भास्कर भगवदाशयानुसरणभाष्य भास्करभाष्यस्य प्रथमपृष्ठस्य द्वे वाक्ये आनन्दजयतीर्थकृतगीताटीकाया उद्धृते । तयोः साहाय्येन भास्करकृतगीताभाष्यस्य लुप्तप्रथमपृष्ठस्य विषयोनुमातुं शक्यते । ते वाक्ये १. शास्त्रप्रयोजनाभिधाने प्रस्तुतेऽवतारप्रयोजनाभिधानमसंगतम् । २. ज्ञानकर्मसमुच्चयसाध्यत्वान्मोक्षस्य तत्प्रतिपादनाय गीतारम्भे न धर्मादिप्रतिपादनार्थम् । तदर्थानां मन्वादिधर्मशास्त्राणां सनकादियोगशास्त्राणां च प्रतिकालं विद्यमानत्वात् । जयतीर्थटीकायां यदाह भास्कर इति वाक्यादनन्तरमुपलभेते इमे वाक्ये । तत्र प्रथमं वाक्यं षष्ठे पृष्ठे द्वितीयं वाक्यं नवमे पृष्ठे । ____________________________________________________________________ पृष्ठ १ श्रीभगवद्गीताया भगवद्भास्करकृतभगवदाशयानुसरणाभिधानभाष्यम् । (इदं हि त्रिषु लोकेषु महज्ज्ञानं) प्रतिष्टितम्१ । विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः२ ॥ योधीते भारत पुण्यं ब्राह्मणो नियतव्रतः । श्रावयेच्च महापुण्यं तस्य धर्मः सनातनः ॥ तपोनियममास्थाय३ कृतमेतन्महर्षिणा । तस्मान्नियमसंयुक्तैरध्येयं४ ब्राह्मणैरिदम् । कृष्णप्रोक्तमिमां५ पुण्यां भारतीमुत्तमां६ कथाम् । श्रावयिष्यन्ति ये७ विप्रा ये च श्रोष्यन्ति मानवाः ॥ इत्येवमादौ८ श्रावयिष्यन्ति९ इत्यत्र विप्रग्रहणाद् द्विजातीनामेवाध्ययने१० श्रवणे चाधिकारो दर्शितः । इतरेषां तु ये तु श्रोश्यन्ति मानवा इति मानवग्रहणाच्छ्रवण एवाधिकारः शास्त्रविरोधाच्चाध्ययने नाधिकारः११ । तथा चोक्तं शुकोत्पत्तौ१२ सर्वस्तरतु दुर्गाणि१३ सर्वो भद्राणि पश्यतु१४ । श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः ॥ __________ टिप्पणी १. प्रतिष्टितम् २. यद्विजातिभिः ३. तयोर्नियममास्थाय ४. नियम ५. कृक्ष्म ६. तीसुन्नमां ७. श्रावयन्ति चरेः ८. द्रवमादौ ९. श्रावयन्तीत्यत्र १०. णाद्विजातीनामध्ययने ११. च्छ्रवण एवेति अधिकार शास्त्रविरोधाच्च नाधिकारः १२. तथा च शुकोत्पन्तौ १३. दुर्गाण १४. पश्यनु ____________________________________________________________________ पृष्ठ २ इति चातुर्वर्ण्यमध्यपातिनः१ शूद्रस्य श्रवणमात्रं विधीयते२ । रामायणे ह्ययमेवार्थो३ विशेषेण प्रतिपादितः४ पठं द्विजो वागृषभत्वमीयात्५ स्यात्क्षत्रियो६ भूमिपतित्वममीयात् । वैश्यस्तथा सर्वधनत्वमीयाच् छृण्वन् हि शूद्रोपि७ महत्त्वमीयात् ॥ इत्यत्रेतिहासश्रवणमात्रमेव शूद्रादेर्निर्णीतम्८ । तत्रापि चाख्यायिकामात्रश्रवणे९ न तु रहस्यवेदान्तार्थप्रतिपादनप्रदेशेषु सनत्सुजातीयगीतामोक्षधर्मादिषु१० तस्य वेदाध्ययनश्रवणतदर्थपरिज्ञानतदनुष्टानानां११ प्रतिषेधस्मरणात् । तथा च मनुस्मृतौ न शूद्राय मतिं दद्यान्नोच्चिष्टं१२ न हविष्कृतम् । न चास्योपदिशेद्धर्मं न चास्य१३ व्रतमादिशेत् ॥ इति चादृष्टार्थमतिदानधर्मोपदेशादिनिषेधात्१४ । न च स्वमनीषिकया ब्राह्मणोपदेशमनपेक्ष्य पुस्तकादेस् तद्विवरणाद्वा तदर्थमधिगम्य कर्मानुतिष्ठतः१५ फलाय तद्भवति१६ प्रत्युत१७ शास्त्रनिषिद्धेनानुपनीतेन१८ गृहीतं (शास्त्रज्ञान)मनर्थोत्पादकम् । यतो न्यायस्मृत्याचाराविरोधी यः पदार्थः१९ स शास्त्रार्थः । तत्र न्यायः यथोत्कृष्टनिकृष्टवर्णयोर्न (कर्म) तुल्य(ता) तथा न सदृशधर्मता युक्ता । तदुक्तम् __________ टिप्पणी १. वर्णान ..... इतिवर्णमध्य २. श्रवणमात्रविधानात् ३. णो धायमेवार्थो ४. प्रतिपादिनः ५. वाग्वृषभत्व ६. त्कृता तथा त्वया भूमिपतिपतित्व ७. याछण्वन् हि शूद्रोपि ८. निर्णातम् ९. कामत्र १०. सनत्सुतातगीना ११. वेदाध्ययनं १२. न्नोछ्चिष्टं १३. दिशेम्दं र्मन्नचा १४. चावृष्टार्थ १५. द्वादिगम्यास्यान्नतिष्टतः १६. तभ्दवति १७. प्रच्युत् १८. निषद्धेनानुपेयेन गृ १९. पदार्थस्म ____________________________________________________________________ पृष्ठ ३ अपवर्गेऽधिकारस्तु स्त्रीशूद्राणां भवेद्यदि । जात्युत्कर्षो द्विजातीनामनर्थाय१ ततो भवेत्२ ॥ इति । स्मृतिरपि विदुषा ब्राह्मणेनेदमध्येतव्यं३ प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं४ सम्यङ्नान्येन केनचित् ॥ इति५ । आचारश्चार्य्यदेशे ज्ञानशास्त्रश्रवणे तस्याप्रवृत्त्यैवावेदितः यः शास्त्रविधिमुत्सृज्य इत्यादिना चेहापि प्रत्ययस्य प्रतिपादयिष्यमाणत्वात् । अत एवोक्तम्६ अधिकारं विना यस्तु गृःणाति शास्त्रमन्यथा७ । तत्त्यक्त्वा८ पावनं कृत्वा स्वधर्मं पुनराश्रयेत् ॥ पावनं प्रायश्चित्तम् । मनुना चाध्ययनश्रवणतदर्थानुष्ठानयुक्तस्यैव९ द्विजातेर्ज्ञानेधिकारो दर्शितः१० अधीत्य विधिवद्वेदान् पुत्रानुत्पाद्य११ धर्मतः । इष्ट्वा१२ च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्१३ ॥ तद्रहितस्य द्विजातेरपि मोक्षेधिकारो१४ नोक्तः अनधीत्य द्विजो वेदमनुत्पाद्य तथा प्रजाम्१५ । अनिष्ट्वा चैव१६ यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥ शूद्रस्य च वसिष्टमुनिनाप्युपनयनादिभिरसंस्कार्यत्वं१७ प्रतिपादितम् । __________ टिप्पणी १. नथाय २. वेधदि ३. नेद्दमध्ये ४. प्रकर्तव्यम् ५. चिदिनि ६. प्रतिपादियिष्यमानत्वाद्दतरावोक्तम् ७. गृहीतं शास्त्रमन्युथा ८. तत्त्वत्त्का ९. नुष्टान्युक्तस्येव १०. द्विजाती ज्ञानोधिकारो दर्शितः ११. नुत्रातुत्पाध १२. दृष्ट्वा १३. निवेषयेत् १४. क्षेरधिरौक्तः १५. प्रज्ञाम् १६. अन्विष्वा १७. पत्तैश्चा १८. पसिष्ट ... संस्कारयत्वं ____________________________________________________________________ पृष्ठ ४ तथा च तत्रोक्तम् गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं१ जगत्या२ वैश्यं न केनचिच्छन्दसा३ शूद्रमित्यसंस्कार्यो४ विज्ञायत इति । किं च भगवता साक्षाद्धर्मेणापि शापवशाद् विदुराख्यशूद्रजन्मनात्मज्ञानविषये धृतराष्ट्रपृष्टेन शूद्रयोनिस्थत्वादनधिकारित्वं५ मन्यमानेन वेदार्थोपदेशार्थं सनत्सुजातमानयता६ तत्रानधिकारो दर्शितः७ । तथा च तेनैव तत्रोक्तम् शूद्रयोनावहंातो नातोऽन्यद्वक्तुमुत्सहे । ब्राह्मीं८ हि योनिमापन्नः सुगुह्यमपि यो वदेत्९ ॥ न ते(न) गर्ह्यो देवानां तस्मादेतद्ब्रवीमि१० ते ॥ एवं च ब्राह्मणयोनिव्यतिरिक्तान्ययोनिजो११ यदि गुह्यं वेदार्थं वदति तदा देवादिभिरसौ गर्ह्यते१२ निषिद्धसेवनेन१३ पापयोगान्नरकादौ प्रक्षिप्यत इत्यर्थः । कुमारस्य तु या बुद्धिर्वेद तां१४ शाश्वतीमहम् । कुमारस्यानुज्झितब्रह्मचर्यस्य१५ सनत्सुजातस्य१६ या बुद्धिर् यज्ज्ञानम्१७ बोधनं बुद्धिः तामहं वेद । निरतिशयज्ञानयुक्तोऽसाविति जातिस्मरत्वाज्जानामि१८ । किं तु निकृष्टजातिस्थत्वेनानधिकाराद्वक्तुं न शक्नोमि१९ । __________ टिप्पणी १. त्रिष्ट्भा राजन्य २. जगता ३. चिच्छन्दश्रा ४. संस्कारो ५. दन्ततधिकारि ६. सनत्सजातमानयत्र ७. अधिकारि दर्शितः ८. वकुमुत्सहे ब्राह्मो ९. पत्रस्सुगुत्वमपि यो वधवेत् १०. द्वृवीमि ११. ब्राह्मणयोनिव्यतिरिक्तोन्ययोनिजो १२. गत्वते १३. निषिद्वासे १४. स्य त्वया वुद्भिर्वेदतां १५. नुजित १६. तथ्या १७. वुद्धिर्यक्षानं १८. जानाग्मि १९. वक्नु न शक्नोमि ____________________________________________________________________ पृष्ठ ५ यस्ते गुह्यान् प्रकाशांश्च सर्वान् हृदयसंश्रयान्१ । प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ किं बहुना२ साङ्ख्यादिशास्त्रेष्वपि ब्राह्मणानाम् एवासुरिप्रभृतीनां३ भगवद्भिः४ कपिलमुनिप्रमुखैर्महात्मभिर् ज्ञानोपदेशः५ कृतो नान्यस्य । इत्यतोऽपि६ न शूद्रादेर्ज्ञानेऽधिकारोऽस्ति७ । तस्मात्सकलेतिहासपुराणधर्मशास्त्रादिपौर्वापर्यपर्यालोचनेनायम् एव८ वाक्यार्थ इति स्थितम् । शास्त्रैकसमधिगम्या९ किलाधिकारव्यवस्था धर्माधर्मव्यवस्थावन् न प्रमाणान्तरगम्या । को हि नाम भगवतो धर्मस्य हेतुतो निश्चयमवधारितुं शक्तः१० । हेतुतश्च धर्मव्यवस्थायां (करिष्यमाणायां) हेत्वनवस्थानाद् धर्मानवस्थानमपि प्रसज्येतेति । अतश्च स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् । इतीदमपि लिङ्गम् । किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । इत्यपि कृतब्राह्मणराजर्षिविषयकप्रवर्तकविधिप्ररोचनार्थवादत्वेन११ द्रष्टव्यम्१२ न तु स्वार्थप्रतिपादनपरम् । लिं गं हि प्रमाणान्तरतः प्राप्तस्यैवार्थस्य१३ द्योतकं भवति नाप्राप्तस्याप्रापकम्१४,१५ तेऽपि यान्ति इत्य् अभिधायकवर्तमानकालवाचिप्रत्ययान्तशब्दनिर्देशात्१६ पूर्वोक्तविधिसापेक्षत्वेन साकाङ्क्षत्वाच्च । वास्तवेन१७ रूपेणान्यपरं यद्वाक्यं१८ शब्देन चान्यार्थप्रतिपादकं तल्लिं गम् । __________ टिप्पणी १. अतस्सते गुह्यकात्प्रकाशांश्च सर्वां त्वदसंश्रयान् २. बहुता ३. नामोवासुरि ४. भगवद्भिः ५. प्रसुखैर्म ६. स्येत्यातो ७. करोस्ति ८. र्वायर्यपर्यालोचनपापमेव ९. शास्त्वकैसम १०. शक्रः ११. वादत्येन १२. द्रष्टव्यं १३. घोनक १४. नाप्रप्तस्य १५. प्रायकं १६. लर्वचिप्र १७. वेन तुपेण १८. यद्यवांशेब्दे ____________________________________________________________________ पृष्ठ ६ विधिनिषेधशेषतया त्वर्थवादानां१ प्रवृत्तिः न तु स्वार्थप्रतिपादकतया विषभक्षणादिवाक्यवद्२ अर्थवादवाक्यानां परार्थत्वात्स्वार्थे३ तात्पर्याभावाद्४ अन्यपरत्वाद्विधिविहितार्थस्तावकतया५ निषिद्धार्थनिन्दितृतया६ च प्रवृत्तेरिति७ । एतच्च८ निपुणतरमत्रैव९ नवमेऽध्याये वक्ष्यामः । अन्यच्च ज्ञानं विज्ञानमास्तिक्यं१० ब्राह्मं कर्म स्वभावजम्११ । इति ब्राह्मणस्यैव भगवान् धर्मः१२ श्रेयःसाधनमिति दर्शयिष्यति१३ । यतोऽदिकृतानामार्य्याणां द्विजातीनामेव श्रुतिविहितनित्यनैमित्तिककर्मक्षपितकल्मषमोहभयायासानाम् उपास्यमान१४ एष परमात्मातिग्रहनः संसारोपप्लवरहितो ऽनन्तोऽक्षयोऽनादिरजोऽमनोमयो१५ निर्विकल्पोऽपापः सर्वलोकेश१६ एक१७ एव सर्वशरीरावस्थितः सर्वपदार्थावस्थितः सतता(सा)दितविमलभावः सर्वशक्तिः स्वशक्तिविभवजनितसकलाद्वैतसद्रूपः१८ प्र(त्यक्षो) भवति । साधनवीर्यात्तेषामेव१९ हि श्रुतिस्मृत्युक्तप्रशस्तयमनियमप्रमुखयोगाङ्गादिसम्भवाद् उपासकत्वेन च तेषामेव नियमात्त एव च२० तमात्मानं पश्यन्ति२१ । तथा चानुक्रमण्यादावपि२२ भगवता व्यासेनो(क्तम्) यत्तद्यतिवरा२३ मुक्ता२४ ध्यानयोगबलान्विताः । प्रतिबिम्बमिवादर्शे२५ पश्यन्त्यात्मन्यवस्थितम् ॥ __________ टिप्पणी १. स्वर्थवादा २. बिवभ ३. पदार्थत्वात्स्वार्थो ४. भाषाद् ५. र्थास्ताषकतया ६. निदितृतया ७. मवृत्तेरिति ८. एत च ९. तत्रेवेन १०. मास्तिकं ११. ब्राह्मकर्मरखभा १२. धर्म १३. दृशयि १४. नैमित्रिक .... मोहमपायासानाम् १५. संसारायप्लवरहितो ... नाधिरजो १६. नाविकलोनापासस्सर्व १७. एकएक १८. सकलद्वैत १९. वीर्यते २०. षामवनियमात्नरावच २१. पश्यति २२. मरापादा २३. यं तं यति २४. युक्ता २५. प्रतिविन्धमिवादर्शे ____________________________________________________________________ पृष्ठ ७ यदक्षरं वेदविदो१ वदन्ति (विशन्ति) यद्यतरो वीतरागाः । इत्यादिना विशिष्टजातीयाश्रमिविषये धानेनात्मोपलम्भनम् उपपन्नं२ भवतीति प्रदर्शितम् । नाहं प्रकाशः सर्वस्य योगमायासमावृतः३ । इति भगवानेव शूद्रादेरात्मदर्शनाभावं४ प्रतिपादयिष्यति५ । द्वैपायनोऽपि६ शान्तात्मानो द्विजश्रेष्ठाः७ प्राप्नुवन्ति तदक्षरम्८ इति । अतः शूद्रदेर्ध्यानादिना९ क्रियमाणेनापि न तत्प्राप्तिर्भवति१० नियमविधेर्भं गभयादखिलविद्याया११ अधिकृतानुष्ठिताया१२ (एव) फलदातृत्वावगमात् । अविहितेन तूत्कृष्टजातीयकर्मणा१३ योगेन ज्ञानेन१४ च शूद्रादिरुत्कर्ष१५ नेतुं न शक्यते । न हि कार्ष्णायसं१६ भूयोऽप्यनलसन्तापनेन सुवर्णत्वम् आपादयितुं शक्यम्१७ । क्रिया हि द्रव्यं विलापयति१८ नाद्रव्यम् । वेदस्मृतिलिं गेभ्यः१९ किल ब्राह्मणस्यैव मुख्यया वृत्त्या मोक्षाधिकारोऽवगम्यते न क्षत्रियवैश्ययोः योगाभ्यासाधिकारे सत्यपि२० । तदुक्तम् बन्धमोक्षव्यवस्थित्यां प्रमाणं चोदना स्वतः । वेदस्यानतिशङ्क्यत्वादनपेक्षतया तथा ॥ __________ टिप्पणी १. धिदो २. नात्मोयलम्भ द्रति ३. समावृन्त इति ४. शूद्रदेरात्मादर्शनाभावं ५. प्रतियादि ६. द्वेपा ७. श्रेष्टाः ८. वन्तिहितसक्षमि ९. देव्यानां दि १०. तन्त्प्राप्तिर्भ ११. मविधायाभगमांयाः किल विधाया १२. नुष्टितायाः १३. स्वत्कृष्ट १४. योगज्ञानेन १५. उत्कर्ष १६. कार्त्मायसं १७. पादृषितुं शक्य १८. विनयति १९. लिगेभ्यः २०. सति ____________________________________________________________________ पृष्ठ ८ विधिर्नियुङ्क्तेऽधिकृतमुत्तमं१ श्रेयसे सदा । अशास्त्रीयात्फलासं गात्स्वयं कामी हि बध्यते१ ॥ अपुनर्जन्मसम्बन्धो यस्माच्छब्दैकगोचरः२ ॥ इति । यत्तु राजर्षीणां जनकश्वपतिप्रवाहणप्रभृतीनां महाभा(र)तादौ मोक्षश्रवणं तत्कस्याञ्चिद्विशिष्टायाम् अवस्थायां प्रवृत्तयागत्वेन यजमानानां तु मन्त्राप्तसम्बोधाविर्भावे३ सति न सर्वदा । यागस्थानां हि तेषां ब्राह्मणत्वं श्रूयते । तथा च शतपथश्रुतिः सा यां४ काञ्चन यजते५ ब्रह्मैव भूत्वा यजत इति । तद्वधे च स्मृतौ ब्रह्महत्याप्रायश्चित्तमाम्नातम्६ यागस्थक्षत्रियं हन्ता चरेद्ब्रह्महणिव्रतम्७ इति । एवं च क्षत्रियवैश्ययोरपि न तथा ब्राह्मणेन तुल्यतया मोक्षेऽधिकारः तस्माद्द्विजातीनामेव८ । योगाभ्यासेन तु प्रयतमानानामप्यनधिकृतानां शूद्रादीनां विद्यमाने हृदयपुण्डरीकेऽपि९ (नाधिकारः) तिरश्चामिवेति । किं च यथा सौर आलोको दिवाचराणां एव भूतानामाक्षं१० जनयति न तु रात्रिचरणां कौशिकादीनां तुल्येऽपि प्रकाशदातृत्वे तद्वत् । यदयं समुदायार्थः११ गर्भाधानादिसंस्कारसंस्कृतो यो यथाविध्युपनीतो१२ यथाशक्तिचीर्णवेदव्रतादिको ऽर्थावबोधपर्यन्तवेदाध्ययनसंस्कृतो गृहाद्वनं वनान्मौनमाश्रमाणां समुच्चयम् अङ्गीकृत्य विकल्पे वा ब्रह्मचर्याद्यथारुचि शान्तो१३ __________ टिप्पणी १. विधिन्नियुङ्क्त्ते .... मुत्तन्यश्रे .... वध्यने । २. यस्माछब्दैक ३. सुमाताप्तसम्बोधा ४. या ५. यजने ६. तदूधे च स्मतो व्राहाहसाप्रापाश्चित्तमास्ना ७. क्षत्रविहुतां चरेद्वह्मनिस्मृतव्रतम् ८. धिकार्यः .... तस्मष्ट्विजा ९. शूद्रादिनां विद्यमानहदयपुंडरीकेति १०. दिवाचराणामेव भूतानामाकोज ११. समुद्रापार्थः १२. पथाविधि उप १३. विकल्पन्धा ब्रह्माधर्याद्यथा ____________________________________________________________________ पृष्ठ ९ दान्तः१ श्रद्दधानः सोऽपवर्गेऽधिकारभाक्यतः सूत्रकारः स्वधर्माणां विध्यर्थत्वं न मन्यते३ कर्मणां सहकारित्वं सहैवेति श्रुतेर्मतम् । न ह्यनाश्रमिणो४ वेदो योग्यत्वमिह मन्यते ॥ देवोपकारः कर्तव्यो५ देवान् भावयतेति ह । अतः यावज्जीवं प्रकुर्वीत६ स्वकर्माणि यथाविधि । संस्कुर्वीत स्वधर्मैश्च स्मृतितोऽवगतं७ तथा ॥ महायज्ञैश्च यज्ञैश्च अष्टावात्मगुणा८ इति चत्वारिंशत्संस्कारा९ इति च । अपि (च) संयतानामेव१० यज्ञादयश्च श्रूयते११ । तत्त्वप्रकरणे१२ किल विद्ययाश्रमिणो योगो नान्यस्येति श्रुतेर्मतम् ॥ कर्मणा तस्य विज्ञानं१३ तद्भावमुपनीयते१४ । पश्चादापन्नतद्भावो१४ देहमेतं विमुञ्चति१६ ॥ इति । तथा चात्र वाजसनेयिनां यज्ञसूत्रकारः कात्यायनोऽधिकारविवेकमुक्तवान्१७ अथातोऽधिकारः (इति) । अथशब्द आनन्तर्यार्थः । अतःशब्दो१८ हेत्वर्थः । यतो वेदाध्ययनं पूर्ववृत्तमतस्तदर्थज्ञानावसरे प्रथममधिकारो निरूप्यते कस्यात्राधिकार१९ इति । अधिकारशब्दस्यैव तावत् __________ टिप्पणी १. दाशूः २.श्रद्दधान ३. विधार्थत्वं न मन्यत ४. नत्यनाश्रमिणो ५. कर्तर्व्यो ६. प्रक्रुर्वीत ७. संस्कर्वति स्वधर्माश्च ... तोगतं ८. अष्टौ चात्मगुणाः ९. शश्च संस्कारा इति १०. इति चाप्यतु सपताम् ११. श्रूयते १२. तत्व १३. विज्ञामं १४. तद्भाव १५. तद्भावो १६. मेत विमुञ्च इति १७. कात्यायतो १८. शब्दे १९. त्रधिका ____________________________________________________________________ पृष्ठ १० कोऽर्थः१ अयमुच्यते अभ्युपगतागमप्रामाण्यानां पुरुषाणां शास्त्रेण यद्यस्य कर्तव्यतया विधीयते तत्र तस्यागमपारतन्त्र्येणानुष्ठानाङ्गीकरणम्२ । तथा यच्छास्त्रेण३ निषिध्यते न कलञ्जं भक्षयेत्४ इत्यादि तत्र प्रतिषिध्यमानक्रियस्य मुख्यस्याधिकारिणो५ जिघत्साप्रयुक्तरागनिबन्धनः कलञ्जभक्षणप्रवृत्तिनिषेधार्थः६ शास्त्रपारतन्त्र्येणैव७ । अकारणसङ्कल्प औदासीन्याश्रयणं८ चाधिकारः । तदुक्तं भट्टेन९ विधिना युज्यते यत्र न हन्यान्न पिबेदिति । तत्रौदासीन्यवस्त्वेव प्रतिपत्तावलम्बने ॥ औदासीन्यं प्रवृत्त्युपरमो१० व्यापाराभावः स्वामित्वेन यो व्यापारस्याधिकारस्तस्याभाव११ इत्युक्तः । तेनैतदुक्तं भवति इदमग्निहोत्रादि कर्म मत्सम्बन्धितया१२ विहितमतो मम कर्तव्यम् । इदं च परहिंसादि तथैव निषिद्धमतो न कर्तव्यमिति ब्राह्मणादिरवगच्छति१३ । एष अधिकारशब्दार्थ१४ इति । तदुक्तम् यत्र यस्याधिकारोऽस्ति१५ नित्ये नैमित्तिके च सः । बध्यते न हि सर्वो हि१६ शास्त्रातिक्रमबन्धनैः ॥ इति । शास्त्रदृष्ट्याधिकारो निरूप्यत इत्यत्र१७ नियोज्यत्वं तावद् आह१८ ब्राह्मणराजन्यवैश्यानां१९ श्रुतिः२० । तथा च __________ टिप्पणी १. कार्थः २. पारतं जेणानुष्टानाङ्गी ३. यछास्त्रेण ४. भक्षयेत्यादि ५. क्रियोर्मुखस्याधिकारणो ६. भुक्षण ... धार्थं ७. पारतंशैण ८. सङ्कल्पडौकादासीन्या ९. भद्देन १०. प्रवृन्नि उप ११. व्यापारस्योधिकार १२. सत्सम्बन्धितया १३. रिवगच्छतीति १४. राषोधि १५. अधिकरो १६. त र्व नहि १७. कात्रदिश्याधिकारो निरूप्यत इत्यत्र १८. नियोज्यास्तावदा १९. चैश्यानां २०. श्रुतेः ____________________________________________________________________ पृष्ठ ११ वसन्ते१ ब्राह्मणेनाध्येयो२ ग्रीष्मो राजन्येन३ शरदि वैश्येन इति श्रुतिः । किं च अङ्गहीनाश्रोत्रियषण्डपतितशूद्रवर्जम्४ इत्य् अङ्गहीनानामन्धमूकपङ्ग्वादीनाम् आज्यावेक्षणोपस्थानवचनविष्णुक्रमणादिष्व् असामर्थ्यात्कर्मणि नाधिकारः५ । अश्रोत्रियस्य साङ्गवेदाध्ययनविज्ञानरहितस्य६ यथावच्छास्त्रानवबोधे मन्त्राणां देवतादिसतत्त्वानगमाद् अनधिकारः७ । उक्तं च वैधे कृतार्थकं शास्त्रमवैधं नानुशास्ति९ हि । इति । षण्डस्य१० क्लीबस्य पूर्वजन्मार्जितदुष्टकर्मसूचकत्वेन११ दुष्कृतित्वादनधिकारो दायादिविभागप्रतिषेधात्तस्य१२ कर्मणां१३ च द्रव्यादिसाध्यत्वाद्विभवयुक्तस्य१४ पुत्रिण आधानादिसंयोगात्१५ क्लीबस्यापुत्रिणो नाधिकारः१६ । तथा चोक्तम् पतितव्याधिशूद्राणां१७ यावद्वचनमिष्यते१८ । अधिकारो न सर्वस्मिन्नमुचेः षण्डकस्य१९ च ॥ इति । पतितो ब्रह्महादिः२० । तस्यानधिकारो महापातकित्वात् । शूद्रस्य चानधिकारः२१ । कुतोऽथातःशब्दाभ्यां वेदाध्ययनानन्तर्यद्योतकाभ्यां२२ यस्य वेदाध्ययनं तस्य कर्मण्यधिकार इति ज्ञापितत्वात् । कर्माधिकृतस्य च ज्ञानेऽधिकारो ज्ञानेन कर्मणः समुच्चयनात् । तथा चोक्तम्२३ __________ टिप्पणी १. वसन्ने २. धेयो ३. राज्ञेन्येन ४. अङ्गहिनाः ..... शंवपतित ५. अङ्गहिना ... मूकसन्त्वादी ... वाच्यनिविस्मुकमणादिषु सामर्थ्यात् कर्मण्यन्नाधिकारः ६. त्त्र्य्षस्यासङ्गवेवृध्यप ७. मन्त्राणान्दे ८. वैये कृतार्थेकं ९. वैधनानुशास्त्रि १०. शंवस्य ११. दुत कर्म १२. दयादि १३. कर्मणा १४. दूभण्यस्य १५. आदाना १६. गालीवस्यापुत्रिणो नधिकारः १७. व्यान्यशू १८. वचनामि १९. पंडत्कस्य २०. ब्रह्महादि २१. चानाधिकारः २२. ध्ययनानन्तर्यधोतकाभ्यां २३. समुश्चयनात् । तथा चाक्तम् ____________________________________________________________________ पृष्ठ १२ निःश्रेयसायाधिकृतान्१ विद्या कर्म व्यबोधयत्२ । ... ... कर्मश्रुतिरेवानुशास्ति३ तान् ॥ इति तस्माच्छूद्रो यज्ञेऽनवकॢप्त इति४ तस्य कर्मपर्युदासाद्५ मूर्खत्वाच्च । मूर्खत्वं च तस्योपनयनवेदाध्ययनतदर्थाधिगमप्रतिषेधात्६ । तथा च गौतमः शूद्रश्चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हति । (इति) तथा अथास्य७ वेदमुपशृण्वतस्त्रपुजतुभ्यां८ श्रोत्रप्रतिपूरणम् उदाहरणे जिह्वोच्छेदो९ धारणे हि शरीरभेद१० इति । वशिष्टोऽप्याह११ पद्युर्वा एष श्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्१२ इति । न चानधिकृतेन१३ कृतं कर्म शास्त्रप्रत्ययं फलं सम्पादयितुमर्हति शास्त्रलक्षणत्वात् फलसम्बन्धस्योत्कर्षापकर्षयोश् च । उक्तं च अवैधत्वादनग्नित्वान्नाधिकारोऽस्ति१४ कर्मसु । श्रौतेष्ववैधताप्यस्य१५ वेदाध्ययनवर्जनात् ॥ यः स्वाध्यायमधीयीत कुर्यात्कर्म१६ स ए(व) तत् । अवैदुष्यादतः शूद्रः१७ कर्मणः१८ पर्युदस्यते ॥ __________ टिप्पणी १. निःश्रीयंसा २. विधा ... व्यंवोधयत् ३. कर्मश्रूति ४. तस्माछूद्रो यज्ञेनवक्लिप्त इति ५. पर्यदासात् ६. स्योयनयन ..... तद्दर्थादिगम ७. अथास्य ८. मुपशूण्वतरत्र पुजतु ९. जिद्वाल्लेदः १०. शरोर ११. सिष्टोप्याह १२. यद्वद्वा ए ..... शानं य छूद्रा तस्माछूद्रसमीये नाछेतव्यम् १३. चानधिकृतेन १४. अवैघत्वा १५. त्रोतेघवैघता १६. यस्त्वाध्यायमधीत कूर्यात् १७. अवैदुषादतः शूद्रो १८. कर्मण्यः ____________________________________________________________________ पृष्ठ १३ किं सर्वेभ्यः न । स्मार्तं१ च पितृयज्ञादिं शूद्रः कुर्याद्यथाश्रुतम्२ । तद्विद्वत्तामवाप्त्यैव३ कथञ्चिद्द्विजसंश्रयात् ॥ श्रौतादधिकृतानां तु४ यावद्विहितसेवनात् । निषिद्धवर्जनाच्चापि पारम्पर्येण सद्गतिः५ ॥ हीनाद्धीनाच्छुभं६ जन्म पारम्पर्येण यदभवेत्७ । अनुग्रहः स एषोऽस्य८ पुंसः श्रुतिकृतो९ मतः ॥ तस्माच्छूद्रादीनां१० कर्मण्यनधिकारादस्मिन् शास्त्रे एतत्प्रतिपादिते च योगाभ्यासे नास्त्यधिकार११ इति । किं च आत्माभ्यासोऽपि नास्यास्ति१२ विप्रसेवेति हि स्मृतेः । तेषामेवानुकम्पेति द्विजातेरधिकारिता ॥ तेषामेवेतिशब्देन१३ ब्राह्मणस्य स्तुतिः कृता१४ । शूद्रयोनावहंात इत्यादि बहु दृश्यते ॥ एवमादि बहुवाक्यजातं१५ भारते तत्र तत्र दृश्यते ग्रन्थगौरवभयात्तु न लिख्यत१६ इति । उक्तं च अधिकार्येव शास्त्रार्थं१७ शक्तः साधयितुं यतः । तत्सिद्धावप्रभुत्वं हि ज्ञातात्रानधिकारिता ॥ इति१८ । __________ टिप्पणी १. स्मार्थं २. कूर्याप्रथा ३. तद्वद्वत्ता ४. श्रौतानाधि ५. चापि पारस्पर्येण सदूतिः ६. हीनाद्वीनाछुभं ७. पार्येण पदवेत् ८. अनुग्रहस्सस्स एषोस्य ९. श्रूति १०. स्माछूद्रादीनाकर्मण्यनाधि ११. नास्सधिकारः १२. नास्सस्ति १३. कारितातोमीतिचापिशब्देन १४. स्तुतिकृता १५. वाकजातं १६. भयालुर्न लिख्यत १७. शक्रः १८. कारेतेति ____________________________________________________________________ पृष्ठ १४ इत्थं शूद्रादेर्मोक्षाभावाद्धर्मार्थकामलक्षणे१ त्रिवर्गे च पुरुषार्थे सति हीनाधिकाराद्गीताशास्त्रादेस्तेनाध्ययनादि२ न कर्तव्यम् । यस्माद्यो यत्रानधिकृतः स तदिष्टबुद्ध्यापि३ (अनुतिष्ठन्) न केवलं तत्फलं न प्राप्नोति यावदपरेण प्रत्यवायेनापि युज्यते । यथा राजादिना यः कुत्रचिदप्यनियुक्तः पुरुषः स तदीयग्रामादौ स्वातन्त्र्येण४ ग्रामव्यापारादि कुर्वंस्तस्माद् राजादेः५ शरीरधनदण्डादिलक्षणं६ प्रत्यवायं७ प्राप्नोति तथा शास्त्रेऽपि यो यत्रानधिकृतस्तदिष्टार्थमपि८ कुर्वन् प्रत्यवैति । यथा च श्लैष्मिकहितमौषधं भक्षयन्न् आरोग्यार्थं पैत्तिको नैरुज्यं न लभते प्रत्युत९ रोगप्रकोपेण पीड्यते एवमिहापि बोद्धव्यम्१० । उक्तं च पर्युदस्तो हि यो यस्माच्छास्त्रीयादपि कर्मणः । स तत्रानधिकारी११ स्याद्दानादौ दीक्षितो यथा१२ ॥ एवं चाधिकृतेनानुष्ठितं१३ कर्म फलसाधकं न स्वबुद्ध्यैवानधिकृतेनेति१४ शास्त्रनियमः । एतच्च भगवानेव वक्ष्यति यः शास्त्रविधिमुत्सृज्य१५ वर्तते कामकारतः । न स सिद्धिमवाप्नोति न सुखं न परां१६ गतिम् ॥ १. क्षावद्धर्मार्थकामा २. हानधिकाराद्रोतासास्त्रादे ३. स्सतदष्टवुड्र्यापि ४. पुरुषस्स तदीपग्रामोदखातन्त्र्येण ५. राज्ञादेः ६. घनदञ्जादि ७. प्रत्यवायुं ८. कृतस्तदृष्टार्थमपि ९. श्लौं जिकहितमौषधं यैतिकमौषधवुपि भक्षयन् प्रत्युत १०. प्रकोपेन पीड्र्यत यवमिहापि वोभ्दव्यम् ११. तत्रानधिकारी १२. द्वानादौक्षितो १३. नुष्टितं १४. साधकलस्ववुड्रौवा १५. मत्सृज्य १६. परा ____________________________________________________________________ पृष्ठ १५ यतः प्रतिषेधमतिक्रम्य प्रत्यवेयात्कृतान्नरः१ तस्मात्तस्यानतिक्रान्तौ नित्यं२ युक्ततरो भवेत् ॥ इति । यतः किल सर्वेण पुरुषेणाविहितानुष्ठानप्रतिषिद्धसेवननिमित्तजनितपापहेतुकविविधनरकरौरवासिपत्रवनक्रकचच्छेदनश्वशृगालादिकृमिकीटभक्षणवेदनापूयशोणितकर्दममज्जनादियाम्ययातनाशताद्यनर्थसङ्कटादिसन्त्रासाच् छरणैषिणा३ स्थावरकीटपतङ्गादियोनिसहस्रावर्तभ्रमणसद्योमरणजराव्याधिक्षुत्पिपासाबन्धनाङ्गच्छेदादिदुःखभयोच्छेदकारि४ शास्त्रीयं कर्मानुष्ठीयते५ । तत्पुनरुत्कृष्टं कर्म निषिद्धत्वाद्विरुद्धं६ सद्गतानुगतिकत्वेनादृष्टबुद्ध्यानुष्ठीयमानम् अप्यविहितत्वेनाशास्त्रीयत्वान्न७ केवलं निष्फलं भवति यावत्प्रत्युतानधिकृतत्वेन८ प्रत्यवायकरत्वात् परलोके९ बहुविधनरकपाताद्युपद्रववृन्दोत्पादकमिति१० ज्ञात्वा शूद्रादिना नैवात्र नित्यमात्मा११ क्षपणीयः । तथा चेहैव१२ वक्ष्यति वरं स्वधर्मो विगुणः१३ परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भ्यावहः१४ ॥ वरं श्रेयन् । दर्शयति च मनुरपि परधर्मेण जीवन् हि सद्यः पतति जातितः । __________ टिप्पणी १. प्रत्यवेयालुरान्नरः २. वित्यं ३. विहितनुष्टानप्रतिषेध .... हेलुक .... रौरवासियत्र .... चछेरनश्वसृगालादिक्रिमि .... शोणितकर्मममजनादि .... शताधनर्थसङ्कटामीवसन्त्रास ४. स्थावरस्कीट .... भ्रमणाघद्वो .... क्ष्त्वात्पिपासावन्धनां गछेददिडुःखभय ५. कर्मानुष्टोषते ६. पुनरुत्कष्टकर्म निसिद्धत्वाद् ७. सैतानुगतिकत्वेनादृष्टवुद्भ्यानुष्टीयमानमप्यविहितत्वं नाशास्त्रीयत्वान्न ८. प्रत्युतानुधिकृत्वेन ९. करत्वान्पर १०. पातद्वुपद्रव ११. नेवात्रनित्तमात्मा १२. तथार्चेहैव १३. वरं श्रेषान् स्वधर्मो १४. भयावद्बादर्याति ____________________________________________________________________ पृष्ठ १६ शूद्रजातितोऽपि भ्रष्टस्तिर्यगादिजातिं प्राप्नोतीति वाक्यार्थः१ । वेदे मन्त्रेषु गृह्येषु२ श्रुतिस्मृतिनिषेधतः । नाधिकारोऽस्ति शूद्रस्य पुराणादिषु३ भारत ॥ ब्राह्मणं तु पुरस्कृत्य४ शृण्वतः फलमीरितम् । स्त्रियो वैश्यास्तथा शूद्राः शुद्धाः सुखमवप्नुयुः५ ॥ इति । यतः तिर्यग्भ्यः६ पुरुषाः श्रेष्ठाः७ कार्याकार्यविवेकतः८ । तन्त्राधिकारात्तेभ्योऽपि९ द्विजा वेदाधिकारतः ॥ अधिका(रा)त्प्रवचने तेभ्यः श्रेष्ठा द्विजोत्तमाः । श्रुत्या स्मृत्याधिकारार्थं श्रैष्ट्यमेषां प्रकाशते१० ॥ इति । तथा च मनुः ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ईश्वरः११ सर्वभूतानां धर्मको(श)स्य गुप्तये ॥ तदेवमुक्तसम्बन्धाभिधेयप्रयोजनं१२ प्रतिपादिताधिकारविशेषम् एतच्छास्त्रं व्याख्यातुं१३ श्रोतुं च१४ योग्यमिति । अतोऽस्य व्याख्यानमारभ्यते१५ । अनेकैश्च व्याख्यातृभिः स्वपक्षनिक्षिप्तदृष्टिभिर् इतस्ततः१६ कृष्यमाणमनवस्थामापद्यमानं गीताशास्त्रम् अपवर्गप्राप्त्युपदेशमहाप्रयोजनम्१७ । (अतः) भगवतोऽभिप्रेते सन्मार्गे स्थापयितुमयं यत्नः क्रियते१८ । __________ टिप्पणी १. शूद्रता तितो .... जानिं प्राप्नोतीति तद्दर्थं वाक्यार्थः २. गृहे च ३. पुरणादिषु ४. पुरस्कत्य ५. शूद्रस्सुखमवाप्नुयात् ६. षतस्ति ७. श्रेष्टाः ८. कार्याकर्य ९. तत्राधि १०. श्रेष्ठ्यमेष्य पृत्काशते ११. ईश्वरः १२ तदेवमुक्त १३. विशेषयं शास्त्रं व्याख्यातं १४. श्रोतु च १५. योग्यमित्येतोस्य व्याख्याख्यान १६. रितस्तनः १७. मान्नं ... प्राप्नुपदेशान् १८. यत्वात्क्रियते ____________________________________________________________________ पृष्ठ १७ नन्वितिहासपुराणानां पौरुषेयत्वादपवर्गप्राप्तिलक्षणे ऽतीन्द्रियार्थे१ न स्वतः प्रामाण्यं सम्भवति । सत्यमेतत् । किं तु मन्त्रार्थवादास्तेषां२ मूलमिति न्यायविद्भिः स्थापितम्३ । अतस्तेत्र४ मूलं स्युः धर्माणां५ विप्रकीर्णानां वेदज्ञातृप्रयत्नतः । कृतं संहरणं६ साक्षाद्धर्मावगतिहेतुकम् ॥ वैदिकानां (हि) शब्दानां प्रस्थानात्तु विलक्षणम् । स्मृतीनां रचनेयं७ हि पुंप्रणीता विलक्षणा८ ॥ भगवद्व्यासादिस्मरणं९ च स्वतः प्रामणमेव । ते हि साक्षात्कृतधर्मत्वात्करतलगतामलकवत्सकलं वेदार्थं प्रत्यक्षेणैव पश्यन्ति१० । तदुक्तं साक्षात्कृतधर्माण ऋषयो बभूवुरिति । न ह्यस्मदादिवद्व्यासादयोऽतीन्द्रियमर्थं न पश्यन्तीति वक्तुं श(क्यम्११) । विधूत(क)ल्मषत्वादीश्वरानुग्रहाद्वेदार्थस्य१२ वोपनिबन्धनाच्च सम्भवत्येवतीन्द्रियार्थदर्शनं१३ तेषामित्यदोषः । इत्थं स्थितेऽर्जुनस्य ज्ञानकर्मोपदेशप्रसङ्गमवतारयितुं प्रस्तुतकथासमाप्तौ कार्यान्तरं जिज्ञासुर्धृतराष्ट्रः१४ पुनः सञ्जयं पृच्छंस्तावदाह१५ धर्मक्षेत्रे कुरुक्षेत्रे सर्वक्ष्त्रसमागमे । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ भगवद्गीता_१.१ ॥ हे सञ्जय कुरुक्षेत्राख्ये देशे धर्मप्रसवहेतुत्वाद्धर्मस्य __________ टिप्पणी १. पौरुषेयद्वाद्... लक्षणेतीन्द्रियार्थे २. वादस्ते ३. न्यायविम्दिसथापितम् ४. तत्र ५. धमाणां ६. वेदादातृत्यपत्नतः .... हण ७. विलक्षणार्थं स्मृतीनां रचनीयं ८. विकल्षणात् ९. वासदिस्मणं १०. पश्यति ११. वद्यासादयोतीन्द्रियमर्थं .... नश १२. दिश्वरानुग्रहाद् १३. वोपनीवन्धनाश्च सभवेत्येवातिद्रियाथ १४. समाप्तो .... जितासुर्धृत १५. सययंपृस्तावदादावहे ____________________________________________________________________ पृष्ठ १८ क्षेत्रे स्थाने सर्वक्षत्रसमागमे सन्निधाने सति मत्सन्बन्धिनस्तनयाः पाण्डुपुत्राश्च किमकुर्वत किम् अनुष्ठितवन्त इति । पूर्वं१ राजऋषिणा तपस्यता तत्र धर्मः किलोप्त इति कुरुक्षेत्रस्य धर्मक्षेत्रत्वम्२ । अत्र कुरुतातो धर्मं३ क्षिप्रं त्राणो भविष्यतीति कुरुक्षेत्रस्य कुरुक्षेत्रत्वमित्याहुः पौराणिकाः ॥ १ ॥ एवं पृष्टः सञ्जय४ उवाच दृष्ट्वा तु पाण्डवानीकं व्यूढं५ दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ भगवद्गीता_१.२ ॥ पाण्डवसैन्यं व्यूढं शास्त्रदृष्ट्या कृतविन्यासविशेषं६ दृष्ट्वैव७ तस्मिं काले दुर्योधनो द्रोणमुपसङ्गम्य गौरवात् तत्समीपं८ प्राप्य वक्ष्यमाणं९ विशिष्टपदक्रियापरिकल्पितरूपं१० वाक्यमुक्तवान् ॥ २ ॥ तदाह पश्यैतां पाण्डुपुत्राणामाचार्य महतीं११ चमूम् । व्यूढां१२ द्रपदपुत्रेण तव शिष्येण धीमता ॥ भगवद्गीता_१.३ ॥ हे आचार्य पाण्डुपुत्रसम्बन्धिनीं१३ चमूं महतीं१४ सेनामङ्गबाहुल्याद्विस्तीर्णां१५ धृष्टद्युम्नेन व्यूहविधानकुशलेन१६ च व्यूढां कृतचरनाविशेषां (पश्य) । यो हि भवच्छिष्यो बुद्धिमांश्च सोऽवश्यम्१७ __________ टिप्पणी १. पूर्व २. कुरुक्षत्रस्य धर्मक्षत्रत्वम् ३. अतश्च कुरुतात्र धर्म ४. पृष्टं स्सञ्जय ५. व्युडं ६. सैन्ये व्युवं शास्त्रदृक्ष्माकृत ७. दृष्टैव ८. गौरवात्नत्समीप ९. वक्ष्यमाण १०. रुपं ११. पांडत्राणां ........ महती १२. व्यूढान् १३. सम्बन्धिनी १४. महन्ती १५. ब्यहुल्या हि स्तीर्णां १६. ब्यूह १७. पदपयो हि भवष्यो वुद्धिमांश्च सोवस्यमाम्रतिमां व्यूहरवनां करोत्यतः ____________________________________________________________________ पृष्ठ १९ अप्रतिमां व्यूहरचनां करोति । अतः प्रतिविधानपरो१ भवेत्याशयः ॥ ३ ॥ किं च अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः२ ॥ भगवद्गीता_१.४ ॥ अत्र अस्यां सेनायाममी३ शूरा भयविषादानभिजाः४ । तथा महेष्वासाः५ । इषवः शरा अस्यन्ते क्षिप्यन्ते६ यैस्त इष्वासाः कोडण्डाः७ महान्तो बृहन्तः सुदृढाः परैरभेद्या इष्वासा धनूंषि येषां ते महेष्वासाः । अथ वा युद्ध इषूनस्यन्तीतीष्वासा धानुष्काः (युद्ध)कर्मपराः८ । त एव च दिव्याः प्रभावत्त्वाद्धनुर्वेदकृताभियोगत्वाद् अनेकसङ्ग्रामलब्धविजयत्वाच्च९ । महान्त उत्तमाः प्रशस्ताः । तथा युधि युद्धे भीमार्जुनाभ्यां योद्धृत्वेन१० समास्तुल्याः । के त इत्याह युयुधानः सात्यकिः विराटो११ द्रुपदश्च महारथः । महान् प्रेरणावरणयुद्धापसारणावकाशादिधर्मयोगात्१२ प्रशस्तो रथो यस्यासौ महारथः ॥ ४ ॥ किं च धृष्टकेतुश्चेकितानः१३ काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च१४ शैब्यश्च नरपुङ्गवः ॥ भगवद्गीता_१.५ ॥ १. विचान २. महारर्थः ३. सेनायासमी ४. मयविषाद ५. महेषासाः ६. अरयन्ते क्षिप्यते ७. षैस्ते द्रघासाः कोदंडाः ८. महान्तो वृहन्तः सुदवाः परैसमेधा धनुषि .... ते तथा युद्धाद्रष्टूनस्यन्तीतीष्वासा धानुकाः कर्मरपरा ९. प्रभावत्वा .... देकसं १०. योद्धत्वेन ११. युयुधानस्तात्यकिर्विराटो १२. महान्प्ररणावरणा युद्धापसारावकाशादिधर्मयोगात् १३. चेकितान् १४. कुन्तिभोजैश्च ____________________________________________________________________ पृष्ठ २० इह सञ्ज्ञामात्रप्रधाना अमी शब्दा निगदव्याख्या(ताः)१ । (ताः) अतो न व्याख्यायोग्याः । येषां त्वर्थानुगमे विशेष उपलभ्यते ते लेशतो व्याख्यायन्ते२ । काशीनां राजा (वीर्यवान्) उत्साहशक्त्युपेतः६ । पुरु बहु जयतीति पुरुजित् । कुन्तयो जनपदाः तेषां वासी४ (कुन्तिभोजः) । शिवयो जनपदास्तेषां राजा५ (शैब्यः) । स च शौर्याद्युत्तमगुणयोगान्नरपुङ्गवः पुरुषश्रेष्ठः६ ॥ ५ ॥ तथा युधामन्युश्च७ विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ भगवद्गीता_१.६ ॥ विक्रान्तो वीर्यवान् सुभद्रासूनुरभिमन्युः८ ॥ ६ ॥९ एवं पाण्डवानीके प्रधाननायकनिर्द्देशं१० कृत्वा स्वानीके प्रधाननायकान् दर्शयन्नाह११ अस्माकं तु१२ विशिष्टा ये तान्निबोध१३ द्विजोत्तम । नायकान्मम सैन्यस्य१४ सञ्ज्ञाअर्थं तान् ब्रवीमि ते१५ ॥ भगवद्गीता_१.७ ॥ अस्माकं ये विशिष्टाः कुलशौर्यादिभिः१६ प्रधानास्तान् सञ्ज्ञार्थं ब्रवीमि१७ । सञ्ज्ञानं सञ्ज्ञा । तुशब्दः१८ पूर्वेभ्यो विशेषावद्योतनः१९ । युयुधानादयो वराका युष्माकं पुरतोऽकिञ्चित्करा२० इत्यर्थः ॥ ७ ॥२१ __________ टिप्पणी १. शब्दा .... व्यख्य २. एषां त्वार्हानुनमः कश्चिदुलभ्यते .... व्याख्यायते ३. उत्साहशत्सुपेतः ४. जनपदस्तमाजस्वामी ५. जनपदैस्तस्य राजा ६. सौर्यदु ... योगान्नपुगव पुरुषश्रेष्ठः ७. वुधान्युश्च ८. सूनुभिमन्युः ९. अङ्कोयं दर्शयन्नाह अस्मात्परः विद्यते १०. निदेशं ११. स्वाखानेके प्रधानान्दर्शयन्नाह १२. लु १३. निवोध १४. मं दौन्यस्य १५. सञ्ज्ञार्थं तान् १६. चौर्यादिभिः १७. ब्रविमि १८. सञ्ज्ञा न सञ्ज्ञा तु शब्दः १९. विशेषावष्वोत्ना २०. किं तित्करा इत्यर्थः २१. अङ्कोयं परिगणयन्नाह अस्मात्परोस्ति ____________________________________________________________________ पृष्ठ २१ ताश्च परिगणयन्नाह भवान्१ भीष्मश्च कर्णश्च कृपः शल्यो जयद्रथः३ । अश्वत्थामा४ विकर्णश्च सौमदत्तिश्च५ वीर्यवान् ॥ भगवद्गीता_१.८ ॥ न केवलमेते यावत् अन्येऽपि बहवः शूरा मदर्थे त्यक्तजीविताः६ । नानाशस्त्रप्रहरणा नानायुद्धविशारदाः७ ॥ भगवद्गीता_१.९ ॥ नानाप्रकाराणि चक्रासिमुशलगदाप्रभृतीनि (शस्त्राणि) प्रह(र)णानि येषां ते तथा । नानाविधगजरथाश्वादियुद्धक्रियासु पण्डिता मत्कार्ये च त्यक्तजीविता. सन्त्येवान्ये ॥ ९ ॥८ एवमुभयसैन्यनायकनिर्देशं कृत्वा सारासारतां निरूपयन्नाह अपर्याप्तं तदस्माकं बलं भीमाभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीष्माभिरक्षितम् ॥ भगवद्गीता_१.१० ॥ अस्माकं यथानिर्दिष्टसंहतानां१० तत्पाण्डवबलम् अपर्याप्तमसमर्थमभिभवितुं यतो भीमाभिरक्षितम् भीमसेनेन प्रधानभूतेन गुप्तम् । स च (भीमो) भीष्मापेक्षया किञ्चिन्न्यूनतर इत्यभिप्रायः११ । इदं त्वस्माकं बलमेतेषां पाण्डवानां पर्याप्तम् अभिभवाय विनाशने समर्थमित्यर्थः१२ यतो भीष्माभिरक्षितम्१३ । भीष्मस्त्वनेकशस्त्रास्त्रपारगो निर्जितानेकमहासमर इत्याशयः१४ ॥ १० ॥१५ १. मवान् २. कणश्च ३. जयद्रथः ४. अश्वस्यामा ५. सौमर्दन्निश्च ६. शूरादर्थे त्यक्ता जीविताः ७. विशारदाः ८. अङ्कोयं निरूपयन्नाह अस्मात्परोस्ति ९. वलं १०. सहितानां ११. किञ्चिन्त्यूनतर इति आभिप्रायः १२. पाण्डवामां पर्यासमाभिभवाय विनाशने सर्मर्थमित्यर्थः १३. रक्षितं १४. भीष्मोस्वनेकशास्त्राश्स्रपारगोनेकनिर्जितमहासमर इत्याशयः १५. अङ्कोयमाह अस्मात्परोस्ति ____________________________________________________________________ पृष्ठ २२ प्रधाननिर्देशपर्योजनमाह अन्येषु तु सर्वेषु यथाभागमवस्थिता(ः) । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ भगवद्गीता_१.११ ॥ हि यस्मादेवम्भूतेन भीष्मेणाभिरक्षितमस्माकं बलं पाण्डवानां पराभवे पर्याप्तम् । ततोऽयनेषु सर्वेषु रथमार्गरथ्यासु सर्वासु यथाभागम् । यो यो भागो यथाभागम् । यो यस्यात्मीयो भगोऽंशः (स तेन) रक्ष्यः१ । तत्र अवस्थिताः सन्तो भवन्तो भीष्ममेवाभिरक्षन्त्व्२ इति तस्मिन्नायके३ सर्वतो गुप्ते बलं परबलप्रणाशने४ क्षमं भवतीत्याशयः । यद्यस्मिन्निति५ (?) अयनं कक्ष्यादि ॥ ११ ॥ इदानीं६ कार्यान्तरमुपक्षिपति सञ्जयः७ तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं८ दध्मौ प्रतापवान् ॥ भगवद्गीता_१.१२ ॥ तस्य प्रक्रान्तस्य बलस्य दुर्योधनस्य वा९ हर्षमुत्पादयन् भीष्मः कुरूणां तत्कालजानां पूर्ववयाः सिंहनादमुच्छैर्विनद्य१० ततः शङ्खं दध्मौ । सिंहस्य इव नादः सिंहनादः तं विनद्य । सामान्यनदेर्विशेषनदिः११ कर्म । सिंहनादं कृत्वेत्यर्थः ॥ १२ ॥ ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः१२ । सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ भगवद्गीता_१.१३ ॥ अनन्तरं शङ्खादयः सहसैवाविचारितनियन्त्रणमेव अभ्यहन्यन्त१३ ताडिताः । स च वादित्रसङ्घातजः शब्दस्तुमुलो महान् __________ टिप्पणी १. यस्यात्मीयोंसो भागो रक्ष्यः २. भोष्ममे ३. त्तस्मिन्नायके ४. प्रद्दर्शने ५. यत्यस्मिम्निति ६. इदान्नी ७. कार्यातरमुपाङ्क्षिपति संययः ८. विनद्योश्चैः सङ्खान् ९. चलस्य दुर्योधनस्या वा १०. कुरुणां .... सिंहनादसुश्चौर्वितघं ११. समान्य १२. पणवानक १३. शङ्खायाः सहसैवाधिचारितं निर्यत्रणमेवाभ्यहन्यत ____________________________________________________________________ पृष्ठ २३ अविभाव्यमानावयवविवेकः श्रोतृहृदयदारणोऽभवत्१ । भेर्यः कात्वाः (?) आनकस्तमिस्वा (?) गोमुखोऽनलम्बकः२ (?) ॥ १३ ॥ ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ भगवद्गीता_१.१४ ॥ माधवपाण्दवौ दिव्यैकरथारूढावचिन्त्यप्रभावौ शङ्खावत्यर्थं५ ध्मातवन्तौ ॥ १४ ॥ अथ प्रधानशङ्खनामनिर्द्देशमाह६ पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः७ ॥ भगवद्गीता_१.१५ ॥ अनन्तविजयं राजा कुन्तीपुत्रो८ युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ भगवद्गीता_१.१६ ॥ पौण्ड्रं (पुण्ड्र)देशजं विपुलं वृकोदरो दीप्ताग्न्युदरो९ भीमकर्मा बकहिडिम्बादिराक्षसविदारणादीनि भीषणानि कर्माणि यस्य (सः) । कुन्तीपुत्रग्रहणं प्रशंसार्थम् । पितुरसंविज्ञाने मात्रा व्यवदेशो यद्यपि कुत्सा१० राधासुतस्येव तस्य पुनः संविज्ञाने प्रशंसैव११ धर्मपुत्रत्वाद् युधिष्ठिरस्य१२ ॥१३ ॥ किं च तथा काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ भगवद्गीता_१.१७ ॥ १. महानविभाव्यमामावयवविवेकः श्रोत्त्र्तृदयारुणोभवत् २. गोमुखोनलवङ्कः ३. श्वेतेह ४. पांडवाश्चैव ५. दिय्यैकरथरुटावचिन्त्यप्रभावौ शंव्यौ ६. नामुनिर्देश ७. कर्मार्वृकोदरः ८. कुतीपुत्र ९. दीप्ताग्यदरः १०. यत्युकुत्सा ११. सविज्ञाने प्रशंसेव १२. धर्मपुत्रात्वाघ्रधिष्टिरस्य ____________________________________________________________________ पृष्ठ २४ पाञ्चालश्च१ महेष्वासो द्रौपदेयाश्च पञ्च ये । सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक्(पृथक्) ॥ भगवद्गीता_१.१८ ॥ सात्यकिश्चापराजितो युद्धेष्विति विज्ञेयम् ॥ १८ ॥ किं च स घोषो धार्तराष्ट्राणां३ हृदयानि व्यदारयत्४ । नभश्च पृथिवीं५ चैव तुमुलो व्यनुनादयत् ॥ भगवद्गीता_१.१९ ॥ यथोक्तशङ्खघोषस्तुमुलो६ दुर्योधनादीनां हृदयान्यभिनद्७ भिन्नवान् । यतो नभश्च पृथिवीं चैव८ सकलमिव व्यनुनादयत्प्रतिशब्द्दयुक्तमकारयत्व्यनुनदनं प्रयुक्तवान् । व्यनुनादयदित्यत्र व्यत्ययेऽनाडभावः९ । इहस्थानमपदानां१० निर्वचनं ग्रन्थगौरवभयान्न११ कृतम् । येषां च शब्दानामिह लक्षणानुगमो न दृश्यते तेषां विरोधो नोद्भावनीयः । यतः परमर्षिणा द्वैपायनेनैवोक्तमलङ्कृतं शुभैः शब्दैर् इति । अतस्तदागमादेवावगम्यते शुभशब्दत्वे१२ व्याकरणानां बहुत्वे च कथं पाणिनीयेन केवलेन विरोध उद्भावयितुं युक्तः१३ । इतिहासादीनां वैदिकार्थप्रतिपादनाच्छन्दस्तुल्यत्वम्१४ । तथा चानेनैवोक्तम्१५ इदं हि देवसम्मितम्१६ पवित्रमिदमुत्तममिति कार्ष्णवेदमिदं पुण्यमिति१७ । तथा अन्यत्रापि चोक्तम् __________ टिप्पणी १. याचाल्यश्च २. पृथक् ३. धातराष्ट्राणां ४. व्यदारयन् ५. पृथिवी ६. क्षयथोक्त ७. हृदयान्यभिनद्भिन्न ८. पृथिवी चैव ९. व्यनुनदनः प्रयुक्तवानिवेति व्यत्ययेनानुभावः १०. इहधनाम ११. ग्रथ १२. ब्रुभैः शब्दैरितिस्तदागमादेवावगते १३. विरोधरुद्भावयितु युक्त १४. इतिहासादानां वेदिकार्थ १५. चानेनेवोक्तम् १६. वेदेसामितं १७. कार्क्ष्मवेदमि ____________________________________________________________________ पृष्ठ २५ वेदाभेदं भारतस्यावलोक्य व्यासो वाक्यैरश्विनोः स्तोत्रमादौ । सम्यक्कृत्वा वैदिकैर्लक्षणोक्तीर्१ भूयो भूयस्ताः करिष्यत्यत्र शेषाः२ ॥ १९ ॥ अन्यदपि कार्यान्तरमुपक्षिपन्नाह अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः । प्रवृत्ते३ शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ भगवद्गीता_१.२० ॥ हृषीकेशं तदा वाक्यमिदमाह महीपते४ । अथ शङ्खघोषादनन्तरमर्जुनो दुर्योधनादीन्५ (व्यवस्थितान्) विविधेनाकारेण६ यथाविभवमवस्थितान् दृष्ट्वा शस्त्राणां सम्पाते प्रवृत्ते धनुरुत्क्षिप्य सावधानो हृषीकेशमिदं वक्ष्यमाणं वाक्यमाह । हृषीक(म्) इतीन्द्रियग्रामाख्या तदीशं७ हृषीकेशमिति । हे महीपत इति धृतराष्ट्रोद्बोधनं सञ्जयेन८ ॥ २० ॥९ किं तद्वाक्यमित्याह उभयोः सेनयोर्मध्ये रथं स्थापय मेऽच्युत ॥ भगवद्गीता_१.२१ ॥ यावदेतान्निरीक्षेऽहं१० योद्धुकामानवस्थितान्११ । कैर्मया१२ सह योद्धव्यमस्मिन् रणसमुद्यमे१३ ॥ भगवद्गीता_१.२२ ॥ मध्ये रथस्थापनाद्युयुत्सासंशयोऽनुमीयते१४ पार्थस्य । तं च प्रकटयिष्यति । किमर्थं (सेनयोर्मध्ये) रथस्थापनमिति चेदत आह यावदि(ति) । यावदित्यनेन कार्यशेषं सूचयति१५ __________ टिप्पणी १. कलक्षणोक्तीर् २. ष्यत्रशेषः ३. वृ.वृत्ते ४. हपीकेशं ... पहीपते ५. शङ्खघोषादं नरमर्जुनो । दुर्योधनादिन् ६. विविधनेकाकारं ७. तदीसं ८. धृतराष्ट्रद्धनं सजयेन ९. ॥२०॥ इति नास्ति १०. निरोष्के ११. योद्धकप्नान १२. कैप्नया १३. अस्मिन्नणसप्नुद्यमे १४. युथुत्सात्सं १५. सुचयति ____________________________________________________________________ पृष्ठ २६ रणसमुद्यमे युद्धोद्योगे१ कैः सह मया योद्धव्यमिति२ योद्धुकामानवस्थितान् दृष्ट्वा ततो यथाभिप्रेतम् आचरिष्यामीत्याशयः४ ॥ २२ ॥ सञ्जय उवाच एवमुक्तो हृषीकेशो५ गुडाकेशेन भारत । उभयोः सेनयोर्मध्ये स्थापयित्वा रथोत्तरम् ॥ भगवद्गीता_१.२३ ॥ भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्६ । उवाच पार्थ पश्यैतान्७ समवेतान् कुरूनिति८ ॥ भगवद्गीता_१.२४ ॥ गुडाका निद्रा तदीशेन जितनिद्रेणार्जुनेनैवमुक्तो९ भगवानुभयोः सेनयोर्मध्ये रथं स्थापयित्वोवाच । कथं स्थापयित्वेत्याह भीष्मद्रोणप्रमुखतः१० तयोः सम्मुखम् । आद्यादित्वात्(सार्वविभक्तिकः) तसिः११ । सर्वेषां च१२ राज्ञां सम्मुखम् । किमुवाचेत्याह हे पार्थ । पश्यैतानेकत्र समवायं गतान् कुरूनिति१३ । भीष्मद्रोणाभिमुखे१४ रथस्थापनाभिप्रायं भगवानाह यत१५ पितामहगुरून्१६ प्रति कदाचिदस्यायुयुत्सा स्यात्तदेनं ज्ञानोपदेशेन१७ प्रवर्तयिष्यामीति१८ ॥ २४ ॥ तत्रापश्यत्स्थितान् पार्थः पितॄनथ१९ पितामहान् । आचार्यान्मातुलान् भ्रातॄन्२० पुत्रान् पौत्रान् सखींस्तथा२१ ॥ भगवद्गीता_१.२५ ॥ श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि२२ । __________ टिप्पणी १. पुध्वोद्योगे २. योद्धर्व्यामिति ३. योद्धकामान् ४. यथाहिप्रेतम् ५. नृषीकेशो ६. मदिक्षिताम् ७. पश्यैवान् ८. नुकुरुनिति ९. जितनिद्रेना १०. प्रप्नुखतस् ११. इत्याधोदित्वा तुसिः १२. चा १३. कुरुनि १४. भिमुखरथ १५. भगवताहुर्यत् १६. गुरुन् १७. कदाचिदस्थायुत्सा स्यात्तरानं ज्ञानोपदेशेन १८. प्रवर्तयिष्यामिति १९. त्तत्रापश्यान्स्थितान् पार्थः पितूनथ २०. भ्रात्तून् २१. सखंस्तथा २२. सुहृदश्चैव सेनयौरु ____________________________________________________________________ पृष्ठ २७ तत्र उभयोः सेनयोर्मध्ये पार्थः पित्रादीनपश्यत् । पितॄन् पाण्डुधृतराष्ट्रभ्रातॄन्१ केनापि वान्येन२ (सम्बन्धेन) तत्स्थानीयान् पितामहान् भीष्मबाहुलीकसोमदत्तप्रभृतींस् तत्स्थानीयान्३ वा मातुलान् शल्यशकुन्यादींश्च४ तथैवोभयोः सेनयोरन्यान् स्वजनान् भ्रातॄं तत्तुल्यान् सुतान् पौत्रान् (अपश्यत्)५ ॥ २६ ॥ तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ॥ भगवद्गीता_१.२६ ॥ कृपया परयाविष्टः६ सीदमानाब्रवीदिदम् । तान् सर्वान् बन्धूनिति७ समीक्ष्य न कश्चिदत्र परः सर्व एव स्वजना इत्येवं विचार्य कथमेते मारयितुं युवता इति प्रकृष्टया करुणया वशीकृतः । तत एव सीदमानोऽवसादं गच्छन् युद्धोद्यमं८ जहदिदमब्रवीदिति । व्यत्ययेनात्रात्मनेपदम्९ ॥ २७ ॥ किं तदित्याह दृष्ट्वेमान् स्वजननान् कृष्ण युयुत्सून्१० समवस्थितान् ॥ भगवद्गीता_१.२७ ॥ सीदन्ति मम गात्राणि११ मुखं च परिशुष्यति । वेपथुश्च शरीरं मे रोमहर्षश्च जायते ॥ भगवद्गीता_१.२८ ॥ संसते गाण्डिवं१२ हस्तात्त्वक्चैव१३ परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ भगवद्गीता_१.२९ ॥ हे कृष्ण इमान्१४ स्वान् जनान्१५ युयुत्सून्१६ समवायेनावस्थितान् दृष्ट्वा मे अङ्गानि योद्धुं नेच्छन्ति१७ । वेपथुः कम्पो __________ टिप्पणी १. पित्रून् पान्दुधृतराष्ट्रभ्रात्रून् २. वातन्येन ३. वाहिक .... तत्स्थानीमान्वा ४. शकुत्यान्दीश्च ५. सेनयोरभ्यतुल्यस्वाजन्यातुतः ॥ २६ ॥ ६. परयाष्टिष्टः ७. तात्सर्वान् वन्धूनीति ८. गछत्युद्भाद्यमं ९. च्यत्ययेन १०. कृक्ष्मयुयुत्सुन् ११. गात्रारणि १२. गांडिव १३. त्वत्कैव १४. कृनेमान् १५. स्वाजनान् १६. युयुतृन् १७. याद्धं नोद्यच्छन्ति ____________________________________________________________________ पृष्ठ २८ रोमहर्षश्च ऊर्द्ध्वरोमता१ (गाण्डीवं) संसतेऽधःपतति । त्वक्शरीरं चर्म२ शोकाग्निना दह्यते३ । मुमूर्षूं दृष्ट्वा४ कृपया तथाभूतः सनिति५ । अत्र च भिन्नकर्तृकता६ पूर्वोक्तन्यायान्न७ चोदनीया । यद्वा दर्शनक्रियाया अर्जुनः कर्ता गात्रादिसादनादौ च वास्तवेन धर्मेणार्जुन एव । न ह्यर्जुनव्यतिरेकेणान्यद् गात्राद्यस्ति८ । इवशब्दस्तूपमार्थो९ भेदबुद्धिं जनयतीति । अपि च कृपावशात्प्रयत्नशैथिल्ये सत्यवष्टम्भं१० धारयितुं न शक्नोमि । दुःखप्रकर्षाच्च चक्रारूढमिव११ मे मनो भ्रमत्य् अनवस्थितत्वाद्भ्रमतीवेत्युक्तम्१२ ॥ २९ ॥ किं च निमित्तानि१३ च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ भगवद्गीता_१.३० ॥ निमित्तानि यानि जयसूचकानि उत्साहादीनीष्यन्ते१४ । तानि विपरीतानि१५ अनुकूलानि पश्यामि । यद्वा गात्रावसादादीनि निमित्तानि पश्यामि । न चाहवे बन्धुवर्गं१६ हत्वोपकारमनुपश्यामि ॥ ३० ॥ तत्रैतत्स्यात्यद्युद्ध्यतां पाण्डवानां विजये सति राज्यादिलाभलक्षणस्य श्रेयसः सम्भावनास्तीति तदाह१७ __________ टिप्पणी १. रोमहर्ष कुर्ध्वंरोमता २. त्त्वच्छारीरं चर्मा ३. दत्येते ४. दृष्टा ५. भूतस्मयन्न इति ६. भिन्त ७. पूर्वोन्ङ्क्यापन्न चोदनीया ८. व्यतिरेणान्यद्भात्राद्यस्ति ९. इति शब्दस्त्वपमार्था १०. अवष्ठम्भ ११. शङ्कोमि दुखप्रकर्षाश्च चक्रारुठभिव १२. स्थितत्वाद्भुमतीवेत्युङ्कम १३. निमिन्तानि १४. सूचकान्युत्साहाशीनीष्यन्ते १५. विपरोतानि १६. व चाहवे वन्धुवंर्ग १७. तत्रतेतत्स्याच्छक्रवापष्टतः पांडवानामित्यादि श्रयलक्षणं श्रेयोस्तीत्यत आह ३०। शक्तत्वाद्युद्ध्यतां पाण्डवानाममित्रविजयलक्षणं श्रेयोस्तीत्यत आह इति वा पाठः ____________________________________________________________________ पृष्ठ २९ न काङ्क्षे विजयं कृष्ण१ न च राज्यं सुखानि च । किन्नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ भगवद्गीता_१.३१ ॥ साम्प्रतमेव म्रियते२ बन्धुवर्गस्ततो जयमपि न काङ्क्षे नाभिलषामि३ । अथोच्यते जये सति राज्यं लभ्यत इति चेत्तन्न४ । न च राज्यं काङ्क्षे । राज्ये हि सति सुखानि भवन्तीति चेत्तन्न५ । न च सुखानि काङ्क्षे । कस्मादित्याह हे गोविन्द (रा)ज्येन भोगैः सुखादिभिर्वा किं नः६ कृत्यम् । सर्वं वा राज्यभोगादिकं यज्जीवितोपकरणं७ तेनापि किं प्रयोजनमिति ॥ ३१ ॥ न त्वेष पुरुषार्थां यदात्मम्भरित्वम् । किं तर्हि । सर्वं८ (हि) जीवितं राज्यादि (वा) गुरुपित्राद्यर्थम् इष्यत इत्याह९ येषामर्थे काङ्क्षितं१० नो राज्यं भोगाः सुखानि च । त एवेमे स्थिता योद्धुं प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ भगवद्गीता_१.३२ ॥११ येषां गुर्वादीनां कृते राज्याद्यस्माभिः काङ्क्षितं त एव मे गुर्वादयः सुदुस्त्यजान्१२ प्राणांस्त्यक्त्वा१३ नोऽस्माकं पुरतो योद्धुं१४ स्थिताः । तत्को नाम बुद्धिपूर्वकारी निष्प्रयोजनं राज्यादि प्रियं कुर्यान्न गुर्वादीन्१५ ॥ ३२ ॥ तानेव दर्शयति आचार्याः पितरः पुत्रास्तथैव च पितामहाः । भातुलाः (श्व)शुराः पौत्राः श्यालाः१६ सम्बन्धिनस्तथा ॥ भगवद्गीता_१.३३ ॥ __________ टिप्पणी १. कृष्म २. साम्न्पतमेव भ्निपते ३. नाभिलष्याभि ४. लभ्यत इति तन्न ५. चेन्नन्नन ६. नं ७. पज्जावितं पेकरं ८. सर्व ९. इत्यार्ह १०. पषामर्थे काक्षितं ११. योद्धु प्राणांस्सत्त्वकासुदुस्सजान्३१ १२. गुर्वादयस्सुदुस्सतात् १३. त्यत्का १४. योद्धुं १५. प्रिये कुयान्न तु पुर्वादीवोति १६. स्यालाः ____________________________________________________________________ पृष्ठ ३० श्यालाः१ श्वाशुर्याः । सम्बन्धिनो२ जामात्रादयः ॥ ३३ ॥ इदानीं करुणाविष्ट आह एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य४ हेतोः किन्नु५ महीकृते ॥ भगवद्गीता_१.३४ ॥ एतानाचार्यादीन् घ्नतोऽपि जिघांसतोऽपि हिंसितुं नेच्छामि । घ्नतो ह्यवश्यं हन्यते६ लाभार्थं यदि (ते) हन्येरन् । तत्र त्रैलोक्यराज्यस्यापि हेतोर्न हन्तुमिच्छामि७ किं पुनः पृथिव्या अर्थे ॥ ३४ ॥ पापशङ्कायामाह८ निहत्य९ धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन१० । पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ भगवद्गीता_१.३५ ॥ हे जनार्दन एतान्११ हत्वा अस्माकं कोऽभ्युदयो भवेत्१२ । कस्य हि बन्धुमरणात्प्रीतिरुत्पद्यते१३ । प्रीतिरिति यद्यपि कृदभिहितो भावो द्रव्यवद्भवति१४ तथापि भावरूपतां न जहाति१५ नास्ति भिन्नकर्तृकता । हननप्रीत्योर्ह्येककर्तृकता१६ । यत आततायिनः किलैते कथन्नः प्रीतिः स्यादित्याह१७ पापमेवेति । एतान् हत्वा प्रत्युत पापमेव अस्मानाश्रयेत् । यत आततायित्वेऽपि भ्रात्रादयः सम्भजनीया वर्धनीया लाडनोया न तु __________ टिप्पणी १. स्यालाः २. संवेधिनो ३. मिच्छामिष्वतोपि ४. त्रैलोक्य ५. कितु ६. हिसितुर्नेच्छामि ध्न र्त्धवश्यं हन्यन्ते ७. रंस्तत्रेलोक्यराज्यस्यापिहेतुर्न हन्तुमिच्छामि ८. पापसंवं शङ्कायामाह ३४ ९. निहस धार्तराष्ट्रन्निः १०. प्रेतिस्स्याज्जनार्हन ११. एना १२. योभ्युदयोभवेत् १३. प्रतिर् १४. कृदमिहितो भावो द्रब्यबद्भवति १५. तं मृजहतिति १६. प्रीत्येत्द्यैक एकर्ता १७. कथन्न प्रीतस्स्मादित्याह ____________________________________________________________________ पृष्ठ ३१ हन्तव्या इति । कथं हि भ्रात्रादिवधादेवाधर्मोऽस्मान्न१ भजत इति हत्वा पापमाश्रयेदिति । अत्रापिशब्देन न्याये भिन्नकर्तृकता वास्तवेन तु नास्ति । पापं हि हिंसादिकं२ क्रियात्मकमेव । ततश्च एव हन्ति तेनैव कृतं पापं स्यादित्येकः कर्ता ॥ ३५ ॥ एवं३ भ्रात्रादिवधाशङ्काविक्लवमभिधाय तदभिप्रायाविष्करणायाह४ तस्मान्नार्हा वयं हन्तुं५ धार्तराष्ट्रान् स्वबन्धवान्६ । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ भगवद्गीता_१.३६ ॥ यस्माद्धार्तराष्ट्रहननात्प्रीतिर्नास्ति प्रत्युताधर्मः७ तस्मात्तान् स्वजनवर्गान् हन्तुं वयं नार्हाः८ । स्वजनं हि हत्वा कथं सुखिनो भवेम । धर्मबहिष्कृतानामेतदाचारणमित्यभ्यिप्रायः९ ॥ ३६ ॥ किं च यद्यप्येते न पश्यन्ति लोभोपहतचेतसः१० । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ भगवद्गीता_१.३७ ॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्११ । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन१२ ॥ भगवद्गीता_१.३८ ॥ कुलक्षयस्तावद्ध्रुवः प्रत्युपस्थितः१३ । तत्कृतश्च दोषो वक्ष्यमाणः सर्व१४ एव । अमी च१५ द्रोणादयोऽस्मासु मैत्र्यां वर्तमानत्वान्मित्राणि । तेषां द्रोहे जिघांसायां यत्१६ पातकं यद्वा मित्राणि द्रुह्यतीति मित्रध्रुक्तस्मिन्मित्रद्रुहि पुरुषे यत्पातकम् __________ टिप्पणी १.भ्रात्रादिषधादेव २. यार्प हि हिसादिकं ३. कर्त्तान्न एवं ४. वित्क्लवेभिधायाम्भिप्रायाविष्करणयाह ३५ ५. हन्नु ६. वान्धवान् ७. प्रत्यता ८. हन्तु वयं नाहाः ९. धर्मवहिष्कतानामेनद्दाचरितमित्याभिप्रायः १०. लौभोयहनः ११. पापद १२. पपश्यद्भिख १३. तावद्धवः प्रत्युपस्थिः १४. वक्ष्यमाण १५. चामी १६. जिघांयोयत् ____________________________________________________________________ पृष्ठ ३२ इति सम्बन्धः । तदेतदुभयमेते१ धार्तराष्ट्राः पृथिवीलाभोपहतचेतसः सन्तो२ यद्यपि न३ पश्यन्ति न चेतयन्ते । तत्कथमस्मादुक्तरूपात्पापान्निवर्तितुमस्माभिर्न४ ज्ञेयम् अवश्यं ज्ञेयमित्यर्थः५ । किम्भूतैरस्माभिः६ । कुलक्षयकृतदोषमन्वगच्छद्भिः७ ॥ ३८ ॥ तमेव दोषं दर्शयति८ कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत९ ॥ भगवद्गीता_१.३९ ॥ कुलक्षये सति ये धर्मा नित्यनैमित्तिका यागादयो गोत्रसमाचाराः स्र्तीरक्षणादयश्चानादिकालीनास्ते पुरुषाणामनुष्ठातॄणामभावात्प्रणश्यन्ति१० । यत्र च धर्मस्य हानिस्तत्रावश्यमधर्मः प्रभवति परस्परं प्रत्यनीकत्वात्तयोः । तदभिभूतश्च११ प्राणिनोऽकार्येषु प्रवर्तन्त इत्याह१२ धर्मे नष्टे कुलं कृत्स्नमिति । उभयलोकहितवन्निस्त्र्यादिकमधर्म आक्रम्य तिष्ठतीत्यर्थः१४ । उतावश्यमिति ॥ ३९ ॥ किं च अधर्माभिभवात्कृष्णा प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ भगवद्गीता_१.४० ॥ अधर्माभिभवाधेतोः कुलस्त्रियः चरित्रहीना१५ भवन्ति । तासु दुष्टासु वर्णेय जायते वर्णसङ्करः । वर्णश्चासौ सङ्करश्चेति । अशुद्धो वर्ण इत्यर्थः ॥ ४० ॥ __________ टिप्पणी १. मेने २. लाभोपहेतचतेस्सन्तो ३. ना ४. उभरूपान्निवर्तिमस्माभिर्न ५. मितिथ्यः ६. किमूतैरस्माभिः ७. अन्वगच्छद्भिः ८. दृशयति ३१ ९. भवत्युत १०. पुरुषाणाननुष्टा रूणामभावान्प्रणश्यन्ति ११. पभवति ... प्रत्यनीकत्वान्नयोः तदभिभूजाश्च १२. प्रवर्ततः १३. धर्मो नष्टेकुल १४. आक्रमतृधितिष्टतीत्यर्थः १५. चरित्रहीना ____________________________________________________________________ पृष्ठ ३३ सङ्करो नरकायैव कुलध्नानां कुलस्य च१ । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ भगवद्गीता_१.४१ ॥ स वर्णसङ्करः कुलस्य नरकपतनाय कल्पते । यतः सन्ततिः शुद्धवंश्या तु पतरेह च शर्मणे । विपरीता तु नरकाय इत्यागमः२ । कुलध्नानां च नरकाय । यतो वर्णसङ्करोत्पत्तौ३ कुलध्नाः कारणभावं प्रतिपद्यन्ते४ । कस्मात्सङ्करो नरकाय५ । यस्मादेषामुभयसैन्याश्रितकुलानां पितरः धर्म्यसन्तानाभावल् लुप्तपिण्डोदकक्रिया६ भवन्ति । पिण्डश्च उदकं च पिण्डोदके तयोः क्रियाः ता लुप्ता येषां ते श्राद्धादिविच्छेदे७ सति पतन्ति ॥ ४१ ॥ पुनरपि शोकसंविग्नत्वात्८ सङ्क्षेपेण तदेवालोचयन्नाह९ दोषैरेतैः कुलध्नानां१० वर्णसङ्करकारकैः । उत्साद्यते११ जातिर्धर्मः कुलधर्मश्च शाश्वतः ॥ भगवद्गीता_१.४२ ॥ कुलध्नानां सम्बन्धिभिः एतैः यथोक्तैः कुलधर्मनाशाधर्माभिभवकुलस्त्रीदूषणैर्वर्णसङ्करकारकैर् हेतुभिः१२ दोषैः कुलाभावाद्जातिधर्मोऽनादिकालीनः१३ क्षात्रः१४ कुलधर्मश्चाध्ययनश्रद्धोदकदानादिः उत्साद्यते मूलत१५ एव विलोप्यत इत्यर्थः ॥ ४२ ॥ ततश्च उतसन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ भगवद्गीता_१.४३ ॥ उत्सन्ने कुलधर्मे त्वयमन्यो दोषो१६ यत्कुलधर्मैः __________ टिप्पणी १. कुस्य च २. इत्यागम ३. नरकापतो वर्णसङ्करोत्पत्तौ ४. कारणाभावं प्रतिपद्यन्त ५. कस्मा सङ्करो नरकार्य ६. भावलुप्तपिंडोदकक्रिया ७. विच्छेदे ८. सविग्नत्वात् ९. आह ४१ १०. कुलघानां ११. उत्साघत १२. दुषणैर्वर्ण १३. दोषै कुलाभाज्जारते धर्मो १४. क्षत्रः १५. दानारुकत्साद्यते मुल्पृष्ठअत १६. उत्सन्नकुलधर्मत्वेयमन्योदोषः ____________________________________________________________________ पृष्ठ ३४ परस्वर्गाद्यभ्युदयेन योगात्प्रेतानां सन्ततिविच्छेदान्न भवति (स्वर्गप्राप्तिः) । प्रत्युत१ श्राद्धातिथ्यादिकुलधर्माभावान् नरकपतनं (तेषां) भवत्येवेति वेदवादिभ्यः२ अनुशुश्रुम श्रुतवन्तो वयमिति ॥ ४३ ॥ एवं संशयाविष्टचेता३ नरकप्रत्यवायदर्शनात्सञ्जातसंवेग आह४ अहो बत महत्पापं कर्तुं५ व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं६ स्वजनमुद्यताः ॥ भगवद्गीता_१.४४ ॥ अहो विस्मये । बत विषादे । यद्राज्यसुखलोभेन विस्मयकारिणा७ सारभूतं दुर्लभं स्वजनं हन्तुं वयमुद्यताः तत्महत्पापं कर्तुं व्यवसिता इत्यतोऽस्य विषादः८ । तथा राज्यसुखं नाम पश्य कीदृशं येन वयमद्य पापाः सम्भाव्यमानस्वजनवधाय प्रवर्तामह९ इति१० विस्मयः । यद्वा११ अहो दैन्ये । बत खेदानुकम्पयोः । राज्येन यत्सुखं तल्लोभात्स्वजनवधपापव्यवसाये प्रवर्तामहे१२ । त्रयोऽप्येते क्लेशा राज्यार्थमस्य प्रादुरभवन्निति१३ कृत्वा निवर्तितुमिच्छतीति१४ ॥ ४४ ॥ संवेगाकुलः पुनरपि प्रलपन्नाह१५ यदि मामप्रतीकारमशस्त्रं१६ शस्त्रप्राणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ भगवद्गीता_१.४५ ॥ यदि धार्तराष्ट्राः शस्त्रपाणयः सन्तः मामशस्त्रम् अनुद्यतायुधमप्रतीकारम्१७ अकृतप्रतिविधानमुदासीनावस्थं हन्युस्तन्मे __________ टिप्पणी १. धर्मैः प्रेतानां परस्वर्गादभ्यु योगः सतद्विच्छेदान्न भवति प्रत्यत २. कुले ... पतनमित्येर्ववेद ३. एव शयाविष्टचेता ४. आह ४३ ५. कर्तु ६. हन्तु ७. विस्मारेण ८. चिषादः ९. वयमध्यसम्भाव्यमानपापास्त्वजनवधयाये प्र १०. हति ११. युद्धा १२. प्रवतीमदे १३. क्लेशांयार्थस्य प्रा १४. मिच्छतीति १५. आह ४४ १६. ब्रतीकार १७. तायधमं ____________________________________________________________________ पृष्ठ ३५ क्षेमतरं युक्ततरं स्यात् । परो मनोरथः (सिद्धः) स्यात्पाप्(आ)करणादित्यर्थः । सशस्त्रं१ सप्रतीकारं मां हन्तुं न केचन क्षमाः स्युर् इत्युभयोरुपादानम् ॥ ४५ ॥ इदानीं सञ्जयो धृतराष्ट्रं२ प्रत्यर्जुनकथाप्रस्तावं समापयन्नि(द)माह एवमुक्त्वार्जुनः सङ्ख्ये३ रथोपस्थ उपाविशत् । उत्सृज्य सशरं चापं शोकसंविग्नमानसः ॥ भगवद्गीता_१.४६ ॥ तान् समीक्ष्य ...... सीदमानोऽब्रवीदिदमित्यतः प्रभृति एवं यथोक्तमुक्त्वा अर्जुनः४ सङ्ख्ये युद्धभूमौ धनुरुत्सृज्य५ रथस्योपर्युपाविशत् । किं कारणम् । यतः स्वजनहननजनितशोकाकुल६ इति ॥ ४६ ॥ अत्र सङ्ग्रहश्लोकाः शूरसङ्ख्या परव्यूहे स्वबले शूरसङ्ग्रहः७ । तद्विवेको भीष्मरक्षा८ शङ्खवादित्रनिःस्वनाः ॥ दिदृक्षा सैन्ययोर्ज्ञातिगुरुमित्रानुदर्शनम्९ । तज्जानुकम्पा पार्थस्य परिदेवपरिभ्रमौ ॥ युद्धत्यागश्च शोकश्च१० पदार्थाः सारसङ्ग्रहः११ ॥ इति श्रीमद्भगवद्गीतासु भगवद्भास्करकृते भगवदाशयानुसरणाभिधाने भाष्येऽर्जुनविषादो१२ नाम प्रथमोऽध्यायः ॥ १ ॥ __________ टिप्पणी १. मशस्त्रं २. धृतराष्ट्रं ३. मुक्ता सेख्ये ४. यथोक्तमुत्त्कार्जुनः ५. धनुःन्सृज्य ६. यत सृवजनहनन ७. श्लोकाऽपरव्यूहे शूरसङ्ख्यास्व ८. रक्षां ९. दिदृशा सैन्ययोज्ञाति १०. युद्धत्यागो दशैकश्च ११. सङ्ग्रहः । ४६ १२. भाषे ____________________________________________________________________ पृष्ठ ३६ अथ द्वितीयोऽध्यायः इत्थमन्तकवक्त्रकुहराभिमुखं जनं मित्रबन्धुवर्गं प्रति जातघृणमर्जुनं१ पृथिवीभारावतरणसम्पिपादयिषया भगवान् स्वधर्मसहितसम्यग्दर्शनोपदेशेन युयोधयिषतीति प्रतिपादयितुं द्वितीयाध्यायग्रन्थारम्भः२ । तं सञ्जयो धृतराष्ट्रं प्रति विवृण्वन्नाह३ तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्४ । सीदमानमिदं वाक्यमुवाच मधुसूदनः ॥ भगवद्गीता_२.१ ॥ तमर्जुनं तेन प्रकारेण प्रथमाध्यायोक्तेन गात्रावसादमुखशोषरोमहर्षादिलक्षणमवसीदन्तं५ कारुण्यपरवशमत एवाश्रुपूरव्याकुलत्वाल्लोहितेक्षणम् अवसीदन्तं६ व्युपरतयुद्धोद्यमं भगवान् वक्ष्यमाणं वाक्यमुवाच । तं वाक्यमुवाचेति द्विकर्मकता ॥ १ ॥ कुतस्त्वा कश्मलमिदं७ विषमे समुपस्थितम्८ । अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ भगवद्गीता_२.२ ॥ कुत इति संशयानः पृच्छति९ । कस्मादिदं मोहलक्षणं पापं कर्तृ त्वामुपगतमाग(त)म् । अस्मिन् विषमे सङ्कटे त्रैलोक्यसम्भावितपौरुषं त्वामसम्भाव्यमानो मोहः कुतः सम्प्राप्त इति महान् संशयः । कीदृशं१० कश्मलम् । कुलशीलविद्यारहितैः सेवितमतश्चाकीर्तिकरं तत एव चास्वर्ग्य नरकादिप्रापकं तस्मात् ॥ २ ॥ __________ टिप्पणी १. कुहराभिमुखजनमित्रवुन्धुवर्गं प्रति तात २. ग्रन्थारंमः ३. प्रतिवृण्वन्नह ४. मस्त्रुपूर्णाकुलेक्षणम् ५. तमर्जुन तेन प्रकारण प्रथमाध्योङ्क्तेन गात्रावसादमुभांशोष ६. कुरुण्व ... एवालुदू ७. कश्प्रल ८. समपस्थितम् ९. पूछति १०. कीवृशं ____________________________________________________________________ पृष्ठ ३७ मा क्लैव्यं गच्छ कौन्तेय नैतत्त्वय्युपपद्यते१ । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ२ परन्तप ॥ भगवद्गीता_२.३ ॥ क्लैब्यममनुष्यत्वं दीनभावं मोहान्मा गच्छ३ मा आश्रय यतस्त्वयि४ खाण्डवानलतर्पणेन सङ्ग्रामाराधितत्र्यम्बकतया निवातकवचवधपरितोषितपुरन्दरत्वादिभिरुपादानैर्देवेष्वपि५ प्रख्यातपौरुषे नैतदुपपद्यते न सम्भाव्यते६ । अतस्त्वं हृदयस्याल्पसारत्वं७ क्षुद्रमल्पवस्तुभूतं न्यूनहृदयत्वं८ कापुरुषसेवितं त्यक्त्वा रथोपस्थादुत्तिष्ठ । उत्थाय च युद्धाय सज्जो भवेत्याशयः९ । परन्तपेत्यनेनार्जुनं प्रोत्साहयति ॥ ३ ॥ एवं भगवतोक्तेऽर्जुन उवाच१० कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन । इषुभिः प्रतियोत्स्यामि११ पूजार्हावरिसूदन ॥ भगवद्गीता_२.४ ॥ कथं केन प्रकारेण कया युक्त्या१२ भीष्मादीन्माननीयानहं प्रतियोत्स्यामि११ । मधुसूदनारिसूदनेति भक्तः पुनः पुनरास्थां करोति समक्रमेण ॥ ४ ॥ किमिति१३ न च प्रतियोत्स्यामीत्याह१४ गुरूनहत्वा१५ हि महानुभावान् श्रेयश्चर्तुं भैष्क्यमपीह१६ लोके । न त्वर्थकामस्तु गुरून्निहत्य भुञ्जीय भोगान् रुधिरप्रदिग्धान्१७ ॥ भगवद्गीता_२.५ ॥ __________ टिप्पणी १. गच्छ कौण्तवेय नैतत्वस्युपपद्यते २. तङ्क्तोन्तिष्ट ३. गछ ४. त्वषि ५. भिरपादानैर ६. नैतद्रुपपद्यत ना साभाव्यते ७. अत सत हृदयस्य ८. मूतान्यूनहृदय ९. त्यत्त्का रथोपस्थाः उत्तिष्ट । उस्याय च पुकृय सज्जया भवेत्याशयः १०. उवाच ३ ११. प्रतियोत्सामि १२. युक्ता १३. नारियूदनेति भक्तापुनः पुनराछाना करोति । समत्रमेण किमिति १४. च न प्रतियोत्स्याम इत्याह ४ १५. हत्व १६. श्रेयश्चभुन्त्तुभैक्षमपीह १७. पतिग्घान् ____________________________________________________________________ पृष्ठ ३८ हि यतः कारणात्१ । यस्माद्(इह लोके देशे) गुरून् भीष्मादीन् प्रति युद्धवर्जनेन अहत्वा रक्षित्वा भैक्ष्यमपि चर्तुं२ श्रेयः । न तु धनाभिलाषी सन् गुरून्निहत्य भोगान् राज्यादीन्३ शोणितलेपबहुलान् भुञ्जीयेति कुत्सा । नैव भुञ्जीयेत्यर्थः । इह लोक इह क्षणिके जीवलोक इत्यर्थः । तुशब्दो गुरुहननव्यावृत्तिसू(च)नार्थः । पुनस्तुग्रहणाद् भैक्ष्यमपि प्रशस्यतरम्४ । न त्वेवंविधो विषयोपभोग इति ॥ ५ ॥ एतद्दशायामिदमिव तावद्विचार्यताम्५ न चैतद्विद्मः६ कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः । यानेव७ हत्वा न जिजीविषामस्८ तेन स्थिताः प्रमुखे धार्तराष्ट्राः९ ॥ भगवद्गीता_२.६ ॥ चशब्दः पूर्वापेक्षयाधिकाभ्युदययुक्तिद्योतनार्थः१० । एतदिति वक्ष्यमाणावमर्शिना सर्वनाम्ना यद्वा जयेम यदि वा नो जयेयुः इत्येतद्वक्ष्यमाणवाक्यद्वयाभिधेयोऽर्थः प्रत्यवमृश्यते११ । न त्यात्मीयपरवर्गावेकीकृत्य१२ निर्देशः । स धार्तराष्ट्राणामस्माकमित्यर्थो विवक्षितः१३ । कतरदित्यनेन सामान्यवादिना तद्वाक्यद्वयाभिधेययोर्बलयोर् एकतरं गरीयस्त्वेन विकल्पतो निर्णीयते१४ । __________ टिप्पणी १. हिः कारणायदेशे २. चर्तु ३. शब्दादीन् ४. र्थः । अग्रहणात्न्मैक्ष्यमपि प्रशंस्य ५. एतदास्साभिदमेव तावद्विचार्यताम् ५ ६. विड्मः ७. वानेव ८. जिजोविषामस्ते ९. प्रमुस्तो धर्तराष्ट्राः १०. पेक्षयाभ्युपयुक्तिद्योतनार्थः ११. वमशिना सर्वनाम्ना पद्य जयेम यदि वा नो नयेयुरित्येतद्वाक्यत्वयाभिधेयोर्थः प्रत्यवमृष्यते १२. स्वर्गावकीकृत्य १३. मस्पाकमित्यर्थो विवक्षतः १४. तद्वाक्यद्वत्याभिधेययोर्वलयो १५. निणोर्मते ____________________________________________________________________ पृष्ठ ३९ यद्यदिशब्दौ वितर्के विकल्पे वा । तदयं वाक्यार्थः१ न चैतद्वयं जयपराजययोरनियमाज् जानीमः२ कतरद्बलमस्माकं धार्तराष्ट्राणां मध्याद्गरीयो३ गुरुतरं बलवत्तरमिति । यद्वा वयं तान् जयेमाभिभवेम४ यदि वा ते नोऽस्मान् जयेयुर् अभिभवेयुरिति५ । किं च६ यानेव धार्तराष्ट्रान् हत्वा जीवितुं नेच्छामः७ कृपालुतया त एवास्माकं प्रमुखे सम्मुखे स्थिता इति । एतच्चार्जुनस्य सम्भ्रमपरिदेवनं हस्ताद्यभिनयेन ॥ ६ ॥ एवं सकारणं स्वपरिदेवनं पुनरपि८ भगवन्तमर्जुन आह९ कार्पण्यदोषोपहतस्वभावः पृच्छामि१० त्वां धर्मसम्मूढचेताः११ । यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्१२ ॥ भगवद्गीता_२.७ ॥ एवमहं गुरुबन्धुमित्रस्वजनान्मृत्युना धृतान् दृष्ट्वा१३ कार्पण्यदोषोपहतस्वभावः१४ कार्पण्यमौचित्यप्रतिपक्षभूतं दैन्यम्१५ तदेव दोषस्तेनोपहतो दूषितः सत्त्वधैर्यात्मकः१६ स्वभावो यस्य स तथोक्तः । तथा धर्मे सम्मूढमप्रतिपत्तिं गतं चेतो यस्य सोऽहं पृच्छामि त्वां परमेश्वरम् । यन्मे श्रेयः स्यात्तन्मे निश्चितमसन्दिग्धं ब्रूहीति१७ । धर्मविषयदैन्यदोषोपहतचित्तोऽहमित्यर्थः । __________ टिप्पणी १. शब्दो वितर्क्ये वा विल्पे तदयुं वाकयार्थः २. ने चैतद्वयं जयपराजययोनियमा जानीमः ३. मध्याद्भुरीयो ४. ताज्जयेम ५. नोस्तां तपेपुरभिभवेयुरिति ६. किच ७. धार्तराष्ट्रान् हत्वा नीवितु नेछामः ८. सपरिदेवनरपि ९. आह ६ १०. दाषो ... पृछामि ११. सम्मूवचेताः १२. यछेयस्स्यान् ... व्रूहि ... त्वां त्पपन्नम् १३. मित्ररवजनान् .... ध्रातां दष्ट्वा १४. दोशोपहत १५. कार्यणयमौर्तित्य प्रतिपक्षभूतदैत्यं १६. दोषरवेनोपहतो दुषितस्सत्त्व १७. धर्मेस्समूढमलवुप्रतिपत्ति चेतो पस्य सोहं पृच्छामि त्वा पर्मेश्रेयस्यान्तन्म स्वन्तिस्सनृग्घं व्रूहीति । ____________________________________________________________________ पृष्ठ ४० शास्त्रविहितोऽनुष्ठेयः१ क्रियामार्गो धर्मः । तत्रैतत्स्यात्२ नाशिष्यायोपदेशो (देयः) इति । तन्न । शिष्यस्तेऽहं३ निवेदितात्मा त्वां प्रपन्नः४ शरणागतश्च । अतोऽनुशासनेनानुगृहाणेति ॥ ७ ॥ कस्मात्त्वत्तः श्रेयोऽनुशासनं प्रार्थ्यत इति चेत्तदाह५ न हि प्रपश्यामि ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्६ । अवाप्य भूमावसपत्नमृद्धं७ राज्यं सुराणामपि चाधिपत्यम्८ ॥ भगवद्गीता_२.८ ॥ हि९ (यतः) कारणाद्१० देशे । यस्माद्भूमौ११ निष्कण्टकं१२ स्फीतं राज्यं ततोऽपि चाधि(कं सुराणां स्वा)मित्वं१३ प्राप्य अहन्न तत्१४ तथाभूतं (प्रपश्यामि) बुद्ध्या१५ निरीक्ष्ये यो ममैवम्भूतस्य१६ सर्वाधिपतेः सम्भाव्यमानहितोपदेशसहायकस्यापि मुमूर्षोर्ग्लानिसमुत्थं१८ शोकं सर्वेन्द्रियाणामिन्द्रियवृत्तीनाम् उच्छोषणं सङ्कोचकरम्१९ (अपनुद्यात्) निरस्येत्त्वां विनेत्यतस्त्वां पृच्छामीति२० ॥ ८ ॥ अधुना सञ्जयः पार्थप्रतिज्ञातामुक्तिं समापयं धृतराष्ट्रम् आह२१ __________ टिप्पणी १. विहितोनुष्टेयः २. स्थात् ३. इति तछिष्यः ४. त्वप्रपन्नः ५. कस्मात्वतः ... दाह ७ ६. द्यशेकम्छोषणमिन्द्रियाणां ७. सपन्न ८. चाधिपन्त्यम् ९. हिः १०. कारणाय ११. यस्माद्भूमौ १२. निष्कंठकम् १३. ततोपि चाधिमिन्त्वं १४. हन्न तं १५. वुद्धा १६. ... ममैवभूतस्य १७. सर्वाधियते १८. मुमृषुर्ज्लातिसमुत्थं १९. सर्वेन्द्रियाणामिन्द्रियवृत्तीतामुछोषणं सङ्कोचकरं २०. पृछामीति २१. अधुना ... सञ्जयः पार्थप्रतिज्ञानासमापयं धतरार्ष्टमाह ८ ____________________________________________________________________ पृष्ठ ४१ एवमुक्त्वा हृषीकेशं१ गुडाकेशः परन्तप । न योत्स्यामीति गोविन्दमुक्त्वा तूष्णीं बभूव२ ह ॥ भगवद्गीता_२.९ ॥ हे परन्तप । कथं भीष्ममहमित्यतः प्रभृति भगवन्तमुक्त्वा३ ततोऽतिशोकाकुलमनाः४ पुनरपि गोविन्दमाह५ न योत्स्यामि६ इति । एवं परिच्छेदमुत्साद्य७ तूष्णीं८ बभूवेत्यर्थः । हः पादपूरणे ॥ ९ ॥ इदानीं भगवत्प्रयुक्तिं वर्णयन्नाह९ तमुवाच हृषीकेशः१० प्रहसन्निव भारत११ । सेनयोरुभयोर्मध्ये१२ सीदमानमिदं वचः ॥ भगवद्गीता_२.१० ॥ तमर्जुनं१३ सेनयोर्मध्ये यथोक्तेन प्रकारेण सीदमानं युद्धं प्रति त्य्क्तोत्साहं हृषीकेशो१४ हसन्निदं वक्ष्यमाणं वाक्यम् आह१५ । महात्मानः१६ किल स्मितपूर्वाभिभाषिणो भवन्तीति ॥ १० ॥ तत्र (न) योत्स्यामि इत्यात्मविषयमिथ्याज्ञानवशान्निश्चितसङ्कल्पम् अर्जुनमात्मज्ञानोपदेशमन्तरेण तन्निवृत्तेरसम्भवात्तदुपदेशाय प्रसङ्गमवतारयितुं भगवानुवाच१७ त्वं मानुषेणोपहतान्तरात्मा विषादमोहाभिभवाद्विसञ्ज्ञः । कृपागृहीतः समवेक्ष्य१८ बन्धूनभिप्रपन्नान्मुखमन्तकस्य ॥ भगवद्गीता_२.११ ॥ __________ टिप्पणी १. एवमुत्त्वा हषीकेशं २. ... मुत्त्वा तूक्ष्मीं ३. भगवतमुत्त्का ४. ततो ते ५. गोविन्दमाह ६. योत्स्य ७. परिछेयमुसाद्य ८. तूक्ष्मों ९. ... न्नाह ९ १०. तृषीकेशः ११. भाइत १२. ... रुभयार्मध्ये १३. नमर्जुनं १४. सक्तोत्साहं तृषीकेशो १५. वक्ष्यमाण वाव्माह १६. महात्मान १७. अर्जुनमत्माज्ञानोपदेशमन्तरेण तन्निवृत्तो सम्भवा त्तदुपदेणय प्रसङ्ग वाच१० १८. वीक्ष्य ____________________________________________________________________ पृष्ठ ४२ त्वं मानुषेण माणुषजातिसुलभेनानुशयेन१ मलिनीकृतमनाः । अत एव मृत्योरास्यमाभिमुख्येनागन्तुमारभमाणान् बन्धून् अवेक्ष्य२ दयाभिभूतो मानुषजातिसुलभाभ्यां शोकमोहाभ्यां ग्रहणाद्धेतोर्विसञ्ज्ञो३ व्यवहितदिव्यज्ञानः संवृत्त इति । इतश्चोपहासकारणम् । सञ्ज्ञानं सञ्ज्ञा४ विशिष्टा बुद्धिः । विगता व्यवहिता वा सञ्ज्ञा अस्येति५ विसञ्ज्ञः । उपहतान्तरात्मा । वृत्त्यप्रसङ्गात्समासो६ मानुषेणेत्यनेन सापेक्षत्वेऽपि७ गमकत्वाद्युज्यत एवेति८ ॥ ११ ॥ कस्माद्विसञ्ज्ञोऽसीत्याह९ अशोच्यानन्वशोचस्त्वं१० प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ भगवद्गीता_२.१२ ॥ (अशोच्यानशोचनीयान् भीष्मादीन्) अनुशोचितवानसि११ । तेषां हि स्वधर्मानुष्ठानप्रवृत्तत्वेन१२ त्रिवर्गासिद्धेर् भाविनोऽर्थस्य१३ च नित्यत्वादशोच्यत्वम् । अपि च प्रज्ञावादांश्च भाषसे पापमेवाश्रयेदस्मान्१४ श्रेयश्चर्तुं भैक्ष्यमपीह१५ लोके इति१६ । तदेतदुभयं तव (न) शोभते । यस्माद्गतप्राणानगतप्राणाम्श्च१७ नानुशोचन्ति पण्डिताः । परिनिष्ठिततत्त्वज्ञानाः१८ पण्डिताः । परिनिष्ठिततत्त्वज्ञानाः१८ पण्डिता उच्यन्ते । अत्र पुनरात्मयाथात्म्यवादिनोऽभिप्रेयन्ते१९ । तेषां तावदात्मनोऽविनाशित्वदर्शनादशोकः२० । तद्वदविनासित्वं संपद्य मोहशोकौ२१ त्यक्तुमर्हसीति तात्पर्यार्थः । __________ टिप्पणी १. जात्या तुदाशयेन २. ... गन्तुमारन्न्बधूनवेक्ष्य ३. ... मा व्रूमणाद्वेतो ४. साज्ञा ५. सञ्ज्ञस्येति ६. वृत्त्यप्रंसमासासो ७. त्यनेम सापेक्षोपि ८. युज्यतरवेति ९. त्याह ११ १०. ... ननु शो ११. अशोचनीयान् .... अनुशोचितवासि १२. तेषां ... हि स्वधर्मानुष्टानप्रवृत्वेन १३. भाम्बिनोर्थस्य १४. ... दस्मात्छ्रेय १५. भैदमपीह १६. दति १७. यस्माद्भूत प्रा १८. परिनिष्टित्वज्ञा १९. ... वादितोभिप्रर्यते २०. ... दात्मनो विनाशित्वाद्दर्शनादशोकः २१. तद्वदनविनाविनाशित्वं संपद्यन्मोह ____________________________________________________________________ पृष्ठ ४३ न पुनरस्यायमर्थः१ पण्डिता न शोचन्ति त्वं तु मूढोऽसीति । नेहातिविनीतस्य२ मौर्ख्यं३ सम्पाद्यं तदपनयार्थत्वात्४ (...) प्रवृत्तेः ॥ १२ ॥ कथं पुनरस्याविनाशित्वमित्युत्साहयितुमाह५ न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः । न चैव न भविष्यामः सर्वे वयमतः परम् ॥ भगवद्गीता_२.१३ ॥ चतुशब्दौ कदाचिदित्यस्मिन्नर्थे वर्त्तेते६ । नाहं७ कदाचिन्नासमपि त्वासमेव । न त्वं नासीरसीरेवेत्यर्थः । नेमे८ भीष्मादयो९ नासं किं त्वासन्नेव । न च न भविष्यामः । अस्माच्छरीरात्परं१० शरीरान्तरे भविष्याम एव । अनेन त्रिष्वपि कालेषु सत्ताख्यायते११ । प्रतिशरीरं क्षेत्रज्ञानां१२ भेदात्तद्भेदव्यपदेशः । के पुनरमी क्षेत्रज्ञा नाम । परमात्मनोऽंशाः१३ । तथा च वक्ष्यति ममैवांशो जीवलोके१४ जीवभूतः सनातन इति । अग्निविस्फुलिङ्गवन्महाकाशघटाकाशवज् जीवपरयोर्भेदाभेदौ१५ । तत्र स्वाभाविकोऽभेद औपाधिकस्तु भेद इति१६ स्थितिः । एवमुत्तरत्र क्वचिदभेदेन१७ व्यपदेशः (क्वचिद्) भेदेन च भविष्यति । अनादिसिद्धाश्च जीवाः सनातना इति वचनान्न तेषां सर्गादावुत्पादः प्रलयो वान्ते । (त)था च याज्ञवल्क्यः१८ __________ टिप्पणी १. न पुनरस्यमर्थः २. न हानीतस्य ३. मौथं ४. तदपनपार्थत्वात् ५. कथं पुरविनाशित्वामेति उत्साधयितुमाह १२ ६. शब्दः ... वर्तते ७. नात्कं ८. ते मे ९. भीष्मदयो १०. अस्माछरीरात्परं ११. समाख्यायते १२. ष्से त्र्यज्ञानां १३. परज्ञात्मनीशाः १४. जीवलेके १५. ... घटाकाशवत्र्यतीवपरयोर्भेदाभेदौ १६. स्वाभाविकोभेदाउपधिकस्तुभेदरिति १७. एवमत्युत्तरत्र काचिदभेदेन १८. इति तेथा च याज्ञवक्लः ____________________________________________________________________ पृष्ठ ४४ अहङ्कारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्मायं मुक्तपूर्वः१ कदाचन ॥ इति । एवं चानादित्वे पूर्वकृतकर्मापेक्षया सर्गादौ सुरनरतिर्यग्भेदेन२ सृष्टिवैचित्र्योपपत्तिः । धर्माधर्मव्यवस्था२ बन्धमोक्षव्यवस्था३ चास्मिन् पक्षेऽवकल्पते४ । येषां पुनः परमात्मैव साक्षादनुप्रविष्टः५ शरीरेषु तदंशो जीवो नाम नास्तीति मतं तेषामेकस्मिन्मुक्ते सर्वमुक्तिप्रसङ्गो बद्धे चैकस्मिन् सर्वस्यापि मुक्त्यभावादिति६ व्याससूनोः शुकस्यापि मुक्त्यभावः स्यात्७ । न च परमात्मनः संसारित्वं युज्यते । तस्य च विद्यायोगात्विज्ञानमानन्दं ब्रह्म इति च नित्याकाशानन्दस्वरूपत्वात् । तस्मादीश्वरांशाः प्रतिशरीरं परस्परं भिन्ना८ जीवा अभ्युपगन्तव्याः । एवं च घटधूमदृष्टान्तोऽपि युज्यते यथैकस्मिन् घटाकाशे रजोधूमादिभिर्वृते । न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः९ ॥ इति । येषामयमीश्वरोऽत्यन्तभिन्नो१० जीवात्मानश्च बहवस्ते च सर्वे सर्वगता इति तेषामपि साङ्कर्यप्रसङ्गः । एकेनाग्निहोत्रे कृते सर्वेषां (तत्कृतं) स्यादेकेन च मद्यपाने११ कृते सर्वैः कृतं स्यात् । अथ यस्य तच्छरीरं१२ तस्यैव तदिति चेत् __________ टिप्पणी १. मुङ्क्तपूर्वः २. तिर्यक्य्र्भेदेन २. वैचिओपपतिः धर्मधर्मव्यवस्था ३. बन्धसोक्ष्यव्यवस्था ४. चास्मित्य पक्षेव कल्पते ५. साक्ष्यादनु ६. वाद्वेचैकस्मिन्नेकस्यापि मुक्तभावदति ७. शुकस्य मुक्तभावः स्यात् ८. तस्याविघायोगा विज्ञानमानन्दं ब्राह्मेति नित्यकाशानन्दं ... दीश्वरशाः प्रतिशरीरं परस्परभित्रा ९. ... सुखादिभिरिति १०. येषामयीश्वरोत्यन्त ११. मध्यपाने १२. यस्यतछरीरं ____________________________________________________________________ पृष्ठ ४५ कस्य तच्छरीरम्१ । सर्वेषां तत्सम्बन्धाविशेषाद् अभिसन्ध्यादिवशात्स्याद्व्यवस्थेति२ चेत् अभिसन्ध्यादिषु चैकतुल्यत्वादेकस्मिन्मनसि३ सर्वेषां समवायाः सङ्कल्पादयः समानास्तत्पूर्वकं कर्म तन्निमित्तं च शरीरमिति४ सर्वसाधारण्यान्न५ कदाचिद् असाधारण्यहेतुः शक्यते केनचिद्दर्शयितुम् । अनादित्वस्यास्मत्पक्षेऽप्यविशेषाद् अणुपरिमाणाश्च जीवा इष्यन्ते६ । कस्मात् । उत्क्रान्तिगत्यागतिश्रुतेः । लिङ्गशरीरस्य च सङ्कोचविकासधर्मिणोरणुरूपत्वाद् औपाधिकमणुत्वं७ जीवस्य गीयते । परमात्मरूपेण तु सर्वगतत्वं जीवस्येति स्थितम्८ ॥ १३ ॥ (तस्य) नित्यत्वे लोकसिद्धं दृष्टान्तमाचष्टे९ देहिनोऽस्मिन् यथा देहो कौमारं१० यौवनं जरा । तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति११ ॥ भगवद्गीता_२.१४ ॥ यथा बाल्ययौवनस्थाविरेषु१२ सोऽहमस्मीति प्रत्यभिज्ञानान् नित्यत्वमात्मनः प्रत्यक्षप्रमाणसिद्धम् । देहस्यैवावस्थान्तरापत्तिर्नात्मन इति तथा नित्यस्यैव१३ तत्रावस्थितस्य (आत्मनः) देहान्तरप्राप्तिः । तत्र धीरो धीमान्न मुह्यति । यदि तर्ह्यविनाशित्वमात्मनस्तद् इदानीं वृथा ते शोकः१४ समुपस्थितः कथम् ॥ १४ ॥ शीतोष्णादिकृतैः१५ सुखदुःखैः संयोगा(त्तद)नुपरम इति । तच्च१६ __________ टिप्पणी १. कस्य तछरीरं २. ... सन्ध्यादिवशात्साध्यवस्थेति ३. चैवतुल्य मतसि ४. तन्निमित्तव शरिरमिति ५. सर्वसाधारण्यन्नकेनचिद्वर्शपितुम् ६. द्रष्यन्ते ७. लिगशरीरस्य सङ्कोच च विकाश धर्मि णुत्वादौपाधिक ८. स्वितम् ९. दष्टान्तमाचष्टे १३ १०. कौमार ११. मुत्वति १२. बल्ययौवन १३. तथानित्यस्यैवाव १४. दानीमन्यथा मे शोकः १५. कथं शतोक्ष्मादि कृतैः १६. तत्त्व १४ ____________________________________________________________________ पृष्ठ ४६ मात्रास्पर्शास्तु कौन्तेय१ श्रीतोष्णसुखदुःखदाः२ । आगमापयिनोऽनित्यास्तांस्तितिक्षस्व३ भारत ॥ भगवद्गीता_२.१५ ॥ मीयन्ते विषया आभिरिति मात्रा इन्द्रियवृत्तयः । तासां स्पर्शा विषयैः संयोगाः४ शीतोष्णनिमित्तसुखदुःखहेतवः५ । ते चानित्याः । कस्मात् । आगमापायित्वात् । आगच्छन्ति अपगच्छन्ति च न च नित्यसमवेताः पावकौष्ण्यवत्६ । शीतोष्णग्रहणं७ प्रदर्शनार्थम् । आध्यात्मिकमाधिदैविकमाधिभौतिकं८ त्रिविधं दुःखम् (तत्) च त्रिविधमेवेति । यस्मादनित्यास्तेषामुपायेनोपरमः शक्यः कर्तुम्९ । कोऽसावुपायः । ज्ञानपूर्विका तितिक्षा । तदाह तांस्तितिक्षस्व इति सहस्वेत्यर्थः१० ॥ १५ ॥ कथं तत्सहनं तदुपरमहेतुरित्याह११ यं हि न व्यथयन्त्येते पुरुषं१२ पुरुषर्षभ । समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ भगवद्गीता_२.१६ ॥ न व्यथयन्ति न चालयन्ति१३ स्वस्मादात्मस्वरूपात् । समे दुःखसुखे यस्य । यं समदुःखसुखं१४ न चालयन्ति सोऽमृतत्वाय मोक्षाय कल्पते समर्थो योग्यो भवतीत्यथः१५ ॥ १६ ॥ ननु चामृतत्वं न सम्भावयितुं शक्यते सुखदुःखलक्षणस्य विकारस्य मुक्तेऽप्यात्मनि सम्भवादात्मनो वा कदाचिद्विनाशोपपत्तिर् इत्याशङ्क्य आह१६ __________ टिप्पणी १. कौटेयः २. शीतोक्ष्मसुखदुःखशं ३. आगमापायनोनित्यास्तां ४. विषयैस्संप्रयोगाः ५. शातोक्ष्मनित्तसुख ६. आगमापायित्वादागच्छंसपगच्छन्ति न च नित्यसमवेताः पावकौस्म्यवत् ७. शीतोम ८. आध्यात्मिकामाधिदैनिकंमाधिमौतिकं ९. कर्जु १०. सहस्वत्यर्थः ११. नदुपरभहेतुरित्याह १५ १२. व्यथयन्त्ये पुरुष १३. न चालपन्ति १४. ममेसुख समुदुःखं १५. योग्येभिवतीत्यर्थः १६. वेनाशोपत्ति क्याह १६ ____________________________________________________________________ पृष्ठ ४७ नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ भगवद्गीता_२.१७ ॥ आत्मन्यविद्यमानस्य सुखदुःखलक्षणस्य धर्मस्य न कदाचिद् विद्यते२ भावः । भवनं भूतिरुत्पत्तिरित्यर्थः३ । सिकतास्विव तैलस्य । उत्पद्यमानस्यैव हि (मानसः) सुखदुःखलक्षणो विकारः शीतोष्णादिनिबन्धनो जायत इत्य् अनन्तरमुक्तम्४ । नन्वचेतनत्वादन्तःकरणस्य संवेदनं नोपपद्यते । चेतनत्वात्क्षेत्रज्ञसमवेतस्यैवायं विकारः५ । यथा वैशेषिकाः प्राहुः नैतदेवमन्तःकरणस्थोऽप्यसौ जीवात्मा संवेद्यते । यथा च रूपादयो घटादिस्थाः७ (इति) । नायं क्षेत्रज्ञधर्म इति च वक्ष्यति इच्छा द्वेषः सुखं दुःखम्८ इति । यद्यपि क्षेत्रज्ञसमवायित्वं सुखदुःखयोस्तथापि तत्स्वरूपस्य न विक्रिया मणिस्वरूपवत् । नीलपीतादीनामेव९ मणिसमवायिनां परस्परविरोधाद्विक्रिया । विक्रिया हि नाम विनाश उपमर्दः१० । तथात्मन इति । नाभावो विनाशो विद्यते । सत आत्मनः सोऽहमिति प्रत्यभिज्ञानान् नित्यत्वोपपत्तेरनित्यहेतोश्चाभावात्११ । अविनाशी वा अरेऽयमात्मा इति श्रुतेः । उभयोः सदसतोर्दृष्टो निर्णीतोऽन्तो मर्यादा अन्त्यावस्थेति१२ यावत् । अन्तशब्दो मर्यादावचनोऽत्र ग्रामान्त इति१३ यथा । यत्सत् __________ टिप्पणी १. वियते २. कदाचिद्विधते ३. भवनभूतिरुत्पत्रिरि ४. तैलस्य मानसस्यैव हि सुखदुःखलक्षणो विकारः शीतोक्ष्म्यादिनिबन्नो जायते इज्य नन्तरमुक्तम् ५. चेतनत्वाक्षेत्रज्ञसमवेतरावायं ६. यथोष्टत्वमग्नितमात्माना संवेद्यने ७. घटादिस्था ८. इच्छाद्वेषस्सुखदु ९. लीलपीताशेनामेव १०. विक्रिया हि नासोपमेदस् ११. सवितृमलवत्प्रत्यभिज्ञानान्नित्योपपत्तेरनित्यहेतोश्चाभावा १२. निर्णीतातः मर्यादात्ववस्था १३. ग्रामाता इति ____________________________________________________________________ पृष्ठ ४८ तत्सदेव । यदसत्तदसदेवेति१ । कैरयं निश्चयः कृत इत्याह तत्त्वदर्शिभिः२ । तद्भावस्तत्त्वम् । तदिति३ सर्वनाम्ना पदार्थमात्रं व्यपदिश्यते । वस्तुयाथात्म्यवेदिभिरित्यर्थः४ । अपरे तु मायावादिनोऽन्यथावतार्य वर्णयन्ति५ । इतश्च६ शोकमोहावकृत्वा शीतोष्णादेर्विद्यते८ भावः । भवनमस्तिता । कुतः । विकारत्वात्९ । विकारश्च (प्रत्यक्षादिभिः) प्रमाणैर्निरूप्यमाणो नास्तितां प्रतिपद्यते । यथा घटादिः स्वकारणव्यतिरेकेणानुपलब्धेरसन् एवं सर्वो विकार इति१० । नन्वेवं सर्वाभावे शून्यवादः प्रसज्येत११ । नायं दोषः । द्वे बुद्धी१२ सर्वप्राणिप्रसिद्धे भवतः विशेष्यबुद्धिर्विशेषणबुद्धिश्च१३ । सन् घटः सन् पतः१४ इति । तत्र विशेष्यविषया बुद्धिर् घटादिविषया सत्पटादौ१५ व्यभिचारान्मिथ्याबुद्धिः । या पुनर्विशेषणविषया सद्बुद्धिः सा सर्वत्र वृत्तेरमिथ्या१६ । तस्मात्सैव पारमार्थिको । सर्वो हि घटादिः शरीरादिश्च प्रपञ्चो मायामात्रमसदिति मन्यन्ते । एतदन्ये१७ प्रमाणकुशलाः प्रत्याचक्षते१८ । यत्तावदुक्तम् प्रत्यक्षादिभिः प्रमाणैर् विकारो घटादिर् निरूप्यमाणः स्वरूपं जहातीति तदसत् । आलोकेन्द्रियमनःसंस्कारे१९ सति घटोऽयं पटोऽयमिति प्रत्यक्षा बुद्धिरुत्पद्यते । यया बुद्ध्या योऽर्थो प्रतीयते तयैव तदभावः प्रतीयते२० __________ टिप्पणी १. युदसत्तदसदेवेति २. तत्वदर्शिभिः ३. तदेति ४. वस्तुयाथात्मावेदिभिर् ५. अबतारं वर्णयन्ति इति वा पाठः ६. मायावादिन्येन्यथावतार वर्णयन्तीतच्च ७. शीतोश्मस कत्तुं कर्स्मात् ८. शीतोक्ष्मादर्वि ९. कुजो विकारत्वात् १०. घटादिस्स्वकारेव्यतिरेकेणानुपलभे रसन्नेवं सर्वोधिकार इति ११. प्रसज्यते १२. वुद्धि १३. विशेषबुद्धिर्विशेण १४. घटस्सर्पट इति १५. विशेषवु सपटादौत्यभिचारान्मिथ्याबुद्धिर्षा १६. ... विषयासंवुद्धिस्सा सर्वत्रावृ १७. मायामात्रमत्मिति मन्यन्ते तानन्ये १८. प्रसाचक्षते १९. आलोकेन्द्रियमनस्कारे २०. जयैव तदभावः प्रतिपते ____________________________________________________________________ पृष्ठ ४९ इति को वदेद्यो न तार्किकः । पञ्चभिः प्रमाणैः प्रत्यक्षानुमानोपमानार्थापत्त्यागमैर् वस्तुस्वरूपं परिच्छिद्यते१ । यत्र पञ्चापि निवृत्तानि तत्र प्रमाणनिवृत्त्या प्रमेयाभावो निश्चीयते । यथा नात्र घट इति२ । न च व्यभिचारादेवावस्तुत्वं३ भवति । यथैव घटबुद्धेः पटादौ व्यभिचाराद् अवस्तुत्वं तथा सद्बुद्धेर् अपि४ शशविषाणादावपि५ व्यभिचारादवस्तुत्वं प्रसज्यते । भावबुद्धिरभावान्निवर्तते भावाभावयोः परस्परविरोधात् । अथ (यथा) सद्बुद्धिः सत्तां६ ज्ञापयति तथा घटादिबुद्धिरपीन्द्रियजन्यत्वाविशेषाद् अनुवृत्तिव्यावृत्तिप्रत्ययग्राह्यत्वाच्च७ । अवान्तरसामान्यमपि घटत्वगोत्वादि सर्वमभ्युपगन्तव्यम् । तथा च व्यक्तिः सामान्यस्य८ तद्धर्मत्वात् । परमपरं च द्विविधं सामान्यम् । परं सत्तालक्षणम् । अपरं गोत्वादिलक्षणम् । न ह्याश्रयस्य धर्मिणो भावस्तदाश्रितस्य९ सामान्यस्य वस्तुत्वमवकल्पते । सतो हि१० भावः सत्ता । न हि सा निर्दुष्टा११ स्वतन्त्रा नाम केन(चि)दिह घटाद्याश्रयनिरपेक्षा१२ चक्षुषा गृह्यते । सत्सु द्रव्येषु पृथिव्यादिषु१३ गृह्यमाणेषु तत्समवेता तदव्यतिरिक्ता सत्तापि गृह्यते । (अ)त एव सत्ता द्रव्यधर्मत्वादात्मा न भवति । तत्र सत्तैवात्मा इति (यत्) कैश्चिदुक्तम् (त)दपास्तं भवति । अत एव यदुक्तं केनापि चातुर्विध्याच्च प्रत्यक्षं न निग्राह्यं विपश्चिता१४ इति सत्ताया१५ एव ग्राहकं प्रत्यक्षमित्यभिप्रेत्य तस्य तदप्यपाकृतं१६ __________ टिप्पणी १. प्रत्याक्षानु परिछिद्यते २. नात्रघ द्रढेति ३. चारादेवस्तु ४. संवुद्धेरपि ५. विषणादावयि ६. वरस्पर ... सवुद्धि सत्तां ७. वुद्धिरपीद्रियजत्वाविशेषादनवृत्तिव्यावृत्तिप्रत्ययग्रात्वत्वाच्च ८. तथा च वाचव्यक्तिस्सामान्यस्य ९. नह्वाश्रयस्य धर्मिणो ... १०. सत्तो हि ११. निषूष्टा १२. टाघाश्रय १३. पृथिव्यादिसु १४. आयुर्विधात्प्रत्यक्ष्यं न निद्धविपश्चितः १५. सत्राया १६. तदप्यपापकृतं ____________________________________________________________________ पृष्ठ ५० भवति । सतां हि भावः सत्ता इति१ पारतन्त्र्यवपदेशात् । न च घटादिबुद्धीनां घटत्वादाववान्तरसामान्ये तद्युक्तौ वा व्यभिचारः । कस्यां(चिद्)२ व्यक्तौ विनष्टौ विनष्टायां व्यक्त्यन्तराणाम् आनन्त्याद्युगपदुच्छेदनानुपपत्तेः३ । स्वविषयवभिचारो हि बुद्धीनां दोषो विषये तु पटादौ नोत्पद्यत४ इति किमत्राश्चर्यम् । न हि विषयेन्द्रियालोकसंस्कारसामर्थ्यतायां सत्यां५ घटबुद्धिः कदाचित्कस्यचिन्नोत्पद्यते । किं च कार्यत्वाद्(घटत्व)बुद्धिः कारणमपेक्षते६ । घटज्ञानस्य घटः कारणं नान्यदिति । यथा बीजाङ्कुरः७ कारणं बीजमपेक्षते धूमश्चाग्निम् एवमन्यत्रापीति८ । तस्मान्न व्यभिचारो९ मिथ्याहेतुर् इति दुरुपदेशोऽयम् । कस्तर्हि मिथ्याहेतुः कारणदोषोऽबाधकप्रत्ययो वा । तथा चोक्तम्१० यस्य च दुष्टं करणं११ यत्र च मिथ्येति प्रत्ययः । स एवासमीचीनः प्रत्ययो१२ नान्यः इति । तदेवमनुवृत्तिप्रत्ययात्सामान्यं सिद्धं व्यावृत्तिप्रत्ययाद्विशेष इति । सामान्यविशेषात्मकं वस्तु भिन्नाभिन्नरूपमिति स्थितम् । किं च सन् घट इति घटत्ववस्तुत्वे सामानाधिकरण्यं बुद्धौ नावकल्पते१३ । ननु तच्चेदमुदकमिति१४ मृगतृष्णिकायां सामानाधिकरण्यं दृश्यते१५ । तत्रापि विद्यमाना अभिमानिन१६ __________ टिप्पणी १. भावस्सतेति २. तद्युक्तौ वा व्यभिचार क्रस्यां ३. विनिष्टायां ... युगपदुछेदेनानुपपत्ते ४. नोत्पद्यन्त इति ५. नहि वियद्रियालोकमनस्कारसामर्थ्यां सत्यां ६. कि च ... कारणमीक्षते ७. कारणं न पदिभि यथा भपाङ्कुरः ८. वंमन्यत्नत्रापीनि ९. न्नषभिचारो १०. व्याधकमप्र ... तथो चोक्तम् ११. करणो १२. ... चीनप्रत्ययो १३. वुड्योर्नाव १४. ननु च्चेचेदमुदकमिति १५. दश्यते १६. विधमानाभिमानिन ____________________________________________________________________ पृष्ठ ५१ एव सामानाधिकरण्यबुद्धिरुत्पद्यते । यदा तु बाधकप्रत्ययो जायते मृगतृष्णिकेयमत्र नोदकमस्तीति तदा सामानाधिकरण्यबुद्धिरपैति । न चात्र बाधकप्रत्ययोऽस्तीति दृष्टान्तवैषम्यम्१ । अतोऽपव्याख्यानमेतदिति स्थितम् ॥ १७ ॥ सतो भावो नास्तीति सामान्येनोक्तं तदिदानीं विशेषलक्षणेन निवारयितुमाह२ अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् । विनाशमव्ययस्यास्य न कश्चिद्कर्तुमर्हति३ ॥ भगवद्गीता_२.१८ ॥ तुशब्दोऽवधारणार्थः४ । अविनाशि तत् । न विनष्टुं शीलम् अस्येत्यविनाशि५ । किं तत् । येन सर्वमिदं ततं व्याप्तम्६ । स्वाभाविकेन परमात्मरूपेण क्षेत्रज्ञो७ व्यपदिश्यत इति । कस्मादेवं८ व्याख्यायते । तद्विनाशाशङ्काअनिराकरणपरत्वाद् अस्य प्रकरणस्य । न ह्यत्र ब्रह्मोपासनमकस्मात्९ प्रतिपाद्यते । ज्ञानस्वरूपस्योपासनं षष्टे (ऽध्याये) विधा(प)यिष्यत इति जीवस्वरूपमेवेदानीं वक्तव्यम् । कस्मादविनाशीत्याह१० विनाशमव्ययस्यास्य इति । व्ययो विनाशः । निरवयवत्वान्नास्य विनाशम् ईश्वरोऽपि कर्तुमर्हतीति ॥ १८ ॥ यदि तर्ह्ययमविनाशी तत्कथं कृतो व्यपदेशः विनष्टः पुरुष इति । अत आह११ अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः । विनाशिनोऽप्रमेयस्य तस्माद्युद्धस्व भारत ॥ भगवद्गीता_२.१९ ॥ __________ टिप्पणी १. वाधकप्रत्ययोस्तित्तिदृष्टान्तवैषम्यम् २. तदिदान्नीं ... आह ३. कमर्हत्तुति ४. ... शब्दोवधारणार्प्यः ५. अविनाश्यवतन्न विनष्टे शीलमस्येत्यविनासि ६. व्यासं ७. क्षेत्रज्ञौ ८. त्फस्मादेव ९. मकक्ष्मात् १०. वक्रव्यकस्मादविना ११. यदि तर्द्ययमविनाशं तत्किं कृमो त्र्यपदेशो विनष्टः पुरुष इति देकृतित्याह १८ ____________________________________________________________________ पृष्ठ ५२ नित्यस्य शरी(रि)णोऽप्रमेयस्यान्तवन्तो विनाशिनो देहा उक्ता नित्यानित्यविभागविद्भिः१ । अन्तवन्तो विनाशिन इति न पुनरुक्त(म्) । अन्तवन्त इत्यस्यार्थं२ स्वयमेव भगवान् व्याचष्टे विनाशिन इत्येके वर्णयन्ति । अन्ये तु वदन्ति कस्यचिदन्तवत्त्वं३ (न) भवति । यथा पृथिव्या गन्धस्तिरोभूतो नात्यन्तं विनष्टो४ वृष्टिसंयोगादभिव्यज्यते तथा देहस्यान्तो भवेद्नात्यन्तं विनाश इति । तन्मा भूदिति विशिनष्टि विनाशिन इति५ । अस्मिन्नपि व्याख्यानेऽन्तवद्ग्रहणमतिरिक्तम्६ । तदकृत्वा विनाशिन इत्येव वक्तव्यमभिप्रेताविनाशसिद्धेः । अपरे तु पाठान्तरं कुर्वन्ति अविनाशिनोऽप्रमेयस्य इति । तेषामपि नित्यस्याविनाशिन७ इति पुनरुक्तम् । न तु पृथिव्यादिवद् आपेक्षिकं नित्यत्वं गौणं गृह्यते । अत्यन्तनित्यस्य मुख्यस्य नित्यशब्दार्थस्यासम्भवादविनाशिन८ इत्युक्तेऽप्यापेक्षिकं किन्न गृह्यते । तस्य व्याख्यान्तरकरणं९ व्यर्थम् । का१० तर्हि गतिः । विनाशिनो११ देहा इति प्रतिज्ञातम् । तत्रान्तवन्त इति१२ हेत्वभिधानार्थमन्तवद्ग्रहणं देशतः कालतश्च परिच्छिन्नत्वात्कूटादिवदिति१३ व्यतिरेकाद्धेतुवचनमप्रमेयस्येति । कस्मादात्मा नित्यः । अप्रमेयत्वाद्देशतः (कालतश्चेति) स स्वधर्मे प्रवर्त(ते) इति१४ भगवान् (आह) । __________ टिप्पणी १. विभागवद्भिः २. पुनरुक्त अन्तवत इत्यस्यार्थं ३. चिदन्तवन्त्त्वं ४. नास्यन्तं विनष्टो ५. विनाशित इति ६. र्नेतवद्भहणमति तदतद् ७. अविशिनत ८. भवादनाशित ९. व्यावान्तरकरणं १०. किं ११. विनाशो १२. तत्रान्तवत्वादिति १३. ... परिछिन्नत्वादूटादि १४. रस्वधर्मे प्रवर्त इति ____________________________________________________________________ पृष्ठ ५३ ननु शोकमोहादिसंसारकारणनिवृत्त्यर्थं गीताशास्त्रं न प्रवर्तकम् । अत्रोच्यते न साधु तात्पर्यं१ भवता परामृष्टम् । युद्धं प्रक्रम्य शोकमोहापनयस्येदमेव प्रयोजनम् कथं नाम युद्धे प्रवर्तेतेति । इतरथा द्वारिकायां स्थित्वा गीताशास्त्रं प्रणयेत्२ स्वधर्मपरित्यागेन ज्ञानमात्राद् यदि मोक्षोऽभिप्रेतोऽभविष्यत्३ । इदानीं प्रणयनस्येदमेव प्रयोजनम्४ अर्जुनस्यान्येषां च ज्ञानसहितात्स्वधर्मानुष्ठानान्निःश्रेयसमुपदेक्ष्यामीति५ ॥ १९ ॥ एवं६ तावदविनाशित्वमात्मनः (प्र)तिपाद्य स्वयं च७ मन्यसे हन्ताहमेषामिमे मया हन्यन्त इति तच्च मृषा८ । कथम् य एनं वेत्ति९ हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न (वि)जानीतो नायं हन्ति न हन्यते ॥ भगवद्गीता_२.२० ॥ नभस इवास्य हननक्रियया विनाशः कर्तुं१० न शक्यते निरवयवत्वात् । सावयवस्यावयवविश्लेषादिना११ शक्यते विनाशः सम्भावयितुम् । तस्मादुभावप्येतावज्ञौ१२ हन्ताहमिति यो मन्यते यश्च हतोऽहमिति (मन्यते च) ॥ २० ॥ इदं प्रतिज्ञामात्रेणोक्तम् । हेत्वपेक्षायां षण्णामपि भावविकाराणामात्मन्यभावादिति हेतुमाचष्टे१३ न जायते म्रियते१४ वा कदाचिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं१५ पुराणो न हन्यते हन्यमाने शरीरे ॥ भगवद्गीता_२.२१ ॥ __________ टिप्पणी १. साधुर्तत्पर्य २. प्रवर्तेते तीरथा द्वारीकायां स्थित्व गीताशास्त्रं मणयेत् ३. ज्ञातमात्राद्यदि मोक्षामीमेतोभविष्यत् ४. प्रणपतस्यैतव्यप्रयोजनम् ५. स्वधर्मातुष्टानान्नि ६. दावं ७. स्वयश्च ८. मन्यसे हन्ताहमेषामिति न क्षमन्यसें हन्ताहमेषामिति तत्त्च छ मृषा कथं १९ ९. वेति १०. कर्तु ११. सावयुवस्यावपव १२. तस्मादुभवप्येतावज्ञो १३. ... मात्रेणोत्त्क हेत्वपेक्षायां यस्मामपि भावविकाराणामात्मन्युभावा ... । माचष्टे २० १४. म्नियते १५. शश्वतो ____________________________________________________________________ पृष्ठ ५४ न जायत इति जन्मलक्षणो भावविकारः प्रतिषिध्यते । वाशब्दश्चार्थे । न चायं म्रियत इति विनाशलक्षणो१ भावविकारः प्रतिषिध्यते । कथमेतत् । भूत्वा नायं न२ भविता । भूयः पुनः । किं तर्हि३ । भवितैव । भाविन्यपि काले सत्तां न हास्यतीत्यर्थः । वाशब्दादभूत्वा भावः प्रतिषिद्ध्यते । नायमभूत्वा४ भवति । किं तर्हि । भूत्वैव भविता । भूतकालेऽपि सत्तां न बभारेत्यर्थः । यस्त्वभूत्वा६ भवति भूत्वा च न भवति स जन्मविनाशाभ्यां युज्यते यथा घटादिरिति । सत्तापि जन्मपूर्विका घटस्येवास्य नेष्यते । निरवधिकैवास्य सत्तेति७ घटादि(भ्योऽस्य) वैलक्षण्यम् । उपसंहरति अजो नित्य इति । जन्मविनाशप्रतिषेधेनैव मध्यवर्त्तिनो भावविकाराः प्रतिषिद्धा८ भवन्ति । तथापि मन्दबुद्ध्यनुग्रहार्थं९ स्वशब्देन प्रतिषेधति । शाश्वत इत्यपक्षयो निषिध्यते । स्वाङ्गापचयः साधनापचयो वास्य१० नास्तीति । यथा कृष्णो राजा हस्त्यश्वादिभिर्वा हीन इति११ । पुराण इति वृद्धिल(क्ष)णो भावविकारः प्रतिषिध्यते१२ । नायं शशिवत्कलाभिरुपविपचीयते१३ । न हन्यते हन्यमाने शरीर इति विपरिणामो निषिध्यते । विपरिणामोऽवस्थान्तरापत्तिः यथा शशस्य मांसावस्था । अन्ये पुनरप्यन्यथा वर्णयन्ति नायं भूतो भविता वा न भूय इति पाठान्तरं कृत्वा परब्रह्मोपासनमनया गीतया लक्ष्यते । __________ टिप्पणी १. काशश्चार्थेन चायं स्तितये इति विना इति विनाश २. न न ३. कि तर्हि ४. नयमभूत्वा ५. न हास्यतीत्यर्थः ६. यो स्व भूत्वा ७. सत्तेति ८. प्रतिविष्ट्वा ९. मुन्दबुघनुग्रहार्थं १०. इत्यपक्षया निषिद्धाते स्वाङ्गायचपस्साधनापचयो वास्य ११. यथा कृशो राजाहस्सक्ष्वादिभिर्वाहीन इति १२. प्रतिषिद्यते १३. कालाभिरुप ____________________________________________________________________ पृष्ठ ५५ नायं भूत इति च मृत्पिण्डवत्कारणत्वं निषिध्यते । भविता वा इति१ घटा(दि)वदुत्पाद्यत्वं निषिद्ध्यते२ । कार्यकारणभावो ब्रह्मण्यौपाधिको न पारमार्थिक३ इत्युक्तं भवतीति । तदिदं श्रधामात्रेण४ ब्रह्मोपासनम् उत्प्रेक्षितं न श्रुतिलिङ्गप्रकरणगम्यम् । प्रकरणं हि यच्चोक्तमुच्छोषणमिन्द्रियाणामिति पठनात्५ तदपनोदपरम्६ । षड्भावविकारनिवृत्तिपराणि न जायत इत्यादीन्यक्षराणि । लिङ्गं सामर्थ्यमुच्यते । तच्च शब्दानां तावन्मात्रे पर्यवस्यति७ । तन्नोपासनमाक्षिपति । अज्ञानमेव तावदिदानीं निरसनीयम्८ । किमतित्वरया ब्रह्मोपासनं कल्प्यते । पाठान्तरकरणं चाहोपुरुषिकामात्रम् । ब्रह्मणो हि९ जगत्कारणत्वं श्रुतिसिद्धं सदेव१० सोम्येदमिति । कार्यत्वं पुनर्न जायत इत्यनेनैव निषिध्यते११ । तस्माद्यत्किञ्चिदेतदेवं तु पाठान्तरं कुर्वन्तोऽर्थान्तरं१२ स्वमतिपरिकल्पितं वर्णयन्तो१३ बहवो व्याख्यातारोऽभियुक्ताश्चोच्यते । उक्तं च शीलदोषादगृह्णन्तं१४ लोकमाकुलीकुर्वन्तीति वा ॥ २१ ॥ प्रतिज्ञातमर्थमविक्रियात्वादिभिः प्रत्याख्यायोपसंहरति१५ वेदाविनाशिनं नित्यं य एनमजमव्ययम्१६ । कथं स पुरुषः१७ पार्थ कं घातयति हन्ति कम् ॥ भगवद्गीता_२.२२ ॥ __________ टिप्पणी १. मविता वेति २. तिषिद्ध्यते ३. ब्रह्मरायोपाधिको न पारर्थिक ४. श्रद्धामात्रैण ५. मुछोकम्छोषणमिन्द्रियाणामिति पटनात् ६. पनोपरं ७. पर्यवसति ८. अज्ञानमेव तावदिदानीं निरसनीय ९. हे १०. सदेष ११. निषिर्द्ध १२. कुर्वतोर्थोन्तर १३. वर्णमन्त्रो १४. व्याख्यातारोमित्युक्तौश्चरन्तैरुक्तं ... गृहन्तं १५. कुर्वन्तीति मर्थवि ... प्रत्याध्योपसंहरति २१ १६. परानमज १७. कथ स पुरुः ____________________________________________________________________ पृष्ठ ५६ वेद जानाति१ । य एनमुक्तप्रकारकमात्मानमविनाशिनम्२ । कथं केन प्रकारेण३ । स पुरुषः । तं४ क्षेत्रज्ञं कं५ घातयति । उपायविशेषो हेतुः कर्तृत्वं च निषिद्ध्यते । कथं वा हन्तीति स्वयं कर्तृत्वमपि पश्चान्निषिध्यते । न ह्यविनाशी च यो भावोऽव्यभिचारादिना (स) स्वयमुद्यमेन (परकर्तृक)निपातनेन वा विनाशयितुं शक्यो६ गगन(व)दिति । अत्र क्लेशभीरवः केचित्७ स्वमतं भगवत्यारोप्य वर्णयन्ति विदुषः सर्वकर्मप्रतिषेध एव प्रकरणार्थोऽभिप्रेतो भगवतः (इति) । हन्तिग्रहणमुदाहरणार्थम्८ । यानि कर्माणि शास्त्रे विधीयन्ते९ तान्यविदुषो विहितानीति१० भगवतो निश्चयो निश्चय११ इत्यत्राभिधीयते । न हीदं पूर्वपदानुसन्धानरहितमभिप्रायवर्णनं१२ लक्ष्यते । कथं युद्धे प्रवृत्त्यर्थमात्म(न)ः सत्त्वोपवर्णनम् अत्र१३ क्रियते । तस्माद्युद्धस्व भारत इति तमभिधाय तत्सिद्ध्यर्थमेव जायत इति । आरम्भाद्यदि च सर्वकर्मत्याग एवाभिप्रेतः स्यादयं श्लोकोऽर्जुनाय न वक्तव्यः स्यात् । भगवतोक्तश्च षड्भावविकाररहित आत्मा । यदि विदुषः कर्मासम्भवं चेद् अस्तु१४ । तस्यापि तत्समानमित्यप्रवृत्तिरेव स्यात् । उत्तराश्च१५ गीताः सर्वा न सङ्गच्छेरन्१६ । अतो नेयं मृषाशा१७ कर्तव्या । __________ टिप्पणी १. ज्ञानाति २. परानुमुक्त ३. प्रकारण ४. पुरुषस्तं ५. र्क ६. हतीति स्वयं कर्तृत्वमया पश्चातिषिध्यतेनन्द्यविनश्चये भावोभिचारादिना स्वहोद्यमनतिपातनेन वा विनाशयितु शक्यः ७. केधित् ८. हन्तिग्रहणानुदाहरणाथम् ९. विधीयते १०. तान्याविवदुष्येहितानीति ११. निश्चित १२. तहिदं पूर्वापदानुसङ्घातरहित १३. ... प्रवृत्त्यर्थमात्मसतत्त्वोपवर्णनमत्र १४. श्लोकेर्जुनाय न वव्यस्याद्भगवतोक्तश्च ... रहितात्माविदो विदुषः कर्मासम्भवश्चेदर्तु १५. स्यादत्तराश्च १६. सङ्गच्छेरन् १७. सृष्टाशा ____________________________________________________________________ पृष्ठ ५७ स्वधर्मत्यागेनाकृष्टचेतसः सुखमासीना१ मोक्षं लोभेमहीति । उत्तरत्र च ज्ञानकर्मसमुच्चयं न्यायतो निपुणतरम् उपपादयिष्यामः२ ॥ २२ ॥ हननासम्भवादविनाशित्वमुक्तं तत्क(थ)मिवेत्याह३ वासांसि जीर्णानि यथा विहाय नवानि गृःणाति नरोपराणि । तथा शरीराणि विहाय जीर्णान्यन्यानि४ संयाति नवानि देही ॥ भगवद्गीता_२.२३ ॥ यथा जीर्णानां५ कार्याक्षमाणां वस्त्राणां परित्यागस्तथा शरीराणाम् । अभिनवानां चोपादानम् । अन्यन्नवतरं कल्याणतरं रूपं कुरुते६ इति च ब्राह्मणम् ॥ २३ ॥ यानि च विनाशकारणानि शस्त्रादीनि७ प्रसिद्धानि तान्यप्येनं (न) विनाशयन्तीत्याह८ नैनं छिन्दन्ति९ शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोपयति मारुतः ॥ भगवद्गीता_२.२४ ॥ नैनं छिन्दन्ति शास्त्राणि असिप्रभृतीनि१० निरवयवत्वादाकाशवत् । नैनमग्निर्भस्मीकरोति । नैनमापोऽवयवविश्लेषणाय११ क्लेदयन्ति चर्मवत् । नैनं मारुतः शोषयति स्वेदापनयेन१२ ॥ २४ ॥ तदस्याः प्रतिज्ञाया हेतुरुच्यते । यस्मादयं१३ छेदनाद्यर्हो न भवति । कथम्१४ अच्छेद्योऽयमदोह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ भगवद्गीता_२.२५ ॥ नित्यत्वात्(सर्वगतः) सर्वगतत्वात्स्थाणुः स्थाणुत्वादचल इत्यक्षरयोजना१५ । सनातनश्चिरन्तनः । कुतश्चित्कारणान्नायं __________ टिप्पणी १. स्वधर्मत्या ... चेतसत्सु २. न्यायनोनिपुणत्रमुप ३. तत्किमिवेत्याह २२ ४. जीणीनन्यानि ५. नीर्णानां ६. कुरेते ७. पानिचविनाशकाराणानिशास्त्रादीनि ८. तान्यस्येनं विनशंयन्तीत्याहं २३ ९. र्छिदन्ति १०. प्रभृतीति ११. नेनमापोवषवविश्ले १२. स्नेहापेणं १३. ... तुरुत्त्यते । तस्मादयं १४. मवति कथम् २४ १५. क्षरायोजना ____________________________________________________________________ पृष्ठ ५८ निष्पन्नोऽभिनव१ इत्यर्थः । नात्र पुनरुक्तदोषश्चोदनीयः । दुर्बोधत्वादात्मवस्तुनः पर्यायशब्दैः पुनः पुअस्तदेवोच्यते सुखप्रतिपत्तये ॥ २५ ॥ किं च२ अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं वि(दि)त्वैनं नानुशोचितुमर्हसि३ ॥ भगवद्गीता_२.२६ ॥ इन्द्रियागोचरत्वादव्यक्तोऽत एवाचिन्त्यः । य इन्द्रियगोचरो गवादिः स व्यक्तश्चिन्तनीयः४ । यो हि व्यक्तः स विकार्यः । अयं त्वविकार्यः । तस्मादिति निगमनम् । स्वरूपतस्तावदात्मनोऽविनाशित्वं तथोक्तम्५ ॥ २६ ॥ अथ शरीरेन्द्रियोपाधिविनाशाद्विनाशं६ तदुत्पत्त्या चोत्पत्तिम् आत्मनो मन्यसे तथापि७ शोको न युक्तः कर्तुमित्याह८ अथ चैनं९ (नित्यजातं) नित्यं वा मन्यसे१० मृतम् । तथापि त्वं महावाहो नानुशोचितुमर्हसि११ ॥ भगवद्गीता_२.२७ ॥ कस्मात् । औपाधिकयोर्जन्मनाशयोरपरिहार्यत्वात्तदाह१२ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ भगवद्गीता_२.२८ ॥ येन कर्मणा जन्मारम्भस्तस्य कर्मणः क्षये ध्रुवो भावी मृत्युः । मृतस्य१३ चावश्यम्भाविशरीरग्रहणम् । शरीरान्तरारम्भकारणानामन्येषां१४ विद्यमानत्वात् पुनः शरीरं पुनः कर्मेति __________ टिप्पणी १. निष्पन्नोभितव २. किञ्च२५ ३. नानुशोचिन्नतुमर्हसि ४. ... चिंस योन्द्रियगोचरोगवादिस्म ... चिन्ततीयश्च ५. तवोत्क्नम् ६. शरीरैद्रियोपाधि ७. नथापि ८. कर्तुमित्याह २६ ९. अथच्चैनं १०. मत्यसे ११. नानुशोचित्नुमर्हति १२. कस्मादौयाधिकयोर्जुन्मनाशयोरपरिहार्य्यत्वान्नदाह २७ १३. जन्मारव्रन्तस्य कर्मणः क्षेपे ध्रुव भावीमृत्युर्मृतस्य १४. भाविशरीरप्रहणं ततीरान्तरारम्भकारणामन्येषां ____________________________________________________________________ पृष्ठ ५९ संसारचक्रस्यानादित्वात्१ । एवं व्याख्यायमाने ध्रुवं जन्म मृतस्य (च) इति श्लोकार्थोऽवकल्पते२ । नैरात्म्यवादिदर्शनाभ्युपगमेन व्याख्याने मृतस्य पुनर्जन्माभावाद् अनुपपत्तिः स्यात्३ ॥ २८ ॥ इतश्च शोककरणमयुक्तम्४ अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत५ । अव्यक्तनिधानान्येव६ तत्र का परिदेवना ॥ भगवद्गीता_२.२९ ॥ अव्यक्तं पञ्चभूतानां सूक्ष्मावस्था प्रकृतिः तदादिर्येषां भूतानां तानीमानि अव्यक्तादीनि७ । व्यक्तं मध्यं येषां तानि व्यक्तमध्यानि । व्यक्तं स्थूलावस्थोच्यते । कारणे प्रचरत्वात् । अव्यक्ते निधनं विनाशः९ प्रलयो येषां तान्यव्यक्तनिधनानि स्वकारेण प्रलीनानि कार्यकारणसङ्घातात्मकानि । तत्र का परिदेवना१० । शोकनिमित्तः११ प्रलापः परिदेवनोच्यते । सत्कार्यवादिनां त्वौपनिषदानां साङ्ख्यानां१२ च त्रिष्वपि कालेषु सर्वे भावाः सन्ति आविर्भावतिरोभावमात्रत्वाद् उत्पत्तिविनाशयोः१३ । यथा घटश्चूर्णरूपेण स्वकारेण विद्यमानः कुम्भकारव्यापारेणाविर्भवति मुद्गतादियोगेन१४ तिरोभूतः शक्त्यात्मना पुनरपि कारणं प्रविशति । अपरे त्याहुः अव्यक्तमदर्शनम् । तदादिर्येषां तान्यव्यक्तादीनि इति । अत्रोच्यते यदि स्वदर्श(ना)भावोऽदर्शनं तस्याद्यन्तता१५ नोपपद्यते अभावस्य भावोत्पत्तिहेतुत्वनिराकरणात्१६ । कथम् १. संसारनक्रुस्यानादि २. श्लोकार्धो ३. नैरात्म्यवादि ... भावादमुपपत्ति स्यात् ४. ... युक्तं २८ ५. ष्यक्तमध्यानि भारन ६. अव्यक्तनिधनानेव ७. तानीमान्यव्यक्तादानि ८. स्थुलावस्थोच्यते ९. निधानंविनाश १०. परिदेवता ११. शोकनिमिन्नः १२. स्वौपनिषदानां संस्यानां १३. भावस्सन्त्याविवेतिरोभाव १४. स्वकारेण मुदरादियोगेन तिरोभूतः १५. तस्यादित्यन्ता १६. भावोक्षत्ति हेतु ____________________________________________________________________ पृष्ठ ६० असतः सज्जायत इति । तिरोहितं हि द्रव्यं द्रव्यान्तरस्योत्पादकम् । मृत्सुवर्णादौ अतिप्रसिद्धमेतल्लोके१ । अथादर्शनम् इन्द्रियागोचरत्वादव्यक्तमभिप्रेतं ततो नास्ति विसंवाद इति२ । एवं तावदात्मनः स्वरूपाविनाशत्वान्न युक्तः शोकः कर्तुमित्युक्तम्३ ॥ २९ ॥ दुर्विज्ञेयश्चायमात्मा यस्माद्भूतसङ्घाते४ सत्युपलभ्यते त (तस्माद्) एव बहवो मोमुह्यन्ते । केचिद्भूतचैतन्यं५ प्रतिजानते व्यतिरिक्तमात्मानं६ पश्यन्ति अपरे विज्ञानसन्तानं क्षणिकमिच्छन्तीति७ । तदेतदत्र८ आश्चर्य(व)त्पश्यति कश्चिदेनम्९ आश्चर्यवद्वदति तथैवमन्यः । आश्चर्यवच्चैनमन्यः१० शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ भगवद्गीता_२.३० ॥ यथाश्चर्यमद्भुतं११ कश्चित्कदाचित्पश्यति तद्वदेनमात्मानं तथाश्चर्यमिव (पश्यति कश्चित्) । यदैनं१२ कश्चिद्वदति रूपादिरहितम् अमूर्तं स्वसंवेद्यं चेतनस्वभावमाश्चर्यम् इव कश्चिदेनं१३ शृणोति । आत्मश्रवणपराङ्मुख एव हि प्रायेण जन्तुः१४ । श्रुत्वाप्येनं न च वेद कश्चित् । तदप्याश्चर्यमेवेति१५ । तस्मादात्मतत्त्वमुक्तलक्षणं१६ सम्यगवधार्यं तन्न विस्मरणीयमित्यभिप्रायः । केचिदस्य श्लोकस्यार्थं१७ स्वमतिकल्पनया वर्णयन्ति __________ टिप्पणी १. निहतं ... द्रव्यातरस्योत्पादकं मृत्सुवर्णादीन्यति २. ... दर्शनमिन्द्रिषागोचर ३. तावदात्मनरूपाविनाशत्वार्न्न युक्तःशोकर्तुं जित्युक्तम् ४. ... संषाते ५. वहोवो केनिद्भूत ६. ... मात्मां न ७. क्षणिकमिच्छति ८. तदेतत्र २९ ९. कश्चदेनं १०. च्चैनमभ्यः ११. यथाश्चर्यमद्भुतं १२. तथश्चर्य १३. यदेनं ... वदतिं ... ममूंर्त स्वसंर्वधं ... कश्चिदोनं १४. प्रापेण जः तः १५. त च कश्चिन्नदप्याश्चर्य १६. तस्मादात्मतत्त्यमु १७. केविदस्य श्लोकस्यार्थ ____________________________________________________________________ पृष्ठ ६१ आत्मा वा अरे द्रष्टव्यः श्रोतव्य इत्यस्याः श्रुतेरर्थः प्रतिनिर्दिश्यत१ इति । तदेतद्व्याख्यानं श्रोत्रियेष्वेव शोभते२ । न हि तदर्थप्रत्यभिज्ञानमिह३ विद्यते । विधिप्रत्ययस्तत्र श्रूयते । वर्तमानोऽपदेशश्चायम्४ । न च तत्राश्चर्यवद् द्रष्टव्य५ इत्यर्थोऽभिधीयते । न चाक्षरमात्र(सा)दृश्यात् प्रदेशान्तरगतोऽर्थः शक्यः कल्पयितुम्६ । न च प्रकृतार्थोपयोगित्वमस्याः७ कल्पनायाः । किं च श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः८ । आश्चर्यो वक्ता कुशलोऽस्य लब्धा९ आश्चर्यो ध्याता कुशलोऽनुशिष्टः१० ॥ इत्यस्य मन्त्रस्य योऽर्थः सोऽत्र कथ्यते ॥ ३० दुर्लभोऽयमात्मोपदेश इति वर्णयितुमथेदानीं प्रकरणार्थोपसंहारः क्रियते११ देही नित्यमवध्योऽयं१२ देहे सर्वस्य भारत । तस्मात्सर्वाणि१३ भूतानि नानुशोचितुमर्हसि ॥ भगवद्गीता_२.३१ ॥ यत एवं तस्माद्भीष्मादीननुचिन्त्य१४ न त्वं शोचितुमर्हसि ॥ ३१ ॥ आत्मविषयमनात्मधर्मपरिकल्पितमपनीय१५ अशोच्यान् __________ टिप्पणी १. श्रुतेरर्थोप्रतिनिदेश्यते २. तदेदतध्याख्यानं श्रोत्रियेधेव शोमते ३. ... प्रतिभिजान ४. वर्तमानापदेशश्चायं ५. द्रष्टव्यं ६. चाक्षरमात्रदश्यात्... काल्पयितुं ७. प्रकृतार्थेपयोगित्वमस्याः ८. शृंरावतो वहवोपं न विधुः ९. लधा १०. आश्चार्यो ताता कुशलेनानुशिष्ट इति ११. दुलभो ... वर्णषितुमथेदाना प्रकरणार्थोपसंहारः क्रियते ३० १२. नित्यमवध्योय १३. तस्मा सर्वाणि १४. तस्माद्भीष्मादिनि अनुचिन्त्य १५. परिकल्पत ____________________________________________________________________ पृष्ठ ६२ इत्यादि यदुक्तं तदुपसंहृतम् । अधुना१ धर्मविषयमधर्माध्यारोपणम् । तन्निरासाय प्रज्ञावादांश्च इत्युक्तं (यत्) तत्प्रस्तूयते२ स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि । धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्३ क्षत्रियस्य न विद्यते ॥ भगवद्गीता_२.३२ ॥ धर्मादनपेतं४ धर्म्यं युद्धम् । ततोऽन्यन्न५ विद्यते श्रेयस्करम् । क्षत्रियग्रहणं प्रदर्शनार्थम्६ । अन्येषामपि स्वधर्मानुष्ठानं७ श्रेयस्करम्८ । तदनेन९ प्रकारेण श्रेयस्करे ज्ञानं कर्म च समुच्चिनोति१० ॥ ३२ ॥ इतश्च युद्धं कर्तव्यम्११ यदृच्छया चोपपन्नं१२ स्वर्गद्वारमपावृतम् । सुखिनः क्षत्रियाः पार्थ लभन्ते१३ युद्धमीदृशम् ॥ भगवद्गीता_२.३३ ॥ अयत्नोपनीतं स्वर्गस्य द्वारमपावृतमुद्घाटितम् । सुखिनः सुखभागिनो हि लभन्ते युद्धमीदृशं नेतरे१४ । अथ वा किं सुखिनः क्लेशभीरवो लभन्ते । मन्दभाग्या इत्यभिप्रायः ॥ ३३ ॥ यदि चेत्थं कर्तव्यं प्राप्तम्१५ अथ चेत्त्वमिमं धर्म्यं१६ सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कीर्तिं१७ च हित्वा पापमवाप्स्यसि ॥ भगवद्गीता_२.३४ ॥ ततः स्वधर्मं कीर्तिं१८ च महादेवादियुद्धनिमित्तां१९ हित्वा पापं प्रतिपद्यसे ॥ ३४ ॥ __________ टिप्पणी १. याशोच्यामित्यादि ... सन्दतमधुना २. तत्मस्ते ३१ ३. युद्राछ्रेषो ४. देनेपते ५. ततोन्यत्र ६. प्रदर्शनार्थम् ७. मातुषातं ८. श्रयस्करं ९. तदतेन १०. समश्चिनोति ११. कर्तव्य ३१ १२. यदछया चोपपन्न १३. क्षत्रियाः पार्थ लभन्तो १४. अयलीपनन्तं मुद्वाटितं सुखिनस्सुवाभागिवो हि लभन्ते ... । नेनरे १५. चेत्यं कर्तव्यं प्राप्तम् ३३ १६. अथ चेत्त्वं धर्म्यमिम १७. स्वधर्मकिर्ति १८. कीर्ति १९. ... निमितां ____________________________________________________________________ पृष्ठ ६३ न केवलमेतावदेवेति शेषः१ अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्२ । सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते३ ॥ भगवद्गीता_२.३५ ॥ अव्ययां सन्ततां दीर्घकालामित्यर्थः । शौर्यादिभिश्च गुणैः सम्भावितस्याकीर्तिर्मरणादतिरिच्यते४ । ततो मरणं वरमित्यर्थः५ ॥ ३५ ॥ किं च६ भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः । येषां७ च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ भगवद्गीता_२.३६ ॥ कर्णादिभ्यो भयादुपरतं मंस्यन्ते८ त्वाम् अश्वत्थामप्रभृतयो महारथाः । बहुभिर्गुणैः धर्माशयस्त्वमञ्जसा९ शूर इत्यादिभिः (गुणैः बहु)मतो यास्यसि लघुभावम् । तदपि कष्टतरम् ॥ ३६ ॥ किं च१० अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः११ । निन्दन्तस्तव१२ सामर्थ्यं ततो दुःखतरं नु किम् ॥ भगवद्गीता_२.३७ ॥ अहिताः शत्रवः । ततो दुःखतरं नु किम् । न्विति वितर्के । ततो नान्यद्दुःखतरमस्तीत्यर्थः ॥ ३७ ॥ युद्धे तु क्रियमाणे गुणा एवोभयत्रेत्याह१३ हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्१४ । तस्मादुत्तिष्ठ१५ कौन्तेय युद्धाय कृतनिश्चयः ॥ भगवद्गीता_२.३८ ॥ मोहं त्यक्त्वोत्तिष्ठ१७ । यद्वा (म)यावश्यं कर्तव्यं हि युद्धमित्येवं कृतनिश्चयः ॥ ३८ ॥ __________ टिप्पणी १. ... मेतावदेवशेषः ३३ २. चपि ... कथयिष्यन्ति तेव्ययां ३. कीर्तिंर्मरणा ४. सन्तन्तां ... गुनसम्भावितस्यचा कीर्तिंर्मरणादतिरिच्यते ५. मरर्णंवमित्यर्थः ६. किञ्च ३५ ७. येसां ८. मन्यन्ते ९. गुनै धर्माशय स्तमञ्जसः १०. किञ्च ३६ ११. तताहिनाः १२. निदन्तस्तव १३. ... त्याह ३७ १४. महीमृ १५. दुत्तिष्ठ १६. कोन्तेय १७. मोहं त्यत्कोत्तिष्ठ ____________________________________________________________________ पृष्ठ ६४ तत्र च युद्धप्रवृत्तस्य बुद्धिसाम्यमुपदेष्टुमाह१ सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ भगवद्गीता_२.३९ ॥ सुखे हर्षो दुःखे विषादः२ । तावकृत्वा । तयोः किन्निमित्तमित्याह३ लाभालाभौ (समौ कृत्वा) लाभे सुखमलाभे दुःखमुत्पद्यते । तयोः पुनः को हेतुरित्याह४ जयाजयौ । जये लाभो विपर्य(ये) अलाभ इति । (इ)दमुक्तं कुर्वन्न पापं५ प्रत्यवायमवाप्स्यसीसि । तदेवोपसंहृतम्६ । अन्यथा पपशङ्कानुपपत्तेरिह स्वधर्मं७ कुर्वतो यत्पापं८ भवति तन्निषिध्यते९ । अथ वा पापमिति संसारव्यसनम् । तन्नैवमवाप्स्यसि । ज्ञानकर्मसमुच्चयानुष्ठानमेवमिति१० व्यपदिश्यते साम्यपर्यन्तम् ॥ ३९ ॥ इदानीं ज्ञानप्रकरणमुपसंहरति कर्मण्युपायविशेषो वक्तव्य इति विभागज्ञापनाय११ एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं१२ प्रहास्यसि ॥ भगवद्गीता_२.४० ॥ यद्यपि साङ्ख्यशब्दः कापिलतन्त्रे रूढः१३ गुणपुरुषविवेकज्ञानं१४ यत्रोपदिश्यते तथापि तदिह न गृह्यते । न तत्सादृश्यादात्मयाथात्म्यविवेकः१५ साङ्ख्यशब्देनात्र व्यपदिश्यते१६ । तद्विषया बुद्धिरुक्तेत्यर्थः । योगः कर्मानुष्ठानोपायः । फलसङ्कल्परहितत्वं१७ समत्वम् । कृतस्य क्रियमाणस्य वा (कर्मणः) ईश्वरार्पणमिति । त्वमिमां बुद्धिं१८ शृणु । तां विशिनष्टि श्रोतुश्चित्तसमाधानाय१९ । __________ टिप्पणी १. युद्धप्रवृन्तस्य बुद्धिसाम्यमुपदेष्टमाह ३८ २. सुस्वहषों दुःखे विषादः ३. किन्निमित्त्र ४. हितुरित्याह ५. पाप ६. ... सन्तृतम् ७. पापा ... खधर्म ८. कुर्वतः पार्प ९. यन्निषिद्धते १०. मेवेमिति ११. णमुपर्सदरतं ३९ १२. कर्मबन्धं १३. तन्त्रेगूत १४. ... वकेकनानं १५. गृह्यतेतत्सावृश्यात् १६. शब्देनात्र व्ययदिश्यते १७. कल १८. वाद्रेश्वरायणामिति तयां बुद्धिं १९. श्रोतुश्चितुसमा ____________________________________________________________________ पृष्ठ ६५ यया बुद्ध्या युक्तः कर्मबन्धं कर्मैव बन्धः कर्मानेकजन्मसञ्चितं प्रहास्यसि त्यक्ष्यसि । केचिदत्र साङ्ख्यशब्देनोद्गीथाद्युपासनानामतिमोक्षस्य सम्पदश्च विधायकं२ शास्त्रमेतत्सर्वं व्यपदिश्यत इति ब्रुवते । अत्रोच्यते । तदेतदप्रस्तुतमनुपयोग्यमाकस्मिकमुपन्यस्तमिति नः प्रतिभाति । कुतः३ । पुरुषविशेषविषयास्तूपासनासम्पदो ऽतिमोक्षश्च४ । न च ता आत्मोपासनाः । अत्र च शोकमोहाकुलितचेतसस् तदपनयनायात्मयाथात्म्यवर्णनार्थं५ प्रकरणम् । एवं च क्वोद्गीथादयः क्वेदं६ प्रकरणम् । न च साङ्ख्यशब्दः परिभाषया विनातिमोक्षादिषु वर्तेत । तस्मात्पौर्वापर्यपर्यालोचनया७ सम्बन्ध्यमानो योऽर्थः स साङ्ख्यशब्दयोग्यो८ व्याख्येयः । स चास्माभिरुक्त इति । योगशब्दोऽप्यत्र समत्वं योग उच्यते इत्युपसंहारवचनाद् अनुष्ःानोपायवचनो१० नान्यत्र योजनीय इति ॥ ४० ॥ बुद्धियुक्तस्य११ कर्मणो गुणान्तरमुच्यते१२ नेहातिक्रमनाशोऽस्ति१३ प्रत्यवायो न विद्यते । स्वल्पमप्यस्य१४ धर्मस्य त्रायते महतो भयात् ॥ भगवद्गीता_२.४१ ॥ अतिक्रामति संसारदुःखं येन बुद्धियुक्तेन१५ कर्मणा सोऽतिक्रमः । अभिक्रम इति केचित्पठन्ति१६ । अर्थस्तु स एव । __________ टिप्पणी १. बुध्या कर्मबन्धं कर्मैवन्धः २. उद्गीथा घुपासनान्यतिमोक्षास्संपदश्च धायकं ३. कृत ४. विषयास्तु उपासासंपदोतिमोक्षाश्च ५. ... कुलितचितसस्तदपनपनायात्म याथात्म्य वर्णनार्थ ६. त्क्वोद्रीथादयः केदं ७.वर्तते ... पूर्वपर्यालोचनया ८. साङ्ख्यशब्दोयोग्योव्व्याख्येय ९. स चस्माभिरुक्त इति १०. इत्युषसंहारवचनादनुष्टानो पापवाचनो ११. ... युक्षस्य १२. ... मुच्यते ४१ १३. नेहातिक्रम १४. स्पल्पमप्यत्य १५. बुद्धियुक्तौन १६. पवन्ति ____________________________________________________________________ पृष्ठ ६६ नाशो निष्फलत्वम् । इह मोक्षमार्गेऽवस्थाय क्रियमाणस्य१ कर्मणो निष्फलत्वं नास्ति यथा कृष्णादेर् अनेकान्तिकफलत्वं नापि चिकित्सककृतधर्मवत्२ प्रत्यवायो विद्यते । प्रत्युत स्वल्पमपि यथाशक्त्यनुष्ठितस्य३ धर्मस्य सम्बन्धि त्रायते४ रक्षत्यनुष्ठातारं महतः संसारभयात् ॥ ४१ ॥ आत्मविषया कर्मविषया बुद्धिरेकैवैकफलत्वादिति दर्शयितुमाह४ व्यवसायात्मिका बुद्धिरेकैव कुरुनन्दन । बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ भगवद्गीता_२.४२ ॥ समुच्चिताभ्यां६ ज्ञानकर्मभ्यामपवर्गोऽवाप्यते यथाग्नेयादिभिर् इतरेतरं युक्तैर्यागैः स्वर्गः७ । सा चेयं व्यवसायात्मिका बुद्धिरेका । अव्यवसायिनां तु केवलकर्मिणां केवलज्ञानवादिनां च कर्माकरणे प्रयतमानानां बहुशाखा८ बहुप्रभेदा असङ्ख्येयाश् च बुद्धयो भवन्ति ॥ ४२ ॥ तत्र केवलकर्मिणोऽधिकृत्याह९ यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः । वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥ भगवद्गीता_२.४३ ॥ यामिमां वक्ष्यमाणां पुष्पितां फलप्रसवित्रीं१ वाक्यलक्षणां वाचमनात्मविदो विपश्चितो वेदवाक्येषु अग्निहोत्रं जुहुयात्स्वर्गकामः इत्यादिषु रताः कर्मणा निरतिशयसुखं __________ टिप्पणी १. क्रिषमाणस्य २. ... कृताहर्मवत्प्रत्युवायो ३. यथाशक्तनुष्टितस्य ४. नायते ५. दृअर्शयितुमाह ४२ ६. समुश्चिताभ्याम् ७. युक्तैर्यागस्वर्गः ८. बहुणखा ९. ... कर्मिणैधिकृत्याह ४३ १०. ... सवित्री ____________________________________________________________________ पृष्ठ ६७ स्वर्गशब्दवाच्यं१ प्राप्यते । ततोऽन्यदपवर्गाख्यं सुखं नास्तीति२ वादिनो वदनशीलाश् च (प्रवदन्ति) ॥ ४३ ॥ इतः कामात्मानः३ स्वर्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ॥ भगवद्गीता_२.४४ ॥ अप्राप्तस्य प्राप्तीच्छा कामः । तदनुरक्तचेतस इत्यर्थः४ । स्वर्गः परः पुरुषार्थो येषां ते स्वर्गपराः स्वर्गप्रधानाः । जन्मकर्मफलप्रदाम् । कर्मणः फलं कर्मफलम् । जन्मयुक्तं कर्मफलं प्रददातीति जन्मकर्मफलप्रदाम् । वाचमित्यधिक्रियते । पुनरपि किंविशिष्टाम् । क्रियाविशेषबहुलाम् । क्रियाणां विशेषा (अ)तिबहुला बहुप्रकारा यस्यां वाचि ताम् । किं५ प्रति प्रवृत्तामित्याह भोगैश्वर्यगतिं प्रति । भोगश्चैश्वर्यं च६ तयोर्गतिः प्राप्तिस्ताम् उद्दिश्य७ । भोगः सुखवेदना । (अह)मेषां पतिः स्वामीति यत्राभिमानो जायते तदाइश्वर्यम् । अथवा गतेरेवोभयं८ विशेषणम् । कीदृशगतिं९ प्रति । जन्मकर्मफलप्रदां क्रियाविशेषबहुलां प्रति । पुष्पितां वाचं (प्र)तीत्यर्थः ॥ ४४ ॥ तेषां चैवं वदताम्१० भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्११ । व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ भगवद्गीता_२.४५ ॥ तया पूर्वोक्तया वाचापहृतविवेकज्ञानानां१२ (ज्ञान)कर्मसमुच्चयलक्षणा व्यवसायात्मिका१३ बुद्धिः (समाधौ) । समाधीयतेऽस्मिन् __________ टिप्पणी १. सुखं गशब्दः वाच्यं प्राप्येते २. ... न्यदय वर्गाख्यसुखं नास्तिति ३. ... शीलाः चेतः कामा ४. प्राप्तेछा कामंस्तदनुरकवेतस इत्यर्थः ५. विशेषाइ ... वाचितो किं ६. गतं भोगश्चैर्य ७. तामुदिश्य ८. कीदशं गतिं ९. गते वोभयं १०. वदतां ४५ ११. तयापहतचेतसां १२. ... पतृविवेकज्ञानाना १३. व्यत्सायात्मिका वुद्धिः ____________________________________________________________________ पृष्ठ ६८ चित्तमिति१ समाधिरात्मा । तस्मिन्नात्मनि न विधीयते न सम्भवतीत्यर्थः । अथवा समाधानं समाधिस्तद्विषया बुद्धिः । अपरे पुनर्युक्तं व्याख्यानमननुसरन्तस् तत्प्रतिमानं कल्पयन्तो वदन्ति । सर्वेषां किल कर्मकाण्डगतानां वाक्यानां हि (द्वि)विधं फलमन्वयनिबन्धनं तात्पर्यसमधिगम्यं च२ । तत्रान्वयिकं स्वर्गब्रह्मवर्चसादिफलमन्वयनिबन्धनम् । शमदमादिहेतुतयानुष्ठातॄणां व्यवसायात्मिकायां बुद्धौ योग्यतापादनं तत्रान्वयफलमेव स्वर्गादि ये वदन्त्यविपश्चितस्ते तात्पर्यफलमजानन्त इति योजयन्ति३ । अत्राभिधीयते । तदेतच्छब्दप्रमाणबाह्यं पुरुषबुद्धिप्रभवं न्यायविद्भ्यो४ नातिरोचते । न हि स्वर्गकामो यजेत इत्यस्य वाक्यस्य द्वावर्थौ५ तत्र यागेन स्वर्गं प्राप्नुयादित्ययमेवैकोऽर्थो विधीयते६ । पदार्थसंसर्गो हि वाक्यार्थः । न पुनर्यागानुष्ठानेन७ ज्ञानयोग्यतां कुर्यादिति८ कस्यचित्पदस्य तात्पर्यो दृश्यते९ । पदार्थपूर्वकश्च वाक्यार्थो ज्ञाने निमित्तमिति स्थितिः । न च पुरुषेच्छावशाद्१० वाक्यस्य नार्थान्तरमाक्षिपति । ये हि श्रूयमाणमर्थमनादृत्य१२ वाक्यस्यार्थान्तरं कल्पयन्ति१३ त एव सुतरामविपश्चितो न मीमांसका१४ ये शब्दप्रमाणवृत्तं१५ ब्रुवते शमदमादयो यागानुष्ठानसाध्या इति१६ । किं तर्हि । शान्तो दान्त उपरतः१७ __________ टिप्पणी १. समाधीयेतस्मिशिन्नमिति २. निबन्धनं तात्पर्यं समाधिराम्यं च तात्रान्वियकं ३. तौतात्पर्यफलमजामन्तः इनि योजयन्ति ४. न्यायविम्द्योतेरुरोवच्यते ५. द्वावर्थो ६. प्राप्नुयदित्ययमेवैकोथो विधियते ७. संसर्गे ... यागानुष्टानेन ८. कुपीदिति ९. त्पायारो दश्यते १०. पुरुषेच्छवशाद्वाक्यस्य ११. ... निराकाक्ष्यं १२. श्रूयमाणमर्थनामनादत्य १३. कल्पनीयन्ति १४. मीमो एका १५. शाब्द १६. समदमादयगानुष्.आनसाध्याः १७. शान्ता दान्ता उपरत ____________________________________________________________________ पृष्ठ ६९ इत्यादिवचनगम्याः संसारदोषदर्शनेन चित्तवृत्तिनिरोधात् साधनाग्रन्थगौरवभयादुपरम्यते१ । प्रतिश्लोकं चैवमन्ये चान्ये व्याख्यातारो पूर्वमर्थमुत्प्रेक्षमाणा२ आहोपुरुषिकां लोके प्रथयन्ति । तत्र यत्प्रामाण्यवृत्तमुक्तं तदत्र भवन्तो विदां कुर्वन्तु३ । आत्मज्ञानेन तु नित्यकर्मणां समुच्चयो४ वचनान्तरेण तमेवं वेदानुवच(ने)न इति नियतस्य तु सन्न्यासः कर्मणो५ नोपपद्यते इति च त्यागप्रतिषेधात्तेषाम् एवात्मनाम्६ ॥ ४५ ॥ त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन । निर्द्वन्द्वो नित्यसत्त्वस्थो७ निर्योगक्षेम आत्मवान् ॥ भगवद्गीता_२.४६ ॥ त्रयाणां सत्त्वरजस्तमसां गुणानां कर्म त(त्) त्रैगुण्यम् । स विषयः प्रकाशयितव्यो८ येषां वेदानां ते त्रैगुण्यविषयाः । गुणानां च संसारप्रवर्तनं कर्म । तद्विषया वेदाः । तत्र सत्त्वमुपसर्जनम् । रजस्तमसी तूत्कटे९ । ताभ्यां वशीकृतः पुरुषः इहामुत्रफलेषु कर्मसु प्रवर्तमानः संसारचक्रं नातिवर्तत इति तात्पर्यार्थः१० । त्वं तु११ निस्त्रैगुण्यो भव । त्रैगुण्यमतिवर्तस्व । कथम् । निर्द्वन्द्वः नित्यसत्त्वस्थः१२ । कामक्रोधौ१३ रागद्वेषौ सुखदुःखे शीतोष्णे१४ इति द्वन्द्वानि१५ तानि सहस्वेत्यर्थः । सत्त्वगुणस्थो भूत्वा धैर्यम् अवलम्ब्य । निर्योगक्षेमश्च । अप्राप्तस्य स्वीकरणं योगः प्राप्तस्य परि(रक्षणं) क्षेमः । तयोर्यतमानस्य१६ न व्यवसायात्मिका१७ बुद्धिः । आत्मवानप्रमत्त इत्यर्थः१८ ॥ ४६ ॥ __________ टिप्पणी १. चिन्नवृत्तिनिरोधात्साधतदति ग्रन्थगौरवभयादुपम्यते २. पूर्वमथनमुत्प्रेक्षमाणा ३. प्रमाणवृन्तमुक्तं तन्त्रभवन्तो विदाङ्कुर्वन्तु ४. समुच्चये ५. कर्मणा ६. मेवमात्मनाम् ४६ ७. निर्द्वष्ट्वो ... सत्वस्थो ८. प्रकाशयितत्यो ९. रजस्तमसोतूत्काटे १०. तत्पर्यार्थः ११. त्वं मुनिस्त्रैगुण्यो भव १२. नित्त्यसत्त्यस्थः १३. क्रोधो १४. ... शीतोस्से १५. द्वन्द्वानि १६. तषोर्यतमानस्य १७. नव्यस्तयात्मिका बुद्धिः १८. आत्मवान प्रमन्नमन्न इत्यर्थः ४७ ____________________________________________________________________ पृष्ठ ७० न च त्रैगुण्यविषयेषु वेदेष्व् अध्ययनश्रवणव्याख्यानादिपरेण त्वया कृत्स्नमायुः पर्युपयोक्तव्यम्१ । किं कारणमित्याह यावदर्थ उदपाने सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदे(षु) ब्राह्मणस्य विजानतः ॥ भगवद्गीता_२.४७ ॥ कूपतडागादौ यावानर्थः स्नानपानादिः२ पुरुषस्य तावानर्थः सलिलपूर्णे देशे प्रावृट्समये३ नाधिको विद्यते । यथायं दृष्टान्तस्तथा४ ज्ञानकर्मसमुच्चयप्रतिपादनपरे वेदभागे५ यावानर्थस्तावानेकाहाहीनसत्रप्रतिपादके६ कृत्स्नवेदे । अतः काम्यकर्माभियोगं७ विहाय ज्ञानकर्मनित्यकर्मप्रतिपादनपरभोगे ऽभियोगवता भवितव्यमिति । अपरेषां व्याख्या यावानर्थः सर्वतः संप्लुतोदके तावानुदपाने तत्कार्ये तत्रैवान्तर्भवतीत्यर्थः । तथा विजानतः सन्न्यासिनो ज्ञाने सर्वतः संप्लुतोदकस्थानीये(षु९) सर्वेषु वेदेषु तावानर्थः । तत्रैव समस्तकर्मप्रयोजनम् अन्तर्भवतीत्यर्थः१० इति । तदस्मिन् व्याख्याने११ यदि ज्ञानमाहात्म्यं तदानीम् अभ्यनुज्ञातं ज्ञानस्यैतन्माहात्म्यं यत्कामात्मनां१२ कर्म संसारहेतुर्भवति तदात्मीयस्वभावं विहाय तत्सम्पर्काद् उत्कर्षहेतुत्वं१३ प्रतिपद्यते । यथा रसस्पृष्टताम्रवर्णता१४ सुवर्णतां प्रतिपद्यते । रसोऽपि ताम्रसम्पर्कात्पुरुषार्थसाधनम्१५ । एवमन्योन्यसमुच्चितमपवर्गार्थमित्युक्तम्१६ । तथा च वसिष्ठेनोक्तम्१७ __________ टिप्पणी १. पर्यपयो क्तव्यं २. ... तादुकोदौपावर्थस्त्रानयानादिः ३. प्राबृट समये ४. यथां यं वृष्टान्तात्तथा ५. ... पादनं परे वेटभाग ६. ... सत्त ... प्रतिपादके ७. कास्यकर्म ८. यावनर्थस्सर्वतस्तंस्तुदके तावानुदयानेतत्कार्य तेत्रेवान्तर्भवति ९. संस्तुतोदक १०. प्रयोजनमन्तर्भवतित्यर्थः ११. व्याख्याते १२. कामात्मन्नां १३. ... संयार्कादुत्कषहेतुत्वं १४. रसस्पृष्टं ताम्रवर्णता १५. ... संपार्कात्पुरुषार्थसाधतम् १६. ... समुश्चितमप १७. वसिष्टेनोक्तम् ____________________________________________________________________ पृष्ठ ७१ यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम्१ । एवं तपश्च विद्या च संयुक्ता भेषजं महत् ॥ इति । अथैतद्व्याख्याने२ कर्म निष्प्रयोजनं वक्तव्यं३ । ज्ञानादेव केवलादपवर्गमित्यभिप्रायेण । तदसदित्युच्यते४ । शाब्दप्रमाणबाह्यत्वादस्यार्थस्येत्युक्तमन्यत्र५ च निपुणतरं वक्ष्यते । ब्राह्मणस्येति च सामान्यश्रवणं न सन्यासिन इति विशिष्टम् । तस्मात्सर्वाश्रमाणां सर्वद्विजानां च मुक्तिः । तथा च जनकादयः स्मर्यन्ते । तस्माद्व्यवसायात्मिकायां६ बुद्धो स्थातव्यमिति स्थितम् ॥ ४७ ॥ तत्र यदुक्तम् योगे त्विमाम् इति कोऽसौ योग इत्याह७ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ भगवद्गीता_२.४८ ॥ स्वाश्रमविहितेषु कर्मस्वधिकारः । फलेषु चानधिकारः८ । मेति(शब्दः) प्रतिषेधवाची । नास्त्यधिकारः९ । कर्मण्येवेत्येवकारः फलव्यवच्छेदार्थो न ज्ञानव्यवच्छेदार्थः१० । तस्य एषा तेऽभिहिता इत्याद्युपदिष्टत्वात्११ । ननु कर्मण्ये(व)कारः फलं हि क्रियासाध्यम् । न तत्रापि प्रसक्तोऽसौ येन प्रतिषिध्येत इत्याशङ्क्याह१४ मा ते सङ्गोऽस्त्वकर्मणि ॥ ४८ ॥ __________ टिप्पणी १. संयुतं २. अथैतद्यारत्यानं ३. निष्पयोजनं वक्रव्यं ४. तदानमृष्यते ५. ...मन्नरत्र ६. ... स्मंर्यते तस्मादवस्थायात्मिकां ७. इत्याह ४९ ८. फले सुवातिकारो ९. नात्स्यधिकारः १०. कर्मण्येद्येत्येवकारः फलव्यवछेदार्थो न ज्ञानव्यवछेदार्थः ११. ... हितोत्युपदिष्ट १२. ... व्यवच्छेद्यर्थो व १३. ... कारस्वत्यापारत्वात् १४. प्रसक्तो येन प्रतिसिद्धते इत्याशक्याह ____________________________________________________________________ पृष्ठ ७२ अकरणे सक्तिर्न कर्तव्या । कथं तर्हि कर्तव्येत्याह१ योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय । सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते२ ॥ भगवद्गीता_२.४९ ॥ यानि नित्यानि कर्माणि सन्ध्याराधनसङ्ग्रामादीनि३ तानि योगस्थः४ कुरु । फलसङ्गं त्यक्त्वा । फलसङ्गेन हि क्रियमाणे५ कर्मणि सिद्ध्यसिद्ध्योर्वैषम्यम्६ । सिद्धौ हर्षः फलसिद्धौ विषाद इति । ईश्वराराधनार्थे७ तु क्रियमाणे नास्ति वैषम्यम् । स एव८ कर्ता । तदात्मकं च कर्मेति क्रियमाणं तत्सि(द्धि)हेतुत्वं प्रतिपद्यत इत्यर्थः । तदिदं समत्वं योग उच्यते ॥ ४९ ॥ समत्वबुद्धित्वादस्मात्९ कर्मणः केवलम्१० दूरेण ह्यवरं११ कर्म बुद्धियोगाद्धनञ्जय१२ बुद्धौ शरणमन्विच्छ१३ कृपणाः फलहेतवः ॥ भगवद्गीता_२.५० ॥ हिशब्दो हेतौ । ज्ञानरहितं कर्म दूरेणातिविप्रकर्षेणावरं१४ जघन्यम् । युज्यत इति योगः कर्म । बुद्ध्युक्तात्कर्मणः सकाशादित्यर्थः । यत एवं१५ तस्माद्बुद्धौ१६ शरणमन्विच्छ बुद्धिमाश्रयेत्यर्थः१७ । कर्मप्रवृत्तिकाले१८ । (यतः कृष्णाः फल)हेतवः । केवलं कर्मणः फलं प्रवृत्तिहेतुर्येषां१९ ते फलहेतवः२० ॥ ५० ॥ बुद्धियुक्तः कुर्वन्नेव२१ किन्नु फलं प्राप्नोतीति तदुच्यते बुद्धियुक्तो जहातीमे उभे सुकृतदुष्कृते । तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ भगवद्गीता_२.५१ ॥ __________ टिप्पणी १. कर्तव्यार्नात्याह ४९ २. सिद्धासिःधोस्समोभूत्वा समत्व योग उच्यते ३. ... सग्रामादीनि ४. योगस्यः ५. क्रिसमाणे ६. कर्माणिसिद्धांसिद्धेर्वैषम्यम् ७. ईश्वरागुधनार्थो ८. राव ९. त्वबुद्धिक्ताद १०. केवलं ५० ११. रेणत्द्यवरं १२. धनञ्जप १३. ... न्विछ १४. द्वरेणतिप्रकर्षे १५. रावं १६. वद्धौ १७. न्विछवुद्धमाश्रय १८. कर्मनिवृत्तकाले १९. येयां २०. फलदेवत ५१ २१. कुवन्नेव ____________________________________________________________________ पृष्ठ ७३ ईश्वराराधनार्थं१ कर्मेत्यनया बुद्ध्या युक्तः कर्म कुर्वन् परित्यजत्यनारब्धफले जन्मान्तरकृते२ शुभाशुभकर्मणी । ये त्वारब्धफले तयोर्भोगेनैव क्षयः३ । अस्मिन् शरीरे तयोर्भोगरूपेण४ परिणतत्वात् । तथा च श्रुतिः तस्य तावदेव चिरं याव(दस्माच्छरीरा)न्न विमोक्ष्येऽथ सम्पत्स्य इति । यावदस्माच्छरीरान्न विमोक्ष्यते५ तावदस्य विदुषश्चिरमित्यवधिकरणात् । तस्मात्समत्वयोगाय६ युज्यस्व । कः पुनर्योगः । (योगः) कर्मसु कौशलम् । इदं तावद्ब्रह्मणि७ समर्पणं कर्मणः फलसङ्कल्परहितता च ॥ ५१ ॥ किं पुनरेवं कृते स्यात्८ कर्मजं९ बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः१० । जन्मबन्धविनिर्मुक्ताः११ पदं गच्छन्त्यनापयम्१२ ॥ भगवद्गीता_२.५२ ॥ शुभेतरकर्मजं फलं त्यक्त्वा१३ मनीषिणो मनस ईषिणो१४ ब्रह्मभावापादितमनोवृत्तयो१५ जन्मैव बन्धस्ततो विनिर्मुक्ताः१६ पदं विष्णोः स्थानं गच्छन्त्यनामयं सर्वोपद्रवरहितम् ॥ ५२ ॥ कदा पुनरेवं क्रमस्त्वं शुद्धतरबुद्धिर्निर्वेदं प्रतिपद्यसे । तदाह१७ यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ भगवद्गीता_२.५३ ॥ __________ टिप्पणी १. इश्वराराधनार्थं २. ... नारव्रकले जन्मान्तरकृते ३. भोगेनेव क्षया ४. तयार्भोगतूपेण ५. यावदस्माछरीरन्न विमोक्ष्यत ६. समत्वं योगाय ७. तद्यद्वद्नणि ८. पुनरंवोकृते स्यात्१२ ९. कर्मज १०. त्यत्त्का ११. अन्मबन्धविनिमुक्ताः १२. गञ्छत्यना १३. त्यत्त्का १४. इषिणो १५. ... वृतयी १६. ... मुक्तः १७. ... पुनरेवङ्कमः स्त्वन्तरबुद्धिनिर्वेदं प्रतिपद्यने तदाह १६ ____________________________________________________________________ पृष्ठ ७४ कलिलं गहनमुच्यते । तथा चाभिधानकोशे कलिलं गहनं विदुः इति । मोह एव कलिलम् । मोहोऽज्ञानम् । एतदुक्तं भवति अज्ञानं दुर्गं यदा व्यतिक्रमिष्यसि तदा गन्तासि निर्वेदं श्रोतव्यस्य३ शास्त्रस्य श्रुतस्य च । तदा च मोहदुर्गं व्यतितीर्य ते बुद्धिः स्थिरमवस्थास्यत२ इति ॥ ५३ ॥ श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला । समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ भगवद्गीता_२.५४ ॥ अचला इति पुनर्विवक्ष्यते३ । तदा परमात्मयोगमवाप्स्यसि । ततः४ पूर्वोक्तमुपपन्नम् पदं गच्छन्त्यनामयम् इति ॥ ५४ ॥ अनन्तरवृत्तेन श्लोकद्वयेन बुद्धेर्निश्चलत्वे प्रतिपादिते परमात्मनोऽभिमुखीकरणायावसरं लब्ध्वार्जुन उवाच५ स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव । स्थितधीः किं प्रभाषेत६ किमासीत व्रजेत किम्७ ॥ भगवद्गीता_२.५५ ॥ स्थितप्रज्ञः केन लक्षणेन भाष्यते व्यपदिश्यत इत्यर्थः । स च स्थि(त)धीः किं प्रभाषेत किमसौ वक्तीत्यर्थः । किम्परो भूत्वासीतेत्यर्थः९ । (अ)कर्मकत्वादस्य धातोरेवं१० योज्यते । किं वा व्रजेत गच्छेत्प्राप्नुयादिति११ । व्यत्ययेनात्मनेपदम् ॥ ५५ ॥ तत्र का भाषा इत्येतत्प्रथमं निरुच्यते१२ __________ टिप्पणी १. श्रुतव्यस्य २. व्यतिधिरमवस्थास्यते ३. विवक्ष्यते ४. ततो ५. अनन्तरवृतेन श्लोकदयेन परमात्माभिमुखाया बुद्धेनिश्चलत्वे प्रतिपादिते वसरलध्यार्तुन उवाच ५५ ६. प्रभासेत ७. व्रजोत किम् ८. वक्रत्यर्थः ९. किं परा भूत्वासीतित्यर्थ १०. ध्येतोरेवं ११. व्रजेतराछेत्प्राप्नु १२. इत्यतत्प्र ... निरुच्यते ५६ ____________________________________________________________________ पृष्ठ ७५ श्रीभगवानुवाच ऐश्वर्यस्य स(म)ग्रस्य धर्मस्य (य)शसः श्रियः । वैराग्यस्याथ मोक्षस्य षण्णां१ भग इति ध्वनिः ॥ प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् । आत्मन्येवात्मना तुष्टः२ स्थितप्रज्ञस्तदोच्यते ॥ भगवद्गीता_२.५६ ॥ बाह्यार्थविषयान्३ नानासाङ्कल्पान् यदा त्यजति (तदा) बाह्यविषयसङ्कल्पाभावे क्वायं वर्तते४ । केन तुष्टश्चरतीत्य् आह आत्मन्येवानन्दस्वरूपेऽमोहितेनात्मनान्तःकरणेन५ जन्ममरणजमोहादिविषादेन महौषधब्रह्मामृतपानास्वादजनितप्रेमप्रबन्धनिश्चलवृत्तिना परितुष्टः६ स्थितप्रज्ञस्तदोच्यते । यानीह स्थितप्रज्ञलक्षणानि वक्ष्यन्ते (तान्येव) साधनानि प्रयत्नतोऽनुष्ठेयानीति । न ह्यननुष्ठीयमानानि सत्तां लभमानानि७ लक्षणानि भवन्तीति । तत्र यदेतदुच्यते८ पूर्वावस्थायां लक्षणम्९ इति तदनुपपन्नम् । तस्मिन्नेव काले साधनत्वं तस्मि(न्नेव च काले) लक्षण(त्व)म् इति तदनुपपन्नम्१० । (न) तस्मि(न्) यौगपद्यं साधनत्वलक्षणत्वयोः ॥ ५६ ॥ किं च दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधी मुनिरुच्यते ॥ भगवद्गीता_२.५७ ॥ __________ टिप्पणी १. षस्मां २. आत्मनस्तुष्ट ३. वाल्लार्थविषयान् ४. त्क्वायं वर्तनः ५. स्वरूपेमाहितेमात्मानान्तकरणेन ६. जन्मजमरणमहाराविषादेन महोषधी निश्चलबृत्तीनः परितुष्ट ७. ... प्रपत्नतोनुष्टेपानि । नह्यनुष्टीयनि सत्तां लभधमानानि ८. यत्त्वेतदुच्यते ९. पूर्वावस्थायां वस्थायां १०. तदनुपपन्नं ____________________________________________________________________ पृष्ठ ७६ यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् । नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता_२.५८ ॥ यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यः स्थितप्रज्ञस्तदोच्यते ॥ भगवद्गीता_२.५९ ॥ विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ भगवद्गीता_२.६० ॥ यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ भगवद्गीता_२.६१ ॥ तानि संयम्य मनसा युक्त आसीत मत्परः । वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता_२.६२ ॥ ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥ भगवद्गीता_२.६३ ॥ क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ भगवद्गीता_२.६४ ॥ रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ भगवद्गीता_२.६५ ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ भगवद्गीता_२.६६ ॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ भगवद्गीता_२.६७ ॥ इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते । तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ भगवद्गीता_२.६८ ॥ ____________________________________________________________________ पृष्ठ ७७ तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः । इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ भगवद्गीता_२.६९ ॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ भगवद्गीता_२.७० ॥ आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् । तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ भगवद्गीता_२.७१ ॥ विहाय कामन् यः सर्वान् पुमांश्चरति निःस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ भगवद्गीता_२.७२ ॥ एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति । स्थित्वास्यामन्तककालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ भगवद्गीता_२.७३ ॥ इति श्रीभगवद्भास्करकृते गीताभाष्ये द्वितीयोऽध्यायः ॥ ____________________________________________________________________ पृष्ठ ७८ अथ तृतीयोऽध्यायः अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन । तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ भगवद्गीता_३.१ ॥ व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ भगवद्गीता_३.२ ॥ भगवानुवाच लोकेऽस्मिं द्विविधा निष्ठा पुरा प्रोक्ता मयानघ । ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥ भगवद्गीता_३.३ ॥ (अस्मिन् लोके निष्ठा द्विविधा स्थितिः लक्षणहेतुः । ज्ञानमेव योगः । तेन साङ्ख्या ज्ञानिनो लक्ष्यन्ते ।) यथा१ त्रिदण्डेन त्रिदण्डोऽनाश्रमी लक्ष्यते । एकार्थत्वात् । एवं कर्मयोगेन योगिनां समत्वमयोगवताम् ईश्वराराधनार्थं कर्म कुर्वतां साक्षात्कर्मणोऽपि ज्ञानोत्पत्त्युपायत्वात्२ । तथा चोक्तम् ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथादर्शतलप्रख्ये३ पश्यन्त्यात्मानमात्मनि ॥ (आत्मनि) बुद्धावित्यर्थः । पापक्षयश्च४ धर्मात् धर्मेण पापमपनुद इति तपसा ब्रह्म विजिज्ञासस्व इति च श्रुतेः । तेषां यमनियमवत्त्वादल्पमपि५ ज्ञानसामान्यमस्तीति । अतः क्वचित्प्रधानमिति । एतावान् विशेषोऽत्र समुच्चयः __________ टिप्पणी १. र्यथा त्रिदंडेन त्रिदडनाश्रमी लक्ष्यते कांर्थ चास्सेव कर्मयोगेन योगिनां समत्व ... २. कर्मणोत्पत्युपायत्वात् ३. तत्रादर्शन्तलप्रख्ये ४. बुद्ध्यावित्यर्थः पापक्षयाश्च ५. नियमवादुल्पं ज्ञानमपि ____________________________________________________________________ पृष्ठ ७९ (ज्ञानकर्मणो प्रतिपादितः) । न ह्यत्र स्मार्तेन कर्मणा श्रौतेन वा ज्ञानस्य समुच्चय१ इति । अयमपि विशेष उपयुज्यते२ यथा प्राक्तनेन कर्मणा ऐहिकस्य कर्मणः समुच्चयस्योपपत्तिः । न त्वत्राश्रमविकल्प३ आश्रमसमुच्चयो वा भगवता विवक्षितः । (आत्मनः) साक्षात्कारणात्४ प्रागवस्थायां कर्मप्राधान्यम् उत्तरत्र ज्ञानप्राधान्यमित्युपदेशात् । अतः स्थिरं५ प्रतिपुरुषम् अपवर्गाधिकारे ज्ञानकर्मणी समुच्चीयेत इत्येतत्परमिदं७ शास्त्रमिति सम्यग्दर्शितम् । तद्वाक्यानि च तथैव व्याख्यातव्यानि । अन्ये पुनः पत्रैरिव६ फलानि छादयन्तः प्रश्नमुत्तरं चान्यथा वर्णयन्ति । प्रजहाति यदा इत्यारभ्य७ सर्वकर्मत्यागिनां साङ्ख्यानां ज्ञानादेव केवलान्निःश्रेयसः प्राप्तिरुक्ता । मम च कर्मण्येवाधिकारस्ते इति कर्मैव केवलमुपदिष्टम् । न तत एव श्रेयःप्राप्तिरित्याकुलितबुद्धिरर्जुन उवाच ज्यायसी चेत् इति । उत्तरं च८ भागवतमुपपद्यते साङ्ख्यानां केवलाज् ज्ञानान्निःश्रेयसप्राप्तिः९ । कर्मयोगिनां तु निष्ठयैवेति१० । द्वे निष्ठे भिन्नपुरुषविषय इति सर्वकर्मत्याग एव सम्यग्दर्शिनां११ साङ्ख्यानामितिहासपुराणोपनिषत्सु१२ च दर्शितः । न च नित्यकर्माकरणे सन्न्यासिनां प्रत्यवायो भवति अधिकारस्य निवृत्तत्वात्१३ । अधिकारिभिस्त्यज्यमानं१४ कर्म दोषम् __________ टिप्पणी १. विशेषोत्र समुश्च नघात्र स्मातेन कर्मणा स्रोतेन वा समुश्चय इति २. उपयोज्यते ३. यथा प्राप्तेन कर्मणा समुश्चयोपापतेः न चत्रश्रमविल्प ४. साक्षात्कारणात् ५. अतस्थिरं ६. समुश्चीयते । दत्पपरं सम्यग्दर्शतानि व्याख्यानामासेः पत्रैरिव ७. देसारभ्य ८. उत्तर च ९. साख्यानां केवलाज्ञानान्नि १०. कर्मयोगिनां तु कर्मनिष्ठेवेति ११. सर्वकर्मस एव सम्यग्दर्शिनां १२. मितिहास पुराणयोहमनिषत्सु १३. निवृन्तत्वात् १४. ... भिस्स्यज्यमानं ____________________________________________________________________ पृष्ठ ८० आ(व)हति । न चाकरणादभावात्प्रत्यवायोत्पत्तिः१ । तस्माद्विविदिषावतामनुत्पन्नज्ञानानामपि विदुषां चोत्पन्नज्ञानानां२ कर्मत्याग३ एवेति ब्रुवते । अथान्ये४ श्रुतौ तु साङ्ख्यानां ज्ञानादेव५ निःश्रेयसमुक्तम् । आत्मनश्च६ कर्म कर्तव्यमुक्तमिति श्रुतिस्मृतिन्यायनिपुणाः प्रत्याचक्षते७ । (ते)नैवमपि योजयितुं८ शक्यते साङ्ख्यानां ज्ञानादेव निःश्रेयसमुक्तमात्मनश्च कर्म कर्तव्यमुक्तमिति विवेकेनार्जुनोऽवगतवान् यदि तत्कथं तस्याकुलीभावः तदेकं१० वद इति च नोपपद्यते । भागवतं चोत्तरं११ न सङ्गच्छते द्विप्रकारोक्ता निष्ठेति । तत्रैवं१२ वक्तव्यम् । स्यात्कर्म(ण्येव)अधिकारस्ते न निःश्रेयस् सुनिष्ठयोर्भिन्नपुरुषविषयत्वात् । ज्ञानं कस्यचिदेव कस्यचित्कर्मैवेति प्रकारमात्रोपदेशाय । तदुक्तम् विविदिषावतो१३ विदुषश्च सर्वकर्मसन्न्यास१४ इति । तच्छ्रुतिस्मृतिन्यायबाह्यं१५ विरुद्धं च । यदि तावदुत्पन्ने ज्ञाने प्रयोजनाभावात् कर्मत्यागे१६ हेतुर्विद्यते यदि वा विद्वद्भिस्त्रैवर्णिकैः१७ कर्म त्यज्येत स्वच्छन्दतया सर्वे कर्मिणो ब्रह्मविदः समुद्रं प्रविशेयुः१८ । विविदिषावतामपि कर्मयोगमेव दर्शयति तमेतं१९ वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसेति२० च । __________ टिप्पणी १. प्रत्यवायोरत्पत्रि २. ... त्पन्नजानानां ३. कर्मसाग ४. अन्यान्ये ५. श्रुतिसाङ्ख्यानां ज्ञानादिव ६. आत्मतश्च ७. स्मतिन्यायनिपुणः प्रत्याञ्चक्षते ८. नैवं प्रयोज ९. विवेकना १०. तदेकं वद्येति च ११. चोतरं न सङ्गछते १२. तत्रैव १३. निःश्रेषसु निष्टयौ भिन्नपुरुषविषयत्वं कस्य विमेव कस्यचित्कर्मैवति प्रकारमात्रोपदेशायदथुक्तं विविदिषो १४. ... सस्न्यासा १५. तत्छतिस्मृति १६. त्वागे १७. विद्वद्भिस्त्रै १८. स्वछन्दतया सर्वकर्मविद्यपस्समद्रं पुशेषवि १९. मेवं ततमेतं २०. विवेदिषन्ति यज्ञमानेन तपसेति ____________________________________________________________________ पृष्ठ ८१ यदि चाविदुषोऽपि कर्मत्याग एव विहितः स्याद्विदुषः कर्मानर्थक्यादिति१ हेत्वभिधानमनुपपन्नम्२ । तदेवं विरुद्धं भाषमाणः३ कथं ग्राह्यवचनः स्यात् । न चोपनिषत्सु सर्वत्यागगमकं लिङ्गमस्ति४ । न कर्मणा प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः इत्य् अत्र प्रजासाहचर्याल्लोकप्राप्त्यर्थं काम्यकर्मत्यागो गीयते । इतरापि श्रुतिः५ न्यासमेषां तपसातिरिक्तमाहुः इति न्यासशब्देन तत्र ब्रह्माभिधीयते न कर्मत्यागः । प्रकृतां वाचमित्यत्र दमशमादीनां तपसां च तत्प्राप्तिसाधनत्वात्तदपेक्षयातिरिक्तवचनम्६ । प्राप्तव्यं हि प्राप्तिसाधनादतिरिक्तं भवति । अन्यैश्च सन्न्यासशब्दोऽत्र न्यासशब्दस्यानर्थान्तरे प्रयुक्तः । यथा आज्यैः स्तुवते७ इत्याज्यशब्दः स्तोत्रेषु लोके घृतवचनः८ । तदिह भ्रान्त्या तस्य त्यागार्थकत्वं९ कल्पितम् । तथा हि धनिमात्रकृतो ह्येव जनानां मतिविभ्रमः । पौर्वापर्यापरामृष्टः१० शब्दोऽन्यां कुरुते मतिम् ॥ इति । इतिहासे च तत्र तत्र मोक्षार्थिभिः कर्म कर्तव्यमित्युक्तम् । तथा हि शुकानुप्रेश्ने११ कर्मणा मनसा वाचा यो धर्मनिरतः सदा । अफलाकाङ्क्षसिद्धश्च स मोक्षमधिगच्छति१२ ॥ इति । __________ टिप्पणी १. विपः कर्मानर्थर्थ्यात् २. धानमन्नपन्नं ३. व्याभाषमाणः ४. त्यागसत्वकं लिङ्गमस्ति ५. ... मृतत्वमादुरित्यत्र प्रजासार्यचर्याल्लोकप्रत्थर्थकाम्यकर्मत्यागायतै रति रोयश्रु ६. व्राह्मा ... प्रकृतावां च सत्रदमशमादीनां तपसां तत्प्राप्तीसाधन ७. शब्दोत्र च न्यासशब्दोर्थान्तरे प्रयुक्तो यथा क्ष्यैस्स्तुवते ८. धजवचनः ९. भ्रान्त्यागाथत्वं १०. ... पएमृष्टः ११. ... प्रश्रे १२. वित्तश्च स मोक्षमधिगछति ____________________________________________________________________ पृष्ठ ८२ यत्तु त्यज धर्ममधर्मं च इति तस्योत्तरश्लोकादर्थनिर्णयः त्यज धर्मं सङ्कल्पजम्१ । त्यजाधर्ममहिंसया इति । फलसङ्कल्पत्यागो न स्वरूपत्याग इति । यदुक्तमकरणे प्रत्यवायो नास्तीति तदसत् । अकुर्वन् विहितं कर्म इति स्मृतेः । न च शास्त्रे यः स्वेच्छाकृतस् त्यागः३ प्रत्यवायनिवारणे समर्थः । न चाकरणस्याभावस्य प्रत्यवायनिमित्तत्वं नास्तीति शक्यं वक्तुम् । राजाज्ञया नियुक्तानां४ भृत्यानामुक्ताकरणे वधबन्धादिदोषदर्शनात्५ । कथमसतः सज्जायेत इति द्रव्याभिप्राया श्रुतिः । असतो द्रव्यान्तरस्योत्पत्तिर्नास्तीति तत्रार्थः । द्रव्यस्य हि सुवर्णादेरेव स्वीकार्यम् । न चावस्थावत्त्वमन्तरेणावस्थयोपपद्यते६ इत्यभिप्रेत्यासदुत्पत्तिनिषेधः७ । तथा विहितानुष्ठानेऽपि प्रयोजनमस्ति मोक्षार्थिनां दुरि(त)क्षयोऽन्येषामभ्युदयः । तस्माद्गीताशास्त्रेऽन्यत्र८ वा कर्मणां मोक्षार्थता९ न कर्तव्येति स्थितम् । अन्ये पुनरन्यथा श्लोकं प्रस्थापयन्ति । कर्माद्भुतम् उद्गीथाद्युपासनम्१० । तेन योगात्कर्माण्यपवर्गभोग्यानि भवन्तीत्येव कृत्वोक्तम्११ ज्ञानयोगेन साङ्ख्यानामिति । कर्मणा नित्यनैमित्तिकेन१२ योगात्कर्मयोगः । तेन योगिनां परमात्मोपासकानां निष्ठोक्तेति१३ । तदेतद(नृ)तं भाषितमिति१४ (ते) मन्यन्ते । __________ टिप्पणी १. ... श्लोकादधतिर्णयस्त्यज धर्ममसङ्कल्पा २. तदसद्कुर्वेन्विहितं ३. कृतस्सागः ४. राजायुक्तानां ५. वधवेधादिदोष ६. सुवर्णादेरवस्थी कार्या न चावस्थावंर्तमन्तरेणावस्थोपपद्यत इ ७. तदुपनिषेधः ८. तस्माद्भीताशास्त्रे ९. कर्मणा न्मोक्षाथा न १०. कर्माद्भुतामुद्गीथाद्युपासनं ११. ... वर्गभागोपानि भवन्ती त्येवं १२. योगाकर्म १३. निष्टोक्तति १४. तदेददमनुतं भाषितम् ____________________________________________________________________ पृष्ठ ८३ कथमुद्गीथावयवाद्युपासनकर्मणः समृद्ध्यर्थत्वान् नापवर्गयोगित्वम्१ । ओमित्येतदक्षरमुद्गीथमुपासीत इत्युद्गीथावयवस्यौङ्कारस्योपासनं२ तत्र विहितं न ब्रह्मोपासनम् इति तत्रैवं स्थितम्३ । न चोद्गीथाद्युपासनसम्बन्धाद् अस्यापवर्गहेतुत्वम् । किं तर्हि४ । यज्ञेन दानेन इति । आत्मज्ञानसहकारितया विनियोगादिकं च५ गीताद्वितीयाध्यायोक्तेन ज्ञानकर्मप्रविभागप्रज्ञापनार्थमित्युक्तम्६ । योगश्च तत्र कर्म(सु) कौशलम् इत्युक्तं न परोपासनम् इत्यलं प्रसङ्गेन ॥ ३ ॥ साङ्ख्या परिव्राजका ब्रुवते केवलादेव ज्ञानान्मुक्तिः सर्वं श्रौतं स्मार्तं च कर्म त्यक्तव्यमहेतुत्वाद्७ इति । तेषां प्रत्याख्यानाय भगवानुवाच न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते । न च सन्न्यसनादेव सिद्धिं समधिगच्छति८ ॥ भगवद्गीता_३.४ ॥ निष्कर्मणो भावो नैष्कर्म्यम् । कर्मशब्देन पुण्यापुण्ययोर्ग्रहणम् । तद्रहितं मोक्षमित्यर्थः । अनारम्भान्मोक्षं पुरुषो नाश्नुते न प्राप्नोति । अर्थादेतदुक्तं९ भवति आरम्भात्प्राप्नोतीति । कर्मसापेक्षाज्ज्ञानान्मुक्तिर्न केवलादित्यभिप्रायः११ । अथ मन्य(से) किं कर्मणा परिव्रज्यासहिताज् ज्ञानान्निःश्रेयः सम्भवविष्यतीति१२ चेन्नेत्याह न च सन्न्यसनादेव ज्ञानसहितात्सन्न्यासादेव __________ टिप्पणी १. कथमुद्भीथावपवध्युपासनत्कर्मसमृद्ध्यर्थत्वान्नापावगोंपयोनिगत्वम् २. ... क्षरमुद्भीथमुपासीत्युदीथावयवस्योङ्कास्योपासनं ३. तत्रवस्थितं ४. न चोद्भीथाद्युपासनसंवन्धादपवर्गहेतुत्वं किं तर्हे ... दानेन तेत्यात्म ५. विनयोगादिपञ्च ६. ... ध्यायोकृणजानकर्मप्रविभागप्रज्ञापनार्थेत्युक्तं ७. केवलादेववज्ञानार्मुक्तिस्सर्वं श्रोतस्मार्तकर्मत्यक्तव्यं न हेतुत्वादिति ८. सल्पसनादेवसिर्द्धिसमधिगछति ९. नैध्रुर्म्यम् १०. अर्थादेनदुक्तं ११. आरम्भात्माप्नोतीति कर्मसापेक्षा ज्ञानान्मुक्तिर्न १२. परिव्रज्याश्रमसहिताज्ञानान्निश्रेयसं भविष्यतीति तच्च नेत्याह ____________________________________________________________________ पृष्ठ ८४ तुर्याश्रमग्रहणात्सिद्धिं मोक्षं नाधिगच्छति१ । कर्मसहितमेव ज्ञानं सिद्धिसाधनम् । आश्रमपारतन्त्र्यान्मनसः । सर्वेषामाश्रमाणां२ समुच्चयात्सिद्धिरिति भागवतं मतं सुनिश्चितम् । यथेदमेव३ साङ्ख्यदर्शनमाश्रित्य सर्वधर्मत्यागमेकवैणविनो वदन्ति । तेऽपि ह्येतेनापास्ता वेदितव्याः४ निराकरणन्यायस्याविशेषात्५ । अत्र ते प्रत्यवतिष्ठन्ते अस्मद्दर्शनेऽपीयं६ गीता घटते । कथं कर्मारम्भादेव नैष्कर्म्यमश्नुते७ ज्ञानोत्पत्त्युपायत्वात्८ कर्मणाम् । तस्मात्कर्म कर्तव्यम् । ततो ज्ञानोत्पत्तिः । ततो मोक्ष इति९ । न च सन्न्यसनादेव ज्ञानरहितात्सिद्धिं समधिगच्छतीति१० । तदिदमपव्याख्यानमन्ये प्रत्याचक्षते । यदि तावदयमर्थो नैष्कर्म्यं निष्कर्मता११ कर्माभाव इति स्यात्१२ तदा विरोधोऽत्र१३ । न कर्मारम्भात्कर्माभावः । किं तर्ह्यनारम्भादेव१४ । अथ नैष्कर्म्यशब्देन ज्ञाननिष्ठतोच्यते१५ कर्माकृत्वा ज्ञानोत्पत्त्यसम्भवादिति१६ । तथाप्यविदुषं सर्वकर्मत्यागोपदेशो भवतो विरुद्ध्येत । तथा चोक्तमुपदेशग्रन्थे त्वंपदार्थविवेकाय सन्न्यासः सर्वकर्मणाम्१७ इति । अस्यायमर्थः नैष्कर्म्यं१८ मोक्षः । कर्मारम्भान्मोक्षं१९ प्राप्नोतीति । एवमपि __________ टिप्पणी १. तुमाश्रमग्रहणात्सिद्धिर्मोक्षं नाधिगछति २. आश्रमप्रतियातेरतन्त्रमनस्सर्वेषामाश्र ३. भागवतं मन्तं मुद्रितं ययीदमेव ४. तेप्यपदस्तेनापास्ता वेदितथा ५. निराकारण ६. ... अत्त ते प्रत्यवतिष्ठन्तेऽस्मवर्शनेपीयं ७. कर्मरम्भादेवैनैष्क ८. ज्ञानोत्पक्षुपायत्वात् ९. मोक्ष्यरति १०. ... गछतीति ११. निघुर्मता १२. यात् १३. विरोचोत्र १४. किंर्ह्यनारम्भात् १५. ... निष्टतो १६. ज्ञानोत्पत्यत्त्यासम्भवादिति १७. अथापमर्थः नैष्कर्म्य १८. कर्मारम्भात्मोक्षं ____________________________________________________________________ पृष्ठ ८५ केवलकर्मणां मोक्षः प्रसज्यत इति ज्ञानोपदेशानर्थक्यम्१ । अथ ज्ञानसहितात्कर्मणस्तत्प्राप्तिरित्येवं सत्यङ्गीकृतो ऽस्मत्पक्षो२ भवता भद्रमुखेन३ । एवं च पूर्वार्धे व्याख्याते४ न च सन्न्यसनादेव इत्यतिरिच्यते । कर्मत्यागमाशङ्क्य न५ कर्मणामनारम्भात् इत्युक्तम् । सन्न्या(स)शब्देनापि कर्मत्याग एव त्वत्पक्षेऽभिधीयते । न च ज्ञानरहितात्कर्मत्यागान्मोक्षः६ केनचित्प्रतिज्ञातो७ येनेदं निराकरणार्थं स्यात् । यदि चाविद्वांसः कर्माकुर्वाणा८ मुच्येरन् युगपदेव कृत्स्नं२ जगन्मुच्येत । न च ज्ञानकर्मणोर्विरोधात् कर्मत्यागो (वरम्) विरोधस्यासिद्धत्वात् । किन्न पश्यति भगवन्तम्१० वर्त एव च कर्मणि इति वदन्तम् । साक्षाद्ब्रह्मैव स्वयमेवार्जुनस्य सारथ्यं गतवत्११ । किं चायं विद्वान् ब्रह्मीभूतोऽभेदमेकान्तेन न पश्यति । तस्यामवस्थायां न कर्म कर्तव्यमिति ब्रूमः । यदि तु व्युत्थितचित्तोऽशनयानादिषु कर्तृत्वमनुभवति तस्यैव सन्ध्योपासनादि१२ कर्तव्यं स्यात् । विशेषहेतुर्वा वक्तव्यः । यच्चोक्तमात्मोपदेशीयोऽयं ग्रन्थः । तत्राशङ्क्ये किलोत्तङ्केन गृहीतममृतम्१३ । यथा कर्मनाशभयाज्जन्तोरात्मज्ञानाग्रहस् तथेति तथ्यपर्यालोचनमुक्तम् । उत्तरङ्कस्य युक्तसूत्रद्वारविनिर्गतत्वादमृतधारायाः१४ सूत्रभ्रान्त्यात्मज्ञानाग्रहणम् । __________ टिप्पणी १. ज्ञानापदेशानर्थक्यं २. सत्यङ्गीधुतोस्मत्पक्षो ३. भद्रसुखेन ४. पूर्वार्द्धव्याख्याते ५. ... परित्यागमाशङ्क्ये न ६. धियते ... जीनरहितात् ७. प्रतिज्ञातं ८. चांविद्वंसः कर्म कुर्वाणा ९. युगपदकत्मञ्जग १०. भगवतं ११. वदृतं साक्षाद्ब्रह्मैवमंस्वयमेवार्जुनस्य सारथ्यं गतवान् १२. व्युत्थितचितोशनयानादिसु कर्तत्वमनुभवति तानेवसन्ध्योपासनदि १३. यश्चोक्तमात्मीयोपदेशग्रथसत्राशङ्कः किलोतं कोनाग्रहोदमृतं १४. भयाडन्तोरात्म ... तथेतितप्यपर्य्या ... क्तमुतं कष्ययुक्त सूत्रद्वारविनिर्गतत्वातमत धारायासूत्र ... भ्रान्त्या उरुग्रहणम् । ____________________________________________________________________ पृष्ठ ८६ इह त्वात्मज्ञानान्मुक्तिमिच्छतां१ कथम् आत्मज्ञानाग्रहः । यदि च कर्म मुक्तिकारणं स्यात्ततस् तत्परिरक्षणे प्रयतेरन् । अत्र२ यदि समुच्चयान्मोक्षावाप्तिस् तदोभयत्र प्रवृत्तिः । अथ केवलाज्ज्ञानादपवर्गः स्यात्(इति) त्वत्पक्षो वर्तते३ कर्माश्रेयस्करत्वाद्विषवत्परित्याज्यं श्रेयस्कामैरिति४ । यत्किं चिदेतत् । कर्मणश्च यथा बन्धहेतुत्वं५ नास्ति तथा वक्ष्यामः ॥ ४ ॥ कर्माकुर्वतः केवलादेव ज्ञानात्सिद्धिरित्य् अयमर्थो न६ केनचिद् अनुन्मत्तेन शक्यते प्रतिज्ञातुमिति७ । तत्र हेतुमाह न हि कश्चित्क्षणमपि८ जातु तिष्ठत्यकर्मकृत् । कार्यते ह्यवशः९ कर्म सर्वः प्रकृतिजैर्गुणैः१० ॥ भगवद्गीता_३.५ ॥ हीति हेतौ । नेति प्रतिषेधे११ । यस्मात्कश्चिदपि पुरुषः क्षणमात्रं जातु१२ न कदाचित्तिष्ठत्यकर्मकृत्१३ । तस्मात्कर्मयोग(प्रतिषेध)प्रतिज्ञानुपपन्ना । कथं पुनरकर्मकृन्नास्तीत्याह । कार्यते ह्यवशः कर्म । अवशोऽस्वतन्त्रः पुमां कर्म कार्यते बलात्कर्मणि प्रवर्त्यते१४ । केन । प्रकृतिजैर्गुणैः । प्रकृतिर्महाभूतानां सूक्ष्मावस्था१४ । ततो जातैः कार्यकारणैः सत्त्वादिगुणाधिष्ठितै(र्गुणैः) । त्रिविधं कर्म कायिकं वाचिकं मानसं चेति । तत्रावश्यमन्यतमेन१६ भवितव्यम् । कर्म त्यक्तव्यमित्युक्तिमात्रे(ण) __________ टिप्पणी १. ज्ञानात्मुक्तिमिछतां २. तत्परिरक्षणं प्रयतेरंस्तत्र ३. केवलाज्ञानादपवर्गस्त्वात्पक्षवर्त्ततः ४. श्रेयस्कमैरिति ५. ... श्चयावन्धहेतुत्वानास्ति ६. केवलादिवज्ञानासिद्धिरित्य ७. ... चिदनुत्पत्तेन ... ज्ञातुमिमित ८. किञ्चित्तक्षणमपि ९. कर्यते त्यवशः १०. प्रकृतिजेर्गुणैः ११. हीति हेतेति प्रति १२. ज्ञातुं १३. तिष्टत्प १४. कमकार्यते वलात्कर्तणिप्रवर्तते १५. सूक्ष्मवस्था १६. तत्रावश्यंमन्यतमेन ____________________________________________________________________ पृष्ठ ८७ वाचिकं१ कर्म कृतमेव भवति । मौनावस्थानेऽपि२ मानसं (कर्म) दुष्परिहरं विद्युल्लतावच्चञ्चलत्वात्तस्य३ । अशनशयनसङ्क्रमणादीनि४ छायेवानुगतानि ॥ ५ ॥ यस्तु चोदितं कर्म करोति मनसा च विषयान् भोजनादीनभिलषति स केन शब्देनोच्यत इत्याह५ कर्मेन्द्रियाणि६ संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा७ मिथ्याचारः स उच्यते ॥ भगवद्गीता_३.६ ॥ यस्तु चोदितमनुतिष्ठति८ स यथोक्तकारित्वान्मार्गस्थ९ इत्याह यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन१० । कर्मेन्द्रियैः.११ कर्मयोगमसक्तः स विशिष्यते ॥ भगवद्गीता_३.७ ॥ फलासङ्गरहितः१२ ॥ ७ ॥ यत एवमतः नियतं कुरु कर्म त्वं कर्म ज्यायो१३ ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥ भगवद्गीता_३.८ ॥ नियतं१४ नित्यं सन्ध्योपासनादि । सामान्ये आसङ्गादि१५ विशेषे कर्म कुरु यस्मात्कर्म ज्यायोऽधिकतरमकर्मणः । अकरणात्सकाशा(द)दृष्टे विषये मन्दकरणमपि श्रेयस्करम्१६ । कथम् । शरीरयात्रा शरीरस्थितिरपि न ते प्रसिद्ध्येदकर्मणो निर्व्यापारस्य । __________ टिप्पणी १. याचिकं २. सौनावस्थानेपि ३. लक्तचञ्चलत्वातस्य ४. ... श्षनचङ्क्रमणादीनि ५. विषयान्मोजनादीतभिलाषति स कोब्दश उच्यते रत्याह ६. कर्मद्रियाणि ७. विमूमात्मा ८. ... तिष्टति ९. पथोक्त ... मार्गस्था १०. ... यम्याभरर्तेर्जुन ११. कर्माद्रियैः १२. कलासङ्ग १३. न्यायो १४. विगतं १५. सामान्येसङ्गादि १६. विषपेथकरणमप्प्रेयस्करं ____________________________________________________________________ पृष्ठ ८८ यदत्र केचिदश्रुतं विशेषणं स्वमनीषिकया प्रक्षिपन्त्य् अज्ञेनाधिकृतेन१ कर्म कर्तव्यमिति तदसत् । शरीरस्थितिर्न सिद्ध्यतीति२ विदुषोऽविदुषश्च समानं हेत्वभिधानम् । विद्वानपि परिव्राजको३ भोजनकाले भिक्षाटनादौ प्रवर्तत एव४ अन्यथा शरीरस्थित्यभावात् ॥ ८ ॥ यच्च मन्यन्ते साङ्ख्याः सर्वं६ कर्म बन्धात्मकमिति तदसदित्याह यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः । तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥ भगवद्गीता_३.९ ॥ यज्ञशब्देनात्र कालान्तरस्थायी धर्मोऽभिधीयते यम् अपूर्वमिति मीमांसका ब्रुवते । तस्य चाधिदेवता विष्णुः । यज्ञो वै विष्णुः इति श्रुतेः । तयोरभेदेन व्यपदिश्यते७ । एतदुक्तं भवति ईश्वराराधनार्थत्वात्८ कर्मणः श्रुतिस्मृतिविहितः९ पुरुषव्यापारः कर्मशब्देनोच्यते । ततोऽन्यत्र तं वर्जयित्वा१० लोकोऽयं कर्मबन्धनः । फलार्थं यत्क्रियते तेन बध्यते जन्तुः । तदर्थं११ यज्ञार्थं केवलधर्मसिद्ध्यर्थं कर्म मुक्तसङ्गः१२ फलासक्तिरहितः समाचर । इतीदमेवं धारयेन्मोक्षायेति । शास्त्रमेवात्र प्रमाणम्१३ । यथायं धर्मोऽयमधर्म इति ॥ ९ ॥ प्रजापतिवचनाच्च श्रेयस्करं कर्म । अतोऽनुष्ठेयमिति१४ दर्शयन्नाह __________ टिप्पणी १. प्रक्षिय्प्त्पाज्ञेनाधिकृतेन २. सिधतीति ३. परिव्रातको ४. प्रचतन्त एव ५. यश्च ६. साख्याः सर्व ७. यजो वै ... व्यापादिश्यते ८. ईश्वराराधनार्थात् ९. ... विहतः १०. व्रजियित्वा ११. यत्कियते तेन वद्यतेजंलुस्तदर्थं १२. मुक्रसङ्गः १३. चरेतिद्रेवन्धायेदे मोक्षायेति शास्त्रमेवाप्रत्रमाणं १४. रप्रजापतिवचनाश्चश्रेपरकरङ्कर्मातोनुष्टेयमिति ____________________________________________________________________ पृष्ठ ८९ सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच१ प्रजापतिः । अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्२ ॥ भगवद्गीता_३.१० ॥ सह यज्ञेन वर्तन्त इति सहयज्ञा ब्राह्मणाद्याः प्रजाः३ सर्गादौ सृष्ट्वा ताः पुरोवाच४ अनेन प्रसविष्यध्वम् । प्रसवो वृद्धिः । तां प्राप्नुत । एष वो युष्माकमिष्टकामधुगस्तु५ । कामान् दोग्धीति कामधुक् ॥ १० ॥ कथं पुनः कामधुगित्याह६ देवान् भावयतानेन ते देवा७ भावयन्तु वः । परस्परं भावयन्तः८ श्रेयः परमवाप्स्यथ ॥ भगवद्गीता_३.११ ॥ अनेन देवान् भावयत विभूत्या योजयत९ । ते चेन्द्रादयो देवा१० भावयन्तु युष्मान् विभूत्या योजयन्तु११ वृष्टिप्रदानादिना । एवमन्योन्यं भावयन्तः श्रेयः परं स्वर्गार्थिनः स्वर्गम् अपवर्गार्थिनोपवर्गं प्राप्स्य(थ)१२ ॥ ११ ॥ प्रत्युपकारमकुर्वतोऽनिष्टार्थप्राप्तिमाह१३ इष्टान् कामान् हि वो देवा दास्यन्ते यज्ञभाविताः । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते१४ स्तेन एव सः ॥ भगवद्गीता_३.१२ ॥ इष्टान् कामानिति । पूर्वार्धेन पूर्वश्लोकानुवादः१५ । तैर्देवैर्दत्तात्भोगान् यो भुङ्क्ते१६ तेभ्योऽदत्त्वा तानुद्दिश्य यागमकृत्वा स्तेन एव सः । कर्तव्यमकुर्वन्१७ प्रत्यवैतीत्यर्थः ॥ १२ ॥ __________ टिप्पणी १. पुरीवाच २. प्रसाष्यधमेषवोस्तिष्टकामधुक् ३. प्रजा ४. सृष्ट्र्वेवाच ५. वै पुष्माकमिष्ट ६. कामां ... कमधुगित्याह ७. भूता ८. भावयन्त ९. विधूत्पायोतयत १०. देवान् ११. योनयन्तु १२. मवर्गर्थेनोपवंर्गप्राप्स्य १३. ... कुर्वतोनिप्रार्थमाह १४. तेर्दत्तानप्रदाषेभ्यो ये भूङ्क्ते १५. पूर्वार्द्धेनुवादैस्तेर्देवदत्तान् १६. भुक्ते १७. ... मकुर्वत्पत्प्रवेतीत्पर्थः ____________________________________________________________________ पृष्ठ ९० ये तु पुनः यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः । भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ भगवद्गीता_३.१३ ॥ यज्ञार्थं निरुप्तं द्रव्यम् । तेन यज्ञे निर्वर्तिते१ यद् अवशिष्टं (द्रव्यं) तदशितुं शीलं येषां ते यज्ञशिष्टाशिनः२ (सन्तो सर्वकिल्बिषैर्मुच्यते) । ये पुनरात्मार्थं केवलं पचन्ति तेऽघं पापमेव भुञ्जते३ ॥ १३ ॥ जगच्चक्रवृत्तिहेतुत्वाच्चावश्यं४ कर्म कर्तव्यमित्याह अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः । यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः५ ॥ भगवद्गीता_३.१४ ॥ अन्नादुपभुक्ताद्रोतोऽभूद्भूतानि६ जायन्ते । तस्य च समुद्भवः पर्जन्यात्७ । स च यज्ञाद्भवति८ । यज्ञश्च कर्मसम्भवः । यजमानर्त्विग्व्यापारः९ कर्म । तदभिव्यङ्ग्यमपूर्वं धर्मशब्दवाच्यं जगद्वैचित्र्यकारणम् ॥ १४ ॥ तच्च कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम्१० । तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ भगवद्गीता_३.१५ ॥ कर्म ब्रह्मोद्भवम् । ब्रह्म वेदः । तत्प्रकाशितम् । ब्रह्म चाक्षरसमुद्भवम्११ । अक्षरमिति परमात्माख्या तस्य महतो भूतस्य निःश्वासितमेतद्यदृग्वेदो यजुर्वेदः१२ इत्य्श्रुतेः । यत एवं तस्मात्सर्वगतं ब्रह्माक्षराख्यं१३ सर्वगतमिति विशेषणात् । इतरत् __________ टिप्पणी १. निरुप्तं द्रव्य तेन यज्ञे निवर्तते पद २. यज्ञशिष्यशिने ३. पापमवं भुजते ४. ... त्वाच्चावधकर्म ५. ... समुद्भवः ६. अन्नादुपयुक्ता ... द्भूतानि ७. समुद्भवात्यजन्न्यान् ८. यज्ञाद्भवति ९. यजमानद्विग्व्यापारः १०. समुद्भवं ११. वाक्षप्समुद्भव १२. मतद्यद्ग्वेदो यजुर्वैद १३. ब्रह्माक्ष्यराक्यं ____________________________________________________________________ पृष्ठ ९१ पुनर्ब्रह्म वेदाख्यं विकारत्वादसर्वगतं तदक्षराख्यं ब्रह्म नित्यं१ सर्वदा यज्ञे प्रतिष्ठितम्२ । यज्ञेनोपायभूतेन प्रख्यातमिति तत्प्रतिष्ठमुच्यते । यथोपायक्रियायां प्रतिष्ठाशब्दः३ (वेदाः साङ्गाः सत्यमायतनं प्रतिष्ठा) इति ॥ १५ ॥ उक्तेन प्रकारेण कर्ममूलं जगच्चक्रम् । अतस्तदकुर्वतो जीवनं व्यर्थमित्याह एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ भगवद्गीता_३.१६ ॥ एवमित्युक्तपरामर्शः । प्रवर्तितं मयाजातिना४ चक्रमिव जगच्चक्रम्५ । कर्मभ्यो भूतानि भूतेभ्यः कर्मेति । तत्र यः कर्म न करोति तेन जगच्चक्रं नानुवर्तितं भवति । निमित्ताकरणान्नैमित्तिकमेव६ नाशितं भवतीत्यर्थः । सोऽयमघायुः पापायुरिन्द्रियैराराम आक्रीडा विषयेषु७ यस्यासौ इन्द्रियारामाः८ । मोघं वृथैव हे पार्थ९ स जीवति ॥ १६ ॥ किं काचिदवस्थास्ति यस्यां कर्मत्याग इष्ट इति१० । अस्ति लोकव्यवहारः । अतस्तस्य ब्रह्मभूतस्य तत्प्रागवस्थायाम् इत्याह११ यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च१२ मानवः । आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ॥ भगवद्गीता_३.१७ ॥ यस्त्वात्मरतिरेव स्यात् । तुशब्दोऽवधारणार्थः । अस्यामेवावस्थायामधिकारहेत्वभावात्कर्मत्यागो भवति१३ । आत्मन्येव __________ टिप्पणी १. तित्यं २. प्रतिष्टितं ३. यथापायक्रियायां प्रतिडोदव इति ४. मजायतिना ५. चक्रमिव चकृं ६. निमित्ताकरणान्नेनिमित्तिकमेव ७. सोपमद्यायुः पार्ययुरिन्द्रियैराराम ८. ईद्रियारामः ९. वृएर्थेवहपार्थ १०. त्यागा इत्यस्ति ११. लोकव्यवहारातो तस्य ब्रह्मभूतस्य न प्रागवस्थायामित्याद १२. दयस्त्वात्मरतिरेव स्यादात्मतृसश्च १३. हेत्वाभावात्कर्मत्यागो न भवति ____________________________________________________________________ पृष्ठ ९२ रतिर्यस्य न विषयेष्वसावात्मरतिः । एवशब्दोऽवधारणार्थः । मनागपि विषयेषु रतिर्नास्ति । आत्मनैव१ च तृप्तो नान्नरसादिना । आत्मन्येव च सन्तुष्टो नान्यार्थलाभेन । तदेवं त्रिविधेन विशेषणेन२ विशिष्टस्य शरीरेन्द्रियविषयव्यवहारातीतस्य३ परं ज्योतीरूपसम्पन्नस्य४ कार्यं ५ न विद्यते । किमतः परं साध्यं स्यात् । इयं हि फलावस्था ज्ञानकर्मसमुच्चयानुष्ठानस्य ॥ १७ ॥ कार्यं न विद्यत इतीदं६ स्पष्टीकर्तुमाह नैव तस्य कृतेनार्थो नाकृतेनेह कश्च(न) । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः७ ॥ भगवद्गीता_३.१८ ॥ कृतेन८ यागादिनास्य प्रयोजनं नास्ति । नाकृतेनेह९ कश्चन प्रत्यवायपरिहारलक्षणोऽर्थः१० । न च तस्य सर्वभूतेषु११ ब्रमादिषु कश्चिदर्थव्यपाश्रयः प्रयोजनमपेक्षा१२ स एव तद्भवतीति श्रुतेः१३ । यस्तु शरीरेन्द्रियधर्मैरनुरुध्यते शयनादींश्च करोति१४ व्यापारान् कथम् असावात्मरतिरात्मतृप्त एव वा स्यात् । इयं चावस्था कर्मत्यागस्य भगवता वियता तामेतां१५ स्वयमेवालोच्य कर्म हातव्यमनुष्ठेयं (वा) । नान्यस्येदानीन्तनस्य दुरुपदेशः क्रोतव्यः प्रमाणीकर्तव्यो (वा) व्यामुह्यमानत्वादालस्यात्१६ । __________ टिप्पणी १. विषयेसु रतिर्नास्मात्मनैव २. तदवं त्रिविधेन विशेषणोन ३. शरीरेन्द्रिय ४. ज्योतिरुप ५. कार्य ६. विष्वत इत्येदं ७. कश्चदर्थव्यपाश्रयः ८. कृतेमः यागा ९. रुचाकृतेन १०. प्रत्यवाहपरि ११. ... भूतेसु १२. कश्चिदयोजनापेक्षा १३. सखाद्भवतीति श्रतेः १४. शरीरेन्द्रियधर्माननुरुत्यते शनयनादीं च करोति १५. तामतां १६. व्यागृह्यमालत्वादालस्यात् ____________________________________________________________________ पृष्ठ ९३ तथा चाहुः केचिदज्ञानतो नष्टाः केचिन्नष्टाः प्रमादतः । केचिज्ज्ञानावलेपेन केचिन्नष्टैस्तु१ नाशिताः ॥ इति ॥ १८ ॥ यतो जीवतः कर्मत्यागानुपपत्तिः तस्मादसक्तः सततं कार्यं३ कर्म समाचर । असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः४ ॥ भगवद्गीता_३.१९ ॥ फलेष्वसक्तः कार्यं कर्म यदवश्यं कर्तव्यं तत्समाचर५ । किम्प्रयोजनम् । (य)स्मादसक्तो ह्याचरन् कर्म परं परमात्मानम् आप्नोति पूरुषः६ ॥ १९ ॥ आत्मज्ञैश्च राजर्षिभिरासेवितोऽयं७ (मार्गो) यस्मात्त्वयापि निर्विशङ्केनास्थेयम्८ इति दर्शयन्नाह कर्मणैव हि संसिद्धिमास्थिता जनकादयः । लोकसङ्ग्रहमेवापि संपश्यन् कर्तुमर्हसि ॥ भगवद्गीता_३.२० ॥ कर्मणैव९ हि संसिद्धिं मोक्षमास्थिताः प्राप्ता१० जनकाश्वपतिप्रभृतयः । हिशब्दो हेत्वर्थे । एवकारोऽवधारणार्थो निपातितः । कर्माभावव्यवच्छेदः११ क्रियते न ज्ञानपर्युदासः । यद्यपि१२ कृतकृत्यमात्मानं मन्यसे१३ लोकसङ्ग्रहमेव (तथा)पि सम्पश्यन् कर्तुमर्हसि । लोकसङ्ग्रहो लोकपरिपालनमुक्तेन१४ न्यायेन । परमार्थतस्तु स्वार्थमेव कर्म कर्तव्यम् । केवलस्य ज्ञानस्यापवर्गं प्रति __________ टिप्पणी १. केनचिन्नष्टैस्तु नाशिता इति २. यता ३. कार्य ४. कर्म परं परमात्मनमप्नोतिपुरुषः ५. समाचरः ६. प्रयोजनमस्मादसक्तो ह्याचरङ्कर्मं ... माप्नोति पुरुषः ७. अत्मज्ञैश्च ८. युष्पास्त्वपापिनिर्विशङ्केनास्थेप ९. कर्मणेव १०. प्रास्ता ११. कर्मभावयुवछेदः १२. यवपि १३. मन्यसो १४. लाकपरिपालिनक्तेन ____________________________________________________________________ पृष्ठ ९४ साधनभूतस्यापि (ज्ञानस्य) कर्तव्यस्थानीयं१ कर्म सहकारित्वेनापेक्षणीयम् । तस्माल्लोकपरिपालनमानुषङ्गिकं प्रयोजनम् । अत्र केचिदङ्गुलिभङ्गं२ कुर्वन्तो व्याचक्षते यदि जनकादयः प्राप्तसम्यग्ज्ञानास्ततो३ लोकसङ्ग्रहणार्थं कर्मणैव संसिद्धिम् आस्थिताः४ कर्मसन्न्यासे प्राप्तेऽप्यसन्न्यस्यैव प्रवृत्तकर्मत्वाद् इति । अथाप्राप्तज्ञानाः कर्मणा सत्त्वशुद्धिद्वारेण५ ज्ञानोत्पत्तिमासाद्य६ मुक्ताः इति व्याख्येयः श्लोक इति । तदेतदसदर्थोत्प्रेक्षणम्७ । जनकादयो हि ब्रह्मविदः स्मर्यन्ते८ । मोक्षधर्मेषु९ विष्णुधर्मेषु जनकानां षट्सप्ततिर्मोक्षं१० गता स्मर्यते११ । अत्र च कर्मणा मोक्षं गता इत्युच्यते । न पुनः कर्मणा लोकसङ्ग्रहं कृतवन्त इति । श्रुतहानिरश्रुतपरिकल्पना चैवं स्यात् । न च तेषां कर्म(सु) प्रवृत्तत्वादिति कर्मप्रवृत्तौ हेतुः । उत्पन्नायां (कर्मप्रवृत्तौ) ऊर्द्ध्वं१२ सर्वो हि प्रवृत्तकर्मैव । यदि सम्यग्दर्शने१३ समुत्पन्ने कर्माकर्मसन्न्यासो१४ जनकादिभिरप्य् अवश्यं कर्म कर्तव्यं प्राप्तम् । न हि खण्डमोदकभक्षणात्१५ प्रीत्या कश्चित्कर्मणि प्रवर्तते क्लेशात्मकत्वा(त्) । तस्मात्कर्मणा विना संसिद्धेरसम्भवात्कर्म कुर्विति गीतार्थः१६ ॥ २० ॥ अवश्यं लोकसङ्ग्रहार्थमपि१७ भवता कर्मणि य(ति)तव्यम् । कुतः१८ । श्रेष्ठत्वात्तदाह __________ टिप्पणी १षाधितृभूतस्यापि इति कर्तव्य स्थानीयं सह कर्मकारित्वेनापेक्षणीयं २. केचिगुलिभङ्गं ३. ... सम्यग्शनोस्ततो ४. संस्थिसिद्धिमास्थिताः ५. शुद्धित्वारेण ६. ज्ञानोत्पन्तिमासाद्य ७. तदेतदसर्थोत्प्रक्षणे ८. स्मर्येने ९. साक्षधर्मेषु १०. धसप्ततिर्मोक्ष ११. गते स्मयन्ते १२. ... हेतुरुत्पनया दुर्ध्वसर्वो १३. ... दर्शने १४. ... सल्पासो १५. खंडमोदकरक्ष्यणवत् १६. संसिद्धिरसम्भवात्कर्मकृतिति गीतार्थः १९ १७. ... सग्रहार्थ १८. कुरुतः ____________________________________________________________________ पृष्ठ ९५ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः१ । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते२ ॥ भगवद्गीता_३.२१ ॥ गुणाधिकः श्रेष्ठ३ उच्यते । तेन यदनुष्ठितं४ तत्तदितरः प्राकृतो जनोऽनुतिष्ठति५ । स यत्प्रमाणं कुरुते६ लौकिकं वैदिकं वा करोति तदेव प्रमाणीकृत्य लोकोऽनुवर्तते७ ॥ २१ ॥ मां च किं न पश्यसि न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्ताम्येव च कर्मणि ॥ भगवद्गीता_३.२२ ॥ न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु साध्यम् । यतो१० नानवाप्तमप्राप्तं प्राप्तव्यं वास्ति११ अथ च वर्ताम्येव च (कर्मणि) । वर्त एवेति१२ केचित्पठन्ति आत्मनेपदित्वाद्(वृत)धातोः । तेषामितिहासपुराणवद्गीताया पञ्चमवेदत्वाच् छान्दसप्रयोगबाहुल्यादार्षपाठविनाशनम् एव प्रसज्यते सर्वत्र पाठान्तरं कुर्वताम्१३ ॥ २२ ॥ यदि पुनरहमेव कर्म न करोम्यन्योऽपि१४ न कुर्यादित्याह यद्यहं प्रवर्तेय जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तेरन्मनुष्याः पार्थ स(र्व)शः ॥ भगवद्गीता_३.२३ ॥ यदि त्वहं१५ न वर्तेय । जातु कदाचित् । अतन्द्रितोऽनलसः१६ । ततो मम वर्त्म मदीयं मार्गमकरणलक्षणमनुवर्तेरन्१७ (मनुष्याः सर्वशः) ॥ २३ ॥ __________ टिप्पणी १. यघदाचरतिश्रेष्टस्तत्र देवेतरो जनः २. लोकसदनुवर्तते ३. श्रेष्ट ४. यदनुष्टितं ५. ततेदः प्राकृतोजनोनुतिटति ६. प्रमाणभ्कृतं ७. लोकेनुवर्तते २० ८. पार्षस्ति ... किचन ९. ... मवामव्यं १०. रुतो ११. नानावाप्तमप्राप्तं प्राप्तव्यमस्ति १२. वर्ज्ञाम्येव कर्त एवेति १३. पवन्ति । आत्मनेपदिताद्धातोस्त्रेषामितिहासपुराणयः पञ्चचवेदत्त्वाछान्दस प्रयोगवादुल्पादार्षयागविनाशनमेव प्रसज्यते सवत्र यावान्तर कुर्वताम्२१ १४. पुनरहे कर्मतकरोम्यन्यायिन १५. स्वहं १६. कदाचितद्रितो १७. ... मनुवर्तते ____________________________________________________________________ पृष्ठ ९६ ततः को दोष इत्याह उत्सीदेयुरिमे लोकाः न कुर्यां कर्म१ चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ भगवद्गीता_३.२४ ॥ उत्सीदेयुर्विनश्येयुर्लोका यदि (अहं कर्म) न कुर्याम् । सङ्करस्य च कर्ता स्यामर्थाद्यभावात्२ । ततश्चोपहन्याम् इमाः प्रजाः । तस्मान्मयापीश्वरेण३ सता लोकसङ्ग्रहणार्थं कर्म क्रियते । सोऽयमुभयतः शास्त्रानुसारेणात्मार्थं परार्थं वा४ कर्म कर्तव्यमेव । न ज्ञानित्वाभिमानेन कर्म त्यक्तव्यम्५ । मनुष्यस्याधिकारित्वाच्छास्त्रस्य६ भगवतोऽपि मनुष्यशरीरे७ (व)र्तमानस्य धर्माधिकारात्कर्मसन्न्यासानुपपत्तेः८ । कर्मणि प्रवृत्तो९ हि मनुष्यशरीरं विहाय देवो वा परमात्मा वा संवृत्तो यदा तदा तस्याधिकाराभावः । तदुक्तम्१० यस्त्वात्मरतिरेव स्यात् इति । अतो यावद्भेदविज्ञानमनुवर्तते तावत्कर्माधिकारः स्वार्थं परार्थं वेति भागवतं मतं मुद्रितम्११ ॥ २४ ॥ तत्र च१२ कर्मणि प्रवृत्तस्य विदुषोऽविदुषश्चायं१३ विशेषः सक्ताः कर्मण्यविद्वांसो१४ यथा कुर्वन्ति भारत । कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्१५ ॥ भगवद्गीता_३.२५ ॥ फलाभिलिप्सया कर्मणि सक्ता अविद्वांसो यथा कुर्वन्ति१६ भारत तथा महतोत्साहेन वित्कुर्यात्सदसदर्थोपवर्गार्थम्१७ । __________ टिप्पणी १. लोकात्कुर्यं किर्म २. स्याम्मर्थादाभावात् ३. तस्पान्मया ४. सोयमुभयतस्माशारज्ररात्मार्थपरार्थवा ५. त्यक्त्त्कंलभ्य ६. मनुष्यादिकारित्वाछास्त्रस्य ७. ... शरीर ८. ... सन्न्यासानुपन्तेः ९. प्रवृत्तोर्हि १०. संवृन्तस्यस्याधिकाराभवस्तदुक्तं ११. मुद्रितम् २३ १२. तन्व च १३. विदोषोविदुषश्चायं १४. सक्तः कर्मण्यविद्वंसो १५. विद्वंस्तथा ... र्लोमसङ्ग्रहम् १६. कुर्वंर्ति १७. वित्कुर्यादसदसहथोपवगार्थं ____________________________________________________________________ पृष्ठ ९७ किञ्चैतदपरमानन्तरीयकं प्रयोजनम्१ । चिकीर्षुः कर्तुमिच्छुर् लोकसङ्ग्रहम्२ ॥ २५ ॥ यदि चायं कर्म न कुर्यादज्ञानां३ बुद्धिभेदः स्यादित्याह न बुद्धिभेदं४ जनयेदज्ञानां कर्मसङ्गिनाम् । जोषयेत्सर्वकर्माणि विद्वान् युक्तः५ समाचरन् ॥ भगवद्गीता_३.२६ ॥ न बुद्धिभेदं जनयेदज्ञानामित्यज्ञग्रहणं ज्ञापकम्६ तत्र तत्र पूर्वत्र ज्ञस्यैव७ कर्मकर्तव्यता भगवतोपदिष्टेति । जोषयेदित्युत्साहयेत्८ । सर्वकर्माणि स्वयं युक्तः समाचरन्९ ॥ २६ ॥ अविद्वान् केन प्रकारेण कर्मणि सज्जत इत्याह१० प्रकृतेः क्रियमाणानि गुणैः कर्माणि भागशः । अहङ्कारविमूढात्मा कर्ताहमिति११ मन्यते ॥ भगवद्गीता_३.२७ ॥ प्रकृतेस्तेजोऽबन्नलक्षणायाः१२ कार्यकारणरूपैर्गुणैर् अचेतनैः१३ । क्रियमाणानि । शरीरेन्द्रियमनःसु हि सर्वाणि लौकिकानि वैदिकानि च कर्माणि वर्तन्ते१४ नात्मनि । आत्मनस्तु सन्निधिमात्रेणायस्कान्तवदयसः१५ प्रवृत्तौ औपाधिकम् एव कर्तृत्वं न स्वाभाविकम्१६ । यथेन्धनसंयोगे धूमजनकत्वमग्नेस्तथा शरीरेन्द्रियसंयोगे आत्मनः कर्तृत्वम् । (तस्य) कर्तृत्वं स्वेन निरतिशयानन्दरूपेणावस्थितस्य१७ नास्तीति निर्णयः । तत्रायमज्ञोऽहङ्कारविमूढात्मा स्वभावत __________ टिप्पणी १. चेदसपंरन्नान्तरीकयं प्रयोजनं २. कर्तुमिछुर्नाकसङ्ग्रहम् ३. कुयाद् ४. बुद्धिभेदे ५. विद्वात्युक्तः ६. जनयेजानामित्याज्ञम्नहणं ज्ञापकं ७. जस्यैव ८. जाषयेत्मीत्साहतेत् ९. समाचरन् २५ १०. कर्मणि सजुत इत्याहं ११. विमूगात्मा कतहिमिति १२. प्रकृति तेजो १३. ... करणरवैगु १४. वर्तते १५. आत्मा तु सन्निधि ... मात्रेणाधस्कान्तवदपसाः १६. प्रवृत्तौ तु रौपाधिकमेव क्रर्तृत्वान्नरवाभाविकं १७. यथेन्धनसंयुगेधूमतनङ्कत्त्वमग्नेस्तथाशरीरेन्द्रियसंयोगे प्रादुर्भवन्ति कर्तृत्वे स्वेन निरतिशयानन्दरूरूपेणाव ____________________________________________________________________ पृष्ठ ९८ एवाहं कर्तेति मन्यते । सोऽयमनेन मिथ्याभिमानेन बध्यते२ ॥ २७ ॥ यः पुनस्तत्त्वविन्नासौ बध्यत इत्याह तत्त्ववित्तु३ महाबाहो गुणकर्मविभागयोः४ । गुणा गुणेषु वर्तन्त५ इति मत्वा न सज्जते ॥ भगवद्गीता_३.२८ ॥ गुणविभागस्य कर्मविभागस्य च यस्तत्त्वं वेत्ति (स तत्त्ववित्) । कः६ पुनर्विभागो गुणानां देहेन्द्रियाणां कर्मणा(म्) आत्मन इति । कर्मविभागश्च फलोद्देशेन क्रियमाणः फलार्थः ईश्वरार्थः क्रियमाणोपवर्गार्थ इति७ । सोऽयं गुणा८ देहादयो गुणेषु स्वव्यापारेषु९ स्वभावतः प्रवृत्ता इति मत्वा न सज्जते सक्तिं न१० करोति ॥ २८ ॥ ये पुनस्ते प्रकृतेर्गुणसम्मूढाः सज्जन्ते११ गुणकर्मसु । तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्१२ ॥ भगवद्गीता_३.२९ ॥ प्रकृतेर्गुणसम्मूढा इत्युक्तस्यानुवादः१३ कञ्चिद्विशेषं वक्तुम् । तानकृत्स्नविदो१४ मन्दानित्यकृत्स्नविदः केवलकर्मविदो याज्ञिकान्१५ कृत्स्नविज्ज्ञानकर्मसमुच्चयकारी१६ न विचालयेन्न बुद्धिचालनं१७ सम्पादयेत् । तेषां गुणकृतेषु हि कर्मसु तेषां __________ टिप्पणी १. एव हि २. वध्यते २६ ३. तत्त्वविन्नु ४. गणकर्म ५. गुणागुणेपु वर्तत ६. यत्तत्वंवेभिकः ७. कर्मविभागं चफलोदेशेन क्रियमांणं वलार्थमी श्वरार्थङ्क्रियमा ... णमपर्गार्यमिति ८. गुणो ९. रवव्थापारेषु १०. सक्तिर्न ११. गुणस्सं जूढास्सज्जन्ते १२. कृत्सविन्न विधालपेत् १३. सम्पूटा इत्युक्ता अनुवादः १४. मदा १५. यातिकान् १६. कत्स्रविज्ञानकर्मविमुश्चकारी १७. युद्विचालन्नं ____________________________________________________________________ पृष्ठ ९९ सक्तत्वाच्छरीरपातेनापि न ते बोधयितुं शक्यन्ते१ । यत्पुनरागत्य पृच्छेयुस्ततो बोधयितव्या इति ॥ २९ ॥२ कञ्चिद्विशेषमुपदर्शयन् प्रकरणार्थमुपसंहरति मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा३ । निराशीर्निर्ममो भूत्वा युद्ध्यस्व४ विगतज्वरः ॥ भगवद्गीता_३.३० ॥ मयि परमेश्वरे ब्रह्मणि सर्वाणि (कर्माणि) कृत्वा (तानि) सन्न्यस्य निक्षिप्य सर्व एवायं क्रियाकलापो ब्रह्मणोऽधिकारश् चेतनत्वात्५ । कार्यकारणयोश्चानन्यत्वात्तदात्मकत्वं६ प्रतिपद्य तत्प्राप्तये कल्पत इत्यध्यात्मचेतसा फलप्रार्थनरहितः । निर्गतं ममत्वं यस्यासौ निर्ममः । नास्ति मे कर्म ब्रह्मण एव तत्कृतं मयि । एवं७ सङ्कल्पो भूत्वा युद्ध्यस्व विगतशोक इति ॥ ३० ॥८ ये विद्वांसः स्वार्थं लोकसङ्ग्रहार्थं च कर्म न त्यजन्ति९ तेषामयं गुण इत्याह ये मे मतमिदं नित्यमनुवर्तन्ति मानवाः । श्रद्धावन्तोऽनसूयन्तस्ते१० विमुच्यन्ति कर्मभिः ॥ भगवद्गीता_३.३१ ॥ ये११ पुनरेतन्नाभिनन्दन्ति १२ आङ्ख्यादिदर्शनविभ्रान्तचेतसस् तेषामधःपातं दर्शयन्नाह (ये त्वेतदभ्यसूयन्तो नानुवर्तन्ति मे मतम् । सर्वज्ञानविमूढांस्तान् विद्धि नष्टानचेतसः ॥ भगवद्गीता_३.३२ ॥) __________ टिप्पणी १. कर्मसु ते सक्तात्तानमरीचतेनापि न ते वाधयितुं शक्यन्ते २. यदि पुनरागत्पृछेयुस्नतो वोधयितव्या इति २८ ३. चेतसा ४. निराशोर्निममो भूत्वा युड्यस्व ५. ब्रह्मणोधिकारो चेतनत्वात् ६. ... करणयोश्वानन्यत्वान्नदात्मकत्वं ७. मयीवं ८. इति २९ ९. य विद्वांसंस्स्वार्थ लोकसङ्ग्रहार्थं च कर्मणत्यजन्ति १०. श्रद्धावन्तीनसूय ११. थे १२. साख्यादिदर्शनविभ्रात ____________________________________________________________________ पृष्ठ १०० ये त्विति । ये पुनर्मे मतं नानुवर्तन्ते तान् सर्वेभ्यो१ ज्ञानेभ्यो विमूढान् विद्धि नष्टान् स्वर्गापवर्गप्राप्त्यभावान् निरयगामित्वात्२ ॥ ३२ ॥ कस्मात्पुनर्विद्वांसोऽपि सन्तः केचिद्भगवतो मतं नानुवर्तन्त इत्याशङ्क्याह३ (सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि । प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ भगवद्गीता_३.३३ ॥) सदृशमिति५ । ज्ञानवानपि प्रकृतेरनुरूपं चेष्टते । प्रकृतिर्जन्मान्तरकृतं६ कर्म वासनारूपेण७ चेतस्यवस्थितं वाससीव रागः । तत्र प्रकृतिमेव यान्ति भूतानि । निग्रहः शास्त्रकृतो नियमोऽनुशासनमिदं कर्तव्यमिदं नेति । स तेषां किं८ करिष्यति । अतो युक्तं केचिन्मे मतं नानुवर्तन्त इति९ ॥ ३३ ॥ ये पुनर्मदीयं मतमनुवर्तन्ते जन्मान्तरकृतपुण्योपचयवशात् तेषामयमुपदेशः१० (इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ । तयोर्न वशमागच्छेतौ ह्यस्य परिपन्थिनौ ॥ भगवद्गीता_३.३४ ॥) इन्द्रियस्येति । इन्द्रियस्यार्थे चक्षुषः श्रोतस्यार्थे११ स्वे स्वे विषयेऽनुकूले१२ रागः प्रतिकूले१३ द्वेषः । तयोर्न वशमागच्छेत् । __________ टिप्पणी १. नानुवंर्तते तान् सार्वेभ्यो २. स्वगायवर्गप्राप्तमावान्निरयगामित्वात्३१ ३. कस्यात्पुनीर्वद्वांसोपि सन्तः ४. मतां नानुवंर्ततित्याशक्याह ५. सदशमिति ६. तिजेन्मान्तरकृतं ७. वासनानुपेण ८. कि ९. अतोयुक्तञ्चित्मेमतांवान्नानुवर्तत इति ३२ १०. पुनर्मदिंयं मतमनुवर्तते जन्मान्तरकृत्पुण्योपचयवशाव्रषाममुर्देशः ११. इद्रियस्येति इद्रियस्येन्द्रियस्यार्थे श्रीत्त्रस्यार्थे १२. वियपनुकुले १३. प्रतिकुले ____________________________________________________________________ पृष्ठ १०१ यतस्तौ हि मुमुक्षोः परिपन्थिनावन्तरायौ विध्नकारिणौ१ । तस्मात्तस्कराविव तौ दूरतः परित्यजेत् ॥ ३४ ॥२ न च परधर्मे रागात्प्रवर्तितव्यम् । स्वधर्मे च युद्धादौ प्राणापहारितया द्वेषान्निवर्तितव्यमित्याह३ श्रेयश्चर्तुमित्यर्जुनोक्तमनुस्मरन् (श्रेयान् स्वधर्मोऽधिगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मोदयादपि ॥ भगवद्गीता_३.३५ ॥) श्रेयानिति४ । स्वधर्मोऽधिगुण इति कर्तव्यताहीनोऽपि यथाकथञ्चिदनुष्ठितोऽपि५ श्रेयान् प्रशस्ततरः६ । कुतः । परधर्मात्स्वनुष्ठात्७ । ८ अम्पूर्णेतिकर्तव्यताकात् । कस्मादेतदेवम्९ । यतः स्वधर्मे वर्तमानस्य सङ्ग्रामादौ निधनं मरणं श्रेयः परधर्मकृतादुदयाज्जीवनादित्यर्थः । अपिरभ्युपगमे । यद्यपि१० स्वधर्मे निधनमनभ्युदयः (वरम्) परधर्मकृतोऽभ्युदयो (न) वरम्११ । न पुनरेतदेवम्१२ । किं तु स्वधर्मादभ्युदयः परधर्माश्रयाद् अनभ्युदय१३ इति । स्वधर्मः कर्तव्यः१४ । अर्थवादोऽयम् ॥ ३५ ॥ जानन्नपि१५ तत्परित्यागे न केनायं प्रेरितः । पापमेवानुधावतीत्यर्जुन उवाच (अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ भगवद्गीता_३.३६ ॥) __________ टिप्पणी १. ... र्नघश्यमागछेधतस्त्यौ हि मुमुक्षोषरियथिनावन्तरायोविघकारिणै २. तस्मान्तस्कराविर्वतो हरतः परित्यजेत्३३ ३. प्राणाद्विहारितया द्वेषात्त्वर्थब्दतो इत्याह ४. श्रेयान्निति ५. ... चिदनुतिष्टतोपि ६. पशस्तरतः ७. परधर्मान्स्वनुष्टितात् ८. संपूर्णेनिक ९. कस्मादितदेवं १०. यधापि ११. परधर्मकृतो नभ्युदयो वरं १२. न पुनरेतद्वेदं १३. परधर्माश्रानभ्युदय १४. कर्तषो १५. जानन्तपि ____________________________________________________________________ पृष्ठ १०२ अथ केनेति । केनायं प्रयुक्तः प्रेरितः पापमाचरति । अनिच्छन्नपि१ बलादिवाक्रम्य गले पादुकया२ प्रयोजितः प्रेरित इति ॥ ३६ ॥ भगवानुवाच (काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ भगवद्गीता_३.३७ ॥) काम एषेति । कामः सूक्ष्मः३ । स एव केनचित्प्रतिहतः क्रोधः संपद्यते । प्रार्थितवस्त्वप्रतिपद्यतो४ हि क्रोधो जायते । रजोगुणः समुद्भव उत्पत्तिस्थानं५ यस्य सोऽयं रजोगुणसमुद्भवः । महदशनं यस्यासौ महा(श)नस्त्रैलोक्यमपि ग्रसते । महांश्चासौ पाप्मा समस्तव्यसनहेतुरित्यर्थः । विद्धि जानीहि । इह मोक्षमार्गे वैरिणमेतम् ॥ ३७ ॥६ अर्जुन७ उवाच (भवत्येष कथं कृष्ण कथं चैव विवर्धते । किमात्मकः किमाचारस्तन्ममाचक्ष्व पृच्छतः ॥ भगवद्गीता_३.३८ ॥) भवतीति ॥ ३८ ॥ (श्रीभगवानुवाच ) (एष सूक्ष्मः परः शत्रुर्देहिनामिन्द्रियैः सह । सुखतन्त्र इवासीनो मोहयन् पार्थ तिष्ठति ॥ भगवद्गीता_३.३९ ॥) एष सूक्ष्म(ः) परः शत्रुर्देहिनामिन्द्रियैः सहेति सुखतन्त्र इवासीनो८ मोहयन् पार्थ तिष्ठति ॥ ३९ ॥ __________ टिप्पणी १. श्निछन्नपि २. पादकया ३. सृक्ष्मा ४. पतीधतो ५. उत्पतिस्थानं ६. वेरिणतेतम् ३५ ७. अर्जुन ८. मुखतन्त्र द्रवासानो ____________________________________________________________________ पृष्ठ १०३ स एव कलुषः१ क्षुद्रश्छिद्रप्रेक्षी२ धनञ्जय । रजःप्रवृत्तो३ मोहात्मा मानुषाणामुपद्रवः ॥ भगवद्गीता_३.४० ॥ कामक्रोधमयो घोर(ः) स्तम्भहर्षसमुद्भवः४ । अहङ्काराभिमानात्मा५ दुस्तरः पापकर्मभिः ॥ भगवद्गीता_३.४१ ॥ हर्षमस्य निवर्त्त्यैष शोकमस्य ददाति च । भयं चास्य करोत्येष मोहयंस्तु मुहुर्मुहुः ॥ भगवद्गीता_३.४२ ॥ इति साङ्ख्यमतानुसारिणः६ केचनाधीयते । ते (च) पञ्च श्लोका न व्याख्याताः ॥ ४०४२ ॥ कथं वैरित्वमिति दृष्टान्तेन दर्शयति (धूमेनाव्रियते वह्निर्यथादर्शो मलेन च । यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ भगवद्गीता_३.४३ ॥) धूमेनेति । यथोल्बेन गर्भवेष्ट(ने)नावृतो गर्भस्तथा तेनेदम् आवृतं दृष्टम् ॥ ४३ ॥ शब्देन किमुच्यत इति विवृणोति७ (आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा । कामरूपेण कौन्तेय दुष्पूरेणानलेन वा ॥ भगवद्गीता_३.४४ ॥) आवृतमिति । एतेन८ ज्ञानमावृत(म्) । कस्य (केन) । ज्ञानिनो९ नित्यवैरिणा कामरूपेण नानारूपेण । ज्ञानिनो ह्यसौ नित्यवैरी । कथम् । काम्ं दूरतः१० कृत्वापवर्गम् अधिगन्तुमिच्छति११ ज्ञानी । कामश्च१२ तदीयं ज्ञानं तिरस्कृत्य संसारे क्षेप्तुं१३ यतते । __________ टिप्पणी १. धनुष २. क्षुद्रद्रपेक्षी ३. प्रवृतो ४. स्तम्भहर्षक्षुमुद्भवः ५. अहङ्कारीभिमानात्मा ६. साङ्खसतानुसारिणः ७. दष्टं ... विवृणोति ३६ ८. एतेत ९. ज्ञानीनो १०. हरतः ११. ... मधिगछतुमिछति १२. कामतश्च १३. क्षेप्तु ____________________________________________________________________ पृष्ठ १०४ पुनरज्ञो यत्नं१ कृत्वा काममेवानुवर्तते । न तस्य विरोधस्तेन२ । ज्ञानमित्युपपन्नं विशेषणं नित्यवैरिणेति । दुष्पूरेण दुःखेन पूर्यते दुष्पूरः । न विद्यते अलं पर्याप्तिरस्येत्यनलः ॥ ४४ ॥ किमधिष्ठानोऽसौ ज्ञानमावृणोतीत्याह३ (इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते । एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ भगवद्गीता_३.४५ ॥) इन्द्रियाणीति४ । इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमाश्रयः५ । तैरिन्द्रियादिभिर्ज्ञानमावृत्य देहिनं मोहयति मोहयित्वा कार्येषु वर्तयति ॥ ४५ ॥६ यत एवम् (तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहीह्येनं ज्ञानविज्ञाननाशनम् ॥ भगवद्गीता_३.४६ ॥) तस्मादिति । इन्द्रियं७ मनो बुद्धिं८ (च) नियम्यादौ प्रथममेव पाप्मानमेनं९ शत्रुं जहि विनाशय । ज्ञानविज्ञाननाशनम् । ज्ञानमात्मयाथात्म्यपरिज्ञानम्१० । विज्ञानम् (विशिष्टं तज्ज्ञानम्) । तदुभयनाशनम्११ । तदपि पृथक्कर्तव्यतया विधीयते श्रुतौ विज्ञाय प्रज्ञां कुर्वीत इति । अन्यथा ज्ञानविज्ञानशब्दयोर् अर्थे भेदो न स्यात्१२ ॥ ४६ ॥ कस्य सन्निधौ कामस्तिष्ठतीति साक्षाद्दर्शयितुमाह स्थूलं शरीरमपेक्ष्य __________ टिप्पणी १. जत्मिं २. ... वर्तते न तस्य विरोधे न बोधवे ३. त्याह ३७ ४. इन्द्रियाणिति ५. ... माश्रेयः ६. वर्तयति ३८ ७. इन्द्रियम् ८. बुद्धिनि ९. प्रथमतेस्याक्ष्मतमेनं १०. ज्ञानमत्मयथात्पपरिज्ञानं ११. तदुयासिनं १२. ... शदृयोरर्थेभेदो न स्पात्३९ ____________________________________________________________________ पृष्ठ १०५ (इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ भगवद्गीता_३.४७ ॥) इन्द्रियाणीति । इन्द्रियाणि पराण्याहुर् विषयग्राहकत्वेनोत्कृष्टत्वाच् च परस्त्वम् । इन्द्रियेभ्यः१ परं मनः सौक्ष्म्यात्प्राधान्याच्च२ । मनसस्तु परा बुद्धिः३ । स एव हेतुः । अथ बुद्धिमनसोः४ को भेदः । सङ्कल्पविकल्पवृत्तिहेतुर्मनः । बुद्धिरध्यवसायात्मिका । यथा स्थाणुर्वा पुरुषो५ वेति संशये स्थाणुर् एवायमित्यध्यवसायः६ । यो बुद्धेः परतः स कामः परामृश्यते७ तस्य प्रकृतत्वात् । न पुनरात्मा स इति निर्दिश्यते पूर्वत्रासङ्कीर्तनात् ॥ ४७ ॥ इदानीमुपसंहरति (एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ भगवद्गीता_३.४८ ॥) एवमिति । एवमुक्तेन प्रकारेण बुद्धेः परं कामं बुद्ध्वा८ जहि शत्रुं महाबाहो । कामरूपं दुःखेनासदनीयम्९ । किं कृत्वा । संस्तभ्यात्मानमात्मनि१० संस्तभ्य निरुद्ध्य चात्मानं क्षेत्रज्ञम् आत्मनि११ परमात्मनि संयोज्यैकीकृत्य१२ ब्रह्मरूपेणावस्थाप्य कामं१३ जहीति तात्पर्यार्थः१४ ॥ ४८ ॥ इति श्रीभगवद्भास्करकृते१५ गीताभाष्ये तृतीयोऽध्यायः ॥ __________ टिप्पणी १. त्वेनचोत्कृष्टात्वात्यस्त्वमिन्द्रियेर्भ्यः २. प्राधान्याश्च ३. मतसस्तु परा षुद्धिस् ४. ... मनसो ५. पुरोषो ६. स्थाणुस्वैत्यध्यवसायः ७. बुद्धिः परतस्स कामः परामृष्यते ८. बुद्धेपरं कामबुद्धा ९. कामरूपदुःखेनासदनीये १०. संस्तम्भ्यात्मानम् ११. क्षेत्रज्ञात्मनि १२. युज्यैकीकृत्य १३. ... वस्थापकामं १४. तत्पार्यार्थः ४१ १५. ... भगवद्भकरकृते ____________________________________________________________________ पृष्ठ १०६ अथ चतुर्थोऽध्यायः श्रीभगवानुवाच१ (इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥ भगवद्गीता_४.१ ॥) इममिति । विवस्वानादित्यः तस्मै२ प्रोक्तवानहमव्ययम् । नित्यत्वं३ नित्यवेदविहितत्वात् । स च विवस्वान् स्वपुत्राय मनवे४ दण्डधराय (प्राह) मनुरादिराजायेक्ष्वाकवेऽब्रवीत्५ ॥ १ ॥ (एवं परम्पराख्यातमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ भगवद्गीता_४.२ ॥) एवमिति । एवं परम्पराख्यातमाचार्यपरम्परया६ कथितमिमं राजर्षयो विदुः । राजानश्च ते दर्शनशक्तियुक्ताश्चेति७ राजर्षयः । स योगः कालेन महतेह लोके८ कथञ्चिद्विषयासक्तचेतसं राजानाम् आसाद्य९ नष्टः । परान् शत्रूंस्तापयतीति हे परन्तप१० ॥ २ ॥ (स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तरम् ॥ भगवद्गीता_४.३ ॥) स एवेति । स एव सनातनो योगो मया प्रोक्तः । कस्मात् । भक्तोऽसि मे सखा चेति११ । रहस्यं ह्येतन्मयोक्तमप्रकाशितम् । यन्मयि भक्तत्वसखित्वाभ्यां१२ नैतदवज्ञातुमर्हसि । इदानीं __________ टिप्पणी १. श्रीभगवाच २. स्वानादिग्त्यस्तस्मै ३. नित्यं ४. मतवे ५. ... राजायेक्ष्वाकव्रवीत् ६. परस्पुराख्यातमा ७. दर्शनशक्तियुक्तेश्चेति ८. त्वोके ९. ध्रिचिद्विषयत्सक्तचेतसां राजामासाघ १०. परतप ११. सख्या चेति १२. हेतन्मयोक्तमप्रकाशतीयमयिभक्षुत्व ____________________________________________________________________ पृष्ठ १०७ युद्ध(आय) प्रोत्साहनार्थं प्राप्तावसरं१ प्रोक्तमित्य् अभिप्रायः ॥ ३ ॥ पूर्वपरविरोधं पश्यन्नर्जुन उवाच (अपरं भवतो जन्म परं जन्म विवस्वतः । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ भगवद्गीता_४.४ ॥) अपरमिति । भवतो जन्मापरमिदानीन्तनम्२ । परमादित्यस्य सर्गादौ । कथमेतद्विजानीयां ज्ञातुं शक्नुयाम् । त्वमादौ प्रोक्तवानिति३ । यथाविरोधस्तथा मां प्रतिपादयेः ॥ ४ ॥ अमरजीवव्यतिरिक्तेश्वरप्रतिपादनद्वारेणोत्तरं४ दीयते (बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ भगवद्गीता_४.५ ॥) बहूनि५ । बहूनि मे व्यतीतानि६ प्रादुर्भावरूपाणि । मयि सर्वाणि इति वचनमिदानीं सिद्धं७ भवति । अन्यथा व्यतिरिक्तेश्वराभावे८ क्व कर्माणि सन्न्यसेरन् । तान्यहं वेद । त्वं तानि न वेत्थ जानास्यनीश्वरत्वात्९ ॥ ५ ॥ कथं पुनरीश्वरोऽजः१० सन् सम्भवतीति११ चोद्यमाशङ्क्य१२ निराकरोति (अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ भगवद्गीता_४.६ ॥) __________ टिप्पणी १. युद्धप्रोत्साहनार्थं प्रासावसरं २. मिदान्नीततं ३. ज्ञातु न शक्नुयात्त्वमोदौ प्रोक्तवनिति ४. भरजीव्यतिरिक्रश्चर प्रतिपादनद्वारोणोत्त ५. वहुनीति ६. वद्वनि मे व्यतीत्तानि ७. मपित्साणीतिवचनमिदान्नीं सीद्धं ८. ष्यतिरिक्त्लेश्वराभवि ९. वेद तातामिनास्यनीश्वरत्वात् १०. पुनरीश्वराजः ११. सभ्यवसीति १२. चोघमाशक्य ____________________________________________________________________ पृष्ठ १०८ अज इति । न जायते अविनश्वर आत्मा स्वरूपं यस्यासावव्ययात्मा । प्रकृतिं स्वामवष्टभ्य । प्रकृतिस्तेजोऽबन्नलक्षणा१ परमेश्वरादुत्पन्ना । (ताम्) अवष्टभ्य आश्रित्य सम्भवाम्य् आत्ममायया३ । मायाशब्दः प्रज्ञावचनः । स्वेच्छयेत्यर्थः४ । नाहं धर्मप्रयोज्यः संसारी५ । वश्यप्रकृतित्वाद्देहोपादानान्य् असौ६ स्वेच्छया ग्रहीष्यतीति (अ)विरोधः७ ॥ ६ ॥ कदा पुनरात्मानं सृजसीत्याह (यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ भगवद्गीता_४.७ ॥) (यदेति) । यदा हि धर्मस्य वर्णाश्रमादिलक्षणस्य ग्लानिर्हानिः८ । अभ्युत्थानं वृद्धिरधर्मस्य । तदात्मानं सृजाम्यहम् ॥ ७ ॥ तत् (परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ भगवद्गीता_४.८ ॥) (परित्राणायेति९ ।) परित्राणाय साधूनां स्वकर्मनिरतानाम् । विनाशाय च दुष्कृताम् । एवं धर्मसंस्थापनय युगे युगे (सम्भवामि) ॥ ८ ॥ (जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ भगवद्गीता_४.९ ॥) जन्मेति । जन्म मथुरादिषु१० । कर्म च साधुपरित्राणलक्षणम् __________ टिप्पणी १. न जायतविनश्वर ... तेजोवललक्षणा २. आधोवष्टभ्याश्रित्य ३. सम्भावाभ्यात्म ४. स्वेघयेत्यर्थो ५. संसारि ६. ... प्रकृत्वादेहोपदा ७. समेछमा न भविष्यत इति विरोधः ८. लानिर्हानिः ९. परित्राणापिति १०. जन्म म्थुरादिषु ____________________________________________________________________ पृष्ठ १०९ उक्तप्रकारं दिव्यममानुषं (यो वे)त्ति स त्यक्त्वा१ देहं पुनर्जन्म न गच्छति२ । मामेव प्राप्नोतीति । ननु३ चैवं शब्दश्रवणमात्रेण४ सर्वलोको मुच्यते५ । उपनिषदुक्तपरमात्मज्ञानोपासनाभ्यां६ यावज्जीवं कृताभ्यां स्वाश्रमविहितकर्मयज्ञाभ्यां७ मुक्तिरिति स्थितम् । इहापि च यज्ञानुष्ठानादपवर्ग९ इति स्थापितं प्रत्युद्ध्रियेत१० । अत्रोच्यते नायं विरोधोऽस्ति । ईश्वरः स्वतन्त्रः समस्त(संसार)परिपालनाय११ । प्राकृतस्तु तत्परस् तदुपासनया मुच्यत इत्यनवद्यम्१२ ॥ ९ ॥ उत्तरश्लोके चायमर्थः स्पष्ठीक्रियते (वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ भगवद्गीता_४.१० ॥) वीतेति । (वीताः) रा(गश्च भयं च क्रोधश्च ते विगता ये)भ्यस् ते१३ वीतरागभयक्रोधाः । क्वचिद्वस्तुनि स्नेहमात्रं रागः । मन्मया (मा)मात्मत्वेनाभिप्रपन्ना नित्यमेवं स्वरूपं चेतसा१४ मामेव चोपाश्रिताः१५ । नान्योऽस्माकं१६ शरणमस्तीत्य् उभयविशेषणोपादानम् । यथा कश्चित्स्र्तीमयो भवति न शरणं प्रपन्नः । किं तु राजानं योगक्षेमावहं ज्ञानतपसा ज्ञानं च त(प)श्च ज्ञानत(पः । त)योर्द्वन्द्वैकवद्भावः१७ । सर्वो द्वन्द्वो एकवद्भवति इति१८ __________ टिप्पणी १. ... व्यमानुष्यत्तिं स त्यत्त्का २. गछति ३. न तु ४. शश्रवर्णमात्रे ५. मुच्यत ६. नाषत्स च परमात्मज्ञानोपासनाभ्यां ७. कृताभ्यास्वाश्रमावेहितकर्मार्यक्षाभ्यां ८. स्थीतम् ९. इहापिश्चमानुष्टानादयवर्ग १०. प्रत्युद्धियेत ११. विरोधोस्तीस्वरः स्वतन्त्रः समत्सपरि १२. प्रातत्परस्तुदुपासनषा मुच्यते इत्यनवघं १३. वोतेति ग्वेबाताश्यस्तेवीत १४. नित्यमेव स्वरूपस्मचेतसो १५. चापाश्रिता १६. तान्योस्माकं १७. द्वन्द्वैकधद्भावः १८. द्वन्द्वो भवम्दवतीति ____________________________________________________________________ पृष्ठ ११० स्मरणा(त्) । ज्ञानेन तपसा च पूता इत्यर्थः । ज्ञानमेव१ तपो ज्ञानतपः२ इति केचित् । तदयुक्तम्३ । ज्ञानस्य तपःशरणानर्थक्यात्४ । ज्ञानेन५ पूता इति सिद्धत्वात् । न हि ज्ञानेन सदृशम् इति६ चोक्तत्वात् ॥ १० ॥ ननु ज्ञानतपोभ्यां (भक्ता एव) मद्भावं प्रतिपद्यन्ते७ नेतरे । किन्नु८ खलु कारणम् । अत आह (ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ भगवद्गीता_४.११ ॥) य इति । ये फलार्थिनो मां (यथा) प्रपद्यन्ते तांस्तथैव भजामि फलप्रद्(आनेन) । येऽप्यपवर्गार्थिनो (मां) भजन्ते तांश् चापवर्गप्रदानेनानुगृह्णामि९ । तथा च वाजिनां श्रुतिः तं यथायथोपासते इति । अतो मम वर्त्म फलार्थिनो१० मोक्षार्थिनश्चोभयार्थिनो मनुष्याः सर्वशः सर्व एव तृतीयस्य राशेरभावात्(अनुवर्तन्ते) ॥ ११ ॥ ते च फलार्थिनो मो(क्षं न काङ्क्षन्तीत्याह११) (काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ भगवद्गीता_४.१२ ॥) काङ्क्षन्ति इति१२ । कर्मसम्बन्धिनीं१३ सिद्धिं काङ्क्षन्तो यजन्ते __________ टिप्पणी १. जानामेव २. ज्ञानतपो ला ३. यन्दंयुक्तं ला ४. शरणनर्थक्यात् ५. तानेन ६. शदशमिति ७. ... तपोभ्यांर्वप्रतिपद्यन्ते ८. किन्न ९. यमिति व षे फजाथिनो मां प्रति पर्द्यनतां ... फलप्रात्थार्थोप्य ... इत्याह पवगोर्थिनो भान्ते तांश्चापवर्गप्रदाने नातु गृह्णामि व १०. वस्त्रार्थ फलार्थि ११. व कोषे मो इति नास्ति ला ल कोषे तु मो इत्येत्तस्यानन्तरं काङ्क्षन्नि इत्यस्मात्पूर्वमिषद्रिक्तं स्थानं वर्तते १२. काङ्क्षत इति व १३. सम्बन्धिनो व ____________________________________________________________________ पृष्ठ १११ देवता यागेन पूजयन्ति । यतः क्षिप्रं१ हि मानुषे लोके (इति) अनुवादः२ । कर्मविपरिणामस्यानियतकालत्वात्३ मानुषे लोक इति नियमार्थम् । कर्मजा सिद्धिर्मनुष्यलोक एव (मनु)ष्याधिकारत्वाच्छास्त्रस्य४ । ज्ञानजा तु सिद्धिर्ब्रह्मलोका(दाव)पि५ भवति । श्रुतिरपि तद्यो यो देवानां६ प्रत्यबुद्ध्यत स एव तदभवत् (तथ)र्षीणां तथा मनुष्याणाम्७ इति । तत्रैव ज्ञानप्रकर्षम् आसाद्य८ मुच्यते । तथा च पुराणस्मृतिः ब्रह्मणा सह ते९ सर्वे (सम्प्राप्ते प्रति)सञ्चरे । परस्यान्ते१० कृतात्मानः प्रविशन्ति११ परं पदम् ॥ इति । इह च वक्ष्यति दैवी सिद्धिर्विमोक्षाय इति । तस्मान्मनु(ष्येण त्वयार्जु)नेनावश्यं कर्म१२ कर्तव्यमिति तात्पर्यार्थः ॥ १२ ॥ मनुष्याः सर्वे१३ मम वर्त्मानुवर्तन्त१४ इत्युक्तम् । के पुनस्ते । केन वा१५ ते सृष्टा इत्याह१६ (चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ भगवद्गीता_४.१३ ॥) चातुर्वर्ण्यमिति । चत्वार एव वर्णाश्चातुर्वर्ण्यम्१७ । तन्मया __________ टिप्पणी १. क्षिड्य व २. मानुषेलोकि मनुवादः व ३. कमपरिणामस्यानिलतकाल व ४. एवय्याधिकारत्वाछास्त्रस्य व ५. ज्ञानजा तु सिद्धिर्वह्मलोका दिद्यपि व ६. देवार्ना व ७. स सः णां तथा मनुष्याणां व ८. ज्ञामप्रकर्षमासाघ व ९. मंहते व १०. यदृस्यान्ते व ११. प्रविश्यन्ति व प्र इति अस्पष्टं ल १२. तस्मातुष्यनेताघश्यं कर्म व १३. मनुर्ष्य सर्वे व १४. वर्त्मानुर्वन्तत्व १५. केतवा व १६. सृष्ट इति व १७. चालुर्वर्ण्य व ____________________________________________________________________ पृष्ठ ११२ सृष्टम् । कथम् । गुणकर्मविभागशः । गुणविभागेन कर्मविभागेन१ च । (तत्र ब्राह्मणस्य) ऋजुतानृशंसत्वं२ प्रसन्नचित्ततेत्यादयो गुणाः सत्त्वप्रधानत्वात्३ । क्षत्रियस्य शौर्यतेजोधृत्यादयो ऽल्पसत्त्वानुविमर्शत्वात्४ । वैश्यस्य रजःप्रधान्यादुपष्टम्भश् चलचित्तता५ च गुणाः । शूद्रस्य तमःप्राधान्याद्दासता६ (गुणः । अथ) कर्म अध्यापनादि ब्राह्मणस्य रणादि७ राजन्यस्य कृष्यादि वैश्यस्य८ शुश्रूषा शूद्रस्येति । तस्माद्ये९ यथायोगं कर्मस्व् अधिकृता१० (तथा ते) मम वर्त्मानुवर्तन्ते११ । तस्य कर्तारमव्ययं (मां विद्धि१२ ।) ननु विप्रतिषिद्धमभिधीयते१३ । नायं विरोधः । सङ्कल्पमात्रेण जगत्सृष्टिस्थितिभङ्गकर्तृत्वात्कर्तारं१४ स्त्रीपुंयोगेनेदानीमेवानुत्पादनादकर्तारं विद्धि । चातुर्वर्ण्यग्रहणं१५ जगत्प्रदर्शनार्थम्१६ । यद्वा स्वातन्त्र्येण पृथिव्यादिनिर्मा(ण)सद्भावात्१७ कर्तृत्वम् । प्राणिकर्मसापेक्षत्वेन सापेक्षत्वादकर्तृत्वम् ॥ १३ ॥ __________ टिप्पणी १. कमीवेभागेन व २. मार्जतानृशंसस्य व मार्जवानृशंसस्य ला ३. गुणः ... सत्व व ४. ... दयोल्पसत्त्वानुपिमर्शत्वात्व ... दयोल्पसत्त्वानुवि ... त्वात्ल ५. वैशस्य रजःप्रधान्यादुपष्टम्भश्चलचित्तना च व ६. ... प्राधान्यादावत्सता ल तथा व ७. ... नादिराजन्यस्य ल कर्माध्ययनादि ब्राह्मणोरनाधिराजन्वस्य व ८. वैष्यस्य व ९. तस्मान्मे व तस्मात्ते ल १०. ... यथायोग ... धिकृता व, ल ११. वर्तते १२. तस्य ... कर्त ... स्य कर्तारं ल तस्य कर्तास्य कर्तारं व १३. मभिधीयन्ते व १४. ... त्रेण गत्सृष्टिभङ्गकर्तृत्वात्कतरिं व १५. चानुर्वर्ण्य व १६. न गगत्प्रदर्शनार्थ व १७. स्त्रीपुंयोगेन ... पृथिव्यादिनिर्मा(ण्)अ शोयं चतुर्दशाङ्काङ्कितश्लोकभाष्यस्थः । अत्रोच्यते अयमत्र एतस्मात् परं वर्तते व कोषे । तत्र पाठस्तुअत्रोच्यते ऽयमत्रीयुथोगौवदानीमेवानुसादनादकर्तारं विद्धे चातुर्वर्ण्य ग्रहणं नगगत्प्रदर्शनार्थ यद्वा स्वातन्त्र्येण पृथिदिनिर्माऽभिप्रायायःभिप्राय इति ____________________________________________________________________ पृष्ठ ११३ न च जगत्सर्गादीनि कर्माणि मां लिम्पन्ति१ तदाह (न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा । मामेवं योऽभिजानाति कर्मभिर्न स बध्यते ॥ भगवद्गीता_४.१४ ॥) न मामिति । न मां कर्माणि लिम्पन्ति२ । कुतः । न मे कर्मफले स्पृहा । न हि सृष्ट्यादिकर्मणा प्राप्तव्यं साध्यं ममास्ति आप्तकामत्वात्३ । मामेवं योऽभिजानाति कर्मभिर्न स४ बध्यते । ननु चाप्तकामत्वादीश्वरं५ न लिम्पन्ति कर्माणि । अन्यं पुनर् अनवाप्तकामं सुकृतानि कस्मात्तानि लिम्पन्ति६ । अत्रोच्यते । अयमत्राभिप्रायः७ वीततृष्णत्वमलेपकारणम् । अन्योऽपि यः स्वव्यापारे वीततृष्णः परमेश्वरार्पितकर्मणि८ प्रवर्तते सोऽपि कर्मभिर्न बध्यत इति युक्ततरमुक्तम्९ ॥ १४ ॥ एतमेव फलवैतृष्ण्यलक्षणं हेतुमुपजीवयन्नाह१० (एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरैः कृतम् ॥ भगवद्गीता_४.१५ ॥) एवमिति । एवं ज्ञात्वा११ कृतं कर्म पूर्वैरपि चिरन्तनैर् मुमुक्षुभिः । कुरु कर्मैव तस्मात्त्वं पूर्वैः कृतम् । नेदानीन्तनैर् अनुष्ठितम्१२ ॥ १५ ॥ तच्च कर्म दुर्विज्ञेयस्वरूपं कथमित्याह (किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ भगवद्गीता_४.१६ ॥) __________ टिप्पणी १. सगादिनि ... लिपन्ति व २. लिंपति व ३. प्राप्तव्यं साख्यं ममास्माप्तकामन्वपा मामेवं व कामत्वमामेवं ल ४. कर्मभिन्न स व ५. कामस्वादीश्वरं न लिंपति व अक्षराण्यस्पष्टानि ल ६. कस्मात्सालिपन्ति व ७. अयमत्री युथो गौनदीमीमे वानुसादनादकर्तारं विद्वे चातुर्वर्ण्यग्रहणं न गगत्प्रदर्शनार्थं यद्वा स्वातन्त्रेण पृथिदिनिर्भाभिप्रायः ८. परेमेश्वरपतिकर्मणि व परमेश्वरायेनिकर्मणि ल ९. मुक्तं व १०. हेतुमुपतीवन्नाह १४ व ११. जात्वा व १२. नीदानीतनेरनुष्टितं १५ ____________________________________________________________________ पृष्ठ ११४ किमिति । किं कर्म किमकर्मेति१ कवयोऽपि प्रत्यक्षादिषट्प्रमाणकुशला२ अप्यत्र कर्मप्रविभागे मोहिताः । प्रविभागं ज्ञातुमशक्तास्ते । तत्४ कर्म (ते) प्रकर्षेण वक्ष्यामि । यज्ज्ञात्वा कृत्वा५ च कर्मप्रकरणात् कुरु कर्मैव इति चानन्तरं कर्मानुष्ठानस्य विहितत्वान्मोक्ष्यसे विमोक्षसेऽशुभात् संसारपरिवर्तात् ॥ १६ ॥ स्यान्मतं६ कर्माकर्म च प्रसिद्धम् । किमत्र बोद्धुमित्याशङ्क्याह७ (कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः । अकर्मणोऽपि बोद्धव्यं गहना कर्मणो गतिः ॥ भगवद्गीता_४.१७ ॥) कर्मेति८ । सत्यं श्रुतिस्मृतिविहितं कर्म प्रसिद्धं तथापि तस्य स्वरूपं९ बोद्धव्यमस्त्यपवर्गाधिकृतेन पुरुषेण । बोद्धव्यं च विकर्मणः । विकर्म१० यच्छास्त्रबाह्यं पाषण्डिभिर् आचर्यमाणं११ धातुवादशिल्पकर्मादि च । अकर्मणश्च प्रतिषिद्धलशुनभक्षणादेः । काम्यस्य चापवर्गार्थिनः । तदप्यकर्तव्यमेव । (एवं) च त्रिविधस्यापि गहना गम्भीरा दुर्विज्ञेया गतिः ॥ १७ ॥ प्रविभज्येदानीं निर्णयं करोति (कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ भगवद्गीता_४.१८ ॥) कर्मणीति१२ । नित्ये कर्मणि स्मार्ते१३ श्रौते च । कर्म __________ टिप्पणी १. कीमकर्मेति व २. षहप्रमाण व ३. कर्म विभागे ल ४. ज्ञातुमशक्या ते तु व ५. पक्षादा कृत्वा व ६. शुभात्मंसारवरिवर्तार्थत्वान्मतं ७. वीधव्यमित्याशङ्क्याह १६ ८. कर्मति व ९. तस्य रूपं व १०. विक्कर्म व ११. पाषांडिभिराचार्यमाणं व पाषाण्डिभिराचर्य १२. कर्मणोति वा १३. स्मार्ने ____________________________________________________________________ पृष्ठ ११५ क्रियत१ इति कर्मफलमुच्यते२ । फलाभावं यः पश्येद् ईश्वरोद्देशेन३ क्रियमाणत्वात् । तद्व्यतिरिक्तोऽभ्युदयः सर्व एते४ पुण्यलोका भवन्ति इत्येवमादिप्राप्तो५ वार्यते । अकर्मणि६ काम्ये प्रतिषिद्धे च कर्मफलभावं७ काम्ये स्वर्गपश्वादि यथाश्रुतं प्रतिषिद्धे च नरकपातादिर्विगर्हणां८ च । उभयत्र९ विषयसप्तमी । न पुनरधिकरणसप्तमी१० । यथा शरावे बदराणीति११ । तदेतत्पश्येत्विचारयेत् । ज्ञात्वा चैतदुभयं परिहरेदिति । स बुद्धिमानध्यात्मशास्त्रविहितबुद्धित्वात् । स च युक्तो योगी कृत्स्नकर्मकृत् । कृत्स्न आत्मा१२ । तदर्थं कर्म करोतीति कृत्स्नकर्मकृत्१३ । न चापवर्गो नाम कर्मणः१४ फलं ज्ञानकर्मभ्यां पूर्वकर्मविधिनिवृत्तिद्वारेण१५ तस्याभिव्यज्यमानत्वात्१६ । यथा प्रदीपेनान्धकारनिवृत्तिद्वारेण१७ घटादिरभिव्यज्यते । मोक्षो हि नित्य एव न घट इव कुम्भकारेण क्रियते । अतो युक्तं कर्मण्य् अकर्म यः पश्येदिति ।१८ अन्ये पुनरन्यथा (व्या)चक्षते । काम्ये१९ कर्मण्यकर्म यः पश्येत् फलाभावम् । अकर्मणि नित्ये कर्मापवर्गानुगुणं फलं२० पश्येदिति । __________ टिप्पणी १. क्रियत्व २. ... मुच्यत व ३. फलाभावे यः पश्ये ईश्वरोदेशेन व ४. राते ५. ... प्रासो व ६. अकणि व ७. कर्मकलभावं व ८. नरक पातादिशिः विगर्हणा च व नरकपातादिशिविगर्हणा च ल ९. चोभथत्र च १०. ... सजमीइ व ११. शरोवेवदराणोति १२. योगी कृस्त्त्र कर्मकत्स्न आत्मा व १३. कृत्स्नकर्मकृत्व १४. वाम कर्मणः व १५. ... कर्मविधानिवृत्ति व १६. तस्याभिव्यत्यमानक्ष्वात्व तस्याभिव्यज्यमाणत्वात्ल १७. प्रदोयेणान्ध ल प्रदोपेणाध व १८. कुम्भकारेण क्रियतेतीयुक्तं कर्मण्यकर्मपूर्वपश्यदिति व १९. कामे व २०. पलं व ____________________________________________________________________ पृष्ठ ११६ तदिदमसद्व्याख्यानम्१ । कुरु कर्म इति कर्मशास्त्रेण नित्यं कर्म मोक्षार्थिनः कर्तव्यमुपदिश्यते२ न काम्यम् । न चाकाम्येष्व् अग्निहोत्रादिषु३ श्रूयमाणफलाभावे कर्तव्यतास्ति४ विध्यन्तराभावात् । न च फलान्तरं कल्पयितुं शक्यं स्वमनीषिकया५ । तथा चोक्तम् अशक्यं हि तत्पुरुषेण ज्ञातुमृते६ वचनादिति । न चाकर्मशब्देन७ नित्यं कर्मोच्यते । किं कर्म किमकर्मेति प्रक्रमविरोधात् ।८ अपरे तु कर्मद्वेषिणः स्वमतिपरिकल्पितश्लोकबाह्यमर्थमस्मिन्न् आरोपितुमीहमानाः श्रोत्रियश्रुति(निष्ठ)बुद्धिव्यामोहनं९ कुर्वन्तो बहु भाषन्ते१० । प्रकृतसम्बन्धं च कर्मणि व्यापारे११ कर्माभावं यः पश्येत् । न हि परमार्थतः१२ क्रिया नामास्ति१३ । यथा किल नौयायिनां तीरगतवृक्षेषु गमनबुद्धिर्भ्रान्तिस्तथा१४ सर्वक्रियाबुद्धिरिति । यथा क्षणिकवादिनो बौद्धा देवदत्तादिगन्तृव्यतिरेकेण गमनक्रियां नेच्छन्ति१५ । तथाप्यत्र ब्रूमहे१६ क्रिया नास्तीति न प्रतिज्ञातुं१७ शक्यते । अङ्गुलिश्चलति । देवदत्तो गच्छति । (ब्रह्मदत्तः) पचति । पर्णं चलतीति१८ सर्वप्राणिप्रत्यक्षत्वात् । __________ टिप्पणी १. तदिममसध्यारत्वनं व तदिसममसद्व्याख्या २. कर्तव्यसुपदिश्यते व ३. चकाम्येग्निहोत्रादिषु व ४. कर्तव्यतास्रि व ५. स्वमर्नषिकपा व ६. पुषेण जातुमृते व ७. ... शब्दोन व ८. किर्मकमेमि प्रक्रर्मविरोधात्व ९. ... श्लोकवास्वमर्थ व १०. श्रोतृबुद्धिर्व्यामोहनं कुवन्तोबदुभाषन्ते व ११. प्रकृतमवध च कर्मणिव्यापारे व प्रकृतमवन्धं च कर्मणि ल १२. परमार्थातः व १३. नाप्रास्ति व १४. गमनुन्बुद्धिभ्रान्तिस्तथा व गमनुनबुद्धिर्भ्रान्तिस्तथा ल १५. क्षणिकवोदिनी बोद्धा देवदत्तादिगतृव्यति ... नेछन्ति व १६. ब्रूनहे व १७. क्रियान्नास्तीति न प्रतिजातु व १८. शक्यते गुलितदेयदत्तो गछति पचति यंणं चलतीति व ...पलं चलती ल ____________________________________________________________________ पृष्ठ ११७ प्रत्यक्षद्रव्यसमवेता हि क्रिया प्रत्यक्षा । अप्रत्यक्षद्रव्यसमवेता त्वनुमेया । यथा पर्णादिचलनेन कार्येण वायोर्गमनमनुमीयते१ । न चात्र कारणदोषो२ बाधकप्रत्ययो वा विद्यते । नौयाने तु तत्र कारणदोषस्तीरगतनगगमनभ्रान्तित्वेन च । मृगतृष्णिकायां३ सलिलं नास्तीति गङ्गाम्भो४ नास्तीति (न) शक्यते वक्तुम् । बौद्धस्याप्येतदेवोत्तरम् । अतः५ कर्मणोऽभावप्रतिज्ञा तावद् असम्बद्धा । अथ कर्मण्यात्मनि कर्माभावं पश्येदिति व्याख्यायते तदप्यसत्६ । न हि कर्मशब्देनात्माभिधीयते । तदानीं कर्मणीत्य् अपि न७ वक्तव्यम् । सप्तम्यन्तं कर्मशब्दमनुच्चार्यात्मन्यकर्म पश्ये(दि)ति८ वक्तव्यम् । व्यामोहायात्मन्यकर्म कर्माभावं पश्येद् इत्युक्ते(ः) तत्र कर्म नास्तीति गम्यते । किं च९ न जायते म्रियते१० वा इत्यात्मनि षडपि भावविकाराः पूर्वमेव११ निराकृताः । अहङ्कारविमूढात्मा१२ इति चोक्तम् । अतः पुनरुक्तमिह स्यात् अप्रस्तुतं१३ च । कर्मप्रकरणं चैतद्वर्तते । किं च यद्यकर्मणि१४ च कर्म य इति१५ स्वमनीषिकया व्याख्यातम्१६ । शरीरेन्द्रियव्यापारोपगमेऽहं सुखमासिष्य१७ इति __________ टिप्पणी १. वार्योग व २. क्यरण व ३. च गतृस्मिकायां व ४. गङ्गाम्भो व ५. बौद्धस्यापेनदेवोत्तमतः व ६. कर्मणो भा भावप्रतिज्ञातावद्धसंवधा अप्यकर्मण्यात्मनिकमोभावं पश्येदिति व्याख्यायेत ततप्पिसत्व ७. तदानी कर्मणित्यन व ८. सप्तम्यकर्म पश्येति ल सप्तमन्तं कर्मशब्दमनुश्चर्यात्मन्यकर्म पश्येति व ९. किं च व १०. स्तियते व ११. पूर्नमेव व १२. ... विमूयत्मेति व १३. पुनक्तमितस्याद प्रक्ष्मुनं च व १४. ... कर्माणि व १५. कर्मथ इति व १६. ... मनीषिकवाव्याख्यानं व १७. शरीरेन्द्रियव्यापारापरमेह सुखनासिष्ये व ____________________________________________________________________ पृष्ठ ११८ किल कश्चिन्मन्यते१ । तदोपरमे कर्मणि२ कर्मव्यापारं पश्येदिति तदप्य[प]व्याख्यानं पूर्वं निराकृतत्वात्३ । कर्मेन्द्रियाणि४ संयम्य इति यश्चोपरमात्मसुखं मन्यते नासौ पुनस्तत्र कर्मकर्तव्यतां प्रतिपद्यते निमित्ताभावात् । अथान्यः पश्येत्स तर्हि द्रष्टा५ कर्म करोतीति । ननु पूर्वमेव भगवता नियुक्तो नियतं कुरु कर्म त्वमिति । इदानीं पुनरुक्तम् । न च गहनत्वादस्यार्थस्य पुनः पुनर्वक्तव्यता । आत्मनि६ कर्मणस्तूपरमश्च न कर्तव्य इति७ पूर्वोक्तस्यापि भगवद्वचनस्य विविक्तार्थत्वादनवस्थाप्रसङ्गाच् च८ । तस्मात्पूर्वोक्त एव श्लोकार्थः९ ॥ १८ ॥ पूर्वश्लोकार्थमुत्तरेण१० स्पष्ठीकर्तुमाह (यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ भगवद्गीता_४.१९ ॥) यस्येति । समारभ्यन्त इति समारम्भा व्यापाराः११ । काम्यत इति कामः फलम् । तत्सङ्कल्परहिता ब्रह्मज्ञानाग्निदग्धकर्माणस् तमाहुर्ब्रह्मविदः पण्डितम्१२ । ये पुनरनात्मविदः कर्म कुर्वन्ति१३ न ते पण्डिता इति । यथाभूतार्थकथनमेतत्१४ । स्तुत्यर्थोऽयं१५ श्लोक इति केचित् । तदयुक्तम्१६ । विधिशेषत्वेन हि स्तुतिः प्रवर्तते । यथा पूर्णाहुतिविधेः स्तुत्यर्थः पूर्णाहुत्या१७ __________ टिप्पणी १. कश्चित्मन्यते व २. तत्रोपरमेकृर्मणि व ३. पूर्व नि व ४. कर्मेन्द्रियणि व ५. स तर्द्धिदष्टा व ६. वक्तव्यतात्मनि व ७. कर्मणस्सुपरमश्च न कर्तव्यत इति व ८. ... नवस्याप्रसङ्गाच व ९. पूर्वोक्त ए श्लो व १०. ... मुत्तरेणास्य व ११. समारभ्यत इति समारभा व्यापाराः व १२. तत्सङ्कल्परहीति ब्रह्मज्ञानाग्निदग्धकर्माणस्तमाकृर्ब्रह्माविदः पडितं व १३. ये मुनरनात्मविदः कर्म कवति व १४. ... मेनत् १५. सुत्यर्थो व १६. तदयुक्त व १७. पुर्णादुत्या व ____________________________________________________________________ पृष्ठ ११९ सर्वान् कामानवाप्नोति१ इति । स्तुतिश्चास्मत्पक्षे युज्यते । पूर्वत्र२ फलाभिसन्धिरहितस्य३ कर्मणो विधानत्वात् । त्वत्पक्षे किं स्तूयते४ । कर्मणि हि कर्माभावदर्शनं५ मिथ्या । ज्ञानं स्तूयते६ । न हि सर्वलोकप्रत्यक्षा क्रिया प्रत्याख्यातुं शक्येत्युक्तम्७ ॥ १९ ॥ यश्चैवं फलसङ्कल्परहितः परमार्थदर्शी स कर्मणि प्रवृत्तो ऽपि नैव कर्तेत्युच्यत इत्याह (त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ भगवद्गीता_४.२० ॥) त्यक्त्वेति । अनित्येभ्यः फलेभ्यो व्यावृत्तचेता नित्येन परमात्मना तृप्तो नित्यतृप्तो९ निराश्रयः फलसाधनभूत आश्रयो यस्य१० न विद्यते स कुर्वन्नपि न करोति फलानुषङ्गाभावात्११ । कर्मण्येवाधिकारस्ते इति यद्यपि१२ धर्माधिकारः फलानधिकारश्चोक्तस्तथाप्यत्र१३ न पुनरुक्तता । अस्य प्रकरणस्य विशेषार्थत्वात् । कर्माकर्मप्रविभागद्वारेणाकर्म१४ काम्यं प्रतिषिद्धं च न कर्तव्यम् । नित्यं च कर्म१५ ब्रह्माराधनार्थं१६ कर्तव्यम् । कुर्वंश्चाप्नोति१७ किल्बिषमिति ब्रह्मार्पणन्यायेनाद्वैतावस्थितचेतसा कर्तव्यमिति१८ ॥ २० ॥ __________ टिप्पणी १. ... वाप्तोतीति व २. षूर्वत्र ... व ३. भिसन्धि व ४. विधानत्वात्त्वत्पक्षे किं स्रूयते व ५. कमीभावार्शनं व ६. सानं स्रूयते व ७. प्रत्याख्यातुं शकेत्युक्तम् २९ व ८. त्यक्तोति ९. नित्यदभो व १०. ... धनमूत अयो यस्य व ११. फलानुयङ्गाभावात्व १२. यस्वप्य् १३. ... कारश्चौक्त व १४. विशेषार्थत्वाकर्माकर्म ल १५. कर्य व १६. ब्रह्माराधनांर्थ व १७. कर्तध्यभकुर्वचाप्नोचि व १८. कर्तव्य इति ल कर्तव्यति व ____________________________________________________________________ पृष्ठ १२० किं च१ (निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ भगवद्गीता_४.२१ ॥) निराशीरिति । निर्गता फलाशीर्यस्य स निराशीः२ । चित्तं चात्मा च चित्तात्मानौ । तौ संयतौ३ यस्य स यतचित्तात्मा४ । आत्मशब्देन सेन्द्रियं शरीरं गृह्यते५ । नैषु६ पुत्रादिषु वा ममैतेऽहमेतेषामिति७ परिग्रहबुद्धिर्यस्य नास्त्यसौ त्यक्तसर्वपरिग्रहः । किमिदं शारीरं नाम । शारीरनिर्वर्त्यम् आहो८ शरीरस्थित्यर्थमिति । न तावत्स्थित्यर्थम् । ध्रियमाणशरीरस्यार्थप्राप्तत्वादुपदेशोऽनर्थकः१० शरीरयात्रापि च इत्युक्तत्वाच्च । तस्माच्छरीरं शरीरेन्द्रियनिर्वर्त्यं शास्त्रचोदितं कर्म११ । ननु प्रतिषिद्धमपि शरीरनिर्वर्त्यं स्यात् । नैष दोषः । वैदिककर्मप्रकरणात् । केवलमिति च फलरहितम्१२ । ननु शास्त्रीयं कर्म१३ कुर्वतः किल्बिषं नाप्नोतीत्य् अप्राप्तप्रतिषेधप्रसङ्गः१४ । अत्राभिधीयते वाक्यतात्पर्यापरिज्ञानमत्रापराध्यति१५ । कुर्वन्नेव न प्राप्नोति१६ अकुर्वंस्तु विहिताकरणादाप्नोति१७ किल्बिषं पापम् । अथ वा किल्बिषं संसारं१८ प्रतिपद्यत इति योजनान्तरम् । __________ टिप्पणी १. किच व २. निराशी व ३. संयुतौ व ४. यतधितात्मा व ५. शब्दोनर्सद्रियं शरीरं गृस्वते व ६. नेषु ल ७. ... हमेतिषामिति व ८. नास्तिसौ परिग्रहः त्युक्तसर्व व ९. ... निर्वत्येमाहो व १०. उपदेशोरनर्थकः व ११. तस्माच्छारीरन्द्रियनिवर्त्यं शास्त्रं चोदितं कर्म व तस्माच्छारीरेन्द्रिय ल १२. रहित व १३. शास्त्रीय कर्म व १४. किल्वीषं नामोतित्यनासतिषेप्रसङ्गः व १५. ... तात्पर्थ्यापरिज्ञानमात्रपराध्यर्थे व १६. कुर्वन्नेवेन प्राप्तोति व १७. विहिताकरणा व्याप्नोति व १८. किल्विसंसारं व ____________________________________________________________________ पृष्ठ १२१ अपरे तु शरीरस्थित्यर्थं भिक्षाटनाशनपानादि कुर्वन्ति१ इति योजयन्ति । तदपि२ केवलमभिमानरहितमिति । तदपव्याख्यानम् । न हि भिक्षाटनं करोमीत्यभिमानरहितस्य३ बुद्धिपूर्वमन्तरेण तत्र प्रवृत्तेरेव कल्पते । क्षुत्पिपासाभ्यां पीड्यमानस् तत्प्रतीकाराय४ भोजनादौ कर्तृत्वमनुभवन् वैदिके कर्मणि५ कथं कर्तृत्वं न प्रतिपद्येत । तदिदं राजपुत्रचेष्टितम् । यदि वैदिके कर्मणि६ ब्रह्मज्ञानविरोधात्कर्तृत्वं निवृत्तं७ तथा लौकिकेऽपीत्यविशेषः८ । अथ वोभयत्रापि कर्तृत्वं न लभ्यम् अर्धजरतीयम्९ । तस्मादव्युत्पन्नविप्रलब्धबुद्धिषु१० व्याख्यानम् इदं शोभते । नास्मासु ये प्रमाणवृत्तमनुरुन्धामहे११ ॥ २१ ॥ यथैव फलसङ्कल्पो न कर्तव्यस्तथान्येऽपि चित्तधर्मा१२ उपदिश्यन्ते (यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । समः सिद्धावसिद्धौ च कृत्वापि न निबन्ध्यते ॥ भगवद्गीता_४.२२ ॥) यदृच्छेति१३ । यदृच्छालाभेन प्रार्थितोपनतलाभेन सन्तुष्टो१४ रागद्वेषसुखदुःखादिद्वन्द्वातीतो१५ विगतं मात्सर्यं१६ परेषु वैरबन्धो१७ यस्यासौ विमत्सरोऽभीष्टवस्तुसिद्धावसिद्धौ च समः । कर्म कृत्वापि न निबध्यते । बन्धहेतूनां१८ चित्तदोषाणाम् अभावात्१९ ॥ २२ ॥ __________ टिप्पणी १. शरीरस्थित्यथभि ल शरास्थित्यभि भिक्षाटनाशनयानादि कुर्वन्ति व २. तटपि ३. करोमीत्याभिमानहिमतस्य व ४. ... मानस्तस्त्रनीकाराय व ५. वैदिकिकर्मणि व ६. कर्मणि व ७. कर्तृत्वलिवृत्तं व कर्तृत्वनिबृत्त ल ८. लोकिकेपित्यवि ९. ... मघ जरतोयं व १०. तस्मादत्युत्पन्नविप्रलव्रवुद्धिषु व ११. ... मनुरुद्धामह व १२. तथान्योपि चतुधर्मा १३. यवृच्छेति १४. यदछाला व सन्नुट्टो व १५. ... द्वेपसुखदुःखादिद्वन्द्वातीर्ति व १६. मात्सरं व १७. वैरंवहो व १८. न घ हतूणां व वन्धहेतूणां ल १९. ..डोषाणाभावात्व ____________________________________________________________________ पृष्ठ १२२ प्रकरणोपसंहारार्थः१ श्लोकः (गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः । यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ भगवद्गीता_४.२३ ॥) गतसङ्गस्य मुक्तस्य ज्ञानावेति । गतसङ्गस्य मुक्तस्य रागादिभिर् दोषैरात्मज्ञानावस्थितचेतसो२ यज्ञाय परमात्माराधनायारभतः कर्मारभमाणस्य३ तत्समग्रम् । समित्येकीभावेऽग्रं फलं तेन४ सह प्रविलीयते५ ब्रह्मरूपं प्रतिपद्यते । कर्मापि ब्रह्मैव तत्प्रभवत्वात् । यो हि६ कर्म त्यजति७ तेन ब्र्हमैव त्यक्तं भवति । अस्मिं कर्मप्रकरणे८ सर्वासु गीतासु कर्मप्रवृत्तिरेव९ भगवता दर्शिता यस्य सर्वे समारम्भाः इत्यारभ्य । तदत्र भगवन्मतविनाशकाः केचिन्महामायाविनः सूत्रकमिव पटं कुर्वन्तः१० कर्मनिवृत्तिमेव११ वर्णयन्तो लोकं विप्रतारयन्ति ॥ २३ ॥१२ क्रियाकारकेषु सर्वेषु ब्रह्माभिगतं पश्यन् स्वयं ब्रह्मास्मीति भावितात्मा तेनैव रूपेणावस्थाय कर्म कुर्वन् ब्रह्मैव आप्नोतीति फलं दर्शयन्नाह१३ (ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ भगवद्गीता_४.२४ ॥) __________ टिप्पणी १. प्रकरर्णोपसंहारार्थः व २. मुक्तस्य गादिभिर्दोषेरात्मनावस्थितचेतसो व ३. कर्मारेभमानस्य व ४. तेत व ५. प्रलीः व ६. ... प्रभवलाघोहि व ७. त्येजते ल, व ८. कर्मकरणे व ९. गीतासुकप्तिवृत्तिरेव व १०. विनाशकरः कोथत्महामायाविनोसून्नकमिव यट कुर्वतः व ... मायाविनो सूत्रमिव पटां ल ११. निवृत्तमेव व १२. ३३ व १३. फलदर्शन्नाह व ____________________________________________________________________ पृष्ठ १२३ ब्रह्मेति । अर्प्यते समर्प्यते येन जुहूर्हस्तादिना तत्करणं कारकं ब्रह्म हविःशब्दसाहचर्याद्धव्यसेवार्पणं१ प्रतीयते । हविः सोमाज्यपयःप्रभृति हूयमानं द्रव्यम्२ । देवतामुद्दिश्य हूयत इति सम्प्रदानकारकं देवताप्याक्षिप्तैव३ । ब्रह्मैव अग्निर्ब्रह्माग्निराहवनीयः स्मार्तश्चोपासनीयस्तस्मिन्न् अधिकरणे४ स्वयं५ ब्रह्मणा कर्त्रा हुतं हवनं निर्वर्तितम् । तेनैव६ कुर्वता ब्रह्मैव गन्तव्यं प्राप्तव्यम् । ब्रह्मात्मकं कर्म ब्रह्मकर्म तस्मिं कर्मणि समाधिर्यस्यासौ७ ब्रह्मकर्मसमाधिस्तेन । पञ्चकारकग्रहणं प्रदर्शनार्थम्८ । यावान् यत्र श्रौतः स्मार्तो वा कारकग्रामस्तत्सर्वं ब्रह्मेति प्रतिपत्तव्यमिति८ । ब्रह्मैव१० समस्तः प्रपञ्चः सर्वं खल्विदं११ ब्रह्म इति श्रुतेः१२ । तत्र यः सर्वेषु विकारेषु कारणरूपं ब्रह्मानुगतं१३ पश्यति स सम्यग्दर्शी१४ । यथा शरावादिषु मृत्स्वरूपमनुगतम्१५ । न चात्र मनो ब्रह्म इतिवद्ब्रह्मदृष्ट्या कारकोपासनं१६ चोद्यते किं तु१७ तत्त्वदर्शनम् । तत्र हि युक्तमिति शब्दप्रयोगात्प्रतीकोपासनम् । अत एव सर्वात्मदर्शित्वात् ब्रह्मैव तेन गन्तव्यम् इति ब्रह्मप्राप्तिवचनं१८ युक्तम् । ननु श्रेयान् द्रव्यमयात्१९ इति ज्ञानयज्ञस्तुत्यर्थं __________ टिप्पणी १. शबृसैचयदित्यमेवार्यणं व २. ... हूप्रमान व ३. ... कारकडेवता ल ४. ... रावहनो दवेतायः स्थार्तचोपासनस्त व ... पासनस्त ल ५. रवय व ६. तेनेवं व ७. ब्रह्मात्मकं कर्मसमाधिस्तैमय च कारकग्रहणं व ८. प्रदर्शनार्थ व ९. ... पत्तव्यभि व १०. ब्रह्मेव व ११. सर्व खल्विद व १२. श्रुते व १३. ब्रह्मानुगते व १४. सम्पादशै व १५. सवादिषु ऋत्स्वरूप व १६. न चात्रप्ततो ब्रह्मेतिवहदष्य्याकरकोपामनं व १७. कितु व १८. ब्रह्मप्राप्तिवञ्चतं च १९. तनु श्रेयान्दव्यमपादिति व ____________________________________________________________________ पृष्ठ १२४ प्रकरणम्१ । केयमाकस्मिकी२ प्रतिभा । अनेकविधायकवाक्यसमूहो३ हि प्रकरणमुच्यते । ते चानेके यज्ञविशेषाः प्रतिवाक्यं ब्रह्मप्राप्त्युपाया उपदिश्यन्ते । ज्ञानज्ञापकत्वान्नानुवादः । स्तुतिश्च तेनैकेन४ श्लोकेन सिद्धेति न कृत्स्नं प्रकरणं स्तुत्यर्थम् । न च विधिमन्तरेण स्तुतिः क्वचिदर्थवती । किञ्च विद्यमानेन (गुणेन) पादकं६ तर्हि शास्त्रं न स्तुतिपरम् । द्वितीये७ च कल्पे सर्ववेदोक्तमनृतमिति९ प्रतिपद्येत । अनिष्टं चैतत्१० । अन्ये तु११ ब्रह्मार्पणमित्योङ्कारे ब्रह्मोपासनमित्युपदि(श्यते)१२ इति वदन्ति । तेनेयं त्रयी१३ विद्या वर्तते । एतस्यैवाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ इति श्रुतिः१४ किलैतमर्थं दर्शयतीति तद् असत्१५ । उद्गीथावयवस्यौङ्कारस्य१६ वर्णात्मकस्योपासनं तत्र विधीयते श्रुतत्वान्न ब्रह्मोपासनमिति स्थितम् । तेन इयम् इत्येतस्यैव स्तुत्यर्थमिति व्याख्यातमित्यलं प्रसङ्गेन ॥ २४ ॥ इदानीं यज्ञभेदाः प्रदर्श्यन्ते१७ । क्वचित्कस्यचिदधिकारः१८ सम्भवति __________ टिप्पणी १. ज्ञानयज्ञास्तुत्यर्थमकणं व २. ... माकस्मिको व ३. ... वाक्यसमुहो व ४. तेनेकेन व ५. स्तुतिशहोरिवदविधमानेन व ६. यर्था प्रति व ७. द्वितोये व ८. संर्व ... व ९. ... मवृतमिति व १०. ... निष्टचेतत्व ११. अत्ये व १२. ब्रह्मापणमित्याङ्करिब्रह्मोपासनमित्युपदिः व ब्रह्मोपासनमित्युपदि ल १३. त्रयो व १४. एतस्यैवाक्षरस्यापदित्या इति श्रुतेः व एतस्यैवाक्षरस्यापदित्या इति ल १५. ततसत्व १६. उदीथावयवस्योकारस्य व १७. पसभेदाः प्रदंर्श्यते व १८. ... कार व ____________________________________________________________________ पृष्ठ १२५ (द्वैवमेवापरे यज्ञं योगिनः पर्युपासते । ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ भगवद्गीता_४.२५ ॥) दैवमिति । देवेषु भवं यज्ञं१ दैवं हिरण्यगर्भोपासनम् आदित्याद्युपासनं च२ । तथा च ब्राह्मणम् विद्यया देवलोको३ देवो भूत्वा देवानप्येति इति । कर्मयोगिनः पर्युपासते । देवादिभावेऽपि ज्ञानोत्पत्तिरिष्यते४ । तद्यो यो देवानां प्रत्यबुध्यत५ स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् इति श्रुतेः । ब्रह्मैवाग्निस्तस्मिन् यज्ञं६ स्वमात्मानमन्तःकरणं७ विवक्षितम् । न जीवः८ । यत्किञ्चिज्ज्ञेयं९ जानातीति यज्ञ इत्यात्मवचनोऽत्र निर्दिश्यते१० । यज्ञेनात्मनात्मसमीपवर्तिना११ मनसोपजुह्वति१२ । ब्रह्मात्मनोर् एकीकरणं१३ विवक्षितम् ॥ २५ ॥ (श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन् विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ भगवद्गीता_४.२६ ॥) श्तोरेति । अन्ये गुरुकुलवासिनो नैष्ठिका१४ ब्रह्मचारिणः । संयम एवाग्निः संयमाग्निः । प्रतीन्द्रियं१५ संयमभेदाद् बहुवचनम्१६ । तेषु श्रोत्रादीनि जुह्वति१७ । ब्रह्मचर्येण कालं क्षपयन्तीत्यर्थः । शब्दादीन् विषयानन्ये गृहस्थाः शास्त्राभ्यनुज्ञानाद् इन्द्रियाग्निषु१८ जुह्वति१९ योजयन्ति । तथा च स्मृतिः नित्यं सुगन्धस्नानशीलः इति ॥ २६ ॥ __________ टिप्पणी १. भवयेज्ञं व २. ... मादित्याकपासनं च व ३. विधर्यादवलोको व ४. ... रिव्यते व ५. तथो देवानां प्रसबुद्ध्यत व ६. यज्ञं व ७. स्वमात्मकरणं व ८. विपक्षिडनं व ९. ज्जेयं व १०. र्निर्दिश्यते व ११. ... वन्तिना व १२. ... जुहूति व १३. ... रेकेकरणं व १४. गुरकुलवासिनो नेष्टिका व १५. प्रतिद्रियं व १६. बहुवचने व १७. जुहुतिं १८. शास्त्राभ्यनुज्ञानाडिन्द्रीयाग्निषु व १९. जुह्वतो व ____________________________________________________________________ पृष्ठ १२६ अपरे तु१ (सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ भगवद्गीता_४.२७ ॥) सर्वाणीति । सर्वाणीन्द्रियकर्माणि२ बुद्धीन्द्रियाणां कर्माणि रूपादिग्रहणानि । कर्मेन्द्रियाणां च वचनाद् आनविहरणोत्सर्गानन्दलक्षणानि३ । प्राणः पञ्च वायवः । तेषां कर्माणि । बहिर्निर्गमनं४ प्राणकर्म । अधस्तादवनयनमपानकर्म५ । व्यायमनं व्यानकर्म । आकुञ्चनप्रसारणाद्यशितपीतस्य६ समानयनं७ समानकर्म । ऊर्ध्वनयनमुदानकर्म । आत्मनि संयम एवाग्निस्तस्मिन् जुह्वति८ । सम्यग्ज्ञानदोपिते९ योऽयं ज्ञानप्रबन्धः क्रियाविस्तारश् चात्मप्रबन्धादात्मन्येवासौ प्रलीयत१० इति मन्यमानास्तत्कृतेन गुणदोषेण प्रत्यहं न लिप्यन्त११ इति ॥ २७ ॥ अमी चापरे (द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ भगवद्गीता_४.२८ ॥) द्रव्येति । द्रव्यैः सोमाज्यपयःप्रभृतिभिर्निर्वर्त्यो यज्ञो येषां ते द्रव्ययज्ञाः । तपः कृच्छ्रचान्द्रायणादि यजन्ते१२ तपोयज्ञाः१३ । __________ टिप्पणी १. अपरे तुः २६ व ... तु २६ ल २. सर्वाणान्द्रिय व ३. च चनादानतिदरणोत्सर्गानन्दलक्षणानि व ४. वहिनिर्गमतं व ५. कर्मावस्तादषनयन ल कर्मावस्तादषनायन व ६. ... द्यशीतपीतस्य ल ७. समातपन व ८. तस्मिं जुह्वन्ति व ९. सम्यम्रादिपिते व १०. योयं व्यानप्रतिबन्धः कियाविस्तरश्चात्मप्रवन्धादात्मन्येवासौ प्रलीषत व ११. दोषेणा प्रहवं लिप्यन्त व १२. सोमात्यपयः प्रभृतिभिनिंवन्त्यो ज्ञेये प्राते द्रव्य यतरः तपः कृछद्यान्द्रयणादि व १३. ... यज्ञः ____________________________________________________________________ पृष्ठ १२७ प्रत्याहारस्तथा ध्यानं प्राणायामथो धारणा । तर्कश्चैव१ समाधिश्च षडङ्गो२ योग उच्यते३ ॥ स एव यज्ञो येषां ते योगयज्ञाः । स्वाध्याययज्ञो वेदाभ्यासः । ज्ञानयज्ञो४ वेदार्थज्ञानं यज्ञो येषां ते ज्ञानयज्ञाः । मीमांसा शारीरकादिव्याख्यातारो यतयो यत्नवन्तः५ संशितव्रता अखण्डितव्रताः ॥ २८ ॥ अमी चापरे (अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ॥ भगवद्गीता_४.२९ ॥) अपानेति । अपाने पूरणवृत्तौ प्राणं रेचकवृत्तिं जुह्वति । मस्तकमध्यवर्तिनी६ सुषुम्णा नाडी । तद्द्वारेण बाह्यं७ वायुमन्तः प्रवेशयन्ति । आदित्यमण्डलादारभ्य हृदये चित्तप्रवेशानुसारी८ वायुः प्रवेशितो९ भवति । अथ विपर्ययेण प्राणे१० रेचकवृत्तौ११ पूरणवृत्तिं यावदादित्यस्तावच्चित्तवृत्तिमूर्ध्वामुद्गमयन्ति१२ । सोऽयं ब्रह्मपथो योगिनामुत्क्रान्तिकाले१३ सम्यगभ्यस्त उपयुज्यते । प्राणापानगती प्राणापानवृत्ती१४ रुद्ध्वा निरुद्ध्य यतिवच्छरीरं१५ कुम्भकवृत्त्या पूरयित्वा कुम्भकप्राणायाम् अप्रायणाः१६ ॥ २९ ॥ __________ टिप्पणी १. ... रणर्तकश्चैव व २. षडेङ्गो व ३. नुच्यते ४. सानयज्ञो वेदार्थयज्ञो येषां ते व ५. व्याख्यातोरो ... यत्प्रवन्तः व ६. रेचकवृन्तिजुद्वमिसमकमध्यवर्तिनी व ७. वास्वं व ८. दारम्यतृदयेवित प्रवेशानुसारे व ९. मवेशितो व १०. प्राणै व ११. वृत्तौ व १२. ... वृत्तियावदादिस्तावचित्त वृत्तिमूर्द्यामुभ्दमायान्ति व १३. ... मुव्रक्ष्क्रान्तिकाले व १४. प्राणायामगती ... वृत्ती व १५. निरुद्ध्यतिवच्छरीरं ल निरुद्धावृत्तिवच्छारीरं व १६. ... कुभकप्राणायामपरायणा २९ व ____________________________________________________________________ पृष्ठ १२८ उत्तरेण गीतार्थः परिसमाप्यते (अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ भगवद्गीता_४.३० ॥) अपर इति अपरे नियताहाराः । उदरस्यार्धमन्नेन१ पूरयेत् तृतीयं२ भागमुदकेन चतुर्थो वायुसञ्चारार्थः इति योगशास्त्रे दर्शितम् । ते कुम्भकेनावस्थिताः३ प्राणान् प्राणेषु जुह्वति । सर्वे प्राणापानादयस्तस्यामवस्थायाम् एकीभवन्तीत्यर्थः४ । सर्वेऽप्येते यज्ञविदः पूर्वोक्तास्तेनैव (यज्ञेन) क्षपितं कल्मषं पापं५ येषां ते तथोक्ताः ॥ ३० ॥ (यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ भगवद्गीता_४.३१ ॥) यज्ञेति । यज्ञार्थं६ विनियुक्तं द्रव्यम् । तच्छिष्टं तद् एवामृतं भुञ्जत इति यज्ञशिष्टामृतभुजो यथासम्भवं यान्ति प्राप्नुवन्ति ब्रह्म सनातनं पुराणम् । साक्षात्पारम्पर्येण५ (वा) फलाकाङ्क्षिभिः क्रियमाणा ब्रह्मप्राप्तिहेतवो भवन्ति८ । यः पुनरयज्ञस्तस्य नायं लोकोऽस्ति । कुतोऽन्यः परलोक९ इति सङ्क्षेपः ॥ ३१ ॥ (एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान् विद्धि तान् सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ भगवद्गीता_४.३२ ॥) एवमिति । एवमुक्तेन प्रकारेण ब्रह्मणो मुखे ब्रह्म वेदः तस्य१० मुखं द्वारमुपलब्धिस्थानं११ वेदवाक्येषु वितताः प्रथिताः । __________ टिप्पणी १. उदस्यार्त्थेधर्मशनेन व उदरस्यावमशनेन ल २. तृतीर्यभाग व ३. कुम्भकेमावस्थिताः व ४. ... स्थायामेकेभवन्तीत्यर्थः व ५. पाप ६. यर्ज्ञति यज्ञार्थ व ७. पारयर्व्येण व ८. ब्रह्मप्राभिहेतवो भर्वति व ९. प लोक व १०. धेदस्त व ११. ... छरमुपलव्रिस्थानं व ____________________________________________________________________ पृष्ठ १२९ एते यज्ञा१ वैदिका एव । एते न पुरुषबुद्धिप्रभवा इत्यभिप्रायः२ । कर्मजान् कायिकवाचिकमानसजानेवं ज्ञानं३ कृत्वा विमोक्ष्यसे संसारात् । कुरु कर्मैव इति कर्तव्यता(या)ः प्रतिश्लोकम् अधिकृतत्वात्४ कृत्वेति नोक्तम् ॥ ३२ ॥ यदि तर्हि यज्ञैरेव मोक्षं प्राप्यते किमात्मज्ञानेनेत्याशङ्क्याम् आह५ (श्रेयान् द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ भगवद्गीता_४.३३ ॥) श्रेयानिति । पूर्वत्र केवलादेव ज्ञानान्मोक्षो नास्ति । किं तर्हि । कर्मसहितादित्युक्तम् न कर्मणामनारम्भाद्६ इति आरभ्य । अत्र पुनः केवलादेव कर्मणो मोक्षः स्यादित्याशङ्क्य निरस्यते । अस्ति चेदमपि दर्शनम् । याज्ञिकानां केषाञ्चिन्मोक्षो नाम स्वर्ग एव तारतम्यावस्थितः७ । स च कर्मसाध्यो८ नान्योऽस्तीत्य् आशङ्काबीजं९ चेदम् । एवं ज्ञात्वा विमोक्ष्यस१० इति । श्रेयान् प्रशस्यतरो११ द्रव्यमयाद् अग्निष्टोमादेर्ज्ञानयज्ञः । कुतः । सर्वं हि ज्ञाने सति परिसमाप्यतेऽपवर्गाय समर्थं१२ भवतीत्यर्थः । तथा च श्रुतिः स य आत्मानमेव लोकमुपास्ते हास्य कर्म क्षीयते१३ इति । ज्ञानसहितं कर्माक्षयफलत्वान्न क्षीयत इत्युच्यते । स्वरूपतो१४ हि क्षणिकं कर्म । तथा यो वा एतदक्षरमविदित्वा __________ टिप्पणी १. यज्ञ व २. ... प्रभावा इसभिप्रायः व ३. ज्ञान व ४. कुरु कमैवन्ति कर्तव्यताः प्रतिश्लोकमवित्कृतव्यात्व ५. ... ज्ञामेनेत्याशङ्कयामाह व ६. कर्मणाननारम्भा व ७. निरस्यस्तिचेदपिदृर्शनयाज्ञकानां केषाञ्चित्मोक्षोनामस्वर्ग एव तातम्यावस्थितः व ८. ... साध्ये व ९. ... शङ्कबीजं व १०. पिमोक्षस इति व ११. प्रशस्यतरी व १२. समर्थ व १३. कर्मा क्षीयत व १४. सरूपतो व ____________________________________________________________________ पृष्ठ १३० गार्ग्यस्मल्लोके जुहोति१ ददाति तपस्यत्यपि बहूनि२ वर्षसहस्राणि अन्तवानेवास्य स लोको भवति इति ॥ ३३ ॥ तत्पुनरात्मज्ञानमित्थं विजानीहीत्युपदिशति३ (तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ भगवद्गीता_४.३४ ॥) तदिति४ । प्रकर्षे(ण) निपत्य पातः प्रणिपातस्तेन दीर्घनमस्कारादिना च तज्जानीहि५ । परिप्रश्नः किमात्मतत्त्वं का विद्या६ का चाविद्येति । देवा शुश्रूषा । ज्ञानिनोऽपि सन्तः केचिदतत्त्वदर्शिनो८ भवन्ति । अतो विशेषयति९ तत्त्वदर्शिन इति । साक्षात्कृतात्मसत्तत्त्वा१० इत्यर्थः ॥ ३४ ॥ कीदृशं तज्ज्ञानमिति११ (यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव । येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ भगवद्गीता_४.३५ ॥) यदिति । यज्ज्ञात्वाधिगम्य१२ पूर्ववन्मोहं न यास्यसि । येन ज्ञानेन भूता(न्यशेषेण) कार्त्स्येन द्रक्ष्यस्यात्मन्यथो मयि परमेश्वरे१३ । यथा समुद्रे सर्वा आपः प्रविश्यैकीभवन्ति तथात्मनि सर्वा(दि)कारणे सर्वोऽयं प्रपञ्चः१४ प्रविश्यैकीभवतीत्यर्थः । कार्यकारणयोर् __________ टिप्पणी १. तथा एवा ये तदक्षरभविदित्वा गार्ग्यस्मल्लोकेतुहोति व २. वकूनि व ३. निमित्तं व तत्पुनरात्मज्ञानमित्तं विजाभीहित्युपदीशति व ४. तर्दिति व ५. त जानीहि व ६. परिप्रश्नः किमात्मतत्व वा विधा व ७. जानिनोपि व ८. केचिरादत्त्वदर्शितो व ९. विशेषयन्ति व १०. साक्षात्कृतात्मसत्त्वा व साक्षात्कृतात्मसतत्त्वा ल ११. कीद्वशन्तेज्ञानमिति व १२. यज्ञ्ज्ञात्वाधिगम्य व १३. ज्ञायेठभूजाकार्त्स्येन द्रव्यस्यात्मन्यथो अपि परमेश्वरो व १४. ... अपि ... ल १५. सर्गेय प्रयञ्चः व ____________________________________________________________________ पृष्ठ १३१ अभेदात्सुवर्णरुचकादिवत्१ । ईदृशं ज्ञानमपरे उपदेक्ष्यन्तीति२ ॥ ३५ ॥ ज्ञानमाहात्म्यमधुना३ कथ्यते (अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः । सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥ भगवद्गीता_४.३६ ॥) अपीति । यद्यपि पापेभ्यः४ पुरुषेभ्यः पापकृत्तमोऽसि सर्वं वृजिनं पापं ज्ञानमेव प्लवस्तरङ्गस्तेन५ सम्यक्तरिष्यसि ॥ ३६ ॥ तत्र दृष्टान्तमाह (यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ भगवद्गीता_४.३७ ॥) यथेति । यथैधांसीन्धनानि६ सम्यगिद्धोऽग्निर्भस्मसात्कुरुते७ भस्मीभावं नयति तथा ज्ञानाग्निः सर्वकर्माणि यान्य् आरब्धफलानि८ जन्मान्तरकृतानि भविष्यच्छरीरहेतुत्वेनावस्थितानि९ यानि चास्मिं जन्मनि प्राग्ज्ञानोत्पत्तेः१० कृतानि तानि११ भस्मीकरोति । यानि पुनरारब्धफलानि१२ तेषामुपभोगेनैव क्षयः । तथा च श्रुतिः तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये१३ इति ॥ ३७ ॥ __________ टिप्पणी १. सुवर्णरुदकादिव ल २. कीदृशं ज्ञानमुपदेक्ष्यन्नीति ल वृक्षं ज्ञानमुपदेत्युतीति व ३. ज्ञानसाहात्म्यमधुना व ४. यवपिपामेभ्यः व ५. ज्ञानमेव हम सारङ्कस्तेन व ६. यथेधासीधनानि व ७. सम्यगिछेग्निर्भस्मसात्कुरुते व ८. यान्यनारभ्वफलानि व ९. भविष्यछरीरे ... हेतुत्वेनावस्थितानि व १०. ज्ञानोत्पत्तेः व ११. तामि व १२. पुनरारध्वकलानि व १३. विमक्ष्यतिथ व विमोक्ष्यति थ संपत्स्य इति ल ____________________________________________________________________ पृष्ठ १३२ यतश्चैवम्१ (न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्धिः कालेनात्मनि विन्दति ॥ भगवद्गीता_४.३८ ॥) नहीति । न हि ज्ञानेन सदृशं पवित्रं पावनमिह शास्त्रीये ऽर्थे२ विद्यते । निर्धारणे सप्तमी । तच्च ज्ञानं स्वयमित्य् आत्मवाची३ । कर्मयोगेन संसिद्धः कालेन४ परिपाकहेतुनात्मनि स्वबुद्धावेव लभते ॥ ३८ ॥ प्रणिपातादि बाह्यनिमित्तमुक्तम्५ । इदानीमाभ्यन्तरं६ निमित्तमाह (श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः । ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ॥ भगवद्गीता_४.३९ ॥) श्रद्धावानिति । श्रद्धास्तिक्यबुद्धिरादरप्रत्ययस्तद्वांस् तत्परश्च श्रवणमननादिषु व्यापृतः । कश्च व्याप्रियते । संयतेन्द्रियः७ । स लभते । तच्च लब्ध्वा८ परां शान्तिं मुक्तिम् अचिरेण क्षिप्रं चाधिगच्छति९ ॥ ३९ ॥ श्रद्धावानित्युक्तम् । तस्य प्रत्युदाहरणार्थमाह१० (अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ भगवद्गीता_४.४० ॥) अज्ञेति । अज्ञोऽनात्मवादी११ यथोक्तेऽर्थे श्रद्धामकुर्वन्न् अश्रद्दधानो भवति वा मोक्षो न वेति१२ संशयात्मा स विनश्यति । अज्ञानात् । __________ टिप्पणी १. यतच्च्येवं व २. शास्त्रीयेथे व ३. स्वधमित्यात्मवाची व ४. कालेव व ५. ... वास्वनिमित्रः मुक्तं व ६. इदानीमारभ्यन्तर व ७. व्याएतः व्याप्रियतेन्द्रियः व ८. तश्च लद्धा व ९. वाधिगच्छति व १०. प्रत्युदाहारणार्थमाह व ११. अज्ञेनात्मवार्दी व १२. श्रद्धमकुर्वन्तः श्रद्धधानो भडति मोक्षेन ____________________________________________________________________ पृष्ठ १३३ संशयः पापीयानित्याह नायं१ लोकोऽस्ति सर्वप्राणिसाधारणः परो दूरतः । सुखं च तस्य नास्तीति । इदमर्थादुक्तमविद्वान्२ संशयात्मा च कर्मभिर्बध्यत इति ॥ ४० ॥ कं पुनर्न कर्माणि निबध्नन्ति तदाह३ (योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् । आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥ भगवद्गीता_४.४१ ॥) योगेति४ । योगेन ब्रह्मार्पणन्यायेन परमात्मनि सन्न्यस्तं सम्यग् न्यस्तमेकीकृतं कर्म येनात्मज्ञानेन५ च (सम्यक्) छिन्नः संशयो येन६ तमात्मवन्तमप्रमादिनं न कर्माणि निबध्नन्ति७ ॥ ४१ ॥ प्रकरणार्थमुपसंहरति (तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः । छित्त्वैनं संशयं योगमातिष्ठोऽत्तिष्ठ भारत ॥ भगवद्गीता_४.४२ ॥) तस्मादिति । तस्मादज्ञानसम्भूतमज्ञानादुत्पन्नं हृदये८ स्थितं संशयं ज्ञानमेवासिस्तेन छित्त्वा निरस्य९ योगमातिष्ठ ब्रह्मार्पणन्यायेन कर्मानुतिष्ठ । उत्थिष्ठ च । किमास्से विषण्णमना१० इवेति । इति श्रीभगवद्भास्करकृते११ गीताभाष्ये चतुर्थोऽध्यायः ॥ ४ ॥ __________ टिप्पणी १. पापीयानीत्याह नाये व २. विद्वात् ३. किं पुनरवध्रीतेत्याह ४० ल किं पुनर्ननध्नीत्येत्याह ४० व ४. योगीति व ५. सन्न्यस्तसम्पत्त्यास्तमेकेक्वतं फ्येतात्म व ६. यन्न ल, व ७. कमाणि बध्नन्ति व ८. तृदये व ९. मिरस्ययिगमानिष्ट व १०. विषस्ममना व ११. इति श्रीभगवद्गीतामभगवद्द्भास्कक्र्टे व ____________________________________________________________________ पृष्ठ १३४ अथ पञ्चमोऽध्यायः । मयि सर्वाणि कर्माणि इत्यनेन कर्तुः कृतानां कर्मणाम् ईश्वरे सन्न्यास उक्तः । अनन्तरम् ब्रह्मार्पणम्१ इत्यारभ्य ब्रह्मैव कर्तृ कारकानन्तरं२ कर्म च इत्युक्तम् । अनयोः कर्मसन्न्यासकर्मयोगयोर्भेदाभेदज्ञानविषययोः परस्परविरोधाद् एकपुरुषानुष्ठेयत्वानुपपत्तौ३ कतरदनयोः प्रशस्ततरमिति४ प्रष्टुमर्जुन उवाच (सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि । यः श्रेयानेतयोरेकस्तं मे ब्रूहि विनिश्चितम् ॥ भगवद्गीता_५.१ ॥) सन्न्यासमिति । मयि सर्वाणि इति सन्न्यासं कथयसि ब्रह्मार्पणम् योगसन्न्यस्तकर्मणाम् योगमातिष्ठ इति कर्मयोगम् । शेषं निगदव्याख्यातम् ॥ १ ॥ श्रीभगवानुवाच५ (सन्न्यासः कर्मयोगश्च नैःश्रेयसकरावुभौ । तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्.यते ॥ भगवद्गीता_५.२ ॥) सन्न्यास इति । मयि सर्वाणि इति य उक्तः६ सन्न्यासो यश्चायम् अनन्तरोक्तः कर्मयोगस्तावुभौ७ नैःश्रेयसकरौ । निःश्रेयसमेव नैःश्रेयसम् । अयं तु विशेषः कर्मसन्न्यासात् कर्मयोगो विशिष्यते । कथम् । द्वैतविषयो८ हि सन्न्यासः । __________ टिप्पणी १. उक्तोतन्त्रं ब्रह्मार्यणं व २. ... कारकानतरं य ३. विषयोः ... पुरुषानुष्टेयत्वातुपत्तौ व ४. प्रशस्यतरमिहते व ५. भगवाच व ६. मपि सर्व्वार्णातिय उक्तः व ७. कर्मयागस्ता उभौ व ८. कथं त विषयो व ____________________________________________________________________ पृष्ठ १३५ कर्मयोगः पुनरद्वैतविषयः । साक्षात्सम्यग्दर्शनाश्रयो१ ब्रह्मैवेदं सर्वं कर्त्रादि सर्वं तं परादाद्यो ऽन्यत्रात्मनः सर्वं वेद२ इति श्रुतेः । अतः कर्मयोगो विशिष्यते३ ॥ २ ॥ तत्र सन्न्यासलक्षणं तावदुपदिश्यते (ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महावाहो सुखं वन्धाद्विमुच्यते ॥ भगवद्गीता_५.३ ॥) ज्ञेय इति । यो हि परमहितं न द्वेष्टि न च हितं फलमाकङ्क्षति । कर्तव्यमेवेति नित्यकर्म४ कृत्वा तत्फलमीश्वरे५ समर्पयति स नित्यसन्न्यासीति बोद्धव्यः६ । स चेत्थंलक्षणः कर्मस्थोऽपि निर्द्वन्द्वो रागद्वषादिरहितः सुखमनायासेनैव७ संसारबन्धान् मुच्यते८ मोक्षं९ प्राप्नोतीत्यर्थः ॥ ३ ॥ ननु सन्न्यासकर्मयोगयोर्नैःश्रेयसफलत्वमयुक्तम्१० । स्वरूपभेदवत्फलभेदो युक्त इति । इमामाशङ्कामपनेतुमाह (साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः । एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ भगवद्गीता_५.४ ॥) साङ्ख्येति । ननु११ च सन्न्यासयोगौ१२ प्रस्तुतौ । किमिदमवान्तरमप्रस्तुतमुपन्यस्यते१३ । नायं दोषः । तावेव सन्न्यासयोगौ साङ्ख्ययोगशब्दाभ्यां निर्दिष्टौ । योगशब्दस् तावत्प्रकृतं योगं न __________ टिप्पणी १. ... विषयः क्षात्सम्यग्व २. सर्व ... द्योत्पत्रात्मनः सर्ववेद व ३. विष्यते व ४. निह्मकर्म व ५. तत्फलमीश्वरे व ६. सन्न्यासोति बोधव्य व ७. सुखमतायसेनैव व ८. बन्धात्युच्यते व ९. मोक्ष व १०. ... योगयेनिः श्रैषसफलत्वमयुक्तं व ११. न तुव १२. ... योग्यै व १३.कि मदं शब्दातरम प्र व ____________________________________________________________________ पृष्ठ १३६ जहाति । साङ्ख्यशब्दोऽपि सन्न्यासं प्रत्याययति१ भेददर्शनसामान्यात् । यथा (य) एवं विद्वान् पौर्णमासीं यजते । य एवं विद्वानम् आवास्याम् इति पौर्णमास्यमावास्याशब्दाभ्यां प्रस्तुत्य२ शब्दान्तरेण तयोरुपादानं क्रियते दर्शपूर्णमासाभ्यां ३ यजते इति । तत्र दर्शशब्दोऽमावास्यावचनः । तद्वदत्र४ साङ्ख्यशब्दः५ सन्न्यासविवक्षया प्रयुक्त इत्यविरोधः । कृत्वा कर्माणीश्वरे यः६ समर्पयति स सन्न्यासी । साङ्ख्यो न कापिलो निरग्निर्निष्क्रियश्च७ इति साङ्ख्यशब्दोपादानप्रयोजन(म्) । तौ साङ्ख्ययोगावित्यर्थः । पृथक्फलौ बाला८ अविवेकिनो वदन्ति । वस्तुतस्तु एकमप्यास्थितः सम्यगुभयोर्विन्दते९ फलम् । सन्न्यासिनापि भेदेन कर्म कृत्वा समर्पणकाले भेददर्शनमेवाश्रीयते । सर्वं कर्म ब्रह्मप्रभवं तद्ब्रह्मस्वरूपमेव१० प्रतिपद्यत इत्येवं समर्पणात् ॥ ४ ॥ अवस्थामात्रमत्र११ भिद्यते । सन्न्यासः पूर्वावस्था । घटमानयोगित्वात्कर्मयोगस्त्वनन्तरावस्था ज्ञानपरिपाकात्१२ । तच्च (यदेव साङ्ख्याः पश्यन्ति योगैस्तदनुगम्यते । एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ भगवद्गीता_५.५ ॥) यदेवेति१३ । यदेव साङ्ख्याः१४ पश्यन्ति ब्रह्म योगैस्तदनुगम्यते१५ । तदेव चिन्त्यत इत्यर्थः । एवं च परमार्थत एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति । तार्किकाणां तु कापिलाः१६ साङ्ख्याः । तेषामन्यद्दर्शनम् । योगा नैयायिकाः प्रसिद्धास् तेषाम् अन्यद्दर्शनमिति । __________ टिप्पणी १. सम्प्रत्त्याययति व २. भेददर्शन ... शब्दाभ्यां नास्ति व कोषे ३. क्रियने दर्शपूर्णामासाभ्यां व ४. शब्दोमावास्यावचनस्तदूदत्र व ५. ... शब्दाः व ६. कर्माणीश्वरीयः व ७. निश्चयश्च ल ष्ठफफलौ ८. र्बला व ९. सम्यगुभयोर्विदते व १०. तद्धस्तस्वरूपं व ११. अवस्थामाव्र व १२. परियाक्यन्नु व १३. यद्ददेवेति व १४. साङ्ख्यः व १५. ब्राह्मयोकैस्तदमुगम्यते व १६. कापिलः व ____________________________________________________________________ पृष्ठ १३७ न च ते साङ्ख्या योगाश्च१ न च तार्किकाः सम्यक्पश्यन्तीति भगवतोऽभिप्रायः ॥ ५ ॥ तयोरेकत्वमुपपादयितुमाह२ (सन्न्यासस्तु महाबाहो दुःकमाप्तुमयोगतः । योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ भगवद्गीता_५.६ ॥) सन्न्यासेति । सन्न्यास इति सन्न्यासी चेत्यर्थः । सन्न्यास३ इति प्रथमाविभक्तेर्निर्देशान्नासावाप्तव्यः४ । तथा हि सन्न्यासमिति द्वितीया स्यात् । अत्र५ सन्न्यासशब्देन सन्न्यासी लक्ष्यते । अत्र अर्शादित्वान्मत्वर्थीयोऽकारः६ । यथा पापेभ्य इति तद्वानुच्यते७ । सन्न्यासी ब्रह्मप्राप्तुमयोगतो दुःखं (प्राप्तुं) शक्नुयात् । दुःखमिति क्रियाविशेषणम् । क्लिष्टतरमित्यर्थः । योगेनाभेददर्शनेन युक्तो मुनिः८ सन्न्यासी न चिरेण ब्रह्माधिगच्छति । तस्मात्सोऽपि समर्पणवेलायामभेददर्शनस्थ९ इत्युपपन्नं समानफलत्वम्१० ॥ ६ ॥ यतः सन्न्यासी योगमासाद्य ब्रह्म प्रतिपद्यते नान्यथा । अतो योगस्य११ यदुक्तं विशिष्टत्वं तदुपपन्नमित्युपसंहरति (योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः । सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ भगवद्गीता_५.७ ॥) योगेति । योगेन युक्तोऽद्वैतदर्शनेऽवस्थितो१२ विशुद्धात्मा निर्मलीकृतबुद्धिर्विजितात्मा१३ जितमनोवृत्तिरत एव जितेन्द्रियः१४ __________ टिप्पणी १. र्साख्ययोगश्व व २. प्राय ५ तयारेक व ३. सत्र्य स व ४. ... विधभक्तेनिर्देगात्रासावाप्रव्यस्त व ५. अथ तत्र ल्व ६. मन्वथीयो व ७. तद्यनुच्यते व ८. सन्न्यासी ब्रह्म ... मुनिः अंशोऽयं वकोषे नास्ति ९. ... वेलामभेदद्दर्शन्स्था व १०. समानफलत्वं व ११. तोगस्य व १२. ... द्वेते दर्शने व १३. ... शुद्धिर्विजितात्मा व १४. र्जिर्तद्रियः व ____________________________________________________________________ पृष्ठ १३८ सर्वभूतानामात्मभूत१ आत्मा यस्य सोऽयं कुर्वन्नपि२ न लिप्यते । कर्मापि ब्रह्मरूपेण भाव्यमानममृतत्वाय कल्पते । न हि तत्र लेपशक्तिरस्तीति ॥ ७ ॥ वैदिकादन्येष्वपि प्रमादकृतेषु३ कर्मस्ववश्यंभाविषु४ (नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् । पश्यच्छृण्वन् स्पृशं जिघ्रन् भुञ्जन् गच्छं छ्वसन् स्वपन् ॥ भगवद्गीता_५.८ ॥ प्रलपन् विसृजन् गृह्णन्नुन्मिषन्निमिषन्नपि । इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ भगवद्गीता_५.९ ॥) नैवेति । नैव किञ्चित्करोमीति५ युक्तो योगी मन्येत तत्त्ववित् । तेषां ब्रह्मकार्यत्वाल्लेपदोषापनुत्तये । कानि पुनस्तानि । पश्यन्नित्यादि । प्राणेन्द्रियव्यापारोऽत्र६ निर्दिश्यते । पश्यन्निति७ बुद्धिव्यापारः । बुद्ध्या पर्यालोचयन्नित्यर्थः । शृण्वन्निति श्रोत्रयोः । स्पृशन्निति त्वगिन्द्रियस्य । जिघ्रन्निति८ घ्राणेन्द्रियस्य । भुञ्जन्निति९ रसनेन्द्रियस्य । गच्छन्निति१० पादयोः । श्वसन्निति प्राणस्य । स्वपन्निति११ मनसः । प्रलपन्निति१२ वागिन्द्रियस्य । विसृजन्निति१३ पायूपस्थयोर्व्यापारः । गृह्णन्निति हस्तयोः । उन्मेषनिमेषौ१४ नेत्रयोः । चित्तं धारयेद्युक्तो मन्येत इत्य् अस्यार्थे धारयेदिति१५ निर्दिष्टः ॥ ८ ॥ अत्र केचिदगृह्यमाणकारणं१६ सर्वकर्मत्यागं बहुशः पुरस्ताद् __________ टिप्पणी १. भूतातासान्मभूत व २. सोयक्तुर्वन्वापि व ३. प्रसादकृतेषु व ४. माविष व ५. किंवित्करोमि व ६. पश्यशन्नितित्वान्नित्यादि प्राणेदियया व ७. परश्यान्निति व ८. जिन्नन्निति व ९. भुञ्जत्रि व १०. गछनीति व ११. प्राणास्यास्वयन्निति व १२. मलयन्निति १३. विसृजन्नि व १४. ... मेषमनिमेष व १५. ... स्याथेधारयदिति व १६. केचिन्दह्यमाणकारण व ____________________________________________________________________ पृष्ठ १३९ अस्माभिर्निरस्तमपि शिष्टविगर्हणभयाच्छास्त्रार्थतया सम्पादयितुं तु समीहन्ते । कष्टमहो यत्तपस्विनः प्रथमम् अश्रेयस्करे वर्त्मनि१ केनचित्प्रलोभ्य प्रवर्तिताः पश्चात् परिदूयमानहृदया२ युक्त्याभासैस्तदेव३ समर्थयितुं यतन्ते नासद्ग्रहं विमुञ्चन्ति । तानत्र पृच्छामः४ केन प्रमाणेन सर्वत्यागः प्रतिज्ञायत इति । यदि वचनतस्तन्नास्ति । प्रत्युत तृतीयचतुर्थयोः५ कर्मकर्तव्यतैवोक्ता६ । नियतं कुरु कर्म त्वम् इति इत्यादिना विद्वान् युक्तः समाचरन्८ इति च विद्वदविदुषोः कर्मोक्तं स्वार्थं परार्थं वा९ । अथ न्यायतः सोऽपि नास्ति । कथम् । यदि तावदात्मज्ञानकर्मयोगयोर्विरोधात्१० कर्मानुपपत्तिरुच्यते११ मिथ्याज्ञानहेतुको हि कर्मयोगः । तच्च मिथ्याज्ञानं विद्यया निरस्तम्१२ कुरु क्रमप्रवृत्तिः इति ॥ ९ ॥ यद्येवं१३ लौकिकवैदिककर्मणोर्युगपन्निवृत्तिः१४ प्रसज्यते मिथ्याज्ञानभावस्याविशेषात्१५ । ततश्च शौचाचमनभिक्षाटनादीनामप्यभावः१६ स्यात् । एकहेतुनिबन्धनानां१७ सह वा प्रवृत्तिः सह वा निवृत्तिर्नान्या गतिरस्ति१८ । कस्य वा शौचम्१९ । नात्मनो नित्यशुद्धत्वात् । न शरीरस्य ममेदमिति सम्बन्धाभावात्२० । __________ टिप्पणी १. प्रथमश्रेयस्करे कर्मनि व २. ... त्वदया व ३. युत्त्याभमैस्त व तदैव ल ४. षृछामः व ५. ... चतुर्थयो व ६. ... कर्तव्यतेवोक्ता ल्य ७. नियत्त्वं ल नियत्व व ८. सम्रचरन्निति व ९. विद्वदविदुयोः कर्मक्रल्पार्थपरार्थे वा व १०. ज्ञानाकर्मयोगयोर्विरोधात्व ११. ... नुययतिरु व १२. निरस्त व १३. यर्घवंवं व १४. कर्मणोयुगयन्तिवृत्ति व १५. ... विशेषात्र व १६. तश्च शौचामनभिक्षाटननादिनामप्यभावः व १७. ... र्निबधनां व १८. ... वृत्तिर्तात्याग तरस्ति व १९. वाशौच व २०. मशरीरस्य ममेदमिति सम्बन्धामावात्व ____________________________________________________________________ पृष्ठ १४० परशरीरवत्कर्मत्यागवच्च१ देहत्यागो युक्तः । कृतप्रयोजनत्वान्न भोजनादिभिस्तस्य२ पोषणम् । ऐश्वर्याच्च३ मुक्तस्य४ त्यागशक्तिरस्ति । को नामापरतन्त्रः सन् स्कन्धेन५ कुणपं६ वहेत् । किं च भेदविज्ञानोपशमात्सर्वकर्मत्यागाच्च मुक्तिम् अन्विच्छता सैव नास्तीति प्रतिज्ञातं७ स्यात् । अशक्यत्वात् । यथा समुद्रे तरङ्गापनयादशक्यं स्नानम्८ । देहेन्द्रियमनांसि हि निमित्तभूतानि९ । तेषु विद्यमानेषु नैमित्तिकं१० भेदज्ञानं कायिकं (मानसिकं वाचिकं) च त्रिविधं कर्मावश्यं प्रवर्तते । अग्नीन्धनसंयोगे धूमवत्तस्माज्ज्ञानकर्मणोर्विरोधादिति११ हेत्वाभासः परव्यामोहार्थमुपन्यस्तोऽसिद्धश् चोद्दालकयाज्ञवल्क्यादीनां१२ ब्रह्मविदां पुत्रजनकाद्युपदेशप्रवृत्तिश्रवणात्१३ । उपदेशोऽपि कर्मैव । त्वं च केवलं निष्क्रियात्मवित्क्रिया१४ नास्तीति ब्रवीषि । न च१५ तथा वर्तसे । भिक्षाटनादि व्यापारं१६ करोषि । अतश्च१७ तत्कारी च भवांस्तद्द्वेषी१८ च भवानिति । कस्त्वदीयं वचनं१९ प्रमाणीकुर्यात् । अथ ज्ञानकर्मणोर्विरुद्धफलत्वात्त्याग इति चेत् । तन्न । विदुषा क्रियमाणस्य२० कर्मणोपवर्गार्थत्वादविरोध(ः) । भिन्नफलत्वे२१ हि विरोधः स्यात् । किं च प्रश्नोऽपि२२ तेन नोपपद्येत सन्न्यासं __________ टिप्पणी १. ... शरीस्वत्कर्मत्याग व २. भोतनादिभिस्तस्य व ३. एश्वर्साश्च व ४. मुस्य व ५. सं कन्धेन व ६. कुणंयं व ७. प्रतिज्ञानं व ८. तरङ्गपनयादशक्यं स्वानं व ९. निमिन्नभूतानि व १०. निमिन्नकं व निमित्तिकं ल ११. तस्याज्ञानकर्मणोविरोधादिति व १२. ... चोदालकयाववल्कयादीनां व १३. पुत्रनकाद्युवदेश व १४. निघ्रियात्मविक्रिया व १५. भ च व १६. भिक्षानादिव्यापारं व १७. आन्ताश्च व १८. भावांस्तद्वेषी व १९. वचन व २०. क्रियमाणस्ये व २१. भिन्नफलत्वे व २२. किन्धि न प्रस्तोपि व ____________________________________________________________________ पृष्ठ १४१ कर्मणां कृष्ण इति । न हि सन्न्यासशब्देन१ पुरस्तात्त्यागः क्वचिदुक्तः२ । मयि सर्वाणि कर्माणि इतीश्वरे तेषां समर्पणम् उक्तम् । तस्मात्तत्रैवायमनुवादो न त्यागय । योगश्च ब्रह्मार्पणम् इत्यत्रोक्तोऽनूद्यते । तत्र प्रश्नोपपत्तिर्३ व्याख्याता । यदि च विदुषः कर्मत्यागः पुरस्तादुक्तः४ स्याद् अर्जुनेन प्रतिपन्नः स्यात्तत्र५ त्यागकर्मयोगयोर्भिन्नपुरुषविषयत्वात् कुतः६ प्रश्नावतारो भागवतं चोत्तरं नाम (प्रति)पद्यते । नैःश्रेयसकराव् उभौ७ । कर्मसन्न्यासाच्च८ कर्मयोगो विशिष्यत इति । कथं कर्मत्यागस् तदनुष्ठानं च निःश्रेयसकरम्९ । त्यागो ह्यभावः । नासौ निःश्रेयसकारणमवस्तुत्वात् । यदि चाभावान्निःश्रेयसप्राप्तिः को हि गुरुकर्मभारं१० शिरसोद्वहेत् । न च विद्वत्कर्तृकयोस् त्यागकर्मणोः११ प्रश्नोत्तरं सम्भवति विदुषोऽपि कर्मत्यागानुपपत्तेरुक्तत्वाद् न्यायतो वचनतश्च । नाप्यविद्वत्कर्तृकविषयं प्रश्नोत्तरम् । अविदुषोऽपि कर्मण्य् एवाधिकार इति त्यागस्य निषिद्धत्वात् । तदेवमवाचकेन१२ ग्रन्थेन स्वाभिप्रेतसमर्थना क्रियते येन तस्य स्याद्गोमयेनापि१३ पायसम् इत्यलमतिप्रसङ्गेन । इदं तावत्तत्त्वं श्रेयोऽर्थिनामुक्तम् । नास्माकं व्यसनिता । ये विपरीतवर्त्मगामिनस्ते सर्वे पथि स्थापयितव्या१४ इति । असद्वर्त्मनि हि प्रायेण प्राणिनो रसन्त इति ॥ ९ ॥ __________ टिप्पणी १. ... शद्देन व २. पुरस्त्यात्त्यात्त्यामः त्कचिदुक्तो व ३. ... मित्यात्रोक्रेतुद्यते तत्र पश्रोपपत्रि व ४. पुरस्तादक्त व ५. स्याव्र व ६. ... विषवत्वात्व ७. नैच्चेयसकारावुभौ व ८. ... सन्न्यासाश्च ल्व ९. ... त्यागन्दनुष्ठनं च निःश्रेययसकरं व १०. कोदिमुरुकर्म मारं शिरं शिरसो द्वियेत्व ११. ... स्सागकर्मणोः व १२. तदेवमवाचकेन ल्व १३. स्यादोभदेनापि व १४. रथापयितव्या व ____________________________________________________________________ पृष्ठ १४२ अथेदानीं प्रकृतमनुसरामः । यानि पुनः शास्त्रचोदितानि१ (ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।) लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ भगवद्गीता_५.१० ॥) ब्रह्मेति । दृष्टान्तोपन्यासार्थः श्लोकः२ ॥ १० ॥ तैः कर्म क्रियते । किं विशिष्टैः किमर्थं चेत्युच्यते (कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ भगवद्गीता_५.११ ॥) कायेनेति । केवलशब्दः कायादिभिः प्रत्येकं सम्बध्यते । केवलशब्दः शुद्धवचनः३ । (केवकैः) फलासङ्गदोषरहितैः । सङ्कल्पविकल्पात्मकं मनः । बुद्धिरध्यवसायात्मिका । आत्मशुद्धये । शुद्धिः कैवल्यं मुक्तिरित्यर्थः । कायादिविशुद्धो४ मुक्त इत्युच्यते ॥ ११ ॥ तस्येव स्पष्टीकरणार्थमिदमुच्यते५ (युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् । अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ भगवद्गीता_५.१२ ॥) युक्त इति । युक्तः कर्मफलं त्यक्त्वा शान्तिं मुक्तिं प्राप्नोति नैष्ठिकीं७ निश्चलाम् । यः पुनरयुक्तः कामकारेण । कामः प्रवृत्तीच्छा८ । प्रवृत्त्या फले सक्तो निबध्यते न मुच्यते९ । तस्माद्योगी ब्रह्मणि निःक्षिप्य कर्म कुर्वन्मुच्यत इत्य् उपसंहाराथं वचनमेतत् ॥ १२ ॥१० __________ टिप्पणी १. चोदितानि व, ल २. श्लीकः ११ व, ल ३. शुद्धवधमनः व ४. कायादिविशुद्धो व ५. ... मिदमुच्यतं १२ व्ल ६. मुक्ति व ७. नेष्टिकी व ८. प्रवृत्तीछा व ९. सच्यते व १०. १३ व, ल ____________________________________________________________________ पृष्ठ १४३ शान्तिं प्राप्तस्य१ कीदृशी फलावस्था भवतीति तां प्रदर्शयति । यदि हि सावस्था२ निरायासा स्यात्ततस्तत्प्राप्त्युपाये३ ज्ञानकर्मसमुच्चये तदर्थिनः प्रवर्तन्ते नान्यथेति (सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी । नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ भगवद्गीता_५.१३ ॥) सर्वेति सर्वशब्दः प्रकृतवाची । लौकिकं वैदिकं च कर्म मनसाध्यात्मचेतसा ब्रह्मणि सन्न्यस्य सम्यङ्निक्षिप्य४ सर्वं कर्म ब्रह्मैव५ तदेव कर्तृ तत्फलं च तदेवेत्येकत्वमनुदृश्य पूर्वम् अनुष्ठानावस्थायां६ पश्चाल्लब्धज्योतिः७ परमात्मभूतः सुखम् आस्ते८ । विमुक्तसमस्तबन्धनोऽन्तर्यामिवत्९ । भोगेनैव प्रारब्धकार्यकर्मक्षयप्रतिज्ञानाच्छरीरपातं१० यावत् । तथा च श्रुतिः तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति । यावच्छरीरान्न विमोक्ष्यते । प्रारब्धफलकर्मफलभोगप्रतिबन्धात्तावदेवास्य११ विदुषश्चिरम् । भुङ्क्ते तु कर्मणि१२ प्रतिबन्धाभावात् । अथ सम्पत्स्ये मुच्यत इत्यर्थः । शरीरस्थोऽपि कौन्तेय न१३ करोति न लिप्यत इति स्मृतेः । अत एव वशी१४ स्वतन्त्रः । अथ आसिरौदासीन्ये धातुर्वर्तते । यथा गृहं परिगृह्यास्ते । क्षेत्रं परिगृह्यास्ते१५ इत्यौदासीन्यवचनो नोपदेशवचनस् तद्वत्१६ । इदानीं __________ टिप्पणी १. शान्तिप्राप्रस्य व २. मावस्था व ३. ... स्यात्ततत्स्मात्प्रात्युपाये व ४. सम्यङ्क्रिक्षिप्य व ५. व्रमैव व ६. पूर्वमतुष्टाभावस्थायां व ७. पश्चाल्लवुज्योतिः व ८. सूखमास्ते व ९. विभुक्तसमक्तसमस्तवन्धनोन्तर्यामिमत्व १०. प्रारब्धकार्थ कर्म ११. प्रारब्धफलकर्मफलभोगप्रतिवन्धात्ताधदेवास्था व १२. भुङ्क्तेलु कर्मार्णि व १३. कोन्तेय व १४. वर्शा व १५. अयग्नासिरोदासीन्यधातुर्वत यथा गृहं परिगृस्वास्ते क्षेत्रं परिगृद्यस्ति व अथ सासिरौदासीन्पे ल १६. वचनस्त व ____________________________________________________________________ पृष्ठ १४४ परमात्मा संवृतः१ सन्नवद्वारे पुरे सप्त शीर्षण्यानि द्वाराणि द्वे२ नासिके द्वे नेत्रे तथा क्षोत्रे मुखमेकमधस्ताद्३ द्वे पायूपस्थे पुरे शरीरे देही४ नैव कुर्वन्नकारयन् । देहसम्बन्धस्य निवृत्तत्वात् तदानीं तत्कार्याभावः५ । प्रागवस्थायां तु देहसम्बन्धानुवृत्त्तेः६ कुर्वन् कारयंश्चास्ते७ । कुर्वन्निति८ स्वतन्त्रकर्तृत्वम् । कारयन्निति हेतुकर्तृत्वम् । यथा पचति पाचयति इति । तथा च श्रुतिः सलिल एको द्रष्टा९ द्वैतो भवति१० इति । एवं परमात्मस्थितिवर्णनार्थायामस्यां गीतायामुत्तरा११ गीता सम्यग्घटते । न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः इति । यदि१२ पुनः स्थितप्रज्ञस्य योगिनो ध्रियमाणशरीरस्य१३ क्षुत्पिपासापरीतस्यावस्थेयमुच्यते । तस्याः१४ कः प्रसङ्गो लोकस्य कर्तृत्वकर्मसर्जने येन प्रतिषिद्ध्यते१५ । प्रभुशब्दप्रयोगोऽपि परमात्मावस्थावर्णने१६ युज्यते । कर्मत्यागवादिनोऽन्यथा व्याचक्षते । सम्यग्दर्शी१७ विद्वान् सर्वकर्माणि नित्यनैमित्तिकादीनि सम्यङ्न्यस्य१८ त्यक्त्वास्ते सुखं१९ वशी जितेन्द्रियः२० । क्व पुनरास्ते तदा नवद्वारे शरीरे । नैव कुर्वन्न कारयन्निति२१ । तदिदं स्वपक्षरागाविष्टचेतसो ऽपव्याख्यानम् । न हि२२ ब्रह्मबूतस्य विदुषो देह आसनमुपपद्यते२३ । नासौ परिमिते देशे काले विशेषे वास्ते सर्वदेशकालव्यापित्वात् । उक्तं च नित्यः सर्वत्रगः स्थाणुः इति । न चामूर्तस्यात्मनः __________ टिप्पणी १. स प्रवृत्तः व २. द्यरारिण व ३. ... मेकषधस्ता ४. देहि व ५. ... भावाः व ६. देक्षसम्बन्धानुवृत्ते व ७. कारयश्चारते व ८. कुर्वन्तिति व ९. दृष्टा व १०. मवतिद्वेतो व ११. ... मुन्तरागीता व १२. युदि व १३. घ्रियमाणाशरारस्य व १४. तस्यः व १५. प्रतिषेद्धोते व १६. परप्रात्मावस्था व व १७. सम्यगृर्शे व १८. सम्यकस्य व १९. मुखं व २०. जितेन्द्रियः व २१. कुर्वन्त कारयन्तिति व २२. व्याख्यानं हि व २३. आसन्मुपपद्यते व ____________________________________________________________________ पृष्ठ १४५ शरीरे मूर्त(वद्) उपवेशनं युज्यते । अभिमानकृतमेव त्वासनम् । ममेदं शरीरमहमस्य१ स्वामीत्यकुर्वन्नकारयंश्चेति२ चास्मिन्न् अपि व्याख्यानविशेषणं३ नावकल्पते । सर्वशब्दश्च शौचाचमनाशनपानादीनां शिष्यप्रशासनादीनाम् अनन्तानामभिप्रेतानां४ क्रियमाणत्वात्५ सर्वत्यागवादिनः सुतरामवाचकः श्लोकः । मनोग्रहणं च कर्तव्यं६ सर्वकर्माणि त्यक्त्वा मनसैव७ हि त्यज्यन्ते । सन्न्यासग्रहणं८ च न कुर्यात् । सन्त्यज्येति९ ब्रूयादसन्देहाय । तस्मान्मनसा१० सन्न्यस्येति पूर्वोक्तसन्न्यासप्रतिपत्त्यर्थं योगसन्न्यस्तकर्माणामिति११ । तस्माद्यथा व्याख्यात एवार्थ इति स्थितम् ॥ १३ ॥१२ सोऽयं परमात्मा (न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः । न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ भगवद्गीता_५.१४ ॥) नेति । मुक्तः प्रभुरीश्वरः संपन्नः प्राणिनमिव पुत्रभृत्यकलत्रादेर्नियन्तव्यस्येह विद्यमानत्वादुच्यते । न कर्तृत्वादि । आत्मीयस्य पोष्यवर्गस्य विधत्ते स्वस्वामिसम्बन्धनिवृत्तेः । न च तत्कृतस्य शुश्रूषादिलक्षणस्य कर्मणोऽनुरूपं फलं सृजत्याप्तकामत्वाद् इति । मुक्तस्य प्रागिव भृत्यादेः कर्तृत्वादिनिषेधः१६ । कर्तृत्वादिनिबन्धनं __________ टिप्पणी १. ... महमस्या व २. ... न्न कास्यंश्चेति व ३. ... विशेषणा व ४. शिष्यप्रशानादीनामानन्ताभाभभिप्रतानां व ५. क्रियमानत्वाः व क्रियमाणत्वा ल ६. कर्तव्य व ७. मनसेव व ८. सन्न्यसि व ९. कुर्षात्त्सन्त्यज्ये व १०. तस्मात्मनसा व ११. ... सन्न्यास्तकर्माणिमिति व १२. १४ व्ल १३. मुक्तः सुखाभिसंवन्धनिवृत्ते न च तकृतस्य श्रुश्रुषादिलणस्य कर्मणो मुरूपं फलं सृजत्याप्तकामत्वादिति मुक्तस्य प्रागिव पुत्रभृत्यकलत्रादेनियन्तव्यसेह विद्यमानत्वादुच्यते आत्मीयस्य पोष्यबर्गस्य विधतै कर्तृत्वाभिनिषेधः । ____________________________________________________________________ पृष्ठ १४६ हि स्वाभाविकमज्ञानम्१ । तत्सहता यत्नेनापनयन्२ । यथा प्रभुर्लोकस्य३ कर्तृत्वादि स्वेच्छया न सृजति न च कर्मफलसंयोगमाप्तकामत्वात् । स्वे महिम्नि हि परमात्मा स्थितः४ । प्राणिकर्मैव सृष्टौ फलोत्पत्तौ च निमित्तम् । ईश्वरस्तु कर्मानुविधायी तन्नियन्ता५ । न हि तस्य कर्तृत्वाद्यापादने लोकस्य प्रयोजनमस्ति६ । उदासीनो हि सः । अन्यथा वैषम्यनैर्घृण्यप्रसङ्गादीश्वरो७ रागादिमान् स्याद्यथा राजा८ भृत्यानां कर्माणि च विधत्ते९ । राजभृत्यानां च परस्परसापेक्षत्वमन्योन्योपकारकत्वात्१० । कथं तर्हि लोकस्य कर्तृत्वकर्मफलसंयोगस्तदाह११ स्वभावस्तु प्रवर्तते । अज्ञानप्रभवौ रागद्वेषौ । तन्मूलं१२ च कर्म । ततः शरीरग्रहणम् । पुनः कर्म । पुनरज्ञानम् । पुना रागद्वेषाविति१३ । तदिदं चक्रमेव समावर्तते । अव्यापृतावस्थेश्वरतुल्यतेह परिपक्वयोगस्य१४ योगिनो दृष्टान्तार्थम् उक्ता । व्यापृतावस्थस्य त्वीश्वरस्य जीवकर्मानुरूपं जगद् विधातृत्वं१५ श्रुतिस्मृतिसिद्धं स्थितमेव ॥ १४ ॥१६ यस्मादयमीश्वरो न रागादिवशेन लोकं प्रेरयति तस्मात् (नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः । अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ भगवद्गीता_५.१५ ॥) __________ टिप्पणी १. कर्तृत्वादिनिवधवंहि स्वाभाविवकामज्ञानं व २. सहतायनयनयन् व ... सहतायत्नेनापनयन ल ३. मभुर्लोकस्य व ४. स्वेनाहिभ्रि परना स्थितः व ५. तत्रियन्ता व ६. प्रयोजुन म व ७. नैर्घृण्यप्रसंमादीश्वरे व ८. रागादिमान्द्याद्यथा । रज्ज व ९. विद्यत्ते रज्जमृ व १०. ... मन्योप्तोपकारात्व ११. संयोगास्तवृहि व १२. ... प्रभवो रागद्वेषौ । तः न्मूलं व १३. पुनरज्ञानें पुन पुनरामद्वे व १४. ... पत्कयागम्यायोगि व १५. कर्मानुनूपज्जाग्राद्विधातृत्वं व ... जाग्रद्विधातृत्वं ल १६. १५ व्ल ____________________________________________________________________ पृष्ठ १४७ नादत्त१ इति । कस्यचित्सम्बन्धि पापं न गृह्णाति । न च सुकृतम् आदत्ते । हेत्वभावात्२ । यदीश्वरः स्वार्थं न प्रयुङ्क्ते लोकं केन तर्हि मुह्यन्ति३ जन्तवः । तदाह स्वभावस्त्वज्ञानेनाविद्यया४ अविद्या विपरीतज्ञानम् । देहादिष्वात्माभिमानो ब्रह्मस्वरूपाग्रहणं५ चाविद्योच्यते । तयावृतमाच्छन्नं ज्ञानम् । तेन मुह्यन्ति६ ॥ १५ ॥ येषां तु (ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ भगवद्गीता_५.१६ ॥) ज्ञानेनेति६ । आदित्यवद्यथादित्यो भुवनमण्डलं७ प्रकाशयति तथा ज्ञानमज्ञानं विनाश्य तत्परं ब्रह्म प्रकाशयति । ब्रह्मैवेदं सर्वमहं च ब्रह्मेति ज्ञानी८ पश्यतीत्यर्थः ॥ १६ ॥९ इत ऊर्द्ध्वमध्यायपरिसमाप्तेः ज्ञानस्वरूपं तत्सहकारिसाधनं१० प्रतिपाद्यते (तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ भगवद्गीता_५.१७ ॥) तद्बुद्धय इति । तस्मिन् ब्रह्मणि बुद्धिर्येषां ते तद्बुद्धयः११ । तद्ब्रह्मात्मा येषां ते तदात्मनः । तस्मिन्निष्ठा तात्पर्यं येषां ते तन्निष्ठाः । तत्परायणं गतिर्येषां ते तत्परायणाः । तदात्मानस्ते __________ टिप्पणी १. नादर्त्तेति व्ल २. हत्वाभावात्व ३. मुज्द्यन्ति व ..ष्तु अज्ञानेननावि व ४. ..टुदाह अज्ञनेनावि ल ५. दहादिष्वात्माभिमानो ब्रह्मस्वरूपाग्रहणां व ६. वृत्तमाछत्रज्ञानेन्तेननुह्यन्ति १६ व १६ ल ७. येषा तु क्षातेनैति आदित्यवहद्यथादित्यभुवन व्ल ८. ब्राह्मेति क्षावी व ९. १७ व्ल १०. इतद्गद्यमध्यामसमार्प्तेक्षनि ... साधन व ११. ते द्वुदयः व ____________________________________________________________________ पृष्ठ १४८ तन्निष्ठास्तत्परायणा गच्छन्त्यपुनरावृत्तिं मोक्षं१ ज्ञानेन निर्धूतं कल्मषं येषां ते तथोक्ताः ॥ १७ ॥२ कीदृशं तज्ज्ञानमित्युच्यते३ (विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ भगवद्गीता_५.१८ ॥) विद्येति । विद्या च विनयश्च (विद्याविनयौ) । विनयः संयमः । ताभ्यां४ सम्पन्ने अध्ययनादिसंस्कारवतीत्यर्थः । ब्राह्मणवत्पूज्यतमत्वाद्गोग्रहणम्५ । मध्यमप्रतिपत्त्यर्थं हस्तिग्रहणम् । श्वश्वपाकग्रहणमत्यन्तास्पृश्यावज्ञेयभूतप्रतिपत्त्यर्थम् । पण्डिताः समदर्शिनस्तेषु६ ब्रह्मावस्थितं समं तद्दर्शिनो भवन्ति । सर्वभूतेष्वाकाशवद्ब्रह्मस्वरूपमनुगतं पश्यन्तीत्यर्थः ॥ १८ ॥७ एवं सम्ग्यग्दर्शिनां८ को लाभ इत्याह (इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ भगवद्गीता_५.१९ ॥) इहेति । इहैव देहस्थितैः सर्गः पुनर्भवो जितो नाशितो येषां साम्ये ब्रह्मस्वरूपे स्थितं मनस्तैरित्यर्थः । निर्दोषं हि समं९ ब्रह्म । बुद्ध्या१० दृश्यमानं सर्वं ब्रह्मैव११ सम्पद्यते यथा लवणक्षेत्रे१२ पतितं वस्तु लवणमेव सम्पद्यते । तस्मिन् ब्रह्मणि ते स्थिता यस्मात्तस्मात्तैर्जित१३ इति पूर्वेण सम्बन्धः ॥ १९ ॥१४ __________ टिप्पणी १. ... तत्पराणा गछन्त्यपुनरावृर्तिमोक्षं व गतिर्येषां ते तदात्मनस्तेस्मितत्परायणा गछन्त्य ल २. १८ ल्व ३. तक्षानमित्यु व ४. ताभ्यां पन्ते व ५. व्राह्मर्णवत्पूज्यतमत्वाहोग्रहणं व ६. समदर्शनस्तेषु व ७. ... गतवश्यतीत्यर्थः १९ व्१९ ल ८. ... दृर्शिनां व ९. निर्देषं हि संमं व १०. वुड्या व ११. ब्रह्मेव व १२. लवनक्षेत्रे व १३. यस्मात्तस्मूरत्तेर्जित इति व १४. २० ल अस्याङ्कस्याभावः व ____________________________________________________________________ पृष्ठ १४९ यश्च ब्रह्मणि स्थितस्तस्य१ तदनुगुणं साधनमुपदिश्यते (न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ भगवद्गीता_५.२० ॥) न प्रेति । प्रियमिष्टं प्राप्य न प्रहृष्यं प्रकर्षेण हृष्टिर् न२ कर्तव्या । नोद्विजेत्३ प्राप्य चाप्रियम् । उद्वेगश्चित्तव्यथा । स्थिरा निश्चला निर्विचिकित्सा बुद्धिर्यस्य स स्थिरबुद्धिः । असम्मूढो विविक्तचित्तवृत्तिः ॥ २० ॥४ किं च (बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् । स ब्रह्मयोगयुक्तात्मा सुखमव्ययमश्नुते ॥ भगवद्गीता_५.२१ ॥) ब्रह्मेति (॥ २१ ॥) कथं पुनरात्मसुखस्यैवाक्षयत्वम् । ननु बाह्यस्पर्शसुखम् अप्यक्षयमेव । नेति ब्रूमो यस्मात्५ (ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ भगवद्गीता_५.२२ ॥) य इति । ये हि संस्पर्शजा भोगा विषयसंसर्गनिबन्धना दुःखस्य योनयस्ते । योनिः कारणं यस्मात् । आदिमन्तोऽन्तवन्तश्च कादाचित्काः क्षणिकाः । न तेषु रमते बुधो दोषदर्शी६ ॥ २२ ॥७ कश्च योगी सुखी च । तदुच्यते (शक्नोतीहैव यः सोढुं प्राक्शरीरविमोचनात् । कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ भगवद्गीता_५.२३ ॥) __________ टिप्पणी १. स्थितलहस्य व २. न प्रत्यष्य प्रकर्षणहष्टिर्न व प्रकर्षण ल ३. नोद्विजोत्व ४. २० ल्व ५. यस्मात्२२ व ६. वुधो दोर्शी व ७. २३ व्ल ____________________________________________________________________ पृष्ठ १५० शक्नोतीति । इहैव१ देहे सोढुं नियन्तुं यः शक्नोति न लक्षणमात्रं किं तु२ प्राक्शरीरविमोचनादादेहपातात् । कामोद्भवं क्रोधोद्भवं३ वेगम् । अप्राप्तप्राप्तीच्छा कामः । तेन४ प्रेरिता चित्तवृत्तिः कामवेगोऽनुरक्तचित्तवृत्तिनिरोधः५ कामोद्वेगनिरोधो६ नेत्रवक्त्रविकारलिङ्गः । क्रोधस्तदुत्थवेगनिरोधश्च७ । तावेतौ वेगौ८ निरु(ण)द्धि यः स युक्तः स सुखी नरः ॥ २३ ॥९ यश्चैवं कामक्रोधौ जित्वात्मनि१० वर्तते स मुक्त एवमुच्यते । तदाह (अन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः । स पार्थ परमं योगं ब्रह्मभूतोऽधिगच्छति ॥ भगवद्गीता_५.२४ ॥) अन्तरिति । अन्तरात्मनि११ सुखं यस्यासावन्तःसुखः । अन्तरात्मन्यारामः क्रीडा१२ यस्यासावन्तरारामः । तथान्तरात्मा ज्योतिर्यस्यासवन्तर्ज्योतिर्न वाय्वादित्यादिज्योतिः१३ । सः । हे पार्थ परमं योगम् । युज्यत इति योगः । तं परमात्मानं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥१४ किं च (लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः । छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ भगवद्गीता_५.२५ ॥) लभन्त इति । लभन्ते ब्रह्मणि निर्वृत्तिम्१५ । अथवा ब्रह्मैव निर्वाणं परमं सुखमृषयो१६ दर्शनवन्तः१७ । क्षीनं कल्मषं येषां ते __________ टिप्पणी १. शक्नोतीति इहेव व २. कितु व ३. देहयतोत्व हाभोद्भवक्रोधोद्भव व ४. प्राप्तिच्छाकामस्तेम व ५. कामवेगोनुरक्त व ६. कामोत्थवेर्गानरोधः व ७. ... स्तदुस्यवगाणिरोधश्च व ८. तावेतो वेगौ व ९. २४ व्ल १०. जितात्मनि व ११. अन्त इति अन्तरात्मनि ल्व १२. कोडा व १३. नेबाज्यादित्यादिज्योतिः व १४. २५ व्ल १५. ब्रह्मनिर्वृत्तिं व १६. सुखमृषभंयो व्ल १७. दर्शनवन्तः व ____________________________________________________________________ पृष्ठ १५१ तथोक्ताः । छिन्नं द्वैधं संशयो१ यैस्ते२ छिन्नद्वैधाः । यतात्मानो नियतान्तःकरणाः । सर्वभूतानां हिते रता अहिंसका इत्यर्थः ॥ २५ ॥३ स एव शान्त्युपायः पुनः कथ्यते । बहुशः श्रवणात् स्थिरसंस्कारं चित्तं भवतीति४ (कामक्रोधवियुक्तानां यतीनां यतचेतसाम् । अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ भगवद्गीता_५.२६ ॥) कामेति । यतीनां परिव्राजकानाम्५ । प्रदर्शनार्थमेतत् । गृहस्थादीनामथवा यतीनां यत्नवताम् । तस्यैव निर्वचनं६ यतचेतसामिति । अभितो निकटे समीपकाल इत्यर्थः । निर्वाणं निरतिशयानन्दरूपम्७ । अभित उभयत इत्येके । जीवतां८ मृतानां चेति । तदसत् । जीवतां चेन्निर्वाणं९ सिद्धं मृतानां दण्डापूपिकया सिद्धमिति न वक्तव्यं मृतानामिति ॥ २६ ॥ १० मुक्त्युपायप्रसङ्गेन११ योगोऽपि मुक्त्युपायत्वादन्तरङ्गत्वाच्च प्रस्तूयते । षष्ठे तस्य विस्तरो भविष्यति (स्पर्शान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः । प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ भगवद्गीता_५.२७ ॥) स्पर्शानिति१२ । बाह्यान्१३ विषयान् बहिरेव१४ कृत्वा यदा मनसान्तरात्मनि नोपसर्पन्ति१५ तदा विषया बहिरेव भवन्ति । __________ टिप्पणी १. द्वेधं व द्वैधं संशयं ल २. योस्ते ३. २५ व्ल ४. भवतीति २६ ल ५. यप्तीनां पतिवाजकानां व ६. निर्वचन व ७. निरतिशयाजन्दनुपं व ८. जीवजां व ९. चेत्तिर्वाणं व १०. २७ व्ल ११. मुक्तुपायप्रसङ्गेन व १२. स्पर्शादिति व्ल १३. वास्वान् व १४. वघेरेव व १५. मनसान्नरात्मनो नोपसर्यति व ____________________________________________________________________ पृष्ठ १५२ भ्रुवोऽन्तरे१ मध्ये चक्षुः कृत्वेत्यधिक्रियते । प्राणापानावुच्छ्वासनिःश्वासौ नासाभ्यन्तरचारिणौ समौ कृत्वा । नोच्छ्वासमधिकं करोति न निःश्वासम् । यथास्वभावप्रवृत्तौ कृत्वेत्यर्थः ॥ २७ ॥२ वस्तूत्तरेण समाप्यते (यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः । विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ भगवद्गीता_५.२८ ॥) यतेति । नियतानीन्द्रियाणि मनो बुद्धिश्च यस्य स वशी । मननान्मुनि(ः) । मोक्षः परमयनं गतिर्यस्यासौ मोक्षपरायणः । विगतेच्छा भयं च क्रोधश्च यस्यासौ विगतेच्छाभयक्रोधः । इच्छा कामः । य एवं सदा वर्त(ते) मुक्त एव सः । नास्त्यत्र विचारणा३ ॥ २८ ॥४ मुक्त्युपायो दर्शितः । ज्ञेयस्तु साक्षाद्दर्शयितव्यो यं ज्ञात्वा मुच्येतेत्याह५ (भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ भगवद्गीता_५.२९ ॥) भोक्तारमिति । यज्ञानां तपसां च फलम् । तस्य भोक्ता । भोक्तैः समर्पितानि६ फलानि७ दृष्ट्वा तृष्यति८ तुष्यतीत्यर्थः । न पुनस्तस्याप्तकामस्यान्यादृशो९ भोगोऽस्ति यथा निवेद्य समर्पणे१० देवता प्रीयते । सर्वेषां लोकानां महान्तरमीश्वरम् । (सुहृदं) प्रत्युपकारानपेक्षयोऽपकारिणं ज्ञात्वा मां११ शान्तिं मोक्षमृच्छति __________ टिप्पणी १. म्रुवोरन्तरे व २. २८ व्ल ३. विचारणाः व ४. २९ व्ल ५. दर्शयितव्य इत्याह व्यं ज्ञात्वा मुच्यते व दर्शीयतव्य इत्याह यं ज्ञात्वा मुच्यते ल ६. समर्यितानि व ७. फलान्नि व ८. तप्यति व ९. न्यादशो व १०. समर्पणो व ११. सा व ____________________________________________________________________ पृष्ठ १५३ गच्छति । देहसम्बन्धाभिमानशून्यस्य सुब्रह्मरूपेणावस्थितस्य१ भगवतो वचनम् । ऋषीणामपीमानि२ वचनानि परमार्थे सत्येऽवस्थितानाम् । यथा तद्वै तथा पश्यन्नृषिर्वामदेवः३ प्रतिपेदे अहं मनुरभवं सूर्यश्च इति । अत एव सर्वकर्माणि मनसा इत्युपपन्नम् ॥ २९ ॥ ४ (इति श्री)भगवद्भास्करकृते५ गीताभाष्ये पञ्चमोऽध्यायः ॥ __________ टिप्पणी १. शूव्यस्य सुब्रह्मरूपेवस्थितस्य व २. मृषीणानवीशानि व ३. तद्वे तथा पश्यु ऋषिर्वा व तद्धैतत्पश्यनृषिवमिदेव इति पाठान्तरम् ४. ३० व्ल ५. भगवद्भारकरकृते व ६. पञ्चमोध्यायः ॥ ५ ॥ ल ____________________________________________________________________ पृष्ठ १५४ अथ षष्ठोऽध्यायः । अनन्तरातीते ग्रन्थे केवलज्ञानसङ्कीर्तनात्तावन्मात्रादेव मुक्तिः स्यादतः कर्मत्यागः कर्तव्य इति साङ्ख्यदर्शनाकुलितचेतसः१ सौकर्याच्च२ मुमुक्षोर्बुद्धिः स्यात्तां निराकर्तुमाह श्रीभगवानुवाच (अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स सन्न्यासी स योगी च न निरग्निर्न चाक्रियः ॥ भगवद्गीता_६.१ ॥) अनाश्रित इति । अनाश्रितः कर्मफलाभिसन्धिवर्जितः कार्यं नित्यं कर्म स्वाश्रयमविहितं३ करोति यः स सन्न्यासी४ स योगी च । स सन्न्यासी मयि सर्वाणि कर्माणि इत्युक्तलक्षणो५ योगी च ब्रह्मार्पणम् इति । न निरग्निर्निरस्ताग्निः । अक्रियस्त्यक्तकर्मा । नैवंविधः६ सन्न्यासी योगी च यः७ । (इ)ह विद्यया सह सम्बन्धो नकर्तुः८ । साङ्ख्यानां प्रसिद्धस् त्यक्तकर्मा चतुर्थाश्रमी सोऽत्र प्रतिषिध्यते । यो हि बुद्धिपूर्वं९ कर्तव्यं न करोति नासावाश्रामी । प्रायश्चित्ती हि सः । तेन सह विद्यया१० सह सम्बन्धो न कर्तव्यः । अत्रैकवेणुपाणयः कर्मत्यागिनं मूर्ध्नि११ पदं निहितमुपलभ्य __________ टिप्पणी १. दर्शनाक्रुलितचेतसः व २. सौकार्याश्च व ३. स्वाश्रमाविहितं व ४. सभ्यासी व ५. कल्षण व ६. नेवं विधः व ७. यो च य व ८. यो (इ)ह विध(य) ... कर्तुः अंशोयं लकोषे नास्ति यः ह विद्या सह सम्बन्धो न कर्तु इति वकोषे पाठः ९. पूर्व व १०. विद्या सह व ११. मूध्नि व ____________________________________________________________________ पृष्ठ १५५ तदन्यथा कर्तुं प्रयतमाना बह्वसम्बद्धं गर्जन्ति१ । गृहस्थस्य स्तुत्यर्थं सन्न्यासित्वं योगित्वं चोच्यते२ । न पुनर्निरग्नेरक्रियस्य च निराकरणं क्रियत इति । तदसत् । अन्यनिराकरणपरत्वादस्य वाक्यस्य । नित्यं३ कर्म कुर्वतः सन्न्यासित्वं योगित्वं च५ । पूर्वैरेव च वचनैः६ प्राप्तस्य निरग्नेरक्रियस्य (च) प्रतिषेधार्थं७ नान्योऽस्य वाक्यस्यार्थोऽस्ति । यथा सङ्क्षेपा(प)विस्तरावेतौ ज्ञात्वा च पारमार्थिकौ । अजस्रमास्ते तच्चित्तः८ स परं याति नेतरः ॥ इति । यथा चाब्रुवन् पूर्वे वेदपारगाः९ स धर्म इति विज्ञायते (यो) नेतरेषां सहस्रशः । इत्युक्तवेदपारगप्रतिषेधोऽ(व)गम्यते । न च स्तुतिरेकस्मादत्र वक्तव्या । कर्मयोगित्वं१० गृहस्थादीनां यथाश्रुतमेवास्ति । तत्र११ सन्न्यासित्वं नाम यदि१२ कर्मत्यागित्वमुच्यते ततो निन्दा स्यान् न तु स्तुतिः । अथ फलत्यागित्वं तदप्यस्त्येव१३ । किं तत्र स्तुतिकल्पनया । पूर्वत्र१४ बहुशः फलसङ्कल्परहितत्वम् उपदिष्टम् मा१५ फलेषु त्यक्त्वा कर्मफलासङ्गमिति । यस्य हि भगवान् प्रमाणभूतस्तदुक्तत्वादेव प्रतिपद्यते । किं स्तुत्या । अथ (अ)प्रमाणं तथा स्तुतिरपि व्यर्था । न चात्र स्तुतिपरत्वं वाक्यस्य प्रतीयते१६ __________ टिप्पणी १. जागत्ति ल वद्वसंवद्धं जागति व २. योगिचोच्यते व ३. नित्वं व ४. साअसिन्वं व ५. चः ल्व ६. पूर्वेस्वेवचनैः व ७. निरग्नियप्रतिषेधार्थं व निरग्नियप्रतिषेधार्थं ल ८. तश्चित्तः व ९. च य व्रू पूर्वेदपारगाः व १०. अस्ति यथा ... कर्मयोगित्वमशोत्वं लकोषे नास्ति ११. स्तित्र व १२. सन्न्या इति व १३. तदन्यस्त्यव व १४. पूर्व व १५. रहित्वमुयदिष्टमा व १६. प्रतीर्वत ____________________________________________________________________ पृष्ठ १५६ यथाभूतार्थप्रतिपादकत्वाच्छास्त्रस्य । तस्माद्बालैः१ स्वचेष्टितं विहाय२ भगवदुपदिष्टेन महामहामार्गेण गन्तव्यम् । यो हि स्वात्मानं वञ्चयित्वा कष्टां गतिं३ प्रापयति नासौ परेषां हितायोपदिशति । तथा चोक्तम् आत्मानं योऽभिसन्धत्ते४ परेषां स हितः कथम् । इति । ननु सन्न्यासी स योगी च इत्येकः पुरुषः५ कथमुच्यते । विरोधात् । यदि सन्न्यासो६ कथं कर्मयोगी७ । सन्न्यासित्वं८ योगित्वं च (न) युगपद्सम्भवति । किं च निरग्निरक्रियश्च सन्न्यासी प्रसिद्धः । क्रियावान् कर्मयोगी । तस्मादन्यः सन्न्यासी । कर्मयोगी चान्य इति पराभिप्रायमाशङ्क्याविरोधं दर्शयति (यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसन्न्यस्तसङ्कल्पो योगी भवति कश्चन ॥ भगवद्गीता_६.२ ॥) यमिति । सन्न्यासमिति९ यौगिकोऽत्र सन्न्यासशब्दो मया प्रयुक्तः । परमात्मनि कृतानां कर्मणां सम्यक्त्यागो१० निःक्षेपः समर्पणं सन्न्यासः११ । सर्वसर्वाश्रमाणामविशिष्टो न रूढिशब्दः प्रयुक्तः१२ । यथा वैद्यशब्दश्चिकित्सके रूढो यौगिकस् तु सर्वत्र वर्तते । विद्यायां भवो वैद्य इति यो यो विद्यावान् स सर्वोऽभिधीयते । __________ टिप्पणी १. प्रतिपादत्वाच्छास्त्रस्य वालः ल वाह्यः व २. धिहाय व ३. वचपित्वा कष्टां गति व ४. योतिसत्वत्ते व ५. ननु च सन्न्यासी योगी चेत्येकः पुरुषः व ६. विरोधातिसन्न्यासी व ७. कमं योगी व ८. सन्न्यासिखं व ९. सव्यासमिति व १०. सम्यक्त्यायोः व ११. सन्न्यासः सर्व सर्व अमाणाम १२. प्रयुक्तेः व प्रयुक्तेःषष्ठाध्यायस्यायम् । ततः ६५ तमपृष्ठस्य समाप्तिः । ६६ तमपृष्ठस्य प्रारम्भस्तु सन्न्यासमित्यादि अनेन । सन्न्यासमित्यादि तु २६ तमश्लोकस्थभाष्यस्य । अवस्थेयं वकोषस्य । प्रयुक्तो यथा ल ____________________________________________________________________ पृष्ठ १५७ यदुक्तं (सन्न्यासित्वं योगित्वं च) युगपन्न सम्भवति इति । नासौ दोषो हेतुसद्भावात् । तदाह न ह्यसन्न्यस्तसङ्कल्पो निःक्षिप्तः कर्मसङ्कल्पो येनासौ सन्न्यस्तसङ्कल्पः । तद्विपरीतो न योगी भवति कश्चन । अनेकजन्मप्रवृत्तभेदविज्ञानवासितचेतसां न सहसाभेदविज्ञानम् उपपद्यते । अहं ब्रह्मास्मि इति । तस्मात्सर्वमा ..... क्त(?) यस्तत्प्रसादादद्वैतज्ञानं प्रतिपद्यते । तस्मादेतद्वै पुरुषस्यावस्थाभेदमात्रं फलम् । पुनरेकमेव म ... क्तिरित्यभिप्रेत्योक्तम् यं सन्न्यासमित्यादि१ प्रशान्तमनसमिति पर्यन्तं (सन्न्यासम् इत्यादि प्रशान्तमनसम् इति पर्यन्तं) ये प्राणिनः (उक्ताः) सन्ति तानात्मवशं२ कुर्याद् इत्यर्थः ॥ २६ ॥ यदि योगसुखं स्यात्ततो विषयसुखपरित्यागो युज्यते । अन्यथा को नाम परित्यजेदित्याह (प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ भगवद्गीता_६.२७ ॥) प्रशान्तेति । प्रशान्तमनसं ह्येनं यस्माद्योगिनमुत्तमं विषयसुखादुपैति३ । शान्तरजसं रजोविषयेषु प्रवृत्तिर् ब्रह्मभूतम् भू प्राप्तावात्मनेपदीति स्मरणाद्भूतशब्दः प्राप्त्यर्थः । ब्रह्मप्राप्तमकल्मषम्४ ॥ २७ ॥ __________ टिप्पणी १. यं स अस्मत्परं लकोषे रिक्तं स्थानम् । परपत्रारम्भस्तु आत्मवशे कुर्यादित्यर्थः अनेन । २. मित्यादिप्रशातमनसिमित्यापर्यन्त य आणिन सन्ति दात्मवाशं व ३. विषयसुस्वादुपेति व ४. प्रत्प्यर्थी ब्रह्मप्रात्यमकल्पषत्व ____________________________________________________________________ पृष्ठ १५८ प्रकरणर्थोपसंहारार्थः श्लोकः (एवं युञ्जन् सदात्मानं योगी विगतकल्मषः । मुखेन ब्रह्मसंश्लेषमत्यन्तमुपगच्छति ॥ भगवद्गीता_६.२८ ॥) एवमिति । एवमुक्तप्रकारेणात्मानं युञ्जन् यो(गी विगत)समस्तकल्मषः१ सुखेनाक्लेशेन ब्रह्मसंश्लेषनिमित्तम् अत्यन्तसुखमश्नुते ॥ २८ ॥ यदात्यन्तपरिपक्वो योगो भवति तदा कथं पश्यतीत्युच्यते सर्वभूतस्थमात्मानं सर्वाणि भूतान्यात्मनि२ । पश्यते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ भगवद्गीता_६.२९ ॥ (सर्वभूतेति ।) अहङ्कारपरिच्छिन्नम्३ अविद्यानिबन्धनमौपाधिकं रूपं विहाय सर्वभूतस्थमात्मानं सर्वाणि भूतानि । आत्मनि परमात्मनि । आत्मपरयोरभेदविवक्षया४ निर्देशः । पश्यते योगेन युक्त आत्मा यस्यासौ । सर्वत्र समदर्शनो ब्रह्मदृष्टिरित्यर्थः ॥ २९ ॥ सर्वत्र परमात्मानम् (यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ भगवद्गीता_६.३० ॥) यो मामिति । यो मां पश्यति६ सर्वत्र तस्याहं न प्रणश्यामि । न तिरोभवामि । स च मे न तिरोभवति । मत्स्वरूप एवासौ भवतीति ॥ ३० ॥ __________ टिप्पणी १. णात्मानं युञ्जन्यो तु समस्तकल्मषः व २. सर्वभूतानि चात्मनि ल ३. आहङ्कारपरिछिन्न व ४. परमात्मनिरात्मपरयोरभेदविवक्षया व ५. २८ व्ल ६. द्यश्यनि व ____________________________________________________________________ पृष्ठ १५९ फलकथनमेतत्क्रियते१ । किं च सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः । सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ भगवद्गीता_६.३१ ॥ (सर्वभूतेति) २ अर्वभूतस्थितं यो मामेकत्वमास्थितो भजते । सर्वथा वर्तमानोऽपि वा मयि मद्विकारे वाक्प्रपञ्चे३ चेतसा वर्तमानो मय्येवासौ च वर्तते । ब्रह्मात्मना दृश्यमानं४ सर्वं ब्रह्मैव सम्पद्यते यथोदकात्मना दृश्यमानः५ फेनतरङ्गादिस्तत्रैवान्तर्भवति तद्वत् । अन्ये तु यथेष्टचेष्ठमपीति वदन्ति । तदयुक्तम् । नहीदृशस्य यथेष्टचेष्टता भवति ॥ ३१ ॥६ योगिनः सर्वभावेषु मैत्रीभाव७ उपदिश्यते (आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ भगवद्गीता_६.३२ ॥) आत्मौपम्येति८ । उपमाया भाव औपम्यम्९ । तेनात्मौपम्येनात्मसादृश्येनेत्यर्थः । सर्वत्र भूतेषु सुखं१० वा पश्यति । समम् । यथा मम सुखं प्रियं तथान्येषाम् । यथा मे दुःखमप्रियं तथा परेषामिति । स योगी परमो मतः ॥ ३२ ॥११ सर्वत्राद्वैतदर्शनलक्षणो योग उक्तः । तस्य१२ (ज्ञानम्) असम्भवम् । __________ टिप्पणी १. कथनमेत क्रियते व २. सर्वभूतास्थित व ३. मद्विकारोवाक्यपचे व ... वाक्यपञ्चे ल ४. दश्यमानं व ५. दश्यमान व ६. २९ व्ल ७. मैओभाव व ८. आत्मौपन्येति व ९. भाडौपम्यं व १०. सुखं व ११. ३० व्ल १२. युक्तस्तस्या व ____________________________________________________________________ पृष्ठ १६० अर्जुन उवाच (योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन । एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ भगवद्गीता_६.३३ ॥) योऽयमिति । योऽयं योगस्त्वया प्रोक्तो मनसश्चञ्चलत्वात्स्थिरां स्थितिं तस्य१ न पश्यामि ॥ ३३ ॥१ यस्मात् (चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ भगवद्गीता_६.३४ ॥) चञ्चलमिति३ । चञ्चलं हि मनः कृष्ण४ अतिचञ्चलमितस्ततो धावमानम्५ । प्रमथितुं६ शीलमस्येति प्रमाथि । बलवद्वेगवद् दृढं भेदवासनया घनीकृतम्७ । तस्याहं निग्रहं८ निरोधमात्मन्यवस्थानम् । वायोरिव सुदुष्करं मन्ये ॥ ३४ ॥९ भगवानुवाच१० (असंशयं महाबाहो मनो दुर्निग्रहं चलम् । अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ भगवद्गीता_६.३५ ॥) (असंशयमिति) । निग्रहमवस्थानम् । असंशयम्११ यथावदवसितं तथा । किं त्वभ्यासेन । परमात्मनि पुनः पुनश्चित्तप्रवेशनम् अभ्यासः । शास्त्रेण सर्वं ब्रह्मेति सामान्येन१२ विज्ञाय हृदयकमलनिलये१३ परमात्मानं चिन्तयतश्चित्तं१४ दृढभूमिकं१५ __________ टिप्पणी १. स्थिरास्थितिस्तस्य व २. ३१ व्ल ३. चञ्चलमिति व ४. कृस्म व ५. अतिचञ्चलमितं धावमानं व्ल ६. प्रथमितु व ७. धनीधुवं व ८. निग्रंह व ९. मन्य ३२ व ..ं जन्ये ३२ ल १०. भगवानुवाच ११. निग्रहमवस्थानमसंशयमिति ल सर्व व १२. साभामेन व १३. ददयक्रमल व १४. चितवश्वित्तं व १५. दटभूमिकं व ____________________________________________________________________ पृष्ठ १६१ भवति । एवमभ्यासेन गृह्यते वैराग्ये(ण च) । न प्रपञ्चविषयं वैतृष्ण्यं वैराग्यम् । यत्प्रपञ्चविषयफलं१ तत्सर्वमशाश्वतम् इति दोषदर्शनाद्वैतृष्ण्यमुत्पद्यते ॥ ३५ ॥२ एतावानिह निश्चयः (असयतात्मना योगो दुष्प्राप इति मे मतिः । वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ भगवद्गीता_६.३६ ॥) असंयतेति । असंयतात्मना३ अवशीकृत आत्मा मनो यस्य तेन४ योगो दुष्प्रापो न शक्यते प्राप्तुम् । वश्यात्मना तु यतता यत्नं५ कुर्वता शक्योऽवाप्तुमनन्तरोक्तोपायेन६ ॥ ३६ ॥ यदा तु योगोऽप्रप्तः केनचिद्दौर्बल्येन७ तदा तस्य का गतिरिति प्रष्टुमुवाच (अयतिः श्रद्धयोपेतो योगाच्चलितमानसः । लिप्समानः सतां मार्गं प्रमूढो ब्रह्मणः पथि ॥ भगवद्गीता_६.३७ ॥ अनेकचित्तो विभ्रान्तो मोहस्येव वशं गतः । अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ भगवद्गीता_६.३८ ॥) अयतिरिति । अनेकचित्तो९ विभ्रान्तो मोहस्येव वशं गत इति च । अयतिर्यत्नरहितः श्रद्धया चोपेतो१० योगाद्योगसकाशाच्चलितमानसो ऽनिवृत्तमनाः । अप्राप्य योगसंसिद्धिं मुक्त्यभावे११ कां गतिं कृष्ण गच्छति । नीलोत्पलदलच्छविः१२ कृष्णो युगानुरूपवर्णो वा ॥ ३७३८ ॥१३ __________ टिप्पणी १. प्रपञ्च ... वैराग्यं यत् इति वकोषे नास्ति २. वितृस्त्यमुत्पद्यते । ३३ व्ल ३. असंषतेति असंयतात्माना व ४. ज्ञेन व ५. पत्नं व ६. वाप्तु मनररोक्तेनोपायेन ३४ व येन ३४ ल ७. केनचिदौर्वल्पेन व ८. षष्ट उवाच व ९. ... चित्तो व १०. श्रद्धयाचोयेग्रो व ११. मुत्तरभावे व १२. ... लदछविः व १३. ३६ व्ल ____________________________________________________________________ पृष्ठ १६२ प्रश्नमेव१ सोपपत्तिकं कर्तुमाह (कच्चिद्२ उभयविभ्रष्टः शारदाभ्रमिव नश्यति । अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ भगवद्गीता_६.३९ ॥) कच्चिदिति । कच्चिदिति प्रश्नार्थो निपातितः । उभयस्माद् भ्रष्टः३ । कर्म तावन्न फलार्थं कृतमीश्वरे समर्पितत्वात् । न च ज्ञानं मुक्तिसममुत्पन्नम्५ । तस्मादुभयभ्रष्टः । किं शारदाभ्रमिव वृष्टिरहितं नश्यति किं वा नेति । अप्रतिष्ठो न विद्यते प्रतिष्ठा यस्य । ब्रह्मणः पथि ब्रह्मप्राप्तिमार्गे विमूढो न(श्यति) ॥ ३९ ॥ (एतन्मे संशयं कृष्ण च्छेत्तुमर्हस्यशेषतः । त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ भगवद्गीता_६.४० ॥) एतदिति । एतं मे संशयं कृष्ण च्छेत्तुमपनेतुमर्हसि । कस्मात् । त्वदन्यः संशयस्यास्य च्छेत्ता जगति नोपपद्यते ॥ ४० ॥६ उत्तरं भगवानुवाच (पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न हि कल्याणकृत्तातो गच्छति कश्चिद्दुर्गतिम् ॥ भगवद्गीता_६.४१ ॥) पार्थेति । हे पार्थ इह लोके परत्र वा (न) तस्य नाशोऽस्ति । कस्मात् । न हि कल्याणकृत्पुण्यकृद्दुर्गतिं कश्चित्तातो गच्छति । तनोति पुत्रमिति यद्यपि तातः पितोच्यते तथाप्यन्यत्रापि८ दृश्यते पूजार्थम्९ ॥ ४१ ॥१० __________ टिप्पणी १. प्रश्रमेघ व २. कश्चित्ल्व ३. भष्टः कर्म तावत्रफलांर्थ व ४. ... इश्वेरे व ५. ... समुत्पत्रं व ६. ३७ व्ल ७. कृदुर्गति व ८. तथापि न्यत्रापि ९. पूजार्थ ल १०. ३८ व्ल ____________________________________________________________________ पृष्ठ १६३ (प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ भगवद्गीता_६.४२ ॥ अथ वा योगिनामेव जायते धीमतां कुले । एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ भगवद्गीता_६.४३ ॥) प्राप्येति१ । अथेति च । यदुक्तवान् फलोद्देशेन२ न कर्म कृतम् ईश्वरोद्देशेन कृतत्वादिति३ । अत एव तस्य पुण्यकृल्लोकप्राप्तिः । न हि मामुद्दिश्य कृतमफलाय भवति । भोगायापवर्गाय वा तत्सम्पद्यते । पुण्यकृताम् इति विशेषणाद्४ ये त्यक्तकर्माणः५ केवलाज् ज्ञानान्मुक्तिमिच्छन्ति तेषां दुर्गतिरेवेति दर्शयति । (नापि) अभिज्ञानस्य भोगः फलं कल्पयितुं शक्यम् अविद्यानिवृत्तिद्वारेण (तस्य) मुक्त्यर्थत्वात्६ । न च कर्माभावो भोगहेतुः सर्वेषां प्रसङ्गात् । तदेतद्भागवतमुत्तरं कर्मयोगिनामुपपद्यते नान्येषाम् । शाश्वतीः बह्वीः७ समाः संवत्सरान् शुचीनामाचारवतां श्रीमतामैश्वर्यवतां गेहे जायते । अधिकारतस्तस्यापेक्षया पक्षान्तरमुच्यते । अथवा योगिनामेव योगाभ्यासरतानां दरिद्राणां कुले वंशे जायते । धीमतामुत्पद्यते । धीमतामेतद्धि दुर्लभतरमीदृशं जन्म ॥ ४२४३ ॥८ स तु जातः (तत्र तं बुद्धिसंयोगं लभते पूर्वदैहिकम् । ततो भूयोऽपि यतति संसिद्धौ कुरुनन्दन ॥ भगवद्गीता_६.४४ ॥) __________ टिप्पणी १. माष्येति व २. फलोदेशेन व ३. नु कर्मकृतं मीद्यपि तातः पीतोच्यतेतुत्थापि न्यत्रापि दृश्यश्वरोदेशेन कृतत्वात्व ४. मित्यविशेषणात्व ५. ज्यक्रकुकर्माणः व ६. मुक्त्यार्थत्वान्न व ७. शाश्वतार्वद्वौः व ८. धीमताद्धिदुर्लभतरंमीदर्शजन्म ४ व धीमताद्धि दुर्लभतरमीदंशं जन्म ४० ल ____________________________________________________________________ पृष्ठ १६४ तत्रेति । तत्र तं बुद्धिसंयोगमात्मविषयया१ बुद्ध्या संयोगं लभते । पूर्वदैहिकं२ पूर्वजन्मनि भवम् । ततो यतति भूयोऽपि ततोऽधिकतरं यतते । संसिद्धौ विमुक्तिनिमित्तम् । हे कुरुनन्दन ॥ ४४ ॥ कथं पुनरसौ पूर्वदैहिकं३ बुद्धिसंयोगं लभते तदाह४ (पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सन् । जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ भगवद्गीता_६.४५ ॥) पूर्वाभ्यासेति । पूर्वजन्मसञ्चितः संस्कारस्तेन ह्रियते प्राप्यते बुद्धिपूर्वसंयोगं प्रत्यवशोऽपि५ सन् । किं च । जिज्ञासुरपि योगस्य ज्ञातुमिच्छुरपि शब्दब्रह्म वेदोक्तं केवलं कर्मातिवर्तते६ । योगजिज्ञासापि केवलात्कर्मणो गुरुतरेत्यभिप्रायः ॥ ४५ ॥ किं च७ (प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः । अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ भगवद्गीता_६.४६ ॥) प्रयत्नादिति । प्रयत्नाद्यतमानस्तु योगी प्रकृष्टेन योगेन यत्नेन८ योगार्थं यतमानो९ योगी संशुद्धकिल्बिषः१० योगेन (या)तीति स्मरन्ति योगशास्त्रविदः । किं पुनः क्षुद्रपापानि । न ह्येकस्मिन्नेव११ जन्मनि योगी मुच्यते । अनेकजन्मजनितयो(गेन संसिद्धो भवति) । ततो याति परां गतिम् ॥ ४६ ॥१२ __________ टिप्पणी १. विषया ल २. ... देहिकं व ३. देहिकं ल ४. तदाहा ॥ ४१ ॥ व ५. प्रज्यवशोपि व ६. कर्मातिवर्तवर्तते व ७. किं च ४२ व्ल ८. यतमानस्तुयत्नेन व ९. यतस्मानो व १०. ... किल्विषः व ११. नह्येक्रास्मिन्नेव व १२. ... जानित । नतो यानि परां गतिम् ४३ व ... ४३ ल ____________________________________________________________________ पृष्ठ १६५ योगमाहात्म्यं दर्शयन्नध्यायमुपसंहरति१ (तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽप्यधिको मतः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ भगवद्गीता_६.४७ ॥) तपेति । कृच्छ्रचन्द्रायणोपवासपरेभ्यः२ केवलकर्मिणोऽपि कर्मग्रहणेन३ तद्विषयस्य ज्ञानस्याक्षिप्तत्वात्४ पूर्वत्रात्मज्ञानं विवक्षितम् । तस्माद्योगी भवार्जुन । गृहस्थस्यार्जुनस्य योगोपदेशात् सन्न्यासिनामेव षष्ठे योगोपदेशः कृत इति यैर्व्याख्यायते तेषामुपसंहारविरोधः ॥ ४७ ॥५ (योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ भगवद्गीता_६.४८ ॥) योगिनामिति । आदित्यं रुद्रमन्यां६ वा देवतां ये युञ्जते तेषां७ योगिनामपि सर्वेषां मद्गतेनानन्तरात्मना८ मां गतेन मदासक्तचेतसा श्रद्धावानास्तिक्यबुद्धिर्भजते९ यो मां स मे युक्ततमो मत इति ॥ ४८ ॥१० (इति श्री)भगवद्भास्करकृते गीताभाष्ये षष्ठोऽध्यायः ॥ ६ ॥ __________ टिप्पणी १. माहात्म्यदर्शयत्रध्याय व २. कृछाचान्द्रायणोपवासरेभ्यः व ३. केवलकर्मिणो कर्म ल ४. जानेस्याक्षिप्तत्वात्व ५. ४४ व्ल ६. अन्यं व अन्यं देवतां ल ७. तेषो व ८. महतेनान्तरात्मना व ९. समदासक्तचेतसा श्रद्धवातास्तिवा बुद्धिर्मजत्ये व १०. ४४ व्ल ____________________________________________________________________ पृष्ठ १६६ अथ सप्तमोऽध्यायः ।१ षष्थेऽध्याये समाधिरुक्तः । यत्र समाधीयते२ चित्तं तदीश्वराख्यं ब्रह्म सविस्तरं वक्तव्यमित्यध्याय आरभ्यते । न ह्यज्ञातस्वरूपस्योपासनं६ शक्यं कर्तुमिति । भगवानुवाच४ (मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रितः । असंशयं समग्रं मां यथा ज्ञास्यसि तच्छ्रुणु ॥ भगवद्गीता_७.१ ॥) मयीति । मयि परमेश्वरे५ स्वाभाविकस्नेहार्द्रचेता६ योगं युञ्जानः कुर्वाण इत्यर्थः । मामाश्रितो मदाश्रितोऽनन्यशरणः । संशयरहितं समग्रं कृत्स्नं मां यथा येन प्रकारेण ज्ञास्यसि प्रतिपत्स्यसे तच्छ्रुणु ॥ १ ॥ विस्तरप्रकारं दर्शयति (ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा न पुनरन्यज्ज्ञातव्यमवशिष्यते ॥ भगवद्गीता_७.२ ॥) ज्ञानमिति । ज्ञानमीश्वरस्वरूपबोधनम् । तद्विज्ञानसहितं७ वक्ष्यामि । विशेषज्ञानम्८ सोऽहम् इत्यादि । इदमिति पूर्वोक्तं परामृश्यते । वक्ष्यामि । कार्त्स्येन९ । यज्ज्ञानं१० ज्ञात्वा नेह लोके ज्ञातव्यं पुनरवशिष्यते ॥ २ ॥ __________ टिप्पणी १. श्रीजारयणाय नमः व् लकोषे नायमंशः २. समाधीयतो व ३. नह्यज्ञानतस्वरूपस्योपसानं ल ४. ममवानुवाच व ५. प्रयिप्ररेमेश्वरे व ६. स्वभाविकास्नेहार्द्रचेता ल स्नेहान्द्रवेतायोगुंयुजानः व ७. वितानसहितं व ८. ... ज्ञाने व ९. कात्स्येन व १०. यज्ञानं व ____________________________________________________________________ पृष्ठ १६७ दुर्लभं च मत्स्वरूपज्ञानम् । कथम् (मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वित्ति तत्त्वतः ॥ भगवद्गीता_७.३ ॥) मनुष्येति । मनुष्याणां सहस्रेषु मध्ये कश्चिद्यतति सिद्धये यत्नं१ करोति । यततामपि तेषां सिद्धानां२ सिद्ध्यर्थं३ प्रवृत्तानामित्यर्थः । कश्चिन्मां वेत्ति तत्त्वतः४ याथातथ्येन ॥ ३ ॥ श्रोतारमभिमुखीकृत्येदानीं५ सविस्तरमात्मानं कथयति (भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ भगवद्गीता_७.४ ॥) भूमिरिति । भूमिरापोऽनलो वायुः खमिति पञ्चापि भूतमात्रा निर्दिश्यन्ते६ स्थूलशरीरारम्भिण्यः । मनो बुद्धिरित्यन्तःकरणं निर्दिश्यते । मनोग्रहणेन बाह्यमपि करणं गृह्यते बुद्धीन्द्रियकर्मेन्द्रियलक्षणम्७ । अहङ्कार इत्यनात्मन्यात्माभिमान आत्मनि चानात्माभिमानः । स८ उभयविधो विपरीतप्रत्ययः संसारहेतुर्यमविद्येत्य् आचक्षते । मे मदीयाष्टधा भिन्ना प्रकृतिः स्थावरजङ्गमलक्षणस्य भूतजातस्य ॥ ४ ॥ इमामचेतनां प्रकृतिं पृथक्कृत्य चेतनां निर्देष्टुमाह८ (अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ भगवद्गीता_७.५ ॥) अपरेति१० । अपरेयमष्टधा११ भिन्ना प्रकृतिरपरा भोग्यरूपा१२ __________ टिप्पणी १. यत्वं व २. सिद्गानां ३. सिद्धार्थं व ४. तत्वतः व ५. श्रीत्तारमभिमुखीकृत्य व ६. वायुरिति ल्व ॥ निदिश्यते व ७. बुद्धिद्रियकर्मेदिय लक्षण व ८. स इति वकोषे नास्ति ९. इमामचेतना प्रकृति पृथकृत्य चेतनां निर्दंष्टुमाह व १०. अपरोति व ११. अपरेयामष्टधा व १२. भोपरूपा व ____________________________________________________________________ पृष्ठ १६८ परतन्त्रा । अपरां प्रधानभूतां१ प्रकृतिमितोऽन्यां मत्सम्बन्धिनीं विद्धि । जीवभूतां जीवत्वं प्राप्तां२ भोक्तृरूपेणावस्थिताम् । यया प्रकृत्येदं४ धार्यते जगदन्तरनुप्रविष्टम्५ । (तथा च) श्रुतिः अनेन जीवेनात्मनानुप्रविश्य६ नामरूपे व्याकरवाणि इति ॥ ५ ॥ द्वाभ्यां प्रकृतिभ्यां भूतानि जायन्त इत्याह७ (एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ भगवद्गीता_७.६ ॥) एतदिति । एते द्वे८ प्रकृती योनी येषां भूतानां तान्येतद्योनीनि । तत्र याचेतना प्रकृतिः सा कार्यकारणरूपेण परिणमते । या तु चेतना सा स्वकर्मोपार्जितफलभोक्तृरूपेणावतिष्ठते९ । तान्येतानि जीवाविष्टानि भूतानि१० सर्वाणीत्युपधारय । ते च मत्सम्बन्धिन्यौ११ । कथमचेतना मत्तो जाताश्चेतनाः पुनर् मदसम्भूताः । यत एवमतोऽहं कृत्स्नस्य जगतः प्रभवः प्रलयस् तथा । प्रभवन्त्यस्मादिति१२ प्रभवः । प्रलीयन्तेऽस्मिन्निति प्रलयः१३ । कथं पुनर्गम्यते समस्तस्य जगतो मूलकारणं ब्रह्म इति । श्रुतेः सदेव सौम्येदमग्र आसीत् इति । तदैक्षत स आत्मा इति । सदात्मशब्दाभ्याअं परामर्शाच्चेतनं१४ कारणं निश्चीयते । न ह्यनुमानेन१५ केवलेनात्यन्तातीन्द्रियं जगत्कारणं कश्चित् समर्थयितुं शक्तः । असिद्धानैकान्तिकविरुद्धदोषदुष्टत्वात्१६ । __________ टिप्पणी १. भ्रूताङ्कृति... व २. जीवत्वप्रप्तां व ३. भोक्तुरूपे व ४. प्रकृत्या इदं व ५. ... प्रविष्ट व्ल ६. श्रुतिर्जविनात्मना व ७. इत्याह ॥ ५ ल्व ८. एत द्वे व ९. भोक्तूरूपेणावतिष्टते व १०. मूतानि व ११. सत्सम्बन्धिन्यौ व १२. प्रभवज्यस्मादिति व १३. प्रालीयते व १४. स आत्मेङ्कृत्यात्मशब्दाभ्यां परामशेश्चेतनं व १५. मह्यनुमानेन व १६. कश्चित्समर्थ ... दुष्टत्वातंशोयं नास्ति वकोषे ____________________________________________________________________ पृष्ठ १६९ तत्र साङ्ख्याः प्रधानं जगत्कारणं वर्णयन्ति । नैयायिकवैशेषिकाः परमाणून् । तत्र वादिनः परस्परविरुद्धं जल्पन्तो नाद्याप्यन्तं गताः१ । श्रुतिविरोधाच्चानुमानमाभासीभवति । यत्पुनरनुमानं श्रुत्यनुसारि तदनुग्राहकत्वेनोपन्यस्यते तदाश्रीयते । येन सर्वज्ञः सर्वशक्तिश्चेतनो जगत्कर्ता साध्यते । तार्किकानुमानेन२ तु यस्य यत्र कर्तृत्वं तत्परिज्ञानवतस् तच्छक्तियुक्तस्य३ कर्तृत्वोपपत्तेः । रथप्रासादादिकर्तृवदिति४ । अनेन५ चासर्वज्ञस्यासर्वशक्तेरनीश्वरस्य६ सिद्धेः प्रकृतवस्त्वसिद्धेर् अनाश्रयणमिति ॥ ६ ॥ यत एवम्७ (मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ भगवद्गीता_७.७ ॥) मत्त इति । मत्तः परतरं नान्यदहमेव सर्वस्माज्जगतः परतरो मूलकारणत्वात् । कथं पुनरस्य कारणत्वम् । शक्तिपरिणामात् । तथा च श्रुतिः८ तदात्मानं स्वयमकुरुत यथोर्णनाभिः९ सृजते गृह्णते१० च । ११ प्रच्युतस्वरूपस्याप्यचिन्त्यशक्तित्वात्परिणामो भवतीति । यथाकाशो१२ वायुरूपेण परिणमते न स्वरूपविनाशो वायोश्च पञ्चवृत्तिरूपेणाध्यात्मम्१३ । __________ टिप्पणी १. जगत्कारण वर्णयन्ति । नैय्यायिकवैषिकाः परमांणूस्तत्रवादिनं कश्चित्समार्थयितु शक्तो सिद्धानैकान्तिकविरुद्रदोषदुष्टत्वात्तत्र साङ्ख्यः प्रधानं जगत्कारणं परस्परविरुद्धं जल्पन्तोनाद्याप्यन्तं गताः व २. चतनो ... तार्किकानुमनिन व ३. ... स्तछक्तिस्य व ४. ... प्रसाद व ५. ... वादिज्यनेन व ६. ... सर्वशक्तोरनीश्वर व ७. यत एव ल ८. ... परिणाम तथा च श्रुति व ९. यथोर्णनाभः ल यथो नाभः व १०. गृह्णते व ११. चाप्रत्त्युतस्वरूप व १२. षथाकाशो व १३. ... विनोशो वायोश्च पश्चवृत्तिरूपेणाध्यात्म व ____________________________________________________________________ पृष्ठ १७० यथा च तन्तुभ्यः१ पटो जायते तन्तुस्वरूपप्रच्युतिः२ । विचित्रशक्तयो हि भावाः । तथा चोक्तं पुराणे अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् । प्रकृतिभ्यः३ परं यत्तु तदचिन्त्यस्य४ लक्षणम् ॥ इति । तथा च मन्त्रः न तस्य कार्यं करणं च विद्यते न५ तत्समश्चाभ्यधिकश्च विद्यते । परास्य शक्तिर्विविधैव६ श्रूयते स्वाभाविकी७ ज्ञानबलक्रिया च ॥ इति । मयि कारणे सर्वमिदं कार्यं प्रोक्तं ग्रथितमनुस्यूतमित्य् अर्थः । यथा कार्पाससूत्रे८ मणिगणा यथा च मृदि शरावादय इति ॥ ममैताः शक्तयो या अबादिषु रसादिरूपा जगतः संस्थितिहेतवस् ता दर्शयति९ (रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः । प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ भगवद्गीता_७.८ ॥) रस इति१० । रसः सारो येन शरीरपुष्टिर्भवति११ । इह प्रकरणे जगत्स्थितिहेतूनां१२ सङ्कीर्तनम् । विभूतिप्रकरणे तु कारणमकारणं वा यदुत्कृष्टं१३ सत्त्वं तदुपदिश्यते । चिन्तनीयं यदुत्कृष्टं सत्त्वं तदुपदिश्यते१४ । चिन्तनीयत्वेनेत्यपुनरुक्तता१५ । मे __________ टिप्पणी १. ततुभ्यः व २. जायते तु स्वरूपप्रत्युति व ३. अचित्या ... साधयेर्थप्रकृतिमभ्यः व ४. परं यत्तदचिन्त्यस्य व ५. न मत्समश्च व ६. विविधं व व ७. स्वाभाविकौ व ८. कार्पस व्ल ९. हेतवंस्थादर्शषति व १०. रस इति व ११. रसासारं येन शरीरयुष्टिर्भवति व १२. तगत्स्थिति व १३. युदुत्कृष्ट व १४. तदुपदिश्यर्ते व १५. ... त्वेनेत्युपुनदुक्तता व ____________________________________________________________________ पृष्ठ १७१ रसरूपप्रोता आप इति केचिद्योजयन्ति । तदसत् । यथाश्रुतान्वयभङ्गप्रसङ्गात् । स्थितिनिमित्तानां च धर्माणाम् इह वक्तुमिष्टत्वात् । प्रभास्मि । प्रकाशः शक्तिः । प्रणव ओङ्कारः । सोऽपि ध्यानजपादावुपयोगादुत्कर्षहेतुः । शब्दोऽस्म्याकाशे२ । शब्देन हि३ सर्वलोकव्यवहारः प्रवर्तते । पुरुषस्येदं पौरुषं पुंस्त्वं प्रजननकारणम् ॥ ८ ॥ (पुण्यं पृथिव्यां गन्धोऽस्मि तेजश्चास्मि विभावसौ । जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥ भगवद्गीता_७.९ ॥) किं च (बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् । बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ॥ भगवद्गीता_७.१० ॥) बीजमिति । बीजं मूलकारणं मां विद्धि जानीहि । सनातनं नित्यम् । बुद्धिरस्मि बुद्धिमतां८ बृहस्पतिभार्गवादीनाम्९ । तेजः प्रभावोऽस्मि तेजस्विनां१० राज्ञाम् ॥ १० ॥ (बलं बलवतां चाहं कामरागविवर्जितम् । धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥ भगवद्गीता_७.११ ॥) बलमिति । बलं बलवतां११ चाहम् । तद्विशिनष्टि कामरागविवर्जितम् । कामेन रागेण च रहितम् । तत्समुत्थं१२ तु यद्बलं __________ टिप्पणी १. ध्याननयादावुप व २. शब्दौस्स्याकाशे व ३. शब्दे सर्वनहि व ४. प्रजनकारणं व्ल ५. गधः व ६. पुराषहेतुत्वात्व ७. हिरण्यरेतासि व ८. बुद्धिवतां व्ल ९. ... तिर्भार्गवादीनां व १०. तेजास्विनां व ११. वलवता व १२. तत्समुत्पं व ____________________________________________________________________ पृष्ठ १७२ प्रत्यवायनिमित्तम् । स्वाभाविकं तु यद्बलं तदुत्कर्षकारणम् । यथा वैनतेयादीनाम् । धर्मेणाविरुद्धः१ कामो भूतेषु सोऽहम् अस्मि यथा स्वदारेषु ॥ ११ ॥ किं च (ये चैव सात्त्विका भावास्तामसा राजसाश्च ये । मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥ भगवद्गीता_७.१२ ॥) ये चैव सात्त्विका भावा इति । सत्त्वनिवृत्ताः । सात्त्विका देवादयो राजसा असुरा मनुष्याश्च२ तामसाः सर्पादयो३ मत्त एव इति तान् विद्धि । न त्वहं तेषु । नाहं जनाश्रितः । ते तु पुनर्मयि वर्तन्ते४ । मदधीनवृत्तय इत्यर्थः ॥ १२ ॥ अथेदानीं५ गुणानां स्वभावः कश्चिद्कथ्यते (त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाबिजानाति मामेभ्यः परमव्ययम् ॥ भगवद्गीता_७.१३ ॥) त्रिभिरिति । त्रिभिर्गुणमयैर्भावैः६ कृत्स्नमिदं जगन्मोहितम् । नाभिजानाति मामेभ्यो गुणेभ्यः परमव्ययं व्ययरहितम् ॥ १३ ॥ त्रिभिरेतैर्गुणैर्मोहितस्य संसारकान्तारोत्तारो नास्तीत्याह (दैवी ह्येषा गुणमयी मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ भगवद्गीता_७.१४ ॥) दैवीति । देवस्येयं दैवी७ । हिशब्दो हेतौ । यस्य देवस्य मम माया निर्मीयते न (मायाविकाः)८ । न जातमिति प्रकृतिर् __________ टिप्पणी १. तदुत्कर्षकानष्टिकामरागाविरणंयथावैननेयादीनां धर्मेणाविरुद्ध्य ल् ।व धर्मेण विरुद्धा ल २. मानुषाश्च व ३. तामसाः यदियो व ४. वर्तते व ५. अथेदांर्न व ६. गुणमयेर्भावैः ७. देवी व ८. निमीयते व ९. न याविका ल ____________________________________________________________________ पृष्ठ १७३ ईश्वरादुत्पन्ना मायोच्यते । श्रुतिश्च निर्वक्ति१ मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् इति । न साङ्ख्यानामिव नित्या । यत्र मायाशब्दः प्रज्ञावचनः प्रयुज्यते तत्रेयं व्युत्पत्तिः । मीयते परिच्छिद्यते२ प्रमेयोऽर्थ इति प्रज्ञा माया । यथा इन्द्रो मायाभिः पुरुरूप ईयते४ अतीन्द्रियप्रज्ञाभिरित्यर्थः । दुरत्यया दुःखेनात्ययोऽतिक्रमोऽस्या इति दुरत्यया । यद्येवं शास्त्रोपदेशानर्थक्यम् । नेति ब्रूमः । मामेव ये प्रपद्यन्ते ते मायां तरन्तीति न दोषः ॥ १४ ॥ ननु ये प्रपद्यन्त५ इति विशेषणमनर्थकम् । नेत्युच्यते । अर्थवदेव (तत् ।) कथम् (न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृतज्ञाना आसुरं भावमाश्रिताः ॥ भगवद्गीता_७.१५ ॥) न मामिति६ । माययानन्तरोक्तया प्रकृत्यापहृतज्ञाना आसुरं भावं शाट्यानृतादिलक्षणमाश्रिताः ॥ १५ ॥ के पुनस्ते ये त्वां प्रपद्यन्ते७ (चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ भगवद्गीता_७.१६ ॥) चतुर्विधा इति । चतुर्विधाश्चतुष्प्रकाराधिकारिणो८ मां भजन्ते । आर्तो व्यसनापन्नः । जिज्ञासुः परमेश्वरसम्बोधने यतमानः । अर्थार्थी द्रव्याकाङ्क्षी । ज्ञानी ब्रह्मवित् ॥ १६ ॥ __________ टिप्पणी १. निर्वभक्ति व २. मेयते परिछिद्यते व ३. इन्द्रमाभिः ल ४. पुरुषरूपदेयते व ५. प्रद्यं त इति व ६. न स्ममिति व ७. प्रतिपद्यन्ते व प्रतिपद्यन्ते ल ८. अत्र वकोषस्य समाप्तिः ____________________________________________________________________ पृष्ठ १७४ किं च सर्वे तुल्याः । किञ्चैषां कश्चिदधिक इति पृच्छायां प्राप्तायामाह (तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ भगवद्गीता_७.१७ ॥) (तेषामिति ।) तेषां ज्ञानी नित्ययुक्तः । निर्धारणे षष्ठी । नित्ययुक्तः सतताभ्यासी । मय्येकस्मिन् भक्तिर्यस्यासावेकभक्तिः१ । स विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थम् । विश्वस्य जगतोऽन्तरात्मा परमात्मा । ममापि चायमेवात्मेति मन्यमानो नैसर्गिकस्नेहप्रतिबद्धबुद्धिर् अतितरां भूयो भूयोऽनुरज्यते । स च मम प्रिय इति ॥ १७ ॥ यद्यपि रागद्वेषावीश्वरस्य न स्तः । तथापि शास्त्रार्थयाथात्म्यवेदित्वादैकात्म्यप्राप्तेः प्रिय इत्य् उच्यते । इतरेभ्य आर्तादयः२ परमेश्वरमाश्रयन्तोऽन्येभ्यो महाकालभक्तेभ्यः प्रकृष्टतरा इति दर्शयितुमाह (उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतः । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥ भगवद्गीता_७.१८ ॥) उदारा इति । उदाराः सर्व एवैते उत्कृष्टाः । ज्ञानी तु निरुपचारमात्मैव मे मतः । कथम् । आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् । न विद्यतेऽन्योत्तमा यस्या गतेस्ताम् अनुत्तमाम् ॥ १८ ॥ किमेकस्मिन्नेव जन्मनि ज्ञानीत्थं३ त्वा त्वां भजते४ __________ टिप्पणी १. भक्तिर्यस्यासावेकभक्तिर्यस्यासावेकभक्तिः २. इहेरेभ्य आर्तादयोः ३. ज्ञानीत्य ४. भजन्ते ____________________________________________________________________ पृष्ठ १७५ किं वानेकस्मिन्निति । यद्येकस्मिन्नेव तदार्तादीनामपि ज्ञानित्वप्रसङ्गः । तत्र तारतम्यं नोपपद्यत इति परमतम् आशङ्क्याह (बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते । वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ भगवद्गीता_७.१९ ॥) बहूनामिति । यत एते आर्तादयः तेषामपि भगवति जन्मान्तरवासनास्ति । यतो नारायणमेव ते भजन्ते नान्यां देवताम् । ज्ञानी पुनरेकभक्तिः प्रयोजनान्तरनिरपेक्षः सन्न्यासकर्मयोगाभ्यां सम्पन्नो बहूनां जन्मनामन्ते मां प्रपद्यते । कथं प्रपद्यते । वासुदेवः सर्वमिति । वसन्ति तस्मिन् सर्वभूतानि । वसति वान्तर्यामि(त्वे)न सर्वभूतेष्विति वासुः । देवनाद्द्योतनाद्देवः । वासुश्चासौ देवश्चेति वासुदेवः परमात्मा । आत्मैवेदं सर्वम् सदेव सौम्येदमग्र आसीत् इदं सर्वं यदयमात्मा इति श्रुतेः । कारणात्मना प्रपञ्चात्मना चावस्थित इति प्रतिपद्यते । स महात्मा सुदुर्लभः । सन्ति हि द्वैतदर्शिनोऽपि भक्ताः ॥ १९ ॥ कस्मात्पुनश्चतुर्विधा एव१ भजन्ते न सर्वे (कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः । तं तं नियममाश्रित्य प्रकृत्या नियताः स्वया ॥ भगवद्गीता_७.२० ॥) कामैरिति । कामैस्तैः पुत्रपश्वादिभिर्हृतज्ञानाः । रुद्रादित्यदुर्गागाणपतिप्रभृतयो (या) अन्या देवताः (ताः) ये भजन्ते (तं) तमुपवासादिनियममाश्रित्य प्रकृत्या पूर्वजन्मवासनया स्वया नियताः । देवतान्तरभक्तानां च तद्वासितचेतसां च ततो निवृत्तिर्नास्ति ॥ २० ॥ __________ टिप्पणी १. एवं ____________________________________________________________________ पृष्ठ १७६ कथम्१ (यो यो यां यां तनुं भक्तः श्रद्दयार्चितुमिच्छति । तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ भगवद्गीता_७.२१ ॥) य इति । यो यो यां यां तनुं भक्तः । तनुं देवतामूर्तिम् इत्यर्थः । तस्य तस्याचलां दृढां श्रद्धां तामेव विदधाम्यहम् । तत्कर्मानुसारेण । कर्मैव फलोत्पत्तौ निमित्तम् । ईश्वरस्तु कर्मानुविधायी नियन्तृत्वेनावतिष्ठते ॥ २१ ॥ (स तया श्रद्धया युक्तस्तस्याराधनमीहते । लभते च ततः कामान्मयैव विहितान् हि तान् ॥ भगवद्गीता_७.२२ ॥) स इति । स तया श्रद्धया युक्तस्तस्य देवताविशेषस्याराधनं पूजनमीहते चेष्टते निर्वर्तयति ततो लभते च कामानभिप्रेतार्थान्मयैव विहितांस्तान् । हिशब्दो हेतौ । यस्मादीश्वरः सर्वत्र फलदाता कर्मानुरूपेण । तथा (च) श्रुतिः एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एषां लोकानामसम्भेदाय इति । रहसि कृतानां प्रकाशकृतानां च कर्मणां फलपरिपाकविभागज्ञो हि सः ॥ २२ ॥ देवतान्तरोपासनात्फलं चेल्लभेत तदप्यस्तु । को दोष इति चेदाह (अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् । देवान् देवयजो यान्ति मद्भक्ताः शाश्वतं पदम् ॥ भगवद्गीता_७.२३ ॥) अन्तेति । देवान् देवयजो यान्ति प्राप्नुवन्ति । मद्भक्ताः शास्वतं पदम् ॥ २३ ॥ __________ टिप्पणी १. कथम् २० २. तनुदेवता ____________________________________________________________________ पृष्ठ १७७ किं पुनः कारणम् । केचिद्देवतान्तरं भजन्ते न त्वामिति तद् उच्यते (अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः । परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ भगवद्गीता_७.२४ ॥) अव्यक्तमिति । स्वभावतोऽव्यक्तमतिसूक्ष्मं सन्तं व्यक्तिं प्रकटभावमापन्नं मन्यन्ते मामबुद्धयोऽल्पबुद्धयः । अयमपि नारायणाख्यो विष्णुर्महादेवादिवद्देवताविशेष एव नात्राधिक्यं किञ्चिदस्तीति । परं भावमजानन्तः समस्तस्य जगतो मूलकारणमीश्वराणां ब्रह्मरुद्रेन्द्रादीनामप्यधीश्वरोऽयमित्यजानन्तो न मां भजन्ते ॥ २४ ॥ कस्यचिदेवाहमनेकस्मिन् जन्मनि भक्तिमुद्वहतः स्वरूपं विवृणोमि न सर्वस्य (नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ भगवद्गीता_७.२५ ॥) नाहमिति । नाहं प्रकाशः सर्वस्य । कथम् । योगमायया सञ्च्छन्न ऐश्वर्ययोगः स एव । मायासंवरणहेतुत्वात् । तस्मान्मूढोऽयं नाभिजानाति मामजमव्ययम् ॥ २५ ॥ अहं तु सर्वज्ञः कथम् (वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्यन्ति च भूतानि मां तु वेद न कश्चन ॥ भगवद्गीता_७.२६ ॥) वेदेति । वेदाहं त्रिकालविषयाणि भूतानि जानामि । मां तु वेद न कश्चन । अयं मूढो लोक इति । यः पुनर् ज्ञानी स जानाति वासुदेवः सर्वमिति ॥ २६ ॥ ____________________________________________________________________ पृष्ठ १७८ केनायं लोको मूढत्वमापन्नस्तदुच्यते (इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत । सर्वभूतानि सम्मोहं यान्ति सर्गे परन्तप ॥ भगवद्गीता_७.२७ ॥) इच्छेति । इच्छा रागः । रागद्वेषसमुत्थेन द्वन्द्वमोहेन । (द्वन्द्वानि) शीतोष्णसुखदुःखादीनि तत्सम्बन्धो मोहो द्वन्द्वमोहः । उपकारिषु परार्थेषु रागात्सुखं तत्सम्बन्धी मोहस्तन्निबन्धना च प्रवृत्तिरपकारिषु द्वेषो दुःखं तन्निबन्धना च निवृत्तिरिति । एवं प्रवृत्तिनिबद्धानि भूतानि सर्गे शरीरग्रहणेषु सम्मोहं यान्ति । यदि पुनर्द्वन्द्वशब्देन रागद्वेषयोः परामर्शः क्रियते तदा१ द्वन्द्वग्रहणमनर्थकमिच्छाद्वेषसमुत्थेन मोहेनेत्येतावद् वक्तव्यं स्यात् ॥ २७ ॥२ तत्र तु (येषां त्वन्तं गतं पापं जनानां पुण्यकर्मणाम् । ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ भगवद्गीता_७.२८ ॥) येषामिति । येषां त्वन्तं गतं पापं क्षीणं पापं३ पुण्यकर्मोपचयात् ते रागद्वेषसमुत्थद्वन्द्वमोहविनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥ एवम् (जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म तद्विदुः कृच्छ्रमध्यात्मं कर्म चाखिलम् ॥ भगवद्गीता_७.२९ ॥) (जरेति) । ये जरामरणमोक्षाय मामाश्रित्य यतन्ति प्रयतन्ते ते ब्रह्म तद्विदुः । कृच्छ्रमध्यात्मं कर्म चाखिलम् । वस्तुत्रयमेतदर्जुनप्रश्नादनन्तरमुत्तरं वक्ष्यामः ॥ २९ ॥ __________ टिप्पणी १. यदा २. स्यात्तत्र तु ॥ २७ ॥ ३. क्षीणपापं ____________________________________________________________________ पृष्ठ १७९ अपरमपि वस्तुचतुष्टयम् (साधिभूताधिदैवं मां साधियज्ञं च ये विदुः । प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ भगवद्गीता_७.३० ॥) साधिभूतेति ॥ ३० ॥ (इति श्रीमद्)भगवद्भास्करकृते गीताभाष्ये सप्तमोऽध्यायः ॥ ____________________________________________________________________ पृष्ठ १८० अथाष्टमोऽध्यायः । ते ब्रह्म तद्विदुः इति ये भगवतोपक्षिप्ताः पदार्थास्तांस् तत्त्वतो ज्ञातुमर्जुनः पृच्छति । अर्जुनः (उवाच) (किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ भगवद्गीता_८.१ ॥ अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ भगवद्गीता_८.२ ॥) किं तदिति । क इति स्वरूपप्रश्नतात्पर्यम् । कथमिति प्रकारप्रश्नः । केन प्रकारेणासौ देहेऽस्मिन् भवतीति । प्रयाणकाले मरणकाले केन प्रकारेण ज्ञेयोऽसि नियतचित्तैः ॥ १२ ॥ भगवान् (उवाच) (अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ भगवद्गीता_८.३ ॥) अक्षरमिति । न क्षरतीत्यक्षरं परमं ब्रह्म । एतद्वै तदक्षरं गर्गि ब्राह्मणा अभिवदन्ति इति श्रुतेः । स्वभावोऽध्यात्ममुच्यते । अक्षरशब्दवाच्यस्य परमात्मन आत्मीयो भावोऽंशो जीवोऽध्यात्ममात्मानं देहमधिकृत्य भोक्तृत्वेन वर्तत इति । भूतानां जीवानां भावो भावना कर्म । तस्य प्रलयकाले स्तिमितस्यावस्थितस्योद्भवो व्यक्तिः फलदानयोग्यतापादनम् । ____________________________________________________________________ पृष्ठ १८१ तं करोतीति भूतभावोद्भवकरो विसर्गो विसृष्टिर् हिरण्यगर्भादेः । तथा च मन्त्रः हिरण्यगर्भं जनयामास पूर्वं मनो बुद्ध्या शुभया संयुनक्तु इति । सोऽयमीश्वरस्यान्तर्यामिणो व्यापारः कर्मसञ्ज्ञितः । अपरेषां व्याख्या यजमानस्य व्यापारश्चरुपुरोडाशादीनां देवतोद्देशेन त्यागो विसर्गः । स एव बुद्धिद्वारेण भूतान्येव भावास्तेषामुद्भवं करोतीति भूतभावोद्भवकरः कर्मसञ्ज्ञित इति ॥ ३ ॥ (अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । अधियज्ञोऽहमेवात्र देहे देहभृतांवर ॥ भगवद्गीता_८.४ ॥) अधीति । अधिभूतं क्षरो भावः । क्षरति विनश्यतीति शरीरे विषयलक्षणः । चेतनो१ भोग्यवर्गो जायमानोऽनिरुद्ध्यमानः पुरुषश्चाधिदैवतम् । योऽसावादित्यमण्डले हिरण्यगर्भः सर्वदेवतामयः । कृत्स्नं वैराजं शरीरमापूर्यावस्थितः पुरुषोऽधियज्ञोऽहमेव । अत्र यज्ञानामधिदेवताहमेव । यज्ञो वै विष्णुः इति शतपथश्रुतेः । देहोऽधिकरणत्वेन व्यपदिश्यते न मम इदं देवताया इति मानसस्त्यागो याग उच्यते । ये च द्रव्ययज्ञा ज्ञानयज्ञाः स्वाध्याययज्ञस्तेषामहमेवाधिदेवतेत्यभिप्रायः । अन्येषां व्याख्या देहस्मिन् वैश्वानरविध्यङ्गभूताहुतिसाधनभूत२ इति । विशिष्टाहुतिसाधनोपलक्षणार्थे देहशब्दो यज्ञशब्दश्च विशिष्टयज्ञलक्षणपर इति । तदयुक्तम् । यतो यज्ञविशेषव्याख्यानाद्यज्ञसामान्यव्याख्यानं युक्ततरम् । विसर्गशब्देन सर्गव्याख्यानं युक्तम् ॥ ४ ॥ __________ टिप्पणी १. लक्षणो चेतनो २. विध्यङ्गाभूताहुति ____________________________________________________________________ पृष्ठ १८२ (अन्तकाले च मामेव स्मरन् त्यक्त्वा कलेवरम् । यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ भगवद्गीता_८.५ ॥) अन्तेति । वयसोऽन्ते त्यक्त्वा कलेवरं शरीरं यः प्रयाति स मद्भावं याति । न विद्यतेऽस्मिन्नर्थे संशयः ॥ ५ ॥ न केवलं मामेव स्मरन्मां प्रतिपद्यते । किं तर्हि (यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ भगवद्गीता_८.६ ॥) यमिति । यं यं भावं देवताविशेषमन्यद्वा वस्तु स्मरन्नन्ते देहं त्यजति१ तं तमेवैति कौन्तेय सदा तद्भावनया भावितो वासितान्तःकरणः ॥ ६ ॥ यत एवम् (तस्मात्सर्वेषु कालेषु मामनुस्मर युद्ध्य च । मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ भगवद्गीता_८.७ ॥) तस्मादिति । तस्मात्सर्वेषु कालेषु मदनुस्मरणं कुरु । युद्धं च स्वधर्मं कुर्वित्यर्थः । मयि समर्पितं मनो बुद्धिश्च यस्य ते स त्वं मय्यर्पितमनोबुद्धिः । मनोवृत्तिविशेषो वृत्तिमती बुद्धिः । एकमेवान्तःकरणं परमार्थतः । व्यवहारसिद्ध्यर्थस्तु भेदव्यपदेशः । मामेवैष्यस्यसंशयम् । नास्मिन्नर्थे संशयोऽस्ति । न चैतदाशङ्कितव्यम् अन्तकालेऽन्यथापि स्मृतिर्भवतीति । ईश्वरो हि सर्वज्ञः कर्मानुसारी चित्तवृत्तेर्नियन्ता ॥ ७ ॥ __________ टिप्पणी १. त्यजन्ति ____________________________________________________________________ पृष्ठ १८३ अनन्तरोक्तमर्थं विशिष्य१ दर्शयितुमाह (अभ्यासयोगयुक्तेन चेतसानन्यवृत्तिना । परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ भगवद्गीता_८.८ ॥) अभ्यासेति । अभ्यासः समानप्रत्ययप्रबन्धो विजातीयप्रत्ययावृत्तिकीलः सोऽयमभ्यासयोगः । तद्युक्तेन चेतसानन्यवृत्तिना परमं पुरुषं दिव्यं याति प्रतिपद्यते चेतसा तमेवानुचिन्तयन् ॥ ८ ॥ तमेव परमं पुरुषं पुनरपि विशिनष्टि (कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ भगवद्गीता_८.९ ॥) कविमिति । कविं सर्वज्ञमनुशासितारं नियन्तारम् । तथा हि श्रुतिः एतस्य वाक्षरस्य प्रशासने गर्गि सूर्याचन्द्रमसौ विधृतौ२ तिष्ठतः इति । अणोरणीयांसं सूक्ष्मादपि सूक्ष्मतरम् । सूक्ष्मत्वमिहावयवोपचयाभावो विवक्षितः । नभसोऽपि सकाशाद् अतिसूक्ष्मः । परमकारणत्वात्सर्वकर्मफलस्य धातारं विधातारमचिन्त्यरूपम् । नहीदं तदिति चिन्तनीयम् । अस्य रूपं (न) विद्यते । अस्थूलमनण्वह्रस्वमदीर्घमलोहितम् इति रूपप्रतिषेधात् । तथाप्युपासकानामनुग्रहार्थं रूपं निर्दिश्यते । आदित्यवर्णं ज्योतिर्मयमानन्दैकस्वभावं तमसो ज्ञानान्धकारात्परस्तादवस्थितमज्ञानतिमिरापनुदं स्वयंप्रकाशमनुस्मरेद्यः स इत्युत्तरगीतायां वाक्यार्थं समाप्यते ॥ ९ ॥ __________ टिप्पणी १. विशेष्य २. विवतौ ____________________________________________________________________ पृष्ठ १८४ कस्मिन् पुनः कालेऽनुस्मरेत् (प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव । भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ भगवद्गीता_८.१० ॥) प्रयाणेति । अन्तकाले निश्चलेन मनसा भक्त्या तदनुस्मरणाह्लादितहृदयेन योगबलेन च योगजनितसंस्कारपातिस्थैर् येण१ भ्रुवोर्मध्ये प्राणमावेश्य सुषुम्णया२ नाड्या निष्क्रम्येत्यर्थः३ ॥ १० ॥ प्राप्तव्यं पदमनूद्य तत्प्राप्त्युपायं कथयिष्यन्नाह (यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेणाभिधास्ये ॥ भगवद्गीता_८.११ ॥) यदिति । एदद्वै तदक्षरं गर्गि अथ परा यया तदक्षऋअम् अधिगम्यते इति । विशन्ति प्रतिपद्यन्ते । यतयो यत्नवन्तो यदिच्छन्तो ब्रह्मचर्यं मैथुननिवृत्तिम् (चरन्ति) । गृहस्थस्यापि सर्वत्र वा प्रतिषिद्धवर्जमित्यनुज्ञातगमनानिवृत्तस्यावश्यकऋतुकालगामिनो ब्रह्मचर्यमस्त्येव । तत्ते पदं तत्पदप्राप्त्युपायं सङ्ग्रहेण सङ्क्षेपेण कथयिष्यामि ॥ ११ ॥ (सर्वद्वाराणि संयम्य मनो हृदि निरुद्ध्य च । मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ भगवद्गीता_८.१२ ॥) सर्वेति । सर्वाणीन्द्रियद्वाराणि संयम्य मनो हृदयकमलनिलये परमेश्वरे सन्निरुद्ध्य तालुमूलविनिर्गतया ब्रह्मनाड्या __________ टिप्पणी १. स्थेर्येण २. सुवन्यया ३. निष्क्रमेत्यर्थः ____________________________________________________________________ पृष्ठ १८५ सुषुम्णाख्ययोर्द्द्वमुद्गमय्यात्मनः प्राणं मूर्ध्न्याधायास्थितो योगधारणाम् । योगधारणां गृहीत्वेत्यर्थः ॥ १२ ॥ (ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥ भगवद्गीता_८.१३ ॥) ओमिति । शब्दब्रह्मैकाक्षरमिति विशेषणं संहितादिब्रह्मनिवृत्त्यर्थम् । व्याहरन्नुच्चारयन्१ । मां परमात्मानम् आकाशवत्सर्वव्यापिनं सर्वज्ञमानन्दममृतम् । त्यजं देहं यः प्रयाति स याति परमां गतिम् । अन्तकाले च मामेवैति (इति यत्) सामान्येनोक्तं तदिदानीं विशेषितम् । केचिदत्र क्रममुक्त्यभिप्रायमिदं न सद्योमुक्तिप्रदर्शनार्थमिति वदन्ति । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः इति श्रुतेः । ओङ्कारालम्बनोपासनफलमिदं कथ्यत इति । तदपव्याख्यानम् । परविद्याधिकारात् । यदक्षरं वेदविदो वदन्ति इति प्रतिज्ञानात्कथं कालान्तरमुक्तिरूपं२ वर्ण्यते ॥ १३ ॥ न चाहं दुर्लभः सतताभियुक्तस्य (अनन्यचेताः सततं यो मां स्मरति नित्यशः । तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ भगवद्गीता_८.१४ ॥) अनन्येति । यस्यान्यत्र३ चेतो नास्त्यसावनन्यचेताः । सततं सर्वदा नैरन्तर्येण । नित्यश इति यावज्जीवम् । तेनैतद्दर्शितं वाक्यार्थज्ञानमात्रेण कृतार्थता । सततोपासनया ज्ञानं परिपक्वं मुक्तिक्षमं सम्भवतीति । तस्याहं सुलभः सुखेन लभ्यो नित्ययुक्तस्येति निगमनम् ॥ १४ ॥ __________ टिप्पणी १. उश्चारयन् २. कालान्तरं मुक्तिरूपं ३. कस्यान्यत्र ____________________________________________________________________ पृष्ठ १८६ तत्पदप्राप्तावुपाय उक्तः । तत्प्राप्तौ सत्यां कः पुरुषार्थविशेष इति (मामुपेत्य पुनर्जन्म दुःखलयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ भगवद्गीता_८.१५ ॥) मामिति । मां प्राप्य पुनर्जन्म दुःखस्यालयं स्थानं न प्राप्नुवन्ति । स्थानान्तरप्राप्तौ पुनरावृत्तिः । मत्प्राप्तिर् एवानावृत्तिहेतुरिति दर्शयति ॥ १५ ॥ (आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ भगवद्गीता_८.१६ ॥) आब्रब्मेति । आ ब्रह्मभुवनाद् । ब्रह्मणो हिरण्यगर्भस्य भुवनं निवासो ब्रह्मलोकस्तेन सह । अभिविधावाकारो ब्रह्मलोकसहिताः१ प्राणिन उच्यन्ते । ननु च यो ह वै२ तत्परमं ब्रह्म वेद ब्रह्मैव भवति । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये३ इत्याधिश्रुतिप्रामाण्याद्विदुषः प्रारब्धकर्मक्षये शरीरपातानन्तरं मोक्षावधारणात्कथं ब्रह्मविदां निवृत्तकल्मषाणां पुनरावर्तनम् । तथा यावदधिकारम् अवस्थितिर् अधिकारिणाम्४ इति शारीरकसूत्रादधिकारे लोकानुग्रहार्थे व्यापारे येऽवस्थितास्तेषां प्राजापत्यादावधिकारे५ ईश्वरानुशासनाद् यावदधिकारमवस्थितिर्भवति । तत्र च ज्ञानशेषमभ्यस्यतां प्रारब्धफलकर्मक्षये मुक्तिः । यो यो देवानां प्रत्यबुद्ध्यत स स __________ टिप्पणी १. शब्देन तात्स्थात्स्थानिनस्तन्निवासिनः २. यो हेव ३. विमोक्ष्येत सम्पत्स इति ४. स्थितिराधिकारिकारिकाणाम् ५. प्रजापत्यादावधिकारेश्वरानुशासनाद् ____________________________________________________________________ पृष्ठ १८७ तदभवत्१ इति ब्रह्मस्वरूपापत्तेः । न ह वै देवान् पापं गच्छति इति पुनर्जन्मप्रतिषेधाच्च । एतदनुपपन्नम् । अत्रोच्यते । प्रारब्धकर्मफलभोगक्षये सर्वेषां मुक्तिरुक्ता । तच्चारब्धफलं कर्म केषाञ्चिदेकशरीरभोग्यम् । अन्येषाम् अनेकशरीरभोग्यम् । एकजन्मकृतस्यापि कर्मणोऽनेकशरीरभोग्यतापि स्मर्यते । यथावान्तरतमनाम्नः पुराणर्षेः कलिद्वापरयोः सन्धौ विष्णुशासनाद्व्यासपदप्राप्तिः । एवं मुक्तिफलानियमस् तत्तदवस्थाप्राप्तेरिति२ शारीरकेऽपि कर्मफलतारतम्यवशेन मुक्तेरनियमदर्शनादविरोधोऽत्र । मामुपेत्य हे कौन्तेय पुनर्जन्म शरीरग्रहणं न विद्यते ॥ १६ ॥ कस्य हेतोरितरेषां लोकानामावृत्तिः । कालपरिच्छिन्नत्वात् । परस्य कारणप्राप्तस्य प्रच्युतिर्नास्ति कार्यलोकेषु हि वर्तमानस्य । तेषां विनाशित्वादावृत्तिरवश्यं भाविनी३ तदेतदाह (सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ भगवद्गीता_८.१७ ॥) सहस्रेति । तथा चोक्तम् दैविकानां युगानान् तु सहस्रं परिसङ्ख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव४ च ॥ इति । सहस्रयुगपर्यन्तमहर्ब्रह्मणो जागरितावस्था । चतुर्दशम् अन्वन्तरावच्छिन्नः कालः । तावती रात्रिरवान्तरप्रलयो ब्रह्मणः स्वप्नावस्था । तदेवमहोरात्रौ संवत्सरकल्पनया वर्षशसमायुर् __________ टिप्पणी १. स स तदाभवत् २. तदवस्थावपृतेरिति ३. अवश्यभाविनी ४. महारात्रिमिति मनुस्मृतौ पाठः ____________________________________________________________________ पृष्ठ १८८ ब्रह्मणः । ततो ब्रह्मा मुच्यते । महाप्रलयो भवति । पृथिव्यादीन्यपि भूतानि तदा प्रलीयन्ते ॥ १७ ॥ तत्राहनि रात्रौ च यो व्यापारो भूतानां स कथ्यते (अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ भगवद्गीता_८.१८ ॥) अव्यक्तेति । अव्यक्तमव्याकृतमुच्यते पञ्चानां भूतानां सूक्ष्मावस्था । कर्माविद्यासहिताश्च जीवाः । अन्तर्यामीश्वरो ऽधिष्ठाता । तदेतद्व्याकृतमुच्यते । तथा च श्रुतिः तद्धेदं तर्ह्यव्याकृतमासीत् इति । व्यक्तं यच्च२ चराचराणि भूतानि महाभूतानि च प्रभवत्यहरागमे । रात्र्यागमे तु प्रलीयन्ते । तत्र वा व्याकृतेऽवान्तरप्रलये चराचराणां भूतानां प्रलयो महाप्रलये तु महाभूतानामपीति विशेषः ॥ १८ ॥ कृतकर्मविनाशोऽकृतकर्मफलस्य चागम३ इति दोषद्वयं परिहरन्नाह (भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ भगवद्गीता_८.१९ ॥) भूतेति । संसारस्यानादित्वात्पूर्वकल्पकृतानां कर्मणां स्तिमितं नामावस्थानं४ न विनाशः । तन्निबन्धनोऽयं पुनः सुरनरतिर्यक्प्रभेदेन विचित्रः सर्ग इति । स एवायमिति । समाननामाकृतित्वा(द)भेदो व्यपदिश्यते । तन्नामनस्तदाकृतयश्च जायन्ते । व्यक्तीनामन्यत्वेऽपि यथा त एव शालयो भुज्यन्ते (तद्वत्) । शेषं गतार्थम् ॥ १९ ॥ __________ टिप्पणी १. तत्र व्याकृतमासीत् २. व्यक्तयश्च ३. कृतकर्मविनाशोकृतस्य च कर्मफलस्यागम इति ४. स्तिमितानामवस्थान ____________________________________________________________________ पृष्ठ १८९ यदेतद्व्यक्तं वर्णितं१ (तस्मात्) (परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातनः । यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ भगवद्गीता_८.२० ॥) पर इति । परस्तत्काष्ठा२ । सर्वज्ञोऽव्यक्तः करणागोचरत्वात् । तस्मादव्यक्तात्पूर्वोक्तादचेतनादयं चेतनः परमात्मा सनातनो नित्यः (परः) । कथम् । यः स सर्वेषु नश्यत्सु न विनश्यति । सोऽयमीश्वरः प्रतिपत्तव्यः ॥ २० ॥ (अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ भगवद्गीता_८.२१ ॥) अव्यक्तेति । योऽयमव्यक्तः परमात्माक्षर इत्युक्तो वेदे ततोऽक्षरात्सम्भवतीह विश्वम् इति तमाहुः श्रुतयः । परमां गतिं कथं प्राप्य न निवर्तन्ते । तद्धाम स्थानं परमं मम ॥ २१ ॥ स पुनः केनोपायेन लभ्यत इत्याह (पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ॥ भगवद्गीता_८.२२ ॥) पुरुष इति । भक्त्या अनन्यया तत्परया स्तुतिनमस्कारध्यानधारणादिभिस्तमेव भजते । न देवतान्तरम् । तस्य लक्षणमुचयते प्रतिपत्तिसौकर्यार्थम् । यस्यान्तःस्थानि हि भूतानि । कारणे हि कार्यमन्तर्भवति मृदीव शरा(वम्) । ... योगेन चेदं सर्वं ततं व्याप्तम् ॥ २२ ॥ ईश्वरसतत्त्वं निर्धारितम्३ । तत्प्राप्त्युपायश्च प्रयाणकाले मनसा इत्यारभ्योक्तः । (पुरुषं) प्राप्तानां चानावृत्तिर् उक्ता । __________ टिप्पणी १. वलितं २. तत्कृष्ठा ३. निवारितम् ____________________________________________________________________ पृष्ठ १९० अथेदानीं येन मार्गेण गतानामनागमोऽनावृतिर्येन चावृत्तिर् इति विभागेन दर्शयन्नाह (यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ भगवद्गीता_८.२३ ॥) यत्रेति । कालग्रहणं मार्गोपलक्षणार्थम् । कर्मयोगिनो ज्ञानयोगिनश् च देवयानपितृयानमार्गमर्चिरादिलक्षितं प्रथमं दर्शयति प्राधान्यात् ॥ २३ ॥ (अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ भगवद्गीता_८.२४ ॥) अग्निरिति । अग्निर्ज्योतिरित्यर्चिर्देवता लक्ष्यते । तथा शुक्लपक्षदेवतोत्तरायणदेवतेत्यातिवाहिन्यो१ देवता इति स्थितं शारीरके । तेन तु प्रयाता गच्छन्ति ब्रह्म परमात्मानम् । ब्रह्मशब्दस्य तत्र मुख्यतत्त्वं न कार्यलोको गृह्यते परब्रह्मप्रकरणाच्च । तत्र यत्कैश्चिदुक्तम् अर्चिरादिमार्गगामिणां२ हिरण्यगर्भलोकप्राप्तिरिति तदसत् । इहानावृत्तिरुच्यते ब्रह्मप्राप्तेः स्वतन्त्रवृत्तिः । तथा चोक्तम् आ ब्रह्मभुवनाल् लोकाः इति ॥ २४ ॥ इदानीं केवलकर्मिणां पितृयानः न पुनः पुनरावृत्तिलक्षणो मार्गो निर्दिश्यते प्रसङ्गात्कथं३ चानभिज्ञा नाम पराभवेयुर् इति दर्शनार्थम् __________ टिप्पणी १. आतिवाहिन्यो २. गामिनां ३. कथं नाम ज्ञानं परा ____________________________________________________________________ पृष्ठ १९१ (धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ भगवद्गीता_८.२५ ॥) धूम इति । धूमो रात्रिस्तथा कृष्ण इत्यत्रापि देवता एव लक्ष्यन्ते । नात्रोत्तरायणं दक्षिणायनं रात्रिरहर्वेति विवक्षितम् । यत्र क्वचन मृतानां समुच्चयकारिणामर्चिरादिर् एव । इतरेषामपि धूमादिरेव । भीष्मस्योत्तरायणप्रतीक्षा तत्र मरणं प्रशस्तमिति प्रोत्साहनार्था न नियमार्था । शेषं गतार्थम् ॥ २५ ॥ (शुक्रकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययावर्तते पुनः ॥ भगवद्गीता_८.२६ ॥) शुक्लेति । एते च गती शुक्लकृष्णे जगतः । शाश्वते१ मते वेदोक्तत्वात् एकया यात्यनावृत्तिमन्ययावर्तते२ पुनरिति । अर्थस्य पुनर्वचनं निगमनम् ॥ २६ ॥ मार्गद्वयाभिज्ञः केवलं कर्म नारभते समुच्चयार्थमेव यतते निःश्रेयसार्थत्वादिति दर्शयितुमाह (नैते सृती पार्थ जानन् योगी मुह्यति कश्चन । तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ भगवद्गीता_८.२७ ॥) नैत इति ॥ २७ ॥ तदेतदध्यायोक्तं ज्ञानमन्यनिन्दया स्तूयते । श्रद्धालवः कथमत्राभियुक्ता भवेयुरिति । __________ टिप्पणी १. शाश्वती २. अन्यथावर्तते ____________________________________________________________________ पृष्ठ १९२ (वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ भगवद्गीता_८.२८ ॥) वेदेष्विति । वेदेषु चतुर्ष्वपि यत्पुण्यफलं यज्ञेष्व् अग्निष्टोमादिषु तपःसु चान्द्रायणादिषु गोभूमिहिरण्यदानेषु तत्सर्वमिदमत्येति । कथम् । इदं ज्ञानं विदित्वा योगी परं स्थानमुपैति चाद्यम् । सर्वस्थानानामाद्यं पारमेश्वरं पदमिति ॥ २८ ॥ (इति) भगवद्भास्करकृते गीताभाष्ये अष्टमोऽध्यायः ॥ ____________________________________________________________________ पृष्ठ १९३ अथ नवमोऽध्यायः । देवयानेन गतानामपुनरावृत्तिरुक्ता मामुपेत्य पुनर्जन्म न विद्यते इति । यत्१ प्राप्यापुनरावृत्तिस्तस्य ब्रह्मणो विशिष्टशक्तियुक्तस्य सतत्त्वं पुनरपि कथयिष्यन्नाह । अत्यन्तातीन्द्रियत्वात्पुनः पुनः कथितमपि न चेतसि स्थितिपदं लभते केषाञ्चिदेव पुण्यकृतां चेतसि स्थिरीभवतीति भगवान् यतते । भगवानुवाच (इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे । ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ भगवद्गीता_९.१ ॥) इदं त्विति । इदं तु ते गुह्यतमम् । तुशब्दोऽतिशयार्थः । अनसूयवे परगुणेषु दोषाविष्करणमसूया । तद्रहिताय । ज्ञानं (प्र)वक्ष्यामि । विज्ञानसहितम् । यज्ज्ञानं ज्ञात्वा मोक्ष्यसेऽशुभात्संसारबन्धात् । केषाञ्चिदेव पुण्यकृतामर्चिरादिना२ वर्त्मना क्रममुक्तिरुक्ता । इदानीं सद्योमुक्तिरुच्यत इत्याहुः । तदसत् । अर्चिरादिनैव संसारमण्डलमतिक्रम्य लिङ्गशरीरवियोगान्मुक्तिर्नात्रैव शरीरे (मुच्य)ते । तस्मादिहैव मुक्तिरित्यपसिद्धान्तः३ ॥ १ ॥ तज्ज्ञानं स्तूयते श्रद्धाजननार्थम् (राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् । प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ भगवद्गीता_९.२ ॥) __________ टिप्पणी १. यं २. कृतां मन्दिरादिना ३. केषाञ्चिदेव ... अपसिद्धान्तः इति अंशोयं गुह्यतमम् इत्येतदनन्तरं विद्यते मूलकोषे ____________________________________________________________________ पृष्ठ १९४ राजेति । राज्ञामश्वपतिजनकादीनाम् । तेषां च गोप्यं पवित्रं पावनं प्रत्यक्षं स्पष्टोऽवगमो यस्य तदिदं प्रत्यक्षावगमम् । नैतत्परोक्षमित्यर्थः । यथा महामेरुज्ञानम् । धर्मादनपेतं धर्म्यम् । कर्तुं सुसुखं सुकरमित्यर्थः । अक्षयफलहेतुत्वादव्ययम् ॥ २ ॥ ये पुनः (अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निर्वर्तन्ते मृत्युसंसारवर्त्मनि ॥ भगवद्गीता_९.३ ॥) अश्रद्दधेति । अश्रद्दधानाः पुरुषा धर्मस्यास्य वक्ष्यमाणस्य ज्ञानरूपस्य ते मामप्राप्य निवर्तन्ते मृत्युग्रस्ते संसारवर्त्मनि ॥ ३ ॥ इदानीं तत्ज्ञानं कथयति (मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ भगवद्गीता_९.४ ॥) मयेति । मया ततमिदं सर्वमव्यक्तमूर्तिनातीन्द्रियेण१ सूक्ष्मेणात्मना । मयि तिष्ठन्तीति मत्स्थानि । न चाहं तेष्व् अवस्थितः । स्वमहिम्नि स्थितत्वात् ॥ ४ ॥ (मम योगमैश्वरं पश्य२) (न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् । भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥ भगवद्गीता_९.५ ॥) __________ टिप्पणी १. मूर्तिना अतेन्द्रियेण २. चतुर्थश्लोकव्याख्यानानन्तरम् ४ ॥ कुण्ड इति तानि अक्षराणि तत्पत्रान्ते योग इति । अव्यहितपरपत्रारम्भे प्रथमपङ्क्तौ सि त्वत्न चेति इति द्वितीयपङ्क्तौ वर्तन्ते ____________________________________________________________________ पृष्ठ १९५ न चेति । भूतानि बिभर्तीति भूतभृत् । न च भूतेषु । यथा शरीरी जीवः । शरीराकारपरिणतानि भूतानि बिभर्ति तेषु चावस्थितो न चैवमहम् । भूतानि भावयतीति भूतभावनः ॥ ५ ॥ (मत्स्थानि न च मत्स्थानि इति विरुद्धं पश्यं दृष्टान्तमाह (यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ भगवद्गीता_९.६ ॥) यथेति । यथाकाशे व्यापकेति सूक्ष्मो वायुः स्थितः सर्वत्रगो लोकत्रयव्यापी तथा भूतानि मत्स्थानीत्युपधारय । न संश्लेषसम्बन्धेन । किं तर्हि । व्यापके मयि विषयभूते ऽल्पपरिमाणानि (भूतानि) परिवर्तन्त इति स्थित्यवस्था दर्शिता ॥ ६ ॥ अधुना प्रलयावस्थोच्यते (सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ भगवद्गीता_९.७ ॥) सर्वेति । सर्वभूतानि कौन्तेय मदीयां प्रकृतिं यान्ति । कदा कल्पक्षये । कल्पादौ च पुनस्तानि विसृजामि ॥ ७ ॥ कथम् (प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ भगवद्गीता_९.८ ॥ प्रकृतिमिति१ । प्रकृतिं स्वामवष्टभ्यावलम्ब्य भूतग्रामं (भूत)समूहं विसृजामि । अवशं परतन्त्रं प्रकृतेर्वशात् । यथाकर्म प्राणिनां प्रकृतिः परिणमते अतस्तद्वशात्सृजामि । __________ टिप्पणी १. प्रकृतामिति ____________________________________________________________________ पृष्ठ १९६ का पुनरियं प्रकृतिः । पञ्चानां भूतानां सूक्ष्मावस्था वीर्यभूता । अत्रेयं वेदान्तप्रक्रिया परं ब्रह्म निश्चलमाकाशकल्पं प्रथममवस्थितम् । तत(स्तस्य) रोषाद् विकृतः सृष्टीच्छाविशिष्टोऽन्तर्यामीश्वरशब्दवाच्यो भवति । ततो भूतसूक्ष्ममव्याकृतमाकाशमुत्पद्यते । ततः सूक्ष्मात्मायं हिरण्यगर्भ इत्याचक्षते । ततः स्थूलानि वियदादीनि महाभूतानि क्रमेणोत्पद्यन्ते । ततोऽण्डं ततो विराट्प्रजापतिः । तस्मिन् वैराजे स्थूलशरीरे सर्वे लोकाः सर्वे देवाः सर्वाणि च स्थावरजङ्गमानि भूतानीति वस्तुभूतेऽयं प्रकृतिर्न मायामात्रमवस्तुभूतम् ॥ ८ ॥ न चाविद्या नाम काचिदनात्मन्यात्मबुद्धिः । जीवस्य प्रतिपुरुषं परब्रह्मस्वरूपं तदग्रहं च मुक्त्वा कदाचिदाशङ्क्येत१ विषमां सृष्टिं कुर्वतो दोषा(य तत्) स्यादित्याह२ (न च मां तानि कर्माणि निबध्नन्ति धनञ्जय । उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ भगवद्गीता_९.९ ॥) न चेति । न च मां निबध्नन्ति कर्माणि । कस्मात् । उदासीनवदासीनत्वात् । तेषु कर्मसु असक्तत्वात् । अन्योऽपि यः फलासक्तस्तमपि कर्माणि न निबध्नन्ति न्यायतुल्यत्वात् ॥ ९ ॥ ननु च प्रकृतिर्नित्या स्वतन्त्रा भूतसृष्टौ प्रवर्तत इति साङ्ख्या वदन्ति । तदसत् । तदुच्यते (मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् । हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ भगवद्गीता_९.१० ॥) __________ टिप्पणी १. न चाविद्या नाम काचित्प्रतिपुरुषम्नात्मबुद्धिर्यत्तुज्जीवस्य परं ब्रह्मस्वरूपं तदग्रहं च मुक्त्वा कदाचिदाशङ्क्येत २. स्यादित्याह ____________________________________________________________________ पृष्ठ १९७ मयेति । मयाध्यक्षेण मत्त उत्पन्ना सती मयाध्यक्षेणाधिष्ठात्रा प्रवर्तिता सूयते जनयति । न ह्यचेतना प्रकृतिस्त्रिगुणात्मिका साङ्ख्यपरिकल्पिता सती प्रवर्तितुमर्हति प्राणिनां विचित्रकर्मविपाकापरिज्ञानात् । कथं सुरनरतिर्यक्प्रभेदभिन्नं भुवनं निर्मीयते रथादीनामचेतनानां स्वतः प्रवृत्त्यदर्शनाच् च चेतनाधिष्ठिताः प्रवर्तन्त इति युक्तम् । अतो मत्प्रवर्तिता प्रकृतिः । (अनेन) प्रसवहेतुना१ जगद्(वि)परिवर्तते ॥ १० ॥ प्रकृतेरध्यक्षमपि सन्तम् (अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ भगवद्गीता_९.११ ॥) अवेति । अवजानन्ति मां मूढाः प्रादुर्भावेषु मानुषीं तनुमाश्रितं वासुदेवो नाम क्षत्रियो मनुष्योऽयमित्यनादरं कुर्वन्ति परं भावमजानन्तो भूतमहेश्वरं मम ॥ ११ ॥ ते च (मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । आसुरीं राक्षसीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ भगवद्गीता_९.१२ ॥) मोघेति । मोघाशा मोघकर्माणो वृथासङ्कल्पाः । कर्माणि च तेषाम् अग्निहोत्रादीनि वृतैव ज्ञानं चानात्मविषयत्वात् । विचेतसोऽविवेकिनः राक्षसीं तामसीं प्रकृतिमास्थिताः ॥ १२ ॥ ये तु (महात्मानस्तु मां पार्थ दैवीं प्रकृतिमास्थिताः । भजन्तेऽनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ भगवद्गीता_९.१३ ॥) __________ टिप्पणी १. प्रसवे हेतुना ____________________________________________________________________ पृष्ठ १९८ महेति । महात्मानस्तु लोकोत्तरप्रज्ञा दैवीं प्रकृतिं सत्त्वगुणसम्भूता चित्तवृत्तिमाश्रिता भजन्ते सेवन्ते भूतानाम् आदिं१ मां ज्ञात्वा ॥ १३ ॥ केन प्रकारेण भजन्ते (सततं कीर्तयन्तश्च यतन्तश्च दृढव्रताः । नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥ भगवद्गीता_९.१४ ॥) सतततमिति । सततं मत्स्वरूपकथने प्रवृत्तचेतसो यतन्तश्च मत्प्राप्त्युपायेषु यत्नवन्तो दृढव्रताः दृढं२ स्थिरं व्रतं नियमः कर्मेत्य(न)र्थान्तरं तद्येषां ते दृढव्रताः । भक्त्या चादरेण मां नमस्यन्तः पादपतनादिना व्यापारेण नित्ययुक्ताः सन्त उपासते ॥ १४ ॥ अन्ये तु परिपक्वज्ञानाः (ज्ञानयज्ञेन चाप्यन्ये यजन्ते मामुपासते । एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ भगवद्गीता_९.१५ ॥) ज्ञानेति । ज्ञानमेव यज्ञो ज्ञानयज्ञः । यजन्तः पूजयन्तो मामुपासते । सातत्येन परमेश्वरे चित्तधारणमुपासनम् । ते चैकत्वेनात्मानमिदं सर्वं वासुदेवः सर्वमित्यनया (बुद्ध्या) समस्तभेदप्रपञ्चं३ परमकारणपरमात्मनि४ चेतः प्रविलाप्य तदात्मनावतिष्ठन्ते । ते चैते ब्रह्मविदः श्रेष्ठाः । अन्ये पुनरेवमसक्ताः पृथक्त्वेनोपासते । बहुधा बहुभिः प्रकारैर् आदित्ये चन्द्रमस्यग्नौ परमात्मानं चिन्तयन्ति । विश्वतोमुखं सर्वतो मुखानि __________ टिप्पणी १. भूतानामादि २. स्थिर ३. सर्वमित्य इत्येतदनन्तरं समस्त इत्येतस्मात्पूर्वं कानिचिनाक्षराण्यस्पष्टानि ४. परमकरण ____________________________________________________________________ पृष्ठ १९९ द्वाराणि (यस्य) तं१ विश्वतोमुखम् । यदेवालम्बनत्वेनोपादीयते वक्ष्यमाणं तदेव तत्प्राप्त्युपायतां प्रतिपद्यते ॥ १५ ॥ तदिदानीं प्रपञ्चयति (अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् । मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ॥ भगवद्गीता_९.१६ ॥) अहं क्रतुरिति । अहं क्रतुः पशुसोमेष्टिलक्षणो यज्ञः स्मार्तः पञ्चमहायज्ञादिः२ । स्वधा यत्तु पितॄनुद्दिश्य क्रियते । अहमौषधं व्रीह्यादीनाम् । इदं किम् । तदन्नम् । मन्त्रो याज्यापुरोऽनुवाकादिः३ । अहमेवाज्यं होमसाधनम् । अहमग्निर् आहवनीयो यत्र हूयते । हुतं च हवनक्रियाहमेव ॥ १६ ॥ (पिताहमस्य जगतो माता धाता पितामहः । वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥ भगवद्गीता_९.१७ ॥) पितेति । पितोत्पादयिता पालयिता वा । माता धात्री धाता विधाता । कर्मफलानाम् । पितामहः पितुः पिता चाहमेव । यद्वेद्यं ज्ञेयं वस्तु तदहम् । यच्च पवित्रं पावनं प्रायश्चित्तादि । ओङ्कारः प्रणवः । वेदत्रयं चाहमेव ॥ १७ ॥ (गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् । प्रभवः प्रलयस्थानं निधानं बीजमव्ययम् ॥ भगवद्गीता_९.१८ ॥) गतिरिति । गम्यत इति गतिर्गन्तव्योऽहम् । भर्ता पोष्टा । प्रभुः स्वामी । द्रष्टा प्रत्यक्षपरोक्षकृतानां कर्मणाम् । निवासः प्राणिनाम् । निवसन्त्यस्मिन्निति निवासः । शरणमार्तानाम् । सुहृदुपकारी प्रत्युपकारानपेक्षया । प्रभवो जगतः प्रलयः स्थानं __________ टिप्पणी १. तं तं २. यज्ञादि ३. पुरोनुवाक्यादिः ____________________________________________________________________ पृष्ठ २०० स्थितिहेतुः । निधीयतेऽस्मिञ्छ्रेय इति निधानम् । बीजमुत्पत्तिकारणम् । अव्ययं व्ययरहितम् । व्रीह्यादिबीजं व्ययि ॥ १८ ॥ किं च (तपाम्यहमहं वर्ष निगृह्णाम्युत्सृजामि च । अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥ भगवद्गीता_९.१९ ॥) तपामीति । आदित्यात्मना स्थित्वा निदाघसमये तपामि कैश्चिद्रश्मिभिः । प्रावृट्काले वर्षमुत्सृजामि । कैश्चित् किरणैर्निगृह्णाम्यन्यर्तावहमेवामृतं जीवनम् । मृत्युश्च विनाशः सदसच्चाहमर्जुन । सदिति स्थूलं व्यवहारयोग्यं वस्तु व्यपदिश्यते । असदिति सूक्ष्ममव्यक्तम् अ(व्यवहार्य)म् । एवं मद्व्यति(रिक्तं किमपि नास्ति) । सन्तः१ सम्यग्दर्शिन एकत्वेनाकामा (विश्व)तोमुखम् अवस्थितं२ (मा)म् (उपासते । अपरे अकामाः) ... क्रत्वाद्येकैकप्रतिपत्त्या बहुधा पृथक्त्वेनोपासत इति सङ्क्षेपार्थः ॥ १९ ॥ ये पुनर्ज्ञानयज्ञेनोपासते पृथक्त्वेनैकत्वेन (वा) केवलकर्मिणः फललुब्धाः (त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते । ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ॥ भगवद्गीता_९.२० ॥) __________ टिप्पणी १. कच्यन्तः २. ’वस्थितंऽ एतदन्तरमेकमक्षरमस्पष्टम् । तदनन्तरं मपरमिति वर्तते । ततः परमेकमक्षरमस्पष्ठं मूलकोषे ____________________________________________________________________ पृष्ठ २०१ त्रैविद्येति । तिस्रो विद्या येषां ते त्रैविद्याः । स्वार्थे तद्धितः । वेदत्रयविहितकर्माण इत्यर्थः । सोमपास्तत एव पूतपापाः संशोधितकल्मषा यज्ञैरिष्ट्वा मामेवेन्द्रादिरूपेणावस्थितं वस्तुतो न पुनस्ते जानन्ति स्वर्गतिं स्वर्गगमनम् । ते पुण्यं पुण्यकर्मसाध्यं शतक्रतोः स्थानं भुञ्जन्ति दिव्याननुभवन्ति भोगान् ॥ २० ॥ ते च (ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति । एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ॥ भगवद्गीता_९.२१ ॥) ते तमिति ।२ भुक्तेषु भोगेषु पुनः क्षीणपुण्याः पुण्यक्षये मर्त्यलोकं प्रविशन्ति । एवमित्युक्तपरामर्शः । हिशब्दो हेतौ । त्रयीधर्मं३ वेदत्रयविहितं कर्म प्रपन्ना जायन्ते म्रियन्ते । कामान् भोगान् कामयमानाः ॥ २१ ॥ ये तु (अनन्यांश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ भगवद्गीता_९.२२ ॥) अनन्यांश्चिन्तयन्तो मामिति । न विद्यतेऽन्य उपास्यो येषां ते अनन्याः । तेषां नित्याभियुक्तानामहमेव योगक्षेमं वहामि । अप्राप्तप्राप्तिर्योगः । क्षेमः प्राप्तस्य परिरक्षणम् । तदुभयम् ॥ २२ ॥ __________ टिप्पणी १. गमनम् २. भुक्तेष्विति मुक्तेषु भोगेषु वः क्षीणपुण्याः कर्मसाध्यं शतक्रतोः पुण्यक्षये । अत्र र्म इत्यारभ्य एतदन्तः पाठः कण्ढित इति प्रतिभाति ३. त्रैधर्न्य ____________________________________________________________________ पृष्ठ २०२ किं च (येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । तेऽप्य्मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ भगवद्गीता_९.२३ ॥) येऽपीति । येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः । यजन्ते पूजयन्ति च । तेऽपि मामेव वस्तुतो यजन्ति । किं त्व् अविधिपूर्वकम् । मुक्तिमार्गविधिरहितमित्यर्थः । न पुनः कल्पसूत्रोक्तं१ (विधिपूर्वकम्) । विधिं ते न जानन्ति ॥ २३ ॥ कुतः पुनरेवम् (अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥ भगवद्गीता_९.२४ ॥) अहं हीति । अहं हि सर्वयज्ञानां तेन तेनेन्द्राद्यात्मनावस्थितो२ भोक्ता च प्रभुरेव (च) । ते पुनर्न तु मामभिजानन्ति (तत्त्वेन त)थावस्थितम्३ । अतश्च्यवन्ति ते । पुनरावृत्तिं भजन्त इत्यर्थः ॥ २४ ॥ एतदेव दर्शयति (यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः । भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ भगवद्गीता_९.२५ ॥) यान्तीति । यान्ति देवव्रताः । देवानां कर्म व्रतम् (येषां ते) । यथा क्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति इति श्रुतेः । तं यथा यश्चोपासते इति च ब्राह्मणम् । निगदव्याख्या । अत ए(व) । सर्वे मां याजि(नः) वासुदेवा भवन्ति ॥ २५ ॥ __________ टिप्पणी १. कल्पसूत्रोक्तं विधिं ते न जानन्ति २. तेन तेनैन्द्राद्यात्मनावस्थितो ३. तथावास्थितम् ____________________________________________________________________ पृष्ठ २०३ (सा)फल्यमनेन ..... पठ ... साध्यत्वात्... आराधनीयः । कथम् (पत्रं पुण्यं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥ भगवद्गीता_९.२६ ॥) पत्रं पुष्पमिति । विल्वादिपत्रम् । पुष्पं करवीरादि । बदराम्रादि फलम् । कृतार्थं मे जन्मेति स्नेहार्द्रहृदयो यो मे प्रयच्छति तदहमुपहृतं गृहीत्वाश्नामि तृप्यामि श्रद्धाबुद्धेः ॥ २६ ॥ यत एवमतः (यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥ भगवद्गीता_९.२७ ॥) यदिति । यत्करोषि स्नानादि । यदश्नासि भोजनकाले । प्राणाहुतिः होमो निर्दिश्यते । यज्जुहोषि बाह्येऽग्नौ ददासि हिरण्यादि । यत्तपस्यस्युपवासादि (करोषि) । तत्सर्वं मदर्पणं कुरु ॥ २७ ॥ श्रुणु ततः फलम् (शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः । सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥ भगवद्गीता_९.२८ ॥) शुभेति । शुभाशुभानि फलानि येषां कर्मबन्धनानाम् । कर्माण्येव बन्धनानि । तैर्विमुच्यसे । विमुक्तश्च सन्न्यासयोगयुक्तात्मा । सन्न्यासः कृतानां कर्मणां ब्रह्मणि समर्पणम् । तदेव ____________________________________________________________________ पृष्ठ २०४ कर्तृकर्मफलं चेत्यभेदभावना योगः । ताभ्यां युक्त आत्मा यस्यासौ सन्न्यासयोग(युक्त्)आत्मा मामुपेष्यसि ॥ २८ ॥ ननु यस्त्वयि समर्पणं करोति स एव चेत्त्वामुपैति रागादिमांस्तर्हि भवान् यथा लोके राजा भजमानस्योपकरोति नेतरस्येत्याशङ्क्याह (समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ भगवद्गीता_९.२९ ॥) समोहमिति । समोहं सर्वभूतेषु न मे रागद्वेषौ । यो भक्त्या मां भजते तस्यानुग्रहं कर्तुं मम स्वभावः यथाग्निः सम्यग्भजमानस्य शीताद्यपनोदं करोति नेतरस्य । अतो ये भजन्ति तु भक्त्या सेवन्ते (माम्) आश्रयन्ते तेष्वहं वर्ते । नात्र रागद्वेषौ कारणम् । अपि तु प्राणिकर्मानुरूपफलप्रदर्शनेनाग्निवदनुगृह्णामीत्य् अभिप्रायः ॥ २९ ॥ इदानीं वृत्तादिनिराकरणेनापि भगवदाश्रयणस्तुत्यर्थम् अर्थवादकथनं क्रियते । वृत्तमप्यत्र तन्त्रमित्याह (अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ भगवद्गीता_९.३० ॥) अपीति । सुष्ठु भृशं१ चेद्दुराचारः सोऽपि साधुरेव मन्तव्यः । कस्मात् । सम्यग्व्यवसितः सुनिश्चितबुद्धिः सन्मार्गम् आस्थितो यतः । हिशब्दो हेतौ ॥ ३० ॥ __________ टिप्पणी १. दृशं ____________________________________________________________________ पृष्ठ २०५ अयं (पु)नः (क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मद्भक्तः प्रणश्यति ॥ भगवद्गीता_९.३१ ॥) क्षिप्रमिति । .... टि .... पापक्षयात् । शश्वदिति क्रियावि(शेषणम्) नि(र्ग)च्छतीत्यर्थः । तदेतद्वस्तु प्रतिजानीहि । न मे (भक्तः प्रणश्य)तीति ॥ ३१ ॥ इदानीं ये भजन्ति तु मां भक्त्या इति यद्भगवत्सेवनं प्रक्रान्तं तत्र श्रद्धाभक्तिभ्यां भगवद्व्यपाश्रयणप्ररोवनार्थम् अप्यर्थवादमाह (मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥ भगवद्गीता_९.३२ ॥) मामिति । हे पार्थ मां व्यपाश्रित्य विशेषेण शरणत्वेनाश्रित्य येऽपि पापयोनयो भवन्ति । पापाद्योनिर्जन्म येषां ते पापयोनयः कुत्सितजन्मानः स्त्र्यादयो येऽत्यन्तमपवर्गेऽनधिकृतास्तेऽपि स्वकर्मानुष्ठानलक्षणेन मदाज्ञासम्पादनेन पापक्षयात् परमां प्रकृष्टामुत्तमां स्वर्गलक्षणां गतिं यान्ति प्राप्नुवन्तीति सम्भाव्यते । मत्सम्पर्को हि शु(द्धिकारणमनलसम्पर्क इव लौहस्य । स्वकर्मणा (मां) सेवस्वेति१ । स्वकर्मणैवाराधनस्य विधानात् प्रत्युत्थानात्मकं कर्म शूद्रस्यापि स्वभावजमिति प्रत्युत्थानेन परिचर्यात्मकेन स्वकर्मणा तमेवार्थसिद्धिं विन्दति मानव इति । तदनुष्ठानेनैव पुरुषार्थसिद्धेर्विधास्यमानत्वात् ॥ ३२ ॥ __________ टिप्पणी १. स्वकर्मणासेवाश्येति ____________________________________________________________________ पृष्ठ २०६ अर्थवादतात्पर्यमुपसंहरन्नाह१ (किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा । अनित्यमसुखं लोकमिमं प्रप्य भजस्व माम् ॥ भगवद्गीता_९.३३ ॥) किमिति । भगवच्छरणगता अनधिकृताः स्त्र्यादयोऽप्युत्कृष्टां गतिं गच्छन्ति । किं पुनर्ये शुद्धयोनयोऽधिकृता ब्राह्मणराजर्षयश् च ते न यास्यन्तीति । अपिशब्देन सम्भावनार्थेनातिशयोक्त्या ब्राह्मणादीनां ज्ञानप्ररोचनानेन क्रियते न तु यथाश्रुतोऽर्थो विधीयते । यथा अपि पर्वतं शिरसा भिन्द्यातपि द्रोणपाकं भुञ्जीत इत्यनेन वाक्येन पुरुषशक्तिश्रद्धानं क्रियते न तु (प)र्वतभे(दः) प्रतिपाद्यत अशक्यत्वात् । न हि पर्वतं भिन्द्याद् इत्यस्यान्यपरत्वात्स्वार्थातात्पर्यात्तत्र प्रवृत्तिः । न हि विधिविहितस्यार्थस्य स्तुत्या द्रोणपाकस्य प्रतिषिद्धस्य दुष्टस्य निन्दया निवृत्तिः । न तु विषभक्षणलक्षणं स्वार्थं प्रतिपाद्यते । अतश्च जैमिनिरर्थवादलक्षणसूत्रं२ प्रणीतवान् विधिना त्व् एकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युरिति । अर्थवादाः किल विध्येकवाक्यतया विधिशेषत्वेन निषेधशेषत्वेन च तत्स्तुत्यर्थास्तन्निन्दार्था वा भवेयुरित्यर्थः । अर्थवादवाक्यानां पदार्थत्वात्स्वार्थे च तात्पर्या(भावा)द् अन्यपरत्वाच्चेति । तथा च भट्टपादैरेवोक्तम् व्याख्येयाद्गुणवादेन योऽर्थवादादतत्परात् । अर्थेऽधिगन्तुमिष्येत कथं स्यात्तस्य सत्यता ॥ इति । तथा च श्रुतौ पशुयागे३ वपाहोमः कर्तव्य इति । अस्य विधेरवश्यानुष्ठानायार्थवादवाक्यम् प्रजापतिर्वपामुदखिदत __________ टिप्पणी १. संहरणमाह २. न हि पर्वं ... दन्यपरप्वात्स्वार्थतात्पर्यात्र ... हि ... स्तुत्या प्रतिषिद्धस्य ... निवान्ति ... यवृत्ति .... प्र च जैमिति ... २. पशुयाग ____________________________________________________________________ पृष्ठ २०७ इत्यादि । तस्यायमर्थः एवं नाम यजमानेनावश्यं वपाहोमः कर्तव्य इति । यदुक्तं१ पश्वन्तराभावे प्रजापतिना स्वात्मन एव वापमुत्खिद्य वपाहोमोऽनुष्ठित इति पशुयागविधेर् अवश्यकर्तव्यत्वे वपोत्खननमध्यारोपितं प्ररोचनार्थम् । लोकेऽप्यनभिप्रेतदुष्टपुरुषगृहभोजननिवृत्त्यर्थं कश्चिद्ब्रवीति वरं विषं भक्ष्य मा चास्य गृहे भुङ्क्था इति अनेनापि लौकिकेनार्थवादवाक्येन न विषभक्षणलक्षणः२ स्वार्थो विधीयत अपि तु अतिशयोक्त्या (त)द्गेहभोजननिवृत्तिः क्रियते । ... निषिद्ध ...... । __________ टिप्पणी १. दुत २. नैभिषभक्षणलक्षणः