॥ सूत्रप्रस्थानम् ॥ ॥ अनुव्याख्यानम् ॥ नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि ॥ १,१.१ ॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव ॥ १,१.२ ॥ प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः । अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् ॥ १,१.३ ॥ गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः । यतस्तदुदितं मानमजादिभ्यस्तदर्थतः ॥ १,१.४ ॥ वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता । आप्तवाक्यतया तेन श्रुतिमूलतया तथा ॥ १,१.५ ॥ युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् । दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः ॥ १,१.६ ॥ अतो नैतादृशं किञ्चित्प्रमाणतममिष्यते । स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः ॥ १,१.७ ॥ तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते । सर्वत्रानुगतत्वेन पृथगोङ्क्रियतेऽखिलैः ॥ १,१.८ ॥ ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदितः ॥ १,१.९ ॥ स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः । भावनाच्चैव सुत्वाच्च सोऽयं पुरुष इत्यपि ॥ १,१.१० ॥ स एव सर्ववेदार्थो जिज्ञास्योऽयं विधीयते । ज्ञानी प्रियतमोऽतो मे तं विद्वानेव चामृतः ॥ १,१.११ ॥ वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि । जिज्ञासोत्थज्ञानजात्तत्प्रसादादेव मुच्यते ॥ १,१.१२ ॥ द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १,१.१३ ॥ नर्ते त्वत्क्रियते किञ्चिदित्यादेर्न हरिं विना । ज्ञानस्वभावतोऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् ॥ १,१.१४ ॥ अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः । आनन्ददश्च मुक्तानां स एवैको जनार्दनः ॥ १,१.१५ ॥ इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते । मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः ॥ १,१.१६ ॥ मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् । मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः ॥ १,१.१७ ॥ तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया । सता चेद्द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् ॥ १,१.१८ ॥ साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता । स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः ॥ १,१.१९ ॥ तच्चाविशेषमानेन साध्यमित्यनवस्थितिः । अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता ॥ १,१.२० ॥ तस्माद्व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता । व्यावहारिकमेतस्मात्सत्यमित्येव चागतम् ॥ १,१.२१ ॥ व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् । सत्त्रैविध्यं च मानेन सिद्धयेत्केनेति पृच्छ्यते ॥ १,१.२२ ॥ तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन । वैलक्षण्यं सदसतोरप्येतेन निषिध्यते ॥ १,१.२३ ॥ वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः । असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् ॥ १,१.२४ ॥ यद्युच्यतेऽपि सर्वस्मादिति सद्भेदसंस्थितिः । सन्मात्रत्वं ब्रह्मणोऽपि तस्मात्तदपि नो भवेत् ॥ १,१.२५ ॥ ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः । विज्ञातस्यान्यथा सम्यग्विज्ञानं ह्येव तन्मतम् ॥ १,१.२६ ॥ असद्विलक्षणज्ञप्त्यै ज्ञातव्यमसदेव हि । तस्मादसत्प्रतीतिश्च कथं तेन निवार्यते ॥ १,१.२७ ॥ अन्यथात्वमसत्तस्माद्भ्रान्तावेव प्रतीयते । सत्त्वस्यासत एवं हि स्वीकार्यैव प्रतीतता ॥ १,१.२८ ॥ तस्यानिर्वचनीयत्वे स्यादेव ह्यनवस्थितिः । निर्विशेषे स्वयं भाते किमज्ञानावृतं भवेतः ॥ १,१.२९ ॥ मिथ्याविशेषोऽप्यज्ञानसिद्धिमेव ह्यपेक्षते । नचाअवरणमज्ञानमसत्ये तेन चेष्यते ॥ १,१.३० ॥ अप्रकाशस्वरूपत्वाज्जडेऽज्ञानं न मन्यते । अज्ञानाभावतः शास्त्रं सर्वं व्यर्थीभविष्यति ॥ १,१.३१ ॥ अज्ञानस्य च मिथ्यात्वमज्ञानादिति कल्पने । अनवस्थितिस्तथाच स्यादन्योन्याश्रयताथवा ॥ १,१.३२ ॥ स्वभावाज्ञानवादस्य निर्दोषत्वान्न तद्भवेत् । अविद्यादुर्घटत्वं चेत्स्यादात्मापि हि तादृशः ॥ १,१.३३ ॥ अतोऽधिकारिविषयफलयोगादिवर्जितम् । अनन्तदोषदुष्टं च हेयं मायामतं शुभैः ॥ १,१.३४ ॥ सत्यत्वात्तेन दुःखादेः प्रत्यक्षेण विरोधतः । न ब्रह्मतां वदेद्वेदो जीवस्य हि कथञ्चन ॥ १,१.३५ ॥ यजमानप्रस्तरत्वं यथा नार्थः श्रुतेर्भवेत् । ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥ १,१.३६ ॥ सार्वज्ञ्यादिगुणं जीवाद्भिन्नं ज्ञापयति श्रुतिः । ईशं तामुपजीव्यैव वर्तते ह्यैक्यवादिनी ॥ १,१.३७ ॥ उपजीव्यविरोधेन नास्यास्तन्मानता भवेत् । स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्त्यैक्ययोरपि ॥ १,१.३८ ॥ सादृश्ये चैक्यवाक्सम्यक्सावकाशा यथेष्यतः । अवकाशोज्खिता भेदश्रुतिर्नातिबला कथम् ॥ १,१.३९ ॥ अज्ञानासम्भवादेव मिथ्याभेदो निराकृतः । अतो यथार्थबन्धस्य विना विष्णुप्रसादतः ॥ १,१.४० ॥ अनिवृत्तेस्तदर्थं हि जिज्ञासात्र विधीयते । यथा दृष्टया प्रसन्नः सन् राजा बन्धापनोदकृत् ॥ १,१.४१ ॥ एवं दृष्टः स भगवान् कुर्याद्बन्धविभेदनम् । कार्यता च न काचित्स्यादिष्टसाधनतां विना ॥ १,१.४२ ॥ कार्यं न हि क्रियाव्याप्यं निषिद्धस्य समत्वतः । न भविष्यत्क्रिया कार्यं स्रक्ष्यतीश इति ह्यपि ॥ १,१.४३ ॥ कार्यं स्यान्नैव चाकर्तुमशक्यं कार्यमिष्यते । साम्यादेव निषिद्धस्य तदिष्टं साधनं तथा ॥ १,१.४४ ॥ कार्यं साधनमिष्टस्य भगवानिष्टदेवता । मुख्येष्यं वा सुमनसां प्रेयस्तदिति च श्रुतिः ॥ १,१.४५ ॥ प्राणबुद्धिमनःखात्मदेहापत्यधनादयः । यत्सम्पर्कात्प्रिया आसंस्ततः को न्वपरः प्रियः ॥ १,१.४६ ॥ इत्यादिवाक्यैराकाङ्क्षासन्निधिर्योग्यता यतः । अस्मिन्नेव समस्तस्येतीष्ये व्युत्पत्तिरिष्यते ॥ १,१.४७ ॥ अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च । उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि ॥ १,१.४८ ॥ बालो व्युत्पत्तिमप्येति नानयेत्यादिवाक्यतः । आनीयमानदृष्टयैव व्युत्पत्तेः सम्भवे सति ॥ १,१.४९ ॥ एष्यदानयनायायं कुत एव प्रतीक्षते । व्युत्पन्नो वर्तमाने तु क्रियाशब्दे भविष्यति ॥ १,१.५० ॥ पुनर्दृष्ट्यैव शब्दश्रुत्पश्चात्व्युत्पत्तिमेष्यति । वर्तमानमतीतं च भविष्यदिति च क्रमात् ॥ १,१.५१ ॥ आकाङ्क्षादियुतं यस्माद्विधेर्व्युत्पादनं कुतः । दृष्ट्या ज्ञातपदार्थस्य पदाकाङ्क्षा भविष्यति ॥ १,१.५२ ॥ व्युत्पत्तिः प्रथमा तस्माद्वतर्माने गते ततः । इष्टमाकाङ्क्षते सर्वो न प्रवृत्तिमपेक्षते ॥ १,१.५३ ॥ अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम् । क्वापि चेष्या तदर्था स्यादत्तिर्हि रसवित्तये ॥ १,१.५४ ॥ वाक्यार्थज्ञानमात्रेण क्वचिदिष्टं भवेदपि । न च स्रुकस्रुववह्नयादावतात्पर्यं श्रुतेर्भवेत् ॥ १,१.५५ ॥ यत्किञ्चित्करणरस्यापि यज्ञतैवान्यथा भवेत् । तस्मादुपासनार्थं च स्वार्थे तात्पर्यवद्भवेत् ॥ १,१.५६ ॥ इति शब्दोन्नयेऽग्नावित्युन्नीते स्मृतिर्भवेत् । इतिशब्दव्यपेतानि ह्यपि सन्ति वचांस्यलम् ॥ १,१.५७ ॥ आत्मानमेवेत्यादीनि योगेऽग्नावपि तत्समम् । एकवाक्यत्वयोगे तु वेदस्यापि ह्यशेषतः ॥ १,१.५८ ॥ वाक्यभेदो न युक्तः स्याद्योगश्च स्यान्महाफले । इति ब्रूयादिति वचो गतमग्नौ समीपगम् ॥ १,१.५९ ॥ कल्पनागौरवं चेत्स्यात्पृथक्तात्पर्यसम्भवे । कल्पनागौरवादेव पदार्था न स्युरेव हि ॥ १,१.६० ॥ प्रमाणावगतत्वं चेत्तात्पर्याणशं तथैव हि । तस्मात्पदार्थे वाक्यार्थे तात्पर्यमुभयत्र च ॥ १,१.६१ ॥ पृथगेव च वाक्यत्वं पृथगन्वयतो भवेत् । अवान्तरत्वाद्वाक्यानां वाक्यभेदो न दूषणम् ॥ १,१.६२ ॥ अङ्गीकृतत्वादपि तैः पदार्थानां पृथक्पृथक् । क्रियापदेनान्वयस्य वाक्यभेदाद्धि दूषणम् ॥ १,१.६३ ॥ प्रत्यक्षादिविरोधेऽतो गौणार्थस्यापि सम्भवात् । अतात्पर्यं पदार्थेऽपि न कल्प्यमविरोधतः ॥ १,१.६४ ॥ अतो ज्ञानफलान्येव कर्माणि ज्ञानमेव हि । मुख्यप्रसाददं विष्णोर्जिज्ञासायाश्च तद्भवेत् ॥ १,१.६५ ॥ कर्तव्या तेन जिज्ञासा श्रुतिप्रामाण्ययोगतः । प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हि ॥ १,१.६६ ॥ अनवस्थान्यथा हि स्यादप्रामाण्यं तथान्यतः । मिथ्याज्ञप्तिप्रलम्भादेस्तेन वेदविरोधि यत् ॥ १,१.६७ ॥ न मानमपि वेदानामङ्गीकार्या हि नित्यता । न हि धर्मादिसिद्धिः स्यान्नित्यवाक्यं विना क्वचित् ॥ १,१.६८ ॥ अविप्रलम्भस्तज्ज्ञानं तत्कृतत्वादयोऽपि च । कल्प्या गौरवदोषेण पुंवाक्यं ज्ञापकं न तत् ॥ १,१.६९ ॥ प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति चोदिते । न बुद्धो धर्मदर्शी स्यात्पुंस्त्वादित्यनुमाहतिः ॥ १,१.७० ॥ अधर्मवादिनो वाक्यमप्रयोजनमेव हि । धर्माभावोऽपि नो तेन प्रत्यक्षावगतो भवेत् ॥ १,१.७१ ॥ अतः संशयसम्पत्तौ वाक्यं प्रत्यक्षवत्प्रमा । शक्तिश्चैवान्विते स्वार्थे शब्दानामनुभूयते ॥ १,१.७२ ॥ अतोऽन्विताभिधायित्वं गौरवं कल्पनेऽन्यथा । नचाशक्याभिधायित्वं प्रवृत्तिश्च द्विधान्यथा ॥ १,१.७३ ॥ एतत्सर्वं तर्कशास्त्रे ब्रह्मतर्के हि विस्तरात् । उक्तं विद्यापृथक्तवात्तु सङ्क्षेपेणात्र सूचितम् ॥ १,१.७४ ॥ प्रमाणन्यायसच्छिक्षा क्रियते तर्कशास्त्रतः । मानन्यायैस्तु तत्सिद्धैमीमांसा मेयशोधनम् ॥ १,१.७५ ॥ ब्रह्मतर्कं च भगवान् स एव कृतवान् प्रभुः । पञ्चाशत्कोटिविस्तारान्नारायणतनौ कृतात् ॥ १,१.७६ ॥ उद्धृत्य पञ्चसाहस्रं कृतवान् बादरायणः । अतस्तदर्थं सङ्क्षेपादत इत्यभ्यसूचयत् ॥ १,१.७७ ॥ यतोऽनुभवतः सर्वं सिद्धमेतदतोऽपि च । देवैश्च दुर्गमार्थेषु व्यापृतो नातिविस्तृतिम् ॥ १,१.७८ ॥ चकारैता ह्यवज्ञेया युक्तयः प्रतिपक्षगाः । प्रत्यक्षेक्षाक्षमः पक्षं कमेवात्राभिवीक्षते ॥ १,१.७९ ॥ तस्मादक्षमपक्षत्वान्मोक्षशास्त्रेऽभ्युपेक्षितः । स्वयं भगवता विष्णुर्ब्रह्मेत्येतत्पुरोदितम् ॥ १,१.८० ॥ स विष्णुराह हीयन्ते देवशास्त्रस्य तेन हि । आद्यन्तं देवशास्त्रस्य स्वयं भगवता कृतम् ॥ १,१.८१ ॥ मध्यं तदाज्ञया पैलशेषाभ्यां कृतमञ्जसा । अतस्तत्रैव विष्णुत्वसिद्धेर्ब्रह्मेत्यसूचयत् ॥ १,१.८२ ॥ दोषारच्छिद्रशब्दानां पर्यायत्वं यतस्ततः । गुणा नारा इति ज्ञेयस्तद्वान्नारायणः स्मृतः ॥ १,१.८३ ॥ ब्रह्मशब्दोऽपि हि गुणपूर्तिमेव वदत्ययम् । अतो नारायणस्यैव जिज्ञासात्र विधीयते ॥ १,१.८४ ॥ सिद्धत्वाद्ब्रह्मशब्दस्य विष्णौ स्पष्टतया श्रुतौ । अम्भस्यपार इत्युक्तो नारायणपदेरितः ॥ १,१.८५ ॥ आपो नारा इति ह्याह स एवाप्स्वन्तरीरितः । कामतो विधिरुद्रादिपददातृया स्वयं श्रिया ॥ १,१.८६ ॥ योनित्वेनात्मनो विष्णोस्तिष्ठन्तीत्युदितस्य च । यस्मिन् देवा अधीत्युक्तवा समुद्रं स्थानमेव च ॥ १,१.८७ ॥ नाम चाक्षरमित्येव ऋच इत्युदितं तु यत् । यतः प्रसूतेत्युक्तवा च तदेव ब्रह्म चाब्रवीत् ॥ १,१.८८ ॥ अन्तःसमुद्रगं विश्वप्रसूतेः कारणठ तु यत् । सूक्तोपनिषदाद्युक्तं जन्माद्यस्येति लक्ष्यते ॥ १,१.८९ ॥ सृष्टिः स्थितिश्च संहारो नियतिर्ज्ञानमावृतिः । बन्धमोक्षावपि ह्यासु श्रुतिषूक्ता हरेः सदा ॥ १,१.९० ॥ यं नामानि विशन्त्यद्धा यो देवानामिति ह्यपि । श्रुतेर्नामानि सर्वाणि विष्णोरेव यतस्ततः ॥ १,१.९१ ॥ अतो न मुख्यतो नाम तदन्यस्य हि कस्यचित् । गुणाः श्रुता इति ह्यस्मान्न दोषोऽर्थः श्रुतेर्भवेत् ॥ १,१.९२ ॥ प्रीत्या मोक्षपरत्वाच्च तात्पर्यं नैव दूषणे । सर्वेषामपि वाक्यानां महातात्पर्यमत्र हि ॥ १,१.९३ ॥ तद्विरोधे न मानत्वं फलं मुक्तिर्हि वाक्यतः । न पुराणादिमानत्वं विरुद्धार्थे श्रुतेर्भवेत् ॥ १,१.९४ ॥ दर्शनान्तरमूलत्वान्मोहार्थं चाज्ञया हरेः । न सर्वनामतान्येषां श्रुतावुक्ता हि कुत्रचित् ॥ १,१.९५ ॥ अदोषवचनाच्चैव नियमेन हरेः श्रुतौ । अज्ञानं पारतन्त्र्यं च प्रळयेऽभाव एव च ॥ १,१.९६ ॥ अशक्तिश्चोदितान्येषां सर्वेषामपि च श्रुतौ । जन्माद्यस्येति तेनैतद्विष्णोरेव स्वलक्षणम् ॥ १,१.९७ ॥ अस्योद्भवादिहेतुत्वं साक्षादेव स्वलक्षणम् । कृष्णद्धयानच्छलेनैव स्वयं भागवतेऽब्रवीत् ॥ १,१.९८ ॥ अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः । न हि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् ॥ १,१.९९ ॥ हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः । निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् ॥ १,१.१०० ॥ भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः । कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः ॥ १,१.१०१ ॥ सदैव गुणवत्त्वेऽस्य भिन्नं स्यान्निर्गुणं सदा । न च मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् ॥ १,१.१०२ ॥ निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा । लक्ष्यलक्षणयोर्भेदोऽभेदो वा यदि वोभयम् ॥ १,१.१०३ ॥ इति पृष्टे तदैक्यस्य गतिरेव न विद्यते । ऐक्याभेदे न शास्त्रेण ज्ञेयं तत्स्वप्रकाशतः ॥ १,१.१०४ ॥ भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद्बलादपि । भेदाभेदौ यदि तदा स्यादेव ह्यनवस्थितिः ॥ १,१.१०५ ॥ स्वनिर्वाहकता चेत्स्याद्बाह्यं बाहकमित्यपि । पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च ॥ १,१.१०६ ॥ सत्यज्ञानादिकेऽप्येव न व्यावृत्त्या प्रयोजनम् । व्यावृत्तस्याविशेषत्वे तदखण्डं च खण्डितम् । निर्विशेषत्वमेतेन मूकोऽहमितिवद्भवेत् ॥ १,१.१०७ ॥ अभिन्नेऽपि विशेषोऽयं बलादापतति ह्यतः । विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् ॥ १,१.१०८ ॥ भेदहीने त्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥ १,१.१०९ ॥ विशेषास्तेऽप्यनन्ताश्च परस्परविशेषिणः । स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः ॥ १,१.११० ॥ अतोऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते । एवं धर्मानिति श्रुत्या तदभेदोऽप्युदीर्यते ॥ १,१.१११ ॥ शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु । तद्वाक्योपमयान्यच्च प्रमाणत्वेऽनुमीयते ॥ १,१.११२ ॥ ईशवाक्यत्वत इति चेत्तद्गव्यभिचारिणा । अप्रामाण्यानुमा च स्यान्न पृथक्चानुमेश्वरे ॥ १,१.११३ ॥ पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना । शास्त्रयोनित्वमेतेन कारणस्य बलाद्भवेत् ॥ १,१.११४ ॥ नावेदविन्न तर्केण मतिरित्यादिवाक्यतः । तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन ॥ १,१.११५ ॥ वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः । किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् ॥ १,१.११६ ॥ वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् । इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः । शक्तं विज्ञापने चातिप्रसङ्गोऽनुमयेदृशा ॥ १,१.११७ ॥ वस्तुत्वात्तुरगः शृङ्गी पुष्पवत्खं सुतैर्युता । चित्रिणी च रसः षष्ठो रसत्वात्सोत्तरो भवेत् । उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः ॥ १,१.११८ ॥ त एवान्वयनामानस्तैः सम्यक्प्रविचारिते । मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः ॥ १,१.११९ ॥ ईक्षणीयत्वतो विष्णुर्वाच्य एव नचान्यथा । लक्ष्यत्वं क्वापि दृष्टं हि किं तदित्यनवस्थितिः ॥ १,१.१२० ॥ माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा । वाक्यार्थोऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् ॥ १,१.१२१ ॥ नावाच्यं तेन किञ्चित्स्याद्यत इत्यादिकैर्वदन् । अवाच्यत्वं कथं ब्रूयान्मूकोऽहमितिवत्सुधीः ॥ १,१.१२२ ॥ येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सोऽवदत् । एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् ॥ १,१.१२३ ॥ महती जायते लज्जा यत्र तत्राखिला रवाः । अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम् । कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः ॥ १,१.१२४ ॥ आत्मब्रह्मादयः शब्दाः साक्षात्पूर्णाभिधायिनः । जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा ॥ १,१.१२५ ॥ वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि । कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः ॥ १,१.१२६ ॥ आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् । आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् ॥ १,१.१२७ ॥ स्यात्सर्वत्र च यत्रैकमपि लोको जुगुप्सते । नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते ॥ १,१.१२८ ॥ अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः । अन्धन्तमो नित्युदुःखं तस्य स्याद्वसनद्वयम् ॥ १,१.१२९ ॥ अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः । तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः ॥ १,१.१३० ॥ असुर्या नाम ते लोका अन्धेन तमसाऽवृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ १,१.१३१ ॥ इत्यादिश्रुतयो मानं शतशोऽत्र समन्ततः । हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः ॥ १,१.१३२ ॥ तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह । उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः ॥ १,१.१३३ ॥ परिवारतया ग्राह्या अपि हेयाः प्रधानतः । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १,१.१३४ ॥ इति स्वस्यैव पूर्णस्य पूर्णेऽप्यय उदाहृतः । कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् ॥ १,१.१३५ ॥ पदं च निर्गुण इति कथं गौणं वदिष्यति । गुणाभावोपलक्ष्यं चेत्पदं तदपि वाचकम् ॥ १,१.१३६ ॥ अतोऽनवस्थितिमुखसर्वदोषमहास्पदम् । कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः ॥ १,१.१३७ ॥ न च साङ्खयनिराकृत्यै सूत्राण्येतान्यचीकॢपत् । भगवान्नह्यशब्दत्वं प्रधानेऽङ्गीकरोत्यसौ ॥ १,१.१३८ ॥ समन्वये प्रतिज्ञाते शब्दगोचरतैव हि । प्रथमप्रतिपाद्या स्यात्तदभावे कुतोऽन्वयः ॥ १,१.१३९ ॥ कथं च लक्षणावादी ब्रूयाद्ब्रह्मसमन्वयम् । योऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात्समन्वयः ॥ १,१.१४० ॥ जन्मादिकारणे साक्षादाह देवः समन्वयम् । उक्तं तदेव जिज्ञास्यं क्वावकाशोऽत्र निर्गुणे ॥ १,१.१४१ ॥ कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ । मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् ॥ १,१.१४२ ॥ अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन । तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् ॥ १,१.१४३ ॥ वासुदेवाख्यमद्वन्द्वं परं ब्रह्माखिलोत्तमम् । विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः ॥ १,१.१४४ ॥ निर्गतं मनसो वाचो यदि तत्स्यादगोचरम् । अस्तु तन्मा वदेद्वादी नचास्मच्छास्त्रगं तु तत् ॥ १,१.१४५ ॥ अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा । अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः ॥ १,१.१४६ ॥ जन्मादिकारणं यत्तत्साक्षान्नारायणाभिधम् । वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत्तदर्थतः ॥ १,१.१४७ ॥ स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥ १,१.१४८॥ प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन । सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः ॥ १,१.१४९ ॥ वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा । विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् ॥ १,१.१५० ॥ अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च । अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः । अवाच्यमिति लोकेऽपि वक्तयाश्चार्यतमं भुवि ॥ १,१.१५१ ॥ एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् । आनन्दमय इत्यादिनाध्यायेन वदत्यजः ॥ १,१.१५२ ॥ तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् । शब्दानां प्रथमे पादे गुणिसामान्यवाचिनाम् ॥ १,१.१५३ ॥ गुणवाचिनां च प्रथममाह देवः समन्वयम् । समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः ॥ १,१.१५४ ॥ तदेव ब्रह्म परममिति सावधृतिर्जगौ । यतोऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः ॥ १,१.१५५ ॥ योऽन्नं ब्रह्मेत्यादिरूपादभ्यासात्तैत्तिरीयके । अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः ॥ १,१.१५६ ॥ आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् । उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् ॥ १,१.१५७ ॥ सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये । पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् ॥ १,१.१५८ ॥ सर्वे वेदा आमनन्ति यत्पदं त्विति हि श्रुतिः । आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः ॥ १,१.१५९ ॥ समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि । ब्रह्मशब्दस्य चाभ्यासात्पञ्चरूपादिषु स्फुटम् ॥ १,१.१६० ॥ ब्रह्मतावयवेऽपि स्यात्तथावयविनि स्वतः । यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला ॥ १,१.१६१ ॥ दर्शिता चैव पार्थाय निःसीमाः शक्तयोऽस्य हि । ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ॥ १,१.१६२ ॥ विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत्प्रति । विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् ॥ १,१.१६३ ॥ समानाधिकृतत्वं चेदुत्तरं नीललोहितम् । कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति ॥ १,१.१६४ ॥ ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः । स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति ॥ १,१.१६५ ॥ स्वाहेन्द्रशत्रुवर्धस्व यद्बहुव्रीहितामगात् । महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ १,१.१६६ ॥ पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति । महाव्याकरणे सूत्रमिति स्वरविनिर्णये ॥ १,१.१६७ ॥ ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका । विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा ॥ १,१.१६८ ॥ तस्माद्विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः । ऊर्ध्वरेता इति ह्येव श्रुत्यर्थोऽवसितो भवेत् ॥ १,१.१६९ ॥ ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः । ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः ॥ १,१.१७० ॥ इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा । आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ ॥ १,१.१७१ ॥ तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः । अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा ॥ १,१.१७२ ॥ एको नारायण आसीन्न ब्रह्मा न च शङ्करः । वासुदेवोऽग्र एवासीन्न ब्रह्मा न च शङ्करः ॥ १,१.१७३ ॥ नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः । इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा ॥ १,१.१७४ ॥ मुख्यं ब्रह्म हरिस्तस्मात्प्रस्तावः परमित्यपि । मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् ॥ १,१.१७५ ॥ असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् । प्राचुर्यार्थाश्च मयटः सर्वेऽत्र प्रतिपादिताः ॥ १,१.१७६ ॥ भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः । महाभोक्ता महाभोग्य इत्यर्थोऽन्नमये भवेत् ॥ १,१.१७७ ॥ महाप्राणो महाबोधो महाविज्ञानवानपि । विशेषसामान्यतया विज्ञानं मन इत्यपि ॥ १,१.१७८ ॥ एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः । अभेदेऽपि विशेषेणैवान्य इत्युदितो हरिः ॥ १,१.१७९ ॥ भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् । ब्रूयुर्हरेर्जीवजडैरपि भेदं हि मुख्यतः ॥ १,१.१८० ॥ ब्रह्मतर्कवचोऽप्येवमत एकः स पञ्चधा । उक्तोऽन्नमय इत्यादि भृगोश्चैतद्वदिष्यति ॥ १,१.१८१ ॥ प्राप्यत्वेन मयट्प्रोक्तेर्न तत्राप्यन्यदुच्यते । प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि ॥ १,१.१८२ ॥ उच्यते ह्यविशेषेण नान्यत्किञ्चिदिहोच्यते । महानन्दत्व एवास्य हेतुः कोऽन्यादिति स्फुटम् ॥ १,१.१८३ ॥ उक्तः श्रुत्यन्तरे यस्मात्सुखं लब्ध्वा करोत्ययम् । करोति नासुखी भूमा सुखं नाल्पे सुखं भवेत् ॥ १,१.१८४ ॥ इत्युक्तं यत्प्रवृत्तिश्च नृत्तगानादिका सुखात् । दुःखाद्रोदादिका चैव सर्वकर्तृत्वतोऽस्य च ॥ १,१.१८५ ॥ सर्वशक्तेर्न दुःखं स्यादतः केवललीलया । प्रवर्तको न चेदेष प्राण्यादन्याच्च कः पुमान् ॥ १,१.१८६ ॥ ब्रह्मवित्परमाप्नोतीति यत्प्रथमसूचितम् । तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् ॥ १,१.१८७ ॥ लक्षितं तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि । उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् ॥ १,१.१८८ ॥ अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् । सद्भावं यापयेद्यस्मात्सत्यं तत्तेन कथ्यते ॥ १,१.१८९ ॥ इति सृष्टिरिह प्रोक्ता जगत्सद्भावयापकम् । ब्रह्मेति स्थापनायैव सत्त्वं जीवनमेव च ॥ १,१.१९० ॥ विशीर्णता च सत्त्वं स्यात्सन्नमित्याहुरेव यत् । अतोऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि ॥ १,१.१९१ ॥ प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये । आयुः प्राणो हि भूतानामिति यद्गतिजीवने ॥ १,१.१९२ ॥ उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता । प्राणत्वमवबोधार्थो मनुधातुः प्रकीर्तितः ॥ १,१.१९३ ॥ नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः । अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके ॥ १,१.१९४ ॥ अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया । क्रियते परया यस्मादितरोऽत्र न कथ्यते ॥ १,१.१९५ ॥ पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते । इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति ॥ १,१.१९६ ॥ पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः । महानानन्द उद्विष्णुर्भर्ग ओम इतीर्यते ॥ १,१.१९७ ॥ स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् । तस्मादोमित्युदाहृत्य यज्ञदानादि कुर्वते ॥ १,१.१९८ ॥ सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः । इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद्विमुच्यते ॥ १,१.१९९ ॥ ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च । तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् ॥ १,१.२०० ॥ भूतं भूताभिमानी च तद्देहोऽन्तर्नियामकः । हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च ॥ १,१.२०१ ॥ आ समन्तात्काशते यदाकाशो मुख्यतो हरिः । बलज्ञानस्वरूपत्वाद्वायुरग्निरगं नयन् ॥ १,१.२०२ ॥ आप आपालनाच्चैव पृथिवी प्रथितो यतः । उष्यानामाश्रयत्वेन स एवोषधिनामकः ॥ १,१.२०३ ॥ ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् । पुरि शेते यतः सोऽथ पुरुषश्चेति गीयते ॥ १,१.२०४ ॥ क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः । आकाशादिषु नान्यास्ति ह्यभिमानोऽभिमानिनः ॥ १,१.२०५ ॥ अभिमानिशरीरस्य साक्षाद्भूतस्य चोद्भवः । एवं देहादिपर्यन्तमागतं हरिमेव तु ॥ १,१.२०६ ॥ परामृशति तस्यैव पञ्चरूपत्ववित्तये । त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः ॥ १,१.२०७ ॥ स इत्यात्मपदोद्दिष्ट एष जीवशरीरगः । सारान्नमय एवायं न लोकान्नमयः प्रभुः ॥ १,१.२०८ ॥ इति तं रसशब्देन विशिनष्टि शरीरगम् । इदमित्येव निर्देशो वस्त्रप्रावृतवद्विभोः ॥ १,१.२०९ ॥ शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः । तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात्कथञ्चन ॥ १,१.२१० ॥ आदित्ये पुरुषे चायमिति भेदोपदेशतः । नास्याभेदोऽस्ति जीवेन नानुमा कामचारिणी ॥ १,१.२११ ॥ विमतानि शरीराणि मद्भोगायतनानि यत् । शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते ॥ १,१.२१२ ॥ प्रत्यक्षादिविरुद्धत्वादक्षागमभयोज्खिता । अनुमा कामवृत्ता हि कुत्र नावसरं व्रजेत् ॥ १,१.२१३ ॥ जड आत्मैव वस्तुत्वात्प्रमेयत्वाज्जडं चितिः । घन आकाश इत्याद्या वार्यन्ते केन हेतुना ॥ १,१.२१४ ॥ न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता । वाक्यान्तरद्योतकत्वात्पृथगित्यत्र पूर्णता । योगमन्नमयाद्यैर्यत्फलत्वेनास्य शंसति । स्थानद्वयेऽप्यतः कोशा एत इत्यतिसाहसम् ॥ १,१.२१५ ॥ उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति । अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् ॥ १,१.२१६ ॥ अश्रुतस्यातिशब्दस्य स्थानं दद्यात्कथं पुनः । श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् ॥ १,१.२१७ ॥ मृतावेव परित्यागः कृतो ह्यन्नमयस्य च । येऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः ॥ १,१.२१८ ॥ उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी । स्थानद्वयगता वेदवाणी तदपलापिनाम् ॥ १,१.२१९ ॥ तमसोऽन्यत्र संस्थानं कथमेव सहेत सा । अधीहि भगवो ब्रह्मेत्युक्तोऽन्नप्राणपूर्वकम् ॥ १,१.२२० ॥ आह ब्रह्म कथं तन्न द्वारं तदिति वादिनः । उपसत्तिं कथं विद्युरुपसन्नाय हि त्रिशः ॥ १,१.२२१ ॥ वक्तव्यं ब्रह्म गुरुणा चतुर्वारमथापि वा । सकृद्वेत्यागमा ब्रूयुः सम्प्रदायविदोऽपि च ॥ १,१.२२२ ॥ तद्यत्किञ्चित्कथं ब्रूयादुपसन्नाय दिक्पतिः । न वदेद्ब्रह्म च कथं मायावी न हि वारिराट् ॥ १,१.२२३ ॥ चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते । वचनादेव वाग्ब्रह्म सृष्टिस्थित्यादिकारणम् ॥ १,१.२२४ ॥ तच्च वाघूलशाखायामष्टरूपमुदाहृतम् । विज्ञानानन्दसहितं पृथक्सृष्टयादिलक्षणैः ॥ १,१.२२५ ॥ आवापोद्वापतष शाखा यत आहुः परं पदम् । यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् ॥ १,१.२२६ ॥ लक्षितं गुरुणा पश्चात्तपसैवापरोक्षतः । दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् ॥ १,१.२२७ ॥ इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् । अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ ॥ १,१.२२८ ॥ साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु । समीपे सहभोगस्य मुक्तित्वेनोक्तितोऽसकृत् ॥ १,१.२२९ ॥ भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् । एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् । तदन्येषां मतमपि सत्संसत्सु न भासते ॥ १,१.२३० ॥ अतो नारायणो देवो निःशेषगुणवाचकैः । गुणिसामान्यवचनैरपि मुख्यतयोदितः ॥ १,१.२३१ ॥ अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः । अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः ॥ १,१.२३२ ॥ जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये । ब्रह्मणो लक्षणं प्रोक्तं शास्त्रमूलं यतस्ततः ॥ १,१.२३३ ॥ अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः । शब्दप्रवृत्तिहेतूनां तस्मिन्मुख्यसमन्वयात् ॥ १,१.२३४ ॥ अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा । तद्वाचकत्वं शब्दानां बहुलातिप्रयोगतः ॥ १,१.२३५ ॥ रूढमित्येव साध्यं स्याद्रूढिर्हि द्विविधा मता । अविद्वद्विद्वदाप्त्यैव मुख्या हि विदुषां तु सा ॥ १,१.२३६ ॥ विद्वद्रूढिर्वैदिका स्यात्सा योगादेव लभ्यते । तस्मान्मुख्यार्थता विष्णोरिति कृत्वा हृदि प्रभुः ॥ १,१.२३७ ॥ समन्वयं साधयति देवानां तत्र शक्तताम् । आशङ्कय तत्र रूढिं च तच्छब्दानामपि स्वयम् ॥ १,१.२३८ ॥ समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् । साधयित्वाभिदां तैश्च पुनरेव न्यवारयत् ॥ १,१.२३९ ॥ चेष्टा हि चेतनानां या सा भवेत्तत्प्रसादतः । अचेतनस्वभावस्तु विवरादिः कथं ततः ॥ १,१.२४० ॥ इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च । परतोऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ १,१.२४१ ॥ इति शङ्कानिवृत्त्यर्थमाकाश इति नाम च । परतोऽपि वरीयस्त्व पूर्वाल्लिङ्गाद्धरेर्भवेत् ॥ १,१.२४२ ॥ प्राणादिहेतुतादृष्टेरतिदेशो हि तादृशः । लिङ्गं बलवदेव स्यात्प्रेरकोऽस्यापि यद्धरिः ॥ १,१.२४३ ॥ नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः । कथं प्रसिद्धबहुलशब्दानामयथार्थता ॥ १,१.२४४ ॥ इति चेत्तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः । तादृशत्वाच्च तच्छक्तेर्बाहुल्ये श्रुतिलिङ्गयोः ॥ १,१.२४५ ॥ अन्यस्य मुख्यवाच्यत्वमिति तन्नात्रगस्य हि । विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः ॥ १,१.२४६ ॥ प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च । अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि ॥ १,१.२४७ ॥ तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः । एको नारायणो देवो भण्यते नात्र संशयः ॥ १,१.२४८ ॥ वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः । अथवा पञ्चमूर्तिः स प्रोक्तोऽधिकरणं प्रति ॥ १,१.२४९ ॥ प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा । तैस्तैर्युक्तिश्रुतिन्यायविशेषैर्योग्यता यथा ॥ १,१.२५० ॥ बृहत्तन्त्रप्रमाणेन बह्वर्थमपि सङ्ग्रहात् । उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः ॥ १,१.२५१ ॥ ग्रन्थोऽयमपि बह्वर्थो भाष्यं चात्यर्थविस्तरम् । बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः । तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः ॥ १,१.२५२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचायर्विरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य प्रथमः पादः ॥ लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे । चिन्त्यते सर्वगत्वं तु प्रथमं प्रविचार्यते ॥ १,२.१ ॥ तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः । दूरतोऽप्यतिरिक्तः स लीलया केवलं प्रभुः ॥ १,२.२ ॥ इति ज्ञापयितुं कर्मकर्त्रोरुत्सर्गतो भिदा । अभेदोऽपि विशेषे स्याद्बली सोऽप्यनपोदितः ॥ १,२.३ ॥ एतद्भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् । अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते ॥ १,२.४ ॥ अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा । अनित्यत्वात्क्रियाणां तु कथमेव स्वरूपता ॥ १,२.५ ॥ इति चेत्स विशेषोऽपि क्रियाशक्तयात्मना स्थिरः । शक्तिता व्यक्तता चेति विशेषोऽपि विशेषवान् ॥ १,२.६ ॥ अभिन्नोऽपि क्रियादिश्च स्वभाव इति हि श्रुतिः । ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः ॥ १,२.७ ॥ इति पैङ्गिश्रुतिश्चाह शक्तिसद्भाव एव तु । क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता ॥ १,२.८ ॥ इति सत्तत्त्ववचनं द्वित्वं चैकस्य युज्यते । यः सेतुरिति चैकत्ववचनेन विशेषणात् ॥ १,२.९ ॥ अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः । रमणं चात्मशब्देनादेयं मातीति चोच्यते ॥ १,२.१० ॥ विशिष्टसुखवत्त्वाच्च ब्रह्मत्वं च विशिष्टता । अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् ॥ १,२.११ ॥ चेतनानां विशेषो यः स्वभावोऽपीश्वरापिर्तः । अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ ॥ १,२.१२ ॥ ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः । किमित्यपोद्यते कस्माद्वृथावस्थितिकल्पना । दोषवत्येव तस्मात्सा नैव कार्या कथञ्चन ॥ १,२.१३ ॥ रमणं नातियत्नस्य विक्षेपादेव युज्यते । इति चेत्सर्वनियमो यस्य कस्मान्न शक्यते ॥ १,२.१४ ॥ आत्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् । स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् ॥ १,२.१५ ॥ गुणक्रियादयो भावा यदिवा स्युरभेदिनः । अभेदोऽभावधर्माणां ब्रह्मणा युज्यते कथम् ॥ १,२.१६ ॥ नाभावो भाव इति च विशेषः प्रायशो भवेत् । अतद्भावोऽन्यता चेति न विशेषोऽस्ति कश्चन ॥ १,२.१७ ॥ दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि । अदृश्यत्वादिकांस्तस्माद्गुणानाह स्वयं प्रभुः ॥ १,२.१८ ॥ भावाभावविरोधोऽपि न तु सर्वत्र विद्यते । तदभावो हि तद्भावविरोधी न ततोऽपरः ॥ १,२.१९ ॥ पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् । कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः ॥ १,२.२० ॥ पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः । व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः ॥ १,२.२१ ॥ दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् । यदा तदधिको दोषो विद्यते को नु वादिनाम् ॥ १,२.२२ ॥ भावाभावस्वरूपास्तु विशेषा एव वस्तुनः । अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये ॥ १,२.२३ ॥ यथैकः समवायोऽपि भेदाभेदौ च वस्तुनि । अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः ॥ १,२.२४ ॥ अखण्डवादिनोऽ पि स्याद्विशेषोऽनिच्छतोऽप्यसौ । व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः ॥ १,२.२५ ॥ बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः । प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः ॥ १,२.२६ ॥ वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः । तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः । बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते ॥ १,२.२७ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य द्वितीयः पादः ॥ तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः ॥ १,३.१ ॥ विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् । श्रुतिर्वक्त्यखिलेशत्वाद्भूमा विष्णुः सुखाधिकः ॥ १,३.२ ॥ अतो विरुद्धवद्भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् ॥ १,३.३ ॥ ब्रह्मैव तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च ॥ १,३.४ ॥ अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् । नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् ॥ १,३.५ ॥ सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च ॥ १,३.६ ॥ लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः । पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह ॥ १,३.७ ॥ बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता । अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः ॥ १,३.८ ॥ लिङ्गावकाशराहित्यभ्रमस्तादृग्द्वयं तथा । बहुतादृक्तवमुक्तस्य विरोधोऽर्थात्तथा गतिः । समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः ॥ १,३.९ ॥ ता एव बलवन्तस्तु गत्यन्तरविवर्जिताः । सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः ॥ १,३.१० ॥ मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा । वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा ॥ १,३.११ ॥ अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा । वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता ॥ १,३.१२ ॥ अनामरूपता भेदस्योपजीव्यप्रमाणता । सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः ॥ १,३.१३ ॥ अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ । तत्फलाय विधिः सिद्धे चोपासाया निराकृतः ॥ १,३.१४ ॥ यतो जैमिनिनान्यार्थमसिद्धेऽर्थे विधिस्तथा । विद्याधिराजस्य मतमविरोधस्तयोस्ततः ॥ १,३.१५ ॥ मोक्षे फलविशेषोऽस्ति न च सर्वं प्रकाशते । सर्वदा तेन देवानामपि युक्ता ह्युपासना ॥ १,३.१६ ॥ नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणोऽशेषवस्तुगम् ॥ १,३.१७ ॥ अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा । इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि ॥ १,३.१८ ॥ जैमिन्याद्यास्तु सामान्यवेत्तृत्वात्तत्तथावदन् । विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते ॥ १,३.१९ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य तृतीयः पादः ॥ दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः । शब्दा ब्रह्मणि वर्तन्ते राज्ञि यद्वत्पराजयः ॥ १,४.१ ॥ स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् । स्वातन्त्र्यं तत्र मुख्यं स्यात्कुतो राज्ञि जयोऽन्यथा ॥ १,४.२ ॥ न हि भृत्यस्य विजयिशब्दस्तावत्प्रयुज्यते । यावद्राज्ञ्यन्यगत्वेऽपि स्वातन्त्र्याभासमात्रतः ॥ १,४.३ ॥ भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः । कारणं संशयस्य स्यादिति नैव प्रयुज्यते ॥ १,४.४ ॥ अमङ्गलत्वाच्छब्दानां राज्ञा योगादमङ्गले । अप्रियत्वात्तु शब्दस्य स्यात्प्रयोगनिवर्तनम् ॥ १,४.५ ॥ गुणास्तु तादृशा यत्र प्रयुज्यन्तेऽखिला अपि । पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् ॥ १,४.६ ॥ ततो दोषातिदूरत्वात्संशयस्याप्यसम्भवात् । दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया ॥ १,४.७ ॥ स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि । वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् ॥ १,४.८ ॥ मङ्गलामङ्गलेऽन्यत्र ततो नामङ्गलं वदेत् । स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः ॥ १,४.९ ॥ बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् । एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः ॥ १,४.१० ॥ नैव दोषा हरौ तद्गबुद्धयोक्ता दोषकारिणः । तस्मात्ते दोषशब्दाश्च तत्रैव गुणवाचकाः ॥ १,४.११ ॥ जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः । आयज्ञेतश्चायजेतो वसन्तिश्च वसन्ततः ॥ १,४.१२ ॥ विगतच्छादनत्वात्तु गच्छ भूतक्षयङ्करः । भुङ्क्षेत्युक्तो हरिर्हुं च हुतमस्मिन् जगद्यतः ॥ १,४.१३ ॥ स्फुटत्वात्फडिति प्रोक्तः कवरक्षण इत्यतः । कवचं वतर्ते यस्मात्षड्गुणत्वेन सर्वदा । वषट्तद्गत्वतस्तेषां वौषडित्येव कथ्यते ॥ १,४.१४ ॥ स्वीयं स्वीकुरुते यस्मात्स्वाहेत्युक्तो जनार्दनः । नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते ॥ १,४.१५ ॥ इत्यशेषक्रियानामशब्दैरेको जनार्दनः । उच्यते मुख्यतो यस्मात्पदवर्णस्वरादिभिः ॥ १,४.१६ ॥ तस्मादनन्तगुणता श्रुतितात्पर्यतोऽस्य हि । विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् ॥ १,४.१७ ॥ अङ्गीकृतेऽपि नैवास्ति दोषो वाक्यसमन्वये । तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये ॥ १,४.१८ ॥ कश्छन्दसां योगमिति श्रुतेर्योगार्थतत्त्ववित् । ब्रह्मैको नैव चान्योऽस्ति क इत्यस्यरोभयार्थतः ॥ १,४.१९ ॥ तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् । नित्ययोगोऽपि शब्दानामर्थैर्नैव निषिद्धयते । स्त्रीशब्दाश्च निषेधार्थाः सर्वेऽपि ब्रह्मवाचकाः ॥ १,४.२० ॥ विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् । पृथक्समन्वयार्थानि स्थानान्येतानि सर्वशः ॥ १,४.२१ ॥ सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता । परस्परविरोधश्च विरोधः कार्यतद्वतोः । स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः ॥ १,४.२२ ॥ दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा । बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता ॥ १,४.२३ ॥ उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा । इतयाद्या युक्तयः साक्षात्सिद्धान्तस्थापका इह ॥ १,४.२४ ॥ अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा । इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् ॥ १,४.२५ ॥ विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः । स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः ॥ १,४.२६ ॥ विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् । तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः ॥ १,४.२७ ॥ प्रयोजनबहुत्वेन तस्य तस्याविरोधतः । उपदेशादिसामर्थ्याद्विष्णौ शक्तिश्च गृह्यते ॥ १,४.२८ ॥ तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते । अविरोधे तु बह्वर्था एतन्मूलतया मताः ॥ १,४.२९ ॥ इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि । तत्सिद्धिस्तदपेक्षा च सापेक्षा च हरीच्छया ॥ १,४.३० ॥ तस्मात्परममुख्यत्वं विष्णावन्यत्र मुख्यता । उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः ॥ १,४.३१ ॥ प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता । तत्र प्रयोगबाहुल्यं यदि तत्परता किमु ॥ १,४.३२ ॥ उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः । प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते ॥ १,४.३३ ॥ प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः । वृत्तिहेतुरिति ज्ञेयः पूर्वायोगे परग्रहः ॥ १,४.३४ ॥ एतमेव तथा सन्तं शतर्चीत्यादिनामभिः । आचक्षत इति ह्यत्र सन्तमित्यवधारणा ॥ १,४.३५ ॥ योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् । बहुशो दर्शयत्यञ्जस्तात्पर्यात्सनिरुक्तिकम् ॥ १,४.३६ ॥ अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा । शब्दानामपि सर्वेषां नामवित्कृतकृत्यता ॥ १,४.३७ ॥ विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् । णकारं च षकारं च बलचेष्टात्मकं वदन् ॥ १,४.३८ ॥ तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा । उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा ॥ १,४.३९ ॥ णकारश्च षकारश्च नामरूपतया मतौ । तस्मात्समन्वयो विष्णौ स्वरवर्णपदात्मनः ॥ १,४.४० ॥ अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः । घोषाः सर्वेऽपि वेदाश्च सर्वे वेदाश्च यत्पदम् ॥ १,४.४१ ॥ इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा । नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः ॥ १,४.४२ ॥ प्रमाणमुक्तविषये तदेवोक्तमुपक्रमात् । इति स्वयं भगवता ब्रुवताशेषमन्वयम् ॥ १,४.४३ ॥ न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते । सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् ॥ १,४.४४ ॥ सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः । निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ १,४.४५ ॥ इत्यादिवाक्यरूपेण यत्रार्थो नान्य इष्यते । तेजोऽबन्नात्मकं वापि यद्युपादानमिष्यते ॥ १,४.४६ ॥ अनाद्येवापराधः कः प्रधानमिति चोदिते । अजामेकामिति प्राह श्रुतिरेतां यदा तदा । को दोषः सर्वथैवास्ति परिणामि जडं यदि ॥ १,४.४७ ॥ अस्माकं परममुख्यार्थो भगवानेक एव तु । मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते ॥ १,४.४८ ॥ सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः । अर्थद्वयमभिप्रेत्य प्रवृत्ते हरिरुक्तवान् ॥ १,४.४९ ॥ कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् । योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ १,४.५० ॥ इति बुद्धौ समारोहादुभयोर्योगरूढयोः । त्यागे च कारणाभावादुभयार्थत्वमिष्यते ॥ १,४.५१ ॥ विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् । सा भवेद्यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा । अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः ॥ १,४.५२ ॥ यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ १,४.५३ ॥ पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा । एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ १,४.५४ ॥ इति भागवते प्राह विद्याधीशः स्वयं प्रभुः । न च प्रकृतिशब्देन ब्रह्मोपादानमुच्यते ॥ १,४.५५ ॥ अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः । सदैकरूपविज्ञानबल आनन्दरूपकः ॥ १,४.५६ ॥ निर्विकारोऽक्षरः शुद्धो निरातङ्कोऽजरोऽमरः । अविश्वो विश्वकर्ताजो यः परः सोऽभिधीयते ॥ १,४.५७ ॥ निर्विकारमनौपम्यं सदैकरसमक्षयम् । ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः ॥ १,४.५८ ॥ इति श्रुतिपुराणोक्तया न विकारी जनार्दनः । पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः ॥ १,४.५९ ॥ क्षीरादिवद्विकारः स्यान्नैव स स्याद्धरेः क्वचित् । अपादानत्वमेवास्य यद्युपादानतेष्यते ॥ १,४.६० ॥ अङ्गीकृतं तत्पितृवन्नतु विश्वात्मना भवः । न चोर्णनाभिजनितृमातृणां च विकारिता ॥ १,४.६१ ॥ चेतनत्वात्तदन्नं हि कार्यरूपतया भवेत् । अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् ॥ १,४.६२ ॥ उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् । इच्छामात्रात्प्रभोः सृष्टिरविकारस्य सर्वदा ॥ १,४.६३ ॥ स्वभावोऽयमनन्तस्य रजो येनाभवज्जगत् । स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः ॥ १,४.६४ ॥ ससर्ज मातापितृवदूर्णनाभिवदेव वा । प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा ॥ १,४.६५ ॥ न चेतनविकारः स्याद्यत्र क्वापि ह्यचेतनम् । नाचेतनविकारोऽपि चेतनः स्यात्कदाचन ॥ १,४.६६ ॥ नचान्यस्यान्यरूपत्वं विकृतत्वेऽपि दृश्यते । न क्षीरादन्यता दध्नः केनचिद्दृश्यते क्वचित् ॥ १,४.६७ ॥ सर्वज्ञाद्ब्रह्मणोऽन्यत्वं जगतो ह्यनुभूयते । अभेदः सत्त्वमात्रेण स्याद्खर्वस्वणयोरपि ॥ १,४.६८ ॥ भागेन परिणामश्चेद्भागयोर्भेद एव हि । यो भागो न विकारी स्यात्स एवास्माकमीश्वरः ॥ १,४.६९ ॥ भिन्नानां समुदायस्य नाम ब्रह्मेति चेद्भवेत् । ब्रह्मोपादानता न स्यात्तदा विश्वस्य हि क्वचित् ॥ १,४.७० ॥ शृङ्गाच्छरोऽविलोमभ्यो दूर्वा गोमयतस्तथा । वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते ॥ १,४.७१ ॥ उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते । अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् ॥ १,४.७२ ॥ न ह्युपादानतैवात्र बाह्यावयवगौरवात् । न चाचेतनतस्तत्र चेतनस्य समुद्भवः ॥ १,४.७३ ॥ उपादानतया किन्तर्ह्यपादानं ह्यचेतनम् । कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते ॥ १,४.७४ ॥ सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते । तत्सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः ॥ १,४.७५ ॥ सत्त्वात्ततेर्वैदिकत्वात्सम्यग्वक्तुमशक्यतः । आश्रयत्वात्स्वाश्रयत्वाज्ज्ञानत्वाद्दुर्विदत्वतः ॥ १,४.७६ ॥ सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः । नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा । जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते ॥ १,४.७७ ॥ व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् । भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते ॥ १,४.७८ ॥ तस्मादशेषकर्तैको निर्विकारो रमापतिः । शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते ॥ १,४.७९ ॥ बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते । तत्तद्गतेन रूपेण तदर्थं ह्यसृजज्जगत् ॥ १,४.८० ॥ यच्चाविकृतमेवैतद्ब्रह्म विश्वात्मना मृषा । दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते ॥ १,४.८१ ॥ सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततोऽन्यगा । ब्रह्मणश्चेत्क्व सार्वज्ञ्यमन्यगा चेत्स्वतोऽन्यता ॥ १,४.८२ ॥ नादेहयोगिनो दृष्टिरिति तत्कारणं स्वतः । देहिनः कारणयुता देहाश्च यदि न भ्रमात् ॥ १,४.८३ ॥ किं भ्रान्तिकल्पितं तत्र भेदोऽपि भ्रमजो यदि । भ्रान्तेरज्ञानमूलत्वात्तस्य भेदव्यपेक्षया ॥ १,४.८४ ॥ नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः । भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि ॥ १,४.८५ ॥ व्यावहारिकता चास्य स्यादबाध्यत्व एव हि । बाध्यं नार्थक्रियाकारि न च स्वप्नोऽपि नो मृषा ॥ १,४.८६ ॥ वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः । स हि कर्तेति वाक्याच्च जाग्रत्त्वमिति हि भ्रमः ॥ १,४.८७ ॥ सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् । तदेवार्थक्रियाकारि तत्सदेवार्थकारकम् ॥ १,४.८८ ॥ ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा । अङ्गीकृतं हि तेनैव परतस्त्वे न च प्रमा ॥ १,४.८९ ॥ अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः । न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा ॥ १,४.९० ॥ न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् । साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः । सम्यक्सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् ॥ १,४.९१ ॥ यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि । नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता ॥ १,४.९२ ॥ विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः । इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः ॥ १,४.९३ ॥ सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् । साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः ॥ १,४.९४ ॥ सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते । कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः ॥ १,४.९५ ॥ अतीतानागतौ कालावपि नासाक्षिगोचरौ । पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते ॥ १,४.९६ ॥ तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् । साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते ॥ १,४.९७ ॥ तस्मान्न तं विना किञ्चित्स्मर्तुं द्रष्टुमथापि वा । शक्यं तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् ॥ १,४.९८ ॥ अतोऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् । परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् ॥ १,४.९९ ॥ अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु । अकस्माद्विनिवृत्तिश्च किं विश्वस्य न शङ्कयते ॥ १,४.१०० ॥ इतः पूर्वं तथाभावाद्यदि नो संसृतेर्गतिः । वाक्यानुमादितश्चेत्स्यात्तत्प्रामाण्यं च साक्षितः ॥ १,४.१०१ ॥ तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि । सर्वकालेष्वपि स्थैर्याद्व्यभिचारमपोह्य च ॥ १,४.१०२ ॥ एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् । किमिति स्थापयेन्नायं निर्दोषज्ञानशक्तितः ॥ १,४.१०३ ॥ एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा । बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् ॥ १,४.१०४ ॥ परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः । परो नास्तीति वदति किमित्युन्मत्तवद्वदेत् ॥ १,४.१०५ ॥ पराभावे हि वाग्व्यर्था यदि नैवोच्यते तदा । कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् ॥ १,४.१०६ ॥ प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ १,४.१०७ ॥ विकल्पो विनिवर्तेत कल्पितो यदि केनचित् । उपदेशादयं वादोऽज्ञाते द्वैतं न विद्यते ॥ १,४.१०८ ॥ इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् । विश्वस्य सत्यतामाहुर्विद्येतोत्पत्तिमेव च ॥ १,४.१०९ ॥ विदोत्पत्ताविति ह्यस्माद्धातोरुत्पत्तिरेव हि । निवृत्तिव्याप्तियुक्प्रायः प्रपञ्चो भेदपञ्चकः ॥ १,४.११० ॥ जीवेश्वरभिदा चैव जडेश्वरभिदा तथा । जीवभेदो मिथश्चैव जडजीवभिदा तथा । मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः ॥ १,४.१११ ॥ सोऽयं सत्यो ह्यनादिश्च सादिश्चेन्नाशमाप्नुयात् । द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् ॥ १,४.११२ ॥ इति श्रुतेर्मितं त्रातं मायाख्यहरिविद्यया । उत्तमोऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् ॥ १,४.११३ ॥ वाचारब्धं तु साङ्केत्यं नाम स्याद्विकृतं बहु । नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् ॥ १,४.११४ ॥ प्राधान्यात्तत्परिज्ञानात्प्राकृताज्ञोऽपि पूरुषः । विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् ॥ १,४.११५ ॥ सदातनं सत्यमिति नित्यमेवोच्यते बुधैः । प्रयोगश्चोत्तरत्रास्ति जरा यद्येनमाप्नुयात् ॥ १,४.११६ ॥ देहः प्रध्वंसते वायं किं ततोऽस्यातिशिष्यते । हन्यते न वधेनायं जरया च न जीर्यति ॥ १,४.११७ ॥ एतत्सत्यं ब्रह्मपुरमिति नित्यत्व एव हि । वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् ॥ १,४.११८ ॥ पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता । एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च ॥ १,४.११९ ॥ विकारत्वविवक्षायां नचैकनखकृन्तनम् । सर्वकार्ष्णायसं च स्यादतः सादृश्य एव च ॥ १,४.१२० ॥ विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना । प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः ॥ १,४.१२१ ॥ तस्मात्केनापि मार्गेण न विवर्तमतं भवेत् । तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः ॥ १,४.१२२ ॥ असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि । उपरम्यते ततो विष्णुरिच्छापूर्वकमश्रमः । करोति पितृवद्विश्वं पूर्णशेषगुणात्मकः ॥ १,४.१२३ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमोऽध्यायः ॥ उक्तः समन्वयः साक्षादविरोधोऽत्र साध्यते । चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृतेः ॥ २,१.१ ॥ तस्याश्चतुःस्वरूपत्वात्प्रत्येकं चतुरात्मकाः । पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमाऽगमात् ॥ २,१.२ ॥ आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः । सर्वानुसारो लघुता विशेषादर्शनाफले ॥ २,१.३ ॥ इष्टसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः । एता एव त्वतिबला सिद्धान्तस्य नियामकाः ॥ २,१.४ ॥ आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः । पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते ॥ २,१.५ ॥ इति चेद्यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः । किं नाशेषविदो मानं ह्युभयत्र समं भवेत् ॥ २,१.६ ॥ नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः । नचास्या व्यभिचारेऽपि हीयते मानता क्वचित् ॥ २,१.७ ॥ वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा । नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते ॥ २,१.८ ॥ अधिकारो हि सुलभः कथितोऽन्यागमेष्वलम् । वेदोक्तो ह्यधिकारस्तु दुर्लभः सर्वमानुषैः ॥ २,१.९ ॥ अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् । मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते ॥ २,१.१० ॥ अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः । अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये । उच्यतेऽतस्तदुक्तं हि व्यभिचारि फलेऽपि तु ॥ २,१.११ ॥ कथं प्रमाणतां गच्छेन्नित्यत्वात्पुरुषोद्भवैः । उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् ॥ २,१.१२ ॥ विरूप नित्यया वाचा नित्ययानित्यया सदा । इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते ॥ २,१.१३ ॥ पिपीलिकालिपिश्चापि प्रमाणमविरोधतः । यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् ॥ २,१.१४ ॥ अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् । विरोधादर्शनात्तस्माद्वेदप्रामाण्यमिष्यते ॥ २,१.१५ ॥ तन्मूलत्वात्स्मृतीनां च विरोधो यत्र न क्वचित् । विरोधोऽपि स एवोक्तः प्रत्यक्षेणागमेन वा ॥ २,१.१६ ॥ आगमेनागमस्यैव विरोधे युक्तिरिष्यते । उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना ॥ २,१.१७ ॥ प्रत्यक्षमुपजीव्यं स्यात्प्रायो युक्तिरपि क्वचित् । आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता ॥ २,१.१८ ॥ युक्तोऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते । स्यात्तत्र युक्त एवार्थो युक्तिश्च त्रिविधा मता ॥ २,१.१९ ॥ व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा । प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी ॥ २,१.२० ॥ याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः । अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता ॥ २,१.२१ ॥ ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् । यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः ॥ २,१.२२ ॥ अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः । प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते ॥ २,१.२३ ॥ याथार्थ्यमेव प्रामाण्यशब्दार्थो यद्विवक्षितः । अङ्गीकृतं चेत्प्रामाण्यं स्मृत्यादेः का विरोधता ॥ २,१.२४ ॥ नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः । फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम् ॥ २,१.२५ ॥ तृणादिदर्शने किं च फलवत्त्वं निगद्यते । सुखदुःखादिकं किञ्चित्स्मृतावपि हि दृश्यते ॥ २,१.२६ ॥ न परिच्छेदकार्येव प्रमाणमिति च प्रमा । निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते ॥ २,१.२७ ॥ प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् । शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् ॥ २,१.२८ ॥ निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते । सुखदुःखादिविषयं शुद्धं संसारगेष्वपि ॥ २,१.२९ ॥ निर्दोषत्वातिनियमात्तद्बलिष्ठतमं मतम् । पञ्चेन्द्रियमनोभेदात्प्राकृतं षड्विधं स्मृतम् ॥ २,१.३० ॥ अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता । प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता ॥ २,१.३१ ॥ अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः । यदि लिङ्गमसिद्धं स्यात्कुत एवास्य मानता ॥ २,१.३२ ॥ यदि स्मारकमात्रं स्यात्स्मर्तुर्नात्र प्रयोजनम् । न पञ्चावयोक्तौ च विवादावसितिर्भवेत् ॥ २,१.३३ ॥ दृष्टान्तादिषु चैवं स्यात्साधनं पुनरेव हि । लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा ॥ २,१.३४ ॥ विरोधोऽसङ्गतिश्चैव साक्षाद्युक्तेस्तु दूषणम् । प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः ॥ २,१.३५ ॥ विरोधोऽपि त्रिधैव स्यात्प्रतिज्ञार्थविरुद्धता । लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके ॥ २,१.३६ ॥ साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च । दुर्बलेन विरोधेऽपि न प्रमाणमसाधकम् ॥ २,१.३७ ॥ स्ववाक्येन विरोधेऽपि नैव साधकतां व्रजेत् । संवादानुक्तिसंयुक्ता एत एव च निग्रहाः ॥ २,१.३८ ॥ वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् । स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी ॥ २,१.३९ ॥ केवलं तु कथा वादो जल्पोऽर्थादिव्यपेक्षया । सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम् ॥ २,१.४० ॥ अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् । उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् ॥ २,१.४१ ॥ विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च । उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ ॥ २,१.४२ ॥ विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् । उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् ॥ २,१.४३ ॥ वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् । इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः ॥ २,१.४४ ॥ बहुविद्यत्वसिद्धौ तु नैव वादोऽपि कारणम् । सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि ॥ २,१.४५ ॥ वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः । तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् ॥ २,१.४६ ॥ विना वादेन विद्याया यदि शक्यं परीक्षणम् । स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत् ॥ २,१.४७ ॥ जल्प इत्यपि नाम स्याद्वादस्यैतादृशस्य तु । प्रतिज्ञामात्रसाध्यत्वमपि स्याद्याज्ञवल्क्यवत् ॥ २,१.४८ ॥ सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः । रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः ॥ २,१.४९ ॥ प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः । प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः ॥ २,१.५० ॥ उभाभ्यां साधनं चैव दूषणं वादजल्पयोः । सद्भिरागम एवैकः प्रयोज्योऽभीष्यसाधकः ॥ २,१.५१ ॥ स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते । प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु ॥ २,१.५२ ॥ आगमे दशर्नीयात्र दोषो लिङ्गविलोमता । लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः ॥ २,१.५३ ॥ त्रिपञ्चावयवामेव युग्मावयविनीमपि । नियमाद्योऽनुमां ब्रूयाद्तं ब्रूयाद्यदि तादृशी । नानुमेति तदा केन साध्यावयवकल्पना ॥ २,१.५४ ॥ ***[ण्Oट्E जुम्पिन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]*** नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् । कर्तव्यमेव तेन स्यात्तस्मात्सैवानुमा मता ॥ २,१.५७ ॥ अनुभूतिः प्रमाणं चेत्केन स्मृतिरपोद्यते । पूर्वानुभूते किं मानमित्युक्ते स्यात्किमुत्तरम् ॥ २,१.५८ ॥ मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् । अतीतानागतं यद्वद्योगिभिर्दृश्यतेऽञ्जसा । एवं पूर्वानुभूतं च मनसैवावगम्यते ॥ २,१.५९ ॥ विज्ञातं मनसा पूर्वं मयैतत्कृतमित्यपि । साक्षादनुभवात्सिद्धं कथमेव ह्यपोद्यते ॥ २,१.६० ॥ एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु । प्रमाणं वेद एवैकस्तत्प्रामाण्यं च साधितम् ॥ २,१.६१ ॥ तथापि मृज्जलादीनां बुद्धिवागादिवाचकः । दृष्टव्याप्तिविरुद्धत्वात्तत्र मानं कथं भवेत् ॥ २,१.६२ ॥ ततस्तन्नामकः कश्चित्पुमानन्यो भवेदिति । युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते ॥ २,१.६३ ॥ बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् । तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः ॥ २,१.६४ ॥ सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते । व्याप्तिश्चोक्तानुसारेण दृश्यन्ते चाधिकारिभिः ॥ २,१.६५ ॥ शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः । व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत् ॥ २,१.६६ ॥ दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः । अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी ॥ २,१.६७ ॥ यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते । विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः ॥ २,१.६८ ॥ युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च । कथं न निर्णयं कुर्यादित्यसत्कारणं न हि ॥ २,१.६९ ॥ श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः । अविरोधश्चतुर्थे तु पाते सम्यक्समर्थ्यते ॥ २,१.७० ॥ असत्कार्यं यथा दृष्टं वस्तुत्वात्कारणं तथा । इति चेन्न निषेधैकस्वरूपस्य न कर्तृता ॥ २,१.७१ ॥ बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् । प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः । धर्मधर्मैक्यतश्चैव नतु तन्मात्रता भवेत् ॥ २,१.७२ ॥ अभावस्य च भावोऽपि धर्मोऽथापि हि धर्मिणः । तादृक्तवं मात्रतेहोक्ता बुद्धिराहित्यमेव तत् ॥ २,१.७३ ॥ विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु । निषेधविधिरूपत्वं भावाभावत्वमत्र हि ॥ २,१.७४ ॥ सर्वनाशेष्वपि सदा शिष्टत्वाद्यस्य कस्य नुः । नाशोऽयं विमतोऽपि स्यान्नाशत्वात्कर्तृशेषवान् ॥ २,१.७५ ॥ नचाशेषनृनाशस्तु दृष्टो दृश्योऽस्ति वा क्वचित् । धर्माधर्माश्रयत्वेन स्वीकार्योऽपि नरो लये ॥ २,१.७६ ॥ अनादित्वं विनादृष्टं कथं स्यात्कारणं क्वचित् । पूर्वादृष्टात्परादृष्टं यदि नैवोत्तरं कुतः ॥ २,१.७७ ॥ अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् । उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित् ॥ २,१.७८ ॥ तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते । आगमानुगृहीता तु मानमेषानुमापितु ॥ २,१.७९ ॥ आगमानुग्रहाभावे न तर्कः स्यात्प्रतिष्ठितः । अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः । अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि ॥ २,१.८० ॥ न च शिष्यागृहीतत्वं निरीशादीशवादिनः । अतोऽवशिष्टजीवादिकर्तृतात्र निषिद्धयते ॥ २,१.८१ ॥ तन्मनोऽकुरुतेत्यादेरसतो मनसो जनिः । निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना ॥ २,१.८२ ॥ असतो विश्वजननमाशङ्कयात्र निषिद्धयते । प्रापकं वाक्यमात्रं तु परिहारो विशेषितः ॥ २,१.८३ ॥ क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् । तद्वदेवानुमान्यत्र वस्तुत्वात्क्रियते श्रुतेः ॥ २,१.८४ ॥ नान्यदन्यत्वमापन्नं क्वचिद्दृष्टं कथञ्चन । अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन ॥ २,१.८५ ॥ क्वचिद्भिन्नतया दृष्टं तदभिन्नतया कथम् । दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते ॥ २,१.८६ ॥ भोक्तृत्वापत्तित इति यन्मतं तत्कुतो हरिः । भोक्त्रापत्तेरिति प्राह कथं च तदनन्यता ॥ २,१.८७ ॥ जगतस्त्वविकारत्व उक्तन्यायेन साधिते । स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते ॥ २,१.८८ ॥ द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । इति श्रुतेस्तद्वशस्य भावो न पर इत्यतः ॥ २,१.८९ ॥ शक्तोऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः । कारणैर्नियतैरेव करोतीदं जगत्सदा ॥ २,१.९० ॥ नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् । असद्यत्कार्यरूपेण कारणात्मतयास्ति हि ॥ २,१.९१ ॥ अनवस्थान्यथा हि स्यात्सर्वत्रोत्पत्तिनाशयोः । शक्तोऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा ॥ २,१.९२ ॥ स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः । इति श्रुतेरवसित उक्तार्थोऽयमशेषतः ॥ २,१.९३ ॥ अनंशस्यापि जीवस्य किञ्चित्सामर्थ्ययोजनाम् । कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे ॥ २,१.९४ ॥ यदि भागेन कार्येषु जीवशक्तिं न योजयेत् । हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा ॥ २,१.९५ ॥ अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् । अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः ॥ २,१.९६ ॥ अतोऽनंशिन इत्येव श्रुतिरेतेषु वर्तते । अप्यनेकस्वरूपेषु विशेषादेव केवलम् ॥ २,१.९७ ॥ बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता । बहुत्वेनाविनाभावाद्भिन्नता नियमाद्भवेत् ॥ २,१.९८ ॥ यदि नैवं नियमकृद्भगवान् पुरुषोत्तमः । तस्य त्वशेषशक्तित्वाद्युज्यते सवर्मेव च ॥ २,१.९९ ॥ विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते । नारायणस्य त्वध्याये तदन्ये तत्रतत्रगाः ॥ २,१.१०० ॥ सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् । अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः ॥ २,१.१०१ ॥ मानमेयविशेषेण पुनरुक्तिर्न जायते । सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् ॥ २,१.१०२ ॥ अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः । देवस्यैष स्वभावोऽयमित्याह श्रुतिरञ्जसा ॥ २,१.१०३ ॥ क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी । इति केवललीलैव निर्णीता प्रभुणा स्वयम् ॥ २,१.१०४ ॥ आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् । न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः ॥ २,१.१०५ ॥ इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः । महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्धयते ॥ २,१.१०६ ॥ मोक्षार्थाः श्रुतयो यस्मात्स च तस्य प्रसादतः । उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः ॥ २,१.१०७ ॥ इच्छांनिमित्तको यस्मात्तदभावे कुतः श्रुतिः । महातात्पर्यरहिता प्रमाणत्वं गमिष्यति ॥ २,१.१०८ ॥ याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् । मानत्वमेति तत्रापि यत्सम्पूर्णप्रयोजनम् ॥ २,१.१०९ ॥ वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् । नाङ्गीकार्यमतोऽन्यत्तु न वैषम्यादिनामकम् ॥ २,१.११० ॥ यदधीना गुणाश्चैव दोषा अपि हि सर्वशः । गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः ॥ २,१.१११ ॥ सर्वधर्मापपत्तेस्तद्वाक्यैरपि हि तादृशैः । निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः ॥ २,१.११२ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥ स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः । एवं चतुर्विधा नैव विरुद्धयन्तेऽन्वयं प्रति ॥ २,२.१ ॥ इति प्रथमपादेन निर्णीतेऽप्यभियोगतः । दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः ॥ २,२.२ ॥ अनादिकालतो वृत्ताः समया हि प्रवाहतः । नचोच्छेदोऽस्ति कस्यापि समयस्येत्यतो विभुः ॥ २,२.३ ॥ भ्रान्तिमूलत्वमेतेषां पृथग्दर्शयति स्फुटम् । तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम् ॥ २,२.४ ॥ दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् । तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः । विद्वेषात्परमे तत्त्वे तत्त्ववेदिषु चानिशम् ॥ २,२.५ ॥ अनादिवासनायोगादसुराणां बहुत्वतः । दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ॥ २,२.६ ॥ तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् । युयुक्तयस्तमो हन्युरागमानुगताः सदा ॥ २,२.७ ॥ इति विद्यापतिः सम्यक्समयानां निराकृतिम् । चकार निजभक्तानां बुद्धिशाणत्वसिद्धये ॥ २,२.८ ॥ चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः । आहुस्तत्पञ्चपञ्चत्वविभागस्थमचेतनम् । चेतनं तदसङ्खयातं भिन्नमन्यद्लयं भवेत् ॥ २,२.९ ॥ अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते । परस्परविभेदश्च कार्याणामालयं भवेत् ॥ २,२.१० ॥ भोक्तृणां चेतनस्याहुः केचित्तामपि नापरे । स्वरूपचैतन्यबलात्स्वप्रकाशाच्च भोगिताम् ॥ २,२.११ ॥ प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु । अभोगवादिनो भोगमाहुर्भेदग्रहात्तयोः ॥ २,२.१२ ॥ भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् । ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि ॥ २,२.१३ ॥ चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः । एतादृशत्वमन्यस्य वस्तुत्वात्केन वार्यते ॥ २,२.१४ ॥ न च काचित्प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः । आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते ॥ २,२.१५ ॥ अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् । स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित्प्रसिद्धयति ॥ २,२.१६ ॥ इदं नाचेतनवशं वस्तुत्वात्प्रतिपन्नवत् । इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् ॥ २,२.१७ ॥ स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः । अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् ॥ २,२.१८ ॥ स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः । कुत इच्छाचेतनस्य सेच्छं चेत्किमचेतनम् ॥ २,२.१९ ॥ इच्छाम्यहमिति ह्येव निजानुभवरोधतः । अचेतनेच्छापगता यदि भेदाग्रहोऽत्र च ॥ २,२.२० ॥ कथं न स घटस्य स्यान्मनो म इति भेदतः । मनसोऽपि गृहीतत्वादुभयात्मकता यतः ॥ २,२.२१ ॥ कामस्य तु मनः कामः प्रियाप्रियविभेदतः । द्वैविध्यं दृश्यते चास्य तस्माद्भेदाग्रहः कुतः ॥ २,२.२२ ॥ रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् । अचेतनं जगत्कर्तृ पयोऽम्ब्वादि च नोपमा ॥ २,२.२३ ॥ एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च । द्वैविध्येऽपितु कामादेः कुतः स्वामित्वमात्मनः ॥ २,२.२४ ॥ साक्षादनुभवारूढं शक्यतेऽपोदितुं क्वचित् । इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम् ॥ २,२.२५ ॥ किञ्चित्तद्वशगत्वेऽपि स्वामित्वं लोकवद्भवेत् । सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः ॥ २,२.२६ ॥ न चानुभवगं कामस्वामित्वं वेदवागपि । शक्तापवदितुं तस्मात्सा तदन्याभिधायिनी ॥ २,२.२७ ॥ मोक्षकामो भवेदन्यो यदि मुक्ताद्भविष्यतः । मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत् ॥ २,२.२८ ॥ कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते । विभागे च तयोर्मानं नैव किञ्चित्क्वचिद्भवेत् ॥ २,२.२९ ॥ सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् । मायावाद्युपमां यायात्तच्चशब्दान्निराकृतः ॥ २,२.३० ॥ साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् । अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः ॥ २,२.३१ ॥ क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान् । जीवः पर्जन्यवद्दैवशक्तिमानीश्वरः स्मृतः ॥ २,२.३२ ॥ पृथिवीवत्प्रधानं तज्जीवः सन्निधिमात्रतः । बीजावपनकर्तेवेत्यत्र प्राह प्रभुः स्वयम् ॥ २,२.३३ ॥ अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि । शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा ॥ २,२.३४ ॥ सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः । प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः ॥ २,२.३५ ॥ यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः । नियामयति नित्यं च न ऋते त्वदिति श्रुतेः ॥ २,२.३६ ॥ स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः । यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ॥ २,२.३७ ॥ इति श्रुतेर्न सत्ताद्या अपि नारायणं विना । तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् ॥ २,२.३८ ॥ चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् । देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि ॥ २,२.३९ ॥ यदेवं दर्शनेनास्य कोऽर्थः प्रत्यक्षगोचरः । लब्धस्तेनैव हि नरैः शास्त्रात्किं मोहनं विना ॥ २,२.४० ॥ स्वपरार्थविहीनत्वात्स्वमतेनैव निष्फलम् । किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् ॥ २,२.४१ ॥ देहादन्योऽनुभवत आत्मा भाति शरीरिणाम् । मम देह इति व्यक्तं ममार्थ इतिवत्सदा ॥ २,२.४२ ॥ प्रत्यक्षस्यैव मानत्वमिति केनावसीयते । यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् ॥ २,२.४३ ॥ न चान्यामानता क्वापि प्रमाणेनावसीयते । स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः ॥ २,२.४४ ॥ सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् । तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् ॥ २,२.४५ ॥ अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते । तदङ्गत्वोक्तितश्चैव स्यात्सर्वस्यापलापकः । किमु सर्वेश्वरस्यास्य ह्यपलाषाद्यतोऽखिलम् ॥ २,२.४६ ॥ अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् । तत्प्रेरणेऽप्यशक्तत्वात्स्वतन्त्रोऽन्यो ह्यपेक्षितः ॥ २,२.४७ ॥ न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः । हिताकृत्यादिदोषाच्च भद्रं नानीश्वरं मतम् ॥ २,२.४८ ॥ संसारिणोऽन्यं सर्वेशं सर्वशक्तिमनौपमम् । चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् । नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे ॥ २,२.४९ ॥ तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः । अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम् ॥ २,२.५० ॥ नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः । युक्तमीशं वदन्त्यन्ये तदिच्छादृष्टचोदिताः । परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशोऽखिलाः ॥ २,२.५१ ॥ परमाणुद्वयेनैव द्वयणुकं नाम जायते । द्वयणुकत्रयेण तृयणुकं तैश्चतुर्भिस्तदात्मकम् ॥ २,२.५२ ॥ ततस्त्वनियमेनैव खण्डावयविनां भवः । ततश्चानियमेनैव सर्वावयविसम्भवः ॥ २,२.५३ ॥ कारणं समवाय्याख्यं परमाण्वादि तत्र हि । ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् ॥ २,२.५४ ॥ सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् । नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके ॥ २,२.५५ ॥ कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् । कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् ॥ २,२.५६ ॥ एवं स्थितेऽपि सिद्धान्ते विशेषस्तत्र कल्पितः । द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् ॥ २,२.५७ ॥ न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् । इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः ॥ २,२.५८ ॥ महत्त्वं चैव दीर्घत्वं तृयणुकाद्येषु कल्पितम् । तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते ॥ २,२.५९ ॥ यथा तथैव ह्रस्वत्वात्पारिमाण्डल्यतोऽपि हि । जायेत सदृशं कार्ये परिमाणं समत्वतः ॥ २,२.६० ॥ न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् । सदृशस्य हि कार्यस्य नैव योगः कथञ्चन ॥ २,२.६१ ॥ अप्रत्यक्षत्वमेवं स्याद्यतः कार्येष्वणुत्वतः । इति चेन्न महत्त्वं च परमाणावणावपि । कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते ॥ २,२.६२ ॥ प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले । अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया ॥ २,२.६३ ॥ तारतम्यस्थिता यस्मात्पदार्थाः सर्व एव च । यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते ॥ २,२.६४ ॥ परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः । दृश्यतेऽनन्त इत्येव तथानन्त्यमणावपि ॥ २,२.६५ ॥ न महत्तत्वगुणत एतावानिति हीश्वरः । परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित् ॥ २,२.६६ ॥ विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते । नावसाययितुं शक्यो विरोधादेव केवलम् ॥ २,२.६७ ॥ केवलं साक्षिमानेन कालो देशोऽपि नान्तवान् । अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः ॥ २,२.६८ ॥ यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते । विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः ॥ २,२.६९ ॥ यद्यागमादनन्तं तन्महत्त्वमवगम्यते । अनन्तमेव चाणुत्वं कुतो नैवावसीयते ॥ २,२.७० ॥ महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते । अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् ॥ २,२.७१ ॥ बहुत्वाल्पत्वयोर्यद्वत्साङ्खयायामुपलभ्यते । आनन्त्यमेकभागानां तावत्त्वं ह्येव गण्यते ॥ २,२.७२ ॥ अणीयांश्च महीयांश्च भगवानागमोदितः । आनन्त्यवाचकः शब्दो द्विधानन्त्येऽपि मानताम् ॥ २,२.७३ ॥ याति नैव गुणाल्पत्वं कालात्पत्वं च मानगम् । सर्वकालगतस्याल्पकालेऽपि स्यादवस्थितिः ॥ २,२.७४ ॥ महागुणस्य चाल्पोऽपि गुणः स्यादिति चेद्भवेत् । तावत्त्वमेव नैव स्याद्देशेऽप्येतन्न नो मतम् ॥ २,२.७५ ॥ महतोऽल्पत्वमपि हि व्योमवत्प्राह वेदवित् । यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् ॥ २,२.७६ ॥ स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद्ध्रुवम् । एकत्राप्यनवस्थस्य कुत एवाखिलस्थता ॥ २,२.७७ ॥ शून्यत्वमेव तस्य स्याद्यस्यैकत्रापि न स्थितिः । अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् ॥ २,२.७८ ॥ उभयानन्त्ययुक्तस्माद्यदि मुख्यमहद्भवेत् । तच्च ब्रह्म परं साक्षात्सर्वानन्त्ययुतं सदा ॥ २,२.७९ ॥ यदि साक्षी स्वयम्भातो न मानं केन गम्यते । अक्षजादेश्च मानत्वमनवस्थाथवा भवेत् ॥ २,२.८० ॥ अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा । सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता ॥ २,२.८१ ॥ तत्संयोगादनियतात्पदार्थानां जनिर्भवेत् । द्वयोरेव तु संयोग इति केनावसीयते ॥ २,२.८२ ॥ कारणस्य गुणास्तेन भवेयुः कार्यगा अपि । तारतम्येन सर्वेऽपि महान्तश्चाणवो यतः ॥ २,२.८३ ॥ न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना । कथं साक्षिमितस्यास्य शक्नुयाद्वारणे क्वचित् ॥ २,२.८४ ॥ यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते । पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ॥ २,२.८५ ॥ यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् । देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत् ॥ २,२.८६ ॥ सदृशं च सजातीयं नास्मत्पक्षे किमेव हि । येनैव च प्रकारेणात्यसिद्धमनुमीयते । तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम् ॥ २,२.८७ ॥ प्रत्यक्षमागमो वापि भवेद्यत्र नियामकः । सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः ॥ २,२.८८ ॥ सहदर्शनमात्रेण न व्याप्तिरवसीयते । यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् । तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि ॥ २,२.८९ ॥ अन्यथा सप्तमरसभवोऽप्यनुमयाऽपतेत् । अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी ॥ २,२.९० ॥ कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च । भिन्नस्यैव तु सम्बन्धः समवायोऽन्य ईर्यते ॥ २,२.९१ ॥ भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद्ध्रुवम् । स स्वनिर्वाहकश्चेत्स्याद्द्रव्यमेव तथा न किम् ॥ २,२.९२ ॥ विशेषस्तद्गतत्वादिर्यद्यभिन्नेऽवसीयते । गुणक्रियादिरूपस्य निषेधः केन हेतुना ॥ २,२.९३ ॥ द्रव्यमेव ततोऽनन्तविशेषात्मतया सदा । नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः ॥ २,२.९४ ॥ विशेषश्च विशेषी सः स्वेनैव समवायवत् । कल्पनागुरुतादोषात्पदार्थान्तरता न हि ॥ २,२.९५ ॥ कल्पयित्वा षट्पदार्थान् साभावानपि केवलम् । एकस्मिन् स विशेषश्चेत्किं पूर्वं तस्य विस्मृतिः ॥ २,२.९६ ॥ येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् । भावाभावविभागेन यं विना न कथञ्चन ॥ २,२.९७ ॥ अभेदेन प्रतीतिश्च कार्यकारणपूर्वके । अभावान्ते पदार्थेऽस्मिन् सविशेषावसीयते ॥ २,२.९८ ॥ सामान्यादिपदार्थेषु तन्निष्ठत्वादयोऽखिलाः । कथं धर्मा निवार्यन्ते वस्त्वैक्येऽपि हि वादिभिः ॥ २,२.९९ ॥ कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः । कथं विशेषो नैवास्ति स च धर्मोऽपरो यदि ॥ २,२.१०० ॥ षट्पदार्थातिरेकः स्यात्पदार्थानियमेऽपि हि । धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् ॥ २,२.१०१ ॥ सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः । नाङ्गीकृतः स च यदि नानवस्था क्वचिद्भवेत् ॥ २,२.१०२ ॥ अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः । अनन्यत्वान्नानवस्था भेदो नाशे भवेत्तथा ॥ २,२.१०३ ॥ विशेषमेव संश्रित्य विशेषो बलवान् यतः । दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम् ॥ २,२.१०४ ॥ विरोधो ह्यविरोधश्च यतो दर्शनमानगौ । ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् ॥ २,२.१०५ ॥ अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् । नित्या धर्मास्तदीयास्तु सर्वेऽस्मान्नैव भेदिनः ॥ २,२.१०६ ॥ सामस्त्योच्छेदिनोऽन्यत्र धर्मा उभयरूपकाः । भावे त एव चोच्छेदात्तदन्ये च समस्तशः ॥ २,२.१०७ ॥ अंशांशिनोरभेदेन त्वंशसंयोग एव हि । अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः ॥ २,२.१०८ ॥ एकस्मिन् जात एवान्यः संयोगो जायते यदि । अनवस्था तदैव स्यात्संयोगैक्ये भवेत्क्व सा ॥ २,२.१०९ ॥ अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः । यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् ॥ २,२.११० ॥ परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः । अणूनां प्रथिमापेक्षां विनैव तृयणुकेऽपि सः । परमाणोर्महत्त्वं च विनेत्येतद्वचः कथम् ॥ २,२.१११ ॥ अंशिनोऽंशैरभेदोऽयमंशेन तु भिदाभिदा । सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते ॥ २,२.११२ ॥ संयोगश्च विभागश्च भेदश्चैव पृथक्पृथक् । अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते ॥ २,२.११३ ॥ भिन्ना इति तु भेदानां समुदायो हि दृश्यते । यथैव च पदार्थानामनयोर्भेद इत्यपि ॥ २,२.११४ ॥ इतोऽमुष्यामुतोऽप्यस्य भेदो दृष्टो द्विधर्मिकः । तत्रैकवचनं यत्तद्विप्राणां भोजनं यथा ॥ २,२.११५ ॥ नरत्वादिकमप्येवं तत्तद्धर्मतयेयते । न सर्वधर्म एकोऽस्ति समुदायस्तु भिन्नगः ॥ २,२.११६ ॥ एतादृशं च सादृश्यं पदार्थेषु पृथक्पृथक् । एकस्मिन् स विनष्टेऽपि यतोऽन्यत्रैव दृश्यते ॥ २,२.११७ ॥ कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते । एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम् ॥ २,२.११८ ॥ भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि । स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः ॥ २,२.११९ ॥ अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः । न केनचिदभिन्नोऽतो भगवान् स्वगुणैर्विना ॥ २,२.१२० ॥ इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते । सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते ॥ २,२.१२१ ॥ तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः । अभीष्यावगतिश्च स्याच्छक्तिः सादृश्यगा यतः ॥ २,२.१२२ ॥ तादृशोऽयं च तच्छब्द इति ज्ञापयति स्फुटम् । जातितश्चेत्कथं तासु तत्र चेदनवस्थितिः ॥ २,२.१२३ ॥ तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् । यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः ॥ २,२.१२४ ॥ कथं स्वरूपत्वमपि ज्ञायतेऽनुगतं यदि । एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् । कल्पनागौरवात्तेन युक्ता नानुगकल्पना ॥ २,२.१२५ ॥ औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः । अन्यत्तदेव चेदग्निमत्त्वं किं तत्र भण्यते ॥ २,२.१२६ ॥ अग्निसंयोगमात्रं चेद्भवेत्तत्सिद्धसाधनम् । भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः ॥ २,२.१२७ ॥ समवायो यदि ह्यस्य चैकत्वात्सिद्धसाधनम् । यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते ॥ २,२.१२८ ॥ नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः । सत्यत्वात्को विशेषः स्यान्मायावाद्यन्यथा भवेत् ॥ २,२.१२९ ॥ उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् । उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः । भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे ॥ २,२.१३० ॥ अविद्यमान एवान्यः समवायोऽधिगम्यते । उपाधिना तद्गमकमनुमानं न मा भवेत् ॥ २,२.१३१ ॥ एवमेवासतः सत्तसमवायो जनिर्मता । तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् ॥ २,२.१३२ ॥ अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः । नास्ति दोषः क्वचिद्भावो ह्यभावश्च स एव हि ॥ २,२.१३३ ॥ अभावस्य च धर्माः स्युर्भावास्तेषां च तेऽखिलाः । प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् । सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा ॥ २,२.१३४ ॥ तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः । सोऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः ॥ २,२.१३५ ॥ तस्मात्प्रध्वस्तभेदादि सदित्येवावगम्यते । अस्त्यभावोऽस्ति च ध्वंसो देहाभावश्च भस्मता ॥ २,२.१३६ ॥ इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः । अन्योन्याभावभेदौ च पृथक्तवं च पृथक्पृथक् ॥ २,२.१३७ ॥ यत्कल्पयन्ति तच्चैव कल्पनागौरवाद्गतम् । पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि ॥ २,२.१३८ ॥ भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुततास्ते यतोऽन्यस्य प्रतियोगित्वमिष्यते ॥ २,२.१३९ ॥ प्रतियोगिनो हि भेदोऽयं नतु स्वस्मात्कथञ्चन । विभागेनाल्पतैव स्यात्कुत एव च शून्यता ॥ २,२.१४० ॥ न शून्यानां हि संयोगाद्भावो वस्तुन इष्यते । विदारणार्थो धातुश्च विभागगुणवाचकः ॥ २,२.१४१ ॥ अविदारणेऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च । अत उन्मत्तवाक्यत्वान्मायावादोऽभ्युपेक्षितः ॥ २,२.१४२ ॥ न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरोऽष्टगुणत्वेन प्रमेयोऽप्रमितत्वतः ॥ २,२.१४३ ॥ मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे । अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः ॥ २,२.१४४ ॥ नारायणः परोऽशेषचेतनेभ्यः परं पदम् । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते ॥ २,२.१४५ ॥ अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते । यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः ॥ २,२.१४६ ॥ कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते । औपाधिकविशेषस्तु पूर्वमेव निराकृतः ॥ २,२.१४७ ॥ स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् । कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना ॥ २,२.१४८ ॥ ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित्परमेश्वरः ॥ २,२.१४९ ॥ इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि । स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद्विशेषणम् ॥ २,२.१५० ॥ ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः । स्वप्रकाशत्वमेतस्माद्दुर्निवार्यं समापतेत् ॥ २,२.१५१ ॥ सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् । निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते ॥ २,२.१५२ ॥ योऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा ॥ २,२.१५३ ॥ ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः ॥ २,२.१५४ ॥ नचात्मदुःखितेच्छा स्यादत एतन्निवार्यते । सहदर्शनमात्रेण श्रुतीनामपलापकः ॥ २,२.१५५ ॥ यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः । नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता ॥ २,२.१५६ ॥ अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् । अदुःखमितरत्सर्वं जीवा एव तु दुःखिनः । तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते ॥ २,२.१५७ ॥ इति श्रुतिर्हि परमा श्रुत्युक्तिर्यदि कारणम् । किं कार्यमनुमानेन गळस्तनसमेन हि ॥ २,२.१५८ ॥ अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते । पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च । स्यात्तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत् ॥ २,२.१५९ ॥ ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् । तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः ॥ २,२.१६० ॥ अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः । न प्रमाणं भवेत्तस्मान्नानुमात्रोपयोगिनी ॥ २,२.१६१ ॥ नित्येच्छत्वात्परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात्कार्यं सदा भवेत् ॥ २,२.१६२ ॥ न हि कालविभेदोऽस्ति तत्पक्षेऽस्मन्मते हरेः । विशेषकाल एवैतत्सृष्टयादीच्छा सदातना ॥ २,२.१६३ ॥ विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा । सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् ॥ २,२.१६४ ॥ उदीरयति कालाख्यशक्तिमित्यस्य वागपि । कालस्य कालगत्वेन न विरोधोऽपि कश्चन ॥ २,२.१६५ ॥ असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा । ईशो देशश्च कालश्च स्वगता एव सर्वदा ॥ २,२.१६६ ॥ ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु ॥ २,२.१६७ ॥ तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात्कालः स तदैवेति कालस्य स्वगतत्वतः ॥ २,२.१६८ ॥ स्वभावादेव हीच्छैषा देवस्यैव इति श्रुतेः । स्वभावोऽपि परेशेच्छावश इत्युदितः पुरा ॥ २,२.१६९ ॥ नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः । रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता ॥ २,२.१७० ॥ अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् । उपादेयमतश्चायमविरुद्धः समन्वयः ॥ २,२.१७१ ॥ वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् । अणूनां समुदायं च कालकर्मनिमित्ततः ॥ २,२.१७२ ॥ उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् । नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम् ॥ २,२.१७३ ॥ संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः । दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम् ॥ २,२.१७४ ॥ मोक्षं स समुदायो हि नैकस्मादेव युज्यते । नोभयोश्चोभयत्वं यत्समुदायव्यपेक्षया ॥ २,२.१७५ ॥ अतोऽन्योन्याश्रयत्वेन समुदायो न युज्यते । अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् ॥ २,२.१७६ ॥ स्यात्तत्सदातनत्वेऽपि तच्च सामीप्यहेतुकम् । इति चेत्कार्यसम्भूतिमात्रव्यापृतिकारणम् ॥ २,२.१७७ ॥ नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् । अतोऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः । संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि ॥ २,२.१७८ ॥ विशषषकार्यजनकं यदि कारणमिष्यते । कुतः समानरूपत्वं कार्याणामपि सर्वशः ॥ २,२.१७९ ॥ अतोऽनियत्या यत्किञ्चिद्यस्य कस्यापि कारणम् । अदृष्टस्यापि तस्यैव विशेषापादकं कुतः ॥ २,२.१८० ॥ यस्य कस्यापि यत्किञ्चिद्विशेषमुपपादयेत् । कार्यं च कारणं चैव यत्किञ्चिद्यस्य कस्यचित् ॥ २,२.१८१ ॥ भवेन्नियामकाभावादिदमस्यैव कारणम् । इति नित्यविनाशित्वे केन मानेन गम्यते ॥ २,२.१८२ ॥ इदं न जायतेऽमुष्मादित्यत्रापि न कारणम् । विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः ॥ २,२.१८३ ॥ दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु । फलादीनां विशेषेण सर्वत्राप्यनुमीयते ॥ २,२.१८४ ॥ ***[ण्Oट्E जुम्पिन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]*** सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः । अविशेषोऽखिलस्यापि सत्त्वात्किं नानुमीयते ॥ २,२.१८६ ॥ यद्याकाशस्य सत्त्वं न कुत एव नरादिषु । सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ २,२.१८७ ॥ तौ विना न ह्यभावश्च क्वचिद्दृष्टः कदाचन । अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ २,२.१८७* ॥ स्वीकारत्यागतोऽदृष्टदृष्टयोः सर्ववस्तुषु । गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः ॥ २,२.१८८ ॥ उत्तरोत्पत्तिमात्रेण विनाशात्पूवर्वस्तुनः । न संस्कारार्पकत्वं च युज्यते कस्यचित्क्वचित् ॥ २,२.१८९ ॥ अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः । एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा । कुत आत्मादिकेषु स्याद्बल्येवानुभवो यतः ॥ २,२.१९० ॥ कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च ॥ २,२.१९१ ॥ सम्बद्ध एव संस्कारमन्यत्रादत्ततेऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः ॥ २,२.१९२ ॥ एककालतया योगं विना संस्कारतः कथम् । क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु ॥ २,२.१९३ ॥ पूर्वमध्यापरकलारहितः क्षण इष्यते । पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् ॥ २,२.१९४ ॥ यौगपद्यं सति भवेदुत्पाद्यानामशेषतः । विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा ॥ २,२.१९५ ॥ अभेदेन विशेषेण देहदीपफलादिषु । विशेषदर्शनं युक्तमस्माकमनुभूतितः ॥ २,२.१९६ ॥ विशेषदर्शनं मानं यदि न स्थैर्यदृक्कुतः । दिक्सुखे च खदृष्टान्ताद्भावौ सच्चेत्क्वचिद्भवेद् ॥ २,२.१९७ ॥ विश्वं प्रत्यक्षगं त्यक्तवा तयोर्योऽनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता ॥ २,२.१९८ ॥ सर्वप्रमाणसिद्धं यद्बुद्धेर्भेदेन सर्वदा । कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम् ॥ २,२.१९९ ॥ सर्वलोको बिभेत्यञ्जो यस्मादनुभवात्सदा । तस्यापलापिनः किं न निष्प्रमाणकवादिनः ॥ २,२.२०० ॥ सोऽहं तदिदमेवाहं सुखी सद्गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः ॥ २,२.२०१ ॥ अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् । दुर्मतं को नु गृह्णीयाद्विनासुरततिं क्वचित् ॥ २,२.२०२ ॥ अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ॥ २,२.२०३ ॥ अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् । रागादिदोषरहितं तद्भावं योगिनं नयेत् ॥ २,२.२०४ ॥ तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् । सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते ॥ २,२.२०५ ॥ पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् । सांवृतेनैव सत्येन व्यवहारोऽखिलो भवेत् ॥ २,२.२०६ ॥ शून्यात्संवृतियोगेन विश्वमेतत्प्रवर्तते । सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् । इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः ॥ २,२.२०७ ॥ नासतो जगतो भावो न हि दृष्टासतो जनिः । सतः क्वचित्प्रमाणं च दृष्टिरेवाखिलाद्वरम् ॥ २,२.२०८ ॥ यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् ॥ २,२.२०९ ॥ कार्यार्थी कारणं सच्च नोपादद्यात्कथञ्चन । न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात् ॥ २,२.२१० ॥ देशकालादिनियमो निंह शून्यात्सतो भवेत् । पुरुषेच्छानुसारेण यदि किञ्चित्प्रजायते ॥ २,२.२११ ॥ किं नानुमीयते तद्वद्वस्तुत्वात्पुरुषाद्भवः । सर्वस्यापि नचाभावो विश्वं सदिति गम्यते ॥ २,२.२१२ ॥ यतोऽनुभवरोधे तु वचनं वादिनः कुतः । स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते ॥ २,२.२१३ ॥ यदि सत्त्वेन किञ्चात्र भ्रमो नैव निवर्तते । अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते । निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् ॥ २,२.२१४ ॥ दृष्टस्य भ्रान्तिता चेत्स्याददृष्टे न भ्रमः कुतः । गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता ॥ २,२.२१५ ॥ अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च । उक्तभङ्गयाऽगमानां च प्रामाण्याद्युज्यतेऽखिलम् ॥ २,२.२१६ ॥ दृश्यत्वाद्विमंत मिथ्या स्वप्नवच्चेदियं च मा । मिथ्या चेत्साध्यसिद्धिर्न व्यभिचारो न चेद्भवेत् ॥ २,२.२१७ ॥ साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः । तस्य चेत्यनवस्था स्यात्सत्त्वं चास्यानुभूतितः ॥ २,२.२१८ ॥ अनुभूतिविरोधेन मिथ्यात्वे मा न काचन । अतीतानागतौ कालावपि नः साक्षिगोचरौ । तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम् ॥ २,२.२१९ ॥ दृढदृष्टं तु यद्दृष्टं दृष्टाभासस्ततोऽपरम् । भ्रान्तेः संवृतिसत्यस्य विशेषोऽव्यभिचारवान् । तेनाप्यङ्गीकृतः सम्यक्स नः सत्यत्वमेव हि ॥ २,२.२२० ॥ विज्ञानाद्व्यभिचारोऽस्य कदाचित्स्यादिति प्रमा । नैव दृष्टा प्रमा सा च न भवेत्स्वविरोधतः ॥ २,२.२२१ ॥ भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि । अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन्न तत् ॥ २,२.२२२ ॥ स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः । अन्यथास्यामुना भेद इति वक्तुं न युज्यते ॥ २,२.२२३ ॥ अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः । स्यात्प्रतीतिविरोधाच्च न हि कश्चित्तथा वदेत् ॥ २,२.२२४ ॥ धर्मित्वप्रतियोगित्वतद्भेदा युगपद्यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते ॥ २,२.२२५ ॥ को विरोधः स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते ॥ २,२.२२६ ॥ किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात्तेनोक्तोऽन्योन्यसंश्रयः ॥ २,२.२२७ ॥ अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः । अन्यत्वं यदि सिद्धं स्यात्कथमन्योन्यसंश्रयः ॥ २,२.२२८ ॥ एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ । मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः ॥ २,२.२२९ ॥ यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः । न हि लक्षणभेदोऽस्ति निर्विशेषत्वतस्तयोः ॥ २,२.२३० ॥ अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् । स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः ॥ २,२.२३१ ॥ तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः । अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् । निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् ॥ २,२.२३२ ॥ ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते । तत्र सन्ततिभेदश्च स्वभेदो भेद एव च । कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु ॥ २,२.२३३ ॥ इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् । भासतेऽनुभवस्यैव विरुद्धत्वादपेशलम् ॥ २,२.२३४ ॥ तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः । ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः । अनुभूतिविरुद्धत्वादपि पक्षा इमेऽशिवाः ॥ २,२.२३५ ॥ आह क्षपणको विश्वं सदसद्द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् ॥ २,२.२३६ ॥ नैतत्पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः । भावाभावतया विश्वं येन रूपेण मीयते । तद्रूपमेव तदिति नियमः केन वार्यते ॥ २,२.२३७ ॥ तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना । यदि तैरखिलैर्देषैर्लिप्यते चलदर्शनः ॥ २,२.२३८ ॥ अतिहाय प्रमाणाप्तं नियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा ॥ २,२.२३९ ॥ सर्वप्रकारं वदतो दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि ॥ २,२.२४० ॥ वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् । दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् ॥ २,२.२४१ ॥ अन्यथाभावि यद्वस्तु तदनित्यमिति स्थितिः । तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम् ॥ २,२.२४२ ॥ नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् ॥ २,२.२४३ ॥ ओतप्रोतात्मकत्वं तु पटे देहेऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता ॥ २,२.२४४ ॥ भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते । नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम् ॥ २,२.२४५ ॥ रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये । व्याप्त्या तयान्यथाभावादात्मनोऽनित्यता भवेत् ॥ २,२.२४६ ॥ नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते । अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा ॥ २,२.२४७ ॥ कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते । संस्थानापगमश्चेत्स न हि भूसागरादिषु ॥ २,२.२४८ ॥ यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी । देहमाने विकारः स्यादिति स्थास्नूननात्मनः ॥ २,२.२४९ ॥ आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः । अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या । देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः ॥ २,२.२५० ॥ गीतात्पुष्पफलावाप्तिः स्पर्शात्कार्श्यं रसात्स्थितिः । अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् । एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् ॥ २,२.२५१ ॥ सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् । जगद्विचित्ररचनाकर्तारं दोषवर्जितम् ॥ २,२.२५२ ॥ आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः । नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम् ॥ २,२.२५३ ॥ उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् । यद्विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया ॥ २,२.२५४ ॥ धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः । घ्नञ्छिश्नदेवानेकोऽसावासीन्नारायणः परः ॥ २,२.२५५ ॥ तस्माद्रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् । यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् ॥ २,२.२५६ ॥ यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । इत्यादिश्रुतिसामर्थ्यात्पारतन्त्र्यं जनिर्मृतिः ॥ २,२.२५७ ॥ पराधीनपरप्राप्तिरज्ञत्वं प्रळयेऽभवः । प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः ॥ २,२.२५८ ॥ अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् । कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः ॥ २,२.२५९ ॥ न च देहादिवद्विश्वमस्य स्याद्भोगसम्भवात् । अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते । नास्याधिष्ठानयोगोऽस्ति भूतानां प्रळये तदा ॥ २,२.२६० ॥ अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत्सदा । देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् ॥ २,२.२६१ ॥ नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् । मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः ॥ २,२.२६२ ॥ स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता । देहो विष्णोर्न ते विष्णो वासुदेवोऽग्रतोऽभवत् ॥ २,२.२६३ ॥ एको नारायणस्त्वासीन्न ब्रह्मा न च शङ्करः । अजस्य नाभावध्येकमर्पितं मात्रया परः ॥ २,२.२६४ ॥ सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः । ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः ॥ २,२.२६५ ॥ आनन्द एक एवाग्र आसीन्नारायणः प्रभुः । प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः ॥ २,२.२६६ ॥ आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत्क्वचित् । मनसोऽस्याभवद्ब्रह्मा ललाटादपि शङ्करः ॥ २,२.२६७ ॥ पक्षयोर्गरुडः शेषो मुखादास सरस्वती । सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ २,२.२६८ ॥ इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः । विष्णोर्देहाज्जगत्सर्वमाविरासीदितीयते ॥ २,२.२६९ ॥ मानवत्त्वाद्विरोधः को नामानं क्वचिदिष्यते । अविरोधो विरोधश्च मानेनैव हि गम्यते ॥ २,२.२७० ॥ अत उक्तं समस्तं च वासुदेवस्य युज्यते । शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः ॥ २,२.२७१ ॥ नामानि सर्वाणि च यमेको यो देवनामधाः । विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् ॥ २,२.२७२ ॥ न नारायणनामानि तदन्येष्वपरे हरौ । इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः ॥ २,२.२७३ ॥ पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत्प्रमा । तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः ॥ २,२.२७४ ॥ समब्राह्मविरोधाच्च नियमाद्वैष्णवेष्वपि । मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः ॥ २,२.२७५ ॥ स्कन्दसूर्यगणेशादिमतानि न्यायतोऽमुतः । निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः ॥ २,२.२७६ ॥ निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् । दूष्यते महती देवी ह्रीङ्करी सर्वकारणम् । त्रिपुराभैरवीत्यादिनामभिः साभिधीयते ॥ २,२.२७७ ॥ तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः । भूतभौतिकमप्येतदिति तन्नोपपद्यते ॥ २,२.२७८ ॥ दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः । केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् ॥ २,२.२७९ ॥ नार्च्यं महावाममतं वामैरन्यदुदीर्यते । शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः ॥ २,२.२८० ॥ इति तच्चोपपन्नं न शिवस्याकरणत्वतः । अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् ॥ २,२.२८१ ॥ अणुवामा न तद्युक्तमीशवादप्रवेशनात् । सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम् ॥ २,२.२८२ ॥ न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः । उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते ॥ २,२.२८३ ॥ श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः । सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् ॥ २,२.२८४ ॥ पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि । सूत्राण्यतिविरुद्धं तद्यत आह स भारते ॥ २,२.२८५ ॥ पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद्विशिष्टते ॥ २,२.२८६ ॥ पञ्चरात्रविदो ये तु यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते ॥ २,२.२८७ ॥ इति गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् । वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि ॥ २,२.२८८ ॥ दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि । इति वाराहवचनं श्लोका इति वचः श्रुतौ ॥ २,२.२८९ ॥ वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः । पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते ॥ २,२.२९० ॥ इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते । कथमेवात्र दोषः क उत्पत्तिर्ज्ञोऽत इत्यपि ॥ २,२.२९१ ॥ इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते । अनादिकर्मणा बद्धो जीवः संसारमण्डले ॥ २,२.२९२ ॥ वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः । न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् ॥ २,२.२९३ ॥ जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु । वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा ॥ २,२.२९४ ॥ मनोऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् । सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः । व्यूह उक्तोऽन्यथानूद्य कथं दुष्टत्वमुच्यते ॥ २,२.२९५ ॥ यदि विद्याच्चतुर्वेदानितिवद्वेदपूरणम् । पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने ॥ २,२.२९६ ॥ अतः परमशास्त्रोरुद्वेषादुदितमासुरैः । दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् ॥ २,२.२९७ ॥ अतोऽशेषजगद्धाता निर्दोषोरुगुणार्णवः । नारायणः श्रुतिगणतात्पर्यादवसीयते ॥ २,२.२९८ ॥ अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते । ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः ॥ २,२.२९९ ॥ ततो विद्यामविद्यां च यो जानात्युभयं सह । दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते ॥ २,२.३०० ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥ अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् ॥ २,३.१ ॥ स्वरूपनिर्णयायैव वचनानां परस्परम् । पादेनानेनाविरोधं दर्शयत्यमितद्युतिः ॥ २,३.२ ॥ अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततोऽधिकम् । एतत्सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च ॥ २,३.३ ॥ दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः । प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता ॥ २,३.४ ॥ लोकदृष्टानुसारित्वं जीवसाम्यमनादिता । तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा ॥ २,३.५ ॥ उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने । नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः ॥ २,३.६ ॥ व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता । मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः ॥ २,३.७ ॥ गत्यादिरीशशक्तिश्च सर्वमानविरोधिता । अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः । विशेषकारणं चेति सिद्धान्तस्यैव साधकाः ॥ २,३.८ ॥ प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः । महदाद्याश्च जायन्ते पराधीनविशेषिता । इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् ॥ २,३.९ ॥ अवकाशमात्रमाकाशः कथमुत्पद्यतेऽन्यथा । यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् ॥ २,३.१० ॥ मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् । मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा ॥ २,३.११ ॥ अत आकाशशब्दोक्तस्तद्देवोऽत्र विनायकः । देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते ॥ २,३.१२ ॥ भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु । उत्पद्यतेऽव्याकृतं हि गगनं साक्षिगोचरम् । प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् ॥ २,३.१३ ॥ तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् । खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् ॥ २,३.१४ ॥ प्रकृतिः पुरुषः काल इत्येते च समस्तशः । ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः ॥ २,३.१५ ॥ कालप्रवाह एवैको नित्यो नतु विशेषवान् । पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी ॥ २,३.१६ ॥ सिसृक्षुत्वविशेषं तत्साक्षाद्भगवदिच्छया । प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि ॥ २,३.१७ ॥ पुमांसो देहसम्बन्धात्सृष्टिमन्त इतीरिताः । एवं प्रळयकालेऽपि प्रतिभातपरावरः ॥ २,३.१८ ॥ मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् । पराधीनविशेषेण जनिमानेव शब्दितः ॥ २,३.१९ ॥ नैव किञ्चित्ततो जन्मवर्जितं परमादृते । पराधीनविशेषत्वे जन्मनः स्थूलताभवः ॥ २,३.२० ॥ पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते । रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् ॥ २,३.२१ ॥ प्रधनस्य च वेदस्य वेदस्यापीश्वरेच्छया । व्यक्तिर्नाम विशेषोऽस्ति तस्मात्तद्वशतैव हि ॥ २,३.२२ ॥ उत्पत्तिरत्र कथिता स्वतन्त्रत्वात्परात्मनः । नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततोऽपरम् ॥ २,३.२३ ॥ अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः । कृत्वा भोगान् प्रदायैव चैक्यमापादयेत्पुनः ॥ २,३.२४ ॥ अत ईशवशं सर्वं चेतनाचेतनं जगत् । अविभागं विभागाय यदा नयति केशवः । किमशक्यं परेशस्य तदेति ह्यभिधीयते ॥ २,३.२५ ॥ एवं स्थितेऽपि जीवैक्यं केचिदाहुः परात्मना । तद्योऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात् ॥ २,३.२६ ॥ न तद्युक्तं यतो विष्णुः पृथगेवाभिधीयते । प्रज्ञानेत्रोऽलोक इति मुक्तौ भेदोऽभिधीयते । एतमानन्दमित्यन्या परमं साम्यमित्यपि ॥ २,३.२७ ॥ इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रळये न व्यथन्ति च ॥ २,३.२८ ॥ उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते । तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी ॥ २,३.२९ ॥ आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् । इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः ॥ २,३.३० ॥ शाखां शाखां महानद्यः संयान्ति परितःस्रवाः । धानापूपा मांसकामाः सदा पायसकर्दमाः ॥ २,३.३१ ॥ यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः । ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते ॥ २,३.३२ ॥ प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः । निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः ॥ २,३.३३ ॥ भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा । कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ २,३.३४ ॥ स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता । जातेऽगुणव्यतिकरे यथापूर्वं प्रजायते ॥ २,३.३५ ॥ ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा । यत्कामस्तत्सृजत्यद्धैषात्मना तत्सृजत्यपि ॥ २,३.३६ ॥ सहैव ब्रह्मणा कामान् भुङ्कते निस्तीर्णतद्गुणः । दुःखादींश्च परित्यज्य जगद्वयापारवर्जितः ॥ २,३.३७ ॥ भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः । मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता ॥ २,३.३८ ॥ जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् । मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् । इति चेत्साध्यधर्मोऽयं सन्नसन् वा नवोभयम् ॥ २,३.३९ ॥ यदि सन्नपसिद्धान्तः स एवासन्नितीरिते । नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम् ॥ २,३.४० ॥ न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् । अनुमानेन चेत्सैव ह्यनवस्था भविष्यति ॥ २,३.४१ ॥ नचागमस्तदर्थोऽस्ति नासदासीन्न तद्वदेत् । परिशेषादनिर्वाच्यं यदि सिद्धयेत्परात्मनः ॥ २,३.४२ ॥ अनिर्वाच्यत्वमेव स्यात्परिशिष्टो ह्यसौ तदा । नचान्य आगमस्तत्र सदसत्प्रतियोगिनि ॥ २,३.४३ ॥ न च प्रत्यक्षमात्रास्ति नचार्थापत्तिरिष्यते । बाधायोगात्सत इति बाधाभावत एव हि ॥ २,३.४४ ॥ विषयस्य कुतो बाधो विद्यमानं हि बाध्यते । न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते ॥ २,३.४५ ॥ बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते । कश्चायं बाध उद्दिष्टो न हि नाशोऽसतो भवेत् । निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते ॥ २,३.४६ ॥ नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदासत्त्वं तेनैवाङ्गीकृतं पुनः ॥ २,३.४७ ॥ प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् । निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते ॥ २,३.४८ ॥ न चोपमा भवेदत्र प्रत्यक्षात्सत्त्वमेव च । शास्त्रगम्यपरेशानाद्भेदः स्वात्मन ईयते ॥ २,३.४९ ॥ अनुभूतिविरोधेन कथमेकत्वमुच्यते । किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते ॥ २,३.५० ॥ सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः । अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् ॥ २,३.५१ ॥ उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् । अप्रामाण्यं यदा भेदवाचकस्य भविष्यति ॥ २,३.५२ ॥ स एव धर्मिणो ग्राही तदभेदः कथं भवेत् । यत्स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् ॥ २,३.५३ ॥ एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति । न चेदेकममानं तद्द्वयमप्यत्र नो भवेत् ॥ २,३.५४ ॥ धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् । नोपजीव्यो ह्यभेदोऽत्र क्वचिद्भेदश्रुतेर्बलात् ॥ २,३.५५ ॥ न च मानान्तरोपेयं ब्रह्म तद्भवति क्वचित् । येन मानेन चापेयं भेदस्तेनावगम्यते ॥ २,३.५६ ॥ सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन । सर्वज्ञथ्वगुणेनैव तया भेदोऽवगम्यते ॥ २,३.५७ ॥ न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् । न हि बाधः क्वचिद्दृष्टो दुःखाद्यनुभवस्य तु ॥ २,३.५८ ॥ यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते । अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते ॥ २,३.५९ ॥ श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते । तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः ॥ २,३.६० ॥ न च बाधविशेषोऽस्ति यदबाधितमेव तत् । बाधो यद्यनुभूतेऽर्थे कथं निर्णय ईयते ॥ २,३.६१ ॥ कोऽपि ह्यर्थो न निश्चेतुं शक्यते भ्रमवादिना । भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् । एकस्य भ्रमता तत्र परस्याभ्रमता कुतः ॥ २,३.६२ ॥ भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा । स चेत्साक्षी क्वचिद्दुष्यः कथं निर्णय ईयते ॥ २,३.६३ ॥ विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः । ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते । साक्षिणो व्यवसायी तु व्यवहारोऽभिधीयते ॥ २,३.६४ ॥ तस्मात्सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये । साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः ॥ २,३.६५ ॥ शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् । उपजीव्यप्रमाणं तद्भेदग्राहकमेव हि । अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः ॥ २,३.६६ ॥ तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः । सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते ॥ २,३.६७ ॥ अतोऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि । पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् ॥ २,३.६८ ॥ सादृश्याच्च प्रधानत्वात्स्वातन्त्र्यादपिचाभिदाम् । आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित् ॥ २,३.६९ ॥ स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते । सादृश्यं च विशेषेण जडानां द्वयमेव तु । भवेत्सादृश्यमत्यल्पं तृतीयं परमात्मना ॥ २,३.७० ॥ ईशरूपक्रियाणां च गुणानामपि सर्वशः । तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः ॥ २,३.७१ ॥ यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति । इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते ॥ २,३.७२ ॥ एकमेवाद्वितीयं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ २,३.७३ ॥ इति श्रुताविवेत्यस्माद्भेदाभेदनिराकृतिः । इवोभये च सादृश्य इति वाक्शब्दनिर्णये ॥ २,३.७४ ॥ भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः । चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते । अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् ॥ २,३.७५ ॥ न केनचिदभेदोऽस्ति भेदाभेदोऽपिवा क्वचित् । समुदायमृते विष्णोः स्वगुणादीन् विनापि वा ॥ २,३.७६ ॥ इति श्रुतेर्न तस्यास्ति भेदाभेदोऽपि केनचित् । अभेदश्रुतयोऽ ंशत्वात्सादृश्यं चांशतास्य तु ॥ २,३.७७ ॥ अंशस्तु द्विविधो ज्ञेयः स्वरूपांशोऽन्य एव च । विभिन्नांशोऽल्पशक्तिः स्यात्किञ्चित्सादृश्यमात्रयुक् ॥ २,३.७८ ॥ अंशिनो यत्तु सामर्थ्यं यत्स्वरूपं यथा स्थितिः । स एव चेत्स्वरूपांशः प्रादुर्भावा हरेर्यथा ॥ २,३.७९ ॥ सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् । सूर्योऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः ॥ २,३.८० ॥ कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता । धरादेव्येवमेवैको भगवान् विष्णुरव्ययः । नानावताररूपेण स्थितः पूर्णगुणः सदा ॥ २,३.८१ ॥ विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः । सूर्यादिभ्यस्तथैवायं संसारी परमात्पृथक् ॥ २,३.८२ ॥ देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः । अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा ॥ २,३.८३ ॥ एवमेव पराद्विष्णोः पृथक्संसारिणो मताः । अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः ॥ २,३.८४ ॥ न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते । गुणैरशेषैः पूर्णत्वान्मुख्याभेदोऽपरैर्नच ॥ २,३.८५ ॥ अंशाभासाश्च सर्वेऽपि परस्यांशा न मुख्यतः । यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ॥ २,३.८६ ॥ न तु पुम्पादवत्पादा जीवा एते परात्मनः । पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः । एवं जगाद परमश्रुतिर्नारायणं परम् ॥ २,३.८७ ॥ अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः । मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः ॥ २,३.८८ ॥ प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् । नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः । उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी ॥ २,३.८९ ॥ ततो जातः पुमान्नाम ब्रह्मास्यां वासुदेवतः । सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी ॥ २,३.९० ॥ ततो रूपं महान्नाम ब्रह्मणोऽहङ्कृतिः शिवः । ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनोऽभिधः । स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे ॥ २,३.९१ ॥ तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः । तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा ॥ २,३.९२ ॥ जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः । मोक्षश्च तदधीनत्वमेतेषां नैव हीयते ॥ २,३.९३ ॥ मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः । इति श्रुत्युपपत्तिभ्यां पादेऽस्मिन् प्रभुणोदितम् ॥ २,३.९४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य तृतीयः पादः ॥ श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते । यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः । करोत्यनेन पादेन तत्र स्पष्टार्थवच्छ्रुतिः ॥ २,४.१ ॥ विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः । दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता ॥ २,४.२ ॥ युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः । युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥ २,४.३ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयोऽध्यायः ॥ स्वाभाविकान्यथानामसहाभावान्यथोक्तयः । अविशेषो विशेषौ च सहभावो विमिश्रता ॥ ३,१.१ ॥ विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः । युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ ॥ ३,१.२ ॥ उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता । योग्यता प्रबलत्वं च विभागः कारणाभवः । कॢप्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः ॥ ३,१.३ ॥ बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् । अथशब्देन भगवानाह कारणतश्च ताम् ॥ ३,१.४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥ पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः । स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः ॥ ३,२.१ ॥ गुणसाम्यमयोगश्च तर्कबाधो विलोमता । नानाभावः प्रलोभश्च पूर्वपक्षगाः ॥ ३,२.२ ॥ अशक्यकर्तृताशक्तिः स्वतोऽबोधस्तदेव च । अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥ ३,२.३ ॥ विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् । अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥ ३,२.४ ॥ वासनाः सर्ववस्तूनामनाद्यनुभवागताः । सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥ ३,२.५ ॥ त्रिगुणात्मकं मनोऽस्त्येव यावन्मुक्तिः सदातनम् । तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥ ३,२.६ ॥ सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते । सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥ ३,२.७ ॥ संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् । स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि ॥ ३,२.८ ॥ अदृष्टे चाश्रुते भावे न भाव उपजायते । अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥ ३,२.९ ॥ इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते । कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥ ३,२.१० ॥ दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः । वासनामात्रमूलत्वाज्जाग्रद्वत्स्पष्टता न च ॥ ३,२.११ ॥ भेदोऽभेदोऽथवा द्वन्द्वमिति प्रश्नो न युज्यते । द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥ ३,२.१२ ॥ प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः । सिद्धार्थता च वैफल्यं न तैः स्यात्तत्त्वनिर्णयः ॥ ३,२.१३ ॥ तत्त्वनिर्णयवैलोम्यं स्याद्वादेऽपि हि निग्रहः । उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् ॥ ३,२.१४ ॥ विजिगीषुकथायां तु कथावसितिकारणम् । परिहारेऽपि सिद्धत्वं दूषणं प्रतिवादिनः । प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधका ॥ ३,२.१५ ॥ आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् । केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ॥ ३,२.१६ ॥ दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने । यत्र व्याहतता नास्ति कोऽतिसङ्गोऽस्य साधने ॥ ३,२.१७ ॥ प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि । न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः ॥ ३,२.१८ ॥ अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् । ज्ञायते साक्षिणैवाद्वा मानबाधे न तद्भवेत् ॥ ३,२.१९ ॥ यत्साक्षिणैव मानत्वं मानानामवसीयते । अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् ॥ ३,२.२० ॥ उत्सर्गतोऽपि यत्प्राप्तमपवादविवर्जितम् । व्यभिचार्यपवादेन मानमेव भविष्यति ॥ ३,२.२१ ॥ अतो हि भोजनादीनामिष्टसाधनतानुमा । मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ॥ ३,२.२२ ॥ व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् । रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः । इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधका ॥ ३,२.२३ ॥ अन्यत्सदसतोर्विश्वमिति च व्याहतेरमा । असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥ ३,२.२४ ॥ व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते । अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते । लिङ्गस्योक्तौ विशेषोऽयं केन मानेन गम्यते ॥ ३,२.२५ ॥ साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते । यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ॥ ३,२.२६ ॥ यत्र नातिप्रसङ्गोऽस्ति मानं न च विपर्यते । क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ॥ ३,२.२७ ॥ परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः । असिद्धसाधकत्वेन पञ्चावयवतां विना । अङ्गीकार्याः समस्तैस्तन्नियमः किंनिबन्धनः ॥ ३,२.२८ ॥ सिद्दसाधनतायां च न कथावसितिर्भवेत् । व्यभिचारो हेत्वसिद्धिरेकपक्षेऽपि दूषणम् ॥ ३,२.२९ ॥ साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे । वैयथ्यर्मेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥ ३,२.३० ॥ अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् । सिद्धप्रश्नादिकं यत्तदाधिक्यान्तगर्तं भवेत् ॥ ३,२.३१ ॥ अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् । प्रत्यक्षान्तर्गतोऽभावः सुखादेर्नियमेन च ॥ ३,२.३२ ॥ अन्यत्र खडिति प्राप्तः प्रारम्भाद्याश्च युक्तयः । आगमार्थावसित्यर्था नियतव्याप्तयोऽखिलाः ॥ ३,२.३३ ॥ वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः । कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥ ३,२.३४ ॥ स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् । स्वन्यायैर्दूषणं च स्यात्साधितैः प्रतिवादिनः ॥ ३,२.३५ ॥ प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः । छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते । जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ॥ ३,२.३६ ॥ एवं संशोधितन्यायसदागमविरोधतः । नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ॥ ३,२.३७ ॥ विलक्षणं सदसतोरिति हि व्याहतं स्वतः । प्रतियोगित्वमप्यस्य ब्रह्मणोऽङ्गीकृतं भवेत् ॥ ३,२.३८ ॥ मिथ्या चेत्प्रतियोगित्वं वैलक्षण्यं ततो न हि । अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ॥ ३,२.३९ ॥ अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन । ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ॥ ३,२.४० ॥ इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् । इत्थम्भावो हि धर्मोऽस्य न चेन्न प्रतियोगिता ॥ ३,२.४१ ॥ इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोऽखिलाः । अदृश्यत्वादयोऽप्यस्य गुणा हि प्रभुणोदिताः ॥ ३,२.४२ ॥ यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् । अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ॥ ३,२.४३ ॥ देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते । सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते ॥ ३,२.४४ ॥ मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता । अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ॥ ३,२.४५ ॥ न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः । वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ॥ ३,२.४६ ॥ धर्मारोपोऽपि सामान्यधर्मादीनां हि दशर्ने । इदन्तदादिधर्मित्वे धर्मोऽन्यः कल्प्यतेऽत्र हि ॥ ३,२.४७ ॥ सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते । तदर्थं यदि धर्माणामारोपः सानवस्थितिः ॥ ३,२.४८ ॥ ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः । भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यतेऽत्र हि ॥ ३,२.४९ ॥ तन्मात्रस्यान्यथा भावात्किं न स्याद्विश्वसत्यता । येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा ॥ ३,२.५० ॥ भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि । भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन ॥ ३,२.५१ ॥ सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते । प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ॥ ३,२.५२ ॥ साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते । साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ॥ ३,२.५३ ॥ तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् । ऐक्यागमस्य किं न स्यात्तस्याप्येतादृशं यदि । ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता ॥ ३,२.५४ ॥ ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते । अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥ ३,२.५५ ॥ अद्वैतहानिसामान्यान्न विशेषश्च कश्चन । यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥ ३,२.५६ ॥ प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् । कालान्तरेऽप्यमानं चेदिदानीं मानता कुतः ॥ ३,२.५७ ॥ मिथ्यात्वमानं मोक्षेऽपि मानं किं नेति भण्यताम् । मानत्वेऽद्वैतहानिः स्यादमानत्वेऽप्यमोक्षता ॥ ३,२.५८ ॥ विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा । अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिरतोऽन्यथा ॥ ३,२.५९ ॥ अमुक्तत्वं तथा काले कालाधीना हि मुक्तता । काल एवागमोऽप्याह मुक्तिं कालनिवर्तने । मुक्तेरपि निवृत्तिः स्यात्संसारित्वमतो भवेत् ॥ ३,२.६० ॥ क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् । देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् । मम देह इति ह्येव न देहोऽहमिति प्रमा ॥ ३,२.६१ ॥ उपचारश्च कृष्णोऽहमिति कर्दमलेपने । वस्त्रस्य यद्वदेवं स्याद्यद्युपाधिकृतं तदा । स्वतः शुक्लत्ववत्कार्ष्ण्यं न ममेति प्रतीयते ॥ ३,२.६२ ॥ कथं च भेदो देहादेरात्मनो न प्रमीयते । जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः । भयाभयस्वभोगादौ कारणानि विजानते ॥ ३,२.६३ ॥ अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् । अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥ ३,२.६४ ॥ यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः । व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥ ३,२.६५ ॥ भेदज्ञानेऽपि चाङ्गारवह्निवत्स्वाविविक्तवत् । भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥ ३,२.६६ ॥ अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः । लोकास्ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥ ३,२.६७ ॥ शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् । कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥ ३,२.६८ ॥ आगमोऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः । विशेषं गमयेदेव कथं शक्तिग्रहोऽन्यथा ॥ ३,२.६९ ॥ अतीतानागतार्थेषु जाते शक्तिग्रहेऽखिलम् । विशेषं ज्ञापयेद्वाक्यं न तदज्ञातशक्तिके ॥ ३,२.७० ॥ शक्तिश्चेद्वर्तमाने स्यान्नातीतानागतं वदेत् । यदि शक्तिग्रहोऽन्यत्र कथं स स्यात्तदग्रहे ॥ ३,२.७१ ॥ सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि । सामान्यवर्जितं वस्तुस्वरूपं गमयेत्कथम् ॥ ३,२.७२ ॥ न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् । स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥ ३,२.७३ ॥ सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते । किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् । स्यादुत्तरं ततोऽन्यच्चेत्तदेव स्वयमेव नः ॥ ३,२.७४ ॥ एवं व्यावृत्तरूपेऽपि यदा शक्तिग्रहो भवेत् । तस्य सामान्यतो ज्ञानं विना स च भवेत्कुतः ॥ ३,२.७५ ॥ अतो विशेषसामान्यरूपं सर्वमपीष्यते । व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ॥ ३,२.७६ ॥ नचैकधर्मता तेन पदार्थानां परस्परम् । धर्माणां भेददृष्टयैव तत्सादृश्यस्य दर्शनात् ॥ ३,२.७७ ॥ अतः सर्वपदार्थाश्च सामान्यात्साक्षिगोचराः । सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ॥ ३,२.७८ ॥ किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः । शब्दशक्तिग्रहश्च स्यात्तत्तत्सादृश्यमानतः ॥ ३,२.७९ ॥ प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् । तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ॥ ३,२.८० ॥ आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते । मानता च कथं न स्यात्स्मृतेर्बाधश्च नात्रहि ॥ ३,२.८१ ॥ मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् । अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ॥ ३,२.८२ ॥ न च सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः । अतो न वतर्मानैकनियमः स्याद्ग्रहेऽक्षजे ॥ ३,२.८३ ॥ न च प्रमाणतोऽन्या स्यात्प्रमितिर्नाम कुत्रचित् । मानाभावाद्गौरवाच्च कल्पनायाः किमेतया ॥ ३,२.८४ ॥ मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् । ज्ञानमेव ततोऽन्या न प्रमितिर्नाम दृश्यते ॥ ३,२.८५ ॥ मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् । स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ॥ ३,२.८६ ॥ जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् । अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ॥ ३,२.८७ ॥ आत्मवत्क्वचिदात्मा च स्यादेव भ्रमगोचरः । एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ॥ ३,२.८८ ॥ यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् । अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः ॥ ३,२.८९ ॥ न च काचित्प्रमा विश्वभ्रान्तत्वे सर्वमेव च । अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ॥ ३,२.९० ॥ किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च । अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता । वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥ ३,२.९१ ॥ भ्रान्तित्वभ्रान्तता चेत्स्यात्कथं नाभ्रान्तिसत्यता । अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः ॥ ३,२.९२ ॥ येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा । भ्रान्तित्वाद्दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥ ३,२.९३ ॥ उन्मत्तोऽपि कथं तस्य मतं स्वीकर्तुमिच्छति । ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् ॥ ३,२.९४ ॥ अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा । निमित्तमैश्वरी मुख्यं निर्मितं त्रातमेव च ॥ ३,२.९५ ॥ ताभ्यां सह पृथक्चैव मायामात्रमितीर्यते । उभाभ्यां मातमैश्वर्या त्रातं सह पृथक्ततः ॥ ३,२.९६ ॥ प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः । धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥ ३,२.९७ ॥ चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः । तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥ ३,२.९८ ॥ मनोविकारा विषयाः स्वाप्ना यद्बह्यवन्न ते । स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥ ३,२.९९ ॥ क्वचित्स्पष्टा अपि स्युष्ये वासना मानसी च सा । ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥ ३,२.१०० ॥ सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः । वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥ ३,२.१०१ ॥ सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा । जीवं नयति देवेशो नान्यः कर्तास्य कश्चन ॥ ३,२.१०२ ॥ न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः । सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः ॥ ३,२.१०३ ॥ तद्विरुद्धं तु यत्तत्र मानं नैव भवेत्क्वचित् । महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥ ३,२.१०४ ॥ दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् । भवेन्मानं तदीशानात्प्रसन्नादेव नान्यथा ॥ ३,२.१०५ ॥ प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् । निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥ ३,२.१०६ ॥ यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् । जानात्यस्मै प्रसन्नोऽहं दद्यां मुक्तिं नचान्यथा ॥ ३,२.१०७ ॥ यो मामशेषाभ्यधिकं विजानाति स एव माम् । विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥ ३,२.१०८ ॥ यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः । इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥ ३,२.१०९ ॥ लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् । महातात्पर्यमुख्यस्य विरोधादत एव हि ॥ ३,२.११० ॥ दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन । नार्थः श्रुतिपुराणादेस्तद्विरुद्धोऽखिलस्य च । अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ॥ ३,२.१११ ॥ इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत ॥ ३,२.११२ ॥ इत्यतोऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा । वर्तते तत्र तेनेशो निर्णीतोऽखिलसद्गुणः ॥ ३,२.११३ ॥ न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते । यत आभासतामेव श्रुतिरस्य वदत्यलम् ॥ ३,२.११४ ॥ यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् । छाया यथा पुंसदृशा पुमाधीना च दृश्यते । एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥ ३,२.११५ ॥ सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते । आभास एव पुरुषा मुक्ताश्च परमात्मनः ॥ ३,२.११६ ॥ छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ । तस्येन्द्रकामौ च तयोस्तयोरन्येऽखिला अपि ॥ ३,२.११७ ॥ हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः । मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥ ३,२.११८ ॥ सर्वेऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः । चेतनत्वेऽपि भिन्नास्ते तस्मादेतेन सर्वदा । इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ॥ ३,२.११९ ॥ आभासत्वं हि निर्णीतं जीवस्य परमात्मनः । तन्न युक्तं यदाभास उपाध्यायत्त ईयते ॥ ३,२.१२० ॥ उपाध्यायत्तताभावादाभासत्वविरोधतः । चेतनत्वेन चांशत्वात्समुदायैक्यमापतेत् ॥ ३,२.१२१ ॥ अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् । ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ॥ ३,२.१२२ ॥ अतो देहाद्युपाधीनामपाये समता भवेत् । ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ॥ ३,२.१२३ ॥ यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् । इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः । अत एवोपमेत्येव चान्याभासविशेषिताम् ॥ ३,२.१२४ ॥ यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः । जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् ॥ ३,२.१२५ ॥ तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् । नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥ ३,२.१२६ ॥ किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते । तत आभासते नित्यं तद्वदाभासतेऽपि च ॥ ३,२.१२७ ॥ भानमस्तित्वमपिचैवासमन्ताद्यतस्ततः । जीव आभास उद्दिष्टः सदैव परमात्मनः ॥ ३,२.१२८ ॥ न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः । तदधीनत्वमेवेति किञ्चित्सादृश्यमेव च । सम्प्रकाशयतः सूत्रगतावखिलमानतः ॥ ३,२.१२९ ॥ जीवेशभेददृष्टयैव समुदायैकता कुतः । अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ॥ ३,२.१३० ॥ सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा । अशेषशक्तियुक्तश्चेत्स्वातन्त्र्याद्दोषवान् कथम् ॥ ३,२.१३१ ॥ अनुसन्धानरहितमैक्यं चेदेकता न तत् । चेतनैक्येऽनुसन्धानं प्रमाणं नैव चापरम् ॥ ३,२.१३२ ॥ अनुसन्धानरहितसमुदायैक्यमेव चेत् । चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ॥ ३,२.१३३ ॥ मुक्तौ स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् । सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ॥ ३,२.१३४ ॥ पश्चात्स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् । विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् ॥ ३,२.१३५ ॥ असदैक्यं भवेत्पश्चाद्यदि स्यात्सप्तमो रसः । समुदायैक्यमेतस्माद्दूरतोऽपाकृतं सदा ॥ ३,२.१३६ ॥ अतोऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि । तावदेवेश्वरो नाम तत्र भेदोऽपि न क्वचित् ॥ ३,२.१३७ ॥ नेह नानास्ति किमपि हरयोऽयमयं हि सः । इत्यादिश्रुतिमानेन जीवांशाः सर्व एव च ॥ ३,२.१३८ ॥ नियमेनानुसन्धानवन्तो यद्येकता स्वतः । अंशिनोऽशेषसन्धानमत्यल्पस्यापि विद्यते ॥ ३,२.१३९ ॥ भुवि जातेन चांशेन सुखदुःखादि तद्गतम् । अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ॥ ३,२.१४० ॥ ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते । सेशतानुपपन्नैव यदि जीवैकतास्य हि । अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥ ३,२.१४१ ॥ ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः । अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् ॥ ३,२.१४२ ॥ उपजीव्यविरोधेन नैव मानत्वमेष्यति । अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥ ३,२.१४३ ॥ ईशत्वेऽनीशभेदेन श्रुत्या सम्यक्प्रकाशिते । अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥ ३,२.१४४ ॥ अतोऽन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते । श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् ॥ ३,२.१४५ ॥ ईशोऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि । इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥ ३,२.१४६ ॥ इति हि ब्रह्मतर्कोक्तिरतिहेयमतोऽखिलैः । बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥ ३,२.१४७ ॥ नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् । यदीशित्वविरोधि स्यात्तदेवायुक्तमञ्जसा ॥ ३,२.१४८ ॥ ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः । सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् ॥ ३,२.१४९ ॥ मानतः प्राप्तमखिलं नामानं योजयेत्क्वचित् । इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ ३,२.१५० ॥ स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् । रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥ ३,२.१५१ ॥ अतो नानित्यता नैव श्रुतिद्वयविरोधिता । यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि । आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ॥ ३,२.१५२ ॥ तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् । ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥ ३,२.१५३ ॥ प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा । नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ॥ ३,२.१५४ ॥ तस्माद्भिन्नश्च सततमन्यज्ज्ञानं परस्य च । अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता ॥ ३,२.१५५ ॥ मुख्येशता परेशस्य गौणी जीवस्य सा यतः । इति श्रुतेः सृष्टिनाशौ तदधीनावितीरिते । स्वभावत्वात्स्थितेर्नैतदपेक्षेति न युज्यते ॥ ३,२.१५६ ॥ यतः स्वभावोऽखिल ईशायत्तोऽखिलस्य च । अव्यक्तोऽपि स्वक्तयैव भक्तानां दृश्यते हरिः ॥ ३,२.१५७ ॥ तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः । गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥ ३,२.१५८ ॥ विशेषात्मतया तेषां नित्यशक्तयात्मना तथा । नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता ॥ ३,२.१५९ ॥ न विशेषात्मता चेयमनित्या शक्तिरूपता । सैव यत्सविशेषा स्याद्विशेषोऽन्यो नचाप्ययम् ॥ ३,२.१६० ॥ स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषतः । विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥ ३,२.१६१ ॥ ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते । श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥ ३,२.१६२ ॥ भेदो यदि विशेषस्य स भेदो भेदिना कथम् । भिन्नश्चेदनवस्था स्यादभिन्नश्चेत्पुरा न किम् ॥ ३,२.१६३ ॥ विशेषोऽभिन्न एवेति तेन नाभ्युपगम्यते । अभिन्नो निविर्शेषश्चेद्भेदस्तद्भेदता कुतः ॥ ३,२.१६४ ॥ अनेनानेन भिन्नोऽयमिति यत्स विशेषतः । भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥ ३,२.१६५ ॥ अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना । तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥ ३,२.१६६ ॥ अभेदभेदशब्दौ च पर्यायाविति को वदेत् । भेदोऽन्योन्यमभेदश्च भेदिना चेद्विशेषता ॥ ३,२.१६७ ॥ निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा । पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥ ३,२.१६८ ॥ भेदिनश्चैव भेदस्य विशेषो यदि गम्यते । अभेदाभेदिनोश्चैव किं भेदोऽभेदभेदयोः ॥ ३,२.१६९ ॥ विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् । कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥ ३,२.१७० ॥ ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः । स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥ ३,२.१७१ ॥ सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि । अङ्गीकार्यो विशेषोऽयं यद्यसत्यविशेषणम् । पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ॥ ३,२.१७२ ॥ मायाविशेषराहित्यविशेषेण विशेषिता । सत्यस्यापि भवेत्सा च तथा चेदनवस्थितिः ॥ ३,२.१७३ ॥ यदि सत्ये विशेषो न न तदुक्तिर्भवेत्तदा । लक्ष्यते चेत्तेन लक्ष्यमित्यपि स्याद्विशेषिता ॥ ३,२.१७४ ॥ पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः । यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ॥ ३,२.१७५ ॥ असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति । तदा सार्वज्ञ्यमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ॥ ३,२.१७६ ॥ यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् । असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा ॥ ३,२.१७७ ॥ अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते । अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ॥ ३,२.१७८ ॥ अखण्डखण्डनादेवं विशेषोऽखण्डवादिना । खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः ॥ ३,२.१७९ ॥ अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् । महादरेण शिरसि विशेषो धार्य एव हि ॥ ३,२.१८० ॥ निदर्शनत्रयेणातो भगवानत्यभिन्नताम् । गुणानामादरेणाह तच्च नाभिहितान्वयः ॥ ३,२.१८१ ॥ यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् । पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ॥ ३,२.१८२ ॥ यतोऽशेषविशेषाणां वस्तुनास्त्येव चैकता । अतः सामान्यतो ज्ञातः पदान्तरबलात्पुनः । भवेद्विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता ॥ ३,२.१८३ ॥ स्वार्थ एवान्वितो यस्मात्केनचित्तद्विशेषतः । अनेनेति तदुक्तयैव ज्ञायतेऽनुभवेन हि ॥ ३,२.१८४ ॥ यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह । तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥ ३,२.१८५ ॥ व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् । पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् ॥ ३,२.१८६ ॥ अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न । यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् ॥ ३,२.१८७ ॥ अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोऽन्वयः । निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥ ३,२.१८८ ॥ तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ॥ ३,२.१८९ ॥ अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते । कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ॥ ३,२.१९० ॥ अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते । व्यापारश्चेत्पुनस्तेषामनुक्तावपि किं न सः ॥ ३,२.१९१ ॥ उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते । बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च । पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥ ३,२.१९२ ॥ पुमानेवान्वयायैषां पश्चाद्यदि विचेष्यते । अनन्विताभिधानानां स एवार्थान्तरोक्तिषु । यततां शब्दशक्तिश्चेत्तत्र नैवान्वये कथम् ॥ ३,२.१९३ ॥ तत्कल्पनागुरुत्वादिदोषेतोऽभिहितान्वयः । अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ॥ ३,२.१९४ ॥ कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् । विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ॥ ३,२.१९५ ॥ गुणक्रियादिधर्माणां विशेषे कथिते पुनः । निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ॥ ३,२.१९६ ॥ अतोऽनन्तगुणात्मैको भगवानेक एव तु । उच्यते सर्ववेदैश्च ते चाखिलविलक्षणाः ॥ ३,२.१९७ ॥ सर्वे सर्वगुणात्मानः सर्वकर्तार एव च । तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोऽपिच ॥ ३,२.१९८ ॥ तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः । अन्यानन्दादिसादृश्यमानुकूल्यादिना परम् ॥ ३,२.१९९ ॥ पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् । पूर्णेऽशेषनियन्ता च सुखादुतम एककलः ॥ ३,२.२०० ॥ गुणोरुसमुदायोऽयं वासुदेवः स निष्कळः । वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ॥ ३,२.२०१ ॥ स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् । धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ॥ ३,२.२०२ ॥ कांश्चित्तेषां फलं चैव ददाति स्वयमच्युतः । न ते विशेषं कमपि प्रेरणादिकमुच्यते । कुर्युः कदापि तेनायं स्वतन्त्रोऽनुपचारतः ॥ ३,२.२०३ ॥ कर्माणि तानि च पृथक्चेतनान्येव सर्वशः । अचेतनशरीराणि स्वकर्मफलभाञ्चि च ॥ ३,२.२०४ ॥ प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च । तानि चैवमितीशस्य निस्सीमा शक्तिरुत्तमा ॥ ३,२.२०५ ॥ एकैव ब्रह्महत्या हि वराहहरिणोदिता । ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥ ३,२.२०६ ॥ स्तोत्रस्य तस्य माहात्म्याद्व्याधत्वं गमिता पुनः । प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा ॥ ३,२.२०७ ॥ अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि । संसारे पच्यमानानि कर्माण्यपि पृथक्पृथक् ॥ ३,२.२०८ ॥ तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः । भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते ॥ ३,२.२०९ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥ वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् । आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत् ॥ ३,३.१ ॥ युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् । परस्परविरोधं च प्रणुद्याशेषवाक्यगम् ॥ ३,३.२ ॥ अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः । बहुयुक्तिविरोधानां भानात्तत्सहितश्रुतेः ॥ ३,३.३ ॥ विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् । परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः ॥ ३,३.४ ॥ देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः । विशेषस्नेहमापाद्य सर्वकर्तृत्वतोऽधिकम् ॥ ३,३.५ ॥ निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः । उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् ॥ ३,३.६ ॥ सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च । यतेतोपासनायैव विशिष्टाचार्यसम्पदा ॥ ३,३.७ ॥ कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये । अत इत्युदितेऽप्यस्य विशेषानुक्तितः पुनः ॥ ३,३.८ ॥ सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः । यतो मोक्षादिदातासावतो जिज्ञास्य एव वः । इत्याह तत्परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् ॥ ३,३.९ ॥ येनैव बन्धमोक्षः स्यात्स च जिज्ञासया गतः । सुप्रसन्नो भवेदीशो जिज्ञासातोऽस्य मुक्तिदा ॥ ३,३.१० ॥ मोक्षादिदत्वमीशस्य कथमेवावगम्यते । इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः ॥ ३,३.११ ॥ प्रत्यक्षावसितेभ्यः स्याद्यदि मोक्षः कथञ्चन । किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः ॥ ३,३.१२ ॥ यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् । धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः ॥ ३,३.१३ ॥ अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि । दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् ॥ ३,३.१४ ॥ तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् । शास्त्रगम्यश्च नान्योऽस्ति मोक्षदत्वेन केशवात् ॥ ३,३.१५ ॥ मोक्षदो हि स्वतन्त्रः स्यात्परतन्त्रः स्वयं सृतौ । वर्तमानः कथं शक्तः परमोक्षाय केवलम् ॥ ३,३.१६ ॥ अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि । तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः । अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः ॥ ३,३.१७ ॥ यमेवैष इति श्रुत्या तमेवेति च सादरम् । शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः ॥ ३,३.१८ ॥ य एनं विदुरमृता इत्युक्तस्तु समुद्रगः । तदेव ब्रह्म परममिति श्रुत्यावधारितः ॥ ३,३.१९ ॥ यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः । शास्त्रयोनिर्नचान्योऽस्ति मुख्यतस्त्विति गम्यते ॥ ३,३.२० ॥ शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् । समिति ह्युपसर्गेण परमुख्याथर्तोच्यते ॥ ३,३.२१ ॥ एवं परममुख्यार्थो नारायण इति श्रुतेः । निर्धारणाय नाशब्दमिति वेदपतिर्जगौ ॥ ३,३.२२ ॥ कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् । वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् ॥ ३,३.२३ ॥ अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः । उत्तारणोपमेत्यस्मान्न ज्ञेयोऽत्र समन्वयः ॥ ३,३.२४ ॥ इति शङ्कापनोदार्थं स आह करुणाकरः । अशक्योत्तरणत्वेऽपि ह्यागमापारवारिधेः । निर्णीयते मयैवायं रोमकूपलयोदिना ॥ ३,३.२५ ॥ यद्यप्यशेषवेदार्थो दुर्गमोऽखिलमानवैः । मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् ॥ ३,३.२६ ॥ इति प्रकाशयन् विश्वपतिराह प्रमेयताम् । निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा ॥ ३,३.२७ ॥ को नाम गतिसामान्यमनन्तागमसम्पदः । ज्ञानसूर्यमृते ब्रूयात्तमेकं बादरायणम् ॥ ३,३.२८ ॥ अन्योऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु । जानन्नानुमितत्वेन ब्रूयात्तस्य प्रसादतः ॥ ३,३.२९ ॥ इति मुख्यतयाशेषगतिसामान्यवित्प्रभुः । प्रतिजज्ञे दृढं यस्माद्देवानामपि पूर्यते ॥ ३,३.३० ॥ अतो निखिलवेदानां सिद्ध एवं समन्वयः । इति सुज्ञापितार्थोऽपि पृथक्चाह समन्वयम् ॥ ३,३.३१ ॥ तत्र प्रथमतोऽन्यत्र प्रसिद्धानां समन्वयः । शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् ॥ ३,३.३२ ॥ इतोऽत्यभ्यधिकत्वेऽपि तुर्यपादोदितस्य तु । महासमन्वये तस्मिन्नाधिकारोऽखिलस्य हि ॥ ३,३.३३ ॥ ब्रह्मैवाधिकृतस्तत्र मुख्यतोऽन्ये यथाक्रमम् । दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितोऽञ्जसा ॥ ३,३.३४ ॥ अतोऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु । प्रवृत्तः प्रथमं देवस्तत्रानन्दादयो गुणाः । ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् ॥ ३,३.३५ ॥ देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः । विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः ॥ ३,३.३६ ॥ अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः । विष्णुमेव परं ब्रूयुरेवमन्येऽप्यशेषतः ॥ ३,३.३७ ॥ इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः । ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः ॥ ३,३.३८ ॥ तेषामन्यगतत्वे तु न स्यात्सम्यक्समन्वयः । इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् ॥ ३,३.३९ ॥ आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः । इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः ॥ ३,३.४० ॥ शब्दानां वर्तमानानां सलिङ्गानां विशेषतः । समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः ॥ ३,३.४१ ॥ शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता । अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥ ३,३.४२ ॥ यतोऽतो यदधीनास्ते शब्दार्थत्वमुपागताः । अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥ ३,३.४३ ॥ अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः । मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥ ३,३.४४ ॥ इत्याहैवञ्च शब्दानां नारायणसमन्वये । सिद्धेऽप्यशेषशब्दानां न कथञ्चन युज्यते ॥ ३,३.४५ ॥ विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् । इति चेदवरत्वादि द्विविधं ह्युपलभ्यते ॥ ३,३.४६ ॥ परस्यावरताहेतुर्यः स्वयं पर एव सन् । सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥ ३,३.४७ ॥ अन्योऽवरत्वानुभवी तयोः पूर्वोऽस्ति केशवे । द्वितीयो जीव एवास्ति स्वातन्त्रान्नच दूषणम् ॥ ३,३.४८ ॥ हरेरेवमशेषेण सर्वशब्दसमन्वये । उक्ते विरोधहीनस्य स्यात्समन्वयता यतः । अतोऽशेषविरोधानां कृतेशेन निराकृतिः ॥ ३,३.४९ ॥ समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये । किं मया कार्यमित्येव स्याद्बुद्धिरधिकारिणः ॥ ३,३.५० ॥ तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ । उक्तायां भक्तिदार्ढ्याय प्रोक्तेऽशेषगुणोच्चये । वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि ॥ ३,३.५१ ॥ सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी । ध्यानरूपा परा चैव तदङ्गं धारणादिकम् ॥ ३,३.५२ ॥ तथोभयात्मकं चैव पादेऽस्मिन् बादरायणः । आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् ॥ ३,३.५३ ॥ पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः । विशेषदर्शनं कार्यलोपो नानोक्तिराशुता ॥ ३,३.५४ ॥ विभ्रमोऽपाकृतिर्लिङ्गमनवस्थाविशेषिता । अप्रयोजनता चातिप्रसङ्गोऽदूरसंश्रयः ॥ ३,३.५५ ॥ विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः । अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ ॥ ३,३.५६ ॥ पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः । विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः ॥ ३,३.५७ ॥ अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना । शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया ॥ ३,३.५८ ॥ युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया । माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः ॥ ३,३.५९ ॥ फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता । यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः ॥ ३,३.६० ॥ कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् । प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता ॥ ३,३.६१ ॥ संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् । विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः ॥ ३,३.६२ ॥ सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः । साधनोत्तमता नानादृष्टिः शिष्टिरनूनता ॥ ३,३.६३ ॥ अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः । सिद्धान्तनिर्णये ह्येता युक्तयोऽव्याहताः सदा ॥ ३,३.६४ ॥ यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् । तत्राखिलस्य विज्ञप्तिः सम्यग्ब्रह्मण एव हि ॥ ३,३.६५ ॥ तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते । तावतोपासने योग्यो भवेदेवाखिलः पुमान् ॥ ३,३.६६ ॥ महत्त्वस्य परं पारं विदित्वैव जनार्दनः । स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद ॥ ३,३.६७ ॥ किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः । यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः ॥ ३,३.६८ ॥ इत्यादिवाक्यसन्दर्भाद्यथायोग्याखिलज्ञता । आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् ॥ ३,३.६९ ॥ वेदः कृत्स्नोऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् । इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते ॥ ३,३.७० ॥ अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा । ध्यायन्ति च यथायोगं तथाप्या वस्तुनिर्णयात् । श्रवणं मननं चैव कर्तव्यं सर्वथैव हि ॥ ३,३.७१ ॥ मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः । वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् ॥ ३,३.७२ ॥ श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च । विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये ॥ ३,३.७३ ॥ यदि तादृग्गुरुर्नास्ति निर्णीतश्रवणादिकम् । तत्सिद्धान्तानुसारेण निर्णयज्ञात्समाचरेत् ॥ ३,३.७४ ॥ श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् । अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् ॥ ३,३.७५ ॥ अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा । शृणुयाद्यदि सज्ज्ञानप्राचुर्यमुपलभ्यते ॥ ३,३.७६ ॥ महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् । छिन्द्यात्स्वतोऽधिकाभावे स्वयमेव समभ्यसेत् ॥ ३,३.७७ ॥ अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः । विष्णोरन्यच्च तत्तन्त्रमिति सम्यग्विनिर्णयः ॥ ३,३.७८ ॥ स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः । अदोषत्वस्य सिद्धयर्थं यदभेदे तदन्वयः ॥ ३,३.७९ ॥ तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये । मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् । गच्छद्दृष्टं क्वचित्तस्याप्यभावोऽनुभवोपगः ॥ ३,३.८० ॥ पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता । नारायणेन मुक्तानामपि सम्यगिति स्थितिः ॥ ३,३.८१ ॥ भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः । निर्दोषत्वं रमायाश्च तदनन्तरता तथा ॥ ३,३.८२ ॥ ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः । शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ॥ ३,३.८३ ॥ सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् । एतद्विरोधि यत्सर्वं तमसेऽन्धाय केवलम् ॥ ३,३.८४ ॥ अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् । इत्येव श्रुतयोऽशेषाः पञ्चरात्रमथाखिलम् ॥ ३,३.८५ ॥ मूलरामायणं चैव भारतं स्मृतयोऽखिलाः । वैष्णवानि पुराणानि साङ्खययोगौ परावपि ॥ ३,३.८६ ॥ ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः । अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः ॥ ३,३.८७ ॥ प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः । मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् ॥ ३,३.८८ ॥ अन्यावकाशरहितं प्रकाशयति सादरम् । एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् ॥ ३,३.८९ ॥ सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् । असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् ॥ ३,३.९० ॥ सम्यग्विषमविज्ञानतारतम्यानुसारतः । फलं भवेत्तारतम्यात्सुखदुःखात्मकं नृणाम् ॥ ३,३.९१ ॥ सम्यक्चाधिकविज्ञानात्सुखाधिक्यं भवेन्नृणाम् । अतो यथात्मशक्तयैव श्रवणं मननं तथा ॥ ३,३.९२ ॥ विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपाद्यते ॥ ३,३.९३ ॥ इति भारतवाक्यं हि तेनैतद्दोषवर्जितः । सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥ ३,३.९४ ॥ दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः । सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते ॥ ३,३.९५ ॥ सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः । ऋजूनामेक एवास्ति परमोत्साहवर्जनम् । स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते ॥ ३,३.९६ ॥ अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु । तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता ॥ ३,३.९७ ॥ स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः । ततोऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः ॥ ३,३.९८ ॥ कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता । न कदाचित्त्यजेत्तं च क्रमेणैनं विवर्धयेत् ॥ ३,३.९९ ॥ समेषु स्वात्मवत्स्नेहः सत्स्वन्यत्र ततो दया । कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः ॥ ३,३.१०० ॥ तत्तमोऽन्धं व्रजेद्विष्णुसमत्वं योऽनुपश्यति । रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन ॥ ३,३.१०१ ॥ किमुताधिक्यदृष्टेस्तद्गुणाभावमतेरपि । दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः ॥ ३,३.१०२ ॥ इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतम् । उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते ॥ ३,३.१०३ ॥ द्वेषाद्यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् । रिपवो ये तु रामस्य विमुखत्वान्निरामिणः । अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः ॥ ३,३.१०४ ॥ हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः । तन्निर्गुणत्ववेत्तारस्तस्य दोषविदोऽपि च ॥ ३,३.१०५ ॥ इत्यादिश्रुतिसन्दर्भाद्द्वेषिणस्तम ईयते । हिरण्यकशिपुश्चापि भगवन्निन्दया तमः । विधिक्षुरत्यगात्सूनो प्रह्लादस्यानुभावतः ॥ ३,३.१०६ ॥ यदनिन्दत्पिता मह्यं त्वद्भक्ते मयि चाघवान् । तस्मात्पिता मे पूयेत दुरन्ताद्दुस्तरादघात् ॥ ३,३.१०७ ॥ निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा । ततो नापैति यः सोऽपि यात्यघः सुकृताच्च्युतः ॥ ३,३.१०८ ॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ३,३.१०९ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ ३,३.११० ॥ मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ३,३.१११ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ३,३.११२ ॥ यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् । कथं स न भवेद्द्वेष्य आलोकान्तस्य कस्यचित् ॥ ३,३.११३ ॥ यो द्विष्टाद्विबुधश्रेष्ठं देवं नारायणं प्रभुम् । मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः । इत्यादिवाक्यसन्दोहाद्द्वेषिणस्तम एव तु ॥ ३,३.११४ ॥ नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः । भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत् ॥ ३,३.११५ ॥ इति तत्केन मानेन दृष्टं प्रत्यक्षवादिना । न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥ ३,३.११६ ॥ घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा । नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते ॥ ३,३.११७ ॥ साधयन् सर्वसामान्यं कथमेव विशेषवान् । दृश्यन्ते पुरुषा लोके परावरविदोऽपिच ॥ ३,३.११८ ॥ अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः । प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः ॥ ३,३.११९ ॥ ज्ञानविज्ञानपारज्ञा निषिद्धयन्ते कथं नृभिः । दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम् ॥ ३,३.१२० ॥ यदि तेऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते । यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते ॥ ३,३.१२१ ॥ वरादयोऽपि तद्दत्ताः सदा सत्या भवन्ति हि । अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते ॥ ३,३.१२२ ॥ न हि प्रयोजनं किञ्चित्परलोकनिवारणात् । वृथावाचं वृथा हन्याद्यदि तस्य किमुत्तरम् । स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् ॥ ३,३.१२३ ॥ प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि । स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः ॥ ३,३.१२४ ॥ यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः । अतीतानागतं सर्वं लोकानुभवमापयन् । अतः प्रत्यक्षगम्यत्वाद्वेदमात्वस्य च स्फुटम् ॥ ३,३.१२५ ॥ यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् । यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् । लोकवाक्याद्विशेषश्चाव्यभिचारेण सिद्धयति ॥ ३,३.१२६ ॥ अस्ति मोक्षोऽपि धर्मेण यथार्थज्ञानतोऽपि च । प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने ॥ ३,३.१२७ ॥ तद्वाक्याद्धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च । धर्मोऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् ॥ ३,३.१२८ ॥ इति जैनाः कथं तत्स्यात्प्रमाणमनुमानतः । विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते । प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता ॥ ३,३.१२९ ॥ आ समन्ताद्गमयति धर्माधर्मौ परं पदम् । यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥ ३,३.१३० ॥ एतेन कारेणेनैव तत्तन्मानत्वमिष्यते । स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः ॥ ३,३.१३१ ॥ अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् । स्वरूपं पुद्गलस्योक्ता दोषा आनन्दमेव च । न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति ॥ ३,३.१३२ ॥ मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् । सुखस्याभावता केन न च स्यात्किं विपर्ययः ॥ ३,३.१३३ ॥ यदि भावोऽपि कश्चित्स्यात्तस्यैवाभावता कुतः । यदि सर्वेऽप्यभावाः स्युरन्योन्यमिति भावता ॥ ३,३.१३४ ॥ अभावाभावता यत्स्यात्किं नश्छिन्नं तदा भवेत् । भावत्वं विधिरूपत्वं निषेधत्वमभावता ॥ ३,३.१३५ ॥ निषेधस्य निषेधोऽपि भाव एव बलाद्भवेत् । प्रथमप्रतिपत्तिस्तु भावभावनियामिका ॥ ३,३.१३६ ॥ न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् । अस्वातन्त्र्यात्पुद्गलस्य ज्ञातोऽपि सुखदो न हि ॥ ३,३.१३७ ॥ न हि दुःखिपरिज्ञानाद्दुःखित्वं विनिवर्तते । यदि पुद्गलविज्ञानाददुःखी स्यात्कथञ्चन । देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा ॥ ३,३.१३८ ॥ ईशकॢप्त्यनुसारेण स्यात्कालादीशवादिनः । कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् ॥ ३,३.१३९ ॥ अशेषदुःखविलये नेदानीं कारणं यथा । तथोत्तरं च नैव स्याद्दृष्टिपूर्वानुमा यतः ॥ ३,३.१४० ॥ शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि । तयैव बन्धहानिः स्यादिति किं नाम दूषणम् ॥ ३,३.१४१ ॥ स्वज्ञानाद्बन्धहानिस्तु दृश्यते कस्य कुत्रचित् । अहिंसायाश्च धर्मत्वं केन मानेन गम्यते । हिंसाया एव धर्मत्वमित्युक्ते स्यात्किमुत्तरम् ॥ ३,३.१४२ ॥ धर्मस्य सुखहेतुत्वमपि केनावगम्यते । हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥ ३,३.१४३ ॥ न च शून्यपरिज्ञानाच्छून्यभावनयापि च । मोक्षः कथञ्चन भवेद्यदीदानीं कथं न सः ॥ ३,३.१४४ ॥ परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते । पुमिच्छाधीनता नो चेद्विळम्बः किङ्कृतो भवेत् ॥ ३,३.१४५ ॥ अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः । अन्यथा कारणं चेत्स्यात्किं कार्यं नोपजायते । कारणे सति कार्यस्य भावः सुनियतोऽस्य हि ॥ ३,३.१४६ ॥ विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् । विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥ ३,३.१४७ ॥ अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् । भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते ॥ ३,३.१४८ ॥ प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् । इति शङ्कया न चैतस्मिन्मानमीशाप्रसादतः ॥ ३,३.१४९ ॥ श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः । वदन्ति नियमान्मुक्तिं तमृतेऽतः कुतो भवेत् ॥ ३,३.१५० ॥ कणादयोगाक्षपादा अपीशस्य प्रसादतः । मुक्तिं ब्रुवाणा अप्याहुर्भोगादेव च कर्मणाम् । क्षयं प्राहुः कुतश्चैतत्प्रसन्ने जगदीश्वरे ॥ ३,३.१५१ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३,३.१५२ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे । इति श्रुतिपुराणादिवचनेभ्योऽन्यथागतेः ॥ ३,३.१५३ ॥ न च पाशुपताद्युक्तशिवादीनामनुग्रहात् । नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ ॥ ३,३.१५४ ॥ सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः । एवं पुरुषशब्दश्च प्रयुक्तोऽब्धिशये हरौ ॥ ३,३.१५५ ॥ न तस्येशे कश्चन तस्य नाम महद्यशः । इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ ॥ ३,३.१५६ ॥ विश्वतः परमां नित्यं विश्वं नारायणं हरिम् । इति सर्वाधिकत्वोक्तया समोऽपि विनिवारितः । समाधिकस्य राहित्यान्नोपचारपुमानसौ ॥ ३,३.१५७ ॥ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ ३,३.१५८ ॥ मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः । अमृतेशानवचनात्सर्वस्येशानतोदिता ॥ ३,३.१५९ ॥ यदि सर्वत्वमुदितमुतेश इति तद्वृथा । उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् ॥ ३,३.१६० ॥ पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति । एतावानस्य महिमेति महिम्नो वचो हि तत् ॥ ३,३.१६१ ॥ सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् । इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च ॥ ३,३.१६२ ॥ उतामृतस्येश इति विधत्ते मुक्तिगेशताम् । अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः । तद्यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत् ॥ ३,३.१६३ ॥ यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३,३.१६४ ॥ सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः । इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते ॥ ३,३.१६५ ॥ नित्यनैमित्तिकं कर्म कुर्वन्नन्यत्परित्यजन् । मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् । विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् ॥ ३,३.१६६ ॥ विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः । नान्यः पन्था इति ह्येव निवारयति सादरम् ॥ ३,३.१६७ ॥ अन्यथोपासनमपि तमेवमितिवादिनी । निवारयत्यादरेण न प्रतीक इति प्रभुः ॥ ३,३.१६८ ॥ अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् ॥ ३,३.१६९ ॥ न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते । इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः । उपासीत हरिं नित्यं गुणैरेव स्वयोगतः ॥ ३,३.१७० ॥ ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः । गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे ॥ ३,३.१७१ ॥ अधिकारविशेषेण भक्तिज्ञानसुखादिभिः । विशेषो देवतादीनां मोक्षे चैव विशेषतः ॥ ३,३.१७२ ॥ न तावता विरोधोऽस्ति निर्दोषत्वात्समस्तशः । आभासत्वात्परेषां तदवराणां च सर्वशः ॥ ३,३.१७३ ॥ यतोऽवराणां सर्वेऽपि गुणाः सर्वाः क्रिया अपि । नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः । अतः सच्छिष्यवत्तेषां नैवेर्ष्यादिः कथञ्चन ॥ ३,३.१७४ ॥ न च संसारिदेवानां कालेयत्तापरे इमे । सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः ॥ ३,३.१७५ ॥ अनारब्धकार्ये भोगेन त्वितरे इति चोदितः । पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः ॥ ३,३.१७६ ॥ उषाः स्वाहा च पर्जन्यो मित्रोऽग्निर्वरुणो विधुः । प्रवहोऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः । उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः ॥ ३,३.१७७ ॥ सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः । शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् ॥ ३,३.१७८ ॥ सोमवच्छतरूपा तु प्रसूतिर्वह्निवद्विराट् । पर्जन्यवद्वारुणी च तथा सञ्ज्ञा च रोहिणी ॥ ३,३.१७९ ॥ धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता । मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ ॥ ३,३.१८० ॥ भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः । वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् ॥ ३,३.१८१ ॥ कामः सुपर्णी चोमावद्वीन्द्रो रुद्रवदीरितः । निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् ॥ ३,३.१८२ ॥ वैवस्वतो मनुश्चाश्विपश्चादन्ये ततोऽवराः । च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः । तद्वच्च विप्रराजन्यविशेषोऽत्रापि कश्चन ॥ ३,३.१८३ ॥ तद्वत्प्रियव्रतश्चापि तदन्याः शतदेवताः । पजर्न्यमित्रान्तराळे तदन्ये तु ततोऽवराः ॥ ३,३.१८४ ॥ एतेभ्योऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः । तत्समो नास्ति परमो हरिरेव नचापरः ॥ ३,३.१८५ ॥ संहितायां बृहत्यां तु स्वयं भगवतोदितम् । तदेतदखिलं प्राण आहङ्कारिक एव च । इन्द्रादनन्तरो दृष्टिरपि योग्यानुसारतः ॥ ३,३.१८६ ॥ सम्यग्गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् । श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित् ॥ ३,३.१८७ ॥ गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात्क्वचित् । विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता ॥ ३,३.१८८ ॥ समे विकल्प एव स्यात्पूर्वानुज्ञा च सर्वथा । तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते ॥ ३,३.१८९ ॥ गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती । देवता भगवान् विष्णुः सर्वेषामविशेषतः ॥ ३,३.१९० ॥ तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन । स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः । उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये ॥ ३,३.१९१ ॥ साधनेभ्योऽधिका भक्तिर्नैवान्यत्तादृशं क्वचित् । भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम् ॥ ३,३.१९२ ॥ स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च । अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी । तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः ॥ ३,३.१९३ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य तृतीयः पादः ॥ एवमुत्पन्ननिर्दोषभगवद्दर्शनात्सदा । अपेक्षितफलप्राप्तिरारब्धस्यानतिक्रमात् ॥ ३,४.१ ॥ देवर्षिमानुषादीनां तत्तज्जात्यनुसारतः । जैमिन्युक्तं मानुषाणां तद्विशेषाश्च केचन ॥ ३,४.२ ॥ सामान्यं भगवत्प्रोक्तं देवादीनां विशेषतः । बलवद्विरोधिसद्भावे जैमिन्याद्युक्तिरिष्यते ॥ ३,४.३ ॥ विकर्मलेपो नैवास्ति सम्यग्दृष्टिमतां क्वचित् । गुणहानिश्च नैवास्ति ब्रह्मणस्त्वविकर्मतः ॥ ३,४.४ ॥ देवानामपि न प्रायः कॢप्तस्य तु कथञ्चन । प्राप्तह्रासो भवेत्क्वापि महता तु विकर्मणा । तथापि तत्कॢप्तमेव तस्मान्न नियमोज्खितिः ॥ ३,४.५ ॥ चन्द्रसुग्रीवयोश्चैव स्वोच्चदारपरिग्रहात् । प्राप्तहानिरभून्नैव कॢप्तहानिः यथञ्चन ॥ ३,४.६ ॥ ह्रासोऽपि मानुषादीनामानन्दस्य विकर्मणा । भवेन्मुक्तौ विशेषेण स्वोच्चानामपराधतः ॥ ३,४.७ ॥ ज्ञानोत्तरस्य पापस्य चतुर्थेऽलेप उच्यते । अशुचित्वादिकं तस्य न भवेदिति तत्फलम् । अत्र ज्ञानफलस्यैव मुक्तेर्नियततोच्यते ॥ ३,४.८ ॥ प्रारब्धकर्मजस्यैव विषभक्षान्मृतेरिव । प्राप्तस्याप्यनिवर्त्यस्य किञ्चिद्भुक्तस्य संविदा । उपमर्द इह प्रोक्तो देवादीनां यथाक्रमम् ॥ ३,४.९ ॥ सर्वात्मना त्वभोगो हि प्रारब्धस्यैव कर्मणः । न ब्रह्मदर्शिनोऽपि स्यात्फलह्रासस्तु विद्यते ॥ ३,४.१० ॥ सर्वात्मना फलह्रासो यदि नारब्धकर्मणः । स्यात्काम्यविधिवैयर्थ्यमित्युक्तनियमो भवेत् । एवमद्यापि सम्प्रोक्तं तन्त्रभागवते स्फुटम् ॥ ३,४.११ ॥ तारतम्यं फले नो चेद्ब्रह्मादीनां कथं श्रुतिः । अवृजिनोऽकामहत इति मुक्तिं निगद्य च । आनन्दतारतम्यं च तेषां ब्रूयात्पृथक्पृथक् ॥ ३,४.१२ ॥ संसार एव चेदेतत्तारतम्यं न मुख्यतः । अकामहतशब्दार्थोऽवृजिनत्वं च नो भवेत् ॥ ३,४.१३ ॥ कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि । इति यल्लक्षणं मुक्तेः श्रुतिराह बलीयसी ॥ ३,४.१४ ॥ कामाहतिः कुतोऽन्यत्र प्राप्तकामस्य सा भवेत् । अप्रयत्नेन कामानामवाप्तिः सा यदा भवेत् । तदैवाकामहतता कुत एवान्यथा भवेत् ॥ ३,४.१५ ॥ चेतनस्य त्वसुप्तस्य कुत्र दृष्टा ह्यकामता । अव्यक्तिरेव कामानां न नाशो मोहसुप्तयोः ॥ ३,४.१६ ॥ यत्कामः स्वापमाप्नोति तदेवोत्थापितः कुतः । अवशोऽपि व्याहरति कुतः सुप्तावकामता ॥ ३,४.१७ ॥ सर्वकामानवाप्नोति ब्रह्मणा सह मुक्तिगः । पर्येति तत्र जक्षंश्च क्रीडन् रतिमवाप्नुवन् ॥ ३,४.१८ ॥ कामान्नी कामरूपी सन्निमान् लोकांश्च सञ्चरन् । आस्ते गायन् साम मुक्त इत्यादिश्रुतिसद्बलात् ॥ ३,४.१९ ॥ अकामः स्यात्कथं मुक्तः कामा येऽस्य हृदि श्रिताः । इत्यन्तःकरणस्थानां कामानां मोक्षमेव हि । आह श्रुतिर्हृदीत्येव न चेद्व्यर्थं विशेषणम् ॥ ३,४.२० ॥ हृद्येष तेषां श्रयणमिति पक्षो न भासते । मुक्तानां कामितामाह पृथक्छाखासु यच्छ्रुतिः ॥ ३,४.२१ ॥ अतोऽकामहतत्वं तु मुक्तानामेव मुख्यतः । मुख्यार्थस्य वृथा त्यागो मायिनामेव भूषणम् ॥ ३,४.२२ ॥ अपापत्वमदुःखत्वं चावृजिनत्वमिहोदितम् । अप्रियं वृजिनं दुःखमकं तोद इतीयर्ते ॥ ३,४.२३ ॥ तत्कारणत्वात्पापं वा वृजिनं नाम कथ्यते । इत्युक्तः स्वयमीशेन नामार्थः शब्दनिर्णये ॥ ३,४.२४ ॥ अपापत्वं च नैवास्ति यावत्संसारमस्य हि । आरब्धपापमस्त्येव दुःखं च ज्ञानिनोऽपि हि ॥ ३,४.२५ ॥ तस्मात्तस्मादकामत्वमिति चाश्रुतकल्पना । अकामहत इत्युक्तेः श्रुतहानिरपि स्फुटा ॥ ३,४.२६ ॥ कुत्रचित्कामिनः पुंसः कामाभावात्क्वचित्क्वचित् । इन्द्रादिसुखभोगोऽस्तीत्यनुभूतिर्हि कुप्यति ॥ ३,४.२७ ॥ तस्मादमुक्तसुखगं तारतम्यं पृथक्पृथक् । उक्त्वा यश्चेति मुक्तानां तारतम्यं सुखे श्रुतिः । आहेति पेशलं तच्च चशब्दादेव गम्यते ॥ ३,४.२८ ॥ राद्धः संसिद्ध इत्येव मुक्त एवावगम्यते । साधुना विष्णुना युक्तो मुक्तः साधुयुवा मतः ॥ ३,४.२९ ॥ यौवनं नित्यमेतस्य मुक्तस्येति युवा स च । फलमध्ययनस्याप्तं तेनाध्यायक ईरितः ॥ ३,४.३० ॥ निर्ह्रासानन्दसम्प्राप्त्या चाशिष्ट इति गीयते । स्थितस्यानन्यथा प्राप्तेर्दृढिष्ठ इति चोदितः ॥ ३,४.३१ ॥ बलिष्ठश्च स्वभावेन मुक्तो भवति केवलम् । तस्येयं पृथिवीत्यादि पूर्वभावव्यपेक्षया ॥ ३,४.३२ ॥ स एक इति संसारगतमुक्तवा सुखं पुनः । श्रोत्रियस्येति वदति मुक्ताच्छतगुणात्मताम् ॥ ३,४.३३ ॥ संसारगाच्च संसारगतस्यैव शताधिकम् । मुक्तान्मुक्तस्य युक्तं स्याच्छ्रुत्युक्तमभिवीक्षितः ॥ ३,४.३४ ॥ युक्तं च साधनाधिक्यात्साध्याधिक्यं सुरादिषु । नाधिक्यं यदि साध्ये स्यात्प्रयत्नः साधने कुतः ॥ ३,४.३५ ॥ यत्नश्च दृश्यते तेषां महानेव महात्मनाम् । यत्र साधनबाहुल्यं साध्यबाहुल्यमत्र च । दृष्टं नियमतो नो चेन्न यत्नं कुर्यरञ्जसा ॥ ३,४.३६ ॥ कृच्छ्रेण साधनादेव न मुक्तवदुदीर्यते । दशकल्पं तपश्चीर्णं रुद्रेण लवणार्णवे । त्यक्तवा सुखानि सर्वाणि क्लिष्टेन लवणाम्भसा ॥ ३,४.३७ ॥ शक्रेण वर्षकोटिश्च धूमः पीतोऽतिदुःखतः । वर्षायुतं च सूर्येण तपोऽवाक्छिरसा कृतम् ॥ ३,४.३८ ॥ सुदुःखेन सुखं त्यक्तवा धर्मेणाकाशशायिना । पीता मयीचयो वर्षसाहस्रमतिसादरम् ॥ ३,४.३९ ॥ अतिकृच्छ्रेण कुर्वन्ति यत्नं ब्रह्मविदोऽपि हि । इत्येतदखिलं मोक्षविशेषाभावतः कथम् ॥ ३,४.४० ॥ दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता । इति मोक्षविशेषश्च स्वयं भगवतोदितः ॥ ३,४.४१ ॥ तमेव यूयं भजतात्मवृत्तिभिर्मनोवचःकायगुणैः स्वकर्मभिः । अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धये ॥ ३,४.४२ ॥ अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ ३,४.४३ ॥ इत्यादीनि च वाक्यानि तारतम्यं विमुक्तिगम् । व्यक्तं वदन्ति तत्केन साम्यं मुक्तेषु गम्यते ॥ ३,४.४४ ॥ दुःखाद्यभावसाम्यं च साम्यवाक्यार्थ ईयते । भक्तयादिगुणसद्भावे ह्यतुल्यत्वं च भारते । उक्तं साधनवैशेष्यमपि सर्वत्र कथ्यते ॥ ३,४.४५ ॥ दुर्ज्ञेयं घोररूपस्य त्रैलोक्यध्वंसिनः प्रभोः । दैवतैर्मुनिभिः सिद्धैर्महायोगिभिरेव च ॥ ३,४.४६ ॥ नित्ययुक्तैर्महाभागैर्विमुक्तक्लेशसाध्वसैः । महोत्साहैर्महाधैर्यैः सत्त्वस्थैर्व्यवसायिभिः ॥ ३,४.४७ ॥ अतीतानागतज्ञानप्रभवाप्ययवेदिभिः । शौचस्वाध्यायसन्तोषतपस्सत्यदयान्वितैः ॥ ३,४.४८ ॥ किमु मर्त्यैर्भयभ्रान्तिध्वंसमोहरुजान्वितैः । अल्पायुर्वीर्यधीसत्त्वव्यवसायश्रुतिव्रतैः ॥ ३,४.४९ ॥ कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति । ब्रह्मैव किञ्चिज्जानाति न तदन्यो हि कश्चन ॥ ३,४.५० ॥ मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥ ३,४.५१ ॥ इयं विसृष्टिर्यत आ बभूव यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् त्सो अङ्ग वेद यदि वा न वेद ॥ ३,४.५२ ॥ यः स्वात्ममायाविभवं स्वयं गतो नाहं नभस्वांस्तमथापरे कुतः । ब्रह्मापि यं वेत्ति नैवेह सम्यगन्ये कुतो देवमुनीन्द्रमर्त्याः ॥ ३,४.५३ ॥ नमस्तेऽमिततत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च सत्काष्ठां नाहं वेदापरे कुतः ॥ ३,४.५४ ॥ नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसङ्गाः । यन्मायया मुषितचेतस ईशदैत्यमर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ ३,४.५५ ॥ अहं महेन्द्रो निरृतिः प्रचेताः सोमोऽग्निरीशः पवनोऽर्को विरिञ्चः । आदित्यविश्वे वसवोऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ ३,४.५६ ॥ अन्ये च ये विश्वसृजोऽमरेशा भृग्वादयोऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टृमायाः सत्त्वप्रधाना अपि किं ततोऽन्ये ॥ ३,४.५७ ॥ सवर्स्यादौ स्मृतो ब्रह्मा तस्माद्देवादनन्तरः । जानाति देवप्रवरं भूयश्चातोऽधिकं नृप ॥ ३,४.५८ ॥ न त्वामतिशयिष्यन्ति मुक्तावपि कथञ्चन । मद्भक्तियोगाज्ज्ञानाच्च सर्वानतिशयिष्यसि ॥ ३,४.५९ ॥ यथा भक्तिविशेषोऽत्र दृश्यते पुरुषोत्तमे । तथा मुक्तिविशेषोऽपि ज्ञानिनां लिङ्गभेदने ॥ ३,४.६० ॥ सायुज्यं समनुप्राप्ता अपि देवादयोऽखिलाः । तारतम्याद्धि तिष्ठन्ति तारतम्यं हि साधने ॥ ३,४.६१ ॥ मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३,४.६२ ॥ य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ३,४.६३ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ३,४.६४ ॥ अध्येष्यते च य इमं धर्म्यं संवादमावयोः । ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ३,४.६५ ॥ श्रद्धावाननसूयुश्च शृणुयादपि यो नरः । सोऽपि मुक्तः शुभान् लोकान् प्राप्नुयात्पुण्यकर्मणाम् ॥ ३,४.६६ ॥ ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्खयेन योगेन कर्मयोगेन चापरे ॥ ३,४.६७ ॥ अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ ३,४.६८ ॥ सुसूक्ष्मैरप्यशेषैश्च विशेषैः सह पश्यति । स्वात्मानं भगवान् विष्णुः सर्वरूपोऽपि सर्वदा ॥ ३,४.६९ ॥ सवर्त्र चान्यदप्येवं तेनादृष्टं न हि क्वचित् । सर्वत्र सर्वदैवेशं पश्यत्येव रमापि तु ॥ ३,४.७० ॥ नतु सर्वैर्विशेषैस्तं पश्यन्त्यप्यन्यतोऽधिकम् । स्वात्मानमन्यच्चाशेषं पश्यत्येव हि सर्वदा ॥ ३,४.७१ ॥ ब्रह्मा तु सर्वगं पश्येद्गुणानप्यतोऽधिकम् । नतु सर्वेषु कालेषु तथा पश्यत्यमुक्तिगः ॥ ३,४.७२ ॥ मुक्तस्तु सर्वदा पश्येत्सर्वगत्वेन चापि तु । न रमावद्विशेषाणां दर्शनं शक्नुयात्क्वचित् ॥ ३,४.७३ ॥ स्वात्मानमन्यच्च सदा विशेषैरखिलैरपि । पश्यन्त्यञ्जस्तथा वाणी विशोषांस्तावतो नतु । त्रैगुण्यात्परतः पश्येद्व्याप्तं शतगुणं हरिम् ॥ ३,४.७४ ॥ गिरिशो गरुडश्चैव तमोमात्रगतं हरिम् । पश्येद्विशेषानपि हि वाणीदृष्टान्न पश्यति ॥ ३,४.७५ ॥ उमा सुपर्णी च महत्तत्त्वं यावत्प्रपश्यति । रुद्रदृष्टान् विशेषांश्च नैव पश्येत्कदाचन ॥ ३,४.७६ ॥ स्वरूपमन्यरूपं च मुक्ता देवाः समस्तशः । जानन्तीन्द्रश्च कामश्च ब्रह्म यावदहङ्कृतिः ॥ ३,४.७७ ॥ पश्यन्तो मनुदक्षाद्या बुद्धितत्त्वस्थितं हरिम् । पश्यन्ति सोमसूर्यौ तु मनस्थं परमेश्वरम् ॥ ३,४.७८ ॥ अन्ये भूतस्थितं विष्णुं देवाः पश्यन्ति सर्वदा । बहुसाहस्रवर्षेण महत्तत्त्वे क्वचित्क्वचित् ॥ ३,४.७९ ॥ अन्ये चैव यथायोग्यमण्डान्तर्वर्तिनं हरिम् । श्वेतद्वीपपतिं चैव हृद्येवान्ये तु केचन । कदाचिदेव तत्रापि केचित्पश्यन्ति केशवम् ॥ ३,४.८० ॥ उमा यावदनन्तांशान् पूर्वदृष्टेभ्य एव तु । विशेषान् वासुदेवस्य पश्चादुक्ता विचक्षते ॥ ३,४.८१ ॥ शक्रकामादयश्चैव विशेषान् ब्रह्मणि स्थितान् । उमादिभिः प्रबुद्धेभ्यः शतांशानेव चक्षते ॥ ३,४.८२ ॥ इत्यादिवेदस्मृतिगवचनेभ्यो यथार्थतः । तारतम्यं विमुक्तानां साधनानां च दृश्यते ॥ ३,४.८३ ॥ साध्यसाधनवैरूप्यमदृष्टं केन कल्प्यते । वैषम्यं निर्घृणत्वं च तेन स्यातां परस्य च । सापेक्षत्वादिति च तौ विद्याधीशेन वारितौ ॥ ३,४.८४ ॥ तारतम्यात्साधनानां साध्यतादृक्तवमीशतः । अवैषम्यादिहेतुः स्यात्सदैव परमेश्वरे ॥ ३,४.८५ ॥ स्वातन्त्र्ये विद्यमानेऽपि साधनादौ परेशितुः । अपेक्ष्यानादिवैचितृयं न दोष इति तद्वचः । नानादित्वादिति ह्युक्तमुपपद्यत इत्यपि ॥ ३,४.८६ ॥ अपेक्ष्योपायवैषम्यमुपेयस्य तथा स्थितिः । मया कया विरुद्धा स्याद्राजादावपि दृश्यते ॥ ३,४.८७ ॥ त्यागो दृष्टस्य चादृष्टकल्पनेति सुदुष्करौ । मायिभ्योऽन्येन केनापि तत्किमन्यैश्च वादिभिः ॥ ३,४.८८ ॥ मायिनोऽत्रानुगम्यन्ते श्रुतहान्यश्रुतग्रहौ । अप्यत्र मायिनां लिङ्गे तत्के दोषास्ततोऽधिकाः ॥ ३,४.८९ ॥ निश्शेषगतदोषाणां बहुभिर्जन्मभिः पुनः । स्यादापरोक्ष्यं हि हरेर्द्वेषेर्ष्यादिस्ततः कुतः ॥ ३,४.९० ॥ भवेयुर्यदि चेर्ष्याद्याः समेष्वपि कुतो न ते । तप्यमानाः समान् दृष्ट्वा द्वेषेर्ष्यादियुता अपि । दृश्यन्ते बहवो लोके दोषा एवात्र कारणम् ॥ ३,४.९१ ॥ यदि निर्दोषता तत्र किमाधिक्येन दूष्यते । यद्यन्यदर्शनाभावादीर्ष्यादिर्विनिवार्यते । अदर्शनादरत्यादिः कथं तेन निवार्यते ॥ ३,४.९२ ॥ ब्रह्मणोऽप्यरतिर्दृष्ट्वा पूर्वमेकाकिनः श्रुतौ । नैव रेमे स चैकाकी तसमान्न रमते क्वचित् । द्वितीयमैच्छत्तेनासाविति श्रुतय ऊदिरे ॥ ३,४.९३ ॥ यदीच्छा तत्र नैवास्तीत्येव तत्कल्प्यते मृषा । श्रुत्युक्तनिर्दोषतैव किं नाङ्गीक्रियते स्वयम् ॥ ३,४.९४ ॥ तारतम्यं च कामं च श्रुतमेवातिहाय तु । अश्रुता समता केन कल्प्यते युक्तिमानिना ॥ ३,४.९५ ॥ किं तन्मानं समत्वे ते मुक्तानामुपलभ्यते । वृथायमाग्रहः केन श्रुतहान्यश्रुतग्रहे ॥ ३,४.९६ ॥ मोक्षेऽपि तारतम्येतश्चेतनत्वात्पुरा यथा । इत्युक्त उत्तरं किं ते कल्पनामात्रवादिनः ॥ ३,४.९७ ॥ न च दुःखादिकं कल्प्यं निर्दुःखत्वश्रुतेर्बलात् । शोकं तरत्यात्मवेत्ता तीर्णः सर्वानदुःखभाक् ॥ ३,४.९८ ॥ येनानन्द्येव भवति न शोचति कदाचन । किल्बिषस्पृत्पितुषणिररं हित इहेश्वरः ॥ ३,४.९९ ॥ यं यमन्तमभिप्रेप्सुः स सङ्कल्पाद्भवेदिह । इत्यादिश्रुतयो मानं निर्दुःखत्वादिसम्पदि ॥ ३,४.१०० ॥ अतो दुःखाद्यनुमया नावकाशोऽत्र लभ्यते । तारतम्यानुमा तेन भवेन्नातिप्रसङ्गिनी ॥ ३,४.१०१ ॥ श्रुतियुक्तिबलादेवं तारतम्यं विभाव्यते । मुक्तावपि ततः केऽत्र विरोधं कर्तुमीशते ॥ ३,४.१०२ ॥ अनादियोग्यतां चैव कलिवाणीश्वरावधिम् । को निवारयितुं शक्तो युक्तयागमबलोद्धताम् ॥ ३,४.१०३ ॥ ब्रह्मणोऽन्यत्र आधिक्ययुक्तः कालो विवादवान् । कालो ह्ययं यथेत्यादि मानुमामानिनो भवेत् ॥ ३,४.१०४ ॥ अन्यशब्दो हरिश्रीस्वसमेभ्योऽन्यविवक्षया । प्रयुक्तो नैव दोषाय रुद्रादिषु च युक्तितः ॥ ३,४.१०५ ॥ उत्तमत्वं तु मुक्तानामपि न ब्रह्मणो भवेत् । व्यक्तिः सुखस्य तु भवेन्नत्वाधिक्यं सुखस्य च ॥ ३,४.१०६ ॥ बलज्ञानाधिकत्वं च तेभ्यो हि ब्रह्मणः सदा । आधिक्यस्य त्वनित्यत्वे न किञ्चिन्मानमीयते ॥ ३,४.१०७ ॥ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः । एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ ३,४.१०८ ॥ परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति । अनानुभूतीरवधून्वानः पूर्वीतिन्द्रः शरदस्तर्तरीति ॥ ३,४.१०९ ॥ दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः । अहन् दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥ ३,४.११० ॥ तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूभ्रूरित्येव प्रश्वसित्यभूतिरित्यसुरास्ते ह पराबभूवुः ॥ ३,४.१११ ॥ तद्यथा पेशस्करी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुत एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयितवान्यन्नवतरं कल्याणतरं रूपं कुरुते पितृयं पितृयं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ ३,४.११२ ॥ प्रयान्ति परमां सिद्धिमैहिकामुष्मिकीं द्रुतम् । या न प्राप्यासुरैः सर्वैरक्षया क्लेशवर्जिता । न तां गतिं प्रपद्यन्ते विना भागवतान्नरान् ॥ ३,४.११३ ॥ अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥ ३,४.११४ ॥ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः ॥ ३,४.११५ ॥ महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ॥ ३,४.११६ ॥ अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः । दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ ३,४.११७ ॥ अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् । दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥ ३,४.११८ ॥ तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता । भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ ३,४.११९ ॥ डम्भो दर्पोऽतिमाश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ ३,४.१२० ॥ मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ ३,४.१२१ ॥ आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ ३,४.१२२ ॥ द्विविधो भूतसर्गोऽत्र दैव आसुर एव च । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽसुरः ॥ ३,४.१२३ ॥ देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः । स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिः स्मृतिः ॥ ३,४.१२४ ॥ दैत्यानां बाहुषाळित्वं मात्सर्यं युद्धसत्क्रिया । नीतिशास्त्रप्रवेदित्वं शिवपूजारतिः स्मृतिः ॥ ३,४.१२५ ॥ वर्णाश्रमाचारवत्त्वं स्वाध्यायो भक्तिरच्युते । शिवे सूर्ये तथा देव्यां स्वभावो मानुषः स्मृतः ॥ ३,४.१२६ ॥ अनादिवैष्णवा एव देवतास्तु स्वभावतः । विपरीतास्ततो दैत्याः सदैवानादिकालतः ॥ ३,४.१२७ ॥ मानुषा मिश्रमतयो विमिश्रगतयोऽपि च । इत्यादिवाक्यसन्दर्भे ज्ञायतेऽनादियोग्यता ॥ ३,४.१२८ ॥ यद्यनादिर्विशेषो न साम्प्रतं कथमेव सः । अदृष्टादेव चादृष्टं स्वीकृतं सवर्वादिभिः ॥ ३,४.१२९ ॥ आकस्मिको विशेषश्चेददृष्टे क्वचिदिष्यते । सर्वत्राकस्मिकत्वं स्यान्नादृष्टापेक्षता भवेत् । अदृष्टाश्चेद्विशेषोऽयमनादित्वं कुतो न तत् ॥ ३,४.१३० ॥ नचान्यभेदवद्विष्णौ भेदस्तद्दर्शिनामपि । दृश्यते प्रत्यभिज्ञैव बहुरूपेषु दृश्यते ॥ ३,४.१३१ ॥ बहुत्वं च विशेषेण न भेदेन कथञ्चन । प्रत्यभिज्ञा च येषां न तेऽपि तन्मुष्यदृष्टयः ॥ ३,४.१३२ ॥ भेदं नैव प्रपश्यन्ति भेदमन्येभ्य एव च । पश्यन्त्येवं हरिस्तेषां सन्दर्शयति नान्यथा ॥ ३,४.१३३ ॥ एवं बृहत्संहितायां वचनं न पुराणगम् । लोकदर्शनवाद्येव वेदरोधाय शक्नुयात् ॥ ३,४.१३४ ॥ अपरीक्षितदृष्टिश्च परीक्षापूर्वदर्शनम् । निषेद्धुं शक्नुवाद्येव वेदरोधाय शक्नुयात् ॥ ३,४.१३५ ॥ न च निश्चितभेदस्य दर्शनेऽस्ति पुराणगम् । वाक्यं क्वचिद्धि सम्मुग्धदर्शनं तत्र गम्यते ॥ ३,४.१३६ ॥ अपरीक्षितमेवात्र वेधादिकमधीशितुः । परीक्षादर्शने नैव दृश्यते केनचित्क्वचित् ॥ ३,४.१३७ ॥ निर्दोषमेव तं ब्रह्मा ददर्शाशेषरूपिणम् । निर्दोषमेव रुद्रोऽद्राङ्निर्दोषं तं पुरन्दरः ॥ ३,४.१३८ ॥ निर्दोषाण्यस्य रूपाणि दृष्टान्येवं सुरोत्तमैः । अन्ये सदोषाः सर्वेऽपि निर्दोषो हरिरेकलः । इति बर्कुश्रुतेश्चैव सदोषं नास्य दर्शनम् ॥ ३,४.१३९ ॥ अविद्धो विद्धवद्विष्णुरजातो जातवन्मृषा । अबद्धो बद्धवच्चैव दर्शयत्यमितद्युतिः । इति पैङ्गिश्रुतिश्चैव प्राह निर्दोषतां हरेः ॥ ३,४.१४० ॥ अपरीक्षितदृष्टयैव सदोषो दृश्यते हरिः । परीक्षादर्शने नैव दृश्यो दोषो हरेः क्वचित् । इति पैङ्गिश्रुतिश्चाह प्रमाणं हि परीक्षितम् ॥ ३,४.१४१ ॥ न परीक्षानवस्था स्यात्साक्षिसिद्धे त्वसंशयात् । मानसे दर्शने दोषाः स्युर्नवै साक्षिदर्शने । सुदृढो निर्णयो यत्र ज्ञेयं तत्साक्षिदर्शनम् ॥ ३,४.१४२ ॥ इच्छा ज्ञानं सुखं दुःखभयाभयकृपादयः । साक्षिसिद्धा न कश्चिद्धि तत्र संशयवान् क्वचित् । यत्क्वचिद्व्यभिचारी स्याद्दर्शनं मानसं हि तत् ॥ ३,४.१४३ ॥ मनश्चक्षुर्दर्शनादेरपि यत्रैव साक्षिणा । प्रामाण्यं सुगृहीतं स्यात्तत्परीक्षितदर्शनम् ॥ ३,४.१४४ ॥ न ज्ञानदृष्टिमात्रेण प्रामाण्यं तस्य दृश्यते । नियमेन सुखाद्येषु प्रामाण्यं साक्षिगोचरम् ॥ ३,४.१४५ ॥ स्वप्रामाण्यं सदा साक्षी पश्यत्येव सुनिश्चयात् । ज्ञानस्य ग्राहकेणैव साक्षिणा मानतामितेः ॥ ३,४.१४६ ॥ दोषाभावे प्रमाणत्वं दोषाभावस्य साक्षिणा । निश्चितत्वं क्वचिच्चैव स्वतः प्रामाण्यमिष्यते ॥ ३,४.१४७ ॥ अतो न सर्वमानानां प्रामाण्यं निश्चितं भवेत् । साक्षिणा निश्चितं यत्र तत्प्रामाण्यस्वलक्षणम् ॥ ३,४.१४८ ॥ न हि कश्चित्सुखाद्येषु संशयं कुरुते जनः । नचैवाखिलमानानि निश्चिनोत्यखिलो जनः ॥ ३,४.१४९ ॥ तस्मादनुभवारूढं किमर्थमुपलप्यते । दोषाभावादिकं चैव साक्षी सम्यक्प्रपश्यति ॥ ३,४.१५० ॥ तत्परीक्षितमानेन न दोषो विष्णवि क्वचित् । अपरीक्षितदृष्टिस्तु कस्मिन्नर्थे न विद्यते ॥ ३,४.१५१ ॥ तत्प्रत्यक्षविरुद्धार्थे नागमस्यापि मानता । उपजीव्यमक्षजं यत्र तदन्यत्र विपर्ययः ॥ ३,४.१५२ ॥ लौकिके व्यवहारेऽत्र प्रत्यक्षस्योपजीव्यता । अवतारादिदष्टौ स्यादागमस्योपजीव्यता ॥ ३,४.१५३ ॥ आगमेन हि विष्णुत्वं ज्ञात्वा दोषोऽत्र कल्प्यते । न चेत्स्यात्दोषवानन्यः शास्त्रसिद्धं हि लक्षणम् ॥ ३,४.१५४ ॥ कस्यचिद्दोषवत्त्वं स्यादितिमात्रेऽक्षजं भवेत् । न विष्णोर्देषवत्त्वे हि प्रत्यक्षं वर्तते स्वतः ॥ ३,४.१५५ ॥ केचित्पश्यन्ति दोषानित्यत्रापि स्यान्नचाक्षजम् । पौराणं वाक्यमेवात्र तच्छ्रुत्यैव विरुद्धयते ॥ ३,४.१५६ ॥ पुराणस्योपजीव्यश्च वेद एव नचापरः । तद्विरोधे कथं मानं तत्तत्र च भविष्यति ॥ ३,४.१५७ ॥ अपरीक्षितदृष्टिश्च कथमेवाक्षजं भवेत् । यद्येवं देवदत्तादिभ्रमः किं नाक्षजं भवेत् ॥ ३,४.१५८ ॥ यावच्छक्ति परीक्षायामुपजीव्यस्य बाधने । दोषो नाशोधिते दोष उपजीव्यत्वमस्वलम् ॥ ३,४.१५९ ॥ भ्रमेऽप्यभ्रमभागोऽस्ति तन्मात्रमुपजीव्य हि । बाधकज्ञानवृत्तिः स्यान्नचैवं सुपरीक्षिते । सर्वं तदुपजीव्यैव प्रमाणं वर्तते यतः ॥ ३,४.१६० ॥ कथं ब्रह्मेति तज्ज्ञेयं सर्वज्ञत्वादिलक्षणम् । विहाय यस्मात्कस्माच्चित्स्वरूपस्यैव चेद्यदि ॥ ३,४.१६१ ॥ उपजीव्यत्वमेतस्माद्व्यावृत्तं यावता भवेत् । तावतैवोपजीव्यत्वं स्वरपस्यैव न क्वचित् ॥ ३,४.१६२ ॥ सर्वलक्षणयुक्तं तु स्वरूपं यदि भण्यते । अस्तु नो नैव हानिः स्यात्स्वपक्षश्चायमञ्जसा ॥ ३,४.१६३ ॥ यस्मादन्वित एवार्थः शब्दानामपि सर्वशः । विशेषसामन्यतया स्वरूपमखिलं भवेत् ॥ ३,४.१६४ ॥ पुरोवर्तित्वपूर्वाणि देवदत्तादिकभ्रमे । व्यावर्तयन्ति तद्रूपं चैत्रमात्रद्विनैव हि ॥ ३,४.१६५ ॥ ब्रह्मणो निर्विशेषत्वाद्व्यावर्तयति किं पुनः । यस्मात्कस्माच्चिदप्यर्थात्तावच्चेत्सिद्धसाधनम् ॥ ३,४.१६६ ॥ चिन्मात्रत्वं च नैवेष्यमविशेषत्ववादिनः । तावन्मात्रं यदीष्यं स्यात्सर्वज्ञत्वं कुतो न तत् ॥ ३,४.१६७ ॥ चिन्मात्राभेदसाध्येऽपि सिद्धं तत्प्रतिवादिनः । स्वाभेदाङ्गीकृतेरेव चित्त्वं स्वस्यापि यन्मतम् ॥ ३,४.१६८ ॥ सर्वापेक्षतया सर्वज्ञत्वमित्येव तन्नहि । इति चेच्चेतनत्वं च ज्ञत्वं न ज्ञेयवर्जितम् ॥ ३,४.१६९ ॥ स्वज्ञेयत्वं च नैवासौ मन्यते सविशेषतः । स्वशब्दोऽपि परापेक्षस्तस्माद्व्यावृत्तिरेव हि । स्वशब्दार्थ इति प्रोक्तः स्वरूपं नाम किं न चेत् ॥ ३,४.१७० ॥ रूपशब्देन पूर्णत्वात्तच्च सामान्यतावचः । न स्वरूपाभिधायि स्याद्वैयर्थ्यं स्वरवस्य यत् ॥ ३,४.१७१ ॥ चेतनस्य स्वभावो हि चैतन्यमिति गीयते । तस्माद्विशेषबाहुल्यं चैतन्यस्य विशेषतः ॥ ३,४.१७२ ॥ न ज्ञेयज्ञातृहीनं हि ज्ञानं नाम क्वचिद्भवेत् । ज्ञेयज्ञानविहीनश्च ज्ञ इत्यत्र च न प्रमा ॥ ३,४.१७३ ॥ ज्ञातृज्ञेयविहीनं च ज्ञानं चेद्भोक्तृभोज्यतः । हीनं भोजनमेव स्यात्ताडनं कर्तृताड्यतः ॥ ३,४.१७४ ॥ नित्यत्वात्तादृशं च स्यादिति चेन्नित्यवागपि । वाच्यवक्तृविहीना स्यान्नहि सा चैव तादृशी ॥ ३,४.१७५ ॥ द्रष्टारो वेदवाचो हि सन्ति वाच्यानि चाञ्जसा । नित्यो द्रष्टा च वाच्यश्च भगवानेव च स्वयम् ॥ ३,४.१७६ ॥ न हि वक्तृविहीना च वाच्यहीनापि वाक्क्वचित् । ज्ञातृज्ञेयविहीनं च ज्ञानमेवं न तद्भवेत् ॥ ३,४.१७७ ॥ न हि नित्योऽपि वक्तास्ति वाक्यवाच्यविवर्जितः । ज्ञानज्ञेयविहीनश्च ज्ञोऽप्येवं नैव विद्यते ॥ ३,४.१७८ ॥ किञ्च सर्वविलोपश्च केन मानेन गम्यते । सर्वेण सह तद्वाक्यामर्थश्च यदि गृह्यते । तदभावेन सर्वस्य नापलापो भवेत्तदा ॥ ३,४.१७९ ॥ न गृह्यते चेद्तन्न्यायादपलापो न हि क्वचित् । उपपत्तिविहीनस्य वाक्यस्यार्थो न गम्यते ॥ ३,४.१८० ॥ उपक्रमादिलिङ्गानां बलीयो ह्युत्तरोत्तरम् । श्रुत्यादौ पूर्वपूर्वं च ब्रह्मतर्कविनिर्णयात् ॥ ३,४.१८१ ॥ प्रत्यक्षमुपपत्तिश्च बहवश्चागमा यदा । विरुद्धयन्ते नचार्थोऽस्ति यत्र लिङ्गविरोधिता ॥ ३,४.१८२ ॥ स एवार्थः कथं ग्राह्य उपपन्नेऽविरोधिनी । मुख्यार्थे विद्यमाने तु क्व सावर्ज्ञ्यं निषिद्धयते ॥ ३,४.१८३ ॥ अतः सर्वगुणैर्युक्तं ब्रह्माङ्गीकायर्मेव हि । अपलापोऽपि सर्वस्य न कथञ्चन युज्यते ॥ ३,४.१८४ ॥ अनादियोग्यता चोक्ता तेन ग्राह्यैव सर्वथा । मुक्तानां तारतम्यं च मानैरुक्तैर्न चाल्यते ॥ ३,४.१८५ ॥ ज्ञानिनोऽपि यतो नित्यं कुर्वन्ति शुभमेव हि । तारतम्यं तु मुक्तौ च तेनैवाध्यवसीयते ॥ ३,४.१८६ ॥ तारतम्यं न चेन्मुक्तौ कुतः कुर्युः शुभं पुनः । कृच्छ्रेणापि तपो ज्ञानं कर्माप्येते चरन्ति हि ॥ ३,४.१८७ ॥ बिभ्यति स्माशुभान्नित्यं सकामाश्च शुभे सदा । न च स्वभाव एवायं भयपूर्वप्रवृत्तितः । कृच्छ्रेणाचरणाच्चैव शुभस्यैव पुनः पुनः ॥ ३,४.१८८ ॥ तादृशोऽपि स्वभावश्चेदज्ञस्यापि भवेत्तथा । फलवत्त्वे प्रमाणं चेत्तत्र ज्ञस्य समं हि तत् ॥ ३,४.१८९ ॥ निष्कामं ज्ञानपूर्वं च निवृत्तमिह चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥ ३,४.१९० ॥ शुभेनानन्दवृद्धि स्याद्घ्रासश्चैवाशुभेन हि । ज्ञानिनोऽपि यतस्तेन कर्तव्यं शुभमेव तैः ॥ ३,४.१९१ ॥ उपास्ते स य आत्मानं क्षीयते नास्य कर्म ह । अस्माद्धयेवात्मनो यद्यत्कामयेत्सृजते च तत् ॥ ३,४.१९२ ॥ अविद्वान् बहुकर्मापि ह्यन्तवत्फलमाप्नुयात् । यदेव विद्यया कुर्यात्तदेव ह्यतिवीर्यवत् । इत्यादिवाक्यसामर्थ्यात्तारतम्यं विमुक्तिगम् ॥ ३,४.१९३ ॥ नचात्रोपासकस्यैव फलमक्षयमुच्यते । न हि ज्ञानं विना क्वापि फलस्याक्षयता भवेत् । ज्ञानद्वारेण चेत्तस्य नास्मत्पक्षप्रतीपता ॥ ३,४.१९४ ॥ ज्ञानोत्तरस्यैवमपि ह्यक्षयत्वं नचान्यथा । पूर्वभाविशुभानां हि ज्ञानेनैव कृतार्थता ॥ ३,४.१९५ ॥ प्रारब्धानां तु भोगेन तज्ज्ञानोत्तरकर्मणाम् । मुक्तावनुप्रवेशः स्यादन्यथा तत्कृतिर्नहि ॥ ३,४.१९६ ॥ ज्ञानात्पूर्वाणि सर्वाणि शुभानि ज्ञानसिद्धये । अकाम्यानि निषिद्धानि ज्ञानरोधाय भुक्तये ॥ ३,४.१९७ ॥ योग्यताया बलाद्यच्च शुभबाहुल्यमादितः । ज्ञानबाहुल्यमेवैतत्कुर्यान्नान्यस्य कारणम् ॥ ३,४.१९८ ॥ ज्ञानस्य भक्तिभागत्वाद्भक्तिर्ज्ञानमितीर्यते । ज्ञानस्यैव विशेषो यद्भक्तिरित्यभिधीयते ॥ ३,४.१९९ ॥ परोक्षत्वापरोक्षत्वे विशेषौ ज्ञानगौ यथा । स्नेहयोगोऽपि तद्वत्स्याद्विशेषो ज्ञानगोचरः ॥ ३,४.२०० ॥ इत्याभिप्रायतः प्रायो ज्ञानमेव विमुक्तये । वदन्ति श्रुतयः सोऽयं विशेषोऽपि ह्युदीर्यते ॥ ३,४.२०१ ॥ भक्तिर्ज्ञानमिति क्वापि न हि द्वेषयुता दृशिः । पुरुषार्थाय भवति सर्वश्रुतिविरोधतः ॥ ३,४.२०२ ॥ चेतनस्य द्वयं भोग्यं संसारो मुक्तिरेव च । संसारस्त्रिविधस्तत्र स्वर्गो मध्यमधस्तथा ॥ ३,४.२०३ ॥ मुक्तिश्च द्विविधा तत्र सुखं नित्यं तथापरम् । नित्यदुःखमिति ज्ञेयं साधनं संसृतावपि । काम्यं कर्म निषिद्धं च साज्ञानमिति निश्चयः ॥ ३,४.२०४ ॥ द्वेषो भक्तिश्च मुक्तौ तु मुक्तिद्वयविधायकम् । इति पैङ्गिश्रुतेर्द्वेषो नैव सन्मुक्तिकारणम् ॥ ३,४.२०५ ॥ असन्मुक्तेः कारणं च मुक्तावित्यत्र केशवः । मुक्तिशब्दोदितो मोक्षं स्वभक्तानां करोति यत् ॥ ३,४.२०६ ॥ द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनम् । भक्तया प्रसन्नतो देवान्मुक्तिरित्येव तद्गुणान् । वदन्ति श्रुतयः सर्वाः पुराणान्यागमा अपि ॥ ३,४.२०७ ॥ यदि द्वेषेण मुक्तिः स्याद्वक्तव्यो दोषसञ्चयः । स्मर्तव्यो भगवान्नित्यमित्यर्थेनैव हि क्वचित् । द्वेषादिव गुणानाह पुराणे क्रुद्धवाक्यवत् ॥ ३,४.२०८ ॥ यथा क्रुद्धः पिता पुत्रं मरेत्याक्षेपपूर्वकम् । प्रोक्तस्यान्यस्य कृत्यर्थं वदत्येवं पुराणगम् ॥ ३,४.२०९ ॥ वाक्यं श्रुतिविरोधेन स्वविरोधेन चाञ्जसा । बह्वागमविरोधाच्च न द्वेषान्मुक्तिवाचकम् ॥ ३,४.२१० ॥ तमो द्वेषेण संयान्ति भक्तया मुक्तिं तथैव च । विष्णौ विष्णुप्रसादेन विलोमत्वेन चाञ्जसा । इति षाड्गुण्यवचनमप्युक्तार्थनियामकम् ॥ ३,४.२११ ॥ महातात्पर्यरोधे च कथं वाक्यं प्रमाणताम् । याति सर्वार्थरूपं हि महातात्पर्यमिष्यते ॥ ३,४.२१२ ॥ वाचकत्वं हि तात्पर्यं यदर्था अखिला रवाः । सोऽर्थः कथं परित्याज्य एकशब्दस्य संशये । अतो विज्ञानभक्तिभ्यां पुरुषार्थः परो भवेत् ॥ ३,४.२१३ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ३,४.२१४ ॥ भक्त्या ज्ञानं ततो भक्तिस्ततो दृष्टिस्ततश्च सा । ततो मुक्तिस्ततो भक्तिः सैव स्यात्सुखरूपिणी ॥ ३,४.२१५॥ भक्तया प्रसन्नो भगवान् दद्याज्ज्ञानमनाकुलम् । तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥ ३,४.२१६ ॥ नाहं वेदैर्न तपसा न दानेन नचेज्यया । शक्य एवंविधो द्रष्टुं प्रदद्यान्मुक्तिमेतया ॥ ३,४.२१७ ॥ भक्तया त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्युं च परन्तप ॥ ३,४.२१८ ॥ इत्यादिवाक्यतश्चैव सोऽयमुक्तार्थ ईयते । न च प्रसादमाप्नोति द्वेषाद्भक्त्या तमाप्नुयात् । इति दृष्टानुसारित्वमप्यस्मिन्नर्थ ईयते ॥ ३,४.२१९ ॥ ये पृथग्विहिता विष्णोर्गुणा वेदेन सादरम् । त एव दृष्टवैलोम्यादङ्गीकार्या नचापरम् ॥ ३,४.२२० ॥ अन्यद्दृष्टानुसारेण वासुदेवेऽपि गृह्यते । दोषाभावाश्च ये वेदैरुदिता अविहाय तान् ॥ ३,४.२२१ ॥ अनुक्ता अपिच ग्राह्या महातात्पर्यशक्तितः । एवं बृहत्संहितावाक्सिद्धान्तो हि तदीरितः ॥ ३,४.२२२ ॥ तारतम्येन तद्भक्तेष्वपि भक्तिर्विनिश्चयात् । कर्तव्यैषापि तद्भक्तिर्लोकवेदानुसारतः ॥ ३,४.२२३ ॥ यो हि भक्तः प्रधाने स्यात्तदीयेष्वपि भक्तिमान् । दृश्यतेऽसौ नियमतो विपरीतो विपर्यये ॥ ३,४.२२४ ॥ व्यभिचारो यदि क्वापि भक्तिह्रासोऽत्र कल्प्यते । भक्तिदोषो ह्यसौ यन्न तद्भक्तेष्वपि भक्तिमान् ॥ ३,४.२२५ ॥ तारतम्येन तेष्वद्धा भक्तिर्दृष्टानुसारतः । विष्णुप्रसादानुसारात्कार्या दोषस्तदन्यथा ॥ ३,४.२२६ ॥ स्वप्रीत्यनुसृतौ प्रीतिर्लोकेऽप्यद्धैव दृश्यते । तारतम्यपरिज्ञानमप्येतेनैव साधनम् ॥ ३,४.२२७ ॥ लक्ष्मीविरिञ्चवाणीशगिरिजेन्द्राङ्गिरस्सुताः । सूर्यादयश्च क्रमशो भगवत्प्रीतिगोचराः ॥ ३,४.२२८ ॥ तेषु भक्तिः क्रमेणैव कार्या नित्यं मुमुक्षुभिः । सर्वेऽपि गुरवश्चैते पुरुषस्य सदैव हि ॥ ३,४.२२९ ॥ तस्मात्पूज्याश्च नम्याश्च ध्येयाश्च परितो हरिम् । इति षाड्गुण्यवचनादप्येषोऽर्थोऽवसीयते ॥ ३,४.२३० ॥ हरिभक्तिः क्रमेणैव तदीयेषु हरिस्मृतिः । हरिस्तुतिस्तत्स्मृतिश्च तत्स्तुतिर्हरिपूजनम् ॥ ३,४.२३१ ॥ तत्पूजाविहितत्याग इति मुक्तेः क्रमेण हि । नियमात्साधनान्येव नित्यसाध्यानि चाखिलैः ॥ ३,४.२३२ ॥ इति प्रवृत्तवचनं साधनस्य विनिर्णये । प्रवृत्ते पञ्चरात्रे हि साधनस्यातिनिश्चयः ॥ ३,४.२३३ ॥ हरिद्वेषो न शुभद ॑सद्द्वेषत्वाद्यथा गुरोः । क्रमाद्भक्तिर्हरिप्रीतिकारणं तत्प्रियौपगा । भक्तिर्यतो यथा स्वस्मिन्नित्याद्या युक्तिरत्र च ॥ ३,४.२३४ ॥ प्राधान्यतारतम्यानुसारिणी भक्तिरुत्तमा । प्रीतिदैव हरेर्यस्माद्भक्तिः सा स्वोपगा यथा ॥ ३,४.२३५ ॥ इति वा ज्ञानकर्मादिफलं चैषु क्रमोपगम् । स्वातन्त्र्यतारतम्येन फलं हि फलिनां भवेत् ॥ ३,४.२३६ ॥ अशुभं त्वशुभेऽप्येषां स्वातन्त्र्यात्प्रीतितो हरेः । आज्ञया चान्यगं नैव भोगाय भवति क्वचित् ॥ ३,४.२३७ ॥ पुण्यमेवामुमापानोति न देवान् पापमाप्नुयात् । इत्यादिश्रुतयो मानमुक्तेऽर्थे युक्तयोऽपराः ॥ ३,४.२३८ ॥ उपासनाधर्मफलं यतो देहान्तरे स्थितिः । वासुदेवाज्ञया चैव पूर्वकर्मानुसारतः ॥ ३,४.२३९ ॥ प्रेरयन्ति हि ते जीवान् पुण्यपापेषु नित्यशः । अरागद्वेषतश्चैव कथं दोषानवाप्नुयुः ॥ ३,४.२४० ॥ हर्याज्ञाकरणादेव पुण्यमेभिरवाप्यते । हरिपूजेति चोद्देशात्कथं न शुभमाप्नुयुः ॥ ३,४.२४१ ॥ अतो यथाक्रमं धर्मज्ञानयोः फलमञ्जसा । सर्वप्राणिगतं देवाः प्राप्नुवन्त्या विरिञ्चतः ॥ ३,४.२४२ ॥ देवा एव हि देवानां विशिष्टा विनियामकाः । ब्रह्मा त्वखिलदेवानां नराणां च नियामकः । अतः सर्वगुणानेष प्रापनोत्यधिकमन्यतः ॥ ३,४.२४३ ॥ द्रव्यस्वातन्त्र्यविज्ञानप्रयत्नैरधिकं फलम् । देवानामन्यगं चापि तेषु यद्ब्रह्मणो हि तत् ॥ ३,४.२४४ ॥ बृहत्तन्त्रोदितं वाक्यं हरिणा फलनिर्णये । लोकेऽप्येतादृशगुणैः फलाधिक्यं हि दृश्यते ॥ ३,४.२४५ ॥ एवञ्च कलिपूर्वाणामसुराणां महत्फलम् । अशुभेषु सदैव स्यान्मिथ्याज्ञानादिकेषु हि ॥ ३,४.२४६ ॥ शुभाशुभफलं देवा असुराश्च समाप्नुयुः । क्रमेणैव यथाशक्ति यथा ये ये प्रयोजकाः ॥ ३,४.२४७ ॥ प्रेरका अपि पापानां न देवाः पापमाप्नुयुः । इति प्रकाशिकायां हि प्रोवाच हरिरञ्जसा ॥ ३,४.२४८ ॥ यद्यप्येवं सुराणां च दैत्यानां च महत्फलम् । शुभाशुभेभ्य एवञ्च कर्तुश्च स्याद्यथोदितम् ॥ ३,४.२४९ ॥ तस्मान्निरयमानुष्यस्वर्गमुक्त्युपभोगिनः । मानुषोत्तममारभ्य देवास्तु निरयं विना ॥ ३,४.२५० ॥ असुरास्तु विना मुक्तिं तमोऽन्धमपि चाप्नुयुः । इति तत्त्वविवेकोक्तं स्वयं भगवता वचः ॥ ३,४.२५१ ॥ ज्ञानदा अपिचाचार्या विशेषात्फलमाप्नुयुः । मुक्तावष्टगुणं शिष्याद्गुरुरापनोति शोभनम् ॥ ३,४.२५२ ॥ तद्गुरुर्द्विगुणं तस्मात्सार्धं तावत्ततोऽपरे । देवाः सहस्रगुणितं क्रमात्तस्माद्यथोत्तरम् ॥ ३,४.२५३ ॥ ब्रह्मा महौघगुणितमेवं फलविनिर्णयः । इत्याह भगवाञ्छास्त्रे गुरुवृत्ताभिधे स्वयम् । युक्तं च तन्न गोदाता गोमात्रफलमाप्नुयात् ॥ ३,४.२५४ ॥ य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ३,४.२५५ ॥ न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । भविता न च मे तस्मादन्यः प्रियतरो भुवि । इत्याह भगवानेवमपि पात्रमपेक्ष्यते ॥ ३,४.२५६ ॥ एवमेवाविरोधेन प्रारब्धस्यैव कर्मणः । ज्ञानं दृष्टफलं प्रोक्तं मुक्तिश्चेहैव लभ्यते ॥ ३,४.२५७ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयोऽध्यायः ॥ समन्वयाविरोधाभ्यां सिद्धे वस्तुनि साधने । विचारितेष्वशेषेषु साधनेषु विशेषतः ॥ ४,१.१ ॥ नित्यशः कार्यमत्यन्तमवश्यं भावि साधनम् । चिन्त्यते प्रथमं तत्र श्रवणादिसकृत्क्रिया ॥ ४,१.२ ॥ आवृत्तिर्वेति सन्देहे कर्तव्याऽवृत्तिरेव हि । उपदेशोऽतत्त्वमसीत्यादिर्ह्यसकृदेव यत् ॥ ४,१.३ ॥ लिङ्गाल्लातव्यतः पूर्वमृजोबर्रह्मत्वतः शतात् । शुश्रावोग्रतपा नाम योग्यो रुद्रपदस्य यः ॥ ४,१.४ ॥ सार्द्धं परार्द्धं विष्णोस्तु गुणान् भक्तया सदोद्यतः । तत्त्रिभागमुपासां च चक्रे सम्भृतमानसः ॥ ४,१.५ ॥ दशमन्वन्तरं शक्रपदयोग्यो गरुत्मतः । पदयोग्यात्सुमनसः सुनन्दो नाम चाशृणोत् । उपासां चक्र उद्युक्तो मन्वन्तरचतुष्ययम् ॥ ४,१.६ ॥ सूर्याचन्द्रमसोश्चैव पदयोग्यौ सुतेजसौ । सुरूपः शान्तरूपश्च मन्वन्तरचतुष्ययम् । अशृण्वतां सुमनसो मन्वन्तरमुपासताम् ॥ ४,१.७ ॥ ततः प्रोक्तास्तु ते सर्वे भक्तयोग्रतपआदयः । अपश्यन् परमं विष्णुं तत्प्रसादेधिताः सदा । इत्युक्तं विष्णुना साक्षाद्ग्रन्थे सत्तत्वसञ्ज्ञिते ॥ ४,१.८ ॥ आत्मेति नाम कथितं साक्षान्नारायणस्य हि । आत्मा ब्रह्म महांस्तारः परमेशः शुचिश्रवाः ॥ ४,१.९ ॥ विष्णुर्नारायणोऽनन्त इति श्रीपतिरीर्यते । इति पिङ्गश्रुतिश्चैव तथैव परमश्रुतिः ॥ ४,१.१० ॥ ओमात्मा भगवान् विष्णुरात्मानन्दोऽक्षरः स्वराट् । विश्वत्राता नृसिंहोऽजो नारायण उरुक्रमः ॥ ४,१.११ ॥ अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्मषान् । दत्तं दुर्वाससं सोममात्मेशब्रह्मसम्भवान् ॥ ४,१.१२ ॥ इति भागवते चैव तस्मादात्मा जनार्दनः । तस्मादुपास्यो विष्णुरिति ज्ञातव्यः सज्जनैः सदा ॥ ४,१.१३ ॥ तथैवोपासते सन्तस्तथैवोपदिशन्ति च । आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत् । स्वामी मे विष्णुरित्येव नित्यदोपास्यमञ्जसा ॥ ४,१.१४ ॥ स्वामी विष्णुरिति ध्यानं विशेषणविशेष्यतः । कर्तव्यं सर्वथैवैतन्न कथञ्चन विस्मरेत् ॥ ४,१.१५ ॥ इति सत्तत्त्ववचनं षाड्गुण्यवचनं परम् । मम स्वामी हरिर्नित्यं सर्वस्य पतिरेव च । इति ध्येयः सर्वदैव भगवान् विष्णुरव्ययः ॥ ४,१.१६ ॥ प्रतीकविषयत्वेन न कार्या विष्णुभावना । प्रतीकं नैव विष्णुर्यन्मिथ्योपासा ह्यनथर्दा ॥ ४,१.१७ ॥ योऽन्यथा सन्तमात्मेशमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ ४,१.१८ ॥ योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणेशापहारिणा ॥ ४,१.१९ ॥ योऽन्यथैव स्थितं विष्णुमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेण ब्रह्मचारिणा ॥ ४,१.२० ॥ स्वात्मानं प्रतिमां वापि देवतान्तरमेव वा । चेतनाचेतनं वान्यद्ध्यायेद्यः केशवस्त्विति । किं तेन न कृतं पापं चारेणेशापहारिणा ॥ ४,१.२१ ॥ योऽन्यद्विष्णुरिति ध्यायेज्जानीयाद्वा हरिं तथा । अन्धे तमसि मज्जेत्स यत्र नैवोत्थितिः क्वचित् ॥ ४,१.२२ ॥ योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा । अन्यथा ध्यानदोषेण महातमसि मज्जति ॥ ४,१.२३ ॥ योऽन्यद्विष्णुरिति ध्यायेद्विष्णुरन्यदिति स्म वा । महातमसि मग्नस्य तस्य नैवोत्थितिः क्वचित् ॥ ४,१.२४ ॥ यत्किञ्चिदन्यथा संस्थमन्यथा ध्यातमञ्जसा । ध्यातुर्महादोषकरं किमु सर्वेश्वरो हरिः ॥ ४,१.२५ ॥ यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा । महादोषकरं विष्णुः किमु सर्वेश्वरेश्वरः ॥ ४,१.२६ ॥ यत्किञ्चिदन्यथा संस्थमन्यथा ज्ञातमञ्जसा । अनर्थकारणं लोके किमु सर्वेश्वरेश्वरः ॥ ४,१.२७ ॥ न किञ्चिदन्यथा ज्ञेयं ध्येयं वा तेन कुत्रचित् । किमु सर्वोत्तमो विष्णुर्ज्ञेयो नीचतया क्वचित् ॥ ४,१.२८ ॥ तस्माद्वस्तु यथारूपं ज्ञेयं ध्येयं च सर्वदा । कारणं पुरुषार्थस्य नान्यथा भवति क्वचित् ॥ ४,१.२९ ॥ इति श्रुतिपुराणोक्तिबलतो न प्रतीकता । ध्येया विष्णोः क्वचिद्यस्मान्मिथ्याज्ञानमनर्थदम् ॥ ४,१.३० ॥ इत्यभिप्रेत्य न हि स इत्याह भगवान् प्रभुः । प्रतीकसंस्थितत्वेन ध्येयो विष्णुर्नचान्यथा ॥ ४,१.३१ ॥ ब्रह्मेति च सदा ध्येयो भगवान् विष्णुरञ्जसा । उत्कृष्टो ब्रह्मशब्दार्थः पूर्णत्वं ब्रह्मता यतः ॥ ४,१.३२ ॥ आधिव्याधिनिमित्तेन विक्षिप्तमनसोऽपि तु । ध्येयैव ब्रह्मता नित्यं विष्णोर्भक्तया निरन्तरम् । इति प्रकाशिकायां च वचनं विष्णुनेरितम् ॥ ४,१.३३ ॥ नात्मेति सूत्रमीशस्य जीवत्वप्रतिपादकम् । आत्मशब्दं यतो हेतुं कृत्वा जीवं न्यवारयत् । स्वशब्दात्प्राणभृच्चैव नोक्त इत्येव वेदराट् ॥ ४,१.३४ ॥ यद्यात्मशब्दो जीवेऽपि कथं स विनिवारयेत् । आत्मशब्दोदितस्तस्माद्विष्णुरेव नचापरः ॥ ४,१.३५ ॥ आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् । न वदन्ति यतो नाप्ता क्वापि तैर्गुणपूर्णता । नारायणाध्यात्मगतमिति यद्वैष्णवं वचः ॥ ४,१.३६ ॥ यदि जीवेशयोर्वेदपतिरैक्यं च मन्यते । आत्मशब्दं कथं तस्मान्निवारयति युक्तितः ॥ ४,१.३७ ॥ भेदस्य व्यपदेशं च स्थितिं चादनमेव च । भेददार्ढ्ये हेतुमाह सतात्पर्यं जगत्पतिः ॥ ४,१.३८ ॥ व्यावहारिकभेदश्चेत्क्वासावव्यावहारिकः । व्यावहारिकमित्येव वचनं व्यावहारिकम् ॥ ४,१.३९ ॥ उत नेति विकल्पे तु यदि स्याद्व्यावहारिकम् । तस्यापि बाध्यता चेत्स्याद्भेदः स्यात्पारमार्थिकः ॥ ४,१.४० ॥ अव्यावहारिकत्वं चेद्भेदोऽयं सत्यतां गतः । एकस्यासत्यतायां हि द्वयोरेव विरुद्धयोः । अन्यस्य सत्यतैव स्यादिति केन निवार्यते ॥ ४,१.४१ ॥ असत्यं नोक्तमित्युक्ते सत्यमुक्तमिति प्रजाः । जानन्त्युक्तं तु नो सत्यमित्युक्तेऽसत्यतामपि ॥ ४,१.४२ ॥ न स्वप्नेऽपि द्वयं मिथ्या तत्रैकं सत्यमेव हि । भावाभावावुभौ तत्र कथं मिथ्या भविष्यतः ॥ ४,१.४३ ॥ भावस्य हि निषेधे तु नाभावस्य निषेधनम् । स्ववाचोऽसत्यता चेत्स्यात्तस्माद्भेदस्य सत्यता ॥ ४,१.४४ ॥ तस्माज्जीवेशयोर्भेद उक्तन्यायेन गम्यते । एतस्मादात्मशब्दोऽयं परमात्माभिधा भवेत् ॥ ४,१.४५ ॥ प्रतीकविषयत्वेन विष्णुदृष्टिर्न तद्भवेत् । प्रतीके विष्णुरित्येव तस्मात्कार्या ह्युपासना ॥ ४,१.४६ ॥ न च विष्णुः प्रतीकं यत्तस्मान्नात्मेत्युपासना । इति पक्षो यदा ब्रह्मदृष्टिश्चात्र विरुद्धयते । स नेति युक्तिस्तत्रापि समेत्युक्तविरुद्धता ॥ ४,१.४७ ॥ यद्यप्युत्कर्षमात्रेण ह्यतद्भवेऽप्युपासना । उत्कर्ष आत्मनोऽपि स्याच्चेतनत्वादचेतनात् । तसमादतत्त्वं नोपास्यमिति वेदविदो मतम् ॥ ४,१.४८ ॥ उत्कर्षाद्ब्रह्मताध्याने यदि स्यात्फलमञ्जसा । ब्रह्मणो नीचताध्यानादनर्थः किं न जायते ॥ ४,१.४९ ॥ अचेतनस्य ब्रह्मत्वध्याने तुष्यिर्नहि क्वचित् । नीचस्य स्वात्मताध्याने कुप्यति ब्रह्म लोकवत् ॥ ४,१.५० ॥ चण्डालो नृप इत्युक्ते नृपश्चण्डाल इत्यपि । को विशेषः परिज्ञाते नृपेण स्यात्कथञ्चन ॥ ४,१.५१ ॥ पुरतो नरदेवस्य चण्डालो यदि पूज्यते । राजवत्किं न कोपः स्याद्राज्ञो लोके हि पश्यति ॥ ४,१.५२ ॥ राज्ञस्तु पुरतः प्रोक्ते चण्डालं नृप इत्यपि । आत्मानं स इति प्रोक्तमितिवद्धयेव कुप्यति ॥ ४,१.५३ ॥ अभेदे नैतयोर्ध्याने को विशेषो वचस्यपि । अयं राजा त्वमित्युक्ते चण्डालेऽथ नृपेऽपि च । चण्डाल इति तु प्रोक्ते सममेव हि दूषणम् ॥ ४,१.५४ ॥ ध्याते त्वेकस्य तद्भावे तद्भावोऽन्यस्य किं न तत् । नचैव तदविज्ञातं सर्वज्ञब्रह्मणा क्वचित् ॥ ४,१.५५ ॥ तस्मादपेशलं सर्वमन्यस्य ब्रह्मतावचः । तस्माद्यथोक्तमार्गेण ब्रह्मोपास्यं मुमुक्षुभिः ॥ ४,१.५६ ॥ तथोपास्याञ्जसा दृष्टं ब्रह्म पापं च भस्मसात् । करोति निखिलं पूर्वं पाश्चात्त्यस्याप्यसङ्गताम् । करोति तद्द्विषश्चैवं पुण्यनाशोऽप्यसङ्गता ॥ ४,१.५७ ॥ यदेव विद्ययेत्यत्र पूर्वोक्ताद्धि विशिष्टते । पूर्वं स्वर्गादिलब्ध्यर्थं वीर्यवत्त्वेन चोदितम् । कर्म विद्यायुतं पश्चान्मोक्षे वीर्यप्रदं त्विति ॥ ४,१.५८ ॥ ततो भोगेन पुण्यं च क्षपयित्वेतरत्तथा । ब्रह्मद्विड्ब्रह्मदर्शी च तमोमोक्षाववाप्नुतः ॥ ४,१.५९ ॥ ब्रह्माणं शतकालात्तु पूर्वमारब्धसङ्क्षयः । ब्रह्मणस्त्वेव तावत्त्वं पञ्चाशद्ब्रह्मणस्तथा । रुद्रस्य विंशदेव स्यादिन्द्रस्यार्कादिके दश ॥ ४,१.६० ॥ अन्येषां ब्रह्ममात्रस्य त्वन्त आरब्धसङ्क्षयः । ब्रह्मणैव सहातश्च परं नारायणं व्रजेत् । इति सत्तत्त्ववचनं स्वयं भगवतोदितम् ॥ ४,१.६१ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थाध्यायस्य प्रथमः पादः ॥ देवानां च मनुष्याणामेतावत्सममेव हि । उत्क्रान्तिमार्गौ देवानां न प्रायेण भविष्यतः ॥ ४,२.१ ॥ कर्मक्षयसतथोत्क्रान्तिर्मार्गो भोगश्चतुष्ययम् । फलं मोक्ष इति प्रोक्तः क्रमात्पादेषु चोदितः ॥ ४,२.२ ॥ स्रष्टृष्वेव तु सृज्यानां प्रवेशो ब्रह्मणो लये । देवानां मार्ग उद्दिष्टो नार्चिरादिर्नचोत्क्रमः ॥ ४,२.३ ॥ स्रष्टुस्तु ग्रासभूतस्य देहस्तत्र लयं व्रजेत् । यतः सृज्यस्य देवस्य नैवोत्क्रान्तिस्ततो भवेत् ॥ ४,२.४ ॥ लयाच्चैवार्चिरादीनां लोकानामपि सर्वशः । कथं मार्गो भवेत्तेषां विशतामुत्तमं स्वतः ॥ ४,२.५ ॥ जातानां मानुषे लोके देवानां च कदाचन । उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यते ॥ ४,२.६ ॥ अन्येषामपि साक्षात्तु मुक्तिः प्राप्यापि तं हरिम् । सहैव ब्रह्मणा भूयादिति शास्त्रस्य निर्णयः ॥ ४,२.७ ॥ क्ष्माम्भोनलानिलवियन्मनैन्द्रियार्थभूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥ ४,२.८ ॥ एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥ ४,२.९ ॥ भगवन्तमनुप्राप्ता अपि तु ब्रह्मणा सह । परमं मोक्षमायान्ति लिङ्गभङ्गेन योगिनः ॥ ४,२.१० ॥ प्राप्ता अपि परं देवं सहैव ब्रह्मणा पुनः । आनन्दव्यक्तियायान्ति पूर्णां लिङ्गस्य भङ्गतः ॥ ४,२.११ ॥ इति श्रुतिपुराणोक्तिबलाद्विज्ञायते च तत् । भोगस्तु सर्वदेवानां नरादीनां च विद्यते ॥ ४,२.१२ ॥ तत्र प्रवेशो देवानामुत्तरोत्तरतः क्रमात् । उच्यते देहगानां च वृत्तीनामेवमेव तु ॥ ४,२.१३ ॥ तत्र मोक्षस्वरूपं तु वादिनः प्रतिभाश्रयात् । नाना वदन्ति पुंसां हि मतयो गुणभेदतः । पृथक्पृथक्प्रजायन्ते तमसैवान्यथामतिः ॥ ४,२.१४ ॥ रजसा मिश्रबुद्धित्वं सत्त्वेनैव यथा मतिः । गुणातीता विमुक्तानां मतिः शुद्धचितिर्यतः ॥ ४,२.१५ ॥ साम्यगेवाथ नित्या च तत्तन्माहात्म्ययोगतः । बहळा चातिविशदा स्पष्टा चैव श्रियो मतिः ॥ ४,२.१६ ॥ महाशुद्धचितित्वेन ततोऽप्यतिमहाचितिः । अशेषोरुविशेषाणामतिस्पष्टतया दृशिः । नित्यमेकप्रकारा च नारायणमतिः परा ॥ ४,२.१७ ॥ सूर्यप्रभावदखिलं भासयन्ति निरन्तरा । निर्लेपा वीतदोषा च नित्यमेवाविकारिणी ॥ ४,२.१८ ॥ विशेषांसतद्गतांस्त्यक्तवा प्रायस्तल्लक्षणा श्रियः । तथैव स्पष्टताभावात्तत्तन्त्रत्वाच्च केवलम् । न तादृशी ब्रह्मणस्तु प्राय एव श्रियो यथा ॥ ४,२.१९ ॥ मुक्तानां तु तदन्येषां समुद्रतरळोपमा । अग्निज्वालावदेव स्यात्स्मृतिगानां दृशो भवः ॥ ४,२.२० ॥ एवंविधेषु ज्ञानेषु तमसा मुष्यदृष्टयः । खद्योतसदृशात्यल्पज्ञानत्वादन्यथादृशः । वदन्ति वादिनो मोक्षं नानामतसमाश्रयात् ॥ ४,२.२१ ॥ आश्रित्य प्रतिभामाह जिनस्तत्रातितामसीम् । ज्ञानात्कर्मक्षयान्मोक्षो भवेद्देहाख्यपञ्जरात् ॥ ४,२.२२ ॥ पञ्जरोन्मुक्तखगवदलाकाकाशगोचरः । नित्यमूर्ध्वं व्रजत्येव पुद्गलो हस्तपादवान् ॥ ४,२.२३ ॥ इति तत्केन मानेन मोक्षरूपं प्रदृश्यते । गतिरूर्ध्वा च दुःखेता गतित्वाल्लौकिकी यथा । इत्युक्ते चानुमानैकशरणस्य किमुत्तरम् ॥ ४,२.२४ ॥ अनूर्ध्वगतिता तत्र यद्युपाधिः खगस्य च । दूरोर्ध्वगमने दुःखमिति साध्यानुगो न सः ॥ ४,२.२५ ॥ प्रतिसाधनरूपस्य नानुमानस्य दूषणम् । उपाधिः प्रतिरूपं हि साधनं तन्नचापरम् ॥ ४,२.२६ ॥ अथापि सशरीरत्वं चात्रोपाधिर्न वै भवेत् । गतित्वं यत्र देहित्वमिति यत्साधनानुगम् ॥ ४,२.२७ ॥ आगमाननुसारित्वे प्रसङ्गोऽयं यतस्ततः । नापसिद्धान्तता दोषः प्रसङ्गे यदि सा भवेत् । तदैवातिप्रसङ्गः स्यान्न पसङ्गः क्वचिद्भवेत् ॥ ४,२.२८ ॥ लोकाकाशगतित्वं चेदुपाधिः साधनानुगः । सोऽपीत्युक्ते वदेत्किं स तस्माद्वेदोदितो भवेत् ॥ ४,२.२९ ॥ मोक्ष एवं स्वयं विष्णुर्यद्यपीशो ह्यशेषवित् । चकार सौगतमतं मोहायैव चकार यत् ॥ ४,२.३० ॥ असुराणामयोग्यानां वेदमार्गे प्रवर्तताम् । अतोऽसुराधिकारत्वान्न ग्राह्यं तन्मतं क्वचित् ॥ ४,२.३१ ॥ चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकलम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ॥ ४,२.३२ ॥ इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहितः । ते मोक्षं तादृशं ब्रूयुर्निश्शङ्कं मायिनो यथा ॥ ४,२.३३ ॥ न किञ्चिनमुक्तयवस्थायामात्मात्मीयमथापि वा । एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ॥ ४,२.३४ ॥ तत्संवृत्यैव भेदोऽयं चेतनाचेतनात्मकः । दृश्यते संवृतेर्ध्वंसे निर्विशेषैव शून्यता ॥ ४,२.३५ ॥ न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते । न सुखत्वं न दुःखत्वं न विशेषोऽपि कश्चन ॥ ४,२.३६ ॥ निर्विशेषं स्ययम्भातं निर्लेपमजरामरम् । शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ॥ ४,२.३७ ॥ अशेषदोषरहितं मनोवाचामगोचरम् । मोक्ष इत्युच्यतेऽसद्भिर्नानासंवृतिदूषितम् ॥ ४,२.३८ ॥ संसृत्यवस्थं विज्ञेयं संवृत्यैव विशेष्यते । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ॥ ४,२.३९ ॥ केचित्तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा । अवच्छिन्नं महाशून्यं नानानपुद्गलशब्दितम् ॥ ४,२.४० ॥ यस्य शून्यैकरसता ज्ञानात्सा त्वपगच्छति । स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ॥ ४,२.४१ ॥ संवृत्यान्यस्त्ववच्छिन्नो दुःखान्यनुभवत्यलम् । इत्येवं मायिनश्चाहुरेकजीवत्ववादिनः ॥ ४,२.४२ ॥ बहुजीवमताश्चेति माया तेषां तु संवृतिः । निर्विशेषत्ववाचैव शून्यं ब्रह्मैव नो भिदा ॥ ४,२.४३ ॥ सच्चित्सुखादिकं चैव किं कुतोऽखण्डवादिनः । व्यावर्त्यमात्रभेदस्तु विद्यते शून्यवादिनः ॥ ४,२.४४ ॥ अनृतादेरपोहं तु स्वयमेव हि मन्यते । निर्विशेषत्वतो नैव विशेषो ब्रह्मशून्ययोः ॥ ४,२.४५ ॥ प्रामाण्यादि च वेदस्य फलतः सममेव हि । अतत्त्वावेदकं यस्मात्प्रमाणं तेन कथ्यते । अतत्त्वावेदकत्वं यदप्रामाण्यं सतां मतम् ॥ ४,२.४६ ॥ दीर्घभ्रान्तिकरी चेत्स्यादतत्त्वावेदकप्रमा । रज्जुसर्पादिविज्ञानादप्याधिक्यादमानता । स्यादागमस्यानिवर्त्यमहामोहप्रदत्वतः ॥ ४,२.४७ ॥ तलनैल्यादिविज्ञानमाकाशे मानतांव्रजेत् । छत्राकारत्वविज्ञानंचन्द्रप्रादेशतामतिः ॥ ४,२.४८ ॥ निर्भेदत्वं तु शून्यस्य तेनाप्यङ्गीकृतं सदा । सत्त्वासत्त्वादिधर्माणामभाव उभयोर्मतः ॥ ४,२.४९ ॥ न हि सत्प्रतियोगित्वं शून्यत्वं तेन चेष्यते । न च दुःखविरोधित्वादन्या ह्यानन्दतेष्यते ॥ ४,२.५० ॥ मायिना शून्यपक्षेऽपि ज्ञानं जाड्यविरोधि च । धर्मस्तेऽपि न सन्त्येव को विशेषस्ततस्तयोः ॥ ४,२.५१ ॥ एतादृशानां पक्षाणां दूषणं प्रभुरा कृतम् । स्वपक्षसादनेनैव नाभाव इति चोक्तितः ॥ ४,२.५२ ॥ आत्माभावे पुमर्थः क इष्टस्यात्मावधिर्यतः । यदि नात्मावधिर्मोक्षो मोक्षः स्याद्घटशून्यता । कल्पितत्वाद्विशेषाणां मायिनोऽपि समं हि तत् ॥ ४,२.५३ ॥ दृश्यमाने विशेषेऽपि यदि चेदविशेषता । घटाभावोऽविशेषः स्यात्पाश्चात्यश्चेदनागतः ॥ ४,२.५४ ॥ न मोक्षो विमतो यस्माददेहो घटशून्यता । यथेत्युक्ते वदेत्किं स योऽनुमामात्रमानकः ॥ ४,२.५५ ॥ न च मायी वदेत्तत्र पूर्वोक्तेनैव वर्त्मना । अमानत्वाच्छ्रुतेस्तस्य नचादेहत्ववादिनी ॥ ४,२.५६ ॥ श्रुतिः काचिददेहत्वमप्राकृतशरीरगा । मोक्षे भोगं यतो ब्रूते जक्षन् क्रीडन्निति श्रुतिः ॥ ४,२.५७ ॥ निर्दुःखत्वान्न तन्मोक्षः प्रतिपन्नं यथेति च । अनुमादूषणं किं स्याद्वादिनोः शून्यमायिनोः ॥ ४,२.५८ ॥ दुःखं दुःखादभिन्नत्वान्मोक्षोऽपि स्यादसंशयम् । भेदे सद्वैततैव स्यादित्याद्यमितदोषतः । हेयं मायामतेनैव सह शून्यमतं बुधैः ॥ ४,२.५९ ॥ एवं विज्ञानवादोऽपि ज्ञानमात्रविशेषतः । तस्यापि भङ्गुरत्वादिविशेषमपहाय हि । अद्वैततामतं साक्षादुक्तदोषस्ततो भवेत् ॥ ४,२.६० ॥ कालो न केवलज्ञानी कालत्वात्प्रतिपन्नवत् । एतयानुमया रोधान्न तादृङ्मोक्षरूपता ॥ ४,२.६१ ॥ यदि कालोऽपि नेत्याह कदेति प्रश्न उत्तरम् । किं वक्ष्यति यदावस्थां वदेत्सा पक्षतां व्रजेत् ॥ ४,२.६२ ॥ अवस्थात्वादिति ह्येव हेतुः सापि कदेति च । पृष्टे कालश्च वक्तव्यो नाकालत्वं ततो भवेत् ॥ ४,२.६३ ॥ न काल इति सामान्यनिषेधे कालगप्रमा । निरुणद्धि वक्तव्यो नाकालत्वं ततो भवेत् ॥ ४,२.६४ ॥ एकजीवत्वपक्षे तु कालाभावादियं प्रमा । कुपिता कालमादाय द्वैतमेवोपपादयेत् ॥ ४,२.६५ ॥ विमतः प्रपञ्चवान् कालः कालत्वात्प्रतिपन्नवत् । इति चान्यानुमैकत्वं जीवस्य विनिवारयेत् ॥ ४,२.६६ ॥ कालशब्देश्वरैकत्वमतान्यप्येवमेव हि । निराकृतानि तेषां च समत्वात्पक्षदोषयोः ॥ ४,२.६७ ॥ ज्ञानं स्वरसभङ्गयेव नित्यसन्तामिष्यते । बौद्धाभ्यामपराभ्यां तु तत्राप्युक्तानुमा रिपुः ॥ ४,२.६८ ॥ मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः । प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम् ॥ ४,२.६९ ॥ अनुमानानि सर्वाणि प्रतिसाधनयोगतः । निषिद्धान्युक्तभङ्गयैव श्रुतयश्चास्मदुक्तिगाः ॥ ४,२.७० ॥ साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् । इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम् ॥ ४,२.७१ ॥ तत्राहुर्नैतदप्यत्र शोभनं श्रुतयो यतः । महानन्दं च भोगं च नियमेन वदन्ति हि ॥ ४,२.७२ ॥ प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते । अप्रियं प्रतिकूलं तदविशेषेण शब्दितम् ॥ ४,२.७३ ॥ नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् । प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः ॥ ४,२.७४ ॥ हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः । न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते ॥ ४,२.७५ ॥ अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् । असुरा नैवमेवं च नैवं चाखिलमानुषाः । इत्यात्मप्रियहानाय को यतेत च बुद्धिमान् ॥ ४,२.७६ ॥ सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि । धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः ॥ ४,२.७७ ॥ आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते । इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान् ॥ ४,२.७८ ॥ ज्ञानरूपस्य विज्ञानानाशस्तन्नाश एव यत् । इति शून्यमतोच्छित्त्यै पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस्तार्किकैर्विनिवारितान् । मात्रासंसर्गमप्याह तथा माध्यन्दिनश्रुतिः ॥ ४,२.७९ ॥ आचिक्षेप मतं तच्च यस्मिन्न विषयादनम् । घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः ॥ ४,२.८० ॥ येनेदमखिलं वेद विज्ञातारं स्वमेव च । केन तं च विजानीयादित्यनिष्टं हि सर्वथा ॥ ४,२.८१ ॥ नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि । तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम् ॥ ४,२.८२ ॥ प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि । न स्वविज्ञानितायां च विरोधः कश्चनेयते ॥ ४,२.८३ ॥ कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः । कथमेव पदं गच्छेद्विरोधो दृष्टबाधनम् ॥ ४,२.८४ ॥ सोऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ । इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि ॥ ४,२.८५ ॥ अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् । आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः ॥ ४,२.८६ ॥ अस्वातन्त्र्योपमाभेदभेदेष्विव उदीरितः । शब्दतत्त्व इति प्रोक्तं मैत्रेय्युक्तोत्तरं च किम् ॥ ४,२.८७ ॥ सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् । यद्यर्थो दुःखहानिः स्यादनर्थः सुखनाशनम् ॥ ४,२.८८ ॥ तयोश्च दुःखहानाद्धि सुखनाशोऽधिको भवेत् । प्राप्यापि दुःखं सुमहत्सुखलेशाप्तये जनः । यतते सुखहानौ हि को मोक्षाय यतेत्पुमान् ॥ ४,२.८९ ॥ अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः । महच्च दुःखमाप्नोति सुखनाशनिवृत्तये ॥ ४,२.९० ॥ न च रागनिमित्तं तद्वीतरागा अपि स्फुटम् । नारदाद्याः सुखार्थाय सहन्ते दुःखमञ्जसा । युद्धादिदर्शनं यस्मात्सुदुःखेनापि कुवर्ते ॥ ४,२.९१ ॥ यदेन्द्रवैरोचनयोर्ब्रह्मास्त्राभ्यां सुतापिताः । अपि नैवाजहुर्युद्धरसात्ते नारदादयः । इति स्कान्दवचस्तस्मात्सुखाभावस्य को यतेत् ॥ ४,२.९२ ॥ विमतो दुःखयुग्यस्माच्चेतनः सन् सुखोज्खितः । प्रतिपन्नो यथेत्येव चानुमा केन वार्यते ॥ ४,२.९३ ॥ सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा । मुक्तौ न ग्राह्यमेवैतत्सुखाभावमतं बुधैः ॥ ४,२.९४ ॥ सोऽनानन्दाद्विमुक्तः सन्नानन्दी भवति स्फुटम् । निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दमाप्नोति यत्र कामोऽवसीयते ॥ ४,२.९५ ॥ न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् । न वेदसदृशं वाक्यं न वर्णोऽकारसम्मितः ॥ ४,२.९६ ॥ यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि ॥ ४,२.९७ ॥ इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि । अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि ॥ ४,२.९८ ॥ शिरःकराद्यभावश्च न मुक्तस्य भवेत्क्वचित् । श्रुतयश्च पुराणानि मानमत्र बहूनि च ॥ ४,२.९९ ॥ न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ ४,२.१०० ॥ श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥ ४,२.१०१ ॥ प्रवाळवैडूर्यमृणाळवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥ ४,२.१०२ ॥ विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः । श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ॥ ४,२.१०३ ॥ ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः ॥ ४,२.१०४ ॥ कामान्नरूपी चरतीतिपूर्वश्रुत्या पुराणोक्तिभिरप्यदोषः । देहः स्वरूपात्मक एव तेषां मुक्तिं गतानामपि चेयते हि ॥ ४,२.१०५ ॥ शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् । यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति ॥ ४,२.१०६ ॥ न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात्प्रमया कथञ्चित् । स ब्रह्मणा सहितोऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम् ॥ ४,२.१०७ ॥ यत्तत्परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् । भुङ्क्ते स दैवं पुरुषोत्तमोऽज आत्मेति चोक्तो गुणपूर्तिहेतोः ॥ ४,२.१०८ ॥ सेतुः स देवोऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् । इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान्मुक्तिगतोऽपि भोगान् ॥ ४,२.१०९ ॥ कालोऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् । इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे ॥ ४,२.११० ॥ कथं च यः पूर्वमसौ न पश्चाद्भवेत्स एवेत्यपि युक्तिमेति । यतो न दृष्टं यदभून्न पूर्वं पश्चात्तदासेति कुतश्च किञ्चित् ॥ ४,२.१११ ॥ नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति । यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित् ॥ ४,२.११२ ॥ इत्थं मतानि भ्रमजानि यस्मान्मोक्षं समुद्देश्यमपि भ्रमेण । विदुर्न सम्यग्यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते ॥ ४,२.११३ ॥ औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः । स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे ॥ ४,२.११४ ॥ व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् । विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः ॥ ४,२.११५ ॥ सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः । नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे ॥ ४,२.११६ ॥ महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् । विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे ॥ ४,२.११७ ॥ व्यामिश्रता कार्यकरत्वमर्थकॢप्तिः सुदार्ढ्यं परतन्त्रता च । समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः ॥ ४,२.११८ ॥ विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः । कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः ॥ ४,२.११९ ॥ प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतोऽपि युक्तया । यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो यतो भूतमानी च सोऽपि । महामानी त्वल्पमानी च यस्मात्तच्छब्देनाप्युच्यते तेन सोऽपि ॥ ४,२.१२० ॥ तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ । इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत् ॥ ४,२.१२१ ॥ तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् । तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः ॥ ४,२.१२२ ॥ सोमस्तु वारीशयुतोऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् । सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः ॥ ४,२.१२३ ॥ उमागिरीशावपि भारतीराविति स्म वाग्वेदगता ब्रवीति । अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले ॥ ४,२.१२४ ॥ त एव यत्तत्पदमाप्नुवन्ति तत्काल एतान् समुपास्य जीवाः । ब्रह्मत्वकाले प्रविशन्ति चैतानीति स्म वाक्तादृशतामुपैति ॥ ४,२.१२५ ॥ सूर्योऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् । तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति ॥ ४,२.१२६ ॥ इन्द्रप्रवेशस्तु यदोच्यतेऽत्र तदा ह्युमेत्येव सुपर्णपत्नी । उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र ॥ ४,२.१२७ ॥ भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् । विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम् ॥ ४,२.१२८ ॥ आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् । सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम् ॥ ४,२.१२९ ॥ वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सोऽपि समेति काले । तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव ॥ ४,२.१३० ॥ विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते । आनन्दसुव्यक्तिरमुत्र तेषां भवत्यतश्चेष्यत एव निर्गताः । क्रीडन्ति भूयश्च समाविशन्ति तानेव सायुज्यमिदं वदन्ति ॥ ४,२.१३१ ॥ सायुज्यहीनाश्च लये तु सर्वे प्रोक्तेन मार्गेण विशन्ति सृष्टौ । बहिश्च निर्यान्ति ततोऽन्यदापि सायुज्यभाजां भवति प्रवेशः ॥ ४,२.१३२ ॥ उक्तं समस्तं परमश्रुतौ हि प्रोक्तं तु सर्गक्रमतो विपर्ययः । मुक्तौ लये यद्वदथो लयश्च विपर्ययेणेत्यवदद्गिरां पतिः ॥ ४,२.१३३ ॥ लयो यतो मुक्तिरियं सुराणां भोगो विशेषेण च यं वदिष्यति । उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः ॥ ४,२.१३४ ॥ बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा । तेजोऽभिधां तु श्रियमाप्य विष्णुमग्रे ततः पुत्रतयैव वायुः । आप्तः प्रसूतः पुनरेव विष्णुं प्रविश्य मुक्तः प्रळयेऽत्र तिष्ठति ॥ ४,२.१३५ ॥ सर्वेऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतोऽपि । भुञ्जन्त एवासत ईशदेहे लयेऽथ सर्गे बहिरेव यान्ति ॥ ४,२.१३६ ॥ प्रयाति धर्मं निरृतिस्तु शक्रं मरुद्गणाः पार्षदास्तथैव । सर्वेऽनिरुद्धं पृतनाधिपाद्यास्तुरश्रुतिर्हीत्थमियं विमुक्तिः ॥ ४,२.१३७ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य द्वितीयः पादः ॥ उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितं सुक्रमविक्रमौ च । सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः ॥ ४,३.१ ॥ विशेषसम्प्राप्तिरुरुत्वमाप्तिः क्रमानुरागः कथितानुवृत्तिः । सिद्धान्तनिर्णीतिकराः प्रतीकं देहादिकं तद्गतमेव ये नराः ॥ ४,३.२ ॥ उपासते ते पुरतः समाप्नुयुर्ब्रह्माणमस्मान्मतिमाप्य विष्णुम् । प्राप्स्यन्त्यतोऽन्येऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते ॥ ४,३.३ ॥ ॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्यने चतुर्थाध्यायस्य तृतीयः पादः ॥ अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः । समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे ॥ ४,४.१ ॥ सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः । विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः ॥ ४,४.२ ॥ अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय । पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः ॥ ४,४.३ ॥ एतेऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः । प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात् ॥ ४,४.४ ॥ मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् । अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति ॥ ४,४.५ ॥ फलं श्रुतिर्ज्ञानत आह मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् । लोकाधिपत्यं च विधातुरेव सर्वात्मनेत्याह तुरश्रुतिश्च । सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति ॥ ४,४.६ ॥ लोका इतीहापि तु लोकिनां वचो लोका इति ह्येव रवः प्रजासु । प्रयुज्यते सर्वजनैः सदैव तन्मानिनो लोकपदेन चोक्ताः । तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः ॥ ४,४.७ ॥ अलोकशब्देन विमुक्तिभाजो वाच्याः पदं तादृगपीह युक्तम् । लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे । ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च ॥ ४,४.८ ॥ नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं रविबिम्बतो हरौ । उक्तं पृथक्तच्च पुरैव यस्माद्भेदोऽमुनेत्यादि च सम्यगुक्तः ॥ ४,४.९ ॥ त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः । भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः ॥ ४,४.१० ॥ अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण । अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात्समासते ॥ ४,४.११ ॥ नमो नमोऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय । भक्तानुकम्पादतिशुद्धसंविद्दात्रेऽनुपाधिप्रियसद्गुणात्मने ॥ ४,४.१२ ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट्तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे ॥ ४,४.१३ ॥ निःशेषदोषरहितकल्याणाखिलसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम् ॥ ४,४.१४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने चतुर्थोऽध्यायः ॥