*{ईश्वरसिद्धिः ।}* *{सिद्धाञ्जननामकव्याख्योपेता ।}* *{(सू०) तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते ।}* *{इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ॥ १ ॥}* *{तत्र मीमांसकाः प्राहुः नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषोऽभ्युपगममर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात्स्फुटविविधबाधकत्वाच्च । तथाहि अस्य पप्रत्यक्षमन्यद्वा साधकं भवेत्? प्रत्यक्षमपि लौकिकं यौगिकं वा ?}* *{(व्याख्या) ध्यात्वा श्रीपतिचरणौ नत्वा चाचार्यपादद्मयुगम् ।}* *{ईश्वरसिद्धेर्विवृतिं कुर्वे ललितां सुखावबोधार्थाम् ॥ १ ॥}* *{त्रय्यन्तसिद्ध ईशो मतस्तु सद्युक्तिचिन्तकैरनिशम् ।}* *{भक्त्या ध्यानाभ्यासात्प्रकटः प्रज्ञां तनोतु मे शुभ्राम् ॥ २ ॥}* *{अथ खलु तत्रभवान् परमाचार्यः श्रीमद्भगवद्यामुनमुनिरात्मचिन्तां विधायात्मसिद्धौ परमात्मचिन्तां विदधदीश्वरसिद्धावीश्वरसाधकप्रमाणव्यवस्थापनायोपक्रममाणः प्रतिजानीते तत्रे ति । समस्तमं चेतनाचतनात्मकं जगतेकस्य सर्वेश्वरस्य वशे इच्छायां सङ्कल्पलक्षणायां प्रवर्ततेप्रकर्षेण वर्तते असङ्कीर्णस्वरूपस्वभावव्यवस्थमास्ते, प्रवर्तते च स्वे स्वे कर्मणि यथायथमिति कृत्स्नस्य सर्वेश्वरसङ्कल्पाधीनस्वरूपस्थितिप्रवृत्तिकत्वं साधयितुं प्रमाणतो व्यवस्थापयितुं, प्रथमतः पूर्वपक्षं वर्णयाम इति कारिकार्थः । अत्र तत्रेति प्रकान्तपरामर्शकतच्छब्दनिर्देशादेतत्पूर्वतनः कश्चनेश्वरसिद्धग्रन्थभागः स्यात्, यो बहोः कालात्पूर्वमेवविलुप्त इत्यभ्यूह्यते १}* *{व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् ।}* *{साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ॥ २ ॥}* *{सर्वार्थदर्शनशक्तिशालिनमवगमयता हि देशकालस्वभावविप्रकर्षव्यवधानजुषः सर्व एवार्थास्तद्दर्शनं शक्तिश्च गोचरयितव्यानि । न च विद्यमानेन्द्रियसन्निकर्षयोग्यकतिपयविषयनिपतवृत्तेर्लौकिकप्रत्यक्षस्य निरवधिरयं महिमा संभावनाभूमिरिति कथमिव तदिह साधनमिति मन्येमहि। ऽनायम्ऽ इति । सर्वार्थसाक्षात्ककारसर्वकार्योपजननशक्ति सम्पन्नश्चेतनविशेष ईश्वरशब्दितः साधकाभावाद्बाधकबलाच्च नाङ्गीकर्तुं योग्य इत्यर्थः ।ऽ अतिपतितेऽ ति । अतिपतिता अपक्रान्ता सकलसाधकप्रमाणसम्भावना यस्याः एवम्भूता भूमिर्विषयः, तत्त्वात् व्यपेतसकलसाधकप्रमाणसम्भावनात्मकविषयत्वादित्यर्थः । अत्र इतिऽअतिपतितसकलसाधकप्रमाणसंभावनाभूमित्वत्वाऽ दितिऽअतिपतितसकल साधकप्रमाणसंभावनाभूमित्वत्वाऽदिति वा पाठः सम्भाव्यते ।ऽस्फुटेऽ ति । स्फुटानि प्रसिद्धानि विविधानि बाधकानि यस्यैवम्भूतत्वाच्चेत्यर्थः । उपक्षिप्तयोरीश्वरे साधकाभावबाधकभावयोः साधकाभावं तावदादौ समर्थयितुमुपक्रमतेऽतथाहिऽत्यादिना । अन्यत् अनुमानादि ।}* *{लौकिकस्येन्द्रियार्थसन्निकर्षजस्य प्रत्यक्षस्येश्वरासाधकतामुपपादयतिऽव्यवस्थितेऽति । हेतुगर्भमिदं विशेषणम् । लौकिकप्रत्यक्षस्य विषया यतः परिमिता व्यवस्थिताश्च, अत इत्यर्थः । इह ईश्वरे विषये । साधनंसाधकम् । प्रमाणमिति यावत् । तेन लौकिकप्रत्यक्षेण । असिद्धितः अप्रकाशतः । अयं भावः चाक्षुषस्य तावत्प्रत्यक्षस्य रूपरूपिरूपैकार्थसमवेतसङ्ख्यादय एव विषयाः, न तु रसादय इति परिमितता । उद्भूतानभिभूतमेव रूपं महत्त्वैकाधिकरणं ग्राह्यं न तु परमाण्वादिगतमिति तत्रापि व्यवस्थितता । एवं रासनादिष्वपि बोध्यम् । एवंभूतस्य चैन्द्रियिकप्रत्यक्षस्य सर्वार्थादेरप्रकाशकत्वान्नेश्वरे प्रमाणत्वं सम्भवति । सर्वार्थदर्शनकरणसामर्थ्यविशिष्टो ह्यभिमतः सः । सर्वार्थस्य तद्ग्रहणस्य तच्छक्तेश्च ग्रहणमन्तरा च न तस्य ग्रहणं घटते । सर्वार्थेष्वयोग्यानामपि प्रविष्टत्वाच्छक्तेश्चातीन्द्रियत्वात्, ज्ञानस्य बहिरिन्द्रियाग्राह्यत्वाद्वाह्यार्थानां च केवलेन मनसाग्रहान्नेन्द्रियेण केनापि सर्वार्थादेर्ग्रहणम् । तद्ग्रहणमन्तरा च न विशिष्टेश्वरग्रहणम् ।}* *{ऽनागृहीतविशेषणेऽ ति न्यायात् । तदैन्द्रियिकलौकिकप्रत्यक्षं नेश्वरे प्रमाणं भवितुमर्हतीति ॥ २ ॥}* *{नापि योगिप्रत्यक्षमस्य साधकम् ॑ यतः }* *{प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् ।}* *{भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥ ३ ॥}* *{तत्खलु योगिविज्ञानमैन्द्रियिकं न वा ? ऐन्द्रियिकमपि बहिरिन्द्रियसम्भवमान्तरकरणजनितं वा ? बहिरिन्द्रियाणि तावत्समधिगतनिजविषयसन्निकर्षसहकारीणि तद्गोचरज्ञानजननानीति जगति विदितम् । अतो न रसनादिभिरजातातिवृत्तव्यवहितादि सकलविषयवेदनप्रसङ्गः । न चाविद्यमानैरजातादिभिः संभवति सन्निकर्षः ॑ तस्य द्व्याश्रयत्वादाश्रयाभावे तदसम्भवात् । अतोऽपेक्षितोर्ऽथसन्निकर्षः । सहकारिविरहे कथमिन्द्रियाण्यतीतादिविषयसाक्षात्काराय कल्पेरन्? । भवति च यत्यत्सहकारि यत्कार्यजननम् , तत्तदभावे न तज्जनयति ॑ यथा क्षितिसलिलसहकारि अङ्करकार्यजननबीजं क्षित्याद्यभावेऽङ्करम् । अर्थसन्निकर्षसहकारीणि बहिरिन्द्रियाणि ज्ञानजननानीति तान्यपि नातीतेऽनागते वार्ऽथे ज्ञानं जनयन्तीति न तदुपजनितं प्रत्यक्षं यथोक्तविषयनियममतिक्रामति । नाप्यान्तरकरणसम्भवम् , आन्तरगोचर एव सुखादौ स्वान्तस्वातत्र्यात् । बाह्यविषयमितिषु च मनसो निरङ्कुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश्च न कश्चिदन्धो बधिरो वा भवेत् । भवति चात्र विमतिपदं मनो बहिरिन्द्रियनिरपेक्षं न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यद्यत्र यत्तन्त्रवृत्ति न तत्तन्निरपेक्षं तत्र प्रवर्तते, यथाऽलोकापेक्षप्रवृत्ति चक्षुः स्वगोचरेऽन्धतमस इति । न च सिद्धौषधमत्प्रतपःसमाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिदपजहति समाधिगतविषयनियममिति सम्भवति ॑ सांसिद्धिकसामर्थ्याविर्भावैकफलत्वात्तेषाम् , सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्तभेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभागावगमाय कल्पते । भवति च विवादाध्यासितबाह्यभ्यन्तरकरणपाटवातिशयोऽनुल्लङ्घितसीमा, ऐन्द्रियिकप्रकर्षत्वात् , दृश्यमानतत्प्रकर्षवतित्यैन्द्रियिकं ज्ञानं नातीतादि गोचरयति ।}* *{भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनिर्भासत्वे प्राच्यानु भवगोचरादनधिकमधिकं वाध्यवस्यतः स्मृतिविभ्रमस्त्रोतसोरन्य तरावर्तपरिवर्तिनः कुतः प्रामाण्यकूलप्रतिलम्भः ? कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ? । प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः ? अतिक्रामतो वा कुतः प्रत्क्षत्वमिति न विश्वानुभवैश्वर्यशालिनि प्रत्यक्षं प्रमाणम् ।}* *{(इतीश्वरे प्रत्यक्षप्रमाणनिरसनम्)}* *{नापि प्रमाणान्तरम् । तत्स्वल्वनुमानमागमो वा ? अनुमानमपि विशेषतोदृष्टं सामान्यतोदृष्टं वा ? तत्र सकलपदवीदवीयसि भगवति न तावत्स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिदमनुमानमुदतुमलम् । न ह्यनवगतचरहुतभुजस्तदविनाभावितया धूममनुसन्धातुमीशते । नच सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतोदृष्टमपि किञ्चन लभ्यत्}* *{(इतीश्वरेऽनुमानस्य प्रामाण्यासम्भवोपक्षेपः)}* *{ऽव्यवस्थितेऽत्यादीकारिकार्थं स्वयमेव विवृणोतिऽसर्वार्थेऽति ।}* *{अवगमयता गृह्णता । अवगमयन्त इति पूर्वमुद्रितपाठोऽशुद्धः । देशविप्रकर्षो दूरदेशस्थत्वम् । कालविप्रकर्षोऽतीतत्वमनागतत्वं च । स्वभावविप्रकर्षोऽयोग्यत्वमतीन्द्रियत्वरूपम् । योग्यानामपि कुड्यादिव्यवहितानां चक्षुरादिनाग्रहणं दृष्टम् । सर्वार्थेष्वेवम्भूता अपि पदार्थाः प्रविष्टा इति भावः । एवकारोऽप्यर्थे । गोचरयितव्यानि विषयीकरणीयानि ।ऽनपुंसकमनपुंसकेनेऽति क्लीबैकशेषनिर्देशोऽयम् ।ऽ न चेऽ ति । विद्यमानेत्यनेन कालविप्रकृष्टस्य व्यवच्छेदः । इन्द्रियसन्निकर्षयोग्येत्यनेन व्यवहितस्य देशविप्रकृष्टस्य च । कतिपयेत्यनेनातीन्द्रियस्य । कतिपयविषयनियतवृत्तेः निरुक्तविधककतिपयपदार्थमात्रग्रहणानुगुणव्यापारवतः । निरवधिर्महिमा अपकर्षासमानाधिकरणोत्कर्षः । स च ज्ञानस्य सर्वार्थगोचरत्वरूपः । तत् लौकिकप्रत्यक्षम् । इह सर्वदर्शित्वादिविशिष्ट ईश्वरे । साधनं प्रमाणम् । शिष्टं स्पष्टम् ।}* *{योगिप्रत्यक्षस्यापीश्वरासाधकत्वं साधयतिऽप्रत्यक्षत्वऽ इति । प्रत्यक्षत्वव्यापकत्वाद्वर्तमानार्थग्राहकत्वस्य योगिज्ञानमपि प्रत्यक्षं चेद्वर्तमानैकग्राहि}* *{भवेदिति न तस्य सर्वार्थग्राहकत्वम् । अतीतादिलविषयत्वे वा न तत्प्रत्यक्षं भवेत् । किन्तु प्रतिभादिज्ञानवदुपनीतभानविशेषरूपमेव संशयादिसहमिति न प्रमाणतामनुभवितुमलमीश्वर इत्यर्थः॥३॥}* *{नन्वेकचेतनाधीनं विवादाध्यासितं जगत् ।}* *{अचेतनेनारब्धत्वादरोगस्वशरीरवत् ॥ ४ ॥}* *{तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् ।}* *{कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ॥ ५ ॥}* *{सर्वं हि कार्यमुपादानोपकरणसम्प्रदानप्रयोजनसंवेदिचेतनरचितमवगतं घटमणिककगृहादि । कार्यं च विमतिपदमवनिगिरिमहार्णवादीति तदपि}* *{तथाविधबुद्धिमद्धेतुकमध्यवसीयते । न च कार्यत्वमसिद्धमिति वाच्यम् , अवयवसन्निवेशादिभिर्हेतुभिस्तत्सिद्धेः । इह चान्त्यावयविभ्यः प्रभृति आद्व्यणुककमखिलमवयविक्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितमवगतमित्यन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषामादिपरिस्पन्दश्च तदमुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणकक इति उपकरणमपि समस्तभेत्रज्ञवर्तीनि धर्माधर्मलक्षणान्यदृष्टानि । प्रयोजनं पुनस्तदभिनिर्वर्तितविचित्रार्थक्रियाकारश्चेतनोपकारप्रकारभेदोऽपयन्तः । तदुपभुजस्त एव क्षेत्रज्ञाः सम्प्र्दानम् । न चामी स्वसमवायिनावपि धर्माधर्मावलमवलोकयितुमिति तदतिरेकी निखिलभुवननिर्माण निपुणोऽधिकरणसिद्धान्तसमधिगतनिरतिशयसहजसकलविषयसंविदेश्वर्यशक्यत्यतिशयः पुरुषधौरेयकः किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ?}* *{(इतीश्वरे सामान्यतोदृष्टानुमानस्य प्रमाणताप्रतिपादनम्) तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतर्कोल्लसितमिति परिहसन्ति मीमासंकाः । तथाहि किमिदमेकचेतनाधीनत्वं नामाभिप्रेतं तनुभूवनादेः ? तदायत्तत्वमिति चेत्॑}* *{श्लोकार्थमेव प्रपञ्चयतिऽतऽ दित्यादिना ।ऽसमधिगतेऽत्यादि बहुव्रीहिवृत्तम् । यैः स्वयोग्यार्थसन्निकर्षरूपसहकारिकारणमधिगतम् , एवंभूतानि चक्षुरादीनि}* *{स्वविषयप्रत्यक्षज्ञानजनकानीति लोके प्रसिद्धमित्यर्थः ।ऽअतऽ इति । यतोर्ऽथसन्निकर्षस्य सहकारित्वं प्रसिद्धमन्वयव्यतिरेकाभ्याम् , अत इत्यर्थः ।ऽरसनादिभिऽरिति ।ऽनयनादिभिऽरिति पाठः स्याद्वा । अजातातिवृत्तौ आगाम्यतीतौ । इन्द्रियेणातीतानागतयोरग्रहणे प्रयोजकं सन्निकर्षाभावमुपपादयतिऽन चेऽ ति । रजतादिभिरिति मुद्रितपाठस्तु न सुसङ्गतः । तस्य सन्निकर्षस्य संयोगलक्षणस्य, द्व्याश्रयत्वात् उभयसमवायिकत्वात्, आश्रयाभावे अन्यतराश्रयविरहे, तदसम्भवात् सन्निकर्षोत्पत्त्ययोगात् ।ऽअतःऽ इति सहकारित्वादित्यर्थः । इन्द्रियेणातीतादिग्रहणासम्भवमुपपादयति सहकारीति । कारणाभावात्कार्याभाव इति भावः । अमुमर्थं प्रयोगारूढं प्रपञ्चयति भवति चेति । यदित्याद्युदाहरणवाक्यम् । यत्सहकारि यस्य तद्यत्सहकारीति बहुव्रीहिवृत्तम् । यादृक्सहकारिविशिष्टमित्यर्थः । एवमग्रेऽपि बोध्यम् । जननम् जनकम् । अर्थसन्निकर्षे त्याद्युपनयः । तान्यपीति निगमनम् । इन्द्रियाणि नातीतादिग्राहीणि, तदसन्निकृष्टत्वादिति प्रतिज्ञाहेतू चानुसन्धेयौ । एवं योगिप्रत्यक्षस्यबहिरिन्द्रियजत्वे न सर्वार्थगोचरत्वमित्युक्तम् । अतश्चेश्वरे तस्य साधनत्वायोगः फलितः । }* *{अथ तस्य मनोमात्रजन्यत्वेऽपि न तत्प्रमाणत्वं सर्वार्थद्यग्राहकत्वादेवेत्याहऽ नाप्यान्तरेऽ ति ।ऽ आन्तरगोचरऽ इति । कर्मधारयोऽयम् । अबाह्यविषये सुखादावेव मनसो बहिरिन्द्रयमद्वाहीकृत्य प्रत्यक्षजनकत्वादित्यर्थः । मनसः साक्षादेव बाह्यार्थग्राहकत्वे दोषमाहऽ निरङ्कुशेऽ ति । निरङ्कुशत्वमत्र बहिरिन्द्रियनिरपेक्षत्वम् । एवं मनसि हेतुमुपपाद्य साध्यं प्रयोगमुखतः साधयतिऽ भवतीऽ ति । प्रयोग इति शेषः । न प्रवर्ततेन ग्रहणानुगुणप्रवृत्तिमत् । तत्तन्त्रवृत्तित्वात् बाह्यार्थेषु बहिरिन्द्रियसहकारद्वारकग्रहणव्यापृतिमत्त्वात् । तन्त्रं प्रयोजकं, सहकारि वा । तत्तन्त्रं यस्याः, एवम्भूता वृत्तिर्यस्य तत्तत्तन्त्रवृत्ति, तस्य भावस्तत्त्वं तस्मादिति च}* *{व्युत्पत्तिः । उदाहरणंऽ यद्यत्रेऽ ति । यद्यत्र कार्ये यत्सहकारिसमवधानाधीनजननव्यापारवत्तत्तदसमवधाने न तत्कार्यजनकतावत्, यथाऽलोकसहकारिकं जक्षुर्नालोकाभावे स्वार्थघटादिचाक्षुषजनकमित्यर्थः । शङ्कतेऽ न चेऽ ति । आजन्मसिद्धेरपि प्राक्तनतपः फलत्वात्पृथगनुक्तिरत्र । सिद्धौषधादिसाध्यश्चेन्द्रियाणां पाटवातिशयः सूक्ष्मविप्रकृष्टादिग्रहणसामर्थ्यलक्षणः ।}* *{समधिगतविषयनियमम् औत्सर्गिकं वर्तमानयोग्यसन्निकृष्टार्थमात्रग्राहकत्वरूपनियमम् । अपजहति परित्यजन्ति । परिहरतिऽ सांसिद्धिकेऽ ति । कर्मप्रतिबद्धसङ्कुचितप्रवृत्तिस्वाभाविककरणशक्तिविकासकत्वमेव सिद्धौष धादीनाम् , नत्वपूर्वशक्त्याधायकत्वमित्यर्थः । नन्वस्त्वेवम् । तावता योगिचक्षुरादिना सर्वार्थाग्रहणस्य किमायातम् ? अत्राहऽ शक्तेश्चेऽ ति । चक्षुषो हि स्वाभाविकं सामर्थ्यं रूपरूप्यादिग्रहण एव, न तु योगादिनापि रसादिग्रहणे सामर्थ्यं तस्य संभवतीत्यर्थः । तथाच पाटवातिशयाद्धवीयोऽपि सूक्ष्मतमं रूपं गृह्णातु नाम योगिचक्षुः । नैतावतातीतादेः रसादेर्वा तद्ग्राहकं भवेदिति भावः । अत्र च न्यायमाहऽ भवतीऽ ति । अनुल्लङ्घितसीमा अनतिक्रान्तस्वमर्यादः । मर्यादा च चक्षुषो रूपादिषु चतुर्षु रूपस्यैव ग्राहकत्वमिति । एवं रसनादावपि अनुसन्धेयम् ।ऽ दृश्यमानेऽ ति । अयोगिनामपि चाक्षुषतेजोमान्द्यप्रकर्षाभ्यां रूपादिग्रहणतारतम्यं हि दृष्टम् । एवमेव योगिचक्षुस्तेजःप्रकर्षोऽपि ततोऽप्यधिकगोचरोऽनतिक्रान्तमर्याद एव सिध्येदित्याशयः । एवमैन्द्रियिकत्वे योगिज्ञानस्य सर्वार्थाद्यग्राहकत्वमुपपाद्यानैन्द्रियिकत्वेऽपि तस्य यथात्वमत एवेश्वरे प्रमाणत्वासंभवं चोपपादयतिऽ भावनेऽ ति । भावनाप्रकर्षप्रयन्ते जन्म यस्येति बहुव्रीहिः । विशदनिर्भासत्वे विशदप्रकाशकत्वे लौकिकविषयतानिरूपकत्वे । प्राच्यानुभवगोचरात् पूर्वानुभवविषयात् । अध्यवस्यतः प्रकाशयतः । पूर्वानुभूतादनधिकविषयत्वे स्मृतित्वम् । अधिकविषयत्वे तु भ्रमत्वम् , कामिनीभावयितुः कामिनः पुरोवर्तित्वेनासत्याः कामिन्याः प्रतिमानस्येवेत्यर्थः । समुदिताशयस्त्वयम् अनुभूतस्य पौनःपुन्येन स्मृत्यभ्यासेन संस्कारप्रचयः संपद्यते । तत्पर्यन्ते स्मृत्यभ्यासे सति जायमाना स्मृतिरेवप्रत्यक्षवद्विशदविषयावभासा भवतीति प्रत्यक्षसमानाकारं स्मरणमेव चेद्योगिप्रत्यक्षं विवक्षितम् , तर्हि तस्य पूर्वानुभूतार्थमात्रगोचरत्वान्नेश्वरगोचरत्वम् । सर्वार्थग्रहणादिसमर्थस्येश्वरस्य प्रमाणाभावेन प्रागननुभूतत्वात् । स्मृतित्वे च यथार्थानुभवत्वलक्षणमज्ञातार्थज्ञापकत्वलक्षणं वा प्रामाण्यं तन्नार्हत्येव । अत एव प्रमाणविशेषप्रत्यक्षरूपत्वं तस्य न तरां घटत इति ।ऽ प्रत्यक्षत्वेऽ इति}* *{श्लोकार्थोपसंहारःऽ प्रत्यक्षस्य वेऽ ति । विदितत्वं प्रसिद्धत्वम् ।ऽ न विश्वेऽ ति । सर्वसाक्षात्कर्तरि सर्वकर्तरि सर्वनियन्तरि चेश्वरेऽस्मदादीनां योगिनां वेन्द्रियरूपं प्रत्यक्षं न प्रमाणं न प्रमितिजनकमित्यर्थः । ननु केवलस्य बहिरस्वातन्त्र्येऽपि योगजप्रकृष्टादृष्टसहकृतस्य तस्य बाह्येष्वतीन्द्रियेषु त्रैकालिकेषु चार्थेषु प्रवृत्तिः संभवेन्नाम । तत्प्रकृष्टादृष्टसहकृतमनोजन्यमेव प्रत्यक्षं योगिनां स्यादीश्वरे प्रमाणम् । प्रत्यक्षस्य वर्तमानमात्रग्राहित्वमिति व्यवस्था चायोगिप्रत्यक्षैकगोचरेति चेत्॑ अत्र ब्रूमः प्रकृष्टादृष्टविशेषसहकारादपि प्रामाणिकसर्वार्थग्रहणमेव भवेन्नाम् सर्वेश्वरे चैकस्मिन्न प्रमाणं किञ्चित् । अतो न तत्सिद्धिर्योगजप्रत्यक्षेणापीति हार्दमाक्षेप्तुः । एतेन परमात्मध्यानजनितमेव परमात्मविषयमानसप्रत्यत्रं प्रमाणं तस्मिन्नित्यपि निरस्तम् । परमात्मनो ध्यानं हि तज्ज्ञानमन्तरा न संभवति । तच्चान्ततो गत्वा शास्त्रजनितमेवेति वक्तव्यम् । शास्त्रस्य च कार्यपरस्य न तत्र तात्पर्यम् । श्रुतिपौरुषेयत्वनये पुनरन्योन्यसंश्रयः स्पष्ट एव ईश्वरसिद्धौ तदुक्तत्वाच्छास्त्रप्रामाण्यसिद्धिः, तत्सिद्धौ चेश्वरसिद्धिरिति । अनुमानं च न प्रमाणं तत्रेत्यनन्तरमेव वक्ष्यते । तथा चेश्वरप्रमितेरेवाभावात्तन्मूलतद्ध्यानाद्यसिद्धिरेवेति । एवं लौकिकयौगिकभेदेन द्विविधस्य प्रत्यक्षस्येश्वरे न प्रमाणत्वमित्युक्तम् ।}* *{किमस्य तस्मिन्नायत्तं किं नु जन्माथवा स्थितिः ।}* *{प्रवृत्तिर्वाऽद्ययोस्तावत्साध्यहीनं निदर्शनम् ॥ ६ ॥}* *{न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीनसुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपि च शरीरावयविनः स्वावयवसमवायलक्षणा स्थितिरवयवव्यतिषङ्गविशेषादृते न चेतयितारं परमपेक्षते । या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ सम्भवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायिनीमुदीक्षामहे ।}* *{एकचेतनाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैरुपलतरु रथादिभिर्व्यभिचारः । आरब्धत्वादेव चैतत्साध्यसिद्धावधिकमिदमुपादान विशेषवचनम्।}* अनेनानुमानेनाभिमतेश्वराकारविशेषसिद्धिप्रकारं विशदयतिऽ*{सर्वम्}*ऽ इति । उपादानंसमवायिकारणम् । उपकरणंसहकाररिकारणम् । संप्रदानंकार्यं यद्भोगार्थं सृष्टं, स उपभोक्ता । प्रयोजनंक्रियमाणवस्तुसाध्यं फलम् । उपादानादीनां संवेदीसाक्षात्कर्ता यश्चेतनः तेन निमित्तहेतुना क्रियमाणं दृष्टं घटादिकार्यमित्यर्थः । मणिकोमहाघटः । एतद्वाक्येन कार्यत्वस्य सकर्तृकत्वव्याप्यत्वं प्रतिपादितं भवति । उपादानादिगोचरापरोक्षज्ञान चिकीर्षाकृतिमत्त्वं कर्तृत्वमत्र विवक्षितम् । उपनयनिमनेऽ*{कार्यं चे}*ऽति । विमतिपदं सकर्तृकत्वाकर्तृकत्वविप्रतिपत्तिविषयीभूतम् । अनेन सन्दिग्धसाध्यकत्वलक्षणं पक्षत्वमवन्यादेरुपपन्नमिति सूचितम् । स्वरूपासिद्धिमाशङ्क्य परिहरतिऽ*{न चे}*ऽ ति । पक्षे मह्यादाविति शेषः । आकृतिमत्त्वादिभिः क्षित्यादेः कार्यत्वसिद्धिरिति भावः । पक्षधर्मताबलात्कर्तृविशेषसिद्धिरिति प्रतिपादनार्थं कार्यसामान्योपादानादि निर्धारयतिऽ*{इहे}*ऽ ति । अवयवत्वासमानाधिकरणावयवित्वामन्त्यावयवित्वम् । अन्त्यावयवित आरभ्याद्यावयविद्व्यणुकमभिव्याप्य सर्वमवयविकार्यद्रव्यजात मवयवसंयोगविशेषजनितं प्रसिद्धमित्यर्थः । उत्तरोत्तरापेक्षया पूर्वपूर्वकार्येऽवयवाल्पत्वंऽक्रमनिहीयमानेऽत्युच्यते । अवयवसंश्लेषविशेषजनितत्वं च क्वचित्प्रत्यक्षादनुमानाच्चक्वचित्सिद्धमिति भावः । अन्त्येपादनत्वमवयवित्वासमानाधिकरणावयवत्वम् । चतुर्विधाः परमाणवः पृथिवीजलज्वलनपवनपरमाणवः । प्रपञ्चस्यकार्यद्रव्यप्रपञ्चस्य ।ऽ*{तेषा}*ऽ मिति । परमाणूनामादिपरिस्पन्दःसर्गाद्यकालीनारम्भकसंयोगजनकक्रियालक्षणः अदृष्ट वदात्मसंयोगरूपासमवायिहेतुज इत्यदृष्टानामुपकरणत्वमित्यर्थः । आद्यपरिस्पन्दस्यादृष्टहेतुकत्वं च कणादमुनिना सूत्रितम्ऽ*{अग्रेरूर्ध्वज्वलनं वायोस्तिर्यक्पवनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम्}*ऽ इति ।ऽ*{प्रयोजन}*ऽमिति । सृष्टिप्रयोजनमनवधिर्जीवोपकार प्रकारभेदः सृज्यपदार्थनिर्वाह्यनानाविधार्थक्रियारूपः नानाविधभोगनिष्पादन लक्षणोऽसङ्ख्यात इत्यर्थः। सम्प्रदानं च साक्षात्परम्परया वा कार्यपदार्थनिष्पादितं भोगमनुभवन्तो जीवराशय इत्याहऽ*{तदुपभुज}*ऽ इति । एवं सर्वविधपरमाणुसर्वजीवादृष्टसर्वजीवोपकारप्रकाररूपनिखिल जगदुपादानोपकरण प्रयोजनसाक्षात्कर्तृत्वादि जीवेषि न स भवतीति कैमुतिकन्यायेन साधयितुं स्वीयादृष्टासाक्षात्कर्तृत्वमपि न तेष्वित्याहऽ*{न चामी}*ऽ इति । तदतिरेकीजीवविलक्षणः । ऽ*{यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः}*ऽइति न्यायसूत्रम् । यत्सिद्धिमन्तरा प्रकृतोर्ऽथों न सिध्यति, तथाभूतः प्रकृतार्थसिद्धेर्नान्तरीयकतया सिध्यन्नर्थोऽधिकरणसिद्धान्तसिद्ध इत्यर्थः । तथाचनिखिलार्थसाक्षात्कारित्वाद्यन्तरा कर्तृः क्षित्यादेः सकर्तृकत्वरूपः प्रकृतार्थो न सिध्यतीति विशिष्टकर्तृलाभोऽधिकरणसिद्धान्तनयेनेति फलितम् । तार्किकाभिमतमीश्वरानुमानप्रकारमिमं निरस्यन्ति मीमांसकाःऽ*{तदिद}*ऽ मित्यादिना । दृष्टाजातीयस्यैव साधकमनुमानं, न त्वतीन्द्रियार्थस्येत्यनुमानवृत्तमजानतः स्वबुद्ध्यत्प्रेक्षिताव्यवस्थिततर्काभास मूलमिदंविलक्षणपुरुषसाधनमित्यर्थः । तर्कस्वभावानभिज्ञस्य तार्किकत्वव्यपदेशःसुशोभन इति चोपहासो गर्भितः । परोक्तस्य तर्कस्याभासत्वमुपपादयितुमुपक्रमतेऽ*{तथाही}*ऽ ति ।ऽ*{किमिदम्}*ऽ इति । तनुमुवनादेःपिण्डब्रह्माण्डादेः । पिण्डो देहः । तथाच पुराणरत्नेऽ*{पिण्डः पृथग्यतः पुंसः शिरःपाण्यादिलक्षणः}*ऽइति । पक्षसपक्षयोरिति वार्ऽथः । एकचेतनायत्तत्वं जगतो विकल्प्य दूषयतिऽ*{किमस्ये}*ऽ ति कारिकया । आयत्तंकार्यत्वेन संबद्धम् । एकचेतनहेतुकत्वं किं भुवनजन्मनः साध्यते, उत भुवनस्थितेः, आहोस्विद्भुवनप्रवृत्तेः ? आद्ययोः कल्पयोरन्वयदृष्टान्तो नीरोगदेहः साध्यविकल इत्यर्थः । तथाच व्याप्त्यसिद्धिर्व्यभिचारश्चेति भावः ॥ ६ ॥ *{चेतनाधीनतामात्रसाधने सिद्धसाध्यता ।}* *{चेतनैर्भोक्तृभिर्भोग्यः कर्मभिर्जन्यते हि नः ॥ ७ ॥}* *{युक्तं चैतत्यदुभयवादिसिद्धानामेव चेतनानां कर्तृत्वाभ्युपगमः लाघवात् । न चोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः ।}* दृष्टान्ते साध्यशून्यत्वमुपपादयतिऽ*{न खल्वि}*ऽ त्यादिना । स्वशरीरोत्पत्तिस्थित्योः स्वस्याप्यदृष्टद्वारा हेतुत्वं वाच्यम् । तच्छरीराधीनोपभोगोपकारभाजामन्येषां च तत्रादृष्टद्वारा हेतुत्वं तद्देहिन इवास्तीति एकचेतनायत्तोत्पत्तिस्थितिकत्वं दृष्टान्ते नास्तीत्यर्थः । द्वितीये कल्पे स्थितिशब्दार्थविकल्पनमुखेन दूषणान्तरमप्याहऽ*{अपि चे}*ऽ ति। शरीरावयवुन इति कर्मधारयवृत्तम् । आरम्भकसंयोगेऽवयवसमवेते दृढे सति स्वावयवसमवेतत्वलक्षणावयविनः स्थितिः शरीरस्य निराबाधा घटादेरिव प्रसिध्यत्येवेति नैवंविधस्थितेश्चेतनापेक्षता । प्राणवृत्त्यधीनाशैथिल्यावस्थानलक्षणा शरीरधृतिः परं जीवनयोनियत्नहेतुकत्वाद्भवेन्नाम चेतनापेक्षा दृष्टान्ते व्यापकत्वेन साधनस्य गृहीतैवंविधा स्थितिस्तु न पक्षे मह्यादौ । तथाच कार्यत्वावच्छेदेन एवंविधैकचेतनाधीनास्थितिकत्वसाधनेंऽशतो बाध इति भावः । तृतीये कल्पे एकचेतनायत्तप्रवृत्तिकत्वेऽनैकान्यमाहऽ*{एके}*ऽ ति । सरभसप्रयत्नःतीव्रप्रयत्नः । बहुजनैकसाध्यचलनप्रवृत्तिमति महोपलादौ साध्यशून्ये सत्त्वादनेकान्तता हेतोरित्यर्थः । हेतोर्व्यर्थविशेषणत्वं चाहऽ*{आरब्धत्वादेवे}*ऽ ति । जन्यत्वस्यैव हेतुत्वे व्यभिचाराप्रसक्तेरचेतनोपादाननिरूपितत्वस्य तद्विशेषणस्य वैयर्थ्यम् । तथा च व्याप्यत्वासिद्धिः । अधिकं नाम निग्रहस्थानं च प्रयुञ्जत इति भावः । यद्यपि समवेतद्रव्यत्वरूपे फलिते हेतौ न वैयर्थ्य प्रसक्तिः । अथापि यथाश्रुतहेत्वभिप्रायेण व्यर्थविशेषणत्वाबिधनम् । फलितेऽपि हेतावनैकान्यं तु दुर्वारमेवेति दिक् । नन्वनैकान्त्यप्रसङ्गादेकत्वविशेषणं त्यज्यते । चेतनाधीनत्वमेव तु साध्यत इति चेत्तत्राहऽ*{चेतन}*ऽ ति । यद्यप्युक्तहान्याद्येवं वदतः प्रसज्यत एव । अथापि तस्यक्तिदोषत्वत्तदुपेक्ष्यार्थदूषणमेवात्रोच्यते ।ऽ*{ही}*ऽ ति प्रसिद्धौ । अस्माकमपि कार्यसामान्यस्य जीवादृष्टहेतुकत्वेन चेतनाधीनत्वस्य सम्प्रतिपत्तेः चेतनाधीनत्वमात्रसाधने जीवैः स्दिधसाधनम् । भवतश्चार्थान्तरमिति भावः ॥ ७॥ *{उपादानं पृथिव्यादि यागदानादि साधनम् ।}* *{साक्षात्कर्तुं क्षमन्ते यत्सर्व एव च चेतनाः ॥ ८ ॥}* *{अद्यवदेव विश्वम्भरादयः कर्मप्राप्तागन्तुकोपचयापचयैकदेशशालिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी ।}* नन्वदृष्टद्वारा चेनप्रयोज्यत्वमात्रं न साध्यत् किं तु चेतनकर्तृकत्वम् । कर्तृत्वं च क्षित्यादौ जीवानां नसंभवतीति चेत्॑ एवं सति द्वितीयानुमान एव विश्रान्तिः । तत्रापि सिद्धसाधनमेवेत्याहऽ*{युक्त}*ऽमिति । लाघवपक्षपातित्वादनुमानस्य सकर्तृकत्वानुमानस्यापि संप्रतिपन्नजीव मात्रविश्रान्तिरिति भावः । ननु जीवस्य जगत्कर्तृत्वमनुपन्नम् । अनुपपन्ने चार्थे लाघवमकिञ्चित्करम् । तदीश्वरसिद्धिरप्रत्यूहेति शङ्कां प्रतिक्षिपतिऽ*{न चोपादाने}*ऽति । जीवस्याप्युपादानादिसाक्षात्कार उपपन्न एवेत्याहऽ*{उपदान}*ऽमिति । अयमाशयःतत्तद्वैदिककर्मणोऽतिशयिततत्तत्फलसाधनत्वमवगत्य वेदाद्वैदिकानां वचनाच्च तदनुग्रहत एवानुष्ठाय तत्तत्कर्म यथाविधि समधिगतसामर्थ्यविशेषा जीवविशेषा एव पृथिव्यादिभूतचतुष्टयं भौतिककार्यवर्गोपादानभूतं सहकारिवर्गं च साक्षात्कृत्योपादाय च जगत्सृजेयुरिति न कर्त्रन्तरकल्पनावकाश इति । यत्यस्मात्, क्षमन्ते, अतोन तत्प्रतिक्षेप इत्यन्वयः पूर्वेण ॥ ८ ॥ *{कर्मणः शक्तिरूपं यदपूर्वादिपदास्पदम् ।}* *{मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः ॥ ९ ॥}* *{न खलु कुलालादयः कुम्भादिकार्यमारभमाणास्तदुपादानोपकरण भूतमृद्दण्डचक्रादिकार्योत्पादनशक्तिं साक्षात्कृत्य तत्तदारभन्ते । यदि परं शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारोऽनुपपन्नः, इह तु}* ननु प्रलये पृथ्व्यादेराद्यद्व्यणुकं विनाशाज्जीवानां च तदा करणकले वरविधुरत्वेन ज्ञानोपादानसामर्थ्यविरहान्न तेषां सर्गाद्यजगत्सृष्टिकर्तृत्वं संभवतत्यत्राहऽ*{अद्यव}*ऽ दिति। न पृथिव्यादीनां सर्वाशेन प्रलयोत्पादौ । किन्तु वर्तमान इव काले भागभेदेनैव तौ क्रमशः । आगन्तुकैकदेशवृद्धिह्रासलक्षणौ । तथाच जीवेष्वेव केषाञ्चित्साधनविशेषसमासादितज्ञानशक्त्यतिशयानां हीनांशप्रपूरणात्मकं सर्जनं पृथिव्याद्युपादानसाक्षात्कारादितः संभवेदेव विश्वामित्रादीनामिवेत्यर्थः । निरवशेषप्रलये न पुनःसर्गः । सावशेषलये तु जीवविशेषाणां तत्तद्भागभेदकर्तृत्वं संभविष्यतीति नेश्वरकल्पनावसर इति भावः। नन्वदृष्टमप्यस्ति सहकारि पुण्यपापरूपम् । तत्साक्षाताकरमन्रा च न तदनुगुणकार्यसर्जनं संभवेत् । तत्साक्षात्कारो न च जीवानां घटत इत्यत्राहऽ*{कर्मणः}*ऽ इति । अन्यकर्तृकयागादिधर्माणां चौर्याद्यधर्माणां च साक्षात्कारे क्षमा एव साक्षिभूताजीवविशेषाः । शास्रतश्च तत्तत्कर्मणः फलविशेषजनन सामर्थ्यमधिगतवन्तस्ते । तथाच तत्तदनुगुणं सृजेयुर्नाम् शक्तिमतः साक्षात्कारः शक्तेर्ज्ञानमात्रं च कर्तृत्वोपयोगि, नतु शक्तेरपि साक्षात्करणम् । स्वस्य पुनः । करणसामर्थ्यं चापेक्षितम् । तथाच पुण्यपापशब्दितकर्मशक्त्यसाक्षात्कारेऽपि नोपरोधः कर्तभावस्येति भावः ॥ ९ ॥ *{आगमादवगम्यन्ते विचित्राः कर्मशक्तयः ।}* *{तेन कर्मभिरात्मानाः स्वं निर्मिमतां पृथक् ॥ १० ॥}* *{अपि च तदेव चेतनकर्तृकं जगति परिदृश्यते, यदेव शक्यक्रियं शक्यज्ञानोपादानादि च । न च तथा महीमहीधरमहार्णवादीति कथमिव तत्तत्कार्यत्वम् ? कथन्तरां च तदुपादानोपकरणादेः साक्षात्कारगोचरता ? यादृशं हि कार्यमुपादानाद्यभिज्ञपूर्वकमवगतं घटमणिकादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवति ।}* *{अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवतानवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं बोद्धारमुपस्थापयन् हेतुरभिमतपुरुष सार्वज्ञ्यसर्वैश्वर्यादिविपर्ययसाधानाद्विरुद्धः स्यात् । न चैवं सति सर्वानुमानव्यवहारोच्छेदप्रसङ्ग शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्गबलादापततो विपरीतविशेषांस्तत्प्रमाणमेव प्रतिरुणाद्धि । इह पुनरतिपतितसकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तोऽन्वयव्यतिरेकावधारिताविनाभावभाजोधर्मास्तानप्यविशेषेणोपस्थाप यति ।}* उपपादयत्येतदेव निदर्शनतःऽ*{ने}*ऽ ति । तुशब्दार्थेऽयं प्रयुक्तोऽयम् । यद्वा इहेत्यतः पूर्वं*{इति, सत्यम्,}*इति योज्यम् ।ऽ*{आगमा}*ऽ दिति। तेनकर्मनिष्ठशक्तीनां शास्रतोऽवगमेन, कर्मभिःनानाजीवीयकर्महेतुतः, कर्मानुगुणमिति यावत्, आत्मानःशक्तिमन्तो जीवाः, पृथक्विभागेन, तत्तदेकेशभेदेनेति यावत्, सर्वं जगत्कार्यद्रव्यजातम्, निर्मिमताम्सृजन्तु इत्यर्थः ॥ १० ॥ *{अपि चस्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः ।}* *{ईश्वरस्योभयाभावाज्जग्सर्गो न युज्यते ॥ ११ ॥}* *{अवाप्तकामत्वान्न तावदात्मार्थे सृजति ॑ प्रलयसमये प्रलीनसकलकरणकलेवरादिभोगोपकरणतया च चेतनानां दुःखाभावात्दुःखिदर्शनजनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्य}* *{निवृत्तेर्व्याप्यभूतया प्रेक्षावत्प्रवृत्त्यापि निवर्तितव्यम्।}* अथ कार्यत्वहेतौ दोषानाहऽ*{अपिचे}*ऽ त्यादिना । तत्रादौ स्वरूपासिद्धिरुपाधिमुखेन व्याप्यत्वासिद्धिश्च कीर्त्येते । शक्या क्रियाकरणं यस्य तच्छक्यक्रयम् । कर्तृं शक्यमिति यावत् । शक्यं ज्ञानं यस्य तच्छक्यज्ञानम्, शक्यज्ञानामुपादानादि यस्य कार्यस्य तच्छक्यज्ञानोपादानादि । एवंभूतमेव कार्यं सकर्तृकं भवितुमर्हतीत्यर्थः । चेतनकर्तृकत्वरहितं कार्यं नास्तीति चानुसन्धेम् ।ऽ*{न चे}*ऽ ति । तत्तत्कार्यत्वम्तस्य तस्य कार्यत्वं क्षित्यादेरशक्यक्रियस्येत्यर्थः । अनेन स्वरूपासिद्धिर्भागासिद्धिर्वाक्ता ।ऽ*{कथन्तरा}*ऽ मिति । उपादानोपकरणपरमाण्वदृष्टादेःसाक्षात्कर्तुमशक्यतयोपादानादिसाक्षात्कारचिकीर्षाकृतिमत्पुरुषपूर्वकत्वं कथन्तरां घटते क्षितिद्व्यणुकादेरित्यर्थः । क्षित्यादेः कार्यत्वे चेदाग्रहः , इष्यताम् । सकर्तृकत्वं तु उपपन्नमेवेति(?) भावः । सोपाधिकत्वमाहऽ*{यादृशम्}*ऽ इति । यादृशंकृतिसाध्यत्वार्हं ज्ञेयत्वार्हेपादानादिकं च । अनेन शक्यक्रियत्वं शक्यज्ञानोपादानदिकत्वं चोपाधिरित्युक्तं भवति । अस्य व्यभिचारोन्नायकत्वं सत्प्रतिपक्षोन्नायकत्वं वा बोध्यम् । एवं कार्यत्वहेतोरभिमतकर्तृपूर्वकत्वासाधकत्वमुक्त्वानभिमतापादकत्वं चाहऽ*{अपि चे }*ऽति । सपक्षे हि घटादौ विग्रहवत्त्वस्वार्थापेक्षत्वानीश्वरत्वादिविशिष्टकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तिर्गृहीता । विशिष्टसाध्येन गृहीतव्याप्तिकं च शरीरादि विशिष्टमेव कर्तारं साधयेत्पक्षे ।ते चाकारा अभिमतविपरीता इति विरुद्धव्याप्यत्वाद्धेतोर्विरुद्धत्वमिति भावः । नन्वेवं सपक्षे महानसादौ कारीषत्वादिमता वह्निना गृहीतव्याप्तिना धूमेन पक्षे पर्वते कारीषादिवह्नेरेव साधनं स्यात् । स च तत्र नास्तीति अप्रामाण्यप्रसङ्गोऽनुमानमात्रस्येत्यत्राहऽ*{नचैवम्}*ऽ इति ।ऽ*{प्रमाणान्तरे}*ऽति । साध्यस्य प्रमाणान्तरग्रह्यत्वे लिङ्गबलात्प्रसक्तानां विरुद्धविशेषाणां प्रत्यक्षादिनापवदनात्वह्निमात्रे प्रामाण्यमनुमानस्यव्यवस्थाप्यं भवेन्नाम । प्रमाणान्तरागोचरे तु साध्ये लिङ्गबलप्रसक्तानां विपरीतविशेषाणामपवादकाभावात्तथैवावस्थानं स्यादित्याशयः । अन्वयव्यतिरेकसहचारग्रहाद्यद्यद्धर्मावच्छिन्नकर्तृपूर्वत्वेन कार्यत्वस्य व्याप्तिर्गृहीता, ते कुलालाद्यनुगता अनीश्वत्वसंसारित्वादयो भवन्ति व्यापकतावच्छेदकत्वेन गृहीताः । व्यापकतावच्छेदकधर्मप्रकारेण साध्यानुमापकत्वस्वाभाव्याच्च लिङ्गस्यानीश्वरसंसारिकर्तृमात्रपर्यवसायित्वं कार्यत्वहेतुकसकर्तृकत्वानुमानस्येतिऽ*{यावन्त}*ऽ इत्यादिना विवक्षितम् । ईश्वरस्य जत्कर्तृत्वासंभवादपि निरुक्तानुमानमनीश्वर एव विश्राम्यतीत्यभिप्रयन्नाहऽ*{अपचे}*ऽ ति । स्वार्थःस्वप्रयोजनम् । कारुण्यम्परप्रयोजनसम्पादनोपयोगिगुणविशेषः परार्थपर्ययवन्नः । स्वार्थेच्छायाः कारुण्यस्य वा सत्तया व्याप्यं बुद्दिमत्प्रवृत्तिसामान्यमिति पूर्वार्धस्यार्थः । सिषाधयिषितस्येश्वरस्य त्ववाप्तकामत्वान्न स्वार्थः साधनीयः कश्चन सम्भवति सृष्टिहेतुः,न वा कारुण्यम्, परदुःखदर्शनाधीनोद्धोधत्वात्तस्य प्रलये च परेषां दुःखस्यैवाभावात् । अतःस्वार्थाभिसन्धिसमुद्बुद्धकारुण्यान्यतररूपव्यापकनिवृत्त्या जगत्करणरूपप्रवृत्तेर्निवृत्तिरित्युत्तरार्धस्यार्थः ॥ ११ ॥ *{सुखैकतानं जनयेज्जगतकरुणया सृजन् ।}* *{तत्कर्मानुविधायित्वे हीयेतास्य स्वतन्त्रता ॥ १२ ॥}* *{न चोपादानादिसाक्षात्कारिण एव कर्तृत्वमित्यपि नियमः ॑ उपीदानमुपकरणं चाविदुष एवात्मनो ज्ञनादिषु कर्तृत्वात् ।}* कारिकार्थमेव प्रपञ्चयतिऽ*{अवाप्ते}*ऽ त्यादिना । प्रकारान्तरेण कारुण्यस्यासंम्भवमाहऽ*{सुखैके}*ऽ ति श्लोकार्धेन । प्रत्युतः दुःखालयं जगत्सृजतो न कारुण्यलेशोऽपि घटत इति भावः । नन्वीश्वरः कारुण्येनैव स्रष्टुं प्रवृत्तम् । अथापि सृज्यकर्मापेक्षया सर्जनान्न नैर्घृण्यादिप्रसङ्ग इत्यत्राहऽ*{तत्कर्मे}*ऽ ति । तथा सति कर्मपारतन्त्र्यप्रसङ्गादीश्वरत्वं भज्येतेति भावः । ऊशावरो यदि जगत्कर्ता स्यादनवाप्तकामत्वादिमान् स्यादिति प्रतितर्कोऽत्रानुसन्धेयः । प्रतिप्रयोगस्त्वग्रे वक्ष्यत एव ॥ १२ ॥ *{अतः असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् ।}* *{कार्यत्वहेतोर्जगतो नयथोदितकर्तृता ॥ १३ ॥}* *{प्रयोगश्च भवतिमहीमहीधरादि कार्यंन भवति, प्रसिद्धकार्यविलक्षणत्वात्, गगनवत्॑ अशक्यदर्शनोपादानोपकरणत्वाद्वा, व्यतिरेकेण घटादिवत् । परमाणवोन प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात्तथैव घटादिवत् । विमतिविषयः}* *{कालो न लोकशून्यः, कालत्वादिदानीन्तनकालवत् । तनुभुवनादीश्वरकर्तृकं न भवति कार्यत्वात्तद्वदेव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति ।}* अथानैकान्त्यमप्याहोपादानाद्यभिज्ञकर्तृपूर्वकत्वसाधनेऽ*{न चोपादानादी}*ऽ ति । ज्ञनादिविशेषगुणोपरागेणैवात्मनः प्रत्यक्षत्वात्ज्ञानार्थप्रवृत्तिवेलायां नात्मनो ज्ञानोपादानभूतस्वात्मसाक्षात्कारित्वं नियमतोऽस्ति । न वा तदुपकरणादृष्टमन आदिसाक्षात्कर्तृत्व म् । ज्ञानार्थ प्रवृत्तेर्ज्ञने कर्तृत्वं समवायित्वं च परमस्ति । तथा चोपादानाद्यभिज्ञपूर्वकत्वाभाववति ज्ञानादै कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यर्थः। निरुक्तेश्वरानुमानदूषणानि सङ्गृह्णातिऽ*{असिद्धत्वा}*ऽ दिति । कार्यत्वस्य क्षित्यादावसिद्धिरशक्यक्रियत्वादिनाकार्यत्वानुमानात्तस्य अनीश्वरत्वानवाप्त कामत्वशरीरित्वादिविपरीताकारक्षेपकत्वात्क्षित्यादौ कर्तुः सिषाधयिषितस्य कार्यत्वस्य विरुद्धत्वम् । अभिमतविपरीताकाराक्षेपकत्वं हेतोर्विरुद्धत्वमिति हि प्राचां परिभाषा । अनैश्वर्याद्यापादकत्वं चानैश्वर्यादिविशिष्टकर्तृकत्वेन व्याप्तेर्घटादौ कार्यत्वहेतोर्गृहीतत्वादेव । किञ्चचेतनजन्यत्वमात्रे साध्येऽदृष्टद्वारा जीवजन्यत्वस्य कार्यमात्रेऽभिमतत्वात्सिद्धसाधनम् । तदुपादानादिसाक्षात्कर्तृकर्तृपूर्वकत्वं साध्यमित्युररीकार्यम् । तत्र चानुपदोक्तमनैकान्त्यं स्थितं ज्ञानाद्यन्तर्भावेन । एवमसिद्ध्यादिदोषदुष्टत्वात्कार्यत्वस्य तेन क्षित्यादौ उपादनोपकरणादिसाक्षात्कर्तृ कर्तृपूर्वकत्वं न साधयितुं शक्यत इत्यर्थः ॥ १३ ॥ *{अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिह्नवम् ।}* *{सभागत्वात्क्रियावत्त्वात्महत्त्वेनविशेषितात् ॥ १४ ॥}* *{तादृशादेव मूर्तत्वाद्बह्यप्रत्यक्षतान्वितात् ।}* *{समामान्यवशेषत्वादित्यादिभ्यो घटादिवत् ॥ १५॥}* *{न चेदृश एव सन्निवेशः कार्यः नेतर इत्यवयवसन्निवेशविशेषप्रतिनियतं रूपभेदमुदीक्षामहे । यत्तु शक्यक्रियं शक्यज्ञानोपादानोपकरणं च क्रियत इत, तदस्तु नाम । किन्तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिगमनीये । ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः}* *{प्रसिद्धप्राकारगोपुरादि कार्येभ्यस्तनुभुवनादेः । नचैतावानेव क्रियागोचर इति विषयनियमः कश्चित्क्रियाय दृष्टः ॑ येनेदमशक्यक्रियमध्यवस्येम । सिद्धे च कार्यत्वे तदुपादानादिसाक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुषविशेष सिध्यत्येव ।}* *{अधिष्ठानं च तत्प्रवृत्त्यनुगुणसङ्कल्पवदीश्वरसन्निकर्षः, क्षेत्राज्ञेनेव स्वशरीरादौ । स च द्रव्यैः संयोगलक्षणः, तद्गुणैस्तिसंयुक्तसमवायरूपः । प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा ॑ धर्माधर्मयोस्तु फलोदयानुकूलतादृशदेशकालादिसहकारिसहितता । ताभ्यां धर्माधर्माभ्यामेव फलम्, चेतनानधिष्ठितानां सर्वेषामेतेषामचैतन्येनाकिञ्चित्करत्वात् । न हि चेतनेन वर्धकिनानधिष्ठिता वासी । देशकालादिसहकारि शतसमधिगमेऽपि यूपादीन्यापादयितुमलम् । बीजाङ्कुरादयस्तु पक्षान्तर्भूता इति तैर्व्यभिचारवचनमनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर्व्यभिचारोऽपि प्रत्युक्तः । न चोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानामेवेदृशाधिष्ठातृत्वकल्पनमुचितम् ॑ तेषां सूक्ष्मव्यवहितादिदर्शना शक्तेर्निश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना ॑ न दृष्विरोधिनी । न चैवमीश्वरस्याशक्तिर्निश्चिता ॑ प्रमाणान्तरतस्त(द)त्सिद्धेः । यथोदितप्रमाणबलेन सिध्यम् सांसिद्धिकसर्वार्थदर्शनतत्प्रेरणशक्तिसम्पन्न एव सिध्यति ॑ कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् ।}* *{यत्तु परिमितशक्तिज्ञानानैश्वर्याद्यापदनाद्धर्मविशेषविपरीसाधनत्व मुद्भावितम्, तदतिस्थधीयः, अप्रयोजकत्वात्तेषम् । न हि किञ्चित्क्रियमाणं कर्तुरर्थान्तरविषयमसामर्थ्यमज्ञानां वा स्वोत्पत्तेऽपेक्षते ॑ स्वसभ्पादनसमर्थकर्तृमात्राक्षेपात्केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये सम्बन्दिनोऽकिञ्चित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्व कल्पनानुपपत्तेः । अपि च किं तदितरमस्तवस्तुवि, यमज्ञानादि व्यापकम्, उत कतिपयगोचरमिति विवेचनीयम् । न तावदशेषविषयम्, अनुपलब्धेः । न खलु कुम्भकारः कुम्भातिरेकि किमपि न विजानाति । अथ कतिपयविषयम् । तदपि न, अनियतविषयतया तस्य तस्यव्यभिचारदर्शनात् । न चास्तिकिञ्चिद्व्यवस्थितम्,}* *{यदविद्यादिमानेव कर्तृतामनुभवति ।}* *{न च शरीरिणैव कर्त्रा भाव्यम्, शरीरग्रहणेनैवानैकान्त्यात् । न खलु शरीरविशिष्टस्सन्नेवायमात्मा शरीरमुपादत्ते, अयोगिनोयुगपदनेकशरीर ग्रहणायोगात् ।पूर्वधपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तरं प्रविशतीत्युपपादितमात्मचिन्तायाम्।}* *{किञ्चात्मनः शरीरमधितिष्ठतोऽधिष्ठानक्रियातकर्मभूतस्य देहस्याधिष्ठातृदशा (देहा)नुप्रवेशोऽनुपपन्नः, युगपदेकक्रियायामेकस्य कर्मकर्तृत्वविरोधात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुण प्रयत्नयोगलक्षणमधिष्ठानं दृष्टमिति चेत्॑ अस्त्वेकतत्त्व (सत्व)सम्बद्धस्याधिष्ठानानुपपत्तेः प्रेर्यवस्तुसम्भन्धिना प्रेरकेण भवितव्यमिति ॑ न पुनर्देहसम्बन्धेन (न्धिना) भाव्यमिति । कुतो निर्णयः ? इत एव, यतोऽन्यदप्यधिष्ठीयमानं मानजण्डादि स्वसम्बन्धिनौवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसम्भन्धमात्रातिरेकेण देहसम्बन्धो नामपरो नादर्तव्यः अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस्सम्बन्ध इत्युक्तमेव ।}* *{अथ स्वदेहव्यतिरिक्त वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्येत ॑ तदपि न ॑ अभिध्यानमात्रेणैव परशरीरगतगरनिरसनविसारणदर्शनात् ।}* *{कथमसति शरीरे परप्रेरणात्मकः सङ्कल्प इति चेत्॑ किं शरीरं सङ्कल्पयति, येन तदभावे न भवेत्? । करणमिति चेन्न॑ मनसः करणत्वात् किमस्तीश्वरस्य मनः ? बाढम् । नन्वेवं वुग्रहधर्माधर्मानैश्वर्यादयः साधारणधर्माः प्रादुःष्युः । मैवम् ॑ कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वात्(त्त्वार्थ) द्रढिम्नैवापास्तत्वात् । मनसो नित्येन्द्रियतया देहापगमेऽपि सम्बन्धाभ्युपगमादनैकान्तिकश्च । यावद्धि दृष्टानुगुणं व्याप्त्युपयोगि, तावदनुज्ञायते । नचास्मदादेर्मनसाप्यचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरीरकः किञ्चिज्ज्ञः पुण्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानैश्वर्यशक्तिः शरीराद्यनपेक्षः सङ्कल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः ।}* *{ईदृशेन कर्त्रा घटादिषु कार्यत्वस्य सम्बन्धो न दृष्ट इति चेत्॑}* *{अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसम्बन्धिना हुतवहविशेषेण महानसादौ धूमस्य वा किं सम्बन्धो दृष्टः ? येन धूमविशेषदर्शनात्गिरिशिखरे तथाविधाग्निरनुमीयते । यादृशो धूमो यत्रावगतः तत्रैव तादृशस्तत्सम्पादनसमर्थौ दृष्टान्तभूमावपरिदृष्टोऽपि सामान्यव्याप्तिबलेन पक्षध्रमतावशात्सिध्यतीतित चेत्॑ तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिहोहति भवताम् । इमापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसम्बन्धनियमं क्षित्यादिषु दृश्यमानं स्वसम्पादनसमर्थमदृष्टपूर्वमेव बुद्धिमत्कर्तारमुपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषानादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण सम्ब्न्धनियमः,तथैवानीश्वरत्वाकिञ्चिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वमनुष्यत्वादि विशेषप्रहाणेन कार्यस्य स्विनिर्माणसमर्खबुद्धिमत्कर्तृमात्रेण सम्बन्धनियमनिश्चय इति न कश्चिद्विशेषः ।}* *{अपि च विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वाव्याभिचारेऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहितत्वम् ? कथं न वायवीयद्रव्यस्यमहिमगुणशालिनो नियताधिष्ठानस्पार्शनत्वनियमदर्शनेऽपि त्वगिन्द्रिये तद्विपर्ययः ? तैजसस्य वा रूपस्पर्शयोरन्यत्तरस्य वा प्राकट्यनियमेऽपि रूपोपलम्भसाधनतानुमिततैजसभास्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ? । अथ कार्यदर्शनानुमितसद्भावानां तैजसादिभावेऽपि तत्तद्विशेषाणां योग्यानुपलब्धिबाधितत्वात्तदभ्युपगमेऽनेकनियमभङ्गप्रसङ्गाच्च तथाभ्युपगमः, हन्त तर्हि प्रकृविषयेऽपि प्रसढञ्जितधर्मविशेषाणामनुपलम्भबाधाविशेषातनेकनियमदर्शनविघातप्रसङ्गाच्च तथाभ्युपगम इति सर्वं समानमन्यत्राभिनिवेशात् ।}* *{दृश्यन्ते हि नीतयः । यथाविवादास्पदं परमाण्वादि प्रेक्षावप्रेरितं चेष्टते, अचेतनत्वात्॑ यदचेतनं तत्तथा, यथा तथाविधं कन्दुकादि । तथा विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तयप्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वात्तद्वदेव ।}* प्रतिप्रयोगानाहऽ*{प्रयोगश्चे}*ऽ ति । अशक्यदर्शनोपादानत्वमुपादयतिऽ*{परमाणव}*ऽ इति । तथैवव्यतिरेकेणैव । कार्यत्वस्य पक्षे क्षित्यादौ असिद्धिसाधनाय प्रयोग उक्तः । अथ जीवैः सिद्धसाधनत्वसाधनार्थ प्रलयनिरासे प्रयोग उच्यतेऽ*{विमती}*ऽ ति । सति हि प्रलये सर्गारम्भेस्रष्टृत्वं जीवानां करणादिविधुरत्वान्न घटत इति कर्त्रन्तरं मन्तव्यं भवेत् । तत्सर्वकार्यद्रव्यविरहलक्षणः प्रलयो नास्त्येवेति साध्यतेऽत्र । विरुद्धत्वप्रदर्शनार्थः प्रयोगःऽ*{तनुबुनवनादी}*ऽ ति । ईश्वरकर्तृकं न भवतीत्यनीश्वरकर्तृकं भवतीत्यर्थपर्यवसायि । तद्वदेवअन्वयेन घटादिवदेव । विपरीतपर्यवसायित्वं कार्यत्वानुमानस्योक्तम् । अभिमतपर्यवसायित्वाभावं च स्फोरयतिऽ*{ईश्वर}*ऽ इति । ईश्वरःीश्वरत्वाभिमतः । अयं च सत्प्रतिपक्षरूपः । एवं मीमांसकैद्रूषितमेवेश्वरानुमानं तार्किकप्रक्रियामेवावलम्ब्य प्रायशो व्यवश्थापयितुमुपक्रमते दोषोद्धारमुखेनऽ*{अत्र ब्रूम}*ऽइत्यादिना । कार्यत्वमुत्पत्तिमत्त्वम् । क्षित्यादेः कार्यत्वे हेतवः सभागत्वादयः । सभागत्वंसावयवत्वम् ।ऽ*{वित्त्यादिभ्य}*ऽइति प्रचीनमुद्रितपाठस्तु न समीचीनः । क्रियावत्त्वं, परिच्छिन्नपरिमाणवत्त्वरूपं मूर्तत्वं च नित्यपरमाणुसाधारणमिति सामानाधिकरण्यसम्बन्धेन महत्त्वविशिष्टं तद्देतूकृतम् । सामान्यविशेषःद्रव्यत्वादि पृथित्वादि च, तचच्केवलं नित्यपरमाण्वादिसाधारणमिति बाह्यप्रत्यक्षविषयत्वेन विशेषितं तद्धेतूकृतम् । आत्मनो मानसप्रत्यक्षत्वात्सामान्यविशेषवत्त्वाच्च तत्र व्यभिचार इति बाह्यत्वेन प्रत्यक्षं विशेषितम् ॥ १४ ॥ १५ ॥ *{प्रत्यक्षं तत्प्रमेयत्वात्पदार्थत्वाद्धटादिवत् ।}* *{एकेच्छानुविधायीदमचैतन्यात्स्वदेहवत् ॥ १६ ॥}* ननु कार्यत्वमस्तु निरुक्तहेतुभिः । तावता सकर्तृकत्वे किमायातम् ? कार्यसामान्ये कर्तुः कारणत्वे मानाभावात्, कर्तां विनापि कारणान्तरत एव क्षित्यादेरुत्पत्तिसम्भवादित्यत्राहऽ*{न चेदृश}*ऽ इति । सावयवत्वं ह्यवयवसन्निवेशविशेषरूपाकृतिमत्त्वम् । तच्च पुरुशकृतिसाध्यमेव दृष्टमिति विचित्राकारस्य मह्यदेरपि सकर्तृकत्वमेष्टव्यमेव । कार्यविशेषत्वमेव सकर्तृकत्वव्याप्यमस्तु । स च विशेषो न क्षोण्यादिव्यावृत्त इति तस्यापि सकर्तृकत्वसिद्धिरप्रतिहता । किञ्चऽयद्विशेषयोऽरित्यादिन्यायेन कार्यविशेषो कुलालादेः कारणत्वात्कार्यत्वावच्छिन्नेऽपि कर्तृत्वावच्छिन्नस्य कारणत्वमस्त्येवेति कार्यत्वमेव सकर्तृकत्वव्याप्यं क्षित्यादौ कर्तारंसमर्थयतीति भावः । यद्वा क्षित्यादि न कार्यं प्रसिद्धकार्यविलक्षणत्वादित्यत्राप्रयोजकत्वमाहऽ*{न चेदृश}*ऽ इति। कार्यःकृतिजन्यः, उत्पत्तिमान् वा । कृतिजन्यत्वे वा प्रयोजकं क्षोण्याद्याकारव्यावृत्तङ्घटाद्याकारमात्रवृत्तिधर्मविशेषं न पश्याम इत्यर्थः । सति हि तस्मिन् विशेषे प्रसिद्धकार्यवैलक्षण्यस्याकर्तृकर्तृकत्वव्याप्तिः प्रसिध्येत् । अन्यथा त्वप्रयोजकत्वमेव अदृष्टकर्तृको राजप्रासादो न कार्यो दष्टकर्तृकघटादिकार्यविलक्षणत्वादित्यादिवदिति भावः । ननु शक्यक्रियत्वादिरेव तादृशोविशेषः क्षित्याद्याकृतिव्यावृत्त इति चेत्तत्राहऽ*{यत्तु}*ऽइति ।ऽ*{तदस्तुनामे}*ऽ ति । क्षित्यादौ तादृशविशेषाभावोऽसिद्ध इति हार्दम् । तेक्रियाज्ञाने ।ऽ*{यथोक्ते}*ऽति कार्यत्वहेतुकसकर्तृकत्वानुमानलक्षणेति यावत् । अयं भावः उपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वं हि साध्येत मह्यादौ । तत्र च तद्विधेयककृतिः, तदुपादानाद्यपरोक्षज्ञानं च घटकमस्त्येव । ज्ञानक्रिययोरेवं प्रामाणिकत्वं तदनुगुणसामर्थ्यमपि कल्पनीयमेव जगत्कर्तुरित्यशक्यक्रियत्वादेरसिद्धिरिति भावः । क्रियागोचरकृतिविधेयः ।ऽ*{सिद्ध}*ऽ इति । प्रामाणिके च कार्यत्वे सति कार्यत्वस्य विशिष्टकर्तृपूकत्वव्याप्तिबलात्क्षित्यादौ कर्तृविशेषसिद्धिरप्रत्यूहैवेति भावः ।ऽतदधिष्ठानतप्रेरणेऽ ति कर्मधारयः । यद्वा परप्रवृत्त्यनुगुणव्यापारः । प्रेरमम् । तादृशव्यापारवतः प्रेर्येण सन्निकर्षोऽधिष्ठानमिति भिदा । एवं कार्यत्वं क्षित्यादेस्ततः सकर्तृकत्वं च साधितम् । अथ सकर्तृकत्वानुमानस्य जीवैः सिद्धसाधनतां परिहर्तुं कर्तृत्वेस्वरूपानुप्रविष्टमधिष्टानादि विवृणोतिऽ*{अधिष्ठान}*ऽ मित्यादिना । यथा जीवस्य शरीरावयवाद्यधिष्टानं तत्प्रवृत्त्यनुकूलसङ्कल्पेन, एवं परमाण्यदृष्टाद्यधिष्ठानं जगत्कर्तृरीश्वरस्य तत्प्रवृत्त्युनुकूलसङ्कल्पेनेति मन्तव्यमित्यर्थः ।ऽ*{स}* *{चे}*ऽति । ईश्वरसन्निकर्षः परमाण्वादौ संयोगरूपः अदृष्टे च संयुक्तसमवायरूपो विभुद्धयसंयोगस्योपगमे । तदनुपगमे संयुक्तसंयोगिसमवायलक्षणो बोध्यः ।िदं च तार्किकप्रक्रियया ।ऽ*{प्रवृत्ति}*ऽ रिति । आरम्भकसंयोगानुकूलक्रियारूपा च परमाणूनां प्रवृत्तिरित्यर्थः । अदृष्टस्य प्रवृत्तिं निर्वक्तिऽ*{धर्माधर्मयोऽ }*रिति। इदं पुण्यं पापं वास्मिन् देशे काले च फलं जनयत्वितीश्वरसङ्कल्पमूलादृष्टस्य प्रवृत्तिः फलोदयानुकूलतादृशदेशकालादिसहकारिसमासादनलक्षणा भवतीत्यर्थः ।ऽ*{ताभ्या}*ऽ मिति। एवकारो भिन्नक्रमः । ताभ्यांचेतनाधिष्ठिताभ्यामेव धर्माधर्माभ्यां पलमित्यान्वयः । ननु कर्तारमन्तरैव कारणान्तरतः क्षित्यादि भवेदिति शङ्कामन्तर्निधाय तत्परिहारमाहऽ*{चेतन}*ऽति । अकिञ्चित्करत्वमेवोपपादयतिऽ*{नही}*ऽ ति । तथा चाधिष्ठातुः कारकचक्रप्रयोक्तः कर्तृश्चेतनस्यापेक्षा कार्यसामान्येऽस्येवेति क्षित्यादौ सकर्तृकत्वं नापह्नवार्हम् । अचेतनस्य कारणग्रामस्य चतनाधिष्ठानमन्तरा प्रवृत्त्यनुपपत्तेरिति भावः । उपादानदिगोचरापरोक्षज्ञानमन्तरा च तदधिष्ठानलक्षणस्य कर्तृत्वस्यासम्भवात्क्षित्यादिकर्तृः परमाण्वादिसाक्षात्कारोऽप्यावश्यकः । चिकीर्षापूर्वकारकचक्रप्रवृत्तिहेतुकृतिनिरूप्यं च प्रेरणमिति कारकचक्रप्रयोक्तृत्वरूपाधिष्ठातृत्वलक्षणस्योपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वलक्षणस्य च कर्तृत्वस्य नात्यन्तभेदः । ततश्च पूर्वत्रोपादानादिगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वमुक्तम् । अत्राधिष्ठातृत्वरूपं तत्समर्थ्यत इति परकृतासाङ्गत्यमिति शङ्काया नावसर इत्यवधेयम । एवंभूतस्य क्षित्यादिकर्तृत्वस्य सदा सर्वदर्शिनं सर्वसमर्थं चेश्वरं विनान्यत्र जीवेष्वसम्भवान्न तैः सिद्धसाधनमिति चात्र विवक्षितम् । न चोभयवादीऽ त्यग्रिमग्रन्थे चैतद्वक्ष्यते । मध्येऽनैकान्त्यं परहरति प्रसंङ्गतःऽ*{बीजे}*ऽ ति । यत्र यत्र कार्ये न दृष्टः कर्ता, ततत्सर्वमिप कार्यं प्रकृते पक्षीकृतम् । पक्षे च व्यभिचारशङ्का न दोषाय, अन्यथानुमानकथाया एव विलोपप्रसङ्गादिति भावः ।ऽ*{एतेने}*ऽ ति । पक्षान्तर्भूतत्वेनैवेत्यर्थः । आदिपदेन ज्ञानादि ग्रह्यम् । न हि स्वसुखज्ञानाद्यर्थप्रवृत्तिमान् जीवस्तदोपकरणोपादानादृष्टस्वात्मसाक्षात्कर्ता । तत् उपादानादि साक्षात्कर्तृपूर्वकत्वरूपसाध्यभाववति सुखज्ञानादौ कार्यत्वस्य सत्त्वाद्व्यभिचार इत्यपि सुखादेरपि पक्षान्तर्भावत एव निरस्तमित्यर्थः । तत्राप्युपादानादिसाक्षात्कर्तृपूर्वकत्वमीश्वरेणैव निरूह्यतेऽस्माभिरिति हृदयम् । ननु तर्हि जीवस्य स्वसुखादौ कर्तृत्वं न स्यादिति वाच्यम् । सुखादिसम्पादनार्थतस्साधनदर्शनोपादानप्रवृत्तिमत्त्वादेवोपपत्तेः, कुलालादेरिव दृष्टोपकरणादिदर्शनोपादानादिना घटादौ । अदृष्टकारणाधिष्ठानं तु सर्वत्र कार्ये परमात्मन एवेति ध्येयम् । नन्वेवमपि स्वज्ञानाद्यर्थप्रवृत्तिपूर्वकाले नियमेन स्वस्य साक्षात्काराभावात्स्वज्ञानाद्युपादानभूतस्वात्मसाक्षात्कर्तृत्वं तदा तस्य नास्तीति चेत्, न, आत्मनः स्वप्रकाशत्वनयेन तदा स्वात्मसाक्षात्कारस्यापि संमानयितव्यत्वात् । स्वज्ञानादौ स्वस्य कर्तृत्वस्य स्वस्मृतिमात्रेणापि अभ्युपगन्तव्यत्वाद्वा न दोषः । उपादानादिसाक्षात्कर्तृपूर्वकत्वमिति नियमस्तु ईश्वरेणैव तत्र तत्र निर्वाह्येति च न विस्मर्तव्यम । तदर्थमेव सुखाद्यपि पक्षीकृतमिति बोध्यम् । व्यभिचारं परिहृत्य सिद्धसाधनतां परिहरतिऽ*{न चोभये}*ऽ ति । परमाण्वदृष्टादिप्रवृत्त्यनुगुणाधिष्ठातृत्वकल्पनमित्यर्थः । अयुक्तत्वे(?) हेतिमाहऽ*{तेषा}*ऽ मिति । द्रष्टुमेव तदशक्तानान्तदधिष्ठानकथा केति भावः । नन्वीश्वरस्यापि अधिष्ठानसामर्थमदृष्टं कथं कल्पते ? तत्राहऽ*{न चैवम्}*ऽ इति । अदृष्टमपि न दृष्टविरोधीति भावः । कुतो न दृष्टविरोधः ? अत्राहऽ*{प्रमाणान्तरत}*ऽ इति । अत्रऽतदसिद्धेऽ रिति पाठः स्याद्वेति सन्दिह्यते । प्रत्यक्षादिनेश्वरस्यासिद्धेरसामर्थ्यस्य तस्मिन्नदृष्टत्वादित्यर्थः । नन्वनेनैवानुमानेन तस्यासामर्थ्यं सेत्स्यतीत्यत्राहऽ*{यथोदिते}*ऽ ति ।ऽतत्सिद्धेऽ रिति पाठे तु शक्तिमदीश्वरस्यैव विलक्षणप्रमाणेन सिद्धेरित्यर्थः । किन्तत्? तदाहऽ*{यथोदिते}*ऽति । सिध्यन्नित्यस्याग्रेऽ*{हि}*ऽ इति योज्यम् ।ऽ*{सांसिद्धिके}*ऽ ति । सर्वस्यार्थस्य क्रियाकारकफलवर्गान्तः पातितया सर्वाधिष्ठानं तदर्थं सर्वसाक्षात्करणमपीश्वरस्य प्राप्ते । ते चाकरणकत्वान्नित्ये एवेति भावः ।ऽ*{कार्यत्वस्ये}*ऽ ति । यत्र कार्यत्वं तत्र तत्र समर्थकर्तृजन्यत्वमिति व्याप्तेरित्यर्थः । कुलालदेः किञ्चिद्विषयाज्ञानाशक्ती अपि विद्येते । तदल्पज्ञाल्पशक्तिकर्ती व्याप्तिः कार्यत्वस्य गृह्यते भूयःसहचारदर्शनबलात् । तदभिमतविपरीतापादकत्वाद्विरुद्धत्वामिति शङ्कांऽ*{यत्तु}*ऽ इत्यादिनानूद्य परिहरतिऽ*{त}*ऽ दिति । अप्रयोजकत्वात्कार्यकरणोपयुक्तत्वाभावात्किञ्चिद्विषयाज्ञानादेः । अयं भावःयेनाकरेण कर्तुः कारणत्वं तद्रूपावच्छिन्नकर्तृपूर्वकत्वेनैव कार्यत्वस्य घटादौ व्याप्तिर्गृहीता । किञ्चिद्विषयाज्ञानादिमत्त्वेन च न घटादौ कारणत्वं कुलालादेः । किन्तु तदुपादानादिसाक्षात्काराधिष्ठानक्षमत्वविशिष्टत्वेनैव । अन्यविषये ज्ञानाज्ञाने शक्त्यशक्ती वा अप्रयोजके प्रकृतकार्योत्पादे । तत्समर्थकर्तृकत्वेनैव व्याप्तिः कार्यत्वस्य । यथा धूमस्याद्रैन्धनसंयोगविशिष्टवह्नित्वावच्छिन्नेन्नैव संबन्धनियमः, न तु रक्तत्वकारीषत्वाद्यनुपयुक्तधर्मावच्छिन्नेन, तद्वदिति । अप्रयोजकत्वमेवोपपादयतिऽ*{नही}*ऽ ति । अज्ञानमर्थानत्रोपकरणाद्यज्ञानम् ।ऽ*{स्वे}*ऽ ति । स्वकारणत्वेनानुमीयमानस्य कर्तुःस्वनिष्पत्त्युपयोगिसामर्थ्याद्येवाक्षिप्यते कार्यत्वस्य मसर्थकर्तृकत्वव्याप्तेरिति केवलव्यरिरेकस्यकेवलस्य पूर्ववर्तिमात्रस्यानुपयोगिनो व्यतिरेकस्यअर्थान्तरगोचरशक्त्याद्यभावस्य प्रकृतकार्ये प्रयोजकतयासिद्धेरित्यर्थः । अर्थान्तरविषयशक्त्याद्यभावस्य व्यतिरेके प्रकृतकार्यस्य व्यतिरेक इति व्यतिरेकसहचारस्यासिद्धेरिति वार्ऽथः । मूलपाठोऽत्रान्यथा स्याद्वा । तावतैवस्वनिष्पादनोपयोगिज्ञानशक्तित एव । अर्थान्तरो विषयो यस्येति बहुत्रीहिः । अन्यपदार्थो ज्ञानादिरर्थसिद्धः । तस्य प्रतियोगितयाभावेऽन्वयः । सम्बन्धिनःकार्यनियतपूर्ववर्तिनः । अकिञ्चित्करस्यप्रकृतकार्यानुपयोगिनः । अन्यथासिद्धस्येति यावत् । अथ विकल्पमुखेनार्थान्तरविषयकाज्ञानादेः नियतपूर्ववृत्तित्वमपि प्रतिक्षिपतिऽ*{अपि चे}*ऽ ति । व्यापकंकार्यस्य नियतपूर्ववृत्ति ।ऽ*{न ताव}*ऽ प्रकृतकार्यातिरिक्तसकलकार्योपयोगिज्ञानसामर्थ्यविरहः कर्तरि कुत्राप्यसिद्ध एवेति भावः । ननु प्रकृतकार्यातिरिक्तकतिपयविषयाज्ञानादि कर्तुरिष्टं दृष्टं चेत्यत्राहऽ*{अथे}*ऽ ति । अर्थान्तरयत्किञ्चिदज्ञानादि न व्यवस्थितम् । यथा कश्चित्पटकारः घटं न जानाति कश्चित्तु जानाति, कश्चित्त्वन्यन्न जानाति अन्यस्तु तज्जानातीति प्रकृतकर्तुरन्यान्यविषयं ज्ञानमज्ञानं चाव्यवस्थितं दृश्यते । पटाद्यज्ञानं घटाद्यज्ञानं वा नियतं कर्तुर्दुर्वचमिति तत्तदज्ञानस्य तत्र तत्रानैकान्त्यान्न हेतुत्वमिति भावः । सर्वस्यापि कर्तुः किञ्चिद्वस्तु नियमेन न ज्ञायते इति तु दुर्वचमेवेत्याहऽ*{न चास्ती}*ऽ ति । ननु स्वविशिष्टज्ञानाभावत्वेनाज्ञानस्य हेतुत्वमुपेयते । स्वपदं प्रकृतकार्यपरम् । वैशिष्ट्यं च ज्ञाने स्वनिष्ठविषयत्वानिरूपकत्वस्वान्य निष्ठविषयतानिरूपकत्वोभयसम्बन्धेन । तथा च तत्तदज्ञानस्य तत्र तत्र व्यभिचारेऽपि निरुक्तरूपावच्छिन्नज्ञानाभावस्य नियतपूर्ववृत्तित्वसम्भव एवेति चेत्, एवमपि पूर्वोक्मन्यथासिद्धत्वं दुर्वारमेवेति ध्येयम् । कार्यत्वस्याज्ञात्वादिविरुद्धाकाराक्षेपकत्वं क्षित्यादिकर्तरि परिहृतमेतावता । अथ शरीरत्वलक्षणविपरीताकाराक्षेपकत्वं परिहरतिऽ*{न चे}*ऽ ति । कर्तुः शरीरवत्त्वमेवेति न नियमः । एकं देहं परित्यज्य देहान्तरपरिग्रहणं कुर्वतो जीवस्य तदा।डशरीरित्वादित भावः । योगिनो योगबलाज्जीवतो देहान्तरग्रहणं कुर्वतो जीवस्य तदाशरीरित्वादिति भावः । योगिनो योगबलाज्जीवतो देहान्तरग्रहणं सशरीरस्यैव दृष्टमित्ययोगिन इत्युक्तम् । ननु अयोगिनोऽपि सूक्ष्मशरीरवत एव स्थूलदेहान्तरग्रहणं प्रेत्येति न व्यभिचार इत्यत्राह ऽ*{पूर्वेति}*ऽ । ननु श्रुतिबलाद्भूतसूक्ष्मैः परिष्वक्तस्यैव जीवस्य गत्यादिरेष्टव्या । तान्येवेन्द्रियप्राणसंसृष्टानि सूक्ष्मदेह उच्यते । तथा च कर्तुः शरीरत्वनियमे न व्यभिचार इति चेत्॑ अत्र ब्रूमः । एवमपि स्थूलशरीरवत्त्वनियमेऽनैकान्त्यं स्थितमेव । सूक्ष्मस्य तु न मुख्यं शरीरत्वम् । अमुख्यं च तदीश्वरं प्रति परमाणूनामप्यक्षुण्णमेव । तथाहि न्यायाचार्योदयनः परमाणूनामीश्वर शरीरत्वमुशतीति । एवं शरीरोपादाने कर्तृत्वं जीवस्या शरीरस्यैवेति समर्थ्य शरीरप्रेरणे कर्तृत्वमप्यशरीरस्यैवेत्याहऽ*{किञ्चे}*ऽ ति । अधितिष्ठतःप्रवर्तयतः अधिष्ठातृदेहानुप्रवेशः अधिष्ठातृतावच्छेदकघटकता । शरीरमधितिष्ठतोऽधिष्ठातृतावच्छेदकं सङ्कल्पादिरेव, न तु तच्छरीरमपि । अधिष्ठानकर्मीभूतस्य काष्ठादे स्तच्छेत्तृतावच्छेदकत्वं यथा न तद्वदिति भावः । ननु स्वाधिष्ठातृसम्बद्धस्य देहस्य कथं नाधिष्ठातृतावच्छेदकता ? इति शङ्कतेऽ*{अधितिष्ठासिते}*ऽ ति । परिहरति ऽ*{अस्त्वेके}*ऽ ति ।ऽएकतत्त्वेऽ ति प्राचीनमुद्रितपाठो न संशुद्धः ।ऽएकतस्त्वसंबद्धस्येऽ ति वान्यथा वा पाठः संभाव्यते । अत्यन्ततोऽसम्बद्धस्याधिष्ठेयेन तदधिष्ठातृत्वस्य काष्ठासंबद्धस्य कुठारस्य च्छेत्तृत्वस्येवासंभवादधिष्ठेयसम्बन्धिनाधिष्ठात्रा भवितव्यमित्येव नियमः, न तु देहसंबन्धिना भाव्यमितीति भावः । प्रेरणं प्रति प्रेर्यसम्बन्ध एव हेतुः न देहसम्बन्ध इत्यत्र नियामकं पृच्छतिऽ*{कुत}*ऽ इति । तद्वदतिऽ*{यत}*ऽ इति । अधिष्ठीयमानंप्रवर्त्यमानम् । स्वसंबन्धिनाप्रेर्यसंयोगिना । हस्तादि विशेष्यमत्र । अयमाशयःशरीरिण एव प्रवर्तकत्वमिति न नियमः । हस्तादेरपि मानदण्डादिप्रवर्तकत्वात् । प्रेर्यसंबन्धिन एव प्रेरकत्वमिति त संभवति, हस्तादेरपि प्रेर्यसम्बन्धादिति । शङ्कतेऽ*{अथे}*ऽ ति । प्रवर्तनं नाम परव्यापारप्रयोजकप्रयत्नवत्त्वम् । तच्च पुरुषस्यैव । स च स्वहस्तव्यापारेण मानदण्डादि प्रवर्तयति । तथा च देहतदवयवभिन्नवस्तुप्रवर्तने देहहस्तादिव्यापारापेक्षास्येवेति नेश्वरस्यानाकृतेः परमाण्वाद्यधिष्ठातृत्वं संभवतीत्याशयः शङ्कितुः । इममपि नियममनैकान्त्येनैव दूषयतिऽ*{तदपि ने}*ऽ ति । सङ्कल्पगरुडध्यानादिमानसव्यापारमात्रेण हस्तादिव्यापारं विनापि परशरीरस्थविषनिवर्तनादिदर्शनाद्देहतदवयवव्यतिरिक्ताधिष्ठाने देहादिव्यापारापेक्षानियमो नास्तीत्यर्थः । प्रेर्यसंबन्धोऽप्यत्र प्रेरकस्य ज्ञानद्वारक एवेति च बोध्यम् । पुनः शङ्कते ऽ*{कथम्}*ऽ इति । जन्यज्ञानादौ देहस्य हेतुत्वादिति भावः । अन्तर्निहितोत्तर आक्षिपतिऽ*{कि}*ऽ मिति । देहस्य किं सङ्कल्पे कर्तृत्वम् ? येन येन तदभावे सङ्कल्पो न घटेतेत्यर्थः । शङ्कतेऽ*{करण}*ऽ मिति । तत्र करणं शरीरमिति चेन्न, मनस एव करणत्वादित्यर्थः । तथा च शरीराभावेऽपि स्वहेतोरेव सङ्कल्पो भविष्यतीति भावः । ननु मनसः करणत्वेऽपि जन्यज्ञानादौ देहस्याप्यस्त्येवापेक्षावच्छेदकतयेति चेदत्र ब्रूमःबद्धज्ञानादावेव देहापेक्षा, नान्यत्र ।ऽ*{मनसैवैतान् कामान् पश्यन् रमतेय एते ब्रह्मलोके}*ऽऽ*{मनसैव जगत्सृष्टि}*ऽमित्यादिना मुक्तस्येश्वरस्य च मनोवत्त्वं, तत एव ज्ञानसङ्कल्पादिकं च प्रतीयते । तद्देहविगमेऽपि मनसो नित्येन्द्रियत्वोपगमादेव शरीरानपेक्षसङ्कल्पाद्युपपत्तिरिति । ईश्वरे नित्यज्ञानचिकीर्षाप्रयत्नवादिनां तार्किकाणां मते तु न तरां शरीराद्यपेक्षा । अत्र मनोवत्त्वागन्तुकसङ्कल्पादिसमर्थनं तु तदेकदेशिमतेन वा सिद्धान्तच्छायया वेति बोध्यम् । मनोवत्त्वेऽनिष्टप्रसङ्गं शङ्कतेऽ*{नन्वेवम्}*ऽ इति । मनोवत्त्वस्य शरीरित्वादिव्याप्यतया शरीरित्वाद्यापद्येतेश्वरस्येत्यर्थः । परिहरतिऽ*{मैवम्}*ऽ इति । समर्थकर्तृपूर्वकत्वेन कार्यत्वस्य व्याप्तेर्गृहीतत्वात्ततः क्षित्यादौ सिध्यतः कर्तुरीश्वरस्याशरीरित्वैश्वर्याद्येव सेत्स्यतिऽ*{यक्षानुरूपो बलि}*ऽ रिति न्यायात् । शरीरित्वाद्युपगमे चासामर्थ्यप्रसङ्गात् । यथाचैतत्तथाऽनचास्मदादेऽ रित्यनन्तरवाक्ये वक्ष्यते । तथा चेश्वरे शरीरत्वानैश्वर्याद्यापादनं धर्मिग्राहकमानबाधितमित्यर्थः । द्रढिम्नैवदृढतयैव ।ऽसमर्थकर्तृकत्वार्थद्रढिम्नैवेऽति समस्तपाठः साधीयान् । मनसः शरीरित्वादिव्याप्यत्वमपि निराकरोतिऽ*{मनस}*ऽ इति । सरीराभावेऽपि प्रायणावान्तरलयादौ नित्येन्द्रियतया मनसः सत्त्वात्कालावच्छेदेन शरीरव्याप्यत्वं मनसो नास्तीत्यर्थः । नन्वेवमपि सशरीरस्यैव कर्तृत्वं तत्र तत्र दृष्टामिति शरीरिकर्तृकत्वेन व्याप्तिः कार्यत्वस्य कुतो न गृह्यत इत्यत्राहऽ*{यावद्धी}*ऽ ति । दृष्टानुगुणं कार्यानुगुमत्वेन दृष्टमत एव व्याप्त्युपयोगि थद्रूपं तदवच्छिन्नेनैव व्याप्तिरेष्टव्या । ज्ञानशक्त्योरेव च कार्यानुगुमता । ते यद्यपि कर्मपरवशे कुलालादौ शरीराधीने ॑ नैतावता शरीरादेर्व्यापकतावच्छेदककोटिनिवेश इति भावः । एवमनभिमतापदकत्वं परिहृतम् । अथाभिमतविशेषसिद्धिप्रकारं प्रपञ्चयतिऽ*{न चास्मदादे}*ऽ रिति । अपर्यन्तविस्तारस्य अनवधिकायामवतोऽपरिच्छिन्नस्य प्रादेशिकशरीरकः परिमितदेशवर्तिपरिच्छिन्नमूर्तिमान् । अलंसमर्थः । शिष्टं स्पष्टम् । शङ्कतेऽ*{ईदृशेने}*ऽ ति । अकर्मवश्यत्वाशरीरित्वसर्वज्ञत्वादिविशिष्टकर्त्रा कार्यत्वस्याविनाभावो घटादौ न दृष्ट इति शङ्कितुर्भावः । सामान्यधर्मावच्छिन्नव्याप्तिग्रहादेव पक्षधर्मताबलसहकारात्पक्षीयसाध्य विशेषसिद्धिरिति हार्देन प्रतिबन्दीमाहऽ*{अतिगहने}*ऽ ति । शङ्कितुर्मुखेनैव परहारं वाचयतिऽ*{यादृश}*ऽ इति । यादृशःतिजडिलगनतलनिचुम्बिसन्तत सन्तन्यमानधारारूपः । तादृशःमहावह्निः ।ऽ*{त}*ऽ दिति । निरुक्तविधमहाधूमजननसमर्थ इत्यर्थः । अत्रऽ*{तादृशतत्संपादनसमर्थ}*ऽ इति समस्तपाठः स्याद्वा । उत्तरतौल्यमाहऽ*{तदिदम्}*ऽ इति । यथा देशकालपरिमाणादिविशेषो वह्नेरनैकान्त्याद्धूमव्यापकतावच्छेदकघटको न भवति, किन्त्वाद्रेन्धनयुग्वह्नित्वमात्रं तथा, एवं मनुष्यत्वादि सहचरितमिपि न कर्तृतावच्छेदककोटिघटकम् । अन्यत्रापि कर्तृत्वदर्शनात् । किन्तु सामर्थ्यमात्रं तथेत्याहऽ*{यथैवे}*ऽ ति । धूमात्पर्वते वह्निविशेषानुमानात्कार्यत्वात् क्षित्यादौ कर्तृविशेषानुमानस्य न वैलक्षण्यम् । यथा तत्राभिमतविशेषसिद्धिस्तथा प्रकृतेऽपीते भावः । अथ सपक्षदर्शनमात्रेण सर्वधर्मापादने प्रतिबन्दी विवक्षुराहऽ*{अपि चे}*ऽ ति । विभुद्रव्यसंयोगिन इत्यनेनाविभुत्वं मनसो विवक्षितम् । विभुद्वयसंयोगस्य तार्किकैरनुपगमात् । ज्ञानाद्यसमवायिकारणसंयोगाश्रयतया मनःसिद्धिरित ज्ञानेत्यादिविशेषणम् । आत्ममनःसंयोगस्यैव हि ज्ञानादावसमवायिहेतुत्वं तन्मतम् । ज्ञानायौगपद्याच्च तस्याणुत्वं मतम्, निःस्पर्शत्वं च । स्पर्शवत्त्वे भूतत्वप्रसङ्गात् । भूतत्वे चाभूतविशेषगुणग्रहकत्वासंभवात् । अत्रायं प्रतितर्को विवक्षितःमनो यदि परिच्छिन्नपरिमामवत्स्यात्क्रियावद्वा तर्हि स्पर्शवद्भवेदिति । भूयः सहचारदृष्टस्यापि क्वचिद्व्यभिचार इत्यस्येदमेकं निदर्शनम् । अथ निदर्शनमन्यत्प्रदर्शयतिऽ*{कथं चे}*ऽ ति । अनियताधिष्ठानेति पदन्छेदः । यद्यपि महतो वायोर्गतिशीलस्यानियताधिष्ठानत्वमुद्भूतस्पर्शवत्त्वात्स्पार्शनप्रत्यक्षत्वं च भूयो दृष्टम् । अथापि वायवीयत्वेनानुमितस्य देहव्यापिनस्त्वगिन्द्रियस्य नियताधिष्ठानत्वमस्पार्शनत्वं चाभिमतम् । अत्र प्रतितर्कःत्वचो वायवीयमहत्कार्यत्वे उद्भूतस्पर्शवत्त्वादि भवेदिति । निदर्शनान्तरंऽ*{तैजसस्ये}*ऽ ति । कार्यतेजसो महिमगुणवतो रूपस्पर्शयोरुद्भूतत्वं ज्वलनादौ । स्पर्शमात्रस्योद्भूतत्वं भर्ज्जितकपालवह्न्यादौ । रूपमात्रस्योद्भूतत्वं प्रभादौ । एवं रूपस्पर्शौभयतदन्यतरोद्भवस्य भूयो दृष्टत्वेऽपि चक्षुषो रूपदिषु रूपादिषु रूपमात्रव्यञ्जकत्वेनानुमिततैजसभावस्य तदुभयानुद्भवः कथमित्यर्थः । चक्षुषः तैजसमहत्कर्यत्वे रूपस्पर्शान्यतरोद्भवः स्यादिति प्रसङ्गोऽत्र बोध्यः । प्रतितर्काणामाभासत्वमित्याशयेन प्रतिवक्ति परःऽ*{अथ }*ऽति । तत्तद्विशेषाणामुद्भूतरूपस्पर्शान्यतरस्पार्शनत्वस्पर्शवत्त्वादीनां भूयः । सहचारदर्शनमात्रेण चक्षुरादावापाद्.मानानां योग्यानुपलम्भबाधितत्वमिति नापादकव्यापकत्वमापाद्यस्येति भावः । यद्यपि मनसोऽणुत्वात्तत्र स्पर्शवत्त्वस्य योग्यानुपलम्भबाधो दुर्वचः । तथापि तत्र तदुपगमेऽनेकनियमभङ्गप्रसङ्गोस्त्येव । तदाहऽ*{तदभ्युपगम}*ऽ इति । यथा मनसः स्पर्शवत्त्वे भूतत्वप्रसङ्गः । भूतत्वानुपगमे स्पर्शवतो भूतत्वमेवेति नियमभङ्ग् भूतत्वोपगमे चेन्द्रियान्तरवदभूतात्मविशेषगुणाग्राहक्तवात्तिः । तद्ग्राहकत्वोपगमे चाभूतविशेषगुणाग्राहकत्वनियमस्यापि भङ्ग । इति । एवं चक्षुरादावपि उद्भूतरूपवत्त्वादिस्वीकारे नानानियमभङ्गप्रसङ्गोऽनुसन्धेयः । विपक्षे बाधकविरहेणापाद्यापादकयोर्व्याप्यव्यापकभावासिद्धिः । तथा च प्रतितर्काणां छिन्नमूलत्वं च विवक्षितम् ।ऽ*{तथाभ्युपगम}*ऽ इति मनप्रभृतेर्निःस्पर्शत्वाद्यभ्युपगम इत्यर्थः । तुल्यनयेन क्रतृत्वे सशरीरत्वमिति नियमोऽपि नास्तीत्याशयवानाहेश्वरवादीऽ*{हन्ततर्ही}*ऽ ति । स्वस्मिन् प्रसञ्जितप्रतितर्कनिराकरमयुक्तेः परमुखेनैवानुवाचनजनितहर्षद्योतकोऽयम् । हन्तशब्दः । सशरीरत्वे शरीरद्वारोपलम्भप्रसङ्ग ईश्वरस्य । क्रमवत्त्वे चासार्वज्ञ्यादिप्रसङ्गः । प्रकृतष्टधर्मवत्त्वात् सार्वज्ञ्याद्युगमश्च न संभवति । साधानानुष्ठानराहित्यात्प्रकृष्टधर्मस्यानुपपत्तेः । ईश्वरस्य स धर्मो नित्य एवोपेयत इति पक्षे च धर्मसामान्यस्य विहितक्रियाजन्यत्वनियमभङ्गः । अकर्मत्वे चेश्वरस्य सशरीरत्वायोगः । तच्छरीरस्य नित्यत्वोपगमे च सावयवत्वस्य कार्यत्वव्याप्यत्वनियमभङ्गः । तथा च क्षित्यादेरपि कार्यत्वासिद्धेस्तत्कर्तृत्वेनेश्वरानुमानायोग इति बहुरमूहनीयम् । सहचारमात्रेण कर्तृत्वस्य न सशरीरत्वादिव्याप्तिः, विपक्षे बाधकविरहादिति च हार्दम् । ननु चक्षुरादेस्तैजसादिभावेऽपि तत्तद्विशेषस्य प्रमाणसिद्धत्वान्न तद्विरुद्धापादानसम्भवः । नैवं त्वीश्वरीयविशेषाणां मानसिद्धत्वमिति चेत्तत्राहऽ*{दृश्यन्त}*ऽ इति । नीतयःन्यायाः, अनुमानानि । ईश्वरेऽप्यभिमतविशेषेषु सन्ति प्रमाणानीत्यर्थः तान्येव प्रपञ्चयतिऽ*{यथा}*ऽ इति ।ऽतथेऽ ति पाठे तु तथा हि नीतयो दृश्यन्त इत्यन्वयः । तथाईश्वरीयाभिमतविशेषसाधकाः । ईश्वरस्य स्रष्टृत्वे तादनुमानमुक्तं पूर्वम् । तस्य प्रवर्तयितृत्वे तदाहऽ*{परमाण्वादी}*ऽ ति । विवादास्पदमिति पक्षतासम्भवद्योतकं विशेषणम् । साध्यतदभावान्यतरनिर्णये हि पक्षतातिवर्तते । साध्यतदबाववत्त्वविप्रतिपत्तिविषयीभूतमिति ।तदर्थः । साध्यवत्त्वेन सन्दिह्यमानमिति फलितम् । साध्यसन्देहस्य पक्षतात्वं प्राचां मतम् । सिद्धिस्थलेऽप्याहार्यसंशयादेवानुमित्सया भवत्यनुमानमिति बोध्यम् । प्रेरणं च परप्रृत्त्यनुगुणसङ्कल्पप्रयन्नवत्त्वलक्षणम् । परमाण्वादिगोचरावीश्वरस्य सङ्कल्पप्रयत्नौ प्रसाध्य साक्षात्कारमपि तादृशं साधयति ऽ*{तथे}*ऽ ति । तद्वदेवकन्दुकादिप्रवृत्तिवदेव । कन्दुकादिप्रवृत्तावुपादानं कन्दुकादि, उपकरणं दण्डादि । तत्साक्षात्कारी दण्डेन कन्दुकादि प्रवर्तयति । ततश्च तत्र प्रवृत्तिरूत्पद्यते । एवं परमाण्वादिप्रवृत्तेर्ज्ञानाद्यर्थान्तरात्मप्रवृत्तेरप्युपादानोपकरणपरमाण्वाद्यदृष्टादिसाक्षात्कर्तात्र साध्यते । न चैतत्साक्षात्कर्तृत्वं जीवानामिति न तैः सिद्धसाधनम् । अतीन्द्रियार्थानामपि साक्षात्कारः फलितोऽत्रानुमाने । अथ साक्षादेवातीन्द्रियार्थान् पक्षीकृत्य प्रत्यक्षविषयत्वं साधयतिऽ*{प्रत्यक्षम्}*ऽ इति । तत्परमाण्वादि । अतीन्द्रियार्थसाक्षात्कर्ता कश्चित् संभवतीत्यत्रैव तात्पर्यमेवंवधानुमानप्रतिपादकानां परमाचार्याणाम् । क्षित्यादिकर्तुरभिमत एकत्वे प्रयोगमाहऽ*{एकेच्छे}*ऽ ति । इदमचेतनप्रपञ्चजातम्, अचैतन्यातम्, अचैतन्यातचेतनत्वात्, एकेच्छानुविधायि एकचेतनसङ्कल्पनुसारि । अत्रान्वय्युदाहरणं स्वदेहः ॥ १६ ॥ *{एकेनाधिष्ठिताः कार्यंकुर्वते स्रवचेतनाः ।}* *{देहसम्बन्धसापेक्षकार्यकृत्त्वात्त्वगादिवत् ॥ १७ ॥}* *{एकप्रधानपुरुषं विवादाध्यासितं जगत् ।}* *{चेतनाचेतनात्मत्वादेकराजकदेशवत् ॥ १८ ॥}* *{इति श्रीमद्विशिष्टाद्वैतसिद्धान्तप्रवर्तनधुरन्धरपरमाचार्यश्रीभगवद्यामुनमुनि समनुगृहीतेसिद्धित्रये ईश्वरसिद्धिः ॥}* अचेतनप्रपञ्चस्येश्वरेच्छानुविधायिप्रवृत्तित्वं प्रसाध्य चेतनप्रपञ्चस्यापि तत्साधयति ऽ*{एकेने}*ऽ ति । त्वगादिवत्त्वगादीन्द्रियवत् ॥ १७ ॥ सर्वजगत्स्वामित्वसर्वेश्वरत्वरूपविशेषसाधकमनुमानमाहऽ*{एके}*ऽ ति । एकः प्रधानपुरुषो यस्य तदेकप्रधानपुरुषम् । एकप्रधानपुरुषविशिष्टमित्यर्थः । पुरुषस्यैकस्य प्राधान्यं नियन्तृत्वस्वामित्वलक्षणम् । वैशिष्ट्यं नियाम्यत्वशेषत्वादिना ॥ १८ ॥ *{(व्या०)}*निष्प्रयोजनत्वात्कर्तृत्वामीश्वरस्य न संभवतीत्यादेरपि परासोऽत्र विभाव्यः । यथाजीवरक्षार्थमेव ताववदीश्वरस्य जगद्व्यापारः । ननु तर्हि सुखोत्तरमेव जगत्सृजेत् । मैवम् । जीवीयकर्मापेक्षया तथा तथा सर्जनात् । ननु कर्मापेक्षित्वेऽनैवश्वर्यं तस्य प्रसज्येत । न । अपराधानुगुणदण्डधरस्येव राज्ञः तत्तत्कर्मफलनिष्पादकस्येश्वरस्यापि ऐश्वर्यातिशयस्यैव प्रसिद्धेः । अदृष्टादीनामधिष्ठातृत्वादि हि तस्य महते वैभवाय । यथाकर्म फलप्रदत्वात्स्वामित्वमपि सर्वस्य तस्मिन् प्रतितिष्ठत्येव । सर्वप्रधानत्वादृष्टाधिष्ठातृत्वादिसाधनप्रमाणोपन्यासकानां चाचार्यचरणानामेतद्धार्दग्र मित्युन्नयाम इति दिक् ॥ *{ग्रन्थभागोऽग्रिमः क्वापि नेतः समुपलभ्यते ।}* *{यावल्लब्धस्य विहिता व्याख्येयं सरला मया ॥}* इति श्रीनागपुरी (तिरुनाङ्गूर) दिव्यदेशाभिजनेन प्रतिवादिभयङ्कराचार्यान्वयभूषणविद्वद्वर्य*{श्रीकृष्णमाचार्या}*ख्याचार्यवर्यपुत्ररत्नेन चतुस्तन्त्रीपारावारपारीणदिगन्तविश्रन्तकीर्तिदयामूर्तिश्रीमद्भाष्यकारदिव्यवंशावतर्णश्रीभूतपुरूनिवासरसिकविद्वत्सार्वभौम हारीत*{श्रीमदासूरिरामानुजाचार्य}*देशिकेन्द्रचरणकमलवरिवस्यासमधिगतपदवाक्यप्रमाणतन्त्रहृदयेन श्रीवैष्णवदासेन प्र.भ.*{अण्णङ्गाचार्येण }*न्यायव्याकरणशिरोमणिनोभयवेदान्तविदुषा प्रणीतमीश्वरसिद्धेर्व्याख्यानं*{सिद्धाञ्जनं }*विजयतान्तराम् ।