विषयाध्यायः अथ त्रिविधदुःखात्यन्तनिवृत्तिः अत्यन्त पुरुषार्थः । १.१ । (परमपुरुषार्थस्वरूपं) न दृष्टात्तत्सिद्धिः, निवृत्तेऽप्यनुवृत्ति दर्शनात् । १.२ । (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) प्रात्यहिक क्षुत्प्रतीकारवत्तत्प्रतीकार चेष्टनात्पुरुषार्थत्वं । १.३ । (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) सर्वासम्भवात्, सम्भवेऽपि सत्तासम्भवाथेयः प्रमाणकुशलैः । १.४ । (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) उत्कर्षादपि मोक्षस्य सर्वोत्कर्षश्रुतेः । १.५ । (लौकिकोपायैः दुःखनिवृत्त्यनुपपत्तिः) अविशेषश्चोभयोः । १.६ । (वैदिकोपायानामपि दुःखनिवृत्त्यनुपायता) न स्वभावतो बद्धस्य मोक्षसाधनोपदेशविधिः । १.७ । (बन्धस्य स्वाभाविकत्वानुपपत्तिः) स्वभावस्यानपायित्वात्, अननुष्ठानलक्षणमप्रामाण्यं । १.८ । (बन्धस्य स्वाभाविकत्वानुपपत्तिः) नाशक्योपदेशविधिः, उपदिष्टेऽप्यनुपदेशः । १.९ । (बन्धस्य स्वाभाविकत्वानुपपत्तिः) शुक्लपटवत्बीजवच्चेत् । १.१० । (बन्धस्य स्वाभाविकत्वानुपपत्तिः), पू शक्त्युद्भवानुद्भवाभ्यां नाशक्योपदेशः । १.११ । (बन्धस्य स्वाभाविकत्वानुपपत्तिः), सि न कालयोगतो व्यापिनो नित्यस्य सर्वसम्बन्धात् । १.१२ । (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) न देशयोगतोऽप्यस्मात् । १.१३ । (बन्धस्य कालदेशनिमित्तकत्वानुपपत्तिः) नावस्थातो देहधर्मत्वात्तस्याः । १.१४ । (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) असङ्गो ह्ययं पुरुष इति । १.१५ । (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) न कर्मणान्यधर्मत्वाततिप्रसक्तेश्च । १.१६ । (बन्धस्य अवस्थाविशेषनिमित्तकत्वानुपपत्तिः) विचित्रभोगानुपपत्तिः अन्यधर्मत्वे । १.१७ । (बन्धस्य चित्तगात्रधर्मत्वानुपपत्तिः) प्रकृतिनिबन्धनाच्चेन्न तस्या अपि पारतन्त्र्यं । १.१८ । (बन्धस्य प्रकृतिनिमित्तकत्वानुपपत्तिः) न नित्यशुद्ध बुद्धमुक्त स्वभावस्य तद्योगस्तद्योगाहते । १.१९ । (बन्धस्य प्रकृतिनिगित्तकत्वानुपपत्तिः) नाविद्यातोऽ प्यवस्तुना बन्धायोगात् । १.२० । (बन्धस्य अविद्यानिमित्तकत्वनिरासः) वस्तुत्वे सिन्धान्तहानिः । १.२१ । (बन्धस्य अविद्यानिमित्तकत्वनिरासः) विजातीयद्वैतापत्तिश्च । १.२२ । (बन्धस्य अविद्यानिमित्तकत्वनिरासः) विरुद्धोभयरूपा चेत् । १.२३ । (बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू न तादृक्पदार्थाप्रतीतेः । १.२४ । (बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि न वयं षट्पदार्थवादिनः वैशेषिकादिवत् । १.२५ । (बन्धस्य अविद्यानिमित्तकत्वनिरासः), पू अनियतत्वेऽपि नायौक्तिकस्य संग्रहः, अन्यथा बालोन्मत्तादिसमत्वं । १.२६ । (बन्धस्य अविद्यानिमित्तकत्वनिरासः), सि नानादिविषयोपराग निमित्तकोऽप्यस्य । १.२७ । (बन्धस्य विषयवासनानिमित्तकत्वनिरासः) न बाह्याभ्यन्तरयोः उपरज्योपञ्जक भावोऽपि देशव्यवधानात्स्रुघ्नस्थ पाटलिपुत्रस्थयोरिव । १.२८ । (बन्धस्य विषयवासनानिमित्तकत्वनिरासः) द्वयोरेकदेशलब्धोपरागान्न व्यवस्था । १.२९ । (बन्धस्य विषयवासनानिमित्तकत्वनिरासः) अदृष्टवशाच्चेत् । १.३० । (बन्थस्य विषयवासनानिमित्तकत्वनिरासः), पू न द्वयोरेककालयोगादुपकार्योपकारकभावः । १.३१ । (बन्धस्य विषयवासनानिमित्तकत्वनिरासः), सि पुत्रकर्मवदिति चेत् । १.३२ । (बन्धस्य विषयवासनानिमित्तकत्वनिरासः), पू नास्ति हि तत्र स्थिर एक आत्मा यो गर्भाधानादिकर्मणा संस्क्रियते । १.३३ । (बन्धस्य विषयवासनानिमित्तकत्व निरासः), सि स्थिरकार्यासिद्धेः क्षणिकत्वं । १.३४ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,पु न प्रत्यभिज्ञाबाधात् । १.३५ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) ,सि श्रुतिन्यायविरोश्र्वच्च । १.३६ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) दृष्टान्तासिद्धेश्च । १.३७ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) युगपज्जायमानयोः न कार्यकारणभावः । १.३८ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) पूर्वापाये उत्तरायोगात् । १.३९ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) तद्भावे तदयोगातुभयव्यभिचारादपि न । १.४० । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) पूर्वभावमात्रे न नियमः । १.४१ । (बन्धादीनां सर्वेषामपि क्षणिकत्व वादनिरासः) न विज्ञानमात्रं बाह्यप्रतीतेः । १.४२ । (बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः) तदभावे तदभावात्शून्यं तर्हि । १.४३ । (बन्धादीनां विज्ञानमात्रस्वरूपत्वनिरासः) शून्यं तत्त्वं, भावो विनश्यति, वस्तुधर्मत्वात्विनाशस्य । १.४४ । (सर्वशून्यतावादखण्डनं), पू अपवादमात्रमबुद्धानां । १.४५ । (सर्वशून्यतावादखण्डनं), सि उभयपक्षसमानक्षेमत्वादयमपि । १.४६ । (सर्वशून्यतावादखण्डनं) अपुरुषार्थत्वमुभयथा । १.४७ । (सर्वशून्यतावादखण्डनं) न गतिविशेषात् । १.४८ । (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) निष्क्रियस्य तदसम्भवात् । १.४९ । (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) मूर्तत्वात्घटादिवत्समानधर्मापत्तौ अपसिद्धान्तः । १.५० । (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) गतिश्रुतिरपि उपाधियोगादाकाशवत् । १.५१ । (आत्मनो गतिविशेषस्य बन्धनिमित्तत्वनिरासः) न कर्मणाप्यतद्धर्मत्वात् । १.५२ । (कर्मणो बन्धनिमित्तत्वनिरासः) अतिप्रसक्तिः अन्यधर्मत्वे । १.५३ । (कर्मणो बन्धनिमित्तत्वनिरासः) निर्गुणादि श्रुतिविरोधश्चेति । १.५४ । (कर्मणो बन्धनिमित्तत्वनिरासः) तद्योगोऽप्यविवेकान्न समानत्वं । १.५५ । (अविवेकनिमित्तप्रकृतिपुरुषसंयोगस्यैव बन्धहेतुत्वं) नियतकारणात्तदुच्छित्तिः ध्वान्तवत् । १.५६ । (विवेकस्यैव अविवेक नाशहेतुत्वं) प्रधानाविवेकातन्याविवेकस्य तद्धाने हानं । १.५७ । (विवेकस्यैव अविवेक नाशहेतुत्वं) वाड्मात्रं न तुतत्त्वं चित्तस्थितेः । १.५८ । (चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं) युक्तितोऽपि न बाध्यते दिङ्मूढवपरोक्षाहते । १.५९ । (चित्तस्थितस्यापि पुरुषसंक्रान्तस्य बन्धस्य स्वात्मसाक्षात्कार निवर्त्यत्वं) अचाक्षुषाणामनुमानेन बोधः धूमादिभिरिव वह्नैः । १.६० । (प्रकृतिपुरुषयोरानुमानिकत्वं) सत्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महान्, महातोऽहङ्कारः, अहङ्कारात्पञ्चतन्मात्राणि, उभयमिन्द्रियं तन्मात्रेभ्यः,स्थूलभूतानि पुरुषः इति पञ्चविंशतिर्गणः । १.६१ । (पञ्चविंशतितत्त्वसिद्धिः) स्थूलात्पञ्चतन्मात्रस्य । १.६२ । (पञ्चविंशतितत्त्वसिद्धिः) बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य । १.६३ । (पञ्चविंशतितत्त्वसिद्धिः) तेनान्तः करणस्य । १.६४ । (पञ्चविंशतितत्त्वसिद्धिः) ततः प्रकृतेः । १.६५ । (पञ्चविंशतितत्त्वसिद्धिः) संहतपरार्थत्वात्पुरुषस्य । १.६६ । (पञ्चविंशतितत्त्वसिद्धिः) मूले मूलाभावादमूलं मूलं । १.६७ । (प्रकृतेरेव सर्वजगन्मूलत्वं) पारम्पयैऽपि एकत्र परिनिष्ठेति संज्ञामात्रं । १.६८ । (प्रकृतेरेव सर्वजगन्मूलत्वं) समाजः प्रकृतेर्द्वयोः । १.६९ । (प्रकृतेरेव सर्वजगन्मूलत्वं) अधिकारित्रैविध्यात्न नियमः । १.७० । (विवेकमननस्य असार्वत्रिकत्वे हेतुः) महदाख्यमाद्यं कार्यं तन्मनः । १.७१ । (महत्तत्वस्वरूपं) चरमोऽहङ्कारः । १.७२ । (अहङ्कारतत्वस्वरूपं) तत्कार्यत्वमुत्तरेषां । १.७३ । (तन्मात्रादीनामहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः) आद्यहेतुता तद्द्वारा पारम्पर्येऽप्यणुवत् । १.७४ । (तन्मात्रादीनामहङ्कारकार्यत्वेऽपि प्रकृतिकार्यत्वोपपतिः) पूर्वभावित्वे द्वयोरेकतरस्य हाने अन्यतरयोगः । १.७५ । (प्रकृतेरेव सर्वकारणत्ते नियामकं) न परिच्छिन्नं सर्वोपादानं । १.७६ । (प्रकृतेरेव सर्वकारणत्वे नियामकं) तदुत्पात्तिश्रुतेश्च । १.७७ । (प्रकृतेरेव सर्वकारणत्वे नियामकं) नावस्तुनो वस्तुसिद्धिः । १.७८ । (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) अबाधातदुष्टकारण जन्यत्वाच्च नावस्तुत्वं । १.७९ । (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) भावे तद्योगेन तत्सिद्धिः, अभावे तदभावात्कुतस्तरां तत्सिद्धिः । १.८० । (शून्यस्य जगत्कारणतायाः,जगतः शून्यतायाश्च खण्डनं) न कर्मण उपादानत्वायोगात् । १.८१ । (कर्मणां जगदपादानाता निरासः) नानुश्रविकादपि तत्सिद्धिः, साध्यत्वेनाऽवृत्तियोगादपुरुषार्थत्वं । १.८२ । (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) तत्र प्राप्तिविवेकस्य अनावृत्तिश्रुतिः । १.८३ । (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) दुःखाद्दुःखं जलभिषेकवन्न जाड्यविमोकः । १.८४ । (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) काम्येऽकाम्येपि साध्यत्वाविशेषात् । १.८५ । (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) विजमुक्तस्य बन्धध्वंसमात्रं, परं न समानत्वं । १.८६ । (लौकिक वैदिक कर्मणां परमपुरुषार्थहेतुत्वखण्डनं) द्वयोरेकतरस्यवाप्यसन्निकृष्टार्थपरिच्छित्तिः प्रमा, तत्साधकतमं यत्तत्त्रिविधं प्रमाणं । १.८७ । (प्रमा स्वरूपं, प्रमाणेयत्ता च) तत्सिद्धौ सर्वसिद्धेः नाधिक्यसिद्धिः । १.८८ । (प्रमा स्वरूपं, प्रमार्णयत्ताच) यत्संबद्धं सत्तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षं । १.८९ । (प्रत्यक्षलक्षणं) योगिनामबाह्यप्रत्यक्षत्वात्न दोषः । १.९० । (प्रत्यक्षलक्षणं) लीनवस्तुलब्धातिशयसम्बन्धाद्वादोषः । १.९१ । (प्रत्यक्षलक्षणं) ईश्वरासिद्धेः । १.९२ । (तदङ्गतया ईश्वरसत्ता निरासः) मुक्तामुक्तयोः अत्यतराभावान्न तत्सिद्धिः । १.९३ । (तदङ्गतया ईश्वरसत्ता निरासः) उभयथाप्यसत्करत्वं । १.९४ । (तदङ्गतया ईश्वरसत्ता निरासः) मुक्तात्मनः प्रशंसा उपासा सिद्धस्य वा । १.९५ । (तदङ्गतया ईश्वरसत्ता निरासः) तत्सन्निधानातधिष्ठातृत्वं मणिवत् । १.९६ । (तदङ्गतया ईश्वरसत्ता निरासः) विशेषकार्येष्वपि जीवानां । १.९७ । (तदङ्गतया ईश्वरसत्ता निरासः) सिद्धरूप बोद्धृत्वात्वाक्यार्थोपदेशः । १.९८ । (तदङ्गतया ईश्वरसत्ता निरासः) अन्तः करणस्य तदुज्ज्वलितत्वात्लोहवतधिष्ठातृत्वं । १.९९ । (अन्तः करणस्यैव मुख्यमधिष्ठानत्वं) प्रतिबन्धदृशः प्रतिबद्धज्ञानमनुमानं । १.१०० । (अनुमान लक्षणं) आप्तोपदेशः शब्दः । १.१०१ । (शब्द लक्षणं) उभयसिद्धिः प्रमाणात्तदुपदेशः । १.१०२ । (प्रमाणस्वरूपविवेचन फलं) सामान्यतो दृष्टादुभयसिद्धिः । १.१०३ । (सामान्यतोदृष्टरूपानुमानविशेषनिरूपणं) चिदवसानो भोगः । १.१०४ । (निर्दुष्टं प्रमास्वरूपं) अकर्तुरपि फलोपभोगोऽन्नाद्यवत् । १.१०५ । (कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं) अविवेकाद्वा तत्सिद्धेः कर्तुः फलावगमः । १.१०६ । (कर्तृत्वफलभोगयोः वैयधिकरण्यशङ्कायाः समाधानं) नोभयं च तत्वाख्याने । १.१०७ । (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) विषयोऽविषयोऽप्यतिदूरादेर्हानोपादानाभ्यामिन्द्रियस्य । १.१०८ । (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) सौक्ष्म्यात्तदनुपलरुब्धिः । १.१०९ । (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) कार्यदर्शनात्तदुपलब्धेः । १.११० । (प्रकृत्यादेरिन्द्रियाविषयत्वोपाधयः) वादिविप्रतिपत्तेः तदसिद्धिरिति चेत् । १.१११ । (सत्कार्यवाद निरूपणं), पू तथाप्येकतरदृष्ट्या एकतरसिद्धेः नापलापः । १.११२ । (सत्कार्यवाद निरूपणं), सि त्रिविधविरोधापत्तेश्च । १.११३ । (सत्कार्यवाद निरूपणं) नासदुत्पादो नृशृङ्गवत् । १.११४ । (असत्कार्यवादनिराकरणं) उपादाननियमात् । १.११५ । (असत्कार्यवादनिराकरणं) सर्वत्र सर्वदा सर्वासम्भवात् । १.११६ । (असत्कार्यवादनिराकरणं) शक्तस्य शक्यकरणात् । १.११७ । (असत्कार्यवादनिराकरणं) कारणभावाच्च । १.११८ । (असत्कार्यवादनिराकरणं) न भावे भावयोगश्चेत् । १.११९ । (सतः कार्यत्वोपपत्तिः), पू नाभिव्यक्तिनिबन्धनौ व्यवहाराव्यवहारौ । १.१२० । (सतः कार्यत्वोपपत्तिः), सि नाशः कारणलयः । १.१२१ । (नाशस्वरूपं) पारम्पर्यतोऽन्वेषणा बीजाङ्कुरवत् । १.१२२ । (अभिव्यक्तिपक्षे अनवस्थापरिहारः) उत्पत्तिवददोषः । १.१२३ । (अभिव्यक्तिपक्षे अनवस्थापरिहारः) हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गं । १.१२४ । (कार्यस्वरूपं) आञ्जस्यादभेदतोवा गुणसामान्यादेः तत्सिद्धिः प्रधानव्यपदेशाद्वा । १.१२५ । (कार्यस्वरूपं) त्रिगुणाचेतनत्वादि द्वयोः । १.१२६ । (कार्यकारणयोः साधर्म्यवैधर्म्ये) प्रीत्यप्रीतिविषादाद्यैः गुणानामन्योन्यं वैधर्म्यं । १.१२७ । (कार्यकारणयोः साधर्म्यवैधर्म्ये) लध्वैदि धर्मैः साधर्म्यं च गुणानां । १.१२८ । (कार्यकारणयोः साधर्म्यवैधर्म्ये) उभयान्यत्वात्कार्यत्वं महदादेर्घटादिवत् । १.१२९ । (महदादेः कार्यत्वोपपत्तिः) परिमाणात् । १.१३० । (महदादेः कार्यत्वोपपत्तिः) समन्वयात् । १.१३१ । (महदादेः कार्यत्वोपपत्तिः) शक्तितश्चेति । १.१३२ । (महदादेः कार्यत्वोपपत्तिः) तद्धाने प्रकृतिः पुरुषो वा । १.१३३ । (महदादेः कार्यत्वोपपत्तिः) तयोरन्यत्वे तुच्छत्वं । १.१३४ । (महदादेः कार्यत्वोपपत्तिः) कार्यात्कारणानुमानं तत्साहित्यात् । १.१३५ । (कार्यैः कारणानुमानविधिः) अव्यक्तं त्रिगुणाल्लिङ्गात् । १.१३६ । (कार्येभ्यः प्रकृतेः वैधर्म्यं) तत्कार्यतस्तत्सिद्धेर्नापलापः । १.१३७ । (कार्येभ्यः प्रकृतेः वैधर्म्यं) सामान्येन विवादाभावात्धर्मवन्न साधनं । १.१३८ । (पुरुषास्तित्व साधनं) शरीरादिव्यतिरिक्तः पुमान् । १.१३९ । (पुरुषास्तित्व साधनं) संहतपरार्थत्वात् । १.१४० । (पुरुषास्तित्व साधनं) त्रिगुणादिविपर्ययात् । १.१४१ । (पुरुषास्तित्व साधनं) अधिष्ठानाच्चेति । १.१४२ । (पुरुषास्तित्व साधनं) भोतृभावात् । १.१४३ । (पुरुषास्तित्व साधनं) कैवल्यार्थं प्रवृत्तेश्च । १.१४४ । (पुरुषास्तित्व साधनं) जडप्रकाशायोगात्प्रकाशः । १.१४५ । (पुरुषस्य प्रकाशस्वरूपत्वं) निर्गुणत्वान्नचिद्धर्मा । १.१४६ । (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) श्रुत्या सिद्धस्य नापलापस्तत्प्रत्यक्षबोधात् । १.१४७ । (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) सुषुप्त्याद्यसाक्षित्वं । १.१४८ । (प्रकाशात्मनोः धर्मधर्मिभाव निराकरणं) जन्मादुव्यवस्थातः पुरुषबहुत्वं । १.१४९ । (पुरुषबहुत्व साधनं) उपाधिभेदेऽप्येकस्य नानायोगः आकाशस्येव घटादिभिः । १.१५० । (पुरुषबहुत्व साधनं) उपाधिर्भिद्यते न तु तद्वान् । १.१५१ । (पुरुषबहुत्व साधनं) एवमेकत्वेन परिवर्तमानस्य न विरुद्ध धर्माध्यासः । १.१५२ । (पुरुषबहुत्व साधनं) अन्यधर्मत्वेऽपि नारोपात्तत्सिद्धिरेकत्वात् । १.१५३ । (पुरुषबहुत्व साधनं) नाद्वैतश्रुतिविरोधो जातिपरत्वात् । १.१५४ । (आत्मैक्यवादोपपत्तिः) विदितबन्धकारणस्य दृष्ट्यातद्रूपं । १.१५५ । (आत्मैक्यवादोपपत्तिः) नान्धादृष्ट्या चक्षुष्मतामनुपलम्भः । १.१५६ । (आत्मैक्यवादोपपत्तिः) वामदेवादिर्मुक्तो नाद्वैतं । १.१५७ । (आत्मैक्यवादोपपत्तिः) अनादावद्यावदभावाद्भविष्यदप्येवं । १.१५८ । (आत्मैक्यवादोपपत्तिः) इदीनीमिव सर्वत्र नात्यन्तोच्छेदः । १.१५९ । (आत्मैक्यवादोपपत्तिः) व्यावृत्तोभयरूपः । १.१६० । (आत्मनां सदैकरूपत्वं) साक्षात्सम्बन्धात्साक्षित्वं । १.१६१ । (आत्मनां सदैकरूपत्वं) नित्यमुक्तत्वं । १.१६२ । (आत्मनां सदैकरूपत्वं) औदासीन्यं चेति । १.१६३ । (आत्मनां सदैकरूपत्वं) उपरागात्कर्तृत्वं चित्सान्निध्यात्चित्सान्निध्यात् । १.१६४ । (वस्तुतत्त्वविपरीततय पुरुषे कर्तृतायाः बुद्धौ ज्ञातृतायाश्च भाने हेतुः), प्रधानकार्य विमुक्तमोक्षार्थं स्वार्थं वा प्रधानस्य । २.१ । (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) विरक्तस्य तत्सिद्धेः । २.२ । (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) न श्रवणमात्रात्तत्सिद्धिः अनादिवासनायाः बलवत्त्वात् । २.३ । (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) बहुभृत्यवद्वा प्रत्येकं । २.४ । (प्रकृतेः जगत्सृष्टौ निदानभूताः अंशाः) प्रकृतिवास्तवे च पुरुषस्याध्याससिद्धिः । २.५ । (पुरुषे स्रष्टृत्वनिराकरणं) कार्यतस्तत्सिद्धेः । २.६ । (पुरुषे स्रष्टृत्वनिराकरणं) चेतनोद्देशान्नियमः कण्टकमोक्षवत् । २.७ । (पुरुषे स्रष्टृत्वनिराकरणं) अन्ययोगेऽपि तात्सिद्धिर्नाञ्जस्येनायोदाहवत् । २.८ । (पुरुषे स्रष्टृत्वनिराकरणं) रागविरागयोः योगः सृष्टिश्च । २.९ । (सृष्टिं प्रति मुख्यं निमित्तकारणं) महदादिक्रमेण पञ्चभूतानां । २.१० । (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः) आत्मार्थत्वात्सृष्टेः नैषामात्मार्थ आरम्भः । २.११ । (पुरुषमुक्तिनिमित्ता महदादिसृष्टिः) दिक्कालावाकाशादिभ्यः । २.१२ । (दिक्कालयोः सृष्टिः) अध्यवसायो बुद्धिः । २.१३ । (महत्तत्व स्वरूप कार्यादिः) तत्कार्यं धर्मादि । २.१४ । (महत्तत्व स्वरूप कार्यादिः) महदुपरागाद्विपरीतं । २.१५ । (महत्तत्व स्वरूप कार्यादिः) अभिमानोऽहङ्कारः । २.१६ । (अहङ्कारतत्वस्वरूपकार्यादिः) एकादश पञ्चतन्मात्रं तत्कार्यं । २.१७ । (अहङ्कारतत्वस्वरूपकार्यादिः) सात्विकमेकादशकं प्रवर्तते वैकृतादहङ्कारात् । २.१८ । (अहङ्कारतत्वस्वरूपकार्यादिः) कर्मेन्द्रिय बुद्धीन्द्रियैरान्तरमेकादशकं । २.१९ । (इन्द्रियाणां स्वरूपं) आहङ्कारिकत्वश्रुतेः न भौतिकानि । २.२० । (इन्द्रियाणां स्वरूपं) देवतालयश्रुतिर्नारम्भकस्य । २.२१ । (इन्द्रियाणां स्वरूपं) तदुत्पत्तिश्रुतेर्विनाशदर्शनाच्च । २.२२ । (इन्द्रियाणामनित्यता) अतीन्द्रियमिन्द्रियं भ्रान्तानामधिष्ठाने । २.२३ । (गोलकानामेवेन्द्रियत्व निराकरणं) शक्तिभेदेऽपि भेदसिद्धौ नैकत्वं । २.२४ । (एकेन्द्रियवादनिरासः) न कल्पनाविरोधः प्रमाणदृष्टस्य । २.२५ । (एकेन्द्रियवादनिरासः) उभयात्मकं च मनः । २.२६ । (मनसः ज्ञानकर्मोभयात्मकत्वं) गुणपरिणामभेदान्नानात्वमवस्थावत् । २.२७ । (मनसः ज्ञानकर्मोभयात्मकत्वं) रूपादिरसमलान्त उभयोः । २.२८ । (इन्द्रियाणां विषयाः) द्रष्टृत्वादिरात्मनः करणत्वमिन्द्रियाणां । २.२९ । (इन्द्रियाणामात्मोकारकत्वं) त्रयाणां स्वालक्षण्यं । २.३० । (अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्च वृत्तयः) सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च । २.३१ । (अन्तःकरणत्रयस्य असाधारण्यः साधारण्यश्चवृत्तयः) क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः । २.३२ । (इन्द्रियवृत्तेः क्रमिकत्वनियमाभावः) वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः । २.३३ । (पञ्चविधाः धीवृत्तयः) तन्निवृत्तावुपशान्तोपरागः स्वस्थः । २.३४ । (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः) कुसुमवच्च मणिः । २.३५ । (वृत्त्युपसंहारदशायामेव पुरुषस्य स्वरूपेऽवस्थितिः) पुरुषार्थं करणोद्भवोऽप्यदृष्टोल्लासात् । २.३६ । (इन्द्रियप्रवृत्त्युपाधिः) धेनुवद्वत्साय । २.३७ । (इन्द्रियप्रवृत्त्युपाधिः) करणं त्रयोदशाविधमवान्तरभेदात् । २.३८ । (करणानां त्रयोदशत्वं) इन्द्रियेषु साधकतमत्वगुणयोगात्कुठारवत् । २.३९ । (करणानां त्रयोदशत्वं) द्वयोः प्रधानं मनो लोकवत्भृत्यवर्गेषु । २.४० । (करणेषु गौणमुख्यभावव्यवस्था) अव्यभिचारात् । २.४१ । (करणेषु गौणमुख्यभावव्यवस्था) तथाशेषसंस्काराधारत्वात् । २.४२ । (करणेषु गौणमुख्यभावव्यवस्था) स्मृत्यानुमानाच्च । २.४३ । (करणेषु गौणमुख्यभावव्यवस्था) सम्भवेन्न स्वतः । २.४४ । (करणेषु गौणमुख्यभावव्यवस्था) आपेक्षिको गुणप्रधानभावः क्रियाविशेषात् । २.४५ । (करणेषु गौणमुख्यभावव्यवस्था) तत्कर्मार्जितत्वात्तदर्थमभिचेष्टा लोकवत् । २.४६ । (करणेषु गौणमुख्यभावव्यवस्था) समानकर्मयोगे बुद्धेः प्राधान्यं लोकवल्लोकवत् । २.४७ । (करणेषु गौणमुख्यभावव्यवस्था) वैराग्याध्या अविशेषात्विशेषारम्भः । ३.१ । (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) तस्माच्छरीरस्य । ३.२ । (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) तदीजात्संसृतिः । ३.३ । (पञ्चतन्मात्रेभ्यः संसृतिबीजस्थूलसृष्टिः) आविवेकाच्च प्रवर्तनमविशेषाणां । ३.४ । (संसृतेः विवेकपर्यन्तत्वं) उपभोगादितरस्य । ३.५ । (संसृतेः विवेकपर्यन्तत्वं) सम्प्रति परिमुक्तो द्वाभ्यां । ३.६ । (संसृतेः विवेकपर्यन्तत्वं) मातापितृजं स्थूलं प्रायशः इतरन्न तथा । ३.७ । (स्थूलनदिनर शरीरयोः भेदः) पूर्वोत्पत्तेस्तत्कार्यत्वं भोगादेकस्य नेतरस्य । ३.८ । (स्थूलनदिनर शरीरयोः भेदाः) सप्तदशैकं लिङ्गं । ३.९ । (लिङ्गशरीरं तत्कार्यं च) व्यक्तिभेदः कर्मविशेषात् । ३.१० । (लिङ्गशरीरं तत्कार्यं च) तदधिष्ठानाश्रये देहे तद्वादत्तद्वादः । ३.११ । (लिङ्गशरीराधिष्ठानसूक्ष्मदेहाश्रयत्वं स्थूलदेहस्य) न स्वातन्त्र्यात्तदृते छायावच्चित्रवच्च । ३.१२ । (लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता) मूर्तत्वेऽपि न सङ्घातयोगात्तरणिवत् । ३.१३ । (लिङ्गशरीराधिष्ठानसूक्ष्मशरीरसत्त्वावश्यकता) अणुपरिमाणं तत्कृतिश्रुतेः । ३.१४ । (लिङ्गशरीरपरिमाणं) तदन्नमयत्वश्रुतेश्च । ३.१५ । (लिङ्गशरीरपरिमाणं) पुरुषार्थं संसृतिः लिङ्गानां सूपकारवद्राज्ञः । ३.१६ । (लिङ्गशरीरसंसृतेः पुरुषार्थत्वं) पाञ्चभौतिको देहः । ३.१७ । (स्थूलशरीरस्वरुपविषये मत भेदाः) चातुर्भौतिकमित्येके । ३.१८ । (चैतन्यस्य भूतधर्मत्वा भावः) ऐकभौतिकमित्यपरे । ३.१९ । (चैतन्यस्य भूतधर्मत्वा भावः) न सांसिद्धिकं चैतन्यं प्रत्येकादृष्टेः । ३.२० । (चैतन्यस्य भूतधर्मत्वा भावः) प्रपञ्चमरणाद्यभावश्च । ३.२१ । (चैतन्यस्य भूतधर्मत्वा भावः) मदशक्तिवच्चेत्प्रत्येकपरिदृष्टे सांहत्ये तदुद्भवः । ३.२२ । (चैतन्यस्य भूतधर्मत्वा भावः) ज्ञानान्मुक्तिः । ३.२३ । (ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ) बन्धो विपर्ययात् । ३.२४ । (ज्ञानविपर्ययाभ्यां मुक्तिबन्धौ) नियतकारणत्वान्न समुच्चयविकल्पौ । ३.२५ । (तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं) स्वप्नजागराभ्यामिव मायिकामायिकाभ्यां नोभयोर्मुक्तिः पुरुषस्य । ३.२६ । (तत्वज्ञानमात्रस्य मुक्तिहेतुत्वं) इतरस्यापि नात्यन्तिकं । ३.२७ । (उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः) सङ्कल्पितेऽप्येवं । ३.२८ । (उपासनात्मकज्ञानस्य मुक्तिहेतुत्वाभावः) भावनोपचयात्शुद्धस्य सर्वं प्रकृतिवत् । ३.२९ । (उपासनाफलं) रागोपहतिः ध्यानं । ३.३० । (ध्यानस्य मुक्तिसाधनज्ञानसाधनत्वं) वृत्तिनिरोधात्तत्सिद्धिः । ३.३१ । (ध्यानसिद्ध्युपायः) धारणासनस्वकर्मणा तत्सिद्धिः । ३.३२ । (ध्यानसाधनानि, तेषां लक्षणानि च) निरोधः छर्दिविधारणाभ्यां । ३.३३ । (ध्यानसाधनानि, तेषां लक्षणानि च) स्थिरसुखमासनं । ३.३४ । (ध्यानसाधनानि, तेषां लक्षणानि च) स्वकर्म स्वाश्रमविहितकर्मानुष्ठानं । ३.३५ । (ध्यानसाधनानि, तेषां लक्षणानि च) वैराग्यातभ्यासाच्च । ३.३६ । (मुख्याधिकारिणः यमादिपञ्चकापेक्षाभावः) विपर्ययभेदाः पञ्च । ३.३७ । (बन्धहेतुविपर्ययविभागः) अशक्तिरष्टविशतिधा तु । ३.३८ । (विपर्ययहेतूनामशक्तीनां भेदाः) तुष्टिर्नवधा । ३.३९ । (बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः) सिद्धिरष्टधा । ३.४० । (बुद्ध्यशक्ति संपादकयोः तुष्टिसिद्ध्योः विभागः) अवान्तरभेदाः पूर्ववत् । ३.४१ । (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) एवमितरस्याः । ३.४२ । (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) आध्यत्मिकादि भेदात्नवधा तुष्टिः । ३.४३ । (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) ऊहादिभिः सिद्धिरष्टधा । ३.४४ । (विपर्ययाशक्तितुष्टिसिद्धीनां किञ्चिद्विवरणं) नेतरादितरहानेन विना । ३.४५ । (तप आदि सिद्धेः तात्त्विकसिद्धित्वाभावः) दैवादिप्रभेदा । ३.४६ । (दैवादिसृष्टिप्रभेदाः तदवधयश्च) आब्रह्मस्तम्बपर्यन्तं तत्कृते सृष्टिः आविवेकात् । ३.४७ । (दैवादिसृष्टिप्रभेदाः तदवधयश्च) ऊर्ध्वं सत्वविशाला । ३.४८ । (गुणप्रभेदेन सृष्टिभेदाः) तमोविशालामूलतः । ३.४९ । (गुणप्रभेदेन सृष्टिभेदाः) मध्ये रजोविशाला । ३.५० । (गुणप्रभेदेन सृष्टिभेदाः) कर्मवैचित्र्यात्प्रधानचेष्टा गर्भदासवत् । ३.५१ । (विचित्रसृष्टीनां निमित्तं) आवृत्तिस्त्तत्राप्युत्तरोत्तरयोगाद्धेयः । ३.५२ । (आमुक्ति सृष्टीनां हेयत्वं) समानं जरामरणादिनं दुःखं । ३.५३ । (आमुक्ति सृष्टीनां हेयत्वं) न कारणलयात्कृतकृत्यता मग्नवदुत्थानात् । ३.५४ । (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) अकार्यत्वेऽपि तद्योगः पारवश्यात् । ३.५५ । (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) स हि सर्ववित्सर्वकर्ता । ३.५६ । (प्रकृतिलयस्यापि आत्यन्तिकमुक्तिरूपत्वाभावः) ईदृशेश्वरसिद्धिः सिद्धा । ३.५७ । (प्रकृतिलीनस्यैव जन्येश्वरत्वं) प्रधानसृष्टिः परार्थं स्वतोऽप्यभोक्तृत्वात् । ३.५८ । (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च) उष्ट्रकुङ्कुमवहनवत् । ३.५९ । (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनं च) अचेतनत्वेऽपि क्षीरवच्चेष्टितं प्रधानस्य । ३.६० । (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) कर्मवत्दृष्टेर्वा कालादेः । ३.६१ । (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) स्वभावाच्चेष्टितमनभिसन्धानात्भृत्यवत् । ३.६२ । (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) कर्माकृष्टेर्वानादितः । ३.६३ । (प्रधानकर्तृकसृष्टेः उपपात्तिः प्रयोजनञ्च) विविक्तबोधात्सृष्टिनिवृत्तिः प्रधानस्य सूदवत्पाके । ३.६४ । (सृष्टिनिवृत्तिहेतुः) इतरैतरवत्तद्दोषात् । ३.६५ । (सृष्टिनिवृत्तिहेतुः) द्वयोरेकतस्य वौदासीन्यमपवर्गः । ३.६६ । (सृष्टिनिवृत्तिहेतुः) अन्यसृष्ट्युपरागेऽपि न विरज्य (म) ते प्रबुद्धरज्जुतत्वस्येवोरगः । ३.६७ । (सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वाभावः) कर्मनिमित्तयोगाच्च । ३.६८ । (सृष्टिविशेषनिवृत्तेः सृष्ट्यन्तरप्रवृत्त्युपघातकत्वीभावः) नैरपेक्ष्येऽपि प्रकृत्युपकारेऽविवेको निमित्तं । ३.६९ । (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) नर्तकीवत्प्रवृत्तस्यापि निवृत्तिः चारितार्थ्यात् । ३.७० । (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) दोषबोधेऽपि नोपसर्पणं प्रधानस्य कुलवधूवत् । ३.७१ । (प्रकृतिप्रवृत्तिनिवृत्त्योः नियामकोपपादनं) नैकान्ततो बन्धमोक्षौ पुरुषस्य अविवेकादृते । ३.७२ । (बन्धमोक्षयोः आत्मगतत्वाभावः) प्रकृतेराञ्जस्यात्ससङ्गत्वात्पशुवत् । ३.७३ । (बन्धमोक्षयोः आत्मगतत्वाभावः) रूपैः सप्तभिः आत्मानं बध्नाति प्रधानं कोशकारवद्विमोचयेत्येकरूपेण । ३.७४ । (बन्धमोक्षनिमित्तानि) निमित्तत्वमविवेकस्य न दृष्टहानिः । ३.७५ । (बन्धमोक्षनिमित्तानि) तत्वाभ्यासान्नेति नेतीति त्यागात्विवेकसिद्धिः । ३.७६ । (तत्त्वाभ्यासस्यैव विवेकहेतुत्वं) अधिकारिप्रभेदान्न नियमः । ३.७७ । (तत्त्वाभ्यासस्यैव विवेकहेतुत्वं) बाधितानुवृत्त्या मध्यविवेकतोऽप्युपभोगः । ३.७८ । (विवेकविशेषस्यैव निस्तारोपायत्वं) जीवन्मुक्तश्च । ३.७९ । (विवेकविशेषस्यैव निस्तारोपायत्वं) उपदेश्योपदेष्टृत्वात्तत्सिद्धिः । ३.८० । (जीवन्मुक्तिसाधनं) श्रुतिश्च । ३.८१ । (जीवन्मुक्तिसाधनं) इतरथा अन्धपरम्परा । ३.८२ । (जीवन्मुक्तिसाधनं) चक्रभ्रमणवत्धृतशरीरः । ३.८३ । (जीवन्मुक्तिसाधनं) संस्कारलेशतः तत्सिद्धिः । ३.८४ । (जीवन्मुक्तिसाधनं) विवेकान्निः शेषदुःखनिवृत्तौ कृतकृत्यो नेतरान्नेतरात् । ३.८५ । (पुरुषे विवेकस्यैव कृतकृत्यताहेतुत्वं) आख्यायिका राजपुत्रवत्तत्वोपदेशात् । ४.१ । (तत्त्वोपदेशस्य विवेकहेतुत्वं) पिशाचवदन्यार्थोपदेशेऽपि । ४.२ । (तत्त्वोपदेशस्य विवेकहेतुत्वं) आवृत्तिरसकृदुपदेशात् । ४.३ । (तत्त्वोपदेशस्य विवेकहेतुत्वं) पितापुत्रवदुभयोर्दृष्टत्वात् । ४.४ । (क्वचिदनुमानात्देहस्य भङ्गुरताज्ञानोपपत्तिः) श्येनवत्सुखदुःखी त्याग वियोगाभ्यां । ४.५ । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) अहिनिर्ल्वयिनीवत् । ४.६ । (ज्ञाननिष्पत्त्यङ्ग मनोधमोः) छिन्नहस्तवद्वा । ४.७ । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) असाधनानुचिन्तनं बन्धाय भरतवत् । ४.८ । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) बहुभिर्योगे विरोधः रागादिभिः कुमारी कङ्कण (शङ्ख) वत् । ४.९ । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) द्वाभ्यामपि तथैव । ४.१० । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) निराशः सुखी पिङ्गलावत् । ४.११ । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) अनारम्भेऽपि परगृहे सुखी सर्पवत् । ४.१२ । (ज्ञाननिष्पत्त्यङ्ग मनोधर्मोः) बहुशास्त्र गुरूपासनेऽपि सारादानं षट्पदवत् । ४.१३ । (सारग्रहणावश्यकता) इषुकारवन्नैकचित्तस्य समाधिहानिः । ४.१४ । (एकाग्रतावश्यकता) कृतनियमलङ्घनादानर्थक्यं लोकवत् । ४.१५ । (शास्त्रविहितनियमानुल्लङ्घनावश्यकता) तद्विस्मरणेऽपि भेकीवत् । ४.१६ । (शास्त्रविहितनियमस्मरणावश्यकता) नोपदेशश्रवणेऽपि कृतकृत्यता परामर्शादृते विरोचनवत् । ४.१७ । (श्रुतार्थमननावश्यकता) दृष्टस्तयोरिन्द्रस्य । ४.१८ । (श्रुतार्थमननावश्यकता) प्रणतिब्रह्मचर्योपसर्पणानि कृत्वा सिद्धिः बहुकालात्तद्वत् । ४.१९ । (गुरुसेवा) न कालनियमो वामदेववत् । ४.२० । (ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः) अध्यस्तरूपोपासनात्पारम्पर्येण यज्ञोपासकानामिव । ४.२१ । (ज्ञाननिष्पत्तेः कालदेशादिनियमाभावः) इतरलाभेऽप्यावृत्तिः पञ्चाग्नियोगतो जन्मश्रुतेः । ४.२२ । (पुनरावृत्तिहेतुभूतान्युपासनानि) विरक्तस्य हेयहानमुपादेयोपादानं हंसक्षीरवत् । ४.२३ । (ज्ञाननिष्पत्त्यधिकारः) लब्धातिशययोगाद्वा तद्वत् । ४.२४ । (ज्ञाननिष्पत्त्यधिकारः) न कामचारित्वं रागोपहते शुकवत् । ४.२५ । (रागदोषाः तच्छमनोपायाश्च) गुणयोगात्बद्धः शुकवत् । ४.२६ । (रागदोषाः तच्छमनोपायाश्च) न भोगाद्रागशान्तिः मुनिवत् । ४.२७ । (रागदोषाः तच्छमनोपायाश्च) दोषदर्शनादुभयोः । ४.२८ । (रागदोषाः तच्छमनोपायाश्च) न मलिनचेतस्युपदेश बीजप्ररोहोऽजवत् । ४.२९ । (रागदोषाः तच्छमनोपायाश्च) नाभासमात्रमपि मलिनदर्पणवत् । ४.३० । (रागदोषाः तच्छमनोपायाश्च) न तज्जस्यापि तद्रपता पङ्कजवत् । ४.३१ । (रागदोषाः तच्छमनोपायाश्च) न भूतियोगेऽपि कृतकृत्यता उपास्यसिद्धिवतुपास्यसिद्धिवत् । ४.३२ । (अष्टैश्वर्याणामपि मुक्तिसाम्याभावः) परमतनिर्जयः मङ्गलाचरणं शिष्टाचारात्फलदर्शनात्श्रुतितश्चेति । ५.१ । (मङ्गलाचरणप्रयोजनं) नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः । ५.२ । (ईश्वरस्य फलदातृत्वाभवः) स्वोपकारादधिष्ठानं लोकवत् । ५.३ । (ईश्वरस्य फलदातृत्वाभवः) लौकिकेश्वरवदितरथा । ५.४ । (ईश्वरस्य फलदातृत्वाभवः) पारिभाषिको वा । ५.५ । (ईश्वरस्य फलदातृत्वाभवः) न रागादृते तत्सिद्धिः प्रतिनियतकारणत्वात् । ५.६ । (ईश्वरस्य फलदातृत्वाभवः) तद्योगेऽपि न नित्यमुक्तः । ५.७ । (ईश्वरस्य फलदातृत्वाभवः) प्रधानशक्तियोगाच्चेत्सङ्गापत्तिः । ५.८ । (ईश्वरस्य फलदातृवाभवः) सत्तामात्राच्चेत्सर्वैश्वर्यं । ५.९ । (ईश्वरस्य फलदातृत्वाभवः) प्रमाणाभावान्न तत्सिद्धिः । ५.१० । (ईश्वरे प्रमाणाभावः) सम्बन्धाभावान्नानुमानं । ५.११ । (ईश्वरे प्रमाणाभावः) श्रुतिरपि प्रधानकार्यत्वस्य । ५.१२ । (ईश्वरे प्रमाणाभावः) नाविद्याशक्तियोगो निस्सङ्गस्य । ५.१३ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) तद्योगे तत्सिद्धावन्योन्याश्रयत्वं । ५.१४ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) न बीजाङ्कुरवत्सादिसंसारश्रुतेः । ५.१५ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः । ५.१६ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) अबाधे नैष्फल्यं । ५.१७ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) विद्याबाध्यत्वे जगतोऽप्येवं । ५.१८ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) तद्रूपत्वे सादित्वं । ५.१९ । (बन्धस्य अविद्यानिमित्तकत्ववादनिरासः) न धर्मापलापः प्रकृतिकार्यवैचित्र्यात् । ५.२० । (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) श्रुतिलिङ्गादिभिः तत्सिद्धिः । ५.२१ । (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) न नियमः प्रमाणान्तरावकाशात् । ५.२२ । (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) उभयत्राप्येवं । ५.२३ । (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) अर्थात्सिद्धिश्चेत्समानमुभयोः । ५.२४ । (प्रधानप्रवृत्तेः कर्मनिमित्तकत्वनिरासः) अन्तः करणधर्मत्वं धर्मादीनां । ५.२५ । (धर्माधर्मयोः अन्तः करणधर्मत्वं) गुणादीनां च नात्यन्तबाधः । ५.२६ । (सत्वादिगुणतद्धर्माणामत्यन्त निषेधस्यायुक्तता) पञ्चावयवयोगात्सुखसंवित्तिः । ५.२७ । (सत्वादिगुणतद्धर्माणामत्यन्त निषेधस्यायुक्तता) न सकृद्ग्रहणात्सम्बन्ध सिद्धिः । ५.२८ । (व्याप्तिस्वरूपं तत्साधनं च), पू नियतधर्मसाहित्यमुभयोरेकतरस्य वा व्याप्तिः । ५.२९ । (व्याप्तिस्वरूपं तत्साधनं च), सि न तत्वान्तरं वस्तुकल्पनाप्रसक्तेः । ५.३० । (परोक्तव्याप्तिस्वरूपादिखण्डनं) निजशक्त्युद्भवमित्याचार्याः । ५.३१ । (परोक्तव्याप्तिस्वरूपादिखण्डनं) आधेयशक्तियोग इति पञ्चशिखः । ५.३२ । (परोक्तव्याप्तिस्वरूपादिखण्डनं) न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तेः । ५.३३ । (परोक्तव्याप्तिस्वरूपादिखण्डनं) विशेषेणानर्थक्य प्रसक्तेः । ५.३४ । (परोक्तव्याप्तिस्वरूपादिखण्डनं) पल्लवादिष्वनुपपत्तेश्च । ५.३५ । (परोक्तव्याप्तिस्वरूपादिखण्डनं) आधेयशक्तिसिद्धौ निजशक्तियोगः समानन्यायात् । ५.३६ । (परोक्तव्याप्तिस्वरूपादिखण्डनं) वाच्यवाचक भावः सम्बन्धः शब्दार्थयोः । ५.३७ । (शब्दप्रामाण्यसाधनं) त्रिभिस्साम्बन्धसिद्धिः । ५.३८ । (लोकवेदयोः शक्तिग्रहणोपायाः) न कार्ये नियमः उभयथा दर्शनात् । ५.३९ । (लोकवेदयोः शक्तिग्रहणोपायाः) लोके व्युत्पन्नस्य वेदार्थप्रतीतिः । ५.४० । (लोकवेदयोः शक्तिग्रहणोपायाः) न त्रिभिरपौरुषेयत्वाद्वेदस्य तदर्थस्याप्यतीन्द्रियत्वात् । ५.४१ । (वेदस्य अतीन्द्रियार्थत्वनिराकरणं), पू न यज्ञादेः स्वरूपतो धर्मत्वं वैशिष्ट्यात् । ५.४२ । (वेदस्य अतीन्द्रियार्थत्वनिराकरणं), सि निजशक्तिः व्युत्पत्त्या व्यवच्छिद्यते । ५.४३ । (वैदिकशब्दशक्तिग्रहव्यवस्था) योग्यायोग्येषु प्रतीतिजनकत्वात्तत्सिद्धिः । ५.४४ । (वैदिकशब्दशक्तिग्रहव्यवस्था) न नित्यत्वं वेदानां कार्यत्वश्रुतेः । ५.४५ । (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) न पौरुषेयत्वं तत्कर्तुः पुरुषस्याभावात् । ५.४६ । (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) मुक्तामुक्तयोरयोग्यत्वात् । ५.४७ । (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) नापौरुषेयत्वान्नित्यत्वमङ्कुरादिवत् । ५.४८ । (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) तेषामपि तद्योगे दृष्टबाधादिप्रसक्तिः । ५.४९ । (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) यस्मिनदृष्टेऽपि कृतबुद्धिरुपजायते तत्पौरुषेयं । ५.५० । (वेदस्य नित्यत्वापौरूषेयत्वयोर्निरासः) निजशक्त्यभिव्यक्तेः स्वतः प्रामाण्यं । ५.५१ । (वेदानां स्वतः प्रामाण्यं) नासतः ख्यानं नृशृङ्गवत् । ५.५२ । (गुणानां नात्यन्तासत्त्वमनिर्वचनीयत्वं वा) न सतो बाधदर्नात् । ५.५३ । (गुणानां नात्यन्तासत्त्वमनिर्वचनीयत्वं वा) नानिर्वचनीयस्य तदभावात् । ५.५४ । (गुणानां नात्यन्तासत्त्वमनिर्वचनीयत्वं वा) नान्यथाख्यातिः स्ववचोव्याघातात् । ५.५५ । (अन्यथाख्यातिनिरासः) सदसत्ख्यातिः बाधाबाधात् । ५.५६ । (सदसत्ख्याति निरासः) प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्दः । ५.५७ । (स्फोटनिरासः) न शब्दनित्यत्वं कार्यताप्रतीतेः । ५.५८ । (वर्णनित्यत्वनिरासः) पूर्वसिद्ध सत्त्वस्याभिव्यक्तिः दीपेनेव घटस्य । ५.५९ । (वर्णनित्यत्वनिरासः), पू सत्कार्यसिद्धान्तश्चेत्सिद्धसाधनं । ५.६० । (वर्णनित्यत्वनिरासः), सि नाद्वैतमात्मनो लिङ्गात्तद्भेदप्रतीतेः । ५.६१ । (आत्माद्वैत निरासः) नानात्मापि प्रत्यक्षबाधात् । ५.६२ । (आत्माद्वैत निरासः) नोभाभ्यां तेनैव । ५.६३ । (आत्माद्वैत निरासः) अन्यपरत्वमविवेकानां तत्र । ५.६४ । (आत्माद्वैतनिरासः) नात्माविद्या नोभयं जगदुपादानकारणं निस्सङ्गत्वात् । ५.६५ । (आत्माद्वैतनिरासः) नैकस्यानन्दचिद्रूपत्वे द्वयोर्भेदात् । ५.६६ । (आत्माद्वैतनिरासः) दुःखनिवृत्तेर्गौणः । ५.६७ । (आत्माद्वैतनिरासः) विमुक्तिप्रशंसा मन्दानां । ५.६८ । (आत्माद्वैतनिरासः) न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा वास्यादिवच्चक्षुरादिवच्च । ५.६९ । (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) सक्रियत्वात्गतिश्रुतेः । ५.७० । (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) न निर्भागत्वं तद्योगात्घटवत् । ५.७१ । (मनसोनिरवयवत्व विभुत्वनित्यनां निरासः) प्रकृतिपुरुषयोरन्यत्सर्वमनित्यं । ५.७२ । (प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं) न भागलाभो भागिनो निर्भागत्वश्रुतेः । ५.७३ । (प्रकृतिपुरुषातिरिक्तस्य सर्वस्यानित्यत्वं) नानन्दाभिव्यक्तिर्मुक्तिः निर्धर्मत्वात् । ५.७४ । (मुक्तेः आनन्दाभिव्यक्तिरूपत्वाभावः) न विशेषगुणोच्छित्तिस्तद्वत् । ५.७५ । (मुक्तेः विशेषगुणोच्छेदस्वरूपत्वाभावः) न विशेषगतिः निष्क्रियस्य । ५.७६ । (मुक्तेः लोकान्तरगतिरूपत्वाभावः) नाकारोपरागोच्छित्तिः क्षणिकत्वादिदोषात् । ५.७७ । (मुक्तेः उपरागनाश, सर्वोच्छित्तिरूपत्वाभावः) न सर्वोच्छित्तिरपुरुषार्थत्वादिदेषात् । ५.७८ । (मुक्तेः शून्यादिरूपत्वानुपपत्तिः) एवं शून्यमपि । ५.७९ । (मुक्तेः शून्यादिरूपत्वानुपपत्तिः) संयोगाश्च विभागान्ता इति न देशादिलाभोऽपि । ५.८० । (मुक्तेः स्वाम्यविशेषादिरूपत्वाभावः) न भागियोगो भागस्य । ५.८१ । (मुक्तेः लयरूपत्वाभावः) नाणिमादियोगोऽप्यवश्यंभावित्वात्तदुच्छित्तेरितरयोगवत् । ५.८२ । (मुक्तेः ऐश्वर्य पदवीविशेषादिरूपत्वाभावः) नेन्द्रादिपदयोगोऽपि तद्वत् । ५.८३ । (मुक्तेः ऐशेवर्य पदवीविशेषादिरूपत्वाभावः) न भूतप्रकृतिकत्वमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः । ५.८४ । (इन्द्रियाणां भूतप्रकृतिकत्वनिरासः) न षट्पदार्थनियमस्तद्बोधान्मुक्तिः । ५.८५ । (परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः) षोडशादिष्वप्येवं । ५.८६ । (परोक्त पदार्थसंख्यानियमस्य, तद्धोधस्य मुक्तिहेतुतायाश्च निरासः) नाणुनित्यता तत्कार्यत्वश्रुतेः । ५.८७ । (अणूनां नित्यत्वनिरासः) न निर्भागत्वं कार्यत्वात् । ५.८८ । (अणूनां नित्यत्वनिरासः) न रूपनिबन्धनात्प्रत्यक्षनियमः । ५.८९ । (परिमाणस्वरूपादि निर्णयः) न परिमाणचातुर्विध्यं द्वाभ्यां तद्योगात् । ५.९० । (सामान्यसाधनं, तत्स्वरूपं च) अनित्यत्वेऽपि स्थिरतायोगात्प्रत्यभिज्ञानं सामान्यस्य । ५.९१ । (सामान्यसाधनं, तत्स्वरूपं च) न तदपलापस्तस्मात् । ५.९२ । (सामान्यसाधनं, तत्स्वरूपं च) नान्यनिवृत्तिरूपत्वं भावप्रतीतेः । ५.९३ । (साहश्यस्य तत्त्वान्तरता निराकरणं) न तत्त्वान्तरं सादृश्य प्रत्यक्षोपलब्धेः । ५.९४ । (सादृश्यस्य तत्त्वान्तरता निराकरणं) निजशक्त्यभिव्यक्तिर्वा वैशिष्ट्यात्तदुपलब्धेः । ५.९५ । (सादृश्यस्य तत्त्वान्तरता निराकरणं) न संज्ञासंज्ञि सम्बन्धोऽपि । ५.९६ । (सादृश्यस्य तत्त्वान्तरता निराकरणं) न सम्बन्धनित्यतोभयानित्यत्वात् । ५.९७ । (सादृश्यस्य तत्त्वान्तरता निराकरणं) नाजः सम्बन्धः धर्मिग्राहकप्रमाणबाधात् । ५.९८ । (सादृश्यस्य तत्त्वान्तरता निराकरणं) न समवायोऽस्ति प्रमाणाभावात् । ५.९९ । (समवाय निरासः) उभयत्राप्यन्यथासिद्धेर्न प्रत्यक्षमनुमानं वा । ५.१०० । (समवायनिरासः) नानुमेयत्वमेव क्रियायाः नेदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतेः । ५.१०१ । (क्रियायाः अनुमेयतानैयत्यनिरासः) न पाञ्चभौतिकं शरीरं बहूनामुपादानायोगात् । ५.१०२ । (शरीरस्य पाञ्चभौतिकत्वनिरासः) न स्थूलमिति नियमः आतिवाहिकस्यापि विद्यामानत्वात् । ५.१०३ । (शरीरसामान्यस्य स्थूलत्वनिरासः) नाप्राप्तप्रकाशकत्वमिन्द्रियाणामप्राप्तेः सर्वप्राप्तेर्वा । ५.१०४ । (इन्द्रियाणां प्राप्यकारित्वनिरूपणं) न तेजोऽपसर्पणात्तैजस चक्षुः वृत्तितस्तत्सिद्धेः । ५.१०५ । (इन्द्रियाणां प्राप्यकारित्वनिरूपणं) प्राप्तर्थप्रकाशलिङ्गात्वृत्तिसिद्धिः । ५.१०६ । (इन्द्रियाणां प्राप्यकारित्वनिरूपणं) भागगुणाभ्यां तत्वान्तरं वृत्तिः सम्बन्धार्थं सर्पतीति । ५.१०७ । (वृत्तेः स्वरूपं) न द्रव्यनियमस्तद्योगात् । ५.१०८ । (वृत्तेः स्वरूपं) न देशभेदेऽप्यन्योपादानतास्मदादिवन्नियमः । ५.१०९ । (इन्द्रियाणामभौतिकत्वं) निमित्तव्यपदेशात्तदव्यपदेशः । ५.११० । (इन्द्रियाणामभौतिकत्वं) ऊष्मजाण्डजजरायुजोद्भिज्जसाङ्काल्पिक सांसिद्धिकं चेति न नियमः । ५.१११ । (स्थूलशरीरविशेषाः) सर्वेषु पृथिव्युपादानमसाधारण्यात्तद्व्यपदेशः पूर्ववत् । ५.११२ । (स्थूलशरीरविशेषाः) न देहारम्भकस्य प्राणत्वमिन्द्रियशक्तितस्तत्सिद्धेः । ५.११३ । (प्रणस्य देहारम्भकत्वाभावः) भोक्तुराधिष्ठानात्भोगायतननिर्माणमन्यथा पूतिभावप्रसङ्गात् । ५.११४ । (देहाधिष्ठातृ निर्णयः) भृत्यद्वारा स्वाम्यधिष्ठितिर्नैकान्त्यात् । ५.११५ । (देहाधिष्ठातृ निर्णयः) समाधिसुषुप्तिमोक्षेषु ब्रह्मरूपता । ५.११६ । (आत्मनो नित्यमुक्तत्वोपपादनं) द्वयोः सबीजमन्यत्र तद्धतिः । ५.११७ । (सुषुप्तिसमाधिभ्यां मोक्षे विशेषः) द्वयोरिव त्रयस्यापि दृष्टत्वात्न तु द्वौ । ५.११८ । (मोक्षे प्रमाणं) वासनया न स्वार्थख्यापनं दोषयोगेऽपि न निमित्तस्य प्रधानबाधकत्वं । ५.११९ । (सुषुप्तौ आत्मनः ब्रह्मरूपत्व साधनं) एकः संस्कारः क्रियानिर्वर्तकः न तु प्रतिक्रियं संस्कारभेदा बहुकल्पनाप्रसक्तेः । ५.१२० । (जीवन्मुक्तेऽपि संस्कारानुवृत्तिः) न बाह्यबुद्धिनियमः वृक्षगुल्मलतौषधिवनस्पतितृणवीरूधादीनामपि भोक्तृभोगायतनत्वं पूर्ववत् । ५.१२१ । (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) स्मृतेश्च । ५.१२२ । (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) न देहमात्रतः कर्माधिकारित्वं वैशिष्टयश्रुतेः । ५.१२३ । (शरीरसामान्ये बाह्यज्ञानसत्तानियमाभावः) त्रिधात्रयाणां व्यवस्था कर्मदेहोपभोगदेहोभयदेहाः । ५.१२४ । (देहेषु चातुर्विध्यं) न किञ्चिदप्यनुशयिनः । ५.१२५ । (देहेषु चातुर्विध्यं) न बुद्ध्यादिनित्यत्वमाश्रयाविशेषेऽपि वह्निवत् । ५.१२६ । (बुद्धीच्छादीनां नित्यतानिरासः) आश्रयासिद्धेश्च । ५.१२७ । (बुद्धीच्छादीनां नित्यतानिरासः) योगसिद्धयोऽप्यौषधादिसिद्विवन्नापलापनीयाः । ५.१२८ । (सिद्धीनां सत्यता) न भूतचैतन्यं प्रत्येकादृष्टेः सांहत्येऽपि च सांहत्येऽपि च । ५.१२९ । (भूतचैतन्यवाद निरासः) तन्त्राध्यायः अस्त्यात्मा नास्तित्वसाधनाभावात् । ६.१ । (आत्मास्तित्व निरूपणं) देहादिव्यतिरिक्तोऽसौ वैचित्र्यात् । ६.२ । (आत्मास्तित्व निरूपणं) षष्ठीव्यपदेशादपि । ६.३ । (आत्मास्तित्व निरूपणं) न शिलापुत्रवत्, धर्मिग्राहकमानबाधात् । ६.४ । (आत्मास्तित्व निरूपणं) अत्यन्तदुःखनिवृत्त्या कृतकृत्यता । ६.५ । (आत्मनः कृतकृत्यतानिमित्तं) यथा दुःखात्क्लेशः पुरुषस्य, न तथा सुखाभिलाषः । ६.६ । (आत्मनः कृतकृत्यतानिमित्तं) कुत्रापि कोऽपि सुखीति । ६.७ । (दुःखनिवृत्तेरेव पुरुषार्थत्वं) तदपि दुःखशबलितमिति दुःखपक्षे निक्षिपन्ते विवेचकाः । ६.८ । (दुःखनिवृत्तेरेव पुरुषार्थत्वं) सुखलाभाभावादपुरुषार्थत्वामिति चेन्न द्वैविध्यात् । ६.९ । (दुःखनिवृत्तेरेव पुरुषार्थत्वं) निर्गुणत्वमात्मनोऽसङ्गत्वादिश्रुतेः । ६.१० । (गुणबन्धस्यैव अविवेकमूलत्वं), पू परमधर्मत्वेऽपि तत्सिद्धिरविवेकात् । ६.११ । (गुणबन्धस्यैव अविवेकमूलत्वं), सि अनादिरविवेकः अन्यथा दोषद्वयप्रसक्तेः । ६.१२ । (अविवेकस्यानादित्वं) न नित्यः स्यादात्मवदन्यथानुच्छित्तिः । ६.१३ । (अविवेकस्यानादित्वं) प्रतिनियतकारण नाश्यत्वमस्य ध्वान्तवत् । ६.१४ । (मुक्तिकारणविवरणं) अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात् । ६.१५ । (मुक्तिकारणविवरणं) प्रकारान्तरासम्भवादविवेक एव बन्धः । ६.१६ । (बन्धस्वरूपं) न मुक्तस्य पुनर्बन्धयोगोऽप्यनावृत्ति श्रुतेः । ६.१७ । (मुक्तेर्नित्यत्वं) अपुरुषार्थत्वमन्यथा । ६.१८ । (मुक्तेर्नित्यत्वं) अविशेषापत्तिरुभयोः । ६.१९ । (मुक्तेर्नित्यत्वं) मुक्तिरन्तराय ध्वस्तेर्न परः । ६.२० । (अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं) तत्राप्यविरोधः । ६.२१ । (अन्तरायध्वंसमात्रस्य मुक्तिरूपत्वं) अधिकारित्रैविध्यान्न नियमः । ६.२२ । (अधिकारिभेदेन अन्तरायध्वसनिष्पत्तिभेदः) दार्ढ्यार्थमुत्तरेषां । ६.२३ । (नियमानामावश्यकता) स्थिरसुखमासनमिति न नियमः । ६.२४ । (नियमानामावश्यकता) ध्यानं निर्विषयं मनः । ६.२५ । (ध्यानस्वरूपं) उभयथाप्यविशेषश्चेन्नैवमुपरागनिरोधाद्विशेषः । ६.२६ । (योगस्यावश्कता) निस्सङ्गेऽप्युपरागोऽविवेकात् । ६.२७ । (उपरागहेतुः) जपास्फटिकयोरिव नोपरागः किन्त्वभिमानः । ६.२८ । (उपरागहेतुः) ध्यानधारणाभ्यास वैराग्यादिभिः तन्निरोधः । ६.२९ । (उपराग निरोधहेतुः) लयविक्षेपयोर्व्यावृत्त्येत्याचार्याः । ६.३० । (उपराग निरोधहेतुः) न स्थाननियमः चित्तप्रसादात् । ६.३१ । (उपराग निरोधहेतुः) प्रतेराद्योपादानतान्येषां कार्यत्वश्रुतेः । ६.३२ । (प्रकृतेरेव जगन्मूलता) नित्यत्वेऽपि नात्मनो योग्यत्वाभावात् । ६.३३ । (प्रकृतेरेव जगन्मूलता) श्रुतिविरोधान्न कुतर्कापसदस्यात्मलाभः । ६.३४ । (प्रकृतेरेव जगन्मूलता) पारम्पर्येऽपि प्रधानानुवृत्तिरणुवत् । ६.३५ । (प्रकृतेरेव जगन्मूलता) सर्वत्र कार्यदर्शनात्विभुत्वं । ६.३६ । (प्रकृतेरेव जगन्मूलता) गतियोगेऽप्याद्यकारणताहानिरणुवत् । ६.३७ । (प्रकृतेरेव जगन्मूलता) प्रसिद्धाधिक्यं प्रधानस्य न नियमः । ६.३८ । (प्रकृतेरेव जगन्मूलता) सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वात् । ६.३९ । (प्रकृतेः गुणरूपतासाधनं) अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुङ्कुमवहनवत् । ६.४० । (प्रधानप्रवृत्तिहेतुः) कर्मवैचित्र्यात्सृष्टिवैचित्र्यं । ६.४१ । (प्रधानप्रवृत्तिहेतुः) साम्यवैषम्याभ्यां कार्यद्वयं । ६.४२ । (सृष्टिप्रलनिमित्ते) विमुक्तबोधान्न सृष्टिः प्रधानस्य लोकवत् । ६.४३ । (प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) नान्योपसर्पणेऽपि मुक्तोपभोगः निमित्ताभावात् । ६.४४ । (प्रधानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) पुरुषबहुत्वं व्यवस्थातः । ६.४५ । (प्रघानस्यसृष्ट्युपरमनिमित्तादि निरूपणं) उपाधिश्चेत्तत्सिद्धौ पुनर्द्वैतं । ६.४६ । (उपाधिभेदात्बन्धमोक्षव्यवस्थाभावः) द्वाभ्यामपि प्रमाणविरोधः । ६.४७ । (अविद्यापुरुषयोरस्तित्वाङ्गीकारे अद्वैद्यविरोधः) द्वाभ्यामप्यविरोधान्नपूर्वमुत्तरं च साधाकाभावात् । ६.४८ । (अविधापुरुषयोरास्तित्वाङ्गीकारे अद्वैद्यविरोधः) प्रकाशतस्तत्सिद्धौ कर्मकर्तृविरोधः । ६.४९ । (आत्मनः प्रकाशस्वरूपत्वे दोषः) जडव्यावृत्तो जडं प्रकाशयति चिद्रूपः । ६.५० । (आत्मनः प्रकाशस्वरूपत्वे दोषः) न श्रुतिविरोधो रागिणां वेराग्याय तत्सिद्धेः । ६.५१ । (अद्वैतश्रुतेः स्वपक्षे सामरस्यं) जगत्सत्यत्वमदुष्टकरणजन्यत्वं बाधकाभावात् । ६.५२ । (जगत्सत्यत्वसाधनं) प्रकारान्तरासंभवात्सदुत्पत्तिः । ६.५३ । (सत्कार्यवादस्यैव साधुता) अहङ्कारः कर्ता न पुरुषः । ६.५४ । (अहङ्कारस्यैव कर्तृत्वं) चिदवसाना भुक्तिः तत्कर्मार्जितत्वात् । ६.५५ । (भोगोपाधिः) चन्द्रादिलोकेप्यावृत्तिः निमित्तसद्भावात् । ६.५६ । (पुनरावृत्तिहेतुः) लोकस्य नोपदेशात्सिद्धिः पूर्ववत् । ६.५७ । (पुनरावृत्तिहेतुः) पाराम्पर्येण तत्सिद्धौ विमुक्तिश्रुतिः । ६.५८ । (पुनरावृत्तिहेतुः) गतिश्रुतेश्च व्यापकत्वेऽपि उपाधियोगात्भोगदेशकाललाभः व्योमवत् । ६.५९ । (आत्मनो गतिश्रुत्युपपत्तिः) अनधिष्ठितस्य पूतिभावप्रसङ्गान्न तत्सिद्धिः । ६.६० । (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) अदृष्टद्वाराचेदसम्बद्धस्य तदसम्भवाज्जलादिवदङ्कुरे । ६.६१ । (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) निर्गुणत्वात्तदसम्भवादहङ्कार धर्माते । ६.६२ । (देहरचनां प्रति भोक्त्रधिष्ठानस्यावश्यकता) विशिष्टस्य जीवत्वमन्वयव्यतिरेकात् । ६.६३ । (जीवत्वोपाधिः) अहङ्कारकर्त्रधीना कार्यसिद्धिर्नेश्वराधीना प्रमाणाभावात् । ६.६४ । (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) अदृष्टोद्भूतिवत्समानत्वं । ६.६५ । (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) महतोऽन्यत् । ६.६६ । (सृष्ट्यादीनां कालमात्रनिमित्ताहङ्कारादिकार्यता) कर्मनिमित्तः प्रकृतेः स्वस्वामिभावोऽप्यनादिः बीजाङ्कुरवत् । ६.६७ । (प्रकृतिपुरुषयोः भोग्यभोक्तृभावस्य अनादिकर्मनिमित्तकत्वं) अविवेकनिमित्तो वा पञ्चशिखः । ६.६८ । (तत्रैव मतभेदः) लिङ्गशरीरनिमित्तक इति सनन्दनाचार्यः । ६.६९ । (पुरुषार्थस्वरूपनिगमनं) तत्त्व समाससूत्राणि । ६.७० । (कपिलमहर्षिप्रणीतानि) ________________________________________________________________ तत्त्वपादः अथातस्तत्त्वसमासः । २.१.१ । अष्टौ प्रकृतयः । २.१.२ । षोडश विकाराः । २.१.३ । पुरुषः । २.१.४ । त्रैगुण्यं । २.१.५ । सञ्चरः । २.१.६ । प्रतिसञ्चरः । २.१.७ । अध्यात्मं । २.१.८ । अधिभूतं । २.१.९ । अधिदैवतं । २.१.१० । प्रकीर्णपादः पञ्चाभिबुद्धयः । २.२.१ । पञ्च कर्मयोनयः । २.२.२ । अञ्च वायवः । २.२.३ । पञ्च कर्मात्मानः । २.२.४ । पञ्चपर्वाविद्या । २.२.५ । अष्टाविंशतिधाशक्तिः । २.२.६ । नवधा तुष्टिः । २.२.७ । अष्टधा सिद्धिः । २.२.८ । दशमूलिकार्थाः । २.२.९ । अनुग्रहः सर्गः । २.२.१० । चतुर्दशविधो भूतसर्गः । २.२.११ । त्रिविधो बन्धः । २.२.१२ । त्रिविधो मोक्षः । २.२.१३ । त्रिविधं प्रमाणं । २.२.१४ । त्रिविधं दुःखं । २.२.१५ । एतत्परं याथातथ्यं । २.२.१६ । एतत्ज्ञात्वा कृतकृत्यः स्यात् । २.२.१७ । नासौ पुनः त्रिविधेन दुःखेनाभिभूयते नाभिभीयते । २.२.१८ ।