******************** अध्याय १ ******************** यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः । वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥ श्रियः पतिः, निखिलहेयप्रत्यनीककल्याणैकतानः, स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञनानन्दैकस्वरूपः, स्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसंख्येयकल्याणगुणगणमहोदधिः, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपः, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणः, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधः, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवाइश्वर्यशीलाद्यनवधिकातिशयासंख्येयकल्याणगुणगणश्रीवल्लभः, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषसेषतैकरतिरूपनित्यनिरवद्यनिरतिशयज्ञानक्रियाइश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलः, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाणनित्यनिरवद्याक्षरपरमव्योमनिलयः, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलः, परं ब्रह्म पुरुषोत्तमो नारायणः, ब्रह्मादिस्थावरान्तमखिलं जगत्सृष्ट्वा ,स्वेन रूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरः, अपारकारुण्यसौशील्यवात्सल्याउदार्यमहोदधिः, स्वमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वन् तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितस्तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि समाश्रयणीयत्वायावतीर्योर्व्यां सकलमनुजनयनविषयतां गतः, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वमाप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणगणाविष्कारेणाक्रूरमालाकारादीन् परमभागवतान् कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास । तत्र पाण्डवानां कुरूणां च युद्धे प्रारब्धे स भगवान् पुरुषोत्तमः सर्वेश्वरेश्वरो जगदुपकृतिमर्त्यः आश्रितवात्सल्यविवशः पार्थं रथिनमात्मानं च सारथिं सर्वलोकसाक्षिकं चकार । धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ भगवद्गीता१.१ ॥ एवं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रः सुयोधनविजयबुभुत्सया सञ्जयं पप्रच्छ । सञ्जय उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ भगवद्गीता१.२ ॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ भगवद्गीता१.३ ॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ भगवद्गीता१.४ ॥ धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ भगवद्गीता१.५ ॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ भगवद्गीता१.६ ॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते ॥ भगवद्गीता१.७ ॥ भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ भगवद्गीता१.८ ॥ अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणास्सर्वे युद्धविशारदाः ॥ भगवद्गीता१.९ ॥ अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ भगवद्गीता१.१० ॥ अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ भगवद्गीता१.११ ॥ दुर्योधनः स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलमवलोक्य, आत्मविजये तस्य बलस्य पर्याप्ततामात्मीयस्य बलस्य तद्विजये चापर्याप्ततामाचार्याय निवेद्य अन्तर्विषण्णोऽभवत् ॥ भगवद्गीतारामानुजभाष्य १.२११ ॥ तस्य संजनयन् हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ भगवद्गीता१.१२ ॥ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ भगवद्गीता१.१३ ॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ भगवद्गीता१.१४ ॥ पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ भगवद्गीता१.१५ ॥ अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ भगवद्गीता१.१६ ॥ काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ भगवद्गीता१.१७ ॥ द्रुपदो द्रौपदेयाश्च सर्वतः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक्पृथक् ॥ भगवद्गीता१.१८ ॥ तस्य विषादमालक्ष्य भीष्मस्तस्य हर्षं जनयितुं सिंहनादं शङ्खध्मानं च कृत्वा, शङ्खभेरीनिनादैश्च विजयाभिशंसिनं घोषं चाकारयत् ॥ ततः तं घोषमाकर्ण्य सर्वेश्वरेश्वरः पार्थसारथी रथी च पाण्डुतनयस्त्रैलोक्यविजयोपकरणभूते महति स्यन्दने स्थितौ स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलोऽप्यनुनादयन् ॥ भगवद्गीता१.१९ ॥ अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ भगवद्गीता१.२० ॥ हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ भगवद्गीता१.२१ ॥ त्रैलोक्यं कम्पयन्तौ श्रीमत्पाञ्चजन्यदेवदत्तौ दिव्यौ शङ्खौ प्रदध्मतुः ॥ ततो युधिष्ठिरो वृकोदरादयश्च स्वकीयान् शङ्खान् पृथक्पृथक्प्रदध्मुः । स घोषो दुर्योधनप्रमुखानां सर्वेषामेव भवत्पुत्राणां हृदयानि बिभेद । "अद्यैव नष्टं कुरूणां बलम्" इति धार्तराष्ट्रा मेनिरे । एवं तद्विजयाभिकाङ्क्षिणे धृतराष्ट्राय सञ्जयोऽकथयत् ॥ भगवद्गीतारामानुजभाष्य १.१२१९ ॥ अथ युयुत्सूनवस्थितान् धार्तराष्ट्रान् दृष्ट्वा लङ्कादहनवानरध्वजः पाण्डुतनयो यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ भगवद्गीता१.२२ ॥ योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ भगवद्गीता१.२३ ॥ सञ्जय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ भगवद्गीता१.२४ ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ भगवद्गीता१.२५ ॥ तत्रापश्यत्स्थितान् पार्थः पित़्नथ पितामहान् । ज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधिं स्वसङ्कल्पकृतजगदुदयविभवलयलीलं हृषीकेशं परावरनिखिलजनान्तरबाह्यकरणानां सर्वप्रकारनियमनेऽवस्थितमाश्रितवात्सल्यविवशतया स्वसारथ्येऽवस्थितम्, "युयुत्सून् यथावदवेक्षितुं तदीक्षनक्षमे स्थाने रथं स्थापय" इत्यचोदयत् ॥ आचार्यान्मातुलान् भ्रात़्न् पुत्रान् पौत्रान् सखींस्तथा ॥ भगवद्गीता१.२६ ॥ श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि । तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ॥ भगवद्गीता१.२७ ॥ कृपया परयाविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ भगवद्गीता१.२८ ॥ सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ भगवद्गीता१.२९ ॥ गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ भगवद्गीता१.३० ॥ निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ भगवद्गीता१.३१ ॥ न काङ्क्षे विजयं Kऋष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ भगवद्गीता१.३२ ॥ येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ भगवद्गीता१.३३ ॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥ भगवद्गीता१.३४ ॥ स च तेन चोदितस्तत्क्षणादेव Bहीष्मड्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथाचोदितमकरोत् । ईदृशी भवदीयानां विजयस्थितिरिति चावोचत् ॥ भगवद्गीतारामानुजभाष्य १.२०२५ ॥ स तु ড়ार्थो महामनाः परमकारुणिको दीर्घबन्धुः परमधार्मिकः सभ्रातृको एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूधन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ भगवद्गीता१.३५ ॥ निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ भगवद्गीता१.३६ ॥ तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् सबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ भगवद्गीता१.३७ ॥ यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ भगवद्गीता१.३८ ॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्ञनार्दन ॥ भगवद्गीता१.३९ ॥ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ भगवद्गीता१.४० ॥ अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ भगवद्गीता१.४१ ॥ सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ भगवद्गीता१.४२ ॥ दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ भगवद्गीता१.४३ ॥ उत्सन्नकुलधर्माणां मनुष्याणां ञनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ भगवद्गीता१.४४ ॥ अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलाभेन हन्तुं स्वजनमुद्यताः ॥ भगवद्गीता१.४५ ॥ यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ भगवद्गीता१.४६ ॥ भवद्भिरतिघोरैर्मारणैर्जतुगृहदाहादिभिरसकृद्वञ्चितोऽपि परमपुरुषसहायेनात्मना हनिष्य सञ्जय उवाच एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ भगवद्गीता१.४७ ॥ माणान् भवदीयान् विलोक्य बन्धुस्नेहेन परया कृपया धर्मभयेन चातिमात्रसन्नसर्वगात्रः सर्वथाहं न योत्स्यामीत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसः सशरं चापं विसृज्य रथोपस्थ उपाविशत् ॥ ******************** अध्याय २ ******************** सञ्जय उवाच तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् । विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ भगवद्गीता२.१ ॥ श्रीभगवानुवाच कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ भगवद्गीता२.२ ॥ मा क्लैब्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ भगवद्गीता२.३ ॥ एवमुपविष्टे पार्थे कुतोऽयमस्थाने समुपस्थितः शोक इत्याक्षिप्य तमिमं विषमस्थं शोकमविद्वत्सेवितं परलोकविरोधिनमकीर्तिकरमतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धायोत्तिष्ठेति श्रीभगवानुवाच ॥ अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ भगवद्गीता२.४ ॥ गुरूनहत्वा हि महानुभावान् श्रेयश्चर्तुं भैक्षमपीह लोके । हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥ भगवद्गीता२.५ ॥ पुनरपि पार्थः स्नेहकारुण्यधर्माधर्मभयाकुलो भगवदुक्तं हिततममजानन्निदमुवाच भीष्मद्रोणादिकान् गुरून् बहुमन्तव्यान् कथमहं हनिष्यामि? कथंतरां भोगेष्वतिमात्रसक्तान् तान् हत्वा तैर्भुज्यमानांस्तानेव भोगान् तद्रुधिरेणोपसिच्य तेष्वासनेषूपविश्य भुञ्जीय? ॥ भगवद्गीतारामानुजभाष्य २.४५ ॥ न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ भगवद्गीता२.६ ॥ कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वा धर्मसंमूढचेताः । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ भगवद्गीता२.७ ॥ न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम् । अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ भगवद्गीता२.८ ॥ एवं युद्धमारभ्य निवृत्तव्यापारान् भवतो धार्तराष्ट्राः प्रसह्य हन्युरिति चेत्, अस्तु । तद्वधलब्धविजयादधर्म्यादस्माकं धर्माधर्मावजानद्भिः तैर्हननमेव गरीय इति मे प्रतिभातीत्युक्त्वा, यन्मह्यं श्रेय इति निश्चितम्, तच्शरणागताय तव शिष्याय मे ब्रूहीत्यतिमात्रकृपणो भगवत्पादावुपससाद ॥ भगवद्गीतारामानुजभाष्य २.६८ ॥ सञ्जय उवाच एवमुक्त्वा हृशीकेशं गुडाकेशः परन्तपः । न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ भगवद्गीता२.९ ॥ "एवमस्थाने समुपस्थितस्नेहकारुण्याभ्यामप्रकृतिं गतम्, क्षत्रियाणां युद्धं परमधर्ममप्यधर्मं मन्वानं धर्मबुभुत्सया च शरणागतं पार्थमुद्दिश्य, आत्मयाथात्म्यज्ञानेन युद्धस्य फलाभिसन्धिरहितस्यात्मप्राप्त्युपायताज्ञानेन च विना अस्य मोहो न शाम्यति" इति मत्वा, भगवता परमपुरुषेण अध्यात्मशास्त्रावतरणं कृतम् । तदुक्तम् "अस्थानस्नेहकारुण्यधर्माधर्मधियाकुलम् । पार्थं प्रपन्नमुद्दिश्य शास्त्रावतरणं कृतम्" ॥ इति ॥ भगवद्गीतारामानुजभाष्य २.९ ॥ तमुवाच हृशीकेशः प्रहसन्निव भारत । सेनयोरुभयोर्मध्ये सीदमानमिदं वचः ॥ भगवद्गीता२.१० ॥ एवं देहात्मनोर्याथात्म्याज्ञाननिमित्तशोकाविष्टम्, देहातिरिक्तात्मज्ञाननिमित्तं च धर्मं भाषमाणम्, परस्परविरुद्धगुणान्वितम्, उभयोस्सेनयोर्युद्धायोद्युक्तयोर्मध्ये अकस्मान्निरुद्योगं पार्थमालोक्य परमपुरुषः प्रहसन्निवेदमुवाच परिहासवाक्यं वदन्निव आत्मपरमात्मयाथात्म्यतत्प्राप्त्युपायभूतकर्मयोगज्ञानयोगभक्तियोगगोचरं "न त्वेवाहं जातु नासम्" इत्यारभ्य "अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इत्येतदन्तं वचनमुवाचेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.१० ॥ श्रीभगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ भगवद्गीता२.११ ॥ अशोच्यान् प्रति अनुशोचसि । "पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः" इत्यादिकान् देहात्मस्वभावप्रज्ञानिमित्तवादांश्च भाषसे । देहात्मस्वभावज्ञानवतां नात्र किंचिच्छोकनिमित्तमस्ति । गतासून् देहानगतासून्॑ आत्मनश्च प्रति तत्स्वभावयाथात्म्यविदो न शोचन्ति । अतस्त्वयि विप्रतिषिद्धमिदमुपलभ्यते, यदेतान् हनिष्यामीत्यनुशोचनम्, यच्च देहातिरिक्तात्मज्ञानकृतं धर्माधर्मभाषणम् । अतो देहस्वभावं च न जानासि, तदतिरिक्तमात्मानं च नित्यम्, तत्प्राप्त्युपायभूतं युद्धादिकं धर्मं च । इदं च युद्धं फलाभिसन्धिरहितमात्मयाथात्म्यावाप्त्युपायभूतम् । आत्मा हि न जन्माधीनसद्भावः॑ न मरणाधीनविनाशश्च, तस्य जन्ममरणयोरभावात् । अतः स न शोकस्थानम् । देहस्त्वचेतनः परिणामस्वभावः॑ तस्योत्पत्तिविनाशयोगः स्वाभाविक इति सोऽपि न शोकस्थानमित्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य २.११ ॥ प्रथमं तावदात्मनां स्वभावं शृणु न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ भगवद्गीता२.१२ ॥ अहं सर्वेश्वरस्तावत्, अतः वर्तमानात्पूर्वस्मिननादौ काले, न नासम् अपि त्वासम् । त्वन्मुखाश्चैते ईशितव्याः क्षेत्रज्ञाः न नासम्॑ अपि त्वासन् । अहं च यूयं च सर्वे वयम्, अतः परस्मिननन्ते काले, न चैव न भविष्यामः॑ अपि तु भविष्याम एव । यथाहं सर्वेश्वरः परमात्मा नित्य इति नात्र संशयः, तथैव भवन्तः क्षेत्रज्ञा आत्मानोऽपि नित्या एवेति मन्तव्याः ॥ भगवद्गीतारामानुजभाष्य २.१२ ॥ एवं भगवतः सर्वेश्वरादत्मनाम्, परस्परं च, भेदः पारमार्थिक इति भगवतैवोक्तमिति प्रतीयते॑ अज्ञानमोहितं प्रति तन्निवृत्तये पार्मार्थिकनित्यत्वोपदेशसमये अहम्, त्वम्, इमे, सर्वे, वयमिति व्यपदेशात् । औपचारिकात्मभेदवादे हि आत्मभेदस्यातात्त्विकत्वेन तत्त्वोपदेशसमये भेदनिर्देशो न संगच्छते । भगवदुक्तात्मभेदः स्वाभाविक इति श्रुतिरप्याह, "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्" इति । नित्यानां बहूनां चेतनानां य एको नित्यश्चेतनस्सन् कामान् विदधातीत्यर्थः । अज्ञानकृतभेददृष्टिवादे तु परमपुरुषस्य परमार्थदृष्तेर्निर्विशेषकूटस्थनित्यचैतन्यात्मयाथात्म्यसाक्षात्कारान्निवृत्ताज्ञानतत्कार्यतया अज्ञानकृतभेददर्शनं तन्मूलोपदेशादिव्यवहाराश्च न संगच्छन्ते । अथ परमपुरुषस्याधिगताद्वैतज्ञानस्य बाधितानुवृत्तिरूपमिदं भेदज्ञानं दग्धपटादिवन्न बन्धकमित्युच्यते नैतदुपपद्यते॑ मरीचिकाजलज्ञानादिकं हि बाधितमनुवर्तमानं न जलाहरणादिप्रवृत्तिहेतुः । एवमत्राप्यद्वैतज्ञानेन बाधितं भेदज्ञानमनुवर्तमानमपि मिथ्यार्थविषयत्वनिश्चयान्नोपदेशादिप्रवृत्तिहेतुर्भवति । न चेश्वरस्य पूर्वमज्ञस्य शास्त्राधिगततत्त्वज्ञानतया बाधितानुवृत्तिः शक्यते वक्तुम्॑ "यः सर्वज्ञः सर्ववित्", "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च", "वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन" इति श्रुतिस्मृतिविरोधात् । किं च परमपुरुषश्च इदानींतनगुरुपरम्परा च, अद्वितीयात्मस्वरूपनिश्चये सति अनुवर्तमानेऽपि भेदज्ञाने, स्वनिश्चयानुरूपमद्वितीयात्मज्ञानं कस्मा उपदिशतीति वक्तव्यम् ॥ प्रतिबिम्बवत्प्रतीयमानेभ्योऽर्जुनादिभ्य इति चेत् नैतदुपपद्यते॑ न ह्यनुन्मत्तः कोऽपि मणिकृपाणदर्पणादिषु प्रतीयमानेषु स्वात्मप्रतिबिम्बेषु, तेषां स्वात्मनोऽनन्यत्वं जानन्, तेभ्यः किमप्युपदिशति । बाधितानुवृत्तिरपि तैर्न शक्यते वक्तुम्॑ बाधकेनाद्वितीयात्मज्ञानेनात्मव्यतिरिक्तभेदज्ञानकारणस्यानादेर्विनष्टत्वात् । द्विचन्द्रज्ञानादौ तु चन्द्रैकत्वज्ञानेन पारमार्थिकतिमिरादिदोषस्य द्विचन्द्रज्ञानहेतोरविनष्टत्वाद्बाधितानुवृत्तिर्युक्ता॑ अनुवर्तमानमपि प्रबलप्रमाणबाधितत्वेनाकिंचित्करम् । इह तु भेदज्ञानस्य सविषयस्य सकारणस्यापारमार्थिकत्वेन वस्तुयाथात्म्यज्ञानविनष्टत्वान्न कथञ्चिदपि बाधितानुवृत्तिः संभवति । अतः सर्वेश्वरस्येदानींतनगुरुपरम्परायाश्च तत्त्वज्ञानमस्ति चेत्, भेददर्शनतत्कार्योपदेशाद्यसंभवः । नास्ति चेत्, अज्ञानस्य तद्धेतोः स्थितत्वेनाज्ञत्वादेव सुतरामुपदेशो न संभवति ॥ किं च गुरोरद्वितीयात्मविज्ञानादेव ब्रह्माज्ञानस्य सकार्यस्य विनष्टत्वाच्शिष्यं प्रत्युपदेशो निष्प्रयोजनः । गुरुस्तज्ज्ञानं च कल्पितमिति चेत्, शिष्यतज्ज्ञानयोरपि कल्पितत्वात्तदप्यनिवर्तकम् । कल्पितत्वेऽपि पूर्वविरोधित्वेन निवर्तकमिति चेत्, तदचार्यज्ञानेऽपि समानमिति तदेव निवर्तकं भवतीत्युपदेशानर्थक्यमेव इति कृतमसमीचीनवादैः ॥ भगवद्गीतारामानुजभाष्य २.१२ ॥ देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ भगवद्गीता२.१३ ॥ एकस्मिन् देहे वर्तमानस्य देहिनः कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मनः स्थिरत्वबुद्ध्या यथा आत्मा नष्ट इति न शोचति, देहाद्देहान्तरप्राप्तावपि तथैव स्थिर आत्मेति बुद्धिमान्न शोचति । अत आत्मनां नित्यत्वादात्मनो न शोकस्थानम् ॥ भगवद्गीतारामानुजभाष्य २.१३ ॥ एतावदत्र कर्तव्यम् आत्मनां नित्यानामेवानादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंसृष्टानां तैरेव देहैर्बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकमनभिसंहितफलं कर्म कुर्वतामवर्जनीयतया इन्द्रियैरिन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति, ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति । इममर्थमनन्तरमेवाह मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः । आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ भगवद्गीता२.१४ ॥ शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वान्मात्रा इत्युच्यन्ते । श्रोत्रादिभिस्तेषां स्पर्शाः शीतोष्णमृदुपरुषादिरूपसुखदुःखदाः भवन्ति । शीतोष्णशब्दः प्रदर्शनार्थः । तान् धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति तितिक्षस्व । ते चागमापायित्वाद्धैर्यवतां क्षन्तुं योग्याः । अनित्याश्च ते । बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेनापि न वर्तन्ते इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.१४ ॥ तत्क्षमा किमर्थेत्यत्राह यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ भगवद्गीता२.१५ ॥ यं पुरुषं धैर्ययुक्तमवर्जनीयदुःखं सुखवन्मन्यमानम्, अमृतत्वसाधनतया स्ववर्णोचितं युद्धादिकर्म अनभिसंहितफलं कुर्वाणं तदन्तर्गताः शस्त्रपातादिमृदुक्रूरस्पर्शाः न व्यथयन्ति॑ स एवामृतत्वं साधयति । न त्वादृशो दुःखासहिष्णुरित्यर्थः । आत्मनां नित्यत्वादेतावदत्र कर्तव्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.१५ ॥ यत्तु आत्मनां नित्यत्वं देहानां स्वाभाविकं नाशित्वं च शोकानिमित्तमुक्तम्, "गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः" इति, तदुपपादयितुमारभते नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ भगवद्गीता२.१६ ॥ असतः देहस्य सद्भावो न विद्यते । सतश्चात्मनो नासद्भावः । उभयोः देहात्मनोरुपलभ्यमानयोर्यथोपलब्धि तत्त्वदर्शिभिरन्तो दृष्टः निर्णयान्तत्वान्निरूपणस्य निर्णय इह अन्तशब्देनोच्यते । देहस्याचिद्वस्तुनोऽसत्त्वमेव स्वरूपम्॑ आत्मनश्चेतनस्य सत्त्वमेव स्वरूपमिति निर्णयो दृष्ट इत्यर्थः । विनाशस्वभावो ह्यसत्त्वम् । अविनाशस्वभावश्च सत्त्वम् । यथा उक्तं भगवता पराशरेण, "तस्मान्न विज्ञानमृतेऽस्ति किंचित्क्वचित्कदाचिद्द्विज वस्तुजातम्", "सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत्", "अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । तत्तु नाशि न संदेहो नाशिद्रव्योपपादितम्", "यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै । परिणामादिसंभूतां तद्वस्तु नृप तच्च किम्" इति । अत्रापि "अन्तवन्त इमे देहाः", "अविनाशि तु तद्विद्धि" इति ह्युच्यते । तदेव सत्त्वासत्त्वव्यपदेशहेतुरिति गम्यते ॥ अत्र तु सत्कार्यवादस्याप्रस्तुतत्वान्न तत्परोऽयं श्लोकः॑ देहात्मस्वभावाज्ञानमोहितस्य तन्मोहशान्तये ह्युभयोर्नाशित्वानाशित्वरूपस्वभावविवेक एव वक्तव्यः । स एव "गतासूनगतासून्" इति च प्रस्तुतः । स एव च, "अविनाशि तु तद्विद्धि", "अन्तवन्त इमे देहाः" इति अनन्तरमुपपाद्यते । अतो यथा उक्त एवार्थः ॥ भगवद्गीतारामानुजभाष्य २.१६ ॥ आत्मनस्त्वविनाशित्वं कथमवगम्यत इत्यत्राह * अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । * विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ भगवद्गीता२.१७ ॥ तदत्मतत्त्वमविनाशीति विद्धि, येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तमिदमचेतनतत्त्वं सर्वं ततं व्याप्तम् । व्यापकत्वेन निरतिशयसूक्ष्मत्वादात्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित्पदार्थो विनाशं कर्तुमर्हति, तद्व्याप्यतया तस्मात्स्थूलत्वात् । नाशकं हि शस्त्रजलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति । मुद्रादयोऽपि हि वेगवत्संयोगेन वायुमुत्पाद्य तद्द्वारेण नाशयन्ति । अत आत्मतत्त्वमविनाशि ॥ भगवद्गीतारामानुजभाष्य २.१७ ॥ देहानां तु विनाशित्वमेव स्वभाव इत्याह अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ भगवद्गीता२.१८ ॥ "दिह उपचये" इत्युपचयरूपा इमे देहा अन्तवन्तः विनाशस्वभावाः । उपचयात्मका हि घटादयोऽन्तवन्तो दृष्टाः । नित्यस्य शरीरिणः कर्मफलभोगार्थतया भूतसंघातरूपा देहाः, "पुण्यः पुण्येन" इत्यादिशास्त्रैरुक्ताः कर्मावसानविनाशिनः । आत्मा त्वविनाशी॑ कुतः ? अप्रमेयत्वात् । न ह्यात्मा प्रमेयतयोपलभ्यते, अपि तु प्रमातृतया । तथा च वक्ष्यते, "एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः" इति । न चानेकोपचयात्मक आत्मोपलभयते, सर्वत्र देहे "अहमिदं जानामि" इति देहस्य चान्यस्य च प्रमातृतयैकरूपेणोपलब्धेः । न च देहादेरिव प्रदेशभेदे प्रमातुराकारभेद उपलभ्यते । अत एकरूपत्वेन अनुपचयात्मकत्वात्प्रमातृत्वाद्व्यापकत्वाच्च आत्मा नित्यः । देहस्तु उपचयात्मकत्वात्, शरीरिणः कर्मफलभोगार्थत्वात्, अनेकरूपत्वात्, व्याप्यत्वाच्च विनाशी । तस्माद्देहस्य विनाशस्वभावत्वादत्मनो नित्यत्वाच्च उभयावपि न शोकस्थानमिति, शस्त्रपातादिपुरुषस्पर्शानवर्जनीयान् स्वगतानन्यगतांश्च घैर्येण सोढ्वा अमृतत्वप्राप्तये अनभिसंहितफलं युद्धाख्यं कर्मारभस्व ॥ भगवद्गीतारामानुजभाष्य २.१८ ॥ य एनं वेत्ति हन्तारं यश्चैनन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ भगवद्गीता२.१९ ॥ एनम् उक्तस्वभावमात्मानं प्रति, हन्तारं हननहेतुं कमपि यो मन्यते॑ यश्चैनं केनापि हेतुना हतं मन्यते॑ तावुभौ न विजानीतः, उक्तैर्हेतुभिरस्य नित्यत्वादेव एनमयं न हन्ति अस्यायं हननहेतुर्न भवति । अत एव चायमात्मा न हन्यते । हन्तिधातुरप्यात्मकर्मकः शरीरवियोगकरणवाची । "न हिंस्यात्सर्वा भूतानि", "ब्राह्मणो न हन्तव्यः" इत्यादीन्यपि शास्त्राणि अविहितशरीरवियोगकरणविषयाणि ॥ भगवद्गीतारामानुजभाष्य २.१९ ॥ न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ भगवद्गीता२.२० ॥ उक्तैरेव हेतुभिर्नित्यत्वेनापरिणामित्वादात्मनो जननमरणादयः सर्व एवाचेतनदेहधर्मा न सन्तीत्युच्यते । तत्र जायते, म्रियते इति वर्तमानतया सर्वेषु देहेषु सर्वैरनुभूयमाने जननमरणे कदाचिदप्यात्मानं न स्पृशतः । नायं भूत्वा भविता वा न भूयः अयं कल्पादौ भूत्वा भूयः कल्पान्ते च न न भविता॑ केषुचित्प्रजापतिप्रभृतिदेहेष्वागमेनोपलभ्यमानं कल्पादौ जननं कल्पान्ते च मरणमात्मानं न स्पृशतीत्यर्थः । अतः सर्वदेहगत आत्मा अजः, अत एव नित्यः । शाश्वतः प्रकृतिवदविशदसततपरिणामैरपि नान्वीयते, पुराणः पुरापि नवः॑ सर्वदा अपूर्ववदनुभाव्य इत्यर्थः । अतः शरीरे हन्यमाने न हन्यतेऽयमात्मा ॥ भगवद्गीतारामानुजभाष्य २.२० ॥ वेदाविनाशिनं नित्यं य एनमजमव्ययम् । कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ भगवद्गीता२.२१ ॥ एवमविनाशित्वेनाजत्वेन व्ययानर्हत्वेन च नित्यमेनमात्मानं यः पुरुषो वेद, स पुरुषो देवमनुष्यतिर्यक्स्थावरशरीरावस्थितेष्वात्मसु कमप्यात्मानं कथं घातयति ? कं वा कथं हन्ति । कथं नाशयति॑ कथं वा तत्प्रयोजको भवतीत्यर्थः । एतानात्मनो घातयामि हन्मीत्यनुशोचनमात्मस्वरूपयाथात्म्याज्ञानमूलमेवेत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य २.२१ ॥ यद्यपि नित्यानामात्मनां शरीरविश्लेषमात्रं क्रियते तथापि रमणीयभोगसाधनेषु शरीरेषु नश्यत्सु तद्वियोगरूपं शोकनिमित्तमस्त्येवेत्यत्राह वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ भगवद्गीता२.२२ ॥ धर्मयुद्धे शरीरं त्यजतां त्यक्तशरीरादधिकतरकल्याणशरीरग्रहणं शास्त्रादवगम्यत इति जीर्णानि वासांसि विहाय नवानि कल्याणानि वासांसि गृह्णतामिव हर्षनिमित्तमेवात्रोपलभ्यते ॥ भगवद्गीतारामानुजभाष्य २.२२ ॥ पुनरपि "अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्" इति पूर्वोक्तमविनाशित्वं सुखग्रहणाय व्यञ्जयन् द्रढयति नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ भगवद्गीता२.२३ ॥ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यस्सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ भगवद्गीता२.२४ ॥ शस्त्राग्न्यम्बुवायवः छेदनदहनक्लेदनशोषणानि आत्मानं प्रति कर्तुं न शक्नुवन्ति, सर्वगतत्वादात्मनः सर्वतत्त्वव्यापनस्वभावतया सर्वेभ्यस्तत्त्वेभ्यस्सूक्ष्मत्वादस्य तैर्व्याप्त्यनर्हत्वात्॑ व्याप्यकर्तव्यत्वाच्च छेदनदहनक्लेदनशोषणानाम् । अत आत्मा नित्यः स्थाणुरचलोऽयं सनातनः स्थिरस्वभावोऽप्रकम्प्यः पुरातनश्च ॥ भगवद्गीतारामानुजभाष्य २.२३ ॥२४॥ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ भगवद्गीता२.२५ ॥ छेदनादियोग्यानि वस्तूनि यैः प्रमाणैर्व्यज्यन्ते॑ तैरयमात्मा न व्यज्यत इत्यव्यक्तः॑ अतः छेद्यादिविसजातीयः । अचिन्त्यश्च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुमपि नार्हः॑ अतश्चाविकार्यः विकारानर्हः । तस्मादुक्तलक्षणमेनमात्मानं विदित्वा तत्कृते नानुशोचितुमर्हसि ॥ भगवद्गीतारामानुजभाष्य २.२५ ॥ अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो! नैवं शोचितुमर्हसि ॥ भगवद्गीता२.२६ ॥ अथ नित्यजातं नित्यमृतं देहमेवैनमात्मानं मनुषे, न देहातिरिक्तमुक्तलक्षणम्॑ तथापि एवमतिमात्रं न शोचितुमर्हसि॑ परिणामस्वभावस्य देहस्योत्पत्तिविनाशयोरवर्जनीयत्वात् ॥ भगवद्गीतारामानुजभाष्य २.२६ ॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ भगवद्गीता२.२७ ॥ उत्पन्नस्य विनाशो ध्रुवः अवर्जनीय उपलभ्यते॑ तथा विनष्टस्यापि जन्म अवर्जनीयम् । कथमिदमुपपद्यते विनष्टस्योत्पत्तिरिति॑ सत एवोत्पत्त्युपलब्धेः, असतश्चानुपलब्धेः । उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । तन्तुप्रभृतीनि हि द्रव्याणि सन्त्येव रचनाविशेषयुक्तानि पटादीन्युच्यन्ते । असत्कार्यवादिनाप्येतावदेवोपलभ्यते । न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते । कारकव्यापारनामान्तरभजनव्यवहारविशेषाणामेतावतैवोपपत्तेः न द्रव्यान्तरकल्पना युक्ता । अतो उत्पत्तिविनाशादयः सतो द्रव्यस्यावस्थाविशेषाः । उत्पत्त्याख्यामवस्थामुपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिर्विनाश इत्युच्यते । मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत्परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया । तत्र पूर्वावस्थस्य द्रव्यस्योत्तरावस्थाप्राप्तिर्विनाशः । सैव तदवस्थस्य चोत्पत्तिः । एवमुत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्यापरिहार्येति न तत्र शोचितुमर्हसि ॥ भगवद्गीतारामानुजभाष्य २.२७ ॥ सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन योऽल्पीयान् शोकः, सोऽपि मनुष्यादिभूतेषु न संभवतीत्याह अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत । अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ भगवद्गीता२.२८ ॥ मनुष्यादीनि भूतानि सन्त्येव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्त इति न तत्र परिदेवनानिमित्तमस्ति ॥ भगवद्गीतारामानुजभाष्य २.२८ ॥ एवं शरीरात्मवादेऽपि नास्ति शोकनिमित्तमित्युक्त्वा शरीरातिरिक्ते आश्चर्यस्वरूपे आत्मनि द्रष्टा वक्ता श्रवणायत्तात्मनिश्चयश्च दुर्लभ इत्याह आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ भगवद्गीता२.२९ ॥ एवमुक्तस्वभावं स्वेतरसमस्तवस्तुविसजातीयतया आश्चर्यवदस्थितमनन्तेषु जन्तुषु महता तपसा क्षीणपापः उपचितपुण्यः कश्चित्पश्यति । तथाविधः कश्चित्परस्मै वदति । एवं कश्चिदेव शृणोति । श्रुत्वाप्येनं यथावदवस्थितं तत्त्वतो न कश्चिद्वेद । चकाराद्द्रष्टृवक्तृश्रोतृष्वपि तत्त्वतो दर्शनं तत्त्वतो वचनं तत्त्वतश्श्रवणं दुर्लभमित्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य २.२९ ॥ देही नित्यमवध्योऽयं देहे सर्वस्य भारत । तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ भगवद्गीता२.३० ॥ सर्वस्य देवादिदेहिनो देहे वध्यमानेऽप्ययं देही नित्यमवध्यो मन्तव्यः । तस्मात्सर्वाणि देवादिस्थावरान्तानि भूतानि विषमाकाराण्यप्युक्तेन स्वभावेन स्वरूपतस्समानानि नित्यानि च । देहगतं तु वैषम्यमनित्यत्वं च । ततो देवादीनि सर्वाणि भूतान्युद्दिश्य न शोचितुमर्हसि॑ न केवलं भीष्मादीन् प्रति ॥ भगवद्गीतारामानुजभाष्य २.३० ॥ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ भगवद्गीता२.३१ ॥ अपि चेदं प्रारब्धं युद्धं प्राणिमारणमपि अग्नीषोमीयादिवत्स्वधर्ममवेक्ष्य न विकम्पितुमर्हसि । धर्म्यान्न्यायतः प्रवृत्ताद्युद्धादन्यन्न हि क्षत्रियस्य श्रेयो विद्यते । "शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ " इति हि वक्ष्यते । अग्नीषोमीयादिषु च न हिंसा पशोः, निहीनतरच्छागादिदेहपरित्यागपूर्वक कल्याणतरदेहस्वर्गादिप्रापकत्वश्रुतेः संज्ञपनस्य । "न वा उ एतन्म्रियसे न रिष्यसि देवामिदेषि पथिभिस्सुरेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः तत्र त्वा देवस्सविता दधातु" इति हि श्रूयते । इह च युद्धे मृतानां कल्याणतरदेहप्राप्तिरुक्ता, "वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति" इत्यादिना । अतः, चिकित्सकशल्यादिकर्म आतुरस्येव, अस्य रक्षणमेवाग्नीषोमीयादिषु संज्ञपनम् ॥ भगवद्गीतारामानुजभाष्य २.३१ ॥ यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ भगवद्गीता२.३२ ॥ अयत्नोपनतमिदं निरतिशयसुखोपायभूतं निर्विघ्नमीदृशं युद्धं सुखिनः पुण्यवन्तः क्षत्रिया लभन्ते ॥ भगवद्गीतारामानुजभाष्य २.३२ ॥ अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ भगवद्गीता२.३३ ॥ अथ क्षत्रियस्य स्वधर्मभूतमिमम् आरब्धं संग्रामं मोहान्न करिष्यसि चेत् ततः प्रारब्धस्य धर्मस्याकरणात्स्वधर्मफलं निरतिशयसुखम्, विजयेन निरतिशयां च कीर्तिं हित्वा पापं निरतिशयमवाप्स्यसि ॥ भगवद्गीतारामानुजभाष्य २.३३ ॥ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् । संभावितस्य चाकीर्तिः मरणादतिरिच्यते ॥ भगवद्गीता२.३४ ॥ न ते केवलं निरतिशयसुखकीर्तिहानिमात्रम् । "पार्थो युद्धे प्रारब्धे पलायितः" इति अव्ययां सर्वदेशकालव्यापिनीमकीर्तिं च समर्थानि असमर्थान्यपि सर्वाणि भूतानि कथयिष्यन्ति । ततः किमिति चेत् शैर्यवीर्यपराक्रमादिभिस्सर्वसंभावितस्य तद्विपर्ययजा ह्यकीर्तिः मरणादतिरिच्यते । एवंविधाया अकीर्तेर्मरणमेव तव श्रेय इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.३४ ॥ बन्धुस्नेहात्कारुण्याच्च युद्धान्निवृत्तस्य शूरस्य ममाकीर्तिः कथमागमिष्यतीत्यत्राह भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां च त्वं बहुमतो भूत्वा यास्यसि लौघवम् ॥ भगवद्गीता२.३५ ॥ येषां कर्णदुर्योधनादीनां महारथानामितः पूर्वं त्वं शूरो वैरीति बहुमतो भूत्वा, इदानीं युद्धे समुपस्थिते निवृत्तव्यापारतया लाघवं सुग्रहतां यास्यसि, ते महारथास्त्वां भयाद्युद्धादुपरतं मंस्यन्ते । शूराणां हि वैरिणां शत्रुभयाद्र्ते बन्धुस्नेहादिना युद्धादुपरतिर्नोपपद्यते ॥ भगवद्गीतारामानुजभाष्य २.३५ ॥ किं च, अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः । निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ भगवद्गीता२.३६ ॥ शूराणामस्माकं सन्निधौ कथमयं पार्थः क्षणमपि स्थातुं शक्नुयात्, अस्मत्सन्निधानादन्यत्र ह्यस्य सामर्थ्यमिति तव सामर्थ्यं निन्दन्तः शूराणामवाच्यवादांश्च बहून् वदिष्यन्ति तव शत्रवो धार्तराष्ट्राः॑ ततोऽधिकतरं दुःखं किं तव ? एवंविधावाच्यश्रवणान्मरणमेव श्रेय इति त्वमेव मंस्यसे ॥ भगवद्गीतारामानुजभाष्य २.३६ ॥ अतः शूरस्य आत्मना परेषां हननम्, आत्मनो वा परैर्हननमुभयमपि श्रेयसे भवतीत्याह हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम् । तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ भगवद्गीता२.३७ ॥ धर्मयुद्धे परैर्हतश्चेत्, तत एव परमनिःश्रेयसं प्राप्स्यसि॑ परान् वा हत्वा अकण्टकं राज्यं भोक्ष्यसे॑ अनभिसंहितफलस्य युद्धाख्यस्य धर्मस्य परमनिःश्रेयसोपायत्वात्तच्च परमनिःश्रेयसं प्राप्स्यसि॑ तस्माद्युद्धायोद्योगः परमपुरुषार्थलक्षणमोक्षसाधनमिति निश्चित्य तदर्थमुत्तिष्ठ । कुन्तीपुत्रस्य तवैतदेव युक्तमित्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य २.३७ ॥ मुमुक्षोर्युद्धानुष्ठानप्रकारमाह सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ भगवद्गीता२.३८ ॥ एवं देहातिरिक्तमस्पृष्टसमस्तदेहस्वभावं नित्यमात्मानं ज्ञात्वा युद्धे चावर्जनीयशस्त्रपातादिनिमित्तसुखदुःखार्थलाभालाभजयपराजयेष्वविकृतबुद्धिः स्वर्गादिफलाभिसन्धिरहितः केवलकार्यबुद्ध्या युद्धमारभस्व । एवं कुर्वाणो न पापमवाप्स्यसि पापं दुःखरूपं संसारं नावाप्स्यसि॑ संसारबन्धान्मोक्ष्यसे इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.३८ ॥ एवमात्मयाथात्म्यज्ञानमुपदिश्य तत्पूर्वकं मोक्षसाधनभूतं कर्मयोगं वक्तुमारभते एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ भगवद्गीता२.३९ ॥ सङ्ख्या बुद्धिः॑ बुद्ध्यावधारणीयमात्मतत्त्वं साङ्ख्यम् । ज्ञातव्ये आत्मतत्त्वे तज्ज्ञानाय या बुद्धिरभिधेया "न त्वेवाहम्" इत्यारभ्य "तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि" इत्यन्तेन सैषा तेऽभिहिता । आत्मज्ञानपूर्वकमोक्षसाधनभूतकर्मानुष्ठाने यो बुद्धियोगो वक्तव्यः, स इह योगशब्देनोच्यते । "दूरेण ह्यवरं कर्म बुद्धियोगात्" इति हि वक्ष्यते । तत्र योगे या बुद्धिर्वक्तव्या, तामिमामभिधीयमानां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि । कर्मणा बन्धः कर्मबन्धः॑ संसारबन्ध इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.३९ ॥ वक्ष्यमाणबुद्धियुक्तस्य कर्मणो माहात्म्यमाह नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ भगवद्गीता२.४० ॥ इह कर्मयोगे नाभिक्रमनाशोऽस्ति । अभिक्रमः आरम्भः । नाशः फलसाधनभावनाशः । आरब्धस्यासमाप्तस्य विच्छिन्नस्यापि न निष्फलत्वम् ।ारब्धस्य विच्छेदे प्रत्यवायोऽपि न विद्यते । अस्य कर्मयोगाख्यस्य धर्मस्य स्वल्पांशोऽपि महतो भयात् संसारभयात्त्रायते । अयमर्थः॑ "पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते" इति उत्तरत्र प्रपञ्चयिष्यते । अन्यानि हि लौकिकानि वैदिकानि च साधनानि विच्छिन्नानि न फलाय भवन्ति॑ प्रत्यवायाय च भवन्ति ॥ भगवद्गीतारामानुजभाष्य २.४० ॥ काम्यकर्मविषयाया बुद्धेर्मोक्षसाधनभूतकर्मविषयां बुद्धिं विशिनष्टि व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ भगवद्गीता२.४१ ॥ इह शास्त्रीये सर्वस्मिन् कर्मणि व्यवसायात्मिका बुद्धिरेका । मुमुक्षुणानुष्ठेये कर्मणि बुद्धिर्व्यवसायात्मिका बुद्धिः । व्यवसायः निश्चयः । सा हि बुद्धिरात्मयाथात्म्यनिश्चयपूर्विका । काम्यकर्मविषया तु बुद्धिरव्यवसायात्मिका । तत्र हि कामाधिकारे देहातिरिक्तात्मास्तित्वज्ञानमात्रमपेक्षितम्, नात्मस्वरूपयाथात्म्यनिश्चयः । स्वरूपयाथात्म्यानिश्चयेऽपि स्वर्गादिफलार्थित्वतत्साधनानुष्ठानतत्फलानुभवानां संभवात्, अविरोधाच्च । सेयं व्यवसायात्मिका बुद्धिः एकफलसाधनविषयतयैका॑ एकस्मै मोक्षाख्यफलाय हि मुमुक्षोः सर्वाणि कर्माणि विधीयन्ते । अतः शास्त्रार्थस्यैकत्वात्सर्वकर्मविषया बुद्धिरेकैव॑ यथैकफलसाधनतया आग्नेयादीनां षण्णां सेतिकर्तव्यताकानामेकशास्त्रार्थतया तद्विषया बुद्धिरेका, तद्वदित्यर्थः । अव्यवसायिनां तु स्वर्गपुत्रपश्वन्नादिफलसाधनकर्माधिकृतानां बुद्धयः फलानन्त्यादनन्ताः । तत्रापि बहुशाखाः॑ एकस्मै फलाय चोदितेऽपि दर्शपूर्णमासादौ कर्मणि, "आयुराशास्ते" इत्याद्यवगतावान्तरफलभेदेन बहुशाखत्वं च विद्यते । अतः अव्यवसायिनां बुद्धयोऽनन्ता बहुशाखाश्च । एतदुक्तं भवति नित्येषु नैमित्तिकेषु कर्मसु प्रधानफलानि अवान्तरफलानि च यानि श्रूयमाणानि, तानि सर्वाणि परित्यज्य मोक्षैकफलतया सर्वाणि कर्माण्येकशास्त्रार्थतयानुष्ठेयानि॑ काम्यानि च स्ववर्णाश्रमोचितानि, तत्तत्फलानि परित्यज्य मोक्षसाधनतया नित्यनैमित्तिकैरेकीकृत्य यथाबलमनुष्ठेयानि इति ॥ भगवद्गीतारामानुजभाष्य २.४१ ॥ अथ काम्यकर्माधिकृतान्निन्दति यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ भगवद्गीता२.४२ ॥ कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगाइश्वर्यगतिं प्रति ॥ भगवद्गीता२.४३ ॥ भोगाइश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ भगवद्गीता२.४४ ॥ यामिमां पुष्पितां पुष्पमात्रफलाम्, आपातरमणीयां वाचमविपश्चितः अल्पज्ञाः भोगाइश्वर्यगतिं प्रति वर्तमानां प्रवदन्ति, वेदवादरताः वेदेषु ये स्वर्गादिफलवादाः तेषु सक्ताः, नान्यदस्तीति वादिनः तत्सङ्गातिरेकेण स्वर्गादेरधिकं फलं नान्यदस्तीति वदन्तः, कामात्मानः कामप्रवणमनसः, स्वर्गपराः स्वर्गपरायणाः, स्वर्गादिफलावसाने पुनर्जन्मकर्माख्यफलप्रदां, क्रियाविशेषबहुलां तत्त्वज्ञानरहिततया क्रियाविशेषप्रचुराम् । भोगाइश्वर्यगतिं प्रति वर्तमानां यामिमां पुष्पितां वाचं ये प्रवदन्तीति संबन्धः । तेषां भोगाइश्वर्यप्रसक्तानां तया वाचा भोगाइश्वर्यविषयया अपहृतज्ञानानां यथोदितव्यवसायात्मिका बुद्धिः, समाधौ मनसि न विधीयते, नोत्पद्यते, समाधीयतेऽस्मिन्नात्मज्ञानमिति समाधिर्मनः । तेषां मनस्यात्मयाथात्म्यनिश्चयपूर्वकमोक्षसाधनभूतकर्मविषया बुद्धिः कदाचिदपि नोत्पद्यते इत्यर्थः । अतः काम्येषु कर्मसु मुमुक्षुणा न सङ्गः कर्तव्यः ॥ भगवद्गीतारामानुजभाष्य २.४२ ॥४३॥४४॥ एवमत्यल्पफलानि पुनर्जन्मप्रसवानि कर्माणि मातापितृसहस्रेभ्योऽपि वत्सलतरतया आत्मोज्जीवने प्रवृत्ता वेदाः किमर्थं वदन्ति, कथं वा वेदोदितं त्याज्यतयोच्यते इत्यत आह त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ भगवद्गीता२.४५ ॥ त्रयो गुणास्त्रैगुण्यं सत्त्वरजस्तमांसि । सत्त्वरजस्तमःप्रचुराः पुरुषास्त्रैगुण्यशब्देनोच्यन्ते॑ तद्विषया वेदाः तमःप्रचुराणां रजःप्रचुराणां सत्त्वप्रचुराणां च वत्सलतरतयैव हितमवबोधयन्ति वेदाः । यद्येषां स्वगुणानुगुण्येन स्वर्गादिसाधनमेव हितं नावबोधयन्ति, तदैते रजस्तमःप्रचुरतया सात्त्विकफलमोक्षविमुखाः स्वापेक्षितफलसाधनमजानन्तः कामप्रावण्यविवशा अनुपादेयेषु उपादेयभ्रान्त्या प्रविष्टाः प्रनष्टा भवेयुः । अतस्त्रैगुण्यविषया वेदाः, त्वं तु निस्त्रैगुण्यो भव इदानीं सत्त्वप्रचुरस्त्वं तदेव वर्धय॑ नान्योन्यसङ्कीर्णगुणत्रयप्रचुरो भव॑ न तत्प्राचुर्यं वर्धयेत्यर्थः । निर्द्वन्द्वः निर्गतसकलसांसारिकस्वभावः॑ नित्यसत्त्वस्थः गुणद्वयरहितनित्यप्रवृद्धसत्त्वस्थो भव । कथमिति चेत्, निर्योगक्षेमः आत्मस्वरूपतत्प्राप्त्युपायबहिर्भूतानामर्थानां योगं प्राप्तानां च क्षेमं परित्यज्य आत्मवान् भव आत्मस्वरूपान् वेषणपरो भव । अप्राप्तस्य प्राप्तिर्योगः प्राप्तस्य परिक्षणं क्षेमः । एवं वर्तमानस्य ते रजस्तमःप्रचुरता नश्यति, सत्त्वं च वर्धते ॥ भगवद्गीतारामानुजभाष्य २.४५ ॥ यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ भगवद्गीता२.४६ ॥ न च वेदोदितं सर्वं सर्वस्योपादेयम्॑ यथा सर्वार्थपरिकल्पिते सर्वतः संप्लुतोदके उदपाने पिपासोर्यावानर्थः यावदेव प्रयोजनम्, तावदेव तेनोपादीयते, न सर्वम्॑ एवं सर्वेषु च वेदेषु ब्राह्मणस्य विजानतः वैदिकस्य मुमुक्षोः यदेव मोक्षसाधनं तदेवो= पादेयम्॑ नान्यत् ॥ भगवद्गीतारामानुजभाष्य २.४६ ॥ अतः सत्त्वस्थस्य मुमुक्षोरेतावदेवोपादेयमित्याह कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि ॥ भगवद्गीता२.४७ ॥ नित्ये नैमित्तिके काम्ये च केनचित्फलविशेषेण संबन्धितया श्रूयमाणे कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्ते कर्ममात्रेऽधिकारः । तत्संबन्धितयावगतेषु फलेषु न कदाचिदप्यधिकारः । सफलस्य बन्धरूपत्वात्फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच्च । मा च कर्मफलयोर्हेतुभूः । त्वयानुष्ठीयमानेऽपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोस्तव अकर्तृत्वमप्यनुसन्धेयम् । फलस्यापि क्षुन्निवृत्त्यादेर्न त्वं हेतुरित्यनुसन्धेयम् । तदुभयं गुणेषु वा सर्वेश्वरे मयि वानुसन्धेयमित्युत्तरत्र वक्ष्यते । एवमनुसन्धाय कर्म कुरु । अकर्मणि अननुष्ठाने, न योत्स्यामीति यत्त्वयाभिहितम्, न तत्र ते सङ्गोऽस्तु॑ उक्तेन प्रकारेण युद्धादिकर्मण्येव सङ्गोऽस्त्वित्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.४७ ॥ एतदेव स्फुटीकरोति योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ भगवद्गीता२.४८ ॥ राज्यबन्धुप्रभृतिषु सङ्गं त्यक्त्वा युद्धादीनि कर्माणि योगस्थः कुरु, तदन्तर्भूतविजयादिसिद्ध्यसिद्ध्योस्समो भूत्वा कुरु । तदिदं सिद्ध्यसिद्ध्योस्समत्वं योगस्थ इत्यत्र योगशब्देनोच्यते । योगः सिद्ध्यसिद्धियोस्समत्वरूपं चित्तसमाधानम् ॥ भगवद्गीतारामानुजभाष्य २.४८ ॥ किमर्थमिदमसकृदुच्यत इत्यत आह दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय । बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ भगवद्गीता२.४९ ॥ योऽयं प्रधानफलत्यागविषयोऽवान्तरफलसिद्ध्यसिद्ध्योस्समत्वविषयश्च बुद्धियोगः॑ तद्युक्तात्कर्मण इतरत्कर्म दूरेणावरम् । महदिदं द्वयोरुत्कर्षापकर्षरूपं वैरूप्यम् । उक्तबुद्धियोगयुक्तं कर्म निखिलसांसारिकदुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति । इतरदपरिमितदुःखरूपं संसारमिति । अतः कर्मणि क्रियमाणे उक्तायां बुद्धौ शरणमन्विच्छ । शरणं वासस्थानम् । तस्यामेव बुद्धौ वर्तस्वेत्यर्थः । कृपणाः फलहेतवः फलसङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः ॥ भगवद्गीतारामानुजभाष्य २.४९ ॥ बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ भगवद्गीता२.५० ॥ बुद्धियोगयुक्तस्तु कर्म कुर्वाणः उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धहेतुभूते जहाति । तस्मादुक्ताय बुद्धियोगाय युज्यस्व । योगः कर्मसु कौशलम् कर्मसु क्रियमाणेष्वयं बुद्धियोगः कौशलम् अतिसामर्थ्यम् । अतिसामर्थ्यसाध्य इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.५० ॥ कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ भगवद्गीता२.५१ ॥ बुद्धियोगयुक्ताः कर्मजं फलं त्यक्त्वा कर्म कुर्वन्तः, तस्माज्जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति हि प्रसिद्धं ह्येतत्सर्वासूपनिषत्स्वित्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.५१ ॥ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ भगवद्गीता२.५२ ॥ उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य ते बुद्धिर्यदा मोहकलिलमत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं व्यतितरिष्यति, तदा अस्मत्तः इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चाच्छ्रोतव्यस्य च कृते स्वयमेव निर्वेदं गन्तासि गमिष्यसि ॥ भगवद्गीतारामानुजभाष्य २.५२ ॥ "योगे त्विमां शृणु" इत्यादिनोक्तस्यात्मयाथात्म्यज्ञानपूर्वकस्य बुद्धिविशेषसंस्कृतस्य धर्मानुष्ठानस्य लक्षभूतं योगाख्यं फलमाह श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ भगवद्गीता२.५३ ॥ श्रुतिः श्रवणम् । अस्मत्तः श्रवणेन विशेषतः प्रतिपन्ना सकलेतरविसजातीयनित्यनिरतिशयसूक्ष्मतत्त्वात्मविषया, स्वयमचला एकरूपा बुद्धिः असङ्गकर्मानुष्ठानेन निर्मलीकृते मनसि यदा निश्चला स्थास्यति, तदा योगमात्मावलोकनमवाप्स्यसि । एतदुक्तं भवति शास्त्रजन्यात्मज्ञानपूर्वककर्मयोगः स्थितप्रज्ञताख्यज्ञाननिष्ठामापादयति॑ ज्ञाननिष्ठारूपा स्थितप्रज्ञता तु योगाख्यमात्मावलोकनं साधयति इति ॥ भगवद्गीतारामानुजभाष्य २.५३ ॥ एतदुक्तः पार्थोऽसङ्गकर्मानुष्ठानरूपकर्मयोगसाध्यस्थितप्रज्ञताया योगसाधनभूतायाः स्वरूपम्, स्थितप्रज्ञस्यानुष्ठानप्रकारं च पृच्छति अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषते किमासीत व्रजेत किम् ॥ भगवद्गीता२.५४ ॥ समाधिस्थस्य स्थितप्रज्ञस्य का भाषा को वाचकश्शब्दः ? तस्य स्वरूपं कीदृशमित्यर्थः । स्थितप्रज्ञः किं च भाषादिकं करोति ? ॥ भगवद्गीतारामानुजभाष्य २.५४ ॥ वृत्तिविशेषकथनेन स्वरूपमप्युक्तं भवतीति वृत्तिविशेष उच्यते श्रीभगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ भगवद्गीता२.५५ ॥ आत्मन्येवात्मना मनसा आत्मैकावलम्बनेन तुष्टः तेन तोषेण तद्व्यतिरिक्तान् सर्वान्मनोगतान् कामान् यदा प्रकर्षेण जहाति, तदायं स्थितप्रज्ञ इत्युच्यते । ज्ञाननिष्ठाकाष्ठेयम् ॥ भगवद्गीतारामानुजभाष्य २.५५ ॥ अनन्तरं ज्ञाननिष्ठस्य ततोऽर्वाचीनादूरविप्रकृष्टावस्थोच्यते दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ भगवद्गीता२.५६ ॥ प्रियविश्लेषादिदुःखनिमित्तेषु उपस्थितेषु अनुद्विग्नमनाः न दुःखी भवति॑ सुखेषु विगतस्पृहः प्रियेषु सन्निहितेष्वपि विगतस्पृहः, वीतरागभयक्रोधः अनागतेषु स्पृहा रागः, तद्रहितः॑ प्रियविश्लेषाप्रियागमनहेतुदर्शननिमित्तं दुःखं भयम्, तद्रहितः॑ प्रियविश्लेषाप्रियागमनहेतुभूतचेतनान्तरगतदुःखहेतुभूतस्वमनोविकारः क्रोधः, तद्रहितः॑ एवंभूतः मुनिः आत्ममननशीलः स्थितधीरित्युच्यते ॥ भगवद्गीतारामानुजभाष्य २.५६ ॥ ततोऽर्वाचीनदशा प्रोच्यते यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता२.५७ ॥ यः सर्वत्र प्रियेषु अनभिस्नेहः उदासीनः॑ प्रियसंश्लेषविश्लेषरूपं शुभाशुभं प्राप्याभिनन्दनद्वेषरहितः, सोऽपि स्थितप्रज्ञः ॥ भगवद्गीतारामानुजभाष्य २.५७ ॥ ततोऽर्वाचीनदशामाह यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता२.५८ ॥ यदेन्द्रियाणीन्द्रियार्थान् स्पृष्टुमुद्युक्तानि, तदैव कूर्मोऽङ्गानीव, इन्द्रियार्थेभ्यः सर्वशः प्रतिसंहृत्य मन आत्मन्यवस्थापयति, सोऽपि स्थितप्रज्ञः । एवं चतुर्विधा ज्ञाननिष्ठा । पूर्वपूर्वा उत्तरोत्त्रनिष्पाद्या ॥ भगवद्गीतारामानुजभाष्य २.५८ ॥ इदानीं ज्ञाननिष्ठाया दुष्प्रापतां तत्प्राप्त्युपायं चाह विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ भगवद्गीता२.५९ ॥ इन्द्रियाणामाहारा विषयाः॑ निराहारस्य विषयेभ्यः प्रत्याहृतेन्द्रियस्य देहिनो विषया विनिवर्तमाना रसवर्जं विनिवर्तन्ते॑ रसः रागः । विषयरागो न निवर्तत इत्यर्थः । रागोऽप्यात्मस्वरूपं विषयेभ्यः परं सुखतरं दृष्ट्वा निवर्तते ॥ भगवद्गीतारामानुजभाष्य २.५९ ॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ भगवद्गीता२.६० ॥ आत्मदर्शनेन विना विषयरागो न निवर्तते, अनिवृत्ते विषयरागे विपश्चितो यतमानस्यापि पुरुषस्येन्द्रियाणि प्रमाथीनि बलवन्ति, मनः प्रसह्य हरन्ति । एवमिन्द्रियजयः आत्मदर्शनाधीनः, आत्मदर्शनमिन्द्रियजयाधीनमिति ज्ञाननिष्ठा दुष्प्रापा ॥ भगवद्गीतारामानुजभाष्य २.६० ॥ तानि सर्वाणि संयम्य युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता२.६१ ॥ अस्य सर्वस्य परिजिहीर्षया विषयानुरागयुक्ततया दुर्जयानीन्द्रियाणि संयम्य, चेतसश्शुभाश्रयभूते मयि मनोऽवस्थाप्य समाहित आसीत । मनसि मद्विषये सति निर्दग्धाशेषकल्मषतया निर्मलीकृतं विषयानुरागरहितं मन इन्द्रियाणि स्ववशानि करोति । ततो वश्येन्द्रियं मन आत्मदर्शनाय प्रभवति । यथोक्तम्, "यथाग्निरुद्धतशिखः कक्षं दहति सानिलः । तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ भगवद्गीतारामानुजभाष्य २." इति । तदाह "वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता"+इति ॥ भगवद्गीतारामानुजभाष्य २.६१ ॥ एवं मय्यनिवेश्य मनः स्वयत्नगौरवेणेन्द्रियजये प्रवृत्तो विनष्टो भवतीत्याह ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥ भगवद्गीता२.६२ ॥ क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ भगवद्गीता२.६३ ॥ अनिरस्तविषयानुरागस्य हि मय्यनिवेशितमनस इन्द्रियाणि संयम्यावस्थितस्यापि अनादिपापवासनया विषयध्यानमवर्जनीयं स्यात् । ध्यायतो विषयान् पुंसः पुनरपि सङ्गोऽतिप्रवृद्धो जायते । सङ्गात्संजाते कामः । कामो नाम सङ्गस्य विपाकदशा । पुरुषो यां दशामापन्नो विषयानभुक्त्वा स्थातुं न शक्नोति, स कामः ॥ कामात्क्रोधोऽभिजायते । कामे वर्तमाने, विषये चासन्निहिते, सन्निहितान् पुरुषान् प्रति, एभिरस्मदिष्टं विहितमिति क्रोधो भवति । क्रोधाद्भवति संमोहः । संमोहः कृत्याकृत्यविवेकशून्यता । तया सर्वं करोति । ततश्च प्रारब्धे इन्द्रियजयादिके प्रयत्ने स्मृतिभ्रंशो भवति । स्मृतिभ्रंशाद्बुद्धिनाशः आत्मज्ञाने यो व्यवसायः कृतः, तस्य नाशः स्यात् । बुद्धिनाशात्पुनरपि संसारे निमग्नो विनष्टो भवति ॥ भगवद्गीतारामानुजभाष्य २.६२ ॥६३॥ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ भगवद्गीता२.६४ ॥ उक्तेन प्रकारेण मयि सर्वेश्वरे चेतसश्शुभाश्रयभूते न्यस्तमनाः निर्दग्धाशेषकल्मषतया रागद्वेषवियुक्तैरात्मवश्यैरिन्द्रियैः विषयांश्चरन् विषयांस्तिरस्कृत्य वर्तमानः विधेयात्मा विधेयमनाः प्रसादमधिगच्छति निर्मलान्तःकरणो भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य २.६४ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ भगवद्गीता२.६५ ॥ अस्य पुरुषस्य मनःप्रसादे सति प्रकृतिसंसर्गप्रयुक्तसर्वदुःखानां हानिरुपजायते । प्रसन्नचेतसः आत्मावलोकनविरोधिदोषरहितमनसः तदानीमेव हि विविक्तात्मविषया बुद्धिः पर्यवतिष्ठते । अतो मनःप्रसादे सर्वदुःखानां हानिर्भवत्येव ।६५॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ भगवद्गीता२.६६ ॥ मयि सन्न्यस्तमनोरहितस्य स्वयत्नेनेन्द्रियनियमने प्रवृत्तस्य कदाचिदपि विविक्तात्मविषया बुद्धिर्न सेत्स्यति। अत एव तस्य तद्भावना च न संभवति । विविक्तात्मानमभावयतो विषयस्पृहाशान्तिर्न भवति । अशान्तस्य विषयस्पृहायुक्तस्य कुतो नित्यनिरतिशयसुखप्राप्तिः ॥ भगवद्गीतारामानुजभाष्य २.६६ ॥ पुनरप्युक्तेन प्रकारेणेन्द्रियनियमनमकुर्वतोऽनर्थमाह इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ भगवद्गीता२.६७ ॥ इन्द्रियाणां विषयेषु चरतां वर्तमानानां वर्तनमनु यन्मनो विधीयते पुरुषेणानुवर्त्यते, तन्मनोऽस्य विविक्तात्मप्रवणां प्रज्ञां हरति विषयप्रवणां करोतीत्यर्थः॑ यथाम्भसि नीयमानां नावं प्रतिकूलो वायुः प्रसह्य हरति ॥ भगवद्गीतारामानुजभाष्य २.६७ ॥ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता२.६८ ॥ तस्मादुक्तेन प्रकारेण शुभाश्रये मयि निविष्टमनसो यस्येन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशो निगृहीतानि, तस्यैवात्मनि प्रज्ञा प्रतिष्ठिता भवति ॥ भगवद्गीतारामानुजभाष्य २.६८ ॥ एवं नियतेन्द्रियस्य प्रसन्नमनसः सिद्धिमाह या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ भगवद्गीता२.६९ ॥ या आत्मविषया बुद्धिः सर्वभूतानां निशा निशेवाप्रकाशा, तस्यामात्मविषयायां बुद्धौ इन्द्रियसंयमी प्रसन्नमनाः जागर्ति आत्मानमवलोकयनास्त इत्यर्थः । यस्यां शब्दादिविषयायां बुद्धौ सर्वाणि भूतानि जाग्रति प्रबुद्धानि भवन्ति,॑ सा शब्दादिविषया बुद्धिरात्मानं पश्यतो मुनेर्निशेवाप्रकाशा भवति ॥ भगवद्गीतारामानुजभाष्य २.६९ ॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ भगवद्गीता२.७० ॥ यथा स्वेनैवापूर्यमाणमेकरूपं समुद्रं नादेय्य आपः प्रविशन्ति, आसामपां प्रवेशेऽप्यप्रवेशे च समुद्रो न कञ्चन विशेषमापद्यते एवं सर्वे कामाः शब्दादयो विषयाः यं संयमिनं प्रविशन्ति इन्द्रियगोचरतां यान्ति, स शान्तिमाप्नोति । शब्दादिष्विन्द्रियगोचरतामापन्नेष्वनापन्नेषु च स्वात्मावलोकनतृप्त्यैव यो न विकारमाप्नोति, स एव शान्तिमाप्नोतीत्यर्थः । न कामकामी । यः शब्दादिभिर्विक्रियते, स कदाचिदपि न शान्तिमाप्नोति ॥ भगवद्गीतारामानुजभाष्य २.७० ॥ विहाय कामान् यः सर्वान् पुमांश्चरति निस्स्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ भगवद्गीता२.७१ ॥ काम्यन्त इति कामाः शब्दादयः । यः पुमान् शब्दादीन् सर्वान् विषयान् विहाय तत्र निस्स्पृहः तत्र ममतारहितश्च, अनात्मनि देहे आत्माभिमानरहितश्चरति॑ स आत्मानं दृष्ट्वा शान्तिमधिगच्छति ॥ भगवद्गीतारामानुजभाष्य २.७१ ॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ भगवद्गीता२.७२ ॥ एषा नित्यात्मज्ञानपूर्विका असङ्गकर्मणि स्थितिः स्थितधीलक्षा ब्राह्मी ब्रह्मप्रापिका । ईदृशीं कर्मणि स्थितिं प्राप्य न विमुह्यति पुनः संसारं नाप्नोति, अस्याः स्थित्यामन्तिमेऽपि वयसि स्थित्वा ब्रह्मनिर्वाणमृच्छति निर्वाणमयं ब्रह्म गच्छति॑ सुखैकतानमात्मानमवाप्नोतीत्यर्थः ॥ एवमात्मयाथात्म्यं युद्धाख्यस्य च कर्मणस्तत्प्राप्तिसाधनतामजानतः शरीरात्मज्ञानेन मोहितस्य, तेन च मोहेन युद्धान्निवृत्तस्य मोहशान्तये नित्यात्मविषया साङ्ख्यबुद्धिः, तत्पूर्विका च असङ्गकर्मानुष्ठानरूपकर्मयोगविषया बुद्धिः स्थितप्रज्ञतायोगसाधनभूता द्वितीये अध्याये प्रोक्ता॑ तदुक्तम्, "नित्यात्मासङ्गकर्मेहागोचरा साङ्ख्ययोगधीः । द्वितीये स्थितधीलक्षा प्रोक्ता तन्मोहशान्तये" इति ॥ भगवद्गीतारामानुजभाष्य २.७२ ॥ ******************** अध्याय ३ ******************** तदेवं मुमुक्षुभिः प्राप्यतया वेदान्तोदितनिरस्तनिखिलाविद्यादिदोषगन्धानवधिकातिशयासंख्येयकल्याणगुणगणपरब्रह्मपुरुषोत्तमप्राप्त्युपायभूतवेदनोपासनध्यानादिशब्दवाच्यतदैकान्तिकात्यन्तिकभक्तिं वक्तुं तदङ्गभूतं "य आत्मापहतपाप्मा" इत्यादिप्रजापतिवाक्योदितं प्राप्तुरात्मनो याथात्म्यदर्शनं तन्नित्यताज्ञानपूर्वकासङ्गकर्मनिष्पाद्यज्ञानयोगसाध्यमुक्तम् । प्रजापतिवाक्ये हि दहरवाक्योदितपरविद्याशेषतया प्राप्तुरात्मनस्स्वरूपदर्शनम्, "यस्तमात्मानमनुविद्य विजानाति" इत्युक्त्वा जागरितस्वप्नसुषुप्त्यतीतं प्रत्यगात्मस्वरूपमशरीरं प्रतिपाद्य, "एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते" इति दहरविद्याफलेनोपसंहृतम् । अन्यत्रापि, "अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति" इत्येवमादिषु, देवं मत्वेति विधीयमानपरविद्याङ्गतया अध्यात्मयोगाधिगमेनेति प्रत्यगात्मज्ञानमपि विधाय, "न जायते म्रियते वा विपश्चित्" इत्यादिना प्रत्यगात्मस्वरूपं विशोध्य, "अणोरणीयान्", इत्यारभ्य, "महान्तं विभुमात्मानं मत्वा धीरो न शोचति", "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ भगवद्गीतारामानुजभाष्य ३." इत्यादिभिः परस्वरूपं तदुपासनमुपासनस्य च भक्तिरूपतां प्रतिपाद्य, "विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ भगवद्गीतारामानुजभाष्य ३." इति परविद्याफलेनोपसंहृतम् । अतः परमध्यायचतुष्टयेन इदमेव प्राप्तुः प्रत्यगात्मनो दर्शनं ससाधनं प्रपञ्चयति अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ भगवद्गीता३.१ ॥ व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद, निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ भगवद्गीता३.२ ॥ यदि कर्मणो बुद्धिरेव ज्यायसीति ते मता, किमर्थं तर्हि घोरे कर्मणि मां नियोजयसि । एतदुक्तं भवति ज्ञाननिष्ठैवात्मावलोकनसाधनम्॑ कर्मनिष्ठा तु तस्याः निष्पादिका॑ आत्मावलोकनसाधनभूता च ज्ञाननिष्ठा सकलेन्द्रियमनसां शब्दादिविषयव्यापारोपरतिनिष्पाद्येत्यभिहिता । इन्द्रियव्यापारोपरतिनिष्पाद्यमात्मावलोकनं चेत्सिषाधयिषितम्, सकलकर्मनिवृत्तिपूर्वकज्ञाननिष्ठायामेवाहं नियोजयितव्यः । किमर्थं घोरे कर्मणि सर्वेन्द्रियव्यापाररूपे आत्मावलोकनविरोधिनि कर्मणि मां नियोजयसीति ॥ अतो मिश्रवाक्येन मां मोहयसीव प्रतिभाति । तथा ह्यात्मावलोकनसाधनभूतायाः सर्वेन्द्रियव्यापारोपरतिरूपायाः ज्ञाननिष्ठायाः तद्विपर्ययरूपं कर्म साधनम्, तदेव कुर्विति वाक्यं विरुद्धं व्यामिश्रमेव । तस्मादेकममिश्ररूपं वाक्यं वद, येन वाक्येनाहमनुष्ठेयरूपं निश्चित्य श्रेयः प्राप्नुयाम् ॥ भगवद्गीतारामानुजभाष्य ३.१२ ॥ श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ भगवद्गीता३.३ ॥ पूर्वोक्तं न सम्यगवधृतं त्वया । पुरा ह्यस्मिन् लोके विचित्राधिकारिपूर्णे, द्विविधा निष्ठा ज्ञानकर्मविषया यथाधिकारमसङ्कीर्णैव मयोक्ता । न हि सर्वो लौकिकः पुरुषः संजातमोक्षाभिलाषस्तदानीमेव ज्ञानयोगाधिकारे प्रभवति, अपि त्वनभिसंहितफलेन केवलपरमपुरुषाराधनवेषेणानुष्ठितेन कर्मणा विध्वस्तस्वान्तमलः, अव्याकुलेन्द्रियो ज्ञाननिष्ठायामधिकरोति । "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः" इति परमपुरुषाराधनैकवेषता कर्मणां वक्ष्यते । इहापि, "कर्मण्येवाधिकारस्ते" इत्यादिना अनभिसंहितफलं कर्म अनुष्ठेयं विधाय, तेन विषयव्याकुलतारूपमोहादुत्तीर्णबुद्धेः "प्रजहाति यदा कामान्" इत्यादिना ज्ञानयोग उदितः । अतः साङ्ख्यानामेव ज्ञानयोगेन स्थितिरुक्ता । योगिनां तु कर्मयोगेन । सङ्ख्या बुद्धिः तद्युक्ताः साङ्ख्याः आत्मैकविषयया बुद्ध्या संबन्धिनः साङ्ख्याः॑ अतदर्हाः कर्मयोगाधिकारिणो योगिनः । विषयव्याकुलबुद्धियुक्तानां कर्मयोगेऽधिकारः॑ अव्याकुलबुद्धीनां तु ज्ञानयोगेऽधिकार उक्त इति न किंचिदिह विरुद्धं व्यामिश्रमभिहितम् ॥ भगवद्गीतारामानुजभाष्य ३.३ ॥ सर्वस्य लौकिकस्य पुरुषस्य मोक्षेच्छायां जातायां सहसैव ज्ञानयोगो दुष्कर इत्याह न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च संन्यसनादेव सिद्धिं समधिगच्छति ॥ भगवद्गीता३.४ ॥ न शास्त्रीयाणां कर्मणामनारम्भादेव, पुरुषो नैष्कर्म्यं ज्ञाननिष्ठां प्राप्नोति । न चारब्धस्य शास्त्रीयस्य त्यागात्॑ यतोऽनभिसंहितफलस्य परमपुरुषाराधनवेषस्य कर्मणः सिद्धिः सा । अतस्तेन विना तां न प्राप्नोति । अनभिसंहितफलैः कर्मभिरनाराधितगोविन्दैरविनष्टानादिकालप्रवृत्तानन्तपापसञ्चयैरव्याकुलेन्द्रियतापूर्विका आत्मनिष्ठा दुस्संपादा ॥ भगवद्गीतारामानुजभाष्य ३.४ ॥ एतदेवोपपादयति न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ भगवद्गीता३.५ ॥ न ह्यस्मिन् लोके वर्तमानः पुरुषः कश्चित्कदाचिदपि कर्माकुर्वाणस्तिष्ठति॑ न किंचित्करोमीति व्यवसितोऽपि सर्वः पुरुषः प्रकृतिसंभवैः सत्त्वरजस्तमोभिः प्राचीनकर्मानुगुणं प्रवृद्धैर्गुणैः स्वोचितं कर्म प्रति अवशः कार्यते प्रवर्त्यते । अत उक्तलक्षणेन कर्मयोगेन प्राचीनं पापसंचयं नाशयित्वा गुणांश्च सत्त्वादीन् वशे कृत्वा निर्मलान्तःकरणेन संपाद्यो ज्ञानयोगः ॥ भगवद्गीतारामानुजभाष्य ३.५ ॥ अन्यथा ज्ञानयोगाय प्रवृत्तो मिथ्याचारो भवतीत्याह कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते ॥ भगवद्गीता३.६ ॥ अविनष्टपापतया अजितान्तःकरणः आत्मज्ञानाय प्रवृत्तो विषयप्रवणतया आत्मनि विमुखीकृतमनाः विषयानेव स्मरन् य आस्ते, अन्यथा संकल्प्य अन्यथा चरतीति स मिथ्याचार उच्यते । आत्मज्ञानायोद्युक्तो विपरीतो विनष्टो भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ३.६ ॥ यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ भगवद्गीता३.७ ॥ अतः पूर्वाभ्यस्तविषयसजातीये शास्त्रीये कर्मणि इन्द्रियाण्यात्मावलोकनप्रवृत्तेन मनसा नियम्य तैः स्वत एव कर्मप्रवणैरिन्द्रियैरसङ्गपूर्वकं यः कर्मयोगमारभते, सोऽसंभाव्यमानप्रमादत्वेन ज्ञाननिष्ठादपि पुरुषाद्विशिष्यते ॥ भगवद्गीतारामानुजभाष्य ३.७ ॥ नियतं कुरु कर्म त्वं कर्मं ज्यासयो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ भगवद्गीता३.८ ॥ नियतं व्याप्तम्॑ प्रकृतिसंसृष्टेन हि व्याप्तं कर्म, अनादिवासनया प्रकृतिसंसृष्टस्त्वं नियतत्वेन सुशकत्वादसंभावितप्रमादत्वाच्च कर्मणः, कर्मैव कुरु॑ अकर्मणः ज्ञाननिष्ठाया अपि कर्मैव ज्यायः । "नैष्कर्म्यं पुरुषोऽशुनुते" इति प्रक्रमादकर्मशब्देन ज्ञाननिष्ठैवोच्यते । ज्ञाननिष्ठाधिकारिणोऽप्यनभ्यस्तपूर्वतया ह्यनियतत्वेन दुःशकत्वात्सप्रमादत्वाच्च ज्ञाननिष्ठायाः, कर्मनिष्ठैव ज्यायसी॑ कर्मणि क्रियमाणे च आत्मयाथात्म्यज्ञानेनात्मनोऽकर्तृत्वानुसन्धानमनन्तरमेव वक्ष्यते । अत आत्मज्ञानस्यापि कर्मयोगान्तर्गतत्वात्स एव ज्यायानित्यर्थः । कर्मणो ज्ञाननिष्ठाया ज्यायस्त्ववचनं ज्ञाननिष्ठायामधिकारे सत्येवोपपद्यते । यदि सर्वं कर्म परित्यज्य केवलं ज्ञाननिष्ठायामधिकारोऽपि, तर्हि अकर्मणः ज्ञाननिष्ठस्य ज्ञाननिष्ठोपकारिणी शरीरयात्रापि न सेत्स्यति । यावत्साधनसमाप्ति शरीरधारणं चावश्यं कार्यम् । न्यायार्जितधनेन महायज्ञादिकं कृत्वा तच्छिष्टाशनेनैव शरीरधारणं कार्यम्, "आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुत्वा स्मृतिः" इत्यादिश्रुतेः । "ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात्" इति वक्ष्यते । अतो ज्ञाननिष्ठस्यापि कर्माकुर्वतो देहयात्रापि न सेत्स्यति । यतो ज्ञाननिष्ठस्यापि ध्रियमाणशरीरस्य यावत्साधनसमाप्ति महायज्ञादि नित्यनैमित्तिकं कर्म अवश्यं कर्तव्यम्, यतश्च कर्मयोगेऽप्यात्मनोऽकर्तृत्वभावनयात्मयाथात्म्यानुसन्धानमन्तर्भूतम्, यतश्च प्रकृतिसंसृष्टस्य कर्मयोगः सुशकोऽप्रमादश्च, अतो ज्ञाननिष्ठायोग्यस्यापि ज्ञानयोगात्कर्मयोगो ज्यायान् । तस्मात्त्वं कर्मयोगमेव कुर्वित्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य ३.८ ॥ एवं तर्हि द्रव्यार्जनादेः कर्मणोऽहङ्कारममकारादिसर्वेन्द्रियव्यकुलतागर्भत्वेनास्य पुरुषस्य कर्मवासनया बन्धनं भविष्यतीत्यत्राह यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गस्समाचर ॥ भगवद्गीता३.९ ॥ यज्ञादिशास्त्रीयकर्मशेषभूताद्द्रव्यार्जनादेः कर्मणोऽन्यत्र आत्मीयप्रयोजनशेषभूते कर्मणि क्रियमाणे अयं लोकः कर्मबन्धनो भवति । अतस्त्वं यज्ञार्थं द्रव्यार्जनादिकं कर्म समाचर । तत्रात्मप्रयोजनसाधनतया यः सङ्गः तस्मात्सङ्गान्मुक्तस्तं समाचर । एवं मुक्तसङ्गेन यज्ञाद्यर्थतया कर्मणि क्रियमाणे यज्ञादिभिः कर्मभिराराधितः परमपुरुषोऽस्यानादिकालप्रवृत्तकर्मवासनामुच्छिद्य अव्याकुलात्मावलोकनं ददातीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ३.९ ॥ यज्ञशिष्टेनैव सर्वपुरुषार्थसाधननिष्ठानां शरीरधारणकर्तव्यताम्, अयज्ञशिष्टेन शरीरधारणं कुर्वतां दोषं चाह सह यज्ञैः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ भगवद्गीता३.१० ॥ "पतिं विश्वस्य" इत्यादिश्रुतेर्निरुपाधिकः प्रजापतिशब्दः सर्वेश्वरं विश्वस्य स्रष्टारं विश्वात्मानं परायणं नारायणमाह । पुरा सर्गकाले स भगवान् प्रजापतिरनादिकालप्रवृत्ताचित्संसर्गविवशाः उपसंहृतनामरूपविभागाः स्वस्मिन् प्रलीनाः सकलपुरुषार्थानर्हाः चेतनेतरकल्पाः प्रजाः समीक्ष्य परमकारुणिकस्तदुज्जीवयिषया स्वाराधनभूतयज्ञनिर्वृत्तये यज्ञैः सह ताः सृष्ट्वैवमुवाच अनेन यज्ञेन प्रसविष्यध्वम्, आत्मनो वृद्धिं कुरुध्वम्॑ एष वो यज्ञः परमपुरुषार्थलक्षणमोक्षाख्यस्य कामस्य तदनुगुणानाअं च कामानां प्रपूरयिता भवतु ॥ भगवद्गीतारामानुजभाष्य ३.१० ॥ कथम्? देवान् भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ भगवद्गीता३.११ ॥ अनेन देवताराधनभूतेन देवान्मच्छरीरभूतान्मदात्मकानाराधयत । "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति हि वक्ष्यते । यज्ञेनाराधितास्ते देवा मदात्मकाः स्वाराधनापेक्षितान्नपानादिकैर्युष्मान् पुष्णन्तु । एवं परस्परं भावयन्तः परं श्रेयो मोक्षाख्यमवाप्स्यथ ॥ भगवद्गीतारामानुजभाष्य ३.११ ॥ इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ भगवद्गीता३.१२ ॥ यज्ञभाविताः यज्ञेनाराधिताः मदात्मका देवाः इष्टान् वो दास्यन्ते उत्तमपुरुषार्थलक्षणं मोक्षं साधयतां ये इष्टा भोगास्तान् पूर्वपूर्वयज्ञभाविता देवा दास्यन्ते उत्तरोत्तराराधनोपेक्षितान् सर्वान् भोगान् वो दास्यन्ते इत्यर्थः । स्वाराधनार्थतया तैर्दत्तान् भोगान् तेभ्योऽप्रदाय यो भुङ्क्ते चोर एव सः । चोउर्यं हि नाम अन्यदीये तत्प्रयोजनायैव परिकॢप्ते वस्तुनि स्वकीयताबुद्धिं कृत्वा तेन स्वात्मपोषणम् । अतोऽस्य न परमपुरुषार्थानर्हतामात्रम्॑ अपि तु निरयगामित्वं च भविष्यतीत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य ३.१२ ॥ तदेव विवृणोति यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्वकिल्विषैः । ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ॥ भगवद्गीता३.१३ ॥ इन्द्राद्यात्मनावस्थितपरमपुरुषाराधनार्थतयैव द्रव्याण्युपादाय विपच्य तैर्यथावस्थितं परमपुरुषमाराध्य तच्छिष्टाशनेन ये शरीरयात्रां कुर्वते, ते त्वनादिकालोपार्जितैः किल्बिषैः आत्मयाथात्म्यावलोकनविरोधिभिः सर्वैर्मुच्यन्ते । ये तु परमपुरुषेणेन्द्राद्यात्मना स्वाराधनाय दत्तानि आत्मार्थत्योपादाय विपच्याश्नन्ति, ते पापात्मनोऽघमेव भुञ्जते । अघपरिणामित्वादघमित्युच्यते । आत्मावलोकनविमुखाः नरकायैव पचन्ते ॥ भगवद्गीतारामानुजभाष्य ३.१३ ॥ पुनरपि लोकदृष्ट्या शास्त्रदृष्ट्या च सर्वस्य यज्ञमूलत्वं दर्शयित्वा यज्ञानुवर्तनस्यावश्यकार्यतामननुवर्तने दोषं चाह अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥ भगवद्गीता३.१४ ॥ कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ भगवद्गीता३.१५ ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ भगवद्गीता३.१६ ॥ "अन्नात्सर्वाणि भूतानि भवन्ति पर्जन्याच्चान्नसंभवः" इति सर्वलोकसाक्षिकम् । यज्ञात्पर्जन्यो भवतीति च शास्त्रेणावगम्यते, "अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिः" इत्यादिना । यज्ञश्च द्रव्यार्जनादिकर्तृव्यापाररूपकर्मसमुद्भवः, कर्म च ब्रह्मोद्भवम् । अत्र च ब्रह्मशब्दनिर्दिष्टं प्रकृतिपरिणामरूपं शरीरम् । "तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते" इति हि ब्रह्मशब्देन प्रकृतिनिर्दिष्टा । इहापि "मम योनिर्महद्ब्रह्म" इति वक्ष्यते । अतः कर्म ब्रह्मोद्भवमिति प्रकृतिपरिणामरूपशरीरोद्भवं कर्मेत्युक्तं भवति । ब्रह्माक्षरसमुद्भवमित्यत्राक्षरशब्दनिर्दिष्टो जीवात्मा, अन्नपानादिना तृप्ताक्षराधिष्ठितं शरीरं कर्मणे प्रभवतीति कर्मसाधनभूतं शरीरमक्षरसमुद्भवम्॑ तस्मात्सर्वगतं ब्रह्म सर्वाधिकारिगतं शरीरं नित्यं यज्ञे प्रतिष्ठितं यज्ञमूलमित्यर्थः । एवं परमपुरुषेण प्रवर्तितमिदं चक्रमन्नाद्भूतशब्दनिर्दिष्टानि सजीवानि शरीराणि, पर्य्जन्यादन्नम्, यज्ञात्पर्जन्यः, यज्ञश्च कर्तृव्यापाररूपात्कर्मणः, कर्म च सजीवाच्छरीरात्, सजीवं शरीरं पुनरप्यन्नादित्यन्योन्यकार्यकारणभावेन चक्रवत्परिवर्तमानमिह साधने वर्तमानो यः कर्मयोगाधिकारी ज्ञानयोगाधिकारी वा नानुवर्तयति न प्रवर्तयति, यज्ञशिष्टेन देहधारणमकुर्वन् सोऽघायुर्भवति । अघारम्भायैव यस्यायुः, अघपरिणतं वा, उभयरूपं वा सोऽघायुः । अत एवेन्द्रियारामो भवति, नात्मारामः॑ इन्द्रियाण्येवास्योद्यानानि भवन्ति॑ अयज्ञशिष्टवर्धितदेहमनस्त्वेनोद्रिक्तरजस्तमस्कः आत्मावलोकनविमुखतया विषयभोगैकरतिर्भवति । अतो ज्ञानयोगादौ यतमानोऽपि निष्फलप्रयत्नतया मोघं पार्थ स जीवति ॥ भगवद्गीतारामानुजभाष्य ३.१४ ॥१५॥१६॥ असाधनायत्तात्मदर्शनस्य मुक्तस्येव महायज्ञादिवर्णाश्रमोचितकर्मानारम्भ इत्याह यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ॥ भगवद्गीता३.१७ ॥ नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ भगवद्गीता३.१८ ॥ यस्तु ज्ञानयोगकर्मयोगसाधननिरपेक्षः स्वत एवात्मरतिः आत्माभिमुखः, आत्मनैव तृप्तः नान्नपानादिभिरात्मव्यतिरिक्तैः, आत्मन्येव च सन्तुष्टः, नोद्यानस्रक्चन्दनगीतवादित्रनृत्तादौ, धारणपोषणभोग्यादिकं सर्वमत्मैव यस्य, तस्यात्मदर्शनाय कर्तव्यं न विद्यते, स्वत एव सर्वदा दृष्टात्मस्वरूपत्वात् । अत एव तस्यात्मदर्शनाय कृतेन तत्साधनेन नार्थः न किंचित्प्रयोजनम्॑ अकृतेनात्मदर्शनसाधनेन न कश्चिदनर्थः॑ असाधनायत्तात्मदर्शनत्वात् । स्वत एवात्मव्यतिरिक्तसकलाचिद्वस्तुविमुखस्यास्य सर्वेषु प्रकृतिपरिणामविशेषेष्वाकाशादिषु सकार्येषु न कश्चित्प्रयोजनतया साधनतया वा व्यपाश्रयः॑ यतस्तद्विमुखीकरणाय साधनारम्भः॑ स हि मुक्त एव ॥ भगवद्गीतारामानुजभाष्य ३.१७ ॥१८॥ तस्मादसक्तस्सततं कार्यं कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः ॥ भगवद्गीता३.१९ ॥ यस्मादसाधनायत्तात्मदर्शनस्यैव साधनाप्रवृत्तिः, यस्माच्च साधने प्रवृत्तस्यापि सुशकत्वाच्च अप्रमादत्वादन्तर्गतात्मयाथात्म्यानुसन्धानत्वाच्च ज्ञानयोगिनोऽपि मात्रया कर्मानुवृत्त्यपेक्षत्वाच्च कर्मयोग एवात्मदर्शननिर्वृत्तौ श्रेयान्, तस्मादसङ्गपूर्वकं कार्यमित्येव सततं यावदात्मप्राप्ति कर्मैव समाचर । असक्तः, कार्यमिति वक्ष्यमाणाकर्तृत्वानुसन्धानपूर्वकं च कर्माचरन् पुरुषः कर्मयोगेनैव परमाप्नोति आत्मानं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ३.१९ ॥ कर्मणैव हि संसिद्धिमास्थिता जनकादयः । यतो ज्ञानयोगाधिकारिणोऽपि कर्मयोग एवात्मदर्शने श्रेयान्॑ अत एव हि जनकादयो राजर्षयो ज्ञानिनामग्रेसराः कर्मयोगेनैव संसिद्धिमास्थिताः आत्मानं प्राप्तवन्तः ॥ एवं प्रथमं मुमुक्षोर्ज्ञानयोगानर्हतया कर्मयोगाधिकारिणः कर्मयोग एव कार्य इत्युक्त्वा ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगात्कर्मयोग एव श्रेयानिति सहेतुकमुक्तम् । इदानीं शिष्टतया व्यपदेश्यस्य सर्वथा कर्मयोग एव कार्य इत्युच्यते लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ भगवद्गीता३.२० ॥ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ भगवद्गीता३.२१ ॥ लोकसंग्रहं पश्यन्नपि कर्मैव कर्तुमर्हसि । श्रेष्ठः कृत्स्नशास्त्रज्ञातयानुष्ठातृतया च प्रथितो यद्यदाचरति, तत्तदेवाकृत्स्नविज्जनोऽप्याचरति॑ अनुष्ठीयमानमपि कर्म श्रेष्ठो यत्प्रमाणं यदङ्गयुक्तमनुतिष्ठति तदङ्गयुक्तमेवाकृत्स्नविल्लोकोऽप्यनुतिष्ठति । अतो लोकरक्षार्थं शिष्टतया प्रथितेन श्रेष्ठेन स्ववर्णाश्रमोचितं कर्म सकलं सर्वदा अनुष्ठेयम्॑ अन्यथा लोकनाशजनितं पापं ज्ञानयोगादप्येनं प्रच्यावयेत् ॥ भगवद्गीतारामानुजभाष्य ३.२१ ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ भगवद्गीता३.२२ ॥ न मे सर्वेश्वरस्याप्तकामस्य सर्वज्ञस्य सत्यसङ्कल्पस्य त्रिषु लोकेषु देवमनुष्यादिरूपेण स्वच्छन्दतो वर्तमानस्य किंचिदपि कर्तव्यमस्ति, यतोऽनवाप्तं कर्मणावाप्तव्यं न किंचिदप्यस्ति । अथापि लोकरक्षायै कर्मण्येव वर्ते ॥ भगवद्गीतारामानुजभाष्य ३.२२ ॥ यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ भगवद्गीता३.२३ ॥ उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ भगवद्गीता३.२४ ॥ अहं सर्वेश्वरः सत्यसङ्कल्पः स्वसङ्कल्पकृतजगदुदयविभवलयलीलः छन्दतो जगदुपकृतिमर्त्यो जातोऽपि मनुष्येषु शिष्टजनाग्रेसरवसुदेवगृहेऽवतीर्णस्तत्कुलोचिते कर्मण्यतन्द्रितस्सर्वदा यदि न वर्तेय, मम शिष्टजनाग्रेसरवसुदेवसूनोर्वर्त्म अकृत्स्नविदः शिष्टाः सर्वप्रकारेणायमेव धर्म इत्यनुवर्तन्ते॑ ते च स्वकर्तव्याननुष्ठानेन अकरणे प्रत्यवायेन च आत्मानमलब्ध्वा निरयगामिनो भवेयुः । अहं कुलोचितं कर्म न चेत्कुर्याम्, एवमेव सर्वे शिष्टलोका मदाचरायत्तधर्मनिश्चयाः अकरणादेवोत्सीदेयुः नष्टा भवेयुः । शास्त्रीयाचाराननुपालनात्सर्वेषां शिष्टकुलानां संकरस्य च कर्ता स्याम् । अत एवेमाः प्रजाः उपहन्याम् । एवमेव त्वमपि शिष्टजनाग्रेसरपाण्डुतनयो युधिष्ठिरानुजोऽर्जुनस्सन् यदि ज्ञाननिष्ठायामधिकरोषि॑ ततस्त्वदाचारानुवर्तिनोऽकृत्स्नविदः शिष्टा मुमुक्षवः स्वाधिकारमजानन्तः कर्मनिष्ठायां नाधिकुर्वन्तो विनश्येयुः । अतो व्यपदेश्येन विदुषा कर्मैव कर्तव्यम् ॥ भगवद्गीतारामानुजभाष्य ३.२३ ॥२४॥ सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ॥ भगवद्गीता३.२५ ॥ न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ भगवद्गीता३.२६ ॥ अविद्वांसः आत्मन्यकृत्स्नविदः, कर्मणि सक्ताः कर्मण्यवर्जनीयसंबन्धाः आत्मन्यकृत्स्नवित्तया तदभ्यासरूपज्ञानयोगेऽनधिकृताः कर्मयोगाधिकारिणः कर्मयोगमेव यथा आत्मदर्शनाय कुर्वते, तथा आत्मनि कृत्स्नवित्तया कर्मण्यसक्तः ज्ञानयोगाधिकारयोग्योऽपि व्यपदेश्यः शिष्टो लोकरक्षार्थं स्वाचारेण शिष्टलोकानां धर्मनिश्चयं चिकीर्षुः कर्मयोगमेव कुर्यात् । अज्ञानामात्मन्यकृत्स्नवित्तया ज्ञानयोगोपादानाशक्तानां मुमुक्षूणां कर्मसङ्गिनामनादिकर्मवासनया कर्मण्येव नियतत्वेन कर्मयोगाधिकारिणां कर्मयोगादन्यदात्मावलोकनसाधनमस्तीति न बुद्धिभेदं जनयेत् । किं तर्हि? आत्मनि कृत्स्नवित्तया ज्ञानयोगशक्तोऽपि पूर्वोक्तरीत्या, "कर्मयोग एव ज्ञानयोगनिरपेक्षः आत्मावलोकनसाधनम्" इति बुद्ध्या युक्तः कर्मैवाचरन् सकलकर्मसु अकृत्स्नविदां प्रीतिं जनयेत् ॥ भगवद्गीतारामानुजभाष्य ३.२५ ॥२६॥ कर्मयोगमनुतिष्ठतो विदुषोऽविदुषश्च विशेषं प्रदर्शयन् कर्मयोगापेक्षितमात्मनोऽकर्तृत्वानुसन्धानप्रकारमुपदिशति प्रकृतेः क्रियमाणाणि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ भगवद्गीता३.२७ ॥ तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः । गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ भगवद्गीता३.२८ ॥ प्रकृतेर्गुणैः सत्त्वादिभिः स्वानुरूपं क्रियमाणानि कर्माणि प्रति अहङ्कारविमूढात्मा, अहं कर्तेति मन्यते॑ अहङ्कारेण विमूढ आत्मा यस्यासावहङ्कारविमूढात्मा॑ अहङ्कारो नाम अनहमर्थे प्रकृतावहमभिमानः॑ तेन अज्ञातस्वरूपो गुणकर्मसु अहं कर्तेति मन्यत इत्यर्थः । गुणकर्मविभागयोः सत्त्वादिगुणविभागे तत्तत्कर्मविभागे च तत्त्ववित्, गुणास्सत्त्वादयः गुणेषु स्वेषु कार्येषु वर्तन्त इति मत्वा गुणकर्मसु अहं कर्तेति न सज्जते ॥ भगवद्गीतारामानुजभाष्य ३.२७ ॥२८॥ प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥ भगवद्गीता३.२९ ॥ अकृत्स्नविदः स्वात्मदर्शनाय प्रवृत्ताः प्रकृतिसंसृष्टतया प्रकृतेर्गुणैर्यथावस्थितात्मनि संमूढाः गुणकर्मसु क्रियास्वेव सज्जन्ते, न तद्विविक्तात्मस्वरूपे । अतस्ते ज्ञानयोगाय न प्रभवन्तीति कर्मयोग एव तेषामधिकारः । एवंभूतांस्तान्मन्दानकृत्स्नविदः कृत्स्नवित्स्वयं ज्ञानयोगावस्थानेन न विचालयेत् । ते किल मन्दाः श्रेष्ठजनाचारानुवर्तिनः कर्मयोगादुत्थितमेनं दृष्ट्वा कर्मयोगात्प्रचलितमनसो भवेयुः । अतः श्रेष्ठः स्वयमपि कर्मयोगे तिष्ठनात्मयाथात्म्यज्ञानेनात्मनोऽकर्तृत्वमनुसन्धानः, कर्मयोग एवात्मावलोकने निरपेक्षसाधनमिति दर्शयित्वा तानकृत्स्नविदो जोषयेदित्यर्थः । ज्ञानयोगाधिकारिणोऽपि ज्ञानयोगादस्यैव ज्यायस्त्वं पूर्वमेवोक्तम् । अतो व्यपदेश्यो लोकसंग्रहायैतमेव कुर्यात् ॥ भगवद्गीतारामानुजभाष्य ३.२९ ॥ प्रकृतिविविक्तात्मस्वभावनिरूपणेन गुणेषु कर्तृत्वमारोप्य कर्मानुष्ठानप्रकार उक्तः गुणेषु कर्तृत्वानुसन्धानं चेदमेव आत्मनो न स्वरूपप्रयुक्तमिदं कर्तृत्वम्, अपि तु गुणसम्पर्ककृतमिति प्राप्ताप्राप्तविवेकेन गुणकृतमित्यनुसन्धानम् इदानीमात्मनां परमपुरुषशरीरतया तन्नियाम्यत्वस्वरूपनिरूपणेन भगवति पुरुषोत्तमे सर्वात्मभूते गुणकृतं च कर्तृत्वमारोप्य कर्मकर्तव्यतोच्यते मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ भगवद्गीता३.३० ॥ मयि सर्वेश्वरे सर्वभूतान्तरात्मभूते सर्वाणि कर्माण्यध्यात्मचेतसा संन्यस्य, निराशीर्निर्ममश्च विगतज्वरो युद्धादिकं सर्वं चोदितं कर्म कुरुष्व । आत्मनि यच्चेतः तदध्यात्मचेतः । आत्मस्वरूपविषयेण श्रुतिशतसिद्धेन ज्ञानेनेत्यर्थः । "अन्तः प्रविष्टः शास्ता जनानां सर्वात्मा ..... अन्तः प्रविष्टं कर्तारमेतम्" "आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः" इत्येवमाद्याः श्रुतयः परमपुरुषप्रवर्त्यं तच्छरीरभूतमेनमात्मानम्, परमपुरुषं च प्रवर्तयितारमाचक्षते । स्मृतयश्च "प्रशासितारं सर्वेषाम्" इत्याद्याः । "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च", "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ भगवद्गीतारामानुजभाष्य ३." इति वक्ष्यते । अतो मच्छरीरतया मत्प्रवर्त्यात्मस्वरूपानुसन्धानेन सर्वाणि कर्माणि मयैव क्रियमाणानीति मयि परमपुरुषे संन्यस्य, तानि च केवलं मदाराधनानीति कृत्वा तत्फले निराशीः, तत एव तत्र कर्मणि ममतारहितो भूत्वा विगतज्वरो युद्धादिकं कुरुष्व स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी सर्वेश्वरः स्वयमेव स्वकर्माणि कारयतीत्यनुसन्धाय, कर्मस्ममतारहितः, प्राचीनेनानादिकालप्रवृत्तानन्तपापसञ्चयेन कथमहं भविष्यामीत्येवंभूतान्तर्ज्वरविनिर्मुक्तः, परमपुरुष एव कर्मभिराराधितो बन्धान्मोचयिष्यतीति सुखेन कर्मयोगमेव कुरुष्वित्यर्थः । "तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम्", "पतिं विश्वस्य" , "पतिं पतीनाम्" इत्यादिश्रुतिसिद्धिं हि सर्वेश्वरत्वं सर्वशेषित्वं च । ईश्वरत्वं नियन्तृत्वम्, शेषित्वं पतित्वम् ॥ भगवद्गीतारामानुजभाष्य ३.३० ॥ अयमेव साक्षादुपनिषत्सारभूतोऽर्थ इत्याह ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ भगवद्गीता३.३१ ॥ ये मानवाः शास्त्राधिकारिणः अयमेव शास्त्रार्थ इति एतन्मे मतं निश्चित्य तथानुतिष्ठन्ति, ये चाननुतिष्ठन्तोऽप्यस्मिन् शास्त्रार्थे श्रद्दधाना भवन्ति, ये चाश्रद्दधाना अपि एवं शास्त्रार्थो न संभवतीति नाभ्यसूयन्ति अस्मिन्महागुणे शास्त्रार्थे दोषमनाविष्कुर्वन्तो भवन्तीत्यर्थः ते सर्वे बन्धहेतुभिरनादिकालारब्धैस्सर्वैः कर्मभिर्मुच्यन्ते॑ तेऽपि इत्यपिशब्दादेषां पृथक्करणम् । इदानीमननुतिष्ठन्तोऽप्यस्मिन् शास्त्रार्थे श्रद्दधाना अनभ्यसूयवश्च श्रद्धया चानसूयया च क्षीणपापाः अचिरेणेममेव शास्त्रार्थमनुष्ठाय मुच्यन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ३.३१ ॥ भगवदभिमतमौपनिषदमर्थमननुतिष्ठतामश्रद्दधानानामभ्यसूयतां च दोषमाह ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ भगवद्गीता३.३२ ॥ ये त्वेतत्सर्वमात्मवस्तु मच्छरीरतया मदाधारं मच्छेषभूतं मदेकप्रवर्त्यमिति मे मतं नानुतिष्ठन्ति नैवमनुसन्धाय सर्वाणि कर्माणि कुर्वते, ये च न श्रद्दधते, ये चाभ्यसूयन्तो वर्तन्ते तान् सर्वेषु ज्ञानेषु विशेषेण मूढान् तत एव नष्टान्, अचेतसो विद्धि॑ चेतःकार्यं हि वस्तुयाथात्म्यनिश्चयः॑ तदभावादचेतसः॑ विपरीतज्ञानाः सर्वत्र विमूढाश्च ॥ भगवद्गीतारामानुजभाष्य ३.३२ ॥ एवं प्रकृतिसंसर्गिणस्तद्गुणोद्रेककृतं कर्तृत्वम्, तच्च परमपुरुषायत्तमित्यनुसन्धाय कर्मयोगयोग्येन ज्ञानयोगयोग्येन च कर्मयोगस्य सुशकत्वादप्रमादत्वादन्तर्गतात्मज्ञानतया निरपेक्षत्वात्, इतरस्य दुश्शकत्वात्सप्रमादत्वाच्शरीरधारणाद्यर्थतया कर्मापेक्षत्वात्कर्मयोग एव कर्तव्यः॑ व्यपदेश्यस्य तु विशेषतः स एव कर्तव्यः इति चोक्तम् । अतः परमध्यायशेषेण ज्ञानयोगस्य दुश्शकतया सप्रमादतोच्यते सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ भगवद्गीता३.३३ ॥ प्रकृतिविविक्तमीदृशमात्मस्वरूपम्, तदेव सर्वदानुसन्धेयमिति च शास्त्राणि प्रतिपादयन्तीति ज्ञानवानपि स्वस्याः प्रकृतेः प्राचीनवासनायास्सदृशं प्राकृतविषयेष्वेव चेष्टते॑ कुतः? प्रकृतिं यान्ति भूतानि अचित्संसृष्टा जन्तवोऽनादिकालप्रवृत्तवासनामेवानुयान्ति॑ तानि वासनानुयायीनि भूतानि शास्त्रकृतो निग्रहः किं करिष्यति ॥ भगवद्गीतारामानुजभाष्य ३.३३ ॥ प्रकृत्यनुयायित्वप्रकारमाह इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ भगवद्गीता३.३४ ॥ श्रोत्रादिज्ञानेन्द्रियस्यार्थे शब्दादौ वागादिकर्मेन्द्रियस्य चार्थे वचनादौ प्राचीनवासनाजनिततदनुबुभूषारूपो यो रागोऽवर्जनीयो व्यवस्थितः॑ तदनुभवे प्रतिहते चावर्जनीयो यो द्वेषो व्यवस्थितः, तावेवं ज्ञानयोगाय यतमानं नियमितसर्वेन्द्रियं स्ववशे कृत्वा प्रसह्य स्वकार्येषु संयोजयतः । ततश्चायमात्मस्वरूपानुभवविमुखो विनष्टो भवति । ज्ञानयोगारम्भेण रागद्वेषवशमागम्य न विनश्येत् । तौ हि रागद्वेषौ अस्य दुर्जयौ शत्रू ज्ञानाभ्यासं वारयतः ॥ भगवद्गीतारामानुजभाष्य ३.३४ ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ भगवद्गीता३.३५ ॥ अतः सुशकतया स्वधर्मभूतः कर्मयोगो विगुणोऽप्यप्रमादगर्भः प्रकृतिसंसृष्टस्य दुश्शकतया परधर्मभूताज्ज्ञानयोगात्सगुणादपि किंचित्कालमनुष्ठितात्सप्रमादाच्छ्रेयान्॑ स्वेनैवोपादातुं योग्यतया स्वधर्मभूते कर्मयोगे वर्तमानस्यैकस्मिन् जन्मन्यप्राप्तफलतया निधनमपि श्रेयः, अनन्तरायहततयानन्तरजन्मन्यपि अव्याकुलकर्मयोगारम्भसंभवात् । प्रकृतिसंसृष्टस्य स्वेनैवोपादातुमशक्यतया परधर्मभूतो ज्ञानयोगः प्रमादगर्भतया भयावहः ॥ भगवद्गीतारामानुजभाष्य ३.३५ ॥ अर्जुन उवाच अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ भगवद्गीता३.३६ ॥ अथायं ज्ञानयोगाय प्रवृत्तः पुरुषः स्वयं विषयाननुभवितुमनिच्छन्नपि केन प्रयुक्तो विषयानुभवरूपं पापं बलान्नियोजित इव चरति ॥ भगवद्गीतारामानुजभाष्य ३.३६ ॥ श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ भगवद्गीता३.३७ ॥ अस्योद्भवाभिभवरूपेण वर्तमानगुणमयप्रकृतिसंसृष्टस्य ज्ञानायारब्धस्य रजोगुणसमुद्भवः प्राचीनवासनाजनितः शब्दादिविषयः कामो महाशनः शत्रुः विषयेष्वेनमाकर्षति । एष एव प्रतिहतगतिः प्रतिहतिहेतुभूतचेतनान् प्रति क्रोधरूपेण परिणतो महापाप्मा परहिंसादिषु प्रवर्तयति । एनं रजोगुणसमुद्भवं सहजं ज्ञानयोगविरोधिनं वैरिणं विद्धि ॥ भगवद्गीतारामानुजभाष्य ३.३७ ॥ धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ भगवद्गीता३.३८ ॥ यथा धूमेन वह्निराव्रियते, यथा आदर्शो मलेन, यथा च उल्बेनावृतो गर्भः, तथा तेन कामेन इदं जन्तुजातमावृतम् ॥ भगवद्गीतारामानुजभाष्य ३.३८ ॥ आवरणप्रकारमाह आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ भगवद्गीता३.३९ ॥ अस्य जन्तोः ज्ञानिनः ज्ञानस्वभावस्यात्मविषयं ज्ञानमेतेन कामकारेण विषयव्यामोहजननेन नित्यवैरिणा आवृतम्॑ दुष्पूरेण प्राप्त्यनर्हविषयेण, अनलेन च पर्याप्तिरहितेन ॥ भगवद्गीतारामानुजभाष्य ३.३९ ॥ कैरुपकरणैरयं काम आत्मानमधिष्ठितीत्यत्राह इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ भगवद्गीता३.४० ॥ अधितिष्ठत्येभिरयं काम आत्मानमितीन्द्रियाणि मनो बुद्धिरस्याधिष्ठानम्॑ एतैरिन्द्रियमनोबुद्धिभिः कामोऽधिष्ठानभूतैर्विषयप्रवणैर्देहिनं प्रकृतिसंसृष्टं ज्ञानमावृत्य विमोहयति विविधं मोहयति, आत्मज्ञानविमुखं विषयानुभवपरं करोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ३.४० ॥ तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ भगवद्गीता३.४१ ॥ यस्मात्सर्वेन्द्रियव्यापारोपरतिरूपे ज्ञानयोगे प्रवृत्तस्यायं कामरूपः शत्रुः विषयाभिमुख्यकरणेन आत्मनि वैमुख्यं करोति, तस्मात्प्रकृतिसंसृष्टतयेन्द्रियव्यापारप्रवणस्त्वमादौ मोक्षोपायारम्भसमय एव, इन्द्रियव्यापाररूपे कर्मयोगे इन्द्रियाणि नियम्य, एनं ज्ञानविज्ञाननाशनम् आत्मस्वरूपविषयस्य ज्ञानस्य तद्विवेकविषयस्य च नाशनं पाप्मानं कामरूपं वैरिणं प्रजहि नाशय ॥ भगवद्गीतारामानुजभाष्य ३.४१ ॥ ज्ञानविरोधिषु प्रधानमाह इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ भगवद्गीता३.४२ ॥ ज्ञानविरोधे प्रधानानीन्द्रियाण्याहुः, यत इन्द्रियेषु विषयव्यापृतेषु आत्मनि ज्ञानं न प्रवर्तते । इन्द्रियेभ्यः परं मनः इन्द्रियेषु उपरतेष्वपि मनसि विषयप्रवणे आत्मज्ञानं न संभवति । मनसस्तु परा बुद्धिः मनसि वृत्त्यन्तरविमुखेऽपि विपरीताध्यवसायप्रवृत्तौ सत्यां ज्ञानं न प्रवर्तते । सर्वेषु बुद्धिपर्यन्तेषु उपरतेष्वपीच्छापर्यायः कामो रजस्समुद्भवो वर्तते चेत्, स एवैतानीन्द्रियादीन्यपि स्वविषये वर्तयित्वा आत्मज्ञानं निरुणद्धि । तदिदमुच्यते, यो बुद्धेः परस्तु सः इति । बुद्धेरपि यः परस्स काम इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ३.४२ ॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ भगवद्गीता३.४३ ॥ एवं बुद्धेरपि परं कामं ज्ञानयोगविरोधिनं वैरिणं बुद्ध्वा आत्मानं मनः आत्मना बुद्ध्या कर्मयोगेऽवस्थाप्य एनं कामरूपं दुरासदं शत्रुं जहि नाशयेति ॥ भगवद्गीतारामानुजभाष्य ३.४३ ॥ ******************** अध्याय ४ ******************** तृतीयेऽध्याये प्रकृतिसंसृष्टस्य मुमुक्षोः सहसा ज्ञानयोगेऽनधिकारात्कर्मयोग एव कार्यः, ज्ञानयोगाधिकारिणोऽप्यकर्तृत्वानुसन्धानपूर्वककर्मयोग एव श्रेयानिति सहेतुकमुक्तम्॑ शिष्टतया व्यपदेश्यस्य तु विशेषतः कर्मयोग एव कार्य इति चोक्तम् । चतुर्थेनेदानीम् अस्यैव कर्मयोगस्य निखिलजगदुद्धरणाय मन्वन्तरादावेवोपदिष्टतया कर्तव्यतां द्रढयित्वा अन्तर्गतज्ञानतयास्यैव ज्ञानयोगाकरतां प्रदर्श्य, कर्मयोगस्वरूपम्, तद्भेदाः, कर्मयोगे ज्ञानांशस्यैव प्राधान्यं चोच्यते । प्रसङ्गाच्च भगवदवतारयाथात्म्यमुच्यते । श्रीभगवानुवाच इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरीक्षवाकवेऽब्रवीत् ॥ भगवद्गीता४.१ ॥ एवं परम्पराप्राप्तमिमं राजर्षयोऽविदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ भगवद्गीता४.२ ॥ स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽस्ति मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ भगवद्गीता४.३ ॥ योऽयं तवोदितो योगः स केवलं युद्धप्रोत्साहनायेदानीमुदित इति न मन्तव्यम् । मन्वन्तरादावेव निखिलजगदुद्धरणाय परमपुरुषार्थलक्षणमोक्षसाधनतया इमं योगमहमेव विवस्वते प्रोक्तवान्, विवस्वांश्च मनवे, मनुरिक्ष्वकवे । इत्येवं संप्रदायपरम्परया प्राप्तमिमं योगं पूर्वे राजर्षयोऽविदुः । स महता कालेन तत्तच्छ्रोतृबुद्धिमान्द्याद्विनष्टप्रायोऽभूत् । स एवायमस्खलितस्वरूपः पुरातनो योगः सख्येनातिमात्रभक्त्या च मामेव प्रपन्नाय ते मया प्रोक्तः सपरिकरस्सविस्तरमुक्त इत्यर्थः । मदन्येन केनापि ज्ञातुं वक्तुं चाशक्यम्, यत इदं वेदान्तोदितमुत्तमं रहस्यं ज्ञानम् ॥ भगवद्गीतारामानुजभाष्य ४.१ ॥२॥३॥ अस्मिन् प्रसङ्गे भगवदवतारयाथात्म्यं यथावज्ज्ञातुमर्जुन उवाच अर्जुन उवाच अवरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ भगवद्गीता४.४ ॥ कालसङ्ख्यया अवरमस्मज्जन्मसमकालं हि भवतो जन्म । विवस्वतश्च जन्म कालसङ्ख्यया परम् अष्टाविंशतिचतुर्युगसङ्ख्यासङ्ख्यातम् । त्वमेवादौ प्रोक्तवानिति कथमेतदसंभावनीयं यथार्थं जानीयाम् ? ननु जन्मान्तरेणापि वक्तुं शक्यम्, जन्मान्तरकृतस्य महतां स्मृतिश्च युज्यत इति नात्र कश्चिद्विरोधः । न चासौ वक्तारमेनं वसुदेवतनयं सर्वेश्वरं न जानाति, यत एवं वक्ष्यति, "परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ आहुस्त्वामृषयस्सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे" इति । युधिष्ठिरराजसूयादिषु भीष्मादिभ्यश्चासकृच्छ्रुतम्, "कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम्" इत्येवमादिषु । कृष्णस्य हि कृते इति, कृष्णस्य शेषभूतमिदं कृत्स्नं जगदित्यर्थः ॥ अत्रोच्यते जानात्येवायं भगवन्तं वसुदेवसूनं पार्थः । जानतोऽप्यजानत इव पृच्छतोऽयमाशयः निखिलहेयप्रत्यनीककल्याणैकतानस्य सर्वेश्वरस्य सर्वज्ञस्य सत्यसङ्कल्पस्यावाप्तसमस्तकामस्य कर्मपरवशदेवमनुष्यादिसजातीयं जन्म किमिन्द्रजालादिवन्मिथ्या, उत सत्यम्? सत्यत्वे च कथं जन्मप्रकारः? किमात्मकोऽयं देहः? कश्च जन्महेतुः? कदा च जन्म? किमर्थं च जन्मेति । परिहारप्रकारेण प्रश्नार्थो विज्ञायते ॥ भगवद्गीतारामानुजभाष्य ४.४ ॥ श्रीभगवानुवाच बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ भगवद्गीता४.५ ॥ अनेन जन्मनस्सत्यत्वमुक्तम्, बहूनि मे व्यतीतानि जन्मानीति वचनात्, तव चेति दृष्टान्ततयोपादानाच्च ॥ भगवद्गीतारामानुजभाष्य ४.५ ॥ अवतारप्रकारम्, देहयाथात्म्यम्, जन्महेतुं चाह अजोऽपि सनव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥ भगवद्गीता४.६ ॥ अजत्वाव्ययत्वसर्वेश्वरत्वादि सर्वं पारमेश्वरं प्रकारमजहदेव स्वां प्रकृतिमधिष्ठाय आत्ममायया संभवामि । प्रकृतिः स्वभावः स्वमेव स्वभावमधिष्ठाय स्वेनैव रूपेण स्वेच्छया संभवामीत्यर्थः । स्वस्वरूपं हि, "आदित्यवर्णं तमसः परस्तात्", "क्षयन्तमस्य रजसः पराके", "य एषोऽन्तरादित्ये हिरण्यमयः पुरुषः", "तस्मिन्नयं पुरुषो मनोमयः॑ अमृतो हिरण्मयः", "सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि" , "भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकामा सर्वकामस्सर्वगन्धस्सर्वरसः", "माहारजनं वासः" इत्यादिश्रुतिसिद्धम् । आत्ममायया आत्मीयया मायया । "माया वयुनं ज्ञानम्" इति ज्ञानपर्यायोऽत्र मायाशब्दः । तथा चाभियुक्तप्रयोगः, "मायया सततं वेत्ति प्राणिनां च शुभाशुभम्" इति । आत्मीयेन ज्ञानेन आत्मसङ्कल्पेनेत्यर्थः । अतोऽपहतपाप्मत्वादिसमस्तकल्याणगुणात्मकत्वं सर्वमैशं स्वभावमजहत्स्वमेव रूपं देवमनुष्यादिसजातीयसंस्थानं कुर्वनात्मसङ्कल्पेन देवादिरूपः संभवामि । तदिदमाह, "अजायमानो बहुधा विजायते" इति श्रुतिः । इतरपुरुषसाधारणं जन्म अकुर्वन् देवादिरूपेण स्वसङ्कल्पेनोक्तप्रक्रियया जायत इत्यर्थः । "बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि", "तदात्मानं सृजाम्यहम्" "जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः" इति पूर्वापराविरोधाच्च ॥ भगवद्गीतारामानुजभाष्य ४.६ ॥ जन्मकालमाह यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ भगवद्गीता४.७ ॥ न कालनियमोऽस्मत्संभवस्य । यदा यदा हि धर्मस्य वेदोदितस्य चातुर्वर्ण्यचातुराश्रम्यव्यवस्थयावस्थितस्य कर्तव्ययस्य ग्लानिर्भवति, यदा यदा च तद्विपर्ययस्याधर्मस्याभ्युत्थानं तदाहमेव स्वसङ्कल्पेनोक्तप्रकारेणात्मानं सृजामि ॥ भगवद्गीतारामानुजभाष्य ४.७ ॥ जन्मनः प्रयोजनमाह परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ भगवद्गीता४.८ ॥ साधवः उक्तलक्षणधर्मशीलाः वैष्णवाग्रेसरा मत्समाश्रयणे प्रवृत्ता मन्नामकर्मस्वरूपाणां वाङ्मनसागोचरतया मद्दर्शनेन विना स्वात्मधारणपोषणादिक्मलभमानाः क्षणमात्रकालं कल्पसहस्रं मन्वानाः प्रतिशिथिलसर्वगात्रा भवेयुरिति मत्स्वरूपचेष्टितावलोकनालापादिदानेन तेषां परित्राणाय तद्विपरीतानां विनाशाय च क्षीणस्य वैदिकस्य धर्मस्य मदाराधनरूपस्याराध्यस्वरूपप्रदर्शनेन स्थापनाय च देवमनुष्यादिरूपेण युगे युगे संभवामि । कृतत्रेतादियुगविशेषनियमोऽपि नास्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.८ ॥ जन्म कर्मं च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ भगवद्गीता४.९ ॥ एवं कर्ममूलहेयत्रिगुणप्रकृतिसंसर्गरूपजन्मरहितस्य सर्वेस्वरत्वसार्वज्ञ्यसत्यसङ्कल्पत्वादिसमस्तकल्याणगुणोपेतस्य साधुपरित्राणमत्समाश्रयणैकप्रयोजनं दिव्यम् अप्राकृतं मदसाधारणं मम जन्म चेष्टितं च तत्त्वतो यो वेत्ति, स वर्तमानं देहं परित्यज्य पुनर्जन्म नैति, मामेव प्राप्नोति । मदीयदिव्यजन्मचेष्टितयाथात्म्यविज्ञानेन विध्वस्तसमस्तमत्समाश्र्यणविरोधिपापः अस्मिन्नेव जन्मनि यथोदितप्रकारेण मामाश्रित्य मदेकप्रियो मदेकचित्तो मामेव प्राप्नोति ॥ भगवद्गीतारामानुजभाष्य ४.९ ॥ तदाह वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावनागताः ॥ भगवद्गीता४.१० ॥ मदीयजन्मकर्मतत्त्वज्ञानाख्येन तपसा पूता बहव एवं संवृत्ताः । तथा च श्रुतिः, "तस्य धीराः परिजानन्ति योनिम्" इति । धीराः धीमतामग्रेसरा एवं तस्य जन्मप्रकारं जानन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.१० ॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ भगवद्गीता४.११ ॥ न केवलं देवमनुष्यादिरूपेणावतीर्य मत्समाश्रयणापेक्षाणां परित्राणं करोमि, अपि तु ये मत्समाश्रयणापेक्षा यथा येन प्रकारेण स्वापेक्षानुरूपं मां संकल्प्य प्रपद्यन्ते समाश्रयन्ते॑ तान् प्रति तथैव तन्मनीषितप्रकारेण भजामि मां दर्शयामि । किमत्र बहुना, सर्वे मनुष्याः मदनुवर्तनैकमनोरथा मम वर्त्म मत्स्वभावं सर्वं योगिनां वाङ्मनसागोचरमपि स्वकीयाइश्चक्षुरादिकरणैः सर्वशः स्वापेक्षितैः सर्वप्रकारैरनुभूयानुवर्त्न्ते ॥ भगवद्गीतारामानुजभाष्य ४.११ ॥ इदानीं प्रासङ्गिकं परिसमाप्य प्रकृतस्य कर्मयोगस्य ज्ञानाकारताप्रकारं वक्तुं तथाविधकर्मयोगाधिकारिणो दुर्लभत्वमाह काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ भगवद्गीता४.१२ ॥ सर्व एव पुरुषाः कर्मणां फलं काङ्क्षमाणाः इन्द्रादिदेवतामात्रं यजन्ते आराधयन्ति, न तु कश्चिदनभिसंहितफलः इन्द्रादिदेवतात्मभूतं सर्वयज्ञानां भोक्तारं मां यजते । कुत एतत्? यतः क्षिप्रस्मिन्नेव मानुषे लोके कर्मजा पुत्रपश्वन्नाद्य्सिद्धिर्भवति । मनुष्यलोकशब्दः स्वर्गादीनामपि प्रदर्शनार्थः । सर्वमेव लौकिकाः पुरुषा अक्षीणानादिकालप्रवृत्तानन्तपापसंचयतया अविवेकिनः क्षिप्रफलाकाङ्क्षिणः पुत्रपश्वन्नाद्यस्वर्गाद्यर्थतया सर्वाणि कर्माणीन्द्रादिदेवताराधनमात्राणि कुर्वते॑ न तु कश्चित्संसारोद्विग्नहृदयो मुमुक्षुः उक्तलक्षणं कर्मयोगं मदाराधनभूतमारभत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.१२ ॥ यथोक्तकर्मयोगारम्भविरोधिपापक्षयहेतुमाह चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ भगवद्गीता४.१३ ॥ चातुर्वर्ण्यप्रमुखं ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत्सत्त्वादिगुणविभागेन तदनुगुणशमादिकर्मविभागेन च विभक्तं मया सृष्टम् । सृष्टिग्रहणं प्रदर्शनार्थम् । मयैव रक्ष्यन्ते, मयैव चोपसंह्रियते । तस्य विचित्रसृष्त्यादेः कर्तारमप्यकर्तारं मां विद्धि ॥ भगवद्गीतारामानुजभाष्य ४.१३ ॥ कथमित्यत्राह न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥ भगवद्गीता४.१४ ॥ यत इमानि विचित्रसृष्ट्यादीनि कर्माणि मां न लिम्पन्ति न मां संबध्नन्ति । न मत्प्रयुक्तानि तानि देवमनुष्यादिवैचित्र्याणि । सृज्यानां पुण्यपापरूपकर्मविशेषप्रयुक्तानीत्यर्थः । अतः प्राप्ताप्राप्तविवेकेन विचित्रसृष्ट्यादेर्नाहं कर्ता॑ यतश्च सृष्टाः क्षेत्रज्ञाः सृष्टिलब्धकरणकलेबराः सृष्टिलब्धं भोग्यजातं फलसङ्गादिहेतुस्वकर्मानुगुणं भुङ्जते॑ सृष्ट्याद्कर्मफले च तेषामेव स्पृहेति ने मे स्पृहा । तथाह सूत्रकारः वैषम्यनैर्घृण्ये न सापेक्षत्वादिति । तथा च भगवान् पराशरः "निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥ निमित्तमात्रं मुक्त्वेदं नान्यत्किंचिदपेक्षते । नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥ भगवद्गीतारामानुजभाष्य ४." इति । सृज्यानां देवादीनां क्षेत्रज्ञानां सृष्टेः कारणमात्रमेवायं परमपुरुषः॑ देवादिवैचित्र्ये तु प्रधानकारणं सृज्यभूतक्षेत्रज्ञानां प्राचीनकर्मशक्तय एव । अतो निमित्तमात्रं मुक्त्वा सृष्टेः कर्तारं परमपुरुषं मुक्त्वा इदं क्षेत्रज्ञवस्तु देवादिविचित्रभावे नान्यदपेक्षते॑ स्वगतप्राचीनकर्मशक्त्या एव हि देवादिवस्तुभावं नीयत इत्यर्थः । एवमुक्तेन प्रकारेण सृष्त्यादेः कर्तारमप्यकर्तारं सृष्ट्यादिकर्मफलसङ्गरहितं च यो मामभिजानाति, स कर्मयोगारम्भविरोधिभिः फलसङ्गादिहेतुभिः प्राचीनकर्मभिर्न संबध्यते । मुच्यत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.१४ ॥ एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥ भगवद्गीता४.१५ ॥ एवं मां ज्ञात्वा विमुक्तपापैः पूर्वैरपि मुमुक्षुभिरुक्तलक्षणं कर्म कृतम् । तस्मात्त्वमुक्तप्रकारमद्विषयज्ञानविधूतपापः पूर्वैर्विवस्वन्मन्वादिभिः कृतं पूर्वतरं पुरातनं तदानीमेव मयोक्तं वक्ष्यमाणाकारं कर्वैव कुरु ॥ भगवद्गीतारामानुजभाष्य ४.१५ ॥ वक्ष्यमाणस्य कर्मणो दुर्ज्ञानतामाह किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ भगवद्गीता४.१६ ॥ मुमुक्षुणानुष्ठेयं कर्म किंरूपम्, अकर्म च किम् । अकर्मेति कर्तुरात्मनो याथात्म्यज्ञानमुच्यते॑ अनुष्ठेयं कर्म तदन्तर्गतं ज्ञानं च किंरूपमित्युभयत्र कवयः विद्वांसोऽपि मोहिताः यथावन्न जानन्ति । एवमन्तर्गतज्ञानं यत्कर्म, तत्ते प्रवक्ष्यामि, यज्ज्ञात्वानुष्ठाय अशुभात् संसारबन्धान्मोक्ष्यसे । कर्तव्यकर्मज्ञानं ह्यनुष्ठानफलम् ॥ भगवद्गीतारामानुजभाष्य ४.१६ ॥ कुतोऽस्य दुर्ज्ञानतेत्याह कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ भगवद्गीता४.१७ ॥ यस्मान्मोक्षसाधनभूते कर्मस्वरूपे बोद्धव्यमस्ति॑ विकर्मणि च । नित्यनैमित्तिककाम्यरूपेण, तत्साधनद्रव्यार्जनाद्याकारेण च विविधतापन्नं कर्म विकर्म । अकर्मणि ज्ञाने च बोद्धव्यमस्ति । गहना दुर्विज्ञाना मुमुक्षोः कर्मणो गतिः ॥ भगवद्गीतारामानुजभाष्य ४.१७ ॥ विकर्मणि बोद्धव्यं नित्यनैमित्तिककाम्यद्रव्यार्जनादौ कर्मणि फलभेदकृतं वैविध्यं परित्यज्य मोक्षैकफलतयैकशास्त्रार्थत्वानुसन्धानम् । तदेतत्"व्यवसायात्मिका बुद्धिरेका" इत्यत्रैवोक्तमिति नेह प्रपञ्च्यते । कर्माकर्मणोर्बोद्धव्यमाह कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ भगवद्गीता४.१८ ॥ अकर्मशब्देनात्र कर्मेतरात्प्रस्तुतमात्मज्ञानमुच्यते । कर्मणि क्रियमाण एवात्मज्ञानं यः पश्येत्, अकर्मणि चात्मज्ञाने वर्तमान एव यः कर्म पश्येत् । किमुक्तं भवति? क्रियमाणमेव कर्म आत्मयाथात्म्यानुसन्धानेन ज्ञानाकारं यः पश्येत्, तच्च ज्ञानं कर्मयोगान्तरगततया कर्माकारं यः पश्येदित्युक्तं भवति । क्रियमाणे हि कर्मणि कर्तृभूतात्मयाथात्म्यानुसन्धाने सति तदुभयं संपन्नं भवति । एवमात्मयाथात्म्यानुसन्धानान्तर्गर्भं कर्म यः पश्येत्, स बुद्धिमान् कृत्स्नशास्त्रार्थवित्,मनुष्येषु स युक्तः मोक्षायार्हः, स एव कृत्स्नकर्मकृत्कृत्स्नशास्त्रार्थकृत् ॥ भगवद्गीतारामानुजभाष्य ४.१८ ॥ प्रत्यक्षेण क्रियमाणस्य कर्मणो ज्ञनाकारता कथमुपपद्यत इत्यत्राह यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ भगवद्गीता४.१९ ॥ यस्य मुमुक्षोः सर्वे द्रव्यार्जनादिलौकिककर्मपूर्वकनित्यनैमित्तिककाम्यरूपकर्मसमारम्भाः कामार्जिताः फलसङ्गरहिताः । सङ्कल्पवर्जिताश्च । प्रकृत्या तद्गुणैश्चात्मानमेकीकृत्यानुसन्धानं सङ्कल्पः॑ प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया तद्रहिताः । तमेवं कर्म कुर्वाणं पण्डितं कर्मान्तर्गतात्मयाथात्म्यज्ञानाग्निना दग्धप्राचीनकर्माणमाहुस्तत्त्वज्ञाः । अतः कर्मणो ज्ञानाकारत्वमुपपद्यते ॥ भगवद्गीतारामानुजभाष्य ४.१९ ॥ एतदेव विवृणोति त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥ भगवद्गीता४.२० ॥ कर्मफलसङ्गं त्यक्त्वा नित्यतृप्तः नित्ये स्वात्म्न्येव तृप्तः, निराश्रयः अस्थिरप्रकृतौ आश्रयबुद्धिरहितो यः कर्माणि करोति, स कर्मण्याभिमुख्येन प्रवृत्तोऽपि नैव किंचित्कर्म करोति कर्मापदेशेन ज्ञानाभ्यासमेव करोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.२० ॥ पुनरपि कर्मणो ज्ञानाकारतैव विशोध्यते निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ भगवद्गीता४.२१ ॥ निराशीः निर्गतफलाभिसन्धिः यतचित्तात्मा यतचित्तमनाः त्यक्तसर्वपरिग्रहः आत्मैकप्रयोजनतया प्रकृतिप्राकृतवस्तुनि ममतारहितः, यावज्जीवं केवलं शारीरमेव कर्म कुर्वन् किल्बिषं संसारं नाप्नोति ज्ञाननिष्ठाव्यवधानरहितकेवलकर्मयोगेनैवंरूपेणात्मानं पश्यतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.२१ ॥ यदृच्छालाभसंतुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ भगवद्गीता४.२२ ॥ यदृच्छोपनतशरीरधारणहेतुवस्तुसन्तुष्टः, द्वन्द्वातीतः यावत्साधनसमाप्त्यवर्जनीयशीतोष्णादिसहः, विमत्सरः अनिष्टोपनिपातहेतुभूतस्वकर्मनिरूपणेन परेषु विगतमत्सरः, समस्सिद्धावसिद्दौ च युद्धादिकर्मसु जयादिसिद्ध्यसिद्ध्योः समचित्तः, कर्मैव कृत्वापि ज्ञाननिष्ठां विनापि न निबध्यते न संसारं प्रतिपद्यते ॥ भगवद्गीतारामानुजभाष्य ४.२२ ॥ गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ भगवद्गीता४.२३ ॥ आत्मविषयज्ञानावस्थितमनस्त्वेन निर्गततदितरसङ्गस्य तत एव निखिलपरिग्रहविनिर्मुक्तस्य उक्तलक्षणयज्ञादिकर्मनिर्वृत्तये वर्तमानस्य पुरुषस्य बन्धहेतुभूतं प्राचीनं कर्म समग्रं प्रविलीयते निश्शेषं क्षीयते ॥ भगवद्गीतारामानुजभाष्य ४.२३ ॥ प्रकृतिवियुक्तात्मस्वरूपानुसन्धानयुक्ततया कर्मणो ज्ञानाकारत्वमुक्तम्॑ इदानीं सर्वस्य सपरिकरस्य कर्मणः परब्रह्मभूतपरमपुरुषात्मकत्वानुसन्धानयुक्ततया ज्ञानाकारत्वमाह ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ भगवद्गीता४.२४ ॥ ब्रह्मार्पणमिति हविर्विशेष्यते । अर्प्यतेऽनेनेत्यर्पणं स्रुगादि । तद्ब्रह्मकार्यत्वाद्ब्रह्म । ब्रह्म यस्य हविषोऽर्पणं तद्ब्रह्मार्पणम्, ब्रह्म हविः ब्रह्मार्पणं हविः । स्वयं च ब्रह्मभूतम्, ब्रह्माग्नौ ब्रह्मभूते अग्नौ ब्रह्मणा कर्त्रा हुतमिति सर्वं कर्म ब्रह्मात्मकतया ब्रह्ममयमिति यः समाधत्ते, स ब्रह्मकर्मसमाधिः, तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ब्रह्मात्मकतया ब्रह्मभूतमात्मस्वरूपं गन्तव्यम् । मुमुक्षुणा क्रियमाणं कर्म परब्रह्मात्मकमेवेत्यनुसन्धानयुक्ततया ज्ञानाकारं साक्षादात्मावलोकनसाधनम्॑ न ज्ञाननिष्ठाव्यधानेनेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.२४ ॥ एवं कर्मणो ज्ञानाकारतां प्रतिपाद्य कर्मयोगभेदानाह दैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ भगवद्गीता४.२५ ॥ दैवं देवार्चनरूपं यज्ञमपरे कर्मयोगिनः पर्युपासते सेवन्ते । तत्रैव निष्ठां कुर्वन्तीत्यर्थः । अपरे ब्रह्माग्नौ यज्ञं यज्ञेनैवोपजुह्वति॑ अत्र यज्ञशब्दो हविस्स्रुगादियज्ञसाधने वर्तते॑ "ब्रह्मार्पणं ब्रह्म हविः" इति न्यायेन यागहोमयोर् निष्ठां कुर्वन्ति ॥ भगवद्गीतारामानुजभाष्य ४.२५ ॥ श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयानन्ये इन्द्रियाग्निषु जुह्वति ॥ भगवद्गीता४.२६ ॥ अन्ये श्रोत्रादीनामिन्द्रियाणां संयमने प्रयतन्ते । अन्ये योगिनः इन्द्रियाणां शब्दादिप्रवणतानिवारणे प्रयतन्ते ॥ भगवद्गीतारामानुजभाष्य ४.२६ ॥ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ भगवद्गीता४.२७ ॥ अन्ये ज्ञानदीपिते मनस्संयनयोगाग्नौ सर्वाणीन्द्रियकर्माणि प्राणकर्माणि च जुह्वति । मनस इन्द्रियप्राणकर्मप्र्वणतानिवारणे प्रयतन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ४.२७ ॥ द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ भगवद्गीता४.२८ ॥ केचित्कर्मयोगिनो द्रव्ययज्ञाः न्यायतो द्रव्याण्युपादाय देवतार्चने प्रयतन्ते, केचिच्च दानेषु, केचिच्च यागेषु, केचिच्च होमेषु । एते सर्वे द्रव्ययज्ञाः । केचित्तपोयज्ञाः कृच्छ्रचान्द्रायणोपवासादिषु निष्ठां कुर्वन्ति । योगयज्ञाश्चापरे पुण्यतीर्थपुण्यस्थानप्राप्तिषु निष्ठां कुर्वन्ति । इह योगशब्दः कर्मनिष्ठाभेदप्रकरणात्तद्विषयः । केचित्स्वाध्यायाभ्यासपराः । केचित्तदर्थज्ञानाभ्यासपराः । यतयः यतनशीलाः, संशितव्रताः दृढसङ्कल्पाः ॥ भगवद्गीतारामानुजभाष्य ४.२८ ॥ अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ भगवद्गीता४.२९ ॥ अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । अपरे कर्मयोगिनः प्राणायामेषु निष्ठां कुर्वन्ति । ते च त्रिविधाः पूरकरेचककुम्भकभेदेन॑ अपाने जुह्वति प्राणमिति पूरकः, प्राणेऽपानमिति रेचकः, प्राणापानगती रुद्ध्वा ..... प्राणान् प्राणेषु जुह्वति इति कुम्भकः । प्राणायामपरेषु त्रिष्वप्यनुषज्यते नियताहारा इति ॥ सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ भगवद्गीता४.३० ॥ यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । दैवयज्ञप्रभृतिप्राणायामपर्यन्तेषु कर्मयोगभेदेषु स्वसमीहितेषु प्रवृत्ता एते सर्वे "सह यज्ञैः प्रजाः सृष्ट्वा" इत्यभिहितमहायज्ञपूर्वकनित्यनैमित्तिककर्मरूपयज्ञविदः तन्निष्ठाः तत एव क्षपितकल्मषाः यज्ञशिष्टामृतेन शरीरधारणं कुर्वन्त एव कर्मयोग व्यापृताः सनातनं ब्रह्म यान्ति ॥ नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ भगवद्गीता४.३१ ॥ अयज्ञस्य महायज्ञादिपूर्वकनित्यमैमित्तिककर्मरहितस्य नायं लोकः न प्राकृतलोकः, प्राकृतलोकसंबन्धिधर्मार्थकामाख्यः पुरुषार्थो न सिध्यति । कुत इतोऽन्यो मोक्षाख्यः पुरुषार्थः? परमपुरुषार्थतया मोक्षस्य प्रस्तुतत्वात्तदितरपुरुषार्थः अयं लोकः इति निर्दिश्यते । स हि प्राकृतः ॥ भगवद्गीतारामानुजभाष्य ४.३१ ॥ एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ भगवद्गीता४.३२ ॥ एवं हि बहुप्रकाराः कर्मयोगाः ब्रह्मणो मुखे वितताः आत्मयाथात्म्यावाप्तिसाधनतया स्थिताः॑ तानुक्तलक्षणानुक्तभेदान् कर्मयोगान् सर्वान् कर्मजान् विद्धि अहरहरनुष्ठीयमाननित्यनैमित्तिककर्मजान् विद्धि । एवं ज्ञात्वा यथोक्तप्रकारेणानुष्ठाय मोक्ष्यसे ॥ भगवद्गीतारामानुजभाष्य ४.३२ ॥ अन्तर्गतज्ञानतया कर्मणो ज्ञानाकारत्वमुक्तम्॑ तत्रान्तर्गतज्ञाने कर्मणि ज्ञानांशस्यैव प्राधान्यमाह श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ भगवद्गीता४.३३ ॥ उभयाकारे कर्मणि द्रव्यमयादंशाज्ज्ञानमयांशः श्रेयान्॑ सर्वस्य कर्मणः तदितरस्य चाखिलस्योपादेयस्य ज्ञाने परिसमाप्तेः तदेव सर्वैस्साधनैः प्राप्यभूतं ज्ञानं कर्मान्तर्गतत्वेनाभ्यस्यते । तदेव अभ्यस्यमानं क्रमेण प्राप्यदशां प्रतिपद्यते ॥ भगवद्गीतारामानुजभाष्य ४.३३ ॥ तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ भगवद्गीता४.३४ ॥ तदत्मविषयं ज्ञानं "अविनाशि तु तद्विद्धि" इत्यारभ्य "एषा तेऽभिहिता" इत्यन्तेन मयोपदिष्टम्, "तद्युक्तकर्मणि वर्तमानत्वं विपाकानुगुणं काले काले प्रणिपातपरिप्रश्नसेवादिभिर्विशदाकारं ज्ञानिभ्यो विद्धि । साक्षात्कृतात्मस्वरूपास्तु ज्ञानिनः प्रणिपातादिभ्यस्सेविताः ज्ञानबुभुत्सया परितः पृच्छतस्तवाशयमालक्ष्य ज्ञानमुपदेक्ष्यन्ति ॥ भगवद्गीतारामानुजभाष्य ४.३४ ॥ आत्मयाथात्म्यविषयस्य ज्ञानस्य साक्षात्काररूपस्य लक्षणमाह यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ भगवद्गीता४.३५ ॥ यज्ज्ञानं ज्ञात्वा पुनरेवं देवाद्यात्माभिमानरूपं तत्कृतं ममताद्यास्पदं च मोहं न यास्यसि, येन च देवमनुष्याद्याकारेणानुसन्हितानि सर्वाणि भूतानि स्वात्मन्येव द्रक्ष्यसि, यतस्तवान्येषां च भूतानां प्रकृतिवियुक्तानां ज्ञानैकाकारतया साम्यम् । प्रकृतिसंसर्गदोषविनिर्मुक्तमात्मरूपं सर्वं सममिति च वक्ष्यते, "निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः" इति । अथो मयि सर्वभूतान्यशेषेण द्रक्ष्यसि, मत्स्वरूपसाम्यात्परिशुद्धस्य सर्वस्यात्मवस्तुनः । "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः" इति हि वक्ष्यते । तथा, "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इत्येवमादिषु नामरूपविनिर्मुक्तस्यात्मवस्तुनः परस्वरूपसाम्यमवगम्यते । अतः प्रकृतिविनिर्मुक्तं सर्वमात्मवस्तु परस्परं समं सर्वेश्वरेण च समम् ॥ भगवद्गीतारामानुजभाष्य ४.३५ ॥ अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ भगवद्गीता४.३६ ॥ यद्यपि सर्वेभ्यः पापेभ्यः पापकृत्तमोऽसि, सर्वं पूर्वार्जितं वृजिनरूपं समुद्रमात्मविषयज्ञानरूपप्लवेनैव संतरिष्यसि ॥ भगवद्गीतारामानुजभाष्य ४.३६ ॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ भगवद्गीता४.३७ ॥ सम्यक्प्रवृद्धोऽग्निरिन्धनसञ्चयमिव, आत्मयाथात्म्यज्ञानरूपोऽग्निर्जीवात्मगतमनादिकालप्रवृत्तानन्तकर्मसञ्चयं भस्मीकरोति ॥ भगवद्गीतारामानुजभाष्य ४.३७ ॥ न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ भगवद्गीता४.३८ ॥ यस्मादात्मज्ञानेन सदृशं पवित्रं शुद्धिकरमिह जगति वस्त्वन्तरं न विद्यते, तस्मादात्मज्ञानं सर्वपापं नाशयतीत्यर्थः । तत्तथाविधं ज्ञानं यथोपदेशमहरहरनुष्ठीयमानज्ञानाकारकर्मयोगसंसिद्धः कालेन स्वात्मनि स्वयमेव लभते ॥ भगवद्गीतारामानुजभाष्य ४.३८ ॥ तदेव विस्पष्टमाह श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ भगवद्गीता४.३९ ॥ एवमुपदेशाज्ज्ञानं लब्ध्वा चोपदिष्टज्ञानवृद्धौ श्रद्धावान् तत्परः तत्रैव नियतमनाः तदितरविषयात्संयतेन्द्रियोऽचिरेण कालेनोक्तलक्षणविपाकदशापन्नं ज्ञानं लभते, तथाविधं ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति परं निर्वाणमाप्नोति ॥ भगवद्गीतारामानुजभाष्य ४.३९ ॥ अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ भगवद्गीता४.४० ॥ अज्ञः एवमुपदेशलब्धज्ञानरहितः, उपदिष्टज्ञानवृद्ध्युपाये चाश्रद्धधानः अत्वरमाणः, उपदिष्टे च ज्ञाने संशयात्मा संशयमनाः विनश्यति विनष्टो भवति । अस्मिन्नुपदिष्टे आत्मयाथात्म्यविषये ज्ञाने संशयात्मनोऽयमपि प्राकृतो लोको नास्ति, न च परः । धर्मार्थकामरूपपुरुषार्थाश्च न सिध्यन्ति, कुतो मोक्ष इत्यर्थः॑ शास्त्रीयकर्मसिद्धिरूपत्वात्सर्वेषां पुरुषार्थानाम्, शास्त्रीयकर्मजन्यसिद्धेश्च देहातिरिक्तात्मनिश्चयपूर्वकत्वात् । अतः सुखलवभागित्वमात्मनि संशयात्मनो न संभवति ॥ भगवद्गीतारामानुजभाष्य ४.४० ॥ योगसंन्यस्तकर्माणं ज्ञानसंच्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ भगवद्गीता४.४१ ॥ यथोपदिष्टयोगेन संन्यस्तकर्माणं ज्ञानाकारतापन्नकर्माणं यथोपदिष्टेन चात्मज्ञानेन आत्मनि संच्छिन्नसंशयम्, आत्मवन्तं मनस्विनम् उपदिष्टार्थे दृढावस्थितमनसं बन्धहेतुभूतप्राचीनानन्तकर्माणि न निबध्नन्ति ॥ भगवद्गीतारामानुजभाष्य ४.४१ ॥ तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ भगवद्गीता४.४२ ॥ तस्मादनाद्यज्ञानसंभूतं हृत्स्थमात्मविषयं संशयं मयोपदिष्टेनात्मज्ञानासिना छित्त्वा मयोपदिष्टं कर्मयोगमातिष्ठ॑ तदर्थमुत्तिष्ठ भारतेति ॥ भगवद्गीतारामानुजभाष्य ४.४२ ॥ ******************** अध्याय ५ ******************** चतुर्थेऽध्याये कर्मयोगस्य ज्ञानाकारतापूर्वकस्वरूपभेदो ज्ञानांशस्य च प्राधान्यमुक्तम्॑ ज्ञानयोगाधिकारिणोऽपि कर्मयोगस्यान्तर्गतात्मज्ञानत्वादप्रमादत्वात्सुकरत्वान्निरपेक्षत्वाच्च ज्यायस्त्वं तृतीय एवोक्तम् । इदानीं कर्मयोगस्यात्मप्राप्तिसाधनत्वे ज्ञाननिष्ठायाश्शैघ्र्यं कर्मयोगान्तर्गताकर्ट्र्त्वानुसन्धानप्रकारं च प्रतिपाद्य तन्मूलं ज्ञानं च विशोध्यते ॥ अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ भगवद्गीता५.१ ॥ कर्मणां संन्यासं ज्ञानयोगं पुनः कर्मयोगं च शंससि । एतदुक्तं भवति द्वितीयेऽध्याये मुमुक्षोः प्रथमं कर्मयोग एव कार्यः, कर्मयोगेन मृदितान्तःकरणकषायस्य ज्ञानयोगेनात्मदर्शनं कार्यमिति प्रतिपाद्य पुनस्तृतीयचतुर्थयोः ज्ञानयोगाधिकारदशापन्नस्यापि कर्मनिष्ठैव ज्यायसी, सैव ज्ञाननिष्ठानिरपेक्षा आत्मप्राप्तौ साधनमिति कर्मनिष्ठां प्रशंशसि इति । तत्रैतयोर्ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावे यदेकं सौकार्यच्छैघ्र्याच्च श्रेयः श्रेष्ठमिति सुनिश्चितम्, तन्मे ब्रूहि ॥ भगवद्गीतारामानुजभाष्य ५.१ ॥ श्रीभगवानुवाच संन्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ । तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ भगवद्गीता५.२ ॥ संन्यासः ज्ञानयोगः, कर्मयोगश्च ज्ञानयोगशक्तस्याप्युभौ निरपेक्षौ निश्श्रेयसकरौ । तयोस्तु कर्मसंन्यासाज्ज्ञानयोगात्कर्मयोग एव विशिष्यते ॥ भगवद्गीतारामानुजभाष्य ५.२ ॥ कुत इत्यत्राह ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ भगवद्गीता५.३ ॥ यः कर्मयोगी तदन्तर्गतात्मानुभवतृप्तस्तद्व्यतिरिक्तं किमपि न काङ्क्षति, तत एव किमपि न द्वेष्टि, तत एव द्वन्द्वसहश्च॑ स नित्यसंन्यासी नित्यज्ञाननिष्ठ इति ज्ञेयः । स हि सुकरकर्मयोगनिष्ठतया सुखं बन्धात्प्रमुच्यते ॥ भगवद्गीतारामानुजभाष्य ५.३ ॥ ज्ञानयोगकर्मयोगयोरात्मप्राप्तिसाधनभावेऽन्योन्यनैरपेक्ष्यमाह सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितस्सम्यगुभयोर्विन्दन्ते फलम् ॥ भगवद्गीता५.४ ॥ ज्ञानयोगकर्मयोगौ फलभेदात्पृथग्भूतौ ये प्रवदन्ति, ते बालाः अनिष्पन्नज्ञानाः न पण्डिताः अकृत्स्नविदः । कर्मयोगो ज्ञानयोगमेव साधयति॑ ज्ञानयोगस्त्वेक आत्मावलोकनं साधयतीति तयोः फलभेदेन पृथक्त्वं वदन्तो न पण्डिता इत्यर्थः । उभयोरात्मावलोकनैकफलयोरेकफलत्वेन एकमप्यास्थितस्तदेव फलं लभते ॥ भगवद्गीतारामानुजभाष्य ५.४ ॥ एतदेव विवृणोति यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥ भगवद्गीता५.५ ॥ सांख्यैः ज्ञाननिष्ठैः । यदत्मावलोकनरूपं फलं प्राप्यते, तदेव कर्मयोगनिष्ठैरपि प्राप्यते । एवमेकफलत्वेन एकं वैकल्पिकं सांख्यं योगं च यः पश्यति, स पश्यति स एव पण्डित इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.५ ॥ इयान् विशेष इत्याहा संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ भगवद्गीता५.६ ॥ संन्यासः ज्ञानयोगस्तु अयोगतः कर्मयोगाद्र्ते प्राप्तुमशक्यः॑ योगयुक्तः कर्मयोगयुक्तः स्वयमेव मुनिः आत्ममननशीलः सुखेन कर्मयोगं साधयित्वा न चिरेण अल्पेनैव कालेन ब्रह्माधिगच्छति आत्मानं प्राप्नोति । ज्ञानयोगयुक्तस्तु महता दुःखेन ज्ञानयोगं साधयति॑ दुःखसाध्यत्वादात्मानं चिरेण प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.६ ॥ योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ भगवद्गीता५.७ ॥ कर्मयोगयुक्तस्तु शास्त्रीये परमपुरुषाराधनरूपे विशुद्धे कर्मणि वर्तमानः तेन विशुद्धमनाः विजितात्मा स्वाभ्यस्ते ते कर्मणि व्यापृतमनस्त्वेन सुखेन विजितमनाः , तत एव जितेन्दियः कर्तुरात्मनो याथात्म्यानुसन्धाननिष्ठतया सर्वभूतात्मभूतात्मा सर्वेषां देवादिभूतानामात्मभूत आत्मा यस्यासौ सर्वभूतात्मभूतात्मा । आत्मयाथात्म्यमनुसन्धानस्य हि देवादीनां स्वस्य चैकाकार आत्मा॑ देवादिभेदानां प्रकृतिपरिणामविशेषरूपतयात्माकारत्वासंभवात् । प्रकृतिवियुक्तः सर्वत्र देवादिदेहेषु ज्ञानैकाकारतया समानाकार इति "निर्दोषं हि समं ब्रह्म" इति अनन्तरमेव वक्ष्यते । स एवंभूतः कर्म कुर्वन्नपि अनात्मन्यात्माभिमानेन न लिप्यते न संबध्यते । अतोऽचिरेणात्मानं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.७ ॥ यतः सौकर्याच्छैघ्र्याच्च कर्मयोग एव श्रेयान्, अतस्तदपेक्षितं शृणु नैष किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यन् शृण्वन् स्पृशन् जिघ्रनश्नन् गच्छन् स्वपन् श्वसन् ॥ भगवद्गीता५.८ ॥ प्रलपन् विसृजन् गृह्णनुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ भगवद्गीता५.९ ॥ एवमात्मतत्त्वविच्श्रोत्रादीनि ज्ञानेन्द्रियाणि, वागादीनि च कर्मेन्द्रियाणि, प्रणाश्च स्वविषयेषु वर्तन्त इति धारयननुसन्धानः नाहं किंचित्करोमीति मन्येत ज्ञानैकस्वभावस्य मम कर्ममूलेन्द्रियप्राणसंबन्धकृतमीदृशं कर्तृत्वम्॑ न स्वरूपप्रयुक्तमिति मन्येतेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.८ ॥९॥ ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ भगवद्गीता५.१० ॥ ब्रह्मशब्देन प्रकृतिरिहोच्यते । "मम योनिर्महद्ब्रह्म" इति हि वक्ष्यते । इन्द्रियाणां प्रकृतिपरिणामविशेषरूपत्वेन इन्द्रियाकारेणावस्थितायां प्रकृतौ "पश्यञ्छृण्वन्" इत्याद्युक्तप्रकारेण कर्माण्याधाय, फलसङ्गं त्यक्त्वा, नैव किंचित्करोमीति यः कर्माणि करोति, स प्रकृतिसंसृष्टतया वर्तमानोऽपि प्रकृत्यात्माभिमानरूपेण बन्धहेतुना पापेन न लिप्यते । पद्मपत्रमिवाम्भसा यथा पद्मपत्रमम्भसा संसृष्टमपि न लिप्यते, तथा न लिप्यत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.१० ॥ कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ भगवद्गीता५.११ ॥ कायमनोबुद्धीन्द्रियसाध्यं कर्म स्वर्गादिफलसङ्गं त्यक्त्वा योगिन आत्मविशुद्धये कुरन्ति॑ आत्मगतप्राचीनकर्मबन्धविनाशाय कुर्वन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.११ ॥ युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ भगवद्गीता५.१२ ॥ युक्तः आत्मव्यतिरिक्तफलेष्वचपलः आत्मैकप्रवणः, कर्मफलं त्यक्त्वा केवलमात्मशुद्धये कर्मानुष्ठाय नैष्ठिकीं शान्तिमाप्नोति स्थिरामात्मानुभवरूपां निर्वृतिमाप्नोति । अयुक्तः आत्मव्यतिरिक्तफलेषु चपलः आत्मावलोकनविमुखः कामकारेण फले सक्तः कर्माणि कुर्वन्नित्यं कर्मभिर्बध्यते नित्यसंसारी भवति । अतः फलसङ्गरहितः इन्द्रियाकारेण परिणतायां प्रकृतौ कर्माणि संन्यस्य आत्मनो बन्धमोचनायैव कर्माणि कुर्वीतेत्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य ५.१२ ॥ अथ देहाकारेण परिणतायां प्रकृतौ कर्तृत्वसंन्यास उच्यते सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ भगवद्गीतारामानुजभाष्य ५.१३ ॥ आत्मनः प्राचीनकर्ममूलदेहसंबन्धप्रयुक्तमिदं कर्मणां कर्तृत्वम्॑ न स्वरूपप्रयुक्तमिति विवेकविषयेण मनसा सर्वाणि कर्माणि नवद्वारे पुरे संन्यस्य देही स्वयं वशी देहाधिष्ठानप्रयत्नमकुर्वन् देहं च नैव कारयन् सुखमास्ते ॥ भगवद्गीतारामानुजभाष्य ५.१३ ॥ साक्षादात्मनः स्वाभाविकं रूपमाह न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ भगवद्गीता५.१४ ॥ अस्य देवतिर्यङ्मनुष्यस्थावरात्मना प्रकृतिसंसर्गेण वर्तमानस्य लोकस्य देवाद्यसाधारणं कर्तृत्वं तत्तदसाधारणानि कर्माणि तत्तत्कर्मजन्यदेवादिफलसंयोगं च, अयं प्रभुः अकर्मवश्यः स्वाभाविकस्वरूपेणावस्थित आत्मा न सृजति नोत्पादयति । कस्तर्हि? स्वभावस्तु प्रवर्तते । स्वभावः प्रकृतिवासना । अनादिकालप्रवृत्तपूर्वपूर्वकर्मजनितदेवाद्याकारप्रकृतिसंसर्गकृततत्तदात्माभिमानजनितवासनाकृतमीदृशं कर्तृत्वादिकं सर्वम्॑ न स्वरूपप्रयुक्तमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.१४ ॥ नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ भगवद्गीता५.१५ ॥ कस्यचित्स्वसंबन्धितयाभिमतस्य पुत्रादेः पापं दुःखं नादत्ते नापनुदति । कस्यचित्प्रतिकूलतयाभिमतस्य सुकृतं सुखं च नादत्ते नापनुदति । यतोऽयं विभुः॑ न क्वाचित्कः, न देवादिदेहाद्यसाधारणदेशः, अत एव न कस्यचित्संबन्धी, न कस्यचित्प्रतिकूलश्च । सर्वमिदं वासनाकृतम् । एवंस्वभावस्य कथमियं विपरीतवासना उत्पद्यते? अज्ञानेनावृतं ज्ञानं ज्ञानविरोधिना पूर्वपूर्वकर्मणा स्वफलानुभवयोग्यत्वाय अस्य ज्ञानमावृतं संकुचितम् । तेन ज्ञानावरणरूपेण कर्मणा देवादिदेहसंयोगस्तत्तदात्माभिमानरूपमोहश्च जायते । ततश्च तथाविधात्माभिमानवासना, तदुचितकर्मवासना च॑ वासनातो विपरीतात्माभिमानः, कर्मारम्भश्चोपपद्यते ॥ भगवद्गीतारामानुजभाष्य ५.१५ ॥ "सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यति ।", "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा", "न हि ज्ञानेन सदृशं पवित्रम्" इति पूर्वोक्तं स्वकाले संगमयति ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ भगवद्गीता५.१६ ॥ एवं वर्तमानेषु सर्वेष्वात्मसु येषामात्मनामुक्तलक्षणेन आत्मयाथात्म्योपदेशजनितेन आत्मविषयेण अहरहरभ्यासाधेयातिशयेन निरतिशयपवित्रेण ज्ञानेन तत् ज्ञानावरणमनादिकालप्रवृत्तानन्तकर्मसंचयरूपमज्ञानं नाशितम्, तेषां तत्स्वाभाविकं परं ज्ञानमपरिमितमसंकुचितमादित्यवत्सर्वं यथावस्थितं प्रकाशयति । तेषामिति विनष्टाज्ञानानां बहुत्वाभिमानादात्मस्वरूपबहुत्वम्, "न त्वेवाहं जातु नासम्" इत्युपक्रमावगतमत्र स्पष्टतरमुक्तम् । न चेदं बहुत्वमुपाधिकृतम्॑ विनष्टाज्ञानानामुपाधिगन्धाभावात् । "तेषामादित्यवज्ज्ञानम्" इति व्यतिरेकनिर्देशाज्ज्ञानस्य स्वरूपानुबन्धिधर्मत्वमुक्तम् । आदित्यदृष्टान्तेन च ज्ञातृज्ञानयोः प्रभाप्रभावतोरिवावस्थानं च । तत एव संसारदशायां ज्ञानस्य कर्मणा संकोचो मोक्षदशायां विकासश्चोपपन्नः ॥ भगवद्गीतारामानुजभाष्य ५.१६ ॥ तद्बुद्धयस्तदात्मनस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ भगवद्गीता५.१७ ॥ तद्बुद्धयः तथाविधात्मदर्शनाध्यवसायाः, तदात्मानः तद्विषयमनसः, तन्निष्ठाः तदभ्यासनिरताः, तत्परायणाः तदेव परमप्रयोजनमिति मन्वानाः, एवमभ्यस्यमानेन ज्ञानेन निर्धूतप्राचीनकल्मषाः तथाविधमात्मनमपुनरावृत्तिं गच्छन्ति । यदवस्थादात्मनः पुनरावृत्तिर्न विद्यते, स आत्मा अपुनरावृत्तिः । स्वेन रूपेणावस्थितमात्मानं गच्छन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.१७ ॥ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ भगवद्गीता५.१८ ॥ विद्याविनयसंपन्ने, केवलब्राह्मणे, गोहस्तिश्वश्वपचादिषु अत्यन्तविषमाकारतया प्रतीयमानेषु आत्मसु पण्डिताः आत्मयाथात्म्यविदः, ज्ञानैकाकारतया सर्वत्र समदर्शिनः विषमाकारस्तु प्रकृतेः, नात्मनः॑ आत्मा तु सर्वत्र ज्ञानैकाकारतया सम इति पश्यन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.१८ ॥ इहैव तैर्जितस्स्वर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ भगवद्गीता५.१९ ॥ इहैव साधनानुष्ठानदशायामेव तैः सर्गो जितः संसारो जितः॑ येषामुक्तरीत्या सर्वेष्वात्मसु साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म । प्रकृतिसंसर्गदोषवियुक्ततया सममात्मवस्तु हि ब्रम्ह । आत्मसाम्ये स्थिताश्चेद्ब्रह्मणि स्थिता एव ते॑ ब्रह्मणि स्थितिरेव हि स्ंसारजयः । आत्मसु ज्ञानैकाकारतया साम्यमेवानुसन्धाना मुक्ता एवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.१९ ॥ येन प्रकारेणावथितस्य कर्मयोगिनः समदर्शनरूपो ज्ञनविपाको भवति, तं प्रकारमुपदिशति न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ भगवद्गीता५.२० ॥ यादृशदेहस्थस्य यदवस्थस्य प्राचीनकर्मवासनया यत्प्रियं भवति, यच्चाप्रियम्, तदुभयं प्राप्य हर्षोद्वेगौ न कुर्यात् । कथम्? स्थिरबुद्धिः स्थिरे आत्मनि बुद्धिर्यस्य सः स्थिरबुद्धिः, असंमूढो अस्थिएण शरीरेण स्थिरमात्मानमेकीकृत्य मोहः संमोहः॑ तद्रहितः । तच्च कथम्? ब्रह्मविद्ब्रह्मणि स्थितः । उपदेशेन ब्रह्मवित्सन् तस्मिन् ब्रह्मण्यभ्यासयुक्तः । एतदुक्तं भवति तत्त्वविदामुपदेशेन आत्मयाथात्म्यविद्भूत्वा तत्रैव यतमानो देहात्माभिमानं परित्यज्य स्थिररूपात्मावलोकनप्रियानुभवे व्यवस्थितः अस्थिरे प्राकृते प्रियाप्रिये प्राप्य हर्षोदेवेगौ न कुर्यादिति ॥ भगवद्गीतारामानुजभाष्य ५.२० ॥ बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यः सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ भगवद्गीता५.२१ ॥ एवमुक्तेन प्रकारेण बाह्यस्पर्शेषु आत्मव्यतिरिक्तविषयानुभवेषु, असक्तात्मा असक्तमनाः अन्तरात्मन्येव यः सुखं विन्दति लभते, स प्रकृत्यभ्यासं विहाय ब्रह्मयोगयुक्तात्मा ब्रह्माभ्यासयुक्तमनाः ब्रह्मानुभवरूपमक्षयं सुखं प्राप्नोति ॥ भगवद्गीतारामानुजभाष्य ५.२१ ॥ प्राकृतस्य भोगस्य सुत्यजतामाह ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ भगवद्गीता५.२२ ॥ विषयेन्द्रियस्पर्शजाः ये भोगाः दुःखयोनयस्ते दुःखोदर्काः । आद्यन्तवन्तः अल्पकालवर्तिनो हि उपलभ्यन्ते । न तेषु तद्याथात्म्यविद्रमते ॥ भगवद्गीतारामानुजभाष्य ५.२२ ॥ शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ भगवद्गीता५.२३ ॥ शरीरविमोक्षणात्प्राकिह्+एव साधनानुष्ठानदशायमेव आत्मानुभवप्रीत्या कामक्रोधोद्भवं वेगं सोढुं निरोद्धुं यः शक्नोति, स युक्तः आत्मानुभवायार्हः । स एव शरीरविमोक्षोत्तरकालमात्मानुभवैकसुखस्संपत्स्यते ॥ भगवद्गीतारामानुजभाष्य ५.२३ ॥ योऽन्तस्सुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स योगी ब्रह्म निर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ भगवद्गीता५.२४ ॥ यो बाह्यविषयानुभवं सर्वं विहाय अन्तस्सुखः आत्मानुभवैकसुखः, अन्तरारामः आत्मैकोद्यानः स्वगुणैरात्मैव सुखवर्धको यस्य स तथोक्तः, तथान्तर्ज्योतिः आत्मैकज्ञानो यो वर्तते, स ब्रह्मभूतो योगी ब्रह्मनिर्वाणमात्मानुभवसुखं प्राप्नोति ॥ भगवद्गीतारामानुजभाष्य ५.२४ ॥ लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानस्सर्वभूतहिते रताः ॥ भगवद्गीता५.२५ ॥ च्छिन्नद्वैधाः शीतोष्णादिद्वन्द्वैर्विमुक्ताः, यतात्मानः आत्मन्येव नियमितमनसः, सर्वभूतहिते रताः आत्मवत्सर्वेषां भूतानां हितेष्वेव निरताः, ऋषयः द्रष्टारः आत्मावलोकनपराः, य एवम्भूतास्ते क्षीणाशेषात्मप्राप्तिविरोधिकल्मषाः ब्रह्मनिर्वाणं लभन्ते ॥ भगवद्गीतारामानुजभाष्य ५.२५ ॥ उक्तलक्षणानां ब्रह्म अत्यन्तसुलभमित्याह कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥ भगवद्गीता५.२६ ॥ कामक्रोध्वियुक्तानां यतीनां यतनशीलानां यतचेतसां नियमितमनसां विजितात्मनां विजितमनसां, ब्रह्मनिर्वाणमभितो वर्तते । एवंभूतानां हस्तस्थं ब्रह्मनिर्वाणमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.२६ ॥ उक्तं कर्मयोगं स्वलक्ष्यभूतयोगशिरस्कमुपसंहरति स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ भगवद्गीता५.२७ ॥ यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ भगवद्गीता५.२८ ॥ बाह्यान् विषयस्पर्शान् बहिः कृत्वा बाह्येन्द्रियव्यापारं सर्वमुपसंहृत्य, योगयोग्यासने ऋजुकाय उपविश्य चक्षुषी भ्रुवोरन्तरे नासाग्रे विन्यस्य नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा उच्छ्वासनिश्वासौ समगती कृत्वा आत्मावलोकनादन्यत्र प्रवृत्त्यनर्हेन्द्रियमनोबुद्धिः, तत एव विगतेच्छाभयक्रोधः, मोक्षपरायणः मोक्षैकप्रयोजनः, मुनिः आत्मावलोकनशीलः यः, सः सदा मुक्त एव साध्यदशायामिव साधनदशायामपि मुक्त एवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ५.२७ ॥२८॥ उक्तस्य नित्यनैमित्तिककर्मेतिकर्तव्यताकस्य कर्मयोगस्य योगशिरस्कस्य सुशकतामाह भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ भगवद्गीता५.२९ ॥ यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिमृच्छति, कर्मयोगकरण एव सुखमृच्छति । सर्वलोकमहेश्वरं सर्वेषां लोकेश्वराणामपीश्वरम्॑ "तमीश्वराणां परमं महेश्वरम्" इति हि श्रूयते । मां सर्वलोकमहेश्वरं सर्वसुहृदं ज्ञात्वा मदाराधनरूपः कर्मयोग इति सुखेन तत्र प्रवर्तत इत्यर्थः॑ सुहृद आराधनाय हि सर्वे प्रवर्तन्ते ॥ भगवद्गीतारामानुजभाष्य ५.२९ ॥ ******************** अध्याय ६ ******************** श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यसी च योगी च न निरग्निर्न चाक्रियः ॥ भगवद्गीता६.१ ॥ उक्तः कर्मयोगः सपरिकरः, इदानीं ज्ञानयोगकर्मयोगसाध्यात्मावलोकनरूपयोगाभ्यासविधिरुच्यते । तत्र कर्मयोगस्य निरपेक्षयोगसाधनत्वं द्रढयितुं ज्ञानाकारः कर्मयोगो योगशिरस्कोऽनूद्यते । कर्मफलं स्वर्गादिकमनाश्रितः, कार्यं कर्मानुष्ठानमेव कार्यम्, सर्वात्मनास्मत्सुहृद्भूतपरमपुरुषाराधनरूपतया कर्मैव मम प्रयोजनम्, न तत्साध्यं किंचिदिति यः कर्म करोति॑ स संन्यासी च ज्ञानयोगनिष्ठश्च॑ योगी च कर्मयोगनिष्ठश्च॑ आत्मावलोकनरूपयोगसाधनभूतोभयनिष्ठ इत्यर्थः । न निरग्निर्न चाक्रियः न चोदितयज्ञादिकर्मस्वप्रवृत्तः, न च केवलज्ञाननिष्ठः । तस्य हि ज्ञननिष्ठैव, कर्मयोगनिष्ठस्य तूभयमस्तीत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य ६.१ ॥ उक्तलक्षणकर्मयोगे ज्ञानमप्यस्तीत्याह यं संन्यास इति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ भगवद्गीता६.२ ॥ यं संन्यास इति ज्ञानयोग इति, आत्मयाथात्म्यज्ञानमिति प्राहुः, तं कर्मयोगमेव विद्धि । तदुपपादयति न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन । आत्मयाथात्म्यानुसन्धानेन अनात्मनि प्रकृतौ आत्मसङ्कल्पः संन्यस्तः परित्यक्तो येन स संन्यस्तसङ्कल्पः॑ अनेवंभूतः असंन्यस्तसङ्कल्पः । न ह्युक्तेषु कर्मयोगिष्वनेवंभूतः कश्चन कर्मयोगी भवति॑ "यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः" इति ह्युक्तम् ॥ भगवद्गीतारामानुजभाष्य ६.२ ॥ कर्मयोग एवाप्रमादेन योगं साधयतीत्याह आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ भगवद्गीता६.३ ॥ योगमात्मावलोकनं प्राप्तुमिच्छोर्मुमुक्षोः कर्मयोग एव कारणमुच्यते । तस्यैव योगारूढस्य प्रतिष्ठितयोगस्यैव, शमः कर्मनिवृत्तिः कारणमुच्यते । यावदात्मावलोकनरूपमोक्षावाप्ति कर्म कार्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ६.३ ॥ कदा प्रतिष्ठितयोगो भवतीत्यत्राह यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ भगवद्गीता६.४ ॥ यदायं योगी त्वात्मैकानुभवस्वभावतया इन्द्रियार्थेषु आत्मव्यतिरिक्तप्राकृतविषयेषु, तत्संबन्धिषु च कर्मसु नानुषज्जते न सङ्गमर्हति, तदा हि सर्वसङ्कल्पसन्न्यासी योगारूढ इत्युच्यते । तस्मादारुरुक्षोर्विषयानुभवार्हतया तदननुषङ्गाभ्यासरूपः कर्मयोग एव योगनिष्पत्तिकारणम् । अतो विषयाननुषङ्गाभ्यासरूपं कर्मयोगमेव आरुरुक्षुः कुर्यात् ॥ भगवद्गीतारामानुजभाष्य ६.४ ॥ तदेवाह उद्धरेदात्मनात्मानं नात्मानमवसादयेत् । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ भगवद्गीता६.५ ॥ आत्मना मनसा॑ विषयाननुषक्तेन आत्मानमुद्धरेत् । तद्विपरीतेन मनसा आत्मानं नावसादयेत् । आत्मैव मन एव ह्यात्मनो बन्धुः॑ तदेवात्मनो रिपुः ॥ भगवद्गीतारामानुजभाष्य ६.५ ॥ बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः । अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ भगवद्गीता६.६ ॥ येन पुरुषेण स्वेनैव स्वमनो विषयेभ्यो जितम्, तन्मनस्तस्य बन्धुः । अनात्मनः अजितमनसः स्वकीयमेव मनः स्वस्य शत्रुवच्शत्रुत्वे वर्तेत स्वनिश्श्रेयसविपरीते वर्तेतेत्यर्थः । यथोक्तं भगवता पराशरेणापि, "मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासङ्गि मुक्त्यैव निर्विषयं मनः ॥ भगवद्गीतारामानुजभाष्य ६." इति ॥६॥ योगारम्भयोग्या अवस्थोच्यते जितात्मनः प्रशान्तस्य परमात्मा समाहितः । शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥ भगवद्गीता६.७ ॥ शीतोष्णसुखदुःखेषु मानावमानयोश्च जितात्मनः जितमनसः विकाररहितमनसः प्रशान्तस्य मनसि परमात्मा समाहितः सम्यगाहितः । स्वरूपेणावस्थितः प्रत्यगात्मात्र परमात्मेत्युच्यते॑ तस्यैव प्रकृतत्वात् । तस्यापि पूर्वपूर्वावस्थापेक्षया परमात्मत्वात् । आत्मा परं समाहित इति वान्वयः ॥ भगवद्गीतारामानुजभाष्य ६.७ ॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ भगवद्गीता६.८ ॥ ज्ञानविज्ञानतृप्तात्मा आत्मस्वरूपविषयेण ज्ञानेन, तस्य च प्रकृतिविसजातीयाकारविषयेण ज्ञानेन च तृप्तमनाः कूटस्थः देवाद्यवस्थास्वनुवर्तमानसर्वसाधारणज्ञानैकाकारात्मनि स्थितः, तत एव विजितेन्द्रियः, समलोष्टाश्मकाञ्चनः प्रकृतिविविक्तस्वरूपनिष्ठतया प्राकृतवस्तुविशेषेषु भोग्यत्वाभावाल्लोष्टाश्मकाञ्चनेषु समप्रयोजनः यः कर्मयोगी, स युक्त इत्युच्यते आत्मावलोकनरूपयोगाभ्यासार्ह इत्युच्यते ॥ भगवद्गीतारामानुजभाष्य ६.८ ॥ तथा च सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु । साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ भगवद्गीता६.९ ॥ वयोविशेषानङ्गीकारेण स्वहितैषिणः सुहृदः॑ सवयसो हितैषिणो मित्राणि, अरयो निमित्ततोऽनर्थेच्छवः॑ उभयहेत्वभावादुभयरहिता उदासीनाः॑ जन्मत एवोभयरहिता मध्यस्थाः॑ जन्मत एवानिच्छेच्छवो द्वेष्याः॑ जन्मत एव हितैषिणो बन्धवः, साधवो धर्मशीलाः॑ पापाः पापशीलाः॑ आत्मैकप्रयोजनतया सुहृन्मित्रादिभिः प्रयोजनाभावाद्विरोधाभावाच्च तेषु समबुद्धिर्योगाभ्यासार्हत्वे विशिष्यते ॥ भगवद्गीतारामानुजभाष्य ६.९ ॥ योगी युञ्जीत सततमात्मानं रहसि स्थितः । एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ भगवद्गीता६.१० ॥ योगी उक्तप्रकारकर्मयोगनिष्ठः, सततमहरहर्योगकाले आत्मानं युञ्जीत आत्मानं युक्तं कुर्वीत । स्वदर्शननिष्ठं कुर्वीतेत्यर्थः॑ रहसि जनवर्जिते निश्शब्दे देशे स्थितः, एकाकी तत्रापि न सद्वितीयः, यतचित्तात्मा यतचित्तमनस्कः, निराशीः आत्मव्यतिरिक्ते कृत्स्ने वस्तुनि निरपेक्षः अपरिग्रहः तद्व्यतिरिक्ते कस्मिंश्चिदपि ममतारहितः ॥ भगवद्गीतारामानुजभाष्य ६.१० ॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः । नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् ॥ भगवद्गीता६.११ ॥ तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ भगवद्गीता६.१२ ॥ शुचौ देशे अशुचिभिः पुरुषैरनधिष्ठिते अपरिगृहीते च अशुचिभिर्वस्तुभिरस्पृष्टे च पवित्रभूते देशे, दार्वादिनिर्मितं नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरमासनं प्रतिष्ठाप्य तस्मिन्मनःप्रसादकरे सापाश्रये उपविश्य योगैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः सर्वात्मनोपसंहृतचित्तेन्द्रियक्रियः आत्मविशुद्धये बन्धनिवृत्तये योगं युञ्ज्यादत्मावलोकनं कुर्वीत ॥ भगवद्गीतारामानुजभाष्य ६.११ ॥१२॥ समं कायशिरोग्रीवं धारयनचलं स्थिरम् । संप्रेक्ष्य नासिकाग्रं स्वं देशश्चानवलोकयन् ॥ भगवद्गीता६.१३ ॥ प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः । मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ भगवद्गीता६.१४ ॥ कायशिरोग्रीवं सममचलं सापाश्रयतया स्थिरं धारयन्, दिशश्चानवलोअकयन्, स्वनासिकाग्रं संप्रेक्ष्य, प्रशान्तात्मा अत्यन्तनिर्वृतमनाः, विगतभीर्ब्रह्मचर्ययुक्तो मनः संयम्य मच्चित्तो युक्तः अवहितो मत्पर आसीत मामेव चिन्त्यनासीत ॥ भगवद्गीतारामानुजभाष्य ६.१३ ॥१४॥ युञ्जन्नेवं सदात्मानं योगी नियतमानसः । शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ भगवद्गीता६.१५ ॥ एवं मयि परस्मिन् ब्रह्मणि पुरुषोत्तमे मनसश्शुभाश्रये सदा आत्मानं मनः युञ्जन्नियतमानसः मत्स्पर्शवित्रीकृतमानसतया निश्चलमानसः, मामेव चिन्तयन्मत्संस्थां निर्वाणपरमां शान्तिमधिगच्छति निर्वाणकाष्ठारूपां मत्संस्थां मयि संस्थितां शान्तिमधिगच्छति ॥ भगवद्गीतारामानुजभाष्य ६.१५ ॥ एवमात्मयोगमारभमाणस्य मनोनैर्मल्यहेतुभूतां मनसो भगवति शुभाश्रये स्थितिमभिधाय अन्यदपि योगोपकरणमाह नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः । न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ भगवद्गीता६.१६ ॥ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ भगवद्गीता६.१७ ॥ अत्यशनानशने योगविरोधिनी॑ अतिविहाराविहारौ च तथातिमात्रस्वप्नजागर्ये॑ तथा चात्यायासानायासौ । मिताहारविहारस्य मितायासस्य मितस्वप्नावबोधस्य सकलदुःखहा बन्धनाशनः योगः संपन्नो भवति ॥ भगवद्गीतारामानुजभाष्य ६.१६ ॥१७॥ यदा विनियतं चित्तमात्मन्येवावतिष्ठते । निस्स्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ भगवद्गीता६.१८ ॥ यदा प्रयोजनविषयं चित्तमात्मन्येव विनियतम् विशेषेण नियतं निरतिशयप्रयोजनतया तत्रैव नियतं निश्चलमवतिष्ठते, तदा सर्वकामेभ्यो निस्स्पृहस्सन् युक्त इत्युच्यते योगार्ह इत्युच्यते ॥ भगवद्गीतारामानुजभाष्य ६.१८ ॥ यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ भगवद्गीता६.१९ ॥ निवातस्थो दीपो यथा नेङ्गते न चलति॑ अचलस्सप्रभस्तिष्ठति॑ यतचित्तस्य निवृत्तसकलेतरमनोवृत्तेः योगिनः आत्मनि योगं युञ्जतः आत्मस्वरूपस्य सोपमा॑ निवातस्थतया निश्चलसप्रभदीपवन्निवृत्तसकलमनोवृत्तितया निश्चलो ज्ञानप्रभ आत्मा तिष्ठईत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ६.१९ ॥ यत्रोपरमते चित्तं निरुद्धं योगसेवया । यत्र चैवात्मनात्मानं पश्यनात्मनि तुष्यति ।२०॥ सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् । वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ भगवद्गीता६.२१ ॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ भगवद्गीता६.२२ ॥ तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् । स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ भगवद्गीता६.२३ ॥ योगसेवया हेतुना सर्वत्र निरुद्धं चित्तं यत्र योगे उपरमते अतिशयितसुखमिदमिति रमते, यत्र च योगे आत्मना मनसा आत्मानं पश्यनन्यनिरपेक्षमात्मन्येव तुष्यति, यत्तदतीन्द्रियमात्मबुद्ध्येकग्राह्यमात्यन्तिकं सुखं यत्र च योगे वेत्ति अनुभवति, यत्र च योगे स्थितः सुखातिरेकेण तत्त्वतः तद्भावान्न चलति, यं योगं लब्ध्वा योगाद्विरतस्तमेव काङ्क्षमाणो नापरं लाभं ततोऽधिकं मन्यते, यस्मिंश्च योगे स्थितो विरतोऽपि गुणवत्पुत्रवियोगादिना गुरुणापि दुःखेन न विचाल्यते, तं दुःखसंयोगवियोगं दुःखसंयोगप्रत्यनीकाकारं योगशब्दाभिधेयं विद्यात् । स एवंरूपो योग इति आरम्भदशायां निश्चयेन अनिर्विण्णचेतसा हृष्टचेतसा योगो योक्तव्यः ॥ भगवद्गीतारामानुजभाष्य ६.२०२३ ॥ सङ्कल्पप्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः । मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ भगवद्गीता६.२४ ॥ शनैश्शनैरुपरमेद्बुद्ध्या धृतिगृहीतया । आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥ भगवद्गीता६.२५ ॥ स्पर्शजाः सङ्कल्पजाश्चेति द्विविधाः कामाः, स्पर्शजाः शीतोष्णादयः, सङ्कल्पजाः पुत्रक्षेत्रादयः । तत्र सङ्कल्पप्रभवाः स्वरूपेणैव त्यक्तुं शक्याः । तान् सर्वान्मनसैव तदन्वयानुसन्धानेन त्यक्त्वा स्पर्शजेष्ववर्जनीयेषु तन्निमित्तहर्षोद्वेगौ त्यक्त्वा समन्ततः सर्वस्माद्विषयात्सर्वमिन्द्रियग्रामं विनियम्य शनैश्शनैर्धृतिगृहीतया विवेकविषयया बुद्ध्या सर्वस्मादात्मव्यतिरिक्तादुपरम्य आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ भगवद्गीतारामानुजभाष्य ६.२४ ॥२५॥ यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ भगवद्गीता६.२६ ॥ चलस्वभावतयात्मन्यस्थिरं मनः यतो यतो विषयप्रावण्यहेतोः बहिः निश्चरति, ततस्ततो यत्नेन मनो नियम्य आत्मन्येव अतिशयितसुखभावनया वशं नयेत् ॥ भगवद्गीतारामानुजभाष्य ६.२६ ॥ प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ भगवद्गीता६.२७ ॥ प्रशान्तमनसमात्मनि निश्चलमनसम्, आत्मन्यस्तमनसं तदेव हेतोर्दग्धाशेषकल्मषम्, तत एव शान्तरजसं विनष्टरजोगुणम्, तत एव ब्रह्मभूतं स्वस्वरूपेणावस्थितमेनं योगिनमात्मस्वरूपानुभवरूपमुत्तमं सुखमुपैति । हीति हेतौ॑ उत्तमसुखरूपत्वादात्मस्वरूपस्येत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ६.२७ ॥ एवं युञ्जन् सदात्मानं योगी विगतकल्मषः । सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ भगवद्गीता६.२८ ॥ एवमुक्तप्रकारेणात्मानं युञ्जन् तेनैव विगतप्राचीनसमस्तकल्मषो ब्रह्मसंस्पर्शं ब्रह्मानुभवरूपं सुखमत्यन्तमपरिमितं सुखेन अनायासेन सदाशुनुते ॥ भगवद्गीतारामानुजभाष्य ६.२८ ॥ अथ योगविपाकदशा चतुष्प्रकारोच्यते सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि । ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ भगवद्गीता६.२९ ॥ स्वात्मनः परेषां च भूतानां प्रकृतिवियुक्तस्वरूपाणां ज्ञानैकाकारतया साम्याद्वैषम्यस्य च प्रकृतिगतत्वाद्योगयुक्तात्मा प्रकृतिवियुक्तेष्वात्मसु सर्वत्र ज्ञानैकाकारतया समदर्शनः सर्वभूतस्थं स्वात्मानं सर्वभूतानि च स्वात्मनीक्षते सर्वभूतसमानाकारं स्वात्मानं स्वात्मसमानाकाराणि च सर्वभूतानि पश्यतीत्यर्थः । एकस्मिनात्मनि दृष्टे सर्वस्यात्मवस्तुनस्तत्साम्यात्सर्वमात्मवस्तु दृष्टं भवतीत्यर्थः । "सर्वत्र समदर्शनः" इति वचनात् । "योऽयं योगस्त्वया प्रोक्तः साम्येन" इत्यनुभाषणाच्च । "निर्दोषं हि समं ब्रह्म" इति वचनाच्च ॥ भगवद्गीतारामानुजभाष्य ६.२९ ॥ यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ भगवद्गीता६.३० ॥ ततोऽपि विपाकदशापन्नो मम साधर्म्यमुपागतः, "निरञ्जनः परमं साम्यमुपैति" इत्युच्यमानं सर्वस्यात्मवस्तुनो विधूतपुण्यपापस्य स्वरूपेणावस्थितस्य मत्साम्यं पश्यन् यः सर्वत्रात्मवस्तुनि मां पश्यति, सर्वमात्मवस्तु च मयि पश्यति अन्योन्यसाम्यादन्यतरदर्शनेन अन्यतरदपीदृशमिति पश्यति, तस्य स्वात्मस्वरूपं पश्यतोऽहं तत्साम्यान्न प्रणश्यामि नादर्शनमुपयामि॑ ममापि मां पश्यतः, मत्साम्यात्स्वात्मानं मत्सममवलोकयन् स नादर्शनमुपयाति ॥ भगवद्गीतारामानुजभाष्य ६.३० ॥ ततोऽपि विपाकदशामाह सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ भगवद्गीता६.३१ ॥ योगदशायां सर्वभूतस्थितं मामसंकुचितज्ञानैकाकारतया एकत्वमास्थितः प्राकृतभेदपरित्यागेन सुदृढं यो भजते, स योगी व्युत्थानकालेऽपि यथा तथा वर्तमानः स्वात्मानं सर्वभूतानि च पश्यन्मयि वर्तते मामेव पश्यति । स्वात्मनि सर्वभूतेषु च सर्वदा मत्साम्यमेव पश्यतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ६.३१ ॥ ततोऽपि काष्ठामाह आत्माउपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ भगवद्गीता६.३२ ॥ स्वात्मनश्चान्येषां चात्मनामसंकुचितज्ञानैकाकारतयोपम्येन स्वात्मनि चान्येषु च सर्वत्र वर्तमानं पुत्रजन्मादिरूपं सुखं तन्मरणादिरूपं च दुःखमसंबन्धसाम्यात्समं यः पश्यति परपुत्रजन्ममरणादिसमं स्वपुत्रजन्ममरणादिकं यः पश्यतीत्यर्थः । स योगी परमो मतः योगकाष्ठां गतो मतः ॥ भगवद्गीतारामानुजभाष्य ६.३२ ॥ अर्जुन उवाच योऽयं योगस्त्वया प्रोक्तः साम्येन ंधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ भगवद्गीता६.३३ ॥ चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ भगवद्गीता६.३४ ॥ योऽयं देवमनुष्यादिभेदेन जीवेश्वरभेदेन चात्यतभिन्नतयैतावन्तं कालमनुभूतेषु सर्वेष्वात्मसु ज्ञानैकाकारतया परस्परसाम्येन अकर्मवश्यतया चेश्वरसाम्येन सर्वत्र समदर्शनरूपो योगस्त्वया प्रोक्तः, एतस्य योगस्य स्थिरां स्थितिं न पश्यामि, मनसश्चञ्चलत्वात् । तथा अनवरताभ्यस्तविषयेष्वपि स्वत एव चञ्चलं पुरुषेणैकत्रावस्थापयितुमशक्यं मनः पुरुषं बलात्प्रमथ्य दृढमन्यत्र चरति॑ तस्य स्वाभ्यस्तविषयेष्वपि चञ्चलस्वभावस्य मनसस्तद्विपरीताकारात्मनि स्थापयितुं निग्रहं प्रतिकूलगतेर्महावातस्य व्यजनादिनैव सुदुष्करमहं मन्ये । मनोनिग्रहोपायो वक्तव्य इत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य ६.३३ ॥३४॥ श्रीभगवानुवाच असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ भगवद्गीता६.३५ ॥ असंयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ भगवद्गीता६.३६ ॥ चलस्वभावतया मनो दुर्निग्रहमेवेत्यत्र न संशयः॑ तथा +अप्यात्मनो गुणाकरत्वाभ्यासजनिताभिमुख्येन आत्मव्यतिरिक्तेषु दोषाकरत्वजनितवैतृष्ण्येन च कथंचिद्गृह्यते॑ असंयतात्मना अजितमनसा महतापि बलेन योगो दुष्प्राप एअ । उपायतस्तु वश्यात्मना पूर्वोक्तेन मदाराधनरूपेणान्तर्गतज्ञानेन कर्मणा जितमनसा यतमानेनायमेव समदर्शनरूपो योगोऽवाप्तुं शक्यः ॥ भगवद्गीतारामानुजभाष्य ६.३५ ॥३६॥ अथ "नेहाभिक्रमनाशोऽस्ति" इति आदावेव श्रुतं योगमाहात्म्यं यथावच्छ्रोतुमर्जुनः पृच्छति । अन्तर्गतात्मज्ञानतया योगशिरस्कतया च हि कर्मयोगस्य माहात्म्यं तत्रोदितम्॑ तच्च योगमाहात्म्यमेव । अर्जुन उवाच अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ भगवद्गीता६.३७ ॥ कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ भगवद्गीता६.३८ ॥ एतं मे संशयं कृष्ण च्छेतुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते ॥ भगवद्गीता६.३९ ॥ श्रद्धया योगे प्रवृत्तो दृढतराभ्यासरूपयतनवैकल्येन योगसंसिद्धिमप्राप्य योगाच्चलितमानसः कां गतिं गच्छति॑ उभयविभ्रष्टोऽयं च्छिन्नाभ्रमिव कच्चिन्न नश्यति? यथा मेघशकलः पूर्वस्माद्बृहतो मेघाच्छिन्नः परं बृहन्तं मेघमप्राप्य मध्ये विनष्टो भवति, तथैव कच्चिन्न नश्यति । कथमुभयविभ्रष्टता? अप्रतिष्ठः, विमूढो ब्रह्मणः पथीति । यथावस्थितं स्वर्गादिसाधनभूतं कर्म फलाभिसन्धिरहितस्यास्य पुरुषस्य स्वफलसाधनत्वेन प्रतिष्ठा न भवतीत्यप्रतिष्ठः । प्रक्रान्ते ब्रह्मणः पथि विमूढः तस्मात्पथः प्रच्युतः । अतः उभयविभ्रष्टतया किमयं नश्यत्येव, उत न नश्यति? तमेनं संशयमशेषतश्छेत्तुमर्हसि । स्वतः प्रत्यक्षेण युगपत्सर्वं सदा पश्यतस्त्वत्तोऽन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ भगवद्गीतारामानुजभाष्य ६.३७ ॥३८॥३९॥ श्रीभगवानुवाच पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ भगवद्गीता६.४० ॥ श्रद्धया योगे प्रक्रान्तस्य तस्मात्प्रच्युतस्येह चामुत्र च विनाशो न विद्यते प्राकृतस्वर्गादिभोगानुभवे ब्रह्मानुभवे चाभिलषितानवाप्तिरूपः प्रत्यवायाख्यानिष्टावाप्तिरूपश्च विनाशो न विद्यत इत्यर्थः । न हि निरतिशयकल्याणरूपयोगकृत्कश्चित्कालत्रयेऽपि दुर्गतिं गच्छति ॥ भगवद्गीतारामानुजभाष्य ६.४० ॥ कथमयं भविष्यतीत्यत्राह प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ भगवद्गीता६.४१ ॥ यज्जातीयभोगाभिकाङ्क्षया योगात्प्रच्युतोऽयम्, अतिपुण्यकृतां प्राप्यान् लोकान् प्राप्य तज्जातीयानतिकल्याणान् भोगान् योगमाहात्म्यादेव भुञ्जानो यावत्तद्भोगतृष्णावसानं शश्वतीः समास्तत्रोषित्वा तस्मिन् भोगे वितृष्णः शुचीनां श्रीमतां योगोपक्रमयोग्यानां कुले योगोपक्रमे भ्रष्टो योगमाहात्म्याज्जायते ॥ भगवद्गीतारामानुजभाष्य ६.४१ ॥ अथ वा योगिनामेव कुले भवति धीमताम् । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ भगवद्गीता६.४२ ॥ परिपक्वयोगश्चलितश्चेत्, योगिनां धीमतां योगं कुर्वतां स्वयमेव योगोपदेशक्षमाणां महतां कुले भवति॑ तदेतदुभयविधं योगयोग्यानां योगिनां च कुले जन्म लोके प्राकृतानां दुर्लभतरम् । एतत्तु योगमाहात्म्यकृतम् ॥ भगवद्गीतारामानुजभाष्य ६.४२ ॥ तत्र तं बुद्धिसंयोगं लभते पौर्वदैहिकम् । यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ भगवद्गीता६.४३ ॥ पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः । तत्र जन्मनि पौर्वदैहिकं तमेव योगविषयं बुद्धिसंयोगं लभते । ततः सुप्तप्रबुद्धवद्भूयः संसिद्धौ यतते यथा नान्तरायहतो भवति, तथा यतते । तेन पूर्वाभ्यासेन पूर्वेण योगविष्येणाभ्यासेन सः योगभ्रष्टो ह्यवशोऽपि योग एव ह्रियते । प्रसिद्धं ह्येतद्योगमाहात्म्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ६.४३ ॥ जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ भगवद्गीता६.४४ ॥ अप्रवृत्तयोगो योगे जिज्ञासुरपि ततश्चलितमानसः पुनरपि तामेव जिज्ञासां प्राप्य कर्मयोगादिकं योगमनुष्ठाय शब्दब्रह्मातिवर्तते । शब्दब्रह्म देवमनुष्यपृथिव्यन्तरिक्षस्वर्गादिशब्दाभिलापयोग्यं ब्रह्म प्रकृतिः । प्रकृतिबन्धाद्विमुक्तो देवमनुष्यादिशब्दाभिलापानर्हं ज्ञानानन्दैकतानमात्मानं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ६.४४ ॥ प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ भगवद्गीता६.४५ ॥ यत एवं योगमाहात्म्यम्, ततः अनेकजन्मार्जितपुण्यसञ्चयैः संशुद्धकिल्बिषस्संसिद्धिः संजातः प्रयत्नाद्यतमानस्तु योगी चलितोऽपि पुनः परां गतिं यात्येव ॥ भगवद्गीतारामानुजभाष्य ६.४५ ॥ अतिशयितपुरुषार्थनिष्ठतया योगिनः सर्वस्मादाधिक्यमाह तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ भगवद्गीता६.४६ ॥ केवलतपोभिर्यः पुरुषार्थः साध्यते, आत्मज्ञानव्यतिरिक्तैर्ज्ञानैश्च यः, यश्च केवलैरश्वमेधादिभिः कर्मभिः, तेभ्यस्सर्वेभ्योऽधिकपुरुषार्थसाधनत्वाद्योगस्य, तपस्विभ्यो ज्ञानिभ्यः कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ भगवद्गीतारामानुजभाष्य ६.४६ ॥ तदेवं परविद्याङ्गभूतं प्रजापतिवाक्योदितं प्रत्यगात्मदर्शनमुक्तम्॑ अथ परविद्यां प्रस्तौति योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ भगवद्गीता६.४७ ॥ योगिनामिति पञ्चम्यर्थे षष्ठी । "सर्वभूतस्थमात्मानम्" इत्यादिना चतुर्विधा योगिनः प्रतिपादिताः । तेष्वनन्तर्गतत्वाद्वक्ष्यमाणस्य योगिनः न निर्धारणे षष्ठी संभवति । अपि सर्वेषामिति सर्वशब्दनिर्दिष्टास्तपस्विप्रभृतयः । तत्राप्युक्तेन न्यायेन पञ्चम्यर्थो ग्रहीतव्यः । योगिभ्यः, अपि सर्वेभ्यो वक्ष्यमाणो योगी युक्ततमः । तदपेक्षया अवरत्वे तपस्विप्रभृतीनां योगिनां च न कश्चिद्विशेष इत्यर्थः॑ मेर्वपेक्षया सर्षपाणामिव । यद्यपि सर्षपेषु अन्योन्यन्यूनाधिकभावो विद्यते तथापि मेर्वपेक्षया अवरत्वनिर्देशः समानः । मत्प्रियत्वातिरेकेन अनन्यधारणस्वभावतया मद्गतेन अन्तरात्मना मनसा, श्रद्धावानत्यर्थमत्प्रियत्वेन क्षणमात्रविश्लेषासहतया मत्प्राप्तिप्रवृत्तौ त्वरावान् यो मां भजते मां विचित्रानन्तभोग्यभोक्तृवर्गभोगोपकरणभोगस्थानपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, अस्पृष्टाशेषदोषानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणनिधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशयाउज्ज्वल्यसौन्दर्यसौगन्ध्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिदिव्यरूपम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, अपारकारुण्यसौशील्यवात्सल्योदार्यमहोदधिम्, अनालोचितविशेषाशेषलोकशरण्यम्, प्रणतार्तिहरम्, आश्रितवात्सल्यैकजलधिम्, अखिलमनुजनयनविषयतां गतम्, अजहत्स्वस्वभावम्, वसुदेवगृहेऽवतीर्णम्, अनवधिकातिशयतेजसा निखिलं जगद्भासयन्तम्, आत्मकान्त्या विश्वमाप्याययन्तम्, भजते सेवते, उपास्त इत्यर्थः स मे युक्ततमो मतः स सर्वेभ्यश्श्रेष्टतमः इति सर्वं सर्वदा यथावस्थितं स्वत एव साक्षात्कुर्वनहं मन्ये ॥ भगवद्गीतारामानुजभाष्य ६.४७ ॥ ******************** अध्याय ७ ******************** प्रथमेनाध्यायषट्केन परमप्राप्यभूतस्य परस्य ब्रह्मणो निरवधस्य निखिलजगदेककारणस्य सर्वज्ञस्य सर्वभूतस्य सत्यसङ्कल्पस्य महाविभूतेः श्रीमतो नारायणस्य प्राप्त्युपायभूतं तदुपासनं वक्तुं तदङ्गभूतम् आत्मज्ञानपूर्वककर्मानुष्ठानसाध्यं प्राप्तुः प्रत्यगात्मनो याथात्म्यदार्शनमुक्तम् । इदानीं मध्यमेन षट्केन परब्रह्मभूतपरमपुरुषस्वरूपं तदुपासनं च भक्तिशब्दवाच्यमुच्यते । तदेतदुत्तरत्र, "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ भगवद्गीतारामानुजभाष्य १." इत्यारभ्य, "विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भगवद्गीतारामानुजभाष्य १." इति संक्षिप्य वक्ष्यते । उपानसं तु भक्तिरूपापन्नमेव परप्राप्त्युपायभूतमिति वेदान्तवाक्यसिद्धम् । "तमेव विदित्वातिमृत्युमेति", "तमेवं विद्वानमृत इह भवति" इत्यादिना अभिहितं वेदनम्, "आत्मा वा अरे द्रष्टव्यः ..... निदिध्यासितव्यः", "आत्मानमेव लोकमुपासीत", "सत्त्वशुद्धौ ध्रुवा स्मृतिः॑ स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः", "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे" इत्यादिभिरैकार्थ्यात्स्मृतिसन्तानरूपं दर्शनसमानाकारं ध्यानोपासनशब्दवाच्यमित्यवगम्यते । पुनश्च, "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति विशेषणात्परेणात्मना वरणीयताहेतुभूतं स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रियरूपं स्मृतिसन्तानमेवोपासनशब्दवाच्यमिति हि निश्चीयते । तदेव हि भक्तिरित्युच्यते, "स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते" इत्यादिवचनात् । अतः "तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते", "नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप" इत्यनयोरेकार्थत्वं सिद्धं भवति । तत्र सप्तमे तावदुपास्यभूतपरमपुरुषयाथात्म्यं प्रकृत्या तत्तिरोधानं तन्निवृत्तये भगवत्प्रपत्तिः, उपासकविधाभेदः, ज्ञानिनश्श्रैष्ठ्यं चोच्यते ॥ श्रीभगवानुवाच मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ भगवद्गीता७.१ ॥ मय्याभिमुख्येन असक्तमनाः मत्प्रियत्वातिरेकेण मत्स्वरूपेण गुणैश्च चेष्टितेन मद्विभूत्या विश्लेषे सति तत्क्षणादेव विशीर्यमाणस्वरूपतया मयि सुगाढं बद्धमनाः तथा मदश्रयः स्वयं च मया विना विशीर्यमाणतया मदाश्रयः मदेकाधारः, मद्योगं युञ्जन् योक्तुं प्रवृत्तः योगविषयभूतं मामसंशयं निस्संशयम्, समग्रं सकलं यथा ज्ञास्यसि य्न ज्ञानेनोक्तेन ज्ञास्यसि, तज्ज्ञानमवहितमनाः त्वं शृणु ॥ भगवद्गीतारामानुजभाष्य ७.१ ॥ ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ भगवद्गीता७.२ ॥ अहं ते मद्विषयमिदं ज्ञानं विज्ञानेन सहाशेषतो वक्षयामि । विज्ञानन् विविक्ताकारविषयं ज्ञानम् । यथाहं मद्व्यतिरिक्तात्समस्तचिदचिद्वस्तुजातान्निखिलहेयप्रत्यनीकतया नानाविधानवधिकातिशयासंख्येयकल्याणगुणगणानन्तमहाविभूतितया च विविक्तः, तेन विविक्तविषयज्ञानेन सह मत्स्वरूपविषयज्ञानं वक्ष्यामि । किं बहुना॑ यद्ज्ञानं ज्ञात्वा मयि पुनरन्यज्ज्ञातव्यं नावशिष्यते ॥ भगवद्गीतारामानुजभाष्य ७.२ ॥ वक्ष्यमाणस्य ज्ञानस्य दुष्प्रापतामाह मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ भगवद्गीता७.३ ॥ मनुष्याः शास्त्राधिकारयोग्याः । तेषां सहस्रेषु कश्चिदेव सिद्धिपर्यन्तं यतते । सिद्धिपर्यन्तं यतमानानां सहस्रेषु कश्चिदेव मां विदित्वा मत्तस्सिद्धये यतते । मद्विदां सहस्रेषु कश्चिदेव तत्त्वतः यथावस्थितं मां वेत्ति । न कश्चिदित्यभिप्रायः॑ "स महात्मा सुदुर्लभः", "मां तु वेद न कश्चन" इति हि वक्ष्यते ॥ भगवद्गीतारामानुजभाष्य ७.३ ॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ भगवद्गीता७.४ ॥ अस्य विचित्रानन्तभोग्यभोगोपकरणभोगस्थानरूपेणावस्थितस्य जगतः प्रकृतिरियं गन्धादिगुणकपृथिव्यप्तेजोवाय्वाकाशादिरूपेण मनःप्रभृतीन्द्रियरूपेण महदहंकाररूपेण चाष्टधा भिन्ना मदीयेति विद्धि ॥ भगवद्गीतारामानुजभाष्य ७.४ ॥ अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ भगवद्गीता७.५ ॥ इयं ममापरा प्रकृतिः॑ इतस्त्वन्यामितोऽचेतनायाश्चेतनभोग्यभूतायाः प्रकृतेर्विसजातीयाकारां जीवभूतां परां तस्याः भोक्तृत्वेन प्रधानभूतां चेतनरूपां मदीयां प्रकृतिं विद्धि॑ ययेदमचेतनं कृत्स्नं जगद्धार्यते ॥ भगवद्गीतारामानुजभाष्य ७.५ ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ भगवद्गीता७.६ ॥ एतद्चेतनाचेतनसमष्टिरूपमदीयप्रकृतिद्वययोनीनि ब्रह्मादिस्तम्बपर्यन्तानि उच्चावचभावेनावस्थितानि चिदचिन्मिश्राणि मदीयानि सर्वाणि भूतानीत्युपधारय । मदीयप्रकृतिद्वययोनीनि हि तानि मदीयान्येव । तथा प्रकृतिद्वययोनित्वेन कृत्स्नस्य जगतः, तयोर्द्वयोरपि मद्योनित्वेन मदीयत्वेन च, कृत्स्नस्य जगतः अहमेव प्रभवोऽहमेव च प्रलयोऽहमेव च शेषीत्युपधारय । तयोः चिदचित्समष्टिभूतयोः प्रकृतिपुरुषयोरपि परमपुरुषयोनित्वं श्रुतिस्मृतिसिद्धम् । "महानव्यक्ते लीयते । अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते । तमः परे देव एकीभवति", "विष्णोस्स्वरूपात्परतोदिते द्वे रूपे प्र्धानं पुरुषश्च विप्र", "प्रकृतिर्या मयाख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु च गीयते ॥ भगवद्गीतारामानुजभाष्य १." इत्यादिका हि श्रुतिस्मृतयः ॥७६॥ मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । यथा सर्वकारणस्यापि प्रकृतिद्वयस्य कारणत्वेन, सर्वाचेतनवस्तुशेषिणश्चेतनस्यापि शेषित्वेन कारणतया शेषितया चाहं परतरः तथा ज्ञानशक्तिबलादिगुणयोगेन चाहमेव परतरः । मत्तोऽन्यन्मद्व्यतिरिक्तं ज्ञानबलादिगुणान्तरयोगि किंचिदपि परतरं नास्ति ॥ मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ भगवद्गीता७.७ ॥ सर्वमिदं चिदचिद्वस्तुजातं कार्यावस्थं कारणावस्थं च मच्छरीरभूतं सूत्रे मणिगणवदत्मतयावस्थिते मयि प्रोतमाश्रितम् । "यस्य पृथिवी शरीरम्", "यस्यात्मा शरीरम्", "एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः" इति, आत्मशरीरभावेनावस्थानं च जगद्ब्रह्मणोरन्तर्यामिब्राह्मणादिषु सिद्धम् ॥ भगवद्गीतारामानुजभाष्य ७.७ ॥ अतः सर्वस्य परमपुरुषशरीरत्वेनात्मभूतपरमपुरुषप्रकारर्वात्सर्वप्रकारः परमपुरुष एवावस्थित इति सर्वैश्शब्दैस्तस्यैवाभिधानमिति तत्तत्सामानाधिकरण्येन आह रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवस्सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ भगवद्गीता७.८ ॥ पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ भगवद्गीता७.९ ॥ बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ भगवद्गीता७.१० ॥ बलं बलवन्ताञ्चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ भगवद्गीता७.११ ॥ एते सर्वे विलक्षणा भावा मत्त एवोत्पन्नाः, मच्छेषभूताः मच्छरीरतया मय्येवावस्थिताः॑ अतस्तत्तत्प्रकारोऽहमेवावथितः ॥ भगवद्गीतारामानुजभाष्य ७.८,९,१०,११ ॥ ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ भगवद्गीता७.१२ ॥ किं विशिष्य अभिधीयते? सात्त्विका राजसास्तामसाश्च जगति देहत्वेनेन्द्रियत्वेन भोग्यत्वेन तत्तद्ध्तेतुत्वेन चावस्थिता ये भवाः, तान् सर्वान्मत्त एवोत्पन्नान् विद्धि॑ ते मच्छरीरतया मय्येवावस्थिता इति च । न त्वहं तेषु नाहं कदाचिदपि तदायत्तस्थितिः॑ अन्यत्रात्मायत्तस्थितित्वेऽपि शरीरस्य, शरीरेणात्मनः स्थितावप्युपकारो विद्यते॑ मम तु तैर्न कश्चित्तथाविध उपकारः, केवललीलैव प्रयोजनमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ७.१२ ॥ त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ भगवद्गीता७.१३ ॥ तदेवं चेतनाचेतनात्मकं कृत्स्नं जगन्मदीयं काले काले मत्त एवोत्पद्यते, मयि च प्रलीयते, मय्येवावस्थितम्, मच्छरीरभूतम्, मदात्मकं चेत्यहमेव कारणावस्थायां कार्यावथायां च सर्वशरीरतया सर्वप्रकारोऽवस्थितः । अतः कारणत्वेन शेषित्वेन च ज्ञानाद्यसङ्ख्येयकल्याणगुणगणैश्चाहमेव सर्वैः प्रकारैः परतरः, मत्तोऽन्यत्केनापि कल्याणगुणगणेन परतरं न विद्यते । एवंभूतं मां त्रिभ्यः सात्त्विकराजसतामसगुणमयेभ्यो भावेभ्यः परं मदसाधारणैः कल्याणगुणगणैस्तत्तद्भोग्यताप्रकारैश्च परमुत्कृष्टतमम्, अव्ययं सदैकरूपमपि तैरेव त्रिभिर्गुणमयैर्निहीनतरैः क्षणध्वंसिभिः पूर्वकर्मानुगुणदेहेन्द्रियभोग्यत्वेनावस्थितैः पदार्थैर्मोहितं देवतिर्यङ्मनुष्यस्थावरात्मनावस्थितं सर्वमिदं जगन्नाभिजानाति ॥ भगवद्गीतारामानुजभाष्य ७.१३ ॥ कथं स्वत एवानवधिकातिशयानन्दे नित्ये सदैकरूपे लौकिकवस्तुभोग्यतत्प्रकारैश्चोत्कृष्टतमे त्वयि स्थितेऽप्यत्यन्तनिहीनेषु गुणमयेष्वस्थिरेषु भावेषु सर्वस्य भोक्तृवर्गस्य भोग्यत्वबुद्धिरुपजायत इत्यत्राह दैवी ह्येषा गुणमयी मम माया दुरत्यया । ममैषा गुणमयी सत्त्वरजस्तमोमयी माया यस्माद्दैवी देवेन क्रीढाप्रवृत्तेन मयैव निर्मिता, तस्मात्सर्वैर्दुरत्यया दुरतिक्रमा । अस्याः मायाशब्दवाच्यत्वमासुरराक्षसास्त्रादीनामिव विचित्रकार्यकरत्वेन, यथा च "ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् । तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमैकाइकश्येन सूदितम्" इत्यादौ । अतो मायाशब्दो न मिथ्यार्थवाची । ऐन्द्रजालिकादिष्वपि केनचिन्मन्त्राउषधादिना मिथ्यार्थविषयायाः पारमार्थिक्या एव बुद्धेरुत्पादकत्वेन मायावीति प्रयोगः । तथा मन्त्राउषधादिरेव तत्र माया॑ सर्वप्रयोगेष्वनुगतस्यैकस्यैव शब्दार्थत्वात् । तत्र मिथ्यार्थेषु मायाशब्दप्रयोगो मायाकार्यबुद्धिविषयत्वेनाउपचारिकः, मञ्चाः क्रोशन्तीतिवत् । एषा गुणमयी पारमार्थिकी भगवन्मायैव, "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्" इत्यादिष्वभिधीयते । अस्याः कार्यं भगवत्स्वरूपतिरोधानम्, स्वस्वरूपभोग्यत्वबुद्धिश्च । अतो भगवन्मायया मोहितं सर्वं जगद्भगवन्तमनवधिकातिशयानन्दस्वरूपं नाभिजानाति ॥ मायाविमोचनोपायमाह मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ भगवद्गीता७.१४ द् ॥ मामेव सत्यसङ्कल्पं परमकारुणिकमनालोचितविशेषाशेषलोकशरण्यं ये शरणं प्रपद्यन्ते, ते एतां मदीयां गुणमयीं मायां तरन्ति मायामुत्सृज्य मामेवोपासत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ७.१४ ॥ किमिति भगवदुपासनापादिनीं भगवत्प्रपत्तिं सर्वे न कुर्वत इत्यत्राह न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ भगवद्गीता७.१५ ॥ दुष्कृतिनः पापकर्माणः मां न प्रपद्यते । दुष्कृततारतम्येन ते चतुर्विधा भवन्ति मूढाः, नराधमाः, माययापहृतज्ञानाः, आसुरं भावमाश्रिताः इति । मूढाः विपरीतज्ञानाः॑ पूर्वोक्तप्रकारेण भगवच्छेषतैकरसमात्मानं भोग्यजातं च स्वशेषतया मन्यमानाः । नराधमाः सामान्येन ज्ञातेऽपि मत्स्वरूपे मदौन्मुख्यानर्हाः । माययापहृतज्ञानाः मद्विषयं मदैश्वर्यविषयं च ज्ञानं येषां तदसंभावनापादिनीभिः कूटयुक्तिभिरपहृतम्, ते तथा उक्ताः । आसुरं भावमाश्रिताः मद्विषयं मदैश्वर्यविषयं च ज्ञानं सुदृढमुपपन्नं येषां द्वैषायैव भवति॑ ते आसुरं भावमाश्रिताः । उत्तरोत्तराः पापिष्ठतमाः ॥ भगवद्गीतारामानुजभाष्य ७.१५ ॥ चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ भगवद्गीता७.१६ ॥ सुकृतिनः पुण्यकर्माणो मां शरणमुपगम्य मामेव भजन्ते । ते च सुकृततारतम्येन चतुर्विधाः, सुकृतगरीयस्त्वेन प्रतिपत्तिवैशेष्यादुत्तरोत्तरा अधिकतमा भवन्ति । आर्तः प्रतिष्ठाहीनः भ्रष्टाइश्वर्यः पुनर्तत्प्राप्तिकामः । अर्थार्थी अप्राप्ताइश्वर्यतया ऐश्वर्यकामः । तयोर्मुखभेदमात्रम् । ऐश्वर्यविषयतयाइक्यादेक एवाधिकारः । जिज्ञासुः प्रकृतिवियुक्तात्मस्वरूपावाप्तीच्छुः । ज्ञानमेवास्य स्वरूपमिति जिज्ञासुरित्युक्तम् । ज्ञानी च, "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्" इत्यादिनाभिहितभगवच्छेषतैकरसात्मस्वरूपवित्॑ प्रकृतिवियुक्तकेवलात्मनि अपर्यवस्यन् भगवन्तं प्रेप्सुः भगवन्तमेव परमप्राप्यं मन्वानः ॥ भगवद्गीतारामानुजभाष्य ७.१६ ॥ तेषां ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ भगवद्गीता७.१७ ॥ तेषां ज्ञानी विशिष्यते । कुतः? नित्ययुक्त एकभक्तिरिति च । ज्ञानिनो हि मदेकप्राप्यस्य मया योगो नित्यः॑ इतरयोस्तु यावत्स्वाभिलषितप्राप्ति मया योगः । तथा ज्ञानिनो मय्येकस्मिन्नेव भक्तिः॑ इतरयोस्तु स्वाभिलषिते तत्साधनत्वेन मयि च । अतः स एव विशिष्यते । किञ्च, प्रियो हि ज्ञानिनोऽत्यर्थमहम् । अर्थशब्दोऽभिधेयवचनः॑ ज्ञानिनोऽहं यथा प्रियः, तथा मया सर्वज्ञेन सर्वशक्तिनाप्यभिधातुं न शक्यत इत्यर्थः॑ प्रियत्वस्येयत्तारहितत्वात् । यथा ज्ञानिनामग्रेसरस्य प्रह्लादस्य, "स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसंस्थितः" इति । तथैव सोऽपि मम प्रियः ॥ भगवद्गीतारामानुजभाष्य ७.१७ ॥ उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ भगवद्गीता७.१८ ॥ सर्व एवैते मामेवोपासत इति उदाराः वदान्याः । ये मत्तो यत्किंचिदपि गृह्णन्ति, ते हि मम सर्वस्वदायिनः । ज्ञानी त्वात्मैव मे मतम् तदायत्तधारणोऽहमिति मन्ये । कस्मादेवम्? यस्मादयं मया विनात्मधारणासंभावनया मामेवानुत्तमं प्राप्यमास्थितः, अतस्तेन विना ममाप्यात्मधारणं न संभवति । ततो ममात्मा हि सः ॥ भगवद्गीतारामानुजभाष्य ७.१८ ॥ बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवस्सर्वमिति स महात्मा सुदुर्लभः ॥ भगवद्गीता७.१९ ॥ नाल्पसंख्यासङ्ख्यातानां पुण्यजन्मनां फलमिदम्, यन्मच्छेषतैकरसात्मयाथात्म्यज्ञानपूर्वकं मत्प्रपदनम्॑ अपि तु बहूनां जन्मनां पुण्यजन्मनामन्ते अवसाने, वासुदेवशेषतैकरसोऽहं तदायत्तस्वरूपस्थितिप्रवृत्तिश्च॑ स चासङ्ख्येयैः कल्याणगुणगणैः परतरः इति ज्ञानवान् भूत्वा, वासुदेव एव मम परमप्राप्यं प्रापकं च, अन्यदपि यन्मनोरथवर्तिं स एव मम तत्सर्वमिति मां प्रपद्यते मामुपास्ते॑ स महात्मा महामनाः सुदुर्लभः दुर्लभतरो लोके । वासुदेवस्सर्वमित्यस्यायमेवार्थः, "प्रियो हि ज्ञानिनोऽत्यर्थमहम्", "आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम्" इति प्रक्रमात् । ज्ञानवांश्चायमुक्तलक्षण एव, अस्यैव पूर्वोक्तज्ञानित्वात्, भूमिरापः" इत्यारभ्य, "अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्" इति हि चेतनाचेतनप्रकृतिद्वयस्य परमपुरुषशेषतैकरसतोक्ता॑ "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय" इत्यारभ्य, "ये चैव सात्त्विका भावा राजसास्तामसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ भगवद्गीतारामानुजभाष्य १." इति प्रकृतिद्वयस्य कार्यकारणोभयावस्थस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं परमपुरुषस्य च सर्वैः प्रकारैः सर्वस्मात्परतरत्वमुक्तम्॑ अतः स एवात्र ज्ञानीत्युच्यते ॥७१९॥ तस्य ज्ञानिनो दुर्लभत्वमेवोपपादयति कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥ भगवद्गीता७.२० ॥ सर्व एव हि लौकिकाः पुरुषाः स्वया प्रकृत्या पापवासनया गुणमयभावविषयया नियताः नित्यान्विताः तैस्तैः स्ववासनानुरूपैर्गुणमयैरेव कामैः इच्छाविषयभूतैः हृतमत्स्वरूपविषयज्ञानाः तत्तत्कामसिद्ध्यर्थमन्यदेवताः मद्व्यतिरिक्ताः केवलेन्द्रादिदेवताः तं तं नियममास्थाय तत्तद्देवताविशेषमात्रप्रीणनासाधारणं नियममास्थ्याय प्रपद्यन्ते ता एवाश्रित्यार्चयन्ते ॥ भगवद्गीतारामानुजभाष्य ७.२० ॥ यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ भगवद्गीता७.२१ ॥ ता अपि देवता मदीयास्तनवः, "य आदित्ये तिष्ठन् ... यमादित्यो न वेद यस्यादित्यश्शरीरम्" इत्यादिश्रुतिभिः प्रतिपादिताः । मदीयास्तनव इत्यजानन्नपि यो यो यां यां मदीयामादित्यादिकां तनुं भक्तः श्रद्धयार्चितुमिच्छति॑ तस्य तस्याजानतोऽपि मत्तनुविषयैषा श्रद्धेत्यनुसन्धाय तामेवाचलां निर्विघ्नां विदधाम्यहम् ॥ भगवद्गीतारामानुजभाष्य ७.२१ ॥ स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान् ॥ भगवद्गीता७.२२ ॥ स तया निर्विघ्नया श्रद्धया युक्तस्तस्य इन्द्रादेराराधनं प्रतीहते । ततः मत्तनुभूतेन्द्रादिदेवताराधनात्तानेव हि स्वाभिलषितान् कामान्मयैव विहितान् लभते । यद्यप्याराधनकाले, "आराध्येन्द्रादयो मदीयास्तनवः, तत एव तदर्चनं च मदाराधनम्" इति न जानाति तथापि तस्य वस्तुनो मदाराधनत्वादाराधकाभिलषितमहमेव विदधामि ॥ भगवद्गीतारामानुजभाष्य ७.२२ ॥ अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयज्ञो यान्ति मद्भक्ता यान्ति मामपि ॥ भगवद्गीता७.२३ ॥ तेषामल्पमेधसामल्पबुद्धीनामिन्द्रादिमात्रयाजिनां तदाराधनफलमल्पम्, अन्तवच्च भवति । कुतः? देवान् देवयजो यान्ति यत इन्द्रादीन् देवान् तद्याजिनो यान्ति । इन्द्रादयोऽपि हि परिच्छिन्नभोगाः परिमितकालवर्तिनश्च । ततस्तत्सायुज्यं प्राप्ताः तैस्सह प्रच्यवन्ते । मद्भक्ता अपि तेषामेव कर्मणां मदाराधनरूपतां ज्ञात्वा परिच्छिन्नफलसङ्गं त्यक्त्वा मत्प्रीणनैकप्रयोजनाः मां प्राप्नुवन्ति॑ न च पुनर्निवर्तन्ते । "मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते" इति हि वक्ष्यते ॥ भगवद्गीतारामानुजभाष्य ७.२३ ॥ इतरे तु सर्वसमाश्रयणीयत्वाय मम मनुष्यादिष्ववतारमप्यकिञ्चित्करं कुर्वन्तीत्याह अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो मम अव्ययमनुत्तमम् ॥ भगवद्गीता७.२४ ॥ सर्वैः कर्मभिराराध्योऽहं सर्वेश्वरो वाङ्मनसापरिच्छेद्यस्वरूपस्वभावः परमकारुण्यादश्रित्यवात्सल्याच्च सर्वसमाश्रयणीयत्वायाजहत्स्वभाव एव वसुदेवसूनुरवरीर्ण इति ममैवं परं भावमव्ययमनुत्तममजानन्तः प्राकृतराजसूनुसमानमितः पूर्वमनभिव्यक्तमिदानीं कर्मवशाज्जन्मविशेषं प्राप्य व्यक्तिमापन्नं प्राप्तं मां बुद्धयो मन्यन्ते । अतो मां नाश्रयन्ते॑ न कर्मभिराराधयन्ति च ॥ भगवद्गीतारामानुजभाष्य ७.२४ ॥ कुत एवं न प्रकाश्यत इत्यत्राह नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ भगवद्गीता७.२५ ॥ क्षेत्रज्ञासाधारणमनुष्यत्वादिसंस्थानयोगाख्यमायया समावृतोऽहं न सर्वस्य प्रकाशः । मयि मनुष्यत्वादिसंस्थानदर्शनमात्रेण मूढोऽयं लोको मामतिवाय्विन्द्रकर्माणमतिसूर्याग्नितेजसमुपलभ्यमानमपि अजमव्ययं निखिलजगदेककारणं सर्वेश्वरं मां सर्वसमाश्रयणीयत्वाय मनुष्यत्वसंस्थानमास्थितं नाभिजानाति ॥ भगवद्गीतारामानुजभाष्य ७.२५ ॥ वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥ भगवद्गीता७.२६ ॥ अतीतानि वर्तमानानि अनागतानि च सर्वाणि भूतान्यहं वेद जानामि । मां तु वेद न कश्चन मयानुसंधीयमानेषु कालत्रयवर्तिषु भूतेषु मामेवंविधं वासुदेवं सर्वसमाश्रय्णीयत्वायावतीर्णं विदित्वा मामेव समाश्रयन्न कश्चिदुपलभ्यत इत्यर्थः । अतो ज्ञानी सुदुर्लभ एव ॥ भगवद्गीतारामानुजभाष्य ७.२६ ॥ तथा हि इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि संमोहं सर्गे यान्ति परन्तप ॥ भगवद्गीता७.२७ ॥ इच्छाद्वेषाभ्यां समुत्थितेन शीतोष्णादिद्वन्द्वाख्येन मोहेन सर्वभूतानि सर्गे जन्मकाल एव संमोहं यान्ति । एतदुक्तं भवति गुणमयेषु सुखदुःखादिद्वन्द्वेषु पूर्वपूर्वजन्मनि यद्विषयौ इच्छाद्वेषौ अभ्यस्तौ, तद्वासनया पुनरपि जन्मकाल एव तदेव द्वन्द्वाख्यमिच्छाद्वेषविषयत्वेन समुत्थितं भूतानां मोहनं भवति॑ तेन मोहेन सर्वभूतानि संमोहं यान्ति॑ तद्विषयेच्छाद्वेषस्वभावानि भवन्ति, न मत्सम्श्लेषवियोगसुखदुःखस्वभावानि, ज्ञानी तु मत्संश्लेषवियोगैकसुखदुःखस्वभावः॑ न तत्स्वभावं किमपि भूतं जायते इति ॥ भगवद्गीतारामानुजभाष्य ७.२७ ॥ येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः ॥ भगवद्गीता७.२८ ॥ येषां त्वनेकजन्मार्जितेनोत्कृष्टपुण्यसंचयेन गुणमयद्वन्द्वेच्च्छाद्वेषहेतुभूतं मदौन्मुख्यविरोधि च अनादिकालप्रवृत्तं पापमन्तगतं क्षीणम्॑ ते पूर्वोक्तेन सुकृततारतम्येन मां शरणमनुप्रपद्य गुणमयान्मोहाद्विनिर्मुक्ताः जरामरणमोक्षाय, महते चाइश्वर्याय, मत्प्राप्तये च दृढव्रताः दृढसङ्कल्पाः मामेव भजन्ते ॥ भगवद्गीतारामानुजभाष्य ७.२८ ॥ अत्र त्रयाणां भगवन्तं भजमानानां ज्ञातव्यविशेषानुपादेयांश्च प्रस्तौति जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥ भगवद्गीता७.२९ ॥ जरामरणमोक्षाय प्रकृतिवियुक्तात्मस्वरूपदर्शनाय मामाश्रित्य ये यतन्ते, ते तद्ब्रह्म विदुः, अध्यात्मं तु कृत्स्नं विदुः, कर्म चाखिलं विदुः ॥ भगवद्गीतारामानुजभाष्य १.२९ ॥ साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ भगवद्गीता७.३० ॥ अत्र य इति पुनर्निर्देशात्पूर्वनिर्दिष्टव्योऽन्ये अधिकारिणो ज्ञायन्ते॑ साधिभूतं साधिदैवं मामैश्वर्यार्थिनो ये विदुः इत्येतदनुवादसरूपमप्यप्राप्तार्थत्वाद्विधायकमेव॑ तथा साधियज्ञमित्यपि त्रयाणामधिकारिणामविशेषेण विधीयते॑ अर्थस्वभाव्यात् । त्रयाणां हि नित्यनैमित्तिकरूपमहायज्ञाद्यनुष्ठानमवर्जनीयम् । ते च प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुः । ते चेति चकारात्पूर्वे जरामरणमोक्षाय यतमानाश्च प्रयाणकाले विदुरिति समुच्चीयन्ते॑ अनेन ज्ञानिनोऽप्यर्थस्वाभाव्यात्साधियज्ञं मां विदुः, प्रयाणकालेऽपि स्वप्राप्यानुगुणं मां विदुरित्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य ७.३० ॥ ******************** अध्याय ८ ******************** सप्तमे परस्य ब्रह्मणो वासुदेवस्योपास्यत्वं निखिलचेतनाचेतनवस्तुशेषित्वम्, कारणत्वम्, आधारत्वम्, सर्वशरीरतया सर्वप्रकारत्वेन सर्वशब्दवाच्यत्वम्, सर्वनियन्तृत्वम्, सर्वैश्च कल्याणगुणगणैस्तस्यैव परतरत्वम्, सत्त्वरजस्तमोमयैर्देहेन्द्रियत्वेन भोग्यत्वेन चावस्थितैर्भावैरनादिकालप्रवृत्तदुष्कृतप्रवाहहेतुकैस्तस्य तिरोधानम्, अत्युत्कृष्टसुकृतहेतुकभगवत्प्रपत्त्या सुकृततारतम्येन च प्रतिपत्तिवैशेष्यादैश्वर्याक्षरयाथात्म्यभगवत्प्राप्त्यपेक्षयोपासकभेदम्, भगवन्तं प्रेप्सोर्नित्ययुक्ततयैकभक्तितया चात्यर्थपरमपुरुषप्रियत्वेन च श्रैष्ठ्यं दुर्लभत्वं च प्रतिपाद्य एषां त्रयाणां ज्ञातव्योपादेयभेदांश्च प्रास्तौषीत् । इदानीमष्टमे प्रस्तुतान् ज्ञातव्योपादेयभेदान् विविनक्ति ॥ अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ भगवद्गीता८.१ ॥ अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदनम् । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ भगवद्गीता८.२ ॥ जरामरणमोक्षाय भगवन्तमाश्रित्य यतमानानां ज्ञातव्यतयोक्तं तद्ब्रह्म अध्यात्मं च किमिति वक्तव्यम् । ऐश्वर्यार्थीनां ज्ञातव्यमधिभूतमधिदैवं च किम्? त्रयाणां ज्ञातव्योऽधियज्ञशब्दनिर्दिष्टश्च कः? तस्य चाधियज्ञभावः कथम्? प्रयाणकाले च एभिस्त्रिभिर्नियतात्मभिः कथं ज्ञेयोऽसि? ॥ भगवद्गीतारामानुजभाष्य ८.१,२ ॥ श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ भगवद्गीता८.३ ॥ तद्ब्रह्मेति निर्दिष्टं परममक्षरं न क्षरतीत्यक्षरम्, क्षेत्रज्ञसमष्टिरूपम् । तथा च श्रुतिः, "अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते" इत्यादिका । परममक्षरं प्रकृतिविनिर्मुक्तमात्मस्वरूपम् । स्वभावोऽध्यात्ममुच्यते । स्वभावः प्रकृतिः । अनात्मभूतम्, आत्मनि संबध्यमानं भूतसूक्ष्मतद्वासनादिकं पञ्चाग्निविद्यायां ज्ञातव्यतयोदितम् । तदुभयं प्राप्यतया त्याज्यतया च मुमुक्षुभिर्ज्ञातव्यम् । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः । भूतभावः मनुष्यादिभावः॑ तदुद्भवकरो यो विसर्गः, "पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति श्रुतिसिद्धो योषित्संबन्धजः, स कर्मसंज्ञितः । तच्चाखिलं सानुबन्धमुद्वेजनीयतया, परिहरणीयतया च मुमुक्षुभिर्ज्ञातव्यम् । परिहरणीयतया चानन्तरमेव वक्ष्यते, "यदिच्छन्तो ब्रह्मचर्यं चरन्ति" इति ॥ भगवद्गीतारामानुजभाष्य ८.३ ॥ अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ भगवद्गीता८.४ ॥ ऐश्वर्यार्थिनां ज्ञातव्यतया निर्दिष्टमधिभूतं क्षरो भावः वियदादिभूतेषु वर्तमानः तत्परिणामविशेषः क्षरणस्वभावो विलक्षणः शब्दस्पर्शादिस्सास्रयः । विलक्षणाः साश्रयाश्शब्दस्पर्शरूपरसगन्धाः ऐश्वर्यार्थिभिः प्राप्यास्तैरनुसन्धेयाः । पुरुषश्चाधिदैवतमधिदैवतशब्दनिर्दिष्टः पुरुषः अधिदैवतं देवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतिकृत्स्नदैवतोपरि वर्तमानः, इन्द्रप्रजापतिप्रभृतीनां भोग्यजातद्विलक्षणशब्दादेर्भोक्ता पुरुषः । सा च भोक्तृत्वावस्था ऐश्वर्यार्थिभिः प्राप्यतयानुसन्धेया । अधियज्ञोऽहमेव । अधियज्ञः यज्ञैराराध्यतया वर्तमानः । अत्र इन्द्रादौ मम देहभूते आत्मतयावस्थितोऽहमेव यज्ञैराराध्य इति महायज्ञादिनित्यनैमित्तिकानुष्ठानवेलायां त्रयाणामधिकारिणामनुसन्धेयमेतत् ॥ भगवद्गीतारामानुजभाष्य ८.४ ॥ अन्तकाले च मामेव स्मरन्मुक्त्वा कलेबरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ भगवद्गीता८.५ ॥ इदमपि त्रयाणां साधारणम् । अन्तकाले च मामेव स्मरन् कलेवरं त्यक्त्वा यः प्रयाति, स मद्भावं याति मम यो भावः स्वभावः तं याति॑ तदानीं यथा मामनुसन्धत्ते, तथाविधाकारो भवतीत्यर्थः॑ यथा आदिभरतादयस्तदानीं स्मर्यमाणमृगसजातीयाकारात्संभूताः ॥ भगवद्गीतारामानुजभाष्य ८.५ ॥ स्मर्तुस्स्वविषयसजातीयाकारतापादनमन्त्यप्रत्ययस्य स्वभाव इति सुस्पष्टमाह यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेबरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ भगवद्गीता८.६ ॥ अन्ते अन्तकाले यं यं वापि भावं स्मरन् कलेबरं त्यजति, तं तं भावमेव मरणानन्तरमेति । अन्तिमप्रत्ययश्च पूर्वभावितविषय एव जायते ॥ भगवद्गीतारामानुजभाष्य ८.६ ॥ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । मय्यर्पितमनोबुद्धिः मामेवैष्यस्यसंशयः ॥ भगवद्गीता८.७ ॥ यस्मात्पूर्वकालाभ्यस्तविषय एवान्त्यप्रत्ययो जायते, तस्मात्सर्वेषु कालेष्वाप्रयाणादहरहर्मामनुस्मर । अहरहरनुस्मृतिकरं युद्धादिकं वर्णाश्रमानुबन्धि श्रुतिस्मृतिचोदितं नित्यनैमित्तिकं च कर्म कुरु । एवमुपायेन मय्यर्पितमनोबुद्धिः अन्तकले च मामेव स्मरन् यथाभिलषितप्रकारं मां प्राप्स्यसि॑ नात्र संशयः ॥ भगवद्गीतारामानुजभाष्य ८.७ ॥ एवं सामान्येन स्वप्राप्यावाप्तिरन्त्यप्रत्ययाधीनेत्युक्त्वा तदर्थं त्रयाणामुपासनप्रकारभेदं वक्तुमुपक्रमते॑ तत्राइश्वर्यार्थिनामुपासनप्रकारं यथोपासनमन्त्यप्रत्ययप्रकारं चाह अभ्यासयोगयुक्तेन चेतसा नान्यगामिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ भगवद्गीता८.८ ॥ अहरहरभ्यासयोगाभ्यां युक्ततया नान्यगामिना चेतसा अन्तकाले परमं पुरुषं दिव्यं मां वक्ष्यमाणप्रकारं चिन्तयन्मामेव याति आदिभरतमृगत्वप्राप्तिवदैश्वर्यविशिष्टतया मत्समानाकारो भवति । अभ्यासः नित्यनैमित्तिकाविरुद्धेषु सर्वेषु कालेषु मनसोपास्यसंशीलनम् । योगस्तु अहरहर्योगकालेऽनुष्ठीयमानं यथोक्तलक्षणमुपासनम् ॥ भगवद्गीतारामानुजभाष्य ८.८ ॥ कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ भगवद्गीता८.९ ॥ प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ भगवद्गीता८.१० ॥ कविं सर्वज्ञन् पुराणं पुरातनमनुशासितारं विश्वस्य प्रशासितारमणोरणीयांसं जीवादपि सूक्ष्मतरम्, सर्वस्य धातारं सर्वस्य स्रष्टारम्, अचिन्त्यरूपं सकलेतरविसजातीयस्वरूपम्, आदित्यवर्णं तमसः परस्तादप्राकृतस्वासाधारणदिव्यरूपम्, तमेवंभूतमहरहरभ्यस्यमानभक्तियुक्तयोगबलेन आरूढसंस्कारतया अचलेन मनसा प्रयाणकाले भ्रुवोर्मध्ये प्राणमावेश्य संस्थाप्य तत्र भूमध्ये दिव्यं पुरुषं योऽनुस्मरेत्॑ स तमेवोपैति तद्भावं याति, तत्समानाइश्वर्यो भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ८.९,१० ॥ अथ कैवल्यार्थिनां स्मरणप्रकारमाह यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये ॥ भगवद्गीता८.११ ॥ यदक्षरमस्थूलत्वादिगुणकं वेदविदो वदन्ति, वीतरागाश्च यतयो यदक्षरं विशन्ति, यदक्षरं प्राप्तुमिच्छन्तो ब्रह्मचर्यं चरन्ति, तत्पदं संग्रहेण ते प्रवक्ष्ये । पद्यते गम्यते चेतसेति पदम्॑ तन्निखिलवेदान्तवेद्यं मत्स्वरूपमक्षरं यथा उपास्यम्, तथा संक्षेपेण प्रवक्ष्यामीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ८.११ ॥ सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ भगवद्गीता८.१२ ॥ ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ भगवद्गीता८.१३ ॥ सर्वाणि श्रोत्रादीनीन्द्रियाणि ज्ञानद्वारभूतानि संयम्य स्वव्यापारेभ्यो विनिवर्त्य, हृदयकमलनिविष्टे मय्यक्षरे मनो निरुध्य, योगाख्यां धारणामास्थितः मय्येव निश्चलां स्थितिमास्थितः, ओमित्येकाक्षरं ब्रह्म मद्वाचकं व्याहरन्, वाच्यं मामनुस्मरन्, आत्मनः प्राणं मूर्ध्न्याधाय देहं त्यजन् यः प्रयाति स याति परमां गतिं प्रकृतिवियुक्तं मत्समानाकारमपुनरावृत्तिमात्मानं प्राप्नोतीत्यर्थः । "यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् ॥ भगवद्गीतारामानुजभाष्य १." इत्यनन्तरमेव वक्ष्यते ॥८१२, १३॥ एवमैश्वर्यार्थिनः कैवल्यार्थिनश्च स्वप्राप्यानुगुणं भगवदुपासनप्रकार उक्तः॑ अथ ज्ञानिनो भगवदुपासनप्रकारं प्राप्तिप्रकारं चाह अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ भगवद्गीता८.१४ ॥ नित्यशः मामुद्योगप्रभृति सततं सर्वकालमनन्यचेताः यः स्मरति अत्यर्थमत्प्रियत्वेन मत्स्मृत्या विना आत्मधारणमलभमानो निरतिशयप्रियां स्मृतिं यः करोति॑ तस्य नित्ययुक्तस्य नित्ययोगं काङ्क्षमाणस्य योगिनः अहं सुलभः अहमेव प्राप्यः॑ न मद्भाव ऐश्वर्यादिकः सुप्रापश्च । तद्वियोगमसहमानोऽहमेव तं वृणे । "यमेवैष वृणुते तेन लभ्यः" इति हि श्रूयते । मत्प्राप्त्यनुगुणोपासनविपाकं तद्विरोधिनिरसनमत्यर्थमत्प्रियत्वादिकं चाहमेव ददामीत्यर्थः । वक्ष्यते च "तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपायान्ति ते ॥ तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ भगवद्गीतारामानुजभाष्य १." इति ॥८१४॥ अतः परमध्यायशेषेण ज्ञानिनः कैवल्यार्थिनश्चापुनरावृत्तिमैश्वर्यार्थिनः पुनरावृत्तिं चाह मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ भगवद्गीता८.१५ ॥ मां प्राप्य पुनर्निखिलदुःखालयमशाश्वतमस्थिरं जन्म न प्राप्नुवन्ति । यत एते महात्मानः महामनसः, यथावस्थितमत्स्वरूपज्ञानाना अत्यर्थमत्प्रियत्वेन मया विना आत्मधारणमलभमाना मय्यास्क्तमनसो मदाश्रया मामुपास्य परमसंसिद्धिरूपं मां प्राप्ताः ॥ भगवद्गीतारामानुजभाष्य ८.१५ ॥ ऐश्वर्यगतिं प्राप्तानां भगवन्तं प्राप्तानां च पुनरावृत्तौ अपुनरावृत्तौ च हेतुमनन्तरमाह आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ भगवद्गीता८.१६ ॥ ब्रह्मलोकपर्यन्ताः ब्रह्माण्डोदरवर्तिनस्सर्वे लोका भोगाइश्वर्यालयाः पुनरावर्तिनः विनाशिनः । अत ऐश्वर्यगतिं प्राप्तानां प्राप्यस्थानविनाशाद्विनाशित्वमवर्जनीयम् । मां सर्वज्ञं सत्यसङ्कल्पं निखिलजगदुत्पत्तिस्थितिलयलीलं परमकारुणिकं सदैकरूपं प्राप्तानां विनाशप्रसङ्गाभावात्तेषां पुनर्जन्म न विद्यते ॥ भगवद्गीतारामानुजभाष्य ८.१६ ॥ ब्रह्मलोकपर्यन्तानां लोकानां तदन्तर्वर्तिनां च परमपुरुषसङ्कल्पकृतामुत्पत्तिविनाशकालव्यवस्थामाह सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ भगवद्गीता८.१७ ॥ अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ भगवद्गीता८.१८ ॥ भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ भगवद्गीता८.१९ ॥ ये मनुष्यादिचतुर्मुखान्तानां मत्सङ्कल्पकृताहोरात्रव्यवस्थाविदो जनाः, ते ब्रह्मणश्चतुर्मुखस्य यदहः तच्चतुर्युगसहस्रावसानं विदुः, रात्रिं च तथारूपाम् । तत्र ब्रह्मणोऽहरागमसमये त्रैलोक्यान्तर्वर्तिन्यो देहेन्द्रियभोग्यभोगस्थानरूपा व्यक्तश्चतुर्मुखदेहावस्थादव्यक्तात्प्रभवन्ति । तत्रैव अव्यक्तावस्थाविशेषे चतुर्मुखदेहे रात्र्यागमसमये प्रलीयन्ते । स एवायं कर्मवश्यो भूतग्रामोऽहरागमे भूत्वा भुत्वा रात्र्यागमे प्रलीयते । पुनरप्यहरागमे प्रभवति । तथा वर्षतावसानरूपयुगसहस्रान्ते ब्रह्मलोकपर्यन्ता लोकाः ब्रह्मा च, "पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते" इत्यादिक्रमेण अव्यक्ताक्षरतमःपर्यन्तं मय्येव प्रलीयन्ते । एवं मद्व्यतिरिक्तस्य कृत्स्नस्य कालव्यवस्थया मत्त उत्पत्तेः मयि प्रलयाच्चोत्पत्तिविनाशयोगित्वमवर्जनीयमित्यैश्वर्यगतिं प्राप्तानां पुनरावृत्तिरपरिहार्या । मामुपेतानां तु न पुनरावृत्तिप्रसङ्गः ॥ भगवद्गीतारामानुजभाष्य ८.१९ ॥ अथ कैवल्यं प्रप्तानामपि पुनरावृत्तिर्न विद्यत इत्यह परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः । यस्य सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ भगवद्गीता८.२० ॥ अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ भगवद्गीता८.२१ ॥ तस्मादव्यक्तादचेतनप्रकृतिरूपात्पुरुषार्थतया परः उत्कृष्टो भावोऽन्यो ज्ञानैकाकारतया तस्माद्विसजातीयः, अव्यक्तः केनचित्प्रमाणेन न व्यज्यत इत्यव्यक्तः, स्वसंवेद्यस्वासाधारणाकार इत्यर्थः॑ सनातनः उत्पत्तिविनाशानर्हतया नित्यः यः सर्वेषु वियदादिभूतेषु सकारणेषु सकार्येषु विनश्यत्सु तत्र तत्र स्थितोऽपि न विनश्यति॑ सः अव्यक्तोऽक्षर इत्युक्तः, "ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते", "कूटस्थोऽक्षर उच्यते" इत्यादिषु तं वेदविदः परमां गतिमाहुः । अयमेव, "यः प्रयाति त्यजन् देहं स याति परमां गतिम्" इत्यत्र परमगतिशब्दनिर्दिष्टोऽक्षरः प्रकृतिसंसर्गवियुक्तस्वस्वरूपेणावस्थित आत्मेत्यर्थः । यमेवंभूतं स्वरूपेणावस्थितं प्राप्य न निवर्तन्ते॑ तन्मम परमं धाम परं नियमनस्थानम् । अचेतनप्रकृतिरेकं नियमनस्थानम्॑ तत्संसृष्टरूपा जीवप्रकृतिर्द्वितीयं नियमनस्थानम् । अचित्संसर्गवियुक्तं स्वरूएणावथितं मुक्तस्वरूपं परमं नियमनस्थानमित्यर्थः । तच्चापुनरावृत्तिरूपम् । अथ वा प्रकाशवाची धामशब्दः॑ प्रकाशः चेह ज्ञानमभिप्रेतम्॑ प्रकृतिसंसृष्टात्परिछिन्नज्ञानरूपादात्मनोऽपरिच्छिन्नज्ञानरूपतया मुक्तस्वरूपं परं धाम ॥ भगवद्गीतारामानुजभाष्य १.२० ॥२१॥ ज्ञानिनः प्राप्यं तु तस्मादत्यन्तविभक्तमित्याह पुरुषस्स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तस्स्थानि भूतानि येन सर्वमिदं ततम् ॥ भगवद्गीता८.२२ ॥ "मत्तः परतरं नान्यत्किञ्चिदस्ति धनंजय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ भगवद्गीतारामानुजभाष्य १.", "मामेभ्यः परमव्ययम्" इत्यादिना निर्दिष्टस्य यस्य अन्तस्स्थानि सर्वाणि भूतानि, येन च परेण पुरुषेण सर्वमिदं ततम्, स परः पुरुषः "अनन्यचेतास्सततम्" इत्यनन्यया भक्त्या लभ्यः ॥८२२॥ अथात्मयाथात्म्यविदुः परमपुरुषनिष्टस्य च साधरणीमर्चिरादिकां गतिमाह द्वयोरप्यर्चिरादिका गतिः श्रुतौ श्रुता । सा चापुनरावृत्तिलक्षणा । यथा पञ्चाग्निविद्यायाम्, "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते, तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहः" इत्यादौ । अर्चिरादिकया गतस्य परब्रह्मप्राप्तिरपुनरावृत्तिश्चाम्नाता, "स एनान् ब्रह्म गमयति एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते" इति । न च प्रजापतिवाक्यादौ श्रुतपरविद्याङ्गभूतात्मप्राप्तिविषयेयम्, "तद्य इत्थं विदुः" इति गतिश्र्तुइः, "ये चेमेऽरण्ये श्रद्धा तप इत्युपासते" इति परविद्यायाः पृथक्छ्रुतिवैयार्थ्यात् । पञ्चाग्निविद्यायां च, "इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति" इति, "रमणीयचरणाः ... कपूयचरणाः" इति पुण्यपापहेतुको मनुष्यादिभावोऽपामेव भूतान्तरसंसृष्टानाम्, आत्मनस्तु तत्परिष्वङ्गमात्रमिति चिदचितोर्विवेकमभिधाय, "तद्य इत्थं विदुः ,,, तेऽर्चिषमसंभवन्ति ... इमं मानवमावर्तं नावर्तन्ते" इति विविक्ते चिदचिद्वस्तुनी त्याज्यतया प्राप्यतया च य इत्थं विदुः तेऽर्चिरादिना गच्छन्ति, न च पुनरावर्तन्त इत्युक्तमिति गम्यते । आत्मयाथात्म्यविदः परमपुरुषनिष्ठस्य च "स एनान् ब्रह्म गमयति" इति ब्रह्मप्राप्तिवचनादचिद्वियुक्तमात्मवस्तु ब्रह्मात्मकतया ब्रह्मशेषतैकरसमित्यनुसन्धेयम्॑ तत्क्रतुन्यायाच्च । परशेषतैकरसत्वं च "य आत्मनि तिष्ठन् ... यस्यात्मा शरीरम्" इत्यादिश्रुतिसिद्धम् । यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ भगवद्गीता८.२३ ॥ अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ भगवद्गीता८.२४ ॥ अत्र कालशब्दो मार्गस्याहःप्रभृतिसंवतरान्तकालाभिमानिदेवताभूयस्तया मार्गोपलक्षणार्थः । यस्मिन्मार्गे प्रयाता योगिनोऽनावृत्तिं पुण्यकर्माणश्चावृत्तिं यान्ति तं मार्गं वक्ष्यामीत्यर्थः । "अग्निर्ज्योतिरहश्शुक्लः षण्मासा उत्तरायणम्" इति संवत्सरादीनां प्रदर्शनम् ॥ भगवद्गीतारामानुजभाष्य ८.२३,२४ ॥ धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायणम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ भगवद्गीता८.२५ ॥ एतच्च धूमादिमार्गस्थपितृलोकादेः प्रदर्शनम् । अत्र योगिशब्दः पुण्यकर्मसंबन्धिविषयः ॥ भगवद्गीतारामानुजभाष्य ८.२५ ॥ शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ भगवद्गीता८.२६ ॥ शुक्ला गतिः अर्चिरादिका, कृष्णा च धूमादिका । शुक्लयानावृत्तिं याति॑ कृष्णया तु पुनरावर्तते । एते शुक्लकृष्णे गती ज्ञानिनां विविधानां पुण्यकर्मणां च श्रुतौ शाश्वते मते । "तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति", "अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति" इति ॥ भगवद्गीतारामानुजभाष्य ८.२६ ॥ नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ भगवद्गीता८.२७ ॥ एतौ मार्गौ जानन् योगी प्रयाणकाले कश्चन न मुह्यति॑ अपि तु स्वेनैव देवयानेन पथा याति । तस्मादहरहर्चिरादिगतिचिन्तनाख्ययोगयुक्तो भव ॥ भगवद्गीतारामानुजभाष्य ८.२७ ॥ अथाध्यायद्वयोदितशास्त्रार्थवेदनफलमाह वेदेषु यज्ञेषु तपस्सु चैव दाने च यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ भगवद्गीता८.२८ ॥ ऋग्यजुस्सामाथर्वरूपवेदाभ्यासयज्ञतपोदानप्रभृतिषु सर्वेषु पुण्येषु यत्फलं निर्दिष्टम्, इदमध्यायद्वयोदितं भगवन्माहात्म्यं विदित्वा तत्सर्वमत्येति एतद्वेदनसुखातिरेकेण तत्सर्वं तृणवन्मन्यते । योगी ज्ञानी च भूत्वा ज्ञानिनः प्राप्यं परमाद्यं स्थानमुपैति ॥ भगवद्गीतारामानुजभाष्य ८.२८ ॥ ******************** अध्याय ९ ******************** उपासकभेदनिबन्धना विशेषाः प्रतिपादिताः । इदानीमुपास्यस्य परमपुरुषस्य माहात्म्यम्, ज्ञानिनां विशेषं च विशोध्य भक्तिरूपस्योपासनस्य स्वरूपमुच्यते । श्रीभगवानुवाच इदं तु गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्षसेऽशुभात् ॥ भगवद्गीता९.१ ॥ इदं तु गुह्यतमं भक्तिरूपमुपासनाख्यं ज्ञानं विज्ञानसहितमुपासनगतविशेषज्ञानसहितम्, अनसूयवे ते प्रवक्ष्यामि मद्विषयं सकलेतरविसजातीयमपरिमितप्रकारं माहात्म्यं श्रुत्वा, एवमेव संभवतीति मन्वानाय ते प्रवक्ष्यामीत्यर्थः । यज्ज्ञानमनुष्ठानपर्यन्तं ज्ञात्वा मत्प्राप्तिविरोधिनः सर्वस्मादशुभान्मोक्ष्यसे ॥ भगवद्गीतारामानुजभाष्य ९.१ ॥ राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ भगवद्गीता९.२ ॥ राजविद्या विद्यानां राजा, राजगुह्यं गुह्यानां राजा । राज्ञां विद्येति वा राजविद्या । राजानो हि विस्तीर्णागाध्यमनसः । महामनसामियं विद्येत्यर्थः । महामनस एव हि गोपनीयगोपनकुशला इति तेषामेव गुह्यम् । इदमुत्तमं पवित्रं मत्प्राप्तिविरोध्यशेषकल्मषापहम् । प्रत्यक्षावगमम् । अवगम्यत इत्यवगमः विषयः॑ प्रत्यक्षभूतोऽवगमः विषयो यस्य ज्ञानस्य तत्प्रत्यक्षावगमम् । भक्तिरूपेणोपासनेनोपास्यमानोऽहं तादानीमेवोपासितुः प्रत्यक्षतामुपगतो भवामीत्यर्थः । अथापि धर्म्यं धर्मादनपेतम् । धर्मत्वं हि निश्श्रेयससाधनत्वम् । स्वरूपेणैवात्यर्थप्रियत्वेन तदानीमेव मद्दर्शनापादनतया च स्वयं निश्श्रेयसरूपमपि निरतिशयनिश्श्रेयसरूपात्यन्तिकमत्प्राप्तिसाधनमित्यर्थः । अत एव सुसुखं कर्तुं सुसुखोपादानम् । अत्यर्थप्रियत्वेनोपादेयम् । अव्ययमक्षयम्॑ मत्प्राप्तिं साधयित्वा+अपि स्वयं न क्षीयते । एवंरूपमुपासनं कुर्वतो मत्प्रदाने कृतेऽपि किंचित्कृतं मया+अस्येति मे प्रतिभातीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२ ॥ अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ भगवद्गीता९.३ ॥ अस्योपासनाख्यस्य धर्मस्य निरतिशयप्रियमद्विषयतया स्वयं निरतिशयप्रियरूपस्य परमनिश्श्रेयसरूपमत्प्राप्तिसाधनस्याव्ययस्योपादानयोग्यदशायां प्राप्य अश्रद्दधानाः विश्वासपूर्वकत्वरारहिताः पुरुषाः मामप्राप्य मृत्युरूपे संसारवर्त्मनि नितरां वर्तन्ते । अहो महदिदमाश्चर्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.३ ॥ शृणु तावत्प्राप्यभूतस्य ममाचिन्त्यमहिमानम् मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ भगवद्गीता९.४ ॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ भगवद्गीता९.५ ॥ इदं चेतनाचेतनात्मकं कृत्स्नं जगदव्यक्तमूर्तिना अप्रकाशितस्वरूपेण मया अन्तर्यामिणा, ततमस्य जगतो धारणार्थं नियमनार्थं च शेषित्वेन व्याप्तमित्यर्थः । यथान्तर्यामिब्राह्मणे, "यः पृथिव्यां तिष्ठन् ... यं पृथिवी न वेद", "य आत्मनि तिष्ठन् ... यमात्मा न वेद" इति चेतनाचेतनवस्तुजातैरदृष्टेणान्तर्यामिणा तत्र तत्र व्याप्तिरुक्ता । ततो मत्स्थानि सर्वभूतानि सर्वाणि भूतानि मय्यन्तर्यामिणि स्थितानि । तत्रैव ब्राह्मणे, "यस्य पृथिवी शरीरं ... यः पृथिवीमन्तरो यमयति, यस्यात्मा शरीरं ... य आत्मानमन्तरो यमयति" इति शरीरत्वेन नियाम्यत्वप्रतिपादनात्तदायत्ते स्थितिनियमने प्रतिपादिते॑ शेषित्वं च । न चाहं तेष्ववस्थितः अहं तु न तदायत्तस्थितिः॑ मत्स्थितौ तैर्न कश्चिदुपकार इत्यथः । न च मत्स्थानि भूतानि न घटादीनां जलादेरिव मम धारकत्वम् । कथम्? मत्सङ्कल्पेन । पश्य ममाइश्वरं योगमन्यत्र कुत्रचिदसंभावनीयं मदसाधारणमाश्चर्यं योगं पश्य । कोऽसौ योग? भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । सर्वेषां भूतानां भर्ताहम्॑ न च तैः कश्चिदपि ममोपकारः । ममात्मैव भूतभावनः मम मनोमयस्सङ्कल्प एव भूतानां भावयिता धारयिता नियन्ता च ॥ भगवद्गीतारामानुजभाष्य ९.४,५ ॥ सर्वस्यास्य स्वसङ्कल्पायत्तस्थितिप्रवृत्तित्वे निदर्शनमाह यथा+आकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ भगवद्गीता९.६ ॥ यथा आकशे अनालम्बने महान् वयुः स्थितः सर्वत्र गच्छति॑ स तु वायुर्निरालम्बनो मदायत्तस्थितिरित्यवश्याभ्युपगमनीयः एवमेव सर्वाणि भूतानि तैरदृष्टे मयि स्थितानि मयैव धृतानीत्युपधारय । यथा+आहुर्वेदविदः, "मेघोदयः सागरसन्निवृत्तिरिन्दोर्विभागः स्फुरितानि वायोः । विद्युद्विभङ्गो गतिरुष्णरश्मेर्विष्णोर्विचित्राः प्रभवन्ति मायाः" इति विष्णोरनन्यसाधारणानि महाश्चर्याणीत्यर्थः । श्रुतिरपि, "एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः", "भीषा+अस्माद्वातः पवते,भीषोदेति सूर्यः, भीषा+अस्मादग्निश्चेन्द्रश्च" इत्यादिका ॥ भगवद्गीतारामानुजभाष्य ९.६ ॥ सकलेतरनिरपेक्षस्य भगवतस्सङ्कल्पात्सर्वेषां स्थितिः प्रवृत्तिश्चोक्ता तथा तत्सङ्कल्पादेव सर्वेषामुत्पत्तिप्रलयावपीत्याह सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ भगवद्गीता९.७ ॥ स्थावरजङ्गमात्मकानि सर्वाणि भूतानि, मामिकां मच्छरीरभूताम्, प्रकृतिं तमश्शब्दवाच्यां नामरूपविभागानर्हाम्, कल्पक्षये चतुर्मुखावसानसमये मत्सङ्कल्पाद्यान्ति॑ तान्येव भूतानि कल्पादौ पुनर्विसृज्याम्यहम्॑ यथा+आह मनुः "आसीदिदं तमोभूतं ... सोऽभिध्याय शरीरात्स्वात्" इति । श्रुतिरपि "यस्याव्यक्तं शरीरम्", "अव्यक्तमक्षरे लीयते, अक्षरं तमसि लीयते" इत्यादिका, "तमासीत्तमसा गूढमग्रे प्रकेतम्" इति च ॥ भगवद्गीतारामानुजभाष्य ९.७ ॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ भगवद्गीता९.८ ॥ स्वकीयां विचित्रपरिणामिनीं प्रकृतिमवष्टभ्य अष्टधा परिणाम्य्यिमं चतुर्विधं देवतिर्यङ्मनुष्यस्थावरात्मकं भूतग्रामं मदीयाया मोहिन्या गुणमय्याः प्रकृतेर्वशादवशं पुनः पुनः काले काले विसृजामि ॥ भगवद्गीतारामानुजभाष्य ९.८ ॥ एवं तर्हि विषमसृष्ट्यादीनि कर्माणि नैघृण्याद्यापादनेन भवन्तं बध्नन्तीत्यत्राह न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ भगवद्गीता९.९ ॥ न च तानि विषमसृष्ट्यादीनि कर्माणि मां निबध्नन्ति मयि नैर्घृण्यादिकं नापादयन्ति, यतः क्षेत्रज्ञानां पूर्वकृतान्येव कर्माणि देवादिविषमभावहेतवः॑ अहं तु तत्र वैषम्ये असक्तः तत्रोदासीनवदासीनः॑ यथा +आह सूत्रकारः "वैषम्यनैर्घृण्ये न सापेक्षत्वात्", न कर्माविभागादिति चेन्नानादित्वात्" इति ॥ भगवद्गीतारामानुजभाष्य ९.९ ॥ मया+अध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुना+अनेन कौन्तेय जगद्धि परिवर्तते ॥ भगवद्गीता९.१० ॥ तस्मात्क्षेत्रज्ञकर्मानुगुणं मदीया प्रकृतिः सत्यसङ्कल्पेन मया+अध्यक्षेणेक्षिता सचराचरं जगत्सूयते । अनेन क्षेत्रज्ञकर्मानुगुणमदीक्षणेन हेतुना जगत्परिवर्तत इति मत्स्वाम्यं सत्यसङ्कल्पत्वं नैर्घृण्यादिदोषरहितत्वमित्येवमादिकं मम वसुदेवसूनोरैश्वरं योगं पश्य । यथा+आह श्रुतिः, "अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु म्हेश्वरम् ॥ भगवद्गीतारामानुजभाष्य १." इति ॥९१०॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ भगवद्गीता९.११ ॥ एवं मां भूतमहेश्वरं सर्वज्ञं सत्यसङ्कल्पं निखिलजगदेककारणं परमकारुणिकतया सर्वसमाश्रयणीयत्वाय मानुषीं तनुमाश्रितं स्वकृतैः पापकर्मभिर्मूढा अवजानन्ति प्राकृतमनुष्यसमं मन्यन्ते । भूतमहेश्वरस्य ममापारकारुण्योदार्यसौशील्यवात्सल्यनिबन्धनं मनुष्यत्वसमाश्रयणलक्षणमिमं परं भावमजानन्तो मनुष्यत्वसमाश्रयणमात्रेण मामितरसजातीयं मत्वा तिरस्कुर्वन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.११ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ भगवद्गीता९.१२ ॥ मम मनुष्यत्वे परमकारुण्यादिपरत्वतिरोधानकरीं राक्षसीमासुरीं च मोहिनीं प्रकृतिमाश्रिताः, मोघाशाः मोघ्वाञ्छिताः निष्फलवाञ्छिताः, मोघ्कर्माणः मोघारम्भाः, मोघज्ञानाः सर्वेषु मदीयेषु चराचरेष्वर्थेषु विपरीतज्ञानतया निष्फलज्ञानाः, विचेतसः तथा सर्वत्र विगतयाथात्म्यज्ञानाः मां सर्वेश्वरमितरसमं मत्वा मयि च यत्कर्तुमिच्छन्ति, यदुद्दिश्यारम्भान् कुर्वते, तत्सर्वं मोघं भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.१२ ॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ भगवद्गीता९.१३ ॥ ये तु स्वकृतैः पुण्यसञ्चयैः मां शरणमुपगम्य विध्वस्तसमस्तपापबन्धा दैवीं प्रकृतिमाश्रिता महात्मानः, ते, भूतादिमव्ययं वाङ्मनसागोचरनामकर्मस्वरूपं परमकारुणिकतया साधुपरित्राणाय मनुष्यत्वेनावतीर्णं मां ज्ञात्वा+अनन्यमनसो मां भजन्ते॑ मत्प्रियत्वातिरेकेण मद्भजनेन विना मनसश्चात्मनश्च बाह्यकरणानां च धारणमलभमाना मद्भजनैकप्रयोजना भजन्ते ॥ भगवद्गीतारामानुजभाष्य ९.१३ ॥ सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ भगवद्गीता९.१४ ॥ अत्यर्थमत्प्रियत्वेन मत्कीर्तनयतननमस्कारैर्विना क्षणाणुमात्रेऽप्यात्मधारणमलभमानाः, मद्गुणविशेषवाचीनि मन्नामानि स्मृत्वा पुलकाञ्चितसर्वाङ्गाः हर्षगद्गदकण्ठाः, नारायणकृष्णवासेदेवेत्येवमादीनि सततं कीर्तयन्तः, तथैव यतन्तः मत्कर्मस्वर्चनादिकेषु, तदुपकारेषु भवननन्दनवनकरणादिकेषु च दृढसङ्कल्पा यतमानाः, भक्तिभारावनमितमनोबुद्ध्यभिमानपदद्वयकरद्वयशिरोभिरष्टाङ्गैरचिन्तितपांसुकर्दमशर्करादिके धरातले दण्डवत्प्रणिपतन्तः, सततं मां नित्ययुक्ताः नित्ययोगं काङ्क्षमाणा आत्मान्तं मद्दास्यव्यवसायिनः उपासते ॥ भगवद्गीतारामानुजभाष्य ९.१४ ॥ ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ भगवद्गीता९.१५ ॥ अन्येऽपि महात्मनः पूर्वोक्तैः कीर्तनादिभिर्ज्ञानाख्येन यज्ञेन च यजन्तो मामुपासते । कथम्? बहुधा पृथक्त्वेन जगदाकारेण, विश्वतोमुखं विश्वप्रकारमवस्थितं मामेकत्वेनोपासते । एतदुक्तं भवति भगवान् वासुदेव एव नामरूपविभागानर्हातिसूक्ष्मचिदचिद्वस्तुशरीरस्सन् सत्यसङ्कल्पो विविधविभक्तनामरूपस्थूलचिदचिद्वस्तुशरीरः स्यामिति संकल्प्य स एक एव देवतिर्यङ्मनुष्यस्थावराख्यविचित्रजगच्छरीरोऽवतिष्ठत इत्यनुसंदधानाश्च मामुपासते इति ॥ भगवद्गीतारामानुजभाष्य ९.१५ ॥ तथा हि विश्वशरीरोऽहमेवावस्थित इत्याह अहं क्रतुरहं यज्ञः स्वधा+अहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ भगवद्गीता९.१६ ॥ अहं क्रतुः अहं ज्योतिष्टोमादिकः क्रतुः॑ अहमेव महायज्ञः॑ अहमेव पितृगणपुष्टिदा स्वधा॑ औषधं हविश्चाहमेव॑ अहमेव च मन्त्रः॑ अहमेव च आज्यम् । प्रदर्शनार्थमिदं सोमादिकं च हविरहमेवेत्यर्थः॑ अहमाहवनीयादिकोऽग्निः॑ होमश्चाहमेव ॥ भगवद्गीतारामानुजभाष्य ९.१६ ॥ पिता+अहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ भगवद्गीता९.१७ ॥ अस्य स्थावरजङ्गमात्मकस्य जगतः, तत्र तत्र पितृत्वेन, मातृत्वेन, धातृत्वेन, पितामहत्वेन च वर्तमानोऽहमेव । अत्र धातृशब्दो मातापितृव्यतिरिक्ते उत्पत्तिप्रयोजके चेतनविशेषे वर्तते । यत्किञ्चिद्वेदवेद्यं पवित्रं पावनम्,तदहमेव । वेदकश्च वेदबीजभूतः प्रणवोऽहमेव । ऋक्सामयजुरात्मको वेदश्चाहमेव ॥ भगवद्गीतारामानुजभाष्य ९.१७ ॥ गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत् । प्रभवप्रलयस्थानं निधानं बीजमव्ययम् ॥ भगवद्गीता९.१८ ॥ गम्यत इति गतिः॑ तत्र तत्र प्राप्यस्थानमित्यर्थः॑ भर्ता धारयिता, प्रभुः शासिता, साक्षी साक्षाद्दृष्टा, निवासः वासस्थानं वेश्मादि । शरणम् । इष्टस्य प्रापकतया+अनिष्टस्य निवारणतया च समाश्रयणीयश्चेतनः शरणम् । स चाहमेव॑ सुकृद्धितैषी, प्रभवप्रलयस्थानं यस्य कस्यचिद्यत्र कुत्रचिदुत्पत्तिप्रलययोर्यत्स्थानम्, तदहमेव । निधानं निधीयत इति निधानम्, उत्पाद्यमुपसंहार्यं चाहमेवेत्यर्थः॑ अव्ययं बीजं तत्र तत्र व्ययरहितं यत्कारणम्, तदहमेव ॥ भगवद्गीतारामानुजभाष्य ९.१८ ॥ तपाम्यहमहं वर्षं निगृह्णाम्यित्युत्सृज्यामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ भगवद्गीता९.१९ ॥ अग्न्यादित्यादिरूपेणाहमेव तपामि॑ ग्रीष्मादावहमेव वर्षं निगृह्णामि । तथा वर्षासु चाहमेवोत्सृजामि । अमृतं चैव मृत्युश्च । येन जीवति लोको येन च म्रियते, तदुभयमहमेव । किमत्र बहुनोक्तेन॑ सदसच्चाहमेव । सद्यद्वर्तते, असद्यदतीतमनागतं च सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्तत्प्रकारोऽहमेवावस्थित इत्यर्थः । एवं बहुधा पृथक्त्वेन विभक्तनामरूपावस्थितकृत्स्नजगच्छरीरतया तत्प्रकारोऽहमेवावस्थित इत्येकत्वज्ञानेनाननुसंदधानाश्च मामुपासते ॥ भगवद्गीतारामानुजभाष्य ९.१९ ॥ एवं महात्मनां ज्ञानिनां भगवदनुभवैकभोगानां वृत्तमुक्त्वा तेषामेव विशेषं दर्शयितुमज्ञानां कामकामानां वृत्तमाह त्रैविद्या मां सोमपाः पूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ भगवद्गीता९.२० ॥ ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्नाः गतागतं कामकामा लभन्ते ॥ भगवद्गीता९.२१ ॥ ऋग्यजुस्सामरूपास्तिस्रो विद्याः त्रिविद्यम्॑ केवलं त्रिविद्यनिष्ठास्त्रैविद्याः, न तु त्रय्यन्तनिष्ठाः । त्रय्यन्तनिष्ठा हि महात्मनः पूर्वोक्तप्रकारेण निखिलवेदवेद्यं मामेव ज्ञात्वा+अतिमात्रमद्भक्तिकारितकीर्तनादिभिर्ज्ञानयज्ञेन च मदेकप्राप्या मामेवोपासते । त्रैविद्यास्तु वेदप्रतिपाद्यकेवलेन्द्रादियागशिष्टसोमान् पिबन्तः, पूतपापाः स्वर्गादिप्राप्तिविरोधिपापात्पूताः, तैः केवलेन्द्रादिदेवत्यतया+अनुसंहितैर्यज्ञैर्वस्तुतस्तद्रूपं मामिष्ट्वा, तथावस्थितं मामजानन्तः स्वर्गगतिं प्रार्थयन्ते । ते पुण्यं दुःखासंभिन्नं सुरेन्द्रलोकं प्राप्य तत्र तत्र दिव्यान् देवभोगानश्नन्ति । ते तं विशालं स्वर्गलोकं भुक्त्वा तदनुभवहेतुभूते पुण्ये क्षीणे पुनरपि मर्त्यलोकं विशन्ति । एवं त्रय्यन्तसिद्धज्ञानविधुराः काम्यस्वर्गादिकामाः केवलं त्रयीधर्ममनुप्रपन्नाः गतागतं लभन्ते अल्पास्थिरस्वर्गादीननुभूय पुनः पुनर्निवर्तन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२०,२१ ॥ महात्मनस्तु निरतिशयप्रियरूपमच्चिन्तनं कृत्वा मामनवधिकातिशयानन्दं प्राप्यन पुनरावर्तन्त इति तेषां विशेषं दर्शयति अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ भगवद्गीता९.२२ ॥ अनन्याः अनन्यप्रयोजनाः, मच्चिन्तनेन विना+आत्मधारणालाभान्मच्चिन्तनैकप्रयोजनाः मां चिन्तयन्तो ये महात्मानो जनाः पर्युपासते सर्वकल्यान्णगुणान्वितं सर्वविभूतियुक्तं मां परित उपासते, अन्यूनमुपासते, तेषां नित्याभियुक्तानां मयि नित्याभियोगं काङ्क्षमाणानाम्, अहं मत्प्राप्तिलक्षणं योगम्, अपुनरावृत्तिरूपं क्षेमं च वहामि ॥ भगवद्गीतारामानुजभाष्य ९.२२ ॥ ये त्वन्यदेवताभक्ता यजन्ते श्रद्धया+अन्विताः । तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ भगवद्गीता९.२३ ॥ ये त्विन्द्रादिदेवताभक्ताः केवलत्रयीनिष्ठाः श्रद्धया+अन्विताः इन्द्रादीन् यजन्ते, तेऽपि पूर्वोक्तेन न्यायेन सर्वस्य मच्छरीरतया मदात्मकत्वेन, इन्द्रादिशब्दानां च मद्वाचित्वाद्वस्तुतो मामेव यजन्ते॑ अपि त्वविधिपूर्वकं यजन्ते । इन्द्रादीनां देवतानां करम्स्वाराध्यतया अन्वयं यथा वेदान्तवाक्यानि, "चतुर्होतारो यत्र संपदं गच्छन्ति देऐः" इत्यादीनि विदधति, न तत्पूर्वकं यजन्ते । वेदान्तवाक्यजातं हि परमपुरुषशरीरतया+अवस्थितानामिन्द्रादीनामाराध्यत्वं विदधदत्मभूतस्य परमपुरुषस्यैव साक्षादाराध्यत्वं विदधाति । चतुर्होतारः अग्निहोत्रदर्शपूर्णमासादीनि कर्माणि, यत्र परमात्मन्यात्मतया+अवस्थिते सत्येव तच्छरीरभूतेन्द्रादिदेवैः॑ संपदं गच्छन्ति इन्द्रादिदेवानामाराधनान्येतानि कर्माणीतीमां संपदं गच्छन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२३ ॥ अतस्त्रैविद्या इन्द्रादिशरीरस्य परमपुरुषस्याराधनान्येतानि कर्माणि॑ आराध्यश्च स एवेति न जानन्ति, ते च परिमितफलभागिनश्च्यवनस्वभावाश्च भवन्ति॑ तदाह अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ भगवद्गीता९.२४ ॥ प्रभुरेव च तत्र तत्र फलप्रदाता चाहमेव इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२४ ॥ अहो महदिदं वैचित्र्यम्, यदेकस्मिन्नेव कर्मणि वर्तमानाः सङ्कल्पमात्रभेदेन केचिदत्यल्पफलभागिनश्च्यवनस्वभावाश्च भवन्ति॑ केचन अनवधिकातिशयानन्दपरमपुरुषप्राप्तिरूपफलभागिनोऽपुनरावर्तिनश्च भवन्तीत्याह यान्ति देवव्रता देवान् पित़्न् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोऽपि माम् ॥ भगवद्गीता९.२५ ॥ व्रतशब्दः सङ्क्ल्पवाची॑ देवव्रताः दर्शपूर्णमासादिभिः कर्मभिः इन्द्रादीन् यजामहे इति इन्द्रादियजनसङ्कल्पा ये, ते इन्द्रादीन् देवान् यान्ति । ये च पितृयज्ञादिभिः पित़्न् यजामहे इति पितृयजनसङ्कल्पाः, ते पित़्न् यान्ति । ये च "यक्षरकषःपिशाचादीनि भूतानि यजामहे" इति भूतयजनसङ्कल्पाः, ते भूतानि यान्ति । ये ते तैरेव यज्ञैः "देवपितृभूतशरीरकं परमात्मानं भगवन्तं वासुदेवं यजामहे" इति मां यजन्ते, ते मद्याजिनो मामेव यान्ति । देवादिव्रताः देवादीन् प्राप्य तैस्सह परिमितं भोगं भुक्त्वा तेषां विनशकाले तैस्सह विनष्टा भवन्ति । मद्याजिनस्तु मामनादिनिधनं सर्वज्ञं सत्यसङ्कल्पमनवधिकातिशयासंख्येयकल्याणगुणगणमहोदधिमनवधिकातिशयानन्दं प्राप्य न पुनर्निवर्तन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.२५ ॥ मद्याजिनामयमपि विशेषोऽस्तीत्याह पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ भगवद्गीता९.२६ ॥ सर्वसुलभं पत्रं वा पुष्पं वा फलं वा तोयं वा यो भक्त्या मे प्रयच्छति अत्यर्थमत्प्रियत्वेन तत्प्रदानेन विना+आत्मधारणमलभमानतया तदेकप्रयोजनो यो मे पत्रादिकं ददाति॑ तस्य प्रयतात्मनः तत्प्रदानैकप्रयोजनत्वरूपशुद्धियुक्तमनसः, तत्तथाविधभक्त्युपहृतम्, अहं सर्वेश्वरो निखिलजगदुदयविभवलयलीला+अवाप्तसमस्तकामः सत्यसङ्कल्पोऽनवधिकातिशयासंख्येयकल्याणगुणगणः स्वाभाविकानवधिकातिशयानन्दस्वानुभवे वर्तमानोऽपि, मनोरथपथदूरवर्ति प्रियं प्राप्यैवाश्नामि । यथोक्तं मोक्षधर्मे, "याः क्रियाः संप्रयुक्तास्स्युरेकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्" इति ॥ भगवद्गीतारामानुजभाष्य ९.२६ ॥ यस्माज्ज्ञानिनां महात्मनां वाङ्मनसागोचरोऽयं विशेषः, तस्मात्त्वं च ज्ञानी भूत्वा उक्तलक्षणभक्तिभारावनमितात्मा आत्मीयः कीर्तनयतनार्चनप्रणामादिकं सततं कुर्वाणो लौकिकं वैदिकं च नित्यनैमित्तिकं कर्म चेत्थं कुर्वित्याहा यत्करोषि यदश्नासि यज्जहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ भगवद्गीता९.२७ ॥ यद्देहयात्राशेषभूतं लौकिकं कर्म करोषि, यच्च देहधारणायाश्नासि, यच्च वैदिकं होमदानतपःप्रभृति नित्यनैमित्तिकं कर्म करोषि, तत्सर्वं मदर्पणं कुरुष्व । अर्प्यत इत्यर्पणं सर्वस्य लौकिकस्य वैदिकस्य च कर्मणः कर्तृत्वं भोक्तृत्वमाराध्यत्वं च यथा मयि समर्पितं भवति तथा कुरु । एतदुक्तं भवति यागदानादिषु आराध्यतया प्रतीयमानानां देवादीनां कर्मकर्तुर्भोक्तुः तव च मदीयतया मत्सङ्कल्पायत्तस्वरूपस्थितिप्रवृत्तितया च मय्येव परमशेषिणि परमकर्तरि त्वां च कर्तारं भोक्तारमाराधकम्, आराध्यं च देवताजातम्, आराधनं च क्रियाजातं सर्वं समर्पय॑ तव मन्नियाम्यतापूर्वकमच्छेषतैकरसतामाराध्यादेस्चैतत्स्वभावगर्भतामत्यर्थप्रीतियुक्तोऽनुसंधत्स्व इति ॥ भगवद्गीतारामानुजभाष्य ९.२७ ॥ शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ भगवद्गीता९.२८ ॥ एवं संन्यासाख्ययोगयुक्तमनाः आत्मानं मच्छेषतामन्नियाम्यतैकरसं कर्म च सर्वं मदाराधनमनुसंदधानो लौकिकं वैदिकं च कर्म कुर्वन् शुभाशुभफलैरनन्तैः प्राचीनकर्माख्यैर्बन्धनैर्मत्प्राप्तिविरोधिभिस्सर्वैर्मोक्ष्यसे॑ तैर्विमुक्तो मामेवोपैष्यसि ॥ भगवद्गीतारामानुजभाष्य ९.२८ ॥ ममेमं परममतिलोकं स्वभावं शृणु समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ भगवद्गीता९.२९ ॥ देवतिर्यङ्मनुष्यस्थावरात्मना+अवस्थितेषु जातितश्चाकारतः स्वभावतो ज्ञानतश्चात्यन्तोत्कृष्टापकृष्टरूपेण वर्तमानेषु सर्वेषु भूतेषु समाश्रयणीयत्वे समोऽहम्॑ अयं जात्याकारस्वभावज्ञानादिभिर्निर्कृष्ट इति समाश्रयणे न मे द्वेष्योऽस्ति उद्वेजनीयतया न त्याज्योऽस्ति । तथा समाश्रितत्वातिरेकेण जात्यादिभिरत्यन्तोत्कृष्टोऽयमिति तद्व्युक्ततया समाश्रयणे न कश्चित्प्रियोऽस्ति न संग्राह्योऽस्ति । अपि तु अत्यर्थमत्प्रियत्वेन मद्भजनेन विना+आत्मधारणालाभान्मद्भजनैकप्रयोजना ये मां भजन्ते, ते जात्यादिभिरुत्कृष्टा अपकृष्टा वा मत्समानगुणवद्यथासुखं मय्येव वर्तन्ते । अहमपि तेषु मदुत्कृष्टेष्विव वर्ते ॥ भगवद्गीतारामानुजभाष्य ९.२९ ॥ तत्रापि अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ भगवद्गीता९.३० ॥ तत्र तत्र जातिविशेषे जातानां यः समाचार उपादेयः परिहरणीयश्च, तस्मादतिवृत्तोऽप्युक्तप्रकारेण मामनन्यभाक्भजनैकप्रयोजनो भजते चेत्, साधुरेव सः वैष्णवाग्रेसर एव सः । मन्तव्यः बहुमन्तव्यः पूर्वोक्तैस्सम इत्यर्थः । कुत एतत्? सम्यग्व्यवसितो हि सः यतोऽस्य व्यवसायः सुसमीचीनः भगवान्निखिलजगदेककारणभूतः परं ब्रह्म नारायणश्चराचरपतिरस्मत्स्वामी मम गुरुर्मम सुहृन्मम परमं भोग्यमिति सर्वैर्दुष्प्रापोऽयं व्यवसायस्तेन कृतः॑ तत्कार्यं चानन्यप्रयोजनं निरन्तरं भजनं तस्यास्ति अतः साधुरेव॑ बहुमन्तव्यः । अस्मिन् व्यवसाये, तत्कार्ये चोक्तप्रकारभजने संपन्ने सति तस्याचारव्यतिक्रमः स्वल्पवैकल्यमिति न तावता+अनादरणीयः, अपि तु बहुमन्तव्य एवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ९.३० ॥ ननु "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशन्तमानसो वा+अपि प्रज्ञानेनैनमाप्नुयात् ॥ भगवद्गीतारामानुजभाष्य १." इत्यादिश्रुतेः आचारव्यतिक्रम उत्तरोत्तरभजनोत्पत्तिप्रवाहं निरुणद्धीत्यत्र आह क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ भगवद्गीता९.३१ ॥ मत्प्रियत्वकारितानन्यप्रयोजनमद्भजनेन विधूतपापतयैव समूलोन्मूलितरजस्तमोगुणः क्षिप्रं धर्मात्मा भवति क्षिप्रमेव विरोधिरहितसपरिकरमद्भजनैकमना भवति । एवंरूपभजनमेव हि "धर्मस्यास्य परन्तप" इति उपक्रमे धर्मशब्दोदितम् । शश्वच्छान्तिं निगच्छति शश्वतीमपुनरावर्तिनीं मत्प्राप्तिविरोध्याचारनिवृत्तिं गच्छति । कौन्तेय त्वमेवास्मिन्नर्थे प्रतिज्ञां कुरु मद्भक्तावुपक्रान्तो विरोध्याचारमिश्रोऽपि न नश्यति॑ अपि तु मद्भक्तिमाहात्म्येन सर्वं विरोधिजातं नाशयित्वा शाश्वतीं विरोधिनिवृत्तिमधिगम्य क्षिप्रं परिपूर्णभक्तिर्भवतीति ॥ भगवद्गीतारामानुजभाष्य ९.३१ ॥ मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ भगवद्गीता९.३२ ॥ किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥ भगवद्गीता९.३३ ॥ स्त्रियो वैश्याः शूद्राश्च पापयोनयोऽपि मां व्यपाश्रित्य परां गतिं यान्ति॑ किं पुनः पुण्ययोनयो ब्राह्मणा राजर्षयश्च मद्भक्तिमास्थिताः । अतस्त्वं राजर्षिरस्थिरं तापत्रयाभिहततया असुखं चेमं लोकं प्राप्य वर्तमानो मां भजस्व ॥ भगवद्गीतारामानुजभाष्य ९.३२,३३ ॥ भक्तिस्वरूपमाह मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ भगवद्गीता९.३४ ॥ मन्मना भव मयि सर्वेश्वरेश्वरे, निखिलहेयप्रत्यनीककल्याणैकताने, सर्वज्ञे, सत्यसङ्कल्पे निखिलजगदेककारणे, परस्मिन् ब्रह्मणि, पुरुषोत्तमे, पुण्डरीकदलामलायताक्षे, स्वच्छनीलजीमूतसङ्काशे, युगपदुदितदिनकरसहस्रसदृशतेजसि, लावण्यामृतमहोदधौ, उदारपीवरचतुर्बाहौ, अत्युज्ज्वलपीताम्बरे, अमलकिरीटमकरकुण्डलहारकेयूरकटकभूषिते, अपारकारुण्यसौशील्यसौन्दर्यमाधुर्यगाम्भीर्याउदार्यवात्सल्यजलधौ, अनालोचितविशेषाशेषलोकशरण्ये सर्वस्वामिनि तैलधारावदविच्छेदेन निविष्टमना भव । तदेव विशिनष्टि मद्भक्तः अत्यर्थमत्प्रियत्वेन युक्तो मन्मना भवेत्यर्थः । पुनर्पि विशिनष्टि मद्याजी अनवधिकातिशयप्रियमदनुभवकारितमद्यजनपरो भव । यजनं नामपरिपूर्णशेषवृत्तिः । औपचारिकसांस्पर्शिकाभ्यवहारिकादिसकलभोगप्रदानरूपो हि यागः । यथा मदनुभवजनितनिर्वधिकातिशयप्रीतिकारितमद्यजनपरो भवसि, तथा मन्मना भवेत्युक्तं भवति । पुनरपि तदेव विशिनष्टि मां नमस्कुरु । अनवधिकातिशयप्रियमदनुभवकारितात्यर्थप्रियाशेषशेषवृत्तौ अपर्यवस्यन्मय्यन्तरात्मनि अतिमात्रप्रह्वीभावव्यवसायं कुरु । मत्परायणः अहमेव परमयनं यस्यासौ मत्परायणः॑ मया विना+आत्मधारणासंभावनया मदाश्रय इत्यर्थः । एवमात्मानं युक्त्वा मत्परायणसेवमनवधिकातिशयप्रीत्या मदनुभवसमर्थं मनः प्राप्य मामेवैष्यसि । आत्मशब्दो ह्यत्र मनोविषयः । एवंरूपेण मनसा मां ध्यात्वा मामनुभूय मामिष्ट्वा मां नमस्कृत्य मत्परायणो मामेव प्राप्स्यसीत्यर्थः । तदेवं लौकिकानि शरीरधारणार्थानि, वैदिकानि च नित्यनैमित्तिकानि कर्माणि मत्प्रीतये मच्छेषतैकरसो मयैव कारित इति कुर्वन् सततं मत्कीर्तनयतननमस्कारादिकान् प्रीत्या कुर्वाणो मन्नियाम्यं निखिलजगन्मच्छेषतैकरसमिति चानुसन्धानः अत्यर्थप्रियमद्गुणगणं चानुसन्धायाहरहरुक्तलक्षणमिदमुपासनमुपाददानो मामेव प्राप्स्यसि ॥ भगवद्गीतारामानुजभाष्य ९.३४ ॥ ******************** अध्याय १० ******************** भक्तियोगः सपरिकर उक्तः । इदानीं भक्त्युत्पत्तये तद्विवृद्धये च भ्गवतो निरङ्कुशाइश्वर्यादिकल्याणगुणगणानन्त्यम्, कृत्स्नस्य जगतस्तच्छरीरतया तदात्मकत्वेन तत्प्रवर्त्यत्वं च प्रपञ्च्यते श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ भगवद्गीता१.१०१ ॥ मम माहात्म्यं श्रुत्वा प्रीयमाणाय ते मद्भक्त्युत्पत्तिविवृद्धिरूपहितकामनया भूयो मन्माहात्म्यप्रपञ्चविषयमेव परमं वचो यद्वक्ष्यामि॑ तदवहितमनाश्शृणु ॥ भगवद्गीतारामानुजभाष्य १.१०१ ॥ न मे विदुः सुरगणाः प्रभवं न महर्षयः । अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥ भगवद्गीता१.१०२ ॥ सुरगणा महर्षयश्चातीन्द्रियार्थदर्शिनोऽधिकतरज्ञाना अपि मे प्रभवं प्रभावं न विदुः मम नामकर्मस्वरूपस्वभावादिकं न जानन्ति॑ यतस्तेषां देवानां महर्षीणां च सर्वशोऽहमादिः तेषां स्वरूपस्य ज्ञानशक्त्यादेश्चाहमादिः॑ तेषां देवत्वमहर्षित्वादिहेतुभूतपुण्यानुगुणं मया दत्तं ज्ञानं परिमितम्॑ अतस्ते परिमितज्ञाना मत्स्वरूपादिकं यथावन्न जानन्ति ॥ भगवद्गीतारामानुजभाष्य १.१०२ ॥ तदेतद्देवाद्यचिन्त्यस्वयाथात्म्यविषयज्ञानं भक्त्युत्पत्तिविरोधिपापविमोचनोपायमाह यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढस्स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ भगवद्गीता१.१०३ ॥ न जायत इत्यजः, अनेन विकारिद्रव्यादचेतनात्तत्संसृष्टात्संसारिचेतनाच्च विसजातीयत्वमुक्तम् । संसारिचेतनस्य हि कर्मकृताचित्संसर्गो जन्म । अनादिमित्यनेन पदेन आदिमतोऽजान्मुक्तात्मनो विसजातीयत्वमुक्तम् । मुक्तात्मनो ह्यजत्वमादिमत्॑ तस्य हेयसंबन्धस्य पूर्ववृत्तत्वात्तदर्हतास्ति । अतोऽनादिमित्यनेन तदनर्हतया तत्प्रत्यनीकतोच्यते॑ "निरवद्यम्" इत्यादिश्रुत्या च । एवं हेयसंबन्धप्रत्यनीकस्वरूपतया तदनर्हं मां लोकमहेश्वरं लोकेश्वराणामपीश्वरं मर्त्येष्वसंमूढो यो वेत्ति॑ इतरसजातीयतयैकीकृत्य मोहः संमोहः, तद्रहितोऽसंमूढः स मद्भक्त्युत्पत्तिविरोधिभिस्सर्वैः पापैः प्रमुच्यते । एतदुक्तं भवति लोके मनुष्याणां राजा इतरमनुष्यसजातीयः केनचित्कर्मणा तदाधिपत्यं प्राप्तः॑ तथा देवानामधिपतिरपि॑ तथाण्डाधिपतिरपीतरसंसारिसजातीयः॑ तस्यापि भावनात्रयान्तर्गतत्वात् । "यो ब्रह्माणं विदधाति" इति श्रुतेश्च । तथान्येऽपि ये केचनाणिमाद्यैश्वर्यं प्राप्ताः । अयं तु लोकमहेश्वरः कार्यकारणावस्थादचेतनाद्बद्धान्मुक्ताच्च चेतनादिशितव्यात्सर्वस्मान्निखिलहेयप्रत्यनीकानवधिकातिशयासंख्येयकल्याणगुणैकतानतया नियमनैकस्वभावतया च विसजातीय इतीत्रसजातीयतामोहरहितो यो मां वेत्ति, स सर्वैः पापैः प्रमुच्यते इति ॥ भगवद्गीतारामानुजभाष्य १.१०३ ॥ एवं स्वस्वभावानुसन्धानेन भक्त्युत्पत्तिविरोधिपापनिरसनम्, विरोधिनिरसना देवार्थतो भक्त्युत्पत्तिं च प्रतिपाद्य स्वाइश्वर्यस्वकल्याणगुणगणप्रपञ्चानुसन्धानेन भक्तिविवृद्धिप्रकारमाह बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ भगवद्गीता१.१०४ ॥ अहिंसा समता तुष्ठिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ भगवद्गीता१.१०५ ॥ बुद्धिः मनसो निरूपणसामर्थ्यम्, ज्ञानं चिदचिद्वस्तुविशेषविषयो निश्चयः, असंमोहः पूर्वगृहीताद्रजतादेर्विसजातीये शुक्तिकादिवस्तुनि सजातीयताबुद्धिनिवृत्तिः॑ क्षमा मनोविकारहेतौ सत्यप्यविकृतमनस्त्वम्॑ सत्यं यथादृष्टविषयं भूतहितरूपं वचनम् । तदनुगुणा मनोवृत्तिरिहाभिप्रेता, मनोवृत्तिप्रकरणात् । दमः बाह्यकरणानामनर्थविषयेभ्यो नियमनम्॑ शमः अन्तःकरणस्य तथा नियमनम्॑ सुखमात्मानुकूलानुभवः॑ दुःखं प्रतिकूलानुभवः॑ भवः भवनम्॑ अनुकूलानुभवहेतुकं मनसो भवनम्॑ अभावः प्रतिकूलानुभवहेतुको मनसोऽवसादः॑ भयमागामिनो दुःखस्य हेतुदर्शनजं दुःखम्॑ तन्निवृत्तिः अभयम्॑ अहिंसा परदुःखाहेतुत्वम्॑ समता आत्मनि सुकृत्सु विपक्षेषु चार्थानर्थयोस्सममतित्वम्॑ तुष्टिः सर्वेष्वात्मसु दृष्टेषु तोषस्वभावत्वम्॑ तपः शास्त्रीयो भोगसङ्कोचरूपः कायक्लेशः॑ दानं स्वकीयभोग्यानं परस्मै प्रतिपादनम्॑ यशः गुणवत्ताप्रथा॑ अयशः नैर्गुण्यप्रथा । एतच्चोभयं तदनुगुणमनोवृत्तिद्वयं मन्तव्यम्, तत्प्रकरणात् । तपोदाने च तथा । एवमाद्याः सर्वेषां भूतानां भावाः प्रवृत्तिनिवृत्तिहेतवो मनोवृत्तयो मत्त एव मत्सङ्कल्पायत्ता भवन्ति ॥ भगवद्गीतारामानुजभाष्य १.१०४,५ ॥ सर्वस्य भूतजातस्य सृष्टिस्थित्योः प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ भगवद्गीता१.१०६ ॥ पूर्वे सप्त महर्षयः अतीतमन्वन्तरे ये भृग्वादयस्सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनस्संभवाः, नित्यस्थितिप्रवर्तनाय ये च सार्वणिका नाम चत्वारो मनवः स्थिताः, येषां सन्तानमये लोके जाता इमाः सर्वाः प्रजाः प्रतिक्षणमाप्रलयादपत्यानामुत्पादकाः पालकाश्च भवन्ति ते भृग्वादयो मनवश्च मद्भावाः मम यो भावः स एव येषां भावः ते मद्भावाः, मन्मते स्थिताः, मत्सङ्कल्पा१ उवर्तिन इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १.१०६ ॥ एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥ भगवद्गीता१.१०७ ॥ विभूतिः ऐश्वर्यम् । एतां सर्वस्य मदायत्तोत्पत्तिस्थितिप्रवृत्तितारूपां विभूतिम्, मम हेयप्रत्यनीककल्याणगुणगणरूपं योगं च यस्तत्त्वतो वेत्ति, सोऽविकम्पेन अप्रकम्प्येन भक्तियोगेन युज्यते । नात्र संशयः । मद्विभूतिविषयं कल्याणगुणविषयं च ज्ञानं भक्तियोगवर्धनमिति स्वयमेव द्रक्ष्यसीत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य १.१०७ ॥ विभूतिज्ञानविपाकरूपां भक्तिवृद्धिं दर्शयति अहं, सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ भगवद्गीता१.१०८ ॥ अहं, सर्वस्य विचित्रचिदचित्प्रपञ्चस्य प्रभवः उत्पत्तिकारणम्, सर्वं मत्त एव प्रवर्तते इतीदं मम स्वाभाविकं निरंकुशाइश्वर्यं, सौशील्यसौन्दर्यवात्सल्यादिकल्याणगुणगणयोगं च मत्वा बुधा ज्ञानिनः भावसमन्विताः मां सर्वकल्याणगुणान्वितं भजन्ते । भावः मनोवृत्तिविशेषः । मयि स्पृहयालवो मां भजन्त इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १.१०८ ॥ कथम्? मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ भगवद्गीता१.१०९ ॥ मच्चित्ताः मयि निविष्टमनसः, मद्गतप्राणाः मद्गतजीविताः, मया विनात्मधारणमलभमाना इत्यर्थः॑ स्वैः स्वैरनुभूतान्मदीयान् गुणान् परस्परं बोधयन्तः, मदीयानि दिव्यानि रमणीयानि कर्माणि च कथयन्तः तुष्यन्ति च रमन्ति च वक्तारस्तद्वचनेनानन्यप्रयोजनेन तुष्यन्ति॑ श्रोतारश्च तच्छ्रवणेनानवधिकातिशयप्रियेण रमन्ते ॥ भगवद्गीतारामानुजभाष्य १.१०९ ॥ तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ भगवद्गीता१.१०१० ॥ तेषां सततयुक्तानां मयि सततयोगमाशंसमानानां मां भजमानानामहं तमेव बुद्धियोगं विपाकदशापन्नं प्रीतिपूर्वकं ददामि॑ येन ते मामुपयान्ति ॥ भगवद्गीतारामानुजभाष्य १.१०१० ॥ किञ्च, तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ भगवद्गीता१.१०११ ॥ तेषामेवानुग्रहार्थमहम्, आत्मभावस्थः तेषां मनोवृत्तौ विषयतयावस्थितः मदीयान् कल्याणगुणगणांश्चाविष्कुर्वन्मद्विषयज्ञानाख्येन भास्वता दीपेन ज्ञानविरोधिप्राचीनकर्मरूपाज्ञानजं मद्व्यतिरिक्तपूर्वाभ्यस्तविषयप्रावण्यरूपं तमो नाशयामि ॥ भगवद्गीतारामानुजभाष्य १.१०११ ॥ अर्जुन उवाच एवं सकलेतरविसजातीयं भगवदसाधारणं शृण्वतां निरतिशयानन्दजनकं कल्याणगुणगणयोगं तदैश्वर्यविततिं च श्रुत्वा तद्विस्तारं श्रोतुकामोऽर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् । परं ब्रह्म परं धाम परमं पवित्रमिति यं श्रुतयो वदन्ति, स हि भवान् । "यतो वा इमानि भूतानि जायन्ते, येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञासस्व तद्ब्रह्मेति", "ब्रह्मविदाप्नोति परम्", "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति" इति । तथा परं धाम॑ धामशब्दो ज्योतिर्वचनः॑ परं ज्योतिः "अथ यदतः परो दिवो ज्योतिर्दीप्यते", "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते", "तं देवा ज्योतिषां ज्योतिः" इति । तथा च परमं पवित्रं परमं पावनम्॑ स्मर्तुरशेषकल्मषाश्लेषकरम्, विनाशकरं च । "यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते", "तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते", "नारायण परं ब्रह्म तत्त्वं नगरायणः परः । नारायण परो ज्योतिरात्मा नारायणः परः" इति हि श्रुतयो वदन्ति ॥ भगवद्गीता१.१०१२ ब् ॥ पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ भगवद्गीतारामानुजभाष्य १.१०१२ ॥ आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ भगवद्गीता१.१०१३ ॥ ऋषयश्च सर्वे परावरतत्त्वयाथात्म्यविदस्त्वामेव शाश्वतं दिव्यं पुरुषमादिदेवमजं विभुमाहुः॑ तथैव देवर्षिर्नारदः असितः देवलः व्यासश्च । "ये च देवविदो विप्रो ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ॥ पविताणां हि गोविन्दः पवित्रं परमुच्यते । पुण्यानामपि पुण्योऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः । आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः ॥ भगवद्गीतारामानुजभाष्य १.", "एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम् ॥ भगवद्गीतारामानुजभाष्य १.", "पुण्या द्वारवती तत्र यत्रास्ते मधुसूदहः । साक्षाद्देवः पुराणोऽसौ स हि धर्मस्सनातनः" । तथा, "यत्र नारायणो देवः परमात्मा सनातनः । तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च ॥ तत्पुण्यं तत्परं ब्रह्म तत्तीर्थं तत्तपोवनम् । तत्र देवर्षयस्सिद्धाः सर्वे चैव तपोधनाः ॥ आदिदेवो महायोगी यत्रास्ते मधुसूदनः । पुण्यानामपि तत्पुण्यं मा भूत्ते संशयोऽत्र वै ॥ भगवद्गीतारामानुजभाष्य १.", "कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः । कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् ॥ भगवद्गीतारामानुजभाष्य १." इति । तथा स्वयमेव ब्रवीषि च, "भूमिरपोऽनलो वायुः खं मनो बुधिरेव च । अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ भगवद्गीतारामानुजभाष्य १." इत्यादिना, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इत्यन्तेन ॥१०१२,१३॥ सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः ॥ भगवद्गीता१.१०१४ ॥ अतः सर्वमेतद्यथावस्थितवस्तुकथनं मन्ये, न प्रशंसाद्यभिप्रायम्॑ यन्मां प्रति अनन्यसाधारणमनवधिकातिशयं स्वाभाविकं तवाइश्वर्यं कल्याणगुणानन्त्यं च वदसि । अतो भगवन्निरतिशयज्ञानशक्तिबलाइश्वर्यवीर्यतेजसां निधे, ते व्यक्तिं व्यञ्जनप्रकारं न हि परिमितज्ञाना देवा दानवाश्च विदुः ॥ भगवद्गीतारामानुजभाष्य १.१०१४ ॥ स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ भगवद्गीता१.१०१५ ॥ हे पुरुषोत्तम, आत्मना, आत्मानं त्वां स्वयमेव स्वेन ज्ञानेनैव वेत्थ । भूतभावन॑ सर्वेषां भूतानामुत्पादयितः, भूतेश सर्वेषां नियन्तः, देवदेव दैवतानामपि परमदैवत, यथा मनुष्यमृगपक्षिसरीसृपादीन् सौन्दर्यसौशील्यादिकल्याणगुणगणैर्दैवतानि अतीत्य वर्तन्ते, तथा तानि सर्वाणि दैवतान्यपि तैस्तैर्गुणैसतीत्य वर्तमान, जगत्पते जगत्स्वामिन् ॥ भगवद्गीतारामानुजभाष्य १.१०१५ ॥ वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ भगवद्गीता१.१०१६ ॥ दिव्याः त्वदसाधारण्यो विभूतयो याः, तास्त्वमेवाशेषेण वक्तुमर्हसि । त्वमेव व्यञ्जयेत्यर्थः । याभिरनन्ताभिर्विभूतिभिः यैर्नियमनविशेषैर्युक्तः इमान् लोकान् त्वं नियन्तृत्वेन व्याप्य तिष्ठसि ॥ भगवद्गीतारामानुजभाष्य १.१०१६ ॥ कथं विद्यामहं योगी त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ भगवद्गीता१.१०१७ ॥ अहं योगी भक्तियोगनिष्ठस्सन् भक्त्या त्वां सदा परिचिन्तयन् चिन्तयितुं प्रवृत्तः चिन्तनीयं त्वां परिपूर्णाइश्वर्यादिकल्याणगुणगणं कथं विद्याम्? पूर्वोक्तबुद्धिज्ञानादिभावव्यतिरिक्तेषु केषु केषु च भावेषु मया नियन्तृत्वेन चिन्त्योऽसि? ॥ भगवद्गीतारामानुजभाष्य १.१०१७ ॥ विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ भगवद्गीता१.१०१८ ॥ "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति संक्षेपेणोक्तं तव स्रष्टृत्वादियोगं विभूतिं नियमनं च भूयो विस्तरेण कथय । त्वयोच्यमानं त्वन्माहात्म्यामृतं शृण्वतो मे तृप्तिर्नास्ति॑ हि ममातृप्तिस्त्वयैव विदितेत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य १.१०१८ ॥ श्रीभगवानुवाच हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ भगवद्गीता१.१०१९ ॥ हे कुरुश्रेष्ठ! मदीयाः कल्याणीर्विभूतीः प्राधान्यतस्ते कथयिष्यामि । प्राधन्यशब्देन उत्कर्षो विवक्षितः॑ "पुरोधसां च मुख्यं माम्" इति हि वक्ष्यते । जगत्युत्कृष्टाः काश्चन विभूतीर्वक्ष्यामि, विस्तरेण वक्तुं श्रोतुं च न शक्यते, तासामानन्त्यात् । विभूतित्वं नाम नियाम्यत्वम्॑ सर्वेषां भूतानां बुद्ध्यादयः पृथग्विधा भावा मत्त एव भवन्तीत्युक्त्वा, "एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः" इति प्रतिपादनात् । तथा तत्र योगशब्दनिर्दिष्टं स्रष्टृत्वादिकं विभुतिशब्दनिर्दिष्टं तत्प्रवर्त्यत्वमिति ह्युक्तं पुनश्च, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः" इति ॥ भगवद्गीतारामानुजभाष्य १.१०१९ ॥ तत्र सर्वभूतानां प्रवर्तनरूपं नियमनमात्मतयावस्थायेतीममर्थम्, योगशब्दनिर्दिष्टं सर्वस्य स्रष्टृत्वं पालयितृत्वं संहर्तृत्वं चेति सुस्पष्टमाह अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥ भगवद्गीता१.१०२० ॥ सर्वेषां भूतानां मम शरीरभूतानामाशये हृदये अहमात्मतयावस्थितः । आत्मा हि नाम शरीरस्य सर्वात्मना आधारः, नियन्ता, शेषी च । तथा वक्ष्यते, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च", "ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ भगवद्गीतारामानुजभाष्य १." इति । श्रूयते च, "यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुः, यस्य सर्वाणि भूतानि शरीरं यस्सर्वाणि भूतान्यन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः" इति, "य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति, स त आत्मान्तर्याम्यमृतः" इति च । एवं सर्वभूतानामात्मतयावस्थितोऽहं तेषामादिर्मध्यं चान्तश्च तेषामुत्पत्तिस्थितिप्रलयहेतुरित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १.१०२० ॥ एवं भगवतः स्वविभूतिभूतेषु सर्वेष्वात्मतयावस्थानं तत्तच्छब्दसामानाधिकरण्यनिर्देशहेतुं प्रतिपाद्य विभूतिविशेषान् सामानाधिकरण्येन व्यपदिशति । भगवत्यात्मतयावस्थिते हि सर्वे शब्दास्तस्मिन्नेव पर्यवस्यन्ति॑ यथा देवो मनुष्यः पक्षी वृक्षः इत्यादयः शब्दाः शरीराणि प्रतिपादयन्तस्तत्तदात्मनि पर्यवस्यन्ति । भगवतस्तत्तदात्मतयावस्थानमेव तत्तच्छब्दसामानाधिकरण्यनिबन्धनमिति विभूत्युपसंहारे वक्ष्यति॑ "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इति सर्वेषां स्वेनाविनाभाववचनात् । अविनाभावश्च नियाम्यतयेति॑ "मत्तस्सर्वं प्रवर्तते" इत्युपक्रमोदितम् । आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥ भगवद्गीता१.१०२१ ॥ द्वादशसंख्यासंख्यातानामादित्यानां द्वादशो य उत्कृष्टो विष्णुर्नामादित्यः, सोऽहम् । ज्योतिषां जगति प्रकाशकानां यः अंशुमान् रविः आदित्यगणः, सोऽहम् । मरुतामुत्कृष्टो मरीचिर्यः, सोऽहमस्मि । नक्षत्राणामहं शशी । नेयं निर्धारणे षष्ठी, "भूतानामस्मि चेतना" इतिवत् । नक्षत्राणां पतिर्यश्चन्द्रः, सोऽहमस्मि ॥ भगवद्गीतारामानुजभाष्य १.१०२१ ॥ वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥ भगवद्गीता१.१०२२ ॥ वेदानामृग्यजुस्सामाथर्वणां य उत्कृष्टः सामवेदः, सोऽहम् । देवानामिन्द्रोऽहमस्मि । एकादशानामिन्द्रियाणां यदुत्कृष्टं मन इन्द्रियम्, तदहमस्मि । इयमपि न निर्धारणे । भूतानां चेतनावतां या चेतना, सोऽहमस्मि ॥ भगवद्गीतारामानुजभाष्य १.१०२२ ॥ रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ भगवद्गीता१.१०२३ ॥ रुद्राणामेकादशानां शङ्करोऽहमस्मि । यक्षरक्षसां वैश्रवणोऽहम् । वसूनामष्टानां पावकोऽहम् । शिखरिणां शिखरशोभिनां पर्वतानां मध्ये मेरुरहम् ॥ भगवद्गीतारामानुजभाष्य १.१०२३ ॥ पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥ भगवद्गीता१.१०२४ ॥ पुरोधसामुत्कृष्टो बृहस्पतिर्यः, सोऽहमस्मि, सेनानीनां सेनापतीनां स्कन्दोऽहमस्मि । सरसां सागरोऽहमस्मि ॥ भगवद्गीतारामानुजभाष्य १.१०२४ ॥ महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥ भगवद्गीता१.१०२५ ॥ महर्षीणां मरीच्यादीनां भृगुरहम् । अर्थाभिधायिनः शब्दा गिरः, तासामेकमक्षरं प्रणवोऽहमस्मि । यज्ञानामुत्कृष्टो जपयज्ञोऽस्मि । पूर्वमात्राणां हिमवानहम् ॥ भगवद्गीतारामानुजभाष्य १.१०२५ ॥ अश्वत्थस्सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ भगवद्गीता१.१०२६ ॥ उच्चैश्श्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥ भगवद्गीता१.१०२७ ॥ आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥ भगवद्गीता१.१०२८ ॥ अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पित़्णामर्यमा चास्मि यमः संयमतामहम् ॥ भगवद्गीता१.१०२९ ॥ वृक्षाणां पूज्योऽश्वत्थोऽहम् । देवर्षीणं नारदोऽहम् । कामधुक्दिव्या सुरभिः । जननहेतुः कन्दर्पश्चाहमस्मि । सर्पाः एकाशिरसः॑ नागाः बहुशिरसः । यादांसि जलवासिनः, तेषां वरुणोऽहम् । दण्डयतां वैवस्वतोऽहम् ॥ भगवद्गीतारामानुजभाष्य १.१०२६,२७,२८,२९ ॥ प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ भगवद्गीता१.१०३० ॥ अनर्थप्रेप्सुतया गणयतां मध्ये कालः मृत्युरहम् ॥ भगवद्गीतारामानुजभाष्य १.१०३० ॥ पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥ भगवद्गीता१.१०३१ ॥ पवतां गमनस्वभावानां पवनोऽहम् । शस्त्रभृतां रामोऽहम् । शस्त्रभृत्त्वमत्र विभूतिः, अर्थान्तराभावात् । आदित्यादयश्च क्षेत्रज्ञा आत्मत्वेनावस्थितस्य भगवतः शरीरतया धर्मभूता इति शस्त्रभृत्त्वस्थानीयाः ॥ भगवद्गीतारामानुजभाष्य १.१०३१ ॥ सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ भगवद्गीता१.१०३२ ॥ सृज्यन्त इति सर्गाः, तेषामादिः कारणम्॑ सर्वदा सृज्यमानानां सर्वेषां प्राणिनां तत्र तत्र स्रष्टारोऽहमेवेत्यर्थः । तथा अन्तः सर्वदा संह्रियमाणानां तत्र तत्र संहर्तारोऽप्यहमेव । तथा च मध्यं पालनम्॑ सर्वदा पाल्यमानानां पालयितारश्चाहमेवेत्यर्थः । जल्पवितण्डादि कुर्वतां तत्त्वनिर्णयाय प्रवृत्तो वादो यः, सोऽहम् ॥ भगवद्गीतारामानुजभाष्य १.१०३२ ॥ अक्षराणामकारोऽस्मि द्वन्द्वस्सामासिकस्य च । अहमेव अक्षयः कालः धाताहं विश्वतोमुखः ॥ भगवद्गीता१.१०३३ ॥ अक्षराणां मध्ये "अकारो वै सर्वा वाक्" इति श्रुतिसिद्धिः सर्ववर्णानां प्रकृतिरकारोऽहं सामासिकः समाससमूहः॑ तस्य मध्ये द्वन्द्वसमासोऽहम् । स ह्युभयपदार्थप्रधानत्वेनोत्कृष्टः । कलामुहूर्तादिमयोऽक्षयः कालोऽहमेव । सर्वस्य स्रष्टा हिरण्यगर्भश्चतुर्मुखोऽहम् ॥ भगवद्गीतारामानुजभाष्य १.१०३३ ॥ मृत्युस्सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिश्श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥ भगवद्गीता१.१०३४ ॥ सर्वप्राणहरो मृत्युश्चाहम् । उत्पत्स्यमानानामुद्भवाख्यं कर्म चाहम् । श्रीरहम्॑ कीर्तिश्चाहम्॑ वाक्चाहम्॑ स्मृतिश्चाहम्॑ मेधा चाहम्॑ धृतिश्चाहम्॑ क्षमा चाहम् ॥ भगवद्गीतारामानुजभाष्य १.१०३४ ॥ बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥ भगवद्गीता१.१०३५ ॥ साम्नां बृहत्साम अहम् । छन्दसां गायत्र्यहम् । कुसुमाकरः वसन्तः ॥ भगवद्गीतारामानुजभाष्य १.१०३५ ॥ द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥ भगवद्गीता१.१०३६ ॥ छलं कुर्वतां छलास्पदेष्वक्षादिलक्षणं द्युतमहम् । जेत़्णां जयोऽस्मि । व्यवसायिनां व्यवसायोऽस्मि । सत्त्ववतां सत्त्वमहम् । सत्त्वं महामनस्त्वम् ॥ भगवद्गीतारामानुजभाष्य १.१०३६ ॥ वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ भगवद्गीता१.१०३७ ॥ वसुदेवसूनुत्वमत्र विभूतिः, अर्थान्तराभावादेव । पाण्डवानां धनञ्जयोऽर्जुनोऽहम् । मुनयः मननेनात्मयाथात्म्यदर्शिनः॑ तेषां व्यासोऽहम् । कवयः विपश्चितः ॥ भगवद्गीतारामानुजभाष्य १.१०३७ ॥ दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥ भगवद्गीता१.१०३८ ॥ नियमातिक्रमणे दण्डं कुर्वतां दण्डोऽहम् । विजिगीषूणां जयोपायभूता नीतिरस्मि । गुह्यानां संबन्धिषु गोपानेषु मौनमस्मि । ज्ञानवतां ज्ञानं चाहम् ॥ भगवद्गीतारामानुजभाष्य १.१०३८ ॥ यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥ भगवद्गीता१.१०३९ ॥ सर्वभूतानां सर्वावस्थावस्थितानां तत्तदवस्थाबीजभूतं प्रतीयमानमप्रतीयमानं च यत्, तदहमेव । भूतजातं मया आत्मतयावस्थितेन विना यत्स्यात्, न तदस्ति । "अहमात्मा गुडाकेश सर्वभूताशयस्थितः" इति प्रक्रमात्, "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" इत्यत्राप्यात्मतयावस्थानमेव विवक्षितम् । सर्वं वस्तुजातं सर्वावस्थं मया आत्मभूतेन युक्तं स्यादित्यर्थः । अनेन सर्वस्यास्य सामानाधिकरण्यनिर्देशस्यात्मतयावस्थितिरेव हेतुरिति प्रकटितम् ॥ भगवद्गीतारामानुजभाष्य १.१०३९ ॥ नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥ भगवद्गीता१.१०४० ॥ मम दिव्यानां कल्याणीनां विभूतीनामन्तो नास्ति॑ एष तु विभूतेर्विस्तरो मया कैश्चिदुपाधिभिः संक्षेपतः प्रोक्तः ॥ भगवद्गीतारामानुजभाष्य १.४० ॥ यद्यद्विभूतिमत्सत्त्वं श्रीमदुर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽंशसंभवम् ॥ भगवद्गीता१.१०४१ ॥ यद्यद्विभूतिमदिशितव्यसंपन्नं भूतजातं श्रीमत्कान्तिमत्, धनधान्यसमृद्धं वा, ऊर्जितं कल्याणारम्भेषु उद्युक्तम्॑ तत्तन्मम तेजोऽंशसंभवमित्यवगच्छ । तेजः पराभिभवनसामर्थ्यम्, ममाचिन्त्यशक्तेर्नियमनशक्त्येकदेशसंभवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १.१०४१ ॥ अथ वा बहुनैतेन किं ज्ञानेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ भगवद्गीता१.१०४२ ॥ बहुना एतेन उच्यमानेन ज्ञानेन किं प्रयोजनम् ।िदं चिदचिदात्मकं कृत्स्नं जगत्कार्यावस्थं कारणावस्थं स्थूलं सूक्ष्मं च स्वरूपसद्भावे, स्थितौ, प्रवृत्तिभेदे च यथा मत्सङ्कल्पं नातिवर्तेत, तथा मम महिम्नोऽयुतायुतांशेन विष्टभ्याहमवस्थितः । यथोक्तं भगवता पराशरेण, "यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता" इति ॥ भगवद्गीतारामानुजभाष्य १.१०४२ ॥ ******************** अध्याय ११ ******************** एवं भक्तियोगनिष्पत्तये तद्विवृद्धये च सकलेतरविलक्षणेन स्वाभाविकेन भगवदसाधारणेन कल्याणगुणगणेन सह भगवतः सर्वात्मत्वं तत एव तद्व्यतिरिक्तस्य कृत्स्नस्य चिदचिदात्मकस्य वस्तुजातस्य तच्छरीरतया तदायत्तस्वरूपस्थितिप्रवृत्तित्वं चोक्तम् । तमेतं भगवदसाधारणं स्वभावं कृत्स्नस्य तदायत्तस्वरूपस्थितिप्रवृत्तितां च भगवत्सकाशादुपश्रुत्य एवमेवेति नित्यश्च तथाभूतं भगवन्तं साक्षात्कर्तुकामोऽर्जुन उवाच । तथैव भगवत्प्रसादादनन्तरं द्रक्ष्यति । "सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ... तत्रैकस्थं जगत्कृत्स्नं प्रतिभक्तमनेकधाः" इति हि वक्ष्यते । अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ भगवद्गीता११.१ ॥ देहात्माभिमानरूपमोहेन मोहितस्य ममानुग्रहैकप्रयोजनाय परमं गुह्यं परमं रहस्यमध्यात्मसंज्ञितमात्मनि वक्तव्यं वचः, "न त्वेवाहं जातु नासम्" इत्यादि, "तस्माद्योगी भवार्जुन" इत्येतदन्तं यत्त्वयोक्तम्, तेनायं ममात्मविषयो मोहः सर्वो विगतः दूरतो निरस्तः ॥ भगवद्गीतारामानुजभाष्य ११.१ ॥ तथा च भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ भगवद्गीता११.२ ॥ सप्तमप्रभृति दशमपर्यन्ते त्वद्व्यतिरिक्तानां सर्वेषां भूतानां त्वत्तः परमात्मनो भवाप्ययौ उत्पत्तिप्रलयौ विस्तरशो मया श्रुतौ हि । कमलपत्राक्ष, तव अव्ययं नित्यं सर्वचेतनाचेतनवस्तुशेषित्वं ज्ञानबलादिकल्याणगुणगणैस्तवैव परतरत्वं सर्वाधारत्वं चिन्तितनिमिषितादिसर्वप्रवृत्तिषु तवैव प्रवर्तयितृत्वमित्यादि अपरिमितं माहात्म्यं च श्रुतम् । हिशब्दो वक्ष्यमाणदिदृक्षाद्योतनार्थः ॥ भगवद्गीतारामानुजभाष्य ११.२ ॥ एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ भगवद्गीता११.३ ॥ हे परमेश्वर, एवमेतदित्यवधृतम्, यथाथ त्वमात्मानं ब्रवीषि । पुरुषोत्तम आश्रितवात्सल्यजलधे तवाइश्वरं त्वदसाधारणं सर्वस्य प्रशासितृत्वे, पालयितृत्वे, स्रष्टृत्वे, संहर्तृत्वे भर्तृत्वे, कल्याणगुणाकरत्वे, परतरत्वे, सकलेतरविसजातीयत्वेऽवस्थितं रूपं द्रष्टुं साक्षात्कर्तुमिच्छामि ॥ भगवद्गीतारामानुजभाष्य ११.३ ॥ मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ भगवद्गीता११.४ ॥ तत्सर्वस्य स्रष्टृ, सर्वस्य प्रशासितृ, सर्वस्याधारभूतं त्वद्रूपं मया द्रष्टुं शक्यमिति यदि मन्यसे, ततो योगेश्वर योगो ज्ञानादिकल्याणगुणयोगः, "पश्य मे योगमैश्वरम्" इति हि वक्ष्यते त्वद्व्यतिरिक्तस्य कस्याप्यसंभावितानां ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधे! आत्मानं त्वामव्ययं मे दर्शय । अव्ययमिति क्रियाविशेषणम् । त्वां सकलं मे दर्शयेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.४ ॥ श्रीभगवानुवाच एवं कौतूहलान्वितेन हर्षगद्गदकण्ठेन पार्थेन प्रार्थितो भगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ भगवद्गीता११.५ ॥ पश्य मे सर्वाश्रयाणि रूपाणि॑ अथ शतशः सहस्रशश्च नानाविधानि नानाप्रकाराणि, दिव्यानि अप्राकृतानि, नानावर्णाकृतीनि शुक्लकृष्णादिनानावर्णानि, नानाकाराणि च पश्य ॥ भगवद्गीतारामानुजभाष्य ११.५ ॥ पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥ भगवद्गीता११.६ ॥ ममैकस्मिन् रूपे पश्य आदित्यान् द्वादश, वसूनष्टौ, रुद्रानेकादश, अश्विनौ द्वौ, मरुतश्चैकोनपञ्चाशतम् । प्रदर्शनार्थमिदम्, इह जगति प्रत्यक्षदृष्टानि शास्त्रदृष्टानि च यानि वस्तूनि, तानि सर्वाणि, अन्यान्यपि सर्वेषु लोकेषु सर्वेषु च शास्त्रेष्वदृष्टपूर्वाणि बहून्याश्चर्याणि पश्य ॥ भगवद्गीतारामानुजभाष्य ११.६ ॥ इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ भगवद्गीता११.७ ॥ इह ममैकस्मिन् देहे, तत्रापि एकस्थमेकदेशस्थं सचराचरं कृत्स्नं जगत्पश्य॑ यच्चान्यद्द्रष्टुमिच्छसि, तदप्येकदेहैकदेश एव पश्य ॥ भगवद्गीतारामानुजभाष्य ११.७ ॥ न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ भगवद्गीता११.८ ॥ अहं मम देहैकदेशे सर्वं जगद्दर्शयिष्यामि॑ त्वं त्वनेन नियतपरिमितवस्तुग्राहिणा प्राकृतेन स्वचक्षुषा, मां तथाभूतं सकलेतरविसजातीयमपरिमेयं द्रष्टुं न शक्ष्यसे । तव दिव्यमप्राकृतं मद्दर्शनसाधनं चक्षुर्ददामि । पश्य मे योगमैश्वरम् मदसाधारणं योगं पश्य॑ ममानन्तज्ञानादियोगमनन्तविभूतियोगं च पश्येत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.८ ॥ एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ भगवद्गीता११.९ ॥ एवमुक्त्वा सारथ्येऽवस्थितः पार्थमातुलजो महायोगेश्वरो हरिः महाश्चर्ययोगानामीश्वरः परब्रह्मभूतो नारायणः परममैश्वरं स्वासाधारणं रूपं पार्थाय पितृष्वसुः पृथायाः पुत्राय दर्शयामास । तद्विविधविचित्रनिखिलजगदाश्रयं विश्वस्य प्रशासितृ च रूपम्॑ तच्चेदृशम् अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ भगवद्गीता११.१० ॥ दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ भगवद्गीता११.११ ॥ देवं द्योतमानम्, अनन्तं कालत्रयवर्ति॑ निखिलजगदाश्रयतया देशकालपरिच्छेदानर्हम्, विश्वतोमुखं विश्वदिग्वर्तिमुखम्, स्वोचितदिव्याम्बरगन्धमाल्याभरणायुधान्वितम् ॥ भगवद्गीतारामानुजभाष्य ११.१०,११ ॥ तामेव देवशब्दनिर्दिष्टां द्योतमानतां विशिनष्टि दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः, सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ भगवद्गीता११.१२ ॥ तेजसोऽपरिमितत्वदर्शनार्थमिदम्॑ अक्षयतेजस्स्वरूपमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.१२ ॥ तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ भगवद्गीता११.१३ ॥ तत्र अनन्तायामविस्तारे, अनन्तबाहूदरवक्त्रनेत्रे, अपरिमिततेजस्के, अपरिमितदिव्यायुधोपेते, स्वोचितापरिमितदिव्यभूषणे, दिव्यमाल्याम्बरधरे, दिव्यगन्धानुलेपने, अनन्ताश्चर्यमये, देवदेवस्य दिव्ये शरीरे अनेकधा प्रविभक्तं ब्रह्मादिविविधविचित्रदेवतिर्यङ्मनुष्यस्थावरादिभोक्तृवर्गपृथिव्यन्तरिक्षस्वर्गपातालातलवितलसुतलादिभोगस्थानभोग्यभोगोपकरणभेदभिन्नं प्रकृतिपुरुषात्मकं कृत्स्नं जगत्, "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते", "हन्त ते कथयिष्यामि विभूतीरात्मनश्शुभाः", "अहमात्मा गुडाकेश सर्वभूताशयस्थितः", आदित्यानामहं विष्णुः" इत्यादिना, "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्", "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इत्यन्तेनोदितम्, एकस्थमेकदेशस्थम्॑ पाण्डवो भगवत्प्रसादलब्धतद्दर्शनानुगुणदिव्यचक्षुरपश्यत् ॥ भगवद्गीतारामानुजभाष्य ११.१३ ॥ ततस्स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ भगवद्गीता११.१४ ॥ ततो धनञ्जयो महाश्चर्यस्य कृत्स्नस्य जगतः स्वदेहैकदेशेनाश्रयभूतं कृत्स्नस्य प्रवर्तयितारं च आश्चर्यतमानन्तज्ञानादिकल्याणगुणगणं देवं दृष्ट्वा विस्मयाविष्टो हृष्टरोमा शिरसा दण्डवत्प्रणम्य कृताञ्जलिरभाषत ॥ भगवद्गीतारामानुजभाष्य ११.१४ ॥ अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्गान् । ब्रह्माणमीशं कमलासनस्थमृषींश्च सर्वानुरगांश्च दीप्तान् ॥ भगवद्गीता११.१५ ॥ देव॑ तव देहे सर्वान् देवान् पश्यामि॑ तथा सर्वान् प्राणिविशेषाणां संघान्, तथा ब्रह्माणं चतुर्मुखमण्डाधिपतिम्, तथेशं कमलासनस्थं कमलासने ब्रह्मणि स्थितमीशं तन्मतेऽवस्थितं तथा देवर्षिप्रमुखान् सर्वानृषीन्, उरगांश्च वासुकितक्षकादीन् दीप्तान् ॥ भगवद्गीतारामानुजभाष्य ११.१५ ॥ अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥ भगवद्गीता११.१६ ॥ अनेकबाहूदरवक्त्रनेत्रमनन्तरूपं त्वां सर्वतः पश्यामि॑ विश्वेश्वर विश्वस्य नियन्तः, विश्वरूप विश्वशरीर! यतस्त्वमनन्तः, अतस्तव नान्तं न मध्यं न पुनस्तवादिं च पश्यामि ॥ भगवद्गीतारामानुजभाष्य ११.१६ ॥ किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वा दुर्निरीक्षं समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम् ॥ भगवद्गीता११.१७ ॥ तेजोराशिं सर्वतो दीप्तिमन्तं समन्ताद्दुर्निरीक्षं दीप्तानलार्कद्युतिमप्रमेयं त्वां किरीटिनं गदिनं चक्रिणं च पश्यामि ॥ भगवद्गीतारामानुजभाष्य ११.१७ ॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥ भगवद्गीता११.१८ ॥ उपनिषत्सु, "द्वे विद्ये वेदितव्ये" इत्यादिषु वेदितव्यतया निर्दिष्टं परममक्षरं त्वमेव॑ अस्य विश्वस्य परं निधानं विश्वस्यास्य परमाधारभूतस्त्वमेव॑ त्वमव्ययः व्ययरहितः॑ यत्स्वरूपो यद्गुणो यद्विभवश्च त्वम्, तेनैव रूपेण सर्वदावतिष्ठसे । शाश्वतधर्मगोप्ता शाश्वतस्य नित्यस्य वैदिकस्य धर्मस्य एवमादिभिरवतारैस्त्वमेव गोप्ता । सनातनस्त्वं पुरुषो मतो मे "वेदाहमेतं पुरुषं महान्तं", "परात्परं पुरुषम्" इत्यादिषूदितः सनातनपुरुषस्त्वमेवेति मे मतः ज्ञातः । यदुकुलतिलकस्त्वमेवंभूत इदानीं साक्षात्कृतो मयेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.१८ ॥ अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वा दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥ भगवद्गीता११.१९ ॥ अनादिमध्यान्तमादिमध्यान्तरहितम् । अनन्तवीर्यमनवधिकातिशयवीर्यम्॑ वीर्यशब्दः प्रदर्शनार्थः॑ अनवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधिमित्यर्थः । अनन्तबाहुमसंख्येयबाहुम् । सोऽपि प्रदर्शनार्थः॑ अनन्तबाहूदरपादवक्त्रादिकम् । शशिसूर्यनेत्रं शशिवत्सूर्यवच्च प्रसादप्रतापयुक्तसर्वनेत्रम् । देवादीननुकूलान्नमस्कारादि कुर्वाणान् प्रति प्रसादः, तद्विपरीतानसुरराक्षसादीन् प्रति प्रतापः॑ "रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः" इति हि वक्ष्यते । दीप्तहुताशवक्त्रं प्रदीप्तकालानलवत्संहारानुगुणवक्त्रम् । स्वतेजसा विश्वमिदं तपन्तम् । तेजः पराभिभवनसामर्थ्यम्॑ स्वकीयेन तेजसा विश्वमिदं तपन्तं त्वां पश्यामि एवम्भूतं सर्वस्य स्रष्टारं सर्वस्याधारभूतं सर्वस्य प्रशासितारं सर्वस्य संहर्तारं ज्ञानाद्यपरिमितगुणसागरमादिमध्यान्तरहितमेवंभूतदिव्यदेहं त्वां यथोपदेशं साक्षात्करोमीत्यर्थः । एकस्मिन् दिव्यदेहे अनेकोदरादिकं कथम्? । इत्थमुपपद्यते । एकस्मात्कटिप्रदेशादनन्तपरिमाणादूर्ध्वमुद्गता यथोदितोदरादयः, अधश्च यथोदितदिव्यपादाः॑ तत्रैकस्मिन्मुखे नेत्रद्वयमिति च न विरोधः ॥ भगवद्गीतारामानुजभाष्य ११.१९ ॥ एवंभूतं त्वां दृष्ट्वा देवादयोऽहं च प्रव्यथिता भवाम इत्याह द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाद्भुतं रूपमुग्रं तदेवं लोकत्रयं प्रव्यथितं महात्मन् ॥ भगवद्गीता११.२० ॥ द्युशब्दः पृथिवीशब्दश्चोभौ उपरितनानामधस्तनानां च लोकानां प्रदर्शनार्थौ । द्यावापृथिव्योः अन्तरमवकाशः । यस्मिन्नवकासे सर्वे लोकास्तिष्ठन्ति, सर्वोऽयमवकाशो दिशश्च सर्वास्त्वयैकेन व्याप्ताः । दृष्ट्वाद्भुतं रूपमुग्रं तवेदमनन्तायामविस्तारमत्यद्भुतमत्युग्रं च रूपं दृष्ट्वा लोकत्रयं प्रव्यथितं युद्धदिदृक्षया आगतेषु ब्रह्मादिदेवासुरपितृगणसिद्धगन्धर्वयक्षराक्षसेषु प्रतिकूलानुकूलमध्यस्थरूपं लोकत्रयं सर्वं प्रव्यथितमत्यन्तभीतम् । महात्मनपरिच्छेद्यमनोवृत्ते । एतेषामप्यर्जुनस्यैव विश्वाश्रयरूपसाक्षात्कारसाधनं दिव्यं चक्षुर्भगवता दत्तम् । किमर्थमिति चेत्, अर्जुनाय स्वाइश्वर्यं सर्वं प्रदर्शयितुम् । अत इदमुच्यते, "दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यर्थितं महात्मन्" इति ॥ भगवद्गीतारामानुजभाष्य ११.२० ॥ अमी हि त्वा सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ भगवद्गीता११.२१ ॥ अमी सुरसंघाः उत्कृष्टास्त्वां विश्वाश्रयमवलोक्य हृष्टमनसः त्वन् समीपं विशन्ति । तेष्वेव केचिदत्युग्रमत्यद्भुतं च तवाकारमालोक्य भीताः प्राञ्जलयः स्वज्ञानानुगुणं स्तुतिरूपाणि वाक्यानि गृणन्ति उच्चारयन्ति । अपरे महर्षिसंघाः सिद्धसंघाश्च परावरतत्त्वयाथात्म्यविदः स्वस्तीत्युक्त्वा पुष्कलाभिर्भवदनुरूपाभिः स्तुतिभिः स्तुवन्ति ॥ भगवद्गीतारामानुजभाष्य ११.२१ ॥ रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्ष्यन्ते त्वां विस्मिताश्चैव सर्वे ॥ भगवद्गीता११.२२ ॥ ऊष्मपाः पितरः, "ऊष्मभागा हि पितरः" इति श्रुतेः । एते सर्वे विस्मयमापन्नास्त्वां वीक्षन्ते ॥ भगवद्गीतारामानुजभाष्य ११.२२ ॥ रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ भगवद्गीता११.२३ ॥ बह्वीभिर्दंष्ट्राभिरतिभीषणाकारं लोकाः पूर्वोक्ताः प्रतिकूलानुकूलमध्यस्थास्त्रिविधाः सर्व एव अहं च तदेवमीदृशं रूपं दृष्ट्वा अतीव व्यथिता भवामः ॥ भगवद्गीतारामानुजभाष्य ११.२३ ॥ नभस्स्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृस्ट्वा हि त्वा प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥ भगवद्गीता११.२४ ॥ नमश्शब्दः "तदक्षरे परमे व्योमन्", "आदित्यवर्णं तमसः परस्तात्", "क्षयन्तमस्य रजसः पराके", "यो अस्याध्यक्षः परमे व्योमन्" इत्यादिश्रुतिसिद्धित्रिगुणप्रकृत्यतीतपरमव्योमवाची॑ सविकारस्य प्रकृतितत्त्वस्य, पुरुषस्य च सर्वावस्थस्य, कृत्स्नस्याश्रयतया नभस्स्पृशमिति वचनात्॑ "द्यावापृथिव्योरिदमन्तरं हि व्याप्तम्" इति पूर्वोक्तत्वाच्च । दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रं त्वां दृष्ट्वा प्रव्यथितान्तरात्मा अत्यन्तभीतमनाः धृतिं न विन्दामि देहस्य धारणं न लभे, मनसश्चेन्द्रियाणां च शमं न लभे । विष्णो व्यापिन्! । सर्वव्यापिनमतिमात्रमत्यद्भुतमतिघोरं च त्वां दृष्ट्वा प्रशिथिकसर्वावयवो व्याकुलेन्द्रियश्च भवामीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.२४ ॥ दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥ भगवद्गीता११.२५ ॥ युगान्तकालानलवत्सर्वसंहारे प्रवृत्तानि अतिघोराणि तव मुखानि दृष्ट्वा दिशो न जाने॑ सुखं च न लभे । जगतां निवास देवेश ब्रह्मादीनामीश्वराणामपि परममहेश्वर! मां प्रति प्रसन्नो भव । यथाहं प्रकृतिं गतो भवामि, तथा कुर्वित्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.२५ ॥ एवं सर्वस्य जगतः स्वायत्तस्थितिप्रवृत्तित्वं दर्शयन् पार्थसारथी राजवेषच्छद्मनावस्थितानां धार्तराष्ट्राणां यौधिष्ठिरेष्वनुप्रविष्टानां च असुरांशानां संहारेण भूभारावतरणं स्वमनीषितं स्वेनैव करिष्यमाणं पार्थाय दर्शयामास । स च पार्थो भगवतः स्रष्ट्र्त्वादिकं सर्वाइश्वर्यं साक्षात्कृत्य तस्मिन्नेव भगवति सर्वात्मनि धार्तराष्ट्रादीनामुपसंहारमनागतमपि तत्प्रसादलब्धेन दिव्येन चक्षुषा पश्यन्निदं चोवाच अमी च त्वा धृतराष्ट्रस्य पुत्राः सर्वैः सहैवावनिपालसङ्घैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥ भगवद्गीता११.२६ ॥ वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ भगवद्गीता११.२७ ॥ अमी धृतराष्ट्रस्य पुत्राः दुर्योधनादयस्सर्वे भीष्मो द्रोणः सूतपुत्रः कर्णश्च तत्पक्षीयैरवनिपालसमूहैः सर्वैः, अस्मदीयैरपि कैश्चिद्योधमुख्यैस्सह त्वरमाणा दंष्ट्राकरालानि भयानकानि तव वक्त्राणि विनाशाय विशन्ति॑ तत्र केचिच्चूर्णितैरुत्तमाङ्गैर्दशानान्तरेषु विलग्नास्संदृश्यन्ते ॥ भगवद्गीतारामानुजभाष्य ११.२६,२७ ॥ यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति ॥ भगवद्गीता११.२८ ॥ यथा प्रदीप्तज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकास्तवापि वक्त्राणि समृद्धवेगाः ॥ भगवद्गीता११.२९ ॥ एते राजलोकाः, बहवो नदीनामम्बुप्रवाहाः समुद्रमिव, प्रदीप्तज्वलनमिव च शलभाः, तव वक्त्राण्यभिविज्वलन्ति स्वयमेव त्वरमाणा आत्मनाशाय विशन्ति ॥ भगवद्गीतारामानुजभाष्य ११.२८,२९ ॥ लेलिह्यसे ग्रसमानः समन्ताल्लोकान् समग्रान् वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ भगवद्गीता११.३० ॥ राजलोकान् समग्रान् ज्वलद्भिर्वदनैर्ग्रसमानः कोपवेगेन तद्रुधिरावसिक्तमोष्ठपुटादिकं लेलिह्यसे पुनः पुनर्लेहनं करोषि । तवातिघोरा भासः रश्मयः तेजोभिः स्वकीयैः प्रकाशैः जगत्समग्रमापूर्य प्रतपन्ति ॥ भगवद्गीतारामानुजभाष्य ११.३० ॥ आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥ भगवद्गीता११.३१ ॥ "दर्शयात्मानमव्ययम्" इति तवाइश्वर्यं निरङ्कुशं साक्षात्कर्तुं प्रार्थितेन भवता निरङ्कुशमैश्वर्यं दर्शयता अतिघोररूपमिदमाविष्कृतम् । अतिघोररूपः को भवान्, किं कर्तुं प्रवृत्त इति भवन्तं ज्ञातुमिच्छामि । तवाभिप्रेतां प्रवृत्तिं न जानामि । एतदाख्याहि मे । नमोऽस्तु ते देववर! प्रसीद नमस्तेऽस्तु सर्वेश्वर॑ एवं कर्तुम्, अनेनाभिप्रायेणेदं संहर्तृरूपमाविष्कृतमित्युक्त्वा प्रसन्नरूपश्च भव ॥ भगवद्गीतारामानुजभाष्य ११.३१ ॥ आश्रितवात्सल्यातिरेकेण विश्वाइश्वर्यं दर्शयतो भवतो घोररूपाविष्कारे कोऽभिप्राय इति पृष्टो भगवान् पार्थसारथिः स्वाभिप्रायमाह, पार्थोद्योगेन विनापि धार्तराष्ट्रप्रमुखमशेषं राजलोकं निहन्तुमहमेव प्रवृत्त इति ज्ञापनाय मम घोररूपाविष्कारः, तज्ज्ञापनं च पार्थमुद्योजयितुमिति । श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान् समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वा न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ भगवद्गीता११.३२ ॥ कलयति गणयतीति कालः॑ सर्वेषां धार्तराष्ट्रप्रमुखानां राजलोकानामायुरवसानं गणयन्नहं तत्क्षयकृद्घोररूपेण प्रवृद्धो राजलोकान् समाहर्तुमाभिमुख्येन संहर्तुमिह प्रवृत्तोऽस्मि । अतो मत्संकल्पादेव त्वामृतेऽपि त्वदुद्योगाद्र्तेऽपि एते धार्तराष्ट्रप्रमुखास्तव प्रत्यनीकेषु येऽवस्थिता योधाः, ते सर्वे न भविष्यन्ति विनङ्क्ष्यन्ति ॥ भगवद्गीतारामानुजभाष्य ११.३२ ॥ तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् ॥ भगवद्गीता११.३३ ॥ तस्मात्त्वं तान् प्रति युद्धायोत्तिष्ठ । तान् शत्रून् जित्वा यशो लभस्व॑ धर्म्यं राज्यं च समृद्धं भुङ्क्ष्व । मयैवैते कृतापराधाः पूर्वमेव निहताः हनने विनियुक्ताः । त्वं तु तेषां हनने निमित्तमात्रं भव । मया हन्यमानानां शत्रादिस्थानीयो भव । सव्यसाचिन् । षच समवाये॑ सव्येन शरसचनशीलः सव्यसाची॑ सव्येनापि करेण शरसमवायकरः॑ करद्वयेन योद्धुं समर्थ इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.३३ ॥ द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधमुख्यान् । मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥ भगवद्गीता११.३४ ॥ द्रोणभीष्मकर्णादीन् कृतापराधतया मयैव हनने विनियुक्तान् त्वं जहि त्वं हन्याः । एतान् गुरून् बन्धूंश्च अन्यानपि भोगसक्तान् कथं हनिष्यामीति मा व्यथिष्ठाः तानुद्दिश्य धर्माधर्मभयेन बन्धुस्नेहेन कारुण्येन च मा व्यथां कृथाः । यतस्ते कृतापराधा मयैव हनने विनियुक्ताः, अतो निर्विशङ्को युध्यस्व । रणे सपत्नान् जेतासि जेष्यसि । नैतेषां वधे नृशंसतागन्धः॑ अपि तु जय एव लभ्यत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.३४ ॥ सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥ भगवद्गीता११.३५ ॥ एतदश्रितवात्सल्यजलधेः केशवस्य वचनं श्रुत्वा अर्जुनस्तस्मै नमस्कृत्य भीतभीतो भूयस्तं प्रणम्य कृताञ्जलिर्वेपमानः किरीटी सगद्गदमाह ॥ भगवद्गीतारामानुजभाष्य ११.३५ ॥ स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ भगवद्गीता११.३६ ॥ स्थाने युक्तम् । यदेतद्युद्धदिदृक्षयागतमशेषदेवगन्धर्वसिद्धयक्षविद्याधरकिन्नरकिंपुरुषादिकं जगत्, त्वत्प्रसादात्त्वां सर्वेश्वरमवलोक्य तव प्रकीर्त्या सर्वं प्रहृष्यति, अनुरज्यते च, यच्च त्वामवलोक्य रक्षांसि भीतानि सर्वा दिशः प्रद्रवन्ति, सर्वे सिद्धसंघाः सिद्धाद्यनुकूलसंघाः नमस्यन्ति च तदेतत्सर्वं युक्तमिति पूर्वेण संबन्धः ॥ भगवद्गीतारामानुजभाष्य ११.३६ ॥ युक्ततामेवोपपादयति कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । महात्मन्, ते तुभ्यं गरीयसे ब्रह्मणः हिरण्यगर्भस्यापि आदिभूताय कर्त्रे हिरण्यगर्भादयः कस्माद्धेतोर्न नमस्कुर्युः ॥ भगवद्गीतारामानुजभाष्य ११.३७ ब् ॥ अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥ भगवद्गीता११.३७ ॥ अनन्त देवेश जगन्निवास त्वमेवाक्षरम् । न क्षरतीत्यक्षरं जीवात्मतत्त्वम् । "न जायते म्रियते वा विपश्चित्" इत्यादिश्रुतिसिद्धो जीवात्मा हि न क्षरति । सदसच्च त्वमेव सदसच्छब्दनिर्दिष्टं कार्यकारणभावेनावस्थितं प्रकृतितत्त्वं, नामरूपविभागवत्तया कार्यावस्थं सच्छब्दनिर्दिष्टं तदनर्हतया कारणावस्थमसच्छब्दनिर्दिष्टं च त्वमेव । तत्परं यत्तस्मात्प्रकृतेः प्रकृतिसंबन्धिनश्च जीवात्मनः परमन्यन्मुक्तात्मतत्त्वं यत्, तदपि त्वमेव ॥ भगवद्गीतारामानुजभाष्य ११.३७ ॥ त्वमादिदेवः पुरुषः पुराणस्त्वमस्य विश्वस्य परं निधानम् । अतस्त्वमादिदेवः, पुरुषः पुराणः, त्वमस्य विश्वस्य परं निधानम् । निधीयते त्वयि विश्वमिति त्वमस्य विश्वस्य परं निधानम्॑ विश्वस्य शरीरभूतस्यात्मतया परमाधारभूतस्त्वमेवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.३७ ॥ वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥ भगवद्गीता११.३८ ॥ जगति सर्वो वेदिता वेद्यं च सर्वं त्वमेव । एवं सर्वात्मतयावस्थितस्त्वमेव परं च धाम स्थानम्॑ प्राप्यस्थानमित्यर्थः । त्वया ततं विश्वमनन्तरूप । त्वयात्मत्वेन विश्वं चिदचिन्मिश्रं जगत्ततं व्याप्तम् ॥ भगवद्गीतारामानुजभाष्य ११.३८ ॥ अतस्त्वमेव वाय्वादिशब्दवाच्य इत्याह वायुर्यमोऽग्निर्वरुणश्शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । सर्वेषां प्रपितामहस्त्वमेव॑ पितामहादयश्च । सर्वसां प्रजानां पितरः प्रजापतयः, प्रजापतीनां पिता हिरण्यगर्भः प्रजानां पितामहः, हिरण्यगर्भस्यापि पिता त्वं प्रजानां प्रपितामहः । पितामहादीनामात्मतया तत्तच्छब्दवाच्यस्त्वमेवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.३९ ब् ॥ अत्यद्भुताकारं भगवन्तं दृष्ट्वा हर्षोत्फुल्लनयनोऽत्यन्तसाध्वसावनतः सर्वतो नमस्करोति ॥ नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥ भगवद्गीता११.३९ ॥ नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥ भगवद्गीता११.४० ॥ अमितवीर्य, अपरिमितपराक्रमस्त्वं सर्वात्मतया समाप्नोषि॑ ततः सर्वोऽसि । यतस्त्वं सर्वं चिदचिद्वस्तुजातमात्मतया समाप्नोषि, अतः सर्वस्य चिदचिद्वस्तुजातस्य त्वच्छरीरतया त्वत्प्रकारत्वात्सर्वप्रकारस्त्वमेव सर्वशब्दवाच्योऽसीत्यर्थः । "त्वमक्षरं सदसत्", "वायुर्यमोऽग्निः" इत्यादिसर्वसामानाधिकरण्यनिर्देशस्यात्मतया व्याप्तिरेव हेतुरिति सुव्यक्तमुक्तम्, "त्वया ततं विश्वमनन्तरूप", "सर्वं समाप्नोषि ततोऽसि सर्वः" इति च ॥ भगवद्गीतारामानुजभाष्य ११.४० ॥ सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेमं मया प्रमादात्प्रणयेन वापि ॥ भगवद्गीता११.४१ ॥ यश्चापहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथ वाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥ भगवद्गीता११.४२ ॥ तवानन्तवीर्यत्वामितविक्रमत्वसर्वान्तरात्मत्वस्रष्टृत्वादिको यो महिमा, तमिममजानता मया प्रमादान्मोहात्, प्रणयेन चिरपरिचयेन वा सखेति मम वयस्यः इति मत्वा, हे कृष्ण, हे यादव, हे सखा इति त्वयि प्रसभं विनयापेतं यदुक्तं, यच्च प्रिहासार्थं सर्वदैव सत्कारार्हस्त्वमसत्कृतोऽसि, विहारशय्यासनभोजनेषु च सहकृतेषु एकान्ते वः समक्षं वा यदसत्कृतोऽसि॑ तत्सर्वं त्वामप्रमेयमहं क्षामये ॥ भगवद्गीतारामानुजभाष्य ११.४१,४२ ॥ पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरु गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥ भगवद्गीता११.४३ ॥ अप्रतिमप्रभाव! त्वमस्य सर्वस्य चराचरस्य लोकस्य पितासि । अस्य लोकस्य गुरुश्चासि॑ अतस्त्वमस्य चराचरस्य लोकस्य गरीयान् पूज्यतमः । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः लोकत्रयेऽपि त्वदन्यः कारुण्यादिना केनापि गुणेन न त्वत्समोऽस्ति । कुतोऽभ्यधिकः? ॥ भगवद्गीतारामानुजभाष्य ११.४३ ॥ तस्मात्प्रणम्य प्रणिधाय कार्यं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ भगवद्गीता११.४४ ॥ यस्मात्त्वं सर्वस्य पिता पूज्यतमो गुरुश्च कारुण्यादिगुणैश्च सर्वाधिकोऽसि, तस्मात्त्वामीशमीड्यं प्रणम्य प्रणिधाय च कायं, प्रसादये॑ यथा कृतापराधस्यापि पुत्रस्य, यथा च सख्युः, प्रणामपूर्वं प्रार्थितः पिता वा सखा वा प्रसीदति॑ तथा त्वं परमकारुणिकः प्रियाय मे सर्वं सोढुमर्हसि ॥ भगवद्गीतारामानुजभाष्य ११.४४ ॥ अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास ॥ भगवद्गीता११.४५ ॥ अदृष्टपूर्वम् अत्यद्भुतमत्युग्रं च तव रूपं दृष्ट्वा हृषितोऽस्मि प्रीतोऽस्मि । भयेन प्रव्यथितं च मे मनः । अतस्तदेव तव सुप्रसन्नं रूपं मे दर्शय । प्रसीद देवेश जगन्निवास मयि प्रसादं कुरु, देवानां ब्रह्मादीनामपीश, निखिलजगदाश्रयभूत ॥ भगवद्गीतारामानुजभाष्य ११.४५ ॥ किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ भगवद्गीता११.४६ ॥ तथैव पूर्ववत्, किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुमिच्छामि । अतस्तेनैव पूर्वसिद्धेन चतुर्भुजेन रूपेण युक्तो भव । सहस्रबाहो विश्वमूर्ते इदानीं सहस्रबाहुत्वेन विश्वशरीरत्वेन दृश्यमानरूपस्त्वं तेनैव रूपेण युक्तो भवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.४६ ॥ श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ भगवद्गीता११.४७ ॥ यन्मे तेजोमयं तेजसां राशिः॑ विश्वं विश्वात्मभूतम्, अनन्तमन्तरहितम्॑ प्रदर्शनार्थमिदम्॑ आदिमध्यान्तरहितम्॑ आद्यं मद्व्यतिरिक्तस्य कृत्स्नस्यादिभूतम्, त्वदन्येन केनापि न दृष्टपूर्वं रूपम् तदिदं प्रसन्नेन मया मद्भक्ताय ते दर्शितम्॑ आत्मयोगादत्मनस्सत्यसंकल्पत्वयोगात् ॥ भगवद्गीतारामानुजभाष्य ११.४७ ॥ अनन्यभक्तिव्यतिरिक्तैः सर्वैरप्युपायैर्यथावदवस्थितोऽहं द्रष्टुं न शक्य इत्याह न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपश्शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ भगवद्गीता११.४८ ॥ एवंरूपो यथावदवथितोऽहं मयि भक्तिमतस्त्वत्तोऽन्येन एकान्तभक्तिरहितेन केनापि पुरुषेण वेदयज्ञादिभिः केवलैर्द्रष्टुं न शक्यः ॥ भगवद्गीतारामानुजभाष्य ११.४८ ॥ मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥ भगवद्गीता११.४९ ॥ ईदृशघोररूपदर्शनेन ते या व्यथा, यश्च विमूढभावो वर्तते, तदुभयं मा भूत्॑ त्वया अभ्यस्तपूर्वमेव सौम्यं रूपं दर्शयामि, तदेवेदं मम रूपं प्रपश्य ॥ भगवद्गीतारामानुजभाष्य ११.४९ ॥ सञ्जय उवाच इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनस्सौम्यवपुर्महात्मा ॥ भगवद्गीता११.५० ॥ एवं पाण्डुतनयं भगवान् वसुदेवसूनुरुक्त्वा भूयः स्वकीयमेव चतुर्भुजं रूपं दर्शयामास॑ अपरिचितरुपदर्शनेन भीतमेनं पुनरपि परिचितसौम्यवपुर्भूत्वा आश्वासयामास च, महात्मा सत्यसङ्कल्पः । अस्य सर्वेश्वरस्य परमपुरुषस्य परस्य ब्रह्मणो जगदुपकृतिमर्त्यस्य वसुदेवसूनोश्चतुर्भुजमेव स्वकीयं रूपम्॑ कंसाद्भीतवसुदेवप्रार्थनेन आकंसवधाद्भुजद्वयमुपसंहृतं पश्चादाविष्कृतं च । "जातोऽसि देव देवेश शङ्खचक्रगदाधर । दिव्यं रूपमिदं देव प्रसादेनोप्संहर ॥ ..... उपसंहर विश्वात्मन् रूपमेतच्चतुर्भुजम्" इति हि प्रार्थितम् । शिशुपालस्यापि द्विषतोऽनवरतभावनाविषयश्चतुर्भुजमेव वसुदेवसूनो रूपम्, "उदारपीवरचतुर्बाहुं शङ्खचक्रगदाधरम्" इति । अतः पार्थेनात्र तेनैव रूपेण चतुर्भुजनेत्युच्यते ॥ भगवद्गीतारामानुजभाष्य ११.५० ॥ अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ भगवद्गीता११.५१ ॥ अनवधिकातिशयसौन्दर्यसौकुमार्यलावण्यादियुक्तं तवैवासाधारणं मनुष्यत्वसंस्थानसंस्थितमतिसौम्यमिदं तव रूपं दृष्ट्वा इदानीं सचेतास्संवृत्तोऽस्मि॑ प्रकृतिं गतश्च ॥ भगवद्गीतारामानुजभाष्य ११.५१ ॥ श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ भगवद्गीता११.५२ ॥ मम इदं सर्वस्य प्रशासनेऽवस्थितं सर्वास्रयं सर्वकारणभूतं रूपं यद्दृष्टवानसि, तत्सुदुर्दर्शं न केनापि द्रष्टुं शक्यम् । अस्य रूपस्य देवा अपि नित्यं दर्शनकाङ्क्षिणः, न तु दृष्टवन्तः ॥ भगवद्गीतारामानुजभाष्य ११.५२ ॥ कुत इत्यत्र आह नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ भगवद्गीता११.५३ ॥ भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ भगवद्गीता११.५४ ॥ वेदैरध्यापनप्रवचनाध्ययनश्रवणजपविषयैः, यागदानहोमतपोभिश्च मद्भक्तिविरहितैः केवलैः यथावदवस्थितोऽहं द्रष्टुमशक्यः । अनन्यया तु भक्त्या तत्त्वतश्शास्त्रैर्ज्ञातुं तत्त्वतस्साक्षात्कर्तुं, तत्त्वतः प्रवेष्टुं च शक्यः । तथा च श्रुतिः, "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्" इति ॥ भगवद्गीतारामानुजभाष्य ११.५३,५४ ॥ मत्कर्मकृन्मत्परमो मद्भक्तस्सङ्गवर्जितः । निर्वैरस्सर्वभूतेषु यः स मामेति पाण्डव ॥ भगवद्गीता११.५५ ॥ वेदाध्ययनादीनि सर्वाणि कर्माणि मदाराधनरूपाणीति यः करोति, स मत्कर्मकृत् । मत्परमः सर्वेषामारम्भाणामहमेव परमोद्देश्यो यस्य, स मत्परमः । मद्भक्तः अत्यर्थमत्प्रियत्वेन मत्कीर्तनस्तुतिध्यानार्चनप्रणामादिभिर्विना आत्मधारणमलभमानो मदेकप्रयोजनतया यः सततं तानि करोति, स मद्भक्तः । सङ्गवर्जितः मदेकप्रियत्वेनेतरसङ्गमसहमानः । निर्वैरस्सर्वभूतेषु मत्संश्लेषवियोगैकसुखदुःखस्वभावत्वात्स्वदुःखस्य स्वापराधननिमित्तत्वानुसंधानाच्च सर्वभूतानां परमपुरुषपरतन्त्रत्वानुसंधानाच्च सर्वभूतेषु वैरनिमित्ताभावात्तेषु निर्वैरः । य एवं भूतः, स मामिति मां यथावदवस्थितं प्राप्नोति॑ निरस्ताविद्याद्यशेषदोषगन्धो मदेकानुभवो भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य ११.५५ ॥ ******************** अध्याय १२ ******************** भक्तियोगनिष्ठानां प्राप्यभूतस्य परस्य ब्रह्मणो भगवतो नारायणस्य निरङ्कुशाइश्वर्यं साक्षात्कर्तुकामायार्जुनाय अनवधिकातिशयकारुण्याउदार्यसौशील्यादिगुणसागरेण सत्यसंकल्पेन भगवता स्वाइश्वर्यं यथावदवस्थितं दर्शितम्॑ उक्तं च तत्त्वतो भगवज्ज्ञानदर्शनप्राप्तीनामैकान्तिकात्यन्तिकभगवद्भक्त्येकलभ्यत्वम् । अननतरमात्मप्राप्तिसाधनभूतादत्मोपासनाद्भक्तिरूपस्य भगवदुपासनस्य स्वसाध्यनिष्पादने शैघ्र्यात्सुसुखोपादानत्वाच्च श्रैष्ठ्यम्, भगवदुपासनोपायश्च, तदशक्तस्याक्षरनिष्ठता, तदपेक्षिताश्चोच्यन्ते । भगवदुपासनस्य प्राप्यभूतोपास्यश्रैष्ठ्याच्श्रैष्ठ्यं तु, "योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ भगवद्गीतारामानुजभाष्य १२." इत्यत्रोक्तम् । एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ भगवद्गीता१२.१ ॥ एवम् "मत्कर्मकृत्" इत्यादिनोक्तेन प्रकारेण, सततयुक्ताः भगवन्तं त्वामेव परं प्राप्यं मन्वानाः ये भक्ताः, त्वां सकलविभूतियुक्तमनवधिकातिशयसौन्दर्यसौशील्यसार्वज्ञ्यसत्यसंकल्पत्वाद्यनन्तगुणसागरं परिपूर्णमुपासते, ये चाप्यक्षरं प्रत्यगात्मस्वरूपं तदेव च अव्यक्तं चक्षुरादिकरणानभिव्यक्तस्वरूपमुपासते॑ तेषामुभयेषां के योगवित्तमाः के स्वसाध्यं प्रति शीघ्रगामिन इत्यर्थः, "भवामि न चिरात्पार्थ" इति उत्तरत्र योगवित्तमत्वं शैघ्र्यविषयमिति हि व्यञ्जयिष्यते ॥ भगवद्गीतारामानुजभाष्य १२.१ ॥ श्रीभगवानुवाच मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास्ते मे युक्ततमाः मताः ॥ भगवद्गीता१२.२ ॥ अत्यर्थमत्प्रियत्वेन मनो मय्यावेश्य श्रद्धया परयोपेताः नित्ययुक्ताः नित्ययोगं काङ्क्षमाणाः ये मामुपासते प्राप्यविषयं मनो मय्यावेश्य ये मामुपासत इत्यर्थः ते युक्ततमाः मां सुखेनाचिरात्प्राप्नुवन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १२.२ ॥ ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते । सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ भगवद्गीता१२.३ ॥ सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः । ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ भगवद्गीता१२.४ ॥ क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् । अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ भगवद्गीता१२.५ ॥ ये तु अक्षरं प्रत्यगात्मस्वरूपम्, अनिर्देश्यं देहादन्यतया देवादिशब्दानिर्देश्यं तत एव चक्षुरादिकरणानभिव्यक्तम्, सर्वत्रगमचिन्त्यं च सर्वत्र देवादिदेहेषु वर्तमानमपि तद्विसजातीयतया तेन तेन रूपेण चिन्तयितुमनर्हम्, तत एव कूटस्थं सर्वसाधारणम् तत्तद्देवाद्यसाधारणाकारासंबद्धमित्यर्थः अपरिणामित्वेन स्वासाधारणाकारान्न चलति न च्यवत इत्यचलम्, तत एव ध्रुवम्, नित्यम् । सन्नियाम्येन्द्रियग्रामं चक्षुरादिकमिन्द्रियग्रामं सर्वं स्वव्यापारेभ्यस्सम्यङ्नियम्य, सर्वत्र समबुद्धयः सर्वत्र देवादिविषमाकारेषु देहेष्ववस्थितेष्वात्मसु ज्ञानैकाकारतया समबुद्धयः, तत एव सर्वभूतहिते रताः सर्वभूताहितरहितत्वान्निवृत्ताः । सर्वभूताहितरहितत्वं ह्यात्मनो देवादिविषमाकाराभिमाननिमित्तम् । य एवमक्षरमुपासते, तेऽपि मां प्राप्नुवन्त्येव मत्समानाकारमसंसारिणमात्मानं प्राप्नुवन्त्येवेत्यर्थः । "मम साधर्म्यमागताः" इति हि वक्ष्यते । श्रूयते च, "निरञ्जनः परमं साम्यमुपैति" इति । तथा अक्षरशब्दनिर्दिष्टात्कूटस्थादन्यत्वं परस्य ब्रह्मणो वक्ष्यते, "कूटस्थोऽक्षर उच्यते । उत्तमः पुरुषस्त्वन्यः" इति । "अथ परा यया तदक्षरमधिक्गम्यते" इत्यक्षरविद्यायां तु अक्षरशब्दनिर्दिष्टं परमेव ब्रह्म, भूतयोनित्वादेः ।तेषामव्यक्तासक्तचेतसां क्लेशस्त्वधिकतरः । अव्यक्ता हि गतिः अव्यक्तविषया मनोवृत्तिः देहवद्भिः देहात्माभिमानयुक्तैः दुःखेनावाप्यते । देहवन्तो हि देहमेव आत्मानं मन्यन्ते ॥ भगवद्गीतारामानुजभाष्य १२.३,४,५ ॥ भगवन्तमुपासीनानां युक्ततमत्वं सुव्यक्तमाह ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः । अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ भगवद्गीता१२.६ ॥ तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ भगवद्गीता१२.७ ॥ ये तु लौकिकानि देहयात्राशेषभूतानि, देहधारणार्थानि च अशनादीनि कर्माणि, वैदिकानि च यगदानहोमतपःप्रभृतीनि सर्वाणि सकारणानि सोद्देश्यानि अध्यात्मचेतसा मयि संन्यस्य, मत्पराः मदेकप्राप्याः, अनन्येनैव योगेन अनन्यप्रयोजनेन योगेन मां ध्यायन्त उपासते ध्यानार्चनप्रणामस्तुतिकीर्तनादीनि स्वयमेवात्यर्थप्रियाणि प्राप्यसमानि कुर्वन्तो मामुपासत इत्यर्थः । तेषां मत्प्राप्तिविरोधितया मृत्युभूतात्संसाराख्यात्सागरादहमचिरेणैव कालेन समुद्धर्ता भवामि ॥ भगवद्गीतारामानुजभाष्य १२.६,७ ॥ मय्येव मन आधत्स्व मयि बुद्धिं निवेशय । निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ भगवद्गीता१२.८ ॥ अतोऽतिशयितपुरुषार्थत्वात्सुलभत्वादचिरलभ्यत्वाच्च मय्येव मन आधत्स्व मयि मनस्समाधानं कुरु । मयि बुद्धिं निवेशय अहमेव परमप्राप्य इत्यध्यवसायं कुरु । अत ऊर्ध्वं मय्येव निवसिष्यसि । अहमेव परमप्राप्य इत्यध्यवसायपूर्वकमनोनिवेशनानन्तरमेव मयि निवसिष्यसीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १२.८ ॥ अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् । अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ भगवद्गीता१२.९ ॥ अथ सहसैव मयि स्थिरं चित्तं समाधातुं न शक्नोषि, ततोऽभ्यासयोगेन मामाप्तुमिच्छ स्वाभाविकानवधिकातिशयसौन्दर्यसौशील्यसौहार्दवात्सल्यकारुण्यमाधुर्यगाम्भीर्याउदार्यशैर्यवीर्यपराक्रमसार्वज्ञ्यसत्यकामत्वसत्यसंकल्पत्वसर्वेश्वरत्वसकलकारणत्वाद्यसंख्येयगुणसागरे निखिलहेयप्रत्यनीके मयि निरतिशयप्रेमगर्भस्मृत्यभ्यासयोगेन स्थिरं चित्तसमाधानं लब्ध्वा मां प्राप्तुमिच्छ ॥ भगवद्गीतारामानुजभाष्य १२.९ ॥ अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव । मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि ॥ भगवद्गीता१२.१० ॥ अथैवंविधस्मृत्यभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव । मदीयानि कर्माण्यालयनिर्माणोद्योनकरणप्रदीपारोपणमार्जनाभ्युक्षणोपलेपनपुष्पाहरणपूजाप्रवर्तननामसंकीर्तनप्रदक्षिणस्तुतिनमस्कारादीनि॑ तानि अत्यर्थप्रियत्वेनाचर । अत्यर्थप्रियत्वेन मदर्थं कर्माणि कुर्वन्नपि अचिरादभ्यासयोगपूर्विकां मयि स्थिरां चित्तस्थितिं लब्ध्वा मत्प्राप्तिरूपां सिद्धिमवाप्स्यसि ॥ भगवद्गीतारामानुजभाष्य १२.१० ॥ अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः । सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ भगवद्गीता१२.११ ॥ अथ मद्योगमाश्रित्यैतदपि कर्तुं न शक्नोषि मद्गुणानुसन्धानकृतमदेकप्रियत्वाकारं भक्तियोगमाश्रित्य भक्तियोगाङ्कुररूपमेतन्मत्कर्मापि कर्तुं न शक्नोषि, ततोऽक्षरयोगमात्मस्वभावानुसन्धानरूपं परभक्तिजननं पूर्वषट्कोदितमाश्रित्य तदुपायतया सर्वकर्मफलत्यागं कुरु । मत्प्रियत्वेन मदेकप्राप्यताबुद्धिर्हि प्रक्षीणाशेषपापस्यैव जायते । यतात्मवान् यतमनस्कः । ततोऽनभिसंहितफलेन मदाराधनरूपेणानुष्ठितेन कर्मणा सिद्धेनात्मध्यानेन निवृत्ताविद्यादिसर्वतिरोधाने मच्छेषतैकस्वरूपे प्रत्यगात्मनि साक्षात्कृते सति मयि परा भक्तिः स्वयमेवोत्पद्यते । तथा च वक्ष्यते, "स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः" इत्यारभ्य, "विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कलपते । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्" इति ॥ भगवद्गीतारामानुजभाष्य १२.११ ॥ श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते । ध्यानात्कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम् ॥ भगवद्गीता१२.१२ ॥ अत्यर्थप्रीतिविरहितात्कर्कशरूपात्स्मृत्यभ्यासादक्षरयाथात्म्यानुसन्धानपूर्वकं तदापरोक्ष्यज्ञानमेव आत्महितत्वेन विशिष्यते । आत्मापरोक्ष्यज्ञानादप्यनिष्पन्नरूपात्तदुपायभूतात्मध्यानमेवात्महितत्वे विशिष्यते । तद्ध्यानादप्यनिष्पन्नरूपात्तदुपायभूतं फलत्यागेनानुष्ठितं कर्मैव विशिष्यते । अनभिसंहितफलादनुष्ठितात्कर्मणोऽनन्तरमेव निरस्तपापतया मनसश्शान्तिर्भविष्यति॑ शान्ते मनसि आत्मध्यानं संपत्स्यते॑ ध्यानाच्च तदापरोक्ष्यम्॑ तदापरोक्ष्यात्परा भक्तिः इति भक्तियोगाभ्यासाशक्तस्यात्मनिष्ठैव श्रेयसी । आत्मनिष्ठस्यापि अशान्तमनसो निष्ठाप्राप्तये अन्तर्गतात्मज्ञानानभिसंहितफलकर्मनिष्ठैव श्रेयसीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १२.१२ ॥ अनभिसंहितफलकर्मनिष्ठस्योपादेयान् गुणानाह अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ भगवद्गीता१२.१३ ॥ सन्तुष्टस्सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ भगवद्गीता१२.१४ ॥ अद्वेष्टा सर्वभूतानाम् विद्विषतामपकुर्वतामपि सर्वेषां भूतानामद्वेष्टा मदपराधानुगुणमीश्वरप्रेरितान्येतानि भूतानि द्विषन्त्यपकुर्वन्ति चेत्यनुसन्दधानः॑ तेषु द्विषत्सु अप्कुर्वत्सु च सर्वभूतेषु मैत्रीं मतिं कुर्वन्मैत्रः, तेष्वेव दुःखितेषु करुणां कुर्वन् करुणः, निर्ममः देहेन्द्रियेषु तत्संबन्धिषु च निर्ममः, निरहङ्कारः देहात्माभिमानरहितः, तत एव समदुःखसुखः सुखदुःखागमयोः साङ्कल्पिकयोः हर्षोद्वेगरहितः, क्षमी स्पर्शप्रभवयोरवर्जनीययोरपि तयोर्विकाररहितः, संतुष्टः यदृच्छोपनतेन येन केनापि देहधारणद्रव्येण संतुष्टः, सततं योगी सततं प्रकृतिवियुक्तात्मानुसन्धानपरः, यतात्मा नियमितमनोवृत्तिः, दृढनिश्चयः अध्यात्मशास्त्रोदितेष्वर्थेषु दृढनिश्चयः, मय्यर्पितमनोबुद्धिः भगवान् वासेदेव एवानभिसंहितफलेनानुष्ठितेन कर्मणा आराध्यते, आराधितश्च मम आत्मापरोक्ष्यं साधयिष्यतीति मय्यर्पितमनोबुद्धिः, य एवंभूतो मद्भक्तः एवं कर्मयोगेन मां भजमानो यः, स मे प्रियः ॥ भगवद्गीतारामानुजभाष्य १२.१३ ॥१४॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ भगवद्गीता१२.१५ ॥ यस्मात्कर्मनिष्ठात्पुरुषान्निमित्तभूताल्लोको नोद्विजते यो लोकोद्वेगकरं कर्म किञ्चिदपि न करोतीत्यर्थः । लोकाच्च निमित्तभूताद्यो नोद्विजते यमुद्दिश्य सर्वलोको नोद्वेगकरं कर्म करोति॑ सर्वाविरोधित्वनिश्चयात् । अत एव कञ्चन प्रति हर्षेण, कञ्चन प्रति अमर्षेण, कञ्चन प्रति भयेन, कञ्चन प्रति उद्वेगेन मुक्तह्॑ एवंभूतो यः, सोऽपि मम प्रियः ॥ भगवद्गीतारामानुजभाष्य १२.१५ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ भगवद्गीता१२.१६ ॥ अनपेक्षः आत्मव्यतिरिक्ते कृत्स्ने वस्तुन्यनपेक्षः, शुचिः शास्त्रविहितद्रव्यवर्धितकायः, दक्षः शास्त्रीयक्रियोपादानसमर्थः, अन्यत्रोदासीनः, गनव्यथः शास्त्रीयक्रियानिर्वृत्तौ अवर्जनीयशीतोष्णपुरुषस्पर्शादिदुःखेषु व्यथारहितः, सर्वारम्भपरित्यागी शास्त्रीयव्यतिरिक्तसर्वकर्मारम्भपरित्यागी, य एवंभूतो मद्भक्तः, स मे प्रियः ॥ भगवद्गीतारामानुजभाष्य १२.१६ ॥ यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति । शुभाशुभपरित्यागी भक्तिमान् यः स मे प्रियः ॥ भगवद्गीता१२.१७ ॥ यो न हृष्यति यन्मनुष्याणां हर्षनिमित्तं प्रियजातम्, तत्प्राप्य यः कर्मयोगी न हृष्यति॑ यच्चाप्रियम्, तत्प्राप्य न द्वेष्टि॑ यच्च मनुष्याणां शोकनिमित्तं भार्यापुत्रवित्तक्षयादिकम्, तत्प्राप्य न शोचति॑ तथाविधमप्राप्तं च न काङ्क्षति॑ शुभाशुभपरित्यागी पापवत्पुण्यस्यापि बन्धहेतुत्वाविशेषादुभयपरित्यागी । य एवंभूतो भक्तिमान्, स मे प्रियः ॥ भगवद्गीतारामानुजभाष्य १२.१७ ॥ समश्शत्रौ च मित्रे च तथा मानावमानयोः । शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ भगवद्गीता१२.१८ ॥ तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ भगवद्गीता१२.१९ ॥ "अद्वेष्टा सर्वभूतानाम्" इत्यादिना शत्रुमित्रादिषु द्वेषादिरहितत्वमुक्तम्॑ अत्र तेषु सन्निहितेष्वपि समचित्तत्वं ततोऽप्यतिरिक्तो विशेष उच्यते । आत्मनि स्थिरमतित्वेन निकेतनादिष्वसक्त इत्यनिकेतः॑ तत एव मानावमानादिष्वपि समः॑ य एवंभूतो भक्तिमान्, स मे प्रियः ॥ भगवद्गीतारामानुजभाष्य १२.१८ ॥१९॥ अस्मादात्मनिष्ठाद्भक्तियोगनिष्ठस्य श्रैष्ठ्यं प्रतिपादयन् यथोपक्रममुपसंहरति ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ भगवद्गीता१२.२० ॥ धर्म्यं चामृतं चेति धर्म्यामृतम्, ये तु प्राप्यसमं प्रापकं भक्तियोगम्, यथोक्तम् "मय्यावेश्य मनो ये माम्"इत्यादिनोक्तेन प्रकारेण उपासते॑ ते भक्ताः अतितरां मम प्रियाः ॥ भगवद्गीतारामानुजभाष्य १२.२० ॥ ******************** अध्याय १३ ******************** पूर्वस्मिन् षट्के परमप्राप्यस्य परस्य ब्रह्मणो भगवतो वासुदेवस्य प्राप्त्युपायभूतभक्तिरूपभगवदुपासनाङ्गभूतं प्राप्तुः प्रत्यगात्मनो याथात्म्यदर्शनं ज्ञानयोगकर्मयोगलक्षणनिष्ठाद्वयसाध्यमुक्तम् । मध्यमे च परमप्राप्यभूतभगवद्तत्त्वयाथात्म्यतन्माहात्म्यज्ञानपूर्वकाइकान्तिकात्यन्तिकभक्तियोगनिष्ठा प्रतिपादिता । अतिशयिताइश्वर्यापेक्षाणामात्मकैवल्यमात्रापेक्षाणां च भक्तियोगस्तत्तदपेक्षितसाधनमिति चोक्तम् । इदानीमुपरितने षट्के प्रकृतिपुरुषतत्संसर्गरूपप्रपञ्चेश्वरतद्याथात्म्यकर्मज्ञानभक्तिस्वरूपतदुपादानप्रकाराश्च षट्कद्वयोदिता विशोध्यन्ते । तत्र तावत्त्रयोदशे देहात्मनोः स्वरूपम्, देहयाथात्म्यशोधनम्, देहवियुक्तात्मप्राप्त्युपायः, विविक्तात्मस्वरूपसंशोधनम्, तथाविधस्यात्मनश्चाचित्संबन्धहेतुः, ततो विवेकानुसन्धानप्रकारश्चोच्यत् श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ भगवद्गीता१३.१ ॥ इदं शरीरं देवोऽहम्, मनुष्योऽहम्, स्थूलोऽहम्, कृशोऽहमिति आत्मनो भोक्त्रा सह सामानाधिकरण्येन प्रतीयमानं भोक्तुरात्मनोऽर्थान्तरभूतस्य भोगक्षेत्रमिति शरीरयाथात्म्यविद्भिरभिधीयते । एतदवयवशः संघातरूपेण च, इदमहं वेद्मीति यो वेत्ति, तं वेद्यभूतादस्माद्वेदितृत्वेनार्थान्तरभूतम्, क्षेत्रज्ञ इति तद्विदः आत्मयाथात्म्यविदः प्राहुः । यद्यपि देहव्यतिरिक्तघटाद्यर्थानुसन्धानवेलायां "देवोऽहम्, मनुष्योऽहं घटादिकं जानामि" इति देहसामानाधिकरण्येन ज्ञातारमात्मानमनुसन्धत्ते, तथापि देहानुभववेलायां देहमपि घटादिकमिव "इदमहं वेद्मि" इति वेद्यतया वेदितानुभवतीति वेदितुरात्मनो वेद्यतया शरीरमपि घटादिवदर्थान्तरभूतम् । तथा घटादेरिव वेद्यभूताच्छरीरादपि वेदिता क्षेत्रज्ञोऽर्थान्तरभूतः । सामानाधिकरण्येन प्रतीतिस्तु वस्तुतश्शरीरस्य गोत्वादिवदत्मविशेषणतैकस्वभावतया तदपृथक्सिद्धेरुपपन्ना । तत्र वेदितुरसाधारणाकारस्य चक्षुरादिकरणाविषयत्वाद्योगसंस्कृतमनोविषयत्वाच्च प्रकृतिसन्निधानादेव मूढाः प्रकृत्याकारमेव वेदितारं पश्यन्ति, तथा च वक्ष्यति, "उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः" इति ॥ भगवद्गीतारामानुजभाष्य १३.१ ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ भगवद्गीता१३.२ ॥ देवमनुष्यादिसर्वक्षेत्रेषु वेदितृत्वाकारं क्षेत्रज्ञं च मां विद्धि मदात्मकं विद्धि॑ क्षेत्रज्ञं चापीति अपिशब्दात्क्षेत्रमपि मां विद्धीत्युक्तमिति गम्यते । यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया तदपृथक्सिद्धेः तत्सामानाधिकरण्येनैव निर्देश्यम्, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि । पृथिव्यादिसंघातरूपस्य क्षेत्रस्य क्षेत्रज्ञस्य च भगवच्छरीरतैकस्वरूपतया भगवदात्मकत्वं श्रुतयो वदन्ति, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृतः" इत्यारभ्य, "य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः" इत्याद्याः । इदमेवान्तर्यामितया सर्वक्षेत्रज्ञानामात्मत्वेनावस्थानं भगवतः तत्सामानाधिकरण्येन व्यपदेशहेतुः । "अहमात्मा गुडाकेश सर्वभूताशयस्थितः", "न तदस्ति विना यत्स्यान्मया भूतं चराचरम्" ,"विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति पुरस्तादुपरिष्टाच्चाभिधाय, मध्ये सामानाधिकरण्येन व्यपदिशति, "आदित्यानामहं विष्णुः" इत्यादिना । यदिदं क्षेत्रक्षेत्रज्ञयोः विवेकविषयं तयोर्मदात्मकत्वविषयं च ज्ञानमुक्तम्, तदेवोपादेयं ज्ञानमिति मम मतम् । केचिद् आहुः "क्षेत्रज्ञं चापि मां विद्धि" इति सामानाधिकरण्येनैकत्वमवगम्यते । ततश्चेश्वरस्यैव सतोऽज्ञानात्क्षेत्रज्ञत्वमिव भवतीत्यभ्युपगन्तव्यम् । तन्निवृत्त्यर्थश्चायमेकत्वोपदेशः । अनेन च आप्ततमभगवदुपदेशेन, "रज्जुरेषा न सर्पः" इत्याप्तोपदेशेन सर्पत्वभ्रमनिवृत्तिवत्क्षेत्रज्ञत्वभ्रमो निवर्तते इति । ते प्रष्टव्याः अयमुपदेष्टा भगवान् वासुदेवः परमेश्वरः किमात्मयाथात्म्यसाक्षात्कारेण निवृत्ताज्ञानः उत नेति । निवृत्ताज्ञानश्चेत्, निर्विशेषचिन्मात्रैकस्वरूपे आत्मनि अन्यतद्रूपाध्यासासंभावनया कौन्तेयादिभेददर्शनं, तान् प्रत्युपदेशादिव्यापाराश्च न संभवन्ति । अथात्मसाक्षात्काराभावादनिवृत्ताज्ञानः, न तर्ह्यज्ञत्वादेवात्मज्ञानोपदेशसंभवः॑ "उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इति ह्युक्तम् । अत एवमादिवादा अनाकलितश्रुतिस्मृतीतिहासपुराणन्यायस्ववाग्विरोधैरज्ञानिभिर्जगन्मोहनाय प्रवर्तिता इत्यनादरणीयाः । अत्रेदं तत्त्वम् अचिद्वस्तुनश्चिद्वस्तुनः परस्य च ब्रह्मणो भोग्यत्वेन भोक्तृत्वेन चेशितृत्वेन च स्वरूपविवेकमाहुः काश्चन श्रुतयः, "अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्चान्यो मायया सन्निरुद्धः", "मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरं", "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः" अमृताक्षरं हरः इति भोक्ता निर्दिश्यते॑ प्रधानमात्मनो भोग्यत्वेन हरतीति हरः "स कारणं करणाधिपाधिपो न चास्य कश्चिञ्जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर्गुणेशः", "पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्", "ज्ञाज्ञौ द्वावजावीशनीशौ", "नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्", "भोक्ता भोग्यं प्रेरितारं च मत्वा", "पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति", "तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति", "अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्तीं सरूपाम् । अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः" इत्याद्याः । अत्रापि, "अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां", "सर्वभूतानि कौन्त्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ..... मयाध्यक्षेण प्रकृतिस् सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्धि परिवर्तते ॥ भगवद्गीतारामानुजभाष्य १३.", "प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि", "मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवस्सर्वभूतानां ततो भवति भारत" इति । जगद्योनिभूतं महद्ब्रह्म मदीयं प्रकृत्याख्यं भूतसूक्ष्ममचिद्वस्तु यत्, तस्मिन् चेतनाख्यं गर्भं संयोजयामि॑ ततो मत्सङ्कल्पकृताच्चिदचित्संसर्गादेव देवादिस्थावरान्तानामचिन्मिश्राणां सर्वभूतानां संभवो भवतीत्यर्थः । एवं भोक्तृभोग्यरूपेणावस्थितयोः सर्वावस्थावस्थितयोश्चिदचितोः परमपुरुषशरीरतया तन्नियाम्यत्वेन तदपृथक्स्थितिं परमपुरुषस्य चात्मत्वमाहुः काश्चन श्रुतयः, "यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति" इत्यारभ्य, "य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृताः" इति॑ तथा, "यः पृथिवीमन्तरे सञ्चरन् यस्य पृथिवी शरीरं यं पृथिवी न वेद" इत्यारभ्य, योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरं यमक्षरं न वेद", "यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरं यं मृत्युर्न वेद एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायण", अत्र मृत्युशब्देन तमश्शब्दवाच्यं सूक्ष्मावस्थमचिद्वस्त्वभिधीयते, अस्यामेवोपनिषदि, "अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते" इति वचनात् "अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा" इति च । एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः परमपुरुष एव कार्यावस्थकारणावस्थजगद्रूपेणावस्थित इतीममर्थं ज्ञापयितुं काश्चन श्रुतयः कार्यावथं कारणावथं च जगत्स एवेत्याहुः, "सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्", "तदैक्षत बहु स्यां प्रजायेयेति । तत्तेजोऽसृजत" इत्यारभ्य, "सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठा", "ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो" इति । तथा, "सोऽकामयत, बहु स्यां प्रजायेयेति । स तपोऽतप्यत, स तपस्तप्त्वा, इदं सर्वमसृजत" इत्यारभ्य, "सत्यं चामृतं च सत्यमभवत्" इति । अत्रापि श्रुत्यन्तरसिद्धिश्चिदचितोः परमपुरुषस्य च स्वरूपविवेकः स्मारितः, "हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि", "तत्सृष्ट्वा, तदेवानुप्रविशत्, तदनुप्रविश्य, सच्च त्यच्चाभवत्..... विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्" इति च । एवंभूतमेव नामरूपव्याकरणम्, "तद्धेदं तर्ह्यव्याकृतमासीत्, तन्नामरूपाभ्यां व्याक्रियत" इत्यत्राप्युक्तम् । अतः कार्यावस्थः कारणावस्थश्च स्थूलसूक्ष्मचिदचिद्वस्तुशरीरः परमपुरुष एवेति, कारणात्कार्यस्यानन्यत्वेन कारणविज्ञानेन कार्यस्य ज्ञाततयैकविज्ञानेन सर्वविज्ञानं च समीहितमुपपन्नतरम् । "हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" इति, "तिस्रो देवताः" इति सर्वमचिद्वस्तु निर्दिश्य तत्र स्वात्मकजीवानुप्रवेशेन नामरूपव्याकरणवचनात्सर्वे वाचकाः शब्दाः अचिज्जीवविशिष्टपरमात्मन एव वाचका इति कारणावस्थपरमात्मवाचिना शब्देन कार्यवाचिनः शब्दस्य सामानाधिकरण्यं मुख्यवृत्तम् । अतः स्थूलसूक्ष्मचिदचित्प्रकारं ब्रह्मैव कार्यं कारणं चेति ब्रह्मोपादानं जगत् । सूक्ष्मचिदचिद्वस्तुशरीरं ब्रह्मैव कारणमिति जगतो ब्रह्मोपादानत्वेऽपि संघातस्योपादानत्वेन चिदचितोर्ब्रह्मणश्च स्वभावासङ्करोऽप्युपपन्नतरः । यथा शुक्लकृष्णरक्ततन्तुसंघातोपादानत्वेऽपि चित्रपटस्य तत्तत्तन्तुप्रदेश एव शौक्ल्यादिसंबन्ध इति कार्यावस्थायामपि न सर्वत्र वर्णसङ्करः तथा चिदचिदीश्वरसंघातोपादानत्वेऽपि जगतः कार्यावस्थायामपि भोक्तृत्वभोग्यत्वनियन्तृत्वाद्यसङ्करः । तन्तूनां पृथक्स्थितियोग्यानामेव पुरुषेच्छया कदाचित्संहतानां कारणत्वं कार्यत्वं च॑ इह तु चिदचितोस्सर्वावस्थयोः परमपुरुषशरीरत्वेन तत्प्रकारतयैव पदार्थत्वात्तत्प्रकारः परमपुरुष एव कराण कार्यं च॑ स एव सर्वदा सर्वशब्दवाच्य इति विशेषः । स्वभावभेदस्तदसङ्करश्च तत्र चात्र च तुल्यः । एवं च सति परस्य ब्रह्मणः कार्यानुप्रवेशेऽपि स्वरूपान्यथाभावाभावादविकृतत्वमुपपन्नतरम् । स्थूलावस्थस्य नामरूपविभागविभक्तस्य चिदचिद्वस्तुनः आत्मतयावस्थानात्कार्यत्वमप्युपपन्नम् । अवस्थान्तरापत्तिरेव हि कार्यता । निर्गुणवादाश्च परस्य ब्रह्मणो हेयगुणसंबन्धाभावादुपपद्यन्ते । "अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः" इति हेयगुणान् प्रतिषिध्य, "सत्यकामस्सत्यसङ्कल्पः" इति कल्याणगुणगणान् विदधतीयं श्रुतिरेव अन्यत्र सामान्येनावगतं गुणनिषेधं हेयगुणविषयं व्यवस्थापयति । ज्ञानस्वरूप ब्रह्म इति वादश्च सर्वज्ञस्य सर्वशक्तेर्निखिलहेयप्रत्यनीककय्लाणगुणाकरस्य ब्रह्मणः स्वरूपं ज्ञानैकनिरूपणीयं स्वप्रकाशतया ज्ञानस्वरूपं चेत्यभ्युपगमादुपपन्नतरः । "यस्सर्वज्ञः सर्ववित्", "परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च, "विज्ञातारमरे केन विजानीयात्" इत्यादिकाः ज्ञातृत्वमावेदयन्ति । "सत्यं ज्ञानम्" इत्यादिकाश्च ज्ञानैकनिरूपणीयतया स्वप्रकाशतया च ज्ञानस्वरूपताम् । "सोऽकामयत बहु स्याम्", "तदैक्षत बहु स्याम्", "तन्नामरूपाभ्यामेव व्याक्रियत" इति ब्रह्मैव स्वसङ्कल्पाद्विचित्रस्थिरत्रसरूपतया नानाप्रकारमवस्थितमिति तत्प्रत्यनीकाब्रह्मात्मकवस्तुनानात्वमतत्त्वमिति प्रतिषिध्यते, "मृत्युः स मृत्युमाप्नोति य इह नानेव पश्यति ..... नेह नानास्ति किञ्चन", "यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्" इत्यादिना । न पुनः, "बहु स्यां प्रजायेय" इत्यादिश्रुतिसिद्धं स्वसङ्कल्पकृतं ब्रह्मणो नानानामरूपभाक्त्वेन नानाप्रकारत्वमपि निषिध्यते । "यत्र त्वस्य सर्वमात्मैवाभूत्" इति निषेधवाक्यारम्भे च तत्स्थापितम्, "सर्वं तं परादाद्योऽन्यतरात्मनस्सर्वं वेद", "तस्य एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदः" इत्यादिना । एवं चिदचिदीश्वराणां स्वरूपभेदं स्वभावभेदं च वदन्तीनां कार्यकारणभावं कार्यकारणयोरनन्यत्वं वदन्तीनां च सर्वासां श्रुतीनामविरोधः, चिदचितोः परमात्मनश्च सर्वदा शरीरात्मभावं शरीरभूतयोः कारणदशायां नामरूपविभागानर्हसूक्ष्मदशापत्तिं कार्यदशायां च तदर्हस्थूलदशापत्तिं वदन्तीभिः श्रुतिभिरेव ज्ञायत इति ब्रह्माज्ञानवादस्याउपाधिकब्रह्मभेदवादस्य अन्यस्यापि अपन्यायमूलस्य सकलश्रुतिविरुद्धस्य न कथंचिदप्यवकाशो दृश्यत इत्यलमतिविस्तरेण ॥ भगवद्गीतारामानुजभाष्य १३.२ ॥ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ भगवद्गीता१३.३ ॥ तत्क्षेत्रं यच्च यद्द्रव्यम्, यादृक्च येषामाश्रयभूतम्, यद्विकारि ये चास्य विकाराः, यतश्च यतो हेतोरिदमुत्पन्नम्॑ यस्मै प्रयोजनायोत्पन्नमित्यर्थः, यत् यत्स्वरूपं चेदम्, स च यः स च क्षेत्रज्ञो यः यत्स्वरूपः, यत्प्रभावश्च ये चास्य प्रभावाः, तत्सर्वम्, समासेन संक्षेपेण मत्तः शृणु ॥ भगवद्गीतारामानुजभाष्य १३.३ ॥ ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ भगवद्गीता१३.४ ॥ तदिदं क्षेत्रक्षेत्रज्ञयाथात्म्यमृषिभिः पराशरादिभिः बहुधा बहुप्रकारं गीतम् "अहं त्वं च तथान्ये च भूतैरुह्याम पार्थिव । गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥ कर्मवश्या गुणा ह्येते सत्त्वाद्याः पृथिवीपते । अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु ॥ आत्मा शुद्धोऽक्षरश्शान्तो निर्गुणः प्रकृतेः परः ॥ भगवद्गीतारामानुजभाष्य १३."॑ तथा, "पिण्डः पृथक्यतः पुंसः शिरःपाण्यादिलक्षणः । ततोऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहम्"॑ तथा च, "किं त्वमेतच्छिरः किं नु उरस्तव तथोदरम् । किमु पादादिकं त्वं वै तवैतत्किं महीपते ॥ समस्तावयवेभ्यस्त्वं पृथक्भूय व्यवस्थितः । कोऽहमित्येव निपुणो भूत्वा चिन्तय पार्थिव ॥ भगवद्गीतारामानुजभाष्य १३." इति । एवं विविक्तयोर्द्वयोः वासुदेवात्मकत्वं चाहुः, "इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ॥ भगवद्गीतारामानुजभाष्य १३." इति । छन्दोभिर्विविधैः पृथक् पृथग्विधैश्छन्दोभिश्च ऋग्यजुस्सामाथर्वभिः देहात्मनोः स्वरूपं पृथग्गीतम् "तस्माद्वा एतस्मादात्मन आकाशस्संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः । स वा एष पुरुषोऽन्नरसमयः" इति शरीरस्वरूपमभिधाय तस्मादन्तरं प्राणमयं तस्माच्चान्तरं मनोमयमभिधाय, "तस्माद्वा एतस्माद्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः" इति क्षेत्रज्ञस्वरूपमभिधाय, "तस्माद्वा एतस्माद्विज्ञानमयादन्योऽन्तर आत्मानन्दमयः" इति क्षेत्रज्ञस्याप्यन्तरात्मतया आनन्न्दमयः परमात्माभिहितः । एवमृक्सामाथर्वसु च तत्र तत्र क्षेत्रक्षेत्रज्ञयोः पृथग्भावस्तयोर्ब्रह्मात्मकत्वं च सुस्पष्टं गीतम् । ब्रह्मसूत्रपदैश्चैव ब्रह्मप्रतिपादनसूत्राख्यैः पदैः शारीरकसूत्रैः, हेतुमद्भिः हेययुक्तैः, विनिश्चितैः निर्णयान्तैः॑ "न वियदश्रुतेः" इत्यारभ्य क्षेत्रप्रकारनिर्णय उक्तः । "नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः" इत्यारभ्य क्षेत्रज्ञयाथात्म्यनिर्णय उक्तः । "परात्तु तच्छ्रुतेः" इति भगवत्प्रवर्त्यत्वेन भगवदात्मकत्वमुक्तम् । एवं बहुधा गीतं क्षेत्रक्षेत्रज्ञयाथात्म्यं मया संक्षेपेण सुस्पष्टमुच्यमानं शृण्वित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.४ ॥ महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ भगवद्गीता१३.५ ॥ इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ भगवद्गीता१३.६ ॥ महाभूतान्यहंकारो बुद्धिरव्यक्तमेव चेति क्षेत्रारम्भकद्रव्याणि॑ पृथिव्यप्तेजोवाय्वाकाशाः महाभूतानि, अहंकारो भूतादिः, बुद्धिः महान्, अव्यक्तं प्रकृतिः॑ इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा इति क्षेत्राश्रितानि तत्त्वानि॑ श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणीति तानि दश, एकमिति मनः॑ इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः॑ इच्छा द्वेषस्सुखं दुःखमिति क्षेत्रकार्याणि क्षेत्रविकारा उच्यन्ते॑ यद्यपीच्छाद्वेषसुखदुःखान्यात्मधर्मभूतानि, तथाप्यात्मनः क्षेत्रसंबन्धप्रयुक्तानीति क्षेत्रकार्यतया क्षेत्रविकारा उच्यन्ते । तेषां पुरुषधर्मत्वम्, "पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते" इति वक्ष्यते॑ संघातश्चेतनाधृतिः । आधृतिः आधारः सुखदुःखे भुञ्जानस्य भोगापवर्गौ साधयतश्च चेतनस्याधारतयोत्पन्नो भूतसंघातः । प्रकृत्यादिपृथिव्यन्तद्रव्यारब्धमिन्द्रियाश्रयभूतमिच्छाद्वेषसुखदुःखविकारि भूतसंघातरूपं चेतनसुखदुःखोपभोगाधारत्वप्रयोजनं क्षेत्रमित्युक्तं भवति॑ एतत्क्षेत्रं समासेन संक्षेपेण सकिवारं सकार्यमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १३.५,६ ॥ अथ क्षेत्रकार्येष्वात्मज्ञानसाधनतयोपादेया गुणाः प्रोच्यन्ते अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ भगवद्गीता१३.७ ॥ अमानित्वमुत्कृष्टजनेष्ववधीरणारहितत्वम्॑ अदम्भित्वम् धार्मिकत्वयशःप्रयोजनतया धर्मानुष्ठानं दम्भः, तद्रहितत्वम्॑ अहिंसा वाङ्मनःकायैः परपीडारहितत्वम्॑ क्षान्तिः परैः पीड्यमानस्यापि तान् प्रति अविकृतचित्तत्वम् । आर्जवं परान् प्रति वाङ्मनःकायप्रभृतीनामेकरूपता॑ आचार्योपासनमात्मज्ञानप्रदायिनि आचार्ये प्रणिपातपरिप्रश्नसेवादिनिरतत्वम्॑ शौचमात्मज्ञानतत्साधनयोग्यता मनोवाक्कायगता शास्त्रसिद्धा॑ स्तैर्यमध्यात्मशास्त्रोदितेऽर्थे निश्चलत्वम्॑ आत्मविनिग्रहः आत्मस्वरूपव्यतिरिक्तविषयेभ्यो मनसो निवर्तनम् ॥ भगवद्गीतारामानुजभाष्य १३.७ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ भगवद्गीता१३.८ ॥ इन्द्रियार्थेषु वैराग्यमात्मव्यतिरिक्तेषु विषयेषु सदोषतानुसंधानेनोद्वेजनम्॑ अनहंकारः अनात्मनि देहे आत्माभिमानरहितत्वम्॑ प्रदर्शनार्थमिदम्॑ अनात्मीयेष्वात्मीयाभिमानरहितत्वं च विवक्षितम् । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं सशरीरत्वे जन्ममृत्युजराव्याधिदुःखरूपस्य दोषस्यावर्जनीयत्वानुसंधानम् ॥ भगवद्गीतारामानुजभाष्य १३.८ ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ भगवद्गीता१३.९ ॥ असक्तिः आत्मव्यतिरिक्तपरिग्रहेषु सङ्गरहितत्वम्॑ अनभिष्वङ्गः पुत्रदारगृहादिषु तेषु शास्त्रीयकर्मोपकरणत्वातिरेकेण श्लेषरहितत्वम्॑ संकल्पप्रभवेष्विष्टानिष्टोपनिपातेषु हर्षोद्वेगरहितत्वम् ॥ भगवद्गीतारामानुजभाष्य १३.९ ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ भगवद्गीता१३.१० ॥ मयि सर्वेश्वरे च ऐकान्त्ययोगेन स्थिरा भक्तिः, जनवर्जितदेशवासित्वम्, जनसंसदि चाप्रीतिः ॥ भगवद्गीतारामानुजभाष्य १३.१० ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थचिन्तनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ भगवद्गीता१३.११ ॥ आत्मनि ज्ञानमध्यात्मज्ञानं तन्निष्ठत्वम्, तत्त्वज्ञानार्थचिन्तनं तत्त्वज्ञानप्रयोजनं यच्चिन्तनं तन्निरतत्वमित्यर्थः । ज्ञायतेऽनेनात्मेति ज्ञानम्, आत्मज्ञानसाधनमित्यर्थः॑ क्षेत्रसंबन्धिनः पुरुषस्यामानित्वादिकमुक्तं गुणबृन्हमेवात्मज्ञानोपयोगि, एतद्व्यतिरिक्तं सर्वं क्षेत्रकार्यमात्मज्ञानविरोधीति अज्ञानम् ॥ भगवद्गीतारामानुजभाष्य १३.११ ॥ अथ एतद्यो वेत्तीति वेदितृत्वलक्षणेनोक्तस्य क्षेत्रज्ञस्य स्वरूपं विशोध्यते ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादि मत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ भगवद्गीता१३.१२ ॥ अमानित्वादिभिः साधनैः ज्ञेयं प्राप्यं यत्प्रत्यगात्मस्वरूपं तत्प्रवक्ष्यामि, यज्ज्ञात्वा जन्मजरामरणादिप्राकृतधर्मरहितममृतमात्मानं प्राप्नोति॑ आदिर्यस्य न विद्यते, तदनादि॑ अस्य हि प्रत्यगात्मन उत्पत्तिर्न विद्यते॑ तत एवान्तो न विद्यते । श्रुतिश्च, "न जायते म्रियते वा विपश्चित्" इति, मत्परमहं परो यस्य तन्मत्परम् । "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्, जीवभूताम्" इति ह्युक्तम् । भगवच्छरीरतया भगवच्छेषतैकरसं ह्यात्मस्वरूपम्॑ तथा च श्रुतिः, "य आत्मनि तिष्ठनात्मनोऽन्तरो यमत्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति" इति, तथा, "स कारणं करणाधिपाधिपो न चास्य कश्चिञ्जनिता न चाधिपः", "प्रधानक्षेत्रज्ञपतिर्गुणेशः" इत्यादिका । ब्रह्म बृहत्त्वगुणयोगि, शरीरादेरर्थान्तरभूतम्, स्वतः शरीरादिभिः परिच्छेदरहितं क्षेत्रज्ञतत्त्वमित्यर्थः॑ "स चानन्त्याय कल्पते" इति हि श्रूयते॑ शरीरपरिच्छिन्नत्वमणुत्वं चास्य कर्मकृतम् । कर्मबन्धान्मुक्तस्यानन्त्यम् । आत्मन्यपि ब्रह्मशब्दः प्रयुज्यते, "स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते । ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च", "ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भगवद्गीतारामानुजभाष्य १३." इति । न सत्तन्नासदुच्यते कार्यकारणरूपावस्थाद्वयरहिततया सदसच्छब्दाभ्यामात्मसवरूपं नोच्यते । कार्यावस्थायां हि देवादिनामरूपभाक्त्वेन सदित्युच्यते, तदनर्हता कारणावस्थायामसदित्युच्यते । तथा च श्रुतिः, "असद्वा इदमग्र आसीत् । ततो वै सदजायत","तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत" इत्यादिका । कार्यकारणावस्थाद्वयान्वयस्त्वात्मनः कर्मरूपाविद्यावेष्टनकृतः, न स्वरूपकृत इति सदसच्छब्दाभ्यामात्मस्वरूपं नोच्यते । यद्यपि "असद्वा इदमग्र आसीत्" इति कारणावस्थं परं ब्रह्मोच्यते, तथापि नामरूपविभागानर्हसूक्ष्मचिदचिद्वस्तुशरीरं परं ब्रह्म कारणावस्थमिति कारणावस्थायां क्षेत्रक्षेत्रज्ञस्वरूपमपि असच्छब्दवाच्यम्, क्षेत्रज्ञस्य सावस्था कर्मकृतेति परिशुद्धस्वरूपं न सदसच्छब्दनिर्देश्यम् ॥ भगवद्गीतारामानुजभाष्य १३.१२ ॥ सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतश्श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ भगवद्गीता१३.१३ ॥ सर्वतः पाणिपादं तत्परिशुद्धात्मस्वरूपं सर्वतः पाणिपादकार्यशक्तम्, तथा सर्वतोऽक्षिशिरोमुखं सर्वतश्श्रुतिमत्सर्वतश्चक्षुरादिकार्यकृत्, "अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः" इति परस्य ब्रह्मणोऽपाणिपादस्यापि सर्वतः पाणिपादादिकार्यकृत्त्वं श्रूयते । प्रत्यगात्मनोऽपि परिशुद्धस्य तत्साम्यापत्त्या सर्वतः पाणिपादादिकार्यकृत्त्वं श्रुतिसिद्धमेव । "तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति" इति हि श्रूयते । "इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः" इति च वक्ष्यते । लोके सर्वमावृत्य तिष्ठति लोके यद्वस्तुजातं तत्सर्वं व्याप्य तिष्ठति, परिशुद्धस्वरूपं देशादिपरिच्छेदरहिततया सर्वगतमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.१३ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ भगवद्गीता१३.१४ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियगुणैराभासो यस्य तत्सर्वेन्द्रियाभासम् । इन्द्रियगुणा इन्द्रियवृत्तयः । इन्द्रियवृत्तिभिरपि विषयान् ज्ञतुं समर्थमित्यर्थः । स्वभावतस्सर्वेन्द्रियविवर्जितं विनैवेन्द्रियवृत्तिभिः स्वत एव सर्वं जानातीत्यर्थः । असक्तं स्वभावतो देवादिदेहसङ्गरहितम्, सर्वभृच्चैव देवादिसर्वदेहभरणसमर्थं च॑ "स एकधा भवति त्रिधा भवति" इत्यादिश्रुतेः । निर्गुणं तथा स्वभावतस्सत्त्वादिगुणरहितम् । गुणभोक्तृ च सत्त्वादीनां गुणानां भोगसमर्थं च ॥ भगवद्गीतारामानुजभाष्य १३.१४ ॥ बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ भगवद्गीता१३.१५ ॥ पृथिव्यादीनि भूतानि परित्यज्याशरीरो बहिर्वर्तते॑ तेषामन्तश्च वर्तते, "जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा" इत्यादिश्रुतिसिद्धस्वच्छन्दवृत्तिषु । अचरं चरमेव च स्वभावतोऽचरम्॑ चरं च देहित्वे । सूक्ष्मत्वात्तदविज्ञेयमेवं सर्वशक्तियुक्तं सर्वज्ञां तदत्मतत्त्वमस्मिन् क्षेत्रे वर्तमानमप्यतिसूक्ष्मत्वाद्देहात्पृथक्त्वेन संसारिभिरविज्ञेयम्, दूरस्थं चान्तिके च तदमानित्वाद्युक्तगुणरहितानां विपरीतगुणाणां पुंसां स्वदेहे वर्तमानमप्यतिदूरस्थम्, तथा अमानित्वादिगुणोपेतानां तदेवान्तिके वर्तते ॥ भगवद्गीतारामानुजभाष्य १३.१५ ॥ अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ भगवद्गीता१३.१६ ॥ देवमनुष्यादिभूतेषु सर्वत्र स्थितमात्मवस्तु वेदितृत्वैकाकारतया अविभक्तम् । अविदुषां देवाद्याकारेण "अयं देवो मनुष्यः" इति विभक्तमिव च स्थितम् । देवोऽहम्, मनुष्योऽहमिति देहसामानाधिकरण्येनानुसन्धीयमानमपि वेदितृत्वेन देहादर्थान्तरभूतं ज्ञातुं शक्यमिति आदावुक्तमेव, "एतद्यो वेत्ति" इति, इदानीं प्रकारान्तरैश्च ज्ञातुं शक्यमित्याज भूतभर्तृ चेति । भूतानां पृथिव्यादीनां देहरूपेण संहतानां यद्भर्तृ, तद्भर्तव्येभ्यो भूतेभ्योऽर्थान्तरं ज्ञेयम्॑ अर्थान्तरमिति ज्ञातुं शक्यमित्यर्थः । तथा ग्रसिष्णु अन्नादीनां भौतिकानां ग्रसिष्णु, ग्रस्यमानेभ्यो भूतेभ्यो ग्रसितृत्वेनार्थान्त्रभूतमिति ज्ञातुं शक्यम् । प्रभविष्णु च प्रभवहेतुश्च, ग्रस्तानामन्नादीनामाकारान्तरेण परिणतानां प्रभहेतुः, तेभ्योऽर्थान्तरमिति ज्ञातुं शक्यमित्यर्थः॑ मृतशरीरे ग्रसनप्रभवादीनामदर्शनान्न भूतसंघातरूपं क्षेत्रं ग्रसनप्रभवभरणहेतुरिति निश्चीयते ॥ भगवद्गीतारामानुजभाष्य १३.१६ ॥ ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ भगवद्गीता१३.१७ ॥ ज्योतिशां दीपादित्यमणिप्रभृतीनामपि तदेव ज्योतिः प्रकाशकम्, दीपादित्यादीनामप्यात्मप्रभारूपम् । ज्ञानमेव प्रकाशकम् । दीपादयस्तु विषयेन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमात्रं कुर्वते । तावन्मात्रेण तेषां प्रकाशकत्वम् । तमसः परमुच्यते । तमश्शब्दः सूक्ष्मावस्थप्रकृतिवचनः । प्रकृतेः परमुच्यत इत्यर्थः । अतो ज्ञानं ज्ञेयं ज्ञानैकाकारमिति ज्ञेयम् । तच्च ज्ञानगम्यममानित्वादिभिर्ज्ञानसाधनैरुक्तैः प्राप्यमित्यर्थः । हृदि सर्वस्य विष्ठितं सर्वस्य मनुष्यादेः हृदि विशेषणावस्थितम् सन्निहितम् ॥ भगवद्गीतारामानुजभाष्य १३.१७ ॥ इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ भगवद्गीता१३.१८ ॥ एवं "महाभूतान्यहङ्कारः" इत्यादिना "संघातश्चेतनाधृतिर्" इत्यन्तेन क्षेत्रतत्त्वं समासेनोक्तम् । "अमानित्वम्" इत्यादिना "तत्त्वज्ञानार्थचिन्तनम्" इत्यन्तेन ज्ञातव्यस्यात्मतत्त्वस्य ज्ञानसाधनमुक्तम् । "अनादि मत्परम्" इत्यादिना "हृदि सर्वस्य विष्ठितम्" इत्यन्तेन ज्ञेयस्य क्षेत्रज्ञस्य याथात्म्यं च संक्षेपेणोक्तम् । मद्भक्तः एतत्क्षेत्रयाथात्म्यं, क्षेत्राद्विविक्तात्मस्वरूपप्राप्त्युपाययाथात्म्यं क्षेत्रज्ञयाथात्म्यं च विज्ञाय, मद्भावायोपपद्यते । मम यो भावः स्वभावः, असंसारित्वम् असंसारित्वप्राप्तये उपपन्नो भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.१८ ॥ अथात्यन्तविविक्तस्वभावयोः प्रकृत्यात्मनोः संसर्गस्यानादित्वं संसृष्टयोर्द्वयोः कार्यभेदः संसर्गहेतुश्चोच्यते प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसंभवान् ॥ भगवद्गीता१३.१९ ॥ प्रकृतिपुरुषौ उभौ अन्योन्यसंसृष्टौ अनादी इति विद्धि॑ बन्धहेतुभूतान् विकारानिच्छाद्वेषादीन्, अमानित्वादिकांश्च गुणां मोक्षहेतुभूतान् प्रकृतिसंभवान् विद्धि । पुरुषेण संसृष्टेयमनादिकालप्रवृत्ता क्षेत्राकारपरिणाता प्रकृतिः स्वविकारैरिच्छाद्वेषादिभिः पुरुषस्य बन्धुहेतुर्भवति॑ सैवामानित्वादिभिः स्वविकारैः पुरुषस्यापवर्गहेतुर्भवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.१९ ॥ कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ भगवद्गीता१३.२० ॥ कार्यं शरीरम्॑ कारणानि ज्ञानकर्मात्मकानि समनस्कानीन्द्रियाणि । तेषां क्रियाकारित्वे पुरुषाधिष्ठिता प्रकृतिरेव हेतुः॑ पुरुषाधिष्ठितक्षेत्राकारपरिणतप्रकृत्याश्रयाः भोगसाधनभूताः क्रिया इत्यर्थः । पुरुषस्याधिष्ठातृत्वमेव॑ तदपेक्षया, "कर्ता शास्त्रार्थवत्त्वात्" इत्यादिकमुक्तम्॑ शरीराधिष्ठानप्रयत्नहेतुत्वमेव हि पुरुषस्य कर्तृत्वम् । प्रकृतिसंसृष्टः पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः, सुखदुःखानुभवाश्रय इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.२० ॥ एवमन्योन्यसंसृष्टयोः प्रकृतिपुरुषयोः कार्यभेद उक्तः॑ पुरुषस्य स्वतस्स्वानुभवैकसुखस्यापि वैषयिकसुखदुःखोपभोगहेतुमाह पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । गुणशब्दः स्वकार्येष्वौपचारिकः । स्वतस्स्वानुभवैकसुखः पुरुषः प्रकृतिस्थः प्रकृतिसंसृष्टः, प्रकृतिजान् गुणान् प्रकृतिसंसर्गोपाधिकान् सत्त्वादिगुणकार्यभूतान् सुखदुःखादीन्, भुङ्क्ते अनुभवति । प्रकृतिसंसर्गहेतुमाह कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ भगवद्गीता१३.२१ ॥ पूर्वपूर्वप्रकृतिपरिणामरूपदेवमनुष्यादियोनिविशेषेषु स्थितोऽयं पुरुषस्तत्तद्योनिप्रयुक्तसत्त्वादिगुणमयेषु सुखदुःखादिषु सक्तः तत्साधनभूतेषु पुण्यपापकर्मसु प्रवर्तते॑ ततस्तत्पुण्यपापफलानुभवाय सदसद्योनिषु साध्वसाधुषु योनिषु जायते॑ ततश्च कर्मारभते॑ ततो जायते॑ यावदमानित्वादिकानात्मप्राप्तिसाधनभूतान् गुणान् सेवते, तावदेव संसरति । तदिदमुक्तं कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु इति ॥ भगवद्गीतारामानुजभाष्य १३.२१ ॥ उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥ भगवद्गीता१३.२२ ॥ अस्मिन् देहेऽवस्थितोऽयं पुरुषो देहप्रवृत्त्यनुगुणसङ्कल्पादिरूपेण देहस्योपद्रष्टा अनुमन्ता च भवति । तथा देहस्य भर्ता च भवति॑ तथा देहप्रवृत्तिजनितसुखदुःखयोर्भोक्ता च भवति । एवं देहनियमनेन, देहभरणेन, देहशेषित्वेन च देहेन्द्रियमनांसि प्रति महेश्वरो भवति । तथा च वक्ष्यते, "शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ भगवद्गीतारामानुजभाष्य १३." इति । अस्मिन् देहे देहेन्द्रियमनांसि प्रति परमात्मेति चाप्युक्तः । देहे मनसि च आत्मशब्दोऽनन्तरमेव प्रयुज्यते, "ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना" इति॑ अपिशब्दान्महेश्वर इत्यप्युक्त इति गम्यते॑ पुरुषः परः "अनादि मत्परम्" इत्यादिनोक्तोऽपरिच्छिन्नज्ञानशक्तिरयं पुरुषोऽनादिप्रकृतिसंबन्धकृतगुणसङ्गादेतद्देहमात्रमहेश्वरो देहमात्रपरमात्मा च भवति ॥ भगवद्गीतारामानुजभाष्य १३.२२ ॥ य एनं वेत्ति पुरुषं प्रकृतिं च गुणैस्सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ भगवद्गीता१३.२३ ॥ एनमुक्तस्वभावं पुरुषम्, उक्तस्वभावां च प्रकृतिं वक्ष्यमाणस्वभावयुक्तैः सत्त्वादिभिर्गुणैः सह, यो वेत्ति यथावद्विवेकेन जानाति, स सर्वथा देवमनुष्यादिदेहेष्वतिमात्रक्लिष्टप्रकारेण वर्तमानोऽपि, न भूयोऽभिजायते न भूयः प्रकृत्या संसर्गमर्हति, अपरिच्छिन्नज्ञानलकषणमपहतपाप्मानमात्मानं तद्देहावसानसमये प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.२३ ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ भगवद्गीता१३.२४ ॥ केचिन्निष्पन्नयोगाः आत्मनि शरीरेऽवस्थितमात्मानमात्मना मनसा ध्यानेन योगेन पश्यन्ति । अन्ये च अनिष्पन्नयोगाः, सांख्येन योगेन ज्ञानयोगेन योगयोग्यं मनः कृत्वा आत्मानं पश्यन्ति । अपरे ज्ञानयोगानधिकारिणः, तदधिकारिणश्च सुकरोपायसक्ताः, व्यपदेश्याश्च कर्मयोगेनान्तर्गतज्ञानेन मनसो योगयोग्यतामापाद्य आत्मानं पश्यन्ति ॥ भगवद्गीतारामानुजभाष्य १३.२४ ॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्यश्च उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ भगवद्गीता१३.२५ ॥ अन्ये तु कर्मयोगादिषु आत्मावलोकनसाधनेष्वनधिकृताः अन्येभ्यः तत्त्वदर्शिभ्यो ज्ञानिभ्यः श्रुत्वा कर्मयोगादिभिरात्मानमुपासते॑ तेऽप्यात्मदर्शनेन मृत्युमतितरन्ति । ये श्रुतिपरायणाः श्रवणमात्रनिष्ठाः, एते च श्रवणनिष्ठाः पूतपापाः क्रमेण कर्मयोगादिकमारभ्यातितरन्त्येव मृत्युम् । अपिशब्दाच्च पूर्वभेदोऽवगम्यते ॥ भगवद्गीतारामानुजभाष्य १३.२५ ॥ अथ प्रकृतिसंसृष्टस्यात्मनो विवेकानुसन्धानप्रकारं वक्तुं सर्वं स्थावरं जङ्गमं च सत्त्वं चिदचित्संसर्गजमित्याह यावत्संजायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ भगवद्गीता१३.२६ ॥ यावत्स्थावरजङ्गमात्मना सत्त्वं जायते, तावत्क्षेत्रक्षेत्रज्ञयोरितरेतरसंयोगादेव जायते संयुक्तमेव जायते, न त्वितरेतरवियुक्तमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.२६ ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ भगवद्गीता१३.२७ ॥ एवमितरेतरयुक्तेषु सर्वेषु भूतेषु देवादिविषमाकाराद्वियुक्तं तत्र तत्र तत्तद्देहेन्द्रियमनांसि प्रति परमेश्वरत्वेन स्थितमात्मानं ज्ञातृत्वेन समानाकारं तेषु देहादिषु विनश्यत्सु विनाशानर्हस्वभावेनाविनश्यन्तं यः पश्यति, स पश्यति स आत्मानं यथावदवस्थितं पश्यति । यस्तु देवादिविषमाकारेणात्मानमपि विषमाकारं जन्मविनाशादियुक्तं च पश्यति, स नित्यमेव संसरतीत्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य १३.२७ ॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ भगवद्गीता१३.२८ ॥ सर्वत्र देवादिशरीरेषु तत्तच्छेषित्वेनाधारतया वियन्तृतया च स्थितमीश्वरमात्मानं देवादिविषमाकारवियुक्तं ज्ञानैकाकारतया समं पश्यनात्मना मनसा, स्वमात्मानं न हिनस्ति रक्षति, संसारान्मोचयति । ततः तस्माज्ज्ञातृतया सर्वत्र समानाकारदर्शनात्परां गतिं याति॑ गम्यत इति गतिः॑ परं गन्तव्यं यथावदवस्थितमात्मानं प्राप्नोति॑ देवाद्याकारयुक्ततया सर्वत्र विषममात्मानं पश्यनात्मानं हिनस्ति भवजलधिमध्ये प्रक्षिपति ॥ भगवद्गीतारामानुजभाष्य १३.२८ ॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ भगवद्गीता१३.२९ ॥ सर्वाणि कर्माणि, "कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते" इति पूर्वोक्तरीत्या प्रकृत्या क्रियमाणानीति यः पश्यति, तथा आत्मानं ज्ञानाकारमकर्तारं च यः पश्यति, तस्य प्रकृतिसंयोगस्तदधिष्ठानं तज्जन्यसुखदुःखानुभवश्च कर्मरूपाज्ञानकृतानीति च यः पश्यति, स आत्मानं यथावदवस्थितं पश्यति ॥ भगवद्गीतारामानुजभाष्य १३.२९ ॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ भगवद्गीता१३.३० ॥ प्रकृतिपुरुषतत्त्वद्वयात्मकेषु देवादिषु सर्वेषु भूतेषु सत्सु तेषां देवत्वमनुष्यत्वह्रस्वत्वदीर्घत्वादिपृथग्भावमेकस्थमेकतत्त्वस्थम् प्रकृतिस्थं यदा पश्यति, नात्मस्थम्, तत एव प्रकृतित एवोत्तरोत्तरपुत्रपौत्रादिभेदविस्तारं च यदा पश्यति, तदैव ब्रह्मसंपद्यते अनवच्छिन्नं ज्ञानैकाकारमात्मानं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.३० ॥ अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ भगवद्गीता१३.३१ ॥ अयं परमात्मा देहान्निष्कृष्य स्वस्वभावेन निरूपितः, शरीरस्थोऽपि अनादित्वादनारभ्यत्वादव्ययः व्ययरहितः, निर्गुणत्वात्सत्त्वादिगुणरहितत्वान्न करोति, न लिप्यते देहस्वभावैर्न लिप्यते ॥ भगवद्गीतारामानुजभाष्य १३.३१ ॥ यद्यपि निर्गुणत्वान्न करोति, नित्यसंयुक्तो देहस्वभावैः कथं न लिप्यत इत्यत्राह यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ भगवद्गीता१३.३२ ॥ यथा आकाशं सर्वगतमपि सर्वैर्वस्तुभिस्संयुक्तमपि सौक्ष्म्यात्सर्ववस्तुस्वभावैर्न लिप्यते, तथा आत्मा अतिसौक्ष्म्यात्सर्वत्र देवमनुष्यादौ देहेऽवस्थितोऽपि तत्तद्देहस्वभावैर्न लिप्यते ॥ भगवद्गीतारामानुजभाष्य १३.३२ ॥ यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ भगवद्गीता१३.३३ ॥ यथैक आदित्यः स्वया प्रभया कृत्स्नमिमं लोकं प्रकाशयति, तथा क्षेत्रमपि क्षेत्री, "ममेदं क्षेत्रमीदृशम्" इति कृत्स्नं बहिरन्तश्चापादतलमस्तकं स्वकीयेन ज्ञानेन प्रकाशयति । अतः प्रकाश्याल्लोकात्प्रकाशकादित्यवद्वेदितृत्वेन वेद्यभूतादस्मात्क्षेत्रादत्यन्तविलक्षणोऽयमुक्तलक्षण आत्मेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.३३ ॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ भगवद्गीता१३.३४ ॥ एवमुक्तेन प्रकारेण क्षेत्रक्षेत्रज्ञयोरन्तरं विशेषं विवेकविषयज्ञानाख्येन चक्षुषा ये विदुः, भूतप्रकृतिमोक्षं च, ते परं यान्ति निर्मुक्तबन्धमात्मानं प्राप्नुवन्ति । मोक्ष्यतेऽनेनेति मोक्षः, अमानित्वादिकं मोक्षसाधनमित्यर्थः॑ क्षेत्रक्षेत्रज्ञयोर्विवेकविषयेणोक्तेन ज्ञानेन तयोर्विवेकं विदित्वा भूताकारपरिणतप्रकृतिमोक्षोपायममानित्वादिकं चागम्य य आचरन्ति, ते निर्मुक्तबन्धाः स्वेन रूपेणावस्थितमनवच्छिन्नज्ञानलक्षणमात्मानं प्राप्नुवन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १३.३४ ॥ ******************** अध्याय १४ ******************** त्रयोदशे प्रकृतिपुरुषयोरन्यान्यसंसृष्टयोः स्वरूपयाथात्मयं विज्ञाय अमानित्वादिभिः भगवद्भक्त्यनुगृहीतैर्बन्धान्मुच्यत इत्युक्तम् । तत्र बन्धहेतुः पूर्वपूर्वसत्त्वादिगुणमयसुखादिसङ्ग इति चाभिहितम्, "कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु" इति । अथेदानीं गुणानां बन्धहेतुताप्रकारः, गुणनिवर्तनप्रकारश्चोच्यते । श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥ भगवद्गीता१४.१ ॥ परं पूर्वोक्तादन्यत्प्रकृतिपुरुषान्तर्गतमेव सत्त्वादिगुणविषयं ज्ञानं भूयः प्रवक्ष्यामि । तच्च ज्ञानं सर्वेषां प्रकृतिपुरुषविषयज्ञानानामुत्तमम् । यज्ज्ञानं ज्ञात्वा सर्वे मुनयस्तन्मननशीलाः इतः संसारबन्धात्परां सिद्धिं गताः परां परिशुद्धात्मस्वरूपप्राप्तिरूपां सिद्धिमवाप्ताः ॥ भगवद्गीतारामानुजभाष्य १४.१ ॥ पुनरपि तज्ज्ञानं फलेन विशिनष्टि इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ भगवद्गीता१४.२ ॥ इदं वक्ष्यमाणं ज्ञानमुपश्रित्य मम साधर्म्यमागताः मत्साम्यं प्राप्ताः, सर्गेऽपि नोपजायन्ते न सृजिकर्मतां भजन्ते॑ प्रलये न व्यथन्ति च न च संहृतिकर्मताम् ॥ भगवद्गीतारामानुजभाष्य १४.२ ॥ अथ प्राकृतानां गुणानां बन्धहेतुताप्रकारं वक्तुं सर्वस्य भूतजातस्य प्रकृतिपुरुषसंसर्गजत्वं "यावत्संजायते किञ्चित्" इत्यनेनोक्तं भगवता स्वेनैव कृतमित्याह मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् । संभवस्सर्वभूतानां ततो भवति भारत ॥ भगवद्गीता१४.३ ॥ कृत्स्नस्य जगतो योनिभूतं मम महद्ब्रह्म यत्, तस्मिन् गर्भं दधाम्यहम्॑ "भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ अपरेयम्" इति निर्दिष्टा अचेतनप्रकृतिः महदहङ्कारादिविकाराणां कारणतया महद्ब्रह्मेत्युच्यते । श्रुतावपि क्वचित्प्रकृतिरपि ब्रह्मेति निर्दिश्यते, "यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते" इति॑ "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूताम्" इति चेतनपुञ्जरूपा या परा प्रकृतिर्निर्दिष्टा, सेह सकलप्राणिबीजतया गर्भशब्देनोच्यते । तस्मिनचेतने योनिभूते महति ब्रह्मणि चेतनपुञ्जरूपं गर्भं दधामि॑ अचेतनप्रकृत्या भोगक्षेत्रभूतया भोक्तृवर्गपुञ्जभूतां चेतनप्रकृतिं संयोजयामीत्यर्थः । ततः तस्मात्प्रकृतिद्वयसंयोगान्मत्संकल्पकृतात्सर्वभूतानां ब्रह्मादिस्तम्बपर्यन्तानां संभवो भवति ॥ भगवद्गीतारामानुजभाष्य १४.३ ॥ कार्यावस्थोऽपि चिदचित्प्रकृतिसंसर्गो मयैव कृत इत्याह सर्वयोनिषु कौन्तेय मूर्तयः संभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ भगवद्गीता१४.४ ॥ सर्वासु देवगन्धर्वयक्षराक्षसमनुष्यपशुमृगपक्षिसरीसृपादिषु योनिषु तत्तन्मूर्तयो याः संभवन्ति जायन्ते, तासां ब्रह्म महद्योनिः कारणम्॑ मया संयोजितचेतनवर्गा महदादिविशेषान्तावस्था प्रकृतिः कारणमित्यर्थः । अहं बीजप्रदः पिता तत्र तत्र च तत्तत्कर्मानुगुण्येन चेतनवर्गस्य संयोजकश्चाहमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.४ ॥ एवं सर्गादौ प्राचीनकर्मवशादचित्संसर्गेण देवादियोनिषु जातानां पुनः पुनर्देवादिभावेन जन्महेतुमाह सत्त्वं रजस्तम इति गुणाः प्रकृतिसंभवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ भगवद्गीता१४.५ ॥ सत्त्वरजस्तमांसि त्रयो गुणाः प्रकृतेः स्वरूपानुबन्धिनः स्वभावविशेषाः प्रकाशादिकार्यैकनिरूपणीयाः प्रकृत्यवस्थायामनुद्भूताः तद्विकारेषु महदादिषु उद्भूताः महदादिविशेषान्तैरारब्धदेवमनुष्यादिदेहसंबन्धिनमेनं देहिनम्, अव्ययं स्वतो गुणसंबन्धानर्हं देहे वर्तमानं निबध्नन्ति, देहे वर्तमानत्वोपाधिना निबध्नन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.५ ॥ सत्त्वरजस्तमसामाकारं बन्धनप्रकारं चाह तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ भगवद्गीता१४.६ ॥ तत्र सत्त्वरजस्तमस्तु सत्त्वस्य स्वरूपमीदृशं निर्मलत्वात्प्रकाशकम्॑ प्रकाशसुखावरणस्वभावरहितता निर्मलत्वम्॑ प्रकाशसुखजननैकान्तस्वभावतया प्रकाशसुखहेतुभूतमित्यर्थः । प्रकाशः वस्तुयाथात्म्यावबोधः । अनामयमामयाख्यं कार्यं न विद्यत इत्यनामयम्॑ अरोगताहेतुरित्यर्थः । एष सत्त्वाख्यो गुणो देहिनमेनं सुखसङ्गेन ज्ञानसङ्गेन च बध्नाति पुरुषस्य सुखसङ्गं ज्ञानसङ्गं च जनयतीत्यर्थः। ज्ञानसुखयोस्सङ्गे हि जाते तत्साधनेषु लौकिकवैदिकेषु प्रवर्तते॑ ततश्च तत्फलानुभवसाधनभूतासु योनिषु जायत इति सत्त्वं सुखज्ञानसङ्गद्वारेण पुरुषं बध्नाति । ज्ञानसुखजननं पुनरपि तयोस्सङ्गजननं च सत्त्वमित्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १४.६ ॥ रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् । तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ भगवद्गीता१४.७ ॥ रजो रागात्मकं रागहेतुभूतम् । रागः योषित्पुरुषयोरन्यान्यस्पृहा । तृणासङ्गसमुद्भवं तृष्णासङ्गयोरुद्भवस्थानम् तृष्णासङ्गहेतुभूतमित्यर्थः । तृष्णा शब्दादिसर्वविषयस्पृहा॑ सङ्गः पुत्रमित्रादिषु संबन्धिषु संश्लेषस्पृहा । तद्रजः देहिनं कर्मसु क्रियासु स्पृहाजननद्वारेण निबध्नाति॑ क्रियासु हि स्पृहया याः क्रिया आरभते देही, ताश्च पुण्यपापरूपा इति तत्फलानुभवसाधनभूतासु योनिषु जन्महेतवो भवन्ति । अतः कर्मसङ्गद्वारेण रजो देहिनं निबध्नाति । तदेवं रजो रागतृष्णासङ्गहेतुः कर्मसङ्गहेतुश्चेत्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १४.७ ॥ तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् । प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ भगवद्गीता१४.८ ॥ ज्ञानादन्यदिह अज्ञानमभिप्रेतम् । ज्ञानं वस्तुयथात्म्यावबोधः॑ तस्मादन्यत्तद्विपर्ययज्ञानम् । तमस्तु वस्तुयाथात्म्यविअपरीतविषयज्ञानजम् । मोहनं सर्वदेहिनाम् । मोहो विपर्ययज्ञानम्॑ विपर्ययज्ञानहेतुरित्यर्थः । तत्तमः प्रमादालस्यनिद्राहेतुतया तद्द्वारेण देहिनं निबध्नाति । प्रमादः कर्तव्यात्कर्मणोऽन्यत्र प्रवृत्तिहेतुभूतमनवधानम् । आलस्यं कर्मस्वनारम्भस्वभावः॑ स्तब्धतेति यावत् । पुरुषस्येन्द्रियप्रवर्तनश्रान्त्या सर्वेन्द्रियप्रवर्तनोपरतिर्निद्रा॑ तत्र बाह्येन्द्रियप्रवर्तनोपरमः स्वप्नः॑ मनसोऽप्युपरतिः सुषुप्तिः ॥ भगवद्गीतारामानुजभाष्य १४.८ ॥ सत्त्वादीनां बन्धद्वारभूतेषु प्रधानान्याह सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत । ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ भगवद्गीता१४.९ ॥ सत्त्वं सुखसङ्गप्रधानम्॑ रजः कर्मसङ्गप्रधानम्॑ तमस्तु वस्तुयाथात्म्यज्ञानमावृत्य विपरीतज्ञानहेतुतया कर्तव्यविपरीतप्रवृत्तिसङ्गप्रधानम् ॥ भगवद्गीतारामानुजभाष्य १४.९ ॥ देहाकारपरिणतायाः प्रकृतेः स्वरूपानुबन्धिनः सत्त्वादयो गुणाः॑ ते च स्वरूपानुबन्धित्वेन सर्वदा सर्वे वर्तन्ते इति परस्परविरुद्धं कार्यं कथं जनयन्तीत्यत्र आह रजस्तमश्चाभिभूय सत्त्वं भवति भारत । रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ भगवद्गीता१४.१० ॥ यद्यपि सत्त्वाद्यस्त्रयः प्रकृतिसंसृष्टात्मस्वरूपानुबन्धिनः, तथापि प्राचीनकर्मवशाद्देहाप्यायनभूताहारवैषम्याच्च सत्त्वादयः परस्परसमुद्भवाभिभवरूपेण वर्तन्ते । रजस्तमसी कदाचिदभिभूय सत्त्वमुद्रिक्तं वर्तते॑ तथा तमस्सत्त्वे अभिभूय रजः कदाचित्॑ कदाचिच्च रजस्सत्त्वे अभिभूय तमः ॥ भगवद्गीतारामानुजभाष्य १४.१० ॥ तच्च कार्योपलभ्यैवावगच्छेदित्याह सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ॥ भगवद्गीता१४.११। सर्वेषु चक्षुरादिषु ज्ञानद्वारेषु यदा वस्तुयाथात्म्यप्रकाशे ज्ञानमुपजायते, तदा तस्मिन् देहे सत्त्वं प्रवृद्धमिति विद्यात् ॥ भगवद्गीतारामानुजभाष्य १४.११ ॥ लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा । रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ भगवद्गीतारामानुजभाष्य १४.१२ ॥ लोभः स्वकीयद्रव्यस्यात्यागशीलता॑ प्रवृत्तिः प्रयोजनमनुद्दिश्यापि चलनस्वभावाता॑ आरम्भः कर्मणाम् फलसाधनभूतानां कर्मणामारम्भः॑ अशमः इन्द्रियानुरतिः॑ स्पृहा विषयेच्छा । एतानि रजसि प्रवृद्धे जायन्ते । यदा लोभादयो वर्तन्ते, तदा रजः प्रवृद्धमिति विद्यादित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.१२ ॥ अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च । तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ भगवद्गीतारामानुजभाष्य १४.१३ ॥ अप्रकाशः ज्ञानानुदयः॑ अप्रवृत्तिश्च स्तब्धता॑ प्रमादः अकार्यप्रवृत्तिफलमनवधानम्॑ मोहः विपरीतज्ञानम् । एतानि तमसि प्रवृद्धे जायन्ते । एतैस्तमः प्रवृद्धमिति विद्यात् ॥ भगवद्गीतारामानुजभाष्य १४.१३ ॥ यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् । तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥ भगवद्गीतारामानुजभाष्य १४.१४ ॥ यदा सत्त्वं प्रवृद्धं तदा, सत्त्वे प्रवृद्धे देहभृत्प्रलयं मरणं याति चेत्, उत्तमविदामुत्तमतत्त्वविदामात्मयाथात्म्यविदां लोकान् समूहानमलान्मलरहितान् अज्ञानरहितान्, प्रतिपद्यते प्राप्नोति । सत्त्वे प्रवृद्धे तु मृतः आत्मविदां कुलेषु जनित्वा आत्मयाथात्म्यज्ञानसाधनेषु पुण्यकर्मस्वधिकरोतीत्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १४.१४ ॥ रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते । रजसि प्रवृद्धे मरणं प्राप्य फलार्थं कर्म कुर्वतां कुलेषु जायते॑ तत्र जनित्वा स्वर्गादिफलसाधनकर्मस्वधिकरोतीत्यर्थः ॥ तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ भगवद्गीतारामानुजभाष्य १४.१५ ॥ तथा तमसि प्रवृद्धे मृता मूढयोनिषु श्वसूकरादियोनिषु जायते । सकलपुरुषार्थारम्भानर्हो जायत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.१५ ॥ कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् । रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ भगवद्गीतारामानुजभाष्य १४.१६ ॥ एवं सत्त्वप्रवृद्धौ मरणमुपगम्यात्मविदां कुले जातेनानुष्ठितस्य सुकृतस्य फलाभिसन्धिरहितस्य मदाराधनरूपस्य कर्मणः फलं पुनरपि ततोऽधिकसत्त्वजनितं निर्मलं दुःखगन्धरहितं भवतीत्याहुः सत्त्वगुणपरिणामविदः । अन्त्यकालप्रवृद्धस्य रजसस्तु फलं फलसाधनकर्मसङ्गिकुलजन्मफलाभिसन्धिपूर्वककर्मारम्भतत्फलानुभवपुनर्जन्मरजोवृद्धिफलाभिसन्धिपूर्वक कर्मारम्भपरम्परारूपं सांसारिकदुःखप्रायमेवेत्याहुः तद्गुणयाथात्म्यविदः । अज्ञानं तमसः फलम् एवमन्त्यकालप्रवृद्धस्य तमसः फलमज्ञानपरम्परारूपम् ॥ भगवद्गीतारामानुजभाष्य १४.१६ ॥ तदधिकसत्त्वादिजनितं निर्मलादिफलं किमित्यत्राह सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च । प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ भगवद्गीतारामानुजभाष्य १४.१७ ॥ एवं परम्परया जातादधिकसत्त्वादात्मयाथात्म्यापरोक्ष्यरूपं ज्ञानं जायते । तथा प्रवृद्धाद्रजसः स्वर्गादिफललोभो जायते । तथा प्रवृद्धाच्च तमसः प्रमादः अनवधाननिमित्ता असत्कर्मणि प्रवृत्तिः॑ ततश्च मोहः विपरीतज्ञानम्॑ ततश्चाधिकतरं तमः॑ ततश्चाज्ञानम् ज्ञानाभावः ॥ भगवद्गीतारामानुजभाष्य १४.१७ ॥ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ भगवद्गीतारामानुजभाष्य १४.१८ ॥ एवमुक्तेन प्रकारेण सत्त्वस्था ऊर्ध्वं गच्छन्ति क्रमेण संसारबन्धान्मोक्षं गच्छन्ति । रजसः स्वर्गादिफललोभकरत्वाद्राजसाः फलसाधनभुतं कर्मानुष्ठाय तत्फलमनुभूय पुनरपि जनित्वा तदेव कर्मानुतिष्ठन्तीति मध्ये तिष्ठन्ति । पुनरावृत्तिरूपतया दुःखप्रायमेव तत् । तामसास्तु जघन्यगुणवृत्तिस्था उत्तरोत्तरनिकृष्टतमोगुणवृत्तिषु स्थिता अधो गच्छन्ति अन्त्यत्वम्, ततस्तिर्यक्त्वम्, ततः क्रिमिकीटादिजन्म, स्थावरत्वम्, ततोऽपि गुल्मलतात्वम्, ततश्च शिलाकाष्ठलोष्टतृणादित्वं गच्छन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.१८ ॥ आहारविशेषैः फलाभिसन्धिरहितसुकृतविशेषैश्च परम्परया प्रवर्धितसत्त्वानां गुणात्ययद्वारेण ऊर्ध्वगमनप्रकारमाह नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ भगवद्गीतारामानुजभाष्य १४.१९ ॥ एवं सात्त्विकाहारसेवया फलाभिसन्धिरहितभगवदाराधनरूपकर्मानुष्ठानैश्च रजस्तमसी सर्वात्मनाभिभूय उत्कृष्टसत्त्वनिष्ठो यदायं गुणेभ्योऽन्यं कर्तारं नानुपश्यति गुणा एव स्वानुगुणप्रवृत्तिषु कर्तार इति पश्यति॑ गुणेभ्यश्च परं वेत्ति कर्तृभ्यो गुणेभ्यश्च परमन्यमात्मानमकर्तारं वेत्ति स मद्भावमधिगच्छति मम यो भावस्तमधिगच्छति । एतदुक्तं भवति "आत्मनः स्वतः परिशुद्धस्वभावस्य पूर्वपूर्वकर्ममूलगुणसङ्गनिमित्तं विविधकर्मसु कर्तृत्वम्॑ आत्मा स्वतस्त्वकर्ता अपरिच्छिन्नज्ञानैकाकारः" इत्येवमात्मानं यदा पश्यति, तदा मद्भावमधिगच्छतीति ॥ भगवद्गीतारामानुजभाष्य १४.१९ ॥ कर्तृभ्यो गुणेभ्योऽन्यमकर्तारमात्मानं पश्यन् भगवद्भावमधिगच्छतीत्युक्तम्॑ स भगवद्भावः कीदृश इत्यत आह गुणानेतानतीत्य त्रीन् देही देहसमुद्भवान् । जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ॥ भगवद्गीतारामानुजभाष्य १४.२० ॥ अयं देही देहसमुद्भवान् देहाकारपरिणतप्रकृतिसमुद्भवानेतान् सत्त्वादीन् त्रीन् गुणानतीत्य तेभ्योऽन्यं ज्ञानैकाकारमात्मानं पश्यन् जन्ममृत्युजरादुह्खैर्विमुक्तः अमृतमात्मानमनुभवति । एष मद्भाव इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.२० ॥ अथ गुणातीतस्य स्वरूपसूचनाचारप्रकारं गुणात्ययहेतुं च पृच्छनर्जुन उवाच अर्जुन उवाच कैर्लिङ्गैस्त्रिगुणानेतानतीतो भवति प्रभो । किमाचारः कथं चैतांस्त्रीन् गुणानतिवर्तते ॥ भगवद्गीतारामानुजभाष्य १४.२१ ॥ सत्त्वादीन् त्रीन् गुणानेतानतीतः कैर्लिङ्गैः कैर्लक्षणैः उपलक्षितो भवति? किमाचारः केनाचारेण युक्तोऽसौ? अस्य स्वरूपावगतिलिङ्गभूताचारः कीदृश इत्यर्थः । कथं चैतान् केनोपायेन सत्त्वादींस्त्रीन् गुणानतिवर्तते? ॥ भगवद्गीतारामानुजभाष्य १४.२१ ॥ श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव । न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ भगवद्गीतारामानुजभाष्य १४.२२ ॥ आत्मव्यतिरिक्तेषु वस्त्वनिष्टेषु संप्रवृत्तानि सत्त्वरजस्तमसां कार्याणि प्रकाशप्रवृत्तिमोहाख्यानि यो न द्वेष्टि, तथा आत्मव्यतिरिक्तेष्विष्टेषु वस्तुषु तान्येव निवृत्तानि न काङ्क्षति ॥ भगवद्गीतारामानुजभाष्य १४.२२ ॥ उदासीनवदासीनो गुणैर्यो न विचाल्यते । गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ भगवद्गीतारामानुजभाष्य १४.२३ ॥ उदासीनवदासीनः गुणव्यतिरिक्तात्मावलोकनतृप्त्या अन्यत्रोदासीनवदासीनः, गुणैर्द्वेषाकाङ्क्षाद्वारेणे यो न विचाल्यते गुणाः स्वेषु कार्येषु प्रकाशादिषु वर्तन्त इत्यनुसन्धाय यस्तूष्णीमवतिष्ठते । नेङ्गते न गुणकार्यानुगुणं चेष्टते ॥ भगवद्गीतारामानुजभाष्य १४.२३ ॥ समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः । तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ॥ भगवद्गीतारामानुजभाष्य १४.२४ ॥ मानावमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः । सर्वारम्भपरित्यागी गुणातीतः स उच्यते ॥ भगवद्गीतारामानुजभाष्य १४.२५ ॥ समदुःखसुखः सुखदुःखयोस्समचित्तः, स्वस्थः स्वस्मिन् स्थितः । स्वात्मैकप्रियत्वेन तद्व्यतिरिक्तपुत्रादिजन्ममरणादिसुखदुःखयोस्समचित्त इत्यर्थः । तत एव समलोष्टाश्मकाञ्चनः । तत एव तुल्यप्रियाप्रियः तुल्यप्रियाप्रियविषयः । धीरः प्रकृत्यात्मविवेककुशलः । तत एव तुल्यनिन्दात्मसंस्तुतिः आत्मनि मनुष्याद्यभिमानकृतगुणागुणनिमित्तस्तुतिनिन्दयोः स्वासंबन्धानुसन्धानेन तुल्यचित्तः । तत्प्रयुक्तमानावमानयोः तत्प्रयुक्तमित्रारिपक्षयोरपि स्वसंबन्धाभावादेव तुल्यचित्तः । तथा देहित्वप्रयुक्तसर्वारम्भपरित्यागी । य एवंभूतः, स गुणातीत उच्यते ॥ भगवद्गीतारामानुजभाष्य १४.२४,२५ ॥ अथैवंरूपगुणात्यये प्रधानहेतुमाह मां च योऽव्यभिचारेण भक्तियोगेन सेवते । स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते ॥ भगवद्गीतारामानुजभाष्य १४.२६ ॥ "नान्यं गुणेभ्यः कर्तारम्" इत्यादिनोक्तेन प्रकृत्यात्मविवेकानुसन्धानमात्रेण न गुणात्ययः संपत्स्यते॑ तस्यानादिकालप्रवृत्तिविपरीतवासनाबाध्यत्वसंभवात् । मां सत्यसङ्कल्पं परमकारुणिकमाश्रितवात्सल्यजलधिम्, अव्यभिचारेन ऐकान्त्यविशिष्टेन भक्तियोगेन च यः सेवते, स एतान् सत्त्वादीन् गुणान् दुरत्ययानतीत्य ब्रह्मभूयाय ब्रह्मत्वाय कल्पते॑ ब्रह्मभावयोग्यो भवति । यथावस्थितमात्मानममृतमव्ययं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १४.२६ ॥ ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ भगवद्गीतारामानुजभाष्य १४.२७ ॥ हिशब्दो हेतौ॑ यस्मादहमव्यभिचारिभक्तियोगेन सेवितोऽमृतस्याव्ययस्य च ब्रह्मणः प्रतिष्ठा, तथा शाश्वतस्य च धर्मस्य अतिशयितनित्याइश्वर्यस्य॑ एइकान्तिकस्य च सुखस्य "वासुदेवः सर्वम्" इत्यादिना निर्दिष्टस्य ज्ञानिनः प्राप्यस्य सुखस्येत्यर्थः । यद्यपि शाश्वतधर्मशब्दः प्रापकवचनः, तथापि पूर्वोत्तरयोः प्राप्यरूपत्वेन तत्साहचर्यादयमपि प्राप्यलक्षकः । एतदुक्तं भवति पूर्वत्र "दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते" इत्यारभ्य गुणात्ययस्य तत्पूर्वकाक्षरैर्भगवत्प्राप्तीनां च भगवत्प्रपत्त्येकोपायतायाः प्रतिपादितत्वादेकान्तभगवत्प्रपत्त्येकोपायो गुणात्ययः तत्पूर्वकब्रह्मभावश्चेति ॥ भगवद्गीतारामानुजभाष्य १४.२७ ॥ ******************** अध्याय १५ ******************** क्षेत्राध्याये क्षेत्रक्षेत्रज्ञभूतयोः प्रकृतिपुरुषयोः स्वरूपं विशोध्य विशुद्धस्यापरिच्छिन्नज्ञानैकाकारस्यैव पुरुषस्य प्राकृतगुणसङ्गप्रवाहनिमित्तो देवाद्याकारपरिणतप्रकृतिसंबन्धोऽनादिरित्युक्तम् । अनन्तरे चाध्याये पुरुषस्य कार्यकारणोभयावस्थप्रकृतिसंबन्धो गुणसङ्गमूलो भगवतैव कृत इत्युक्त्वा गुणसङ्गप्रकारं सविस्तरं प्रतिपाद्य गुणसङ्गनिवृत्तिपूर्वकात्मयाथात्म्यावाप्तिश्च भगवद्भक्तिमूलेत्युक्तम् । इदानीं भजनीयस्य भगवतः क्षराक्षरात्मकबद्धमुक्तविभूतिमत्ताम्, विभूतिभूतात्क्षराक्षरपुरुषद्वयान्निखिलहेयप्रत्यनीककल्याणैक्तानतया अत्यन्तोत्कर्षेण विसजातीयस्य भगवतः पुरुषोत्तमत्वं च वक्तुमारभते । तत्र तावदसङ्गरूपशस्त्रच्छिन्नबन्धामक्षराख्यविभूतिं वक्तुं छेद्यरूपबन्धाकारेण विततमचित्परिणामविशेषमश्वत्थवृक्षाकारं कल्पयन् श्रीभगवानुवाच ऊर्ध्वमूलमधश्शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ भगवद्गीता१५.१ ॥ यं संसाराख्यमश्वथमूर्ध्वमूलमधश्शाखमव्ययं प्राहुः श्रुतयः, "ऊर्ध्वमूलोऽवाक्छाख एषोऽश्वत्थस्सनातनः", "ऊर्ध्वमूलमवाक्छाखं वृक्षं यो वेद संप्र्ति" इत्याद्याः । सप्तलोकोपरिनिविष्टचतुर्मुखादित्वेन तस्योर्ध्वमूलत्वम् । पृथिवीनिवासिसकलनरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश्शाखत्वम् । असङ्गहेतुभूताद सम्यग्ज्ञनोदयात्प्रवाहरूपेणाच्छेद्यत्वेनाव्ययत्वम् । यस्य चाश्वत्थस्य छन्दांसि पर्णान्याहुः । छन्दांसि श्रुतयः, "वायव्यं श्वेतमालभेत भूतिकामः", "ऐन्द्राग्नमेकादश कपालं निर्वपेत्प्रजाकामः" इत्यादिश्रुतिप्रतिपादितैः काम्यकर्मभिर्वर्धतेऽयं संसारवृक्ष इति छन्दांस्येवास्य पर्णानि । पर्णैर्हि वृक्षो वर्धते । यस्तमेवंभूतमश्वत्थं वेद, स वेदवित् । वेदो हि संसारवृक्षच्छेदोपायं वदति॑ छेद्यवृक्षस्वरूपज्ञानं छेदनोपायज्ञनोपयोगीति वेदविदित्युच्यते ॥ भगवद्गीतारामानुजभाष्य १५.१ ॥ अधश्चोर्ध्वं च प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः । तस्य मनुष्यादिशाखस्य वृक्षस्य तत्तत्कर्मकृता अपराश्च अधः शाखाः पुनरपि मनुष्यपश्वादिरूपेण प्रसृता भवन्ति॑ ऊर्ध्वं च गन्धर्वयक्षदेवादिरूपेण प्रसृता भवन्ति । ताश्च गुणप्रवृद्धाः गुणैः सत्त्वादिभिः प्रवृद्धाः, विषयप्रवालाः शब्दादिविषयपल्लवाः । कथमित्यत्राह अधश्च मूलान्यनुसंततानि कर्मानुबन्धीनि मनुष्यलोके ॥ भगवद्गीता१५.२ ॥ ब्रह्मलोकमूलस्यास्य वृक्षस्य मनुष्याग्रस्य, अधो मनुष्यलोके मूलान्यनुसन्ततानि॑ तानि च कर्मानुबन्धीनि कर्माण्येवानुबन्धीनि मूलानि अधो मनुष्यलोके च भवन्तीत्यर्थः । मनुष्यत्वावस्थायां कृतैर्हि कर्मभिः अधो मनुष्यपश्वादयः, ऊर्ध्वं च देवादयो भवन्ति ॥ भगवद्गीतारामानुजभाष्य १५.२ ॥ न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च संप्रतिष्ठा । अस्य वृक्षस्य चतुर्मुखादित्वेनोर्ध्वमूलत्वम्, तत्सन्तानपरम्परया मनुष्याग्रत्वेनाधश्शाखत्वम्, मनुष्यत्वे कृतैः कर्मभिर्मूलभूतैः पुनरप्यधश्चोर्ध्वं च प्रसृतशाखत्वमिति यथेदं रूपं निर्दिष्टम्, न तथा संसारिभिरुपलभ्यते । मनुष्योऽहं देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता तदनुरूपप्रिग्रहश्चेत्येतावन्मात्रमुपलभ्यते । तथा अस्य वृक्षस्य अन्तः विनाशोऽपि गुणमयभोगेष्वसङ्गकृत इति नोपलभ्यते । तथा अस्य गुणसङ्ग एवादिरिति नोपलभ्यते । तस्य प्रतिष्ठा च अनात्मनि आत्माभिमानरूपमज्ञानमिति नोपलभ्यते॑ प्रतितिष्ठत्यस्मिन्न्+एवेति ह्यज्ञानमेवास्य प्रतिष्ठा ॥ भगवद्गीतारामानुजभाष्य १५.२ ॥ अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्वा ॥ भगवद्गीता१५.३ ॥ ततः पदं तत्परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः । एनमुक्तप्रकारं सुविरूढमूलं सुष्ठु विविधं रूढमूलमश्वत्थं सम्यग्ज्ञानमूलेन दृढेन गुणमयभोगासंगाख्येन शस्त्रेण छित्वा, ततः विषयासंगाद्धेतोः तत्पदं परिमार्गितव्यमन्वेषणीयम्, यस्मिन् गता भूयो न निवर्तन्ते ॥ भगवद्गीतारामानुजभाष्य १५.३ ॥ कथमनादिकालप्रवृत्तो गुणमयभोगसंगः तन्मूलं च विपरीतज्ञानं निवर्तत इत्यत आह तमेव चाद्यं पुरुषं प्रपद्येद्यतः प्रवृत्तिः प्रसृता पुराणी ॥ भगवद्गीता१५.४ ॥ अज्ञानादिनिवृत्तये तमेव च आद्यं कृत्स्नस्यादिभूतम्, "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते", "मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय" इत्यादिषूक्तमाद्यं पुरुषमेव शरणं प्रपद्येत्तमेव शरणं प्रपद्येत । यतः यस्मात्कृत्स्नस्य स्रष्टुरियं गुणमयभोगसङ्गप्रवृत्तिः, पुराणी पुरातनी प्रसृता । उक्तं हि मयैतत्पूर्वमेव, "दैवी ह्येषा गुणमयी मं माया दूरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" इति । प्रपद्येयतः प्रवृत्तिरिति वा पाठः॑ तमेव चाद्यं पुरुषं प्र्पद्य शरणमुपगम्य, इयतः अज्ञाननिवृत्त्यादेः कृस्त्नस्यैतस्य साधनभूता प्रवृत्तिः पुराणी पुरातनी प्रऋता । पुरातनानां मुमुक्षूणां प्रवृत्तिः पुराणी । पुरातना हि मुमुक्षवो मामेव शरणमुपगम्य निर्मुक्तबन्धास्संजाता इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १५.४ ॥ निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्वैर्विमुक्तास्सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ भगवद्गीता१५.५ ॥ एवं मां शरणमुपगम्य निर्मानमोहाः निर्गतानात्मात्माभिमानरूपमोहाः, जितसङ्गदोषा जितगुणमयभोगसङ्गाख्यदोषाः । अध्यात्मनित्याः आत्मनि यज्ज्ञानं तदध्यात्मम्, आत्मज्ञाननिरताः । विनिवृत्तकामाः विनिवृत्ततदितरकामाः सुखदुःखसज्ञैर्द्वन्द्वैश्च विमुक्ताः, अमूढाः आत्मानात्मस्वभवज्ञाः, तदव्ययं पदं गच्छन्ति अनवच्छिन्नज्ञानाकारमात्मानं यथावस्थितं प्राप्नुवन्ति॑ मां शरणमुपगतानां मत्प्रसादादेरेवैताः सर्वाः प्रवृत्तयः सुशकाः सिद्धिपर्यन्ता भवन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १५.५ ॥ न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ भगवद्गीता१५.६ ॥ तदत्मज्योतिर्न सूर्यो भासयते, न शशाङ्कः, न पावकश्च । ज्ञानमेव हि सर्वस्य प्रकाशकम्॑ बाह्यानि तु ज्योतींषि विषयेन्द्रियसंबन्धविरोधितमोनिरसनद्वारेणोपकारकाणि । अस्य च प्रकाशको योगः । तद्विरोधि चानादिकर्म । तन्निवर्तनं चोक्तं भगवत्प्रपत्तिमूलमसङ्गादि । यद्गत्वा पुनर्न निवर्तन्ते, तत्परमं धाम परं ज्योतिः मम मदीयम्॑ मद्विभूतिभूतः ममांश इत्यर्थः । आदित्यादीनामपि प्रकाशकत्वेन तस्य परमत्वम् । आदित्यादीनि हि ज्योतींषि न ज्ञानज्योतिषः प्रकाशकानि॑ ज्ञानमेव सर्वस्य प्रकाशकम् ॥ भगवद्गीतारामानुजभाष्य १५.६ ॥ ममैवांशो जीवलोके जीवभूतः सनातनः । मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थितानि कर्षति ॥ भगवद्गीता१५.७ ॥ इत्थमुक्तस्वरूपः सनातनो ममांश एव सन् कश्चिदनादिकर्मरूपाविद्यावेष्टितो जीवभूतो जीवलोके वर्तमानो देवमनुष्यादिप्रकृतिपरिणामविशेषशरीरस्थानि मनष्षष्ठानीन्द्रियाणि कर्षति । कश्चिच्च पूर्वोक्तेन मार्गेणास्या अविद्यायाः मुक्तः स्वेन रूपेणावतिष्ठते । जीवभूतस्त्वतिसंकुचितज्ञानाइश्वर्यः कर्मलब्धप्रकृतिपरिणामविशेषरूपशरीरस्थानामिन्द्रियाणां मनष्षष्ठानामीश्वरः तानि कर्मानुगुणमितस्ततः कर्षति ॥ भगवद्गीतारामानुजभाष्य १५.७ ॥ शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः । गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ भगवद्गीता१५.८ ॥ यच्शरीरमवाप्नोति, यमाच्छरीरादुत्क्रामति, तत्रायमिन्द्रियाणामीश्वरः एतानि इन्द्रियाणि भूतसूक्ष्मैस्सह गृहीत्वा संयाति वायुर्गन्धानिवाशयात् । यथा वायुः स्रक्चन्दनकस्तूरिकाद्याशयात्तत्स्थानात्सूक्ष्मावयवैस्सह गन्धान् गृहीत्वान्यत्र संयाति, तद्वदित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १५.८ ॥ कानि पुनस्तानीन्द्रियाणीत्यत्राह श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ भगवद्गीता१५.९ ॥ एतानि मनष्षष्ठानीन्द्रियाणि अधिष्ठाय स्वस्वविषयवृत्त्यनुगुणानि कृत्वा, तान् शब्दादीन् विषयानुपसेवते उपभुङ्क्ते ॥ भगवद्गीतारामानुजभाष्य १५.९ ॥ उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् । विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ भगवद्गीता१५.१० ॥ एवं गुणान्वितं सत्त्वादिगुणमयप्रकृतिपरिणामविशेषमनुष्यत्वादिसंस्थानपिण्डसंसृष्टम्, पिण्डविशेषादुत्क्रामन्तं पिण्डविशेषेऽवथितं वा, गुणमयान् विषयान् भुञ्जानं वा कदाचिदपि प्रकृतिपरिणामविशेषमनुष्यत्वादिपिण्डाद्विलक्षणं ज्ञानैकाकारं विमूढा नानुपश्यन्ति । विमूढाः मनुष्यत्वादिपिण्डात्मत्वाभिमानिनः । ज्ञानचक्षुषस्तु पिण्डात्मविवेकविषयज्ञानवन्तः सर्वावस्थमप्येनं विविक्ताकारमेव पश्यन्ति ॥ भगवद्गीतारामानुजभाष्य १५.१० ॥ यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् । यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ भगवद्गीता१५.११ ॥ मत्प्रपत्तिपूर्वकं कर्मयोगादिषु यतमानास्तैर्निर्मलान्तःकरणा योगिनो योगाख्येन चक्षुषा आत्मनि शरीरेऽवस्थितमपि शरीराद्विविक्तं स्वेन रूपेणावस्थितमेनं पश्यन्ति । यतमाना अप्यकृतात्मानः मत्प्रपत्तिविरहिणः तत एवासंस्कृतमनसः, तत एव अचेतसः आत्मावलोकनसमर्थचेतोरहिताः नैनं पश्यन्ति ॥ भगवद्गीतारामानुजभाष्य १५.११ ॥ एवं रविचन्द्राग्नीनामिन्द्रियसन्निकर्षविरोधिसंतमसनिरसनमुखेनेन्द्रियानुग्राहकतया प्रकाशकानां ज्योतिष्मतामपि प्रकाशकज्ञानज्योतिरात्मा मुक्तावस्थो जीवावस्थश्च भगवद्विभूतिरित्युक्तम्, "तद्धाम प्रमं मम", "ममैवांशो जीवलोके जीवभूतस्सनातनः" इति । इदानीमचित्परिणामविशेषभूतमादित्यादीनां ज्योतिष्मतां ज्योतिरपि भगवद्विभूतिरित्याह यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ भगवद्गीता१५.१२ ॥ अखिलस्य जगतो भासकमेतेषामादित्यादीनां यत्तेजः, तन्मदीयं तेजः तैस्तैराराधितेन मया तेभ्यो दत्तमिति विद्धि ॥ भगवद्गीतारामानुजभाष्य १५.१२ ॥ पृथिव्याश्च भूतधारिण्या धारकत्वशक्तिर्मदीयेत्याह गामाविश्य च भूतानि धारयाम्यहमोजसा ॥ पुष्णामि चौषधीः सर्वास्सोमो भूत्वा रसात्मकः ॥ भगवद्गीता१५.१३ ॥ अहं पृथिवीमाविश्य सर्वाणि भूतानि ओजसा ममाप्रतिहतसामर्थ्येन धारयामि । तथाहममृतरसमयस्सोमो भूत्वा सर्वौषधीः पुष्णामि ॥ भगवद्गीतारामानुजभाष्य १५.१३ ॥ अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ भगवद्गीतारामानुजभाष्य १५.१४ ॥ अहं वैश्वानरो जाठरानलो भूत्वा सर्वेषां प्राणिनां देहमाश्रितः तैर्भुक्तं खाद्यचूष्यलेह्यपेयात्मकं चतुर्विधमन्नं प्राणापानवृत्तिभेदसमायुक्तः पचामि ॥ भगवद्गीतारामानुजभाष्य १५.१४ ॥ अत्र परमपुरुषविभूतिभूतौ सोमवैश्वानरौ अहं सोमो भूत्वा, वैश्वानरो भूत्वा इति तत्सामानाधिकरण्येन निर्दिष्टौ । तयोश्च सर्वस्य भूतजातस्य च परमपुरुषसामानाधिकरण्यनिर्देशहेतुमाह सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिज्ञानमपोहनं च । वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ भगवद्गीतारामानुजभाष्य १५.१५ ॥ तयोः सोमवैश्वानरयोः सर्वस्य च भूतजातस्य सकलप्रवृत्तिनिवृत्तिमूलज्ञानोदयदेशे हृदि सर्वं मत्संकल्पेन नियच्छनहमात्मतया सन्निविष्टः । तथाहुः श्रुतयः, "अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा", "यः पृथिव्यां तिष्ठन्", "य आत्मनि तिष्ठनात्मनोऽन्तरो ..... यमयति", "पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम्", "अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म" इत्याद्याः । स्मृतयश्च, "शास्ता विष्णुरशेषस्य जगतो यो जगन्मयः", "प्रशासितारं सर्वेषामणीयांसमणीयसाम्", "यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः" इत्याद्याः । अतो मत्त एव सर्वेषां स्मृतिर्जायते । स्मृतिः पूर्वानुभूतिविषयमनुभवसंस्कारमात्रजं ज्ञानम् । ज्ञानमिन्द्रियलिङ्गागमयोगजो वस्तुनिश्चयः॑ सोऽपि मत्तः । अपोहनं च । अपोहनम् ज्ञाननिवृत्तिः । अपोहनमूहनं वा॑ ऊहनमूहः॑ ऊहो नाम इदं प्रमाणमित्थं प्रवर्तितुमर्हतीति प्रमाणप्रवृत्त्यर्हताविषयं सामग्र्यादिनिरूपणजन्यं प्रमाणानुग्राहकं ज्ञानम्॑ स चोहो मत्त एव । वेदैश्च सर्वैरहमेव वेद्यः । अतोऽग्निसूर्यवायुसोमेन्द्रादीनां मदन्तर्यामिकत्वेन मदात्मकत्वात्तत्प्रतिपादनपरैरपि सर्वैर्वेदैरहमेव वेद्यः, देवमनुष्यादिशब्दैर्जीवात्मैव । वेदान्तकृद्वेदानाम् "इन्द्रं यजेत", "वरुणं यजेत" इत्येवमादीनामन्तः फलम्॑ फले हि ते सर्वे वेदाः पर्यवस्यन्ति॑ अन्तकृत्फलकृत्॑ वेदोदितफलस्य प्रदाता चाहमेवेत्यर्थः । तदुक्तं पूर्वमेव, "यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति" इत्यारभ्य "लभते च ततः कामान्मयैव विहितान् हि तान्" इति, "अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च" इति च । वेदविदेव चाहम् वेदविच्चाहमेव । एवं मदभिधायिनं वेदमहमेव वेद॑ इतोऽन्यथा यो वेदार्थं ब्रूते न स वेदविदित्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य १५.१५ ॥ अतो मत्त एव सर्ववेदानां सारभूतमर्थं शृणु द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरस्सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ भगवद्गीतारामानुजभाष्य १५.१६ ॥ क्षरश्चाक्षरश्चेति द्वाविमौ पुरुषौ लोके प्रथितौ । तत्र क्षरशब्दनिर्दिष्टः पुरुषो जीवशब्दाभिलपनीयब्रह्मादिस्तम्बपर्यन्तक्षरणस्वभावाचित्संसृष्टसर्वभूतानि । अत्राचित्संसर्गरूपैकोपाधिना पुरुष इत्येकत्वनिर्देशः । अक्षरशब्दनिर्दिष्टः कूटस्थः अचित्संसर्गवियुक्तः स्वेन रूपेणावस्थितो मुक्तात्मा । स त्वचित्संसर्गाभवादचित्परिणामविशेषब्रह्मादिदेहासाधारणो न भवतीति कूटस्थ इत्युच्यते । अत्राप्येकत्वनिर्देशोऽचिद्वियोगरूपैकोपाधिनाभिहितः । न हि इतः पूर्वमनादौ काले मुक्त एक एव । यथोक्तम्, "बहवो ज्ञानतपसा पूता मद्भावमागताः", "सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च" इति ॥ भगवद्गीतारामानुजभाष्य १५.१६ ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ भगवद्गीतारामानुजभाष्य १५.१७ ॥ उत्तमः पुरुषस्तु ताभ्यां क्षराक्षरशब्दनिर्दिष्टाभ्यां बद्धमुक्तपुरुषाभ्यामन्यः अर्थान्तरभूतः परमात्मेत्युदाहृतः सर्वासु श्रुतिषु । परमात्मेति निर्देशादेव ह्युत्तमः पुरुषो बद्धमुक्तपुरुषाभ्यामर्थान्तरभूत इत्यवगम्यते । कथम्? यो लोकत्रयमाविश्य बिभर्ति । लोक्यत इति लोकः॑ तत्त्रयं लोकत्रयम् । अचेतनं तत्संसृष्टश्चेतनो मुक्तश्चेति प्रमाणावगम्यमेतत्त्रयं य आत्मतया आविश्य बिभर्ति, स तस्माद्व्याप्याद्भर्तव्याच्चार्थान्तरभूतः । इतश्चोक्ताल्लोकत्रयादर्थान्तरभूतः॑ यतः सोऽव्ययः, ईश्वरश्च॑ अव्ययस्वभावो हि व्ययस्वभावादचेतनात्तत्संबन्धेन तदनुसारिणश्च चेतनादचित्संबन्धयोग्यतया पूर्वसंबन्धिनो मुक्ताच्चार्थान्तरभूत एव । तथैतस्य लोकत्रयस्येश्वरः, ईशितव्यात्तस्मादर्थान्तरभूतः ॥ भगवद्गीतारामानुजभाष्य १५.१७ ॥ यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ भगवद्गीतारामानुजभाष्य १५.१८ ॥ यस्मादेवमुक्तैः स्वभावैः क्षरं पुरुषमतीतोऽहम्, अक्षरान्मुक्तादप्युक्तैर्हेतुभिरुत्कृष्टतमः, अतोऽहं लोके वेदे च पुरुषोत्तम इति प्रथितोऽस्मि । वेदार्थावलोकनाल्लोक इति स्मृतिरिहोच्यते । श्रुतौ स्मृतौ चेत्यर्थः । श्रुतौ तावत्, "परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, स उत्तमः पुरुषः" इत्यादौ । स्मृतवपि, "अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः" इत्यादौ ॥ भगवद्गीतारामानुजभाष्य १५.१८ ॥ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत ॥ भगवद्गीतारामानुजभाष्य १५.१९ ॥ य एवमुक्तेन प्रकारेण पुरुषोत्तमं मामसंमूढो जानाति क्षराक्षरपुरुषाभ्याम्, अव्ययस्वभावतया व्यापनभरणाइश्वर्यादियोगेन च विसजातीयं जानाति, स सर्वविन्मत्प्राप्त्युपायतया यद्वेदितव्यं तत्सर्वं वेद॑ भजति मां सर्वभावेन ये च मत्प्राप्त्युपायतया मद्भजनप्रकारा निर्दिष्टाः तैश्च सर्वैर्भजनप्रकारैर्मां भजते । सर्वैर्मद्विषयैर्वेदनैर्मम या प्रीतिः, या च मम सर्वैर्मद्विषयैर्भजनैः, उभयविधा सा प्रीतिरनेन वेदनेन मम जायते ॥ इत्येतत्पुरुषोत्तमत्ववेदनं पूजयति इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ भगवद्गीतारामानुजभाष्य १५.२० ॥ इत्थं मम पुरुषोत्तमत्वप्रतिपादनं सर्वेषां गुह्यानां गुह्यतममिदं शास्त्रम्, "त्वमनघतया योग्यतमः" इति कृत्वा मया तवोक्तम् । एतद्बुद्ध्वा बुद्धिमांस्स्यात्कृतकृत्यश्च मां प्रेप्सुना उपादेया या बुद्धिः सा सर्वा उपात्ता स्यात्यच्च तेन कर्तव्यम्, तत्सर्वं कृतं स्यादित्यर्थः । अनेन श्लोकेन, अनन्तरोक्तं पुरुषोत्तमविषयं ज्ञानं शास्त्रजन्यमेवैतत्सर्वं करोति, न तत्साक्षात्काररूपमित्युच्यते ॥ भगवद्गीतारामानुजभाष्य १५.२० ॥ ******************** अध्याय १६ ******************** अतीतेनाध्यायत्रयेण प्रकृतिपुरुषयोर्विविक्तयोः संसृष्टयोश्च याथात्म्यं तत्संसर्गवियोगयोश्च गुणसङ्गतद्विपर्ययहेतुत्वम्, सर्वप्रकारेणावस्थितयोः प्रकृतिपुरुषयोर्भगवद्विभूतित्वम्, विभूतिमतो भगवतो विभूतिभूतादचिद्वस्तुनश्चिद्वस्तुनश्च बद्धमुक्तोभयरूपादव्ययत्वव्यापनभरणस्वाम्यैरर्थान्तरतया पुरुषोत्तमत्वेन याथात्म्यञ्च वर्णितम् । अनन्तरम्, उक्तस्य कृत्स्नस्यार्थस्य स्थेम्ने शास्त्रवश्यतां वक्तुं शास्त्रवश्यतद्विपरीतयोर्देवासुरसर्गयोर्विभागं श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ भगवद्गीता१६.१ ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ भगवद्गीता१६.२ ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति संपदं दैवीमभि जातस्य भारत ॥ भगवद्गीता१६.३ ॥ इष्टानिष्टवियोगसंयोगरूपस्य दुःखस्य हेतुदर्शनजं दुःखं भयम्, तन्निवृत्तिरभयम् । सत्त्वसंशुद्धिः सत्त्वस्यान्तःकरणस्य रजस्तमोभ्यामस्पृष्टत्वम् । ज्ञानयोगव्यवस्थितिः प्रकृतिवियुक्तात्मस्वरूपविवेकनिष्ठा । दानं न्यायार्जितधनस्य पात्रे प्रतिपादनम् । दमः मनसो विषयोन्मुख्यनिवृत्तिसंशीलनम् । यज्ञः फलाभिसन्धिरहितभगवदाराधनरूपमहायज्ञाद्यनुष्ठानम् । स्वाध्यायः सविभूतेर्भगवतस्तदाराधनप्रकारस्य च प्रतिपादकः कृत्स्नो वेद इत्यनुसन्धाय वेदाभ्यासनिष्ठा । तपः कृच्छ्रचान्द्रायणद्वादश्युपवासादेर्भगवत्प्रीणनकर्मयोग्यतापादनस्य करणम् । आर्जवं मनोवाक्कायवृत्तीनामेकनिष्ठता परेषु । अहिंसा परपीडावर्जनम् । सत्यं यथादृष्टार्थगोचरभूतहितवाक्यम् । अक्रोधः परपीडाफलचित्तविकाररहितत्वम् । त्यागः आत्महितप्रत्यनीकपरिग्रहविमोचनम् । शान्तिः इन्द्रियाणां विषयप्रावण्यनिरोधसंशीलनम् । अपैशुनं परानर्थकरवाक्यनिवेदनाकरणम् । दया भूतेषु सर्वभूतेषु दुःखासहिष्णुत्वम् । अलोलुप्त्वमलोलुपत्वम् । अलोलुत्वमिति वा पाठः॑ विषयेषु निस्स्पृहत्वमित्यर्थः । मार्दवमकाठिन्यम्, साधुजनसंश्लेषार्हतेत्यर्थः । ह्रीः अकार्यकरणे व्रीडा । अचापलं स्पृहणीयविषयसन्निधौ अचञ्चलत्वम् । तेजः दुर्जनैरनभिभवनीयत्वम् । क्षमा परनिमित्तपीडानुभवेऽपि परेषु तं प्रति चित्तविकाररहितता । धृतिः महत्यामप्यापदि कृत्यकर्तव्यतावधारणम् । शौचं बाह्यान्तरकरणानां कृत्ययोग्यता शास्त्रीया । अद्रोहः परेष्वनुपरोधः॑ परेषु स्वच्छन्दवृत्तिनिरोधरहितत्वमित्यर्थः । नातिमानिता अस्थाने गर्वोऽतिमानित्वम्॑ तद्रहितता । एते गुणाः दैवीं संपदमभिजातस्य भवन्ति । देवसंबन्धिनी संपद्दैवी॑ देवा भगवदाज्ञानुवृत्तिशीलाः॑ तेषां संपत् । सा च भगवदाज्ञानुवृत्तिरेव । तामभिजातस्य तामभिमुखीकृत्य जातस्य, तां निवर्तयितुं जातस्य भवन्तीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.१_३ ॥ दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमसुरीम् ॥ भगवद्गीता१६.४ ॥ दम्भः धार्मिकत्वख्यापनाय धर्मानुष्ठानम् । दर्पः कृत्याकृत्याविवेककरो विषयानुभवनिमित्तो हर्षः । अतिमानश्च स्वविद्याभिजनाननुगुणोऽभिमानः । क्रोधः परपिडाफलचित्तविकारः । पारुष्यं साधूनामुद्वेगकरः स्वभावः । अज्ञानं परावरतत्त्वकृत्याकृत्याविवेकः । एते स्वभावाः आसुरीं संपदमभिजातस्य भवन्ति । असुराः भगवदाज्ञातिवृत्तिशीलाः ॥ भगवद्गीतारामानुजभाष्य १६.४ ॥ दैवी संपद्विमोक्षाय निबन्धायासुरी मता । दैवी मदाज्ञानुवृत्तिरूपा संपद्विमोक्षाय बन्धान्मुक्तये भवति । क्रमेण मत्प्राप्तये भवतीत्यर्थः । आसुरी मदाज्ञातिवृत्तिरूपा संपन्निबन्धाय भवति अधोगतिप्राप्तये भवतीत्यर्थः ॥ एतच्छ्रुत्वा स्वप्रकृत्यनिर्धारणादतिभीतायार्जुनायैवमाह मा शुचस्संपदं दैवीमभिजातोऽसि पाण्डव ॥ भगवद्गीता१६.५ ॥ शोकं मा कृथाः॑ त्वं तु दैवीं संपदमभिजातोऽसि । पाण्डव । धार्मिकाग्रेसरस्य हि पाण्डोस्तनयस्त्वमित्यभिप्रायः ॥ भगवद्गीतारामानुजभाष्य १६.५ ॥ द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ भगवद्गीता१६.६ ॥ अस्मिन् कर्मलोके कर्मकराणां भूतानां सर्गो द्विविधौ दैवश्चासुरश्चेति । सर्गः उत्पत्तिः, प्राचीनपुण्यपापरूपकर्मवशाद्भगवदाज्ञानुवृत्तितद्विपरीतकरणायोत्पत्तिकाल एव विभागेन भूतान्युत्पद्यन्त इत्यर्थः । तत्र दैवः सर्गो विस्तरशः प्रोक्तः देवानां मदाज्ञानुवृत्तिशीलानामुत्पत्तिर्यदाचारकरणार्था, स आचारः कर्मयोगज्ञानयोगभक्तियोगरूपो विस्तरशः प्रोक्तः । असुराणां सर्गश्च यदाचारार्थः, तमाचारं मे शृणु मम सकाशाच्छृणु ॥ भगवद्गीतारामानुजभाष्य १६.६ ॥ प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ भगवद्गीता१६.७ ॥ प्रवृत्तिं च निवृत्तिं च अभ्युदयसाधनं मोक्षसाधनं च वैदिकं धर्ममासुरा न विदुः न जानन्ति । शौचं वैदिककर्मयोग्यत्वं शास्त्रसिद्धम्॑ तद्बाह्यमान्तरं चासुरेषु न विद्यते । नापि चाचारः तद्बाह्यान्तरशौचं येन सन्ध्यावन्दनादिना आचारेण जायते, सोऽप्याचारस्तेषु न विद्यते । यथोक्तम्, "संध्याहीनोऽशुचिर्नित्यमनर्हस्सर्वकर्मसु" इति । तथा सत्यं च तेषु न विद्यते यथाज्ञातभूतहितरूपभाषणं तेषु न विद्यते ॥ भगवद्गीतारामानुजभाष्य १६.७ ॥ किं च असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूतं किमन्यत्कामहेतुकम् ॥ भगवद्गीता१६.८ ॥ असत्यं जगदेतत्सत्यशब्दनिर्दिष्टब्रह्मकार्यतया ब्रह्मात्मकमिति नाहुः । अप्रतिष्ठं तथा ब्रह्मणि प्रतिष्ठितमिति न वदन्ति । ब्रह्मणानन्तेन धृता हि पृथिवी सर्वान् लोकान् बिभर्ति । यथोक्तम्, "तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम्" इति । अनीश्वरम् । सत्यसंकल्पेन परेण ब्रह्मणा सर्वेश्वरेण मयैतन्नियमितमिति च न वदन्ति । "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इति ह्युक्तम् । वदन्ति चैवमपरस्परसंभूतम्॑ किमन्यत् । योषित्पुरुषयोः परस्परसंबन्धेन जातमिदं मनुष्यपश्वादिकमुपलभ्यते॑ अनेवंभूतं किमन्यदुपलभ्यते ? किंचिदपि नोपलभ्यत इत्यर्थः । अतः सर्वमिदं जगत्कामहेतुकमिति ॥ भगवद्गीतारामानुजभाष्य १६.८ ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽशुभाः ॥ भगवद्गीता१६.९ ॥ एतां दृष्टिमवष्टभ्य अवलम्ब्य, नष्टात्मानः अदृष्टदेहातिरिक्तात्मानः, अल्पबुद्धयः घटादिवज्ज्ञेयभूते देहे ज्ञातृत्वेन देहव्यतिरिक्त आत्मोपलभ्यत इति विवेकाकुशलाः, उग्रकर्माणः सर्वेषां हिंसका जगतः क्षयाय प्रभवन्ति ॥ भगवद्गीतारामानुजभाष्य १६.९ ॥ काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः । मोहाद्गृहीत्वासद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥ भगवद्गीता१६.१० ॥ दुष्पूरं दुष्प्रापविषयं काममाश्रित्य तत्सिसाधयिषया मोहादज्ञानात्, असद्ग्राहानन्यायगृहीतपरिग्रहान् गृहीत्वा, अशुचिव्रताः अशास्त्रविहितव्रतयुक्ताः दम्भमानमदान्विताः प्रवर्तन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१० ॥ चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ भगवद्गीता१६.११ ॥ अद्य श्वो वा मुमूर्षवः चिन्तामपरिमेयाम् अपरिच्छेद्यां प्रलयान्तां प्राकृतप्रलयावधिकालसाध्यविषयामुपाश्रिताः, तथा कामोपभोगपरमाः कामोपभोग एव परमपुरुषार्थ इति मन्वानाः, एतावदिति निश्चिताः इतोऽधिकः पुरुषार्थो न विद्यत इति संजातनिश्चयाः ॥ भगवद्गीतारामानुजभाष्य १६.११ ॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ भगवद्गीता१६.१२ ॥ आशापाशशतैः आशाख्यपाशशतैर्बद्धाः, कामक्रोधपरायणाः कामक्रोधैकनिष्ठाः, कामभोगार्थमन्यायेनार्थसंचयान् प्रति ईहन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१२ ॥ इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् । इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ भगवद्गीता१६.१३ ॥ इदं क्षेत्रपुत्रादिकं सर्वं मया मत्सामर्थ्येनैव लब्धम्, नादृष्टादिना॑ इमं च मनोरथमहमेव प्राप्स्ये, नादृष्टादिसहितः । इदं धनं मत्सामर्थ्येन लब्धं मे अस्ति, इदमपि पुनर्मे मत्सामर्थ्येनैव भविष्यति ॥ भगवद्गीतारामानुजभाष्य १६.१३ ॥ असौ मया हतः शत्रुर्हनिष्ये चापरानपि । असौ मया बलवता हतः शत्रुः । अपरानपि शत्रूनहं शूरो धीरश्च हनिष्ये । किमत्र मन्दधीभिर्दुर्बलैः परिकल्पितेनादृष्टपरिकरेण ॥ तथा च ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ भगवद्गीता१६.१४ ॥ ईश्वरोऽहं स्वाधीनोऽहम्॑ अन्येषां चाहमेव नियन्ता । अहं भोगी स्वत एवाहं भोगी॑ नादृष्टादिभिः । सिद्धोऽहं स्वतस्सिद्धोऽहम्॑ न कस्माच्चिददृष्टादेः । तथा स्वत एव बलवान्॑ स्वत एव सुखी ॥ भगवद्गीतारामानुजभाष्य १६.१४ ॥ आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया । यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ भगवद्गीता१६.१५ ॥ अहं स्वतश्चाढ्योऽस्मि॑ अभिजनवानस्मि स्वत एवोत्तमकुले प्रसूतोऽस्मि॑ अस्मिन् लोके मया सदृशः कोऽन्यः स्वसामर्थ्यलब्धसर्वविभवो विद्यते? अहं स्वयमेव यक्ष्ये दास्यामि, मोदिष्ये इत्यज्ञानविमोहिताः ईश्वरानुग्रहनिरपेक्षेण स्वेनैव यागदानादिकं कर्तुं शक्यमित्यज्ञानविमोहिता मन्यन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१५ ॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः । प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ भगवद्गीता१६.१६ ॥ अदृष्टेश्वरादिसहकारमृते स्वेनैव सर्वं कर्तुं शक्यमिति कृत्वा, एवं कुर्याम्, तच्च कुर्याम्, अन्यच्च कुर्यामित्यनेकचित्तविभ्रान्ताः, एवंरूपेण मोहजालेन समावृताः, कामभोगेषु प्रकर्षेण सक्ताः, मध्ये मृताः अशुचौ नरके पतन्ति ॥ भगवद्गीतारामानुजभाष्य १६.१६ ॥ आत्मसंभाविताः स्तब्धाः धनमानमदान्विताः । यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ भगवद्गीता१६.१७ ॥ आत्मनैव संभाविताः । आत्मनैवात्मानं संभावयन्तीत्यर्थः । स्तब्धाः परिपूर्णं मन्यमाना न किंचित्कुर्वाणाः । कथम् ? धनमानमदान्विताः धनेन विद्याभिजनाभिमानेन च जनितमदान्विताः, नामयज्ञैः नामप्रयोजनैः यष्टेतिनाममात्रप्रयोजनैर्यज्ञैः यजन्ते । तदपि दम्भेन हेतुना यष्टृत्वख्यापनाय, अविधिपूर्वकमयथाचोदनं यजन्ते ॥ भगवद्गीतारामानुजभाष्य १६.१७ ॥ ते चेदृग्भूता यजन्त इत्याह अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ भगवद्गीता१६.१८ ॥ अनन्यापेक्षोऽहमेव सर्वं करोमीत्येवंरूपमहंकारमाश्रिताः, तथा सर्वस्य करणे मद्बलमेव पर्याप्तमिति च बलम्, अतो मत्सदृशो न कश्चिदस्तीति च दर्पम्, एवंभूतस्य मम काममात्रेण सर्वं संपत्स्यत इति कामम्, मम ये अनिष्टकारिणस्तान् सर्वान् हनिष्यामीति च क्रोधम्, एवमेतान् संश्रिताः, स्वदेहेषु परदेहेषु चावस्थितं सर्वस्य कारयितारं पुरुषोत्तमं मामभ्यसूयकाः प्रद्विषन्तः, कुयुक्तिभिर्मत्स्थितौ दोषमाविष्कुर्वन्तो मामसहमानाः । अहंकारादिकान् संश्रिता यागादिकं सर्वं क्रियाजातं कुर्वत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.१८ ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ भगवद्गीता१६.१९ ॥ य एवं मां द्विषन्ति, तान् क्रूरान्नराधमानशुभानहमजस्रं संसारेषु जन्मजरामरणादिरूपेण परिवर्तमानेषु संतानेषु, तत्राप्यासुरीष्वेव योनिषु क्षिपामि मदानुकूल्यप्रत्यनीकेष्वेव जन्मसु क्षिपामि । तत्तज्जन्मप्राप्त्यनुगुणप्रवृत्तिहेतुभूतबुद्धिषु क्रूरास्वहमेव संयोजयामीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.१९ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ भगवद्गीता१६.२० ॥ मदानुकूल्यप्रत्यनीकजन्मापन्नाः पुनरपि जन्मनि जन्मनि मूढाः मद्विपरीतज्ञाना मामप्राप्यैव "अस्ति भगवान् सर्वेश्वरो वासुदेवः" इति ज्ञानमप्राप्य ततः ततो जन्मनोऽधमामेव गतिं यान्ति ।२०॥ अस्यासुरस्वभावस्यात्मनाशस्य मूलहेतुमाह त्रिविधं नरकस्यैतद्द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ भगवद्गीता१६.२१ ॥ अस्यासुरस्वभावरूपस्य नरकस्यैतत्त्रिविधं द्वारम्, तच्चात्मनो नाशनम्॑ कामः क्रोधो लोभ इति त्रयाणां स्वरूपं पूर्वमेव व्याख्यातम् । द्वारं मार्गः॑ हेतुरित्यर्थः । तस्मादेतत्त्रयं त्यजेत्॑ तस्मादतिघोरनरकहेतुत्वात्कामक्रोधलोभानाम्, एतत्त्रितयं दूरतः परित्यजेत् ॥ भगवद्गीतारामानुजभाष्य १६.२१ ॥ एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः । आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ भगवद्गीता१६.२२ ॥ एतैः कामक्रोधलोभैः तमोद्वारैः मद्विपरीतज्ञानहेतुभिः विमुको नरः आत्मनः श्रेय आचरति लब्धमद्विषयज्ञानो मदानुकूल्ये प्रयतते । ततो मामेव परां गतिं याति ॥ भगवद्गीतारामानुजभाष्य १६.२२ ॥ शास्त्रानादरोऽस्य नरकस्य प्रधानहेतुरित्याह यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ भगवद्गीता१६.२३ ॥ शास्त्रं वेदाः॑ विधिः अनुशासनम् । वेदाख्यं मदनुशासनमुत्सृज्य यः कामकारतो वर्तते स्वच्छन्दानुगुणमार्गेण वर्तते, न स सिद्धिमवाप्नोति न कामप्यामुष्मिकीं सिद्धिमवाप्नोति॑ न सुखं किंचिदवाप्नोति । न परां गतिम् । कुतः परां गतिं प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १६.२३ ॥ तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ भगवद्गीता१६.२४ ॥ तस्मात्कार्याकार्यव्य्वस्थितौ उपादेयानुपादेयव्यवस्थायां शास्त्रमेव तव प्रमाणम् । धर्मशास्त्रेतिहासपुराणाद्युपबृंहिता वेदाः यदेव पुरुषोत्तमाख्यं परं तत्त्वं तत्प्रीणनरूपं तत्प्राप्त्युपायभूतं च कर्मावबोधयन्ति, तच्शास्त्रविधानोक्तं तत्त्वं कर्म च ज्ञात्वा यथावदन्यूनातिरिक्तं विज्ञाय, कर्तुं त्वमर्हसि तदेवोपादातुमर्हसि ॥ भगवद्गीतारामानुजभाष्य १६.२४ ॥ ******************** अध्याय १७ ******************** देवासुरविभागोक्तिमुखेन प्राप्यतत्त्वज्ञानं तत्प्राप्त्युपायज्ञानं च वेदैकमूलमित्युक्तम् । इदानीमशास्त्रविहितस्यासुरत्वेनाफलत्वम्, शास्त्रविहितस्य च गुणतस्त्रैविध्यम्, शास्त्रसिद्धस्य लक्षणं चोच्यते । तत्राशास्त्रविहितस्य निष्फलत्वमजाननशास्त्रविहिते श्रद्धासंयुक्ते यागादौ सत्त्वादिनिमित्तफलभेदबुभुत्सया अर्जुनः पृच्छति अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ भगवद्गीता१७.१ ॥ शास्त्रविधिमुत्सृज्य श्रद्धयान्विता ये यजन्ते, तेषां निष्ठा का ? किं सत्त्वम् ? आहोस्विद्रजः ? अथ तमः ? निष्ठा स्थितिः॑ स्थीयतेऽस्मिन्निति स्थितिः सत्त्वादिरेव निष्ठेत्युच्यते । तेषां किं सत्त्वे स्थितिः ? किं वा रजसि ? किं वा तमसीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १७.१ ॥ एवं पृष्टो भगवानशास्त्रविहितश्रद्धायास्तत्पूर्वकस्य च यागादेर्निष्फलत्वं हृदि निधाय शास्त्रीयस्यैव यागादेर्गुणतस्त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावदाह श्रीभगवानुवाच त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ भगवद्गीता१७.२ ॥ सर्वेषां देहिनां श्रद्धा त्रिविधा भवति । सा च स्वभावजा स्वभावः स्वासाधारणो भावः, प्राचीनवासनानिमित्तः तत्तद्रुचिविशेषः । यत्र रुचिः तत्र श्रद्धा जायते । श्रद्धा हि स्वाभिमतं साधयत्येतदिति विश्वासपूर्विका साधने त्वरा । वासना रुचिश्च श्रद्धा चात्मधर्माः गुणसंसर्गजाः॑ तेषामात्मधर्माणां वासनादीनां जनकाः देहेन्द्रियान्तःकरणविषयगता धर्माः कार्यैकनिरूपणीयाः सत्त्वादयो गुणाः सत्त्वादिगुणयुक्तदेहाद्यनुभवजा इत्यर्थः । ततश्चेयं श्रद्धा सात्त्विकी राजसी तामसी चेति त्रिविधा । तामिमां श्रद्धां शृणु॑ सा श्रद्धा यत्स्वभावा, तं स्वभावं शृण्वित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १७.२ ॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ भगवद्गीता१७.३ ॥ सत्त्वमन्तःकरणम् । सर्वस्य पुरुषस्यान्तःकरणानुरूपा श्रद्धा भवति । अन्तःकरणं यादृशगुणयुक्तम्, तद्विषया श्रद्धा जायत इत्यर्थः । सत्त्वशब्दः पूर्वोक्तानां देहेन्द्रियादीनां प्रदर्शनार्थः । श्रद्धामयोऽयं पुरुषः । श्रद्धामयः श्रद्धापरिणामः । यो यच्छ्रद्धः यः पुरुषो यादृश्या श्रद्धया युक्तः, स एव सः स तादृशश्रद्धापरिणामः । पुण्यकर्मविषये श्रद्धायुक्तश्चेत्, पुण्यकर्मफलसंयुक्तो भवतीति श्रद्धाप्रधानः फलसंयोग इत्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १७.३ ॥ तदेव विवृणोति यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः । प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः ॥ भगवद्गीता१७.४ ॥ सत्त्वगुणप्रचुराः सात्त्विक्या श्रद्धया युक्ताः देवान् यजन्ते । दुःखासंभिन्नोत्कृष्टसुखहेतुभूतदेवयागविषया श्रद्धा सात्त्विकीत्युक्तं भवति । राजसा यक्षरक्षांसि यजन्ते । अन्ये तु तामसा जनाः प्रेतान् भूतगणान् यजन्ते । दुःखसंभिन्नाल्पसुखजननी राजसी श्रद्धा॑ दुःखप्रायात्यल्पसुखजननी तामसीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १७.४ ॥ एवं शास्त्रीयेष्वेव यागादिषु श्रद्धायुक्तेषु गुणतः फलविशेषः. अशास्त्रीयेषु तपोयागप्रभृतिषु मदनुशासनविपरीतत्वेन न कश्चिदपि सुखलवः, अपि त्वनर्थ एवेति हृदि निहितं व्यञ्जयनाह अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः । दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥ भगवद्गीता१७.५ ॥ कर्शयन्तः शरीरस्थं भूतग्राममचेतसः । मां चैवान्तश्शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥ भगवद्गीता१७.६ ॥ अशास्त्रविहितमतिघोरमपि तपो ये जनाः तप्यन्ते । प्रदर्शनार्थमिदम् । अशास्त्रविहितं बह्वायासं यागादिकं ये कुर्वते, दम्भाहंकारसंयुक्ताः कामरागबलान्विताः शरीरस्थं पृथिव्यादिभूतसमूहं कर्शयन्तः, मदंशभूतं जीवं चान्तश्शरीरस्थं कर्शयन्तो ये तप्यन्ते, यागादिकं च कुर्वते॑ तानासुरनिश्चयान् विद्धि । असुराणां निश्चय आसुरो निश्चयः॑ असुरा हि मदाज्ञाविपरीतकारिणः॑ मदाज्ञाविपरीतकारित्वात्तेषां सुखलवसंबन्धो न विद्यते॑ अपि त्वननर्थव्राते पतन्तीति पूर्वमेवोक्तम्, "पतन्ति नरकेऽश्चौ" इति ॥ भगवद्गीतारामानुजभाष्य १७.५ ॥६॥ अथ प्रकृतमेव शास्त्रीयेषु यज्ञादिषु गुणतो विशेषं प्रपञ्चयति । तत्राहारमूलत्वात्सत्त्वादिवृद्धेराहारत्रैविध्यं प्रथममुच्यते । "अन्नमयं हि सोम्य मनः", "आहारशुद्धौ सत्त्वशुद्धिः" इति हि श्रूयते आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ भगवद्गीता१७.७ ॥ आहारोऽपि सर्वस्य प्राणिजातस्य सत्त्वादिगुणत्रयान्वयेन त्रिविधः प्रियो भवति । तथैव यज्ञोऽपि त्रिविधः, तथा तपः दानं च । तेषां भेदमिमं शृणु तेषामाहारयज्ञतपोदानानां सत्त्वादिभेदेनेममुच्यमानं भेदं शृणु ॥ भगवद्गीतारामानुजभाष्य १७.७ ॥ आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियः ॥ भगवद्गीता१७.८ ॥ सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति । सत्त्वमयाश्चाहारा आयुर्विवर्धनाः॑ पुनरपि सत्त्वस्य विवर्धनाः । सत्त्वमन्तःकरणम्॑ अन्तःकरणकार्यं ज्ञानमिह सत्त्वशब्देनोच्यते । "सत्त्वात्संजायते ज्ञानम्" इति सत्त्वस्य ज्ञानविवृद्धिहेतुत्वात्, आहारोऽपि सत्त्वमयो ज्ञानविवृद्धिहेतुः । तथा बलारोग्ययोरपि विवर्धनाः । सुखप्रीत्योरपि विवर्धनाः परिणामकाले स्वयमेव सुखस्य विवर्धनाः ॑तथा प्रीतिहेतुभूतकर्मारम्भद्वारेण प्रीतिवर्धनाः । रस्याः मधुररसोपेताः । स्निग्धाः स्नेहयुक्ताः । स्थिराः स्थिरपरिणामाः । हृद्याः रमणीयवेषाः । एवंविधाः सत्त्वमया आहाराः सात्त्विकस्य पुरुषस्य प्रियाः ॥ भगवद्गीतारामानुजभाष्य १७.८ ॥ कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ भगवद्गीता१७.९ ॥ कटुरसाः, अम्लरसाः, लवणोत्कटाः, अत्युष्णाः, अतितीक्षणाः, रूक्षाः, विदाहिनश्चेति कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगास्तीक्ष्णाः॑ शोषकरा रूक्षाः॑ तापकरा विदाहिनः । एवंविधा आहारा राजसस्येष्टाः । ते च रजोमयत्वाद्दुःखशोकामयवर्धनाः रजोवर्धनाश्च ॥ भगवद्गीतारामानुजभाष्य १७.९ ॥ यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ भगवद्गीता१७.१० ॥ यातयामं चिरकालावस्थितम्॑ गतरसं त्यक्तस्वाभाविकरसम्॑ पूति दुर्गन्धोपेतम्, पर्युषितं कालातिपत्त्या रसान्तरापन्नम्॑ उच्छिष्टं गुर्वादिभ्योऽन्येषां भुक्तशिष्टम्॑ अमेध्यमयज्ञार्हम्॑ अयज्ञशिष्टमित्यर्थः । एवंविधं तमोमयं भोजनं तामसप्रियं भवति । भुज्यत इति आहार एव भोजनम् । पुनश्च तमसो वर्धनम् । अतो हितैषिभिः सत्त्वविवृद्धये सात्त्विकाहार एव सेव्यः ॥ भगवद्गीतारामानुजभाष्य १७.१० ॥ अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनस्समाधाय स सात्त्विकः ॥ भगवद्गीता१७.११ ॥ फलाकाङ्क्षारहितैः पुरुषैः विधिदृष्टः शास्त्रदृष्टः मन्त्रद्रव्यक्रियादिभिर्युक्तः, यष्टव्यमेवेति भगवदाराधनत्वेन स्वयंप्रयोजनतया यष्टव्यमिति मनस्समाधाय यो यज्ञ इज्यते, स सात्त्विकः ॥ भगवद्गीतारामानुजभाष्य १७.११ ॥ अभिसन्धाय तु फलं दम्भार्थमपि चैव यः । इज्यते भरतश्रेष्थ तं यज्ञं विद्धि राजसम् ॥ भगवद्गीता१७.१२ ॥ फलाभिसन्धियुक्तैर्दम्भगर्भो यशःफलश्च यो यज्ञ इज्यते, तं यज्ञं राजसं विद्धि ॥ भगवद्गीतारामानुजभाष्य १७.१२ ॥ विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ भगवद्गीता१७.१३ ॥ विधिहीनं ब्राह्मणोक्तिहीनम्॑ सदाचारयुक्तैर्विद्वद्भिर्ब्राह्मणैर्यजस्वेत्युक्तिहीनमित्यर्थः॑ असृष्टान्नमचोदितद्रव्यम्, मन्त्रहीनमदक्षिणं श्रद्धाविरहितं च यज्ञं तामसं परिचक्षते ॥ भगवद्गीतारामानुजभाष्य १७.१३ ॥ अथ तपसो गुणतस्त्रैविध्यं वक्तुं तस्य शरीरवाङ्मनोनिष्पाद्यतया स्वरूपभेदं तावदाह देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् । ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ भगवद्गीता१७.१४ ॥ देवद्विजगुरुप्राज्ञानां पूजनम्, शौचं तीर्थस्नानादिकम्, आर्जवं यथामनःशरीरवृत्तम्, ब्रह्मचर्यं योषित्सु भोग्यताबुद्धियुक्तेक्षणादिरहितत्वम्, अहिंसा अप्राणिपीडा॑ एतच्छरीरं तप उच्यते ॥ भगवद्गीतारामानुजभाष्य १७.१४ ॥ अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् । स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ भगवद्गीता१७.१५ ॥ परेषामनुद्वेगकरं सत्यं प्रियहितं च यद्वाक्यं स्वाध्यायाभ्यसनं चेत्येतद्वाङ्मयं तप उच्यते ॥ भगवद्गीतारामानुजभाष्य १७.१५ ॥ मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः । भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ भगवद्गीता१७.१६ ॥ मनःप्रसादः मनसः क्रोधादिरहितत्वम्, सौम्यत्वं मनसः परेषामभ्युदयप्रावण्यम्, मौनं मनसा वाक्प्रवृत्तिनियमनम्, आत्मविनिग्रहः मनोवृत्तेर्ध्येयविषयेऽवस्थापनम्, भावशुद्धिः आत्मव्यतिरिक्तविषयचिन्तारहितत्वम्॑ एतन्मानसं तपः ॥ भगवद्गीतारामानुजभाष्य १७.१६ ॥ श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः । अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ भगवद्गीता१७.१७ ॥ अफलाकाङ्क्षिभिः फलाकाङ्क्षारहितैः, युक्तैः परमपुरुषाराधनरूपमिदमिति चिन्तायुक्तैः नरैः परया श्रद्धया यत्त्रिविधं तपः कायवाङ्मनोभिस्तप्तम्, तत्सात्त्विकं परिचक्षते ॥ भगवद्गीतारामानुजभाष्य १७.१७ ॥ सत्कारमानपूजार्थं तपो दम्भेन चैव यत् । क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ भगवद्गीता१७.१८ ॥ मनसा आदरः सत्कारः, वाचा प्रशंसा मानः, शरीरो नमस्कारादिः पूजा । फलाभिसन्धिपूर्वकं सत्काराद्यर्थं च दम्भेन हेतुना यत्तपः क्रियते, तदिह राजसं प्रोक्तम्॑ स्वर्गादिफलसाधनत्वेनास्थिरत्वाच्चलमध्रुवम् । चलत्वं पातभयेन चलनहेतुत्वम्, अध्रुवत्वं क्षयिष्णुत्वम् ॥ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः । परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ भगवद्गीता१७.१९ ॥ मूढाः अविवेकिनः, मूढग्राहेण मूढैः कृतेनाभिनिवेशेन आत्मनः शक्त्यादिकमपरीक्ष्य आत्मपीडया यत्तपः क्रियते, परस्योत्सादनार्थं च यत्क्रियते, तत्तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १७.१९ ॥ दातव्यमिति यद्दानं दीयतेऽनुपकारिणे । देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥ भगवद्गीता१७.२० ॥ फलाभिसन्धिरहितं दातव्यमिति देशे काले पात्रे चानुपकारिणे यद्दानं दीयते, तद्दानं सात्त्विकं स्मृतम् ॥ भगवद्गीतारामानुजभाष्य १७.२० ॥ यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः । दीयते च परिक्लिष्टं तद्राजसमुदाहृतम् ॥ भगवद्गीता१७.२१ ॥ प्रत्युपकारकटाक्षगर्भं फलमुद्दिश्य च, परिक्लिष्टमकल्याणद्रव्यकं यद्दानं दीयते, तद्राजसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १७.२१ ॥ अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥ भगवद्गीता१७.२२ ॥ अदेशकाले अपात्रेभ्यश्च यद्दानं दीयते, असत्कृतं पादप्रक्षालनादिगौरवरहितम्, अवज्ञातं सावज्ञमनुपचारयुक्तं यद्दीयते, तत्तामसमुदाहृतम् ।२२॥ एवं वैदिकानां यज्ञतपोदानानां सत्त्वादिगुणभेदेन भेद उक्तः॑ इदानीं तस्यैव वैदिकस्य यज्ञादेः प्रणवसंयोगेन तत्सच्छब्दव्यपदेश्य्तया च लक्षणमुच्यते ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥ भगवद्गीता१७.२३ ॥ ओं तत्सदिति त्रिविधोऽयं निर्देशः शब्दः ब्रह्मणः स्मृतः ब्रह्मणोऽन्वयी भवति । ब्रह्म च वेदः । वेदशब्देन वैदिकं कर्मोच्यते । वैदिकं यज्ञादिकम् । यज्ञादिकं कर्म ओं तत्सदिति शब्दान्वितं भवति । ओमिति शब्दस्यान्वयो वैदिककर्माङ्गत्वेन प्रयोगादौ प्रयुज्यमानतया॑ तत्सदिति शब्दयोरन्वयः पूज्यत्वाय वाचकतया । तेन त्रिविधेन शब्देनान्विता ब्राह्मणाः वेदान्वयिनस्त्रैवर्णिकाः वेदाश्च यज्ञाश्च पुरा विहिताः पुरा मयैव निर्मिता इत्यर्थः ॥ त्रयाणामों तत्सदिति शब्दानामन्वयप्रकारो वर्ण्यते॑ प्रथममोमिति शब्दस्यान्वयप्रकारमाह तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥ भगवद्गीता१७.२४ ॥ तस्माद्ब्रह्मवादिनां वेदादिनां त्रैवर्णिकानां यज्ञदानतपःक्रियाः विधानोक्ताः वेदविधानोक्ताः आदौ ओमित्युदाहृत्य सततं सर्वदा प्रवर्तन्ते । वेदाश्च ओमित्युदाहृत्यारभ्यन्ते । एवं वेदानां वैदिकानां च यज्ञादीनां कर्मणामोमिति शब्दान्वयो वर्णितः । ओमितिशब्दान्वितवेदधारणात्तदन्वितयज्ञादिकर्मकरणाच्च ब्राह्मणशब्दनिर्दिष्टानां त्रैवर्णिकानामपि ओमिति शब्दान्वयो वर्णितः ॥ भगवद्गीतारामानुजभाष्य १७.२४ ॥ अथैतेषां तदिति शब्दान्वयप्रकारमाह तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः । दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥ भगवद्गीता१७.२५ ॥ फलमनभिसन्धाय वेदाध्ययनयज्ञतपोदानक्रियाः मोक्षकाङ्क्षिभिस्त्रैवर्णिकैर्याः क्रियन्ते, ताः ब्रह्मप्राप्तिसाधनतया ब्रह्मवाचिना तदिति शब्देन निर्देश्याः॑ "स वः कः किं यत्तत्पदमनुत्तमम्" इति तच्छब्दो हि ब्रह्मवाची प्रसिद्धः । एवं वेदाध्ययनयज्ञादीनां मोक्षसाधनभूतानां तच्छब्दनिर्देश्यतया तदिति शब्दान्वय उक्तः । त्रैवर्णिकानामपि तथाविधवेदाध्ययनाद्यनुष्ठानादेव तच्छब्दान्वय उपपन्नः ॥ भगवद्गीतारामानुजभाष्य १७.२५ ॥ अथैषां सच्छब्दान्वयप्रकारं वक्तुं लोके सच्छब्दस्य व्युत्पत्तिप्रकारमाह सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते । प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ भगवद्गीता१७.२६ ॥ सद्भावे विद्यमानतायाम्, साधुभावे कल्याणभावे च सर्ववस्तुषु सदित्येतत्पदं प्रयुज्यते लोकवेदयोः । तथा केनचित्पुरुषेणानुष्ठिते लौकिके प्रशस्ते कल्याणे कर्मणि सत्कर्मेदमिति सच्छब्दो युज्यते प्रयुज्यते इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १७.२६ ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते । कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ भगवद्गीता१७.२७ ॥ अतो वैदिकानां त्रैवर्णिकानां यज्ञे तपसि दाने च स्थितिः कल्याणतया सदित्युच्यते । कर्म च तदर्थीयं त्रैवर्णिकार्थीयं यज्ञदानादिकं सदित्येवाभिधीयते । तस्माद्वेदाः वैदिकानि कर्माणि ब्राह्मणशब्दनिर्दिष्टास्त्रैवर्णिकाश्च ओं तत्सदिति शब्दान्वयरूपलक्षणेन अवेदेभ्यश्चावैदिकेभ्यश्च व्यावृत्ता वेदितव्याः ॥ भगवद्गीतारामानुजभाष्य १७.२७ ॥ अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् । असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ भगवद्गीता१७.२८ ॥ अश्रद्धया कृतं शास्त्रीयमपि होमादिकमसदित्युच्यते । कुतः ? न च तत्प्रेत्य, नो इह न मोक्षाय, न सांसारिकाय च फलायेति ॥ भगवद्गीतारामानुजभाष्य १७.२८ ॥ ******************** अध्याय १८ ******************** अतीतेनाध्यायद्वयेन अभ्युदयनिश्श्रेयससाधनभूतं वैदिकमेव यज्ञतपोदानादिकं कर्म, नान्यत्॑ वैदिकस्य च कर्मणस्सामान्यलक्षणं प्रणवान्वयः॑ तत्र मोक्षाभ्युदयसाधनयोर्भेदः तत्सच्छब्दनिर्देश्यत्वेन॑ मोक्षसाधनं च कर्म फलाभिसन्धिरहितं यज्ञादिकम्॑ तदारम्भश्च सत्त्वोद्रेकाद्भवति॑ सत्त्ववृद्धिश्च सात्त्विकाहारसेवया इत्युक्तम् । अनन्तरं मोक्षसाधनतया निर्दिष्टयोस्त्यागसंन्यासयोरैक्यम्, त्यागस्य च स्वरूपम्, भगवति सर्वेश्वरे च सर्वकर्मणां कर्तृत्वानुसन्धानम्, सत्त्वरजस्तमसां कार्यवर्णनेन सत्त्वगुणस्यावश्योपादेयत्वम्, स्ववर्णोचितानां कर्मणां परमपुरुषाराधनभूतानां परमपुरुषप्राप्तिनिर्वर्तनप्रकारः, कृत्स्नस्य गीताशास्त्रस्य सारार्थो भक्तियोग इत्येते प्रतिपाद्यन्ते । तत्र तावत्त्यागसंन्यासयोर्पृथक्त्वैकत्वनिर्णयाय स्वरूपनिर्णयाय चार्जुनः पृच्छति अर्जुन उवाच संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ भगवद्गीता१८.१ ॥ त्यागसंन्यासौ हि मोक्षसाधनतया विहितौ, "न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः वेदान्तविज्ञानसुनिश्चितार्थास्संन्यासयोगाद्यतयश्शुद्धसत्त्वाः । ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व् ।" इत्यादिषु । अस्य संन्यासस्य त्यागस्य च तत्त्वं याथात्म्यं पृथक्वेदितुमिच्छामि । अयमभिप्रायः किमेतौ संन्यासत्यागशब्दौ पृथगर्थौ, उतैकार्थवेव यदा पृथगर्थौ, तदा अनयोः पृथक्त्वेन स्वरूपं वेदितुमिच्छामि॑ एकत्वेऽपि तस्य स्वरूपं वक्तव्यमिति ॥ भगवद्गीतारामानुजभाष्य १८.१ ॥ अथानयोरेकमेव स्वरूपम्, तच्चेदृशमिति निर्णेतुं वादिविप्रतिपत्तिं दर्शयन् श्रीभगवानुवाच श्रीभगवानुवाच काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ भगवद्गीता१८.२ ॥ केचन विद्वांसः काम्यानां कर्मणां न्यासं स्वरूपत्यागं संन्यासं विदुः । केचिच्च विचक्षणाः नित्यानां नैमित्तिकानां च काम्यानां सर्वेषां कर्मणां फलत्याग एव मोक्षशास्त्रेषु त्यागशब्दार्थ इति प्राहुः । तत्र शास्त्रीयत्यागः काम्यकर्मस्वरूपविषयः॑ सर्वकर्मफलविषय इति विवादं प्रदर्शयनेकत्र संन्यासशब्दमितरत्र त्यागशब्दं प्रयुक्तवान् । अतस्त्यागसंन्यासशब्दयोरेकार्थत्वमङ्गीकृतमिति ज्ञायते । तथा "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम" इति त्यागशब्देनैव निर्णयवचनात्, "नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८.", "अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ।" इति परस्परपर्यायतादर्शनाच्च तयोरेकार्थत्वमङ्गीकृतमिति निश्चीयते ॥ भगवद्गीतारामानुजभाष्य १८.२ ॥ त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ भगवद्गीता१८.३ ॥ एके मनीषिणः कापिलाः वैदिकाश्च तन्मतानुसारिणः रागादिदोषवद्बन्धकत्वात्सर्वं यज्ञादिकं कर्म मुमुक्षुणा त्याज्यमिति प्राहुः॑ अपरे पण्डिताः यज्ञादिकं कर्म न त्याज्यमिति प्राहुः ॥ भगवद्गीतारामानुजभाष्य १८.३ ॥ निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधस्संप्रकीर्तितः ॥ भगवद्गीता१८.४ ॥ तत्र एवं वादिविप्रतिपन्ने त्यागे त्यागविषयं निश्चयं मत्तश्शृणु॑ त्यागः क्रियमाणेष्वेव वैदिकेषु कर्मसु फलविषयतया, कर्मविषयतया, कर्तृत्वविषयतया च पूर्वमेव हि मया त्रिविधस्संप्रकीर्तितः, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा । निराशीर्निर्ममो भूत्वा युद्ध्यस्व विगतज्वरः" इति । कर्मजन्यं स्वर्गादिकं फलं मम न स्यादिति फलत्यागः॑ मदीयफलसाधनतया मदीयमिदं कर्मेति कर्मणि ममतायाः परित्यागः कर्मविषयस्त्यागः॑ सर्वेश्वरे कर्तृत्वानुसंधानेनात्मनः कर्तृतात्यागः कर्तृत्वविषयस्त्यागः ॥ भगवद्गीतारामानुजभाष्य १८.४ ॥ यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । यज्ञदानतपःप्रभृति वैदिकं कर्म मुमुक्षुणा न कदाचिदपि त्याज्यम्, अपि तु आ प्रयाणादहरहः कार्यमेव ॥ भगवद्गीतारामानुजभाष्य १८.४ ॥ कुतः ? यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ भगवद्गीता१८.५ ॥ यज्ञदानतपःप्रभृतीनि वर्णाश्रमसंबन्धीनि कर्माणि मनीषिणां मननशीलानां पावनानि । मननमुपासनम्॑ मुमुक्षूणां यावज्जीवमुपासनं कुर्वतामुपासननिष्पत्तिविरोधिप्राचीनकर्मविनाशनानीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५ ॥ एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ भगवद्गीता१८.६ ॥ यस्मान्मनीषिणां यज्ञदानतपःप्रभृतीनि पावनानि, तस्मादुपासनवदेतान्यपि यज्ञादिकर्माणि मदाराधनरूपाणि, सङ्गम् कर्मणि ममतां फलानि च त्यक्त्वा अहरहराप्रयाणादुपासननिवृत्तये मुमुक्षुणा कर्तव्यानीति मम निश्चितमुत्तमं मतम् ॥ भगवद्गीतारामानुजभाष्य १८.६ ॥ नियतस्य तु संन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ भगवद्गीता१८.७ ॥ नियतस्य नित्यनैमित्तिकस्य महायज्ञादेः कर्मणः संन्यासः त्यागो नोपपद्यते, "शरीरयात्रापि च तेन प्रसिद्ध्येदकर्मणः" इति शरीरयात्राया एवासिद्धेः, शरीरयात्रा हि यज्ञशिष्टाशनेन निर्वर्त्यमाना सम्यग्ज्ञानाय प्रभवति॑ अन्यथा, "ते त्वघं भुञ्जते पापाः" इत्ययज्ञशिष्टाघरूपाशनाप्यायनं मनसो विपरीतज्ञानाय भवति । "अन्नमयं हि सोम्य मनः" इत्यन्नेन हि मन आप्यायते । "आहारशुद्धौ सत्त्वशुद्धिस्सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ॥ भगवद्गीतारामानुजभाष्य १८." इति ब्रह्मसाक्षात्काररूपं ज्ञानमाहारशुद्ध्यायत्तं श्रूयते । तस्मान्महायज्ञादिनित्यनैमित्तिकं कर्म आ प्रयाणाद्ब्रह्मज्ञानायैवोपादेयमिति तस्य त्यागो नोपपद्यते । एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वमोहात्परित्यागस्तामसः परिकीर्तितः । तमोमूलस्त्यागस्तामसः । तमःकार्याज्ञानमूलत्वेन त्यागस्य तमोमूलत्वम् । तमो ह्यज्ञानस्य मूलं, "प्रमादमोहौ तमसो भवतोऽज्ञानमेव च" इत्यत्रोक्तम् । अज्ञानं तु ज्ञानविरोधि विपरीतज्ञानम्॑ तथा च वक्ष्यते, "अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी" इति । अतो नित्यनैमित्तिकादेः कर्मणस्त्यागो विपरीतज्ञानमूल एवेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.७ ॥ दुःखमित्येव यः कर्म कायक्लेशभयात्त्यजेत् । स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ भगवद्गीता१८.८ ॥ यद्यपि परंपरया मोक्षसाधनभूतं कर्म, तथापि दुःखात्मकद्रव्यार्जनसाध्यत्वाद्बह्वायासरूपतया कायक्लेशकरत्वाच्च मनसोऽवसादकरमिति तद्भीत्या योगनिष्पत्तये ज्ञानाभ्यास एव यतनीय इति । यो महायज्ञाद्याश्रमकर्म परित्यजेत्, स राजसं रजोमूलं त्यागं कृत्वा तदयथावस्थितशास्त्रार्थरूपमिति ज्ञानोत्पत्तिरूपं त्यागफलं न लभते॑ "अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी" इति हि वक्ष्यते । न हि कर्म दृष्टद्वारेण मनःप्रसादहेतुः, अपि तु भवगत्प्रसादद्वारेण ॥ भगवद्गीतारामानुजभाष्य १८.८ ॥ कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । सङ्गं त्यक्त्वा फलं चैव, स त्यागः सात्त्विको मतः ॥ भगवद्गीता१८.९ ॥ नित्यनैमित्तिकमहायज्ञादिवर्णाश्रमविहितं कर्म मदाराधनरूपतया कार्यं स्वयंप्रयोजनमिति मत्वा सङ्गं कर्मणि ममतां फलं च त्यक्त्वा यत्क्रियते, स त्यागः सात्त्विको मतः, स सत्त्वमूलः, यथावस्थितशास्त्रार्थज्ञानमूल इत्यर्थः । सत्त्वं हि यथावस्थितवस्तुज्ञानमुत्पादयतीत्युक्तम्, "सत्त्वात्संजायते ज्ञानम्" इति । वक्ष्यते च, "प्रवृत्तिं च निवृत्तिं च कार्याकार्यं भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥ " इति ॥ न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ भगवद्गीता१८.१० ॥ एवं सत्त्वसमाविष्टो मेधावी यथावस्थिततत्त्वज्ञानः, तत एव च्छिन्नसंशयः, कर्मणि सङ्गफलकर्तृत्वत्यागी, न द्वेष्ट्यकुशलं कर्म॑ शुकले च कर्मणि नानुषज्जते । अकुशलं कर्म अनिष्टफलम्, कुशलं च कर्म इष्टरूपस्वर्गपुत्रपश्वन्नाद्यादिफलम् । सर्वस्मिन् कर्मणि ममतारहितत्वात्, त्यक्तब्रह्मव्यतिरिक्तसर्वफलत्वात्, त्यक्तकर्तृत्वाच्च तयोः क्रियमाणयोः प्रीतिद्वेषौ न करोति । अनिष्टफलं पापं कर्मात्र प्रामादिकमभिप्रेतम्॑ "नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ भगवद्गीतारामानुजभाष्य १८." इति दुश्चरिताविरतेर्ज्ञानोत्पत्तिविरोधित्वश्रवणात् । अतः कर्मणि कर्तृत्वसङ्गफलानां त्यागः शास्त्रीयत्यागः, न कर्मस्वरूपत्यागः ॥ भगवद्गीतारामानुजभाष्य १८.१० ॥ तदाह न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ भगवद्गीता१८.११ ॥ न हि देहभृता ध्रियमाणशरीरेण कर्माण्यशेषतस्त्यक्तुं शक्यम्॑ देहधारणार्थानामशनपानादीनां तदनुबन्धिनां च कर्मणामवर्जनीयत्वात् । तदर्थं च महायज्ञाद्यनुष्ठानमवर्जनीयम् । यस्तु तेषु महायज्ञादिकर्मसु फलत्यागी स एव, "त्यागेनैके अमृतत्वमानशुः" इत्यादिशास्त्रेषु त्यागीत्यभिधीयते । फलत्यागीति प्रदर्शनार्थं फलकर्तृत्वकर्मसङ्गानां त्यागीति॑ "त्रिविधः संप्रकीर्तितः" इति प्रक्रमात् ॥ भगवद्गीतारामानुजभाष्य १८.११ ॥ ननु कर्माण्यग्निहोत्रदर्शपूर्णमासज्योतिष्टोमादीनि, महायज्ञादीनि च स्वर्गादिफलसंबन्धितया शास्त्रैर्विधीयन्ते॑ नित्यनैमित्तिकानामपि "प्राजापत्यं गृहस्थानाम्" इत्यादिफलसंबन्धितयैव हि चोदना । अतः तत्तत्फलसाधनस्वभावतयावगतानां कर्मणामनुष्ठाने, बीजावापादीनामिव, अनभिसंहितफलस्यापि इष्टानिष्टरूपफलसंबन्धः अवर्जनीयः । अतो मोक्षविरोधिफलत्वेन मुमुक्षुणा न कर्मानुष्ठेयमित्यत उत्तरमाह अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ भगवद्गीता१८.१२ ॥ अनिष्टं नरकादिफलम्, इष्टं स्वर्गादि, मिश्रमनिष्टसंभिन्नं पुत्रपश्वन्नाद्यादि॑ एतत्त्रिविधं कर्मणः फलम्, अत्यागिनां कर्तृत्वममताफलत्यागरहितानां प्रेत्य भवति । प्रेत्य कर्मानुष्ठानोत्तरकालमित्यर्थः । न तु संन्यासिनां क्वचित् न तु कर्तृत्वादिपरित्यागिनां क्वचिदपि मोक्षविरोधि फलं भवति । एतदुक्तं भवति यद्यप्यग्निहोत्रमहायज्ञादीनि तान्येव, तथापि जीवनाधिकारकामाधिकारयोरिव मोक्षाधिकारे च विनियोगपृथक्त्वेन परिह्रियते । मोक्षविनियोगश्च, "तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन" इत्यादिभिरिति । तदेवं क्रियमाणेष्वेव कर्मसु कर्तृत्वादिपरित्यागः शास्त्रसिद्धिः संन्यासः॑ स एव च त्याग इत्युक्तः ॥ भगवद्गीतारामानुजभाष्य १८.१२ ॥ इदानीं भगवति पुरुषोत्तमे अन्तर्यामिणि कर्तृत्वानुसंधानेन आत्मनि अकर्तृत्वानुसंधानप्रकारमाह, तत एव फलकर्मणोरपि ममतापरित्यागो भवतीति । परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैश्च करणकलेवरप्राणैः स्वलीलाप्रयोजनाय कर्माण्यारभते । अतो जीवात्मगतं क्षुन्निवृत्त्यादिकमपि फलम्, तत्साधनभूतं च कर्म परमपुरुषस्यैव । पञ्चैतानि महाबाहो कारणानि निबोधे मे । सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ भगवद्गीता१८. सांख्या बुद्धिः, सांख्ये कृतान्ते यथावस्थिततत्त्वविषयया वैदिक्या बुद्ध्या अनुसंहिते निर्णये सर्वकर्मणां सिद्धये उत्पत्तये, प्रोक्तानि पञ्चैतानि कारणानि निबोधे मे मम सकाशादनुसंधत्स्व । वैदिकी हि बुद्धिः शरीरेन्द्रियप्राणजीवात्मोपकरणं परमात्मानमेव कर्तारमवधारयति, "य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः", "अन्तःप्रविष्टः शास्ता जनानां सर्वात्मा" इत्यादिषु ॥ भगवद्गीतारामानुजभाष्य १८.१३ ॥ तदिदमाह अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ भगवद्गीतारामानुजभाष्य १८.१५ ॥ न्याय्ये शास्त्रसिद्धे, विपरीते प्रतिषिद्धे वा सर्वस्मिन् कर्मणि शरीरे, वाचिके, मानसे च पञ्चैते हेतवः । अधिष्ठानं शरीरम्॑ अधिष्ठीयते जीवात्मनेति महाभूतसंघातरूपं शरीरमधिष्ठानम् । तथा कर्ता जीवात्मा॑ अस्य जीवात्मनो ज्ञातृत्वं कर्तृत्वं च, "ज्ञोऽत एव", "कर्ता शास्त्रार्थवत्त्वात्" इति च सूत्रोपपादितम् । करणं च पृथग्विधम् वाक्पाणिपादादिपञ्चकं समनस्कं कर्मेन्द्रियं पृथग्विधं कर्मनिष्पत्तौ पृथग्व्यापारम् । विविधा च पृथक्चेष्टा । चेष्टाशब्देन पञ्चात्मा वायुरभिधीयते तद्वृत्तिवाचिना॑ शरीरेन्द्रियधारणस्य प्राणापानादिभेदभिन्नस्य वायोः पञ्चात्मनो विविधा च चेष्टा विविधा वृत्तिः । दैवं चैवात्र पञ्चमम् अत्र कर्महेतुकलापे दैवं पञ्चमम् परमात्मा अन्तर्यामी कर्मनिष्पत्तौ प्रधानहेतुरित्यर्थः । उक्तं हि, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति । वक्ष्यति च, "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया॥" इति । परमात्मायत्तं च जीवात्मनः कर्तृत्वम्, "परात्तु तच्छ्रुतेः" इत्याद्युपपादितम् । नन्वेवं परमात्मायत्ते जीवात्मनः कर्तृत्वे जीवात्मा कर्मण्यनियोज्यो भवतीति विधिनिषेधशास्त्राण्यनर्थकानि स्युः ॥ इदमपि चोद्यं सूत्रकारेण परिहृतम्, "कृतप्रयत्नापेक्षस्तु विहितप्रतिषिद्धावैयार्थ्यादिभ्यः" इति । एतदुक्तं भवति परमात्मना दत्तैस्तदाधारैश्च करणकलेबरादिभिस्तदाहितशक्तिभिः स्वयं च जीवात्मा तदाधारस्तदाहितशक्तिस्सन् कर्मनिष्पत्तये स्वेच्छया करणाद्यधिष्ठानाकारं प्रयत्नं चारभते॑ तदन्तरवस्थितः परमात्मा स्वानुमतिदानेन तं प्रवर्तयतीति जीवस्यापि स्वबुद्ध्यैव प्रवृत्तिहेतुत्वमस्ति॑ यथा गुरुतरशिलामहीरुहादिचलनादिफलप्रवृत्तिषु बहुपुरुषसाध्यासु बहूनां हेतुत्वं विधिनिषेधभाक्त्वं चेति ॥ भगवद्गीतारामानुजभाष्य १८.१४ ॥१५॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ भगवद्गीतारामानुजभाष्य १८.१६ ॥ एवं वस्तुतः परमात्मानुमतिपूर्वके जीवात्मनः कर्तृत्वे सति, तत्र कर्मणि केवलमात्मानमेव कर्तारं यः पश्यति, स दुर्मतिः विपरीतमतिः अकृतबुद्धित्वादनिष्पन्नयथावस्थितवस्तुबुद्धित्वान्न पश्यति न यथावस्थितं कर्तारं पश्यति ॥ भगवद्गीतारामानुजभाष्य १८.१६ ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमांल्लोकान्न हन्ति न निबध्यते ॥ भगवद्गीतारामानुजभाष्य १८.१७ ॥ परमपुरुषकर्तृत्वानुसंधानेन यस्य भावः कर्तृत्वविषयो मनोवृत्तिविशेषः नाहंकृतः नाहमभिमानकृतः । अहं करोमीति ज्ञानं यस्य न विद्यत इत्यर्थः । बुद्धिर्यस्य न लिप्यते अस्मिन् कर्मणि मम कर्तृत्वाभावादेतत्फलं न मया संबध्यते, न च मदीयं कर्मेति यस्य बुद्धिर्जायत इत्यर्थः । स इमान् लोकान् युद्धे हत्वापि तान्न निहन्ति॑ न केवलं भीष्मादीनित्यर्थः । ततस्तेन युद्धाख्येन कर्मणा न निबध्यते । तत्फलं नानुभवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.१७ ॥ सर्वमिदमकर्तृत्वाद्यनुसन्धानं सत्त्वगुणवृद्ध्यैव भवतीति सत्त्वस्योपादेयताज्ञापनाय कर्मणि सत्त्वादिगुणकृतं वैषम्यं प्रपञ्चयिष्यन् कर्मचोदनाप्रकारं तावदाह ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । कारणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ॥ भगवद्गीतारामानुजभाष्य १८.१८ ॥ ज्ञानं कर्तव्यकर्मविषयं ज्ञानम्, ज्ञेयं च कर्तव्यं कर्म, परिज्ञाता तस्य बोद्धेति त्रिविधा कर्मचोदना । बोधबोद्धव्यबोद्धृयुक्तो ज्योतिष्टोमादिकर्मविधिरित्यर्थः । तत्र बोद्धव्यरूपं कर्म त्रिविधं संगृह्यते करणं कर्म कर्तेति । करणं साधनभूतं द्रव्यादिकम्॑ कर्म यागादिकम्॑ कर्ता अनुष्ठातेति ॥ भगवद्गीतारामानुजभाष्य १८.१८ ॥ ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । प्रोच्यते गुणसंख्याने यथावच्छृणु तान्यपि ॥ भगवद्गीतारामानुजभाष्य १८.१९ ॥ कर्तव्यकर्मविषयं ज्ञानम्, अनुष्ठीयमानं च कर्म, तस्यानुष्ठाता च सत्त्वादिगुणभेदतस्त्रिविधैव प्रोच्यते गुणसंख्याने गुणकार्यगणने । यथावच्छृणु तान्यपि तानि गुणतो भिन्नानि ज्ञानादीनि यथावच्छृणु ॥ भगवद्गीतारामानुजभाष्य १८.१९ ॥ सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ भगवद्गीतारामानुजभाष्य १८.२० ॥ ब्राह्मणक्षत्रियब्रह्मचारिगृहस्थादिरूपेण विभक्तेषु सर्वेषु भूतेषु कर्माधिकारिषु येन ज्ञानेनैकमात्माख्यं भावं, तत्राप्यविभक्तं ब्राह्मणत्वाद्यनेकाकारेष्वपि भूतेषु सितदीर्घादिविभागवत्सु ज्ञानाकारे आत्मनि विभागरहितम्, अव्ययं व्ययस्वभावेष्वपि ब्राह्मणादिशरीरेषु अव्ययमविकृतं फलादिसङ्गानर्हं च कर्माधिकारवेलायामीक्षते, तज्ज्ञानं सात्त्विकं विद्धि ॥ भगवद्गीतारामानुजभाष्य १८.२० ॥ पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ भगवद्गीतारामानुजभाष्य १८.२१ ॥ सर्वेषु भूतेषु ब्राह्मणादिषु ब्राह्मणाद्याकारपृथक्त्वेनात्माख्यानपि भावान्नानाभूतान् सितदीर्घादिपृथक्त्वेन च पृथग्विधान् फलादिसंयोगयोग्यान् कर्माधिकारवेलायां यज्ज्ञानं वेत्ति, तज्ज्ञानं राजसं विद्धि ॥ भगवद्गीतारामानुजभाष्य १८.२१ ॥ यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.२२ ॥ यत्तु ज्ञानम्, एकस्मिन् कार्ये एकस्मिन् कर्तव्ये कर्मणि प्रेतभूतगणाद्याराधनरूपे अत्यल्पफले कृत्स्नफलवत्सक्तम्, अहेतुकं वस्तुतस्त्वकृत्स्नफलवत्तया तथाविधसङ्गहेतुरहितमतत्त्वार्थवत्पूर्ववदेवात्मनि पृथक्त्वादियुक्ततया मिथ्याभूतार्थविषयम्, अत्यल्पफलं च प्रेतभूताद्याराधनविषयत्वादल्पं च, तज्ज्ञानं तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.२२ ॥ एवं कर्तव्यकर्मविषयज्ञानस्याधिकारवेलायामधिकार्यंशेन गुणतस्त्रैविध्यमुक्त्वा अनुष्ठेयस्य कर्मणो गुणतस्त्रैविध्यमाह नियतं सङ्गरहितमरागद्वेषतः कृतम् । अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२३ ॥ नियतं स्ववर्णाश्रमोचितम्, सङ्गरहितं कर्तृत्वादिसङ्गरहितम्, अरागद्वेषतः कृतं कीर्तिरागादकीर्तिद्वेषाच्च न कृतम्॑ अदम्भेन कृतमित्यर्थः॑ अफलप्रेप्सुना अफलाभिसन्धिना कार्यमित्येव कृतं यत्कर्म, तत्सात्त्विकमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२३ ॥ यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.२४ ॥ यत्तु पुनः कामेप्सुना फलप्रेप्सुना साहंकारेण वा वाशब्दश्चार्थे कर्तृत्वाभिमानयुक्तेन च, बहुलायासं यत्कर्म क्रियते, तद्राजसं बहुलायासमिदं कर्म मयैव क्रियत इत्येवंरूपाभिमानयुक्तेन यत्कर्म क्रियते, तद्राजसमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.२४ ॥ अनुबन्धं क्षयं हिंसामनवेक्ष्य च पौरुषम् । मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२५ ॥ कृते कर्मण्यनुबध्यमानं दुःखमनुबन्धः॑ क्षयः कर्मणि क्रियमाणे अर्थविनाशः॑ हिंसा तत्र प्राणिपीडा॑ पौरुषमात्मनः कर्मसमापनसामर्थ्यम्॑ एतानि अनवेक्ष्य अविमृश्य, मोहात्परमपुरुषकर्तृत्वाज्ञानाद्यत्कर्मारभ्यते, तत्तामसमुच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२५ ॥ मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः । सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२६ ॥ मुक्तसङ्गः फलसङ्गरहितः अनहंवादी कर्तृत्वाभिमानरहितः, धृत्युत्साहसमन्वितः आरब्धे कर्मणि यावत्कर्मसमाप्त्यवर्जनीयदुःखधारणं धृतिः॑ उत्साहः उद्युक्तचेतस्त्वम्॑ ताभ्यां समन्वितः, सिद्ध्यसिद्ध्योर्निर्विकारः युद्धादौ कर्मणि तदुपकरणभूतद्रव्यार्जनादिषु च सिद्ध्यसिद्ध्योरविकृतचित्तः कर्ता सात्त्विक उच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२६ ॥ रगी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८.२७ ॥ रागी यशोऽर्थी, कर्मफलप्रेप्सुः कर्मफलार्थी॑ लुब्धः कर्मापेक्षितद्रव्यव्ययस्वभावरहितः, हिंसात्मकः परान् पीडयित्वा तैः कर्म कुर्वाणः, अशुचिः कर्मापेक्षितशुद्धिरहितः, हर्षशोकान्वितः युद्धादौ कर्मणि जयादिसिद्ध्यसिद्ध्योर्हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८.२७ ॥ अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ भगवद्गीतारामानुजभाष्य १८.२८ ॥ अयुक्तः शास्त्रीयकर्मायोग्यः, विकर्मस्थः, प्राकृतः अनधिगतविद्यः, स्तब्धः अनारम्भशीलः, शठः अभिचारादिकर्मरुचिः, नैकृतिकः वञ्चनपरः, अलसः आरब्धेष्वपि कर्मसु मन्दप्रवृत्तिः, विषादी अतिमात्रावसादशीलः दीर्घसूत्री अभिचारादिकर्म कुर्वन् परेषु दीर्घकालवर्त्यनर्थपर्यालोचनशीलः, एवंभूतो यः कर्ता, स तामसः ॥ भगवद्गीतारामानुजभाष्य १८.२८ ॥ एवं कर्तव्यकर्मविषयज्ञाने कर्तव्ये च कर्मणि अनुष्ठातरि च गुणतस्त्रैविध्यमुक्तम्॑ इदानीं सर्वतत्त्वसर्वपुरुषार्थनिश्चयरूपाया बुद्धेर्धृतेश्च गुणतस्त्रैविध्यमाह बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय ॥ भगवद्गीतारामानुजभाष्य १८.२९ ॥ बुद्धिः विवेकपूर्वकं निश्चयरूपं ज्ञानम्॑ धृतिः आरब्धायाः क्रियाया विघ्नोपनिपातेऽपि धारणम्, तयोस्सत्त्वादिगुणतस्त्रिविधं भेदं पृथक्त्वेन प्रोच्यमानं यथावच्छृणु ॥ भगवद्गीतारामानुजभाष्य १८.२९ ॥ प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥ भगवद्गीतारामानुजभाष्य १८.३० ॥ प्रवृत्तिः अभ्युदयसाधनभूतो धर्मः, निवृत्तिः मोक्षसाधनभूतः, तवुभौ यथावस्थितौ या बुद्धिर्वेत्ति॑ कार्याकार्ये सर्ववर्णानां प्रवृत्तिनिवृत्तिधर्मयोरन्यतरनिष्ठानां देशकालावस्थाविशेषेषु "इदं कार्यम्, इदमकार्यम्" इति या वेत्ति॑ भयाभये शास्त्रातिवृत्तिर्भयस्थानं तदनुवृत्तिरभयस्थानम्, बन्धं मोक्षं च संसारयाथात्म्यं तद्विगमयाथात्म्यं च या वेत्ति॑ सा सात्त्विकी बुद्धिः ॥ भगवद्गीतारामानुजभाष्य १८.३० ॥ यथा धर्ममधर्मं च कार्यं चाकार्यमेव च । अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ भगवद्गीतारामानुजभाष्य १८.३१ ॥ यथा पूर्वोक्तं द्विविधं धर्मं तद्विपरीतं च तन्निष्ठानां देशकालावस्थादिषु कार्यं चाकार्यं च यथावन्न जानाति, सा राजसी बुद्धिः ॥ भगवद्गीतारामानुजभाष्य १८.३१ ॥ अधर्मं धर्ममिति या मन्यते तमसावृता । सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ भगवद्गीतारामानुजभाष्य १८.३२ ॥ तामसी तु बुद्धिः तमसावृता सती सर्वार्थान् विपरीतान्मन्यते । अधर्मं धर्मं, धर्मं चाधर्मं, सन्तं चार्थमसन्तम्, असन्तं चार्थं सन्तं, परं च तत्त्वमपरम्, अपरं च तत्त्वं परम् । एवं सर्वं विपरीतं मन्यत इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.३२ ॥ धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ भगवद्गीतारामानुजभाष्य १८.३३ ॥ यया धृत्या योगेनाव्यभिचारिण्या मनःप्राणेन्द्रियाणां क्रियाः पुरुषो धारयते॑ योगः मोक्षसाधनभूतं भगवदुपासनम्॑ योगेन प्रयोजनभूतेनाव्यभिचारिण्या योगोद्देशेन प्रवृत्तास्तत्साधनभूता मनःप्रभृतीनां क्रियाः यया धृत्या धारयते, सा सात्त्विकीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.३३ ॥ यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन । प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ भगवद्गीतारामानुजभाष्य १८.३४ ॥ फलाकाङ्क्षी पुरुषः प्रकृष्टसङ्गेन धर्मकामार्थान् यया धृत्या धारयते, सा राजसी । धर्मकामार्थशब्देन तत्साधनभूता मनःप्राणेन्द्रियक्रिया लक्ष्यन्ते । फलाकाङ्क्षीत्यत्रापि फलशब्देन राजसत्वाद्धर्मकामार्था एव विवक्षिताः । अतो धर्मकामार्थापेक्षया मनःप्रभृतीनां क्रिया यया धृत्या धारयते, सा राजसीत्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १८.३४ ॥ यया स्वप्नं भयं शोकं विषादं मदमेव च । न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ भगवद्गीतारामानुजभाष्य १८.३५ ॥ यया धृत्या ।स्वप्नं निद्राम् । मदं विषयानुभवजनितं मदम् । स्वप्नमदवुद्दिश्य प्रवृत्ता मनःप्राणादीनां क्रियाः दुर्मेधा न विमुञ्चति धारयति । भयशोकविषादशब्दाश्च भयशोकादिदायिविषयपराः॑ तत्साधनभूताश्च मनःप्राणादिक्रिया यया धारयते, सा धृतिस्तामसी ॥ भगवद्गीतारामानुजभाष्य १८.३५ ॥ सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । पूर्वोक्ताः सर्वे ज्ञानकर्मकर्त्रादयो यच्छेषभूताः, तच्च सुखं गुणतस्त्रिविधमिदानीं शृणु ॥ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ भगवद्गीतारामानुजभाष्य १८.३६ ॥ यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ भगवद्गीतारामानुजभाष्य १८.३७ ॥ यस्मिन् सुखे चिरकालाभ्यासात्क्रमेण निरतिशयां रतिं प्राप्नोति, दुःखान्तं च निगच्छति निखिलस्य सांसारिकस्य दुःखस्यान्तं निगच्छति ॥ तदेव विशिनष्टि यत्तत्सुखम्, अग्रे योगोपक्रमवेलायां बह्वायाससाध्यत्वाद्विविक्तस्वरूपस्याननुभूतत्वाच्च विषमिव दुःखमिव भवति, परिणामेऽमृतोपमम् । परिणामे विपाके अभ्यासबलेन विविक्तात्मस्वरूपाविर्भावे अमृतोपमं भवति, तच्च आत्मबुद्धिप्रसादजमात्मविषया बुद्धिः आत्मबुद्धिः, तस्याः निवृत्तसकलेतरविषयत्वं प्रसादः, निवृत्तसकलेतरविषयबुद्ध्या विविक्तस्वभावात्मानुभवजनितं सुखममृतोपमं भवति॑ तत्सुखं सात्त्विकं प्रोक्तम् ॥ भगवद्गीतारामानुजभाष्य १८.३७ ॥ विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ भगवद्गीतारामानुजभाष्य १८.३८ ॥ अग्रे अनुभववेलायां विषयेन्द्रियसंयोगाद्यत्तदमृतमिव भवति, परिणामे विपाके विषयाणां सुखतानिमित्तक्षुदादौ निवृत्ते तस्य च सुखस्य निरयादिनिमित्तत्वाद्विषमिव पीतं भवति, तत्सुखं राजसं स्मृतम् ॥ भगवद्गीतारामानुजभाष्य १८.३८ ॥ यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ भगवद्गीतारामानुजभाष्य १८.३९ ॥ यत्सुखमग्रे चानुबन्धे च अनुभववेलायां विपाके च आत्मनो मोहनं मोहहेतुर्भवति॑ मोहोऽत्र यथावस्थितवस्त्वप्रकाशोऽभिप्रेतः॑ निद्रालस्यप्रमादोत्थं निद्रालस्यप्रमादजनितम्, निद्रादयो ह्यनुभववेलायामपि मोहहेतवः । निद्राया मोहहेतुत्वं स्पृष्टम् । आलस्यमिन्द्रियव्यापारमान्द्यम् । इन्द्रियव्यापारमान्द्ये च ज्ञानमान्द्यं भवत्येव । प्रमादः कृत्यानवधानरूप इति तत्रापि ज्ञानमान्द्यं भवति । ततश्च तयोरपि मोहहेतुत्वम् । तत्सुखं तामसमुदाहृतम् । अतो मुमुक्षुणा रजस्तमसी अभिभूय सत्त्वमेवोपादेयमित्युक्तं भवति ॥ भगवद्गीतारामानुजभाष्य १८.३९ ॥ न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ भगवद्गीतारामानुजभाष्य १८.४० ॥ पृथिव्यां मनुष्यादिषु दिवि देवेषु वा प्रकृतिसंसृष्टेषु ब्रह्मादिषु स्थावरान्तेषु प्रकृतिजैरेभिस्त्रिभिर्गुणैर्मुक्तं यत्सत्त्वं प्राणिजातम्, न तदस्ति ॥ भगवद्गीतारामानुजभाष्य १८.४० ॥ "त्यागेनैके अमृतत्वमानशुः" इत्यादिषु मोक्षसाधनतया निर्दिष्टस्त्यागः संन्यासशब्दार्थादनन्यः॑ स च क्रियमाणेष्वेव कर्मसु कर्तृत्वत्यागमूलः फलकर्मणोस्त्यागः॑ कर्तृत्वत्यागश्च परमपुरुषे कर्तृत्वानुसंधानेनेत्युक्तम् । एतत्सर्वं सत्त्वगुणवृद्धिकार्यमिति सत्त्वोपादेयताज्ञापनाय सत्त्वरजस्तमसां कार्यभेदाः प्रपञ्चिताः । इदानीमेवंभूतस्य मोक्षसाधनतया क्रियमाणस्य कर्मणः परमपुरुषाराधनवेषतां तथानुष्ठितस्य च कर्मणस्तत्प्राप्तिलक्षणं फलं प्रतिपादयितुं ब्राह्मणाद्यधिकारिणां स्वभावानुबन्धिसत्त्वादिगुणभेदभिन्नं वृत्त्या सह कर्तव्यकर्मस्वरूपमाह ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप । कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ भगवद्गीतारामानुजभाष्य १८.४१ ॥ ब्राह्मणक्षत्रियविशां स्वकीयो भावः स्वभावः ब्राह्मणादिजन्महेतुभूतं प्राचीनकर्मेत्यर्थः॑ तत्प्रभवाः सत्त्वादयो गुणाः । ब्राह्मणस्य स्वभावप्रभवो रजस्तमोऽभिभवेनोद्भूतः सत्त्वगुणः॑ क्षत्रियस्य स्वभावप्रभवः तमस्सत्त्वाभिभवेनोद्भूतो रजोगुणः॑ वैश्यस्य स्वभावप्रभवः सत्त्वरजोऽभिभवेनाल्पोद्रिक्तस्तमोगुणः॑ शूद्रस्य स्वभावप्रभवस्तु रजस्सत्त्वाभिभवेनात्युद्रिक्तस्तमोगुणः । एभिः स्वभावप्रभवैर्गुणैः सह प्रविभक्तानि कर्माणि शास्त्रैः प्रतिपादितानि । ब्राह्मणादय एवंगुणकाः, तेषां चैतानि कर्माणि, वृत्तयश्चैता इति हि विभज्य प्रतिपादयन्ति शास्त्राणि ॥ भगवद्गीतारामानुजभाष्य १८.४१ ॥ शमो दमस्तपश्शौचं क्षान्तिरार्जवमेव च । ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम् ॥ भगवद्गीतारामानुजभाष्य १८.४२ ॥ शमः बाह्येन्द्रियनियमनम्॑ दमः अन्तःकरणनियमनम्॑ तपः भोगनियमनरूपः शास्त्रसिद्धः कायक्लेशः॑ शौचं शास्त्रीयकर्मयोग्यता॑ क्षान्तिः परैः पीड्यमानस्याप्यविकृतचित्तता॑ आर्जवं परेषु मनोऽनुरूपं बाह्यचेष्टाप्रकाशनम्॑ ज्ञानं परावरतत्त्वयाथात्म्यज्ञानम्॑ विज्ञानं परतत्त्वगतासाधारणविशेषविषयं ज्ञानम्॑ आस्तिक्यं वैदिकस्य कृत्स्नस्य सत्यतानिश्चयः प्रकृष्टः॑ केनापि हेतुना चालयितुमशक्य इत्यर्थः । भगवान् पुरुषोत्तमो वासुदेवः परब्रह्मशब्दाभिदेयो निरस्तनिखिलदोषगन्धः स्वाभाविकानवधिकातिशयज्ञानशक्त्याद्यसङ्ख्येयकल्याणगुणगणो निखिलवेदवेदान्तवेद्यः॑ स एव निखिलजगदेककारणं निखिलजगदाधारभूतः॑ निखिलस्य स एव प्रवर्तयिता॑ तदाराधनभूतं च वैदिकं कृत्स्नं कर्म॑ तैस्तैराराधितो धर्मार्थकाममोक्षाख्यं फलं प्रयच्छतीत्यस्यार्थस्य सत्यतानिश्चय आस्तिक्यम्॑ "वेदैश्च सर्वैरहमेव वेद्यः", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते ", "मयि सर्वमिदं प्रोतम्", "भोक्तारं यज्ञतपसां ..... ज्ञात्वा मां शान्तिमृच्छति", "मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय", "यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः", "यो मामजमनादिं च वेत्ति लोकमहेश्वरम्" इति ह्युच्यते । तदेतद्ब्राह्मणस्य स्वभावजं कर्म ॥ भगवद्गीतारामानुजभाष्य १८.४२ ॥ शैर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ भगवद्गीतारामानुजभाष्य १८.४३ ॥ शैर्यं युद्धे निर्भयप्रवेशसामर्थ्यम्, तेजः परैरनभिभवनीयता, धृतिः आरब्धे कर्मणि विघ्नोपनिपातेऽपि तत्समापनसामर्थ्यम्, दाक्ष्यं सर्वक्रियानिर्वृत्तिसामर्थ्यम्, युद्धे चाप्यपलायनं युद्धे चात्ममरणनिश्चयेऽप्यनिर्वर्तनम्॑ दानमात्मीयस्य धनस्य परस्वत्वापादनपर्यन्तस्त्यागः ईश्वरभावः स्वव्यतिरिक्तसकलजननियमनसामर्थ्यम्॑ एतत्क्षत्रियस्य स्वभावजं कर्म ॥ भगवद्गीतारामानुजभाष्य १८.४३ ॥ कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् । कृषिः सत्योत्पादनं कर्षणम् । गोरक्ष्यं पशुपालनमित्यर्थः । वाणिज्यं धनसञ्चयहेतुभूतं क्रयविक्रयात्मकं कर्म । एतद्वैश्यस्य स्वभावजं कर्म ॥ परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ भगवद्गीतारामानुजभाष्य १८.४४ ॥ पूर्ववर्णत्रयपरिचर्यारूपं शूद्रस्य स्वभावजं कर्म । तदेतच्चतुर्णा वर्णानां वृत्तिभिस्सह कर्तव्यानां शास्त्रविहितानां यज्ञादिकर्मणां प्रदर्शनार्थमुक्तम् । यज्ञादयो हि त्रयाणां वर्णानां साधारणाः । शमादयोऽपि त्रयाणां वर्णानां मुमुक्षूणां साधारणाः । ब्राह्मणस्य तु सत्त्वोद्रेकस्य स्वाभाविकत्वेन शमदमादयः सुखोपादाना इति कृत्वा तस्य शमादय स्वभावजं कर्मेत्युक्तम् । क्षत्रियवैश्ययोस्तु स्वतो रजस्तमःप्रधानत्वेन शमदमादयो दुःखोपादाना इति कृत्वा न तत्कर्मेत्युक्तम् । ब्राह्मणस्य वृत्तिर्याजनाध्यापनप्रतिग्रहाः॑ क्षत्रियस्य जनपदपरिपालनम्॑ वैश्यस्य च कृष्यादयो यथोक्ताः॑ शूद्रस्य तु कर्तव्यं वृत्तिश्च पूर्ववर्णत्रयपरिचर्यैव ॥ स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः । स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ॥ भगवद्गीतारामानुजभाष्य १८.४५ ॥ स्वे स्वे यथोदिते कर्मण्यभिरतो नरः संसिद्धिं परमपदप्राप्तिं लभते । स्वकर्मनिरतो यथा सिद्धिं विन्दति परमपदं प्राप्नोति, तथा शृणु ॥ भगवद्गीतारामानुजभाष्य १८.४५ ॥ यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ भगवद्गीतारामानुजभाष्य १८.४६ ॥ यतो भूतानामुत्पत्त्यादिका प्रवृत्तिः, येन च सर्वमिदं ततम्, स्वकर्मणा तं मामिन्द्राद्यन्तरात्मतयावस्थितमभ्यर्च्य मत्प्रसादान्मत्प्राप्तिरूपां सिद्धिं विन्दति मानवः । मत्त एव सर्वमुत्पद्यते, मया च सर्वमिदं ततमिति पूर्वमेवोक्तम्, "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत्किंचिदस्ति धनञ्जय ।", "मया ततमिदं सर्वं जगदव्यक्तमूर्तिना", "मयाध्यक्षेण प्रकृतिः सूयते सचराचरम्", "अहं सर्वस्य प्रभवो मत्तस्सर्वं प्रवर्तते" इत्यादिषु ॥ भगवद्गीतारामानुजभाष्य १८.४६ ॥ श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । एवं त्यक्तकर्तृत्वादिको मदाराधनरूपः स्वधर्मः । स्वेनैवोपादातुं योग्यो धर्मः॑ प्रकृतिसंसृष्टेन हि पुरुषेणेन्द्रियव्यापाररूपः कर्मयोगात्मको धर्मः सुकरो भवति । अतः कर्मयोगाख्यः स्वधर्मो विगुणोऽपि परधर्मात् इन्द्रियजयनिपुणपुरुषधर्माज्ज्ञानयोगात्सकलेन्द्रियनियमनरूपतया सप्रमादात्कदाचित्स्वनुष्ठिताच्श्रेयान् । तदेवोपपादयति स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ भगवद्गीतारामानुजभाष्य १८.४७ ॥ प्रकृतिसंसृष्टस्य पुरुषस्य इन्द्रियव्यापाररूपतया स्वभावत एव नियतत्वात्कर्मणः, कर्म कुर्वन् किल्बिषं संसारं न प्राप्नोति॑ अप्रमादत्वात्कर्मणः । ज्ञानयोगस्य सकलेन्द्रियनियमनसाध्यतया सप्रमादत्वात्तन्निष्ठस्तु प्रमादात्किल्बिषं प्रतिपद्येतापि ॥ भगवद्गीतारामानुजभाष्य १८.४७ ॥ अतः कर्मनिष्ठैव ज्यायसीति तृतीयाध्यायोक्तं स्मारयति सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ भगवद्गीतारामानुजभाष्य १८.४८ ॥ अतः सहजत्वेन सुकरमप्रमादं च कर्म सदोषं सदुःखमपि न त्यजेत्॑ ज्ञानयोगयोग्योऽपि कर्मयोगमेव कुर्वीतेत्यर्थः । सर्वारम्भाः, कर्मारम्भाः ज्ञानारम्भाश्च हि दोषेण दुःखेन धूमेनाग्निरिवावृताः । इयांस्तु विशेषः कर्मयोगः सुकरोऽप्रमादश्च, ज्ञानयोगस्तद्विपरीतः इति ॥ भगवद्गीतारामानुजभाष्य १८.४८ ॥ असक्तबुद्धिस्सर्वत्र जितात्मा विगतस्पृहः । नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ॥ भगवद्गीतारामानुजभाष्य १८.४९ ॥ सर्वत्र फलादिषु असक्तबुद्धिः, जितात्मा जितमनाः, परमपुरुषकर्तृत्वानुसंधानेनात्मकर्तृत्वे विगतस्पृहः, एवं त्यागादनन्यत्वेन निर्णीतेन संन्यासेन युक्तः कर्म कुर्वन् परमां नैष्कर्म्यसिद्धिमधिगच्छति परमां ध्याननिष्ठां ज्ञानयोगस्यापि फलभूतमधिगच्छतीत्यर्थः । वक्ष्यमाणध्यानयोगावाप्तिं सर्वेन्द्रियकर्मोपरतिरूपामधिगच्छति ॥ भगवद्गीतारामानुजभाष्य १८.४९ ॥ सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ भगवद्गीतारामानुजभाष्य १८.५० ॥ सिद्धिं प्राप्तः आप्रयाणादहरहरनुष्ठीयमानकर्मयोगनिष्पाद्यध्यानसिद्द्धिं प्राप्तः, यथा येन प्रकारेण वर्तमानो ब्रह्म प्राप्नोति, तथा समासेन मे निबोध । तदेव ब्रह्म विशेष्यते निष्ठा ज्ञानस्य या परेति । ज्ञानस्य ध्यानात्मकस्य या परा निष्ठा परमप्राप्यमित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५० ॥ बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च । शब्दादीन् विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ भगवद्गीतारामानुजभाष्य १८.५१ ॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ भगवद्गीतारामानुजभाष्य १८.५२ ॥ अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । विमुच्य निर्ममश्शान्तो ब्रह्मभूयाय कल्पते ॥ भगवद्गीतारामानुजभाष्य १८.५३ ॥ बुद्ध्या विशुद्धया यथावस्थितात्मतत्त्वविषयया युक्तः, धृत्या आत्मानं नियम्य च विषयविमुखीकरणेन योगयोग्यं मनः कृत्वा, शब्दादीन् विषयान् त्यक्त्वा असन्निहितान् कृत्वा, तन्निमित्तौ च रागद्वेषौ व्युदस्य, विविक्तसेवी सर्वैर्ध्यानविरोधिभिर्विविक्ते देशे वर्तमानः, लघ्वाशी अत्यशनानशनरहितः, यतवाक्कायमानसः ध्यानाभिमुखीकृतकायवाङ्मनोवृत्तिः, ध्यानयोगपरो नित्यम् एवंभूतस्सना प्रायाणादहरहर्ध्यानयोगपरः, वैराग्यं समुपाश्रितः ध्येयतत्त्वव्यतिरिक्तविषयदोषावमर्शेन तत्र तत्र विरागतां वर्धयन्, अहंकारम् अनात्मनि आत्माभिमानं, बलं तद्वृद्धिहेतुभूतवासनबलं, तन्निमित्तं दर्पं कामं क्रोधं परिग्रहं विमुच्य, निर्ममः सर्वेष्वनात्मीयेष्वात्मीयबुद्धिरहितः, शान्तः आत्मानुभवैकसुखः, एवंभूतो ध्यानयोगं कुर्वन् ब्रह्मभूयाय कल्पते सर्वबन्धविनिर्मुक्तो यथावस्थितमात्मानमनुभवतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५१ ५३ ॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । समस्सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ भगवद्गीतारामानुजभाष्य १८.५४ ॥ ब्रह्मभूतः आविर्भूतापरिच्छिन्नज्ञानैकाकारमच्छेषतैकस्वभावात्मस्वरूपः, "इतस्त्वन्यां प्रकृतिं विद्धि मे पराम्" इति हि स्वशेषतोक्ता । प्रसन्नात्मा क्लेशकर्मादिभिरकलुषस्वरूपो मद्व्यतिरिक्तं न कंचन भूतविशेषं प्रति शोचति॑ न किंचन काङ्क्षति॑ अपि तु मद्व्यतिरिक्तेषु सर्वेषु भूतेषु अनादरणीयतायां समो निखिलं वस्तुजातं तृणवन्मन्यमानो मद्भक्तिं लभते परां मयि सर्वेश्वरे निखिलजगदुद्भवस्थितिप्रलयलीले निरस्तसमस्तहेयगन्धेऽनवधिकातिशयासंख्येयकल्याणगुणगणैकताने लावण्यामृतसागरे श्रीमति पुण्डरीकनयने स्वस्वामिनि अत्यर्थप्रियानुभवरूपां परां भक्तिं लभते ॥ भगवद्गीतारामानुजभाष्य १८.५४ ॥ तत्फलमाह भक्त्या मामभिजानाति यावान् यश्चास्मि तत्त्वतः । ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ भगवद्गीतारामानुजभाष्य १८.५५ ॥ स्वरूपतः स्वभावतश्च योऽहम्॑ गुणतो विभूतितोऽपि यावांश्चाहम्, तं मामेवंरूपया भक्त्या तत्त्वतोऽभिजानाति॑ मां तत्त्वतो ज्ञात्वा तदनन्तरम् तत्त्वज्ञानानन्तरं ततः भक्तितः मां विशते प्रविशति । तत्त्वतस्स्वरूपस्वभावगुणविभूतिदर्शनोत्तरकालभाविन्या अनवधिकातिशयभक्त्या मां प्राप्नोतीत्यर्थः । अत्र तत इति प्राप्तिहेतुतया, निर्दिष्टा भक्तिरेवाभिधीयते॑ "भक्त्या त्वनन्यया शक्यः" इति तस्य एव तत्त्वतः प्रवेशहेतुत्वाभिधानात् ॥ भगवद्गीतारामानुजभाष्य १८.५५ ॥ एवं वर्णाश्रमोचितनित्यनैमित्तिककर्मणां परित्यक्तफलादिकानां परमपुरुषाराधनरूपेणानुष्ठितानां विपाक उक्तः । इदानीं काम्यानामपि कर्मणामुक्तेनैव प्रकारेणानुष्ठितानां स एव विपाक इत्याह सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ भगवद्गीतारामानुजभाष्य १८.५६ ॥ न केवलं नित्यनैमित्तिकानि कर्माणि, अपि तु सर्वाणि काम्यान्यपि कर्माणि, मद्व्याश्रयः मयि संन्यस्तकर्तृत्वादिकः कुर्वाणो मत्प्रसादाच्छाश्वतं पदमव्ययमविकलं प्राप्नोति । पद्यते गम्यत इति पदम्॑ मां प्राप्नोतीत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.५६ ॥ यस्मादेवम्, तस्मात् चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तस्सततं भव ॥ भगवद्गीतारामानुजभाष्य १८.५७ ॥ चेतसा आत्मनो मदीयत्वमन्नियाम्यत्वबुद्ध्या । उक्तं हि, "मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा" इति । सर्वकर्माणि सकर्तृकाणि साराध्यानि मयि संन्यस्य, मत्परः अहमेव फलतया प्राप्य इत्यनुसंधानः, कर्माणि कुर्वनिममेव बुद्धियोगमुपाश्रित्य सततं मच्चित्तो भव ॥ भगवद्गीतारामानुजभाष्य १८.५७ ॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ भगवद्गीतारामानुजभाष्य १८.५८ ॥ एवं मच्चित्तः सर्वकर्माणि कुर्वन् सर्वाणि सांसारिकाणि दुर्गाणि मत्प्रसादादेव तरिष्यसि । अथ त्वमहंकारादहमेव कृत्याकृत्यविषयं सर्वं जानामीति भावान्मदुक्तं न श्रोष्यसि चेत्, विनङ्क्ष्यसि विनष्टो भविष्यसि । न हि कश्चिन्मद्व्यतिरिक्तः कृत्स्नस्य प्राणिजातस्य कृत्याकृत्ययोर्ज्ञाता प्रशासिता वास्ति ॥ भगवद्गीतारामानुजभाष्य १८.५८ ॥ यद्यहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ भगवद्गीतारामानुजभाष्य १८.५९ ॥ यदि अहंकारमात्मनि हिताहितज्ञाने स्वातन्त्र्याभिमानमाश्रित्य मन्नियोगमनादृत्य न योत्स्य इति मन्यसे, एष ते स्वातन्त्र्यव्यवसायो मिथ्या भविष्यति॑ यतः प्रकृतिस्त्वां युद्धे नियोक्ष्यति मत्स्वातन्त्र्योद्विग्नं त्वामज्ञं प्रकृतिर्नियोक्षति ॥ भगवद्गीतारामानुजभाष्य १८.५९ ॥ तदुपपादयति स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् ॥ भगवद्गीतारामानुजभाष्य १८.६० ॥ स्वभावजं हि क्षत्रियस्य कर्म शौर्यम् । स्वभावजेन शौर्याख्येन स्वेन कर्मणा निबद्धः, तदेवावशः, परैर्धर्षणमसहमानस्त्वमेव तद्युद्धं करिष्यसि, यदिदानीं मोहादज्ञानात्कर्तुं नेच्छसि ॥ भगवद्गीतारामानुजभाष्य १८.६० ॥ सर्वं हि भूतजातं सर्वेश्वरेण मया पूर्वकर्मानुगुण्येन प्रकृत्यनुवर्तने नियमितम्॑ तच्छृणु । ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ भगवद्गीतारामानुजभाष्य १८.६१ ॥ ईश्वरः सर्वनियमनशीलो वासुदेवः सर्वभूतानां हृद्देशे सकलप्रवृत्तिमूलज्ञानोदयप्रदेशे तिष्ठति । कथं किं कुर्वंस्तिष्ठति ? यन्त्रारूढानि सर्वभूतानि मायया भ्रामयन् । स्वेनैव निर्मितं देहेन्द्रियावस्थं प्रकृत्याख्यं यन्त्रमारूढानि सर्वभूतानि स्वकीयया सत्त्वादिगुणमय्या मायया गुणानुगुणं प्रवर्तयंस्तिष्ठतीत्यर्थः । पूर्वमप्येतदुक्तम्, "सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति॑ "मत्तस्सर्वं प्रवर्तते" इति च । "य आत्मनि तिष्ठन्" इत्यादिका श्रुतिश्च ॥ भगवद्गीतारामानुजभाष्य १८.६१ ॥ एतन्मायानिवृत्तिहेतुमाह तमेव शरणं गच्छ सर्वभावेन भारत । तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ भगवद्गीतारामानुजभाष्य १८.६२ ॥ यस्मादेवम्, तस्मात्तमेव सर्वस्य प्रशासितारम्, आश्रितवात्सल्येन त्वत्सारथ्येऽवस्थितम्, "इत्थं कुरु " इति च शासितारं सर्वभावेन सर्वात्मना शरणं गच्छ । सर्वात्मनानुवर्तस्व । अन्यथापि तन्मायाप्रेरितेनाज्ञेन त्वया युद्धादिकरणमवर्जनीयम् । तथा सति नष्टो भविष्यसि । अतस्तदुक्तप्रकारेण युद्धादिकं कुर्वित्यर्थः । एवं कुर्वाणस्तत्प्रसादात्परां शान्तिं सर्वकर्मबन्धोपशमं शाश्वतं च स्थानं प्राप्स्यसि । यदभिधीयते श्रुतिशतैः, "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः, "ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः", "यत्र ऋषयः प्रथमजा ये पुराणाः", "परेण नाकं निहितं गुहायाम्", "योऽस्याध्यक्षः परमे व्योमन्", "अथ यदतः परो दिवो ज्योतिर्दीप्यते", "सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यादिभिः ॥ इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ भगवद्गीतारामानुजभाष्य १८.६३ ॥ इति एवं ते मुमुक्षुभिरधिगन्तव्यं ज्ञानं सर्वस्माद्गुह्याद्गुह्यतरं कर्मयोगविषयं ज्ञानयोगविषयं भक्तियोगविषयं च सर्वमाख्यातम् । एतदशेषेण विमृश्य स्वाधिकारानुरूपं यथेच्छसि, तथा कुरु कर्मयोगं ज्ञानयोगं भक्तियोगं वा यथेष्टमातिष्ठेत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.६३ ॥ सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ भगवद्गीतारामानुजभाष्य १८.६४ ॥ सर्वेष्वेतेषु गुह्येषु भक्तियोगस्य श्रैष्ठ्याद्गुह्यतममिति पूर्वमेवोक्तम् "इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे" इत्यादौ । भूयोऽपि तद्विषयं परमं मे वचः शृणु । इष्टोऽसि मे दृढमिति ततस्ते हितं वक्ष्यामि ॥ भगवद्गीतारामानुजभाष्य १८.६४ ॥ मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ भगवद्गीतारामानुजभाष्य १८.६५ ॥ वेदान्तेषु, "वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेवं विद्वानमृत इह भवति नान्यः पन्था विद्यतेऽयनाय" इत्यादिषु विहितं वेदनं ध्यानोपासनादिशब्दवाच्यं दर्शनसमानाकारं स्मृतिसंतानमत्यर्थप्रियमिह मन्मना भवेति विधीयते । मद्भक्तः अत्यर्थमत्प्रियः । अत्यर्थमत्प्रियत्वेन निरतिशयप्रियां स्मृतिसंततिं कुरुष्वेत्यर्थः । मद्याजी । तत्रापि मद्भक्त इत्यनुषज्यते । यजनं पूजनम् । अत्यर्थप्रियमदाराधनपरो भव । आराधनं हि परिपूर्णशेषवृत्तिः । मां नमस्कुरु । नमः नमनम् । मय्यतिमात्रप्रह्वीभावमत्यर्थप्रियं कुर्वित्यर्थः । एवं वर्तमानो मामेवैष्यसि । एतत्सत्यं ते प्रतिजाने तव प्रतिज्ञां करोमि॑ नोपच्छन्दनमात्रम्॑ यतस्त्वं प्रियोऽसि मे । "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः" इति पूर्वमेवोक्तम् । यस्य मय्यतिमात्रता प्रीतिर्वर्तते, ममापि तस्मिनतिमात्रा प्रीतिर्भवतीति तद्वियोगमसहमानोऽहं तं मां प्रापयामि । अतः सत्यमेव प्रतिज्ञातम्, मामेवैष्यसीति ॥ भगवद्गीतारामानुजभाष्य १८.६५ ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ भगवद्गीतारामानुजभाष्य १८.६६ ॥ कर्मयोगज्ञानयोगभक्तियोगरूपान् सर्वान् धर्मान् परमनिश्श्रेयससाधनभूतान्, मदाराधनत्वेन अतिमात्रप्रीत्या यथाधिकारं कुर्वाण एव, उक्तरीत्या फलकर्मकर्तृत्वादिपरित्यागेन परित्यज्य, मामेकमेव कर्तारमाराध्यं प्राप्यमुपायं चानुसंधत्स्व । एष एव सर्वधर्माणां शस्त्रीयः परित्याग इति, "निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः ॥ भगवद्गीतारामानुजभाष्य १८." इत्यारभ्य, "सङ्गं त्यक्त्वा फलं चैव स त्यागस्सात्तिविको मतः ॥ ... न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ भगवद्गीतारामानुजभाष्य १८." इति अध्यायादौ सुदृढमुपपादितम् । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि एवं वर्तमानं त्वां मत्प्राप्तिविरोधिभ्योऽनादिकालसंचितानन्ताकृत्यकरणकृत्याकरणरूपेभ्यः सर्वेभ्यः पापेभ्यो मोक्षयिष्यामि । मा शुचः शोकं मा कृथाः । अथ वा, सर्वपापविनिर्मुक्तात्यर्थभगवत्प्रियपुरुषनिर्वर्त्यत्वाद्भक्तियोगस्य, तदारम्भविरोधिपापानामानन्त्यात्तत्प्रायश्चित्तरूपैर्धर्मैः परिमितकालकृतैस्तेषां दुस्तरतया आत्मनो भक्तियोगारम्भानर्हतामालोच्य शोचतोऽर्जुनस्य शोकमपनुदन् श्रीभगवानुवाच सर्वधर्मान् परित्यज्य मामेकं शरणं व्रजेति । भक्तियोगारम्भविरोध्यनादिकालसंचितनानाविधानन्तपापानुगुणान् तत्तत्प्रायश्चित्तरूपान् कृच्छ्रचान्द्रायणकूश्माण्डवैश्वानरव्रातपतिपवित्रेष्टित्रिवृदग्निष्टोमादिकान्नानाविधाननन्तांस्त्वया परिमितकालवर्तिना दूरनुष्ठानान् सर्वान् धर्मान् परित्यज्य भक्तियोगारम्भसिद्धये मामेकं परमकारुणिकमनालोचितविशेषाशेषलोकशरण्यम् आश्रितवात्सल्यजलधिं शरणं प्रपद्यस्व । अहं त्वा सर्वपापेभ्यः यथोदितस्वरूपभक्त्यारम्भविरोधिभ्यः सर्वेभ्यः पापेभ्यः मोक्षयिष्यामि॑ मा शुचः ॥ भगवद्गीतारामानुजभाष्य १८.६६ ॥ इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ भगवद्गीतारामानुजभाष्य १८.६७ ॥ इदं ते परमं गुह्यं शास्त्रं मयाख्यातमतपस्काय अतप्ततपसे त्वया न वाच्यम्॑ त्वयि वक्तरि, मयि चाभक्ताय कदाचन न वाच्यम् । तप्ततपसे चाभक्ताय न वाच्यमित्यर्थः । न चाशुश्रूषवे । भक्तायाप्यशुश्रूषवे न वाच्यम् । न च मां योऽभ्यसूयति । मत्स्वरूपे मदैश्वर्ये मद्गुणेषु च कथितेषु यो दोषमाविष्करोति, न तस्मै वाच्यम् । असमानविभक्तिनिर्देशः तस्यात्यन्तपरिहरणीयताज्ञापनाय ॥ भगवद्गीतारामानुजभाष्य १८.६७ ॥ य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ भगवद्गीतारामानुजभाष्य १८.६८ ॥ इदं परमं गुह्यं मद्भक्तेषु यः अभिधास्यति व्याख्यास्यति, सः मयि परमां भक्तिं कृत्वा मामेवैष्यति॑ न तत्र संशयः ॥ भगवद्गीतारामानुजभाष्य १८.६८ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ भगवद्गीतारामानुजभाष्य १८.६९ ॥ सर्वेषु मनुष्येष्वितः पूर्वं तस्मादन्यो मनुष्यो मे न कश्चित्प्रियकृत्तमोऽभूत्॑ इत उत्तरं च न भविता । अयोग्यानां प्रथममुपादानं योग्यानामकथनादपि तत्कथनस्यानिष्टतमत्वात् ॥ अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ भगवद्गीतारामानुजभाष्य १८.७० ॥ य इममावयोर्धर्म्यं संवादमध्येष्यते, तेन ज्ञानयज्ञेनाहमिष्टस्स्यामिति मे मतिः अस्मिन् यो ज्ञानयज्ञोऽभिधीयते, तेनाहमेतदध्ययनमात्रेणेष्टः स्यामित्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.७० । श्रद्धावाननसूयुश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभांल्लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥ भगवद्गीतारामानुजभाष्य १८.७१ ॥ श्रद्धावाननसूयुश्च यो नरः शृणुयादपि, तेन श्रवणमात्रेण सोऽपि भक्तिविरोधिपापेभ्यो मुक्तः पुण्यकर्मणां मद्भक्तानां लोकान् समूहन् प्राप्नुयात् ॥ भगवद्गीतारामानुजभाष्य १८.७१ । कश्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय ॥ भगवद्गीतारामानुजभाष्य १८.७२ ॥ मया कथितमेतत्पार्थ त्वया अवहितेन चेतसा कच्चिच्श्रुतम्, तवाज्ञानसंमोहः कच्चित्प्रनष्टः, येनाज्ञानेन मूढो न योत्स्यामीत्युक्तवान् ॥ भगवद्गीतारामानुजभाष्य १८.७२ ॥ अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥ भगवद्गीतारामानुजभाष्य १८.७३ ॥ मोहः विपरीतज्ञानम् । त्वत्प्रसादान्मम तद्विनष्टम् । स्मृतिः यथावस्थिततत्त्वज्ञानम् । त्वत्प्रसादादेव तच्च लब्धम् । अनात्मनि प्रकृतौ आत्माभिमानरूपो मोहः, परमपुरुषशरीरतया तदात्मकस्य कृत्स्नस्य चिदचिद्वस्तुनः अतदात्माभिमानरूपश्च, नित्यनैमित्तिकरूपस्य कर्मणः परमपुरुषाराधनतया तत्प्राप्त्युपायभूतस्य बन्धकत्वबुद्धिरूपश्च सर्वो विनष्टः । आत्मनः प्रकृतिविलक्षणत्वतत्स्वभावरहितताज्ञातृत्वैकस्वभावतापरमपुरुषशेषतातन्नियाम्यत्वैकस्वरूपताज्ञानम्, निखिलजगदुद्भवस्थितिप्रलयलीलाशेषदोषप्रत्यनीककल्याणैकस्वरूपस्वाभाविकानवधिकातिशयज्ञानबलाइश्वर्यवीर्यशक्तितेजःप्रभृतिसमस्तकल्याणगुणगणमहार्णवपरब्रह्मशब्दाभिधेयपरमपुरुषयाथात्म्यज्ञानं च, एवंरूपपरावरतत्त्वयाथात्म्यविज्ञानतदभ्यासपूर्वकाहरहरुपचीयमानपरमपुरुषप्रीत्येकफलनित्यनैमित्तिककर्मनिषिद्धपरिहारशमदमाद्यात्मगुणनिवर्त्यभक्तिरूपतापन्नपरमपुरुषोपासनैकलभ्यो वेदान्तवेद्यः परमपुरुषो वासुदेवस्त्वमिति ज्ञानं च लब्धम् । ततश्च बन्धस्नेहकारुण्यप्रवृद्धविपरीतज्ञानमूलात्सर्वस्मादवसादाद्विमुक्तो गतसंदेहः स्वस्थः स्थितोऽस्मि । इदानीमेव युद्धादिकर्तव्यताविषयं तव वचनं करिष्यति यथोक्तं युद्धादिकं करिष्यति इत्यर्थः ॥ भगवद्गीतारामानुजभाष्य १८.७३ ॥ धृतराष्ट्राय स्वपुत्राः पाण्डवाश्च युद्धे किं करिष्यन्तीति पृच्छते सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ भगवद्गीतारामानुजभाष्य १८.७४ ॥ इति एवं वासुदेवस्य वसुदेवसूनोः, पार्थस्य च तत्पितृष्वसुः पुत्रस्य च महात्मनः महाबुद्धेस्तत्पदद्वन्द्वमाश्रितस्येमं रोमहर्षणमद्भुतं संवादमहं यथोक्तमश्रौषं श्रुतवानहम् ॥ भगवद्गीतारामानुजभाष्य १८.७४ ॥ व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ भगवद्गीतारामानुजभाष्य १८.७५ ॥ व्यासप्रसादाद्व्यासानुग्रहेण दिव्यचक्षुश्श्रोत्रलाभादेतत्परं योगाख्यं गुह्यं योगेश्वराज्ज्ञानबलाइश्वर्यवीर्यशक्तितेजसां निधेर्भगवतः कृष्णात्स्वयमेव कथयतः साक्षाच्श्रुतवानहम् ॥ भगवद्गीतारामानुजभाष्य १८.७५ ॥ राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ भगवद्गीतारामानुजभाष्य १८.७६ ॥ केशवार्जुनयोरिमं पुण्यमद्भुतं संवादं साक्षाच्छ्रुतं स्मृत्वा मुहुर्मुहुर्हृष्यामि ॥ तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥ भगवद्गीतारामानुजभाष्य १८.७७ ॥ तच्चार्जुनाय प्रकाशितमैश्वरं हरेरत्यद्भुतं रूपं मया साक्षात्कृतं संस्मृत्य संस्मृत्य हृष्यतो मे महान् विस्मयो जायते॑ पुनः पुनश्च हृष्यामि ॥ भगवद्गीतारामानुजभाष्य १८.७७ ॥ किमत्र बहुनोक्तेन ? यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ भगवद्गीतारामानुजभाष्य १८.७८ ॥ यत्र योगेश्वरः कृत्स्नस्योच्चावचरूपेणावस्थितस्य चेतनस्याचेतनस्य च वस्तुनो ये ये स्वभावयोगाः, तेषां सर्वेषां योगानामीश्वरः, स्वसंकल्पायत्तस्वेतरसमस्तवस्तुस्वरूपस्थितिप्रवृत्तिभेदः, कृष्णः वसुदेवसूनुः, यत्र च पार्थो धनुर्धरः तत्पितृष्वसुः पुत्रः तत्पदद्वन्द्वैकाश्रयः, तत्र श्रीर्विजयो भूतिर्नीतिश्च ध्रुवा निश्चला इति मतिर्ममेति ॥ भगवद्गीतारामानुजभाष्य १८.७८ ॥