ "माम्" प्रोक्तस्वचिन्तोद्भवस्थानभूतानामुपदेशकाराणां मध्ये मुख्यभूतं त्वादृशजनज्ञानोत्पादनसमर्थं मोक्षोपायाख्यशास्त्रोपदेशकं वसिष्ठाख्यं "माम्" । "मनसे"ति राहोः शिर इतिवत्प्रयोगः ॥ ंोट्_२,१०.२३ ॥ ननु केनोपादानकारणेन त्वमुत्पन्न इत्य् । अत्राह कुतोऽप्युत्पन्न एवाशु ततोऽहं समुपस्थितः । पितुस्तस्य पुरः शीघ्रमूर्मिरूर्मेरिवानघ ॥ ंो_२,१०.२४ ॥ "कुतोऽपि" अनिर्वाच्यात्कस्माच्चिदुपादानकारणात् । "उत्पन्नः अहम्" । "ततः तस्य पितुः पुरः शीघ्रमुपस्थितः" प्राप्तः । क "इवो"त्पन्नः । "ऊर्मिरूर्मेरिव" परमार्थविचारे सर्वेषामुत्पत्तिरदृश्येवेति सामान्योत्पत्तिरेवात्रोक्तेत्यलं रहस्योद्घाटनेन ॥ ंोट्_२,१०.२४ ॥ कीदृशः त्वमुपस्थितः किं च कृतवानित्य् । अत्राह कमण्डलुधरो नाथः सकमण्डलुना मया । साक्षमालः साक्षमालं स प्रणम्याभिवादितः ॥ ंो_२,१०.२५ ॥ "साक्षमालम्" इति पूर्वकालक्रियाविशेषणम् । एतेन स्वस्य ध्यानमुक्तम् ॥ ंोट्_२,१०.२५ ॥ ततः तव तेन किमुक्तं कृतं चेत्य् । अत्राह एहि पुत्रेति मामुक्त्वा स स्वाब्जस्योत्तरे दले । शुक्लेऽभ्र इव शीतांशुं योजयामास पाणिना ॥ ंो_२,१०.२६ ॥ अत्र शुद्धमनःस्पर्शः मयि जातः इति भङ्ग्या उक्तम् ॥ ंोट्_२,१०.२६ ॥ मृगकृत्तिपरीधानो मृगकृत्तिनिजाम्बरम् । मामुवाच पिता ब्रह्मा स हंसः सारसं यथा ॥ ंो_२,१०.२७ ॥ "माम्" वसिष्ठाख्यं माम् । वचनं चात्रान्तरः परामर्शः ज्ञेयः ॥ ंोट्_२,१०.२७ ॥ किमुवाचेत्य् । अत्राह मुहूर्तमात्रं ते पुत्र चेतो वानरचञ्चलम् । अज्ञानमभ्याविशतु शशः शशधरं यथा ॥ ंो_२,१०.२८ ॥ आन्तरभावेन स्थितशुद्धचित्तवशेनैव हि सर्वेषामज्ञानित्वं ज्ञानित्वं च भवति । एतेन प्रथमं स्वस्य ज्ञानित्वं द्योतितम् ॥ ंोट्_२,१०.२८ ॥ ब्रह्मवचनमुपसंहरति इति तेनाशु शप्तः सन् विचारसमनन्तरम् । अहं विस्मृतवान् सर्वं स्वरूपममलं द्विजः ॥ ंो_२,१०.२९ ॥ "अहं द्विजः" वसिष्ठाख्यः ब्राह्मणः । स्वं "स्वरूपं" । "विस्मृतवान्" व्यस्मार्षमिति सम्बन्धः ॥ ंोट्_२,१०.२९ ॥ अथाहं दीनतां यातः स्थितोऽसंबुद्धया धिया । दुःखशोकाभिसंतप्तो जातो जन इवाधमः ॥ ंो_२,१०.३० ॥ "असंबुद्धया" निश्चयरहितया ॥ ंोट्_२,१०.३० ॥ कष्टं संसारनामायं दोषः कथमिवागतः । इति चिन्तितवानन्तस्तूष्णीमेव व्यवस्थितः ॥ ंो_२,१०.३१ ॥ अहम् "इति चिन्तितवान्" इति संबन्धः । एतेन अज्ञानित्वानन्तरं स्वस्य वैराग्यप्रादुर्भावः सूचितः ॥ ंोट्_२,१०.३१ ॥ अथाभ्यधात्स मां तातः पुत्र किं दुःखवानसि । दुःखोपघातं मां पृच्छ सुखी नित्यं भविष्यसि ॥ ंो_२,१०.३२ ॥ "अथाभ्यधात्" उक्तवान् । एतेन वैराग्यानन्तरं मम ज्ञानं प्रति औन्मुख्यं जातमिति सूचितम् ॥ ंोट्_२,१०.३२ ॥ ननु ततस्त्वया किं कृतमित्य् । अत्राह ततः पृष्टः स भगवान्मया सकललोककृत् । हेमपद्मदलस्थेन संसारव्याधिभेषजम् ॥ ंो_२,१०.३३ ॥ एतेन "मया" स्वयमेव विमर्षः कृत इति सूचितम् ॥ ंोट्_२,१०.३३ ॥ ननु त्वयासौ किं पृष्टस्तेन च किमुक्तमित्य् । अत्राह कथं नाथ महद्दुःखमयं संसार आगतः । कथं च क्षीयते जन्तोरिति पृष्टेन तेन मे ॥ ंो_२,१०.३४ ॥ तज्ज्ञानं सुबहु प्रोक्तं यज्ज्ञात्वा पावनं परम् । अहं पितुरपि प्रायः किलाधिक इव स्थितः ॥ ंो_२,१०.३५ ॥ "पितुः" आधिक्यं शुद्धमनस्तत्त्वातिलङ्घनेन प्राप्ता चिन्मात्रता ज्ञेया । एतेन स्वस्य स्वतःसिद्धत्वमुक्तम् । त्रिविधा हि सिद्धाः उत्तरोत्तरमुत्कर्षवन्तः सन्ति । गुरुतः शास्त्रतः स्वत इति ॥ ंोट्_२,१०.३४३५ ॥ ततो विदितवेद्यं मां निजप्रकृतिमास्थितम् । स उवाच जगत्कर्ता वक्ता सकलकारणम् ॥ ंो_२,१०.३६ ॥ मयि इदं स्फुरितमित्यान्तरोऽभिप्रायः ॥ ंोट्_२,१०.३६ ॥ किमुवाचेत्य् । अत्राह शापेनाज्ञपदं नीत्वा पृच्छकस्त्वं मया कृतः । पुत्रास्य ज्ञानसारस्य समस्तजनसिद्धये ॥ ंो_२,१०.३७ ॥ मम मध्ये एवेदमज्ञत्वं प्रादुर्भूतमासीतिति मम स्फुरितमिति भावः ॥ ंोट्_२,१०.३७ ॥ पुनः किमुवाचेत्य् । अत्राह इदानीं शान्तशापस्त्वं परं बोधमुपागतः । संस्थितोऽहमिवैकात्मा कनकं कनकादिव ॥ ंो_२,१०.३८ ॥ "इदानीमहं" ज्ञानी जात इत्यपि मम स्फुरितमिति भावः ॥ ंोट्_२,१०.३८ ॥ ततोऽपि पुनः किमुवाचेत्य् । अत्राह गच्छेदानीं महापीठे जम्बुद्वीपान्तरस्थितम् । साधो भारतवर्षं त्वं लोकानुग्रहहेतुना ॥ ंो_२,१०.३९ ॥ स्पष्टम् ॥ ंोट्_२,१०.३९ ॥ तत्र क्रियाकाण्डपरास्त्वया पुत्र महाधियः । उपदेश्याः क्रियाकाण्डक्रमेण क्रमशालिनः ॥ ंो_२,१०.४० ॥ स्पष्टम् ॥ ंोट्_२,१०.४० ॥ विरक्तचित्ताश्च तथा महाप्राज्ञा विरागिणः । उपदेश्यास्त्वया साधो ज्ञानेनानन्ददायिना ॥ ंो_२,१०.४१ ॥ ततः अहं वैराग्यरहितानां कर्मकाण्डद्वारेणोपदेशं करोमि । विरक्तानां तु ज्ञानकाण्डद्वारेणेत्यपि स्फुरितम् । अन्यथा त्वदुपदेशेऽप्यहं न प्रवर्तेयमिति भावः ॥ ंोट्_२,१०.४१ ॥ ब्रह्मवाक्यमुपसंहरति इति तेन नियुक्तोऽहं पित्रा कमलयोनिना । इह राघव तिष्ठामि यावद्भूतपरंपरा ॥ ंो_२,१०.४२ ॥ "यावद्भूतपरंपरे"त्युपदेष्टृभूतज्ञानिसामान्येनोक्तं स्वस्य चिरजीवित्वेन वा । बाह्य अर्थस्तु स्फुटतया न प्रतिपदमुक्तः ॥ ंोट्_२,१०.४२ ॥ सर्गान्तश्लोकेनैतत्समापयति कर्तव्यमस्ति मम नेह हि किंचिदेव स्थातव्यमित्यभिमना भुवि संस्थितोऽस्मि । संशान्तया सततसुप्तधियेव वृत्त्या कार्यं करोमि न च किंचिदहं करोमि ॥ ंो_२,१०.४३ ॥ "हि" निश्चये । "मम" समस्तज्ञानिसन्तानस्य वसिष्ठाख्यस्य च । "इह" लोके । "किंचित्" "एव कर्तव्यं नास्ति" परमात्मतत्त्वप्राप्त्या कृतकृत्यत्वात् । तथापि "अहं भुवि" भूमौ । "संस्थितः अस्मि" । कथंभूतः । स्थातव्यं मया इहावश्यम् । नियत्यनुरोधेन "स्थातव्यमिति" एवम् "अभिमनाः" अभिनिविष्टमनाः निश्चितमना इति यावत् । "अहं संशान्तया" लाभालाभानुसन्धानरूपक्षोभरहितया "वृत्त्या" वा । पारेण "कार्यम्" शरीरयात्रानिमित्तं कर्म । अकरणे प्रत्यवायनिमित्तं नित्यं कर्म च "करोमि" । "वृत्त्या" कया "इव" । "सततसुप्ता" या "धीः" । तया "इवा"त्यन्तशान्तयेत्यर्थः । तथापि "अहं किंचिद्" अपि "न च करोमि" नाहं कर्तेति निश्चयानुभावादित्यर्थः । इति शिवम् ॥ ंोट्_२,१०.४३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे दशमः सर्गः ॥ २,१० ॥ ************************************************************************ पूर्वसर्गोक्तस्योपसंहारकाङ्क्षया परामर्शं करोति एतत्ते कथितं सर्वं ज्ञानावतरणं भुवि । मया स्वमीहितं चैव कमलोद्भवकल्पितम् ॥ ंो_२,११.१ ॥ "स्वमीहितम्" निजचेष्टितम् । "कमलोद्भवेन" ब्रह्मणा शुद्धमनस्तत्त्वेन च । "कल्पितम्" आविर्भावितमिति । अनेन प्रकारेणैवेह ज्ञानमिहावतीर्णमिति भावः ॥ ंोट्_२,११.१ ॥ तदिदं परमं ज्ञानं श्रोतुमद्य तवानघ । भृशमुत्कण्ठितं चेतो महतः सुकृतोदयात् ॥ ंो_२,११.२ ॥ "तत्" ब्रह्मणा उक्तम् ॥ ंोट्_२,११.२ ॥ श्रीरामः पृच्छति कथं ब्रह्मन् भगवतो लोके ज्ञानावतारणे । सर्गादनन्तरं बुद्धिः प्रवृत्ता परमेष्ठिनः ॥ ंो_२,११.३ ॥ "कथं" किमर्थमित्यर्थः ॥ ंोट्_२,११.३ ॥ श्रीवसिष्ठः उत्तरं कथयति परमे ब्रह्मणि ब्रह्मा स्वभाववशतः स्वयम् । जातः स्पन्दमयो नित्यमूर्मिरम्बुनिधाविव ॥ ंो_२,११.४ ॥ "परमे" उत्कृष्टचिन्मात्रस्वरूपे । "स्पन्दमयः" परिमिताहंपरामर्शमयः ॥ ंोट्_२,११.४ ॥ सृष्ट्वैवमाततं सर्गं सर्गस्य सकला गतीः । भूतभव्यभविष्यत्स्था ददर्श परमेश्वरः ॥ ंो_२,११.५ ॥ "ददर्श" । "ज्ञाननेत्रेणे"ति शेषः ॥ ंोट्_२,११.५ ॥ सत्क्रियाक्रमकालस्य कृतादेः क्षय आगते । मोहमालोक्य लोकानां कारुण्यमगमत्प्रभुः ॥ ंो_२,११.६ ॥ "मोहम्" भविष्यन्तमित्यर्थः ॥ ंोट्_२,११.६ ॥ ततो मामीश्वरः सृष्ट्वा ज्ञानेनायोज्य चासकृत् । विससर्ज महीपीठे लोकस्याज्ञानशान्तये ॥ ंो_२,११.७ ॥ "माम्" वसिष्ठाख्यं "माम्" । "ज्ञानेन" परमात्मज्ञानेन । "आयोज्य" संयोज्य ॥ ंोट्_२,११.७ ॥ यथाहं प्रहितस्तेन तथान्येऽपि महर्षयः । सनत्कुमारप्रमुखा नारदाद्याश्च भूरिशः ॥ ंो_२,११.८ ॥ एतेन ये भूता भविष्यन्तश्चोपदेष्टारः सन्ति तत्रापीयमेव रीतिरस्तीति सूचितम् ॥ ंोट्_२,११.८ ॥ क्रियाक्रमेण पुण्येन तथा ज्ञानक्रमेण च । मनोमहामयोत्तब्धमुद्धर्तुं लोकमीरिताः ॥ ंो_२,११.९ ॥ "ईरिताः" विसर्जिताः । किं कर्तुम् । "लोकम्" अधिकारिभेदात्"क्रियाक्रमेण ज्ञानक्रमेण च उद्धर्तुम्" । "लोकं" कथंभूतम् । "मन" एव "महामयः" महारोगः । तेन्"ओत्तब्धम्" बद्धम् ॥ ंोट्_२,११.९ ॥ महर्षिभिस्ततस्तैस्तु क्षीणे कृतयुगे पुरा । क्रमात्क्रियाक्रमे शुद्धे पृथिव्यां तनुतां गते ॥ ंो_२,११.१० ॥ क्रियाक्रमविधानार्थं मर्यादानियमाय च । । पृथग्देशविभागेन भूपालाः परिकल्पिताः ॥ ंो_२,११.११ ॥ स्पष्टम् ॥ ंोट्_२,११.१०११ ॥ बहूनि स्मृतिशास्त्राणि यज्ञशास्त्राणि चावनौ । धर्मकामार्थे सिद्ध्यर्थं कल्पितान्युदितान्यथ ॥ ंो_२,११.१२ ॥ परि"कल्पितानि" कृतानि । "महर्षिभिर्" इति शेषः । यल्लोकैः तेषामुपदेशः न श्रुत इति भावः । "अथ"शब्दः उत्तरश्लोकेन संबन्धनीयः ॥ ंोट्_२,११.१२ ॥ कालचक्रे वहत्यस्मिंस्ततो विगलिते क्रमे । प्रत्यहं भोजनपरे जने शाल्यर्जनोन्मुखे ॥ ंो_२,११.१३ ॥ द्वन्द्वानि संप्रवृत्तानि विषयार्थं महीभुजाम् । दण्ड्यतां संप्रयातानि भूतानि भुवि भूरिशः ॥ ंो_२,११.१४ ॥ "द्वन्द्वानि" द्वन्द्वयुद्धानि । "विषयार्थम्" देशार्थम् । "दण्ड्यतां" दण्डयोग्यताम् । परदारगमनादिपापकरणातिति भावः ॥ ंोट्_२,११.१३१४ ॥ ततो युद्धं विना भूपा महीं पालयितुं क्रमात् । असमर्थास्तदायाताः प्रजाभिः सह दीनताम् ॥ ंो_२,११.१५ ॥ स्पष्टम् ॥ ंोट्_२,११.१५ ॥ तेषां दैन्यापनोदार्थं सम्यक्सृष्टिक्रमाय च । ततोऽस्मदादिभिः प्रोक्ता महत्यो ज्ञानदृष्टयः ॥ ंो_२,११.१६ ॥ "तेषाम्" राज्ञाम् ॥ ंोट्_२,११.१६ ॥ अध्यात्मविद्या तेनेयं पूर्वं राजसु वर्णिता । तदनु प्रसृता लोके राजविद्येत्युदाहृता ॥ ंो_२,११.१७ ॥ "राजविद्या राजगुह्यम्" इत्यादिना गीतादौ "राजविद्या"शब्देन व्यवहारातिति भावः ॥ ंोट्_२,११.१७ ॥ राजविद्या राजगुह्यमध्यात्मग्रन्थमुत्तमम् । ज्ञात्वा राघव राजानः परां निर्दुःखतां गताः ॥ ंो_२,११.१८ ॥ "राजगुह्यम्" इति अध्यात्मविद्यायाः अपरं नाम ॥ ंोट्_२,११.१८ ॥ अथ राजस्वतीतेषु बहुष्वमलकीर्तिषु । अस्माद्दशरथाद्राम जातोऽद्य त्वमिहावनौ ॥ ंो_२,११.१९ ॥ स्पष्टम् ॥ ंोट्_२,११.१९ ॥ तव चातिप्रसन्नेऽस्मिञ्जातं मनसि पावनम् । निर्निमित्तमिदं चारु वैराग्यमरिमर्दन ॥ ंो_२,११.२० ॥ "निर्निमित्तम्" बीभत्सादिरूपं निमित्तं विना ॥ ंोट्_२,११.२० ॥ ननु निर्निमित्तवैराग्येन कोऽतिशयः ममास्तीत्य् । अत्राह सर्वस्यैव हि भव्यस्य साधोरपि विवेकिनः । निमित्तपूर्वं वैराग्यं जायते राम राजसम् ॥ ंो_२,११.२१ ॥ स्पष्टम् ॥ ंोट्_२,११.२१ ॥ इदं त्वपूर्वमुत्पन्नं चमत्कारकरं सताम् । तवानिमित्तं वैराग्यं सात्त्विकं स्वविवेकजम् ॥ ंोट्_२,११.२२ ॥ स्पष्टम् ॥ ंोट्_२,११.२२ ॥ बीभत्सं विषमं दृष्ट्वा को नाम न विरज्यते । सतां तूत्तमवैराग्यं विवेकादेव जायते ॥ ंो_२,११.२३ ॥ "बीभत्सम्" बीभत्सरसालम्बनं द्रव्यम् ॥ ंोट्_२,११.२३ ॥ ते महान्तो महाप्रज्ञा निमित्तेन विनैव हि । वैराग्यं जायते येषां त एवामलमानसाः ॥ ंो_२,११.२४ ॥ अमलमानसत्वं विना हि निर्निमित्तं वैराग्यं नोत्पद्यते इति भावः ॥ ंोट्_२,११.२४ ॥ स्वविवेकचमत्कारपरामर्शविरक्तया । राजते हि धिया जन्तुर्युवेव वनमालया ॥ ंो_२,११.२५ ॥ "स्वविवेकस्य" यः "चमत्कारः" । तस्य यः "परामर्शः" । तेन "विरक्तया" बाह्यपदार्थरागरहितया । न तु बीभत्सेन विरक्तया ॥ ंोट्_२,११.२५ ॥ परामृश्य विवेकेन संसाररचनामिमाम् । विरागं येऽधिगच्छन्ति त एव पुरुषोत्तमाः ॥ ंो_२,११.२६ ॥ स्पष्टम् ॥ ंोट्_२,११.२६ ॥ स्वविवेकवशादेव विचार्येदं पुनः पुनः । इन्द्रजालं परित्याज्यं सबाह्याभ्यन्तरं बलात् ॥ ंो_२,११.२७ ॥ "इन्द्रजालम् " संसाराख्यमिन्द्रजालम् । "परित्याज्यम्" समन्तात्त्यागविषयतां नेयम् ॥ ंोट्_२,११.२७ ॥ श्मशानमापदं दैन्यं दृष्ट्वा को न विरज्यते । तद्वैराग्यं परं श्रेयः स्वतो यदभिजायते ॥ ंो_२,११.२८ ॥ स्पष्टम् ॥ ंोट्_२,११.२८ ॥ अकृत्रिमविरागस्त्वं महत्तामलमागतः । योग्योऽसि ज्ञानसारस्य बीजस्येव मृदुस्थलम् ॥ ंो_२,११.२९ ॥ स्पष्टम् ॥ ंोट्_२,११.२९ ॥ प्रसादात्परमेशस्य नाथस्य परमात्मनः । त्वादृशस्य शुभा बुद्धिर्विवेकमनुधावति ॥ ंो_२,११.३० ॥ न त्वत्रात्मप्रयत्नः कश्चित्प्रभवतीति भावः ॥ ंोट्_२,११.३० ॥ क्रियाक्रमेण महता तपसा नियमेन च । दानेन तीर्थयात्राभिश्चिरकालविवेकतः ॥ ंो_२,११.३१ ॥ दुष्कृते क्षयमापन्ने परमार्थविचारणे । काकतालीययोगेन बुद्धिर्जन्तोः प्रवर्तते ॥ ंो_२,११.३२ ॥ "काकतालीययोगेने"त्यनेन "क्रियाक्रमा"देः शैथिल्यं सूचितम् । "काकतालीयेन" "परमा"त्म"विचारण"निमित्त"बुद्धियोगः" । तावत्तु क्रियाक्रमादिरवश्यमनुष्ठेयः । तस्यापि लेशतः तं प्रत्युपायत्वात् । न च तत्रैव मङ्क्तव्यम् । सद्गुरूपासादेरन्यस्य मुख्यस्योपायस्यापि सत्त्वातित्यलम् ॥ ंोट्_२,११.३२ ॥ क्रियापरास्तावदलं चक्रावृत्तिभिरादृताः । भ्रमन्तीह जना यावन्न पश्यन्ति परं पदम् ॥ ंो_२,११.३३ ॥ "क्रियापराः" क्रियामेवोपायत्वेन मन्यमानाः । "परं पदम्" चिन्मात्राख्यमुत्कृष्टं स्थानम् । "चक्रावृत्तिभिः क्रियापराः" पौनःपुन्येन सक्रियारता इत्यर्थः ॥ ंोट्_२,११.३३ ॥ यथाभूतमिमं दृष्ट्वा संसारं तन्मयीं धियम् । परित्यज्य परं यान्ति निरालाना गजा इव ॥ ंो_२,११.३४ ॥ "यथाभूतं दृष्ट्वा" यथास्ति तथा दृष्ट्वा । "तन्मयीं" संसारमयीम् । "परम्" उत्तीर्णं शुद्धचिन्मात्रतत्त्वम् । "यान्ति" तद्रूपं स्वात्मानमनुभवन्ति ॥ ंोट्_२,११.३४ ॥ विषमेयमनन्तेहा राम संसारसंसृतिः । देहमुक्ता महातन्तुर्विना ज्ञानं न नश्यति ॥ ंो_२,११.३५ ॥ "अनन्ताः ईहाः" भावाभावरूपाः चेष्टाः यस्याः । तादृशी "संसारसंसृतिः" संसारसरणिः । देहमुक्ता नाम महातन्तुः "देहमुक्ता महातन्तुः" । "ज्ञानम्" चिन्मात्रतत्त्वज्ञानम् ॥ ंोट्_२,११.३५ ॥ ज्ञानयुक्तिप्लवेनैव संसाराब्धिं सुदुस्तरम् । महाधियः समुत्तीर्णा नेतरेण रघूद्वह ॥ ंो_२,११.३६ ॥ "ज्ञान"रूपा या "युक्तिः" उपायः । स एव "प्लवः" । तेन ॥ ंोट्_२,११.३६ ॥ तामिमां ज्ञानयुक्तिं त्वं संसारांभोधितारिणीम् । शृणुष्वावहितो बुद्ध्या नित्यावहितयानया ॥ ंो_२,११.३७ ॥ "अवहितया बुद्ध्या" विना श्रोतुं न शक्नोषीति भावः ॥ ंोट्_२,११.३७ ॥ यस्मादनन्तसंरम्भा जगतो दुःखरीतयः । चिरायान्तर्दहन्त्येता विना युक्तिमनिन्दित ॥ ंो_२,११.३८ ॥ "युक्तिम्" ज्ञानाख्यां युक्तिम् ॥ ंोट्_२,११.३८ ॥ शीतवातातपादीनि द्वन्द्वदुःखानि राघव । ज्ञानयुक्तिं विना केन सह्यतां यान्ति साधुषु ॥ ंो_२,११.३९ ॥ "केन" केनान्येनोपायेन । न केनापीत्यर्थः । अत्र तु बालवृद्धयोः मरिचभक्षणं दृष्टान्तत्वेन योज्यम् ॥ ंोट्_२,११.३९ ॥ आपतन्ति प्रतिपदं यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव ॥ ंो_२,११.४० ॥ दुःखदायिन्यः चिन्ताः "दुःखचिन्ताः" । ताश्च भोगविषयाः ज्ञेयाः ॥ ंोट्_२,११.४० ॥ प्राज्ञं विज्ञातविज्ञानं सम्यग्दर्शिनमाधयः । न दहन्ति वनं वर्षदब्दमग्निशिखा इव ॥ ंो_२,११.४१ ॥ "प्राज्ञं" कथंभूतम् । "विज्ञातम्" अनुभूतम् । "विज्ञानं" विज्ञानरूपमात्मतत्त्वं येन तम् । "आधयः" चिन्ताः । "वनं" कथम्भूतम् । "वर्षन्तः अब्दाः" मेघाः यस्य तत् ॥ ंोट्_२,११.४१ ॥ आधिव्याधिपरावर्ते संसारमरुमारुते । क्षुभितेऽपि न तत्त्वज्ञो भज्यते कल्पवृक्षवत् ॥ ंो_२,११.४२ ॥ "आधिव्याध्योः परावर्तः" पौनःपुन्येनावृत्तिः यस्मिन् । तादृशे "क्षुभिते" भावाभावाख्यः क्षोभयुक्ते । "न" "भज्यते" हर्षशोकवशं न याति । "संसारमरुमारुते क्षुभिते" सतीति योज्यम् । "कल्पवृक्षोऽपि मारुते क्षुभिते" सति "न भज्यते" ॥ ंोट्_२,११.४२ ॥ तत्त्वं ज्ञातुमतो यत्नाद्धीमानेव हि धीमता । प्रामाणिकः प्रबुद्धात्मा प्रष्टव्यः प्रणयान्वितम् ॥ ंो_२,११.४३ ॥ "प्रामाणिकः" प्रमाणवक्ता । "प्रबुद्धः" ज्ञातः । "आत्मा" चिन्मात्ररूपः परमात्मा येन । सः "प्रबुद्धात्मा" । "प्रणयान्वितम्" याच्ञासहितम् । एतद्व्यतिरिक्तस्तु पृष्टः विरुद्धमेव किंचिद्ब्रूयादिति भावः ॥ ंोट्_२,११.४३ ॥ प्रामाणिकस्य पृष्टस्य वक्तुरुत्तमचेतसा । यत्नेन वचनं ग्राह्यमंशुकेनेव कुङ्कुमम् ॥ ंो_२,११.४४ ॥ "यत्नेना"वधानेन ॥ ंोट्_२,११.४४ ॥ अतत्त्वज्ञमनादेयवचनं वाग्विदां वर । यः पृच्छति नरं तस्मान्नास्ति मूढतरोऽपरः ॥ ंो_२,११.४५ ॥ न तत्त्वं जानातीति तादृशम् । देहादावात्माभिमानिनमित्यर्थः ॥ ंोट्_२,११.४५ ॥ प्रामाणिकस्य तज्ज्ञस्य वक्तुः पृष्टस्य यत्नतः । नानुतिष्ठति यो वाक्यं नान्यस्तस्मान्नराधमः ॥ ंो_२,११.४६ ॥ "वाक्यं नानुतिष्ठति" तदुक्तवाक्यवाच्यमर्थं न संपादयति ॥ ंोट्_२,११.४६ ॥ तज्ज्ञतातज्ज्ञते पूर्वं वक्तुर्निर्णीय कार्यतः । यः करोति नरः प्रश्नं पृच्छकः स महामतिः ॥ ंो_२,११.४७ ॥ "कार्यतः" न तु वचनमात्रात् । वचनमात्रेण हि बहवः ब्रह्मज्ञानिनमात्मानं दर्शयन्ति ॥ ंोट्_२,११.४७ ॥ अनिर्णीय प्रवक्तारं बालः प्रश्नं करोति यः । अधमः पृच्छकः स स्यान्न महार्थस्य भाजनम् ॥ ंो_२,११.४८ ॥ "बालः" बालवत्मूढः । "महार्थस्य" मोक्षाख्यस्य परमप्रयोजनस्य ॥ ंोट्_२,११.४८ ॥ पूर्वापरसमाधानक्षमबुद्धावनिन्दिते । पृष्टं प्राज्ञेन वक्तव्यं नाधमे पशुधर्मिणि ॥ ंो_२,११.४९ ॥ "प्राज्ञेन" बुद्धिमता गुरुणा । "पृष्टं" प्रश्नविषयीकृतं वस्तु । "अनिन्दिते" । तथा "पूर्वापरयोः" पूर्वापरवाक्यभागार्थयोः । यत्"समाधानम्" अन्योऽन्यविरुद्धतापनयनम् । तत्र "क्षमा बुद्धिः" यस्य । तादृशे प्रष्टरि वक्तव्यम् । "अधमे" अत एव "पशुधर्मिणि" मूढतया पशुसदृशे प्रष्टरि । "न" वक्तव्यं व्यर्थत्वात् ॥ ंोट्_२,११.४९ ॥ प्रामाणिकार्थयोग्यत्वं पृच्छकस्याविचार्य वा । यो वक्ति तमिह प्राज्ञाः प्राहुर्मूढतमं नरम् ॥ ंो_२,११.५० ॥ "पृच्छकस्य" मूढतरत्वातस्य "मूढतमत्वम्" । बहूनां जातिपरिप्रश्ने हि मूढतमः । पृच्छकादपि मूढः असौ किं ब्रूयादिति भावः ॥ ंोट्_२,११.५० ॥ त्वमतीव गुणाधारः पृच्छको रघुनन्दन । अहं च वक्तुं जानामि स च योगोऽयमावयोः ॥ ंो_२,११.५१ ॥ "सः" तव "गुणाधार"पृच्छकत्वं मम तादृक्वक्तृत्वमिति "योगः" सदृशसंबन्धः ॥ ंोट्_२,११.५१ ॥ यदहं वच्मि तद्यत्नात्त्वया शब्दार्थकोविद । एतद्वस्त्विति निर्णीय हृदि कार्यमखण्डितम् ॥ ंो_२,११.५२ ॥ निर्णयस्वरूपं कथयति । "एतद्" इति । "एतत्" श्रीवसिष्ठोक्तं "वस्तु" । परमार्थसत्यं भवति । पूर्वं भक्तिमात्रेणैव मद्वचनं सत्यतया ग्राह्यम् । ततः तत्सत्यता स्वयमेव प्रकटीभविष्यति । अन्यथारंभमात्रे एव स्वविकल्पकृताभिः सूक्ष्मेक्षिकाभिः तव किंचिदपि न सेत्स्यतीति भावः ॥ ंोट्_२,११.५२ ॥ ननु यदि त्वदुक्तंमयि न लगति तदा किं कार्यमित्य् । अत्राह महानसि विरक्तोऽसि तज्ज्ञोऽसि जनतास्थितौ । त्वयि वस्तु लगत्यन्तः कुङ्कुमाम्बु यथांशुके ॥ ंो_२,११.५३ ॥ यतः त्वम् "महान्" न तु नीचः "असि" । नीचो हि नीचतया स्वल्पेनापि क्षुभ्यति । तथा "विरक्तः" संसारिकपदार्थेषु विरक्तः "असि" । अन्यथा हि पदार्थाविष्टबुद्धेः ते योग्यता न स्यात् । तथा "जनतायाः स्थितौ" रचनायाम् । "तज्ज्ञः" निपुणः "असि" । अन्यथा हि तद्दृष्टान्तानुसारेण प्रोक्तः उपदेशः त्वयि न लगेत् । अतः "वस्तु" मदुक्तपरमार्थतत्त्वम् । "त्वयि लगति" । किं "यथा" । "कुङ्कुमाम्बु" "यथा" । यथा तत्"अंशुके" लगति तथेत्यर्थः ॥ ंोट्_२,११.५३ ॥ उक्तावधानपरमा परमार्थविवेचिनी । विशत्यर्थं तव प्रज्ञा जलमध्यमिवार्कभा ॥ ंो_२,११.५४ ॥ "उक्ते" मदुक्ते । यत्"अवधानम्" । तदेव "परमम्" ग्राह्यत्वेनोत्कृष्टं यस्याः । तादृशी । तथा "परमार्थस्य" मदुक्तवाक्यान्तरार्थस्य । "विवेचिनी तव प्रज्ञा अर्थम्" मद्वाक्यार्थम् । "विशति" वर्तमानसमीपे वर्तमाना । अत्र दृष्टान्तमाह । "जले"ति ॥ ंोट्_२,११.५५ ॥ यद्यद्वच्मि तवादेयं हृदि कार्यं प्रयत्नतः । न चेत्प्रष्टव्य एवाहं न त्वयेह निरर्थकम् ॥ ंो_२,११.५५ ॥ "आदेयं" आदानार्हं तत्तदित्यध्याहार्यम् ॥ ंोट्_२,११.५५ ॥ ननु त्वद्वाक्यहृत्करणे कः प्रयासः अस्ति येनैवं ब्रवीषीत्य् । अत्राह मनो हि चपलं राम संसारवनमर्कटम् । संरोध्य हृदि यत्नेन श्रोतव्या परमार्थगीः ॥ ंो_२,११.५६ ॥ "हि" यस्मात् । "मनो"निरोधेऽवश्यं प्रयासः । तं विना च मद्वाक्यहृत्करणं न संभवति । अतोऽस्त्येव मद्वाक्यहृत्करणे प्रयास इति भावः ॥ ंोट्_२,११.५६ ॥ ननु स्वकीयं बान्धवजनं त्यक्त्वा कथं त्वद्वाक्यमात्रपरो भवेयमित्य् । अत्राह अविवेकिनमज्ञानमसज्जनरतिं जनम् । चिरं दूरतरं कृत्वा पूजनीया हि साधवः ॥ ंो_२,११.५७ ॥ अविद्यमानं ज्ञानं यस्य तम् "अज्ञानम्" । "असज्जनेभ्यः" विरतिः सज्जनेषु "रतिश्" च प्रथमं मोक्षसाधनमिति भावः ॥ ंोट्_२,११.५७ ॥ ननु साधुपूजनेन मम किं सेत्स्यतीत्य् । अत्राह नित्यं सज्जनसंपर्काद्विवेक उपजायते । विवेकपादपस्यैते भोगमोक्षौ फले स्मृते ॥ ंो_२,११.५८ ॥ स्पष्टम् ॥ ंोट्_२,११.५८ ॥ कथं विवेकस्येदृशः प्रभावोऽस्तीत्य् । अत्राह मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः संतोषश्चतुर्थः साधुसंगमः ॥ ंो_२,११.५९ ॥ एतैः व्यस्तैः समस्तैर्वा विना न कश्चिन्मोक्षं प्राप्नोतीति विवेकस्य मोक्षसाधकत्वमस्तीति भावः ॥ ंोट्_२,११.५९ ॥ एते सेव्याः प्रयत्नेन चत्वारो द्वौ त्रयोऽथवा । द्वारमुद्घाटयन्त्येते मोक्षराजगृहे बलात् ॥ ंो_२,११.६० ॥ स्पष्टम् ॥ ंोट्_२,११.६० ॥ एकं वा सर्वयत्नेन प्राणांस्त्यक्त्वा समाश्रयेत् । एतस्मिन् वशगे यान्ति चत्वारोऽपि वशं यतः ॥ ंो_२,११.६१ ॥ "एतस्मिन्" एकस्मिन् । "एकश्" चात्रोत्तरश्लोकानुरोधेन विवेकी ज्ञेयः ॥ ंोट्_२,११.६१ ॥ ननु कथमेकेनैव कार्यं सेत्स्यतीत्य् । अत्राह सविवेको हि शास्त्रस्य ज्ञानस्य तपसो द्युतेः । भाजनं भूषणाकारो भास्करस्तेजसामिव ॥ ंो_२,११.६२ ॥ "भूषण"भूतः "आकारः" यस्य । तादृशः ॥ ंोट्_२,११.६२ ॥ विवेकपरिपन्थिनः प्रज्ञामान्द्यस्यानर्थोत्पादकत्वं कथयति घनतामुपयातं हि प्रज्ञामान्द्यमचेतसाम् । याति स्थावरतामम्बु जाड्यात्पाषाणतामिव ॥ ंो_२,११.६३ ॥ "प्रज्ञामान्द्यं घनतामुपयातं" सत् । "स्थावरतां याति" इति संबद्धः ॥ ंोट्_२,११.६३ ॥ ननु यद्यहं प्रज्ञामान्द्येन विवेकयोग्यो न स्यां तर्हि किं कार्यमित्य् । अत्राह त्वं तु राघव सौजन्यगुणशास्त्रार्थदृष्टिभिः । विकासितान्तःकरणः स्थितः पद्म इवोदये ॥ ंो_२,११.६४ ॥ इमां ज्ञानदृशं श्रोतुमवबोद्धुं च सन्मते । अर्हस्युद्धृतकर्णस्थजन्तुर्वीणाध्वनिं यथा ॥ ंो_२,११.६५ ॥ सुजनस्य भावः "सौजन्यम्" । तद्युक्ताः गुणाः "सौजन्यगुणाः" । ते च "शास्त्रार्थदृष्टयश्" च । ताभिः "विकासितं" प्रज्ञामान्द्यरहितम् "अन्तःकरणं" यस्य सः । तथा "उद्धृतं" निष्कासितम् । "कर्णस्थं जन्तु"मलं यस्य सः । तादृशः । अतो विवेकयोग्य एवासीति भावः ॥ ंोट्_२,११.६४६५ ॥ ननु कथमेतदित्य् । अत्राह वैराग्याभ्यासयोगेन समसौजन्यसंपदा । तत्पदं प्राप्यते राम यत्र नाशो न विद्यते ॥ ंो_२,११.६६ ॥ "अभ्यासः" सच्छास्त्राभ्यासः । "तत्पदम्" विवेकाख्यं स्थानम् ॥ ंोट्_२,११.६६ ॥ अत्यन्तमुख्यभूतस्य विवेकस्य वर्धनोपायमाह शास्त्रैः सज्जनसंपर्कपूर्वकैस्सुतपोदमैः । आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ ंो_२,११.६७ ॥ "तपः" बाह्येन्द्रियाणां निग्रहः । "दमः" आन्तराणाम् ॥ ंोट्_२,११.६७ ॥ संसारविषवृक्षोऽग्रसेकमास्पदमापदाम् । अञ्जनं मोहयामिन्या मौर्ख्यं यत्नेन नाशयेत् ॥ ंोट्_२,११.६८ ॥ "मोहः" विपर्यासः । "अञ्जनेन" हि मान्त्रिकाः दिवापि "यामिनीं" प्रकटयन्ति इत्य्"अञ्जनम्" इत्युक्तम् ॥ ंोट्_२,११.६८ ॥ ननु मम मौर्ख्यं कथं नश्यतीत्य् । अत्राह एतदेव च मौर्ख्यस्य परमं विद्धि नाशनम् । यदिदं प्रेक्ष्यते शास्त्रं किंचित्संस्कृतया धिया ॥ ंो_२,११.६९ ॥ "नाशनम्" नाशकरणम् । "किंचित्संस्कृतया" किंचित्पदपदार्थज्ञानमात्रेण । न तु क्षोभोत्पादकेन महता व्याकरणजालज्ञानेन । "संस्कृतया" संस्कारयुक्तया ॥ ंोट्_२,११.६९ ॥ दुराशासर्पगतेन मौर्ख्येन हृदि वल्गता । चेतः संकोचमायाति चर्माग्नाविव योजितम् ॥ ंो_२,११.७० ॥ "दुराशाः" भोगाशाः एव "सर्पाः" । तासां "गतेन" । मौर्ख्यादेव दुराशा निर्यान्तीति भावः । "संकोचम्" चिद्विमर्शाख्यविकासराहित्यम् ॥ ंोट्_२,११.७० ॥ प्राज्ञे यथार्थभूतेयं वस्तुदृष्टिः प्रसीदति । दृगिवेन्दौ निरम्भोदसकलामलमण्डले ॥ ंो_२,११.७१ ॥ "इयं" मया वक्ष्यमाणा । "वस्तुदृष्टिः" परमार्थदृष्टिः । "प्रसीदति" प्रसन्ना भवति । तस्मिन्नैव विश्रान्तिं भजतीति भावः ॥ ंोट्_२,११.७१ ॥ पूर्वापरविचारार्थचारुचातुर्यशालिनी । सविकासा मतिर्यस्य स पुमानिति कथ्यते ॥ ंो_२,११.७२ ॥ पूर्वापरविचारविषयीकृतः अर्थः "पूर्वापरविचारार्थः" । तत्र यत्"चारुचातुर्यं" । तेन "शालिनी" ॥ ंोट्_२,११.७२ ॥ त्वमपीदृशोऽसीति सर्गान्तश्लोकेन कथयति विकसितेन सितेन मनोमुषा वरविचारणशीतलरोचिषा । गुणवता हृदयेन विराजसे त्वममलेन नभः शशिना यथा ॥ ंो_२,११.७३ ॥ "विकसितेन" विवेकाख्यविकासयुक्तेन । "सितेन" मलराहितेन । "मनोमुषा" मनोहारिणा । "वरविचारणम्" एव "शीतला" "रुक्" यस्य । तादृशेन "गुणवता" मैत्र्यादिगुणयुक्तेन "हृदयेन" । त्वं "विराजसे" । किं "यथा" । "नभो" यथा । "यथा" तत्"अमलेन" नीहारादिमलादूषितेन । "शशिना" विराजते तथेत्यर्थः । इति शिवम् ॥ ंोट्_२,११.७३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणे एकादशः सर्गः ॥ २,११ ॥ ************************************************************************ श्रीरामस्य बुद्धिसमाधानाय पुनरपि श्रीरामे सम्यक्प्रष्टृत्वं स्वस्मिंश्च सम्यग्वक्तृत्वं कथयति परिपूर्णमना मान्यः प्रष्टुं जानासि राघव । वेत्सि चोक्तं च तेनाहं प्रवृत्तो वक्तुमादरात् ॥ ंो_२,१२.१ ॥ हे "राघव" । "परिपूर्णम्" भोगाशाराहित्येन तृप्तम् । "मनः" यस्य । तादृशः । अत एव "मान्यः" त्वम् । "प्रष्टुं जानासि" । "उक्तं" मदुक्तम् । "वेत्सि च" । "तेनाहं" तव "वक्तुमादरात्प्रवृत्तः" । अन्यथा न ब्रूयामिति भावः ॥ ंोट्_२,१२.१ ॥ रजस्तमोभ्यां रहितां शुद्धसत्त्वानुपातिनीम् । मतिमात्मनि संस्थाप्य ज्ञानं श्रोतुं स्थिरो भव ॥ ंो_२,१२.२ ॥ "आत्मनि" न तु बाह्यवस्तुषु । "संस्थाप्य" सम्यक्स्थापयित्वा ॥ ंोट्_२,१२.२ ॥ विद्यते त्वयि सर्वैव पृच्छकस्य गुणावली । वक्तुर्गुणाली च मयि रत्नश्रीर्जलधौ यथा ॥ ंो_२,१२.३ ॥ स्पष्टम् ॥ ंोट्_२,१२.३ ॥ आत्तवानसि वैराग्यं विवेकात्सङ्गजं मुनेः । चन्द्रकान्त इवार्द्रत्वं लग्नचन्द्रकरोत्करः ॥ ंोट्_२,१२.४ ॥ "आत्तवान्" गृहीतवान् । "असि" त्वम् ॥ ंोट्_२,१२.४ ॥ चिरमा शैशवादेव तवाभ्यासोऽस्ति सद्गुणैः । शुद्धः शुद्धस्य दीर्घैश्च पद्मस्येवातिसंततैः ॥ ंो_२,१२.५ ॥ "गुणैः" वैराग्यादिभिः । तन्तुभिश्"च" । "अतिसंततैः" अतिशयेनाविच्छिन्नैः ॥ ंोट्_२,१२.५ ॥ फलितमाह अतः शृणु कथां वक्ष्ये त्वमेवास्या हि भाजनम् । न हि चन्द्रं विना शुद्धा सविकासा कुमुद्वती ॥ ंो_२,१२.६ ॥ "कथां" ब्रह्मोक्तां स्वतःस्फुरितां वा मोक्षकथाम् । इतः परं ब्रह्मोक्तमेवोपदेशं श्रीवसिष्ठः श्रीरामाय करोतीति ज्ञेयम् ॥ ंोट्_२,१२.६ ॥ ब्रह्मोक्तां मोक्षकथां प्रस्तौति ये केचन समारम्भा याश्च काश्चन दृष्टयः । ते च ताश्च पदे दृष्टे निःशेषं यान्ति वै शमम् ॥ ंो_२,१२.७ ॥ "पदे" चिन्मात्राख्ये । "दृष्टे" स्वात्मतया अनुभूते । "वै" निश्चये । "शमम्" शान्तिम् ॥ ंोट्_२,१२.७ ॥ ननु एता दृष्टयः अद्य तावत्कस्यचिच्छान्तिं गता अद्य वा नेत्य् । अत्राह यदि विज्ञानविश्रान्तिर्न भवेद्भव्यचेतसः । तदस्यां संसृतौ साधुश्चिन्तां सोढुं सहेत कः ॥ ंो_२,१२.८ ॥ "भव्यचेतसः" साधोः । "यदि विज्ञानविश्रान्तिः विज्ञाने" विज्ञानस्वरूपे आत्मनि । "विश्रान्तिः" संसारदृष्टिनाशद्वारेण विश्रामः । "न भवेत्" । "तत्" तदा । "अस्यां" एतादृग्दुःखरूपायाम् । "संसृतौ" संसारे । "कः साधुः चिन्तां" विश्रामानासादनाव्यभिचारिणीं संसारचिन्तां "सहेत" । न कोऽपीत्यर्थः । "अस्मदादिवद्" इति शेषः । विश्रामासादनेन तस्य चिन्ता एव नास्ति येनासौ इह तिष्ठतीति भावः ॥ ंोट्_२,१२.८ ॥ ननु भव्यस्य चिन्ता कुत्र गच्छतीत्य् । आह परप्राप्त्या विलीयन्ते सर्वा मननवृत्तयः । कल्पान्तार्कगणासङ्गात्कुलशैलशिला इवा ॥ ंो_२,१२.९ ॥ "परस्य" परमात्मनः "प्राप्त्या" । "सर्वाः मननवृत्तयः" मनोमननव्यापाराः चिन्ता इति यावत् । भव्यस्य "विलीयन्ते" । अत्र दृष्टान्तमाह । "कल्पान्ते"ति ॥ ंोट्_२,१२.९ ॥ दुःसहा राम संसारविषावेशविषूचिका । योगगारुडमन्त्रेण पावनेन प्रशाम्यति ॥ ंो_२,१२.१० ॥ "संसार" एव "विषावेश"कृता "विषूचिका" विषूचिकाख्यो रोगविशेषः । सा "संसारविषावेशविषूचिका" । "गारुडमन्त्रेण" हि "विषावेशः" नश्यति ॥ ंोट्_२,१२.१० ॥ सः योगः कथं प्राप्यत इत्यपेक्षायां गद्येन कथयति स च योगः सुजनेन सह शास्त्रार्थविचारात् । परमार्थज्ञानमयो लभ्यत एव ॥ ंो_२,१२.११ ॥ "लभ्यत एवे"त्यन्तम् । टीका । "सः" मननवृत्तिविलयहेतुः "योगः सुजनेन सह शास्त्रार्थविचारात्लभ्यत एव" । न तु न लभ्यते । "सः" कथंभूतः । "परमार्थस्य" चिन्मात्रतत्त्वस्य । यत्"ज्ञानं" तन्"मयः" । न तु प्राणरोधनादिरूपः ॥ ंोट्_२,१२.११ ॥ ननु यदि विचारेणापि न किंचित्सेत्स्यति तर्हि किं कार्यमित्य् । अत्राहअवश्यमिह हि विचारे कृते सकलदुःखक्षयो भवतीति मन्तव्यम् ॥ ंोट्_२,१२.१२ ॥ "मन्तव्यम्" इत्यन्तम् । स्पष्टम् ॥ ंोट्_२,१२.१२ ॥ फलितं कथयति नातो विचारदृष्टयोऽवहेलया द्रष्टव्याः । विचारवशतः पुरुषेण सकलमिदमाधिपञ्जरं सर्पेण त्वचमिव परिपक्वां परित्यज्य विगतज्वरेण शीतलान्तःकरणेन विनोद इव जगदखिलमालोक्यते सम्यग्दर्शनवता ॥ ंो_२,१२.१३ ॥ "सम्यग्दर्शनवते"त्यन्तम् । टीका । यतः परमार्थतत्त्वं विचारादेव लभ्यते "अतः विचारदृष्टयः" विचाराख्याः दृष्टयः । "अवहेलया" अनादरेण । "न द्रष्टव्याः" । ननु किं विचारेण सेत्स्यतीत्य् । अत्राह । "विचारे"ति । "विचारवशतः" "सम्यग्दर्शनवता" सम्यग्दर्शनयुक्तेन सता "पुरुषेण" ।" अखिलम्" बाह्यमाभ्यन्तरं च सर्वम् । "जगत्विनोद इव" क्रीडा इव्"आलोक्यते" । तद्भावाभावप्रयुक्तहर्षशोकरहितत्वात् । "पुरुषेण" कथंभूतेन । "सकलमिदम्" अनुभूयमानम् । "आधिपञ्जरम्" विकल्पाख्यं पञ्जरम् । "सर्पेण परिपक्वां त्वचमिव परित्यज्य विगतज्वरेण" तापरहितेनात एव "शीतलान्तःकरणेन" ॥ ंोट्_२,१२.१३ ॥ नन्वसम्यग्दर्शनवत्त्वस्य को दोषो येन विचारात्सम्यग्दर्शनवत्त्वमाश्रीयते इत्य् । अत्राह असम्यग्दर्शनवतो हि परं दुःखमिदम् । विषमो ह्यतितरां संसाररोगो भोगीव दशति । असिरिव च्छिनत्ति । शर इव वेधयति । रज्जुरिव वेष्टयति । पावक इव दहति । रात्रिरिवान्धयति । अशङ्कितपरिपातितपरुषपाषाण इव विवशीकरोति । हरति प्रज्ञाम् । नाशयति स्थितिम् । पातयति मोहान्धकूपे । तृष्णया जर्जरीकरोति । न तदस्ति किंचिद्दुःखं संसारी यन्न प्राप्नोति ॥ ंोट्_२,१२.१४ ॥ "प्राप्नोती"त्यन्तम् । टीका । "परम्" अग्रकोटिं यातम् । ननु केन कृतं "दुःखम्" अस्य्"आसम्यग्दर्शनवतः" स्यादित्य् । अत्राह । "विषम" इति । "वेधयति" ताडयति । विशेषेण कथनमशक्यं ज्ञात्वा सामान्येन कथयति । "न तद्" इति । "संसारी" संसारयुक्तः । अतः संसारकृतमेवेह्"आसम्यग्दर्शनवतो दुःखम्" अस्तीति भावः ॥ ंोट्_२,१२.१४ ॥ ननु विषयरूपोऽयं संसार एवमेव भवति । किमस्माकं करोतीत्य् । अत्राह दुरन्तेयं किल विषयविषमविषविषूचिका । यदि न चिकित्स्यते तदतितरां नरकनगरनिकरफलानुबन्धिनी तत्तत्करोति । यत्र शितासिशतपात उत्पलताडनम् । अग्निदाहो हिमावसेको ।ऽङ्गविकर्तनं चन्दनचक्रकरचना । घूर्णद्वातान्तः परिपेषोऽङ्गपरिमालनम् । अनवरतानलज्वालाविचलितचामरनाराचनिकरनिपातो निदाघविनोदनधारागृहशीकरवर्षणम् । शिरश्छेदः सुखनिद्रा । मूकीकरणं पाटवमुद्रा महानुपचयः ॥ ंो_२,१२.१५ ॥ "महानुपचय" इत्यन्तम् । टीका । "दुरन्ता" नाशयितुमशक्या । "विषयाः" संसारिकाः भोगाः । ते एव "विषमविषविषूचिका" । सा "यदि न चिकित्स्यते" । "तत्" तदा । "अतितरां नरकनगराणां" यः "निकरः" समूहः । स एव "फलं" । तस्य "अनुबन्धः" प्रवाहेन प्रवर्तनम् । सः अस्यामस्तीति तादृशी सती सा । "तत्तत्" तादृशं तादृशं दुःखं "करोति" । तत्किमित्यपेक्षायामाह । "यत्रे"ति । "यत्र" यस्मिन् दुःखे सति । यद्दुःखमपेक्ष्येति यावत् ।" घूर्णन्" स्फुरन् यः "वातः" । तस्य्"आन्तः" मध्ये । "परिपेषः" चूर्णीभावः । "अङ्गपरिमालनम्" अङ्गकोमलतापादकं मर्दनं भवति । वातमध्ये चूर्णीभावादपि तत्कष्टतरमिति भावः । "अनवरताः" याः "अनलज्वालाः" । ता एव "विचलितचामराणि" यस्मिन् । तादृशः यः "नाराचनिकरः" । तस्य "निपातः" । "निदाघस्य" अर्थात्"निदाघ"कृततापस्य । "विनोदना"र्थं दूरीकरणार्थं यानि "धारागृहाणि" । तेषां ये "शीकराः" । तेषां "वर्षणं" भवति । "पाटवमुद्राः पाटवस्य" चातुर्यस्य । "मुद्रा" संकोचः । कृशतेति यावत् । "महानुपचयः" वृद्धिः भवति ॥ ंोट्_२,१२.१५ ॥ फलितं कथयति तदेवंविधे कष्टचेष्टासहस्रदारुणे संसारचपलयन्त्रेऽस्मिन् राघव नावहेला कर्तव्या । अवश्यमिदं हि विचारणीयम् ॥ ंो_२,१२.१६ ॥ "विचारणीयम्" इत्यन्तम् । टीका । "तत्" ततो हेतोः । हे "राघव" । "एवंविधे" पूर्वोक्तमहाकठिनदुःखदायिनि । अत एव "कष्टचेष्टासहस्रदारुणे अस्मिन्" अनुभूयमाने । "संसार" एव "चपलयन्त्रम्" तस्मिन् । "अवहेला" किं ममायं करोतीति अनादरः । "न कर्तव्या" । पुनः किं कार्यमित्य् । अत्राह्"आवश्यम्" इति । पण्डितैः "अवश्यमिदम् "अयं संसारः । "विचारणीयम्" । किमयम् । इदमिति विचारविषयतां नयेत् ॥ ंोट्_२,१२.१६ ॥ अन्यत्किं करणीयमित्य् । अत्राह एवं चावबोद्धव्यं यथा किलास्ति विचाराच्छ्रेयोऽवाप्तिरिति ॥ ंो_२,१२.१७ ॥ "इती"त्यन्तम् । टीका । पुरुषेण्"ऐवं च बोद्धव्यम्" निश्चेयम् । एवं कथम् । "यथा किल" निश्चये । "विचारात्श्रेयोऽवाप्तिः" मोक्षप्राप्तिर्"अस्ती"ति ॥ ंोट्_२,१२.१७ ॥ नन्वयं विवेकः कस्यचिदस्त्यथवा नेत्य् । अत्राह अन्यच्च रघुकुलेन्दो । यदि नैते महान्तो मुनयो महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेनावगुण्ठितशरीरास्तत्कथमदुःखक्षमा अपि दुःखमयीं तमोवृत्तिपूर्वकसंसारकदर्थनामनुभवन्तः सततमेव मुदितमनसस्तिष्ठन्ति ॥ ंो_२,१२.१८ ॥ "तिष्ठन्ती"त्यन्तम् । टीका । हे "रघुकुलेन्दो" । अहम् "अन्यच्च" । "ब्रवीमी"ति शेषः । "यदि एते" पुरःस्थाः । "महान्तः मुनयः महर्षयश्च विप्राश्च राजानश्च ज्ञानकवचेन" विवेकाख्यकवचेन्"आवगुण्ठितानि" वलितानि । "शरीराणि" येषां ते । तादृशाः ज्ञानयुक्ता इति यावत् । "न" भवन्ति । "तत्" तदा । एते मुन्यादयः "अदुःखक्षमाः अपि कथं दुःखमयीं" । तथा "तमोवृत्तिपूर्विका" तमोवृत्तिकारणा । या "संसारकदर्थना" संसारक्लेशः । ताम् "अनुभवन्तः" । "सततमेव" न तु अभिमतप्राप्त्या कदाचिदेव । "मुदितमनसः तिष्ठन्ति" । अतः अस्त्येवैषां विवेक इति भावः ॥ ंोट्_२,१२.१८ ॥ गद्यांशयुक्तेन पद्येनात्र हेतुं कथयति इह हि विकौतुका विगतविकल्पविप्लवा यथा स्थिता हरिहरपद्मजादयः । नरोत्तमाः समधिगतात्मदीपकास् तथा स्थिता जगति विबुद्धबुद्धयः ॥ ंो_२,१२.१९ ॥ पद्यान्तम् । टीका । "हि" यस्मात् ।" इह जगति" । "नरोत्तमाः" नरेभ्यः समस्तमनुष्येभ्यः तेषां मध्ये वा "उत्तमाः" श्रेष्ठाः । तथा "समधिगतः" विवेकविभवेन सम्यगनुभूतः । "आत्मा" एव परमात्मा एव । "दीपः" यैः ते । तादृशाः "विबुद्धबुद्धयः" विवेकयुक्तबुद्धयः पूर्वोक्ताः मुन्यादयः । "तथा" तिष्ठन्ति । तथा कथमित्यपेक्षायामाह । "विकौतुका" इति । "विकौतुकाः" विषयाकाङ्क्षारहिताः । "आदि"शब्देनेन्द्रादीनां ग्रहणम् ॥ ंोट्_२,१२.१९ ॥ फलितं कथयति तथा च परिक्षीणे मोहे गलति च घनेऽज्ञानजलदे परिज्ञाते तत्त्वे समधिगत आत्मन्यभिमते । विचार्यार्यैः सार्धं गलितवपुषोर्वै सदसतोर् धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ ंो_२,१२.२० ॥ पद्यान्तम् । टीका । "तथा च" सति । "वै" निश्चये । "आर्यैः" सद्भिः "सार्धम्" । "विचार्य" संसारमात्मतत्त्वं च विचार्य । "मोहे" अज्ञानकार्ये सावधानत्वे "परि"गलिते सति । ततः "घने" निबिडे । "अज्ञानजलदे" अज्ञानमेव च । "गलति" सति । ततः "सदसतोः" सदसद्बुद्धिविषयीभूतयोः अर्थयोः । सदसद्बुद्धिपरिगलनेन "गलितवपुषोः" सतोः । ततः "अभिमते" परमोपादेये । "आत्मनि तत्त्वे" जीवाख्ये तत्त्वे । "परिज्ञाते" देहादिव्यतिरिक्ततया सम्यक्निश्चिते सति । न केवलं परिज्ञाते किं तु "समधिगते" देहादित्यागेन स्वात्मतया सम्यगनुभूते सति । ततः "तत्त्वे" जीवादिसाक्षितया स्थिते शुद्धचिन्मात्रतत्त्वे । "धिया" गलनोन्मुखया बुद्ध्या । "दृष्टे" जीवसत्ताप्रदत्वेन दृष्टे सति । "इदम्" क्रियमाणम् । "जागतं" जगत्संबन्धि । "अटनम्" शरीरयात्रानिमित्तं व्यवहरणम् । "रमणम्" क्रीडा भवति । पदार्थनिष्टभावाभावकृतहर्षशोकस्पर्शकारित्वाभावादिति भावः ॥ ंोट्_२,१२.२० ॥ अन्यच्च कथयामीत्याह अन्यच्च राघव प्रसन्ने चित्तत्त्वे हृदि सविभवे वल्गति परे समाभोगीभूतास्वखिलकलनादृष्टिषु पुरः । शमं यान्तीष्वन्तःकरणघटनास्वाहितरसं धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ ंो_२,१२.२१ ॥ पद्यान्तम् । टीका । हे "राघवा"हम् "अन्यच्च" ब्रवीमि । किं ब्रवीषीत्य् । अत्राह । "प्रसन्ने" इति । "परे" उत्तीर्णे । "चित्तत्त्वे" शुद्धचिन्मात्राख्ये तत्त्वे । "प्रसन्ने" स्वप्रकाशनपरतया प्रसादोन्मुखे सति । अत एव तस्मिन् परे चित्तत्त्वे "सविभवे" शक्तिसहिते । "हृदि" सत्त्वभावेन स्थिते । "हृदि वल्गति" स्फुरति सति । विमर्शविषयतामायाते सतीति यावत् । ततः "अखिलकलनादृष्टिषु" समस्तजीवादिकलनारूपासु दृष्टिषु । "समाभोगीभूतासु" सतीषु । व्यापकचिन्मात्रस्वरूपतासादनेन विस्ताररहितास्वपि विस्तारयुक्तासु संपन्नासु सतीषु । ततः "अन्तःकरणघटनासु" अन्तःकरणरचनासु । "आहितरसं" स्वेच्छया । "शमं" चिन्मात्रस्वरूपे लयम् । "पुरः" अग्रे "यान्तीषु" । ततश्च "धिया" गलनोन्मुखया बुद्ध्या । "तत्त्वे" शुद्धचिन्मात्राख्ये तत्त्वे । "दृष्टे" आत्मतयानुभूते सति । "इदं जागतमटनं रमणं" भवति ॥ ंोट्_२,१२.२१ ॥ पुनरपि पूर्वाभिप्रायेणैवाह अन्यच्च रथः स्फारो देहस्तुरगरचना चेन्द्रियगतिः परिस्पन्दो वातादहमकलितानन्तविषमः । । परो वार्वा देही जगति विहरामीत्यनघया धिया दृष्टे तत्त्वे रमणमटनं जागतमिदम् ॥ ंो_२,१२.२२ ॥ सर्गान्तश्लोकं तावत् । टीका । "देहः" स्थूलदेहः । "स्फारः" सर्वत्र स्फुरणशीलः । "रथः" भवति । "इन्द्रियगतिः" इन्द्रियरचना "तुरगरचना" भवति । हेयोपादेयरूपादिप्राप्तिपरिहारार्थं दर्शनादिद्वारेण देहरथचालकत्वात् । "परिस्पन्दः" "तुरगरचना"भूतानामिन्द्रियगतीनां चेष्टा देहं प्रति प्रेरणसामर्थ्यं "वातात्" भवति । वातेन हि इन्द्रियाणि दर्शनादिक्रियाभाञ्जि सन्ति देहं चालयन्ति । "वा" पक्षान्तरे । "देही" देहाभिमानी जीवः । "अर्वा" तुरगः भवति । पर्यन्ततः तस्यैव देहचालकत्वात् । पुरः देहादिभ्यः उत्तीर्णशुद्धचिन्मात्ररूपः "अहं जगति विहरामि" विहारं करोमि । "अहं" कथंभूतः । "अकलितानि" स्वात्मत्वनिश्चयेन दुःखदत्वेनानिश्चितानि । "अनन्तानि विषमानि" सुखदुःखरूपाः संकटाः येन । तादृशः । राजा हि रथादिभ्यः परः सनकलितानन्तनिम्नोन्नतश्च भवति । "इति" अनेन निश्चयेन । "अनघया" स्वस्मिन् बद्धत्वज्ञानादिदोषरहितया । "धिया" गलनोन्मुखया बुद्ध्या । "तत्त्वे" प्रोक्तस्वरूपे तत्त्वे । "दृष्टे" सति । "इदं जागतमटनं रमणं" भवति । इति शिवम् ॥ ंोट्_२,१२.२२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे द्वादशः सर्गः ॥ २,१२ ॥ ************************************************************************ ओं पूर्वोक्तां दृष्टिमनूद्य तदवष्टंभेन सुबुद्धीनां विचरणं कथयति एतां दृष्टिमवष्टभ्य पुष्टात्मानः सुबुद्धयः । विचरन्त्यसमुन्नद्धा महान्तोऽभ्युदिता इव ॥ ंो_२,१३.१ ॥ "एतां" पूर्वसर्गोक्ताम् । "अवष्टभ्य" सततं विमर्षविषयं कृत्वा । "पुष्टात्मानः" । "पुष्टः" अत्यन्ताभिव्यक्तियोग्यतां गतः । "आत्मा" शुद्धचिन्मात्राख्य आत्मा येषां ते । तादृशाः "असमुन्नद्धाः" दर्परहिताः । "अभ्युदिताः इव" प्राप्तराज्या इव ॥ ंोट्_२,१३.१ ॥ न शोचन्ति न याचन्ते न वाञ्छन्ति शुभाशुभम् । सर्वमेव च कुर्वन्ति कुर्वन्ति न च किंचन ॥ ंो_२,१३.२ ॥ "सर्वमेव" प्रवाहागतं सर्वमेव । "कुर्वन्ति" कर्तव्यमिति निश्चयेन "कुर्वन्ति" । "किंचन न कुर्वन्ति" स्वस्मिन् कर्तृत्वाभिमानाभावात् ॥ ंोट्_२,१३.२ ॥ स्वस्थमेवावतिष्ठन्ति स्वस्थं कुर्वन्ति यान्ति च । हेयोपादेयतापक्षरहिताः स्वात्मनि स्थिताः ॥ ंो_२,१३.३ ॥ "स्वस्थम्" इत्युभयत्र क्रियाविशेषणं निश्चितमित्यर्थः । "हेयोपादेयतापक्षरहिताः" उपेक्षापक्षे स्थिता इत्यर्थः ॥ ंोट्_२,१३.३ ॥ आयान्ति च न चायान्ति वनं यान्ति न यान्ति च । न कुर्वन्त्यपि कुर्वन्ति न वदन्ति वदन्ति च ॥ ंो_२,१३.४ ॥ अत्र सर्वत्रापि क्रियाकरणं जीवन्मुक्ततयाश्रितदेहादिद्वारेण ज्ञेयम् । अकरणं त्वशुद्धचिन्मात्रत्वद्वारेणेत्यलम् ॥ ंोट्_२,१३.४ ॥ ये केचन समारम्भा याश्च काश्चन दृष्टयः । हेयादेयदृशो यास्ताः क्षीयन्तेऽधिगते पदे ॥ ंो_२,१३.५ ॥ "क्षीयन्ते" लीयन्ते । परपदरूपतयैव स्फुरन्ति इति यावत् ॥ ंोट्_२,१३.५ ॥ परित्यक्तसमस्तेहं मनो मधुरवृत्तिमत् । सर्वतः सुखमभ्येति चन्द्रबिम्ब इव स्थितम् ॥ ंो_२,१३.६ ॥ "मधुरवृत्तिमत्" मैत्रीयुक्तम् ॥ ंोट्_२,१३.६ ॥ अपि निर्मननारम्भमप्यस्ताखिलकौतुकम् । आत्मन्येव न मात्यन्तरिन्दाविव रसायनम् ॥ ंो_२,१३.७ ॥ "आत्मन्येव न माति" न प्रभवति । अत्यन्तानन्दमयत्वादिति भावः । "मननारम्भ"रहितस्य "कौतुकरहितस्य" च आनन्देन स्व्"आत्मनि" अमानं न युक्तमिति लोकप्रसिद्धिर्"अपि"शब्दाभिप्रायः । रसायनममृतम् ॥ ंोट्_२,१३.७ ॥ न करोतीन्द्रजालानि नानुधावति वासनाम् । बालचापलमुत्सृज्य पूर्णमेव विराजते ॥ ंो_२,१३.८ ॥ "इन्द्रजालानि" मन्त्रादिप्रभावेन सिद्धानि आकाशगमनादीनि । "वासनां नानुधावति" अपि तु ततो निवृत्तिमेव करोति । बालवत्चापलम् "बालचापलमुत्सृज्य" । "पूर्णम्" तृप्तिसहितं यथा भवति । तथा "विराजते" ॥ ंोट्_२,१३.८ ॥ आत्मतत्त्वावलोकनस्यैव पूर्वोक्तासु वृत्तिषु कारणत्वं गद्येन कथयति एवंविधा हि वृत्तय आत्मतत्त्वावलोकनाल्लभ्यन्ते । नान्यतस्। तस्माद्विचारेणात्मैवान्वेष्टव्य उपासनीयो ज्ञातव्यो यावज्जीवं पुरुषेन नेतरदिति ॥ ंोट्_२,१३.९ ॥ "इती"त्यन्तम् । टीका । "हि" यस्मात् । "एवंविधाः" पूर्वोक्ताः । वृत्तयः व्यापाराः । "आत्मतत्त्वस्य" परमात्मस्वरूपस्य । यद्"अवलोकनं" । तस्मादेव । "पुरुषेण लभ्यन्ते" । "नान्यतः" । "तस्माद्पुरुषेण यावज्जीवं विचारेणात्मैवान्वेष्टव्यः" । किंरूपोऽसाविति विमर्शनीयः । ततः "उपासनीयः" । उपासनं चात्र अविच्छिन्नप्रवाहेणानुसन्धानविषयीकरणमेव ज्ञेयम् । ततः "ज्ञातव्यः" । स्थूलदेहादिव्यतिरेकेन स्थूलदेहवत्निःसंशयमात्मतत्त्वेन ज्ञातव्यः । "इतरत्" स्थूलदेहादि । "न" ज्ञातव्यम् । "इति"शब्दः गद्यसमाप्तौ ॥ ंोट्_२,१३.९ ॥ नन्वात्मावलोकनं कर्तव्यत्वेन त्वया प्रतिपादितम् । तदवलोकनं कथं सेत्स्यतीत्य् । अत्र पद्येनाह स्वानुभूतेः सुशास्त्रस्य गुरोश्चैवैकवाक्यता । यत्राभ्यासेन तेनात्मा सन्ततेनावलोक्यते ॥ ंो_२,१३.१० ॥ "स्वा" निजा । या "अनुभूतिः" । तस्याः । "सुशास्त्रस्य" शोभनशास्त्रस्य । "गुरोः" सद्गुरोश् । "च" इति त्रयस्य । "यत्र" यस्मिनभ्यासे । "एकवाक्यता" अर्थात्मेलनं स्यात् । "सन्ततेना"विच्छिन्नेन । "तेनाभ्यासेन" करणेन । पुरुषेण कर्त्रा । "आत्मावलोक्यते" ॥ ंोट्_२,१३.१० ॥ अवहेलितशास्त्रार्थैरवज्ञातमहाजनैः । कष्टामप्यापदं प्राप्तो न मूढैः समतामियात् ॥ ंो_२,१३.११ ॥ स्वस्थस्तु कथम् "इयाद्" इत्य्"अपि"शब्दाभिप्रायः ॥ ंोट्_२,१३.११ ॥ एतत्प्रसङ्गेन मौर्ख्यं निन्दति न व्याधिर्न विषं नापत्तथा नामास्ति भूतले । खेदाय स्वशरीरस्थं मौर्ख्यमेव यथा नृणाम् ॥ ंो_२,१३.१२ ॥ स्पष्टम् ॥ ंोट्_२,१३.१२ ॥ किंचित्संस्कृतबुद्धीनां श्रव्यं शास्त्रमिदं यथा । मौर्ख्यापहं तथा शास्त्रमन्यदस्ति न किंचन ॥ ंो_२,१३.१३ ॥ "किंचित्संस्कृतबुद्धीनाम्" पदपदार्थज्ञानामित्यर्थः । "श्रव्यम्" श्रवणार्हम् । "इदं" मोक्षोपायाख्यम् । "मौर्ख्यापहं" मौर्ख्यमुपहन्तीति "मौर्ख्यापहम्" ॥ ंोट्_२,१३.१३ ॥ इदं श्रव्यं सुखकरं कथादृष्टान्तसुन्दरम् । अविरुद्धमशेषेण शास्त्रवाक्यार्थबन्धुना ॥ ंो_२,१३.१४ ॥ कथाभिः वक्ष्यमाणाः दृष्टान्ताः "कथादृष्टान्ताः" । तैः "सुन्दरम्" । "शास्त्रवाक्यानां" यः "अर्थः" । स एव "बन्धुः" । तेन "अविरुद्धम्" । शास्त्रार्थानुसारीत्यर्थः ॥ ंोट्_२,१३.१४ ॥ आपदो या दुरुत्तारा याश्च तुच्छाः कुयोनयः । तास्ता मौर्ख्यात्प्रसूयन्ते खदिरात्कण्ठका इव ॥ ंो_२,१३.१५ ॥ स्पष्टम् ॥ ंोट्_२,१३.१५ ॥ वरं शरावहस्तस्य चण्डालागारवीथिषु । भिक्षार्थमटनं राम न मौर्ख्यहतजीवितम् ॥ ंो_२,१३.१६ ॥ "अटनं" भ्रमणम् ॥ ंोट्_२,१३.१६ ॥ इममालोकमासाद्य मोक्षोपायमयं जनः । अन्धतामेति न पुनः कश्चिन्मोहतमस्यपि ॥ ंो_२,१३.१७ ॥ "आलोकम्" परतत्त्वप्रकाशकत्वातालोकस्वरूपम् ॥ ंोट्_२,१३.१७ ॥ तावन्नयति संकोचं तृष्णा श्यामा नराम्बुजम् । यावद्विवेकसूर्यस्य नोदिता विमला प्रभा ॥ ंो_२,१३.१८ ॥ स्पष्टम् ॥ ंोट्_२,१३.१८ ॥ संसारदुःखमोक्षार्थं मादृशैः सह बन्धुभिः । स्वरूपमात्मनो ज्ञात्वा गुरुशास्त्रप्रमाणतः ॥ ंो_२,१३.१९ ॥ "मादृशैः" साधुभिरित्यर्थः । गुरुशास्त्राख्यं यत्"प्रमाणं" प्रमाकरणम् । तस्मात्"गुरुशास्त्रप्रमाणतः" । "ज्ञात्वे"त्यस्यानन्तरं स्थेयमिति शेषः ॥ ंोट्_२,१३.१९ ॥ जीवन्मुक्ताश्चरन्तीह यथा हरिहरादयः । यथा ब्रह्मर्षयश्चान्ये तथा विहर राघव ॥ ंो_२,१३.२० ॥ "विहर" हर्षामर्षरहितत्वेन क्रीडां कुरु ॥ ंोट्_२,१३.२० ॥ अनन्तानीह दुःखानि सुखं क्षणलवोपमम् । नातः सुखेषु बध्नीयाद्दृष्टिं दुःखानुबन्धिषु ॥ ंो_२,१३.२१ ॥ "दुःखानुबन्धिषु" दुःखानुविद्धेषु ॥ ंोट्_२,१३.२१ ॥ पुनः किं कार्यमित्य् । अत्राह यदनन्तमनायासं तत्पदं सारसिद्धये । साधनीयं प्रयत्नेन पुरुषेण विजानता ॥ ंो_२,१३.२२ ॥ "अनन्तम्" त्रिविधपरिच्छेदरहितम् । "अनायासं" आयाससाध्यत्वाभावात् । "सारसिद्धये" परमपुरुषार्थसिद्धये । "साधनीयं" स्वोपलब्धिविषयतां नेयम् । "विजानता" किंचिन्मात्रज्ञानयुक्तेन मूर्खस्यात्रानधिकरत्वात् ॥ ंोट्_२,१३.२२ ॥ त एव पुरुषार्थस्य भाजनं पुरुषोत्तमाः । अनुत्तमपदालम्बि मनो येषां गतज्वरम् ॥ ंो_२,१३.२३ ॥ अविद्यमान उत्तमः यस्मात्तत्"अनुत्तमम्" निरतिशयमिति यावत् । तादृशं यत्"पदम्" । तत्"आलम्बते" इति तादृशम् ॥ ंोट्_२,१३.२३ ॥ संभोगाशनमात्रेषु राज्यादिषु सुखेषु ये । संतुष्टा दुष्टमनसो विद्धि तानन्धदुन्दुभान् ॥ ंो_२,१३.२४ ॥ "अन्धदुन्दुभान्" अन्धराजिलान् । असम्यग्दर्शित्वादित्यर्थः ॥ ंोट्_२,१३.२४ ॥ ये शठेषु दुरन्तेषु दुष्कृतारम्भशालिषु । द्विषत्सु मित्ररूपेषु भक्ता वै भोगभोगिषु ॥ ंो_२,१३.२५ ॥ ते यान्ति दुर्गमाद्दुर्गं दुःखाद्दुःखं भयाद्भयम् । नरकान्नरकं मूढा मोहमन्थरबुद्धयः ॥ ंो_२,१३.२६ ॥ "मित्ररूपेषु द्विषत्सु" आ मुखे सुखकारित्वात्"मोहमन्थरा" मोहनिर्भरा । "बुद्धिः" येषां ते । तादृशाः ॥ ंोट्_२,१३.२५२६ ॥ परस्परविनाशोत्के श्रेयस्यौ न कदाचन । सुखदुःखदशे राम तडित्प्रसरभङ्गुरे ॥ ंो_२,१३.२७ ॥ स्पष्टम् ॥ ंोट्_२,१३.२७ ॥ ये विरक्ता महात्मानः सुविविक्ता भवादृशः । पुरुषान् विद्धि तान् वन्द्यान् भोगमोक्षैकभागिनः ॥ ंो_२,१३.२८ ॥ "भोगभाक्त्वं" चैषां प्रवाहगतमेव ज्ञेयम् । न यत्नसाधितम् ॥ ंोट्_२,१३.२८ ॥ विवेकं परमाश्रित्य वैराग्याभ्यासयोगतः । संसारसरितं घोरामिमामापदमुत्तरेत् ॥ ंो_२,१३.२९ ॥ "अभ्यासः" सच्छास्त्राभ्यासः । "आपदम्" आपद्रूपाम् ॥ ंोट्_२,१३.२९ ॥ न सुप्तव्यं तु संसारमायास्विह हि जानता । विषमूर्च्छनसंमोहदायिनीषु विवेकिना ॥ ंो_२,१३.३० ॥ "न सुप्तव्यम्" अवहेला न कर्तव्या ॥ ंोट्_२,१३.३० ॥ संसारमिममासाद्य यस्तिष्ठत्यवहेलया । ज्वलितस्य गृहस्योच्चैः शेते तार्णस्य सोऽन्तरे ॥ ंो_२,१३.३१ ॥ "तार्णस्य" तृणनिर्मितस्य ॥ ंोट्_२,१३.३१ ॥ यत्प्राप्य न निवर्तन्ते यदासाद्य न शोच्यते । तत्पदं शेमुषीलभ्यमस्त्येवात्र न संशयः ॥ ंो_२,१३.३२ ॥ "शेमुषीलभ्यमेव" बुद्धिलभ्यमेव । न तु बाह्ययत्नलभ्यम् ॥ ंोट्_२,१३.३२ ॥ ननु यदि तत्पदं नास्ति तत्किं शेमुष्या लभ्यते इत्य् । अत्राह नास्ति चेत्तद्विचारेण दोषः को भवतां भवेत् । अस्ति चेत्तत्समुत्तीर्णा भविष्यथ भवार्णवात् ॥ ंो_२,१३.३३ ॥ स्पष्टम् ॥ ंोट्_२,१३.३३ ॥ प्रवृत्तिः पुरुषस्येह मोक्षोपायविचारणे । यदा भवत्याशु तदा मोक्षभागी स उच्यते ॥ ंो_२,१३.३४ ॥ स्पष्टम् ॥ ंोट्_२,१३.३४ ॥ अनपायि निराशङ्कं स्वास्थ्यं विगतविभ्रमम् । न विना केवलीभावं विद्यते भुवनत्रये ॥ ंो_२,१३.३५ ॥ "स्वास्थ्यम्" स्वस्थता । "केवलीभावं विना" अद्वितीयतां विना ॥ ंोट्_२,१३.३५ ॥ तत्प्राप्तावुत्तमप्राप्तौ न क्लेश उपयुज्यते । न मित्राण्युपकुर्वन्ति न धनानि न बान्धवाः ॥ ंो_२,१३.३६ ॥ "तत्प्राप्तौ" केवलीभावप्राप्तौ । "क्लेशः" शारीरिकः क्लेशः ॥ ंोट्_२,१३.३६ ॥ न हस्तपादचलनं न देशान्तरसंगमः । क्लेशातिशयसाध्यो वा न तीर्थायतनाश्रयः ॥ ंो_२,१३.३७ ॥ अस्मिन्नर्थे "हस्तपादा"दि"चलनं न" भवति । "देशान्तरसंगमः" च "न" भवति । अयमर्थः "क्लेशातिशयसाध्यः न" भवति । "तीर्थायतनाश्रयः" च "न" भवति ॥ ंोट्_२,१३.३७ ॥ पुरुषार्थैकसाध्येन वासनैकार्थकर्मणा । केवलं तन्मनोमात्रजयेनासाद्यते पदम् ॥ ंो_२,१३.३८ ॥ पुरुषेण "तत्" केवलीभावाख्यं "पदम्" । "एवलं मनोमात्रजयेन आसाद्यते" प्राप्यते । "मनोमात्रजयेन" कथंभूतेन । "पुरुषार्थेन" पौरुषेण । "एकम्" केवलं "साध्येन" । पुनः कथंभूतेन "वासनैकार्थकर्मणा" । "वासना" भावना । सा एव "एकार्थः" । तस्य "कर्मणा" । भावनामात्रसाध्येनेत्यर्थः ॥ ंोट्_२,१३.३८ ॥ विवेकमात्रसाध्यं तद्विचारैकान्तनिश्चयम् । त्यजता दुःखजालानि नरेण तदवाप्यते ॥ ंो_२,१३.३९ ॥ "तद्विचारेण" तद्विषयेण विवेकेन । "एकं" केवलम् । "निश्चयः" यस्य । तम् । विचारनिश्चेयमित्यर्थः । "तत्" केवलीभावाख्यं पदम् ॥ ंोट्_२,१३.३९ ॥ सुखसेव्यासनस्थेन तद्विचारवता स्वयम् । न शोच्यते पदं प्राप्य न च भूयोऽभिजायते ॥ ंो_२,१३.४० ॥ "तद्विचारवता" केवलीभावविचारयुक्तेन । तत्"पदं" केवलीभावाख्यं पदम् ॥ ंोट्_२,१३.४० ॥ तत्समस्तसुखासारसीमान्तं साधवो विदुः । तदनुत्तमनिष्ष्यन्दं परमाहू रसायनम् ॥ ंो_२,१३.४१ ॥ स्पष्टम् ॥ ंोट्_२,१३.४१ ॥ क्षयित्वात्सर्वभावानां स्वर्गमानुष्ययोर्द्वयोः । सुखं नास्त्येव सलिलं मृगतृष्णास्विवैतयोः ॥ ंो_२,१३.४२ ॥ "स्वर्गमानुष्ययोः" स्वर्लोकमनुष्यलोकयोः ॥ ंोट्_२,१३.४२ ॥ अतो मनोजयश्चिन्त्यः शमसंतोषसाधनः । अनन्तशमसंभोगस्तस्मादानन्द आप्यते ॥ ंो_२,१३.४३ ॥ "अतः" कारणात् । पुरुषेण "मनोजयः चिन्त्यः" । कथंभूतः । "शमसंतोषौ साधनं" यस्य । तादृशः पुरुषः । "तस्मात्" मनोजयात् । "अनन्तशमस्य संभोगः" चमत्कारः । शमास्वादरूपः इति यावत् । "आनन्दः आप्यते" प्राप्यते ॥ ंोट्_२,१३.४३ ॥ जीवता गच्छता चैव भ्रमता पतता तथा । रक्षसा दानवेनापि देवेन पुरुषेण वा ॥ ंो_२,१३.४४ ॥ मनःप्रशमनोद्भूतं तत्प्राप्य परमं सुखम् । विकासिशमपुष्पस्य विवेकोच्चतरोः फलम् ॥ ंो_२,१३.४५ ॥ व्यवहारपरेणापि कार्यवृन्दमचिन्वता । भानुनेवाम्बरस्थेन नोज्झ्यते न च वाञ्छ्यते ॥ ंो_२,१३.४६ ॥ "जीवता गच्छता भ्रमता" । अथ "पतता" । उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वतेति यावत् । "रक्षसा दानवेनापि देवेन पुरुषेण वा मनःप्रशमनोद्भूतं" तथा "विकासिशमपुष्पस्य" "विवेकोच्चतरोः" फलम् । तत्परमं सुखं निर्वाणाख्यं सुखम् । "प्राप्याम्बरस्थेन भानुना इव नोज्झ्यते न च वाञ्छ्यते" सूर्यवतुपेक्षामेव सर्वत्र क्रियते इत्यर्थः । रक्षःप्रभृतिना कथंभूतेन । "व्यवहारपरेणापि कार्यवृन्दम्" कार्यसमूहम् । "अचिन्वता" नाहंकर्तेति निश्चयात्स्वकृतत्वेनाननुभवता ॥ ंोट्_२,१३.४४४६ ॥ मनः प्रशान्तमत्यच्छं विश्रान्तं गतविभ्रमम् । अनीहं विगताभीष्टं नाभिवाञ्छति नोज्झति ॥ ंो_२,१३.४७ ॥ "अनीहम्" विकल्पाख्यचेष्टारहितम् । "विगताभीष्टम्" अभीष्टमिदमिति निश्चयरहितम् । प्रवाहागतमुपेक्षया एव करोतीति भावः ॥ ंोट्_२,१३.४७ ॥ पूर्वतरं प्रकृतानां शमादिद्वारपालानां निर्णयं प्रस्तौति मोक्षद्वारे द्वारपालानिमाञ्शृणु यथाक्रमम् । येषामेकतमासक्त्या मोक्षद्वारे प्रविश्यते ॥ ंो_२,१३.४८ ॥ "एकतमासक्त्या" एकतमासेवनेन ॥ ंोट्_२,१३.४८ ॥ तत्रापि प्रथमोद्दिष्टं शमं निरूपयति दुःखदोषदशा दीर्घा संसारमरुमण्डली । जन्तोः शीतलतामेति शीतलेन शमाम्बुना ॥ ंो_२,१३.४९ ॥ दुःखदोषरूपा दशा यस्यां सा "दुःखदोषदशा" ॥ ंोट्_२,१३.४९ ॥ शमेनासाद्यते श्रेयः शमो हि परमं पदम् । शमः शिवं शमः शान्तिः शमो भ्रान्तिनिवारणम् ॥ ंो_२,१३.५० ॥ "परमं पदम्" चिन्मात्राख्यमुत्कृष्टं स्थानम् ॥ ंोट्_२,१३.५० ॥ पुंसः प्रशमतृप्तस्य शीतलाच्छतरात्मनः । शमतोषितचित्तस्य शत्रुरप्येति मित्रताम् ॥ ंो_२,१३.५१ ॥ द्वेषेणैव हि शत्रुः शत्रुः भवति । स च तस्य नास्तीति तस्य "शत्रुः मित्रतामेती"ति भावः ॥ ंोट्_२,१३.५१ ॥ शमचन्द्रमसा येषामाशयः समलंकृतः । क्षीराब्धीनामिवोदेति तेषां परमशुद्धता ॥ ंो_२,१३.५२ ॥ "परमशुद्धता" वासनाख्यमलराहित्यम् ॥ ंोट्_२,१३.५२ ॥ हृत्कुशेशयकोशेषु येषां शमकुशेशयम् । सतां विकसितं ते हि द्विहृत्पद्माः समा हरेः ॥ ंो_२,१३.५३ ॥ "हरेर्द्विहृत्पद्मत्वं" नाभिस्थस्य पद्मस्य स्थितत्वाज्ज्ञेयम् ॥ ंोट्_२,१३.५३ ॥ शमश्रीः शोभते येषां मुखेन्दावकलङ्किते । तेऽमी कुलेन्दवो वन्द्याः सौन्दर्यविजितेन्दवः ॥ ंो_२,१३.५४ ॥ "अकलङ्कितत्वम्" एवात्र इन्दुजये हेतुः ॥ ंोट्_२,१३.५४ ॥ त्रैलोक्योदरवर्तिन्यो नानन्दाय तथा श्रियः । साम्राज्यसंपत्प्रतिमा यथा शमविभूतयः ॥ ंो_२,१३.५५ ॥ स्पष्टम् ॥ ंोट्_२,१३.५५ ॥ यानि दुःखानि यास्तृष्णा दुःसहा ये दुराधयः । तत्सर्वं शान्तचेतस्सु तमोऽर्केष्विव नश्यति ॥ ंो_२,१३.५६ ॥ स्पष्टम् ॥ ंोट्_२,१३.५६ ॥ मनो हि सर्वभूतानां प्रसादमनुगच्छति । न तथेन्दौ यथा शान्ते जने जनितकौतुकम् ॥ ंो_२,१३.५७ ॥ "प्रसादम्" प्रसन्नताम् ॥ ंोट्_२,१३.५७ ॥ शमशालिनि सौहार्दवति सर्वेषु जन्तुषु । सुजने परमं तत्त्वं स्वयमेव प्रसीदति ॥ ंो_२,१३.५८ ॥ "परमं तत्त्वम्" परमात्मतत्त्वम् । "स्वयमेवा"यत्नमेव । "प्रसीदति" स्वरूपदर्शनाख्यं प्रसादं करोतीत्यर्थः ॥ ंोट्_२,१३.५८ ॥ मातरीव परं यान्ति विषमाणि मृदूनि च । विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ंो_२,१३.५९ ॥ "विषमाणि" हिंसानि । "मृदूनि" कोमलानि ॥ ंोट्_२,१३.५९ ॥ न रसायनपानेन न लक्ष्म्यालिङ्गनेन च । तथा सुखमवाप्नोति शमेनान्तर्यथा जनः ॥ ंो_२,१३.६० ॥ "अन्तः" मनसि ॥ ंोट्_२,१३.६० ॥ सर्वाधिव्याधिवलितं क्रान्तं तृष्णावरत्रया । मनः शमामृतासेकैः समाश्वासय राघव ॥ ंो_२,१३.६१ ॥ "समाश्वासय" शीतलय ॥ ंोट्_२,१३.६१ ॥ यत्करोषि यदश्नासि शमशीतलया धिया । तत्तेऽतिस्वदते स्वादु नेतरत्तान्तमानसम् ॥ ंो_२,१३.६२ ॥ "स्वदते" रोचते । चमत्कारं करोतीति यावत् । "तान्तम्" म्लानियुक्तं कृतम् । "मानसं" येन तत् ॥ ंोट्_२,१३.६२ ॥ शमामृतरसास्नातं मनो यामेति निर्वृतिम् । छिन्नान्यपि तयाङ्गानि मन्ये रोहन्ति राघव ॥ ंो_२,१३.६३ ॥ "शमामृतरसास्नातं मनः यां निर्वृतिमेति" । हे "राघवा"हं "मन्ये" । "तया" निर्वृत्या । "छिन्नान्यपि अङ्गानि रोहन्ति" ॥ ंोट्_२,१३.६३ ॥ न पिशाचा न रक्षांसि न दैत्या न च शत्रवः । न च व्याघ्रभुजङ्गाद्या द्विषन्ति शमशालिनम् ॥ ंो_२,१३.६४ ॥ स्पष्टम् ॥ ंोट्_२,१३.६४ ॥ सुसंनद्धसमस्ताङ्गं प्रशमामृतवर्मणा । वेधयन्ति न दुःखानि शरा वज्रशिलामिव ॥ ंो_२,१३.६५ ॥ "वेधयन्ति" ताडयन्ति ॥ ंोट्_२,१३.६५ ॥ न तथा राजते राजा मान्यान्तःपुरसंस्थितः । समया स्वस्थया वृत्त्या यथोपशमशोभितः ॥ ंो_२,१३.६६ ॥ "वृत्त्या" व्यापारेण ॥ ंोट्_२,१३.६६ ॥ प्राणात्प्रियतरं दृष्ट्वा तुष्टिमेति न तां जनः । यामायाति जनं शान्तमवलोक्य समाशयम् ॥ ंो_२,१३.६७ ॥ "समाशयम्" समचेतसम् ॥ ंोट्_२,१३.६७ ॥ समया शमशालिन्या वृत्त्या यः साधु वर्तते । अभिनन्दितया लोके जीवतीह स नेतरः ॥ ंो_२,१३.६८ ॥ "वर्तते" तिष्ठति । "इतरः" अशान्तः ॥ ंोट्_२,१३.६८ ॥ अनुद्धतमनाः शान्तः साधु कर्म करोति यत् । तत्सर्वमभिनन्दन्ति तस्येमा भूतजातयः ॥ ंो_२,१३.६९ ॥ "अभिनन्दन्ति" स्तुवन्ति ॥ ंोट्_२,१३.६९ ॥ शान्तस्वरूपनिर्णयद्वारेण शमस्वरूपं निश्चिनोति श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् । न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ ंो_२,१३.७० ॥ उपेक्षा एव शान्तिरिति भावः ॥ ंोट्_२,१३.७० ॥ यः समः सर्वभावेषु नाभिवाञ्छति नोज्झति । जित्वेन्द्रियाणि यत्नेन स शान्त इति कथ्यते ॥ ंो_२,१३.७१ ॥ स्पष्टम् ॥ ंोट्_२,१३.७१ ॥ तुषारकरबिम्बाच्छं मनो यस्य निराकुलम् । मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ंो_२,१३.७२ ॥ स्पष्टम् ॥ ंोट्_२,१३.७२ ॥ स्थितोऽपि न स्थित इव न हृष्यति न कुप्यति । यः सुषुप्तमनाः स्वस्थः स शान्त इति कथ्यते ॥ ंो_२,१३.७३ ॥ "सुषुप्तमनाः" हर्षामर्षानुसन्धानरहितः ॥ ंोट्_२,१३.७३ ॥ अमृतस्यन्दसुभगा यस्य सर्वजनं प्रति । दृष्टिः प्रसरति प्रीता स शान्त इति कथ्यते ॥ ंो_२,१३.७४ ॥ स्पष्टम् ॥ ंोट्_२,१३.७४ ॥ स्पष्टावदातया बुद्ध्या यथैवान्तस्तथा बहिः । दृश्यन्ते यस्य कार्याणि स शान्त इति कथ्यते ॥ ंो_२,१३.७५ ॥ कपटराहित्यादिति भावः ॥ ंोट्_२,१३.७५ ॥ अप्यापत्सु दुरन्तासु कल्पान्तेषु दहत्स्वपि । तुच्छेहं न मनो यस्य स शान्त इति कथ्यते ॥ ंो_२,१३.७६ ॥ "तुच्छेहम्" तुच्छोपायपरम् ॥ ंोट्_२,१३.७६ ॥ योऽन्तः शीतलतां यातो यो भावेषु न मज्जति । व्यवहारी न संमूढः स शान्त इति कथ्यते ॥ ंो_२,१३.७७ ॥ "न मज्जति" रागोद्रेकेणासक्तो न भवति । "व्यवहारी" व्यवहारकारी । "न संमूढः" न व्यवहाररहितः । व्यवहाररहितस्य हि अमज्जनं व्यवहाराभावकृतमेव न शान्तिकृतम् ॥ ंोट्_२,१३.७७ ॥ आकाशसदृशी यस्य नित्यं स्वव्यवहारिणः । कलङ्कमेति न मतिः स शान्त इति कथ्यते ॥ ंो_२,१३.७८ ॥ "स्वः" निजः । "व्यवहारः" अस्यास्तीति तादृशस्य ॥ ंोट्_२,१३.७८ ॥ तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च । बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ंो_२,१३.७९ ॥ स्पष्टम् ॥ ंोट्_२,१३.७९ ॥ शमसंसक्तमनसां महतां गुणशालिनाम् । उदेति निर्वृतिश्चित्ताज्ज्योत्स्नेव हिमरोचिषः ॥ ंो_२,१३.८० ॥ स्पष्टम् ॥ ंोट्_२,१३.८० ॥ सीमान्तो गुणपूगानां पौरुषैकान्तभूषणम् । संकटेष्वभयस्थानं शमः श्रीमान् विराजते ॥ ंो_२,१३.८१ ॥ स्पष्टम् ॥ ंोट्_२,१३.८१ ॥ सर्गान्तश्लोकेन शमनिरूपणं समापयति शमममृतमहार्यमार्यजुष्टं परमवलम्ब्य पदं परं प्रयाताः । रघुतनय यथा महानुभावाः क्रममनुपालय सिद्धये तमेव ॥ ंो_२,१३.८२ ॥ हे "रघुतनय" । "महानुभावाः" पुरुषाः । "अमृतम्" अमृतरूपम् । "अहार्यम्" अनाश्यम् "आर्यजुष्टम्" ।" शमं" पूर्वोक्तस्वरूपं शमं "अवलम्ब्य" । "परं" पदं परचित्स्वरूपमुत्कृष्टं स्थानम् । यथा "प्रयाताः" । त्वम् "तम्" तथाविधम् । "क्रमं सिद्धये अनुपालय" । इति शिवम् ॥ ंोट्_२,१३.८२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे त्रयोदशः सर्गः ॥ २,१३ ॥ ************************************************************************ ओं विवेकनिर्णयं प्रस्तौति शास्त्रावबोधामलया धिया परमपूतया । । कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः ॥ ंो_२,१४.१ ॥" कारणज्ञेन" किम् । केन संपद्यते इति जानता पुरुषेण । "धिया आत्मनः विचारः अनिशं कर्तव्यः" ॥ ंोट्_२,१४.१ ॥ ननु विचारेण किं सेत्स्यति इत्य् । अत्राह विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् । दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥ ंो_२,१४.२ ॥ "परं पदम्" शुद्धचिन्मात्राख्यं महास्थानम् ॥ ंोट्_२,१४.२ ॥ आपद्वनमनन्तेहापरिपल्लविताकृति । विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥ ंो_२,१४.३ ॥ "अनन्ताः" याः "ईहाः" चेष्टाः । ताभिः "परिपल्लविता" पुष्टीभूता । "आकृतिः" यस्य तत् ॥ ंोट्_२,१४.३ ॥ मोहेषु बन्धुनाशेषु संकटेषु भ्रमेषु च । सर्वेष्वेव महाप्राज्ञ विचारो हि सतां गतिः ॥ ंो_२,१४.४ ॥ "गतिः" शरणम् ॥ ंोट्_२,१४.४ ॥ न विचारं विना कश्चिदुपायोऽस्ति विपच्छमे । विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम् ॥ ंो_२,१४.५ ॥ स्पष्टम् ॥ ंोट्_२,१४.५ ॥ बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् । फलन्त्येतानि सर्वाणि विचारेणैव धीमतः ॥ ंो_२,१४.६ ॥ "प्रतिपत्तिः" ज्ञानम् । अविवेकेन तु कृतानि "एतानि" अनर्थमेवोत्पादयन्तीति भावः ॥ ंोट्_२,१४.६ ॥ युक्तायुक्तमहादीपमभिवाञ्छितसाधकम् । स्फारं विचारमाश्रित्य संसारजलधिं तरेत् ॥ ंो_२,१४.७ ॥ "युक्तायुक्तमहादीपं" इदं युक्तमिदं त्वयुक्तमिति प्रकाशकमित्यर्थः । "स्फारं" विस्तीर्णम् ॥ ंोट्_२,१४.७ ॥ आलूनहृदयाम्भोजं महामोहमतङ्गजम् । विदारयति शुद्धात्मा विचारोदारकेसरी ॥ ंो_२,१४.८ ॥ "विदारयति" विनाशयति ॥ ंोट्_२,१४.८ ॥ मूढाः कालवशेनेह यद्गताः परमं पदम् । तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम् ॥ ंो_२,१४.९ ॥ "कालेन" हि "मूढा" अपि शुद्धचिन्मात्राख्यं "परमं पदं" प्राप्नुवन्ति । "विजृम्भितम्" विलसितम् । "अनुत्तमम्" निरतिशयम् ॥ ंोट्_२,१४.९ ॥ राज्यानि संपदः स्फारो भोगो मोक्षश्च शाश्वतः । विचारकल्पवृक्षस्य फलान्येतानि राघव ॥ ंो_२,१४.१० ॥ स्पष्टम् ॥ ंोट्_२,१४.१० ॥ या विवेकविलासिन्यो मतयो महतामिह । न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥ ंो_२,१४.११ ॥ विवेकविलासः आसामस्तीति "विवेकविलासिन्यः" ॥ ंोट्_२,१४.११ ॥ विचारोदयहारिण्या धिया व्यवहरन्ति ये । फलानामत्युदाराणां भाजनं हि भवन्ति ते ॥ ंो_२,१४.१२ ॥ "विचारोदयेन हारिण्या" मनोहरया ॥ ंोट्_२,१४.१२ ॥ मूर्खहृत्काननस्थानामाशाप्रसररोधिनाम् । अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः ॥ ंो_२,१४.१३ ॥ "आशा" मोक्षाशा । तस्याः यः "प्रसरः" । तं रुन्धन्तीति तादृशानां दिक्"प्रसररोधिनां" च । "करञ्जानां" कण्टकवृक्षाणाम् । "दुःखरीतयः" दुःखरचनाः ॥ ंोट्_२,१४.१३ ॥ कज्जलक्षोदमलिना मदिरामोदधारिणी । अविचारमयी निद्रा यातु ते राघव क्षयम् ॥ ंो_२,१४.१४ ॥ "कज्जलक्षोदेन" मन्त्रसंस्कृतेन । "कज्जलक्षोदेन मलिना" घना । कज्जलक्षोदवत्"मलिना" चात्यन्तकालुष्यात् । "मदिरा मोदं धारयती"ति तादृशी । मदिरामोदेनापि "निद्रा" घनीभवति । "अविचारमयी" अविचारस्वरूपा तामेव "क्षयं" नयेति भावः ॥ ंोट्_२,१४.१४ ॥ महापद्यपि दीर्घेषु सद्विचारपरो नरः । न निमज्जति मोहेषु तेजोराशिस्तमस्स्विव ॥ ंो_२,१४.१५ ॥ "मोहेषु" किं करोमीत्येवंरूपेषु ॥ ंोट्_२,१४.१५ ॥ मानसे सरसि स्वच्छे विचारकमलोत्करः । नूनं विकसितो यस्य हिमवानिव भाति सः ॥ ंो_२,१४.१६ ॥ "मानसे सरसि" हृदयाख्ये सरसि मानसाख्ये सरसीति च ॥ ंोट्_२,१४.१६ ॥ विचारविकला यस्य मतिर्मान्द्यमुपेयुषः । तस्योदेत्यशनिश्चन्द्रान्मुधा यक्षः शिशोरिव ॥ ंो_२,१४.१७ ॥ "विचारविकला" विचाररहिता । "मान्द्यं" जाड्यम् । "चन्द्रात्" चित्सूर्यप्रतिबिम्बरूपत्वेन चन्द्रतुल्यात्संसारात् । "अशनिः" भावाभावकृतहर्षामर्षरूपं वज्रमाश्चर्यं च चन्द्रादशनेरुत्पादः ॥ ंोट्_२,१४.१७ ॥ दुःखषण्डकवल्मीकं विपन्नवलतामधुः । राम दूरे परित्याज्यो निर्विवेको नराधमः ॥ ंो_२,१४.१८ ॥ "नराधमः" किम् । "दुःखः षण्डकानां वल्मीकम्" । वल्मीके हि कण्टकषण्डकानि भवन्ति । पुनः कः । "विपद्" एव "नवलता" । तस्याः "मधुः" वसन्तः ॥ ंोट्_२,१४.१८ ॥ ये केचन दुरारम्भा दुराचारा दुराधयः । अविचारेण ते भान्ति वेतालास्तमसा यथा ॥ ंो_२,१४.१९ ॥ "दुरारम्भाः" कुत्सिताः कार्यारम्भाः ॥ ंोट्_२,१४.१९ ॥ अविचारिणमेकान्तजरद्द्रुमसधर्मकम् । अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥ ंो_२,१४.२० ॥ "एकान्ते" जनरहिते देशे । स्थितः "जरद्द्रुमः" । तस्य "सधर्मकम्" सदृशम् । "साधुकार्येषु" चित्तनिरोधादिषु । फलदानेन परोपकाररूपेषु च शुभकार्येषु ॥ ंोट्_२,१४.२० ॥ विविक्तं हि मनो जन्तोराशावैवश्यवर्जितम् । परां निर्वृतिमभ्येति पूर्णश्चन्द्र इवात्मनि ॥ ंो_२,१४.२१ ॥ "विविक्तम्" विवेकयुक्तम् । "आशावैवश्यवर्जितम्" इति विशेषणद्वारेण हेतुः । आशावैवश्यस्यैव निर्वृतिरोधकत्वात् ॥ ंोट्_२,१४.२१ ॥ विवेकितोदिता देहं सर्वं शीतलयत्यलम् । अलंकरोति चात्यन्तं ज्योत्स्नेव भुवनं नवा ॥ ंो_२,१४.२२ ॥ "नवा" शरत्कालीना ॥ ंोट्_२,१४.२२ ॥ परमार्थपताकाया धियो धवलचामरम् । विचारो राजते जन्तो रजन्यामिव चन्द्रमाः ॥ ंो_२,१४.२३ ॥ "परमार्थस्य" शुद्धचिन्मात्रतत्त्वाख्यपरमार्थस्य । "पताकायाः" प्रदर्शकत्वसामान्येन चिह्णभूतपताकारूपायाः "धियः" । "धवलचामरम्" शोभादायकत्वेन धवलचामररूपम् ॥ ंोट्_२,१४.२३ ॥ विचारचारवो भावा भासयन्तो दिशो दश । भान्ति भास्करवद्भग्नभूयोभवभयामयाः ॥ ंो_२,१४.२४ ॥ "भावाः" मनुष्यादिरूपाः पदार्थाः । "भावाः" कथंभूताः । "भग्नाः भूयांसि भवभयानि" एव्"आमयाः" यैः ते । "भास्करो"ऽपि "दश दिशः" भासयति ॥ ंोट्_२,१४.२४ ॥ बालस्य स्वमनोमोहकल्पितः प्राणहारकः । रात्रौ तमसि वेतालो विचारेण विलीयते ॥ ंो_२,१४.२५ ॥ स्पष्टम् ॥ ंोट्_२,१४.२५ ॥ सर्व एव जगद्भावा अविचारेण चारवः । अविद्यमानसद्भावा विचारविशरारवः ॥ ंो_२,१४.२६ ॥ "सर्व एव जगद्भावाः" जगत्पदार्थाः । "अविचारेण" विचारराहित्येन । "चारवः" भवन्ति । कथंभूताः । "अविद्यमानसद्भावाः" । अत एव च "विचारविशरारवश्" च विचारासहत्वात् ॥ ंोट्_२,१४.२६ ॥ पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः । संसारचिरवेतालो विचारेण विलीयते ॥ ंो_२,१४.२७ ॥ स्पष्टम् ॥ ंोट्_२,१४.२७ ॥ समस्वच्छं निराबाधमनन्तमननाश्रयम् । विद्धीमं केवलीभावं विचारोऽग्रतरोः फलम् ॥ ंो_२,१४.२८ ॥ समं च तत्स्वच्छं "समस्वच्छं" । "निराबाधम्" केनापि प्रमाणेन बाधयितुमशक्यम् । "अनन्तस्या"परिच्छिन्नस्य स्वात्मतत्त्वस्य । यत्"मननम्" परामर्शः । तस्य्"आश्रयम्" लक्षणया साधकम् ॥ ंोट्_२,१४.२८ ॥ अचलस्थितिनोदारप्रकटाभोगतेजसा । तेन निष्कामतोदेति शीततेवोदितेन्दुना ॥ ंो_२,१४.२९ ॥ "उदारप्रकटाभोगं" उद्भटप्रकटविस्तारम् । "तेजः" यस्य । तादृशेन । "निष्कामता" कामनाराहित्यम् । "उदितश्" चासाव्"इन्दुः" । तेन ॥ ंोट्_२,१४.२९ ॥ ननु निष्कामतया किं सेत्स्यतीत्य् । अत्राह चिन्ताज्वरमहौषध्या साधुश्चित्तनिषण्णया । तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥ ंो_२,१४.३० ॥ "तया" निष्कामतया । "नाभिवाञ्छति नोज्झति" सर्वत्रोपेक्षामेव भजते इत्यर्थः ॥ ंोट्_२,१४.३० ॥ पुनः किं करोतीत्य् । अत्राह तत्सदालम्बनं चेतः स्फारमाभासमागतम् । नास्तमेति न चोदेति खमिवातिततान्तरम् ॥ ंो_२,१४.३१ ॥ सा निष्कामता "सदा आलम्बनम्" आश्रयो यस्य । तत्"तत्सदालम्बनम्" । तथा "स्फारं" स्फुरणशीलम् । "आभासमागतम्" विवेकयुक्तं जातमित्यर्थः ॥ ंोट्_२,१४.३१ ॥ न जहाति न चादत्ते नोत्ताम्यति न शाम्यति । केवलं साक्षिवत्पश्यञ्जगदात्मनि तिष्ठति ॥ ंो_२,१४.३२ ॥ "नोत्ताम्यति" न क्षुभ्यति ॥ ंोट्_२,१४.३२ ॥ न च शाम्यति नाप्यन्तर्नापि बाह्येऽवतिष्ठति । न च नैष्कर्म्यमादत्ते न च कर्माणि मज्जति ॥ ंो_२,१४.३३ ॥ सर्वत्रोपेक्षयैव वर्तते इति भावः ॥ ंोट्_२,१४.३३ ॥ उपेक्षते गतं वस्तु संप्राप्तमनुवर्तते । न क्षुब्धो नाति चाक्षुब्धो भाति पूर्ण इवार्णवः ॥ ंो_२,१४.३४ ॥ "अनुवर्तते" निरनुसन्धानं प्रवर्तते । "अति" अतिशयेन ॥ ंोट्_२,१४.३४ ॥ एवंरूपेण मनसा महात्मानो महाशयाः । जीवन्मुक्ता जगत्यस्मिन् विहरन्ति हि योगिनः ॥ ंो_२,१४.३५ ॥ स्पष्टम् ॥ ंोट्_२,१४.३५ ॥ उषित्वा सुचिरं कालं धीरास्ते यावदीप्सितम् । तनुमन्ते परित्यज्य यान्ति केवलतां तताम् ॥ ंो_२,१४.३६ ॥ "केवलताम्" विदेहमुक्तताम् । "यावदीप्सितम्" इत्यनेन सर्वमेव भगवत्कृतं तेषामीप्सितमेवास्तीति सूचितम् ॥ ंोट्_२,१४.३६ ॥ कोऽहं कस्य च संसार इत्यापद्यपि धीमता । चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना ॥ ंो_२,१४.३७ ॥ किमुत वक्तव्यं संपदीत्य्"अपि"शब्दाभिप्रायः । "सप्रतीकारम्" प्रतीकारसहितम् । न तु चिन्तनमात्रेणैव । प्रतीकारश्चात्र भोगत्याग एव ज्ञेयः ॥ ंोट्_२,१४.३७ ॥ कार्यसंकटसन्देहं राजा जानाति राघव । निष्फलं सफलं वापि विचारेणैव नान्यथा ॥ ंो_२,१४.३८ ॥ बहिरपि विचारस्यैव साम्राज्यमिति भावः ॥ ंोट्_२,१४.३८ ॥ वेदवेदान्तसिद्धान्तस्थितयः स्थितिकारणम् । निर्णीयन्ते विचारेण दीपेनेव भुवो निशि ॥ ंो_२,१४.३९ ॥ वेदवेदान्तरूपाः स्थितयः मर्यादाः "वेदवेदान्तस्थितयः" । "स्थितिकारणम्" संसारमर्यादाकारणभूताः ॥ ंोट्_२,१४.३९ ॥ अनष्टमन्धकारेषु बहुतेजस्स्वजिह्मितम् । पश्यत्यपि व्यवहितं विचारश्चारुलोचनम् ॥ ंो_२,१४.४० ॥ "अजिह्मितम्" तेजोऽभिमुखे हि चक्षुषि प्रतीघातेन जिह्मितत्वं परिवर्तितत्वं भवति । तच्चात्र नास्तीत्यर्थः ॥ ंोट्_२,१४.४० ॥ विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः । दिव्यचक्षुर्विवेकात्मा जयत्यखिलवस्तुषु ॥ ंो_२,१४.४१ ॥ "सर्वस्य शोच्यः" सर्वैः शोचनीय इत्यर्थः । "विवेकः आत्मा" प्रधानं यस्य सः "विवेकात्मा" विवेकान्वित इत्यर्थः । "जयति" सर्वोत्कर्षेण वर्तते इत्यर्थः ॥ ंोट्_२,१४.४१ ॥ परमात्ममयी पाल्या महानन्दैकसाधनी । क्षणमेकं परित्याज्या न विचारचमत्कृतिः ॥ ंो_२,१४.४२ ॥ "पाल्या" रक्षणीया ॥ ंोट्_२,१४.४२ ॥ विचारचारुः पुरुषो महतामपि रोचते । परिपक्वं चमत्कारि सहकारफलं यथा ॥ ंो_२,१४.४३ ॥ स्पष्टम् ॥ ंोट्_२,१४.४३ ॥ विचारकान्तमतयो नानेकेषु पुनः पुनः । लुठन्ति दुःखश्वभ्रेषु ज्ञातोर्ध्वगतयो नराः ॥ ंो_२,१४.४४ ॥ "ज्ञाताः" अधिगता । "ऊर्ध्वे" उत्तीर्णे चिन्मात्रे । "गतिः" यैते ॥ ंोट्_२,१४.४४ ॥ न विरौति तथा रोगी नानर्थशतजर्जरः । अविचारविनष्टात्मा यथाज्ञः परिरोदिति ॥ ंो_२,१४.४५ ॥ "नानर्थशतजर्जर" इत्यत्र "च"शब्दोऽध्याहार्यः । "अविचारेणा"विवेकेन "विनष्टः" विस्मृतः । "आत्मा" पारमार्थिकं स्वरूपं यस्य । तादृशः ॥ ंोट्_२,१४.४५ ॥ वरं कर्दमकीटत्वं श्वभ्रकण्टकता वरम् । वरमन्धगुहाहित्वं न नरस्याविचारिता ॥ ंो_२,१४.४६ ॥ स्पष्टम् ॥ ंोट्_२,१४.४६ ॥ सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् । सर्वदौःस्थित्यसीमान्तमविचारं परित्यजेत् ॥ ंो_२,१४.४७ ॥ "सर्वे" ये "अनर्थाः" । तेषां "निजः" स्वकीयः । "आवासः" सर्वानर्थश्रयमित्यर्थः ॥ ंोट्_२,१४.४७ ॥ नित्यं विचारयुक्तेन भवितव्यं महात्मना । भवान्धकूपे पततां विचारो ह्यवलम्बनम् ॥ ंो_२,१४.४८ ॥ "हि" यस्मादर्थे । "अवलम्बनम्" आधारः ॥ ंोट्_२,१४.४८ ॥ स्वयमेवात्मनात्मानमवष्टभ्य विचारतः । संसारमोहजलधेस्तारयेत्स्वमनोमृगम् ॥ ंो_२,१४.४९ ॥ "आत्मना" मनसा । "आत्मानं" परमात्मानम् । "अवष्टभ्य" भावनया गृहीत्वा ॥ ंोट्_२,१४.४९ ॥ विचारस्य स्वरूपं कथयति कोऽहं कथमयं दोषः संसाराख्य उपागतः । न्यायेनेति परामर्शो विचार इति कथ्यते ॥ ंो_२,१४.५० ॥ "न्यायेन" युक्त्या । "परामर्शः" सन्ततभावनम् ॥ ंोट्_२,१४.५० ॥ अन्धान्धमोहमुखरं चिरं दुःखाय केवलम् । कृतं शिलाया हृदयं दुर्मतेश्चाविचारिणः ॥ ंो_२,१४.५१ ॥ अतिषयेनान्धम् "अन्धान्धम्" । तादृशं च तत्"मोहमुखरं" च । जाड्येन विपर्यासयुक्तमित्यर्थः । "दुःखाय" स्वस्य परस्य चेति ज्ञेयम् ॥ ंोट्_२,१४.५१ ॥ भावाभावग्रहोत्सर्गदृशामिह हि राघव । न विचारादृते तत्त्वं ज्ञायते साधु किंचन ॥ ंो_२,१४.५२ ॥ "ग्रहः" ग्रहणम् । "उत्सर्गः" त्यागः ॥ ंोट्_२,१४.५२ ॥ विचाराज्ज्ञायते तत्त्वं तत्त्वाद्विश्रान्तिरात्मनि । ततो मनसि शान्तत्वं सर्वदुःखपरिक्षयः ॥ ंो_२,१४.५३ ॥ "तत्त्वम्" चिन्मात्राख्यं परमं तत्त्वम् । "आत्मनि" शुद्धचिन्मात्ररूपे आत्मनि । "शान्तत्वस्य" स्वरूपं कथयति । "सर्वे"ति । "सर्वदुःखक्षयस्यै"व शान्तिरूपत्वात् ॥ ंोट्_२,१४.५३ ॥ सर्गान्तश्लोकेन विचारनिरूपणं समापयति सफलता फलते भुवि कर्मणां प्रकटतां किल गच्छत उत्तमात् । स्फुटविचारदृशैव विचारिता शमवते भवतेऽपि विरोचताम् ॥ ंो_२,१४.५४ ॥ "किल" निश्चये । "भुवि कर्मणां सफलता फलते" । "स्फुटविचारदृशैव" "स्फुटा" या "विचारदृक्" । तयैव । "उत्तमात्" विशेषतः । "प्रकटतां" "गच्छतः" विवेकस्यैव सर्वप्रकटने शक्तत्वात् । अतः इयं "विचारिता" "शमवते भवतेऽपि विरोचताम्" । इति शिवम् ॥ ंोट्_२,१४.५४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे चतुर्दशः सर्गः ॥ २,१४ ॥ ************************************************************************ ओमेवं विचारस्वरूपं निर्णीय तृतीयस्य संतोषस्य स्वरूपं कथयति संतोषोऽपि परं श्रेयः संतोषः सुखमुच्यते । संतुष्टः परमभ्येति विश्राममरिसूदन ॥ ंो_२,१५.१ ॥ "संतुष्टः" संतोषयुक्तः पुरुषः ॥ ंोट्_२,१५.१ ॥ संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् । साम्राज्यमपि साधूनां जरत्तृणलवायते ॥ ंो_२,१५.२ ॥ स्पष्टम् ॥ ंोट्_२,१५.२ ॥ संतोषशालिनी बुद्धी राम संसारवृत्तिषु । विषमास्वप्यनुद्विग्ना न कदाचन दूयते ॥ ंो_२,१५.३ ॥ "न दूयते" संतप्यते संतुष्टवान् ॥ ंोट्_२,१५.३ ॥ संतोषामृतपानेन ये परां तृप्तिमागताः । भोगश्रीरतुला तेषामेषा प्रतिविषायते ॥ ंो_२,१५.४ ॥ प्रतिविषा इवाचरते "प्रतिविषायते" । प्रतिविषा तिक्तद्रव्यविशेषः ॥ ंोट्_२,१५.४ ॥ न तथा तर्पयन्त्येताः पीयूषरसवीचयः । यथा हि मधुरास्वादः संतोषो दोषनाशनः ॥ ंो_२,१५.५ ॥ स्पष्टम् ॥ ंोट्_२,१५.५ ॥ संतुष्टस्वरूपकथनद्वारेण संतोषस्वरूपं कथयति अप्राप्तवाञ्छामुत्सृज्य संप्राप्ते समतां गतः । अदृष्टखेदाखेदोऽन्तः स संतुष्ट इहोच्यते ॥ ंो_२,१५.६ ॥ "संप्राप्ते" प्रवाहागते ॥ ंोट्_२,१५.६ ॥ आत्मनात्मनि संतोषं यावद्याति न मानसम् । उद्भवन्त्यापदस्तावल्लता इव मनोवनात् ॥ ंो_२,१५.७ ॥ "आत्मना" स्वेन । न तु भोगादिना ॥ ंोट्_२,१५.७ ॥ संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः । भृशं विकासमायाति सूर्यांशुभिरिवाम्बुजम् ॥ ंो_२,१५.८ ॥ संतुष्टस्यैव ज्ञाने अधिकार इति भावः ॥ ंोट्_२,१५.८ ॥ आशावैवश्यविवशे चित्ते संतोषवर्जिते । म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति ॥ ंो_२,१५.९ ॥ "प्रतिबिम्बति" लगति ॥ ंोट्_२,१५.९ ॥ अज्ञानघनयामिन्या संकोचं न नराम्बुजम् । यात्यसावुदितो यस्य नित्यं संतोषभास्करः ॥ ंो_२,१५.१० ॥ तत्"नराम्बुजमज्ञानघनयामिन्या संकोचं न याति" । तत्किम् । "यस्यासौ संतोषभास्करः नित्यमुदितो" भवति ॥ ंोट्_२,१५.१० ॥ अकिंचनोऽप्यसौ जन्तुः साम्राज्यसुखमश्नुते । आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् ॥ ंो_२,१५.११ ॥ स्पष्टम् ॥ ंोट्_२,१५.११ ॥ नाभिवाञ्छत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् । यः ससोम्यः सदाचारः संतुष्ट इति कथ्यते ॥ ंो_२,१५.१२ ॥ स्पष्टम् ॥ ंोट्_२,१५.१२ ॥ संतोषपरितृप्तस्य महतः पूर्णचेतसः । क्षीराब्धेरिव शुद्धस्य मुखे लक्ष्मीर्विराजते ॥ ंो_२,१५.१३ ॥ स्पष्टम् ॥ ंोट्_२,१५.१३ ॥ पूर्णतामलमाश्रित्य स्वात्मन्येवात्मना स्वयम् । पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥ ंो_२,१५.१४ ॥ "पूर्णतां" तृप्तताम् । "आत्मना एव" । न तु भोगैरित्यर्थः ॥ ंोट्_२,१५.१४ ॥ संतोषामृतपूर्णस्य स्वान्तः शीतलता स्वयम् । स्थैर्यमायात्यरिक्तस्य शीतांशोरिव शाश्वतम् ॥ ंो_२,१५.१५ ॥ "स्वान्तः" स्वमनसि । "अरिक्तस्य" पूर्णस्य ॥ ंोट्_२,१५.१५ ॥ संतोषपुष्टमनसं भृत्या इव महर्द्धयः । राजानमुपतिष्ठन्ते किंकरत्वमुपागताः ॥ ंो_२,१५.१६ ॥ यथा "किंकरत्वमुपागताः भृत्याः राजानमुपतिष्ठन्ते" तथा "संतोषपुष्टमनसं" "महर्द्धयः उपतिष्ठन्ते" ॥ ंोट्_२,१५.१६ ॥ आत्मनैवात्मनि स्वच्छे संतुष्टे पुरुषे स्थिते । प्रशाम्यन्त्याधयः सर्वे प्रावृषीवाशु पांसवः ॥ ंो_२,१५.१७ ॥ "स्वच्छे" रागादिमलरहिते ॥ ंोट्_२,१५.१७ ॥ नित्यं शीतलया नाम कलङ्कपरिहीनया । पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥ ंो_२,१५.१८ ॥ "नाम" निश्चये । "कलङ्कहीनया" असन्तोषाख्यमलरहितया ॥ ंोट्_२,१५.१८ ॥ संतोषविवेचनं सर्गान्तश्लोकेन समापयति समतया मतया गुणशालिनां पुरुषराडिह यः समलंकृतः । तममलं प्रणमन्ति नभश्चरा अपि महामुनयो रघुनन्दन ॥ ंो_२,१५.१९ ॥ स्पष्टम् । इति शिवम् ॥ ंोट्_२,१५.१९ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चदशः सर्गः ॥ २,१५ ॥ ************************************************************************ ओमेवं संतोषस्वरूपं निर्णीय चतुर्थं सत्संगं निरूपयति विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् । सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥ ंो_२,१६.१ ॥ स्पष्टम् ॥ ंोट्_२,१६.१ ॥ साधुसंगतरोर्जातं विवेककुसुमं शुभम् । रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ ंो_२,१६.२ ॥ "फलश्रियः" मोक्षाख्यफललक्ष्म्याः ॥ ंोट्_२,१६.२ ॥ शून्यमाकीर्णतामेति मृतिरप्युत्सवायते । आपत्संपदिवाभाति विद्वज्जनसमागमे ॥ ंो_२,१६.३ ॥ "शून्यं" शून्यदेशः । "आकीर्णताम्" लोकभरितदेशताम् ॥ ंोट्_२,१६.३ ॥ हिममापत्सरोजिन्या मोहनीहारमारुतः । जयत्येको जगत्यस्मिन् साधु साधुसमागमः ॥ ंो_२,१६.४ ॥ "साधु" सम्यक् ॥ ंोट्_२,१६.४ ॥ परं विवर्धनं बुद्धेरज्ञानतरुनाशनम् । समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ ंो_२,१६.५ ॥ "समुत्सारणम्" नाशनम् ॥ ंोट्_२,१६.५ ॥ विवेकः परमो दीपो जायते साधुसंगमात् । मनोहरोज्ज्वलो नूनमशोकादिव गुच्छकम् ॥ ंो_२,१६.६ ॥ स्पष्टम् ॥ ंोट्_२,१६.६ ॥ निरामयां निराबाधां निर्वृतिं नित्यपीवरीं । अनुत्तमां प्रयच्छन्ति साधुसंगविभूतयः ॥ ंो_२,१६.७ ॥ स्पष्टम् ॥ ंोट्_२,१६.७ ॥ अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः । मनागपि न संत्याज्या मानवैः साधुसंगतिः ॥ ंो_२,१६.८ ॥ स्पष्टम् ॥ ंोट्_२,१६.८ ॥ साधुसंगतयो लोके सन्मार्गशुभदीपकाः । हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥ ंो_२,१६.९ ॥ स्पष्टम् ॥ ंोट्_२,१६.९ ॥ यः स्नातः शीतसितया साधुसंगतिगङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ ंो_२,१६.१० ॥ स्पष्टम् ॥ ंोट्_२,१६.१० ॥ नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ । साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ॥ ंो_२,१६.११ ॥ "गलितग्रन्थयः" नष्टकामाख्यग्रन्थयः ॥ ंोट्_२,१६.११ ॥ विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि । दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥ ंो_२,१६.१२ ॥ स्पष्टम् ॥ ंोट्_२,१६.१२ ॥ सत्समागमसौन्दर्यशालिनी धीमतां मतिः । कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥ ंो_२,१६.१३ ॥ "कमला" लक्ष्मीः ॥ ंोट्_२,१६.१३ ॥ तेनामलविलासस्य पदस्याग्रावचूलता । ग्रथिता येन भव्येन न त्यक्ता साधुसंगतिः ॥ ंो_२,१६.१४ ॥ "तेन" पुरुषेण । "अमलविलासस्य" शुद्धस्फुरणयुक्तस्य । "पदस्य" चिन्मात्राख्यस्य स्थानस्य । "अग्रावचूलता" शिरोभूषणता । "ग्रथिता येन भव्येन" दैवप्रकृतिकेन । "साधुसंगतिः न त्यक्ता" साधुसंगतिः कार्यैव चिन्मात्राख्ये पदे राजते इति भावः ॥ ंोट्_२,१६.१४ ॥ विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसम्मताः । सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधौ ॥ ंो_२,१६.१५ ॥ स्पष्टम् ॥ ंोट्_२,१६.१५ ॥ त एते नरकाग्नीनां संशुष्केन्धनतां गताः । यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः ॥ ंो_२,१६.१६ ॥ स्पष्टम् ॥ ंोट्_२,१६.१६ ॥ दारिद्र्यं मरणं दुःखमित्यादिविषमो भ्रमः । संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः ॥ ंो_२,१६.१७ ॥ स्पष्टम् ॥ ंोट्_२,१६.१७ ॥ सर्वानुपायान् संकल्पयति संतोषः साधुसंगश्च विचारोऽथ शमस्तथा । एत एव भवाम्भोधावुपायास्तरणे नृणाम् ॥ ंो_२,१६.१८ ॥ स्पष्टम् ॥ ंोट्_२,१६.१८ ॥ संतोषः परमो लाभः सत्संगः परमा गतिः । विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥ ंो_२,१६.१९ ॥ अतः परं लाभादि नास्तीति "पर"पदाभिप्रायः ॥ ंोट्_२,१६.१९ ॥ चत्वार एते विमला उपाया भवभेदने । यैरभ्यस्तास्त उत्तीर्णा मोहवारेर्भवार्णवात् ॥ ंो_२,१६.२० ॥ "मोहवारेः" मोहाख्यजलयुक्तात् ॥ ंोट्_२,१६.२० ॥ एकस्मिन्नेव चैतेषामभ्यस्ते विमलोदये । चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥ ंो_२,१६.२१ ॥ स्पष्टम् ॥ ंोट्_२,१६.२१ ॥ एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिव । सर्वसंसिद्धये तस्माद्यत्नेनैकं समाश्रयेत् ॥ ंो_२,१६.२२ ॥ "प्रसवभूः" उत्पत्तिस्थानम् ॥ ंोट्_२,१६.२२ ॥ सत्समागमसंतोषविचारास्त्वविचारितम् । प्रवर्तन्ते शमस्वच्छे वहनानीव सागरे ॥ ंो_२,१६.२३ ॥ "वहनानि" जलस्पन्दाः । "अविचारितम्" असन्देहम् ॥ ंोट्_२,१६.२३ ॥ विचारसंतोषशमाः सत्समागमशालिनि । प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥ ंो_२,१६.२४ ॥ स्पष्टम् ॥ ंोट्_२,१६.२४ ॥ विचारशमसत्संगाः संतोषवति मानवे । प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥ ंो_२,१६.२५ ॥ स्पष्टम् ॥ ंोट्_२,१६.२५ ॥ सत्संगसंतोषशमा विचारवति सन्मतौ । प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥ ंो_२,१६.२६ ॥ "मन्त्रिणां" मन्त्रज्ञानाम् । "वरे" श्रेष्ठे ॥ ंोट्_२,१६.२६ ॥ फलितमाह तस्मादेकतमं नित्यमेतेषां रघुनन्दन । पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम् ॥ ंो_२,१६.२७ ॥ "तस्मातेतेषां" चतुर्णां मध्ये । "एकतमं गुणं" संतोषादिरूपं गुणम् । "अभ्याहरेत्" अर्जयेत् ॥ ंोट्_२,१६.२७ ॥ परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् । यावदेको गुणो नाप्तस्तावन्नास्त्युत्तमा गतिः ॥ ंो_२,१६.२८ ॥ स्पष्टम् ॥ ंोट्_२,१६.२८ ॥ पौरुषेण प्रयत्नेन दन्तैर्दन्तान् विचूर्णयन् । यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ॥ ंो_२,१६.२९ ॥ देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा । तावत्तव महाबाहो नोपायोऽस्तीह कश्चन ॥ ंो_२,१६.३० ॥ "गुणार्जने" संतोषाद्यर्जने ॥ ंोट्_२,१६.२९३० ॥ एकस्मिन्नेव फलिते गुणे बलमुपागते । क्षीयन्ते सर्व एवाशु दोषा विषदचेतसः ॥ ंो_२,१६.३१ ॥ "दोषाः" रागादयः ॥ ंोट्_२,१६.३१ ॥ गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः । दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः ॥ ंो_२,१६.३२ ॥ स्पष्टम् ॥ ंोट्_२,१६.३२ ॥ मनोमहावने ह्यस्मिन् वेगिनी वासनासरित् । शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥ ंो_२,१६.३३ ॥ स्पष्टम् ॥ ंोट्_२,१६.३३ ॥ सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते । कूले तेनैव वहति यथेच्छसि तथा कुरु ॥ ंो_२,१६.३४ ॥ "हि" निश्चये । "सा" वासनासरित् ॥ ंोट्_२,१६.३४ ॥ सर्गान्तश्लोकेनैतत्समापयति पुरुषयत्नजवेन मनोवने शुभतटानुगतां क्रमशः कुरु । वरमते निजभावमहानदीम् इह हि तेन मनागपि नोह्यसे ॥ ंो_२,१६.३५ ॥ "पुरुषयत्नजवेन" पौरुषवेगेन । "निजभावनदीं" स्ववासना"महानदीं" । ननु किमर्थं तां तटगतां करोमीत्यपेक्षायामाह । "इह ही"ति । "हि" यस्मात् । "तेन" तस्याः "शुभतटानुगमनेन" । तया निजभावमहानद्या त्वम् "न उह्यसे" विवशतया यत्र तत्र न नीयसे । तटगतया च नद्या न किंचितुह्यते । इति शिवम् ॥ ंोट्_२,१६.३५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे षोडशः सर्गः ॥ २,१६ ॥ ************************************************************************ फलितं कथयति एवमात्तविवेको यः स भवानिव राघव । योग्यो ज्ञानगिरः श्रोतुं राजेव नयभारतीः ॥ ंो_२,१७.१ ॥ हे "राघव" । "एवं" सति । "यः" पुरुषः । "आत्तविवेको" भवति । "सः" । "भवानिव" । "ज्ञानगिरः श्रोतुं योग्यो" भवति। क इव । "राजा इव" यथा "राजा नयभारतीः" नीतिवाक्यानि "श्रोतुं योग्यः" भवति । तथेत्यर्थः ॥ ंोट्_२,१७.१ ॥ अवदातोऽवदातस्य विज्ञानस्य महाशयः । जडसङ्गोज्झितो योग्यः शरदीन्दोर्यथा नभः ॥ ंो_२,१७.२ ॥ "अवदातः" शमादिसेवनेन रागादिमलरहितः निर्मलश्च । "अवदातस्य" शुद्धचिन्मात्रविषयत्वेन शुद्धस्य सितस्य च । "जडसङ्गेन" मूढसङ्गेन्"ओज्झितः" त्यक्तः । तमकुर्वाण इत्यर्थः । जडानां लक्षणया मेघानां "सङ्गेन उज्झितः" इति च ॥ ंोट्_२,१७.२ ॥ त्वमेतयाखण्डितया गुणलक्ष्म्या समाश्रितः । मनोमोहहरं वाक्यं वक्ष्यमाणमिदं शृणु ॥ ंो_२,१७.३ ॥ स्पष्टम् ॥ ंोट्_२,१७.३ ॥ पुण्यकल्पद्रुमो यस्य फलभारानतः स्थितः । मुक्तये जायते जन्तोस्तस्येदं श्रोतुमुद्यमः ॥ ंो_२,१७.४ ॥ "इदम्" एतत्शास्त्रम् ॥ ंोट्_२,१७.४ ॥ पावनानामुदाराणां परबोधैकदायिनाम् । वचसां भाजनं भूत्यै भव्यो भवति नाधमः ॥ ंो_२,१७.५ ॥ "भव्यः" दिव्यप्रकृतिः ॥ ंोट्_२,१७.५ ॥ मोक्षोपायाभिधानेयं संहिता सारसम्मिता । त्रिंशद्द्वे च सहस्राणि ज्ञाता निर्वाणदायिनी ॥ ंो_२,१७.६ ॥ "संहिता" शास्त्रम् । "सारसम्मिता" सारतुल्या । "ज्ञाता" सम्यक्विचारिता ॥ ंोट्_२,१७.६ ॥ ननु किमनया सेत्स्यतीत्य् । अत्राह दीपे यथा विनिद्रस्य ज्वलिते संप्रवर्तते । आलोकोऽनिच्छतोऽप्येवं निर्वाणमनया भवेत् ॥ ंो_२,१७.७ ॥ "यथा दीपे" प्र"ज्वलिते" । "अनिच्छतः अपि" आलोकानाकाङ्क्षिणोऽपि । अर्ध"निद्रस्या"र्धप्रबुद्धस्य । "आलोकः संप्रवर्तते" । "एवमनया" संहितया । "निर्वाणम्" ब्रह्मण्यात्यन्तिको लयो । "भवेत्" ॥ ंोट्_२,१७.७ ॥ स्वयं ज्ञाता श्रुता वापि भ्रान्तिशान्त्यैव सौख्यदा । आप्तोक्तिवर्णिता सद्यो यथामृततरङ्गिणी ॥ ंो_२,१७.८ ॥ "आप्तोक्तिवर्णिते"ति "श्रुते"त्यस्य विशेषणद्वारेण हेतुः ।८॥ ंोट्_२,१७. यथा रज्ज्वामहिभ्रान्तिर्विनश्यत्यवलोकनात् । तथैतत्प्रेक्षणाच्छान्तिमेति संसारदुःखिता ॥ ंो_२,१७.९ ॥ "एतस्याः" संहितायाः "प्रेक्षणम्" विचारणम् "एतत्प्रेक्षणम्" । तस्मात् ॥९॥ ंोट्_२,१७. युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक्पृथक् । दृष्टान्तसारसूक्तानि चास्यां प्रकरणानि षट् ॥ ंो_२,१७.१० ॥ मया "षट्प्रकरणानि अस्यां कल्पितानि" विहितानि। कथंभूतानि । अर्थसहितानि वाक्यानि "अर्थवाक्यानि" । "युक्तियुक्तानि" अर्थवाक्यानि येषु । तानि। पुनः कथंभूतानि । "दृष्टान्तैः सारम्" श्रेष्ठम् "सूक्तं" येषु । तानि ॥१०॥ ंोट्_२,१७. प्रकरणषट्कं विशेषतो निर्दिशति वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् । वैराग्यं वर्धते येन सेकेनेव मरौ तरुः ॥ ंो_२,१७.११ ॥ ननु किं तेन संपद्यत इत्य् । अत्राह । "वैराग्यम्" इति ॥११॥ ंोट्_२,१७. कियत्प्रमाणं तत्कृतमित्यपेक्षायामाह सार्धं सहस्रं ग्रन्थस्य यस्मिन् हृदि विचारिते । । प्रकाशा शुद्धतोदेति मणाविव विमार्जिते ॥ ंो_२,१७.१२ ॥ "ग्रन्थस्ये"ति जातावेकवचनम्। तत्वैराग्यप्रकरणं "ग्रन्थस्य" श्लोकानां "सार्धं सहस्रं" भवति। तत्किम् । "यस्मिन् हृदि विचारिते" सति । "प्रकाशा" प्रकटा । "शुद्धता" रागादिमलराहित्यं "उदेति" । कस्मिन्निव । "मार्जिते" शोधिते "मणौ इव" । यथा "विमार्जिते मणौ शुद्धतोदेति" । तथेत्यर्थः ॥१२॥ ंोट्_२,१७. मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतम् । सहस्रमात्रं ग्रन्थस्य सूक्तिग्रन्थेन सुन्दरम् ॥ ंो_२,१७.१३ ॥ "सूक्ति"रूपः यः "ग्रन्थः" वाक्यम् । तेन "सुन्दरम्" । तद्युक्तमित्यर्थः ॥१३॥ ंोट्_२,१७. ननु किं तत्र कथ्यते इत्य् । अत्राह स्वभावो हि मुमुक्षूणां नराणां यत्र वर्ण्यते । एवंस्वभावो मोक्षस्य योग्य इत्यवगम्यते ॥ ंो_२,१७.१४ ॥ ननु वर्णनेन किं सेत्स्यतीत्य् । अत्राह । "एवंस्वभाव" इति ॥१४॥ ंोट्_२,१७. अथोत्पत्तिप्रकरणं दृष्टान्ताख्यायिकामयम् । पञ्चग्रन्थसहस्राणि विज्ञानप्रतिपादनम् ॥ ंो_२,१७.१५ ॥ "विज्ञानप्रतिपादनम्" विज्ञानप्रतिपादकमित्यर्थः ॥१५॥ ंोट्_२,१७. जागती द्रष्टृदृश्यश्रीरहं त्वमितिरूपिणी । अनुत्थितैवोत्थितेव यत्रेति परिवर्ण्यते ॥ ंो_२,१७.१६ ॥ स्पष्टम् ॥१६॥ ंोट्_२,१७. यस्मिञ्श्रुते जगदिदं श्रोत्रान्तर्बुध्यतेऽखिलम् । सास्मद्युष्मत्सविस्तारं सलोकाकाशपर्वतम् ॥ ंो_२,१७.१७ ॥ पिण्डग्रहविनिर्मुक्तं निर्भित्तिकमपर्वतम् । पृथ्व्यादिभूतरहितं संकल्प इव पत्तनम् ॥ ंो_२,१७.१८ ॥ "यस्मिन्" यस्मिनुत्पत्तिप्रकरणे । "सास्मद्युष्मत्" अहंत्वंयुक्तम् । "बुध्यते" इत्य् । अत्र "श्रोत्रे"ति कर्तृत्वेनाध्याहार्यम्। कीदृशं बुध्यते इत्यपेक्षायामाह । "पिण्डग्रहे"त्यादि । "संकल्पे" हि "पत्तनम्" ईदृगेव भातीति दृष्टान्तत्वेनोपात्तम् ॥१७१८॥ ंोट्_२,१७. पुनः कीदृग्बुध्यते इत्य् । अत्राह स्वप्नोपलब्धभावाभं मनोराज्यवदाततम् । गन्धर्वनगरप्रख्यमर्थशून्योपलम्बनम् ॥ ंो_२,१७.१९ ॥ "स्वप्नोपलब्धभावाभं" स्वप्नदृष्टपदार्थसदृशमित्यर्थः । गन्धर्वाः स्वावासार्थं कल्पनयाकाशे नगरं कल्पयन्ति । तदेव "गन्धर्वनगरम्" । "अर्थशून्यं" सत्यभूतघटाद्यर्थरहितम् । "उपलम्बनं" ज्ञानं यस्मिन् ॥१९॥ ंोट्_२,१७. द्विचन्द्रविभ्रमाभासं मृगतृष्णाम्बुवत्ततम् । नौयानलोलशैलाभं सत्यलाभविवर्जितम् ॥ ंो_२,१७.२० ॥ स्पष्टम् ॥२०॥ ंोट्_२,१७. चित्तभ्रमपिशाचाभं निर्बीजमपि भासुरम् । कथार्थप्रतिभानाभं व्योममुक्तावलीनिभम् ॥ ंो_२,१७.२१ ॥ "निर्बीजं" कारणरहितम् । "कथायाः" यः "अर्थः" वर्णनीयः पदार्थः । तस्य यत्"प्रतिभानं" पुर इव स्फुरणम् । तेन्"आभा" यस्य । तत् । कथायां हि वर्णनीयः पदार्थः पुरःस्थ इव प्रतिभाति । "व्योमे"ति । भ्रमेण हि व्योम्नि "मुक्तावली" दृश्यते ॥२१॥ ंोट्_२,१७. कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि । यथा नभसि नीलत्वमसदेवोत्थितं तथा ॥ ंो_२,१७.२२ ॥ "कटका"दि "यथा हेम्नि असदेवोत्थितं" भवति "तथासदेवोत्थितं" जगद्बुध्यते इति पूर्वेणैव सम्बन्धः ॥२२॥ ंोट्_२,१७. अभित्ति रङ्गरहितमुपलब्धिमनोहरम् । स्वप्ने वा व्योम्नि वा चित्रमकर्म चिरभासुरम् ॥ ंो_२,१७.२३ ॥ "वा"शब्दद्वयं पक्षान्तरद्योतकम् । "स्वप्ने" दृष्टं "चित्रम्" "वा" बुध्यते । "व्योम्नि" भ्रमेण दृष्टं "चित्रम्" "वा" बुध्यते । चित्रं कथंभूतम् । "अभित्ति" भित्तिरहितम् । तथा "रङ्गरहितम्" रङ्गद्रव्यरहितम् । पुनः कथंभूतम् । "अकर्म" अनिर्मिति । तथा चिरं भास्वरम् "चिरभासुरम्" । एतैः विशेषणैश्च चित्रस्य लोकोत्तरत्वमुक्तम् ॥२३॥ ंोट्_२,१७. अवह्निरेव वह्नित्वं धत्ते चित्रानलो यथा । तथा दधज्जगच्छब्दरूपार्थमसदात्मकम् ॥ ंो_२,१७.२४ ॥ "तथा" तद्वत् । "असदात्मकम्" असत्स्वरूपम् । "जगच्छब्दरूपार्थम्" भावप्रधानो निर्देशः । जगदिति यच्छब्दरूपं तस्यार्थत्वं "दधत्" बुध्यते "तथा" । कथम् । "यथा चित्रानलः अवह्निः" अदाहकता अनग्निः सन् । "असदात्मकं वह्नित्वं धत्ते" धारयति ॥२४॥ ंोट्_२,१७. तरङ्गोत्पलमालाढ्यदृषत्पत्त्रमिवोत्थितम् । चक्रशूत्कारचूर्णस्य मलराशिमिवोदितम् ॥ ंो_२,१७.२५ ॥ "तरङ्गोत्पलमालाभिः आढ्यं" यत्"दृषत्पत्त्रम्" शिलापत्त्रम् । तद्"इवोत्थितं" बुध्यते । शिलापत्त्रे हि तरङ्गाकारः उत्पलाकाराश्च रेखाः भवन्ति । ता एवात्र "तरङ्गोत्पलमालाः" ज्ञेयाः । पदार्थाश्चात्र "तरङ्गोत्पलमालास्थानीयाह्" । पुनः कीदृग्बुध्यते इत्य् । अत्राह । "चक्रे"ति । "चक्रस्य" भ्राम्यमाणस्य चक्रस्य । यत्"शूत्कारचूर्णम्" । तस्य "मलराशिमिव उदितं" बुध्यते । भ्राम्यमाणेन चक्रेण हि सशूत्कारं भूमेः रजः उत्तिष्ठति ॥२५॥ ंोट्_२,१७. शीर्णपर्णं भ्रष्टनष्टं ग्रीष्मे वनमिवारसम् । मरणव्यग्रनृत्ताभं शिलास्त्रीहास्यहासदम् ॥ ंो_२,१७.२६ ॥ "शिलास्त्रीहास्य"वत्"हासदम्" ॥२६॥ ंोट्_२,१७. अन्धकारगृहैकैकनृत्तमुन्मत्तचेष्टितम् । प्रशान्ताज्ञाननीहारं विज्ञानशरदम्बरम् ॥ ंो_२,१७.२७ ॥ "अन्धकारगृहे" यत्"एकैकस्य नृत्तम्" तद्रूपं बुध्यते । सर्वथा चासत्यतरमेव बुध्यते इति इह तावदभिप्रायः । इतः परं चिन्मात्रमयं चिन्मात्रस्थं च बुध्यत इत्यभिप्रायेणाह । "प्रशान्ते"ति । श्रोत्रा अस्मिन्नुत्पत्तिप्रकरणे श्रुते सति इदं "प्रशान्ताज्ञाननीहारं ज्ञानशरदम्बरं" बुध्यते ॥२७॥ ंोट्_२,१७. समुत्कीर्णमिव स्तम्भे चित्रं भित्ताविवाहितम् । पङ्कादिवाभिरचितं सचेतनमचेतनम् ॥ ंो_२,१७.२८ ॥ "स्तम्भे" चिन्मात्राख्ये स्तम्भे । "समुत्कीर्णमिव" बुध्यते । तथा "भित्तौ" चिन्मात्राख्यायां भित्तौ । "चित्रमिवाहितं" कृतं बुध्यते । "पङ्को"ऽत्र चिन्मात्रस्वरूपं ज्ञेयम् । "सचेतनं" चिन्मात्रसारत्वात् । "अचेतनं" ग्राह्यत्वात् ॥२८॥ ंोट्_२,१७. ततः स्थितिप्रकरणं चतुर्थं परिकल्पितम् । त्रीणि ग्रन्थसहस्राणि स्वाख्यानाख्यायिकामयम् ॥ ंो_२,१७.२९ ॥ शोभनाख्याः "आख्यानाख्यायिकाः" । तन्"मयम्" ॥२९॥ ंोट्_२,१७. ननु स्थितिप्रकरणे किमुक्तमित्य् । अत्राह इत्थं जगदहंभावरूपं स्थितिमुपागतम् । द्रष्टृदृश्यक्रमप्रौढमित्यत्र परिवर्णितम् ॥ ंो_२,१७.३० ॥ "अहंभावरूपस्य" "जगतः" "स्थितिर्" एवात्र प्रायशो निर्णीयते इति भावः ॥३०॥ ंोट्_२,१७. दशदिङ्मण्डलाभोगभासुरोऽयं जगद्भ्रमः । इत्थमभ्यागतो वृद्धिमिति तत्रोच्यते चिरम् ॥ ंो_२,१७.३१ ॥ "चिरम्" बहुकालम् । बाहुल्येनेति यावत् ॥३१॥ ंोट्_२,१७. उपशान्तिप्रकरणं ततः पञ्चसहस्रिकम् । पञ्चमं पावनं प्रोक्तं मुनिसन्ततिसुन्दरम् ॥ ंो_२,१७.३२ ॥ "मुनिसन्ततिभिः" दृष्टान्ततया वक्ष्यमाणाभिः मुनिसन्ततिभिः । "सुन्दरम्" रमणीयम् ॥३२॥ ंोट्_२,१७. नन्वत्र किं वर्ण्यत इत्यपेक्षायामाह इदं जगदहं त्वं च स इति भ्रान्तिरुत्थिता । इत्यसौ शाम्यतीत्यस्मिन् कथ्यते श्लोकसङ्ग्रहे ॥ ंो_२,१७.३३ ॥ "इदं जगतहं त्वं च सः" । "इति" एवंरूपा । "भ्रान्तिः उत्थिता" । इति सती एव । "शाम्यति" । "इति" एवम् । "अस्मिन्" उपशान्तिप्रकरणे "कथ्यते" । "अस्मिन्" कथंभूते । "श्लोकानां सङ्ग्रहः" यस्मिन् सः । तादृशे । "स" इति परमकारणपरामर्शः ॥३३॥ ंोट्_२,१७. नन्वेतच्छ्रवणेन किं सेत्स्यतीत्य् । अत्राह उपशान्तिप्रकरणे श्रुते शाम्यति संसृतिः । प्रस्पष्टा विभ्रमेणैव किंचिल्लभ्योपलम्भना ॥ ंो_२,१७.३४ ॥ "संसृतिः" कथंभूता । "विभ्रमेणैव" विपर्ययज्ञानेनैव "प्रस्पष्टा" । पुनः कथंभूता । "किंचित्" लेशेन । "लभ्यमुपलम्भनं" स्पर्शः यस्याः सा । अन्यथा निर्वाणप्रकरणं व्यर्थं स्यातिति भावः ॥३४॥ ंोट्_२,१७. ननु ततः संसृतिः कीदृशी तिष्ठतीत्यपेक्षायामाह शतांशशिष्टा भवति संशान्तभ्रान्तिरूपिणी । अन्यसंकल्पचित्तस्था नगरश्रीरिवासती ॥ ंो_२,१७.३५ ॥ स्पष्टम् ॥३५॥ ंोट्_२,१७. अलभ्यैव स्वपार्श्वस्थस्वप्नयुद्धविराववत् । शान्तसंकल्पमत्ताभ्रभीषणाशनिशब्दवत् ॥ ंो_२,१७.३६ ॥ संकल्पे दृष्टं मत्ताभ्रम् "संकल्पमत्ताभ्रम्" । "शान्तं" यत्"संकल्पमत्ताभ्रम्" । तस्य यः "भीषणः अशनिशब्दः" । तद्"वत्" ॥३६॥ ंोट्_२,१७. विस्मृतस्वप्नसंकल्पनिर्माणनगरोपमा । भविष्यन्नगरोद्यानसोत्सवश्यामलाङ्गिका ॥ ंो_२,१७.३७ ॥ "विस्मृतौ" यौ "स्वप्नसंकल्पौ" । तयोः "निर्माणं" यस्य । तादृशं यत्"नगरं" । तेन्"ओपमा" यस्याः सा । तथा "भविष्यन्नगरोद्याने सोत्सवा" समदना । या "श्यामला" श्यामाख्या स्त्री । तद्वत्"अङ्गं" स्वरूपं यस्यां सा । तादृशी ॥३७॥ ंोट्_२,१७. नश्यज्जिह्वोच्यमानोग्रकथार्थानुभवोपमम् । अनुल्लिखितचित्तस्थचित्रव्याप्तेव भित्तिभूः ॥ ंो_२,१७.३८ ॥ पुनः कथंभूता । "नश्यज्जिह्वेन" । न तु नष्टजिह्वेन । "उच्यमाना" या "उग्रकथा" । तस्याः यः "अर्थः" । तस्य यः "अनुभवः" । तेन्"ओपमा" यत्र तत् । ताद्र्शम् । का इव । "अनुल्लिखितानि" "चित्तस्थानि" च तानि चित्रकृच्"चित्तस्थानि" च यानि "चित्राणि" । तैः "व्याप्ता भित्तिभूरिव" ॥३८॥ ंोट्_२,१७. परिविस्मार्यमाणाच्छकल्पनानगरीनिभा । सर्वर्तुमदनुत्पन्नवरमर्दास्फुटाकृतिः ॥ ंो_२,१७.३९ ॥ "परिविस्मार्यमाणा" । न तु विस्मारिता । या "अच्छा" भित्तिरहिता । "कल्पनानगरी" । तस्याः "निभा" सदृशी । "सर्वासामृतुमतीनामनुत्पन्नस्य" "वरस्य मर्दः" मर्दनम् । तद्वत्"अस्फुटा आकृतिः" यस्याः सा । निकटवर्तित्वेन बुद्धावारूढत्वज्ञापनार्थमृतुमतीनामित्युक्तम् ॥३९॥ ंोट्_२,१७. भाविपुष्पवराकारवसन्तरसरञ्जना । अन्तर्लीनतरङ्गौघसौम्यवारिसरित्समा ॥ ंो_२,१७.४० ॥ "भावी पुष्पा"ख्यो "वराकारः" यस्य सः । तादृशो यः "वसन्तरसः" । तद्वत्"रञ्जना" यस्याः सा । तत्सदृशीत्यर्थः । "अन्तर्लीनः तरङ्गौघः" यस्याः सा "अन्तर्लीनतरङ्गौघा" । तादृशी चासौ "सौम्यवारिसरित्" सौम्यवारियुक्ता नदी । तया "समा" सदृशी । एतैर्विशेषणैश्चोपशान्तिप्रकरणश्रवणानन्तरं बुद्ध्यारोहमात्रस्वरूपा सृष्टिस्तिष्ठतीति सूचितम् ॥४०॥ ंोट्_२,१७. निर्वाणाख्यं प्रकरणं ततः षष्ठमुदाहृतम् । शिष्टो ग्रन्थः परीमाणं तस्य ज्ञेयं महार्थदम् ॥ ंो_२,१७.४१ ॥ "ततः" उपशान्तिप्रकरणानन्तरम् । "शिष्टः ग्रन्थः" सार्धषोडशसहस्राणि "परीमाणम्" ॥४१॥ ंोट्_२,१७. ननु किं तच्छ्रवणेन सेत्स्यतीत्य् । अत्राह बुद्धे तस्मिन् भवेच्छ्रोता निर्वाणः शान्तकल्पनः । अचेत्यचित्प्रकाशात्मा विज्ञानात्मा निरामयः ॥ ंो_२,१७.४२ ॥ "निर्वाणः" ब्रह्मणि लीनः । "विज्ञानात्मा" शुद्धज्ञानस्वरूपः । "निरामयः" दृश्याख्यामयरहितः ॥४२॥ ंोट्_२,१७. परमाकाशकोशाच्छः शान्तसर्वभवभ्रमः । निर्वाहितजगद्यात्रः कृतकर्तव्यसुस्थितः ॥ ंो_२,१७.४३ ॥ "निर्वाहिता" अवसानं नीता "जगद्यात्रा" येन सः । तादृशः । "कृतं" समाप्तम् । कर्तव्यं येन "कृतकर्तव्यः" । तादृशश्चासाव् । अत एव "सुस्थितश्" च ॥४३॥ ंोट्_२,१७. समस्तविततारम्भवज्रस्तम्भो नभोनिभः । विनिगीर्णयथासंस्थजगज्जालातितृप्तिमान् ॥ ंो_२,१७.४४ ॥ "समस्ताः" ये "विततारम्भाः" । तेषु "वज्रस्तम्भः" अविचल इत्यर्थः । "नभोनिभः" शरीरयात्रार्थं कृतैरपि कर्मभिरलिप्तत्वाताकाशसदृशः । "विनिगीर्णं" चित्स्वरूपे स्वात्मनि लीनीकृतम् । यत्"जगज्जालं" । तेन्"आतितृप्तिमान्" निरपेक्ष इत्यर्थः ॥४४॥ ंोट्_२,१७. आकाशीभूतनिःशेषरूपालोकमनस्कृतिः । कार्यकारणकर्तृत्वहेयादेयदशोज्झितः ॥ ंो_२,१७.४५ ॥ "रूपम्" विषयः । "आलोकः" तद्ग्रहणोपायः । "मनस्कृतिः" मनस्कारः । आलोकेन गृहीतस्य रूपस्य मनसि अनुसन्धानमिति यावत् ॥४५॥ ंोट्_२,१७. सदेह एव निर्देहः ससंसारोऽप्यसंसृतिः । चिन्मयो ॥हनपाषाणजठरजठरोपमः ॥ ंो_२,१७.४६ ॥ "सदेहः" सत्त्वशेषं तावत्शरीरस्य स्थितत्वात् । "निर्देहः" शरीरेऽभिमानाभावात् । "चिन्मयः" चित्स्वरूप अहमिति निश्चयात् । "घनपाषाणस्य" यत्"जठरम्" । तस्य यत्"जठरम्" । तेन्"ओपमा" यस्य सः । तादृशः अचेत्यचिन्मयत्वात् ॥ ंोट्_२,१७.४६ ॥ चिदादित्यस्तपंल्लोकेऽप्यन्धकारोदरोपमः । परप्रकाशरूपोऽपि परमान्ध्यमिवागतः ॥ ंो_२,१७.४७ ॥ "चिदादित्यः" चिदादित्यस्वरूपः । अत एव "लोके तपन्नपि" । न हि चित्स्पर्शरहितः कश्चित्भावः संभवति । सत्त्वेऽपि तस्य असंकल्पत्वप्रसङ्गात् । "अन्धकारोदरोपमः" अन्धकारस्य यतुदरम् । तेनोपमा यस्य । तादृशः पदार्थविभागरहितत्वात् । न हि अन्धकारोदरे पदार्थविभागः भवति । "परप्रकाशरूपोऽपि" उत्तीर्णचित्प्रकाशरूपोऽपि । "परमान्ध्यम्" "आगतः इव" न किंचिद्द्रष्टृत्वात् ॥ ंोट्_२,१७.४७ ॥ रुद्धसंसृतिदुर्लीलः प्रक्षीणाशाविषूचिकाः । नष्टाहंकारवेतालो देहवानकलेवरः ॥ ंो_२,१७.४८ ॥ स्पष्टम् ॥ ंोट्_२,१७.४८ ॥ कस्मिंश्चिद्रोमकोट्यग्रे तस्येयमवतिष्ठते । जगल्लक्ष्मीर्महामेरोः पुष्पे क्वचिदिवालिनी ॥ ंो_२,१७.४९ ॥ "कश्मिंस्चित्" अतिसूक्ष्मतया वक्तुमशक्ये "स्वप्नवद्" इति शेषः । स्वप्ने हि पुरुषस्य कस्मिंश्चिदंशे स्वप्नजगद्"अवतिष्ठते" ॥ ंोट्_२,१७.४९ ॥ परमाणौ परमाणौ चिदाकाशस्य कोटरे । जगल्लक्ष्मीसहस्राणि धत्ते कृत्वा च पश्यति ॥ ंो_२,१७.५० ॥ "चिदाकाशस्य" स्वरूपभूतस्य चिन्मात्राकाशस्य । "कोटरे" मध्ये स्थिते । "परमाणौ परमाणौ जगल्लक्ष्मीसहस्राणि कृत्वा धत्ते" धारयति । न केवलं धत्ते । किं तु साक्षितया स्थितत्वात्"पश्यति च" ॥ ंोट्_२,१७.५० ॥ ननु कथमसौ जगल्लक्ष्मीसहस्राण्यन्तर्वर्तयतीत्य् । अत्र सर्गान्तश्लोकेनाह प्रवितता हृदयस्य महामते हरिहराब्जजलक्षशतैरपि । तुलनमेति न मुक्तिमतो बत प्रविततास्ति न नूनमवस्तुनः ॥ ंो_२,१७.५१ ॥ "बत" निश्चये । हे "महामते" । "मुक्तिमतः" निर्वाणप्रकरणश्रवणद्वारेण मुक्तियुक्तस्य पुरुषस्य । "हृदयस्य प्रविततः" भावप्रधानो निर्देशः । तेन "हृदयस्य प्रवितते"ति अर्थः । सा "हरिहराब्जजलक्षशतैरपि तुलनं" मापनविषयतां "न एति" । यतः "अवस्तुनः" अवस्तुभूतस्य हरिहराब्जादिरूपस्य भाववृन्दस्य "प्रवितता" । "नूनं" निश्चये । "नास्ति" । न चावस्तुना वस्तुमापनं युक्तम् । तथा च नोक्तदेशप्रसङ्ग इति भावः । इति शिवम् ॥ ंोट्_२,१७.५१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे सप्तदशः सर्गः ॥ २,१७ ॥ ************************************************************************ ओं श्रोतृप्रवृत्त्यर्थं स्वेन क्रियमाणस्य ग्रन्थस्यान्यविलक्षणत्वेन सम्यग्ज्ञानं प्रति परोपायत्वं कथयति अस्यां वाचितमात्रायां परो बोधः प्रवर्तते । बीजादिव यतो व्युप्तादवश्यंभावि सत्फलम् ॥ ंो_२,१८.१ ॥ "अस्यां" मोक्षोपायाभिधायां संहितायाम् । "बोधः" कः । "यतः" यस्मात्बोधात् । "सत्फलं" मोक्षाख्यं शुभं फलम् । "अवश्यंभावि" भवति । कस्मादिव । "व्युप्ताद्बीजादिव" ॥ ंोट्_२,१८.१ ॥ ननु महामुनिप्रणीतानि शास्त्रान्तराणि त्यक्त्वा किमिति इदमेव शास्त्रं गृह्णामीत्य् । अत्राह अपि पौरुषमादेयं शास्त्रं चेद्युक्तिबोधकम् । अन्यत्त्वार्षमपि त्याज्यं भाव्यं न्यायैकसेविना ॥ ंो_२,१८.२ ॥ "पौरुषम्" पुरुषनिर्मितम् । "आदेयं" ग्रहीतव्यम् । "युक्तिबोधकम्" सत्तर्कबोधकम् । "अन्यत्" युक्त्यबोधकम् । "आर्षम्" ऋषिनिर्मितम् । अत्र च प्रतिभान्वितैः कश्चिदभिप्रायो बोद्धव्यः योऽस्माभिः आरम्भ एव प्रतिभावतां स्वयं ज्ञेयत्वेन तद्रहितानामकथनीयत्वेन चोक्तः ॥ ंोट्_२,१८.२ ॥ युक्तियुक्तमुपादेयं वचनं बालकादपि । अन्यत्तृणमिव त्याज्यमप्युक्तं पद्मजन्मना ॥ ंो_२,१८.३ ॥ अत्रापि प्रतिभावद्भिः आरम्भे स्वयं ज्ञेयत्वेनोक्तोऽर्थः स्वयं बोद्धव्यः । न च तद्बोधेनास्मिञ्शास्त्रे अनादरः कार्यः प्रतिभावत्त्वहानेः । एवमुत्तरत्रापि यत्र तत्र स्वयमभ्यूह्यम् ॥ ंोट्_२,१८.३ ॥ पुनरप्येतदेव भङ्ग्यन्तरेण कथयति योऽम्भस्तातस्य कूपोऽयमिति कौपं पिबेत्कटु । त्यक्त्वा गाङ्गं पुरःस्थं तं कोऽनुशासति रागिणम् ॥ ंो_२,१८.४ ॥ "यः" पुरुषः । "पुरःस्थं गाङ्गं" तोयं "त्यक्त्वा" । "अयं कूपः तातस्य" निजस्य पितुः भवति । "इति" एतदर्थम् । "कौपं" कूपसम्बन्धि । "कटु अम्भः पिबेत्" । "तम्" अनु"रागिणं" पितृविषयरागाख्यदोषयुक्तम् । "कः अनुशासति" उपदिशति । नासावुपदेशार्हः इति भावः । अयमत्राभिप्रायः । "यः" पुरुषः । सद्युक्तियुक्तम् "अपि पौरुषं" वचनम् । "पौरुषेयमिदम्" इति त्यजति । तद्रहितमपि "आर्षं" वचनम् । "आर्षम्" इत्येतावन्मात्रेण गृह्णाति । तस्योपदेशो न कार्यः इति ॥ ंोट्_२,१८.४ ॥ प्रकृतमेवानुसरति यथोषसि प्रवृत्तायामालोकोऽवश्यमेष्यति । अस्यां वाचितमात्रायां स्वविवेकस्तथैष्यति ॥ ंो_२,१८.५ ॥ "उषसी"त्यार्षं स्त्रीत्वम् । "स्वविवेकः" आत्मविवेकः ॥ ंोट्_२,१८.५ ॥ श्रुतायां प्राज्ञवदनाद्बुद्धायां स्वयमेव वा । शनैः शनैर्विचारेण बुद्धौ संस्कार आगते ॥ ंो_२,१८.६ ॥ पूर्वं तावदुदेत्यन्तर्भृशं संस्कृतवाक्यता । शुद्धा मुक्ता लतेवोच्चैर्या सभास्थानभूषणम् ॥ ंो_२,१८.७ ॥ स्पष्टम् ॥ ंोट्_२,१८.६७ ॥ ननु विरक्तस्य मम किं संस्कृतवाक्यतया प्रयोजनमित्य् । अत्राह परा विरागतोदेति महत्त्वगुणशालिनी । सा यया स्नेहमायान्ति राजानोऽजगरा अपि ॥ ंो_२,१८.८ ॥ विरक्तेषु हि "अजगर"तुल्याः "राजानोऽपि स्नेहमायान्ति" ॥ ंोट्_२,१८.८ ॥ पूर्वापरज्ञः सर्वत्र नरो भवति बुद्धिमान् । पदार्थानां यथा दीपहस्तो निशि सुलोचनः ॥ ंो_२,१८.९ ॥ "सर्वत्र" सर्वेषु व्यवहारेषु ॥ ंोट्_२,१८.९ ॥ लोभमोहादयो दोषास्तानवं यान्त्यलं शनैः । धियो दिशः समासन्नशरदो मिहिका यथा ॥ ंो_२,१८.१० ॥ "लोभमोहादयः" काः । "यथा मिहिकाः" "समासन्नशरदः" प्रत्यासन्नशरत्कालायाः "दिशः तानवं यान्ति" । तथेत्यर्थः ॥ ंोट्_२,१८.१० ॥ केवलं समपेक्षन्ते विवेकाभ्यसनं धियः । न काचन फलं धत्ते स्वभ्यासेन विना क्रिया ॥ ंो_२,१८.११ ॥ ननु किमर्थं "विवेकाभ्यासमपेक्षन्ते" इत्य् । अत्राह । "न काचने"ति ॥ ंोट्_२,१८.११ ॥ मनः प्रसादमायाति शरदीव महत्सरः । परं साम्यमुपाधत्ते निर्मन्दर इवार्णवः ॥ ंो_२,१८.१२ ॥ "प्रसादं" रागादिमलरहितत्वात्नैर्मल्यम् । "परम्" निरतिशयम् । "साम्यं" समताख्यं गुणम् । "उपाधत्ते" धारयति । अत्रापि मनस एव कर्तृत्वम् ॥ ंोट्_२,१८.१२ ॥ निरस्तकालिमा वज्रशिखेवास्ततमःपटा । परिज्वलत्यलं प्रज्ञा पदार्थप्रविभागिनी ॥ ंो_२,१८.१३ ॥ "निरस्तः" दूरे गतः । "कालिमा" कालुषम् । यस्याः सा ॥ ंोट्_२,१८.१३ ॥ दैन्यदारिद्र्यदोषाद्या दृष्टयो दर्शितान्तराः । न निकृन्तन्ति मर्माणि ससंनाहमिवेषवः ॥ ंो_२,१८.१४ ॥ "दर्शितं" विवेचितम् । अन्तरं साराख्यः "आन्तरः" भागः यासां ताः । निःसारत्वेन ज्ञाता इत्यर्थः ॥ ंोट्_२,१८.१४ ॥ हृदयं नावलुम्पन्ति भीमाः संसृतिभीतयः । पुरःस्थितमपि प्राज्ञं महोपलमिवाखवः ॥ ंो_२,१८.१५ ॥ "हृदयं" कथंभूतम् "अपि" । "पुरःस्थितमपि" अग्रे स्थितमपि । पुनः कथंभूतम् । "प्राज्ञम्" ॥ ंोट्_२,१८.१५ ॥ कथं स्यादादिता जन्मकर्मणोर्दैवपुंस्त्वयोः । इत्यादिसंशयगणः शाम्यत्यह्नि यथा तमः ॥ ंो_२,१८.१६ ॥ "दैवपुंस्त्वयोः" दैवपौरुषयोः । "आदिता" कारणत्वम् ॥ ंोट्_२,१८.१६ ॥ सर्वथा सर्वभावेषु संगतिरुपशाम्यति । यामिन्यामिव यातायां प्रज्ञालोक उपागते ॥ ंो_२,१८.१७ ॥ "सर्वभावेषु" त्यागादानार्हेषु समस्तेषु पदार्थेषु । "सर्वथा संगतिः" त्यागादानारूपा सम्बन्धः "उपशाम्यति" । कस्मिन् सति । "प्र"ति"ज्ञालोक उपागते" सति । कदेव । "यामिन्यां" रात्रौ "यातायामिव" सत्याम् । उपेक्षा एव सर्वत्रायातीति भावः ॥ ंोट्_२,१८.१७ ॥ समुद्रस्येव गाम्भीर्यं स्थैर्यं मेरोरिव स्थितम् । अन्तःशीतलता चेन्दोरिवोदेति विचारिणः ॥ ंो_२,१८.१८ ॥ स्पष्टम् ॥ ंोट्_२,१८.१८ ॥ सा जीवन्मुक्तता तस्य शनैः परिणतिं गता । शान्ताशेषविकल्पस्य भवत्याविश्य योगिनः ॥ ंो_२,१८.१९ ॥ "सा" प्रसिद्धा । "आविश्य" आवेशं कृत्वा ॥ ंोट्_२,१८.१९ ॥ सर्वार्थशीतला शुद्धा परमालोकदा सुधीः । परं प्रकाशमायाति ज्योत्स्नेव सकलैन्दवी ॥ ंो_२,१८.२० ॥ "सर्वार्थेषु" भावाभावयुक्तेषु समस्तेषु पद्"आर्थेषु" । "शीतला" हर्षामर्षाख्यतापरहिता । "शुद्धा" रागादिरहिता । "परमालोकं" चिन्मात्रालोकं "दधाती"ति तादृशी । शोभना चासौ धीः "सुधीः" । "ऐन्दवी" इन्दुसम्बन्धिनी ॥ ंोट्_२,१८.२० ॥ हृद्याकाशे विवेकार्के शमालोकिनि निर्मले । अनर्थसार्थकर्तारो नोद्यन्ति कलिकेतवः ॥ ंोट्_२,१८.२१ ॥ "शम" एव "आलोकः" अस्यास्तीति तादृशे । "कलेः" कलहस्य क्षोभस्य । "केतवः" चिह्नभूताः रागादयो दोषाः । सूर्योदये च "केतवः" धूमकेतवः "नोद्यन्ति" ॥ ंोट्_२,१८.२१ ॥ शाम्यन्ति शुद्धिमायान्ति सौम्यास्तिष्ठन्ति सून्नते । अचञ्चलजडास्तृष्णाः शरदीवाभ्रमालिकाः ॥ ंो_२,१८.२२ ॥ न चञ्चलजडाः "अचञ्चलजडाः" ॥ ंोट्_२,१८.२२ ॥ यत्किंचनकरी क्रूरा ग्राम्यता विनिवर्तते । दीनानना पिशाचानां लीलेव दिवसागमे ॥ ंो_२,१८.२३ ॥ "यत्किंचनकरी" अयुक्तकारिणी । "ग्राम्यतया" हि पुरुषः यत्किंचिदेव करोति ॥ ंोट्_२,१८.२३ ॥ धर्मभित्तौ भृशं लग्नां धियं धैर्यधुरं गताम् । आधयो न विलुम्पन्ति वाताश्चित्रलतामिव ॥ ंो_२,१८.२४ ॥ "धर्म" एव "भित्तिः" । तस्यां "लग्नां" । अत एव "धैर्यधुरं गताम्" धैर्ययुक्तामिति यावत् । धर्मयुक्तो हि धीरो भवति । चित्ररूपा लता "चित्रलता" । ताम् ॥ ंोट्_२,१८.२४ ॥ न पतत्यवटे जन्तुर्विषयासङ्गरूपिणि । कः किल ज्ञातसरणिः श्वभ्रे समनुधावति ॥ ंो_२,१८.२५ ॥ "विषयासङ्गरूपिणि" भोगासक्तिरूपे । एतदेव उत्तरार्धेन समर्थयति । "कः किले"ति ॥ ंोट्_२,१८.२५ ॥ सच्छास्त्रसाधुवृत्तानामविरोधिनि कर्मणि । रमते धीर्यथाप्राप्ते साध्वीवान्तःपुराजिरे ॥ ंो_२,१८.२६ ॥ "सच्छास्त्रेण" मोक्षोपायाख्यसच्छास्त्रावगाहनेन "साधुवृत्तं" चरितं येषां ते । तादृशानाम् । "यथाप्राप्ते" प्रवाहागते । न तु यत्नादृते ॥ ंोट्_२,१८.२६ ॥ जगतां कोटिलक्ष्येषु यावन्तः परमाणवः । तेषामेकैकशोऽन्तःस्थान् सर्गान् पश्यत्यसर्गधीः ॥ ंो_२,१८.२७ ॥ "असर्गा धीः" यस्य सः । आश्चर्यं चासर्गधियः परमाणौ परमाणौ सर्गदर्शनम् । सर्गबीजभूतचिन्मात्रव्याप्तिज्ञानेन परमाणौ परमाणौ सर्गदर्शनं ज्ञेयम् ॥ ंोट्_२,१८.२७ ॥ मोक्षोपायावबोधेन शुद्धान्तःकरणं जनम् । न खेदयति भोगौघो न चानन्दयति क्वचित् ॥ ंो_२,१८.२८ ॥ भोगेषूपेक्षामेवासौ भजते इति भावः ॥ ंोट्_२,१८.२८ ॥ परमाणौ परमाणौ सर्गवर्गा निरर्गलम् । ये पतन्त्युत्पतन्त्यम्बुवीचिवत्तान् स पश्यति ॥ ंो_२,१८.२९ ॥ "पतन्ति" लीना भवन्ति । "उत्पतन्ति" प्रादुर्भवन्ति ॥ ंोट्_२,१८.२९ ॥ न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति । कार्याण्येष प्रबुद्धोऽपि निष्प्रबुद्ध इव द्रुमः ॥ ंो_२,१८.३० ॥ अबुद्धत्वमस्य स्वात्मनि "निष्प्रबुद्धत्वं" संसारे ज्ञेयम् ॥ ंोट्_२,१८.३० ॥ ननु कीदृगतिशयोऽस्य स्यादित्य् । अत्राह दृश्यते लोकसामान्यो यथाप्राप्तानुवृत्तिमान् । इष्टानिष्टफलप्राप्तौ हृदये न पराजितः ॥ ंो_२,१८.३१ ॥ "लोकसामान्यः" न त्वतिशयवान् । "यथाप्राप्ते" प्रवाहागते । "अनुवृत्तिः" अनुवर्तनम् । विद्यते यस्य । सः "यथाप्राप्तानुवृत्तिमान्" । "हृदये" मनसि । "न पराजितः" हर्षामर्षावशीभूतः ॥ ंोट्_२,१८.३१ ॥ बुद्ध्वेदमखिलं शास्त्रं वाचयित्वा विवेच्य वा । अनुभूयत एवैतन्न तूक्तं वरशापवत् ॥ ंो_२,१८.३२ ॥ युष्माभिः "एतत्" पूर्वोक्तं फलं "अनुभूयत एव" । ननु प्रत्यवायशङ्कया कथमेतदनुभवे शक्ता भवाम इत्यपेक्षायामाह । "न तूक्तम्" इति । "मन्त्रादिवद्" इति शेषः ॥ ंोट्_२,१८.३२ ॥ ननु दुर्बोधेऽस्मिन् कथं प्रवृत्तिं कुर्म इत्य् । अत्राह शास्त्रं सुबोधमेवेदं नानालंकारभूषितम् । काव्यं रसघनं चारु दृष्टान्तैः प्रतिपादकम् ॥ ंो_२,१८.३३ ॥ "दृष्टान्तैः प्रतिपादकम्" इति सुबोधत्वे विशेषणद्वारेण हेतुः ॥ ंोट्_२,१८.३३ ॥ बुध्यते स्वयमेवेदं किंचित्पदपदार्थवित् । स्वयं यस्तु न वेत्तीदं श्रोतव्यं तेन पण्डितात् ॥ ंो_२,१८.३४ ॥ "बुध्यते" जानाति । ननु यस्य पदपदार्थवित्त्वं नास्ति तस्य किं कार्यमित्य् । अत्राह "स्वयम्" इति ॥ ंोट्_२,१८.३४ ॥ नन्वेतच्छ्रवणेन किं सेत्स्यतीत्य् । अत्राह अस्मिञ्श्रुते मते ज्ञाते तपोध्यानजपादिकम् । मोक्षप्राप्तौ तु तस्येह न किंचिदुपयुज्यते ॥ ंो_२,१८.३५ ॥ "श्रुते" श्रवणविषयतां नीते । "मते" मननविषयतां नीते । "ज्ञाते" निदध्यासिते । "तस्य" श्रवणादौ प्रवृत्तस्य ॥ ंोट्_२,१८.३५ ॥ एतच्छास्त्रघनाभ्यासात्पौनःपुन्येन वीक्षितात् । जन्तोः पाण्डित्यपूर्वं हि चित्तसंस्कारपूर्वकम् ॥ ंो_२,१८.३६ ॥ अहं जगदिति प्रौढो द्रष्टृदृश्यपिशाचकः । पिशाचोऽर्कोदयेनेव स्वयं शाम्यत्यविघ्नतः ॥ ंो_२,१८.३७ ॥ एतेन बाह्यमपि प्रयोजनमान्तरमपि च सेत्स्यतीति कथितम् ॥ ंोट्_२,१८.३६३७ ॥ भ्रमो जगदहं चेति स्थित एवोपशाम्यति । स्वप्नमोहः परिज्ञात इव नो रमयत्यलम् ॥ ंो_२,१८.३८ ॥ "स्थित एव" । न तु मन्त्रादिप्रयोगवशेनान्तर्भूतिं गतः । ननु स्थितस्योपशमनं कथमित्य् । अत्राह । "स्वप्नमोह" इति । अरसकस्य स्थितस्यापि शान्तिरेव ज्ञेया क्षोभकारित्वाभावातिति भावः ॥ ंोट्_२,१८.३८ ॥ यथा संकल्पनगरे पुंसो हर्षविषादिता । न बाधते तथैवान्तः परिज्ञाते जगद्भ्रमे ॥ ंो_२,१८.३९ ॥ "अन्तः" मनसि । "परिज्ञाते" सम्यक्निश्चिते । "हर्षविषादिता न बाधते" इति "तथा"शब्देनानुकृष्यते ॥ ंोट्_२,१८.३९ ॥ चित्रसर्पः परिज्ञातो न सर्पभयदो यथा । दृश्यसर्पः परिज्ञातस्तथा न सुखदुःखदः ॥ ंो_२,१८.४० ॥ "परिज्ञातः चित्रसर्पो"ऽयमिति सम्यङ्निश्चितः । दृश्याख्यः सर्पः "दृश्यसर्पः" ॥ ंोट्_२,१८.४० ॥ परिज्ञानेन सर्पत्वं चित्रसर्पस्य नश्यति । यथा तथैव संसारः स्थित एवोपशाम्यति ॥ ंो_२,१८.४१ ॥ स्पष्टम् ॥ ंोट्_२,१८.४१ ॥ ननु परमार्थप्राप्तिरस्माकमतिदुष्करैव । तथा च तत्प्राप्त्यर्थमेतच्छास्त्रावगाहनमयुक्तमेवेत्य् । अत्राह सुमनःपल्लवामर्शे किंचिद्व्यतिकरो भवेत् । परमार्थपदप्राप्तौ न तु व्यतिकरोऽस्ति नः ॥ ंो_२,१८.४२ ॥ "सुमनःपल्लवामर्शे" पुष्पपल्लवामर्दे । "व्यतिकरः" यत्नः । "नः" युक्तिज्ञानामस्माकम् । न त्वयुक्तिज्ञानां भवतामित्यर्थः ॥ ंोट्_२,१८.४२ ॥ व्यतिकराभावमेव कथयति गच्छत्यवयवस्पन्दः सुमनःपत्रमर्दने । इह धीमात्रबोधस्तु नाङ्गावयवबोधनम् ॥ ंो_२,१८.४३ ॥ "गच्छति" उपयुक्तो भवति । अनेकार्थत्वाद्धातूनां "गच्छतिर्" अत्रास्मिन्नर्थे वर्तते । "अङ्गावयवानां" शरीरावयवानाम् । "बोधनम्" चालनम् ॥ ंोट्_२,१८.४३ ॥ सुखासनोपविष्टेन यथासम्भवमश्नता । भोगजालं सदाचारविरुद्धेषु न तिष्ठता ॥ ंो_२,१८.४४ ॥ यथाक्षणं यथादेशं प्रविचारयता सुखम् । यथासम्भवसत्सङ्गमिदं शास्त्रमथेतरत् ॥ ंो_२,१८.४५ ॥ आसाद्यते महाज्ञानबोधः संसारशान्तिदः । स भूयो येन नायाति योनियन्त्रप्रपीडनम् ॥ ंो_२,१८.४६ ॥ "यथासम्भवम्" न तु प्रयत्नसाधितम् । "सदाचारविरुद्धेषु" तिष्ठतो हि हानोपादानकारित्वरूपो दोषः आयातीति "न तिष्ठते"त्युक्तम् । "यथाक्षणम्" प्रतिक्षणम् । "सुखम्" सुखदायि । "यथासम्भवः सत्सङ्गो" यत्र तत् । "इदं शास्त्रं" मया वक्ष्यमाणमोक्षोपायाख्यं शास्त्रम् । "इतरत्" एतत्सदृशमन्यच्छास्त्रं वा । महाज्ञानरूपः बोधः "महाज्ञानबोधः" । "स" इत्यस्य पूर्वार्धेन सम्बन्धः ॥ ंोट्_२,१८.४४४६ ॥ एतावत्येव ये भूता भोगान् प्राप्य रसे स्थिताः । स्वमातृविष्ठाक्रिमयः कीर्तनीया न तेऽधमाः ॥ ंो_२,१८.४७ ॥ "एतावति रसे" परिमिते रसे । "भूताः" सामान्यजन्तवः ॥ ंोट्_२,१८.४७ ॥ एवं शास्त्रमाहात्म्यमुक्त्वा श्रीरामं संमुखीकरोति शृणु तावदिदानीं त्वं कथ्यमानमिदं मया । राघव ज्ञानविस्तारं बुद्धिसारतरान्तरम् ॥ ंो_२,१८.४८ ॥ "बुद्धेः सारतरमन्तरम्" यस्य तत् । बुद्ध्यतिशायीत्यर्थः ॥ ंोट्_२,१८.४८ ॥ मध्ये श्रीरामकृतांश्चोद्यानाशङ्क्याह ययेदं श्रूयते शास्त्रं तां तु विस्तरतः शृणु । विचार्यते तथार्थोऽयं यया च परिभाषया ॥ ंो_२,१८.४९ ॥ "यया परिभाषया" युक्त्या । "इदं शास्त्रं श्रूयते" । त्वं "तां विस्तरतः शृणु" । "तथा" "यया च विचार्यते" । तां च शृण्विति पूर्वेण सम्बन्धः ॥ ंोट्_२,१८.४९ ॥ परिभाषामेव कथयति येनेहाननुभूतेऽर्थे दृष्टेनार्थावबोधनम् । बोधोपकारफलदं तं दृष्टान्तं विदुर्बुधाः ॥ ंो_२,१८.५० ॥ "येन दृष्टेना"र्थेन । "अननुभूते अर्थे अर्थावबोधनम्" ज्ञानं भवति । "बुधाः तं दृष्टान्तमाहुः" । कथंभूतम् । "बोधा"ख्यः य "उपकारः" । तदेव "फलं" । तद्"दधाती"ति तादृशम् ॥ ंोट्_२,१८.५० ॥ दृष्टान्तदाने किं फलमित्य् । अत्राह दृष्टान्तेन विना राम नापूर्वोऽर्थोऽवबुध्यते । यथा दीपं विना रात्रौ भाण्डोपकरणं गृहे ॥ ंो_२,१८.५१ ॥ "भाण्डोपकरणं" भाण्डसामग्री ॥ ंोट्_२,१८.५१ ॥ यैर्यैः काकुत्स्थ दृष्टान्तैस्त्वं मयेहावबुध्यसे । सर्वे सकारणास्ते हि प्राप्यं तु सदकारणम् ॥ ंो_२,१८.५२ ॥ "प्राप्यम्" प्रापणीयम् । "सत्" सन्मात्राख्यं वस्तु ॥ ंोट्_२,१८.५२ ॥ ननु सर्वाणि दार्ष्टान्तिकानि एतादृशानि एव सन्त्युतान्यान्यथेत्यपेक्षायामाह उपमानोपमेयानां कार्यकारणतोदिता । वर्जयित्वा परं ब्रह्म सर्वेषामेव विद्यते ॥ ंो_२,१८.५३ ॥ दृष्टान्तदार्ष्टान्तिकानाम् "परं ब्रह्म वर्जयित्वा" । "उदिता" उदयनशीला । "कार्यकारणता विद्यते" । ब्रह्म न कार्यमस्ति नापि कारणमित्यर्थः । अतो न ब्रह्मसदृशानि सर्वाणि दार्ष्टान्तिकानि इति भावः ॥ ंोट्_२,१८.५३ ॥ फलितं कथयति ब्रह्मोपदेशदृष्टान्तो यस्य वेह हि कथ्यते । एकदेशसधर्मत्वं तत्रातः परिगृह्यते ॥ ंो_२,१८.५४ ॥ "हि" निश्चये । "अतः" कारणात् । "इह" लोके । "यस्य वा ब्रह्मोपदेशदृष्टान्तः कथ्यते तत्र" ब्रह्मदृष्टान्ते । "एकदेशसधर्मत्वं" एकदेशसदृशत्वम् । "परिगृह्यते" । न तु सर्वथा सदृशत्वं दार्ष्टान्तिकस्य ब्रह्मणः कार्यकारणत्वायोग्यात् । दृष्टान्तस्य तु कार्यतया कारणतया च स्थितत्वादिति भावः ॥ ंोट्_२,१८.५४ ॥ यो यो नामेह दृष्टान्तो ब्रह्मतत्त्वावबोधने । दीयते स स बोद्धव्यः स्वप्नदृष्टजगद्गतः ॥ ंो_२,१८.५५ ॥ "स्वप्नदृष्टजगद्गतः" भ्रमरूपः इत्यर्थः ॥ ंोट्_२,१८.५५ ॥ फलितमाह एवं सति निराकारे ब्रह्मण्याकारवान् कथम् । दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥ ंो_२,१८.५६ ॥ "नोद्यन्ति" नोत्तिष्ठन्ति । अस्माभिरत एव प्रत्युक्तत्वादिति भावः ॥ ंोट्_२,१८.५६ ॥ अन्या सिद्धविरुद्धादिदृक्दृष्टान्तप्रदूषणे । स्वप्नोपमत्वाज्जगतः समुदेति न काचन ॥ ंो_२,१८.५७ ॥ "अन्या" पूर्वोक्तायाः दृष्टेः सकाशातितरा का । "न का"पि । "सिद्धविरुद्धादिदृक्" इदं सिद्धमिदं विरुद्धमित्यादिरूपा उक्तिः । "जगतः स्वप्नोपमत्वात्दृष्टान्तप्रदूषणे" दृष्टान्तप्रदूषणार्थम् "न समुदेति" । "आदि"शब्देनेदं लेशेन सिद्धं विरुद्धं वेति दृष्टेर्ग्रहणम् । स्वप्नोपमे जगति इदं सिद्धमिदं विरुद्धमिति । कथनं न युक्तं सर्वस्यायुक्तत्वादिति भावः ॥ ंोट्_२,१८.५७ ॥ अवस्तु पूर्वापरयोर्वर्तमानविचारितम् । यथा जाग्रत्तथा स्वप्नः सिद्धमाबालमक्षतम् ॥ ंो_२,१८.५८ ॥ "पूर्वापरयोः" भूतभविष्यतोरर्थयोः । "अवस्तु" भावप्रधानो निर्देशः । "अवस्तुत्वम्" असत्त्वम् "वर्तमानविचारितं" भवति । वर्तमाने हि भूतस्य गतत्वात्भविष्यतः अनागतत्वातसत्त्वं विचारपदवीमायाति । तदभिन्नस्य वर्तमानस्यापि अवस्तुत्वम् अपरिहार्यमेवेति स्वयमेव ज्ञेयम् । अतः "आबालम्" बालपर्यन्तम् । "यथा स्वप्नः तथा जाग्रद्" इति । "अक्षतं" सम्यक् । "सिद्धम्" भवति ॥ ंोट्_२,१८.५८ ॥ स्वप्नसंकल्पनध्यानवरशापौषधादिभिः । येऽर्थास्त इह दृष्टान्तास्तद्रूपत्वाज्जगत्स्थितेः ॥ ंो_२,१८.५९ ॥ "येऽर्था" इत्य् । अत्र "दृष्टा" इति शेषः । "तद्रूपत्वात्" स्वप्नाद्यर्थरूपत्वात् । अत "इहा"सत्यैः पदार्थैः सत्यस्य ब्रह्मणः उपमानोपमेयभावः एकदेशसाधर्म्येणेति भावः ॥ ंोट्_२,१८.५९ ॥ ननु त्वया कृतेष्वन्येषु ग्रन्थेषु का वार्तेत्य् । अत्राह मोक्षोपायकृता ग्रन्थकारेणान्येऽपि ये कृताः । ग्रन्थास्तेष्वियमेवैका व्यवस्था बोध्यबोधने ॥ ंो_२,१८.६० ॥ "मोक्षोपायकृता ग्रन्थकारेण" मयेत्यर्थः । "बोध्यस्य" बोधनीयस्य ब्रह्मतत्त्वस्य । "बोधने" कथने । "व्यवस्था" रीतिः ॥ ंोट्_२,१८.६० ॥ ननु कथं स्वप्नसदृशत्वं जगतोऽस्तीत्य् । अत्राह स्वप्नाभत्वं च जगतः श्रुते शास्त्रेऽवभोत्स्यते । शीघ्रं न पार्यते वक्तुं वाक्किल क्रमवर्तिनी ॥ ंो_२,१८.६१ ॥ "अवभोत्स्यते" ज्ञातुं शक्यते । तर्हि युगपदेव सर्वं शास्त्रं कथयेत्य् । अत्राह । "शीघ्रम्" इति । "वाचः क्रमवर्तित्वं" स्फुटमेव । "न" हि एकं वाक्यमनिर्वाह्य द्वितीयादिकं वाक्यं "वक्तुं" शक्यते ॥ ंोट्_२,१८.६१ ॥ स्वप्नसंकल्पसुध्याननगराद्युपमं जगत् । यतस्त एव दृष्टान्तास्तस्माद्भान्तीह नेतरे ॥ ंो_२,१८.६२ ॥ "यतः जगत्" । "स्वप्नसंकल्पसुध्यानेषु" दृष्टाः ये "नगरादयः" । तेषां "उपमा" यस्य । तादृशं भवति । "तस्मात्त एव सुध्याननगरादय" एव "दृष्टान्ताः भान्ति" अस्माकं बुद्धौ स्फुरन्ति । "इतरे" सत्यभूताः नगरादयः । "न" भान्ति अयुक्तत्वात् ॥ ंोट्_२,१८.६२ ॥ अकारणं कारणिना यद्बोधायोपमीयते । न तत्र सर्वसाधर्म्यं सम्भवत्युपमाभ्रमैः ॥ ंो_२,१८.६३ ॥ "अकारणं" कारणरहितं ब्रह्म । "कारणिना" कारणयुक्तेनाकाशादिना । "उपमाभ्रमैः" अन्योपमादृष्टसर्वथासाधर्म्यरूपैः विपर्ययैः ॥ ंोट्_२,१८.६३ ॥ उपमेयस्योपमानादेकांशेन सधर्मता । अङ्गीकार्यावबोधाय धीमता निर्विवादिना ॥ ंो_२,१८.६४ ॥ "धीमता" न त्वधीमता । स हि आरम्भ एव विवादपर एव तिष्ठतीति भावः ॥ ंोट्_२,१८.६४ ॥ नन्वेकेन धर्मेण सदृशेन उपमानं कथमुपमेयस्य प्रतीतिं कर्तुं शक्नोतीत्य् । अत्र दृष्टान्तं साधयति अर्थावलोकने दीपादाभामात्रादृते किल । न स्थालतैलवर्त्यादि किंचिदप्युपजायते ॥ ंो_२,१८.६५ ॥ "आभामात्रात्" प्रकाशमात्ररूपात् । "स्थालम्" पात्रम् ॥ ंोट्_२,१८.६५ ॥ एतदेव दार्ष्टान्तिकयुक्तं कथयति एकदेशसधर्मत्वादुपमेयावबोधनम् । उपमानं करोत्यङ्ग दीपोऽर्थं प्रभया यथा ॥ ंो_२,१८.६६ ॥ "प्रभया" प्रभाख्येनैकदेशेन ॥ ंोट्_२,१८.६६ ॥ दृष्टान्तस्यांशमात्रेण बोध्यबोधोदये सति । उपादेयतया ग्राह्यो महावाक्यार्थनिश्चयः ॥ ंो_२,१८.६७ ॥ न तु दृष्टान्तमात्र एव स्थातव्यमिति भावः ॥ ंोट्_२,१८.६७ ॥ न कुतार्किकतामेत्य नाशनीया प्रबुद्धता । अनुभूत्यपलापात्तैरपवित्रैर्विकल्पितैः ॥ ंो_२,१८.६८ ॥ "प्रबुद्धता" ज्ञानिता । "कुतार्किकाः" हि आरम्भ एव चोद्यान् दत्त्वा प्रबुद्धतां नाशयन्ति । "विकल्पितैः" कथंभूतैः । "अनुभूते" यः "अपलापः" निह्नवः । तेन "आत्तैः" गृहीतैः ॥ ंोट्_२,१८.६८ ॥ ननु पुराणानि शास्त्राणि च त्यक्त्वा किमर्थं त्वदुक्तं शास्त्रं गृह्णीमः इत्य् । अत्राह विचारणादनुभवकारि वाङ्मय प्रसङ्गतामुपगतमस्मदादिषु । स्त्रियोक्तमप्यपरमथापि वैदिकं वचो वचःप्रलपनमेव नागमः ॥ ंो_२,१८.६९ ॥ "अस्मदादिषु" प्रामाणिकेषु । "स्त्रिया उक्तमपि" स्त्रीकर्तृकं प्रलपितमपि । "वाङ्मयप्रसङ्गताम्" शास्त्रप्रसङ्गताम् । शास्त्रत्वमिति यावत् । "उपगतम्" । कथंभूतं तत् । "विचारणातनुभवकारि" । "अथ" पक्षान्तरे । "वैदिकं वचः अपि वचःप्रलपनमेव" प्रलाप एव भवति । "नागमः" भवति अनुभवकारित्वाभावादित्यर्थः ॥ ंोट्_२,१८.६९ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति अस्माकमस्ति मतिरङ्ग तयेति सर्व शास्त्रैकवाक्यकरणं फलितं यतोऽतः । प्रातीतिकार्थमयशास्त्रनिजाङ्गपुष्टात् संवेदनादितरदस्ति न नः प्रमाणम् ॥ ंो_२,१८.७० ॥ हे "अङ्ग" । "अस्माकं मतिरस्ति इति" । "अतः" हेतोः । "अस्माकं तया" बुद्ध्या । "सर्वशास्त्रैकवाक्यकरणं यतः फलितम्" । "अतः" हेतोः । "नः" अस्माकम् । "संवेदनात्" ज्ञानात् । अन्यत्"प्रमाणं नास्ति" । सर्वस्मिञ्शास्त्रे संवेदनमेवास्माभिः प्रमाणं दृष्टम् । अतोऽस्माकमपि तदेव प्रमाणमिति भावः । "संवेदनात्" कथंभूतात् । "प्रातीतिकः" प्रतीतेरागतः । न तु कल्पितः । यः "अर्थः" । तन्"मयम्" यत्"शास्त्रं" । तदेव "निजाङ्गम्" उपकारकत्वात्स्वाङ्गम् । तेन "पुष्टात्" वृद्धिं गतात् ॥ ंोट्_२,१८.७० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे अष्टादशः सर्गः ॥ २,१८ ॥ ************************************************************************ ओं पूर्वोक्तमेवार्थं पुनरपि स्पष्टयति विशिष्टांशसधर्मत्वमुपमानेषु गृह्यते । को भेदः सर्वसादृश्ये तूपमानोपमेययोः ॥ ंो_२,१९.१ ॥ "विशिष्टांशेन" कार्यसाधकेनांशेन । "साधर्म्यं" सादृश्यम् । एकांशेनापि कार्यस्य सिद्धत्वान्न कोऽपीत्यर्थः ॥ ंोट्_२,१९.१ ॥ दृष्टान्तबुद्धादेकात्मज्ञानशास्त्रार्थवेदनात् । महावाक्यार्थसंवित्त्या शान्तिर्निर्वाणमुच्यते ॥ ंो_२,१९.२ ॥ "एकम्" केवलम् । "आत्मज्ञानं" प्रतिपाद्यत्वेन यस्मिन् । तादृशं यत्"शास्त्रं" । तस्य यो "ऽर्थः" । तस्य "वेदनात्" विचारात् । उत्पन्नया "महावाक्यार्थसंवित्त्या" । गर्भीकृतावान्तरवाक्यमहावाक्यार्थपरिच्छेदेन । सिद्धा "शान्तिः" मनःक्षोभराहित्यम् । पण्डितैः "निर्वाणमुच्यते" । "वेदनात्" कथंभूतात् । "दृष्टान्तैः बुद्धात्" ज्ञातात्सिद्धादिति यावत् ॥ ंोट्_२,१९.२ ॥ उपसंहारं करोति तस्माद्दृष्टान्तदार्ष्टान्तविकल्पोल्लसितैरलम् । यया कयाचिद्युक्त्याशु महावाक्यार्थमाश्रयेत् ॥ ंो_२,१९.३ ॥ "अलम्" कृतम् । नैतैः प्रयोजनमित्यर्थः ॥ ंोट्_२,१९.३ ॥ शान्तिः श्रेयः परं विद्धि तत्प्राप्तौ यत्नवान् भवेत् । भोक्तव्य ओदनः प्राप्तः किं तत्सिद्धिविकल्पितैः ॥ ंो_२,१९.४ ॥ "शान्तिः" मनोविकल्परूपक्षोभराहित्यम् । "सिद्धिविकल्पितैः" कथमेतत्सम्पन्नमिति विकल्पैः ॥ ंोट्_२,१९.४ ॥ अकारणं कारणिभिर्बोधार्थमुपमीयते । उपमानैस्तूपमेयसदृशैरेकदेशतः ॥ ंो_२,१९.५ ॥ "अकारणं" कारणरहितब्रह्म । "एकदेशतः" एकेन धर्मेण ॥ ंोट्_२,१९.५ ॥ स्थातव्यं नेह भोगेषु विवेकविकलात्मना । उपलोदरसंजातपरिपीनान्धभेकवत् ॥ ंो_२,१९.६ ॥ स्पष्टम् ॥ ंोट्_२,१९.६ ॥ दृष्टान्तैर्युक्तिभिर्यत्नाद्वाञ्छितं त्यजतेतरत् । विचारणवता भाव्यं शान्तिशास्त्रार्थशालिना ॥ ंो_२,१९.७ ॥ "वाञ्छितं" अभिलषितम् । "इतरत्" विचारव्यतिरिक्तम् । "शान्तिश्" च "शास्त्रार्थश्" च ताभ्यां शालते इति तादृशेन ॥ ंोट्_२,१९.७ ॥ शास्त्रोपशमसौजन्यप्रज्ञातज्ज्ञसमागमैः । अन्तरान्तरसम्पन्नधर्म्यार्थोपार्जनक्रियः ॥ ंो_२,१९.८ ॥ तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि । सम्प्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम् ॥ ंो_२,१९.९ ॥ "शास्त्रं" च "उपशमश्" च "सौजन्यं" च "प्रज्ञा" च "तज्ज्ञसमागमश्" च । तैः उपलक्षितः । "अन्तरान्तरे" मध्ये मध्ये "सम्पन्नाः" । "धर्म्यानां" धर्मादनपेतानां "अर्थानामुपार्जनम्" । तस्य "क्रियाः" यस्य सः । तादृशः "प्राज्ञः तावत्विचारयेत्" । "यावतपुनर्नाशां" प्रध्वंसाभावरहिताम् । "तुर्यपदाभिधां" तुर्यपदेति नामधेयाम् । "आत्मनि विश्रान्तिं" आत्मविश्रान्तिलक्षणां शान्तिम् । "सम्प्रयाति" ॥ ंोट्_२,१९.८९ ॥ नन्वात्मनि विश्रान्त्या किं सेत्स्यतीत्य् । अत्राह तुर्यविश्रान्तियुक्तस्य प्रतीर्णस्य भवार्णवात् । जीवतोऽजीवतश्चैव गृहस्थस्याथ वा यतेः ॥ ंो_२,१९.१० ॥ न कृतेनाकृतेनार्थो न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवांभोधिः स तिष्ठति यथास्थितम् ॥ ंो_२,१९.११ ॥ "जीवतः" जीवन्मुक्तस्य्"आजीवतः" विदेहमुक्तस्य । "अर्थः" प्रयोजनम् । ननु कथमसौ तिष्ठतीत्य् । अत्राह । "निर्मन्दर" इति । "सः" विश्रान्तियुक्तः ॥ ंोट्_२,१९.१०११ ॥ एकांशेनोपमानानामुपमेयसधर्मता । बोद्धव्या बोध्यबोधाय न स्थेयं चोद्यचञ्चुना ॥ ंो_२,१९.१२ ॥ "चोद्येन चञ्चुः" वित्तः । प्रसिद्ध इति यावत् । इति "चोद्यचञ्चुः" चोद्यशीलेनेत्यर्थः ॥ ंोट्_२,१९.१२ ॥ यया कयाचिद्युक्त्याशु बोद्धव्यं बोध्यमेव ते । मुक्तये तन्न पश्यन्ति व्याकुलाश्चोद्यचञ्चवः ॥ ंो_२,१९.१३ ॥ "ते" इति कर्तरि षष्ठी । "त्वाम्" इति शेषः । "व्याकुलाः चोद्यचञ्चवः" । "तत्" तदा । त्वाम् "न पश्यन्ति" । किमुताधिगच्छन्तीति भावः ॥ ंोट्_२,१९.१३ ॥ चोद्यचञ्चोः लक्षणं कथयति हृदये संविदाकाशे विश्रान्तेऽनुभवात्मनि । वस्तुन्यनर्थं यः प्रष्टा चोद्यचञ्चुः स उच्यते ॥ ंो_२,१९.१४ ॥ "हृदये" मनसि । "विश्रान्ते"ऽपि "अनुभवात्मनि संविदाकाशे" चिदाकाशे । "वस्तुनि यः अनर्थम्" संशयरूपमनर्थम् । "प्रष्टा" पृच्छकः भवति । पण्डितैः "सः चोद्यचञ्चुः उच्यते" । स्वानुभवाविष्टेऽपि वस्तुनि यः पुनः पुनः चोद्यानुत्पादयति सः चोद्यचञ्चुरिति भावः ॥ ंोट्_२,१९.१४ ॥ अभिमानविकल्पांशैरज्ञो ज्ञप्तिं विकल्पयन् । बोधं मलिनयत्यन्तर्मुखं सर्प इवामलम् ॥ ंो_२,१९.१५ ॥ "अभिमानेना"हं सम्यक्चोदनशील इत्यभिमानेन कृतैः "विकल्पांशैः" । चोद्यरूपैः विकल्पांशैः । "अन्तः" स्वस्मिन् । "अज्ञः" स्वाम् "ज्ञप्तिं" बुद्धिम् । "विकल्पयन्" विकल्पयुक्तां कुर्वन् । "बोधं मलिनयति" भेदमालिन्यदूषितं करोति । अतः त्वया व्यर्हाः विकल्पाः । न कार्या इति भावः ॥ ंोट्_२,१९.१५ ॥ उपदेशे उपयोग्यानां प्रमाणां निर्णयं प्रस्तौति सर्वप्रमाणसत्तानां पदमब्धिरपामिव । प्रमाणमेकमेवेह प्रत्यक्षं राम तच्छृणु ॥ ंो_२,१९.१६ ॥ "सर्वासाम्" अनुमानादिभेदभिन्नानां समस्तानां "प्रमाणसत्तानां" । "अब्धिरिवापां" स्थानमाश्रयम् । "एकं प्रत्यक्षमेव इह" लोके "प्रमाणम्" अस्ति । न हि अनुमानादयः प्रत्यक्षं विना स्थातुं शक्नुवन्ति । हे "राम" । त्वम् "तत्" प्रत्यक्षं नाम प्रमाणम् । "शृणु" ॥ ंोट्_२,१९.१६ ॥ प्रत्यक्षमेव कथयति सर्वार्थसारमध्यक्षं वेदनं विदुरुत्तमाः । नूनं तत्प्रति यत्सिद्धं तत्प्रत्यक्षमुदाहृतम् ॥ ंो_२,१९.१७ ॥ "उत्तमाः" श्रेष्ठाः । "सर्वार्थानां सार"प्रकाशनद्वारेण सिद्धिप्रदत्वात्सारभूतं "वेदनं" ज्ञानमेव । "अध्यक्षं विदुः" सारभूतवस्तुवाचकत्वाद्"अध्यक्ष"शब्दस्य । हे राम । "नूनं" निश्चये । "तत्प्रति" वेदनरूपमध्यक्षं प्रति । "यत्सिद्धं" भवति । पण्डितैः "तद्" वस्तु "प्रत्यक्षमुदाहृतम्" । अक्षं प्रति सिद्धं प्रत्यक्षमिति व्युत्पत्तेः । अक्षशब्दस्य च भामेतिवदध्यक्षवाचकत्वम् ॥ ंोट्_२,१९.१७ ॥ ततः किमित्य् । अत्राह अनुभूतेर्वेदनस्य प्रतिपत्तेर्यथास्थितम् । प्रत्यक्षमिति नामेह कृतं जीवः स एव च ॥ ंो_२,१९.१८ ॥ अतः पण्डितैः । "अनुभूतेः" अनुभूतिरूपस्य । "प्रतिपत्तेः" प्रतिपत्तिरूपस्य । "वेदनस्य" । "इह" लोके । "यथास्थितम्" न त्वन्यथा संभावितम् । "प्रत्यक्षमिति नाम कृतम्" । वेदनस्यैव वेदनं प्रति सिद्धत्वादन्यस्य सर्वस्य तस्मिंल्लयासादनात्"स एव जीवः" भवति । वेदनादन्यस्य शरीरादेः पाषाणतुल्यत्वेन जीवत्वायोगातनुभूतिप्रतिपत्त्योः स्फुटत्वास्फुटत्वकृतो भेदो ज्ञेयः ॥ ंोट्_२,१९.१८ ॥ पदार्थानामेतद्रूपत्वमेव कथयति स एव संवित्स पुनरहंताप्रत्ययात्मकः । स ययोदेति संवित्त्या सा पदार्थ इति स्मृता ॥ ंो_२,१९.१९ ॥ "स एव" जीव एव । आरोहावस्थायां "संवित्" भवति । "स" एवावरोहावस्थायां "अहंताप्रत्ययात्मकः" भवति । "सः" अहंताप्रत्ययात्मकः जीवः । "यया संवित्त्या" येन घटादिसंवेदनेन रूपेण । "उदेति" स्फुरति । "सा" संवित्तिः । पण्डितैः "पदार्थ इति स्मृता" । न हि पदार्थस्य संवित्तिव्यतिरेकेण पृथक्स्वरूपमस्ति । सत्त्वेऽप्यसन् कल्पत्वात् । न हि संवित्तिं विना सत्सत्भवति ॥ ंोट्_२,१९.१९ ॥ पदार्थानां जगत्त्वं कथयति स संकल्पविकल्पाद्यैः कृतनानाक्रमो भ्रमैः । जगत्तया स्फुरत्यम्बु तरङ्गादितया यथा ॥ ंो_२,१९.२० ॥ "सः" पदार्थः । "संकल्पविकल्पाद्यैः" संकल्पविकल्पप्रभृतिभिः प्रमातृनिष्टैः विपर्ययज्ञानैः । "कृतनानाक्रमः" सन् । "जगत्तया स्फुरति" । किं "यथा" । "अम्बु यथा" । "यथा" तत्"तरङ्गादितया" स्फुरति तथेत्यर्थः ॥ ंोट्_२,१९.२० ॥ ननु शुद्धस्य वेदनस्य कथमेवंरूपता सम्पन्नेत्य् । अत्राह प्रागकारणमेवाशु सर्गादौ सर्गलीलया । स्फुरित्वा कारणीभूतं प्रत्यक्षं स्वयमात्मनि ॥ ंो_२,१९.२१ ॥ "प्रत्यक्षं" वेदनरूपं प्रत्यक्षम् । "प्राक्" सर्गात्प्राक् । "अकारणमेव" सत् । "सर्गादौ" सर्गोन्मुखतासमये । "सर्गलीलया स्फुरित्वा" । "आत्मनि" सर्गरूपे स्वात्मनि । "स्वयं" स्वातन्त्र्येण । "कारणीभूतम्" । न च स्वातन्त्र्यकृते कथमिति पर्यनुयोगः युक्तः इति भावः ॥ ंोट्_२,१९.२१ ॥ ननु वेदनरूपस्य जीवस्य कारणत्वं किंरूपमस्तीत्य् । अत्राह कारणत्वं विचारोऽस्य जीवस्यासदपि स्थितम् । सदिवास्यां जगद्रूपसम्पत्तौ व्यक्तिमागतम् ॥ ंो_२,१९.२२ ॥ "जगद्रूपसम्पत्तौ विचारः" विमर्शः । "अस्य" शुद्धवेदनरूपस्य "जीवस्य" । वा "कारणत्वं" भवति । कथम्भूतं "कारनत्वं" । "असदपि" परमार्थतः असत्स्वरूपमपि । "सदिव स्थितम्" । पुनः कथम्भूतम् । अभि"व्यक्तिं" प्राकट्यं "गतम्" ॥ ंोट्_२,१९.२२ ॥ ननु पुनरपि किं तस्य जीवस्य कारणत्वं नश्यत्यथ वा नेत्य् । अत्राह स्वयमेव विचारस्तु सनञर्थं स्वकं वपुः । नाशयित्वा करोत्याशु प्रत्यक्षं परमं पदम् ॥ ंो_२,१९.२३ ॥ "स्वयमेव विचारः सनञर्थं" स्वाभावयुक्तम् । "स्वकं वपुः" निजविचाराख्यं स्वरूपं "नाशयित्वा" । "परमं पदं" कारणत्वानवच्छिन्नं स्वस्वरूपम् । "प्रत्यक्षं" "करोति" । विचारवशादेव । पुनरपि जीवस्य कारणत्वं नश्यतीति भावः ॥ ंोट्_२,१९.२३ ॥ ननु विचारः कथं परमं पदं प्रत्यक्षीकरोतीत्यपेक्षायामाह विचारयन् विचारोऽपि नात्मानमधिगच्छति । यदा तदा निरुल्लेखं परमेवावशिष्यते ॥ ंो_२,१९.२४ ॥ "विचारः" विमर्शः । "आत्मानं विचारयन्" किंरूपोऽहमिति विमर्शविषयीकुर्वन् । "यदा आत्मानं नाधिगच्छति" न किंचिद्रूपत्वात्न लभते । "तदा निरुल्लेखं" विमर्शरहितम् । "परं" पदं शुद्धचिन्मात्राख्यश्रेष्ठं स्वरूपम् । "एवाव"तिष्ठते विचारणीयाभावादित्यर्थः ॥ ंोट्_२,१९.२४ ॥ ननु पुरुष एतस्यामवस्थायां बुद्धीन्द्रियकर्माणि करोति न वेत्य् । अत्राह मनस्यनीहिते शान्ते तैर्बुद्धीन्द्रियकर्मभिः । नेह कैश्चित्कृतैरर्थो नाकृतैरप्यभावनात् ॥ ंो_२,१९.२५ ॥ "मनसि" विचारस्वरूपे मनसि । "अनीहिते" स्वक्रियामकुर्वति । अत एव "शान्ते" सति । पुरुषस्य "तैः" प्रसिद्धैः । "कैश्चिद्" "बुद्धीन्द्रियकर्मभिः" "कृतैः" । "अर्थः न" भवति । "अकृतैश्" च्"आर्थः न" भवति । कुतः । "अभावनात्" भावनाराहित्यात् । नैरपेक्ष्यादिति यावत् ॥ ंोट्_२,१९.२५ ॥ ननु तदा कर्मेन्द्रियाणां का वार्तेत्य् । अत्राह मनस्यनीहिते शान्ते न प्रवर्तन्त एव ते । कर्मेन्द्रियाणि कर्मादावसंचारितयन्त्रवत् ॥ ंो_२,१९.२६ ॥ "कर्मेन्द्रियाणां" तस्यामवस्थायां "प्रवर्तनमेव ना"स्ति । का वार्ता तत्कर्मणां स्यादिति भावः । एतादृशी चावस्था जीवन्मुक्तानां दुर्लभैव । न हि सर्वदा ते अत्रैव तिष्ठन्ति । विदेहमुक्तास्तु सर्वदा एतन्मया एवेत्यलं बहुना ॥ ंोट्_२,१९.२६ ॥ वेदनरूपविचारशान्त्यैव मनःशान्तिर्भविष्यतीत्यभिप्रायेणाह मनोयन्त्रस्य चलने कारणं वेदनं विदुः । प्राणाली दारुमेषस्य रज्जुरन्तर्गता यथा ॥ ंो_२,१९.२७ ॥ पण्डिताः "मनोमन्त्रस्य चलने वेदनम्" एव "कारणं विदुः" । वेदनानन्तरमेव हि मनः चलति । "प्राणाली" अस्य मनसः "अन्तर्गता रज्जुः" भवति । कस्य । यस्य "दारुमेषस्य यथा" । अयं भावः । "मनः" दारुमेषतुल्यम् । "प्राणाली" रज्जुतुल्या । "वेदनम्" रज्जुग्राहकतुल्यम् । इति वेदनस्यैव मनःप्रवृत्तौ कारणत्वात् । युक्ता तच्छान्तौ तच्छान्तिरिति ॥ ंोट्_२,१९.२७ ॥ ननु भवतु वेदनशान्त्या मनःशान्तिः । वेदनक्षोभेन मनसः क्षोभे सति जगत्कुतो निर्यातीत्य् । अत्राह रूपालोकमनस्कारपदार्थाद्याकुलं जगत् । विद्यते वेदनस्यान्तर्वातेऽन्तः स्पन्दनं यथा ॥ ंो_२,१९.२८ ॥ "पदार्थाः" रूपाधारभूतानि द्रव्याणि । अतो वेदनादेव "रूपादि"रूपम् "जगन्" निर्यातीति भावः ॥ ंोट्_२,१९.२८ ॥ ननु स्वभावतः शुद्धस्य वेदनस्यान्तः कथमेतदस्तीत्य् । अत्राह सर्वात्मवेदनं शुद्धं यथोदेति तदात्मकम् । भाति प्रसृतदिक्कालबाह्यान्तारूपदेहकम् ॥ ंो_२,१९.२९ ॥ "शुद्धम्" केनापि रूपेणापरिनिष्ठितम् । अत एव "सर्वात्मवेदनं यथोदेति तदात्मकं भाति" स्फुरति । न तु तन्मध्ये मलमिव जगदस्तीति भावः । कथम्भूतं "वेदनं" । "दिक्कालश्" च "बाह्यं" च्"आन्तश्" च । तत्दिगादि । "प्रसृतः" विस्तारं गतः । दिगादिरूपः "देहः" स्वरूपं यस्य । तत्"प्रसृतदिक्कालबाह्यान्तारूपदेहकम्" ॥ ंोट्_२,१९.२९ ॥ पुनः पुनः श्लोकान्तरेण तदेव प्रतिपादयति द्रष्टैव दृश्यताभासं स्वं रूपं धारयन् स्थितः । स्वं यथा तत्र यद्रूपं प्रतिभाति तथैव तत् ॥ ंो_२,१९.३० ॥ "द्रष्टा एव" वेदनस्वरूपः "द्रष्टा एव" । "दृश्यतया भासते" । इति तादृशं "स्वरूपं धारयन् स्थितः" भवति । "तत्र" सति "तस्ये"ति शेषः । तस्य द्रष्टुः "स्वं रूपं यथा भाति" स्फुरति । "तत्" स्वं रूपम् । "तथैव" भवति । नान्यथा स्वप्नवदिति शेषः ॥ ंोट्_२,१९.३० ॥ सर्वमात्मा यथा यत्र संकल्पत्वमिवागतः । तिष्ठत्याशु तथा तत्र तद्रूप इव राजते ॥ ंो_२,१९.३१ ॥ "सर्वमात्मा" भवति । अतः स आत्मा "यत्र यथा तिष्ठति तत्र तथा तद्रूप इव राजते" । परमार्थतस्तु न राजते । स्वरूपे तथैव स्थितत्वादित्"ईव"शब्दोपादानम् । "आत्मा" कथम्भूत इव । "संकल्पत्वं" संकल्पभावम् । "गत इवा"न्यथा नानारूपत्वमस्य न युज्येतेति भावः ॥ ंोट्_२,१९.३१ ॥ सर्वात्मकतया द्रष्टुर्दृश्यत्वमिव युज्यते । द्रष्टृत्वं द्रष्टृसद्भावे दृश्यस्य त्वस्ति नासतः ॥ ंो_२,१९.३२ ॥ "द्रष्टुः सर्वात्मकतया" शुद्धतया स्थितेन "सर्व"भावेन । "दृश्यत्वं युज्यत इव" । परमार्थतस्तु न युज्यते द्रष्टृत्वादप्रच्युतेरित्"ईव"शब्दोपादानम् । "असतः" स्वरूपेणासतः । "दृश्यस्य द्रष्टृत्वं" "नास्ति" । "द्रष्टृतया" "सम्भाविते" स्वस्मिन् स्वापेक्षत्वेनात्माश्रयापत्तेः ॥ ंोट्_२,१९.३२ ॥ फलितं कथयति अकारणकमेवातो ब्रह्मकल्पमिदं स्थितम् । प्रत्यक्षमेव निर्मातृ तस्यांशास्त्वनुपाधयः ॥ ंो_२,१९.३३ ॥ "अतः अकारणकम्" परमार्थतः शुद्धस्य ब्रह्मणः अकर्तृकत्वात्कारणरहितम् । "इदं" जगत् । "ब्रह्मकल्पम्" ब्रह्मसदृशम् । "स्थितं" भवति । कथम्भूतं जगत् । "प्रत्यक्षमेव" स्फुटमेव । "निर्मातृ" प्रमातृरहितं शुद्धस्य ब्रह्मणो मातृतायोगाद् । अन्यथा अशुद्धतापत्तेः । ननु मा भवतु ब्रह्मणः कारणत्वं मातृत्वं वा । तदंशानां तु तद्भवत्वित्य् । अत्राह । "तस्यांशा" इति । "तु" पक्षान्तरे । "तस्य" ब्रह्मणः । "अंशाः अनुपाधयः" कारणत्वादिरूपोपाधिरहिता भवन्ति । अन्यथा तद्द्वारेण तस्यापि सोपाधित्वप्रसङ्गात् ॥ ंोट्_२,१९.३३ ॥ एवं प्रासङ्गित्वं परित्यज्य प्रकृतमेवानुसरति स्वयत्नमात्रेतररूपको यस् तद्दैवशब्दार्थमपास्य दूरे । शूरेण साधो पदमुत्तमं तत् स्वपौरुषेणैव हि लभ्यतेऽन्तः ॥ ंो_२,१९.३४ ॥ "यः स्वयत्नमात्रकातितररूपकः" इतररूपत्वेन कल्पितः । "तद्दैवशब्दार्थं दूरे अपास्य" । हे "साधो" । "शूरेण ततुत्तमं पदमन्तः स्वपौरुषेण" मानसिकेन पौरुषेण । "लभ्यते" ॥ ंोट्_२,१९.३४ ॥ सर्गान्तश्लोकेन विचारावधिं कथयति विचारयाचार्यपरम्पराणां मतेन सत्येन सितेन तावत् । यावद्विशुद्धां स्वयमेव बुद्धाम् अनन्तरूपां परतामुपैषि ॥ ंो_२,१९.३५ ॥ त्वम् "सत्येन सितेन" दोषरहितेन । "आचार्यपरम्पराणां मतेन" मतानुसारेण । "तावत्" तावत्कालं "विचारय" । "यावत्परताम्" उत्तीर्णचिद्रूपताम् "उपैषि" । "परताम्" कथम्भूताम् । "विशुद्धाम्" चेत्याख्यमलरहिताम् । पुनः कथम्भूताम् । "स्वयमेवा"व"बुद्धाम्" अनुबुद्धाम् । पुनः कथम्भूताम् । "अनन्तरूपाम्" अपरिच्छिन्नस्वरूपाम् । इति शिवम् ॥ ंोट्_२,१९.३५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे एकोनविंशः सर्गः ॥ २,१९ ॥ ************************************************************************ मुमुक्षोर्व्यवहारं संगृह्य कथयति आर्यसंगमयुक्त्यादौ प्रज्ञां वृद्धिं नयेद्बलात् । ततो महापुरुषता महापुरुषलक्षणैः ॥ ंो_२,२०.१ ॥ पुरुषः "आदौ आर्यसंगमयुक्त्या" साधुसंगाख्येनोपायेन । बुद्धिं "वृद्धिं" विवेकक्षमत्वं "नयेत्" । "ततः" बुद्ध्यासाधितैः "महापुरुषलक्षणैः महापुरुषता" भवेत् ॥ ंोट्_२,२०.१ ॥ ननु महापुरुषगुणैर्विना महापुरुषता कथं सिध्यतीत्यपेक्षायां तद्गुणाहरणमेव कर्तव्यत्वेन कथयति यो यो येन गुणेनेह पुरुषः प्रविराजते । शिक्षेत तं तमेवाशु तस्माद्बुद्धिविवृद्धये ॥ ंो_२,२०.२ ॥ "बुद्ध्या विवृद्धये"ति वा पाठः । आर्यसंगमयुक्त्या विवृद्धया बुद्ध्या इत्यर्थः । अन्यथा बुद्धिवृद्ध्यभावे कथं परगुणग्रहणसामर्थ्यं स्यात् ॥ ंोट्_२,२०.२ ॥ ननु तर्हि गुणग्रहणं सुषममेवेति महापुरुषतापि सुसाध्यैव स्याद् । इत्यत्राह महापुरुषता त्वेषा शमादिगुणशालिनी । सम्यग्ज्ञानं विना राम सिद्धिमेति न कस्यचित् ॥ ंो_२,२०.३ ॥ अतः "सम्यग्ज्ञानम्" एवार्यसंगमयुक्त्या प्रथमं साध्यमिति भावः ॥ ंोट्_२,२०.३ ॥ ननु सम्यग्ज्ञानेन किं सेत्स्यतीत्य् । अत्राह ज्ञानाच्छमादयो यान्ति वृद्धिं सत्पुरुषक्रमात् । श्लाघनीयाः फलेनान्तर्वृष्टेरिव नवाङ्कुराः ॥ ंो_२,२०.४ ॥ "ज्ञानात्" कथम्भूतात् । "सत्पुरुषक्रमात्" । न त्वसत्पुरुषक्रमात् । "क्रमः" परिपाटी । "आदि"शब्देन दमादीनां ग्रहणम् । "वृष्टेर्" इति पञ्चमी ॥ ंोट्_२,२०.४ ॥ ननु शमादिभिरपि किं स्यादित्यपेक्षायामाह शमादिभ्यो गुणेभ्यश्च वर्धते ज्ञानमुत्तमम् । अन्नात्मकेभ्यो यज्ञेभ्यः शालिवृष्टिरिवोत्तमा ॥ ंो_२,२०.५ ॥ "उत्तमम्" परमात्मविषयत्वेन सर्वेभ्यो ज्ञानेभ्यः श्रेष्ठम् ॥ ंोट्_२,२०.५ ॥ फलितमाह गुणाः शमादयो ज्ञानाच्छमादिभ्यस्तथा ज्ञता । परस्परं विवर्धेते एतेऽब्दसरसी यथा ॥ ंो_२,२०.६ ॥ अतः "ज्ञानाच्छमादयः" । "शमादिभ्यो" "ज्ञानं" । "यथा अब्देभ्यो" मेघेभ्यः सरः । सरसः मेघा इति पिण्डार्थः ॥ ंोट्_२,२०.६ ॥ पुनरप्येतदेव कथयति ज्ञानं सत्पुरुषाचाराज्ज्ञानात्सत्पुरुषक्रमः । परस्परं गतौ वृद्धिं ज्ञानसत्पुरुषक्रमौ ॥ ंो_२,२०.७ ॥ "सत्पुरुषाचारात्" शमादेरित्यर्थः ॥ ंोट्_२,२०.७ ॥ ननु ज्ञानशमयोः संपत्तौ पुरुषस्य केन यत्नेनोत्तमपदप्राप्तिर्भवतीत्य् । अत्र सदृष्टान्तमुत्तरं कथयति यथा कमलरक्षिण्या गीत्या वितततारया । खगोत्सादेन सहितो गीतानन्दः प्रसाध्यते ॥ ंो_२,२०.८ ॥ ज्ञानसत्पुरुषेहाभ्यामकर्त्रा कर्तृरूपिणा । तथा पुंसा निरिच्छेन सममासाद्यते पदम् ॥ ंो_२,२०.९ ॥ "यथा कमलरक्षिण्या" गोपिकया कर्त्र्या । "वितता" चासौ "तारा" चेति तादृश्या "गीत्या" करणभूतया । "खगानां" यः "उत्सादः" धान्यादपासनम् । तेन "सहितः" "गीतानन्दः प्रसाध्यते" । न हि तस्याः तत्र यत्नोऽस्ति । गीतिमात्रेणैव गीतानन्दखगोत्सादयोः सिद्धत्वात् । मृगाणां हि अयं स्वभाव एष यत्गीतिं श्रुत्वा भक्ष्यमपि त्यजन्तीति । तथा कर्त्रा नाहं कर्तेति निश्चयात्कर्तृत्वलेपरहितेन "कर्तृरूपिणा" कर्तृवद्भासमानेनेति यावत् । "पुरुषेण" कर्त्रा । "ज्ञानसत्पुरुषेहाभ्यां" ज्ञानशमादिभ्यां करणाभ्याम् । "अयत्नेन" यत्नरहितमेव । "पदम्" शुद्धचिन्मात्राख्यमुत्तमं पदम् । "समासाद्यते" प्राप्यते । ज्ञानं शमादिकं चेत्येतन्मात्रकमेवात्रोपायः । नान्यत्किंचिदिति भावः । "पुरुषेण" कथम्भूतेन । "निरिच्छेन" ज्ञानशमादिपूर्णतया पदप्राप्तावपीच्छारहितेन । अन्यथेच्छारूपस्य क्षोभस्य स्थितत्वात्पूर्णता न स्यादिति भावः ॥ ंोट्_२,२०.८९ ॥ मुमुक्षुव्यवहारप्रकरणाभिधेयं वस्तूपसंहरति सदाचारक्रमः प्रोक्तो मयैष रघुनन्दन । तथोपदिश्यते सम्यगयं ज्ञानक्रमोऽधुना ॥ ंो_२,२०.१० ॥ "प्रोक्तः" एतद्युक्तस्यैव वक्ष्यमाणे ज्ञानक्रमेऽधिकारित्वादिति भावः । नन्वधुना किं करोषीत्यपेक्षायामाह । "तथोपदिश्यत" इति । "तथा" सदाचारक्रमवत् । "ज्ञानक्रमः" ब्रह्मोपदिष्टा स्वात्मज्ञानपरिपाटी ॥ ंोट्_२,२०.१० ॥ प्रकरणमाहात्म्यं कथयति इदं यशस्यमायुष्यं पुरुषार्थफलप्रदम् । तज्ज्ञादाप्तात्मशास्त्रार्थाच्छ्रोतव्यं किल धीमता ॥ ंो_२,२०.११ ॥ बाह्यदृष्टीन् संमुखीकर्तुमिति "आयुष्यम्" इति च "इदं" मुमुक्षुव्यवहाराख्यं प्रकरणम् । "पुरुषार्थफलप्रदम्" मोक्षदम् । "तज्ज्ञात्" कथम्भूतात् । "आप्तः" सम्यङ्निश्चितः । "आत्मशास्त्राणाम्" अध्यात्मशास्त्राणाम् । "अर्थः" येन । तस्मात् ॥ ंोट्_२,२०.११ ॥ नन्वेतच्छ्रवणेन किं स्यादित्य् । अत्राह श्रुत्वा तु बुद्धिनैर्मल्याद्बलाद्यास्यसि सत्पदम् । यथा कतकसंश्लेषात्प्रसादमवशं पयः ॥ ंो_२,२०.१२ ॥ त्वमेतच्"छ्रुत्वा" । सिद्धात्"बुद्धिनैर्मल्यात्" । "बलात्" अयत्नमेव । "सत्पदं यास्यसि" । अत्रोत्तरार्धेन दृष्टान्तमाह । "यथे"ति । "कतकम्" जलशुद्धिकारी द्रव्यविशेषः ॥ ंोट्_२,२०.१२ ॥ ननु कथमेतच्छ्रवणेन पुरुषः सत्पदं यातीत्य् । अत्र सर्गान्तश्लोकेनोत्तरं कथयति विदितवेद्यमिदं हि मनो मुने विवशमेव हि याति परं पदम् । यदवबुद्धमखण्डितमुत्तमं तदवबोधदशां न जहाति हि ॥ ंो_२,२०.१३ ॥ हे "मुने" मुनिकर्मान्वितत्वात्मुनिरूपश्रीराम । "हि" यस्मात् । "विदितवेद्यं मनः विवशमेव परं पदं याति" । अतो विदितवेद्यत्वकारिणः एतच्छास्त्रश्रवणात्सत्पदप्राप्तिर्युक्तैवेति भावः । ननु विदितवेद्यमपि मनः यदि कदाचिद्विदितवेद्यतां जहाति तदा किं कार्यम् । इत्यत्राह । "यद्" इति । मनसा "यतुत्तमं" न त्वधरं भोगरूपं वस्तु । "अवबुद्धं" सम्यङ्निश्चितम् । "तत्" मनः । तद्"अवबोधदशां" तस्योत्तमस्य वस्तुनः । यो "ऽवबोधः" तस्य "दशां" । "हि" निश्चयेन । "न जहाति" । विदितवेद्यो हि कदाचिदपि विदितवेद्यतां "न जहाती"ति तात्पर्यम् । इति शिवं शिवं शिवमिति ॥ ंोट्_२,२०.१३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे विंशः सर्गः ॥ २,२० ॥ श्रोतॄणां भावनावेशसत्कृतस्वान्तशालिनाम् । मुमुक्षुव्यवहारोक्तिव्याख्या सत्फलदास्त्वियम् ॥ १ ॥ यच्छक्त्यावेशवशतः सामर्थ्यं कार्यगोचरम् । भावानामस्तु यत्नोऽयं तत्कार्यत्वेन निश्चितः ॥ २ ॥ स्वात्मलाभमहोदारफलयोग्यत्वभावनः । मुमुक्षुव्यवहारोऽयं स्फुरतान्मम मानसे ॥ ३ ॥ इति शिवम् ॥ इति श्रीकाश्मीरमण्डलान्तर्वर्त्याराध्यपादमहामाहेश्वरवैडूर्यकण्ठात्मजश्रीमदवतारकण्ठपुत्रश्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुव्यवहारप्रकरणं समाप्तम् । इति शिवम् ॥ ______________________________________________________________________________ ३. ऊत्पत्तिप्रकरन (३,१.१४१॑ ३,३.१३३,१२.४॑ ३,१३.५०३,१६.४१) श्रीरामाय नमः । ओं कृत्वा चित्तं स्वबोधस्मरणविनिहतं प्रौढमोहान्धकारं स्मृत्वा ज्ञानप्रदां तां सुमहितविभवां श्रीगुरोः पादुकां च । ध्यात्वा विघ्नान्तकं तं शिवसुतमनघं श्रीगणेशं सुरेशम् उत्पत्त्याख्यावगाहिप्रकरणविवृतिस्तन्यते भास्करेण ॥ एवं मुमुक्षुव्यवहाराख्ये प्रकरणे वक्ष्यमाणोपदेशाधिकारित्वसम्पादननिमित्तं व्यवहारं प्रतिपाद्य तच्छ्रवणमात्रेण च श्रीरामं प्राप्ततदनुष्ठानफलं विभाव्य प्रपञ्चस्यानुत्पत्तिसतत्त्वोत्पत्तिज्ञानमुपादेयभूतमोक्षप्राप्तौ मूलकारणतया निश्चित्य तदुपपादकमुत्पत्तिप्रकरणमारभमाणः वक्ष्यमाणब्रह्मैकत्वाश्रयणेन गुरुशिष्यभावानुपपत्तिं पुरस्कृत्य स्वव्यतिरिक्तशिष्योपदेशभावेन परप्रयुक्तं चोद्यमभिशङ्कमानः तदुद्धारनिमित्तभूतं ब्रह्मैकत्वेऽपि स्वप्नदृष्टान्तेन पदार्थभेदग्राहकं ब्रह्मविदनुभवं प्रथमं कथयति ॥ वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि । यदिदंतत्स्वशब्दार्थैर्यो यद्वेत्ति स वेत्तु तत् ॥ ंो_३,१.१ ॥ उत्तरवाक्यस्थं "वेत्ती"ति पदं पूर्ववाक्येऽपि योजनीयम् । तेनायमर्थः । "ब्रह्मवित्" ब्रह्मज्ञानी । "वेत्ति" अनुभवति । किमिति कर्मापेक्षायां पश्य मृगो धावतीतिवत्वाक्यं कर्मत्वेन कथयति "वाग्भाभिर्" इति । "ब्रह्म" नानापदार्थभावेन बृंहितं किमपि सूक्ष्मं वस्तु । "भाति" विलसति । स्फुरतीति यावत् । कैः भाति । "यदिदंतत्स्वशब्दार्थैः" । "यद्"आदिसर्वनामशब्दवाच्यभूतैः पदार्थैः । तद्रूपेणेति यावत् । इत्थम्भावे तृतीया । पदार्थानां च "यद्"आदिसर्वनामवाच्यत्वं वस्तूपलक्षणम् । यत्र सर्वनाम प्रयुज्यते द्रव्यमित्युच्यते । सोऽर्थः भेद्यत्वेन विवक्षित इत्यभियुक्तस्मरणात्ज्ञेयम् । कुत्राधारे भाति । "आत्मनि" स्वभित्तौ । तद्व्यतिरिक्तस्य द्वितीयस्याभावात् । इदं भानं च अर्थात्जाग्रत्कालीनं ज्ञेयम् । स्वप्नस्य दृष्टान्ततयोपादानात्सुषुप्तेः शून्यमात्रभानास्पदत्वाच्च । "यदिदंतत्स्वशब्दार्थैः" काभिः । "वाग्भाभिः" । वागत्र समानविषयत्वेन विकल्पः अभिप्रेतः । तेन विकल्पभानरूपैरित्यर्थः । भासमाना एते पदार्थाः हि स्वप्नपदार्थवत्विकल्परूपा एव । तत्सारतया स्थितस्य शुद्धचिन्मात्रस्यैव वस्तुतः अर्थत्वात् । कस्मिन्न् "इव" भाति । "स्वप्ने" "इव" । यथा "स्वप्ने" । "ब्रह्म" स्वप्नपदार्थतया बृंहितम् । आत्माख्ये वस्तुनि । "आत्मनि" स्वभित्तौ । "वाग्भाभिः" विकल्पभानभूतैः । "यदिदंतत्स्वशब्दार्थैः भाति" । तथा इत्यर्थः । स्वप्ने हि आत्मभावेन स्थितस्य ब्रह्मणः पदार्थभावेन भानं सर्वसाक्षिकमेव । नन्वन्ये बौद्धादयः सर्वथा पदार्थापह्नवं कुर्वन्ति । तत्कथं त्वयैवमुक्तमित्याह "यो यद्" इति । यः यः कश्चित्ब्रह्मविदः बौद्धादिः यत्यत्पदार्थानां सर्वथा असत्त्वादि "वेत्ति" अनुभवति । "सः तत्वेत्तु" अनुभवतु । किमस्माकं तद्वेदनेन । ब्रह्मविद्वेदने एव तात्पर्यातिति भावः । अत्र च "यच्"छब्दः "इदम्"आदित्रयेण सह समानाधिकरण्यदर्शनात्सामान्यनिष्ठः । शिष्टाः "इदम्"आदयः त्रयः विशेषनिष्ठाः । तत्रापि "इदं"शब्दः प्रत्यक्षवेद्यनिष्ठः इति सर्वनामचतुष्केनैव सर्वपदार्थाक्षेपसिद्धावनुपयुक्तत्वादन्येषामकथनमिति ज्ञेयम् । अथ वा "ब्रह्मविद्" इत्यामन्त्रणपदं ब्रह्मज्ञानाधिकृते श्रीरामे विशिष्टाधिकारित्वसूचनाय प्रयुक्तम् । तथा च स्फुट एवार्थः । नापि दुर्योजकत्वाख्यदोषापत्तिः ॥ ंोट्_३,१.१ ॥ प्रोक्तब्रह्मविदनुभवाश्रयणेन शङ्काविषयीकृतं परप्रयुक्तं चोद्यं परिहरति न्यायेनानेन सर्वस्मिन् सर्गे ब्रह्माम्बरे सति । किमिदं कस्य वक्षीति चोद्यचञ्चुर्निराकृतः ॥ ंो_३,१.२ ॥ "अनेन न्यायेन" अनया पदार्थानां ब्रह्ममयत्वेऽपि भेदसाधिकया ब्रह्मविदनुभवरूपया युक्त्या । न तु पदार्थानां सर्वथापह्नवकारिण्या बौद्धादियुक्त्या । "सर्गे" सृजिक्रियाकर्मणि भावजाते । "ब्रह्माम्बरे" ब्रह्माकाशरूपे । "सति" । त्वं किंरूपः । त्वम् "किमिदं" किंरूपम् "इदं" शास्त्रम् । "कस्य" किंरूपस्य शिष्यस्य । "वक्षि" कथयसि । सर्वस्य ब्रह्मैकरूपत्वात् । "इति" एवंरूपम् । यत्"चोद्यम्" आक्षेपः । तेन "चञ्चुः" प्रसिद्धः । एवंरूपचोद्यकारीति यावत् । "निराकृतः" प्रतिक्षिप्तः भवति । तेन वित्त इति चञ्चुप्प्रत्ययः । वित्तः प्रसिद्ध इत्यर्थः । ननु कथमेतेन चोद्यनिरासः । उच्यते । ब्रह्मविदा परमार्थेन ब्रह्मैकत्वेऽपि व्यवहारदशायां स्वप्नतुल्यस्य शिष्यस्य यादृशो यक्षः तादृशो बलिरिति न्यायाश्रयणेन तद्रूपोपदेशकरणं युक्तमेव स्वप्नतुल्यस्य जगतः अङ्गीकरणात् । सर्वथा पदार्थापह्नवकारिणां बौद्धादीनामेवेदं चोद्यं युक्तमिति ॥ ंोट्_३,१.२ ॥ एवं शङ्कितचोद्यनिरासं कृत्वा स्वोपदेशं प्रति श्रोतॄन् संमुखीकरोति अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् । यथास्वभावं वच्मीदं तत्सर्वं श्रूयतां बुधाः ॥ ंो_३,१.३ ॥ "तावच्"छब्दः साकल्ये । "अहं" वसिष्ठाख्यः गुरुः । "इदं" मोक्षोपायाभिधं शास्त्रम् । "तावत्" साकल्येन । "वच्मि" कथयामि । कथं वच्मि । "यथाज्ञानम्" ज्ञानानुसारेण । तथा "यथावस्तु" वस्त्वनुसारेण । तद्वत्"यथाक्रमम्" क्रमानुसारेण । पुनः कथम् । "यथास्वभावं" स्वभावानुसारेण । ज्ञानादयः चत्वार एव हि शास्त्रप्रवृत्तिनिमित्तभूताः । "तत्" ततो हेतोः । हे "बुधाः" । युष्माभिः "सर्वं श्रूयताम्" श्रवणगोचरीक्रियताम् । "बुधा" इत्यामन्त्रणपदं बुधानामेवैतच्छास्त्रश्रवणे अधिकारित्वं सूचयति । "सर्वम्" इत्यनेन सकलमिदं श्रुत्वा परमप्रयोजनावाप्तिः भविष्यतीत्यर्धादुत्थाय न गन्तव्यमिति सूचितम् ॥ ंोट्_३,१.३ ॥ एवं श्रवणयोग्यं बुधवर्गं संमुखीकृत्योत्पत्तिप्रकरणतात्पर्यार्थं श्लोकेन सङ्गृह्य कथयति स्वप्नवत्पश्यति जगच्चिन्नभो देहविन्मयम् । स्वप्नसंसारदृष्टान्ता इहैवान्तः समन्विताः ॥ ंो_३,१.४ ॥ चेतयति पाषाणप्रख्यं करणवर्गं स्वावेशेन चेतनक्रियाकर्तृत्वे प्रेरयतीति "चित्" सर्वान्तर्गतं किमपि शुद्धं तत्त्वम् । अथ वा चेततीति "चित्" चितिक्रियाकर्तृभूतं किमपि तत्त्वम् । सा एव "नभः" सर्वव्यापकत्वाताकाशम् । तत्"चिन्नभः" चिदाकाशः । "जगत्" गमनशीलं दृश्यप्रपञ्चम् । "स्वप्नवत्पश्यति" स्वप्नवत्स्वयं कल्पयित्वा अनुभवति । कीदृशं "जगत्" । "देहविन्मयं" । "देहवित्" देहोऽहमिति ज्ञानम् । अहङ्कार इति यावत् । तस्य विकारः "देहविन्मयं" अहङ्कारस्वरूपम् । न तु शुद्धमित्यर्थः । ननु स्वप्नः किमिह दृष्टान्तत्वेन दत्त इत्य् । अत्राह "स्वप्ने"ति । स्वप्ने दृष्टाः संसाराः "स्वप्नसंसाराः" । ते एव "दृष्टान्ताः" निर्णयस्थानानि । ते "स्वप्नसंसारदृष्टान्ताः इहैवा"स्मिन् जाग्रत्प्रपञ्चे एव्"आन्तः" । "सम्"यक् । न तु आमुख एव । "अन्विताः" सम्बद्धाः भवन्ति । कल्पनामात्रसिद्धत्वात् । अतः स्वप्नस्य दृष्टान्तत्वमुक्तमिति भावः ॥ ंोट्_३,१.४ ॥ सङ्ग्रहेणोक्तमर्थं मूढबुद्धिषु प्रवेशनाय स्वतः सर्वज्ञं श्रीरामं मध्येकृत्य विस्तारयितुं प्रस्तौति मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्परम् । अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते ॥ ंो_३,१.५ ॥ "मुमुक्षुव्यवहारस्योक्तिः" प्राचुर्येण प्रस्तुता यस्मिन् । तत्"मुमुक्षुव्यवहारोक्तिमयं" । तादृशात्"प्रकरणात्" । मुमुक्षुव्यवहाराख्यात्प्रकरणादिति यावत् । "परम्" अन्यत् । "परिकथ्यते" सम्यक्कथ्यते ॥ ंोट्_३,१.५ ॥ प्रतिज्ञातप्रकरणारम्भं करोति बन्धोऽयं दृश्यसद्भावो दृश्याभावे न बन्धनम् । न सम्भवति दृश्यं तु यथेदं तच्छृणु क्रमात् ॥ ंो_३,१.६ ॥ "अयम्" अनुभूयमानः । "बन्धः" दृश्यासक्तत्वम् । "दृश्यसद्भावः" दृश्येन दृशिक्रियाविषयेण भावजातेन । "सद्भावः" स्वरूपलाभः । द्रष्टारं प्रति स्फुरणमिति यावत् । यस्य । सः तादृशः भवति । "दृश्याभावे" सति "बन्धनं" बन्धः । "न" भवति । न हि रज्ज्वभावे बन्धनं दृष्टम् । ननु सतो दृश्यस्य कथमभावः सेत्स्यतीत्य् । अत्राह "न सम्भवती"ति । "तु"शब्दः सम्भविनः शुद्धद्रष्टुः सकाशात्दृश्यस्य व्यतिरेकद्योतकः । "दृश्यं न सम्भवति" सम्भवनक्रियाकर्तृत्वं न भजति । स्वप्नन्यायेन प्रतीतिमात्रसिद्धत्वात् । ननु कथमेतदित्य् । अत्राह "यथेदम्" इति । "इदं" दृश्यासम्भवनम् । "यथा" भवति । "तत्क्रमात्शृणु" ॥ ंोट्_३,१.६ ॥ ननु किमर्थमुत्पत्तिप्रकरणमेव प्रथमं कथयसीत्यपेक्षायामाह उत्पद्यते यो जगति स एव किल वर्धते । स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा ॥ ंो_३,१.७ ॥ धर्माधर्मोल्लङ्घनेन "मोक्षम्" । धर्मेण "स्वर्गम्" । अधर्मेण "नरकम्" इति विभागः ॥ ंोट्_३,१.७ ॥ ननु ततः किमित्य् । अत्राह अतस्तेष्ववबोधार्थं तत्तावत्कथयाम्यहम् । उत्पत्तिं संसृतावेति पूर्वमेव हि यो यथा ॥ ंो_३,१.८ ॥ यतः उत्पत्त्यादीनामेकाधिकरणत्वमस्ति । "अतः तेषु" क्रमभाविषु उत्पत्त्यादिषु मध्ये । "अवबोधार्थं" त्वज्ज्ञानार्थम् । इहास्मिन् प्रकरणे । "अहं तावत्" प्रथमम् । "तत्कथयामि" । "तत्" किम् । "यः" पुरुषः । "यथा" येन प्रकारेण । "संसृतौ" संसरणस्वभावे संसारे । "पूर्वमेव" सर्गादौ एव । "उत्पत्तिमेति" ब्रह्मणः व्यतिरिक्तत्वेन सत्तां भजति । ततोऽनन्तरं स्थितिप्रकरणादौ वर्धनादिकमपि कथयामीति भावः । "हि"शब्दः निश्चये । अत एवास्य प्रकरणस्योत्पत्तिप्रकरणमिति नामापि भवतीति ज्ञेयम् ॥ ंोट्_३,१.८ ॥ तत्र तावत्सङ्क्षेपकथनं प्रतिजानीते इदं प्रकरणार्थं त्वं सङ्क्षेपाच्छृणु राघव । ततः प्रकथयिष्यामि विस्तरं ते यथेप्सितम् ॥ ंो_३,१.९ ॥ हे "राघव" । "त्वमिदम्" जगदुत्पत्तिरूपम् । "प्रकरणार्थं" उत्पत्तिप्रकरणाभिधेयम् । "सङ्क्षेपात्" सङ्क्षेपेण "शृणु" । "ततः" सङ्क्षेपानन्तरम् । "यथेप्सितं" ईप्सितानुसारि "विस्तरं" "कथयिष्यामि" । सङ्क्षेपकथनेन विना त्वत्सन्देहानुत्थानात्विस्तरेण कथनं न सम्भवति । सन्देहविषयत्वात्विस्तरस्येति भावः ॥ ंोट्_३,१.९ ॥ प्रतिज्ञातां सङ्क्षेपतः जगदुत्पत्तिं कथयिष्यन् प्रपञ्चाक्रान्तबुद्धेः शिष्यस्य विधिमुखेन मूलकारणस्वरूपकथनमयुक्तं ज्ञात्वा स्थूणानिखननन्यायमाश्रित्य जगन्नाशमुखेन मूलकारणस्वरूपं कथयितुं प्रस्तौति यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् । । तत्सुषुप्त इव स्वप्नः कल्पान्ते प्रविनश्यति ॥ ंो_३,१.१० ॥ अस्माभिः "यत्" । "इदम्" पुरोवर्ति । "स्थावरजङ्गमं" स्थावरजङ्गमस्वरूप । "जगत्" नश्वरं भावजातम् । "दृश्यते" अनुभूयते । "तत्कल्पान्ते" आन्तरार्थविवक्षायां सर्वदृश्यक्षयरूपायां तुर्यावस्थायां विशेषतः तदतीतावस्थायां च । बाह्यार्थविवक्षायां तु कालान्तरभाविनि प्रलयकाले । "प्रविनश्यति" प्रकर्षेण संस्काराख्यात्मूलादाधाराद्नश्यति । मूलकारणभावेनावस्थानातदर्शनं याति । क "इव" । "स्वप्न इव" । यथा "सुषुप्ते स्वप्नः" नश्यति । तथेत्यर्थः । ननु सुषुप्तौ जगतो बीजभावेनावस्थानातन्यथा पुनर्भवायोगात्कथमयमुपमानोपमेयभावः सिद्ध्यतीति चेन् । न । स्तैमित्याख्यस्य सामान्यधर्मस्योभयत्राप्यवस्थानात्सामान्यधर्ममात्राश्रयणेनैव हि उपमानोपमेयभावः उत्तिष्ठति । इति न कोऽपि विरोधः ॥ ंोट्_३,१.१० ॥ यत्स्वरूपप्रकटनार्थमयं यत्नः कृतः तन्मूलकारणं शेषत्वेन कथयति ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यक्तं यत्किञ्चिदवशिष्यते ॥ ंो_३,१.११ ॥ "ततः" प्रपञ्चनाशानन्तरम् । "यत्किञ्चित्" केनापि नाम्ना वक्तुमशाक्यं किमपि सूक्ष्मं वस्तु । "शिष्यते" शेषतया तिष्ठति । तस्यापि नाशे नाशोपलब्धुरभावेन सम्पन्नोऽपि प्रपञ्चनाशः । असत्कल्प एव स्यादिति भावः । ननु नामतः तद्वस्तु कथं नोक्तमित्य् । अत्र विशेषणद्वारेण हेतुमाह्"आनाख्यम्" इति । "अनाख्यम्" आख्याकर्तृत्वेन स्थितत्वाताख्याकर्मतां नेतुमशक्यम् । ननु कथं तदनाख्यमस्तीत्य् । अत्रापि विशेषणद्वारेण हेतुमाह्"आनभिव्यक्तम्" इति । "अनभिव्यक्तम्" अतिसूक्ष्मत्वात् । बाह्यान्तरत्वेन स्थितैरिन्द्रियैरप्रत्यक्षीकृतमित्यर्थः । बाह्यान्तरेन्द्रियाप्रत्यक्षस्य चानाख्यत्वं स्फुटमेव । वागिन्द्रियस्यापि अगम्यत्वात् । नन्वनभिव्यक्तत्वमपि कथं तस्यास्तीत्य् । अत्रापि विशेषणद्वारेण हेतुमाह "न तेजो न तम" इति । चेत्यकलितं चिन्मात्रं "तेजः" । तच्चेत्यं "तमः" । अथ वा सूर्यादिकं "तेजः" । अन्धकारः "तमः" तद्व्यतिरिक्तस्वरूपमित्यर्थः । तथा च तस्यानभिव्यक्तत्वमेव । तेजस्तमसोरेव अभिव्यक्तिविषयत्वात् । तथापि शून्यतापत्तिमाशङ्क्य विशेषणमाह "ततम्" इति । सर्वत्र प्रोतस्वरूपमित्यर्थः । शून्यत्वे कथं ततत्वं स्यादिति भावः । केन स्वरूपेण तस्य प्रोतत्वमस्तीत्य् । अत्राह "स्तिमितगम्भीरम्" इति । स्तिमितं च तत्गम्भीरं चेति "स्तिमितगम्भीरम्" । चिन्मात्ररूपत्वेन चेत्यभावरूपस्य प्रसरणस्याभावात्निःस्पन्दम् । निरालम्बनत्वेन स्वभिन्नस्यावगाढुः अभावात्दुरवगाहं चेत्यर्थः । अतश्च निरालम्बशुद्धचिन्मात्ररूपतया प्रोतमस्तीति भावः । यद्यपि नासर्गं तिष्ठति । "परम्" इति वक्ष्यमाणनीत्या तस्य तत्त्वस्य प्रपञ्चोद्भावनं प्रति सर्वदैव स्पन्दो वर्तत एवेति । शुद्धतया स्थितस्य तस्योपलब्धिः कदापि न सम्भवत्येव । तथापि "देशाद्देशान्तरं दूरम्" इत्यादिवक्ष्यमाणनीत्या मध्यवृत्तिषु सदा तदुपलब्धिः सम्भवत्येवेति न विमुखेन भवितव्यम् । विदेहमुक्तानां तु सर्वदा तन्मयत्वमपि सम्भवति । यतः अस्य चिन्मात्रतत्त्वस्येदृश एव महिमा भवति । यत्सर्वदा विश्वमयं तदुत्तीर्णं च भवतीति न किञ्चिद्विरुद्धम् ॥ ंोट्_३,१.११ ॥ ननु यदि तत्तत्त्वमनाख्यमस्ति तत्कथं बुधैः तस्य तत्त्वस्य "ऋतमात्मे"त्यादिकाः सञ्ज्ञाः कृताः इत्य् । अत्राह ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थं यस्य सञ्ज्ञा महात्मनः ॥ ंो_३,१.१२ ॥ "बुधैः" तत्साक्षात्कारवद्भिः । "कल्पिताः" कल्पनया भाविताः । "व्यवहारार्थं" शिष्योपदेशाख्यव्यवहारसम्पादनार्थम् । न तु किञ्चित्प्रवृत्तिनिमित्तमुपादाय "ऋता"दिकाः "सञ्ज्ञाः" तत्र प्रवर्तन्ते इति भावः ॥ ंोट्_३,१.१२ ॥ ननु ततीदृशं भवतु । किं तत इत्य् । अत्राह स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् । जीवतामुपयातीव भाविनामकदर्थनाम् ॥ ंो_३,१.१३ ॥ "तथाभूत एव" परमार्थतः प्रोक्तात्स्वरूपादप्रच्युत एव । "सः आत्मा" प्रोक्तविशेषणयुक्तं सर्वदा भातत्वेन सातत्यगमनक्रियाकर्तृभूतं चिन्मात्राख्यं तत्त्वम् । "जीवताम्" सातत्यगमनविरुद्धस्वभावप्राणधारणक्रियाकर्तृभूतं जीवभावम् । "उपयातीव" गच्छतीव । "सः" आत्मा किं कुर्वन् । "अन्य इवोल्लसन्" । "स्वयं" स्वविषयतासादनेन स्वव्यतिरिक्तम् । चेत्यरूप इव "उल्लसन्" । स्वपरामर्शनमात्रेणैव हि चिन्मात्रस्य चेत्यरूपो जीवादिभावः भवति । "तथाभूत" इति पदम् "इव"शब्दद्वयस्य योग्यतां कथयति । न हि तथाभूतस्य परमार्थतः अतथाभावो युक्तः । न हि सदा जलभावातप्रच्युतस्य जलस्य तरङ्गतासादनेऽपि परमार्थतः अजलभावो युक्तः । "जीवतां" कथम्भूताम् । "भाविनामकदर्थनाम्" । "भाविनीं" अग्रे । भवनशीला "नामकदर्थना" जीवेति नामरूपा । "कदर्थना" मालिन्यं यस्याः । ताम् । जीवेति नामयोग्यामित्यर्थः । भावित्वं च नाम्नः वैखरीप्रादुर्भावे ज्ञेयम् ॥ ंोट्_३,१.१३ ॥ अधुना तस्यैव जीवत्वानन्तरभाविनीं मनस्तां कथयति ततः स जीवशब्दार्थकलनाकुलतां गतः । मनो भवति मौनात्म मननान्मन्थरीभवन् ॥ ंो_३,१.१४ ॥ "ततः" जीवभावानन्तरम् । "सः" आत्मा । "मनः भवति" । कीदृशं "मनः" । "मौनात्म" । सहजस्वरूपविमर्शासामर्थ्यं "मौनं" । तद्रूपं कुतः भवतीत्य् । अत्र हेतुगर्भं विशेषणमाह । "मन्थरीभवन्न्" इति । यतः "मन्थरीभवन्" अलसीभवन् भवति इत्यर्थः । कुतः "मन्थरीभवन्" इत्यपेक्षायामाह । "मननाद्" इति । "मननाज्" जीवत्वमननाख्यात्धर्मात् । मननपरत्वेनैव हि आत्मा स्वपरामर्शं प्रति "मन्थरीभवति" । ततः मनोरूपं भवति । कथम्भूतः "सः" । "जीवशब्दार्थकलनाकुलताम्" । जीवस्य वाचकः शब्दः "जीवशब्दः" । तस्य यः "अर्थः" अणुरूपः जीवः । तस्य यः "कलना "स्वरूपतया परामर्शः । तया या "आकुलता" । "तां गतः" । अयं भावः । सर्वथा चेत्यव्यतिरिक्तस्वरूपं चिन्मात्रं प्रथमं चित्त्वेनाहमिति स्वपरामर्शं करोति । तत्र ग्राहकतया स्थितस्य भागस्य चिदिति नाम । ग्राह्यतया स्थितस्य तु जीवत्वम् । ततः तस्य जीवस्य स्वस्मिनणुत्वपरामर्शो भवति । तदेव च तस्य मनस्त्वमिति ॥ ंोट्_३,१.१४ ॥ फलितं कथयति मनः सम्पद्यते तेन महतः परमात्मनः । सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः ॥ ंो_३,१.१५ ॥ "तेन" ततः हेतोः । "मनः" अणुरूपं चित्तम् । "महतः" व्यापकात् । "परमात्मनः सम्पद्यते" प्रादुर्भवति । क "इव" । "तरङ्ग इव" । यथा "सुस्थिरात्" "वारिधेः" समुद्रात् । "अस्थिराकारः तरङ्गः सम्पद्यते" । तथेत्यर्थः । अत्र च सुस्थिरत्वं तरङ्गापेक्षया ज्ञेयम् ॥ ंोट्_३,१.१५ ॥ मनसः उत्पत्तिमुक्त्वा तत्कार्यभूतस्य जगतः उत्पत्तिं कथयति तत्स्वयं स्वैरमेवाशु सङ्कल्पयति नित्यशः । तेनेयमिन्द्रजालश्रीर्विततेव वितन्यते ॥ ंो_३,१.१६ ॥ "तत्" परमात्मोक्तं मनः । "स्वयम्" । न तु अन्यत्किञ्चित्मध्येकृत्य । "स्वैरम्" स्वेच्छया । न तु परप्रेरणया । "सङ्कल्पयति" सङ्कल्पं करोति । अतः "तेन" मनसा । "इयम्" अनुभूयमाना । "इन्द्रजालश्रीः" मिथ्याभातत्त्वेन इन्द्रजालवत्भासमानत्वातिन्द्रियजालसम्पद्रूपा सृष्टिः । "वितन्यते" विस्तार्यते । कथम्भूत्"एव" । "विततेव" विस्तीर्णा इव । परमार्थतः अणुस्वरूपे मनसि स्थितत्वात्वैतत्यरहितेत्"ईव"शब्दोपादानम् ॥ ंोट्_३,१.१६ ॥ परमात्मोत्थान्मनसः सृष्ट्युत्थानकथनफलमाह यथा कटकशब्दार्थः पृथक्त्वार्होऽस्ति कानके । न नाम कटके तद्वज्जगच्छब्दार्थता परे ॥ ंो_३,१.१७ ॥ "यथा कटकशब्दार्थः" कटकशब्दाभिधेयभूतः सन्निवेशविशेषः । "पृथक्त्वार्हः" । अर्थात्कानकात्पृथक्त्वयोग्यः "न" भवति । क्व स्थितस्य कटकशब्दस्यार्थः । "कानके" "कटके" कनकनिर्मिते कटके इत्यर्थः । "तद्वत्परे जगच्छब्दार्थता" भवति । "तद्वद्" इत्यनेन दृष्टान्तगतं सर्वमाक्षिप्यते । तेनायमर्थः । "तद्वत्" तथा । "परे" । अर्थात्प्रोक्तनीत्या जगत्तया स्थिते उत्तीर्णे चिन्मात्रे । स्थितस्य जगच्छब्दस्यार्थः परात्"पृथक्त्वार्हः न" भवति ॥ ंोट्_३,१.१७ ॥ मूढबुद्धिषु सङ्क्रमणार्थं पुनरप्येतदेव कथयति ब्रह्मण्येवास्त्यनन्यात्म यथास्थितमिदं जगत् । न जगच्छब्दकार्थोऽस्ति हेम्नीव कटकादिता ॥ ंो_३,१.१८ ॥ "यथास्थितम्" अनेन प्रकारेणैव स्थितम् । न त्वन्यं प्रकारमासाद्येति यावत् । "इदं जगत्ब्रह्मणि" बृंहिते चिन्मात्रे । "अनन्यात्म" अनन्यस्वरूपं "अस्ति" । तत्र "जगच्छब्दकार्थः" । "जगच्छब्दकस्य" जगदिति शब्दस्य । "अर्थः" ब्रह्मव्यतिरिक्तपदार्थरचनारूपमभिधेयम् । "न" भवति । तत्तयाभिमतस्य जगतः ब्रह्मत्वसाधनात् । "जगच्छब्दकार्थः" का "इव" । "कटकादिता इव" । यथा "कटकादिता" कटकादिभावः । "हेम्नि नास्ति" । तथेत्यर्थः ॥ ंोट्_३,१.१८ ॥ असत्त्वसाधिकामत एवोक्तार्थदार्ढ्यकारिणीं मनसः सकाशात्जगदुत्पत्तिमनुवदति असतैवासती तापनद्येव लहरी चला । मनसैवेन्द्रजालश्रीर्जागती प्रवितन्यते ॥ ंो_३,१.१९ ॥ "मनसा एव" । न त्वन्येन केनचित् । "जागती" जगत्सम्बन्धिनी । जगत्स्वरूपेति यावत् । "इन्द्रजालश्रीः" इन्द्रजालसम्पत् । "प्रवितन्यते" । कथम्भूतेन्"ऐव" । "असता" "एव" असत्स्वरूपेणैव । न हि ब्रह्मव्यतिरेकेण मनसः पृथक्सत्ता अस्ति । कथम्भूत्"एन्द्रजालश्रीः" । "असती" स्वकारणभूतमनोवतसत्स्वरूपा । मनसा कय्"एव" । तापे भासमाना नदी "तापनदी" । तया "इव" । यथा असत्या तापनद्या "असती चला लहरी प्रवितन्यते" । तथेत्यर्थः । ननु कथं पूर्वश्लोके कनककटकस्य दृष्टान्तत्वमिह तापनदीलहर्याः इति चेत् । सत्यम् । पूर्वश्लोके जगतः परमार्थतः ब्रह्मरूपत्वकथनार्थं कनककटकस्य दृष्टान्तत्वम् । अस्मिन् श्लोके तु तस्यैवानुपपत्तिनिवारणाय ब्रह्मव्यतिरेकेणासत्त्वकथनार्थं तापनदीलहर्याः दृष्टान्तत्वमित्येकफलसाधकत्वान्न दृष्टान्तद्वयस्य वैषम्यम् । जगतः मनोनिर्माणत्वाभावे हि परमार्थसत्त्वं प्राप्नोति । तथा च भिन्नसत्ताभाजः तस्य ब्रह्मत्वकथनमयुक्तं स्यात् । न हि घटे पटोऽयमिति वक्तुं युक्तम् । इत्यनुपपत्तिनिवारणायास्य श्लोकस्योपन्यासः । इति तदन्तर्गतस्य दृष्टान्तस्यापि तदर्थमेव सः युक्तः ॥ ंोट्_३,१.१९ ॥ जागतीमिन्द्रजालश्रियं विशिनष्टि अविद्या संसृतिर्बन्धो माया मोहो महत्तमः । कल्पितानीति नामानि यस्याः सकलवेदिभिः ॥ ंो_३,१.२० ॥ "सकलवेदिभिः" सर्वज्ञैः ॥ ंोट्_३,१.२० ॥ अधुना प्रोक्तायाः इन्द्रजालश्रियाः सकाशात्मोक्षकाङ्क्षिणं शिष्यं ज्ञात्वा मोक्षस्वरूपनिरूपणं विना शिष्यस्य मोक्षावाप्तिमजानन्मोक्षस्वरूपनिरूपणमपि तद्विरुद्धबन्धस्वरूपज्ञानं विनाशक्यं मन्यमानः तत्स्वरूपनिरूपणं प्रतिजानीते । "बन्धस्ये"ति । बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं शृणु । ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुसमानन ॥ ंो_३,१.२१ ॥ "बन्धस्य" इन्द्रजालश्रीस्वरूपदृश्यासक्तत्वस्य । अनुपादेयबन्धस्वरूपनिरूपणप्रतिज्ञया व्याकुलीभूतं शिष्यं समाश्वासयति "तत" इति । "ततः" बन्धस्वरूपकथनानन्तरम् । "मोक्षस्य" दृश्यनैरपेक्षस्य । हेयनिरूपणानन्तरमुपादेयनिरूपणस्य युक्तत्वादिति भावः ॥ ंोट्_३,१.२१ ॥ बन्धस्वरूपं कथयति द्रष्टुर्दृश्यत्वसत्ताङ्ग बन्ध इत्यभिधीयते । द्रष्टा दृश्यवशाद्बद्धो दृश्याभावाद्विमुच्यते ॥ ंो_३,१.२२ ॥ हे "अङ्ग" । पण्डितैः "दृश्यसत्ता" दृश्यसद्भावः । "द्रष्टुः" दृशिक्रियाकर्तुः । "बन्धः अभिधीयते" । भावप्रत्ययः पादपूरणार्थः । एतदेवान्वयव्यतिरेकाभ्यामाश्वासयोग्यं करोति "द्रष्टे"ति । "दृश्यवशात्" दृश्यवशेन । दृश्यसत्तावशेनेति यावत् । "दृश्याभावात्" दृश्यासत्तया । विषयस्य भावे विषयिणोऽपि भावात् । तदभावे तस्याप्यभावातिति हेतुद्वयं वाक्यद्वये स्वयं योज्यम् ॥ ंोट्_३,१.२२ ॥ तत्र दृश्यस्वरूपं कथयति जगत्त्वमहमित्यादि सर्गात्मा दृश्यमुच्यते । यावदेतत्सम्भवति तावन्मोक्षो न विद्यते ॥ ंो_३,१.२३ ॥ "जगत्" बन्धहेतुः दृश्यप्रपञ्चः । "त्वम्" ततो मोक्षाकाङ्क्षी शिष्यः । "अहम्" इत्युपदेष्टा । "आदि"शब्देन मोक्षस्य ग्रहणम् । तस्यापि दृश्यत्वानपायात् । पण्डितैः "जगत्त्वमहमित्यादि दृश्यम्" दृशिक्रियाकर्म्"ओच्यते" । कुत इत्याकाङ्क्षायां विशेषणद्वारेण हेतुं कथयति । "सर्गात्मे"ति । सृज्यमानस्वरूप इत्यर्थः । सृज्यमानस्य च दृश्यत्वं स्फुटमेव दर्शनपूर्वकत्वात् । सर्जनस्य च दर्शनपूर्वकत्वं "तदैक्षते"त्यादिश्रुतिसामर्थ्यात्ज्ञेयम् । अस्य बन्धहेतुत्वमनुवदति । "यावद्" इति । "यावतेतत्" इदं जगदादिदृश्यम् । "सम्भवति" सत्तायुक्तं भवति । "तावत्मोक्षः न विद्यते" । बन्धनिमित्तस्य स्थितत्वात् । सत्तामात्रेणैव च दृश्यस्य बन्धनिमित्तत्वस्वभावत्वात् ॥ ंोट्_३,१.२३ ॥ नेदमिति वचनकथनमात्रेणैव शान्तदृश्यत्वाभिमानयुक्तं शिष्यं प्रति आह नेदं नेदमिति व्यर्थैः प्रलापैर्नोपशाम्यति । सङ्कल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते ॥ ंो_३,१.२४ ॥ "इदम्" अनुभूयमानम् । "इदं" दृश्यम् । "न" भवति । "इदं" दृश्यं "न" भवति "इति" एवंरूपेण स्थितैः "व्यर्थैः" दृश्यशान्त्याख्यफलरहितैः । तथा "सङ्कल्पजनकैः" निषेधाख्यसङ्कल्पोत्पादकैः । "प्रलापैः" उन्मत्तप्रलापैः । "दृश्यव्याधिः" दृश्याख्यो रोगः । "नोपशाम्यति" निषेधरूपतया स्थितत्वात् । "प्रत्युत वर्धते" वृद्धिं याति । निषेधाख्यसङ्कल्पवर्धकत्वात् । ननु कथं निषेधस्य दृश्यत्वम् । सत्यम् । द्रष्टृविषयत्वात्निषेधोऽपि हि द्रष्टुः स्वतः भिन्नतया भाति ॥ ंोट्_३,१.२४ ॥ ननु "नेदम्" इति वचनमात्रेण दृश्यशान्तिः मा भवतु । तर्कादिभिः तच्छान्तिं साधयामः इत्य् । अत्राह न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः । सतो दृश्यस्य जगतो यस्मादेते विचारकाः ॥ ंो_३,१.२५ ॥ "तर्कभराणां" भेदप्रधानत्वेन दृश्यसत्यत्वापादकानां तर्कसमूहानाम् । ये "क्षोदाः" विचारणानि । तैः "दृश्यव्याधिः नोपशाम्यति" । तथा "तीर्थनियमादिभिः दृश्यव्याधिः नोपशाम्यति" । यतः "एते" "तर्कभरा"दयः "दृश्यस्य" "जगतः" "सतः विचारकाः" सत्यत्वविचारका भवन्ति । तत्र तर्काणां साक्षादेव पदार्थसाधकत्वम् । तीर्थादीनां तु स्वर्गादिफलनिष्ठत्वात् । न ह्यसत्यनिष्ठत्वं युक्तम् ॥ ंोट्_३,१.२५ ॥ ननु तर्काः सदपि जगत्पर्यन्ते भागतः अनित्यत्वेन कथयन्तीति तेषामपि भागतः दृश्यशान्त्युपपादकत्वमस्त्येवेत्य् । अत्राह जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव तत्क्वचित् । नासतो विद्यते भावो नाभावो विद्यते सतः ॥ ंो_३,१.२६ ॥ "दृश्यम्" दृशिक्रियाविषयीभूतम् । "जगत्" नश्वरस्वभावं भावजातम् । "यद्यस्ति" यदि परमार्थसत्भवति । "तत्" तदा । "क्वचित्" कुत्रापि देशे काले वा । "न शाम्यति" शान्तिं न व्रजति । यतः "असतः" अस्तिक्रियाकर्तृत्वमभजतः । "भावः" सत्ता । "न" भवति । तथा "सतः" अस्तिक्रियाकर्तृत्वं भजतः । "अभावः" असत्ता । "ना"स्ति । स्वरूपहानिप्रसङ्गादिति भावः ॥ ंोट्_३,१.२६ ॥ दृश्यपरमार्थसत्त्वे दोषमाह अचेत्यचित्स्वरूपात्मा यत्र यत्रैष तिष्ठति । द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे ॥ ंो_३,१.२७ ॥ चिता स्वयमाविर्भाव्यस्वविषयीकृतं भावजातं "चेत्यं" । अविद्यमानं चेत्यं यस्याम् । सा "अचेत्या" । प्रोक्तस्वरूपचेत्यव्यतिरिक्तेति यावत् । तादृशी या "चित्" । तत्"स्वरूपः" तन्मयः । "आत्मा" स्वरूपं यस्य । सः "अचेत्यचित्स्वरूपात्मा" । "यत्र यत्र" यस्मिन् यस्मिन् देशे । यस्यां यस्यामवस्थायामिति यावत् । "तिष्ठति" । "अणूदरेऽपि" परमसूक्ष्मोदरेऽपि । "तत्र" तस्मिन् देशे । "अस्य" द्रष्टुः । "दृश्यश्रीः समुदेति" प्रादुर्भवति । ननु तादृशे सूक्ष्मतरे देशेऽर्मे कथमेतादृशस्य प्रपञ्चस्यावस्थानं सम्भवति । सत्यम् । स्थूलदृश्यसंस्कारोत्पादितया स्मृत्या तत्र तस्य प्रादुर्भावः सिध्यत्येव []त्वात् ॥ ंोट्_३,१.२७ ॥ अथ तपोध्यानादिभिः सत्यदृश्यशान्त्यभिमानग्रस्तान् प्रति कथयति द्रष्टुरस्ति जगद्दृश्यं तत्प्रमृष्टमिदं मया । त्यक्तं तपोध्यानजपैरिति काञ्चिकतृप्तिवत् ॥ ंो_३,१.२८ ॥ "द्रष्टुः" दृशिक्रियाकर्तुः । "जगत्दृश्यम्" स्वभिन्नतया दृशिक्रियाविषयो भवति । "तत्" जगद्रूपं दृश्यम् । "मया तपोध्यानजपैः त्यक्तम्" शान्तिं नीतम् । "इति" एतत् । "काञ्चिकतृप्तिवत्" काञ्चिकद्रव्येण मम तृप्तिर्जातेति वचनवत्भवति । यथा तृप्त्यर्थं भक्षितेन काञ्चिकद्रव्येण प्रत्युत क्षुतेव जायते । तथा स्वभिन्नदेवताराधनार्थमनुष्ठितैः तपःप्रभृतिभिः अपि दृश्यवृद्धिरेव जायते इति भावः ॥ ंोट्_३,१.२८ ॥ ननु दृश्यं सत्यं भवतु । मोक्षावस्थायां दृश्यान्निर्गतस्यात एव विशेषगुणासंवेदनपात्रतां गतस्यातिसूक्ष्मस्य जीवस्येदं दृश्यं किं करोति । न हि सुप्तस्य बाह्यजगत्कृतं व्याकुलत्वं दृश्यते इत्य् । अत्राह यदि नाम जगद्दृश्यमस्ति तत्प्रतिबिम्बति । परमाणूदरेऽप्यस्मिंश्चिदादर्शे न संशयः ॥ ंो_३,१.२९ ॥ "जगत्" नश्वरं दृश्यजातम् । "यदि नामास्ति" यदि नाम परमार्थसत्भवति । "तदा" "परमाणूदरे" "ऽपि" अतिसूक्ष्ममध्येऽपि । "अस्मिन्" आत्मत्वेन स्थिते । "चिदादर्शे" चिन्मकुरे । "प्रतिबिम्बति" प्रतिबिम्बत्वेन सङ्क्रामति ॥ ंोट्_३,१.२९ ॥ कथमेतदित्य् । अत्राह यत्र तत्र स्थितं राम यथादर्शे प्रबिम्बति । अद्रिद्यूर्वीनदीशादि चिदादर्शे तथैव हि ॥ ंो_३,१.३० ॥ हे "राम" । "हि" यस्मात्कारणात् । "यथा" "यत्र तत्र" "स्थितं" वस्तु । "आदर्शे प्रबिम्बति" प्रतिबिम्बति । "तथैव" तद्वतेव । "अद्रिद्यूर्वीनदीशादि" अद्रयश्च द्यौश्च ऊर्वी च "नदीशाः" समुद्राश्च । ते "अद्रिद्यूर्वीनदीशाः" । ते "आदिः" यस्य जगतः । तत्"अद्रिद्यूर्वीनदीशादि" । तादृशं जगत् । "चिदादर्शे" चिन्मकुरे । प्रतिबिम्बति । स्वभावस्य त्यक्तुमशक्यत्वात् । अयं भावः । स्फुरत्ता एव हि सत्ता भवति । सा चेद्दृश्ये परमार्थतः अस्ति तदा स्फुरत्तामात्रमयी चिन्मात्रत्वात् । सा स्वस्फुरत्तात्वतः कदापि न व्यतिरिक्ता भवेतिति कदापि चिदादर्शः दृश्यप्रतिबिम्बरहितो न भवेतिति ॥ ंोट्_३,१.३० ॥ तथा च मोक्षाभावप्रसङ्ग इत्यभिप्रायेणाह ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी । भावाभावग्रहोत्सर्गाः स्थूलसूक्ष्मचलाचलाः ॥ ंो_३,१.३१ ॥ "ततः" यदि चिदादर्शः दृश्यसद्भावेन पुनः पुनः प्रतिबिम्बयुक्तो भवेत् । तदा "तत्र" तस्मिन् चिन्मात्रे । "पुनः दुःखं" भवेत् । तथा "जरा" भवेत् । तद्वत्"मरणजन्मनी" भवेताम् । तथा "भावाभावग्रहोत्सर्गाः" प्रादुर्भावनाशादानत्यागाः भवेयुः । संसारस्यैतत्स्वरूपत्वात् । दुःखादयः कथम्भूताः । "स्थूलसूक्ष्मचलाचलाः" । तत्र जाग्रत्कालीनानां स्थूलत्वमचलत्वं च । स्वप्नकालीनानां सूक्ष्मत्वं चलत्वं चेति विभागः । सुषुप्तौ दुःखादिभानाभावात् । तथा च स्थूलसूक्ष्मदुःखादिरूपसंसारग्रस्तत्वेन जीवस्य कदापि मुक्तिः न स्यादिति भावः ॥ ंोट्_३,१.३१ ॥ ननु भवतु दृश्यं परमार्थसत् । तथापि समाधिपराणामनर्थमुत्पादयितुं कास्य शक्तिरित्य् । अत्राह इदं प्रमार्जितं दृश्यं मया नात्राहमास्थितः । एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः ॥ ंो_३,१.३२ ॥ "मया इदं दृश्यं प्रमार्जितम्" समाध्युपायेन नाशितम् । यतः "अहमत्र आस्थितः" आस्थायुक्तः "ना"स्मि । "एतदेव" पूर्वार्धोक्तं वस्तु एव । "समाधौ" दृश्योपरमस्वरूपे समाधाने । "संसृतिस्मृतेः" दृश्यस्मृतेः । "अक्षयं बीजं" स्यात् । संसृतिविषयस्य दृश्यस्य संसृतिशब्दवाच्यत्वं लक्षणया ज्ञेयम् । अयं भावः । समाधिपरिणतस्य दृश्यप्रमार्जनं तदनास्था च सिद्धत्वेन स्फुरति न वा । न चेत्तदा सम्पन्नमप्येतद्द्वयमसदेव । स्फुरत्तायाः एव परमार्थतः सत्तास्वरूपत्वात् । स्फुरति चेत्तदास्थिता एव संसृतिस्मृतिः । तद्बीजस्य स्फुरणस्य स्थितत्वात् । ननु त्वदभिमते दृश्यात्यन्ताभावेऽपि अयं दोषः प्रसजति । स्फुरति चेत्दृश्यात्यन्ताभावः तत्स्थितमेव दृश्यम् । स्फुरणाख्यस्य बीजस्य स्थितत्वात् । न चेत्तदसन्नेव दृश्यात्यन्ताभावः । इति चेन् । न । न हि दृश्यात्यन्ताभाववादिनः सर्वोपरमस्वरूपः समाधिः दृश्यात्यन्ताभावतया अभिप्रेतः येन प्रोक्तदोषप्रसङ्गः स्यात् । किं तु दृश्यात्यन्ताभावनिश्चयमात्रमेव तस्योपयोगि । न हि रज्जुसर्पनिवारणार्थं मन्त्रपठनं युक्तम् । अपि तु नायं सर्प इति सर्पात्यन्ताभावनिश्चयमात्रस्यैव तत्रोपयोगः । अत्यन्ताभावनिश्चयश्च गुरुशास्त्रसङ्गोद्भूतेनाधिष्ठानभूतचिन्मात्रविज्ञानेनैव सिध्यति । न पाषाणभावापादकैः समाधिभिरित्यलं प्रपञ्चेन ॥ ंोट्_३,१.३२ ॥ न केवलं जगत्सत्यत्ववाच्यभ्युपगतदृश्योपरमस्वरूपस्य समाधेः दृश्यबीजधारत्वमात्रमेवास्त्य् । अपि तु कार्यकरणे असामर्थ्यमप्यस्तीत्यभिप्रायेणाह सति त्वस्मिञ्जगद्दृश्ये निर्विकल्पसमाधिना । न चाक्षयसुषुप्तत्वं तुर्यं वाप्युपपद्यते ॥ ंो_३,१.३३ ॥ "तु" पक्षान्तरे । "अस्मिन् जगद्दृश्ये" जगत्स्वरूपे दृश्ये "सति" । "सति" परमार्थसति सति । "निर्विकल्पसमाधिना" सर्वोपरमस्वरूपेण समाधानेन । "अक्षयसुषुप्तत्वं तुर्यं वापि नोपपद्यते" न सिध्यति । "अक्षयसुषुप्तत्वं" विदेहमुक्तगोचरा तुर्यातीतावस्था । "तुर्यं" जीवन्मुक्तगोचरा तुर्यावस्था ॥ ंोट्_३,१.३३ ॥ अनुपपत्तिमेव साधयति व्युत्थाने हि समाधीनां सुषुप्तान्त इवाखिलम् । जगद्दुःखमिदं भाति यथास्थितमखण्डितम् ॥ ंो_३,१.३४ ॥ "हि" यस्मात्कारणात् । "समाधीनां व्युत्थाने" अवश्यभाविनि समाधिभ्यः व्युत्थाने । समाधेः व्युत्थानावस्थायामिति यावत् । "यथास्थितम्" पूर्ववत्स्थितम् । अत एव "अखण्डितम्" केनाप्यंशेन न न्यूनम् । "अखिलं" समस्तम् । "इदं जगद्दुःखं भाति" स्फुरति । कस्मिन्न् "इव" । "सुषुप्तान्त इव" । अयं भावः । यथा रात्रौ सुषुप्तिं गतस्यात एव विस्मृतसमस्तजगत्प्रपञ्चस्य ततः प्रभाते प्रबुद्धस्य पुरुषस्य पुनः अपि पूर्ववत्जगत्प्रपञ्चः स्फुरति । तथा येन तेनोपायेन सर्वोपरमस्वरूपसमाधिं गतस्य पुरुषस्यावश्यम्भाविनि व्युत्थानसमये पुनरपि पूर्ववत्जगत्प्रपञ्चः अवश्यं स्फुरत्येव । अन्यथा अस्मदभिमतात्यन्ताभावप्रसङ्गात् । तथा च मातुलानीभक्षणवत्क्षणमात्रं जगदुपरमसाधकेन समाधिना सर्वदा जगदभावस्वरूपस्य तुर्यस्य तदतीतस्य च सिद्धिर्न युक्तेति ॥ ंोट्_३,१.३४ ॥ एतेनायातां समाधेः निष्फलतां कथयति प्राप्तं भवति हे राम तत्किं नाम समाधिभिः । भूयोऽनर्थनिपातेऽपि क्षणसाम्ये हि किं सुखम् ॥ ंो_३,१.३५ ॥ "किं नाम प्राप्तं भवति" । किञ्चिदपि प्राप्तं न भवतीत्यर्थः । कथमेतदित्यत्राह "भूय" इति । "हि" यस्मात् । "भूयोऽनर्थपाते" । "भूयः अनर्थनिपातः" भेदरूपानर्थनिपातः । यस्मिन् । तादृशे "क्षणसाम्येऽपि" क्षणं स्फुरणशीलायां समतायामपि । "किं सुखं" भवति । यतः क्षणभातं साम्यं सुखदं न भवति । ततः तत्प्राप्त्यापि किञ्चित्प्राप्तं न भवतीति भावः । "अपि"शब्दः साम्यस्य असन्दिग्धं सुखास्पदत्वं द्योतयति ॥ ंोट्_३,१.३५ ॥ ननु समाधौ सततं लीनस्य व्युत्थानाभावेन कथं भूयः जरादुःखप्रादुर्भावः स्यादित्य् । अत्राह यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् । तदक्षयसुषुप्ताभं तन्मन्ये नामलं पदम् ॥ ंो_३,१.३६ ॥ पुरुषः "निर्विकल्पे समाधाने" निर्विकल्पसमाधौ । "स्थितिं" सततं लीनताम् । "यदि वा व्रजेत्" यदि वा गच्छेत् । अहं "मन्ये" । "तत्" तदापि । "तत्" निर्विकल्पसमाधानम् । "अमलं पदम्" जाड्यमलरहितं शुद्धचिन्मात्राख्यं महास्थानम् । "न" भवति । दृश्यदर्शनासामर्थ्यरूपस्य जाड्याख्यस्य मलस्य सुप्तिवत्स्थितत्वात् । "तत्" कथम्भूतम् । "अक्षयसुषुप्ताभम्" तुर्यातीतावस्थावत्भासमानम् । न तु तत्स्वरूपम् । कालान्तरेऽवश्यम्भाविनः व्युत्थानस्य स्थितत्वात् । न च तुर्यातीतावस्थायाः व्युत्थानं कदापि सम्भवति । चिन्मात्रे अत्यन्तलयीभावात् ॥ ंोट्_३,१.३६ ॥ दृश्यसत्यत्ववादिनः निर्विकल्पसमाधिरेव न सम्भवति । स्थितिव्रजनस्य तु का कथेत्यभिप्रायेणाह प्राप्यते सति दृश्येऽस्मिन्न च तन्नाम केनचित् । यत्र तत्र किलायाति चित्तभ्रान्त्या जगद्भ्रमः ॥ ंो_३,१.३७ ॥ "नाम" निश्चये । "अस्मिन्" अनुभूयमाने जगति "सति" । "सति" परमार्थे सति । "केनचित्" केनापि पुरुषेण । "तत्" निर्विकल्पसमाधानम् । "न प्राप्यते" । यतः "यत्र तत्र" स्थितस्यापि समाधिदेशे तदितरदेशे वा स्थितस्य पुरुषस्य । "चित्तभ्रान्त्या" । चित्ते स्थिता "भ्रान्तिः" जगत्सत्यत्वभ्रमः "चित्तभ्रान्तिः" । तया "जगद्भ्रमः" । "किल" निश्चये । "आयाति" । अयं भावः । यथा दृश्यसत्यतायां निश्चितः पुरुषः रात्रौ सुप्तोऽपि दृश्यं पश्यत्येव । तथा समाधिं गतोऽपि पश्येदेव समानन्यायत्वात् । तथा च दृश्यसत्यत्ववादिनः निर्विकल्पसमाधिरेव न सम्भवति । तत्र स्थितिव्रजनस्य तु का कथेति ॥ ंोट्_३,१.३७ ॥ ननु दृश्यसत्यत्वे निश्चितस्यापि यथा तथा प्रयुक्तेन धारणोपायेन न किञ्चिद्भानरूपो निर्विकल्पसमाधिः सिध्यत्येवेत्य् । अत्राह द्रष्टाथ यदि पाषाणरूपतां भावयन् बलात् । किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता ॥ ंो_३,१.३८ ॥ "द्रष्टा" प्रमाता । "यदि बलात्" केनापि हठप्रयोगेन । "पाषाणरूपतां भावयनास्ते" तिष्ठति । "तदपि" तदापि । "अस्य" स्वस्मिन् पाषाणभावं भावयतः द्रष्टुः । "तदन्ते" अवश्यभाविनि पाषाणभावान्ते । "दृष्यता" पटादिविषयः दृश्यभावः । "उदेति" स्फुरति । न हि जीवतः सर्वदा पाषाणभावभावनं शक्यम् । तथा च दृश्यत्वे निश्चितस्य स्थिरः निर्विकल्पसमाधिः न सिध्यत्येवेति भावः ॥ ंोट्_३,१.३८ ॥ पाषाणरूपतागमनस्यासम्भवं कथयति न च पाषाणतातुल्या निर्विकल्पसमाधयः । केषाञ्चित्स्थितिमायान्ति सर्वैरित्यनुभूयते ॥ ंो_३,१.३९ ॥ पाषाणतायाः तुल्याः "पाषाणतातुल्याः" । विकल्परहिता इत्यर्थः । पाषाणताभावनमेव तस्य द्रष्टुः पाषाणभावं नाशयति । न हि पाषाणः स्वं पाषाणत्वं भावयितुं शक्नोतीति भावः ॥ ंोट्_३,१.३९ ॥ यथातथासिद्धस्यापि पाषाणभावस्य न परमपदत्वं युक्तं जडत्वानपायाद् । इति कथयति न च पाषाणतातुल्या रूढिं याताः समाधयः । भवन्त्यग्र्यं पदं शान्तं चिद्रूपमजमव्ययम् ॥ ंो_३,१.४० ॥ "रूढिं" परिणामम् । अयं भावः । दृश्यदर्शनासामर्थ्येन जडत्वानपायात्पाषाणभावस्य चिन्मात्रत्वमयुक्तम् । चिन्मात्रं हि सर्वदा चेत्यचेतनसमर्थमेव भवति । स्वातन्त्र्येण तु यदि कदाचित्तच्चेतनं न करोति तेन नास्य जाड्यापातः । न हि शक्तः पुरुषः स्वातन्त्र्येण कार्यमकुर्वनशक्त इति वक्तुं युज्यते इति ॥ ंोट्_३,१.४० ॥ पूर्वोक्तमुपसंहरति तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन । शाम्येत्तपोजपध्यानैर्दृढमित्यज्ञकल्पना ॥ ंो_३,१.४१ ॥ "तस्मात्" उक्तहेतोः । "यदि दृश्यं सत्" भवति ... ********************************************************************* ... यत्वेन परबोधत्वायोगात् । तदेव "निर्वाणमात्रम्" एव । "चित्तमात्रं" पद्मजभावेन स्थितं शुद्धं चित्तम् । "आस्ते" । "तत्" चित्तमात्रम् । "वसुधादिताम्" परमार्थसन्तं पृथ्व्यादिभावम् । "न याति" । निर्वाणस्वरूपशुद्धबोधमयत्वात् । अत एव पद्मजस्य आधिभौतिकदेहाभाव इति भावः ॥ ंोट्_३,३.१३ ॥ ननु प्रतिजीवं मनोभेदस्य स्थितत्वान्नानाविधानि मनांसि सन्ति । तत्कथं पद्मजरूपात्मनसः एव जगदुत्पत्तिः उक्तेत्य् । अत्राह सर्वेषां भूतमनसां संसारव्यवहारिणाम् । प्रथमोऽसौ प्रतिच्छन्दश्चित्तदेहः स्वतोदयः ॥ ंो_३,३.१४ ॥ संसारे व्यवहरन्तीति तादृशानां "सर्वेषां भूतमनसां" मध्ये । "असौ" पद्मजः । "प्रथमः प्रतिच्छन्दः" भाविमनःसृष्टिकारणं प्रथमं प्रतिभानं भवति । चिन्मात्रस्येति शेषः । "असौ" कथम्भूतः । "चित्तदेहः" शुद्धमनोरूपः । पुनः कथम्भूतः । "स्वतोदयः" । "स्वतया" स्वभावेन । न तु अन्यतया । "उदयः" नवीनः प्रादुर्भावः यस्य । सः । उदयानन्तरमपि पूर्वभावेनैव स्थित इत्यर्थः । अत एव अस्मादेवोत्पत्तिकथनमिति भावः ॥ ंोट्_३,३.१४ ॥ प्रथमप्रतिच्छन्दत्वमस्य साधयति अस्मात्पूर्वात्प्रतिच्छन्दादनन्यैतत्स्वरूपिणी । इयं प्रविसृता सृष्टिः स्पन्ददृष्टिरिवानिलात् ॥ ंो_३,३.१५ ॥ "अस्मात्" पद्मजाख्यात् । "पूर्वात्" प्रथमात् । "प्रतिच्छन्दात्" । "इयम्" अनुभूयमाना । "सृष्टिः" । "प्रविसृता" प्रसारं गता । कथम्भूता । "अनन्या" एतस्मादव्यतिरिक्ता । अत एव "एतत्स्वरूपिणी" एतन्मयी । का "इव" । "स्पन्ददृष्टिरिव" । यथा स्पन्दरूपा दृष्टिः । स्पन्द इति यावत् । "अनिलात्" प्रविसृता भवति । तथेत्यर्थः । अतोऽस्यैव प्रथमप्रतिच्छन्दत्वं युक्तमिति भावः ॥ ंोट्_३,३.१५ ॥ उपसंहारं करोति प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृत् । विभात्येवमयं सर्गः सत्यानुभववत्स्थितः ॥ ंो_३,३.१६ ॥ "एवं" सति । "प्रतिभानाकृतेः" प्रतिभानस्वरूपात् । "अस्मात्" पद्मजात् । "अयं सर्गः" इदं सृजिक्रियाविषयो दृश्यमण्डलम् । "प्रतिभामात्ररूपधृत्" एव प्रतिभानमात्ररूपधारी एव । न तु स्थूलभूतमयरूपधारी । "विभाति" स्फुरति । न हि द्रवगुणयुक्तात्जलात्द्रवगुणरहितः तरङ्गः उत्पद्यते । "अयं सर्गः" कथम्भूतः । "स्थितः" । कथम् । "सत्यानुभववत्" सत्यः अनुभवः यस्य । सः "सत्यानुभवः" । स इव तद्"वत्" । परमार्थतस्तु स्वप्नवत्प्रतिभानमात्रमेवेति "वत्"इग्रहणम् ॥ ंोट्_३,३.१६ ॥ अत्र दृष्टान्तद्वयं कथयति दृष्टान्तोऽत्र स्वप्नपुरं स्वप्नस्त्रीसुरतं तथा । असदप्यर्थसम्पत्त्या सत्यानुभवभास्वरम् ॥ ंो_३,३.१७ ॥ "अत्रा"स्मिन् स्थाने । सर्गस्य प्रतिभानमात्ररूपतायामिति यावत् । "स्वप्नपुरं" स्वप्नदृष्टं पुरम् । "तथा" तद्वत् । "स्वप्नस्त्रीसुरतं" स्वप्नदृष्टस्त्रीसुरतम् । "दृष्टान्तः" भवति । कथम्भूतम् । "असदपि" प्रतीतिमात्रसारत्वेनासत्स्वरूपमपि । "अर्थसम्पत्त्या" अर्थक्रियासम्पादनेन । "सत्यानुभवभास्वरम्" सत्यानुभवयुक्तवस्तुवत्भासनशीलम् ॥ ंोट्_३,३.१७ ॥ पद्मजस्य देहाभावेऽपि देहभानं कथयति अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः । सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ॥ ंो_३,३.१८ ॥ "अपृथ्व्यादिमयः" पृथ्व्यादिव्यतिरिक्तस्वरूपः । अत एव "व्योमाकृतिः" आकाशाकृतिः । अत एव च "अदेहः" आधिभौतिकदेहरहितः । "स्वात्मभूः" पद्मजः । "सदेह इव भाति" स्फुरति । सदेहकार्यनानाविधप्रपञ्चकर्तृत्वात् । "स्वात्मभूः" कथम्भूतः । "भूतेशः" सर्वभूतोत्पादकत्वेन सर्वभूतस्वामी । पुनः कथम्भूतः । "पुरुषाकृतिः" पुरुषवताकृतिः यस्य । सः तादृशः । अन्यथा शास्त्रेषु चतुर्मुखत्वकल्पनां न कुर्यादित्यर्थः ॥ ंोट्_३,३.१८ ॥ अस्योदयशान्ती तदभावं च कथयति स चित्सङ्कल्परूपत्वादुदेत्यप्यथ शाम्यति । स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति ॥ ंो_३,३.१९ ॥ "चित्" परमार्थतः चित्स्वरूपः । "सः" पद्मजः । "सङ्कल्परूपत्वात्" चिन्मात्राश्रयस्वपरामर्शस्वरूपसङ्कल्परूपत्वेन्"ओदेति" प्रादुर्भवति । "अथ" उदयानन्तरम् । उप"शाम्यत्य्" "अपि" शान्तिं व्रजति च । सङ्कल्पस्योदयशान्तिनियताधारत्वात् । तथा "सः" पद्मजः । "स्वभावस्य" चिन्मात्राख्यस्य स्वरूपस्य । "स्वायत्तत्वात्" तदेवाहमिति परामर्शविषयत्वात् । "न उदेति न च शाम्यति" । न हि स्वभावापरपर्यायस्य सदाभातस्य चिन्मात्रस्योदयशान्ती युक्ते इति । तत्र स्वात्मत्वे निश्चितस्य तत्स्वरूपस्य च पद्मजस्यापि ते न युक्ते इति भावः ॥ ंोट्_३,३.१९ ॥ अथास्यैव जगत्कारणत्वं कथयति ब्रह्मा सङ्कल्परहितः पृथ्व्यादिरहिताकृतिः । केवलश्चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ॥ ंो_३,३.२० ॥ "सङ्कल्परहितः" आतिवाहिकदेहरहितः । तथा "पृथ्व्यादिरहिताकृतिः" स्थूलदेहरहितः । अत एव "केवलः" अद्वितीयः । चिन्मात्ररूप इति यावत् । तथात्वेऽपि "चित्तमात्रात्मा" शुद्धसङ्कल्परूपशुद्धचित्तस्वरूपः । "ब्रह्मा" पद्मजः । "त्रिजगत्स्थितेः" त्रिजगत्सत्तायाः । "कारणम्" भवति ॥ ंोट्_३,३.२० ॥ ननु अद्वितीयाच्चिन्मात्रात्कस्य प्रेरणया शुद्धमनोरूपः पद्मजः उत्तिष्ठतीत्य् । अत्राह सङ्कल्प एष कचति यथा नाम स्वसम्भवः । व्योमात्मैष तथा भाति भवत्सङ्कल्पशैलवत् ॥ ंो_३,३.२१ ॥ "नाम" निश्चये । "यथा एषः" सर्वैः अनुभूयमानः "सङ्कल्पः" । "स्वसम्भवः" स्वोत्थः । न तु परसम्भवः । "कचति" स्फुरति । "तथा एषः" शुद्धमनोरूपः पद्मजः "स्वसम्भवः" । "भाति" स्फुरति । कथम् । "भवत्सङ्कल्पशैलवत्" । सङ्कल्पे दृष्टः शैलः "सङ्कल्पशैलः" । भवतः सङ्कल्पशैलः "भवत्सङ्कल्पशैलः" । स इव "भवत्सङ्कल्पशैलवत्" । यथा भवतः सङ्कल्पशैलः स्वसम्भवः भाति । तथेत्यर्थः । सङ्कल्पस्य च स्वतः स्फुरणं सर्वेषु प्रसिद्धमेवेति । स एव सामान्यविशेषभावाभ्यां द्विरुपमानत्वेनोपात्तः ॥ ंोट्_३,३.२१ ॥ अस्य पद्मजस्याधिभौतिकदेहराहित्यं त्रिभिः श्लोकैः सहेतुकं कथयति आतिवाहिकतैकान्तविस्मृत्या दृढरूढया । आधिभौतिकता येन मुधा भाति पिशाचवत् ॥ ंो_३,३.२२ ॥ इदम्प्रथमतोद्योगसम्प्रबुद्धमहाचितेः । नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः ॥ ंोट्_३,३.२३ ॥ आधिभौतिकता तेन नास्योदेति पिशाचिका । असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ॥ ंो_३,३.२४ ॥ "येन" यतः हेतोः । "दृढरूढया" प्रौढिं गतया । "आतिवाहिकतैकान्तविस्मृत्या" । "आतिवाहिकतायाः" आतिवाहिकभावस्य । सूक्ष्मताया इति यावत् । या "एकान्तविस्मृतिः" अत्यन्तविस्मरणम् । तया । "आधिभौतिकता" आधिभौतिकभावः । स्थूलता इति यावत् । "पिशाचवत्मुधा" असत्यम् । "भाति" स्फुरति । अशुद्धस्य मनसः इति शेषः । "तेन" ततः कारणात् । "अस्य" शुद्धमनोरूपस्य पद्मजस्य । "पिशाचिका" मिथ्याभूतपिशाचरूपा । "आधिभौतिकता" आधिभौतिकभावः । स्थूलभाव इति यावत् । "न" "भाति" न स्फुरति । "आधिभौतिकता" कथम्भूता । "जाड्यस्य" जडतायाः । "भ्रमं" वैपुल्यम् । "प्र"कर्षेण द"दा"तीति तादृशी । आधिभौतिकतासादनेन हि मनसः जाड्यमधिकीभवति । "आधिभौतिकता" पुनः कथम्भूता । "असत्या" असत्यं भातेत्यर्थः । का "इव" । "मृगतृष्णा इव" । यथा मृगतृष्णा असत्या भवति । तथेत्यर्थः । ननु आधिभौतिकता आतिवाहिकताविस्मृतिकारणिका भवतु । कथं सा तेन शुद्धमनोरूपे पद्मजे न भवतीत्य् । अत्र श्लोकत्रयमध्यगं द्वितीयं श्लोकं समर्थकत्वेन कथयति "इदम्" इति । "इदम्प्रथमतया" तत्पूर्वम् । यः "उद्योगः" स्वपरामर्शं प्रति आभिमुख्यम् । तेन "सम्प्रबुद्धा" स्वपरामर्शयुक्ता । या "महाचितिः" चिन्मात्रम् । तस्य । तत्स्वरूपस्येति यावत् । "अस्य" शुद्धमनोरूपस्य पद्मजस्य । "शुद्धसंवित्त्वात्" भेदमलारूषितसंविद्युक्तत्वेन । "आतिवाहिकविस्मृतिः" भावप्रधाननिर्देशाश्रयणेन आतिवाहिकताविस्मरणम् । "नोदेति" न स्फुरति । अत एवास्यातिवाहिकताविस्मृतिकारणिका आधिभौतिकता न भवतीति भावः । दृष्टं हि स्वमेव भेदरूषितसंविदः अशुद्धस्य मनस एव स्थूलपुरादिभावेन भानमिति नात्रायस्तम् ॥ ंोट्_३,३.२२२४ ॥ पद्मजस्य मनोमात्ररूपत्वेन तत्कार्यस्य जगतोऽपि मनोमात्ररूपत्वं योग्यतया अतिदिशति मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः । मनोमात्रमतो विश्वं यद्यतस्तत्तदेव हि ॥ ंो_३,३.२५ ॥ "यदे"ति यत इत्यस्यार्थे । "यदा" यतः । "ब्रह्मा" पद्मजः । मनोमात्रं" शुद्धमनोमात्रं" भवति । "अतः विश्वं मनोमात्रं" भवति । "यतः" । "यत्" वस्तु । "यतः" यस्मात्वस्तुनः । भवति । सत्ताकर्तृतां भजति । "तत्" वस्तु । "तदेव" भवति । मृदः सत्ताकर्तृत्वं भजतः घटस्य मृत्त्वदर्शनात् । "अतो" जगतः मनोवतनुत्पत्तिसतत्त्वा एवोत्पत्तिरिति भावः ॥ ंोट्_३,३.२५ ॥ ननु पद्मजस्य स्वकारणभूतचिन्मात्रव्यतिरिक्तसहकारिकारणाभावेन चिन्मात्रस्थूलतामात्ररूपं मनोमात्ररूपत्वमस्तु । तज्जस्य जगतः अदृष्टादिसहकारिकारणसद्भावात्कथं मनोमात्ररूपत्वं युज्यते इत्य् । अत्राह अजस्य सहकारीणि कारणानि न सन्ति यत् । तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् ॥ ंो_३,३.२६ ॥ "अजस्य" पद्मजस्य । "यत्" यतः कारणात् । "सहकारीणि कारणानि न सन्ति" । "तु" निश्चये । "तस्मात्" ततः कारणात् । "तज्जस्य" तस्मादुत्पन्नस्य जगतः । "कानिचित्" "तानि" कानिचित्सहकारीणि । "न सन्त्येव" । मनःकार्याणामदृष्टादीनां मनः प्रति सहकारित्वायोगात् । न हि यो यस्मातुत्पद्यते स एव तत्सहकारी भवितुमर्हति । स्वोत्पत्तिसमये स्वयमसत्त्वात् । अन्यान् प्रत्येव सहकारिकारणत्वाभ्युपगमे स्वोत्पत्तौ सहकारिकारणान्तरापेक्षायाः स्थितत्वात् । अन्यथा स्वस्यापि परान् प्रति सहकारिकारणत्वायोगात् ॥ ंोट्_३,३.२६ ॥ ननु ततोऽपि किमित्य् । अत्राह कारणात्कार्यवैचित्र्यं तेनात्रास्ति न किञ्चन । यादृशं कारणं शुद्धं कार्यं तादृगिह स्थितम् ॥ ंो_३,३.२७ ॥ "तेन" । यतः जगतः सहकारिकारणानि न सन्ति । तस्मात् । "अत्र" पद्मजजगद्विषये । "कारणात्" "कार्यवैचित्र्यं" कार्यभेदः । "किञ्चन" लेशेनापि । "नास्ति" । दण्डादिसहकारिकारणसान्निध्ये एव मृदो घटाख्यकार्यवैचित्र्यस्य दृष्टत्वात् । अतः "इह" "कारणं यादृशं शुद्धं" भवति । "कार्यं तादृक्स्थितं" भवति । भिन्नतापादकानां सहकारिकारणानामभावात् । अतः चिन्मात्रमेव जगदिति भावः ॥ ंोट्_३,३.२७ ॥ फलितं सिद्धान्तं कथयति कार्यकारणताद्यत्र न किञ्चिदुपपद्यते । यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् ॥ ंो_३,३.२८ ॥ यतः "अत्र" चिन्मात्रपद्मजयोः पद्मजजगतोश्च । "कार्यकारणतादि" कार्यकारणभावादि । "किञ्चित्" लेशेनापि । "नोपपद्यते" । अतः "परं ब्रह्म" शुद्धचिन्मात्रम् । "यादृशं" भवति । "जगत्त्रयम्" पद्मजादिरूपं जगत्त्रयम् । "तादृशं" भवति । कार्यकारणभावादेरेव भेदापादकत्वात् ॥ ंोट्_३,३.२८ ॥ ननु चिन्मात्रादुत्पन्नस्य शुद्धमनोरूपस्य पद्मजस्य चिन्मात्ररूपत्वं भवतु । शुद्धमनोरूपात्पद्मजादुत्पन्नस्य त्रैलोक्यस्य तु कथं तद्युक्तमित्य् । अत्राह मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् । अनन्यदात्मनः शुद्धाद्द्रवत्वमिव वारिणा ॥ ंो_३,३.२९ ॥ "मनस्ताम्" पद्मजेत्यपरनामधेययुक्तशुद्धमनोभावम् । "यातेनेव" गतेनेव । "ब्रह्मणा" पदार्थरूपतया बृंहितेन शुद्धचिन्मात्रेण । "शुद्धातात्मनः" स्वस्मात् । "अनन्यत्" अभिन्नम् । इदं "जगत्तन्यते" विस्तार्यते । स्वात्मनि प्रकटीक्रियत इति यावत् । केन्"एव" । "वारिणेव" यथा "वारिणा" । "आत्मनः अनन्यत्द्रवत्वम्" आद्यस्पन्दनासमवायिकारणभूतः द्रवत्वाख्यः गुणः । विस्तार्यते । तथेत्यर्थः । मनस्तायामपि परमार्थतः चिन्मात्रत्वानपायाद्"इव"शब्दोपादानम् । अतः जगतोऽपि चिन्मात्रादुत्पन्नत्वेन चिन्मात्रत्वमेव युक्तमिति भावः ॥ ंोट्_३,३.२९ ॥ ननु तर्हि कथमयं भेदो भासते इत्य् । अत्राह मनसा तन्यते सर्वमसदेवेदमाततम् । यथा सङ्कल्पनगरं यथा गन्धर्वपत्तनम् ॥ ंो_३,३.३० ॥ "मनसा" पद्मजेति प्रसिद्धेन शुद्धमनसा । "आततं" समन्तात्स्फुरत् । "इदम्" तनुः भासमानम् । "इदं" समस्तं जगत् । "तन्यते" परं ब्रह्मणः भिन्नया सत्तया प्रकटीक्रियते । "इदं सर्वं" कथम्भूतम् । "असदेव" असत्स्वरूपमेव । न तु सत्स्वरूपम् । किं "यथा" । "सङ्कल्पनगरं यथा" । यथा सङ्कल्पनगरमसदेव भवति । तथेत्यर्थः । पुनः किं "यथा" । "गन्धर्वपत्तनं यथा" । यथा गन्धर्वपत्तनम् । यथा गन्धर्वपत्तनं सदेव भवति । तथेत्यर्थः । गन्धर्वाः हि स्वावासार्थं कल्पनया शून्ये नगरं रचयन्ति । तदेव गन्धर्वनगरमुच्यते । चिन्मात्रादुत्थितेन "मनसा" एव "इदं" भिन्नतया विस्तार्यते । अन्यथा मनसः किमर्थमुत्थानं स्यादिति भावः ॥ ंोट्_३,३.३० ॥ अत्यन्तनिश्चयत्वेन पुनरपि आधिभौतिकतायाः असत्यत्वं कथयति आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता । ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्तु तत्र ते ॥ ंो_३,३.३१ ॥ "ब्रह्मादय" इत्य् । "आदि"शब्देन शुद्धबुद्धिरूपस्य विष्णोः शुद्धाहङ्काररूपस्य रुद्रस्य च ग्रहणम् । "प्रबुद्धाः" अत्यन्तशुद्धत्वेन प्रकृष्टेन बोधेन युक्ताः ॥ ंोट्_३,३.३१ ॥ दण्डापूपिकान्यायेनाधिभौतिकतायाः असत्यतां पुनरपि कथयति आतिवाहिक एवास्ति न प्रबुद्धमतेः किल । आधिभौतिकदेहस्य चर्चैवात्र कुतः कथम् ॥ ंो_३,३.३२ ॥ "किले"ति निश्चये । "प्रबुद्धमतेः" सम्यक्निश्चितमतेः पुरुषस्य । "आतिवाहिक एव" अतिवहनशीलः सूक्ष्मः देह एव । "नास्ति" । स्वस्मिन् चिन्मात्ररूपताज्ञानात् । "अत्रा"स्मिन् प्रबुद्धमतौ । "आधिभौतिकदेहस्य" "चर्चा एव" कथा एव । "कुतः" स्यात् । "कथं" स्यात् ॥ ंोट्_३,३.३२ ॥ आधिभौतिकदेहरहितात्पद्मजादुत्पन्नस्य जगतः असत्यत्वं कथयति मनोनाम्नो मनुष्यस्य विविधाकारधारिणः । मनोराज्यं जगदिति सत्यरूपमिव स्थितम् ॥ ंो_३,३.३३ ॥ "विविधानाकारान्" "धार्"अयतीति तादृशस्य "मनोनाम्नः" मन इति नामधेययुक्तस्य । "मनुष्यस्य" आधिभौतिकदेहरहितस्य पद्मजाख्यस्य मनुष्यस्य । "मनोराज्यम्" मनःकल्पना । "जगद्" "इति स्थितम्" जगद्रूपेण स्थितम् । भवति । "जगत्" कथम्भूतम् "इव" । "सत्यरूपमिव" । परमार्थतस्तु कल्पनामात्ररूपत्वान्न सत्यरूपमित्"ईव"शब्दोपादानम् । स्वप्नस्य चात्र दृष्टान्तत्वं स्फुटमेवेति नात्रायस्तम् । "मनोनाम्नः मनुष्यस्य मनोराज्यम्" इति राहोः शिर इतिवज्ज्ञेयम् ॥ ंोट्_३,३.३३ ॥ ननु शास्त्रेषु चतुर्मुखस्य कस्यापि देवविशेषस्यैव पद्मजत्वमुक्तमस्ति । तत्कथं त्वया शुद्धस्य मनस एव तदुक्तमित्य् । अत्राह मन एव विरिञ्चं त्वं विद्धि सङ्कल्पनात्मकम् । स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ॥ ंो_३,३.३४ ॥ "त्वम्" । "सङ्कल्पनात्मकम्" चिन्मात्रोक्तस्वपरामर्शस्वरूपम् । "मनः" शुद्धं मनः । "विरिञ्चं" पद्मजम् । "विद्धि" जानीहि । यतः "स्ववपुः" स्वस्वरूपम् । "स्फारतां" विस्तीर्णताम् । "नीत्वा" । "मनसा इदं" जगत् । "वितन्यते" विस्तार्यते । उत्पाद्यते इति यावत् । विरिञ्चस्य हि विरिञ्चत्वमेतदेव । यज्जगदुत्पाद्यते तच्च मनसा एव स्वप्नन्यायेन स्फुटमुत्पाद्यते । इति तस्यैव विरिञ्चत्वं युक्तम् । चतुर्मुखदेवविशेषकल्पना तु स्थूलदृष्टीन् प्रत्येवेति भावः ॥ ंोट्_३,३.३४ ॥ विरिञ्चमनसोः अत्यन्तमभिन्नत्वं कथयति विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः । पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ॥ ंो_३,३.३५ ॥ "विरिञ्चः" पद्मजः । "मनसः" शुद्धस्य मनसः । "रूपं" स्वरूपम् । भवति । "मनः" शुद्धं मनः । "विरिञ्चस्य" पद्मजस्य । "वपुः" स्वरूपम् । भवति । उत्पादनाख्यैककार्यकारित्वात् । "अत्रा"नयोः विरिञ्चमनसोः । "पृथ्व्यादि न विद्यते" । शुद्धचिन्मात्रोत्थितत्वेन शुद्धचिन्मात्रत्वानपायात् । "तेन" ततः कारणात् । "पृथ्व्यादि" भूम्यादि । "कल्पितम्" कल्पनायां भावितं भवति । स्वप्नवदिति शेषः ॥ ंोट्_३,३.३५ ॥ ननु विरिञ्चरूपं मनः उपादानकारणं विना कथं जगदुत्पादयति । न हि कुशलस्यापि कुलालस्य मृदाख्यमुपादानकारणं विना घटोद्भावने शक्तिरस्तीत्य् । अत्राह पद्माक्षे पद्मिनीवान्तर्मनोहृद्यस्ति दृश्यता । मनोदृश्यदृशौ भिन्ने न कदाचन किञ्चन ॥ ंो_३,३.३६ ॥ स्वार्थे भावप्रत्ययः आर्षः । तेनायमर्थः । "दृश्यता" दृश्यम् । "मनोहृदि" मनसोऽन्तः । "अस्ति" तिष्ठति । सर्वशक्तियुक्ताच्चिन्मात्रात्तथैवोत्थानात् । अन्यथा दृश्यभावेन स्फुरणायोगात् । का "इव" । "पद्मिनीव" । यथा "पद्मिनी" कमलिनी । "पद्माक्षे" पद्मबीजे । "अन्तः अस्ति" । तथेत्यर्थः । पद्मिन्याश्च पद्माक्षान्तर्गतत्वं ततः निर्गमेनानुमेयम् । न हि यत्यदन्तर्न भवति तत्ततः निर्याति । निर्जलात्घटादिव जलम् । अतः "मनोदृश्यदृशौ" मनोदृक्दृश्यदृक्च । "कदाचन" जातु । "किञ्चन" लेशेनापि । "भिन्ने न" भवतः । उपादानोपादेयभावेन स्थितत्वात् । अतः स्वतो भिन्नस्योपादानकारणस्यात्रापेक्षा नास्तीति भावः ॥ ंोट्_३,३.३६ ॥ एतदेव दृष्टान्तान्तरेण दृढयति तथा चात्र भवत्स्वप्नसङ्कल्पश्चित्तराज्यधीः । स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः ॥ ंो_३,३.३७ ॥ स्पष्टम् ॥ ंोट्_३,३.३७ ॥ तस्माच्चित्तविकल्पस्थः पिशाचो बालकं यथा । विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका ॥ ंो_३,३.३८ ॥ "द्रष्टारम्" मनोरूपं द्रष्टारम् ॥ ंोट्_३,३.३८ ॥ यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः । करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ॥ ंो_३,३.३९ ॥ इदं श्लोकत्रयं च प्रथमसर्गान्त्यभागे गतमिति न पुनरायस्तम् ॥ ंोट्_३,३.३९ ॥ सर्गान्तश्लोकेन सिद्धान्तं कथयति सच्चेन्न शाम्यति कदाचन दृश्यदुःखं दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् । दृश्ये त्वसम्भवति बोद्धरि बोद्धृभावः शाम्येत्स्थितेऽपि हि तदस्य विमोक्षमाहुः ॥ ंो_३,३.४० ॥ इदमनुभूयमानम् "दृश्यदुःखम्" दृश्याकारं दुःखम् । "सत्" परमार्थसत् । "चेत्" भवति । तदा "कदा"चित्न शाम्यति । नाभावो विद्यते सत इति न्यायादित्यर्थः । "दृश्ये अशाम्यति" सति । "बोद्धरि" द्रष्टरि । "केवलत्वं" केवलीभावः । अबोद्धृरूपतेति यावत् । "न" भवति । स्वव्यतिरिक्तस्य दृश्यस्थबोध्यतया स्थितत्वात् । मोक्षाभावप्रकारमुक्त्वा मोक्षं कथयति । "दृश्य" इति । "तु" पक्षान्तरे । "दृश्ये असम्भवति" सति । उक्तन्यायेन अनुत्पत्तिसतत्त्वोत्पत्तियुक्ते सति । "बोद्धरि" द्रष्टरि । "बोद्धृभावः शाम्येत्" शान्तिं व्रजेत् । न हि दृश्यरहितस्य द्रष्टुः द्रष्टृत्वं नाम किञ्चिदस्ति । "दृश्ये" कथम्भूते "ऽपि" । "स्थितेऽपि" । भासमानत्वात्स्थितिं भजत्यपि । ननु तेन बोद्धृभावशमनेन किं सेत्स्यतीत्य् । अत्राह । "हि तदस्ये"ति । "हि" निश्चये । पण्डिताः "तत्" बोद्धृभावशमनम् । "अस्य" बोद्धुः । "विमोक्षं" विशिष्टां मुक्तिम् । "आहुः" कथयन्ति । दृश्यानौन्मुख्यस्यैव मोक्षत्वाद् । इति शिवम् ॥ ंोट्_३,३.४० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे तृतीयः सर्गः ॥ ३,३ ॥ ********************************************************************* ओं श्रीवाल्मीकिः भरद्वाजं प्रति कथयति कथयत्येवमुद्दामवचनं मुनिनायके । श्रोतुमेकरसे जाते जने मौन इव स्थिते ॥ ंो_३,४.१ ॥ शान्तेषु किङ्किणीजालस्वनेषु स्पन्दनं विना । पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु ॥ ंो_३,४.२ ॥ सुविस्मृतविलासासु स्थितासु ललनास्वपि । चित्रभित्ताविव न्यस्ते समस्ते राजसद्मनि ॥ ंो_३,४.३ ॥ मुहूर्तशेषमभवद्दिवसं मधुरातपम् । व्यवहारो रविकरैः सह तानवमाययौ ॥ ंो_३,४.४ ॥ "मुनिनायके" श्रीवसिष्ठे । "एवम्" अनेन प्रकारेण । "उद्दामवचनम्" अर्थगूढं वचनम् । "कथयति" सति । अत एव "मौने इव स्थिते" मौनाख्यव्रतयुक्त इव स्थिते । "जने" सभाजने । "श्रोतुमेकरसे" केवलास्वादयुक्ते । "जाते" सति । तथा "स्पन्दनं विना" स्वाधारभूतस्त्र्यादिकृतं स्पन्दनं विना । स्वाधारभूतस्त्र्यादिकृतस्पन्दराहित्येनेत्यर्थः । "किङ्किणीजालस्वनेषु" सत्सु । तथा "पञ्जरान्तरेषु" स्थिताः ये "हारीतशुकाः" । तेषु "अपि अस्तकेलिषु" त्यक्तक्रीडेषु सत्सु । तथा "ललनासु सुविस्मृतविलासासु" अत्यन्तविस्मृतविलासासु । "स्थितासु" सतीषु । तथा "समस्ते राजसद्मनि" सकले राजगृहे । "चित्रभित्तौ न्यस्ते इव" चित्रलिखिते इव सति । "मधुरातपम्" मन्दातपम् । "दिवसं मुहूर्तशेषम्" घटिकाद्वयशेषम् । "अभवत्" । तथा "व्यवहारः" लोकव्यवहारः । "रविकरैः सह तानवमाययौ" ॥ ंोट्_३,४.१४ ॥ अन्यत्किं तदाभूदित्यपेक्षायामाह ववुरुत्फुल्लकमलप्रकरोन्मदमांसलाः । वायवो मधुरस्पन्दं श्रवणार्थमिवागताः ॥ ंो_३,४.५ ॥ "वायवः मधुरस्पन्दम्" कोमलस्पन्दम् । "ववुः" वान्ति स्म । कथम्भूताः । "उत्फुल्लाः" ये "कमलप्रकराः" कमलसमूहाः । तेषु "उन्मदाः" सङ्कोचकारित्वातुद्गतरूपाः च ते "मांसलाश्" च । तादृशाः "वायवः" । कथम्भूता "इव" । "श्रवणार्थम्" मुनिवाक्श्रवणार्थम् । "आगता इव" । योऽपि श्रवणार्थमागच्छति सोऽपि मधुरस्पन्दमेव वाति ॥ ंोट्_३,४.५ ॥ श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् । तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् ॥ ंो_३,४.६ ॥ "भानुः" सूर्यः । "अहोरचनाभ्रमम्" दिननिर्माणार्थं भ्रमणम् । "तत्याज" त्यक्तवान् । तथा "शून्यं" । अत एव "एकान्तम्" विजनम् । "अस्तगिरेः तटमगमत्" गतवान् । किं कर्तुम् "इव" । "श्रुतम्" श्रवणविषयीकृतं मुनिवाक्कदम्बकम् । "चिन्तयितुमिव" मननविषयीकर्तुमिव । योऽपि हि श्रुतं किञ्चिदुपदेशादिकं चिन्तयितुमिच्छति सोऽपि क्रियारूपं भ्रमं त्यजति । एकान्तं च गच्छति ॥ ंोट्_३,४.६ ॥ उत्तस्थुर्मिहिकारम्भश्यामता वनभूमिषु । विज्ञानश्रवणादन्तः शीतलाः शान्तता इव ॥ ंो_३,४.७ ॥ "वनभूमिषु मिहिकारम्भश्यामताः" नीहारारम्भश्यामताः । "उत्तस्थुः" प्रादुर्भूताः । दिनावसाने हि मिहिकाः उत्तिष्ठन्ति । "मिहिकारम्भश्यामताः" का "इव" । "शान्तताः इव" क्षोभराहित्यानीव । यथा "शीतलाः" सन्तापनाशकत्वेन शीतलस्वभावाः । "शान्तताः" । "विज्ञानश्रवणात्" श्रीवसिष्ठोक्तविज्ञानश्रवणेन । "अन्तः" श्रोतृजनमनस्सु । "उत्तस्थुः" । तथेत्यर्थः ॥ ंोट्_३,४.७ ॥ बभूवुरल्पसञ्चारा जना दशसु दिक्ष्वपि । सावधानतया श्रोतुमिव सन्त्यक्तचेष्टिताः ॥ ंो_३,४.८ ॥ दिनावसाने स्वभावसिद्धं "जनानामल्पसञ्चारित्वम्" श्रवणार्थं कृतेन चेष्टितत्यागेनोत्प्रेक्षितम् ॥ ंोट्_३,४.८ ॥ छाया दीर्घत्वमाजग्मुर्वासिष्ठं वर्णनक्रमम् । इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः ॥ ंो_३,४.९ ॥ सायंसमये हि "छायाः दीर्घीभवन्ति" । योऽपि किञ्चिच्छ्रोतुमिच्छति सोऽपि "दीर्घकन्धरो" भवतीति स्वभावद्वयकथनम् ॥ ंोट्_३,४.९ ॥ प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् । देव स्नानद्विजार्चासु कालो ह्यतिगतो भृशम् ॥ ंो_३,४.१० ॥ "प्रह्वो भूत्वा" नम्नो भूत्वा । किम् "आहे"ति कर्मापेक्षायामुत्तरार्धं कर्मत्वेन कथयति "देवे"ति । "हि" निश्चये ॥ ंोट्_३,४.१० ॥ श्रीवसिष्ठकृतं वाक्संहरणं कथयति ततो वसिष्ठो भगवान् संहृत्य मधुरां गिरम् । अद्य तावन्महाराज श्रुतमेतावदस्तु वः ॥ ंो_३,४.११ ॥ प्रातरन्यद्वदिष्याम इत्युक्त्वा मौनवानभूत् । इत्याकर्ण्यैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये ॥ ंो_३,४.१२ ॥ पुष्पार्घ्यपाद्यसम्मानदक्षिणादानपूजया । स देवर्षिमुनीन् विप्रान् पूजयामास सादरम् ॥ ंो_३,४.१३ ॥ श्रोतॄन् श्रवणोत्सुकान् ज्ञात्वा आह "प्रातर्" इति । "आकर्ण्यैव" । न तु प्रतिवादं कृत्वा । "सः" दशरथः ॥ ंोट्_३,४.१११३ ॥ अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला । कुण्डलाकीर्णरश्म्योघपरिवेशावृतानना ॥ ंो_३,४.१४ ॥ "सभा" जनसमूहः । सभां विशिनष्टि । "कुण्डले"ति । "कुण्डलानामाकीर्णः" समन्तात्विसारी यः "रश्म्योघः" किरणसमूहः । तस्य यः "परिवेशः" मण्डलम् । तेन्"आवृतानि" जनमुखानि । सभासमुखानि यस्याम् । सा ॥ ंोट्_३,४.१४ ॥ परस्परांससङ्घट्टरणत्केयूरकङ्कणा । हारभाराहतस्वर्णपट्टाभोरस्तटान्तरा ॥ ंो_३,४.१५ ॥ "परस्परमंससङ्घट्टाः" । तेन मिलन्तः । अत एव "रणन्तः" "केयूराः कङ्कणानि" च यस्याम् । सा । "हारभारैः आहतानि सुवर्णपट्टाभानि" "उरस्तटान्तराणि" उरस्तटमध्यानि यस्याम् । सा ॥ ंोट्_३,४.१५ ॥ शेखरोत्सर्गविश्रान्तप्रबुद्धमधुपव्रजैः । सघुङ्घुमशिरोभागा पतद्भिरिव मूर्धजैः ॥ ंो_३,४.१६ ॥ "शेखरेषु" सभासदपुष्पशेखरेषु । "उत्सर्गेण" गन्धोद्गिरणेन । "विश्रान्ताः" विश्रान्तियुक्ताः । तथा "प्रबुद्धाः" गन्धघ्राणने चतुराः । ये "मधुपाः" भ्रमराः । तेषां "व्रजैः" समूहैः । "सघुङ्घुमशिरोभागा" घुङ्घुमशब्दयुक्तजनशिरोदेशयुक्ता । "मधुपव्रजैः" कैर्"इव" । "पतद्भिः" पतनशीलैः । "मूर्धजैः" केशैर्"इव" कृष्णवर्णत्वात् ॥ ंोट्_३,४.१६ ॥ काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः । बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः ॥ ंो_३,४.१७ ॥ जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् । चक्रुर्दिनसमाचारं स्वं सर्वे स्वेषु सद्मसु ॥ ंो_३,४.१८ ॥ "काञ्चनाभरणानां" यः "उद्द्योतः" प्रकाशः । तेन "कनकीकृतानि" कनकरूपाणि कृतानि । "दिङ्मुखानि" यैः । ते तादृशाः । तथा "बुद्धिस्थः" बुद्धौ स्फुरणशीलः । न तु विस्मारितः । यः "मुनिवागर्थः" । तेन "संशान्ताः" स्वविषयान् प्रति अनौन्मुख्यं गताः । "इन्द्रियवृत्तयः" इन्द्रियव्यापाराः ये । ते तादृशाः । "नभश्चराः" आकाशचारिणः । "व्योम जग्मुः" । "भूचराः भूमिमण्डलं जग्मुः" । ततः "सर्वे" समस्ताः नभश्चरादयः । "स्वेषु सद्मसु" निजेषु गृहेषु । "स्वं दिनसमाचारं चक्रुः" ॥ ंोट्_३,४.१७१८ ॥ एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत । जनसङ्घातनिर्मुक्ते गृहे बालाङ्गना यथा ॥ ंो_३,४.१९ ॥ "एतस्मिनन्तरे" अस्मिन् समये । "श्यामा" रात्रिः । "यामिनी" यामयुक्ता । "जनसङ्घातनिर्मुक्ते" जनसमूहत्यक्ते ॥ ंोट्_३,४.१९ ॥ देशान्तरं भासयितुं ययौ दिवसनायकः । सर्वत्रालोककर्तृत्वमेव सात्पुरुषं व्रतम् ॥ ंो_३,४.२० ॥ "आलोककर्तृत्वम्" आलोककर्तृभावः । "सात्पुरुषं" सत्पुरुषसम्बन्धिनम् ॥ ंोट्_३,४.२० ॥ उदभूदभितः सन्ध्या तारानिकरधारिणी । उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता ॥ ंो_३,४.२१ ॥ "उदभूत्" प्रादुर्भूता ॥ ंोट्_३,४.२१ ॥ चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे । निलिल्यिरे खगाश्चित्ते तदण्डवृत्तयो यथा ॥ ंो_३,४.२२ ॥ "खगाः" पक्षिणः । "निलिल्यिरे" निलीनाः । कुत्र । "चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे" । "चूताश्" च "नीपाश्" च "कदम्बाग्राणि" च "ग्रामचैत्यानि" च "गृहोदराणि" च । तत्र । "खगाः" काः "यथा" । "ताः" "वृत्तयः" "यथा" । "यथा ताः वृत्तयः" श्रावकजनमनोव्यापाराः । "चित्ते निलिल्यिरे" । तथेत्यर्थः ॥ ंोट्_३,४.२२ ॥ सन्ध्यारागाविर्भावं कथयति भानोर्भासा भूषितैर्मेघलेशैः किञ्चित्किञ्चित्कुङ्कुमच्छाययेव । पाश्चात्योऽद्रिः पीतवासास्तमोऽब्धेस् ताराहारश्रीयुतः खं समेतः ॥ ंो_३,४.२३ ॥ "कुङ्कुमच्छायया" "इव" कुङ्कुमरचनासदृशया । "भानोः भासा" सूर्यस्य भासा । "किञ्चित्किञ्चित्भूषितैः" । पीततां नीतैरिति यावत् ।" मेघलेशैः" मेघखण्डैः । उपलक्षितः "पाश्चात्यः" "अद्रिः" अस्तशैलः । "तमोऽब्धेः" तमःाख्यस्य समुद्रस्य । "पीतवासाः" श्रीनारायणः आसीत् । "पीतवासोयुक्तश्" चासीत् । भानोः भासा भूषितानां मेघलेशानामेव पीतवासोरूपत्वात् । अब्धेश्च पीतवाससा श्रीनारायणेन युक्तत्वं युक्तमेव । "पाश्चात्यः अद्रिः" कथम्भूतः । "ताराहारश्रीयुतः" । "तारा" एव "हारः" यस्य । सः "ताराहारः" । "श्रिया" शोभया । युतः । "श्रीयुतः" । ताराहारश्चासौ श्रीयुतश्च "ताराहारश्रीयुतः" । पुनः कथम्भूतः । "खम्" आकाशम् । "समेतः" गतः । आकाशव्यापीत्यर्थः । अन्यथा ताराहारत्वमसम्भवि स्यात् । श्रीनारायणस्य च ताराहारयुक्तत्वं लक्ष्मीयुक्तत्वं बल्याक्रमणेन खसमेतत्वं च स्थितमेव ॥ ंोट्_३,४.२३ ॥ सन्ध्याशान्तिपूर्वं तमःसमुत्थानं कथयति पूजामादाय सन्ध्यायां प्रयातायां यथागतम् । अन्धकाराः समुत्तस्थुर्वेतालवलया इव ॥ ंो_३,४.२४ ॥ स्पष्टम् ॥ ंोट्_३,४.२४ ॥ अवश्यायकणस्पन्दी हेलाविधुतपल्लवः । कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः ॥ ंो_३,४.२५ ॥ "कुमुदाशंसी" कुमुदगन्धेनेति भावः ॥ ंोट्_३,४.२५ ॥ परमान्ध्यमुपाजग्मुर्दिशोऽपि स्फुटतारकाः । लम्बदीर्घतमःकेश्यो विधवा इव योषितः ॥ ंो_३,४.२६ ॥ "लम्बानि दीर्घतमांस्य्" एव "केशाः" यासाम् । ताः ॥ ंोट्_३,४.२६ ॥ आययौ भुवनं तेजःक्षीरपूरेण पूरयन् । रसायनमयाकारः शशिक्षीरार्णवो नभः ॥ ंो_३,४.२७ ॥ "तेजः" एव "क्षीरपूरः" । तेन । "रसायनमयाकारः" अमृतमयाकारः ॥ ंोट्_३,४.२७ ॥ जग्मुस्तिमिरसङ्घाताः पलाय्य क्वाप्यदृश्यताम् । श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः ॥ ंो_३,४.२८ ॥ "श्रुताः ज्ञानगिरः" वसिष्ठोक्ताः ज्ञानवाचः येन । तत् । तादृशात् । "महीपानां" दशरथप्रभृतीनाम् । "अज्ञताः" मौर्ख्याणि ॥ ंोट्_३,४.२८ ॥ ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा । चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः ॥ ंो_३,४.२९ ॥ "विचित्रार्थाः" श्रीवसिष्ठगिरां सम्बन्धिनो नानाविधा अर्थाः । "स्वास्पदेषु" स्वगृहेषु । "विशश्रमुः" विश्रान्तिं चक्रुः ॥ ंोट्_३,४.२९ ॥ यमकायोपमा श्यामा ययौ तिमिरमांसला । आययौ मिहिकाकारा तत्र तेषामुषा शनैः ॥ ंो_३,४.३० ॥ "यमकायोपमा" यमशरीरसदृशी । "उषा" । "तेषाम्" ऋषीणां भूमिपालानां च ॥ ंोट्_३,४.३० ॥ अलक्ष्यतामुपाजग्मुस्तारा नभसि भासुराः । प्रभातपवनेनेव हृताः कुङ्कुमवृष्टयः ॥ ंो_३,४.३१ ॥ स्पष्टम् ॥ ंोट्_३,४.३१ ॥ दृश्यतामाजगामार्कप्रभोन्मीलितलोचना । विवेकवृत्तिर्महतां मनसीव नवोद्गता ॥ ंो_३,४.३२ ॥ "विवेकवृत्तिः" विवेकाख्यो मनोव्यापारः ॥ ंोट्_३,४.३२ ॥ सभां पुनरुपाजग्मुर्नभश्चरमहीचराः । ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः ॥ ंो_३,४.३३ ॥ "नभश्चरमहीचराः ह्यस्तनेन क्रमेण एव सभामाजग्मुर्" इति सम्बन्धः ॥ ंोट्_३,४.३३ ॥ सा पूर्वसन्निवेशेन विवेश विपुला सभा । बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी ॥ ंो_३,४.३४ ॥ "पूर्वसन्निवेशेन" पूर्वरचनया । "अस्पन्दिताकारत्वं" च "सभायाः" श्रीवसिष्ठोपदेशश्रवणकुतूहलेन ज्ञेयम् ॥ ंोट्_३,४.३४ ॥ अथ प्रसङ्गमासाद्य रामो मधुरया गिरा । उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् ॥ ंो_३,४.३५ ॥ "प्रसङ्गमासाद्य" । अन्यथा धार्ष्ट्याख्यदोषप्रसङ्गः स्यादिति भावः ॥ ंोट्_३,४.३५ ॥ किमुवाचेत्यपेक्षायामाह भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् । यस्मात्तेनेयमखिला तन्यते दोषमञ्जरी ॥ ंो_३,४.३६ ॥ किं तव मनोरूपकथनेनेत्य् । अत्राह "यस्माद्" इति । "तेन" मनसा । "इयम्" सृष्टिरूपा ॥ ंोट्_३,४.३६ ॥ श्रीवसिष्ठः उत्तरं कथयति रामास्य मनसो रूपं न किञ्चिदपि दृश्यते । नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः ॥ ंो_३,४.३७ ॥ हे "रामा"स्माभिः "अस्य मनसः नाममात्रादृते" नाममात्रव्यतिरेकेण । "किञ्चिदपि रूपं न दृश्यते" । नाममात्रमेव मनसः अस्ति न रूपमिति भावः । "अस्य मनसः" कथम्भूतस्य । "शून्या" विचारासहत्वेन न किञ्चिद्रूपा । "जडा" साक्षिग्रहणापेक्षसिद्धिकत्वेन जाड्यगुणयुक्ता । "आकृतिः" स्वरूपं यस्य । तत् । तादृशस्य कस्य "यथा" । "व्योम्नः यथा" । यथा व्योम शून्यजडाकृति भवति । तथेत्यर्थः ॥ ंोट्_३,४.३७ ॥ एतदेव दृढीकरोति न बाह्ये नापि हृदये सद्रूपं विद्यते मनः । सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः ॥ ंो_३,४.३८ ॥ "मनः बाह्ये सद्रूपं न विद्यते" बाह्येन्द्रियैः अदृश्यमानत्वात् । "हृदयेऽपि" हृदयदेशेऽपि । "सद्रूपं न विद्यते" । न हि हृदयदेशे मनो नाम किञ्चिल्लभ्यते । हे "राम" । त्वम् । "एतत्" मनः । "सर्वत्रैव" बाह्ये हृदये च । "स्थितं विद्धि" जानीहि । सङ्कल्पाख्यस्य तत्कार्यस्य बाह्ये हृदये च स्फुरमाणत्वात् । सङ्कल्पोऽपि हि बाह्यं घटादिकं हृदयस्थं सुखादिकं च विषयीकरोति । "मनः" किं "यथा" । "नभो यथा" । यथा नभः "सर्वत्रैव स्थितं" भवति । तथेत्यर्थः ॥ ंोट्_३,४.३८ ॥ ननु तथाप्यस्य स्वरूपं वक्तव्यम् । न हि सर्वथा असतः सर्वत्र स्थितत्वं युक्तमित्य् । अत्राह इदमस्यासदुत्पन्नं मृगतृष्णाम्बुसन्निभम् । रूपं तु शृणु सङ्क्षेपाद्द्वितीयेन्दुभ्रमोपमम् ॥ ंो_३,४.३९ ॥ त्वम् । "अस्य" मनसः । "असतुत्पन्नम्" मिथ्या प्रादुर्भूतम् । अत एव "मृगतृष्णाम्बुसन्निभम्" । तथा "द्वितीयेन्दुभ्रमोपमम्" । "इदम्" अनुभूयमानम् । "रूपं" स्वरूपम् । "सङ्क्षेपात्शृणु" ॥ ंोट्_३,४.३९ ॥ मनःस्वरूपमेव कथयति साधो यदेतदर्थस्य प्रतिभानं प्रथां गतम् । सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् ॥ ंो_३,४.४० ॥ हे "साधो" । "सतः" "असतः वा अर्थस्य" पदार्थस्य । "यतेतत्प्रतिभानम्" स्फुरणम् । पदार्थतया अनुसन्धानमिति यावत् । "प्रथां" दार्ढ्यम् । "गतं" भवति । त्वं "तत्मनः विद्धि" । "इतरत्" तार्किकादिभिः विकल्पितं परमाण्वादिरूपम् । "मनः" "न" भवति । "सतः असतो वे"ति वादिभेदमाश्रित्योक्तम् ॥ ंोट्_३,४.४० ॥ पुनः पुनः एतदेव कथयति यदर्थप्रतिभानं तन्मन इत्यभिधीयते । अन्यन्न किञ्चिदप्यस्ति मनो नाम कदाचन ॥ ंो_३,४.४१ ॥ "अर्थप्रतिभानम्" अर्थेष्वर्थतास्फुरणम् ॥ ंोट्_३,४.४१ ॥ सङ्कल्पनं मनो विद्धि सङ्कल्पात्तन्न भिद्यते । यथा द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् ॥ ंो_३,४.४२ ॥ स्पष्टम् ॥ ंोट्_३,४.४२ ॥ यत्र सङ्कल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् । सङ्कल्पमनसी भिन्ने न कदाचन केचन ॥ ंो_३,४.४३ ॥ "यत्र" यस्यामवस्थायाम् । "सङ्कल्पनं" भवति । हे "अङ्ग" । "तत्र" तस्यामवस्थायाम् । "तत्" प्रसिद्धम् । "मनः" "तथा" तेन सङ्कल्पनाख्येन रूपेण । "स्थितं" भवति । "केचन" अनिर्वाच्ये । "सङ्कल्पमनसी" । "कदाचन" जातु । "भिन्ने न" भवतः । एकस्वरूपत्वात् ॥ ंोट्_३,४.४३ ॥ सत्यमस्त्यथवासत्यं यदर्थप्रतिभासनम् । तावन्मात्रं मनो विद्धि तद्ब्रह्मैष पितामहः ॥ ंो_३,४.४४ ॥ "सत्यमथवा असत्यं यतर्थप्रतिभासनम्" अर्थस्फुरणम् । "अस्ति" । त्वम् । "तावन्मात्रं तत्" अर्थप्रतिभासनम् । "मनः" चित्तम् । "विद्धि" जानीहि । "तत्" अर्थप्रतिभासनरूपं मनः । "एषः" शास्त्रेषु कथितः । "पितामहः" पितामहेत्यपरपर्यायः "ब्रह्मा" भवति । सर्वसृष्टिकारणत्वात् । सृष्टिकारणस्यैव शास्त्रेष्वपि ब्रह्मत्वकथनात् ॥ ंोट्_३,४.४४ ॥ स्वप्नादौ सर्वैरनुभूयमानातिवाहिकदेहरूपत्वं मनसः कथयति आतिवाहिकदेहात्मा मन इत्यभिधीयते । आधिभौतिकबुद्धिस्तु सदा धीस्तु चिरस्थितिः ॥ ंो_३,४.४५ ॥ पण्डितैः "आतिवाहिकस्य" क्षणान्तरे वर्षप्राप्यदेशप्राप्त्या स्फुटमतिवहनशीलस्य । "देहस्या"र्थात्स्वप्नसङ्कल्पादौ प्रतिभासमानस्य देहस्य्"आत्मा" स्वरूपम् । "मन इत्यभिधीयते" । न तु तार्किकाभिमतः परमाणुः । न हि तस्य प्रोक्तस्वरूपमतिवहनं युज्यते । तदारब्धे स्थूलदेहे तददर्शनात् । एतत्प्रसङ्गेन बुद्धिदार्ढ्यस्याधिभौतिकदेहत्वं साधयति "आधिभौतिके"ति । "तु" व्यतिरेके । पण्डितैः "आधिभौतिकबुद्धिः" आधिभौतिकदेहाकारा बुद्धिः । आधिभौतिकदेहस्वरूपमिति यावत् । "चिरस्थितिः धीः" इति दार्ढ्यं गता आतिवाहिकदेहविषया बुद्धिरिति । "सदाभिधीयते" । मनःस्वरूपातिवाहिकदेहविषया बुद्धिरेव हि दार्ढ्यं गताधिभौतिकभावेन स्फुरति । न तु मांसमयः आधिभौतिको नाम कश्चित्पृथगस्ति यथा तथा सतोऽपि तस्य बुद्धिविषयत्वं विना असत्कल्पत्वात् । बुद्धिविषयत्वे तु बुद्धिरूपत्वानपायात् । विषयो हि स एवोच्यते यः विषय्यग्रस्थ इव भासते । अन्यथा पीतद्रव्यस्यापि नीलज्ञानविषयत्वापातात् । द्वितीयः "तु"शब्दः पादपूरणार्थः ॥ ंोट्_३,४.४५ ॥ दृश्यत्वसाधनार्थं मनसः दृश्यपर्यायत्वं कथयति अविद्या संसृतिश्चित्तं मनो बन्धो मलं तमः । इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः ॥ ंो_३,४.४६ ॥ अतः मनः दृश्यमेवान्यथा दृश्यपर्यायत्वमस्य न स्यादिति ॥ ंोट्_३,४.४६ ॥ ननु पदार्थग्राहकतया भासमानस्य मनसः कथं दृश्यपर्यायत्वं युक्तमित्य् । अत्राह न हि दृश्यादृते किञ्चिन्मनसो रूपमस्ति हि । दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः ॥ ंो_३,४.४७ ॥ "हि" यस्मात्कारणात् । "दृश्यादृते किञ्चित्" दृश्यव्यतिरिक्तं किञ्चित् । "मनसः रूपं" । "हि" निश्चयेन । "नास्ति" । अतः मनसः दृश्यपर्यायत्वं युक्तमिति भावः । ननु ततोऽपि किमित्य् । अत्राह "दृश्यं चे"ति । "एतत्दृश्यं च उत्पन्नं न" भवति । पूर्वमुक्तत्वात् । अतः मनः अपि अनुत्पन्नमेव भवतीति भावः । ननु दृश्यानुत्पन्नत्वे मम पूर्वं निश्चयो न जात इत्यत्राह्"एती"ति । "अहम्" "इति" एतत्दृश्यानुत्पन्नत्वम् । "पुनः वक्ष्यामि" । दुर्बोधत्वादिति भावः ॥ ंोट्_३,४.४७ ॥ दृश्यानुत्पन्नत्वमेव कथयति यथा कमलबीजेऽन्तः स्थिता कमलमञ्जरी । महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् ॥ ंो_३,४.४८ ॥ "यथा कमलमञ्जरी कमलबीजे" पद्माक्षे । "अन्तः स्थिता" भवति । अन्यथा अग्रे निर्गमासम्भवप्रसङ्गात् । "तथा दृश्यं जगत्" दृशिक्रियाविषयीभूतं जगत् । "महाचित्परमाण्वन्तः" । "महाचित्" अपरिच्छिन्ना चित् । सा एवातिसूक्ष्मत्वात्"परमाणुः" । तस्य्"आन्तः" मध्ये । "स्थितं" भवति । अन्यथा कुतः अस्याः निर्गमः स्यातिति भावः । अतो दृश्यस्य महाचितः पृथक्त्वाभावेनानुत्पन्नत्वमेवेति परमो भावः ॥ ंोट्_३,४.४८ ॥ एतदेव पुनः पुनः कथयति प्रकाशस्य यथालोको यथा वातस्य चोपनम् । यथा द्रवत्वं पयसो दृश्यत्वं द्रष्टुरीदृशम् ॥ ंो_३,४.४९ ॥ "आलोकः" अर्थप्राकट्यहेतुः गुणविशेषः । "चोपनं" स्पन्दः । द्रष्टृव्यतिरिक्तदृश्यस्य सत्ता नास्तीति भावः ॥ ंोट्_३,४.४९ ॥ अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् । भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः ॥ ंो_३,४.५० ॥ स्पष्टम् ॥ ंोट्_३,४.५० ॥ अनेन न्यायेन द्रष्टुः दृश्यमयत्वं यत्सिद्धं तदपि मलत्वेनोन्मृज्यतया प्रतिजानीते एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् । तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् ॥ ंो_३,४.५१ ॥ "एवं" सति । "द्रष्टरि" दृशिक्रियाकर्तरि । "अनन्यत्" उक्तन्यायेनाभिन्नम् । "यत्दृश्यत्वम्" दृशिक्रियाविषयत्वम् । "स्थितमिव" भवति । अहम् । "मलम्" मलभावेन स्थितम् । "ततपि" द्रष्टुरभिन्नं दृश्यत्वमपि । "त्वच्चित्तादर्शतः" त्वच्चित्तदर्पणात् । "उन्मार्जयामि" । येन सर्वथा त्वन्मनसि दृश्यस्पर्शो न स्याद् । असत्त्वेनापि भासमानं दृश्यं लेशतो दुःखदमेव भवतीति भावः । ननु द्रष्टुरभिन्नस्य दृश्यत्वस्य कथं मलत्वम् । व्यतिरिक्तस्यैव मलत्वादिति चेत् । सत्यम् । द्रष्टा स्वाभिन्नत्वेनापि निश्चितं दृश्यत्वं स्वभिन्नत्वमपि आपादयति । स्वभिन्नत्वाख्यं प्रतियोगिनं विना स्वाभिन्नत्वस्यासिद्धेरिति स्वभिन्नत्वापादकस्य दृश्यस्य मलत्वं स्फुटमेवेति न कोऽपि विरोधः ॥ ंोट्_३,४.५१ ॥ ननु किमर्थं द्रष्टुरनन्यत्वेन स्थितस्य मलरूपस्य अपि दृश्यत्वस्योन्मार्जनं करोषीत्य् । अत्राह यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्बलात् । तद्विद्धि केवलीभावमत एवासतः सतः ॥ ंो_३,४.५२ ॥ "अस्य" आत्मत्वेन स्थितस्य । "द्रष्टुः" दृशिक्रियाकर्तुः । "दृश्याभावे" सति । "बलात्" बलेन । स्वप्रयत्नं विनेति यावत् । "यतद्रष्टृत्वं" "भवेत्" । न हि दृश्यं विना द्रष्टुः द्रष्टृत्वं नाम किञ्चिदस्ति । शक्तिभावेन स्थितस्यापि तस्य स्वरूपत्वानपायात् । त्वम् । "तत्" अद्रष्टृत्वम् । "केवलीभावम्" मुक्तिम् । "विद्धि" जानीहि । द्रष्टुः दृश्यानौन्मुख्यमात्रस्यैव मुक्तित्वात् । "द्रष्टुः" कथम्भूतस्य । "अत एवासतः" "सतः" । द्रष्टृत्वापेक्षया "असतः" । केवलीभावापेक्षया "सतः" । न ह्यसतः केवलीभावः युक्तः । तथा चानिर्वाच्यस्येत्यर्थः । अतः केवलीभावसिद्धये सर्वथा दृश्योन्मार्जनमेव कार्यमिति भावः ॥ ंोट्_३,४.५२ ॥ ननु दृश्याभावप्रभावात्सिद्धेऽपि अद्रष्टृत्वे केवलीभावो न सिध्यति । दृश्यविषयस्य रागादेः सुषुप्तिवत्वासनाभावेन स्थितत्वादित्य् । अत्राह तत्तामुपगते भावे रागद्वेषादिवासना । शाम्यत्यस्पन्दिते वाते स्पन्दसङ्क्षुब्धता यथा ॥ ंो_३,४.५३ ॥ "भावे" अन्तरे तत्त्वे । "तत्ताम्" दृश्याभावकृतामद्रष्टृताम् । "उपगते" सति । "रागद्वेषादिवासना" पूर्वं भातदृश्यविषयरागद्वेषादिसंस्कारः । "शाम्यति" शान्तिं व्रजति । आश्रयविषययोः अभावात् । सुषुप्तौ तु आश्रयविषययोः वासनाभावेन स्थितत्वात्तदनुगतयोः रागद्वेषादिकयोरपि वासनाभावेनावस्थानमस्ति । न हि सुषुप्तौ द्रष्टृदृश्ययोः समूलं नाशः अस्ति । ततः उत्थितस्य पुनः तदास्थाभावप्रसङ्गात् । न हि समूलं नष्टे आस्था युक्ता । दृश्याभावे निश्चितानां तु भासमानेऽपि दृश्ये कदाचिदास्था न विद्यते । अत्र स्वमन एव साक्षिकमित्यलं प्रपञ्चेन । "रागद्वेषादिवासना" का "यथा" । "स्पन्दसङ्क्षुब्धता यथा" । यथा "वाते अस्पन्दिते" सति । वातकृता "स्पन्दसङ्क्षुब्धता" स्पन्दरूपा सङ्क्षुब्धता । नश्यति । तथेत्यर्थः । अतः दृश्याभावकृतस्याद्रष्टृत्वस्य केवलीभावत्वं युक्तमेवेति भावः ॥ ंोट्_३,४.५३ ॥ एतदेव अतिदुर्बोधत्वात्पुनः पुनः कथयति असम्भवति सर्वस्मिन् दिग्भूम्याकाशरूपिणि । प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् ॥ ंो_३,४.५४ ॥ त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते । द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः ॥ ंो_३,४.५५ ॥ "दिग्भूम्याकाशरूपिणि" दिग्भूम्याकाशस्वरूपे । "प्रकाश्ये" प्रकाशनीये वस्तुजाते । "असम्भवति" सति । सम्भवक्रियाकर्तृत्वमभजति सति । "प्रकाशस्य" सूर्यप्रकाशस्य । "यादृशममलं" शुद्धम् । इन्द्रियातीतमिति यावत् । "रूपं भवेत्" । न हि सूर्यमण्डलात्निष्क्रान्तः भित्तौ अपतितः प्रकाशः नेत्रगम्यः भवति । "त्रिजगत्त्वमहं चेति दृश्ये असत्ताम्" अभावम् । "उपागते" सति । "द्रष्टुः" दृश्यप्रकाशकतया स्थितस्य द्रष्टुः । "तादृशः केवलीभावः" अमलरूपत्वम् । "स्यात्" भवेत् । "द्रष्टुः" कथम्भूतस्य । "अमलात्मनः" चेत्यमलरूषितचिन्मात्रस्वरूपस्यान्यथा केवलीभावापरपर्यायः निर्मलीभावः अयुक्तः स्यात् ॥ ंोट्_३,४.५४५५ ॥ अनन्ताखिलशैलादिप्रतिबिम्बे हि यादृशी । स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी ॥ ंो_३,४.५६ ॥ अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसम्भ्रमे । स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षके ॥ ंो_३,४.५७ ॥ दार्ष्टान्तिकगतं "प्रशान्ते" इति पदं दृष्टान्तेऽपि योजनीयम् । तेनायमर्थः । "हि" निश्चये । "अनन्ताः" ये "अखिलाः शैलादयः" । तद्रूपे "प्रतिबिम्बे प्रशान्ते" सति । दार्ष्टान्तिकतया गृहीते "दर्पणे" प्रतिबिम्बभावमभजति सति इति यावत् । "दर्पणे केवलात्मस्वरूपिणी" केवलदर्पणाख्यस्वरूपमयी । "यादृशी दर्पणता स्यात्" । "अहं त्वं जगदित्यादौ दृश्यसम्भ्रमे" दृश्याकारे सम्भ्रमे । दृश्ये इति यावत् । "प्रशान्ते" सति । ततः "अवीक्षके" दृशिक्रियामकुर्वति । "स्थिते द्रष्टरि" । "तादृशी केवलता स्यात्" । यथा प्रतिबिम्बाभावे शुद्धं दर्पणमात्रमेव तिष्ठति तथा दृश्याभावे शुद्धः द्रष्टा एव तिष्ठतीति भावः ॥ ंोट्_३,४.५६५७ ॥ दृश्याभावासम्भवं मन्यमानः श्रीरामः पृच्छति सच्चेन्न शाम्यतीदं वा नाभावो विद्यते सतः । असत्तां च न विद्मोऽस्मिन् दृश्ये दोषप्रदायिनि ॥ ंो_३,४.५८ ॥ "वा"शब्दः यतःशब्दार्थे । "इदं" दृश्यम् । "सत्" सत्ताभाक्"चेत्" । "चेत्" यदि भवति । तदा "न शाम्यति" । यतः "सतः" सत्ताभजतः । "अभावः न विद्यते" । स्वरूपहानिप्रसङ्गात् । अन्यथा वह्नेरपि दाहकत्वहानिः स्यात् । ननु तर्हि असदेव भवत्वित्य् । अत्राह "असत्तां चे"ति । "दोषप्रदायिनि" रागादिस्वरूपदोषप्रदायिनि । असतः दोषप्रदायित्वं न युक्तं वन्ध्यासुतस्यापि तत्त्वापत्तेरिति भावः ॥ ंोट्_३,४.५८ ॥ फलितमाह तस्मात्कथमियं शाम्येद्ब्रह्मन् दृश्यविषूचिका । नानोद्भवभ्रमकरी दुःखसन्ततिदायिनी ॥ ंो_३,४.५९ ॥ "नानोद्भवः" चित्रोत्पत्तिः । यः "भ्रमः" मिथ्याज्ञानम् । तं "करोती"ति तादृशी ॥ ंोट्_३,४.५९ ॥ "उन्मार्जयामी"ति प्रतिज्ञां सफलीकर्तुं श्रीवसिष्ठः उत्तरं कथयति अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं शृणु । रामात्यन्तमयं येन मृतिमेष्यति नङ्क्ष्यति ॥ ंो_३,४.६० ॥ हे "राम" । त्वम् । "अस्य" पुरःस्फुरतः । "दृश्यपिशाचस्य शान्त्यै" । "इमम्" वक्ष्यमाणवाक्यकदम्बकस्वरूपम् । "मन्त्रं" "शृणु" । "येन" मन्त्रेण । "अयं" दृश्यपिशाचः । "अत्यन्तं मृतिम्" त्रैकालिकमभावम् । "एति" गच्छति । ततः वि"नङ्क्ष्यति" अदर्शनं याति । युक्तं च पिशाचस्य मन्त्रेण मरणमदर्शनं च ॥ ंोट्_३,४.६० ॥ मन्त्रमेव कथयति यदस्ति तस्य नाशोऽस्ति न कदाचन राघव । यस्मात्तन्नष्टमप्यन्तर्बीजभूतं भवेद्धृदि ॥ ंो_३,४.६१ ॥ हे "राघव" । "यत्" वस्तु । सत्तां भजति । "तस्य नाशः कदाचन" जातु । "न" सम्भवति । "यस्मात्तत्" वस्तु । "नष्टमपि" केनचित्पराभिमतेन समवायिकारणनाशादिना नष्टमपि । "हृदि अन्तः" मानसान्तः । "बीजभूतम्" । बीजभावेन स्थितं वा सत्तारूपेण स्थितमिति यावत् । "भवति" । दृश्यते हि नष्टमपि वस्तु हृदि पुनः पुनः आवर्तमानम् ॥ ंोट्_३,४.६१ ॥ ननु ततः को दोषः इत्य् । अत्राह स्मृतिबीजा चिदाकाशे पुनरुद्भूय दृश्यधीः । लोकशाइलाम्बराकारं दोषं वितनुतेऽतनुम् ॥ ंो_३,४.६२ ॥ "स्मृतिबीजा" स्मृतिकारणिका । "दृश्यधीः" दृश्याकारा धीः । दृश्यमिति यावत् । "चिदाकाशे उद्भूय" प्रादुर्भूय । "अतनुम्" महान्तम् । "लोकशैलाम्बराकारं दोषम्" "पुनः वितनुते" सूक्ष्मप्रपञ्चभावेन विशेषेण विस्तारयति । स्वप्ने दृष्टत्वात् ॥ ंोट्_३,४.६२ ॥ ननु ततोऽपि किमित्य् । अत्राह इत्थं निर्मोक्षदोषः स्यान्न च तस्यांशसम्भवः । यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् ॥ ंो_३,४.६३ ॥ "इत्थं" सति । "निर्मोक्षदोषः" मोक्षाभावप्रसङ्गरूपः दोषः । "स्यात्" । स्थूलसूक्ष्मभावेन द्विविधस्य दृश्याभावस्यैव मोक्षत्वात् । ननु भवतु सः दोषः । किमस्माकं करिष्यतीत्य् । अत्राह "न चे"ति । "तस्य" निर्मोक्षदोषस्य । "अंशेना"पि "सम्भवः न च" भवति । "यस्मात्देवर्षिमुनयः मुक्तिभाजनं दृश्यन्ते" ॥ ंोट्_३,४.६३ ॥ पुनरप्येतदेव कथयति यदि स्याज्जगदादीदं तत्स्यान्मोक्षो न कस्यचित् । बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् ॥ ंो_३,४.६४ ॥ "यदि इदं जगदादि स्यात्" सत्तां भजेत् । तदा "कस्यचित्" कस्यापि प्रमातुः । "मोक्षः" दृश्यान्मुक्तिः । "न स्यात्" । यथा तथा सम्भावितेऽपि दृश्यनाशे स्मृतिप्रभावात्सूक्ष्मतया पुनः दृश्यस्फुरणात् । यतः "दृश्यं बाह्यस्थम्" स्थूलरूपम् "अस्तु" । "हृत्स्थम्" सूक्ष्मरूपं "वा अस्तु" । "नाशाय" बन्धाख्यनाशोत्पादार्थं भवति । क्षोभकत्वाविशेषादिति भावः । "आदि"शब्देन सुषुप्तिस्तैमित्यादेः ग्रहणम् । तस्यापि दृश्यत्वाद् ॥ ंोट्_३,४.६४ ॥ ननु तर्हि किं कार्यमित्य् । अत्राह तस्मादिमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् । यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे ॥ ंो_३,४.६५ ॥ "अतिभीषणत्वं" च "प्रतिज्ञायाः" असम्भवप्रवृत्तत्वेन ज्ञेयम् ॥ ंोट्_३,४.६५ ॥ श्रीरामावबोधनिमित्तम् "उत्तरग्रन्थम्" एव कथयति अयमाकाशभूतादिरूपोऽहं चेति लक्षितः । जगच्छब्दस्य रामार्थो ननु नास्त्येव कश्चन ॥ ंो_३,४.६६ ॥ हे "राम" । "ननु" निश्चये । "आकाशभूतादिरूपः" । तथा "अहं चेति लक्षितः" निश्चितः । "अयं जगच्छब्दस्यार्थः" अभिधेयम् । परमार्थतः "नास्त्येव" सत्तां न भजति एव । न तु सत्ताभाग्भूत्वा नश्यति । तथा च सति न निर्मोक्षदोषप्रसङ्गः । न हि असतः बन्धकत्वं दृष्टमिति भावः । "आकाशस्य भूतत्वे"ऽपि प्राधान्येन पृथङ्निर्देशः । "आदि"शब्देन भूतकार्याणां ग्रहणम् ॥ ंोट्_३,४.६६ ॥ ननु पुरःस्फुरतः अहमादिकस्य जगतः कथं सर्वथा सत्त्वं युक्तमित्य् । अत्राह यदिदं दृश्यते किञ्चिद्दृश्यजालं पुरोगतम् । एवं ब्रह्मैव तत्सर्वमजरामरमव्ययम् ॥ ंो_३,४.६७ ॥ अस्माभिः "यदिदं पुरोगतं दृश्यजालं" नीलसुखादिरूपः दृश्यसमूहः । "दृश्यते" अनुभूयते । "तत्सर्वमजरामरम्" देहरहितत्वात्तन्मात्रगतजरादिरहितम् । तथा "अव्ययम्" नाशरहितम् । "ब्रह्मैव" जगत्तया बृंहितं शुद्धचित्तत्त्वमेव । "एवम्" जगद्भावेन भवति । दृश्यते हि जलस्य तरङ्गभावेन भवनम् । तथा च सति भासमानस्यापि जगतः असत्त्वं युक्तमेव । न हि जले भासमानस्यापि तरङ्गस्य सत्त्वं दृष्टमिति भावः ॥ ंोट्_३,४.६७ ॥ दृश्यस्य ब्रह्ममात्रत्वमेव दृढीकरोति पूर्णे पूर्णं प्रसरति परे शान्तं परं स्थितम् । व्योमन्येवोदितं व्योम ब्रह्म ब्रह्मणि तिष्ठति ॥ ंो_३,४.६८ ॥ "पूर्णे" निरपेक्षे । "प्रसरति" सञ्चारं करोति । स्वरूपस्थे "परे" उत्तीर्णे । "ब्रह्मणि" बृंहिते वस्तुनि । अत्र सप्तम्यन्तैः शुद्धचित्तत्त्वस्य कथनम् । प्रथमान्तैः तद्रूपस्य जगतः ज्ञेयम् । ननु कथं पूर्णत्वादिगुणयुक्ते शुद्धचित्तत्त्वेऽवस्थानं युक्तम् । न्यूनस्याधिके अवस्थानदर्शनात् । सत्यम् । अवस्थानमत्राधेयभावेन नास्ति येनोक्तदोषप्रसङ्गः स्यात् । किं तु तन्मात्रताभावेनेति नात्र दोषप्रसङ्गः । इत्यलं प्रपञ्चैः ॥ ंोट्_३,४.६८ ॥ न दृश्यमस्ति नो दृक्च न द्रष्टा न च दर्शनम् । न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् ॥ ंो_३,४.६९ ॥ "दृश्यम्" दृशिक्रियाकर्म । "नास्ति" सत्तां न भजति । "दृक्" दृशिक्रिया । "नो" अस्ति । "द्रष्टा" दृशिक्रियाकर्ता । "च ना"स्ति । "दर्शनम्" दृशिक्रियासाध्यं फलम् । "च ना"स्ति । सर्वेषामेषां प्रतीतिमात्रसारत्वात् । ननु तर्हि एतदभाव एवास्तीत्य् । अत्राह "न शून्यम्" इति । "शून्यम्" दृश्याद्यभावः । च "ना"स्ति । न हि सर्वथा असतः भानं युक्तम् । शशिशृङ्गादेरपि भानापत्तेः । ननु तर्हि जाड्यमेव स्यात् । जाड्ये हि सर्वेषामसत्ता एव भवतीत्य् । अत्राह "न जडम्" इति । भावप्रधाननिर्देशः "जडम्" जडत्वम् । "ना"स्ति । तत्त्वे हि दृश्यादिभानमयुक्तं स्यात् । ननु तर्हि शिष्टा चिदेव स्यादित्य् । अत्राह "नो चिद्" इति । "चित्" चिन्मात्रम् । "नो" अस्ति । चेत्यापेक्षत्वेन तस्याः स्थितत्वात् । चेत्यस्य चोक्तन्यायेनासम्भवात् । ननु तर्हि किमस्ति । न हि सर्वथा असत्ता बुद्ध्यै आरोहतीत्य् । अत्राह "शान्तम्" इति । "आततं" समन्तात्स्फुरत्स्वरूपम् । "इदम्" सर्वं दृश्यादिकम् । "शान्तम्" । भवति । चेत्यक्षोभरहितं चिन्मात्रं भवति ॥ ंोट्_३,४.६९ ॥ अत्र निश्चयमनाप्नुवन् श्रीरामः मुनेः असम्भवार्थाभिधायित्वमासञ्जयति वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रमायते । प्रसार्य भुजसङ्घातं शिला नृत्यति ताण्डवम् ॥ ंो_३,४.७० ॥ स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः । गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो ॥ ंो_३,४.७१ ॥ "तवे"ति शेषः । हे "प्रभो" । "इदम्" तव "वचः" । "इति" भवति । एवंरूपं भवति इति । किम् "इति" । "वन्ध्यापुत्रेणे"त्यादि । जनैः "शशशृङ्गं प्रमायते" प्रमातुमारभ्यते इत्यर्थः । "प्रमायते" इति प्रयोगः आर्षः । सर्वथा असम्बद्धार्थाभिधाय्येव तव वचनमिति भावः । असम्भवार्थप्रतिपादकत्वारोपप्रकाशिताविनयनिरासनार्थं "प्रभो" इत्यामन्त्रणम् ॥ ंोट्_३,४.७०७१ ॥ जरामरणदुःखादिशैलाकाशमयं जगत् । नास्तीति किमिदं नाम भवतापि ममोच्यते ॥ ंो_३,४.७२ ॥ न हि प्रत्यक्षमनुभूयमानस्य जरादिरूपस्य भावजातस्यापह्नवः युक्त इति भावः । "अपि"शब्दः श्रीवसिष्ठस्यासम्भववादित्वायोग्यत्वसूचनार्थः । "ममे"त्यनेन स्वस्य सच्छिष्यत्वं द्योतयति ॥ ंोट्_३,४.७२ ॥ "यथे"त्येतत्सत्यमेवास्ति तर्हि युक्तं "कथये"त्य् । अनेनाभिप्रायेणाह यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते । तथा कथय मे ब्रह्मन् येनैतन्निश्चितं भवेत् ॥ ंो_३,४.७३ ॥ "एतत्" स्थित्याद्यभावः ॥ ंोट्_३,४.७३ ॥ श्रीवसिष्ठ उत्तरं कथयति नासमन्वितवागस्मि शृणु राघव कथ्यते । यथेदमसदाभाति वन्ध्यापुत्र इवारवी ॥ ंो_३,४.७४ ॥ "अहम्" वसिष्ठाख्यः अहम् । "असमन्विता" असम्बद्धा । "वाग्" यस्य । सः । तादृशः "नास्मि" । हे "राघव" । त्वं "शृणु" । "इदं" जगत् । "यथा" येन प्रकारेण । "असत्भाति" । त्वां प्रति स्फुरति । मया तथा "कथ्यते" । "इदं" क "इव" । "आरवी वन्ध्यापुत्र इव" । आरवकारी वन्ध्यापुत्र इव । यथा सः असत्भाति । तथेत्यर्थः ॥ ंोट्_३,४.७४ ॥ तदेव कथयति इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् । इदं हि मनसा भाति स्वप्नादौ पत्तनं यथा ॥ ंो_३,४.७५ ॥ "इदम्" दृश्यं जगत् । "आदौ" आदिभूते । "सर्गादौ" चिन्मात्रस्य चेत्योन्मुखतारूपे सर्गारम्भे । अनुद्भूतमासीत् । परमार्थतः चिन्मात्रभावादच्युतेः । ततः भिन्नया सत्तयाश्रितं न आसीत् । न हि बहिरपि मृदः उत्पद्यमानस्य घटस्य मृदः भिन्ना सत्ता दृश्यते । "तेन" ततः कारणात् । "इदम्" जगत् । "अलम्" अतिशयेन । "नास्ति" सत्तां न भजति । "स्वप्नपत्तनवत्" चिन्मात्रसाक्षितामात्रेण लब्धसत्ताकत्वात् । ननु तर्हि कथमिदं भासते इत्य् । अत्राह "इदम्" इति । "हि" निश्चये । "इदं" दृश्यं जगत् । "मनसा" विकल्पेन । "भाति" दृश्यतया स्फुरति । किमिव । "पत्तनम्" इव । "यथा" "स्वप्नादौ पत्तनं मनसा भाति" । तथेत्यर्थः ॥ ंोट्_३,४.७५ ॥ ननु सत्स्वरूपेण मनसा भातस्य दृश्यस्य सत्त्वं युक्तमेवेत्य् । अत्राह मन एव च सर्गादावनुत्पन्नमसद्वपुः । तथैतच्छृणु वक्ष्यामि यथैतदनुभूयते ॥ ंो_३,४.७६ ॥ "सर्गादौ" प्रोक्तस्वरूपे सर्गारम्भे । "मनः एव अनुत्पन्नम्" । अत एव्"आसद्वपुः" असत्स्वरूपं भवति । त्वं "शृणु" । "यथा" त्वया "एततनुभूयते" । अहम् "तथा एतत्वक्ष्यामि" ॥ ंोट्_३,४.७६ ॥ ननु प्रकृतं दृश्यासत्त्वकथनं विहाय मनोऽसत्त्वकथनमयुक्तमित्य् । अत्राह मनो दृश्यमयं दोषं तनोतीमं क्षयात्मकम् । असदेवासदाकारं स्वप्नः स्वप्नान्तरं यथा ॥ ंो_३,४.७७ ॥ "मनः इमम्" पुरः भासमानम् । "क्षयात्मकम्" नश्वरस्वभावम् । "दृश्यमयं दोषम्" दृश्यस्वरूपं दोषम् । "तनोति" विस्तारयति । "मनः" कथम्भूतम् । "असदेव" स्फुरणमात्ररूपत्वातसत्स्वरूपमेव । "दृश्यमयं दोषं" कथम्भूतम् । "असदाकारम्" असत्स्वरूपम् । असता विस्तार्यमाणत्वात् । न ह्यसता विस्तारितं सत्भवितुं योग्यम् । वन्ध्यापुत्रविस्तारितस्य वाग्जालस्यापि सत्तापत्तेः । "मनः" कः "यथा" । "स्वप्नो" "यथा" । यथा असत्स्वरूपः "स्वप्नः" "असदाकारं स्वप्नान्तरं तनोति" । तथेत्यर्थः । दृश्यते हि स्वप्ने स्वप्नान्तरमिति नात्र विवादः ॥ ंोट्_३,४.७७ ॥ स्वाश्रयभूतं देहं प्रत्यपि अस्यैव कारणत्वं कथयति तत्स्वयं स्वैरमेवाशु सङ्कल्पयति देहकम् । तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते ॥ ंो_३,४.७८ ॥ "तत्" मनः । इदं "देहकम्" आत्मतया भासमानं स्थूलदेहम् । "आशु" शीघ्रम् । "स्वयम्" अन्यसाहाय्यानपेक्षम् । "स्वैरम्" स्वेच्छया । "सङ्कल्पयति" सङ्कल्पमात्रेण सम्पादयति । पुनरपि प्रकृतमेव कथयति "तेनेयम्" इति । "तेन" मनसा । "इयम्" दृश्यत्वेन भासमाना ॥ ंोट्_३,४.७८ ॥ उक्तमर्थं सर्गान्तश्लोकेन सङ्गृह्य कथयति स्फुरति गच्छति वल्गति याचते भवति मज्जति संहरति स्वयम् । अपरतामुपयात्यपि केवलं चलति चञ्चलशक्तितया मनः ॥ ंो_३,४.७९ ॥ उपलक्षणं चैतत् । तेन या काचित्क्रिया इह भवति सा मनःकृता एव भवतीति सङ्क्षिप्तार्थ इति शिवम् ॥ ंोट्_३,४.७९ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे चतुर्थः सर्गः ॥ ********************************************************************* एवं मनोनिर्णयमवश्यकर्तव्यतया श्रुत्वा श्रीरामः पृच्छति भगवन्मुनिशार्दूल किमिवेह मनो भ्रमे । विद्यते कथमुत्पन्नं मनो मायामयं कुतः ॥ ंो_३,५.१ ॥ "भगवन्मुनिशार्दूल" हे भगवन्मुनिश्रेष्ठ । "इह भ्रमे" अस्मिन् जगद्रूपे भ्रमे । "मनः किमिव विद्यते" किंस्वरूपमिवास्ति । तथा "कथमुत्पन्नम्" केन प्रकारेण प्रादुर्भूतम् । "मनः मायामयं" मायास्वरूपं "कुतः" भवति ॥ ंोट्_३,५.१ ॥ तत्राप्य्"आदौ उत्पत्तिम्" एव कथयेत्यभिप्रायेणाह उत्पत्तिमादाविति मे समासेन वद प्रभो । प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर ॥ ंो_३,५.२ ॥ हे "प्रभो" । त्वम् । "मे इति उत्पत्तिम्" मनोनिष्ठामुत्पत्तिम् । मत्पृष्टं "शिष्टं" स्यात् । तत्"प्रवक्ष्यसि" कथयिष्यसि । स्वयमेव शिष्टत्वादिति भावः ॥ ंोट्_३,५.२ ॥ श्रीवसिष्ठ उत्तरं कथयति महाप्रलयसम्पत्तावसत्तां समुपागते । अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ ंो_३,५.३ ॥ "महाप्रलयस्य" तुर्याख्यस्यावस्थाविशेषस्य महाकल्पान्तसमयस्य वा । "सम्पत्तौ" पूर्णतायां सत्याम् । "सर्गादौ अशेषदृश्ये" सृष्टिसंहारतत्संस्काररूपे समस्ते दृश्ये । "असत्ताम्" अदर्शनम् । "समुपागते" सति । "शान्तमेव" शनैः शनैः सर्गादिनाशसाक्षिताख्यात्क्षोभादपि निष्क्रान्तं किमप्यनिर्वाच्यं तत्त्वमेव्"आवशिष्यते" शिष्टं भवति । अत्र सर्गः स्वविषयं पदार्थजातसाक्षि प्रति । संहारः स्वसाध्यं पदार्थाभावम् । संस्कारः पदार्थसंस्कारं पदार्थाभावम् । तयोः संस्कारः पदार्थसंस्कारं पदार्थाभावसंस्कारं चेति विभागो ज्ञातव्यः ॥ ंोट्_३,५.३ ॥ शान्तावशिष्टमेव स्फुटं कथयति आस्तेऽनस्तमितो भास्वानजो देवो निरामयः । सर्वदा सर्वकृत्सर्वः परमात्मा महेश्वरः ॥ ंो_३,५.४ ॥ "परमात्मा" सर्वेषां परमार्थतः अहन्ताविषयतया भासमानं किमप्यान्तरं तत्त्वम् । "आस्ते" तिष्ठति । प्रथमं महाप्रलयसाक्षिभावेन तदनन्तरमपि यथा तथा कल्प्यमानानां स्वाभावानां साक्षिभावेन स्थितत्वात् । अत्र "सर्वदा" स्थितस्यात्मनः स्थितिवर्तमानताकथनं प्रमात्रपेक्षया प्रयुक्तत्वात्न दोषावहम् । कथम्भूतः असौ "परमात्मे"त्यपेक्षायां विशेषणानि कथयति "अनस्तमित" इति । "अनस्तमितः" यथा तथा कल्पितस्य स्वास्तस्यापि ग्राहकत्वेन स्थितत्वात्फलतः अस्तरहितः । "भास्वान्" साक्षितया सर्वप्रकाशकत्वात्सूर्यस्वरूपः । आश्चर्यं च भास्वतः अनस्तमितत्वम् । "अजः" जन्मरहितः । प्रादुर्भूतिः हि जन्म । सा च तस्य न युक्ता । आत्मत्वेन सदा प्रादुर्भूतत्वात् । न ह्यात्मनः अप्रादुर्भूतत्वं कदापि युक्तम् । स्वाप्रादुर्भूतेरपि ग्राहकतया स्थितत्वात् । "देवः" क्रीडाशीलः । अन्यथा एतादृशं जगत्कथं प्रादुर्भवेत् । अक्रीडाशीलो हि हस्तचालनमात्रादपि पराङ्मुखो भवति । "निरामयः" मायाख्यरोगात्निष्क्रान्तः । अन्यथा मायाख्यामयग्रस्तत्वात्मायाप्रेरकत्वमयुक्तं स्यात् । न हि आमयग्रस्तः आमयप्रेरको भवति । "सर्वदा सर्वकृत्" सर्वेषु देशेषु कालेषु च सर्वकारी । अन्यथा अनुभूयमानः सर्वदा सर्वोद्भवः अयुक्तः स्यात् । "सर्वः" सर्वस्वरूपः । अन्यथा पदार्थानां किंमयत्वं स्यात् । "महेश्वरः" परमनियन्ता । अन्यथा सर्वे स्वस्वभावे नियताः न स्युः ॥ ंोट्_३,५.४ ॥ पुनरपि तमेव विशिनष्टि यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते । यस्य चात्मादिकाः सञ्ज्ञाः कल्पिता न स्वभावजाः ॥ ंो_३,५.५ ॥ "वाचः" समस्ताः लौकिकाः वैदिकाश्च वाचः । "यतः" यस्मात्परमात्मनः । "निवर्तन्ते" । वाखि सङ्केतं पुरस्कृत्य वस्तुनि प्रवर्तते । सङ्केतश्च परमात्मनि कर्तुमशक्यः । बाह्यान्तःकरणागोचरत्वात् । इन्द्रियगोचरे एव वस्तुनि हस्तग्राहिकया सङ्केतकरणं दृश्यते । तर्हि असौ नास्तीत्य् । अत्राह "यो मुक्तैर्" इति । "मुक्तैः" एव दृश्यानासक्तचित्तैः एव । न तु लौकिकैः । "यः अवगम्यते" आत्मतया ज्ञायते । मुक्ताः हि शुद्धं किमपि तत्त्वमात्मतया जानन्ति । अन्यथा मुक्तत्वायोगात् । तथा चासत्ता अस्य न युक्तेति भावः । ननु वाचां ततः निवर्तनकथनमयुक्तमात्मादिशब्दानां तद्वाचकत्वातित्य् । अत्राह "यस्य चे"ति । तत्त्वज्ञैरिति शेषः । "कल्पिताः" प्रवृत्तिनिमित्तमनपेक्ष्यैव तैलपायिकादिसञ्ज्ञावत्कल्पनया स्थापिताः ॥ ंोट्_३,५.५ ॥ ननु यदि सः एक एवास्ति तत्कथं साङ्ख्यादिभिः पुरुषादयः कथिता इत्य् । अत्राह यः पुमान् साङ्ख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् । विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम् ॥ ंो_३,५.६ ॥ "साङ्ख्यदृष्टीनां" साङ्ख्यदर्शनरतानाम् । साङ्ख्याः हि प्रकृतिव्यतिरिक्तं जीवापरपर्यायं पुरुषमेव शेषत्वेन कथयन्ति । स च विचार्यमाणः उक्तपरमात्मरूपत्वे एव विश्राम्यतीति युक्तमुक्तं "यः पुमान् साङ्ख्यदृष्टीनाम्" इति । एवं सर्वत्र योज्यम् । तथा च नामभेदस्यैव स्थितत्वान्नोक्तदोषप्रसङ्ग इति भावः । ननु श्रीवसिष्ठेन किं दर्शनमाश्रित्येदं शास्त्रमुक्तमिति चेत् । सत्यम् । सर्वेषां दर्शनानां सारमाश्रित्य एतेनेदं शास्त्रं कृतम् । अन्यथा सर्वमताङ्गीकारः अयुक्तः स्यात् । बाहुल्येन वेदान्तशास्त्रचर्चा अत्र दृश्यते । तदपेक्षया स्तोकेन महारहस्यभूतस्य शिवशास्त्रस्यापि इत्यलमप्रकृतचिन्तनेन । "ब्रह्म" अज्ञानाश्रयविषयीभूतं शान्तं चित्तत्त्वम् । "विज्ञानमात्रम्" घटपटादिविषयं निराकारं ज्ञानम् ॥ ंोट्_३,५.६ ॥ यः शून्यवादिनां शून्यं भासको योऽर्कतेजसाम् । वक्ता स्मर्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव यः ॥ ंो_३,५.७ ॥ "शून्यम्" सुषुप्तौ अनुभूयमानं न किञ्चित्त्वम् । उपलक्षणं चैतत् । तेन सर्वेषां दर्शनानां यत्वस्तु विश्रान्तिस्थानं भवति तदसावेवेति ज्ञेयम् । पुनः कथम्भूतोऽसौ भवतीत्य् । अत्राह "भासक" इति । "यः अर्कतेजसाम्" अर्कादिस्वरूपाणां तेजसाम् । "भासकः" नेत्राख्याधिष्ठानविशेषाधिश्रयणेन प्रकाशकः भवति । तथा "यः सदा एव" नित्यमेव । "ऋतम्" सत्यतया । परमार्थतः इति यावत् । "वक्ता स्मर्ता भोक्ता द्रष्टा कर्ता" भवति । समस्तवक्त्राद्यात्मत्वेन स्थितत्वात् । "ऋतम्" इति क्रियाविशेषणम् ॥ ंोट्_३,५.७ ॥ सदप्यसद्यो जगति यो देहस्थोऽपि दूरगः । चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः ॥ ंो_३,५.८ ॥ "यः" आत्मा । "सदपि" एतावतः जगद्भ्रमस्याधिष्ठानतया स्थितत्वात्सत्स्वरूपमपि । "असत्" भवति । बाह्यान्तःकरणागोचरत्वात् । "यः" आत्मा । "देहस्थः अपि" पाषाणरूपस्य देहस्यान्यथा चेष्टाश्रयत्वायोगात्तत्रस्थोऽपि । "दूरगः" भवति । अन्यथाकाशस्थितानां सूर्यादीनां ग्रहणं न स्यात् । "हि" निश्चये । "अयं चित्प्रकाशः" पदार्थचेतनरूपः प्रकाशः । "यस्मात्" भवति । क "इव" । "आलोक इव" । यथा "आलोकः" पदार्थदर्शनम् । "भास्वतः" सूर्याद् । भवति । तथेत्यर्थः ॥ ंोट्_३,५.८ ॥ यस्माद्विष्ण्वादयो देवाः सूर्यादिव मरीचयः । यस्माज्जगन्त्यनन्तानि बुद्बुदा जलधेरिव ॥ ंो_३,५.९ ॥ "देवाश्" चाध्यात्मिकाः आधिदैविकाश्चेति द्विविधाः ज्ञेयाः । तत्र आधिदैविकाः प्रसिद्धाः । आध्यात्मिका यथा । मनः ब्रह्मा । बुद्धिः "विष्णुः" । अहङ्कारः रुद्रः । इन्द्रिय्"आदयः" "देवा" इति । "जगन्त्य्" अपि एवं द्विविधानि ज्ञेयानि । तान्यपि आधिदैविकानि प्रसिद्धानि । आध्यात्मिकानि तु मानसिकाः सङ्कल्पाः ज्ञेयाः ॥ ंोट्_३,५.९ ॥ यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् । य आत्मानं पदार्थं च प्रकाशयति दीपवत् ॥ ंो_३,५.१० ॥ "दृश्यवृन्दानि यम्" द्रष्टृरूपं यम् । "यान्ति" यस्मिन् लयीभवन्तीत्यर्थः । "यः" शुद्धचित्स्वरूपः यः ।" आत्मानम्" चिन्मात्रस्वरूपं स्वात्मानम् । तथा "पदार्थं" जातौ एकवचनम् । पदार्थांश्च "दीपवत्प्रकाशयति" प्रकटीकरोति ॥ ंोट्_३,५.१० ॥ आकाशे यः शरीरे च दृशत्स्वप्सु लतासु च । पांसुष्वद्रिषु वातेषु पातालेषु च संस्थितः ॥ ंो_३,५.११ ॥ "यः" आत्मा । "आकाशे शरीरे च" । तथा "दृशत्सु" शिलासु । "अप्सु लतासु च पांसुषु" रजस्सु । "अद्रिषु" पर्वतेषु । "वातेषु पातालेषु च संस्थितः" भवति । उपलक्षणं चैतत् । तेन सर्वत्र स्थावरे स्थित इति ज्ञेयम् । स्थावरेषु स्थितत्वमात्मनः कथमस्तीति चेत् । सत्यम् । सर्वे स्थावराः तावत्विचार्यमाणाः अनिर्वाच्यतायामेव विश्राम्यन्ति । अनिर्वाच्यता एव च आत्मनः स्वरूपमिति न कश्चिद्विरोधः । अथ वा स्थावराः तावतात्मयुक्ताः निरात्मकाः वा । निरात्मकत्वे किंरूपत्वं तेषां स्यात् । सात्मकत्वे तु स्फुटमेव तेष्वात्मनः अवस्थानमिति योज्यम् ॥ ंोट्_३,५.११ ॥ यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः । येन मूकीकृता मूढाः शिलाध्यानमिवास्थिताः ॥ ंो_३,५.१२ ॥ "यः" आत्मा । "पुर्यष्टकम्" अन्तःकरणत्रयं तन्मात्रपञ्चकमितिस्वरूपं पुर्यष्टकम् । अर्थाच्चेतनवर्गम् । "इतः ततः प्लावयति" यत्र तत्र गमयति । चेष्टां कारयतीति यावत् । "मूढाः" जडाः । "येन" सारतया स्थितेन आत्मना । "मूकीकृताः" विमर्शासमर्थाः कृताः सन्तः । "शिलाध्यानम्" शिलावत्ध्यानम् । "आस्थिताः इव" भवन्ति । अत्यन्तजडा इव भवन्तीति यावत् । मूढानामपि परमार्थतः शुद्धचिन्मात्ररूपत्वात्"इव"शब्दप्रयोगः ॥ ंोट्_३,५.१२ ॥ व्योम येन कृतं शून्यं शैला येन घनीकृताः । आपो द्रुताः कृता येन दीप्तो यस्य वशाद्रविः ॥ ंो_३,५.१३ ॥ "येन" सर्वशक्तित्वात्निस्तत्त्वरूपतामाश्रितेन येनात्मना । "व्योम" व्याप्यतया स्थितमाकाशम् । "शून्यम्" निस्तत्त्वस्वरूपम् । "कृतम्" । तथा "येन" मृच्छिलाभावं श्रितेन येनात्मना । "शैलाः" स्वव्याप्याः पर्वताः । "घनीकृताः" निबिडाः सम्पादिताः । तथा "येन" द्रवत्वभावं गतेन येनात्मना । "आपः" स्वव्याप्यानि जलानि । "द्रुताः" द्रवत्वाख्यगुणयुक्ताः । "कृताः" । तथा "रविः" व्याप्यभावेन स्थितः सूर्यः । "यस्य वशात्" दीपनशीलतेजोभावं गतस्य यस्यात्मनः वशेन । "दीप्तो" भवति । उपलक्षणं चैतत् ॥ ंोट्_३,५.१३ ॥ प्रसरन्ति यतश्चित्राः संसारासारवृष्टयः । अक्षयामृतसम्पूर्णादम्भोदादिव वृष्टयः ॥ ंो_३,५.१४ ॥ "अक्षयम्" नाशरहितम् । यत्"अमृतम्" आनन्दरसः । तेन "सम्पूर्णात्" निर्भरात् । "यतः" यस्मातात्मनः । "संसारासारवृष्टयः" संसाररूपाः धारासारवृष्टयः । "प्रसरन्ति" सञ्चरं यान्ति । का "इव" । "वृष्टयः इव" । यथा "अक्षयामृतसम्पूर्णात्" अविनाशिजलपूर्णात् । "अम्भोदात्" मेघात् । "वृष्टयः प्रसरन्ति" । तथेत्यर्थः ॥ ंोट्_३,५.१४ ॥ आविर्भावतिरोभावमय्यस्त्रिभुवनोर्मयः । स्फुरन्त्यविरतं यस्मिन् घृणाविव मरीचयः ॥ ंो_३,५.१५ ॥ "आविर्भावतिरोभावमय्यः" आविर्भावतिरोभावयुक्ताः । "त्रिभुवनोर्मयः" । "यस्मिन्" अर्थात्समुद्ररूपे । "यस्मिनविरतं स्फुरन्ति" । का "इव" । "मरीचयः इव" । यथा "घृणौ" सूर्ये । "मरीचयः स्फुरन्ति" । तथेत्यर्थः ॥ ंोट्_३,५.१५ ॥ नाशरूपोऽविनाशात्मा योऽन्तःस्थः सर्ववस्तुषु । गुप्तो यो व्यतिरिक्तोऽपि सर्वभावेषु संस्थितः ॥ ंो_३,५.१६ ॥ "अविनाशात्मा" यथा तथा सम्भावितस्य स्वनाशस्यापि साक्षितया स्थितत्वात्विनाशरहितः । "यः" आत्मा । "नाशरूपः" भवति । नाशभावेनापि स्थितत्वात् । अन्यथा आत्मरहितस्य नाशस्य केन रूपेण भानं स्यात् । तथा "व्यतिरिक्तः अपि" शुद्धचिन्मात्ररूपत्वेन समस्तपदार्थोत्तीर्णस्वरूपः अपि । "यः" आत्मा । "सर्वभावेषु संस्थितः" भवति । सारतया स्थितत्वात् । विरुद्धं च अविनाशिनः विनाशरूपत्वं सर्वभावव्यतिरिक्तस्य "सर्वभावेषु" संस्थितत्वम् । "यः" आत्मा कथम्भूतः । "सर्ववस्तुषु अन्तःस्थः" । "अन्तः" नियामकत्वेन स्थितः । अत एव "गुप्तः" बहिः अदृश्यः ॥ ंोट्_३,५.१६ ॥ प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला । चित्तमूलेन्द्रियदला येन नृत्यति वायुना ॥ ंो_३,५.१७ ॥ "प्रकृतिः" जगन्मूलकारणभूतं किमपि तत्त्वम् । सा एव "व्रततिः" लता । "येन वायुना" येनात्मरूपेण वातेन । "नृत्यति" कार्यभावेन परिणामे कर्तृत्वं भजति । अन्यथा कार्यवर्गगतजडत्वान्यथानुपपत्त्या जडरूपायाः तस्याः कार्यभावेन परिणामं प्रति कर्तृत्वायोगात् । "प्रकृतिव्रततिः" कथम्भूता । "व्योम्नि" न किञ्चिद्रूपतया आकाशस्वरूपे चिन्मात्रे । "जाता" प्रादुर्भूता । तथा "ब्रह्माण्डम्" एव "सत्फलं" यस्याः । सा । तादृशी । तथा "चित्तम्" एव "मूलं" यस्याः । सा । तादृशी । तथा "इन्द्रियाण्य्" एव "दलाणि" यस्याः । सा । तादृशी । चित्तमूलत्वेन प्रकृतेः प्रतीतिमात्रसिद्धत्वमात्रमुक्तमिति ब्रह्माण्डमूलकारणभूतायाः प्रकृतेः कथं तदन्तर्गतपुरुषचिन्मात्रमूलत्वमुक्तमिति न पर्यनुयोज्यम् ॥ ंोट्_३,५.१७ ॥ यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गकम् । यस्मिन्निन्दौ स्फुरन्त्येता जगज्जालमरीचयः ॥ ंो_३,५.१८ ॥ "चिन्मणिः" चिदेव मणिः । प्रकाशकत्वात्रत्नम् । तत्स्वरूपः "यः" आत्मा । "प्रतिदेहसमुद्गकम्" सर्वेषु देहसमुद्गेषु । "प्रकचति" जीवभावेन स्फुरति । अन्यथा देहान्तर्गतानां जीवानां किंरूपत्वं स्यात् । युक्तं च समुद्गके रत्नप्रकचनम् । "एताः" पुरः दृश्यमानाः । "जगज्जालमरीचयः" । "यस्मिनिन्दौ स्फुरन्ति" । अन्यथा किमाधारमासां भानं स्यात् । न हि निराधारस्य जगज्जालस्य स्फुरणं बुद्धिमारोहति । मरीचित्वं च जगज्जालस्य चित्प्रकाशविषयत्वेन चित्प्रकाशतानपायाज्ज्ञेयम् । अचिद्रूपो हि चिद्विषयतायोग्यो न भवति । विरुद्धत्वेन तत्सान्निध्ये तस्य सन्निधानासम्भवात् ॥ ंोट्_३,५.१८ ॥ प्रशान्तचिद्घने यस्मिन् स्फुरन्त्यमृतवर्षिणि । धाराजलानि भूतानि दृष्टयस्तडितः स्फुटाः ॥ ंो_३,५.१९ ॥ "अमृतवर्षिणि" आनन्दवर्षिणि । "प्रशान्तचिद्घने यस्मिन्" निरपेक्षशुद्धचिदाख्यमेघस्वरूपे यस्मिनात्मनि । "भूतानि" समस्ताः पदार्थाः । "धाराजलानि" । "दृष्टयः" तद्विषयाणि ज्ञानानि । "स्फुटाः" प्रकटाः । "तडितः" "स्फुरन्ति" । युक्तं च जलवर्षिणि मेघे धाराजलानां तडितां च स्फुरणम् । आनन्दवर्षित्वं चात्मनः परप्रेमास्पदत्वेन ज्ञेयम् । न हि आनन्दावर्षी परप्रेमास्पदो भवति । आनन्दवर्षिणि पुत्रादौ एव प्रेमास्पदत्वदर्शनात् । आत्मनः परप्रेमास्पदत्वं च सर्वेषु स्वसाक्षिकमेवेति नायस्तम् ॥ ंोट्_३,५.१९ ॥ चमत्कुर्वन्ति वस्तूनि यदालोकनया मिथः । असज्जातमसद्येन येन सत्सत्त्वमागतम् ॥ ंो_३,५.२० ॥ "वस्तूनि" भोक्तृभोग्यरूपाणि भावजातानि । "मिथः" अन्योऽन्यस्मिन् । "यदालोकनया" यद्दर्शनेन । यद्दर्शनभावेनेति यावत् । "चमत्कुर्वन्ति" आनन्दमनुभवन्ति । यद्दर्शनमेव तेषां चमत्कारकारणमस्तीति यावत् । मिथ्या इति सामान्याक्षेपेणोक्तम् । अयं भावः । भोक्तारः तावतिष्टानिष्टान् भोग्याननुभूय भोग्यान्तरनिरपेक्षा जायन्ते । अन्यथा तत्कालं विषयीकृतस्य भोग्यस्य भोगः समाप्तिं न व्रजेत् । तत्कालं भोग्यान्तरनिरपेक्षत्वं च तत्र तेषां चमत्कारानुभवनं विना न सिध्यति । एकस्मिन् विषये अनुभूयमानेन चमत्कारेणैव हि पुरुषः अन्येषु विषयेषु निरपेक्षो भवति । स च चमत्कारः विचार्यमाणः नैरपेक्ष्यकारणत्वातात्मस्वरूप एव भवति । परमविश्रान्तिपदस्वरूपस्य आत्मन एव नैरपेक्ष्यकारणत्वातिति युक्तमेव भोक्तुः भोग्येषु यद्दर्शनरूपं चमत्कारकारणमिति । अनुभवमात्रगम्येऽस्मिन् वस्तुनि प्रतिभावद्भिः स्वयमपि यतनीयमित्यलं प्रपञ्चेन । तथा "येन" साक्षितया स्थितेन येनात्मना । "असत्" "असत्" "जातम्" । तथा "येन" तादृशेन येनात्मना । "सत्सत्त्वमागतम्" । साक्षिणं विना सदसद्गतयोः सत्त्वासत्त्वयोः असङ्कल्पत्वात् ॥ ंोट्_३,५.२० ॥ चलतीदमनिच्छस्य कायायो यस्य सन्निधौ । जडं परमरत्नस्य शान्तमात्मनि तिष्ठतः ॥ ंो_३,५.२१ ॥ "अनिच्छस्य" इच्छाधारमते रहितत्वातिच्छारहितस्य । अत एव्"आत्मनि" शान्ते । "तिष्ठतश्" चलनेच्छाख्यक्षोभरहितं तिष्ठतः । "यस्य परमरत्नस्य सन्निधौ जडं" ग्राह्यैकरूपत्वेन अचेतनम् । "इदं कायायः" शरीराख्यम् "अयः" । "चलति" चेष्टां करोति । कायचेष्टाकारणत्वेनाभिमतस्य प्राणस्यापि आत्मशक्तियुक्तत्वेन परमार्थतः कायचलनकारणत्वायोगात् । बाह्यरत्नगतजडत्वराहित्यद्योतनार्थं "परम"पदोपादानम् । युक्तं च "अयसः" अयस्कान्ताख्यरत्नसन्निधाने चलनम् ॥ ंोट्_३,५.२१ ॥ नियतिर्देशकालौ च चलनं स्पन्दनं क्रियाः । इति येन गतं सत्तां सर्वसत्त्वाभिगामिना ॥ ंो_३,५.२२ ॥ "नियतिः" पदार्थेषु नियमादायकः शक्तिविशेषः । "देशः" पदार्थाधारभूतः वस्तुविशेषः । "कालः" सूर्यचाराद्यनुमेयः कलनामात्रस्वरूपः पदार्थपरिवर्तिकारकः कोऽपि वस्तुविशेषः । "चलनम्" सामान्यचलनम् । "स्पन्दनं" क्रियाविषया चेष्टा । "क्रिया" पाकादिरूपं कर्म । उपलक्षणं चैतत् । "इति" एतत् । "सर्वसत्त्वाभिगामिना" समस्तसत्ताविषयपदार्थव्यापकेन । "येना"त्मना । "सत्तां गतम्" । व्यापकेनैव हि व्याप्यं सत्तां लभते ॥ ंोट्_३,५.२२ ॥ शुद्धसंविन्मयत्वाद्यः खं भवेद्व्योमवित्तया । पदार्थवित्तयार्थत्वमवतिष्ठत्यनिष्ठितः ॥ ंो_३,५.२३ ॥ "शुद्धसंविन्मयत्वात्" । "शुद्धा" केनापि रूपेण निष्ठां न गता । या "संवित्" संवेदनम् । तत्स्वरूपत्वात् । "अनिष्ठितः" केनापि रूपेण निष्ठां न गतः । "यः" । "व्योमवित्तया" व्योमाहमिति संविद्युक्तत्वेन । "खं" व्योम । भवति । पदार्थाभावरूपं भवतीत्यर्थः । "पदार्थवित्तया" पदार्थोऽहमिति संविद्युक्तत्वेन । "अर्थत्वम्" पदार्थभावम् । "अवतिष्ठति" आश्रयति । उपसर्गसामर्थ्यात्"तिष्ठतेर्" आश्रयणमर्थः । घटत्वे निष्ठितः घटः पटतां न यातीति "अनिष्ठित" इत्युक्तम् ॥ ंोट्_३,५.२३ ॥ सर्गान्तश्लोकेनात्ममाहात्म्यवर्णनं समापयति कुर्वन्नपीव जगतां महतामनन्त स्पन्दं न किञ्चन करोति कदाचनापि । स्वात्मन्यनस्तमयसंविदि निर्विकारे त्यक्तोदयस्थितिमतिः स्थित एक एव ॥ ंो_३,५.२४ ॥ "य" इति शेषः । यः आत्मा "महतां जगतामनन्तस्पन्दं कुर्वनपि इव" जगत्प्रादुर्भावान्यथानुपपत्त्या महाजगद्विषयम् "अनन्तं स्पन्दं" "कुर्वन्नपीव" । "कदाचन किञ्चन न करोति" अतिशुद्धेन कर्तृत्वाभिमानाभावात् । अन्यथा "इव"शब्दप्रयोगायोगात् । यः कथम्भूतः । "अनस्तमयसंविदि" । "अनस्तमया" यथा तथा कल्पितस्य स्वास्तमयस्यापि साक्षित्वेनावस्थानात्परमार्थतः अस्तमयरहिता । या "संवित्" । तत्स्वरूपे । तथा "निर्विकारे" रागद्वेषादिरूपेभ्यः विकारेभ्यः निष्क्रान्ते । "स्वात्मनि" स्वस्वरूपे । "स्थितः" । पुनः कथम्भूतः । "त्यक्ता उदयस्थित्योः" जगद्विषयोः उदयस्थित्योः । "मतिः" येन । सः । तादृशः । जगतः उदये स्थितौ अर्थात्संहारे च निरपेक्ष इत्यर्थः । इति शिवम् ॥ ंोट्_३,५.२४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे पञ्चमः सर्गः ॥ ३,५ ॥ ********************************************************************* ओमेवं परमात्मनः स्वरूपं माहात्म्यं च प्रतिपाद्य श्रीरामं तत्प्राप्तिं प्रति त्वरमाणं ज्ञात्वा सुगमं तत्प्राप्त्युपायं कथयति अस्य देवातिदेवस्य परस्य परमात्मनः । ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानखेददा ॥ ंो_३,६.१ ॥ "अस्य" प्रोक्तस्वरूपस्य । "देवातिदेवस्य" निरतिशयक्रीडाशीलस्य द्योतनशीलस्य च निरतिशय"परमात्मनः" । "ज्ञानादेव" ज्ञानाख्यादुपायादेव । "सिद्धिः" प्राप्तिरूपा सिद्धिः । भवति । "अस्य सिद्धिः अनुष्ठानखेददा" । "अनुष्ठानेन" यः "खेदः" । तं द"दा"तीति तादृशी । "न" भवति ॥ ंोट्_३,६.१ ॥ नन्वनुष्ठानं विना कथं युक्तता स्यादित्य् । अत्राह अत्र ज्ञानमनुष्ठानं न त्वन्यदुपयुज्यते । मृगतृष्णाजलभ्रान्तिशान्तिवेदनरूपि तत् ॥ ंो_३,६.२ ॥ "अत्र" अस्यामात्मप्राप्तिरूपायां सिद्धौ । "ज्ञानमनुष्ठानं" सिद्धेः कार्यसाधकः प्रयत्नः । भवति । "अन्यत्" ज्ञानाख्यानुष्ठानव्यतिरिक्तं कायव्यापाराख्यम् । "अनुष्ठानं नोपयुज्यते" । "तत्" ज्ञानम् । "मृगतृष्णायां" या "जलभ्रान्तिः" । तस्याः "शान्तिः" । येन । तत् । तादृशं यत्"वेदनम्" । तद्वत्"रूपम्" । अस्यास्तीति तादृशं भवति । सम्यग्ज्ञानरूपं भवतीत्यर्थः ॥ ंोट्_३,६.२ ॥ नन्वीदृशोऽसावात्मा कुत्र तिष्ठतीत्य् । अत्राह न चैष दूरे नाकाशे नालभ्यो विषमो न च । स्वानन्दभासरूपोऽसौ स्वदेहादेव लभ्यते ॥ ंो_३,६.३ ॥ "एषः" आत्मा । "दूरे न च" भवति । स्वशरीरान्तर्वर्तित्वात् । एतेन दूरस्थमहातीर्थाश्रयत्वशङ्का निवारिता । "एषः" आत्मा । "आकाशे न" भवति । एतेन उपरिस्थभुवनाश्रयत्वशङ्का निवारिता । "एषः" आत्मा । "अलभ्यः" लब्धुमशक्यः । "न" भवति । सदा लब्धत्वात् । अन्यथा आत्मत्वायोग्यत्वात् । एतेन दुर्लभत्वशङ्का निवारिता । "एषः" आत्मा । "विषमः" कठिनः । "न च" भवति । परप्रेमास्पदत्वात् । न हि कठिने प्रेमास्पदत्वं युक्तम् । परत्वविशेषितस्य तु प्रेम्नः का कथा । एतेन ऐश्वर्यलेशमदग्रस्तराजादिवत्क्रौर्याशङ्का निवारिता । पुरुषेण "स्वानन्दभासरूपः" भोगादिविषयनिरपेक्षस्वयम्भातानन्दप्रतिभासस्वरूपः । "असौ" आत्मा । "स्वदेहादेव" "लभ्यते" । "स्वानन्दभासरूप" इत्यनेन विषमत्वनिरासः । "स्वदेहाद्" इत्यनेन दूरस्थत्वाकाशस्थत्वयोः निरासः । "लभ्यते" इत्यनेन अलभ्यत्वनिरासः ॥ ंोट्_३,६.३ ॥ ननु तपःप्रभृतिनापि केचिदात्मप्राप्तिं कथयन्तीत्य् । अत्राह किञ्चिन्नोपकरोत्यत्र तपोदानव्रतादिकम् । स्वभावमात्रविश्रान्तिमृते नात्रास्ति साधनम् ॥ ंो_३,६.४ ॥ "अत्र" अस्यामात्मप्राप्तिरूपायां सिद्धौ । "तपोदानव्रतादिकं किञ्चित्नोपकरोति" लेशेनापि उपकारं न करोति । बाह्याङ्गत्वेन आरादुपकारकत्वात् । तपःप्रभृतिना हि सत्त्वशुद्धिरेव भवति । नात्मप्राप्तिः । "अत्र" अस्यामात्मप्राप्तौ । "स्वभावविश्रान्तिमृते" स्वरूपविश्रान्तिं विहाय । "साधनं न" भवति ॥ ंोट्_३,६.४ ॥ स्वभावविश्रान्तौ असमर्थान् प्रति उपायं कथयति शास्त्रसत्सङ्गसद्योगिपरतैवात्र केवलम् । साधनं बोधनं मोहजालस्य यदकृत्रिमम् ॥ ंो_३,६.५ ॥ "अत्र" अस्यामात्मप्राप्तौ । "शास्त्रं" च अध्यात्मशास्त्रम् । तच्च "सत्सङ्गसद्योगिनः" च "शास्त्रसत्सङ्गसद्योगिनः" । तत्र "परता" एकनिष्ठत्वम् । "एव" । न तु तपःप्रभृतिकम् । "साधनं" उपायः । भवति । "साधनं" किम् । "यत्मोहजालस्य" जगति जगत्त्वज्ञानाख्यस्य मिथ्याज्ञानप्रपञ्चस्य । लक्षणया जगति जगत्त्वज्ञानाख्यस्य मोहजालयुक्तस्य पुरुषस्य्"आकृत्रिमं" सहजम् । "बोधनं" ब्रह्मैवेदमित्य् । एवंबोधकारि भवति ॥ ंोट्_३,६.५ ॥ शास्त्रादिपरताफलभूतस्यात्मविश्रान्तिं प्रति साधनभूतस्य मुख्यमुपायत्वं कथयति अयं स देव इत्येव सम्परिज्ञानमात्रतः । जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च ॥ ंो_३,६.६ ॥ "अयम्" अहन्तया इदन्तया च पुरःस्फुरणशीलः अहङ्कारादिकः संसारः । "सः" सर्वेषां परमार्थतः आत्मभावेन स्थितत्वात्प्रसिद्धः । "देवः" द्योतनशीलं क्रीडाशीलं च चित्तत्त्वं भवति । "इत्येव" एतावन्मात्रेणैव । "सम्परिज्ञानमात्रतः" सम्यग्ज्ञानमात्रेण । "जन्तोः दुःखं न जायते" । प्रवाहागतस्य दुःखस्यापि चिन्मात्रत्वज्ञानात् । सः जन्तुः "जीवन्मुक्तत्वं चैति" प्राप्नोति । शरीरसान्निध्येऽपि मुक्तत्वात् ॥ ंोट्_३,६.६ ॥ साधनभावेन प्रसिद्धस्य तपःप्रभृतिकस्यासाधनत्वमसहमानः आत्मनः सुलभत्वे निकटवर्तित्वे च सन्दिहानश्च श्रीरामः पृच्छति सम्परिज्ञातमात्रेण किलानेनात्मनात्मनि । पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन ॥ ंो_३,६.७ ॥ "आत्मनि" स्वस्मिन् । "सम्परिज्ञातमात्रेण" अहमादिजगदधिष्ठानतया सम्यङ्निश्चितेन । "अनेन आत्मना मरणाद्याः दोषाः न बाधन्ते" । न हि चिन्मात्रतां गतस्य देहगताः "मरणाद्याः" बाधां कर्तुं समर्थाः भवन्ति ॥ ंोट्_३,६.७ ॥ तर्हि ज्ञातज्ञेयत्वेन मौनमेव कुर्वित्य् । अत्राह देवदेवो महानेष कुतो दूरादवाप्यते । तपसा केन तीव्रेण क्लेशेन कियताथ वा ॥ ंो_३,६.८ ॥ अस्माभिः "एषः देवदेवः कुतः दूरात्" कियतः दूरात् । "अवाप्यते" । तथा "केन तीव्रेण तपसा अवाप्यत अथ वा कियता क्लेशेन" प्राणरोधनादिरूपेण क्लेशेन । "अवाप्यते" । न हि ईदृशस्य देवदेवस्य तपआदिकं प्राणरोधनादिकं च विना प्राप्तिः युज्यते । सर्वेषां तत्प्राप्तिप्रसङ्गात् । न हि सर्वे तत्प्राप्तिभाजः दृश्यन्ते । न चानवाप्तस्य ज्ञानविषयत्वं युक्तम् । प्राप्तस्य घटादेरेव तद्विषयतादर्शनादिति भावः ॥ ंोट्_३,६.८ ॥ श्रीवसिष्ठः उत्तरं कथयति स्वपौरुषप्रयत्नेन विवेकेन विकासिना । स देवो ज्ञायते राम न तपस्स्नानकर्मभिः ॥ ंो_३,६.९ ॥ हे "राम" । "स्वपौरुषप्रयत्नेन" निजमानसिकपौरुषाख्यप्रयत्नस्वरूपेण । तथा "विकासिना" विकासयुक्तेन विचारेण । कोऽहमिदं जगच्च किमित्येवंरूपेण "विवेकेन" । पुरुषेण "स देवः ज्ञायते" । "तपःस्नानकर्मभिः न ज्ञायते" । चित्तादिशोधनमात्रपरत्वात्तेषाम् । "ज्ञायते" इत्यनेन ज्ञानमात्रमेवात्र साधनीयम् । नावाप्तिः । न हि पुरःस्थायां शुक्तौ रजतभ्रमयुक्तस्य शुक्त्यवाप्तिं काङ्क्षमाणस्यापि शुक्त्यवाप्तिः सधनीया । शुक्तिरेवेयमित्येवंरूपस्य ज्ञानमात्रस्यैव साधनीयत्वातिति द्योतितम् । "कुतो दूराद्" इत्यस्यात्यन्तासङ्गतत्त्वेनोत्तराकथनम् ॥ ंोट्_३,६.९ ॥ रागादियुक्तस्य तपआदेः स्फुटमेव असाधनत्वम् । तद्रहितस्य तु साधनत्वेऽपि रागादिराहित्यस्यैव साधनत्वं युक्तमित्यभिप्रायेणाह रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् । विना राम तपोदानं क्लेश एव न वास्तवम् ॥ ंो_३,६.१० ॥ तपश्च दानं च तत्"तपोदानं" । "वास्तवम्" सहजभावकृतम् ॥ ंोट्_३,६.१० ॥ रागाद्युपहते चित्ते वञ्चयित्वा परं धनम् । यदर्ज्यते ततो दानाद्यस्यार्थस्तस्य तत्फलम् ॥ ंो_३,६.११ ॥ "ततः" तस्य धनस्य । सार्वविभक्तिकः तसिल् ॥ ंोट्_३,६.११ ॥ रागाद्युपहते चित्ते व्रतादि क्रियते च यत् । स दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्न वा ॥ ंो_३,६.१२ ॥ "वा"शब्दः पक्षान्तरे ॥ ंोट्_३,६.१२ ॥ फलितं कथयति तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् । सच्छास्त्रसज्जनासङ्गं संसृतिव्याधिनाशने ॥ ंो_३,६.१३ ॥ "आहरेत्" अर्जयेत् । कुर्यादिति यावत् । "संसृतिव्याधिनाशने" संसृत्याख्यव्याधिनाशनार्थम् ॥ ंोट्_३,६.१३ ॥ अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः । सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते ॥ ंो_३,६.१४ ॥ "अत्रा"स्यामात्मप्राप्तौ । "पौरुषं यत्नम्" सच्छास्त्रविचारादिरूपम् । "गतिः" उपायः । "सर्वदुःखक्षयप्राप्तौ" समस्तदुःखक्षयप्राप्तिरूपायाम् ॥ ंोट्_३,६.१४ ॥ ननु तत्पौरुषं कीदृगस्तीत्य् । अत्राह शृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये । येन शाम्यन्त्यशेषेण रागद्वेषविषूचिकाः ॥ ंो_३,६.१५ ॥ त्वं "शृणु" । "कीदृक्" कीदृशम् । "तत्पौरुषमात्मज्ञानस्य लब्धये" भवति । "येन" पौरुषेण । "रागद्वेषविषूचिकाः अशेषेण शाम्यन्ति" । अन्यथा आत्मज्ञानलब्धिहेतुत्वं तस्य न स्यादिति भावः ॥ ंोट्_३,६.१५ ॥ प्रतिज्ञातं पौरुषस्वरूपकथनमेव करोति यथासम्भवया वृत्त्या लोकशास्त्राविरुद्धया । सन्तोषसन्तुष्टमना भोगगर्धं परित्यजन् ॥ ंो_३,६.१६ ॥ यथासम्भवमुद्योगादनुद्विग्नतया स्वया । साधुसङ्गमसच्छास्त्रपरतां प्रथमं श्रयेत् ॥ ंो_३,६.१७ ॥ "यथासम्भवया" सम्भवानुसरिण्या । न तु प्रयत्नसाधितया । "वृत्त्या" जीविकया । "भोगगर्धं" भोगलोभम् ॥ ंोट्_३,६.१६१७ ॥ यथाप्राप्तार्थसन्तुष्टो यो गर्हितमुपेक्षते । साधुसङ्गमसच्छास्त्ररतः शीघ्रं स मुच्यते ॥ ंो_३,६.१८ ॥ "गर्हितम्" अन्यायागतं धनादिकम् ॥ ंोट्_३,६.१८ ॥ ननु कथं "सः शीघ्रं मुच्यते" इत्य् । अत्राह विचारणापरिज्ञातस्वभावस्य महामतेः । अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ ंो_३,६.१९ ॥ "विचारणया" साधुसङ्गादिप्रभावसिद्धेन विचारेण । "परिज्ञातः" देहादिव्यतिरिक्तत्वेन निश्चितः । "स्वभावः" स्वरूपम् । येन । सः । तादृशस्य "महामतेः" बुद्धियुक्तस्य पुरुषस्य । "एते ब्रह्मविष्ण्विन्द्रशङ्कराः अनुकम्प्याः" । कीदृशाः । एषां जगज्जननादिव्यापारपरतारूपा विपदस्तीत्येवंरूपानुकम्पाविषयाः "भवन्ति" । किमु वक्तव्यं तस्य शीघ्रं मोक्षः कथं स्यादिति भावः ॥ ंोट्_३,६.१९ ॥ ननु प्रथमं तावत्त्वया साधुसङ्गतिरेवोपायत्वेनोक्ता । स साधुरेव कः स्याद्यस्य सङ्गतिः क्रियते इत्य् । अत्राह भृशं यं सुजनप्रायं लोकाः साधुं प्रचक्षते । स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् ॥ ंो_३,६.२० ॥ "सुजनप्रायम्" बाहुल्येन सुजनम् । "प्राय"पदेनासाधुत्वेऽपि । प्रयोजनवशाद्बान्धवैः उक्तसुजनत्वे पुरुषे साधुत्वेऽपि परनिन्दैकरसिकखलजनप्रोक्तासाधुजनत्वे पुरुषे साधुत्वासाधुत्वयोः निरासः ॥ ंोट्_३,६.२० ॥ साधुनिर्णयं कृत्वा शास्त्रनिर्णयं करोति अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् । शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारवान् ॥ ंो_३,६.२१ ॥ "विद्यानाम्" समस्तज्ञानानां मध्ये । "अध्यात्मविद्या" आत्मज्ञानम् । "प्रधानं" भवति । अतः पण्डिताः "तत्कथाश्रयम्" अध्यात्मविद्याकथावाचकम् । "शास्त्रं सच्छास्त्रमित्याहुः" । "तद्विचारवान्" प्रोक्तसच्छास्त्रविचारयुक्तः पुरुषः । "मुच्यते" संसारकृतात्बन्धनात्मुक्तो भवति । अतः अध्यात्मशास्त्रमेवात्रोपयुक्तमस्तीति भावः ॥ ंोट्_३,६.२१ ॥ सच्छास्त्रादेः उत्पन्नस्य विवेकस्य मुख्योपायत्वं सर्गान्तश्लोकेन स्फुटीकृत्य कथयति सच्छास्त्रसत्सङ्गमजैर्विवेकैस् तथा विनश्यन्ति बलान्मलानि । यथा जलानां कतकानुषङ्गाद् यथा जडानामभयोपयोगात् ॥ ंो_३,६.२२ ॥ "मलानि" रागादिरूपाणि । जनपक्षे रजोरूपाणि । "कतकम्" जलशुद्धिकारी द्रव्यविशेषः । द्वितीयं दृष्टान्तं कथयति । "यथा जडानाम्" इति । "जडानां" स्वविवेकहीनानाम् । "अभयोपयोगात्" । "अभयेन" केनचिद्दत्तेनाभयेन । कृतः यः "उपयोगः" समाश्वासनाख्यः उपयोगः । तस्मात्"मलानि" रज्जुसर्पादिकृतभयरूपाणि मलानि । "विनश्यन्ति" । तथेत्यर्थः । विवेकिनामभयं स्वविचारेण विनश्यन्तीति "जडानाम्" इत्युक्तम् । इति शिवम् ॥ ंोट्_३,६.२२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे षष्ठः सर्गः ॥ ३,६ ॥ ********************************************************************* दूरदेशगमनमुपायजालप्रयोगं च विनात्मावाप्तिममन्यमानः श्रीरामः पुनरपि पूर्वोक्तमेव प्रश्नं करोति य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते । वद क्वासौ स्थितो देवः कथमेनमहं लभे ॥ ंो_३,७.१ ॥ त्वया "यः एषः देवः कथितः" । तथा "यस्मिन्" देवे । "ज्ञाते" सति । पुरुषेण "विमुच्यते" मुक्तिः प्राप्यते । त्वम् "वद" । "असौ" "देवः" "क्व स्थितः" भवति । "अहमेनम्" अमुं देवम् । "कथम्" कैः उपायैः । "लभे" प्राप्नोमि ॥ ंोट्_३,७.१ ॥ श्रीवसिष्ठः उत्तरं कथयति य एष देवः कथितो नैष दूरेऽवतिष्ठते । शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः ॥ ंो_३,७.२ ॥ मया "यः एषः देवः कथितः" । "एषः दूरे" दूरदेशे । "नावतिष्ठते" । यतः "चिन्मात्रमिति विश्रुतः" प्रसिद्धः । एषः "नित्यं शरीरे स्थितः" भवति । अन्यथा पाषाणतुल्यस्य शरीरस्यापि मृतशरीरवत्चेष्टाश्रयत्वं न स्यात् । न च शरीरस्थस्य दूरस्थत्वं वक्तुं युक्तम् । स्वहस्तयोरपि दूरस्थत्वासंयोगातिति भावः ॥ ंोट्_३,७.२ ॥ ननु तर्हि देहपरिमाणः एवासौ स्यात् । तथा च देहवदनित्यत्वमप्यस्य स्यादित्य् । अत्राह एष सर्वमिदं विश्वं न विश्वं त्वेष सर्वगः । विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक् ॥ ंो_३,७.३ ॥ "एषः" आत्मा । "सर्वमिदं विश्वम्" सर्वमिदं जगत् । भवति । "सर्वं" सारत्वेन स्थितत्वात् । "तु" पक्षान्तरे । "सर्वगः" स च सारत्वेन सर्वपदार्थगः । "एषः विश्वं न" भवति । "हि" यस्मात् । "एष एक एव विद्यते" । "विश्वाभिधा दृक्" विश्वनामा दृष्टिः । विश्वमिति यावत् । "न अस्ति" । भासमानस्यापि विश्वस्य तद्दृष्ट्या एतद्रूपत्वानपायात् । न हि तरङ्गाक्रान्ते जले तरङ्गाभिधा दृक्भवति । भासमानेष्वपि तरङ्गेषु विवेकिजनदृष्ट्या जलत्वानपायात् ॥ ंोट्_३,७.३ ॥ ननु शशिभृदादयोऽपि महादेवतास्वरूपाः सन्त्य् । तत्कथं त्वया "विद्यते ह्य्" "एष एवैक" इत्युक्तमित्य् । अत्राह चिन्मात्रमेष शशिभृच्चिन्मात्रं गरुडध्वजः । चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः ॥ ंो_३,७.४ ॥ "एषः" सृष्टिसंहारकत्वेन प्रसिद्धः । "शशिभृत्" श्रीमहादेवः । "चिन्मात्रं" भवति । ननु कथमेतदिति चेत् । सत्यम् । "शशिभृत्" सचेतनोऽस्ति चेतनारहितो वा । अचेतनत्वे पाषाणरूपस्य तस्य जगद्गतस्यावरतुल्ययोगक्षेमत्वमेव । सचेतनत्वे तु स्फुटं चिन्मात्रमेव तद्भावेन स्फुरति । ननु तर्हि शशिभृत्कीटयोः समत्वमेव स्यादिति चेत् । केनोक्तं नास्तीति । ननु कार्यविलक्षणतादर्शनाद्भेदः कल्प्यते । अयुक्तमेव कल्प्यते । न हि अग्निकणमहाग्निचययोः कार्यवैलक्षण्येन भेदः कल्पयितुं युक्तः । ननु अग्निकणमहाग्निचययोः कार्यवैलक्षण्यं नास्ति दाहाख्यस्यैकस्य कार्यस्य दर्शनातिति चेत् । शशिभृत्कीटयोरपि । किंरूपं कार्यवैलक्षण्यमस्ति ज्ञानक्रियायाः करणक्रियायाश्चैकत्वात् । यस्तु बह्वल्पताकृतो भेदः अस्ति । सः दृष्टान्तेऽप्यस्तीति न कोऽपि विरोधः । एवमन्यत्रापि योज्यम् । "गरुडध्वजः" स्थित्यधिकारी । "तपनः" ब्रह्माण्डगतवस्तुपाककारी सूर्यः । "कमलोद्भवः" सर्गाधिकारी श्रीब्रह्मा । आभ्यन्तरार्थविवक्षायां "शशिभृत्" अहङ्कारः । "गरुडध्वजः" बुद्धिः । "तपनः" प्राणः । "कमलोद्भवः" मनः । इति योज्यम् ॥ ंोट्_३,७.४ ॥ श्रीरामः पृच्छति बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् । जगदित्येव केवात्र नाम स्यादुपदेशता ॥ ंो_३,७.५ ॥ "यदि जगत्चेतनमात्रकम्" भवति । "इत्येव" भवति । एतदेव सत्यं भवतीति यावत् । तदा "बाला अपि एतत्वदन्ति" । सर्वे एव हि चेतनापरपर्यायजीवमयं "जगत्" कथयन्ति । अतः "अत्र उपदेशता नाम का स्यात्" । अज्ञातज्ञापनस्यैवोपदेशत्वात् । अत्र "बाला" इत्यनेन विज्ञानवादिनां बौद्धानां ग्रहणम् । ते एव हि विज्ञानापरपर्यायस्य चेतनस्यात्मत्वं कथयन्ति ॥ ंोट्_३,७.५ ॥ श्रीवसिष्ठः उत्तरं कथयति चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि । न किञ्चिदेतद्विज्ञातं भवता भवतारणम् ॥ ंो_३,७.६ ॥ "चेतनं चिन्मात्रं" चेतनाख्यं चिन्मात्रम् । "विश्वं" भवति । "इति" एवम् । "असि" त्वम् । "यत्ज्ञातवान्" । "भवता एतत्किञ्चित्" लेशेनापि । "भवतारणम्" संसारात्तारकम् । "न विज्ञातम्" । चिन्मात्रपदार्थानभिज्ञत्वात् । चिन्मात्रपदार्थज्ञानमात्रेणैव हि च संसारः नश्यति ॥ ंोट्_३,७.६ ॥ कथमेतदित्य् । अत्राह चेतनं नाम संसारो जीव एष पशुः स्मृतः । एतस्मादेव निर्यान्ति जरामरणवीचयः ॥ ंो_३,७.७ ॥ "नाम" निश्चये । "चेतनं संसारः" भवति । चिन्मात्रस्थस्य चेत्यौन्मुख्यस्यैव चेतनत्वात्चेत्यौन्मुख्यस्यैव च संसारत्वात् । "संसारो" हि संसरणमुच्यते । संसरणं च स्वस्थानातुत्थानम् । चिन्मात्रस्य च चेत्यौन्मुख्यसमये शुद्धचिन्मात्रतारूपात्स्वस्थानातुत्थानं भवत्येवान्यथा चेत्यौन्मुख्यत्वं नाम किं स्यात् । पण्डितैः "एषः" चेतनरूपः संसारः । "पशुः" स्वरूपज्ञानरहितत्वेन पशुतुल्यः । "जीवः स्मृतः" । जीवनक्रियाकर्ता हि "जीवः" उच्यते । "चेतनं" च जीवनमेव । अतः तद्वति तदुपचारात्चेतनस्यैव जीवत्वं भवति । तद्वति तदुपचाराश्रयणं त्वत्र परमार्थतः शुद्धचिन्मात्ररूपस्य जीवस्य जीवत्वे जीवनक्रियाव्यतिरिक्तसाधनान्तरबुद्धिनिरासार्थं कृतम् । ननु ततोऽपि किमित्य् । अत्राह्"ऐतस्मादेवे"ति । "जरामरणवीचयः" शरीरादिगताः जरामरणतरङ्गाः । "एतस्मादेव" अस्माच्चेतनातेव । "निर्यान्ति" निर्गच्छन्ति । प्रादुर्भवन्तीति यावत् । स्वप्नद्रष्टरि न स्वप्नशरीरगताः जरामरणवीचय इति भावः ॥ ंोट्_३,७.७ ॥ पुनरप्येतदेव कथयति पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् । चेतनत्वाच्चेततीदमत्यनर्थः स्वयं स्थितः ॥ ंो_३,७.८ ॥ "अमूर्तः" स्थूलसूक्ष्मशरीरव्यतिरिक्तः । तथा "दुःखस्यैव" स्वयमुत्पाद्यमानप्रपञ्चरूपस्य दुःखस्यैव । "भाजनं" पात्रभूतः । तद्रूपतया शुद्धचिन्मात्रातुत्थानात् । अन्यथा उत्थानस्यापि व्यर्थत्वात् । तथा "अज्ञः" शुद्धचिन्मात्राख्यस्वस्वरूपपरामर्शहीनः । अत एव "पशुः" "अपि" पशुतुल्योऽपि सन् । "एषः" जीवः । "चेतनत्वात्" चेतनमात्रस्वरूपत्वात् । "इदम्" अग्रे स्फुरत्स्वरूपमहङ्कारादिकं जगत् । "चेतति" स्वस्फूर्तिविषयं करोति । चेतनस्य ह्येतदेव चेतनत्वं यत्किञ्चिच्"चेतती"ति "चेतनत्वाद्" इत्युक्तम् । ननु तच्चेतनेन किं सम्पन्नमित्य् । अत्राह्"आती"ति । ततः "अत्यनर्थः" जगद्रूपः महाननर्थः । "स्वयं" तदिच्छां विना । "स्थितः" प्रादुर्भूतः । अत्र च स्वप्नस्य दृष्टान्तत्वं स्फुटमेवेति नायस्तम् ॥ ंोट्_३,७.८ ॥ नन्वस्य चेतनस्येदं दुःखं किं कदाचिच्छ्राम्येदपीत्य् । अत्राह चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथ वा । अस्य सा भरितावस्था तां ज्ञात्वा नानुशोचति ॥ ंो_३,७.९ ॥ "चेत्यात्निर्मुक्तता" प्रथमं स्वातन्त्र्येण चेत्याभिमुखीभूय ततः विचारद्वारेण ततः निष्क्रान्तिः । "या" भवति । "अथ वा अचेत्योन्मुखता" चेत्यानौन्मुख्यमेव । "या" भवति । "अस्य" चेतनस्य । "सा भरितावस्था" पूर्णावस्था । भवति । स्वरूपभूतेन चिन्मात्रत्वेन पूर्णत्वात् । "तां" भरितावस्थाम् । "ज्ञात्वा" परमार्थस्वरूपत्वेन निश्चित्य । "नानुशोचति" संसाराख्यदुःखभाक्न भवति । भरितावस्थानेन स्वस्मिन् स्थितायाः चेतनतायाः असत्यत्वज्ञानेन तदुक्ते दुःखेऽप्यसत्यत्वज्ञानात् । अत्र च "चेत्यनिर्मुक्तता" जीवन्मुक्ततावस्थायां भवति । "अचेत्योन्मुखता" विदेहमुक्ततावस्थायामिति विभागो ज्ञेयः ॥ ंोट्_३,७.९ ॥ ननु तदा अस्य चेतनस्य कीदृशी अवस्था भविष्यतीत्य् । अत्राह भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परापरे ॥ ंो_३,७.१० ॥ "तस्मिन्" सर्वात्मत्वेन स्थितत्वात्प्रसिद्धे । "परापरे" पररूपचिन्मात्रापररूपचेतनस्वरूपे महाचिन्मात्रे । "दृष्टे" परमार्थतः आत्मभावेन निश्चिते सति । अस्यां भरितावस्थायां ज्ञातायामिति यावत् । "अस्य" चेतनस्य । "हृदयग्रन्थिः" भोगादिविषया । "भिद्यते" नश्यते । तृप्तत्वात् । तथा "सर्वसंशयाः" पदार्थस्वरूपविषयाः सर्वे सन्देहाः । "छिद्यन्ते" । चिन्मात्रसारतानिश्चयात् । तथा "कर्माणि" शरीरयात्रानिमित्तं कृतानि कर्माणि । "क्षीयन्ते" । लेपानादायकत्वात् ॥ ंोट्_३,७.१० ॥ ननु तर्हि अत्यन्तोपादेयभूतमचेत्योन्मुखत्वमेवाहं साधयामीत्य् । अत्राह तस्य चेत्योन्मुखत्वं तु चेत्यासम्भवनं विना । रोद्धुं न शक्यं दृश्यं तु चेत्यं शाम्यतु वै कथम् ॥ ंो_३,७.११ ॥ "तस्य" चेतनस्य । "चेत्योन्मुखत्वम्" चेतनत्वापादकं चेत्यौन्मुख्यम् । "चेत्यासम्भवनं विना रोद्धुं शक्यं न" भवति । न हि तूलपिण्डे पतितः अग्निः शान्तो भवति । ननु तर्हि चेत्यमेव नाशयामि इत्य् । अत्राह "चेत्यम्" इति । "दृश्यं" दृश्यस्वरूपं चेत्यम् । "कथं शाम्यतु" । न शाम्यत्येव सतः नाशायोगात् । अयं भावः । चेत्यं यदि अस्ति तर्हि कथं शाम्येत् । यदि नास्ति तदा चेत्यानौन्मुख्यं स्वयमेव सिद्धं भवतीति । न तदाहरणे ज्ञानमात्रं विना प्रयत्नो युक्तः । न हि वन्ध्यापुत्रनाशचिन्ता केनापि क्रियते इति ॥ ंोट्_३,७.११ ॥ अत्र श्रीरामः पृच्छति साधुसङ्गमसच्छास्त्रैः संसारार्णवतारकः । दृश्यते परमात्मा यः स ब्रह्मन् वद कीदृशः ॥ ंो_३,७.१२ ॥ हे "ब्रह्मन्" । पुरुषेण "साधुसङ्गमसच्छास्त्रैः" । "संसार" एव दुर्लङ्घ्यत्वेन "अर्णवः" । तस्मात्"तारकः" । "यः परमात्मा दृश्यते" । त्वम् "वद" । "सः कीदृशः" भवति ॥ ंोट्_३,७.१२ ॥ श्रीवसिष्ठः श्रीरामप्रश्नमनादृत्य पूर्वोक्तमेवार्थं कथयति यदेतच्चेतनं जीवो विशीर्णो जन्मजङ्गले । एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि ॥ ंो_३,७.१३ ॥ "यदेतत्चेतनं जन्मजङ्गले विशीर्णः" परिच्छिन्नतां गतः । "जीवः" भवति । "एतं ये आत्मानमिच्छन्ति ते पण्डिताः अपि" देहात्माभिमानिभ्यः सकाशात्किञ्चिन्मात्रं विचारिणः अपि । "अज्ञाः" भवन्ति । अनात्मनि "जीवो" आत्मत्वदर्शनात् ॥ ंोट्_३,७.१३ ॥ कथमेतदित्य् । अत्राह जीव एवेह संसाराश्चेतनाद्दुःखसन्ततेः । अस्मिञ्ज्ञाते न विज्ञातं किञ्चिद्भवति कुत्रचित् ॥ ंो_३,७.१४ ॥ "संसाराः" जाग्रदादिभेदभिन्नाः संसाराः । "दुःखसन्ततेः" "चेतनात्" संसारगतदुःखसन्ततेः । स्वाश्रयतया अनुभवनात्"जीवे एव" भवन्ति । अतः "अस्मिन्" संसाराश्रये जीवे । "ज्ञाते" सति । लक्षणया प्राप्ते सति । "किञ्चित्विज्ञातं" ज्ञानविषयीकृतम् । लक्षणया प्राप्तम् । "न भवति" ॥ ंोट्_३,७.१४ ॥ तर्हि कस्य ज्ञानेन किञ्चित्प्राप्तं भवतीत्य् । अत्राह ज्ञायते परमात्मा चेद्राम तद्दुःखसन्ततिः । क्षयमेति विषावेशशान्ताविव विषूचिका ॥ ंो_३,७.१५ ॥ हे "राम" । "परमात्मा" प्रोक्तस्य जीवस्य सारतया स्थितं परमात्मतत्त्वम् । "चेत्" यदि । "ज्ञायते" । लक्षणया प्राप्यते । "तत्" तदा । "दुःखसन्ततिः" संसाररूपा दुःखसन्ततिः । "क्षयम्" नाशम् । "एति" गच्छति । तदैव किञ्चित्प्राप्तं भवतीत्यर्थः । का "इव" । "विषूचिका इव" । यथा सा "विषावेशशान्तौ क्षयमेति" । तथेत्यर्थः ॥ ंोट्_३,७.१५ ॥ श्रीरामः परमात्मस्वरूपश्रवणाकाङ्क्षानिर्भरत्वेन कथनायोग्यत्वाच्छ्रीवसिष्ठेनानादृतमपि आत्मस्वरूपप्रश्नं पुनः करोति रूपं कथय मे ब्रह्मन् यथावत्परमात्मनः । यस्मिन् दृष्टे नरो मोहात्समग्रात्सन्तरिष्यति ॥ ंो_३,७.१६ ॥ "रूपम्" स्वरूपम् । "यथावत्" सम्यक् ॥ ंोट्_३,७.१६ ॥ श्रीवसिष्ठः आकाङ्क्षानिर्भरत्वेन श्रीरामस्याधिकारित्वं निश्चित्योत्तरं कथयति देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः । निमेषेणैव यन्मध्ये तद्रूपं परमात्मनः ॥ ंो_३,७.१७ ॥ "देशात्" आलम्बनीकृतातेकस्मात्संवेद्यरूपात्देशात् । "दूरं" अत्यन्तविलक्षणम् । "देशान्तरम्" आलम्बनविषयीक्रियमाणमन्यसंवेद्याख्यं देशान्तरम् । "निमेषेणैव" एकस्मिन्निमेषे एव । न तु मध्ये मौढ्यमनुभूय । "प्राप्तायाः" आलम्बनभावेन गृह्णन्त्याः । "संविदः" दृश्यग्रहणोन्मुखायाः चितः । "मध्ये" पूर्वापरसंवेद्यरागारूषितायां मध्यावस्थायाम् । "यत्वपुः" भवति यतनिर्वाच्यं स्वरूपं भवति । "तद्" एव । न तु तत्सदृशमन्यत् । "परमात्मनः" समस्तजीवात्मसारभूतस्य परमात्मतत्त्वस्य । "रूपं" भवति । सर्वमयत्वेऽपि सर्वोत्तीर्णत्वात् । ननु पूर्वसंवेद्यमालम्बनीकृत्य तदैवोत्तरसंवेद्यमालम्बनीकुर्वन्त्याः संविदः किमिदं मध्यं नाम यत्रस्थायाः चितः परमात्मरूपता उक्ता । उच्यते । पूर्वसंवेद्येन रञ्जितायाः संविदः स्वं निर्मलं रूपमप्राप्योत्तरसंवेद्येन करिष्यमाणस्य रागस्यायुक्तत्वात्निर्मलस्वरूपतामयं मध्यमवश्यमेवास्तीति ज्ञातव्यम् । यथा नीलीरागरञ्जितस्य पटस्य पीतरागकरणेच्छया प्रक्षालणेन स्फुटीकृतं शुद्धपटतामयं मध्यं भवति । अन्यथा करिष्यमाणस्य पीतरागस्य करणासम्भवात् । ननु पूर्वसंवेद्यविषया संवित्पूर्वमेव क्षीणा । उत्तरसंवेद्यविषया तु नवीना जाता । तथा च मध्यं नाम शून्यमेवास्तीति । किं शून्यरूप एवात्मास्तीति चेत् । न । उत्तरसंवेद्यग्रहणकाले पूर्वसंवेद्यस्मृत्यनुपपत्तेः । न हि पूर्वसंवेद्यग्रहणकालस्थां मध्ये शुद्धरूपतया स्थितामुत्तरसंवेद्यग्रहणकालेऽपि स्थितामेकां संविदमन्तरेण पूर्वसंवेद्यविषया स्मृतिः उपपद्यते । एतेन संवेद्योपरागरहितं जाड्यारूषितं संवित्तत्त्वं परमात्मत्वेनोक्तम् । अत्र चाभ्यासं कुर्वतामचिरादयत्नेनैव परमात्मलाभो भविष्यत्य् । अस्यैव च मध्यधामावेश इति नामास्तीत्यलं रहस्योद्घाटनेन । अत्र च सदृशयोः संवेद्ययोः मध्यमतिदुर्लभमिति "दूरम्" इत्युक्तम् ॥ ंोट्_३,७.१७ ॥ अत्यन्ताभाव एवास्ति संसारस्य जगत्स्थितेः । यस्मिन् बोधमहाम्भोधौ तद्रूपं परमात्मनः ॥ ंो_३,७.१८ ॥ "यस्मिन् बोधमहाम्भोधौ" बोधाख्ये महासमुद्रे । "जगत्स्थितेः" जगत्सत्तास्वरूपस्य । "संसारस्य" । "अत्यन्ताभाव एव" बुद्बुदवत्त्रैकालिकः अभावः एव । "अस्ति" । "तत्परमात्मनः रूपं" भवति । अयं भावः । मुमुक्षुः सच्छास्त्रादिभिः प्रथमं रज्जुसर्पादिदृष्टान्तेन ततः कनककटकादिदृष्टान्तेन दृश्यस्य ब्रह्मव्यतिरिक्तसत्ताभावं निश्चित्य शुद्धचित्तत्त्वैक्ये जातनिश्चयः यदा अभ्यासबलेन सर्वत्र शुद्धचित्तत्त्वमात्रमेवानुभवति सुवर्णकार इव कटकादिषु सुवर्णतां तदा तस्य ज्ञानं यत्स्वरूपं भवति तदेव परमात्मस्वरूपमिति । ननु जगत्प्रतियोगिकः अत्यन्ताभावः न सम्भवति । पूर्वं भूतत्वात्जगतः जगदत्यन्ताभावे निश्चितस्यापि हि पूर्वं जगद्भासमानमासीदेवेति चेद् । असतेतत् । पौर्वकालिकं मिथ्याभानं हि वस्तुनः उत्तरकाले निश्चितं त्रैकालिकाभावप्रतियोगित्वं न निहन्ति । पूर्वं रज्जौ भाते सर्पेऽपि अत्यन्ताभावप्रतियोगित्वघातित्वप्रसङ्गात् । पूर्वं सर्पत्वेन भातायां रज्जौ तु सर्वे सर्पस्य त्रैकालिकात्यन्ताभावप्रतियोगित्वं स्फुटमेव पश्यन्तीति न कोऽपि विरोधः ॥ ंोट्_३,७.१८ ॥ द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमलं गतः । यदनाकाशमाकाशस्तद्रूपं परमात्मनः ॥ ंो_३,७.१९ ॥ "स्थितः अपि" प्रत्यक्षं भासमानोऽपि । "द्रष्टृदृश्यक्रमः" अयं द्रष्टा इदं दृश्यमित्येवंरूपः क्रमः । "यत्र" यस्मिन् वस्तुनि । "अलं" अतिशयेन । सम्यगिति यावत् । "अस्तं" लयम् । "गतः" भवति । ननु स्थितस्य द्रष्टृदृश्यक्रमस्य कथमन्यस्मिन् लयसम्भवः । तथा चानेन द्वारेण परमात्मस्वरूपकथनमयुक्तमेवेति चेन् । न । द्रष्टृदृश्यौ तावत्कस्यचित्साक्षिणः भातौ भवतः न वा । न चेत्कथं तर्हि तयोः द्रष्टृदृश्यत्वे सिध्यतः । यथा तथा तत्सिद्धौ अपि कथं तयोः व्यवस्था सिध्यति । अयं द्रष्टैवेदं दृश्यमेवेति भातौ चेत्तर्हि तस्मिन् लयः तयोः सुकरः एव । न हि स्वप्नसाक्षिणमतिक्रम्य स्वप्नभाते द्रष्टृदृश्ये केनापि स्वरूपेण युक्ते सम्भवतः इति न कश्चिद्विरोधः । तथा "यत्" वस्तु । "अनाकाशम्" ग्राहकैकस्वभावत्वेन ग्राह्यत्वाभावात्ग्राह्यैकस्वरूपाकाशव्यतिरिक्तमपि सत् । "आकाशः" भवति । व्यापकत्वस्वच्छत्वादिगुणैः "आकाश"शब्दवाच्यो भवतीत्यर्थः । "तत्" तदेव वस्तु । न तु तत्सदृशमन्यत्किञ्चित् । "परमात्मनः रूपं" भवति ॥ ंोट्_३,७.१९ ॥ अशून्यमिव यच्छून्यं यस्मिञ्शून्ये जगत्स्थितम् । सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः ॥ ंो_३,७.२० ॥ "शून्यम्" बाह्यान्तःकरणाग्राह्यत्वेन न किञ्चिद्रूपम् । "यत्" वस्तु । "अशून्यमिव" किञ्चिदिव । भवति । अन्यथा जगद्रूपभ्रमाधिष्ठानत्वासम्भवात् । न हि असद्वस्तु कस्यचिदधिष्ठानीभवितुमर्हति । वन्ध्यापुत्रस्यापि मैत्रभ्रमाधिष्ठानत्वप्रसङ्गात् । तथा "शून्ये" प्रोक्तन्यायेन शून्यस्वरूपे । "यस्मिन्" । "जगत्स्थितं" सत्ताभाक्भवति । मृदीव घटादयः । अन्यथा जगतः किंरूपत्वं स्यातिति भावः । तथा "सर्गौघे" सृष्टिसमूहे । "सति" अधिष्ठेयतया कार्यतया वा स्थितिं भजति सति । "यत्शून्यम्" स्वव्यतिरिक्तवस्तुरहितमेव । भवति । न हि रज्जौ सर्पावस्थानेन मृदि वा घटावस्थानेन स्वव्यतिरिक्तवस्तुयुक्तत्वं कल्पयितुं शक्यते । "तत्परमात्मनः रूपं" भवति ॥ ंोट्_३,७.२० ॥ यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् । जडं त्वजडमेवान्तस्तद्रूपं परमात्मनः ॥ ंो_३,७.२१ ॥ "यत्" यत्वस्तु । "महाचिन्मयमपि" समस्तजगत्साक्षितान्यथानुपपत्त्या महाचित्प्रकाशस्वरूपमपि सत् । "बृहत्पाषाणवत्स्थितं" भवति । महाजडमिव भवति । अतिशान्तत्वेन स्वपरामर्शेऽपि स्वातन्त्र्येण विमुखत्वात् । "यत्" कथम्भूतं "तु" । "अन्तः" पारमार्थिके स्वरूपे । "अजडमेव" सत् । "जडं तु" जडमिव इत्यर्थः । इदं विशेषणद्वयं यथासङ्ख्यातिक्रमेण पूर्वार्धोक्तस्यार्थस्य समर्थकत्वेन ज्ञेयम् । "तत्परमात्मनः रूपं" भवति ॥ ंोट्_३,७.२१ ॥ सबाह्याभ्यन्तरं सर्वं येन सम्प्राप्य सङ्गमम् । स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः ॥ ंो_३,७.२२ ॥ "सर्वं सबाह्याभ्यन्तरं" बाह्याभ्यन्तरत्वेन वर्तमानं समस्तं जगत् । "येन" साक्षितया स्थितेन येन वस्तुना । "सङ्गमं" सम्बन्धम् । "प्राप्य" । यद्विषयत्वं प्राप्येति यावत् । "स्वरूपसत्ताम्" प्रातिस्विकस्य रूपस्य सत्ताम् । प्र्"आप्नोति" । साक्षिप्रतीतौ स्फुरणं विना हि सतोऽपि नीलसुखादेः सत्ता असत्कल्पा एव दृश्यते । "तत्परमात्मनः रूपं" भवति ॥ ंोट्_३,७.२२ ॥ प्रकाशस्य यथालोको यथा शून्यत्वमम्बरे । तथेदं संस्थितं यत्र तद्रूपं परमात्मनः ॥ ंो_३,७.२३ ॥ "प्रकाशस्य" तेजसः । "यथा आलोकः" पदार्थप्राकट्यहेतुः भास्वरताख्यो गुणविशेषः भवति । "यथा" वा "शून्यत्वम्" शून्यभावः । "अम्बरे" आकाशे । भवति । "तथा" तद्वत् । "इदम्" जगत् । "यत्र" यस्मिनदृश्ये वस्तुनि । "स्थितं" भवति । "तत्परमात्मनः रूपं" भवति । अयं भावः । यथा भासमानः आलोकः स्वप्रधानत्वेन न कथ्यते । अन्यथा प्रकाशगुणत्वकथनानुपपत्तेः । प्रकाशश्च विचार्यमाणः अनिर्वाच्यतामेवावगाहते । तथा भासमानमिदं जगतपि अनिर्वाच्ये कस्मिन् चित्सारभूते प्रधाने स्थितमिति ज्ञेयम् । यस्मिन् तु स्थितमस्ति तदेव परमात्मा भवतीति । नन्वेतैः अनुमानगम्यस्य कस्यापि वस्तुनः परमात्मत्वं साधितम् । तथा चासौ परमात्मा कल्पित इति ज्ञेयम् । अनुमानगम्यस्य कल्पितत्वात् । निर्विकल्पप्रत्यक्षमात्रगम्यस्य स्वलक्षणस्यैव परमार्थसत्त्वादिति चेद् । असदेतत् । उपदेश्यस्य प्रतिक्षणं मध्यावस्थासु आत्मत्वेन प्रत्यक्षं स्फुरणशीलमप्यात्मतया अज्ञातं परमात्मस्वरूपम् । चिरविस्मृतपुरःस्थितबान्धववत्तवात्मा भवतीति न कोऽप्यत्र प्रतिभावतः प्रति अनुमानस्पर्शः । अप्रतिभावतां त्वत्राधिकार एव नास्तीत्यलं परदोषगुणविचारणेन ॥ ंोट्_३,७.२३ ॥ श्रीरामः पृच्छति सर्वतः परमात्मैष कथं नामाभिबुध्यते । इयतोऽस्य जगन्नाम्नो दृश्यस्यासम्भवः कुतः ॥ ंो_३,७.२४ ॥ अस्माभिः । "एषः" जगद्व्यतिरिक्तस्वरूपः । "परमात्मा" । "सर्वतः" सर्वत्र । सर्वास्ववस्थास्विति यावत् । "कथं नाम अभिबुध्यते" । यतः "इयतः" बाह्यान्तरव्यापकस्य । "अस्य दृश्यस्य असम्भवः" "कुतः" स्यात् । जाग्रति हि स्थूलं जगत्स्फुरति । स्वप्ने स्वप्नजगत् । सुषुप्तौ जाड्यम् । एताभ्यः व्यतिरिक्ता तु अवस्था नास्तीति । अयं च प्रश्नः सर्वदा परमात्ममयत्वासादनाकाङ्क्षिणा श्रीरामेण जाग्रति प्रतिक्षणं स्फुरमाणाः शुद्धपरमात्मस्वरूपमय्यः मध्यावस्थाः अनाश्रित्य कृतः ॥ ंोट्_३,७.२४ ॥ श्रीवसिष्ठः उत्तरं कथयति भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् । अत्यन्ताभावसम्बोधो यदि रूढिबलं भवेत् ॥ ंो_३,७.२५ ॥ तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा । दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः ॥ ंो_३,७.२६ ॥ "आकाशवर्णवत्जातस्य" प्रादुर्भूतस्य । "अस्य" पुरःस्फुरतः । जगत इति यावत् । "अत्यन्ताभावसम्बोधः" अत्यन्ताभावज्ञानम् । न तु नाशनाख्यः । "रूढि" सिद्धियुक्तम् । "बलं" यत्र । तत् । तादृशम् । "भवेत्" "यदि" स्यात् । "तत्" तदा । "ब्रह्मणः" परमात्मनः । "रूपं" स्वरूपम् । "ज्ञातं भवेत्" । "अन्येन कर्मणा" एतद्व्यतिरिक्तेन तपःप्रभृतिना । "न" भवेत् । यतः "दृश्यात्यन्ताभावतः ऋते" दृश्यात्यन्ताभावादृते । "अन्या शुभा गतिः" शुभः उपायः । "न" भवति । दृश्यात्यन्ताभावश्च ज्ञानद्वारेणैव सिध्यति । प्रयत्नसाधितस्य अभावस्य प्रध्वंसाभावत्वादिति शुक्तौ रजतात्यन्ताभाववत्मृदि घटात्यन्ताभाववद्वात्यन्ताभावसम्बोधस्योपायत्वकथनम् ॥ ंोट्_३,७.२५२६ ॥ ननु सम्यग्ज्ञानद्वारेण सिद्धस्य दृश्यत्वरूपजगदत्यन्ताभावस्यैव कथं परमात्मप्राप्तौ उपायत्वमस्तीत्य् । अत्राह अत्यन्ताभावसम्पत्तौ दृश्यस्यास्य यथास्थितेः । शिष्यते परमार्थोऽसौ बुध्यते ज्ञायते ततः ॥ ंो_३,७.२७ ॥ "यथास्थितेः" एवमेव वर्तमानस्य । न तु प्रयत्ननाशितस्य । "अस्य दृश्यस्य" जगद्रूपस्य दृश्यस्य । "अत्यन्ताभावसम्पत्तौ" अत्यन्ताभावस्य सम्पत्तौ । शुक्तौ भातरजतात्यन्ताभाववत्मृदि भातघटात्यन्ताभाववद्वा सिद्धौ सत्याम् । "असौ परमार्थः" दृश्याधिष्ठानभूतः दृश्यसारभूतः वा असौ परमात्मा । "शिष्यते" शेषत्वेन स्थितो भवति । रजतात्यन्ताभावज्ञाने इव शुक्तिः घटात्यन्ताभावज्ञाने इव वा मृत् । तद्व्यतिरेकेणान्यस्य कस्याप्यसत्त्वात्ततः पुरुषेण्"आसौ बुध्यते" । अस्तीति परोक्षप्रतीत्या निश्चीयते । "ततः" तदनन्तरम् । "ज्ञायते" । अहमित्यपरोक्षप्रतीत्या निश्चीयते ॥ ंोट्_३,७.२७ ॥ ननु ज्ञानोपायिकः दृश्यात्यन्ताभावो मा सिध्यतु प्राणरोधनाद्युपायजालसाधितया विस्मृत्या एव परमात्मज्ञानं भविष्यतीत्य् । अत्राह न चिदप्रतिबिम्बास्ति दृश्याभावादृते क्वचित् । क्व विना प्रतिबिम्बेन किलादर्शोऽवतिष्ठते ॥ ंो_३,७.२८ ॥ "चित्" साक्षिभावेन स्थितं चित्तत्त्वम् । "दृश्याभावादृते" स्वसाक्षिभावसिद्धात्दृश्याभावातृते । "अप्रतिबिम्बा" दृश्यप्रतिबिम्बरहिता । दृश्यसाक्षितामकुर्वतीति यावत् । "क्वचिन्न" भवति । स्वभावत्यागप्रसङ्गात् । अत्र समर्थकं दृष्टान्तं कथयति । "क्व विने"ति । न हि बिम्बसत्तायां प्रतिबिम्बरहितः "आदर्शः" दृश्यते इति भावः । नन्वन्यदेशस्थे बिम्बे सत्तां भजत्यपि आदर्शः प्रतिबिम्बरहितः दृश्यते । तथा बहिः दृश्यसत्ता भवतु । प्राणरोधादिद्वारेण बहिः अप्रसरन्ती चित्दृश्यस्पर्शरहिता भविष्यतीति चेत् । असदेतत् । अत्यन्ताभावज्ञानं विना दृश्यबीजस्य नाशयितुमशक्यत्वात् । अन्यथा निद्रितस्यान्तः स्वप्नप्रपञ्चभानं न स्यात् । ननु तस्य प्राणरोधाद्युपायराहित्यात्स्वप्नप्रतिभानमस्तीति चेत् । तर्हि दृश्यात्यन्ताभावज्ञानहीनान् कपटरहितान् प्राणरोधादिकारिणः एव पृच्छ । किं युष्माकं स्वप्नप्रतिभानमस्ति न वेति । ननु कपटरहिताः दृश्यात्यन्ताभावज्ञानयुक्ता अपि अस्माभिः पृष्टा एव । तैरपि स्वस्य स्वप्नप्रदर्शकत्वमुक्तम् । उच्यतां नाम का हानिः । यथा जाग्रति भासत एव जगतः अत्यन्ताभावज्ञानं तेषामस्ति तथा स्वप्नेऽपि । न हि ते भासमानमेव दृश्यं दृश्यतया पश्यन्ति । किं तु ब्रह्मतयेत्यलं प्रपञ्चेन ॥ ंोट्_३,७.२८ ॥ ननु तथापि दृश्यात्यन्ताभावेन विनैवात्मतत्त्वं पश्याम इत्य् । अत्राह जगन्नाम्नोऽस्य दृश्यस्य सत्तासम्भवनं विना । बुध्यते परमं तत्त्वं न कदाचन केनचित् ॥ ंो_३,७.२९ ॥ "अस्य" पुरःस्फुरतः । "जगन्नाम्नः" जगदिति नामधेययुक्तस्य । "दृश्यस्य" दृशिक्रियाविषयस्य भावजातस्य । "सत्तासम्भवनं विना" अत्यन्ताभावं विना । "केनचित्" पुरुषेण । "कदाचित्" । "परमं तत्त्वम्" परमात्माख्यं तत्त्वम् । "न बुध्यते" न ज्ञायते । तस्मात्दृश्यात्यन्ताभावः सम्यग्ज्ञानोपायेन साध्यः इति भावः ॥ ंोट्_३,७.२९ ॥ दृश्यासत्तायां सन्दिहानः श्रीरामः पृच्छति इयतो दृश्यजालस्य ब्रह्माण्डस्य जगत्स्थितेः । मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे ॥ ंो_३,७.३० ॥ वैपुल्यकथनम् । यथा "मेरुः सर्षपोदरे" अस्तीति केनचिदुक्ते सति । तस्मिनसम्भवार्थप्रतिपादकत्वमेव विश्राम्यति । तथा जगतः सत्ता नास्तीति प्रतिपादके त्वय्यपीति भावः ॥ ंोट्_३,७.३० ॥ श्रीवसिष्ठः उत्तरं कथयति दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः । साधुसङ्गमसच्छास्त्रपरमस्तदहं क्षणात् ॥ ंो_३,७.३१ ॥ प्रमार्जयामि ते दृश्यं बोधो मृगजलं यथा । दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते ॥ ंो_३,७.३२ ॥ हे "राम" । त्वम् । चेत्"यदि कतिचित्दिनानि" कियन्ति दिनानि । "अखिन्नधीः" अनुद्विग्नमतिः सन् । संमुखधीः सन्निति यावत् । "साधुसङ्गमसच्छास्त्रपरमः तिष्ठसि" । "तत्" तदा । "अहं क्षणात्ते" तव । त्वां प्रतीति यावत् । "दृश्यम्" दृश्यरूपं जगत् । "प्रमार्जयामि" नाशयामि । ज्ञानद्वारेणात्यन्ताभावयुक्तत्वं सम्पादयामीति यावत् । कः "यथा" । "बोधो यथा" । "यथा बोधः" सम्यग्ज्ञानम् । "मृग"तृष्णा"जलं" प्रमार्जयति । तथेत्यर्थः । अनेन साधुसङ्गादेः दृश्यात्यन्ताभावज्ञानं प्रति मुख्यमुपायत्वमुक्तम् । ननु दृश्यमार्जनेन किं सेत्स्यतीत्य् । अत्राह "दृश्याभावे" इति । "दृश्याभावे" ज्ञानद्वारेण दृश्याभावे सिद्धे सति । "द्रष्टृता च शाम्येत्" लयं व्रजेत् । ननु तर्हि अभाव एव शिष्यते इत्य् । अत्राह "बोध" इति । "बोधः" दृश्यद्रष्ट्रत्यन्ताभावसाक्षिभूतं शुद्धचित्तत्त्वम् । "शिष्यते" अवशिष्टं भवति । अन्यथा सिद्धस्यापि दृश्यात्यन्ताभावस्य असत्कल्पत्वं स्यात् ॥ ंोट्_३,७.३१३२ ॥ ननु कथं दृश्यमात्रात्यन्ताभावेनैव द्रष्टृता शान्तिं व्रजतीत्य् । अत्राह द्रष्टृत्वं सति दृश्येऽस्मिन् दृश्यत्वं सत्यवेक्षके । एकत्वं सति हि द्वित्वे द्वित्वं चैकत्ववेदने ॥ ंो_३,७.३३ ॥ "अस्मिन्" पुरःस्फुरणशीले । "दृश्ये" दृशिक्रियाविषये भावजाते । "सति" सत्तां भजति सति । "द्रष्टृत्वम्" परमार्थतः शुद्धचिन्मात्रस्वरूपद्रष्टृविषयः द्रष्टृभावः स्यात् । विषयसद्भावेन दृशिक्रियां प्रति कर्तृत्वसम्भवात् । तण्डुलादिषु हि सत्सु तद्विषयां पाकक्रियां प्रति कर्तृत्वं भजतः पुरुषस्यैव पाचकत्वं भवति । न केवलं दृश्यसत्तया द्रष्टुः एव द्रष्टृता भवति । अपि तु द्रष्टृसत्तयापि दृश्यस्य दृश्यत्वमस्तीत्यभिप्रायेणाह "दृश्यत्वम्" इति । "अवेक्षके" प्रेक्षके । द्रष्टरीति यावत् । "सति" सत्तां भजति सति । "दृश्यत्वम्" परमार्थतः शुद्धचिन्मात्रस्वरूपदृश्याश्रयः दृश्यभावः स्यात् । न हि पाचकेन पाकक्रियाविषयीकृतं तण्डुलादिकमोदनावस्थाद्यपरपर्यायं पाच्यभावमवलम्बते । अतः अन्योऽन्यापेक्षत्वेन दृश्यमात्रात्यन्ताभावेन द्रष्टृविषया द्रष्टृता नश्यत्येवेति भावः । द्रष्टृत्वदृश्यत्वान्योऽन्याश्रयकथनप्रसङ्गेन तयोः एकत्वद्वित्वयोरपि अन्योऽन्याश्रयं कथयति "एकत्वम्" इति । "एकत्वम्" मुख्यतया पूर्वं गणनार्हे द्रष्टरि गतमेकत्वम् । "द्वित्वे" अवरतया पश्चाद्गणनार्हदृश्यगते द्वित्वे । "सति" सत्तां भजति सति । स्यात् । द्वित्वाभावे गणनस्यैव अप्रवृत्तेः । गणनं हि द्वित्वादिकं वीक्ष्यैव व्यवस्थातुं प्रवर्तते । द्वित्वाद्यभावे तु किमर्थं तस्य प्रवर्तनं स्यात् । व्यवस्थायाः स्वयं वृत्तौ च तत्प्रथमावयवभूतस्य एकत्वस्य स्फुटा एवासिद्धिः । तथा "द्वित्वम्" दृश्यगतं द्वित्वम् । "एकत्ववेदने" एकत्वाकारे वेदने । द्रष्टृगते एकत्वे इति यावत् । "सति" । स्यात् । एकं विगणय्यैव द्वितीयो गणनविषयतां यातीति स्फुटा एव हि एकत्वं विना द्वित्वस्य अनुपपत्तिः ॥ ंोट्_३,७.३३ ॥ फलितं कथयति एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि । द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते ॥ ंो_३,७.३४ ॥ "हि" निश्चये । अतः "अत्र" अनयोः एकत्वद्वित्वयोः मध्ये । "एकाभावे" एकस्य द्वित्वस्य वा अभावे सति । "द्वयोः एव" उभयोः द्वित्वैकत्वयोः एव । "सिद्धिः न भवति" । ननु ततः किं सेत्स्यतीत्य् । अत्राह "द्वित्वैक्ये"ति । द्वित्वैक्ययोः द्रष्टृदृश्ययोश्च क्षयः "द्वित्वैक्यद्रष्टृदृश्यक्षयः" । तस्मिन् सति "सत्" द्वित्वादिसाक्षित्वेन स्थितं सदाख्यं वस्तु । "अवशिष्यते" अवशिष्टं भवति ॥ ंोट्_३,७.३४ ॥ व्यवहितं दृश्यप्रमार्जनप्रतिज्ञां पुनरपि करोति अहन्तादि जगद्दृश्यं सर्वं ते मार्जयाम्यहम् । अत्यन्तासत्त्वसंवित्त्या मनोमकुरतो मलम् ॥ ंो_३,७.३५ ॥ "अहम्" । "अहन्तादि" अहम्भावप्रमुखम् । "मलं" मलभूतम् । "सर्वं दृश्यं जगत्" । "ते मनोमकुरतः" त्वन्मनोदर्पणात् । "अत्यन्तासत्त्वसंवित्त्या" अत्यन्ताभावज्ञानेन । दृश्यविषयात्यन्ताभावज्ञानोत्पादनेनेति यावत् । प्र"मार्जयामि" । युक्तं च मकुरात्मलापमार्जनम् ॥ ंोट्_३,७.३५ ॥ नन्वेतावतः दृश्यस्य प्रमार्जनं कथं कर्तुं शक्नोषीत्य् । अत्राह नासतो विद्यते भावो नाभावो विद्यते सतः । । यत्तु नास्ति स्वभावेन कः क्लेशस्तत्प्रमार्जने ॥ ंो_३,७.३६ ॥ "असतः" सत्ताकर्तृत्वमभजतः । "भावः" सत्ता । "न विद्यते" । शशशृङ्गस्यापि सत्तापत्तेः । "सतः" सत्ताकर्तृत्वं भजतः । "अभावः" असत्ता । "न विद्यते" । स्वरूपहानिप्रसङ्गात् । न च स्वरूपहानिः युक्ता । अग्नेरपि अग्नित्वहानिप्रसङ्गात् । "यत्" स्वरूपेण "नास्ति" । "तत्प्रमार्जने कः क्लेशः" भवति । न हि शशिशृङ्गत्रोटने कस्यापि यत्नः दृष्टः ॥ ंोट्_३,७.३६ ॥ ननु तथापि प्रवर्तने किमायातमित्य् । अत्राह जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् । तत्स्वात्मन्येव विमले ब्रह्म चित्त्वात्स्वबृंहितम् ॥ ंो_३,७.३७ ॥ "जगतादौ" प्रथममेव । "अनुत्पन्नं" भवति । अतः जगत्प्रमार्जने क्लेशो नास्तीति भावः । ननु यदि जगत्प्रथममेवानुत्पन्नं भवति तर्हि किमिदं भासत इत्य् । अत्राह "यच्चेदम्" इति । "यच्चेदम्" यच्चैतत् । "ततम्" विस्तारितस्वरूपं किञ्चित्"दृश्यते" । "तत्ब्रह्म" "एव" ब्रह्माख्यं वस्तु एव । "विमले स्वात्मनि" शुद्धचिन्मात्रस्वरूपायां स्वभित्तौ । "चित्त्वात्स्वबृंहितं" अतिशयेन बृंहागतं भवति । अन्यथा ब्रह्मत्वायोगात् । बृंहायुक्तमेव हि ब्रह्मोच्यते । न च वस्तुनि बृंहणं नामान्यवस्तुनः उत्पत्तिः वक्तुं शक्यते । जलेऽपि द्रवत्वात्प्रादुर्भूतस्य तरङ्गतया बृंहणस्यान्यवस्तूत्पत्तित्वप्रसङ्गात् । न च मूर्खोऽपि जले तरङ्गानामन्यत्वमङ्गीकरोति । चिद्रूपस्यात्मन एव स्वप्नपदार्थभावेन बृंहणं दृष्टमिति "चित्त्वाद्" इत्युक्तम् ॥ ंोट्_३,७.३७ ॥ पुनः पुनरेतदेव कथयति जगन्नाम न चोत्पन्नं न चास्ति न च दृश्यते । हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः ॥ ंो_३,७.३८ ॥ "नाम" निश्चये । "जगत्न चोत्पन्नं" भवति । "न च अस्ति" । "न च दृश्यते" । ब्रह्मण एवैतद्रूपतया स्थितत्वात् । जगत्किम् "इव" । "कटकादित्वमिव" । यथा "हेम्नि" भासमानं "कटकादित्वं" नास्ति । हेम्नः एव तद्रूपतया स्थितत्वात् । तथा इत्यर्थः । अतः "एतत्"प्र"मार्जने" श्रमः किं भवति । ब्रह्मताज्ञानमात्रेणैव प्रमार्जितत्वात् । न हि हेम्नि भासमानं कटकादित्वमशक्यप्रमार्जनं भवति । हेमताज्ञानमात्रेणैव तस्य प्रमार्जितत्वात् ॥ ंोट्_३,७.३८ ॥ एतावत आश्वासरहितं शिष्यं ज्ञात्वा तस्य समाश्वासनं करोति तथैतद्विस्तरेणेह वक्ष्यामो बहुयुक्तिभिः । अबाधितं यथा नूनं स्वयमेवानुभूयते ॥ ंो_३,७.३९ ॥ वयम् । "एतत्" पूर्वोक्तं वस्तु । "विस्तरेण बहुयुक्तिभिः तथा इहा"स्मिन् शास्त्रे । "वक्ष्यामः" । "नूनं" निश्चये । "यथा" त्वया "एततबाधितं स्वयमेवानुभूयते" ॥ ंोट्_३,७.३९ ॥ प्रकृतमेव कथयति आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः । कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः ॥ ंो_३,७.४० ॥ "हि" निश्चये । "यत्" वस्तु । "आदावेव उत्पन्नं न" भवति । "तस्येहास्तिता" सत्त्वम् । "कुतः" भवति । अत्र दृष्टान्तद्वयं कथयति "कुत" इत्यादि ॥ ंोट्_३,७.४० ॥ यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् । यथा नास्ति नभोवृक्षस्तथा नास्ति जगद्भ्रमः ॥ ंो_३,७.४१ ॥ "जगद्भ्रमः" जगद्रूपः भ्रमः । जगदिति यावत् ॥ ंोट्_३,७.४१ ॥ तर्हि किमिदं भासते इत्य् । अत्राह यदिदं दृश्यते राम तद्ब्रह्मैव निरामयम् । एतत्पुरस्ताद्वक्ष्यामो युक्तितो न गिरैव वः ॥ ंो_३,७.४२ ॥ अस्माभिः "यतिदं दृश्यते" । "तत्निरामयम्" भावाभावाख्यामयरहितम् । "ब्रह्मैव" भवति । वयम् । "एतत्पुरस्तात्" अग्रे । "युक्तितः" युक्तिभिः । "वः" युष्माकम् । "वक्ष्यामः" । "न गिरा एव वक्ष्यामः" । सार्वविभक्तिकस्तसिल् ॥ ंोट्_३,७.४२ ॥ सर्गान्तश्लोकेन युक्तियुक्तवाक्योपेक्षां त्याज्यत्वेन कथयति यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञास् तत्रावहेलनमयुक्तमुदारबुद्धेः । । यो युक्तियुक्तमवमत्य विमूढबुद्ध्या कष्टावहो भवति तं विदुरज्ञमेव ॥ ंो_३,७.४३ ॥ "नाम" निश्चये । "अवहेलनम्" उपेक्षा । "कष्टावहः" कष्टदायी । असम्भवप्रयत्नैरात्मन इति शेषः । इति शिवम् ॥ ंोट्_३,७.४३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे सप्तमः सर्गः ॥ ३,७ ॥ ********************************************************************* श्रीरामः पृच्छति कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति । न्यायेऽनुभूत एतस्मिन्न ज्ञेयमवशिष्यते ॥ ंो_३,८.१ ॥ "एतत्" दृश्यासत्यत्वम् । ननु किमर्थमत्र युक्तिं पृच्छसीत्य् । अत्राह "न्याये"ति । यतः "एतस्मिन्न्याये" । न्यायेन "अनुभूते" सति । "ज्ञेयं नावशिष्यते" । युक्तिश्रवणेन सर्वस्य ज्ञातत्वात् ॥ ंोट्_३,८.१ ॥ श्रीवसिष्ठः विस्तरकथनप्रतिज्ञां सम्पादयिष्यन्नुत्तरं कथयति बहुकालमियं रूढा मिथ्याज्ञानविषूचिका । जगन्नाम्नी विचाराख्यादृते मन्त्रान्न शाम्यति ॥ ंो_३,८.२ ॥ आ"रूढा" बुद्धौ सत्यतया स्फुरिता । जगतश्च मिथ्याज्ञानरूपत्वं शुक्तिरजतवज्ज्ञेयम् । युक्तश्च "विषूचिकायाः मन्त्रेण" नाशः ॥ ंोट्_३,८.२ ॥ वक्ष्यमाणोपदेशश्रवणं प्रति श्रीरामं दृढीकरोति वदाम्याख्यायिका राम या इमा बोधसिद्धये । ताश्चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् ॥ ंो_३,८.३ ॥ "आख्यायिकाः" उपदेशकारीणि आख्यानानि । "बोधसिद्धये" दृश्यात्यन्ताभावज्ञानसिद्धये । "मुक्तः" दृश्येनास्पृष्टः ॥ ंोट्_३,८.३ ॥ अश्रवणे दण्डं कथयति नो चेदुद्वेगशीलत्वादर्धादुत्थाय गच्छसि । तत्तिर्यग्धर्मिणस्तेऽद्य किञ्चिन्नापि तु सेत्स्यति ॥ ंो_३,८.४ ॥ त्वं "नो चेत्" शृणोषि । अथ वा "उद्वेगशीलत्वातर्धादुत्थाय गच्छसि" । "तत्" तदा । "तिर्यग्धर्मिणः" पशुतुल्यस्य । "ते" । "किञ्चिदपि न सेत्स्यति" ॥ ंोट्_३,८.४ ॥ ननु दृढतया श्रवणेनापि यदि किञ्चिन्न सेत्स्यति तदा किं कार्यमित्य् । अत्राह यो यमर्थं प्रार्थयते तदर्थं यतते तथा । सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते ॥ ंो_३,८.५ ॥ "यः" पुरुषः । "यमर्थम्" यत्वस्तु । "प्रार्थयते" प्रार्थनाविषयं करोति । "तथा" तदनुकल्पेन । न त्वन्यथा । "यतते" । "सः अवश्यं तताप्नोति" । "चेत्" यदि । "श्रान्तः न निवर्तते" ॥ ंोट्_३,८.५ ॥ नन्वहमस्मिन् प्रार्थिते वस्तुनि किंरूपं यत्नं करोमीत्य् । अत्राह साधुसङ्गमसच्छास्त्रपरो भवसि राम चेत् । तद्दिनैरेव वा मासैः प्राप्नोषि परमं पदम् ॥ ंो_३,८.६ ॥ निरतिशयप्रतिभावत्त्वे "दिनैः" । अन्यथा "मासैर्" । इति विभागः ॥ ंोट्_३,८.६ ॥ श्रीवसिष्ठसाधुत्वे निश्चितः श्रीरामः आत्मज्ञानप्रबोधनिमित्तं शास्त्रं पृच्छति आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर । किंनाम तत्प्रधानं स्याद्यस्मिञ्ज्ञाते न शोच्यते ॥ ंो_३,८.७ ॥ "आत्मज्ञानप्रबोधाय" आत्मज्ञानाविर्भावार्थम् । "न शोच्यते" दृश्यासक्तिरूपं शोचनं नानुभूयते ॥ ंोट्_३,८.७ ॥ श्रीवसिष्ठ उत्तरं कथयति आत्मज्ञानप्रधानानामिदमेव महामते । शास्त्राणां परमं शास्त्रं महारामायणाभिधम् ॥ ंो_३,८.८ ॥ "आत्मज्ञानं प्रधानं" वाच्यतया सारभूतं येषाम् । ते । तादृशानाम् । "इदं रामायणाभिधम्" अयं महारामायणाख्यः इतिहासः । ननु श्रीवाल्मीकिना स्वेनोपनिबद्धे श्रीमहारामायणे श्रीरामवृत्तान्तकथनप्रसङ्गतः श्रीरामं प्रति श्रीवसिष्ठेन कृतः उपदेशः निबद्धः यः केनापि दयालुना अस्माच्छ्रीमहारामायणादुद्धृतः तत्कथमुपदेशकालानन्तरभाविनः श्रीमहारामायणस्य श्रीवसिष्ठेन "इदम्" इत्यनेन परामर्शः कृतः । अनेन हि श्रीमहारामायणस्य श्रीवसिष्ठकृतत्वं द्योतते इति चेत् । आरम्भे एवास्माभिः अयं निर्णयः कृतः । किं पुनः पुनः पृच्छसि । यतः तत्र प्रतिभावतां स्वयमस्यार्थस्यावबोधकत्वमुक्तम् । तद्रहितानां त्वनधिकारः उक्तः । इति प्रतिभामेव पृच्छ । यदि न प्रतिभा अस्ति तदानधिकारित्वान्मौनमेव कार्यमित्यलं प्रपञ्चेन ॥ ंोट्_३,८.८ ॥ श्रीमहारामायणमेव प्रशंसति इतिहासोत्तमादस्मात्परो बोधः प्रवर्तते । सर्वेषामितिहासानामयं सार उदाहृतः ॥ ंो_३,८.९ ॥ "अस्मात्" रामायणाख्यात् ॥ ंोट्_३,८.९ ॥ श्रुतेऽस्मिन् वाङ्मये यस्माज्जीवन्मुक्तत्वमक्षतम् । उदेति स्वयमेवात इदमेवातिपावनम् ॥ ंो_३,८.१० ॥ "वाङ्मये" शास्त्रे ॥ ंोट्_३,८.१० ॥ स्थितमेवास्तमायाति जगद्दृश्यं विचारणात् । यथा स्वप्ने परिज्ञाते स्वप्नार्थादेव भावना ॥ ंो_३,८.११ ॥ "स्थितमेव" न तु मुद्गरादिप्रहारैः नाशं नीतम् । अत्र दृष्टान्तमाह "यथे"ति । "भावना" सत्यताभावना । "एव"कारः पादपूरणार्थः । अयं भावः । यथा स्वप्ने जाग्रदवस्थायामसत्यतया परिज्ञाते सति । तत्रानुभूतैः भावाभावैः हर्षामर्षौ न ज्ञायेते । अन्यथा हि जाग्रत्यनुभूतैरतीतैरपि भावाभावैरिव तत्रत्यैः भावाभावैः हर्षामर्षोत्पादः स्यात् । तथा महारामायणविचारणेन दृश्ये असत्यतया ज्ञाते सति दृश्यविषयैः भावाभावैः हर्षामर्षौ न ज्ञायेते इति ॥ ंोट्_३,८.११ ॥ नन्वन्यान्यपि शास्त्राणि सन्त्येव । तत्कथमस्यैवासाधारणकारणत्वं कथयसीत्य् । अत्राह यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् । इदं समस्तविज्ञानशास्त्रकोशं विदुर्बुधाः ॥ ंो_३,८.१२ ॥ "यतिह" अस्मिन् रामायणे । "अस्ति" सामस्त्येन विद्यते । "ततन्यत्र" अन्यशास्त्रेषु । "अस्ति" व्यस्तत्वेन भवतीत्यर्थः । "यतिह नास्ति तत्क्वचित्" कुत्रापि शास्त्रे । "नास्ति" । अतः "बुधाः" समस्तशास्त्रसारज्ञाः । "इदम्" एतत्श्रीमहारामायणम् । "समस्तविज्ञानशास्त्रकोशं" सकलाध्यात्मशास्त्रभाण्डागारम् । "विदुः" जानन्ति ॥ ंोट्_३,८.१२ ॥ उक्तलक्षणश्रीमहारामायणश्रवणे फलं कथयति य इदं शृणुयाद्नित्यं तस्योदारचमत्कृतेः । बालस्यापि परं बोधं बुद्धिरेति न संशयः ॥ ंो_३,८.१३ ॥ "बालस्यापि" मूर्खस्यापीत्यर्थः । पण्डितस्य तु का कथेति भावः ॥ ंोट्_३,८.१३ ॥ एतद्विमुखस्य कर्तव्यं कथयति यस्मै नेदं त्वभव्याय रोचते दुष्कृतोदयात् । विचारयतु यत्किञ्चित्स शास्त्रं ज्ञानवाङ्मयम् ॥ ंो_३,८.१४ ॥ "अभव्याय" आसुरस्वभावयुक्ताय । "ज्ञानवाङ्मयम्" ज्ञानवाक्यनिर्भरम् ॥ ंोट्_३,८.१४ ॥ ननु मुक्तिकामस्य मम किमेतच्छ्रवणेनेत्य् । अत्राह जीवन्मुक्तत्वमस्मिंस्तु श्रुते समनुभूयते । स्वयमेव यथा पीते नीरोगत्वं वरौषधे ॥ ंो_३,८.१५ ॥ "स्वयमेव" अयत्नमेव ॥ ंोट्_३,८.१५ ॥ श्रूयमाणे हि शास्त्रेऽस्मिञ्श्रोता वेत्त्येतदात्मना । यथावदिदमस्माभिर्न तूक्तं वरशापवत् ॥ ंो_३,८.१६ ॥ "एतत्" मदुक्तं वस्तु । ननु यद्येतच्छ्रवणे प्रवृत्तस्य किञ्चित्प्रत्यवायादि स्यात्तदा किं कार्यमित्य् । अत्राह "इदम्" इति । "वरशापवत्" वरशापयुक्तम् । मन्त्रवदिति शेषः ॥ ंोट्_३,८.१६ ॥ सर्गान्तश्लोकेन स्वात्मविचारस्य दृश्यात्यन्ताभावज्ञाने असाधारणकारणत्वं कथयति शाम्यति संसृतिदुःखमिदं ते स्वात्मविचारमहाकथयैव । नो धनदानतपःश्रुतवेदैस् तत्कथनोज्झितयत्नशतेन ॥ ंो_३,८.१७ ॥ "ते" तव । "इदं" दृश्यस्वरूपम् । "संसृतिदुःखम्" जन्माख्यं दुःखम् । "स्वात्मविचारमहाकथया" । "स्वात्मविचारस्य" । या "महाकथा" अन्योऽन्यं महती कथा । तय्"ऐव शाम्यति" । "धनदानतपःश्रुतवेदैः इदं संसृतिदुःखं नो शाम्यति" । अतः भवितव्यमिति शेषः । अतः कारणात्पुरुषेण । तस्य "स्वात्मविचारस्य" । यत्"कथनम्" साधुभिः सह अन्योऽन्यकथनम् । तदर्थं "उज्झितानि" त्यक्तानि । "यत्नशतानि" कथनव्यतिरिक्तानि यत्नशतानि । येन । सः । तादृशेन भवितव्यम् । इति शिवम् ॥ ंोट्_३,८.१७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणेऽष्टमः सर्गः ॥ ३,८ ॥ ********************************************************************* ओं पूर्वसर्गान्तश्लोकार्थमेव स्फुटं कथयति तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च तं नित्यं तुष्यन्ति रमयन्ति ये ॥ ंो_३,९.१ ॥ तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारणात् । सा जीवन्मुक्ततोदेति विदेहोन्मुक्ततैव या ॥ ंो_३,९.२ ॥ "तच्चित्ताः" । "तस्मिन्" स्वात्मविचारे । "चित्तं" येषाम् । ते । तादृशाः । तथा "तस्मिन्" स्वात्मविचारे । "गताः" निष्ठां गताः । "प्राणाः" बाह्येन्द्रियाणि येषाम् । ते । तादृशाः । तथा "तम्" आत्मविचारम् । "परस्परं बोधयन्तः" । तथा "तं" आत्मविचारम् । "कथयन्तश्" "च ये" साधवः । "तुष्यन्ति" तुष्टियुक्ताः भवन्ति । तथा "रमयन्ति" अन्यान् तुष्टियुक्तान् सम्पादयन्ति । आत्म"ज्ञानैकनिष्ठानां" आत्मविचारैकपराणाम् । "तेषां" पुरुषाणाम् । "आत्मज्ञानविचारणात्सा जीवन्मुक्तता उदेति" प्रादुर्भवति । "या विदेहमुक्ततैव" भवति । निःशेषं देहाभिमानाभावात् ॥ ंोट्_३,९.१२ ॥ श्रीरामः पृच्छति ब्रह्मन् विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् । ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया ॥ ंो_३,९.३ ॥ "जीवन्मुक्तस्ये"त्यत्र "च"शब्दोऽध्याहार्यः । "यते" यत्नं करोमि । "लक्षणम्" स्वरूपप्रतिष्ठापकः धर्मः । "धिया" बुद्ध्या । कथम्भूतया । "शास्त्रम्" एव "दृक्" नेत्रे । यस्याः । सा । तादृश्या । शास्त्रानुसारिण्येत्यर्थः ॥ ंोट्_३,९.३ ॥ श्रीवसिष्ठ उत्तरं कथयति यथास्थितमिदं यस्य व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ंो_३,९.४ ॥ "व्यवहारवतोऽपि" विश्वपदार्थेषु व्यवहारं कुर्वतोऽपि । "यस्य" पुरुषस्य । "यथास्थितम्" अनेन प्रकारेणैव स्थितम् । न तु केनापि प्रयत्नेन नाशितस्वरूपम् । "इदम्" पुरःस्फुरणशीलं जगत् । "अस्तं" "गतं" नाशं गतम् । अत एव "व्योम" शून्यरूपं भवति । पण्डितैः "स जीवन्मुक्तः उच्यते" । भासमानस्य जगतः शुक्तिकारजतवतसत्यत्वदर्शित्वं जीवन्मुक्तलक्षणमिति भावः ॥ ंोट्_३,९.४ ॥ बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् । य आस्ते व्यवहर्तैव स जीवन्मुक्त उच्यते ॥ ंो_३,९.५ ॥ "बोधे" दृश्यात्यन्ताभावज्ञानपूर्वके आत्मज्ञाने । "एकं" केवलम् । "निष्ठा" रतिः यस्य । सः "बोधैकनिष्ठः" । तस्य भावः तत्"ता" । ताम् "यातः" गतः । "यः" पुरुषः । "जाग्रत्येव" जाग्रदवस्थायामेव । तत्रापि "व्यवहर्तैव" प्रवाहागतव्यवहारकार्येव । "सुषुप्तवत्" सुषुप्त्याविष्ट इव । "आस्ते" । निरनुसन्धान आस्ते इति यावत् । पण्डितैः "सः जीवन्मुक्तः उच्यते" । दृश्यते च स्त्र्यादिनिष्ठस्य पुरुषस्य जाग्रति व्यवहर्तुरेव सतः सुषुप्तवदवस्थितिरिति नायस्तम् ॥ ंोट्_३,९.५ ॥ नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा । यथाप्राप्तस्थितेर्यस्य स जीवन्मुक्त उच्यते ॥ ंो_३,९.६ ॥ "यथाप्राप्तस्थितेः" प्रवाहागतनिष्ठस्य । "यस्य" । "सुखे दुःखे" च "मुखप्रभा नोदेति नास्तमायाति" हर्षामर्षराहित्यात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ंोट्_३,९.६ ॥ यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ंो_३,९.७ ॥ "यः" पुरुषः । "जागर्ति" बाह्यपदार्थविषयं बोधं भजति । कथम्भूतः । "सुषुप्ते" सुषुप्तौ इव तिष्ठतीति । तादृशः । एकचिन्मात्रतानिश्चयेन बाह्यप्रपञ्चानुसन्धानरहितत्वात् । तथा "यस्य" पुरुषस्य । "जाग्रत्" लौकिका जाग्रदवस्था । "न विद्यते" तुर्यमयत्वात् । जीवन्मुक्तो हि जाग्रति सर्वं चिन्मात्रमयं पश्यन् तुर्यावस्थाविष्ट एव भवति । तथा "यस्य निर्वासनः" अहंममतारूपवासनारहितः । "बोधः" बाह्यदेहादिपदार्थज्ञानम् । भवति । पण्डितैः "स जीवन्मुक्त उच्यते" ॥ ंोट्_३,९.७ ॥ रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ ंो_३,९.८ ॥ "यः" पुरुषः । "रागद्वेषभयादीनामनुरूपं चरनपि" । रागाधारे पुत्रादौ रतिं भजनपि । द्वेषाधारे शत्रौ विमुखो भवनपि । भयकारणात्सिंहादेः चलनपि । "अन्तः" मनसि । "व्योमवतत्यच्छः" अतिनिर्मलः भवति । पुत्रादिविषयस्य रत्यादेः प्रवाहबलेन निरनुसन्धानकरणात् । अनुसन्धान एव हि मनसि मलं भवति । पण्डितैः "सः जीवन्मुक्तः उच्यते" । "आदि"शब्देन देहादिविषयाणामस्मितादीनां ग्रहणम् ॥ ंोट्_३,९.८ ॥ यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ंो_३,९.९ ॥ "यस्य" पुरुषस्य । "अहङ्कृतः भावः" अहङ्कारमयी चित्तवृत्तिः । "ना"स्ति । सर्वत्र ब्रह्मकर्तृत्वदर्शनात् । तथा "यस्य" पुरुषस्य । "बुद्धिः न लिप्यते" लेपयुक्ता न क्रियते । रागादिरूपैः पापैरिति शेषः । पण्डितैः "सः जीवन्मुक्त उच्यते" । "यस्य" कथम्भूतस्य । "कुर्वतः" शरीरयात्रानिमित्तं प्रवाहागतं वा कर्म कुर्वतः । तथा केनापि कारणेन "अकुर्वतः" वा । तत्र करणकाले निरनुसन्धानकरणातकरणकाले शुद्धचिन्मात्रपरामर्शनिष्ठत्वातहम्भावधीलेपराहित्यं ज्ञेयम् ॥ ंोट्_३,९.९ ॥ यश्चोन्मेषनिमेषाभ्यां विधेः प्रलयसम्भवौ । पश्येत्त्रिलोक्याः खसमः स जीवन्मुक्त उच्यते ॥ ंो_३,९.१० ॥ "खसमः" आकाशसदृशः । "यः" पुरुषः । "त्रिलोक्याः विधेः" भ्वादिबाह्यत्रिलोकीविधानस्य जाग्रदाद्यान्तरत्रिलोकीविधानस्य च । "उन्मेषनिमेषाभ्यां" । अर्थात्परमात्मतया निश्चितस्य चित्तत्त्वस्य "उन्मेषेण" चेत्यानौन्मुख्याख्येन प्रादुर्भावेन । "निमेषेण" चेत्यौन्मुख्याख्येन स्वरूपगोपनेन । "प्रलयसम्भवौ" "पश्यति" संहारोत्पत्ती । तथा तिरोभावाविर्भावौ पश्यति । पण्डितैः "सः जीवन्मुक्तः उच्यते" । अथ वा स्वपरामर्शः "उन्मेषः" । तत्रापि उपेक्षा "निमेषः" । तथा च उन्मेषेण सम्भवः । निमेषेण प्रलयः । इति यथासङ्ख्यं विहायैव सम्बन्धः कार्यः ॥ ंोट्_३,९.१० ॥ भोक्तैव यो न भोक्तेव शुद्धबोधैकतां गतः । बुद्धः सुप्त इवास्तेऽन्तः स जीवन्मुक्त उच्यते ॥ ंो_३,९.११ ॥ "शुद्धबोधैकतां" शुद्धबोधेनैकत्वं "गतः" । "यः" पुरुषः । "बुद्धः" बोधयुक्तः सन् । "अन्तः सुप्तः इव आस्ते" तिष्ठति । निरनुसन्धानत्वात् । "यः" कथम्भूत "इव" । "भोक्ता एव" भुजिक्रियाकर्तृत्वं भजन्नेव । "अभोक्ता इव" स्वस्मिन् शुद्धबोधताज्ञानेन भोक्ताहमित्यभिमानाभावात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ंोट्_३,९.११ ॥ नित्यं द्रष्टैव चाद्रष्टा जीवन्नेव मृतोपमः । व्यवहर्तैव शैलाभः स जीवन्मुक्त उच्यते ॥ ंो_३,९.१२ ॥ यः "द्रष्टैव" दृशिक्रियाकर्तृत्वं भजन्नेव । न त्वन्धवत्तिष्ठन् । "अद्रष्टा" भवति । तथा यः "जीवन्नेव" जीवनक्रियाकर्तृत्वं भजन्नेव । "मृतोपमः" भवति । मृतसदृशः भवति । मृतवत्भोगादिवाञ्छाभावात् । तथा यः "व्यवहर्ता एव" व्यवहारं कुर्वनेव । "शैलाभः" भवति । तत्त्वतः क्षोभराहित्यात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ंोट्_३,९.१२ ॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥ ंो_३,९.१३ ॥ "लोकः" सामान्यलोकः । "यस्मात्नोद्विजते" उद्वेगकारणाभावेन उद्वेगं न याति । तथा "यः लोकात्न उद्विजते" निष्प्रयोजनत्वात् । स्वप्रयोजनपरः एव हि येभ्यः स्वप्रयोजनं न पश्यति तेभ्यः उद्विजते । "यः" कथम्भूतः । "हर्षामर्षभयोन्मुक्तः" हर्षामर्षभयरहितः । स्वस्मिन् शुद्धबोधैकताज्ञानात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ंोट्_३,९.१३ ॥ शान्तसंसारकलनः कलावानपि निष्कलः । यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ ंो_३,९.१४ ॥ "शान्ता" आत्मनि चिन्मात्रतादर्शनेन लयं गता । "संसारकलना" यस्य । सः । तादृशः । "यः" पुरुषः । "कलावानपि" ज्ञानाख्यकलायुक्तोऽपि । "निष्कलः" कलाभ्यः निष्क्रान्तः भवति । स्वस्य निष्कलचिन्मात्रताज्ञानात् । तथा "यः सचित्तः अपि" शुद्धसत्त्वस्वरूपचित्तयुक्तः अपि । "निश्चित्तः" चित्तान्निष्क्रान्तः भवति । मलिनचित्ताभावात् । पण्डितैः "सः जीवन्मुक्तः उच्यते" ॥ ंोट्_३,९.१४ ॥ यः समस्तार्थजातेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ंो_३,९.१५ ॥ "पूर्णात्मा" निरपेक्षशान्तचिन्मात्रत्वेन तृप्तात्मा । "यः समस्तार्थजातेषु" प्रवाहागतेषु सकलेषु प्रयोजनसमूहेषु । "शीतलः" किमयं सिध्यति न वेति सन्तापरहितः भवति । केष्व्"इव" । "परार्थेष्विव" । यथा लौकिकः "परार्थेषु शीतलः" भवति । तथेत्यर्थः । पण्डितैः "स जीवन्मुक्तः उच्यते" ॥ ंोट्_३,९.१५ ॥ जीवन्मुक्तिमुक्त्वा क्रमप्राप्तां विदेहमुक्तिं कथयति जीवन्मुक्तपदं त्यक्त्वा देहे कालवशात्क्षते । चिद्यात्यदेहमुक्तत्वं पवनः स्पन्दनामिव ॥ ंो_३,९.१६ ॥ "चित्" लक्षणया चिद्भावतागतः जीवन्मुक्तः । "देहे" शरीरे । "कालवशात्" नियतिवशेन । "क्षते" नष्टे सति । "जीवन्मुक्तपदम्" जीवन्मुक्तताम् । "त्यक्त्वा" । "अदेहमुक्तत्वं" विदेहमुक्तभावम् । "याति" । क "इव" कां "त्यक्त्वा" । "पवन इव स्पन्दनाम्" । यथा "पवनः स्पन्दनाम्" चेष्टाकरणम् । त्यजति । तथेत्यर्थः । "पवनः स्पन्दतामिवे"ति वा पाठः ॥ ंोट्_३,९.१६ ॥ जीवन्मुक्तवत्तस्यापि लक्षणानि लेशतः कथयति विदेहमुक्तो नोदेति नास्तमेति न शाम्यति । न सन्नासन्न दूरस्थं न चाहं न च वेतरत् ॥ ंो_३,९.१७ ॥ "विदेहमुक्तः" अनहम्भावेन गृहीतस्य देहस्याप्यभावेन विदेहमुक्तिं गतः पुरुषः । "न उदेति" सदोदितचिन्मात्रभावेन अवस्थानात् । तथा "अस्तं न एति" । यथा तथा कल्पितस्य तदस्तस्य ततः एवोत्थानात् । अन्यथासम्भवात् । तथा "न शाम्यति" संसारभानाभावप्रसङ्गात् । "न सत्" भवति । बाह्यान्तरकरणागोचरत्वात् । तथा "असत्न" भवति । एतादृक्प्रपञ्चभावेन भानाभावप्रसङ्गात् । न हि शशशृङ्गं केनापि रूपेण भातुं शक्नोति । तथा "दूरस्थं न" भवति । सर्वेषामहन्तासारत्वेन स्थितत्वात् । तथा "अहं न" भवति । परिच्छिन्नः प्रमाता न भवति । अपरिमितप्रमातृत्वेन स्थितत्वात् । तथा "इतरत्" परिमितं प्रमेयम् । "न" भवति । अपरिमितप्रमेयभावेन स्थितत्वात् ॥ ंोट्_३,९.१७ ॥ विश्वोत्तीर्णतामुक्त्वा विश्वमयतां लेशतः कथयति सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् । रुद्रः सर्वान् संहरति सर्वान् सृजति पद्मजः ॥ ंो_३,९.१८ ॥ असौ शुद्धचिन्मात्रतां यातः विदेहमुक्तः "सूर्यो भूत्वा" सूर्यभावमासाद्य । "प्रतपति" तापक्रियाकर्तृत्वं भजति । तथा "विष्णुः भूत्वा जगत्त्रयं पाति" रक्षति । एवं सर्वत्र योज्यम् । एषां सूर्यादीनां च बाह्यान्तरत्वेन द्वैविध्यं ज्ञेयम् । बाह्ये हि "सूर्यः" यः व्योम्नि दृश्यते । आन्तरस्तु प्राणः । सूर्यवत्शरीरपाककारित्वात् । तथा "विष्णुः" बुद्धिः । तद्वत्सङ्कल्पस्थितिकारित्वात् । तथा "रुद्रः" अहङ्कारः । तद्वत्सर्वसङ्कल्पानां स्वस्मिन् लयीकरणात् । तथा "पद्मजः" मनः । तद्वत्सङ्कल्पोत्पादकत्वात् । एवं यथासम्भवं सर्वत्र योज्यम् । ननु कथं विदेहमुक्तः सूर्यादिचराचरपदार्थभावमागत्य तद्गताः सर्वाः क्रियाः करोतीति चेत् । सत्यम् । तत्र चराः तावत्स्फुटमेव अन्तर्यामिशुद्धचित्तत्त्वाधिष्ठिताः लक्ष्यन्ते । अन्यथा मरणावस्थां गतेष्वपि तेषु प्राग्वत्क्रियाधारत्वप्रसङ्गात् । ननु तत्क्रियायां प्राण एव प्रेरकः दृश्यते । निष्प्राणानामचरशरीराणां निष्क्रियत्वदर्शनात् । असदेतत् । न हि प्राणो नामात्र प्रेरकत्वे समर्थः कश्चिच्चेतन इव लक्ष्यते । किं त्वन्यस्य कस्यापि स्वतन्त्रस्य चेतनस्य प्रेरणया । देवदत्तप्रेर्यमाणकन्दुकवत्निर्गमप्रवेशकारीव दृश्यते इति शुद्धस्य चिन्मात्रस्यैव चरान्तर्यामित्वेन चरगतक्रियाकर्तृत्वं ज्ञायते । अचरेष्वपि दृश्यमाणा अवस्थितिक्रिया क्रियात्वात्चरगतक्रियावत्तत्कृता एव ज्ञेया । यतः यत्र साक्षाच्चेतनतया भासमानानां चराणां स्वक्रियायामसामर्थ्यमस्ति तत्र साक्षाज्जडत्वेन भासमानानामचराणां का कथा क्रियाकारित्वे । तेन यथा अधिष्ठातृभूतेन देवदत्तेन क्वचित्स्थापिताः स्तम्भादयः तिष्ठन्ति तथा स्वान्तर्गतेन केनापि तत्त्वेन स्थापिताः अचराः तिष्ठन्तीति ज्ञेयम् । तत्र देवदत्तस्य तेभ्यः बहिःस्थता प्रत्यक्षमेव दृश्यते इति न तत्र तस्य तदन्तर्गतत्वं कल्प्यते । अत्र तु बहिः स्थूलस्य कस्याप्यदर्शनात्तदन्तर्गतत्वं कल्प्यते । बहिर्गतत्वमपि तस्य न विरुध्यते इत्यास्तामेतत् । एवं च शुद्धचिन्मात्रे पर्यवसितं सर्वक्रियाकर्तृत्वं तन्मयतागते तस्मिन्नपि सिद्धमेव । समुद्रे लीनस्य जलबिन्दोः इव समुद्रगुणविशिष्टत्वम् । अवशिष्टं मृतशरीरमपि पक्षाक्षिप्तमेव ज्ञेयम् । ननु तथापि विदेहमुक्तः सर्वाः क्रियाः करोतीत्येतावन्मात्रमेव सिद्धम् । न तु सर्वं भूत्वेत्येतत्सिद्धम् । तत्र का वार्तेति चेत् । सत्यम् । तत्रेयं वार्ता । चराचराः भावाः किम्मयाः इति विचार्यमाणे तत्स्वरूपं हस्तग्राहाभावातनिर्वाच्यतायामेव विश्राम्यति । अनिर्वाच्यता एव च शुद्धचित्तत्त्वस्य स्वरूपमिति शुद्धचिद्रूपतां गतस्य विदेहमुक्तस्य सर्वभावो युक्त एवेति न कोऽपि विरोधः । एतच्च शुद्धचित्तत्त्वस्वरूपमनुभवत्सु प्रत्यक्षसिद्धमेव । तदविद्वदर्थे तु अयं प्रयत्नः कृत इत्यलं प्रपञ्चेन ॥ ंोट्_३,९.१८ ॥ खं भूत्वा पवनस्कन्धान् धत्ते सर्क्षसुरासुरान् । कुलाचलगणो भूत्वा लोकपालपुरास्पदम् ॥ ंो_३,९.१९ ॥ "सर्क्षसुरासुरान्" नक्षत्रदेवासुरसहितान् । "कुलाचलगणः भूत्वा लोकपालपुरास्पदं" भवतीति सम्बन्धः ॥ ंोट्_३,९.१९ ॥ भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् । तृणगुल्मलता भूत्वा ददाति फलसन्ततिम् ॥ ंो_३,९.२० ॥ स्पष्टम् ॥ ंोट्_३,९.२० ॥ बिभ्रज्जलानलाकारं ज्वलति भवति द्रुतः । चन्द्रोऽमृतं प्रस्रवति मृतिं हालाहलं विषम् ॥ ंो_३,९.२१ ॥ "जलाकारं बिभ्रद्द्रुतः" द्रवगुणयुक्तः । "भवति" । "अनलाकारं बिभ्रत्ज्वलती"त्य्योज्यम् । "चन्द्रो" भूत्वा "हालाहलं" भूत्वेति सम्बन्धनीयम् ॥ ंोट्_३,९.२१ ॥ तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् । शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् ॥ ंो_३,९.२२ ॥ "रोधयति" रोधनं करोति ॥ ंोट्_३,९.२२ ॥ करोति जङ्गमं चित्त्वे स्थावरं स्थावराकृतिः । भूत्वार्णवो वलयति भूस्त्रियं वलयो यथा ॥ ंो_३,९.२३ ॥ "चित्त्वे" चिद्भावे स्थित्वा । चिद्भावयुक्तो भूत्वेति यावत् । "जङ्गमं करोति" "स्थावराकृतिः" सन् "स्थावरं करोति" । "अर्णवः भूत्वा भूस्त्रियं" भूरेव स्त्री । ताम् "वलयति" समन्तात्पर्यन्तेषु आवृणोति । को "यथा" । "वलयो यथा" । "यथा वलयः स्त्रियं" । अर्थात्स्त्रीभुजम् । "वलयति" । तथेत्यर्थः ॥ ंोट्_३,९.२३ ॥ परमार्कवपुर्भूत्वा प्रकाशेऽन्तर्विसारयन् । त्रिजगत्त्रसरेण्वोघं शान्तमेवावतिष्ठति ॥ ंो_३,९.२४ ॥ "परमार्कवपुः" चित्सूर्यवपुः । "भूत्वा" । "प्रकाशे" प्रकाशरूपायां स्वभित्तौ । "त्रिजगत्त्रसरेण्वोघं" त्रिजगदाख्यं परमाणुसमूहम् । "विसारयन्" विस्तारयन् । "शान्तमेव" साक्षिभावेन स्थितत्वात्तत्कृतक्षोभरहितमेव्"आवतिष्ठति" । युक्तं चार्कस्य प्रकाशे त्रसरेण्वोघविसारणं शान्तमवस्थानं च ॥ ंोट्_३,९.२४ ॥ विशेषकलनामशक्यां ज्ञात्वा सामान्येन कथयति यत्किञ्चिदिदमाभाति भातं वा भामुपैष्यति । कालत्रयगतं दृश्यं तदसौ सर्वमेव वा ॥ ंो_३,९.२५ ॥ "वा" पक्षान्तरे । "यत्किञ्चितिदं" जगत् । "भातम्" पूर्वं स्फुरितम् । तथा "आभाति" अद्य स्फुरति । तथा "भाम्" स्फुरणम् । "उपैष्यति" अग्रे आगमिष्यति । "तत्कालत्रयगतं सर्वं दृश्यमसौ" उक्तः विदेहमुक्तः । भवति ॥ ंोट्_३,९.२५ ॥ अत्र श्रीरामः पृच्छति कथमेवं वद ब्रह्मन् भूयते विषमा हि मे । दृष्टिरेषा तु दुष्प्रापा दुराक्रम्येति निश्चयः ॥ ंो_३,९.२६ ॥ हे "ब्रह्मन्" । त्वं "वद" कथय । पुरुषेण "एवम्" एतादृग्गुणयुक्तेन विदेहमुक्तेन । "कथं भूयते" कथं सम्पद्यते । "हि" यस्मात्कारणात् । "मे निश्चयः" । "इति" एवम् । भवति । "इति" किम् । "इति विषमा" कठिना । "एषा" पूर्वोक्ता । "दृष्टिः" विदेहमुक्तिरूपा दृष्टिः । "दुष्प्रापा दुराक्रम्या" च भवति ॥ ंोट्_३,९.२६ ॥ श्रीवसिष्ठ उत्तरं कथयति मुक्तिरेषोच्यते राम ब्रह्मैतत्समुदाहृतम् । निर्वाणमेतत्कथितं शृणु सम्प्राप्यते कथम् ॥ ंो_३,९.२७ ॥ हे "राम" । पण्डितैः "एषा" एतत्विदेहमुक्तत्वम् । "मुक्तिः उच्यते" । जीवन्मुक्तत्वस्य सत्त्वरूपचित्ताश्रयत्वेनामुक्तिकल्पत्वात् । पण्डितैः "एतत्" "ब्रह्म समुदाहृतम्" कथितम् । सर्वपदार्थभावेन बृंहणाभाक्त्वात् । पण्डितैः "एतत्निर्वाणं कथितम्" सर्वथा परिमिताहन्तायाः लयीभावात् । त्वं "शृणु एतत्" पुरुषेण "कथं प्राप्यते" ॥ ंोट्_३,९.२७ ॥ यदिदं दृश्यते दृश्यमहंत्वत्तादिसंयुतम् । सतोऽप्यस्याप्यनुत्पत्त्या बुद्ध्या वैतदवाप्यते ॥ ंो_३,९.२८ ॥ अस्माभिः । "अहंत्वत्तादिसंयुतं यदिदं दृश्यं" जगत् । "दृश्यते" अनुभूयते । "सतः अपि" एवमेव स्थितस्यापि । "अस्य" जगतः । "अनुत्पत्त्याः बुद्ध्या" अनुत्पन्नमेवेदमित्येवंरूपस्य अभावस्य ज्ञानेनैव । तज्जगद्विषयानुत्पन्नत्वज्ञानेनेति यावत् । "एतत्" उक्तगुणं विदेहमुक्तत्वम् । "अवाप्यते" प्राप्यते । "अपिवा"शब्दौ एवशब्दार्थे । एतेन दृश्यात्यन्ताभावस्य विदेहमुक्तिं प्रति कारणत्वमुक्तम् ॥ ंोट्_३,९.२८ ॥ श्रीरामः पुनः पृच्छति विदेहमुक्तास्त्रैलोक्यं सम्पद्यन्ते यदा तदा । मन्ये ते सर्गतामेव गता वेद्यविदां वर ॥ ंो_३,९.२९ ॥ "विदेहमुक्ताः यदा" यदि । "त्रैलोक्यं सम्पद्यन्ते" । हे "वेद्यविदां वर" । अहं "मन्ये" । "तदा ते सर्गतामेव गताः" सर्गभावमेव गताः भवन्ति । सर्गान्तर्गतपदार्थभावेनैव स्फुरणात् ॥ ंोट्_३,९.२९ ॥ श्रीवसिष्ठ उत्तरं कथयति विद्यते चेत्त्रिभुवनं तत्तत्तां सम्प्रयान्तु ते । यत्र त्रैलोक्यशब्दार्थो न सम्भवति कश्चन ॥ ंो_३,९.३० ॥ तत्र त्रिलोकतां यातं ब्रह्मेत्युक्त्यर्थधीः कुतः । तस्मान्नो सम्भवत्यन्या जगच्छब्दार्थकल्पना ॥ ंोट्_३,९.३१ ॥ "त्रिभुवनं" सर्गः ।"चेद्" यदि । "विद्यते" सत्यं भवति । "तत्" तदा । "ते" विदेहमुक्ताः । "तत्ताम्" त्रिभुवनताम् । "सम्प्रयान्तु" सम्यक्गच्छन्तु । "यत्र" यस्मिन् स्थाने । "कश्चन त्रैलोक्यशब्दार्थः" त्रैलोक्यशब्दयुक्तः अर्थः । "त्रैलोक्यशब्दार्थः" त्रैलोक्याख्यः शब्दः तदर्थश्चेति यावत् । "न सम्भवति" । "तत्र" तस्मिन् स्थाने । "इत्युक्त्यर्थधीः" एवंरूपोक्त्यर्थाकारा धीः । एवंरूपा उक्तिः एवंरूपः अर्थश्चेति यावत् । "कुतः" भवति । त्रैलोक्यशब्दार्थयोरसम्भवात् । न सम्भवतीत्यर्थः । "इति" किम् । "इति" "ब्रह्म" लक्षणया विदेहमुक्तः । "त्रिलोकतां" सर्गताम् । "यातं" भवति । उपसंहारं करोति "तस्माद्" इति । "तस्मात्" ततो हेतोः । "अन्या" ब्रह्मणः अन्या । "जगच्छब्दार्थकल्पना" जगच्छब्दार्थरूपा कल्पना । "न" भवति ॥ ंोट्_३,९.३०३१ ॥ अनेन प्रसङ्गेन जगद्ब्रह्मणोः ऐक्यमेव पुनः पुनः कथयति अनन्यच्छान्तमाभासमात्रमाकाशनिर्मलम् । ब्रह्मैव जगदित्येव सत्यं सत्यावबोधिनः ॥ ंो_३,९.३२ ॥ "जगत्" कर्तृ । "अनन्यत्" सर्वरूपत्वेन स्थितत्वात्स्वव्यतिरिक्तवस्तुरहितम् । "शान्तं" स्वरूपे विश्रान्तम् । "आभासमात्रकम्" आभासमात्रस्वरूपम् । "आकाशनिर्मलम्" आकाशवत्स्वच्छम् । "ब्रह्म एव" भवति । "इत्येव" एतदेव । "सत्यावबोधिनः" सत्यज्ञानयुक्तस्य । "सत्यं" भवति ॥ ंोट्_३,९.३२ ॥ अत्र दृष्टान्तं कथयति यथा हि हेमकटके विचार्यापि न दृश्यते । कटकत्वं क्वचिन्नाम ऋते निर्मलहाटकम् ॥ ंो_३,९.३३ ॥ "यथा ही"ति दृष्टान्तत्वद्योतकम् । अस्माभिः । "हेमकटके" सुवर्णवलये । "विचार्यापि" विचारयित्वापि । "निर्मलहाटकमृते कटकत्वं नाम क्वचित्न दृश्यते" । यथा कटकं हेमैव भवति तथा जगत्ब्रह्मैव भवतीति पूर्वश्लोकदृष्टान्ततया योज्यमुत्तरश्लोकद्वयं च ॥ ंोट्_३,९.३३ ॥ द्वितीयं दृष्टान्तं कथयति जलादृते पयोवीचौ नाहं पश्यामि किञ्चन । वीचित्वं त्वादृशैर्दृष्टं यत्तु नास्त्येव तत्र हि ॥ ंो_३,९.३४ ॥ "अहं पयोवीचौ" जलतरङ्गे । "जलादृते किञ्चन न पश्यामि" पयोवीचौ "नास्ति" ॥ ंोट्_३,९.३४ ॥ तृतीयं दृष्टान्तं कथयति स्पन्दत्वं पवनादन्यन्न कदाचन कुत्रचित् । स्पन्द एव सदा वायुर्जगत्तस्मान्न विद्यते ॥ ंो_३,९.३५ ॥ "कदाचन" कुत्रापि काले । "कुत्रचित्" कुत्रापि देशे । "स्पन्दत्वं पवनातन्यत्न" भवति । यतः "वायुः स्पन्द एव" भवति । फलितं कथयति "जगद्" इति । यतः जगतः ब्रह्मत्वे दृष्टान्तत्रयमस्ति "तस्मात्जगत्न विद्यते" । अतश्च विदेहमुक्तस्य सर्गतागमनं कथं भवतीति भावः ॥ ंोट्_३,९.३५ ॥ पुनरपि पूर्वोक्तमर्थमेव सदृष्टान्तं कथयति यथा शून्यत्वमाकाशस्ताप एव मरौ जलम् । तेज एव यथालोको ब्रह्मैव त्रिजगत्तथा ॥ ंो_३,९.३६ ॥ स्पष्टम् ॥ ंोट्_३,९.३६ ॥ श्रीरामः पृच्छति अत्यन्ताभावसम्पत्त्या जगद्दृश्यस्य मुक्तता । ययोदेति मुने युक्त्या तां ममोपदिशोत्तमाम् ॥ ंो_३,९.३७ ॥ हे "मुने" । "जगद्दृश्यस्य" जगद्रूपस्य दृश्यस्य । "यया युक्त्या अत्यन्ताभावसम्पत्त्या" अत्यन्ताभावसम्पादनेन । "मुक्तता उदेति" । त्वम् "मम उत्तमां" निरतिशयाम् । "ताम्" युक्तिम् । "उपदिश" । जगद्विषयस्यात्यन्ताभावस्य मुक्ततासाधने कथं सामर्थ्यमस्तीत्यत्र युक्तिं कथयेति भावः ॥ ंोट्_३,९.३७ ॥ ननु युक्तिमेव किं पुनः पुनः पृच्छसीत्यत्रोत्तरकथनपूर्वं प्रश्नान्तरं करोति मिथः सम्पन्नयोर्द्रष्टृदृश्ययोरेकसङ्क्षये । द्वयाभावे स्थितिं याते निर्वाणमवशिष्यते ॥ ंो_३,९.३८ ॥ दृश्यस्य जगतस्तस्मादत्यन्तानुद्भवो यथा । ब्रह्म चेत्थं स्वभावस्थं बुध्यते वद मे तथा ॥ ंो_३,९.३९ ॥ उक्तनीत्या "मिथः सम्पन्नयोः" यतः त्वयैवैतदुक्तमिति शेषः । यतः त्वया एव उक्तं "मिथः सम्पन्नयोः" उक्तनीत्या मिथः सिद्धयोः । "द्रष्टृदृश्ययोः" मध्ये । "एकसङ्क्षये" सति । ततः "द्वयाभावे स्थितिं याते" सति । "निर्वाणं" कैवल्यम् । "अवशिष्यते" । "तस्मात्" ततः कारणात् । "दृश्यस्य जगतः" दृश्यस्वरूपस्य जगतः । "अत्यन्तानुद्भवः" अत्यन्ताभावस्वरूपा अत्यन्तानुत्पत्तिः । "यथा" यया युक्त्या । "बुध्यते" ज्ञायते । "तथा ब्रह्म" जगद्भावेन बृंहितं शुद्धचित्तत्त्वम् । "इत्थं" जगद्रूपेण । "स्वभावस्थं" स्वरूपस्थम् । "यथा बुध्यते" । त्वं "तथा च मे वद" कथय ॥ ंोट्_३,९.३८३९ ॥ रसावेशेनोन्मत्तवत्पुनरपि दृश्यात्यन्ताभावसिद्धियुक्तिं ब्रह्मणः इत्थंस्वभावावस्थितियुक्तिं च पृच्छति कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति । । एतस्मिंस्तु मुने सिद्धे न साध्यमवशिष्यते ॥ ंो_३,९.४० ॥ "एतत्" अयं दृश्यात्यन्ताभावः इदं ब्रह्मणः इत्थंस्वभावावस्थानं च । ननु किमर्थमत्र पुनः पुनः प्रश्नान् करोषीत्य् । अत्राह "एतस्मिन्" इति । हे "मुने" । "एतस्मिन् सिद्धे" सति । "साध्यम्" साधनीयम् । "नावशिष्यते" अवशिष्टं न भवति । मुक्तिमात्रस्यैवाकाङ्क्षितत्वात्तस्य चानेनैव सिद्धत्वात् ॥ ंोट्_३,९.४० ॥ श्रीवसिष्ठः उत्तरं कथयति बहुकालमियं रूढा मिथ्याज्ञानविषूचिका । । नूनं विचारमन्त्रेण निर्मूलमुपशाम्यति ॥ ंो_३,९.४१ ॥ "नूनं" निश्चये । "इयं मिथ्याज्ञानविषूचिका" शुद्धचिन्मात्रे दृश्यमिदमित्येवंरूपो ज्ञानविशेषः । "रूढा" मनसि सत्यत्वेन भाता । युक्तं च "मन्त्रेण" विषूचिकायाः उपशमनम् । "विचारश्" चात्र किंरूपमिदं दृश्यमित्येवंरूपो ज्ञेयः ॥ ंोट्_३,९.४१ ॥ नन्वस्मिन् समये मया कृत एव लेशतो विचारः । तत्कथमिदं दृश्यं न शान्तमित्य् । अत्राह न शक्यते झगित्येव समुच्छेदयितुं क्षणात् । समप्रयतने ह्यद्रौ समारोहावरोहणे ॥ ंो_३,९.४२ ॥ "समुच्छेदयितुं" नाशयितुम् । उत्तरार्धेनैतत्समर्थयति "समे"ति । यथा कश्चित्पर्वताग्रमारूढः ततश्चावतरितुमिच्छन् "न झगित्येवा"वतरितुं शक्नोति । तथा चिररूढा दृश्यसत्यताप्रतीतिः "न झगिति" दूरीकर्तुं "शक्यते" इति बहुकालं विचारः कर्तव्य इति भावः ॥ ंोट्_३,९.४२ ॥ युक्तिकथनं फलितत्वेन प्रतिजानीते तस्मादभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः । जगद्भ्रान्तिर्यथा शाम्येत्तथेदं कथ्यते शृणु ॥ ंो_३,९.४३ ॥ "तस्मात्" ततो हेतोः । "अभ्यासयोगेन" विचाराभ्यासयुक्त्या । तथा "युक्त्या" स्वबुद्धिकृतया युक्त्या । तथा "न्यायोपपत्तिभिः" न्यायशास्त्रेषूक्ताभिः युक्तिभिः । "जगद्भ्रान्तिः" दृश्यस्वरूपजगद्भ्रमः । "यथा" येन प्रकारेण । "शाम्येत्" । "तथा" तेन प्रकारेण । "इदम्" वक्ष्यमाणं वाग्जालम् । मया "कथ्यते" । त्वं तत्"शृणु" श्रवणविषयं कुरु ॥ ंोट्_३,९.४३ ॥ ननु तच्छ्रवणेन मम किं सेत्स्यतीत्य् । अत्राह वदाम्याख्यायिकां राम यामिमां बोधसिद्धये । तां चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् ॥ ंो_३,९.४४ ॥ स्पष्टम् ॥ ंोट्_३,९.४४ ॥ समनन्तरकृतां प्रतिज्ञां सम्पादयन् प्रकरणारम्भे प्रतिज्ञातं सविस्तरकथनं प्रस्तौति अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते । । यः किलोत्पद्यते राम तेन मुक्तेन भूयते ॥ ंो_३,९.४५ ॥ "अथ"शब्दः आनन्तर्यार्थः सङ्क्षेपकथनानन्तरतां द्योतयति । किमर्थमुत्पत्तिप्रकरणमेव प्रथमं कथ्यते इत्य् । अत्राह "यः किले"ति । अतः मुक्तिकथने प्रवृत्तैरस्माभिः उत्पत्तिप्रकरणकथनमेव कार्यम् । अन्यथा निराधारायाः मुक्तेः कथनमयुक्तं स्यादिति भावः ॥ ंोट्_३,९.४५ ॥ विस्तरेण कथयिष्यमाणेऽस्मिन्नुत्पत्तिप्रकरणे त्वं किं कथयसीत्य् । अत्राह इयमित्थं जगद्भ्रान्तिर्भात्यजातैव खात्मिका । इत्युत्पत्तिप्रकरणे कथ्यतेऽस्मिन्मयाधुना ॥ ंो_३,९.४६ ॥ "इयम्" पुरःस्फुरणशीला । "जगद्भ्रान्तिः" जगदाकारः भ्रमः । "इत्थं" अनया युक्त्या । "अजाता एव" अनुत्पन्ना एव । अतः "खात्मिका" आकाशस्वरूपा सती । "भाति" स्फुरति । "इति" एतत् । "मया अधुना" "अस्मिनुत्पत्तिप्रकरणे कथ्यते" ॥ ंोट्_३,९.४६ ॥ उत्पत्तिप्रकरणमेव कथयिष्यन् स्थूणानिखननन्यायेनोत्पत्तिमूलकारणभूतशुद्धचिन्मात्रप्रकटनार्थमादौ तदावरकप्रपञ्चलयं तावत्कथयति यदिदं दृश्यते किञ्चिज्जगत्स्थावरजङ्गमम् । । सर्वं सर्वप्रकाराढ्यं ससुरासुरकिंनरम् ॥ ंो_३,९.४७ ॥ तन्महाप्रलये प्राप्ते रुद्रादिपरिणामिनि । भवत्यसददृश्यं च क्वापि याति विनश्यति ॥ ंो_३,९.४८ ॥ "किञ्चित्" अनिर्वाच्यस्वरूपम् । "सर्वप्रकाराढ्यं" समस्तभावाभावादिप्रकारयुक्तम् । "महाप्रलये" तुर्याख्ये अवस्थाविशेषे महाकल्पान्तसमये च । "रुद्रादिपरिणामिनि" रुद्रादिलययुक्ते । रुद्रोऽत्र अहङ्कारः संहाराधिकारी श्रीमहादेवो ज्ञेयः । "आदि"शब्देन बुद्ध्यादेः सृष्टिस्थित्यधिकारिणः विष्ण्वादेश्च ग्रहणम् । "अदृश्यम्" बाह्येन्द्रियागोचरम् । ननु कथम् "अदृश्यं च" "भवती"त्य् । अत्राह "क्वापी"ति । "क्वापि याति" अनिर्वाच्ये कस्मिन् चित्तत्त्वे एकतां याति । अन्यतया स्फुरतीति यावत् । अत एव "विनश्यति" अदर्शनं गच्छति । न हि भासमानस्य सर्वथा विनाशो युक्तः । शुक्तिकारजतस्यापि सर्वथा विनाशप्रसङ्गात् । न हि शुक्तिकारजतं सर्वथा विनश्यति । किं तु शुक्तिभावेन स्फुरति ॥ ंोट्_३,९.४७४८ ॥ ननु भासमानस्यैतस्य जगतः नाशे किं शिष्यते । भासमानस्य शुक्तिकारजतस्य नाशे हि शुक्तिका शिष्यते इत्य् । अत्राह ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् । अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ॥ ंो_३,९.४९ ॥ "ततः" दृश्यनाशानन्तरम् । "किञ्चित्" अर्थात्दृश्यविनाशसाक्षिस्वरूपं किमपि अनिर्वाच्यं वस्तु । "शिष्यते" शिष्टं भवति । अन्यथा भासमानस्य इयतः जगतः कुत्रावस्थानं स्यान् । न हि भासमानस्य विनाशो घटस्वरूपनाशवत्युक्तः । शुक्तिकारजतनाशवदन्यरूपतया स्फुरणमात्ररूपत्वात् । अन्यरूपतया स्फुरणं प्राधान्यं विना नोपपद्यत इति । "किञ्चित्" कथम्भूतम् । "स्तिमितगम्भीरम्" । "स्तिमितम्" चेत्यौन्मुख्याख्यस्पन्दरहितम् । "गम्भीरम्" स्वविषयावगाहित्रभावेनावगाहनक्रियाविषयत्वाभावेन च अवगाहितुमशक्यम् । तादृशं च तत्तादृशं चेति । पुनः कथम्भूतम् । "न तेजः" शुद्धचिन्मात्ररूपत्वेन जीवादिस्वरूपलौकिकचेतनव्यतिरिक्तमित्यर्थः । तथा "न तमः" जडपदार्थव्यतिरिक्तमित्यर्थः । अथ वा चिन्मात्ररूपत्वेन चेत्यस्वरूपबाह्यतेजस्तमोव्यतिरिक्तमिति ज्ञेयम् । पुनः कथम्भूतम् । सर्वत्रानुस्यूतम् । पुनः कथम्भूतम् । "अनाख्यम्" आख्याकर्तृत्वेनावस्थानाताख्याविषयत्वाभावाच्चाख्यातुमशक्यमित्यर्थः । पुनः कथम्भूतम् । "अनभिव्यक्तम्" बाह्यान्तःकरणागोचरत्वेन अप्रकटस्वरूपम् । कृतश्च पूर्वमेषां विशेषणानां हेतुहेतुमद्भावेन शृङ्खलाबन्ध इति न पुनरायस्तम् ॥ ंोट्_३,९.४९ ॥ अवशिष्टतया प्रोक्तं वस्तु पुनरपि विस्तरेण विशिनष्टि न शून्यं नापि चाकाशं न दृश्यं न च दर्शनम् । न च भूतपदार्थौघो यदनन्ततया स्थितम् ॥ ंो_३,९.५० ॥ "अनन्ततया" अनन्तभावेन । "स्थितं यत्" वस्तु । "शून्यं न" भवति । तत्त्वे हि जगदधिष्ठानत्वमयुक्तं स्यात् । न हि शून्यं कस्यापि अधिष्ठानं दृष्टम् । तत्र भासमानस्य पिच्छिकादेः नायनरश्म्यधिष्ठानत्वात् । तथा "यत्" वस्तु । "आकाशं न" भवति । प्रोक्तन्यायेन शून्यव्यतिरिक्तत्वात् । आकाशस्य च शून्यैकमयत्वात् । "यत्दृश्यं न" भवति । केवलद्रष्टृस्वरूपत्वात् । "यत्" वस्तु । "दर्शनं न" भवति । द्रष्टृदृश्यानपेक्षसिद्धिकत्वात् । "यत्भूतपदार्थौघः न" भवति । तत्त्वे हि जडं स्यात् ॥ ंोट्_३,९.५० ॥ किमप्यव्यपदेशात्म पूर्णात्पूर्णतराकृति । न सन्नासन्न सदसन्नाभावो भवनं न च ॥ ंो_३,९.५१ ॥ "पूर्णात्" पूर्णत्वेनाभिमताताकाशादेः । "पूर्णतराकृति" पूर्णतराकारम् । यत्वस्तु । "किमप्यव्यपदेशात्म" किमप्यनिर्वाच्यस्वरूपं भवति । तथा यत्"सत्न" भवति । [...] जगदधिष्ठानत्वायोगात् । तथा यत्"सदसत्न" भवति । उभयदोषप्रसङ्गात् । तथा यत्"अभावः न" भवति । तद्विरुद्धाभावतयाप्यवस्थानात् ॥ ंोट्_३,९.५१ ॥ चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् । अनादिमध्यपर्यन्तं यदनाधि निरामयम् ॥ ंो_३,९.५२ ॥ "यत्" एवंविधं भवति । एवंविधं कीदृगित्यपेक्षायामाह "चिन्मात्रम्" इत्यादि । "चिन्मात्रम्" केवलं चित्स्वरूपम् । अत एव "चेत्यरहितम्" चेत्यारूषितम् । "अनन्तम्" स्वान्तस्यापि साक्षित्वेन स्थितत्वात् । तत्र हि "अनादिमध्यपर्यन्तम्" आदिमध्यपर्यन्तव्यवस्थाकारिदेशकालभासकत्वातादिमध्यपर्यन्तरहितम् । "अनाधि" चित्ताभावेन तदाश्रिताधिरहितम् । "निरामयम्" भावाभावादिस्वरूपरोगरहितम् ॥ ंोट्_३,९.५२ ॥ यस्मिञ्जगत्प्रस्फुरति दृष्टिमौक्तिकहंसवत् । यश्चेदं यश्च नैवेदं देवः सदसदात्मकः ॥ ंो_३,९.५३ ॥ "यस्मिन्" वस्तुनि । "जगत्प्रस्फुरति" अधिष्ठेयतया विलसति । कथम् । "दृष्टिमौक्तिकहंसवत्" । दृष्टौ स्फुरितौ मौक्तिकहंसौ "दृष्टिमौक्तिकहंसौ" । ताविव तद्"वत्" । रोगवशेन हि दृष्ट्यवयवभूताः रश्मयः मौक्तिकभावेन हंसभावेन चाकाशे स्फुरन्ति । "सदसदात्मकः" सदसत्स्वरूपः । अनिर्वाच्य इति यावत् । "यः देवः" । "यः" क्रीडाशीलः द्योतनशीलश्"च" । "इदं" इदन्तया विषयीकृतं भावजातं भवति । सारभावेन स्थितत्वात् । "यः देवः इदं न" भवति । अहन्तासारत्वेन स्थितत्वात् ॥ ंोट्_३,९.५३ ॥ अकर्णजिह्वोऽनासात्वङ्नेत्रः सर्वत्र सर्वदा । यः शृणोत्यास्वादयति जिघ्रन् स्पृशति पश्यति ॥ ंो_३,९.५४ ॥ "अकर्णजिह्वः" श्रोत्रेन्द्रियरसनेन्द्रियरहितः । तथा "अनासात्वङ्नेत्रः" घ्राणेन्द्रियत्वगिन्द्रियनेत्रेन्द्रियरहितः । "यः सर्वत्र" सर्वदेशेषु । "सर्वदा" सर्वकालेषु । "शृणोति" समस्तशब्दश्रवणक्रियां करोति । "आस्वादयति" समस्तास्वादास्वादनक्रियां करोति । "जिघ्रन्" भवति । समस्तगन्धशिङ्घणक्रियां कुर्वन् भवति । "स्पृशति" सम्स्तस्पर्शस्पर्शनक्रियां करोति । "पश्यति" समस्तरूपदर्शनक्रियां करोति । समस्तदेशकालगतसमस्तप्रसादसमस्तेन्द्रियसारत्वेन स्थितत्वात्श्रवणादिक्रियाकर्तृत्वाभिमानग्रस्तसमस्तदेशकालगतसमस्तप्रमातृभावेन वा स्थितत्वात् । न चेन्द्रियसारत्वेन स्थितस्यास्यान्येन्द्रियापेक्षा युक्ता । इन्द्रियाणामिन्द्रियान्तरनैरपेक्ष्येण तत्सारस्यापि तद्वत्तदपेक्षायाः अयुक्तवात् । कल्प्यमानानामपि तेषामेतत्सारत्वं विना नकिञ्चिद्रूपत्वापत्तेः । एतत्सारत्वे तु एतस्यैव तद्भावेनापि स्थितत्वात् । सर्वप्रमातृभावेन स्थितत्वे अपि नेन्द्रियान्तरापेक्षा । तदिन्द्रियैरेवेन्द्रियमत्त्वेन इन्द्रियान्तराणामनुपयोगित्वात् ॥ ंोट्_३,९.५४ ॥ स एव सदसद्रूपं येनालोकेन लक्ष्यते । सर्गचित्रमनाद्यन्तं खरूपं चाप्यरञ्जनम् ॥ ंो_३,९.५५ ॥ "स एव" चिन्मात्रस्वरूपः सन् द्रष्टृतामापन्नः स एव । न त्वन्यः कश्चित् । "येनालोकेन" यत्स्वरूपेण । "सर्गचित्रं" जगद्रूपं चित्रम् । चित्प्रकाशेन "लक्ष्यते" दृश्यते । चिदालोकं विना द्रष्टुः जगद्दर्शनासम्भवात् । कथम्भूतं "सर्गचित्रं" । "सदसद्रूपं" । फलतः सदसद्भ्यामनिर्वचनीयम् । पुनः कथम्भूतम् । "अनाद्यन्तम्" अनाद्यन्तचिन्मात्रसारत्वेनाद्यन्तरहितमित्यर्थः । पुनः कथम्भूतं "च" । "खरूपं च" । आभासमात्ररूपत्वेन स्वप्नवताकाशरूपं चेत्यर्थः । पुनः कथम्भूतम् । "अरञ्जनम्" भासमानाभिः भावाभावरञ्जनाभिः शुद्धत्वेन परमार्थतो मुक्तमित्यर्थः । "अपि"शब्दः पादपूरणार्थः ॥ ंोट्_३,९.५५ ॥ अर्धोन्मीलितदृग्भ्रूभूमध्यतारकवज्जगत् । व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति ॥ ंो_३,९.५६ ॥ "यः स्वरूपं" चिन्मात्राख्यं स्वभावम् । "जगत्" नश्वरचेत्यरूपम् । "पश्यति" स्वगोचरीकरोति । कथम्भूतम् "जगत्" । "व्योमात्मैव" परमार्थतो जगद्रूपताभावात्नकिञ्चिद्रूपमेव । पुनः कथम्भूतम् । "सदाभासं" सदिवाभासत इति "सदाभासम्" । परमार्थतो न सदित्यर्थः । कथं "पश्यति" । "अर्धोन्मीलितदृग्भ्रूभूमध्यतारकवत्" । अर्धमुन्मीलिता दृक्येन । सः "अर्धोन्मीलितदृक्" । "भ्रुवौ" एव "भूः" स्थानम् । तस्या मध्यं "भ्रूभूमध्यं" । अर्धोन्मीलितदृशः भ्रूभूमध्ये भासमाना या "तारका" । तद्"वत्" । अर्धोन्मीलितनेत्रः पुरुषः स्वभ्रूमध्ये स्वदृष्टिरश्मिमेव तारकाकारां यथा पश्यति । तथेत्यर्थः । अभिनयगम्यश्चार्थः ॥ ंोट्_३,९.५६ ॥ यस्यान्यदस्ति न विभोः कारणं शशशृङ्गवत् । यस्येदं च जगत्कार्यं तरङ्गौघ इवाम्भसः ॥ ंो_३,९.५७ ॥ "यस्य विभोः कारणं ना"स्तीत्यर्थः । ननु कथं नास्य कारणमस्ति । सत्यम् । तत्कारणं चिद्रूपमचिद्रूपं वा । नान्त्यः चिद्रूपं प्रति अचिद्रूपकारणत्वायोगात् । आद्ये तु स एव चिद्रूपः चिद्रूपस्य स्वस्य कारणं कथं स्यात् । इति सर्वस्य जगतः तत्कार्यत्वं कथयति "यस्येदम्" इति । जगतः चिन्मात्रकार्यत्वं स्वप्नजगद्वज्ज्ञेयम् ॥ ंोट्_३,९.५७ ॥ ज्वलतः सर्वतोऽजस्रं चित्तस्थालीषु तिष्ठतः । यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् ॥ ंो_३,९.५८ ॥ "यस्य चिन्मात्रदीपस्य" । दीपत्वं चास्य प्रकाशकत्वेन ज्ञेयम् । "भासा" इन्द्रियद्वारनिर्गतया चित्प्रभया । "जगत्त्रयम्" अवस्थात्रये भासमानं प्रपञ्चत्रयम् । "भाति" स्फुरति । कथम्भूतस्य । "सर्वतः" सर्वत्र । "ज्वलतः" सर्वं प्रकटयितुं समर्थस्येत्यर्थः । पुनः कथम्भूतस्य । "चित्तस्थालीषु" चित्तरूपेषु पात्रेषु । "तिष्ठतः" सारभावेन स्थितवतः । युक्तं च दीपस्य पात्रेष्ववस्थानम् । यद्यपि सुषुप्तौ चित्तं लीयत एव तथापि बीजत्वेनात्रास्यावस्थानातेवमुक्तम् । बहिरपि भूर्भुवस्स्वराख्यं जगत्त्रयं चित्तेनैव भाति ॥ ंोट्_३,९.५८ ॥ यं विनार्कादयोऽप्येते प्रकाशास्तिमिरोपमाः । सति यस्मिन् प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः ॥ ंो_३,९.५९ ॥ "यं विना" चक्षुरिन्द्रियसारभावेन स्थितं यं विना । "एते" दृश्यमानाः । "अर्कादयोऽपि तिमिरोपमा" अन्धकारसदृशाः । भवन्ति । चक्षुषा अप्रकाशिताः सूर्यादयो हि स्फुटमेवान्धकारसदृशा एव । "सती"ति । यथा सूर्यसन्निधाने "मृगतृष्णिकाः प्रवर्तन्ते" । तथा यत्सन्निधाने "त्रिजगद्" इत्यर्थः ॥ ंोट्_३,९.५९ ॥ सस्पन्दे समुदेतीव निःस्पन्देऽन्तर्गतेव च । इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता ॥ ंो_३,९.६० ॥ "यस्मिन् सस्पन्दे" दृश्यौन्मुख्याख्यस्पन्दयुक्ते सति । "जगल्लक्ष्मीः समुदेतीव" । "निःस्पन्दे" सति । "अन्तर्गतेव" तदन्तर्गतेव "च" भवति । परमार्थतो नोदेति नान्तर्गच्छतीति "इव"शब्दोपादानम् । कस्मिन्न् "इवालात इव" । यथ्"आलाते सस्पन्दे" भ्रामिते सति । "चक्रता" चक्राकारत्वम् । "उदेति" । "अस्पन्दे" सति । अलात्"आन्तर्गतेव" भवति । तथेत्यर्थः ॥ ंोट्_३,९.६० ॥ जगन्निर्माणविलयविलासो व्यापको महान् । स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः ॥ ंो_३,९.६१ ॥ "जगन्निर्माणविलयविलासः" जगत्सृष्टिसंहारविलासः । "यस्याक्षयः" नाशरहितः । "निर्मलः" भेदमालिन्यादूषितः । "महान्" महत्त्वयुक्त । अत एव "व्यापकः" । "स्वभावः" स्वरूपमेव । भवति । न त्वन्यत् । कथम् । सृष्टिसंहारविलासः चेत्यमानोऽचेत्यमानो वा इत्येतस्यासत्कल्पत्वादलं तच्चिन्तयाद्ये चिद्विषयतया चिदन्तर्गतत्वात्तद्रूप एवेति न विरोधः । कथम्भूतः । "स्पन्दास्पन्दात्मकः" स्पन्दास्पन्दस्वरूपः । तत्र सृष्टिविलासः स्पन्दमयः । अस्पन्दमयः संहारविलासः ॥ ंोट्_३,९.६१ ॥ स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा । सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः ॥ ंो_३,९.६२ ॥ "यस्य स्पन्दास्पन्दमयी सत्ता" । चेत्यौन्मुख्ययुक्ता सत्ता स्पन्दमयी । तद्रहित्"आस्पन्दमयी" । "व्यवहारान्नाम्नैव" व्यवहारार्थं कृतेन नाम्ना एव । "भिन्ना इव" । कथम्भूता । "सर्वगा" विश्वे तदुत्तीर्णे च स्वरूपे गता । कस्य्"एव" । "पवनस्येव" । "पवनस्य" स्पन्दमयी सत्ता यया वृक्षादयः कम्पन्ते ।ऽस्पन्दमयी आकाशस्वरूपा । ननु कथं स्पन्दास्पन्दमय्याः सत्ताया एकत्वम् । सत्यम् । सस्पन्दस्य निःस्पन्दस्य च जलस्यैकत्वं यथा निपुणैर्निश्चीयते तथात्रापीति न विरोधः ॥ ंोट्_३,९.६२ ॥ सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च । न प्रसुप्तो न बुद्धश्च यः सर्वत्रैव सर्वदा ॥ ंो_३,९.६३ ॥ "यः सर्वदैव" सर्वासु दशास्वेव । "प्रबुद्धः" साक्षितयावस्थानात्प्रकृष्टज्ञानयुक्त एव । "यः सर्वदा एव सुप्तश्" च । तत्परामर्शरहितत्वात्सुप्तिं गतश्च भवति । "यः सर्वत्रैव" सर्वदेशेषु एव । "सर्वदा" सर्वावस्थाविशेषेषु । "प्रसुप्तो न" भवति । नित्यं बोधरूपत्वात् । "बुद्धश्च न" भवति । उपेक्षया स्वपरामर्शेऽपि विमुखत्वात् ॥ ंोट्_३,९.६३ ॥ यदस्पन्दः शिवं शान्तं यत्स्पन्दस्त्रिजगत्स्थितिः । स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः ॥ ंो_३,९.६४ ॥ इति । "यदस्पन्दः" यच्चेत्यौन्मुख्यराहित्यम् । "शान्तं" क्षोभरहितम् । "शिवम्" आनन्दः । भवति । "यत्स्पन्दः" यच्चेत्यौन्मुख्यम् । "त्रिजगत्स्थितिः" त्रिजगत्सत्ता । भवति । "यः एकः स्पन्दास्पन्दविलासात्मा" चेत्यौन्मुख्यतायुक्ततद्रहितस्वरूपः । भवति । कथम्भूतः । "भरिताकृतिः" । "भरिता" सर्वमयी । "आकृतिः" स्वरूपं यस्य । तादृशः । एकस्य युगपत्स्पन्दमयत्वं वैचित्र्यावहम् ॥ ंोट्_३,९.६४ ॥ आमोद इव पुष्पेषु न नश्यति विनाशिषु । प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटेष्विव ॥ ंो_३,९.६५ ॥ यः "विनाशिषु" पदार्थेषु । "न नश्यति" तन्नाशेऽपि तदुपादानतया सूक्ष्मत्वेनावस्थानात् । न हि घटे नष्टेऽपि तदपेक्षया सूक्ष्ममुपादानभूतं मृत्स्वरूपं नश्यति । क "इवामोद इव" । यथा "पुष्पे" नष्टेऽपि तदामोदः आकाशे भ्राम्यन् किञ्चित्कालं "न नश्यति" । तथेत्यर्थः । यः "अग्राह्यः" केनापि बाह्येनान्तरेण वेन्द्रियेण ग्रहीतुं शक्यो न भवति । कथम्भूतो "ऽपि" । "प्रत्यक्षस्थोऽपि" प्रत्यक्षे वर्तमानोऽपि । न हि कस्यचित्स्वात्माप्रत्यक्षः नाहमत्रास्मीति । किम् "इव" । "शौक्ल्यमिव" । यथा पटे वर्तमानं शुक्लत्वं प्रत्यक्षमपि न हस्तेन ग्राह्यं भवति । तथेत्यर्थः ॥ ंोट्_३,९.६५ ॥ मूकोपमोऽपि यो वक्ता मन्ता योऽप्युपलोपमः । यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिञ्चन ॥ ंो_३,९.६६ ॥ "यः वक्ता" भवति । सर्ववक्तृरूपतया स्थितत्वात् । कथम्भूतो "ऽपि" । "मूकोपमोऽपि" मूकोपमत्वं चास्य निर्विकल्पत्वात् । "यः मन्तापि" ज्ञाता । न हि तं विना कोऽप्यन्यो मन्ता नाम स्यात् । "उपलोपमः" भवति । चिन्मात्रस्वरूपत्वेन मन्तृत्वलेपरहितत्वात् । "यः नित्यतृप्तोऽपि" परानन्दरूपत्वेन सर्वदैव स्वेनैव तृप्तोऽपि । "भोक्ता" भवति । भोक्तुः तद्रूपतानपायात् । "यः कर्तापि" सर्वकर्तॄणां सामर्थ्यापादकत्वेन कर्तृत्वमापन्नोऽपि । "अकिञ्चन" भवति । किञ्चनात्र कर्ता ज्ञेयः । कर्तातो न भवतीत्यर्थः । अकर्तृत्वं चास्य नकिञ्चनत्वेनैव ज्ञेयम् । कर्तृत्वस्य किञ्चिद्रूपत्वात् ॥ ंोट्_३,९.६६ ॥ योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः । न किञ्चित्संस्थितेनापि येन व्याप्तमिदं जगत् ॥ ंो_३,९.६७ ॥ "यः अनङ्गोऽपि" शुद्धचिन्मात्रत्वेनाङ्गरहितोऽपि । "समस्ताङ्गो" भवति । "यः" कथम्भूतः । "सहस्रकरलोचनः" । "सहस्र"पदमत्रानन्ततावाचकम् । तेन अनन्तकरलोचन इत्यर्थः । अनन्तकरलोचनत्वं चास्यानन्तदेहे स्वात्मभूततया ज्ञेयम् । "सहस्रे"ति विशेषणद्वारेण हेतुः । तथा "येन" सर्वम् "इदं व्याप्तम्" । अन्यथा किंमयमेतत्स्यादिति भावः । "येन" कथम्भूतेन्"आपि" । "न संस्थितेनापि" कुत्रापि न वर्तमानेनापि । कथम् । "किञ्चित्" लेशेनापीत्यर्थः । नसंस्थितत्वं वास्य ग्रहीतुमशक्यत्वात् ॥ ंोट्_३,९.६७ ॥ निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः । यस्य निर्मनसोऽप्येता मनोनिर्माणरीतयः ॥ ंो_३,९.६८ ॥ "यस्याशेषेन्द्रियक्रियाः" भवन्ति । कथम्भूतस्य्"आपि" । "निरिन्द्रियबलस्यापि" । अशेषेन्द्रियक्रियत्वमस्येन्द्रियसाररूपतया । "यस्य निर्मनसोऽपि" निर्विकल्पचिन्मात्रतया मनोरूपस्यापि । "मनोनिर्माणरीतयः" भवन्ति । अन्यथा येन तेन रूपेण भासमानानामासां कुत उत्थानं स्यात् ॥ ंोट्_३,९.६८ ॥ यदनालोचनाद्भान्ति संसारोरगभीतयः । यस्मिन् दृष्टे पलायन्ते सर्वथा सर्वदेतयः ॥ ंो_३,९.६९ ॥ "यदनालोचनात्" यद्विषयसम्यग्ज्ञानाभावात् । "संसारोरगभीतयः" संसाराख्यसर्पोद्भवानि भयानि । "भान्ति" विलसन्ति । यथा रज्जुसम्यग्ज्ञानाभावातुरगभीतयः स्फुरन्तीत्य्"उरग"पदाभिप्रायः । परमात्माज्ञानादेव हि तस्मिन् संसारः तद्भीतयश्च "भान्ति" । "यस्मिन्" परमात्मनि । "दृष्टे" स्वरूपत्वेनानुभूते सति । "सर्वथा" सर्वप्रकारेण वर्तमाना । "ईतयः" बाधाः । "सर्वदा" सर्वकालेषु । "पलायन्ते" दूरे गच्छन्ति । ईतीनां पलायनमीतिरूपताविपर्ययेण परमात्मरूपताज्ञानमेव । तासामपि परमार्थतः तद्रूपत्वात् ॥ ंोट्_३,९.६९ ॥ साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः । सति यस्मिन् प्रवर्तन्ते चित्रेहाः स्पन्दपूर्विकाः ॥ ंो_३,९.७० ॥ "साक्षिणि" सर्वासां स्तैमित्यस्पन्दावस्थानां ग्राहकत्वेन साक्षिभूते । "स्फारे" व्यापके । "आभासे" स्फुरत्तैकसारे । "ध्रुवे" उदासीने । "यस्मिन् सति" सन्निधिमात्रं भजति सति । "चित्रेहाः" नानाविधाः मनोव्यापाराः । कथम्भूताः । "स्पन्दपूर्विकाः" शरीरचेष्टाः । "प्रवर्तन्ते" । तत्सहिता इत्यर्थः । असति आन्तरे कस्मिन् चित्तत्त्वे विकल्पानां शरीरचेष्टानां चोत्थानं युक्तं न स्यादिति भावः । का "इव" । "क्रिया इव" लोकक्रिया इव । यथा "दीपे" सन्निधिमात्रं भजति लोकक्रिया स्वयमेव प्रवर्तन्ते । तथेत्यर्थः ॥ ंोट्_३,९.७० ॥ यस्माद्घटपटाकारपदार्थशतपङ्क्तयः । तरङ्गकणकल्लोलवीचयो वारिधेरिव ॥ ंो_३,९.७१ ॥ "यस्माद्" उपादानभूतात् । यतः "घटपटाकारपदार्थशतपङ्क्तयः" घटपटस्वरूपाः पदार्थशतसमूहाः । भवन्ति । यद्यपि परमाण्वादेरेवोपादानत्वमन्यैरुक्तं तथापि चेतनान् प्रति तस्योपादानत्वाभावात्किमपि चेतनाचेतनस्वरूपमुपादानं कल्प्यमिति न विवादः । का "इव" । "तरङ्गकणकल्लोलवीचय इव" । यथा ताः अम्बुधेः भवन्ति । तथेत्यर्थः ॥ ंोट्_३,९.७१ ॥ स एवान्यतयोदेति यः पदार्थशतभ्रमैः । कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥ ंो_३,९.७२ ॥ "स एव" चिदाख्योऽपूर्वरूपेण वर्तमान एव्"आन्यतया"न्यस्वरूपेण्"ओदेति" उदयं यात्य् । अन्यस्वरूपतामिव भजत इत्यर्थः । कैः कृत्वा । "पदार्थशतभ्रमैः" पदार्थशतरूपाः भ्रमाः । तैः । पदार्थशतैरित्यर्थः । "शत"पदं चात्रानन्ततापरम् । किम् "इव" । "काञ्चनमिव" । यथा "काञ्चनं" । तदेव "कटकाङ्गदकेयूरनूपुरैर्" उदेति । तथेत्यर्थः ॥ ंोट्_३,९.७२ ॥ यस्त्वमेकावभासात्मा योऽहमेते जनाश्च ये । यश्च न त्वमबुद्धात्मन्नाहं नैते जनाश्च यः ॥ ंो_३,९.७३ ॥ हे "अबुद्धात्मन्" अद्य तावतज्ञातपरमात्मतत्त्व । "एकावभासात्मा" केवलज्ञानस्वरूपः । "यः त्वम्" उपदेश्यभूतः अस्ति । त्वत्तया भातीत्यर्थः । "यः अहम्" उपदेशकभूतः अस्ति । मत्तया भातीत्यर्थः । "यश्च य एते जनाः" अस्ति । तत्तया भातीत्यर्थः । सर्वत्र सारतया स्थितत्वात् । ननु परिच्छिन्न एव तर्ह्यसौ नेत्याह "यश्चे"ति । त्वत्तादिविकल्परहितशुद्धचिन्मात्ररूपेण परमार्थतः स्थितत्वादित्यर्थः ॥ ंोट्_३,९.७३ ॥ अन्येवाव्यतिरिक्तैव सैवासेव च भङ्गुरा । पयसीव तरङ्गाली यस्मिन् स्फुरति दृश्यभूः ॥ ंो_३,९.७४ ॥ "भङ्गुरा" नश्वरस्वभावा । "दृश्यभूः" । "दृश्यं" दृशिक्रियाविषयो भावजातम् । तदेव "भूः" नानारचनाधारत्वात्भूमिः । "सा यस्मिन्न्" आधारभूते । "स्फुरति" विलसति । चित्स्वरूपस्य दृश्याधारत्वं स्वप्नदृष्टान्तेन ज्ञेयम् । कथम्भूत्"ऐवाव्यतिरिक्तैव" ततो व्यतिरेकमनापन्नैव । "अन्येवा"न्यवत् । भासमानेत्यर्थः । अव्यतिरिक्तस्यान्यताभासनं वैचित्र्यावहम् । व्यतिरेकाभावेऽपि जातिव्यक्त्योरिव ऐक्याभावमाशङ्क्य तन्मयतां कथयति "सैवे"ति । "सैव" न तु लेशेनाप्यतद्रूपतामती । "असेव" अतद्वद्भासमाना । क्"एव" । "तरङ्गालीव" । तरङ्गाल्याः च "पयसि" तद्रूपतायामप्यतद्रूपतयेव भासनं सर्वप्रतीतिसिद्धमेव ॥ ंोट्_३,९.७४ ॥ यतः कालस्य कलना यतो दृश्यस्य दृश्यता । मानसी कलना येन येन भासां विभासनम् ॥ ंो_३,९.७५ ॥ "कालस्य" वर्तमानाद्युपाध्यसहितस्य वस्तुनः । "यतः कलना" कल्पना भवति । न ह्यान्तरं कल्पयितारं विना कालस्य कल्पना युक्तेति भावः । "यतः दृश्यस्य दृश्यता" भवति । न हि द्रष्टारं विना दृश्यस्य दृश्यत्वमुपपद्यते । "येन मानसी कलना" भवति । न हि साक्षिणं विना मनोऽपि सिध्यति । "येन भासां" घटादिज्ञानानाम् । "विभासनं" स्फुरणम् । भवति । न हि ज्ञातारं विना ज्ञानान्युत्पद्यन्ते ॥ ंोट्_३,९.७५ ॥ क्रियां रूपं रसं गन्धं स्पर्शं शब्दं च चेतनम् । यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ ॥ ंो_३,९.७६ ॥ "क्रियाम्" इत्यनेन "वेत्सी"त्यस्य स्थाने करोषीत्येतत्सम्बन्धनीयम् । तेनायमर्थः । त्वम् । "क्रियां यत्" करोषि । "तत्" करणम् । "अपि असौ" पूर्वोक्तः । "देवः" क्रीडाकारी । भवति । "येन" कर्मेन्द्रियेण करोषि । "तत्" कर्मेन्द्रियम् । "अप्यसौ देवः" भवति । तथा "रूपं रसं गन्धं स्पर्शं शब्दं यद्वेत्सि तद्" वेदनम् । "असौ देवः" भवति । "येन" धीन्द्रियपञ्चकेन "वेत्सि तदप्यसौ देवः" भवति । तथा "चेतनम्" सङ्कल्पादिकम् । "यद्वेत्सि तदसौ देवः" भवति । "येना"न्तःकरणेन । "वेत्सि तदप्यसौ देवः" भवति । एतेन क्रियाफलस्य तत्करणस्य च तन्मयता कथिता । कर्तुस्तु सा निर्विवादसिद्धैव ॥ ंोट्_३,९.७६ ॥ एवं विशेषणद्वारेण तत्स्वरूपमुक्त्वा तत्प्रवेशोपायमाह द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् । साधो तदवधानेन स्वात्मानमवबुध्यसे ॥ ंो_३,९.७७ ॥ हे "साधो" परमात्मबोधार्ह । त्वं "तदवधानेन" तत्रावधानदानेन । "स्वात्मानं" स्वरूपभूतं परमात्मानम् । "अवबुध्यसे" जानासि । तत्र कुत्र । "द्रष्टृदर्शनदृश्यानां" त्रयाणाम् । "मध्ये" । "यद्दर्शनं स्थितं" भवति । अयमत्र निर्णयः । सर्वो व्यवहारः तावत्त्रिपुट्यामेव सम्पद्यते । तत्र "द्रष्टा" कर्ता । "दर्शनं" क्रिया । "दृश्यम्" आलम्बनभूतं कर्म । यद्विषया क्रियोत्पद्यते । करणं त्वसाधारणकारणरूपमेतेभ्यो न व्यतिरिच्यते । सामग्र्या एव करणत्वात् । तत्राहं द्रष्टेत्यभिमानग्रस्ताद्द्रष्टुः ग्राह्यैकरूपदृश्यविषयं दर्शनमुत्पद्यते ।ऽन्यथा तयोः द्रष्टृदृश्यतायोगात् । द्रष्टाभिमानग्रस्तत्वान्न झगिति शुद्धीकर्तुं शक्यते । दृश्यं त्वत्यन्तजडतया तत्तुल्ययोगक्षेममेवातः तौ हित्वा दर्शन एवावधानं विहितम् । ननु दर्शनमप्याश्रयविषयदोषेण दूषितम् । नतरां शुद्धीकर्तुं शक्यते । सत्यम् । द्रष्टरि स्थिताया अहन्तायाः दृश्यस्थायाः जडतायाश्च निवारणमशक्यमेव । लेशत उभयस्पर्शदूषितस्य दर्शनस्य तु अंशभावेन स्थितदोषद्वयनिवारणं सुशकमेव । तत्रेयं रीतिः । दर्शनं मद्रूपं नास्ति । स्फुटं मद्व्यतिरिक्तत्वात् । मद्व्यतिरिक्तत्वं चास्य द्रष्टृत्वाभावात्दृश्यरूपमपि नास्ति । ग्राहकत्वात् । अतः ताभ्यां व्यतिरिक्तं किमपि ग्रहीतुमशक्यमव्यपदेश्यं दर्शनं नामास्तीति सिद्धा दर्शनस्य परमात्मरूपता । ततो द्रष्टृदृश्ययोश्च सा सिद्धतरैव । न हि दर्शनसम्बन्धविलये द्रष्टृदृश्ययोः स्थितिः सम्भवति । दर्शनाश्रयत्वेनैव द्रष्टुर्द्रष्टृत्वात् । तद्विषयत्वेन च दृश्यस्य दृश्यत्वात् । अथवा "दर्शनम्" अत्र दर्शनेच्छाकालीनं ज्ञेयम् । तद्धि तदा आश्रयविषयोपरागाभावेन शुद्धतयैव स्फुरति । पश्चात्तु स्थूलतां याति ॥ ंोट्_३,९.७७ ॥ पूर्वोक्तं सर्गान्तश्लोकेन सङ्गृह्णाति अजमजरमजाड्यं शाश्वतं ब्रह्म नित्यं शिवममलमनाद्यं वन्ध्यवेद्यैरनिन्द्यम् । सकलकलनशून्यं कारणं कारणानाम् अनुभवनमवेद्यं वेदनं वित्त्वमन्तः ॥ ंो_३,९.७८ ॥ "वित्त्वं" वेत्तीति यावत् । "अन्तः" भवति । सर्वस्य दृश्यजातस्य पर्यवसानरूपं भवति । महाप्रलये शिष्यते इति यावत् । कथम्भूतम् । "अजम्" सर्वदैव वर्तमानत्वात् । "अजरं" शरीरव्यतिरिक्तत्वात् । "अजाड्यं" मनोव्यतिरिक्तत्वात् । "शाश्वतं" विश्वात्मकत्वेऽपि स्वरूपादच्युतत्वात् । "ब्रह्म" जगद्रूपेण बृंहणात् । "नित्यं" कालत्रयानपायित्वात् । "शिवं" सुखैकरूपत्वात् । "अमलं" भेदमालिन्यरहितत्वात् । "अनाद्यं" कस्यापि तदाद्यत्वेनावर्तमानत्वात् । "वन्ध्यवेद्यैः" व्यर्थवेद्यैर् । "अनिन्द्यम्" अकदर्थितम् । तत्स्थैर्भावाभावैरदूषितत्वात् । "सकलकलनशून्यं" निर्विकल्पस्वरूपत्वात् । "कारणानां" कारणत्वेनाभिमतानां ब्रह्मादीनाम् । "कारणं" । तेषामप्याकृतिमत्त्वेन सकारणत्वात् । "अनुभवनम्" अनुभवस्वरूपम् । अनुभव एव पूर्वोक्तविशेषाणां सम्भवात् । अनुभवस्वरूपत्वेऽपि वेद्यमालिन्यमाशङ्क्याह्"आवेद्यम्" इति । "अवेद्यं" वेद्यस्पर्शादूषितम् । "वेदनम्" । अचेत्यचिद्रूपमिति यावत् । इति शिवम् ॥ ंोट्_३,९.७८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे नवमः सर्गः ॥ ३,९ ॥ ********************************************************************* ओम् । अत्र मोहमापन्न इव श्रीरामः पृच्छति महाप्रलयसम्पत्तौ यदेतदवशिष्यते । भवत्वेतदनाकारं नाम नास्त्यत्र संशयः ॥ ंो_३,१०.१ ॥ "अत्र संशयो नास्ति" । "एतत्" वस्तु । "अनाकारम्" आकाररहितम् । "भवतु" । अत्र ममापि विश्वासोऽस्तीतीति भावः । "एतत्" किम् । "महाप्रलयसम्पत्तौ" सर्वभावक्षये । "यतेतत्" सद्वस्तु । "अवशिष्यते" अवशिष्टतया तिष्ठति ॥ ंोट्_३,१०.१ ॥ बहिरनुभूयमानाकाररहितशून्यादिवस्तुरूपतानिरासस्तु तस्य न युज्यत इति कथयति न शून्यं कथमेतत्स्यान्न प्रकाशः कथं भवेत् । कथं वा न तमोरूपं कथं वा नैव खात्मकम् ॥ ंो_३,१०.२ ॥ तत्"शून्यं कथं न भवेत्" । तदेव भवत्वित्यर्थः । एवं सर्वत्र योज्यम् । "प्रकाशः" महाभूतप्रकाशः । "खात्मकम्" आकाशरूपम् ॥ ंोट्_३,१०.२ ॥ कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् । कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेत् ॥ ंो_३,१०.३ ॥ चिद्रूपत्वस्यापि तत्र परमार्थतया निवारणादेतदुक्तम् ॥ ंोट्_३,१०.३ ॥ कथं वा न न किञ्चित्स्यात्कथं वा सर्वमित्यपि । अनया च वचोभङ्ग्या मम मोह इवोदितः ॥ ंो_३,१०.४ ॥ "न किञ्चित्" केनापि रूपेण स्थितं न भवति । नकिञ्चित्त्वस्यापि निराकरणात् । "सर्वमित्यपि कथं वा" न भवति ॥ ंोट्_३,१०.४ ॥ श्रीवसिष्ठ उत्तरमाह विषमोऽयमति प्रश्नो भवता समुदाहृतः । भिनद्म्येनं त्वयत्नेन नैशं तम इवांशुमान् ॥ ंो_३,१०.५ ॥ "अति"शब्दो भिन्नक्रमः । "भवता अयं प्रश्नः अतिविषमः" दुर्बोधतरः । "समुदाहृतः" । "तु" विशेषे ।ऽहं "एनमयत्नेन" सुखेनैव । "भिनद्मि" । मनोग्रन्थिरूपत्वात्प्रश्नस्य "भिनद्मी"ति कथनम् । क "इवांशुमानिव" सूर्य इव । अंशुमान् यथा "नैशं" निशासम्बन्धि । "तमः" भिनत्ति । तथेत्यर्थः ॥ ंोट्_३,१०.५ ॥ प्रश्नमेव भिनत्ति महाकल्पान्तसम्पत्तौ यत्तत्सदवशिष्यते । तद्राम न यथा शून्यं तदिदं शृणु कथ्यते ॥ ंो_३,१०.६ ॥ "महाकल्पान्तसम्पत्तौ" तुर्ये तुर्यातीते महाप्रलयसमयनिष्पत्तौ वा । "तत्" प्रसिद्धं केनापि अपलपितुमशक्यम् । हे "राम" । "तत्" "यच्"छब्दकथितं "सद्" वस्तु । "यथा" येन प्रकारेण । "शून्यं न" भवति । "तत्" तमेव प्रकारम् । "इदं" समनन्तरमेव कथ्यमानम् । "शृणु" । यतो मया "कथ्यते" ॥ ंोट्_३,१०.६ ॥ तदेव कथयति अनुत्कीर्णा यथा स्तम्भे संस्थिता सालभञ्जिका । तथा विश्वं स्थितं तत्र तेन शून्यं न तत्पदम् ॥ ंो_३,१०.७ ॥ "अनुत्कीर्णा" तक्षकारेण निस्तक्ष्य न प्रकटीकृता । स्तम्भे संस्थितत्वमस्या अग्रे प्रकटीभावात् । विश्वस्य सद्रूपे स्थितत्वमद्यैव भासमानत्वाद् । इति तु विशेषः । "तत्पदं" परमात्माख्यं पदम् । यदि तच्"छून्यं" स्यात्तदा जगत्कुत्र भूयात् । निरधिष्ठानस्य भ्रमस्यायुक्तत्वादिति भावः । भेदेनैव भातीत्य्"अनुत्कीर्णे"त्युक्तम् ॥ ंोट्_३,१०.७ ॥ एतदेवं विस्तरं कथयति अयमित्थं महाभोगो जगदाख्योऽवभासते । सत्यो भवत्वसत्यो वा यत्र तत्र क्व शून्यता ॥ ंो_३,१०.८ ॥ "अयम्" अनुभूयमानः विस्तारः । "सत्यो भवतु" सत्स्वरूपो भवाख्यः । "जगद्" इति नामधेयः । "महाभोगः" महाविस्तारः । "सत्यो भवतु" सत्स्वरूपो भवत्व् । "असत्यो वा"सत्स्वरूपो वा भवतु । सः "यत्र" आधारभूते यस्मिन् वस्तुनि । "अवभासते" स्फुरति । "तत्र क्व शून्यता" । न युक्तेति भावः ॥ ंोट्_३,१०.८ ॥ यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णसालिकः । तथा तात जगद्ब्रह्म तेन शून्यं न तत्पदम् ॥ ंो_३,१०.९ ॥ "अनुत्कीर्णसालिकः" अनुत्कीर्णपुत्रिकः । दार्ष्टान्तिके योजयति "तथे"ति । हे "तात" हे पूज्य । "तथे"त्यनेन पूर्ववाक्यस्थं "ने"ति "शून्य" इति च पदद्वयमाकृष्यते । तेनायमर्थः । "तथा ब्रह्म" "जगच्छून्यं न" भवति । फलितमाह "तेने"ति ॥ ंोट्_३,१०.९ ॥ सोम्याम्भसि यथा वीचिर्न चास्ति न च नास्ति च । तथा जगद्ब्रह्मणीदं शून्याशून्यपदं गतम् ॥ ंो_३,१०.१० ॥ "सोम्याम्भसि" क्षोभरहिते जले । "न चास्ति" । तदानीमलभ्यत्वात् । "न च नास्ति" । अग्रे स्फुटीभविष्यमाणत्वात् । दार्ष्टान्तिकमाह "तथे"ति । भासमानत्वाद्"अशून्यपदं गतं" । परमार्थतो नकिञ्चिद्रूपत्वाच्"छून्यपदं गतम्" इति योज्यम् ॥ ंोट्_३,१०.१० ॥ ननु तर्हि पुत्रिकादिसादृश्येन सिद्धा एव ब्रह्मणि जगत्स्थितिरित्य् । अत्राह देशकालादिशान्तत्वात्पुत्रिकारचनं द्रुमे । सम्भवत्यजधातौ तु केन नान्तर्विमुह्यते ॥ ंो_३,१०.११ ॥ "द्रुमे" लक्षणया स्तम्भे । "पुत्रिकारचनं" देशवशेन कालवशेन कर्त्रादिवशेन च "सम्भवति" । "तु" विशेषे । "अजधातौ" नवीनप्रादुर्भावरहितचिदाख्यमूलकारणविषये । "ऽन्तः" मनसि । "केन" पुरुषेण । "न मुह्यते" मोहितेन भूयते ।ऽपि तु सर्वेणैवेत्यर्थः । कुतो "मुह्यते" । "देशकालादिशान्तत्वात्" । "आदि"शब्देन कर्त्रादीनां ग्रहणम् । देशकालकर्त्रादिशान्तेरित्यर्थः । तच्छान्तिश्चात्र शुद्धचिन्मात्रतयैव ज्ञेया । मोहश्च देशकालादिस्पर्शरहिते ब्रह्मणि कथं जगद्भाति इत्येवंरूपो ज्ञेयः ॥ ंोट्_३,१०.११ ॥ फलितमाह तत्स्तम्भपुत्रिकाद्येतत्परमार्थजगत्स्थितेः । एकदेशेन सदृशमुपमानं न सर्वतः ॥ ंो_३,१०.१२ ॥ यतः देशकालादिसम्भवेन स्तम्भे पुत्रिकारचनं युक्तम् । तच्छान्त्या तु चिद्धातौ तु न युक्तम् । "तत्" ततो हेतोः । "एतत्" समनन्तरमेवोक्तं "स्तम्भपुत्रिकादि" । "आदि"शब्देन वीच्यम्भसोर्ग्रहणम् । "परमार्थे" या "जगत्स्थितिस्" । तस्याः "एकदेशेन" शून्यतानिवारणमात्रेण । "सदृशमुपमानं" भवति । "न सर्वतः" न सर्वेण प्रकारेण । न भवतीत्यर्थः ॥ ंोट्_३,१०.१२ ॥ जगदाधारत्वेन शून्यत्वं निरस्य तद्रूपतया निरस्यति न कदाचिदुदेतीदं परस्मान्न च शाम्यति । इदंरूपं केवलं सद्ब्रह्म स्वात्मनि संस्थितम् ॥ ंो_३,१०.१३ ॥ "परस्मात्" परमात्मनः । ननु यदि जगन्नोदेति न च शाम्यति तर्हि किमिदं भासत इत्य् । अत्राह "इदम्" इति । "केवलम्" अद्वितीयम् । "सत्" सत्स्वरूपम् । "ब्रह्म" बृंहितं वस्तु । "स्वात्मनि" स्वस्वरूपे । "संस्थितं" भवति । कथम्भूतं "इदंरूपं" । "इदं" शान्त्युदयसहितं जगत् । "रूपं" स्वरूपम् । यस्य । तत् । तादृशम् । शान्त्युदयसहितस्य जगतो ब्रह्मत्वं ब्रह्माश्रयबृंहाविषयत्वेन ज्ञेयम् । बृंहाविषयो हि ब्रह्मस्वरूपमेव भवति । तथा च ब्रह्मणः शून्यत्वं न युक्तमिति भावः ॥ ंोट्_३,१०.१३ ॥ अशून्यत्वासम्भवेन शून्यत्वनिरासमाह अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना । अशून्यत्वासम्भवतः शून्यत्वाशून्यते कुतः ॥ ंो_३,१०.१४ ॥ "अशून्यत्वापेक्षयाशून्यत्वस्य" किञ्चिद्रूपत्वस्य्"आपेक्सया" तदपेक्ष्येत्यर्थः । "शून्यत्वपरिकल्पना "। "शून्यत्वस्य" नकिञ्चिद्रूपत्वस्य । "परिकल्पना" कल्पनम् । भवति । ततः किमित्य् । अत्राह "अशून्यत्वे"ति । "अशून्यत्वासम्भवतः" उक्तयुक्त्या किञ्चिद्रूपत्वासम्भवेन । "शून्यत्वाशून्यते" नकिञ्चित्त्वकिञ्चित्त्वे । "कुतः" । न स्त इत्यर्थः । सापेक्षयोरेकनाशे द्वयोरपि नाशादिति भावः । किञ्चिद्रूपत्वाभावश्च निरालम्बशुद्धचिन्मात्रतया ज्ञेयः ॥ ंोट्_३,१०.१४ ॥ शून्यत्वं निवार्य प्रकाशरूपत्वं निवारयति ब्रह्मण्ययं प्रकाशो हि न सम्भवति भूतजः । सूर्यानलेन्दुतारादि कुतस्तत्र किलाव्यये ॥ ंो_३,१०.१५ ॥ "अयं" नेत्रेण दृश्यमाणः । "भूतजः" अग्न्यादिभूतोत्पन्नः । "प्रकाशः" तेजः । "हि" निश्चये । "ब्रह्मणि" व्यापके वस्तुनि । "न सम्भवति" । चिन्मात्रतया तदुत्तीर्णत्वात् । अत्र हेतुत्वेनोत्तरार्धमाह "सूर्ये"ति । "किल"शब्दो हेतुत्वद्योतनार्थः । "अव्यये" नाशरहिते । "सूर्यादीनाम्" आकृतिमत्त्वेन नाशसम्भवान्नात्र स्थितिर्युक्ता । तद्रूपतायास्तु का कथा इति भावः ॥ ंोट्_३,१०.१५ ॥ तमोरूपत्वं निवारयति महाभूतप्रकाशानामभावस्तम उच्यते । महाभूताभावजं तु तेनात्र न तमः क्वचित् ॥ ंो_३,१०.१६ ॥ तेजोऽभावस्यैव तमस्त्वं वादिभिः प्रतिपादितमिति भावः । फलितमाह "महाभूते"ति । "तु" विशेषे । "महाभूताभावजं" लक्षणया महाभूतप्रकाशाभावात्जातम् । तद्रूपमिति यावत् । "तमो" । "ऽत्र" सद्वस्तुनि । "तेन" महाभूतप्रकाशाभावत्वेन हेतुना । "ना"स्ति । कुत्र । "क्वचित्" कस्मिन्नप्यंशे महाभूतस्थित्यायतने । महाभूतप्रतियोगिकाभावासम्भवेन तमोऽप्यत्र न युक्तम् । तद्रूपस्य तु का कथेति भावः ॥ ंोट्_३,१०.१६ ॥ ननु तेजसोऽभावे कथं तत्प्रकाशत इत्य् । अत्राह स्वानुभूतिप्रकाशोऽस्य केवलं व्योमरूपिणः । योऽन्तरस्ति स तेनैव न त्वन्येनानुभूयते ॥ ंो_३,१०.१७ ॥ "व्योमरूपिणः" नकिञ्चिद्रूपस्य्"आस्य" सद्वस्तुनः । "स्वानुभूतिः" स्वास्वरूपभूता चासाव्"अनुभूतिः" अनुभवः । "स्वानुभूतिः" । सैव "प्रकाशः" प्राकट्यकरणभूतं तेजः । स्वानुभूत्यैवासौ भाति न बाह्यतेजसेत्यर्थः । कथम्भूतदित्य् । अत्राह "योऽन्तर्" इति । "योऽन्तरस्ति" । पुरुषेण "स तेनैवा"करणभूतेन तेनैव्"आनुभूयते" । स्वप्रतीतिविषयतां नीयते । "न त्वन्येन" । अन्यस्य तत्र प्रवेशासम्भवात् । स्वयमेवासावनुभवोऽनुभवितानुभवनमनुभूतिविषयश्चेति । न तत्र कस्याप्यपेक्षेति भावः ॥ ंोट्_३,१०.१७ ॥ प्रकृतमनुसन्धत्ते मुक्तं तमःप्रकाशाभ्यामित्येतदजरं पदम् । आकाशकोशमेवैनं विद्धि कोशं जगत्स्थितेः ॥ ंो_३,१०.१८ ॥ "इति" अनेन प्रकारेण । "एतत्" अवशेषतया कथ्यमानम् । "अजरं" जरादोषरहितम् । "पदं" स्थानम् । "तमःप्रकाशाभ्यां" तमसा प्रकाशेन च । "मुक्तं" भवति । खात्मकत्वमस्य निवारयितुं प्रस्तौति । "आकाशे"ति । त्वम् "एनं" परमात्मानम् । "आकाशकोशमेव" आकाशमध्यमेव । "जगत्स्थितेः कोशं" भाण्डागारम् । "विद्धि" जानीहि ॥ ंोट्_३,१०.१८ ॥ दृष्टान्तेनैतदेव दृढयति बिल्वस्य बिल्वसंज्ञस्य यथा भेदो न कश्चन । तथेह ब्रह्मजगतोर्न मनागपि भिन्नता ॥ ंो_३,१०.१९ ॥ "बिल्वस्य" बिल्वफलस्य । "बिल्वसञ्ज्ञस्य" बिल्वेति संज्ञाप्रवृत्तिनिमित्तस्य वस्तुनः । "यथा" येन प्रकारेण । "कश्चन" कोऽपि । "भेदः ना"स्ति । "तथा" तेन प्रकारेण्"एहा"स्मिंल्लोकत्रये । "ब्रह्मजगतोर्" "मनागपि भिन्नता न" भवति । यदेव ब्रह्म तदेव जगत् । यदेव जगत्तदेव ब्रह्मेति भावः । "बिल्वस्य" "बिल्वमध्यस्ये"ति वा पाठः ॥ ंोट्_३,१०.१९ ॥ ननु तथापि प्रकृते किमायातमित्य् । अत्राह सलिलेऽन्तर्यथा वीचिर्मृदोऽन्तर्घटको यथा । तथा यत्र जगत्सत्ता तत्कथं खात्मकं भवेत् ॥ ंो_३,१०.२० ॥ "सलिले" जले । "ऽन्तः वीचिः यथा" भवति । "तथा" तेन प्रकारेण । "यत्र" यस्मिन्नुपादानभूते । "जगत्सत्ता" भवति । "तद्" वस्तु । "खात्मकम्" आकाशस्वरूपम् । "कथं भवेत्" ॥ ंोट्_३,१०.२० ॥ चिद्रूपतानिवारणार्थं प्रक्रियामारभते मृज्जलाद्युपमानश्रीः साकारात्र समा न सा । ब्रह्म त्वाकाशविशदं तस्यान्तःस्थं तथैव तत् ॥ ंो_३,१०.२१ ॥ "मृज्जलाद्युपमानश्रीः" । "अत्र" ब्रह्मविषये । "समा" योग्या । "न" भवति । कुत इत्यपेक्षायामाह । "साकारे"ति । यतः "साकारा" आकारसहिता भवति । साकारत्वेन कथं मृज्जलादेरुपमानयोग्यत्वमित्य् । अत्राह "ब्रह्मे"ति । "तुः" विशेषे । "ब्रह्माकाशविशदं" निराकारम् । भवति । साकारस्य मृदादेः निराकारं ब्रह्म प्रति उपमानत्वं न युक्तमिति भावः । फलितमाह । "तस्ये"ति । "तत्" ततो हेतोः । तद्"अन्तःस्थं" तदन्तरे स्थितम् । जगत्"तथैव" निराकारं भवतीत्यर्थः ॥ ंोट्_३,१०.२१ ॥ पुनरप्युपसंहारव्याजेन जगतो निराकारत्वं साधयति तस्माद्यादृक्चिदाकाशमाकाशादपि निर्मलम् । तदन्तःस्थं तादृगेव जगच्छब्दार्थभागपि ॥ ंो_३,१०.२२ ॥ "आकाशाद्" "अपि" निर्मलत्वं चिदाकाशस्य जडत्वाभावेन ज्ञेयम् । "तदन्तःस्थं" जगत् । "तादृगेव" निराकारमेव भवति । कथम्भूतम् "अपि" । "जगच्छब्दार्थभागपि" । भावप्रधानो निर्देशः । तेन जगद्रूपतया भासमानत्वेन जगच्छब्दार्थताभागपीत्यर्थः ॥ ंोट्_३,१०.२२ ॥ मरिचेऽन्तर्यथा तैक्ष्ण्यमृते भोक्तुर्न लक्ष्यते । चिन्मात्रत्वं पराकाशे तथा चेत्यकलां विना ॥ ंो_३,१०.२३ ॥ "यथा" केनचित्"मरिचेऽन्तः" मरिचान्तरे । स्थितं "तैक्ष्ण्यं" तिक्तता । "भोक्तुः ऋते न लक्ष्यते" न दृश्यते । भोक्तरि तु सति तेनैव लक्ष्यते इत्यर्थः । "तथा पराकाशे" परमात्मनि । स्थितं "चिन्मात्रत्वं" । "चेत्यकलां" चेत्यांशं "विना" । "न लक्ष्यते" । चेत्यचर्वणादेव हि चिन्मात्रस्य चिन्मात्रता ज्ञायते ॥ ंोट्_३,१०.२३ ॥ फलितमाह तस्माच्चिदप्यचिद्रूपा चेत्यरिक्ततयात्मनि । जगत्ता तादृश्येवेयं तादृङ्मात्रात्मतावशा ॥ ंो_३,१०.२४ ॥ "तस्मात्" ततो हेतोः । "चेत्यरिक्ततया" चेत्यराहित्येन्"आत्मनि" चिन्मात्राख्ये स्वस्वरूपे । "चिदपि अचिद्" एव भवति । चेत्यस्यैव पूर्वनयेन चिन्मात्रतादृढीकरणसामर्थ्यात्तस्य चात्राभावात् । तस्याभावश्चात्र ब्रह्मान्तःस्थत्वेन ब्रह्मतयैव ज्ञेयः । ब्रह्माभिन्ने जगत्यपि अचित्त्वमतिदिशति । "जगत्ते"ति । "इयं" "जगत्ता"पि । "तादृशी एव" चिद्रूपब्रह्माभिन्नत्वेनाचिद्रूपैव भवति । अत्र हेतुतया विशेषणमाह । "तादृङ्मात्रात्मतावशे"ति । यतः "तादृङ्मात्रात्मतायाः" अचिद्रूपब्रह्ममात्रस्वरूपतायाः । "वशा" आयत्ता । अचिद्ब्रह्मस्वरूपिणीत्यर्थः । एतेन ब्रह्मजगतोः सर्वथाभेदोऽपि साधितः । न ब्रह्मणोऽचिद्रूपमात्रता । तस्या अग्रेऽपि साध्यमानत्वात् ॥ ंोट्_३,१०.२४ ॥ ननु जगतः सर्वथाभिन्नत्वे रूपालोकमनस्काराः किंरूपा इत्य् । अत्राह रूपालोकमनस्कारास्तन्मया एव नेतरत् । यथास्थितमतो विश्वं सुषुप्तं तुर्यमेव वा ॥ ंो_३,१०.२५ ॥ "रूपालोकमनस्काराः" । "रूपं" नीलपीतादि । "आलोकः" तद्दर्शनं करणभूतः प्रकाशो वा । "मनस्कारः" मानसः परामर्शः । तद्विषयाः एते "तन्मया एव" । "एव"शब्दार्थमाह "नेतरद्" इति । तन्मयत्वं चैषां तद्विषयत्वं विनासत्कल्पत्वात् । फलितमाह "यथे"ति । "अतो" हेतोः । "विश्वं" जगत् । "यथास्थितम्" अनेन प्रकारेणैव वर्तमानम् । न तु यया कयापि शक्त्यान्तर्धिमापादितम् । "सुषुप्तं" भवति । सुषुप्तौ भेदसंस्कारमाशङ्क्याह "तुर्यम्" इति । तुर्यस्वरूपचिन्मात्रैकमयमेव वा भवतीत्यर्थः ॥ ंोट्_३,१०.२५ ॥ जगतः तुर्यरूपब्रह्मत्वेन योगिनो व्यवहारेऽपि ब्रह्ममयतामाह तेन योगी सुषुप्तात्मा व्यवहार्यपि शान्तधीः । आस्ते ब्रह्म निराभासं सर्वभासां समुद्गकम् ॥ ंो_३,१०.२६ ॥ "तेन" पूर्वोक्तेन हेतुना । "योगी" जगद्ब्रह्मैकत्वे समाहितः । "ब्रह्म" ब्रह्मस्वरूपम् । "आस्ते" । कुत एवंरूप आस्ते । यतः "व्यवहार्यपि" व्यवहारं कुर्वाणोऽपि । "शान्तधीः" क्षोभरहितबुद्धिः । ईदृशोऽपि कुतः । यतः "सुषुप्तात्मा" प्रपञ्चं प्रति सुप्तान्तःकरणः । प्रपञ्चं प्रति सुप्तमनसो हि शान्तधीत्वं युक्तमेव । कथम्भूतं "ब्रह्म" । "निराभासं" नानाभासेभ्यो निष्क्रान्तम् । तदुत्तीर्णमित्यर्थः । पुनः कथम्भूतम् । "सर्वभासां" सर्वेषां घटपटादिज्ञानानाम् । "समुद्गकम्" उद्भूतिस्थानम् ॥ ंोट्_३,१०.२६ ॥ पुनरपि प्रकृतं ब्रह्मजगदभेदमेव कथयति आकारिणि यथा सौम्ये स्थितस्तोये द्रवक्रमः । अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे ॥ ंो_३,१०.२७ ॥ "आकारिणि" बाह्येन्द्रियग्राह्यस्वरूपयुक्ते । "सौम्ये" क्षोभरहिते । "तोये" । "द्रवक्रमः" आद्यस्पन्दनासमवायिकारणभूतगुणविशेषपरिपाटी । "यथा स्थितः" भवति । "तथानाकृतौ परे" परब्रह्मणि । "विश्वं" "स्थितं" भवति । कथम्भूतम् । "तत्सदृशम्" अनाकृतीत्यर्थः । सौम्ये जले यथा स्फुटीभविष्यमाणत्वेन किञ्चित्त्वार्होऽपि द्रवाख्यो गुणः तन्मयः । तथा भासमानत्वेन भिन्नत्वार्होऽपि प्रपञ्चः ब्रह्ममय इति भावः ॥ ंोट्_३,१०.२७ ॥ अभेदमुक्त्वा तत्त्वमेव कथयति पूर्णात्पूर्णं प्रसरति निराकारान्निराकृति । ब्रह्मणो विश्वमाभातं तद्विश्वार्थविवर्जितम् ॥ ंो_३,१०.२८ ॥ "पूर्णाद्" ब्रह्मणः । "पूर्ण"रूपं जगत् । "प्रसरति" विलसति । प्रसरणं चात्र प्रपञ्चाक्रान्तबुद्धिं शिष्यं प्रयुक्तम् । "निराकारात्" ब्रह्मणः । "निराकृति" जगत् । "प्रसरति" । अतः "ब्रह्मणः" यद्"विश्वमाभातं" भानमागतम् । तत्"विश्वार्थविवर्जितम्" विश्वार्थैः घटपटादिभिः विवर्जितं भवति । ब्रह्मैकमयं भवतीत्यर्थः ॥ ंोट्_३,१०.२८ ॥ पूर्णात्पूर्णं प्रसरति संस्थितं पूर्णमेव तत् । अतो विश्वमनुत्पन्नं यच्चोत्पन्नं तदेव तत् ॥ ंो_३,१०.२९ ॥ "पूर्णाद्" ब्रह्मणः । "पूर्ण"रूपं जगत् । "प्रसरति" विलसति । प्रसरणं "संस्थितं" भवति । न तु तत्प्रसरणेन काचित्खण्डनास्य जायते इत्यर्थः । फलितमाह्"आत" इति । "अतः" पूर्वोक्ताद्धेतोः । "विश्वमनुत्पन्नं" भवति । ब्रह्मत्वेन तस्य सदा स्थितत्वात् । विश्वानुत्पन्नत्वमसहमानं प्रत्याह "यच्चे"ति । "यत्चोत्पन्नं" भवति । "तत्तदेव" ब्रह्मैव । भवति । उत्पन्नस्यापि ब्रह्मत्वाविरुद्धत्वादित्यर्थः ॥ ंोट्_३,१०.२९ ॥ एतावत्या प्रक्रियया सिद्धमचिद्रूपत्वं ब्रह्मणः कथयति चेत्यासम्भवतस्तस्मिन् पदे केव चिदर्थता । आस्वादकासम्भवतो मरिचे केव तीक्ष्णता ॥ ंो_३,१०.३० ॥ अत इत्यध्याहार्यम् । अतो हेतोः । "चेत्यासम्भवतः" । "चेत्यस्य" चिद्विषयस्य जगतो । "ऽसम्भवतः" । "तस्मिन् पदे" ब्रह्मस्वरूपे पदे । "केव चिदर्थता" चिच्छब्दप्रवृत्तिनिमित्तता । भवति । न कापीत्यर्थः । चेत्यविषयीकरणेनैव हि चितः चिदिति नाम युक्तम् । चेत्याभावे तु तन्न युक्तम् । चेत्याभावश्च सविस्तरं पूर्वं साधितः । चिदर्थतानिषेधश्चात्र तदुत्तीर्णतया ज्ञेयः न जडतयेति । अत्र समर्थकं दृष्टान्तमाह "आस्वादके"ति । "केव" न कापीत्यर्थः । "आस्वादकासम्भवत" आस्वादकासम्भवेन इत्यर्थः ॥ ंोट्_३,१०.३० ॥ पुनरप्येतदेव कथयति सत्येवेयमसत्यैव चितेश्चित्तोदिता परे । अभावात्प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः ॥ ंो_३,१०.३१ ॥ "चितेः" "चित्ता" चित्सम्बन्धी चिद्भावः । "परे" परमात्मनि । "असत्यैव" परमार्थतोऽसत्स्वरूपैव सती । "सत्येव" सत्यवद् । "उदिता"त्र दृष्टान्तमाह "अभावाद्" इति । दर्पणस्येति शेषः । यथा दर्पणस्य "प्रतिबिम्बार्हता" प्रतिबिम्बेनैव ज्ञायते । तदभावे तु सा न ज्ञायते । एवं परस्य चित्ता चेत्येनैव ज्ञायते । तदभावे तु "कुतो" ज्ञायते इति भावः ॥ ंोट्_३,१०.३१ ॥ जीवादिरूपतानिरासार्थं परमात्मतत्त्वं विशिनष्टि परमाणोरपि परं तदणीयोऽप्यणीयसः । शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि ॥ ंो_३,१०.३२ ॥ "तत्" ब्रह्म । "परमाणोरपि परमणीयः" अतिसूक्ष्मम् । भवति । कथम्भूताद्"अपि" । "अणीयसोऽपि" द्व्यणुकाद्यपेक्षया सूक्ष्मतरादपि । सूक्ष्मतरत्वं चास्य बाह्येन्द्रियाग्राह्यत्वेन ज्ञेयम् । "तत्" ब्रह्म । कथम्भूतम् । "शुद्धं" रागादिरजोऽदूषितम् । "सूक्ष्मं" । "परम्" उत्तीर्णम् । "शान्तं" सर्वप्रचारशून्यम् । कस्माद्"अपि" । "आकाशोदरादपि" ॥ ंोट्_३,१०.३२ ॥ दिक्कालाद्यनवच्छिन्नरूपत्वादतिविस्तृतम् । तदनाद्यन्तमाभासं भासनीयविवर्जितम् ॥ ंो_३,१०.३३ ॥ "तत्" ब्रह्म्"आतिविस्तृतम्" अतिविस्तीर्णं भवति । कुतः । "दिक्कालाद्यनवच्छिन्नरूपत्वात्" । "आदि"शब्देन वस्तुपरिग्रहः त्रिविधपरिच्छेदशून्यत्वादित्यर्थः । ननु कथमस्य दिगादिपरिच्छेदशून्यत्वम् । तथात्वेऽप्यतिविस्तृतत्वमिति चेत् । "दिक्" तावत्चेत्यमाना न वा । न चेत्तर्हि स्वयमेवासिद्धा कथमन्यं परिच्छेदयेत् । चेत्यमाना चेत्तर्हि चितैव सा परिच्छिन्ना कथं तां परिच्छेदयेत् । एवं "काला"देरपि ज्ञेयम् । "दिग्"आदिभिः परिच्छिन्नमेव परिच्छिन्नं भवति । तदभावे त्वतिविस्तृतमेवेति स्थितमस्यातिविस्तृतत्वम् । पुनः कथम्भूतम् । "अनाद्यन्तं" यथा तथा कल्प्यमानयोरप्याद्यन्तयोः साक्षित्वादाद्यन्तरहितम् । पुनः कथम्भूतम् । "भासनीयविवर्जितम्" आभासज्ञेयरहितज्ञानस्वरूपमित्यर्थः ॥ ंोट्_३,१०.३३ ॥ प्रोक्तविशेषणावष्टम्भेन जीवादिरूपतामस्य निवारयति चिद्रूपमेव नो यत्र लभ्यते तत्र जीवता । कथं स्याच्चित्तताकारा वासनानिलरूपिणी ॥ ंो_३,१०.३४ ॥ "यत्रै"वंविधगुणविशिष्टे ब्रह्मणि । "चिद्रूपमेव" भावप्रधानो निर्देशः चिद्रूपत्वमेव । "नो लभ्यते" पूर्वन्यायेन नानुभूयते । "तत्र" तादृशे ब्रह्मणि । "जीवता" जीवभावः । "कथं स्यात्" । कथम्भूता । "चित्तताकारा" चेत्यशयनाविष्टं चित्तत्वं चित्तम् । तद्रूपिणीत्यर्थः । पुनः कथम्भूता । "वासनानिलरूपिणी" । चेत्यभावना "वासना" । सैव चलत्तय्"आनिलः" । तद्"रूपिणी" । शुद्धा चिद्रूपतापि यत्र नास्ति चेत्यशयनाविष्टाया जीवतायाः का तत्र वार्तेति भावः ॥ ंोट्_३,१०.३४ ॥ चिद्रूपत्वाभावेनैव युगपज्जीवादितां निराकरोति चिद्रूपानुदयादेव तत्र नास्त्येव जीवता । न बुद्धिता न चित्तत्त्वं नेन्द्रियत्वं न वासनाः ॥ ंो_३,१०.३५ ॥ "चिद्रूपानुदयादेव" चित्स्वरूपानुद्भूतेरेव । न त्वन्येन हेतुना । तद्रूपानुदयस्तु पूर्वं कथितः । सूक्ष्मरूपेण स्थिता चेत्यभावना वासना । ननु चिद्रूपानुदयेन कथमत्र जीवादिता नास्ति । सत्यम् । चिदुच्छूनताया एव जीवादिभावेन तद्रूपत्वानुदये युक्तमेव जीवताद्यभावत्वमिति न विरोधः ॥ ंोट्_३,१०.३५ ॥ फलितमाह एवं स्थितं लयारम्भपूर्णमप्यजरं पदम् । अस्मद्दृष्ट्या स्थितं शान्तं शून्यमाकाशतोऽधिकम् ॥ ंो_३,१०.३६ ॥ "लयारम्भपूर्णं स्थितमपि अजरं" जराख्यशरीरधर्मरहितम् । "पदं" परमात्मलक्षणं स्थानम् । "अस्मद्दृष्ट्याकाशतः" आकाशापेक्षय्"आधिकं शान्तं" । तथा "शून्यं" नकिञ्चिद्रूपम् । "स्थितं" भवति । कथम् । "एवं" पूर्वोक्तया युक्त्येत्यर्थः ॥ ंोट्_३,१०.३६ ॥ परमात्मस्वरूपं दुर्बोधं ज्ञात्वा पुनरपि श्रीरामः पृच्छति परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः । पुनरेतत्समाचक्ष्व निपुणं बोधवृद्धये ॥ ंो_३,१०.३७ ॥ त्वं "पुनः निपुणं" सम्यक् । "बोधवृद्धये" परमात्मविषयज्ञानवृद्धये । "एतत्समाचक्ष्व" कथय । "एतत्" किम् । "तस्य" प्रसिद्धस्य्"आनन्तचिदाकृतेः" दिगाद्यपरिच्छिन्नचित्स्वरूपस्य । "परमार्थस्य" सत्यस्वरूपस्य परमात्मनः । "किं रूपम्" अस्तीति ॥ ंोट्_३,१०.३७ ॥ श्रीवसिष्ठ उत्तरमाह महाप्रलयसम्पत्तौ सर्वकारणकारणम् । शिष्यते यत्परं ब्रह्म तदिदं वर्ण्यते शृणु ॥ ंो_३,१०.३८ ॥ "महाप्रलयसम्पत्तौ" तुर्ये तुर्यातीते महाकल्पान्तसमये वा । "कारणकारणं" मूलकारणम् । "यत्परं ब्रह्म" जगद्भावेन बृंहां गतं परमात्मलक्षणं वस्तु । "शिष्यते" महाप्रलयसाक्षिभावेन शिष्टं भवति । मया "तदिदं वर्ण्यते" ।ऽतः त्वं "शृणु" ॥ ंोट्_३,१०.३८ ॥ परमात्मस्वरूपमेव वर्णयति नाशयित्वा स्वमात्मानं मनसो वृत्तिसङ्क्षये । यद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः ॥ ंो_३,१०.३९ ॥ "तस्य वस्तुनः" परं ब्रह्मापरपर्यायस्य परमात्मलक्षणस्य वस्तुनः । "तत्रूपं" भवति । "तत्" किम् । "यत्तद्रूपं" । शिष्यत इति शेषः । "शिष्यते" स्वनाशसाक्षिभावेन शिष्टं भवति । कस्य । "मनसः" । किं कृत्वा । "स्वमात्मानं नाशयित्वा" शुद्धचिन्मात्रे लयं नीत्वा । कस्मिन् सति । "वृत्तिसङ्क्षये" वृत्तिनाशे सति इत्यर्थः । "तद्रूपं" किम् । "यतनाख्येयं" भवति । अतिशुद्धत्वेन आख्यायोग्यं न भवतीत्यर्थः । अयं भावः । मनसैव मनः छित्त्वेति न्यायेन किञ्चिन्मात्रं सम्यक्ज्ञानेन संसारकलनाभ्यो निष्क्रान्तं शुद्धं मनः भावनाबलेन शुद्धाशुद्धवृत्तिक्षयेण हेतुना शुद्धाशुद्धं स्वं रूपं नाशयति । ततः तन्मनः शुद्धतरे कुत्राप्यनाख्येये लयीभूतमनाख्येयं भवति । एतद्रूपता च सुषुप्तौ सर्वैरनुभूयते । किं तु मूढतामिश्रा । तच्च मनो यदा तादृक्स्यात्तदास्य परमात्मताभावः भवतीति । तत्रैव योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.३९ ॥ नास्ति दृश्यं जगद्द्रष्टा दृश्याभावाद्विलीनवत् । भातीति भासनं यत्स्यात्तद्रूपं तस्य वस्तुनः ॥ ंो_३,१०.४० ॥ "तस्य वस्तुनः" परमात्मलक्षणस्य वस्तुनः । "तद्रूपं" भवति । "तत्" किम् । "यद्" "इति" एवम् । "भासनं" स्फुरणं "स्यात्" । "इति" किम् । "इति दृश्यं" दृशिक्रियाविषयो । "जगत्नास्ति" प्रतीतिमात्रसिद्धत्वात् । "द्रष्टा" दृशिक्रियाकर्ता । "दृश्याभावाद्विलीनवत्" लीन इव । "भाती"ति । अयं भावः । पूर्वं सम्यग्ज्ञानेन दृश्यात्यन्ताभावो युक्त्या निश्चेयः । ततः दृश्यात्यन्ताभावेन द्रष्टापि लयीभूत इव भवति । ततश्च द्रष्टा दृश्यं च नास्तीति स्फुरति । तत्स्फुरणं च द्रष्टृदृश्यलेपरहितत्वेन नकिञ्चिद्रूपत्वादनाख्येयं भवति । तदेव च परमात्मस्वरूपमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.४० ॥ चितेर्जीवस्वभावो यो यदि चेत्योन्मुखो वपुः । चिन्मात्रं विमलं शान्तं तत्तत्कारणकारणम् ॥ ंो_३,१०.४१ ॥ "तत्" प्रसिद्धम् । "तच्" चिन्मात्रम् । "कारणकारणं" मूलकारणभूतं परमात्मस्वरूपं भवति । "तत्चिन्मात्रं" किम् । "चितेः" जीवोपादानकारणभूतायाः चितेः । "वपुः" स्वरूपम् । चिन्मात्रस्वरूपत्वात्चितेः । पुनः कथम्भूतम् । "विमलं" चेत्यमालिन्येनादूषितम् । पुनः कथम्भूतम् । "शान्तं" चेत्यक्षतक्षोभरहितम् । "तत्चिन्मात्रं" किम् । "यः जीवस्वभावः" जीवस्य रूपो । भवति । "स्वभाव"शब्दापेक्षया "यच्"छब्दस्य पुंलिङ्गता । ननु कदासौ जीवस्वभावो भवतीत्याह "यदी"ति । "यदि चेत्योन्मुखः" स्यात् । चेत्योन्मुखायाः चितेरेव जीवत्वात् । अयं भावः । यच्चिन्मात्रं चेत्योन्मुखं सत्जीवतां याति तदेव सम्यग्ज्ञानेन चेत्यासत्त्वं निश्चित्य शुद्धीकृतं सतनाख्येयं भवति । तदेव च परमात्मरूपमिति । तत्र योगिना सावधानेन भाव्यमिति । चितिश्च स्वपरामर्शकारितया परामर्शकर्तृत्वेन परामर्शविषयत्वेन च द्विविधास्ति । तत्र प्रथमायाः चिन्मात्रमिति नाम द्वितीयस्याः चितिरिति ॥ ंोट्_३,१०.४१ ॥ अङ्गुष्ठस्याथ वाङ्गुल्या वाताद्यस्पर्शने सति । जीवतश्चेतसो रूपं यत्तत्परममात्मनः ॥ ंो_३,१०.४२ ॥ रूपमिति शेषः । "तत्परमम्" उत्कृष्टं वस्तु । परम्"आत्मनः" रूपं भवति । "तत्" किम् । "चेतसः" मनसः । "यद्रूपं" भवति । कथम्भूतस्य "चेतसः" । "जीवतः" स्वव्यापारं प्रति समर्थस्य । न तु मूर्छाद्यवस्थावत्तत्राशक्तस्य । तदा हि तस्य मूढत्वमेव भवति । न परमात्मत्वम् । कस्मिन् "सति" । "अङ्गुष्ठस्याथ वाङ्गुल्या" । उपलक्षणं चैतत् । सर्वशरीरावयवानां "वाताद्यस्पर्शने सति" । "आदि"शब्देन तेजःप्रभृतीनां ग्रहणम् । "अस्पर्शनम्" अस्पर्शः । अयं भावः । पुरुषस्य यस्मिन् कस्मिंश्चिच्छरीरावयवे कस्यापि द्रव्यस्य स्पर्शे असति तदा निरालम्बमेव तदवयवव्यापि चैतन्यं भवेत् । तदा तदवयवमात्रानुसन्धानपरस्य तस्य बाह्यग्रहणसमर्थमपि मनः शुद्धनिरालम्बाचेत्यचिन्मात्ररूपपरमात्मरूपमेव तिष्ठतीति । तदैव सर्वाः मनोवृत्तीः विहाय योगिना सावधानेन परीक्ष्यमिति ॥ ंोट्_३,१०.४२ ॥ अस्वप्नाया अनन्ताया अजडाया घनस्थितेः । यद्रूपं चिरचिन्तायास्तत्तदानघ शिष्यते ॥ ंो_३,१०.४३ ॥ हे "ऽनघ" रागादिदोषरहित । "तत्" वस्तु । "तदा" महात्मलयसमये । "शिष्यते" । "तत्" किम् । "यत्रूपं" भवति । कस्याः । "चिरचिन्तायाः" । "चिरं" सर्वरात्रम् । कृता या "चिन्ता" प्राप्तेष्टविषयमाध्यानम् । तस्याः चिन्ताविशेषणान्याह्"आस्वप्नाया" इत्यादि । "अस्वप्नायाः" स्वप्नत्वेनापरिणतायाः । जाग्रति क्रियमाणा चिन्ता स्वप्नत्वेन परिणमते । स्वप्नतया परिणतत्वे तु अनायत्ततयान्यविषयिण्यपि स्यादिति युक्तमुक्तम् "अस्वप्नाया" इति । "अनन्तायाः" अच्छिन्नसन्तानत्वेन प्रवृत्तायाः । अन्या काचिच्चिन्ता तत्र मध्ये नायातीत्यर्थः । "अजडायाः" काचिद्धि चिन्ता नैरन्तर्येण क्रियमाणा मूर्छामावहति । तन्निवारणार्थम् "अजडाया" इति विशेषणम् । "घनस्थितेः" । "घना" निबिडा । चिन्त्यमानस्यापि प्रवेशमदधती । "स्थितिर्" अवस्थानम् । यस्याः । सा । तादृश्याः । निरालम्बाया इत्यर्थः । अयं भावः । जाग्रति क्रियमाणा छिन्ना जाड्यदोषरहिता चिन्त्यमानस्पर्शदूषिता चिन्ताच्छिन्नबोधमयाचेत्यचिन्मयतामेव यात्य् । अचेत्यचिन्मयमेव च परमात्मरूपमिति योगिना तत्र सावधानेन भाव्यमिति ॥ ंोट्_३,१०.४३ ॥ यद्व्योम्नो हृदयं यद्वा शिलायाः पवनस्य च । तस्याचेत्यस्य चिद्व्योम्नस्तद्रूपं परमात्मनः ॥ ंो_३,१०.४४ ॥ "तस्य" प्रसिद्धस्य । "अचेत्यस्य" स्पर्शादूषितस्य । "चिद्व्योम्नः" भानाकाशरूपस्य । "परमात्मनः रूपं" स्वरूपम् । "तत्" भवति । "तत्" किम् । "यत्व्योम्नः हृदयं" शून्याख्यम् । भवति । "यद्वा" । "यत्" हृदयम् । "शिलायाः पवनस्य च" भवति । तत्र "शिलाया हृदयं" अन्यस्य प्रवेशानर्हं सूक्ष्मावयवनैविद्ध्यरूपं भवति । "पवनस्य" "हृदयं" मृग्यमानं शून्यतायामेव विश्राम्यति । नन्वेतेन जडत्वमस्यायातमिति चेन् । न । "चिद्व्योम्न" इति नामधेयकथनेन तन्निवारणात् । विचारे क्रियमाणे व्योमादीनां हृदयं यथायथं शून्यरूपमन्यप्रवेशामर्हं भवति । तादृगेव च परमात्मनो रूपमिति योगिना तत्र सावधानेन भाव्यम् ॥ ंोट्_३,१०.४४ ॥ अचेत्यस्यामनस्कस्य जीवतो या क्रियावतः । स्यात्स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः ॥ ंो_३,१०.४५ ॥ "परा" उत्कृष्टा । "शान्ता" क्षोभरहिता । "सत्ता"वस्थितिः । "तस्याद्यवस्तुनः" परमात्मलक्षणस्य वस्तुनः । "सा स्यात्" । "सा" का । "या स्थितिः सत्ता स्यात्" । कस्य । "जीवतः" जीवयुक्तस्य पुरुषस्य । न तु मृतस्य । कथम्भूतस्य्"आचेत्यस्य" । सम्यग्ज्ञानेन चेत्याभावे निश्चितत्वात् । चेत्यरहितस्यात एव्"आमनस्कस्य" मनोरहितस्य । पुनः कथम्भूतस्य । "क्रियावतः" चलनादिक्रियाकारिणः । अयं भावः । चेत्यं प्रति मनोव्यापारमकुर्वनत एव सर्वथानुसन्धानशून्यः पुरुषः चलनादिक्रियाकारी यादृशो भवति तादृगेव सृष्ट्यादिव्यापारकारि परमात्मतत्त्वं भवतीति । तत्र योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.४५ ॥ चित्प्रकाशस्य यन्मध्यं प्रकाशस्य घनस्य च । दर्शनस्य च यन्मध्यं तद्रूपं ब्रह्मणो विदुः ॥ ंो_३,१०.४६ ॥ पण्डिताः । "ब्रह्मणः" नानापदार्थभावेन बृंहितस्य परमात्मनः । "तद्रूपं विदुः" जानन्ति । "तत्" किम् । "चित्प्रकाशस्य" चित उत्थितस्य चेत्यप्रकाट्यरूपस्य प्रकाशस्य । "यत्मध्यं" मध्यावस्था । भवति । तथा "घनस्य" निबिडस्य । "प्रकाशस्य" सूर्यमण्डलादेरुत्थितस्य । "यन्मध्यं" मध्यावस्था । भवति । तथा "दर्शनस्य" द्रष्टुरुत्थितायाः दृशिक्रियायाः । "यन्मध्यं" मध्यावस्था । भवति । अयं भावः । चित्प्रकाशस्य बाह्यप्रकाशस्य दर्शनस्य च तिस्रोऽवस्था भवन्ति । आद्यावस्था मध्यावस्थान्त्यावस्था । तत्र बाह्यप्रकाशस्यादित्यादेरुत्थानसमये याद्यावस्था सादित्यस्पर्शदूषिता । या च पदार्थप्रकाशनसमयेऽन्त्यावस्था सा पदार्थस्पर्शदूषिता । मध्यावस्था तु शुद्धप्रकाशस्वरूपानाख्या च भवति । तादृगेव च परमात्मस्वरूपमिति । तत्र योगिना सावधानेन भाव्यम् । चित्प्रकाशदर्शनयोरप्येवं योज्यम् । चित्प्रकाशस्य दर्शनस्य च परिमितत्वापरिमितत्वमात्रकृतो भेदो ज्ञेयः ॥ ंोट्_३,१०.४६ ॥ वेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा । वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः ॥ ंो_३,१०.४७ ॥ "तत्परमात्मनः रूपं" भवति । "तत्" किम् । "यद्वेदनम्" अनुसन्धानम् । भवति । कथम्भूतम् । "अनाद्यन्तं" नैरन्तर्येण प्रवृत्तम् । सान्तरस्यैव हि मध्ये पुनः पुनः सादित्वं सान्तत्वं च भवति । कस्य । "प्रकाशस्या"र्थप्रकाशरूपस्य । "वेदनस्य" ज्ञानस्य । पुनः कस्य । "तमसः" ग्राह्यैकस्वरूपस्य । "दृश्यस्य" अवश्यदर्शनीयतया कल्पितस्य कस्यचिद्देवताविशेषस्य । अयं भावः । ज्ञानधारणा ज्ञेयैकरूपदेवताधारणा च नैरन्तर्येण प्रवर्तमाना ज्ञानैकमयतया देवतैकमयतया च परिणता सती एकस्वरूपपरमात्मरूपा भवतीति । तत्र योगिना सावधानेन भाव्यम् । अथ वा "वेदनस्य" ज्ञानकरणस्य । "प्रकाशस्य" । "दृश्यस्या"लोकाभाम् [?]कृतचक्षुर्ग्राह्यस्य । "तमसः" बाह्यतमस इति योज्यम् । बाह्यतेजसः बाह्यतमसश्च धारणायाः कैश्चिदुक्तत्वात् ॥ ंोट्_३,१०.४७ ॥ यतो जगदुदेतीव नित्यानुदितरूप्यपि । विभिन्नवदिवाभिन्नं तद्रूपं पारमात्मिकम् ॥ ंो_३,१०.४८ ॥ "तत्पारमात्मिकम्" परमात्मसम्बन्धि । "रूपं" भवति । किं "तत्" । "यतः" यस्मात् । "जगदुदेतीव" उदयं यातीव । भासमानत्वात् । कथम्भूतम् "अपि" । "नित्यानुदितरूप्यपि" नित्यमनुदितम् । परमार्थतः चिन्मात्ररूपतया जगद्रूपेणाप्रादुर्भूतं "रूपम्" अस्यास्तीति । तादृशम् "अपि" । पुनः कथम्भूतम् । "अभिन्नं" तन्मयम् । पुनः कथम्भूतम् । स्थितमिति शेषः । "स्थितं" वर्तमानम् । कथम् । "विभिन्नवत्" विभिन्नमिव । परमार्थतः भिन्नत्वनिरासाय "वत्"इशब्दोपादानम् । अयं भावः । यतः सूक्ष्मतराद्वस्तुन इदं जगत्पयस इव वीचिकदम्बकं निर्याति । तदेव परमात्मनो रूपमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.४८ ॥ व्यवहारपरस्यापि यत्पाषाणवदासनम् । अव्योम्न एव व्योमत्वं तद्रूपं पारमात्मिकम् ॥ ंो_३,१०.४९ ॥ "तत्पारमात्मिकम्" परमात्मसम्बन्धि । "रूपं" भवति । किं "तत्" । "यत्व्यवहारपरस्यापि" व्यवहारं कुर्वाणस्यापि । "पाषाणवतासनं" स्थितिः । भवति । तद्"आसनं" किम् । "अव्योम्न एव" जडत्वादिव्योमधर्मरहितत्वेनाकाशस्वरूपव्यतिरिक्तस्य एव । "व्योमत्वं" व्योमभावः । अयं भावः । व्यवहारं कुर्वन्नपि पुरुषः तत्रत्यसिद्ध्यसिद्ध्यनुसन्धानरहितः परमात्मरूप एव भवतीति । तत्र योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.४९ ॥ वेद्यवेदनवेत्तृत्वरूपत्रयमिदं पुनः । यत्रोदेत्यस्तमायाति तत्तत्परममुत्तमम् ॥ ंो_३,१०.५० ॥ "तत्तत्" प्रसिद्धम् । "परमम्" उत्कृष्टम् । "उत्तमम्" निरतिशयं परमात्मलक्षणं वस्तु । भवति । "तत्" किम् । "यत्र" यस्मिन् । "इदम्" अनुभूयमानम् । "वेद्यं" विदिक्रियाविषयो । "वेदनं" विदिक्रिया । "वेत्ता" विदिक्रियाकर्ता । तेषां भावः "वेद्यवेदनवेत्तृत्वम्" । तदाख्यं "रूपत्रयं" "वेद्यवेदनवेत्तृत्वरूपत्रयमुदेति अस्तं याति" । अयं भावः । वेद्यादित्रिपुटी चेत्यमानत्वेन कुत्रचिच्चिन्मात्राख्ये वस्तुनि उदेति लयीभवति च । तदेव परमात्मनो रूपमिति । योगिना तत्र सावधानेन भाव्यमिति ॥ ंोट्_३,१०.५० ॥ वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति । अबुद्ध्यादौ महादर्शे तद्रूपं परमं स्मृतम् ॥ ंो_३,१०.५१ ॥ पण्डितैः । "तत्परमं" उत्कृष्टम् । "रूपं" परमात्मलक्षणं स्वरूपम् । "स्मृतम्" । "तत्" किम् । "यत्र महादर्शे वेद्यवेदनवेत्तृत्वं" वेद्यादित्रिपुटी । "प्रतिबिम्बति" प्रतिबिम्बतया स्फुरति । कथम्भूते । "ऽबुद्ध्यादौ" बुद्ध्यादिरहिते । युक्तं चादर्शस्य बुद्ध्यादिरहितत्वम् । आदर्शस्य जाड्येन बुद्ध्यादिरहितत्वमस्य उत्तीर्णत्वेनेति विशेषः । अयं भावः । वेद्यादित्रिपुटी क्षण एव स्फुरमाणा क्षण एव च लयभागिनी स्वस्फूर्त्याश्रयस्य किमपि मालिन्यमनादधती प्रतिबिम्बतयैव भाति । यतः प्रतिबिम्बमपि क्षण एव स्फुरति क्षण एव च लयीभवति स्वाश्रयस्य मकुरादेः मालिन्यं न दधाति । तव वेद्यादित्रिपुटीप्रतिबिम्बाश्रयं त्रिपुटीव्यतिरिक्तं किमपि वस्तु स्वीकार्यम् । अन्यथा त्रिपुटीप्रतिबिम्बायोगात् । तच्च तादृशं स्वीक्रियमाणमनाख्यमेव भवति । तदेव च परमात्मतत्त्वमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.५१ ॥ मनष्षष्ठेन्द्रियातीतं यद्रूपं स्यान्महाचितेः । जङ्गमे स्थावरे वापि तत्सर्गान्तेऽवशिष्यते ॥ ंो_३,१०.५२ ॥ "तत्" वस्तु । "सर्गान्ते" महाप्रलये । "ऽवशिष्यते" । "तत्" किम् । "यत्महाचितेः" चिन्मात्रस्य । "रूपं स्यात्" । कथम्भूतम् । "मनष्षष्ठेन्द्रियातीतं" । मन एव षष्ठं येषाम् । तानि "मनःषष्ठानि" । तानि च तानीन्द्रियाणि "मनःषष्ठेन्द्रियाणि" । तान्यतीतं "मनःषष्ठेन्द्रियातीतं" । तदगोचरमित्यर्थः । कुत्र । "जङ्गमे स्थावरे वापि" । अयं भावः । "जङ्गमे" चित्तत्वं तावन्निर्विवादमेव । "स्थावरे" तृणादावपि तथैव पर्वतादावपि । तृणाद्युद्गमेन नैव निर्णीतम् । न । न हि निश्चेतनात्कस्याप्युद्गमो युक्तः । मृतशरीराद्रोमाद्युद्गमादर्शनात् । तथा च येन रूपेण सर्वत्र चिदस्ति तदनाख्यमेव । तदेव च परमात्मतत्त्वमिति । तत्र योगिना सावधानेन भाव्यमिति ॥ ंोट्_३,१०.५२ ॥ स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत् । मनोबुद्ध्यादिनिर्मुक्तं तत्परेण समं भवेत् ॥ ंो_३,१०.५३ ॥ "हि"शब्दोपादानं पादपूरणार्थम् । "तत्परेण" परमात्मना । "समं" तुल्यम् । "भवेत्" स्यात् । "तत्"तदा । कदा । "तत्बोधमयं" बोधनस्वरूपम् । "चेत्" स्यात् । "तत्" किम् । "स्थावराणां यद्रूपं" भवति । अयं भावः । स्थावराणां रूपमवश्यं क्षोभरहितमेव किं तु जाड्यदूषितम् । अतः जाड्यं विहाय ज्ञेयास्पर्शेनैव स्वं ज्ञानतत्त्वं क्षोभरहितं कार्यम् । ततश्च परमात्मप्राप्तिर्भवतीति । तत्र योगिना सावधानेन भाव्यमिति । एताश्च धारणाः प्रत्येकं परमात्मप्राप्त्युपायभूता इति स्फुटीकृताः इति ॥ ंोट्_३,१०.५३ ॥ सर्गान्तश्लोकेन पूर्वोक्तमुपसंहरति ब्रह्मार्कशक्रहरविष्णुसदाशिवादि शान्तौ शिवं परममेतदिहैकमास्ते । शिष्टं प्रदिष्टमविनष्टमकष्टम् इष्टं मिश्रं न मिश्रमणुनाश्रितमाश्रितेन ॥ ंो_३,१०.५४ ॥ "एतत्" स्वात्मत्वेन स्थितम् । "शिवं" परानन्दस्वरूपम् । "परमम्" उत्कृष्तम् । वस्तु । "आस्ते" स्वस्वरूपे तथैव तिष्ठति । न तु नश्यति । कस्यां सत्याम् । "ब्रह्मार्कशक्रहरविष्णुसदाशिवादिशान्तौ" सत्याम् । "आदि"शब्देन सुरादितृणान्तानां ग्रहणम् । "ब्रह्मादीनां" तत्तद्भुवनाधिपतीनाम् । "शान्ति"रूपे महाकल्पान्तसमये सति । "हरः" संहारकारी । "सदाशिवः" सर्वस्य स्वमयतापादनेनानन्दकारी । अथ वा "ब्रह्मादीनां" सङ्कल्पोत्पत्त्यादिकारिणां मनःप्रभृतीनाम् । "शान्तौ" तुर्याख्ये सतीत्यर्थः । कथम्भूतम् । "शिष्टं प्रदिष्टं" सर्वशान्तिसाक्षितया शेषत्वेन कथितम् । पुनः कथम्भूतम् । "अविनष्टम्" नाशागोचरम् । पुनः कथम्भूतम् । "अकष्टं" सुबोधम् । पुनः कथम्भूतम् । "इष्टं" सर्वस्य प्रियतमम् । पुनः कथम्भूतम् । "मिश्रं" नानाभावाभावस्वरूपम् । पुनः कथम्भूतम् । "न मिश्रं" शुद्धचिन्मात्ररूपम् । पुनः कथम्भूतम् । "अणुना" परिमितेन्"आश्रितेन" धर्मभूतेन जगत्"आश्रितम्" आधारत्वेन गृहीतम् । इति शिवम् ॥ ंोट्_३,१०.५४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे दशमः सर्गः ॥ ३,१० ॥ ********************************************************************* ओं श्रीरामः पृच्छति इदंरूपमिदं दृश्यं जगन्नामास्ति भासुरम् । महाप्रलयसम्पत्तौ भो ब्रह्मन् क्व नु गच्छति ॥ ंो_३,११.१ ॥ "इदं" पुरः स्फुरत् । "दृश्यं" दृशिक्रियाविषयो । "जगन्नाम" जगदाख्यं वस्तु । "अस्ति" परमार्थत एवास्ति । अन्यथा भासमानत्वायोगात् । कथम्भूतम् "इदंरूपम्" । "इदम्" अनुभूयमानभावाभावमयम् । "रूपं" स्वरूपं यस्य । तत्"इदंरूपम्" । ततः किमित्य् । अत्राह "महाप्रलये"ति । "भो ब्रह्मन्" । इदमेव जगत्"महाप्रलयसम्पत्तौ क्व नु गच्छति" । कं देशं यातीत्यर्थः ॥ ंोट्_३,११.१ ॥ श्रीवसिष्ठोऽप्येतत्सदृशं किञ्चित्पृच्छति कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति । क्व याति कुत आयाति वद वा व्योमकाननम् ॥ ंो_३,११.२ ॥ "कुतः आयाति" । उत्पत्तिसमये इत्यर्थः । "कीदृग्वा" किंस्वरूपो वा । "याति" । "क्व गच्छति" । नाशसमय इत्यर्थः । एतत्सदृशः तव प्रश्न इति भावः ॥ ंोट्_३,११.२ ॥ श्रीरामोऽत्रोत्तरं दधाति वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति । कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता ॥ ंो_३,११.३ ॥ वर्तमानभविष्यन्निषेधेन भूतनिषेधोऽप्याक्षिप्तः । ततः किमित्य् । अत्राह "कीदृशी"ति । "दृश्यता" दर्शनयोग्यता । लक्षणयास्तितेति यावत् ॥ ंोट्_३,११.३ ॥ श्रीवसिष्ठः श्रीरामोक्तमुत्तरं दृष्टान्तीकृत्योत्तरमाह वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन । जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन ॥ ंो_३,११.४ ॥ "जगदादी"त्य्"आदि"शब्देन प्रलयः गृह्यते । "कदाचन" कदापीत्यर्थः ॥ ंोट्_३,११.४ ॥ फलितमाह न चोत्पन्नं न च ध्वंसि यत्किलादौ न विद्यते । उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा ॥ ंो_३,११.५ ॥ "किले"ति निश्चये । "यत्" वस्तु । "आदौ" पूर्वम् । "न चोत्पन्नं" भवति । "न च ध्वंसि" भवति । नाशभागपि न भवति । तथा "न विद्यते" स्थितिविषयतां च न याति । "तस्य कीदृशी" किंरूपा । "उत्पत्तिर्" भवति । उत्पत्त्यभावे च "नाशशब्दस्य का कथा" । एतद्वक्तुमपि न युक्तमिति भावः ॥ ंोट्_३,११.५ ॥ श्रीरामः पुनः पृच्छति वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि । सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् ॥ ंो_३,११.६ ॥ "तावच्"छब्दो विप्रतिपत्त्यभावद्योतकः । "हि" निश्चये । वन्ध्यापुत्रादिकल्पनाभावे वन्ध्यापुत्रेत्यादिकथैव न युक्ता स्यादिति भावः । ततः किमित्य् । अत्राह "सा" इति । "सा" वन्ध्यापुत्रादिकल्पना । असत्यत्वेऽपि "नाशजन्माढ्या" नाशजन्मयुक्ता । "यथा" भवति । "तथेदं" दृश्यम् । असत्यत्वेऽपि नाशजन्माढ्यं "किं न भवेत्" । भवत्वित्यर्थः । तथा च "क्व नु गच्छती"ति प्रश्नो युक्त एवेति भावः ॥ ंोट्_३,११.६ ॥ अन्यत्र स्त्रियि दृष्टस्य पुत्रस्यारोपेण युक्तैव वन्ध्यापुत्रकल्पनात्र तु दृश्यस्य क्व यत्रापि सत्तैव नास्तीति न तत्कल्पना युक्तेत्युत्तरं श्रीवसिष्ठो भङ्ग्यान्तरेणाह फुल्लस्यातुलभुः सम्यगालकैः कुरु कोलनम् । निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि ॥ ंो_३,११.७ ॥ "हि" निश्चये । "जगत्सत्ता तथैव" तेन प्रकारेणैव । "निरन्वया" कमप्यर्थमनुद्दिश्य प्रवृत्ता । व्यर्थेति यावत् । भवति । "तथा" कथम् । "फुल्लस्ये"त्यादि "कोलनम्" इत्यन्त्"ओक्तिर्यथा निरन्वया" भवति ॥ ंोट्_३,११.७ ॥ निरन्वयत्वमेव दृष्टान्तान्तरैः प्रतिपादयति यथा सौवर्णकटके दृश्यमानमपि स्फुटम् । कटकत्वं तु नास्त्येव जगत्त्वं तु तथा परे ॥ ंो_३,११.८ ॥ "यथा सौवर्णकटके स्फुटं दृश्यमानमपि कटकत्वं नास्ति" परमार्थतः सुवर्णैकमयत्वात् । "परे" चिन्मात्रे । "जगत्त्वं तथै"व "नास्ती"त्यर्थः ॥ ंोट्_३,११.८ ॥ आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् । जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्धिमत् ॥ ंो_३,११.९ ॥ "च"शब्दः समुच्चये । "व्यतिरेकवत्" व्यतिरेकयुक्तम् । आकाशशून्यत्वयोः व्यतिरेकानुपलब्धेरित्यर्थः । दार्ष्टान्तिकमाह "जगत्त्वम्" इति । "जगत्त्वम्" जगद्रूपत्वम् । "तथा" तेन प्रकारेण । "ब्रह्मणि" व्यापके चित्स्वरूपे । "नास्त्येव" । विचारासहत्वादित्यर्थः । कथम्भूतम् "अपि" । "उपलब्धिमदपि" भासमानत्वेन उपलब्धमपीत्यर्थः ॥ ंोट्_३,११.९ ॥ कज्जलान्न यथा कार्ष्ण्यं श्वैत्यं च न यथा हिमात् । पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे ॥ ंो_३,११.१० ॥ "यथा" "कार्ष्ण्यं" कृष्णता । "कज्जलात्पृथक्न" "भवेत्" । तथा "श्वैत्यं" श्वेतता । "हिमाद्यथा पृथङ्न" "भवेत्" । "बुद्धं" परमार्थेन निश्चितम् । "जगत्" । "परे पदे" परमात्मनि । "एवं" तथा । "पृथक्नास्ति" । "परे पदे" इति सप्तमीद्वयं पञ्चमीस्थाने ज्ञेयम् ॥ ंोट्_३,११.१० ॥ यथा शैत्यं च शशिनो न हिमाद्व्यतिरिच्यते । ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् ॥ ंो_३,११.११ ॥ "च"शब्दः समुच्चये । "यथा शैत्यं" शीतता । "हिमात्" शीतलात् । "शशिनः" । "न व्यतिरिच्यते" नाधिका भवति । "तथा सर्गः ब्रह्मणः व्यतिरेकवान्" भेदवान् । "न" भवति ॥ ंोट्_३,११.११ ॥ गुणिगुणनिदर्शनेनैक्यमुक्त्वा जगतो भ्रमसिद्धतया ऐक्यं कथयति मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता । नास्त्येवैवं जगन्नास्ति दृष्टमप्यमलात्मनि ॥ ंो_३,११.१२ ॥ दार्ष्टान्तिकं कथयति "एवम्" इति । "अमलात्मनि" शुद्धचित्स्वरूपे परमात्मनि । "एवम्" तथा । "दृष्टमपि" भातमपि । "जगन्नास्ती"त्यर्थः । ननु पूर्वं कटकादयः दृष्टान्तत्वेनोपात्ता इह तु मरुजलादीति वैषम्यमापतितमिति चेन् । न । पूर्वदृष्टान्तैः ब्रह्मैकरूपत्वं जगत उक्तम् । इहासत्यत्वम् । फलतस्तु सर्वेषां दृष्टान्तानां ब्रह्मैकतायामेव तात्पर्यमिति न किञ्चिद्विरुद्धम् ॥ ंोट्_३,११.१२ ॥ पुनरप्येतदेव दृष्टान्तान्तरेण दृढयति संविद्विलोचनालोको भात्ययं संविदम्बरे । जगदाख्येऽमले व्योम्नि दृष्टिमुक्तावली यथा ॥ ंो_३,११.१३ ॥ "अयं" आत्मत्वेन प्रत्यक्षे स्थितः । "संविद्विलोचनालोकः" । "संविद्" एव चिदेव । "विलोचनं" प्रकाशकत्वसाम्येन नेत्रम् । तस्य्"आलोकः" रश्मिः । "भाति" पदार्थभावेन स्फुरति । कुत्र । "जगदाख्ये" जगन्नाम्नि । "संविदम्बरे" चिदाकाशे । का "यथा" । "दृष्टिमुक्तावली यथा" । यथा सा "अमले व्योम्नि" भूताकाशे । स्फुरति । तथेत्यर्थः । अयं भावः । यथा नेत्रान्निर्गताः रश्मयः आकाशे स्फुरन्तः मुक्तावलीरूपेण दृश्यन्ते । तथा चित उत्थिताः चिदालोकाख्याः रश्मयः जगदाख्ये चिदम्बरे स्फुरन्तः नानापदार्थरूपेण दृश्यन्ते इति ॥ ंोट्_३,११.१३ ॥ चिदाकाशे चिदाकाशश्चित्त्वाद्यः कचति स्वयम् । तदेव तेन रूपं स्वं जगदित्यवबुध्यते ॥ ंो_३,११.१४ ॥ "चिदाकाशः" "चिदाकाशे" चिदाकाशाख्यायां स्वभित्तौ । "चित्त्वाच्" चिद्भावेन । "कचति" स्फुरति । अहमिति स्वपरामर्शविषयो भवतीति यावत् । परामर्शाभावे हि तस्य चित्त्वमेव न स्यात् । "तेन" तेन चिदाकाशेन । "तत्" कचनाख्यं स्वं रूपम् । "जगदित्यवबुध्यते" ज्ञायते । कचनरूपत्वादेव जगतः ॥ ंोट्_३,११.१४ ॥ प्रकृतमनुसरति आदावेव हि यन्नास्ति कारणासम्भवात्स्वयम् । वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः ॥ ंो_३,११.१५ ॥ "हि" निश्चये । "यत्" यत्जगदाख्यं वस्तु । "कारणासम्भवातादौ एव स्वयं नास्ति" । "तत्वर्तमानेऽपि नास्ति" । "तत्र" तस्मिन् वस्तुनि । "नाशः" वन्ध्यापुत्रदृष्टान्तेन शङ्कितः नाशः । "कीदृशः" किंरूपः । "स्यात्" विषयाभावेनायोग्यत्वान्न स्यादित्यर्थः ॥ ंोट्_३,११.१५ ॥ ननु परमात्मलक्षणस्य कारणस्य सद्भावात्कारणासम्भवः कथमुदेत्य् । अत्राह क्वासम्भवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः । कारणं भवितुं शक्तं छायाया आतपो यथा ॥ ंो_३,११.१६ ॥ भूतेषु दृश्यमानं जाड्यं "भूतजाड्यम्" । "असम्भवत्भूतजाड्यं" यस्य । तत्"असम्भवद्भूतजाड्यं" । अर्थात्चिदाख्यं वस्तु । "पृथ्व्यादेः जडवस्तुनः कारणं भवितुं क्व शक्तं" । न शक्तमित्यर्थः । अत्र दृष्टान्तमाह "छायाया" इति । आतपस्य छायाया नाशकत्वेन स्फुटं छायाकारणत्वायोगाद्दृष्टान्तता ॥ ंोट्_३,११.१६ ॥ ननु कारणाभावेऽपि जगदस्तु इत्य् । अत्राह कारणाभावतः कार्यं नेदं तत्किञ्चनोदितम् । यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम् ॥ ंो_३,११.१७ ॥ "तत्" पूर्वोक्ताद्धेतोः । "कारणाभावतः" कारणाभावात् । "इदम्" अनुभूयमानम् । "कार्यं" जगदाख्यं कार्यम् । "उदितम्" उत्पन्नम् । "नास्ति" । कथम् । "किञ्चन" लेशेनापीत्यर्थः । पुनः किमेतद्दृश्यत इत्य् । अत्राह "यद्" इति । "तदेव" वस्तु । "इत्थं" जगद्रूपेण्"आवस्थितं" वर्तमानं भवति । "तदेव" किम् । "यत्" वस्तु । "तत्कारणम्" एतस्य जगतः कारणत्वेन शङ्कितं वस्तु । "एव" भवति । न त्वन्यत्किञ्चिदिति भावः ॥ ंोट्_३,११.१७ ॥ अजातमेव यद्भाति संविदो भानमेव तत् । यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत् ॥ ंो_३,११.१८ ॥ "यद्" वस्तु । "अजातमेव भाति" । "तत्संविदो" ज्ञानस्य । "भानमेव" तथात्वेन स्फुरणमेव । भवति । अत्रानुरूपं दृष्टान्तमाह "यद्" इति । "तत्" इत्यनेन जगतः परामर्शः । स्वप्नस्य संवित्कचनरूपत्वं सर्वप्रतीतिसिद्धमेवेति दृष्टान्तत्वेन गृहीतम् ॥ ंोट्_३,११.१८ ॥ संवित्कचनमेवान्तर्यथा स्वप्नजगद्भ्रमः । सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम् ॥ ंो_३,११.१९ ॥ "अन्तः" मनसि । "स्वप्नजगद्भ्रमः" स्वप्नजगद्रूपो भ्रमः । स्वप्नजगदिति यावत् । "सर्गादौ" बुद्ध्यारोपिते सर्गारम्भे । "तथा"शब्देन "संवित्कचनम्" आक्षिप्यते । "आततम्" विस्तीर्णम् ॥ ंोट्_३,११.१९ ॥ यदिदं दृश्यते किञ्चित्तत्सदेवात्मनि स्थितम् । नास्तमेति न चोदेति जगत्किञ्चित्कदाचन ॥ ंो_३,११.२० ॥ "यतिदम्" अनुभूयमानम् । "किञ्चित्" वस्तु । "दृश्यते" । "तत्सदेव" सद्वस्त्वेव । स्व्"आत्मनि" चिन्मये स्वस्वरूपे । "स्थितं" भवति । फलितमाह "नास्तम्" इति । अत इत्यध्याहार्यम् । चिन्मात्राख्येन रूपेण सदैव स्थितत्वादिति भावः ॥ ंोट्_३,११.२० ॥ यथा द्रवत्वं सलिलं स्पन्दत्वं पवनो यथा । यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा ॥ ंो_३,११.२१ ॥ न हि कश्चित्"द्रवत्वा"दि "सलिला"देः पृथक्कृत्य दर्शयितुं समर्थ इति भावः । "प्रकाशः" सूर्यादिप्रकाशः । "आभासः" अर्थप्राकट्यम् ॥ ंोट्_३,११.२१ ॥ यथा पुरमिवास्तेऽन्तर्विदेव स्वप्नसंविदि । तथा जगदिवाभाति स्वात्मैव परमात्मनि ॥ ंो_३,११.२२ ॥ "यथा स्वप्नसंविदि" स्वप्नज्ञाने । स्वप्नावस्थायामिति यावत् । "अन्तः" अन्तःकरणे । "विदेव" ज्ञानमेव । "पुरमिवाभाति" विलसति । "तथा स्वात्मैव परमात्मनि" । "परमात्मे"त्याख्यायां स्वभित्तौ । "जगदिवाभाति" । न त्वन्यज्जगन्नामास्तीति भावः ॥ ंोट्_३,११.२२ ॥ अत्र श्रीरामः पृच्छति एवं चेत्तत्कथं ब्रह्मन् सुघनप्रत्ययं वद । इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत् ॥ ंो_३,११.२३ ॥ हे "ब्रह्मन्" । त्वं "वद" । "एवं चेत्" पूर्वोक्तः प्रकारो यदि भवति । "तत्" तर्हि । "इदम्" अनुभूयमानम् । "दृश्यविषं" । "दृश्यम्" एव मोहादायकत्वेन "विषं" विषद्रव्यम् । "सुघनप्रत्ययं" । "सुघनः प्रत्ययः" आश्वासः यस्मिन् । तत् । तादृशम् । "कथं" केन हेतुना । "जातम्" उत्पन्नम् । कथम् । "असत्स्वप्नानुभूतिवत्" । "असती" या "स्वप्नानुभूतिः" स्वप्नाकारा अनुभूतिः । स्वप्नमिति यावत् । तद्"वत्" ॥ ंोट्_३,११.२३ ॥ दृश्यात्यन्तासम्भवं विना मुक्तिममन्यमानः तमेव विस्तरेण पृच्छति सति दृश्ये किल द्रष्टा सति द्रष्टरि दृश्यता । एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः ॥ ंो_३,११.२४ ॥ "किले"ति निश्चये । दृश्यसत्तायां द्रष्टृसत्ता भवति । द्रष्टृसत्तायां च दृश्यसत्ता भवति । यतः त्वयैवेति भावः । फलितमाह "एकसत्त्वे"ति । "द्वयोः" मध्ये "एकसत्त्वे बन्धः" स्यात् । "द्वयोः" मध्ये "एकक्षये मुक्तिः" स्यात् । तस्मात्मुक्त्यर्थमेकक्षय एव साध्यः इति भावः ॥ ंोट्_३,११.२४ ॥ ननु तत्रापि किं पुनः पुनः दृश्यात्यन्ताभावमेव पृच्छसीत्य् । अत्राह अत्यन्तासम्भवो यावद्बुद्धो दृश्यस्य नाक्षयः । तावद्द्रष्टुरद्रष्टृत्वं न सम्भवति मोक्षदम् ॥ ंो_३,११.२५ ॥ "बुद्धः" सम्यक्ज्ञातः । "अक्षयः" अविच्छिन्नः । "अद्रष्टृत्वं" अद्रष्टृभावः । शुद्धचिन्मात्रतेति यावत् । दृश्यात्यन्ताभावस्य सुकरत्वाद्द्रष्टृतानिरासस्य च दृश्यात्यन्ताभावं विना दुष्करत्वाच्च पुनः पुनः दृश्यात्यन्ताभावप्रश्न इति भावः ॥ ंोट्_३,११.२५ ॥ ननु दृश्यात्यन्ताभावे तव किं प्रयोजनम् । दृश्यध्वंसेनापि कार्यसिद्धेरित्य् । अत्राह दृश्यं चेत्सम्भवत्यादौ पश्चात्क्षयमुपागतम् । तद्दृश्यस्मरणानर्थरूपो बन्धो न नश्यति ॥ ंो_३,११.२६ ॥ "तत्" तदा । "दृश्यस्मरणानर्थरूपः" दृश्यस्मरणमेवानर्थः । सः रूपं यस्य । सः तादृशः "बन्धः" । "न नश्यति" नाशं न याति । पूर्वं सत्यतया ज्ञातस्य ततो नष्टस्यार्थस्य स्मरणं हि दुर्निवारमेव । यथा मात्रादेरिति भावः । "तत्" कदा । "चेत्" यदि । "आदौ" पूर्वम् । "दृश्यं" "सम्भवति" सत्यतया उपपत्तिमद्भवति । "पश्चात्क्षयं" नाशम् । "उपागतं" भवति । तस्मात्त्रैकालिक एवाभावोऽत्राङ्गीकरणीय इति भावः ॥ ंोट्_३,११.२६ ॥ ननु नष्टस्य दृश्यस्य का स्मृतिर्भवतीत्य् । अत्राह यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः । प्रतिबिम्बो लगत्येव सर्गस्मृतिमयो ह्ययम् ॥ ंो_३,११.२७ ॥ "हि" निश्चये । "अयं" समनन्तरमुक्तः । "सर्गस्मृतिमयः" सर्गस्मरणस्वरूपः । "प्रतिबिम्बः लगत्येवा"वश्यं लगति । कस्याः । "चिद्गतेः" चित्प्रकारस्य । कस्य्"एवादर्शस्येव" । यथा यत्र क्वचन संस्थितस्यादर्शस्य पदार्थसान्निध्ये प्रतिबिम्बो लगति तथा यत्र क्वचन स्थितायाः चिद्गतेः सूक्ष्मत्वेन स्थितदृश्यसान्निध्यात्प्रतिबिम्बो लगतीत्यर्थः ॥ ंोट्_३,११.२७ ॥ तर्हि मुक्तिः कदा सम्भवतीत्य् । अत्राह आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् । द्रष्टृदृश्यभ्रमाभावात्तत्सम्भवति मुक्तता ॥ ंो_३,११.२८ ॥ "दृश्यं" दृशिक्रियाविषयो भावजातम् । "आदावेव" प्रथममेव । "स्वयं" स्वभावेन्"आनुत्पन्नं" अजातं सत् । "चेत्" यदि । "नास्त्येव" । "तत्" तदा । "मुक्तता" "सम्भवति" उपपत्तियुक्ता भवति । कुतः । "द्रष्टृदृश्यभ्रमाभावात्" । अयं भावः । दृश्यात्यन्ताभावे सति पुरुषस्येदं दृश्यमिति भ्रमः शाम्यति । तच्छान्तौ चाहं द्रष्टेति भ्रमोऽपि शाम्यत्येव । ततश्च शुद्धचिन्मात्रस्वरूप एवासौ शिष्यते । तदेव च मुक्तिरिति ॥ ंोट्_३,११.२८ ॥ प्रश्नमुपसंहरति तस्मादसम्भवन्मुक्तेर्मम प्रोत्साहयुक्तितः । अत्यन्तासम्भवं दृश्ये कथयात्मविदां वर ॥ ंो_३,११.२९ ॥ हे "आत्मविदां वर" श्रेष्ठ । "तस्मात्" ततो हेतोः । "असम्भवन्मुक्तेः" दृश्यात्यन्ताभावज्ञानं विनानुपपद्यमानमुक्तेः । "मम" । "दृश्ये" वर्तमानम् "अत्यन्तासम्भवं" । "कथय" । कुतः । "प्रोत्साहयुक्तितः" प्रकृष्टमुद्योगं कृत्वेत्यर्थः ॥ ंोट्_३,११.२९ ॥ श्रीवसिष्ठ उत्तरमाह असदेव यथा भाति जगत्सर्वात्मकं तथा । शृण्वहं कथया राम दीर्घया कथयामि ते ॥ ंो_३,११.३० ॥ त्वं "शृणु" । "अहं तथा" तं प्रकारम् । "कथयामि" । कया । "दीर्घया" सविस्तरया । "कथया" वाक्यप्रबन्धेन । "तथा" कथम् । "सर्वात्मकं" समस्तदृश्यस्वरूपम् । "जगत्" । "यथा" येन प्रकारेण । "असदेव भाति" बुद्बुदौ असत्यतया स्फुरति ॥ ंोट्_३,११.३० ॥ ननु किमर्थं दीर्घया कथया कथयसीत्य् । अत्राह व्यवसायकथावाक्यैर्यावत्तन्नानुवर्णितम् । न विश्राम्यति ते तावद्धृदि पांसुर्यथा ह्रदे ॥ ंो_३,११.३१ ॥ "व्यवसायकथावाक्यैः" । "व्यवसायस्य" विशिष्टस्य निश्चयस्योत्पादिका "कथा" "व्यवसायकथा" । तदभिधायकैः "वाक्यैः" "व्यवसायकथावाक्यैः" । "तत्" दृश्यासत्त्वम् । "यावत्नानुवर्णितं" स्यात् । "तावत्ते हृदि न विश्राम्यति" न स्थितिं करोति । को "यथा" । "पांसुर्यथा" । "यथा पांसू" रजः । "ह्रदे न विश्राम्यति" । तथेत्यर्थः ॥ ंोट्_३,११.३१ ॥ ननु दृश्यात्यन्ताभावज्ञानेन किं मम सेत्स्यतीत्य् । अत्राह अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः । बुद्ध्वैकध्याननिष्ठात्मा व्यवहारं करिष्यसि ॥ ंो_३,११.३२ ॥ "त्वं व्यवहारं" परम्परायातं राज्यरूपं व्यवहारम् । "करिष्यसि" कूटकार्षापणव्यवहारवत्करिष्यसि । न तु वैराग्यावस्थावत्तद्विमुखो भविष्यसि । मूढत्वावस्थावद्वा तदासक्तः । "त्वं" कथम्भूतः । "एकध्याननिष्ठात्मा" । "एकस्य" चिन्मात्राख्यस्य वस्तुनः । "ध्याने" चिन्तायाम् । "निष्ठा" यस्य । तादृशः "आत्मा" सत्त्वरूपं मनः यस्य । सः । तादृशः । अन्तः चिन्मात्रध्यान एकनिष्ठः । बहिः व्यवहारभागपि भविष्यसीत्यर्थः । किं कृत्वा । "अस्याः" अनुभूयमानायाः । "जगत्सर्गभ्रमस्थितेः" । "जगत्सर्ग"रूपा जगत्सृष्टिरूपा । या "भ्रमस्थितिः" भ्रमदार्ढ्यम् । तस्याः "अत्यन्ताभावं" त्रैकालिकाभावम् । "बुद्ध्वा" ज्ञात्वेत्यर्थः ॥ ंोट्_३,११.३२ ॥ ननु ततोऽपि किमित्यपेक्षायां फलान्तरमपि कथयति भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः । दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेषवः ॥ ंो_३,११.३३ ॥ दृश्यात्यन्ताभावज्ञाने सति "भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः दृशः त्वां न वेधयिष्यन्ति" हर्षामर्षोत्पादनरूपां ताडनां न कुर्वन्ति । "भावः" उद्भूतिः । "अभावः" अन्तर्धिः । "ग्रहः" ग्रहणम् । "उत्सर्गः" त्यागः । भावादीनामपि दृश्यतयात्यन्ताभावस्य सम्पन्नत्वान्न तत्कृता ताडना तव भविष्यति । न हि वन्ध्यापुत्रेण कश्चित्ताडित इति भावः । ताः का "इव" । "इषवः इव" । यथा इषवः महान्तं पर्वतं न विध्यन्ति । तथेत्यर्थः ॥ ंोट्_३,११.३३ ॥ दृश्यात्यन्ताभावकथनं प्रतिजानीते स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना । जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव ॥ ंो_३,११.३४ ॥ "सः" प्रसिद्धः । "एषः" सर्वेषामपरोक्षत्वेन वर्तमानः । "एक एवास्ति" । "एव"शब्दार्थं स्फुटयति "ने"ति । "द्वितीया कल्पना" दृश्यमयी कल्पना । "नास्ति" । तथा च दृश्यात्यन्ताभावः स्फुट एवेति भावः । तर्हि भासमानं जगत्कथमस्तीत्य् । अत्राह "जगद्" इति । "अत्रा"द्वितीये ब्रह्मणि । "जगत्यथा उत्पन्नं तत्ते वक्ष्यामि" । तेनैव दृश्यात्यन्ताभावः स्फुटीभविष्यतीति भावः ॥ ंोट्_३,११.३४ ॥ सर्गान्तश्लोकेनैतत्सङ्गृह्णाति तस्मादिमानि सकलानि विजृम्भितानि यो हीदमङ्ग सकले सकलं महात्मा । रूपावलोकनमनोमननप्रकाश कोशास्पदं स्वयमुदेति च लीयते च ॥ ंो_३,११.३५ ॥ "तस्मात्" परमात्मलक्षणातुपादानकारणात् । "इमानि" अनुभूयमानानि । "विजृम्भितानि" दृश्यरूपाणि विलासितानि । मृद इव घटा निर्यान्तीति शेषः । "तस्मात्" कस्मात् । "हि" निश्चये । हे "अङ्ग" । "यः सकलं" समस्तदृश्यप्रपञ्चरूपं भूत्वा । "स्वयं" स्वेनैव्"ओदेति च" उदयं याति च । "विलीयते" लयं याति च । "यः महात्मा" किम् । "रूपावलोकनमनोमननं" मनस्कारः । "प्रकाशः" इन्द्रियेणालोकितस्य रूपस्य मनोमननद्वारेण साक्षिभूते चिन्मात्रे स्फुरणम् । तेषां "कोश"रूपम् "आस्पदं" स्थानम् । तत्रैवैते तिष्ठन्ति । तत एव च निर्यान्तीत्यर्थः । इति शिवम् ॥ ंोट्_३,११.३५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे एकादशः सर्गः ॥ ३,११ ॥ ********************************************************************* ओम् । "वक्ष्यामी"ति प्रतिज्ञां सम्पादयति एतस्मात्परमाच्छान्तात्पदात्परमपावनात् । यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया ॥ ंो_३,१२.१ ॥ "एतस्मात्" समनन्तरमेव प्रतिपादितस्वरूपात् । "परमात्" सर्वोत्कृष्टात् । "शान्तात्" प्रपञ्चक्षोभरहितात् । "परमपावनात्" पावनानामपि पावकत्वेन निरतिशयपावनात् । "पदात्" परात्मलक्षणात्स्थानात् । "यथा" येन प्रकारेण्"एदम्" अनुभूयमानम् । "विश्वं" जगत् । "उत्थितं" प्रादुर्भूतम् । "तत्" तं प्रकारम् । "उत्तमयो"त्कृष्टया । "धिया" । "शृणु" । एतेनोत्तमधीरेवाधिकारित्वेनोक्तः ॥ ंोट्_३,१२.१ ॥ तदेव कथयति सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् । सर्वमेकं च तच्छान्तं तत्र तावत्क्रमं शृणु ॥ ंो_३,१२.२ ॥ "सुषुप्तं" सुषुप्तिः । "स्वप्नवत्" स्वप्न इव । "भाति" स्फुरति । घननिद्रात उत्थितस्य एव स्वप्नप्रादुर्भावात् । "ब्रह्मैव" सर्गभावेन बृंहितं चिन्मात्राख्यं वस्तु एव । "सर्गवत्" सर्ग इव । "भाति" । ननु तर्हि जगदुपादानभूतं ब्रह्म जगद्वदेव जडं स्यात् । कार्यवैगुण्ययुक्तस्य कारणस्यादर्शनातित्य् । अत्राह "सर्वम्" इति । "तत्" ब्रह्म । "सर्वं" भवति । "एकं च" भवति । "शान्तं च" भवति । सर्वथाश्चर्यमेव तदिति भावः । ननु कथमुत्पद्यत इत्य् । अत्राह "तत्रे"ति । "तावच्"छब्दः साकल्ये ॥ ंोट्_३,१२.२ ॥ क्रममेव कथयति तस्यानन्तप्रकाशात्मरूपस्याततचिन्मणेः । सत्तामात्रात्म कचनं यदजस्रं स्वभावतः ॥ ंो_३,१२.३ ॥ तदात्मनि स्वयं किञ्चिच्चेत्यतामिव गच्छति । अगृहीतात्मकं संविदीहामर्षणसूचकम् ॥ ंो_३,१२.४ ॥ "तत्" कचनम् । "किञ्चित्" लेशेन । "चेत्यतामिव गच्छति" परमार्थतो न गच्छतीत्"ईव"शब्दोपादानम् । कथम् । "स्वयं" स्वेनैव । न तु परप्रेरणया । परस्य तत्राभावात् । कस्मिन् । "आत्मनि" स्फुरणाख्यचेतकस्वभावे खरूपे । तद्व्यतिरेकेण तदा कस्याप्यभावात् । "तत्" किम् । "यत्" "कचनं" स्फुरणम् । अहमिति परामर्श इति यावत् । "अजस्रं" सन्ततम् । "स्वभावतः" स्वभावेनैव । भवति । कस्य । "तस्य" सर्वेष्वहमिति भासमानत्वेन प्रसिद्धस्य्"आनन्तप्रकाशात्मरूपस्यानन्तः" अपरिच्छिन्नः । यः "प्रकाशः" तद्"आत्मा" । तदेकमयः स्वभावः "स्वरूपं" यस्य । सः । तस्यानन्तप्रकाशरूपस्येति यावत् । "आततचिन्मणेः" । "आततः" सर्वत्र व्याप्तः यः "चिन्मणिः" । तस्य । कथम्भूतं "कचनं" । "सत्तामात्रात्म" सत्तामात्रस्वरूपम् । स्फुरत्तारूपे कचन एव सत्ताव्यवहारात् । अयं भावः । शुद्ध ... ********************************************************************* ... मानत्वं च चिद्विषयत्वम् । तच्च चित्सम्बन्धः । चिताथाचिद्रूपस्य सम्बन्धो न युज्यते विरुद्धत्वात् । न हि तेजस्तमसोः सम्बन्धः क्वापि दृष्टः । चितश्च शान्तत्वमुक्तन्यायेन चेत्यासम्भवेनैव सिद्धमिति ॥ ंोट्_३,१३.५० ॥ ब्रह्मैव कचति स्वच्छमित्थमात्मात्मनात्मनि । चित्त्वाद्द्रवत्वात्सलिलमिवावर्ततयात्मनि ॥ ंो_३,१३.५१ ॥ "इत्थं" जगद्रूपतया । "स्वच्छं" चेत्यमलरहितम् । "आत्मना" स्वयम् । "आत्मनि" भित्तिभूते स्वस्वरूपे । "आत्म" सर्वात्मभूतम् । "ब्रह्मैव कचति" भाति । कुतः । "चित्त्वात्" चिद्भावात् । चेत्यरूपजगत्तयाभाने चित्त्वमेव तस्य न स्यादिति भावः । अत्र दृष्टान्तमाह "द्रवत्वाद्" इति । यथा "सलिलं द्रवत्वातात्मनि" सलिलाख्ये स्वरूपे । "आवर्त"रूपेण स्फुरत्भवति । तथेत्यर्थः ॥ ंोट्_३,१३.५१ ॥ असदेवेदमाभाति सदिवेहानुभूयते । विनश्यत्यसदेवान्ते स्वप्ने स्वमरणं यथा ॥ ंो_३,१३.५२ ॥ "इदं" जगत् । "असदेव भाति" विलसति । अस्माभिः "सदिव" सद्वत् । "इह" परात्मस्वरूपे । "ऽनुभूयते" । "ऽन्ते" संहारे । "असदेव विनश्यति" । अत्र दृष्टान्तमाह "स्वप्न" इति ॥ ंोट्_३,१३.५२ ॥ जगदत्यन्ताभावं विस्तरेणोक्त्वा सिद्धान्तभूतं ब्रह्ममयत्वं तस्य कथयति अथ वाजस्वरूपत्वात्सदैवेदमनामयम् । अखण्डितमनाद्यन्तं ज्ञातमात्राम्बरोदरम् ॥ ंो_३,१३.५३ ॥ "अथ वा इदं" जगत् । "सदैवाजस्वरूपत्वात्" जन्मरहितचिन्मात्रस्वरूपत्वात् । "अनामयम्" पूर्वोक्ताधारत्वाधेयत्वादिरोगरहितं भवति । न त्वभावयुक्तम् । तदभावश्च तदाक्रान्तबुद्धीन् सत्यं तद्रूपमपश्यतः प्रत्येवोक्तः । कथम्भूतम् "इदं" । "अखण्डितं" पूर्णस्वरूपम् । "अनाद्यन्तं" आद्यन्तरहितम् । "ज्ञातमात्राम्बरोदरम्" । "ज्ञातमात्रम्" एव । न तु मुद्गरादिप्रहारैः नाशितं सत् । "अम्बरोदरम्" सम्यग्ज्ञानेनालोचितं हि जगतम्बरोदरमेव भवति ॥ ंोट्_३,१३.५३ ॥ सर्गान्तश्लोकेन पूर्वोक्तं सङ्गृह्णाति आकाश एव परमे प्रथमः प्रजेशो नित्यं स्वयं कचति शून्यतया समानः । स ह्यातिवाहिकवपुर्न तु भूतरूपी पृथ्व्यादि तेन न सदस्ति यदा न जातम् ॥ ंो_३,१३.५४ ॥ "प्रथमः" आद्यः । "प्रजेशः" ब्रह्मा । "परमे" सर्वोत्तीर्णे । "आकाशे" चिदाकाशे । "नित्यं" सदा । "स्वयं" स्वेनैव । "कचति" स्फुरति । तथा च पूर्वोक्ता सर्वा प्रक्रिया सर्गारम्भं विना अतुष्टमनसः प्रत्येवेति भावः । कथम्भूतः । "शून्यतया" शून्यभावेन । "समानः" शुद्धत्वेन तत्समानः । न तु तद्रूपः जडत्वापत्तेः । "हि" निश्चये । "सः" प्रजेशः । "आतिवाहिकवपुः" सूक्ष्मशरीरमयः । भवति । "न तु भूतरूपः" । "तु" विशेषे । सः स्थूलपृथ्व्यादिभूतरूपी न भवति । "तेन" तदभूतरूपिताख्येन हेतुना । "पृथ्व्यादि सत्नास्ति" । ननु प्रजेशस्यापृथ्व्यादिरूपतया कथं न पृथ्व्यादि सतस्तीत्य् । अत्राह "यदे"ति । यत इत्यस्यार्थे । यतः "जातम्" उत्पन्नम् । "ना"स्ति । शुद्धमनोरूपस्य प्रजेशस्य तद्रूपताग्रहणेन पृथ्व्यादेर्जातत्वं स्यान् । न तु पूर्वन्यायेन प्रजेशस्य तद्रूपताग्रहणं सम्भवत्य् । अतः पृथ्व्यादेरपि जातत्वं न सम्भवतीति भावः । इति शिवम् ॥ ंोट्_३,१३.५४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे त्रयोदशः सर्गः ॥ ३,१३ ॥ ********************************************************************* ओम् । एवं जगतोऽत्यन्ताभावं परमात्मैकमयतां च पुनः पुनः उक्त्वा तावन्मात्रमेव साधनीयं ज्ञात्वा पुनरपि तदेव कथयति इत्थं जगदहन्तादि दृश्यं जातं न किञ्चन । अजातत्वाच्च नास्त्येव यच्चास्ति परमेव तत् ॥ ंो_३,१४.१ ॥ "अहन्तादि" अहन्ताप्रभृति । "दृश्यं जगतित्थं" पूर्वप्रकारेण । "किञ्चन" लेशेनापि । "न जातं" भवति । ततः किमित्य् । अत्राह "अजाते"ति । जगत्"अजातत्वात्" । "च"शब्दः पादपूरणार्थः । "नास्त्येव" । ननु कथमजातत्वेन जगतोऽसत्त्वं साधयसि भासमानत्वेन सत्त्वादित्य् । अत्राह "यच्चे"ति । "तत्परमेव" उत्तीर्णं चिन्मात्रमेव । भवति । न तु जगत् । "तत्" किम् । "यतस्ति" यत्भासमानत्वेन निराकर्तुं न शक्यत इत्यर्थः ॥ ंोट्_३,१४.१ ॥ ननु तर्हि पूर्वं साधिता जीवता कथमस्तीत्य् । अत्राह परमाकाश एवासौ जीवतां चेतति स्वयम् । निःस्पन्दाम्भोधिजठरे सलिलं स्पन्दतामिव ॥ ंो_३,१४.२ ॥ "असौ" पूर्वोक्तः । "परमाकाश एव" चिन्मात्राकाश एव । "स्वयं" स्वेन । "जीवतां" जीवभावम् । "चेतति" अनुभवति । किम् "इव" । "सलिलमिव" । यथा "निःस्पन्दाम्भोधिजठरे" निःस्पन्दसमुद्रमध्ये । स्थितं जलं "स्पन्दतां" । "स्पन्द"शब्देनात्र स्पन्दयुक्तो लक्ष्यते । स्पन्दयुक्तताम् । "चेतति" । चेतनं चात्र तद्योग्यतामात्रमेव । न हि तत्र सलिलस्य सस्पन्दता केनाप्यंशेन युक्ता । एवं ब्रह्मण्यपि जीवतायोग्यत्वमात्रमेव । न तु तत्र जीवता नाम काचिदस्ति । सलिलेऽग्रे सस्पन्दतायुक्तत्वात्योग्यताज्ञानम् । ब्रह्मणि जीवरूपतया भासनेनेति विशेषः ॥ ंोट्_३,१४.२ ॥ एतदेव नानाभङ्गीभिः प्रतिपादयति आकाशरूपमजहदेव वेत्तीव दृश्यताम् । स्वप्नसङ्कल्पशैलादाविव चिद्वृत्तिरान्तरी ॥ ंो_३,१४.३ ॥ असौ परमाकाशः "दृश्यताम्" दृश्यभावम् । "वेत्ति इव" अनुभवति इव । कथम्भूत "एव" । "आकाशरूपं" चिन्मात्राकाशाख्यं रूपम् । "अजहदेव" । तत्त्यागे तु वेदनमस्य न स्यादिति भावः । क्"एवान्तरी" अहम्परामर्शस्य सारभूतान्तःकरणोपहिता । "चिद्वृत्तिरिव" सा यथा । "स्वप्नसङ्कल्पशैलादौ" स्वप्ने सङ्कल्पे च स्वविषयीकृते स्वस्वरूपपर्वतादौ स्थिताम् । "दृश्यतां वेत्ति" । शैलोऽयमिति । तथेत्यर्थः ॥ ंोट्_३,१४.३ ॥ पृथ्व्यादिरहितो देहो यो विराडात्मनो महान् । आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः ॥ ंो_३,१४.४ ॥ "पृथ्व्यादिरहितः" स्थूलपृथ्व्यादिस्पर्शादूषितः । "विराडात्मनः" विराट्स्वरूपतया स्थितस्य परमात्मनः । "महान्" व्यापकः । "यो देहो"ऽस्ति । सः "आतिवाहिक एव" सूक्ष्म एव । भवति । अत्र हेतुत्वेन विशेषणमाह "चिन्मात्रे"ति । यतः चिन्मात्राख्यनिर्मलाकाशस्वरूपः । चिन्मात्रमयस्य शरीरस्यातिवाहिकत्वं स्वप्ने दृष्टमिति नायस्तम् ॥ ंोट्_३,१४.४ ॥ अक्षयस्वप्नशैलाभः स्थिरस्वप्नपुरोपमः । चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः ॥ ंो_३,१४.५ ॥ अनिखातमहास्तम्भपुत्रिकौघसमोपमः । ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे सालभञ्जकः ॥ ंो_३,१४.६ ॥ आद्यः प्रजापतिः पूर्वं स्वयम्भूरिति विश्रुतः । प्राक्तनानां स्वकार्याणामभावादपकारणः ॥ ंो_३,१४.७ ॥ "आद्यः" कारणभूतः । "स्वयम्भूरिति विश्रुतः" । स्वयम्भूरिति नाम्ना प्रसिद्धः । "प्रजापतिः" । "पूर्वं" सर्गारम्भे । "अपकारणः" कारणरहितः । भवति । कुतः । "प्राक्तनानां स्वकार्याणां" पूर्वकल्पकृतकर्मणाम् । "अभावात्" । कर्मणां च जन्महेतुत्वं सर्वशास्त्रेषु प्रसिद्धमेव । कार्याणामभावश्चास्य चिन्मात्रतः सद्य उत्थितत्वेन ज्ञेयः । किंरूपोऽसौ । "अक्षय" इत्यादि । "अक्षयः" इतरस्वप्नशैलवत्क्षणिकत्वदोषरहितः यः स्वप्नशैलः । तद्वदाभा यस्य । स "अक्षयस्वप्नशैलाभः" । "स्थिरस्वप्नपुरोपमः" । इतरस्वप्नपुरवैलक्ष्येण "स्थिरं" स्थिराकारम् । यत्"स्वप्नपुरं" । तस्य्"ओपमा" यस्य । सः । एतेन विशेषणद्वयेनातिवाहिकतायामप्यस्य स्थिरतोक्ता । चित्रकृति स्थितं चित्तं "चित्रकृत्स्थितचित्तं" । तत्र"स्थं" यत्"चित्रसैन्यम्" अग्रे प्रकटीभवदालेख्यसैन्यम् । तेन "समाकृतिः" स्वरूपं यस्य । सः "चित्रकृत्स्थितचित्तस्थचित्रसैन्यसमाकृतिः" । "अनिखातो"ऽनुत्कीर्णः । यः "महास्तम्भपुत्रिकौघः" । तेन "समा उपमा" यस्य । सः "अनिखातमहास्तम्भपुत्रिकौघसमोपमः" । "ब्रह्माकाशे सुस्तम्भे" "अनिखातात्मा" अनुत्कीर्णस्वरूपः । "सालभञ्जकः" महती पुत्रिका । "अनिखाते"ति विशेषणस्यैवेयं व्याख्या । एतेन विशेषणद्वयेन ब्रह्मैकमयतास्योक्ता ॥ ंोट्_३,१४.५७ ॥ महाप्रलयपर्यन्तेष्वाद्याः किल पितामहाः । मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् ॥ ंो_३,१४.८ ॥ "सर्वे एव आद्याः पितामहाः महाप्रलयपर्यन्तेषु" । "पर्यन्त"शब्देनात्र उद्रेकता विवक्षिता । "मुच्यन्ते" चिन्मात्राख्ये स्वरूपे लयीभवन्ति । फलितमाह्"आतः" इति । "अतो" हेतोः । "तेषु" सर्वेषु आद्येषु पितामहेषु । "प्राक्तनं कर्म किं" भवति । न किञ्चिदपीत्यर्थः । तथा च । सर्वेऽपि तेऽपकारणा एवेति भावः ॥ ंोट्_३,१४.८ ॥ मोक्तव्य एव कुड्यात्मा दृश्योऽदृश्यश्च संस्थितः । न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च ॥ ंो_३,१४.९ ॥ प्रतिच्छन्दः पदार्थानां सर्वेषामेष एव सः । अस्मादुदेति जीवाली दीपाली दीपकादिव ॥ ंो_३,१४.१० ॥ "एष स एव" पूर्वोक्तः प्रजापतिरेव । "सर्वेषां पदार्थानां प्रतिच्छन्दः" समष्टिरूपः आभासः । भवति । सर्वेषामाभासानामेतत्स्वरूपत्वात् । कथम्भूतोऽसौ । "मोक्तव्य एव" मोक्तुं मध्ये गन्तुं शक्य एव । "कुड्यात्मा" । "कुड्यं" हि रोधकत्वेन मध्ये गन्तुं न शक्यते ।ऽयं तु अपूर्वमेव कुड्यः । मोक्तव्यत्वमस्य सर्वेषां दृश्यसञ्चाराणां प्रवेशनिर्गममहत्त्वात् । कुड्यत्वं तु सर्वाधारत्वेन । पुनः कथम्भूतः । "दृश्यः संस्थितः" दृश्यरूपेणास्थितः । "अदृश्यश्च स्थितः" द्रष्टृरूपेण च स्थितः । चिन्मात्राभासशुद्धमनोरूपप्रजापतिरूपत्वाद्द्रष्टृदृश्ययोः । पुनः किम् । "न दृश्यं न च द्रष्टा न स्रष्टा" न सृजिक्रियाकर्ता सर्वोत्तीर्णरूपत्वात् । पुनः किम् । "सर्वमेव च" । ननु कथमयं प्रतिच्छन्दः अस्तीत्य् । अत्राह "अस्माद्" इति । यतः "अस्मात्" प्रजापतेः । "जीवाली उदेति" प्रादुर्भवति । ननु मृदो घटाली रज्जुसमूहात्वा सर्पालीन्यं तथा उदेति । न तयोः तत्प्रतिच्छन्दत्वं दृश्यते इत्य् । अत्राह "दीपाली"ति । विवर्तपरिणामाभ्यामन्य एव प्रतिच्छन्द्यप्रतिच्छन्दकरूपः प्रकारः अत्रास्तीति भावः ॥ ंोट्_३,१४.९१० ॥ सङ्कल्प एव सङ्कल्पात्किलैति क्ष्मादिवर्जितः । क्ष्मादिमानिव निष्कुड्यः स्वप्नात्स्वप्नान्तरं यथा ॥ ंो_३,१४.११ ॥ "किले"ति निश्चये । "क्ष्मादिवर्जितः" आभासरूपत्वेन स्थूलपृथ्व्यादिरहितः । "क्ष्मादिमानिव" भासमानत्वेन तत्सहित इव भासमानः । "निष्कुड्यः" भासमानैः कुड्यरूपैः पर्वतादिभिः हीनः । "सङ्कल्पः" जगदाख्यः सङ्कल्पः । "सङ्कल्पात्" शुद्धमनोरूपाद्ब्रह्मणः । "एति" प्रादुर्भवति । अत्र दृष्टान्तमाह "स्वप्नाद्" इति । "स्वप्नात्" सङ्कल्परूपात् । "स्वप्नान्तरं" सङ्कल्परूपमन्यस्वप्नम् । यथैति । तथेत्यर्थः ॥ ंोट्_३,१४.११ ॥ अस्मादेव प्रतिच्छन्दाज्जीवाः सम्प्रसरन्त्यमी । सहकारिकारणानामभावाच्च स एव ते ॥ ंो_३,१४.१२ ॥ "अस्मात्" प्रजापतिनाम्नः । "प्रतिच्छन्दात्" आभासात् । "अमी" प्रत्यक्सं स्फुरमाणाः । "जीवाः" । "सम्प्रसरन्ति" सञ्चारं यान्ति । तर्हि तत उत्पन्नत्वेन ततो भिन्ना एव स्युरित्य् । अत्राह "सहकारी"ति । "ते" जीवाः । "स एव" भवन्ति । न तु ततो भिन्नाः । कुतः । "सहकारिकारणानाम्" प्राक्तनकर्मरूपाणां सहकारिकारणानाम् । "अभावात्" । सहकारिकारणाभावे कार्यं कारणरूपमेवेति हि प्रसिद्धिः ॥ ंोट्_३,१४.१२ ॥ सहकारिकारणानामभावे कार्यकारणम् । एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः ॥ ंो_३,१४.१३ ॥ कार्यं च तत्कारणं च "कार्यकारणं" । "परस्मात्" दृश्यापेक्षया उत्कृष्टात्प्रजापतेः । "सर्गविभ्रमः" सर्गविलासः ॥ ंोट्_३,१४.१३ ॥ ब्रह्मैवाद्यो विराडात्मा विराडात्मैव सर्गता । जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः ॥ ंो_३,१४.१४ ॥ "ब्रह्म एव" ब्रह्मतत्त्वमेव्"आद्यः विराडात्मा" विराट्स्वरूपो परमात्मा । भवति । "विराडात्मा एव सर्गता" सर्गः । भवति । पादपूरणार्थो भावप्रत्ययः । उपसंहारं करोति "जीवे"ति । "स" पूर्वोक्तः । "जीवाकाश" "एव" चेत्यत्वादितन्मात्रान्तवलितचिन्मात्राख्यः "जीवाकाश एव" । "इत्थं" प्रजापत्यादिसर्गरूपेण । "स्थितो" भवति । अत्र हेतुमाह "पृथ्व्यादी"ति । "यतः" यस्मात्कारणात् । "पृथ्व्यादि असत्" भवति ॥ ंोट्_३,१४.१४ ॥ जीवाकाश इति श्रुत्वा किञ्चित्संशयमापन्नः श्रीरामः पृच्छति किं स्यात्परिमितो जीवराशिराहो अनन्तकः । आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः ॥ ंो_३,१४.१५ ॥ "जीवराशिः" जीवाकाशत्वेनोक्तः जीवपुञ्जः । "परिमितः किं स्याताहो अनन्तकः" अपरिमितः स्यात् । "आहोस्वितनन्तात्मा जीवपिण्डः अचलोपमः" पर्वतप्रख्यः । "अस्ति" । "राशिः" भिन्नत्वेन वर्तमानानां समूहः । "पिण्डः" मृत्पिण्डवतेक एव कश्चिज्जीवमयः पिण्ड इति भेदः ॥ ंोट्_३,१४.१५ ॥ ननु किं तव राशिपिण्डत्वयोः प्रश्नेनेत्याशङ्क्याह धाराः पयोमुच इव शीकरा इव वारिधेः । कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः ॥ ंो_३,१४.१६ ॥ "धारा" जलधाराः । "शीकराः" जलकणाः । "तप्तायसः" वह्न्यभिज्वलितातयसः । "कणाः" वह्निमयाः लेशाः । "कस्माद्" इति । जीवराशेः जीवपिण्डस्य वानङ्गीकारे एतेषां निर्याणं न सम्भवतीति भावः ॥ ंोट्_३,१४.१६ ॥ प्रश्नमुपसंहरति इति मे भगवन् ब्रूहि जीवजालविनिर्णयम् । ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु ॥ ंो_३,१४.१७ ॥ हे "भगवन्" त्वम् । "इति" पृष्टम् । "जीवजालविनिर्णयं मे ब्रूहि" । एतावदुक्त्वा त्वया किं न श्रुतमित्य् । अत्राह "ज्ञातम्" इति । "मया एतत्प्रायः" बाहुल्येन । "ज्ञातम्" । न त्वशेषेणातः "तदेव प्रकटीकुरु" येनाशेषेण जानामीति भावः ॥ ंोट्_३,१४.१७ ॥ श्रीवसिष्ठ उत्तरमाह एक एव न जीवोऽस्ति राशीनां सम्भवः कुतः । शशशृङ्गं समुड्डीय प्रयातीतीव ते वचः ॥ ंो_३,१४.१८ ॥ परमार्थतः "एक एव जीवो नास्ति" । त्वत्पृष्टानां "राशीनां सम्भवः कुतः" स्यात् । एतत्प्रश्नस्यासम्बद्धार्थत्वं कथयति "शशे"ति । "शशशृङ्गं समुड्डीय प्रयाति इति" एतद्वचनसदृशम् । "ते वचः" अस्ति । आदौ शशशृङ्गमेव नास्ति । का कथा तदुड्डयनस्य । तथा जीव एव नास्ति । का कथा तद्राश्यादेरिति भावः ॥ ंोट्_३,१४.१८ ॥ सर्वमेतत्पृष्टं निराकरोति न जीवोऽस्ति न जीवानां राशयः सन्ति राघव । न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन ॥ ंो_३,१४.१९ ॥ परमार्थतः सर्वस्य शुद्धचिन्मात्रैकमयत्वात्"जीवो नास्ति" । हे "राघव" । "जीवानां" " राशयो न सन्ति" । "न च एकः कश्चन पर्वतप्रख्यः जीवपिण्डोऽस्ति" । अतश्च त्वत्प्रश्नोऽयं न युक्त इति भावः ॥ ंोट्_३,१४.१९ ॥ आशीःप्रकारेण निश्चयमस्य कर्तव्यत्वेन कथयति जीवशब्दार्थकलनाः समस्तकलनान्विताः । न च काश्चन सन्तीति निश्चयोऽस्तु तवाचलः ॥ ंो_३,१४.२० ॥ "तवेति निश्चयः" अयं निश्चयः । "अचलः" स्थिरो । "ऽस्तु" । "इति" किम् । "इति जीवशब्दार्थकलनाः" । ताः "समस्तकलनान्विताः" समस्ताभिः अहम्भावादिकलनाभिः अन्विताः । "न सन्ति" ॥ ंोट्_३,१४.२० ॥ ननु जीवादीनां प्रत्यक्षेण स्फुरणात्कथमयं निश्चयः युक्तः स्यादित्य् । अत्राह शुद्धं चिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् । तद्यथा सर्वशक्तित्वाद्विन्दते यां स्वयं कलाम् ॥ ंो_३,१४.२१ ॥ चिन्मात्रानुक्रमेणैव सम्प्रफुल्लां लतामिव । ननु मूर्ताममूर्तां वा तामेवाशु प्रपश्यति ॥ ंोट्_३,१४.२२ ॥ "हि" निश्चये । "शुद्धं चिन्मात्रं" शुद्धचिन्मात्रस्वरूपम् । अत एव्"आमलं ब्रह्मास्ति" । कथम्भूतम् । "सर्वगम्" समस्तदेशकालव्यापकम् । ततः किमित्य् । अत्राह "तद्" इति । "तत्" ब्रह्म । "सर्वशक्तित्वात्" यतः सर्वशक्तिरस्ति । ततः "यां" जीवादिमयीम् । "कलां" कलनाम् । "यथा" येन प्रकारेण । "स्वयं" स्वेन । न तु पारतन्त्र्येण । "विन्दते" स्वोपलब्धिविषयं करोति । कथम्भूतां "कलां" । "चिन्मात्रानुक्रमेण" चिन्मात्रपरिपाट्या । "लतामिव" लतावत् । "सम्प्रफुल्लां" विकसिताम् । चिन्मात्रस्यैव हीयं परिपाटी यत्कलनाः विकासयति । "ननु" निश्चये । "तां" कलनाम् । "मूर्ताममूर्तां वा" स्थूलां सूक्ष्मां व्"आशु" तस्मिन्नेव क्षणे । "प्रपश्यति" सम्पन्नामेव पश्यति । तथा च । जीवः परमार्थतः स्वयं सिद्धो नास्ति । कस्य राशिता पिण्डता वा भवेदिति भावः ॥ ंोट्_३,१४.२१२२ ॥ ननु यदि ब्रह्म जीवादि पश्यति तदा तद्भिन्नमेवैतत्स्यात् । स्वभिन्नस्यैव दृष्टिगोचरत्वादित्य् । अत्राह जीवो बुद्धिः क्रियास्पन्दो मनो द्वित्वैक्यमित्यपि । स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने ॥ ंो_३,१४.२३ ॥ तत्ब्रह्म । "तां" प्रसिद्धाम् । "स्वसत्तां" स्वस्फुरत्ताम् । "वेदने नियोजयति" वेदनविषयां करोति । पश्यतीति यावत् । "स्वसत्तां" कथम्भूताम् । "जीवः बुद्धिः क्रियास्पन्दः" हिताहितप्राप्तिपरिहारार्थाश्चेष्टाः । "मनः" । द्वित्वं च ततैक्यं च "द्वित्वैक्यम्" । "इत्यपि" एतद्रूपेण । "कचन्तीं" स्फुरन्तीम् । तथा च । दृष्टिगोचरत्वेऽपि न जीवादेर्भिन्नत्वं युक्तमिति भावः ॥ ंोट्_३,१४.२३ ॥ ननु ब्रह्मसत्ता कथं जीवादिभावेन स्फुरतीत्य् । अत्राह साबुद्धैवं भवत्येव भवेद्ब्रह्मैव बोधतः । अबोधः प्रेक्षया याति नाशं न तु स बुध्यते ॥ ंो_३,१४.२४ ॥ "सा" ब्रह्मसत्त्"आबुद्धा" ब्रह्मसत्ताभावेनाज्ञाता सती । "एवं भवति एव" जीवादिरूपतया भासत एव । "बोधतः" ब्रह्मसत्ताभावेन ज्ञानात् । "ब्रह्मैव भवेत्" । सत्तातद्वतोः भेदाभावात् । ननु जीवादेः ब्रह्मसत्ताभावेन ब्रह्ममयत्वेऽपि ब्रह्मसत्ताविषयस्तु यः अबोध आसीत्सः अबोधत्वेन ज्ञातः सन् घटादिवत्तथैव तिष्ठति । तथा च न ब्रह्मैकमयता सिध्यति इत्य् । अत्राह "अबोध" इति । "अबोधः प्रेक्षया" बोधेन । "नाशं याति" । "तु" पक्षान्तरे । "सः" अबोधः । "न बुध्यते" बोधविषयो न सम्पद्यते विरुद्धत्वात्तदुद्बोधकाले एव नष्टत्वात् । न हि तमः तेजोविषयो भवतीति भावः ॥ ंोट्_३,१४.२४ ॥ एतदेव दृष्टान्तेन दृढीकरोति यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति । न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि ॥ ंो_३,१४.२५ ॥ "यथान्धकारः दीपेन प्रेक्ष्यमाणः" द्रष्टुमारब्धः । "प्रणश्यति" । "अस्या"न्धकारस्य । "तत्त्वं" स्वरूपम् । "न च ज्ञायते" । पुरुषेणेति शेषः । दार्ष्टान्तिके योजयति "अबोधस्ये"ति । "हि" निश्चये । "ऽबोधस्या"ज्ञानस्य्"ऐवमेव तत्त्वं न ज्ञायते" इत्यर्थः ॥ ंोट्_३,१४.२५ ॥ जीवस्य ब्रह्मत्वमुपसंहरति एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः । सर्वशक्तिरनाद्यन्तो महाचित्साररूपधृत् ॥ ंो_३,१४.२६ ॥ "एवं" पूर्वोक्तप्रकारेण । "जीवात्मा ब्रह्मैव" भवति । ब्रह्मत्वापादकान्यस्य विशेषणान्याह "निर्विभाग" इति । "निर्विभागः" विभागरहितः । न हि जीवस्वरूपे कश्चिद्विभागोऽस्ति निरवयवत्वात् । "निरन्तरः" प्रकाशनिर्भरितत्वेन मध्येऽवकाशहीनः । "सर्वशक्तिः" सर्वशक्तित्वं चास्य स्वप्नादौ प्रत्यक्षदृष्टमेव । "अनाद्यन्तः" आद्यन्तरहितत्वं चास्याद्यन्तपरिच्छेदकत्वेनैव सिद्धम् । न हि परिच्छेद्यः परिच्छेदकस्य परिच्छेदं कर्तुं शक्नोति । "महाचित्साररूपधृत्" । "महाचित्" विमर्शशक्तिः । तस्याः "सारः" प्रकाशः । तस्य रूपं धारयति "महाचित्साररूपधृत्" । प्रकाशस्वरूप इत्यर्थः ॥ ंोट्_३,१४.२६ ॥ सर्वथैव भेदकलनां निराकरोति सर्वानन्ततया त्वस्य न काचिद्भेदकल्पना । विद्यते या हि कलना सा तदेवानुभूतितः ॥ ंो_३,१४.२७ ॥ "तु" विशेषे । "ऽस्य" ब्रह्मणः । "सर्वानन्ततया" सर्वश्चासावनन्तश्च "सर्वानन्तः" । तस्य भावः "सर्वानन्तता" । तया । "काचिद्भेदकलना" भेदाकारा कलना । भेद इति यावत् । "ना"स्ति । सर्वरूपस्यानन्तस्य च भेदायोगात् । न हि घटाद्यपेक्षयानन्तस्य घटशरावादिसर्वरूपस्य मृदादेः घटभेदो युक्तः । ननु सर्वत्वमनन्तत्वं च असर्वात्सान्ताच्च भेदकमेव । तथा च ताभ्यामेव तस्य भेदः सम्पद्यत इत्य् । अत्राह "विद्यत" इति । "हि" यस्मादर्थे । "या कलना" भेदकलना । "विद्यते" । "सा तदेव" ब्रह्मैव । भवति । कुतो । "ऽनुभूतितः" अनुभूतिस्वरूपतः । अयं भावः । या काचित्कलनास्ति सानुभूता न वा । न चेत्सा स्वयमसिद्धा ब्रह्मणि भेदं कथं कुर्यात् । अनुभूता चेत्तर्हि अनुभवरूपैवानुभवस्य च चिद्रूपत्वेन ब्रह्मत्वं सिद्धमेवेति । ब्रह्मैव सा भवेदिति ॥ ंोट्_३,१४.२७ ॥ अत्र श्रीरामः पृच्छति एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः । जगज्जीवा न युज्यन्ते महाजीवैकतावशात् ॥ ंो_३,१४.२८ ॥ हे "ब्रह्मन्" । "एतत्" त्वयोक्तम् । "एवं" भवति । सत्यमेव भवतीत्यर्थः । सर्वेषां जीवानां तत्रैकजीवेच्छानुवर्तित्वमाशङ्कते । "कथम्" इति । "अखिलाः जगज्जीवाः" । जगति स्थिता जीवाः "जगज्जीवाः" । "महाजीवैकतावशात्" । "महाजीवेन" चेत्यत्वादितन्मात्रान्तप्रपञ्चवलितचिन्मात्राख्यमहाजीवेन । या "एकता" ऐक्यम् । तस्याः "वशात्" वशेन । "एकजीवेच्छया" एकस्य कस्यापि सामान्यजीवस्येच्छया । "कथं न युज्यन्ते" । अयं भावः । सर्वेषां जीवानां प्रोक्तस्वरूपमहाजीवैकमयत्वे एकस्मिन् जीवे उदितयेच्छया सर्वेषां जीवानां योगो युक्तः ॥ ंोट्_३,१४.२८ ॥ श्रीवसिष्ठ उत्तरमाह महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् । स्थितं यथेच्छमेवेह निर्विभागं निरन्तरम् ॥ ंो_३,१४.२९ ॥ "महाजीवात्म" महाजीवः । "तत्ब्रह्म इह यथेच्छं" स्वेच्छासदृशम् । "स्थितं" भवति । "तत्ब्रह्म" कथम्भूतम् । "सर्वशक्तिमयात्मकम्" । "सर्वशक्तिमयः" सर्वशक्तिनिर्भरः । "आत्मा" यस्य । तत् । तादृशम् । सर्वशक्तिमयात्मकत्वं च ब्रह्मणः सर्वशक्तीनां तत एवोत्थानात् । पुनः कथम्भूतम् । "निर्विभागं" अखण्डस्वरूपत्वेन विभागान्निष्क्रान्तम् । पुनः कथम्भूतम् । "निरन्तरम्" प्रकाशाख्यसारभरितम् ॥ ंोट्_३,१४.२९ ॥ ननु ब्रह्म यथेच्छं स्थितं भवतु । ततः किमित्य् । अत्राह यदेवेच्छति तत्तस्य भवत्याशु महात्मनः । पूर्वं तु नश्यतीच्छा चिदतो द्वित्वमुदेति तत् ॥ ंो_३,१४.३० ॥ तत्ब्रह्म । "यदेवेच्छति" इच्छाविषयं करोति । "तद्" एव । न त्वन्यत् । "तस्य महात्मनः" व्यापकस्वरूपस्य ब्रह्मणः । "आशु" इच्छाक्षणे एव । "भवति" सम्पद्यते । एकतेच्छानाशेन द्वित्वोत्पत्तिमस्मात्कथयति "पूर्वम्" इति । "चित्" इच्छा । नीलमुत्पलमितिवत्चिद्विशेषितेच्छा ज्ञेया । चिद्विशेषितत्वं चात्र चिद्विषयत्वं ज्ञेयम् । यत इत्यध्याहार्यम् । तेनायमर्थः । यतः "चित्" इच्छा । चिद्रूप एव भवामीत्येवंरूपा एकतेच्छा । "पूर्वं" प्रथमसर्गारम्भे । "ऽतः" सप्तम्यर्थे तसिलस्मिन् ब्रह्मणि । "तु"शब्दः इवार्थे । "नश्यति तु" सुस्फूर्त्यविषयतारूपं नाशं यातीव । परमार्थतः तु न नश्यति तस्याः सर्वत्रानुगमात् । इति "तु"शब्दोपादानम् । चिद्विषयेच्छानाशश्च चेत्यविषयेच्छोद्भूतेरेव ज्ञेयः । "तत्" तस्मात्कारणात् । "द्वित्वं" चेत्यस्वरूपजीवादिरूपेण स्थितो द्विधाभावः । "उदेति" प्रादुर्भवति । एकतेच्छानाशहेतुभूततया द्वित्वेच्छया एव द्वित्वमुदेतीति भावः ॥ ंोट्_३,१४.३० ॥ द्वित्वोदयानन्तरं शक्तिक्रियाक्रमकरणं कथयति पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः । अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः ॥ ंो_३,१४.३१ ॥ "पश्चात्" । "तेन" ब्रह्मणा । "द्वित्वविभक्तानां" । "द्वित्वेन" द्विधाभावेन । "विभक्तानां" विभागेन स्थापितानाम् । "स्वशक्तीनां" । "इत्येवं" इति प्रकारेण । "क्रियाक्रमः" "कल्पितः" । "हि" निश्चये । "इत्य्" "एवं" कथम् । "अनेन" सम्पद्यते ॥ ंोट्_३,१४.३१ ॥ सम्पन्नं स्वेष्टं कथयति शक्त्याद्यया तया ब्राह्म्या नियमो यः प्रकल्पितः । तं विना नोदयोऽन्यासां प्रधानेच्छैव रोहति ॥ ंो_३,१४.३२ ॥ "तया" प्रसिद्धय्"आद्यया" मूलकारणभूतया । "ब्राह्म्या" ब्रह्मसम्बन्धिन्या । "शक्त्या" । "यः नियमः" स्वेच्छासदृशी नियतिः । "प्रकल्पितः" । "तं" नियमम् । "विना" ऋते । "ऽन्यासां" जीवस्थानानाम् । "उदयो न" स्यात् । अत इत्यध्याहार्यम् । अतः "प्रधानेच्छैव रोहति" । "प्रधानस्य" महाजीवात्मभूतस्य ब्रह्मणः । "इच्छैव रोहति" जीवेच्छारूपेण परिणमते । तथा च प्रधानेच्छानुवर्तित्वमेव । न सा नियमकारित्वमुक्तम् । इह तु तच्छक्तेरिति चेन् । न । शक्तितद्वतोरभेदात् ॥ ंोट्_३,१४.३२ ॥ एतदेव नानारचनाभिः कथयति यस्या जीवाभिधानायाः शक्त्या येच्छा फलत्यसौ । प्रधानशक्तिनियमानुष्ठानेन विना न तु ॥ ंो_३,१४.३३ ॥ "यस्याः जीवाभिधानायाः शक्त्याः" शक्तिरूपस्य यस्य जीवस्य । "या इच्छा फलति" फलयुक्ता भवति । तस्या इत्यध्याहार्यम् । तस्याः शक्तेः "असौ" इच्छा । "प्रधानशक्तिनियमानुष्ठानेन विना" । "प्रधानशक्तेः" ब्रह्मशक्तेः । यत्"नियमानुष्ठानं" नियमकरणम् । तद्"विना न" भवति । स्वरूपमेव न लभते । का कथा तत्फलस्येति भावः ॥ ंोट्_३,१४.३३ ॥ प्रधानशक्तिनियमः सुप्रतिष्ठो भवेन्न चेत् । तत्फलं शक्त्यशक्तत्वान्नेहितानां क्वचिद्भवेत् ॥ ंो_३,१४.३४ ॥ "प्रधानशक्तेः" ब्रह्मशक्तेः । नियमः "प्रधानशक्तिनियमः" । "सुप्रतिष्ठः" सुस्थिरः । "न चेद्भवेत्" यदि न स्यात् । "तत्" तदा । रोहितानां "क्वचित्" कुत्रापि देशे काले वा । "फलं न" स्यात् । कुतः । "शक्त्यशक्तत्वात्" । "शक्त्या" ब्रह्मशक्त्या । लक्षणया तन्नियमेन । यत्"शक्तत्वं" फलं प्रति सामर्थ्यम् । तदभावः "अशक्तत्वं" । तस्मात्"शक्त्यशक्तत्वात्" । यतः रोहितानां नानाविधानां क्रियाणां फलं विद्यतेऽतः अनुमीयते कोऽपि नियमोऽस्ति येन क्रियाणां फलोत्पादनं प्रति सामर्थ्यमस्तीति भावः ॥ ंोट्_३,१४.३४ ॥ प्रकृतमनुसरति एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः । जीवत्कोटिमहाकोटी भवत्यथ न किञ्चन ॥ ंो_३,१४.३५ ॥ "एवं" पूर्वोक्तप्रकारेण । "ब्रह्मान्तादिवर्जितः" अन्तमध्यादिरहितः । "महाजीवः" "विद्यते" । "कुतो निर्यान्ति जीवका" इति पूर्वतरोक्तस्य प्रश्नस्योत्तरमाह "जीवत्कोटी"ति । तत्ब्रह्म । "जीवत्कोटिमहाकोटी" । "जीवतां" जीवनक्रियाकर्तृकाणाम् । "कोटिमहाकोटी" कोटिमहाकोटिसङ्ख्ये । "भवति" स्वयमेव तद्रूपो भवति । न तु ततो जीवाः निर्यान्तीति भावः । "अथ" तथापि । "न किञ्चन" "भवति" । चिन्मये स्वरूपे तथैव स्थितत्वात् ॥ ंोट्_३,१४.३५ ॥ ननु ब्रह्म केन जीवतां यातीत्य् । अत्राह चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् । तदसंवेदनाद्रूपं शममायाति संसृतेः ॥ ंो_३,१४.३६ ॥ "चेत्यसंवेदनात्" चिद्विषयभूतभावजातपरामर्शात् । ब्रह्म "जीवो भवति" । ततः "संसृतिं याति" सुखदुःखलेपस्वरूपसंसारभाक्भवति । ननु कदाचित्संसृतिरस्य निवर्तते न वेत्य् । अत्राह "तद्" इति । "तदसंवेदनात्" चेत्यापरामर्शात् । अस्येत्यध्याहार्यम् । अस्य जीवस्य । "संसृतेः" संसारस्य । "रूपं शमं" शान्तिम् । "याति" ॥ ंोट्_३,१४.३६ ॥ ननु संसृत्युपशमेन जीवस्य किं सम्पद्यत इत्य् । अत्राह एवं कनिष्ठजीवानां ज्येष्ठजीवक्रियाक्रमैः । समुदेत्याद्यजीवत्वं ताम्राणामिव हेमता ॥ ंो_३,१४.३७ ॥ "एवं "सति संसृत्युपशमे सति । "ज्येष्ठजीवस्य" ब्रह्मणः । क्रियाक्रमैः "ज्येष्ठजीवक्रियाक्रमैः" । "कनिष्ठजीवानामाद्यजीवत्वं" ब्रह्मत्वम् । "समुदेति" प्रादुर्भवति । "ज्येष्ठजीवक्रियाक्रमा" अत्र ब्रह्मकृताः क्रियाक्रमा ज्ञातव्याः । ब्रह्मकृतक्रियाक्रमस्यैव जीवानां ब्रह्मत्वापादने समर्थत्वात् । अत्र दृष्टान्तमाह "ताम्राणाम्" इति । स्वर्णकारक्रियाक्रमैः "ताम्राणां" यथा "हेमत्वं" समुदेति । तथेत्यर्थः ॥ ंोट्_३,१४.३७ ॥ पूर्वतरोक्तं स्मरति अत्रानन्ते पराकाशे इत्थमेष गणोऽप्यसन् । खात्मैव सन्निवोदेति चिच्चमत्करणात्मकः ॥ ंो_३,१४.३८ ॥ "इत्थं" पूर्वोक्तक्रमेण्"आत्रानन्ते पराकाशे" प्रसिद्धेऽपरिमेये चिदाकाशे । "एषः" पूर्वोक्तः । "गणः" चेत्यत्वादिरूपः प्रपञ्चः । "असन्नपि" "सन्निवोदेति" । कथम्भूतः । "खात्मैव" नकिञ्चिद्रूप एव । पुनः कथम्भूतः । "चिच्चमत्करणात्मकः" । "चितः" यत्"चमत्करणं" स्वशक्त्यास्वादकरणम् । तत्"आत्मा" स्वरूपं यस्य । सः "चिच्चमत्करणात्मकः" । "चमत्करणं" विना स्वतन्त्रायाः चितेः चेत्योन्मुखतायोगात् ॥ ंोट्_३,१४.३८ ॥ ननु चमत्करणार्थमन्यापेक्षाया अवश्यम्भावात्कुतोऽस्याः स्वतन्त्रादीत्य् । अत्राह स्वयमेव चमत्कारो यः समागम्यते चिता । भविष्यन्नामदेहादि तदहम्भावनं विदुः ॥ ंो_३,१४.३९ ॥ "यः चमत्कारः चिता" सह "स्वयं" चिदाश्रयेण स्वविषयेन च यत्नेन विना । "समागम्यते" स्वयं समागमविषयतां भजति । पण्डिताः "तदहम्भावनम्" अहङ्कारम् । "विदुः" । अहङ्कारोऽपि चिच्चमत्कार एव । का कथा जीवस्येति अहम्भावग्रहणाभिप्रायः । कथम्भूतम् । "भविष्यन्नामदेहादि" । "भविष्यत्नाम" च "देहादि" च यस्य । तत् । "नामा"हङ्कारेत्यभिधा । "देहः" स्थूलसूक्ष्मरूपः । चिन्नैरपेक्ष्यद्योतनाय "समागम्यत" इति कर्मकर्तृव्यपदेशः ॥ ंोट्_३,१४.३९ ॥ प्रकृतं चिदैक्यं बहुविस्तरेण कथयति चितो यः स्याच्चिदालोकस्तन्मयत्वादनन्तकः । स एष भुवनाभोग इति तस्याः प्रबिम्बति ॥ ंो_३,१४.४० ॥ "चितः" अनन्तस्वभावस्य चित्प्रकाशस्य । "यः आलोकः" भावप्रकटनहेतुः स्वभावविशेषः । "स्याद्" अस्ति । कथम्भूतः । "तन्मयत्वात्" चिन्मयत्वाद् । "अनन्तकः" चिद्वदपरिमेयः । अपरिमेयत्वं च चितः परिमातुरभावेन स्वयं स्वस्मिन् परिमातृतासम्भवाच्च ज्ञेयम् । "स एषः" पूर्वोक्तः विषयस्य स्वव्यतिरिक्तस्य चिदालोकः । "तस्याः" चितः । "भुवनाभोग इति" भुवनविस्तारोऽयमिति । "प्र"ति"बिम्बति" मालिन्यानादायकत्वेन प्रतिबिम्बभावेन स्फुरति ॥ ंोट्_३,१४.४० ॥ परिणामविकारादिशब्दैः सैव चिदव्यया । तादृग्रूप्यादभेद्यापि स्वशक्त्यैव विबुध्यते ॥ ंो_३,१४.४१ ॥ "स्वशक्त्या एव" प्रमातृभावेन स्फुरन्त्या निजशक्त्या एव कर्त्र्य्"आव्यया" नाशरहिता । "सैव चित्परिणामविकारादिशब्दैः" "विबुध्यते" विज्ञायते । शब्दस्यार्थबोधं प्रति कारणत्वं सुप्रसिद्धमेवेति नायस्तम् । कथम्भूत्"आपि" । "तादृग्रूप्यात्" चिद्रूपतायाः । "अभेद्यापि" भिन्नीकर्तुमयोग्यापि । ननु स्वरूपादभिन्नत्वे कथं परिणामादिशब्दवाच्यत्वमस्या इति चेत् । सत्यम् । यथा तोयं स्वरूपादभिन्नमपि तरङ्गतामासाद्य तोयपरिणामशब्देन तद्विकारशब्देन च कथ्यते तथेयमपीति न विरोधः ॥ ंोट्_३,१४.४१ ॥ अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः । अचेत्यस्य प्रकाशस्य जगदित्येव तत्स्थितम् ॥ ंो_३,१४.४२ ॥ "अचेत्यस्य प्रकाशस्य" चेत्यलेपरहितप्रकाशरूपायाः "चितः" । "स्वयम्" अयत्नेन । "यत्स्वदनं" स्वशक्त्यास्वादः भवति । कथम्भूतम् । "अविच्छिन्नविलासात्म" । "अविच्छिनविलासः" छेदरहितस्फुरणयुक्तः । "आत्मा" यस्य । तत्"अविच्छिन्नविलासात्म" । तत्"स्वदनं जगदित्येव" जगत्स्वरूपेण । "स्थितं" भवति ॥ ंोट्_३,१४.४२ ॥ आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः । सा स्वभावत एवैनामहन्तां परिपश्यति ॥ ंो_३,१४.४३ ॥ "या एषा आकाशादपि सूक्ष्मा"परिच्छेद्या । "वितता" सर्वत्र व्याप्ता । "चितः शक्तिः" सामर्थ्यमस्ति । "सा" चित् । "स्वभावत एव" स्वसत्तयैव । न तु यत्नादिना । "एनां" प्रोक्तविशेषणाम् । "अहन्तां परिपश्यति" अहङ्कारभावेन चेतति ॥ ंोट्_३,१४.४३ ॥ आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् । जगदन्तमहन्ताणुं तदेवासौ प्रपश्यति ॥ ंो_३,१४.४४ ॥ "अस्याः" चितः । "आत्मा" स्फुरत्ताख्यं स्वरूपम् । "आत्मनि" स्फुरत्ताख्ये स्वरूपे स्वस्वरूपे । "आत्मना" स्वभावेन । न तु यत्नेन । "यत्स्फुरति" विलसति । कथम् । "वारिवत्" जलवत् । "तदेव" स्फुरणमेव्"आसौ" चिद् । "अहन्ताणुं प्रपश्यति" परिमिताहन्तारूपतया परामृशति । कीदृशम् "अहन्ताणुं" । "जगदन्तम्" जगत्पर्यन्तम् ॥ ंोट्_३,१४.४४ ॥ चमत्कारकरी चारु यच्चमत्कुरुते चितिः । इयं स्वात्मनि तस्यैव जगन्नाम कृतं ततम् ॥ ंो_३,१४.४५ ॥ "चमत्कारकरी" चमत्कारकरण[ ? ]"स्यैव" । "ततं" विस्तीर्णम् । "जगन्नाम" जगदिति नाम । "कृतं" । तयैवेति शेषः ॥ ंोट्_३,१४.४५ ॥ चितश्चित्त्वमहङ्कारः सैव राघव कल्पना । तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते ॥ ंो_३,१४.४६ ॥ "चितः चित्त्वमहङ्कारः" भवति । अहङ्कारतया चित्त्वस्यैव परिणामादित्यर्थः । हे "राघव" । "सैवा"हङ्कार एव । "कल्पना" भवति । "कल्पना"पदापेक्षं स्त्रीत्वम् । "अतः तन्मात्रादि" अहङ्कारोत्पन्नं तन्मात्रादिकम् । "चिदेव" भवति । तन्मात्रकारणस्याहङ्कारस्य चित्त्वात् । "द्वित्वैकत्वे क्व संस्थिते" भवतः । न स्त इति भावः । ननु द्वित्वं मा भवतु । एकत्वं कथं नास्तीति चेन् । मैवम् । स्वप्रतिपक्षं द्वित्वं विनैकत्वस्याप्यसिद्धेः । न हि छायां विना प्रकाशः प्रकाशो भवति अनिर्वाच्यत्वात् ॥ ंोट्_३,१४.४६ ॥ एवं चिदेकमयत्वं सर्वस्य प्रसाध्य भेदत्यागं शिष्यं प्रति अनुष्ठेयत्वेन विदधाति जीवहेतावसन्त्यागे त्वं चाहं चेति सन्त्यज । शेषं सदसतोर्मध्ये भवेत्यर्थात्मको भवेत् ॥ ंो_३,१४.४७ ॥ पुरुषः । "इत्यर्थात्मकः" । "इति"शब्दाक्षिप्तगुरूपदेशवाक्य्"आर्थात्मकः" । तत्पर इति यावत् । "भवेत्" । "इति"शब्दाक्षिप्तं गुरूपदेशमाह "त्वं चाहं चेति त्यज" । येन जीवता दूरे गच्छतीति भावः । पुनः किंरूपः तिष्ठामीत्य् । अत्राह "शेषम्" इति । "सदसतोः मध्ये" स्थितं सत्त्वासत्त्वाभ्यामनिर्वचनार्हम् । "शेषं" सर्वप्रपञ्चबाधेऽपि साक्षितया शुद्धं चिन्मात्रम् । "भव" ॥ ंोट्_३,१४.४७ ॥ एवं शिष्यं प्रति अभेदं विधेयत्वेनोक्त्वा तत्कृपया पुनरप्यभेदमेव कथयति चिता यथादौ कलिता स्वसत्ता सा तथोदिता । अभिन्ना दृश्यते व्योम्नः सत्तासत्तेऽथ वेद्म्यहम् ॥ ंो_३,१४.४८ ॥ "चितादौ" सर्गारम्भे । "स्वसत्ता" स्फुरामीतिरूपा निजा सत्ता । "यथा" येन जीवादिरूपेण । "कलिता" । अस्या इत्यध्याहार्यम् । अस्याः चितः "सा" सत्ता । "तथा" तेन रूपेण्"ओदिता" प्रादुर्भूता सती । चिदाकाशात्"अभिन्ना दृश्यते" । ज्ञानिभिरिति शेषः । "अहम्" इत्यनेन सत्तासामान्यप्रमाता कथितः । "अथाहं सत्तासत्ते वेद्मि" जानामि । न तु तथास्तीति भावः ॥ ंोट्_३,१४.४८ ॥ चित्खं खं जगदीहाः खं खमब्धिविबुधाचलाः । खाकारचिच्चमत्काररूपत्वान्नान्यदस्ति हि ॥ ंो_३,१४.४९ ॥ "चित्खं" "खम्" आकाशं भवति । "जगदीहाः" । "जगतां" हिताहितप्राप्तिपरिहारार्थाः चेष्टाः । "खं" भवन्ति । "अब्धिश्" च "विबुधाश्" च्"आचलाश्" च । ते अपि "खम्" एव भवन्ति । अत्र हेतुत्वेनोत्तरार्धमाह "खाकारे"ति । "हि" यस्मादर्थे । "खाकारः" यः "चिच्चमत्कारः" । स एव "रूपं" यस्य । सः । तस्य भावः तत्"त्वं" । तस्मात्"खाकारचिच्चमत्काररूपत्वात्" । "अन्यत्नास्ति" । यतः सर्वं खरूपं चिच्चमत्कारमात्ररूपं भवतीत्यर्थः ॥ ंोट्_३,१४.४९ ॥ यो यद्विलासस्तस्मात्स न कदाचन भिद्यते । अपि सावयवात्तत्त्वात्कैवानवयवे कथा ॥ ंो_३,१४.५० ॥ "यः यद्विलासः" यस्य स्फुरणं भवति । "सः सावयवात्" "तत्त्वादपि तस्मात्कदा न" जातु न । "भिद्यते" । न हि कश्चित्तरङ्गं तोयात्भिन्नं वदतीति भावः । "अनवयवे" अवयवरहिते । स्वप्नेऽपि तद्वाच्यमिति भावः ॥ ंोट्_३,१४.५० ॥ ननु चितः जगद्रूपत्वेऽपि तद्ग्राहिण्या अन्यस्याश्चितः सद्भावात्नाभेदमयतेत्य् । अत्राह चितेर्नित्यमचेत्यायाश्चिन्नास्त्यवितताकृतेः । यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः ॥ ंो_३,१४.५१ ॥ "नित्यमचेत्यायाः" चेतितुमयोग्यायाः । "चितेः चित्" स्वग्राहिणी चित् । "नास्ति" चिद्रूपत्वहानेरिति भावः । "चितेः" कथम्भूतायाः । "अवितताकृतेः" । सूक्ष्मतय्"आवितता" कुत्रापि न स्थित्"आकृतिः "रूपं यस्याः । सा । तस्याः । ननु एतदसिद्धम् । स्फुरामीतिरूपेण युक्तत्वादित्य् । अत्राह "यद्रूपम्" इति । "यद्रूपं" । "यत्" स्फुरामीत्यादिकम् । "रूपं" भवति । तदित्यध्याहार्यम् । तत्"जगत" एव "रूपम्" । न तु चितेः । मुख्यतः चितित्वं हि स्फुरामीत्यस्य ग्राहिकायाः चितेरेव । स्फुरामीति ग्राह्यरूपायास्तु गौणं चितित्वं भवदपि न जगत्त्वं व्यभिचरति । कथम्भूतस्य "जगतः" । "तत्तत्स्फुरणरूपिणः" । "तत्तत्स्फुरणानि" स्फुरामीत्यादीनि । "रूपं" यस्य । तत् । तस्य "तत्तत्स्फुरणरूपिणः" । यत्किञ्चिच्चेत्यतामायाति तत्सर्वं जगदेवेत्यर्थः ॥ ंोट्_३,१४.५१ ॥ मनो बुद्धिरहङ्कारो भूतानि गिरयो दिशः । इति पर्यायरचना चितस्तत्त्वाज्जगत्स्थितेः ॥ ंो_३,१४.५२ ॥ "मनो बुद्धिर्" इत्यादिरूपेणोक्ता शब्दसन्ततिः । "चितः पर्यायरचना" भवति । कुतः । "जगत्स्थितेः" मनोबुद्ध्यादिरूपायाः जगत्स्थितेः । "तत्त्वात्" चिद्रूपत्वात् । सर्वे शब्दाः चिद्वाचका एवेति भावः ॥ ंोट्_३,१४.५२ ॥ चितश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि । अजगत्त्वादचिच्चित्स्याद्भावाभेदाज्जगत्कुतः ॥ ंो_३,१४.५३ ॥ "चितः" सम्बन्धि "चित्त्वं" चिद्भावम् । येन सा चिदिति नामयोग्या भवति स कोऽपि धर्मः । तमिति यावत् । "जगत्विद्धि" जानीहि । अत्र हेतुमाह "ने"ति । "हि" यस्मात्कारणात् । "चित्त्वमजगत्" जगतो व्यतिरिक्तम् । "नास्ति" । चेत्यरूपजगदभावेऽनिर्वाच्यायाः चितः स्फुटं चित्त्वायोग्यत्वात् । अवान्तरं फलितमाह "अजगद्" इति । अत इत्यध्याहार्यम् । अतो हेतोः । "चितजगत्त्वाद्" धेतोर् । "अचित्स्यात्" चिन्नामयोग्या न स्यात् । यदि जगन्न स्यादनिर्वाच्यायाः चितेरपि चित्त्वं न स्यादिति भावः । परमं फलितमाह "भावाभेदाद्" इति । "भावाभेदात्" पूर्वन्यायसिद्धेन चिज्जगतोरभेदेन सिद्धात्पदार्थाभेदात् । "जगत्कुतः" कथम् । स्यात् । चित्त्वजगतोरभेदे सति चित्त्वस्य चिदेकमयतया चित एव सर्वथा स्थितत्वात्जगन्नास्तीति भावः ॥ ंोट्_३,१४.५३ ॥ चितेर्मरिचबीजस्य निजा यान्तश्चमत्कृतिः । सैवैषा जीवतन्मात्रमात्रं जगदिति स्थिता ॥ ंो_३,१४.५४ ॥ "चितेः" चिन्नाम्नः । "मरिचबीजस्यान्तः" मध्ये । "या चमत्कृतिः" अर्थात्तीक्ष्णतास्थानीयः स्वशक्त्यास्वादाख्यः चमत्कारः । भवति । "सैवैषा जगदिति" जगद्रूपेण । "स्थिता" भवति । कथम्भूतं "जगत्" । "जीवतन्मात्रमात्रं" केवलं जीवपञ्चतन्मात्रस्वरूपम् । न तु स्थूलभूतमयम् । स्वप्नन्यायेन स्थूलताया असत्यत्वात् ॥ ंोट्_३,१४.५४ ॥ चित्त्वात्स्वशक्तिकचनं यदहम्भावनं चितेः । जीवः स्पन्दात्मकर्मात्मा भविष्यदभिधो ह्यसौ ॥ ंो_३,१४.५५ ॥ "चितेः" "स्वशक्तिकचनं" स्वशक्तिस्फुरणरूपम् । "अहम्भावनं यद्" अस्ति । कुतः । "चित्त्वात्" चिद्भावाख्याथेतोः । "हि" निश्चये । "असौ" स्वशक्तिस्फुरणम् । "जीवः" भवति । "जीवा"पेक्षया पुंलिङ्गता । कथम्भूतो "जीवः" । "स्पन्दात्म" किञ्चित्स्फुरणरूपम् । यत्"कर्म" । तत्"आत्मा" स्वरूपम् । यस्य । "स्पन्दात्मकर्मात्मा" चित्स्पन्दरूप एवेत्यर्थः । पुनः कथम्भूतः । "भविष्यदभिधः" वैखरीप्रादुर्भाव इत्यर्थः ॥ ंोट्_३,१४.५५ ॥ यच्चिच्चित्त्वेन कलनं सुसम्पाद्याभिधार्थदिक् । व्यवच्छेदविकारैस्तद्भिद्यतेऽतो न विद्यते ॥ ंो_३,१४.५६ ॥ "चित्" आर्षः षष्ठीलोपः चितः । "यत्चित्त्वेन" चिद्भावेन । "कलनं" परिच्छेदः । भवति । कथम्भूतम् । "सुसम्पाद्या" सुखेन "सम्पादयितुं" शक्य्"आभिधार्थदिक्" नामार्थलेशः येन । तत्"सुसम्पाद्याभिधार्थदिक्" । परिच्छिन्नस्यैव हि वस्तुनः नाम तद्वाच्यत्वं च कर्तुं शक्यम् । "तत्भिद्यते" चितः भिन्नत्वेन स्थीयते । कैः । "व्यवच्छेदविकारैः" । चित्तं न स्पृशतीति यावत् । भवन्तु जडेभ्यः भिन्नतापादनानि । त एव विकाराः । तैः । तद्युक्तत्वादिति यावत् । चितो भिन्नम् । का हानिरित्य् । अत्राह्"आत" इति । "अतः" चितो भिन्नत्वात् । "न विद्यते" । चिद्भिन्नस्य चेत्यमानतायोगात् । तदयोगे च सतोऽपि । तस्यासङ्कल्पत्वात् । चिद्रूपत्वेन कलनाभावेन व्यर्थस्य चित्त्वस्याप्यभावः । चित्त्वाभावे च जगतोऽभावः । तदभावे च शुद्धस्य चिन्मात्रस्यैव साम्राज्यमिति भावः ॥ ंोट्_३,१४.५६ ॥ ननु भवतु चिदेकमयत्वं सर्वस्य । तदंशभूतयोः कर्तृकर्मणोस्तु परस्परं भेदो दुर्निवार इत्य् । अत्राह चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः । स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः ॥ ंो_३,१४.५७ ॥ "चित्स्पन्दरूपिणोः" चित्स्फूर्त्याख्यरूपयुक्तयोः । "कर्तृकर्मणोः भेदः नास्ति" । कथमेतदित्य् । अत्राह "स्पन्दे"ति । "स्पन्दमात्रं कर्म भवेत्" । बहिःस्पन्दस्यैव कर्मत्वदर्शनात् । "स एव पुरुषः स्मृतः" । पण्डितैरिति शेषः । अयं भावः । अन्तः विचार्यमाणं ज्ञानं विना न किञ्चिल्लभ्यते । घटपटादिश्च बहिर्भूतः । अतः ज्ञानस्य तैः सह कोऽपि सम्बन्धो नास्तीति शुद्धं ज्ञानं शिष्टम् । स एव च चितः स्फुरणाख्यः स्पन्दः । तदेव कर्म । बहिःस्थितस्य शरीरचलनादिरूपस्य कर्मणोऽपि तत्पूर्वकत्वात् । तत्तत्त्वमेव । स एव च पुरुषः । अन्तरन्यस्यानुपलम्भात्बहिःशरीरस्य मृत्पिण्डरूपस्य पुरुषत्वायोगातिति सिद्धं कर्मणः पुरुषत्वम् ॥ ंोट्_३,१४.५७ ॥ सर्वस्य जीवादेर्वर्गस्यैकत्वं साधयति जीवश्चित्त्वे परिस्पन्दः पुंसां चित्तं स एव च । मनस्त्विन्द्रियरूपं सन्नानानानैव गच्छति ॥ ंो_३,१४.५८ ॥ "जीवः चित्त्वे" चिद्भावे । चित्स्वरूप इति यावत् । "परिस्पन्दः" भवति । "पुंसां स एव" कर्मापरपर्यायं "चित्तं" भवति । परिस्पन्द "एव च" । चित्स्पन्दत्वव्यतिरिक्तस्य जीवस्य चित्तस्य वाभावात् । "तु" विशेषे । "मन" एव चित्स्पन्दरूपं चित्तम् । "इन्द्रियरूपं सत्" । "नानानाना"त्वं "गच्छति" । "चित्तं" कथम्भूतम् "एव" । "अनानैव" । परमार्थतः एकत्वात्नानात्वरहितम् । इदमत्र तात्पर्यम् । "जीवस्" तावत्चित्स्पन्द एव । तच्चित्तमपि विकल्पात्मकं तथैव । तदेव च चित्तमिन्द्रियरूपेण परिणमते । ततश्च स्वपरिणामभूतेन्द्रियद्वारेण बहिर्निर्गत्य रूपादिपञ्चकस्वरूपविषयरूपतामापद्यते । ततश्च तदाधारभूतपञ्चकतामासाद्यते । ततश्च तत्कार्यभावेन परिणमते इति चित्स्पन्द एव स्थूलसूक्ष्मभावरूपेण स्थितः । स च चिदव्यतिरिक्त इति सर्वं चिद्रूपमेव स्थितमिति ॥ ंोट्_३,१४.५८ ॥ शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् । कार्यकारणकादित्वं तस्मादन्यन्न विद्यते ॥ ंो_३,१४.५९ ॥ "हि" यस्मातर्थे ।ऽशेषं समस्तं "जगत्चित्प्रकाशच्छटा" चित्प्रकाशे सिद्धपदार्थपङ्क्तिमयत्वात्चित्प्रकाशपङ्क्तिः । भवति । कथम्भूतम् । "शान्ताशेषविशेषं" । "शान्ताः" चिन्मात्रे प्रलीनाः । "अशेषाः" समस्ताः । "विशेषाः" भावाः यस्य । तत् । "तस्मात्" ततो हेतोः । "कार्यकारणकादित्वमन्यत्" चिन्मात्रात्पृथक् । "न विद्यते" । कार्यकारणत्वादेरपि जगत्त्वेन चित्प्रकाशच्छटात्वानपायात् ॥ ंोट्_३,१४.५९ ॥ अच्छेद्योऽहमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सततगः स्थाणुरचलोऽहमिति स्थितम् ॥ ंो_३,१४.६० ॥ सर्वस्य जीवादेर्जगतः चित्प्रकाशमयत्वे सति "इति स्थितम्" भवति । अयं निश्चय एव प्रतिष्ठितो भवति इति । किम् "इति" । "अहं" चित्प्रकाशरूपः अहम् । "अच्छेद्यः" अशरीरवत्छेदयोग्यो नास्मि । एवम् "अदाह्योऽयम्" इत्यादावपि सम्बन्धनीयम् । "अहं नित्यो"ऽस्मि । नित्यत्वे विशेषणद्वारेण हेतुमाह "सततग" इति । सर्वकालग इत्यर्थः । पुनः कथम्भूतः । "स्थाणुः" स्वस्वरूपे दृढं स्थितः । अत्रापि हेतुं विशेषणत्वेनाह्"आचल" इति । यतः निष्कम्प इत्यर्थः ॥ ंोट्_३,१४.६० ॥ ननु चिदेकमयत्वे सति वादिनः किमर्थं विवदन्ति इत्य् । अत्राह विवदन्ते यथा ह्यत्र विवदन्ते तथा भ्रमैः । भ्रमन्तो न वयं त्वेते जाता विगतविभ्रमाः ॥ ंो_३,१४.६१ ॥ वादिन इति शेषः । वादिनः तार्किकादयः । "अत्र" चित्प्रकाशे । "यथा" येन प्रकारेण । "विवदन्ते" विवादं कुर्वन्ति । "तथा भ्रमैः" मिथ्याज्ञानैः । "विवदन्ते" । ज्ञाततत्त्वानां विवादाभावात् । तथा हि । तार्किकाः आत्मानं ज्ञानगुणं संसारिणं च कथयन्ति । साङ्ख्याः उदासीनं ज्ञानरूपमपि परमाणुरूपम् । चार्वाका भूतरूपम् । बौद्धाः शून्यरूपम् । वेदान्तिनः शान्तस्वरूपम् । एवमन्येऽप्यन्यत्किञ्चित् । यद्यपि एतेऽधिकारिकृपयैव विवदन्ते तथापि अधिकारिणां तत्तत्पदनिष्ठानामधःस्थं पदं परित्यज्योर्ध्वपदगमनार्थं वादिनां भ्रमः उक्तः । यदि वादिनः भ्रमेण विवदन्ते तर्हि यूयं कथं स्थिताः इत्य् । अत्राह "भ्रमन्त" इति । "तु" व्यतिरेके । "एते वयं विगतभ्रमाः" वाद्युक्तनानागुणोत्तीर्णशुद्धचिन्मात्राङ्गीकारात्दूरीभूतमिथ्याज्ञानाः । "जाताः" । कथम्भूताः । "न भ्रमन्त" इत्यर्थः । ननु श्रीवसिष्ठेन तन्मतनिरासपरेण विवाद एव कृतः । मैवम् । बोधनार्थतन्मतनिरासेऽपि चिन्मात्राङ्गीकारेणैव सर्वमताङ्गीकारात् । चिन्मात्रं हि सर्वेऽङ्गीकुर्वन्त्येव । किं तु तद्विशेषेषु विवदन्ते ॥ ंोट्_३,१४.६१ ॥ पुनरपि चिदेकमयत्वमेव कथयति दृश्ये मूर्तेऽज्ञसंरूढे विकारादि पृथग्भवेत् । नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि ॥ ंो_३,१४.६२ ॥ "मूर्ते" स्थूले । "दृश्ये" दृशिक्रियाविषये भावजाते । कथम्भूते । "ऽज्ञसंरूढे" । "अज्ञेषु" मूर्खेषु । "संरूढे" दृढीभूते । मूर्खज्ञाते इति यावत् । "विकारादि" । "आदि"शब्दात्परिणामादेर्ग्रहणम् । "पृथक्भवेत्" । स्थूलस्य दृश्यस्य विकारादिधर्माधिकरणत्वे योग्यतास्तीति भावः । "अमूर्ते" सूक्ष्मे । "तज्ज्ञकचिते" तत्त्वज्ञेषु स्फुरिते । "चित्खे" चिदाकाशे । विकारादि पृथक्"न" भवेत् । कथम्भूते "चित्खे" । "सदसदात्मनि" सदसत्स्वरूपे । विकारादि यदि सत्तदापि तन्मयमेव । यद्यसत्तदापि तथैवेति भावः ॥ ंोट्_३,१४.६२ ॥ चित्तत्त्वं चेत्यरसतः शक्तीः कालादिनामिकाः । तनोत्याकाशविशदाश्चिन्मधुश्रीः स्वमञ्जरीः ॥ ंो_३,१४.६३ ॥ "चिन्मधुश्रीः" चिदाख्यावसन्तलक्ष्मीः । "कालादिनामिकाः" कालदेशादिनामयुक्ताः । "शक्तीः स्वमञ्जरीः तनोति" विस्तारयति । कुतः । "चेत्यरसतः" चेत्यास्वादेन युक्तम् । युक्तं च वसन्तलक्ष्म्याः रसेन मञ्जरीतननम् । "शक्तीः" किम् । "चित्तत्त्वम्" चिन्मात्ररूपिण्य एव । शक्तितद्वतोरभेदात् । पुनः कथम्भूताः । "आकाशविशदाः" । न तु भासमानस्थूलरूपयुक्ताः ॥ ंोट्_३,१४.६३ ॥ स्वभावेन चिन्मात्रस्य चेत्यरूपतया स्फुरणं कथयति स्वयं विचित्रं स्फुरति चित्कञ्चुकमनाहतम् । स्वयं विचित्रं कचति चिद्रत्नमपकारणम् ॥ ंो_३,१४.६४ ॥ "चित्कञ्चुकम्" । "कञ्चुकं" लक्षणया पटः । चिदाख्यः पटः । "स्वयं" स्वभावेन । "विचित्रं स्फुरति" चित्रपटवत्विचित्रतायुक्तं भवतीत्यर्थः । विचित्रता चार्थचेत्यकृता ज्ञेया । तथा "चिद्रत्नं स्वयं विचित्रं कचति" । रत्नस्य च कचनं युक्तमेव । "स्वयम्" इत्यस्यार्थं स्वयमेवाह्"आपकारणं" इति ॥ ंोट्_३,१४.६४ ॥ स्वयं विलक्षणस्पन्दश्चिद्वायुरजडात्मकः । स्वयं विचित्रवलनं चिद्वारि न निखातगम् ॥ ंो_३,१४.६५ ॥ "विलक्षणस्पन्दः" बाह्यवायोः व्यतिरिक्तस्पन्दयुक्तः । अत्र हेतुत्वेन विशेषणमाह "अजडात्मक" इति । जडाजडयोः स्पन्दोऽवश्यं विलक्षण एव स्यादिति भावः । "वारि निखातगं" सत् । "विचित्रवलनं" विचित्रस्फुरणं भवति । "चिद्वारि" तु "निखातगं" सत् । "विचित्रवलनं" "न" भवति ॥ ंोट्_३,१४.६५ ॥ स्वयं विचित्रधातूच्चैश्चिच्छृङ्गमपनिर्मितम् । स्वयं चित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता ॥ ंो_३,१४.६६ ॥ "उच्चैः" "चिच्छृङ्गमपनिर्मितम्" निर्माणरहितम् । "विचित्रधातु" । "विचित्रा" नानाविधाः । "धातवः" भूताख्यानि कारणद्रव्याणि । यस्मिन् । तत् । भवति । शृङ्गमपि विचित्रधातु विचित्रगैरिकादिधातुयुक्तं भवति । किं तु निर्मितम् । "स्वयं चिज्ज्योत्स्ना" "चित्ररसोल्लासा" नानाविधचेत्यरसोल्लासयुक्ता । तया "सततोदिता" भवति । बाह्यज्योत्स्नापि विचित्रामृतरसोल्लासयुक्ता भवति । किं तु शुक्लपक्ष एवोदिता भवति ॥ ंोट्_३,१४.६६ ॥ स्वयं सदैव प्रकटश्चिदालोकोऽमलात्मकः । स्वयमस्तङ्गतेवाज्ञे ज्ञे ज्ञानादुदिता चितिः ॥ ंो_३,१४.६७ ॥ आलोकस्य प्रकटतागुणयुक्तत्वातिति भावः । "स्वयम्" इति । "चितिः स्वयमज्ञे" मूर्खे । "ऽस्तङ्गतेव" भवति । अस्तङ्गतत्वं च अस्याः स्थितायाः अपि ज्ञानाविषयीभाव एवात "इव"शब्दोपादानम् । "चितिः स्वयं ज्ञे" ज्ञानयुक्ते । "ज्ञानादुदिता" भवति । यथाकाशे ज्वलन्नपि सूर्योऽन्धं प्रत्यनुदितः । नेत्रसहितं प्रति तूदितः । एवमियमपीति भावः ॥ ंोट्_३,१४.६७ ॥ स्वयं जडेषु जाड्येन पदं सौषुप्तमागता । स्वयं स्पन्दि तथास्पन्दि चित्त्वाच्चितिमहानभः ॥ ंो_३,१४.६८ ॥ चितिः "जडेषु" स्थावरादिषु । "जाड्येन" जडभावेन । "स्वयं सौषुप्तपदं" सुषुप्तिस्थानम् । "आगता" भवति । "चितिमहानभः" चिदाख्यो महाकाशः । "स्वयं स्पन्दि" स्फुरत्तायुक्तं भवति । "तथा" तेन प्रकारेण्"आस्पन्दि" शान्ततायुक्तो भवति । बाह्याकाशस्य तु वातरूपेण सस्पन्दत्वं स्वरूपेणास्पन्दत्वम् ॥ ंोट्_३,१४.६८ ॥ गुणिनि गुणवत्चिति जगतः सदसत्त्वं कथयति चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च । चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च ॥ ंो_३,१४.६९ ॥ "हि" निश्चये । "चित्प्रकाशप्रकाशः" । "चित्प्रकाशस्य" चिदाख्यस्य तेजसः । "प्रकाशः" आलोकाख्यगुणभूतः । "जगतस्ति च नास्ति च" । "च"कारः स्वयमस्तित्वनास्तित्वयोः समप्रधानत्वं द्योतयति । अयं भावः । यथा तेजोरूपे गुणिनि आलोकाख्यो गुणः भेदेन भासमानत्वातस्ति । ततो व्यतिरेकेण लब्धुमशक्यत्वान्नास्ति । तथा जगदपि चिदाख्ये आधारभूते गुणिनि भासमानत्वादस्ति । तद्व्यतिरेकेण लब्धुमशक्यत्वान्नास्तीति । एवमग्रेऽपि योज्यम् । "चिदाकाशे"ति । चिदाकाशस्यैकं "शून्यत्वं" शून्यत्वाख्यो गुणः । "चिदाकाशैकशून्यत्वम्" ॥ ंोट्_३,१४.६९ ॥ चिदालोकमहारूपं जगदस्ति च नास्ति च । चिन्मारुतघनस्पन्दो जगदस्ति च नास्ति च ॥ ंो_३,१४.७० ॥ "महारूपं" भासुरः शुक्लाख्यगुणः । "चिन्मारुते"ति । स्पन्दस्य च वायुगुणत्वं प्रसिद्धमेव ॥ ंोट्_३,१४.७० ॥ चिद्घनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च । चिदर्कालोकदिवसो जगदस्ति च नास्ति च ॥ ंो_३,१४.७१ ॥ "ध्वान्तस्य" च "कृष्णत्वं" गुणः । "चिदर्के"ति । दिवसस्यार्कालोकानुविधायित्वात्तद्गुणत्वम् ॥ ंोट्_३,१४.७१ ॥ पूर्वोक्तं दृढयितुं सर्वथा चिद्गुणत्वमेव जगतः कथयति चित्कज्जलरजःशैलपरमाणुर्जगद्भ्रमः । चिदग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता ॥ ंो_३,१४.७२ ॥ "चित्" एव "कज्जलरजःशैलः" अञ्जनाद्रिः । तस्य "परमाणुः" । परमाणोः पर्वतगुणत्वं तदाश्रितत्वेनोपचाराज्ज्ञेयम् । जगदाकारः "जगद्भ्रमः" । जगदिति यावत् । "जगल्लेखा" जगत्पङ्क्तिः ॥ ंोट्_३,१४.७२ ॥ जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् । जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् ॥ ंो_३,१४.७३ ॥ "जगत्चिच्छैलस्य जठरम्" अन्तःस्थः साररूपः भागः । भवति । "द्रवता" द्रवत्वम् । "स्निग्धता" स्नेहाख्यो गुणः ॥ ंोट्_३,१४.७३ ॥ जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् । जगच्चित्सर्पिषि स्नेहो वीचिश्चित्सरितो जगत् ॥ ंो_३,१४.७४ ॥ "चिज्ज्वाला" चिदाख्याग्निशिखा । तस्या "ज्वलनं" ज्वलनक्रिया । "वीचेः" रचनारूपत्वात्जलगुणत्वम् ॥ ंोट्_३,१४.७४ ॥ जगच्चित्क्षौद्रमाधुर्यं जगच्चित्कनकाङ्गदम् । जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् ॥ ंो_३,१४.७५ ॥ रूपत्वेन गुणत्वम् । फलस्य लतागुणत्वं तदाश्रितत्वेनोपचारात् ॥ ंोट्_३,१४.७५ ॥ फलितमाह चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः । अत्र भेदविकारादि न खे मलमिव स्थितम् ॥ ंो_३,१४.७६ ॥ अतः "चित्सत्तैव जगत्सत्ता" भवति । "जगत्सत्तैव चिद्वपुर्" भवति । न हि गुणसत्ता गुणिनो भिन्ना गुणिसत्ता च गुणाद्भिन्ना भवतीति भावः । "अत्र" चिज्जगतोः । "भेदविकारादि" । "आदि"शब्देन परिणामादेर्ग्रहणम् । "स्थितं न" भवति । किम् "इव" । "खे" आकाशे । "मलमिव" ॥ ंोट्_३,१४.७६ ॥ जगतः सदसन्मयतामुपसंहरति इतीदं सन्मयत्वेन सदसद्भुवनत्रयम् । अविकल्प्यतदात्मत्वात्सत्तासत्ते तदेव वा ॥ ंो_३,१४.७७ ॥ "इति" पूर्वोक्तप्रकारेण । "भुवनत्रयं" भूर्भुवःस्वराख्यं जाग्रदादिकं वा भुवनत्रितयम् । "सन्मयत्वेन" सत्स्वरूपचिद्विकारत्वेन । "सदसद्" भवति । मूलकारणायाः चितः सदसदसत्त्वे सत्तासत्ताधारत्वकृतं भेदमाशङ्क्याह "अविकल्प्ये"ति । "वा"शब्दः पक्षान्तरद्योतकः । "तदेव" त्रिभुवनमेव । "सत्तासत्ते" भवति । कुतः । "अविकल्प्यतदात्मत्वात्" । "अविकल्प्यः" सत्त्वासत्त्वविकल्पायोग्यः । यः "तदात्मा" चिदात्मा । तस्य भावः तत्"त्वं"। तस्मात् । अयं भावः । सदसदिति पदद्वयमस्तिनास्तिक्रियाकर्तारं कथयति । तथा च कर्तृकर्मविकल्पः दुर्निवारः । सत्तासत्ते तु शुद्धनिरालम्बास्तिनास्तिक्रियावाचकेऽविकल्प्यं चित्स्वरूपमेव कथयतः । तदभिन्नस्य त्रिभुवनस्यापि सत्तासत्तात्वमेव युक्तम् । न सदसत्त्वमिति ॥ ंोट्_३,१४.७७ ॥ ननु जगद्ब्रह्मणोरवयवावयविभावोऽस्तु इत्य् । अत्राह अवयवावयविताशब्दार्थौ शशशृङ्गवत् । अनुभूत्यपलापाय कल्पितौ यैर्धिगस्तु तान् ॥ ंो_३,१४.७८ ॥ "यैः" जडैः । "अनुभूत्यपलापाय" जगच्चिदैक्याख्यमनुभवमपलपितुम् । "अवयवावयविताशब्दः" अवयवावयविभावाख्यः शब्दः । "अर्थः" तद्वाच्यः सम्बन्धविशेषः । तौ "अवयवावयविताशब्दार्थौ" । "कल्पितौ" स्वविकल्पेन सम्भावितौ । कथं "कल्पितौ" । "शशशृङ्गवत्" । यथा कश्चिद्बहिरसदपि शशशृङ्गं कल्पयति । तथेत्यर्थः । "तान् धिगस्तु" ते धिक्कारविषया एवेत्यर्थः । धिक्कारविषयत्वं च तेषामवयवाभिन्नस्यावयविनः भेदेन ज्ञानात् । न ह्यवयवभिन्नोऽवयवी नाम कश्चिदस्तीति भावः ॥ ंोट्_३,१४.७८ ॥ न विद्यते जगद्यत्र साद्रिद्यूर्वीनदीश्वरम् । चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमे ॥ ंो_३,१४.७९ ॥ "यत्र" यस्मिन् चिद्रूपाख्ये स्थाने । "साद्रिद्यूर्वीनदीश्वरम्" पर्वताकाशभूमिसमुद्रसहितम् । "जगत्" । "चिदेकत्वात्" चिदैक्यात् । "न विद्यते" । "तत्रेतरविभ्रमे" षष्ठ्यर्थे सप्तमी । "इतरस्य" तत्कार्यरूपस्य "भ्रमस्य" । "कः प्रसङ्गः" ॥ ंोट्_३,१४.७९ ॥ चितः सर्वमयत्वं शिलादृष्टान्तेन कथयति शिलाहृदयपीनापि स्वाकाशविशदैव चित् । धत्तेऽन्तरखिलं शान्तं सन्निवेषं यथा शिला ॥ ंो_३,१४.८० ॥ "चित्शान्तं" परमार्थतो भावाभावादिक्षोभरहितम् । "अखिलं" समस्तम् । "सन्निवेशं" चेत्याख्यं रचनाविशेषम् । "अन्तः" स्वमध्य एव । "धत्ते" । कथम्भूत्"ऐव" । "शिलाहृदयपीनापि" । प्रकाशाख्यसारभरितत्वेन शिलाहृदयवत्"पीनापि" सती । "स्वाकाशविशदैव" । "सु"ष्ठु "आकाश"वत्"विशदा" निर्मला "एव" । न तु जगदन्तर्धारणे योग्या । अत्र दृष्टान्तमाह "यथे"ति । "शिला यथा" सारेण पूरितापि लेखौघाख्यं "सन्निवेशमन्तर्धत्ते" । तथेत्यर्थः ॥ ंोट्_३,१४.८० ॥ ननु तथाप्यहं प्रष्टा भिन्न एवास्म्य् । अन्यथा प्रश्नायोगादित्य् । अत्राह पदार्थनिकराकाशे त्वमाकाशलवोपमः । त्वत्तामत्तात्मतात्वत्तामत्तोल्लेखा न सन्ति ते ॥ ंो_३,१४.८१ ॥ "पदार्थनिकराकाशे" । "पदार्थानां निकरः" समूहः । स एव नकिञ्चिद्रूपत्वेन्"आवकाशः" । तस्मिन् । तन्मध्य इत्यर्थः । "त्वं" प्रष्टा । "आकाशलवोपमः" असि । फलितमाह "त्वत्ते"ति । अतः "ते" तव प्रष्टुः । "त्वत्तामत्तात्मतात्वत्तामत्तोल्लेखाः" । "त्वत्तामत्तात्मतया" त्वद्भावमद्भावरूपत्वेन । स्थिताः उल्लेखाः । "त्वत्तामत्तोल्लेखाः" त्वद्भावमद्भावविकल्पाः । त्वद्भावरूपत्वेन स्थिताः त्वत्ताविकल्पाः । मद्भावरूपत्वेन स्थिता मत्ताविकल्पाः । "न सन्ति" । आकाशरूपत्वात् ॥ ंोट्_३,१४.८१ ॥ पल्लवदृष्टान्तेन प्रकृतं चितः सर्वमयत्वं कथयति पल्लवान्तरलेखौघसन्निवेशवदाततम् । अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः ॥ ंो_३,१४.८२ ॥ "चित्" । "इदं" चेत्यम् । "अन्तः" स्वमध्ये । "धत्ते" । कुतः । "स्वभावतः" । ननु कयापि प्रयोजनापेक्षया कथम्भूतम् । "अन्यानन्यात्मकम्" । "अन्यः" स्वतः भिन्नः । "अनन्यः" स्वतोऽभिन्नः । "आत्मा" यस्य । तत्"अन्यानन्यात्मकम्" । पुनः कथम्भूतम् । "आततं" विस्तारयुक्तम् । कथं "धत्ते" । "पल्लवान्तरे" पल्लवमध्ये स्थितः । लेखौघसन्निवेशः इव "पल्लवान्तरलेखौघसन्निवेशवत्" । पल्लवे लेखौघस्य च भासमानत्वेन भिन्नत्वं पृथक्कृत्य लब्धुमशक्यत्वादभिन्नत्वं च स्फुटं स्थितमेवेत्युपमानम् ॥ ंोट्_३,१४.८२ ॥ समस्तकारणौघानां कारणादिपितामहम् । स्वभावतोऽकारणात्म चित्त्वं विद्ध्यनुभूतितः ॥ ंो_३,१४.८३ ॥ त्वम् । "चित्त्वं" चिद्भावम् । "स्वभावतः" स्वरूपेण्"आनुभूतितः" स्वानुभवेन । न तु मत्कथनमात्रेण्"आकारणात्म" अकारणः । कारणरहितः "आत्मा" स्वरूपं यस्य । तत् । तादृशम् । "विद्धि" जानीहि । कथम्भूतम् । कारणनाम्न्"आदि"भूतः यः "पितामहः" । तत्स्वरूपं "कारणादिपितामहं" । केषां "कारणानां" । "समस्तकारणौघानां" । "समस्तस्य" दृश्यस्य । ये "कारणौघाः" । तेषाम् । अयं भावः । सर्वस्य दृश्यस्य कारणानि पञ्चतन्मात्राणि । तेषां कारणमहङ्कारः । तत्कारणं "चित्त्वम्" इति ॥ ंोट्_३,१४.८३ ॥ ननु जगद्वत्चिदपि असत्यैव भवत्वित्य् । अत्राह न चासत्त्वमचेत्यायाश्चितो वाचापि सिध्यति । यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरम् ॥ ंो_३,१४.८४ ॥ "अचेत्यायाः" चेत्यमलादूषितायाः । "चितः असत्त्वं वाचापि न सिध्यति" वक्तुमपीदं न योग्यमित्यर्थः । अत्र हेतुत्वेनोत्तरार्धमाह "यद्" इति । यतः "यदस्ति तदुदेति" अन्यतया प्रादुर्भवति । "इति दृष्टम्" अस्माभिरिति शेषः । अत्र दृष्टान्तमाह "बीजाद्" इति । अयं भावः । यथा बीजभावेन स्थितम् "अङ्कुरं बीजात्" उदेति । तथा चिन्मात्रस्वरूपेण स्थितं चेत्यमपि । तथा च चेत्यान्यथानुपपत्त्या चिन्मात्रस्यासत्यत्वं न युक्तमिति ॥ ंोट्_३,१४.८४ ॥ सर्गान्तश्लोकेन पूर्वोक्तं सङ्गृह्णाति गगनमिव सुशून्यभेदमस्ति त्रिभुवनमङ्ग महाचितोऽन्तरस्याः । परमपदमयं समस्तदृश्यं त्व् इदमिति निश्चयवान् भवानुभूतेः ॥ ंो_३,१४.८५ ॥ हे "अङ्ग" । "त्रिभुवनमस्याः महाचितः" चिन्मात्रस्य्"आन्तः" मध्ये । "सुशून्यभेदम्" । "सुशून्यः" अतिशयेन नकिञ्चिद्रूपः । "भेदो" यस्य । तत् । सर्वथा स्वरूपभेदरहितमित्यर्थः । "अस्ति" । किम् "इव" । "गगनमिव" । यथा गगनं भेदरहितमस्ति । तथेत्यर्थः । फलितमाह "परमे"ति । अतः त्वं "इति निश्चयवान्" एवं निश्चययुक्तो । "भव" । कुतो । "ऽनुभूतितः" स्वानुभवेन । न तु मदुक्त्या कृतेन श्रद्धामात्रेण इति । किम् "इति" । "समस्तदृश्यं परमपदमयं" सर्वोत्तीर्णचित्स्वरूपमेव । भवति ॥ ंोट्_३,१४.८५ ॥ श्रीवाल्मीकिर्भरद्वाजं प्रति तत्रत्यं सर्गान्तश्लोकेन दिनावसानं कथयति इत्युक्तवत्यथ मुनौ दिवसो जगाम सायन्तनाय विधयेऽस्तमिनो जगाम । स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम ॥ ंो_३,१४.८६ ॥ "इति" पूर्वोक्तम् । "मुनौ" श्रीवसिष्ठे । "उक्तवति" कथयति सति । "अथ" पूर्वश्लोकोक्तोपदेशानन्तरम् । "दिवसः" दिनम् । "जगाम" गतः । अत्र हेतुमाह "अस्तम्" इति । यतः "इनः" सूर्यः । "अस्तं जगाम" । "सभा" श्रोतॄणां सभा । "सायन्तनविधये" सायन्तनाग्निहोत्राद्यर्थम् । "स्नातुं जगाम" । स्नानं विना कुत्रापि विधावधिकाराभावात् । सा सभा "श्यामाक्षये" रात्र्यवसाने । दिनादाविति यावत् । "रविकरैः" सूर्यकिरणैः । "सह" । पुनः "आजगामा"गता । श्रवणार्थमिति शेषः । इति शिवम् ॥ ंोट्_३,१४.८६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे चतुर्दशः सर्गः ॥ ३,१४ ॥ ********************************************************************* ओं श्रीवसिष्ठः पूर्वदिने कथ्यमानमुपस्तौति जगदाकाशमेवेदं यथा हि व्योम्नि मौक्तिकम् । विमले भाति खात्मैव जगच्चिद्गगने तथा ॥ ंो_३,१५.१ ॥ "इदम्" अनुभूयमानम् । "जगत्" । "आकाशमेव" भवति । अत्र हेतुत्वेन दृष्टान्तयुक्तं वाक्यमाह "यथा ही"ति । "हि" यस्मादर्थे । यस्मात्"जगत्विमले चिद्गगने" चिदाकाशे । "तथा" "भाति" । कथम्भूतम् "एव" । "खात्मैव" चिदाकाशस्वरूपमेव । "तथा" कथम् । "यथा व्योम्नि" भूताकाशे । "मौक्तिकं" मुक्तासमूहो । "भाति" । अयं भावः । यथा गगने भ्रमदृष्ट्या दृश्यमानं मौक्तिकमाकाशमेव तथा चिद्गगने दृश्यमानं जगदपि चिद्गगनमेवेति ॥ ंोट्_३,१५.१ ॥ अनुत्कीर्णैव भातीव त्रिजगत्सालभञ्जिका । चित्स्तम्भे न च सोत्कीर्णा न चोत्कर्तात्र विद्यते ॥ ंो_३,१५.२ ॥ "चित्स्तम्भे" चिदाख्ये स्तम्भे । "त्रिजगत्सालभञ्जिका" त्रिजगदाख्या पुत्रिक्"आनुत्कीर्णैव" सती । "भातीव" । परमार्थतस्तु न भातीत्"ईव"शब्दोपादानम् । ननु किमर्थं नोत्कीर्णास्तीत्य् । अत्राह "न चे"ति । "सा" जगदाख्या पुत्रिका । "न चोत्कीर्णा" । अर्हप्रत्ययार्थोऽत्र स्वयं बोद्धव्यः । उत्कर्तुं योग्या न भवति । नकिञ्चिद्रूपत्वात् । "न चात्रोत्कर्ता" उत्करणकर्ता । "विद्यते" । द्वैताभावात् ॥ ंोट्_३,१५.२ ॥ समुद्रेऽन्तर्जलास्पन्दाः स्वभावादच्युता अपि । विदि वेद्या भवन्तीव परे दृश्यविदस्तथा ॥ ंो_३,१५.३ ॥ यथेत्यध्याहार्यम् । "समुद्रेऽन्तः" समुद्रान्तर्भागे स्थिताः । "जलास्पन्दाः" तरङ्गाः । "स्वभावादच्युता अपि" जलाख्यात्स्वरूपादभ्रष्टा अपि । यथा "विदि" ज्ञाने विषये । "वेद्याः" वीचितया वेदितुं योग्या । "भवन्तीव" । परमार्थतस्तु न भवन्तीति "इव"शब्दोपादानम् । "तथा परे" उत्तीर्णे चित्स्वरूपे । "दृश्यविदः" दृश्यरूपा विदः । दृश्यानीति यावत् । "भवन्तीव" ॥ ंोट्_३,१५.३ ॥ जलान्तर्गतसूर्याभाजालकारचनान्यपि । जगद्भानं प्रति स्थूलान्यणुं प्रति यथाचलाः ॥ ंो_३,१५.४ ॥ जलस्यान्तर्गता सूर्याभा "जलान्तर्गतसूर्याभा" । तस्याः जालकारचनानि "जलान्तर्गतसूर्याभाजालकारचनान्यपि" । स्वभावश्चायं जलान्तर्गता सूर्याभा जालकरूपा सम्पद्यते । तानि "जगद्भानं प्रति" तथा "स्थूलानि" भवन्ति । "यथाचलाः" पर्वताः । "अणुं प्रति" स्थूलाः भवन्ति ॥ ंोट्_३,१५.४ ॥ उक्तं दृष्टान्तस्थूलत्वं दृढयति जगद्भानमभानाभं ब्रह्मणोऽव्यतिरेकतः । जलसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ॥ ंो_३,१५.५ ॥ "जगद्भानमभानाभं" भवति । कुतः । "ब्रह्मणः अव्यतिरेकतः" ब्रह्मरूपत्वादित्यर्थः । "तु" व्यतिरेके । "जलसूर्यांशुजालं व्यतिरेकानुभूतिदम्" भेदप्रथाकारि भवति । अतोऽत्र स्थूलत्वं युक्तमिति भावः ॥ ंोट्_३,१५.५ ॥ अनुभूतान्यपीमानि जगति व्योमरूपिणि । पृथ्व्यादीनि न सन्त्येव स्वप्नसङ्कल्पयोरिव ॥ ंो_३,१५.६ ॥ "व्योमरूपिणि" चिन्मात्राकाशस्वरूपे । "जगति" । कयोर्"इव" । "स्वप्नसङ्कल्पयोरिव" । स्वप्ने सङ्कल्पे च "अनुभूतान्यपि पृथ्व्यादीनि" । यथा "न सन्ति" । तथेत्यर्थः ॥ ंोट्_३,१५.६ ॥ पिण्डग्राहः सदित्यस्मिन् विज्ञानाकाशरूपिणि । मरुनद्यां जलमिव न सम्भवति कुत्रचित् ॥ ंो_३,१५.७ ॥ ग्रहणं "ग्राहः" । पिण्डवत्ग्राहः "पिण्डग्राहः" । "सदिति" "पिण्डग्राहः" सद्व्यवहारहेतुः पिण्डग्राहः । "विज्ञानाकाशरूपिणि अस्मिन्न्" अनुभूयमाने । भवति । "कुत्रचित्" कुत्रापि । लेशेन "सम्भवति" । अत्र दृष्टान्तमाह "मरुनद्याम्" इति ॥ ंोट्_३,१५.७ ॥ नन्वसत्स्वरूपे जगति दृश्यता कथं भाति इत्य् । अत्राह जगत्यपिण्डग्राहेऽस्मिन् सङ्कल्पनगरोपमे । मरौ सरिदिवाभाति दृश्यता भ्रान्तिरूपिणी ॥ ंो_३,१५.८ ॥ अविद्यमानः पिण्डवत्ग्राहः यस्य । तस्मिन् "अपिण्डग्राहे" । "सङ्कल्पनगरोपमे" सङ्कल्पोल्लिखितनगरसदृशे । "ऽस्मिन् जगति दृश्यता" दृश्यभावः । "भ्रान्तिरूपिणी" मिथ्याज्ञानरूपा । "भाति" विलसति । क्"एव" । "मरौ" मरुदेशे । "सरिदिव" ॥ ंोट्_३,१५.८ ॥ भ्रमरूपत्वेनासद्रूपस्य जगतः स्वप्नवत्तुलादेशापूरणं कथयति स्वप्नाद्रिणेव जगता तुलादेशौ न कौचन । पूरितौ कलनोन्मुक्ता दृश्यश्रीर्व्योम केवलम् ॥ ंो_३,१५.९ ॥ "स्वप्नाद्रिणेव" स्वप्नाद्रिवत् । "जगता तुलादेशौ पूरितौ न" भवतः । गुरुत्वस्यासद्रूपत्वात्"तुला"पूरणम् । विस्तारस्यासद्रूपत्वात्"देशा"पूरणम् । एतच्च स्वप्नादौ सर्वप्रतीतिसिद्धमेवेति तस्य दृष्टान्तता । फलितमाह "कलने"ति । "कलनोन्मुक्ता" दृश्यत्वाख्यकलनामुक्ता ॥ ंोट्_३,१५.९ ॥ वर्जयित्वाज्ञविज्ञातजगच्छब्दार्थभावनाम् । जगद्ब्रह्मखशब्दानामर्थे नास्त्येव भिन्नता ॥ ंो_३,१५.१० ॥ "अज्ञैः" चित्स्वरूपज्ञानशून्यैः । "विज्ञाता" स्वानुभवविषयीकृता । "जगच्छब्दार्थभावना" । "जगद्" इति "शब्दस्य" । तद्"अर्थस्य" च "भावना"नुसन्धानम् । तां "अज्ञविज्ञातजगच्छब्दार्थभावनां वर्जयित्वा" परित्यज्य । "जगद्ब्रह्मखशब्दानामर्थे भिन्नता" भेदो । "नास्त्येव" । पर्यायरूपा एवैते शब्दा इत्यर्थः । अज्ञस्याज्ञाततत्त्वतया जगतः आकाशरूपत्वं न सिद्धमिति जगत्सत्यत्वनिष्ठायाः तद्भावनायाः परित्याग उक्तः ॥ ंोट्_३,१५.१० ॥ इदं त्वचेत्यचिन्मात्रभानोर्भानं नभः प्रति । तथा सूक्ष्मं यथा मेघं प्रति सङ्कल्पवारिदः ॥ ंो_३,१५.११ ॥ "तु" विशेषे । "अचेत्यचिन्मात्रभानोः" चेत्यादूषितचित्सूर्यस्य । "भानम्" आभासः । "इदं" जगत् । "नभः प्रति" बाह्याकाशापेक्षया । "तथा" तेन प्रकारेण । "सूक्ष्मं" भवति । "यथा मेघं प्रति" जाग्रद्दृष्टमेघापेक्षया । "सङ्कल्पवारिदः" स्वविकल्पोल्लेखितः मेघः सूक्ष्मो भवति ॥ ंोट्_३,१५.११ ॥ यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति । तथा जगदिदं स्वच्छं सङ्कल्पितजगत्प्रति ॥ ंो_३,१५.१२ ॥ "यथा" लौकिकबुद्ध्या । "जाग्रत्पुरवरं प्रति स्वप्नपुरं स्वच्छं" केवलाभासरूपत्वेन स्थूलताख्यमलरहितम् । भवति । "तथा" ज्ञानिदृष्ट्या । "इदं" जाग्रत्यनुभूयमानम् । "जगत्" । "सङ्कल्पितजगत्प्रति स्वच्छं" सङ्कल्पाख्यमलरहितशुद्धचिन्मात्ररूपत्वात्निर्मलं भवति । यद्यपि ज्ञानिनः स्वप्नपुरमपि तादृशमेव तथाप्यज्ञबोधनार्थमेवमुक्तम् ॥ ंोट्_३,१५.१२ ॥ तस्मादचेत्यचिद्रूपं जगद्व्योमैव केवलम् । शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ॥ ंो_३,१५.१३ ॥ "तस्मात्" पूर्वोक्ताथेतोः । "अचेत्यचिद्रूपं" शुद्धचिन्मात्ररूपम् । "जगत्" । "केवलं व्योमैव" भवति । फलितमाह "शून्याव्" इति । अतः "शून्यौ" पिण्डग्राहाभावेन नकिञ्चिद्रूपौ । "चिन्मयौ" चित्स्वरूपौ । "व्योमजगच्छब्दौ पर्यायौ विद्धि" एकार्थवाचकत्वात् ॥ ंोट्_३,१५.१३ ॥ वक्ष्यमाणवृत्तान्ताकाङ्क्षया पूर्वोक्तमुपसंहरति त्रिभिः तस्मान्न किञ्चिदुत्पन्नं जगदादीह दृश्यकम् । अनाख्यमनभिव्यक्तं यथास्थितमवस्थितम् ॥ ंो_३,१५.१४ ॥ "तस्मात्" चिदेकमयत्वाथेतोः । "जगदादि दृश्यं किञ्चित्" लेशेनापि । "उत्पन्नं न" भवति । कथम्भूतम् । "अनाख्यं" नामानर्हम् । अत्र हेतुत्वेन विशेषणमाह्"आनभिव्यक्तम्" इन्द्रियागोचरम् । अन्यरूपत्वेन अनभिव्यक्तस्य हि नामायुक्तम् । ननु तर्हि अपूर्वत्वं जगतः स्यादित्याशङ्क्य विशेषणमाह्"आवस्थितम्" इति । "अवस्थितं" तिष्ठत् । कथम् । "यथास्थितं" । यथैव पूर्वं तथैव । न त्वपूर्वतयेत्यर्थः । यथा पूर्वं सर्पतया ज्ञाता रज्जुः ततः रज्जुतया ज्ञातापि पूर्ववदेव तिष्ठति । न त्वन्यरूपतां प्राप्नोति । तथेत्य्भावः ॥ ंोट्_३,१५.१४ ॥ जगदेव महाकाशं चिदाकाशमभित्तिमत् । तद्देशस्याणुमात्रस्य तुलायाश्चाप्रपूरकम् ॥ ंो_३,१५.१५ ॥ "जगत्" "चिदाकाशमेव" भवति । कथम्भूतं "चिदाकाशं" । "महाकाशं" बाह्याकाशापेक्षया महत्त्वात्महाकाशाख्यायुक्तम् । पुनः कथम्भूतम् । "अभित्तिमत्" । जीवादिप्रपञ्चः तत्तद्धर्माधारतया "भित्तिः" । तद्रहितम् । फलितमाह "तद्" इति । अतः "तत्" चिदाकाशमयं जगत् । गुरुत्वाभावेन वैपुल्याभावेन च्"आणुमात्रस्य देशस्य तुलायाश्चापूरकम्" भवति । पूरणकारि न भवति ॥ ंोट्_३,१५.१५ ॥ तदेव पुनः विशिनष्टि आकाशरूपमेवाच्छं पिण्डग्रहविवर्जितम् । व्योम्नि व्योममयं चित्रं सङ्कल्पपुरवत्स्थितम् ॥ ंो_३,१५.१६ ॥ "आकाशरूपमेव" नकिञ्चिद्रूपमेव । "अच्छं" शुद्धबोधस्वरूपम् । "पिण्डग्रहविवर्जितम्" । "पिण्ड"वत्यः "ग्रहः" । तेन "वर्जितम्" । युक्तं चाकाशस्य पिण्डग्रहरहितत्वम् । "व्योम्नि" चिदाकाशे । "व्योममयं" चिदाकाशमयम् । "चित्रम्" आलेख्यम् । "सङ्कल्पपुरवत्" सङ्कल्पोल्लिखितपुरवत् । "स्थितम्" व्यवतिष्ठमानम् । सङ्कल्पपुरस्य चाकाशमयत्वं तुलादेशापूरकत्वं च युक्तमेवेति सिद्धः सर्वस्य जगतः विवक्षितः अत्यन्ताभावः । यच्चोत्पत्तिः पूर्वमुक्ता साप्यनुत्पत्तिकल्पत्वेनात्यन्ताभावस्यैव साधनीति न पूर्वापरविरोधः ॥ ंोट्_३,१५.१६ ॥ अथ जगतः तुलादेशाद्यपूरकत्वसाधकं महावृत्तान्तं वृत्तान्तकामान् प्रति कृपया कथयति अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् । निःसन्देहो यथैषोऽर्थश्चित्ते विश्रान्तिमेष्यति ॥ ंो_३,१५.१७ ॥ त्वम् । "अत्र" जगतो देशाद्यपूरकत्वे । "मण्डपाख्यानं" । मण्डपेति नाम्ना प्रसिद्धमाख्यानं "मण्डपाख्यानं" । "शृणु" । कथम्भूतम् । "श्रवणभूषणं" श्रवणार्हमित्यर्थः । ततः किमित्य् । अत्राह "निःसन्देह" इति । "यथा" येन । "निःसन्देहः" सन्देहान्निष्क्रान्तः । "एषः" पूर्वोक्तः । "अर्थः" । "चित्ते" त्वच्चित्ते । "विश्रान्तिमेष्यति" ॥ ंोट्_३,१५.१७ ॥ त्वरयाविष्टः श्रीरामः मण्डपाख्यानं प्रति श्रीवसिष्ठं प्रार्थयति सद्बोधवृद्धये ब्रह्मन् समासेन वदाशु मे । मण्डपाख्यानमखिलं येन बोधो विवर्धते ॥ ंो_३,१५.१८ ॥ जगतः तुलादेशापूरकत्वज्ञानं "सद्बोधः" । तस्य "वृद्धये" । फलितमाह "येने"ति । "येन" उदितेनेत्यर्थः ॥ ंोट्_३,१५.१८ ॥ श्रीवसिष्ठः मण्डपाख्यानमेव कथयति अभूदस्मिन्महीपीठे कुलपद्मो विकासवान् । पद्मो नाम नृपः श्रीमान् बहुपुत्रोऽतिकोशवान् ॥ ंो_३,१५.१९ ॥ "अस्मिन्महीपीठे पद्मो नाम नृपः अभूत्" । तस्यैव नानाविधानि विशेषणान्याह "कुले"ति । "विकासवान् कुलपद्मः" । पद्मस्य च विकासो युक्तः । "पद्म"शब्दोऽत्र लक्षणया श्रेष्ठवाचकः । "अतिकोशवान्" बहुभाण्डागारयुक्तः ॥ ंोट्_३,१५.१९ ॥ मर्यादापालनेऽम्भोधिर्द्विषत्तिमिरभास्करः । कान्ताकुमुदिनीचन्द्रो दोषतृष्णाहुताशनः ॥ ंो_३,१५.२० ॥ "अम्भोधेः मर्यादपालनं" प्रसिद्धमेव । "कान्ताकुमुदिनीचन्द्रः" । "चन्द्रत्वम्" अस्य तद्विकासकारित्वेन । "दोषतृष्णाहुताशनत्वं" दोषतृष्णादाहकत्वेन ॥ ंोट्_३,१५.२० ॥ मेरुर्विबुधवृन्दानां यशश्चन्द्रोद्भवार्णवः । सरः सद्गुणहंसानां कलाकमलभास्करः ॥ ंो_३,१५.२१ ॥ "विबुधाः" पण्डिताः । त एव विबुधा देवाः । तेषाम् । "मेरुः" बहुकाञ्चनप्रदत्वेनाश्रयत्वेन च मेरुपर्वतसदृशः । "यश" इति । "यशःचन्द्रोद्भवेऽर्णवः" समुद्रः । "सद्गुण"रूपाणां "हंसानां सरः" । "कला" एव "कमलानि" । तेषां विकासप्रदत्वेन "भास्करः" ॥ ंोट्_३,१५.२१ ॥ शात्रवाम्भोदपवनो मत्तमातङ्गकेसरी । समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ॥ ंो_३,१५.२२ ॥ "शात्रवं" शत्रुसमूहः । स एव्"आम्भोदः" मेघः । तस्य "पवनः" नाशकारित्वात् । "मातङ्गा" अत्र शत्रुसेना या विवक्षिताः । "समस्ता" या "विद्या"रूपाः नायिकाः । तासां "दयितः" पतिः । "सर्वे" च ते "आश्चर्य"भूताः "गुणाः" । तेषाम् "आकरः" उत्पत्तिस्थानम् ॥ ंोट्_३,१५.२२ ॥ शूरारिसागरक्षोभविलसन्मन्दराचलः । विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ॥ ंो_३,१५.२३ ॥ "शूराश्" च ते "ऽरयः" । तद्रूपः यः "सागरः" । तस्य "क्षोभे विलसन्मन्दराचलः" । "विलासा" विभ्रमा एव । "पुष्पाणि" । तेषां यः "ओघः" । तस्य "मधुः" वसन्तः । विकासकारित्वात् । "सौभाग्येन" सुभगभावेन । "कुसुमायुधः" कामः ॥ ंोट्_३,१५.२३ ॥ लीलालतालास्यमरुत्साहसोत्सवकेशवः । सौजन्यकैरवशशी दुर्लीलालतिकानलः ॥ ंो_३,१५.२४ ॥ "लीला" इव "लता" । तस्या "लास्ये" नर्तने । "मरुत्" । लीलायुक्त इत्यर्थः । "साहसम्" एव हिताहितानपेक्षं कर्म एव । "उत्सवः" महः । तस्य "केशवः" विष्णुः । तस्य हिरण्याख्यादिवधसाहसकारित्वादुपमानत्वम् । "सौजन्यम्" एव "कैरवं" । तस्य विकासकारित्वात्"शशी" चन्द्रः । "दुर्लीलालतिकानां" दाहकत्वाद्"अनलः" अग्निः ॥ ंोट्_३,१५.२४ ॥ तस्यासीत्सुभगा भार्या लीला नाम विलासिनी । सर्वसौभाग्यवलिता कमलेवोदितावनौ ॥ ंो_३,१५.२५ ॥ "तस्य" पद्माख्यस्य राज्ञः । "लीला नाम भार्या" लीलाख्या भार्य्"आसीत्" । अस्या विशेषणान्याह "सुभगे"ति । "सुभगा" प्रशस्तरूपयुक्ता । "विलासिनी" विलासयुक्ता । "सर्वसौभाग्यैः वलिता" भरित्"आवनौ" भूमौ । "कमलेवोदिता" उत्पन्ना ॥ ंोट्_३,१५.२५ ॥ सर्वसम्पत्तिवलिता लीलामधुरभाषिणी । सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ॥ ंो_३,१५.२६ ॥ "लीले"ति । "लीलया मधुरं भाषिणी" । "सानन्दे"ति । "सानन्दं मन्दं चलितं" यस्याः । सा । "द्वितीये"ति । "द्वितीयेन्दूदय"भूतं "स्मितं" यस्याः । सा ॥ ंोट्_३,१५.२६ ॥ अलकालिमनोहारिवदनाम्भोजशालिनी । शीताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ॥ ंो_३,१५.२७ ॥ "अलकाल्या" "मनोहारि" यत्"वदनाम्भोजं" । तेन "शालिनी" । "शीताङ्गी" शिशिराङ्गी । "कर्णिके"ति । "कर्णिका"वद्"गौरी" । क्"एव" । "जङ्गमा" सञ्चारिणी । "सरोजिनीव" । सरोजिन्यपि "अलिमनोहारि" "अम्भोजशालिनी शीताङ्गी कर्णिकया गौरी" भवति ॥ ंोट्_३,१५.२७ ॥ लताविलासकुन्दौघहासिनी रसशालिनी । प्रबालहस्ता पुष्पाढ्या मधुश्रीरिव देहिनी ॥ ंो_३,१५.२८ ॥ "शालिनी" शृङ्गारसुशालिनी । "प्रबाले"ति । प्रबालवत्"हस्तौ" यस्याः । सा । "पुष्पे"ति । "पुष्पैर्" आभरणभूतैः पुष्पैर् । "आढ्या "। क्"एव" । "देहिनी" मूर्तिमती । "मधुश्रीरिव" । सापि "कुन्दौघैः हासिनी" । "रसेन" वसन्तरसेन । "शालिनी" च भवति । शेषं समानम् ॥ ंोट्_३,१५.२८ ॥ अवदाता तनुः पुण्या जनताह्लाददायिनी । गङ्गेव गां गता देवनदी हंसविलासिनी ॥ ंो_३,१५.२९ ॥ "अवदाता तनुः" सिताङ्गी । "पुण्या" भाग्यवती । "जनते"ति । "जनतायाः आह्लाददायिनी" । "हंसे"ति । "हंस"वत्"विलास"युक्ता । क्"एव" । "गां" भूमिम् । "गता" । "देवनदी गङ्गेव" । सापि तादृश्येव भवति ॥ ंोट्_३,१५.२९ ॥ तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः । परिचर्यां चिरं कर्तुमन्या रतिरिवोदिता ॥ ंो_३,१५.३० ॥ "पुष्पेषोः" "रतेः" "परिचर्यां कर्तुं" युक्तत्वातेतदुक्तम् ॥ ंोट्_३,१५.३० ॥ सर्गान्तश्लोकेन तस्याः सतीगुणानाह उद्विग्ने प्रोद्विग्ना मुदिता मुदिते समाकुलाकुलिते । प्रतिबिम्बसमा कान्ता सङ्क्रुद्धे केवलं भीता ॥ ंो_३,१५.३१ ॥ सा "कान्ता" । तस्येति शेषः । तस्य राज्ञः । "प्रतिबिम्बसमा"सीत् । कथम्भूता । तस्मिन् प्र्"ओद्विग्ने" सति । "प्रोद्विग्ना" । तस्मिन् "मुदिते" सति । "मुदिता" । तस्मिन् सम्"आकुले" सति । "समाकुला" । तस्मिन् "सङ्क्रुद्धे" सति । "केवलं भीता" । एतावन्मात्रेणैव "केवलं" सा विरुद्धासीदिति भावः । इति शिवम् ॥ ंोट्_३,१५.३१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामुत्पत्तिप्रकरणे पञ्चदशः सर्गः ॥ ३,१५ ॥ ********************************************************************* ओं तस्य राज्ञः तया राज्ञ्या सह क्रीडामाह भूतलाप्सरसा सार्धमनन्यवनितापतिः । अकृत्रिमप्रेमरसं स रेमे कान्तया तया ॥ ंो_३,१६.१ ॥ "स" राजा । "तया" लीलाख्यया । "कान्तया सहाकृत्रिमः प्रेमरसः" यत्र तत्"अकृत्रिमप्रेमरसं" । वक्ष्यमाणेषु स्थानेषु वक्ष्यमाणैः क्रीडाविशेषैः । "रेमे" । "तया" किंरूपया । "भूतलाप्सरसा" । "स" कथम्भूतः । "अनन्यवनितापतिः" नान्यवनितायाः पतिः । तस्यामेव रत इत्यर्थः ॥ ंोट्_३,१६.१ ॥ क्रीडास्थानान्याह उद्यानवनगुल्मेषु तमालगहनेषु च । पुष्पमण्डपतल्पेषु लतावलयसद्मसु ॥ ंो_३,१६.२ ॥ "उद्यानवनेषु" विहितानि यानि "गुल्मानि" वेश्मानि । तेषु । "पुष्पे"ति । "पुष्पैः" कृतानि यानि "मण्डपतल्पानि" । तेषु । "मण्डपः" जनाश्रयः । "लतावलयसद्मसु" लतामण्डलगृहेषु ॥ ंोट्_३,१६.२ ॥ पुष्पान्तःपुरशय्यासु पुष्पसम्भारवीथिषु । वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च ॥ ंो_३,१६.३ ॥ "पुष्पैः" रचिता याः "अन्तःपुरशय्याः" । तासु । "पुष्पे"ति । "पुष्पसम्भारेण" पुष्पसमूहेन युक्ताः "वीथ्यः" मार्गाः । तासु । "वसन्ते"ति । "वसन्ते" रचिताः "उद्यानदोलाः" । तासु ॥ ंोट्_३,१६.३ ॥ चन्दनद्रुमषण्डेषु सन्तानकतलेषु च । कदम्बनिम्बगेहेषु पारिभद्रोदरेषु च ॥ ंो_३,१६.४ ॥ "षण्डाः" समूहाः । "सन्तानकाः" द्रुमविशेषाः । "कदम्बे"ति । "कदम्बनिम्ब"तलेषु रचितानि यानि "गेहानि" । तेषु । "पारिभद्रे"ति । "पारिभद्राः" वृक्षविशेषाः ॥ ंोट्_३,१६.४ ॥ शैलकन्दरकच्छेषु वातायनपुरेषु च । सरित्तटकटप्रेषु वारणोपरिसद्मसु ॥ ंो_३,१६.५ ॥ "शैलकन्दरेषु" स्थिताः ये "कच्छाः" । तेषु । "वातायने"ति । "वातायन"युक्तानि च तानि "पुराणि" गृहोपरिगृहाणि । तेषु । "सरिद्" इति । "सरित्तटानां" ये "कटप्राः" समूहाः । तेषु । "वारणे"ति । "वारणोपरि"कृतेषु "सद्मसु" ॥ ंोट्_३,१६.५ ॥ ग्रीष्मे तुषारहर्म्येषु लतामण्डपकेषु च । हेममन्दिरवृक्षेषु मुक्तामाणिक्यभित्तिषु ॥ ंो_३,१६.६ ॥ "तुषारहर्म्येषु" शीतलगृहेषु । "हेमे"ति । "हेममन्दिरो"परिरोपिताः ये "हेममन्दिरवृक्षाः" । तेषु । "मुक्ते"ति । "मुक्तामाणिक्यैः" रचिताः "भित्तयः" येषां गृहाणाम् । तेषु ॥ ंोट्_३,१६.६ ॥ विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु । वसन्तवनजालेषु कूजत्कोकिलमालिषु ॥ ंो_३,१६.७ ॥ "वसन्ते" पुष्पितानि यानि "वनजालानि" । तेषु । "विकसद्" इति "कूजद्" इति च विशेषणद्वयं "वसन्तवनजालेष्व्" इत्यस्यैव ॥ ंोट्_३,१६.७ ॥ नानारत्नतृणानां च स्थलेषु मृदुदीप्तिषु । निर्झरेषु तरत्तारशीकरासारवर्षिषु ॥ ंो_३,१६.८ ॥ "नाना" च तानि "रत्न"भूतानि "तृणानि" । तेषाम् । "स्थलेषु" कथम्भूतेषु । "मृदुदीप्तिषु" कमलेष्वित्यर्थः । "निर्झरे"ति । "निर्झरेषु" कथम्भूतेषु । "तरद्" इति । "तरन्तः" उत्थितवन्तः ये "ताराः" उद्भटाः । "शीकराः" जलकणाः । तेषाम् "आसारः" धारासाराः । तं "वर्षन्ति" । तादृशेषु ॥ ंोट्_३,१६.८ ॥ शैलानां हेममाणिक्यशिलाफलहकेषु च । देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च ॥ ंो_३,१६.९ ॥ "शैलानां हेममाणिक्यो"त्पत्तिस्थानभूतानि यानि "शिलाफलहकानि" । तेषु ॥ ंोट्_३,१६.९ ॥ कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च । वनस्थलीषु फुल्लासु फुल्लासूत्पलिनीषु च ॥ ंो_३,१६.१० ॥ "स्मेरासु" फुल्लासु ॥ ंोट्_३,१६.१० ॥ क्रीडास्थानान्युक्त्वा क्रीडाप्रकारानाह प्रहेलिकाभिराख्यानैस्तथैवाक्षरमुष्टिभिः । अष्टापदैर्बहूद्द्योतैस्तथा गूढचतुर्थकैः ॥ ंो_३,१६.११ ॥ "आख्यानैः" वृत्तान्तकथनैः । "अक्षरमुष्टिभिः" क्रीडाविशेषैः ॥ ंोट्_३,१६.११ ॥ नाटकाख्यायिकाभिश्च श्लोकैर्बिन्दुमतीभ्रमैः । देशभाषाविभागैश्च नगरग्रामचेष्टितैः ॥ ंो_३,१६.१२ ॥ "नाटकेषू"क्ता या "आख्यायिकाः" । ताभिः । "बिन्दुमतीभ्रमैः" क्रीडाविशेषैः । "देशे"ति । "देशभाषाणां विभागैः" विभागकरणैः । "नगरे"ति । "नगरचेष्टितैः ग्रामचेष्टितैश्" चेति योज्यम् ॥ ंोट्_३,१६.१२ ॥ स्रग्दाममाल्यवलनैर्नानाभरणयोजनैः । लीलाविलोलचलनैर्विचित्ररसभाजनैः ॥ ंो_३,१६.१३ ॥ "वलनैः" परिवर्तनैः । "नाने"ति । "नानाभरणानां योजनैः" अन्योऽन्यं संयोजनैः । "लीले"ति । "लीलया विलोलानि" यानि "चलनानि" गमनानि । तैः कथम्भूतैः । "विचित्रे"ति । "विचित्राणां" नानाविधानाम् । "रसानां" शृङ्गारादीनाम् । "भाजनैः" पात्रैः ॥ ंोट्_३,१६.१३ ॥ आर्द्रक्रमुककर्पूरताम्बूलीदलचर्वणैः । फुल्लपुष्पलताकुञ्जदेहगोपनखर्वणैः ॥ ंो_३,१६.१४ ॥ "चर्वणैः" चर्वितैः । "फुल्ले"ति । "फुल्लपुष्पाश्" च ताः "लताः" । तासां यानि "कुञ्जानि" । तेषु । "देहगोपना" शरीरगुप्तिकरणम् । तदर्थं यानि "खर्वणानि" ह्रस्वीभवनानि । तैः ॥ ंोट्_३,१६.१४ ॥ समालम्भनलीलाभिर्दोलारोहणविभ्रमैः । गृहे कुसुमदोलाभिरन्योऽन्यान्दोलनक्रमैः ॥ ंो_३,१६.१५ ॥ "समालम्भनं" अङ्गरागकरणम् । "अन्योऽन्ये"ति । "अन्योऽन्यं" परस्परम् । "आन्दोलनम्" दोलाकम्पनम् । तस्य "क्रमैः" ॥ ंोट्_३,१६.१५ ॥ नौयानयुग्यहस्त्यश्वदान्तोष्ट्रादिगमागमैः । जलकेलिविलासेन परस्परसमुक्षणैः ॥ ंो_३,१६.१६ ॥ "नौयानं" च "युग्य"भूतैर्वाहनभूतैः । "हस्त्यश्वदान्तोष्ट्रादिभिः" । "गमागमाश्" च । तैः । "दान्तो" वलीवृन्दः । "परस्परे"ति । "परस्परम्" अन्योऽन्यम् । "समुक्षणानि" सेचनानि । तैः ॥ ंोट्_३,१६.१६ ॥ नृत्तगीतकलालास्यताण्डवोद्भटवृत्तिभिः । सङ्गीतकैः सङ्कथनैर्वीणामुरजवादनैः ॥ ंो_३,१६.१७ ॥ "नृत्ताद्या" या "उद्भटाः" उद्रिक्ताः । "वृत्तयः" व्यापाराः । ताभिः ॥ ंोट्_३,१६.१७ ॥ पुनरपि क्रीडास्थानान्याह उद्यानेषु सरित्तीरवृक्षेषु वनवीथिषु । अन्तःपुरेषु हर्म्येषु तेषु तेषु तथा तथा ॥ ंो_३,१६.१८ ॥ "तथा तथा" पूर्वोक्तैः नानाविधैः क्रीडाविशेषैः ॥ ंोट्_३,१६.१८ ॥ सा बाला सुखसंवृद्धा तस्य प्रणयिनी प्रिया । एकदा चिन्तयामास शुभसङ्कल्पशालिनी ॥ ंो_३,१६.१९ ॥ "तस्य" पद्माख्यस्य राज्ञः । "प्रणयिनी" पत्नी । "सा" लीलाख्या । "बाला" । "एकदा" एकस्मिन् दिने । "चिन्तयामास" चिन्तां कृतवती । कथम्भूता । "सुखसंवृद्धा" । पुनः कथम्भूता । "शुभे"ति । "शुभसङ्कल्पेन" वक्ष्यमाणेन प्रशस्तेन सङ्कल्पेन । "शालिनी" ॥ ंोट्_३,१६.१९ ॥ किं चिन्तयामासेत्य् । अत्राह प्राणेभ्योऽपि प्रियो भर्ता ममैष जगतीपतिः । यौवनोल्लासलक्ष्मीवान् कथं स्यादजरामरः ॥ ंो_३,१६.२० ॥ "मम एसः भर्ता अजरामरः" जरामरणाख्यदोषरहितः । "कथं स्यात्" केन हेतुना स्यादित्यन्वयः । "प्राणेभ्यः" जीवेभ्यः ॥ ंोट्_३,१६.२० ॥ भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु । कथं स्वैरं चिरं कान्ता रमेयाब्दशतान्यहम् ॥ ंो_३,१६.२१ ॥ "अहं कान्तानेन भर्त्रा सहाब्दशतानि कथं रमेय" केनोपायेन वर्षशतानि क्रीडां कुर्यामित्यर्थः ॥ ंोट्_३,१६.२१ ॥ तथा यतेय क्रमतस्तपोजपयमेहितैः । रजनीशरुची राजा यथा स्यादजरामरः ॥ ंो_३,१६.२२ ॥ अत इत्यध्याहार्यम् । अतोऽहं "तथा तपोजपयमेहितैः" करणभूतैः । अतो यत्नं करोमि । "यथा रजनीशरुचिः" चन्द्रप्रभा । "राजाजरामरः स्यात्" ॥ ंोट्_३,१६.२२ ॥ ज्ञानवृद्धांस्तपोवृद्धान् विद्यावृद्धानहं द्विजान् । पृच्छामि तावन्मरणं कथं न स्यान्नृणामिति ॥ ंो_३,१६.२३ ॥ "अहं ज्ञानवृद्धान् तपोवृद्धान्" तथा "विद्यावृद्धान् द्विजानिति तावत्पृच्छामि इति" । किम् "इति" । "नृणां मरणं कथं न स्यात्" केन हेतुना न स्यात् ॥ ंोट्_३,१६.२३ ॥ तस्याः सङ्कल्पमुक्त्वा बाह्यप्रयत्नमाह अथानाय्याशु सम्पूज्य द्विजान् पप्रच्छ सानता । अमरत्वं कथं विप्रा भवेदिति पुनः पुनः ॥ ंो_३,१६.२४ ॥ "अथ" सङ्कल्पानन्तरम् । "आनाय्ये"त्यत्र । परिजनैरिति शेषः । "पुनः पुनर्" इति इच्छोद्रेकद्योतनपरम् ॥ ंोट्_३,१६.२४ ॥ विप्रा उत्तरं कथयन्ति तपोजपयमैर्देवि समस्ताः सिद्धसिद्धयः । सम्प्राप्यन्तेऽमरत्वं तु न कदाचन लभ्यते ॥ ंो_३,१६.२५ ॥ "सिद्धसिद्धयः" । "सिद्धानां" सिद्धियुक्तानाम् । "सिद्धयः" । "तु" व्यतिरेके ॥ ंोट्_३,१६.२५ ॥ द्विजेभ्यः स्वेप्सितासिद्धिं श्रुत्वा पुनरपि तच्चिन्तामाह इत्याकर्ण्य द्विजमुखाच्चिन्तयामास सा पुनः । इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः ॥ ंो_३,१६.२६ ॥ "स्वप्रज्ञयैव" । न तु तदुक्तानुसारेण ॥ ंोट्_३,१६.२६ ॥ किं चिन्तयामासेत्य् । अत्राह मरणं भर्तुरग्रे मे यदि दैवाद्भविष्यति । तत्सर्वदुःखनिर्मुक्ता संस्थास्ये सुखमात्मनि ॥ ंो_३,१६.२७ ॥ भर्तृमृतिदुःखादर्शनादिति भावः ॥ ंोट्_३,१६.२७ ॥ अथ वर्षसहस्रेण भर्तादौ म्रियते यदि । तत्करिष्ये तथा येन जीवो गेहान्न यास्यति ॥ ंो_३,१६.२८ ॥ "वर्षसहस्रेणे"ति पदमाशीर्द्योतकम् । "अथ यदि" " भर्तादौ" वर्षसहस्रान्ते "म्रियते तत्" तदा । "तथा" तमुपायम् । "करिष्ये येन जीवः" भर्तृजीवः । "गेहात्न यास्यति" ॥ ंोट्_३,१६.२८ ॥ ततः किमित्य् । अत्राह तद्भ्रमाद्भर्तृजीवेऽस्मिन्निजे शुद्धान्तमण्डपे । भर्त्रावलोकिता नित्यं निवत्स्यामि यथासुखम् ॥ ंो_३,१६.२९ ॥ अहं "तद्भ्रमात्" । भर्तावलोकते मामिति भ्रमात् । "नित्यं" सदा । "यथासुखं निवर्त्स्यामि" । कथम्भूताहम् । "अस्मिन् भर्तृजीवे निजे" स्वकीये । "शुद्धान्तमण्डपे" मया साधितेनोपायेन स्थिते सति । "भर्त्रावलोकिता" वीक्षिता ॥ ंोट्_३,१६.२९ ॥ अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् । जपोपवासनियमैरा तोषं पूजयाम्यहम् ॥ ंो_३,१६.३० ॥ "अद्यैव" । न तु श्वः । "एतदर्थं" भर्तृजीवस्य स्वगेहान्निर्गमाभावार्थम् । "ज्ञप्तिं देवीं" स्वप्रतिभां देवीम् । "आ तोषं" प्रसादपर्यन्तम् । ननु ज्ञप्त्याराधनतया कुतः श्रुतम् । ज्ञप्तिप्रसादादेवेति ब्रूमः । सर्वत्र ज्ञप्तिप्रसादस्यैव कारणत्वात् । अग्रे वक्ष्यमाणः ज्ञप्त्युपदेशश्च स्वप्रतिभाकृतः ज्ञेयः । यतः यत्यत्लीलया कृतं श्रुतं वा तत्स्वप्रतिभयैव । यदपि गुर्वादिमुखेन श्रूयते तदपि स्वप्रतिभयैव । सर्वत्र स्वप्रतिभायाः स्थितत्वात् ॥ ंोट्_३,१६.३० ॥ चिन्तानन्तरं तत्प्रयत्नं कथयति इति निश्चित्य सा नाथमनुक्त्वैव वराङ्गना । यथाशास्त्रं चचारोग्रं तपो नियममास्थिता ॥ ंो_३,१६.३१ ॥ "नियममास्थिता"श्रिता । तं विना तपसो व्यर्थत्वात् ॥ ंोट्_३,१६.३१ ॥ तत्तपः विशेषणद्वारेण कथयति त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा । देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा ॥ ंो_३,१६.३२ ॥ "त्रिरात्रस्य त्रिरात्रस्ये"ति वीप्सायां द्वित्वम् ॥ ंोट्_३,१६.३२ ॥ स्नानदानतपोध्याननित्योद्युक्तशरीरिका । सर्वास्तिक्यसदाचारकारिणी क्लेशकारिणी ॥ ंो_३,१६.३३ ॥ "स्नानादिषु नित्यमुद्युक्तं" चेष्टायुक्तम् । शरीरं यस्याः । सा । "सर्वे"ति । "आस्तिक्यः" आस्तिकयोग्यः । "क्लेशः" तपोरूपः ॥ ंोट्_३,१६.३३ ॥ यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् । तोषयामास भर्तारमपरिज्ञाततत्स्थितिम् ॥ ंो_३,१६.३४ ॥ "अपरिज्ञाता" । "तस्या" लीलायाः । त्रयमेतत्तपः करोतीत्येवंरूपा "स्थितिर्" । येन । सः ॥ ंोट्_३,१६.३४ ॥ त्रिरात्रशतमेवं सा बाला नियमशालिनी । अनारततपोनिष्ठमतिष्ठत्कष्टचेष्टया ॥ ंो_३,१६.३५ ॥ "अनारते"ति । "अनारतं तपसि निष्ठा "यत्र । तत् । क्रियाविशेषणमेतत् । "कष्टचेष्टया" रात्रित्रयानन्तरं पारणादिरूपया दुःखदया चेष्टया ॥ ंोट्_३,१६.३५ ॥ अथ ज्ञप्तिप्रसादमाह त्रिरात्राणां शतेनाथ पूजिता प्रतिमामिता । तुष्टा भगवती गौरी वागीशीदमुवाच ताम् ॥ ंो_३,१६.३६ ॥ "अथ" नियमानन्तरम् । "वागीशी" ज्ञप्तिः । "गौरी" शुद्धस्वरूपा । वागीशीत्वमस्याः वाचां मूलकारणत्वेन ज्ञेयम् । "प्रतिमामिता" शिलादिप्रतिमामाश्रिता । स्वया प्रतिभया प्रतिमायामाभासेन तस्याः दर्शनं दत्तवानिति भावः ॥ ंोट्_३,१६.३६ ॥ ज्ञप्त्या कथ्यमानं वाक्यमाह निरन्तरेण तपसा भर्तृभक्त्यतिशायिना । परितुष्टास्मि ते वत्से गृहाण वरमीप्सितम् ॥ ंो_३,१६.३७ ॥ "निरन्तरेणा"च्छिन्नेन ॥ ंोट्_३,१६.३७ ॥ ज्ञप्तिवाक्यं श्रुत्वा राज्ञी तां स्तौति जय जन्मजराज्वालादाहदोषशशिप्रभे । जय हार्दान्धकारौघनिवारणरविप्रभे ॥ ंो_३,१६.३८ ॥ "शशिप्रभायाः दाहदोष"निवारकत्वं "रविप्रभायाः" च्"आन्धकार"निवर्तकत्वं प्रसिद्धमेव ॥ ंोट्_३,१६.३८ ॥ अम्ब मां त्रिजगन्मातस्त्रायस्व कृपणामिमाम् । इदं वरद्वयं देहि यदिह प्रार्थये शुभम् ॥ ंो_३,१६.३९ ॥ "कृपणां" दीनाम् । "शुभम्" इति "वरद्वय"विशेषणम् ॥ ंोट्_३,१६.३९ ॥ वरद्वयमध्ये एकं कथयति एकं तावद्विदेहस्य भर्तुर्जीवो ममाम्बिके । अस्मादेव हि मा यासीन्निजान्तःपुरमण्डपात् ॥ ंो_३,१६.४० ॥ वरद्वयमध्ये "एकम्" इदं वरं देहि । किमित्यपेक्षायामाह "विदेहे"ति । "विदेहस्य" मृतस्य । "मा यासीत्" मा गच्छतु ॥ ंोट्_३,१६.४० ॥ द्वितीयं कथयति द्वितीयं त्वां महादेवि प्रार्थयेऽहं यदा यदा । दर्शनाय वरार्थेन तदा मे देहि दर्शनम् ॥ ंो_३,१६.४१ ॥ "द्वितीयम्" इदं देहि । किमित्यपेक्षायामाह "त्वाम्" इति । हे "देवि" । "अहं त्वां यदा दर्शनाय प्रार्थये तदा त्वं वरार्थेन" वरानुरोधेन । "दर्शनं देहि" ॥ ंोट्_३,१६.४१ ॥ वरद्वयमङ्गीकृत्य ज्ञप्त्य ... ______________________________________________________________________________ ४. ष्तितिप्रकरन (१,१.१४,२४.१९, ४,२५.१२४,३३.२६) ओमथ स्थितिप्रकरणं व्याख्यायते । ओं प्रत्यक्ज्योतिः किमपि परमं भावयित्वाथ देवं ध्यात्वा चित्ते भवभयहरं श्रीगणेशं विभुं च । मौलौ कृत्वा गुरुचरणयोर्धूलिपुञ्जं च टीका स्थित्याख्येऽस्मिन् प्रकरणवरे तन्यते भास्करेण ॥ ंो_४,१.० ॥ एवमुत्पत्तिप्रकरणेऽनुत्पत्तिरूपां जगदुत्पत्तिं प्रतिपाद्य तच्छ्रवणेन च तत्र श्रीरामं प्रतीतिभाजं निर्वर्ण्य तदनन्तरं योग्यं स्थितिप्रकरणारम्भं करोति अथोत्पत्तिप्रकरणादनन्तरमिदं शृणु । स्थितिप्रकरणं राम ज्ञातं निर्वाणकारि यत् ॥ ंो_४,१.१ ॥ अथशब्दो मङ्गलमात्रप्रयोजनः । इदं वक्ष्यमाणम् । स्थितिप्रकरणं किम् । यत्ज्ञातं श्रवणमनननिदध्यासनविषये कृतं सत् । निर्वाणं ब्रह्मणि आत्यन्तिकं लयं करोतीति तादृशम् । भवति ॥ ंोट्_४,१.१ ॥ स्थितिप्रकरणमेव कथयति एवं तावदिदं विद्धि दृश्यं जगदिति स्थितम् । अहं चेत्याद्यनाकारं भ्रान्तिमात्रमसन्मयम् ॥ ंो_४,१.२ ॥ तावत्त्वमेवं विद्धि । अन्यत्स्वयमेव ज्ञास्यसीति भावः । एवं कथमित्यपेक्षायामाह इदमिति । जगदिति । जगदिति नामधेयेन स्थितम् । इदं दृश्यं पुरःस्फुरत् । दृशिक्रियाविषयो भावजातम् । अहमित्यादि च भवति । कथम्भूतम् । अनाकारं भ्रान्तिमात्रमसन्मयं च ॥ ंोट्_४,१.२ ॥ अकर्तृकमनङ्गं च गगने चित्रमुत्थितम् । अद्रष्टृकं सानुभवमनिद्रं स्वप्नदर्शनम् ॥ ंो_४,१.३ ॥ गगने चिदाकाशे । चित्रमालेख्यमिव । उदितं प्रादुर्भूतम् । कीदृक्चित्रम् । अकर्तृकं कर्तृरहितम् । अनङ्गं निःस्वरूपम् । पुनः किम् । स्वप्नदर्शनं स्वप्नदर्शनस्वरूपम् । स्वप्नदर्शनं कथम्भूतम् । अद्रष्टृकं द्रष्टृरहितम् । सानुभवं द्रष्ट्रनुभवविषयतां गतम् । अनिद्रं निद्रादोषादृष्टम् । अत्रालौकिकत्वकथनेन विस्मयकारित्वे एव भरः कृतः ॥ ंोट्_४,१.३ ॥ भविष्यत्पुरनिर्माणं चित्रसंस्थमिवोदितम् । मर्कटानलतापाभमम्ब्वावर्तवदास्थितम् ॥ ंो_४,१.४ ॥ भविष्यत्पुरस्य च नकिञ्चिद्रूपत्वं स्फुटमेव । मर्कटस्यानलत्वेनाभासमानः अनलः मर्कटानलः । तस्य यः तापः । तस्याभा यस्य । तत् । मर्कटो हि कमपि फलविशेषमग्निभ्रमेण गृह्णाति । आस्थितं स्थितियुक्तम् ॥ ंोट्_४,१.४ ॥ सद्रूपमपि निःशून्यं तेजः सौरमिवाम्बरे । रत्नाभाजालमिव खे दृश्यमानमभित्तिमत् ॥ ंो_४,१.५ ॥ सद्रूपं चिन्मात्रसारत्वात् । निःशून्यं नकिञ्चित्त्वात् । अम्बरे हि सौरं तेजः सद्रूपमपि निःशून्यमिव भातीति तस्योपमानत्वेन ग्रहणम् ॥ ंोट्_४,१.५ ॥ सङ्कल्पपुरवत्प्रौढमनुभूतमसन्मयम् । कथार्थप्रतिभानात्म न क्वचित्स्थितमस्ति च ॥ ंो_४,१.६ ॥ कथायाः अनेन कथ्यमानायाः कथायाः । यः अर्थः । तस्य यत्प्रतिभानं स्फुरणम् । तदात्म तत्स्वरूपम् । कथाः श्रवणकाले हि श्रोतुः तदर्थः पुरः इव प्रतिभाति । न क्वचित्स्थितं विचारासहत्वात् । अस्ति च प्रतिभासमानत्वात् ॥ ंोट्_४,१.६ ॥ निःसारमप्यतीवान्तःसारं स्वप्नाचलोपमम् । भूताकाशमिवाकारभासुरं शून्यमात्रकम् ॥ ंो_४,१.७ ॥ निःसारं पिण्डग्रहाभावात् । अतीवातिशयेनान्तःसारं चिन्मात्रसारत्वात् । आकारभासुरं नीलरूपयुक्ताकारभास्वरम् ॥ ंोट्_४,१.७ ॥ शरदभ्रमिवाग्रस्थमलक्ष्यक्षयमाक्षयि । वर्णो व्योमतलस्येव दृश्यमानमवस्तुकम् ॥ ंो_४,१.८ ॥ स्पष्टम् ॥ ंोट्_४,१.८ ॥ स्वप्नाङ्गनारताकारमर्थनिष्ठमनर्थकम् । चित्रोद्यानमिवोत्फुल्लमरसं सरसाकृति ॥ ंो_४,१.९ ॥ अर्थनिष्ठं रेतःस्रवाख्यार्थक्रियारतम् । अनर्थकं प्रभातेऽदृश्यमानत्वात्वृथाभातम् । पुनः कथम्भूतम् । अरसमास्वादरहितमपि । सरसाकृति सरसा इवाकृतिः यस्य । तत् । किमिव । उत्फुल्लं चित्रोद्यानमालेख्योद्यानम् । इव । तस्यापि अरसत्वेऽपि सरसाकृतित्वं प्रसिद्धम् ॥ ंोट्_४,१.९ ॥ प्रकाशमिव निस्तेजश्चित्रार्कानलवत्स्थितम् । अनुभूतं मनोराज्यमिवासत्यमवास्तवम् ॥ ंो_४,१.१० ॥ स्पष्टम् ॥ ंोट्_४,१.१० ॥ चित्रपद्माकर इव सारसौगन्ध्यवर्जितम् । शून्ये प्रकचितं नानावर्णमाकारितात्मकम् ॥ ंो_४,१.११ ॥ शून्ये अचेत्यचिन्मात्राख्यायां शून्यभित्तौ । आकारितः आकारयुक्तः । आत्मा यस्य । तादृशम् ॥ ंोट्_४,१.११ ॥ परमार्थेन शुष्यद्भिर्भूतपेलवपल्लवैः । ततं जडमसारात्म कदलीस्तम्भभासुरम् ॥ ंो_४,१.१२ ॥ ततं व्याप्तम् ॥ ंोट्_४,१.१२ ॥ स्फारितेक्षणदृश्यान्धकारचक्रकवत्ततम् । अत्यन्तमभवद्रूपमपि प्रत्यक्षवत्स्थितम् ॥ ंो_४,१.१३ ॥ स्फारितेक्षणस्य दृश्यानि यानि अन्धकारचक्रकाणि । तद्वत्ततम् । अभिनयगम्यश्चायमर्थः ॥ ंोट्_४,१.१३ ॥ वार्बुद्बुद इवाभोगि शून्यमन्तः स्फुरद्वपुः । रसात्मकं सत्यरसमविच्छिन्नक्षयोदयम् ॥ ंो_४,१.१४ ॥ रसात्मकमिच्छास्वरूपं जलस्वरूपं च । सत्यरसम् । सत्यस्य चिन्मात्रतत्त्वस्य । रसः यस्य । तत् । चिन्मात्रतत्त्वेनैव पुष्टिं गतमित्यर्थः ॥ ंोट्_४,१.१४ ॥ नीहार इव विस्तारि गृहीतं सन्न किञ्चन । जडं शून्यास्पदं शून्यं केषाञ्चित्परमाणुवत् ॥ ंो_४,१.१५ ॥ केषाञ्चित्स्थूलबुद्धीनां तार्किकाणाम् ॥ ंोट्_४,१.१५ ॥ किञ्चिद्भूतमयोऽस्तीति स्थितं शून्यमभूतकम् । गृह्यमाणमसद्रूपं निशातम इवोत्थितम् ॥ ंो_४,१.१६ ॥ अयं संसारः किञ्चित्भूतमयः अस्तीति स्थितं भासमानम् । एतैर्विशेषणैः समस्तः स्थितिप्रकरणार्थः सङ्गृह्योक्तः । स्थितिप्रकरणे एवंरूपाया जगत्स्थितेर्वक्तुमिष्टत्वात् ॥ ंोट्_४,१.१६ ॥ श्रीरामः पृच्छति महाकल्पक्षये दृश्यमास्ते बीज इवाङ्कुरम् । परे भूय उदेत्येतत्तत एवेति किं वद ॥ ंो_४,१.१७ ॥ इति किमेतदेव किमस्ति अथ वा नेति । वद कथय ॥ ंोट्_४,१.१७ ॥ एवम्बोधाः किमज्ञाः स्युरुत तज्ज्ञा इति स्फुटम् । यथावद्भगवन् ब्रूहि सर्वसंशयशान्तये ॥ ंो_४,१.१८ ॥ एवं पूर्वश्लोकोक्तरूपः । बोधः येषाम् । ते । तादृशाः ॥ ंोट्_४,१.१८ ॥ श्रीवसिष्ठ उत्तरमाह इदं बीजेऽङ्कुर इव दृश्यमास्ते महाक्षये । ब्रूते यः परमज्ञत्वमेतत्तस्यातिशैशवात् ॥ ंो_४,१.१९ ॥ अतिशैशवाततिमौर्ख्यात् ॥ ंोट्_४,१.१९ ॥ हेतुकथनमवश्योपदेश्यत्वेनाह स्पर्शे किं तदसम्बद्धं कथमेतदवास्तवम् । विपरीतो बोध एष वक्तुः श्रोतुश्च मौर्ख्यकृत् ॥ ंो_४,१.२० ॥ असम्बद्धं तत्किं भवति । न किञ्चिदपीत्यर्थः । एततवास्तवमसम्बद्धम् । कथं भवति । स्पर्शे आमुखे इत्य् । एष विपरीतः बोधः वक्तुः श्रोतुश्च मौर्ख्यकृत्भवति । एततनेन हेतुना असम्बद्धं भवति इति वक्तुः वक्तव्यम् । अनेन हेतुना एततवास्तवं न भवतीति श्रोतुः पर्यनुयोगः कार्यः । अन्यथा तयोः मौर्ख्यमेवेति भावः ॥ ंोट्_४,१.२० ॥ फलितमाह बीजकालेऽङ्कुर इव जगदास्ते इतीह या । बुद्धिः सासत्प्रलापार्था मूढा शृणु कथं किल ॥ ंो_४,१.२१ ॥ अत इत्यध्याहार्यम् । असत्प्रलापार्था असत्प्रलापस्येवार्थः यस्याः । सा । असत्प्रलापरूपेति यावत् । मूढा जडा । कथं केन हेतुना । हेत्वकथने ममापि मौर्ख्यापातः स्यादिति भावः ॥ ंोट्_४,१.२१ ॥ बीजं भवेत्स्वयं दृश्यं चित्तादीन्द्रियगोचरः । वटधानादि धान्यादि युक्तमत्राङ्कुरोद्भवः ॥ ंो_४,१.२२ ॥ चित्तादीन्द्रियगोचरः । अत एव दृश्यं वटधानादि तथा धान्यादि बीजं भवेत् । अत्र धानादिरूपे तथा धान्यादिरूपे बीजे । अङ्कुरोद्भवः युक्तं भवति ॥ ंोट्_४,१.२२ ॥ मनःषष्ठेन्द्रियातीतं यः खादतितरामपि । बीजं तद्भवितुं शक्तं स्वयम्भूर्जगतः कथम् ॥ ंो_४,१.२३ ॥ मनः षष्ठं येषाम् । तानि मनःषष्ठानि । तादृशानि च तानीन्द्रियाणि । तान्यतीतम् । स्वयम्भूः चिन्मात्रम् ॥ ंोट्_४,१.२३ ॥ आकाशादपि सूक्ष्मस्य परस्य परमात्मनः । सर्वाक्षानुपलभ्यस्य कीदृशी बीजता कथम् ॥ ंो_४,१.२४ ॥ स्पष्टम् ॥ ंोट्_४,१.२४ ॥ सत्सूक्ष्ममसदाभासमसदेव ह्यतद्दृशाम् । कीदृशी बीजता तत्र बीजाभावे कुतोऽङ्कुरः ॥ ंो_४,१.२५ ॥ सतपि यत्चिन्मात्राख्यं वस्तु । अतद्दृशां न तस्मिन् दृक्येषाम् । ते । तादृशाम् । चिन्मात्रज्ञानरहितानामिति यावत् । असदेव भवति । अत्र हेतुमाह । असदाभासमिति । असद्वताभासः यस्य । तत् । तादृशम् । अत्रापि हेतुत्वेन विशेषणमाह सूक्ष्ममिति । सूक्ष्मत्वादसदाभासत्वम् । असदाभासत्वादसत्त्वमित्यर्थः । तत्र तस्मिन् चिन्मात्राख्ये वस्तुनि । बीजता कीदृशी भवति । न भवति । स्थूलस्यैव बीजत्वयोगादित्यर्थः । बीजाभावे अङ्कुरः जगदाख्यः अङ्कुरः । कुतः भवति । नैव युक्त इत्यर्थः ॥ ंोट्_४,१.२५ ॥ गगनाङ्गादपि स्वच्छे शून्ये तत्र परे पदे । कथं सन्ति जगन्मेरुसमुद्रगगनादयः ॥ ंो_४,१.२६ ॥ गगनाङ्गात्स्वच्छत्वं जाड्याख्यमालिन्यरहितत्वात्ज्ञेयम् ॥ ंोट्_४,१.२६ ॥ नकिञ्चिद्यत्कथं किञ्चित्तत्रास्ते वस्त्ववस्तुनि । अस्ति चेत्तत्कथं तत्र विद्यमानं न दृश्यते ॥ ंो_४,१.२७ ॥ यत्चिन्मात्रम् । बाह्यान्तःकरणातीतत्वात्नकिञ्चिद्भवति । तत्र तस्मिन् । अवस्तुनि नकिञ्चिद्रूपे चिन्मात्रे । इन्द्रियगम्यत्वेन किञ्चिद्रूपं वस्तु जगदाख्यं वस्तु । कथमास्ते । तथापि चेतस्ति तत्र विद्यमानं कथं न दृश्यते । तर्हि विद्यमानत्वमेवास्य युक्तं स्यादिति भावः । ननु जगतः विद्यमानत्वं कथं नास्ति इति चेत् । विचारासहत्वान्नास्तीति ब्रूमः । यो हि विचारं सहते तस्यैव विद्यमानत्वम् । यथा रज्जुसर्पापेक्षया रज्जोः ॥ ंोट्_४,१.२७ ॥ नकिञ्चिदात्मनः किञ्चित्कथमेति कुतोऽथ वा । शून्यरूपाद्घटाकाशाज्जातोऽद्रिः क्व कुतः कदा ॥ ंो_४,१.२८ ॥ पूर्वश्लोकव्याख्ययैव गतार्थोऽयं श्लोकः ॥ ंोट्_४,१.२८ ॥ प्रतिपक्षे कथं किञ्चिदास्ते छायातपे यथा । कथमास्ते तमो भानौ कथमास्ते हिमेऽनलः ॥ ंो_४,१.२९ ॥ किञ्चित्किमपि । प्रतिपक्षे कथमास्ते । प्रतिपक्षे अवस्थानं कस्यापि न युक्तमिति भावः । विशेषेणैतदेव दर्शयति च्छायेत्यादि ॥ ंोट्_४,१.२९ ॥ मेरुरास्ते कथमणौ कुतः किञ्चिदनाकृतौ । तदतद्रूपयोरैक्यं क्व च्छायातपयोरिव ॥ ंो_४,१.३० ॥ दृष्टान्तानि विशेषतयोक्त्वा दार्ष्टान्तिकमपि तत्तयैव कथयति कुतः किञ्चिदिति । किञ्चितिन्द्रियगम्यत्वात्किञ्चिद्रूपं जगत् । अनाकृतौ इन्द्रियागम्यत्वेनाकाररहिते चिन्मात्रे । कुतः न युक्तमेतदिति भावः । नन्वेकत्वे न बीजाङ्कुरत्वमनयोरस्तीत्यत्राह तदतदिति । तदतद्रूपयोः अत्यन्तभिन्नयोः ॥ ंोट्_४,१.३० ॥ साकारे वटधानादावङ्कुरोऽस्तीति युक्तिमत् । अनाकारे महाकारं जगदस्तीत्ययुक्तिमत् ॥ ंो_४,१.३१ ॥ स्पष्टम् ॥ ंोट्_४,१.३१ ॥ देशान्तरे यच्च नरान्तरे च बुद्ध्यादिसर्वेन्द्रियशक्त्यदृश्यम् । नास्त्येव तत्तद्विधबुद्धिबोधे नकिञ्चिदित्येव तदुच्यते च ॥ ंो_४,१.३२ ॥ देशान्तरे च अस्मिन् देशे अन्यस्मिन् देशे च । नरान्तरे च त्वयि अन्येषु नरेषु च । कालस्याप्येतदुपलक्षणम् । तेन कालान्तरे चेत्यपि ज्ञेयम् । तेनायमर्थः । बुद्ध्यादीनां सर्वेन्द्रियशक्तीनां चादृश्यं यत्वस्तु । देशान्तरे नरान्तरे च तत्तद्विधबुद्धिबोधे । तत्तद्विधाः तत्तत्प्रकाराः । याः बुद्धयः । तासां यः बोधः । तत्र । नास्ति । तद्विषयो नास्तीति यावत् । पण्डितैः तत्नकिञ्चिदित्येव उच्यते कथ्यते ॥ ंोट्_४,१.३२ ॥ ततः किमित्यत्राह कार्यस्य तत्कारणतां प्रयातम् वक्तीति यस्तस्य विमूढबोधः । कैर्नाम तत्कार्यमुदेति तस्मात् स्वैः कारणौघैः सहकारिरूपैः ॥ ंो_४,१.३३ ॥ तत्नकिञ्चिदिति नामार्हं वस्तु । कार्यस्य कारणतां प्रयातं भवति । इति यः वक्ति । तस्य विमूढबोधः भवति । नासौ तज्ज्ञ इति भावः । सहकारिकारणाभावेन तस्य कारणतां निवारयति तत्कार्यमिति । स्वैः निजैः । सर्वस्य नकिञ्चिद्रूपचिन्मात्रस्वरूपत्वेन सहकारिकारणसत्ता नास्तीति भावः ॥ ंोट्_४,१.३३ ॥ एतेन सिद्धं सिद्धान्तं सर्गान्तश्लोकेन कथयति दुर्बुद्धिभिः कारणकार्यभावं सङ्कल्पितं दूरतरे व्युदस्य । यदेव तत्सत्यमनादिमध्यं जगत्तदेव स्थितमित्यवेहि ॥ ंो_४,१.३४ ॥ दुर्बुद्धिभिः कुबुद्धियुक्तैः । सङ्कल्पितं स्वसङ्कल्पेनोल्लिखितम् । न तु परमार्थसन्तं कार्यकारणभावं जगद्ब्रह्मविषयं कार्यकारणभावम् । व्युदस्य परित्यज्य । त्वमिति अवेहि सत्यतया निश्चिनु इति । किमिति । अनादिमध्यमादिमध्ययोरपि साक्षित्वेन स्थितत्वातादिमध्यरहितम् । यतेव । तत्प्रसिद्धम् । सत्यं सत्यभूतं चिन्मात्राख्यं वस्तु अस्ति । तदेव न तु तत्कार्यम् । जगतस्ति । इति शिवम् ॥ ंोट्_४,१.३४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां जन्यजनकनिराकरणं स्थितिप्रकरणे प्रथमः सर्गः ॥१॥ ********************************************************************* वसिष्ठ उवाच अथैतदभ्युपगमे वच्मि वेद्यविदां वर । समस्तकलनातीते महाचिद्व्योम्नि निर्मले ॥ ंो_४,२.१ ॥ जगदाद्यङ्कुरस्तत्र यद्यस्ति तदसौ तदा । कैरिवोदेति कथय कारणैः सहकारिभिः ॥ ंो_४,२.२ ॥ हे वेद्यविदां वर । अथाहमेतत्बीजत्वम् । अङ्गीकृत्य । वच्मि कथयामि । किं वक्षीत्यपेक्षायामाह समस्तेति । समस्तकलनातीते सर्वकार्यकारणभावादिकलनातीते । निर्मले चेत्याख्यमलादूषिते । सहकारिभिः कारणैः सहकारिकारणैः । युग्मम् ॥ ंोट्_४,१२ ॥ सहकारिकारणानामभावे वाङ्कुरोद्गतिः । वन्ध्याकन्या च दृष्टेह न कदाचन केनचित् ॥ ंो_४,२.३ ॥ वाशब्दः पादपूरणार्थः । चशब्दः समुच्चये ॥ ंोट्_४,१.३ ॥ सहकारिकारणानामभावे यच्च वोदितम् । मूलकारणमेवात्मा तत्स्वभावे स्थितं तथा ॥ ंो_४,२.४ ॥ यत्च जगदाख्यं कार्यम् । सहकारिकारणानामभावे उदितं कारणातन्यतया प्रादुर्भूतं भवति । तत्तथा तेन प्रकारेण । स्वभावे स्वस्वरूपे । स्थितम् । मूलकारणमात्मा मूलकारणभूत आत्मैव भवति । न कार्यम् । सहकारिकारणसम्भव एव कार्यत्वदर्शनात् ॥ ंोट्_४,१.४ ॥ सर्गादौ सर्गरूपेण ब्रह्मैवात्मनि तिष्ठति । यथास्थितमनाकारं क्व जन्यजनकक्रमः ॥ ंो_४,२.५ ॥ सर्गादौ चेत्योन्मुखतासमये ॥ ंोट्_४,१.५ ॥ अथ पृथ्व्यादयोऽन्ये वा कुतोऽप्यागत्य कुर्वते । सहकारिकारणत्वं तत्पूर्वैवात्र दूषणा ॥ ंो_४,२.६ ॥ पूर्वा दूषणेति । सर्गागमे या दूषणा अस्ति सा एव सहकार्यभिमतपृथ्व्याद्यागमेऽप्यस्तीत्यर्थः ॥ ंोट्_४,१.६ ॥ फलितमाह तस्मात्परे जगच्छान्तमास्ते तत्सहकारणैः । विना प्रसरतीत्युक्तिर्बालस्य न विपश्चितः ॥ ंो_४,२.७ ॥ तस्मात्ततो हेतोः । जगत्परे शान्तं बीजत्वेन स्थितमस्ति । सहकारणैः सहकारिकारणैः विना । तत्प्रसरति इत्युक्तिः बालस्य मूर्खस्य । भवति । विपश्चितः पण्डितस्य । न भवति ॥ ंोट्_४,१.७ ॥ परमफलितं कथयति तस्माद्राम जगन्नासीन्न चास्ति न भविष्यति । चेतनाकाशमेवाच्छं कचतीत्थमिवात्मनि ॥ ंो_४,२.८ ॥ हे राम । तस्मात्जगत्नासीत्न चास्ति न च भविष्यति सहकारिकारणाभावात् । पुनः किमेतत्स्फुरतीत्य् । अत्राह चेतनेति । अच्छं चेत्यरहितम् । चेतनाकाशं चिन्मात्राकाशम् । आत्मनि इत्थं जगद्रूपेण । स्फुरति इव कचति इव ॥ ंोट्_४,१.८ ॥ अत्यन्ताभाव एवास्य जगतो विद्यते यदा । तदा ब्रह्मेदमखिलमिति सद्राम नान्यथा ॥ ंो_४,२.९ ॥ अन्यथा असत् ॥ ंोट्_४,१.९ ॥ ननु प्रागभावादिरेव कथं नात्रास्ति । किमत्यन्ताभावेनेत्य् । अत्राह पूर्वप्रध्वंसनान्योऽन्याभावैर्यदुपशाम्यति । अशान्तमेव तच्चित्ते न शाम्यत्येव तद्यतः ॥ ंो_४,२.१० ॥ पूर्वप्रध्वंसनान्योऽन्याभावैः प्रागभावेन प्रध्वंसाभावेन अन्योऽन्याभावेन च । यत्शाम्यति ततशान्तमेव भवति । यतः तत्वस्तु । चित्ते मनसि । न शाम्यति संस्कारत्वेन स्थितत्वात् । तस्मादत्यन्ताभाव एवात्र युक्त इति भावः ॥ ंोट्_४,१.१० ॥ अत्यन्ताभावमेवातो जगद्दृश्यस्य सर्वदा । वर्जयित्वेतरा युक्तिर्नास्त्येवानर्थसङ्क्षये ॥ ंो_४,२.११ ॥ जगद्दृश्यस्यात्यन्ताभाव एव जगद्रूपस्यानर्थस्य क्षये युक्तिः नान्यत्किञ्चिदिति पिण्डार्थः ॥ ंोट्_४,१.११ ॥ चिदाकाशस्य बोधोऽयं जगदादीति यत्स्थितम् । अयं सोऽहमिदं रूपालोकचित्तकलाद्यपि ॥ ंो_४,२.१२ ॥ इदं जगदादीति यत्स्थितमस्ति । अयं चिदाकाशस्य बोध एव भवति । नान्यत् । आदिशब्देन प्रलयस्य ग्रहणम् । जगदादीति विशेषेण कथयति अयं सोऽहमित्यादि । चित्तकला मनस्कारः ॥ ंोट्_४,१.१२ ॥ इदमर्कादि पृथ्व्यादि तथेदं वत्सरादि च । अयं कल्पः क्षणश्चायमिमे मरणजन्मने ॥ ंो_४,२.१३ ॥ स्पष्टम् ॥ ंोट्_४,१.१३ ॥ अयं कल्पान्तसंरम्भो महाकल्पान्त एष सः । अयं स सर्गप्रारम्भो भावाभावक्रमस्त्वसौ ॥ ंो_४,२.१४ ॥ स्पष्टम् ॥ ंोट्_४,१.१४ ॥ लक्षाणीमानि कल्पानामिमा ब्रह्माण्डकोटयः । इमे ब्रह्मेन्द्रनिचया इमा विष्ण्वादिशक्तयः ॥ ंो_४,२.१५ ॥ विष्ण्वादिरूपाः शक्तयः विष्ण्वादिशक्तयः ॥ ंोट्_४,१.१५ ॥ एते चेमे परिणता इमे भूय उपागताः । इमानि धिष्ण्यजालानि देशकालकला इमाः ॥ ंो_४,२.१६ ॥ एते इमे परिणताः मृताः ॥ ंोट्_४,१.१६ ॥ उपसंहारं करोति महाचित्परमाकाशमनावृत्तमनन्तकम् । यथा पूर्वं स्थितं शान्तमित्येवं कचति स्वयम् ॥ ंो_४,२.१७ ॥ अनावृत्तमावृत्तिरहितम् । अनन्तकमन्तरहितम् । शान्तं स्वस्मिन् स्वरूपे एव सर्वदा निलीनम् । महाचित्परमाकाशम् । इति अनेन प्रकारेण । एवं जगद्रूपेण । कचति स्फुरति ॥ ंोट्_४,१.१७ ॥ परमाणुसहस्रांशभास एता महाचितेः । स्वभावभूता एवान्तःस्थिता नायान्ति यान्ति नो ॥ ंो_४,२.१८ ॥ महाचितेः अन्तःस्थिताः । अत एव स्वभावभूताः । परमाणोः यः सहस्रांशः । तत्परिमाणाः भासः दीप्तयः । एताः सर्गपरम्पराः । न आयान्ति नो यान्ति सदा स्थितत्वात् ॥ ंोट्_४,१.१८ ॥ स्वयमन्तश्चमत्कारो यस्समुद्गीर्यते चिता । तत्सर्गभानं भातीदं भारूपं न च भित्तिमत् ॥ ंो_४,२.१९ ॥ चिता चिन्मात्रेण । अन्तःस्थितः यः चमत्कारः स्वरूपपरामर्शरूपः आस्वादः । बहिः समुद्गीर्यते सम्यकुद्गीर्यते । ततिदं समुद्गिरणम् । सर्गभानं भाति । इदं कथम्भूतम् । भारूपं ज्ञानस्वरूपम् । न भित्तिमत्भित्तिरहितम् ॥ ंोट्_४,१.१९ ॥ नोद्यन्ति न च नश्यन्ति नायान्ति न च यान्ति च । महाशिलान्तर्लेखानां सन्निवेश इवाचलाः ॥ ंो_४,२.२० ॥ सर्गा इति शेषः ॥ ंोट्_४,१.२० ॥ इमे सर्गाः प्रस्फुरन्ति स्वतः स्वात्मनि निर्मले । नभसीव नभोभागा निराकारा निराकृतौ ॥ ंो_४,२.२१ ॥ स्वतः स्वभावेन ॥ ंोट्_४,१.२१ ॥ द्रवत्वानीव तोयस्य स्पन्दा इव सदागतेः । आवर्ता इव वाम्भोधेर्गुणिनो वाथवा गुणाः ॥ ंो_४,२.२२ ॥ पूर्वश्लोकदृष्टान्तत्वेनैव योज्यम् ॥ ंोट्_४,१.२२ ॥ विज्ञानघन एवैकमिदमित्थमिव स्थितम् । सोदयास्तमयारम्भमनन्तं शान्तमाततम् ॥ ंो_४,२.२३ ॥ विज्ञानघने ज्ञानैकस्वरूपे चिन्मात्रतत्त्वे । इदं जगत् ॥ ंोट्_४,१.२३ ॥ सहकार्यादिहेतूनामभावे शून्यता जगत् । स्वयम्भूर्जायते चेति किलोन्मत्तकफूत्कृतम् ॥ ंो_४,२.२४ ॥ उन्मत्तकफूत्कृतमुन्मत्तप्रलापः ॥ ंोट्_४,१.२४ ॥ सर्गान्तश्लोकेन फलितं कथयति प्रशान्तसर्वार्थकलाकलङ्को निरस्तनिःशेषविकल्पतल्पः । चिराय विद्रावितदीर्घनिद्रो भवाभयो भूषितभूः प्रबुद्धः ॥ ंो_४,२.२५ ॥ तस्मादित्यध्याहार्यम् । तस्मात्त्वं भव । कीदृश इत्यपेक्षायां विशेषणान्याह प्रशान्त इत्यादि । प्रशान्तः ब्रह्मैकताविज्ञानेन प्रकर्षेण शान्तः । सर्वार्थरूपः कलङ्कः यस्य । सः । निरस्ता निःशेषविकल्पा एव तल्पं येन । सः । विद्राविता दीर्घनिद्रा अविद्यारूपा दीर्घनिद्रा येन । सः । अत एव प्रबुद्धः सम्यग्ज्ञानयुक्तः । अतः अभयः भयरहितः । इति शिवम् ॥ ंोट्_४,१.२५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वितीयः सर्गः ॥२॥ ********************************************************************* श्रीरामः पृच्छति महाप्रलयसर्गादौ प्रथमोऽसौ प्रजापतिः । स्मृत्यात्मा जायते सर्गे स्मृत्यात्मैव ततो जगत् ॥ ंो_४,३.१ ॥ प्रथमः प्रजापतिः शुद्धमनोरूपः ब्रह्मा । स्मृत्यात्म स्मृतिरूपम् ॥ ंोट्_४,३.१ ॥ श्रीवसिष्ठः उत्तरं कथयति महाप्रलयसर्गादावेवमेतद्रघूद्वह । स्मृत्यात्मैव भवत्यादौ प्रथमोऽसौ प्रजापतिः ॥ ंो_४,३.२ ॥ एवमेततेतत्सत्यमेवेत्यर्थः ॥ ंोट्_४,३.२ ॥ तत्सङ्कल्पात्म च जगत्स्मृत्यात्मैवमिदं ततः । इति सङ्कल्पनगरं स्थितं पूर्वप्रजापतेः ॥ ंो_४,३.३ ॥ तत्सङ्कल्पात्म स्मृतिस्वरूपप्रजापतिस्वरूपम् ॥ ंोट्_४,३.३ ॥ इति स्थितेऽपि सा राम तस्य पूर्वप्रजापतेः । स्थितिर्न सम्भवत्येव नभसीव महाद्रुमः ॥ ंो_४,३.४ ॥ सा स्मृतिरूपा ॥ ंोट्_४,३.४ ॥ श्रीरामः पृच्छति न सम्भवति किं ब्रह्मन् सर्गादौ प्राक्तनी स्मृतिः । महाप्रलयसम्मोहैर्नश्यति प्राक्स्मृतिः कथम् ॥ ंो_४,३.५ ॥ महाप्रलयसम्मोहैः महाप्रलयकृताभिः मूर्च्छाभिः ॥ ंोट्_४,३.५ ॥ श्रीवसिष्ठ उत्तरं कथयति प्राङ्महाप्रलये प्राज्ञ पूर्वे ब्रह्मादयः पुरा । किल निर्वाणमायातास्तेऽवश्यं ब्रह्मतां गताः ॥ ंो_४,३.६ ॥ निर्वाणं मुक्तिम् ॥ ंोट्_४,३.६ ॥ प्राक्तन्याः कः स्मृतेस्स्मर्ता तस्मात्कथय सुव्रत । स्मृतिर्निर्मूलतां याता स्मर्तुर्मुक्ततया यतः ॥ ंो_४,३.७ ॥ स्पष्टम् ॥ ंोट्_४,३.७ ॥ अतः स्मर्तुरभावे सा स्मृतिः कोदेतु किं कथम् । अवश्यं हि महाकल्पे सर्वे मोक्षैकभागिनः ॥ ंो_४,३.८ ॥ स्पष्टम् ॥ ंोट्_४,३.८ ॥ नानुभूतेऽनुभूते च स्वतश्चिद्व्योम्नि या स्मृतिः । सा जगच्छ्रीरिति प्रौढा दृश्याभावे हि चित्प्रभा ॥ ंो_४,३.९ ॥ स्वतः न तु प्रजापतिरूपग्रहात् । नानुभूते पूर्वाननुभूते विषये । अनुभूते पूर्वमनुभूते विषये । चिद्व्योम्नि या स्मृतिः भवति । सा जगच्छ्रीरिति प्रौढा भवति । न प्रजापतिस्मृतिरिति भावः । कुत एतदित्य् । अत्राह दृश्येति । हि यस्मात् । दृश्याभावे स्मृतिरूपदृश्याभावे । चित्प्रभा एव भवति । न प्रजापतिप्रभा ॥ ंोट्_४,३.९ ॥ अथवालमनया स्मृतिकल्पनया । यतः चित्प्रभैव जगदस्तीत्यभिप्रायेनाह भाति संवित्प्रभैवाच्छमनाद्यन्तावभासिनी । यत्तदेतज्जगदिति स्वयम्भूरिति च स्थितम् ॥ ंो_४,३.१० ॥ अनाद्यन्तावभासिनी सदा भातत्वेनाद्यन्तावभासरहिता । संवित्प्रभा एव अच्छं यत्भाति ततेतत्जगदिति स्थितं भवति । स्वयम्भूरिति च स्थितं भवति । अतः स्मृतेः स्वयम्भुवश्च न कापि सत्तास्तीति भावः ॥ ंोट्_४,३.१० ॥ अनादिकालसंसिद्धं यद्भानं ब्रह्मणो निजम् । स आतिवाहिको देहो विराजो जगदाकृतिः ॥ ंो_४,३.११ ॥ अनादिकालसंसिद्धं सततसिद्धम् । ब्रह्मणः चिन्मात्रतत्त्वस्य । यत्निजं स्वसम्बन्धि । भानं भवति । सः विराजः विराड्रूपस्य प्रजापतेः । आतिवाहिकः देहः भवति । कथम्भूतः । जगदाकृतिः समस्तजगत्स्वरूपः ॥ ंोट्_४,३.११ ॥ परमाणाविदं भाति जगत्सभुवनत्रयम् । देशकालक्रियाद्रव्यदिनरात्रिक्रमान्वितम् ॥ ंो_४,३.१२ ॥ द्रव्यं क्रियाविषयः पदार्थः । परमाण्वन्तस्त्रिभुवनाभानमिन्द्रस्य निर्वाणप्रकरणे वक्ष्यति ॥ ंोट्_४,३.१२ ॥ परमाणुं प्रति ततस्तस्यान्तस्तादृगेव च । भाति भास्वरिताकारं तादृग्गिरिकुलावृतम् ॥ ंो_४,३.१३ ॥ ततः ततो हेतोः । तस्य परमाण्वन्तर्वर्तिनः त्रिभुवनस्य । प्रति परमाणुमन्तः प्रतिपरमाणुमध्ये । तादृकेव न त्वन्यरूपम् । भास्वरिताकारं तादृग्गिरिकुलावृतं तादृशपर्वतसमूहाकुलम् । अर्थात्त्रिभुवनं भाति ॥ ंोट्_४,३.१३ ॥ तत्रापि तादृगाकारमेवं प्रत्यणुमाततम् । दृश्यमाभाति भारूपमेतदङ्ग न वास्तवम् ॥ ंो_४,३.१४ ॥ तत्रापि प्रत्यणुवर्तिनि त्रिभुवनेऽपि । भारूपं ज्ञानस्वरूपम् । फलितमाह एतदिति । हे अङ्ग । अतः एतत्त्रिभुवनम् । वास्तवं परमार्थसत् । न भवति । स्वप्नवद्भारूपत्वात् ॥ ंोट्_४,३.१४ ॥ इत्यस्त्यन्तो न सद्दृष्टेरसद्दृष्टेश्च वा क्वचित् । अस्यास्त्वभ्युदितं बुद्धमबुद्धं प्रति वानघ ॥ ंो_४,३.१५ ॥ इति अनेन प्रकारेण । सद्दृष्टेः चिन्मात्रदृष्टेः । असद्दृष्टेः चेत्यदृष्टेः वा । अन्तोऽवसानम् । नास्ति । अस्याः सद्दृष्टेरसद्दृष्टेश्च । अभ्युदितमभ्युदयः । प्रादुर्भाव इति यावत् । बुद्धं प्रति अबुद्धं प्रति वा भवति । बुद्धं प्रति सद्दृष्टेः अभ्युदयः असद्दृष्टेः अबुद्धं प्रतीति क्रमो ज्ञेयः ॥ ंोट्_४,३.१५ ॥ ननु एका एव भासमाना जगदाख्या दृष्टिरस्ति । तत्कथमुक्तं बुद्धं प्रति सद्दृष्टेरन्तो नास्ति असद्दृष्टेरबुद्धं प्रतीत्य् । आह बुद्धं प्रतीदं ब्रह्मैव केवलं शान्तमव्ययम् । अबुद्धं प्रति तु द्वैतं भासुरं भुवनान्वितम् ॥ ंो_४,३.१६ ॥ इदमेव जगत् । बुद्धस्य सद्दृष्ट्या भाति । अबुद्धस्यासद्दृष्ट्या । यथा एकः रज्जुः बुद्धं प्रति रज्जुतया भाति । अबुद्धं प्रति सर्पतयेति भावः ॥ ंोट्_४,३.१६ ॥ यथेदं भासुरं भाति जगदण्डकजृम्भितम् । तथा कोटिसहस्राणि भान्त्यन्यान्यप्यणावणौ ॥ ंो_४,३.१७ ॥ स्पष्टम् ॥ ंोट्_४,३.१७ ॥ यथा स्तम्भे पुत्रिकान्तस्तस्याश्चाङ्गेषु पुत्रिका । तस्याश्च पुत्रिकास्त्यङ्गे तथा त्रैलोक्यपुत्रिका ॥ ंो_४,३.१८ ॥ त्रैलोक्याख्या पुत्रिका त्रैलोक्यपुत्रिका ॥ ंोट्_४,३.१८ ॥ न भिन्ना न च सङ्ख्येया यथाद्रौ परमाणवः । तथा ब्रह्मबृहन्मेरौ त्रैलोक्यपरमाणवः ॥ ंो_४,३.१९ ॥ स्पष्टम् ॥ ंोट्_४,३.१९ ॥ सूर्यौघांशुष्वसङ्ख्यातुं शक्यन्ते लघवोऽणवः । नानाद्यन्ताश्चिदादित्ये त्रैलोक्यपरमाणवः ॥ ंो_४,३.२० ॥ स्पष्टम् ॥ ंोट्_४,३.२० ॥ यथाणवो वहन्त्यर्कदीप्तिष्वप्सु रजःसु च । तथा वहन्ते चिद्व्योम्नि त्रैलोक्यपरमाणवः ॥ ंो_४,३.२१ ॥ स्पष्टम् ॥ ंोट्_४,३.२१ ॥ शून्यानुभवमात्रात्म भूताकाशमिदं यथा । सर्गानुभवमात्रात्म चिदाकाशमिदं तथा ॥ ंो_४,३.२२ ॥ शून्यस्य यः अनुभवः । तन्मात्रमात्मा स्वरूपं यस्य । तत् ॥ ंोट्_४,३.२२ ॥ सर्गस्तु सर्गशब्दार्थतया बुद्धो नयत्यधः । स ब्रह्मशब्दार्थतया बुद्धः श्रेयो भवत्यलम् ॥ ंो_४,३.२३ ॥ श्रेयः मोक्षरूपम् ॥ ंोट्_४,३.२३ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति विज्ञानात्मा शासिता विश्वबीजम् ब्रह्मैवाद्यं स्वं चिदाकाशमात्रम् । तस्माज्जातं यत्तदेवेति वेद्यं विद्धि स्वान्तर्बोधसम्बोधमात्रम् ॥ ंो_४,३.२४ ॥ विज्ञानात्मा ज्ञानैकस्वरूपः । शासिता प्रेरकः । स्वं सर्वेषामात्मत्वेन स्थितम् । चिदाकाशमात्रमाद्यं ब्रह्मैव विश्वबीजं विश्वस्य बीजमिव बीजम् । न तु साक्षाद्बीजम् । तस्य समनन्तरमेव निराकृतत्वात् । भवति । तस्मात्तादृशात्ब्रह्मणः । यत्जातं भवति । तत्तदेव भवति । इति अतो हेतोः । त्वं वेद्यं विदिक्रियाविषयं भावजातम् । स्वान्तः स्वमनसि । बोधस्य यः सम्बोधः स्वपरामर्शः । तन्मात्रं विद्धि जानीहि । लिङ्गसङ्करोऽलिङ्गत्वद्योतनार्थः । इति शिवम् ॥ ंोट्_४,३.२४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे तृतीयः सर्गः ॥३॥ ********************************************************************* इन्द्रियग्रामसङ्ग्रामसेतुना भवसागरः । तीर्यते नेतरेणेह केनचिन्नाम कर्मणा ॥ ंो_४,४.१ ॥ इन्द्रियग्रामेणेन्द्रियसमूहेन । यः सङ्ग्रामः । स एव सेतुः । तेन ॥ ंोट्_४,४.१ ॥ शास्त्रसत्सङ्गमाभ्यासैः सविवेको जितेन्द्रियः । अत्यन्ताभावमेवास्य दृश्यौघस्यावगच्छति ॥ ंो_४,४.२ ॥ अवगच्छति जानाति ॥ ंोट्_४,४.२ ॥ एतत्ते कथितं सर्वं स्वरूपं रूपिणां वर । संसारसागरश्रेण्यो यथायान्ति प्रयान्ति च ॥ ंो_४,४.३ ॥ हे रूपिणां वर । मया ते । अर्थात्संसारसागरश्रेणीनां सर्वं स्वरूपम् । कथितम् । तथा संसारसागरश्रेण्याः यथायान्ति प्रयान्ति च । तदपि कथितम् ॥ ंोट्_४,४.३ ॥ बहुनात्र किमुक्तेन मनः कर्मद्रुमाङ्कुरम् । तस्मिंश्छिन्ने जगच्छाखश्छिन्नः कर्मतरुर्भवेत् ॥ ंो_४,४.४ ॥ कर्मतरुः कथम्भूतः । जगन्त्येव शाखाः यस्य । सः । तादृशः ॥ ंोट्_४,४.४ ॥ मनः सर्वमिदं राम तस्मिन्नन्तश्चिकित्सिते । चिकित्सितोऽयं सकलो जन्मजालमयो भवः ॥ ंो_४,४.५ ॥ स्पष्टम् ॥ ंोट्_४,४.५ ॥ तदेतज्जायते लोके मनो मललवाकुलम् । मनसो व्यतिरेकेण देहः क्व किल दृश्यते ॥ ंो_४,४.६ ॥ जायते जगत्तया उत्पद्यते । मललवाकुलं सङ्कल्पाख्यमललेशाकुलम् ॥ ंोट्_४,४.६ ॥ दृश्यात्यन्तासम्भवनमृते नान्येन हेतुना । मनःपिशाचः प्रशमं याति कल्पशतैरपि ॥ ंो_४,४.७ ॥ दृश्यात्यन्तासम्भवनं दृश्यात्यन्ताभावम् ॥ ंोट्_४,४.७ ॥ एतच्च सम्भवत्येव मनोव्याधिचिकित्सने । दृश्यात्यन्तासम्भवात्म परमौषधमुत्तमम् ॥ ंो_४,४.८ ॥ मनोव्याधिचिकित्सने कार्ये । सम्भवत्येव प्रभवत्येव ॥ ंोट्_४,४.८ ॥ मनो मोहमुपादत्ते म्रियते जायते पुनः । कस्यचित्तु प्रसादेन बध्यते मुच्यते पुनः ॥ ंो_४,४.९ ॥ कस्यचिदनाख्यस्य चिन्मात्रस्य ॥ ंोट्_४,४.९ ॥ स्फुरतीत्थं जगत्सर्वं चित्ते मननमन्थरे । शून्य एवाम्बरे स्फारे गन्धर्वाणां पुरं यथा ॥ ंो_४,४.१० ॥ मननमन्थरे मननभरिते ॥ ंोट्_४,४.१० ॥ मनसीदं जगत्कृत्स्नं स्फारं स्फुरति चास्ति च । पुष्पगुच्छ इवामोदस्तत्स्थस्तस्मादिवेतरः ॥ ंो_४,४.११ ॥ स्फारं विस्तीर्णम् ॥ ंोट्_४,४.११ ॥ यथा तिलकणे तैलं गुणो गुणिनि वा यथा । यथा धर्मिणि वा धर्मस्तथेदं मनसि स्थितम् ॥ ंो_४,४.१२ ॥ स्पष्टम् ॥ ंोट्_४,४.१२ ॥ यथाम्भसि तरङ्गौघ इन्दौ द्वीन्दुभ्रमो यथा । मृगतृष्णा यथा तापे संसारश्चित्तके तथा ॥ ंो_४,४.१३ ॥ स्पष्टम् ॥ ंोट्_४,४.१३ ॥ रश्मिजालं यथा सूर्ये यथालोकश्च तेजसि । यथौष्ण्यं चित्रभानौ च मनसीदं तथा जगत् ॥ ंो_४,४.१४ ॥ स्पष्टम् ॥ ंोट्_४,४.१४ ॥ शैत्यं यथैव तुहिने यथा नभसि शून्यता । यथा चञ्चलता वायौ मनसीदं तथा जगत् ॥ ंो_४,४.१५ ॥ स्पष्टम् ॥ ंोट्_४,४.१५ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति मनो जगज्जगदखिलं तथा मनः परस्परं त्वविरहितं सदैव हि । तयोर्द्वयोर्मनसि निरन्तरं क्षते क्षतं जगन्न तु जगति क्षते मनः ॥ ंो_४,४.१६ ॥ निरन्तरमतिशयेन । तयोः द्वयोरिति निर्धारणे षष्ठी । तस्मान्मन एव सम्यग्ज्ञानाद्युपायेन नाशनीयमिति भावः । इति शिवम् ॥ ंोट्_४,४.१६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे चतुर्थः सर्गः ॥४॥ ********************************************************************* श्रीरामः पृच्छति भगवन् सर्वधर्मज्ञ पूर्वापरविदां वर । अयं मनसि संसारः स्फारः कथमिव स्थितः ॥ ंो_४,५.१ ॥ मनसि परमाणुरूपे मनसि । स्फारः विस्तीर्णः ॥ ंोट्_४,५.१ ॥ यथायं मनसि स्फार आरम्भः स्फुरति स्फुटम् । दृष्टान्तदृष्ट्या स्फुटया तथा कथय मेऽनघ ॥ ंो_४,५.२ ॥ आरम्भः जगदाख्य आरम्भः ॥ ंोट्_४,५.२ ॥ श्रीवसिष्ठ उत्तरं कथयति यथैन्दवानां विप्राणां जगन्त्यवपुषामपि । स्थितानि जातदार्ढ्यानि मनसीदं तथा स्थितम् ॥ ंो_४,५.३ ॥ अवपुषां मृतत्वेन शरीररहितानाम् ॥ ंोट्_४,५.३ ॥ लवणस्य यथा राज्ञश्चेन्द्रजालाकुलाकृतेः । चण्डालत्वमनुप्राप्तं तथेदं मनसि स्थितम् ॥ ंो_४,५.४ ॥ इन्द्रजालेन ऐन्द्रजालिकप्रयुक्तेनेन्द्रजालेनाकुला आकृतिर्यस्य । सः ॥ ंोट्_४,५.४ ॥ भार्गवस्य चिरं कालं स्वर्गभोगबुभुक्षया । भोगेश्वरत्वं च यथा तथेदं मनसि स्थितम् ॥ ंो_४,५.५ ॥ भार्गवस्य शुक्रस्य ॥ ंोट्_४,५.५ ॥ श्रीरामः पृच्छति भगवन् भृगुपुत्रस्य स्वर्गभोगबुभुक्षया । कथं भोगाधिनाथत्वं संसारित्वं बभूव च ॥ ंो_४,५.६ ॥ भोगाधिनाथत्वं किं संसारित्वं संसारभावः ॥ ंोट्_४,५.६ ॥ श्रीवसिष्ठः उत्तरमाह शृणु राम पुरा वृत्तं संवादं भृगुकालयोः । सानौ मन्दरशैलस्य तमालविटपाकुले ॥ ंो_४,५.७ ॥ स्पष्टम् ॥ ंोट्_४,५.७ ॥ पुरा मन्दरशैलस्य सानौ कुसुमसङ्कुले । अतप्यत तपो घोरं कस्मिंश्चिद्भगवान् भृगुः ॥ ंो_४,५.८ ॥ स्पष्टम् ॥ ंोट्_४,५.८ ॥ तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः । शुक्रः सकलचन्द्राभः प्रकाश इव भास्करम् ॥ ंो_४,५.९ ॥ स्पष्टम् ॥ ंोट्_४,५.९ ॥ भृगुर्वरवने तस्मिन् समाधावेव संस्थितः । सर्वकालं समुत्कीर्णो वनोपलतलादिव ॥ ंो_४,५.१० ॥ आसीदित्यध्याहार्यम् ॥ ंोट्_४,५.१० ॥ शुक्रः कुसुमशय्यासु कलधौताब्जिनीषु च । मन्दारतरुदोलासु बालोऽरमत लीलया ॥ ंो_४,५.११ ॥ रमणे हेतुमाह बाल इति ॥ ंोट्_४,५.११ ॥ विद्याविद्यादृशोर्मध्ये शुक्रो प्राप्तमहापदः । त्रिशङ्कुरिव रोदोऽन्तरवर्तत तदा किल ॥ ंो_४,५.१२ ॥ रोदोऽन्तः रोदस्योः द्व्यावापृथिव्योर् । अन्तः मध्ये ॥ ंोट्_४,५.१२ ॥ निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ । अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः ॥ ंो_४,५.१३ ॥ स्पष्टम् ॥ ंोट्_४,५.१३ ॥ ददर्शाप्सरसं तत्र गच्छन्तीं नभसः पथा । क्षीरोदमध्यलुलितां लक्ष्मीमिव जनार्दनः ॥ ंो_४,५.१४ ॥ अप्सरसं विशिनष्टि मन्दारमाल्यवलितां मन्दानिलचलालकाम् । हारिझाङ्कारिगमनां सुगन्धितनभोऽनिलाम् ॥ ंो_४,५.१५ ॥ स्पष्टम् ॥ ंोट्_४,५.१५ ॥ लावण्यपादपलतां मदघूर्णितलोचनाम् । अमृतीकृततद्देशां देहेन्दूदयकान्तिभिः ॥ ंो_४,५.१६ ॥ स्पष्टम् ॥ ंोट्_४,५.१६ ॥ कान्तामालोक्य तस्याभूदुल्लासतरलं मनः । दृष्टे निर्मलपूर्णेन्दौ वपुरम्बुनिधेरिव ॥ ंो_४,५.१७ ॥ स्पष्टम् ॥ ंोट्_४,५.१७ ॥ सर्गान्तश्लोकेन सुरवधूत्वमस्य कथयति मनसिजेषुशताहतमाशये स परिरुध्य मनस्तदनूशनाः । विगलितेतरवृत्तितयात्मना सुरवधूमय एव बभूव सः ॥ ंो_४,५.१८ ॥ आशये हृद्देशे । परिरुध्य अन्याभ्यः वृत्तिभ्यः बद्ध्वा । इति शिवम् ॥ ंोट्_४,५.१८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चमः सर्गः ॥५॥ ********************************************************************* अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षणः । आरब्धवान्मनोराज्यमिदमेकः किलोशनाः ॥ ंो_४,६.१ ॥ उशनाः शुक्रः ॥ ंोट्_४,६.१ ॥ एषा हि ललना व्योम्नि सहस्रनयनालये । सम्प्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम् ॥ ंो_४,६.२ ॥ सहस्रनयनालये स्वर्गे ॥ ंोट्_४,६.२ ॥ इमे ते मृदुमन्दारकुसुमोत्तंससुन्दराः । द्रवत्कनकनिःष्यन्दविलासिवपुषः सुराः ॥ ंो_४,६.३ ॥ स्पष्टम् ॥ ंोट्_४,६.३ ॥ इमास्ता लोचनोल्लाससृष्टनीलाब्जवृष्टयः । मुग्धा हासविलासिन्यः कान्ता हरिणदृष्टयः ॥ ंो_४,६.४ ॥ स्पष्टम् ॥ ंोट्_४,६.४ ॥ इमे ते कौस्तुभोद्द्योता अन्योऽन्यप्रतिबिम्बिताः । विश्वरूपोपमाकारा मरुतो मत्तकाशिनः ॥ ंो_४,६.५ ॥ विश्वरूपस्य विष्णोः । समः आकारः येषाम् । ते । मरुतो देवविशेषाः ॥ ंोट्_४,६.५ ॥ ऐरावणकटामोदविरक्तमधुपश्रुताः । इमास्ताः काकलीगीता गीर्वाणगणगीतयः ॥ ंो_४,६.६ ॥ काकलीगीताः काकलीगीताख्याः ॥ ंोट्_४,६.६ ॥ इयं सा कनकाम्भोजचरद्वैरिञ्चसारसा । मन्दाकिनीतटोद्यानविश्रान्तसुरनायिका ॥ ंो_४,६.७ ॥ स्पष्टम् ॥ ंोट्_४,६.७ ॥ एते ते यमचन्द्रेन्द्रसूर्यानिलजलानलाः । लोकपालास्तनूद्द्योतकीर्णदीप्तोज्ज्वलार्चिषः ॥ ंो_४,६.८ ॥ स्पष्टम् ॥ ंोट्_४,६.८ ॥ अयं स सुरविक्रान्तहेतिकण्डूयिताननः । ऐरावणो रणद्दन्तप्रोतदैत्येन्द्रमण्डलः ॥ ंो_४,६.९ ॥ सुरैः देवैः । विक्रान्तहेतिभिः कण्डूयितमाननं यस्य । सः ॥ ंोट्_४,६.९ ॥ इमे ते भूतलस्थाना व्योमतारकतां गताः । वैमानिकाश्चलच्चारुहारचामरकुण्डलाः ॥ ंो_४,६.१० ॥ भूतले स्थानं येषाम् । ते भूतलस्थानाः ॥ ंोट्_४,६.१० ॥ इमास्ता विविधोद्यानमणिमन्दिरमण्डिताः । विमानपङ्क्तयश्चारुचामीकरमयातपाः ॥ ंो_४,६.११ ॥ चारुचामीकरमयः आतपः उद्द्योतः यासाम् । ताः ॥ ंोट्_४,६.११ ॥ मेरूपलतलास्फालशीकराकीर्णदेवताः । एतास्ताः कीर्णमन्दारा गङ्गासलिलवीचयः ॥ ंो_४,६.१२ ॥ मेरूपलतलेषु यः आस्फालः विघट्टनम् । तेन ये शीकराः । तैः आकीर्णाः देवताः याभिस्। ताः ॥ ंोट्_४,६.१२ ॥ एताः प्रसृतमन्दारमञ्जरीपुञ्जपिञ्जराः । दोलालोलाप्सरःश्रेण्यः शक्रोपवनवीथयः ॥ ंो_४,६.१३ ॥ स्पष्टम् ॥ ंोट्_४,६.१३ ॥ इमे ते कुन्दमन्दारमकरन्दसुगन्धयः । चन्द्रांशुनिकराकाराः पारिजातसमीरणाः ॥ ंो_४,६.१४ ॥ स्पष्टम् ॥ ंोट्_४,६.१४ ॥ पुष्पकेसरनीहारपटवासेरणोत्सुकैः । लताङ्गनागणैर्व्याप्तमिदं तन्नन्दनं वनम् ॥ ंो_४,६.१५ ॥ पुष्पकेसरमेव नीहारः । स एव पटवासः । तस्य यतीरणं चालनम् । तत्रौत्सुकैः ॥ ंोट्_४,६.१५ ॥ कान्तगीतरवानन्दप्रनर्तितसुराङ्गनौ । इमौ तौ वल्लकीस्निग्धस्वरौ नारदतुम्बुरू ॥ ंो_४,६.१६ ॥ स्पष्टम् ॥ ंोट्_४,६.१६ ॥ इमे ते पुण्यकर्तारो भूरिभूषनभूषिताः । व्योमन्युड्डयमानेषु विमानेषु सुखं स्थिताः ॥ ंो_४,६.१७ ॥ स्पष्टम् ॥ ंोट्_४,६.१७ ॥ मदमन्मथमत्ताङ्ग्य इमास्ताः सुरयोषितः । देवेश्वरं निषेवन्ते वनं वनलता इव ॥ ंो_४,६.१८ ॥ स्पष्टम् ॥ ंोट्_४,६.१८ ॥ चन्द्रांशुजालकुसुमाश्चिन्तामणिगुलुच्छकाः । कल्पवृक्ष इमे पक्वरत्नस्तवकदन्तुराः ॥ ंो_४,६.१९ ॥ स्पष्टम् ॥ ंोट्_४,६.१९ ॥ इह तावदिमं शक्रमहमासनसंस्थितम् । द्वितीयमिव देवेशं पूजयैवाभिवादये ॥ ंो_४,६.२० ॥ देवेशं महादेवम् ॥ ंोट्_४,६.२० ॥ इति सञ्चिन्त्य शुक्रेण मनसैव शचीपतिः । तेनाभिवादितस्तत्र द्वितीय इव वै भृगुः ॥ ंो_४,६.२१ ॥ मनसा एव न तु कायेन ॥ ंोट्_४,६.२१ ॥ अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः । गृहीतहस्तमानीय समीप उपवेशितः ॥ ंो_४,६.२२ ॥ स्पष्टम् ॥ ंोट्_४,६.२२ ॥ धन्यस्त्वदागमेनाद्य स्वर्गोऽयं शुक्र शोभते । उष्यतां चिरमेवेह शक्र इत्थमुवाच तम् ॥ ंो_४,६.२३ ॥ स्पष्टम् ॥ ंोट्_४,६.२३ ॥ अथ तत्रोपविश्यासौ भार्गवः शोभिताननः । श्रियं जहार शशिनः सकलस्यामलस्य च ॥ ंो_४,६.२४ ॥ स्पष्टम् ॥ ंोट्_४,६.२४ ॥ सर्गान्तश्लोकेनास्य नरत्वत्यागं कथयति सकलसुरगणाभिवन्दितोऽसौ भृगुतनयः शतमन्युपार्श्वसंस्थः । चिरतरमतुलामवाप तुष्टिं नरमतिमुज्झितवानलं बभूव ॥ ंो_४,६.२५ ॥ असौ शुक्रः । नरमतिं नरोऽहमिति बुद्धिम् । अलमतिशयेन । उज्झितवान् बभूव सम्पन्नः । देवत्वमेव स्वस्मिन् ज्ञातवानिति भावः । इति शिवम् ॥ ंोट्_४,६.२५ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षष्ठः सर्गः ॥६॥ ********************************************************************* इति शुक्रः पुरं प्राप्य वैबुधं स्वेन चेतसा । विसस्मार निजं भावं प्राक्तनं व्यसनं विना ॥ ंो_४,७.१ ॥ इति एवम् । शुक्रः स्वेन चेतसा वैबुधं पुरं प्राप्य । व्यसनमप्सरोविषयामासक्तिम् । विना । सर्वं निजं प्राक्तनं भावं विसस्मार । व्यसनस्यापि मानुषभावे एवोद्भूतत्वात्प्राक्तनत्वं ज्ञेयम् ॥ ंोट्_४,७.१ ॥ मुहूर्तमथ विश्रम्य तस्य पार्श्वे शचीपतेः । स्वर्गं विहर्तुमुत्तस्थौ स्वर्वासिपरिचोदितः ॥ ंो_४,७.२ ॥ स्वर्वासिपरिचोदितः अमरचोदितः ॥ ंोट्_४,७.२ ॥ स्वर्गश्रियं समालोक्य लोललोचनलाञ्छितम् । स्त्रैणं द्रष्टुं जगामासौ नलिनीमिव सारसः ॥ ंो_४,७.३ ॥ स्त्रैणं स्त्रीसमूहम् ॥ ंोट्_४,७.३ ॥ तत्र तां मृगशावाक्षीं कान्तामध्यागतामसौ । ददर्श विपिनान्तःस्थां भृङ्गश्चूतलतामिव ॥ ंो_४,७.४ ॥ तां पूर्वं मनुष्यलोकेऽनुभूताम् ॥ ंोट्_४,७.४ ॥ तामालोक्य लसल्लोलविलासवलिताकृतिम् । आसीद्विलीयमानाङ्गो ज्योत्स्नयेन्दुमणिर्यथा ॥ ंो_४,७.५ ॥ स्पष्टम् ॥ ंोट्_४,७.५ ॥ विलीयमानसर्वाङ्गस्तामवैक्षत कामिनीम् । चन्द्रकान्त इव ज्योत्स्नां शीतलां खे विलासिनीम् ॥ ंो_४,७.६ ॥ स्पष्टम् ॥ ंोट्_४,७.६ ॥ तेनावलोकिता सापि तत्परायणतां गता । निशान्ते चक्रवाकेन कान्तेन परिकूजिता ॥ ंो_४,७.७ ॥ स्पष्टम् ॥ ंोट्_४,७.७ ॥ रसाद्विकसतोर्नूनमन्योऽन्यमनुरक्तयोः । प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत् ॥ ंो_४,७.८ ॥ तयोः शुक्राप्सरसोः ॥ ंोट्_४,७.८ ॥ सङ्कल्पितार्थदायित्वाद्देशस्य मदनेन सा । सर्वाङ्गं विवशीकृत्य शुक्रायैव समर्पिता ॥ ंो_४,७.९ ॥ देशस्य स्वर्गदेशस्य । सङ्कल्पितार्थदायित्वात् । मदनेन असौ अप्सराः । सर्वाङ्गं सर्वेषु अङ्गेषु । विवशीकृत्य । शुक्राय समर्पिता दत्ता । सर्वसङ्कल्पदायिनः स्वर्गदेशस्यैव माहात्म्यमेतत् । यन्मदनेनासौ विवशीकृत्य शुक्राय समर्पितेति भावः ॥ ंोट्_४,७.९ ॥ पेतुः स्मरशरास्तस्या मृदुष्वङ्गेषु भूरिशः । पलाशेष्विव पद्मिन्या धारा नवपयोमुचः ॥ ंो_४,७.१० ॥ स्पष्टम् ॥ ंोट्_४,७.१० ॥ सा बभूव स्मराधूता लोलालिवलयालका । मन्दवातविनुन्नाया मञ्जर्याः सहधर्मिणी ॥ ंो_४,७.११ ॥ स्पष्टम् ॥ ंोट्_४,७.११ ॥ नीलनीरजनेत्रां तां हंसवारणगामिनीम् । मदनः क्षोभयामास पूरः कमलिनीमिव ॥ ंो_४,७.१२ ॥ पूरः जलपूरः ॥ ंोट्_४,७.१२ ॥ अथ तां तादृशीं दृष्ट्वा शुक्रः सङ्कल्पितार्थभाक् । तमः सङ्कल्पयामास संहारमिव भूतकृत् ॥ ंो_४,७.१३ ॥ सङ्कल्पयामास सङ्कल्पेनोत्पादितवान् ॥ ंोट्_४,७.१३ ॥ त्रिविष्टपस्य देशोऽसौ बभूव तिमिराकुलः । भूलोकस्यान्धतमसो लोकालोकतटो यथा ॥ ंो_४,७.१४ ॥ स्पष्टम् ॥ ंोट्_४,७.१४ ॥ लज्जान्धकारतीक्ष्णांशौ तस्मिंस्तिमिरमण्डले । प्रतिष्ठामागते तस्य मिथुनस्येव मन्मथे ॥ ंो_४,७.१५ ॥ तेषु सर्वेषु भूतेषु गतेष्वभिमतां दिशम् । तस्मात्प्रदेशाद्भूलोकं दिनान्ते विहगेष्विव ॥ ंो_४,७.१६ ॥ सा दीर्घधवलापाङ्गा प्रवृद्धमदना तथा । आजगाम भृगोः पुत्रं मयूरी वारिदं यथा ॥ ंो_४,७.१७ ॥ तिमिरमण्डले कस्मिन् । लज्जा एवान्धकारः । तस्य । तीक्ष्णांशौ सूर्ये । नाशकत्वात् ॥ ंोट्_४,७.१५१७॥ धवलागारमध्यस्थे पर्यङ्के परिकल्पिते । विवेश भार्गवस्तत्र क्षीरोद इव माधवः ॥ ंो_४,७.१८ ॥ स्पष्टम् ॥ ंोट्_४,७.१८ ॥ सा पादाववलम्ब्यास्य विवशेव वरानना । रराज च सुरेभस्य पादलग्नेव पद्मिनी ॥ ंो_४,७.१९ ॥ विवशा परायत्तः ॥ ंोट्_४,७.१९ ॥ उवाच चेदं ललितं लसत्स्नेहोत्कया गिरा । वचो मधुरमानन्दि विलासि वलिताक्षरम् ॥ ंो_४,७.२० ॥ स्पष्टम् ॥ ंोट्_४,७.२० ॥ पश्यामलेन्दुवदन मण्डलीकृतकार्मुकः । अबलामनुबध्नाति मामेष किमनङ्गकः ॥ ंो_४,७.२१ ॥ कुत्सितः अनङ्गः किमनङ्गकः ॥ ंोट्_४,७.२१ ॥ पाहि मामबलां नाथ दीनां त्वच्छरणामिह । कृपणाश्वासनं साधो विद्धि सच्चरितव्रतम् ॥ ंो_४,७.२२ ॥ स्पष्टम् ॥ ंोट्_४,७.२२ ॥ स्नेहदृष्टिमजानद्भिर्मूढैरेव महामते । प्रणया अवगण्यन्ते न रसज्ञैः कदाचन ॥ ंो_४,७.२३ ॥ प्रणयाः लक्षणया प्रणययुक्ताः । अवगण्यन्ते अवमन्यन्ते ॥ ंोट्_४,७.२३ ॥ अशङ्कितोपसम्पन्नः प्रणयोऽन्योऽन्यरक्तयोः । अधःकरोति निष्यन्दं चान्द्रमास्वादितं प्रिय ॥ ंो_४,७.२४ ॥ चान्द्रं निष्यन्दममृतम् ॥ ंोट्_४,७.२४ ॥ न तथा सुखयत्येषा चेतस्त्रिभुवनेशता । यथा परस्परानन्दी स्नेहः प्रथमरक्तयोः ॥ ंो_४,७.२५ ॥ स्पष्टम् ॥ ंोट्_४,७.२५ ॥ त्वत्पादस्पर्शनेनेयं समाश्वस्तास्मि मानद । चन्द्रपादपरामृष्टा यथा निशि कुमुद्वती ॥ ंो_४,७.२६ ॥ स्पष्टम् ॥ ंोट्_४,७.२६ ॥ संस्पर्शामृतपानेन तव जीवामि सुन्दर । चन्द्रांशुरसपानेन चकोरी चपला यथा ॥ ंो_४,७.२७ ॥ स्पष्टम् ॥ ंोट्_४,७.२७ ॥ मामिमां चरणालीनां भ्रमरीं करपल्लवैः । आलिङ्ग्यामृतसम्पूर्णे सत्पद्महृदये कुरु ॥ ंो_४,७.२८ ॥ चरणयोः आ समन्तात् । लीनां चरणालीनाम् ॥ ंोट्_४,७.२८ ॥ इत्युक्त्वा पुष्पमृद्वङ्गी सा तस्य पतितोरसि । व्याघूर्णितालिनयना सुतराविव मञ्जरी ॥ ंो_४,७.२९ ॥ स्पष्टम् ॥ ंोट्_४,७.२९ ॥ सर्गान्तश्लोकेन कथयति तौ दम्पती तत्र विलासकान्तौ विलेसतुस्तासु वनस्थलीषु । किञ्जल्कगौरानिलघूर्णितासु मत्तौ द्विरेफाविव पद्मिनीषु ॥ ंो_४,७.३० ॥ स्पष्टम् । इति शिवम् ॥ ंोट्_४,७.३० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तमः सर्गः ॥७॥ ********************************************************************* इति चित्तविलासेन चिरमुत्प्रेक्षितैः प्रियैः । प्रणयैर्भार्गवस्यासीत्तुष्टये ससमागमः ॥ ंो_४,८.१ ॥ ससमागमः तया अप्सरसा सह समागमः ॥ ंोट्_४,८.१ ॥ मन्दारदामाकुलया वैबुधासवमत्तया । तदा तेन तया सार्धं द्वितीयेनामलेन्दुना ॥ ंो_४,८.२ ॥ विहृतं मत्तहंसासु हेमपङ्कजिनीषु च । तटेष्वमरवाहिन्याः सह किन्नरचारणैः ॥ ंो_४,८.३ ॥ वैबुधासवः अमृतम् ॥ ंोट्_४,८.२३ ॥ पीतमिन्दुदलस्यन्दि देवैः सह रसायनम् । पारिजातलताजालनिलयेषु विलासिना ॥ ंो_४,८.४ ॥ स्पष्टम् ॥ ंोट्_४,८.४ ॥ चारुचैत्ररथोद्यानलतादोलासु लीलया । चिरं विलसितं व्यग्रैः सह विद्याधरीगणैः ॥ ंो_४,८.५ ॥ स्पष्टम् ॥ ंोट्_४,८.५ ॥ नन्दनोपवनाभोगो मन्दरेणेव वारिधिः । भृशमुल्लोलतां नीतः प्रमथैः सह शाम्भवैः ॥ ंो_४,८.६ ॥ शुक्रेण शाम्भवैः शम्भुसम्बन्धिभिः । प्रमथैः रुद्रगणैः । सह । नन्दनोपवनाभोगः भृशमुल्लोलतां नीतः ॥ ंोट्_४,८.६ ॥ बालहेमलताजालजटिलासु दरीषु च । भ्रान्तमुन्मत्तरागेण मैरवीष्वब्जिनीषु च ॥ ंो_४,८.७ ॥ शुक्रेण कर्त्रा भ्रान्तं भ्रमः कृतः । शुक्रेण कथम्भूतेन । उन्मत्तरागेण उद्रिक्तरागेण ॥ ंोट्_४,८.७ ॥ कैलासवनकुञ्जेषु तया सह विलासिना । हारेन्दुधवला रात्रिः क्षपिता गणगीतिभिः ॥ ंो_४,८.८ ॥ गणगीतिभिः गन्धर्वादिगीतकृतैः विनोदैरित्यर्थः ॥ ंोट्_४,८.८ ॥ गन्धमादनशैलस्य विश्रम्योपरि सानुषु । सा तेन कनकाम्भोजैरापादमभिमण्डिता ॥ ंो_४,८.९ ॥ आपादं पादपर्यन्तम् ॥ ंोट्_४,८.९ ॥ लोकालोकतटान्तेषु विचित्राश्चर्यहारिषु । क्रीडितं कृतहासेन राम तेन तया सह ॥ ंो_४,८.१० ॥ स्पष्टम् ॥ ंोट्_४,८.१० ॥ मन्दरान्तरकच्छेषु सार्धं हरिणशावकैः । अवसत्स समाः षष्टिं कल्पितामरमन्दिरः ॥ ंो_४,८.११ ॥ कल्पितं कल्पनया सम्पादितम् । अमरमन्दिरं देवगृहम् । येन । सः ॥ ंोट्_४,८.११ ॥ क्षीरार्णवतटेष्वस्य वनितासहचारिणः । क्षीणं कृतयुगादर्धं श्वेतद्वीपजनैः सह ॥ ंो_४,८.१२ ॥ स्पष्टम् ॥ ंोट्_४,८.१२ ॥ गन्धर्वनगरोद्यानलीलाविरचनैरसौ । सृष्टानन्तजगत्सृष्टेः कालस्यानुकृतिं गतः ॥ ंो_४,८.१३ ॥ स्पष्टम् ॥ ंोट्_४,८.१३ ॥ अथावसदसौ शुक्रः पुरन्दरपुरे पुनः । सुखं चतुर्युगान्यष्टौ हरिणेक्षणया सह ॥ ंो_४,८.१४ ॥ स्पष्टम् ॥ ंोट्_४,८.१४ ॥ पुण्यक्षयानुसन्धानात्ततश्चावनिमण्डले । तयैव सह मानिन्या पपातापहृताकृतिः ॥ ंो_४,८.१५ ॥ स्पष्टम् ॥ ंोट्_४,८.१५ ॥ परालूनसमस्ताङ्गो हृतस्यन्दननन्दनः । चिन्तापरवशो ध्वस्तः समितीवाहतो भटः ॥ ंो_४,८.१६ ॥ हृते स्यन्दननन्दने रथनन्दनोपवने यस्य । सः । भटपक्षे हृतः स्यन्दननन्दनः प्रशस्तरथः यस्य । सः ॥ ंोट्_४,८.१६ ॥ पतितस्यावनौ तस्य चिन्तया सह दीर्घया । शरीरं शतधा यातं शिलापातीव निर्झरः ॥ ंो_४,८.१७ ॥ स्पष्टम् ॥ ंोट्_४,८.१७ ॥ संशीर्णयोर्देहकयोश्चित्ते ते वासनावृते । विचेरतुस्तयोर्व्योम्नि निर्नीडौ विहगौ यथा ॥ ंो_४,८.१८ ॥ स्पष्टम् ॥ ंोट्_४,८.१८ ॥ तत्राविविशतुश्चान्द्रं ते चित्ते रश्मिजालकम् । प्रालेयतामुपेत्याशु शालितामथ जग्मतुः ॥ ंो_४,८.१९ ॥ प्रालेयतामवश्यायभावम् ॥ ंोट्_४,८.१९ ॥ शालींस्तान् भुक्तवान् पक्वान् दशार्णेषु द्विजोत्तमः । शौक्राञ्शुक्राङ्गनागर्भान्मालवेषु च भूपतिः ॥ ंो_४,८.२० ॥ शौक्रान् शुक्रसम्बन्धिनः । तदुपादानबीजनिमित्तानीति यावत् । शुक्राङ्गना गर्भे येषाम् । तान् ॥ ंोट्_४,८.२० ॥ अजायतोशनाः पूर्वं दशार्णेषु द्विजोत्तमात् । नृपादुत्तमसौभाग्यान्मालवेषु तदङ्गना ॥ ंो_४,८.२१ ॥ तदङ्गना शुक्राङ्गना । अप्सराः इति यावत् ॥ ंोट्_४,८.२१ ॥ स तत्र ववृधे बालः सा तत्र ववृधेऽङ्गना । तौ पूर्वदम्पती जातौ स्वर्भ्रष्टाविव भूतले ॥ ंो_४,८.२२ ॥ स्पष्टम् ॥ ंोट्_४,८.२२ ॥ अथ षोडशवर्षोऽभूच्छुक्रः सारङ्गनामभृत् । पितुर्गृहे यौवनवाञ्श्रीमान् विप्रकुमारकः ॥ ंो_४,८.२३ ॥ सारङ्गेति नाम बिभर्तीति सारङ्गनामभृत् ॥ ंोट्_४,८.२३ ॥ मालानामसुरस्त्री सा कुमारी राजसद्मनि । भृङ्गेक्षणा गता वृद्धिं लता वरवने यथा ॥ ंो_४,८.२४ ॥ स्पष्टम् ॥ ंोट्_४,८.२४ ॥ राजपुत्री ततो माला पूजयामास शङ्करम् । लभेयं प्राक्तनं सिद्धं पतिमित्यनिशं शुभा ॥ ंो_४,८.२५ ॥ स्पष्टम् ॥ ंोट्_४,८.२५ ॥ अथ मालवभूपस्य यज्ञे द्विजसभागतम् । माला ददर्श सारङ्गं पित्रा सह समागतम् ॥ ंो_४,८.२६ ॥ स्पष्टम् ॥ ंोट्_४,८.२६ ॥ तं दृष्ट्वा सानवद्याङ्गी प्राक्तनस्नेहभाविता । दृष्टचन्द्रेन्दुमणिवत्स्नेहस्विन्नाङ्गिका बभौ ॥ ंो_४,८.२७ ॥ प्राक्तनस्नेहेन पूर्वजन्मस्नेहेन । भाविता वासिता ॥ ंोट्_४,८.२७ ॥ ततो यज्ञसभामध्ये दाशार्णद्विजदारकम् । भर्तृत्वे वरयामास सा माला मालवात्मजा ॥ ंो_४,८.२८ ॥ स्पष्टम् ॥ ंोट्_४,८.२८ ॥ क्रमात्कृतविवाहाय तस्मै वार्धकजर्जरः । मालवेशोऽखिलं राज्यं प्रतिपाद्य वनं ययौ ॥ ंो_४,८.२९ ॥ वार्धकजर्जरः जराजर्जरः । प्रतिपाद्य दत्त्वा ॥ ंोट्_४,८.२९ ॥ स सारङ्गस्तया सार्धं तस्मिन्मालवमण्डपे । चकारातिसुखी राज्यं शक्रवच्छरदां शतम् ॥ ंो_४,८.३० ॥ स्पष्टम् ॥ ंोट्_४,८.३० ॥ अथ कालेन महता चञ्चलत्वाच्च चेतसः । अप्रियत्वं मिथो यातौ दम्पती तौ विधेर्वशात् ॥ ंो_४,८.३१ ॥ स्पष्टम् ॥ ंोट्_४,८.३१ ॥ सारङ्गस्तु जराजीर्णः पातसज्जकलेवरः । दध्रे श्वसनशैथिल्याज्जीर्णपर्णसवर्णताम् ॥ ंो_४,८.३२ ॥ श्वसनशैथिल्यात्वातशैथिल्यात् ॥ ंोट्_४,८.३२ ॥ जायाजनविरागेण वार्धकातिशयेन च । मरणं मन्दमन्देहो निरीहोऽभिननन्द सः ॥ ंो_४,८.३३ ॥ स्पष्टम् ॥ ंोट्_४,८.३३ ॥ अथ नीरसराज्यस्य दुःखातिशयशंसिनः । अरण्य इव वेतालो मोहोऽतिघनतां गतः ॥ ंो_४,८.३४ ॥ स्पष्टम् ॥ ंोट्_४,८.३४ ॥ मोहान्धकूपपतितं भोगासङ्गादनारतम् । अविवेकिनमज्ञानमसज्जनपरायणम् ॥ ंो_४,८.३५ ॥ स्पष्टम् ॥ ंोट्_४,८.३५ ॥ जहारैनं ततो मृत्युस्तृष्णाकवलिताशयम् । पतङ्गमिव मण्डूकः कृताक्रन्दमकिञ्चनम् ॥ ंो_४,८.३६ ॥ अकिञ्चनमसमर्थम् ॥ ंोट्_४,८.३६ ॥ ततः कर्मफलं भुक्त्वा स्वं परत्र शुभाशुभम् । अङ्गेषु धीवरो जातः स दुर्भाववशात्तदा ॥ ंो_४,८.३७ ॥ दुर्भाववशात्दुर्वासनावशात् ॥ ंोट्_४,८.३७ ॥ तत्र धीवरकर्माणि कुर्वन् स शरदां शतम् । दुःखजर्जरचेतस्त्वाद्वैराग्यं समुपाययौ ॥ ंो_४,८.३८ ॥ स्पष्टम् ॥ ंोट्_४,८.३८ ॥ दुःखं संसार इत्येवं चिन्तयन् भास्करं ततः । सम्पतंस्तेन सञ्जातः सूर्यवंशे महानृपः ॥ ंो_४,८.३९ ॥ सम्पतन् शरणं गच्छन् ॥ ंोट्_४,८.३९ ॥ शुभभाववशात्सोऽथ किञ्चिज्ज्ञानमवाप्तवान् । जज्ञे नृपतनुं त्यक्त्वा गुरुः सर्वोपदेशकः ॥ ंो_४,८.४० ॥ स्पष्टम् ॥ ंोट्_४,८.४० ॥ मन्त्रासाधितसिद्धिर्हि सोऽथ विद्याधरोऽभवत् । कल्पमेकं तु बुभुजे ततो वैद्याधरीं पुरीम् ॥ ंो_४,८.४१ ॥ स्पष्टम् ॥ ंोट्_४,८.४१ ॥ कल्पावसानसमयं नीत्वा पवनरूपया । तन्वा सृष्टौ प्रवृत्तायां भूयो जातो मुनेः सुतः ॥ ंो_४,८.४२ ॥ स्पष्टम् ॥ ंोट्_४,८.४२ ॥ ततो मुनीनां सम्पर्कात्तपस्युग्रे व्यवस्थितः । अवसन्मेरुगहने मन्वन्तरमनिन्दितः ॥ ंो_४,८.४३ ॥ स्पष्टम् ॥ ंोट्_४,८.४३ ॥ तत्र तस्य समुत्पन्नो मृग्याः पुत्रो नराकृतिः । तत्स्नेहेन परं मोहं पुनरभ्याययौ क्षणात् ॥ ंो_४,८.४४ ॥ मृग्याः मृगीसकाशात् ॥ ंोट्_४,८.४४ ॥ पुत्रस्यास्य धनं मेऽस्तु गुणाश्चायुश्च शाश्वतम् । इत्यनारतचिन्ताभिर्जहौ सत्यामवस्थितिम् ॥ ंो_४,८.४५ ॥ सत्यामवस्थितिं सत्यभूतं धर्मपरत्वम् ॥ ंोट्_४,८.४५ ॥ धर्मचिन्तापरिभ्रंशात्पुत्रार्थं भोगचिन्तनात् । क्षीणायुषं तमहरन्मृत्युः सर्प इवानिलम् ॥ ंो_४,८.४६ ॥ स्पष्टम् ॥ ंोट्_४,८.४६ ॥ भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः । प्राप्य मद्रेशपुत्रत्वमासीन्मद्रमहीपतिः ॥ ंो_४,८.४७ ॥ मद्रेशपुत्रत्वं मद्रदेशभूपसुतत्वम् ॥ ंोट्_४,८.४७ ॥ मद्रदेशे चिरं कृत्वा राज्यमुच्छिन्नशात्रवः । जरामभ्याजगामात्र हिमाशनिमिवाम्बुजः ॥ ंो_४,८.४८ ॥ स्पष्टम् ॥ ंोट्_४,८.४८ ॥ मद्रराजतनुं तं तु तपोवासनया सह । तत्याज तेन जातोऽसौ तपस्वी तापसात्मजः ॥ ंो_४,८.४९ ॥ सः मद्रराजतनुं तत्याजेति सम्बन्धः । तेन तनुत्यागेन ॥ ंोट्_४,८.४९ ॥ समङ्गाया महानद्यास्तटमासाद्य तापसः । तपस्तेपे महाबुद्धिः स राम विगतज्वरः ॥ ंो_४,८.५० ॥ समङ्गा नदीभेदः ॥ ंोट्_४,८.५० ॥ सर्गान्तश्लोकेन शुक्रस्य सुखावस्थानं कथयति विविधजन्मदशाविवशाशयः समनुसृत्य शरीरपरम्पराम् । सुखमतिष्ठदसौ भृगुनन्दनो वरनदीसुतटे दृढवृक्षवत् ॥ ंो_४,८.५१ ॥ वरनदीसुतटे समङ्गाख्यायाः उत्कृष्टायाः नद्याः शोभने तीरे । इति शिवम् ॥ ंोट्_४,८.५१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे अष्टमः सर्गः ॥८॥ ********************************************************************* इति चिन्तयतस्तस्य शुक्रस्य पितुरग्रतः । जगामातितरां कालो बहुसंवत्सरात्मकः ॥ ंो_४,९.१ ॥ स्पष्टम् ॥ ंोट्_४,९.१ ॥ अथ कालेन महता पवनातपजर्जरः । कायस्तस्य पपातोर्व्यां छिन्नमूल इव द्रुमः ॥ ंो_४,९.२ ॥ स्पष्टम् ॥ ंोट्_४,९.२ ॥ मनस्तु चञ्चलाभोगं तासु तासु दशासु च । बभ्रामातिविचित्रासु वनराजिष्विवैणकः ॥ ंो_४,९.३ ॥ स्पष्टम् ॥ ंोट्_४,९.३ ॥ भ्रान्तमुद्भ्रान्तमभितश्चक्रार्पितमिवाकुलम् । मनस्तस्य विशश्राम समङ्गासरितस्तटे ॥ ंो_४,९.४ ॥ चक्रार्पितो हि उद्भ्रमति ॥ ंोट्_४,९.४ ॥ अनन्तवृत्तान्तघनां पेलवां सुदृढामपि । तां संसृतिदशां शुक्रो विदेहोऽनुभवन् स्थितः ॥ ंो_४,९.५ ॥ तां संसृतिदशां समङ्गातटतापससम्बन्धिनीं संसारदशाम् । विदेहः स्थूलदेहरहितः ॥ ंोट्_४,९.५ ॥ मन्दराचलसानुस्था सा तनुस्तस्य धीमतः । तापप्रसरसंशुष्का चर्मशेषा बभूव ह ॥ ंो_४,९.६ ॥ स्पष्टम् ॥ ंोट्_४,९.६ ॥ शारीररन्ध्रप्रवहद्वातशीत्काररूपया । चेष्टादुःखक्षयानन्दात्काकल्येव स्म गायति ॥ ंो_४,९.७ ॥ तस्य सा तनुः । चेष्टाया यत्दुःखं पीडा । तस्य क्षयात्य आनन्दः । ततः हेतोः । काकल्या कलसूक्ष्मया गानवाचा । गायति स्म इव । कथम्भूतया । शारीररन्ध्रेषु प्रवहन् यः वातः । तेन शीत्कारः ध्वनिविशेषः । स एव रूपं यस्याः । तादृश्या ॥ ंोट्_४,९.७ ॥ प्राणानुस्मरणोच्छ्वासमिव वाष्पं स्म मुञ्चति । चण्डानिलविलासेन लुलित्वा वनभूमिषु ॥ ंो_४,९.८ ॥ वाष्पं कथम्भूतम् । प्राणाणां पूर्वं स्थितानां यदनुस्मरणमनुक्षणं स्मरणम् । तेन उच्छ्वासः वृद्धिः यस्य । तत् । वाष्पत्वं चात्रावश्यायस्य ज्ञेयम् ॥ ंोट्_४,९.८ ॥ तनुमेव विशिनष्टि मनोवराकमवटे लुठितं भवभूमिषु । हसन्तीवातिशुभ्राभ्रसितया दन्तमालया ॥ ंो_४,९.९ ॥ भवभूमिषु स्थिते अवटे अप्सरोरूपे अवटे ॥ ंोट्_४,९.९ ॥ दर्शयन्ती स्वकं शून्यं वपुरक्ष्णोरकृत्रिमम् । मुखारण्यजरत्कूपरूपया गर्तशोभया ॥ ंो_४,९.१० ॥ पुनः कथम्भूता । अक्ष्णोः स्वस्याक्षियुगलस्य । मुखमेवारण्यम् । तस्य जरत्कूपतया गर्तशोभया । तद्व्याजेनेति यावत् । स्वं वपुः शून्यं दर्शयन्ती । शून्या एवाहमस्मीति दर्शयन्तीति यावत् । मृतशरीरस्य च मुखे मांसशेषात्गर्तो जायते ॥ ंोट्_४,९.१० ॥ तापोपतप्ता संसिक्ता वर्षाजलभरेण सा । पांसुना पवनोत्थेन दुष्कृतेनेव रूषिता ॥ ंो_४,९.११ ॥ सा इति तनूपरामर्शः ॥ ंोट्_४,९.११ ॥ शुष्ककाष्ठवदालोला पातेषु कृतझाङ्कृता । धारानिकरपातेन विनुन्ना जलदागमे ॥ ंो_४,९.१२ ॥ विनुन्ना प्रेरिता । चालितेति यावत् ॥ ंोट्_४,९.१२ ॥ प्रावृड्निर्झरपूरेण प्लुता गिरिनदीतटे । तारमारुतशीत्कारा वनोपल इव स्थिता ॥ ंो_४,९.१३ ॥ तारः मारुतशीत्कारः यस्यां सा । वनोपल इव वनोपलवत् । स्थिता ॥ ंोट्_४,९.१३ ॥ वक्रा शुष्कान्त्रतन्त्री च पूता झाङ्कारकारिणी । अरण्यलक्ष्मीवीणेव शून्यचर्ममयोदरी ॥ ंो_४,९.१४ ॥ अरण्यलक्ष्म्याः वीणा अरण्यलक्ष्मीवीणा । सा इव ॥ ंोट्_४,९.१४ ॥ ननु तादृशी तस्य तनुः वनहिंस्रैः कथं न भुक्तेत्य् । अत्राह रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु । महातपस्त्वाच्च भृगोर्न भुक्ता मृगपक्षिभिः ॥ ंो_४,९.१५ ॥ पुण्याश्रमस्य च रागद्वेषविहीनत्वं तत्रस्थप्राणिरागद्वेषविहीनत्वेन ज्ञेयम् ॥ ंोट्_४,९.१५ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति यमनियमकृशीकृताङ्गयष्टेश् चरति तपः स्म भृगूद्वहस्य चेतः । तनुरथ पवनापनीतरक्ता चिरमलुठन्महतीषु सा शिलासु ॥ ंो_४,९.१६ ॥ यमनियमकृशीकृताङ्गयष्टेः भृगूद्वहस्य शुक्रस्य । चेतः तपः चरति स्म । अथ सा तनुः पवनापनीतरक्ता सती महतीषु शिलासु अलुठत्लुठितवती । इति शिवम् ॥ ंोट्_४,९.१६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे नवमः सर्गः ॥९॥ ********************************************************************* अथ वर्षसहस्रेण दिव्येन परमेश्वरः । भृगुः परमसम्बोधाद्विरराम समाधितः ॥ ंो_४,१०.१ ॥ समाधितः कथम्भूतात् । परमसम्बोधात्ज्ञेयमालिन्यादूषितज्ञानरूपात् । न तु मूर्च्छारूपात् ॥ ंोट्_४,१०.१ ॥ नापश्यदग्रे तनयं तं नयावनताननम् । सीमान्तं गुणसीमायाः पुण्यं मूर्तमिव स्थितम् ॥ ंो_४,१०.२ ॥ स्पष्टम् ॥ ंोट्_४,१०.२ ॥ अपश्यत्केवलं कालं कङ्कालं पुरतो महत् । देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत् ॥ ंो_४,१०.३ ॥ कालं कृष्णम् । कङ्कालं करङ्कम् । अभाग्यं भाग्यविपर्ययः ॥ ंोट्_४,१०.३ ॥ कङ्कालं विशिनष्टि तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरि । संशुष्कान्त्रोदरगुहाछायाविश्रान्तदर्दुरम् ॥ ंो_४,१०.४ ॥ तित्तिरयः कीटविशेषाः ॥ ंोट्_४,१०.४ ॥ नेत्रगर्तकसंसुप्तप्रसूनवनकीटकम् । मक्षिकापञ्जरप्रोतकोशकारिक्रिमिव्रजम् ॥ ंो_४,१०.५ ॥ मक्षिकापञ्जरेषु पञ्जराकारेणोपविष्टेषु मक्षिकासमूहेषु । प्रोतः कोशकारक्रिमिव्रजः यस्मिन् । तत् ॥ ंोट्_४,१०.५ ॥ प्राक्तनीमुपभोगेहामिष्टानिष्टफलप्रदाम् । धाराधौतान्तया तन्वा हसच्छुष्कास्थिमालया ॥ ंो_४,१०.६ ॥ हसथसदिवेत्यर्थः ॥ ंोट्_४,१०.६ ॥ शिरोघटेन शुभ्रेण सम्पन्नेनेन्दुवर्चसा । विडम्बयच्च कर्पूरप्लुतलिङ्गशिरःश्रियम् ॥ ंो_४,१०.७ ॥ इन्दुवर्चसा चन्द्रमहसा । लिङ्गं शिवलिङ्गम् ॥ ंोट्_४,१०.७ ॥ ऋज्वा संशुष्कसितया स्वास्थिमात्रावशेषया । ग्रीवयात्मानुसृतया दीर्घीकुर्वदिवाकृतिम् ॥ ंो_४,१०.८ ॥ आत्मानुसृतया । आत्मना स्वेन । अनुसृतया सम्बद्धया ॥ ंोट्_४,१०.८ ॥ मृणालिकापाण्डुरया धारावधुतमांसया । नासास्थिलतया वक्त्रं कृतसीमाक्रमं दधत् ॥ ंो_४,१०.९ ॥ कृतसीमाक्रमं कृतमर्यादाक्रमम् ॥ ंोट्_४,१०.९ ॥ दीर्घकन्धरया नूनमुत्तानीकृतवक्त्रया । प्रेक्षमाणमिव प्राणानुत्क्रान्तानम्बरोदरे ॥ ंो_४,१०.१० ॥ नूनं वितर्के ॥ ंोट्_४,१०.१० ॥ जङ्घोरुजानुदोर्दण्डैर्द्विगुणं दीर्घतां गतैः । प्रमिमाणमिवाशान्तं दीर्घाध्वश्रमभीतितः ॥ ंो_४,१०.११ ॥ आशान्तं दिगन्तम् ॥ ंोट्_४,१०.११ ॥ उदरेणातिनिम्नेन चर्मशेषेण शोषिणा । प्रदर्शयदिवाज्ञस्य हृदयस्यातिशून्यताम् ॥ ंो_४,१०.१२ ॥ स्पष्टम् ॥ ंोट्_४,१०.१२ ॥ प्रेक्ष्य तच्छुष्ककङ्कालमालानमिव दन्तिनः । पूर्वापरपरामर्शमकुर्वन् भृगुरुत्थितः ॥ ंो_४,१०.१३ ॥ भृगुः किं कुर्वन् । पुत्रस्नेहेन पूर्वापरपरामर्शमकुर्वन् । योगिनामपि हि कदाचित्प्रकृतिवशात्देहपातं तावत्पूर्वापरपरामर्शहीनत्वं जायते । किं तु तेषां तत्क्षणिकमेवेति । उत्थितः स्वात्मतत्त्वपरामर्शातुच्चलितः ॥ ंोट्_४,१०.१३ ॥ आलोकसमकालं हि प्रतिभातं ततो भृगोः । चिरमुत्क्रान्तजीवः किं मत्पुत्रोऽयमिति क्षणात् ॥ ंो_४,१०.१४ ॥ ततः उत्थानानन्तरम् । आलोकसमकालं पुत्रकङ्कालदर्शनसमकालम् । भृगोः इति प्रतिभातं स्फुरितमिति । किमिति । अयं मत्पुत्रः चिरं बहुकालादारभ्य । उत्क्रान्तजीवः किं कथम् । सम्पन्न इत्यर्थः ॥ ंोट्_४,१०.१४ ॥ अचिन्तयत एवास्य भविष्यत्ताबलं ततः । कालं प्रति बभूवाशु कोपः परमदारुणः ॥ ंो_४,१०.१५ ॥ अथ भविष्यत्ताबलं भवितव्यताबलम् । अचिन्तयतः तत्क्षणोत्थपूर्वापरविमर्शराहित्येनाविमृशतः । अस्य भृगोः । कालं प्रति चिन्मात्रस्थक्रियावैचित्र्यरूपे काले । परमदारुणः कोपः बभूव ॥ ंोट्_४,१०.१५ ॥ अकाल एव मत्पुत्रो नीतः किमिति कोपितः । कालाय शापमुत्स्रष्टुं भगवानुपचक्रमे ॥ ंो_४,१०.१६ ॥ अकाले तद्युगनियतमनुष्यायुरसमाप्तिरूपे कालाभावे । इदमत्र तात्पर्यम् । निर्विकल्पसमाधिना शुद्धचिन्मात्रतां यातः असौ भृगुः । तस्मात्समाधेः उत्थितः । ततः बाह्यस्पर्शेन किञ्चिन्मात्रं स्फटिकवदास्रष्टुमारब्धः । तत्र प्रथममकाले पुत्रं मृतं दृष्ट्वा विवशीभूतः । समनन्तरकालानुभूतेन चिन्मात्ररूपेण स्वेन कृतं क्रियावैचित्र्यरूपं कालं नाशयितुमैच्छत् । यश्च कालागमः स कथं स्वयं कृतं स्वभावसहचरमेतं नाशयामीति विवेकागम एव ज्ञेयः । इत्यास्तां रहस्योद्घाटनेन ॥ ंोट्_४,१०.१६ ॥ अथाकलितरूपोऽसौ कालः कवलितप्रजः । आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ ॥ ंो_४,१०.१७ ॥ अकलितरूपः । अकलितं परमात्मगतत्वेन स्थितत्वात्प्रमेयतामगतम् । रूपं यस्य । सः । आधिभौतिको देहः परमार्थतः विचाररूपः एव ज्ञेयः । बाह्यान् प्रति तु देवतारूपः ॥ ंोट्_४,१०.१७ ॥ कीदृशः उपाययावित्यपेक्षायां बाह्यदेवतारूपत्वं बाह्यदृष्टीन् प्रति कथयति खड्गपाशधरः श्रीमान् कुण्डली कवचान्वितः । षड्भुजः षण्मुखो बह्व्या वृतः किङ्करसेनया ॥ ंो_४,१०.१८ ॥ स्पष्टम् ॥ ंोट्_४,१०.१८ ॥ यच्छरीरसमुत्थेन ज्वालाजालेन वल्गता । फुल्लकिंशुकवृक्षस्य बभाराद्रेः श्रियं नभः ॥ ंो_४,१०.१९ ॥ स्पष्टम् ॥ ंोट्_४,१०.१९ ॥ यत्करस्थत्रिशूलाग्रनिष्ठ्यूतैरग्निमण्डलैः । विरेजुरुदितैराशाः कानकैरिव कुण्डलैः ॥ ंो_४,१०.२० ॥ स्पष्टम् ॥ ंोट्_४,१०.२० ॥ यत्पाशश्वसनायस्तशिखरा मेदिनीभृतः । दोलामिव समारूढाश्चेलुः पेतुश्च घूर्णिताः ॥ ंो_४,१०.२१ ॥ आयस्तशिखरा आकृष्टशिखराः ॥ ंोट्_४,१०.२१ ॥ यत्खड्गमण्डलोद्द्योतश्यामं बिम्बं विवस्वतः । कल्पदग्धजगद्धूमपर्याकुलमिवाबभौ ॥ ंो_४,१०.२२ ॥ स्पष्टम् ॥ ंोट्_४,१०.२२ ॥ स उपेत्य महाबाहुः कुपितं तं महामुनिम् । कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह ॥ ंो_४,१०.२३ ॥ सः कालः ॥ ंोट्_४,१०.२३ ॥ विज्ञातलोकस्थितयो मुने दृष्टपरावराः । हेतुनापि न मुह्यन्ति किमु हेतुं विनोत्तमाः ॥ ंो_४,१०.२४ ॥ दृष्टः स्वरूपत्वेनानुभूतः । परावरः परावररूपेण स्थितं चिन्मात्रतत्त्वम् । यैः । ते ॥ ंोट्_४,१०.२४ ॥ त्वमनन्ततपा विप्रो वयं नियतिपालकाः । तेन सम्पूज्यसे पूज्य साधो नेतरयेच्छया ॥ ंो_४,१०.२५ ॥ अनन्ततपाः अपरिमिततपाः । तेन अनन्ततपस्त्वेन ॥ ंोट्_४,१०.२५ ॥ मा तपः क्षपय क्षुब्धैः कल्पकालमहानलैः । यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि ॥ ंो_४,१०.२६ ॥ योऽस्मि योऽहम् । चिन्मात्रक्रियावैचित्र्यरूपस्य कालस्य कदापि दाहासम्भवातिति भावः । धक्ष्यसीति । दह भस्मीकरण इत्यस्य लृडन्तस्य प्रयोगः ॥ ंोट्_४,१०.२६ ॥ संसारावलयो ग्रस्ता निगीर्णा रुद्रकोटयः । भुक्तानि विष्णुवृन्दानि केन शाप्ता वयं मुने ॥ ंो_४,१०.२७ ॥ स्पष्टम् ॥ ंोट्_४,१०.२७ ॥ भोक्तारो हि वयं ब्रह्मन् भोजनं युष्मदादयः । स्वयं नियतिरेषा हि नावयोरेतदीहितम् ॥ ंो_४,१०.२८ ॥ आवयोः युष्माकमस्माकं च । ईहितं काङ्क्षितम् ॥ ंोट्_४,१०.२८ ॥ स्वयमूर्ध्वं प्रयात्यग्निः स्वयं यान्ति पयांस्यधः । भोक्तारं भोजनं याति सृष्टिश्चाप्यन्तकं स्वयम् ॥ ंो_४,१०.२९ ॥ अन्तकं कालम् ॥ ंोट्_४,१०.२९ ॥ इदमित्थं मुने रूपमस्येह परमात्मनः । स्वात्मनि स्वयमेवात्मा स्वत एव विजृम्भते ॥ ंो_४,१०.३० ॥ विजृम्भते विचित्राभिः क्रियाभिः विलसति ॥ ंोट्_४,१०.३० ॥ नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया । बहवश्चेह कर्तारो दृष्ट्यानष्टकलङ्कया ॥ ंो_४,१०.३१ ॥ नष्टकलङ्कया दृष्ट्या सम्यग्दृष्ट्या । अनष्टकलङ्कया दृष्ट्या असम्यग्दृष्ट्या ॥ ंोट्_४,१०.३१ ॥ कर्तृताकर्तृते ब्रह्मन् केवलं परिकल्पिते । असम्यग्दर्शनेनैव न सम्यग्दर्शनेन वः ॥ ंो_४,१०.३२ ॥ स्पष्टम् ॥ ंोट्_४,१०.३२ ॥ पुष्पाणि तरुषण्डेषु भूतानि भुवनेषु च । स्वयमायान्ति यान्तीह कल्प्यते हेतुता विधेः ॥ ंो_४,१०.३३ ॥ मूढैः इह विधेः हेतुता कल्प्यते कल्पनया भाव्यते । न तु परमार्थतः हेतुता कस्याप्यस्ति । केवलस्य शुद्धचिन्मात्रस्यैव स्थितत्वात् ॥ ंोट्_४,१०.३३ ॥ अब्बिम्बितस्य चन्द्रस्य चलने कर्त्रकर्तृते । न सत्ये नानृते यद्वत्तद्वत्कालस्य सृष्टिषु ॥ ंो_४,१०.३४ ॥ कालस्य क्रियावैचित्र्यरूपस्य मम ॥ ंोट्_४,१०.३४ ॥ मनो मिथ्याभ्रमाल्लोके कर्तृताकर्तृतामयम् । करोति कलनां रज्ज्वां भ्रान्तेक्षण इवाहिताम् ॥ ंो_४,१०.३५ ॥ स्पष्टम् ॥ ंोट्_४,१०.३५ ॥ फलितमाह तेन मा गा मुने कोपमापदामीदृशः क्रमः । यद्यथा तत्तथैवास्तु सत्यमालोकयाकुलः ॥ ंो_४,१०.३६ ॥ आपदां क्रमः ईदृश एव भवति । एताः सर्वेषामेवायान्तीति भावः । यत्यथा अस्ति । तत्तथैवास्तु । आकुलः आकुलीभूतः त्वम् । सत्यमालोकय । प्रवाहायाते शुभाशुभजाले मा क्षोभं गच्छेति भावः ॥ ंोट्_४,१०.३६ ॥ न वयं प्रभुतार्थेन नाभिमानवशीकृताः । स्वतो हेवाकवशतः केवलं नियतौ स्थिताः ॥ ंो_४,१०.३७ ॥ वयं प्रभुतार्थेन प्रभुताप्रयोजनेन । नियतौ भगवत्कृते नियमने । न स्थिताः । न चाभिमानवशीकृताः सन्तः स्थिताः । किं तु स्वतः स्वभावतः उत्थितात् । हेवाकवशतः नियतौ केवलं स्थिताः । किञ्चिदप्यत्रास्मास्वधीनं नास्तीति भावः ॥ ंोट्_४,१०.३७ ॥ प्रकृतव्यवहारेहां नियतां नियतेर्वशात् । प्राज्ञः समनुवर्तेत नाभिमानमहातमाः ॥ ंो_४,१०.३८ ॥ नियतां शास्त्रनियताम् । प्राज्ञः कथम्भूतः । न अभिमान एवाहङ्कर्तेत्यभिमान एव तमः यस्य । तादृशः ॥ ंोट्_४,१०.३८ ॥ कर्तव्यमेव क्रियते केवलं कार्यकोविदैः । सौषुप्तीं वृत्तिमाश्रित्य कयाचिदपि नाशया ॥ ंो_४,१०.३९ ॥ प्राज्ञैः सर्वं फलानुसन्धानरहितमेव क्रियते इति भावः ॥ ंोट्_४,१०.३९ ॥ क्व सा ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता । मार्गे सर्वप्रसिद्धे हि किमन्ध इव मुह्यसि ॥ ंो_४,१०.४० ॥ सा समनन्तरमेवानुभूता । सर्वप्रसिद्धे लौकिके ॥ ंोट्_४,१०.४० ॥ त्रिकालामलदर्शित्वं धारयन्नपि चेतसि । अविचार्य जगद्यात्रां किं मूर्ख इव मुह्यसि ॥ ंो_४,१०.४१ ॥ त्रिकालामलदर्शित्वं पूर्वापरविमर्शभाजनत्वम् ॥ ंोट्_४,१०.४१ ॥ स्वकर्मफलपाकोत्थामविचार्य दशां सुते । किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुमर्हसि ॥ ंो_४,१०.४२ ॥ स्पष्टम् ॥ ंोट्_४,१०.४२ ॥ देहिनामिह सर्वेषां शरीरं द्विविधं मुने । किं न जानासि वा देहमेकमन्यन्मनोऽभिधम् ॥ ंो_४,१०.४३ ॥ देहं स्थूलदेहम् । अन्यत्द्वितीयम् ॥ ंोट्_४,१०.४३ ॥ तत्र देहो जडोऽत्यर्थं विनाशैकपरायणः । मनस्तूत्थाननियतं कदर्थात्क्षीयते न वा ॥ ंो_४,१०.४४ ॥ उत्थाने सङ्कल्परूपे उद्योगे । नियतं मनः । कदर्थात्क्लेशात् । क्षीयते । अथ वा तेनापि । न क्षीयते ॥ ंोट्_४,१०.४४ ॥ चतुरेण यथा साधो रथः सारथिनोह्यते । कुर्वता किञ्चन स्वेहां देहोऽयं मनसा तथा ॥ ंो_४,१०.४५ ॥ उह्यते स्वाभिमतं देशं प्रति नीयते ॥ ंोट्_४,१०.४५ ॥ असत्सङ्कल्प्य क्रियते सच्छरीरं विनाश्यते । क्षणेन मनसा पङ्कपुरुषः शिशुना यथा ॥ ंो_४,१०.४६ ॥ असतविद्यमानम् । सत्विद्यमानम् ॥ ंोट्_४,१०.४६ ॥ चित्तमेवेह पुरुषस्तत्कृतं कृतमुच्यते । तद्बद्धं कलनाहेतोः कलनास्तं विमुच्यते ॥ ंो_४,१०.४७ ॥ कलनाहेतोः सङ्कल्पाख्यात्कारणात् । कलनास्तमस्तकलनम् ॥ ंोट्_४,१०.४७ ॥ अयं देह इदं नेत्रमिदमङ्गमिदं शिरः । इदं स्फारविकारं तन्मन एवाभिधीयते ॥ ंो_४,१०.४८ ॥ मनः कथम्भूतम् । इदं स्फारविकारम् । इदमिति स्फारः स्फुरणशीलः । विकारः यस्य । तादृशम् । मनः पण्डितैस्तदभिधीयते । तत्किम् । अयं देहः इदं नेत्रमिदमङ्गमिदं शिरः इति यद्भवति ॥ ंोट्_४,१०.४८ ॥ मनो हि जीवज्जीवाख्यं निश्चायकतया तु धीः । अहङ्कारोऽभिमानित्वान्नानात्वं त्विदमेति हि ॥ ंो_४,१०.४९ ॥ जीवत्जीवनक्रियाकर्तृतां भजत् । निश्चायकतया निश्चयकर्तृत्वेन । अभिमानित्वात्देहोऽहमित्यभिमानकर्तृत्वेन । नानात्वजीवादिरूपं नानात्वम् ॥ ंोट्_४,१०.४९ ॥ देहवासनया चेतस्त्वन्यानि स्वानि चेद्धया । पार्थिवानि शरीराणि सन्तीव परिपश्यति ॥ ंो_४,१०.५० ॥ चेतः इद्धया देहवासनया देहोऽहमिति वासनया । अन्यानि परकीयानि । स्वानि स्वकीयानि । पार्थिवानि शरीराणि सन्ति इव पश्यति अनुभवति ॥ ंोट्_४,१०.५० ॥ आलोकयति चेत्सत्यं तदसत्यमयीं मनः । शरीरभावनां त्यक्त्वा परमां याति निर्वृतिम् ॥ ंो_४,१०.५१ ॥ मनः सत्यं सम्यक् । चेतालोकयति । तत्तदा । असत्यमयीमसत्यस्वरूपाम् । शरीरभावनां त्यक्त्वा । परमां निर्वृतिं चिन्मात्रमयतारूपमानन्दम् । याति ॥ ंोट्_४,१०.५१ ॥ फलितमाह तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते । स्वमनोरथमार्गेण दुराद्दूरतरं गतम् ॥ ंो_४,१०.५२ ॥ यतः मन एव सर्वत्र कर्तृ अस्ति तत्ततो हेतोः ॥ ंोट्_४,१०.५२ ॥ इदमौशनसं त्यक्त्वा देहं मन्दरकन्दरे । प्रयातं वैबुधं सद्म नीडोड्डीनः खगो यथा ॥ ंो_४,१०.५३ ॥ औशनसं शुक्रसम्बन्धि ॥ ंोट्_४,१०.५३ ॥ तत्र मन्दारकुञ्जेषु पारिजातगृहेषु च । नन्दनोद्यानषण्डेषु लोकपालपुरीषु च ॥ ंो_४,१०.५४ ॥ स्पष्टम् ॥ ंोट्_४,१०.५४ ॥ मुने चतुर्युगान्यष्टौ विश्वाचीं देवसुन्दरीम् । असेवत महातेजाः षट्पदः पद्मिनीमिव ॥ ंो_४,१०.५५ ॥ स्पष्टम् ॥ ंोट्_४,१०.५५ ॥ तीव्रसंवेगसम्पन्नस्वसङ्कल्पोपकल्पिते । अथ पुण्यक्षये जाते नीहार इव शार्वरे ॥ ंो_४,१०.५६ ॥ स्पष्टम् ॥ ंोट्_४,१०.५६ ॥ प्रम्लानकुसुमोत्तंसः स्विन्नाङ्गावलयालसः । स पपात तया साकं कालपक्वं फलं यथा ॥ ंो_४,१०.५७ ॥ वैबुधं तत्परित्यज्य नभस्येव शरीरकम् । भूताकाशमथासाद्य वसुधायामजायत ॥ ंो_४,१०.५८ ॥ स्पष्टम् ॥ ंो_४,१०.५७५८ ॥ आसीद्द्विजो दशार्णेषु कोसलेषु महीपतिः । धीवरोऽङ्गमहाटव्यां हंसस्त्रिपथगातटे ॥ ंो_४,१०.५९ ॥ स्पष्टम् ॥ ंोट्_४,१०.५९ ॥ सूर्यवंशी नृपः पौण्ड्रे सौरः साल्वेषु दैशिकः । कल्पं विद्याधरः श्रीमान् धीमानथ मुनेः सुतः ॥ ंो_४,१०.६० ॥ पौण्ड्रे देशे । सूर्यवंशी नृपः जातः । साल्वेषु सौरः सूर्यकुलोत्पन्नः । दैशिकः गुरुः । उत्पन्नः ॥ ंोट्_४,१०.६० ॥ मद्रेष्वथ महीपालस्ततस्तापसबालकः । वासुदेव इति ख्यातः समङ्गायास्तटे स्थितः ॥ ंो_४,१०.६१ ॥ स्पष्टम् ॥ ंोट्_४,१०.६१ ॥ अन्यास्वपि विचित्रासु वासनावशतः स्वयम् । विषमास्वेव पुत्रस्ते चचारानन्तयोनिषु ॥ ंो_४,१०.६२ ॥ स्पष्टम् ॥ ंोट्_४,१०.६२ ॥ अन्यपदव्याख्यां कुर्वन् समङ्गातटतापसजन्मनः पूर्वभावीनि जन्मान्तराण्यस्य कथयति अभूद्विन्ध्यवने गोपः किरतः केकयेषु च । सौवीरेषु च सामन्तस्त्रैगर्तश्चैव दैशिकः ॥ ंो_४,१०.६३ ॥ त्रैगर्तः त्रिगर्तदेशसम्बन्धी ॥ ंोट्_४,१०.६३ ॥ वंशगुल्मः किरातेषु हरिणश्चीरजङ्गले । सरीसृपस्तालतले तमाले वनकुक्कुटः ॥ ंो_४,१०.६४ ॥ स्पष्टम् ॥ ंोट्_४,१०.६४ ॥ अयं स पुत्रो भवतो भूत्वा मन्त्रविदां वरः । प्रजजाप पुरा विद्यां विद्याधरपदप्रदाम् ॥ ंो_४,१०.६५ ॥ प्रजजाप जपितवान् । विद्यां मन्त्रम् ॥ ंोट्_४,१०.६५ ॥ तेनासौ भगवन् ब्रह्मन् व्योम्नि विद्याधरो महान् । हारकुण्डलकेयूरी लीलानिचयलासकः ॥ ंो_४,१०.६६ ॥ भगवन् ब्रह्मन् । असौ ते पुत्रः । तेन जपेन । विद्याधरः अभूत् । कीदृशो विद्याधरः अभूदित्यपेक्षायां विशेषणाण्याह हारेति ॥ ंोट्_४,१०.६६ ॥ नायिकानलिनीभानुः पुष्पचाप इवापरः । विद्याधरीणां दयितो गन्धर्वपुरभूषणम् ॥ ंो_४,१०.६७ ॥ स्पष्टम् ॥ ंोट्_४,१०.६७ ॥ स कल्पावधिमासाद्य द्वादशादित्यधामनि । जगाम भस्मशेषत्वं शलभः पावके यथा ॥ ंो_४,१०.६८ ॥ स्पष्टम् ॥ ंोट्_४,१०.६८ ॥ जगन्निर्माणरहिते स्फारे नभसि सा ततः । वासना तस्य बभ्राम निर्नीडा विहगी यथा ॥ ंो_४,१०.६९ ॥ स्पष्टम् ॥ ंोट्_४,१०.६९ ॥ अथ कालेन सञ्जाते विचित्रारम्भकारिणि । संसाराडम्बरारम्भे ब्राह्मी रात्रिविपर्यये ॥ ंो_४,१०.७० ॥ सा मनोवासना तस्य वातव्यावलिता सती । कृते ब्राह्मणतामेत्य जाताद्य वसुधातले ॥ ंो_४,१०.७१ ॥ कृते कृतयुगे । युग्मम् ॥ ंोट्_४,१०.७०७१ ॥ वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः । जातो मतिमतां मध्ये समधीताखिलश्रुतिः ॥ ंो_४,१०.७२ ॥ स्पष्टम् ॥ ंोट्_४,१०.७२ ॥ कल्पं विद्याधरो भूत्वा नद्या अद्य महामुने । तपश्चरति ते पुत्रः समङ्गायास्तटे स्थितः ॥ ंो_४,१०.७३ ॥ स्पष्टम् ॥ ंोट्_४,१०.७३ ॥ सर्गान्तश्लोकेन जरढयोनिगमनं कथयति विविधविषमवासनानुवृत्त्या खदिरकरञ्जकरालकोटरासु । जगति जरढयोनिषु प्रयातो गहनतरासु च काननस्थलीषु ॥ ंो_४,१०.७४ ॥ जरढयोनिपक्षे खदिरकरञ्जकरालासु नानाविधदुःखसङ्कटासु । इति शिवम् ॥ ंोट्_४,१०.७४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे दशमः सर्गः ॥१०॥ ********************************************************************* अद्योद्दामतरङ्गौघझाङ्काररणितानिले । तीरे वरतरङ्गिण्याः तपस्तपति ते सुतः ॥ ंो_४,११.१ ॥ वरतरङ्गिण्याः समङ्गायाः । तपति चरति ॥ ंोट्_४,११.१ ॥ जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः । तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे ॥ ंो_४,११.२ ॥ स्पष्टम् ॥ ंोट्_४,११.२ ॥ यदीच्छसि मुने द्रष्टुं तं स्वपुत्रमनोभ्रमम् । तत्समुन्मील्य विज्ञाननेत्रमाशु विलोकय ॥ ंो_४,११.३ ॥ स्वपुत्राकारं मनोभ्रमं स्वपुत्रमनोभ्रमम् । स्वपुत्रमिति यावत् ॥ ंोट्_४,११.३ ॥ इत्युक्ते जगदीशेन कालेन समदृष्टिना । मुनिः सञ्चिन्तयामास ज्ञानाक्ष्णा तनयेहितम् ॥ ंो_४,११.४ ॥ स्पष्टम् ॥ ंोट्_४,११.४ ॥ ददर्श च मुहूर्तेन प्रतिभासवशादसौ । पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम् ॥ ंो_४,११.५ ॥ ददर्श ज्ञानदृष्ट्या दृष्टवान् ॥ ंोट्_४,११.५ ॥ पुनर्मन्दरसानुस्थां काले कालाग्रसंस्थिताम् । समङ्गायास्तटादेत्य विवेश स्वतनुं भृगुः ॥ ंो_४,११.६ ॥ काले स्वल्पकाले । कालाग्रसंस्थितां कालपुरोवर्तिनीम् ॥ ंोट्_४,११.६ ॥ विस्मयस्मेरया दृष्ट्या कालमालोक्य कान्तया । वीतरागमुवाचेदं वीतरागो मुनिर्वचः ॥ ंो_४,११.७ ॥ कालस्य समवर्तित्वात्वीतरागित्वम् ॥ ंोट्_४,११.७ ॥ भृगुः कथयति भगवन् भूतभव्येश बाला वयमनाबिला । त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी ॥ ंो_४,११.८ ॥ बालाः मूर्खाः । अनाविलेत्यस्य उत्तरार्धेन सम्बन्धः ॥ ंोट्_४,११.८ ॥ नानाकारं विकाराढ्या सत्येवासत्यरूपिणी । विभ्रमं जनयत्येषा धीरस्यापि जगद्गतिः ॥ ंो_४,११.९ ॥ जगद्गतिः जगद्रचना ॥ ंोट्_४,११.९ ॥ त्वमेव देव जानासि त्वदभ्यन्तरवर्ति यत् । रूपमस्या मनोवृत्तेरिन्द्रजालविधायकम् ॥ ंो_४,११.१० ॥ त्वदभ्यन्तरवर्ति त्वन्मध्यवर्ति ॥ ंोट्_४,११.१० ॥ मत्पुत्रस्यास्य भगवन्मृत्युः किल न विद्यते । तेनेमं मृतमालोक्य जातः सम्भ्रमवानहम् ॥ ंो_४,११.११ ॥ शुक्रस्य चिरजीवित्वात् ॥ ंोट्_४,११.११ ॥ अक्षीणजीवितं पुत्रं कालो मे नीतवानिति । नियतेर्वशतो देव त्वच्छापेच्छा ममोदिता ॥ ंो_४,११.१२ ॥ नियतेरिति । मम या त्वच्छापेच्छा जाता सापि नियतिरेव । अतो मम न कोऽपि दोष इति भावः ॥ ंोट्_४,११.१२ ॥ न तु विज्ञातसंसारगतयो वयमापदम् । सम्पदं वापि गच्छामो हर्षामर्षवशं किल ॥ ंो_४,११.१३ ॥ प्राप्येति शेषः । आपदं प्राप्य । सम्पदं वा प्राप्येति ॥ ंोट्_४,११.१३ ॥ अयुक्तकारिणि क्रोधः प्रसादो युक्तकारिणि । कर्तव्य इति रूढेयं सांसारी भगवन् स्थितिः ॥ ंो_४,११.१४ ॥ अतः त्वय्ययुक्तकारित्वमाशङ्क्य मया क्रोधः कृत इति भावः ॥ ंोट्_४,११.१४ ॥ इदं कार्यमिदं नेति यावज्जीवं जगत्क्रमः । यावदग्निः स्थिता तावदौष्ण्यदाहादिदृष्टयः ॥ ंो_४,११.१५ ॥ स्पष्टम् ॥ ंोट्_४,११.१५ ॥ इदं कार्यमिदं नेति हेया यस्य जगत्स्थितिः । तस्यैतत्सम्परित्यागो हेय एव जगद्गुरो ॥ ंो_४,११.१६ ॥ यस्य । इदं कार्यमिदं न कार्यम् । इति एवंरूपा । जगत्स्थितिः हेया भवति । तस्य तत्सम्परित्यागोऽपि हेय एव । तत्त्यागस्यापि जगत्स्थितिरूपत्वात् । अतो मया पूर्वस्थितिः न त्यक्तेति भावः ॥ ंोट्_४,११.१६ ॥ केवलं तानयीं चिन्तामनालोक्य यदा वयम् । भगवन् भवते क्षुब्धा याताः स्मस्तेन वाच्यताम् ॥ ंो_४,११.१७ ॥ तानयीं तनयसम्बन्धिनीम् । वाच्यतां त्वत्क्रोधकारित्वरूपनिन्दायोग्यताम् ॥ ंोट्_४,११.१७ ॥ त्वयेदानीमहं देव स्मारितस्तनयेहितम् । समङ्गायास्तटे तेन दृष्टोऽयं तनयो मया ॥ ंो_४,११.१८ ॥ स्पष्टम् ॥ ंोट्_४,११.१८ ॥ मन्ये जगति भूतानां द्वे शरीरे न सर्वग । मन एव शरीरं हि येनेदं भाव्यते जगत् ॥ ंो_४,११.१९ ॥ हे सर्वग । अहं मन्ये । इहलोके भूतानां द्वे शरीरे न भवतः । हि यस्मात् । मन एव शरीरं भवति । येन मनसा । इदं जगत्भाव्यते भावनया प्रकटीक्रियते ॥ ंोट्_४,११.१९ ॥ काल आह सम्यगुक्तं त्वया ब्रह्मञ्शरीरं मन एव नः । करोति देहं सङ्कल्प्य कुम्भकारो घटं यथा ॥ ंो_४,११.२० ॥ स्पष्टम् ॥ ंोट्_४,११.२० ॥ करोत्यकृतमाकारं कृतं नाशयति क्षणात् । सङ्कल्पेन मनो मोहाद्बालो वेतालकं यथा ॥ ंो_४,११.२१ ॥ मोहातज्ञानात् ॥ ंोट्_४,११.२१ ॥ तथा च सम्भ्रमे स्वप्नमिथ्याज्ञानादिभास्वराः । गन्धर्वनगराकारा दृष्टा मनसि शक्तयः ॥ ंो_४,११.२२ ॥ स्पष्टम् ॥ ंोट्_४,११.२२ ॥ स्थूलदृष्टिदृशं त्वेतामवलम्ब्य महामुने । पुंसो मनः शरीरं च कायौ द्वाविति कथ्यते ॥ ंो_४,११.२३ ॥ स्थूलदृष्टिरूपा दृक्स्थूलदृष्टिदृक् । ताम् ॥ ंोट्_४,११.२३ ॥ मनोमनननिर्माणमात्रमेतज्जगत्त्रयम् । न सन्नासदिव स्फारमुदितं नेतरन्मुने ॥ ंो_४,११.२४ ॥ एतत्जगत् । मनसः यत्मननं मननाख्यो धर्मः । तन्मात्रमेव भवति । कथम्भूतम् । न सत्नासतनिर्वचनीयमित्यर्थः । पुनः कथम्भूतम् । स्फारमिवोदितं स्फुरणशीलमिव प्रादुर्भूतम् । परमार्थतस्तु नोदितमितीवशब्दोपादानम् । मात्रशब्दस्यार्थं स्वकण्ठेन कथयति नेतरदिति ॥ ंोट्_४,११.२४ ॥ चित्तदेहाङ्गलतया भेदवासनयेद्धया । द्विचन्द्रत्वमिवाज्ञानान्नानातेयं समुत्थिता ॥ ंो_४,११.२५ ॥ चित्ताख्यस्य देहस्याङ्गलतया अङ्गलतारूपया । भेदवासनया द्वैतवासनया । इद्धया पुष्टया सत्या । इयं जगद्रूपा । नानाता समुत्थिता प्रादुर्भूता । किमिव । द्विचन्द्रत्वमिव । यथा द्विचन्द्रत्वमज्ञानात्समुत्तिष्ठति । तथेत्यर्थः ॥ ंोट्_४,११.२५ ॥ भेदवासनया बह्व्या पदार्थनिचयं मनः । भिन्नं पश्यति सर्वत्र घटावटपटादिकम् ॥ ंो_४,११.२६ ॥ बह्व्या विस्तीर्णया । सर्वत्र सर्वेषु देशेषु कालेषु च ॥ ंोट्_४,११.२६ ॥ कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः । भावयत्स्वविकल्पोत्था याति संसारतां मनः ॥ ंो_४,११.२७ ॥ संसारतां संसारभावम् ॥ ंोट्_४,११.२७ ॥ मननं कृत्रिमं रूपं ममैतन्न पताम्यहम् । इति तत्त्यागतः शान्तं चेतो ब्रह्म सनातनम् ॥ ंो_४,११.२८ ॥ तत्त्यागतः मननत्यागतः । सनातनमनादि ॥ ंोट्_४,११.२८ ॥ यथेत्यादिं निरामया इत्यन्तमेकं दृष्टान्तं विस्तरेण कथयति यथा प्रविततेऽम्बोधौ ततेऽनेकतरङ्गिणि । सोम्यस्पन्दमयानेककल्लोलावलिशालिनि ॥ ंो_४,११.२९ ॥ वार्यात्मनि समे स्वच्छे शुद्धे स्वादुनि शीतले । अविनाशिनि विस्तीर्णे महामहिमनि स्फुटे ॥ ंो_४,११.३० ॥ त्र्यश्रस्तरङ्गः स्वं रूपं भावयन् स स्वभावतः । त्र्यश्रोऽस्मीति विकल्पेन करोति स्वेन कल्पनाम् ॥ ंो_४,११.३१ ॥ भ्रश्यंश्चैव परिभ्रष्टरूपोऽस्मीति तलातलम् । भावयन् भूतलं याति तादृग्भावनया तया ॥ ंो_४,११.३२ ॥ उत्थितं च बलादूर्ध्वमुत्थितोऽस्मीति भावितः । तैस्तैर्विकल्पैस्तद्भावं विकल्पयति साभिधम् ॥ ंो_४,११.३३ ॥ ससूर्यप्रतिबिम्बस्तु प्रकाशोऽस्मीति भावितः । सरजःपुञ्जपातस्तु मलिनोऽस्मीति भावितः ॥ ंो_४,११.३४ ॥ सरत्नरश्मिजालस्तु शोभते दीप्तया श्रिया । तुषारभरविद्धस्तु शीतलोऽस्मीति विन्दति ॥ ंो_४,११.३५ ॥ सतटाचलदावाग्निप्रतिबिम्बोज्ज्वलद्वपुः । बिभेति वत दग्धोऽस्मीत्यात्तमीनश्च कम्पते ॥ ंो_४,११.३६ ॥ प्रतिबिम्बितवेलाद्रितटपक्षिवनद्रुमः । महानारम्भसंरम्भसंयुतोऽस्मीति राजते ॥ ंो_४,११.३७ ॥ विमलोल्लसनोत्पन्नध्वस्तलोलशरीरकः । खण्डशः परियातोऽस्मीत्यात्ताक्रन्द इवारवी ॥ ंो_४,११.३८ ॥ न चोर्मयस्ते जलधेर्व्यतिरिक्ताः पयोरसात् । न चैकं रूपमेतेषां किञ्चित्सन्नप्यसन्मयम् ॥ ंो_४,११.३९ ॥ न च ते न्यूनदैर्घ्याद्या गुणास्तेषु च तेषु च । नोर्मयः संस्थिता अब्धौ न च तत्र न संस्थिताः ॥ ंो_४,११.४० ॥ केवलं स्वस्वभावस्थसङ्कल्पविकलीकृताः । नष्टानष्टाः पुनर्जाता जाताजाताः पुनः क्षताः ॥ ंो_४,११.४१ ॥ परस्परपरामर्शान्नानातामुपयान्त्यलम् । एकरूपाम्बुसामान्यमया एव निरामयाः ॥ ंो_४,११.४२ ॥ अनेकतरङ्गिणि अनेकतरङ्गयुक्ते । सोम्यस्पन्दमय्यः सोम्यजलस्पन्दरूपाः । अनेककल्लोलावलयः । ताभिः शालिनि । एतादृशे वार्यात्मनि । यथा सः प्रसिद्धः त्र्यश्रः त्र्यश्राकारः तरङ्गः । स्वं रूपं त्र्यश्ररूपं स्वं रूपम् । भावयन् प्रमातारं प्रति प्रकटीकुर्वन् । स्वभावतः उत्थितेन स्वेन स्वस्माद् । अव्यतिरिक्तेन त्र्यश्रोऽस्मीति विकल्पेन कल्पनां त्र्यश्राकारकल्पनाम् । करोति । न केवलमेतामेव करोति । किं त्वन्या अपि क्रियाः करोति इत्याह भ्रश्यंश्चेत्यादि । सः त्र्यश्रः तरङ्गः परिभ्रष्टोऽस्मीति भावयन् । अत एव भ्रश्यन् । ततः तलातलं तलातलाख्यम् । भूतलम् । तया तादृग्भावनया । याति गच्छति । उत्थितमिति । सः त्र्यश्रः तरङ्गः ऊर्ध्वमुत्थितोऽस्मीति भावितः । अत एव उत्थितश्च तैः तैः विकल्पैः उत्थानविकल्पैः । साभिधमभिधासहितम् । तद्भावमुत्थानभावम् । विकल्पयति विकल्पेन सम्पादयति । ससूर्येति स्पष्टम् । सरत्नेति स्पष्टम् । सतटेति । आत्तमीनः । मीनैः आत्त आत्तमीनः । प्रतिबिम्बितेति स्पष्टम् । विमल इति । विमलं यतुल्लसनम् । तेन उत्पन्नं यत्ध्वस्तं ध्वंसः । तेन लोलं शरीरं यस्य । सः । न चोर्मय इति । ते पूर्वोक्ताः । पूर्वमेकवचनं जात्यपेक्षया ज्ञेयम् । तेनेह बहुवचनप्रयोगः । न चेति । ते च ऊर्मयः । तेषु गुणेषु । न भवन्ति । केवलमिति । स्वस्वभावस्थः स्वस्वरूपस्थः । यः विकल्पः तरङ्गतासादनरूपः विकल्पः । तेन विकलीकृताः पयसः उच्छिन्नाः कृताः । परस्परेति । परस्परमन्योऽन्यम् । यः परामर्शः निकटे अवस्थितिः । तस्मात् । नानातामुपयान्ति । कथम्भूताः । एकं रूपं यतम्बुसामान्यम् । तन्मयाः एव । अत एव निरामयाः नाशोत्पादाख्यरोगरहिताः ॥ ंोट्_४,११.२९४२॥ दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति द्वाभ्याम् तथैवास्मिन् प्रवितते सिते शुद्धे निरामये । ब्रह्ममात्रैकवपुषि ब्रह्मणि स्फाररूपिणि ॥ ंो_४,११.४३ ॥ सर्वशक्तावनाद्यन्ते पृथग्वदपृथक्कृताः । संस्थिताः शक्तयश्चित्रा विचित्राचारचञ्चलाः ॥ ंो_४,११.४४ ॥ सितपदस्यार्थं स्वकण्ठेन कथयति शुद्धे इति । निरामये चेत्याख्यादामयात्निष्क्रान्ते । ब्रह्ममात्रमेकं केवलम् । वपुः स्वरूपं यस्य । तादृशे । स्फारं स्फुरणशीलम् । वपुरस्यास्तीति । तादृशे । एतादृशे ब्रह्मणि । अपृथक्कृताः शक्तयः । तथैव तरङ्गवत् । पृथग्वत्संस्थिताः भवन्ति । युग्मम् ॥ ंोट्_४,११.४३४४॥ नानाशक्ति हि नानात्वमेति स्ववपुषि स्थितम् । बृंहितं ब्रह्मणि ब्रह्म पयसीवोर्मिमण्डलम् ॥ ंो_४,११.४५ ॥ ब्रह्म शुद्धं चिन्मात्रतत्त्वम् । ब्रह्मणि स्ववपुषि ब्रह्माख्ये स्वस्वरूपे । बृंहितं जगद्रूपया बृंहिततया युक्तं सत् । नानात्वं नानाभावम् । एति गच्छति । कथम्भूतम् । नानाशक्ति । अन्यथा नानात्वगमनं युक्तं न स्यादिति भावः । ब्रह्म किमिव बृंहितम् । पयसि ऊर्मिमण्डलमिव ॥ ंोट्_४,११.४५ ॥ ननु यदि पटादिरूपेण ब्रह्मैव बृंहितमस्ति तर्हि पदार्थानां प्रत्येकं नियतं रूपं कथमस्तीत्य् । अत्राह नानारूपकरूपत्वाद्वैरूप्यशतकारिणी । नियतिर्नियताकारा पदार्थमधितिष्ठति ॥ ंो_४,११.४६ ॥ नानारूपकं यत्रूपम् । तद्युक्तत्वात्वैरूप्यशतकारिणी पदार्थानां प्रति नियतरूपाख्यविरूपताशतकारिणी । नियतिः नियत्याख्या शक्तिः । पदार्थमधितिष्ठति स्ववशं करोति । ब्रह्मणः उत्पन्नया नियतिशक्त्या एव पदार्थानां प्रत्येकं नियतं रूपमस्तीति भावः ॥ ंोट्_४,११.४६ ॥ सामान्येनोक्त्वा स्तोकं विशेषेण कथयति जडा जाड्यमुपादत्ते चित्त्वमायाति चिन्मयी । वासनारूपिणी शक्तिः स्वस्वरूपस्थितात्मनः ॥ ंो_४,११.४७ ॥ वासनारूपिणी वासनारूपेण स्थिता । स्वस्वरूपस्थितः यः आत्मा । तस्य । शक्तिः नियतिशक्तिः । जडा जाड्यवासनारूपिणी भूत्वा । जाड्यमुपादत्ते गृह्णाति । येन स्थावरं रूपं प्रकटीकरोति । चिन्मयी चेतनत्ववासनारूपिणी भूत्वा । चित्त्वमायाति । येन जङ्गमं रूपं प्रकटीकरोति ॥ ंोट्_४,११.४७ ॥ फलितमाह ब्रह्मैवानघ तेनेदं स्फाराकारं विजृम्भते । नानारूपैः परिस्पन्दैः परिपूर्ण इवार्णवः ॥ ंो_४,११.४८ ॥ हे अनघ । तेन ततः हेतोः । इदं स्फाराकारं जगत् । ब्रह्मैव विजृम्भते विलसति । क इव । परिपूर्णः अर्णवः इव । यथा सः नानारूपैः परिस्पन्दैः तरङ्गाख्यैः परिस्पन्दैः । विजृम्भते । तथेत्यर्थः ॥ ंोट्_४,११.४८ ॥ नानातां स्वयमादत्ते नानाकारविहारतः । आत्मैवात्मन्यात्मनैव समुद्राम्भ इवाम्भसि ॥ ंो_४,११.४९ ॥ नानाकारार्थं नानाकारग्रहणार्थम् । यः विहारः क्रीडा । तस्मात् ॥ ंोट्_४,११.४९ ॥ व्यतिरिक्ता न पयसो विचित्रा वीचयो यथा । व्यतिरिक्ता न सर्वेशात्समग्राः कलनास्तथा ॥ ंो_४,११.५० ॥ सर्वेशात्सर्वनियामकत्वेन स्थितात्चिन्मात्रतत्त्वात् । कलनाः जगद्रूपाः कलनाः ॥ ंोट्_४,११.५० ॥ स्तम्भपुष्पलतापत्त्रफलकोरकयुक्तयः । यथैकस्मिं स्थिता बीजे तथा ब्रह्मणि शक्तयः ॥ ंो_४,११.५१ ॥ शक्तयः जगद्रूपाः शक्तयः ॥ ंोट्_४,११.५१ ॥ नानाकर्तृतया नानाशक्तिता पुरुषे यथा । तथैवात्मनि सर्वज्ञे सर्वदा सर्वशक्तिता ॥ ंो_४,११.५२ ॥ सर्वशक्तितायां हेतुमाह सर्वज्ञ इति । यदि हि सर्वशक्तिः न स्यात्तर्हि सर्वज्ञः न स्यात् । सर्वज्ञत्वं चात्र सर्वकर्तृतायां विश्रान्तम् । न हि यः सर्वं न जानाति सः सर्वं करोति । कुलालादौ घटादिज्ञानस्य नियतत्वेन दर्शनात् ॥ ंोट्_४,११.५२ ॥ विचित्रवर्णता यद्वद्दृश्यते कठिनातपे । विचित्रशक्तिता तद्वद्देवेशे सदसन्मयी ॥ ंो_४,११.५३ ॥ स्पष्टम् ॥ ंोट्_४,११.५३ ॥ विचित्ररूपोदेतीयमविचित्रात्स्थितिः शिवात् । एकवर्णात्पयोवाहाच्छक्रचापलता यथा ॥ ंो_४,११.५४ ॥ स्पष्टम् ॥ ंोट्_४,११.५४ ॥ अजडाज्जडतोदेति जाड्यभावनहेतुका । ऊर्णनाभाद्यथा तन्तुर्यथा पुंसः सुषुप्तता ॥ ंो_४,११.५५ ॥ जाड्यस्य जडत्वस्य । यत्भावनं सङ्कल्पनम् । तदेव हेतुः यस्याः । तादृशी ॥ ंोट्_४,११.५५ ॥ अचित्तश्चैतसीं शक्तिं स्वबन्धायेच्छया शिवः । तनोति तान्तवं कोशं कोशकारक्रिमिर्यथा ॥ ंो_४,११.५६ ॥ अचित्तः अत्यन्तशुद्धत्वेन चित्तरहितः । तान्तवं तन्तुसम्बन्धि ॥ ंोट्_४,११.५६ ॥ स्वेच्छयात्मात्मनो ब्रह्मन् भावयित्वा स्वकं वपुः । संसारान्मोक्षमायाति स्वालानादिव वारणः ॥ ंो_४,११.५७ ॥ आत्मा आत्मनः । आत्मसम्बन्धिन्या स्वेच्छया । स्वकं निजम् । वपुः चिन्मात्राख्यं स्वरूपम् । भावयित्वा स्वस्वरूपत्वेन भावनाविषयतां नीत्वा । संसारात्देहोऽहमिति भावनारूपात्संसारात् । मोक्षं मुक्तिम् । आयति । क इव । वारणः इव । यथासौ स्वालानात्मोक्षमायाति । तथेत्यर्थः । स्वेच्छाशब्दोऽत्र इच्छामात्रवाचकः ॥ ंोट्_४,११.५७ ॥ यदेव भावयत्यात्मा सततं भावितः स्वयम् । तयैवापूर्यते शक्त्या शीघ्रमेव महानपि ॥ ंो_४,११.५८ ॥ यदेव यामेव शक्तिम् । सततं भावितः सदा वासितः । महानपि व्यापकोऽपि सन् ॥ ंोट्_४,११.५८ ॥ भाविता शक्तिरात्मानमात्मतां नयति क्षणात् । अनन्तमपि खं प्रावृण्मिहिका महती यथा ॥ ंो_४,११.५९ ॥ भाविता भावनाविषयीकृता । आत्मताम् । शक्तिरूपः यः आत्मा । तत्ताम् । मिहिकापक्षे आत्मतां मिहिकात्वम् ॥ ंोट्_४,११.५९ ॥ या शक्तिरुदिता शीघ्रं याति तन्मयतामजः । यामेव तु स्थितिं यातस्तन्मयो भवति द्रुमः ॥ ंो_४,११.६० ॥ अजः जन्मरहितः शुद्धं चिन्मात्रतत्त्वम् । स्थितिमाधाररूपं भूमिम् । द्रुमस्य आधारभूतभूम्यनुरूपत्वेनारोहणात् ॥ ंोट्_४,११.६० ॥ न मोक्षो मोक्ष ईशस्य न बन्धो बन्ध आत्मनः । बन्धमोक्षदृशौ लोके न जाने प्रोत्थिते कुतः ॥ ंो_४,११.६१ ॥ ईशस्यात्मनः । आत्मनः ईशस्य । तर्हि बन्धमोक्षौ कस्य भवत इत्य् । अत्राह बन्धेति । बन्धमोक्षयोरुत्थानमेव परमार्थतो नास्तीति का तदाधारचिन्तेति भावः ॥ ंोट्_४,११.६१ ॥ नास्य बन्धो न मोक्सोऽस्ति तन्मयश्चैव लक्ष्यते । ग्रस्तं नित्यमसत्येन मायामयमहो जगत् ॥ ंो_४,११.६२ ॥ अस्यात्मनः । परमार्थतः बन्धः नास्ति । मोक्षोऽपि नास्ति । किं तु आमुखतः तन्मयः बन्धमोक्षमयः । लक्ष्यते । ननु तर्हि जगति बन्धमोक्षकलना कथमस्तीत्य् । अत्राह । जगच्छब्देनात्र जगद्गताः प्रमातारः लक्ष्यन्ते । अहो आश्चर्ये । जगत्जगद्गताः प्रमातारः । असत्येन असत्यभूतेन बन्धमोक्षाख्येन केनापि । ग्रस्तं स्वकलनाविष्टं कृतम् । अत्र हेतुं विशेषणद्वारेणाह मायामयमिति । मायामयत्वादेवासत्येन ग्रस्तत्वमिति भावः ॥ ंोट्_४,११.६२ ॥ ननु कथमात्मा बन्धमोक्षादिकलनाग्रस्त इव सम्पन्न इत्य् । अत्राह यदैव चित्तं कलितमकलेन किलात्मना । कोशकीटवदात्मायमनेनावलितस्तदा ॥ ंो_४,११.६३ ॥ अकलेन अखण्डत्वात्कलारहितेन । अनेनात्मना यदैव चित्तं कलितं कलनया प्रकटीकृतम् । तदानेनात्मना कोशकीटवत्कोशकारक्रिमिवत् । आत्मा स्वस्वरूपम् । आवृतः । बन्धमोक्षादिकलनारूपेण कोशेनावृतः ॥ ंोट्_४,११.६३ ॥ नन्वेतेनात्मना कलितं मनः कस्मादुपादानान्निर्गतमित्य् । अत्राह अनन्यरूपास्त्वन्यत्वविकल्पितशरीरकाः । मनःशक्तय एतस्मादिमा निर्यान्ति कोटिशः ॥ ंो_४,११.६४ ॥ अनन्यरूपाः अभिन्नाः । इमाः पृथक्त्वेन वर्तमानाः ॥ ंोट्_४,११.६४ ॥ तत्स्थास्तज्जाः पृथग्रूपाः समुद्रादिव वीचयः । तत्स्थास्तज्जाः पृथक्स्थाश्च चन्द्रादिव मरीचयः ॥ ंो_४,११.६५ ॥ तत्स्थाः तस्मिन् परमात्मनि स्थिताः । तज्जाः तस्मात्परमात्मनः जाताः । एताः मनःशक्तयः पृथग्रूपाः भवन्ति । का इव । वीचय इव । यथा वीचयः समुद्रात्पृथग्रूपाः भवन्ति । तथेत्यर्थः । द्वितीयं दृष्टान्तं कथयति तत्स्था इति ॥ ंोट्_४,११.६५ ॥ अस्मिन् स्पन्दमये स्फारे परमात्ममहाम्बुधौ । चिज्जले वितताभोगे चिन्मात्ररसशालिनि ॥ ंो_४,११.६६ ॥ काश्चित्स्थिता हरिब्रह्मरुद्रचिद्वलनाधिकाः । लहर्यः प्रस्फुरन्त्येताः स्वभावोद्भावितात्मिकाः ॥ ंो_४,११.६७ ॥ स्पन्दमये अहंविमर्शमये । अहंविमर्शस्यैवात्र स्पन्दत्वात् । स्फारे विस्तीर्णे । चित्चेत्योन्मुखा चित् । सा एव जलं यस्मिन् । तादृशे । चिन्मात्रं चेत्यानुन्मुखा चित् । सा एव रसः यस्मिन् । तादृशे । रसः जलस्य सारभूतः आस्वादाख्यो गुणः ज्ञेयः । एतादृशे परमात्ममहाम्बुधौ । काश्चितेताः लहर्यः चिल्लहर्यः । प्रस्फुरन्ति । लहर्यः कथम्भूताः स्थिताः । हरिब्रह्मरुद्ररूपाः याः चिद्वलना चित्स्पन्दाः । ताः अधिकं यासाम् । तादृश्यः स्थिताः । पुनः कथम्भूताः । स्वभावातुद्भावितः प्रकटीभावं गतः । आत्मा यासाम् । ताः । काश्चिल्लहर्यः हरिब्रह्मरुद्ररूपतया स्फुरन्तीति भावः ॥ ंोट्_४,११.६६६७ ॥ काश्चिद्यममहेन्द्रार्कवह्निवैश्रवणादिकाः । घ्नन्ति कुर्वन्ति तिष्ठन्ति लहर्यश्चपलैषणाः ॥ ंो_४,११.६८ ॥ चपलाः एषणाः इच्छाः । यासाम् । ताः ॥ ंोट्_४,११.६८ ॥ काश्चित्किन्नरगन्धर्वविद्याधरसुरादिकाः । उत्पतन्ति पतन्त्युग्रा लहर्यः परिवल्गिताः ॥ ंो_४,११.६९ ॥ परिवल्गिताः स्पन्दिताह् ॥ ंोट्_४,११.६९ ॥ काश्चित्किञ्चित्स्थिताकारा यथा कमलजादिकाः । काश्चिदुत्पन्नविध्वस्ता यथा सुरनरादिकाः ॥ ंो_४,११.७० ॥ किञ्चित्कालं स्थितः आकारः यासाम् । ताः किञ्चित्स्थिताकाराः ॥ ंोट्_४,११.७० ॥ क्रिमिकीटपतङ्गादिगोनासाजगरादिकाः । काश्चित्तस्मिन्महाम्भोधौ स्फुरन्त्येतेषु बिन्दुवत् ॥ ंो_४,११.७१ ॥ एतेष्विति बहुवचनं पादपूरणार्थम् । तेनैतस्मिन्महाम्भोधाविति योज्यम् ॥ ंोट्_४,११.७१ ॥ काश्चिच्चलाननमृगगृध्रवञ्जुलकादयः । स्फुरन्ति गिरिकुञ्जेषु वेलावनतटेष्विव ॥ ंो_४,११.७२ ॥ स्पष्टम् ॥ ंोट्_४,११.७२ ॥ सुदीर्घजीविताः काश्चित्काश्चिदत्यल्पजीविताः । स्वतुच्छभावनात्तुच्छात्काश्चित्तुच्छशरीरिकाः ॥ ंो_४,११.७३ ॥ काश्चित्तुच्छातसत्यात् । स्वतुच्छभावनात्स्वविषयात्तुच्छविकल्पनात् । तुच्छशरीरिकाः भवन्ति ॥ ंोट्_४,११.७३ ॥ संसारस्वप्नसंरम्भे काश्चित्स्थैर्येण भाविताः । स्वविकल्पहताः काश्चिच्छङ्कन्ते सुस्थिरं जगत् ॥ ंो_४,११.७४ ॥ स्थैर्येण स्थिरतया । भाविताः स्थिरोऽयं संसार इति वासनायुक्ताः कृताः ॥ ंोट्_४,११.७४ ॥ अल्पाल्पभावनाः काश्चिद्दैन्यदोषवशीकृताः । कृशोऽतिदुःखी मूढोऽहमिति दुःखैर्दृढीकृताः ॥ ंो_४,११.७५ ॥ अत्र भावनायाः अल्पाल्पत्वमतिमौढ्येन ज्ञेयम् ॥ ंोट्_४,११.७५ ॥ काश्चित्स्थावरतां याताः काश्चिद्देवत्वमागताः । काश्चित्पुरुषतां प्राप्ताः काश्चिद्दानवतां गताः ॥ ंो_४,११.७६ ॥ स्पष्टम् ॥ ंोट्_४,११.७६ ॥ सर्गान्तश्लोकेन पूर्वोक्तमेवार्थं सङ्क्षिप्य कथयति काश्चित्स्थिता जगति कल्पशतान्यनल्पाः काश्चिद्व्रजन्ति परमं पुरुषं सुशुद्धाः । ब्रह्मार्णवात्समुदिता लहरीविलोलाश् चित्संविदो हि मननापरनामवत्यः ॥ ंो_४,११.७७ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायामेकादशः सर्गः ॥११॥ ********************************************************************* सुरासुरनराकारा इमा याः संविदो मुने । ब्रह्मार्णवादभिन्नास्ते सत्यमेतन्मृषेतरत् ॥ ंो_४,१२.१ ॥ एतत् । सुरासुरनराकारा याः संविदः । ब्रह्मार्णवादभिन्नत्वम् । इतरत्भिन्नत्वम् । सुरासुरनराणां प्राधान्यात्ग्रहणम् ॥ ंोट्_४,१२.१ ॥ सुरासुरनराकाराः संविदः विशिनष्टि मिथ्याभावनया ब्रह्मन् स्वविकल्पकलङ्किताः । न ब्रह्म वयमित्यन्तर्निश्चयेन ह्यधोगताः ॥ ंो_४,१२.२ ॥ कलङ्कितत्वे उत्तरार्धेन हेतुं कथयति न ब्रह्मेति । हिशब्दः यस्मादर्थे ॥ ंोट्_४,१२.२ ॥ ब्रह्मणो व्यतिरिक्तत्वं ब्रह्मार्णवगता अपि । भावयन्त्यो विमुह्यन्ति भीमासु भवभूमिषु ॥ ंो_४,१२.३ ॥ भीमासु दुःखदायित्वेनात्यन्तभयानकासु ॥ ंोट्_४,१२.३ ॥ या एताः संविदो ब्राह्म्यो मुने नैककलङ्किताः । एतत्तत्कर्मणां बीजमथ कर्मैव विद्धि वा ॥ ंो_४,१२.४ ॥ एताः सुरासुरनराकारत्वेन पूर्वमुक्ताः । संविदः परामर्शाः । ब्राह्म्यः ब्रह्मसम्बन्धिन्यः । नैककलङ्किताः न एकेन प्रकारेण कलङ्किताः । बहुप्रकारेण कलङ्किता इत्यर्थः । ततेतत्ता एताः ब्राह्मीः संविदः । कर्मणां बीजं कारणम् । विद्धि । अथ वा कर्मैव विद्धि । कर्मत्वेनेष्टस्य बाह्यकर्मणः एतदनु प्रणीतत्वात् । न हि संवित्परामर्शमन्तरेण बाह्यकर्मणः उत्थानं दृष्टं युक्तं वा ॥ ंोट्_४,१२.४ ॥ एतासामेव समस्तजगन्निमित्तत्वं कथयति सङ्कल्परूपयैवान्तर्मुने कलनयैतया । कर्मजालकरञ्जानां बीजमुष्ट्या करालया ॥ ंो_४,१२.५ ॥ इमा जगति विस्तीर्णे शरीरोपलपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति च ॥ ंो_४,१२.६ ॥ आब्रह्मस्तम्भपर्यन्तं स्पन्दनैः पवनो यथा । उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च ॥ ंो_४,१२.७ ॥ हे मुने । सङ्कल्परूपया सङ्कल्पस्वरूपया । कर्मजालकरञ्जानां बीजमुष्ट्या कर्मजालकारणभूतयेति यावत् । अत एव विकरालया भयानकया । एतया कलनया संविद्रूपया कलनया । विस्तीर्णे जगति आब्रह्मस्तम्भपर्यन्तं शरीरोपलपङ्क्तयः शरीरपाषाणपङ्क्तयः । तिष्ठन्ति परिवल्गन्ति रुदन्ति च हसन्ति उल्लसन्ति नियच्छन्ति म्लायन्ति विहसन्ति च उपलक्षणं चैतत् । सर्वाः क्रियाः कुर्वन्तीत्यर्थः । मृतशरीरेषु पूर्वोक्तक्रियाणामदर्शनात् । को यथा । पवनो यथा । यथा पवनः स्वान्तःस्थैः स्पन्दनैः नानाविधाः क्रियाः करोति । तथेत्यर्थः ॥ ंोट्_४,१२.७ ॥ ता एताः काश्चिदत्यच्छा यथा हरिहरादयः । काश्चिदल्पविमोहस्था यथोरगनरामरा ॥ ंो_४,१२.८ ॥ स्पष्टम् ॥ ंोट्_४,१२.८ ॥ काश्चिदत्यन्तमोहस्था यथा तरुतृणादयः । काश्चिदज्ञानसम्मूढाः क्रिमिकीटत्वमागताः ॥ ंो_४,१२.९ ॥ स्पष्टम् ॥ ंोट्_४,१२.९ ॥ काश्चित्तृणवदुह्यन्ते दूरे ब्रह्ममहोदधेः । अप्राप्तभूमिका एता यथोरगनरादयः ॥ ंो_४,१२.१० ॥ अप्राप्तभूमिकाः अप्राप्तपाराः ॥ ंोट्_४,१२.१० ॥ तटमात्रं समालोक्य काश्चित्खेदमुपागताः । जाताजाता निखन्यन्ते कृतान्तजरदाखुना ॥ ंो_४,१२.११ ॥ तटमात्रं समालोक्य न त्वासाद्य । तदासादने हि पुनः पुनः कृतान्तनिखननं न युक्तं स्यात् । तटश्चात्र चिन्मात्रविश्रान्तिरूपो ज्ञेयः ॥ ंोट्_४,१२.११ ॥ काश्चिदन्तरमासाद्य ब्रह्मतत्त्वमहाम्बुधेः । गतास्तत्तामशोकाय हरिब्रह्महरादिकाः ॥ ंो_४,१२.१२ ॥ तत्तां ब्रह्मताम् । अशोकाय शोकाभावाय ॥ ंोट्_४,१२.१२ ॥ अल्पमोहान्विताः काश्चित्तमेव ब्रह्मवारिधिम् । अदृष्टरागरोगौघमवलम्ब्य व्यवस्थिताः ॥ ंो_४,१२.१३ ॥ अवलम्ब्य स्वात्मत्वेनाश्रित्य । काश्चित्जीवन्मुक्तरूपा इत्यर्थः ॥ ंोट्_४,१२.१३ ॥ काश्चिद्भोक्तव्यजन्मौघा भुक्तजन्मौघकोटयः । वन्ध्याः प्रकाशतामस्यः संस्थिता भूतजातयः ॥ ंो_४,१२.१४ ॥ प्रकाशतामस्यः प्रकृष्टतमसो गूणयुक्तः । अत एव वन्ध्या सम्यग्ज्ञानाख्यफलरहिताः ॥ ंोट्_४,१२.१४ ॥ काश्चिदूर्ध्वादधो यान्ति तथाधस्तान्महत्पदम् । ऊर्ध्वादूर्ध्वतरं काश्चिदधस्तात्काश्चिदप्यधः ॥ ंो_४,१२.१५ ॥ अधः पशुयोनिं नरकं वा । महत्पदं मानुष्यं स्वर्गं वा ॥ ंोट्_४,१२.१५ ॥ सर्गान्तश्लोकेन सिद्धान्तं कथयति बहुसुखदुःखकसङ्कटा क्रियेयम् परमपदास्मरणात्समागतेह । परमपदावगमात्प्रयाति नाशं विहगपतिस्मरणाद्विषव्यथेव ॥ ंो_४,१२.१६ ॥ विहगपतेः गारुडिकमन्त्रदेवतारूपस्य गरुडस्येति शिवम् ॥ ंोट्_४,१२.१६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वादशः सर्गः ॥१२॥ ********************************************************************* ओम् । श्रीवसिष्ठः श्रीरामं प्रत्याह विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः । समङ्गायास्तटात्तस्मात्प्रचेलुश्चञ्चलांशवः ॥ ंो_४,१५.१ ॥ जागतीः जगत्सम्बन्धिनीः । गतीः रचनाः ॥ ंोट्_४,१५.१ ॥ क्रमादाकाशमाक्रम्य निर्गत्याम्बुदकोटरैः । सम्प्रापुः सिद्धमार्गेण मन्दरं हेमकन्दरम् ॥ ंो_४,१५.२ ॥ कोटरैरिति । कोटरेभ्यः इत्यस्यार्थे ॥ ंोट्_४,१५.२ ॥ अधित्यकायां तस्याद्रेरार्द्रपर्णावगुण्ठिताम् । ददर्श भार्गवः शुष्कां पूर्वजन्मोद्भवां तनुम् ॥ ंो_४,१५.३ ॥ स्पष्टम् ॥ ंोट्_४,१५.३ ॥ उवाच चेदं हे तात तन्वी तनुरियं हि सा । या त्वया सुखसम्भोगैः पुरा समभिलालिता ॥ ंो_४,१५.४ ॥ स्पष्टम् ॥ ंोट्_४,१५.४ ॥ इयं सा मत्तनुर्यस्या मन्दारकुसुमोत्करैः । रचिताः शीतलाः शय्या मेरूपवनभूमिषु ॥ ंो_४,१५.५ ॥ सा इति । न त्वन्या ॥ ंोट्_४,१५.५ ॥ इयं सा मत्तनुर्मत्तदेवस्त्रीगणलालिता । सरीसृपमुखक्षुण्णा पश्य शेते धरातले ॥ ंो_४,१५.६ ॥ स्पष्टम् ॥ ंोट्_४,१५.६ ॥ नन्दनोद्यानषण्डेषु मम तन्वा ययानया । चिरं विलसितं सेयं शुष्ककङ्कालतां गता ॥ ंो_४,१५.७ ॥ विलसितमिति भावे क्तः ॥ ंोट्_४,१५.७ ॥ सुराङ्गनाङ्गसंसङ्गादुत्तुङ्गानङ्गरङ्गया । चेतोवृत्त्या रहितया तन्वेह मम शुष्यते ॥ ंो_४,१५.८ ॥ शुष्यते भावे लकारः ॥ ंोट्_४,१५.८ ॥ तेषु तेषु विलासेषु तासु तासु दशासु च । तथा ता भावना बद्ध्वा कथं स्वस्थोऽसि देहक ॥ ंो_४,१५.९ ॥ ताः भावनाः सुरस्त्रीविषयाः । स्वस्थोऽसि चञ्चलतारहितत्वात् । अनुकम्पितो देहः देहकः । तस्यामन्त्रणं देहकेति ॥ ंोट्_४,१५.९ ॥ हा तनो क्वावभग्नासि तापसंशोषमागता । करङ्कतां प्रयातासि मां भावयसि दुर्भगे ॥ ंो_४,१५.१० ॥ करङ्कतां कङ्कलताम् । हे दुर्भगे तनो । त्वं मां भावयसि किं स्मरसि । अतिस्नेहाकुलत्वादियमुक्तिः ॥ ंोट्_४,१५.१० ॥ देहेनाहं विलासेषु येनैव मुदितोऽभवम् । कङ्कलतामुपगतात्तस्मादेव बिभेम्यहम् ॥ ंो_४,१५.११ ॥ येन देहेनाहं विलासेषु मुदितः अभवम् । कङ्कलतामुपगतात्तस्मादेव देहात् । अहं बिभेमि ॥ ंोट्_४,१५.११ ॥ ताराजालसमाकारो यत्र हारोऽभवत्पुरा । ममोरसि निलीयन्ते पश्य तत्र पिपीलकाः ॥ ंो_४,१५.१२ ॥ निलीयन्ते लगन्ति ॥ ंोट्_४,१५.१२ ॥ द्रवत्काञ्चनकान्तेन लोभं नीता वराङ्गनाः । येन मद्वपुषा तेन पश्य कङ्कलतोह्यते ॥ ंो_४,१५.१३ ॥ उह्यते धार्यते ॥ ंोट्_४,१५.१३ ॥ पश्य मे विततास्येन तापसंशुष्ककृत्तिना । मत्कङ्कालकुवक्त्रेण वित्रास्यन्ते वने मृगाः ॥ ंो_४,१५.१४ ॥ वित्रास्यन्ते विकारयुक्तत्वेन त्रासयुक्ताः क्रियन्ते ॥ ंोट्_४,१५.१४ ॥ पश्यातिसंशुष्कतया शवोदरदरी मम । प्रकाशार्कांशुजालेन विवेकेनेव शोभते ॥ ंो_४,१५.१५ ॥ शवोदरं मृतशरीरोदरमेव दरी ॥ ंोट्_४,१५.१५ ॥ मत्तनुः परिशुष्केयं स्थितोत्ताना वनावनौ । वैराग्यं नयतीवात्मतुच्छत्वेनाम्बरस्थितान् ॥ ंो_४,१५.१६ ॥ अम्बरस्थितान् देवान् ॥ ंोट्_४,१५.१६ ॥ शब्दरूपरसस्पर्शगन्धलोभविमुक्तया । निर्विकल्पसमाध्येव मम तन्वोष्यते गिरौ ॥ ंो_४,१५.१७ ॥ मम तन्वा कथम्भूतया । निर्विकल्पे विकल्पनिष्क्रान्ते चिन्मात्रे । समाधिः यस्याः । सा । तादृश्या ॥ ंोट्_४,१५.१७ ॥ संशान्ते चित्तवेताले यामानन्दकलां तनुः । याति तामपि राज्येन जागतेन न गच्छति ॥ ंो_४,१५.१८ ॥ जागतेन जगत्सम्बन्धिना ॥ ंोट्_४,१५.१८ ॥ पश्य विश्रान्तसर्वेहं विगताशेषकौतुकम् । निरस्तकल्पनाजालं सुखं शेते कलेवरम् ॥ ंो_४,१५.१९ ॥ स्पष्टम् ॥ ंोट्_४,१५.१९ ॥ चित्तमर्कटसंरम्भसङ्क्षुब्धः कायपादपः । तथा वेगेन चलति यथा मूलानि कृन्तति ॥ ंो_४,१५.२० ॥ मूलकृन्तनं व्यावहारिकक्षोभरूपं ज्ञेयम् ॥ ंोट्_४,१५.२० ॥ चित्तानर्थविमुक्तोऽसौ गजाभ्रहरिविभ्रमम् । नायं पश्यति मे देहः परानन्द इव स्थितः ॥ ंो_४,१५.२१ ॥ गजाभ्रहरीणां गजमेघसिंहानाम् । विभ्रमं विलासम् । चाञ्चल्यमिति यावत् । न पश्यति नानुभवति ॥ ंोट्_४,१५.२१ ॥ सर्वाशाज्वरसम्मोहमिहिकाशरदागमम् । अचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु ॥ ंो_४,१५.२२ ॥ स्पष्टम् ॥ ंोट्_४,१५.२२ ॥ त एव सुखसम्भोगसीमान्तं समुपागताः । महाधियः शान्तधियो ये याता विमनस्कताम् ॥ ंो_४,१५.२३ ॥ स्पष्टम् ॥ ंोट्_४,१५.२३ ॥ सर्वदुःखदशामुक्तां संशान्तां विगतज्वराम् । दिष्ट्या पश्याम्यमननां वने तनुमिमामहम् ॥ ंो_४,१५.२४ ॥ स्पष्टम् ॥ ंोट्_४,१५.२४ ॥ अत्र श्रीरामः पृच्छति भगवन् सर्वधर्मज्ञ भार्गवेण तदा किल । सुबहून्युपभुक्तानि शरीराणि पुनः पुनः ॥ ंो_४,१५.२५ ॥ भृगुणोत्पादिते काये तत्तस्मिंस्तस्य किं मुने । महानतिशयो जातः परिदेवनमेव वा ॥ ंो_४,१५.२६ ॥ अतिशयः अतिशयज्ञानम् ॥ ंोट्_४,१५.२५२६ ॥ श्रीवसिष्ठ उत्तरं कथयति शुक्रस्य कलना राम यासौ जीवदशां गता । कर्मात्मिका समुत्पन्ना भृगोर्भार्गवरूपिणी ॥ ंो_४,१५.२७ ॥ कलना शुक्रजीवप्रादुर्भावकारी सम्विदाख्यः स्पन्दः । शुक्रस्य जीवदशां शुक्रसम्बन्धिजीवावस्थाम् । भृगोरिति पञ्चमी । सेति शेषः ॥ ंोट्_४,१५.२७ ॥ सा हीदम्प्रथमत्वेन समेत्य परमात्पदात् । भूताकाशपदं प्राप्य वातव्यावलिता सती ॥ ंो_४,१५.२८ ॥ प्राणापानप्रवाहेण प्रविश्य हृदयं भृगोः । क्रमेण वीर्यतामेत्य सम्पन्नौशनसी तनुः ॥ ंो_४,१५.२९ ॥ इदम्प्रथमत्वेन तत्पूर्वत्वेन । समेत्य सम्यकुत्थाय । औशनसी तनुः शुक्रशरीररूपा । युग्मम् ॥ ंोट्_४,१५.२८२९॥ विहितब्राह्मसंस्कारा ततः सा पितुरग्रगा । कालेन महता प्राप्ता शुष्ककङ्कालरूपताम् ॥ ंो_४,१५.३० ॥ स्पष्टम् ॥ ंोट्_४,१५.३० ॥ इदम्प्रथममायाता यदा सा ब्रह्मणस्तनुः । अतस्तां प्रति शुक्रेण तदा तत्परिदेवितम् ॥ ंो_४,१५.३१ ॥ इदम्प्रथमं तत्पूर्वम् । तत्परिदेवितं तादृशं परिदेवनं कृतम् ॥ ंोट्_४,१५.३१ ॥ वीतरागोऽप्यनिच्छोऽपि समङ्गाविप्ररूपवान् । स्वां शुशोच तनुं शुक्रः स्वभावो ह्येष देहजः ॥ ंो_४,१५.३२ ॥ स्पष्टम् ॥ ंोट्_४,१५.३२ ॥ किं तु प्रदर्शितं तेन शोकव्याजेन धीमताम् । वैराग्यप्रतिपत्त्यै तत्पृथक्त्वं देहदेहिनोः ॥ ंो_४,१५.३३ ॥ किं त्विति पक्षान्तरे । तथा च परोपकारार्थमेव शुक्रेण परिदेवनं कृतमिति भावः ॥ ंोट्_४,१५.३३ ॥ ज्ञस्याज्ञस्य च देहस्य यावज्जीवमयं क्रमः । लोकवद्व्यवहारो यत्सक्त्यासक्त्याथ वा सदा ॥ ंो_४,१५.३४ ॥ अथ वा पक्षान्तरे । देहस्य व्यवहारः इति सम्बन्धः । यद्वा लक्षणया । देहस्य देहिन इत्यर्थः । तथा च ज्ञस्य देहस्याज्ञस्य वा देहस्येत्यर्थः । ज्ञस्यासक्त्या अज्ञस्य सक्त्येति क्रमो ज्ञेयः ॥ ंोट्_४,१५.३४ ॥ ये परिज्ञातगतयो ये चाज्ञाः पशुधर्मिणः । लोकसंव्यवहारेषु ते स्थिता वनजालवत् ॥ ंो_४,१५.३५ ॥ वनजालं स्थितत्वमात्रे उपमानं ज्ञेयम् ॥ ंोट्_४,१५.३५ ॥ व्यवहारी यथैवाज्ञस्तथैव किल पण्डितः । वासनामात्रभेदोऽत्र कारणं बन्धमोक्षयोः ॥ ंो_४,१५.३६ ॥ वासनामात्रभेदः शुद्धत्वाशुद्धत्वेन ज्ञेयः ॥ ंोट्_४,१५.३६ ॥ यावच्छरीरं तावद्धि दुःखे दुःखं सुखे सुखम् । असंसक्तधियो धीरा दर्शयन्त्यप्रबुद्धवत् ॥ ंो_४,१५.३७ ॥ दर्शयन्ति अन्यान् प्रति दर्शयन्ति । न तु स्वयं पश्यन्ति ॥ ंोट्_४,१५.३७ ॥ सुखेषु सुखिता नित्यं दुःखिता दुःखवृत्तिषु । महात्मानो हि दृश्यन्ते नूनमन्तस्तु शीतलाः ॥ ंो_४,१५.३८ ॥ शीतलाः सुखदुःखकृतक्षोभरहिताः ॥ ंोट्_४,१५.३८ ॥ स्तम्भस्य प्रतिबिम्बानि क्षुभ्यन्ति न वपुः स्थिरम् । ज्ञस्य कर्मेन्द्रियाण्येव क्षुभ्यन्ति न मनः स्थिरम् ॥ ंो_४,१५.३९ ॥ स्थिरं वपुः दृढं स्तम्भाख्यं स्वरूपम् । क्षुभ्यन्तीत्यन्तर्गतणिच् । कौ प्रयोगौ । ते न क्षोभयन्तीत्यर्थः । कर्मेन्द्रियाण्युपलब्ध्याख्यकर्मकारीणि ज्ञानेन्द्रियाणीत्यर्थः ॥ ंोट्_४,१५.३९ ॥ चलाचलतया तज्ज्ञो लोकवृत्तिषु तिष्ठति । अधःस्थितिरिव स्वच्छं प्रतिबिम्बेषु भास्करः ॥ ंो_४,१५.४० ॥ चलाचलतया अत्यन्तचाञ्चल्येन । भास्करः कथम्भूतः । अधः अधोदेशे । स्थितिः अवस्थानं यस्य । सः ॥ ंोट्_४,१५.४० ॥ सन्त्यक्तलोककर्मापि बद्ध एवाप्रबुद्धधीः । अत्यक्तमोहलीलोऽपि मुक्त एव प्रबुद्धधीः ॥ ंो_४,१५.४१ ॥ प्रबुद्धधीत्वाप्रबुद्धधीत्वयोरेवात्र बन्धमोक्षौ प्रति कारणत्वमिति भावः ॥ ंोट्_४,१५.४१ ॥ मुक्तबुद्धीन्द्रियो मुक्तो बद्धकर्मेन्द्रियोऽपि हि । बद्धबुद्धीन्द्रियो बद्धो मुक्तकर्मेन्द्रियोऽपि हि ॥ ंो_४,१५.४२ ॥ हिशब्दः प्रसिद्धौ ॥ ंोट्_४,१५.४२ ॥ सुखदुःखदृशोर्लोके बन्धमोक्षदृशोस्तथा । हेतुर्बुद्धीन्द्रियाण्येव तेजांसीव प्रकाशने ॥ ंो_४,१५.४३ ॥ प्रकाशने अर्थप्रकटताकरणे ॥ ंोट्_४,१५.४३ ॥ बहिर्लोकोचिताचारस्त्वन्तराचारवर्जितः । समोऽसन्निव तिष्ठ त्वं संशान्तसकलैषणः ॥ ंो_४,१५.४४ ॥ अन्तः मनसि ॥ ंोट्_४,१५.४४ ॥ सर्वैषणाविमुक्तेन स्वात्मनात्मनि तिष्ठता । कुरु कर्माणि कार्याणि नूनं सामनसि स्थितिः ॥ ंो_४,१५.४५ ॥ हे राम । त्वम् । सर्वैषणाविमुक्तेन । अत एव आत्मनि न तु अनात्मरूपेषु विषयेषु । तिष्ठता आत्मना मनसा । कार्याणि नियतानि । कर्माणि कुरु । नूनं निश्चयेन । सा अमनसि स्थितिः मनसि स्थितिः न भवति ॥ ंोट्_४,१५.४५ ॥ आधिव्याधिमहावर्ते गर्ते संसारवर्त्मनि । ममतोग्रान्धकूपेऽस्मिन्मा पतातपदायिनि ॥ ंो_४,१५.४६ ॥ ममतोग्रान्धकूपे कथम्भूते । संसारवर्त्मनि संसाररूपे मार्गे । गर्ते गर्ततया स्थिते ॥ ंोट्_४,१५.४६ ॥ न त्वं भावेषु नो भावास्त्वयि तामरसेक्षण । शुद्धबुद्धस्वभावस्त्वमात्मसंस्थः स्थिरो भव ॥ ंो_४,१५.४७ ॥ त्वं साक्षिभूतशुद्धचिन्मात्ररूपः त्वम् । आत्मसंस्थः शुद्धबुद्धस्वभावस्वात्मपरः । न तु देहादिपरः ॥ ंोट्_४,१५.४७ ॥ सर्गान्तश्लोकेनोत्तरं समापयति व्यपगतममतामहान्धकारम् पदममलं विगतैषणं समेत्य । प्रभवसि यदि चेतसो महात्मंस् तदतिधिये महते सते नमस्ते ॥ ंो_४,१५.४८ ॥ व्यपगतं ममतारूपं महान्धकारं यस्य । तत् । तादृशम् । अत एवामलं विगतैषणं तृप्ततया समस्ताकाङ्क्षारहितम् । पदं चिन्मात्राख्यं पदम् । समेत्य स्वात्मत्वेन विभाव्य । यदि चेतसः प्रभवसि चेतः जेतुं समर्थो भवसि । हे महात्मन् । तत्तदा । ते तुभ्यम् । नमः अस्तु । कथम्भूताय । अतिधिये उत्कृष्टबुद्धये । महते महत्त्वयुक्ताय । सते सन्मात्रस्वरूपाय । इति शिवम् ॥ ंोट्_४,१५.४८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चदशः सर्गः ॥१५॥ ********************************************************************* अथाक्षिप्य वचस्तस्य तनयस्य तदा भृगोः । उवाच भगवान् कालो वचो गम्भीरनिःस्वनम् ॥ ंो_४,१६.१ ॥ आक्षिप्य आक्षेपविषयं कृत्वा । भृगोः तनयस्य शुक्रस्य ॥ ंोट्_४,१६.१ ॥ कालः कथयति समङ्गातापसीमेतां तनुं सन्त्यज भार्गव । प्रविशेमां तनुं साधो नगरीमिव पार्थिवः ॥ ंो_४,१६.२ ॥ समङ्गातापसीं समङ्गातापससम्बन्धिनीम् ॥ ंोट्_४,१६.२ ॥ काले पूर्वजया तन्वा तपः कृत्वानया पुनः । गुरुत्वमसुरेन्द्राणां कर्तव्यं भवतानघ ॥ ंो_४,१६.३ ॥ स्पष्टम् ॥ ंोट्_४,१६.३ ॥ महाकल्पान्त आयाते भवता भार्गवी तनुः । अपुनर्ग्रहणायैषा त्याज्या प्रम्लानपुष्पवत् ॥ ंो_४,१६.४ ॥ स्पष्टम् ॥ ंोट्_४,१६.४ ॥ जीवन्मुक्तपदं प्राप्तस्तन्वा प्राक्तनरूपया । महासुरेन्द्रगुरुतां कुर्वंस्तिष्ठ महामते ॥ ंो_४,१६.५ ॥ प्राक्तनरूपया शुक्राख्यया ॥ ंोट्_४,१६.५ ॥ कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम् । न किञ्चिदपि तच्चित्तं यस्य नाभिमतं भवेत् ॥ ंो_४,१६.६ ॥ ननु कथं तवाप्यभिमतमस्तीत्य् । अत्राह न किञ्चिदिति । तत्किञ्चिदपि न भवति । यस्य चित्तस्याभिमतं नास्ति । अतो ममापि सचित्तत्वादभिमतमस्तीति भावः ॥ ंोट्_४,१६.६ ॥ इत्युक्त्वा मुञ्चतोः पुष्पं तयोः सोऽन्तरधीयत । तप्तांशुरिव रोदस्योः सममंशुभिरंशुमान् ॥ ंो_४,१६.७ ॥ तप्तांशुः सूर्यः । रोदस्योः द्यावापृथिव्योः ॥ ंोट्_४,१६.७ ॥ गते तस्मिन् भगवति तामुक्त्वा भवितव्यताम् । विचार्य भार्गवोऽभेद्यां नियतां नियतेर्गतिम् ॥ ंो_४,१६.८ ॥ कालकारणसंशुष्कां भाविपुष्पशुभोदयाम् । विवेश तां तनुं बालां सुलतामिव माधवः ॥ ंो_४,१६.९ ॥ अभेद्यां भेत्तुमशक्याम् । कालाख्यं यत्कारणम् । तेन शुष्काम् । माधवः वसन्तः । लक्षणया वासन्तिकः रसः । भावी पुष्पवत्शुभः उदयः यस्याः । ताम् ॥ ंोट्_४,१६.८९॥ सा ब्राह्मणतनुर्भूमौ विवर्णवदनङ्गिका । पपात कम्पिता तूर्णं छिन्नमूला लता यथा ॥ ंो_४,१६.१० ॥ ब्राह्मणतनुः समङ्गातापसतनुः ॥ ंोट्_४,१६.१० ॥ तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः । चकाराप्यायनं मन्त्रैः सकमण्डलुवारिभिः ॥ ंो_४,१६.११ ॥ आप्यायनं पूरणम् ॥ ंोट्_४,१६.११ ॥ सर्वनाड्यः ततस्तन्व्यास्तस्याः पूर्णा विरेजिरे । सरितः प्रावृषीवाम्बुपूरपूरितकोटराः ॥ ंो_४,१६.१२ ॥ स्पष्टम् ॥ ंोट्_४,१६.१२ ॥ नलिनी प्रावृषीवासौ मधाविव नवा लता । यदा पूर्णा तदा तस्याः प्राणाः पल्लविता बभुः ॥ ंो_४,१६.१३ ॥ असौ भार्गवतनुः । पूर्णा प्राणपूर्णा । तस्याः तन्वाः । पल्लविताः अपानादिरूपेणोच्छूनाः ॥ ंोट्_४,१६.१३ ॥ अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः । रसमारुतसंयोगादामूलमिव वारिदः ॥ ंो_४,१६.१४ ॥ आमूलं मूलादारभ्य ॥ ंोट्_४,१६.१४ ॥ पुरोऽभिवादयामास पितरं पावनाकृतिः । प्रथमोल्लासितो मेघः स्तनितेनेव पर्वतम् ॥ ंो_४,१६.१५ ॥ स्पष्टम् ॥ ंोट्_४,१६.१५ ॥ पिताथ प्राक्तनीं तस्याप्यालिलिङ्ग तनुं ततः । स्नेहार्द्रवृत्तिर्जलदश्चिराद्गिरितटीमिव ॥ ंो_४,१६.१६ ॥ स्पष्टम् ॥ ंोट्_४,१६.१६ ॥ भृगुर्ददर्श सस्नेहं प्राक्तनीं तानयीं तनुम् । मत्तो जातोऽयमित्यास्था हरत्यपि महामतिम् ॥ ंो_४,१६.१७ ॥ तानयीं तनयसम्बन्धिनीम् । ननु तादृग्ज्ञानयुक्तेन तेन कथं तानयी तनुः सस्नेहं दृष्टेत्य् । अत्राह मत्त इति ॥ ंोट्_४,१६.१७ ॥ मत्पुत्रोऽयमिति स्नेहो भृगुमप्यहरत्तदा । परतात्मीयता चेयं यावदाकृति भाविनी ॥ ंो_४,१६.१८ ॥ परता परभावः । आत्मीयता आत्मीयभावः । यावदाकृति यावच्छरीरम् । भाविनी अपरिहार्या ॥ ंोट्_४,१६.१८ ॥ बभूवतुः पितापुत्रौ तावथान्योऽन्यशोभितौ । निशावसानमुदितावर्कपद्माकराविव ॥ ंो_४,१६.१९ ॥ निशावसाने प्रभाते । मुदितौ ॥ ंोट्_४,१६.१९ ॥ अत्रैवान्यदृष्टान्तद्वयं कथयति चिरसङ्गमसम्बद्धाविव चक्राह्वदम्पती । घनागमघनस्नेहौ मयूरजलदाविव ॥ ंो_४,१६.२० ॥ चिरकालदृढोत्कण्ठयोग्यया कथया तया । स्थित्वा तत्र मुहूर्तं तावथोत्थाय महामती ॥ ंो_४,१६.२१ ॥ समङ्गाद्विजदेहं तं भस्मसात्तत्र चक्रतुः । को हि नाम जगज्जात आचारं नानुतिष्ठति ॥ ंो_४,१६.२२ ॥ आचारं लोकाचारम् ॥ ंोट्_४,१६.२०२२ ॥ एवं तौ कानने तस्मिन् पावने भृगुभार्गवौ । संस्थितौ तपसा दीप्तौ दिवीव शशिभास्करौ ॥ ंो_४,१६.२३ ॥ स्पष्टम् ॥ ंोट्_४,१६.२३ ॥ चेरतुर्ज्ञातविज्ञेयौ जीवन्मुक्तौ जगद्गुरू । देशकालदशौघेषु सुशमं सुस्थिरं तपः ॥ ंो_४,१६.२४ ॥ तपः कथम्भूतम् । शोभनः शमः यस्मिन् । तत् । तादृशम् ॥ ंोट्_४,१६.२४ ॥ अथासुरगुरुत्वं स शुक्रः कालेन लब्धवान् । भृगुरप्यात्मनो योग्ये पदेऽतिष्ठदनामये ॥ ंो_४,१६.२५ ॥ आत्मनः योग्ये पदे विदेहमुक्त्याख्ये पदे ॥ ंोट्_४,१६.२५ ॥ सर्गान्तश्लोकेन शुक्रवृत्तान्तं सङ्क्षिप्य कथयति शुक्रोऽसाविति । शुक्रोऽसौ प्रथममिति क्रमेण जात एतस्मात्परमपदादुदारकीर्तिः । स्वेनाशु स्मृतिपदविभ्रमेण पश्चाद् एवं च प्रविलुलितो दशान्तरेषु ॥ ंो_४,१६.२६ ॥ एतस्मात्सर्वेषामात्मत्वेन पुरो वर्तमानात् । परमपदात्चिन्मात्राख्यातुत्तमात्स्थानात् । दशान्तरेषु समङ्गातापसत्वपर्यन्तेष्ववस्थाविशेषेषु । इति शिवम् ॥ ंोट्_४,१६.२६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षोडशः सर्गः ॥१६॥ ********************************************************************* ओम् । श्रीरामः पृच्छति भगवन् भृगुपुत्रस्य प्रतिभा सानुभूतितः । यथास्य सफला जाता तथान्यस्य न किं भवेत् ॥ ंो_४,१७.१ ॥ हे भगवन् । अस्य समनन्तरोक्तेन वृत्तान्तेन वर्णितस्य । भृगुपुत्रस्य । सा प्रतिभा तत्नानायोनिगमनरूपं प्रतिभानम् । अनुभूतितः अनुभवाथेतोः । सफला अर्थक्रियाख्यफलयुक्ता । जाता । अन्यथा हि भृगुसम्बन्धी स्वसम्बन्धी वा समङ्गातापसविषयोऽनुभवः न युक्तः स्यातिति भावः । तथा तद्वत् । अन्यस्य शुक्रव्यतिरिक्तस्य पुरुषस्य । सा प्रतिभा सफला किं कथम् । न भवेत् । न हि स्वप्ने प्रतिभातं स्वस्मिन् गजादित्वं प्रत्यक्षमनुभूयते ॥ ंोट्_४,१७.१ ॥ श्रीवसिष्ठोऽत्रोत्तरं कथयति इदम्प्रथममुत्पन्ना सा तदा ब्रह्मणः पदात् । शुद्धा मतिर्भार्गवस्य नान्यजन्मकलङ्किता ॥ ंो_४,१७.२ ॥ इदम्प्रथमं तत्पूर्वम् । यतः भार्गवस्य शुक्रस्य । ब्रह्मणः पदात्सद्यः उत्थितत्वात् । सा नानायोनिप्रतिभानविषया । बुद्धिः । शुद्धा पूर्वजन्मवासनानिचयाकलुषिता । आसीत् । ततः तस्य सा नानायोनिगमनरूपा प्रतिभा सफला जाता । अन्ये तु पूर्वतममुत्पन्नत्वात्मध्ये नानाजन्मान्तरोत्थवासनाजालकलङ्किताः सन्तः न स्वप्रतिभानं प्रत्यक्षमनुभवन्तीति भावः ॥ ंोट्_४,१७.२ ॥ नन्वस्याः शुद्धायाः मतेः स्वरूपं कीदृगस्तीत्य् । अत्राह सर्वैषणानामिति । सर्वैषणानां संशान्तौ शुद्धा चित्तस्य या स्थितिः । तत्सत्त्वमुच्यते सैषा विमला चिदुदाहृता ॥ ंो_४,१७.३ ॥ सर्वैषणानां नानाभोग्यजालविषयाणां समस्तानामिच्छानाम् । शान्तौ सुषुप्त्यादिप्रभावेन सम्यग्ज्ञानादिना वा शमने सति । चित्तस्य मनसः । या स्थितिः यतवस्थानम् । अस्ति । पण्डितैः तत्सत्त्वमुच्यते । सा एव विमला चित्विमला मतिः । उदाहृता । किं च इयमेव शुद्धा मतिः इदम्प्रथममुत्पन्नस्य च भवति जीवन्मुक्तस्य च भवति । इदम्प्रथममुत्पन्नस्य बाह्योन्मुखा । जीवन्मुक्तस्य तु त्यज्यमानबाह्येति विशेषः ॥ ंोट्_४,१७.३ ॥ विशेषणेनोक्त्वा सामान्येन कथयति मनो निर्मलसत्त्वात्म यद्भावयति यादृशम् । तत्तथाशु भवत्येव यथावर्तोऽर्णवेऽम्भसः ॥ ंो_४,१७.४ ॥ निर्मलसत्त्वात्म पूर्वश्लोकोक्तनिर्मलसत्त्वस्वरूपम् । मनः । यत्यादृशं येन प्रकारेण युक्तम् । भावयति अनुसन्धानविषयतां नयति । तत्वस्तु । आशु तथा तेन प्रकारेण युक्तम् । भवति । तत्वस्तु क इव । आवर्तः इव । यथा अर्णवे स्थितः अम्भसः आवर्तः सद्यः अन्यप्रकारयुक्तो भवति । तथेत्यर्थः ॥ ंोट्_४,१७.४ ॥ अनेन वृत्तान्तेन सिद्धं स्वमनीषितं कथयति यथा भृगुसुतस्यैष विभ्रमः प्रोदितः स्वयम् । प्रत्येकमप्येवमेव दृष्टान्तोऽत्र भृगोः सुतः ॥ ंो_४,१७.५ ॥ यथा भृगुसुतस्य एषः समनन्तरोक्तः । विभ्रमः नानायोनिप्रतिभासरूपो विभ्रमः । स्वयं स्वभावेन । प्रोदितः प्रादुर्भूतः । एवमेव तथैव । प्रत्येकं प्रतिपुरुषम् । उदेति । सर्वे एव स्वमनःप्रतिभासरूपमेव जगत्पश्यन्तीति भावः । अस्यार्थस्य दृढीकरणार्थं पुनरपि शुक्रस्य दृष्टान्तत्वं कथयति दृष्टान्तोऽत्रेति ॥ ंोट्_४,१७.५ ॥ एतदेव नानादृष्टान्तैः सुगमं करोति बीजस्याङ्कुरपत्त्रादि स्वं चमत्कुरुते यथा । सर्वेषां भूतसङ्घानां भ्रमषण्डस्तथैव हि ॥ ंो_४,१७.६ ॥ यथा बीजस्य स्वं न त्वन्यबीजसाधारणम् । अङ्कुरपत्त्रादि । चमत्कुरुते उच्छूनतारूपमानन्दं करोति । हि निश्चये । सर्वेषां भूतसङ्घानां भूतसमूहानाम् । स्वः अनन्यसाधारणः भ्रमषण्डः जगद्रूपः भ्रमषण्डः । तथैव चमत्कुरुते नानास्वादसौख्यं करोति । साधारणत्वेन भासमानोऽप्ययं संसारः प्रत्येकं भिन्न एवेति भावः ॥ ंोट्_४,१७.६ ॥ यदिदं दृश्यते विश्वमेवमेवाखिलं हि तत् । प्रत्येकमुदितं मिथ्या मिथ्यैवास्तमुपैति च ॥ ंो_४,१७.७ ॥ अस्माभिः यदिदं विश्वं संसारः । दृश्यते अनुभूयते । हि निश्चये । एवमेवानेन प्रकारेण । स्थितमेव तत् । अखिलं विश्वम् । मिथ्या प्रत्येकमुदितमुदेति । वर्तमाने क्तः । मिथ्या एवास्तमुपैति च परचित्स्वरूपत्वेन सर्वदैव तथैव स्थितत्वात् । सत्यभूतोदयास्तमयविषयत्वायोगादिति भावः ॥ ंोट्_४,१७.७ ॥ नास्तमेति न चोदेति जगत्किञ्चन कस्यचित् । भ्रान्तिमात्रमिदं माया मुधैव परिजृम्भते ॥ ंो_४,१७.८ ॥ इदं जगत् । माया मायारूपम् ॥ ंोट्_४,१७.८ ॥ यथास्मत्प्रतिभासस्थः सोऽयं संसारषण्डकः । तथा तेषां सहस्राणि मिथोऽदृष्टानि सन्ति हि ॥ ंो_४,१७.९ ॥ यथा अस्मत्प्रतिभासस्थः सः अयं सर्वेन्द्रियातीतचिन्मात्ररूपत्वेनेन्द्रियातीतोऽपि सनिदन्तया स्फुरितः संसारषण्डः अस्ति । तथा तेषां संसारषण्डानाम् । सहस्राणि सन्ति । ननु कथं तानि न दृश्यन्ते इत्यपेक्षायां विशेषणमाह मिथोऽदृष्टानीति । मिथः अन्योऽन्यम् । अदृष्टानि दर्शनविषयतां न नीतानि ॥ ंोट्_४,१७.९ ॥ मिथोऽदर्शनदृष्टान्तं कथयति स्वप्नसङ्कल्पनगरव्यवहाराः परस्परम् । पृथग्यथा न दृश्यन्ते तथैते संसृतिभ्रमाः ॥ ंो_४,१७.१० ॥ यथा अन्यस्य स्वप्नादि अन्यो नानुभवति तथान्यस्य संसारमन्यो नानुभवतीति पिण्डार्थः । ननु कथं सर्गानां प्रतिपुरुषं भेदः इति चेत् । न । एकस्मिन्नेव वस्तुनि पुरुषभेदेन हेयत्वोपादेयत्वदर्शनात् ॥ ंोट्_४,१७.१० ॥ उपसंहारं करोति एवं नगरवृन्दानि नभःसङ्कल्परूपिणाम् । सन्ति तानि न दृश्यन्ते मिथो ज्ञानदृशं विना ॥ ंो_४,१७.११ ॥ एवं सति । नभसि यः सङ्कल्पः पुरादिसङ्कल्पः । तद्वत्रूपं येषाम् । तादृशानां नगराणां वृन्दानि समूहाः । सन्ति । समासे उपसर्जनीभूतस्य नगरपदस्य विशेषणदानमार्षम् । तैः नगरवृन्दैः तानि नगरवृन्दानि । ज्ञानदृशं विना चिन्मात्रज्ञानाख्यां दृष्टिं विना । मिथः अन्योऽन्यम् । न दृश्यन्ते नानुभूयन्ते । ज्ञानदृशा तु दृश्यन्ते एव । अत एवाहं तान् पश्यामि त्वं न पश्यसीति भावः ॥ ंोट्_४,१७.११ ॥ सर्वप्रसिद्धानां पिशाचादीनामप्येतद्रूपत्वं कथयति पिशाचयक्षरक्षांसि सन्त्येवंरूपकाणि हि । सङ्कल्पमात्रदेहानि सुखदुःखमयानि च ॥ ंो_४,१७.१२ ॥ स्पष्टम् ॥ ंोट्_४,१७.१२ ॥ स्वस्मिन्नप्येतद्रूपत्वमेवातिदिशति एवमेव वयं चेमे सम्पन्ना रघुनन्दन । स्वसङ्कल्पात्मकाकारा मिथ्यासत्यत्वभाविताः ॥ ंो_४,१७.१३ ॥ मिथ्यासत्यत्वे स्वसत्यतायाम् । भाविताः भावनायुक्ताः ॥ ंोट्_४,१७.१३ ॥ एवं स्तोकं विशेषेणोक्त्वा पुनरपि सामान्येन कथयति एवंरूपैव हि परे वर्तते सर्गसंसृतिः । न वास्तवी वस्तुतस्तु संस्थितेयमवस्तुनि ॥ ंो_४,१७.१४ ॥ एवंरूपा प्रतिभासरूपा । परे उत्तीर्णे चिन्मात्रे । सर्गेति नामधेया संसृतिः सर्गसंसृतिः । न वास्तवी असत्यरूपा । तु पक्षान्तरे । वस्तुतः परमार्थतः । इयं सर्गसंसृतिः । अवस्तुनि शून्ये । स्थिता भवति । वस्तुत्वेन स्थिते चिन्मात्रे अवस्तुभूतसर्गाधारत्वायोगात् ॥ ंोट्_४,१७.१४ ॥ पूर्वोक्तन्यायेन सिद्धस्य स्वाभीष्टस्योपसंहारं करोति प्रत्येकमुदितं विश्वमेवमेव मुधैव हि । नवगुल्मकरूपेण वासन्तिकरसो यथा ॥ ंो_४,१७.१५ ॥ एवं पूर्वोक्तप्रकारेण । वासन्तिकरसः वसन्तसम्बन्धी रसः ॥ ंोट्_४,१७.१५ ॥ प्रथमोऽयं स्वसङ्कल्पः सुप्रथामागतस्तथा । यथातिपारमार्थ्येन दृढेनेत्थं विभाव्यते ॥ ंो_४,१७.१६ ॥ अयं प्रथमः ब्रह्मणः तत्पूर्वत्वेनोत्थितः । स्वसङ्कल्प एव । तथा तेन प्रकारेण । सुप्रथामतिरूढिम् । गतः । यथा इत्थमनेन प्रकारेण । दृढेनाविचलता । अतिपारमार्थ्येनातिपरमार्थभावेन । विभाव्यते निश्चीयते । जनैरिति शेषः ॥ ंोट्_४,१७.१६ ॥ प्रत्येकमुदितं चित्तं स्वस्वभावोदरस्थितम् । इदमित्थंसमारम्भं जगत्पश्यद्विनश्यति ॥ ंो_४,१७.१७ ॥ स्वः आत्मीयः । स्वभावः चिन्मात्राख्यं स्वरूपम् । तस्योदरे उदर इवोदरे । न तु साक्षादुदरे । स्थितं वर्तमानम् । प्रत्येकमेकस्मिनेकस्मिन् प्रत्येकम् । उदितमुत्पन्नम् । चित्तम् । इत्थंसमारम्भं दृश्यमानारम्भयुक्तम् । इदं जगत्पश्यतनुभवत् । विनश्यति स्वरूपपरामर्शात्भ्रश्यतीत्यर्थः ॥ ंोट्_४,१७.१७ ॥ प्रतिभासवशादस्ति नास्ति वस्त्ववलोकनात् । दीर्घः स्वप्नो जगज्जालमालानं चित्तदन्तिनः ॥ ंो_४,१७.१८ ॥ प्रतिभासवशात् । न हि असतः प्रतिभासः युक्त इति भावः । वस्त्ववलोकनात्परमार्थावलोकनात् । न हि सम्यग्ज्ञानेन जगत्तिष्ठति । जगज्जालं कः । दीर्घः स्वप्नः ॥ ंोट्_४,१७.१८ ॥ चित्तसत्तैव हि जगज्जगत्सत्तैव चित्तकम् । एकाभावे द्वयोर्नाशस्तच्च सत्यविचारणात् ॥ ंो_४,१७.१९ ॥ ततेकाभावः । सत्यविचारणात्सत्यविचारात् ॥ ंोट्_४,१७.१९ ॥ श्रीरामकृतस्य प्रश्नस्योत्तरमनुस्मरति शुद्धस्य प्रतिभासो हि सत्यो भवति चेतसः । निष्कलङ्के हि लगति पटे कुङ्कुमरञ्जना ॥ ंो_४,१७.२० ॥ अत्र दृष्टान्तमाह निष्कलङ्क इति । निष्कलङ्के मलरहिते ॥ ंोट्_४,१७.२० ॥ अन्येनानाहृतस्यान्यो गुणोऽवश्यं विवर्धते । अनाक्रान्तस्य सङ्कल्पैः प्रतिभोदेति चेतसः ॥ ंो_४,१७.२१ ॥ अनाहृतस्य अनाक्रान्तस्य । दृष्टान्तमुक्त्वा दार्ष्टान्तिकं कथयति अनाक्रान्तस्येति । प्रतिभा प्रतिभासः । उदेति सफलत्वेन प्रादुर्भवति ॥ ंोट्_४,१७.२१ ॥ सुवर्णो न स्थितिं याति मलवत्यंशुके यथा । एका दृष्टिः स्थितिं याति न म्लाने चित्तके तथा ॥ ंो_४,१७.२२ ॥ सुवर्णः शोभनः शुक्लादिवर्णः । म्लाने सङ्कल्परूषिते ॥ ंोट्_४,१७.२२ ॥ प्रमार्जनादिव मणेस्ताम्रस्येव च युक्तितः । चिरमेकदृढाभ्यासाच्छुद्धिर्भवति चेतसः ॥ ंो_४,१७.२३ ॥ एकस्मिन् सम्यग्ज्ञानादौ । यः दृढाभ्यासः नैरन्तर्येण तच्चिन्तनम् । तस्मात् ॥ ंोट्_४,१७.२३ ॥ श्रीरामः पृच्छति प्रतिभासात्मनि जगत्येते कालक्रियाक्रमाः । सोदयास्तमया जाताः कथं शुक्रस्य चेतसः ॥ ंो_४,१७.२४ ॥ प्रतिभासात्मनि जगति स्फुरितानां कालक्रियाक्रमाणां सोदयास्तमयत्वं न युक्तम् । तच्च शुक्रचेतसः कथं जातमिति भावः ॥ ंोट्_४,१७.२४ ॥ श्रीवसिष्ठः उत्तरमाह यादृग्जगदिदं दृष्टं शुक्रेण पितृमातृतः । तादृक्तस्य स्थितं चित्ते मयूराण्डे मयूरवत् ॥ ंो_४,१७.२५ ॥ पितृमातृतः उत्पन्नेन शुक्रेण यादृकिदं जगत्दृष्टम् । तत्तस्य शुक्रस्य । चित्ते तादृक्स्थितमासीत् । कथम् । मयूरवत् । यथा मयूराण्डे मयूरः अस्ति । तथेत्यर्थः ॥ ंोट्_४,१७.२५ ॥ स्वभावकोशात्स्वदितं तदनेन क्रमोदितम् । बीजेनाङ्कुरपत्त्रादिलतापुष्पफलं यथा ॥ ंो_४,१७.२६ ॥ ततः अनेन शुक्रेण । तत्चित्तस्थं जगत् । स्वभावकोशात्चित्तरूपः यः स्वभावः । तद्रूपात्कोशात् । क्रमोदितं सत्स्वदितमास्वादविषयीकृतम् । अत्र दृष्टान्तमाह बीजेनेति ॥ ंोट्_४,१७.२६ ॥ जीवो यद्वासनासारस्तदेवान्तः प्रपश्यति । स्वप्न एवात्र दृष्टान्तो दीर्घस्वप्नस्त्विदं जगत् ॥ ंो_४,१७.२७ ॥ ननु कथमत्र स्वप्नः दृष्टान्तः अस्तीत्य् । अत्राह दीर्घस्वप्न एवेति । दीर्घत्वं चात्र चिरप्रतिभासवशाज्ज्ञेयम् ॥ ंोट्_४,१७.२७ ॥ प्रत्येकमुदितो राम ननु संसारषण्डकः । रात्रौ सैन्यनरस्वप्नजालवत्स्वात्मनि स्फुटः ॥ ंो_४,१७.२८ ॥ रात्रौ हि सैन्यनरस्वरूपं स्वप्नजालं प्रत्येकं पृथग् । उदेति ॥ ंोट्_४,१७.२८ ॥ श्रीरामः पृच्छति एष संसृतिषण्डौघो मिथः सम्मिलति स्वयम् । नो वापि यदि तन्मे त्वं यथावद्वक्तुमर्हसि ॥ ंो_४,१७.२९ ॥ एषः संसृतिषण्डौघः स्वयं स्वभावेन । मिथः अन्योऽन्यम् । यदि मिलति यदि वा नो मिलति अपि । त्वमेतत्यथावत्सम्यक् । वक्तुमर्हसि सम्यक्कथयेति यावत् ॥ ंोट्_४,१७.२९ ॥ श्रीवसिष्ठ उत्तरमाह मलिनं हि मनोऽवीर्यं न मिथः श्लेषमर्हति । अयोऽयसीवासन्तप्ते शुद्धे तप्ते तु लीयते ॥ ंो_४,१७.३० ॥ हि निश्चये । मलिनं रागादिमलदूषितम् । अत एवावीर्यम् । मनः मिथः अन्योऽन्यम् । श्लेषं मेलनम् । नार्हति । किमिव । अय इव । यथायः असन्तप्ते अयसि श्लेषं नार्हति । तथेत्यर्थः । तु पक्षान्तरे । मनः । शुद्धे मनसि । लीयते मिलति । अयश्च सन्तप्तेऽयसि लीयते ॥ ंोट्_४,१७.३० ॥ चित्ततत्त्वानि शुद्धानि सम्मिलन्ति परस्परम् । एकरूपाणि तोयानि यान्त्यैक्यं नाबिलानि हि ॥ ंो_४,१७.३१ ॥ स्पष्टम् ॥ ंोट्_४,१७.३१ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति शुद्धिर्हि चित्तस्य विवासनत्वम् अभूतसंवेदनरूपमेकम् । तस्याः सुषुप्तात्मपदात्प्रबुध्य तन्मात्रयुक्त्या परसङ्गमेति ॥ ंो_४,१७.३२ ॥ हि निश्चये । अभूतसंवेदनात्म असिद्धपदार्थसंवेदनस्वरूपम् । विवासनत्वं पदार्थविषयभावनाख्यसंस्कारराहित्यम् । एकं केवलम् । चित्तस्य शुद्धिः भवति । तत्चित्तम् । सुषुप्तात्म सुषुप्तस्वरूपम् । यत्पदं स्थानम् । तस्मात् । तस्याः शुद्धेः हेतोः । प्रबुध्य तुर्याख्यं बोधं प्राप्य । तन्मात्रयुक्त्या सूक्ष्मभूतयोगेन । परसङ्गमन्यैः सह श्लेषम् । एति गच्छति । तन्मात्रयुक्त्या मेलनं च स्वेन सह सर्वस्यैकोपादानत्वज्ञानमेव ज्ञेयम् । इति शिवम् ॥ ंोट्_४,१७.३२ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तादशः सर्गः ॥१७॥ ********************************************************************* ओम् । ननु कथं तन्मात्रयुक्त्या चेतः अन्यैः सह मिलतीत्य् । अत्राह सर्वसंसृतिषण्डेषु बीजरूपकलात्मनः । तन्मात्रप्रतिभासस्य प्रतिभासे न भिन्नता ॥ ंो_४,१८.१ ॥ बीजरूपा बीजस्वरूपा । या कला । तदात्मनः तत्स्वरूपस्य । स्थूलभूतबीजरूपस्येति यावत् । तन्मात्रप्रतिभासस्य पञ्चतन्मात्राकारस्य प्रतिभासस्य । सर्वसंसृतिषण्डेषु समस्तेषु सर्गरूपेषु षण्डेषु । प्रतिभासे स्फुरणे । भिन्नता नास्ति । मृद इव घटादिषु स्फुरणे । अतः तन्मात्रयुक्त्या चित्तस्यान्यमेलनं युक्तमेवेति भावः । तन्मात्राणि च स्थूलभूतबीजभूतानि संस्कारमात्रशरीराणि आकाशादिभ्यो बुद्ध्या पृथक्कृतानि पञ्च शब्दादीनि ज्ञेयानि ॥ ंोट्_४,१८.१ ॥ न केवलं सर्गैः सह मेलनमेव तन्मात्रयुक्त्या भवति किं तु ब्रह्मणि मेलनमपि तयैवेत्यभिप्रायेणाह प्रवृत्तिर्वा निवृत्तिर्वा तन्मात्रापत्तिपूर्वकम् । सर्वस्य जीवजातस्य सुषुप्तत्वादनन्तरम् ॥ ंो_४,१८.२ ॥ सर्वस्य जीवजातस्य जीवसमूहस्य । सुषुप्तत्वात्सुषुप्तभावात् । अनन्तरं पश्चात् । प्रवृत्तिः वा अन्यसर्गैः सह मेलनं वा । निवृत्तिर्वा सर्गेभ्यः निवृत्तिरूपं ब्रह्मणि मेलनं वा । तन्मात्रापत्तिपूर्वकं तन्मात्रयोगपूर्वकमेव । भवति । सुषुप्तौ सर्गाणां बीजत्वेनावस्थानात्निवृत्त्यसम्भवः सर्गाणां प्राकट्येनानवस्थानात्प्रवृत्त्यसम्भव इति सुषुप्तत्वादनन्तरमित्युक्तम् । अनन्तरमिति कथनेन च सुषुप्तेरत्रावश्यम्भावः सूचितः । ब्रह्मसर्गयोः सेतुत्वेन स्थितायाः सुषुप्तेरवश्यम्भावस्य सुस्पष्टत्वात् । अत्र च प्रवृत्तिः जीवन्मुक्तानां निवृत्तिः विदेहमुक्तानामिति विषयविभागो द्रष्टव्यः । इतरेषां प्रवृत्तिस्तु अज्ञानमूलत्वेन नेह वक्तुं युक्ता ॥ ंोट्_४,१८.२ ॥ प्रकृतत्वात्प्रवृत्तेः तन्मात्रापत्तिपूर्वकत्वं पृथक्कथयति प्रवृत्तिभाजो ये जीवास्ते तन्मात्रपदं गताः । तन्मात्रैकतया सर्गान्मिथः पश्यन्ति कल्पितान् ॥ ंो_४,१८.३ ॥ ये जीवाः जीवन्मुक्तस्वभावाः जीवाः । प्रवृत्तिभाजः सत्त्वशेषतया प्रवृत्तियुक्ताः भवन्ति । ते तन्मात्रैकतया तन्मात्रयुक्त्या । कल्पितान् परमार्थतया कल्पितस्वरूपान् । सर्गान् । मिथः अन्योऽन्यम् । पश्यन्ति । जीवन्मुक्तानां मनांस्यन्योऽन्यं मिलन्तीत्यत्र परमं रहस्यम् ॥ ंोट्_४,१८.३ ॥ तन्मात्रैक्यप्रणालेन चित्राः सर्गजलाशयाः । परस्परं सम्मिलन्ति घनतां यान्ति चाभितः ॥ ंो_४,१८.४ ॥ तन्मात्राणां पञ्चतन्मात्राणाम् । यदैक्यम् । तदेव प्रणालः जलप्रवाहमार्गः । तेन । घनतां घनीभावम् ॥ ंोट्_४,१८.४ ॥ ननु सर्वे सर्गौघाः तन्मात्रैक्यप्रणालेन मिलन्त्यथ वा कतिपये एवेत्य् । अत्राह केचित्पृथक्स्थितिमिताः पृथगेव लयं गताः । केचिन्मिथः सम्मिलिता जगत्षण्डाः स्थिताः कृताः ॥ ंो_४,१८.५ ॥ केचिदशुद्धमतयः । उत्तरार्धे केचित्शुद्धमतयः । कृताः कल्पिताः । न तु सहजाः ॥ ंोट्_४,१८.५ ॥ नन्वेतादृशाः सर्गौघाः कस्मिन्नाधारे स्थिताः भवन्तीत्य् । अत्राह जगत्षण्डसहस्राणि यत्रासङ्ख्यान्यणावणौ । अपरस्परलग्नानि काननं ब्रह्म नाम तत् ॥ ंो_४,१८.६ ॥ अपरस्परलग्नानि अन्योऽन्यमसङ्कीर्णानि । अणौ अणौ प्रत्यंशम् ॥ ंोट्_४,१८.६ ॥ मिथः स मेलनं नैति घनतां समुपागतः । यद्यद्यत्र यथा रूढं तत्तत्पश्यति नेतरत् ॥ ंो_४,१८.७ ॥ घनतां घनीभावम् । गतः सर्गः । मिथः स मेलनं नैति न गच्छति । यतः सः सर्गः । लक्षणया तत्रस्थः प्रमाता । यत्यत्यत्र रूढं परिचितम् । तत्तत्तत्र पश्यति । न इतरत् । अत्र प्रमातुरशुद्धमतित्वं हेतुत्वेन बहुशः उक्तम् ॥ ंोट्_४,१८.७ ॥ वर्तमानमनोराज्यवशाज्जीवपरम्पराः । परस्परं सम्मिलिताः सर्गाणां रूढिभावनाः ॥ ंो_४,१८.८ ॥ वर्तमानं यत्मनोराज्यं सङ्कल्पः । तद्वशात् । जीवपरम्पराः परस्परं सम्मिलिताः भवन्ति । समानमनोराज्यत्वाज्जीवाः परस्परं मिलन्तीति भावः । जीवपरम्पराः कथम्भूताः । सर्गाणां रूढौ सत्यतायाम् । भावनाः यासाम् । ताः । अयं भावः । शुद्धमतीनां सर्गाः तन्मात्रैक्यप्रणालेन सर्वदा मिलन्ति । अशुद्धमतीनां तु कदाचिदेकसङ्कल्पत्वेनेति ॥ ंोट्_४,१८.८ ॥ ननु कथमियं देहसत्ता प्राकट्यं गता यद्वशोदितसङ्कल्पाख्यमलावृतबुद्धीनां तन्मात्रैक्यप्रणालेनान्यसर्गैः सह मेलनं न भवतीत्य् । अत्राह देहसत्ता भृशं रूढा देहाभावस्तु विस्मृतः । देहत्वपरिरूढत्वाच्चिद्व्योम्ना विस्मृतात्मना ॥ ंो_४,१८.९ ॥ चिद्व्योम्ना देहत्वपरिरूढत्वात्चिद्व्योमकर्तृकात्देहभावे परिरूढत्वात् । चिद्व्योम्ना स्वात्मत्वेन भावितात्देहभावातिति यावत् । देहसत्ता रूढा प्ररोहं गता । तु पक्षान्तरे । देहाभावः परमार्थसन् देहप्रतियोगिकस्त्रैकालिकोऽभावः । चिद्व्योम्ना कथम्भूतेन । विस्मृतात्मना विस्मृतस्वरूपेण । विस्मृतः विस्मृतिं नीतः ॥ ंोट्_४,१८.९ ॥ अथान्येन दृष्टान्तेनान्यसर्गैः सम्मेलनं कथयति यथा शुद्धप्राणमरुत्परप्राणाभिवेधनात् । वेत्ति वेध्यमनोराज्यं तथा सर्गान्नराश्रयी ॥ ंो_४,१८.१० ॥ यथा शुद्धप्राणमरुत्प्राणायामादिना शुद्धप्राणः । प्राणयोगीति यावत् । परप्राणाभिवेधनात् । परप्राणेषु यतभिवेधनमभिव्याप्तिः । तस्मात् । परपुरप्रवेशादिति यावत् । वेध्यमनोराज्यम् । वेध्यस्य अभिव्याप्यस्य पुरुषस्य । मनोराज्यं वेत्ति । तथा तद्वत् । नराश्रयी तन्मात्रप्रणालेनान्यपुरुषाविष्टः जीवन्मुक्तः पुरुषः ब्रह्मणः प्रथममुत्थितः पुरुषो वा । सर्गानाश्रितपुरुषसर्गान् । वेत्ति ॥ ंोट्_४,१८.१० ॥ एवं श्रीरामकृते प्रश्ने उत्तरं सम्यगुक्त्वा पूर्वत्र यत्र तत्रोक्तानि विशीर्णानि उपदेशवाक्यानि कथयति सर्वेषां जीवराशीनामात्मावस्थात्रयं श्रितः । जग्रत्स्वप्नसुषुप्ताख्यमत्र देहो न कारणम् ॥ ंो_४,१८.११ ॥ अत्र अवस्थात्रयाश्रयणे ॥ ंोट्_४,१८.११ ॥ एवमात्मनि जीवत्वमन्यावस्थात्रयात्मनि । तापाम्भसीव वीचित्वमस्मिन् कचति देहता ॥ ंो_४,१८.१२ ॥ अन्यावस्थात्रयात्मनि । अन्यत्स्वव्यतिरिक्तत्वेन भासमानम् । यतवस्थात्रयं जाग्रदाद्यवस्थात्रयम् । तत् । आत्मा स्वरूपं यस्य । तादृशे । अस्मिन् जीवत्वावच्छिन्ने । आत्मनि ॥ ंोट्_४,१८.१२ ॥ चित्कलापदमासाद्य सुषुप्तान्तपदे स्थितम् । बुद्धो निवर्तते जीवो मूढः सर्गे प्रवर्तते ॥ ंो_४,१८.१३ ॥ चित्कलापदं तुर्याख्यं पदम् । बुद्धः चित्कलाविमर्शनसमर्थः । निवर्तते पुनः विषयेष्वासक्तिं न भजते । प्रवर्तते विषयासक्तिं भजते ॥ ंोट्_४,१८.१३ ॥ स्वभावशुद्धिर्हि यदा तदा मैत्री प्रवर्तते । द्वयोरेकत्वरूपैव सुसौहार्दनिदर्शना ॥ ंो_४,१८.१४ ॥ मैत्री कथम्भूता एव । द्वयोः एकत्वरूपा एव । द्वयोरेकत्वमेव हि मैत्रीशब्दार्थः । पुनः कथम्भूता । सुसौहार्दनिदर्शना । सुसौहार्दं प्रशस्तमित्रभावः । निदर्शनं दृष्टान्तः यस्याः । सा । सुसौहार्दे हि द्वयोरेकत्वमेव भवति ॥ ंोट्_४,१८.१४ ॥ अज्ञः सुषुप्तात्सम्बुद्धो जीवः कश्चित्स्वसर्गभाक् । सर्वगत्वाच्चितः कश्चित्परसर्गेण नीयते ॥ ंो_४,१८.१५ ॥ स्वसर्गभाक्सुषुप्तावस्थायाः पूर्वं यादृक्स्वभाव आसीत् । तादृक्स्वभाव एवेत्यर्थः । परसर्गेण नयनं स्वभावपरिवृत्तिः ज्ञेया । शुक्रादिसर्गदृष्टान्तेन वा परसर्गनयनं योज्यम् ॥ ंोट्_४,१८.१५ ॥ ननु तस्मिन् सर्गेऽन्यः सर्गः कुत्रास्ति येनासौ नीयत इत्य् । अत्राह सर्गे सर्गे पृथग्रूपं सन्ति सर्गान्तराण्यपि । तेष्वप्यन्तःस्थसर्गौघाः कदलीदलपीठवत् ॥ ंो_४,१८.१६ ॥ यथा कदलीदलेष्वन्तरन्यानि दलानि सन्ति तेष्वन्तरप्यन्यानि तथा सर्गेष्वपि सर्गान्तराणि सन्ति । तेष्वन्तरप्यन्यानि सन्तीति पिण्डार्थः ॥ ंोट्_४,१८.१६ ॥ सर्गे सर्गान्तरापूरपत्त्रपीवरवृत्तिमान् । स्वभावशीतलो ब्रह्मकदलीदलमण्डपः ॥ ंो_४,१८.१७ ॥ सर्गे एकस्मिन् सर्गे । यः सर्गान्तरापूरः अन्यसर्गसमूहः । स एव पत्त्राणि । तैः पीवरा बृंहणरूपा । वृत्तिः स्थितिः यस्य । सः । तादृशः ॥ ंोट्_४,१८.१७ ॥ कदल्यामन्यता नास्ति यथा पत्त्रशतेष्वपि । ब्रह्मतत्त्वेऽन्यता नास्ति तथा सर्गशतेष्वपि ॥ ंो_४,१८.१८ ॥ स्पष्टम् ॥ ंोट्_४,१८.१८ ॥ बीजात्फलं रसाद्भूत्वा यथा बीजं पुनर्भवेत् । तथा ब्रह्म मनो भूत्वा बोधाद्ब्रह्म पुनर्भवेत् ॥ ंो_४,१८.१९ ॥ यथा फलं बीजातुपादानभूतात्बीजात् । भूत्वा प्रादुर्भूय । रसाथेतोः । पुनः बीजं भवेत् । तथा ब्रह्म मनो भूत्वा बोधात् । पुनः ब्रह्म भवेत् ॥ ंोट्_४,१८.१९ ॥ रसकारणकं बीजं फलभावेन जृम्भते । ब्रह्मकारणको जीवो जगद्रूपेण जृम्भते ॥ ंो_४,१८.२० ॥ स्पष्टम् ॥ ंोट्_४,१८.२० ॥ रसस्य कारणं किं स्यादिति वक्तुं न युज्यते । स्वभावो निर्विशेषत्वात्परं वक्तुं न युज्यते ॥ ंो_४,१८.२१ ॥ कथं न युज्यत इत्य् । अत्राह स्वभाव इति । स्वभावः परं केवलम् । निर्विशेषत्वात् । वक्तुमभियोगविषयतां नेतुम् । न युज्यते । स्वभावस्याभियोगे क्रियमाणे अविशेषात्सर्वेषु स्वभावेष्वभियोगः प्राप्नोतीति निर्विशेषत्वादिति पदस्याभिप्रायः ॥ ंोट्_४,१८.२१ ॥ न चासत्ता सर्वमये वक्तुं क्वचन शक्यते । नाकारणे कारणादि परे वास्त्यादिकारणे ॥ ंो_४,१८.२२ ॥ असतः सर्वमयत्वायोगातिति भावः । नाकारण इति । अकारणे न विद्यते कारणं यस्य । तादृशे । आदिकारणे परे उत्कृष्टे चिन्मात्रे । कारणादि न अस्ति । आदिकारणत्वापायादिति भावः ॥ ंोट्_४,१८.२२ ॥ बीजं जहन्निजवपुः फलीभूतं विलोक्यते । ब्रह्माजहन्निजवपुः फलं बीजं च संस्थितम् ॥ ंो_४,१८.२३ ॥ ब्रह्मणः बीजत्वावस्थाने निजवपुषः अहानमेव हेतुः ॥ ंोट्_४,१८.२३ ॥ बीजस्याकृतिमत्सर्वं तेनानाकृति तत्पदम् । न युज्यते समीकर्तुं तस्मान्नास्त्युपमा शिवे ॥ ंो_४,१८.२४ ॥ सर्वं समस्तं स्वरूपम् । बीजस्याकृतिमत्भवति । तेन ततो हेतोः । शिवे शुद्धचिन्मात्रतत्त्वे । उपमा नास्ति ॥ ंोट्_४,१८.२४ ॥ खमेव जायते खाभान्न च तज्जायतेऽन्यदृक् । अतो न जातं वा जातं विद्धि ब्रह्मनभो जगत् ॥ ंो_४,१८.२५ ॥ खाभातत्यन्तनैर्मल्येनाकाशतुल्यात्ब्रह्मणः । खमेव जायते । ननु कथमेतदित्याह । न चेति । चशब्दो हेतौ । यतः तत्जगन्नाम खम् । अन्यदृक्ब्रह्मेतरदृग्रूपम् । न जायते नोत्पद्यते । फलितं कथयति अत इति । अतः परमार्थतो । न जातम् । आभासतः जातं वा । जगत्ब्रह्मनभः ब्रह्माकाशम् । विद्धि ॥ ंोट्_४,१८.२५ ॥ दृश्यं पश्यन् स्वमात्मानं न द्रष्टा सम्प्रपश्यति । प्रपञ्चाक्रान्तसंवित्तेः कस्योदेति निजा स्थितिः ॥ ंो_४,१८.२६ ॥ द्रष्टा दृश्यं दृशिक्रियाविषयीभूतं भावजातम् । पश्यन् । स्वमात्मानं द्रष्टृरूपं निजमात्मानम् । न पश्यति नानुभवति । प्रपञ्चेनाक्रान्ता स्वोन्मुखतां नीता । संवित्तिः यस्य । तादृशस्य । कस्य पुरुषस्य । निजा स्थितिः स्वं स्वरूपम् । उदेति स्फुरति । न कस्यापीत्यर्थः ॥ ंोट्_४,१८.२६ ॥ मृगतृष्णाजलभ्रान्तौ सत्यां केव विदग्धता । विदग्धतायां सत्यां तु केवासौ मृगतृष्णिका ॥ ंो_४,१८.२७ ॥ अतो विदग्धता एव सत्सङ्गमादिना पोषणीयेति भावः ॥ ंोट्_४,१८.२७ ॥ आकाशविशदो द्रष्टा सर्वगोऽपि न पश्यति । नेत्रं निजमिवात्मानं दृशीभूतमहो भ्रमः ॥ ंो_४,१८.२८ ॥ आकाशवद्विशदः शुद्धचिन्मात्ररूपत्वेनात्यन्तनिर्मलः । द्रष्टा । दृशीभूतं दृश्यभावं गतम् । आत्मानं द्रष्टाख्यमात्मानम् । न पश्यति । किमिव । नेत्रमिव । यथा नेत्रं निजमात्मानं न पश्यति । तथेत्यर्थः । अहो भ्रमः भवति ॥ ंोट्_४,१८.२८ ॥ आकाशविशदं ब्रह्म यत्नेनापि न लभ्यते । दृश्ये दृश्यतयादृष्टे त्वस्य लाभः सुदूरतः ॥ ंो_४,१८.२९ ॥ कुतो न लभ्यते इत्य् । अत्राह दृश्य इति । तेन दृश्ये दृश्यत्वादर्शनमेव ब्रह्मलब्धिरिति भावः ॥ ंोट्_४,१८.२९ ॥ त्वादृक्स्थूलोऽवधानेन विना यत्र न दृश्यते । तत्रातिदूरोदस्तैव द्रष्टुः सूक्ष्मस्य दृश्यता ॥ ंो_४,१८.३० ॥ यत्र यस्मिन् विषये । अवधानेन विना त्वादृक्स्थूलः न दृश्यते । तत्र तस्मिन् विषये । सूक्ष्मस्य द्रष्टुः दृश्यता अतिदूरोदस्ता एव भवति । त्वादृगिति देहाभिप्रायेणोक्तिः ॥ ंोट्_४,१८.३० ॥ द्रष्टा द्रष्टैव भवति न तु स्पृशति दृश्यताम् । दृश्यं च दृश्यते तेन द्रष्टा राम न दृश्यते ॥ ंो_४,१८.३१ ॥ द्रष्टा दृशिक्रियाकर्ता । द्रष्टा एव भवति । असौ द्रष्टा दृश्यतां दृश्यभावम् । न स्पृशति । हे राम । तेन द्रष्ट्रा । दृश्यं दृश्यते येन । दृश्यस्य दृश्यत्वमस्तीति भावः । तेन द्रष्ट्रा । द्रष्टा द्रष्टृरूपः स्वात्मा । न दृश्यते । अतिसूक्ष्मत्वादिति भावः ॥ ंोट्_४,१८.३१ ॥ द्रष्टैव सम्भवत्येको न तु दृश्यमिहास्ति हि । द्रष्टा सर्वात्मको दृश्यं स्थितश्चेत्केव दृश्यता ॥ ंो_४,१८.३२ ॥ सम्भवतीति । तस्यैव विचारसहत्वादिति भावः । सर्वात्मकः द्रष्टा दृश्यं स्थितः दृश्यतया स्थितः । चेत्भवति । तदा दृश्यता का इव भवति । अवश्यं च स्वप्नन्यायेन द्रष्टुः दृश्यतयावस्थानमङ्गीकर्तव्यम् ॥ ंोट्_४,१८.३२ ॥ ननु कथं द्रष्टा दृश्यत्वेन तिष्ठतीत्याशङ्क्य दृष्टान्तं कथयति सर्वशक्तिमता राज्ञा यत्यत्सम्पाद्यते यथा । तत्तत्तथा भवत्याशु स एवोदेति तत्तया ॥ ंो_४,१८.३३ ॥ यथा सर्वशक्तिमता सम्राट्त्वेन सर्वशक्तियुक्तेन । राज्ञा । यत्यत्वस्तु । यथा सम्पाद्यते सम्पादनक्रियाविषयतां नीयते । तत्तत्वस्तु । आशु तथा भवति सम्पद्यते । विचारे क्रियमाणे स एव राजा एव । तत्तया तत्तद्वस्तुरूपेण । उदेति स्फुरति । अयं भावः । यथा सर्वशक्तिमान् राजा स्वाव्यतिरिक्तज्ञानद्वारेण ज्ञानविवर्तभूतसम्पद्यमानवस्तुतया स्फुरति । तथा द्रष्टा स्वाव्यतिरिक्तदृशिक्रियाद्वारेण दृशिक्रियाविवर्तभूतदृश्यमानपदार्थतया स्फुरतीति ॥ ंोट्_४,१८.३३ ॥ यथा मधुरसोल्लासः षण्डो भवति भासुरः । रसतामजहच्चैव फलपुष्पदलोन्नतः ॥ ंो_४,१८.३४ ॥ चिदुल्लासस्तथा जीवो भूत्वा भवति देहकः । चिन्मात्रतां तामजहदेव दर्शनदृङ्मयः ॥ ंो_४,१८.३५ ॥ दर्शनदृङ्मयः कर्मसाधनोऽयं दर्शनशब्दः । तेन दृश्यदृङ्मयः इत्यर्थः । युग्मम् ॥ ंोट्_४,१८.३४३५ ॥ नानाषण्डसहस्रौघैरद्वितीयैर्निजात्मनः । यथोदेति रसो भौमश्चित्तथोदेत्यहम्भ्रमैः ॥ ंो_४,१८.३६ ॥ भौमः भूमिसम्बन्धी ॥ ंोट्_४,१८.३६ ॥ चिद्रसोल्लासवृक्षाणां कचतामात्मनात्मनि । दृश्यशाखाशताढ्यानामिह नान्तोऽवगम्यते ॥ ंो_४,१८.३७ ॥ चिदेव रसः । तस्य यः उल्लासः । तस्य वृक्षाणां जगतामिति यावत् ॥ ंोट्_४,१८.३७ ॥ षण्डः प्रत्येकमेवान्तर्यथा रसचमत्कृतिम् । स्वादयत्येवमेषा चित्पृथक्पश्यति संसृतीः ॥ ंो_४,१८.३८ ॥ रसेन कृतामुच्छूनतारूपां चमत्कृतिं रसचमत्कृतिम् ॥ ंोट्_४,१८.३८ ॥ या योदेति यथा यस्या जीवशक्तेः स्वसंसृतिः । तां तां तथैति सा स्वान्तश्चिद्भूतभुवनस्थितिम् ॥ ंो_४,१८.३९ ॥ उदेति स्फुरति । चित्चित्स्वरूपा । सा जीवशक्तिः । स्वान्तः स्वमध्ये । तां तां भूतभुवनस्थितिम् । भूतानां तदाधारभूतानाम् । भुवनानां च संस्थितिं संस्थाम् । एति प्राप्नोति ॥ ंोट्_४,१८.३९ ॥ जीवसंसृतयः काश्चित्प्रमिलन्ति परस्परम् । स्वयं विहृत्य संसारे शाम्यन्ति चिरकालतः ॥ ंो_४,१८.४० ॥ काश्चित्शुद्धमतियुक्ताः । चिरकालतः देहपातानन्तरम् ॥ ंोट्_४,१८.४० ॥ सूक्ष्मया परया दृष्ट्या स्वं पश्यस्यनया तथा । जगज्जालसहस्राणि परमाण्वन्तरेष्वपि ॥ ंो_४,१८.४१ ॥ त्वम् । स्वं चिन्मात्राख्यं स्वात्मानम् । अनया अस्मिन् प्रकरणे प्रोक्तया । परया उत्कृष्टया । सूक्ष्मया सूक्ष्मवस्तुविषयत्वेन सूक्ष्मरूपया । दृष्ट्या सम्यग्ज्ञानेन । पश्यसि अनुभवसि । तथाशब्दः समुच्चये । तथा परमाण्वन्तरेष्वपि जगज्जालसहस्राणि पश्यसि । अपिशब्दः परमाण्वन्तरेषु जगज्जालसहस्रदर्शनासम्भवद्योतकः ॥ ंोट्_४,१८.४१ ॥ भित्तौ नभसि पाषाणे ज्वालायामनिले जले । सन्ति संसारलक्ष्याणि तिले तैलमिवाखिले ॥ ंो_४,१८.४२ ॥ जगद्बीजभूतचिन्मात्रसारत्वेनेति भावः ॥ ंोट्_४,१८.४२ ॥ शुद्धमेति यदा चेतस्तदा जीवो भवेच्चितिः । शुद्धा च सा सर्वगता तेन सम्मेलनं मिथः ॥ ंो_४,१८.४३ ॥ सा चित् । तेन श्ंोट्_४,१८.उद्धत्वेन ॥ ४३॥ सर्वेषां पद्मजादीनां स्वसत्ताभ्रमपूरकः । जगद्दीर्घमहास्वप्नः स्वयमन्तः समुत्थितः ॥ ंो_४,१८.४४ ॥ स्वसत्ताभ्रमपूरकः स्वसत्ताभ्रमकारीत्यर्थः ॥ ंोट्_४,१८.४४ ॥ स्वप्नात्स्वप्नान्तरं यान्ति काश्चिद्भूतपरम्पराः । तेनोपलम्भः कुड्यादावासां दृढतरः स्थितः ॥ ंो_४,१८.४५ ॥ काश्चिद्भूतपरम्पराः भूतपङ्क्तयः । स्वप्नातेकस्मात्संसृतिरूपात्स्वप्नात् । स्वप्नान्तरमन्यसंसृतिरूपं स्वप्नम् । यान्ति । तेन ततः हेतोः । आसां स्वप्नात्स्वप्नान्तरं गतानां भूतपङ्क्तीनाम् । कुड्यादौ दृढतरः उपलम्भः स्थितः अस्ति । इदं कुड्यमित्यादिरूपं ज्ञानमस्ति ॥ ंोट्_४,१८.४५ ॥ यद्यत्र चिद्भावयति तत्तत्राशु भवत्यलम् । तया स्वप्नेऽपि यद्दृष्टं तत्काले सत्यमेव तत् ॥ ंो_४,१८.४६ ॥ तया चिता ॥ ंोट्_४,१८.४६ ॥ चिदणोरन्तरे सन्ति समस्तानुभवाणवः । यथा बीजान्तरे पत्त्रलतापुष्पफलाणवः ॥ ंो_४,१८.४७ ॥ समस्ताः समस्तघटपटाद्याकाराः । अनुभवाणवः अनुभवलेशाः ॥ ंोट्_४,१८.४७ ॥ परमाणुं जगदन्तर्धत्ते चित्परमाणुकः । लीनमाकाशमाकाशे द्वैतैक्यभ्रममुत्सृज ॥ ंो_४,१८.४८ ॥ चित्परमाणुकः चिद्रूपः परमाणुः । जगत्परमाणुं जगद्रूपं परमाणुम् । अन्तः स्वात्मभित्तौ । धत्ते धारयति । फलितमाह लीनमिति । अतः आकाशं जगदाख्यमाकाशम् । आकाशे चिदाख्य आकाशे । लीनं भवति । एतस्य फलं कथयति द्वैतैक्यमिति । अतः त्वं द्वैतैक्यभ्रममुत्सृज त्यज । एकतयापि वक्तुमशक्यस्य केवलस्य चिन्मात्रस्य स्थितत्वात् ॥ ंोट्_४,१८.४८ ॥ देशकालक्रियाद्याख्यैः स्वैरेवाणुभिरेव चित् । अणूननुभवत्यन्तरितराणोरसम्भवात् ॥ ंो_४,१८.४९ ॥ स्वैरेव स्वरूपभूतैरेव । अणून्नानाभूतरूपानणून् । अन्तः स्वस्मिन् । इतराणोः देशादिरूपस्य चिद्व्यतिरिक्तस्याणोः ॥ ंोट्_४,१८.४९ ॥ स्वयं सर्वस्य कचितः स्वच्छश्चिदणुषण्डकः । ब्रह्मादेः कीटनिष्ठस्य देहदृष्ट्यानुभावितः ॥ ंो_४,१८.५० ॥ देहदृष्ट्या अनुभावितः अनुभवविषयतां नीतः । कीटनिष्ठस्य कीटावसानस्य । अनुभावित इत्यत्र स्वार्थे णिचार्षः ॥ ंोट्_४,१८.५० ॥ कचितं किञ्चिदेवेह वस्तुतस्तु न किञ्चन । स्वयं स्वत्वं स्वादयन्ते द्वैतं चित्परमाणवः ॥ ंो_४,१८.५१ ॥ पुनः किमेतत्स्फुरतीत्य् । अत्राह स्वयमिति । चित्परमाणवः चिल्लेशाः । द्वैतं घटपटादिरूपद्वैतस्वरूपम् । स्वत्वं स्वभावम् । स्वादयन्ते चमत्कारविषयतां नयन्ति ॥ ंोट्_४,१८.५१ ॥ स्वयं प्रकचति स्फारदेहश्चिदणुषण्डकः । नेत्रादिकुसुमद्वारैः संविदामोदमुद्गिरन् ॥ ंो_४,१८.५२ ॥ स्फारदेहः स्फारस्वरूपः । संविदामोदं घटपटादिज्ञानरूपमामोदम् ॥ ंोट्_४,१८.५२ ॥ सम्पश्यतीतरान् कश्चिद्बहीरूपेण चिद्घनान् । सर्वगत्वादनाशत्वाद्दृश्यबीजस्य वै चितेः ॥ ंो_४,१८.५३ ॥ कश्चित्पुरुषः । जाग्रदवस्थाविष्ट इति यावत् । चितेः दृश्यबीजस्य चिदाख्यस्य दृश्यबीजस्य । सर्वगत्वात्तथा अनाशत्वात् । चिद्घनान् चित्स्वरूपत्वेन चिद्भरितान् । इतरान् स्वतो भिन्नत्वेन भातान् पदार्थान् । बहीरूपेण पश्यति बाह्या एते इति अनुभवति ॥ ंोट्_४,१८.५३ ॥ अन्तरेवाखिलं कश्चित्पश्यत्यविकलं जगत् । तत्रातिकालं कलनादुन्मज्जति निमज्जति ॥ ंो_४,१८.५४ ॥ कश्चित्स्वप्नावस्थाविष्ट इति यावत् । अन्तरेव स्वस्मिन्नेव । न तु बाह्ये ॥ ंोट्_४,१८.५४ ॥ स्वप्नात्स्वप्नान्तरं तत्र तथा पश्यन् पुनः पुनः । मिथ्यावटेषु लुठितः शिलेव शिखरच्युता ॥ ंो_४,१८.५५ ॥ कश्चित्किं कुर्वन् । स्वप्नात्स्वप्नान्तरं पुनः पुनः पश्यनिति पूर्वेणैव सम्बन्धः । कश्चित्कथम्भूतः । मिथ्या व्यर्थम् । अवटेषु भावाभावाख्येष्ववटेषु । लुठितः । का इव । शिखरच्युता शिला इव ॥ ंोट्_४,१८.५५ ॥ केचित्सम्मीलिताः केचिदात्मन्येव भ्रमे स्थिताः । मग्नाः स्वसंविद्रसतः स्फुरन्तो देहिषण्डकाः ॥ ंो_४,१८.५६ ॥ केचित्सुषुप्त्यवस्थाविष्टाः । सम्मीलिताः निद्राग्रस्ताः । आत्मनि अज्ञानवलिते स्वात्मनि । देहिषण्डकाः जीवसमूहाः ॥ ंोट्_४,१८.५६ ॥ तुर्यावस्थाविष्टान् कथयति स्वयमन्तः प्रपश्यन्ति ये जगज्जीवसम्भ्रमम् । तैः कैश्चित्तत्तथा दृश्यमसत्स्वप्नवदाश्रितम् ॥ ंो_४,१८.५७ ॥ ये जीवन्मुक्ताः जीवाः । जगज्जीवसम्भ्रमं जगदाख्यं जीवसम्भ्रमम् । अन्तः मनसि । पश्यन्ति । न तु बहिः । तैः कैश्चित्तत्दृश्यं तथा आश्रितमन्तस्त्वेनैवाश्रितम् । कथम् । असत्स्वप्नवत् । तुर्यावस्थाविष्टा जीवन्मुक्ता हि बाह्यमपि जगत्स्वप्नवदन्तःस्थमेवानुभवन्ति भ्रमस्वरूपत्वदर्शनात् ॥ ंोट्_४,१८.५७ ॥ सर्वात्मत्वात्स्वभावस्य तद्दृश्यं सत्यमात्मनि । सर्वगो विद्यते यत्र तत्र सर्वमुदेति हि ॥ ंो_४,१८.५८ ॥ तत्दृश्यमात्मनि स्वस्मिन् स्वरूपे । सत्यं भवति । कुतः । स्वभावस्य चिन्मात्राख्यस्य स्वभावस्य । सर्वात्मत्वात्सर्वरूपेण वर्तमानत्वात् । अयं भावः । दृश्यं द्रष्ट्रपेक्षया सिद्धेन दृश्यत्वेनासत्यमपि सत् । सर्वरूपत्वावस्थितचिन्मात्रापरपर्यायस्वभावसारत्वेन स्वस्वरूपे सत्यमेवेति । ननु कथमेतदित्य् । अत्राह सर्वग इति । हि यस्मात् । सर्वगः सर्वव्यापकं स्वभावापरपर्यायं चिन्मात्रत्वम् । यत्र विद्यते । तत्र सर्वं दृश्यम् । उदेति प्रादुर्भवति । अतः स्वभावभूतचिन्मात्रवत्तत्सत्ताविनाभावि दृश्यमपि सत्यमेवेति भावः ॥ ंोट्_४,१८.५८ ॥ जीवान्तः प्रतिभासस्य सर्गस्य पुनरन्तरे । जीवषण्ड उदेत्युच्चैस्तस्यान्तरितरोऽपि च ॥ ंो_४,१८.५९ ॥ स्पष्टम् ॥ ंोट्_४,१८.५९ ॥ जीवान्तर्जायते जीवस्तस्यान्तरपि जीवकः । सर्वत्र रम्भादलवज्जीवबीजं प्रजीवति ॥ ंो_४,१८.६० ॥ प्रजीवति प्रकृष्टायाः जीवनक्रियायाः कर्तृत्वं भजति ॥ ंोट्_४,१८.६० ॥ दृश्यबुद्धिपरावृद्धि सममेतदनन्तकम् । हेम्नीव कटकादित्वं परिज्ञप्त्यैव नश्यति ॥ ंो_४,१८.६१ ॥ अनन्तकमन्तरहितत्वेन भासमानम् । एतत्दृश्यम् । परिज्ञप्त्यैव चिन्मात्रमेवेदमिति ज्ञानेनैव । न त्वन्येन केनापि हेतुना । समं युगपत् । न तु क्रमेण । नश्यति अदर्शनं याति । चिन्मात्ररूपत्वेनानुभूयमानत्वसिद्धेरित्यर्थः । एतत्कथम्भूतम् । दृश्यबुद्ध्या दृश्यमिदमिति बुद्ध्या । परा उत्कृष्टा । आ समन्तात् । वृद्धिः यस्य । तत् । एतत्किमिव । कटकादित्वमिव । यथा हेम्नि स्थितं कटकादित्वं परिज्ञप्त्या हेमैवेदमिति ज्ञानेन नश्यति । तथेत्यर्थः ॥ ंोट्_४,१८.६१ ॥ विचारो यस्य नोदेति कोऽहं किमिदमित्यलम् । तस्याद्यन्ताविमुक्तोऽसौ दीर्घो जीवज्वरभ्रमः ॥ ंो_४,१८.६२ ॥ आद्यन्ताविमुक्तः अविच्छिन्नप्रवाहः । जीवोऽहमिति ज्वररूपः भ्रमः जीवज्वरभ्रमः ॥ ंोट्_४,१८.६२ ॥ विचारः फलितस्तस्य विज्ञेयो यस्य सन्मतेः । दिनानुदिनमायाति तानवं भोगगृध्नुता ॥ ंो_४,१८.६३ ॥ विज्ञेय इत्य् । अत्र पण्डितैरिति शेषः । भोगगृध्नुता भोगाकाङ्क्षा ॥ ंोट्_४,१८.६३ ॥ यथा देहोपयुक्तं हि करोत्यारोग्यमौषधम् । तथेन्द्रियजये न्यस्तो विवेकः फलितो भवेत् ॥ ंो_४,१८.६४ ॥ देहोपयुक्तं देहे प्रयुक्तम् । फलितः मोक्षाख्यव्यवहिते फलयुक्तः । इन्द्रियजयस्यैव मोक्षं प्रति साक्षादुपायत्वादिति भावः ॥ ंोट्_४,१८.६४ ॥ विवेकोऽस्ति वचस्येव चित्रेऽग्निरिव भास्वरः । यस्य तेन परित्यक्ता दुःखायैव विवेकिता ॥ ंो_४,१८.६५ ॥ यस्येत्यस्य पूर्वार्धेन सम्बन्धः । परित्यक्तेति चित्ताभिप्रायेणोक्तम् ॥ ंोट्_४,१८.६५ ॥ यथा स्पर्शेन पवनः सत्तामायाति नो गिरा । तथेच्छातानवेनैव विवेकोऽस्येति बुध्यते ॥ ंो_४,१८.६६ ॥ स्पष्टम् ॥ ंोट्_४,१८.६६ ॥ चित्रामृतं नामृतमेव विद्धि चित्रानलं नानलमेव विद्धि । चित्रेऽङ्गना नूनमनङ्गनैव वाचा विवेकस्त्वविवेक एव ॥ ंो_४,१८.६७ ॥ यथा चित्रस्थस्यामृतादेः तृप्त्याद्यर्थक्रियाकारित्वाभावातनमृतादिरूपत्वमेव । तथा केवलं वाचैव कथ्यमानस्य । अत एव इन्द्रियजयासाधकस्य विवेकस्य मोक्षाख्यार्थक्रियाकारित्वाभावादविवेकत्वमेवेति भावः ॥ ंोट्_४,१८.६७ ॥ पुनः कीदृक्पुरुषो विवेकी अस्त्य् । अत्र सर्गान्तश्लोकेनाह पूर्वं विवेकेन तनुत्वमेति रागोऽथ वैरं च समूलमेव । पश्चात्परिक्षीयत एव यत्र स पावनस्तत्र विवेकितास्ति ॥ ंो_४,१८.६८ ॥ यत्र यस्मिन् पुरुषे । रागः अथ वैरं च द्वेषः । विवेकेन विचारेण । पूर्वं प्रथमम् । तनुत्वं तानवम् । एति गच्छति । पश्चात्तनुत्वानन्तरम् । क्षीयते एव नश्यत्येव । सः पुरुषः । पावनः अस्ति । तत्र तस्मिन् पुरुषे । विवेकिता विचारयुक्तत्वम् । अस्ति । न तु वाक्यमात्रेण सदसन्निर्णायके इत्यर्थः । इति शिवम् ॥ ंोट्_४,१८.६८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्सोपायटीकायां स्थितिप्रकरणेऽष्टादशः सर्गः ॥१८॥ ********************************************************************* अतिदुर्बोधत्वेन पुनरपि पूर्वोक्तमेवार्थं कथयति जीवबीजं परं ब्रह्म सर्वत्र खमिव स्थितम् । तेन जीवोदरजगत्यपि जीवोऽस्त्यनेकधा ॥ ंो_४,१९.१ ॥ जीवानां बीजं प्रादुर्भवस्थानम् । परं ब्रह्म खमिवाकाशवत् । सर्वत्र दृश्यतयाभिमते समस्ते जगज्जाले । स्थितं स्वरूपसारतया स्थितं भवति । तेन ततो हेतोः । जीवस्य यतुदरं मध्यप्रदेशः । तत्रस्थितं यत्जगत्स्वप्नादिरूपं जगत् । तस्मिनपि अनेकधा नानाविधस्थावरजङ्गमात्मकप्रकारेण नानाप्रकारो । जीवोऽस्ति ॥ ंोट्_४,१९.१ ॥ ततः किमित्यपेक्षायामाह चिद्घनैकघनात्मत्वाज्जीवान्तर्जीवजातयः । कदलीदलवत्सन्ति कीटा इव नरोदरे ॥ ंो_४,१९.२ ॥ अतः चिद्घनेन एकं केवलम् । घनः आत्मा यस्य । सः । तस्य भावः चिद्घनैकात्मत्वम् । तस्माथेतोः । जीवान्तः जीवानां मध्ये । जीवजातयः कदलीदलवत्सन्ति । कदलीदलेषु ह्यन्तरन्यानि दलानि सन्ति । जीवजातयः के इव । कीटा इव । यथा नरोदरे कीटाः सन्ति । तथेत्यर्थः ॥ ंोट्_४,१९.२ ॥ ननु जीवः कुत उत्पद्यते इत्य् । अत्राह यो यो राम यथा ग्रीष्मे कल्कस्वेदाद्भवेत्क्रिमिः । तत्तन्नाम तथा चित्त्वात्खं जीवीभवति स्वतः ॥ ंो_४,१९.३ ॥ हे राम । ग्रीष्मे ग्रीष्मकाले । कल्कस्वेदात् । कल्को मलम् । स च स्वेदश्च । तत्कल्कस्वेदम् । तस्मात् । यः यः क्रिमिः यथा येन रूपेण । भवेत्जायते । खमाकाशम् । चित्त्वात्तथा तेन रूपेण । स्वतः जीवीभवति । खं कथम्भूतम् । तत्तन्नाम तस्य तस्य क्रिमेर्नाम यस्य । तत् । अयं भावः । ग्रीष्मे तावत्नानाविधाः क्रिमयः कल्कस्वेदात्जायन्ते । तेषां शरीरं तावत्कल्कस्वेदमयं भवतु । तच्चालकस्तु जीवः जीवत्वान्यथानुपपत्त्या चित्त्वयुक्तमाकाशमेव । कल्कस्वेदस्य शरीरमात्रसम्पादने परिसमाप्तत्वात्तदन्यस्यासन्निधानाच्च । अतस्सर्वे जीवाः आकाशारूपा एवेति ॥ ंोट्_४,१९.३ ॥ यथा यथा यतन्ते ते जीवकाः स्वात्मसिद्धये । तथा तथा भवन्त्याशु विचित्रोपासनक्रमैः ॥ ंो_४,१९.४ ॥ ते आकाशमयाः । जीवकाः । स्वात्मसिद्धये यथा यथा यतन्ते विचित्रोपासनाक्रमैः यतनरूपैः नानाविधैरुपासनाक्रमैः । तथा तथा भवन्ति ॥ ंोट्_४,१९.४ ॥ सामान्येनोक्त्वा विशेषेण कथयति देवान् देवयजो यक्षयजो यक्षान् व्रजन्ति हि । ब्रह्म ब्रह्मयजो यान्ति यदतुच्छं तदाश्रयेत् ॥ ंो_४,१९.५ ॥ फलितमाह यदिति । अत इत्यध्याहारः । अतः पुरुषः यततुच्छं भवति । तताश्रयेत् ॥ ंोट्_४,१९.५ ॥ ननु तर्हि शुक्रः कथं स्वयतनं विना नानारूपतां गत इत्य् । अत्राह स शुक्रो भृगुपुत्रो हि निर्मलत्वात्स्वसंविदः । बद्धः प्रथमदृष्टेन दृश्येनाशु स्वभावतः ॥ ंो_४,१९.६ ॥ सः पूर्वप्रकरणोक्तः । भृगुपुत्रः शुक्रः । हि निश्चये । इदम्प्रथमतावरोहेण स्वसंविदः निर्मलत्वात्प्रथमदृष्टेन दृश्येन स्वभावतः प्रयतनं विनाशु बद्धः स्वोन्मुखः कृतः । अतो न विरोध इति भावः ॥ ंोट्_४,१९.६ ॥ अभिजातापरिम्लाना बाला यत्प्रथमं पुरः । संवित्प्राप्नोति तद्रूपा भवत्यन्या न काचन ॥ ंो_४,१९.७ ॥ अभिजाता शुद्धा । अत एवापरिम्लाना तावत्कालुष्यमगता । बाला ब्रह्मणः सद्यः उत्थिता । संवित् । प्रथममादौ । यत्पुरः पश्यति । तद्रूपा भवति । अन्या ब्रह्मणः पूर्वतरमुत्थिता । काचन संवित् । न भवति यत्नं विना न भवति । यत्नेन तु भवत्येव । अन्यथा मोक्षाभावप्रसङ्गात् ॥ ंोट्_४,१९.७ ॥ पूर्वं स्फुरितं प्रश्नं श्रीरामः अस्मिन् समये पृच्छति जाग्रत्स्वप्नदशाभेदं भगवन् वक्तुमर्हसि । कथं च जाग्रज्जाग्रत्स्यात्स्वप्नोऽजाग्रत्कथं भवेत् ॥ ंो_४,१९.८ ॥ किं कथयामीत्यपेक्षायामाह कथमिति । जाग्रत्जाग्रत्कथं स्यात् । स्वप्नः अजाग्रत्स्वप्नः । कथं भवेत् । एतदेव कथय मे इति भावः ॥ ंोट्_४,१९.८ ॥ श्रीवसिष्ठ उत्तरं कथयति स्थिरप्रत्यययुक्तं यत्तज्जाग्रदिति कथ्यते । अस्थिरप्रत्ययं यत्स्यात्स स्वप्नः समुदाहृतः ॥ ंो_४,१९.९ ॥ स्थिरप्रत्ययेन स एवायमित्येवंरूपप्रत्यभिज्ञायां क्षमेण स्थिरज्ञानेन । युक्तं यत्भवति । पण्डितैः तज्जाग्रदिति कथ्यते । यतस्थिरप्रत्ययं प्रत्यभिज्ञाक्षमास्थिरज्ञानयुक्तम् । स्यात् । पण्डितैः सः स्वप्नः समुदाहृतः कथितः ॥ ंोट्_४,१९.९ ॥ जाग्रत्स्वप्नयोः कदाचित्सम्भवयुक्तं स्वप्नजाग्रत्त्वं कथयति जाग्रच्चेत्क्षणदृष्टः स्यात्स्वप्नः कालान्तरस्थितः । तज्जाग्रत्स्वप्नतामेति स्वप्नो जाग्रत्त्वमृच्छति ॥ ंो_४,१९.१० ॥ जाग्रल्लक्षणया जाग्रज्ज्ञानविषयीभूतं वस्तु । चेत्यदि । क्षणदृष्टः क्षणमेव दृष्टः । स्यात् । अर्थात्ततः नष्टः । तथा स्वप्नः स्वप्नज्ञानविषयीभूतं वस्तु । कालान्तरस्थितः स्वप्नकालादन्यस्मिन् कालेऽपि स्थितः । चेत्स्यात् । कदाचिद्धि स्वप्नदृष्टमपि वस्तु प्रभाते प्रत्यक्षं दृश्यते । तत्तदा । जाग्रत्जाग्रद्वस्तुग्राहकं ज्ञानम् । स्वप्नतामेति अस्थिरप्रत्ययत्वात् । स्वप्नः स्वप्नवस्तुग्राहकं ज्ञानम् । जाग्रत्त्वमृच्छति स्थिरप्रत्ययत्वात् ॥ ंोट्_४,१९.१० ॥ ननु कथमेतदित्य् । अत्राह जाग्रत्स्वप्नदशाभेदो न स्थिरास्थिरतां विना । समः सदैव सर्वत्र समस्तानुभवोऽनयोः ॥ ंो_४,१९.११ ॥ यतः जाग्रत्स्वप्नदशाभेदः स्थिरतास्थिरतां विना न भवति । अतः क्षणिकजाग्रतः स्वप्नत्वं स्थिरस्वप्नस्य जाग्रत्त्वं युक्तमेवेति भावः । अत्र समस्तानुभवं प्रमाणत्वेन कथयति सम इति । अनयोः जाग्रत्स्वप्नयोः । समस्तेषु स्थितः अनुभवः समस्तानुभवः । सदा सर्वेषु कालेषु । सर्वत्र सर्वेषु देशेषु । समः एव भवति । स्थिरास्थिरतां विनेति अत्रापि सम्बन्धनीयम् ॥ ंोट्_४,१९.११ ॥ फलितमाह यदेव स्थिरतामेति तज्जाग्रदिति कथ्यते । क्षणभङ्गात्मकः स्वप्नो यथा भवति तच्छृणु ॥ ंो_४,१९.१२ ॥ अतः यदेव स्थिरतामेति पण्डितैः तत्स्वप्नोऽपि सन् जाग्रदिति कथ्यते । यः क्षणभङ्गात्मकः सः जाग्रदपि सन् स्वप्नः भवति । यथैतद्भवति त्वं तत्शृणु । यथा जाग्रत्स्वप्नयोः स्थिरत्वास्थिरत्वमस्ति तथा शृण्वित्यर्थः ॥ ंोट्_४,१९.१२ ॥ तदेव कथयति जीवधातुः शरीरेऽन्तर्विद्यते येन जीव्यते । तेजो वीर्यं जीवधातुरित्याद्यभिधमङ्ग तत् ॥ ंो_४,१९.१३ ॥ जीवाख्यः धातुः जीवधातुः । शरीरेऽन्तः विद्यते । येन जीवधातुना । शरीरं जीव्यते प्राणधारणक्रियां कार्यते । जीव्यत इति णिचन्तः प्रयोगः । हे अङ्ग । तत्सः जीवधातुः । तेजो वीर्यं जीवधातुरित्याद्यभिधं भवति । अत्र च धातुशब्दः मज्जादिवत्शरीरान्तश्चारित्वसादृश्यातुपचारेण प्रयुक्तः ॥ ंोट्_४,१९.१३ ॥ व्यवहारी यदा कायो मनसा कर्मणा गिरा । भवेत्तदा स सम्पन्नो जीवधातुः प्रसर्पति ॥ ंो_४,१९.१४ ॥ यदा यस्मिन् काले । कायः । मनसा कर्मणा स्वाश्रितया क्रियया । गिरा च । व्यवहारी व्यवहारयुक्तो । भवेत् । तदा सः जीवधातुः सम्पन्नः सम्पूर्णः सन् । प्रसर्पति सर्वस्मिञ्शरीरे सञ्चारं करोतीत्यर्थः ॥ ंोट्_४,१९.१४ ॥ ततः किमित्य् । आह तस्मिन् प्रसर्पत्यङ्गेषु स्पर्शात्संविदुदेति हि । पुष्टत्वात्सैति चित्ताख्यामन्तर्लीनजगद्भ्रमा ॥ ंो_४,१९.१५ ॥ तस्मिन् संविन्मये जीवधातौ । प्रसर्पति सति । अङ्गेषु स्पर्शात्जीवधातुस्पर्शात् । हि निश्चये । संवित्जीवधातुस्पन्दभूता शीतोष्णादिसञ्चेतनरूपा संवित् । उदेति प्रादुर्भवति । सा संवित् । अन्तर्लीनजगद्भ्रमा सती । पुष्टत्वात्जीवधातुप्रसर्पणेन पुष्टत्वात् । चित्ताख्यामेति । ननु अन्तर्लीनजगद्भ्रमत्वं संविदः कथमिति चेत् । सत्यम् । संवित्तावत्जीवधातोः उत्पद्यते । जीवधातुश्च पितृजीवधातोः उत्थानसमये जगद्भ्रमयुक्त एव उत्तिष्ठति । पितृजीवधातोरन्तर्लीनजगद्भ्रमत्वात् । अतः संविदोऽप्यन्तर्लीनजगद्भ्रमत्वं सिद्धम् ॥ ंोट्_४,१९.१५ ॥ सेक्षणादिषु रन्ध्रेषु प्रसर्पन्ती बहिर्मयम् । नानाकारविकाराढ्यं रूपमात्मनि पश्यति ॥ ंो_४,१९.१६ ॥ सा संवित् । ईक्षणादिरन्ध्रेषु प्रसर्पन्ती सती । बहिर्मयं बहिःस्वरूपम् । नानाकारविकारैः घटपटादिरूपैः आकारविकारैः । आढ्यं रूपम् । आत्मनि पश्यति विमृशति । अन्तरिव सङ्कल्पसिद्धघटपटादिताम् । न चैतत्कथमिति वाच्यम् । स्वप्ने दृष्टत्वात् । यथा स्वप्ने संविदेव नानारूपैर्भाति । तथा बहिरपीति न विरोधः ॥ ंोट्_४,१९.१६ ॥ तत्स्थिरत्वात्तयैवाथ जाग्रदित्यवगम्यते । जाग्रत्क्रम इति प्रोक्तः सुषुप्तादिक्रमं शृणु ॥ ंो_४,१९.१७ ॥ तया एव संविदा एव । न त्वन्येन देहादिना जडेन । तत्नानाकारविकाराढ्यं निजं स्वरूपम् । स्थिरत्वात्कमपि कालं तथैव स्थितत्वात् । जाग्रदित्यवगम्यते ज्ञायते । जाग्रत्प्रक्रियोपसंहारपूर्वं सुषुप्तादिप्रक्रियां वक्तुं प्रतिजानीते जाग्रत्क्रम इति ॥ ंोट्_४,१९.१७ ॥ सुषुप्तादिक्रममेव कथयति मनसा कर्मणा वाचा यदा क्षुभ्यति नो वपुः । शान्त आतिष्ठति स्वच्छो जीवधातुस्तदा त्वसौ ॥ ंो_४,१९.१८ ॥ न क्षुभ्यति श्रान्तत्वात् । व्यवहारं न करोतीत्यर्थः । तदा तस्मिन् काले । जीवधातुः स्वच्छः सुप्तप्रसर्पणाख्यमलः । अत एव शान्तः क्षोभरहितः । आ समन्तात् । तिष्ठति । तुशब्दो निश्चये । यद्यपि सुषुप्तविषयः श्रीरामकृतः प्रश्नो नास्ति तथापि जाग्रत्स्वप्नयोरवश्यं मध्यवर्तित्वात्सुषुप्तिनिर्णयः । न हि जाग्रतः निर्गत्य सुषुप्तिमगत्वा स्वप्नगमनं पुरुषस्य युक्तम् । सेतुवत्सर्वत्र मर्यादात्वेन सुषुप्तेः स्थितत्वात् । यद्यपि शुद्धचिदपि सर्वत्र मध्ये सेतुत्वेन वर्तत एव तथापि विद्युद्द्योतरत्नवत्स्थूलदृष्ट्यविषयत्वात्तस्याः सेतुत्वाकथनम् । सूक्ष्मदृष्टीन् प्रति त्वनुपयोगात्कथनं न युक्तम् ॥ ंोट्_४,१९.१८ ॥ तदा किं सम्पत्स्यते इत्य् । अत्राह समतामागतैर्वातैः क्षोभ्यते न हृदन्तरे । निर्वातसदने दीपो यथालोकैककारकः ॥ ंो_४,१९.१९ ॥ समतां मनःकृतक्षोभाभावात्समवाहित्वम् । आगतैः वातैः प्राणैः । असौ जीवधातुः हृदन्तरे न क्षोभ्यते क्षोभयुक्तो न क्रियते । अनेन मनोनाशेन प्राणरोधः प्राणरोधेन च मनोनाशः सम्पत्स्यते इति सूचितम् । तत्रापि केषाञ्चित्प्राणरोधेन मनोनाशः मतः । अस्माकं तु सम्यग्ज्ञानसाधितेन मनोनाशेनैव प्राणरोधः । स चेत्तत्र सहकारी तन्न दोषः । ततः सर्वथा मनोनाशः प्राणरोधेन । मनोनाशस्तु मदिरादिप्रयुक्तमनोनाशवन्नात्यन्तिक इति मतम् । अत्र प्रतिभान्विता एव प्रमाणमित्यलं बहुना । जीवधातुः क इव । दीप इव । यथा निर्वातसदने वातैः आलोकैककारकः दीपो न क्षोभ्यते । तथेत्यर्थः ॥ ंोट्_४,१९.१९ ॥ ततः किं सम्पद्यत इत्य् । अत्राह ततः सरति नाङ्गेषु संवित्क्षुभ्यति तेन नो । न चेक्षणादीन्यायाति रन्ध्राण्यायाति नो बहिः ॥ ंो_४,१९.२० ॥ ततः स जीवधातुः । अङ्गेषु न सरति सञ्चारं न करोति । तेन जीवधातुसरणेन । संवित्जीवधातुस्पन्दरूपा संवित् । नो क्षुभ्यति न उदेति । सा संवितीक्षणादीनि रन्ध्राणि न चायाति बहिः नो आयाति ॥ ंोट्_४,१९.२० ॥ तदासौ कुत्र तिष्ठतीत्यपेक्षायामाह जीवेऽन्तरेव स्फुरति तैलसंविद्यथा तिले । शीतसंविद्धिम इव स्नेहसंविद्यथा घृते ॥ ंो_४,१९.२१ ॥ असौ संवित्जीवेऽन्तः स्वधर्मिभूतजीवमध्ये एव । स्फुरति । का इव । तैलसंविदिव तैलाकारा संवित् । तैलसंवित्तैलमिति यावत् । यथा सा तिले स्फुरति । तथेत्यर्थः । एवमन्यस्मिन् दृष्टान्तद्वयेऽपि योज्यम् ॥ ंोट्_४,१९.२१ ॥ ननु तदा जीवः किं करोतीत्य् । अत्राह जीवः कालकलां काञ्चित्तिष्ठन् शान्ततयात्मनि । दशामायाति सौषुप्तीं सौम्यवातां विचेतनाम् ॥ ंो_४,१९.२२ ॥ तदा जीवः काञ्चिततिसूक्ष्मतया वक्तुमशक्याम् । कालकलां काललेशं तावत् । शान्ततया आत्मनि ज्ञानात्मनि स्वरूपे । तिष्ठन् प्रथमं तिष्ठन् । ततः विचेतनामज्ञानमयीम् । सौम्यवातां समवाहिप्राणाम् । सौषुप्तीं दशामायाति । अनेन जाग्रत्सुषुप्तयोर्मध्ये सूक्ष्मदृष्टिभिः वेद्यः मध्यधामप्रवेशः उक्तः । अनेनैव चाभिप्रायेण निद्रादौ जागरस्यान्त इत्याद्युक्तम् । इत्यलं रहस्योद्घाटनेन ॥ ंोट्_४,१९.२२ ॥ ननु सुषुप्त एव जीवः क्षोभराहित्यात्कथं न तुर्यवानस्तीत्यपेक्षायामाह ज्ञात्वा चेतस्युपरते शाम्यन् व्यवहरन्नपि । जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धस्तुर्यवान् स्मृतः ॥ ंो_४,१९.२३ ॥ ज्ञात्वा शुद्धचिन्मात्ररूपं स्वात्मानं सम्यग्ज्ञात्वा । चेतसि विकल्पस्वरूपे मनसि । उपरते लीने सति । व्यवहरन्नपि शरीरयात्रानिमित्तं व्यवहारं कुर्वन्नपि । शाम्यन् व्यवहारकृतं क्षोभमत्यन्तनैपुण्यातगच्छन् । तथा जाग्रत्स्वप्नसुषुप्तेषु प्रबुद्धः कीदृग्रूपाण्येतानीति सम्यग्ज्ञानयुक्तः । न तु जडः । पण्डितैः तुर्यवान् स्मृतः । सुषुप्तस्तु नैतादृशोऽस्तीति नासौ तुर्यवानिति भावः ॥ ंोट्_४,१९.२३ ॥ स्वप्नं निरूपयितुं प्रस्तौति सौषुप्तात्सोम्यतां यातैः प्राणैः सञ्चाल्यते यदा । स जीवधातुस्सा संवित्ततश्चित्ततयोदिता ॥ ंो_४,१९.२४ ॥ सुषुप्तमेव सौषुप्तम् । तस्मात् । सोम्यतां यातैः वातैः । यदा सुषुप्तपरिणामकाले । स जीवधातुः चाल्यते । ततः तदा । सा संवित्जीवधातुस्पन्दरूपा संवित् । चित्ततया चित्तभावेन । उदिता प्रादुर्भूता । भवति ॥ ंोट्_४,१९.२४ ॥ चित्ततया उदित्य किं करोतीत्य् । अत्राह स्वान्तःसंस्थं जगज्जालं भागभागैः क्रमभ्रमैः । पश्यति स्वान्तरेवाशु स्फारं बीजमिव द्रुमम् ॥ ंो_४,१९.२५ ॥ ततः सा चित्तरूपा संवित्स्वान्तःसंस्थं संस्काररूपेण स्वात्मनि स्थितम् । जगज्जालं स्वान्तरेव न तु बाह्ये । आशु क्रमभ्रमैः न तु सहजक्रमयुक्तैः । भागभागैः पदार्थरूपैः लेशलेशैः । पश्यति अनुभवति । किमिव । बीजमिव । यथा स्फारमङ्कुरोन्मुखम् । बीजम् । द्रुमं स्वान्तः पश्यति । अन्यथा तन्निर्गमानुपपत्तेः । तथेत्यर्थः ॥ ंोट्_४,१९.२५ ॥ तदेव विशेषतः कथयति जीवधातुर्यदा वातैः किञ्चित्सङ्क्षोभ्यते भृशम् । तदोह्यतेऽम्बर इव पश्यत्यात्मनि खे गतिम् ॥ ंो_४,१९.२६ ॥ वातबाहुल्यस्वभाव एवायं यत्पुरुषः स्वप्ने खे गतिं पश्यतीति वाक्यार्थः ॥ ंोट्_४,१९.२६ ॥ यदाम्भसा प्लाव्यतेऽसौ तदा वार्यादिसम्भ्रमम् । अन्तरेवानुभवति स्वामोदं कुसुमं यथा ॥ ंो_४,१९.२७ ॥ असौ जीवधातुः । अम्भसा कफरूपेण जलेन । प्लाव्यते पूर्यते । वार्यादिसम्भ्रममुदकप्लवादिरूपं सम्भ्रमम् ॥ ंोट्_४,१९.२७ ॥ यदा पित्तादिनाक्रान्तस्तदाग्न्यौष्ण्यादिसम्भ्रमम् । अन्तरेवानुभवति स्फारं बहिरिवाखिलम् ॥ ंो_४,१९.२८ ॥ परमार्थतस्तु न बहिः स्फारमिति इवशब्दोपादनम् ॥ ंोट्_४,१९.२८ ॥ रक्तापूर्णो रक्तवर्णान् देशकालान् बहिर्यदा । पश्यत्यनुभवात्मत्वात्तत्रैव च निमज्जति ॥ ंो_४,१९.२९ ॥ यदा रक्तापूर्णः रक्तपूरितः । स्यात् । तदा बहिः रक्तवर्णान् देशकालान् पश्यति । न केवलं पश्यति । तत्रैव च निमज्जति ॥ ंोट्_४,१९.२९ ॥ ननु नानाव्यवहारान् कथं पश्यतीत्य् । अत्राह सेवते वासनां यां तां सोऽन्तः पश्यति निद्रितः । पवनक्षोभितै रन्ध्रैर्बहिरक्षादिभिर्यथा ॥ ंो_४,१९.३० ॥ सः जीवधातुः । यां शुभाशुभरूपाम् । वासनां सेवते निद्रितः सन् । तामन्तः पश्यति । कथं तथा । तथा कथं पवनक्षोभितः अक्षादिभिः रन्ध्रैः नेत्रादिद्वारैः । यथा बहिः पश्यति ॥ ंोट्_४,१९.३० ॥ सङ्गृह्य स्वप्नलक्षणं कथयति अनाक्रन्तेन्द्रियच्छिद्रो यदक्षुब्धोऽन्तरेव सः । संविदानुभवत्याशु स स्वप्न इति कथ्यते ॥ ंो_४,१९.३१ ॥ सः जीवधातुः । अनाक्रन्तेन्द्रियच्छिद्रः अन्तरेव अक्षुब्धः बाह्यक्षोभरहितः सन् । संविदा संविदाख्येन धर्मेण । स्वप्ने यतनुभवति जगद्विषयमनुभवं करोति । पण्डितैः स स्वप्न इति कथ्यते ॥ ंोट्_४,१९.३१ ॥ जाग्रल्लक्षणं कथयति समाक्रन्तेन्द्रियच्छिद्रो यत्क्षुब्धो बाह्यसंविदा । परिपश्यति तज्जाग्रदित्याहुर्मतिमत्तमाः ॥ ंो_४,१९.३२ ॥ अतिशयेन मतिमन्तः मतिमत्तमाः । जाग्रत्स्वप्नयोरेव पृष्टत्वात्तयोरेवेहोपसंहारे सङ्ग्रहेण लक्षणाभिधानम् । न सुषुप्तेः ॥ ंोट्_४,१९.३२ ॥ सर्गान्तश्लोकेनैतदुपसंहरति इति विदितवता त्वयाधुनान्तः प्रथितमहामतिनेह सत्यतास्था । असति जगति नैव भावनीया मृतिहृतिसंसृतिदोषभावनीया ॥ ंो_४,१९.३३ ॥ इति एवम् । विदितवता ज्ञातवता । अत एव प्रथिता विसृतिं गता । महामतिः यस्य । तादृशेन त्वया । असति जगति अधुना अन्तः मनसि । सत्यतास्था सत्यमिदमित्येवंरूपा आस्था । न भावनीया भावनाविषयतां न नेया । सत्यतास्था का । या । मृतिश्च हृतिश्च संसृतिश्च ताः मृतिहृतिसंसृतयः । ता एव दोषाः । तान् भावयति सम्पादयतीति तादृशी । भवति । संसारसत्यतास्थायां हि तद्गताः मृत्यादिदोषाः बाधन्ते । तदसत्यतास्थायां तु ता अपि असत्यभूता एव कां बाधां कर्तुं शक्नुवन्ति । न हि वन्ध्यापुत्रः कञ्चिद्बाधते । इति शिवम् ॥ ंोट्_४,१९.३३ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे एकोनविंशः सर्गः ॥१९॥ ********************************************************************* ओम् । एवं श्रीरामेण मध्ये पृष्टं जाग्रदादिस्वरूपं निर्णीय प्रकृतमेवानुसन्दधाति एतत्ते कथितं सर्वं मनोरूपनिरूपणे । मया राघव नान्येन केनचिन्नाम हेतुना ॥ ंो_४,२०.१ ॥ एतत्सर्वं यो यथा यतते सः तथा भवतीत्येतत्समस्तम् । मया । हे राघव । मनोरूपनिरूपणे मनोनिरूपणनिमित्तम् । ते कथितम् । अन्येन हेतुना न कथितं व्यर्थत्वात् ॥ ंोट्_४,२०.१ ॥ मनोनिरूपणमेव करोति दृढनिश्चयवच्चेतो यद्भावयति भूरिशः । तत्तां यात्यनलाश्लेषादयःपिण्डोऽग्नितामिव ॥ ंो_४,२०.२ ॥ भूरिशः अभ्यासेन ॥ ंोट्_४,२०.२ ॥ भावाभावग्रहोत्सर्गदृशश्चित्तेन कल्पिताः । नासत्या नापि सत्यास्ता मनश्चापलकारणाः ॥ ंो_४,२०.३ ॥ मनश्चापलमेव कारणं यासाम् । ताः मनश्चापलकारणाः । मनश्चापलकारणं हि रज्जुसर्पादिकमर्थक्रियाकारित्वाभावेन न सत्यं भवति । भासमानत्वेनासत्यं च न भवति ॥ ंोट्_४,२०.३ ॥ मनो हि हेतुः कर्तृ स्यात्कारणं च जगत्स्थितेः । विश्वरूपतयैवेदं तनोति मलिनं मनः ॥ ंो_४,२०.४ ॥ हि निश्चये । मनः जगत्स्थितेः हेतुः निमित्तकारणं कर्तृ । कर्तृ कारकः । कारणं समवायिकारणमसमवायिकारणं च । भवति । यतः इदं मनः मलिनं वासनामलदूषितं सत् । विश्वरूपतया इदं जगत् । तनोति । नात्रान्यः कश्चित्कारकत्वं यातीति भावः । स्वप्नस्य चात्र दृष्टान्तत्वं स्फुटमेव ॥ ंोट्_४,२०.४ ॥ मनो हि पुरुषो राम तन्नियोज्यं शुभे पथि । तज्जयैकान्तसाध्या हि सर्वा जगति भूतयः ॥ ंो_४,२०.५ ॥ नियोज्यं प्रेरणीयम् । शुभे पथि विवेकस्वरूपे । हि यस्मात् । जगति सर्वाः विभूतयः भोगमोक्षरूपाण्यैश्वर्याणि । तस्य मनसः । यः जयः शुभे पथि नियोजनम् । तेन साध्याः भवन्ति ॥ ंोट्_४,२०.५ ॥ ननु शरीरस्य पुरुषत्वेन स्थितत्वात्कथं चक्षुषालभ्यमानस्य मनसः पुरुषत्वं कथयसीत्य् । अत्राह शरीरं चेत्शरीरं स्यात्कथं शुक्रो महामतिः । अगमद्विविधं भेदं बहुदेहसमुद्भवम् ॥ ंो_४,२०.६ ॥ शरीरं स्थूलश्रीरम् । शरीरं लक्षणया पुरुषः । चेत्स्यात् । तदा सः शुक्रः । बहुदेहेभ्यः समुद्भवः यस्य । तादृशं विविधं भेदम् । कथमगमत् । शरीरस्यैकेनैव रूपेण स्थितत्वात् ॥ ंोट्_४,२०.६ ॥ फलितं कथयति तस्माच्चित्तं हि पुरुषः पुरुषश्चित्तमेव हि । यन्मयं च भवत्येतत्तदवाप्नोत्यसंशयम् ॥ ंो_४,२०.७ ॥ हि निश्चये । एतत्चित्तम् । यन्मयं यद्विषयानुसन्धानमयम् ॥ ंोट्_४,२०.७ ॥ परमफलितमाह यदतुच्छमनायासमनुपाधि गतभ्रमम् । यत्नात्तदनुसन्धानं कुरु तत्तां च यास्यसि ॥ ंो_४,२०.८ ॥ अतः यत्वस्तु । अतुच्छमनायासमायाससाध्यतारहितम् । अनुपाधि तथा गतभ्रमम् । भवति । त्वं तदनुसन्धानं कुरु । ततः तत्तामतुच्छत्वादिधर्मरहितवस्तुभावम् । यास्यसि ॥ ंोट्_४,२०.८ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति अभिपतति मनःस्थितिं शरीरं न तु वपुराचरितं मनः प्रयाति । अभिपततु तवात्र तेन सत्यं सुभग मनः प्रजहात्वसत्यमन्यत् ॥ ंो_४,२०.९ ॥ स्पष्टम् । इति शिवम् ॥ ंोट्_४,२०.९ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे विंशः सर्गः ॥२०॥ ********************************************************************* अत्र श्रीरामः पृच्छति भगवन् सर्वधर्मज्ञ संशयो मे महानयम् । हृदि व्यावर्तते लोलः कल्लोल इव सागरे ॥ ंो_४,२१.१ ॥ व्यावर्तते स्फुरति ॥ ंोट्_४,२१.१ ॥ दिक्कालाद्यनवच्छिन्ने तते नित्ये निरामये । म्लाना संविन्मनोनाम्नी कुतः केयमुपस्थिता ॥ ंो_४,२१.२ ॥ दिक्कालादिभिः अपरिच्छिन्ने स्वपरिच्छेदकस्य परिच्छेदं कर्तुमशक्यत्वात् । आदिशब्देन वस्त्वादेः ग्रहणम् । तते व्यापके । नित्ये प्राक्प्रध्वंसात्यन्ताभावरहिते । निरामये कलनाख्यरोगरहिते । म्लाना सङ्कल्पविकल्परूपत्वेन मलिना । मनोनम्नी । इयं संवित्संविदाख्यः स्पन्दः । कुतः उपस्थिता । नैतस्या उपस्थानमत्र युक्तमिति भावः ॥ ंोट्_४,२१.२ ॥ यस्मादन्यन्न नामास्ति न भूतं न भविष्यति । कुतः कीदृक्कथं तस्य कलङ्कः कुत्र विद्यते ॥ ंो_४,२१.३ ॥ यस्मात्शुद्धचिन्मात्रतत्त्वात् । अन्यत्भिन्नं वस्तु । नाम निश्चये । नास्ति न भूतं न भविष्यति । तस्य कलङ्कः मनोरूपः कलङ्कः । कुतः विद्यते कीदृक्विद्यते कथं विद्यते । कुत्र विद्यते सर्वथा सम्भवानुपपत्तेः न विद्यते इत्यर्थः ॥ ंोट्_४,२१.३ ॥ श्रीवसिष्ठः उत्तरं कथयति साधु राम त्वया प्रोक्तं ज्ञाता ते मोक्षभागिनी । मतिरुत्तमनिःष्यन्दा नन्दनस्येव मञ्जरी ॥ ंो_४,२१.४ ॥ उत्तमनिःष्यन्दा श्रेष्ठप्रवाहा ॥ ंोट्_४,२१.४ ॥ पूर्वापरविचारार्थतत्परेयं मतिस्तव । सम्प्राप्स्यति पदं प्रोच्चैर्यत्प्राप्तं शङ्करादिभिः ॥ ंो_४,२१.५ ॥ पूर्वापरविचाररूपः यः अर्थः । तत्र परा । प्रोच्चैः पदं मोक्षाख्यं श्रेष्ठं स्थानम् ॥ ंोट्_४,२१.५ ॥ तर्हि मत्प्रश्नस्योत्तरं कथयेत्य् । अत्राह प्रश्नस्यास्य तु हे राम न कालस्तव सम्प्रति । सिद्धान्तः कथ्यते यत्र तत्रायं प्रश्न उच्यते ॥ ंो_४,२१.६ ॥ मयायं प्रश्न उच्यते कृतोत्तरः सम्पाद्यते इति सम्बन्धः ॥ ंोट्_४,२१.६ ॥ ननु यदि सिद्धान्तकालेऽसौ प्रश्नः तव स्मृतिपथं नायास्यति तदा किं कार्यमित्य् । अत्राह सिद्धान्तकाले भवता प्रष्टव्योऽहमिदं पदम् । करामलकवत्तेन सिद्धान्तस्ते भविष्यति ॥ ंो_४,२१.७ ॥ करामलकवत्प्रयत्नरहितम् ॥ ंोट्_४,२१.७ ॥ नन्वस्मिन् समय एव कथं न कथयसीत्य् । अत्राह सिद्धान्तकाले प्रश्नोक्तिरेषा तव विराजते । प्रावृष्येव हि केकोक्तिर्युक्ता शरदि हंसगीः ॥ ंो_४,२१.८ ॥ स्पष्टम् ॥ ंोट्_४,२१.८ ॥ सहजो नीलिमा व्योम्नि शोभते प्रावृषः क्षये । प्रावृषि तु दनूदग्रपयोदपटलोत्थितः ॥ ंो_४,२१.९ ॥ प्रावृषः क्षये शरदि । तु पक्षान्तरे । प्रावृषि नीलिमा शोभते । कथम्भूतः । दनुवत्दानवमातृवत् । उदग्रं यत्पयोदपटलम् । तस्मादुत्थितः जातः ॥ ंोट्_४,२१.९ ॥ एतदुपसंहृत्य प्रकृतमेवानुसरति अयं प्रकृत आरब्धो मनोनिर्णय उत्तमः । यद्वशाज्जनताजन्म तदाकर्णय सुव्रत ॥ ंो_४,२१.१० ॥ अयमुत्तमः मनोनिर्णयः अस्माभिः आरब्धः । कथम्भूतः । प्रकृतः प्रकरणवशेन प्राप्तः । एनमेव शृण्विति भावः । हे सुव्रत । यद्वशात्जनताजन्म जनसमूहजन्म भवति । त्वं तदाकर्णय शृणु । मनोनिर्णयाङ्गभूतत्वादिति भावः ॥ ंोट्_४,२१.१० ॥ तदेव कथयति एवं प्रकृतिरेवेयं मनोमननधर्मिणी । कर्मेति राम निर्णीतं सर्वैरेव मुमुक्षुभिः ॥ ंो_४,२१.११ ॥ हे राम । एवं सति । पूर्वसर्गोक्ते निश्चये परमार्थतया स्थिते सति । मनसः यत्मननमनुसन्धानाख्यो व्यापारः । तद्धर्मिणी तत्स्वरूपिणी । इयं प्रकृतिः एव जगदुपादानरूपा मूलप्रकृतिरेव । सर्वैः मुमुक्षुभिः कर्मेति निर्णीतम् । मनोमननमेव कर्मेति पिण्डार्थः ॥ ंोट्_४,२१.११ ॥ शृणु लक्षणभेदेन तन्नानामततां कथम् । वाग्मिनां वदतां यातं चित्राभिः शास्त्रदृष्टिभिः ॥ ंो_४,२१.१२ ॥ त्वं शृणु । तत्मनोमननरूपं कर्म । लक्षणभेदेन । वाग्मिनां वादिनाम् । नानामतताम् । कथं यातम् । तदेव कथयामीति भावः । वाग्मिनां कथम्भूतानाम् । चित्राभिः नानाविधाभिः । शास्त्रदृष्टिभिः शास्त्ररूपाभिः दृष्टिभिः । वदतां विवादं कुर्वताम् । अन्यथा मतभेदो न स्यात् ॥ ंोट्_४,२१.१२ ॥ तदेव कथयति यं यं भावमुपादत्ते मनो मननचञ्चलम् । तं तमेति घनामोदमध्यस्थः पवनो यथा ॥ ंो_४,२१.१३ ॥ मननेन मननाख्येन धर्मेण । चञ्चलं नानापदार्थयायि । मनः । यं यं भावं शुभमशुभं वा पदार्थमननोद्भूतं वासनाविशेषम् । उपादत्ते गृह्णाति । तं तमेति तत्तदनुसन्धानमयो भवतीत्यर्थः । को यथा । पवनः यथा । यथा घनामोदमध्यस्थः पवनः आमोदमेति । तथेत्यर्थः ॥ ंोट्_४,२१.१३ ॥ ततस्तमेव निर्णीय तमेव च विकल्पयन् । अन्तस्तया रञ्जनया रञ्जयन् स्वामहङ्कृतिम् ॥ ंो_४,२१.१४ ॥ तन्निश्चयमुपादाय तत्रैव रसमृच्छति । तन्मयत्वं शरीरे तु ततो बुद्धीन्द्रियेष्वपि ॥ ंो_४,२१.१५ ॥ ततः तत्मनः । तमेव भावम् । निर्णीयानुसन्धाय । तथा निश्चित्य । तमेव च न त्वन्यत् । विकल्पयन् पुनः पुनः परामृशन् । तया तद्भावरूपया । रञ्जनया रागद्रव्येण । स्वामहङ्कृतिं निजामहङ्कारवृत्तिम् । रञ्जयनुपरक्तां कुर्वन् । मम कदा एतत्स्यातिति परामृशन्निति यावत् । ततः तन्निश्चयं तस्य भावस्य निश्चयम् । चमत्कारकारि इदमित्येवंरूपं निश्चयम् । उपादाय । तत्रैव तस्मिन् शुभे अशुभे वा वासनाविशेषे एव । रसमास्वादम् । आसक्तिमिति यावत् । ऋच्छति गच्छति । ततः तदनन्तरम् । तु निश्चये । शरीरे तन्मयत्वं भवति । अन्यथा तत्स्वरूपे बाह्ये पदार्थे प्रवृत्तिपरिहाररूपायाः चेष्टाया असम्भवात्न केवलं शरीरे एव किं तु बुद्धीन्द्रियेष्वपि तन्मयत्वं भवति । अन्यथा तेषामपि तत्र पुनः पुनः स्वक्रियाकारित्वायोगात् । कर्मेन्द्रियाणां तु शरीरेणैव ग्रहणम् । तथा हि । बाह्ये पुरुषः प्रथमं कपित्थादिकं भुङ्क्ते । ततः तस्य मनः तस्य फलस्य वासनामन्तः धारयति । ततः वासनारूपस्य तस्यैवानुसन्धानं पुनः पुनः करोति । ततः वासनारूपेण तेन स्वामहङ्कृतिं रञ्जयति । ततः तदाश्रितानि बुद्धीन्द्रियाण्यपि तदेव प्रतिसम्मुखानि भवन्ति । ततः तदाश्रयं शरीरं तत्प्रत्येव चेष्टां करोतीति । युग्मम् ॥ ंोट्_४,२१.१४१५॥ ननु कुतः एतदित्य् । अत्राह यन्मयं हि मनो राम देहस्तदनु तद्वशात् । तत्तामायाति गन्धान्तः पवनो गन्धतामिव ॥ ंो_४,२१.१६ ॥ यन्मयं यद्भावमयम् । तत्तां तन्मयताम् ॥ ंोट्_४,२१.१६ ॥ बुद्धीन्द्रियेषु वल्गत्सु कर्मेन्द्रियगणस्ततः । स्फुरति स्वत एवोर्वीरजो लोल इवानिले ॥ ंो_४,२१.१७ ॥ स्फुरति स्वां क्रियां प्रति सम्मुखीभवति । स्वत एव प्रेरणां विना । कर्मेन्द्रियगणः किमिव । उर्वीरज इव । यथा उर्वीरजः अनिले लोले सति । स्वत एव स्फुरति । तथेत्यर्थः ॥ ंोट्_४,२१.१७ ॥ कर्मेन्द्रियगणे क्षुब्धे स्वशक्तिं प्रथयत्यलम् । कर्म निष्पद्यते स्फारं पांसुजालमिवानिलात् ॥ ंो_४,२१.१८ ॥ स्वशक्तिं स्वकार्यं प्रति निजं सामर्थ्यम् । प्रथयति विस्तारयति । कर्म विषयादानरूपं कर्म । निष्पद्यते सम्पद्यते ॥ ंोट्_४,२१.१८ ॥ फलितं कथयति एवं हि मनसः कर्म कर्मबीजं मनः स्मृतम् । अभिन्नैव तयोः सत्ता यथा कुसुमगन्धयोः ॥ ंो_४,२१.१९ ॥ एवं हि सति । मनसः मनःसकाशात् । कर्म उत्पद्यते इति शेषः । पण्डितैः । मनः । कर्मैव बीजं यस्य । तत् । तादृशम् । स्मृतम् । कर्मणः मनः उत्पद्यते इति भावः । फलितमाहाभिन्नेति । अतः एतयोः कर्ममनसोः । सत्ता अभिन्नैव भवति । कयोः यथा । कुसुमगन्धयोः यथा । न हि मनोऽनुवृत्तिं विना शरीराश्रयं बाह्यमपि कर्म सम्पद्यते । न च हि कर्मसाधितवासनामात्ररूपतां विना मनो नाम किञ्चिदस्तीति भावः ॥ ंोट्_४,२१.१९ ॥ यादृशं भावमादत्ते दृढाभ्यासवशान्मनः । तथा स्पन्दोऽस्य कर्माख्यस्तथा शाखा विमुञ्चति ॥ ंो_४,२१.२० ॥ यादृशं शुभमशुभं वा । शाखाः सङ्कल्परूपाः ॥ ंोट्_४,२१.२० ॥ तथा क्रियां तत्फलदां निष्पादयति चादरात् । ततस्तदेव चास्वादमनुभूयाशु बध्यते ॥ ंो_४,२१.२१ ॥ शरीरद्वारेणेति शेषः । तदेव भावविषयीकृतं वस्त्वेव । बध्यते घनतरं तद्वासनाविष्टो भवतीत्यर्थः ॥ ंोट्_४,२१.२१ ॥ पुनरप्येतदेव कथयति यं यं भावमुपादत्ते तत्तद्वस्त्विति विन्दति । तच्छ्रेयोऽन्यत्तु नास्तीति निश्चयोऽस्य प्रजायते ॥ ंो_४,२१.२२ ॥ वस्तु सत्यभूतम् ॥ ंोट्_४,२१.२२ ॥ धर्मार्थकाममोक्षार्थं प्रयतन्ते सदैव हि । मनांसि दृढभावानि प्रतिपत्त्या स्वयैव हि ॥ ंो_४,२१.२३ ॥ स्वया प्रतिपत्त्या न तु परप्रेरणया ॥ ंोट्_४,२१.२३ ॥ यदर्थमियं प्रक्रिया कृता तदेव कथयति मनोभिः कापिलानां तु प्रतिपत्तिं निजामलम् । उररीकृत्य निर्णीय कल्पिताः शास्त्रदृष्टयः ॥ ंो_४,२१.२४ ॥ कापिलानां कपिलानुसारिणाम् । साङ्ख्यानामिति यावत् । मनोभिः । निजां प्रतिपत्तिं निश्चयम् । उररीकृत्य ।शास्त्रदृष्टयः प्रकृतिपुरुषप्रतिपादिकाः शास्त्रदृष्टयः । कल्पिताः ॥ ंोट्_४,२१.२४ ॥ कापिलानेव विशिनष्टि मोक्षे तु नान्यथा प्राप्तिरिति भावितचेतसः । स्वां दृष्टिं प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥ ंो_४,२१.२५ ॥ भावितं भावनायुक्तम् । चेतः येषाम् । ते । स्वेन कृता ये नियमभ्रमाः । तैः । एषामपि मनोवशादेव मतभेदोऽस्तीति भावः ॥ ंोट्_४,२१.२५ ॥ वेदान्तवादिनो बुद्ध्या ब्रह्मेदमिति दृढया । युक्तिं शमदमोपेतां निर्णीय परिकल्प्य च ॥ ंो_४,२१.२६ ॥ मुक्तौ तु नान्यथा प्राप्तिरिति भावितचेतसः । स्वां दृष्टिं प्रविवृण्वन्तः स्थिताः स्वनियमभ्रमैः ॥ ंो_४,२१.२७ ॥ युक्तिं श्रवणादिरूपमुपायम् ॥ ंोट्_४,२१.२६२७ ॥ विज्ञानवादिनो बुद्ध्या स्फुरत्स्वभ्रमरूपया । स्वां दृष्टिं प्रविवृण्वन्ति स्वैरेव नियमभ्रमैः ॥ ंो_४,२१.२८ ॥ विज्ञानवादिनः विज्ञानाद्वैतवादिनः बौद्धाः । स्वां दृष्टिं विज्ञानमेवेदमितिरूपाम् । प्रविवृण्वन्ति प्रकटीकुर्वन्ति ॥ ंोट्_४,२१.२८ ॥ आर्हतादिभिरन्यैश्च स्वयाभिमतयेच्छया । चित्राश्चित्रसमाचाराः कल्पिताः शास्त्रदृष्टयः ॥ ंो_४,२१.२९ ॥ आदिशब्देन चार्वाकादीनां ग्रहणम् ॥ ंोट्_४,२१.२९ ॥ निर्निमित्तोत्थसौम्याम्बुबुद्बुदौघैरिवोत्थितैः । स्वनिश्चयैरिति प्रौढा नानाकारा हि रीतयः ॥ ंो_४,२१.३० ॥ निर्निमित्तोत्थाः ये सौम्याम्बुबुद्बुदौघाः । तैरिव अकस्माद् । उत्थितैर् । इत्यर्थः । रीतयः शास्त्ररीतयः ॥ ंोट्_४,२१.३० ॥ सर्वासामेव चैतासां रीतीनामेक आकरः । मनो नाम महाबाहो मणीनामिव सागरः ॥ ंो_४,२१.३१ ॥ सर्वासां साङ्ख्यादिप्रणीतानाम् । आकरः उत्पत्तिस्थानम् ॥ ंोट्_४,२१.३१ ॥ न निम्बेक्षू कटुस्वादू शीतोष्णौ नेन्दुपावकौ । यद्यथा मनसाभ्यस्तमुपलब्धं तथैव तत् ॥ ंो_४,२१.३२ ॥ कटुस्वादू तिक्तमधुरौ । अन्यथा चित्तवृत्तिभेदेन हेयोपादेयत्वं न स्यात् । यदेव हि यस्य हेयत्वेन स्थितं तदेवान्यस्योपादेयतया ॥ ंोट्_४,२१.३२ ॥ फलितं कथयति यस्त्वकृत्रिम आनन्दस्तदर्थं प्रयतेत न वै । मनस्तन्मयतां नेयं तेनासौ समवाप्यते ॥ ंो_४,२१.३३ ॥ अत इत्यध्याहार्यम् । यतः कस्मिंश्चिदपि बाह्ये वस्तुनि स्वभावेन स्वादुता नास्ति । अतः यः अकृत्रिमः भोगादिविषयनिरपेक्षत्वेन स्थितत्वात्स्वाभाविकः । आनन्दः स्वात्मरूपः आनन्दः । भवति । पुरुषः तदर्थम् । वै निश्चये । यतेत । ननु केन यत्नेनासौ प्राप्यते इत्य् । अत्राह मन इति । पुरुषेण मनः सङ्कल्पात्मकं चित्तम् । तन्मयतां स्वात्मभूतानन्दरूपताम् । नेयम् । अध्यात्मशास्त्रोपदिष्टमार्गेण तत्परामर्शैकप्रवणं कार्यमित्यर्थः । तेन मनसः तन्मयत्वनयनमात्रेण यत्नेनासौ अकृत्रिमः आनन्दः । प्राप्यते ॥ ंोट्_४,२१.३३ ॥ ननु सुखदुःखवशीकृतं मनः कथं तन्मयतां नेयमित्य् । अत्राह दृश्यं संसारडिम्बस्थं तुच्छं परिजहन्मनः । तज्जाभ्यां सुखदुःखाभ्यां नावशः परिकृष्यते ॥ ंो_४,२१.३४ ॥ संसार एव डिम्बः बालः । तत्र तिष्ठतीति तादृशम् । दृश्यं दृशिक्रियाविषयं भावजातम् । जहत्स्वौन्मुख्याविषयतां नयत् । मनः । तज्जाभ्यां दृश्योत्पन्नाभ्याम् । सुखदुःखाभ्याम् । नावशः परिकृष्यते न बलात्कारेणास्वाधीनीक्रियते । अवश इति आविष्टलिङ्गम् ॥ ंोट्_४,२१.३४ ॥ ननु दृश्ये को दोषोऽस्तीत्य् । अत्राह अपवित्रमसद्रूपं मोहनं भयकारणम् । दृश्यमाभासमाभोगि बन्धं मा भावयानघ ॥ ंो_४,२१.३५ ॥ अनघ । दृश्यभावनानर्हत्वं दृश्यं मा भावय मनोऽनुसन्धानविषयं मा कुरु । किमर्थं न भावयामीत्यपेक्षायां विशेषणान्याह अपवित्रमित्यादि । अपवित्रं रागादिरूपपापोत्पादकत्वात्पवित्रतारहितम् । असद्रूपं किंरूपमिति विचारासहत्वात्पारमार्थिकसत्तारहितम् । मोहनमनात्मन्यात्मत्वरूपमोहोत्पादकम् । भयकारणं मृत्याद्युपादानभयहेतुम् । आभासमाभासमात्रस्वरूपम् । न तु वस्तुतया स्थितम् । आभोगि विस्तारयुक्तम् । बन्धमात्मज्ञानं प्रति रोधकत्वात्बन्धस्वरूपम् ॥ ंोट्_४,२१.३५ ॥ मायैषा सा ह्यविद्यैषा भावनैषा भयावहा । संविदस्तन्मयत्वं यत्तत्कर्मेति विदुर्बुधाः ॥ ंो_४,२१.३६ ॥ एषा दृश्यभावना । सा स्वसिद्धा । माया भवति । एषा अविद्या भवति । एषा भयावहा भावना वासना । भवति । ननु तर्हि कर्म किंरूपमस्तीत्य् । अत्राह संविद इति । संविदः मनोरूपायाः संविदः । तन्मयत्वं दृश्यमयत्वम् । यद्भवति । बुधाः तत्कर्मेति विदुः । कर्मापि एषैवेति भावः ॥ ंोट्_४,२१.३६ ॥ ननु मनः किंरूपमस्ति येन कृता दृश्यभावना मायादिनामत्वेनोक्तेत्य् । अत्राह द्रष्टुर्दृश्यैकतानत्वं विद्धि त्वं मोहनं मनः । भ्रमायैव च तन्मिथ्या महीमक्कोलकर्मवत् ॥ ंो_४,२१.३७ ॥ द्रष्टुः दृशिक्रियाकर्तुः । दृश्यैकतानत्वं दृश्यं प्रति सम्मुखताम् । मोहनं मोहकारि । मनो विद्धि । तत्भ्रमाय भ्रमोत्पादाय सत् । मिथ्या भवति । आभासमात्रत्वेन वस्तुसत्न भवतीत्यर्थः । कथम् । मह्यां मृत्तिकायाम् । मक्कोलकर्म सुधालेपः । तद्वत् । यथा मृत्तिकायां कृतसुधालेपः वस्तुतः सन्नास्ति । मृत्तिकायाः एव तथा स्थितत्वात्सुधायाः लेपतयैव भावात् । तथा चिन्मात्रे भासमानं मनः वस्तुतः नास्ति चिन्मात्रस्यैव तथा स्थितत्वातित्यर्थः ॥ ंोट्_४,२१.३७ ॥ ननु कथं द्रष्टृदृश्यैकतानतारूपं मनः मिथ्यारूपमस्तीत्य् । अत्राह दृश्यतन्मयता यैषा स्वभावस्यानुभूयते । संसारमदिरा सेयमविद्येत्युच्यते बुधैः ॥ ंो_४,२१.३८ ॥ अस्माभिः । स्वभावस्य द्रष्टृरूपस्य स्वभावस्य । या दृश्यतन्मयता दृश्यैकतानता । दृश्यते । बुधैः सा इयं भ्रमोत्पादकत्वात्संसारमदिरारूपा अविद्येति उच्यते । अतो मनः अविद्यारूपमेवावस्तुभूतमित्यर्थः ॥ ंोट्_४,२१.३८ ॥ कोऽनर्थः अनयाविद्यया क्रियते इत्य् । अत्राह अनयोपहतो लोकः कल्याणं नाधिगच्छति । भास्वरं तपनालोकं पटलान्धेक्षणो यथा ॥ ंो_४,२१.३९ ॥ अनया द्रष्टुः दृश्यतन्मयतारूपया । अविद्यया । कल्याणं स्वात्मनि विश्रान्तिरूपम् । पटलं नेत्ररोगविशेषः ॥ ंोट्_४,२१.३९ ॥ ननु सा कुत उत्पद्यत इत्य् । अत्राह स्वयमुत्पद्यते सा च सङ्कल्पाद्व्योमवृक्षवत् । असङ्कल्पनमात्रेण स्वयमेव विनश्यति ॥ ंो_४,२१.४० ॥ उत्पद्यते प्रादुर्भवति । ननु सा कथं नश्यति इत्य् । अत्राहासङ्कल्पनमात्रेति । असङ्कल्पनमात्रेण सङ्कल्पाकरणमात्रेण । अत एवाह स्वयमिति । न हि असङ्कल्पनं यत्नः । अपि तु सङ्कल्पनमेव ॥ ंोट्_४,२१.४० ॥ नन्वविद्यानाशेन किं सम्पद्यते इत्य् । अत्राह असङ्कल्पनमात्रेण भावनायां महामते । क्षीणायां स्वप्रसादेन विमर्शेन विलासिना ॥ ंो_४,२१.४१ ॥ असंसङ्गे पदार्थेषु सर्वेषु स्थिरतां गते । सत्यदृष्टौ प्रसन्नायामसत्ये क्षयमागते ॥ ंो_४,२१.४२ ॥ निर्विकल्पचिदच्छात्मा स आत्मा समवाप्यते । नासत्ता यस्य नो सत्ता न सुखं नापि दुःखिता ॥ ंो_४,२१.४३ ॥ भावनायामविद्यायाम् । विमर्शेन स्वात्मविचारेण । कथम्भूतेन । स्वप्रसादेन स्वात्मप्रसादेनोत्पन्नेनेति शेषः । पुनः कथम्भूतेन । विलासिना विस्तारयुक्तेन । असंसङ्गे अनासक्तौ । सत्यविषया दृष्टिः सत्यदृष्टिः । तस्यां प्रसन्नायाम् । सिद्धायामिति यावत् । असत्ये असत्यभूते दृश्ये इत्यर्थः । आत्मा कथम्भूतः । निर्विकल्पः दृश्यविषयविकल्पनिष्क्रान्ता या चित्तद्रूपः । अच्छः आत्मा स्वरूपं यस्य । तादृशः । न तु अचिद्रूपदेहादिस्वरूप इत्यर्थः । अतो नाविद्यानाशस्य वैफल्यमिति भावः । कीदृशोऽसावात्मेत्यपेक्षायामाह नासत्तेति । यस्य आत्मनः । असत्ता न भवति । सर्वेषामात्मत्वेन स्फुरणात् । न हि कश्चिन्नाहमस्मीति ब्रवीति । ब्रुवाणश्चोपहासपात्रमेव । तथा सत्ता नो भवति । बाह्यान्तःकरणाविषयत्वात्शशशृङ्गवत् । सुखं लक्षणया सुखिता । न भवति । सुखादेरन्तःकरणाधिकरणत्वाद् । अन्यथा सुषुप्तादावपि भानप्रसङ्गात् । दुःखिता दुःखाधिकरणत्वम् । न भवति । प्रोक्तहेतोः ॥ ंोट्_४,२१.४१४३ ॥ पुनः किं तत्रास्ति इत्य् । अत्राह केवलं केवलीभावो यस्यान्तरुपलभ्यते । अभव्यया भावनया न चित्तेन्द्रियदृष्टिभिः ॥ ंो_४,२१.४४ ॥ सम्यग्ज्ञानयुक्तेन पुरुषेण । यस्यात्मनः । अन्तः स्वभित्तौ । केवलीभावः शुद्धचिन्मात्रतां विना समस्ताभावः । केवलं लभ्यते । उपचाराल्लभ्यते इत्युक्तिः । लब्धैकरूपस्य लभ्यतायोगात् । परमार्थस्तु लभ्यानपेक्षम् । लब्धृत्वमपि तत्र न युक्तमित्यलं विकल्पापादिकया वाचा । तन्मुव्रणया वा अभव्यया भावनया न लभ्यते । चित्तेन्द्रियदृष्टिभिश्च न लभ्यते ॥ ंोट्_४,२१.४४ ॥ आत्मनोऽनन्यभूताभिरपि यः परिवर्जितः । वासनाभिरनन्ताभिर्व्योमेव वनराजिभिः ॥ ंो_४,२१.४५ ॥ यः आत्मा । आत्मनः अनन्यभूताभिरपि स्वस्वरूपभूताभिरपि । वासनाभिः परिवर्जितः भवति । शुद्धचिन्मात्रस्वरूपत्वात् । वासनानां चात्मरूपत्वं तद्विषयत्वं विनासिद्धभावप्रयुक्तमेव ज्ञेयम् । न हि चिन्मात्राविषयीकृता वासना वासना भवति । विषयीकृतिश्च स्वसम्बन्धिन एव युक्ता । सम्बन्धश्च विचारितः सनेकतायां विश्राम्यति । द्वित्वे तु विरोधलब्धसिद्धेः द्वित्वादेव सम्बन्धानुपपत्तेः । न हि विरुद्धयोः तमःप्रकाशयोः सम्बन्धः युक्त इत्यलं बहुना । यः किमिव । व्योम इव । यथा व्योम वनराजिभिः परिवर्जितः भवति । तथेत्यर्थः ॥ ंोट्_४,२१.४५ ॥ ननु यदि केवलः स एवात्मास्ति तर्हि दृश्यरूपः बन्धः कुत आगत इत्य् । अत्राह सन्दिग्धायां यथा रज्ज्वां सर्पत्वं तद्वदेव हि । चिदाकाशात्मना बन्धस्त्वबद्धेनैव कल्पितः ॥ ंो_४,२१.४६ ॥ यथा पुरुषेण सन्दिग्धायां रज्ज्वां सर्पत्वं कल्प्यते । हि निश्चये । तद्वदेव चिदाकाशात्मना चिदाकाशस्वरूपेणात्मना । अबद्धेनैव सता । बन्धः दृश्याख्यो बन्धः । कल्पितः कल्पनया सम्पादितः ॥ ंोट्_४,२१.४६ ॥ ननु कल्पित एष बन्धः कथं नश्यतीत्य् । अत्राह कल्पितं कल्पितं वस्तु प्रतिकल्पनयान्यया । तदेवान्यत्वमादत्ते खमहोरात्रयोरिव ॥ ंो_४,२१.४७ ॥ कल्पितं कल्पितं वस्तु सर्वं कल्पितवस्तु । अन्यया स्वस्माद्भिन्नया । प्रतिकल्पनया । तदेव सत् । अन्यतामादत्ते । किमिव । खमिव । यथा खमहोरात्रयोः तदेव सतन्यतामादत्ते । तथेत्यर्थः । अतः प्रतिकल्पनयैव कल्पितस्य नाश इति भावः ॥ ंोट्_४,२१.४७ ॥ नन्वतुच्छत्वादिगुणविशिष्टः कल्पितो नास्तीति कथं सः कल्प्यते येन तुच्छत्वादिगुणविशिष्टसंसारकल्पना नश्यति । न च कल्पनां विना कल्पनायाः नाशः शक्यक्रियः अयसः इवायो विनेत्य् । अत्राह यदतुच्छमनायासमनुपाधि गतभ्रमम् । तत्तत्कल्पनया तादृक्तत्सुखायैव कल्पते ॥ ंो_४,२१.४८ ॥ यत्वस्तु । अतुच्छं तुच्छगुणरहितम् । अनायासमायाससाध्यत्वरहितम् । अनुपाधि उपाधित्वेनाभिमतस्यापि तत्ताव्यभिचारातुपाधिरहितम् । गतभ्रमं शुद्धसत्यबोधस्वरूपत्वात्भ्रमस्पर्शरहितम् । भवति । तत्तद्वस्तु । तत्कल्पनया तस्यातुच्छत्वादेः कल्पनया एव । तादृकतुच्छादिरूपम् । भवति । शुद्धे स्वरूपे तुच्छत्वातुच्छत्वादिसापेक्षशब्दावकाशाभावात् । ननु तर्हि तदपि हेयमेवेत्य् । अत्राह तत्सुखायैवेति । तततुच्छत्वादिगुणकं वस्तु कल्पितमपि । सुखायैव तुच्छत्वातुच्छत्वरहितशुद्धस्वरूपविश्रान्तय एव । भवति । तथा चातुच्छत्वादिगुणककल्पनया प्रतिपक्षभूतया तुच्छत्वादिगुणककल्पना नाशयितुं शाक्येति भावः ॥ ंोट्_४,२१.४८ ॥ ननु सत्यभूतस्य दृश्यरूपस्य बन्धस्य कथं कल्पनामात्रेण नाशः शक्यक्रियः इत्य् । अत्राह शून्य एव कुसूलेऽन्तः सिंहोऽस्तीति भयं यथा । शून्य एव शरीरेऽन्तर्बद्धोऽस्मीति भयं तथा ॥ ंो_४,२१.४९ ॥ कुसूलः सिंहबन्धनार्थं यन्त्ररूपं कोष्ठकम् । दृश्यरूपो बन्धः सत्योऽपि भवतु । तथापि परमार्थतः शुद्धचिद्रूपस्य भवतः सः बन्धकारी न भवति । न ह्यम्बरं रज्जुभिः बध्यते इति भावः ॥ ंोट्_४,२१.४९ ॥ यथा शून्ये कुसूलेऽन्तः प्रेक्ष्य सिंहो न लभ्यते । तथा संसारबन्धार्हः प्रेक्षितः सन्न लभ्यते ॥ ंो_४,२१.५० ॥ स्पष्टम् ॥ ंोट्_४,२१.५० ॥ ननु तर्हि इदं जगतयमहमित्येवं बन्धबध्यरूपा प्रतीतिः कथमस्तीत्य् । अत्राह इदं जगदयं चाहमितीयं भ्रान्तिरुत्थिता । बालानां श्यामले काले छाया वैतालिकी यथा ॥ ंो_४,२१.५१ ॥ श्यामले काले रात्रौ । इदं जगतयमहमित्येवंरूपा प्रतीतिः । भ्रान्तिरेवोत्थिता भवति इति पिण्डार्थः ॥ ंोट्_४,२१.५१ ॥ ननु एतादृशी भ्रान्तिः कथमुत्थितेत्य् । अत्राह कल्पनावशतो जन्तोर्भावाभावाः शुभाशुभाः । क्षणादसत्तामायान्ति सत्तामपि पुनः पुनः ॥ ंो_४,२१.५२ ॥ कल्पनावशतः स्वविकल्पवशतः ॥ ंोट्_४,२१.५२ ॥ एतदेव विशेषतः कथयति मातैव गृहिणीभावगृहीता कण्ठलम्बिनी । करोति गृहिणीकार्यं सुरतानन्ददायिनी ॥ ंो_४,२१.५३ ॥ भ्रमेणेति शेषः ॥ ंोट्_४,२१.५३ ॥ कान्तैव मातृभावेन गृहीताकण्ठलम्बिनी । दूरं विस्मारयत्येव मन्मथोन्मादभावनाम् ॥ ंो_४,२१.५४ ॥ इहापि भ्रमेणेति शेषः । इयं चावस्था मध्यमपापिप्रभृतीनां ज्ञेया । महापापिनां तु अत्रापि रतिरेव जायते ॥ ंोट्_४,२१.५४ ॥ फलितमाह भावानुसारिफलदं पदार्थौघमवेक्ष्य च । न ज्ञेनेह पदार्थेषु रूपमेकमुदीर्यते ॥ ंो_४,२१.५५ ॥ ज्ञेन पदार्थतत्त्वज्ञेन पुरुषेण । पदार्थौघं भावानुसारिफलं ददातीति तादृशम् । अवेक्ष्य । इह लोके । पदार्थेष्वेकं रूपं न उदीर्यते न कथ्यते ॥ ंोट्_४,२१.५५ ॥ दृढभावनया चेतो यद्यथा भावयत्यलम् । तत्तत्फलं तदाकारं तावत्कालं प्रपश्यति ॥ ंो_४,२१.५६ ॥ चेतः । यत्वस्तु । दृढभावनया यथा भावयति अनुसन्धत्ते । तत्फलं भावनाफलभूतम् । तत् । तदाकारम् । तावत्कालं तस्मिन् समये । प्रपश्यति । स्वप्नश्चात्र दृष्टान्तत्वेन ज्ञेयः ॥ ंोट्_४,२१.५६ ॥ सिद्धान्तं कथयति न तदस्ति न यत्सत्यं न तदस्ति न यन्मृषा । यद्यथा येन निर्णीतं तत्तथा तेन लक्ष्यते ॥ ंो_४,२१.५७ ॥ निर्णीटं भावितम् । अन्यथा एकमेव वस्तु एकस्य हर्षदमन्यस्य दुःखदं न स्यादिति भावः ॥ ंोट्_४,२१.५७ ॥ भाविताकाशमातङ्गं व्योमहस्तितया मनः । व्योमकाननमातङ्गीं व्योमस्थामनुधावति ॥ ंो_४,२१.५८ ॥ भाविताकाशमातङ्गं सत् । मनः । व्योमहस्तितया व्योमहस्तिभावेन । व्योमहस्ती भूत्वेति यावत् । व्योमकाननमातङ्गीमनुधावति । कथम्भूताम् । काननाधारभूते व्योम्नि तिष्ठतीति तादृशीम् ॥ ंोट्_४,२१.५८ ॥ परमफलितमाह तस्मात्सङ्कल्पमेव त्वं सर्वभावमयात्मकम् । त्यज राघव सुस्वस्थः स्वात्मनैव भवात्मनि ॥ ंो_४,२१.५९ ॥ सर्वभावमयः सर्वपदार्थस्वरूपः । आत्मा यस्य । तत् । सङ्कल्प एव हि बहिः नानाकारैः स्फुरति । त्यज मा प्रादुर्भावय । प्रादुर्भूतेऽपि उपेक्षामेव कुर्वित्यर्थः । न हि सर्वथा त्यागः विदेहमुक्तिं यावत्शक्यक्रियः ॥ ंोट्_४,२१.५९ ॥ ननु कथमागच्छन्तं सङ्कल्पं त्यजामीत्य् । अत्राह मणिर्हि प्रतिबिम्बानां प्रतिषेधक्रियां प्रति । अशक्तो जडभावेन न तु राम भवादृशः ॥ ंो_४,२१.६० ॥ जडभावेन जडतया । भवादृशः त्वादृक्चेतनः । सङ्कल्पत्यागो हि संवेदनसाध्यः । तच्च तवास्त्येवेति भावः ॥ ंोट्_४,२१.६० ॥ त्यागोपायं कथयति यद्यन्मनोमणौ राम तवेह प्रतिबिम्बति । तदवस्त्विति निर्णीय मा तेनागच्छ रञ्जनाम् ॥ ंो_४,२१.६१ ॥ रञ्जनामुपरक्तत्वम् ॥ ंोट्_४,२१.६१ ॥ उपायान्तरं कथयति तदेव सत्यमिति वाप्यभिन्नं परमात्मनः । मन्वानस्त्वमनाद्यन्तं भावयात्मानमात्मना ॥ ंो_४,२१.६२ ॥ सर्वस्य परमात्मनः अभिन्नत्वभावनेन हि अनाद्यन्तात्मभावनमेव सम्पद्यते ॥ ंोट्_४,२१.६२ ॥ चेतसि प्रतिबिम्बन्ति ये भावास्तव राघव । रञ्जयन्त्वन्यसक्तात्मन्मा ते त्वां स्फटिकं यथा ॥ ंो_४,२१.६३ ॥ हे राघव । कथम्भूत । अन्यस्मिन् भावेभ्यः भिन्नस्वरूपे परमात्मनि । सक्तः आत्मा मनः यस्य । तादृश । अन्यथा प्रतिबिम्बितभावरञ्जनाभावो न युक्त इति भावः । त्वां कं यथा । स्फटिकं यथा । यथा अन्यरागयुक्तं स्फटिकमन्यरागकृता रञ्जना न रञ्जयति । तथेत्यर्थः ॥ ंोट्_४,२१.६३ ॥ ननु कथं रञ्जनाभावो देहं तावत्शक्य इत्य् । अत्र सर्गान्तश्लोकेन कथयति स्फटिकमपमलं यथा विशन्ति प्रकटतया नवरञ्जना विचित्राः । इह हि विमननं तथा विशन्तु प्रकटतया भुवणैषणा भवन्तम् ॥ ंो_४,२१.६४ ॥ विमननं मननाख्यमनोधर्मरहितम् । यथा निर्मलं स्फटिकं विचित्राः रञ्जना विशन्ति । तथा मननापरपर्यायानुसन्धानराहित्येन शुद्धं भवन्तमपि पदार्थसङ्कल्पनारूपाः रञ्जना विशन्त्विति पिण्डार्थः । लेपाकारिणी रञ्जना यद्यायाति तदा न काचिद्धानिरिति भावः । इति शिवम् ॥ ंोट्_४,२१.६४ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे एकविंशः सर्गः ॥२१॥ ********************************************************************* पूर्वोक्तमेवार्थं स्थितिप्रकरणवाच्यतया स्थितत्वात्पुनरपि कथयति जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः । मननं त्यजतो ज्ञत्वात्किञ्चित्परिगतात्मनः ॥ ंो_४,२२.१ ॥ दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः । द्रष्टारं पश्यतो दृश्यमद्रष्टारमपश्यतः ॥ ंो_४,२२.२ ॥ असुप्तस्य परे तत्त्वे जागरूकस्य जीवतः । सुप्तस्य घनसम्मोहमये संसारवर्त्मनि ॥ ंो_४,२२.३ ॥ पर्यन्तात्यन्तवैरस्यादरसेषु रसेष्वपि । भोगेष्वाभोगरम्येषु नीरसस्य निराशिषः ॥ ंो_४,२२.४ ॥ व्रजत्यात्माम्भसैकत्वं जीर्णजाड्ये मनस्यलम् । गलत्यपगतासङ्गे हिमपूर इवातपे ॥ ंो_४,२२.५ ॥ तरङ्गितासु कल्लोलजाललोलान्तरासु च । शाम्यन्तीष्वथ तृष्णासु नदीष्विव घनात्यये ॥ ंो_४,२२.६ ॥ संसारवासनाजाले खगजाल इवाखुना । त्रोटिते चादृढग्रन्थिश्लेषे वैरस्यरंहसा ॥ ंो_४,२२.७ ॥ कतकं फलमासाद्य यथा वारि प्रसीदति । तथा विज्ञानवशतः स्वभावः सम्प्रसीदति ॥ ंो_४,२२.८ ॥ जन्तोः पुरुषस्य । विज्ञानवशतः शुद्धात्मज्ञानवशेन । स्वभावः स्वस्वरूपम् । तथा प्रसीदति निर्मलीभवति । तथा कथम् । यथा कतकं फलमासाद्य वारि प्रसीदति । केषु सत्सु प्रसीदतीत्यपेक्षायामाह व्रजत्यात्मेत्यादि । अपगतासङ्गे नष्टासक्त्याख्यदोषे । जीर्णजाड्ये जाड्यनिर्गते । अत एव गलति गलनोन्मुखे । मनसि । आत्माम्भसा परमात्माख्यजलेन सह । एकत्वं व्रजति सति । कस्मिन्निव । आतपे तापदेशे । स्थिते हिमपूरे इव । पुनः कासु सतीषु । अथ तदनन्तरम् । तृष्णासु शाम्यन्तीषु सतीषु । कथम्भूतासु । तरङ्गितासु वृद्धियुक्तासु । कल्लोलजालैः विकल्पस्वरूपैः कल्लोलसमूहैः । लोलमन्तरं यासाम् । ताः । तादृशीषु । कास्विव । नदीष्विव । यथा ताः घनात्यये शरदि । शाम्यन्ति । तथेत्यर्थः । पुनः कस्मिन् सति । संसारवासनाजाले वैरस्यरंहसा आखुना इव खगजाले त्रोटिते सति । कथम्भूते । अदृढः । ग्रन्थीनां कामादिरूपाणां ग्रन्थीनाम् । श्लेषः सम्बन्धः यस्य । तादृशे । जन्तोः कथम्भूतस्य । कृतः विचारः कोऽहं कस्य संसार इत्येवंरूपः विवेकः येन । तादृशस्य । विगलद्वृत्तिचेतः यस्य । तादृशस्य । ज्ञस्यैव हि मननत्यागे शक्तिरस्तीति ज्ञत्वादित्युक्तम् । किञ्चित्परोक्षतया । न त्वपरोक्षतयेत्यर्थः । उपादेयमर्थात्शुद्धद्रष्टृरूपम् । दृश्यम् । द्रष्टारं द्रष्टृरूपम् । पश्यतः । अद्रष्टारं द्रष्टृव्यतिरिक्तम् । अपश्यतः । रसेष्वपि सुप्तस्येति योज्यम् । निराशिषः आशारहितस्य । कुलकम् ॥ ंोट्_४,२२.१८॥ अन्यत्किं तस्य सम्पत्स्यते इत्य् । अत्राह नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् । विनिर्याति मनो मोहाद्विहगः पञ्जरादिव ॥ ंो_४,२२.९ ॥ निरुपासङ्गमासक्तिरहितम् । निरुपाश्रयं निरपेक्षम् । मोहातनात्मन्यात्माभिमानरूपादविचारात् ॥ ंोट्_४,२२.९ ॥ शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् । परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥ ंो_४,२२.१० ॥ कौतुकमत्र पदार्थविषयं ज्ञेयम् । परिपूर्णं सहजानन्दनिर्भरम् । अन्तरं यस्य । तादृशम् ॥ ंोट्_४,२२.१० ॥ जनितोत्तमसौन्दर्या दूरोदस्तनतोन्नता । समतोदेति सर्वत्र शान्तवात इवार्णवे ॥ ंो_४,२२.११ ॥ जनितमुत्तमं सौन्दर्यं यया । सा । समतया हि पुरुषः सदैव प्रसन्नवदनो भवति । दूरोदस्ता नतोन्नता भावप्रधानो निर्देशः । नतोन्नतता । यस्याम् । सा ॥ ंोट्_४,२२.११ ॥ अन्धकारमयी मूढा जाड्यजर्जरितान्तरा । तनुतामेति संसारवासनेव प्रगे क्षपा ॥ ंो_४,२२.१२ ॥ इवशब्दः क्षपेत्यनेन सम्बध्यते ॥ ंोट्_४,२२.१२ ॥ दृष्टचिद्भास्करा प्रज्ञापद्मिनी पुण्यपल्लवा । विकसत्यमलोद्द्योता प्रातर्द्यौरिव रूपिणी ॥ ंो_४,२२.१३ ॥ स्पष्टम् ॥ ंोट्_४,२२.१३ ॥ प्रज्ञा हृदयहारिण्यो भुवनाह्लादनक्षमाः । सत्त्वलक्ष्म्यः प्रवर्तन्ते सकलेन्दोरिवांशवः ॥ ंो_४,२२.१४ ॥ सत्त्वलक्ष्म्यः सत्त्वगुणसम्पदः ॥ ंोट्_४,२२.१४ ॥ उपसंहारं करोति बहुनात्र किमुक्तेन ज्ञातज्ञेयो महामतिः । नोदेति नैव यात्यस्तमभूताकाशकोशवत् ॥ ंो_४,२२.१५ ॥ न उदेति अस्तं नायाति चिन्मात्राख्यात्स्वस्वरूपान्न च्यवत इत्यर्थः । अभूताकाशकोशवत्परमाकाशमध्यवत् ॥ ंोट्_४,२२.१५ ॥ विचारणापरिज्ञातस्वभावस्योदितात्मनः । अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशङ्कराः ॥ ंो_४,२२.१६ ॥ विचारणया परिज्ञातः स्वभावः स्वस्वरूपं येन । तादृशस्य । अनुकम्प्याः तेष्वपि सृष्टिनिर्माणादिक्षोभदर्शनातस्य दया जायते इत्यर्थः ॥ ंोट्_४,२२.१६ ॥ प्रकटाकारमप्यन्तर्निरहङ्कारचेतसम् । नाप्नुवन्ति विकल्पास्तं मृगतृष्णाम्ब्विवैणकाः ॥ ंो_४,२२.१७ ॥ नाप्नुवन्ति स्ववशं न कुर्वन्ति । प्रकटाकारस्य चाहङ्कारराहित्यमाश्चर्यकार्येव ॥ ंोट्_४,२२.१७ ॥ तरङ्गवदमी लोकाः प्रयान्त्यायान्ति चाभितः । क्रोडीकुरुत आत्मोत्थे न ज्ञं मरणजन्मनी ॥ ंो_४,२२.१८ ॥ क्रोडीकुरुतः वशीकुरुतः । देहाभिमानाभावेन तत्स्थमृतिजन्माभिमानाभावात् ॥ ंोट्_४,२२.१८ ॥ आविर्भावतिरोभावौ संसारो नेतरः क्रमः । इति ताभ्यां समालोके रमते न स खिद्यते ॥ ंो_४,२२.१९ ॥ इति एवंरूपाभ्याम् । ताभ्यामाविर्भावतिरोभावाभ्याम् । सः । समालोके तत्तत्त्वप्रकाशे सति । रमते । न खिद्यते । ज्ञातवस्तुतत्त्वो हि वस्तुभिः रमत एव न खिद्यते । अज्ञाततत्त्वस्यैव रज्ज्वादिषु सर्पादिभयकृतखेददर्शनात् ॥ ंोट्_४,२२.१९ ॥ न जायते न म्रियते कुम्भे कुम्भनभो यथा । भूषिते दूषिते वापि देहे तद्वदिहात्मवान् ॥ ंो_४,२२.२० ॥ देहाभिमानाभावादिति भावः ॥ ंोट्_४,२२.२० ॥ विवेक उदिते शीते मिथ्याभ्रमभरोदिता । क्षीयते वासना साभ्रे मृगतृष्णा मराविव ॥ ंो_४,२२.२१ ॥ मिथ्यारूपः यः भ्रमभरः । तेनोदिता । साभ्रे हि मरौ मृगतृष्णा क्षीयत एव । ताप एव तस्या उत्थानात् ॥ ंोट्_४,२२.२१ ॥ कोऽहं कथमिदं वेति यावन्न प्रविचारितम् । संसाराडम्बरं तावदन्धकारोपमं स्थितम् ॥ ंो_४,२२.२२ ॥ अन्धकारोऽपि किंरूपोऽयमिति विचारः । तावदेव तिष्ठति ॥ ंोट्_४,२२.२२ ॥ मिथ्याभ्रमभरोद्भूतं शरीरं पदमापदाम् । आत्मभावनया नेदं यः पश्यति स पश्यति ॥ ंो_४,२२.२३ ॥ यः इदं देहम् । आत्मभावनया न पश्यति । सः पश्यति सम्यक्पश्यति इति पिण्डार्थः ॥ ंोट्_४,२२.२३ ॥ देशकालवशोत्थानि न ममेति गतभ्रमम् । शरीरसुखदुःखानि यः पश्यति स पश्यति ॥ ंो_४,२२.२४ ॥ मम शुद्धचिन्मात्रस्य मम ॥ ंोट्_४,२२.२४ ॥ आत्मानमितरच्चैव दृशा नित्याविभिन्नया । सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति ॥ ंो_४,२२.२५ ॥ चिज्ज्योतिः शुद्धचित्प्रकाशरूपम् ॥ ंोट्_४,२२.२५ ॥ अपारपर्यन्तनभोदिक्कालादि क्रियान्वितम् । अहमेवेति सर्वत्र यः पश्यति स पश्यति ॥ ंो_४,२२.२६ ॥ नभश्च दिक्च कालश्च । ते आदिः यस्य जगतः । तत्नभोदिक्कालादि अपारपर्यन्तं पारपर्यन्तरहितं च तत् । नभोदिक्कालादिरूपं जगतहमेवास्मि । अहन्तासारस्य चिन्मात्रतत्त्वस्यैव सर्वमयत्वेन स्थितत्वात् । अन्यथाहमिति सर्वत्र न स्फुरेत् । जडेष्वदर्शनेऽपि चेतनवत्सत्ताभाक्त्वाविशेषात् । तत्रापि तत्स्फुरणानुमानस्य शक्यत्वात्न सर्वत्रेत्यस्यानुपपत्तेः । कथम्भूतं तत् । क्रियान्वितम् । आदिशब्दाक्षिप्ताया अपि क्रियायाः पृथक्निर्देशः प्राधान्यख्यापनार्थः । इति एवम् । सर्वत्र सर्वेषु देशेषु कालेषु च । यः पश्यति सः पश्यति । नान्य इत्यर्थः ॥ ंोट्_४,२२.२६ ॥ वालाग्रलक्षभागात्तु कोटिशः परिकल्पितः । अहं सूक्ष्म इति व्यापी यः पश्यति स पश्यति ॥ ंो_४,२२.२७ ॥ सूक्ष्मस्य व्यापित्वमाश्चर्यावहम् । सूक्ष्मत्वं चात्र बाह्यान्तःकरणातीतत्वेन द्रष्टव्यम् ॥ ंोट्_४,२२.२७ ॥ सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः । अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति ॥ ंो_४,२२.२८ ॥ चित्चिदात्मा । भवति । कथम्भूतः । सर्वशक्तिः अन्यथा नानारूपं जगत्न प्रादुर्भवेत् । अनन्तात्मा अन्तस्यापि तस्मिन्नेव निगीर्णत्वात्तद्रहितः । न हि निगीर्ण एव निगरितुः रूपमाच्छादयितुं शक्तः । सर्वेषां भावानामन्तरे स्थितः सर्वभावान्तरस्थितः । अन्यथाहमिति न स्फुरेत् । अद्वितीयः द्वितीयत्वेन मतस्यापि तद्रूपत्वानपायात्द्वितीयरहितः । इति एवम् । अन्तः मनसि । न तु चक्षुषा । यः पश्यति स पश्यतीति ॥ ंोट्_४,२२.२८ ॥ आधिव्याधिभयोद्विग्नो जरामरणजन्मवान् । देहो नाहमिति प्राज्ञो यः पश्यति स पश्यति ॥ ंो_४,२२.२९ ॥ प्राज्ञः शुद्धचिन्मात्रतत्त्वे आत्मत्वनिश्चयवान् ॥ ंोट्_४,२२.२९ ॥ तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा मम । न द्वितीयो ममास्तीति यः पश्यति स पश्यति ॥ ंो_४,२२.३० ॥ मम शुद्धचिन्मात्ररूपस्य मम । न तु देहादिरूपस्य ॥ ंोट्_४,२२.३० ॥ मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव । चित्तन्तुरहमेवेति यः पश्यति स पश्यति ॥ ंो_४,२२.३१ ॥ कथं त्वयि सर्वं प्रोतमित्य् । अत्राह चित्तन्तुरिति । तन्तौ हि मुक्ता प्रोताः भवन्ति । तन्तुत्वं च चितः व्यापकतया सूक्ष्मतया च ज्ञेयम् ॥ ंोट्_४,२२.३१ ॥ नाहं न चान्यदस्तीह ब्रह्मैवास्ति न चास्ति तत् । इत्थं सदसतोर्मध्यं यः पश्यति स पश्यति ॥ ंो_४,२२.३२ ॥ इह लोके । अहं परिच्छिन्नदेहादिरूपः अहम् । नास्मि । अन्यत्मत्तो भिन्नत्वेन स्थितं जगत् । न चास्ति । सुषुप्तौ अदर्शनात् । ब्रह्म व्यापकं चिन्मात्रतत्त्वम् । एवास्ति परमार्थतः सत्तां भजते । सर्वथाभावस्य वक्तुमशक्यत्वात् । न हि निरादिष्टो नो भ्रमः सम्भवति । तत्ब्रह्म । नास्ति च । बाह्यान्तःकरणातीतत्वात् । इत्थमेवम् । सदसतोः मध्यं सन्धिभूतं शुद्धचिन्मात्राख्यं वस्तु । यः पश्यति स पश्यति ॥ ंोट्_४,२२.३२ ॥ यन्नाम किञ्चित्त्रैलोक्यं स एकोऽवयवो मम । तरङ्गोऽब्धाविवेत्यन्तर्यः पश्यति स पश्यति ॥ ंो_४,२२.३३ ॥ मम शुद्धचिन्मात्ररूपस्य मम । स्वप्ने हि चिन्मात्रावयवभूतं जगत्सर्वोऽनुभवति ॥ ंोट्_४,२२.३३ ॥ शोच्या पाल्या मयैवेयं स्वसेयं मे कनीयसी । त्रिलोकी पेलवेत्युच्चैर्यः पश्यति स पश्यति ॥ ंो_४,२२.३४ ॥ पेलवा नाशभीरुः । कनीयसी स्वसा चेदृश्येव भवति ॥ ंोट्_४,२२.३४ ॥ आत्मतापरते त्वत्तामत्ते यस्य महात्मनः । भावादुपरते नूनं स पश्यति सुलोचनः ॥ ंो_४,२२.३५ ॥ भावात्मनसः । सर्वत्र चिन्मात्रत्वदर्शनादिति भावः ॥ ंोट्_४,२२.३५ ॥ चेत्यानुपातरहितं चिद्भैरवमयं वपुः । आपूरितजगज्जालं यः पश्यति स पश्यति ॥ ंो_४,२२.३६ ॥ चेत्यानुपातरहितः यः चिद्भैरवः सर्वग्रासकत्वात्चिदाख्यः भैरवः । तन्मयं वपुः स्वरूपम् ॥ ंोट्_४,२२.३६ ॥ सुखं दुःखं भवोऽभावो विवेककलनाश्च याः । अहं न वेति नूनं वा पश्यन्न परिहीयते ॥ ंो_४,२२.३७ ॥ सुखं दुःखं भवः अभावः विवेककलनाश्चाहमस्मि इति पश्यन् । एतन्न वास्मि इति वा पश्यन् । न परिहीयते न हानिं प्राप्नोति । उभयथापि शुद्धचिन्मात्रस्वरूपत्वाप्तेः । न हि शुद्धचिन्मात्रं विना कश्चिद्व्यापकः उत्तीर्णो वा भवति ॥ ंोट्_४,२२.३७ ॥ स्वात्मसत्तापरापूर्णे जगत्यन्येन वर्जिते । किं मे हेयं किमादेयमिति पश्यन् सदृग्नरः ॥ ंो_४,२२.३८ ॥ स्वात्मनः शुद्धचिन्मात्ररूपस्य स्वात्मनः । या सत्ता स्फूर्तिरूपा सत्ता । तया परापूर्णे सारत्वेन स्थितत्वात्निर्भरिते । अन्यथाहमिति स्फुरणायोगात् । तथा अन्येन चिन्मात्रव्यतिरिक्तेन । वर्जिते जगति । किं हेयं भवति । स्वात्मनः हेयत्वायोगात्न किञ्चिदपीत्यर्थः । किमादेयं भवति । स्वात्मनः सर्वदा प्राप्तत्वात्न किञ्चिदपीत्यर्थः । इति एवम् । पश्यननुभवन् । नरः । सदृक्दृष्टिसहितो । भवति । अन्येऽन्धा इत्यर्थः ॥ ंोट्_४,२२.३८ ॥ अप्रतर्क्यमनाभासं सन्मात्रमिदमित्यलम् । हेयोपादेयकलना यस्य क्षीणा नमामि तम् ॥ ंो_४,२२.३९ ॥ इदं जगत् । अप्रतर्क्यं तर्कितुमशक्यम् । अनाभासं शान्ते स्वस्वरूपे स्थितत्वादाभासरहितम् । सन्मात्रमेवास्ति । इति अनेन निश्चयेन । यस्य पुरुषस्य । हेयोपादेयकलना क्षीणा । अहं तं पुरुषम् । नमामि । स एव सर्वेभ्य उत्कृष्ट इति भावः ॥ ंोट्_४,२२.३९ ॥ य आकाशवदेकात्मा सर्वभावगतोऽपि सन् । न भावरञ्जनामेति स महात्मा महेश्वरः ॥ ंो_४,२२.४० ॥ यः पुरुषः । आकाशवतेकात्मा सर्वव्यापकात्मा । सर्वभावगतः अपि सन् शरीरयात्रानिमित्तेषु सर्वेषु पदार्थेषु व्यवहारयुक्तोऽपि सन् । भावरञ्जनाम् । भावे मनसि । रञ्जनां हर्षामर्षरूपां रञ्जनाम् । न एति । सः महात्मा महापुरुषः । महेश्वरः भवति महाशक्तियुक्तत्वात् ॥ ंोट्_४,२२.४० ॥ तमःप्रकाशकलनामुक्तः कालात्मतां गतः । यः सोम्यः सुसमः स्वस्थस्तं नौमि पदमागतम् ॥ ंो_४,२२.४१ ॥ यः । तमःप्रकाशयोः जाड्यचित्त्वयोः । या कलना । तया मुक्तः । कालस्य क्रियावैचित्र्यरूपस्य कालस्य । आत्मतां सत्तादायकत्वेन स्वरूपताम् । गतः । सोम्यः शीतलः । स्वस्थः स्वस्वरूपे एव स्थितः । भवति । तं पदमागतं नौमि । अपूर्वश्चात्र सूर्य उक्तः ॥ ंोट्_४,२२.४१ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति यस्योदयास्तमयसङ्कलनाकलासु चित्रासु चारुविभवासु जगद्गतासु । वृत्तिः समैव सकलैकगतेरनन्ता तस्मै नमः परमबोधवते शिवाय ॥ ंो_४,२२.४२ ॥ सकलैकगतेः समस्तैकशरणस्य । चारुविभवासु प्रशस्तसामर्थ्ययुक्तासु । चित्रासु नानाविधासु । उदयास्तमययोः याः सङ्कलनाः घट्टनाः । तद्रूपासु जगद्गतासु कलासु । अनन्ता नाशरहिता । वृत्तिः मनोवृत्तिः । समैव भवति । अनन्तत्वं चात्र दर्ढ्यतापेक्षमुक्तम् । तस्मै परमबोधवते परात्मतत्त्वबोधयुक्ताय । शिवाय शिवीभूताय पुरुषाय । नमः अस्तु । शिवश्च समवृत्तिः सकलैकगतिः परमबोधरूपश्च भवतीति शिवम् ॥ ंोट्_४,२२.४२ ॥ इति श्रीभास्करकण्ठविरचितायां मोक्षोपायटीकायां स्थितिप्रकरणे द्वाविंशः सर्गः ॥२२॥ ********************************************************************* ओम् । पुनरपि विवेकिन एव माहात्म्यं कथयति स उत्तमपदालम्बी चक्रभ्रमवदास्थितः । शरीरनगरे राज्यं कुर्वन्नपि न लिप्यते ॥ ंो_४,२३.१ ॥ उत्तमं पदं चिन्मात्राख्यं श्रेष्ठं स्थानम् । आलम्बत इत्युत्तमपदालम्बी । चक्रभ्रमवतास्थितः समन्तात्स्थितः । निरनुसन्धानं चेष्टायां स्थित इति यावत् । सः जीवन्मुक्तः । शरीरनगरे राज्यं कुर्वन्नपि न लिप्यते । तज्जैः सुखदुःखैः न गृह्यते इत्यर्थः । राजापि उत्तमपदालम्बी सर्वत्र भ्रमन्नगरे राज्यं कुर्वन् भवति ॥ ंोट्_४,२३.१ ॥ तस्येयं भोगमोक्षार्थं तज्ज्ञस्योपवनोपमा । सुखायैव न दुःखाय स्वशरीरमहापुरी ॥ ंो_४,२३.२ ॥ सुखायैव आत्यन्तिकमोक्षरूपसुखसाधनत्वात् । न दुःखाय दुःखलेपाभावात् ॥ ंोट्_४,२३.२ ॥ अत्र श्रीरामः पृच्छति नगरीत्वं शरीरस्य कथं नाम महामुने । एतां चाधिवसन् योगी कथं राज्यसुखैकभाक् ॥ ंो_४,२३.३ ॥ स्पष्टम् ॥ ंोट्_४,२३.३ ॥ श्रीवसिष्ठ उत्तरमाह रम्येयं देहनगरी राम सर्वगुणान्विता । ज्ञस्यानन्तविलासाढ्या स्वालोकार्कप्रकाशिता ॥ ंो_४,२३.४ ॥ स्वालोकः आत्मप्रकाशः । स एवार्कः । तेन प्रकाशिता परामर्शद्वारेण स्वं प्रति प्राकट्यं नीता ॥ ंोट्_४,२३.४ ॥ सर्वगुणत्वमेव कथयति नेत्रवातायनोद्द्योतप्रकाशभुवनान्तरा । करप्रतोलीविस्तारप्राप्तपादोपजङ्गला ॥ ंो_४,२३.५ ॥ नेत्रे एव वातायने । तयोः यः उद्द्योतः प्रकाशः । तेन प्रकाशानि प्रकटानि । भुवनान्तराणि भुवनमध्यानि यस्याम् । सा । नगर्यामपि नगरद्वारनिर्मितैः वातायनैः भुवनान्तराणि दृश्यानि भवन्ति । करौ एव प्रतोल्यौ विशिखे । ताभ्यां प्राप्तौ पादावेव उपजङ्गलौ जङ्गलसमीपदेशौ यस्याः । सा । नगर्यश्च उपजङ्गलं तावत्प्रतोली भवति ॥ ंोट्_४,२३.५ ॥ रोमराजिलतागुल्मा त्वगट्टालकमालिता । गुल्फगुल्गुलुविश्रान्तजङ्घोरुस्तम्भमण्डला ॥ ंो_४,२३.६ ॥ त्वगेवाट्टालकं प्राकारः । तेन भूषिता । गुल्गुलुः स्तम्भाधारभूता शिला ॥ ंोट्_४,२३.६ ॥ रेखाविभक्तपादोग्रशिलाप्रथमनिर्मिता । चर्ममर्मसिरासारसन्धिसीमा मनोरमा ॥ ंो_४,२३.७ ॥ रेखाभ्यां विभक्ते ये । पादौ एवोग्रशिले । तयोः प्रथमं निर्मिता । प्रथमनिर्माणे हि कृतविभागाः शिलाः स्थाप्यन्ते । चर्ममर्मसिरासारः चर्ममर्मसिरासमूह एव । सन्धिसीमाः सन्धिमर्यादाः यस्याः । सा ॥ ंोट्_४,२३.७ ॥ ऊरुद्वयकवाटाग्रनिर्मितोपस्थनिर्गमा । कचत्कचावलीकाचदलप्रच्छादनावृता ॥ ंो_४,२३.८ ॥ ऊरुद्वयमेव कवाटे । तयोः ये अग्रे । ताभ्यां निर्मितः कवाटरचनायुक्तः कृतः । उपस्थ एव गुदस्थानमेव । निर्गमः द्वारदेशः यस्याः । सा । कचन्ती या कचावली । सा एव काचदलैः निर्मितं प्रच्छादनम् । तेनावृता ॥ ंोट्_४,२३.८ ॥ भ्रूललाटास्यसच्छायवदनोद्यानशोभिता । दृष्टिपातोत्पलाकीर्णकपोलविपुलस्थला ॥ ंो_४,२३.९ ॥ भ्रूललाटास्यैः सच्छायं यत्वदनम् । तदेवोद्यानम् । तेन शोभिता ॥ ंोट्_४,२३.९ ॥ वक्षःस्थलसरःस्यूतकुचपङ्कजकोरका । घनरोमावलिच्छन्नस्कन्धक्रीडाशिलोच्चया ॥ ंो_४,२३.१० ॥ घनरोमावलिच्छन्ना चासौ स्कन्धक्रीडाशिलोच्चया च ॥ ंोट्_४,२३.१० ॥ उदरश्वभ्रनिक्षिप्तस्वन्नेष्टभक्ष्यकर्परा । दीर्घकण्ठबिलोद्गीर्णवातसंरम्भशब्दिता ॥ ंो_४,२३.११ ॥ उदरश्वभ्रे उदरगर्ते । निक्षिप्तानि यानि स्वन्नानि शोभनान्नानि । तैः । तद्व्याजेनेति यावत् । इष्टभक्ष्यकर्परा इष्टभक्ष्यभग्नपात्रं यस्याः । सा । राजनगर्यामपि इष्टभक्ष्यपात्राणि भवन्ति । दीर्घं यत्कण्ठबिलम् । तस्मिन् । उद्गीर्णः सञ्चारी । यः वातः । तस्य यः संरम्भः । तेन शब्दिता शब्दयुक्ता कृता । नगर्यामपि बिलेषु वातशब्दो भवति ॥ ंोट्_४,२३.११ ॥ हृदयापणनिर्णीतयथाप्राप्तार्थभूषिता । अनारतं नवद्वारप्रवहत्प्राणनागरा ॥ ंो_४,२३.१२ ॥ हृदयमेवापणः निषद्या । तस्मिन्निर्णीता उपादेयत्वेन निश्चिताः । ये यथाप्राप्तार्थाः स्वप्रवाहागतार्थाः । तैः भूषिता । नगर्या अपि आपणेषु अर्था निर्णीयन्ते ॥ ंोट्_४,२३.१२ ॥ आस्यस्फारखदादृष्टदन्तास्थिशकलाकुला । मुखखदाभ्रमज्जिह्वाचिल्लाचर्वितभोजना ॥ ंो_४,२३.१३ ॥ नगर्यामपि खदासु मांसभक्षकैः त्यक्तानि अस्थिशकलानि भवन्ति । चिल्ला पक्षिविशेषः ॥ ंोट्_४,२३.१३ ॥ रोमशष्पभरच्छन्नकर्णकोटरकूपका । स्फिक्शृङ्खलाञ्चितोपान्तपृष्टविस्तीर्णजङ्गला ॥ ंो_४,२३.१४ ॥ स्फिजौ एव शृङ्खले । ताभ्यामञ्चितोपान्तं रम्योपान्तम् । पृष्टमेव विस्तीर्णजङ्गलं यस्याः । सा । नगर्या अपि जङ्गलसन्धिषु चौरादिप्रतिबन्धार्थं शृङ्गलाः भवन्ति ॥ ंोट्_४,२३.१४ ॥ गुदोच्छिन्नारघट्टान्तरुद्धृतानन्तकर्दमा । चित्तोद्यानमहीवल्गदात्मचिन्तावराङ्गना ॥ ंो_४,२३.१५ ॥ गुद एवोच्छिन्नारघट्टः त्रोटितारघट्टयन्त्रः । तेनान्तः अन्तःप्रदेशात् । उद्धृतः निष्कासितः । अनन्तः कर्दमः । अर्थात्शकृद्रूपः कर्दमः यस्याः । सा । नगर्या अपि कर्दममुद्धरन्ति । चित्तोद्यानेति । ज्ञचित्ते हि रात्रिन्दिनमात्मचिन्ता एव स्फुरति ॥ ंोट्_४,२३.१५ ॥ धीवरत्रादृढाबद्धचपलेन्द्रियमर्कटा । वदनोद्यानहसनपुष्पोद्गममनोरमा ॥ ंो_४,२३.१६ ॥ ज्ञो हि धीरज्ज्वा चपलेन्द्रियाणि बध्नाति । वदनोद्यानेति । उद्याने च पुष्पोद्गमो युक्त एव ॥ ंोट्_४,२३.१६ ॥ स्वशरीरपुरी ज्ञस्य सर्वसौभाग्यसुन्दरी । सुखायैव न दुःखाय परमाय हिताय च ॥ ंो_४,२३.१७ ॥ स्वशरीरपुरी प्रोक्तसर्वपुरीगुणा निजशरीरनगरी । परमाय हिताय मोक्षरूपायेत्यर्थः ॥ ंोट्_४,२३.१७ ॥ अज्ञस्येयं सुखदास्त्यथ वा नेत्य् । अत्राह अज्ञस्येयमनन्तानां दुःखानां कोशमालिका । ज्ञस्य त्वियमनन्तानां सुखानां कोशमालिका ॥ ंो_४,२३.१८ ॥ कोशमालिका भाण्डागारमाला । अनन्तदुःखोत्पादिकेत्यर्थः । अज्ञातशुद्धतत्त्वस्य तस्यैतदर्थं रात्रिन्दिनं सन्तापभाक्त्वातिति भावः । ननु तर्हि ज्ञस्यापि ईदृश्येव स्यादित्य् । अत्राह ज्ञस्य त्विति । तुशब्दः व्यतिरेकद्योतकः । ज्ञातशुद्धात्मतत्त्वस्य तस्यैतदर्थं सन्तापभाक्त्वाभावात् । न ह्यन्यार्थमन्यः सन्तापभाग्भवतीति भावः ॥ ंोट्_४,२३.१८ ॥ ननु तर्हि नाशकाले इयं ज्ञस्य दुःखदा भविष्यतीत्य् । अत्राह न किञ्चिदस्यां नष्टायां ज्ञस्य नष्टमरिन्दम । स्थितायां संस्थितं सर्वं तेनेयं ज्ञसुखावहा ॥ ंो_४,२३.१९ ॥ एतद्व्यतिरिक्तशुद्धचिन्मात्रस्वरूपत्वादिति भावः । ननु तर्हि स्थितिकालेऽप्यस्यानया न किञ्चित्प्रयोजनमित्य् । अत्राह स्थितायामिति । सर्वं संस्थितं समस्तजीवन्मुक्त्युपयोगिकार्यसाधकत्वादिति भावः । उपसंहारं करोति तेनेयमिति ॥ ंोट्_४,२३.१९ ॥ नन्वस्याः कैश्चिद्रथत्वमप्युक्तमित्य् । अत्राह यदेनां ज्ञः समारुह्य संसारे विहरत्यलम् । अशेषभोगमोक्षार्थं तेनेयं ज्ञरथः स्मृतः ॥ ंो_४,२३.२० ॥ एनां शरीरपुरीम् ॥ ंोट्_४,२३.२० ॥ शब्दरूपरसस्पर्शगन्धबन्धुश्रियो यतः । अनयैव हि लभ्यन्ते तेनेयं ज्ञस्य लाभदा ॥ ंो_४,२३.२१ ॥ ननु शब्दादिलाभेन ज्ञस्य को लाभोऽस्तीति चेन् । न । शब्दादिद्वारेण परमात्मतत्त्वशक्तिनिचयज्ञानरूपस्य लाभस्य स्थितत्वात् ॥ ंोट्_४,२३.२१ ॥ सुखदुःखक्रियाजालं यदैषोद्वहति स्वयम् । तदैषा राम सर्वत्र सर्ववस्तुभरक्षमा ॥ ंो_४,२३.२२ ॥ एषा देहनगरी । ज्ञो हि सुखादिकं शरीरस्यैव जानाति न स्वस्य ॥ ंोट्_४,२३.२२ ॥ तस्यां शरीरपुर्यां हि राज्यं कुर्वन् गतभ्रमः । ज्ञस्तिष्ठति गतव्यग्रं स्वपुर्यामिव वासवः ॥ ंो_४,२३.२३ ॥ गतभ्रमः एतां प्रति अहमभिमानरहितः । गतव्यग्रं निराकुलम् ॥ ंोट्_४,२३.२३ ॥ न क्षिपत्यवटाटोपे मनोमत्ततुरङ्गमम् । न लोभद्वन्द्वरूपाय प्रज्ञापुत्रीं प्रयच्छति ॥ ंो_४,२३.२४ ॥ अवटाटोपे विषयरूपे श्वभ्राडम्बरे । लोभाख्यो यः द्वन्द्वरूपः । तस्मै । प्रज्ञापुत्रीं न प्रयच्छति । लोभग्रस्तां प्रज्ञां न करोतीति भावः ॥ ंोट्_४,२३.२४ ॥ अज्ञानपरराष्ट्रं च न रन्ध्रं त्वस्य पश्यति । संसारारिभयस्यान्तर्मूलान्येष निकृन्तति ॥ ंो_४,२३.२५ ॥ अज्ञानमेव परराष्ट्रं लक्षणया रिपुभूतो राजा । न पश्यति । गमनस्य तु का कथा । अस्य अज्ञानराज्ञः । रन्ध्रम् । तु एवशब्दार्थे । न पश्यति । जितत्वात् ॥ ंोट्_४,२३.२५ ॥ तृष्णासारपरावर्ते कामसङ्क्षोभदुर्ग्रहे । न निमज्जन्ति पर्यस्तसुखदुःखाक्षदेवने ॥ ंो_४,२३.२६ ॥ तृष्णासारस्य परावर्तः आवृत्तिः यस्मिन् । तादृशे । कामस्य यः सङ्क्षोभः । तेन दुर्ग्रहे । पर्यस्तौ प्रेरितौ । यौ सुखदुःखाक्षौ सुखदुःखे एवाक्षौ । तयोः यत्देवनं क्रीडनम् । द्यूतमिति यावत् । तत्र न निमज्जन्ति । राज्ञो हि द्यूतमज्जनं दोष एव । अक्षदेवनमपि तृष्णाकामवलितमेव भवति ॥ ंोट्_४,२३.२६ ॥ करोत्यविरतं स्नानं बहिरन्तरपि क्षणात् । सरित्सङ्गमतीर्थेषु मनोरथगतिः क्रमात् ॥ ंो_४,२३.२७ ॥ बहिः बाह्ये । अन्तः मनसि । मन एव स्वाधीनत्वात्रथः । तेन गतिः यस्य । सः । अन्तः स्नानं तु चिद्ध्रदनिमज्जनमेव ज्ञेयम् ॥ ंोट्_४,२३.२७ ॥ सकलाक्षिजनादृश्यः पुरप्रेक्षापराङ्मुखः । ध्याननाम्नि सुखं नित्यं तिष्ठत्यन्तःपुरान्तरे ॥ ंो_४,२३.२८ ॥ पुरस्य शरीरस्य । नगरस्य च राजापि सकलजनादृश्यः पुरप्रेक्षापराङ्मुखश्चरन् पुरे तिष्ठति । ध्यानं चात्र स्वात्मभूतशुद्धचिन्मात्रतत्त्वपरामर्श एव ज्ञेयः ॥ ंोट्_४,२३.२८ ॥ सुखावहैषा नगरी नित्यं प्रमुदितात्मनः । भोगमोक्षप्रदा दिव्या शक्रस्येवामरावती ॥ ंो_४,२३.२९ ॥ ज्ञस्येति शेषः ॥ ंोट्_४,२३.२९ ॥ स्थितया संस्थितं सर्वं किञ्चिन्नष्टं न नष्टया । यया पुर्या महीपस्य सा कथं न सुखावहा ॥ ंो_४,२३.३० ॥ स्पष्टम् ॥ ंोट्_४,२३.३० ॥ विनष्टे देहनगरे ज्ञस्य नष्टं न किञ्चन । आक्रान्तकुम्भकोशस्य खस्य कुम्भक्षये यथा ॥ ंो_४,२३.३१ ॥ स्पष्टम् ॥ ंोट्_४,२३.३१ ॥ विद्यमानं घटं वायुः किल स्पृशति नास्थितम् । यथा तथैव देही स्वां शरीरनगरीमिमाम् ॥ ंो_४,२३.३२ ॥ अस्थितं नष्टम् । देही देहाद्व्यतिरिक्तमात्मानं जानानः तज्ज्ञः ॥ ंोट्_४,२३.३२ ॥ अत्रस्थ एष भगवानात्मा सर्वगतोऽपि सन् । स्वविकल्पकृतां भुक्त्वा पुंस्तामधिगतात्मदृक् ॥ ंो_४,२३.३३ ॥ कुर्वन्नपि न कुर्वाणः सम्यक्सर्वक्रियोन्मुखः । कदाचित्प्रकृतान् सर्वान् कार्यार्थानधितिष्ठति ॥ ंो_४,२३.३४ ॥ अत्रस्थः देहस्थः । अपिशब्दः सर्वगतस्य पुंस्ताभोगे विरोधं द्योतयति । अधिगतात्मदृक्तज्ज्ञः । न तु मूर्खः । तस्यैवंविधत्वासम्भवात् । कुर्वन् शरीरादिद्वारेण कुर्वन् । न कुर्वाणः नाहं कर्तेति निश्चयात् । कार्यार्थान् करणीयानि प्रयोजनानि । अधितिष्ठति कर्तव्यत्वेन निश्चिनोति । प्रकृतान् प्रवाहागतान् । न तु स्वविमर्शेन कल्पितान् ॥ ंोट्_४,२३.३३३४ ॥ ननु यदि कदाचिदेतत्करोति तर्हि अन्यदा किं करोतीत्य् । अत्राह कदाचिल्लीलयालोलं विमानमधिरोहति । अनाहतगतिं कान्तं विहर्तुममलं मनः ॥ ंो_४,२३.३५ ॥ कदाचिदसौ तज्ज्ञः आत्मलीलया मनः विमानं मनोरूपं विमानम् । अधिरोहति । किं कर्तुम् । विहर्तुमान्तरं विहारं कर्तुम् । मनोविमानं कथम्भूतम् । अलोलं चञ्चलतारहितम् । पुनः कथम्भूतम् । अनाहता क्वचिदप्रतिहता । गतिः यस्य । सः । तम् । विमानशब्दापेक्षया पुंस्त्वम् । अमलं रागादिमलरहितम् । अत एव कान्तम् ॥ ंोट्_४,२३.३५ ॥ ननु तत्र किं करोतीत्य् । अत्राह तत्रस्थो लोकसुन्दर्या सततं शीतलाङ्गया । रमते नाम यो मैत्र्या नित्यं हृदयसंस्थया ॥ ंो_४,२३.३६ ॥ सः तज्ज्ञः तत्रस्थः मनोविमानस्थः । लोकसुन्दर्या लोकप्रियया । नित्यं हृदयस्थया सततं शीतलाङ्गया मैत्र्या मैत्र्याख्यया स्त्रिया । रमते । कदाचिदन्तर्मुखः सन्मैत्रीमय एव भवतीति भावः ॥ ंोट्_४,२३.३६ ॥ न केवलं मैत्र्येव तस्य कान्तास्ति यावदन्ये द्वे अपीत्याह द्वे कान्ते तिष्ठतस्तस्य पार्श्वयोः सत्यतैकते । इन्दोरिव विशाखे द्वे समाह्लादितचेतसी ॥ ंो_४,२३.३७ ॥ स्पष्टम् ॥ ंोट्_४,२३.३७ ॥ ज्ञ इमानखिलांल्लोकान् दुःखक्रकचदारितान् । वाल्मीकानिव पीठस्थः पृष्ठादर्क इवेक्षते ॥ ंो_४,२३.३८ ॥ लोकान् कथम्भूतान् । दुःखमेव क्रकचः । तेन दारितान् पीडितान् । वाल्मीकान् पिपीलिकाः । पृष्ठाद्पृष्ठमारुह्येत्यर्थः ॥ ंोट्_४,२३.३८ ॥ चिरं पूरितसर्वाशः सर्वसम्पत्तिसुन्दरः । अपुनःखण्डनायेन्दुः पूर्णाङ्ग इव राजते ॥ ंो_४,२३.३९ ॥ सर्वसम्पत्त्या सर्वसम्पदा । सुन्दरः ॥ ंोट्_४,२३.३९ ॥ सेव्यमानोऽपि भोगौघो न खेदायास्य जायते । कालकूटः किलेशस्य कण्ठे प्रत्युत राजते ॥ ंो_४,२३.४० ॥ खेदाय नाशद्वारेणेति भावः ॥ ंोट्_४,२३.४० ॥ ननु कथं नासावस्य खेदाय भवतीत्य् । अत्राह परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये । विज्ञायाश्वासितो मैत्रीमेति चौरो न शत्रुताम् ॥ ंो_४,२३.४१ ॥ परिज्ञाय सम्यक्निश्चित्यात्मरूपत्वेन ज्ञात्वेत्यर्थः । आत्मरूपत्वेन हि ज्ञातो भोगः नष्टोऽपि खेदं न ददाति स्वात्मरूपतया स्थितत्वात् । न चात्मनो नाशः युक्तः । नाशेऽपि नाशसाक्षितया स्थितत्वात् ॥ ंोट्_४,२३.४१ ॥ नरनारीनटौघानां कलहे दूरगामिना । ज्ञेन यात्रेव सुभगा भोगश्रीरवलोक्यते ॥ ंो_४,२३.४२ ॥ अन्योऽपि निपुणः नटौघानां कलहे दूरं गच्छति । यात्रां तदारब्धं नाट्यं च पश्यति ॥ ंोट्_४,२३.४२ ॥ अशङ्कितोपसम्प्राप्ता ग्रामयात्रा यथाध्वगैः । प्रेक्ष्यते तद्वदेवाज्ञैर्व्यवहारमयी क्रिया ॥ ंो_४,२३.४३ ॥ निरनुसन्धानमेव प्रेक्षत इति भावः ॥ ंोट्_४,२३.४३ ॥ अयत्नोपनतेष्वक्षि दिग्द्रव्येषु यथा पुरः । नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ंो_४,२३.४४ ॥ अयत्नोपनतेषु दिग्द्रव्येषु यथा अक्षि नेत्रम् । नीरागं रागरहितम् । पतति । धीरधीः तज्ज्ञबुद्धिः । कार्येषु तद्वत्पतति । रागरहितमेवासौ कार्याणि करोतीति भावः ॥ ंोट्_४,२३.४४ ॥ इन्द्रियाणां न हरति प्राप्तमर्थं कदाचन । न ददाति तथा प्राप्तं सम्पूर्णो ज्ञोऽवतिष्ठते ॥ ंो_४,२३.४५ ॥ सम्पूर्णत्वं ह्येतदेव यत्प्राप्तस्य ग्रहणमप्राप्तस्यावाञ्छनमिति ॥ ंोट्_४,२३.४५ ॥ अप्राप्तचिन्ताः सम्प्राप्तसमुपेक्षाश्च सन्मतिम् । नाकल्पयन्ति तरला पिञ्छघाता इवाचलम् ॥ ंो_४,२३.४६ ॥ न आकल्पयन्ति न चञ्चलीकुर्वन्ति ॥ ंोट्_४,२३.४६ ॥ संशान्तसर्वसन्देहो गलिताखिलकौतुकः । सङ्क्षीणकल्पनाजालो ज्ञः संराडिव शोभते ॥ ंो_४,२३.४७ ॥ स्पष्टम् ॥ ंोट्_४,२३.४७ ॥ आत्मन्येव न मात्यन्तः स्वात्मनात्मनि जृम्भते । सम्पूर्णापारपर्यन्तः क्षीरार्णव इवात्मवान् ॥ ंो_४,२३.४८ ॥ न माति । आनन्दनिर्भरत्वात्स्वात्मनात्मनि जृम्भते । नान्तः कञ्चिदन्यं पश्यतीति भावः । सम्पूर्णश्चासौ अपारपर्यन्तश्च सम्पूर्णापारपर्यन्तः ॥ ंोट्_४,२३.४८ ॥ भोगेच्छाकृपणाञ्जन्तून् दीनान् दीनेन्द्रियाणि च । अनुन्मत्तमनाः शान्तो हसत्युन्मत्तकानिव ॥ ंो_४,२३.४९ ॥ तदासक्तौ तु का कथेति भावः ॥ ंोट्_४,२३.४९ ॥ इच्छतोऽन्यनिजां जायां यथैवान्येन हस्यते । इन्द्रियस्येच्छतो भोगं तथैव ज्ञेन हस्यते ॥ ंो_४,२३.५० ॥ यथा अन्यस्य निजामन्यनिजाम् । तादृशीं भाविनीं भार्यामिच्छतः । अन्यार्थं भार्यामिच्छत इति यावत् । पुरुषस्य । यथा अन्येन हस्यते हासः क्रियते । तथैव इन्द्रियस्य भोगमिच्छतः अज्ञस्य । ज्ञेन हस्यते ॥ ंोट्_४,२३.५० ॥ त्यजन्तं स्वसुखं साम्यं मनो विषयविद्रुतम् । अङ्कुशेनेव नागेन्द्रं विचारेण वशं नयेत् ॥ ंो_४,२३.५१ ॥ साम्यं स्वसुखं साम्याख्यमात्मानन्दम् । विचारेण किंसारा इमे भोगा इत्येवंरूपेण ॥ ंोट्_४,२३.५१ ॥ भोगेषु प्रसरो यस्या मनोवृत्तेः प्रदीयते । साप्यादावेव हन्तव्या विषस्येवाङ्कुरोद्गतिः ॥ ंो_४,२३.५२ ॥ सा मनोवृत्तिः । आदौ प्रसरदानात्प्राक् । यस्याः तु न दीयते तस्याः का कथेत्यपिशब्दाभिप्रायः ॥ ंोट्_४,२३.५२ ॥ ननु प्रथमं हतायाः पश्चात्प्रसरदाने किं फलमित्य् । अत्राह ताडितस्य हि यः पश्चात्सम्मानः सोऽप्यनन्तकः । शालेर्ग्रीष्मोपतप्तस्य कुसेकोऽप्यमृतायते ॥ ंो_४,२३.५३ ॥ सम्मानः आदरः । प्रसरदानमिति यावत् ॥ ंोट्_४,२३.५३ ॥ ननु कथमेतदित्य् । अत्राह अनार्तेन हि सम्मानो बहुमानो न बुध्यते । पूर्णानां सरितां प्रावृट्पूरः स्वल्पं विराजते ॥ ंो_४,२३.५४ ॥ हि यस्मात् । अनार्तेनादृष्टपीडनेन । सम्मानः बहुमानः न बुध्यते न ज्ञायते । एतद्दृष्टान्तेन समर्थयति पूर्णानामिति । पूर्णानां सरितां प्रावृट्पूरः स्वल्पं तोकम् । विराजते । जनमनआह्लादकारित्वाभावादित्यर्थः । जनमनो हि क्षीणानां नदीनां प्रावृट्पूरदर्शनेन सानन्दं भवति ॥ ंोट्_४,२३.५४ ॥ पूर्णस्तूपकृतोऽप्यन्यत्पुनरप्यभिवाञ्छति । जगत्पूरणयाप्यम्बु गृह्णात्येकार्णवोऽखिलम् ॥ ंो_४,२३.५५ ॥ जगत्पूरणया युक्तोऽपीति शेषः ॥ ंोट्_४,२३.५५ ॥ मनसो निगृहीतस्य या पश्चाद्भागमण्डना । तामेवालब्धविस्तारलब्धत्वाद्बहु मन्यते ॥ ंो_४,२३.५६ ॥ भागमण्डना लेशेन पूरणा । तामेव भागमण्डनामेव । अलब्धविस्तारश्चासौ लब्धश्च अलब्धविस्तारलब्धः । तस्य भावः तत्त्वम् । तस्मात् । अलब्धविस्तारः लब्धः हि स्वल्पमपि बहु मन्यते ॥ ंोट्_४,२३.५६ ॥ बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति । परैरबद्धो नाक्रान्तो राज्येनापि न तुष्यति ॥ ंो_४,२३.५७ ॥ आदौ बद्धः पश्चान्मुक्तः बद्धमुक्तः । तथा निगृहीतं मनः भोगलेशेनैव तुष्यतीति भावः ॥ ंोट्_४,२३.५७ ॥ इन्द्रियनिग्रहद्वारेण मनोनिग्रहस्य साध्यत्वादिन्द्रियनिग्रहमेव कथयति हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान् विचूर्ण्य च । अङ्गान्यङ्गैरिवाक्रम्य जय स्वेन्द्रियशात्रवान् ॥ ंो_४,२३.५८ ॥ विषयेषु प्रवृत्तानि इन्द्रियाणि सम्यग्ज्ञानबलेन प्रत्याहरणीयानीति भावः ॥ ंोट्_४,२३.५८ ॥ जेतुमन्यं कृतोत्साहैः पुरुषैरुद्बुभूषुभिः । पूर्वं हृदयशत्रुत्वाज्ज्ञातव्यानीन्द्रियाण्यलम् ॥ ंो_४,२३.५९ ॥ अन्यं राजादिरूपम् । उद्भवितुमिच्छुभिः उद्बुभूषुभिः । ज्ञातव्यानि शत्रुत्वेनेति शेषः । हृदयशत्रुत्वं चेन्द्रियाणां भोगान् प्रत्याकर्षणकारित्वेन ज्ञेयम् ॥ ंोट्_४,२३.५९ ॥ मनोजययुक्तानां प्रशंसां करोति एतावति धरणितले सुभगास्ते साधुचेतनाः पुरुषाः । पुरुषकथासु च गण्या न जिता ये न चेतसा स्वेन ॥ ंो_४,२३.६० ॥ स्पष्टम् ॥ ंोट्_४,२३.६० ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति हृदयबिले कृतकुण्डल उल्बणकलनाविषो मनोभुजगः । यस्योपशान्तिमागत उदितं तमरिन्दमं वन्दे ॥ ंो_४,२३.६१ ॥ स एव सर्वोत्कृष्ट इति भावः । इति शिवम् ॥ ंोट्_४,२३.६१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे त्रयोविंशः सर्गः ॥२३॥ ********************************************************************* ननु तर्हीन्द्रियजये कः क्लेश इत्य् । अत्राह महानरकसम्राजो मत्तदुष्कृतवारणाः । आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ॥ ंो_४,२४.१ ॥ मत्तदुष्कृतान्येव वारणा येषाम् । ते । आशा एव शरशलाकाः येषाम् । तादृशाः । सम्राजः अपि वारणयुक्ताः शरयुक्ताश्च भवन्ति ॥ ंोट्_४,२४.१ ॥ स्वाश्रयं प्रथमं देहं कृतघ्ना नाशयन्ति ये । ते कुकार्यमहाकोशा दुर्जयाः स्वेन्द्रियारयः ॥ ंो_४,२४.२ ॥ नाशयन्ति असम्भविनो भोगान् प्रति चेष्टां कारयन्ति ॥ ंोट्_४,२४.२ ॥ कलेवरालयं प्राप्य विषयामिषगर्धतः । अक्षगृध्रा विवल्गन्ति कार्याकार्योग्रपक्षिणः ॥ ंो_४,२४.३ ॥ कार्याकार्ये एव उग्रौ पक्षौ येषाम् । ते । तादृशाः ॥ ंोट्_४,२४.३ ॥ विवेकतन्तुजालेन गृहीता येन ते शठाः । तस्याङ्गानि न लुम्पन्ति पाषाणकवलं यथा ॥ ंो_४,२४.४ ॥ ते अक्षगृध्राः । गृध्रा हि पाषाणकवलं न लुम्पन्ति ॥ ंोट्_४,२४.४ ॥ आपातरमणीयेषु रमन्ते विषयेषु ये । अत्यन्तविरसान्तेषु पतन्ति नरकेषु ते ॥ ंो_४,२४.५ ॥ अत्यन्तं विरसः अन्तः येषाम् । तेषु । विषयेष्वित्यस्य विशेषणमेतत् ॥ ंोट्_४,२४.५ ॥ विवेकधनवानस्मिन् कुकलेवरपत्तने । इन्द्रियारिभिरन्तःस्थैरवशो नाभिभूयते ॥ ंो_४,२४.६ ॥ अस्मिननुभूयमाने । कुकलेवरे निन्दिते शरीरे । बलवान् हि अरिभिः नावशोऽभिभूयते ॥ ंोट्_४,२४.६ ॥ न तथा सुखिता भूयो मृण्मयोग्रपुरीजुषः । यथा स्वाधीनमनसः स्वशरीरपुरीश्वराः ॥ ंो_४,२४.७ ॥ मृण्मयोग्रपुरीजुषः बाह्यनगरीराजानः । स्वाधीनमनस इति विशेषणद्वारेण हेतुः ॥ ंोट्_४,२४.७ ॥ स्वाक्रान्तेन्द्रियभृत्यस्य सुगृहीतमनोरिपोः । वसन्त इव मञ्जर्यो वर्धन्ते बुद्धबुद्धयः ॥ ंो_४,२४.८ ॥ बुद्धानां ज्ञानिनाम् । बुद्धयः । बुद्धबुद्धयः ॥ ंोट्_४,२४.८ ॥ प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः । पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ॥ ंो_४,२४.९ ॥ भोगवासनाः भोगसंस्काराः ॥ ंोट्_४,२४.९ ॥ तावन्निशीव वेताल्यो वल्गन्ति हृदि वासनाः । एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ंो_४,२४.१० ॥ विजिते तु मनसि न वल्गन्तीति भावः । एकतत्त्वं सर्वव्यापकं शुद्धचिन्मात्रतत्त्वम् ॥ ंोट्_४,२४.१० ॥ भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात् । सामन्तः स्वेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥ ंो_४,२४.११ ॥ सामन्तः शत्रुजये अधिकृतः ॥ ंोट्_४,२४.११ ॥ लालनात्स्निग्धललना पालनात्पावनः पिता । सुहृदुत्तमविश्वासान्मनो मन्ये मनीषिणाम् ॥ ंो_४,२४.१२ ॥ लालनात्लालनाकारित्वात् । स्निग्धललना स्नेहयुक्ता चासौ । ललना स्त्री ॥ ंोट्_४,२४.१२ ॥ स्वालोकितं शास्त्रदृशा सुध्यातं स्वनुनाथितम् । प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥ ंो_४,२४.१३ ॥ सुष्ठुरनुनाथितं याचितम् । आत्मानं त्यक्त्वा नाशयित्वा । मनो हि स्वात्मानं नाशयित्वैव हितं सम्पादयति । पितापि पुत्रस्य स्वप्राणत्यागेन हितं करोतीति तस्योपमानत्वम् ॥ ंोट्_४,२४.१३ ॥ सुघृष्टः सुपरामृष्टः सुधृतः स्वनुबोधितः । सुगुणायोजितो भाति हृदि हृद्यो मनोमणिः ॥ ंो_४,२४.१४ ॥ मणिपक्षे स्वनुबोधितः सम्यक्परीक्षितः । सुगुणेषु प्रशस्तेषु गुणेषु तन्तुषु च । आ समन्तात् । योजितः ॥ ंोट्_४,२४.१४ ॥ जन्मवृक्षकुठाराणि तथोदर्कोदयानि च । दिशत्येष मनोमन्त्री कर्माणि शुभकर्मणः ॥ ंो_४,२४.१५ ॥ उदर्कः उत्तरफलभूतः । उदयः येषाम् । तानि । शुभकर्मणः शुभकर्मकारिणः पुरुषस्य ॥ ंोट्_४,२४.१५ ॥ फलितमाह एवं मनोमणिं राम बहुपङ्ककलङ्कितम् । विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान् भव ॥ ंो_४,२४.१६ ॥ सिद्ध्यै चिन्मात्रस्वरूपपरमात्मतत्त्वलाभाख्यायै सिद्ध्यै । आलोकवान् प्रकाशवान् । मणिप्रक्षालकोऽपि तमसि आलोकवान् भवति । रत्नालोकस्य विद्यमानत्वात् ॥ ंोट्_४,२४.१६ ॥ भवभूमिषु भीमासु विवेकविततोऽपि सन् । मा पतोत्पातपूर्णासु विवशः प्राकृतो यथा ॥ ंो_४,२४.१७ ॥ भीमासु भयप्रदासु । मा पत मा गच्छ । विवेकवानप्यहं यदि गच्छाम्यपि । किं मम सेत्स्यतीति निश्चयेऽपि मा गच्छेति द्योतयितुमपिशब्दः । प्राकृतः विवेकरहितः । पतने तु त्वमपि विवेकवान्नासीति भावः ॥ ंोट्_४,२४.१७ ॥ संसारमायामुदितामनर्थशतसङ्कुलाम् । मा महामोहमिहिकामिमां त्वमवधीरय ॥ ंो_४,२४.१८ ॥ मावधीरय किं मामियं करोतीत्यवगणनाविषयं मा कुरु ॥ ंोट्_४,२४.१८ ॥ विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च । इन्द्रियारीनलं जित्वा तीर्णो भव भवा[र्णवात्] ॥ ंो_४,२४.१९ ॥ *** ********************************************************************* *** विशेषणद्वयेऽपि हेतुत्वेन ज्ञेयम् ॥ ंोट्_४,२५.१२ ॥ रत्नयन्त्रमयानन्तदैत्यनिर्जितवासवः । हिमशीतानलज्वालानिर्मितोद्यानमण्डपः ॥ ंो_४,२५.१३ ॥ रत्नयन्त्रमयाः मायोद्भाविताः रत्नयन्त्रस्वरूपाः । येऽनन्ता दैत्याः । तैः निर्जितः वासवः । येन । सः ॥ ंोट्_४,२५.१३ ॥ सर्वर्तुकुसुमोद्यानजितनन्दनचन्दनः । मायासर्पहृतव्यालमलयाचलचन्दनः ॥ ंो_४,२५.१४ ॥ मायासर्पैः हृतव्यालानि दूरीकृतसहजसर्पाणि । मलयाचलचन्दनानि यस्य । सः ॥ ंोट्_४,२५.१४ ॥ हेमस्त्रीलोकलावण्यजिह्मितान्तःपुराङ्गनः । क्रीडार्थस्पर्धयेशानहतचक्रगदाधरः ॥ ंो_४,२५.१५ ॥ हेमस्त्रीलोकेन मायोद्भावितेन सुवर्णाङ्गनालोकेन । लावण्येन जिह्मिताः जिताः । अन्तःपुराङ्गनाः यस्य । सः । क्रीडार्थं मायया उद्भाविता स्पर्धा क्रीडार्थस्पर्धा । तया । ईशानेन महारुद्रेण । हतः चक्रगदाधरः विष्णुः यस्य । सः ॥ ंोट्_४,२५.१५ ॥ अजस्रोड्डीनरत्नौघताराढ्यस्वपुराम्बरः । नानाकुसुमसम्भारजानुदघ्नकृताङ्गनः ॥ ंो_४,२५.१६ ॥ स्पष्टम् ॥ ंोट्_४,२५.१६ ॥ निशास्वखिलपातालशतचन्द्रनभस्तलः । स्वसालभञ्जिकालोकगीतिगीतगुणोत्करः ॥ ंो_४,२५.१७ ॥ स्पष्टम् ॥ ंोट्_४,२५.१७ ॥ मायैरावणनागेन्द्रविद्रुतामरवारणः । त्रैलोक्यविभवोत्कर्षपूरितान्तःपुरान्तरः ॥ ंो_४,२५.१८ ॥ स्पष्टम् ॥ ंोट्_४,२५.१८ ॥ सर्वसम्पत्तिसुभगः सर्वैश्वर्यसमन्वितः । समस्तदैत्यसामन्तवन्दिताग्र्यानुशासनः ॥ ंो_४,२५.१९ ॥ स्पष्टम् ॥ ंोट्_४,२५.१९ ॥ महाभुजवनच्छायाविश्रान्तासुरमण्डलः । सर्वाम्बुधिगुहासाररत्नकुण्डलमण्डितः ॥ ंो_४,२५.२० ॥ सर्वाम्बुधयः एव गुहाः । तासां साराणि यानि रत्नानि । तेषां कुण्डलानि । तैर्मण्डितः ॥ ंोट्_४,२५.२० ॥ तस्योत्सादितदेवस्य कठिनोड्डामराकृतेः । बभूव विपुलं सैन्यमासुरं सुरनाशनम् ॥ ंो_४,२५.२१ ॥ उत्सादिताः खेदं नीताः देवाः येन । तादृशस्य ॥ ंोट्_४,२५.२१ ॥ तस्मिन्मायाबले सुप्ते देशान्तरगते तथा । तत्सैन्यान्तरमाजग्मुश्छिद्रं प्राप्य किलामराः ॥ ंो_४,२५.२२ ॥ तस्य शम्बरस्य । यत्सैन्यम् । तस्यान्तरं मध्यम् । छिद्रमवसरम् । प्राप्य । अन्यथा तेषां शक्तिर्नाभूदिति भावः ॥ ंोट्_४,२५.२२ ॥ अथ शम्बरदैत्येन दुद्रिकह्वद्रुमादयः । रक्षार्थं मत्तसामन्ताः स्वसेनासु नियोजिताः ॥ ंो_४,२५.२३ ॥ नियोजिताः प्रेरिताः ॥ ंोट्_४,२५.२३ ॥ तानप्यन्तरमासाद्य जघ्नुर्गीर्वाणनायकाः । व्योमान्तरचराः श्येनाः कलविङ्कानिवाकुलान् ॥ ंो_४,२५.२४ ॥ तानपि दुद्रिकह्वद्रुमादीनपि । अन्तरमासाद्यावकाशं लब्ध्वा । जघ्नुः घ्नन्ति स्म ॥ ंोट्_४,२५.२४ ॥ सेनापतीन् पुनश्चान्यांश्चकारासुरसत्तमः । चपलानुद्भटारावांस्तरङ्गानिव सागरः ॥ ंो_४,२५.२५ ॥ स्पष्टम् ॥ ंोट्_४,२५.२५ ॥ देवास्तानपि तस्याशु जघ्नुस्तेन स कोपवान् । जगामामरनाशाय परिपूर्णस्त्रिविष्टपम् ॥ ंो_४,२५.२६ ॥ परिपूर्णः महासैन्ययुक्तः ॥ ंोट्_४,२५.२६ ॥ तत्रास्य मायाभीतास्ते सुरा अन्तर्धिमाययुः । मेरुकाननकुञ्जेषु मृगा गौरीगुरोरिव ॥ ंो_४,२५.२७ ॥ कुञ्जेष्विति निष्कृष्य गौरीगुरोरित्यनेन सम्बन्धनीयम् ॥ ंोट्_४,२५.२७ ॥ क्रन्दत्क्षुद्रामरगणं वाष्पक्लिन्नसुरीमुखम् । शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम् ॥ ंो_४,२५.२८ ॥ सः शम्बरः ॥ ंोट्_४,२५.२८ ॥ विहृत्य कुपितस्तत्र लब्धमाहृत्य शम्बरः । लोकपालपुरीर्दग्ध्वा जगामात्मीयमालयम् ॥ ंो_४,२५.२९ ॥ लब्धं हस्तागतं रत्नजातम् ॥ ंोट्_४,२५.२९ ॥ एवं दृढतरीभूते द्वेषे दानवदेवयोः । देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम् ॥ ंो_४,२५.३० ॥ द्वेषे वैरे ॥ ंोट्_४,२५.३० ॥ अथ शम्बरदैत्येन ये ये सेनाधिनायकाः । क्रियन्ते यत्नतस्तांस्ताञ्जघ्नुर्यत्नपराः सुराः ॥ ंो_४,२५.३१ ॥ स्पष्टम् ॥ ंोट्_४,२५.३१ ॥ यावदुद्वेगमापन्नः शम्बरः कोपवान् भृशम् । तार्णोऽभि वातमनल इव जज्वाल चोच्छ्वसन् ॥ ंो_४,२५.३२ ॥ क इव जज्वाल । तार्णः तृणोद्भूतः । अनल इव । यथा सः वातमभि ज्वलति । तथेत्यर्थः ॥ ंोट्_४,२५.३२ ॥ त्रैलोक्यमपि चान्विष्य न देवांल्लब्धवानथ । परेणापि प्रयत्नेन सुकृतानीव दुष्कृती ॥ ंो_४,२५.३३ ॥ स्पष्टम् ॥ ंोट्_४,२५.३३ ॥ ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान् । बलरक्षार्थमुदितान् कालान्मूर्तिमिवास्थितान् ॥ ंो_४,२५.३४ ॥ कालान् यमान् ॥ ंोट्_४,२५.३४ ॥ निर्मिता मायया भीमाः कल्पपादपबाहवः । उदगुस्ते महाकायाः पक्षक्षुब्धा इवाद्रयः ॥ ंो_४,२५.३५ ॥ उदगुः उत्थिताः ॥ ंोट्_४,२५.३५ ॥ दामो व्यालः कटश्चेति नामभिः परिलाञ्छिताः । यथाप्राप्तैककर्तारश्चेतनामात्रधर्मिणः ॥ ंो_४,२५.३६ ॥ यथाप्राप्तैककर्तारः निरनुसन्धाना इत्यर्थः ॥ ंोट्_४,२५.३६ ॥ तानेव विशिनष्टि अभावात्कर्मणां ते च प्राक्तनानामवासनाः । निर्विकल्पकचिन्मात्रपरिस्पन्दैककर्मिणः ॥ ंो_४,२५.३७ ॥ ते च त्रय आसन् कथम्भूताः । सद्यः उत्थितत्वेन प्राक्तनानां कर्मणामभावातवासनाः वासनारहिताः । पुनः कथम्भूताः । निर्विकल्पकं विकल्परहितम् । यत्चिन्मात्रम् । तस्य यः परिस्पन्दः । तद्रूपमेकं कर्म एषामस्तीति तादृशाः । निर्विकल्पचेष्टा इत्यर्थः ॥ ंोट्_४,२५.३७ ॥ कर्मबीजं कलां तन्वीं दधाना मननाभिधाम् । अपुष्टां कृत्रिमामन्तरादायोदयमागताः ॥ ंो_४,२५.३८ ॥ पुनः कथम्भूताः । कर्मबीजं कर्मबीजभूताम् । तन्वीमल्पाम् । मननाभिधां कलां दधानाः । अत एव अपुष्टां कृत्रिमामाहार्याम् । तां मननाभिधां कलामादाय । उदयं प्रादुर्भावम् । आगताः । अन्यथा ब्रह्मणः उत्थानं न स्यादिति भावः ॥ ंोट्_४,२५.३८ ॥ पारम्पर्येण ते ह्यत्र काकतालीयवद्भटाः । प्रकृतामनुवर्तन्ते क्रियामुज्झितवासनाः ॥ ंो_४,२५.३९ ॥ पारम्पर्येण परम्परापेक्षया । न तु प्रयोजनमनुसन्धाय ॥ ंोट्_४,२५.३९ ॥ अर्धसुप्ता यथा बालाः स्वाङ्गैरिङ्गन्ति केवलम् । वासनात्माभिमानाभ्यां हीनास्ते तद्वदेव हि ॥ ंो_४,२५.४० ॥ वासना चात्माभिमानं च । ताभ्याम् ॥ ंोट्_४,२५.४० ॥ नाभिपातं न चापातं विदुस्ते न पलायनम् । न जीवितं न मरणं न रणं च जयाजयौ ॥ ंो_४,२५.४१ ॥ अभिमुखं पातः अभिपातः । तम् । आपतनमापातः ॥ ंोट्_४,२५.४१ ॥ केवलं सैनिकानग्रे दृष्ट्वाभिहननोद्यतान् । अभिजघ्नुः परानाजौ प्रहारदलिताद्रयः ॥ ंो_४,२५.४२ ॥ परान् शत्रुभूतान् ॥ ंोट्_४,२५.४२ ॥ शम्बरश्चिन्तयामास परितुष्टमनाः पुरे । विजेष्यते हि मत्सेना मायासुरसुरक्षिता ॥ ंो_४,२५.४३ ॥ किं चिन्तयामासेत्य् । अत्राह विजेष्यते इति । मायया उत्पादिताः असुराः मायासुराः । तैः सुरक्षिता मत्सेना । हि निश्चये । विजेष्यते विजयं प्राप्स्यति ॥ ंोट्_४,२५.४३ ॥ इष्टानिष्टाभिरेते हि वासनाभिः समुज्झिताः । ततो रणे बिभ्यति नो विद्रवन्ति च न स्थिराः ॥ ंो_४,२५.४४ ॥ इष्टानिष्टवासनायुक्त एव हि शत्रुं बलयुक्तं ज्ञात्वा बिभेति विद्रवति चेति भावः ॥ ंोट्_४,२५.४४ ॥ यदेते न पलायन्ते देवैरभिहता अपि । तदेषातिबला सेना ममेदानीं व्यवस्थिता ॥ ंो_४,२५.४५ ॥ विशेषेणावस्थिता व्यवस्थिता ॥ ंोट्_४,२५.४५ ॥ सर्गान्तश्लोकेन शम्बरचिन्तां समापयति अतिबलासुरदोर्द्रुमपालिता मम चमूः स्थिरतामलमेष्यति । अमरवारणदन्तविघट्टनेष्व् अमरपर्वतहेममही यथा ॥ ंो_४,२५.४६ ॥ अमरपर्वतस्य सुमेरोः । हेममही सुवर्णभूमिः । इति शिवम् ॥ ंोट्_४,२५.४६ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे पञ्चविंशः सर्गः ॥२५॥ ********************************************************************* शम्बरचिन्तामुपसंहरति इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम् । सेनां सम्प्रेषयामास भूतलं देवनाशिनीम् ॥ ंो_४,२६.१ ॥ स्पष्टम् ॥ ंोट्_४,२६.१ ॥ दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् । उदगुर्भीमनिर्ह्रादाः सपक्षगिरिलीलया ॥ ंो_४,२६.२ ॥ उदगुः उत्थिताः । सपक्षाः पक्षयुक्ताः । ये गिरयः । तेषां या लीला । तया ॥ ंोट्_४,२६.२ ॥ रोदसीकोटरं हस्तप्रहारहतभास्करम् । दानवाः पूरयामासुर्दामव्यालकटेरिताः ॥ ंो_४,२६.३ ॥ दामव्यालकटेरिताः दामव्यालकटप्रेरिताः ॥ ंोट्_४,२६.३ ॥ अथोत्तस्थुर्निकुञ्जेभ्यः कन्दरेभ्यः सुराचलात् । प्रलयान्त इवाक्षुब्धा भीताः स्वर्वासिनां गणाः ॥ ंो_४,२६.४ ॥ आ समन्तात्क्षुब्धाः आक्षुब्धाः । स्वर्वासिनां देवानाम् ॥ ंोट्_४,२६.४ ॥ देवासुरपताकिन्योस्तद्युद्धमभवत्तयोः । अकालोल्बणकल्पान्तभीषणं भुवनान्तरे ॥ ंो_४,२६.५ ॥ तत्प्रसिद्धम् ॥ ंोट्_४,२६.५ ॥ पेतुः प्रलयपर्यस्तसचन्द्रार्काद्रिवद्दिवः । शिरांसि कुण्डलोद्वान्ततेजःपीततमांस्यधः ॥ ंो_४,२६.६ ॥ प्रलये पर्यस्ताः वातेरिताः । ये सचन्द्रार्काः अद्रयः । तद्वत् । शिरांसि दिवः आकाशात् । अधः भूमौ । पेतुः । शिरांसि कथम्भूतानि । कुण्डलैः उद्वान्तमुद्वमितम् । यत्तेजः । तेन पीतं तमः । यैः । तानि ॥ ंोट्_४,२६.६ ॥ जुघूर्णुर्भटनिर्मुक्तसिंहनादविराविताः । प्रलयानिलसम्पूरैः साट्टहासा इवाद्रयः ॥ ंो_४,२६.७ ॥ अट्टहासयुक्ता अपि घूर्णन्ति ॥ ंोट्_४,२६.७ ॥ रेजुरात्मशिलातुल्यहेतिपातार्तवृत्तयः । कुलाचलतटा भीतविभ्रान्तहरिमण्डलाः ॥ ंो_४,२६.८ ॥ कुलाचलतटाः रेजुः । कथम्भूताः । आत्मनः आत्मसम्बन्धिन्यः । या शिलाः । ताभिः तुल्याः । या हेतयः । तासां यः पातः । तेनार्ता दीना । वृत्तिः स्थितिः येषाम् । तादृशाः । पुनः कथम्भूताः । भीतानि अत एव विभ्रान्तानि हरिमण्डलानि सिंहमण्डलानि येषाम् । ते ॥ ंोट्_४,२६.८ ॥ चेरुः परस्पराघातहतहेतिसमुत्थिताः । लोलानलकणाः कल्पविशीर्णा इव तारकाः ॥ ंो_४,२६.९ ॥ स्पष्टम् ॥ ंोट्_४,२६.९ ॥ विलेसू रक्तमांसौघपूर्णैकार्णवतीरगाः । कल्पतालतनूत्ताला वेतालास्तारतालिनः ॥ ंो_४,२६.१० ॥ विलेसुः विलसन्ति स्म । वेतालाः भूतविशेषाः । तारतालिनः उद्भटवाद्ययुक्ताः ॥ ंोट्_४,२६.१० ॥ प्रस्फुरद्रुधिरासारशान्तपांसुपयोधरे । व्योम्नि हेतिहतक्षुण्णमौलिकुण्डलकोटयः ॥ ंो_४,२६.११ ॥ हेतिहतानां योधानाम् । क्षुण्णा निपतितानि । यानि मौलिकुण्डलानि । तेषां कोटयः व्योम्नि । विलेसुरिति पूर्वेण सम्बन्धः ॥ ंोट्_४,२६.११ ॥ बभूवुर्भास्कराकारैः कल्पभूरुहबाहुभिः । प्रहारदलिताद्रीन्द्रैर्दैत्यैर्निर्विवरा दिशः ॥ ंो_४,२६.१२ ॥ निर्विवराः नीरन्ध्राः ॥ ंोट्_४,२६.१२ ॥ जग्मुर्ज्वलदसिव्रातपातपातितभित्तयः । कणप्रकरतां शैलाः कल्पाग्निवलिता इव ॥ ंो_४,२६.१३ ॥ कल्पाग्निवलिताः कल्पाग्निभ्रमिताः ॥ ंोट्_४,२६.१३ ॥ देवाः तेजः समाजग्मुरश्वमेधैधिता इव । असुराननुसस्रुस्ताञ्जलदानिव वायवः ॥ ंो_४,२६.१४ ॥ स्पष्टम् ॥ ंोट्_४,२६.१४ ॥ जगृहुस्तानथाक्रम्य जरदाखूनिवोतवः । रेजुः सुरासुराः फुल्लवनलोलाद्रिवद्दिवि ॥ ंो_४,२६.१५ ॥ देवाः तानसुरान् । जगृहुः इति सम्बन्धः । ओतवः विडालाः ॥ ंोट्_४,२६.१५ ॥ तेऽन्योऽन्यं पूरयामासुः शस्त्रपूरैर्दिशो दश । वनानि कुसुमव्रातैः सुमेरोरिव मारुताः ॥ ंो_४,२६.१६ ॥ स्पष्टम् ॥ ंोट्_४,२६.१६ ॥ घोरं समभवद्युद्धं देवदानवसैन्ययोः । रोदोरन्ध्रोडुम्बरान्तर्महामषकसङ्घयोः ॥ ंो_४,२६.१७ ॥ रोदोरन्ध्र एव द्यावापृथिवीरन्ध्र एव उडुम्बरान्तः उडुम्बरफलमध्यम् । तत्र महामषकसङ्घयोः महामषकसमूहयोः । उडुम्बरान्तः हि मषकाः भवन्ति ॥ ंोट्_४,२६.१७ ॥ अथोदपतदुल्लासैर्लोकपालेभमण्डलैः । कल्पाभ्रैः पूरिताकारो दारुणः समरारवः ॥ ंो_४,२६.१८ ॥ उल्लासैः ऊर्ध्वगतहस्तैः । कल्पाभ्रैः कल्पाभ्रतुल्यैः । उदपततुत्थितः ॥ ंोट्_४,२६.१८ ॥ समरारवं विस्तरेण विशिनष्टि पिण्डग्रहेण नभसि भूभाग इव कुट्टिमम् । मुष्टिग्राह्यो महामेघमन्थरोदरपीवरः ॥ ंो_४,२६.१९ ॥ समरारवः कथम्भूतः । नभसि पिण्डग्रहेण मुष्टिग्राह्यः । किमिव । कुट्टिममिव । यथा कुट्टिमं भूभागे पिण्डग्रहेण मुष्टिग्राह्यं भवति । तथेत्यर्थः ॥ ंोट्_४,२६.१९ ॥ प्रथमापातसम्पिष्टशस्त्रशैलरटत्तटः । स्फुटद्धृदयनिःसत्त्वकर्कशाक्रन्दघर्घरः ॥ ंो_४,२६.२० ॥ प्रथमापात एव सम्पिष्टाः ये शस्त्रभूताः शैलाः । तैः रटन्तः तटाः यस्य । सः । स्फुटद्धृदयाः ये निःसत्त्वाः धैर्यरहिताः । तेषां यः कर्कशाक्रन्दः । तेन घर्घरः घर्घरशब्दयुक्तः ॥ ंोट्_४,२६.२० ॥ प्रलयप्रत्ययोल्लासिकल्पाभ्रारवबृंहणः । द्वादशादित्यसङ्घट्टद्रवत्काञ्चनसन्निभः ॥ ंो_४,२६.२१ ॥ प्रलयप्रत्यये प्रलयसमये । उल्लासी यः कल्पाभ्रारवः । तद्वत्बृंहणं यस्य । सः । द्वादशादित्यानां यः सङ्घट्टः कल्पान्ते अन्योऽन्यं सङ्घट्टनम् । तेन द्रवत्यत्काञ्चनम् । तेन सन्निभः । अविच्छिन्नप्रवाहत्वेन तुल्य इत्यर्थः ॥ ंोट्_४,२६.२१ ॥ ब्रह्माण्डकुड्यसङ्घट्टात्परावृत्यावनिं गतः । महास्रोतःपयःपूरः सेत्वाहत इवाकरम् ॥ ंो_४,२६.२२ ॥ पुनः कथम्भूतः । ब्रह्माण्डकुड्यसङ्घट्टात्परावृत्य अवनिं गतः । क इव । महास्रोतःपयःपूर इव । यथा सः सेत्वाहतः सनाकरमुत्पत्तिस्थानं गच्छति । तथेत्यर्थः ॥ ंोट्_४,२६.२२ ॥ चलत्सपक्षशैलेन्द्रपक्षवातबलध्वनिः । कठिनापूरणोड्डीनस्फुटशैलेन्द्रकन्धरः ॥ ंो_४,२६.२३ ॥ चलन्तः ये सपक्षाः शैलेन्द्राः । तेषां यः पक्षवातः । तेन यः बलध्वनिः बलयुक्तः शब्दः । तद्रूपः । कठिनैः काठिन्ययुक्तैरायुधैर् । आपूरणेन उड्डीनाः स्फुटं शैलेन्द्रकन्धराः यस्य । सः ॥ ंोट्_४,२६.२३ ॥ मन्दरोद्धूतदुग्धाब्धिसङ्क्षोभसदृशांशकः । प्रतिश्रुद्घुङ्घुमास्फोटघटितद्वीपजन्तुभूः ॥ ंो_४,२६.२४ ॥ मन्दरोद्धूतश्चासौ दुग्धाब्धिः च । तस्य यः सङ्क्षोभः । तेन सदृशाः अंशाः भागाः यस्य । सः । प्रतिश्रुद्रूपो यः घुङ्घुमशब्दानुवेधः । तेन घटिताः मेलिताः । द्वीपाश्च जन्तुभुवश्च । येन । सः ॥ ंोट्_४,२६.२४ ॥ सेनयोः क्रुद्धयोरासीद्युद्धमुद्धतदानवम् । निष्पिष्टनगरग्रामगिरिकाननमानवम् ॥ ंो_४,२६.२५ ॥ तयोः सेनयोः युद्धमासीत् । कथम्भूतमित्यपेक्षायां युद्धं विस्तरेण विशिनष्टि उद्धतेत्यादि ॥ ंोट्_४,२६.२५ ॥ महाहेतिशतच्छिन्नदानवाचलपूर्णदिक् । अन्योऽन्यहतहेत्यद्रिचूर्णपूर्णाम्बरोदरम् ॥ ंो_४,२६.२६ ॥ महाहेतीनां यानि शतानि । तैः छिन्नाः ये दानवाचलाः । तैः पूर्णाः दिशः यस्य । तत् ॥ ंोट्_४,२६.२६ ॥ भुसुण्डीमण्डलास्फोटस्फुटन्मेरुशिरःशतम् । शरमारुतनिर्लूनदैत्यदेवासुराम्बुजम् ॥ ंो_४,२६.२७ ॥ आस्फोटः ताडनम् । शरेति । मारुतेन च अम्बुजानि लूयन्ते ॥ ंोट्_४,२६.२७ ॥ चक्रावर्तशतभ्रान्तदेवदैत्यजरत्तृणम् । सेनाप्रवाहकल्लोलवलनावलिताम्बरम् ॥ ंो_४,२६.२८ ॥ चक्राणामायुधविशेषाणाम् । ये आवर्ताः भ्रमणानि । तेषां यानि शतानि । तेषु भ्रान्ताः चक्रभ्रमयुक्ताः । देवदैत्या एव जरत्तृणं यत्र । तत् । सेनाप्रवाहानां ये कल्लोलाः व्यूहरूपाः कल्लोलाः । तेषां या वलनाः वल्गनाः । ताभिः वलितं वृत्तम् । अम्बरं यस्य । तत् ॥ ंोट्_४,२६.२८ ॥ हेत्यद्रिपातनिष्पिष्टपतद्वैमानिकव्रजम् । हस्तानीताब्धिवार्योघप्लावितव्योमपत्तनम् ॥ ंो_४,२६.२९ ॥ प्लावितमीरितम् ॥ ंोट्_४,२६.२९ ॥ वहन्महास्त्रावर्तासिशूलशक्तिनदीशतम् । शैलपक्षोद्भटास्फोटजडब्रह्माण्डमण्डलम् ॥ ंो_४,२६.३० ॥ महास्त्राण्येव चक्राण्येवावर्ताः येषाम् । तानि महास्त्रावर्तानि । वहन्ति महास्त्रावर्तानि असिशूलशक्तिनदीशतानि यस्मिन् । तत् । आस्फोटः सशब्दं ताडनम् । तेन जडं शब्दश्रवणशक्तिरहितम् ॥ ंोट्_४,२६.३० ॥ दैत्यपार्ष्णिप्रहारौघपतल्लोकेशपत्तनम् । नारीहलहलारावरवत्कनकमन्दिरम् ॥ ंो_४,२६.३१ ॥ हलहलेति शब्दानुकरणम् ॥ ंोट्_४,२६.३१ ॥ लुठद्दैत्याचलोद्धूतमत्तार्णवजलाद्रिभिः । धौतरक्तनभो योधमुक्तनादद्रवद्व्रजम् ॥ ंो_४,२६.३२ ॥ लुठन्तः पतन्तः । ये दैत्या एवाचलाः । तैरुद्धूताः ये मत्तार्णवाः । तेषां ये जलाद्रयः महोर्मयः । तैः कृत्वा धौतं रक्तनभः रक्तयुक्तं नभः यस्य । तत् । योधैः मुक्तः यः महानादः सिंहनादः । तेन द्रवन्तः धावन्तः । व्रजाः अर्थात्दीनसमूहाः यत्र । तत् ॥ ंोट्_४,२६.३२ ॥ लोकपानेकपाम्भोदच्छन्नच्छन्नार्यमान्वितम् । पुनः सुरासुरोद्द्योतैर्दृष्टसैन्यकुलाकुलम् ॥ ंो_४,२६.३३ ॥ लोकपानां लोकेशानाम् । ये अनेकपाः हस्तिनः । ते एवाम्भोदाः मेघाः । तैः छन्नच्छन्नः अतिशयेनावृतः । यः अर्यमा सूर्यः । तेनान्वितम् । तर्हि तत्र तैरन्योऽन्यं कथं दृष्टमित्य् । अत्राह पुनरिति । पुनः पक्षान्तरे । सुरासुराणां ये उद्द्योताः शरीरप्रकाशाः । तैः कृत्वा दृष्टं यत्सैन्यकुलं सैन्यसमूहः । तेनाकुलं निर्भरम् ॥ ंोट्_४,२६.३३ ॥ सपक्षपर्वताकारदानवाद्रिगमागमैः । वहत्पचपचाशब्दभूरिभाक्करभीषणम् ॥ ंो_४,२६.३४ ॥ पचपचेति शब्दानुकरणम् । भाक्करेति च ॥ ंोट्_४,२६.३४ ॥ आयुधाद्रिविभिन्नोग्रदैत्यपर्वतनिर्झरैः । रक्तैररुणिताशेषवसुधार्णवपर्वतम् ॥ ंो_४,२६.३५ ॥ स्पष्टम् ॥ ंोट्_४,२६.३५ ॥ उत्सन्नराष्ट्रनगरविपिनग्रामगह्वरैः । धृतासङ्ख्यासुरेभाश्वमनुष्यरथपर्वतम् ॥ ंो_४,२६.३६ ॥ उत्सन्नाः विनष्टाः । ये राष्ट्रनगरविपिनग्रामाः । तेषां गह्वरैः रन्ध्ररूपैः मध्यभागैः । धृताः असङ्ख्याः असुरेभाश्वमनुष्यरथपर्वताः यस्य । तत् ॥ ंोट्_४,२६.३६ ॥ सुतालोत्तालनाराचराजिरेचितचारणम् । मुष्टिप्रहारपिष्टांसमत्तैरावणवारणम् ॥ ंो_४,२६.३७ ॥ सुतालवतुत्तालाः ये नाराचाः । तेषां या राजिः । तया रेचिताः रहिताः । चारणाः देवविशेषाः यस्य । तत् ॥ ंोट्_४,२६.३७ ॥ कल्पाभ्रपटलासारधारादलितपर्वतम् । महाशनिविनिष्पेषपिष्टोड्डीनकुलाचलम् ॥ ंो_४,२६.३८ ॥ आसारः शिलामयोऽत्र ज्ञेयः ॥ ंोट्_४,२६.३८ ॥ कुपिताग्निज्वलज्ज्वालाजालैर्ज्वलितदानवम् । एकाञ्जलिपुटानीतसमुद्रोत्सादितानलम् ॥ ंो_४,२६.३९ ॥ उत्सादितः निर्वापितः ॥ ंोट्_४,२६.३९ ॥ चान्द्रशैत्यादिसम्भारशिलीकृतमहाजलम् । वनव्यूहेन्धनाग्न्यर्चिर्द्राविताम्बुशिलोच्चयम् ॥ ंो_४,२६.४० ॥ शीतेन हि जलं पाषाणीभवति । वनेति पर्वताः अपि विगलन्ति स्मेत्यर्थः ॥ ंोट्_४,२६.४० ॥ अस्त्रनिर्मितदुर्वारतमःकल्पान्तरात्रिकम् । मायासूर्यगणोद्द्योतपीतातनुतमःपटम् ॥ ंो_४,२६.४१ ॥ स्पष्टम् ॥ ंोट्_४,२६.४१ ॥ मायाग्निवर्षनिपतत्कल्पान्तगणवर्षणम् । सशीकाराग्निपवनशस्त्रसङ्घट्टकर्षणम् ॥ ंो_४,२६.४२ ॥ मायाग्निवर्षेण निपतत्कल्पान्तगणवत्वर्षणं यत्र । तत् । सशीकारौ शीकारशब्दयुक्तौ । अग्निपवनौ यत्र । तत् । तादृशः यः शस्त्रसङ्घट्टः । तेन कर्षणं देवासुरकर्षणं यत्र । तत् ॥ ंोट्_४,२६.४२ ॥ वज्रवर्षविनिर्धूतशैलवर्षास्त्रसम्भवम् । निद्राबोधास्त्रयुद्धाढ्यं सवर्षावग्रहास्त्रकम् ॥ ंो_४,२६.४३ ॥ वज्रवर्षेण विनिर्धूतः शैलवर्षरूपाणामस्त्राणां सम्भवः यत्र । तत् । निद्राबोधकारीणि अस्त्राणि निद्राबोधास्त्राणि । तैः यद्युद्धम् । तेनाढ्यम् । वर्षावग्रहकारीणि अस्त्राणि वर्षावग्रहास्त्राणि । सह तैः वर्तते इति तादृशम् ॥ ंोट्_४,२६.४३ ॥ वहत्क्रकचवृक्षास्त्रं जलाग्न्यस्त्ररणान्वितम् । ब्रह्मास्त्रयुद्धविषमं तमस्तेजोऽस्त्रशारितम् ॥ ंो_४,२६.४४ ॥ शारितं चित्रीकृतम् ॥ ंोट्_४,२६.४४ ॥ अस्त्रोद्गीर्णायुधानेकनीरन्ध्रसकलाम्बरम् । शिलावर्षास्त्रवलितं वह्निवर्षास्त्रभासुरम् ॥ ंो_४,२६.४५ ॥ अस्त्रार्थं ब्रह्मास्त्राद्यर्थम् । उद्गीर्णानि त्यक्तानि । यानि आयुधानेकानि आयुधसमूहाः । तैः नीरन्ध्रं सकलाम्बरं यत् । तत् ॥ ंोट्_४,२६.४५ ॥ पताकामृष्टशशकैश्चक्रचीत्कारगर्जितैः । मुहूर्तेन रथैर्लङ्घितोदयास्तमयाचलम् ॥ ंो_४,२६.४६ ॥ पताकाभिः मृष्टः शशकः अर्थात्चन्द्रशशः यैस्। तैः ॥ ंोट्_४,२६.४६ ॥ वज्रप्रहाराविरतम्रियमाणमहासुरम् । शुक्रामरमहाविद्याजायमानापरासुरम् ॥ ंो_४,२६.४७ ॥ अमरमहाविद्या सञ्जीविनी विद्या । देवानां तु स्वयमेव मरणं नास्ति । अमरत्वातिति तेषां मरणं व्यथा एव ज्ञेयम् ॥ ंोट्_४,२६.४७ ॥ शुभग्रहमहाकेतुपालितानामितस्ततः । उत्पातमङ्गलौघानां युद्धैरुद्धतकन्धरम् ॥ ंो_४,२६.४८ ॥ शुभग्रहाः मङ्गलानि पालयन्ति । केतुः उपलक्षणं पापग्रहाणाम् । पापग्रहाः हि उत्पातान् पालयन्ति ॥ ंोट्_४,२६.४८ ॥ साद्रिखोर्वीसमुद्रद्यु जगद्रुधिरवारिभिः । फुल्लैककिंशुकवनं कुर्वद्दुर्वारवैरतः ॥ ंो_४,२६.४९ ॥ पुनः कथम्भूतम् । दुर्वारवैरतः जगत्रुधिरवारिभिः कृत्वा फुल्लैककिंशुकवनं कुर्वत् । जगत्कथम्भूतम् । साद्रिखोर्वीसमुद्रद्यु पर्वताकाशभूमिसमुद्रस्वर्गसहितम् ॥ ंोट्_४,२६.४९ ॥ पर्वतप्रतिमासङ्ख्यशवपूर्णमहार्णवम् । समग्रतरुशाखांसलम्बलोलमहाशवम् ॥ ंो_४,२६.५० ॥ महार्णवा अत्र रक्तस्य ज्ञेयाः ॥ ंोट्_४,२६.५० ॥ नीयमानैः स्ववाताक्तैः पक्षपुष्पलसत्फलैः । तालोत्तालैः शरव्रातवनैर्व्याप्तनभस्तलम् ॥ ंो_४,२६.५१ ॥ वातेनाक्तैः प्रेरितैः । पक्षपुष्पाणि च तानि लसत्फलानि च । फलमत्र शल्यं ज्ञेयम् ॥ ंोट्_४,२६.५१ ॥ पर्वतप्रतिमासङ्ख्यकबन्धवनबाहुभिः । नृत्यद्भिः पतिताम्भोदविमानसुरतारकम् ॥ ंो_४,२६.५२ ॥ पतिताः अम्भोदविमानसुरतारकाः यस्य । तत् ॥ ंोट्_४,२६.५२ ॥ शरशक्तिगदाप्रासपट्टिसप्रोतपर्वतम् । लोकसप्तकविभ्रष्टकुड्यखण्डाचिताम्बरम् ॥ ंो_४,२६.५३ ॥ लोकसप्तकस्य कुड्यान्यपतन्निति भावः ॥ ंोट्_४,२६.५३ ॥ अनारतरसन्मत्तकल्पाभ्रदृढदुन्दुभि । पृष्ठशब्दश्रवोन्नादपातालतलवारणम् ॥ ंो_४,२६.५४ ॥ पृष्ठशब्दस्य यः श्रवः श्रवणम् । तेनोन्नादाः पातालतलवारणाः यत्र । तत् ॥ ंोट्_४,२६.५४ ॥ विनायककराकृष्टदीर्घदानवपर्वतम् । एकदिक्तटनिःस्पन्दसिद्धसाध्यमरुद्गणम् ॥ ंो_४,२६.५५ ॥ स्पष्टम् ॥ ंोट्_४,२६.५५ ॥ पलायमानगन्धर्वकिन्नरामरचारणम् । शवीभूतक्षतक्षीणपतद्गन्धर्वनायकम् ॥ ंो_४,२६.५६ ॥ स्पष्टम् ॥ ंोट्_४,२६.५६ ॥ किञ्चिल्लब्धजयप्रायदैत्यदानवमण्डलम् । दूयमानसुरानीकमेकान्तोद्विग्नवासवम् ॥ ंो_४,२६.५७ ॥ स्पष्टम् ॥ ंोट्_४,२६.५७ ॥ उत्तराशामिलद्वह्निरक्तहेतिवृहत्प्रभम् । प्रतिक्षणं लसद्दाहप्रकाशतिमिरोल्बणम् ॥ ंो_४,२६.५८ ॥ उत्तराशया उत्तरदिशा । मिलन् यः वह्निः । तेन रक्ता हेतीनां वृहत्यः प्रभाः यत्र । तत् । देवमन्दिरदाहोत्थोऽत्र वह्निर्ज्ञेयः । प्रतिक्षणं क्षणे क्षणे । लसन् यः दाहः गृहदाहः । तेन ये प्रकाशतिमिरे । ताभ्यामुल्बणम् । तिमिरमत्र धूमकृतं ज्ञेयम् ॥ ंोट्_४,२६.५८ ॥ सर्गान्तश्लोकेन समीरचलनं कथयति ववुरशनिनिपातपिण्डिताङ्गा दलितशिलाशकला दिशां मुखेषु । प्रलयसमयसूचकाः सुराणाम् उरुतरघर्घरघस्मराः समीराः ॥ ंो_४,२६.५९ ॥ समीराः वाताः । दिशां मुखेषु ववुः वान्ति स्म । कथम्भूताः । अशनीनां यः निपातः । तेन पिण्डितान्यङ्गानि येषाम् । तादृशाः । अशनिनिपातेनैकत्र मिलिता इत्यर्थः । अत एव दलिताः शिलाशकलाः यैः । ते तादृशाः । उरुतरः यः घर्घरः घर्घरशब्दः । तेन घस्मराः शब्दान्तरग्रासकारिण इत्यर्थः । इति शिवम् ॥ ंोट्_४,२६.५९ ॥ इति भास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे षड्विंशः सर्गः ॥२६॥ ********************************************************************* ततः किं सम्पन्नमित्य् । अत्राह तस्मिंस्तदा वर्तमाने घोरे समरसम्भ्रमे । देवासुरशरीरेषु पतत्स्वद्रिदलेष्विव ॥ ंो_४,२७.१ ॥ वहत्स्वभ्रप्रवाहेषु गङ्गापूरेष्विवाम्बरात् । दाम्नि वेष्टितदेवौघे मुक्तक्ष्वेडाघनारवे ॥ ंो_४,२७.२ ॥ व्याले निजकराकृष्टिपिष्टसर्वसुरालये । कटे कठिनसंरम्भसङ्गराच्छादितामरे ॥ ंो_४,२७.३ ॥ ऐरावणे क्षीणमदे पलायनपरायणे । प्रवृद्धे दानवानीके मध्याह्न इव भास्करे ॥ ंो_४,२७.४ ॥ पातिताङ्गायुधार्धानि प्रस्रवद्रुधिराणि च । पयांसीव विसेतूनि देवसैन्यानि दुद्रुवुः ॥ ंो_४,२७.५ ॥ पातितानि अर्थातसुरैः भूमौ पातितानि । अङ्गानामायुधानां चार्धानि येषाम् । तानि च्छिन्नाङ्गानि च्छिन्नायुधानि चेति यावत् । अत एव प्रस्रवत्रुधिरं येषाम् । तानीति तादृशानि देवसैन्यानि दुद्रुवुः भयेन द्रुतानि । कानीव । विसेतूनि पयांसीव । कस्मिन् सति । तस्मिन्नित्यादि । दाम्नि दामाख्ये महासुरे । कठिनसंरम्भं यत्सङ्गरं सङ्ग्रामः । तत्र आच्छादिताः अमराः येन । तादृशे सति । कुलकम् ॥ ंोट्_४,२७.१५॥ दामव्यालकटास्तानि चिरमन्तर्हितान्यपि । अनुजग्मुर्लसन्नादमिन्धनानीव पावकाः ॥ ंो_४,२७.६ ॥ तानि देवसैन्यानि । अनुजग्मुः पश्चाद्धावन्ति स्म । अन्तर्हितानामनुगमनं न युक्तमित्यपिशब्दो द्योतयति ॥ ंोट्_४,२७.६ ॥ अन्विष्टानपि यत्नेन नालभन्तासुराः सुरान् । घनजालवनोड्डीनान् सिंहा हरिणकानिव ॥ ंो_४,२७.७ ॥ स्पष्टम् ॥ ंोट्_४,२७.७ ॥ अलब्धेष्वमरौघेषु दामव्यालकटास्तदा । जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः ॥ ंो_४,२७.८ ॥ प्रभुं शम्बरम् ॥ ंोट्_४,२७.८ ॥ अथ देवा विषण्णास्ते क्षणमाश्वस्य वै ययुः । जयोपायाय विजिता ब्रह्माणममितौजसम् ॥ ंो_४,२७.९ ॥ विषण्णाः मूर्छिताः । आश्वस्य चेतनां लब्ध्वा ॥ ंोट्_४,२७.९ ॥ तेषामाविरभूद्ब्रह्मा रक्तरक्ताननश्रियाम् । सायं रक्तीकृताम्बूनामब्धीनामिव चन्द्रमाः ॥ ंो_४,२७.१० ॥ रक्तेन रुधिरेण । रक्तमाननं येषाम् । ते । तादृशानाम् । सायं सायंसन्ध्ययेत्यर्थः । चन्द्रमसो वा रक्तीकरणे कर्तृत्वं ज्ञेयम् । उदयकाले तस्य रक्तत्वात् । तदा सायं सायंसमय इत्यर्थः ॥ ंोट्_४,२७.१० ॥ प्रणम्य ते सुरास्तस्मै तमर्थं शम्बरेरितम् । सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम् ॥ ंो_४,२७.११ ॥ ते सुराः शम्बरेरितं शम्बरप्रादुर्भावितम् । तं दामव्यालकटक्रममर्थं दामादिक्रमाख्यं वस्तु । प्रणम्य तस्मै । सम्यक्प्रकथयामासुः ॥ ंोट्_४,२७.११ ॥ तमाकर्ण्याखिलं ब्रह्मा विचार्य च विचारवित् । उवाचेदं सुरानीकमाश्वासनकरं वचः ॥ ंो_४,२७.१२ ॥ तं दामव्यालकटक्रमम् । सुरानीकं देवसैन्यम् ॥ ंोट्_४,२७.१२ ॥ ब्रह्मा कथयति हन्त वर्षसहस्रान्ते शम्बरेण हरेः क्रमात् । मर्तव्यममरेशस्य तावत्कालं प्रतीक्ष्यताम् ॥ ंो_४,२७.१३ ॥ हन्त कष्टे । शम्बरेण कर्त्रा । वर्षसहस्रान्ते अमरेशस्य हरेः विष्णोः । क्रमात्युद्धाख्यात्क्रमात् । मर्तव्यं मरणीयम् । तावत्कालमसौ न मरिष्यतीति भावः । युष्माभिः तावत्कालं प्रतीक्ष्यताम् ॥ ंोट्_४,२७.१३ ॥ ननु तर्हि तावत्कालं बाधां कुर्वतः दामादीन् किं कुर्म इत्य् । अत्राह दामव्यालकटानेतानद्य त्वमरसत्तमाः । योधयन्तः पलायध्वं मायायुद्धेन दानवान् ॥ ंो_४,२७.१४ ॥ हे अमरसत्तमाः । यूयमेतान् दामव्यालकटान् दानवान्मायायुद्धेन योधयन्तः युद्धं कारयन्तः सन्तः । पलायध्वम् ॥ ंोट्_४,२७.१४ ॥ ननु अस्मत्पलायनेन किमेषां सेत्स्यतीत्य् । अत्राह युद्धाभ्यासवशादेषां मकुराणामिवाशये । अहङ्कारचमत्कारः प्रतिबिम्बमुपैष्यति ॥ ंो_४,२७.१५ ॥ एषां दामादीनाम् । अहङ्कारचमत्कारः वयं युद्धे जयिनः स्मः इत्येवंरूपोऽहम्भावास्वादः । आशये मनसि । प्रतिबिम्बमुपैष्यति ॥ ंोट्_४,२७.१५ ॥ ननु ततोऽपि किं सेत्स्यतीत्य् । अत्राह गृहीतवासनास्त्वेते दामव्यालकटाः सुराः । सुजया वो भविष्यन्ति जाललग्नाः खगा इव ॥ ंो_४,२७.१६ ॥ वासनाया एव वक्ष्यमाननयेन वैवश्यकारित्वात् ॥ ंोट्_४,२७.१६ ॥ नन्वद्य कथं न जेतुं शक्या एते इत्य् । अत्राह अद्य त्ववासना एते सुखदुःखविवर्जिताः । धैर्येणारीन् विनिघ्नन्तो देवदुर्जयतां गताः ॥ ंो_४,२७.१७ ॥ तु पक्षान्तरे । अद्य अवासनाः अहंवासनारहिताः । अत एव सुखदुःखविवर्जिताः । अत एव धैर्येण अरीन् विनिघ्नन्तः । देवदुर्जयतां युष्मद्दुर्जयतामिति यावत् । गताः । सुखादिरहितो हि भीतिरहितत्वाद्दुर्जयो भवति ॥ ंोट्_४,२७.१७ ॥ ननु वासनया कथमेते वश्या भविष्यन्तीत्य् । अत्राह वासनातन्तुबद्धा ये आशापाशवशीकृताः । वश्यतां यान्ति ते लोके रज्जुबद्धाः खगा इव ॥ ंो_४,२७.१८ ॥ ये वासनातन्तुबद्धा अहंवासनातन्तुबद्धाः । भवन्ति । ते आशापाशवशीकृताः सन्तः । लोके वश्या भवन्ति । ते के इव । रज्जुबद्धाः खगा इव । अयं भावः । पुरुषः अन्तःस्थितयाहंवासनया ममेदं भवत्वेतन्मा भवत्वित्येवंरूपयाशयाविष्टो भवति । तया च दैन्यं गच्छति । तेन परस्य वश्यो भवतीति ॥ ंोट्_४,२७.१८ ॥ ननु वासनारहिताः कथं दुर्जया भवन्तीत्य् । अत्राह ये हि निर्वासना धीराः सर्वत्रासक्तबुद्धयः । न हृष्यन्ति न कुप्यन्ति दुर्जयास्ते महाधियः ॥ ंो_४,२७.१९ ॥ सर्वत्र हेये उपादेये वा । असक्ता रागद्वेषरूपया आसक्त्या रहिता । बुद्धिः येषाम् । तादृशाः । उपादेयरागेन हेयद्वेषेणैव च पुरुषः जेयो भवति । अन्यथा विदितनयाः राजानः द्रव्यदानेन शत्रून् जेतुं न यतेरन् । तदभावे तु स्वशरीरेऽपि रागरहितः पुरुषः न केनापि जेतुं शक्यते इति भावः । द्वेषस्यासक्तित्वमासक्त्युत्पादकत्वेन ज्ञेयम् । द्वेषेण हि हेयान्निवृत्तः पुरुषः उपादेये दृढतरं रागापरपर्यायासक्तियुक्तो भवति ॥ ंोट्_४,२७.१९ ॥ यस्यान्तर्वासनारज्ज्वा ग्रन्थिबन्धः शरीरिणः । महानपि बहुज्ञोऽपि स बालेनापि जीयते ॥ ंो_४,२७.२० ॥ अन्यथा बालेष्वपि धनाढ्येषु विद्यावयोवृद्धाः प्रणामं न कुर्युरिति भावः ॥ ंोट्_४,२७.२० ॥ अयं सोऽहमिदं मे तदित्याकलितकल्पनः । आपदां पात्रतामेति पयसामिव सागरः ॥ ंो_४,२७.२१ ॥ आकलिता आ समन्तात्धृता । कल्पना सङ्कल्पः येन । सः । आपदां ममैतद्भवत्वेतन्मा भवत्वित्येवंरूपाणाम् ॥ ंोट्_४,२७.२१ ॥ इयन्मात्रपरिच्छिन्नो येनात्मा भव्य भावितः । स सर्वज्ञोऽपि सर्वत्र परां कृपणतां गतः ॥ ंो_४,२७.२२ ॥ हे भव्य हे इन्द्र । येन आत्मा स्वस्वरूपम् । इयन्मात्रपरिच्छिन्नः । इयन्मात्रं चासौ देहादिमात्ररूपश्चासौ । अत एव परिच्छिन्नश्चेति तादृशः । भावितः भावनाविषयीकृतः । सः पुरुषः । सर्वज्ञः अपि सर्वत्र परां निरतिशयाम् । कृपणतां दीनताम् । गतः गच्छतीत्यर्थः । देहनिष्ठो हि देहहितमिच्छन्नवश्यमेव कृपणतामेति ॥ ंोट्_४,२७.२२ ॥ अनन्तस्याप्रमेयस्य येनेयत्ता प्रकल्पिता । आत्मतत्त्वस्य तेनात्मा स्वात्मनैवावशीकृतः ॥ ंो_४,२७.२३ ॥ अनन्तस्यान्तसाक्षित्वेन स्थितत्वात्तद्रहितस्य । अप्रमेयस्य केवलं प्रमातृरूपेण स्थितत्वात्प्रमेयतामस्पृशमानस्य । आत्मतत्त्वस्य । येन इयत्ता देहावच्छिन्नत्वाख्यमियन्मात्रत्वम् । प्रकल्पिता कल्पनया भाविता । तेनाज्ञानिना । स्वात्मनैव आत्मावशीकृतः । अवश्यम्भावि हि देहावच्छिन्नस्य भोगवैवश्यम् ॥ ंोट्_४,२७.२३ ॥ ननु कथमेतदस्तीत्य् । अत्राह आत्मनो व्यतिरिक्तं यत्किञ्चिदस्ति जगत्त्रये । तत्रोपादेयभावेन बद्धा भवति भावना ॥ ंो_४,२७.२४ ॥ आत्मनः परिच्छिन्नत्वेन भावितस्यात्मनः । यत्किञ्चित्व्यतिरिक्तम् । भावितमिति शेषः । भावितमस्ति । तत्र अप्राप्तत्वाभिमानेन उत्पन्नेन उपादेयभावेन उपादेयतया । भावना बद्धा भवति । भावनाबन्धस्यैव च वैवश्यमिति नामेति भावः ॥ ंोट्_४,२७.२४ ॥ भावनाबन्धस्य वैवश्येति नामयुक्तताकारि दुःखकारणत्वं कथयति आस्थामात्रमनन्तानां दुःखानां कारणं विदुः । अनास्थामात्रमभितः सुखानां कारणं विदुः ॥ ंो_४,२७.२५ ॥ आस्थामात्रं भावनाबन्धमात्रम् ॥ ंोट्_४,२७.२५ ॥ सामान्येन समर्थनं कृत्वा विशेषं स्मरति दामव्यालकटा यावदनास्था भावसंस्थितौ । तावन्न नाम जेया वो मषकाणामिवानिलाः ॥ ंो_४,२७.२६ ॥ अनास्थाः आस्थारहिताः । भावसंस्थितौ देहादिपदार्थसंस्थितौ ॥ ंोट्_४,२७.२६ ॥ अन्तर्वासनया जन्तुर्दीनतामनुयातया । जितो भवत्यन्यथा तु मषकोऽप्यमराचलः ॥ ंो_४,२७.२७ ॥ अन्यथा वासनाराहित्ये ॥ ंोट्_४,२७.२७ ॥ विद्यते वासना यत्र तत्र चायाति दीनता । गुणागुणानुविद्धत्वं सतो दृष्टं हि नासतः ॥ ंो_४,२७.२८ ॥ यत्र च वासना विद्यते तत्र दीनता आयाति । पादपूरणार्थः चशब्दः । हि यस्मात् । गुणागुणानुविद्धत्वं दीनतापादकं हिताहितानुबन्धित्वम् । सतः वासनयाहितदेहसत्ताकस्य । दृष्टम् । असतः वासनाराहित्येन शुद्धचिन्मात्ररूपतयासत्कल्पस्य । न दृष्टम् ॥ ंोट्_४,२७.२८ ॥ फलितमाह अयं सोऽहं ममेदं चेत्येवमन्तः स्ववासनाम् । यथा दामादयः शक्र भावयन्ति तथा कुरु ॥ ंो_४,२७.२९ ॥ अत इति शेषः । हे शक्र । यथा दामादयः अयं सोऽहं ममेदं चेत्येवंरूपां स्ववासनामहङ्कारवासनाम् । अन्तः मनसि । भावयन्ति विकल्पयन्ति । तथा कुरु । ततः जेया भविष्यन्तीति भावः ॥ ंोट्_४,२७.२९ ॥ ननु कथं न ते मम जेया भविष्यन्तीत्य् । अत्राह या या जनस्य विपदो भावाभावदशाश्च याः । तृष्णाकरञ्जवल्ल्यास्ता मञ्जर्यः कटुकोमलाः ॥ ंो_४,२७.३० ॥ तृष्णा एव दुःखकारित्वात्कण्टकवल्ली । तस्याः ॥ ंोट्_४,२७.३० ॥ वासनातन्तुबद्धोऽयं लोको विपरिवर्तते । सा सुवृद्धातिदुःखाय सुखायोच्छेदमागता ॥ ंो_४,२७.३१ ॥ विपरिवर्तते वैपरीत्यं भजति । सा वासना । उच्छेदं नाशम् ॥ ंोट्_४,२७.३१ ॥ धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि । तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ंो_४,२७.३२ ॥ बध्यते विवशः क्रियते । तृष्णाग्रस्तो हि स्फुटमेव विवशो भवति ॥ ंोट्_४,२७.३२ ॥ देहपादपसंस्थस्य हृदयालयशायिनः । तृष्णाचित्तखगस्यास्य वागुरा परिकल्पिता ॥ ंो_४,२७.३३ ॥ स्पष्टम् ॥ ंोट्_४,२७.३३ ॥ दीनो वासनया लोकः कृतान्तेनापकृष्यते । रज्ज्वेव बालेन खगो विवशोऽनिशमुच्छ्वसन् ॥ ंो_४,२७.३४ ॥ कृतान्तेन ममतारूपेण यमेन । ममताया एव श्रीव्यासेन कृतान्तत्वाभिधानात् ॥ ंोट्_४,२७.३४ ॥ अलमायुधभारेण सङ्गरभ्रमणेन च । वासनां सविपर्यासां युक्त्यैव त्वं रिपोः कुरु ॥ ंो_४,२७.३५ ॥ सविपर्यासां विपर्यासयुक्ताम् । रिपोः दामादित्रयरूपस्य । आयुधादिभिः तव न किञ्चिदपि सेत्स्यतीति भावः ॥ ंोट्_४,२७.३५ ॥ अन्तरक्षुभिते धैर्ये रिपोरमरनायकाः । न शस्त्राणि न शास्त्राणि न चास्त्राणि जयन्ति वः ॥ ंो_४,२७.३६ ॥ अक्षुभिते वासनाराहित्येन क्षोभरहिते सति ॥ ंोट्_४,२७.३६ ॥ दामव्यालकटास्त्वेते युद्धाभ्यासवशेन च । अहङ्कारमयीमन्तस्ते ग्रहीष्यन्ति वासनाम् ॥ ंो_४,२७.३७ ॥ अहङ्कारमयीं वयं योत्स्याम इत्येवंरूपाम् ॥ ंोट्_४,२७.३७ ॥ यदि ते यन्त्रपुरुषाः शम्बरेण विनिर्मिताः । वासनां नाश्रयिष्यन्ति यास्यन्ति तदजय्यताम् ॥ ंो_४,२७.३८ ॥ यन्त्रपुरुषाः अनुसन्धानरहिता इति यावत् ॥ ंोट्_४,२७.३८ ॥ तत्तावद्युक्तियुद्धेन तान् प्रबोधयतामराः । यावदभ्यासवशतो भविष्यन्ति सवासनाः ॥ ंो_४,२७.३९ ॥ प्रबोधयत वासनायुक्तान् कुरुत ॥ ंोट्_४,२७.३९ ॥ ततो वध्या भविष्यन्ति भवतां बद्धभावनाः । तृष्णाप्रोताशया लोके न केचन नपेलवाः ॥ ंो_४,२७.४० ॥ ननु यदि कदाचित्ततोऽपि वध्या न भविष्यन्ति ततः किं कार्यमित्य् । अत्राह तृष्णेति । तृष्णाप्रोताशयाः तृष्णानुविद्धमनसः । पेलवाः दीनाः । तृष्णाग्रस्ताः सर्वे एव पेलवा भवन्ति । अतः तेऽपि भविष्यन्त्येवेति भावः ॥ ंोट्_४,२७.४० ॥ सर्गान्तश्लोकेन ब्रह्मवाक्यं समापयति समविषममिदं जगत्समग्रं समुपगतं स्थिरतां स्ववासनातः । चलति च लहरीभरो यथाब्धाव् अत इह सैव चिकित्स्यतां प्रयाता ॥ ंो_४,२७.४१ ॥ समविषमं सुखदुःखमयम् । इदमनुभूयमानम् । समग्रं जगत् । स्ववासनातः अहङ्कारवासनातः । स्थिरतां समुपागतम् । सा वासना । इह लोके । चलति च स्फुलति च । क इव । लहरीभर इव । यथा लहरीभरः अब्धौ समुद्रे । चलति । तथेत्यर्थः । अतः सा वासना एव । चिकित्स्यतां चिकित्सायोग्यताम् । प्रयाता भवतीति शिवम् ॥ ंोट्_४,२७.४१ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे सप्तविंशः सर्गः ॥२७॥ ********************************************************************* ब्रह्मणः अन्तर्धानं कथयति इत्युक्त्वा भगवान् देवस्तत्रैवान्तर्धिमाययौ । वेलावनतटे शब्दं कृत्वेवाम्बुतरङ्गकः ॥ ंो_४,२८.१ ॥ तत्रैव तस्मिन् स्थान एव । न त्वन्यत्र गत्वा । अन्तर्धिं व्यवधानम् ॥ ंोट्_४,२८.१ ॥ सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुः स्वामभितो दिशम् । कमलामोदमादाय वनमालामिवानिलाः ॥ ंो_४,२८.२ ॥ स्पष्टम् ॥ ंोट्_४,२८.२ ॥ दिनानि कतिचित्स्वेषु कान्तेषु स्थिरकान्तिषु । द्विरेफा इव पद्मेषु मन्दिरेषु विशश्रमुः ॥ ंो_४,२८.३ ॥ स्पष्टम् ॥ ंोट्_४,२८.३ ॥ कञ्चित्कालं समासाद्य स्वात्मोदयकरं शुभम् । चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम् ॥ ंो_४,२८.४ ॥ स्पष्टम् ॥ ंोट्_४,२८.४ ॥ अथ दैत्यैः सह व्योम्नि तैः पातालतलोत्थितैः । कालक्षेपकरं घोरं पुनर्युद्धमवर्तत ॥ ंो_४,२८.५ ॥ कालक्षेपकरं न तु शम्बरवधकारि । तन्मरणस्य वर्षसहस्रान्ते ब्रह्मणा प्रोक्तत्वातित्यर्थः । देवानामिति शेषः । समवर्तत समभवत् ॥ ंोट्_४,२८.५ ॥ ववुरसिशरशक्तिमुद्गरौघा मुसुलगदापरशूग्रचक्रसङ्घाः । अशनिगिरिशिलाहुताशवृक्षा अहिगरुडादिमुखानि चायुधानि ॥ ंो_४,२८.६ ॥ कीदृशं युद्धं समवर्ततेत्यपेक्षायामाह ववुरिति । ववुः वान्ति स्म । देवदैत्यविसृष्टा इति शेषः ॥ ंोट्_४,२८.६ ॥ मायाकृतायुधमहाम्बुघनप्रवाहा क्षिप्रं प्रति प्रतिदिशं परिनिर्जगाम । पाषाणपर्वतमहीतटवृक्षलक्ष क्षुब्धाम्बुपूरघनघोषवती नदी द्राक् ॥ ंो_४,२८.७ ॥ मायाकृतः राक्षसैः मायया सम्पादितः । आयुधमहाम्बुनः आयुधयुक्तस्य महाजलस्य । घनः प्रवाहः यस्याः । सा । तथा पाषाणपर्वतं क्षिप्रं प्रति क्षिप्रं क्षिप्रम् । महीतटवृक्षाणां लक्षेषु क्षुब्धः सञ्चरणशीलः । यः अम्बुपूरः आयुधयुक्तः अम्बुपूरः । तेन घनः घोषः विद्यते यस्याः । सा । तादृशी नदी आयुधमयी नदी । द्राक्शीघ्रम् । प्रतिदिशं निर्जगाम निर्गता ॥ ंोट्_४,२८.७ ॥ केन प्रतिदिशं निर्जगामेति करणापेक्षायां सविशेषणमाह मध्यप्रवाहवहदुल्मुकशूलशैल प्रासासिकुन्तशरतोमरमुद्गरेण । गङ्गोपमाम्बुवलितामरमन्दिरेण सर्वासु दिक्ष्वशनिवर्षणकर्षणेन ॥ ंो_४,२८.८ ॥ अशनियुक्तं वर्षणमशनिवर्षणम् । तेन यत्कर्षणं दिशः प्रति नयनम् । तेन कृत्वा निर्जगामेति पूर्वेण सम्बन्धः । वर्षेण हि नद्यः दिशः व्याप्नुवन्ति । अशनिवर्षणकर्षणेन कथम्भूतेन । मध्ये प्रवाहेण वहन्ति उल्मुकशूलशैलप्रासासिकुन्तशरतोमरमुद्गराणि यत्र । तत् । तादृशेन । पुनः कथम्भूतेन । सर्वासु दिक्षु गङ्गोपमं यतम्बु । तेन वलितानि अमरमन्दिराणि येन । तत् । तादृशेन ॥ ंोट्_४,२८.८ ॥ पृथ्व्यादिदारुणशरीरमयी प्रहार दानग्रहे गगनरश्मिशरीरिकैव । या योपशाम्यति सुरासुरसिद्धसेना मायाकृता पुनरुदेति रसेन सैव ॥ ंो_४,२८.९ ॥ या या । प्रहाराणां दानग्रहे पृथ्व्यादिवत्दारुणं यत्शरीरम् । तन्मयी अपि । प्रहाराणां दाने ग्रहणे च समर्थापीति यावत् । परमार्थतः मायारूपत्वात्गगनस्य या रश्मिः । शून्यमिति यावत् । तद्रूपं शरीरं यस्याः । सा । तादृशी एव सती । उपशाम्यति म्रियते । सा सुरासुरसिद्धसेना पुनः उदेति एव । कथम्भूता । रसेन इच्छया । मायाकृता मायया कृतेति तादृशी । अर्थातिन्द्रशम्बराभ्याम् ॥ ंोट्_४,२८.९ ॥ शैलोपमायुधविघट्टितभूधराणि रक्ताम्बुपूरपरिपूर्णमहार्णवानि । देवासुरेन्द्रसुरशैलविरूढकुन्त तालीवनानि ककुभां वदनान्यथासन् ॥ ंो_४,२८.१० ॥ देवासुरेन्द्रा एव सुरशैलाः सुमेरवः । तेषु रूढानि । कुन्ता एव तालीवनानि । येषाम् । तानि ॥ ंोट्_४,२८.१० ॥ उद्गीर्णकुन्तशरशक्तिगदासिचक्रा हेलानिगीर्णसुरदानवमुक्तशैला । काषक्वणत्क्रकचदन्तनखोग्रमाला जीवान्वितापतदथायससिंहवृष्टिः ॥ ंो_४,२८.११ ॥ अथ आयससिंहवृष्टिः अयोमयानां सिंहानां वर्षणम् । अपतत् । कथम्भूता । उद्गीर्णं सहपतितम् । कुन्तशरशक्तिगदासिचक्रं यस्याः । सा । पुनः कथम्भूता । हेलया निगीर्णाः ग्रस्ताः । सुरदानवैः मुक्ताः प्रहरणभूताः । शैलाः यया । सा । काषे काषपाषाणे । क्वणन् घर्षणवशेन शब्दायमानः । यः क्रकचः । तद्वत्ये दन्तनखाः । तेषामुग्रा माला यस्याः । सा । तथा जीवान्विता जीवयुक्ता ॥ ंोट्_४,२८.११ ॥ उज्ज्वाललोचनविषज्वलनातपोद्यद् दिग्दाहदर्शितयुगान्तदिनेशसेना । उड्डीयमानपरिदीर्घमहीमहीध्रा मत्ताब्धिवद्विषधरावलिरुल्ललास ॥ ंो_४,२८.१२ ॥ विषधराणां सर्पाणाम् । आवलिः पङ्क्तिः । मत्ताब्धिवत्मत्तसमुद्रवत् । उल्ललास उल्लसति स्म । कथम्भूता । उज्ज्वालः उद्गतज्वालः । यः लोचनविषज्वलनः । तस्य यः आतपः । तेनोद्यन् । यः दिग्दाहः । तेन दर्शिता युगान्तदिनेशानां कल्पान्तसूर्याणाम् । सेना पङ्क्तिः । यया । सा । उड्डीयमानाः उड्डयनशीलाः । परिदीर्घाः । मह्याः सम्बन्धिनः महीध्राः पर्वताः । यस्याः । सा ॥ ंोट्_४,२८.१२ ॥ उन्नादवज्रमकरोत्करकर्करान्तर् इक्षाब्धिवीचिवलयैर्वलिताचलेन्द्रैः । आसीज्जगत्सकलमेव सुसङ्कटाङ्गम् आवर्तिभिर्विविधहेतिनदीप्रवाहैः ॥ ंो_४,२८.१३ ॥ उन्नादानि यानि वज्राणि । तान्येव मकराः । तेषां य उत्करः । तेन कर्करः कर्कराख्यः शब्दविशेषः यस्य । तत् । तादृशं यतन्तरिक्षम् । तदेवाब्धिः समुद्रः । तस्य वीचिवलयैः वीचिमण्डलरूपैः । तथा वलिताः आवृताः । अचलेन्द्राः यैः । ते । तादृशैः । तथा आवर्तिभिः भ्रमयुक्तैः । विविधहेतयः एव नदीप्रवाहाः । तैः । सुसङ्कटाङ्गमत्यन्तपूर्णस्वरूपम् । सकलमेव जगतासीत् ॥ ंोट्_४,२८.१३ ॥ शैलास्त्रशस्त्रगरुडाचलमालितोच्च नागाङ्गनासुरगणाङ्गनमन्तरिक्षम् । आसीत्क्षणं जलधिभिः क्षणमग्निपूरैः पूर्णं क्षणं दिनकरैः क्षणमन्धकारैः ॥ ंो_४,२८.१४ ॥ क्षणं क्षणमित्यनेन जलध्यादीनां मायाकृतत्वमुक्तम् । अन्तरिक्षं कथम्भूतम् । शैलरूपाणि अस्त्रशस्त्राणि शैलास्त्रशस्त्राणि । तेषां मध्ये ये गरुडाचलाः माणिक्यपर्वताः । तैः मालिताः धृताः । उच्चा नागाङ्गनाश्चासुरगणाङ्गनाश्च येन । तत् । सुराङ्गनानां तु साक्षादेवाकाशे स्थितिरिति तासामकथनम् । गरुडेति गकारस्य दीर्घाभावः आर्षः । मन्त्रोद्भावितास्तु शैलाः अस्त्ररूपाः साक्षात्प्रहिताः शस्त्ररूपाः ॥ ंोट्_४,२८.१४ ॥ गरुडगुडगुडाकुलान्तरिक्ष प्रविसृतहेतिहुताशपर्वतौघैः । जगदभवदसह्यकल्पकाल ज्वलितसुरालयभूतलान्तरालम् ॥ ंो_४,२८.१५ ॥ गरुडानां यः गुडगुडः गुडगुडाशब्दः । तेनाकुलं यदन्तरिक्षम् । तत्र प्रविसृताः ये हेतिहुताशपर्वतौघाः । तैः कृत्वा । जगत् । असह्यः यः कल्पकालः प्रलयकालः । तत्रैव ज्वलितानि सुरालयभूतलान्तराणि यस्य । तत् । तादृशमभवत् ॥ ंोट्_४,२८.१५ ॥ उदपतन् वसुधातलतोऽसुरा गगनमद्रितटादिव पक्षिणः । अतिबलादपतन् विबुधा भुवि प्रलयचालितशैलशिला इव ॥ ंो_४,२८.१६ ॥ अतिबलादित्यस्य पूर्वार्धेन सम्बन्धः ॥ ंोट्_४,२८.१६ ॥ शरीररूढोन्नतहेतिवृक्ष वनावलीलग्नमहाग्निदाहाः । सुरासुराः प्रापुरथाम्बरान्तः कल्पानिलान्दोलितशैलशोभाम् ॥ ंो_४,२८.१७ ॥ अथ सुरासुराः अम्बरान्तः आकाशमध्ये । कल्पानिलेनान्दोलिताः ये शैलाः । तेषां शोभां प्रापुः । कथम्भूताः । शरीररूढाः याः उन्नतहेतयः । ता एव वृक्षवनावली । तस्यां लग्नाः । महाग्नेः तत्सङ्घट्टोत्थस्य महतः अग्नेः । दाहः येषाम् । ते । तादृशाः ॥ ंोट्_४,२८.१७ ॥ सुरासुराद्रीन्द्रशरीरमुक्तै रक्तप्रवाहैरभितो भ्रमद्भिः । बभार पूर्णं परितोऽम्बराब्धिः सन्ध्यारुणोद्यच्छतगङ्गमङ्गम् ॥ ंो_४,२८.१८ ॥ सुरासुरा एवाद्रीन्द्राः । तेषां यानि शरीराणि । तेभ्यः मुक्तैः । अत एवाभितः भ्रमद्भिः रक्तप्रवाहैः कृत्वा । अम्बराब्धिः आकाशाख्यः समुद्रः । सन्ध्यारुणाः उद्यत्यः शतं गङ्गा यस्य । तादृशमङ्गं पूर्णं सम्यक् । बभार ॥ ंोट्_४,२८.१८ ॥ गिरिवर्षणमम्बुवर्षणं विविधोग्रायुधवर्षणं तथा । विषमाशनिवर्षणं च ते शममन्योऽन्यमथाग्निवर्षणम् ॥ ंो_४,२८.१९ ॥ अनयन्नयमार्गकोविदा दलिताशेषगिरीन्द्रभित्तयः । ससृजुश्च समं समन्ततः ककुबङ्गेष्विव पुष्पवर्षणम् ॥ ंो_४,२८.२० ॥ अथ नये अस्त्रशान्तिशास्त्रे । कोविदाः निपुणाः । ते देवासुराः । एतानि वर्षणानि समन्ततः शममनयन् । एतानि कानि । गिरिवर्षणमित्यादि । न केवलं शममनयन् । किं तु ककुबङ्गेषु ससृजुश्च । किमिव । पुष्पवर्षणमिव । ते कथम्भूताः । दलिता अशेषगिरीन्द्राणां भित्तयः यैः । ते । तादृशाः । युग्मम् ॥ ंोट्_४,२८.१९२० ॥ देवासुराः सरससङ्गरसम्भ्रमार्ता अन्योऽन्यमङ्गदलनाकुलहेतिहस्ताः । दामेन्द्रडिम्बदहनाः पृथुपीठपीठैः कीर्णासृजो नभसि बभ्रमुराक्षिपन्तः ॥ ंो_४,२८.२१ ॥ देवासुराः नभसि बभ्रमुः । कथम्भूताः । सरसं वीररससहितम् । यत्सङ्गरं सङ्ग्रामः । तत्र यः संरम्भः उद्योगः । तेनार्ताः व्याकुलाः । अन्योऽन्यमङ्गदलनार्थमाकुलहेतयः हस्ताः येषाम् । ते । तादृशाः । दामेन्द्रयोः डिम्बदहनाः मनःसन्तापकारित्वात्चञ्चलाग्नयः । तत्रापि दाम्नः देवाः इन्द्रस्यासुराः इति विभागः । पृथुपीठाः पृथुसंस्थानाः । ये पीठाः अंसादिपीठाः । तैः कीर्णासृजः विक्षिप्तरुधिराः । तथा आक्षिपन्तः अन्योऽन्यमाक्षेपं कुर्वन्तः ॥ ंोट्_४,२८.२१ ॥ छिन्नैः शिरःकरभुजोरुभरैर्भ्रमद्भिर् आकाशकोशशलभैरशिवैस्तदानीम् । आसीज्जगज्जठरमभ्रवरैरिवोग्रैर् आभास्करं स्थगितदिक्तटशैलजालम् ॥ ंो_४,२८.२२ ॥ छिन्नैः । अत एव भ्रमद्भिः । अत एव च आकाशे शलभैः शलभरूपैः । अशिवैः अमङ्गलकारिभिः । शिरःकरभुजोरुभरैः । जगज्जठरमाभास्करं सूर्यं तावत् । स्थगितानि दिक्तटानि शैलजालानि च यस्य । तत् । तादृशमासीत् । तैः कैरिव । अभ्रवरैरिव उत्तममेघैरिव ॥ ंोट्_४,२८.२२ ॥ मत्तानलं क्षुब्धजलानिलार्कं दलद्वनं शीर्णसुरासुरौघम् । ब्रह्माण्डमाखण्डितकुड्यकोणम् अकालकल्पान्तकरालमासीत् ॥ ंो_४,२८.२३ ॥ आ समन्तात् । खण्डिताः कुड्यकोणाः यस्य । तत् । तादृशम् ॥ ंोट्_४,२८.२३ ॥ भ्रान्तं भृशं भ्रमितदिक्तटमद्रिकूटैर् आत्मप्रमाणघनहेतिहतै रणद्भिः । कूजद्भिरार्तिभिरिवाग्रगुहौघवातैः क्रन्दद्भिरापतितसिंहरवैरदभ्रैः ॥ ंो_४,२८.२४ ॥ अद्रिकूटैः कर्तृभिः । भृशं भ्रान्तं भ्रमयुक्तैः ज्ञातम् । कथं भ्रान्तम् । भ्रमितानि भ्रमयुक्तानि कृतानि । दिक्तटानि यत्र । तत् । अद्रिकूटैः कथम्भूतैः । आत्मप्रमाणा अद्रिकूटप्रमाणाः । याः घनहेतयः । ताभिः हताः । तैः । अत एव रणद्भिः । पुनः कथम्भूतैः । गुहौघाग्राणां वाताः अग्रगुहौघवाताः । तैः । तद्व्याजेनेति यावत् । आर्तिभिरिव कूजद्भिः । आर्त्या युक्तो हि कूजति । पुनः कथम्भूतैः । आपतिताः ये सिंहाः । तेषां ये रवाः । तैः । तद्व्याजेनेति यावत् । क्रन्दद्भिः रवैः कथम्भूतैः । अदभ्रैः उत्कटैः ॥ ंोट्_४,२८.२४ ॥ मायानदीजलधियोधघनाग्निदाहैर् वृक्षैः सुरासुरशवैरचलैः शिलौघैः । भ्रान्तं शिरस्त्रशरशक्तिगदास्त्रवर्षैर् वातावकीर्णवनपर्णवदम्बरान्तः ॥ ंो_४,२८.२५ ॥ अम्बरान्तः आकाशमध्यम् । वातेनावकीर्णं वलितम् । यत्वनपर्णम् । तद्वत् । भ्रान्तं भ्रमयुक्तमासीत् । कैः भ्रान्तमासीत् । न हि अम्बरमध्यस्य भ्रमो युक्त इत्यपेक्षायामाह मायानदीत्यादि । अम्बरान्तश्चारिणां मायानद्यादीनामेव भ्रमः अम्बरान्तः भ्रमत्वेनारोपितः ॥ ंोट्_४,२८.२५ ॥ अद्रीन्द्रपक्षपरिमाणगमागमैक दुर्वारहस्ततलदारुणताडनैर्द्राक् । आसीत्पतद्भटशरीरगिरीन्द्रघात विभ्रष्टदेवपुरपूर्णजलार्णवौघः ॥ ंो_४,२८.२६ ॥ अद्रीन्द्रपक्षपरिमाणाश्च ते गमागमैकदुर्वाराश्च । तादृशाः ये हस्ताः । तेषां यानि तलानि । तैः यानि ताडनानि । तैः कृत्वा । द्राक्शीघ्रम् । पतन्तः ये भटशरीराण्येव गिरीन्द्राः । तेषां ये घाताः । तैः भ्रष्टानि यानि देवपुराणि । तैः पूर्णजलश्चासौ अर्णवौघः समुद्रसप्तकम् । सः । आसीत्जात इत्यर्थः ॥ ंोट्_४,२८.२६ ॥ घनघुङ्घुमपूरितान्तरिक्षा क्षतजाक्षालितभूधरान्तराला । रुधिरह्रदवृत्तिवर्तिनी वा भुवनाभोगगुहा तदाकुलाभूत् ॥ ंो_४,२८.२७ ॥ भुवनाभोगः भुवनविस्तारः । स एव गुहा । तदा तस्मिन् समये । आकुला अभूत् । कथम्भूता । घनः यः घुङ्घुमः युद्धकोलाहलः । तेनापूरितमन्तरिक्षं यस्याः । सा । तादृशी । क्षतजैः रुधिरैः । आ समन्तात् । क्षालितानि भूधरान्तरालानि यस्याः । सा । रुधिरह्रदरूपा या वृत्तिः स्थानम् । तत्र वर्तत इति तादृशी । स्थितौ स्थितिमतीतिवत्प्रयोगः । गुहा च मषकघुङ्घुमपूरितान्तरिक्षा वृष्टिक्षालितभूधरान्तराला ह्रदवर्तिनी च भवति ॥ ंोट्_४,२८.२७ ॥ सर्गान्तश्लोकेन अस्य रणस्य संसारसाम्यं कथयति अनन्तदिक्प्रसरविकारकारिणी क्षयोदयोन्मुखसुखदुःखदायिनी । रणक्रियासुरसुरसङ्घसङ्कटा तदाभवत्खलु सदृशीह संसृतेः ॥ ंो_४,२८.२८ ॥ खलु निश्चये । सा रणक्रिया इह सम्सृतिसदृशी अभवत् । कथम्भूता । अनन्तदिक्षु यः प्रसरः । तेन विकारं हिंसाख्यं विकारम् । करोतीति तादृशी । क्षयोदयोन्मुखे ये सुखदुःखे । ते ददातीति तादृशी । असुरसुरसङ्घेन सङ्कटा सम्बाधा । संसृतिरपि प्रसरेण बन्धाख्यं विकारं करोति । सुखदुःखदायिनी नानापदार्थसङ्कटा च भवति । इति शिवम् ॥ ंोट्_४,२८.२८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे अष्टाविंशः सर्गः ॥२८॥ ********************************************************************* युद्धमुपसंहरति एवम्प्रायाकुलारम्भैरसुरैरसुहारिभिः । महासाहससंरब्धैरारब्धमरणै रणैः ॥ ंो_४,२९.१ ॥ माययाथ विवादेन सन्धिना विग्रहेण च । पलायनेन धैर्येण च्छद्मनोपायनेन च ॥ ंो_४,२९.२ ॥ कार्पण्येनास्त्रयुद्धेन स्वान्तर्धानैश्च भूरिशः । कृतः स समरो देवैस्त्रिंशद्वर्षाणि पञ्च च ॥ ंो_४,२९.३ ॥ देवैः त्रिंशत्पञ्च च वर्षाणि पञ्चत्रिंशद्वर्षाणि । असुरैः सह । सः समरः कृतः । केन केन प्रकारेण कृत इत्यपेक्षायां माययेत्यादि । उपायनेन समीपगमनेन । कार्पण्येन दीनतया । स्वान्तर्धानैः मायोद्भावितैः निजगोपनैः । असुरैः कथम्भूतैः । एवम्प्रायः बाहुल्येनैतादृशः । समारम्भः येषाम् । तैः । असुहारिभिः जीवहारिभिः । महासाहसे संरब्धाः संरम्भयुक्ताः । तैः । पुनः कथम्भूतैः । रणैः कृत्वा आरब्धं मरणं यैः । ते । तादृशैः । तिलकम् ॥ ंोट्_४,२९.१३ ॥ वर्षाणि दिवसान्मासान् दशाष्टौ पञ्च सप्त च । वर्षाणि पेतुर्वृक्षाग्निहेत्यम्ब्वशनिभूभृताम् ॥ ंो_४,२९.४ ॥ वृक्षाग्निहेत्यम्ब्वशनिभूभृतां वर्षाणि वृष्टयः । पेतुः । कियन्तं कालम् । दश वर्षाणि । अष्टौ मासान् । पञ्च सप्त च द्वादशेति यावत् । दिवसान् । अर्थातन्यस्मिन् काले सन्ध्यादिरेवाभूतिति ज्ञेयम् ॥ ंोट्_४,२९.४ ॥ एतावता तु कालेन दृढाभ्यासादहङ्कृतेः । दामादयोऽहमित्यास्थां जगृहुर्ग्रस्तचेतसः ॥ ंो_४,२९.५ ॥ अहङ्कृतेः वयं योत्स्याम इत्येवंरूपस्याहङ्कारस्य । ग्रस्तमहङ्कारग्रस्तम् । चेतः येषाम् । ते । तादृशाः ॥ ंोट्_४,२९.५ ॥ नैकट्यातिशयाद्यद्वद्दर्पणं बिम्बवद्भवेत् । अभ्यासातिशयात्तद्वत्तेऽप्यहङ्कारितां गताः ॥ ंो_४,२९.६ ॥ नैकट्यातिशयात्सान्निध्योद्रेकात् । बिम्बवत्प्रतिबिम्बयुक्तम् ॥ ंोट्_४,२९.६ ॥ यद्वद्दूरतरं वस्तु नादर्शे प्रतिबिम्बते । पदार्थवासना तद्वदनभ्यासान्न जायते ॥ ंो_४,२९.७ ॥ दूरतरं बहुदूरात् । पदार्थेषु युद्धादिभावेषु । वासना मयेदं कृतमित्येवंरूपः संस्कारः ॥ ंोट्_४,२९.७ ॥ यदा दामादयो जाता जाताहङ्कारवासनाः । तदा मे जीवितं मेऽर्थ इति दैन्यमुपागमन् ॥ ंो_४,२९.८ ॥ यदा दामादयः दामव्यालकटाः । जाता उत्पन्ना । अहङ्कारवासना येषाम् । ते । तादृशाः । जाताः सम्पन्नाः । तदा मे जीवितं मे अर्थ इति एवंरूपम् । दैन्यं दीनताम् । उपागमनुपागताः । अहङ्काराभावे हि भित्तिरहितं ममतारूपं दैन्यं न स्यातेव । तत्सत्तायां तु प्राप्ताधारत्वेन तद्दुर्निवारमेवेति भावः ॥ ंोट्_४,२९.८ ॥ भयवासनया ग्रस्ता मोहवासनया हताः । आशापाशनिबद्धास्ते ततः कृपणतां गताः ॥ ंो_४,२९.९ ॥ ततः दैन्योपागमनानन्तरम् । ते दामादयः । भयस्य देहनाशशङ्काद्युत्पन्नाया भीतेः । या वासना संस्कारः । तया ग्रस्ताः वशीकृताः । तथा मोहस्य अनात्मनि शरीरादौ आत्मत्वभावनारूपस्याज्ञानस्य । या वासना । तया हताः बाधिताः । आशापाशैः स्वात्मत्वाभिमानविषयीकृतशरीराद्यर्थं धनादिविषयैः आशापाशैः । निबद्धाः स्वाधिनीकृताः । कृपणतां दैन्यस्य परां काष्ठाम् । गताः ॥ ंोट्_४,२९.९ ॥ ननु ततः किं तेषां सम्पन्नमित्य् । अत्राह मुधैव ह्यनहङ्कारैर्ममत्वमुपकल्पितम् । रज्ज्वां भुजङ्गत्वमिव दामव्यालकटैस्ततः ॥ ंो_४,२९.१० ॥ हि निश्चये । अनहङ्कारैः अहङ्काररहितैः । दामव्यालकटैः । ततः अहङ्कारवशेन दैन्यगमनानन्तरम् । ममत्वं ममता । मुधा एव व्यर्थमेव । उपकल्पितं कल्पनया दृढीकृतम् । किमिव । रज्ज्वां भुजङ्गत्वमिव । अत्यन्तं मिथ्याभूतमित्यर्थः ॥ ंोट्_४,२९.१० ॥ ममत्वमेव कथयति आपादमस्तकं देहलतेयं भवतु स्थिरा । ममेति तृष्णाकृपणा दीनतां ते समाययुः ॥ ंो_४,२९.११ ॥ स्पष्टम् ॥ ंोट्_४,२९.११ ॥ स्थिरीभवतु मे देहः सुखायास्तु धनं मम । इति बद्धधियां तेषां धैर्यमन्तर्धिमाययौ ॥ ंो_४,२९.१२ ॥ स्पष्टम् ॥ ंोट्_४,२९.१२ ॥ अवासनत्वाद्वपुषामनास्थत्वात्सुरद्विषाम् । याभूत्प्रहारपरता मार्जितैवाशु साभवत् ॥ ंो_४,२९.१३ ॥ सुरद्विषां दामव्यालकटानाम् । अवासनत्वात्वासनाराहित्यात् । तथा वपुषामनास्थत्वात्शरीरास्थारहितत्वात् । या प्रहारपरता अभूत्पूर्वमासीत् । सा आशु मार्जिता नष्टा । अभवत् । अहङ्कारप्रभावेन देहनाशादिभयोत्पादातित्यर्थः ॥ ंोट्_४,२९.१३ ॥ कथं स्थिरा जगत्यस्मिन् भवेम इति चिन्तया । वेधिता दीनतां जग्मुः पद्मा इव निरम्भसः ॥ ंो_४,२९.१४ ॥ वेधिताः व्याप्ताः ॥ ंोट्_४,२९.१४ ॥ तेषां त्वर्थान्नपानेषु स्वाहङ्कृतिमतां रतिः । बभूव भवभावस्था भीषणा भवभागिनी ॥ ंो_४,२९.१५ ॥ स्वा अहङ्कृतिर्देहविषयः अहङ्कारः विद्यते येषाम् । ते । तादृशाः । तेषां रतिः आसक्तिः । राग इति यावत् । भवभावस्था संसारिकपदार्थविषया । भवभागिनी संसारप्रदा ॥ ंोट्_४,२९.१५ ॥ अथ तस्मिन् रणे भीत्या सापेक्षत्वमुपाययुः । मत्तेभगणसंरब्धा वने हरिणका इव ॥ ंो_४,२९.१६ ॥ सापेक्षत्वं मा मरिष्याम इत्येवंरूपापेक्षासहितत्वम् । भीत्या मरणभयेन । हरिणकाः कथम्भूताः । मत्तेभानां यः गणः । तेन संरब्धाः क्षोभयुक्ताः कृताः ॥ ंोट्_४,२९.१६ ॥ सापेक्षत्वमेव स्पष्टयति मरिष्यामो मरिष्याम इति चिन्ताहताशयाः । मन्दं मन्दं किल भ्रेमुः कुपितैरावणे रणे ॥ ंो_४,२९.१७ ॥ भ्रेमुः भ्रमन्ति स्म ॥ ंोट्_४,२९.१७ ॥ शरीरैकार्थिनां तेषां भीतानां मरणादिति । अल्पसत्त्वतया मूर्ध्नि कृतमापत्प्रदं पदम् ॥ ंो_४,२९.१८ ॥ शरीरमेकं केवलम् । अर्थयन्ते इति तादृशानाम् । तथा मरणाद्भीतानाम् । तेषां मूर्ध्नि । इति पूर्वोक्तप्रकारेण । अल्पसत्त्वतया कर्त्र्या । पदं कृतम् । अल्पसत्त्वास्ते जाता इति भावः । पदं कथम्भूतम् । आपत्प्रदं विपत्प्रदमित्यर्थः ॥ ंोट्_४,२९.१८ ॥ अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगतं भटम् । न शेकुरिन्धनक्षीणा हविर्दग्धुमिवाग्नयः ॥ ंो_४,२९.१९ ॥ प्रम्लानसत्त्वाः नष्टधैर्याः । न शेकुः न समर्थाः जाताः । क्षीणमिन्धनं येषाम् । ते इन्धनक्षीणाः ॥ ंोट्_४,२९.१९ ॥ विबुधानां प्रहरतां सुदम्यतामुपागताः । क्षतविक्षतसर्वाङ्गास्तस्थुः सामान्यवद्भटाः ॥ ंो_४,२९.२० ॥ विबुधानां देवानाम् । सुदम्यतां सुनिग्राह्यताम् ॥ ंोट्_४,२९.२० ॥ बहुनात्र किमुक्तेन मरणाद्भीतचेतसः । दैत्या देवेषु वल्गत्सु दुद्रुवुः समराजिरात् ॥ ंो_४,२९.२१ ॥ स्पष्टम् ॥ ंोट्_४,२९.२१ ॥ तेषु द्रवत्सु सर्वेषु सर्वतो दानवाद्रिषु । दामव्यालकटाख्येषु विख्यातेष्वसुरालये ॥ ंो_४,२९.२२ ॥ तद्दैत्यसैन्यमपतत्खाद्विद्रुतमितस्ततः । कल्पान्तपवनाधूतं ताराजालमिवाभितः ॥ ंो_४,२९.२३ ॥ स्पष्टम् ॥ ंोट्_४,२९.२२२३ ॥ कुत्रापतदित्यपेक्षायामाह अमराचलकुञ्जेषु शिखराणां शिलासु च । तटेषु वारिराशीनां पयोदपटलेषु च ॥ ंो_४,२९.२४ ॥ स्पष्टम् ॥ ंोट्_४,२९.२४ ॥ सागरावर्तगर्तेषु श्वभ्रेष्वथ सरित्सु च । जङ्गलेषु दिगन्तेषु ज्वलत्सु विपिनेषु च ॥ ंो_४,२९.२५ ॥ स्पष्टम् ॥ ंोट्_४,२९.२५ ॥ तद्रणोत्सन्नकोशेषु ग्रामेषु नगरेषु च । अटवीषूग्रयक्षासु मरुषूद्यद्दवाग्निषु ॥ ंो_४,२९.२६ ॥ तेषामसुराणाम् । रणेन उत्सन्नः विशीर्णः । कोशः मध्यं येषाम् । तेषु ॥ ंोट्_४,२९.२६ ॥ लोकालोकाचलान्तेषु पर्वतेषु ह्रदेषु च । अन्ध्रद्रमिडकाश्मीरपारसीकपुरेषु च ॥ ंो_४,२९.२७ ॥ स्पष्टम् ॥ ंोट्_४,२९.२७ ॥ नानाम्भोधितरङ्गासु गङ्गाजलघटासु च । द्वीपान्तरेषु दूरेषु जम्बुषण्डलतासु च ॥ ंो_४,२९.२८ ॥ दूरेषु दूरवर्तिषु ॥ ंोट्_४,२९.२८ ॥ सर्वतः पर्वताकाराः पतितास्तेऽसुरालयः । विस्फोटिताङ्गचरणा वं हसन्तीत्य् । अत्राह अक्षीबक्षीबयोरैक्यं क्व किलेहाज्ञतज्ज्ञयोः । आन्ध्यप्रकाशयोर्बोधे स्याच्छायातपयोरिव ॥ ंो_४,३१.२२ ॥ अक्षीबक्षीबयोः स्वात्मानन्दाख्यमधुपानेन तदपानेन च संसारं प्रति विस्मरणाविस्मरणशीलयोः । तज्ज्ञाज्ञयोर्बोधे अनुभवे । ऐक्यं परस्परसम्मतिरूपमैक्यम् । क्व स्यात् । न स्यादित्यर्थः । न हि क्षीबाक्षीबयोरिह बोधे सम्मतिः दृश्यत इति भावः । अतः एते हसन्तीत्याशयः । तयोः कयोरिव । छायातपयोरिव । यथा आन्ध्यप्रकाशरूपयोः छायातपयोः बोधे पदार्थप्रकटनाख्ये बोधे । ऐक्यं नास्ति । तथेत्यर्थः ॥ ंोट्_४,३१.२२ ॥ ननु किमर्थं तयोः बोधे ऐक्यं नास्तीत्य् । अत्राह यत्नेनाप्यनुभूतेऽर्थे सत्ये कर्तुमपह्नवम् । तज्ज्ञोऽज्ञश्च न शक्नोति शव आक्रमणं यथा ॥ ंो_४,३१.२३ ॥ अनुभूते । अत एव सत्ये सत्यतया ज्ञाते । अर्थे चिन्मात्राख्ये जगदाख्ये च वस्तुनि । तज्ज्ञः अज्ञः च यत्नेनापि अपह्नवं कर्तुं न शक्नोति । पुरःस्फुरत्त्वात् । न हि पुरः स्फुरत्वस्तु कश्चिदपह्नोतुं शक्नोति । अत एव तयोः बोधे ऐक्यं नास्तीति भावः । कः यथा न शक्नोति । शवो यथा । यथा शवः आक्रमणं पदार्थाक्रमणम् । न शक्नोति । तथेत्यर्थः ॥ ंोट्_४,३१.२३ ॥ ननु तर्हि अज्ञोऽप्येतदेव कथयत्वित्य् । अत्राह ब्रह्म सर्वं जगदिति वक्तुं तज्ज्ञस्य युज्यते । यतोऽविद्याननुभवे स तदेवानुभूतवान् ॥ ंो_४,३१.२४ ॥ सर्वं जगद्ब्रह्म भवति । इति एवम् । वक्तुं तज्ज्ञस्य चिन्मात्राख्यब्रह्मस्वरूपज्ञस्य । युज्यते । यतः स एव तज्ज्ञः एव । तत्ब्रह्म । अनुभूतवान् दृष्टवान् । कस्मिन् सति । अविद्यायाः अननुभवे जगत्पदार्थरूपैः भावाभावैः उपलक्षितायाः अविद्यायाः अदर्शने सति ॥ ंोट्_४,३१.२४ ॥ पुनरपि एतदेव कथयति प्रबुद्धविषये ह्येषा राम वाक्प्रविराजते । बुद्धस्यास्मीति रूपेण किल नास्त्येव किञ्चन ॥ ंो_४,३१.२५ ॥ हे राम । एषा वाक्सर्वं ब्रह्मेति वाक् । प्रबुद्धाख्यो यः विषयः योग्यो देशः । तत्र प्रविराजते । अर्थातबुद्धविषये न राजते इति ज्ञेयम् । ननु कथं तत्रैव राजते इत्य् । अत्राह बुद्धस्येति । यतः इति शेषः । यतः बुद्धस्य किञ्चन किञ्चिदपि शरीरादिकम् । अस्मीति रूपेण नास्ति अस्मीति ज्ञानविषयं नास्ति । अयं भावः । अज्ञः देहोऽहमिति निश्चितः तदुपयोगीनि वस्तून्यपि सत्यानीति जानाति । अन्यथा तदर्थं रात्रिन्दिनं प्रयत्नपरत्वायोगात् । ज्ञस्तु देहाभिमानाभावात्तदुपयोगिषु सत्यतां न जानाति । अन्यथा तद्विषयाया उपेक्षाया अयोगात् । इति तज्ज्ञस्यैव सर्वं ब्रह्मेति वक्तुं युक्तं नाज्ञस्येति ॥ ंोट्_४,३१.२५ ॥ ननु तज्ज्ञस्यास्या अनुभूतेः कदाचिदपह्नवोऽस्ति न वेत्य् । अत्राह ब्रह्मैवेदं परं शान्तमित्येवानुभवन् सुधीः । अपह्नवः स्वानुभूतेः कर्तुं तस्य न युज्यते ॥ ंो_४,३१.२६ ॥ सुधीः ज्ञः । इदं जगत् । शान्तं परं ब्रह्मैव भवति । इत्येव एवमेव । अनुभवन् भवति । अतः तस्य ज्ञस्य । अस्याः स्वानुभूतेः अपह्नवः कर्तुं न युज्यते युक्तो न भवति ॥ ंोट्_४,३१.२६ ॥ ननु तर्हि त्वं कथं श्रीवसिष्ठ इति नामयोग्योऽसीत्य् । अत्राह परस्माद्व्यतिरेकेण नाहमात्मनि किञ्चन । हेमनीवोर्मिकादित्वं न मय्यस्ति वसिष्ठता ॥ ंो_४,३१.२७ ॥ अहं वसिष्ठाख्यः अहम् । आत्मनि स्वस्मिन् । परस्मातुत्तीर्णात्चिन्मात्रात् । व्यतिरेकेण नास्मि । त्वं तु यत्पश्यसि तत्पश्येति भावः । अतो मयि वसिष्ठता वसिष्ठेति नामयोग्यता । नास्ति । किमिव । ऊर्मिकादित्वमिव । यथा ऊर्मिकादित्वं हेमनि नास्ति । तथेत्यर्थः । अतोऽहमपि वसिष्ठो नास्मीति भावः ॥ ंोट्_४,३१.२७ ॥ ननु यदि त्वं स्वात्मनीदृशोऽसि तर्हि मूढः कीदृशोऽस्तीत्य् । अत्राह भूतत्वव्यतिरेकेण मूढो नात्मनि किञ्चन । ऊर्म्यादिबुद्धौ हेमेव नाज्ञेऽस्ति परमार्थता ॥ ंो_४,३१.२८ ॥ मूढः चिन्मात्रस्वरूपपरमात्मज्ञानहीनः । आत्मनि । भूतत्वव्यतिरेकेण देहभावादृते । किञ्चन किञ्चिदपि । नास्ति । तज्ज्ञस्तु तं यद्रूपं पश्यति तद्रूपं पश्यत्विति भावः । यतः अज्ञे परमार्थता परमार्थभूतचिन्मात्रभावः । नास्ति । स हि स्वं चिन्मात्ररूपं न पश्यति । किमिव । हेमेव । यथा ऊर्म्यादिबुद्धौ ऊर्मिकादिबुद्धौ सति । हेम नास्ति । तथेत्यर्थः ॥ ंोट्_४,३१.२८ ॥ सङ्गृह्य कथयति मिथ्याहन्तामयो मूढः सत्यैकात्ममयः सुधीः । युज्यते न क्वचिन्नाम स्वभावापह्नवोऽनयोः ॥ ंो_४,३१.२९ ॥ मूढः अज्ञः । मिथ्याभूता या अहन्ता देहविषयः अहङ्कारः । तन्मयः भवति । सुधीः तज्ज्ञः । सत्यः सत्यभूतः । यः एकात्मा सर्वव्यापकः परमात्मा । तन्मयः भवति । नाम निश्चये । अनयोः मूढसुधियोः । स्वभावस्य मिथ्याहङ्काराख्यस्य परमार्थाख्यस्य च स्वरूपस्य । अपह्नवः अपलापः । क्वचित्न युज्यते । न हि पुरः स्फुरत्स्वस्वरूपं कश्चिदपह्नोतुं शक्नोति ॥ ंोट्_४,३१.२९ ॥ एतदेव सदृष्टान्तमाह यो यन्मयस्तस्य तस्मिन् युज्यतेऽपह्नवः कथम् । पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्ततैव हि ॥ ंो_४,३१.३० ॥ यः पुरुषः । यन्मयः निश्चयद्वारेण यत्स्वरूपः स्यात् । तस्य पुरुषस्य । तस्मिन् स्वरूपे । अपह्नवः कथं स्यात् । हि यस्मात् । पुरुषस्य घटोऽस्मीति वाक्यमुन्मत्तता एव भवति । अतः ब्रह्मात्मत्वे निश्चितस्य ज्ञस्य स्थूलदेहात्मत्वे निश्चितस्याज्ञस्य च स्वानुभूतेरपह्नवः न युक्त इति भावः ॥ ंोट्_४,३१.३० ॥ प्रकृतं फलितत्वेनानुस्मरति तस्मान्नेमे वयं सत्या न च दामादयः क्वचित् । असत्यास्ते वयं चेमे नास्ति नः खलु सम्भवः ॥ ंो_४,३१.३१ ॥ यतः स्वप्रतीतिसिद्धमेवास्माकं दामादीनां च स्वरूपं तस्मात्ततो हेतोः । इमे वयं सत्याः न भवामः । दामादयश्च सत्याः न भवन्ति । प्रत्युत ते दामादयः । असत्याः भवन्ति । इमे वयं चासत्या भवामः । यतः नः स्थूलरूपाणामस्माकम् । सम्भवः सत्तायोग्यता । नास्ति । न हि प्रतीतिमात्रेणासद्वस्तु सद्भवितुमर्हति । शशशृङ्गादेरपि सत्त्वप्रसङ्गादिति भावः ॥ ंोट्_४,३१.३१ ॥ ननु तर्हि तज्ज्ञस्यापि चिन्मात्राख्यं स्वरूपमस्मदादिवत्प्रतीतिसिद्धमेवास्तीति सोऽपि असदेव स्यादित्य् । अत्राह सत्यसंवेदनं शुद्धं बोधालाशं निरञ्जनम् । सत्यं सर्वगतं शान्तमस्त्यनस्तमितोदयम् ॥ ंो_४,३१.३२ ॥ सत्यं यत्संवेदनम् । तद्रूपं घटादिसंवेद्यादूषितसंवेदनरूपमिति यावत् । न हि घटादिसंवेद्योपहितस्य संवेदनस्य सत्यत्वं युक्तम् । संवेद्यनाशेन तस्यापि नष्टकल्पत्वात् । नापि संवेद्यस्य सत्यत्वं युक्तम् । प्रतीतिमात्रसारत्वात् । शुद्धं चेत्याख्यमलादूषितम् । अत एव निरञ्जनं निर्लेपम् । सत्यं सर्वसारत्वेन स्थितत्वात्सत्यं रूपम् । सर्वगतं साक्षितया सारत्वेन च स्थितत्वात्सर्वव्यापकम् । शान्तं स्वस्वरूपे विश्रान्तम् । अनस्तमितोदयं बोधाकाशं चिन्मात्राकाशम् । अस्ति परमार्थतः सत्तां भजति । अतः प्रतीतिमात्रसिद्धत्वाभावात्परमार्थसति चिन्मात्रस्वरूपे स्वतया निश्चितस्य ज्ञस्य नासत्यत्वमिति भावः ॥ ंोट्_४,३१.३२ ॥ चिदात्मानमेव पुनः पुनः विशिनष्टि सर्वं सत्तच्च निःशून्यं नकिञ्चिदिव संस्थितम् । तत्र व्योम्नि विभान्तीमा निजा भासोऽङ्ग दृष्टयः ॥ ंो_४,३१.३३ ॥ सत्सर्वोपादनत्वेन स्थितत्वात्सत्स्वरूपम् । न हि असतुपादानीभवितुमर्हति । अत एव निःशून्यं शून्येतरस्वरूपम् । तथापि नकिञ्चितिव स्थितं बाह्यान्तःकरणागोचरत्वात्शून्यवत्तिष्ठत् । तत्चिन्मात्राख्यं वस्तु । सर्वं समस्तं जगत् । भवति । अत्र हेतुत्वेनोत्तरार्धं कथयति तत्रेति । यत इति शेषः । यतः तत्र व्योम्नि चिन्मात्राकाशे । इमाः पुरः स्फुरन्त्यः । दृष्टयः जगद्रूपाः प्रतीतयः । विभान्ति स्फुरन्ति । दृष्टयः काः । निजाः भासः निजानि कचकानि । न तु स्वव्यतिरिक्ता इत्यर्थः । सर्वसंवित्साक्षिकेण स्वप्नदृष्टान्ते एतत्स्वसिद्धमेवेति नात्रायस्तम् ॥ ंोट्_४,३१.३३ ॥ एतदेव सदृष्टान्तं कथयति यथा तैमिरिकाक्षस्य सहजा एव दृष्टयः । केशोण्डुकादिवद्भान्ति तथेमास्तत्र सृष्टयः ॥ ंो_४,३१.३४ ॥ यथा तैमिरिकाक्षस्य तिमिररोगोपहतनेत्रस्य पुरुषस्य । सहजाः एव । न त्वागन्तुकाः । दृष्टयः नेत्ररश्मयः । केशोण्डुकादिवत्केशकूर्चादिवत् । भान्ति स्फुरन्ति । तथा तत्र चिन्मात्राख्य आकाशे । इमाः सृष्टयः भान्ति । एता अपि चिन्मात्ररश्मिरूपा एवेति भावः । आदिशब्देन द्विचन्द्रादेः ग्रहणम् ॥ ंोट्_४,३१.३४ ॥ ननु केन यत्नेन निजरश्मिरूपं जगदसौ करोतीत्य् । अत्राह स आत्मानं यथा वेत्ति तथानुभवति क्षणात् । चिदाकाशस्ततोऽसत्यमपि सत्यं तदीक्षणात् ॥ ंो_४,३१.३५ ॥ सः चिदाकाशः । आत्मानं स्वस्वरूपम् । यथा येन प्रकारेण युक्तम् । वेत्ति जानाति । तथा तेन प्रकारेण युक्तम् । अनुभवति साक्षात्पश्यति । अतः असत्यमपि जगत् । तदीक्षणात्चिदाकाशस्य वीक्षणात् । सत्यं भवति । स्वप्नजगदिव स्वप्नद्रष्ट्रा वीक्षणात् । अतो यत्नरहितमेवासौ एतत्करोतीति भावः ॥ ंोट्_४,३१.३५ ॥ फलितं सिद्धान्तं कथयति न सत्यमस्ति नासत्यमिह तस्माज्जगत्त्रये । यद्यथा वेत्ति चिद्रूपं तत्तथोदेत्यसंशयम् ॥ ंो_४,३१.३६ ॥ तस्मात्ततो हेतोः । इह जगत्त्रये किञ्चित्न सत्यमस्ति नापि असत्यमस्ति । चिद्रूपं चिदात्म । यत्वस्तु । यथा वेत्ति । तत्तथा असंशयमुदेति । स्वप्नवदिति शेषः ॥ ंोट्_४,३१.३६ ॥ अनेन फलितं दामादिसाम्यं स्वस्य कथयति यथा दामादयस्तद्वदेवेमेऽभ्युदिता वयम् । सत्यासत्याः किमत्राङ्ग तान् प्रत्यपि विकल्पना ॥ ंो_४,३१.३७ ॥ अत इति शेषः । अतः यथा दामादयः सत्यासत्याः भासमानत्वेन सत्याः परमार्थतस्त्वसत्याः । अभ्युदिताः प्रादुर्भूताः भवन्ति । इमे वयं तद्वदेव सत्यासत्याः अभ्युदिताः भवामः । तुल्यन्यायातिति भावः । हे अङ्ग । अतः अत्र इहलोके । तान् प्रत्यपि तान् प्रत्येव । विकल्पना सत्यत्वकल्पना । किमस्ति । यदि स्वसत्यं कल्पयसि तर्हि तानपि कुर्विति भावः ॥ ंोट्_४,३१.३७ ॥ ननु कथं दामादीनामस्माकं च परस्परं साम्यमस्तीत्य् । अत्राह अस्यानन्तस्य चिद्व्योम्नः सर्वगस्य निराकृतेः । चिदुदेति यथा यान्तस्तथा सा तत्र भात्यलम् ॥ ंो_४,३१.३८ ॥ अस्यात्मत्वेन स्फुरतः । अनन्तस्य अन्तसाक्षित्वेनापि स्थितत्वादन्तरहितस्य । सर्वगस्य सर्वव्यापकस्य । निराकृतेः परिच्छिन्नाकाररहितस्य । चिद्व्योम्नः चिदाकाशस्य । सम्बन्धिनी या चित्चिदाख्यः स्पन्दः । अन्तः स्वभित्तौ । यथा येन रूपेण । उदेति स्फुरति । सा चित् । तत्र तस्यां चिन्मात्रभित्तौ । तथा तेन रूपेण । भाति कचति । स्वप्नवतिति शेषः ॥ ंोट्_४,३१.३८ ॥ ननु तथापि किं प्रकृते आयातमित्य् । अत्राह यत्र दामादिरूपेण संवित्प्रकचते स्वयम् । तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ंो_४,३१.३९ ॥ तथाकारस्य दामाद्याकारस्य यानुभूतिः । ततः ॥ ंोट्_४,३१.३९ ॥ अस्मदादिस्वरूपेण संविद्यत्रोदिता स्वयम् । तथासौ तत्र सम्पन्ना तथाकारानुभूतितः ॥ ंो_४,३१.४० ॥ तथाकारस्यास्मदाद्याकारस्य । या अनुभूतिः । ततः । तथा च दामादिभिः सहास्माकं साम्यमेवेति भावः ॥ ंोट्_४,३१.४० ॥ स्वस्वप्नप्रतिभासस्य जगदित्यभिधा कृता । चिद्व्योम्नो व्योमवपुषस्तापस्येव मृगाम्बुता ॥ ंो_४,३१.४१ ॥ व्योमवपुषः अत्यन्तशुद्धत्वाद्व्योमस्वरूपस्य । चिद्व्योम्नः सम्बन्धिनः । स्वः यः स्वप्नप्रतिभासः । तस्य जगदिति अभिधा जगदिति नाम । कृता । चिद्व्योम्नेति भावः । का इव । मृगाम्बुता इव । यथा तापस्य मृगाम्बुताम्बु इति नाम क्रियते । तथेत्यर्थः ॥ ंोट्_४,३१.४१ ॥ ननु तर्हि सर्वं चिद्व्योम जगन्मयमेव किमस्तीत्य् । अत्राह यत्र प्रबुद्धं चिद्व्योम तत्र दृश्याभिधा कृता । यत्र सुप्तं तु तेनैव तत्र मोक्षाभिधा कृता ॥ ंो_४,३१.४२ ॥ चिद्व्योम यत्र यस्मिन्नंशे । प्रबुद्धं जगद्रूपस्वपरामर्शयुक्तम् । भवति । तत्र तेनैव चिद्व्योम्नैव । दृश्याभिधा कृता । यत्र यस्मिन् भागे । सुप्तं जगद्रूपस्वरूपामर्शरहितम् । भवति । तत्र तेनैव मोक्षाभिधा कृता । तथा च न सर्वं चिद्व्योम जगत्समयेवास्तीति भावः ॥ ंोट्_४,३१.४२ ॥ ननु तर्हि चिद्व्योम्नः सांशत्वमागतमित्य् । अत्राह न च तत्क्वचिदासुप्तं न प्रबुद्धं कदाचन । चिद्व्योम केवलं दृश्यं जगदित्यवगम्यताम् ॥ ंो_४,३१.४३ ॥ परमार्थविचारे क्रियमाणे तत्चिद्व्योम । क्वचित्कुत्राप्यंशे । कदाचन जातु । आसुप्तं न भवति । प्रबुद्धं च न भवति । तत्साक्षिकयोः स्वापप्रबोधयोः तद्व्यतिरेकेण सत्ताया अयोगात् । न च तदेव तस्य विशेषकं भवति । घटस्यापि घटविशेषकत्वप्रसङ्गात् । अतः परमार्थविचारयुक्तेन त्वया दृश्यं जगत्केवलं स्वापबोधादिधर्मरहितम् । चिद्व्योमेति अवगम्यतां ज्ञायताम् । प्रोक्तन्यायेन मोक्षजगत्त्वापादकयोः चिन्मात्राश्रययोः स्वापबोधयोरसम्भवात् ॥ ंोट्_४,३१.४३ ॥ अत्यन्तरहस्यत्वात्पुनः पूर्वश्लोकपूर्वार्धोक्तमेवार्थं कथयति निर्वाणमेव सर्गश्रीः सर्गश्रीरेव निर्वृतिः । नानयोः शब्दयोरर्थभेदः पर्याययोरिव ॥ ंो_४,३१.४४ ॥ निर्वाणमचेत्यचिन्मात्रम् । निर्वृतिः निर्वाणम् । यथा तरङ्गजलयोः भेदो न युक्तः । तथा सर्गनिर्वाणयोरपि भेदो न युक्त इति भावः ॥ ंोट्_४,३१.४४ ॥ ननु तर्हि जगदिति शब्दज्ञानयोः का गतिरित्य् । अत्राह परमार्थे जगदिति रूपं वेत्ति स्वयं स्वकम् । यथा तैमिरिकं चक्षुः केशोण्डुकमिवेक्षितम् ॥ ंो_४,३१.४५ ॥ असौ अचेत्यचिदात्मा परमार्थे परमार्थभूते स्वस्वरूपे । स्वयं जगदिति रूपं वेत्ति । जगद्रूपतां पश्यतीति यावत् । किमिव । चक्षुरिव । यथा तैमिरिकं तैमिरिकसम्बन्धि चक्षुः स्वकं रश्मिरूपं स्वात्मानम् । केशोण्डुकमिव वेत्ति । तथेत्यर्थः । स्वकं कथम्भूतम् । ईक्षितं स्वस्माद्बहिःप्रसरणेन दृष्टम् । अन्यथा अतीन्द्रियत्वहानेः । अतीन्द्रियं हि इन्द्रियं सर्वैरुक्तम् ॥ ंोट्_४,३१.४५ ॥ ननु तर्हि केशोण्डुकवत्भासमानत्वात्जगत्किञ्चिदस्ति । तत्कथमस्य निर्वाणरूपत्वमुक्तमित्य् । अत्राह न तत्केशोण्डुकं किञ्चित्सा हि दृष्टिस्तथा स्थिता । नैवं दृश्यमिदं किञ्चिदित्थं चिद्व्योम संस्थितम् ॥ ंो_४,३१.४६ ॥ तत्भासमानम् । केशोण्डुकं किञ्चिदपि न भवति । हि यस्मात् । सा दृष्टिः तैमिरिकदृष्टिः । तथा केशोण्डुकरूपेण । स्थिता भवति । यतः सहस्रशः अन्विष्यमाणमपि केशोण्डुकं हस्तग्राह्यं न भवति । न चान्यत्तत्र तदधिष्ठानत्वयोग्यं वस्त्वस्ति । अतो ज्ञायते दृष्टिरेव तथात्वेन भासते इति भावः । प्रोक्तं न्यायं प्रकृतेऽपि सङ्घटयति नैवमिति । एवमिदं जगत् । किञ्चित्न भवति । चिद्व्योम चिदाकाशम् । इत्थं जगद्रूपेण । संस्थितं भवति । स्वप्ने हि चिद्व्योम्नः जगद्रूपेण संस्थितिर्दृष्टा । अतो न विरोध इति भावः ॥ ंोट्_४,३१.४६ ॥ सिद्धान्तं कथयति सर्वत्र सर्वमिदमस्ति यथानुभूतं नो किञ्चन क्वचिदिहास्ति च नानुभूतम् । शान्तं सदेकमिदमाततमित्थमास्ते सन्त्यक्तशङ्कमपभेदमतस्त्वमास्स्व ॥ ंो_४,३१.४७ ॥ यथानुभूतमेवमेव नानात्वेनानुभूतम् । इदं सर्वं सर्वत्रास्ति । भासमानत्वात् । नानुभूतमनुभवविषयतामगतं सत् । क्वचित्कुत्रचिदपि देशे । किञ्चित्लेशेनापि । नो अस्ति । अभासमानत्वात् । अनुभूतत्वमननुभूतत्वं च जगतः जाग्रदादौ सुषुप्तादौ च सर्वेषां स्वप्रतीतिसाक्षिकमेवेति । नात्रायासो युक्तः । ननु तर्हि सर्वदा सत्किमस्तीत्य् । अत्राह शान्तमिति । शान्तमनुभवितृत्वेन स्थितत्वातनुभूतत्वाननुभूतत्वाख्यविकाररहितम् । एकमद्वितीयम् । आततं समन्तात्व्यापकम् । इदमात्मत्वेन पुरः स्फुरत् । इत्थमनुभूतत्वाननुभूतत्वविकारग्रस्तजगद्रूपत्वेन स्फुरदिति शेषः । सत्सन्मात्राख्यं वस्तु । आस्ते सर्वदा तिष्ठति । अननुभूतत्वावस्थायामपि स्वाननुभूत्यनुभवितृत्वेन स्थितत्वात् । फलितं कथयति सन्त्यक्तेति । अतः त्वं सन्त्यक्तशङ्कं जगत्सत्यत्वशङ्कारहितम् । अभेदं भेदबुद्धिरहितम् । आस्स्व तिष्ठ ॥ ंोट्_४,३१.४७ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति शिलोदराकारघनं प्रशान्तम् महाचितो रूपमिदं खमच्छम् । नैवास्ति नास्तीति दृशौ क्वचित्स्तो यच्चास्ति तत्साधु तदेव भाति ॥ ंो_४,३१.४८ ॥ इदमच्छं खं नकिञ्चिद्रूपत्वात्निर्मलं जगदाख्यमाकाशम् । महाचितः रूपं स्वरूपम् । भवति । महाचितः रूपं कथम्भूतम् । शिलोदरस्य यः आकारः । तद्वद्घनम् । चिद्घनमित्यर्थः । अत एव प्रशान्तं चेत्याख्यक्षोभरहितम् । स्वप्नजगतः स्फुटं चिन्मात्ररूपत्वदर्शनादिति भावः । ननु तर्हि भावाभावबुद्धिः कथमस्तीत्य् । अत्राह नैवास्तीति । अस्ति नास्तीति दृशौ भावाभावबुद्धी । क्वचित्नैव स्तः । आभासमात्ररूपत्वादित्यर्थः । ननु तथापि कथं भासमानयोः भावाभावयोः अपह्नवः कर्तुं शक्यत इत्य् । अत्राह यच्चास्तीति । यच्च भावाभावरूपं किञ्चित्त्वद्दृष्ट्या अस्ति । तत्साधु सम्यक् । तदेव महाचिद्रूपमेव । अस्ति । तद्विना साक्षिरहितस्य तस्यासत्कल्पत्वात् । तत्प्रतीतिसिद्धत्वे तु स्वप्नपदार्थवत्तत्त्वानपायाच्चेति शिवम् ॥ ंोट्_४,३१.४८ ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरण एकत्रिंशः सर्गः ॥३१॥ ********************************************************************* ओम् । श्रीरामः पृच्छति सतामप्यसतामेव बालयक्षपिशाचवत् । दामव्यालकटादीनां दुःखस्यान्तः कथं भवेत् ॥ ंो_४,३२.१ ॥ दुःखस्य नानायोनिभ्रमणरूपस्य ॥ ंोट्_४,३२.१ ॥ श्रीवसिष्ठ उत्तरं कथयति दामव्यालकटार्थं तैस्तदैव यमकिङ्करैः । प्रार्थितेन यमेनोक्तमिदं शृणु रघूद्वह ॥ ंो_४,३२.२ ॥ स्पष्टम् ॥ ंोट्_४,३२.२ ॥ यमवाक्यं कथयति यदा वियोगमेष्यन्ति श्रोष्यन्ति च निजां कथाम् । दामादयस्तदा मुक्ता भविष्यन्तीत्यसंशयम् ॥ ंो_४,३२.३ ॥ इतिशब्दः यमवाक्यसमाप्तौ ॥ ंोट्_४,३२.३ ॥ अत्र श्रीरामः पृच्छति स्ववृत्तान्तमिमं कुत्र कदा कथय ते कथम् । श्रोष्यन्ति भगवन् केन वर्ण्यमानं यथाक्रमम् ॥ ंो_४,३२.४ ॥ हे भगवन् । त्वं यथाक्रमं कथय । ते दामादयः । इमं स्ववृत्तान्तं कुत्र देशे । कदा काले । केन वर्ण्यमाणम् । कथं केन प्रकारेण । श्रोष्यन्ति ॥ ंोट्_४,३२.४ ॥ श्रीवसिष्ठ उत्तरं कथयति कश्मीरेषु महापद्मसरसीतीरपल्वले । भूयो भूयोऽनुभूयैते मत्स्ययोनिपरम्पराम् ॥ ंो_४,३२.५ ॥ आलानिताशया लोलाः कालेन लयमागताः । तत्रैव पद्मसरसि ते भविष्यन्ति सारसाः ॥ ंो_४,३२.६ ॥ आलानिताशयाः बद्धमनसः ॥५६॥ तत्र कल्हारमालासु सरोजपटलीषु च । शेवालवरवल्लीषु तरङ्गवलनासु च ॥ ंो_४,३२.७ ॥ ललत्कुमुददोलासु नीलोत्पललतासु च । शीकरौघाभ्रलेखासु शीतलावर्तवृत्तिषु ॥ ंो_४,३२.८ ॥ सरःसारससम्भोगान् भुक्त्वा भुवनभूषणाः । विहृत्य सुचिरं कालमलमागतशुद्धयः ॥ ंो_४,३२.९ ॥ ते वियुक्ता भविष्यन्ति मुक्तये लब्धयुक्तयः । रजःसत्त्वतमांसीव भेदप्राप्त्या यदृच्छया ॥ ंो_४,३२.१० ॥ तरङ्गरूपाः याः वलनाः दोलाविशेषाः । तासु । सरःसारसानां सम्भोगाः । तान् । सारसोचितान् भोगानित्यर्थः । आगतशुद्धयः प्राप्तकाषायपाकाः । अत एव भुवनभूषणाः आर्षं पुंस्त्वम् । लब्धा युक्तिः वियोगरूपा युक्तिः यैः । ते । तादृशाः । यदृच्छया न तु प्रयत्नेन । ते कानीव । रजःसत्त्वतमांसीव । यथा तानि यदृच्छया सिद्धया । भेदप्राप्त्या वियुक्तानि भविष्यन्ति । तथेत्यर्थः ॥ ंोट्_४,३२.७१० ॥ कश्मीरमण्डलस्यान्तर्नगरं नगशोभितम् । नाम्नाधिष्ठानमित्येतच्छ्रीमत्तत्र भविष्यति ॥ ंो_४,३२.११ ॥ स्पष्टम् ॥ ंोट्_४,३२.११ ॥ प्रद्युम्नशिखरं नाम तस्य मध्ये भविष्यति । शृङ्गं लघु सरोजस्य कोशचक्रमिवोदरे ॥ ंो_४,३२.१२ ॥ कोशचक्रं कर्णिका ॥ ंोट्_४,३२.१२ ॥ तस्य मूर्ध्नि गिरेर्गेहं कोऽपि राजा करिष्यति । अभ्रङ्कषमहासालं शृङ्गे शृङ्गमिवापरम् ॥ ंो_४,३२.१३ ॥ स्पष्टम् ॥ ंोट्_४,३२.१३ ॥ गृहस्येशानकोणाद्रिशिरोभित्तिव्रणोदरे । तस्यानिशमविश्रान्तवातोद्धूततृणाङ्किते ॥ ंो_४,३२.१४ ॥ आलये दानवो व्यालः कलविङ्को भविष्यति । प्रथमाल्पश्रुतच्छात्त्र इवार्थरहितारटिः ॥ ंो_४,३२.१५ ॥ कलविङ्कः कथम्भूतः । अर्थरहितमारटति कूजतीति अर्थरहितारटिः । क इव । प्रथममल्पश्रुतः छात्त्रः प्रथमाल्पश्रुतच्छात्त्रः । स इव । अल्पश्रुतः छात्त्रो हि अर्थरहितमेव रटति । ततः कालेन तु सार्थमपि रटतीति प्रथमग्रहणम् ॥ ंोट्_४,३२.१४१५ ॥ तस्मिन्नेव तदा काले तत्र राजा भविष्यति । श्रीयशस्करदेवाख्यः शक्रः स्वर्ग इवापरः ॥ ंो_४,३२.१६ ॥ स्पष्टम् ॥ ंोट्_४,३२.१६ ॥ दानवो दामनामा तु मषकस्तस्य सद्मनि । भविष्यति बृहत्स्तम्भपृष्ठच्छिद्रे मृदुध्वनिः ॥ ंो_४,३२.१७ ॥ स्पष्टम् ॥ ंोट्_४,३२.१७ ॥ कटावस्थां प्रस्तौति अधिष्ठानाभिधे तस्मिन्नेवोग्रनगरे तदा । रत्नावलीविहाराख्यो विहारोऽपि भविष्यति ॥ ंो_४,३२.१८ ॥ विहारः क्रीडाप्रदेशः ॥ ंोट्_४,३२.१८ ॥ तस्मिंस्तद्भूमिपामात्यो नरसिंह इति श्रुतः । करामलकवद्दृष्टबन्धमोक्षो भविष्यति ॥ ंो_४,३२.१९ ॥ तस्मिन् तत्र विहारे । तस्य भूमिपस्यामात्यः तद्भूमिपामात्यः ॥ ंोट्_४,३२.१९ ॥ भविष्यति गृहे तस्य क्रीडनक्रकरः खगः । कटो मायासुरो नाम कृतहिञ्जीरपञ्जरः ॥ ंो_४,३२.२० ॥ कृतः हिञ्जीरपञ्जरः लोहपञ्जरः यस्य । तादृशः ॥ ंोट्_४,३२.२० ॥ स नृसिंहो नृपामात्यः श्लोकैर्विरचितामिमाम् । दामव्यालकटादीनां कथयिष्यति सङ्कथाम् ॥ ंो_४,३२.२१ ॥ नृसिंहः नरसिंहः । दामव्यालकटादीनां सम्बन्धिनीं कथाम् । आदिशब्देन शम्बरादीनां ग्रहणम् ॥ ंोट्_४,३२.२१ ॥ स कटः क्रकरः श्रुत्वा तां कथां संस्मृतात्मभूः । शान्तमिथ्याहमंशोऽन्तः परं निर्वाणमेष्यति ॥ ंो_४,३२.२२ ॥ क्रकरः पक्षविशेषरूपः । स कटः तां स्वसम्बन्धिनीं कथां श्रुत्वा । संस्मृता आत्मभूः स्वोत्पत्तिः येन । तादृशः । अत एव शान्तः मिथ्यारूपः अहमंशः यस्य । तादृशः सन् । परमुत्कृष्टम् । निर्वाणं ब्रह्मण्यात्यन्तिकं लयम् । एष्यति गमिष्यति ॥ ंोट्_४,३२.२२ ॥ प्रद्युम्नशिखरप्रान्तवास्तव्यः कलविङ्ककः । तथैव स्वकथां श्रुत्वा परं निर्वाणमेष्यति ॥ ंो_४,३२.२३ ॥ तथैव कटवतेव ॥ ंोट्_४,३२.२३ ॥ राजमन्दिरदार्वन्तर्व्रणवास्तव्यतां गतः । मषकोऽपि प्रसङ्गेन श्रुत्वा शान्तिमुपैष्यति ॥ ंो_४,३२.२४ ॥ प्रसङ्गेन कथाप्रसङ्गेन ॥ ंोट्_४,३२.२४ ॥ सङ्गृह्य कथयति प्रद्युम्नशृङ्गाच्चटको मषको राजमन्दिरात् । विहारात्क्रकरश्चेति मोक्षमेष्यन्ति राघव ॥ ंो_४,३२.२५ ॥ स्पष्टम् ॥ ंोट्_४,३२.२५ ॥ उपसंहारं करोति एष ते कथितः सर्वो दामव्यालकटक्रमः । मायेयमेव सांसारी शून्यैवात्यन्तभासुरा ॥ ंो_४,३२.२६ ॥ भ्रमयत्यपरिज्ञाता मृगतृष्णाम्बुधीरिव । संशाम्यति परिज्ञाता मृगतृष्णाम्बुधीरिव ॥ ंो_४,३२.२७ ॥ एवं दामादिवत् । अपरिज्ञाता किंरूपेयमित्यविचारिता ॥ ंोट्_४,३२.२६२७ ॥ महतोऽपि पदादेवं रामाज्ञानवशादधः । पतन्ति मोहिता मूढा दामव्यालकटा इव ॥ ंो_४,३२.२८ ॥ एवं दामादिवत् ॥ ंोट्_४,३२.२८ ॥ पदादधःपातमेव कथयति क्व भ्रूक्षेपविनिष्पिष्टमेरुमन्दरसह्यता । क्व राजगृहदार्वन्तर्व्रणे मषकरूपता ॥ ंो_४,३२.२९ ॥ स्पष्टम् ॥ ंोट्_४,३२.२९ ॥ क्व चपेटच्छटामात्रपातितार्केन्दुबिम्बता । क्व प्रद्युम्नगिरौ गेहे भित्तिव्रणविहङ्गता ॥ ंो_४,३२.३० ॥ स्पष्टम् ॥ ंोट्_४,३२.३० ॥ क्व पुष्पलीलयालोलकरतोलितमेरुता । क्वार्ष्यशृङ्गे नृसिंहस्य गृहे क्रकरपोतता ॥ ंो_४,३२.३१ ॥ अर्ष्यशृङ्गे प्रद्युम्नशृङ्गे ॥ ंोट्_४,३२.३१ ॥ ननु कथमापततः सत्यभूतस्याधःपातस्य निवृत्तिः शक्यक्रियेत्य् । अत्राह चिदाकाशो हि मिथ्यैव रजसारञ्जितप्रभः । स्वरूपमत्यजन्नेव विरूपमिव बुध्यते ॥ ंो_४,३२.३२ ॥ हि यस्मात् । चिदाकाशः मिथ्या रजसा रजोगुणाख्यदूल्या । आरञ्जितप्रभः रूषितप्रकाशः । स्वरूपं चित्त्वाख्यं स्वरूपम् । अत्यजन्नेव । विरूपमिव । भावप्रधाने निर्देशः । विरूपत्वमिव । स्वरूपविरुद्धं जडत्वमिव । बुध्यते अनुभवति । परमार्थतस्तु न बुध्यते इतीवशब्दोपादानम् । अतः रज्जुसर्पापातवत्विरूपत्वापरपर्यायाधःच्युत्यापातः न दुर्वार इति भावः ॥ ंोट्_४,३२.३२ ॥ पुनरप्येतदेव कथयति स्वयैव वासनाभ्रान्त्या सत्ययेवाप्यसत्यया । मृगतृष्णाम्बुबुद्ध्येव याति जन्तुरवान्तरम् ॥ ंो_४,३२.३३ ॥ जन्तुः चिदेकसारः देहाभिमानी जीवः । स्वया स्वाव्यतिरिक्तया । वासनाभ्रान्त्या शरीरे आत्मत्ववासनारूपेण भ्रमेण । अवान्तरं विश्रान्तिप्रदेशाद्भिन्नं शरीराहम्भावाख्यमवान्तरं प्रदेशम् । याति । कथम्भूतया । परमार्थतः असत्ययापि भासमानत्वात्सत्यया । अयं भावः । यथा पुरुषः कञ्चिद्देशं गन्तुकामः तद्देशवासनाकृतया भ्रान्त्यावान्तरप्रदेशान् याति । तथा जीवः चित्स्वरूपं स्वात्मानं गन्तुकामः तद्वासनाकृतया भ्रान्त्या देहरूपे आत्मनि तिष्ठतीति । अतः वासनाकृत एवाधःपातोऽस्तीति । वासनया कयेव । मृगतृष्णाम्बुबुद्ध्या इव । यथा मृगः विश्रान्तिस्थानभूतं जलदेशं गन्तुकामः मृगतृष्णाम्बुबुद्ध्या मरुदेशे तिष्ठति । तथेत्यर्थः ॥ ंोट्_४,३२.३३ ॥ ननु केनोपायेनाधःपातो निवर्तते इत्य् । अत्राह तरन्ति ते भवाम्भोधिं स्वप्रवाहधियैव ये । शास्त्रेणासदिदं दृश्यमिति निर्वासनं स्थिताः ॥ ंो_४,३२.३४ ॥ ते पुरुषाः । स्वप्रवाहबुद्ध्या एव स्वप्रवाहेन स्थिताः । न तु गुर्वादिप्रेरिता या बुद्धिः । तया एव । भवाम्भोधिं तरन्ति ते । के ये । शास्त्रेणोपायभूतेनाध्यात्मशास्त्रेण इति । निर्वासनं दृश्यसंस्काररहितम् । स्थिता इति । किमिति । इदमनुभूयमानम् । दृश्यम् । असत्सत्तारहितम् । भवति । प्रतीतिमात्रसारत्वातित्यर्थः । अतः शास्त्रस्यैवात्र मुख्यमुपायत्वमिति भावः ॥ ंोट्_४,३२.३४ ॥ शुष्कतर्काणामेतदुपायत्वं निर्वारयति तारारावविकारीणि शुष्कतर्कमतानि ये । यान्ति श्वभ्रजलान्याशु नाशुभं नाशयन्ति ते ॥ ंो_४,३२.३५ ॥ ये पुरुषाः । तारः उद्भटः । यः आरावः कथनम् । स एव विकारः । तद्युक्तानि तारारावविकारीणि । शुष्काः परमात्मतत्त्वनिर्णयाख्यरसराहित्येन मुखशोषकारिघटपटादिनिर्णयाख्यपारुष्येण च शुष्कतुल्याः । ये तर्काः तर्काभासाः । तद्युक्तानि मतानि शुष्कतर्कमतानि । यान्ति । तान्येवोपायत्वेनाश्रयम् । ते पुरुषाः । अशुभं संसाराख्यमनर्थम् । न नाशयन्ति । अपि तु नानाविकल्पग्रस्तत्वाद्वर्धयन्त्येवेति भावः । शुष्कतर्कमतानि कानि । श्वभ्रजलानि श्वभ्रजलतुल्यानीति यावत् । श्वभ्रजलान्यपि तारारावविकारीणि शुष्कानि दुष्प्रापत्वात्मलानाशकानि च भवन्ति ॥ ंोट्_४,३२.३५ ॥ ननु तर्हि केषामशुभनाशः सम्पद्यत इत्य् । अत्राह स्वानुभूतिप्रसिद्धेन मार्गेणागमगामिना । न विनाशो भवत्यङ्ग गच्छतां पततामिव ॥ ंो_४,३२.३६ ॥ हे अङ्ग । स्वा निजा । या अनुभूतिः अनुभवः । तेन प्रसिद्धेन स्वानुभवसिद्धेनेति यावत् । तथा आगमं सच्छास्त्रम् । अनुगच्छतीति तादृशेन मार्गेण गच्छतां विनाशः अशुभनाशरूपः विनाशः । न भवति । तेषामशुभं न नश्यतीत्यर्थः । तेषां केषामिव । पततामिव । यथा पततां कुमार्गलुठितानाम् । विनाशो भवति । तथैषां न भवतीति व्यतिरेकदृष्टान्तः । स्वमतविरुद्धनिवर्तनाय स्वानुभूतिप्रसिद्धेनेत्युक्तम् [...] ॥ ंोट्_४,३२.३६ ॥ ननु यदि तर्कमताश्रयणेनानर्थप्राप्तिः स्यात्तर्हि तदपेक्षया सांसारिको व्यवहार एव श्रेयानित्य् । अत्राह इदं मे स्यादिदं मे स्यादिति बुद्धिमतां मतिः । स्वेन दौर्भाग्यदैन्येन न भस्माप्युपतिष्ठते ॥ ंो_४,३२.३७ ॥ इदं वस्तु । मे मम । स्यात्भवतु । इदं मे स्यादिति एवम् । बुद्धिमतां बुद्धियुक्तानाम् । मतिः बुद्धिः । स्वेन दौर्भाग्यदैन्येन निजेन ममताख्यदारिद्र्यकृतेन दीनत्वेन । भस्मापि नोपतिष्ठते न प्राप्नोति । अनेकार्थत्वात्धातूनामुपपूर्वः तिष्ठतिरत्र प्राप्त्यर्थे वर्तते । आशामयस्य सांसारिकव्यवहारस्यात्मप्राप्त्युपायत्वे नामापि ग्रहीतुं न योग्यमिति । का कथा शुष्कतर्कात्श्रैष्ठ्यस्येति भावः ॥ ंोट्_४,३२.३७ ॥ प्रोक्तसांसारिकव्यवहाररहितस्य शुभप्राप्तिं कथयति वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम् । तं त्यजन्त्यापदः सर्वा रसतेव जरत्तृणम् ॥ ंो_४,३२.३८ ॥ यः उदारात्मा ममताख्यदारिद्र्यरहितः । नित्यं न तु अभिमतवस्तुप्राप्तिकाल एव । त्रैलोक्यमपि तृणं वेत्ति । तं पुरुषम् । सर्वाः आपदः त्यजन्ति । अतृप्तेरेवापच्छब्दप्रवृत्तिनिमित्तत्वात् । आपदः का इव । रसता इव । पादपूरणार्थो भावप्रत्ययः । रसः इव । यथा रसः जरत्तृणं त्यजति । तथेत्यर्थः ॥ ंोट्_४,३२.३८ ॥ ननु सर्वं त्यजतः कथं शरीरयात्रा सिध्यतीत्य् । अत्राह परिस्फुरति यस्यान्तर्नित्यं सत्त्वचमत्कृतिः । ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम् ॥ ंो_४,३२.३९ ॥ यस्य पुरुषस्य । सत्त्वचमत्कृतिः । सत्त्वस्य सर्वत्यागरूपस्य धैर्यस्य । चमत्कृतिः चमत्कारः । अन्तः मनसि । स्फुरति । न तु दम्भालस्यादिना वचनमात्रे एव स्फुरति । तं लोकेशाः अखण्डं सम्यक् । पालयन्ति । किमिव । ब्रह्माण्डमिव । अत्यन्तनिर्लोभस्य कार्यं ब्रह्माण्डकार्यमिव स्वयमेव सम्पद्यत इति भावः ॥ ंोट्_४,३२.३९ ॥ ननु यदि कदाचित्तस्य दुरन्ता विपत्स्यात्तदा किं कार्यमित्य् । अत्राह अप्यापदि दुरन्तायां नैव रन्तव्यमक्रमे । राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः ॥ ंो_४,३२.४० ॥ दुरन्तायामपि अन्तरहितायाम् । बह्व्यामपीति यावत् । आपदि विचारयुक्तेन पुरुषेण । अक्रमे शास्त्रादिविरुद्धे क्रमे । न रन्तव्यं न लगनीयम् । अर्थात्स्वप्रवाहागते क्रमे रन्तव्यमिति ज्ञेयम् [...] । अतः क्रम एव कार्य इति भावः ॥ ंोट्_४,३२.४० ॥ क्रमप्रदर्शकं सच्छास्त्रादिकं प्रशंसति सच्छास्त्रसाधुसम्पर्कमर्कमुग्रप्रकाशदम् । ये श्रयन्ति न ते यान्ति मोहान्ध्यस्य पुनर्वशम् ॥ ंो_४,३२.४१ ॥ मोहान्ध्यस्याक्रमरूपस्येत्यर्थः ॥ ंोट्_४,३२.४१ ॥ सच्छास्त्रादिसेवनादुत्पन्नान्मैत्र्यादिगुणान् प्रशंसति अवश्या वश्यमायान्ति यान्ति सर्वापदः क्षयम् । अवश्यं भवति श्रेयः क्रेयं यस्य गुणैर्यशः ॥ ंो_४,३२.४२ ॥ अवश्याः शत्रवः । श्रेयः मोक्षाख्यं परमकल्याणम् । क्रेयं ग्राह्यम् । उत्पाद्यमिति यावत् । गुणैः सच्छास्त्रादिसेवनोत्पादितैः मैत्र्यादिगुणैः । तस्मात्यशत्पादकान् गुणानेवाश्रयेदिति भावः ॥ ंोट्_४,३२.४२ ॥ गुणलुब्धत्वं प्रशंसति येषां गुणेष्वसन्तोषो रागो येषां श्रुतं प्रति । सत्ये व्यसनिनो ये च ते नराः पशवोऽपरे ॥ ंो_४,३२.४३ ॥ असन्तोषः अपूर्णता । श्रुतमध्यात्मशास्त्रम् । अपरे एतेभ्यः व्यतिरिक्ताः ॥ ंोट्_४,३२.४३ ॥ गुणोत्पादितं यशः प्रशंसति यशश्चन्द्रिकया येषां भासितं जनहृन्नभः । तेषां क्षीरसमुद्राणां नूनं मूर्तौ स्थितो हरिः ॥ ंो_४,३२.४४ ॥ येषां पुरुषाणाम् । सम्बन्धिन्या यशश्चन्द्रिकया मैत्र्यादिगुणोत्पादितया यशश्चन्द्रिकया । जनहृन्नभः जनहृदयः आकाशः । भासितम् । तेषां क्षीरसमुद्राणां चन्द्रिकोत्पादकत्वसाम्यात्क्षीरसमुद्रतुल्यानाम् । नूनं निश्चयेन । मूर्तौ हरिः श्रीनारायणः । स्थितः भवति । तेषां मनसि भगवान् सततमेव स्फुरतीति भावः । युक्तं च क्षीरसमुद्रमूर्तौ श्रीहर्यवस्थानम् ॥ ंोट्_४,३२.४४ ॥ भुक्तं भोक्तव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः । किमन्यद्भवभङ्गाय भूयो भोगेष्वलुब्धता ॥ ंो_४,३२.४५ ॥ युष्माभिः अखिलं भोक्तव्यं भुक्तम् । किञ्चिद्भोगद्वारेण तत्समानयोगक्षेमाः सर्वे भोगा भुक्ता इत्यर्थः । द्रष्टव्याः दर्शनीयाः । दृष्टयः दृष्टाः । अत्रापि पूर्ववतेव योज्यम् । भूयः पुनः । अन्यतितरत्भोक्तव्यं द्रष्टव्यं वा । किमस्ति । किञ्चिदपि नास्तीत्यर्थः । अतः भवभङ्गाय संसारनाशाय । अलुब्धता लोभराहित्यम् । धार्यतामिति शेषः ॥ ंोट्_४,३२.४५ ॥ यथाक्रमं यथाशास्त्रं यथाचारं यथास्थिति । स्थीयतां मुच्यतामन्तर्भोगगार्ध्यमवास्तवम् ॥ ंो_४,३२.४६ ॥ यथाचारं स्वाचारसदृशम् । न त्वाचारान्तरनिष्ठतया । तत्त्वे हि अयुक्तं कारित्वं स्यात् । यथास्थिति । न तु गृहस्थः सन् वनस्थतया वनस्थो वा सन् गृहस्थतयेत्यर्थः । अन्तः मनसि । भोगगार्ध्यं भोगेषु गर्धः लोभः यस्य । सः भोगगर्धः । तस्य भावः । तत् ॥ ंोट्_४,३२.४६ ॥ संस्तवः क्रियतां कीर्त्या गुणैर्गगनगामिभिः । त्रायन्ते मृत्युनोपेतं न कदाचन भोगकाः ॥ ंो_४,३२.४७ ॥ युष्माभिः । गगनगामिभिः गुणैः मैत्र्यादिगुणैः । उत्पन्नया कीर्त्या सह । संस्तवः परिचयः । क्रियताम् । ननु भोगैः सह संस्तवं त्यक्त्वा कीर्त्या सह किमर्थं कुर्म इत्य् । अत्राह त्रायन्त इति । ये तादृश्यां मरणावस्थायां नोपयुज्यन्ते किं तैः सह संस्तवेनेति भावः ॥ ंोट्_४,३२.४७ ॥ गुणोत्पादितयशोयुक्तान् प्रशंसति गायन्ति सिद्धसुन्दर्यो येषामिन्दुसितं यशः । गीतिभिर्गगनाभोगे ते जीवन्ति मृताः परे ॥ ंो_४,३२.४८ ॥ परे प्रोक्तयशोरहिताः ॥ ंोट्_४,३२.४८ ॥ ननु यदि प्रोक्तगुणार्जनेनापि न किञ्चित्सेत्स्यति तदा किं कार्यमित्य् । अत्राह परमं पौरुषं यत्नमास्थायादाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचारात्को न सिद्धिभाक् ॥ ंो_४,३२.४९ ॥ आचारात्गुणार्जनरूपाताचारात् ॥ ंोट्_४,३२.४९ ॥ ननु यदा कदाचिन्मया गुणार्जने यत्नः कृत एव किं तेन सम्पन्नमित्य् । अत्राह यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु । चिरकालपरापक्वा सिद्धिः पुष्टफला भवेत् ॥ ंो_४,३२.५० ॥ स्पष्टम् ॥ ंोट्_४,३२.५० ॥ फलितं कथयति वीतशोकभयायासमगर्धमपयन्त्रणम् । व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम् ॥ ंो_४,३२.५१ ॥ अगर्धं लोभरहितम् । अपयन्त्रणं बन्धनरहितम् ॥ ंोट्_४,३२.५१ ॥ जीवो जीर्णान्धकूपेषु भवेष्वन्तर्धिमागतः । भवतां भूरिभङ्गानामधुनोद्ध्रियतामतः ॥ ंो_४,३२.५२ ॥ भूरिभङ्गानां बहुनाशयुक्तानाम् । भवताम् । जीवः जीर्णान्धकूपेषु दुःखदत्वेन जीर्णान्धकूपरूपेषु । भवेषु । अन्तर्धिं गतः । क्षीण इति यावत् । भवति । अतः युष्माभिः अधुना सः जीवः उद्ध्रियताम् । अन्धकूपमग्नस्य हि उद्धरणमवश्यमेव कार्यमिति भावः ॥ ंोट्_४,३२.५२ ॥ इतः प्रभृति मा भूयो गम्यतामधरादधः । इदं निर्धार्यतां शास्त्रमस्त्रमापन्निवारणे ॥ ंो_४,३२.५३ ॥ युष्माभिः । इतः प्रभृति अस्मान्मदुपदेशात्प्रभृति । भूयः पुनः । अधरादधःस्थानाद् । अधः मा गम्यताम् । युष्माभिः । इदं मदुक्तम् । एतच्छास्त्रम् । निर्धार्यतां निश्चीयताम् । इदं किम् । आपन्निवारणे अस्त्रमस्त्रभूतमापन्निवारकमित्यर्थः ॥ ंोट्_४,३२.५३ ॥ रणे रभसनिर्लूनवारणे प्राणमुज्झताम् । किमर्थमात्रया कार्यमार्याः शास्त्रमवेक्ष्यताम् ॥ ंो_४,३२.५४ ॥ अर्थमात्रया धनलेशेन अर्थमात्रार्थम् । रणादिकार्यं त्यक्त्वा इदमेव शास्त्रमवेक्ष्यतामिति पिण्डार्थः ॥ ंोट्_४,३२.५४ ॥ इदं बिम्बमिदं निम्बमिति मत्या विचार्यताम् । स्वया परप्रेरणया यात मा पशवो यथा ॥ ंो_४,३२.५५ ॥ इदं बिम्बं बिम्बफलं भवति । इदं निम्बं निम्बफलं भवति । इति एवम् । स्वया मत्या बुद्ध्या । विचार्यताम् । परप्रेरणया मा यात मा गच्छत । के यथा । पशवो यथा । यथा पशवः परप्रेरणया यान्ति तथा यूयं मा यातेत्यर्थः ॥ ंोट्_४,३२.५५ ॥ दौर्भाग्यदायिनी दीना शुभहीनाविचारणा । घनदीर्घमहानिद्रा त्यज्यतां सम्प्रबुध्यताम् ॥ ंो_४,३२.५६ ॥ युष्माभिः । अविचारणा अविचाराख्या घनदीर्घा चासौ महानिद्रा । सा त्यज्यताम् । कथम्भूता सा । दौर्भाग्यदायिनी आशारूपदारिद्र्यदायिनी । तां त्यक्त्वा सम्प्रबुध्यताम् । युक्तश्च निद्रात्यागानन्तरं प्रबोधः ॥ ंोट्_४,३२.५६ ॥ सुप्तैः मा स्थीयतां वृद्धमन्दकच्छपवच्छनैः । उत्थानमङ्गीक्रियतां जरामरणशान्तये ॥ ंो_४,३२.५७ ॥ युष्माभिः । वृद्धमन्दकच्छपवत्सुप्तैः स्वात्मविचारे विमुखैः । मा स्थीयताम् । वृद्धमन्दकच्छपो हि सुप्तः तिष्ठति । शनैः क्रमेण । जरामरणशान्तये मोक्षाय । उत्थानमुद्योगः । अङ्गीक्रियतां निर्वाणमुख्योपायभूतं सच्छास्त्रविचारादि क्रियतामित्यर्थः ॥ ंोट्_४,३२.५७ ॥ ननु सुखसाधनधनाद्यर्जनमपहाय किमर्थमन्यत्कुर्म इत्य् । अत्राह अनर्थायार्थसम्पत्तिर्भोगौघो भवरोगदः । आपदे सम्पदः सर्वाः सर्वत्रानादरो जयः ॥ ंो_४,३२.५८ ॥ अर्थसम्पत्तिः अनर्थाय दुःखाय भवति । अर्जनादौ क्लेशहेतुत्वात् । भोगौघः भवरोगदः भवति । रागाद्युत्पादकत्वात् । सम्पदः श्रियः । आपदे भवन्ति । तापकारिदर्पादिदोषोत्पादकत्वात् । सर्वत्र समस्ते धनादौ भावजाते । अनादरः त्यागादानव्यतिरिक्तस्वरूपा उपेक्षा । जयः भवति ॥ ंोट्_४,३२.५८ ॥ लोकतन्त्रानुसारेण विचाराद्व्यवहारिणाम् । शास्त्राचाराविरुद्धेन कर्मणा शर्म सिध्यति ॥ ंो_४,३२.५९ ॥ लोकतन्त्रानुसारेण लोकाचारानुसारेण । विचारातिति ल्यप्लोपे पञ्चमी । तेन विचारं कृत्वेत्यर्थः ॥ ंोट्_४,३२.५९ ॥ सर्गान्तश्लोकेनाप्येतदेव कथयति स्वाचारचारुचरितस्य विविक्तवृत्तेः संसारदुःखलवसौख्यदशास्वगृध्नोः । आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय ॥ ंो_४,३२.६० ॥ स्वाचारेण शोभनाचारेण । चारुचरितं यस्य । सः । तादृशस्य । विविक्ता विशिष्टा । वृत्तिः व्यापारो यस्य । सः । तादृशस्य । तथा दुःखलवरूपाः च ताः सौख्यदशाः दुःखलवसौख्यदशाः । संसारस्य याः दुःखलवसौख्यदशाः । तासु अगृध्नोः लोभरहितस्य पुरुषस्य । आयुः यशांसि गुणाश्चेत्येतानि वस्तूनि । लक्ष्म्या सहैव सत्फलाय मोक्षाख्याय शोभनाय फलाय । फुल्लन्ति विकसन्ति । मोक्षमुत्पादयन्तीत्यर्थः । एतानि वस्तूनि का इव । माधवलताः इव । यथा माधवलताः वसन्तलताः । सत्फलाय फुल्लन्ति । तथेत्यर्थः । इति शिवम् ॥ ंोट्_४,३२.६० ॥ इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां स्थितिप्रकरणे द्वात्रिंशः सर्गः ॥३२॥ ********************************************************************* पुनरपि पूर्वोक्तमेवार्थं कथयति सर्वातिशयसाफल्यात्सर्वं सर्वत्र सर्वदा । सम्भवत्येव तस्मात्स्वं शुभोद्योगं न सन्त्यजेत् ॥ ंो_४,३३.१ ॥ सर्वेषामतिशयानां यत्साफल्यं सफलता । ततो हेतोः । सर्वत्र सर्वेषु देशेषु । सर्वदा सर्वेषु कालेषु । सर्वं सम्भवत्येव । यतः अतिशयप्रयुक्तानां सर्वेषां यत्नानां साफल्यमस्ति । अतः सर्वत्र सर्वदा सर्वं सम्भवत्येवेति यावत् । फलितं कथयति तस्मादिति । तस्मात्ततो हेतोः । पुरुषः स्वं शुभोद्योगं न सन्त्यजेत् ॥ ंोट्_४,३३.१ ॥ विशेषेण उद्योगस्य साफल्यं कथयति मित्रस्वजनबन्धूनां नन्दिनानन्ददायिना । सरसीश्वरमाराध्य मृत्युरप्युपनिर्जितः ॥ ंो_४,३३.२ ॥ नन्दिना नन्दिरुद्रेण ॥ ंोट्_४,३३.२ ॥ सर्वोत्कर्षेण वर्तन्ते देवा अपि विमर्दिताः । दानवैर्दानवार्याढ्यैर्गजैः पद्माकरा इव ॥ ंो_४,३३.३ ॥ गजैः कथम्भूतैः । दानवारिणा मदजलेनाढ्यैः युक्तैः ॥ ंोट्_४,३३.३ ॥ मरुत्तनृपतेर्यज्ञे संवर्तेन महर्षिणा । ब्रह्मणेवापरः सर्गो रचितः ससुरासुरः ॥ ंो_४,३३.४ ॥ स्पष्टम् ॥ ंोट्_४,३३.४ ॥ महातिशययुक्तेन विश्वामित्रेण विप्रता । भूयो भूयः प्रयुक्तेन दुष्प्रापा तपसार्जिता ॥ ंो_४,३३.५ ॥ स्पष्टम् ॥ ंोट्_४,३३.५ ॥ पिष्टातकाम्बु दुष्प्रापं रसायनमिवाश्नता । दुर्भगेनेदृशेनाप्तः क्षीरोद उपमन्युना ॥ ंो_४,३३.६ ॥ पिष्टातकाम्बु । पिष्टमिश्रितं जलम् । ईदृशेन दुर्भगेन एतादृशेन दरिद्रेण । आप्तः । ईश्वराराधनयेति शेषः ॥ ंोट्_४,३३.६ ॥ त्रैलोक्यमल्लांस्तृणवन्निघ्नन् विष्ण्वब्जजादिकान् । युक्त्यातिशयदार्ढ्येन कालः श्वेतेन कालितः ॥ ंो_४,३३.७ ॥ युक्त्या ईश्वराराधनरूपेणोपायेन । श्वेतेन राजविशेषेण । कथम्भूतेन । अतिशये यत्नातिशये । दार्ढ्यं दृढता यस्य । तादृशेन ॥ ंोट्_४,३३.७ ॥ प्रणयेन यमं जित्वा कृत्वा वचनसङ्गरम् । परलोकादुपानीतः सावित्र्या सत्यवान् पतिः ॥ ंो_४,३३.८ ॥ प्रणयेन स्नेहेन । उपानीत इत्यनेन सम्बन्धः । वचनसङ्गरं वचनसङ्ग्रामम् ॥ ंोट्_४,३३.८ ॥ विशेषेणोक्त्वा सामान्येन कथयति न सोऽस्त्यतिशयो लोके यस्यास्ति न फलं स्फुटम् । भवितव्यं विचार्यातः सर्वातिशयशालिना ॥ ंो_४,३३.९ ॥ अतिशयः यत्नातिशयः । फलितं कथयति भवितव्यमिति । अतः सर्वेभ्यः यः अतिशयः उद्योगाख्यः । तेन शालतीति तादृशेन पुरुषेण । विचार्य भवितव्यम् । अशुभफलसम्पादकत्वादशुभो यत्नः न कार्य इति भावः ॥ ंोट्_४,३३.९ ॥ ननु को यत्नः शुभोऽस्ति । यत्नातिशयवान् भवामीत्यपेक्षायामाह आत्मज्ञानमशेषाणां सुखदुःखदशादृशाम् । मूलं कषकरं तस्माद्भाव्यं तत्रातिशायिना ॥ ंो_४,३३.१० ॥ आत्मज्ञानं कोऽहमित्येवमात्मविचारः । अशेषाणां समस्तानाम् । सुखदुःखदशादृशाम् । मूलं कषकरं मूलतः नाशकरम् । भवति । आत्मविचारेण हि चिदात्मनि आत्मत्वेन प्राप्ते शरीरानास्थायां च जातायां शरीरानुबद्धसुखदुःखादिस्पर्शो न भवति । तस्मात्ततो हेतोः । पुरुषेण । तत्र आत्मज्ञाने । अतिशयिना अतिशययुक्तेन । भाव्यम् ॥ ंोट्_४,३३.१० ॥ ननु दृश्यकृतं सुखं त्यक्त्वा किमर्थमत्यन्तभोगत्यागसाध्ये आत्मज्ञाने पुरुषो लगतीत्य् । अत्राह नानयोपहतार्थिन्या दृश्यदृष्ट्यातिदुष्टया । दुःखादृते निराबाधं सुखं किञ्चिदवाप्यते ॥ ंो_४,३३.११ ॥ उपहतः नष्टः । अर्थः पुरुषार्थः । अस्यामस्तीति तादृश्या । अत एवातिदुष्टया दृश्यरूपया दृष्ट्या दृश्यदृष्ट्या । दृश्येनेति यावत् । दुःखादृते दुःखामिश्रम् । अत एव निराबाधं बाधरहितम् । किञ्चित्सुखं न अवाप्यते । यदि किञ्चित्प्राप्यतेऽपि दुःखमिश्रमेवेत्यर्थः ॥ ंोट्_४,३३.११ ॥ ननु सर्वस्य ब्रह्ममयत्वात्दृश्यदृष्टिरूपस्याशमस्य तन्नाशरूपस्य शमस्य च को भेदः येनैवं कथयसीत्य् । अत्राह अशमः परमं ब्रह्म शमश्च परमं पदम् । यद्यप्येवं तथाप्येनं प्रशमं विद्धि शङ्करम् ॥ ंो_४,३३.१२ ॥ यद्यप्येवं भवति । एवं कथम् । अशमः दृश्यक्षोभः । परमं ब्रह्म भवति । शमश्च दृश्यनाशश्च । परमं पदं भवति । तत्सारत्वात् । तथापि त्वमेनं प्रशमं दृश्यनाशम् । शङ्करं कल्याणकारिणम् । विद्धि । शमाशमरूपब्रह्मप्राप्तिं प्रत्युपायत्वात् । नन्वशमस्य ब्रह्मत्वं न सिध्यति । सत्यम् । ब्रह्मत्वं त्वया किं ज्ञातम् । सुखकारित्वमिति चेन् । न । सुखदुःखकारित्वव्यतिरिक्तस्य ब्रह्मत्वयोगात् । अतः सुखकारिवत्दुःखकारिणोऽपि स्वरूपमात्रप्राधान्येन ब्रह्मत्वानपायान्न त्वच्चोद्यावकाशः । ननु तर्हि आनन्दैकरूपत्वं कथं ब्रह्मणः कथयन्तीति चेत् । तत्रत्य आनन्दः न त्वदनुभूत[ ]त्तिरूपानन्दरूपो भवति । किं तु अपेक्षाराहित्यमात्ररूप एवासौ । सर्वं ब्रह्मेति ज्ञानेन हि सर्वत्र हेयोपादेयताव्यतिरिक्ता महानन्दरूपा तृप्त्यपरपर्याया उपेक्षा जायते । सा च सर्वत्र सम्भवतीति अलं चोद्येन ॥ ंोट्_४,३३.१२ ॥ कर्तव्यमुपदिशति अभिमानं परित्यज्य शममाश्रित्य शाश्वतम् । विचार्य प्रज्ञयार्यत्वं कुर्यात्सज्जनसेवनम् ॥ ंो_४,३३.१३ ॥ अभिमानं मयेदृशः शमः कृत इत्येवंरूपं दर्पम् । शमं दृश्यक्षोभराहित्यम् । आर्यत्वं साधुत्वम् । विचार्य केनेदं सिध्यतीति विचारविषयं कृत्वा ॥ ंोट्_४,३३.१३ ॥ ननु आर्यत्वसाधनं प्रसिद्धं तपस्तीर्थादिकं त्यक्त्वा किमित्यप्रसिद्धं सज्जनसेवनं कर्तव्यत्वेनोपदिशसीत्य् । अत्राह न तपांसि न तीर्थानि न शास्त्राणि जयन्ति वः । संसारसागरोत्तारे सज्जनासेवनं यथा ॥ ंो_४,३३.१४ ॥ संसारसागरात्यः आर्यत्वकरणद्वारेण उत्तारः । तस्मिन्न जयन्ति न प्रभवन्ति ॥ ंोट्_४,३३.१४ ॥ ननु किंलक्षणोऽसौ सज्जनः यस्य सेवनं कर्तव्यत्वेनोपदिशसीत्य् । अत्राह लोभमोहरुषां यस्य तनुतानुदिनं भवेत् । यथाशास्त्रं विहरतः स्वकर्मसु स सज्जनः ॥ ंो_४,३३.१५ ॥ यथाशास्त्रं स्वकर्मसु शरीरयात्रानिमित्तेषु निजेषु कर्मसु । विहरतः क्रीडया यत्नं कुर्वतः । यस्य पुरुषस्य । अनुदिनं लोभमोहरुषां तनुता भवेत् । सः सज्जनः भवति ॥ ंोट्_४,३३.१५ ॥ ननु मूर्खश्रोत्रिया अपि लोभादितानवयुक्ता दृश्यन्ते । तेषां सङ्गेनापि किञ्चित्सेत्स्यत्यथ वा नेत्य् । अत्राह अध्यात्मविदुषः सङ्गात्तस्य सा धीः प्रवर्तते । अत्यन्ताभाव एवास्य यया दृश्यस्य दृश्यते ॥ ंो_४,३३.१६ ॥ अध्यात्मविदुषः अध्यात्मशास्त्रज्ञस्य । तस्य लोभादितानववतः सज्जनस्य । सङ्गात् । पुरुषस्य सा धीः प्रवर्तते । सा का । यया धिया कारणभूतया । पुरुषेण । अस्य पुरःस्फुरतः । दृश्यस्यात्यन्ताभावः त्रैकालिकः अभावः । दृश्यते । अत इन्द्रियासामर्थ्यादिना लोभादितानववतोऽपि मूर्खस्य सङ्गान्न किञ्चिदपि सेत्स्यतीति भावः ॥ ंोट्_४,३३.१६ ॥ ननु दृश्यात्यन्ताभावदर्शनेन किं सेत्स्यतीत्य् । अत्राह दृश्यात्यन्ताभावतस्तु परमेवावशिष्यते । अन्याभाववशादाशु जीवस्तत्रैव लीयते ॥ ंो_४,३३.१७ ॥ तु निश्चये । दृश्यात्यन्ताभावतः लक्षणया दृश्यात्यन्ताभावदर्शनाद्धेतोः । परं दृश्याधिष्ठानत्वान्मुक्तमुत्तीर्णं चिन्मात्राख्यं वस्तु । एव । अवशिष्यते अवशेषत्वेन दृश्यते । ननु ततोऽपि किं स्यादित्य् । अत्राहान्याभावेति । ततः अन्यस्य परवस्तुव्यतिरिक्तस्य । अभावात् । जीवः द्रष्टृत्वेन स्थितः जीवः । तत्रैव परस्मिन् वस्तुन्येव । लीयते । सोऽपि तद्रूपत्वेन दृश्यते इति यावत् । जीवन्मुक्ताभिप्रायेणैवमर्थः कृतः । विदेहमुक्ताभिप्रायेण तु दृश्यात्यन्ताभावः जीवलयः च[ ]शेनोपाधिमुक्त एव ज्ञेयः ॥ ंोट्_४,३३.१७ ॥ अत्यन्ताभावस्वरूपं कथयति न चोत्पन्नं न चैवासीद्दृश्यं न च भविष्यति । वर्तमानेऽपि नैवास्ति परमेवास्त्यवेदितम् ॥ ंो_४,३३.१८ ॥ वर्तमाने वर्तमानकाले । ननु यदि दृश्यं नासीत्नास्ति न भविष्यति तर्हि किमस्ति । न हि अभावस्य एतादृक्प्रपञ्चाधिष्ठानत्वं युक्तमित्य् । अत्राह परमेवेति । परं साक्षित्वेन स्थितत्वात्सर्वोत्तीर्णं चिन्मात्रम् । एव । अस्ति । स्वप्ने तस्यैव प्रपञ्चाधिष्ठानत्वेन दृष्टत्वात् । तत्कथम्भूतम् । अवेदितं वेद्यरहितम् । अवेदितमिति कर्मणि क्तः ॥ ंोट्_४,३३.१८ ॥ ननु कथमेतदस्तीत्य् । अत्राह एतद्युक्तिसहस्रेण दर्शितं दर्श्यतेऽपि च । सर्वैरेवानुभूतं हि दर्शयिष्यामि चाधुना ॥ ंो_४,३३.१९ ॥ एतत्दृश्यं नासीत्नास्ति न भविष्यतीत्येतत् । ननु कथमप्रसिद्धमेतत्दर्शितं दर्श्यते दर्शयिष्यसि चेत्य् । अत्राह सर्वैरिति । हि यस्मात् । एतत्सर्वैरनुभूतं वर्तमाने क्तः । अनुभूयते इत्यर्थः । सुषुप्ताविति शेषः । सुषुप्तौ हि सर्वे दृश्यात्यन्ताभावमनुभवन्ति ॥ ंोट्_४,३३.१९ ॥ अभ्यासार्थं पुनः एतदेव कथयति यथेदमखिलं शान्तं त्रिजगत्संविदम्बरम् । इदं तत्त्वं त्वसत्त्वादि कुतोऽत्र स्यात्कथञ्चन ॥ ंो_४,३३.२० ॥ इदमनुभूयमानम् । अखिलं त्रिजगत् । शान्तं संवेद्याख्यक्षोभरहितम् । संविदम्बरं चिदाकाशं भवतीति यथा इति यत्भवति । इदं तत् । तत्त्वं परमार्थः भवति । तु व्यतिरेके । अत्र संविदाकाशरूपे जगति । असत्त्वादि । असत्त्वमचिन्मयत्वं चेत्येवमादि । कथञ्चन कुतः स्यात्कथञ्चनापि न स्यादित्यर्थः । दृष्टं च स्वप्नजगतः संविदाकाशात्मकत्वमिति न विरोधः ॥ ंोट्_४,३३.२० ॥ ननु तर्हि जगदिति शब्दप्रत्ययौ कथं रूढिं गतावित्य् । अत्राह चिच्चमत्कुरुते चारु चञ्चलाचञ्चलात्मनि । यत्तयैव तदेवेदं जगदित्यवबुध्यते ॥ ंो_४,३३.२१ ॥ चञ्चला बाह्योन्मुखत्वे स्पन्दानुविद्धा । चित् । अचञ्चलात्मनि परमार्थतः तथास्थितत्वातचञ्चले स्वस्वरूपे । चारु सम्यक् । यत्चमत्कुरुते स्वरूपामर्शरूपमास्वादं करोति । तया एव न त्वन्येन । तदेव चमत्करणमेव । जगदिति अवबुध्यते ज्ञायते । न जगन्नाम किञ्चिदपरं वस्तु अस्ति । चिदाश्रयविषयस्य स्वात्मपरामर्शस्यैव जगत्त्वादिति भावः ॥ ंोट्_४,३३.२१ ॥ ननु तथापि कथं भेद इव दृश्यत इत्य् । अत्राह त्रैलोक्यरूपोऽनुभवश्चिदादित्यांशुमण्डलम् । क्व वेन्द्वंशुमतोर्भेदो निर्विकत्थन कथ्यताम् ॥ ंो_४,३३.२२ ॥ त्रैलोक्यरूपः त्रैलोक्याकारः । अनुभवः । त्रैलोक्यमिति यावत् । चिदेवादित्यः । तस्यांशुमण्डलम् । भवति । हे निर्विकत्थन हे अमृषावादिन् । त्वया कथ्यताम् । किमित्यपेक्षायामाह । क्वेति । इन्द्वंशुमतोः जलमण्डलप्रतिबिम्बितसूर्यांशुमण्डलरूपस्य इन्दोः सूर्यस्य च । भेदः क्व भवति । कस्मिन् काले देशे वा भवति । यथा जलप्रतिबिम्बितसूर्यांशुमण्डलरूपस्य चन्द्रस्य सूर्यस्य च भासमानोऽपि भेदः परमार्थतः नास्ति । तथा बाह्यान्तःकरणप्रतिबिम्बितचिदादित्यांशुमण्डलरूपस्य जगतः चिदादित्यस्य च भासमानोऽपि भेदः नास्त्येवेत्यर्थः ॥ ंोट्_४,३३.२२ ॥ सर्वथा भेदाभावं कथयति स्वभावतोऽस्याश्चिद्दृष्टेर्ये उन्मेषनिमेषणे । जगद्रूपानुभूतेस्तावेतावस्तमयोदयौ ॥ ंो_४,३३.२३ ॥ स्वभावतः यत्नरहितम् । अस्याः आत्मत्वेन पुरःस्थायाः । चिद्दृष्टेः चिदाख्यायाः दृष्टेः । ये उन्मेषणनिमेषणे स्वव्यतिरिक्तपरामर्शरूपमुन्मेषणं स्वमात्रपरामर्शरूपं निमेषणं च भवतः । तौ एव उन्मेषनिमेषौ एव । जगद्रूपा या अनुभूतिः । जगदिति यावत् । तस्याः अस्तमयोदयौ भवतः । निमेषणमस्तमयः । उन्मेषणमुदयः । अथ वा उन्मेषणं स्वरूपप्रसारः । निमेषणं स्वरूपसङ्कोचः । इति कृत्वा उन्मेषणमस्तमयः । निमेषणमुदय इति योज्यम् । तथा च भेदगन्धोऽपि नास्ति । न हि उन्मेषनिमेषवतः उन्मेषनिमेषौ भिन्नौ इति भावः । एतच्च स्वप्ने सुषुप्तौ च सर्वप्रतीतिसाक्षिकमेवेति नात्रायस्तम् ॥ ंोट्_४,३३.२३ ॥ कारणत्वेन समस्तजगत्प्रधानभूताहङ्कारवर्णनं प्रस्तौति अहमर्थोऽपरिज्ञातः परमार्थाम्बरे मलः । परिज्ञातोऽहमर्थस्तु परमार्थाम्बरं भवेत् ॥ ंो_४,३३.२४ ॥ अहमर्थः अहमिति शब्दाभिधेयं वस्तु । अपरिज्ञातः परमार्थतः किंरूपोऽयमित्यज्ञातः सन् । परमार्थाम्बरे चिन्मात्राकाशे । मलः भवति । देहरूपतयावस्थानेन तदाच्छादकत्वात् । आच्छादकत्वमेव हि मलस्य स्वरूपम् । तु व्यतिरेके । परिज्ञातः परमार्थतः एवंरूपोऽसाविति ज्ञातः सन् । परमार्थाम्बरं चिन्मात्राकाश एव भवति । तद्रूपतायामेव विश्रामात् ॥ ंोट्_४,३३.२४ ॥ अभ्यासार्थं पुनः पुनः एतदेव कथयति अहम्भावः परिज्ञातो नाहम्भावे भवत्यलम् । एकतामम्बुनेवाम्बु याति चिन्नभसात्मना ॥ ंो_४,३३.२५ ॥ परिज्ञातः परमार्थतः किंनिष्ठोऽयमिति ज्ञातः । अहम्भावः अहङ्कारः । अहम्भावे निमित्तसप्तमी । स्थूलाहम्भावनिमित्तं न भवति । कुत एतदित्य् । अत्राहैकतामिति । यतः सः अहम्भावः चिन्नभसा चिदाकाशरूपेण । आत्मना एकतां याति । किमिव । अम्बु इव । यथाम्बु अम्बुना एकतां याति । तथेत्यर्थः । परमार्थतः किंनिष्ठोऽयमिति अहङ्कारपरमार्थस्वरूपे ज्ञाते सति अहङ्कारः परमात्मनिष्ठो भवति । ततः शरीरनिष्ठतारूपां परिमिततां नायातीति भावः ॥ ंोट्_४,३३.२५ ॥ ननु कथं परिज्ञातः अहम्भावः चिदात्मना एकत्वं याति इत्य् । अत्राह अहमादिजगद्दृश्यं किल नास्त्येव वस्तुतः । अवश्यमेव तत्कस्माच्छिष्यतेऽहंविचारिणः ॥ ंो_४,३३.२६ ॥ किल निश्चये । अहमादि ****