०००११ तां भवानीं भवानीतक्लेशनाशविशारदाम् । ०००१२ शारदां शारदां भोदसितंसिहासनां नुमः ॥ ०००२१ अनपेक्षितगुरुवचना सर्वान्ग्रन्थीन्विभेदयति सम्यक् । ०००२२ प्रकटयति पररहस्यं विमर्शशक्तिर्निजा जयति ॥ ०००३१ दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । ०००३२ स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ ०००४१ जगत्सिसृक्षाप्रलयक्रियाविधौ ०००४२ प्रयत्नमुन्मेषनिमेषविभ्रमम् । ०००४३ वदन्ति यस्येक्षणलोलपक्ष्मणां ०००४४ पराय तस्मै परमेष्ठिने नमः ॥ ०००५१ नमस्त्रिभुवनोत्पत्तिस्थितिसंहारहेतवे । ०००५२ विष्णवेपारसंसारपारोत्तरणसेतवे ॥ ०००६१ सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । ०००६२ नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ ०००७१ नमस्तस्मै वराहाय हेलयोद्धरते महीम् । ०००७२ खुरमध्यगतो यस्य मेरुः खुरखुरायते ॥ ०००८१ नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । ०००८२ त्रैलोक्यनगरारम्भमूलस्तम्भाय शंभवे ॥ ०००९१ अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि । ०००९२ सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥ ००१०१ नितम्बालसगामिन्यः पीनोन्नतपयोधराः । ००१०२ मन्मथाय नमस्तस्मै यस्यायतनमङ्गनाः ॥ ००१११ अनन्तमामधेयाय सर्वाकरविधायिने । ००११२ समस्तमन्त्रवाच्याय विश्वैकपतये नमः ॥ ००१२१ ओं नमः परमार्थैकरूपाय परमात्मने । ००१२२ स्वेच्छावभासितासत्यभेदभिन्नाय शंभवे ॥ ००१३१ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् । ००१३२ नमोधितिष्ठतेनन्तनालं कमलविष्टरम् ॥ ००१४१ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । ००१४२ भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ ००१५१ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने । ००१५२ त्रिगुणाष्टगुणानन्तगुणन्निर्गुणमूर्तये ॥ ००१६१ नमः शिवाय निःशेषक्लेशप्रशमशालिने । ००१६२ त्रिगुणग्रन्थिदुर्भेदभवबन्धविभेदिने ॥ ००१७१ समस्तलक्षणायोग एव यस्योपलक्षणम् । ००१७२ तस्मै नमोस्तु देवाय कस्मैचिदपि शंभवे ॥ ००१८१ संसारैकनिमित्ताय संसारैकविरोधिने । ००१८२ नमः संसाररूपाय निःसंसाराय शंभवे ॥ ००१९१ यथा तथापि यः पूज्यो यत्र तत्रापि योर्चितः । ००१९२ योपि वा सोपि वा योसौ देवस्तस्मै नमोस्तु ते ॥ ००२०१ सदसत्त्वेन भावानां युक्ता या द्वितयी स्थितिः । ००२०२ तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शंभवे ॥ ००२११ नमः स्वतन्त्रचिच्छक्तिमुद्रितस्वविभूतये । ००२१२ अव्यक्तव्यक्तरूपाय कस्मैचिन्मन्त्रमूर्तये ॥ ००२२१ आसन्नाय सुदूराय गुप्ताय प्रकटात्मने । ००२२२ सुलभायातिदुर्गाय नमश्चित्राय शंभवे ॥ ००२३१ चराचरजगत्स्फारस्फुरत्तामात्रधर्मिणे । ००२३२ दुर्विज्ञेयरहस्याय युक्तैरप्यात्मने नमः ॥ ००२४१ विष्णुर्वा त्रिपुरान्तको भवतु वा ब्रह्मा सुरेन्द्रोथवा ००२४२ भानुर्वा शशलक्षणोथ भगवान्बुद्धोथ सिद्धोथवा । ००२४३ रागद्वेषविषार्तिमोहरहितः सत्त्वानुकम्पोद्यतो ००२४४ यः सर्वैः सह संस्कृतो गुणगुणैस्तस्मै नमः सर्वदा ॥ ००२५१ श्लोकोयं स्वामिदत्तस्य तत्स्मृत्यै काव्यलक्षितः । ००२५२ योकरोत्कविनामाङ्कं चक्रपाणिययाभिधम् ॥ ००२६१ भवबीजाङ्कुरजलदा रागाद्याः क्षयमुपागता यस्य । ००२६२ ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ ००२७१ कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं ००२७२ नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् । ००२७३ सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं ००२७४ बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ ००२८१ अविरताम्बुजसंगतिसंगलद्बहलकेसरसंवलितेव वः । ००२८२ ललितवस्तुविधानसुखोल्लसत्तनुरुहा तनुरात्मभुवोवतात् ॥ ००२९१ लक्ष्मीकपोलसंक्रान्तकान्तपत्त्रलतोज्ज्वलाः । ००२९२ दोर्द्रुमाः पान्तु वः शौरेर्घनच्छाया महाफलाः ॥ ००३०१ पातु वो मेदिनीदोला बलेन्दुद्युतितस्करी । ००३०२ दंष्ट्रा महावराहस्य पातलगृहदीपका ॥ ००३११ मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली यः । ००३१२ मम रतिममरतिरस्कृतिशमनपुरः स क्रियात्कृष्णः ॥ ००३२१ स पातु वो यस्य हतावशेषास् ००३२२ तत्तुल्यवर्णाञ्जनरञ्जितेषु । ००३२३ वालण्ययुक्तेष्वपि वित्रसन्ति ००३२४ दैत्याः स्वकान्तानयनोत्पलेषु ॥ ००३३१ चण्डचाणूरदोर्दण्डमण्डलीखण्डमण्डितम् । ००३३२ अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपुः ॥ ००३४१ गोवर्धनोद्धरणहृष्टसमस्तगोप ००३४२ नानास्तुतिश्रवणलज्जितमानसस्य । ००३४३ स्मृत्वा वराहवपुरिन्दुकलाप्रकाश ००३४४ दंष्ट्रोद्धृतक्षिति हरेरवतु स्मितं वः ॥ ००३५१ मन्थक्ष्माधरघूर्णितार्णवपयः पूरान्तरालोल्लसल् ००३५२ लक्ष्मीकन्दलकोमलाङ्गदलनप्रादुर्भवत्संभ्रमाः । ००३५३ हर्षोत्कण्टकितत्वचो मधुरिपोर्देवासुराकर्षण ००३५४ व्यापारोपरमाय पान्तु जगतीमाबद्धवीप्सा गिरः ॥ ००३६१ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् ००३६२ निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । ००३६३ यत्संस्कारकलानुवर्तनवशाद्वेलानिभेनाम्भसो ००३६४ यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ ००३७१ किंचित्कुञ्चितलोचनस्य पिबतः पर्याप्तमेकं स्तेनं ००३७२ सद्यःप्रस्रुतदुघविन्दुमपरं हस्तेन संमार्जतः । ००३७३ मात्रैकाङ्गुलिलालितस्य चिबुके स्मेराननस्यानना ००३७४ च्छौरेः क्षीरकणावलीव पतिता दन्तद्युतिः पातु वः ॥ ००३८१ कालिन्दीपुलिनोदरेषु मुसली यावद्गतः क्रीडितुं ००३८२ तावत्कर्बुरिकापयः पिब हरे वर्धिष्यते ते शिखा । ००३८३ इत्थं बालतया प्रतारणपराः श्रुत्वा यशोदागिरः ००३८४ पायाद्वः स्वशिखां स्पृशन्प्रमुदितः क्षीरेर्धपीते हरिः ॥ ००३९१ आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं ००३९२ साशङ्कं बलविद्विषा सकुसुमं सिद्धैः पृथिव्याकुलम् । ००३९३ सेर्ष्यं गोपकुमारकैः सकरुणं पौरैः सुरैः सस्मितं ००३९४ यो दृष्टः स पुनातु वो मधुरिपुः प्रोत्क्षिप्रगोवर्धनः ॥ ००४०१ कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया ००४०२ सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । ००४०३ व्यादेहीति विकासितेथ वदने माता समस्तं जगद् ००४०४ दृष्ट्वा यस्य जगाम विस्मयवशं पायात्स वः केशवः ॥ ००४११ किं युक्तं बत मामनन्यमनसं वक्षःस्थलस्थायिनीं ००४१२ भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव । ००४१३ इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं ००४१४ निद्राछेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ ००४२१ स्वप्रासादितदर्शनामनुनयन्प्रानेश्वरीमादरा ००४२२ दंसेस्मिन्पतितैरपाङ्गवलितैर्यद्बोधितोप्यश्रुभिः । ००४२३ प्रत्याय्यस्त्वमतो मया ननु हरे कोयं क्रमव्यत्ययः ००४२४ पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकर्शार्ङ्गिणः ॥ ००४३१ भक्तिप्रह्वविलोकनप्रणयिणी नीलोत्पलस्पर्धिनी ००४३२ ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । ००४३३ लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती ००४३४ युष्माकं कुरुतां भवार्तिहरणं नेत्रे तनुर्वा हरेः ॥ ००४४१ येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो ००४४२ यश्चोद्वृत्तभुजंगरहारवलयो गङ्गां च योधारयत् । ००४४३ यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः ००४४४ पापात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥ ००४५१ किंचिन्निर्मुच्यमाने गगन इव मुखे नाट्यनिद्रापयोदैर् ००४५२ न्यक्कुर्वाणे स्वभासा फणिपतिशिरसां रत्नदीपांशुजालम् । ००४५३ पायास्तां वो मुरोरेः शशितपनमये लोचने यद्विभासा ००४५४ लक्ष्म्या कस्तस्थमर्धं विकसति कमलस्यार्धमभ्येति निद्राम् ॥ ००४६१ मल्लैः शैलेन्द्रकल्पः शिशुरखिलजनैः पुष्पचापोङ्गनाभिर् ००४६२ गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोप्रमेयः । ००४६३ क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिर् ००४६४ दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ ००४७१ भिन्दन्नरातिहृदयानि हरेः पुनातु ००४७२ निःश्वासवातमुखरीकृतकोटरो वः । ००४७३ संक्रान्तकुक्षिकुहरास्पदसप्तसिन्धु ००४७४ संघट्टघोरतरघोष इवाशु शङ्खः ॥ ००४८१ पायात्स वः कुमुदकुन्दमृणालगौरः ००४८२ शङ्खो हरेः करतलाम्बरपूर्णचन्द्रः । ००४८३ नादेन यस्य सुरशत्रुविलासिनीनां ००४८४ काञ्च्यो भवन्ति शिथिला जघनस्थलीषु ॥ ००४९१ दृष्टस्य यस्य हरिणा रणमूर्ध्नि मूर्तिर् ००४९२ उद्भूतदुःसहमहःप्रसरा समन्तात् । ००४९३ तल्लोचनस्थितरविप्रतिबिम्बगर्भे ००४९४ वाभाति चक्रमरिचक्रनुदेस्तु तद्वः ॥ ००५०१ उद्वृत्तदैत्यपृतनापतिकण्ठपीठ ००५०२ च्छेदोच्छलद्बहलशोणितशोणधारम् । ००५०३ चक्रं क्रियादभिमतानि हरेरुदार ००५०४ दिग्दाहदारुणनभःश्रियमुद्वहद्वः ॥ ००५११ यस्योद्यद्बाणवाहुद्रुमगहनवनच्छेदगोष्ठीकुठारं ००५१२ चक्रं निष्क्रान्ततीव्रानलबहलकणाकीर्णधारं विचिन्त्य । ००५१३ जातग्रासावसायो दिवसकृतिसलन्मांसलांशुप्रवाहे ००५१४ मुह्यत्यद्यापि राहुः स दहतु दुरितान्याशु दैत्यान्तको वः ॥ ००५२१ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र ००५२२ रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः । ००५२३ बालेन्दुकोटिकुटिलाः शुकचञ्चुभासो ००५२४ रक्षन्तु सिंहवपुषो नखरा हरेर्वः ॥ ००५३१ आदित्याः किं दशैते प्रलयभयकृतः स्वीकृताकाशदेशाः ००५३२ किं वोल्कामण्डलानि त्रिभुवनदहनायोद्यतानीति भीतैः । ००५३३ पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रतः शार्ङ्गपाणेर् ००५३४ दृष्ट्वा दृप्तासुरोरस्तलदरणगलद्रक्तरक्ता नखा वः ॥ ००५४१ मेरूरुकेसरमुदारदिगन्तपत्त्रम् ००५४२ आमूललम्बिचलशेषशरीरनालम् । ००५४३ येनोद्धृतं कुवलयं सलिलात्सलीलम् ००५४४ उत्तंसकार्थमिव पातु स वो वराहः ॥ ००५५१ न मृद्नीयान्मृद्वी कथमिव मही पोत्रनिकषैर् ००५५२ मुखाग्निज्वालाभिः कनकगिरिरीयान्न विलयम् । ००५५३ न शुष्येयुः श्वासैः सलिलनिधयः सप्त च कथं ००५५४ वराहो वः पायादिति विपुलचिन्तापरिकरः ॥ ००५६१ स्वामी सन्भुवनत्रयस्य विकृतिं नीतोसि किं याच्ञया ००५६२ यद्वा विश्वसृजा त्वयैव न कृतं तद्दीयतां ते कुतः । ००५६३ दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये ००५६४ विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरिः पातु वः ॥ ००५७१ लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि याते ००५७२ श्वासग्रासोपयुक्ते मरुति जलनिधौ पायुरन्ध्रार्धपीते । ००५७३ पोत्रप्रान्तैकरोमान्तरविवरगतां मृग्यतः शार्ङ्गपाणेः ००५७४ क्रोडाकारस्य पृथ्वीमकलितविषयं वैभवं वः पुनातु ॥ ००५८१ क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दिग्धिपेन्द्रा ००५८२ हे मेरो मन्दरान्द्रे मलय हिमगिरे साधु वः क्ष्माधरत्वम् । ००५८३ शेष श्लाघ्योसि दीर्घैः पृथुभुवनभरोच्चण्डशौण्डैः शिरोभिः ००५८४ शंसन्सोत्प्रासमुच्चैरिति धरणिभृतः पातु युष्मान्वराहः ॥ ००५९१ आव्याद्वो वामनो यस्य कौस्तुभप्रतिबिम्बिता । ००५९२ कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ ००६०१ एकस्थं जीवितेशे त्वयि सकलजगत्सारमालोकयामः ००६०२ श्यामे चक्षुस्तवास्मिन्वपुषि निविशते नाल्पपुण्यस्य पुंसः । ००६०३ कस्यान्यत्रामृतेस्मिन्रतिरतिविपुला दृष्टिरेवामृतं ते ००६०४ दैत्यैरित्युच्यमानो मुनिभिरपि हरिः स्त्रैणरूपोवताद्वः ॥ ००६११ भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठ ००६१२ कण्डूयनक्षणसुखायितगाढनिद्रः । ००६१३ सुष्वाप दीर्घतरघर्घरघोरघोषः ००६१४ श्वासाभिभूतजलधिः कमठः स वोव्यातु ॥ ००६२१ स धूर्जटिजटाजूटो जायतां विजयाय वः । ००६२२ यस्यैकपलितभ्रान्तिं करोत्पद्यापि जाह्नवी ॥ ००६३१ स पातु वो यस्य जटाकलापे ००६३२ स्थितः शशाङ्कः स्फुटहारगौरः । ००६३३ नीलोत्पलानामिव नालपुञ्जे ००६३४ निद्रायमाणः शरदीव हंसः ॥ ००६४१ दिश्यात्स शीतकिरणाभरणः शिवं वो ००६४२ यस्योत्तमाङ्गभुवि विस्फुरदूर्मिपक्षा । ००६४३ हंसीव निर्मलशशाङ्ककलामृणाल ००६४४ कन्दार्थिनी सुरसरिन्नभसः पपात ॥ ००६५१ श्रेयांसि वो दिशतु यस्य सिताभ्रशुभ्रा ००६५२ विभ्राजते सुरसरिद्वरमौलिमाला । ००६५३ ऊर्ध्वेक्षणज्वलनतापविलीयमान ००६५४ चन्द्रामृतप्रविततामृतवाहिनीव ॥ ००६६१ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं ००६६२ शनैरेकीकृत्य प्रहसितमुखी शैलतनया । ००६६३ अवोचद्यं पश्योत्यवतु स शिवः सा च गिरिजा ००६६४ स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ ००६७१ एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा ००६७२ हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते । ००६७३ मुग्धो भूतिरियं कुतोत्र सलिलं भूतिस्तरङ्गायते ००६७४ एवं यो विनिगूहते त्रिपथगां पायात्स वः शंकरः ॥ ००६८१ आश्लेषाधरविम्बचुम्बनसुखालापस्मितान्यासतां ००६८२ दूरे तावदिदं मिथो न सुलभं जातं मुखालोकनम् । ००६८३ इत्थं व्यर्थकृतैकदेहघटनोपन्यासयोरावयोः ००६८४ केयं प्रेमविडम्बनेत्यवतु वः स्मेरोर्धनारीश्वरः ॥ ००६९१ मातर्जीव किमेतदञ्जलिपुटे तातेन गोपाय्यते ००६९२ वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् । ००६९३ मात्रैवं प्रहिते गृहे विघटयत्याकृष्य संध्याञ्जलिं ००६९४ शंभोर्भिन्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥ ००७०१ एकं चन्तच्छदस्य स्फुरति जपवशादर्धमन्यत्प्रकोपाद् ००७०२ एकः पाणिः प्रणन्तुं शिरसि कृतपदः क्षेप्तुमन्यस्तमेव । ००७०३ एकं ध्यानान्निमीलत्यपरमविषहं वीक्षितुं चक्षुरित्थं ००७०४ तुल्यानिच्छापि वामा तनुरवतु स वो यस्य संध्यावसाने ॥ ००७११ शैलराजतनयास्तनयग्मव्यापृतास्ययुगलस्य गृहस्य । ००७१२ शेषवक्रकमलानि मलं वो दुग्धपानविधुराणि हरन्तु ॥ ००७२१ करजालमपूर्वचेष्टितं वस्तदभीष्टप्रदमस्तु तिग्मभासअः । ००७२२ क्रियते भवबन्धनाद्विमुक्तिः प्रणतानामुपसेवितेन येन ॥ ००७३१ युष्माकमम्बरमणे प्रथमे मयूखास् ००७३२ ते मङ्गलं विदधतूदयरागभाजः । ००७३३ कुर्वन्ति ये दिवसजन्ममहोत्सवेषु ००७३४ सिन्दूरपाटलमुखीरिव दिक्पुरंध्रीः ॥ ००७४१ आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः ००७४२ सोष्माणो व्रणिनो विपक्षहृदय्प्रोन्माथिनः कर्कशाः । ००७४३ उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा ००७४४ योधा वारवधूस्तनाश्च न दधुः क्षोभं स वोव्याज्जिनः ॥ ००७५१ किं स्याद्भास्वान्न भानोरमृतघनरसस्यन्दिनः सन्ति पादाः ००७५२ किं वा राकाशशाङ्को नहि तुहिनरुचिः कुत्रचिन्निष्कलङ्कः । ००७५३ साक्षाच्चिन्तामणिः किं विपुलफलमणेः सौकुमार्यं कुतस्त्यं ००७५४ संदेहान्मुग्धधीभिः प्रथममिति मुनेः पातु दृष्टं वपुर्वः ॥ ००७६१ चिरमाविष्कृतप्रीतिभीतयः पान्तु वो द्विषाम् । ००७६२ वलयज्यारवोन्मिश्राश्चण्ड्याः कोदण्डकृष्टयः ॥ ००७७१ दिश्यान्महासुरशिरःसरसीप्सितानि ००७७२ प्रेङ्खन्नखावलिमयूखमृणालनालम् । ००७७३ चण्ड्याश्चलच्चटुलनूपुरचञ्चरीक ००७७४ झांकारहारि चरणाम्बुरुहद्वयं वः ॥ ००७८१ सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे ००७८२ सत्रासा भुजगे सविस्मयरसा चन्द्रेमृतस्यन्दिनि । ००७८३ सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे ००७८४ पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायस्तु वः ॥ ००७९१ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा ००७९२ धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । ००७९३ भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः ००७९४ शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ००८०१ पायाद्गजेन्द्रवदनः स इमां त्रिलोकीं ००८०२ यस्योद्गतेन गगने महता करेण । ००८०३ मूलावलग्नसितदन्तबिसाङ्कुरेण ००८०४ नालायितं तपनबिम्बसरोरुहस्य ॥ ००८११ सानन्दं नन्दिहस्ताहतमुरजरवाह्वतकौमारबर्हि ००८१२ त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि । ००८१३ गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर् ००८१४ वैनायक्यश्चिरं वो वदनविधुतयः पान्तु सीत्कारवत्यः ॥ ००८२१ धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला ००८२२ मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । ००८२३ इयाञ्जेतुं यस्य त्रिभुवनमदेहस्य विभवः ००८२४ स कामः कामान्वो दिशतु दयितापाङ्गवसतिः ॥ ००८३१ ब्रह्मा दक्षः कुबेरो यमवरुणमरुद्वह्निचन्द्रेन्द्ररुद्राः ००८३२ शैला नद्यः समुद्रा ग्रहगणमनुजा दैत्यगन्धर्वनागाः । ००८३३ द्वीःा नक्षत्रतारारविवसुमुनयो व्योम भूरश्चिनौ च ००८३४ संलीना यस्य सर्वे वपुषि स भगवापातु वो विश्वरूपः ॥ ००८४१ मुग्धे मुञ्च विषादमत्र बलजित्कम्पो गुरुस्त्यज्यतां ००८४२ सद्भावं भज पुण्डरीकनयने मान्यानिमान्मानय । ००८४३ लक्ष्मीं बोधयतः स्वयंवरविधौ धन्वन्तरेर्वाक्छला ००८४४ दन्यत्र प्रतिषेधमात्मनि विधिं शृण्वन्हरिः पातु वः ॥ ००८५१ दिश्यात्सुखं नरहरिर्भुवनैकवीरो ००८५२ यस्याहवे दितिसुतोद्दलनोद्यतस्य । ००८५३ क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं ००८५४ जानेभवन्निजनखेष्वपि यन्नतास्ते ॥ ००८६१ स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी ००८६२ का मात्रा मम विक्रमत्रयपदं दत्तं गृहीतां मया । ००८६३ मा देहीत्युशनाः कुतो हरिरयं पात्रं किमस्मात्परं ००८६४ यो हीत्थं बलिनार्चितो मखमुखे पायात्स वो वामनः ॥ ००८७१ चक्र ब्रूहि विभो गदे जय हरे कम्बो समाज्ञापय ००८७२ भो भो नन्दक जीव पन्नगरियो किं नाथ भिन्नो मया । ००८७३ को दैत्यः कतमो हिरण्यकशिपुः सत्यं भवद्भ्यः शपे ००८७४ केनास्त्रेण नखैरिति प्रवदतो विष्णोर्मुखं पातु वः ॥ ००८८१ चिन्ताचक्रिणि हन्त चक्रिणि भिया कुब्जासनेब्जासने ००८८२ नश्यद्धामनि तिग्मधामनि धृताशङ्के शशाङ्के भृशम् । ००८८३ भ्रश्यच्चेतसि च प्रचेतसि शुचा तान्ते कृतान्ते च यो ००८८४ व्यग्रोभूत्कटुकालकूटकवलीकाराय पायात्स वः ॥ ००८९१ नित्यं नरावृति निजानुभवैकमानम् ००८९२ आनन्दधाम जगदङ्कुरबीजमेकम् । ००८९३ दिग्देशकालकलनादिसमस्तहस्त ००८९४ मर्दासहं दिशतु शर्म महन्महो वः ॥ ००९०१ व्योम्नीव नीरदभरः सरसीव वीचि ००९०२ व्यूहः सहस्रमहसीव सुधांशुधाम् । ००९०३ यस्मिन्निदं जगदुदेति च लीयते च ००९०४ तच्छाम्भवं भवतु वैभवमृर्द्धये वः ॥ ००९११ लोकत्रयस्थितिलयोदयकेलिकारः ००९१२ कार्येण यो हरिहरद्रुहिणत्वमेति । ००९१३ देवः स विश्वजनवाङ्मनसातिवृत्ति ००९१४ शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ ००९२१ सर्वः किलायमवशः पुरुषाणुकर्म ००९२२ कायादिकारणगणो यदनुग्रहेण । ००९२३ विश्व प्रपञ्चरचनाचतुरत्वमेति ००९२४ स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ ००९३१ यः कन्दुकैरिव पुरंदर पद्मसद्म ००९३२ पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । ००९३३ खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या ००९३४ कान्तः कृतान्तदलनो लघयत्वधं वः ॥ ००९४१ मुक्तिर्हि नाम परमः पुरुषार्थ एकस् ००९४२ तामन्तरायमवयन्ति यदन्तरज्ञाः । ००९४३ किं भूयसा भवतु सैव सुधामयूख ००९४४ लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ००९५१ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ००९५२ ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । ००९५३ दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता ००९५४ श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ ००९६१ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतं शंसतां ००९६२ हन्ता भक्तिमतां सतां स्वसमतां कर्तापकर्तासताम् । ००९६३ देवः सेवकभुक्तिमुक्तिरचनाभूर्भूर्भुवःस्वस्त्रयी ००९६४ निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः ॥ ००९७१ राजा राजार्चिताङ्घ्रेरनुपचितकलो यस्य चूडामणित्वं ००९७२ नागा गागात्मजार्धं न भसितधवलं यद्वपुर्भूषयन्ति । ००९७३ मा रामारागिणी भून्मतिरिति यमिनां येन वोदाहि मारः ००९७४ स प्ताः सप्ताश्वनुन्नारुणकिरणनिभाः पातु बिभ्रत्त्रिनेत्रः ॥ ००९८१ राधामोहनमन्दिरं जगमिषोश्चन्द्रावलीमन्दिराद् ००९८२ राधो क्षेममिति प्रियस्य वचनं श्रुत्वाह चन्द्रावली । ००९८३ क्षेमं कंस ततः प्रियः प्रकुपितः कंसः क्व दृष्टस्त्वया ००९८४ राधा क्वेति तयोः प्रिसन्नमनसोर्हासोद्गमः पातु वः ॥ ००९९१ आकृष्टे युधि कार्मुके समवदद्वामः करो दक्षिणं ००९९२ रे रे दक्षिणहस्त भोजनमहादानादि ते कुर्वतः । ००९९३ पश्चाद्गन्तुमयुक्तमित्यथ पुनः सोप्यब्रवीदद्रवं ००९९४ प्रष्टुं राघवमाशु रावणशिरोवृन्दानि भिन्दानि किम् ॥ ०१००१ दृष्टः क्वापि स केशवो व्रजवधूमादाय कांचिद्गतः ०१००२ सर्वा एव हि वञ्चिताः खुल वयं सोन्वेषणीयो यदि । ०१००३ द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे ०१००४ गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरिः पातु वः ॥ ०१०११ मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं ०१०१२ कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजनः । ०१०१३ भ्रूभङ्गैर्विनिवारितोपि बहुशो जल्पन्यशोदाग्रतो ०१०१४ गोपीभिः करपद्ममुद्रितमुखः पायात्स वः केशवः ॥ ०१०२१ संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे ०१०२२ धत्से यच्च नदीं विलज्ज शिरसा तन्नाम सोढं मया । ०१०२३ श्रीर्यातामृतमन्थने यदि हरिं कस्माद्विषं भक्षितं ०१०२४ मा स्त्रीलंपट मां स्पृशेति गदितो गौर्या हरः पातु वः ॥ ०१०३१ कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेहं ०१०३२ केकामेकां वद पशुपतिर्नैव दृश्ये विषाणे । ०१०३३ मुग्धे स्थाणुः स चरति कथं जीवितेशः शिवाया ०१०३४ गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥ ०१०४१ कोयं द्वारि हरिः प्रयाह्युपवनः शाखामृगस्यात्र किं ०१०४२ कृष्णोहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । ०१०४३ मुग्धेहं मधुसूदनः पिब लतां तामेव तन्मीवले ०१०४४ इत्थं निर्वचनीकृतो दयितया ह्रीतो हरिः पातु वः ॥ ०१०५१ निर्लज्ज हरे किमिदं प्रमदानुगतः सदा परिभ्रमसि । ०१०५२ मुग्धे त्वत्संपर्कात्प्रमदो भवतीति किं चित्रम् ॥ ०१०६१ शठ वर्णयामि भवतो नारीणामुपरिभूयसी प्रीतिः । ०१०६२ प्रलपसि किमसंबद्धं कस्यारिषु विद्यते प्रेम ॥ ०१०७१ व्यामोहयसि किमेवं रामासक्तिं ब्रवीमि भवदीयाम् । ०१०७२ ज्येष्ठे भ्रातरि रामे न क्रियतां कथमिवासक्तिः ॥ ०१०८१ किं मामेवं भ्रमयसि शोचामि व्यसनमेव भवदीयम् । ०१०८२ निष्कारणकुपितायां त्वयि कथय किमल्पकं व्यसनम् ॥ ०१०९१ वक्रवचनैरमीभिर्गोपवधूमिति नरुत्तरीकृत्य । ०१०९२ मण्डलितगुरुपयोधरमुपगूढं पातु वः शौरेः ॥ ०११०१ अयि संप्रसीद पार्वति शिवोपि तव पादयोर्निपतितोहम् । ०११०२ शिव इति कथं हि जल्पसि सरुधिरगजचर्मसंवीतः ॥ ०११११ शिव इति यदि तव गदिते द्विगुणो रोषो भवाम्यहं स्थाणुः । ०१११२ स्थानुरसि सत्यमेतच्चेतसि भवतो न किंचिदपि ॥ ०११२१ त्यज रुषमवेहि मानिनि मामीश्वरमर्चितः त्रिभुवनस्य । ०११२२ त्र्यम्बक यदीश्वरस्त्वं नग्नः किं धूलिधूसरितः ॥ ०११३१ संप्रति किमत्र वक्ष्यसि पशुपतिरेषोस्मि पाण्डुरकपोले । ०११३२ पशुपतिरेव न गणयसि युक्तायुक्तानि यस्मात्त्वम् ॥ ०११४१ मुग्धे भ्रमसि किमेवं सत्यमिमं मां भवं विजानीहि । ०११४२ सत्यं भवोसि शठ हे येनातिविचित्ररूपोसि ॥ ०११५१ पण्डितबादस्तव यदि लोकेहं त्र्यम्बको विदित एषः । ०११५२ अम्बा ह्येकापि न ते प्रजल्पसि त्वं कुतस्तिस्रः ॥ ०११६१ वादो महानिहैव हि तथा विजानीह्यनङ्गदहनं माम् । ०११६२ दग्धमिदमङ्गमङ्गं त्वया ममैवेदृशैश्चरितैः ॥ ०११७१ संध्याप्रणामदोषाद्योनुनयति तं विजित्य पार्वत्या । ०११७२ आलिङ्गितश्च सरभसमुरसा वै हरतु दुरितं वः ॥ ०११८१ भव निःस्नेहस्त्वं मे न भवाम्येवं यथा त्वया गदितम् । ०११८२ निःस्नेहताभिलाषस्तव देवि कुतः समुत्पन्नः ॥ ०११९१ कुसृतिभिरलमेताभिः किमर्थमुपरिस्थिता नदीयं ते । ०११९२ का नरकपालमाला ममोपरिस्था गृहाणैताः ॥ ०१२०१ जनमनुरागिणमेवं संतापयसि व्यलीककरणेन । ०१२०२ तव नरकपालपङ्क्तिभिरवश्यमेवोपरि स्थेयम् ॥ ०१२११ किं कुपितोसि त्यज रुषमपनयतां विग्रहं मया हि भवान् । ०१२१२ सह विग्रहो भवत्या न जातु विघाटिष्यतेस्माकम् ॥ ०१२२१ गङ्गाविग्रहकलुषामिति शिववचनैर्निरुत्तरां गौरीम् । ०१२२२ परिहास्य योनुनिन्ये स करोतु शिवः शिवं भवताम् ॥ ०१२३१ विजये कुशलस्त्र्यक्षो न क्रीडितुमहमनेन सह शक्ता । ०१२३२ विजये कुशलोस्मि न तु त्र्यक्षोक्षद्वयमिदं पाणौ ॥ ०१२४१ किं मे दुरोदरेण प्रयातु यदि गणपतिर्न तेभिमतः । ०१२४२ कः प्रद्वेष्टि विनायकमहिलोकः किं न जानासि ॥ ०१२५१ वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्रेषि । ०१२५२ किं वसुभिन्नमतोमून्सुरासुरानेव पश्य पुरः ॥ ०१२६१ चन्द्रग्रहणेन विना नास्मि रमे किं प्रवर्तयस्येवम् । ०१२६२ देव्यै यदि रुचितमिदं नन्दिन्नाह्वयतां राहुः ॥ ०१२७१ हा राहौ निकटस्थे सितदंष्ट्रे भयकृति रतिः कस्य । ०१२७२ यदि नेच्छसि तत्त्यक्तः संप्रत्येवैष हाराहिः ॥ ०१२८१ आरोपयसि मुधा किं नाहमभिज्ञा त्वदङ्कस्य । ०१२८२ दिव्यं वर्षसहस्रं स्थित्वैवं युक्तमभिधातुम् ॥ ०१२९१ इत्थं पशुपतिपेशलपाशकलीलाप्रयुक्तवक्रोक्तेः । ०१२९२ हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥ ०१३०१ अङ्गुल्या कः कवाटे प्रहरति कुटिलो माधवः किं वसन्तो ०१३०२ नो चक्री किं कुलालो नहि धरणिधरः किं प्रणीन्द्रो द्विजिह्वः । ०१३०३ मुग्धे घोराहिमाथी किमुत खगपतिर्नो हरिः किं कपीन्द्र ०१३०४ इत्थं लक्ष्म्या कृतोसौ प्रतिहतवचनः पातुलक्ष्मीधवो वः ॥ ०१३११ खेदः किं खलु दयिते न वेत्सि रविमण्डलं जगद्विदितम् । ०१३१२ न क्रोधः कर्तव्यो जलचरमूर्ध्वं न जातु पश्यामः ॥ ०१३२१ कोपस्त्यक्तुं योग्यो यस्य पिपासा न संभवति । ०१३२२ संत्यज मानिनि मानं किं मानेनाधुना ममानेन ॥ ०१३३१ किं तेन किल काव्येन मृद्यमानस्य यस्य ताः । ०१३३२ उदधेरिव नायान्ति रसामृतपरम्पराः ॥ ०१३४१ किं कवेस्तस्य काव्येन किं काण्डेन धनुष्मतः । ०१३४२ परस्य हृदये लग्नं न घूर्णयति यच्छिरः ॥ ०१३५१ अप्रगल्भपदन्यासा जननीरागहेतवः । ०१३५२ सन्त्येके बहुलालापाः कवयो बालका इव ॥ ०१३६१ किं तेन काव्यमधुना प्लाविता रसनिर्झरैः । ०१३६२ जडात्मानोपि नो यस्य भवन्त्यङ्कुरितान् तराः ॥ ०१३७१ नवोर्थो जातिरग्राम्या श्लेषोक्लिष्टः स्फुतो रसः । ०१३७२ विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ ०१३८१ मुखमात्रेण काव्यस्य करोत्यहृदयो जनः । ०१३८२ छायामछामपि श्यामां राहुस्तारापतेरिव ॥ ०१३९१ बोद्धारोमत्सरग्रस्ता विभवः स्मयदूषिताः । ०१३९२ अबोधोपहताश्चान्ये जीर्नमङ्गे सुभाषितम् ॥ ०१४०१ पदद्वयस्य संधानं कर्तुमप्रतिभाः खलाः । ०१४०२ तथापि परकाव्येषु दुष्करेष्वप्यसंभ्रमाः ॥ ०१४११ क्व दोषोत्र मया लभ्य इति संचिन्त्य चेतसा । ०१४१२ खलः काव्येषु साधूनां श्रवणाय प्रवर्तते ॥ ०१४२१ उपपत्तिभिरम्लाना नोपदेशैः कदर्थिताः । ०१४२२ स्वसंवेदनसंवेद्यसाराः सहृदयोक्तयः ॥ ०१४३१ केषांचिद्वाचि शुकवत्परेषां हृदि मूकवत् । ०१४३२ कस्याप्या हृदयाद्वक्त्रे वल्गु वल्गन्ति सूक्तयः ॥ ०१४४१ बहूनि नरशीर्षाणि लोमशानि बृहन्ति च । ०१४४२ ग्रीवासु प्रतिबद्धानि किंचित्तेषु सकर्णकम् ॥ ०१४५१ साध्वीव भारती भाति सूक्तिसद्व्रतचारिणी । ०१४५२ ग्राम्यार्थवस्तुसंस्पर्शबहिरङ्गा महाकवेः ॥ ०१४६१ ते वन्द्यास्ते महात्मानस्तेषां लोके स्थिरं यशः । ०१४६२ यैर्निबद्धानि काव्यानी ये वा काव्येषु कीर्तिताः ॥ ०१४७१ प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः । ०१४७२ भवन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥ ०१४८१ कवीनां महतां सूक्तैर्गूढार्थान्तरसूचिभिः । ०१४८२ विध्यमानश्रुतेर्मा भूहुर्जनस्य कथं व्यथा ॥ ०१४९१ यास्यति सज्जनहस्तं रमयिष्यति तं भवेच्च निर्दोषा । ०१४९२ उत्पादितयापि कविस्ताम्यति कथया दुहित्रेव ॥ ०१५०१ अवसरपठितं सर्वं सुभाषितत्वं प्रयात्पसूक्तमपि । ०१५०२ क्षुधि कदशनमपि नितरां भोक्तुः संपद्यते स्वादु ॥ ०१५११ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति । ०१५१२ दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन ॥ ०१५२१ गणयन्ति नापशब्दं न वृत्तभङ्गं क्षतिं न चार्थस्य । ०१५२२ रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च ॥ ०१५३१ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे । ०१५३२ निन्दति कञ्चुकमेव प्रायः शुष्कस्तना नारी ॥ ०१५४१ ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् । ०१५४२ पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ ०१५५१ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये । ०१५५२ उपनामयति करोन्नं रसांस्तु जिह्बैव जानाति ॥ ०१५६१ जिवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् । ०१५६२ नयनविकासविधायी सचेतनाभ्यागमो यावत् ॥ ०१५७१ प्रतीयमानं पुनरन्यदेव ०१५७२ वस्त्वस्ति वाणीषु महाकवीनाम् । ०१५७३ यत्तत्प्रसिद्धावयवातिरिक्त ०१५७४ माभाति लावण्यमिवाङ्गनासु ॥ ०१५८१ कवेरभिप्रायमशब्दगोचरं ०१५८२ स्फुरन्तमार्द्रेषु पदेषु केवलम् । ०१५८३ वदद्भिरङ्गैः कृतरोमविक्रियैर् ०१५८४ जनस्य तूष्णींभवतोयमञ्जलिः ॥ ०१५९१ सहृदयाः कविगुम्फनिकासु ये ०१५९२ कतिपयास्त इमे न विशृङ्खलाः । ०१५९३ रसमयीषु लतास्विव षट्पदा ०१५९४ हृदयसारजुषो न मुखस्पृशः ॥ ०१६०१ ख्याता नराधिपतयः कविसंश्रयेण ०१६०२ राजाश्रयेण च गताः कवयः प्रसिद्धिम् । ०१६०३ राज्ञा समोस्ति न कवेः परमोपकारी ०१६०४ राज्ञो न चास्ति कविना सदृशः सहायः ॥ ०१६११ चेतःप्रसादजननः विबुद्धोत्तमानाम् ०१६१२ आनन्दि सर्वरसयुक्तमतिप्रसन्नम् । ०१६१३ काव्यं खलस्य न करोति हृदि प्रतिष्ठां ०१६१४ पीयूषपानमिव वक्त्रविवर्ति राहोः ॥ ०१६२१ बद्धा यदर्पणरसेन विमर्दपूर्वम् ०१६२२ अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः । ०१६२३ चौरा इवातिमृदवो महतां कवीनाम् ०१६२४ अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः ॥ ०१६३१ तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं ०१६३२ मात्सर्यावृतचेतसां रसवशादप्युद्गतिं लोमसु । ०१६३३ कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने ०१६३४ अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनम् ॥ ०१६४१ ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद् ०१६४२ येप्येते कृतमत्सराः परगुणं स्वप्नेपि नेच्छन्ति ते । ०१६४३ अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृता ०१६४४ वित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येधुना ॥ ०१६५१ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि ०१६५२ प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी । ०१६५३ या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास् ०१६५४ तिर्यञ्चोपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः ॥ ०१६६१ स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः ०१६६२ प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति । ०१६६३ त्राणं येत्र यशोमये वपुषि वः कुर्वन्ति काव्यामृतैस् ०१६६४ तानाराध्यपदे विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः ॥ ०१६७१ हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं ०१६७२ शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात् । ०१६७३ तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं ०१६७४ रुष्टैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः ॥ ०१६८१ नमो नमः काव्यरसाय तस्मै ०१६८२ निषिक्तमन्तः पृषतापि यस्य । ०१६८३ सुवर्णतां वक्त्रमुपैति साधोर् ०१६८४ दुर्वर्णतां याति च दुर्जनस्य ॥ ०१६९१ अज्ञातपाण्डित्यरहस्यमुद्रा ०१६९२ ये काव्यमार्गे दधतेभिमानम् । ०१६९३ ते गारुडीयाननधीत्य मन्त्रान् ०१६९४ हालाहलास्वादनमारभन्ते ॥ ०१७०१ सरस्वतीमातुरभूच्चिरं न यः ०१७०२ कवित्वपाण्डित्यघनस्तनंधयः । ०१७०३ कथं स सर्वाङ्गमनाप्तसौष्ठवो ०१७०४ दिनाद्दिनं प्रौढिविशेषमश्नुते ॥ ०१७११ वितीर्णशिक्षा इव हृत्पदस्थ ०१७१२ सरस्वतीवाहनराजहंसैः । ०१७१३ ये क्षीरनीरप्रविभागदक्षा ०१७१४ विवेकिनस्ते कवयो जयन्ति ॥ ०१७२१ काव्यामृतं दुर्जनराहुनीतं ०१७२२ प्राप्यं भवेन्नो सुमोनजनस्य । ०१७२३ सच्चक्रमव्याजविराजमानत् ०१७२४ ऐक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥ ०१७३१ विना न साहित्यविदापरत्र ०१७३२ गुणः कथंचित्प्रथते कवीनाम् । ०१७३३ आलम्बते तत्क्षणमम्भसीव ०१७३४ विस्तारमन्यत्र न तैलबिन्दुः ॥ ०१७४१ अत्यर्थवक्रत्वमनर्थकं या ०१७४२ शून्या तु सर्वान्यगुणैर्व्यनक्ति । ०१७४३ अस्पृश्यतादूषितया तया किं ०१७४४ तुच्छश्वपुच्छच्छटयेव वाचा ॥ ०१७५१ नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं ०१७५२ पुष्णातु साधर्म्यभृदञ्जनेन । ०१७५३ विना तु जायेत कथं तदीय ०१७५४ क्षोदेन सारस्वतदृक्प्रसादः ॥ ०१७६१ अर्थोस्तिचेन्न पदशुद्धिरथास्ति सापि ०१७६२ नो रीतिरस्ति यदि सा घटना कुतस्त्या । ०१७६३ साप्यस्ति चेन्न नववक्रगतिस्तदेतद् ०१७६४ व्यर्थं विना रसमहो गहनं कवित्वम् ॥ ०१७७१ श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस् ०१७७२ तस्याः कविप्रवरसूक्तिधनुर्लतायाः । ०१७७३ कर्णान्तिकप्रणयभाजि गुणे यदीये ०१७७४ चेतांसि मत्सरवतां झटिति त्रुटन्ति ॥ ०१७८१ यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये ०१७८२ वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे । ०१७८३ जायन्तेद्य यथायथं तु कवयस्ते तत्र संतन्वते ०१७८४ येनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयम् ॥ ०१७९१ परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये ०१७९२ चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः । ०१७९३ अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः ०१७९४ सुहृद्या वैशद्यं दधति किल केषाम्चन गिरः ॥ ०१८०१ हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां ०१८०२ श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत् । ०१८०३ या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कीर्तयस् ०१८०४ ताः कल्पप्रलयेपि यान्ति न मनाङ्मन्ये परिम्लानताम् ॥ ०१८११ धन्याः शूचीनि सुरभीणि गुणोम्भितानि ०१८१२ वाग्वीरुधः स्ववदनोपवनोद्गतायाः । ०१८१३ उच्चित्य सूक्तिकुसुमानि सतांविविक्त ०१८१४ वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ०१८२१ तेनन्तवाङ्मयमहार्णवदृष्टपाराः ०१८२२ सांयात्रिका इव महाकवयो जयन्ति । ०१८२३ यत्सूक्तिपेलवलवङ्गलवैर्वैमि ०१८२४ सन्तः सदः सुवदनान्यधिवासयन्ति ॥ ०१८३१ त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुर् ०१८३२ एकश्चकास्ति कविता सविता द्वितीयः । ०१८३३ शंसन्ति यस्य महिमातिशयं शिरोभिः ०१८३४ पादग्रहं विदधतः पृथिवीभृतोपि ॥ ०१८४१ शब्दार्थमात्रमपि ये न विदन्ति तेपि ०१८४२ यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः । ०१८४३ संरुद्धसर्वकरणप्रसरा भवन्ति ०१८४४ चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥ ०१८५१ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते ०१८५२ धिक्काराय पराभवाय महते तापाय पापाय वा । ०१८५३ स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये ०१८५४ चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ ०१८६१ वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो ०१८६२ व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः । ०१८६३ भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोपि विद्यापतेः ०१८६४ ख्यातिं यान्ति निरेश्वराः कविवरैः स्फारैर्न भेरीरवैः ॥ ०१८७१ भुजतरुवनच्छायां येसां निषेव्य महौजसां ०१८७२ जलधिरशना मेदिन्यासीदसावकुतोभया । ०१८७३ स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं ०१८७४ प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे ॥ ०१८८१ येप्यासन्निभकुम्भशायितपदा येपि श्रियं लेभिरे ०१८८२ येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः । ०१८८३ तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव ०१८८४ भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना ॥ ०१८९१ स्फारेण सौरभभरेण किमेणनाभेस् ०१८९२ तद्धानसारमपि सारमसारमेव । ०१८९३ स्रक्सौमनस्यपि न पुष्यति सौमनस्यं ०१८९४ प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ ०१९०१ प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः ०१९०२ सभासु पठितो भवत्यसमसाधुवादाप्तये । ०१९०३ प्रथामुपगतस्तनोत्यतितरामुदारं यशो ०१९०४ न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः ॥ ०१९११ यः सत्पदस्थमिव काव्यमधु प्रसन्नं ०१९१२ मुष्णन्परस्य तनुते निजपद्ममध्ये । ०१९१३ अस्थानदोषजनितेव पिपीलकाली ०१९१४ काली विभाति लिखिताक्षरपङ्क्तिरस्य ॥ ०१९२१ यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन् ०१९२२ नालंकारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः । ०१९२३ तस्माच्चेद्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं ०१९२४ प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत् ॥ ०१९३१ स्वप्रज्ञया कुञ्चिकयेव कंचित् ०१९३२ सारस्वतं वक्रिमभङ्गिभाजम् । ०१९३३ कवीश्वरः कोपि पदार्थकोश ०१९३४ मुद्धाट्य विश्वाभरणं करोति ॥ ०१९४१ दैवीर्गिरः केपि कृतार्थयन्ति ०१९४२ ताः कुण्ठयन्त्येव पुनर्विमूढाः । ०१९४३ या विप्रुषः शुक्तिमुखेषु दैव्यस् ०१९४४ ता एव मुक्ता न तु चातकेषु ॥ ०१९५१ परिश्रमज्ञं जनमन्तरेण ०१९५२ मौनव्रतं बिभ्रति वाग्मिनोपि । ०१९५३ वाचंयमाः सन्ति विना वसन्तः ०१९५४ पुंस्कोकिलाः पञ्चमचञ्चवोपि ॥ ०१९६१ व्यालाश्च राहुश्च सुधाप्रसादाज् ०१९६२ जिह्वाशिरोनिग्रहमुग्रमापुः । ०१९६३ इतीव भीताः पिशुना भवन्ति ०१९६४ पराङ्मुखाः काव्यरसामृतेषु ॥ ०१९७१ साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन् ०१९७२ नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति । ०१९७३ तद्युक्तं विदुषो जनस्य जडवज्जोषं नु नामासितुं ०१९७४ जात्यन्धं प्रतिरूपवर्णनविधौ कोयं वृथैवोद्यमः ॥ ०१९८१ जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः ०१९८२ पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः । ०१९८३ महापुरुषसत्कथाश्रवणजातकौतूहलाः ०१९८४ समस्तदुरितार्णवप्रकटसेतवः साधवः ॥ ०१९९१ परपरिवादे मूकः परनारीदर्शनेपि जात्यन्धः । ०१९९२ पङ्गुः परधनहरणे स जयति लोके महापुरुषः ॥ ०२००१ संपत्सु महतां चेतो भवत्युत्पलकोमलम् । ०२००२ आपत्सु च महाशैलशिलासंघातकर्कशम् ॥ ०२०११ कुसुमस्तबकस्येव द्वयी मृत्तिर्मनस्विनः । ०२०१२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ ०२०२१ उपकारेण दूयन्ते न सहन्तेनुकम्पिताम् । ०२०२२ आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥ ०२०३१ जलसेकेन वर्धन्ते तरवो नाश्मसंचयाः । ०२०३२ भव्यो हि द्रव्यतामेति क्रियां प्राप्य तथाविधाम् ॥ ०२०४१ अवृत्तिभयमन्त्यानां मध्यानां मरणाद्भयम् । ०२०४२ उत्तमानां तु सत्त्वानामवमानात्परं भयम् ॥ ०२०५१ तापं हन्ति सुखं सूते जीवयत्युज्ज्वलं यशः । ०२०५२ अमृतस्य प्रकारोयं दुर्लभः साधुसंगमः ॥ ०२०६१ रसायनमयी शीता परमानन्ददायिनी । ०२०६२ नानन्दयति कं नाम साधुसंगतिचन्द्रिका ॥ ०२०७१ साधुसङ्गतरोर्जातं विवेककुसुमं शुभम् । ०२०७२ रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ ०२०८१ शून्यमाकीर्णतामेति मृत्युरप्युत्सवायते । ०२०८२ आपत्संपदिवाभाति विद्वज्जनसमागमे ॥ ०२०९१ हिममापत्सरोजिन्या मोहनीहारमारुतः । ०२०९२ जयत्येको जगत्यस्मिन्साधुः साधुसमागमः ॥ ०२१०१ परं विवर्धनं बुद्धेरज्ञानतरुशातनम् । ०२१०२ समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ ०२१११ यः स्नातः शीतसितया साधुसंगतिगङ्गया । ०२११२ किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ ०२१२१ हृदयानि सतामेव कठिनानीति मे मतिः । ०२१२२ खलवाग्विशिखैस्तीक्ष्णैर्भिद्यन्ते न मनाग्यतः ॥ ०२१३१ आः किमर्थमिदं चेतः सतामम्भोधिदुर्भरम् । ०२१३२ इति क्रुधेव दुर्वेधाः परदुःखैरपूरयत् ॥ ०२१४१ काचो मणिर्मणिः काचो येषां तेन्ये हि देहिनः । ०२१४२ सन्ति ते सुधियो येषां काचः काचो मणिर्मणिः ॥ ०२१५१ दोषानपि गुणीकर्तुं दोषीकर्तुं गुणानपि । ०२१५२ शक्तो वादी न तत्तथ्यं दोषा गुणा गुणाः ॥ ०२१६१ गुणराशिमहाभारनिर्भरापूरितान्तराः । ०२१६२ सन्तो गौरवमायान्ति यदि तत्र किमद्भुतम् ॥ ०२१७१ स्वात्मन्येव लयं यातु तादृशो गुणिनां गुणः । ०२१७२ स्वयं प्रख्याप्यमानोपि यस्तृणाय न मन्यते ॥ ०२१८१ गुणवज्जनसंपर्काद्याति स्वल्पोपि गौरवम् । ०२१८२ पुष्पमालानुषङ्गेण तृणं शिरसि धार्यते ॥ ०२१९१ सुवृत्तस्यैकरूपस्य परप्रीत्यै धृतोन्नतेः । ०२१९२ साधोः स्तनयुगस्येव पतनं कस्य तुष्टये ॥ ०२२०१ उदेति सविता रक्तो रक्त एवास्तमेति च । ०२२०२ संपतौ च विपतौ च महतामेकरूपता ॥ ०२२११ पातेन कन्दुक इवोत्पतत्यार्यः पतन्नपि । ०२२१२ तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ ०२२२१ पातितोपि कराघातैरुत्पतत्येव कन्दुकः । ०२२२२ प्रायेण हि सुवृत्तानामस्थायिन्यो विपत्तयः ॥ ०२२३१ घ्युतोप्युद्गच्छति पुनः प्रज्ञावान्न तु मूढधीः । ०२२३२ कन्दुकः पतनोत्थायी न तु कान्ताकुचद्वयी ॥ ०२२४१ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । ०२२४२ सदा लोकहिते युक्ता रत्नदीपा इवोत्तमाः ॥ ०२२५१ निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः । ०२२५२ नहि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ ०२२६१ नालोकः क्रियते सूर्ये भूः प्रतीपं न धार्यते । ०२२६२ नहि प्रत्युपकाराणामपेक्षा सत्सु विद्यते ॥ ०२२७१ अपकुर्वन्नपि प्रायः प्राप्नोति महतः शुभम् । ०२२७२ दहन्तमप्यौर्वमग्निं संतरपयति वारिधिः ॥ ॠस्व्०२२७३ कस्यापि ०२२७४ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः दृष्ट्वापि दृश्यते दृश्यं श्रुत्वापि श्रूयते पुनः । ०२२७५ सत्यं न साधुवृत्तस्य दृश्यते पुनरुक्तता ॥ ०२२९१ सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः । ०२२९२ तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥ ०२३०१ लाभप्रणयिनो नीचा मानकामा मनस्विनः । ०२३०२ मद्गुः सरसि मत्स्यार्थी हंसस्येष्टा प्रसन्नता ॥ ०२३११ परदुःखं समाकर्ण्य स्वभावसरलो जनः । ०२३१२ उपकारासमर्थत्वात्प्राप्नोति हृदये व्यथाम् ॥ ०२३२१ ते वन्द्यास्ते कृतिनः श्लाघ्या तेषां हि जन्मनोत्पत्तिः । ०२३२२ यैरुज्झितात्मकार्यैः सुहृदामर्था हि साध्यन्ते ॥ ०२३३१ अशठमलोलमजिह्मं त्यागिनमनुरागिणं विशेषज्ञम् । ०२३३२ यदि नाश्रयति नरं श्रीः श्रीरेव हि वञ्चिता तत्र ॥ ०२३४१ आरोग्यं विद्वत्ता सज्जनमैत्त्री महाकुले जन्म । ०२३४२ स्वाधीनता च पुंसां महदैश्वर्यं विनाप्यर्थैः ॥ ०२३५१ स्वल्पापि साधुसंपद्भोग्या महतां न पृथ्व्यपि खलश्रीः । ०२३५२ सारसमेव पयस्तृषमपहरति न वारिधेर्जातु ॥ ०२३६१ न भवति भवति च न चिरं भवति चिरं चेल्फलो विसंवदति । ०२३६२ मन्युः सत्पुरुषाणां तुल्यः स्नेहेन नीचानाम् ॥ ०२३७१ दोषो गुणाय गुणिनां महदपि दोषाय दोषिणां सुकृतम् । ०२३७२ तृणमिव दुग्धाय गवां दुग्धमिव विषाय सर्पाणाम् ॥ ०२३८१ विषमगता अपि न बुधाः परिभवमिश्रां श्रियं हि वाञ्छन्ति । ०२३८२ न पिबन्ति भौममम्भः सरजसमिति चातका एते ॥ ०२३९१ योग्यतयैव विनाशं प्रायोनार्येषु यान्ति गुणवन्तः । ०२३९२ स्फुटवचना एव शुकाः पञ्जरबन्धं निषेवन्ते ॥ ०२४०१ सकृदपि दृष्ट्वा पुरुषं प्राज्ञास्तुलयन्ति सारफल्गुत्वम् । ०२४०२ हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥ ०२४११ सुजनो न याति वैरं परहितनिरतो विनाशकालेपि । ०२४१२ छेदेपि चन्दनतरुः सुरभयति मुखं कुठारस्य ॥ ०२४२१ निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः । ०२४२२ सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि ॥ ०२४३१ अन्त्यावस्थोपि बुधः स्वगुणं न जहाति जातिशुद्धतया । ०२४३२ न श्वेतभावमुज्झति शङ्खः शिखिभुक्तमुक्तोपि ॥ ०२४४१ दोषमपि गुणवति जने दृष्ट्वा गुणरागिणो न खिद्यन्ते । ०२४४२ प्रीत्यैव शशिनि पतितं पश्यति लोकः कलङ्कमपि ॥ ०२४५१ साप्तपदीनं सख्यं भवेत्प्रकृत्या विशुद्धचित्तानाम् । ०२४५२ किमुतान्योन्यगुणकथाविस्रम्भनिबद्धभावानाम् ॥ ०२४६१ स्पृहणीयाः कस्य न ते सुमतेः सरलाशया महात्मानः । ०२४६२ त्रयमपि येषां सदृशं हृदयं वचनं तथाचारः ॥ ०२४७१ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोपि । ०२४७२ विमलेक्षणप्रसङ्कादञ्जनमाप्नोति काणाक्षि ॥ ०२४८१ सहसिद्धमिदं महतां धनेष्वनास्था गुणेषु कृपणत्वम् । ०२४८२ परदुःखे कातरता महच्च धैर्यं स्वदुःखेषु ॥ ०२४९१ अतिकुपिता अपि सुजना योगेन मृदूभवन्ति न तु नीचाः । ०२४९२ हेम्नः कठिनस्यापि द्रवणोपायोस्ति न तृणानाम् ॥ ०२५०१ उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः । ०२५०२ जनयन्ति हि प्रकाशं दीपशिखाः स्वाङ्गदाहेन ॥ ०२५११ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् । ०२५१२ असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ ०२५२१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम् । ०२५२२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति ॥ ०२५३१ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः । ०२५३२ अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि ॥ ०२५४१ आदौ तु मन्दमन्दानि मध्ये समरसानि च । ०२५४२ अन्ते स्नेहायमानानि संगतानि बुधैः सह ॥ ०२५५१ इयमुन्नतसत्त्वशालिनां ०२५५२ महतां कापि कठोरचित्तता । ०२५५३ उपकृत्य भवन्ति दूरतः ०२५५४ परतः प्रत्युपकारशङ्कया ॥ ०२५६१ उपकारिणि वीतमत्सरे वा ०२५६२ सदयत्वं यदि तत्र कोतिरेकः । ०२५६३ अहिते सहसापराद्धलब्धे ०२५६४ सघृणं यस्य मनः सतां स धुर्यः ॥ ०२५७१ आदिमध्यनिधनेषु सौहृदं ०२५७२ सज्जने भवति नेतरे जने । ०२५७३ छेदताडननिघर्षतापनैर् ०२५७४ नान्यभावमुपयाति काञ्चनम् ॥ ०२५८१ दीपाः स्थितं वस्तु विभावयन्ति ०२५८२ कुलप्रदीपास्तु भवन्ति केचित् । ०२५८३ चिरव्यतीतानपि पूर्वजान्ये ०२५८४ प्रकाशयन्ति स्वगुणप्रकर्षात् ॥ ०२५९१ तुङ्गात्मनाः तुङ्गतराः समर्था ०२५९२ मनोरुजं ध्वंसयितुं न नीचाः । ०२५९३ धाराधरा एव धराधराणां ०२५९४ निदाघदावौघहरा न नद्यः ॥ ०२६०१ गुणा गुणज्ञेषु गुणीभवन्ति ०२६०२ ते निर्गुणं प्राप्य भवन्ति दोषाः । ०२६०३ सुस्वादुतोयप्रभवा हि नद्यः ०२६०४ समुद्रमासाद्य भवन्त्यपेयाः ॥ ०२६११ तृणानि नोन्मूलयति प्रभञ्जनो ०२६१२ मृदूनि नीचैः प्रणतानि सर्वशः । ०२६१३ समुच्छ्रितानेव तरून्प्रबाधते ०२६१४ महान्महत्स्वेव करोति विक्रियाम् ॥ ०२६२१ चिराय सत्संगमशुद्धमानसो ०२६२२ न यात्यसत्संगतमात्मवान्नरः । ०२६२३ मनोहरेन्दीवरखण्डगोचरो ०२६२४ न जातु भृङ्गः कुणपे निलीयते ॥ ०२६३१ अपि विभवविहीनः प्रच्युतो वा स्वदेशान् ०२६३२ नहि खलजनसेवां प्रार्थयत्युन्नतात्मा । ०२६३३ तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः ०२६३४ पिबति रुधिरमुष्णं प्रायशः कुञ्जराणाम् ॥ ०२६४१ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता । ०२६४२ निर्दम्भता सदाचारे स्वभावोयं महात्मनाम् ॥ ०२६५१ सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते ०२६५२ स्खलति भजते लेशक्लेशे विषादविषूचिकाम् । ०२६५३ भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर् ०२६५४ दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥ ०२६६१ स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता ०२६६२ मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता । ०२६६३ साधौ सादरता खले विमुखता पापे परं भीरुता ०२६६४ दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥ ०२६७१ विपदि धैर्यमथाभ्युदये क्षमा ०२६७२ सदसि वाक्पटुता युधि विक्रमः । ०२६७३ यशसि चाभिरतिर्व्यसनं श्रुते ०२६७४ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ०२६८१ इदं हि माहात्म्यविशेषसूचकं ०२६८२ वदन्ति चिह्नं महतां मनीषिणः । ०२६८३ मनो यदेषां सुखदुःखसंभवे ०२६८४ प्रयाति नो हर्षविषादवश्यताम् ॥ ०२६९१ सुभाषितैः प्रीतिरनुन्नतिः श्रिया ०२६९२ परार्थनिष्पत्तिपटीयसी क्रिया । ०२६९३ गुणेष्वतृप्तिर्गुणवत्सु चादरो ०२६९४ निगूढमेतच्चरितं महात्मनाम् ॥ ०२७०१ सत्यं गुणा गुणवतां विधिवैपरीत्याद् ०२७०२ यत्नार्जिता अपि कलौ विफला भवन्ति । ०२७०३ साफल्यमस्ति सुतरामिदमेव तेषां ०२७०४ यत्तापयन्ति हृदयानि पुनः खलानाम् ॥ ०२७११ यद्वञ्चनाहितमतिर्बहु चाटुगर्भं ०२७१२ कार्योन्मुखः खलजनः कृतकं ब्रवीति । ०२७१३ तत्साधवो न न विदन्ति विदन्ति किं तु ०२७१४ कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥ ०२७२१ पापं समाचरति वीतघृणो जघन्यः ०२७२२ प्राप्यापदं सघृण एव तु मध्यबुद्धिः । ०२७२३ प्राणात्ययेपि न तु साधुजनः सुवृत्तं ०२७२४ वेलां समुद्र इव लङ्घयितुं समर्थः ॥ ०२७३१ शुद्धिः स एव कुलजश्च स एव धीरः ०२७३२ श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावम् । ०२७३३ तप्तं यथा दिनकरस्य मरीचिजालैर् ०२७३४ देहं त्यजेदपि हिमं न तु शीतलत्वम् ॥ ०२७४१ याञ्चापदं मरणदुःखमिवानुभाव्य ०२७४२ दत्तेन किं खलु भवत्यतिभूयसापि । ०२७४३ कल्पद्रुमान्परिहसन्त इवेह सन्तः ०२७४४ संकल्पितैरतिददत्यकदर्थितं यत् ॥ ०२७५१ ते साधवो भुवनमण्डलमौलिभूता ०२७५२ ये साधुतां निरुपकारिषु दर्शयन्ति । ०२७५३ आत्मप्रयोजनवशीकृतखिन्नदेहः ०२७५४ पूर्वोपकारिषु खलोपि हि सानुकम्पः ॥ ०२७६१ नान्तर्विचिन्तयति किंचिदपि प्रतीपम् ०२७६२ अकोपितोपि सुजनः पिशुनेन पापम् । ०२७६३ अर्कद्विषोपि हि मुखे पतिताग्रभागास् ०२७६४ तारापतेरमृतमेव कराः किरन्ति ॥ ०२७७१ आकोपितोपि कुलजो न वदत्यवाच्यं ०२७७२ निष्पीडितो मधुरमेव वमेत्किलेक्षुः । ०२७७३ नीचो जनो गुणशतैरपि सेव्यमानो ०२७७४ हासेषु तद्वदति यत्कलहेषु वाच्यम् ॥ ०२७८१ निदन्तु नीतिनिपुणा अथवा स्तुवन्तु ०२७८२ लक्ष्मीः परापततु गच्छतु वा यथेच्छम् । ०२७८३ अद्यैव वा मरणमस्तु युगान्तरे वा ०२७८४ न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥ ०२७९१ हेतोः कुतोप्यसदृशाः सुजना गरीयः ०२७९२ कार्यं निसर्गगुरवः स्फुटमारभन्ते । ०२७९३ उत्थाय किं कलशतोपि न सिन्धुनाथम् ०२७९४ उद्वीचिमालमपिबद्भगवानगस्त्यः ॥ ०२८०१ प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं ०२८०२ ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः । ०२८०३ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां ०२८०४ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ०२८११ प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर् ०२८१२ अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः । ०२८१३ प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ०२८१४ श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥ ०२८२१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां ०२८२२ छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः । ०२८२३ अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर् ०२८२४ जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या ॥ ०२८३१ स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर् ०२८३२ गमनमलसं बर्हाटोपि करोति शिखण्डिनः । ०२८३३ चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते ०२८३४ गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥ ०२८४१ ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः ०२८४२ किं कुर्याद्बहुशिक्षितोपि पुरुषः पाषाणभूते जने । ०२८४३ प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः ०२८४४ सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणम् ॥ ०२८५१ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः ०२८५२ स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः । ०२८५३ दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो ०२८५४ जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥ ०२८६१ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः ०२८६२ पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे । ०२८६३ क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः ०२८६४ सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः ॥ ०२८७१ सज्जना एव साधूनां प्रथयन्ति गुणोत्करम् । ०२८७२ पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ॥ ०२८८१ साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे । ०२८८२ नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ ०२८९१ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः । ०२८९२ तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् ॥ ०२९०१ मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नताम् । ०२९०२ भस्मना मकुरः प्रायः प्रसादं लभतेतराम् ॥ ०२९११ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः । ०२९१२ मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥ ०२९२१ जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः । ०२९२२ सितांशावुदिते पद्माः संकोचातङ्कधारिणः ॥ ०२९३१ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः । ०२९३२ मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनम् ॥ ०२९४१ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसताम् । ०२९४२ न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥ ०२९५१ संपत्तौ कोमलं चित्तं साधोरापदि कर्कशम् । ०२९५२ सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ ॥ ०२९६१ स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् । ०२९६२ कर्पूरः पावकप्लुष्टः सौरभं भजतेतराम् ॥ ०२९७१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयताम् । ०२९७२ विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः ॥ ०२९८१ दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः । ०२९८२ आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलम् ॥ ०२९९१ क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः । ०२९९२ संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलम् ॥ ०३००१ अधमं बाधते भूयो दुःखावेगो न तूत्तमम् । ०३००२ पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी ॥ ०३०११ गुणवान्सुचिरस्थायी दैवेनापि न सह्यते । ०३०१२ तिष्ठत्येकां निशां चन्द्रः श्रीमान्संपूर्णमण्डलः ॥ ०३०२१ सर्वत्र गुणवान्देशे चकास्ति प्रथतेतराम् । ०३०२२ मणिर्मूर्ध्नि गले बाहौ पादपीठेपि शोभते ॥ ०३०३१ उत्तमं सुचिरं नैव विपदोभिभवन्त्यलम् । ०३०३२ राहुग्रसनसंभूता क्षणं विच्छायता विधोः ॥ ०३०४१ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः । ०३०४२ प्रसीदन्ति जपैर्देवा बलिभिर्भूतविग्रहाः ॥ ०३०५१ न कदाचित्सतां चेतः प्रसरत्यघकर्मसु । ०३०५२ जलेषु द्रुतमप्यन्तः सर्पिराश्यानतां व्रजेत् ॥ ०३०६१ नराः संस्कारार्हा जगति किल केचित्सुकृतिनः ०३०६२ समानायां जातावपि वयसि सत्यामपि धियि । ०३०६३ अयं दृष्टान्तोत्र स्फुटपरिचयादभ्यसनतः ०३०६४ शुकः श्लोकान्वक्तुं प्रभवति न काकः क्वचिदपि ॥ ०३०७१ धनमपि परदत्तं दुःकमौचित्यभाजां ०३०७२ भवति हृदि तदेवानन्दकारीतरेषाम् । ०३०७३ मलयजरसबिन्दुर्बाधते नेत्रमन्तर् ०३०७४ जनयति च स एवाह्लादमन्यत्र गात्रे ॥ ०३०८१ सद्वंशजस्य परितापनुदः सुवृत्त ०३०८२ शुद्धात्मनः सकललोकविभूषणस्य । ०३०८३ छिद्रं प्रजातमपि साधुजनस्य दैवान् ०३०८४ मुक्तामणेरिव गुणाय भवत्यवश्यम् ॥ ०३०९१ गेहं दुर्गतबन्धुर्भिर्गुरुगृहं छात्रैरहंकारिभिर् ०३०९२ हट्टं पत्तनवञ्चकैर्मुनिजनैः शापोन्मुखैराश्रमान् । ०३०९३ सिंहाद्यैश्च वनं खलैर्नृपसभां चौरौर्दिगन्तानपि ०३०९४ संकीर्णान्यवलोक्य सत्यसरलः साधुः क्व विश्राम्यति ॥ ०३१०१ साभिमानमसंभाव्यमौचित्यच्युतमप्रियम् । ०३१०२ दुःखावमानदीनं वा न वदन्ति गुणोन्नताः ॥ ०३१११ भवति सुभगत्वमधिकं विस्तारितपरगुणस्य सुजनस्य । ०३११२ वहति विकासितकुमुदो द्विगुणरुचिं हिमकरोद्द्योतः ॥ ०३१२१ गुणिनामपि निजरूपप्रतिपत्तिः परत एव संभवति । ०३१२२ स्वमहिमदर्शनमक्ष्णोर्मकुरतले जायते यस्मात् ॥ ०३१३१ कोतिभारः समर्थानां किं दूरं व्यवसायिनाम् । ०३१३२ को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ ०३१४१ अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । ०३१४२ पुरुषविशेषं प्राप्ता भवन्ति योग्या अयोग्याश्च ॥ ०३१५१ उत्साहसंपन्नमदीर्घसूत्रं ०३१५२ क्रियाविधिज्ञं व्यसनेष्वसक्तम् । ०३१५३ शूरं कृतज्ञं दृढसौहृदं च ०३१५४ लक्ष्मीः स्वयं वाञ्छति वासहेतोः ॥ ०३१६१ कदर्थितस्यापि महाशयस्य ०३१६२ न शक्यते सर्गगुणः प्रमार्ष्टुम् । ०३१६३ अधोमुखस्यापि कृतस्य वह्नेर् ०३१६४ नाधः शिखा यान्ति कदाचिदेव ॥ ०३१७१ न्यायः खलैः परिहृतश्चलितश्च धर्मः ०३१७२ कालः कलिः कलुष एव परं प्रवृत्तः । ०३१७३ प्रायेण दुर्जनजनः प्रभाविष्णुरेव ०३१७४ निश्चक्रिकः परिभवास्पदमेव साधुः ॥ ०३१८१ व्रते विवादं विमतिं विवेके ०३१८२ सत्येतिशङ्कां विनये विकारम् । ०३१८३ गुणेवमानं कुशले निषेधं ०३१८४ धर्मे विरोधं न करोति साधुः ॥ ०३१९१ वन्द्यः स पुंसं त्रिदशाभिनन्द्यः ०३१९२ कारुण्यपुण्योपचयक्रियाभिः । ०३१९३ संसारसारत्वमुपैतै यस्य ०३१९४ परोपकाराभरणं शरीरम् ॥ ०३२०१ अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो ०३२०२ विपक्षादम्भोजादुपगतवतो वा मधुलिहः । ०३२०३ अपर्याप्तः कोपि स्वपरपरिचर्यापरिचय ०३२०४ प्रबन्धः साधूनामयमनभिसंधानमधुरः ॥ ०३२११ यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां ०३२१२ कामप्यन्तर्विदधति रुजं येप्यनुद्गीर्यमाणाः । ०३२१३ तेभिप्रायाः किमपि हृदये कण्ठलग्नः स्फुरन्तो ०३२१४ यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ॥ ०३२२१ उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं ०३२२२ सदा पान्थः पूषा गगनपरिमाणं कथयति । ०३२२३ इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः ०३२२४ सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ०३२३१ सागसेपि न कुप्यन्ति कृपया चोपकुर्वते । ०३२३२ बोधं स्वस्यैव नेच्छन्ति ते विश्वोद्धरणक्षमाः ॥ ०३२४१ पात्रं पवित्रयति नैव गुणान्क्षिणोति ०३२४२ स्नेहं न संहरति नापि मलं प्रसूते । ०३२४३ दोषावसानरुचिरश्चलतां न धत्ते ०३२४४ सत्संगमः सुकृतसद्मनि कोपि दीपः ॥ ०३२५१ अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां ०३२५२ शिशुरपि रुषा सिंहीसूनः समाह्वयते गजान् । ०३२५३ तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं ०३२५४ प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥ ०३२६१ नमः खलेभ्यः क इवाथवा न ता ०३२६२ नलं नमस्येदिह यो जिजीविषुः । ०३२६३ विनैव ये दोषमृषिप्रकाण्डवन् ०३२६४ नयन्ति शापेन रसातलं नरान् ॥ ०३२७१ विषधरतोप्यतिविषमः खल इति न मृषा वदन्ति विद्वांसः । ०३२७२ यदयं नकुलद्वेषी सकुलद्वेषी सदा पिशुनः ॥ ०३२८१ अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । ०३२८२ तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ ०३२९१ विध्वस्तपरगुणानां भवति खलानामतीव मलिनत्वम् । ०३२९२ अन्तरितशशिरुचामपि सलिलमुचां मलिनिमाभ्यधिकः ॥ ०३३०१ हस्त इव भूतिमलिनो लङ्घयति यथा यथा खलः सूजनम् । ०३३०२ दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ॥ ०३३११ जीवनग्रहणे नम्रा गृहीत्वा पुनरुत्थिताः । ०३३१२ किं कनिष्ठा उत ज्येष्ठा घटीयन्त्रस्य दुर्जनाः ॥ ०३३२१ सदा खण्डनयोग्याय तुषपूर्णाशयाय च । ०३३२२ नमोस्तु बहुबीजाय खलायोलूखलाय च ॥ ०३३३१ जिह्वादूषितसत्पात्रः पिण्डार्थी कलहोत्कटः । ०३३३२ तुल्यतामशुचिर्नित्यं बिभर्ति पिशुनः शुनः ॥ ०३३४१ अहो बत खलः पुण्यैर्मूर्खोप्यश्रुतपण्डितः । ०३३४२ स्वगुणोदीरणे शेषः परनिन्दासु वाक्पतिः ॥ ०३३५१ खलः सुजनपैशुन्ये सर्वतोक्षि शिरोमुखः । ०३३५२ सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥ ०३३६१ सत्साधुवादे मूर्खस्य मात्सर्यगलरोगिणः । ०३३६२ जिह्वा कङ्कमुखेनापि कृष्टा नैव प्रवर्तते ॥ ०३३७१ मायामयः प्रकृत्यैव रागद्वेषमदाकुलः । ०३३७२ महतामपि मोहाय संसार इव दुर्जनः ॥ ०३३८१ खचित्रमपि मायावी रचयत्येव लीलया । ०३३८२ लघुश्च महतां मध्ये तस्मात्खल इति स्मृतः ॥ ०३३९१ खलेन धनमत्तेन नीचेन प्रभविष्णुना । ०३३९२ पिशुनेन पदस्थेन हा प्रजे क्व गमिष्यसि ॥ ०३४०१ कृतशतमसत्सु नष्टं सुभाषितशतं च नष्टमबुधेषु । ०३४०२ वचनशतमवचनकरे बुद्धिशतमचेतने नष्टम् ॥ ०३४११ नष्टमपात्रे दानं नष्टं हितमफलबुद्ध्यवज्ञाने । ०३४१२ नष्टो गुणोगुणज्ञे नष्टं दाक्षिण्यमकृतज्ञे ॥ ०३४२१ दूरादुच्छ्रितपाणिरार्द्रनयनः प्रोत्सारितार्धासनो ०३४२२ गाढालिङ्गनतत्परः प्रियकथाप्रश्नेषु सक्तोत्तरः । ०३४२३ अन्तर्गूढविषो बहिर्मधुमयश्चातीव मायामयः ०३४२४ को नामायमपूर्वनाटकविधिर्यः शिक्षितो दुर्जनैः ॥ ०३४३१ ये श्रमं हर्तुमीहन्ते महतां चिरसंभृतम् । ०३४३२ वन्द्यास्तेसरलात्मानो दुर्जनाः सज्जना इव ॥ ०३४४१ अहो कुटिलबुद्धीनां दुर्ग्राहमसतां मनः । ०३४४२ अन्यद्वचसि कण्ठेन्यदन्यदोष्ठपुटे स्थितम् ॥ ०३४५१ खलेषु सत्सु निर्याता वयमर्जयितुं गुणान् । ०३४५२ इयं सा तस्करग्रामे रत्नक्रयविडम्बना ॥ ०३४६१ वर्धेते स्पर्धयेवोभौ संपदा शतशाखया । ०३४६२ अङ्कुरोवस्करोद्भूतः पुरुषश्चाकुलोद्भवः ॥ ०३४७१ दह्यमानाः सुतीक्ष्णेन नीचाः परयशोग्निना । ०३४७२ अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रचक्रिरे ॥ ०३४८१ यत्स्मृत्वैव परां यान्ति सन्तः संतापसंततिम् । ०३४८२ तदसन्तो हसन्तोपि हेलयैव हि कुर्वते ॥ ०३४९१ गुणदोषावशास्त्रज्ञः कथं विभजते जनः । ०३४९२ किमन्धस्याधिकारोस्ति रूपभेदोपलब्धिषु ॥ ०३५०१ प्रायः प्रकाशतां याति मलिनः साधुबाधया । ०३५०२ नाग्रसिष्यत चेदर्कं कोज्ञास्यत्सिंहिकासुतम् ॥ ०३५११ प्रायः परोपतापाय दुर्जनः सततोद्यतः । ०३५१२ अवश्यकरणीयत्वान्न कारणमपेक्षते ॥ ०३५२१ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । ०३५२२ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ ०३५३१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । ०३५३२ मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥ ०३५४१ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । ०३५४२ विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥ ०३५५१ दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् । ०३५५२ मणिना भूषितः सर्पो भवेत्किं न भयंकरः ॥ ०३५६१ चारुता परदारार्थं धनं लोकोपतप्तये । ०३५६२ प्रभूत्वं साधुनाशाय खले खलतरा गुणाः ॥ ०३५७१ परोपघातविज्ञानमात्रलाभोपजीविनाम् । ०३५७२ दाशानामिव धूर्तानां जालाय गुणसंग्रहः ॥ ०३५८१ दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि । ०३५८२ अकालकुसुमानीव त्रासं संजनयन्ति मे ॥ ०३५९१ न लज्जते सज्जनवर्जनीयया ०३५९२ भुजंगवक्रक्रिययापि दुर्जनः । ०३५९३ धियं कुमायासमयाभिचारिणीं ०३५९४ विदग्धतामेव हि मन्यते खलः ॥ ०३६०१ वृतिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर् ०३६०२ व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः । ०३६०३ गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं ०३६०४ श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः ॥ ०३६११ पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु ०३६१२ स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयम् । ०३६१३ मत्तो रन्ध्रुदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेद् ०३६१४ इत्यन्तः पुरुषोधंः कलयति प्रायः कृतोपक्रियः ॥ ०३६२१ साश्चर्यं युधि शौर्यमप्रतिहतं तत्कण्डिताखण्डलं ०३६२२ पाञ्चोत्तानकरः कृत सभगवान्दानेन लक्ष्मीपतिः । ०३६२३ ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः ०३६२४ सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः ॥ ०३६३१ शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं ०३६३२ जनयति जनोद्वेगायासं नयत्युपहास्यताम् । ०३६३३ भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं ०३६३४ क्षिपति सकलं कल्याणानां कुलं खलसंगमः ॥ ०३६४१ अविनयभुवामज्ञानानां शमाय भवन्नपि ०३६४२ प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये । ०३६४३ फणिभयभृतामस्तु च्छेदक्षमस्तमसामसौ ०३६४४ विषधरफणारत्नालोको भयं तु भृशायते ॥ ०३६५१ करोति पूज्यमानोपि लोकव्यसनदीक्षितः । ०३६५२ दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥ ०३६६१ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव । ०३६६२ नास्तिकोपि ह्युद्विजते जनः किं पुनरास्तिकः ॥ ०३६७१ येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः । ०३६७२ कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः ॥ ०३६८१ अहो बत महत्कष्टं विपरीतमिदं जगत् । ०३६८२ येनापत्र्पते साधुरसाधुस्तेन तुष्यति ॥ ०३६९१ न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् । ०३६९२ यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥ ०३७०१ वर्जनीयो मतिमतां दुर्जनः सख्यवैरयोः । ०३७०२ श्वा भवत्युपघायाय लडन्नपि दशन्नपि ॥ ०३७११ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते । ०३७१२ यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनम् ॥ ०३७२१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः । ०३७२२ नैष लाभो भुजंगेन वेष्टितो यन्न दश्यते ॥ ०३७३१ लब्धः स्तब्धोनृजुर्मूर्खः प्रभुरेकान्तदारुणः । ०३७३२ बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥ ०३७४१ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः । ०३७४२ भाषणं भीषणं साधुदूषणं यस्य भूषणम् ॥ ०३७५१ मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः । ०३७५२ दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः ॥ ०३७६१ निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणाम् । ०३७६२ चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः ॥ ०३७७१ यथा परोपकारेषु नित्यं जागर्ति सज्जनः । ०३७७२ तथा परापकारेषु जागर्ति सततं खलः ॥ ०३७८१ बिभेति पिशुनान्नीचः प्रकाशनपटीयसः । ०३७८२ न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः ॥ ०३७९१ वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः । ०३७९२ दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् ॥ ०३८०१ खलानां कण्टकानां च द्विधैवास्ति प्रतिक्रिया । ०३८०२ उपानन्मुखभङ्गो वा दूरतो वापि वर्जनम् ॥ ०३८११ जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा । ०३८१२ दुर्जनो यन्मृतः कुर्यात्परेभ्योहितमुत्तरम् ॥ ०३८२१ यद्यदिष्टतमं तत्तद्देयं गुणवते किल । ०३८२२ अत एव खलो दोषान्साधुभ्यः संप्रयच्छति ॥ ०३८३१ रोगोण्डजोङ्कुरोग्निर्विषमश्वतरो घुणाः क्रिमयः । ०३८३२ प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते ॥ ०३८४१ न विना परवादेन रमते दुर्जनो जनः । ०३८४२ श्वा हि सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति ॥ ०३८५१ वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः । ०३८५२ न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः ॥ ०३८६१ स्वभावेनैव निशितः कृतपक्षग्रहोपि सन् । ०३८६२ शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः ॥ ०३८७१ दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते । ०३८७२ संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति ॥ ०३८८१ नीचः समुत्थितोवश्यमनवाप्य पराश्रयम् । ०३८८२ छिद्रेण रतिमाप्नोति दृष्टान्तोत्र कटीभवः ॥ ०३८९१ परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः । ०३८९२ सद्वृत्तवृत्तिहरणे बाहुसहस्रार्जुनो नीचः ॥ ०३९०१ दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः । ०३९०२ बालः पायसदग्धोदध्यपि फूत्कृत्य भक्षयति ॥ ०३९११ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने । ०३९१२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥ ०३९२१ परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु । ०३९२२ कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भानिरतेषु ॥ ०३९३१ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ०३९३२ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ०३९४१ अस्थानाभिनिवेशी प्रायो जडे एव भवति नो विद्वान् । ०३९४२ बालादन्यः कोम्भसि जिघृक्षतीन्दोः स्फुरबिम्बम् ॥ ०३९५१ लब्धोदयोपि हि खलः प्रथमं स्वजनं नयति परितापम् । ०३९५२ उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति ॥ ०३९६१ अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः । ०३९६२ सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥ ०३९७१ प्रखला एव गुणावतामाक्रम्य धुरं पुरः प्रकर्षन्ति । ०३९७२ तृणकाष्ठमेव जलधेरुपरिप्लवते न रत्नानि ॥ ०३९८१ महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते । ०३९८२ लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरते ॥ ०३९९१ सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः । ०३९९२ दूरेपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ॥ ०४००१ परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते । ०४००२ पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥ ०४०११ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयम् । ०४०१२ दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु ॥ ०४०२१ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते । ०४०२२ पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥ ०४०३१ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये । ०४०३२ यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय ॥ ०४०४१ अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् । ०४०४२ शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी ॥ ०४०५१ वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् । ०४०५२ सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः ॥ ०४०६१ प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे । ०४०६२ तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुम् ॥ ०४०७१ दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि । ०४०७२ स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति ॥ ०४०८१ साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिम् । ०४०८२ व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते ॥ ०४०९१ अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थम् । ०४०९२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥ ०४१०१ स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः । ०४१०२ स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति ॥ ०४१११ कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि । ०४११२ तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुताम् ॥ ०४१२१ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टम् । ०४१२२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥ ०४१३१ प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् । ०४१३२ विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति ॥ ०४१४१ लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति । ०४१४२ पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते ॥ ०४१५१ मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः । ०४१५२ न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः ॥ ०४१६१ उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा । ०४१६२ होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव ॥ ०४१७१ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः । ०४१७२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थम् ॥ ०४१८१ न परं फलति हि किंचित्खल एवानर्थमावहति यावत् । ०४१८२ मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे ॥ ०४१९१ स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव । ०४१९२ अशनायोदन्या वा विरमति फणिनो न दन्दशतः ॥ ०४२०१ एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव । ०४२०२ व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ ०४२११ शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धम् । ०४२१२ धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनम् ॥ ०४२२१ मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् । ०४२२२ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ०४२३१ प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनम् । ०४२३२ महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम ॥ ०४२४१ पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति । ०४२४२ अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री ॥ ०४२५१ समर्पिताः कस्य न तेन दोषा ०४२५२ हठाद्गुणा वा न हृताः खलेन । ०४२५३ तथापि दोषैर्न वियुज्यतेसौ ०४२५४ स्पृष्टोपि नैकेन गुणेन चित्रम् ॥ ०४२६१ आराध्यमानो बहुभिः प्रकारैर् ०४२६२ नाराध्यते नाम किमत्र चित्रम् । ०४२६३ अयं त्वपूर्वः प्रतिभाविशेषो ०४२६४ यत्सेव्यमानो रिपुतामुपैति ॥ ०४२७१ विद्वानुपालम्भमवाप्य दोषान् ०४२७२ निवर्ततेसौ परितप्यते च । ०४२७३ ज्ञातस्तु दोषो मम सर्वथेति ०४२७४ पापो जनः पापतरं करोति ॥ ०४२८१ एवमेव नहि जीव्यते खलात् ०४२८२ तत्र का नृपतिवल्लभे कथा । ०४२८३ पूर्वमेव हि सुदुःसहो नलः ०४२८४ किं पुनः प्रबलवायुनेरितः ॥ ०४२९१ अमरैरमृतं न पीतमब्धेर् ०४२९२ न च हालाहलमुल्वणं हरेण । ०४२९३ विधिना निहितं खलस्य वाचि ०४२९४ द्वयमेतद्बहिरेकमन्तरन्यत् ॥ ०४३०१ निमित्तमुद्दिश्य हि यः प्रकुप्यति ०४३०२ ध्रुवं स तस्यापगसे प्रसीदति । ०४३०३ अकारणद्वेषि मनो हि यस्य वै ०४३०४ कथं परस्तं परितोषयिष्यति ॥ ०४३११ इतरदेव बहिर्मुखमुच्यते ०४३१२ हृदि तु यत्स्फुरतीतरदेव तत् । ०४३१३ चरितमेतदधीरवितारकं ०४३१४ धुरि पयःप्रतिबिम्बमिवासताम् ॥ ०४३२१ क्व पिशुनस्य गतिः प्रतिहन्यते ०४३२२ दशति दृष्टमपि श्रुतमप्यसौ । ०४३२३ अतिसुदुष्करमव्यतिरिक्तदृक् ०४३२४ छ्रुतिभिरप्यथ दृष्टिविषैरिदम् ॥ ०४३३१ गजतुरगशतैः प्रयान्तु मूर्खा ०४३३२ धनरहिता विबुधाः प्रयान्तु पद्भ्याम् । ०४३३३ गिरिशिखिरगतापि काकपाली ०४३३४ पुलिनगतैर्न समेति राजहंसैः ॥ ०४३४१ ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते । ०४३४२ उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः ॥ ०४३५१ प्रकटमपि न संवृणोति दोषं ०४३५२ गुणलवलम्पट एष साधुवर्गः । ०४३५३ अतिपरुषरुषं विनापि दोषैः ०४३५४ पिशुनशुनां रुषतां प्रयाति कालः ॥ ०४३६१ यदा विगृह्णाति तदा हतं यशः ०४३६२ करोति मैत्त्रीमथ दूषिता गुणाः । ०४३६३ स्थितिं समीक्ष्योभयथा परीक्षकः ०४३६४ करोत्यवज्ञोपहतं पृथग्जनम् ॥ ०४३७१ इष्टो वा सुकृतशतोपलालितो वा ०४३७२ श्लिष्टो वा व्यसनशताभिरक्षितो वा । ०४३७३ दौःशील्याज्जनयति नैव जात्वसाधुर् ०४३७४ विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥ ०४३८१ रूक्षं विरौति परिकुप्यति निर्निमित्तं ०४३८२ स्पर्शेन दूषयति वारयति प्रवेशम् । ०४३८३ लज्जाकरं दशति नैव च तृप्यतीति ०४३८४ कौलेयकस्य च खलस्य च को विशेषः ॥ ०४३९१ पादाहतोथ दृढदण्डविघट्टितो वा ०४३९२ यं दंष्ट्रया दशति तं किल हन्ति सर्पः । ०४३९३ कोप्यन्य एव पिशुनोद्य भुजंगधर्मा ०४३९४ कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ ०४४०१ युक्तं यया किल निरन्तरलब्धवृत्तेर् ०४४०२ अस्याभिमानतमसः प्रसरं निरोद्धुम् । ०४४०३ विद्वत्तया जगति तामवलम्ब्य केचित् ०४४०४ तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यम् ॥ ०४४११ नन्वाश्रयस्थितिरियं तव कालकूट ०४४१२ केनोत्तरोत्तरविशिष्टपदोपदिष्टा । ०४४१३ प्रागर्णवस्य हृदये वृषलक्ष्मणोथ ०४४१४ कण्ठेधुना वससि वाचि पुनः खलानाम् ॥ ०४४२१ प्रायः स्वभावमलिनो महतां समीपे ०४४२२ टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातम् । ०४४२३ शीतार्दितैः सकललोकसुखावहोपि ०४४२४ धूमे स्थिते नहि सुखेन निषेव्यतोग्निः ॥ ०४४३१ धूमः पयोधरपदं कथमप्यवाप्य ०४४३२ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः । ०४४३३ दैवादवाप्य कलुषप्रकृतिर्महत्त्वं ०४४३४ प्रायः स्वबन्धुजनमेव तिरस्करोति ॥ ०४४४१ उल्लासिताखिलखलस्य विशृङ्खलस्य ०४४४२ प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः । ०४४४३ दैवादवाप्तविभवस्य गुणद्विषोस्य ०४४४४ नीचस्य गोचरगतैः सुखमास्यते कैः ॥ ०४४५१ नाश्चर्यमेतदधुना हतदैवयोगा ०४४५२ दुर्च्चैःस्थितिर्यदधमो न महानुभावः । ०४४५३ रथ्याकलङ्कशतसंकरसंकुलोपि ०४४५४ पृष्ठे भवत्यवकरो न पुनर्निधानम् ॥ ०४४६१ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात् ०४४६२ समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलम् । ०४४६३ भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन् ०४४६४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ०४४७१ लभेत सिकतासु तैलमपि यत्नतः पीडयन् ०४४७२ पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । ०४४७३ कदाचिदपि पर्यटच्छशविषाणमासादयेन् ०४४७४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ०४४८१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं ०४४८२ स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितम् । ०४४८३ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः ०४४८४ कृतान्धमुखमण्डना यदबुधो जनः सेचितः ॥ ०४४९१ वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं ०४४९२ परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता । ०४४९३ कृता वैदूर्याशा विकचकिरणे काचशकले ०४४९४ मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥ ०४५०१ स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा ०४५०२ स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा । ०४५०३ शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष ०४५०४ ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभम् ॥ ०४५११ गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी ०४५१२ प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् । ०४५१३ विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः ०४५१४ करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ ॥ ०४५२१ अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा ०४५२२ फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः । ०४५२३ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो ०४५२४ प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता ॥ ०४५३१ यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने ०४५३२ नहि परयशो निन्दाव्याजैरलं परिमार्जितुम् । ०४५३३ विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा ०४५३४ दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि ॥ ०४५४१ प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते ०४५४२ मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् । ०४५४३ असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो ०४५४४ नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि ॥ ०४५५१ न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि ०४५५२ त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे । ०४५५३ गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश् ०४५५४ चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः ॥ ०४५६१ वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ ०४५६२ विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने । ०४५६३ गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो ०४५६४ न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः ॥ ०४५७१ वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद् ०४५७२ रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः । ०४५७३ कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान् ०४५७४ मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः ॥ ०४५८१ सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर् ०४५८२ मींांसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिम् । ०४५८३ छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम् ०४५८४ अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः ॥ ०४५९१ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ् ०४५९२ छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् । ०४५९३ गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं ०४५९४ ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः ॥ ०४६०१ हसति लसति हर्षात्तीव्रदुःखे परेषां ०४६०२ स्खलति गलति मोहादात्मनः क्लेशलेशे । ०४६०३ नदति वदति निन्द्यं मानिनां किं च नीचः ०४६०४ परुषवचनमल्पं श्रावितो हन्तुमेति ॥ ०४६११ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । ०४६१२ अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि ॥ ०४६२१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं ०४६२२ तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् । ०४६२३ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ ०४६२४ द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ॥ ०४६३१ भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर् ०४६३२ गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटम् । ०४६३३ पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते ०४६३४ गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ ०४६४१ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं ०४६४२ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि । ०४६४३ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे ०४६४४ तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः ॥ ०४६५१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी ०४६५२ बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः । ०४६५३ भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः ०४६५४ प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥ ०४६६१ अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितम् । ०४६६२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥ ०४६७१ शरणं किं प्रपन्नानि विषवन्मारयन्ति किम् । ०४६७२ न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥ ०४६८१ कृपणेन समो दाता न भूतो न भविष्यति । ०४६८२ अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ ०४६९१ या विपत्तिर्धनापाये नवा भोगिवदान्ययोः । ०४६९२ प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा ॥ ०४७०१ त्यागोपभोगशून्येन धनेन धनिनो यदि । ०४७०२ भवामः किं न तेनैव धनेन धनिनो वयम् ॥ ०४७११ गृहमध्यनिखातेन धनेन रमते यदि । ०४७१२ स तु तेनानुसारेण रमते किं न मेरुणा ॥ ०४७२१ किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः । ०४७२२ अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥ ०४७३१ दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते । ०४७३२ पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् ॥ ०४७४१ अतिसंचयकर्त्णां वित्तमन्यस्य कारणाम् । ०४७४२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥ ०४७५१ यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने । ०४७५२ तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥ ०४७६१ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले । ०४७६२ कान्तिं कामिह कुर्वीत कुणौ कटककल्पना ॥ ०४७७१ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियाम् । ०४७७२ दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः ॥ ०४७८१ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । ०४७८२ यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः ॥ ०४७९१ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः । ०४७९२ वयमपि किमिति न धनिनिस्तिष्ठति नः काञ्चनो मेरुः ॥ ०४८०१ धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणाम् । ०४८०२ हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव ॥ ०४८११ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः । ०४८१२ कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव ॥ ०४८२१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । ०४८२२ कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥ ०४८३१ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः । ०४८३२ केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति ॥ ०४८४१ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः । ०४८४२ जलसंपदोम्बुराशेर्यान्ति लयं शश्वदौर्वाग्नौ ॥ ०४८५१ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः । ०४८५२ मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि ॥ ०४८६१ न निर्यियासन्ति कदर्यहस्ताद् ०४८६२ धनानि पांसोरिव तैललेशाः । ०४८६३ दैवात्कदाचिद्विनियोक्तुरेव ०४८६४ निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥ ०४८७१ संचितं क्रतुषु नोपयुज्यते ०४८७२ याचितं गुणवते न दीयत्ये । ०४८७३ तत्कदर्यपरिरक्षितं धनं ०४८७४ चौरपार्थिवगृहेषु गच्छति ॥ ०४८८१ वरममी तरवो वनगोचराः ०४८८२ शकुनिसार्थविलुप्तफलश्रियः । ०४८८३ न तु धनाढ्यगृहाः कृपणाः फण ०४८८४ निहितरत्नभुजंगमवृत्तयः ॥ ०४८९१ सुसंवृतैर्जीवितवत्सुरक्षितैर् ०४८९२ निजेपि देहे कृतयन्त्रणस्य च । ०४८९३ तवानुमार्गं व्रजतो भवान्तरे ०४८९४ शठैर्धनैः पञ्चपदी न पूरिता ॥ ०४९०१ अहो धनानां महती विदग्धता ०४९०२ सुखोषितानां कृपणस्य वेश्मनि । ०४९०३ व्रजन्ति न त्यागदशां न भोग्यतां ०४९०४ परां च काञ्चित्प्रथयन्ति निर्वृतिम् ॥ ०४९११ न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः ०४९१२ क्षतच्छायः कायश्चिरविरसरूक्षाशनतया । ०४९१३ अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात् ०४९१४ कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ ०४९२१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः ०४९२२ सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः । ०४९२३ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया ०४९२४ धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ॥ ०४९३१ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया ०४९३२ भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया । ०४९३३ मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते ०४९३४ कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥ ०४९४१ मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा ०४९४२ दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन । ०४९४३ मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर् ०४९४४ आढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यम् ॥ ०४९५१ ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः । ०४९५२ शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते ॥ ०४९६१ नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः । ०४९६२ येषां भुवनलाभेपि निःसीमानो मनोरथाः ॥ ०४९७१ पुंसामुन्नतचित्तानां सुखावहमिदं द्वयम् । ०४९७२ सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा ॥ ०४९८१ अयं बन्धुः परो वेति गणना लघुचेतसाम् । ०४९८२ पुंसामुदारचित्तानां वसुधैव कुटुम्बकम् ॥ ०४९९१ जरामरणदौर्गत्यव्याधयस्तावदासताम् । ०४९९२ जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरम् ॥ ०५००१ परिवर्तिनि संसारे मृतः को वा न जायते । ०५००२ स जातो येन जातेन याति वंशः समुन्नतिम् ॥ ०५०११ अपि नाम स दृश्येत पुरुषातिशयो भुवि । ०५०१२ गर्वोच्छूनमुखा येन धनिनो नावलोकिताः ॥ ०५०२१ पृथ्वी पृथ्वी गुणा मान्याः सन्ति भूपा विवेकिनः । ०५०२२ पराभवापदं यान्ति कस्मादुन्नतबुद्धयः ॥ ०५०३१ अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुम् । ०५०३२ अहो बत महत्कष्टं चक्षुष्मानपि याचते ॥ ०५०४१ दारिद्र्यानलसंतापः शान्तः संतोषवारिणा । ०५०४२ याचकाशाविघातान्तर्दाहं को नाम पश्यतु ॥ ०५०५१ परिपूर्णगुणाभोगगरिमोद्नार एव सः । ०५०५२ त्रिजगत्स्पृहणीयेस्मिन्न रुचिर्द्रविणेपि यत् ॥ ०५०६१ विद्ययैव मदो येषां कार्पण्यं च धने सति । ०५०६२ तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः ॥ ०५०७१ किं तया क्रियते लक्ष्म्या या वधूरिव केवला । ०५०७२ या न वेश्येव सामान्या पथिकैरपि भुज्यते ॥ ०५०८१ त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः । ०५०८२ परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना ॥ ०५०९१ कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । ०५०९२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ ०५१०१ नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना । ०५१०२ निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनाम् ॥ ०५१११ आकारमात्रविज्ञानसंपादितमनोरथाः । ०५११२ धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः ॥ ०५१२१ बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतम् । ०५१२२ सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषम् ॥ ०५१३१ कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः । ०५१३२ इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियाम् ॥ ०५१४१ अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः । ०५१४२ यदुपक्रियमाणोपि प्रीयते न विलीयते ॥ ०५१५१ प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः । ०५१५२ यस्तु विहितोपकारादुपकारः सोधिको मृत्योः ॥ ०५१६१ प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः । ०५१६२ एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः ॥ ०५१७१ जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च । ०५१७२ तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिम् ॥ ०५१८१ यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य । ०५१८२ नित्यं प्रसारितकरः सवितामपि भवत्यचक्षुष्यः ॥ ०५१९१ नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते । ०५१९२ तद्यपि न लभ्यतेन्यन्मनस्विनः किमभिमानफलम् ॥ ०५२०१ घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन । ०५२०२ उचितेनुचिते कर्मणि वृत्तिनिवृत्ती ममायत्ते ॥ ०५२११ कल्पस्थायि न जीवितमैश्चर्यं नाप्यते च यदभिमतम् । ०५२१२ लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य ॥ ०५२२१ धनबाहुल्यमहेतुः कोपि निसर्गेण मुक्तकरः । ०५२२२ प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः ॥ ०५२३१ उत्पादिता स्वयमियं यदि तत्तनूजा ०५२३२ तातेन वा यदि तदा भगिनी खलु श्रीः । ०५२३३ यद्यन्यसंगमवती च तदा परस्त्री ०५२३४ तत्त्यागबद्धमनसः सुधियो भवन्ति ॥ ०५२४१ द्रविणार्जनजः परिश्रमः ०५२४२ फलितोप्यस्य जनस्य नीरसः । ०५२४३ द्रविणार्जनमात्मतुष्टये ०५२४४ परमावर्जयितुं गुणार्जनम् ॥ ०५२५१ यः प्रशंसति नरो नरमन्यं ०५२५२ देवतासु वरदासु सतीषु । ०५२५३ मुग्धधीर्धनलवस्पृहयालुस् ०५२५४ तं नृशंसमहमाद्यमवैमि ॥ ०५२६१ यथा शरीरं किल जीवितेन ०५२६२ विनाकृतं काष्ठमिवावभाति । ०५२६३ तथैव लज्जीवितमप्यवैमि ०५२६४ लोकोत्तरेण स्फुरितेन शून्यम् ॥ ०५२७१ सन्तोपि सन्तः क्व किरन्तु तेजः ०५२७२ क्व नोज्ज्वलन्तु क्व नु न प्रथन्ताम् । ०५२७३ विधाय रुद्धा ननु वेधसैव ०५२७४ ब्रह्माण्डकोशे घटदीपकल्पाः ॥ ०५२८१ कदर्थितस्यापि हि धैर्यवृत्तेर् ०५२८२ न शक्यते सत्त्वगुणः प्रमार्ष्टुम् । ०५२८३ अधोमुखस्यापि कृतस्य वह्नेर् ०५२८४ नाधः शिखा यान्ति कदाचिदेव ॥ ०५२९१ जातश्च नाम न विनङ्क्ष्यन्ति चेत्ययुक्तम् ०५२९२ उत्पाद एव नियमेव विनाशहेतुः । ०५२९३ तुल्ये च नाम मरणव्यसनोपतापे ०५२९४ मृत्युर्वरं परहितावहिताशयस्य ॥ ०५३०१ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास् ०५३०२ त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् । ०५३०३ अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः ०५३०४ स्मयस्तब्धोयावत्कलयति समग्रं तृणमिदम् ॥ ०५३११ स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी ०५३१२ न बिभ्रति मनास्विनो यदमुना न तावत्क्षतिः । ०५३१३ अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर् ०५३१४ वहन्ति विजिगीषुतां किमिव तेनुकम्पास्पदम् ॥ ०५३२१ विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा ०५३२२ विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । ०५३२३ इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते ०५३२४ कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ०५३३१ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर् ०५३३२ भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजाम् । ०५३३३ तदंशस्याप्यंशे तदवयवलेशेपि पतयो ०५३३४ विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ०५३४१ परेषां चेतांसि प्रतिदिवसमायास्य बहुधा ०५३४२ प्रसादं किं नेतुं विशासि हृदय क्लेशकलिलम् । ०५३४३ प्रसन्ने त्वय्येव स्वयमुदितचिन्तामणिगुणे ०५३४४ विविक्तः संकल्पः किमभिलषितं पुष्यति न ते ॥ ०५३५१ विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं ०५३५२ परिष्वक्तोप्यर्थैः परिभवपदं याति कृपणः । ०५३५३ स्वभावेनोद्भूतां गुणसमुदयावाप्तिविपुलां ०५३५४ द्युतिं सैंहीं न श्वा धृतकनकमालोपि लभते ॥ ०५३६१ भुज्यन्ते स्वगृहस्थिता इव सुखं यस्याथिभिः संपदः ०५३६२ पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः । ०५३६३ यस्त्वात्मंभरिरुन्नतेपि विभवे हीनश्च विद्वत्तया ०५३६४ तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु ॥ ०५३७१ आधाराय धरावकाशविधयेप्याकाशमालोकने ०५३७२ भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन । ०५३७३ इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे ०५३७४ दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसाम् ॥ ०५३८१ नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते ०५३८२ पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादिताम् । ०५३८३ यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा संभवो ०५३८४ नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी ॥ ०५३९१ न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो ०५३९२ यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः । ०५३९३ शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर् ०५३९४ देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणम् ॥ ०५४०१ शय्या शाद्वलमासनं शुचिशिला सद्म द्रमाणामधः ०५४०२ शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः । ०५४०३ इत्य्प्रार्थितसर्वलभ्यविभवे दोषोयमेको वने ०५४०४ दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥ ०५४११ अल्पीयसामेव हि जन्मभूमेस् ०५४१२ त्यागः प्रमादो विदुषां न सोस्ति । ०५४१३ स्थानादपेता मणयो व्रजन्ति ०५४१४ राज्ञां शिरः काकमुखानि भेकाः ॥ ०५४२१ शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः । ०५४२२ यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः ॥ ०५४३१ रुद्रोद्रिं जलधिं हरिर्दिविषदो दूरं विहायः श्रिता ०५४३२ भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः । ०५४३३ लीना पद्मवने सरोजनिलया मन्येर्थिसार्थाद्भिया ०५४३४ दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलम् ॥ ०५४४१ प्रारभ्यते न खलु विघ्नभयेन नीचैः ०५४४२ प्रारभ्य विघ्नविहता विरमन्ति मध्याः । ०५४४३ विघ्नैः सहस्रगुणितैरपि हन्यमानाः ०५४४४ प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ ०५४५१ प्रसरद्भिः करैर्यस्य विकसन्ति न सद्गुणाः । ०५४५२ तस्य दोषाकरस्येयं कथं नित्यास्ति पूर्णता ॥ ०५४६१ क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरताम् । ०५४६२ उपैति मित्राद्यच्चन्द्रो युक्तं यन्मलिनः सदा ॥ ०५४७१ कथं न लज्जितस्तादृक्सविता तेजसां निधिः । ०५४७२ ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकाम् ॥ ०५४८१ रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः । ०५४८२ न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति ॥ ०५४९१ किमनेन न पर्याप्तं कान्तत्वं शशलक्ष्मणा । ०५४९२ सुसंतप्तापि नलिनी यद्विश्वासमुपागमत् ॥ ०५५०१ करान्प्रसार्य रविणा दक्षिणाशाविलम्बिना । ०५५०२ न केवलमनेनात्मा दिवसोपि लघूकृतः ॥ ०५५११ वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ । ०५५१२ राशिः स एव चन्द्रस्य न याति दिवसत्रयम् ॥ ०५५२१ शिरसा धार्यमाणोपि सोमः सोमेन शंभुना । ०५५२२ तथापि कृशतां धत्ते कष्टः खलु पराश्रयः ॥ ॠस्व्०५५२३ प. पाजकस्य ०५५२४ पततु वारिणि यातु दिगन्तरं ०५५२५ विशतु वह्निमथो व्रजतु क्षितिम् कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते । ०५५२६ यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः ॥ ०५५४१ पततु वारिणि यातु दिगन्तरं ०५५४२ विशतु वह्निमथो व्रजतु क्षितिम् । ०५५४३ रविरसावियतास्य गुणेषु का ०५५४४ सकललोकचमत्कृतिषु क्षतिः ॥ ०५५५१ तत्तावदेव शशिनः स्फुरितं महीयो ०५५५२ यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति । ०५५५३ अभ्युद्यते सकलधामनिधौ च तस्मिन् ०५५५४ निन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ०५५६१ सद्वृत्तयः सदसदर्थविवेकिनो ये ०५५६२ ते पश्य कीदृशममुं समुदाहरन्ति । ०५५६३ चौरासतीप्रभृतयो ब्रुवते यदस्य ०५५६४ तद्गृह्यते यदि कृतं तदहस्करेण ॥ ०५५७१ एकैव सामृतमयी सुतरामनर्घा ०५५७२ काप्यस्त्यसौ शशधरस्य कला ययैव । ०५५७३ आरोपितो गुणविदा परमेश्वरेण ०५५७४ चूडामणौ न गणितोस्य कलङ्कदोषः ॥ ०५५८१ उद्यन्त्यमूनि सुबहूनि महामहांसि ०५५८२ चन्द्रोप्यलं भुवनमण्डलमण्डनाय । ०५५८३ सूर्यादृते न तदुदेति न चास्तमेति ०५५८४ येनोदितेन दिनमस्तमितेन रात्रिः ॥ ०५५९१ लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः ०५५९२ स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् । ०५५९३ दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव ०५५९४ व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः ॥ ०५६०१ क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि ०५६०२ लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती । ०५६०३ संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर् ०५६०४ नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥ ०५६११ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः ०५६१२ क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः । ०५६१३ सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर् ०५६१४ दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः ॥ ॠस्व्०५६१५ कलशकस्य ०५६१६ पातः पूष्णो भवति महते नोपतापाय यस्मात् ०५६१७ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं ०५६१८ पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः । ०५६१९ विधेर्योगादेतत्समुचितमिदं तु व्यथयति ०५६११० त्रपाहीनो मित्रात्तदपि गगने यद्विहरति ॥ ०५६३१ पातः पूष्णो भवति महते नोपतापाय यस्मात् ०५६३२ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये । ०५६३३ एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस् ०५६३४ तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोवकाशः ॥ ०५६४१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता ०५६४२ कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः । ०५६४३ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं ०५६४४ कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः ॥ ०५६५१ येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच् ०५६५२ चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा । ०५६५३ तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो ०५६५४ यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा ॥ ०५६६१ शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते ०५६६२ सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समम् । ०५६६३ चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति ०५६६४ ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति ॥ ०५६७१ पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति ०५६७२ क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः । ०५६७३ प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं ०५६७४ पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः ॥ ०५६८१ ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः ०५६८२ सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता । ०५६८३ एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं ०५६८४ लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते ॥ ०५६९१ दृष्टैव यं करसहस्रहृतान्धकारं ०५६९२ भीत्यापयान्त्यनुदिनं शतशः पिशाचाः । ०५६९३ क्षीणे विधौ हरिविलूनकरोति चित्रं ०५६९४ गृह्णाति तं द्युमणिमभ्रपिशाच एकः ॥ ०५७०१ तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः । ०५७०२ तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः ॥ ०५७११ रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरम् । ०५७१२ प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवम् ॥ ०५७२१ आभाति चन्द्ररहिता न कदापि रात्रिश् ०५७२२ चन्द्रोपि रात्रिरहितो गतकान्तिरेव । ०५७२३ किं कारणं यदनयोः प्रतिमासमेको ०५७२४ जातो निस्तरतया परिरम्भयोगः ॥ ०५७३१ गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो ०५७३२ व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः । ०५७३३ अपसरति यदीन्दोर्व्योमतल्पे प्रसुप्तात् ०५७३४ त्रुटति तदनयोः किं तावता दम्पतित्वम् ॥ ०५७४१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा ०५७४२ बोधं दृशां दिशति भूरिगुणेष्वभीष्टः । ०५७४३ खेदाय यस्य न परोपकृतिष्वटाट्या ०५७४४ धीमान्नमस्यति न कस्तमिनं प्रशस्यम् ॥ ०५७५१ विचारस्तथ्यो वा भवतु वितथो वा किमपरं ०५७५२ तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः । ०५७५३ तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो ०५७५४ रवेस्तादृक्तेजो न भवति हि कन्यां गत इति ॥ ०५७६१ उडुगणपरिवारो नायकोप्योषधीनाम् ०५७६२ अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः । ०५७६३ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः ०५७६४ परसदननिविष्टः को लघुत्वं न याति ॥ ०५७७१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता ०५७७२ स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः । ०५७७३ दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं ०५७७४ नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥ ०५७८१ तुल्या सुखस्थितिरमुष्य ममेति राज्ञि ०५७८२ स्पर्धां निजेपि जनके जनकेलिहेतौ । ०५७८३ मा राजनन्दन कृथाः स हि सर्वलोक ०५७८४ ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा ॥ ०५७९१ मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां ०५७९२ ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः । ०५७९३ दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः ०५७९४ स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः ॥ ०५८०१ पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता ०५८०२ येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते । ०५८०३ गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं ०५८०४ हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यताम् ॥ ०५८११ नाभिषेको न संस्कारः सिंहस्य क्रियते वने । ०५८१२ विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ ०५८२१ एकोहमसहायोहं कृशोहमपरिच्छदः । ०५८२२ स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥ ०५८३१ मत्तेभकुम्भनिर्भेदकठोरनखराशनिः । ०५८३२ मृगारिरिति नाम्नैव लघुत्वं याति केसरी ॥ ०५८४१ पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः । ०५८४२ वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः ॥ ०५८५१ किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसम् । ०५८५२ काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः ॥ ०५८६१ लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः । ०५८६२ कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदम् ॥ ०५८७१ मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना । ०५८७२ हरिणा हरिणः स्पर्धां वराकः कुरुते कथम् ॥ ०५८८१ तावद्गर्जति मातङ्गो वने मदभरालसः । ०५८८२ शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी ॥ ०५८९१ शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः । ०५८९२ सटामुत्पाट्य सिंहस्य किं नराः सुखमासते ॥ ०५९०१ कोपोदेकतलाघातनिपतन्मत्तदन्तिनः । ०५९०२ हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः ॥ ०५९११ यावदस्थिषु संलग्नाः कराः केसरिणः क्षणम् । ०५९१२ यूथस्य प्राणितं तावत्तदरण्यनिवासिनः ॥ ०५९२१ सग्र्वगर्जद्गजगण्डमण्डली ०५९२२ विखण्डनोड्डामरविक्रमक्रमः । ०५९२३ अनन्तविश्रान्तकुरङ्गसंगर ०५९२४ प्रसङ्गमङ्गीकुरुते कथं हरिः ॥ ०५९३१ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । ०५९३२ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ ०५९४१ एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे । ०५९४२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति ॥ ०५९५१ सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः । ०५९५२ न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले ॥ ०५९६१ समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य । ०५९६२ सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते ॥ ०५९७१ निष्प्रग्रहेषु करिपोतशतेषु मोहाद् ०५९७२ वल्गत्सु बालिशतया पुरतोप्यटत्सु । ०५९७३ मत्तेभकुम्भदलनोचितचित्तवृत्तेः ०५९७४ सिंहस्य लोचननिमीलनमेव युक्तम् ॥ ०५९८१ दृष्ट्वैव रोषवशघूर्णितकेसरांस ०५९८२ मायान्तमन्तकसमं पुरतो मृगारिम् । ०५९८३ मांसं चिखादिषुभिरेत्य पतत्रिपूगैर् ०५९८४ भ्रान्तं मदान्धगजयूथपमस्तकेषु ॥ ०५९९१ यः केसरी खरनखक्रकचोग्रपाणि ०५९९२ निर्दारितेभवरकुम्भसमुद्भवेन । ०५९९३ नव्येन शोणितचयेन निरस्ततृष्णो ०५९९४ नित्यं बभूव धिगहोद्य तृणेन सोर्थी ॥ ०६००१ विस्रं वपुः परवधप्रवणा च बुद्धिस् ०६००२ तिर्यक्तयैव कथितः सदसद्विवेकः । ०६००३ इत्थं न किंचिदपि साधु मृगाधिपस्य ०६००४ तेजस्तु तत्स्फुरति येन जगद्वराकम् ॥ ०६०११ सिंहोस्तु शत्रुरथवाधिपतिर्मृगाणां ०६०१२ शंसास्पदं तदपि न द्वयमेव मन्ये । ०६०१३ तस्य स्फुरत्करजवज्रशिरोभिघात ०६०१४ हेलानिपातितमतङ्गजजङ्गमाद्रेः ॥ ०६०२१ प्रेङ्खन्मयूखनखपातशिखानिखात ०६०२२ विख्यातवारणगणस्य हरेर्गुहायाम् । ०६०२३ क्रोष्टा निकृष्टसरमासुतदृष्टिनष्ट ०६०२४ धार्ष्ट्यो निविष्ट इति कष्टमिहाद्य दृष्टम् ॥ ०६०३१ मत्तेभकुम्भदलनाकुललोलवल्ग ०६०३२ दन्तः क्वणत्करजवज्रशिखाभिघातः । ०६०३३ किं केसरी जगति माननिधिस्तृणेन ०६०३४ प्राणात्ययेपि कुरुते स्वशरीरयात्राम् ॥ ०६०४१ विश्वस्य स्थितये धनुर्धरतया गर्जन्तमुच्चैः पदे ०६०४२ मेघं दन्तिमदान्तदुर्ललितधीर्मा सिंह लालङ्घिषीः । ०६०४३ अस्माद्वज्रविदारितक्षितिभृतो मा पाति वर्षोपलैर् ०६०४४ झम्पालम्पटभावभाविपतनाच्चिन्त्योङ्गभङ्गः स्वयम् ॥ ०६०५१ खरनखरनिखातोत्तुङ्गमातङ्गकुम्भ ०६०५२ स्थलविगलितमुक्तालंकृतक्ष्मातलस्य । ०६०५३ हरति हरिणवृन्दं किं हरेर्वैरमाजौ ०६०५४ मिलितमपि समन्तादेककार्येण कृत्स्नम् ॥ ०६०६१ अनुकृतगण्डशैलमदमण्डितगण्डतट ०६०६२ भ्रमदलिमण्डलीनिविडगुंगुमघोषजुषः । ०६०६३ दलयति हेलयैव हरिरुग्रकरान्करिणस् ०६०६४ त्रिजगति तेज एव गुरु नो विकृताकृतिता ॥ ०६०७१ शैलश्रेणिगुहागृहेषु निवसञ्जीवन्निजाडम्बरैर् ०६०७२ अव्याजोर्जितविक्रमो मृगपतिर्वीरेन्द्र मा कुप्यताम् । ०६०७३ अस्मात्कुञ्जरकुम्भसंभववसापानैकहेवाकिनो ०६०७४ यल्लब्धं व्यसनाकुलेन मनसा स्वेनैव तच्चिन्त्यताम् ॥ ०६०८१ कश्मीरान्गतुकामस्य मीरशाहाख्यभूपतेः । ०६०८२ शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकम् ॥ ०६०९१ किमेवमविशाङ्कितः शिशुकुरङ्ग लोलक्रमं ०६०९२ परिक्रमितुमीहसे विरम नैव शून्यं वनम् । ०६०९३ स्थितोत्र गजय्ङ्थनाथमथनोच्छलच्छोणित ०६०९४ च्छटापटलभासुरोत्कटसटाभरः केसरी ॥ ०६१०१ कठोरनखराहतद्विरदकुम्भपीठस्थली ०६१०२ लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी । ०६१०३ गभीररवकातरातुरतरातुरव्याहृतैः ०६१०४ पतन्हरिणकैः समं समरभूमिकां लज्जते ॥ ०६१११ चरत वृषभा जालीमांसं यथेच्छमभीरवः ०६११२ पिबत नलिनीकच्छेष्वच्छं पुनर्महिषाः पयः । ०६११३ वहत करिणो भूयः शोभां मदेन कपोलयोर् ०६११४ असहनतया दूरीभूतो विधेर्त केसरी ॥ ०६१२१ लब्धा डम्भरमम्बरे जलधरं गर्जन्तमालोक्य यद् ०६१२२ दूरादुच्छलितोसि सिंह महतां तेनैव खिन्नं मनः । ०६१२३ यत्त्वासारभयेन संप्रति दरीसांमुख्यमालम्बसे ०६१२४ तद्दृष्ट्वैव वयं ह्रिया किमपरं पातालमूलं गताः ॥ ०६१३१ यस्यानेकमदान्धवारणघटाकुम्भस्थलीभेदन ०६१३२ व्यापारैकविनोददुर्ललितया कालोगमल्लीलया । ०६१३३ उद्गर्जज्जलभारवामनघनस्पर्धी स एवाधुना ०६१३४ सिंहः पञ्जरपातपुञ्जिततनुर्धत्ते दशामीदृशीम् ॥ ०६१४१ क्षुत्क्षामेपि जराकृशोपि शिथिलप्राणोपि कष्टां दशा ०६१४२ मापन्नोपि विपन्नधीधृतिरपि प्राणेषु नश्यत्स्वपि । ०६१४३ दर्पाध्मातकरीन्द्रकुम्भदलनप्रेङ्खन्नखाग्राशनिः ०६१४४ किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ ०६१५१ नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः ०६१५२ सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते । ०६१५३ तेजोबीजमसह्यमस्य हृदये न्यस्तं पुरा वेधसा ०६१५४ तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ ०६१६१ माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्ध ०६१६२ व्यासङ्गव्यक्तमुक्ताफलशकललसत्केसरालीकरालः । ०६१६३ व्याधीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा ०६१६४ विभ्यत्सारङ्गसार्थः सततमसहनः केसरी केन दृष्टः ॥ ०६१७१ कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः ०६१७२ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः । ०६१७३ के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः ०६१७४ सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥ ०६१८१ आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली ०६१८२ स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः । ०६१८३ हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेप्यवस्थान्तरे ०६१८४ गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः ॥ ०६१९१ रक्ताक्तयन्नखरकोटिनिभादिभानां ०६१९२ यूथाः पलाशवनतोपि पलाय्य जग्मुः । ०६१९३ सिंहस्य तस्य जरतो विषमा दशा यद् ०६१९४ गोमायवैरवयवैरपि नास्ति वृत्तिः ॥ ०६२०१ पर्जन्यं प्रति गर्जतः प्रतिनिधीन्विन्ध्यस्य वातोद्धता ०६२०२ नम्भोधीनिव धावतः सरभसं हत्वा रणे वारणान् । ०६२०३ वृक्षाद्वृक्षमुपेयुषोल्पवपुषः शाखामृगस्योपरि ०६२०४ क्रुद्धः सोपि भवानहो बत गतः पञ्चास्य हास्यां दशाम् ॥ ०६२११ हुंकारैः स्तनितानुकारचतुरैर्न्यक्कारमाकारित ०६२१२ क्षौणीभृच्छिखरश्रियो गजघटा नीत्वा मदाटोपिनीः । ०६२१३ सिंहः संहतभावतो दशदिशः क्लिश्यत्सु दुर्वाशितैर् ०६२१४ गोमायुष्वपि विश्वविश्वविदितप्रौढिः किमुद्यच्छते ॥ ०६२२१ करिकलभ विमुञ्च लोलतां ०६२२२ चर विनयव्रतमानताननः । ०६२२३ मृगपतिनखकोटिभङ्गुरो ०६२२४ गुरुरुपरि क्षमते न तेङ्कुशः ॥ ०६२३१ केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि ०६२३२ गाहस्य शैलतटनिर्झरिणीपयांसि । ०६२३३ भावानुरक्तकरिणीकरलालिताङ्ग ०६२३४ मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ०६२४१ उच्छृङ्खलेन निरपेक्षतयोन्मदेन ०६२४२ येनाकुलीकृतमिदं करिणा बभूव । ०६२४३ दत्त्वा पदं शिरसि हस्तिपकार्भकेण ०६२४४ मन्दः कथं गमित एष वशं प्रसह्य ॥ ०६२५१ विन्ध्याद्रिसानुतरुपुष्पपतत्पराग ०६२५२ संपुञ्जपूजितकरः करियूथसेव्यः । ०६२५३ योभूत्स एव नृनिदेशकरः करीन्द्रो ०६२५४ जातः कथं किमथवा प्रभुरत्र कालः ॥ ०६२६१ अन्तःसमुत्थविरहानलतीव्रताप ०६२६२ संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् । ०६२६३ धात्रा स्वहस्तलिखितानि ललाटपट्टे ०६२६४ को वाक्षराणि परिमार्जयितुं समर्थः ॥ ०६२७१ भो भोः करीन्द्र दिवसानि कियन्ति तावद् ०६२७२ अस्मिन्मरौ समतिवाहयकुत्रचित्त्वम् । ०६२७३ रेवाजलैर्निजकरेणुकरप्रयुक्तैर् ०६२७४ भूयः शमं गमयितासि निदाघकाले ॥ ०६२८१ अस्मिञ्जडे जगति को नु बृहत्प्रमाण ०६२८२ कर्णः करी ननु भवेद्दुरितस्य पात्रम् । ०६२८३ इत्यागतं तमपि योलिनमुन्ममाथ ०६२८४ मातङ्ग एव किमतः परमुच्यतेसौ ॥ ०६२९१ न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले ०६२९२ न पङ्कैराह्लादं व्रजति बिसभङ्गार्धशकलैः । ०६२९३ ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं ०६२९४ स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ०६३०१ लतान्तान्नादत्ते शशिशकलशीतं न च जलं ०६३०२ भ्रमद्भृङ्गासङ्गाः परिहरति कान्ताः कमलिनीः । ०६३०३ दधद्भाराकारं करमपि करी जातविरहो ०६३०४ वितन्वन्नुच्छ्वासान्क्षणमपि वतान्ते न रमते ॥ ०६३११ नदीवप्रान्भित्त्वा किसलयवदुत्पाट्य च तरून् ०६३१२ मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् । ०६३१३ जरां प्राप्यानार्यां तरुणजनविद्वेषजननीं ०६३१४ स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ ०६३२१ वरमियमङ्कुशक्षतिरलक्षितमापतिता ०६३२२ विनयविधित्सया शिरसि ते गजयूथपते । ०६३२३ न पुनरपश्चिमा करजवज्रशिखाभिहतिः ०६३२४ प्रसभसमुत्थितस्य निशिता वनकेसरिणः ॥ ०६३३१ स्वाधीनां प्रविहाय शैलकटकप्रान्ते करेण वने ०६३३२ यत्ते नागरिकाजने निपतितं सद्भावशून्ये मनः । ०६३३३ तस्यैतद्दृढरज्जुबन्धनवधव्यापारखेदात्मकं ०६३३४ हे मत्तद्विपु कर्मणः परिणतं रागानुरूपं फलम् ॥ ०६३४१ क्वाकारो गिरिसन्निभः क्व च गतिर्वेगेन लीला च सा ०६३४२ हेलाकुड्मलितेक्षणाः क्व नु दृशस्तद्वा क्व ते बृंहितम् । ०६३४३ वप्राघातरसः क्व ते क्व च करः कष्टं यदेवंविधं ०६३४४ त्वामारुह्य शिशुः पदा परवशं संचारयत्याज्ञया ॥ ०६३५१ पादाघातविघूर्णिता वसुमती त्रासालसाः पक्षिणः ०६३५२ पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः । ०६३५३ प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं ०६३५४ तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ०६३६१ पुण्ड्रेक्षूनपि भक्षयन्घृतभृतो मांसौदनादीनपि ०६३६२ प्रावृण्वन्विविधाः कुथा अपि वहन्नक्षत्रमाला अपि । ०६३६३ कर्णे चामरमालिकामपि दधद्दन्ती तथापि स्मर ०६३६४ न्वैन्ध्यीनां घनसल्लकीवनभुवामास्ते सदा दुःखितः ॥ ०६३७१ नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवो ०६३७२ पीतं येन सरोजपत्त्रपुटके होमावशेषं पयम् । ०६३७३ तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्रगण्डं गजं ०६३७४ सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ०६३८१ दन्ते न्यस्य करं प्रलम्बितशिराः संमील्य नेत्रद्वयं ०६३८२ किं त्वं वारण तप्यसे गणिकया को नाम नो वञ्चितः । ०६३८३ ग्रासं शान्तमना गृहाण सततं शोकोधुना त्यज्यतां ०६३८४ ये मत्ता अविवेकिनश्चलधियस्ते प्राप्नुवन्त्यापदम् ॥ ०६३९१ पत्युर्यत्कवलावशेषपतितग्रासेन वृत्तिः कृता ०६३९२ पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः । ०६३९३ प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं ०६३९४ यद्बन्धार्पणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥ ०६४०१ घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्याः ०६४०२ पाशग्रन्थिव्रणानामभिमतमधुना देहि पङ्कानुलेपम् । ०६४०३ दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तरम्या ०६४०४ रेवाकुलोपकण्टद्रुमकुसुमरजो धूसरा विन्ध्यपादाः ॥ ०६४११ लाङ्गूलचालनमधश्चरणावपातं ०६४१२ भूमौ निपत्य वदनोदरदर्शनं च । ०६४१३ श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु ०६४१४ धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ०६४२१ यद्विन्ध्यः शिखरी तदन्तरपि यत्पीलुप्रियः पिप्पलः ०६४२२ सोत्कण्ठा रभसागमादभिपतद्रेणुः करेणुश्च यत् । ०६४२३ तत्किं भद्रतया स्मरत्यपि करी दैवं हि सर्वंकषं ०६४२४ तन्मृत्योरपि दुःसहं तु यदयं मन्दो धुरि स्थापितः ॥ ०६४३१ मध्येविन्ध्यमुदूर्मिनार्मदनदीवातूलवातावली ०६४३२ हेलोद्धूलितमल्लिकाकिसलयैर्यो वृद्धिमभ्यागतः । ०६४३३ सोयं दैववशाद्वशाविरहितः शूत्कारकारी करी ०६४३४ निर्मज्जद्वजरज्जुपाशविवशः कष्टं किमाचेष्टाम् ॥ ०६४४१ हे गन्धकुञ्जर महागिरिकुञ्जराजि ०६४४२ मद्यापि मा स्मर सलीलनिमीलिताक्षः । ०६४४३ मुञ्चाभिमानमधुना भज वर्तमानं ०६४४४ वक्रं विधेरुपरि शासनमङ्कुशं च ॥ ०६४५१ स्वच्छस्वादुजला विहाय सरितो हर्तुं तृषं दुःसहां ०६४५२ मा मत्त द्विरदाक्षि निक्षिप शरत्कृष्टे तडागाम्बुनि । ०६४५३ पीतेस्मिन्सकलेपि गच्छति न ते शान्तिं पिपासा जले ०६४५४ ग्रामस्यैकगतेरमुष्य नियतं स्याज्जीविते संशयः ॥ ०६४६१ दूर्वाकुरतृणाहारा धन्यास्तात वने मृगाः । ०६४६२ विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ ०६४७१ अमृता विगतप्राणा सान्तःशल्याकृतव्रणा । ०६४७२ अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी ॥ ०६४८१ रज्ज्वा दिशः प्रवितताः सलिलं विषेण ०६४८२ पाशैर्मही हुतभुजा ज्वलिता वनान्ताः । ०६४८३ व्याधाः पदान्यनुसरन्ति गृहीतबाणाः ०६४८४ कं देशमाश्रयति यूथपतिर्मृगाणाम् ॥ ०६४९१ द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे ०६४९२ किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे । ०६४९३ विदधति हतव्याधानां ते मनागपि नार्द्रतां ०६४९४ कठिनमनसामेषामेते विलोचनविभ्रमाः ॥ ०६५०१ स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस् ०६५०२ तृषार्तः सारङ्गो विरमति न खिन्नेपि मनसि । ०६५०३ अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी ०६५०४ मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते ॥ ०६५११ हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा ०६५१२ यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितम् । ०६५१३ येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर् ०६५१४ दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता ॥ ०६५२१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर् ०६५२२ द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः । ०६५२३ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना ०६५२४ किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥ ०६५३१ नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास् ०६५३२ तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि । ०६५३३ रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस् ०६५३४ ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ ०६५४१ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली ०६५४२ विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः । ०६५४३ बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी ०६५४४ मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ ०६५५१ छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां ०६५५२ पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् । ०६५५३ व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः ०६५५४ कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषम् ॥ ०६५६१ स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि ०६५६२ नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि । ०६५६३ मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं ०६५६४ हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतम् ॥ ०६५७१ स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता ०६५७२ भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी । ०६५७३ निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथस् ०६५७४ तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ ०६५८१ सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले ०६५८२ नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि । ०६५८३ तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं ०६५८४ शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः ॥ ०६५९१ शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां ०६५९२ मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य । ०६५९३ दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः ०६५९४ सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः ॥ ०६६०१ आदाय मांसमखिलं स्तनवर्जमङ्गान् ०६६०२ मां मुञ्च वागुरिक याहि कुरु प्रसादम् । ०६६०३ अद्यापि घासकवलग्रसनानभिज्ञो ०६६०४ मन्मार्गवीक्षणपरस्तनयो मदीयः ॥ ०६६११ पुरो रेवा पारे गिरिरतिदुरारोहशिखरः ०६६१२ सरः सव्ये वामे दवदहनदाहव्यतिकरः । ०६६१३ धनुष्पाणिः पश्चाच्छबरहतको धावतितरां ०६६१४ न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति ॥ ०६६२१ क्व क्रीडति क्व चरति क्व करोति वृत्तिं ०६६२२ वारि क्व नाम पिबति स्वपिति क्व नाम । ०६६२३ इत्थं मृगं निरपराधमबाधमानं ०६६२४ व्याधोनुधावति वधाय धनुर्दधानः ॥ ०६६३१ चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः ०६६३२ पुण्यैरवापि शरणाय मयेति तोषम् । ०६६३३ मुग्धैणशाव भज मा त्यज पापमेनं ०६६३४ मीनं प्रभुज्य सहसा कृतमेषभोगम् ॥ ०६६४१ करभ यदि कदाचित्प्रभ्रमन्दैवयोगान् ०६६४२ मधुकरकुलतस्त्वं प्रापयेथा मधूनि । ०६६४३ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये ०६६४४ प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥ ०६६५१ विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां ०६६५२ मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीम् । ०६६५३ स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां ०६६५४ परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥ ०६६६१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा ०६६६२ मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । ०६६६३ कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे ०६६६४ जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ०६६७१ करभदयिते योसौ पीलुस्त्वया मधुलुब्धया ०६६७२ व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः । ०६६७३ चलकिसलयः सोपीदानीं प्ररूढनवाङ्कुरः ०६६७४ करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥ ०६६८१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं ०६६८२ विरम शठे हे कस्यात्यन्तं सखे सुखमागतम् । ०६६८३ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां ०६६८४ पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ०६६९१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः ०६६९२ शरणमथवानृज्वी दीर्घा तवैव शिरोधरा । ०६६९३ पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा ०६६९४ दियति समये को जानीते भविष्यति कस्य किम् ॥ ०६७०१ तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश् ०६७०२ चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः । ०६७०३ कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना ०६७०४ यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते ॥ ०६७११ यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये ०६७१२ दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि । ०६७१३ सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां ०६७१४ मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरम् ॥ ०६७२१ पीलूनां हि फलं कषायरहितं रोमन्थयित्वा मरौ ०६७२२ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः । ०६७२३ तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं ०६७२४ प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥ ०६७३१ क्रमेलकं निन्दति कोमलेच्छुः ०६७३२ क्रमेलकः कण्टकलम्पटस्तम् । ०६७३३ प्रीतौ तयोरिष्टभुजोः समायां ०६७३४ मध्यस्थता नैकतरोपहासः ॥ ०६७४१ एक एव खगो मानी वने वसति चातकः । ०६७४२ पिपासितो वा म्रियते याचते वा पुरंदरम् ॥ ०६७५१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवम् । ०६७५२ ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् ॥ ०६७६१ पिपासुरप्येव जलं शिखण्डी ०६७६२ प्रतीक्षते प्राणसमां पिबन्तीम् । ०६७६३ नूनं प्रियास्नेहनिबद्धदृष्टिः ०६७६४ स्वल्पं पयः पश्यति निम्नगासु ॥ ०६७७१ अत्युन्नतिव्यसनिनः शिरसोधुनैष ०६७७२ स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् । ०६७७३ अस्यैतदिच्छति नहि प्रततासु दिक्षु ०६७७४ ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥ ०६७८१ केकाः कला वनभुवस्तिलकायमानो ०६७८२ रम्यः कलापमहिमैष शिखण्डिनोस्य । ०६७८३ दुर्लक्षणं ननु विहायसि वायसादि ०६७८४ क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः ॥ ०६७९१ नीलाब्जपुञ्जरजसारुणितान्विमुच्य ०६७९२ स्वच्छान्सुधाधिकरसानपि वारिराशीन् । ०६७९३ यच्चातकः पिबति वारिधरोदबिन्दून् ०६७९४ मन्ये तदानतिभयाच्छिरसोभिमानी ॥ ०६७९५ दिव्याम्बुपाननियमस्तव मोहयेत्कं ०६७९६ दोषोपि संवृतिमतां भजते गुणत्वम् भूमिस्थमम्बु यदि चातक पातुमिच्छेः ०६७९७ कण्ठव्रणं प्रकटयेस्तदयोग्यतां च ॥ ०६७९८ दिव्याम्बुपाननियमस्तव मोहयेत्कं ०६७९९ दोषोपि संवृतिमतां भजते गुणत्वम् ॥ ०६८११ किं नैव सन्ति नवतामरसावतंसा ०६८१२ हंसावलीवलयिनो जलसन्निवेशाः । ०६८१३ कोपि ग्रहो गुरुरयं बत चातकस्य ०६८१४ पौरंदरीं यदभिवाञ्छति वारिधाराम् ॥ ०६८२१ किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता ०६८२२ निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयम् । ०६८२३ रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली ०६८२४ पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ ०६८३१ नो ताण्डवेन नयनामृतनिर्झरेण ०६८३२ केकारवेण न च कर्णरसायनेन । ०६८३३ बर्हेण चापि सुरचापरुचा तवाय ०६८३४ मोतुर्न तुष्यति शिखिन्वधमन्तरेण ॥ ०६८४१ चातक तात कियद्भवता पातकमतुलमकारि । ०६८४२ नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि ॥ ०६८५१ जलकणवितरणरहितः प्रकटितधवलितवेषः । ०६८५२ चातक रटसि वृथा किं जलदः शारद एषः ॥ ०६८६१ सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः । ०६८६२ तथापि चातकस्यैकः फलदो जलदोदयः ॥ ०६८७१ केकानिभाद्धटयसे पटुचाटुकानि ०६८७२ चञ्चत्कलापमपि नृत्यसि रञ्जनाय । ०६८७३ हे चातक प्रयतसे जलदं प्रतीत्थं ०६८७४ बिन्दुं जलस्य लभसे न च लज्जसे च ॥ ०६८८१ वाहत्वमीश्वरसुतस्य विधाय बर्हिन् ०६८८२ प्रम्लायितः स निजपक्षकलाप एव । ०६८८३ नाराधितः स भवता पुरुषोत्तमः किं ०६८८४ यस्ते तृषं प्रशमयेत्कचमेघवर्षैः ॥ ०६८९१ वसतोतिशयप्रीत्या मानसोचितसंस्थितेः । ०६८९२ पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते ॥ ०६९०१ पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः । ०६९०२ हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसम् ॥ ०६९११ यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातम् । ०६९१२ अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥ ०६९२१ कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र । ०६९२२ अपसरणमेव शरणं मौनं वा तत्र हंसस्य ॥ ०६९३१ अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितम् । ०६९३२ रमते न मरालस्य मानसं मानसं विना ॥ ०६९४१ क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कम् । ०६९४२ गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः ॥ ०६९५१ तरलयसि दृशं किमुत्सुका ०६९५२ मकुलषमानसवासलालिते । ०६९५३ अवतर कलहंसि वापिकां ०६९५४ पुनरपि यास्यसि पङ्कजालयम् ॥ ०६९६१ भृङ्गाङ्गनाजनमनोहरहारिगीत ०६९६२ राजीवरेणुक्रणकीर्णपशङ्गतोयाम् । ०६९६३ रम्यां हिमाचलनदीं प्रविहाय हंस ०६९६४ हे हे हताश वद कां दिशमुत्सुकोसि ॥ ०६९७१ हे हंस मेलितपयःसलिलं विवेक्तुं ०६९७२ शक्तस्य संप्रति मतिः क्व नु तेद्य याता । ०६९७३ कासारवारिणि कलां पतितां यदिन्दो ०६९७४ रादातुमिच्छसि बिसाङ्कुरवाञ्छया त्वम् ॥ ०६९८१ शीतांशुशेखरशिरोरुहसंश्रितानि ०६९८२ पुण्यानि पावितजगन्ति मनोरमाणि । ०६९८३ भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल् ०६९८४ लब्धानि हातुमिह वाञ्छसि नासि हंसः ॥ ०६९९१ स्थित्वा चिरं नभसि निश्चलतारकेण ०६९९२ मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य । ०६९९३ उत्पन्नमन्युपरिघर्घरनिःस्वनेन ०६९९४ हंसेन साश्रु परिवृत्य गतं न लीनम् ॥ ०७००१ येनोज्झितं सहचरीवदनोपनीतं ०७००२ रम्यं मृणालशकलं हिमशङ्खशुभ्रम् । ०७००३ सोयं खगो हतविधे तव चेष्टितेन ०७००४ शेवालनाललवलम्पटतां विधत्ते ॥ ०७०११ रटसि कटु किमुच्चैर्वायस स्पर्धया मे ०७०१२ विहगहतक विष्ठारक्तवक्त्रान्तरालः । ०७०१३ विततधवलपक्षाक्षेपविक्षोभिताम्भाः ०७०१४ कमलवनविहारी सारसोहं न काकः ॥ ०७०२१ हंसोध्वगः श्रममपोहयितुं दिनान्ते ०७०२२ कारण्डकाकबकभासवनं प्रविष्टः । ०७०२३ मूकोयमित्युपहसन्ति लुनन्ति पक्षान् ०७०२४ नीचाश्रयो हि महतामवमानभूमिः ॥ ०७०३१ क्व कठिनमहो पीलोः पत्त्रं मृदुः क्व बिसाङ्कुरः ०७०३२ क्व कटु लवणं कौपं चाम्भः क्व तामरसासवः । ०७०३३ क्व कुसुमरजो हृद्यं रूक्षाः क्व चोषरपांसवः ०७०३४ क्व मरुविषयो ध्वाङ्क्षक्षेत्रं क्व हंस भवादृशाः ॥ ०७०४१ भो राजहंस किमिति त्वमिहागतोसि ०७०४२ योसौ बकः स इह हंस इति प्रतीतः । ०७०४३ तद्गम्यतां त्वरितमेव ततः प्रभाते ०७०४४ यावद्वदन्ति बक एष न मूढलोकाः ॥ ०७०५१ अये वापीहंसा निजवसतिसंकोचपिशुनं ०७०५२ करुध्वं मा चेतो वियति बहतो वीक्ष्य विहगान् । ०७०५३ अमी ते सारङ्गा भुवनमहनीयव्रतभृतो ०७०५४ निरीहाणामेषां तृणमिव भवन्त्यम्बुनिधयः ॥ ०७०६१ तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः ०७०६२ पतद्धारासारां गमय विषमां प्रावृषमिमाम् । ०७०६३ निवृत्तायां त्वस्यां सरसि सरसोत्फुल्लनलिने ०७०६४ स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ०७०७१ गतं तद्गाम्भीर्यं जलमपि वृतं जालकशतैः ०७०७२ सखे हंसोत्तिष्ठ प्रथमममुतो दग्धसरसः । ०७०७३ स यावत्पङ्काम्भःकलुषितवपुर्भूरिविलपन् ०७०७४ न काको वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥ ०७०८१ स्पृशति न बिसं चञ्च्वा भूयस्तया सह खण्डितं ०७०८२ पिबति न जलं याति स्वप्तुं न शेवलजालकम् । ०७०८३ कमलकलिकाभङ्गक्रीडां करोति न सारसः ०७०८४ क्वणति करुणं शोकग्रस्तः प्रियाविरहाकुलः ॥ ०७०९१ सरसि बहुशस्ताराछायां दशन्परिवञ्चतः ०७०९२ कुमुद विटपान्वेषी हंसो निशास्वविचक्षणः । ०७०९३ दशति न पुनस्ताराशङ्की दिवापि सितोत्पलं ०७०९४ कुहकचकितो लोकः सत्येप्यपायमपेक्षते ॥ ०७१०१ मुक्ताभानि पयांसि भङ्गविलसद्दुग्धा बिसग्रन्थयः ०७१०२ स्फीतास्तामरसासवा विहरणक्रीडासहं सैकतम् । ०७१०३ सन्त्येव प्रतिदेशमत्रविषमे हे हंस पङ्काङ्किते ०७१०४ धृष्टोक्त्रुष्टबके जरत्सरसि ते कोयं निवासग्रहः ॥ ०७१११ आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर् ०७११२ भूयोपि प्रविभज्यमाननलिनं पश्येम तोयाशयम् । ०७११३ इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः ०७११४ शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ ०७१२१ तावद्दोलितपङ्कजच्युतरजःपिङ्काङ्गरागोज्ज्वल्प् ०७१२२ यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षोत्सवः । ०७१२३ कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः ०७१२४ सोयं संप्रति हंसको मरुगतः कष्टं तृणं वाञ्छति ॥ ०७१३१ यां स्मृत्वा सहसैव मानससरस्त्यक्त्वा विशेषार्थिनस् ०७१३२ तामेवोत्सुकचेतसः कमलिनीं दृष्ट्वा बकाध्यासिताम् । ०७१३३ लीयन्ते विगताभिमानलघवस्तत्रैव भूयोपि ये ०७१३४ हंसास्ते न भवन्ति हंसधवलाः प्रायो बका एव ते ॥ ०७१४१ यामालिङ्ग्य बका रटन्ति कटुकं दीर्घोच्छ्वसत्कंधरा ०७१४२ यस्यामंसतटावघट्टितजलं वल्गन्त्यमी मद्गवः । ०७१४३ या शश्वन्मलिनात्मकैरपि बकैर्नक्तंदिनं सेव्यते ०७१४४ सा हंसेन मनस्विना कमलिनी युक्तं यदि त्यज्यते ॥ ०७१५१ रूपं हारि मनोहरा सहचरी पानाय पाद्मं मधु ०७१५२ क्रीडा चाप्सु सरोरुहेषु वसतिस्तेषां रजो मण्डनम् । ०७१५३ वृत्तिः साधुमता बिसेन सहृदश्चारुस्वनाः षट्पदाः ०७१५४ सेवादैन्यविमाननाविरहितो हंसः सुखं जीवति ॥ ०७१६१ मत्स्या अपि हि जानन्ति क्षीरनीरविवेचनम् । ०७१६२ प्रसिद्धं राजहंसानां यशः पुण्यैरवाप्यते ॥ ०७१७१ क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं ०७१७२ ये नोज्झन्ति पुरीषपुष्टवपुषस्तेकेचिदन्ये द्विजाः ॥ ०७१८१ ये तु स्वर्गतरङ्गिणीबिसलतालेशेन संवर्धिता ०७१८२ गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसाः कुतः ॥ ०७१८१ समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः । ०७१८२ श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ०७२०१ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । ०७२०२ खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः ॥ ०७२०१ श्रोत्रोत्सवं तव कलं कलकण्ठ कोत्र ०७२०२ नादं शृणोति रतिविग्रहसंधिदूतम् । ०७२०३ दावाग्निदग्धघनपादपकोटरान्त ०७२०४ राविर्भवत्कटुरवासु वनस्थलीषु ॥ ०७२११ मूकीमूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे ०७२१२ हेलोल्लासितमालतीपरिमलामोदानुकूलानिलम् । ०७२१३ यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत् ०७२१४ पांसूत्तम्भभृतो निदाघदिवसाः संतापसंधायिनः ॥ ०७२२१ भ्रातः कोकिलकूजितैरलमलं नार्घन्ति यस्माद्गुणास् ०७२२२ तूष्णीमाःस्व विशीर्णपर्णनिचयच्छन्नः क्वचित्कोटरे । ०७२२३ उद्यानद्रुमवाटिकाकटुरटत्काकावलींसकुलः ०७२२४ कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥ ०७२३१ क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः ०७२३२ क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः । ०७२३३ क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना ०७२३४ कथंकारं तारं क्वणतु चकितः कोकिलयुवा ॥ ०७२४१ ... ... ... ... ... ... ॥ ०७२४२ केतकीकुसुमं भृङ्गः पीड्यमानोपि सेवते । ०७२४३ दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः ॥ ०७२५१ कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः । ०७२५२ अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ ०७२६१ मदनमवलोक्य निष्फलमनित्यतामपि च बन्धुजीवानाम् । ०७२६२ गुरुमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ०७२७१ भ्रमर भ्रमता दिगन्तराणि ०७२७२ क्वचिदासादितमीक्षितं श्रुतं वा । ०७२७३ वद सत्यमपास्य पक्षपातं ०७२७४ यदि जातीकुसुमानुकारि पुष्पम् ॥ ०७२८१ कमलं भवनं रजोङ्गरागो ०७२८२ मधु पानं मधुराः प्रियाप्रलापाः । ०७२८३ शयनं मृदु केसरोपधानं ०७२८४ भ्रमरस्याम्भसि का न राजलीला ॥ ०७२९१ पतितमुत्पतितं स्थितमक्रियं ०७२९२ सकरुणं क्वणितं गतमागतम् । ०७२९३ कमलिनीमलिना तुहिनाहतां ०७२९४ नहि तदस्ति विलोक्य न यत्कृतम् ॥ ०७३०१ कमलिनीमलिनी दयितं विना ०७३०२ न सहते सह तेन निषेविताम् । ०७३०३ तमधुना मधुना निहितं हृदि ०७३०४ स्मरति सा रतिसारमहर्निशम् ॥ ०७३११ मदं न लिप्सेत शिलीमुखो यदि ०७३१२ द्विपान्न कर्णाग्रनिपातमाप्नुयात् । ०७३१३ परोपसर्पी सुखलेशलिप्सया ०७३१४ नरो भवत्येव पराभवास्पदम् ॥ ०७३२१ मधुकर बहुशस्त्वया निरस्ताः ०७३२२ कुसुमलतास्तृणावत्सुपुष्पिताग्राः । ०७३२३ फलमनुभव कण्टकावृताभ्यस् ०७३२४ तदिदमपत्रप केतकीलताभ्यः ॥ ०७३३१ पुल्लेषु यः कमलिनीकमलोदरेषु ०७३३२ चूतेषु यो विलसितः कलिकान्तरस्थः । ०७३३३ पश्याद्य तस्य मधुपस्य शरद्व्यपाये ०७३३४ कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ०७३४१ पुष्पासवं सुरभि गन्धिरजोङ्गरागः ०७३४२ पीत्वा लतासु मधुपः कमले निषण्णः । ०७३४३ बद्धोधुना शशिकरैः करुणं विरौति ०७३४४ संतोषहीनमिह कं न भजन्त्यनर्थाः ॥ ०७३५१ अन्यासु तावदुपमर्दसहासु भृङ्ग ०७३५२ लोलं विनोदय मनः सुमनोलतासु । ०७३५३ नुग्धाननामरजसं कलिकामकाले ०७३५४ बालां कदर्थयसि किं नवमालिकायाः ॥ ०७३६१ एरावणाननमदाम्बुकणावपात ०७३६२ संसक्ततामरसरेणुपिशङ्गिताङ्गः । ०७३६३ चण्डानिलाहततुषारविशीर्णपक्षः ०७३६४ क्षीणः क्षितौ मधुकरो विवशोत्र शेते ॥ ०७३७१ सोत्कः परिभ्रमसि किं व्यवपातिधैर्यः ०७३७२ कूजन्द्विरेफ करुणं कुसुमासवार्थी । ०७३७३ अन्यासु पादपलतासु धृतिं बधान ०७३७४ भग्ना हि सा कुसुमिता सहकारवल्ली ॥ ०७३८१ स्वामोदवासितसमग्रदिगन्तराला ०७३८२ रक्ता मनोहरमुखा सुकुमारमूर्तिः । ०७३८३ सेव्या सरोजकलिका तु यदैव जाता ०७३८४ नीतस्तदैव विधिना मधुपोन्यदेशम् ॥ ०७३९१ जात्युज्ज्वले मधुरकोमलवाग्निलासौ ०७३९२ द्वौ पुष्करे मधुकरौ युगपत्प्रविष्टौ । ०७३९३ एकस्तयोर्मधुभराकुलपूर्णदेहः ०७३९४ कष्टे विधौ न रजसापि युतो द्वितीयः ॥ ०७४०१ मधुकरगणश्चूतं त्यक्त्वा गतो नवमालिकां ०७४०२ पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः । ०७४०३ तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं ०७४०४ परिचितगुणद्वेषी लोको नवं नवमीहते ॥ ०७४११ लिखितकमले सौन्दर्येण प्रकामहृतात्मना ०७४१२ किमिव न कृतं तत्र भ्रान्त्वा मधुस्पृहयालिना । ०७४१३ अधिगतरसः सोभूत्तस्मान्मनागपि नाल्पधीर् ०७४१४ धुरि तु लिखितस्तृष्णान्धानां जनेन विवेकिना ॥ ०७४२१ भ्रमति बकुले मन्दं कुन्दे न विन्दति निर्वृतिं ०७४२२ प्रकृतिसुरभौ रक्ताशोके न याति विशोकताम् । ०७४२३ सुरभिकुसुमामोदोत्कण्ठापनीतमना वने ०७४२४ वहति तनुतामङ्गे भृङ्गः स्मरन्नवमालिकाम् ॥ ०७४३१ स्पृशति शनकैश्चुम्बन्नङ्गैः करोति निपीडनं ०७४३२ चरणपतनं मुद्राभेदं विधातुमपीहते । ०७४३३ समयमुचितं चित्तोत्सुक्यात्प्रतीक्षितुमक्षमो ०७४३४ मधुकरयुवा पुण्यैर्लब्ध्वा नवां नवमालिकाम् ॥ ०७४४१ हिमोत्सन्नां दृष्ट्वा हतकमलनालां कमलिनीं ०७४४२ द्विरेफाः संवृत्ताः सपदि गजगण्डप्रणयिनः । ०७४४३ अहो धिग्भूतानां प्रकृतिरियमप्रत्ययकरी ०७४४४ न कश्चित्क्षीणार्थे प्रथमगुणगन्धं गणयति ॥ ०७४५१ किमामोदभ्रान्त्या भ्रमसि सुचिरं भृङ्ग ननु हे ०७४५२ न जानीषे तत्त्वं प्रतपतितरां ग्रीष्मसमयः । ०७४५३ स्थितं शून्यं पुष्पैः प्रकटविटपं पश्य विपिनं ०७४५४ गतः गौरभ्याढ्यः प्रकृतिसुभगश्चैत्रविभवः ॥ ०७४६१ केनाघ्रातमुदारमस्य कुसुमं कैश्चुम्बितं केसरं ०७४६२ पीतः केन रसोस्य केन रजसा चोद्वेल्लितं केन वा । ०७४६३ हे हे मुग्धमधुव्रत व्रज जवादन्यांस्तरून्पुष्पिता ०७४६४ नुत्तालेत्र वृथैव पिप्पलतरौ किं किंचिदासाद्यते ॥ ०७४७१ प्रत्यग्रोत्र यथासुखं मधुरसः पातव्य इत्युत्सुकस् ०७४७२ तृष्णाविभ्रमविप्रलब्धह्र्दयस्तत्त्वावबोधं विना । ०७४७३ निर्विण्णोप्यफलश्रमो न विरमत्यालेख्यपद्माकरे ०७४७४ दुर्बुद्धिर्व्यसनी तथापि मधुपस्तृष्णाशयोद्भ्राम्यति ॥ ०७४८१ यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला ०७४८२ यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिम् । ०७४८३ भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते ०७४८४ धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतम् ॥ ०७४९१ येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया ०७४९२ नीता येन निशा शशाङ्कधवला पद्मोदरे शारदे । ०७४९३ भ्रान्तं येन मदप्रवाहमलिने गुण्डस्थले दन्तिनां ०७४९४ सोयं भृङ्गयुवा करीरविटपे बध्नातु तुष्टिं कुतः ॥ ०७५०१ मा भून्नाम सहामुनैव निधनं दैवात्कथंचित्पुनस् ०७५०२ तृष्णा वा हतजीविते यदि तदा किं पुष्पशून्यं जगत् । ०७५०३ येनैवोन्मथितः स एव दयितः पद्माकरो निर्दयं ०७५०४ दानाम्भःस्पृहयानुयात्यलिरहो लोलस्तमेव द्विपम् ॥ ०७५११ सोपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं ०७५१२ दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । ०७५१३ सर्वं निश्चितवानसि भ्रमर हे यद्वारणोद्याप्यसा ०७५१४ वन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥ ०७५२१ रे रे भृङ्ग मदान्धवारणचलत्कर्णानिलान्दोलन ०७५२२ क्लेशक्लान्ततनो मुधैव भवता दुःखं किमित्यास्यते । ०७५२३ उत्कूजत्समदद्विरेफवलयप्यालुप्तकोशश्रियः ०७५२४ सामोदाः प्रकटाशयाः प्रतिपदं सन्त्येव पद्माकराः ॥ ०७५३१ गन्धाढ्यां नवमालिकां मधुकरस्त्यक्त्वा गतो यूथिकां ०७५३२ तां त्यक्त्वापि गतः स चन्दनतरुं तस्मात्सरोजं गतः । ०७५३३ बद्धस्तत्र निशाकरेण सुचिरं क्रन्दत्यसौ मन्दधीः ०७५३४ संतोषेण विना पराभवशतं प्राप्नोति लुब्धो जनः ॥ ०७५४१ रात्रिर्गमिष्यति भविष्यति सुप्रभातं ०७५४२ भास्वानुदेष्यति हसिष्यति पद्मिनी च । ०७५४३ एवं विचिन्तयति कोषगते द्विरेफे ०७५४४ हा हन्त हन्त नलिनीं गज उन्ममाथ ॥ ०७५५१ भ्रमन्वनान्ते वनमञ्जरीषु ०७५५२ न षट्पदो गन्धफलीमजिघ्रत् । ०७५५३ सा किं न रम्या स च किं न रन्ता ०७५५४ बलीयसी केवलमीश्वरेच्छा ॥ ०७५६१ अङ्के वृद्धिमुपागतं शिशुतया सर्वाङ्गमालिङ्गितं ०७५६२ मत्स्यः श्रीपरिरम्भनिर्भरतरव्याकोशकोषोन्मुखैः । ०७५६३ आशाप्तैः परिपीयमानमनिशं निःस्पन्दमिन्दिन्दिरैर् ०७५६४ दूरादेव निमेषशून्यनयनः पद्मं समुद्वीक्षते ॥ ०७५७१ जीवतो निगिरन्मत्स्यान्मुनिवद्दृश्यते बकः । ०७५७२ मृनानपि न गृध्रस्तु धिगाकारमुनीन्द्रताम् ॥ ०७५८१ नालेनेव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् । ०७५८२ जनयति कुमुदभ्रान्तिं वृद्धबको बालमत्स्यानाम् ॥ ०७५९१ एष बकः सहसैव विपन्नः ०७५९२ शाद्यमहो क्व नु तद्गतमस्य । ०७५९३ साधु कृतान्तक कश्चिदपि त्वां ०७५९४ वञ्चयितुं न कुतोपि समर्थः ॥ ०७६०१ निजकुलोचितचेष्टितमात्मनो ०७६०२ यदपहाय यियाससि हंसताम् । ०७६०३ बक चर व्रतमेव तथापि ते ०७६०४ फलति तत्तदिदं यततां नृणाम् ॥ ०७६११ न कोलिलानामिव मञ्चु कूजितं ०७६१२ न कब्धलास्यानि गतानि हंसवत् । ०७६१३ न बर्हिणानामिव चित्रपक्षता ०७६१४ गुणस्तथाप्यस्ति बके बकव्रतम् ॥ ०७६२१ तद्वेदग्ध्यं समुदितपयस्तोयतत्त्वं विवेक्तु ०७६२२ मालापास्ते स च मृदुपदन्यासहृद्यो विलासः । ०७६२३ आस्तां तावद्बक यदि तथा वेत्सि किंचिदिच्छ्लथाशं ०७६२४ तूष्णीमेवासितुमयि सखे त्वं कथं मे न हंसः ॥ ०७६३१ कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसात् ०७६३२ किं तत्रास्ति सुवर्णपङ्कजवनान्यम्भः सुधासंनिभम् । ०७६३३ मुक्ताशुक्तिरथास्ति शङ्खनिचयो वैदूर्यरोहाः क्वचिच् ०७६३४ छम्बूकाः किमु सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥ ०७६४१ तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः । ०७६४२ केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ०७६५१ आत्मरुतादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः । ०७६५२ किं जानन्ति वराकाः काकाः केकारवान्कर्तुम् ॥ ०७६६१ कृष्णं वपुर्वहतु चुम्बतु सत्फलानि ०७६६२ रम्येषु संचरतु चूतवनान्तरेषु । ०७६६३ पुंस्कोकिलस्य चरितानि करोतु नाम ०७६६४ काकः किल ध्वनिविधौ ननु काक एव ॥ ०७६७१ संप्राप्य कोकिलकुलैः कमनीयकान्तिः ०७६७२ कान्तस्वरैरपि बलात्खलु संनिकर्षम् । ०७६७३ वैधुर्यभाजि हतवेधसि किं वराकः ०७६७४ काकः करोत्वनुकृतिं न ययौ यदेषाम् ॥ ०७६८१ इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः ०७६८२ समन्तादाक्रान्ता विषविषमबाणप्रणयिभिः । ०७६८३ तरोरस्य स्कन्धे गमय समयं कीर निभृतं ०७६८४ न वाणी कल्याणी तदिहमुखमुद्रैव शरणम् ॥ ०७६९१ कअति मुखगृहीतं भुक्तशेषं पुरीषं ०७६९२ विलिखति चरणाग्रैर्देवतानां शिरांसि । ०७६९३ व्रजति च हतमानः साधुमूर्धस्वशङ्कः ०७६९४ किमिव न कुरुते खं प्राप्य काको वराकः ॥ ०७७०१ दौर्भाग्यं वचसां तनोर्मलिनता चेष्टास्वहो चापलं ०७७०२ शङ्कायास्तदुपज्ञतैव विदिता वृत्तिस्त्ववाच्यैव सा । ०७७०३ इत्थं दृष्कृतशाखिनः फलमिव स्फीतं तथाप्यातुरः ०७७०४ काकः कोकिललाञ्छनच्छविरुचा कष्टं मुहुर्मूर्छति ॥ ०७७११ नृत्यन्तः शिखिनो मनोहरममी श्रव्यं पठन्तः शुका ०७७१२ वीक्ष्यन्ते न त एव खल्विह रुषा वार्यन्त एवाथवा । ०७७१३ पान्थस्त्रीगृहमिष्टलाभकथनाल्लब्धान्वयेनामुना ०७७१४ संप्रत्येतदनर्गलं बलिभुजा मायाविना भुज्यते ॥ ०७७२१ रे रे ध्वाङ्क्ष विरूक्षतास्तु वचसः काणाक्षिता क्षम्यते ०७७२२ लौल्यं नाम तवेति कात्र गणना भाण्ड्यं विभूषैव ते । ०७७२३ सर्वं सोढमिदं स्वभावविहितं वह्नेरिवौष्ण्यं हि ते ०७७२४ यत्त्वेवं विगुणस्य कापि भवतो ग्रीवा न तत्सह्यते ॥ ०७७३१ काकः कोकिलमुन्नमय्य कुरुते चूते फलास्वादनं ०७७३२ भुङ्क्ते राजशुकं निवार्य कुररः क्रीडापरो दाडिमम् । ०७७३३ धूको बर्हिणमस्य शाखिशिखरे शेते सजानिः सुखं ०७७३४ हा जातं विपरीतमद्य विपिने श्येने परोक्षं गते ॥ ०७७४१ किं केकीव शिखण्डमण्डिततनुः किं कीरवत्पाठकः ०७७४२ किं पुंस्कोकिलवत्स्वनेन मधुरः किं हंसवत्सद्गतिः । ०७७४३ किं सामान्यशकुन्तशावक इव क्रीडाविनोदाकरः ०७७४४ काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ०७७५१ उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्यविश्वोत्सवे ०७७५२ पुण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषम् । ०७७५३ काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी ०७७५४ काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ०७७६१ आद्यः प्रवेशसमयः स कलेर्युगस्य ०७७६२ प्राप्तस्तिरस्कृतबहूदकहंससार्थः । ०७७६३ आहूये सादरतया तपसोन्तिमोह्नि ०७७६४ काणो द्विजः प्रतिगृहं बत यत्र पूज्यः ॥ ०७७७१ सूर्य्दन्यत्र यच्चन्द्रेप्यर्थसंस्पर्शि तत्कृतम् । ०७७७२ खद्योत इति कीटस्य नाम तुष्टेन केनचित् ॥ ०७७८१ घनसंतमसमलीमसदशदिशि निशि यद्विराजसि तदन्यत् । ०७७८२ कीटमणे दिनमधुना तराणिकरान्तरितचारुसितकिरणम् ॥ ०७७९१ जर्जरतृणाग्रमदहन्सर्षपकणमप्रकायन्नूनम् । ०७७९२ कीटत्वमात्मतन्त्रः खद्योतः ख्यापयन्भाति ॥ ०७८०१ भ्राजिष्णवो नभसि भूरिहृतान्धकार ०७८०२ स्वल्पप्रभाः स्वतनुमात्रनिबद्धभासः । ०७८०३ खद्योतकाः प्रकटतीव्रगुरुप्रभावास् ०७८०४ तावन्न सप्ततुरगः समुदेति यावत् ॥ ०७८११ युष्मादृशः कृपणकाः क्रिमयोपि यस्यां ०७८१२ भान्ति स्म संतमसमय्यगमन्निशासौ । ०७८१३ सूर्यांशुदीप्रदशदिग्दिवसोधुनायं ०७८१४ भात्यत्र नेन्दुरपि कीटमणे किमु त्वम् ॥ ०७८२१ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्रीः ०७८२२ स्थास्यन्ति लीढतिमिरा न मणिप्रदीपाः । ०७८२३ अन्धं समग्रमपि कीटमणे भविष्य ०७८२४ दुन्मेषमेष्यति भवानिति दूरमेतत् ॥ ०७८३१ सत्त्वान्तः स्फुरिताय वा कृतगुणाद्यारोपतुच्छाय वा ०७८३२ तस्मै कातरमोहनाय महसो लेशाय मा स्वस्ति भूत् । ०७८३३ यच्छायास्फुरणारुणेन खचता खद्योतनाम्नामुना ०७८३४ कीटेनाहितयापि जङ्गममणिभ्रान्त्या विडम्ब्यामहे ॥ ०७८४१ प्रत्यग्रैः पर्णनिचयैस्तरुर्यैरेव शोभितः । ०७८४२ जहाति जीर्णांस्तानेव किं वा चित्रं कुजन्मनः ॥ ०७८५१ यथापल्लवपुष्पाढ्या यथापुष्पफलर्द्धयः । ०७८५२ यथाफलर्द्धिस्वारोहा हा मातः क्वागमन्द्रुमाः ॥ ०७८६१ साध्वेव तद्विधावस्य वेधाः क्लिष्टो न यन्मुधा । ०७८६२ स्वरूपाननुरूपेण चन्दनस्य फलेन किम् ॥ ०७८७१ मया बदरलुब्धेन वृक्षाणामनभिज्ञया ०७८७२ वने कण्टकसादृश्यात्खदिरः पर्युपासितः ॥ ०७८८१ महातरुर्वा भवति समूलो वा विनश्यति । ०७८८२ नाङ्कुरप्रक्रियामेति न्यग्रोधकणिकाङ्कुरः ॥ ०७८९१ पुष्पपत्त्रफलच्छायामूलवल्कलदारुभिः । ०७८९२ धन्या महीरुहा येषां विमुखा यान्ति नार्थिनः ॥ ०७९०१ पतत्यङ्गारवर्षे वा वाति वा प्रलयानिले । ०७९०२ तालः स्तब्धतयारब्धस्तयैव सह नश्यति ॥ ०७९११ छायावन्तो गतव्यालाः स्वारोहाः फलदायिनः । ०७९१२ मार्गद्रुमा महान्तश्च परेषामेव भूतये ॥ ०७९२१ अगतीनां खलीकाराद्दुःखं नैवोपजायते । ०७९२२ भवन्त्यशोकाः प्रायेण साङ्कुराः पादताडिताः ॥ ०७९३१ यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । ०७९३२ निजवपुषैव परेषां तथापि संतापमपहरति ॥ ०७९४१ प्राप्ते वसन्तमासे वृद्धिं प्राप्नोति सकलवनराजिनः । ०७९४२ यन्न करीरे पत्त्रं तत्किं दोषो वसन्तस्य ॥ ०७९५१ फलितघनविटपविघटितपटुदिनकरमहसि लसति कल्पतरौ । ०७९५२ छायार्थी कः पशुरपि भवति जरद्वीरुधां प्रणयी ॥ ०७९६१ फलकुसुमकिसलयोज्ज्वलविटपशतान्तरिततरणिकिरणौघे । ०७९६२ मार्गतरौ निकटस्थे कः पथिकः क्लान्तिमनुभवति ॥ ०७९७१ दूरीकृतस्वार्थलवा जनस्य ०७९७२ समुद्यता ये भुवि तापशान्त्यै । ०७९७३ द्रुमास्त एवागतिका न विद्मः ०७९७४ प्रजापतेराशयलेशमत्र ॥ ०७९८१ चन्दने विषधरान्सहामहे ०७९८२ वस्तु सुन्दरमगुप्तिमत्कुतः । ०७९८३ रक्षितुं वद किमात्मसौष्ठवं ०७९८४ संचिताः खदिर कण्टकास्त्वया ॥ ०७९९१ ग्रथित एष मिथः कृतशृङ्खलो ०७९९२ विषधरैरधिरुह्य महाजडः । ०७९९३ मलयजः सुमनोभिरनाश्रितो ०७९९४ यदत एव फलेन न युज्यते ॥ ०८००१ यत्किंचनानुचितमप्युचितानुबन्धि ०८००२ किं चन्दनस्य न कृतं कुसुमं फलं वा । ०८००३ लज्जामहे भृशमपक्रम एव यातुस् ०८००४ तस्यान्तिकं परिगृहीतबृहत्कुठारः ॥ ०८०११ हे बालचम्पकतरो तरुणीकपोल ०८०१२ लावण्यचुम्बनसुखोचितचारुपुष्प । ०८०१३ किं पुष्पितेन विजहीह विकासहास ०८०१४ मुद्दामपामरगणा मरुभूमिरेषा ॥ ०८०२१ अन्तःप्रतप्तमरुसैकतदह्यमान ०८०२२ मूलस्य चम्पकतरोः क्व विकासचिन्ता । ०८०२३ प्रायो भवत्यनुचितस्थितिदेशभाजां ०८०२४ श्रेयः स्वजीवपरिपालनमात्रमेव ॥ ०८०३१ दौर्जन्यमात्मनि परं प्रथितं विधात्रा ०८०३२ भूर्जद्रुमस्य विफलत्वसमर्पणेन । ०८०३३ किं चर्मभिर्निशितशस्त्रशतावकृत्तैर् ०८०३४ आशां न पूरयति सोर्थिपरम्पराणाम् ॥ ०८०३५ किं कण्टकैकरसिकेन फलद्विषा किं ०८०३६ वैरस्यसीमनि किमु स्थिरकौतुकेन । ०८०३७ छायाविलासविमुखेन सतां किमङ्ग ०८०३८ छात्रा खलेन खदिरद्रुम एष सृष्टः ॥ ०८०५१ लब्धं चिरादमृतवत्किममृत्यवे स्याद् ०८०५२ दीर्घं रसायनवदायुरुत प्रदद्यात् । ०८०५३ एतत्फलं यदयमध्वगशापदग्धः ०८०५४ स्तब्धः फलं फलति वर्षशतेन तालः ॥ ०८०६१ हे वृक्ष शोभित महाफलभारलक्ष्म्या ०८०६२ क्षुत्तापशान्तिजनकैकजगत्प्रसिद्ध । ०८०६३ त्वत्तो मया कथमपीदमधो निरस्तम् ०८०६४ एकं फलं शकुनिखण्डितमल्पमाप्तम् ॥ ०८०७१ अत्यन्तशीतलतया सुभगस्वभाव ०८०७२ सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः । ०८०७३ छायार्थिनामपि पुनर्विकटद्विजिह्व ०८०७४ सङ्गेन चन्दन विषद्रुमनिर्विशेषः ॥ ०८०८१ कथमियति वनान्ते कश्चिदेको न तादृग् ०८०८२ वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः । ०८०८३ जगदसुखविधातुर्दग्धधातुर्नियोगाद् ०८०८४ धवखदिरपलाशाः केवलं वृद्धिभाजः ॥ ०८०९१ शाखासंततिसंनिरुद्धगगनाभोगस्य लब्ध्वा तरोश् ०८०९२ छायां यस्य भविद्भिरेव शमिता घर्मापदोनेकशः । ०८०९३ भोः पान्था ननु दृश्यतां विधिगतिस्तस्यैव कालक्षय ०८०९४ प्रक्षीणस्य तलेद्य तप्तसिकताङ्गारैवः परं दह्यते ॥ ०८१०१ चित्रैर्यस्य पतित्त्रिभिर्दशदिशो भ्रान्त्वा समेतैः सुखं ०८१०२ विश्रान्तं शयितं प्रभुक्तमुषितं स्कन्धे फलैः प्रश्रिते । ०८१०३ तस्यैवोन्मथितस्य दुष्टकरिणा मार्गद्रुमस्याधुना ०८१०४ कारीषाय कषन्ति शोषपरुषां गोपालबालास्त्वचम् ॥ ०८१११ संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना ०८११२ शोभैवाथ च काननिस्थितिरियं प्रद्वेष एवाथवा । ०८११३ आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे ०८११४ संबन्धोननुरूपयापि न कृतः किं चन्दनस्य त्वया ॥ ०८१२१ सन्मूलः प्रथिन्नतिर्घनलसच्छायः स्थितः सत्पथे ०८१२२ सेव्यः सद्भिरितीदमाकलयता तालोध्वगेनाश्रितः । ०८१२३ पुंसः शक्तिरियत्यसौ स तु फलेदद्याथवा श्वोथवा ०८१२४ काले क्वाप्यथवा कदाचिदथवा नेत्यत्र वेधाः प्रभुः ॥ ०८१३१ यज्जातोसि चतुष्पथे घनलसच्छायोसि किं छायया ०८१३२ संयुक्तः फलितोसि किं यदि फलैः पूर्णोसि किं संनतः । ०८१३३ हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण ०८१३४ क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चोष्टितैः ॥ ०८१४१ सुस्कन्धस्य विसारिसौरभगुणाक्रान्ताखिलाशस्य ते ०८१४२ तन्वीचारुपयोधरान्तरकृतस्पर्शस्य गोप्याकृतेः । ०८१४३ दोषः कोपि भुजंगसंगमकृतः प्रोद्गूत एषोधुना ०८१४४ येन त्वां परिहृत्य चन्दनतरो यान्त्यध्वगा दूरतः ॥ ०८१५१ छिन्नस्तप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता ०८१५२ भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः । ०८१५३ दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत् ०८१५४ किं तेनैव सह स्वयं न निधनं याताःस्थ भो भोगिनः ॥ ०८१६१ त्वन्मूले पुरुषायुषं गतमिदं कालेन संशष्यतां ०८१६२ क्सोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुम् । ०८१६३ तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा ०८१६४ कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा ॥ ०८१७१ छायास्यैव घनासुगन्धिरयमेवापन्नतापच्छिदा ०८१७२ मग्रेस्यैव गुणग्रहः सगुणता किं चन्दनस्योच्यताम् । ०८१७३ आ मूलात्पुनरेषु बद्धवृतिभिर्व्यालैस्तथा दूषितो ०८१७४ जाने येन वरं धवोथ खदिरोप्यन्योथवा न त्वयम् ॥ ०८१८१ न श्लाष्यानि फलानि पल्लवकृता छाया न वाञ्छापि सा ०८१८२ नो पुष्पं सुमनोहरं न विहगाः शब्दामृतस्यन्दिनः । ०८१८३ काकव्रातपुरीषनिर्भरजरन्मूर्तेरशुद्धात्मनो ०८१८४ निःस्तब्धस्य तरोरधः कथमहो सृष्टोसि दुर्वेधसा ॥ ०८१९१ नास्य स्वादुफलं न चारु कुसुमं न स्निग्धपर्णा लता ०८१९२ न च्छाया क्लमहारिणी न च कलक्वाणास्तथा पत्रिणः । ०८१९३ एषोसौ खदिरदुमः किमथवा पान्थेन दृष्टस्त्वया ०८१९४ तत्किं पान्थ कठोरकण्टकमुखैर्गात्रक्षतार्थी भवान् ॥ ०८२०१ स्निग्धाः पल्लविनः प्रकामविटपव्याविद्धचण्डातपा ०८२०२ नम्राः स्वादुफला समाश्रितजनक्षुत्तापविच्छेदिनः । ०८२०३ दग्धास्ते तरवः प्रयान्तु पथिकास्तेष्वेव मार्गेष्वमी ०८२०४ रूक्षाः काण्टकिनः ससर्पविवरा भूयः प्ररूढा द्रुमाः ॥ ०८२११ छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा ०८२१२ ग्रीष्मोष्मापदि शीतलस्तलभूवि स्पन्दोनिलादेः कुतः । ०८२१३ वार्ता वर्षशते गते किल फलं भावीति वार्तैव सा ०८२१४ द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयम् ॥ ०८२२१ कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाहोटकं ०८२२२ वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । ०८२२३ वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते ०८२२४ न च्छायापि परोपकारकृतये मार्गस्थितस्यापि से ॥ ०८२३१ आमोदैर्मरुतो मृगाः किसलयैर्लम्बैस्त्वचा तापसाः ०८२३२ पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया । ०८२३३ स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया ०८२३४ प्राप्तस्त्वं द्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे ॥ ०८२४१ भ्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मधूद्गन्धिषु ०८२४२ च्छायावत्सु तलेषु पान्थनिवहा विश्रम्य गेहेष्विव । ०८२४३ नित्यं निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस् ०८२४४ ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः ॥ ०८२५१ हे हे मण्डितमार्ग मार्गविटपिञ्जीव्याः समाः शाश्वतीर् ०८२५२ अद्याप्यावृणु दिक्तटानि विटपैः सालैश्चुचुम्बाम्बरम् । ०८२५३ मूले विश्रमणाशयैव लुठिता यन्न त्वया केवलं ०८२५४ घर्मार्तेः परिमोचिताः फलशतैर्यावद्वयं तर्पिताः ॥ ०८२६१ वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता ०८२६२ जातोसौ सरसः प्रवासिफलदः सर्वाश्रितापाश्रयः । ०८२६३ नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस् ०८२६४ तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते ॥ ०८२७१ दावाग्निप्लोषदुःखं खरपवनजलक्लेशमर्काच्च तापं ०८२७२ मातङ्गाकर्षणानि व्यसनमपि गुरु प्राप्तवन्तोपि वज्रात् । ०८२७३ दारुच्छायाफलानि त्वचमपि कुसुमं मञ्जरीः पल्लवान्वा ०८२७४ नार्थिभ्यो वारयन्ति प्रतिदिवसमहो साधु वृत्तं तरूणाम् ॥ ०८२८१ हंसाः पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया ०८२८२ पान्थाः स्वादुफलाशया मधुलिहः सौरभ्यगन्धाशया । ०८२८३ दूरान्निष्फलरक्तपुष्पनिचयैर्निःसार रथ्योन्नते ०८२८४ रे रे शल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः ॥ ०८२९१ भ्रातर्भीममरुभ्रम्श्रमशमव्यापारपारंगमं ०८२९२ मत्वा चन्दनपादपं पथिक मा विश्रान्तये शिश्रियः । ०८२९३ एतस्यान्तिकवर्तिभिर्घनविषज्वालावलीबीषणैर् ०८२९४ आश्वास्य स्मृतिशेषतां विषधरैर्नींतः कियन्तोध्वगाः ॥ ०८३०१ उच्चैर्यो मधुपानलुब्धमनसां भृङ्गाङ्गनानां गणैर् ०८३०२ उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः । ०८३०३ आसीद्यश्व निषेवितोध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे ०८३०४ सोयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना ॥ ०८३११ भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस् ०८३१२ त्वच्छायापरिशीतलं च सलिलं पीतं विनीतः क्लमः । ०८३१३ विश्रान्तं सुचिरं ततोपि मनसा प्राप्ता परा निर्वृतिस् ०८३१४ त्वं सन्मार्गतरुर्वयं च पथिका भूयास्पुनः संगमः ॥ ०८३२१ अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेम्बुदः । ०८३२२ मरुद्भिर्भुज्यमानोपि स किमेति रसातलम् ॥ ०८३३१ अम्बुदः कृतपदो नभस्तले ०८३३२ तोयपूरपरिपूरितोदधिः । ०८३३३ गोष्पदस्य भरणेप्यशक्तिमान् ०८३३४ इत्यसत्यमभिदीयते कथम् ॥ ०८३४१ एतदत्र पथिकैकजीवितं ०८३४२ पश्य शुष्यति कथं महत्सरः । ०८३४३ धिङ्मुधाम्बुधर रुद्धसद्गतिर् ०८३४४ वर्धिता किमिह हट्टवाहिनी ॥ ०८३५१ स्वार्थानपेक्षं जनतापशान्त्यै ०८३५२ नित्योदिताः सन्ति पयोमुचोमी । ०८३५३ विवर्षिणस्तानवगृह्णते ये ०८३५४ सन्त्येव ते केपि महानुभावाः ॥ ०८३६१ क्व दृष्टमन्धेन बलाहकेन ०८३६२ घ्रातुं गवा यन्न तृणं निघृष्टम् । ०८३६३ महातरुर्बन्धुरिवाध्वगाना ०८३६४ मायात्ववश्यायकणैर्दरिद्रः ॥ ०८३७१ उत्तुङ्गशैलशिखराश्रयणेन केचिद् ०८३७२ उद्दामवीचिवलिताः सरितो भवन्ति । ०८३७३ अन्ये पुनर्जलकणास्तृणलोष्टपाता ०८३७४ दम्भोमुचां पयसि न क्षयमान्पुवन्ति ॥ ०८३८१ यत्रोषितोसि चिरकालमकिंचनः सन् ०८३८२ नर्णःप्रतिग्रहधनग्रहणाधमर्णः । ०८३८३ निर्लज्ज गर्जसि समुद्रतटेपि तत्र ०८३८४ धृष्टोधमस्तव समो घन नैव दृष्टः ॥ ०८३९१ आस्यं निरस्य रसितैः सुचिरं विहस्य ०८३९२ गात्रान्तरेषु घन वर्षसि चातकस्य । ०८३९३ तच्चञ्चुकोटिकुटिलायतकंधरस्य ०८३९४ प्राणात्ययोस्य भवतः परिहासमात्रम् ॥ ०८४०१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां ०८४०२ तोयादानां तदपि जलधेर्लोकसंतापशान्त्यै । ०८४०३ दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो ०८४०४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥ ०८४११ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां ०८४१२ तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै । ०८४१३ दीर्घा छाया प्रकृतिमहति व्योम्नि चाभोगबन्धो ०८४१४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय ॥ ०८४२१ साधूत्पातघनौघ साधु सुधियां धेयं धरायामिदं ०८४२२ कोन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करम् । ०८४२३ सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः ०८४२४ सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः ॥ ०८४३१ भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः ०८४३२ पाठीनैः पृथुपङ्ककूटलुठितैर्यस्मिन्मुहुर्मूर्छितम् । ०८४३३ तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं ०८४३४ येना कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ ०८४४१ यद्भूभृतो लघुगुणैरपि बद्धमूलम् ०८४४२ आपादितानि सहसैव तृणैः शिरांसि । ०८४४३ अम्भोमुचः प्रचुरवर्षविशृङ्खलस्य ०८४४४ तच्चेष्टितं दुरवधारगतेर्जलस्य ॥ ०८४५१ कृछ्राद्दत्ते विरलविरलान्वारिबिन्दून्प्रवृद्धो ०८४५२ गर्जत्येकः सरभसतरं पश्य तन्मात्रलाभात् । ०८४५३ नृत्यत्यन्योप्यतुलमहिमश्लाघ्यभूमिर्न जाने ०८४५४ मध्यादाभ्यां विपुलहृदयश्चातकः किं नु मेघः ॥ ०८४६१ गतास्ते जीमूताः स्फुरदलिकुलश्यामवपुषः ०८४६२ श्रिया येषां लोके स्थलजलविभागोप्यपहृतः । ०८४६३ वृथा तृष्णान्धः किं भ्रमसि विधुरश्चातकशिशो ०८४६४ शरज्जीमूतोयं कुत इह पयोबिन्दुरपि ते ॥ ०८४७१ पश्यामः किमयं विचेष्टत इति स्वल्पाभ्रसिद्धिक्रियैर् ०८४७२ दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः । ०८४७३ लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनिं ०८४७४ स्फीतस्तावदहो घनेन रिपुणा दग्धो गिरिग्रामकः ॥ ०८४८१ गर्जित्वा बहु संनिरुध्य गगनं प्रच्छाद्य दिङ्मण्डलं ०८४८२ संपाद्योद्दलितेन्द्रनीलशकलश्यामाभिरामं वपुः । ०८४८३ प्राप्ते वारिधरागमेपि सलिलं तत्त्यक्तमम्भोमुचा ०८४८४ चञ्चूश्रातकपोतकस्य सकला सिक्ता न येन स्वयम् ॥ ०८४९१ अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना ०८४९२ धृष्टस्वप्रकृतिक्रियासमुचिते ग्रामे तथा जृम्भितम् । ०८४९३ रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं ०८४९४ नाप्यज्ञायि जनैर्यथौघपयसां स्त्रोतोजलानामपि ॥ ०८५०१ रे मेघाः स्वशरीरदानगुरु किं बौद्धं यशो न श्रुतं ०८५०२ यष्माभिः किमु पारिजातचरितं नाकर्णितं वा क्वचित् । ०८५०३ येनैतत्सुखलभ्यमम्बु ददतां युष्माकमुद्गर्जतां ०८५०४ नो लज्जाप्यभिजायतेतिरभसाद्व्योम्न्युद्धतं धावताम् ॥ ०८५११ स्थाने वर्षति नैव गर्जति वृथा क्लान्तिं हरत्यञ्जसा ०८५१२ क्षेत्राणां परितापजर्जररुचां क्षेमंकरः क्ष्मातले । ०८५१३ यद्यद्भद्रकसान्द्रतां हृदि दधात्यन्यत्करोत्युल्लस ०८५१४ न्सन्मेघोयममोघदर्शनघनस्निग्धच्छविर्वर्धताम् ॥ ०८५२१ नो गर्जत्यम्बुराशिस्त्रिजगदधिपतिप्रार्थितार्थप्रदान ०८५२२ व्यापार्स्फीतकीर्तिः स्फुरदन्लशिखानर्घरत्नैकपूर्णः । ०८५२३ तत्तोयस्तोकमात्रव्यपहृतविकृतिः प्राकृतोयं प्रकृत्या ०८५२४ शून्ये क्षिप्त्वाम्बु गर्जत्यगणितनिधनो वारिवाहः सगर्वम् ॥ ०८५३१ न पालयति मर्यादां वेलाख्यामम्बुधिस्तथा । ०८५३२ तृष्यतां नोपकर्तव्यमितीमामपरां यथा ॥ ०८५४१ गवादीनां पयोन्येद्युः सद्यो वा दधि जायते । ०८५४२ क्षीरोदधेस्तु नाद्यापि महतां विकृतिः कुतः ॥ ०८५५१ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । ०८५५२ तथापि जानुदघ्नोयमिति चेतसि मा कृथाः ॥ ०८५६१ यस्याम्बुकणिकाप्यास्ये न पतत्यर्थीनां क्वचित् । ०८५६२ कष्टमम्भोनिधिः सोपि नदीन इति कथ्यते ॥ ०८५७१ यातु नाशं समुद्रस्य महिमा स भुवि श्रुतः । ०८५७२ वाडवः क्षुत्पिपासार्तो येनैकोपि न तर्पितः ॥ ०८५८१ अमृतरसविसरअवितरणमरणोत्तारितसुरे सति पयोधौ । ०८५८२ कस्य स्फुरन्ति हृदये ग्रीष्मतडाका भुवि वराकाः ॥ ०८५९१ यदयं शशिशेखरो हरो ०८५९२ हरिरप्येष यदीशिता श्रियः । ०८५९३ अमरा अपि यत्सुरा अमी ०८५९४ तदिमास्तस्य विभूतिविप्रुषः ॥ ०८६०१ क्षारतैव हि गुणस्तथास्ति ते ०८६०२ येन न व्रजति कश्चिदन्तिकम् । ०८६०३ भीषणाकृति बिभर्षि यादसां ०८६०४ चक्रमर्णव किमर्थमग्रतः ॥ ०८६११ अपास्य लक्ष्मीहरणोत्थवैरिता ०८६१२ मचिन्तयित्वा च तदद्रिमन्थनम् । ०८६१३ ददौ निवासं हरये महोदधिर् ०८६१४ विमत्सरा धीरधियां हि वृत्तयः ॥ ०८६२१ जितेन्दुभासो नयतां मणिनधस् ०८६२२ तृणानि मूर्ध्ना बिभृतां जलेश्वरः । ०८६२३ प्रभोर्न कश्चित्प्रभुरस्ति तत्त्वतो ०८६२४ रत्नानि रत्नानि तृणं तृणं पुनः ॥ ०८६३१ ग्रीष्मं द्विषन्तु जलदागमर्थयन्तां ०८६३२ ते संकटप्रकृतयः कृपणास्तडागाः । ०८६३३ अब्धेस्तु मुग्धशफरीचटुलाचलेन्द्र ०८६३४ निष्कम्पकुक्षिपयसो द्वयमप्यचिन्त्यम् ॥ ०८६४१ ग्रावाणो मणयो हरिर्जलचरो लक्ष्मीः पयोमानुषी ०८६४२ मुक्तौघः सिकता प्रवाललतिकाः शेवालमम्भः सुधा । ०८६४३ तीरे कल्पमहीरुहाः किमपरं नामापि रत्नाकरो ०८६४४ दूरात्कर्णरसायनं निकटतस्तृष्नापि नो शाम्यति ॥ ०८६५१ आस्तां क्लमापहरणं जलधेर्जलेन ०८६५२ दूरे दवाग्निपरिदीपितमानसानाम् । ०८६५३ एतावदस्तु यदि तोयकणैर्न जिह्वा ०८६५४ दन्दह्यते द्विगुणतां च न याति तृष्णा ॥ ०८६६१ रत्नान्यमूनि मकरालय मावमंस्थाः ०८६६२ कल्लोलवेल्लितदृषत्परुषप्रहारैः । ०८६६३ किं कौस्तुभेन विहितो भवतो न नाम ०८६६४ याञ्चाप्रसारितकरः पुरुषोत्तमोपि ॥ ०८६७१ लज्जामहे वयमहो भृशमप्यनेके ०८६७२ सांयात्रिकाः सलिलराशिममी विशान्ति । ०८६७३ स्कन्धाधिरोपिततदीयतटोपकण्ठ ०८६७४ कौलेयकाम्बुदृतयो यदुदीर्णतृष्णाः ॥ ०८६८१ आ स्त्रीशिशुप्रथितयैष पिपासितेभ्यः ०८६८२ संरक्ष्यतेम्बुधिरपेयतयैव दूरात् । ०८६८३ दृष्ट्वा करालमकरालिकरालिताभिः ०८६८४ किं भाययस्यपरमूर्मिपरम्पराभिः ॥ ०८६९१ धिग्धिग्धिगम्बुधिममी निरपत्रपस्य ०८६९२ यस्याध्वगा मरुभुवीव नितान्ततान्ताः । ०८६९३ तृड्दाहशुष्कगलनिर्गतदीर्घजिह्वा ०८६९४ दीना विवर्तितदृशोनुतटं प्रयान्ति ॥ ०८७०१ निर्मथ्यते यदि सुरासुरसैन्यसंघैर् ०८७०२ आपूर्यते यदि जलैर्जलदापगाभिः । ०८७०३ पेपीयते च वडवामुखवह्निना चेन् ०८७०४ न क्षुभ्यति स्म जलधिर्न तनुत्वमेति ॥ ०८७११ मैनाकादिभिरद्रिभिर्मघवतः संत्रस्य यत्रास्यते ०८७१२ चण्डार्चिर्भगवानुदेति च यतो यत्रास्तमभ्येति च । ०८७१३ शेते क्वापि निलीय यस्य जगतां कुक्ष्येकदेशे पतिर् ०८७१४ गाम्भीर्यश्रियमस्य कस्तुलयितुं वारां निधेरर्हति ॥ ०८७२१ उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया ०८७२२ मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसाम् । ०८७२३ कथमितरथाः तेन स्थेयं यशोभरमन्थरं ०८७२४ यदि न मथनायासं धीरः सहेत पयोनिधिः ॥ ०८७३१ विषमभिमुखं मुक्तं रौद्रं दिशो दश संश्रिताः ०८७३२ शशितरुमणिप्रायैः प्रायः प्रलोभनमाहितम् । ०८७३३ किमिव न कृतं नन्थारम्भे शठेन पयोधिना ०८७३४ तदपि निपुणैर्नास्य क्षान्तं सुरैरमृतं विना ॥ ०८७४१ यदिह भवतो गाम्भीर्येण प्रयाति महत्तया ०८७४२ प्यनुचितगुणारम्भः कालः किमेतदनन्तरम् । ०८७४३ अयि जलनिधे किं कल्लोलैरलब्धसमाप्तिभिर् ०८७४४ विरम सरितामेतत्तोयं न तेस्ति मनागपि ॥ ०८७५१ समाश्रित्योत्सङ्गं विपृतवदनस्यास्य वसतः ०८७५२ क्षणेनैकस्यान्तर्ज्वलितवपुषो यत्क्षणमपि । ०८७५३ न तृष्णामौर्वाग्नेरपनयति पुष्टेपि विभवे ०८७५४ नृशंसस्याम्भोधेर्व्रजतु विलयं सोस्य महिमा ॥ ०८७६१ अहो बत सरित्पतेरिदमनार्यरूपं परं ०८७६२ यदुज्ज्वलरुचीन्मणीन्सुचिरचर्चितास्थागुणान् । ०८७६३ जडैरनुपयोगिभिः परत एत्य लब्धास्पदैः ०८७६४ क्षिपत्यनिशमूर्जितैर्झगिति तन्मयत्वं गतः ॥ ०८७७१ इहैकश्चूडालोभ्यजनि कलशाद्यस्य सकलैः ०८७७२ पिपासोरम्भोभिश्चुलुकमपि नो भर्तुमशकः । ०८७७३ स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरभितः ०८७७४ कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ॥ ०८७८१ रूक्षं क्षारमपेयमत्र सलिलं लब्ध्वा परं तप्यते ०८७८२ व्यालग्राहभियावगाहनमपि स्वस्थेन नासाद्यते । ०८७८३ तत्किं पान्थ पयोधिनामनि मरौ तृष्णाविमूढो भवान् ०८७८४ अन्तर्निह्नुतिनाशितामलमणिव्राते मुधा धावसि ॥ ०८७९१ सर्वासां त्रिजगत्यपामियमसावाधारता तावकी ०८७९२ प्रोल्लासोयमसौ तवाम्बुनिलये सेयं महासत्त्वता । ०८७९३ सेवित्वा बहुभङ्गभीषणतनुं त्वामेव वेलाचल ०८७९४ ग्रावस्रोतसि पाप तापकलहो यत्क्वापि निर्वाप्यते ॥ ०८८०१ कल्लोलैर्विकिरत्वसौ गिरिवरान्वेलाविलासोत्थितैः ०८८०२ शब्दैर्वा बधिरीकरोतु ककुभो धत्तां च विस्तीर्णताम् । ०८८०३ पान्थानां रवितापतप्तवपुषां तृष्णातिरेकच्छिदः ०८८०४ किं साम्यं प्रतनोः करोतु सरसोप्यब्धिः कृताडमबरः ॥ ०८८११ दतं येन सुधानिधानमसमं सत्त्वाधिकेनार्थिने ०८८१२ श्रीवासोपि महामणिर्विधुरसौ कल्पद्रुमो गौस्तथा । ०८८१३ शापात्क्षारजलस्तथापि जलधिः प्राप्तायशा इत्यहो ०८८१४ लोकोयं तृणवद्गुणं विगणयन्दोषग्रहैकाग्रधीः ॥ ०८८२१ हा कष्टं तटवासिनोपि विफलप्राग्भारमालोक्य माम् ०८८२२ अन्यत्रैव विपासवः प्रतिदिनं गच्छन्त्यमी जन्तवः । ०८८२३ इत्थं व्यर्थजलातिभारवहनप्रोद्भूतखेदादिव ०८८२४ स्वां मूर्तिं वडवानले जलनिधिर्मन्ये जुहोत्यन्वहम् ॥ ०८८३१ मर्यादापरिपालनेन महतां क्षौणीभृतां रक्षणाद् ०८८३२ विश्रान्त्या मधुसूदनस्य सुचिरं यत्किंचिदासादितम् । ०८८३३ गाम्भीर्योचितमात्मनो जलधिना मन्थव्यथासंभ्रमाद् ०८८३४ देवेष्वर्पयतामृतं द्रुतमहो सर्वं तदुत्पुंसितम् ॥ ०८८४१ आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर् ०८८४२ यत्कर्मातिशयं विचिन्त्य मनसः कम्पः समुत्पद्यते । ०८८४३ एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैर् ०८८४४ अन्यस्यापि महात्मनो न वपुषः स्वल्पोपि जातः श्रमः ॥ ०८८५१ नोद्वेगं यदि यासि यद्यवहितः कर्णं ददासि क्षणं ०८८५२ त्वां पृच्छामि यदम्बुधे किमपि तन्निश्चित्य देह्युत्तरम् । ०८८५३ नैराश्यानुशयातिमात्रनिशितं निःश्वस्य यद्दृश्यसे ०८८५४ तृष्यद्भिः पथिकैः कियत्तदधिकं स्यादौर्वदाहादतः ॥ ०८८६१ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम् ०८८६२ इतश्च शरणार्थिनां शिखरिणां गुणाः शेरते । ०८८६३ इतश्च वडवानलः सह समस्तसंवर्तकैर् ०८८६४ अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ०८८७१ वैकुण्ठायश्रियमभिनवं शीतभानुं भवाय ०८८७२ प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यम् । ०८८७३ तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं ०८८७४ कोन्यस्तस्माद्भवति भुवनेष्वम्बुधेर्बोधिसत्त्वः ॥ ०८८८१ रत्नोज्ज्वलाः प्रविकिरल्लंहरीः समीरैर् ०८८८२ अब्धिः क्रियेत यदि रुद्धतटाभिमुख्यः । ०८८८३ दोषोर्थिनः स खलु भाग्यविपर्ययाणां ०८८८४ दातुर्मनागपि न तस्य तु दातृतायाः ॥ ०८८९१ अन्तर्ये सततं लुठन्त्यगणितास्तानेव पाथोधरै ०८८९२ रात्तानापततस्तरङ्गवलयैरालिङ्ग्य गृह्णन्नसौ । ०८८९३ व्यक्तं मौक्तिकरत्नतां जलकणान्संप्रापयत्यम्बुधिः ०८८९४ प्रायोन्येन कृतादरो लघुरपि प्राप्तोर्च्यते स्वामिभिः ॥ ०८९०१ स्वस्त्यस्तु विद्रुमलतासुमनोमणिभ्यः ०८९०२ कल्याणिनी भवतु मौक्तिकशुक्तिपङ्क्तिः । ०८९०३ प्राप्तं मया सकलमेव फलं पयोधेर् ०८९०४ यद्दारुणैर्जलचरैर्न विदारितोस्मि ॥ ०८९११ आदाय वारि परितः सरितां मुखेभ्यः ०८९१२ किं तावदर्जितमनेन दुरर्णवेन । ०८९१३ क्षारीकृतं च वडवादहने हुतं च ०८९१४ पातालकुक्षिकुहरे विनिवेशितं च ॥ ०८९२१ कालप्राप्तं महारत्नं यो न गृह्णात्यबुद्धिमान् । ०८९२२ अन्यहस्तगतं दृष्ट्वा पश्चात्स परितप्यते ॥ ०८९३१ भिद्यतेनुप्रविश्यान्तर्यो यथारुच्युपाधिना । ०८९३२ विशुद्धिः कीदृशी तस्य जडस्य स्फटिकाश्मनः ॥ ०८९४१ स्फटिकस्य गुणो योसौ स एवायाति दोषताम् । ०८९४२ धत्ते स्वच्छतया छायां यस्तां मलवतामपि ॥ ०८९५१ येन पाषाणखण्डस्य मूल्यमल्पं वसुंधरा । ०८९५२ अनस्तमितसारस्य तेजसस्तद्विजृम्भितम् ॥ ०८९६१ शुष्कतनुतृणलवाग्रं गृह्णाति धनाशयान्यदीयं यः । ०८९६२ मूढास्तृणमणिमपि तं नियुञ्जते पादरक्षायै ॥ ०८९७१ सद्वंशजः साधुगुणः सुवृत्तः ०८९७२ संतापभित्तुल्यगुणोपगूढः । ०८९७३ कान्तो दृशः पश्य तथापि हारः ०८९७४ क्षिप्तो बहिस्तुङ्गकुचद्वयेन ॥ ०८९८१ कनकभूषणसंग्रहणोचितो ०८९८२ यदि मणिस्त्रपुणि प्रतिबध्यते । ०८९८३ न स विरौति न चापि हि शोभते ०८९८४ भवति योजयितुर्वचनीयता ॥ ०८९९१ मरकतस्य वरं मलिनात्मता ०८९९२ त्यजति जातु निजां प्रकृतिं न यः । ०८९९३ अमलतां स्फटिकस्य धिगञ्जसा ०८९९४ भजति रूपमुपान्तगतस्य यः ॥ ०९००१ अस्मिन्सखे ननु मणित्वमहासुभिक्षे ०९००२ चिन्तामणे त्वमुपलो भव मा मणिर्भूः । ०९००३ अद्येदृशा हि मणयः प्रभवन्ति लोके ०९००४ येषां तृणग्रहणकौशलमेव भूषा ॥ ०९०११ भूमौ पतन्नपि रजः परिधूसरोपि ०९०१२ जात्यन्धदुर्जनजनैरवधीरितोपि । ०९०१३ त्रैलोक्यवन्दनमहामहिमानमन्तश् ०९०१४ चिन्तामणिर्नहि जहाति कदाचिदेव ॥ ०९०२१ चिन्तामणे भुवि न केनचिदीश्वरेण ०९०२२ मूर्ध्ना धृतोसि यदि मा स्म ततो विषीदः । ०९०२३ नास्त्येव हि त्वदधिरोपणपुण्यबीजं ०९०२४ सौभाग्ययोग्यमिह कस्यचिदुत्तमाङ्गम् ॥ ०९०३१ चिन्तामणेस्तृणमणेश्च कृतं विधात्रा ०९०३२ केनोभयोरपि मणित्वमदः समानम् । ०९०३३ नैकोर्थितानि दददर्थिजनाय खिन्नो ०९०३४ गृह्णञ्जरत्तृणलवं न तु लज्जितोन्यः ॥ ०९०४१ मनोरथशतैर्वृतो भुवननाथचूडोचितस् ०९०४२ तृणैरलमधः कृतः कृतपदः क्वचिद्ग्रावसु । ०९०४३ व्रजत्यपि सचेतसां विषयमीदृशां यो दृशो ०९०४४ लुठत्यचलकंदरे विधुर एष चिन्तामणिः ॥ ०९०५१ परामृषति सस्पृहं मुहुरपेलवं वीक्षते ०९०५२ महत्किमपि रत्नमित्यसमसंमदं गूहते । ०९०५३ कुतोपि परिलेपवच्छविमवाप्य काचोपले ०९०५४ वहत्यतिकदर्थनां बत वराककः पामरः ॥ ०९०६१ किरणनिकरैराशाचक्रं चिरं परिपूरयन् ०९०६२ किमिह गहेन भ्रातर्व्यर्थं समुल्लसितो भवान् । ०९०६३ क इह भवतो वेत्त्यत्यन्तं निसर्गमहार्घतां ०९०६४ मरकतमणे दग्धग्रामे हतादरपामरे ॥ ०९०७१ दूरे कस्यचिदेष कोप्यकृतधीर्नैवास्य वेत्त्यन्तरं ०९०७२ मानी कोपि न याचते मृगयते कोप्यल्पमल्पाशयः । ०९०७३ इत्थं प्रार्थितदानदुर्व्यसनिनो नौदार्यरेखोज्ज्वला ०९०७४ जाता नैपुणदुस्तरेषु निकषा स्थानेषु चिन्तामणेः ॥ ०९०८१ ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःपिण्डिकां ०९०८२ ते दृष्टाः प्रतिधाम दग्धमणयो विच्छिन्नसंख्याश्चिरम् । ०९०८३ नो जाने किमभावतः किमथवा दैवादिह श्रूयते ०९०८४ नामाप्यत्र न तादृशस्य तु मणे रत्नानि गृह्णाति यः ॥ ०९०९१ यन्मुक्तामणयोम्बुधेरुदरतः क्षिप्ता महावीचिभिः ०९०९२ पर्यन्तेषु लुठन्ति निर्मलरुचा स्पष्टाट्टहासा इव । ०९०९३ तत्तस्यैव परिक्षयाज्जलनिधेर्द्वीपान्तरालम्बिनां ०९०९४ रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ०९१०१ माणिक्योयं महार्घः क्षितितलमहितो दीप्तिमानुच्चजन्मा ०९१०२ दृष्ट्वैनं नूनमाराद्व्यपसरतितरां कापि दौर्गत्यनीतिः । ०९१०३ इत्थं भ्रान्तिप्रपञ्चैर्विपदपहृतये केनचित्स्थापितः स ०९१०४ न्नन्ते दृष्टः स एव व्रणशतपरुषः कोपि पाषाणखण्डः ॥ ०९१११ यामः स्वस्ति तवास्तु रोहणगिरे मत्तः स्थितिप्रच्युता ०९११२ वर्तिष्यन्त इमे कथं कथमिति स्वप्नेपि मैवं कृथाः । ०९११३ श्रीमंस्ते मणयो वयं यदि भवल्लब्धप्रतिष्ठास्तदा ०९११४ ते शृङ्गारपरायणाः क्षितिभुजो मौलौ करिष्यन्ति नः ॥ ०९१२१ उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य । ०९१२२ दिग्व्यापिनि शब्दगुणे शङ्खः संभावनाभूमिः ॥ ०९१३१ शङ्खोस्थिशेषः स्फुटितो मृतो यद् ०९१३२ उच्छ्वासितेनोच्छ्वसते नु सत्यम् । ०९१३३ किं तूच्चरत्येव न सोस्य शब्दः ०९१३४ श्रव्यो न यो यो न सदर्थशंसी ॥ ०९१४१ प्राणान्विहाय धवलत्वगुणोचितानि ०९१४२ प्राप्तानि यज्जगतिवक्त्रविशेषयोगात् । ०९१४३ शङ्खैर्महाविभवशब्दविजृम्भितानि ०९१४४ तज्जीवितं सहृदयाः प्रभवन्ति येषाम् ॥ ०९१५१ धीरः श्रोत्रसुखावहोपि सदृशः सत्यं परं मङ्गलं ०९१५२ क्वापि ग्रामसुराङ्गणे स तु लसन्संध्यासु शङ्खध्वनिः । ०९१५३ माद्यन्मेदुरसारमेयसरलग्रीवाग्रदीर्घीभवन् ०९१५४ नादो नाम कृतानुकारमुदितग्राम्याट्टहासाहतः ॥ ०९१६१ रत्नाकराज्जनिभुवोप्यपचायमानः ०९१६२ शुष्कास्थिशेषतनुतामपि लम्बमानः । ०९१६३ श्वासैः सफूत्कृतिभिरप्युपहन्यमानः ०९१६४ शुद्धाशयो वदति मङ्गलमेव शङ्खः ॥ ०९१७१ शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः ०९१७२ पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः । ०९१७३ एकः कोपि स पाञ्चजन्य उदभूदाश्चर्यभूतः सतां ०९१७४ यः संवर्तभरक्षमैर्मधुरिपोः श्वासानिलैः पूर्यते ॥ ०९१८१ सर्वाशापरिपूरि हुंकृतमदो जन्मापि दुग्धोदधेर् ०९१८२ गोविन्दाननचुम्बि सुनदरतरं पूर्णेन्दुबिम्बाद्वपुः । ०९१८३ श्रीरेषा सहजा गुणाः किमपरं भण्यन्त एते हि यत् ०९१८४ कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥ ०९१९१ वरमश्रीकतैवास्तु नेतरश्रीसमानता । ०९१९२ इति कैरवकोद्भेदे कमलं मुकुलायते ॥ ०९२०१ लक्ष्मीसंपर्करूपोयं दोषः पद्मस्य निश्चितम् । ०९२०२ यदयं गुणसंदोहधामनीन्दौ पराङ्मुखः ॥ ०९२११ अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः । ०९२१२ कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः ॥ ०९२२१ किं दीर्घदीर्घेषु गुणेषु पद्म ०९२२२ सितेष्ववच्छादनकारणं ते । ०९२२३ अस्त्येव तान्पश्यति चेदनार्या ०९२२४ त्रस्तेव लक्ष्मीर्न पदं विधत्ते ॥ ०९२३१ स्थलकुशेशय संचिनु कण्टकान् ०९२३२ प्रथय पङ्ककुलोद्भवतां मुदा । ०९२३३ अपि बधान धृतिं जलसंगमे ०९२३४ व्रजसि येन परास्पदतां श्रियः ॥ ०९२४१ अक्षेष्वियं व्यसनिता हृदये यदेते ०९२४२ रागो घनो मधुमदोत्कटमाननं च । ०९२४३ पद्मस्तथापि परमास्पदमेव लक्ष्म्यास् ०९२४४ तद्दैन्यमेव किल दुर्भगता यदेभिः ॥ ०९२५१ पद्मादयो बहुगुणा अपि यन्निशासु ०९२५२ नाशं न यान्ति विरहेण दिवाकरस्य । ०९२५३ तत्पङ्कसंकरजलाशयजन्मजाड्य ०९२५४ ज्यायोविजृम्भितमिदं त्रिजगत्प्रतीतम् ॥ ०९२६१ लक्ष्मीं विशेषय कुशेशय कौशलाङ्कां ०९२६२ जृम्भा जहीहि चलतां च विमुञ्च किंचित् । ०९२६३ आशागतान्यलिकुलानि मुदं नयेह ०९२६४ मित्त्रे विधौ सति विधत्स यथेष्टमेतत् ॥ ०९२७१ नित्यं तथा शृणु कुशेशय मद्वचांसि ०९२७२ स्नेहेन यानि भवतः कथयामि किंचित् । ०९२७३ कान्त्यानया विमलया भ्रमरैर्गुणैर्वा ०९२७४ किं यासि रम्यतमतामुत कण्टकर्द्धेः ॥ ०९२८१ संकोचमेहि बिसपुष्प जहीहि शोभां ०९२८२ दोषाकरोयमधुना समुदेति पश्य । ०९२८३ वक्रात्मनि प्रभवति क्रमशो विचिन्त्य ०९२८४ प्रच्छन्नता गुणवतां स्वयमेव योग्या ॥ ०९२९१ त्रुट्यद्गुणोपि बहुकण्टकतां गतोपि ०९२९२ रन्ध्रान्वितोपि हतकर्दमसंभवोपि । ०९२९३ भृङ्गोपभोग्यविभवोपि तथापि पद्मो ०९२९४ मित्रोदये विकसनं लभते सदैव ॥ ०९३०१ कामं भवन्तु मधुलम्पटषट्पदौघ ०९३०२ संघट्टघुंघुमघनध्वनयोब्जखण्डाः । ०९३०३ गायन्नतिश्रुतिसुखं विधिरेव यत्र ०९३०४ भृङ्गः स कोपि धरणिधरनाभिपद्मः ॥ ०९३११ तापापहे सहृदये रुचिरे प्रबुद्धे ०९३१२ मित्रानुरागनिरते धृतसद्गुणौघे । ०९३१३ स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन् ०९३१४ युक्तं तवेह कमले कमले स्थितिर्यत् ॥ ०९३२१ न पङ्कादुद्भूतिर्न जडसहवासव्यसनिता ०९३२२ वपुर्दिग्धं कान्त्या स्थलनलिन रत्नद्युतिमुषा । ०९३२३ व्यधास्यद्दुर्वेधा हृदयलघिमानं यदि न ते ०९३२४ त्वमेवैकं लक्ष्म्याः परममभविष्यः पदमिह ॥ ०९३३१ उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया ०९३३२ ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः । ०९३३३ नाभौ भौमरिपोरजायत महापद्मः स कोप्येकको ०९३३४ यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ॥ ०९३४१ पुष्येन्यत्रावकाशो निपुणमपहृतः सौरभालोभनाभिः ०९३४२ स्वाभोगेन्तःप्रवेशोप्यशिथिलनिविडः कोशभावान्न दत्तः । ०९३४३ नीत्वा नैराश्यमित्थं गलितगतिरसौ मुग्धबुद्धिः प्रदोषे ०९३४४ पद्मेन श्रीमतापि प्रसभमुभयतो भ्रंशितः पश्य भृङ्गः ॥ ०९३५१ भ्रातः पङ्कज संकोचः कंचित्कालं विषह्यताम् । ०९३५२ सैव प्रभाते शोभा ते भाते दिनकरे भवेत् ॥ ०९३६१ अधोगतिं च संप्राप्य बिसाः पङ्ककलङ्किताः । ०९३६२ गुणिनो निर्गुणैर्दाशैः कृष्टाः स्वाङ्कुरदर्शिताः ॥ ०९३७१ तदङ्कुराणि पद्मानि गुणैर्युक्तानि मानिभिः । ०९३७२ शिरसा धार्यमाणानि मीलितानि जडात्मना ॥ ०९३८१ मरौ नास्त्येव सलिलं कृछ्राद्यद्यपि लभ्यते । ०९३८२ तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ ०९३९१ चटुलचातकचञ्चुपुटात्पत ०९३९२ ञ्जलकणोपि मरोरतिगोचरः । ०९३९३ स पुनरद्य घनागमबन्धुना ०९३९४ जलधरेण जलैरपरः कृतः ॥ ०९४०१ किं पान्थ निर्मथनसिद्ध्युपयोगिवस्तु ०९४०२ संभारशालिनि मरौ सुगृहीतनाम्नि । ०९४०३ संदृश्यतेतिविपरीतमिदं हि तत्र ०९४०४ कूपोस्ति तत्र च जलं यदयत्नलभ्यम् ॥ ०९४११ अस्मिन्मरौ किमपरं वचसामवाच्यं ०९४१२ मा मुञ्च पान्थ मुहुराश्रितवत्सलो भूः । ०९४१३ एतत्त्वया जललवामिषलालसेन ०९४१४ दृष्टं ज्वलत्परिकरं सिकतावितानम् ॥ ०९४२१ सत्पादपान्विपुलपल्लवपुष्पभार ०९४२२ संपत्परीतवपुषः फलभारनभ्रान् । ०९४२३ यो मुञ्जुशिञ्जितशकुन्तशताश्रितोरु ०९४२४ शाखान्मरौ मृगयते न ततोस्ति मुग्धः ॥ ०९४३१ जलतरुतृणशून्यः श्राम्यतामध्वगानां ०९४३२ किमपि किल बताहं नोपकर्तुं समर्थः । ०९४३३ इति न परमभीक्ष्णं नानुशेते न यावच् ०९४३४ छठमरुरनृताम्भःप्राप्तये तान्प्रयुङ्क्ते ॥ ०९४४१ गतमतिजवाद्भ्रान्तं भ्रान्तं समुत्कषिता च भूश् ०९४४२ चिरतरमथो निःश्वस्याथो सदैन्यमवस्थितम् । ०९४४३ किमिव न कृतं पान्थेनेत्थं तथापि शठो मरुः ०९४४४ प्रकृतिविरसः कष्टं यातो मनागपि नार्द्रताम् ॥ ०९४५१ इतः काकानीकं प्रतिभयमितः कौशिककृता ०९४५२ दितोमी गृध्राद्याः कुलमिदमितः कङ्कवयसाम् । ०९४५३ श्मशानस्थानेस्मिन्नखिलगुणवन्ध्ये हततराव् ०९४५४ अपि द्वित्राः केचिन्न खलु कलवाचः शकुनयः ॥ ०९४६१ किमसि विमतिः किं वोब्मादी क्षणादभिलक्ष्यसे ०९४६२ पुनरपि पुनः प्रेक्षापूर्वा न काचन ते क्रिया । ०९४६३ स्वयमजलकां जानानोपि प्रविश्य मरुस्थलीं ०९४६४ शिशिरमधुरं वारि प्राप्तुं यदध्वग वाञ्छसि ॥ ०९४७१ परार्थे यः पीडामनुभवति भङ्गेपि मधुरो ०९४७२ यदीयः सर्वेषामिह खलु विकारोप्यभिमतः । ०९४७३ न संप्राप्तो वृद्धिं यदि स भृशमक्षेत्रपतितः ०९४७४ किमिक्षोर्दोषोसौ न पुनरगुणाया मरुभवः ॥ ०९४८१ तापः स्वात्मनि संश्रितद्रुमलतादोषोध्वगैर्वर्जनं ०९४८२ सत्यं तीव्रतया तृषस्तव मरो कोसावनर्थोदयः । ०९४८३ नन्वर्थः सुमहानयं जललवस्वाम्यस्मयोद्गर्जिनः ०९४८४ संनह्यन्ति यतस्तवोपकृतये धाराधराः प्राकृताः ॥ ०९४९१ एवं चोद्विधिना कृतोस्युपकृतौ कस्यांचिदप्यक्षमः ०९४९२ कामं मोपकृथास्ततस्तव मरो वाच्यं न धीरो भव । ०९४९३ किं त्वारान्मृगतृष्णयोपजनयन्नम्भोमुचां वञ्चनां ०९४९४ प्रेम्णा कर्षसि तर्षमूर्छितधियोप्यन्यानतः शोच्यसे ॥ ०९५०१ आम्राः किं फलभारनभ्रशिरसो रम्याः किमूष्मच्छिदः ०९५०२ सच्छायाः कदलीद्रुमाः सुरभयः किं पुष्पिताश्चम्पकाः । ०९५०३ एतास्ता निरवग्रहोग्रकरभोल्लीढावरूढाः पुनः ०९५०४ शम्यो भ्राम्यसि मूढ निर्मरुति किं मिथ्यैव मर्तुं मरौ ॥ ०९५११ जलान्तराणि श्वभ्रेषु तिष्ठन्तु क्वापि यान्तु वा । ०९५१२ सुरसिन्धुप्रवाहस्य सृतौ रत्नाकरोवधिः ॥ ०९५२१ क्वान्तः शून्यो नडः क्वेक्षुस्तथापि सुदृशाकृती । ०९५२२ विवेकशून्यमनसां विप्रलम्भाय निर्मितौ ॥ ०९५३१ नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ । ०९५३२ देवागारबलीवर्दस्तथाप्यश्नाति शोभनम् ॥ ०९५४१ नक्रः स्वस्थानमासाद्य गजेन्द्रमपि कर्षति । ०९५४२ स एव प्रच्युतः स्थानाच्छुनापि परिभूयते ॥ ०९५५१ वरमुन्नतलाङ्गूलात्सटाधूननभीषणात् । ०९५५२ सिंहात्पादप्रहारोपि न सृगालाधिरोहणम् ॥ ०९५६१ गन्धैकसारो विफलः सेव्यश्चन्दनपादपः । ०९५६२ भुजंगाः पवनाहाराः सेवकाः सदृशो विधिः ॥ ०९५७१ क्व गतो मृगो न जीवत्यनुदिनमश्नंस्तृणानि विविधानि । ०९५७२ स्वयमाहतगजभोक्तुः सिंहस्य तु दुर्लभा वृत्तिः ॥ ०९५८१ वक्रमशय्यासंस्थितमन्तःकोटरमनेकदुर्ग्रन्थि । ०९५८२ प्रगुणीकर्तुं शक्तो दुर्दारु न विश्वकर्मापि ॥ ०९५९१ न तदनुकृतं मनागपि न वा जलं सुचिरसेवितैः शीतम् । ०९५९२ अन्धीकृते कुदीपैः प्रत्युत धूमेन मे नयने ॥ ०९६०१ उत्सन्नमापणममुं द्रक्ष्यामो निर्मलैः कदा नयनैः । ०९६०२ चिन्तामणिकाचकणौ विपरीतगुणागुणौ यत्र ॥ ०९६११ उज्ज्वलचम्पकमुकुलाशङ्कितया यः प्रदीपकं स्पृशति । ०९६१२ कज्जलकलङ्कदाहं मुक्त्वान्यत्तस्य किं घटताम् ॥ ०९६२१ शिखरी चितशिखरशिखः स्फुरदौर्वशिखाकदम्बकोम्बुनिधिः । ०९६२२ कस्यापि लङ्घनीयौ न तु नगरावकरनिकरोयम् ॥ ०९६३१ फणमणिभासुरगुरतरसमर्थबहुमस्तके शेषे । ०९६३२ कः क्षितिभरमुद्वोढुं प्रार्थयते कृपणकणिकीटान् ॥ ०९६४१ यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् । ०९६४२ यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ ०९६५१ शरदि समग्रनिशाकरकरशतहततिमिरसंचया रजनी । ०९६५२ जलदान्तरितार्कामपि दिवसच्छायां न पूरयति ॥ ०९६६१ मृदुसुभगपरिकररुचोप्यनुचितमिदमेकमेव मदनस्य । ०९६६२ यदनेन कृतः केतौ मकरो दंष्ट्राकरालमुखः ॥ ०९६७१ हेमकार सुधियो नमोस्तु ते ०९६७२ दुस्तरेषु बहुशः परीक्षितुम् । ०९६७३ काञ्चनाभरणमश्मना समं ०९६७४ यत्त्वयैतदधुरोप्यते तुलाम् ॥ ०९६८१ वृत्ते एव स घटोन्धकूप यस् ०९६८२ त्वत्प्रसादमपनेतुमक्षमः । ०९६८३ मुद्रितं त्वधमचेष्टितं त्वया ०९६८४ तन्मुखाम्बुकणिकाः प्रतीच्छता ॥ ०९६९१ शतपदी सति पादशते क्षमा ०९६९२ यदि न गोष्पदमप्यतिवर्तितुम् । ०९६९३ किमियता द्विपदस्य हनूमतो ०९६९४ जलधिविक्रमणे विवदामहे ॥ ०९७०१ न गुरुवंशपरिग्रहशौण्डता ०९७०२ न च महागुणसंग्रहणादरः । ०९७०३ फलविधानकथापि न मार्गणे ०९७०४ किमिह लुब्धकबाल गृहेधुना ॥ ०९७११ तृणमणेर्मनुजस्य च तद्वतः ०९७१२ किमुभयोर्विपुलाशयतोच्यते । ०९७१३ तनु तृणाग्रलवावयवैर्ययोर् ०९७१४ अवसिते ग्रहण प्रतिपादने ॥ ०९७२१ भ्रातः सुवर्णमयरूपकतारचित्रा ०९७२२ लंकारयत्नघटनासु सुवर्णकार । ०९७२३ दूरीकुरु श्रममिहाद्य सुवर्णपात्रे ०९७२४ दुर्वर्णयोजयितुरस्ति महार्घलाभः ॥ ०९७३१ तनुतृणाग्रधृतेन हृतश्चिरं ०९७३२ क इह येन न मौक्तिकशङ्कया । ०९७३३ स जलबिन्दुरतो विपरीतदृग् ०९७३४ जगदिदं वयमत्र सचेतनाः ॥ ०९७४१ रे दन्दशूक तदयुक्तमपीश्वरस्त्वां ०९७४२ वाल्लभ्यतो नयति नूपुरधाम सत्यम् । ०९७४३ आवर्जितालिकुलसत्कृतिमूर्छितानि ०९७४४ किं शिञ्जितानि भवतः क्षम एष कर्तुम् ॥ ०९७५१ सुवर्णकार श्रवणोचितानि ०९७५२ वस्तूनि विक्रेतुमिहागतोसि । ०९७५३ अद्यापि नाश्रावि यदत्र पल्ल्यां ०९७५४ पल्लीपतिर्नूनमविद्धकर्णः ॥ ०९७६१ तानुन्नतान्क्षितिभृतो ननु रूपयामः ०९७६२ पक्षक्षयव्यतिकरे मथितं तदोजः । ०९७६३ युक्तं किमौर्वशिखिनः परिकोपितस्य ०९७६४ तेजस्विनोप्युदधिनिर्मथनं विसोढुम् ॥ ०९७७१ चित्रं कियद्यदयमम्बुधिरम्बुदौघ ०९७७२ सिन्धुप्रवाहपरिपूर्णतया महीयान् । ०९७७३ त्वं त्वर्थिनामुपकरोषि यदल्पकूप ०९७७४ निष्पीड्य कुक्षिकुहरं हि महत्त्वमेतत् ॥ ०९७८१ धिग्वाडवं दहनमर्थितया विपक्ष ०९७८२ मभ्येति यः स्वजठरप्रतिपूरणाय । ०९७८३ धिग्वारिराशिमपि यस्तु तथाविधस्य ०९७८४ शत्रोर्जलैरपि न पूरयभिलाषम् ॥ ०९७९१ शावान्कुलायकगतान्परिपातुकामा ०९७९२ नद्याः प्रगृह्य लघु पक्षपुटेन तोयम् । ०९७९३ दावानलं किल सिषेच मुहुः कोपोती ०९७९४ स्निग्धो जनो न खलु चिन्तयते स्वपीडाम् ॥ ०९८०१ काकः स्वभावचपलः परिशुद्धवृत्तिर् ०९८०२ लब्ध्वा बलिं स्वजनमाह्वयते परांश्च । ०९८०३ चर्मास्थिमांसवति हस्तिकलेवरेपि ०९८०४ श्वा द्वेष्टि हन्ति च परान्कृपणस्वभावः ॥ ०९८११ आदायि वारि यत एव जहाति भूयस् ०९८१२ तत्रैव यः स जलदः प्रथमो जडानाम् । ०९८१३ वान्तं प्रतीप्सति तदेव तदेव यस्तु ०९८१४ स्त्रोतः पतिः स निरपत्रपसार्थवाहः ॥ ०९८२१ बुध्यामहे न बहुधापि विकल्पमानाः ०९८२२ कैर्नामभिर्व्यपदिशाम महामतींस्तान् । ०९८२३ येषामशेषभुवनाभरणस्य हेम्नस् ०९८२४ तत्त्वं विवेक्तुमुपलाः परमं प्रमाणम् ॥ ०९८३१ न म्लानितान्यखिलधामवतां मुखानि ०९८३२ नास्तं तमो न च कृतो भुवनोपकारः । ०९८३३ सूर्यात्मजोहमिति केन गुणेन लोकान् ०९८३४ प्रत्यापयिष्यसि शने शपथं विना त्वम् ॥ ०९८४१ संरक्षितुं कृषिमकारि कृषीवलेन ०९८४२ पश्यात्मनः प्रतिकृतिस्तृणपूरुषोयम् । ०९८४३ स्तब्धस्य निष्क्रियतयास्तभियोस्य नून ०९८४४ मत्स्यन्ति गोमृगगनाः पुनरेव सस्यम् ॥ ०९८५१ कस्यानिमेषवितते नयने दिवौको ०९८५२ लोकादृते जगति ते अपि वै गृहीत्वा । ०९८५३ पिण्डे प्रसारितमुखेन तिमे किमेतद् ०९८५४ दृष्टं न बालिश विशद्बडिशं त्वयान्तः ॥ ०९८६१ आ जन्मनः कुशलमण्वपि ते कुजन्मन् ०९८६२ पांसो त्वया यदि कृतं वद तत्त्वमेतत् । ०९८६३ उत्थापितोस्यनलसारथिना यदर्थं ०९८६४ दुष्टेन तत्कुरु कलङ्कय विश्वमेतत् ॥ ०९८७१ पुंस्त्वादपि प्रविचलेद्यपि यद्यधोपि ०९८७२ यायाद्यपि प्रणयनेन महानपि स्यात् । ०९८७३ अभ्युद्धरेत्तदपि विश्वमितीदृशीयं ०९८७४ केनापि दिक्प्रकटिता पुरुषोत्तमेन ॥ ०९८८१ स्वल्पाशयः स्वकुलशिल्पविकल्पमेव ०९८८२ यः कल्पयन्स्खलति काचवणिक्पिशाचः । ०९८८३ ग्रस्तः स कौस्तुभमणीन्द्रसपत्नरत्न ०९८८४ निर्यत्नगुम्फपटुवैकटिकेर्ष्ययान्तः ॥ ०९८९१ देवी क्व दुर्गतिहरा भगिनी भवानी ०९८९२ देवो हरः क्व भगिनीपतिरार्तबन्धुः । ०९८९३ अम्भोनिधौ क्व शरणागतवृत्तिदैन्यं ०९८९४ मैनाक नाकथयितव्यमिदं त्वया नः ॥ ०९९०१ तुङ्गात्मतास्तशिखरस्य वृथैव भानोर् ०९९०२ नालम्बिनी भवति यास्तमये प्रपित्सोः । ०९९०३ श्लाघ्यः स तामरसनालगुणोपि दैत्य ०९९०४ भीत्या यमेत्य मरुतां पतिराललम्बे ॥ ०९९११ गृहं श्मशानं गजचर्म चाम्बरं ०९९१२ विलेपनं भस्म वृषश्च वाहनम् । ०९९१३ कुबेर हे वित्तपते न लज्जसे ०९९१४ प्रियस्य ते सख्युरियं दरिद्रता ॥ ०९९२१ नैकत्र शक्तिविरतिः क्वचिदस्ति सर्व ०९९२२ भावाः स्वभावपरिनिष्ठिततारतम्याः । ०९९२३ आकल्पमौर्वदहनेन निपीयमान ०९९२४ मम्भोधिमेकचुलकेन पपावगस्त्यः ॥ ०९९३१ विष्णुर्बिभर्ति भगवानखिलां धरित्रीं ०९९३२ तं पन्नगस्तमपि तत्सहितं पयोधिः । ०९९३३ कुम्भोद्भवस्तमपिबत्खलु हेलयैव ०९९३४ सत्यं न कश्चिदवधिर्महतां महिम्नः ॥ ०९९४१ आरोपितः पृथुनितम्बतटे तरुण्या ०९९४२ कण्ठे च बाहुलतया निविडं गृहीतः । ०९९४३ उतुङ्गपीनकुचनिर्भरपीडितोयं ०९९४४ कुम्भः करीषदहनस्य फलानि भुङ्क्ते ॥ ०९९५१ आबद्धकृत्रिमसटावलितांसभित्ति ०९९५२ रारोप्यते मृगपतेः पदवीं यदि श्वा । ०९९५३ मत्तेभकुम्भतटपाटनलम्पटस्य ०९९५४ नादं करिष्यति कथं हरिणाधिपस्य ॥ ०९९६१ मुखमपि परिशिष्टं यस्य तेजःप्रसूतिं ०९९६२ खरकिरणमथेन्दुं ग्रासपात्रीकरोति । ०९९६३ यदि किल वपुरस्य प्राभविष्यत्समग्रं ०९९६४ किमिव किमिव राहुर्नाकरिष्यत्तदानीम् ॥ ०९९७१ यत्पुष्पपल्लवफलाहितसाम्यमोहैर् ०९९७२ न ज्ञायते शुक तव स्थितिरस्थितिर्वा । ०९९७३ तद्दाडिमं त्यजसि नैव फलाशया त्वम् ०९९७४ अर्थातुरो न गणयत्यपकर्षदोषम् ॥ ०९९८१ वरमिह रवितापैः किं न शीर्णासि गुल्मे ०९९८२ किमु दवदहनैर्वा सर्वदाहं न दग्धा । ०९९८३ यदहृदयजनौघैर्वृन्तपर्णानभिज्ञैर् ०९९८४ इतरकुसुममध्ये मालति प्रोम्भितासि ॥ ०९९९१ किमिदमुचितं शुद्धेः स्पष्टं सपक्षसमुन्नतेः ०९९९२ फलपरिणतेर्युक्तं प्राप्तुं गुणप्रणयस्य ते । ०९९९३ क्षणमुपगतः कर्णोपान्तं परस्य पुरः स्थितान् ०९९९४ विशिख निपतन्क्रूरं दूरान्नृशंस निहंसि यत् ॥ १०००१ स हेमालंकारः क्षितिपतनलग्नेन रजसा १०००२ तथा दैन्यं नीतो नरपतिशिरःश्लाघ्यविभवः । १०००३ यथा लोष्टभ्रान्तिव्यवहितविवेकव्यतिकरो १०००४ विलोक्यैनं लोकः परिहरति पादक्षतिभयात् ॥ १००११ आहूतेषु विहंगमेषु मशको नायान्पुरोवार्यते १००१२ मध्ये वा धुरि वा वसंस्तृणमणिर्धत्ते मणीनां रुचम् । १००१३ खद्योतोपि न कम्पते प्रचलितुं मध्येपि तेजस्विनां १००१४ धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥ १००२१ एवं चेत्सरसस्वभावपरता जाड्यं किमेतादृशं १००२२ यद्यस्त्येव निसर्गतः सरलता किं ग्रन्थिमत्तेदृशी । १००२३ मूलं चेच्छुवि पङ्कजश्रुतिरियं कस्माद्गुणा यद्यमी १००२४ किं छिद्राणि सखे मृणाल भवतस्तत्त्वं न मन्यामहे ॥ १००३१ त्वं भोगी यदि कुण्डली यदि भवांस्त्वं चेद्भुजंगः सखे १००३२ धत्से चेन्मुकुटं सरत्नमुरग स्वस्त्यस्तु ते किं ततः । १००३३ अस्थाने यदि कञ्चुकं त्यजसि तन्नास्माकमत्र स्पृहा १००३४ किं तु क्रूरविषोल्कया दहसि यद्भ्रातः क एष ग्रहः ॥ १००४१ मौलौ सन्मणयो गृहं गिरिगुहा त्यागः किलात्मत्वचो १००४२ निर्यत्नोपनतैश्च वृत्तिरनिलैरेकत्र चर्येदृशी । १००४३ अन्यत्रानृजु वर्त्म वाग्वितसना दृष्टौ विषं दृश्यते १००४४ यादृक्तामनु दीपको ज्वलति किं भोगिन्सखे किन्विदम् ॥ १००५१ भूयांस्यस्य मुखानि नाम विदितैवास्ते महासत्त्वता १००५२ कद्र्वाः प्राक्प्रसवोयमत्र कुपिते चिन्त्यं यथेदं जगत् । १००५३ त्रैलोक्याद्भुतमीदृशं तु चरितं शोषस्य येनास्य सा १००५४ प्रोन्मृज्येव निवर्तिता विषधरज्ञानेपि दुर्वर्णिका ॥ १००६१ किं तेन हेमगिरिणा रजताद्रिणा वा १००६२ यस्याश्रयेण तरवस्तरवस्त एव । १००६३ मन्यामहे मलयमेव यदाश्रितानि १००६४ शाहोटनिम्बकुटजान्यपि चन्दनानि ॥ १००७१ यान्दिग्ध्वैव कृता विषेण कुसृतिर्येषां कियद्गण्यते १००७२ लोकं हन्तुमनागसं द्विरसना रन्ध्रेषु ये जाग्रति । १००७३ व्यालास्तेपि दधत्यमी सदसतोर्मूढा मणीन्मूर्धभिर् १००७४ नौचित्याद्गुणशालिनां क्वचिदपि भ्रंशोस्त्यलं चिन्तया ॥ १००८१ तत्प्रत्यस्त्रतया धृतो न तु कृतः सम्यक्स्वतन्त्रो भयात् १००८२ स्वस्थस्तान्प्रतिघातयेदिति यथाकामं न संपोषितः । १००८३ संशुष्यन्वृषदंश एष कुरुतां मूकः स्थितोप्यत्र किं १००८४ गेहे किं बहुनाधुना गृहपतेश्चौराश्चरन्त्याखवः ॥ १००९१ स्वात्मीयान्न ददासि चेत्फणमणीन्मा दाः परार्थं परैर् १००९२ यत्किंचिन्निहितं रुणत्सि किमिदं निध्यादि दुष्टाशया । १००९३ एतत्तावदलं भवन्तमपरं पृच्छामि कस्मादहे १००९४ फूत्कारैर्विषवह्निवेगगुरुभिर्दन्दह्यसेमुं जनम् ॥ १०१०१ निःसाराः सुतरां लघुप्रकृतयो योग्या न कार्ये क्वचिच् १०१०२ छुष्यन्तोद्य जरत्तृणाद्यवयवाः प्राप्ताः स्वतन्त्रेषु ये । १०१०३ अन्तःसारपराङ्मुखेण धिगहो ते मारुतेनामुना १०१०४ पश्यात्यन्तचलेन वर्त्म महतामाकाशमारोपिताः ॥ १०१११ ये जात्या लघवः सदैव गणनां याता न ये कुत्रचित् १०११२ पद्भ्यामेव विमर्दिताः प्रतिदिनं भूमौ निलीनाश्चिरम् । १०११३ उत्क्षिप्ताश्चपलाशयेन मरुता पश्यान्तरिक्षे सखे १०११४ तुङ्गानामुपरि स्थितं क्षितिभृतां कुर्वन्त्यमी पांसवः ॥ १०१२१ अनीर्ष्याः श्रोतारो मम वचसि चेद्वच्मि तदहं १०१२२ स्वपक्षाद्भेतव्यं बहु न तु विपक्षात्प्रभवतः । १०१२३ तमस्याक्रान्ताशे कियदपि हि तेजोवयविनः १०१२४ स्वशक्त्या भासन्ते दिवसकृति सत्येव न पुनः ॥ १०१३१ सांमुख्यं वस्तुजातं नयति ननु चिदीशस्य यद्दर्शनाढ्यं १०१३२ नेत्रद्वन्द्वं किलैतद्विमलमिति ततोन्याङ्गसङ्गं विहाय । १०१३३ घ्राणं वंशाभिरामं परिमलनिरतं चक्षुषोर्मध्यभागे १०१३४ नित्यं लीनं न चास्मिन्मृगसि नयनयोः श्वासमामुञ्च खिन्ने ॥ १०१४१ एतत्तस्य मुखात्कियत्कमलिनीपत्त्रे कणं पाथसो १०१४२ यन्मुक्ताफलमित्यमंस्त स जडः शृण्वन्यदस्मादपि । १०१४३ अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस् १०१४४ तत्रोड्डीय गते हहेत्यनुदिनं निद्राति नान्तःशुचा ॥ १०१५१ आस्तेत्रैव सरस्यहो बत कियान्संतोषपक्षग्रहो १०१५२ हंसस्यास्य मनाङ्न धावति मतिः श्रीधाम्नि पद्मे क्वचित् । १०१५३ सुप्तोद्यापि विबुध्यते न तदितस्तावत्प्रतीक्षामहे १०१५४ वेलामित्युषसि प्रिया मधुलिहः सोढुं तु एव क्षमाः ॥ १०१६१ वाताहारतया जगद्विषधरैराश्वास्य निःशेषितं १०१६२ ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः । १०१६३ तेपि क्रूरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर् १०१६४ दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥ १०१७१ नामाप्यन्यतरोर्निमीलितमभूत्तत्तावदुन्मीलितं १०१७२ प्रस्थाने स्खलतः स्ववर्त्मनि विधेरन्यैर्गृहीतः करः । १०१७३ लोकश्चायमदृष्टदर्शनदशादृग्वैशसादुद्धृतो १०१७४ युक्तं काष्ठिक लूनवान्यदसितामाम्रालिमाकालिकीम् ॥ १०१८१ ऊढा येन महाधुरः सुविषमे मार्गे सदैकाकिना १०१८२ सोढो येन कदाचिदेव न निजे गोष्ठेन्यशौण्डध्वनिः । १०१८३ आसीद्यश्च गवां गणस्य तिलकस्तस्यैव संप्रत्यहो १०१८४ धिक्कष्टं धवलस्य जातजरसो गोः पण्यमुद्धोष्यते ॥ १०१९१ भेकेन क्वणता सरोषपरुषं यत्कृष्णसर्पानने १०१९२ दातुं कर्णचपेटमुज्झितभिया हस्तः समुल्लासितः । १०१९३ यच्चाधोमुखमक्षिणी पिदधता नागेन तत्र स्थितं १०१९४ तत्सर्वं विषमन्त्रिणो भगवतः कस्यापि लीलायितम् ॥ १०२०१ नित्यं तीर्थे निवासः प्रकृतिरतितरां स्निग्धमुग्धस्वभावा १०२०२ वृत्तिर्दैवाद्धि वक्त्रे गगननिपतितैर्निर्मलैर्वारिलेशैः । १०२०३ इत्थं सर्वं विलोक्य प्रकटमिह तिमे मुग्धलोकेन लोके १०२०४ साधुत्वं दर्शितं ते बहिरबहिरमी कण्टकाः केन दृष्टाः ॥ १०२११ मृत्योरास्यमिवाततं धनुरमी चाशीविषाभाः शराः १०२१२ शिक्षा सापि जितार्जुना प्रतिभयं सर्वाङ्गनिम्ना गतिः । १०२१३ अन्तः क्रौर्यमहो शठस्य मधुरं हा हारि गेयं मुखे १०२१४ व्याधस्यास्य यथा भविष्यति तथा मन्ये वनं निर्मृगम् ॥ १०२२१ धिग्व्योम्नो महिमानमेतु दलशः प्रोच्चैस्तदीयं पदं १०२२२ निन्द्यां दैवगतिं प्रयात्वभवनिस्तस्यास्तु शून्यस्य वा । १०२२३ येनोत्क्षिप्तकरस्य नष्टमहसः श्रान्तस्य संतापिनो १०२२४ मित्रस्यापि निराश्रयस्य न कृतं धृत्यै करालम्बनम् ॥ १०२३१ दिग्दाहैकरते वनान्तकर ते ज्वाला न मे रोचते १०२३२ दुग्धं स्वाश्रयमुद्यतस्य भवतो नेच्छन्ति वृद्धिं जनाः । १०२३३ मूलान्यस्य महीभृतो दलयितुं दुर्वेधसा निर्मितः १०२३४ को वा न त्वयि शङ्कते खल जगत्खेदावहे दाव हे ॥ १०२४१ क्षुत्क्षामेण कथं कथंचिदनिशं गात्रं कृशं बिभ्रता १०२४२ भ्रान्तं येन गृहे गृहे गृहवतामुच्छिष्टपिण्डार्थिना । १०२४३ अस्थ्नः खण्डमवाप्य दैवपतितं शून्यां त्रिलोकीमिमां १०२४४ मन्वानो धिगहो स एव सरमापुत्रोद्य सिंहायते ॥ १०२५१ शुष्कस्नायुवसावसेकमलिनं निर्मांसमप्यस्थि गोः १०२५२ श्वा लब्धा परितोषमेति न तु तत्तस्य क्षुधः शान्तये । १०२५३ सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं १०२५४ सर्वः कृछ्रगतोपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ १०२६१ कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता १०२६२ धाराजर्जरकेसरास्फुटरुचः पद्मा निमिग्ना जले । १०२६३ सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः १०२६४ कष्टं तादृगपि स्वभावविमलं वृद्छ्यैव नष्टं सरः ॥ १०२७१ ये संतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो १०२७२ येप्येते धनलोभसंकुलधियस्तेषां तु दूरे नृणाम् । १०२७३ इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदां १०२७४ स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १०२८१ द्रव्याणामधरोत्तरव्यतिकरो भग्नाशयानामधो १०२८२ बीजानां नयनं स्वयं च निजवच्छिद्रक्रियान्वेषणम् । १०२८३ व्यूहाबन्धविधायिभिर्गतभयैर्मुग्धप्रसुप्तार्भकं १०२८४ शून्यं प्राप्य निवासमाखुभिरहो किं किं न यद्यत्कृतम् ॥ १०२९१ अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं १०२९२ कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते । १०२९३ विन्यस्य त्रिजगन्ति कुक्षिकुहरे देवेन यस्यास्यते १०२९४ शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसम् ॥त्रिविक्रमस्य १०३०१ त्रैलोक्योपकृतिप्रसक्तमनसो देवस्य शंभोः प्रिया १०३०२ जाता शैलकुले वरैरभिमतैरानन्दयन्ती सुरान् । १०३०३ म्लेच्छानामपि वाञ्छितार्पणपरा स्वस्यास्पदस्याम्बिका १०३०४ विन्ध्यस्योन्नतिमातनोति न निजां दैवस्य कीदृग्बलम् ॥भा. अमृतदत्तस्य १०३११ किं त्वं हालिक मूढधीर्हतफलं मा मा कृथा लाङ्गलं १०३१२ क्षेत्रं नैव भवत्यधः कठिनता नैवात्र दृष्टा त्वया । १०३१३ उल्लेखोपि न जायतेत्र विरम क्लेशः फलं केवलं १०३१४ निर्बीजा बहवो गताश्च सततं दृष्टाः श्रुता वा न किम् ॥कस्यापि १०३२१ कोयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजातं १०३२२ तेजस्विव्रातसेव्ये नभसि नयसि यत्पांसुपूरं प्रतिष्ठाम् । १०३२३ यस्मिन्नुत्थाप्यमाने जननयनपथोपद्रवस्तावदास्तां १०३२४ केनोपायेन सह्यो वपुषि मलिनतादोष एष त्वयैव ॥भा. अमृतदत्तस्य १०३३१ जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं १०३३२ श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् । १०३३३ संजातव्यर्थपक्षाः परहितकरणे नोपरिष्टान्न चाधो १०३३४ ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥कस्यापि १०३४१ कटु रटसि किमेवं कर्णयोः कुञ्जरारे १०३४२ रविदितनिजबुद्धे किं न विज्ञातमस्ति । १०३४३ शिरतरकरदंष्ट्राटङ्कनिर्भिन्नकुम्भं १०३४४ मशक गलकरन्ध्रे हस्तियूथं ममज्ज ॥कस्यापि १०३५१ उद्रर्जन्कुटिलस्तटाश्रयतरुप्रोन्मूलनोड्डामरो १०३५२ मा गर्वीः सरितः प्रवाह जलधिं प्रक्षोभयामीति भोः । १०३५३ स्वां सत्तां यदि वाञ्छसि भ्रम मरुष्वेवाःस्व तत्रैव वा १०३५४ दूरे वाडववह्निरत्र तु महासत्त्वैर्विशन्पीयसे ॥ १०३६१ स्थैर्यं तुङ्गशिरा जगत्स्थितिकृते वेलामहीभृच्छ्रितो १०३६२ दूरात्प्रेरणया कलावत इमं क्रान्तुं जलानां पते । १०३६३ मिथ्या वाञ्छसि किं ततस्तव परं स्याद्रत्नसत्त्वक्षयो १०३६४ नूनं घट्टनमाप्य पादतलगस्त्वस्यैव चान्ते लुठेः ॥ १०३७१ आन्दोलयस्यविरतं गगनार्कमङ्के १०३७२ तारागणं च शशिनं च तथेतराणि । १०३७३ तेजांसि भासुरतडित्प्रभृतीनि साधो १०३७४ चित्रं तथापि न जहासि यदान्ध्यमन्तः ॥ १०३८१ अयं स भुवनत्रयप्रथितसंयमः शंकरो १०३८२ बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । १०३८३ अनेन किल निर्जिता वयमिति प्रियायाः करं १०३८४ करेण परिपीडयञ्जयति जातहासः स्मरः ॥ १०३९१ भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपव्योमलक्ष्मीमुषो ये १०३९२ क्षीवा ये कृष्णशारा नरहृदयभिदस्तारकक्रूरशल्याः । १०३९३ ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः १०३९४ पायासुर्वोतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥ १०४०१ गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । १०४०२ ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥