नमो बुद्धाय नानाकवीन्द्रवचनानि मनोहराणि संख्यावतां परमकण्ठविभूषणानि । आकम्पकानि शिरसश्च महाकवीनां तेषां समुच्चयमनर्घमहं विधास्ये ॥ ०.१ *(१) ॥ सुगतव्रज्या आबाहूद्गतमण्डलाग्ररुचयः संनद्धवक्षःस्थलाः सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिनः कर्कशाः । उत्सृष्टाम्बरदृष्टविग्रहभरा यस्य स्मराग्रेसरा मारा मारवधूस्तनाश्च न दधुः क्षोभं स वोऽव्याज्जिनः ॥ १.१ *(२) ॥ अश्वघोषस्य नम्राः पादनखेषु यस्य दशसु ब्रह्मेशकृष्णास्त्रयस्ते देवाः प्रतिबिम्बनात्त्रिदशतां सुव्यक्तमापेदिरे । स त्रैलोक्यगुरुः सुदुस्तरभवाकूपारपारंगतो मारव्यूहजयप्रगल्भसुभटः शास्ता तव स्तान्मुदे ॥ १.२ *(३) ॥ वसुकल्पस्य कामक्रोधौ द्वयमपि पदं प्रत्यनीकं वशित्वे हत्वानङ्गं किमिव हि रुषा साधितं त्र्यम्बकेण । यस्तु क्षान्त्या शमयति शतं मन्मथाद्यानरातीन् कल्याणं वो दिशतु स मुनिग्रामणीरर्कबन्धुः ॥ १.३ *(४) ॥ संघश्रियः श्रेयांसि वः स सुगतः कुरुतादपार संसारसागरसमुत्तरणैकसेतुः । दुर्वारमारपरिवारबलावलेप कल्पान्तसंततपयःप्रसरैरहार्यः ॥ १.४ *(५) ॥ अपराजितरक्षितस्य शास्ता समस्तभुवनं भगवानपायात्पायादपास्ततिमिरो मिहिरोपमेयः । संसारभित्तिभिदुरो भवकन्दकन्दु कन्दर्पदर्पदलनव्यसनी मुनीन्द्रः ॥ १.५ *(६) ॥ वसुकल्पस्य कारुण्यामृतकन्दलीसुमनसः प्रज्ञान्वधूमौक्तिक ग्रीवालंकरणश्रियः शमसरित्पूरोत्सलच्छीकराः । ते मौलौ भवतां मिलन्तु जगतीराज्याभिषेकोचित स्रग्भेदा अभयप्रदानचरणप्रेङ्खन्नखाग्रांशवः ॥ १.६ *(७) ॥ शीलाम्भःपरिषेकशीतलदृढध्यानालवालस्फुरद्दानस्कन्धमहोन्नतिः पृथुतरप्रज्ञोल्लसत्पल्लवः । देयात्तुभ्यमवार्यवीर्यविटपः क्षान्तिप्रसूनोदयः सुच्छायः षडभिज्ञकल्पविटपी सम्बोधिबीजं फलम् ॥ १.७ *(८) ॥ एतौ श्रीधरनन्दिनः एकस्यापि मनोभुवस्तदबलापाङ्गैर्जगन्निर्जये कामं निह्नुतसर्वविस्मयरसव्यक्तिप्रकारा वयम् । यस्त्वेनं सबलं च जेतुमभितस्तत्कम्पमात्रं भ्रुवोर्नारेभे सुगतस्तु तद्गुणकथा स्तम्भाय नः केवलम् ॥ १.८ *(९) ॥ कुमुदाकरमतेः प्रत्येकानन्तजातिप्रतिवपुरमितावृत्तिजम्भार्जितैनो भोक्तृव्रातोज्जिहीर्षाफलनिलयमहापौरुषस्यापि शास्तुः । केऽप्युत्कर्षं स्तुवन्ति स्मरमपि जयतस्तद्वदामः किमस्मिन् यो भस्मासीत्कटाक्षज्वलनकणिकया द्रागुमाकामुकस्य ॥ १.९ *(१०) ॥ वल्लणस्य पायाद्वः समयः स मारजयिनो वन्ध्यायितास्त्रोत्करः क्रोधाद्यत्र तदुत्तमाङ्गकवलोन्मीलन्महाविक्रमः । आसीदद्भुतमौलिरत्नमिलितां व्यात्ताननच्छायिकामालोक्यात्मन एव मारसुभटः पर्यस्तधैर्योदयः ॥ १.१० *(११) ॥ ।वर्{॰सुभटः।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰सुमटः ।ेद्क्ग्} श्रीपार्श्ववर्मणः खेलाचञ्चलसंचरन्निजपदप्रेङ्खोललीलामिलत्सद्यःसान्द्रपरागरागरचितापूर्वप्रसूनश्रियः । आश्लिष्यन्मधुलम्पटालिनिवहस्योच्चैर्मिथश्चुम्बनैर्व्याकोषः कुसुमाञ्जलिर्दिशतु वः श्रेयो जिनायार्पितः ॥ १.११ *(१२) ॥ जितारिनन्दिनः दरोन्मुक्तारक्तस्फुरदधरवीथीक्रमवमन्मयूखान्तर्मूर्च्छद्द्युतिदशनमुद्देशवशिनः । सुखं तद्वः शास्तुर्दिशतु शिवमज्ञानरजनी व्यवच्छेदोद्गच्छन्महिमघनसंध्यातप इव ॥ १.१२ *(१३) ॥ ।वर्{॰धर॰।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰घर॰ ।ेद्क्ग्} त्रिलोचनस्य कन्दर्पादपि सुन्दराकृतिरिति प्रौढोत्सलद्रागया वृद्धत्वं वरयोषितोऽनयदिति त्रासाकुलस्वान्तया । मारस्यापि शरैरभेद्यहृदिति श्रद्धाभरप्रह्वया पायाद्वः स्फुटबाष्पकम्पपुलकं रत्या जिनो वन्दितः ॥ १.१३ *(१४) ॥ तस्यैवेति श्रुतिः पादाम्भोजसमीपसंनिपतितस्वर्णाथदेहस्फुरन्नेत्रस्तोमतया परिस्फुटमिलन्नीलाब्जपूजाविधिः । वन्दारुत्रिदशौघरत्नमुकुटोद्भूतप्रभापल्लव प्रत्युन्मीलदपूर्वचीवरपटः शाक्यो मुनिः पातु वः ॥ १.१४ *(१५) ॥ वसुकल्पस्य क एकस्त्वं पुष्पायुध मम समाधिव्ययविधौ सुपर्वाणः सर्वे यदि कुसुमशस्त्रास्तदपि किम् । इतीवैनान्नूनं य इह सुमनोस्त्रत्वमनयत्स वः शास्ता शस्त्रं दिशतु दशदिङ्मारविजयी ॥ १.१५ *(१६) ॥ ।चोलो इति सुगतव्रज्या ततो लोकेश्वरव्रज्या॥ २ द्युतिस्वच्छज्योत्स्नापटपटलवृष्ट्या न कमलं न चन्द्रः सान्द्रश्रीपरिमलगरिम्णास्यममलम् । मधूद्राणां निद्राभिदुरमपमुद्राद्भुतमुदश्चकोरान् बिभ्राणं सरसिरुहपाणेरवतु वः ॥ २.१ *(१७) ॥ बुद्धाकरगुप्तस्य वरदकरसरोजस्यन्दमानामृतौघ व्युपशमितसमस्तप्रेतसंघाततर्षः । जयति सितगभस्तिस्तोमशुभ्राननश्रीः सहजगुरुदयार्द्रालोकनो लोकनाथः ॥ २.२ *(१८) ॥ रत्नकीर्तेः अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः । श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥ २.३ *(१९) ॥ ज्ञानश्रीमित्रस्य कृपावृष्टिस्फूतात्तव हृदयपीयूषसरसः प्रवाहो निर्गत्य क्रमतनिमरम्यः करुणया । तृषार्तानामीषद्विततमधरान्तः प्रति गति प्रणालीभिः पञ्चाभवदिति किमन्यद्भुजकरात् ॥ २.४ *(२०) ॥ ।वर्{॰द्विततमधरान्तः प्रति गति॰।लेम् ।चोन्ज् । ।िन्गल्ल्स्, ॰द्विततिमधुरान्तःप्रतिगति॰ ।ेद्क्ग्} त्रिलोचनस्य रविमिव धृतामिताभं कविमिव सुरसार्थविरचितस्तोत्रम् ।* मधुमिव सम्भृतकरुणं विधुमिव नाथं खसर्पणं वन्दे ॥ २.५ *(२१) ॥* पुरुषोत्तमस्य उदरस्येदमणुत्वं सहजगुरुत्वं यदि नेदं हृदयस्य ।* स्वार्थे कथमलसत्वं कथमनुसत्वं हितकरणे मतिरस्य ॥ २.६ *(२२) ॥* ज्ञानश्रीमित्रस्य वक्त्रं नैष कलानिधिर्धवलिमा नैषोज्ज्वला कौमुदी नेत्रे नीररुची न लाञ्छनयुगं चन्द्रेऽस्त्यमन्दच्छवि । इत्युन्नीय विधोरभीतिविहसद्यत्संनिधिं साध्वगान्नूनं नीरजमस्तु वः शिवदिवे तल्लोकनाथाननम् ॥ २.७ *(२३) ॥ जटाजूटाभ्यन्तर्नवरविरिव श्यामजलभृद्वृतः शोणाशोकस्तबकममिताभः प्रमिनुते । महर्षेर्यस्येन्दुद्युतिघटितमूर्तेरिव स वः क्लमं भिन्द्याद्दद्यात्प्रशमसुखपीयूषलहरीम् ॥ २.८ *(२४) ॥ बुद्धाकरस्यैतै ।चोलो इति लोकेश्वरव्रज्या॥ २ ततो मञ्जुघोषव्रज्या॥ ३ अङ्गामोदसमोच्छ्वलद्घृणिपतद्भृङ्गावलीमालितः स्फूर्जत्काञ्छनसूत्रगुम्फितमिलन्नीलोत्पलश्रीरिव । निर्यत्पादनखोन्मुखांशुविसरस्रग्दन्तुरः स्मर्यतां मञ्जुश्रीः सुरमुक्तमञ्जरिशिखावर्षैरिवाभ्यर्चितः ॥ ३.१ *(२५) ॥ ।वर्{॰मालितः स्फूर्जत्काञ्छन॰।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰मालितस्फूर्जल्लाञ्छन॰ ।ेद्क्ग्} शस्त्रोद्यद्बाहुदेहस्फुरदनलमिलद्धूमकल्पान्तपुञ्जः शृङ्गान्तानन्तविश्वार्पितमहिषमहिषशिरोमक्षिकालीविकल्पः । त्रासत्यक्तस्वपर्णास्तृतसुरघृणयेवालसत्पादवृन्दस्तारौघप्लुष्टभानुर्जगदवतु नटन् भैरवात्मा कुमारः ॥ ३.२ *(२६) ॥ वल्लणस्यैतौ खड्गी सशब्दमथ पुस्तकवान् सचिन्तं बालः सखेलमभिरामतमः सकामम् । नानाविधं सुरवधूभिरितीक्षितो वः पायाच्चिरं सुगतवंशधरः कुमारः ॥ ३.३ *(२७) ॥ पुरुषोत्तमस्य मुग्धाङ्गुलीकिशलयाङ्घ्रिसुवर्णकुम्भ वान्तेन कान्तिपयसा धुसृणारुणेन । यो वन्दमानमभिषिञ्चति धर्मराज्ये जागर्तु वो हितसुखाय स मञ्जुवज्रः ॥ ३.४ *(२८) ॥ जितारिपादानाम् अमीषां मञ्जुश्रीरुचिरवदनश्रीकृतरुचां श्रुतं नो नामापि क्व नु खलु हिंाशुप्रभृतयः । ममाभ्यर्णे धार्ष्ट्याच्चरति पुनरिन्दीवरमिति क्रुधेवेदं प्रान्तारुणमवतु वो लोचनयुग्मम् ॥ ३.५ *(२९) ॥ न्बिन्गल्ल्स्चोन्जेच्तुरेस्हिमांशुप्रकृतयः इन् ब् शान्ताकरगुप्तस्य ।चोलो इति मञ्जुघोषव्रज्या ततो महेश्वरव्रज्या॥ ४ शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर्यश्चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते । त्रींल्लोकानिव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं स त्रैगुण्यपरिच्छदो विजयते देवस्त्रिशूलायुधः ॥ ४.१ *(३०) ॥ वसुकल्पस्य ।वर्{गुरोर् ।लेम् ।चोन्ज् । ।िन्गल्ल्स्, गिरो ।ेद्क्ग्} बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे । नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥ ४.२ *(३१) ॥ ।वर्{विद्राति।लेम् ।चोन्ज् । ।िन्गल्ल्स्, निद्राति॰ ।ेद्क्ग्} पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः । यो बिम्बप्रतिपूरणाय विधृतो निष्पीड्य संदंशिका यन्त्रे शैवललाटलोचनशिखाज्वालाभिराबर्ह्यते ॥ ४.३ *(३२) ॥ मुरारेरेतौ भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते । इत्याहुर्मिलिताः परस्परममूर्यस्मिन् प्रशान्तिं गते कल्पान्तारभटीनटस्य भवतात्तद्वः श्रिये ताण्डवम् ॥ ४.४ *(३३) ॥ देवि त्वद्वदनोपमानसुहृदामेषां सरोजन्मनां पश्य व्योमनि लोहितायति शनैरेषा दशा वर्तते । इत्थं संकुचदम्बुजानुकरणव्याजोपनीताञ्जलेः शम्भो वञ्चितपार्वतीकमुचितं संध्यार्चनं पातु वः ॥ ४.५ *(३४) ॥ राजशेखरस्य कस्मात्पार्वति निष्ठुरासि सहजः शैलोद्भवानामयं निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् । कोपस्ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेदित्थं निर्वचनीकृतो गिरिजया शम्भुश्चिरं पातु वः ॥ ४.६ *(३५) ॥ वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान् । नमञ्जन्मन्यस्मिन्नहमतनुरग्रेऽप्यनतिभाङ्महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥ ४.७ *(३६) ॥ किं वाच्यो महिमा महाजलनिधेर्यस्येन्द्रवज्राहतस्त्रस्तो भूभृदमज्जदम्बुनिचये कौलीलपोताकृतिः । मैनाकोऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ४.८ *(३७) ॥ न्ब्= १२०८ बेलोw! ।वर्{॰विलुठत्पाठीन॰।लेम् ।ेमेन्द्, ॰विलुठन् पाठीन॰ ।ेद्क्ग्} तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिरभ्रंकषैस्तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्तादियम् । यस्य स्फारफणामणौ निलयनान्मज्जत्कलङ्काकृतिः शेषः सोऽप्यगमद्यदङ्गदपदं तस्मै नमः शम्भवे ॥ ४.९ *(३८) ॥ एतौ वल्लणस्य गाढग्रन्थिप्रफुल्लद्गलविकलफणापीडनिर्यद्विषाग्नि ज्वालानिस्तप्तचन्द्रद्रवदमृतरसप्रोषितप्रेतभावाः । उज्जृम्भा बभ्रुनेत्रद्युतिमसकृदसृक्तृष्णयालोकयन्त्यः पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो भैरवस्य ॥ ४.१० *(३९) ॥ तस्यैव ।वर्{॰फणापीड॰।लेम् ।िन्गल्ल्स्, ॰फणपीठ॰ ।ेद्क्ग्} बभ्रुभ्रूश्मश्रुकेशं शिखरमिव गिरेर्लग्नदावाग्निमालं नेत्रैः पिङ्गोग्रतारैस्त्रिभिरिव रविभिश्छिद्रितः कालमेघः । दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्वघं दक्षिणं वः ॥ ४.११ *(४०) ॥ ।वर्{हन्त्वघं।लेम् ।ेमेन् ।िन्गल्ल्स्, हन्त्वधम् ।ेद्क्ग्} रक्षोविभीषणस्य उद्दामदन्तरुचिपल्लवितार्धचन्द्र ज्योत्स्नानिपीततिमिरप्रसरोपरोधः । श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो अम्भोधरावलिघनध्वनिरट्टहासः ॥ ४.१२ *(४१) ॥ राजगुरुसंघश्रियः त्वङ्गद्गङ्गमुदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति । पायाद्वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ॥ ४.१३ *(४२) ॥ नखदर्पणसंक्रान्त प्रतिमादशकान्वितः । गौरीपादानतः शम्भुर्जयत्येकादशः स्वयम् ॥ ४.१४ *(४३) ॥ चूडापीडकपालसंकुलपतन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः । पान्तु त्वामकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः ॥ ४.१५ *(४४) ॥ भवभूतेः स जयति गाङ्गजलौघः शम्भोरुत्तुङ्गमौलिविनिविष्टः ।* मज्जति पुनरुन्मज्जति चन्द्रकला यत्र शफरीव ॥ ४.१६ *(४५) ॥* स वः पायादिन्दुर्नवबिसलताकोटिकुटिलः स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः । स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥ ४.१७ *(४६) ॥ च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया । अवोचद्यं पश्येत्यवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ॥ ४.१८ *(४७) ॥ नमस्तुङ्गशिरश्चुम्बि चन्द्रचामरचारवे । त्रैलोक्यनगरारम्भ मूलस्तम्भाय शम्भवे ॥ ४.१९ *(४८) ॥ क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानांशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः ॥ ४.२० *(४९) ॥ बाणस्य संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः । येषामुच्छलतां जवेन झगिति व्यूहेषु भूमीभृतामुड्डीनेषु बिडौजसा पुनरसौ दम्भोलिरालोकितः ॥ ४.२१ *(५०) ॥ केशेषु प्राक्प्रदीपस्त्वचि विकटचटत्कारसारोऽतिमात्रं मांसे मन्दायमानः क्षरदसृजि सृजन्नस्थिषु ष्ठात्कृतानि । मज्जप्रायेऽङ्गभागे झगिति रतिपतेर्जाज्वलन् प्रज्ज्वलश्रीरश्रेयो व्यस्यताद्वस्त्रिनयननयनोपान्तवान्तो हुताशः ॥ ४.२२ *(५१) ॥ पायात्पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुरान्दोलितः । धत्तेऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः ॥ ४.२३ *(५२) ॥ न्बिन्गल्ल्स्चोन्जेच्तुरेस्सार्केन्दुः इन् ब् कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश्चूडाभुजगफणरत्नव्यतिकरे । मृदुर्लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद्दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः ॥ ४.२४ *(५३) ॥ शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् । विश्वं स्रक्ष्यति रक्षति क्षितिमपामीशिष्यते शिष्यते नागई रागिषु रंस्यते स्यति जगन्निर्वेक्ष्यति द्यामिति ॥ ४.२५ *(५४) ॥ ।वर्{नाति॰।लेम् ।ेमेन् ।िन्गल्ल्स्, नेति॰ ।ेद्क्ग्} न्बिन्गल्ल्स्चोन्जेच्तुरेस्वक्षति ओर्रक्ष्यति fओर्रक्षति अन्द्.अशिष्यते fओर्शिष्यते इन् च्, अन्द्.अत्स्यति fओर्स्यति इन् द् भोजदेवस्य ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस्तपस्तेजसो गङ्गातुङ्गतरङ्गसर्पवसतिर्वल्मीकलक्ष्मीरिव । संध्येवार्द्रमृणालकोमलतनोरिन्दोः सहस्थायिनी पायाद्वस्तरुणारुणांशुकपिशा शम्भो जटासंहतिः ॥ ४.२६ *(५५) ॥ मौलौ वेगादुदञ्चत्यपि चरणभरन्यञ्चदुर्वीतलत्वादक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय । संत्रासान्निःसरन्त्याप्यविरतविसरद्दक्षिणार्धानुबन्धादत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस्ते ॥ ४.२७ *(५६) ॥ बाणस्य पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोरन्तःप्राणावरोधादुपरतसकलध्यानरुद्धेन्द्रियस्य । आत्मन्यात्मानमेव व्यपगतकरणं पश्यतस्तत्त्वदृष्ट्या शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ॥ ४.२८ *(५७) ॥ ।वर्{शून्येक्ष्.अन॰।लेम् ।ेमेन् ।िन्गल्ल्स्, शूण्यक्षण॰ ।ेद्क्ग्} पायाद्बालेन्दुमौलेरनवरतभुजावृत्तिवातोर्मिवेग भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् । न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः ॥ ४.२९ *(५८) ॥ ।वर्{बालेन्दु॰।लेम् ।ेमेन् ।िन्गल्ल्स्, वारेन्दु॰ ।ेद्क्ग्} मातर्जीव किमेतदञ्जलिपुटे तातेन गोपायितं वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् । मात्रैवं प्रहिते गुहे विघटयत्याकृष्य संध्याञ्जलिं शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ॥ ४.३० *(५९) ॥ एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं नात्युच्चैर्नम कुञ्चयाग्रचरणौ मां पश्य तावत्क्षणम् । एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास्तालिकाः ॥ ४.३१ *(६०) ॥ संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् । आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥ ४.३२ *(६१) ॥ मयूरस्य जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं फणीन्द्रोऽपि स्कन्धादवतरति लीलाञ्चितफणः । वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं यदा शम्भुश्चुम्बत्यचलदुहितुर्वक्त्रकमलम् ॥ ४.३३ *(६२) ॥ राजशेखरस्य नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः शीघ्रभ्रान्तिवशाल्ललाटनयनाकालतपाद्भीषणः । मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ॥ ४.३४ *(६३) ॥ स पातु विश्वमद्यापि यस्य मूर्ध्नि नवः शशी । गौरीमुखतिरस्कार लज्जयेव न वर्धते ॥ ४.३५ *(६४) ॥ धर्मपालस्य दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं साश्चर्यं विषमेक्षणोऽयमिति च त्रस्तं कपालीति च । मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः पार्वत्या सभयं भुजङ्गवलयीत्यालोकितः पातु वः ॥ ४.३६ *(६५) ॥ विनयदेवस्य फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते ।* अवताद्वो हरगुहयोरुभयपरित्राणकातरता ॥ ४.३७ *(६६) ॥* ।वर्{॰भय॰।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰मय॰ ।ेद्क्ग्} जातार्धवर्धनस्य सिन्दूरश्रीर्ललाटे कनकरसमयः कर्णपार्श्वेऽवतंसो वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः । दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीरश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः ॥ ४.३८ *(६७) ॥ मङ्गलस्य पायाद्वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् । सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल त्रासत्रस्तसुराङ्गनाकलकलव्रीडाविलक्षो हरः ॥ ४.३९ *(६८) ॥ कर्कराजस्य पुरस्तादानम्रत्रिदशपतिगारुत्मतमणेर्वतंसत्रासार्तेरपसरति मौञ्जीफणिपतौ । पुरारिः संवृण्वन् विगलदुपसंव्यानमजिने पुनीताद्वः स्मेरक्षितिधरसुतापाङ्गविषयः ॥ ४.४० *(६९) ॥ धर्माशोकस्य जीर्णेऽप्युत्कटकालकूटकवले दग्धे हठान्मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले । यः शक्त्या समलंकृतोऽपि शशिनं श्रीशैलजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात्स वः शंकरः ॥ ४.४१ *(७०) ॥ कविराजस्य ।चोलो इति श्रीमहेश्वरव्रज्या ततस्तद्वर्गव्रज्या देवी सूनुमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटावयाचितगिरा चामुण्डयालिङ्गिते । अव्याद्वो हतदेवदुन्दुभिघनध्वानातिरिक्तस्तयोरन्योन्यप्रचलास्थिपञ्जररणत्कङ्कालजन्मा रवः ॥ ५.१ *(७१) ॥ योगेश्वरस्य रक्षतु वः स्तनयुगलं हरिकरिकुम्भानुकारि गिरिदुहितुः ।* शंकरदृढकण्ठग्रहपीडनभस्माङ्गरागविच्छुरितम् ॥ ५.२ *(७२) ॥* सावष्टम्भनिशुम्भसम्भ्रमनमद्भूगोलनिष्पीडन न्यञ्चत्कर्परकूर्मकम्पविचटद्ब्रह्माण्डखण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे नन्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम् ॥ ५.३ *(७३) ॥ भो भो दिक्पतयः प्रयात परतः खं मुञ्चताम्भोमुचः पातालं व्रज मेदिनि प्रविशत क्षोणीतलं क्ष्माभृतः । ब्रह्मन्नुन्नय दूरमात्मसदनं देवस्य मे नृत्यतः शम्भोः संकटमेतदित्यवतु वः प्रोत्सारणा नन्दिनः ॥ ५.४ *(७४) ॥ खेदास्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो कस्माद्वेपितमेतदिन्दुवदने भोगीन्द्रभीतेर्भव । रोमाञ्चः कथमेष देवि भगवन् गङ्गाम्भसां शीकरैरित्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥ ५.५ *(७५) ॥ लक्ष्मीधरस्य आर्द्रां कण्ठे मुखाब्जस्रजमवनमयत्यम्बिका जातुलम्बां स्थाने कृत्वेन्दुलेखां निबडयति जटाः पन्नगेन्द्रेण नन्दी । कालः कृत्तिं निबध्नात्युपनयति करे कालरात्रिः कपालं शम्भो नृत्यावतारे परिषदिति पृथग्व्यापृता वः पुनातु ॥ ५.६ *(७६) ॥ शतानन्दस्य शृङ्गं भृङ्गिं विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं मन्दानन्दोऽसि नन्दिन्नलमबल महाकाल कण्ठग्रहेण । इत्युक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले पश्यन्नक्षैर्विलक्षं वलितगलचलत्कम्बलं त्र्यबकं वः ॥ ५.७ *(७७) ॥ गौरीविभज्यमानार्ध संकीर्णे हरमूर्धनि । अम्ब द्विगुणगम्भीरे भागीरथि नमोऽस्तु वः ॥ ५.८ *(७८) ॥ देवस्याम्बुजसम्भवस्य भवनादम्भोधिमागामुका सेयं मौलिविभूषणं भगवतो भर्गस्य भागीरथी । उद्यातानपहाय विग्रहमिह स्रोतःप्रतीपानपि स्रोतस्तीव्रतरत्वरा गमयति द्राग्ब्रह्मलोकं जनान् ॥ ५.९ *(७९) ॥ प्रातः कालाञ्जनपरिचितं वीक्ष्य जामातुरोष्ठं कन्यायाश्च स्तनमुकुलयोरङ्गुलीभस्ममुद्राः । प्रेमोल्लासाज्जयति मधुरं सस्मिताभिर्वधूभिर्गौरीमातुः किमपि किमपि व्याहृतं कर्णमूले ॥ ५.१० *(८०) ॥ शुभाङ्गस्य लाक्षारागं हरति शिखराज्जाह्वनीवारि येषां ये तन्वन्ति श्रियमधिजटामण्डलं मालतीनाम् । यात्युत्सर्पद्विमलकिरणैर्यैस्तिरोधानमिन्दुर्देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥ ५.११ *(८१) ॥ दक्षस्य मिश्रीभूतां तव तनुलतां बिभ्रतो गौरी कामं देवस्यासीदविरलपरिरम्भजन्मा प्रमोदः । किं तु प्रेमस्तिमितमधुरसिन्ग्धमुग्धा न दृष्टिर्दृष्टेत्यन्तःकरणमसकृत्ताम्यति त्र्यम्बकस्य ॥ ५.१२ *(८२) ॥ अव्याद्वो वलिकाङ्घ्रिपातविचलद्भूगोलहेलोन्मुख भ्राम्यद्दिक्करिकल्पितानुकरणो नृत्यन् गणग्रामणीः । यस्योद्दण्डितशुण्डपुष्करमरुद्व्याकृष्टसृष्टं मुहुस्ताराचक्रमुदक्तशीकरपृषल्लीलामिवाभ्यस्यति ॥ ५.१३ *(८३) ॥ राजशेखरस्य सानन्दं नन्दिहस्ताहतमुरजरवाहूतकौमारबर्हि त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसंकोचभाजि । गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणेर्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ॥ ५.१४ *(८४) ॥ भवभूतेः यदम्बा तातो वा द्वयमिदमगादेकतनुतां तदर्धं चार्धं च क्व नु गतमथार्यः कथयतु । जगत्तत्तज्जातं सकलनरनारीमयमिति प्रतीतिं कुर्वाणो जयति शिखिभर्तुर्गजमुखः ॥ ५.१५ *(८५) ॥ भवजलधिजलावलम्बयष्टिर्महिषमहासुशैलवज्रधारा ।* हरहृदयतडागराजहंसी दिशतु शिवं जगतश्चिरं भवानी ॥ ५.१६ *(८६) ॥* भगीरथस्य शूलाहतमहिषासुररुधिरच्छुरिताधराम्बरा गौरी ।* पुष्पवतीव सलज्जा हसितहरनिरीक्षिता जयति ॥ ५.१७ *(८७) ॥* गोनन्दस्य प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनन्यस्तया दृष्टाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् । उन्मादस्मितरोषलज्जितमसौ गौर्या कथंचिच्चिराद्वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ ५.१८ *(८८) ॥ न्बिन्गल्ल्स्चोन्जेच्तुरे ॰लज्जितरसैस्fओर्॰लज्जितमसौ इन् च् शिखिपतिरतिदुर्लडितः पित्रोरभिलषति मध्यमधिशयितुम् ।* तावप्येकशरीराविति विषमाशश्चिरं जयति ॥ ५.१९ *(८९) ॥* अम्बेयं नेयमम्बा न हि खरकपिशं श्मश्रु तस्या मुखार्धे तातोऽयं नैष तातः स्तनमुरसि पितुर्दृष्टवान्नाहमत्र । केयं कोऽयं किमेतद्युवतिरथ पुमान् वस्तु किं स्यात्तृतीयं शम्भोः संवीक्ष्य रूपादपसरति गुहः शङ्कितः पातु युष्मान् ॥ ५.२० *(९०) ॥ स्वेच्छारम्भं लुठित्वा पितुरुरसि चिताभस्मधूलीचिताङ्गो गङ्गावारिण्यगाधे झटिति हरजटाजूटतो दत्तझम्पः । सद्यः शीत्कारकारी जलजडिमरणद्दन्तपङ्क्तिर्गुहो वः कम्पी पायादपायाज्ज्वलितशिखिशिखे चक्षुषि न्यस्तहस्तः ॥ ५.२१ *(९१) ॥ ।वर्{स्वेच्छारम्भं।लेम् ।चोन्ज् । ।िन्गल्ल्स्, स्वेच्छारम्यम् ।ेद्क्ग्} हंसश्रेणिकुतूहलेन कलयन् भूषाकपालावलीं बालामिन्दुकलां मृणालरभसादान्दोलयन् पाणिना । रक्ताम्भोजधिया च लोचनपुटं लालाटमुद्घाटयन् पायाद्वः पितुरङ्गभाक्शिशुजनक्रीडोन्मुखः षण्मुखः ॥ ५.२२ *(९२) ॥ कपोलादुड्डीनैर्भयवशविलोलैर्मधुकरैर्मदाम्भःसंलोभादुपरि पतितुं बद्धपटलैः । चलद्बर्हच्छत्रश्रियमिव दधानोऽतिरुचिरामविघ्नं हेरम्बो भवदघविघातं घटयतु ॥ ५.२३ *(९३) ॥ वसुकल्पस्य एकः स एव परिपालयताज्जगन्ति गौरीगिरीशचरितानुकृतिं दधानः । आभाति यो दशनशून्यमुखैकदेश देहार्धहारितवधूक इवैकदन्तः ॥ ५.२४ *(९४) ॥ तस्यैव अर्चिष्मन्ति विदार्य वक्त्रकुहराण्या सृक्कणो वासुकेस्तर्जन्या विषकर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् । एकं त्रीणि नवाष्ट सप्त षडिति व्यस्तास्तसंख्याक्रमा वाचः शक्तिधरस्य शैशवकलाः कुर्वन्तु वो मङ्गलम् ॥ ५.२५ *(९५) ॥ सुप्तं पक्षपुटे निलीनशिरसं दृष्ट्वा मयूरं पुरः कृत्तं केन शिरोऽस्य तात कथयेत्याक्रन्दतः शैशवात् । सान्तर्हासपिनाकिपाणियुगलास्फालोल्लसच्चेतसस्तन्मूर्धेक्षणतर्पितस्य हसितं पायात्कुमारस्य वः ॥ ५.२६ *(९६) ॥ चर्चायाः कथमेष रक्षति सदा सद्योनृमुण्डस्रजं चण्डीकेशरिणो वृषं च भुजगान् सूनोर्मयूरादपि । इत्यन्तः परिभावयन् भगवतो दीर्घं धियः कौशलं कूष्माण्डो धृतिसम्भृतामनुदिनं पुष्णाति तुन्दश्रियम् ॥ ५.२७ *(९७) ॥ ।वर्{॰स्रजं।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰स्रज ।ेद्क्ग्} कस्मात्त्वं तातगेहादपरमभिनवा ब्रूहि का तत्र वार्ता देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान् । इत्येवं बर्हिनाथे कथयति सहसा भर्तृभिक्षाविभूषा वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गरीटेः ॥ ५.२८ *(९८) ॥ तुङ्गस्यैतौ स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाणक्षमस्तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परा दृश्यते । इत्यादौ परिचिन्तितं प्रतिमुहुस्तद्भृङ्गिकूष्णाण्डयोरन्योन्यप्रतिकूलमीशशिवयोः पाणिग्रहे पातु वः ॥ ५.२९ *(९९) ॥ ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः । त्वां पातु मञ्जरितपल्लवकर्णपूर लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥ ५.३० *(१००) ॥ अचलसिंहस्य मातस्तेऽधरखण्डनात्परिभवः कापालिकाद्योऽभवत्स ब्रह्मादिषु कथ्यतामिति मुहुर्बाल्याद्गुहे जल्पति । गौरीं हस्तयुगेन षण्मुखवचो रोद्धुं निरीक्ष्याक्षमां वैलक्ष्याच्चतुरास्यनिष्फलपरावृत्तिश्चिरं पातु वः ॥ ५.३२ *(१०१) ॥ गोनासाय नियोजितागदरजाः सर्पाय बद्धौषधिः पाणिस्थाय विषाय वीर्यमहते कण्ठे मणिं बिभ्रती । भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥ ५.३२ *(१०२) ॥ न्बिन्गल्ल्स्रेअद्स्wइथोथेर्सोउर्चेस्कण्ठस्थाय...पाणौ fओर् पाणिस्थाय... कण्ठे राजशेखरस्य दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना भस्माङ्गस्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् । इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥ ५.३३ *(१०३) ॥ ।चोलो इति शिवगणव्रज्या ततो हरिव्रज्या अस्ति श्रीस्तनपत्रभङ्गमकरीमुद्राङ्कितोरःस्थलो देवः सर्वजगत्पतिर्मधुवधूवक्त्राब्जचन्द्रोदयः । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भूर्भाति स्म प्रलयाब्धिपल्वलतलोत्खातैकमुस्ताकृतिः ॥ ६.१ *(१०४) ॥ पृष्ठभ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान्निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्तनवशाद्वेलाच्छलेनाम्भसां यातायातमयन्त्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ ६.२ *(१०५) ॥ वाक्पतिराजस्यैतौ निष्प्रत्यूहमुपास्महे भगवतः कौमोदकीलक्ष्मणः कोकप्रीतिचकोरपारणपटू ज्योतिष्मती लोचने । याभ्यामर्धविबोधमुग्धमधुरश्रीरर्धनिद्रायितो नाभीपल्वलपुण्डरीकमुकुलः कम्बोः सपत्नीकृतः ॥ ६.३ *(१०६) ॥ विरमति महाकल्पे नाभीपथैकनिकेतनं त्रिभुवनपुरःशिल्पी यस्य प्रतिक्षणमात्मभूः । किमधिकरणा कीदृक्कस्य व्यवस्थितिरित्यसावुदरमविशद्द्रष्टुं तस्मै जगन्निधये नमः ॥ ६.४ *(१०७) ॥ देवि त्वं कुपिता त्वमेव कुपिता कोऽन्यः पृथिव्या गुरुर्माता त्वं जगतां त्वमेव जगतां माता न विज्ञोऽपरः । देवि त्वं परिहासकेलिकलहेऽनन्ता त्वमेवेत्यथ ज्ञातानन्त्यपदो नमञ्जलधिजां शौरिश्चिरं पातु वः ॥ ६.५ *(१०८) ॥ वाक्पतिराजस्य कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगेणात्र किं कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः । मुग्धेऽहं मधुसूदनो व्रज लतां तामेव पुष्पासवामित्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥ ६.६ *(१०९) ॥ मन्दक्वाणितवेणुरह्णि शिथिले व्यावर्तयन् गोकुलं बर्हापीडकमुत्तमाङ्गरचितं गोधूलिधूम्रं दधात् । म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर्गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥ ६.७ *(११०) ॥ विष्णोर्दानववाहिनीप्रमथनेष्ट्यापूरणायादरादात्तः पाणियुगोदरेण करश्रेण्या श्रियालम्भितः । निर्यातो वदनेन कुक्षिवसतेः पत्युस्तलादर्णसां शङ्खोऽपत्यपरंपतावृत इव श्रेयांसि पुष्णातु वः ॥ ६.८ *(१११) ॥ स जयत्यादिवराहो दंष्ट्रानिष्पिष्टकुलगिरिकसेरुः ।* यस्य पुरः सुरकरिणः साङ्कुरमाषोपमा जातः ॥ ६.९ *(११२) ॥* जीयासुः शकुलाकृतेर्भगवतः पुच्छछटाछोटनादुद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः पानाध्मानवशादरोचकरुजश्चक्रे चिरस्यास्पदम् ॥ ६.१० *(११३) ॥ राजशेखरस्य कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित्किमिच्छसि पदत्रयं ननु भुवा किमत्यल्पया । द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥ ६.११ *(११४) ॥ श्रेयोऽस्याश्चिरमस्तु मन्दरगिरेर्मा घानि पार्श्वैरियं मावष्टम्भि महोर्मिभिः फणिपतेर्मा लेपि लालाविषैः । इत्याकूतजुषः श्रियं जलनिधेरर्धोत्थितां पश्यतो वाचोऽन्तः स्पुरिता बहिर्विकृतिभिर्व्यक्ता हरेः पान्तु वः ॥ ६.१२ *(११५) ॥ चटच्चटिति चर्मिणि च्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुटरवोऽस्थिषु ष्ठादिति । पुनातु भवतो हरेरमरवैर्नाथोरसि क्वणत्करजपञ्जरक्रकचकाषजन्मानलः ॥ ६.१३ *(११६) ॥ वाक्पतेरेतौ वन्दे भुजभ्रमितमन्दरमथ्यमान दुग्धाब्धिदुग्धकणविच्छुरितच्छवीकम् । नक्षत्रकर्बुरवियत्प्रतिरोधि निन्द दुन्निद्रकैरवतडागमुरो मुरारेः ॥ ६.१४ *(११७) ॥ मुरारेः भ्रमति गिरिराट्पृष्ठे गर्जत्युपश्रुति सागरो दहति विततज्वालाजालो जगन्ति विषानलः । स तु विनिहितग्रीवाकाण्डः कटाहपुटान्तरे स्वपिति भगवान् कूर्मो निद्राभरालसलोचनः ॥ ६.१५ *(११८) ॥ भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ६.१६ *(११९) ॥ पुच्छोदस्तविसारिणो जलनिधेः स्वर्गङ्गया संगम श्रद्धाहूतखलत्पुरातनमुनिर्मीनो हरिः पातु वः । यस्मिन्नुद्धरति श्रुतीः पृथुतरादोंकारसारध्वनेर्मध्येसिन्धु वियन्मयो जलमयः स्तम्भस्त्वभूदम्बरे ॥ ६.१७ *(१२०) ॥ ।वर्{जलमयः।लेम् ।ेमेन् ।िन्गल्ल्स्, जलमय॰ ।ेद्क्ग्} जृम्भाविजृम्भितदृशः प्रथमप्रबुद्ध लक्ष्मीकराम्बुरुहलालनलालसस्य । गात्रापवृत्तिभरखर्वितशेषमव्यादव्याहतं मुरजितः कृतकप्रसुप्तम् ॥ ६.१८ *(१२१) ॥ मयान्विष्टो धूर्तः स सखि निखिलामेव रजनीमिह स्यादत्र स्यादिति निपुणमन्यामभिसृतः । न दृष्टो भाण्डीरे तटभुवि न गोवर्धनगिरेर्न कालिन्द्याः कूले न च निचुलकुञ्जे मुररिपुः ॥ ६.१९ *(१२२) ॥ श्यामोच्चन्द्रा स्वपिषि न शिशो नैति मामम्ब निद्रा निद्राहेतोः शृणु सुत कथां कामपूर्वां कुरुष्व । रामो नाम क्षितिपतिरभून्माननीयो रघूणामित्युक्तस्य स्मितमवतु वो देवकीनन्दनस्य ॥ ६.२० *(१२३) ॥ खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षःस्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि । पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं पायाद्वः क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपुः ॥ ६.२१ *(१२४) ॥ उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालम्ब्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥ ६.२२ *(१२५) ॥ न्बिन्गल्ल्स्तेन्ततिवेल्य्सुग्गेस्त्सालिङ्ग्य fओरालम्ब्य इन् द्. ।वर्{॰मंस्लेम् ।चोन्ज् । ।िन्गल्ल्स्, ॰मंशम् ।ेद्क्ग् सम्पूर्णः पुनरभ्युदेति किरणैरिन्दुस्ततो दन्तिनः कुम्भद्वन्द्वमिदं पुनः सुरतरोरग्रोल्लसन्मञ्जरी । इत्थं यद्वदनस्तनद्वयवलद्रोमावलीषु भ्रमः क्षीराब्धेर्मथनेऽभवद्दिविषदां लक्ष्मीरसावस्तु वः ॥ ६.२३ *(१२६) ॥ भभभ्रमति किं मही ललललम्बते चन्द्रमाः कृकृष्ण ववद द्रुतं हहहसन्ति किं वृष्णयः । शिशीधु मुमुमुञ्च मे ववववक्त्रमित्यादिकं मदस्खलितमालपन् हलधरः श्रियं वः क्रियात् ॥ ६.२४ *(१२७) ॥ पुरुषोत्तमदेवस्य किं किं सिंहस्ततः किं नरसदृशवपुर्देव चित्रं गृहीतो नैवं तत्कोऽत्र जीव द्रुतमुपनय तं नन्वयं प्राप्त एव । चापं चापं न खड्गं त्वरिततरमहो कर्कशत्वं नखानामित्थं दैत्याधिराजं निजनखकुलिशैर्जघ्निवान् यः स वोऽव्यात् ॥ ६.२५ *(१२८) ॥ देवस्त्वामेकजङ्घावलयितलगुडो मूर्ध्नि विन्यस्तबाहुर्गायन् गोयुद्धगीतीरुपरचितशिरःशेखरः प्रग्रहेण । दर्पस्फूर्जन्महोक्षद्वयसमरसरसाबद्धदीर्घानुरागः क्रीडागोपालमूर्तिर्मुररिपुरवतादात्तगोरक्षलीलः ॥ ६.२६ *(१२९) ॥ श्रीसोन्नोकस्य जयन्ति निर्दारितदैत्यवक्षसो नृसिंहरूपस्य हरेर्नखाङ्कुराः । विचिन्त्य येषां चरितं सुरारयः प्रियानखेभ्योऽपि रतेषु बिभ्यति ॥ ६.२७ *(१३०) ॥ एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः । इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्रायमानो हरिः ॥ ६.२८ *(१३१) ॥ मिथ्याकाण्डूतिसाचीकृतगलसरणिर्येषु जातो गरुत्मान् ये निद्रां नाटयद्भिः शयनफणिफणैर्लक्षिता न श्रुताश्च । ये च ध्यानानुबन्धच्छलमुकुलदृशा वेधसा नैव दृष्टास्ते लक्ष्मीं नर्मयन्तो निधुवनविधयः पान्तु वो माधवस्य ॥ ६.२९ *(१३२) ॥ राजशेखरस्य प्रत्यग्रोन्मेषजिह्मा क्षणमनभिमुखी रत्नदीपप्रभाणामात्मव्यापारगुर्वी जनितजललवा जृम्भितैः साङ्गभङ्गैः । नागाङ्गं मोक्तुमिच्छोः शयनमुरुफणाचक्रवालोपधानं निद्राच्छेदाभिताम्रा चिरमवतु हरेर्दृष्टिराकेकरा वः ॥ ६.३० *(१३३) ॥ विशाखदत्तस्य दंष्ट्रापिष्टेषु सद्यः शिखरिषु न कृतः स्कन्धकण्डूविनोदः सिन्धुष्वङ्गावगाहः खुरकुहरविशत्तोयतुच्छेषु नाप्तः । प्राप्ताः पातालपङ्के न लुठनरतयः पोत्रमात्रोपयुक्ते येनोद्धारे धरित्र्याः स जयति विभुताविघ्नितेच्छो वराहः ॥ ६.३१ *(१३४) ॥ वराहमिहिरस्य पातु त्रीणि जगन्ति पार्श्वकषणप्रक्षुण्णदिग्मण्डलो नैकाब्धिस्तिमितोदरः स भगवान् क्रीडाझषः केशवः । त्वङ्गन्निष्ठुरपृष्ठरोमखचितब्रह्माण्डभाण्डस्थितेर्यस्योत्स्फालकुतूहलेन कथमप्यङ्गेषु जीर्णायितम् ॥ ६.३२ *(१३५) ॥ रघुनन्दनस्य ये संतापितनाभिपद्ममधवो ये स्नापितोरःस्रजो ये तापात्तरलेन तल्पफणिना प्रीतप्रतीपोज्झिताः । ये राधास्मृतिसाक्षिणः कमलया सासूयमाकीर्णिता गाढान्तर्दवथोः प्रतप्तसरलाः श्वासा हरेः पान्तु वः ॥ ६.३३ *(१३६) ॥ पुष्पाकस्य सेयं द्यौस्तदिदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस्तत्पातालतलं त एव गिरयस्तेऽम्भोधयस्ता दिशः । इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा यस्यान्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात्स वः ॥ ६.३४ *(१३७) ॥ युक्तं मानद मामनन्यमनसं वक्षःस्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव । इत्युक्त्वा फणभृत्फणामणिगतां स्वामेव मन्त्वा तनुं निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्षस्मितम् ॥ ६.३५ *(१३८) ॥ भासस्य अग्रे गच्छत धेनुदग्धकलशानादाय गोप्यो गृहं दुग्धे वस्कयणीकुले पुनरियं राधा शनैर्यास्यति । इत्यन्यव्यपदेशगुप्तहृदयः कुर्वन् विविक्तं व्रजं देवः कारणनन्दसूनुरशिवं कृष्णः स मुष्णातु वः ॥ ६.३६ *(१३९) ॥ सत्रासार्ति यशोदया प्रियगुणप्रीतेक्षणं राधया लग्नैर्बल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः । भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः पायाद्वः करमूर्धसुस्थितमहाशैलः सलीलो हरिः ॥ ६.३७ *(१४०) ॥ सोन्नोकस्यैतौ दंष्ट्रासङ्कटवक्त्रकन्दरतरज्जिह्वाभृतो हव्यभुग्ज्वालाभासुरभूरिकेशरिसटाभारस्य दैत्यद्रुहः । व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलीपाटन स्पष्टप्रस्फुटदस्थिपञ्जररवक्रूरा नखाः पान्तु वः ॥ ६.३८ *(१४१) ॥ वाक्पतेः लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैरभ्यर्णश्रीर्घननिधुवनक्लान्तिनिद्रान्तरेषु । दोर्दण्डोऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि ग्रावश्रेणीनिकषमसृणक्षुण्णकेयूरपत्रः ॥ ६.३९ *(१४२) ॥ न्बिन्गल्ल्स्चोन्जेच्तुरेस्सुवर्णश्रीः fओरभ्यर्णश्रीः इन् ब्. श्रीभगीरथस्य नखक्रकचदारणस्फुटितदैत्यवक्षःस्थल क्षरत्क्षतजनिर्झरप्रतिविभावितस्वाकृतेः । हरेरपरकेशरिक्षुभितचेतसः पातु वः सरोषललिताधरभ्रुकुटिभङ्गभीमं मुखम् ॥ ६.४० *(१४३) ॥ वाक्पतिराजस्य वत्स क्ष्माधरगह्वरेषु विचरंश्चारप्रचारे गवां हिंस्रान् वीक्ष्य पुरः पुराणपुरुषं नारायणं ध्यास्यसि । इत्युक्तस्य यशोदया मुररिपोरव्याज्जगन्ति स्फुरद्बिम्बोष्ठद्वयगाढपीडनवशादव्यक्तभावं स्मितम् ॥ ६.४१ *(१४४) ॥ देवो हरिर्जयति यज्ञवराहरूपः सृष्टिस्थितिप्रलयकारणमेक एव । यस्योदरस्थितजगत्त्रयबीजकोश निर्गच्छदङ्कुरशिखेव विभाति दंष्ट्रा ॥ ६.४२ *(१४५) ॥ सोन्नोकस्य बीजं ब्रह्मैव देवो मधु जलनिधयः कर्णिका स्वर्णशैलः कन्दं नागाधिराजो वियदतिविपुलः पत्रकोशावकाशः । द्वीपाः पत्राणि मेघा मधुपकुलममूस्तारका गर्भधूलिर्यस्यैतन्नाभिपद्मं भुवनमिति स वः शर्म देवो ददातु ॥ ६.४३ *(१४६) ॥ मालायुधस्य कनकनिकषस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितव्रीडानम्रप्रियाहसिनो हरिः ॥ ६.४४ *(१४७) ॥ वैद्दोकस्य ।चोलो इति विष्णुव्रज्या॥ ६ ततः सूर्यव्रज्या ७ यस्याधोऽधस्तथोपर्युपरि निरवधि भ्राम्यतो विश्वमश्वैरावृत्तालातलीलां रचयति रयतो मण्डलं तिग्मधाम्नः । सोऽव्यादुत्तप्तकार्तस्वरसरलशरस्पर्धिभिर्धामदण्डैरुद्दण्डैः प्रापयन् वः प्रचुरतमतमःस्तोममस्तं समस्तम् ॥ ७.१ *(१४८) ॥ राजशेखरस्य शुकतुण्डच्छवि सवितुश्चण्डरुचः पुण्डरीकवनबन्धोः ।* मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ ७.२ *(१४९) ॥* विद्यायाः तुङ्गोदयाद्रिभुजगेन्द्रफणोपलाय व्योमेन्द्रनीलतरुकाञ्चनपल्लवाय । संसारसागरसमुत्क्रमयोगिसार्थ प्रस्थानपूर्णकलशाय नमः सवित्रे ॥ ७.३ *(१५०) ॥ वराहमिहिरस्य संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन । अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवालादुद्यन् बालप्रवालप्रतिमरुचिरहःपादपप्राक्प्रवालः ॥ ७.४ *(१५१) ॥ मयूरस्य ।चोलो इति सूर्यव्रज्या॥ ७ ततो वसन्तव्रज्या॥ ८ आरक्ताङ्कुरदन्तुरा कमलिनी नायामिनी यामिनी स्तोकोन्मुक्ततुषारमम्बरमणेरीषत्प्रगल्भं महः । अप्येते सहकारसौरभमुचो वाचालिताः कोकिलैरायान्ति प्रियविप्रयुक्तयुवतीमर्मच्छिदो वासराः ॥ ८.१ *(१५२) ॥ संघश्रियः नैवैके वयमेव कोकिलवधूकण्ठोच्चरत्पञ्चम स्थानोद्बोधितपञ्चमार्गणगुणास्फालेन रोमाञ्चिताः । पश्यैते तरवोऽपि सुन्दरि जरत्पत्रव्ययानन्तरोद्भिन्नपाटलकोटिसम्पुटदलप्रादुर्भवत्कुड्मलाः ॥ ८.२ *(१५३) ॥ विनयदेवस्य मलयमहीधरपवनः कलकण्ठकलध्वनिर्निकुञ्जलताः ।* उत्कलिका उत्कलिकाश्चेतसि जनयन्ति लोकस्य ॥ ८.३ *(१५४) ॥* कान्तेन प्रहितो नवः प्रियसखीवर्गेण बद्धस्पृहश्चित्तेनोपहृतः स्मराय न समुत्स्रष्टुं गतः पाणिना । आमृष्टो मुहुरीक्षितो मुहुरभिघ्रातो मुहुर्लोठितः प्रत्यङ्गं च मुहुः कृतो मृगदृशा किं किं न चूताङ्कुरः ॥ ८.४ *(१५५) ॥ वाक्कुटस्य द्विस्त्रिः कोकिलया रुतं त्रिचतुरैश्चूताङ्कुरैरुद्गतं कोषान् बोभ्रति किंशुका मधुकरश्रेणीजुषः पञ्चषान् । क्वापि क्वापि मदाकुलाकुलतया कान्तापराधग्रह ग्रन्थिच्छेदसमुद्यतं च हृदयं दोलायते सुभ्रुवाम् ॥ ८.५ *(१५६) ॥ नीलस्य जम्बूनां कुसुमोदरेष्वतिरसादाबद्धपानोत्सवाः कीराः पक्वफलाशया मधुकरीश्चुम्बन्ति मुञ्चन्ति च । एतेषामपि पश्य किंशुकतरोः पत्रैरभिन्नत्विषां पुष्पभ्रान्तिभिरापतन्ति सहसा चञ्चूषु भृङ्गाङ्गनाः ॥ ८.६ *(१५७) ॥ राजशेखरस्य दृश्यन्ते मधुमत्तकोकिलवधूनिर्धूतचूताङ्कुर प्राग्भारप्रसरत्परागसिकतादुर्गास्तटीभूमयः । याः कृच्छ्रादभिलङ्घ्य लुब्धकभयात्तैरेव रेणूत्करैर्धारावाहिभिरस्ति लुप्तपदवीनिःशङ्कमेणीकुलम् ॥ ८.७ *(१५८) ॥ मुरारेः अशिथिलपरिस्पन्दः कुन्दे तथैव मधुव्रतो नयनसुहृदो वृक्षाश्चैते न कुड्मलशालिनः । दलति कलिका चौती नास्मिंस्तथा मृगचक्षुषामथ च हृदये मानग्रन्थिः स्वयं शिथिलायते ॥ ८.८ *(१५९) ॥ कान्तां हित्वा विरहविधुरारम्भखेदालसाङ्गीं मामुल्लङ्घ्य व्रजतु पथिकः कापि यद्यस्ति शक्तिः । इत्याशोकी जगति सकले वल्लरी चीरिकेव प्राप्तारम्भे कुसुमसमये कालदेवेन दत्ता ॥ ८.९ *(१६०) ॥ मन्दं दक्षिणमाह्वयन्ति पवनं पुंस्कोकिलव्याहृतैः संस्कुर्वन्ति वनस्थलीः किसलयोत्तंसैर्निषण्णालिभिः । चन्द्रं सुन्दरयन्ति मुक्ततुहिनप्रावारया ज्योत्स्नया वर्धन्ते च विवर्धयन्ति च मुहुस्तेऽमी स्मरं वासराः ॥ ८.१० *(१६१) ॥ हृद्यस्निग्धैः परभृतरुतैर्मुक्तदीर्घप्रवासः प्रत्यावृत्तो मधुरिति वदन् दक्षिणो गन्धवाहः । शिञ्जल्लोलभ्रमरवलयः काननालीवधूनां सद्यः कुन्दस्मितबृहतिकाः पूर्णपात्रीकरोति ॥ ८.११ *(१६२) ॥ लोलैः कोकिलमण्डलैर्मधुलिहां चंचूर्यमाणैर्गणैर्नीरन्ध्रैर्गृहवाटिकापरिसरेष्वङ्गारितैः किंशुकैः । प्रारब्धे तिमिरे वसन्तसमयक्षोणीपतेर्भ्राम्यतः प्रस्निग्धा परितो धृतेव कलिकादीपावलिश्चम्पकैः ॥ ८.१२ *(१६३) ॥ मनोविनोदस्यैतौ च्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं ग्रथ्नन्तीमे किरन्ति न कोकिलाः । अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जठरतामालम्बन्ते क्लमोदयदायिनीम् ॥ ८.१३ *(१६४) ॥ साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैर्बाह्लीकीदशनव्रणारुणतलैः पत्रैरशोकोऽर्चितः । भृङ्गालङ्घितकोटि किंशुकमिदं किंचिद्विवृन्तायते माञ्जिष्ठैर्मुकुलैश्च पाटलितरोरन्यैव काचिल्लिपिः ॥ ८.१४ *(१६५) ॥ गर्भग्रन्थिषु वीरुधां सुमनसो मध्येऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगनि जिष्णु दिवसैर्द्वित्रैर्मनोजन्मनो देवस्यापि चिरोज्झितं यदि भवेदभ्यासवश्यं धनुः ॥ ८.१५ *(१६६) ॥ राजशेखरस्यैतौ शीतास्तैरिव भग्नशैशिरनिशाभागैरहः स्फायते गर्भं बिभ्रति किंशुका इव दिशां तापाय वह्न्यङ्कुरम् । किं च स्वाश्रयसम्भृतप्रथिमसु च्छायातपाङ्गेष्वयं लोकः स्तोकरसोऽद्य न क्वचिदपि स्वच्छन्दमानन्दति ॥ ८.१६ *(१६७) ॥ त्रिलोचनस्य उद्भिन्नस्तबकावतंससुभगाः प्रेङ्खन्मरुन्नर्तिताः पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्डत्विषः । गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्यमू भूरुहः ॥ ८.१७ *(१६८) ॥ प्रागेव जैत्रमस्त्रं सहकारलता स्मरस्य चापभृतः ।* किं पुनरनल्पनिपतितमधुकरविषकल्कलेपेन ॥ ८.१८ *(१६९) ॥* शुभाङ्गस्य स्वस्ति श्रीमलयाचलात्स्मरसखः श्रीमान् वसन्तानिलः क्रीडावेश्मसु कामिनः कुशलयत्येतच्च वक्तीतरत् । एषोऽहं मुदितालिकोकिलकुलं कुर्वन् वनं प्राप्तवान् युष्माभिः प्रियकामिनीपरिगतैः स्थातव्यमस्मादिति ॥ ८.१९ *(१७०) ॥ एते नूतनचूतकोरकघनग्रासातिरेकीभवत्कण्ठध्वानजुषो हरन्ति हृदयं मध्येवनं कोकिलाः । येषामक्षिनिभेन भान्ति भगवद्भूतेशनेत्रानल ज्वालाजालकरालितासमशराङ्गारस्फुलिङ्गा इमे ॥ ८.२० *(१७१) ॥ किंशुककलिकान्तर्गतचन्द्रकलास्फर्धि केशरं भाति ।* रक्तनिचोलकपिहितं धनुरिव जतुमुद्रितं वितनोः ॥ ८.२१ *(१७२) ॥* वल्लणस्य वाप्यो दन्तुरितोदराः कमलिनीपत्राङ्कुरग्रन्थिभिश्चूतानां कलिकामिलन्मधुलिहां कापि स्थितिर्वर्तते । दौर्भाग्योपनयाय साम्प्रतमयामल्पोऽपि मार्गश्रमः शिक्षामुल्ललितुं ददाति रजसां गन्त्रीपथे मारुतः ॥ ८.२२ *(१७३) ॥ न्बिन्गल्ल्स्चोन्जेच्तुरेस्तेन्ततिवेल्य्सम्प्रवसताम् fओर्साम्प्रतमयामिन् च्. अभिनन्दस्य आरक्तैर्नवपल्लवैर्विटपिनो नेत्रोत्सवं तन्वते तान् धुन्वन्नयमभ्युपैति मधुरामोदो मरुद्दक्षिणः । तेनालिङ्गितमात्र एव विधिवत्प्रादुर्भवन्निर्भर क्रीडाकूतकषायितेन मनसा लोकोऽयमुन्माद्यते ॥ ८.२३ *(१७४) ॥ काप्यन्या मुकुलाधिकारमिलिता लक्ष्मीरशोकद्रुमे माकन्दः समयोचितेन विधिना धत्तेऽभिजातं वपुः । किं चाषाढगिरेरनङ्गविजयप्रस्तावनापण्डितः स्वैरं सर्पति बालचन्दनलतालीलासखो मारुतः ॥ ८.२४ *(१७५) ॥ वह्निर्मन्ये हिमजलमिषात्संश्रितः किंशुकेषु श्यामं धूमैः स खलु कुरुते काननं कोरकाख्यैः । संतापार्थं कथमितरथा पान्थसीमन्तिनीनां पुष्पव्याजाद्विसृजति शिखाश्रेणिमुद्गाढशोणीम् ॥ ८.२५ *(१७६) ॥ पौतायनेः ।वर्{श्यामं।लेम् ।चोन्ज् । ।िन्गल्ल्स्, व्यामम् ।ेद्क्ग्} श्रोण्यां चित्रः कुरुबकगुणः कर्णयोर्मुग्धचूतं रक्ताशोकं प्रणयि कुचयोर्माधवी मूर्धजेषु । सर्वाङ्गीणो बकुलरजसा पिञ्जरेणोपरागः स्त्रैणो यूनां भवतु रतये वेशसर्वाभिसारः ॥ ८.२६ *(१७७) ॥ सावर्णेः मुघाताम्रैर्नवकिशलयैः सम्भृतोदारशोभं प्रादुर्भूतभ्रमरसरणीयौवनोद्भेदचिह्नम् । सीमन्तिन्यः कुसुमधनुषा बद्धसख्यस्य मासः स्निग्धास्मेरैर्मुखमधिगुणं दृष्टिपातैः पिबन्ति ॥ ८.२७ *(१७८) ॥ वागुरस्य शिकीमुखैरद्य मनोज्ञपक्षैर्विषोपलेपादिव कज्जलाभैः ।* नितान्तपूर्णा मुचकुन्दकोषा विभान्ति तूणा इव मन्मथस्य ॥ ८.२८ *(१७९) ॥* शुभाङ्गस्य स्नेहं स्रवन्ति तरवः पञ्चापि क्षिपति मार्गणान्मदनः ।* परिमुक्तकण्ठरोधः परपुष्टः क्षरति माधुर्यम् ॥ ८.२९ *(१८०) ॥* श्रीधर्माकरस्य संकुचिता इव पूर्वं दुर्वारतुषारजनितजडिमानः ।* सम्प्रत्युपरमति हिमे क्रमशो दिवसाः प्रसारजुषः ॥ ८.३० *(१८१) ॥* श्रीधरणीधरस्य दुःश्लिष्टदुर्लक्ष्यपलाशसंधीन्यापाटलाग्राणि हरिन्ति मूले ।* कुशेशयानां शुकशावभांसि प्रादुर्बभूवुर्नवकुड्मलानि ॥ ८.३१ *(१८२) ॥* उपनयति कपोले लोलकर्णप्रवाल क्षणमुकुलनिवेशान्दोलनव्यापृतानाम् । परिमलितहरिद्रान् सम्प्रति द्राविडीनां नवनखपदतिक्तानातपः स्वेदबिन्दून् ॥ ८.३२ *(१८३) ॥ योगेश्वरस्य सद्यस्तप्तो भ्रमति रजनीं वासरः खण्डयित्वा क्षीणक्षीणा तदनु भजते सापि सम्यक्प्रसादम् । एको लोके कथयति नरस्येष्टजाते निसर्गं नार्याः पुंसि स्थितिमनुगुणां शंसति स्पष्टमन्या ॥ ८.३३ *(१८४) ॥ इदानीं प्लक्षाणां जठरदलविश्लेषचतुरः स्थितीनामाबन्धः स्फुटति शुकचञ्चूपुटनिभः । ततः स्त्रीणां हन्त क्षममधरकान्तिं कलयितुं समन्तान्निर्याति स्फुटसुभगरागं किसलयम् ॥ ८.३४ *(१८५) ॥ उद्गच्छत्यलिझंकृतिः स्मरधनुर्ज्यामञ्जुगुञ्जारवैर्निर्याता विषलिप्तभल्लिविषमाः कङ्केल्लिफुल्लच्छटाः । रे सम्प्रत्यपवित्रमत्र पथिकाः सारम्भमुज्जृम्भते चूतो दूत इवान्तकस्य कलिकाजालस्फुरत्पल्लवः ॥ ८.३५ *(१८६) ॥ मिथःक्रीडालोलभ्रमरभरभङ्गाङ्कुररस प्रसेकप्रोन्मीलत्परिमलसमालब्धपवनः । इतोऽस्त्येष श्रीमानविरलमिदानीं मुकुलितः प्रयच्छन्नुन्मादानहह सहकारद्रुमयुवा ॥ ८.३६ *(१८७) ॥ अङ्कुरिते पल्लविते कोरकिते विकसिते च सहकारे ।* अङ्कुरितः पल्लवितः कोरकितो विकसितश्च हृदि मदनः ॥ ८.३७ *(१८८) ॥* उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरमेव किंशुकतरोराश्यामलं जालकम् । आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्यास्पदम् ॥ ८.३८ *(१८९) ॥ भवभूतेः सपदि सखीभिर्निभृतं विरहवतीस्त्रातुमत्र भज्यन्ते ।* सहकारमञ्जरीणां शिखोद्गमग्रन्थयः प्रथमे ॥ ८.३९ *(१९०) ॥* राजशेखरस्य ।चोलो इति वसन्तव्रज्या ग्रीष्मव्रज्या॥ ९ विश्लेषो जनितः प्रियैरपि जनैरुज्जृम्भितं नालिकैर्मित्रेणापि खरायितं रतुणया दीर्घायितं तृष्णया । गुर्वी वल्लभता जडैरधिगता दोषाकरः सेव्यते हा कालः किमयं कलिर्न हि न हि प्राप्तः स घर्मागमः ॥ ९.१ *(१९१) ॥ तदात्वस्नातानां मलयरजसार्द्रार्द्रवपुषां कचान् बिभ्राणानां दरविकचमल्लीमुकुलिनः । निदाघार्कप्लोषग्लपितमहिमानं मृगदृशां परिष्वङ्गोऽनङ्गं पुनरपि शनैरङ्कुरयति ॥ ९.२ *(१९२) ॥ मङ्गलार्जुनस्य प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।* उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविव स्तः ॥ ९.३ *(१९३) ॥* बटोः सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि स्वच्छन्दकुन्दद्रुहि । शुष्यच्छ्रोतसि तप्तभूमिरजसि ज्वालायमानाम्भसि ज्येष्ठे मासि खरार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥ ९.४ *(१९४) ॥ बाणस्य गुरुर्गर्भारम्भः क्लमयति कलत्रं बलिभुजः समग्रोष्मा चूतं पचति पिचुमर्दं च दिवसः । इदानीं नीहारस्तिमितपवनप्रीतिजनितां निशाशेषो निद्रां नुदति पटधूम्याटमुखरः ॥ ९.५ *(१९५) ॥ राजशेखरस्य सान्द्रक्षीणप्रततविततच्छिन्नभुग्नोन्नताभिः प्रायः कश्मीरजरुचिजुषो दाववह्नेः शिखाभिः । वायुः संचारिण इव लिखत्यानने दिग्वधूनां धूमोद्गारैरगुरुपवनैः सान्तरान् पत्रभङ्गान् ॥ ९.६ *(१९६) ॥ हिन्दोलामधुरोपलालनरसप्रीतप्रपापालिका गीतावर्जितमुग्धवातहरिणश्रेणीपरीतान्तिकाः । औत्सुक्यं जनयन्ति पान्थपरिषद्घर्माम्बुबिन्दूत्कर व्याक्षेपक्षममन्दमन्दमरुतो मार्गस्थलीपादपाः ॥ ९.७ *(१९७) ॥ चञ्चच्चञ्चुगुणोदरैः शिथिलितप्रायांसमुत्पक्ष्मल न्यञ्चत्पक्षपुटावकाशविरमत्पार्श्वोष्मभिर्नीयते । जङ्घाकुञ्चनलब्धनीडनिबिडावष्टम्भकष्टोज्झित क्षेपीयःपवनाभिघातरभसोत्क्षेपैरहः पक्षिभिः ॥ ९.८ *(१९८) ॥ धास्यत्यद्य सितातपत्रसुभगं सा राजहंसी शिशोः स्मेराम्भोरुहवासिनोऽपि शिरसि स्नेहेन पक्षद्वयम् । तृष्णार्तः शुकशावकोऽपि सुतनोः पीनस्तनासङ्गिनीं मुक्ताहारलतां तदङ्कवसतिस्तोयाशया पास्यति ॥ ९.९ *(१९९) ॥ भुवां घर्मारम्भे पवनचलितं तापहतये पटच्छत्राकारं वहति गगनं धूलिपटलम् । अमी मन्दाराणां दवदहनसंदेहितधियो न ढौकन्ते पातुं झटिति मकरन्दं मधुलिहः ॥ ९.१० *(२००) ॥ भवभूतेः अपां मूले लीनं क्षणपरिचितं चन्दनरसे मृणालीहारादौ कृतलघुपदं चन्द्रमसि च । मुहूर्तं विश्रान्तं सरसकदलीकाननतले प्रियाकण्ठाश्लेषे निवसति परं शैत्यमधुना ॥ ९.११ *(२०१) ॥ प्रान्तारक्तविलोचनाञ्चलदरीव्यग्राल्पमक्षीभय प्रोद्भूतोभयशृङ्गकोटिविगलच्छैवालवल्लीसखैः । पाथोबिन्दुभिरक्षिसन्धिषु शनैः संसिच्यमानः सुखं मग्नो वारिणि दूरनिःसहतया निद्रायते सैरिभः ॥ ९.१२ *(२०२) ॥ तापं स्तम्बेरमस्य प्रकटयति करः शीकरैः कुक्षुमुक्षन् पङ्काङ्कं पल्वलानां वहति तटवनं माहिषैः कायकाषैः । उत्ताम्यत्तालवश्च प्रतपति तरणावांशवीं तापतन्द्रीमद्रिद्रोणीकुटीरे कुहरिणि हरिणारातयो यापयत्नि ॥ ९.१३ *(२०३) ॥ जाताः पान्थनखंपचाः प्रचयिनो गन्त्रीपथे पांशवः कासारोदरशेषमम्बु महिषो मथ्नाति ताम्यत्तिमि । दृष्टिर्धावति धातकीवनमसृक्तर्षेण तारक्षवी कण्ठान् बिभ्रति विष्किराः शरशमीनीडेषु नाडिंधमान् ॥ ९.१४ *(२०४) ॥ बाणस्यैतौ सुभगसलिलावगाहाः पाटलिसंसर्गसुरभिवनवाताः ।* प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ९.१५ *(२०५) ॥* कालिदासस्य अग्रे तप्तजला नितान्तशिशिरा मूले मुहुर्बाहुभिर्व्यामथ्योपरतप्रपेषु पथिकैर्मार्गेषु मध्यंदिने । आधाराः प्लुतबालशैवलदलच्छेदावकीर्णोर्मयः पीयन्ते हलमुक्तमग्नमहिषप्रक्षोभपर्याविलाः ॥ ९.१६ *(२०६) ॥ योगेश्वरस्य मृद्भूयिष्ठतया गुरून् परिहरन्नारण्यकान् गोमयान् वल्मीकानुपगूहति प्रशिथिलं ज्वालाभिरुद्बल्वजान् । वह्निर्नीडिकिलिञ्जसंचयसमुत्सिक्तश्चरन् कानने प्रस्निग्धानिह विष्किराण्डकललानाज्याशया लुम्पति ॥ ९.१७ *(२०७) ॥ तस्यैव दूरीभूतशरारि विक्लवबकं संक्रान्तकारण्डवं क्लाम्यत्कङ्कमचक्रवाकममिलन्मद्गु प्रयातप्लवम् । क्लिष्टक्रौञ्चमधार्तराष्ट्रमपतत्कोयष्टि निष्टीटिभं सीदत्सारसमप्रसक्तकुररं कालेन जातं सरः ॥ ९.१८ *(२०८) ॥ तस्यैव तोयोत्तीर्णाः श्रयति कबरीः शेखरः सप्तलानां शैत्यं सिञ्चत्युपरि कुचयोः पाटलाकण्ठदाम । कान्तं कर्णावभिनिविशते कोमलाग्रं शिरीषं स्त्रीणामङ्गे विभजति तपस्तत्र तत्रात्मचिह्नम् ॥ ९.१९ *(२०९) ॥ मधुशीलस्य शुकपत्रहरितकोमलकुसुमशटानां शिरीषयष्टीनाम् ।* तलमाश्रयति दिनातपभयेन परिपिण्डितं शैत्यम् ॥ ९.२० *(२१०) ॥* वागुरस्य हरन्ति हृदयानि यच्छ्रवणशीतला वेणवो यदर्घति करम्बिता शिशिरवारिणा वारुणी । भवन्ति च हिमोपमाः स्तनभुवो यदेणीदृशां शुचेरुपरि संस्थितो रतिपतेः प्रसादो गुरुः ॥ ९.२१ *(२११) ॥ जलार्द्राः संव्यानं बिसकिसलयैः केलिवलयाः शिरीषैरुत्तंसो विचकिलमयी हाररचना । शुचावेणाक्षीणां मलयजरसार्द्राश्च तनवो विना तन्त्रं मन्त्रं रतिरमणमृत्युंजयविधिः ॥ ९.२२ *(२१२) ॥ रजनिविरमयामेष्वादिशन्ती रतेच्छां किमपि कठिनयन्ती नारिकेलीफलाम्भः । अपि परिणमयित्री राजरम्भाफलानां दिनपरिणतिरम्या वर्तते ग्रीष्मलक्ष्मीः ॥ ९.२३ *(२१३) ॥ एते राजशेखरस्य अम्भोधेर्जलयन्त्रमन्दिरपरस्पन्देऽपि निद्राणयोः श्रीनारायणयोर्घनं विघटयत्यूष्मा समालिङ्गनम् । किं चोत्तप्तवियत्कलापफलके कङ्कालशेषश्रियं चन्द्रं मर्मरयन्ति पर्पटमिव क्रूरा रवेरंशवः ॥ ९.२४ *(२१४) ॥ नारायणलच्छेः ।चोलो इति ग्रीष्मव्रज्या ततः प्रावृड्व्रज्या वानीरप्रसवैर्निकुञ्जसरितामासक्तवासं पयः पर्यन्तेषु च यूथिकासुमनसामुज्जृम्भितं जालकैः । उन्मीलत्कुटजप्रहासिषु गिरेरालम्ब्य सानूनितः प्राग्भारेषु शिखण्डिताण्डवविधौ मेघैर्वितानाय्यते ॥ १०.१ *(२१५) ॥ फलभरपरिणामश्यामजम्बूनिकुञ्ज स्खलिततनुतरङ्गामुत्तरेण श्रवन्तीम् । उपरिविघटमानप्रौढतापिञ्जनीलः श्रयति शिखरमद्रेर्नूतनस्तोयवाहः ॥ १०.२ *(२१६) ॥ जृम्भाजर्जरडिम्बडम्बरघनश्रीमत्कदम्बद्रुमाः शैलाभोगभुवो भवन्ति ककुभः कादम्बिनीश्यामलाः । उद्यत्कुन्दलतान्तकेतकभृतः कच्छाः सरिच्छ्रोतसामाविर्गन्धशिलीन्ध्रलोध्रकुसुमस्मेरा वनानां गतिः ॥ १०.३ *(२१७) ॥ उत्फुल्लार्जुनसर्ववासितवहत्पौरस्त्यझंझामरुत्प्रेङ्खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः । धारासिक्तवसुन्धरासुरभयः प्राप्तास्त एतेऽधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥ १०.४ *(२१८) ॥ भवभूतेरमी एणी याति विलोक्य बालशलभाञ्शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि रक्षति चिरादण्डभ्रमात्कुक्कुटी । धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूरादेव वनान्तरे विषधरग्रासाभिलाषातुरः ॥ १०.५ *(२१९) ॥ आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः । धाराक्लिन्नकदम्बसम्भृतसुरामोदोद्वहाः प्रोषितैर्निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥ १०.६ *(२२०) ॥ योगेश्वरस्य दात्यूहध्वनिभाञ्जि वेतसशिखासुप्तोरगाणि ध्वनत्कादम्बानि कुरङ्गयूथकलितस्तूपान्युदम्भांसि च । तीराण्यद्य पिपीलिकासमुदयावर्जज्जटालोलप व्याप्तान्युन्मदकुक्कुभानि सरितां कुर्वन्ति लोलं मनः ॥ १०.७ *(२२१) ॥ कान्तां क्वापि विलम्बिनीं कलरुतैराहूय भूयस्ततो दिग्भागानवलोक्य रङ्गवसुधामुत्सृज्य पद्भ्यां ततः । एष स्फारमृदङ्गनादमधुरैरम्भोमुचामारवैर्बर्हश्रेणिकृतातपत्ररचनो हृष्टः शिखी नृत्यति ॥ १०.८ *(२२२) ॥ पीताम्भःस्तिमिताः सृजन्ति सलिलान्याबद्धधारं घनास्तद्धाराध्वनिमीलितानि नयनान्यभ्येति निद्रागमः । निद्रामुद्रितलोचने प्रतिगृहं मूकायमाने जने निर्द्वन्द्वोच्चरदुच्चदर्दुररवैः कोलाहलिन्यो निशाः ॥ १०.९ *(२२३) ॥ धारानिपातरवबोधितपञ्जरस्थ दात्यूहडम्बरकरम्बितकण्ठकूजाः । अट्टेषु काण्डपटवारितशीकरेषु धन्याः पिबन्ति मुखतामरसं वधूनाम् ॥ १०.१० *(२२४) ॥ शैलश्रेणिरपेतदावदहना दग्धप्ररूढं वनं जीमूताङ्कुरदन्तुरा दश दिशो भूरेणुमुक्तं नभः । किं चान्यत्कलिकोर्मिमेदुरमुखी जाता कदम्बच्छविश्छिद्यन्ते कियता क्षणेन शिखिनां मौनव्रतग्रन्थयः ॥ १०.११ *(२२५) ॥ केदारे नववारिपूर्णजठरे किंचित्क्वणद्दर्दुरे शम्बूकाण्डकपिण्डपाण्डुरततप्रान्तस्थलीवीरणे । डिम्भा दण्डकपाणयः प्रतिदिशं पङ्कच्छटाचर्चिताश्चुभ्रूश्चुभ्रुरिति भ्रमन्ति रभसादुद्यायिमत्स्योत्सुकाः ॥ १०.१२ *(२२६) ॥ समन्ततो विस्फुरदिन्द्रनील मणिप्रभाविच्छुरितान्तरालः । मर्त्यावतीर्णस्य बिडोजसोऽयं नीलांशुकच्छत्रमिवाम्बुवाहः ॥ १०.१३ *(२२७) ॥ खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः । एताः केतकभेदवासितपुरोवाताः पतद्वारयो न प्रत्येमि जनस्य यद्विरहिणो यास्यन्ति सोढुं निशाः ॥ १०.१४ *(२२८) ॥ एतस्मिन्मदजर्जरैरुपचिते कम्बूरवाडम्बरैः स्तैमित्यं मनसो दिशत्यनिभृतं धारारवे मूर्छति । उत्सङ्गे ककुभो निधाय रसितैरम्भोमुचां घोरयन्मन्ये मुद्रितचन्द्रसूर्यनयनं व्योमापि निद्रायते ॥ १०.१५ *(२२९) ॥ गम्भीराम्भोधराणामविरलनिपतद्वारिधारानिनादानीषन्निद्रालसाक्षा दृढगृहपटलारूढकुष्माण्डबन्ध्याः । दोर्भ्यामालिङ्ग्यमाना जलधरसमये पत्रषण्डे निशायां धन्याः शृण्वन्ति सुप्ताः स्तनयुगभरितोरःस्थलाः कामिनीनाम् ॥ १०.१६ *(२३०) ॥ अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।* लम्बपयोधरभारा प्रावृदियं वृद्धवनितेव ॥ १०.१७ *(२३१) ॥* अम्भोधेर्वडवामुखानलझलाज्वालोपगूढान्तरा व्यामोहादपिबन्नपः स्फुटममी तर्षेण पर्याविलाः । उद्देशस्फुरदिन्द्रचापवलयज्वालापदेशादहो दह्यन्ते कथमन्यथार्धमलिनाङ्गारद्युतस्तोयदाः ॥ १०.१८ *(२३२) ॥ कृत्वा पिच्छिलतां पथः स्थगयता निर्भर्त्सनं पादयोः सान्द्रैर्वारिकणैः कपोलफलके विच्छित्तिमाछिन्दता । मेघेनोपकृतं यदाशु विहिता तस्यागसो निष्कृतिः स्वैरिण्याः प्रियवेश्मवर्त्म दिशता विद्युद्विलासैर्मुहुः ॥ १०.१९ *(२३३) ॥ आसारोपरमे प्रगाढतिमिराः किमीरयन्त्यो निशाः पान्थस्त्रीमनसां स्मरानलकणासन्तानशङ्कास्पृशः । पिष्टानां प्रसभं घनाघनघटासंघट्टतो विद्युतां चूर्णाभाः परितः पतन्ति तरलाः खद्योतकश्रेणयः ॥ १०.२० *(२३४) ॥ हस्तप्राप्यमिवाम्बरं विदधतः खर्वा इवाशाततीर्गर्जाभिः क्षणजर्जरीकृतघनानुत्तालधारारवाः । क्वामग्नं स्थलमस्ति नाम तदिभीवोद्दामसौदामिनी नेत्रोन्मेषविलोकिताखिलभुवो वर्षन्ति नक्तं घनाः ॥ १०.२१ *(२३५) ॥ न्बिन् ब्दिविदे घनअनुत्ताल॑ च्f.। ब्रोwने २००१, २१. उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैरुद्वाच्यास्ततचञ्चवो लयवशादुत्क्षिप्तपादा मुहुः । पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीमुन्नत ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ॥ १०.२२ *(२३६) ॥ इदानीं वंशीनां शबरमिथुनोच्छृङ्खलरहः क्रियासख्येनालं गिरिवनसरिद्ग्रामसुहृदाम् । स्फुरल्लोमश्यामच्छगलशिशिकर्णप्रतिसम च्छदाग्राभिस्त्वग्भिर्वलयितकरीरास्तलभुवः ॥ १०.२३ *(२३७) ॥ पार्श्वाभ्यां शिरसा निमीलितदृशः कामं निमज्य क्रमादंसौ पृष्ठमुरः सपक्षतितलं गाढं स्पृशन्तो मुहुः । एते कुञ्चितजानवो नवजले निर्वान्ति घर्माहता भूयः पक्षपुटाभिपातरभसोत्सर्पत्कणाः पत्रिणः ॥ १०.२४ *(२३८) ॥ मज्जानमपि विलिम्पति नाकृतपुण्यस्य वर्षति पयोदे ।* निर्गमकेलिसमुत्सुकशिशिवारणगाढपरिरम्भः ॥ १०.२५ *(२३९) ॥* आक्रन्दाः स्तनितैर्विलोचनजलान्यश्रान्तधाराम्बुभिस्तद्विच्छेदभुवश्च शोकशिखिनस्तुल्यास्तडिद्विभ्रमैः । अन्तर्मे दयितामुखं तव शशी वृत्तिः समैवावयोस्तत्किं मामनिशं सखे जलधर त्वं दग्धुमेवोद्यतः ॥ १०.२६ *(२४०) ॥ भुवः किमेता दिवमुत्पतन्ति दिवोऽथवा भूतलमाविशन्ति ।* चलाः स्थिरा वेति वितर्कयन्त्यो धाराः कराग्रैरबलाः स्पृश्नति ॥ १०.२७ *(२४१) ॥* छत्रावलम्बि विमलोरुपयःप्रवाह धाराभरस्फटिकपञ्जरसंयताङ्गः । पान्थः स्वशासनविलङ्घनजातकोप कामाज्ञया प्रियतमामिव नीयते स्म ॥ १०.२८ *(२४२) ॥ अद्याम्भः परितः पतिष्यति भुवस्तापोऽद्य निर्वास्यति क्षेत्रेष्वद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः । नर्तिष्यन्ति तवोदयेऽद्य जलद व्यालोलपुच्छच्छद च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः ॥ १०.२९ *(२४३) ॥ गायति हि नीलकण्ठो नृत्यति गौरी तडित्तरलतारा ।* आस्फालयति मृदङ्गं तदनु घनोऽयं महाकालः ॥ १०.३० *(२४४) ॥* अलकेषु चूर्णभासः स्वेदलवाभान् कपोलफलकेषु ।* नवघनकौतुकिनीनां वारिकणान् पश्यति कृतार्थः ॥ १०.३१ *(२४५) ॥* काले वारिधराणामपतितया नैव शक्यते स्थातुम् ।* उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥ १०.३२ *(२४६) ॥* असितभुजगशिशुवेष्टितमभिनवमाभाति केतकीकुसुमम् ।* आयसवलयाकंकृतविषाणमिव दन्तिनः पतितम् ॥ १०.३३ *(२४७) ॥* स्तम्बेषु केतकीनां यथोत्तरं वामनैर्दलैरद्य ।* विदलन्ति मेषतर्णकपुच्छच्छविकेशराः सूच्यः ॥ १०.३४ *(२४८) ॥* धूलीभिः केतकीनां परिमलनसमुद्धूलिताङ्गः समन्तादन्तोद्वेल्लद्बलाकावलिकुणपशिरोनद्धनीलाभ्रकेशः । प्रेङ्खद्विद्युत्पताकावलिरुचिरधनुःखण्डखट्वाङ्गधारी सम्प्राप्तः प्रोषितस्त्रीप्रतिभयजनकः कालकापालिकोऽयम् ॥ १०.३५ *(२४९) ॥ मेघश्यामदिशि प्रवृत्तधनुषि क्रीडत्तडित्तेजसि च्छन्नाहर्निशि गर्जितप्रमनसि प्रम्लानलीलारुषि । पूर्णश्रोतसि शान्तचातकतृषि व्यामुग्धचन्द्रत्विषि प्राणान् पान्थ कथं दधासि निवसन्नेतादृशि प्रावृषि ॥ १०.३६ *(२५०) ॥ क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां प्रताप्योर्वीं सर्वां वनगहनमुच्छाद्य सकलम् । क्व सम्प्रत्युष्णांशुर्गत इति समन्वेषणपरास्तडिद्दीपालोकैर्दिशि दिशि चरन्तीव जलदाः ॥ १०.३७ *(२५१) ॥ विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः संतत श्यामाम्भोधररोधसंकटवियद्विप्रोषितज्योतिषः । खद्योतानुमितोपकण्ठतरवः पुष्णन्ति गम्भीरतामासारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः ॥ १०.३८ *(२५२) ॥ अभिनन्दस्य हर्षोल्लासितचारुचन्द्रकबृहद्बर्हैर्वनानाममी जाताः पुष्पितबालशाखिन इवाभोगा भुजङ्गाशिभिः । स्पृष्टाः कोटरनिर्गतार्धतनुभिः पातुं पयोदानिलं निर्यद्वंशकरीरकोटय इव क्षोणीभृतो भोगिभिः ॥ १०.३९ *(२५३) ॥ शतानन्दस्य एताः पङ्क्तिलकूलरूढनकदस्तम्बक्वणत्कम्बवः क्रीडत्कर्कटचक्रवालविदलज्जम्बालतोयाविलाः । हृल्लेखं जनयन्त्यनूपसरितामुत्तुण्डगण्डूपदोत्कीर्णक्लिन्नमृदो नदस्थपुटितप्रान्तास्तटीभूमयः ॥ १०.४० *(२५४) ॥ योगेश्वरस्य नवे धारासारे प्रमदचटुलायाः स्थलजुषो वराटीशुभ्रायाः शफरसरणेरेभिरुपरि । कुलीरैर्भ्राम्यद्भिर्गणयितुमिव व्यापृतकरा मनः क्रीणन्तीव प्रकटविभवाः पल्वलभुवः ॥ १०.४१ *(२५५) ॥ अभिषेकस्य विन्ध्याद्रिमहालिङ्गं स्नपयति पर्यन्यधार्मिकः शुचिभिः ।* जलदेन्द्रनीलगड्डूशतोज्झितैः सम्प्रति पयोभिः ॥ १०.४२ *(२५६) ॥* पिबति व्योमकटाहे संसक्तचलत्तडिल्लतारसनः ।* मेघमहामार्जारः सम्प्रति चन्द्रातपक्षीरम् ॥ १०.४३ *(२५७) ॥* योगेश्वरस्यैतौ अर्धोद्गतेन कदली मृदुताम्रतलेन गर्भकोषेण ।* पिबति निदाघज्वरिता घनधारां करपुटेनैव ॥ १०.४४ *(२५८) ॥* तस्यैव आरोहवल्लीभिरिवाम्बुधारा राजीभिराभूमिविलम्बिनीभिः । संलक्ष्यते व्योम वटद्रुमाभमम्भोधरश्यामदलप्रकाशम् ॥ १०.४५ *(२५९) ॥ दक्षस्य नीपैः काञ्चीकृतविरचनैः पिञ्जरं श्रोणिबिम्बं मिश्रावंसौ श्रवसि वसता कन्दलीकुड्मलेन । पाण्डिच्छायः स्तनपरिसरो यूथिकाकण्ठसूत्रैरित्याकल्पः प्रकृतिललितो वल्लभः सुन्दरीणाम् ॥ १०.४६ *(२६०) ॥ लूने कालाञ्जनपरिचये शीकरैः काममक्ष्णोरेकीभूते कुचकलशयोर्वाससि श्यामसूक्ष्मे । दृष्टे स्वाभाविकतनुगुणे दुर्दिनस्वैरिणीनां धन्यो वेषान्तरविरचनं प्रत्युदास्ते कृतार्थः ॥ १०.४७ *(२६१) ॥ असौ नास्तीवेन्दुः क्वचिदपि रविः प्रोषित इव ग्रहोडूनां चक्रं नभसि लिखितप्रोञ्छितमिव । अहर्वा रात्रिर्वा द्वयमपि विलुप्तप्रविचयं घनैर्बद्धव्यूहैः किमिदमतिघोरं व्यवसितम् ॥ १०.४८ *(२६२) ॥ ।वर्{विलुप्त॰।लेम् ।म्स्क्(च्f.। ब्रोwने २००१, २१), प्रलुप्त॰ ।ेद्क्ग्(उन्मेत्रिचल्)} तावद्वाचः प्रयुक्ता मनसि विनिहिता जीविताशापि तावद्विक्षिप्तौ तावदङ्घ्री पथि पथिकजनैर्लम्भिता तावदाशा । फुल्लद्धाराकदम्बस्तबकवलयिता यावदेते न दृष्टा निर्मुक्तव्यालनीलद्युतिनवजलदव्याकुला विध्यपादाः ॥ १०.४९ *(२६३) ॥ कामं कूले नदीनामनुगिरि महिषीयूथनीडोपकण्ठे गाहन्ते शष्पराजीरभिनवशलभग्रासलोका बलाकाः । अन्तर्विन्यस्तवीरुत्तृणमयपुरुषत्रासविघ्नं कथंचित्कापोतं कोद्रवाणां कवलयति कणान् क्षेत्रकोणैकदेशे ॥ १०.५० *(२६४) ॥ योगेश्वरस्यैतौ अमुष्मिन् संनद्धे जलमुचि समभ्यस्य कतिचित्ककारान् पर्यन्तद्विगुणमतरेफप्रसविनः । स माध्यन्दात्यूहश्चलविपुलकण्ठः प्रसरति क्रमोदञ्चत्तारः क्रमवशनमन्मन्दमधुरः ॥ १०.५१ *(२६५) ॥ ।चोलो इति प्रावृड्व्रज्या॥ १० ततः शरद्व्रज्या॥ ११ ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम् । प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरभ्यधिकं चकार ॥ ११.१ *(२६६) ॥ यद्यप्यहं शशिमुखी विमलाम्बरश्रीर्बन्धूकपुष्परुचिराधरपल्लवापि । धिङ्मां तथापि गलितोरुपयोधरत्वादित्युच्चकैः शरदियं वहतीव तापम् ॥ ११.२ *(२६७) ॥ ते हंसातिथिवत्सला जलरुहां कालेन पीतायुषां संजीवौषधयो जरा जलमुचामेते शरद्वासराः । येष्वभ्यागतखञ्जरीटशबलास्तोयापसारक्रम स्तोकस्तोकतरङ्गितान्तपुलिनाः कर्षन्ति नद्यो मनः ॥ ११.३ *(२६८) ॥ धूम्रैः पक्षपुटैः पतद्भिरभितः पाण्डूदरैः खञ्जनैरायान्तीं शरदं किरन्ति रभसाल्लाजैरिवाशाङ्गनाः । मङ्गल्यं च कलङ्कपल्लवसखं स्मेरानना शर्बरी ज्योत्स्नातर्पणगौरमिन्दुकलशं व्योमाङ्गणे न्यस्यति ॥ ११.४ *(२६९) ॥ दधति धवलाम्भोदच्छायां सितच्छदपङ्क्तयो दिवि पयसि च श्वेताम्भोजभ्रमं प्रतिमाशतैः । विदधति न चेदुत्कण्ठार्द्रं शरन्मणिनूपुर ध्वनितमधुरोत्तालस्निग्धैर्मनः क्वणितोर्मिभिः ॥ ११.५ *(२७०) ॥ घनैः शेफालीनां हृदयनिबिडाश्लिष्टवसुधैः प्रसूनैरुन्नालैः पुलकिततरोद्यानतरवः । निशान्ताः प्रीणन्ति प्रमदकुररोद्गीतरभसो नभस्वद्व्याधूतस्फुटकुमुदगन्धप्लुतदिशः ॥ ११.६ *(२७१) ॥ रजःपातज्ञानां कुमुदसुमनोमण्डलभुवि स्मरस्योच्चैर्मन्त्रं किमपि जपतां हुंकृतिमियम् । स्थिरे यूनां मानग्रहपरिभवे मूर्छति घनो द्विरेफाचार्याणां मधुमदपटीयान् कलकलः ॥ ११.७ *(२७२) ॥ अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद्दिवि मसृणचक्राकृतिगतिः । चिराच्चिल्लस्तिर्यक्त्वरिततरमाहारनिपुणो निपत्यैवाकस्माच्चलचरणमूर्धं प्रपतति ॥ ११.८ *(२७३) ॥ दूरोत्पुच्छः सलयचरणो लम्बलोलत्पतत्रः कण्ठेनोच्चैर्मदकलरुतस्तोकवाचालचञ्चुः । हर्षाश्रूर्मिस्तिमितनयनन्यस्तसोत्कण्ठदृष्टेः कंचित्कालं नटति निकटे खञ्जरीटः प्रियायाः ॥ ११.९ *(२७४) ॥ मनोविनोदस्यामी तोयान्तर्लीनमीनप्रचयविचयनव्यापृतत्रोटिकोटि प्राग्भागप्रह्वकङ्कावलिधवलरुचः पर्यटत्खञ्जरीटाः । कूजत्कादम्बराजीपिहितपरिसराः शारदीनां नदीनां तीरान्ता मञ्जुगुञ्जन्मदकल्कुरबश्रेणयः प्रीणयन्ति ॥ ११.१० *(२७५) ॥ तीष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः । तोयं प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोणमुपैति पङ्कः ॥ ११.११ *(२७६) ॥ संतापिनी समदहंसकलाभिलापा प्रालेयधामधवलाम्बरमादधाना । आपाण्डुपीवरपयोधरमुद्वहन्ती काचिद्वधूर्विरहिणीव शरद्विभाति ॥ ११.१२ *(२७७) ॥ शनैः शान्ताकूताः सितकलधरच्छेदपुलिनाः पुरस्तादाकीर्णाः कलविरुतिभिः सारसकुलैः । चिताश्चित्राकारैर्निशि विकचनक्षत्रकुमुदैर्नभस्तः स्यन्दन्ते सरित इव दीर्घा दश दिशः ॥ ११.१३ *(२७८) ॥ आपीनप्रविसारितोरुविकटैः पश्चार्धभागैर्गुरुर्वेल्लत्पीवरकम्बलालसरसद्गम्भीरघण्टाकुलः । ग्रामान्तेषु नवीनसस्यहरितेषूद्दामचन्द्रातप स्मेरासु क्षणदासु धेनधवलीवर्गः परिक्रामति ॥ ११.१४ *(२७९) ॥ पृष्ठेषु शङ्खशकलच्छविषु च्छदानां राजीभिरङ्कितमलक्तकलोहिताभिः । गोरोचनाहरितबभ्रु बहिःपलाशमामोदते कुमुदमम्भसि पल्वलस्य ॥ ११.१५ *(२८०) ॥ सान्द्रस्थूलनलोपरोधविषमाः शक्यावताराः पुरस्तोयोत्तीर्णनिवृत्तनक्रजठरक्षुण्णस्थलीवालुकाः । व्यक्तव्याघ्रपदाङ्कपङ्क्तिनिचितोन्मुद्रार्द्रपङ्कोदराः संत्रासं जनयन्ति कुञ्जसरितः काचाभनीलोदकाः ॥ ११.१६ *(२८१) ॥ इक्षुत्वक्क्षोदसाराः शकटसरणयो धीरधूलीपताकाः पाकस्वीकारनम्रे शिरसि निविशते शूकशालेः शुकाली । केदारेभ्यः प्रणालैः प्रविशति शफरीपङ्क्तिराधारमारादच्छः कच्छेषु पङ्कः सुखयति सरितामातपादुक्षपालम् ॥ ११.१७ *(२८२) ॥ अभिनन्दस्य सद्यःस्नातानुलिप्ता इव दधति रुचं पल्लवाः कर्दमाङ्काः कच्छान्ताः काशतूलैः पवनवशगतैर्मेषयूथोपमेयाः । नद्यः प्रत्यग्रतीरोपनतिसरभसैः खञ्जनैः साञ्जनाक्षा हंसाः कंसारिदेहत्विषि गगनतले शङ्खशोभां वहन्ति ॥ ११.१८ *(२८३) ॥ हंसानां निनदेषु यैः कवलितैरासज्यते कूजतामन्यः कोऽपि कषायकण्ठलिठनादाघर्घरो निस्वनः । ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः ॥ ११.१९ *(२८४) ॥ श्रीकमलायुधस्य वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखानिदानीं सीमानः प्रतिविहितमञ्चाः स्वपतिभिः । कपोतैः पोतार्थं कृतनिबिडनीडा विटपिनः शिखाभिर्वल्मीकाः खरनखरखातोदरमृदः ॥ ११.२० *(२८५) ॥ शतानन्दस्य लालाकल्पैस्त्रिदशकरिणां दिग्वधूहासभूतैरध्वश्रान्तप्रवहणहरित्फेनशङ्कां दिशद्भिः । वातोदस्तैः शशधरकलाकोमलैरिन्द्रतूलैर्लीलोत्तंसं रचयितुमलं कन्यकाः कौतुकिन्यः ॥ ११.२१ *(२८६) ॥ शुभाङ्गस्य हारच्छायां वहति कुचयोरन्तराले मृणाली कर्णोपान्ते नवकुवलयैरच्युतः कर्णिकार्थः । या सीमन्ते मणिभिररुणैः सा च्छविर्बन्धुजीवैर्वेशः शोभां दिशति परमामार्तवः शालिगोप्याः ॥ ११.२२ *(२८७) ॥ मधुशीलस्य दूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः । अद्यानन्दं ददति विचरच्चक्रवाकोपचञ्चु ग्रासत्रासप्रचलशफरस्मेरनीरास्तटिन्यः ॥ ११.२३ *(२८८) ॥ डिम्बोकस्य उन्मग्नचञ्चलवनानि वनापगानामाश्यानसैकततरङ्गपरंपराणि । निम्नावशिष्टसलिलानि मनो हरन्ति रोधांसि हंसपदमुद्रितकर्दमानि ॥ ११.२४ *(२८९) ॥ व्यालीविमर्दविगलज्जलकोटराणि शाखाविलम्बिमृतशैवलकन्दलानि । दूरीभवन्ति सरितां तटकाननानि पूर्वप्रवाहमहिमानमुदाहरन्ति ॥ ११.२५ *(२९०) ॥ शुभाङ्गस्य तृणराजपाकसौरभसुगन्धयः परिणताशवो दिवसाः ।* आद्यकुलोपनिमन्त्रणसुहितद्विजदुःसहोष्माणः ॥ ११.२६ *(२९१) ॥* योगेश्वरस्य आढ्यान्निवापलम्भो निकेतगामी च पिच्छिलः पन्थाः ।* द्वयमाकुलयति चेतः स्कन्धावारद्विजातीनाम् ॥ ११.२७ *(२९२) ॥* वागुरस्य ।चोलो इति शरद्व्रज्या॥ ११ ततो हेमन्तव्रज्या॥ १२ यात्रालग्नं तुहिनमरुतां बान्धवः कुन्दलक्ष्म्याः कालः सोऽयं कमलसरसां सम्पदः कालदूतः । निद्राव्याजाज्जडिमविधुरा यत्र गाढेऽपि मन्तौ वामाः कण्ठग्रहमशिथिलं प्रेयसामाद्रियन्ते ॥ १२.१ *(२९३) ॥ अग्रे श्यामलबिन्दुबद्धतिलकैर्मध्येऽपि पाकान्वय प्रौढीभूतपटोलपाटलतरैर्मूले मनाग्बभ्रुभिः । वृन्ते कर्कशकीरपिच्छहरिभिः स्थूलैः फलैर्बन्धुराः सम्प्रत्युत्सुकयन्ति कस्य न मनः पूगद्रुमाणां छटाः ॥ १२.२ *(२९४) ॥ दलानां मूलेषु स्तिमितपतितं केसररजः समीरो नेदानीं हरति हरितालद्युतिहरम् । कुमुद्वत्याः कोषे मधु शिशिरमिश्रं मधुलिहो लिहन्ति प्रत्यूषे विरसविरसं मन्दरुचयः ॥ १२.३ *(२९५) ॥ आवाति स्फुटितप्रियङ्गुसुरभिर्नीहारवारिच्छलात्स्वच्छन्दं कमलाकरेषु विकिरन् प्रच्छन्नवह्निच्छटाः । प्रातः कुन्दसमृद्धिदर्शनरसप्रीतिप्रकर्षोल्लसन्मालाकारवधूकपोलपुलकस्थैर्यक्षमो मारुतः ॥ १२.४ *(२९६) ॥ गर्वायन्ते पलालं प्रति पथिकशतैः पामराः स्तूयमाना गोपान् गोगर्भिणीनां सुखयति बहुलो रात्रिरोमन्थबाष्पः । प्रातः पृष्ठावगाढप्रथमरविरुचिर्ग्रामसीमोपशल्ये शेते सिद्धार्थपुष्पच्छन्दनचितहिमक्लिन्नपक्ष्मा महोक्षः ॥ १२.५ *(२९७) ॥ योगेश्वरस्य कटुमधुराण्यामोदैः पर्णैरुत्कीर्णपत्रभङ्गानि ।* दमनकवनानि सम्प्रति काण्डैरेकान्तपाण्डूनि ॥ १२.६ *(२९८) ॥* लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालस्रस्तरे सोपधाने । परिहरति सुषुप्तं हालिकद्वन्द्वमारात्स्तनकलशमहोष्माबद्धरेखस्तुषारः ॥ १२.७ *(२९९) ॥ क्षेत्रोपान्तपलायमानशशकद्वन्द्वं परीक्ष्यापरानाहूयातिरसेन कर्षकजनानाबद्धकोलाहलाः । हस्तारोपितदात्ररज्जुलगुडैर्वृद्धैरवृद्धैः सह त्यक्त्वा शालिचिकर्तिषामित इतो धान्वन्त्यमी पामराः ॥ १२.८ *(३००) ॥ कृत्वा पृष्ठतरे पटच्चरमथ ज्योतिःप्रतङ्काङ्कयोरूर्वोरन्तरयोर्निषेदुषि करौ कृत्वा कुकूलानले । पार्श्वौ कम्पजडौ पिधाय कफणिद्वन्द्वेन रोमाञ्चिता प्रातर्नो न च सायमद्य जरती गेहोदरं मुञ्चति ॥ १२.९ *(३०१) ॥ वैश्यस्य न्बिन्गल्ल्स्प्रोपोसेस्तेन्ततिवेल्य्॰क्षताङ्का॰ fओर्॰प्रतङ्का॰ इन. धूमप्रायः प्रतिमुहुरतिक्षोभनोद्वान्ततेजाः कारीषाग्निः सततमृतुना सेव्यतां नीयमानः । बाहुक्षेपात्स्तनपरिसरादस्तलीलांशुकाभिर्घोषस्त्रीभिर्दिवसविरतौ भाति निर्विश्यमानः ॥ १२.१० *(३०२) ॥ आभोगिनः किमपि सम्प्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः । ग्रामास्तुषारबन्धुरगोमयाग्नि धूमावलीवलयमेखलिनो हरन्ति ॥ १२.११ *(३०३) ॥ अभिनन्दस्य मूले हरिन्ति किंचित्पार्श्वे पीतानि लोहितान्यग्रे ।* मधुरसुरभीणि सम्प्रत्यगाढपाकानि बदराणि ॥ १२.१२ *(३०४) ॥* तस्यैव भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्गीयते स्थाने रूपमनुत्तमं सुकृतिनो दानेन कर्णो जितः । इत्यालोक्य चिरं दृशा कृपणया दूरागतेन स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ १२.१३ *(३०५) ॥ योगेश्वरस्य ।चोलो इति हेमन्तव्रज्या॥ १२ ततः शिशिरव्रज्या॥ १३ कुन्दस्यापि न पूजनव्यतिकरे नाप्यात्मनो मण्डने व्यापारेऽपि तथा प्रहेणकविधेर्नार्घन्ति बद्धादराः । नार्यः कुन्दचतुर्थिकामहसमारम्भाभिषेके यथा हूतानङ्गमुलूलुकाकलरवैः प्रीणन्ति यूनां मनः ॥ १३.१ *(३०६) ॥ दुर्लक्ष्या स्याद्दमनकवने धूमधूम्रे पतन्ती कारीषाग्नेः पटमयगृहा वामलीलां तनोति । प्रादुर्भावं तिरयति रवेरध्वगानामिदानीं सर्वाङ्गीणं दिशति पलितं लोमलग्ना हिमानी ॥ १३.२ *(३०७) ॥ पूषा प्रातर्गगनपथिकः प्रस्थितः पूर्वशैलात्सूचीभेद्यप्रबलमहिकाजालकन्थावृताङ्गः । रात्रिं सर्वां हुतवहपरिष्वङ्गभाजोऽपि मन्ये जाड्याबद्धांस्त्वरयितुमयं द्राङ्न शक्नोति पादान् ॥ १३.३ *(३०८) ॥ पान्थस्यारात्क्षणमिव गतेर्मन्दिमानं दिशन्ति प्रत्यूषेषु प्रतनुसलिलोद्गीर्णबाष्पप्रवाहाः । वारां पूर्णा इव सचकिता वारपारीणदृष्टेर्दूरोत्ताना अपि शिखरिणां निर्झरद्रोणिमार्गाः ॥ १३.४ *(३०९) ॥ दूरप्रोषितकैरवाकरपरीहासाः स्वकान्ताश्मसु प्रालेयस्नपितेषु मुक्तसलिलोत्पादस्पृहाकेलयः । क्षीयन्ते सुरतान्तरेऽपि न दृशां पात्रीकृतां कामिभिः सौभाग्यापगमादिवेन्दुमहसां लावण्यशून्याः श्रियः ॥ १३.५ *(३१०) ॥ हंसैर्जर्जररूक्षपक्षमलिनैर्नक्तं दिवान्तर्बहिस्तिष्ठद्भिः परिवार्य बन्धुभिरिव स्निग्धैः कृतावेक्षणम् । प्रत्यासीदति वल्लभे जलरुहां क्षामायमाणद्युतौ बाष्पानुज्झति वारि वारिरुहिणीनाशादिवोपार्जितान् ॥ १३.६ *(३११) ॥ धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन प्राप्तानेकसुखप्रमोदवपुषां रम्यस्तुषारागमः । अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥ १३.७ *(३१२) ॥ कम्पन्ते कपयो भृशं जडकृशं गोऽजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति । शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ १३.८ *(३१३) ॥ लक्ष्मीधरस्य इदानीमर्घन्ति प्रथमकलमच्छेदमुदिता नवाग्रान्नस्थालीपरिमलमुचो हालिकगृहाः । उदञ्चद्दोर्वल्लीरणितवलयाभिर्युवतिभिर्गृहीतप्रोत्क्षिप्तभ्रमितमसृणोद्गीर्णमुशलाः ॥ १३.९ *(३१४) ॥ पाकक्षामतिलाः समुत्सुकयितुं शक्ताः कपोतान् भुवः श्यामत्वं फलपीड्यमानकुसुमानापद्यते सर्षपान् । वायुर्व्यस्तशणस्तुषारकणवानभ्येति कम्पप्रदः पान्थैः शुष्कविवादबद्धकलहैः पुण्याग्निरासेव्यते ॥ १३.१० *(३१५) ॥ योगेश्वरस्य सिद्धार्थाः फलसूचिबन्धगुरुभिर्लोलन्त्यमी पल्लवैरुच्छिन्दन्त्यध एव बन्धुरतया कोलीफलान्यर्भकाः । पाकप्रश्लथपत्रकोषदलनव्यक्ताङ्कुरग्रन्थयो निष्ठीवन्त्यपि हस्तयन्त्रकलिताः पुण्ड्रेक्षुयष्ट्यो रसम् ॥ १३.११ *(३१६) ॥ वाचस्पतेः व्यथितवनितावक्त्रौपम्यं बिभर्ति निशापतिर्गलितविभवस्याज्ञेवाद्य द्युतिर्मसृणा रवेः । अभिनववधूरोषस्वादुः करीषतनूनपादसरलजनाश्लेषक्रूरस्तुषारसमीरणः ॥ १३.१२ *(३१७) ॥ अभिनन्दस्य वारं वारं तुषारानिलतुलितपलालोष्मणां पामराणां दण्डव्याघट्टनाभिः क्रमपिहितरुचौ बोध्यमाने कृशानौ । उद्धूमैर्बीजकोषोच्चटनपटुरवैः सर्षपक्षोदकूटैः कोणे कोणे खलानां परिसरसकटुः कीर्यते कोऽपि गन्धः ॥ १३.१३ *(३१८) ॥ योगेश्वरस्य नष्टप्रायाः प्रलयमहिकाजुष्टजीर्णैः प्रतानैर्बीजान्येवोन्मदपरभृतालोचनापाटलानि । उत्पाकत्वाद्विघटितशमीकोषसंदर्शितानि व्याकुर्वन्ति स्फुटसहचरीवीरुधः कृष्णलानाम् ॥ १३.१४ *(३१९) ॥ सावर्णेः शुकस्निग्धैः पत्रैर्युवतिकरदीर्घैः किशलयैः फलिन्यो राजन्ते हिमसमयसंवर्धितरुचः । मनोज्ञा मञ्जर्यो हरितकपिशैः पांसुमुकुलैः स्फुटन्ति प्रत्यङ्गं पटुपरिमलाहूतमधुपाः ॥ १३.१५ *(३२०) ॥ शतानन्दस्य माषीणां मुषितं यवेषु यवसश्यामा छविः शीर्यते ग्रामान्ताश्च मसूरधूसरभुवः स्मेरं यमानीवनम् । पुष्पाढ्याः शतपुष्पिकाः फलभृतः सिध्यन्ति सिद्धार्थकाः स्निग्धा वास्तुकवास्तवः स्तबकितस्तम्बा च कुस्तुम्बिनी ॥ १३.१६ *(३२१) ॥ शुभाङ्गस्य पुरः पाण्डुप्रायं तदनु कपिलिम्ना कृतपदं ततः पाकोत्सेकादरुणगुणसंसर्गितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति ॥ १३.१७ *(३२२) ॥ ।चोलो इति शिशिरव्रज्या॥ १३ ततो मदनव्रज्या॥ १४ अयं स भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहासः स्मरः ॥ १४.१ *(३२३) ॥ नीलपटहस्य भ्रूशार्ङ्गाकृष्टमुक्ताः कुवलयमधुपस्तोमलक्ष्मीमुषो ये क्षेपीयाः कृष्णसारा नरहृदयभिदस्तारवक्रूरशल्याः । ते दीर्घापाङ्गपुङ्खाः स्मितविषविषमाः पक्ष्मलाः स्त्रीकटाक्षाः पायासुर्वोऽतिवीर्यास्त्रिभुवनजयिनः पञ्चबाणस्य बाणाः ॥ १४.२ *(३२४) ॥ मनसि कुसुमबाणैरेककालं त्रिलोकीं कुसुमधनुरनङ्गस्ताडयत्यस्पृशद्भिः । इति विततविचित्राश्चर्यसंकल्पशिल्पो जयति मनसिजन्मा जन्मिभिर्मानिताज्ञः ॥ १४.३ *(३२५) ॥ शत्रुः कारणमान्मनोऽपि भगवान् वामाङ्गनित्याङ्गनः स्वर्लोकस्य सुधैकपानचषको मित्रं च तारापतिः । चुम्बन्तो जगतां मनः सुमनसो मर्मस्पृशः सायका दाराः प्रीतिरती इति क्व महिमा कामस्य नालौकिकः ॥ १४.४ *(३२६) ॥ मनिविनोदस्यामू कुलगुरुबलानां केलिदीक्षाप्रदाने परमसुहृदनङ्गो रोहिणीवल्लभस्य । अपि कुसुमपृषत्कैर्देवदेवस्य जेता जयति सुरतलीलानाटिकासूत्रधारः ॥ १४.५ *(३२७) ॥ राजशेखरस्य वन्दे देवमनङ्गमेव रमणीनेत्रोत्पलच्छद्मना पाशेनायतशालिना सुनिबिडं संयम्य लोकत्रयम् । येनासावपि भस्मलाञ्छिततनुर्देवः कपाली बलात्प्रेमक्रुद्धनगात्मजाङ्घ्रिविनतिक्रीडाव्रते दीक्षितः ॥ १४.६ *(३२८) ॥ ललितोकस्य स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।* यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ १४.७ *(३२९) ॥* दामोदरगुप्तस्य अहो धनुषि नैपुण्यं मन्मथस्य महात्मनः । शरीरमक्षतं कृत्वा भिनत्त्यन्तर्गतं मनः ॥ १४.८ *(३३०) ॥ धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृतय इमे पञ्च विशिखाः । इयाञ्जेतुं यस्य त्रिभुवनमदेहस्य विभवः स वः कामः कामान् दिशतु दयितापाङ्गवसतिः ॥ १४.९ *(३३१) ॥ जयति स मदखेलोच्छृङ्खलप्रेमरामा ललितसुरतलीलादैवतं पुष्पचापः । त्रिभुवनजयसिद्ध्यै यस्य शृङ्गारमूर्तेरुपकरणमपूर्वं माल्यमिन्दुर्मधूनि ॥ १४.१० *(३३२) ॥ उत्पलराजस्य याच्यो न कश्चन गुरुः प्रतिमा च कान्ता पूजा विलोकनविगूहनचुम्बनानि । आत्मा निवेद्यमितरव्रतसारजेत्रीं वन्दामहे मकरकेतनदेवदीक्षाम् ॥ १४.११ *(३३३) ॥ वल्लणस्य ।चोलो इति मदनव्रज्या॥ १४ ततो वयःसन्धिव्रज्या॥ १५ भ्रुवोः काचिल्लीला परिणतिरपूर्वा नयनयोः स्तनाभोगोऽव्यक्तस्तरुणिमसमारम्भसमये । इदानीं बालायाः किममृतमयः किं मधुमयः किमानन्दः साक्षाद्ध्वनति मधुरः पञ्चमकलः ॥ १५.१ *(३३४) ॥ वीर्यमित्रस्य ।वर्{॰कलः।लेम् ।चोन्ज् । ।िन्गल्ल्स्, ॰लयः ।ेद्क्ग्} उन्नालालकभञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविनहनं भ्रूलास्ययोग्याग्रहः । तिर्यग्लोचनचेष्टितानि वचसि च्छेकोक्तिसंक्रान्तयः स्त्रीणां ग्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ १५.२ *(३३५) ॥ विधत्ते सोल्लेखं कतरदिह नाङ्गं तरुणिमा तथापि प्रागल्भ्यं किमपि चतुरं लोचनयुगे । यदादत्ते दृश्यादखिलमपि भावव्यतिकरं मनोवृत्तिं द्रष्टुः प्रथयति च दृश्यं प्रति जनम् ॥ १५.३ *(३३६) ॥ एतौ राजशेखरस्य एतद्दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् । मध्ये समुच्छ्वसितवृत्ति मनागुपान्ते लब्धात्मसीम कुचकुड्मलयुग्ममस्याः ॥ १५.४ *(३३७) ॥ यौवननगरारम्भे रामाहृदयस्थलीषु कुसुमेषोः ।* मकरपताकेवेयं राजति रोमावली रम्या ॥ १५.५ *(३३८) ॥* एतौ लडहचन्द्रस्य चलितशिशुदशानां यौवनारम्भरेखा परिचयपरिचुम्बत्प्रेमकौतूहलानाम् । उचितसहजलज्जादुर्बला बालिकानां गुरुजनभयभाजां केऽपि ते भ्रूविलासाः ॥ १५.६ *(३३९) ॥ गुणेश्वरस्य नैतत्समुन्नमितचूचुकमुद्रमन्तः संक्रान्तसीमकुचकोरकचक्रमस्याः । संकेतिताङ्गनवयौवननाटकस्य कश्मीरजच्छुरितनूतनकांस्यतालम् ॥ १५.७ *(३४०) ॥ नितम्बः संवादं मसृणमणिवेद्या मृगयते मनाग्गण्डः पाण्डुर्मधुमुकुललक्ष्मीं तुलयति । विशन्त्यास्तारुण्यं घुसृणघनलावण्यपयसि प्रकामं प्रोन्मज्जद्वपुरपि च तस्या विजयते ॥ १५.८ *(३४१) ॥ उद्भिन्नस्तनकुड्मलद्वयमुरः किंचित्कपोलस्थलीं लिम्पत्येव मधूककान्तिरधरः संमुग्धलक्ष्मीमयः । प्रत्यासीदति यौवने मृगदृशः किं चान्यदाविर्भवल्लावण्यामृतपङ्कलेपलडहच्छायं वपुर्वर्तते ॥ १५.९ *(३४२) ॥ गेहाद्बहिर्विरम चापलमस्तु दूरमद्यापि शैशवदशालडितानि तानि । आप्यायमानजघनस्थलपीड्यमानमर्धोरुकं त्रुटति पुत्रि तव क्षणेन ॥ १५.१० *(३४३) ॥ प्रेमासङ्गि च भङ्गि च प्रतिवचोऽप्युक्तं च गुप्तं तथा यत्नाद्याचितमाननं प्रति समाधाने च हाने च धीः । इत्यन्यो मधुरः स कोऽपि शिशुतातारुण्ययोरन्तरे वर्तिष्णोर्मृगचक्षुषो विजयते द्वैविध्यमुग्धो रसः ॥ १५.११ *(३४४) ॥ लक्ष्मीधरस्य नितम्बः स्वां लक्ष्मीमभिलषति नाद्यापि लभते समन्तात्साभोगं न च कुचविभागाञ्चितमुरः । दृशोर्लीलामुद्रा स्फुरति च न चापि स्थितिमती तदस्यास्तारुण्यं प्रथममवतीर्णं विजयते ॥ १५.१२ *(३४५) ॥ शारिद्यूतकथाकुतूहलि मनश्छेकोक्तिशिक्षारतिर्नित्यं दर्पणपाणिता सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येन लज्जा मनाक्स्तोकारोहिणि यौवने मृगदृशः कोऽप्येष केलिक्रमः ॥ १५.१३ *(३४६) ॥ दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यते पूर्वाकारमुरस्तथापि कुचयोः शोभां नवामीहते । नो धत्ते गुरुतां तदप्युपचिताभोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते नेत्रैकपेयं वपुः ॥ १५.१४ *(३४७) ॥ आकण्ठार्पितकञ्चुकाञ्चलमुरो हस्ताङ्गुलीमुद्रणा मात्रासूत्रितहास्यमास्यमलसाः पञ्चालिकाकेलयः । तिर्यग्लोचनचेष्टितानि वचसां छेकोक्तिसंक्रान्तयस्तस्याः सीदति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ १५.१५ *(३४८) ॥ दोर्मूलावधिसूत्रितस्तनमुरः स्निह्यत्कटाक्षे दृशावीषत्ताण्डवपण्डिते स्मितसुधाच्छेकोक्तिषु भ्रूलते । चेतः कन्दलितस्मरव्यतिकरं लावण्यमङ्गैर्वृतं तन्वङ्ग्यास्तरुणिम्नि सर्पति शनैरन्यैव काचिद्गतिः ॥ १५.१६ *(३४९) ॥ वारं वारमनेकधा सखि मया चूतद्रुमाणां वने पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः । तस्मिन्नद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गमुत्कम्पितं तापश्चेतसि नेत्रयोस्तरलिमा कस्मादकस्मान्मम ॥ १५.१७ *(३५०) ॥ भोज्यदेवस्य दरोत्तानं चक्षुः कलितविरलापाङ्गवलनं भविष्यद्विस्तारिस्तनमुकुलगर्भालसमुरः । नितम्बे संक्रान्ताः कतिपयकला गौरवजुषो वपुर्मुञ्चद्बाल्यं किमपि कमनीयं मृगदृशः ॥ १५.१८ *(३५१) ॥ गणितगरिमा श्रोणिर्मध्यं निबद्धवलित्रयं हृदयमुदयल्लज्जं सज्जच्चिरन्तनचापलम् । मुकुलितकुचं वक्षश्चक्षुर्मनाग्वृतवक्रिम क्रमपरिगलद्बाल्यं तन्व्या वपुस्तनुते श्रियम् ॥ १५.१९ *(३५२) ॥ बालोऽद्यापि किलेति लक्षितमलंकर्तुं निजैर्भूषणैर्रामाभिश्चिरमुद्यते हृदि लिहन्निच्छामनिच्छां वहन् । स्निह्यत्तारमथान्यदृष्टिविरहे यः संमुखं वीक्षितो नम्रः स्मेरमुखीभवन्निति वयःसन्धिश्रियालिङ्गितः ॥ १५.२० *(३५३) ॥ वल्लणस्य माध्यस्थ्यं च समस्तवस्तुषु परिप्रश्ने शिरोघूर्णनं प्रेयस्यां परमर्पितान्तरबहिर्वृत्तिप्रपञ्चक्रमः । किं चापि स्फुटदृष्टिविभ्रमकलानिर्माणशिक्षारसः प्रत्यङ्गं स्मरकेलिमुद्रितमहो बाला वयोविभ्रमे ॥ १५.२१ *(३५४) ॥ पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्यां श्रोणीबिम्बं त्यजति तनुतां सेवते मध्यभागः । धत्ते वक्षः कुचसचिवतामद्वितीयत्वमास्यं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ १५.२२ *(३५५) ॥ बाल्यं यदस्यास्त्रिवलीतटिन्यास्तटे विनष्टं सह चापलेन । तदर्थमुत्थापितचारुचैत्य कल्पौ स्तनौ पाण्डुतरौ तरुण्याः ॥ १५.२३ *(३५६) ॥ तदात्वप्रोन्मीलन्म्रदिमरमणीयात्कठिनतां निचित्य प्रत्यङ्गादिव तरुणभावेन घटितौ । स्तनौ सम्बिभ्राणाः क्षणविनयवैजात्यमसृण स्मरोन्मेषाः केषामुपरि न रसानां युवतयः ॥ १५.२४ *(३५७) ॥ मुरारेः भ्रूलीला चतुरा त्रिभागवलिता दृष्टिर्गतिर्मन्थरा विस्रब्धं हसितं कपोलफलके वैदग्ध्यवक्रं वचः । नोद्दिष्टं गुरुणा न बन्धुकथितं दृष्टं न शास्त्रे क्वचिद्बालायाः स्वयमेव मन्मथकलापाण्डित्यमुन्मीलति ॥ १५.२५ *(३५८) ॥ लावण्यामृतसिन्धुसान्द्रलहरीसंसिक्तमस्या वपुर्जातस्तत्र नवीनयौवनकलालीलालतामण्डपः । तत्रायं स्पृहणीयशीतलतरच्छायासु सुप्तोत्थितः संमुग्धो मधुबान्धवः स भगवानद्यापि निद्रालसः ॥ १५.२६ *(३५९) ॥ वीर्यमित्रस्य भ्रुविर्लीलैवान्या दरहसितमभ्यस्यति मुखं दृशोर्वक्रः पन्थास्तरुणिमसमारम्भसचिवः । इदानीमेतस्याः कुवलयदृशः प्रत्यहमयं नितम्बस्याभोगो नयति मणिकाञ्चीमधिकताम् ॥ १५.२७ *(३६०) ॥ राज्यपालस्य मध्यं बद्धवलित्रयं विजयते निःसन्धिबन्धोन्नम द्विस्तारिस्तनभारमन्थरमुरो मुग्धाः कपोलश्रियः । किंचिन्मुग्धविलोकनीरजदृशस्तारुण्यपुण्यातिथेस्तस्याः कुङ्कुमपङ्कलेपनडहच्छायं वपुर्वर्तते ॥ १५.२८ *(३६१) ॥ वज्रमुष्टेः समस्तं विज्ञाय स्मरनरपतेश्चारुचरितं चरश्चक्षुः कर्णे कथयितुमगात्सत्वरमिव । प्रयाणं बाल्यस्य प्रतिपदमभूद्विग्रहभरः परिस्पन्दो वाचामपि च कुचयोः सन्धिरभवत् ॥ १५.२९ *(३६२) ॥ उत्खेलत्त्रिवलीतरङ्गतरला रोमावलीशैवल स्रग्वलिर्युवती ध्रुवं जनमनोनिर्वाणवाराणसी । एतस्या यदुरस्तटीपरिसरे यद्बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ॥ १५.३० *(३६३) ॥ भवस्य स्तनोद्भेदः किंचित्त्यजति तनुतायाः परिचयं तथा मध्यो भागस्त्रिवलिवलयेभ्यः स्पृहयति । नितम्बे च स्वैरं विलसति विलासव्यसनिता मृगाक्ष्याः प्रत्यङ्गं कृतपदमिवानङ्गलडितम् ॥ १५.३१ *(३६४) ॥ यत्प्रत्यङ्गं तटमनुसरन्त्यूर्मयो विभ्रमाणां क्षोभं धत्ते यदपि बहलः स्निग्धलावण्यपङ्कः । उन्मग्नं यत्स्फुरति च मनाक्कुम्भयोर्द्वन्द्वमेतत्तन्मन्येऽस्याः स्मरगजयुवा गाहते हृत्तडागम् ॥ १५.३२ *(३६५) ॥ कृतनिभशतं निष्क्रामन्तीं सखीभिरनूद्धृतां कथमपि हठादाकृष्यान्ते पटस्य निवेशिताम् । नवनिधुवनक्रीडारम्भप्रकम्पविवर्तिनीमनुभवमृदूभूतत्रासां मनः स्मरति प्रियाम् ॥ १५.३३ *(३६६) ॥ स्मितं किंचिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव न मनोज्ञं मृगदृशः ॥ १५.३४ *(३६७) ॥ अस्ति भयमस्ति कौतुकमस्ति च मन्दाक्षमस्ति चोत्कण्ठा ।* बालानां प्रणयिजने भावः कोऽप्येष नैकरसः ॥ १५.३५ *(३६८) ॥* प्रगल्भानामन्ते निवसति शृणोति स्मरकथां स्वयं तत्तच्चेष्टाशतमभिनयेनार्पयति च । स्पृहामन्तः कान्ते वहति न समभ्येति निकटं यथैवेयं बाला हरति च तथैवेयमधिकम् ॥ १५.३६ *(३६९) ॥ अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल ग्रन्थिप्रग्रथितं करद्वयमुपर्युत्तानमाविभ्रता । सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तम्भिते नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् ॥ १५.३७ *(३७०) ॥ शतानन्दस्य स एष यौवनाचार्यः सिद्धये स्मरभूभुजः । प्रियायां बलिमुद्दिश्य तनोति स्तनमण्डलम् ॥ १५.३८ *(३७१) ॥ बिभ्रत्या वपुरुन्नमत्कुचयुगं प्रादुर्भवद्विभ्रमं बालाया लसदङ्गसंधिविरमद्बाल्यं वलद्भ्रूलतम् । अन्तर्विस्फुरति स्मरो बहिरपि व्रीडा समुन्मीलते स्वैरं लोचनवक्रिमा विलसति श्रीः काचिदुज्जृम्भते ॥ १५.३९ *(३७२) ॥ रुद्रस्य सुतनुरधुना सेयं निम्नां स्वनाभिमभीक्षते कलयति परावृत्तेनाक्ष्णा नितम्बसमुन्नतिम् । रहसि कुरुते वासोगुप्तौ स्वमध्यकदर्थनामपि च किमपि व्रीडां क्रीडासखीमिव मन्यते ॥ १५.४० *(३७३) ॥ यदन्योन्यप्रेमप्रवणयुवतीमन्मथकथा समारम्भे स्तम्भीभवति पुलकैरञ्चिततनुः । तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं कुरङ्गाक्षी दीक्षागुरुमकृत कंचित्सुकृतिनम् ॥ १५.४१ *(३७४) ॥ नरसिंहस्य तरन्तीवाङ्गानि स्फुरदमललावण्यजलधौ प्रथिम्नः प्रागल्भ्यं स्तनजघनमुन्मुद्रयति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढः परिचयः ॥ १५.४२ *(३७५) ॥ राजशेखरस्य गतिर्मन्दा सान्द्रं जघनमुदरं क्षाममतनुः स्तनाभोगः स्तोकं वचनमतिमुग्धं च हसितम् । विलोकभ्रूवल्लीचलनलयलोलं च नयनं क्व जातं बालायाः क्व च विषयमक्ष्णोरियमगात् ॥ १५.४३ *(३७६) ॥ सुदोकस्य हरतितरां जनहृदयं कलिकोपगता लता च दयिता च ।* यदि पुनरतनुशिलीमुखसमाकुला किं न पर्याप्तम् ॥ १५.४४ *(३७७) ॥* गोभटस्य धृतमिव पुरः पश्चात्कैश्चित्प्रणुन्नमिवोल्लसत्पुलकमिव यत्प्राप्तोच्छ्वासव्युदस्तमिथोन्तरम् । अतिगतसखीहस्तोन्मानक्रमं दिवसक्रमैरिदमनुभवद्वाञ्छापूर्तिक्षमर्द्धि कुचद्वयम् ॥ १५.४५ *(३७८) ॥ स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् ।* इति विषमे हरिणाक्ष्या वपुषि नवे क इह न स्खलति ॥ १५.४६ *(३७९) ॥* मात्रानर्तनपण्डितभ्रु वदनं किंचित्प्रगल्भे दृशौ स्तोकोद्भेदनिवेशितस्तनमुरो मध्यं दरिद्राति च । अस्या यज्जघनं घनं च कलया प्रत्यङ्गमेणीदृशः सत्यंकार इव स्मरैकसुहृदा तद्यौवनेनार्पितम् ॥ १५.४७ *(३८०) ॥ राजशेखरस्य अयि पुरारि परुन्मलयानिला ववुरमी जगुरेव च कोकिलाः ।* कलमलोत्कलितं तु न मे मनः सखि बभूव वृथैव यथैषमः ॥ १५.४८ *(३८१) ॥* उत्पलराजस्य स्खलति वयसि बाले निर्जिते राजनीव स्फुरति रतिनिधाने यौवने जेतरीव । मदमदनविवृद्धिस्पर्धयेवाबलानां किमपि वपुषि लीलाकुड्मलानि स्फुटन्ति ॥ १५.४९ *(३८२) ॥ दृष्ट्या वर्जितमार्जवं समतया दत्तं पयो वक्षसे क्षीणायुर्गतिषु त्वरा स्मितमपि भ्रूलास्यलीलासखम् । सत्या न प्रकृतौ गुरः शिशुतया प्रस्थानदत्तार्घया काप्यन्या हरिणीदृशः परिणतिः कन्दर्पमुद्राङ्किता ॥ १५.५० *(३८३) ॥ राजशेखरस्य ।चोलो इति वयःसन्धिव्रज्या ततो युवतिवर्णनव्रज्या यासां सत्यपि सद्गुणानुसरणे दोषानुरागः सदा याः प्राणान् वरमर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मकं तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥ १६.१ *(३८४) ॥ कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः । तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहतः ॥ १६.२ *(३८५) ॥ लीलास्खलच्चरणचारुगतागतानि तिर्यग्विवर्तितविलोचनवीक्षितानि । वामभ्रुवां मृदु च मञ्जु च भाषितानि निर्मायमायुधमिदं मकरध्वजस्य ॥ १६.३ *(३८६) ॥ दृष्टा काञ्चनयष्टिरद्य नगरोपान्ते भ्रमन्ती मया तस्यामद्भुतपद्ममेकमनिशं प्रोत्फुल्लमालोकितम् । तत्रोभौ मधुपौ तथोपरि तयोरेकोऽष्टमीचन्द्रमास्तस्याग्रे परिपुञ्जितेन तमसा नक्तंदिवं स्थीयते ॥ १६.४ *(३८७) ॥ मध्येहेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम प्राप्तौ तालफलद्वयं तदनु तन्निःसन्धिभावस्थितम् । पश्चात्तुल्यसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया कारेण स्फुटमेव तत्परिणतं क्वेदं वदामोऽद्भुतम् ॥ १६.५ *(३८८) ॥ वित्तोकस्यैतौ स्मितज्योत्स्नालिप्तं मृगमदमसीपत्रहरिणं मुखं तन्मुग्धाया हरति हरिणाङ्कस्य लडितम् । क्व चन्द्रे सौन्दर्यं तदधररुचिः सातिशयिनी क्व बालायास्ते ते क्व चटुलकटाक्षा नयमुषः ॥ १६.६ *(३८९) ॥ यागोकस्य आश्चर्यमूर्जितमिदं किमु किं मदीय इत्तभ्रमो यदयमिन्दुरनम्बरेऽपि । तत्रापि कापि ननु चित्रपरम्परेयमुज्जृम्भितं कुवलयद्वितयं यदत्र ॥ १६.७ *(३९०) ॥ श्रीहर्षपालदेवस्य निजनयनप्रतिबिम्बैरम्बुनि बहुशः प्रतारिता कापि ।* नीलोत्पलेऽपि विमृषति करमर्पयितुं कुसुमलावी ॥ १६.८ *(३९१) ॥* धरणीधरस्य यौवनशिल्पिसुकल्पितनूतनतनुवेश्म विशति रतिनाथे ।* लावण्यपल्लवाङ्गौ मङ्गलकलशौ स्तनावस्याः ॥ १६.९ *(३९२) ॥* एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् । अस्यास्त्रिवलिबन्धेन सैव मध्यस्य नम्रता ॥ १६.१० *(३९३) ॥ रोमावली कनकचम्पकदामगौर्या लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः । त्रैलोक्यलब्धविजयस्य मनोभवस्य सौवर्णपट्टलिखितेव जयप्रशस्तिः ॥ १६.११ *(३९४) ॥ दृशा दग्धं मनसिकं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः सुत्वे वामलोचनाः ॥ १६.१२ *(३९५) ॥ सोऽयमभ्युदितः पश्य प्रियाया मुखचन्द्रमाः । यस्य पार्वणचन्द्रेण तुल्यतैव हि लाञ्छनम् ॥ १६.१३ *(३९६) ॥ विधायापूर्वपूर्णेन्दुमस्या मुखमभूद्ध्रुवम् । धाता जिनासनाम्भोज विनिमीलनदुःस्थितः ॥ १६.१४ *(३९७) ॥ श्रीहर्षदेवस्य मैकं तमःस्तबकमूर्ध्वमपाकृथास्त्वमेणं त्यजास्य विमले नयने गृहाण । लोलालकं तरलवीक्षितमायताक्ष्याः साक्षान्मुखं यदि भवाननुकर्तुकामः ॥ १६.१५१ *(३९८) ॥ एतस्मिन्नवदातकान्तिनि कुचद्वन्द्वे कुरङ्गीदृशः संक्रान्तप्रतिबिम्बमैन्दवमिदं द्वेधा विभक्तं वपुः । आनन्दोत्तरलस्य पुष्पधनुषस्तत्कालनृत्योत्सव प्राप्तिप्रोद्यतकांस्यतालयुगलप्रायं समालोक्यते ॥ १६.१६ *(३९९) ॥ वसुकल्पस्य घनऊरू तस्या यदि यदि विदग्धोऽयमधरः स्तनद्वन्द्वं सान्द्रं यदि यदि मुखाब्जं विजयते । हतौ रम्भास्तम्भौ हतमहह बन्धूककुसुमं हतौ हेम्नः कुम्भावहह विहतः पार्वणशशी ॥ १६.१७ *(४००) ॥ यदपि विबुधैः सिन्धोरन्तः कथंचिदुपार्जितं तदपि सकलं चारुस्त्रीणां मुखेषु विभाव्यते । सुरसुमनसः श्वासामोदे शशी च कपोलयोरमृतमधरे तिर्यग्भूते विषं च विलोचने ॥ १६.१८ *(४०१) ॥ लक्ष्मीधरस्य तरलनयना तन्वङ्गीयं पयोधरहारिणी रचनपटुना मन्ये धात्रा शशिद्रवनिर्मिता । भवतु महिमा लावण्यानामयं कथमन्यथा विगलिततनुर्लेखाशेषः कथं च निशाकरः ॥ १६.१९ *(४०२) ॥ सुवर्णरेखस्य सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर्गुणः कार्मुके । एवंसादनमुत्सहेत स जगज्जेतुं कथं मन्मथं तस्यामोघममूर्भवन्ति न हि चेदस्त्रं कुरङ्गीदृशः ॥ १६.२० *(४०३) ॥ अमरसिंहस्य गुरुतां जघनस्तनयोः स्रष्टुर्मुष्ट्योन्नमय्य तुलितवतः ।* मग्नाङ्गुलिसंधित्रयनिर्गतलावण्यपङ्क्तिला त्रिवली ॥ १६.२१ *(४०४) ॥* असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्पं कन्दर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ॥ १६.२२ *(४०५) ॥ भवभूतेः त्वद्गण्डस्थलपाण्डु देहि लवलं देहि त्वदोष्ठारुणं बिम्बं देहि नितम्बिनि त्वदलकश्यामं च मे जाम्बवम् । इत्यक्षुण्णमनोज्ञचाटुजनितव्रीडः पुरन्ध्रीजनो धन्यानां भवनेषु पञ्जरशुकैराहारमभ्यर्थ्यते ॥ १६.२३ *(४०६) ॥ वाक्कूटस्य दूर्वाश्यामो जयति पुलकैरेष कान्तः कपोलः कस्तूरीभिः किमिह लिखितो द्राविडः पत्रभङ्गः । प्रत्यग्राणि प्रियकररुहक्रीडितान्येव मुग्धे शोभाभाञ्जि स्तनकलशयोस्तन्वि हारोऽपि भारः ॥ १६.२४ *(४०७) ॥ जनः पुण्यैर्यायाज्जलधिजलभावं जलमुचं तथावस्थं चैनं विदधति शुभैः शुक्तिवदने । ततस्तां श्रेयोभिः परिणतिमसौ विन्दति यया रुचिं तन्वन् पीनस्तनि हृदि तवायं विलसति ॥ १६.२५ *(४०८) ॥ अचलसिंहस्य न नीलाब्जं चक्षुः सरसिरुहमेतन्न वदनं न बन्धूकस्येदं कुसुममधरस्तद्द्युतिधरः । ममाप्यत्र भ्रान्तिः प्रथममभवद्भृङ्ग किमु ते कृतं यत्नैरेभ्यो विरम विरम श्राम्यसि मुधा ॥ १६.२६ *(४०९) ॥ मनसिजविजयास्त्रं नेत्रविश्रामपात्रं तव मुखमनुकर्तुं तन्वि वाञ्छा द्वयोश्च । इति जनितविरोधाद्भूतकोपादिवायं हरति तुहिनरश्मिः पङ्कजानां विकाशम् ॥ १६.२७ *(४१०) ॥ धर्माकरस्य चेतोभुवो रचितविभ्रमसंविधानं नूनं न गोचरमभूद्दयिताननं वः । तत्कान्तिसम्पदमवाप्स्यत चेच्चकोराः पानोत्सवं किमकरिष्यत चन्द्रिकासु ॥ १६.२८ *(४११) ॥ यद्गीयते जगति शस्त्रहता व्रजन्ति नूनं सुरालयमिति स्फुटमेतदद्य । सूच्यग्रमात्रपरिखण्डितविग्रहेण प्राप्तं यतः स्तनतटं तव कञ्चुकेन ॥ १६.२९ *(४१२) ॥ अनेन कुम्भद्वयसंनिवेश संलक्ष्यमाणेन कुचद्वयेन । उन्मज्जता यौवनवारणेन वापीव तन्वङ्गि तरङ्गितासि ॥ १६.३० *(४१३) ॥ भागुरस्य सत्यं शरैः सुमनसां हृदयं तवैतल्लोलाक्षि निर्भरमपूरि मनोभवेन । आमोदमुल्बणमकृत्रिममुद्वहन्ति श्वासाः स्वभावसुभगं कथमन्यथैते ॥ १६.३१ *(४१४) ॥ सुतनु भवगभीरं गर्तमुत्पाद्य नाभीमध उपरि निधाय स्तम्भिकां रोमराजीम् । स्तनयुगभरभङ्गाशङ्कितेनेव धात्रा त्रिवलिवलयबद्धं मध्यमालोकयामः ॥ १६.३२ *(४१५) ॥ मुहुः शस्त्रच्छेदैर्मुहुरसमपाषाणकषणैर्मुहुर्ज्योतिःक्षेपैः पयसि परितापैः प्रतिमुहुः । तदेवं तन्वङ्ग्याः कथमपि नितम्बस्थलमिदं मया लब्धं पुण्यैरिति रणति काञ्चीपरिकरः ॥ १६.३३ *(४१६) ॥ गुणवृद्धिर्वर्णलोपद्वन्द्वनिपातोपसर्गसंकीर्णा ।* दुर्घटपटवाक्यार्था व्याकरणप्रक्रियेवासौ ॥ १६.३४ *(४१७) ॥* नयनच्छलेन सुतनोर्वदनजिते शशिनि कुलविभौ क्रोधात् ।* नासानालनिबद्धं स्फुटितमिवेन्दीवरं द्वेधा ॥ १६.३५ *(४१८) ॥* चक्षुर्मेचकमम्बुजं विजयते वक्त्रस्य मित्रं शशी भ्रूसूत्रस्य सनाभि मन्मथधनुर्लावण्यपुण्यं वपुः । रेखा कापि रदच्छदे च सुतनोर्गात्रे च तत्कामिनीमेनां वर्णयिता स्मरो यदि स चेद्वैदर्भ्यमभ्यस्यति ॥ १६.३६ *(४१९) ॥ राजशेखरस्यैतौ चण्डीशदर्पदलनात्प्रभृति स्मरस्य वामभ्रुवां वदनमेव हि राजधानी । निःशङ्कमङ्कुरितपुष्पितकान्तिकाशे तत्राधुना तुहिनधाम्नि मृगाश्चरन्ति ॥ १६.३७ *(४२०) ॥ सरोकस्य लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन् स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति न मनागपि तेन मन्ये सुव्यतमेव जलराशिरयं पयोधिः ॥ १६.३८ *(४२१) ॥ आनन्दवर्धनस्य अधीराक्ष्याः पीनस्तनकलशमास्कन्दसि मुहुः क्रमादूरुद्वन्द्वं कलयसि च लावण्यललितम् । भुजाश्लिष्टो हर्षादनुभवसि हस्ताहतिकलामिदं वीणादण्ड प्रकटय फलं कस्य तपसः ॥ १६.३९ *(४२२) ॥ वाचस्पतेः न तावद्बिम्बोष्ठि स्फुरितनवरागोऽयमधरो न चामी ते दन्ताः सुदति जितकुन्देन्दुमहसः । इमां मन्ये मुद्रामतनुतरसिन्दूरसुभगामिदं मुक्तारत्नं मदननृपतेर्मुद्रितमिव ॥ १६.४० *(४२३) ॥ कमलाधरस्य इमौ रम्भास्तम्भौ द्विरदपतिकुम्भद्वयमिदं तदेतल्लीलाब्जं शरदमृतरश्मिः स्फुटमयम् । किमङ्गे तन्वङ्ग्याः कलयति जगत्कान्तमधिकं यदेतस्यां शश्वत्परवशमिवोन्मत्तमिव च ॥ १६.४१ *(४२४) ॥ जनानन्दश्चन्द्रो भवति न कथं नाम सुकृती प्रयातोऽवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् । भ्रुवोर्लीलां बालः श्रियमलिकपट्टस्य तरुणो मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥ १६.४२ *(४२५) ॥ वामदेवस्य लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह सम्प्लवन्ते । उन्मज्जति द्विरदकुम्भतटी च यत्र यत्रापरे कदलकाण्डमृणालदण्डाः ॥ १६.४३ *(४२६) ॥ श्रीविक्रमादित्यदेवस्य इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयोरसावस्याः स्पर्शो वपुषि बलहश्चन्दनरसः । अयं कण्ठे बाहुः शिशिरमसृणो मौक्तिकरसः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥ १६.४४ *(४२७) ॥ भवभूतेः नितम्बश्रीः कं न स्वगतमितयानं जनयति स्तनाभोगो मुग्धे हृदयमपरस्यापि हरति । तवाक्ष्णोरपभ्रष्टं स्मरजरशरेन्दीवरदलं मुखं तद्यस्येन्दुः प्रथमलिखनप्रोञ्छनपदम् ॥ १६.४५ *(४२८) ॥ वल्लणस्य सजन्मानौ तुल्यावभिजनभुवाजन्म च सह प्रबुद्धौ नाम्ना च स्तन इति समानऊदयिनौ । मिथः सीयमात्रे यदिदमनयोर्मण्डलवतोरपि स्पर्धायुद्धं तदिह हि नमस्यः कण्ठिनिमा ॥ १६.४६ *(४२९) ॥ भावकदेव्याः शृङ्गारद्रुममञ्जरी सुखसुधासर्वस्वनिक्षेपभूः सर्गाभ्यासफलं विधेर्मधुमयी वर्तिर्जगच्चक्षुषाम् । लीलानिर्झरिणी मनोजनृपतेर्लावण्यसिन्धोरियं वेला कस्य मृगेक्षणा सुकृतिनः सौन्दर्यसीमास्थली ॥ १६.४७ *(४३०) ॥ हिमाङ्गस्य किमियममृतवर्तिः किं नु लावण्यसिन्धुः किमथ नलिनलक्ष्मीः किं नु शृङ्गारवल्ली । इति नवहरिणाक्ष्याः कान्तिमालोकयन्तो जगदखिलमसारं भारमालोचयामः ॥ १६.४८ *(४३१) ॥ स्मितज्योत्स्नाधौतं स्फुरदधरपत्रं मृगदृशां मुखाब्जं चेत्पीतं तदलमिह पीयूषकथया । अहो मोहः कोऽयं शतमखमुखानां सुमनसां यदस्यार्थेऽत्यर्थं जलधिमथनायासमविशन् ॥ १६.४९ *(४३२) ॥ एतल्लोचनमुत्पलभ्रमवशात्पद्मभ्रमादाननं भ्रान्त्या बिम्बफलस्य चाजनि दधद्वामाधरो वेधसा । तस्याः सत्यमनङ्गविभ्रमभुवः प्रत्यङ्गमासङ्गिनी भ्रान्तिर्विश्वसृजोऽपि यत्र कियती तत्रास्मदादेर्मतिः ॥ १६.५० *(४३३) ॥ वीर्यमित्रस्य आनीलचूचुकशिलीमुखमुद्गतैक रोमावलीविपुलनालमिदं प्रियायाः । उत्तु।न्गसंगतपयोधरपद्मयुग्मं नाभेरधः कथयतीव महानिधानम् ॥ १६.५१ *(४३४) ॥ यन्नामापि सुखाकरोति कलयत्युर्वीमपि द्यामिव प्राप्तिर्यस्य यदङ्गसङ्गविधिना किं यन्न निह्नूयते । अन्तः किं च सुधासपत्नमनिशं जागर्ति यद्रागिणां विश्रम्भास्पदमद्भुतं किमपि तत्कान्तेति तत्त्वान्तरम् ॥ १६.५२ *(४३५) ॥ तन्वङ्ग्याः स्तनयुग्मेन मुखं न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥ १६.५३ *(४३६) ॥ भोज्यदेवस्य हन्तु नाम जगत्सर्वमविवेकि कुचद्वयम् । प्राप्तश्रवणयोरक्ष्णोर्न युक्तं जनमारणम् ॥ १६.५४ *(४३७) ॥ धर्मकीर्तेः ।वर्{युक्तं।लेम् ।म्स्क्, मुक्तम् ।ेद्क्ग्} न्बिन्गल्ल्सल्सो त्रन्स्लतेस्मुक्तम्, बुत्युक्तं च्लेअर्ल्य्रिघ्त्!! तन्वङ्गीनां स्तनौ दृष्ट्वा शिरः कम्पायते युवा । तयोरन्तरसंलग्नां दृष्टिमुत्पाटयन्निव ॥ १६.५५ *(४३८) ॥ पाणिनेः शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत्तपः । तरुणि येन तवाधरपाटलं दशति बिम्बफलं शुकशावकः ॥ १६.५६ *(४३९) ॥ याता लोचनगोचरं यदि विधेरेणेक्षणा सुन्दरी नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात्क्षणम् । नाप्यामीलितलोचनस्य रचनाद्रूपं भवेदीदृशं तस्मात्सर्वमकर्तृकं जगदिदं श्रेयो मतं सौगतम् ॥ १६.५७ *(४४०) ॥ धर्मकीर्तेः व्यर्थं विलोक्य कुसुमेषुमसुव्ययेऽपि गौरीपतीक्षणशिखिज्वलितो मनोभूः । रोषाद्वशीकरणमस्त्रमुपाददे यां सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥ १६.५८ *(४४१) ॥ मनोविनोदकृतः आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि व्यक्तं जन्मसमानकालमिलितामंशुच्छटां वर्षति । आत्मद्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादतिदुःस्थितस्य न विधेस्तच्छिल्पमुन्मीलितम् ॥ १६.५९ *(४४२) ॥ अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य । ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ १६.६० *(४४३) ॥ गोत्रे साक्षादजनि भगवानेष यत्पद्मयोनिः शय्योत्थायं यदखिलमहः प्रीणयन्ति द्विरेफान् । एकाग्रां यद्दधति भगवत्युष्णभानौ च भक्तिं तत्प्रापुस्ते सुतनु वदनौपम्यमम्भोरुहाणि ॥ १६.६१ *(४४४) ॥ मुरारेरमी कोषः स्फीततरः स्थितानि परितः पत्राणि दुर्गं जलं मैत्रं मण्डलमुज्ज्वलं चिरमधो नीतास्तथा कण्टकाः । इत्याकृष्टशिलीमुखेन रचनां कृत्वा तदत्यद्भुतं यत्पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम् ॥ १६.६२ *(४४५) ॥ सा रामणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुसुधामृणाल ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ १६.६३ *(४४६) ॥ भवभूतेः उपप्राकाराग्रं प्रहिणु नयने तर्कय मनागनाकाशे कोऽयं गलितहरिणः शीतकिरणः । सुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ्ज्योत्स्नामच्छां नवलवलपाकप्रणयिनीम् ॥ १६.६४ *(४४७) ॥ राजशेखरस्य चन्द्रो जडः कदलकाण्डमकाण्डशीतमिन्दीवराणि च विसूत्रितविभ्रमाणि । येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिकां क्वचिदशीतरुचिः प्रसूते ॥ १६.६५ *(४४८) ॥ अयमपि तस्यैव अलीकव्यामुक्तप्रचुरकबरीबन्धनमिषादुदञ्चद्दोर्वल्लीद्वयधृतपरीवेशनिहितः । अयं जृम्भारम्भस्फटिकशुचिदन्तांशुनिचयो मुखेन्दुर्गौराङ्ग्या गलितमृगलक्ष्मा विजयते ॥ १६.६६ *(४४९) ॥ रम्भोरु क्षिप लोचनार्धमभितो बाणान् वृथा मन्मथः संधत्तां धनुरुज्झतु क्षणमितो भ्रूवल्लिमुल्लासय । किं चान्तर्निहितानुरागमधुरामव्यक्तवर्णक्रमां मुग्धे वाचमुदीरयास्तु जगतो वीणासु भेदीभ्रमः ॥ १६.६७ *(४५०) ॥ पाणौ पद्मधिया मधूकमुकुलभ्रान्त्या तथा गण्डयोर्नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति सुतनु स्थानानि रक्षिष्यसि ॥ १६.६८ *(४५१) ॥ दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश्चिरं वीचयो रत्नान्यप्यवलोकितानि बहुशो युक्तानि मुक्ताफलैः । यत्तु प्रोञ्छितलाञ्छने हिमरुचऊन्निद्रमिन्दीवरं संसक्तं च मिथो रथाङ्गयुगलं तत्केन दृष्टं पुनः ॥ १६.६९ *(४५२) ॥ विक्रमादित्यस्य अन्योन्योपमितं युगं निरुपमं तेऽयुग्ममङ्गेषु यत्सोऽयं सिक्थकमास्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव । त्वद्वाचां स्वरमात्रिकां मदकलः पुष्कोकिलो घोषयत्यभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥ १६.७० *(४५३) ॥ लावण्यद्रविणव्ययो न गणितः क्लेशो महान् स्वीकृतः स्वच्छन्दं वसतो जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता ॥ १६.७१ *(४५४) ॥ धर्मकीर्तेः किं कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् । कामस्य घोरहरहूंकृतिदग्धमूर्तेः संजीवनौषधिरियं विहिता विधात्रा ॥ १६.७२ *(४५५) ॥ भट्टोद्भटस्य अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं तु मदनो मासः स पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १६.७३ *(४५६) ॥ कालिदासस्य तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम सा चेद्द्युतिस्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चोत्स्मितं का सुधा । धिक्कन्दर्पधनुर्भ्रुवौ यदि च ते किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ १६.७४ *(४५७) ॥ राजशेखरस्य तस्या मुखस्यायतलोचनायाः कर्तुं न शक्तः सदृशं प्रियायाः । इतीव शीतद्युतिरात्मबिम्बं निर्माय निर्माय पुनर्भिनत्ति ॥ १६.७५ *(४५८) ॥ तुलितस्त्वन्मुखेनायं यदुन्नमति चन्द्रमाः । अवनम्रमुखि व्यक्तमेतेनैवास्य लाघवम् ॥ १६.७६ *(४५९) ॥ तपस्यतीव चन्द्रोऽयं त्वन्मुखेन्दुजिगीषया । कृशः शम्भुजटाजूट तटिनीतटमाश्रितः ॥ १६.७७ *(४६०) ॥ तव तन्वि स्तनावेतौ कुर्वाते विग्रहं गुरुम् । अन्योन्यमण्डलाक्रान्तौ नष्टसंधी नृपाविव ॥ १६.७८ *(४६१) ॥ प्रायः स्तनतटीभूमिः प्रकामफलदायिनी । यस्यामग्रे करं दत्त्वा योज्यते नखलाङ्गलम् ॥ १६.७९ *(४६२) ॥ अमीषां मण्डलाभोगः स्तनानामेव शोभते । येषामुपेत्य सोत्कम्पा राजानोऽपि करप्रदाः ॥ १६.८० *(४६३) ॥ लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्यच्युतो देहार्धे वहति त्रिपिडपगुरुर्गौरीं स्वयं शंकरः । शङ्के पङ्कजसम्भवस्तु भगवानद्यापि बाल्यावधिः सर्वाङ्गप्रणयां प्रियां कलयितुं दीर्घं तपस्तप्यते ॥ १६.८१ *(४६४) ॥ ।चोलो इति युवतिवर्णनव्रज्या॥ १६ ततोऽनुरागव्रज्या॥ १७ दत्त्वा वामकरं नितम्बफलके लीलावलन्मध्यया व्यावृत्तस्तनमङ्गचुम्बिचिबुकं स्थित्वा तया मां प्रति । अन्तर्विस्फुरदिन्द्रनीलमणिमन्मुक्तावलीमांसलाः सप्रेम प्रहिताः स्मरज्वरमुचो द्वित्राः कटाक्षच्छटाः ॥ १७.१ *(४६५) ॥ आकर्णान्तविसर्पिणः कुवलयच्छायामुषश्चक्षुषः क्षेपा एव तवाहरन्ति हृदयं किं सम्भ्रमेणामुना । मुग्धे केवलमेतदाहितनखोत्खाताङ्कमुत्पांशुलं बाह्वोर्मूलमलीकमुक्तकबरीबन्धच्छलाद्दर्शितम् ॥ १७.२ *(४६६) ॥ तरत्तारं तावत्प्रथममथ चित्रार्पितमिव क्रमादेवापाङ्गे सहजमिव लीलामुकुलितम् । ततः किंचित्फुल्लं तदनु घनबाष्पाम्बुलहरी परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥ १७.३ *(४६७) ॥ वीर्यमित्रस्य लीलाताण्डवितभ्रु विभ्रमवलद्वक्त्रं कुरङ्गीदृशा साकूतं च सकौतुकं च सुचिरं न्यस्ताः किलास्मान् प्रति । नीलाब्जव्यतिमिश्रकेतकदलद्राघीयसीनां स्रजां सोदर्याः सुहृदः स्मरस्य सुधया दिग्धाः कटाक्षच्छटाः ॥ १७.४ *(४६८) ॥ राजशेखरस्य दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य तिष्ठति बलादालिङ्तिता वेपते । निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते याता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥ १७.५ *(४६९) ॥ तद्व्रीडाभरभुग्नमास्यकमलं विन्यस्य जानूपरि प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः । हास्यश्रीलवलाञ्छिता च यदसावस्याः कपोलस्थली लोकल्लोचनगोचरं व्रजति स स्वर्गादपूर्वो विधिः ॥ १७.६ *(४७०) ॥ प्रद्युम्नस्य बिसकवलनलिलामग्नपूर्वार्धकायं कमलमिति गृहीतं हंसमाशु त्यजन्त्याः । विरतचरिततारस्फारनेत्रं यदस्याश्चकितमिह न दृष्टं मूढ तद्वञ्चितोऽसि ॥ १७.७ *(४७१) ॥ अयं लोकन्मुक्तावलिकिरणमालापरिकरः स्फुटस्येन्दोर्लक्ष्मीं क्षपयितुमलं मन्मथसुहृत् । विशालः श्यामायाः स्खलितघननीलांशुकवृतिः स्तनाभोगः स्निह्यन्मसृणघुसृणालेपसुभगः ॥ १७.८ *(४७२) ॥ मन्ये हीनं स्तनजघनयोरेकमाशङ्क्य धात्रा प्रारब्धोऽस्याः परिकलयितुं पाणिनादाय मध्यः । लावण्यार्द्रे कथमितरथा तत्र तस्याङ्गुईनामामग्नानां त्रिवलिवलयच्छद्मना भान्ति मुद्राः ॥ १७.९ *(४७३) ॥ यत्रैतन्मृगनाभिपत्रतिलकं पुष्णाति लक्ष्मश्रियं यस्मिन् हासमयो विलिम्पति दिशो लावण्यबालातपः । तन्मित्रं कुसुमायुधस्य दधती बालान्धकाराञ्चिता तारैकावलिमण्डनेयमनघा श्यामा वधूर्दृश्यताम् ॥ १७.१० *(४७४) ॥ मनोविनोदस्यामी वक्त्राम्बुजं भुजमृणाललतं प्रियाया लावण्यवारि वलिवीचि वपुस्तडागम् । तत्प्रेमपङ्कपतितो न समुज्जिहीते मच्चित्तकुञ्जरपतिः परिगाहमानः ॥ १७.११ *(४७५) ॥ कृच्छ्रेणोरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीविभङ्गविषमे निष्पन्दतामागता । मद्दृष्टिस्तृषितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥ १७.१२ *(४७६) ॥ श्रीहर्षदेवस्य अलमतिचपलत्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्संगमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोकयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ १७.१३ *(४७७) ॥ नपुंसकमिति ज्ञात्वा तां प्रति प्रहितं मनः । रमते तच्च तत्रैव हताः पाणिनिना वयम् ॥ १७.१४ *(४७८) ॥ हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ १७.१५ *(४७९) ॥ धर्मकीर्तेरमी सा सुन्दरीति तरुणीति तनूदरीति मुग्धेति मुग्धवदनेति मुहुर्मुहुर्मे । कान्तामयं विरहिणीमनुरन्तुकामः कामातुरो जपति मन्त्रमिवान्तरात्मा ॥ १७.१६ *(४८०) ॥ वीर्यमित्रस्य सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयम् । सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयं दोषैरन्यजनाश्रितोऽपटवो जाताः स्म इत्यद्भुतम् ॥ १७.१७ *(४८१) ॥ धर्मकीर्तेः अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैरधिकविकसदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ १७.१८ *(४८२) ॥ यान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्धोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ १७.१९ *(४८३) ॥ परिच्छेदव्यक्तिर्भवति न पुरस्थेऽपि विषये भवत्यभ्यस्तेऽपि स्मरणमतथाभावविरमम् । न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च ॥ १७.२० *(४८४) ॥ परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥ १७.२१ *(४८५) ॥ भवभूतेरमी गच्छन्त्या मुहुरर्पितं मृगदृशा तारस्फुरद्वीक्षणं प्रान्तभ्राम्यदसञ्जितभ्रु यदिदं किं तन्न जानीमहे । क्वापि स्वेदसमुच्चयः स्नपयति क्वापि प्रकमोद्गमः क्वाप्यङ्गेषु तुषानलप्रतिसमः कन्दर्पदर्पक्रमः ॥ १७.२२ *(४८६) ॥ अमृतसिक्तमिवाङ्गमिदं यदि भवति तन्वि तवाद्भुतवीक्षितैः ।* अधरमिन्दुकरादपि शुभ्रयन्त्यरुणयन्त्यरुणादपि किं दृशम् ॥ १७.२३ *(४८७) ॥* सा नेत्राञ्जनतां पुनर्व्रजति मे वाचामयं विभ्रमः प्रत्यासन्नकरग्रहेति च करी हस्तोदरे शायितः । एतावद्बहु यद्बभूव कथमप्येकत्र मन्वन्तरे निर्माणं वपुषो ममोरुतपसस्तस्याश्च वामभ्रुवः ॥ १७.२४ *(४८८) ॥ वल्लणस्य नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसंचार सूचितेषु प्रवर्तते ॥ १७.२५ *(४८९) ॥ आदौ विस्मयनिस्तरङ्गमनु च प्रेङ्खोलितं साध्वसैर्व्रीडानम्रमथ क्षणं प्रविकसत्तारं दिदृक्षारसैः । आकृष्टं सहजाभिजात्यकलनात्प्रेम्णा पुरः प्रेरितं चक्षुर्भूरि कथंकथंचिदगमत्प्रेयांसमेणीदृशः ॥ १७.२६ *(४९०) ॥ गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः ।* चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ १७.२७ *(४९१) ॥* कालिदासस्य अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः । करोति कस्य नो बाले पिपासाकुलितं मनः ॥ १७.२८ *(४९२) ॥ दण्डिनः अस्यास्तुङ्गमिव स्तनद्वयमिदं निम्नेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च वलयो भित्तौ समायामपि । अङ्गे च प्रतिभाति मार्दवमिदं स्निग्धस्वभावश्चिरं प्रेम्णा मन्मुखचन्द्रमीक्षित एव स्मेरेव वक्तीति च ॥ १७.२९ *(४९३) ॥ स्वच्छन्दं स्वगृहाङ्गणं भ्रमति सा मद्दर्शनाल्लीयते धन्यान् पश्यति लोचनेन सकलेनार्धेन मां वीक्षते । अन्यान्मन्त्रयते पुनर्मयि गते मौनं समालम्बते नीतो दूरमहं तया दयितया सामान्यलोकादपि ॥ १७.३० *(४९४) ॥ स खलु सुकृतिभाजामग्रणीः सोऽतिधन्यो विनिहितकुचकुम्भा पृष्ठतो यन्मृगाक्षी । बहलतरनखाग्रक्षोदविन्यस्तमार्गे शिरसि टसिति लिक्षां हन्ति हूंकारगर्भम् ॥ १७.३१ *(४९५) ॥ अलसयति गात्रमधिकं भ्रमयति चेतस्तनोति संतापम् ।* मोहं च मुहुः कुरुते विषमविषं वीक्षितं तस्याः ॥ १७.३२ *(४९६) ॥* मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे कान्तापयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती धन्यः क्षपाः क्षपयति क्षणलब्धनिद्रः ॥ १७.३३ *(४९७) ॥ धिक्तस्य मूढमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समीकरोति । भ्रूभङ्गविभ्रमविलासनिरीक्षितानि कोपप्रसादहसितानि कुतः शशाङ्के ॥ १७.३४ *(४९८) ॥ तावज्जरामरणबन्धुवियोगशोक संवेगभिन्नमनसामपवर्गवाञ्छा । यावन्न वक्रगतिरञ्जननीलरोचिरेणीदृशां दशति लोचनदन्तशूकः ॥ १७.३५ *(४९९) ॥ सा यैर्दृष्टा न वा दृष्टा मुषिताः सममेव ते । हृतं हृदयमेकेषामन्येषां चक्षुषः फलम् ॥ १७.३६ *(५००) ॥ सा बालेति मृगेक्षणेति विकसत्पद्माननेति क्रम प्रोन्मीलत्कुचकुड्मलेति हृदय त्वां धिग्वृथा श्राम्यसि । मायेयं मृगतृष्णिकास्वपि पयः पातुं समीहा तव त्यक्तव्ये पथि मा कृथाः पुनरपि प्रेमप्रमादास्पदम् ॥ १७.३७ *(५०१) ॥ धर्मकीर्तेः अवचनं वचनं प्रियसंनिधावनवलोकनमेव विलोकनम् । अवयवावरणं च यदञ्चल व्यतिकरेण तदङ्गसमर्पणम् ॥ १७.३८ *(५०२) ॥ रोमाञ्चैरिव कीलिता चलति नो दृष्टिः कपोलस्थले स्वान्तं प्रेमपयोधिपङ्कपतनान्निश्चेष्टमास्ते गतम् । उद्धाराय तयोर्गता इव पुनस्त्रासान्निवृत्ता इव श्वासा दीर्घमहो गतागतममी कुर्वन्त एवासते ॥ १७.३९ *(५०३) ॥ यदि सरोजमिदं क्व निशि प्रभा यदि निशापतिरह्नि कुतो नु स । रचयतोभयधर्मि तवाननं प्रकटितं विधिना बहु नैपुणम् ॥ १७.४० *(५०४) ॥ अभिमुखे मयि संवृतमीक्षितं हसितमन्यनिमित्तकथोदयम् । विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ १७.४१ *(५०५) ॥ कोऽसौ कृती कथय को मदनैकबन्धुरुद्ग्रीवमर्चयसि कस्य मृगाक्षि मार्गम् । नीलाब्जकर्बुरितमध्यविनिद्रकुन्द दामाभिरामरुचिभिस्तरलैः कटाक्षैः ॥ १७.४२ *(५०६) ॥ गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ १७.४३ *(५०७) ॥ सावर्णेः अलसवलितैः प्रेमार्द्रार्द्रैर्निमेषपराङ्मुखैः क्षणमभिमुखं लज्जालोलैर्मुहुर्मुकुलीकृतैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽसौ मुग्धे त्वयाद्य विलोक्यते ॥ १७.४४ *(५०८) ॥ श्रीहर्षस्य उपरि कबरीबन्धग्रन्थेरथ ग्रथिताङ्गुली निजभुजलते तिर्यक्तन्व्या वितत्य विवृत्तया । विवृतविलसद्वामापाङ्गस्तनार्धकपोलया कुवलयदलस्रक्संदिग्धश्रियः प्रहिता दृशः ॥ १७.४५ *(५०९) ॥ साकूतं दयितेन सा परिजनाभ्याशे समालोकिता स्वाकूतप्रतिपादनाय रभसादाश्वासयन्ती प्रियम् । वैदर्भाक्षरगर्भिणीं गिरमुदीर्यान्यापदेशाच्छिशुं प्रीत्या कर्षति चुम्बति त्वरयति श्लिष्यत्यसूयत्यपि ॥ १७.४६ *(५१०) ॥ व्यावृत्त्या शिथिलीकरोति वसनं जाग्रत्यपि व्रीडया स्वप्नभ्रान्तिपरिप्लुतेन मनसा गाढं समालिङ्गति । दत्त्वाङ्गं स्वपिति प्रियस्य रतये व्याजेन निद्रां गता तन्वङ्ग्या विफलं विचेष्टितमहो भावानभिज्ञे जने ॥ १७.४७ *(५११) ॥ आयाते दयिते मरुस्थलभुवामुल्लङ्घ्य दुर्लङ्घ्यतां गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं मुखे । दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादरादामृष्टं करभय केशरसटाभारावलग्नं रजः ॥ १७.४८ *(५१२) ॥ केशटस्य दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १७.४९ *(५१३) ॥ ॠउओते "साकुन्तल २.१२ कालिदासस्य दूरादेव कृतोऽञ्जलिर्न स पुनः पानीयपानोचितो रूपालोकनविस्मितेन चलितं मूर्ध्ना न शान्त्या तृषः । रोमाञ्चोऽपि निरन्तरं प्रकटितः प्रीत्या न शैत्यादपामक्षुण्णो विधिरध्वगेन घटितो वीक्ष्य प्रपापालिकाम् ॥ १७.५० *(५१४) ॥ बाणस्य चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव मृशसि मृदु कर्णान्तिकगतः । करं व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ १७.५१ *(५१५) ॥ ॠउओते "साकुन्तल १.२० स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेषयन्त्या तया यातं यच्च निरम्बयोर्गुरुतया मन्दं विषादादिव । मा गा इत्युपरुद्धया यदपि तत्सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामः स्वतां पश्यति ॥ १७.५२ *(५१६) ॥ ॠउओते "साकुन्तल २.२ कालिदासस्यैतौ वक्त्रश्रीजितलज्जितेन्दुमलिनं कृत्वा करे कन्दुकं क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम् । भृङ्गाग्रग्रहकृष्टकेतकदलस्पर्धावतीनां दृशां दीर्घापाङ्गतरङ्गणैकसुहृदामेषोऽस्मि पात्रीकृतः ॥ १७.५३ *(५१७) ॥ राजशेखरस्य तरङ्गय दृशोऽङ्गने पततु चित्रमिन्दीवरं स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् । मगाग्वपुरपावृणु स्पृशतु काञ्चनं कालिकामुदञ्चय निजाननं भवतु च द्विचन्द्रं नभः ॥ १७.५४ *(५१८) ॥ एको जयति सद्वृत्तः किं पुनर्द्वौ सुसंहतौ । किं चित्रं यदि तन्वङ्ग्याः स्तनाभ्यां निर्जितं जगत् ॥ १७.५५ *(५१९) ॥ प्रणालीदीर्घस्य प्रतिकलमपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशफरफालप्रतिभुवः । स्नुवानाः सर्वस्वं कुसुमधनुषोऽस्मान् प्रति सखे नवं नेत्राद्वैतं कुवलयदृशः संनिदधति ॥ १७.५६ *(५२०) ॥ भुवनभुवि सृजन्तस्तारहारावतारान् दिशि दिशि विकिरन्तः केतकानां कुटुम्बम् । वियति विरचयन्तश्चन्द्रिकां दुग्धमुग्धां प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥ १७.५७ *(५२१) ॥ राजशेखरस्य यत्पश्यन्ति झगित्यपाङ्गसरणिद्रोणीजुषा चक्षुषा विङ्खन्ति क्रमदोलितोभयभुजं यन्नाम वामभ्रुवः । भाषन्ते च यदुक्तिभिः स्तबकितं वैदग्ध्यमुद्रात्मभिस्तद्देवस्य रसायनं रसनिधेर्मन्ये मनोजन्मनः ॥ १७.५८ *(५२२) ॥ क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्तरलितवलिरेखासूत्रसर्वस्वमस्याः । स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मां दिदृक्षोः स्मरामि ॥ १७.५९ *(५२३) ॥ स्मरशरधिसकाशं कर्णपाशं कृशाङ्गी रयविगलितताडीपत्रताडङ्कमेकम् । वहति हृदयचौरं कुङ्कुमन्यासगौरं वलयितमिव नालं लोचनेन्दीवरस्य ॥ १७.६० *(५२४) ॥ चोलाञ्चलेन चलहारलताप्रकाण्डैर्वेणीगुणेन च बलाद्वलयीकृतेन । हेलाहितभ्रमरकभ्रममण्डलीभिश्छत्रत्रयं रचयतीव चिरं नतभ्रूः ॥ १७.६१ *(५२५) ॥ अमन्दमणिनूपुरक्वणनचारुचारीक्रमं झणज्झणितमेखलास्खलिततारहारच्छटम् । इदं तरलकङ्कणावलिविशेषवाचालितं मनो हरति सुभ्रुवः किमपि कन्दुकक्रीडितम् ॥ १७.६२ *(५२६) ॥ सा दुग्धमुग्धमधुरच्छविरङ्गयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे । कम्बोर्विडम्बनकरश्च स एव कण्ठः सैवेयमिन्दुवदना मदनायुधाय ॥ १७.६३ *(५२७) ॥ क्व पातव्या ज्योत्स्नामृतभवनगर्भापि तृषितैर्मृणालीतन्तुभ्यः सिचयरचना कुत्र घटते । क्व वा पारीमेयो बत बकुलदाम्नां परिमलः कथं स्वप्नः साक्षात्कुवलयदृशं कल्पयतु ताम् ॥ १७.६४ *(५२८) ॥ राजशेखरस्यामी रसवदमृतं कः संदेहो मधून्यपि नान्यथा मधुरमपि किं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥ १७.६५ *(५२९) ॥ कुवलयवनं प्रत्याख्यातं नवं मधु निन्दितं हसितममृतं हन्त स्वादोः परं रससम्पदः । विषमुपहितं चिन्ताव्याजान्मनस्यपि कामिनामलसमधुरैर्लीलातन्त्रैस्तयार्धविलोकितैः ॥ १७.६६ *(५३०) ॥ चञ्चच्चोलाञ्चलानि प्रतिसरणरयव्यस्तवेणीनि बाहोर्विक्षेपाद्दक्षिणस्य प्रचलितवलयास्फालकोलाहलानि । श्वासत्रुट्यद्वचांसि द्रुतमितरकरोत्क्षिप्तलोलालकानि स्रस्तस्रञ्जि प्रमोदं दधति मृगदृशां कन्दुकक्रीडितानि ॥ १७.६७ *(५३१) ॥ प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेण वा किमुत सकले यातेऽप्यह्नि त्वमद्य समेष्वसि । इति दिनशतप्राप्यं देशं प्रियस्य यियासतो हरति गमनं बालालापैः सबाष्पझलज्झलैः ॥ १७.६८ *(५३२) ॥ झलज्झलस्य कल्याणं परिकल्प्यतां पिककुले रोहन्तु वाञ्चाप्तयो हंसानामुदयोऽस्तु पूर्णशशिनः स्ताद्भद्रमिन्दीवरे । इत्युद्बाष्पवधूगिरः प्रतिपदं सम्पूरयन्त्यान्तिके कान्तः प्रस्थितिकल्पितोपकरणः सख्या भृशं वारितः ॥ १७.६९ *(५३३) ॥ शृङ्गारस्य सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्ठम् । स्त्री काचिदित्यभिहिते हि मनो मदीयं तामेव वामनयनां विषयीकरोति ॥ १७.७० *(५३४) ॥ ततो दूतीवचनव्रज्या लावण्येन पिधीयतेऽङ्गतनिमा संधार्यते जीवितं त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्वेतदास्ते नवम् । निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान्मांसलैः श्यामीभूतकपोलमिन्दुरधुना यत्तन्मुखं स्पर्धते ॥ १८.१ *(५३५) ॥ शृङ्गारस्य सोद्वेगा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति ॥ १८.२ *(५३६) ॥ शृङ्गारस्यैतौ विलिम्पत्येतस्मिन्मलयजरसाद्रेण महसा दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः । दृशोर्बाष्पः पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥ १८.३ *(५३७) ॥ अम्भोरुहं वदनमम्बकमिन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः । प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः ॥ १८.४ *(५३८) ॥ वक्त्रेन्दोर्न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् । तस्यास्त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोरनुदिनं तन्व्याः परं शुष्यति ॥ १८.५ *(५३९) ॥ धर्मकीर्तेः तापोम्भःप्रसृतंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः । किं चान्यत्कथयामि रात्रिमखिलां त्वद्वर्त्मवातायने हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ १८.६ *(५४०) ॥ चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ताङुरीः । कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत्तत्काम्या सुभग त्वया वरतनुर्वातूलतां लम्भिता ॥ १८.७ *(५४१) ॥ राजशेखरस्य वपुः शारङ्गाक्ष्यास्तदविरलरोमाञ्चनिचयं त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः । बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर्विनिद्रायाः पश्चादनवरतबाष्पाम्बुनिवहाः ॥ १८.८ *(५४२) ॥ वसुकल्पस्य नो शक्या गदितुं स्मरानलदशा यास्यास्त्वयि प्रस्थिते पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः । यल्लिप्तं कुचचन्दनेन सुतनोरद्यापि चन्द्रच्छलाच्छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति ॥ १८.९ *(५४३) ॥ रुद्रस्य प्रकटयति क्षणभङ्गं पश्यति सर्वं जगद्गतं शून्यम् ।* आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिरिव ॥ १८.१० *(५४४) ॥* त्वदर्थिनी चन्दनभस्मदिग्ध ललाटलेखाश्रुजलाभिषिक्ता । मृणालचीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा ॥ १८.११ *(५४५) ॥ ये निर्दहन्ति दशनश्वसितावलोकैः क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस्ते । भीष्मोष्मभिः स्मरणमात्रविषैस्तवेयमव्याल मारयति कापि भुजङ्गभङ्गिः ॥ १८.१२ *(५४६) ॥ स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात्तल्पाद्व्यक्तमनोभवानलशिखालीढादिवाशङ्किता । सा बाला बलवन्मृगाङ्ककिरणैरुत्पादितान्तर्ज्वरा त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं वाञ्छति ॥ १८.१३ *(५४७) ॥ धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाहक्षमं क्वाथोत्फेणमिवात्तचन्दनरसं स्वेदं वपुर्मुञ्चति । अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर्भस्मभिः श्वासावेगविनिर्गतैरिव तनोः पाण्डुत्वमुन्मीलति ॥ १८.१४ *(५४८) ॥ मनोविनोदस्यैतौ अत्रैष स्वयमेव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथमप्यालिख्य सख्या भवान् । बाष्पव्याकुलमीक्षितः सरभसं चूताङ्कुरैरर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः ॥ १८.१५ *(५४९) ॥ डिम्बोकस्य सा सुन्दरी तव वियोगहुताशनेऽस्मिन्नभ्युक्ष्य बाष्पसलिलैर्निजदेहहव्यम् । जन्मान्तरे विरहदुःखविनाशकामा पुंस्कोकिलाभिहितिमन्त्रपदैर्जुहोति ॥ १८.१६ *(५५०) ॥ प्रभाकरस्य सुभग सुकृतप्राप्यो यद्यप्यसि त्वमसावपि प्रियसहचरी नाधन्यानामुपैति विधेयताम् । तदलमधुना निर्बन्धेन प्रसीद परस्परं प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् ॥ १८.१७ *(५५१) ॥ वाक्कूटस्य दोलालोलाः श्वसनमरुतश्चक्षुषी निर्झराभे तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः । तद्गात्राणां किमिव हि वयं ब्रूमहे दुर्बलत्वं येषामग्रे प्रतिपदुदिता चन्द्रलेखाप्यतन्वी ॥ १८.१८ *(५५२) ॥ तस्यास्तापभुवं नृशंस कथयाम्येणीदृशस्ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि । आदौ शुष्यति संकुचत्यनु ततश्चूर्णत्वमादद्यते पश्चान्मुर्मुरतां दधद्दहति च श्वासावधूतं सखीम् ॥ १८.१९ *(५५३) ॥ उत्पलरजास्य विषं चन्द्रालोकः कुमुदवनवातो हुतवहः क्षतक्षारो हारः स खलु पुटपाको मलयजः । अये किंचिद्वक्रे त्वयि सुभग सर्वे कथममी समं जातास्तस्यामहह विपरीतप्रकृतयः ॥ १८.२० *(५५४) ॥ अचलसिंहस्य त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता शून्यालिङ्गनसंवलद्भुजयुगेनात्मानमालिङ्गति । किं चान्यद्विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात्प्रत्युज्जीवति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः ॥ १८.२१ *(५५५) ॥ गाढावधःकृतवलित्रितयौ सुसङ्गौ तुङ्गौ स्तनाविति तयोस्तलमार्तमागात् ।* तस्याः स्फुटं हृदयमित्यपि न स्मरेषूंस्तौ रक्षतः प्रविशतो विमुखोऽथ वा क्व ॥ १८.२२ *(५५६) ॥* वल्लणस्य मृगशिशुदृशस्तस्यास्तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर्मया न हि वैधवी । इति तु नियतं नारीरूपः स लोकदृशां प्रियस्तव शठतया शिल्पोत्कर्षो विधेर्विघटिष्यते ॥ १८.२३ *(५५७) ॥ पुनरुक्तावधि वासरमेतस्याः कितव पश्य गणयन्त्याः ।* इयमिव करजः क्षीणस्त्वमिव कठोराणि पर्वाणि ॥ १८.२४ *(५५८) ॥* धरणीधरस्य ।चोलो इति दूतीवचनव्रज्या ततः सम्भोगव्रज्या प्रौढप्रेमरसान्नितम्बफलकाद्विश्रंसितेऽप्यंशुके काञ्चीदाममणिप्रभाभिरनु चारब्धे दुकूलान्तरे । कान्तेनाशु मुधा विलोकितमथो तन्व्या मुधा लज्जितं भूयोऽनेन मुधावकृष्टमथ तत्तन्व्या मुधा संवृतम् ॥ १९.१ *(५५९) ॥ रूढे रतिव्यतिकरे करणीयशेष मायासभाजि दयिते मुहुरातुरायाः । प्रत्यक्षरं मदनमन्थरमर्थयन्त्याः किं किं न हन्त हृदयंगममङ्गनायाः ॥ १९.२ *(५६०) ॥ रतान्तश्रान्तायाः स्तनजघनसंदानितदृशि स्मरावेशव्यग्रे दवयति दुकूलं प्रणयिनि । क्षणं श्रोणौ पाणी क्षणमपि कुचाग्रे प्रियदृशोः क्षणं विन्यस्यन्त्या जगदपि न मूल्यं मृगदृशः ॥ १९.३ *(५६१) ॥ तैस्तैर्विजृम्भितशतैर्मदनोपदेशैर्मुग्धा विधाय लडितानि च तानि तानि । अङ्के निलीय कमितुः शिथिलाङ्गमुद्रा निद्राति नाल्पतपसः फलसम्पदेषा ॥ १९.४ *(५६२) ॥ यद्व्रीडाभरभुग्नमास्यकमलं यच्चक्षुरत्युल्लसत्पक्ष्मश्रेणि यदङ्गमङ्गजमनोराज्यश्रियामाश्रयः । यद्वर्धिष्णु मनोभवप्रनयिता यन्मन्दमन्युग्रहस्तेनैवेह मनो हरत्यधरितप्रौढा नवोढा न किम् ॥ १९.५ *(५६३) ॥ स स्वर्गादपरो विधिः स च सुधासेकः क्षणं नेत्रयोस्तत्साम्राज्यमगञ्जितं तदपरं प्रेम्णः प्रतिष्ठास्पदम् । यद्बाला बलवन्मनोभवभयभ्रश्यत्तपं सत्रपा तत्कालोचितनर्मकर्म दयितादभ्यास्यमभ्यस्यति ॥ १९.६ *(५६४) ॥ समालिङ्गत्यङ्गैरपसरति यत्प्रेयसि वपुः पिधातुं यद्दृश्यं घटयति घनालिङ्गनमपि । तपोभिर्भूयोभिः किमु न कमनीयं सुकृतिनामिदं रम्यं वाम्यं मदनविवशाया मृगदृशः ॥ १९.७ *(५६५) ॥ इदममृतममेयं सेयमानन्दसिन्धुर्मधुमधुरमपीदं किंचिदन्तर्धुनोति । यदयमुदयलीलालालसानां वधूनां रतिविनिमयभाजां केलिभिर्याति कालः ॥ १९.८ *(५६६) ॥ कोऽसौ सुन्दरि पुष्पसायकसखः सौभाग्यवारांनिधः कोऽसाविन्दुमुखि प्रसन्नहृदयः कः कुम्भिकुम्भस्तनि । यस्मिन् विस्मयनीयतप्ततपसे स्वैरं समुच्छृङ्खला विश्राम्यन्ति तव स्मरज्वरहराः कन्दर्पकेलिश्रियः ॥ १९.९ *(५६७) ॥ प्रद्युम्नस्य आत्ते वाससि रोद्धुमक्षमतया दोःकन्दलीभ्यां स्तनौ तस्योरःस्थलमुत्तरीयविषये सद्यो मया सञ्जितम् । श्रोणीं तस्य करेऽधिरोहति पुनर्व्रीडाम्बुधौ मामथो मञ्जन्तीमुदतारयन्मनसिजो देवः स मूर्छागुरुः ॥ १९.१० *(५६८) ॥ वल्लणस्य यदेतद्धन्यानामुरसि युवतीसङ्गसमये समारूढं किंचित्पुलकमिदमाहुः किल जनाः । मतिस्त्वेषास्माकं कुचयुगतटीचुम्बकशिला निवेशादाकृष्टः स्मरशरशलाकोत्कर इव ॥ १९.११ *(५६९) ॥ संकर्षणस्य अङ्गाकृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधःसंसक्तमूरुद्वयम् । नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः स्फूत्कृतवातवेपितशिखः कर्णोत्पलेनाहतः ॥ १९.१२ *(५७०) ॥ जिह्रेमि जागर्ति गृहोपकण्ठे सखीजनो वल्लभकौतुकेन । तदंशुकाक्षेपमधीरपाणे विमुञ्च काञ्चीमणयो रणन्ति ॥ १९.१३ *(५७१) ॥ महोदधेः कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्वासश्च श्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ कास्मि रतं तु किं कथमपि स्वल्पापि मे न स्मृतिः ॥ १९.१४ *(५७२) ॥ विकटनितम्बायाः अतिप्रौढा रात्रिर्बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परमसौ । सखि स्वैरं स्वैरं सुरतमकरोद्व्रीडितवपुर्यतः पर्यङ्गोऽयं रिपुरिव कडत्कारमुखरः ॥ १९.१५ *(५७३) ॥ धन्यासि यत्कथयसि प्रियसंगमेन नर्मस्मितं च वचनं च रसं च तस्य । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किंचिदपि स्मरामि ॥ १९.१६ *(५७४) ॥ विद्यायाः जयति समरतान्तान्दोलनापाण्डगण्ड स्थलकृतनिजवासखेदपूरानुजन्मा । श्लथतनुभुजबन्धप्राप्रदीर्घप्रसारो मुखपरिमलमुग्धः कान्तयोः श्वासवातः ॥ १९.१७ *(५७५) ॥ मनोजन्मप्रौढव्यतिकरशतायासविधिषु प्रियः प्रायो मुग्धो झगिति कृतचेतोभवविधिः । सहूंकारोज्जृम्भा स्मरपरवशा कान्तविमुखं मुखं मुग्धापाङ्गं क्षिपति विरसं प्रौढयुवती ॥ १९.१८ *(५७६) ॥ नवनवरहोलीलाभ्यासप्रपञ्चितमन्मथ व्यतिकरकलाकल्लोलान्तर्निमग्नमनस्कयोः । अपि तरुणयोः किं स्यात्तस्यां दिवि स्पृहयालुता मुकुलितदृशोरुद्भिद्यन्ते न चेद्विरहत्विषः ॥ १९.१९ *(५७७) ॥ तस्यापाङ्गविलोकितस्य मधुरप्रोल्लासितार्धभ्रुवस्तस्य स्मेरशुचेः क्रमस्य च गिरां मुग्धाक्षराणां ह्रिया । भावानामपि तादृशां मृगदृशो हावानुगानामहो नाधन्यः कुरुते प्ररूढपुलकैरातिथ्यमङ्गैर्जनः ॥ १९.२० *(५७८) ॥ समाकृष्टं वासः कथमपि हठात्पश्यति मयि क्रमादूरुद्वन्द्वं जरठशरगौरं मृगदृशः । तया दृष्टिं दत्त्वा महति मणिदीपे निपुणया निरुद्धं हस्ताभ्यां झगिति मम नेत्रोत्पलयुगम् ॥ १९.२१ *(५७९) ॥ अनल्पं संतापं शमयति मनोजन्मजनितं तथा शीतं स्फीतं हिमवति निशीथे ग्लपयति । तदेवं कोऽप्यूष्मा रमणपरिरम्भोत्सवमिलत्पुरन्ध्रीनीरन्ध्रस्तनकलशजन्मा विजयते ॥ १९.२२ *(५८०) ॥ नाधन्यान् विपरीतमोहनरसप्रेङ्खन्नितम्बस्थली लोलद्भूषणकिङ्किणीकलरवव्यामिश्रकण्ठस्वनम् । संरम्भश्लथकेशबन्धविगलन्मुक्ताकलापद्रुत श्वासच्छेदतरङ्गितस्तनयुगं प्रीणाति शृङ्गारिणी ॥ १९.२३ *(५८१) ॥ सोन्नोकस्य शीत्कारवन्ति दरमीलितलोचनानि रोमाञ्चमुञ्चितनुघर्मकणावलीनि । एणीदृशां मकरकेतुनिकेतनानि वन्दामहे सुरतविभ्रमचेष्टितानि ॥ १९.२४ *(५८२) ॥ मुहुर्व्रीडावत्याः प्रतिहसितवत्याः प्रतिमुहुर्मुहुर्विश्रान्ताया मुहुरभिनिविष्टव्यवसितेः । श्रमाम्भोभिस्तम्यत्तिलकमलिकाघूर्णदलकं मुखं लीलावत्या हरति विपरीतव्यतिकरे ॥ १९.२५ *(५८३) ॥ सुरभेः आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम । स्वेदः किं न सरिन्नाथो रोमाञ्चः किं न पर्वतः ॥ १९.२६ *(५८४) ॥ चिरारूढप्रेमप्रणयपरिहासेन हृतया तदारब्धं तन्व्या न तु यदबलायाः समुचितम् । अनिर्व्यूढे तस्मिन् प्रकृतिसुकुमाराङ्गलतया पुनर्लज्जालोलं मयि विनिहितं लोचनयुगम् ॥ १९.२७ *(५८५) ॥ नखदशननिपातजर्जराङ्गी रतिकलहे परिपीडिता प्रहारैः । सपदि मरणमेव सा तु यायाद्यदि न पिबेदधरामृतं प्रियस्य ॥ १९.२८ *(५८६) ॥ मुग्धे तवास्मि दयिता दयितो भव त्वमित्युक्तया न हि न हीति शिरोऽवधूय । स्वस्मात्करान्मम करे वलयं क्षिपन्त्या वाचं विनाभ्युपगमः कथितो मृगाक्ष्या ॥ १९.२९ *(५८७) ॥ पततु तवोरसि सततं दयिताधम्मिल्लमल्लिकाप्रकरः ।* रतिरसरभसकचग्रहलुलितालकवल्लरीगलितः ॥ १९.३० *(५८८) ॥* बाणस्य आवृण्वाना झगिति जघनं मद्दुकूलाञ्चलेन प्रेङ्खक्रीडाकुलितकबरीबन्धनव्यग्रपाणिः । अर्धोच्छ्वासस्फुटनखपदालंकृताभ्यां स्तनाभ्यां दृष्टा धार्ष्ट्यस्मृतिनतमुखी मोहनान्ते मया सा ॥ १९.३१ *(५८९) ॥ अभिनन्दस्य हरति रतिविमर्दे लुप्तपात्राङ्कुरत्वात्प्रकटनखपदाङ्कः किं च रोमाञ्चमुद्रः । हरिणशिशुदृशोऽस्या मुग्धमुग्धं हसन्त्याः परिणतशरकाण्डस्निग्धपाण्डुः कपोलः ॥ १९.३२ *(५९०) ॥ वीर्यमित्रस्य करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति करैः पत्युर्नेत्रे विहस्य समाकुला सुरतविरतौ रम्या तन्वी मुहुर्मुहुरीक्षितुम् ॥ १९.३३ *(५९१) ॥ विश्रान्तिं नूपुरे याते श्रूयते रसनाध्वनिः । प्रायः कान्ते रतिश्रान्ते कामिनी पुरुषायते ॥ १९.३४ *(५९२) ॥ भावोद्गाढमुपोढकम्पपुलकैरङ्गैः समालिङ्गितं रागाच्चुम्बितमभ्युपेत्य वदनं पीतं च वक्त्रामृतम् । जल्पन्त्यैव मुहुर्न नेति निभृतं प्रध्वस्तचारित्रया निःशेषेण समापितो रतविधिर्वाचा तु नाङ्गीकृतः ॥ १९.३५ *(५९३) ॥ यत्पीनस्तनभारलालसलसद्वासःस्फुरद्गण्डया तन्वङ्ग्या रभसार्पितं सरभसं वक्त्रं मुहुः पीयते । तच्छ्लाघ्यं सुरतं च तत्तदमृतं तद्वस्तु तद्ब्रह्म तच्चेतोहारि तदेव तत्किमपि तत्तत्त्वान्तरं सर्वथा ॥ १९.३६ *(५९४) ॥ न बत विधृतः काञ्चीस्थाने करः श्लथवाससि प्रहितमसकृद्दीपे चक्षुर्घनस्थिरतेजसि । कुचकलशयोरूढः कम्पस्तया मम संनिधौ मनसिजरुजो भावैरुक्ता वचोभिरपह्नुताः ॥ १९.३७ *(५९५) ॥ अभिनन्दस्य हर्षाश्रुदूषितविलोचनया मयाद्य किं तस्य तत्सखि निरूपितमङ्गमङ्गम् । रोमाञ्चकञ्चुकतिरस्कृतदेहया वा ज्ञातानि तानि परिरम्भसुखानि किं वा ॥ १९.३८ *(५९६) ॥ अचलस्य स कस्मान्मे प्रेयान् सखि कथमहं तस्य दयिता यतो मां स्पृष्ट्वैव स्नपयति करं स्वेदपयसा । विलोक्याश्लेषादप्यवहित इवामील्य नयने व्युदञ्चद्रोमाञ्चस्थगितवपुरालिङ्गति समाम् ॥ १९.३९ *(५९७) ॥ किमपि किमपि मन्दं मन्दमासत्तियोगादविचलितकपोलं जल्पतोश्च क्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥ १९.४० *(५९८) ॥ ॠउओते उत्तररामचरित १.२७ भवभूतेः दाक्षिण्यादभिमानतो रसवशाद्विश्रामहेतोर्मम प्रागल्भ्याद्यदनुष्ठितं मृगदृशा शक्यं न तद्योषिताम् । निर्व्यूढं न यदा तया तदखिलं खिन्नैस्तरत्तारकैः सव्रीडैश्च विलोकितैर्मयि पुनर्न्यस्तः समस्तो व्ययः ॥ १९.४१ *(५९९) ॥ वलितमनसोरप्यन्योन्यं समावृतभावयोः पुनरुपचितप्रायप्रेम्णोः पुनस्त्रपमाणयोः । इह हि निबिडव्रीडानङ्गज्वरातुरचेतसोर्नवतरुणयोः को जानीते किमद्य फलिष्यति ॥ १९.४२ *(६००) ॥ लक्ष्मीधरस्य द्रष्टुं केतकपत्रगर्भसुभगामूरुप्रभामुत्सुकस्तत्संवाहनलीलया च शनकैराक्षिप्तचण्डातकः । लज्जामुग्धविलोचनस्मितसुधानिर्धौतबिम्बाधरं कमप्रश्लथबाहुबन्धनमसवालिङ्गितो बालया ॥ १९.४३ *(६०१) ॥ निद्रार्तं किल लोचनं मृगदृशा विश्लेषयन्त्या कथां दीर्घापाङ्गसरित्तरङ्गतरलं शय्यामनुप्रेषितम् । उज्जृम्भः किल वल्लभोऽपि विरते वस्तुन्यपि प्रस्तुते घूर्णन्ती किल सापि हूंकृतवती शून्यं सखी दक्षिणा ॥ १९.४४ *(६०२) ॥ दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः । तिर्यग्वर्तितकन्धरां सपुलकस्वेदोद्गमोत्कम्पिनीमन्तर्हासचलत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १९.४५ *(६०३) ॥ कुचोपान्तं कान्ते लिखति नखराग्रैरकलितं ततः किंचित्पश्चाद्वलति च मुखेन्दौ मृगदृशः । बहिर्व्याजामर्षप्रसरपरुषान्तर्गतरसा निरीक्ष्या रे मायी किमिदमिति पूर्वा विजयते ॥ १९.४६ *(६०४) ॥ जीवचन्द्रस्य आश्लेषे प्रथमं क्रमादपहृते हृद्येऽधरस्यार्पणे केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति । अन्तर्गूढविगाढसम्भ्रमरसस्फारीभवद्गण्डया तूष्णीं शारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ १९.४७ *(६०५) ॥ राजशेखरस्य आश्लेषचुम्बनरतोत्सवकौतुकानि क्रीडा दुरोदरपणः प्रतिभूरनङ्गः । भोगः स यद्यपि जये च पराजये च यूनोर्मनस्तदपि वाञ्छति जेतुमेव ॥ १९.४८ *(६०६) ॥ मुरारेः कलहकलया यत्संवृत्यै त्रपावनतानना पिहितपुलकोद्भेदं सुभ्रूश्चकर्ष न कञ्चुकम् । दयितमभितस्तामुत्कण्ठां विवव्रुरनन्तरं झटिति झटिति त्रुट्यन्तोऽन्तः स्तनांशुकसन्धयः ॥ १९.४९ *(६०७) ॥ रतिपतिधनुर्ज्याटङ्कारो मदद्विपडिण्डिमः सपुलकजलप्रेमप्रावृट्पयोधरगर्जितम् । निधुवनयुधस्तूर्यातोद्यं जहार नतभ्रुवां जघनसरसीहंसस्वानः श्रुतिं रसनारवः ॥ १९.५० *(६०८) ॥ युगलमगलत्तर्षोत्कर्षे तरूत्पलगौरयोः पटुविघटनादूर्वोः पूर्वं प्रिये परिपश्यति । श्रुतिकुवलयं दीपोच्छित्त्यै निरास यदङ्गना ज्वलति रसनारोचिर्दीपे तदाप निरर्थताम् ॥ १९.५१ *(६०९) ॥ ॠउओते कप्फिणाभ्युदय १४.२४ दशनदशनैरोष्ठो मम्लौ न पल्लवकोमलो व्यसहत नखच्छेदानङ्गं शिरीषमृदुच्छवि । न भुजलतिकागाढाश्लेषैः श्रमं ललिता ययुर्युवतिषु किमप्यव्याख्येयं स्मरस्य विजृम्भितम् ॥ १९.५२ *(६१०) ॥ ॠउओते कप्फिणाभ्युदय १४.२८ किमुपगमिता भर्त्रा तप्तद्विलोहवेदकतामुत रमयितुः स्यूताङ्गेऽङ्गे शितैः स्मरसायकैः । विलयनमथ प्राप्ता रागानलोष्मभिरित्यहो न पतिभुजयोर्निष्यन्दान्तः प्रिया निरवीयत ॥ १९.५३ *(६११) ॥ ॠउओते कप्फिणाभ्युदय १४.२९ काश्मीरभट्टश्रीशिवस्वामिनश्चैते ।चोलो इति सम्भोगव्रज्या ततः समाप्तनिधुवनचिह्नव्रज्या राजन्ति कान्तनखरक्षतयो मृगाक्ष्या लाक्षारसद्रवमुचः कुचयोरुपान्ते । अन्तःप्रवृद्धमकरध्वजपावकस्य शङ्के विभिद्य हृदयं निरगुः स्फुलिङ्गाः ॥ २०.१ *(६१२) ॥ राजशेखरस्य जयन्ति कान्तास्तनमण्डलेषु विटार्पितान्यार्द्रनखक्षतानि । लावण्यसंभारनिधानकुम्भे मुद्राक्षराणीव मनोभवस्य ॥ २०.२ *(६१३) ॥ क्वचित्ताम्बूलाङ्कः क्वचिदगरुपङ्काङ्कमलिनः क्वचिच्चूर्णोद्गारैः क्वचिदपि च सालक्तकपदः । वलीभङ्गाभोगेष्वलकपतिताकीर्णकुसुमः स्त्रियाः सर्वावस्थं कथयति रतं प्रच्छदपटः ॥ २०.३ *(६१४) ॥ पीततुङ्गकठिनस्तनान्तरे कान्तदत्तमबला नखक्षतम् । आवृणोति विवृणोति चेक्षते लब्धरत्नमिव दुःखितो जनः ॥ २०.४ *(६१५) ॥ उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतमनुकर्तुं राजकीरे प्रवृत्ते । तिरयति शिशुलीलानर्तनच्छद्मताल प्रचलवलयमालास्फालकोलाहलेन ॥ २०.५ *(६१६) ॥ प्रदोषे दम्पत्योर्निजरुचि विभिन्ने प्रणयिनोर्विभिन्ने सम्पन्ने घनतिमिरसंकेतगहने । रतौत्सुक्यात्ताम्यत्तरलमनसोः पर्यवसिते कृतार्थत्वेऽन्योन्यं तदनु विदितौ किं न कुरुताम् ॥ २०.६ *(६१७) ॥ पश्यसि नखसम्भूतां रेखां वरतनु पयोधरोपान्ते ।* किं वाससा स्तनान्तं रुणत्सि हिमरुचिकृते वच्मि ॥ २०.७ *(६१८) ॥* यद्रात्रौ रहसि व्यपेतविनयं दृष्टं रसात्कामिनोरन्योन्यं शयनीयमीहितरसव्याप्तिप्रवृत्तस्पृहम् । तत्सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित्स्थितम् ॥ २०.८ *(६१९) ॥ किं भूषणेन रचितेन हिरण्मयेन किं रोचनादिरचितेन विशेषकेण । आर्द्राणि कुङ्कुमरुचीनि विलासिनीनामङ्गेषु किं नखपदानि न मण्डलानि ॥ २०.९ *(६२०) ॥ दम्पत्योर्निशि जल्पितं गृहशुकेनाकर्णितं यद्वचः प्रातस्तद्गुरुसन्निधौ निगदतस्तस्यैव तारं वधूः । हाराकर्षितपद्मरागशकलं विन्यस्य चञ्चोः पुरो व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ २०.१० *(६२१) ॥ प्रयच्छाहारं मे यदि तव रहोवृत्तमखिलं मया वाच्यं नोच्चैरिति गृहशुके जल्पति शनैः । वधूवक्त्रं व्रीडाभरनमितमन्तर्विहसितं हरत्यर्धोन्मीलन्नलिनमलिनावर्जितमिव ॥ २०.११ *(६२२) ॥ नखक्षतं यन्नवचन्द्रसन्निभं स्थितं कृशाङ्गि स्तनमण्डले तव । इदं तरीतुं त्रिवलीतरङ्गिणीं विराजते पञ्चशरस्य नौरिव ॥ २०.१२ *(६२३) ॥ हंहो कान्त रहोगतेन भवता यत्पूर्वमावेदितं निर्भिन्ना तनुरावयोरिति मया तज्जातमद्य स्फुटम् । कामिन्या स्मरवेदनाकुलदृशा यः केलिकाले कृतः सोऽत्यर्थं कथमन्यथा दहति मामेव त्वदोष्ठव्रणः ॥ २०.१३ *(६२४) ॥ अभिमुखपतयालुभिर्ललाटश्रमसलिलैरविधौतपत्रलेखः ।* कथयति पुरुषायितं वधूनां मृदितहिमद्युतिदुर्मनाः ॥ २०.१४ *(६२५) ॥* मुरारेः नखपदवलिनाभीसंधिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः । अपि रहसि कृतानां वाग्विहीनोऽपि जातः सुरतविलसितानां वर्णको वर्णकोऽसौ ॥ २०.१५ *(६२६) ॥ नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्ददष्टम् । प्रतिदिशमपरस्त्रीसंगशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ २०.१६ *(६२७) ॥ माघस्यैतौ काश्मीरपङ्कखचितस्तनपृष्ठताम्र पट्टावकीर्णदयितार्द्रनखाक्षराली । एणीदृशः कुसुमचापनरेन्द्रदत्त तारुण्यशासनमिव प्रकटीकरोति ॥ २०.१७ *(६२८) ॥ दक्षस्य अधरः पद्मरागोऽयमनर्घः सव्रणोऽपि ते । मुग्धे हस्तः किमर्थोऽयमपार्थ इह दीयते ॥ २०.१८ *(६२९) ॥ दरम्लानं वासो लुलितकुसुमालंकृति शिरः श्लथालोकं चक्षुः सरसनखलेखाङ्कितमुरः । लसत्काञ्चीग्रन्थिस्फुरदरुणरत्नांशु जघनं प्रियाङ्गोप्न्मृष्टाङ्ग्या विषमिदमियद्भावकनृणाम् ॥ २०.१९ *(६३०) ॥ वल्लणस्य प्रत्यूषे गुरुसंनिधौ गृहशुके तत्तद्रहोजल्पितं प्रस्तोतुं परिहासकारिणि पदैरर्धोदितैरुद्यते । क्रीडाशारिकया निलीय निभृतं त्रातुं त्रपार्तां वधूं प्रारब्धः सहसैव सम्भ्रमकरो मार्जारगर्जारवः ॥ २०.२० *(६३१) ॥ तल्पे चम्पककल्पिते सखि गृहोद्यानेऽद्य सुप्तासि किं तत्किञ्जल्कचयं न पश्यसि कुचोपान्ते विमर्दारुणम् । आः किं छद्मविदग्धमानिनि मयि ब्रूषे पुरोभागिनि क्रूरैरुल्लिखितास्मि तत्र कुसुमान्युच्चिन्वती कण्टकैः ॥ २०.२१ *(६३२) ॥ सोन्नोकस्य इतः पौरस्त्यायां ककुभि विवृणोति क्रमदलत्तमिस्रामर्माणं किरणकणिकामम्बरमणिः । इतो निष्क्रामन्ती नवरतिगुरोः प्रोञ्छति वधूः स्वकस्तूरीपत्राङ्कुरमकरिकामुद्रितमुरः ॥ २०.२२ *(६३३) ॥ प्रभाते पृच्छन्तीरनुरहसिवृत्तं सहचरीर्नवोढा न व्रीडामुकुलितमुखीयं सुखयति । लिखन्तीनां पत्राङ्कुरमनिशमस्यास्तु कुचयोश्चमत्कारो गूढं करजपदमासां कथयति ॥ २०.२३ *(६३४) ॥ मुरारेरेतौ ।चोलो इति समाप्तनिधुवनचिह्नव्रज्या मानिनीव्रज्या। मानोन्नतेत्यसहनेत्यतिपण्डितेति मय्येव धिक्कृतिरनेकमुखी सखीनाम् । आकारमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥ २१.१ *(६३५) ॥ लक्ष्मीधरस्य वलतु तरला दृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोरुत्कम्पान्मे विदीर्यतु कञ्चुकम् । तदपि न मया सम्भाष्योऽसौ पुनर्दयितः शठः स्फुरति हृदयं मौनेनान्तर्न मे यदि तत्क्षणात् ॥ २१.२ *(६३६) ॥ अमरुकस्य न्ब् ।ेद्क्ग् । तके दृष्टादृष्टिसस चोम्पोउन्द्’ॄउइच्क्ग्लन्चे, हल्fग्लन्चेऽ. तदेवाजिह्माक्षं मुखमविशदास्ता गिर इमाः स एवाङ्गाक्षेपो मयि सरसमाश्लिष्यति तनुम् । यदुक्तं प्रत्युक्तं तदपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनरपि कृता मे नववधूः ॥ २१.३ *(६३७) ॥ शम्बूकस्य यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः । यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः कृतमभिनयैर्दृष्टो मानः प्रसीद विमुच्यताम् ॥ २१.४ *(६३८) ॥ अमरुकस्य ।वर्{चेतः।लेम् ।ेमेन् ।िन्गल्ल्स्, चक्षुः ।ेद्क्ग्} एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद्दूरतस्ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः । संलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके भर्तुः प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ २१.५ *(६३९) ॥ श्रीहर्षस्य॥ यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर्धृता चान्यतस्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया । हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः ॥ २१.६ *(६४०) ॥ दूरादुत्सुकमागते विचलितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणाच्चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ २१.७ *(६४१) ॥ रतिपालस्य॥ वचोवृत्तिर्मा भूद्वलतु च नवा वक्त्रमभितो न नाम स्याद्बाष्पागमविषदं लोचनयुगम् । समाश्वासस्तेन प्रणतशिरसः पत्युरभवत्प्रिया प्रौढक्रोधाप्यपहृतवती यन्न चरणौ ॥ २१.८ *(६४२) ॥ बोपालितस्य॥ किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः कंचित्कालं क्वचिदपि रतिस्तेन कस्तेऽपराधः । आगस्कारिण्यहमिह यया जीवितं त्वद्वियोगे भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः ॥ २१.९ *(६४३) ॥ वाक्कूटस्य॥ यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिंल्लभन्तेऽन्तरं यद्दाक्षिण्यरसाद्भिया च सहसा नर्मोपचाराण्यपि । यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्ययस्तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् ॥ २१.१० *(६४४) ॥ भ्रूभङ्गो गणितश्चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ २१.११ *(६४५) ॥ धर्मकीर्तेः॥ ।वर्{॰परिग्रहे परिकरः।लेम् ।ेमेन्द्(wइथिन्गल्ल्स्, वेमभूपाल, अन्दोथेर्चिततिओन्सोf थे वेर्से), ॰परिग्रहः परिकरे ।ेद्क्ग्} तथाभूदस्माकं प्रथममविभिन्ना तनुरियं ततोऽनु त्वं प्रेयानहमपि हताशा प्रियतमा । इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥ २१.१२ *(६४६) ॥ भावकदेव्याः॥ यदा त्वं चन्द्रोऽभूरविकलकलापेशलवपुस्तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः । इदानीमर्कस्त्वं खररुचिसमुत्सारितरसः किरन्ती कोपाग्नीनहमपि रविग्रावघटिता ॥ २१.१३ *(६४७) ॥ कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः । तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः ॥ २१.१४ *(६४८) ॥ प्रद्युम्नस्य॥ शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा समाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः । तदेतत्क्वाचक्षे घृतमधुमय त्वन्मृदुवचो विषेणाघूर्णन्ती किमपि न सखीयं गणयति ॥ २१.१५ *(६४९) ॥ हिङ्गोकस्य॥ मुग्धासि नायमपराध्यति मैवमालि केयं रुषा परुषिता लिखिताप्यनेन । केलिस्खलद्वसनमुत्पुलकाङ्गभङ्गमुत्तुङ्गपीनकुचमालिखिता त्वमेव ॥ २१.१६ *(६५०) ॥ वीर्यमित्रस्य॥ पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं विन्यस्याञ्जनदिग्धलोचनजलैः किं ग्लानिमानीयते । मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित्कन्दलीमुन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥ २१.१७ *(६५१) ॥ कोपः सखि प्रियतमे ननु वञ्चनैव तन्मुञ्च मानिनि रुषं क्रियतां प्रसादः । प्राणेश्वरश्चरणयोः पतितस्तवायं सम्भाष्यतां विकसता नयनोत्पलेन ॥ २१.१८ *(६५२) ॥ बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ २१.१९ *(६५३) ॥ कुमारभट्टस्य॥ गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपोऽयं निद्रावशमुपगतो घूर्णत इव । प्रणामान्तो मानस्त्यजसि न तथापि क्रुधमहो कुचप्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥ २१.२० *(६५४) ॥ महोदधेः॥ गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर्दिशः किंचित्किंचित्तरणिकिरणैर्लोहितरुचः । इदं निद्राच्छेदे रसति सरसं सारसकुलं चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् ॥ २१.२१ *(६५५) ॥ मया तावद्गोत्रस्खलितहतकोपान्तरितया न रुद्धो निर्गच्छन्नयमतिविलक्षः प्रियतमः । अयं त्वाकूतज्ञः परिणतिपरामर्शकुशलः सखीलोकोऽप्यासील्लिखित इव चित्रेण किमिदम् ॥ २१.२२ *(६५६) ॥ हिम्बोकस्य॥ भवतु विदितं कृत्यालापैरलं प्रिय गम्यतां तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः । तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां प्रकृतिचपले का नः पीडा गते हतजीविते ॥ २१.२३ *(६५७) ॥ धर्मकीर्तेः॥ असद्वृत्तो नायं न च सखि गुणैरेष रहितः प्रियो मुक्ताहारस्तव चरणमूले निपतितः । गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयितामुपायो नास्त्यन्यो हृदयपरितापोपशमने ॥ २१.२४ *(६५८) ॥ भट्टहरेः॥ अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृदं त्वयाकाण्डे मानः किमिति शरले प्रेयसि कृतः । समाकृष्टा ह्येते विरहदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ २१.२५ *(६५९) ॥ विकटनितम्बायाः॥ मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः । कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः ॥ २१.२६ *(६६०) ॥ मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं मा भाङ्क्षीः परिखेद साक्षिभिरिव श्वासौर्मुखेन्दोः श्रियम् । मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि प्राणास्तन्वि ममासि नोचितमिदं तद्व्यर्थमुत्ताम्यसि ॥ २१.२७ *(६६१) ॥ यदेतन्नेत्राम्भः पतदपि समासाद्य तरुणी कपोलव्यासङ्गं कुचकलशमस्याः कलयति । ततः श्रोणीबिम्बं व्यवसितविलासं तदुचितं स्वभावस्वच्छानां विपदपि सुखं नान्तरयति ॥ २१.२८ *(६६२) ॥ पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं धारालास्तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् । कस्माद्ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं बिभ्राणा निपतन्ति बाष्पपयसां प्रस्यन्दिनो बिन्दवः ॥ २१.२९ *(६६३) ॥ राजशेखरस्य कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतहृद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ २१.३० *(६६४) ॥ धिग्धिक्त्वामयि केन दुर्मुखि कृतं किं किं न कायव्रतं द्वित्राण्यत्र दिनानि को न कुपितः को नाभवन्मानुषः । स्मः केचिन्न वयं यदेकमपरस्याप्युक्तमाकर्ण्यतामत्युन्माथिनि चन्दनेऽपि नियतं नामाग्निरुत्तिष्ठति ॥ २१.३१ *(६६५) ॥ वल्लणस्य स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न खलु चटुलप्रेम्णा कार्यं पुनर्दयितेन मे । इति सरभसं मानाटोपादादीर्य वचस्तया रमणपदवी शारङ्गाक्ष्या सशङ्कितमीक्षिता ॥ २१.३२ *(६६६) ॥ एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदये स्थितेऽप्यनुनये संरक्षतोर्गौरवम् । पश्चादाकुलयोरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः ॥ २१.३३ *(६६७) ॥ कन्दर्पकन्दलि सलीकदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् । पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर्लवलपाण्डुरसस्तमेति ॥ २१.३४ *(६६८) ॥ अहो दिव्यं चक्षुर्वहसि तव सापि प्रणयिनी पराक्ष्णामग्राह्यं युवतिषु वपुः संक्रमयति । समानाभिज्ञानं कथमितरथा पश्यति पुरो भवानेकस्तस्याः प्रतिकृतिमयीरेव रमणीः ॥ २१.३५ *(६६९) ॥ मनोविनोदस्य प्रिये मौनं मुञ्च श्रितुरमृतधाराः पिबतु मे दृशऊन्मील्येतां भवतु जगदिन्दीवरमयम् । प्रसीद प्रेमापि प्रशमयति निःशेषमधृतीरभूमिः कोपानां ननु निरपराधः परिजनः ॥ २१.३६ *(६७०) ॥ डिम्बोकस्य कोपस्त्वया यदि कृतो मयि पङ्कजाक्षि सोऽस्तु प्रियस्तव किमस्ति विधेयमन्यत् । आश्लेषमर्पय मदर्पितपूर्वमुच्चैरुच्चैः समर्पय मदर्पितचुम्बनं च ॥ २१.३७ *(६७१) ॥ शतानन्दस्य सखि कलितः स्खलितोऽयं हेयो नैव प्रणाममात्रेण ।* चिरमनुभवतु भवत्या बाहुलताबन्धनं धूर्तः ॥ २१.३८ *(६७२) ॥* गोनन्दस्य जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान्माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि । मायास्वापमुपेत्य तन्निपुणया निद्रान्ध्यमाचेष्टितं मानम्लानिरभून्न येन च न चाप्यासीद्रहःखण्डनम् ॥ २१.३९ *(६७३) ॥ कथंचिन्नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायामिव शनैः । स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर्मानिन्याः स्फुरति कृतपुण्यस्य सुरते ॥ २१.४० *(६७४) ॥ मानव्याधिनिपीडिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनोऽस्ति चतुरो यो मां बलान्नेष्यति । मानी सोऽपि जनो न लाघवभयादभ्येति मातः स्वयं कालो याति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥ २१.४१ *(६७५) ॥ यावन्नो सखि गोचरं नयनयोरायाति तावद्द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः । दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्नवश्यं मम स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते ॥ २१.४२ *(६७६) ॥ दुष्टा मुष्टिरिहाहता हृदि नखैराचोटिता पार्श्वयोराकृष्टा कबरीषु गाढमधरे सीत्कुर्वती खण्डिता । त्वत्कृत्यं त्वदगोचरेऽपि हि कृतं सर्वं मयैवाधुना मामाज्ञापय किं करोमि सरले भूयः सपत्न्यास्तव ॥ २१.४३ *(६७७) ॥ सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित्कोप एवंविधोऽभूत् । इति निगदति नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ २१.४४ *(६७८) ॥ चेतस्यङ्कुरितं विकारिणि दृशोर्द्वन्द्वे द्विपत्रायितं प्रायः पल्लवितं वचःस्वपरताप्रत्यायमानादिषु । तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् ॥ २१.४५ *(६७९) ॥ राजशेखरस्य कियन्मात्रं गोत्रस्खलितमपराधश्चरणयोश्चिरं लोठत्येष ग्रहवति न मानाद्विरमसि । रुषं मुञ्चामुञ्च प्रियमनुगृहाणायतिहितं शृणु त्वं यद्ब्रूमः प्रियसखि नखं मा कुरु नदीम् ॥ २१.४६ *(६८०) ॥ दैवादयं यदि जनो विदितोऽपराधी दासोचितैः परिभवैरयमेव शास्यः । एषा कपोलफलकेऽगरुपत्रवल्ली किं पीड्यते सुतनु बाष्पजलप्रणालैः ॥ २१.४७ *(६८१) ॥ कृत्वागः स च नागतोऽपि किमपि व्यक्तं मनो मन्यते तत्क्वासे कमुपैमि जङ्गमवने को मामिहाश्वासयेत् । इत्युक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं धन्येनाधिमुपाश्रुणोरसि कृतात्यन्तं प्रिया रोदिता ॥ २१.४८ *(६८२) ॥ वल्लणस्य कपोलं पक्ष्मभ्यः कलयति कपोलात्कुचतटं कुचान्मध्यं मध्यान्नवमुदितनाभीसरसिजम् । न जानीमः किं नु क्व नु कियदनेन व्यवसितं यदस्याः प्रत्यङ्गं नयनजलबिन्दुर्विहरति ॥ २१.४९ *(६८३) ॥ नरसिंहस्य विकिर नयने मन्दच्छायं भवत्वसितोत्पलं वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् । वद सुवदने लज्जामूका भवन्तु शिखण्डिनः परपरिभवो मानस्थानैर्न मानिनि सह्यते ॥ २१.५० *(६८४) ॥ अयं धूर्तो मायाविनयमधुरादस्य चरितात्सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् । कपोले यल्लाक्षारसबहलरागप्रणयिनीमिमां धत्ते मुद्रामनतिचिरवृत्तान्तपिशुनाम् ॥ २१.५१ *(६८५) ॥ अप्राप्तकेलिसुखयोरतिमानरुद्ध संधानयोर्रहसि जातरुषोरकस्मात् । यूनोर्मिथोऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् ॥ २१.५२ *(६८६) ॥ सोन्नोकस्यैतौ श्रवसि न कृतास्ते तावन्तः सखीचवनक्रमाश्चरणपतितोऽङ्गुष्ठाग्रेणाप्ययं न हतो जनः । कठिनहृदये मिथ्यामौनव्रतव्यसनादयं परिजनपरित्यागोपायो न मानपरिग्रहः ॥ २१.५३ *(६८७) ॥ न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता न नेत्राब्जं रज्यत्यनुषजति न भ्रूरपि भिदाम् । इदं तु प्रेयस्याः प्रथयति रुषोऽन्तर्विकसिताः शतेऽपि प्रश्नानां यदभिदुरमुद्रोऽधरपटः ॥ २१.५४ *(६८८) ॥ वैद्यधन्यस्य तत्तद्वदत्यपि यथावसरं हसत्यप्यालिङ्गनेऽपि न निषधति चुम्बनेऽपि । किं तु प्रसादनभयादतिनिह्नुतेन कोपेन कोऽपि निहितोऽद्य रसावतारः ॥ २१.५५ *(६८९) ॥ महाव्रतस्य आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णमधरं निर्भर्त्सयन्त्या मुखम् । ऊर्वोर्गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानोऽपि नैवोज्झितः ॥ २१.५६ *(६९०) ॥ दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले दृष्टिर्यत्र च दीर्घजागरगुरुः कोपे मदीये तव । विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास्तान्यन्यानि दिनानि मुञ्च चरणौ सैवाहमन्यो भवान् ॥ २१.५७ *(६९१) ॥ परीरम्भारम्भः स्पृशति परमिच्छां न तु भुजौ भजन्ते विज्ञानं न तु गिरमनूरोधविधयः । मनस्विन्याः स्वैरं प्रसरति निशासीमसमये मनः प्रत्यावृत्तं कमितरि कथंचिन्न तु वपुः ॥ २१.५८ *(६९२) ॥ चक्रपाणेः अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तोऽयमशोकदोहदविधौ पादः क्वणन्नूपुरः । तावत्किं कथयामि केलिपटुना निर्गत्य कुञ्जोदरादज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः ॥ २१.५९ *(६९३) ॥ मधुकूटस्य सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा विधिपरिणतं यस्मात्सर्वो जनः सुखमश्नुते । मम तु हृदये संतापोऽयं प्रिये विमुखेऽपि यत्कथमपि हतव्रीडं चेतो न याति विरागिताम् ॥ २१.६० *(६९४) ॥ भ्रूभेदे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते । कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २१.६१ *(६९५) ॥ प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्यात्मना । तावत्प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥ २१.६२ *(६९६) ॥ गते प्रेमाबन्धे हृदयबहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास्ते च दिवसा न जाने को हेतुः स्फुटति शतधा यन्न हृदयम् ॥ २१.६३ *(६९७) ॥ सुतनु नितम्बस्तव पृथुरक्ष्णोरपि नियतमर्जुनो महिमा ।* मध्यः सवलिरिदानीं मान्धाता कुचतटः क्रियताम् ॥ २१.६४ *(६९८) ॥* दामोदरस्य दृष्टे लोचनवन्मनाङ्मुकुलितं चाग्रे गते वक्त्रवन्न्यग्भूतं बहिरास्थितं पुलकवत्संस्पर्शमातन्वति । नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ २१.६५ *(६९९) ॥ ।चोलो इति मानिनी व्रज्या ततो विरहिणीव्रज्या तापस्तत्क्षणमाहितासु बिसिनीष्वङ्गारकारायते बाष्पः पाण्डुकपोलयोरुपरि वै कुल्याम्बुपूरायते । किं चास्या मलयद्रुमद्रवभरैर्लिम्पामि यावत्करं तावच्छ्वाससनीरणव्यतिकरैरुद्धूलिरासीत्करः ॥ २२.१ *(७००) ॥ अच्युतस्य॥ देवेन प्रथमं जितोऽसि शशभृल्लेखाभृतानन्तरं बुद्धेनोद्धतबुद्धिना स्मर ततः कान्तेन पान्थेन मे । त्यक्त्वा तान् बत हंसि मामतिकृशां बालामनाथां स्त्रियं धिक्त्वां धिक्तव पौरुषं धिगुदयं धिक्कार्मुकं धिक्छरान् ॥ २२.२ *(७०१) ॥ श्रीराज्यपालस्य॥ कर्णे यन्न कृतं सखीजनवचो यन्नादृता बन्धुवाग्यत्पादे निपतन्नपि प्रियतमः कर्णोत्पलेनाहतः । तेनेन्दुर्दुर्दहनायते मलयजालेपः स्फुलिङ्गायते रात्रिः कल्पशतायते बिसलताहारोऽपि भारायते ॥ २२.३ *(७०२) ॥ आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः । मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ॥ २२.४ *(७०३) ॥ वत्स नैते पयोदाः सुरपतिकरिणो नो बकाः कर्णशङ्खाः सौदामिन्योऽपि नैताः कनकमयमिदं भूषणं कुम्भपीठे । नैतत्तोयं नभस्तः पतति मदजलं श्वासवातावधूतं तत्किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृडित्यश्रुपातैः ॥ २२.५ *(७०४) ॥ नाकानोकहसम्भवैः सखि सुधाच्योतल्लवैः पल्लवैः पल्यङ्कं क्षणमात्रमास्तृणु विधुं गण्डोपधानीकुरु । नो चेत्स्नेहरसावसेकविकसज्ज्वालावलीदारुणो दारूणीव न मे विरंस्यति दहन्नङ्गान्यनङ्गानलः ॥ २२.६ *(७०५) ॥ चक्रस्य असौ गतः सौगत एव यस्मात्कुर्यान्निरालम्बनतां ममैव । सखि प्रियस्ते क्षणिकः किमन्यन्निरात्मकः शून्यतमः स वन्द्यः ॥ २२.७ *(७०६) ॥ भोज्यदेवस्य पूर्णं कपोलतलमश्रुजलैर्यदस्या यद्धूसरं वदनपङ्कजमायताक्ष्याः । अर्धावदग्धगलदङ्गरसावसिक्तमार्द्रेन्धनं तदिव भस्मकणानुयातम् ॥ २२.८ *(७०७) ॥ अयं धारावाहस्तडिदियमियं दग्धकरका स चायं निर्घोषः स च रववशो भेकनिचयः । इतीव प्रत्यङ्गप्रथितमदनाग्निं कृशतनुर्घनश्वासोत्क्षेपैर्ज्वलयति मुहुर्मृत्युवशिनी ॥ २२.९ *(७०८) ॥ परिम्लानं पीनस्तनजघनसङ्गादुभयतस्तनोर्मध्यस्यान्तः परिमलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् ॥ २२.१० *(७०९) ॥ मनोरागस्तीव्रं व्यथयति विसर्पन्नविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुस्तातः प्रभवति न चाम्बा न भवती ॥ २२.११ *(७१०) ॥ एतस्या विरहज्वरः करतलस्पर्शैः परीक्ष्यो न यः स्निग्धेनापि जनेन दाहभयतः प्रस्थंपचः पाथसाम् । निःशक्तीकृतचन्दनौषधिविधावस्मिंश्चमत्कारिणो लाजस्फोटममी स्फुटन्ति मणयो विश्वेऽपि हारस्रजाम् ॥ २२.१२ *(७११) ॥ यत्ताडीदलपाकपाण्डु वदनं यन्नेत्रयोर्दुर्दिनं गण्डः पाणिनिषेवणाच्च यदयं संक्रान्तपञ्चाङ्गुलिः । गौरी क्रुध्यतु वर्तते यदि न ते तत्कोऽपि चित्ते युवा धिग्धिक्त्वां सहपांशुखेलनसखीलोकेऽपि यन्निह्नवः ॥ २२.१३ *(७१२) ॥ राजशेखरस्यैतौ केयूरीकृतकङ्कणावलिरसौ कर्णान्तिकोत्तंसित व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति । यावत्किंचिदुदन्तमात्मकमितुस्तावत्स एवेत्यथ व्रीडावक्रितकण्ठनालमबला कैः कैर्न भिन्ना रसैः ॥ २२.१४ *(७१३) ॥ प्रियविरहमहोष्मामर्मरामङ्गलेखामपि हतक हिमांशो मा स्पृश क्रीडयापि । इह हि तव लुठन्तः प्लोषपीडां भजन्ते दरजठरमृणालीकाण्डमुग्धा मयूखाः ॥ २२.१५ *(७१४) ॥ यद्दौर्बल्यं वपुषि महती सर्वतश्चास्पृहा यन्नासालक्ष्यं यदपि नयनं मौनमेकान्ततो यत् । एकाधीनं कथयति मनस्तावदेषा दशा ते कोऽसावेकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥ २२.१६ *(७१५) ॥ लक्ष्मीधरस्य निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी । अवस्थामापन्ना मदनदहनोद्दाहविधुरामियं नः कल्याणी रमयति मतिं कम्पयति च ॥ २२.१७ *(७१६) ॥ भवभूतेः निद्रे भद्रमवस्थितासि कुशलं संवेदने किं तव क्षेमं ते सखि निर्वृते ननु समं कान्तेन यूयं गताः । किं चान्यत्प्रियसंगमेऽद्य चलितो गच्छन् विपद्वत्सलो मूर्छाविस्मृतवेदनापरिजनो दृष्टोऽस्मदीयो न वा ॥ २२.१८ *(७१७) ॥ अरविन्दस्य मध्येसद्म समुद्गता तदनु च द्वारान्तरालं गता निर्याताथ कथंचिदङ्गणमपि प्रेयांस्तु नालोकितः । हंहो वायस राजहंस शुक हे हे शारिके कथ्यतां का वार्तेति मृगीदृशो विजयते बाष्पान्तरायं वचः ॥ २२.१९ *(७१८) ॥ चित्राङ्गस्य दरदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन् सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥ २२.२० *(७१९) ॥ राजशेखरस्य प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव । निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ॥ २२.२१ *(७२०) ॥ धर्मकीर्तेः बाष्पं चक्षुषु नाञ्जनं करतले वक्त्रं न लीलाम्बुजं गण्डे पाण्डरिमा न पत्रमकरी श्वासा मुखे न स्मितम् । इत्थं यस्य वियोगयोगविधुरं मुग्धे तवेदं वपुर्नो जाते कतमः स पुष्पधनुषा नीतः प्रसादश्रियम् ॥ २२.२२ *(७२१) ॥ भ्रमरदेवस्य कस्मादिदं नयनमस्तमिताञ्जनश्रि विश्रान्तपत्ररचनौ च कुतः कपोलौ । शृङ्गारवारिरुहकाननराजहंसि कस्मात्कृशासि विरसासि मलीमसासि ॥ २२.२३ *(७२२) ॥ विष्णुहरेः अरतिरियमुपैति मां न निद्रा गणयति तस्य गुणान्मनो न दोषान् । विगलति रजनी न संगमाशा व्रजति तनुस्तनुतां न चानुरागः ॥ २२.२४ *(७२३) ॥ प्रवरसेनस्य असावहं लोहमयी स यस्याः क्रूरः सखि प्रस्तर एष कान्तः । आकर्षकद्रावकचुम्बकेषु नैकोऽप्यसौ भ्रामक इत्यवैहि ॥ २२.२५ *(७२४) ॥ शब्दार्णवस्य नावस्था वपुषो ममेयमवधेरुक्तस्य नातिक्रमो नोपालम्भपदानि वाप्यकरणे तत्राभिधेयानि ते । प्रष्टव्यः शिवमालि केवलमसौ कच्चिद्भवद्गोचरे नायातं मलयानिलैर्मुकुलितं कच्चिन्न चूतैरिति ॥ २२.२६ *(७२५) ॥ वाकूटस्य स्वप्नेऽपि प्रियसंगमव्यसनिनी शेते न निद्रागमश्चित्रेणालिखितुं तमिच्छति यदि स्वेदः सपत्नीजनः । मुग्धेयं कुरुतेऽथ तद्गुणकथां मन्युर्गिरामर्गलः प्रायः पुण्यदिनानुभाववलनादाशंसितं सिध्यति ॥ २२.२७ *(७२६) ॥ तरणिनन्दनस्य व्योमश्रीहृदयैकमौक्तिकलते मातर्बलाकावलि ब्रूयास्तं जनमादरः खलु महान् प्राणेषु कार्यस्त्वया । एतां म्लानिमुपागतां स्रजमिव त्यक्त्वा तनुं दुर्वहामेषाहं सुखिनी भवामि न सहे तीव्रां वियोगव्यथाम् ॥ २२.२८ *(७२७) ॥ आ दृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति । दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे नाभूदागत इत्यमन्दवलितोद्ग्रीवं पुनर्वीक्षितम् ॥ २२.२९ *(७२८) ॥ सिद्धोकस्य श्वासास्ताण्डवितालकाः करतले सुप्ता कपोलस्थली नेत्रे बाष्पतरङ्गिणी परिणतः कण्ठे कलः पञ्चमः । अङ्गेषु प्रथमप्रवृद्धफलिनी लावण्यसम्पादिनी पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथागोचरम् ॥ २२.३० *(७२९) ॥ राजशेखरस्य स्मितज्योत्स्नादानादुपकुरु चकोरप्रणयिनीर्विधेहि भ्रूलीलां स्मरतु धनुषः पञ्चविशिखः । अपि स्तोकोन्निद्रैर्नयनकुमुदैर्मोदय दिशो विशेषास्ते मुग्धे दधतु कृतिनां चेतसि पदम् ॥ २२.३१ *(७३०) ॥ अपराजितरक्षितस्य किमिति कबरी यादृक्तादृग्दृशौ किमकज्जले मृगमदमसीपत्रन्यासः स किं न कपोलयोः । अयमयमयं किं च क्लाम्यत्यसंस्मरणेन ते शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥ २२.३२ *(७३१) ॥ वारंवारमलीक एव हि भवान् किं व्याहृतैर्गम्यतामित्युद्दम्य सुमन्दबाहुलतिकामुत्थापयन्त्या रुषा । संक्रान्तैर्वलयैरलंकृतगलो युष्मद्वियोगोचितां तन्वङ्ग्याः प्रकटीकरोति तनुतां द्रङ्गे भ्रमन् वायसः ॥ २२.३३ *(७३२) ॥ पक्ष्माग्रग्रथिताश्रुबिन्दुविसरैर्मुक्ताफलस्पर्धिभिः कुर्वन्त्या हरहासहारि हृदये हारावलीभूषणम् । बाले बालमृणालनालवलयालंकारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते ॥ २२.३४ *(७३३) ॥ दहति विरहेष्वङ्गानीर्ष्यां करोति समागमे हरति हृदयं दृष्टः स्पृष्टः करोत्यवशां तनुम् । क्षणमपि सुखं यस्मिन् प्राप्ते गते च न लभ्यते किमपरमतश्चित्रं यन्मे तथापि स वल्लभः ॥ २२.३५ *(७३४) ॥ कोऽसौ धन्यः कथय सुभगे कस्य गङ्गासरय्वोस्तोयास्फालव्यतिकरस्खलत्कारि कङ्कालमास्ते । यं ध्यायन्त्याः सुमुखि लिखितं कज्जलक्लेदभाञ्जि व्यालुम्पन्ति स्तनकलशयोः पत्रमश्रूण्यजस्रम् ॥ २२.३६ *(७३५) ॥ त्वच्छेषेण च्छुरितकरया कुङ्कुमेनादधत्या शोणच्छायां भवनबिसिनीहंसके कौतुकिन्या । कोकभ्रान्तिक्षणविरहिणीयन्मयाकारि हंसी तस्यैतन्मे फलमुपनतं नाथ यत्ते वियोगः ॥ २२.३७ *(७३६) ॥ श्वासोत्कम्पतरङ्गिणि स्तनतटे धौताञ्जनश्यामलाः कीर्यन्ते कणशः कृशाङ्गि किममी बाष्पाम्भसां बिन्दवः । किं चाकुञ्चितकण्ठरोधकुटिलाः श्रोत्रामृतस्यन्दिनो हूंकाराः कलपञ्चमप्रणयिनस्त्रुट्यन्ति निर्यान्ति च ॥ २२.३८ *(७३७) ॥ इदानीं तीव्राभिर्दहन इव भाभिः परिगतो ममाश्चर्यं सूर्यः किमु सखि रजन्यामुदयते । अयं मुग्धे चन्द्रः किमिति मयि तापं प्रकटयत्यनाथानां बाले किमिह विपरीतं न भवति ॥ २२.३९ *(७३८) ॥ मा मुञ्चाग्निमुचः करान् हिमकर प्राणाः क्षणं स्थीयतां निद्रे मुद्रय लोचने रजनि हे दीर्घातिदीर्घा भव । स्वप्नासादितसंगमे प्रियतमे सानन्दमालिङ्गिते स्वच्छन्दो भवतां भविष्यति पुनः कष्टो विचेष्टारसः ॥ २२.४० *(७३९) ॥ दिशतु सखि सुखं ते पञ्चबाणः स साक्षादनयनपथवर्ती यस्त्वयालेखि नाथः । तरलितकरशाखामञ्जरीकः शरीरे धनुषि च मकरे च स्वस्थरेखानिवेशः ॥ २२.४१ *(७४०) ॥ कस्मान्म्लायसि मालतीव मृदितेत्यालीजने पृच्छति व्यक्तं नोदितमार्तयापि विरहे शालीनया बालया । अक्ष्णोर्बाष्पचयं निगृह्य कथमप्यालोकितः केवलं किंचित्कुड्मलकोटिभिन्नशिखरश्चूतद्रुमः प्राङ्गणे ॥ २२.४२ *(७४१) ॥ वाक्कूटस्य उच्छूनारुणमश्रुनिर्गमवशाच्चक्षुर्मनाङ्मन्थरं सोष्मश्वासकदर्थिताधररुचिर्व्यस्तालका भ्रूभुवः । आपाण्डुः करपल्लवे च निभृतं शेते कपोलस्थली मुग्धे कस्य तपःफलं परिणतं यस्मै तवेयं दशा ॥ २२.४३ *(७४२) ॥ यशोवर्मणः केन प्राप्तो भुवनविजयः कः कृती कः कलावान् केनाव्याजं स्मरचरणयोर्भक्तिरापादिता च । यं ध्यायन्ती सुतनु बहुलज्वालकन्दर्पवह्नि प्रोद्यद्भस्मप्रचयरचितापाण्डिमानं दधासि ॥ २२.४४ *(७४३) ॥ दग्धव्येयं नवकमलिनीपल्लवोत्सङ्गशय्या तप्ताङ्गरप्रकरविकरैः किं धुतैस्तालवृन्तैः । तत्रैवास्तां दहति नयने चन्द्रवच्चन्दनाम्भः सख्यस्तोयेन्धन इव शिखी विप्रतीपोऽयमाधिः ॥ २२.४५ *(७४४) ॥ अभिनन्दस्य सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो वेशं विषं मन्यते । आस्ते केवलमब्जिनीकिसलयप्रस्तारिशय्यातले संकल्पोपनतत्वदाकृतिरसायत्तेन चित्तेन सा ॥ २२.४६ *(७४५) ॥ अन्तस्तारं तरलिततलाः स्तोकमुत्पीडभाजः पक्षाग्रेषु ग्रथितपृषतः कीर्णधाराः क्रमेण । चित्तातङ्कं निजगरिमतः सम्यगासूत्रयन्तो निर्यान्त्यस्याः कुवलयदृशो बाष्पवारां प्रवाहाः ॥ २२.४७ *(७४६) ॥ मुक्त्वानङ्गः कुसुमविशिखान् पञ्च कुण्ठीकृताग्रान्मन्ये मुग्धां प्रहरति हठात्पत्रिणा वारुणेन । वारां पूरः कथमपरथा स्फारनेत्रप्रणाली वक्त्रोद्वान्तस्त्रिवलिविपिने सारणीसाम्यमेति ॥ २२.४८ *(७४७) ॥ राजशेखरस्यामी उन्मील्याक्षि सखीर्न पश्यसि न चाप्युक्ता ददास्युत्तरं नो वेत्सीदृशमत्र नेदृशमिमां शून्यामवस्थां गता । तल्पादृश्यकरङ्कपञ्जरमिदं जीवेन लिप्तं मनाङ्मुञ्चन्ती किमु कर्तुमिच्छसि कुरु प्रेमान्यदेशगते ॥ २२.४९ *(७४८) ॥ किं वातेन विलङ्घिता न न महाभूतार्दिता किं न न भ्रान्ता किं न न संनिपातलहरीप्रच्छादिता किं न न । तत्किं रोदिति मुह्यति श्वसिति किं स्मेरं च धत्ते मुखं दृष्टः किं कथयाम्यकारणरिपुः श्रीभोज्यदेवोऽनया ॥ २२.५० *(७४९) ॥ छित्तपस्य कुचौ धत्तः कम्पं निपतति कपोलः करतले निकामं निश्वासः सरलमलकं ताण्डवयति । दृशः सामर्थ्यानि स्थगयति मुहुर्बाष्पसलिलं प्रपञ्चोऽयं किंचित्तव सखि हृदिस्थं कथयति ॥ २२.५१ *(७५०) ॥ नरसिंहस्य त्यजसि न शयनीयं नेक्षसे स्वामवस्थां विशदयसि न केशानाकुलग्रन्थिबन्धान् । किमपि सखि कुरु त्वं देहयात्रानुरूपं शतमिह विरहिण्यो नेदृशं क्वापि दृष्टम् ॥ २२.५३२ *(७५१) ॥ ।चोलो इति विरहिणीव्रज्या॥ २२ ततो विरहिव्रज्या गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं श्वसितमधिकं किं त्वेतत्स्यात्किमन्यदतोऽथ वा । भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ २३.१ *(७५२) ॥ वारं वारं तिरयति दृशोरुद्गमं बाष्पपूरस्तत्संकल्पोपहतिजडिम स्तम्भमभ्येति गात्रम् । सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ २३.२ *(७५३) ॥ उन्मीलन्मुकुलकरालकुन्दकोष प्रश्च्योतद्घनमकरन्दगन्धगर्भः । तामीषत्प्रचलविलोचनां नताङ्गीमालिङ्गन् पवन मम स्पृशाङ्गमङ्गम् ॥ २३.३ *(७५४) ॥ दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चते चेतनाम् । ज्वलति च तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ २३.४ *(७५५) ॥ नादत्से हरिताङ्कुरान् क्वचिदपि स्थैर्यं न यद्गाहसे यत्पर्याकुललोचनोऽसि करुणं कूजन् दिशः पश्यसि । दैवेनान्तरितप्रियोऽसि हरिण त्वं चापि किं यच्चिरं प्रत्यद्रि प्रतिकन्दरं प्रतिनदि प्रत्यूषरं भ्राम्यसि ॥ २३.५ *(७५६) ॥ मुञ्जस्य कस्राघातैः सुरभिरभितः सत्वरं ताडनीयो गाढाम्रेडं मलयमरुतः शृङ्खलादाम दत्त । कारागारे क्षिपत तरसा पञ्चमं रागराजं चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्टपेषम् ॥ २३.६ *(७५७) ॥ ह्रिया संसक्ताङ्गं तदनु मदनाज्ञाप्रशिथिलं सनाथं माञ्जिष्ठप्रसरकृशरेखैर्नखपदैः । घनोरुप्राग्भारं निधिमुखमिवामुद्रितमहो कदा नु द्रक्ष्यामो विगलितदुकूलं मृगदृशः ॥ २३.७ *(७५८) ॥ एते चूतमहीरुहोऽप्यविरलैर्धूमायिताः षट्पदैरेते प्रज्वलिताः स्फुटकिशलयोद्भेदैरशोकद्रुमाः । एते किंशुकशाखिनोऽपि मलिनैरङ्गारिताः कुड्मलैः कष्टं विश्रमयामि कुत्र नयने सर्वत्र वामो विधिः ॥ २३.८ *(७५९) ॥ वाक्कूटस्य सव्याधेः कृशता क्षतस्य रुधिरं दष्टस्य लालास्रवः सर्वं नैतदिहास्ति केवलमयं पान्थस्तपस्वी मृतः । आ ज्ञातं मधुलम्पटैर्मधुकरैराबद्धकोलाहले नूनं साहसिकेन चूतमुकुले दृष्टिः समारोपिता ॥ २३.९ *(७६०) ॥ मनसिशय कृशाङ्ग्याः स्वान्तमन्तर्निशातैरिषुभिरशनिकल्पैर्मा वधीस्त्वं ममेव । अपि ननु शशलक्ष्मन्मा मुचस्त्वं च तस्यामकरुणकिरणोल्काः कन्दलीकोमलायाम् ॥ २३.१० *(७६१) ॥ राजशेखरस्यैतौ चक्षुश्चुमबविघ्निताधरसुधापानं मुखं शुष्यति द्वेष्टि स्वं च कचग्रहव्यवहितश्रोणीविहारः करः । निद्रे किं विरतासि तावदघृणे यावन्न तस्याश्चिरात्क्रीडन्ति क्रमशः कृशीकृतरुषः प्रत्यङ्गमङ्गानि मे ॥ २३.११ *(७६२) ॥ अभिनन्दस्य जाने सा गगनप्रसूनकलिकेवात्यन्तमेवासती तत्सम्भोगरसाश्च तत्परिमलोल्लासा इवासत्तमाः । स्वप्नेन द्विषतेन्द्रजालमिव मे संदर्शिता केवलं चेतस्तत्परिरम्भणाय तदपि स्फीतस्पृहं ताम्यति ॥ २३.१२ *(७६३) ॥ परमेश्वरस्य द्यूते पणः प्रणयकेलिषु कण्ठपाशः क्रीडापरिश्रमहरं व्यजनं रतान्ते । शय्यानिशीथकलहेषु मृगेक्षणायाः प्राप्तं मया विधिवशादिदमुत्तरीयम् ॥ २३.१३ *(७६४) ॥ धीरनागस्य देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥ २३.१४ *(७६५) ॥ श्रीहर्षस्य प्रौढानङ्गरसाविलाकुलमनाङ्न्यञ्चत्तिरोघूर्णित स्निग्धाह्लादि मदान्धमध्वनि तया यच्चक्षुरान्दोलितम् । तेनास्माकमियं गतिर्मतिरियं संवित्तिरेवंविधा तापोऽयं तनुरीदृशी स्थितिरियं तस्या अपीति श्रुतिः ॥ २३.१५ *(७६६) ॥ वल्लणस्य स एवायं देशः सर इव विलूनाम्बुजवनं तनोत्यन्तस्तापं नभ इव विलीनामृतरुचि । वियोगे तन्वङ्ग्याः कलयति स एवायमधुना हिमर्तुर्नैदाघीमहह विषमां तापनरुजम् ॥ २३.१६ *(७६७) ॥ सृष्टा वयं यदि ततः किमियं मृगाक्षी सेयं वयं यदि ततः किमयं वसन्तः । सोऽप्यस्तु नाम जगतः प्रतिपक्षभूतश्चूतद्रुमः किमिति निर्मित एष धात्रा ॥ २३.१७ *(७६८) ॥ ते बाणाः किल चूतकुड्मलमयाः पौष्पं धनुस्तत्किल क्रुद्धत्र्यम्बकलोचनाग्निशिखया कामोऽपि दग्धः किल । किं ब्रूमो वयमप्यनेन हतकेनापुङ्खमग्नैः शरैर्विद्धा एव न चेदृशः परिकरस्यैवंविधा वेदना ॥ २३.१८ *(७६९) ॥ वीर्यमित्रस्य रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्तास्तथा मामपि । कान्तापादतलाहतिस्तव मुदे सत्यं ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥ २३.१९ *(७७०) ॥ आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्धं मम । कष्टं काम निरायुधोऽसि भवता जेतुं न शक्यो जनो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥ २३.२० *(७७१) ॥ राजशेखरस्य विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्गस्तत्रत्यो यदि च विकचेन्दीवरवनम् । ततः स्नानक्रीडाजनितजडभावैरवयवैः कदाचिन्मुञ्चेयं मदनशिखिपीडापरिभवम् ॥ २३.२१ *(७७२) ॥ राजशेखरस्यैतौ यदि क्षामा मूर्त्तिः प्रतिदिवसमश्रूणि दृशि चेच्छ्रुतौ दूतीवक्त्रं यदि मृगदृशो भूषणधिया । इदं चास्मत्कर्णे यदि भवति केनापि कथितं तदिच्छामः सङ्गाद्विरहभरमेकत्र वसतौ ॥ २३.२२ *(७७३) ॥ वल्लणस्य तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैरग्निमिन्दुः कराग्रैस्त्वमपि कुसुमबाणान् वज्रसारीकरोषि ॥ २३.२३ *(७७४) ॥ कालिदासस्य सम्भूयैव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्रस्तौति नेत्रोत्सवः । यद्बालेन्दुकलोदयादवचितैः सारैरिवोत्पादितं तत्पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम् ॥ २३.२४ *(७७५) ॥ भवभूतेः शरान्मुञ्चत्युच्चैर्मनसिजधनुर्मक्षिकरवा रुजन्तीमे भासः किरति दहनाभा हिमरुचिः । जितास्तु भ्रूभङ्गार्चनवदनलावण्यरुचिभिः सरोषा नो जाने मृगदृशि विधास्यन्ति किममी ॥ २३.२५ *(७७६) ॥ शान्ताकरगुप्तस्य अपि स दिवसः किं स्याद्यत्र प्रियामुखपङ्कजे मधु मधुकरीवास्मद्दृष्टिर्विकासिनि पास्यति । तदनु च मृदुस्निग्धालापक्रमाहितनर्मणः सुरतसचिवैरङ्गैः सङ्गो ममापि भविष्यति ॥ २३.२६ *(७७७) ॥ वार्तिककारस्य सा लम्बालकमाननं नमयति प्रद्वेष्ट्ययं मां शशी नैवोन्मुञ्चति वाचमञ्चितकला विघ्नन्ति मां कोकिलाः । भूभङ्गं कुरुते न सा धृतधनुर्मथ्नाति मां मन्मथः को वा तामबलां विलोक्य सहसा नात्रोपकृच्छ्रो भवेत् ॥ २३.२७ *(७७८) ॥ शृङ्गारस्य बाणान् संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः के नामात्र वयं शिरीषकलिकाकल्पं यदीयं मनः । तत्कारुण्यपरिग्रहात्कुरु दयामस्मिन् विधेये जने स्वामिन्मन्मथ तादृशं पुनरपि स्वप्नाद्भुतं दर्शय ॥ २३.२८ *(७७९) ॥ विवेकादस्माभिः परमपुरुषाभ्यासरसिकैः कथंचिन्नीयन्ते रतिरमणबाणैरपि हतैः । प्रियाया बालत्वादभिनववियोगातुरतनोर्न जानीमस्तस्या बत कथममी यान्ति दिवसाः ॥ २३.२९ *(७८०) ॥ स्खलल्लीलालापं विनिपतितकर्णोत्पलदलं श्रमस्वेदक्लिन्नं सुरतविरतिक्षामनयनम् । कचाकर्षक्रीडासरलकुरलश्रेणिसुभगं कदा तद्द्रष्टव्यं वदनमवदातं मृगदृशः ॥ २३.३० *(७८१) ॥ अहमिव शून्यमरण्यं वयमिव तनुतां गतानि तोयानि ।* अस्माकमिवोच्छ्वासा दिवसा दीर्घाश्च तप्ताश्च ॥ २३.३१ *(७८२) ॥* लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ २३.३२ *(७८३) ॥ नेत्रेन्दीवरिणी मुखाम्बुरुहिणी भ्रूवल्लिकल्लोलिनी बाहुद्वन्द्वमृणालिनी यदि वधूर्वापी पुनः सा भवेत् । तल्लावण्यजलावगाहनजडैरङ्गैरनङ्गानल ज्वालाजालमुचस्त्यजेयमसमाः प्राणच्छिदो वेदनाः ॥ २३.३३ *(७८४) ॥ प्रहर्ता क्वानङ्गः स च कुसुमधन्वाल्पविशिखश्चलं सूक्ष्मं लक्ष्यं व्यवहितममूर्तं क्व च मनः । इतीमामुद्भूतां स्फुटमनुपपत्तिं मनसि मे रुजामाविर्भावादनुभवविरोधः शमयति ॥ २३.३४ *(७८५) ॥ वन्द्यतथागतस्य अन्तर्निबद्धगुरुमन्युपरम्पराभिरिच्छोचितं किमपि वक्तुमशक्नुवत्याः । अव्यक्तहूंकृतिचलत्कुचमण्डलायास्तस्याः स्मरामि मुहुरर्धविलोकितानि ॥ २३.३५ *(७८६) ॥ भ्रस्यद्विवक्षितमसम्फलदक्षरार्थमुत्कम्पमानदशनच्छदमुच्छ्वसत्या । अद्य स्मरामि परिमृज्य पटाञ्चलेन नेत्रे तया किमपि यत्पुनरुक्तमुक्तम् ॥ २३.३६ *(७८७) ॥ सोन्नोकस्य दग्धप्ररूढमदनद्रुममञ्जरीति लावण्यपङ्कपटलोद्गतपद्मिनीति । शीतांशुबिम्बगलितामृतनिर्मितेति बालामबालहरिणाङ्कमुखीं स्मरामि ॥ २३.३७ *(७८८) ॥ मधूद्गारस्मेरभ्रमरभरहूंकारमुखरं शरं साक्षान्मीनध्वजविजयचापच्युतमिव । निलीयान्योन्यस्मिन्नुपरि सहकाराङ्कुरमयी समीक्षन्ते पक्ष्मान्तरतरलतारा विरहिणः ॥ २३.३८ *(७८९) ॥ सा न चेन्मृगशावाक्षी किमन्यासां कथाव्ययः । कला न यदि शीतांशोरम्बरे कति तारकाः ॥ २३.३९ *(७९०) ॥ उपरि घनं घनपटलं दूरे कान्ता तदेतदापतितम् ।* हिमवति दिव्यौषधयः क्रोधाविष्टः फणी शिरसि ॥ २३.४० *(७९१) ॥* स्थगितं नवाम्बुवाहैरुत्तानास्यो विलोकयन् व्योम ।* संक्रमयतीव पथिकस्तज्जलनिवहं स्वलोचनयोः ॥ २३.४१ *(७९२) ॥* जयीकस्य ते जङ्घे जघनं च तत्तदुदरं तौ च स्तनौ तत्स्मितं सूक्तिः सा च तदीक्षणोत्पलयुगं धम्मिल्लभारः स च । लावण्यामृतबिन्दुवर्षि वदनं तच्चैवमेणीदृशस्तस्यास्तद्वयमेकमेवमसकृद्ध्यायन्त एवास्महे ॥ २३.४२ *(७९३) ॥ नरसिंहस्य यदि शशधरस्त्वद्वक्त्रेण प्रसह्य तिरस्कृतस्तदयमदयो मह्यं मुग्धे किमेवमसूयति । यदमृतरसासारस्रुद्भिर्धिनोत्यखिलं जगज्ज्वलयति तु मामेभिर्वह्निच्छटाकटुभिः करैः ॥ २३.४३ *(७९४) ॥ परमेश्वरस्य लीलाताण्डवितभ्रुवः स्मितसुधाप्रस्यन्दभाजो दलन्नीलाब्जद्युतिनिर्भरा दरवलत्पक्ष्मावलीचारवः । प्राप्तास्तस्य वियोगिनः स्मृतिपथं खेदं समातन्वते प्रेमार्द्राः सुदृशो विकुञ्चनततिप्रेङ्खत्कटाक्षा दृशः ॥ २३.४४ *(७९५) ॥ विस्फाराग्रास्तरलतरलैरंशुभिर्विस्फुरन्तस्तासां तासां नयनमसकृन्नैपुणाद्वञ्चयित्वा । मुक्तास्तन्व्या मसृणपरुषास्ते कटाक्षक्षुरप्राश्छिन्नं छिन्नं हृदयमदयैश्छिद्यतेऽद्यापि यैर्मे ॥ २३.४५ *(७९६) ॥ परमेश्वरस्य श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मसीकूर्चकैस्तन्त्रं मन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ २३.४६ *(७९७) ॥ तस्मिन् पञ्चशरे स्मरे भगवता भर्गेण भस्मीकृते जानाम्यक्षयसायकं कमलभूः कामान्तरं निर्ममे । यस्यामीभिरितस्ततश्च विशिखैरापुङ्खमग्नात्मभिर्जातं मे विदलत्कदम्बमुकुलस्पष्टोपमानं मनः ॥ २३.४७ *(७९८) ॥ सूतिर्दुग्धसमुद्रतो भगवतः श्रीकौस्तुभे सोदरे सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः । स्पर्धा ते वचनाम्बुजैर्मृगदृशां तत्स्थाणुचूडामणे हंहो चन्द्र कथं निषिञ्चसि मयि ज्वालामुचो वेदनाः ॥ २३.४८ *(७९९) ॥ अयि पिबत चकोराः कृत्स्नमुन्नामिकण्ठक्रमसरलितचञ्चच्चञ्चवश्चन्द्रिकाम्भः ।* विरहविधुरितानां जीवितत्राणहेतोर्भवति हरिणलक्ष्मा येन तेजोदरिद्रः ॥ २३.४९ *(८००) ॥* राजशेखरस्यैतौ शीतांशुर्विषसोदरः फणभृतां लीलास्पदं चन्दनं हाराः क्षारपयोमुचः प्रियसुहृत्पङ्केरुहं भास्वतः । इत्येषां किमिवास्तु हन्त मदनज्योतिर्विघाताय यद्बाह्याकारपरिभ्रमेण तु वयं तत्त्वत्यजो वञ्चिताः ॥ २३.५० *(८०१) ॥ व्यजनमरुतः श्वासश्रेणीमिमामुपचिन्वते मलयजरसो धाराबाष्पं प्रपञ्चयितुं प्रभुः । कुसुमशयनं कामास्त्राणां करोति सहायतां द्विगुणहरिमा मारोन्माथः कथं नु विरंस्यति ॥ २३.५१ *(८०२) ॥ राजशेखरस्यैते हारो जलार्द्रशयनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनाद्रिवाताः । यस्येन्धनानि सरसान्यपि चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ २३.५२ *(८०३) ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमन्यथामी श्वासाः प्रवर्तितदुकूलदशाः सरन्ति ॥ २३.५३ *(८०४) ॥ अकृतप्रेमैव वरं न पुनः संजातविघटितप्रेमा ।* उद्धृतनयनस्ताम्यति यथा हि न तथेह जातान्धः ॥ २३.५४ *(८०५) ॥* स्वप्न प्रसीद भगवन् पुनरेकवारं संदर्शय प्रियतमां क्षणमात्रमेव । दृष्टा सती निबिडबाहुनिबन्धलग्नं तत्रैव मां नयति सा यदि वा न याति ॥ २३.५५ *(८०६) ॥ ।चोलो इति विरहिव्रज्या ततोऽसतीव्रज्या दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायो नैव शिशोः पिताद्य विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः श्रोतस्तमालाकुलं नीरन्ध्राः स्तनमालिखन्तु जठरच्छेदा नलग्रन्थयः ॥ २४.१ *(८०७) ॥ विद्यायाः तेषां गोपवधूविलाससुहृदां राधारहःसाक्षिणां क्षेमं भद्र कलिन्दराजतनयातीरे लतावेश्मनाम् । विच्छिन्ने स्मरतल्पकल्पनविधिच्छेदोपयोगेऽधुना ते जाने जरठीभवन्ति विगलन्नीलत्विषः पल्लवाः ॥ २४.२ *(८०८) ॥ विद्यायाः सिकतिलतलाः सान्द्रच्छायास्तटान्तविलम्बिनः शिशिरमरुतां लीलावासाः क्वणज्जलरङ्कवः । अविन्यवतीनिर्विच्छेदस्मरव्ययदायिनः कथय मुरले केनामी ते कृता निचुलद्रुमाः ॥ २४.३ *(८०९) ॥ पान्थ स्वैरगतिं विहाय झटिति प्रस्थानमारभ्यतामत्यन्तं करिसूकराहिगवयैर्भीमं पुरः काननम् । चण्डांशोरपि रश्मयः प्रतिदिशं म्लानास्त्वमेको युवा स्थानं नास्ति गृहे ममापि भवतो बालाहमेकाकिनी ॥ २४.४ *(८१०) ॥ विटपिनि शिशिरच्छाये क्षणमिह विश्रम्य गम्यतां पथिकाः ।* अतरुवारिरतः परमसमशिलादुर्गमो मार्गः ॥ २४.५ *(८११) ॥* अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशि"थिलतनुः कुम्भदासी तथेह । अस्मिन् पापाहमेका कतिपयदिवस्प्रोषितप्राणनाथा पान्थायेत्थं युवत्या कथितमभिमतं व्याहृतिव्याजपूर्वम् ॥ २४.६ *(८१२) ॥ स्मरविवशया किंचिन्मिथ्यानिषेधमनोज्ञया दिशि दिशि भयाद्भूयो भूयः प्रवर्तितनेत्रया । कुवलयदृशा शून्ये दैवादतर्कितलब्धया निभृतनिभृतं ये चुम्ब्यन्ते त एव विदुः सुखम् ॥ २४.७ *(८१३) ॥ व्यपेतव्याहारं गतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् । मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेषितदृशोरहल्यासुत्राम्णोः क्षणिकमिव तत्संगतमभूत् ॥ २४.८ *(८१४) ॥ योगेश्वरस्य यः कौमारहरः स एव च वरस्ताश्चन्द्रगर्भा निशाः प्रोन्मीलन्नवमालतीसुरभयस्ते च विन्ध्यानिलाः । सा चैवास्मिंस्तथापि धैर्यसुरतव्यापारलीलाभृतां किं मे रोधसि वेतसीवनभुवां चेतः समुत्कण्ठते ॥ २४.९ *(८१५) ॥ क्व प्रस्थितासि करभोरु घने निशीथे प्राणाधिको वसति यत्र जनः प्रियो मे । एकाकिनी वद कथं न बिभेषि बाले नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ २४.१० *(८१६) ॥ उदेति यस्यां न निशाकरो रिपुस्तिथिर्नु का पुण्यवतीभिराप्यते । इतीव दुष्ट्या परिदेविते मुहुः कुहूकुहूरित्यलमाह कोकिलः ॥ २४.११ *(८१७) ॥ मातर्गेहिनि यद्ययं हतशुकः संवर्धनीयो मया लौहं पञ्जरमस्य दुर्नयवतो गाढं तदा कारय । अद्यैनं बदरीनिकुञ्जकुहरे लीनं प्रचण्डोरगे कर्षन्त्या मम तावदङ्गलिखनैरेवापदेषागता ॥ २४.१२ *(८१८) ॥ ध्वस्तं केन विलेपनं कुचयुगे केनाञ्जनं नेत्रयोर्रागः केन तवाधरे प्रमथितः केशेषु केन स्रजः । तेनाशेषजनौघकल्मषमुषा नीलाब्जभासा सखि किं कृष्णेन न यामुनेन पयसा कृष्णानुरागस्तव ॥ २४.१३ *(८१९) ॥ आकृष्यादावमन्दग्रहमलकचयं वक्त्रमासज्य वक्त्रे कण्ठे लग्नः सुकण्ठः पुनरपि कुचयोर्दत्तगाढाङ्गसङ्गः । बद्धासक्तिर्नितम्बे पतति चरणयोर्यः स तादृक्प्रियो मे बाले लज्जा प्रणष्टा न हि न हि कुटिले चोलकः किं त्रपाकृत् ॥ २४.१४ *(८२०) ॥ आमोदिना समधुना परिधूसरेण सव्याकुलभ्रमवता पतता पुरस्तात् । आयासितास्मि सखि तेन दिवावसाने मत्तेन किं प्रणयिना न हि केसरेण ॥ २४.१५ *(८२१) ॥ पान्थे पद्मसरोऽन्तशाद्वलभुवि न्यस्याञ्चलं शायिनि त्वं श्रान्तास्यवहं च वर्त्म वसतिग्रामो न वेलाप्यगात् । उत्तानद्विगुणासमञ्जसमिलज्जानूदरास्तांशुक स्तोकोन्मीलदसञ्जितोरु वयमप्येकाकिनः किं न्विदम् ॥ २४.१६ *(८२२) ॥ वल्लणस्य इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते नालापा निपतन्ति बाष्पकलुषा नोपैति कार्श्यं तनुः । स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ २४.१७ *(८२३) ॥ लक्ष्मीधरस्य प्रणयविशदां वक्त्रे दृष्टिं ददाति विशङ्किता घटयति घनं कण्ठाश्लेषं सकम्पपयोधरा । वदति बहुशो गच्छामीति प्रयत्नधृताप्यहो रमयतितरां संकेतस्था तथापि हि कामिनी ॥ २४.१८ *(८२४) ॥ श्रीहर्षस्य दुर्दिननिशीथपवने निःसंचारासु नगरवीथीषु ।* पत्यौ विदेशयाते परं सुखं जघनचपलायाः ॥ २४.१९ *(८२५) ॥* मार्गे पङ्किनि तोयदान्धतमसे निःशब्दसंचारकं गन्तव्या दयितस्य मेऽद्य वसतिर्मुग्धेति कृत्वा मतिम् । आजानूद्धृतनूपुरा करतलेनाछाद्य नेत्रे भृशं कृच्छ्राल्लब्धपदस्थितिः स्वभवने पन्थानमभ्यस्यति ॥ २४.२० *(८२६) ॥ बिभ्राणार्द्रनखक्षतानि जघने नान्यत्र गात्रे भयान्नेत्रे चुम्बनपाटले च दधती निद्रालसे निव्रणे । स्वं संकेतमदूरमेव कमितुर्भ्रूसंज्ञया शंसती सिद्धिं याति विटैककल्पलतिका रण्डा न पुण्यैर्विना ॥ २४.२१ *(८२७) ॥ अद्य स्वां जननीमकारणरुषा प्रातः सुदूरं गतां प्रत्यानेतुमितो गतो गृहपतिः श्रुत्वैव मध्यंदिने । पङ्गुत्वेन शरीरजर्जरतया प्रायः स लक्ष्याकृतिर्दृष्टोऽसौ भवता न किं पथिक हे स्थित्वा क्षणं कथ्यताम् ॥ २४.२२ *(८२८) ॥ वस्त्रप्रोतदुरन्तनूपुरमुखाः संयम्य नीवीमणीनुद्गाढांशुकपल्लवेन निभृतं दत्ताभिसारक्रमाः । एताः कुन्तलमल्लिकापरिमलव्यालोलभृङ्गावली झंकारैर्विकलीकृताः पथि बत व्यक्तं कुरङ्गीदृशः ॥ २४.२३ *(८२९) ॥ पतिर्दुर्वञ्चोऽयं विधुरमलिनो वर्त्म विषमं जनश्छिद्रान्वेषी प्रणयिवचनं दुःपरिहरम् । अतः काचित्तन्वी रतिविहितसंकेतगतये गृहाद्वारंवारं निरसरदथ प्राविशदथ ॥ २४.२४ *(८३०) ॥ उदेष्यत्पीयूषद्युतिरुचिकणार्द्राः शशमणि स्थलीनां पन्थानो घनचरणलाक्षालिपिभृतः । चकोरैरुड्डीनैर्झटिति कृतशङ्काः प्रतिपदं पराञ्चः संचारानविनयवतीनां विवृणुते ॥ २४.२५ *(८३१) ॥ मलयजपङ्कलिप्ततनवो नवहारलताविभूषिताः सिततरदन्तपत्रकृतवक्त्ररुचो रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः प्रियवसतिं व्रजन्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥ २४.२६ *(८३२) ॥ बाणस्य निशान्धकारे विहिताभिसाराः सखीः शपन्तीह नितान्तमुग्धा ।* पथि स्खलन्ती बत वारिधारामालिङ्गितुं वाञ्छति वारिदानाम् ॥ २४.२७ *(८३३) ॥* पुरुषोत्तमस्य कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीनुद्दामध्वनिपिण्डितान् परिजने किंचिच्च निद्रायिते । कस्मै कुप्यसि यावदस्मि चलिता तावद्विधिप्रेरितः काश्मीरीकुचकुम्भसम्भ्रमहरः शीतांशुरभ्युद्यतः ॥ २४.२८ *(८३४) ॥ उरसि निहितस्तारो हारः कृता जघने जघने कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ । प्रियमभिसरस्येवं मुग्धे समाहतण्डिण्डिमा किमिदमपरं त्रासोत्कम्पा दिशो मुहुरीक्षसे ॥ २४.२९ *(८३५) ॥ देवगुप्तस्य अनुमतमिवानेतुं जोषं तमीतमसां कुलं दिशि दिशि दृशो विन्यस्यन्त्यः श्रियाङ्कुरिताञ्जनाः । मदनहुतभुग्धूमच्छायैः पटैरसितैर्वृताः प्रययुररसद्भूषैरङ्गैः प्रियानभिसारिकाः ॥ २४.३० *(८३६) ॥ भट्टशिवस्वामिनः ।चोलो इत्यसतीव्रज्या ततो दूतिकोपालम्भव्रज्या निःशेषच्युतचन्दनं स्तनतटो निर्यातराजोऽधरो नेत्रे दूरमनञ्जने जललवप्रस्यन्दिनी ते तनुः । आशाच्छेदिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ २५.१ *(८३७) ॥ किं त्वं निगूहसे दूति स्तनौ वक्त्रं च पाणिना । सव्रणा एव शोभन्ते शूराधरपयोधराः ॥ २५.२ *(८३८) ॥ साधु दूति पुनः साधु कर्तव्यं किमतः परम् । यन्मदर्थे विलग्नासि दन्तैरपि नखैरपि ॥ २५.३ *(८३९) ॥ विहारः कण्ठदेशस्ते काषाये तव लोचने । अधरौ वीतरागौ ते दूति प्रव्रजितासि किम् ॥ २५.४ *(८४०) ॥ दूति किं तेन पापेन शास्त्रातिक्रमकारिणा । पञ्च पञ्चनखा भक्ष्याः षष्ठी त्वं येन खादिता ॥ २५.५ *(८४१) ॥ नायातः सामदानाभ्यामिति भेदेऽपि दर्शिते । साधु यद्दुर्विनीतस्य त्वया दण्डो निपातितः ॥ २५.६ *(८४२) ॥ अनेन वीतरागेण बुद्धेनेवाधरेण ते । दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥ २५.७ *(८४३) ॥ पार्श्वाभ्यां सप्रहाराभ्यामधरे व्रणखण्डिते । दूति संग्रामयोग्यासि न योग्या दूतकर्मणि ॥ २५.८ *(८४४) ॥ त्वया दूति कृतं कर्म यत्तदन्येन दुष्करम् । शरणागतविध्वंसी छिद्रान्वेषी निपातितः ॥ २५.९ *(८४५) ॥ क्षामा तनुर्गतिः खिन्ना नेत्रे व्यालोकतारके । वागस्पष्टा श्लथं वासो दूति त्वं ज्वरितासि किम् ॥ २५.१० *(८४६) ॥ रजन्यामन्यस्यां सुरतपरिवर्तादनुचितं मदीयं यद्वासः कथमपि हृतं तेन सुहृदा । त्वया प्रीत्यानीतं स्वनिवसनदानात्पुनरिदं कुतस्त्वादृग्दूति स्खलितशमनोपायनिपुणा ॥ २५.११ *(८४७) ॥ नायातो यदि तादृशं स शपथं कृत्वापि दूति प्रियस्तत्किं कोपनया त्वया स्वदशनैरग्राधरः खण्डितः । स्वेदाम्भःकणदायि वेपनमिदं त्यक्त्वा भज स्वस्थतां को लोकस्य सखि स्वभावकुटिलस्यान्तर्गतं ज्ञास्यति ॥ २५.१२ *(८४८) ॥ रोमाञ्चं वहसि श्वसिष्यविरतं ध्यानं किमप्याश्रिता दृष्टिस्ते भ्रमति प्रकम्पचपले व्यक्तं च ते शीत्कृतम् । तं लब्ध्वा खलु बन्धकीव सुरतव्यापारदक्षं जनं किं दूति ज्वरितासि पापमथवा स्पृष्ट्वा भवन्त्यापदः ॥ २५.१३ *(८४९) ॥ श्वासः किं त्वरिता गतिः पुलकिता कस्मात्प्रसाद्यागता वेणी भ्रश्यति पादयोर्निपतनात्क्षामा किमित्युक्तिभिः । स्वेदार्द्रं मुखमातपेन गलिता नीवी गमादागमाद्दूति म्लानसरोरुहद्युतिमुषः स्वौष्ठस्य किं वक्ष्यसि ॥ २५.१४ *(८५०) ॥ अधरेणोन्नतिभाजा भुजङ्गपरिपीडितेन ते दूति ।* संक्षोभितं मनो मे जलनिधिरिव मन्दरागेण ॥ २५.१५ *(८५१) ॥* सद्भावोपगता समप्रणयिनी दाराः परस्येति वा दूते रागपराभवः क्रियत इत्येतन्न मीमांसितम् । येनाम्भोरुहसंनिभस्य वदनस्यापाण्डुता ते कृता दूति भ्रष्टगुणस्य तस्य निलयं स्वप्नेऽपि मा गाः पुनः ॥ २५.१६ *(८५२) ॥ स्वकार्यबुद्ध्यैव सदा मदर्थे दूति प्रवृत्तिं प्रतिपालयन्त्या । त्वया फलेनैव विभावितोऽयं मया सहाभिन्नशरीरवादः ॥ २५.१७ *(८५३) ॥ वित्तोकस्य ।चोलो इति दूतीकोपालम्भव्रज्या ततः प्रदीपव्रज्या रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः कस्मान्निर्वाणलाभी न भवतु परमब्रह्मवद्वीक्ष्य दीपः । निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु ॥ २६.१ *(८५४) ॥ अतिपीनां तमोराजीं तनीयान् सोढुमक्षमः । वमतीव शनैरेष प्रदीपः कज्जलच्छलात् ॥ २६.२ *(८५५) ॥ ।वर्{अतिपीनां।लेम् ।ेमेन्द्, अतिपीताम् ।ेद्क्ग्} निर्वाणगोचरगतोऽपि मुहुः प्रदीपः किं वृत्तकं तरुणयोः सुरतावसाने । इत्येवमाकलयितुं सकलङ्कलज्जदुद्ग्रीविकामिव ददाति रतिप्रदीपः ॥ २६.३ *(८५६) ॥ बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढामुपगूढवन्तम् । विलोक्य जामातरमेष दीपो वातायने कम्पमुपैति भीतः ॥ २६.४ *(८५७) ॥ ।चोलो इति प्रदीपव्रज्या॥ २६ ततोऽपराह्णव्रज्या निद्रान्धानां दिनमणिकराः कान्तिमम्भोरुहाणामुच्चित्यैते बहुगुणमिवाबिभ्रतः शोणिमानम् । चक्राङ्काणामविरलजलैरार्द्रविश्लेषभाजां वक्षःस्पर्शैरिव शिशिरतां यान्ति निर्वाप्यमाणाः ॥ २७.१ *(८५८) ॥ दावास्त्रशक्तिरयमेति च शीतभावं भास्वाञ्ज्वलन्ति हृदयानि च कोकयूनाम् । किं ब्रूमहेऽभ्युदयते च जगत्पिधानं ध्वान्तं भवन्ति च विशुद्धदृशो दिवान्धाः ॥ २७.२ *(८५९) ॥ उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्राङ्गीयं रमयति तमःस्तोमलीला धरित्री ॥ २७.३ *(८६०) ॥ चूडारत्नैः स्फुरद्भिर्विषधरविवराण्युज्ज्वलान्युज्ज्वलानि प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात्कृशानुः । किं चामी शल्ययन्तस्तिमिरमुभयतो निर्भराहस्तमिस्रा संघट्टोत्पिष्टसंध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥ २७.४ *(८६१) ॥ पटुकटुकोष्मभिः कटकधातुरसस्य गिरेः कुहरकटाहकेषु रविधामभिरुत्क्वथतः । उपरिभरादिवोत्सलितया छटया गगनं प्रतिनवसंध्यया सपदि संवलितं शुशुभे ॥ २७.५ *(८६२) ॥ अस्तं भास्वति लोकलोचनकलालोके गते भर्तरि स्त्रीलोकोचितमाचरन्ति सुकृतं वह्नौ विलीय त्विषः । अप्येतास्तु चिकीर्षयेव तपसां ताराक्षमाला दिशो मन्ये खञ्जनकण्ठकोमलतमःकृष्णाजिनं बिभ्रति ॥ २७.६ *(८६३) ॥ यावद्भास्करकेसरी प्रविततज्योतिःसटाभासुरो हत्वा वासरवारणं वनदरीमस्ताचलस्यास्थितः । तावत्संतमसाच्छभल्लपरिषत्संध्यास्त्रमापीयते कुम्भभ्रंशविकीर्णमौक्तिकरुचो राजन्त्यमूस्तारकाः ॥ २७.७ *(८६४) ॥ अस्तव्यास्तान् क्रमततगतीन् पत्रिमालातरङ्गान् वेणीदण्डानिव धृतवती मुक्तसंध्याङ्गरागा । ध्वान्तम्लानांशुकपरिचयच्छन्नलावण्यशोच्या द्यौः प्रत्यग्रद्युमणिविरहाद्वान्तमक्ष्णोर्न याति ॥ २७.८ *(८६५) ॥ परावृत्ता गावस्तरुषु वयसां कूजति कुलं पिशाचीनां चेतः स्पृशति गृहकृत्यप्रवणता । अयं नन्दी संध्यासमयकृतकृत्यव्यवसितिस्त्रिनेत्राभिप्रायप्रतिसदृशमुन्मार्ष्टि मुरजान् ॥ २७.९ *(८६६) ॥ शित्कण्ठस्य उत्सर्पद्धूमलेखात्विषि तमसि मनाग्विस्फुलिङ्गायमानैरुद्भेदैस्तारकाणां वियति परिगते पश्चिमाशामुपेता । खेदेनेवानतासु स्खलदलिरसनास्वब्जिनीप्रेयसीषु प्रायः सन्ध्यातपाग्निं विशति दिनपतौ दह्यते वासरश्रीः ॥ २७.१० *(८६७) ॥ प्रारब्धो मणिदीपयष्टिषु वृथा पातः पतङ्गैरितो गन्धान्धैरभितो मधुव्रतकुलैरुत्पक्ष्मभिः स्थीयते । वेल्लद्बाहुलताविलोकवलयस्वानैरितः सूचित व्यापाराश्च नियोजयन्ति विविधान् वराङ्गना वर्णकान् ॥ २७.११ *(८६८) ॥ व्रजति कलितस्तोकालोको नवीनजवारुण च्छविरविरसौ स्वेच्छादृश्यो दिशं भृशमप्पतेः । ककुभि ककुभि प्राप्ताहाराः कुलायमहीरुहां शिरसि शिरसि स्वैरं स्वैरं पतन्ति पतत्रिणः ॥ २७.१२ *(८६९) ॥ रघुनन्दनस्य कालव्यालहतं वीक्ष्य पतन्तं भानुमम्बरात् । ओषधीशं समादाय धावतीव पितृप्रसूः ॥ २७.१३ *(८७०) ॥ जगन्नेत्रज्योतिः पिबति शनकैरन्धतमसं कुलायैराकृष्टाः क्षणविरतकूजा बलिभुजः । तथोलूकः स्तोकव्यपगतभयः कोटरमुखाद्वपुर्मग्नग्रीवो डमरितशिराः पश्यति दिशः ॥ २७.१४ *(८७१) ॥ विद्दूकस्य ताराप्ररोहधवलोत्कटदन्तपङ्क्तेर्ध्वान्ताभिनीलवपुषो रजनीपिशाच्याः । जिह्वेव सार्द्ररुधिरारुणसूर्यमांस ग्रासार्थिनी नभसि विस्फुरति स्म संध्या ॥ २७.१५ *(८७२) ॥ स्नातीव मन्दरगनोऽस्तमितेऽद्य मित्रे सिन्धूद्वृतेन्दुकलशस्खलदंशुतोयैः । एतज्जगन्नयनहारि घनं तमोऽस्य पृष्ठे श्रियं विततकुन्तलवत्तनोति ॥ २७.१६ *(८७३) ॥ पृथुगगनकबन्धस्कन्धचक्रं किमेतत्किमु रुधिरकपालं कालकापालिकस्य । लललभरितमन्तः किं नु तार्क्ष्याण्डखण्डं जनयति हि वितर्कान् सांध्यमर्कस्य बिम्बम् ॥ २७.१७ *(८७४) ॥ यागे भास्वति वृद्धसारसशिरःशोणेऽस्तशृङ्गाश्रयं व्यालिप्तं तिमिरैः कठोरबलिभुक्कण्ठाभिनीलैर्नभः । माहेन्द्री दिगपि प्रसन्ननलिना चन्द्रोदयाकाङ्क्षिणी भात्येषा चिरविप्रयुक्तशबरीगण्डावपाण्डुच्छविः ॥ २७.१८ *(८७५) ॥ अचलसिंहस्य अतिहरितपत्रपरिकरसम्पन्नस्पन्दनैकविटपस्य ।* घनवासनैर्मयूखैः कुसुम्भकुसुमायते तरणिः ॥ २७.१९ *(८७६) ॥* चक्रपाणेः दिनमणिरनर्घमूल्यो दिनवणिजार्घप्रसारितो जगति ।* अनुरूपार्घमलब्ध्वा पुनरिव रत्नाकरे निहितः ॥ २७.२० *(८७७) ॥* श्रीधर्मपालस्य निर्यद्वासरजीवपिण्डकरणिं बिभ्रत्कवोष्णैः करैर्माञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचले लुण्ठति । किं च स्तोकतमःकलापकलनाश्यामायमानं मनाग्धूमध्यामपुराणचित्ररचनारूपं जगज्जायते ॥ २७.२१ *(८७८) ॥ राजशेखरस्य घर्मत्विषि स्फुरितरत्नशिलाक्रमेण मेरोर्नितम्बकटकानवगाहमाने । वल्गत्तुरङ्गखुरचूर्णितपद्मराग धूलीव वातवलितोल्लसति स्म सन्ध्या ॥ २७.२२ *(८७९) ॥ अस्ताद्रिशिरोविनिहितरविमण्डलसरसयावघट्टाङ्कम् ।* नयतीव कालकौलः क्वापि नभःसैरिभं सिद्ध्यै ॥ २७.२३ *(८८०) ॥* प्रथममलसैः पर्यस्ताग्रं स्थितं पृथुकेसरैर्विरलविरलैरन्तःपत्रैर्मनाङ्मिलितं ततः । तदनु वलनामात्रं किंचिद्व्यधायि बहिर्दलैर्मुकुलनविधौ वृद्धाब्जानां बभूव कदर्थना ॥ २७.२४ *(८८१) ॥ दग्धध्वान्तदिनस्य घर्मदिनकृत्संवृत्तसप्तार्चिषा तप्ताङ्गारगुरूच्चयश्रियमयं बध्नाति संध्यातपः । निर्वाणाज्जलविप्रकीर्णनिवहश्यामत्वमातन्वते प्राग्विप्लुष्टतमोगुरोरभिनवास्तस्यास्तमिस्रत्विषः ॥ २७.२५ *(८८२) ॥ बुद्धाकरस्य अस्तोपधानविनिहितरविबिम्बशिरोनिकुञ्चितदिगङ्गः ।* वस्तेऽन्धकारकम्बलममरशयने दिनाध्वन्यः ॥ २७.२६ *(८८३) ॥* मलयवातस्य नृत्यश्रमात्करनखोदरपीतवान्तैः स्वेदार्द्रभस्ममयबिन्दुभिरिन्दुगौरैः । संत्यज्य तारकितमेतदिति प्रवादं व्योमाङ्गणं गणय चित्रितमीश्वरेण ॥ २७.२७ *(८८४) ॥ लक्ष्मीधरस्य ।चोलो इत्यपराह्णव्रज्या॥ २७ ततोऽन्धकारव्रज्या॥ २८ किं स्वर्भानुरसौ विलिम्पति जगद्देहप्रभाविस्तरैस्तीव्रांशोः पततः पतत्यथ करालम्बावकृष्टं नभः । किं साम्भोधिकुलाबलां वसुमतीं स्वस्मिन् विधत्ते हरिः संकल्पानिति मांसलं वितनुते कादम्बनीलं तमः ॥ २८.१ *(८८५) ॥ निष्यन्दस्फुरिताभिरोषधिरुचां शैलाः शिखाभक्तिभिः शब्दैः प्राणभृतो गृहीतसुमनोवासैर्मरुद्भिर्द्रुमाः । ध्वान्ते लिम्पति मत्तकोकिलवधूकण्ठाभिनीले जगल्लक्ष्यन्ते भवनानि जालविवरोद्धान्तैः प्रदीपांशुभिः ॥ २८.२ *(८८६) ॥ मनोविनोदस्य द्राक्पर्यस्तगभस्तिरस्तमयते माणिक्यशोणो रविः सांध्यं धाम नभोङ्गणं कुलयति द्वित्रिस्फुरत्तारकम् । शोच्यन्ते वयसां गणैरित इतः पर्यन्तचैत्यद्रुमाः किं चाभ्यर्णपराक्रमेण तमसा प्रोर्णूयते रोदसी ॥ २८.३ *(८८७) ॥ चक्षुर्लग्नमिवातिमांसलमसीवर्णायते यन्नभः पार्श्वस्था इव भान्ति हन्त ककुभो निःसन्धिरुद्धान्तराः । विन्यस्तात्मपदप्रमाणकमिदं भूमीतलं ज्ञायते किं चान्यत्करसंगमैकगमकः स्वाङ्गेऽपि सम्प्रत्ययः ॥ २८.४ *(८८८) ॥ घनतमतिमिरघुणोत्करजग्धानामिव पतन्ति काष्ठानाम् ।* छिद्रैरमीभिरुडुभिः किरणव्याजेन चूर्णानि ॥ २८.५ *(८८९) ॥* ॠउओते अनर्घराघव २.५३ मुरारेः रहःसंकेतस्थो घनतमतमःपुञ्जपिहित वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि । सडत्कारादल्पादपि निभृतसम्प्राप्तरमणी भ्रमभ्राम्यद्बाहुर्दमदमिकयोत्ताम्यति युवा ॥ २८.६ *(८९०) ॥ नोः॥ हा कष्टं क इह क्षमः प्रतिकृतौ कस्यैतदावेद्यतां ग्रस्तं हन्त निशाचरैरिव तमःस्तोभैः समस्तं जगत् । कालः सोऽपि किमस्ति यत्र भगवानुद्गम्य शीतद्युतिर्ध्वान्तौघाद्भुवमुद्धरिष्यति हरिः पातालगर्भादिव ॥ २८.७ *(८९१) ॥ ।वर्{कस्यैत लेम् ।ेमेन्द्, कस्येतद् ।ेद्क्ग्} विजयेन्द्रस्य उत्सारितो हसितदीधितिभिः कपोलादेकावलीभिरवधूत इव स्तनेभ्यः । अङ्गेष्वलब्धपरिभोगसुखोऽन्धकारो गृह्णाति केशरचनासु रुषेव नारीः ॥ २८.८ *(८९२) ॥ व्योम्नस्तापिच्छगुच्छावलिभिरिव तमोवल्लरीभिर्व्रियन्ते पर्यन्ताः प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्विततवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ २८.९ *(८९३) ॥ अत्युत्सार्य बहिर्विटङ्गवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः । आरूढस्य भरेण यौवनमिव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव ॥ २८.१० *(८९४) ॥ भट्टगणपतेः तनुलग्ना इव ककुभः क्ष्मावलयं चरणचारमात्रमिव ।* वियदिव चालिकदघ्नं मुष्टिग्राह्यं तमः कुरुते ॥ २८.११ *(८९५) ॥* उत्तंसः केकिपिच्छैर्मरकतवलयश्यामले दोःप्रकाण्डे हारः सारेन्द्रनीलैर्मृगमदरचितो वक्त्रपत्रप्रपञ्चः । नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे सम्प्रत्येणेक्षणानां तिमिरभरसखी वर्तते वेशलीला ॥ २८.१२ *(८९६) ॥ राजशेखरस्यैतौ ।चोलो इत्यन्धकारव्रज्या॥ २८ ततश्चन्द्रव्रज्या॥ २९ शृङ्गारे सूत्रधारः कुसुमशरमुनेराश्रमे ब्रह्मचारी नारीणामादिदेवस्त्रिभुवनमहितो रागराज्ये पुरोधाः । ज्योत्स्नासत्रं दधानः पुरमथनजटाजूटकोटीशयालुर्देवः क्षीरोदजन्मा जयति कुमुदिनीकामुकः श्वेतभानुः ॥ २९.१ *(८९७) ॥ वसुकल्पस्य शशधरः कुमुदाकरबान्धवः कमलषण्डनिमीलनपण्डितः । अयमुदेति करेण दिगङ्गनाः परिमृषन्निव कुङ्कुमकान्तिना ॥ २९.२ *(८९८) ॥ राजश्रियः लोकाः शोकं त्यजत न चिरस्थायिनी ध्वान्तवृत्तिर्भद्रे यायाः कुमुदिनि मुदं मुञ्च मोहं चकोर । स्वच्छज्योत्स्नामृतरसनदीस्रोतसामेकशैलः सोऽयं श्रीमानुदयति शशी विश्वसामान्यदीपः ॥ २९.३ *(८९९) ॥ एतौ राजश्रियः कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैरक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः । एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषु ॥ २९.४ *(९००) ॥ कलाधारो वक्रः स्फुरदधररागो नवतनुर्गलन्मानावेशास्तरुणरमणीर्नागर इव । घनश्रोणीबिम्बे नयनमुकुले चाधरदले कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥ २९.५ *(९०१) ॥ श्रीकण्ठस्य सम्बन्धी रघुभूभुजां मनसिजव्यापारदीक्षागुरुर्गौराङ्गीवदनोपमापरिचितस्तारावधूवल्लभः । चन्द्रः सुन्दरि दृश्यतामयमितश्चण्डीशचूडामणिः सद्योमार्जितदाक्षिणात्ययुवतीदन्तावदातद्युतिः ॥ २९.६ *(९०२) ॥ लेखामनङ्गपुरतोरणकान्तिभाजमिन्दोर्विलोकय तनूदरि नूतनस्य । देशान्तरप्रणयिनोरपि यत्र यूनोर्नूनं मिथः सखि मिलन्ति विलोकितानि ॥ २९.७ *(९०३) ॥ एतौ राजशेखरस्य नैतन्नभो लवणतोयनिधिरेष पश्य छायापथश्च न भवत्ययमस्य सेतुः । नायं शशि निबिडपिण्डितभोग एष शेषो न लाञ्छनमिदं हरिरेष सुप्तः ॥ २९.८ *(९०४) ॥ कपाले मार्जारः पय इति करांल्लेढि शशिनस्तरुच्छिद्रप्रोतान् बिसमिव करी संकलयति । रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विक्लवयति ॥ २९.९ *(९०५) ॥ भवति भविष्यति किमिदं निपतिष्यति बिम्बमम्बराच्छशिनः ।* अहमपि चन्दनपङ्कैरङ्कमनङ्कं करिष्यामि ॥ २९.१० *(९०६) ॥* भिक्षुसुमतेः चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः कलङ्कस्तत्रत्यो वहति मलिनाङ्गारतुलनाम् । इदं त्वस्य ज्योतिर्दरदलितकर्पूरधवलं मरुद्भिर्भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥ २९.११ *(९०७) ॥ सद्यश्चन्दनपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन् पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः । उद्गच्छत्ययमच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्मुग्धानां स्मरेलखवाचनकलाकेलिप्रदीपः शशी ॥ २९.१२ *(९०८) ॥ असावेकद्वित्रिप्रभृतिपरिपाट्या प्रकटयन् कलाः स्वैरं स्वैरं नवकमलकन्दाङ्कुररुचः । पुरन्ध्रीणां प्रेयोविरहदहनोद्दीपितदृशां कटाक्षेभ्यो बिभ्यन्निभृतमिव चन्द्रोऽभ्युदयते ॥ २९.१३ *(९०९) ॥ उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः । अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते ॥ २९.१४ *(९१०) ॥ काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन द्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भःशिराः । प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर क्षीवोत्सङ्गकुरङ्गमैन्दवमिदं तद्बिम्बमुज्जृम्भते ॥ २९.१५ *(९११) ॥ नैवायं भगवानुदञ्चति शशी गव्यूतिमात्रीमपि द्यामद्यापि तमस्तु कौरवकुलश्रीचाटुकाराः कराः । मथ्नन्ति स्थलसीम्नि शैलगहनोत्सङ्गेषु संरुन्धते जीवग्राहमिव क्वचित्क्वचिदपि च्छायासु गृह्णन्ति च ॥ २९.१६ *(९१२) ॥ किं नु ध्वान्तपयोधिरेष कतकक्षोदैरिवेन्दोः करैरत्यच्छोऽयमधश्च पङ्कमखिलं छायापदेशादभूत् । किं वा तत्करकर्तरीभिरभितो निस्तक्षणादुज्ज्वलं व्योमैवेदमितस्ततश्च पतिताश्छायाछलेन त्वचः ॥ २९.१७ *(९१३) ॥ दलविततिभृतां तले तरूणामिह तिलतण्डुलितं मृगाङ्करोचिः । मदचपलचकोरचञ्चुकोटी कवलनतुच्छमिवान्तरान्तराभूत् ॥ २९.१८ *(९१४) ॥ तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका कपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति । समन्तादुन्मीलद्बहलजलबिन्दुस्तबकिनो यथा पुञ्जायन्ते प्रतिगुडकमेणाङ्कमणयः ॥ २९.१९ *(९१५) ॥ भूयस्तराणि यदमूनि तमस्विनीषु ज्योत्स्नीषु च प्रविरलानि ततः प्रतीमः । संध्यानलेन भृशमम्बरमूषिकायामावर्तितैरुडुभिरेव भृतोऽयमिन्दुः ॥ २९.२० *(९१६) ॥ यं प्राक्प्रत्यगवागुदञ्चि ककुभां नामानि सम्बिभ्रतं ज्योत्स्नाजालझलज्झलाभिरभितो लुम्पन्तमन्धं तमः । प्राचीनादचलादितस्त्रिजगतामालोकबीजाद्बहिर्निर्यान्तं हरिणाङ्कमङ्कुरमिव द्रष्टुं जनो जीवति ॥ २९.२१ *(९१७) ॥ प्राचीनाचलचूलचन्द्रमणिभिर्निर्व्यूढपाद्यं निजैर्निर्यासैरुडुभिर्निजेन वपुषा दत्तार्घलाजाञ्जलि । अन्तःप्रौढकलङ्कतुच्छमभितः सान्द्रं परिस्तीर्यते बिम्बादङ्कुरभग्ननैशिकतमःसंदोहमिन्दोर्महः ॥ २९.२२ *(९१८) ॥ मुरारेरमी शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि ।* कुमुदरजःपटवासं विकिरति गगनाङ्गणे पवनः ॥ २९.२३ *(९१९) ॥* धर्मकीर्तेः कह्लारस्पर्शिगर्भैः शिशिरपरिगमात्कान्तिमद्भिः कराग्रैश्चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः । अन्योन्यालोकिनीभिः परिचयजनितप्रेमनिष्यन्दिनीभिर्दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशावधूभिः ॥ २९.२४ *(९२०) ॥ पाणिनेः अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः । उद्यन् दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्स्फायत्कैरवकोषनिःसरदलिश्रेणीकृपाणं शशी ॥ २९.२५ *(९२१) ॥ वसुकल्पस्य यातस्यास्तमनन्तरं दिनकृतो वेषेण रागान्वितः स्वैरं शीतकरः करं कमनिलीमालिङ्गितुं योजयन् । शीतस्पर्शमवेत्य सान्द्रमनया रुद्धे मुखाम्भोरुहे हास्येनेव कुमद्वतीदयितया वैलक्ष्यपाण्डूकृतः ॥ २९.२६ *(९२२) ॥ राजशेखरस्य तथोद्दामैरिन्दोः सरसबिसदण्डद्युतिधरैर्मयूखैर्विक्रान्तं सपदि परितः पीततिमिरैः । दिनंमन्या रात्रिश्चकितचकितं कौशिककुलं प्रफुल्लं निद्राणैः कथमपि यथाम्भोरुवहनैः ॥ २९.२७ *(९२३) ॥ धोयीकस्य उद्गर्भहूणतरुणीरमणोपमर्द भुग्नोन्नतस्तननिवेशनिभं हिमांशोः । बिम्बं कठोरबिसकाण्डकडारगौरैर्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥ २९.२८ *(९२४) ॥ तमोभिर्दिक्कालैर्वियदपि विलङ्घ्य क्व नु गतं गता द्राङ्मुद्रापि क्व नु कुमुदकोषस्य सरसः । क्व धैर्यं तच्चाब्धेर्विदितमुदयाद्रेः प्रतिसर स्थलीमध्यासीने शशिनि जगदप्याकुलमिदम् ॥ २९.२९ *(९२५) ॥ अपराजितस्य प्रथममरुणच्छायस्तावत्ततः कनकप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । प्रसरति पुनर्ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ २९.३० *(९२६) ॥ चन्द्रः क्षीरमपि क्षरत्यविरतं धारासहस्रोत्करैरुद्ग्रीवैस्तृषितैरिवाद्य कुमुदैर्ज्योत्स्नापयः पीयते । क्षीरोदाम्भसि मज्जतीव दिवसव्यापारखिन्नं जगत्तत्क्षोभाज्जलबुद्बुधा इव तरन्त्यालोहितास्तारकाः ॥ २९.३१ *(९२७) ॥ चतुर्णाम् स्फटिकालवाललक्ष्मीं प्रवहति शशिबिम्बमम्बरोद्याने ।* किरणजलसिक्तलाञ्छनबालतमालैकविटपस्य ॥ २९.३२ *(९२८) ॥* इह बहलितमिन्दोर्दीधितीनां प्रभाभिर्मदविकलचकोरीचञ्चुमुद्राङ्किताभिः । रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ॥ २९.३३ *(९२९) ॥ रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयोऽभिषेककलशः कुसुमायुधमेदिनीपतेः । अयमुदयाचलैकचूडामणिरभिनवदर्पणो दिशामुदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी ॥ २९.३४ *(९३०) ॥ बाणस्य एष सान्द्रतिमिरे गगनान्ते वारिणीव मलिने यमुनायाः । भाति पक्षपुटगोपितचञ्चू राजहंस इव शीतमयूखः ॥ २९.३५ *(९३१) ॥ गगनतलतडागप्रान्तसीम्नि प्रदोष प्रबलतरवराहोत्खन्यमानश्चकास्ति । परिकलितकलङ्कः स्तोकपङ्कानुलेपो निजकिरणमृणालीमूलकन्दोऽयमिन्दुः ॥ २९.३६ *(९३२) ॥ परिणतलवलीफलाभिपाण्डुस्तनुरभवन्मलिनोदरा हिमांशोः । जनहृदयविभेदकुण्ठितेषोर्विशिखनिशातशिलेव मन्मथस्य ॥ २९.३७ *(९३३) ॥ लब्धोदये सुहृदि चन्द्रमसि स्ववृद्धिरासाद्य भिन्नसमयस्त्रिदशोद्धृतानि । रत्नानि लिप्सुरिव दिग्भुवनान्तराले ज्योत्स्नाछलेन धवलो जलधिर्जगाह ॥ २९.३८ *(९३४) ॥ गणपतेः पिनष्टीव तरङ्गाग्रैरर्णवः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाम् ॥ २९.३९ *(९३५) ॥ सर्वस्वं गगनश्रिया रतिपतेर्विश्वासपात्रं सखा वास्तव्यो हरमूर्ध्नि सर्वभुवनध्वान्तौघमुष्टिंधयः । क्षीराम्भोधिरसायनं कमलिनीनिद्रौषधीपल्लवो देवः कान्तिमहाधनो विजयते दाक्षायणीवल्लभः ॥ २९.४० *(९३६) ॥ कर्पूरद्रवशीकरोत्करमहानीहारमग्नामिव प्रत्यग्रामृतफेनपङ्कपङ्कपटलीलेपोपदिग्धामिव । स्वच्छैकस्फटिकाश्मवेश्मजठरक्षिप्तामिव क्ष्मामिमां कुर्वन् पार्वणशर्वरीपतिरसऊद्दाममुद्द्योतते ॥ २९.४१ *(९३७) ॥ परमेश्वरस्य असौ बिभ्रत्ताम्रत्विषमुदयशैलस्य शिरसि स्खलन् प्रालेयांशुर्यदि भवति मत्तो हलधरः । तदानीमेतत्तु प्रतिनवतमालद्युतिहरं तमोऽपि व्यालोलं विगलति तदीयं निवसनम् ॥ २९.४२ *(९३८) ॥ योगेश्वरस्य यथायं भात्यंशून् दिशि दिशि किरन् कुन्दविशदान् शशाङ्कः काश्मीरीकुचकलशलावण्यलडितः । तथायं कस्तूरिमदलिखितपत्रावलितुलां नवाम्भोदच्छेदच्छविरपि समारोहति मृगः ॥ २९.४३ *(९३९) ॥ शर्वस्य यथैवैष श्रीमांश्चरमगिरिवप्रान्तलजधौ सुधासूतिश्चेतः कनककमलाशङ्कि कुरुते । तथायं लावण्यप्रसरमकरन्दद्रवतृषा पतद्भृङ्गश्रेणीश्रियमपि कलङ्कः कलयति ॥ २९.४४ *(९४०) ॥ स्फुटकोकनदारुणं पुरस्तादथ जाम्बूनदपत्रपिञ्जराभम् । क्रमलङ्घितमुग्धभावमिन्दोः स्फटिकच्छेदनिभं विभाति बिम्बम् ॥ २९.४५ *(९४१) ॥ भगीरथस्य वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जठरशरकाण्डविपाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ २९.४६ *(९४२) ॥ अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् । तदनु च नवस्वर्णादर्शप्रभं शशिनस्ततस्तरुणतगराकारं बिम्बं विभाति नभस्तले ॥ २९.४७ *(९४३) ॥ रक्तः करं किरति पाण्डुपयोधराग्रे चन्द्रो विधूय तिमिरावरणं निशायाः । दिग्योषितस्तदवलोक्य कुतूहलिन्यो ह्रीणाश्च सस्मितमिवापसरन्ति दूरम् ॥ २९.४८ *(९४४) ॥ गोरोचनारुचकभङ्गपिशङ्गिताङ्गस्तारापतिर्मसृणमाक्रमते क्रमेण । गोभिर्नवीनबिसतन्तुवितानगौरैराढ्यं भविष्णुरयमम्बरमावृणोति ॥ २९.४९ *(९४५) ॥ असौ समालोकितकाननान्तरे विकीर्णविस्पष्टमरीचिकेसरः । विनिर्गतः सिंह इवोदयाचलाद्गृहीतनिष्पन्दमृगो निशाकरः ॥ २९.५० *(९४६) ॥ पाणिनेः इन्दुमिन्द्रदिगसूत सरस्वानुत्तरङ्गभुजराजिरनृत्यन् । उज्जहर्ष झषकेतुरवापुः षट्पदाः कुमुदबन्धनमोक्षम् ॥ २९.५१ *(९४७) ॥ अभिनन्दस्य मृगेन्द्रस्येव चन्द्रस्य मयूखैर्नखरैरिव । पाटितध्वान्तमातङ्ग मुक्ताभा भान्ति तारकाः ॥ २९.५२ *(९४८) ॥ गौरत्विषां कुचतटेषु कपोलपीठेष्वेणीदृशां रभसहासमिवारभन्ते । तन्वन्ति वेल्लनविलासमिवामलासु मुक्तावलीषु विशदाः शशिनो मयूखाः ॥ २९.५३ *(९४९) ॥ कचमूलबद्धपन्नगनिश्वासविषाग्निधूमहतमध्यम् ।* ऐशानमिव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥ २९.५४ *(९५०) ॥* दक्षस्य गते ज्योत्स्नासितव्योम प्रासादाद्दृकतुल्यताम् । हिमांशुमण्डले लक्ष्म नीलपारावतायते ॥ २९.५५ *(९५१) ॥ सद्यःपाटितकेतकोदरदलश्रेणीश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधौ योग्यच्छविः प्रागभूत् । उन्मेयाकुलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्तते चन्द्रिका ॥ २९.५६ *(९५२) ॥ ये पूर्वं यवसूचिसूत्रसुहृदो ये केतकाग्रच्छद च्छायाधामभृतो मृणाललतिकालावण्यभाजोऽत्र ये । ये धाराम्बुविडम्बिनः क्षणमथो ये तारहारश्रियस्तेऽमी स्फाटिकदण्डडम्बरजितो जाताः सुधांशोः कराः ॥ २९.५७ *(९५३) ॥ राजेशेखरस्यैतौ त्रियामावामायाः कमलमृदुगण्डस्थलधृति प्रगल्भो गण्डाली न विधुरयमक्षुण्णकिरणः । तदक्षणः सीम्नेयं यदुरसि मनागञ्जनमयी मृगच्छाया दैवादघटि न कलङ्कः पुनरयम् ॥ २९.५८ *(९५४) ॥ ज्योत्स्नामुग्धवधूविलासभवनं पीयूषवीचीसरः क्षीराब्धेर्नवनीतकूटमवनीतापार्तितोयोपलः । यामिन्यास्तिलकः कला मृगदृशां प्रेमव्रतैकाश्रमः क्रामत्येष चकोरयाचकमहः कर्पूरवर्षः शशी ॥ २९.५९ *(९५५) ॥ ताराकोरकराजिभाजिगगनोद्याने तमोमक्षिकाः संध्यापल्लवपातिनीः कवलयन्नेकान्ततस्तर्कय । एतस्मिन्नुदयास्तभूधरतरुद्वन्द्वान्तराले ततैरेभिर्भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥ २९.६० *(९५६) ॥ वसुकल्पस्य ।चोलो इति चन्द्रव्रज्या॥ २९ ततः प्रत्यूषव्रज्या॥ ३० मध्येव्योमकटिभ्रमास्तु कितवप्राग्भारकोपक्रम क्षिप्रक्षिप्तकपर्दमुष्टिकलनां कुर्वन्त्यमूस्तारकाः । किं चायं रजनीपतिः प्रविगलल्लावण्यलक्ष्मीरितः पर्यन्तस्थितचारुवृत्तकठिनीखण्डच्छविं वाञ्छति ॥ ३०.१ *(९५७) ॥ क्वैमल्लस्य तमोभिः पीयन्ते गतवयसि पीयूषवपुषि ज्वलिष्यन्मार्तण्डोपलपटलधूमैरिव दिशः । सरोजानां कर्षन्नलिमयमयस्कान्तमणिवत्क्षणादन्तःशल्यं तपति पतिरद्यापि न रुचाम् ॥ ३०.२ *(९५८) ॥ जाताः पक्वपलाण्डुपाण्डमधुरच्छायाकिरस्तारकाः प्राचीमङ्कुरयन्ति किंचन रुचो राजीवजीवातवः । लूतातन्तुवितानवर्तुलमितो बिम्बं दधच्चुम्बति प्रातः प्रोषितरोचिरम्बरतलादस्ताचलं चन्द्रमाः ॥ ३०.३ *(९५९) ॥ प्राचीविभ्रमकर्णिकाकमलिनीसंवर्तिकाः सम्प्रति द्वे तिस्रो रमणीयमम्बरमणेर्द्यामुच्चरन्ते रुचः । सूक्ष्मोच्छ्वासमपीदमुत्सुकतया सम्भूय कोषाद्बहिर्निष्क्रामद्भ्रमरौघसम्भ्रमभरादम्भोजमुज्जृम्भते ॥ ३०.४ *(९६०) ॥ एकद्विप्रभृतिक्रमेण गणनामेषामिवास्तं यतां कुर्वाणा समकोचयदृशशतान्यम्भोजसंवर्तिकाः । भूयोऽपि क्रमशः प्रसारयति ताः सम्प्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ ३०.५ *(९६१) ॥ पीत्वा भृशं कमलकुड्मलशुक्तिकोषा दोषातनीतिमिरवृष्टिमथ स्फुटन्तः । निर्यन्मधुव्रतकदम्बमिषाद्वमन्ति बिभ्रन्ति कारणगुणानिव मौक्तिकानि ॥ ३०.६ *(९६२) ॥ अमी मुरारेः ताराणां तगरत्विषां परिकरः संख्येयशेषः स्थितः स्पर्धन्तेऽस्तरुचः प्रदीपकशिखाः सार्धं हरिद्राङ्कुरैः । तत्र स्तम्भितपारदद्रवजडो जातः प्रगे चन्द्रमाः पौरस्त्यं च पुराणसीधुमधुरच्छायं नभो वर्तते ॥ ३०.७ *(९६३) ॥ द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकैर्ज्योत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्वसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां याता च पात्रं ककुप् ॥ ३०.८ *(९६४) ॥ क्षीणान्येव तमांसि किं तु दधति प्रौढिं न सम्यग्दृशो वासः संवृतमेव किं तु जहति प्राणेश्वरं नाबलाः । पारावारगतैश्च कोकमिथुनैरानन्दतो गद्गदं साकूतं रुतमेव किं तु बहलं झात्कृत्य नोड्डीयते ॥ ३०.९ *(९६५) ॥ ।वर्{झत्कृत्य्लेम् ।ेमेन् ।िन्गल्ल्स्, सात्कृत्य ।ेद्क्ग्} परिस्फुरत तारकाश्चरत चौरचक्राण्यलं प्रसर्पत तमांसि रे समय एष युष्मादृशाम् । न यावदुदयाचलोद्धतरजाः समाक्रामति प्रभापटलपाटलीकृतनभो.अन्तरालो रविः ॥ ३०.१० *(९६६) ॥ प्रातः कोपविलोहितेन रविणा ध्वस्तं तमः सर्वतो भृङ्गाः पद्मपुटेषु वर्णसदृशास्तस्येति कृष्टाः करैः । हा कष्टं तिमिरत्विषो वयमपि व्यक्तं हता इत्यमी काकाः सम्प्रति घोषयन्ति सभयाः काकेति नाम्नात्मनः ॥ ३०.११ *(९६७) ॥ शक्यार्चनः सुचिरमीक्ष्णपङ्कजेन काश्मीरपिण्डपरिपाटलमण्डलश्रीः । ध्वान्तं हरन्नमरनायकपालितायां देवोऽभ्युदेति दिशि वासरबीजकोषः ॥ ३०.१२ *(९६८) ॥ विष्णुहरेः कुन्तल इवावशिष्टः स्मरस्य चन्दनसरोनिमग्नस्य ।* प्रतिभाति यत्र हरिणः स हरिणलक्ष्मा गतोऽस्तमयम् ॥ ३०.१३ *(९६९) ॥* दक्षस्य पत्यौ याते कलानां व्यति गतिवशादस्तमिन्दौ क्रमेण क्रन्दन्ती पत्रिनादैर्विगलिततिमिरस्तोमधम्मिल्लभारा । प्रभ्रंशिस्थूलमुक्ताफलनिकरपरिस्पर्धिताराश्रुबिन्दुः प्रोन्मीलत्पूर्वसंध्याहुतभुजि रजनी पश्य देहं जुहोति ॥ ३०.१४ *(९७०) ॥ सोऽहं सुदूरमगमं द्विजराजरूढिं गाढप्रसक्तिरभवं बत वारुणीतः । इत्याकलय्य नियतं शशभृत्समस्तमस्ताद्ददौ झगिति झम्पमयं पयोधौ ॥ ३०.१५ *(९७१) ॥ नरसिंहस्य स्तोकस्तोकमभूमिरम्बरतले ताराभिरस्तं गतं गच्छन्त्यस्तगिरेः शिरस्तदनु च च्छायादरिद्रः शशी । प्रत्यासन्नतरोदयस्थतरणेर्बिम्बारुणिम्ना ततो मञ्जिष्ठारसलोहिनी दिगपि च प्राची समुन्मीलति ॥ ३०.१६ *(९७२) ॥ लक्ष्मीधरस्य मुषितमुषितालोकास्तारातुषारकणत्विषः सवितुरपि च प्राचीमूले मिलन्ति मरीचयः । श्रयति शिथिलच्छायाभोगस्तटीमपराम्बुधेर्जठरलवलीलावण्याच्छच्छविर्मृगलाञ्छनः ॥ ३०.१७ *(९७३) ॥ शर्वस्य व्रजत्यपरवारिधिं रजतपिण्डपाण्डुः शशी नमन्ति जलबुद्बुधद्युतिसपङ्क्तयस्तारकाः । कुरुण्टकविपाण्डुरं दधति धाम दीपाङ्कुराश्चकोरनयनारुणा भवति दिक्च सौत्रामणी ॥ ३०.१८ *(९७४) ॥ राजशेखरस्य लब्ध्वा बोधं दिवसकरिणः कीर्णनक्षत्रमालं दीर्घादस्माद्गगनशयनादुज्जिहानस्य दर्पात् । सज्जद्दानोदकतनुमलो जर्जराभीषुरज्जुर्भ्रश्यत्येष प्रशिथिल इव श्रोत्रशङ्खः शशाङ्कः ॥ ३०.१९ *(९७५) ॥ ।वर्{॰तनु॰।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰तुन॰ ।ेद्क्ग्} तेजोराशौ भुवनजलधेः प्लाविताशातटान्तं भानौ कुम्भोद्भव इव पिबत्यन्धकारोत्कराम्भः । सद्यो माद्यन्मकरकमठस्थूलमत्स्या इवैते यान्त्यन्तस्थाः कुलशिखरिणो व्यक्तिवर्त्मक्रमेण ॥ ३०.२० *(९७६) ॥ आमुद्रन्तस्तम इव सरःसीम्नि सम्भूय पङ्कं तारासार्थैरिव पतिशुचा फेनकैः श्लिष्टपादाः । भ्रान्त्यादष्टस्फुटबिसलताचुञ्चुभिश्चञ्चुचक्रैश्चक्रा बन्दीकृतविरहकृच्चन्द्रलेखा इवैते ॥ ३०.२१ *(९७७) ॥ भट्टशिवस्वामिनः कृतपादनिगूहनोऽवसीदन्नधिकश्यामकलङ्कपङ्कलेखः । गगनोदधिपशिमान्तलग्नो विधुरुत्तान इवास्ति कूर्मराजः ॥ ३०.२२ *(९७८) ॥ शतानन्दस्य अयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनालीबालमन्दारपुष्पम् । विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन् कुपितकपिकपोलक्रोधताम्रस्तमांसि ॥ ३०.२३ *(९७९) ॥ योगेश्वरस्य रथ्याकार्पटिकैः पटच्चरशतस्यूतोरुकन्थाबल प्रत्यादिष्टहिमागमार्तिविशदप्रस्निग्धकण्ठोदरैः । गीयन्ते नगरेषु नागरजनप्रत्यूषनिद्रानुदो राधामाधवयोः परस्पररहःप्रस्तावनागीतयः ॥ ३०.२४ *(९८०) ॥ डिम्बोकस्य ।चोलो इति प्रत्यूषव्रज्या॥ ३० ततो मध्याह्नव्रज्या मध्याह्ने परिपुञ्जितैस्तरुतलच्छाया मृगैः सेव्यते कासारे स्फुटितोदरे सुनिभृतं कीटैरहर्नीयते । उत्सङ्गश्लथमुक्तहस्तयुगलन्यस्ताननः कानने झिल्लीतोयकणाभिषेकसुखितो निद्रायते वानरः ॥ ३१.१ *(९८१) ॥ एतस्मिन् दिवसस्य मध्यसमये वातोऽपि चण्डातप त्रासेनेव न संचरत्यहिमगोर्बिम्बे ललाटंतपे । किं चान्यत्परितप्तधूलिलुठनप्लोषासहत्वादिव च्छाया दूरगतापि भूरुहतले व्यावर्त्य संलीयते ॥ ३१.२ *(९८२) ॥ आदौ मानपरिग्रहेण गुरुणा दूरं समारोपिता पश्चात्तापभरेण तानवकृता नीता परं लाघवम् । उत्सङ्गान्तरवर्तिनामनुगमात्सम्पीडिता गामिमां सर्वाङ्गप्रणयप्रियामिव तरुच्छाया समालम्बते ॥ ३१.३ *(९८३) ॥ मलयराजस्यैते किरति मिहिरे विष्वद्रीचः करानतिवामनी स्थलकमठवद्देहच्छाया जनस्य विचेष्टते । गजपतिमुखोद्गीर्णैराप्यैरपि त्रसरेणुभिः शिशिरमधुरामेणाः कच्छस्थलीमधिशेरते ॥ ३१.४ *(९८४) ॥ उद्दामद्युमणिद्युतिव्यतिकरप्रक्रीडदर्कोपल ज्वालाजालकटालजाङ्गलतटीनिष्कूजकोयष्टयः । भौमोष्मप्लवमानसूरकिरणक्रूरप्रकाशा दृशोरायुःकर्म समापयन्ति धिगमूर्मध्येऽह्नि शून्या दिशः ॥ ३१.५ *(९८५) ॥ मुरारेरेतौ रथ्यागर्भेषु खेलारसिकशिशुगुणं त्याजयेत्पूर्वकेलीरुद्दण्डाब्जच्छदालीतलमुपगमयेद्राजहंसीकुलानि । अध्येतॄणां दधानं भृशमलसदृशां किंचिदङ्गावसादं देवस्यैतत्समन्ताद्भवतु समुचितश्रेयसे मध्यमह्नः ॥ ३१.६ *(९८६) ॥ पुरुषोत्तमदेवस्य काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते नीराश्मन्तकशिम्बिचुम्बनमुखा धावन्त्यपःपूर्णिकाः । दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुभाः ॥ ३१.७ *(९८७) ॥ उद्दामज्वलदंशुमालिकिरणव्यर्थातिरेकादिव च्छायाः सम्प्रति यान्ति पिण्डपदवीं मूलेषु भूमीरुहाम् । किं चैतद्दनुजाधिराजयुवतीवर्गावगाहोत्सरत्क्षोभोड्डीनविहंगमण्डलकृतालीकातपत्रं सरः ॥ ३१.८ *(९८८) ॥ धर्माशोकस्य धत्ते पद्मतलादलेप्सुरुपरि स्वं कर्णतालं द्विपः शष्पस्तम्बरसान्नियच्छति शिखी मध्येशिखण्डं शिरः । मिथ्या लेढि मृणालकोटिरभसाद्दंष्ट्राङ्कुरं शूकरो मध्याह्ने महिषश्च वाञ्छति निजच्छायामहाकर्दमम् ॥ ३१.९ *(९८९) ॥ विशन्तीनां स्नातुं जघनपरिवेशैर्मृगदृशां यदम्भः सम्प्राप्तं प्रमदवनवाप्यास्तटभुवम् । गभीरे तन्नाभीकुहरपरिणाहेऽध्वनि सकृत्कुहुंकारस्फारं रचयति च नादं नमति च ॥ ३१.१० *(९९०) ॥ राजशेखरस्य विष्वङ्मुर्मुरनर्म बिभ्रति पथां गर्भेष्वदभ्राः पटु ज्योतिर्मुक्तनिरभ्रदीधितिघटानिर्धूपिता धूलयः । मेघच्छायधियाभिधावति पुरो निर्दग्धदूर्वावनं पान्थः किं च मरीचिवीचिषु पयःपूरभ्रमः क्लामति ॥ ३१.११ *(९९१) ॥ ध्वान्तानीलवनाद्रिकोटरगृहेष्वध्यासते कोकिलाः पान्थाः पोतवदापिबन्ति कलुषं धान्याः प्रतप्तं पयः । तल्लाम्भो वनतामसोल्लनिवहस्याशक्तसूर्यस्रुति व्रातस्फीतवराहसैरिभसभास्वस्थैणयूथाच्च्युतम् ॥ ३१.१२ *(९९२) ॥ धूमोऽटन्नटवीषु चाटुपटलानाटीकयत्युच्छलत्पांशुप्रांशुभराभिराभिरभितो वातोर्मिभिर्वर्त्मनः । उत्सर्पद्दवधूमविभ्रमभरः किं च प्रतीचीरपः कुर्वन्त्यच्छमरीचिवीचिनिचयभ्रान्त्या ह्रदान्ते मृगाः ॥ ३१.१३ *(९९३) ॥ बुद्धाकरगुप्तस्य मध्याह्ने परिनिर्मलेषु शकुलः शैवालमालाम्बुषु स्थूलत्वाज्जलरङ्गुनिर्जितभयः पुच्छाग्ररोमावलीः । लीलाताण्डवडम्बरैरवकिरन् पानीयपूर्णोदरस्तुण्डाग्रात्क्षणपीतवारिगुडिकामुद्गीर्य संलीयते ॥ ३१.१४ *(९९४) ॥ ।चोलो इति मध्याह्नव्रज्या॥ ३१ ततो यशोव्रज्या॥ ३२ देव स्वस्ति वयं द्विजास्तत इतस्तीर्थेषु सिस्नासवः कालिन्दीसुरसिन्धुसंगपयसि स्नातुं समीहामहे । तद्याचेमहि सप्तपिष्टपशुचीभावैकतानव्रतं संयच्छ स्वयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥ ३२.१ *(९९५) ॥ किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थस्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिनात्यस्वभावः । गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठ्यामुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥ ३२.२ *(९९६) ॥ विद्यायाः सा चन्द्रादपि चन्दनादपि दरव्याकोषकुन्दादपि क्षीराब्धेरपि शेषतोऽपि फणिनश्चण्डीशहासादपि । कर्णाटीसितदन्तपत्रमहसोऽप्यत्यन्तमुद्द्योतिनी कीर्तिस्ते भुजवीर्यनिर्जितरिपो लोकत्रयं भ्राम्यति ॥ ३२.३ *(९९७) ॥ वार्तिककारस्य त्वद्यशोराजहंसस्य पञ्जरं भुवनत्रयम् । अमी पानकरङ्काभाः सप्तापि जलराशयः ॥ ३२.४ *(९९८) ॥ बिम्बोकस्य यत्क्षारं च मलीमसं च जलधेरम्भस्तदम्भोधरैः कृत्वा स्वादु च निर्मलं च निहितं यत्नेन शुक्तौ तथा । येनानर्घतया च सुन्दरतया चेदं यशोभिस्तव स्पर्धामेत्य विराजते ननु परिणामोऽद्भुतो भौतिकः ॥ ३२.५ *(९९९) ॥ अचलसिंहस्य दृष्टं संगरसाक्षिभिर्निगदितं वैतालिकश्रेणिभिर्न्यस्तं चेतसि सज्जनैः सुकविभिः काव्येषु संचारितम् । उत्कीर्णं कुशलैः प्रशस्तिषु सदा गीतं च नाकेसदां दारैरुज्जयनीभुजङ्ग भवतश्चन्द्रावदातं यशः ॥ ३२.६ *(१०००) ॥ उत्कल्लोलस्य लक्ष्मीं लवणजलनिधिर्लम्भितः क्षीरसिन्धोः को विन्ध्यः कश्च गौरीगुरुरिति मरुतामभ्युदस्तो विवेकः । नीताः कर्कत्वमर्कप्रवहणहरयो हारितोत्सङ्गलक्ष्मा राजन्नुदामगौरैरजनि च रजनीवल्लभस्त्वद्यशोभोः ॥ ३२.७ *(१००१) ॥ अभिनन्दस्य निर्मुक्तशेषधवलैरचलेन्द्रमन्थ संक्षुब्धदुग्धमयसागरगर्भगौरैः । राजन्निदं बहुलपक्षदलन्मृगाङ्क च्छेदोज्ज्वलैस्तव यशोभिरशोभि विश्वम् ॥ ३२.८ *(१००२) ॥ स्वस्ति क्षीराब्धिमध्यान्निजदयितभुजाभ्यन्तरस्थाब्जहस्ता क्ष्मायामक्षामकीर्तिं कुशलयति महाभूभुजं भोज्यदेवम् । क्षेमं मेऽन्यद्युगान्तावधि तपतु भवान् यद्यशोघोषणाभिर्देवो निद्रादरिद्रः सफलयति हरिर्यौवनर्द्धिं ममेति ॥ ३२.९ *(१००३) ॥ त्वत्कीर्तिर्जातजाड्येव सप्ताम्भोनिधिमज्जनात् । प्रतापाय जगन्नाथ याता मार्तण्डमण्डलम् ॥ ३२.१० *(१००४) ॥ का त्वं कुन्तलमल्लकीर्तिरहह क्वासि स्थिता न क्वचित्सख्यस्तास्तव कुत्र कुत्र वद वाग्लक्ष्मीस्तथा कान्तयः । वाग्याता चतुराननस्य वदनं लक्ष्मीर्मुरारेरुरः कान्तिर्मण्डलमैन्दवं मम पुनर्नाद्यापि विश्रामभूः ॥ ३२.११ *(१००५) ॥ आसीदुप्तं यदेतद्रणभुवि भवता वैरिमातङ्गकुम्भान्मुक्ताबीजं तदेतत्त्रिजगति जनयामास कीर्तिद्रुमं ते । शेषो मूलं प्रकाण्डं हिमगिरिरुदधिर्दुग्धपूरालवालं ज्योत्स्ना शाखाप्रतानः कुसुममुडुचयो यस्य चन्द्रः फलं च ॥ ३२.१२ *(१००६) ॥ अद्य स्वर्गवधूगणे गुणमय त्वत्कीर्तिमिन्दूज्वलामुच्चैर्गायति निष्कलङ्किमदशामादास्यते चन्द्रमाः । गीताकर्णनमोदमुक्तयवसग्रासाभिलाषो वद स्वामिन्नङ्कमृगः कियन्ति हि दिनान्येतस्य वर्तिष्यते ॥ ३२.१३ *(१००७) ॥ अभयमभयं देव ब्रूमस्तवासिलतावधूः कुवलयदलश्यामा शत्रोरुरःस्थलशायिनी । समयसुलभां कीर्तिं भव्यामसूत सुतामसावपि रमयितुं रागान्धेव भ्रमत्यखिलं जगत् ॥ ३२.१४ *(१००८) ॥ अमरसिंहस्य द्यामावृणोति धरणीतलमातनोति पातालमूलतिमिराणि तिरस्करोति । हारावलीहरिणलक्ष्महराट्टहास हेरम्बदन्तहरिशङ्खनिभं यशस्ते ॥ ३२.१५ *(१००९) ॥ देव त्वद्यशसि प्रसर्पति शनैर्लक्ष्मीसुधोच्चैःश्रवश्चन्द्रैरावतकौस्तुभाः स्थितिमिवामन्यन्त दुग्धोदधौ । किं त्वेकः परमस्ति दूषणकणो यन्नोपयाति भ्रमात्कृष्णं श्रीः शितिकण्ठमद्रितनया नीलाम्बरं रेवती ॥ ३२.१६ *(१०१०) ॥ ऐरावणन्ति करिणः फणिनोऽप्यशेषाः शेषन्ति हन्त विहगा अपि हंसितारः । नीलोत्पलानि कुमुदन्ति च सर्वशैलाः कैलासितुं व्यवसिता भवतो यशोभिः ॥ ३२.१७ *(१०११) ॥ रामः सैन्यसमन्वितः कृतशिलासेतुर्यदम्भोनिधेः पारं लङ्घितवान् पुरा तदधुना नाश्चर्यमापादयेत् । एकाकिन्यपि सेतुबन्धुरहितान् सप्तापि वारांनिधीन् हेलाभिस्तव देव देव कीर्तिवनिता यस्मात्समुल्लङ्घति ॥ ३२.१८ *(१०१२) ॥ न तच्चित्रं यत्ते विततकरवालोग्ररसनो महीभारं वोढुं भुजभुजगराजः प्रभवति । यदुद्भूतेनेदं नवबिसलतातन्तुशुचिना यशोनिर्मोकेण स्थगितमवनीमण्डलमभूत् ॥ ३२.१९ *(१०१३) ॥ संघश्रियः श्रीखण्डपाण्डिमरुचः स्फुटपुण्डरीक षण्डप्रभापरिभवप्रभवास्तुदन्ति । त्वत्कीर्तयो गगनदिग्वलयं तदन्तः पिण्डीभवन्निबिडमूर्तिपरम्पराभिः ॥ ३२.२० *(१०१४) ॥ बुद्धाकरगुप्तस्य अपनय महामोहं राजन्ननेन तवासिना कथय कुहकक्रीडाश्चर्यं कथं क्व च शिक्षितम् । यदरिरुधिरं पायं पायं कुसुम्भरसारुणं झगिति वमति क्षीराम्भोधिप्रवाहसितं यशः ॥ ३२.२१ *(१०१५) ॥ दक्षस्य त्वं काम्बोज विराजसे भुवि भवत्तातो दिवि भ्राजते तत्तातस्तु विभूषणः स किमपि ब्रह्मौकसि द्योतते । युष्माभिस्त्रिभिरेभिरर्पिततनुस्त्वत्कीर्तिरुज्जृम्भिणी माणिक्यस्तबकत्रयप्रणयिनीं हारस्य धत्ते श्रियम् ॥ ३२.२२ *(१०१६) ॥ वसुकल्पस्य जनानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥ ३२.२३ *(१०१७) ॥ इन्दोर्लक्ष्म त्रिपुरजयिनः कण्ठमूलं मुरारिर्दिग्नागानां मदजलमसीभाञ्जि गण्डस्थलानि । अद्याप्युर्वीवलयतिलक श्यामलिम्नावलिप्तान्याभासन्ते वद धवलितं किं यशोभिस्त्वदीयैः ॥ ३२.२४ *(१०१८) ॥ ।चोलो इति यशोव्रज्या॥ ३२ ततोऽन्यापदेशव्रज्या॥ ३३ अये मुक्तारत्न प्रसर बहिरुद्द्योतय गृहानपि क्षोणीन्द्राणां कुरु फलवतः स्वानपि गुणान् । किमत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे महागम्भीरोऽयं जलधिरिह कस्त्वां गणयति ॥ ३३.१ *(१०१९) ॥ मुरारेः अप्रत्याकलितप्रभावविभवे सर्वाश्रयाम्भोनिधौ वासो नाल्पतपःफलं यदपरं दोषोऽयमेको महान् । शम्बूकोऽपि यदत्र दुर्लभतरई रत्नैरनर्घैः सह स्पर्धामेकनिवासकारणवशादेकान्ततो वाञ्छति ॥ ३३.२ *(१०२०) ॥ पद्माकरः परिमितोऽपि वरं स एव यस्य स्वकामवशतः परिभुज्यते श्रीः । किं तेन नीरनिधिना महता तटेऽपि यस्योर्मयः प्रकुपिता गलहस्तयन्ति ॥ ३३.३ *(१०२१) ॥ दामोदरस्य नीरेऽस्मिन्नमृतांशुमुत्सुकतया कर्तुं करे कौतुकिन्मा निम्नेऽवतरार्जवादियमधस्तस्य प्रतिच्छायिका । मर्त्येऽस्य ग्रहणं क्व दर्शनसुधाप्युन्मुक्तनेत्रश्रियां स्वर्लोकेऽपि लवः शवेश्वरजटाजूटैकचूडामणिः ॥ ३३.४ *(१०२२) ॥ वल्लणस्य केनासीनः सुखमकरुणेनाकरादुद्धृतस्त्वं विक्रेतुं वा त्वमभिलषितः केन देशान्तरेऽस्मिन् । यस्मिन् वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ३३.५ *(१०२३) ॥ मूर्धारोपणसत्कृतैर्दिऽसि दिशि क्षुद्रैर्विहङ्गैर्गतं छायादाननिराकृतश्रमभ्रैर्नष्टं मृगैर्भीरुभिः । हा कष्टं फललोलुपैरपसृतं शाखामृगैश्चञ्वलैरेकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥ ३३.६ *(१०२४) ॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥ ३३.७ *(१०२५) ॥ कविनन्दस्य जन्म व्योमसरःसरोजकुहरे मित्राणि कल्पद्रुमाः क्रीडा स्वर्गपुरन्ध्रिभिः परिचिताः सौवर्णवल्लीस्रजः । अप्यस्मादवतार एव भवतो नोन्मादभेरीरवः सम्यङ्मूर्छितिकेलयः पुनरिमे भृङ्ग द्विरभ्याहतिः ॥ ३३.८ *(१०२६) ॥ अङ्गेनाङ्गमनुप्रविश्य मिलतो हस्तावलेपादिभिः का वार्ता युधि गन्धसिन्धुरपतेर्गन्धोऽपि चेत्के द्विपाः । जेतव्योऽस्ति हरेः स लाञ्छनमतो वन्दामहे तामभूद्यद्गर्भे शरभः स्वयंजय इति श्रुत्वापि यो नाङ्कितः ॥ ३३.९ *(१०२७) ॥ वल्लणस्यैतौ आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुराः पुनरमी नीताः परामुन्नतिम् । अन्तः प्रस्तरसंग्रहो बहिरपि भ्रश्यन्ति गन्धद्रुमा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्सम्पदां विप्लवे ॥ ३३.१० *(१०२८) ॥ अमुं कालक्षेपं त्यज लजद गम्भीरमधुरैः किमेभिर्निर्घोषैः सृज झटिति झाट्कारि सलिलम् । अये पश्यावस्थामकरुणसमीरव्यतिकर स्फुरद्दावज्वालावलिजटिलमूर्तेर्विटपिनः ॥ ३३.११ *(१०२९) ॥ युक्तं त्यजन्ति मधुपाः सुमनोविनाश काले यदेनमवनीरुहमेतदस्तु । एतत्त्वदृष्टचरमश्रुतवार्तमेताः शाखात्वचोऽपि तनुकाण्डसमास्त्यजन्ति ॥ ३३.१२ *(१०३०) ॥ स वन्द्यः पाथोदः स खलु नयनानन्दजननः परार्थे नीचेऽपि व्रजति लघुतां योऽर्थिसुभगाम् । कथापि श्रोतव्या भवति हतकेतोर्न च पुनर्जनानां ध्वंसाय प्रभवति हि यस्योद्गतिरपि ॥ ३३.१३ *(१०३१) ॥ उदञ्चद्धर्मांशुद्युतिपरिचयोन्निद्रबिसिनी घनामोदाहूतभ्रमरभरझङ्कारमधुराम् । अपश्यत्कासारश्रियममृतवर्तिप्रणयिनीं सुखं जीवत्यन्धूदरविवरवर्ति प्लवकुलम् ॥ ३३.१४ *(१०३२) ॥ मैत्रीश्रियः सुवर्णकार श्रवणोचितानि वस्तूनि विक्रेतुमिहागतस्त्वम् । कुतोऽपि नाश्रावि यदत्र पल्ल्यां पल्लीपतिर्यावदविद्धकर्णः ॥ ३३.१५ *(१०३३) ॥ यस्यावन्ध्यरुषः प्रतापवसतेर्नादेन धैर्यद्रुहां शुष्यन्ति स्म मदप्रवाहसरितः सद्योऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षत्येष करेण केशरसटाभारं जरत्कुञ्जरः ॥ ३३.१६ *(१०३४) ॥ उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास्तत्तेजश्च तदूर्जितं स च नगोन्माथी निनादो महान् । आलस्यादविमुञ्चता गिरिगुहां सिंहेन निद्रालुना सर्वं विश्वजयैकसाधनमिदं लब्धं न किंचित्कृतम् ॥ ३३.१७ *(१०३५) ॥ हंहो जनाः प्रतिपथं प्रतिकाननं च तिष्ठन्तु नाम तरवः फलिता नताश्च । अन्यैव सा स्थितिरहो मलयद्रुमस्य यद्गन्धमात्रमपि तापमपाकरोति ॥ ३३.१८ *(१०३६) ॥ यन्नीडप्रभवो यदञ्जनरुचिर्यत्खेचरो यद्द्विजस्तेन त्वं स्वजनः किलेति करटैर्यत्तैरुपब्रूयसे । तत्रातीन्द्रियमोदिमांसलरसोद्गारस्तवैष ध्वनिर्दोषोऽभूत्कलकण्ठनायक निजस्तेषां स्वभावो हि स ॥ ३३.१९ *(१०३७) ॥ वल्लणस्य किं ते नम्रतया किमुन्नततया किं ते घनच्छायया किं ते पल्लवलीलया इमनया चाशोक पुष्पश्रिया । यत्त्वन्मूलनिषण्णखिन्नपथिकस्तोमः स्तुवन्नन्वहो न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्ठितः ॥ ३३.२० *(१०३८) ॥ कल्याणं नः किमधिकमितो जीवनार्थं यदस्माल्लूत्वा वृक्षानहह दहसि भ्रातरङ्गारकार । किं त्वेतस्मिन्नशनिपिशुनैरातपैराकुलानामध्वन्यानामशरणमरुप्रान्तरे कोऽभ्युपायः ॥ ३३.२१ *(१०३९) ॥ रज्ज्वा दिशः प्रवितताः सलिलं विषेण पाशैर्मही हुतवहज्वलिता वनान्ताः । व्याधाः पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयतु यूथपतिर्मृगाणाम् ॥ ३३.२२ *(१०४०) ॥ आदाय वारि परितः सरितां शतेभ्यः किं नाम साधितमनेन महार्णवेन । क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥ ३३.२३ *(१०४१) ॥ सोढप्रौढहिमक्लमानि शनकैः पत्राण्यधः कुर्वते सम्भाव्यच्छदवाञ्छयैव तरवः केचित्कृतघ्नव्रताः । नामन्यन्त तदातनीमपि निजच्छायाक्षतिं तैः पुनस्तेषामेव तले कृतज्ञचरितैः शुष्यद्भिरप्यास्यते ॥ ३३.२४ *(१०४२) ॥ मदोष्मासंतापाद्वनकरिघटा यत्र विमले ममज्जुर्निःशेषं तटनिकट एवोन्नतकराः । गते दैवाच्छोषं वरसरसि तत्रैव तरला बलग्रासत्रासाद्विशति शफरी पङ्कमधुना ॥ ३३.२५ *(१०४३) ॥ यद्वीचिभिः स्पृशसि गगनं यच्च पातालमूलं रत्नैरुद्द्योतयसि पयसा यद्धरित्रीं पिधत्से । धिक्तत्सर्वं तव जलनिधे यद्विमुच्याश्रुधारास्तीरे नीरग्रहणरभसैरध्वगैरुज्झितोऽसि ॥ ३३.२६ *(१०४४) ॥ लोला श्रीः शशभृत्कलङ्कमलिनः क्रूरो मणिग्रामणीर्माद्यत्यभ्रमुवल्लभोऽपि सततं तत्कालकूटं विषम् । इत्यन्तः स्वकुटुम्बदुर्णयपरामर्शाग्निना दह्यते बाढं वाडवनामधेयदहनव्याजेन वारांनिधिः ॥ ३३.२७ *(१०४५) ॥ ।वर्{॰भ्रमु॰।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰त्रभ्रमु॰ ।ेद्क्ग्} यन्मार्गोद्धुरगन्धवातकणिकातङ्कार्तिनानादरी कोणाकुञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः । दृप्यद्दुर्दमगन्धसिन्धुरजयोत्खातेऽपि कामं स्तुतः स्मेरोऽयं शरभः परां हृदि घृणामायाति जातिस्मरः ॥ ३३.२८ *(१०४६) ॥ एकेनापि पयोधिना जलमुचस्ते पूरिताः कोटिशो जातो नास्य कुशाग्रलीनतुहिनश्लक्ष्णोऽपि तोयव्ययः । आहो शुष्यति दैवदृष्टिवलनादम्भोभिरम्भोमुचः सम्भूयापि विधातुमस्य रजसि स्तैमित्यमप्यक्षमाः ॥ ३३.२९ *(१०४७) ॥ मर्यादाभङ्गभीतेरमितरसतया धैर्यगाम्भीर्ययोगान्न क्षोभ्यन्त्येव तावन्नियमितसलिलाः सर्वैते समुद्राः । आहो क्षोभं व्रजेयुः क्वचिदपि समये दैवयोगात्तदानीं न क्षोणी नाद्रिवर्गा न च रविशशिनौ सर्वमेकार्णवं स्यात् ॥ ३३.३० *(१०४८) ॥ श्रुतं दूरे रत्नाकर इति परं नाम जलधेर्न चास्माभिर्दृष्टा नयनपथगम्यस्य मणयः । पुरो नः सम्प्राप्तास्तटभुवि सलिप्सं तु वसतामुदग्राः कल्लोलाः स्फुटविकटदंष्ट्राश्च मकराः ॥ ३३.३१ *(१०४९) ॥ सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं त्वामालोक्य महीरुहं वयममी मार्गं विहायागताः । अन्तस्ते यदि कोठरोदरचलद्व्यालावलीविस्फुरद्वक्त्रोद्वान्तविषानलातिभयदं वन्द्यस्तदानीं भवान् ॥ ३३.३२ *(१०५०) ॥ परभृतशिशो मौनं तावद्विधेहि नभस्तलोत्पतनविषये पक्षौ स्यातां न यावदिमौ क्षमौ । ध्रुवमितरथा द्रष्टव्योऽसि स्वजातिविलक्षण ध्वनितकुपितध्वाङ्क्षत्रोटीपुटाहतिजर्जरः ॥ ३३.३३ *(१०५१) ॥ मज्जत्कोठरनखरक्षतकृत्तिकृत्त रक्तच्छटाछुरितकेसरभारकायः । सिंहोऽप्यलङ्घ्यमहिमा हरिनामधेयं धत्ते जरत्कपिरपीति किमत्र वाच्यम् ॥ ३३.३४ *(१०५२) ॥ क्व मलयतटीजन्मस्थानं क्व ते च वनेचराः क्व खलु परशुच्छेदः क्वासौ दिगन्तरसंगतिः । क्व च खरशिलापट्टे धृष्टिः क्व पङ्कसुरूपता मलयज सखे मा गाः खेदं गुणास्तव दूषणम् ॥ ३३.३५ *(१०५३) ॥ वदत विदितजम्बूद्वीपसंवृत्तवार्तां कथमपि यदि दृष्टं वारिवाहं विहाय । सरिति सरसि सिन्धौ चातकेनार्पितोऽसावपि बहलपिपासापांशुलः कण्ठनालः ॥ ३३.३६ *(१०५४) ॥ लक्ष्मीधरस्य उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता । गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान्मर्यादां किमयं भिनत्ति किमयं न त्रायते वाडवम् ॥ ३३.३७ *(१०५५) ॥ उन्मुक्तक्रमहारिभेरुशिखरात्क्रामन्तमन्यो धरः कोऽत्र त्वां शरभिकिशोरपरिषद्धौरेय धर्तुं क्षमः । तस्माद्दुर्गमशृङ्गलङ्घनकलादुर्लालितात्मन् व्रज त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ॥ ३३.३८ *(१०५६) ॥ वल्लणस्य दुर्दिनानि प्रशान्तानि दृष्टस्त्वं तेजसां निधिः । अथाशाः पूरयन्नेव किं मेघैर्व्यवधीयते ॥ ३३.३९ *(१०५७) ॥ व्याप्याशाः शयितस्य वीचिशिखरैरुल्लिख्य खं प्रेङ्खतः सिन्धोर्लोचनगोचरस्य महिमा तेषां तनोत्यद्भुतम् । संश्लिष्टाङ्गुलिरन्ध्रलीनमकरग्राहावलनिर्नीरवो यैर्नायं करकुण्डिकोदरलघुर्दृष्टो मुनेरञ्जलौ ॥ ३३.४० *(१०५८) ॥ अभिनन्दस्य भेकैः कोठरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनादस्मिन्मुहुर्मूर्छितम् । तस्मिन्नेव सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ ३३.४१ *(१०५९) ॥ द्वन्दूकस्य हंहो सिंहकिशोरक त्यजसि चेत्कोपं वदामस्तदा हत्वैनं करिणां सहस्रमखिलं किं लब्धमायुष्मता । एवं कर्तुमहं समर्थ इति चेद्धिङ्मूर्ख किं सर्वतो नालं प्लावयितुं जगज्जलन्हिधिर्धैर्यं यदालम्बते ॥ ३३.४२ *(१०६०) ॥ सत्यं पिप्पल पादपोत्तम घनच्छायोन्नतेन त्वया सन्मार्गोऽयमलंकृतः किमपरं त्वं मूर्तिभेदो हरेः । किं चान्यत्फलभोगहृष्टमुखरास्त्वामाश्रिताः पत्रिणो यत्पुंस्कोकिलकूजितं विदधते तन्नानुरूपं परम् ॥ ३३.४३ *(१०६१) ॥ न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते । बीजान्यङ्कुरगोचराणि कतिचित्सिध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदङ्कुरवरो बध्नाति तामुन्नतिं यामध्वन्यजनः स्वमातरमिव क्लान्तच्छिदे धावति ॥ ३३.४४ *(१०६२) ॥ शालिकस्य एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं रम्यं स्वादु सुगन्धि शीतलमलं प्राप्तव्यमित्याशया । शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो यावत्तत्पुटसंधिनिर्गतपतत्तूलं फलात्पश्यति ॥ ३३.४५ *(१०६३) ॥ माधुर्यादतिशैत्यतः शुचितया संतापशान्त्या द्वयोः स्थाने मैत्र्यमिदं पयः पय इति क्षीरस्य नीरस्य च । तत्राप्यर्णसि वर्णना स्फुरति मे यत्संगतौ वर्धते दुग्धं येन पुरैव चास्य सुहृदः क्वाथे स्वयं क्षीयते ॥ ३३.४६ *(१०६४) ॥ दारैः क्रीडितमुन्मदैः सुरगुरोस्तेनैव नैवामुना भग्नं भूरि सुरासुरव्यतिकरे तेनैव नैवामुना । नैवायं स इमं नृजः स इव वा नैवैष दोषाकरः कोऽयं भोः शशिनीव लोचनवतामर्के कलङ्कः समः ॥ ३३.४७ *(१०६५) ॥ मधुकूटस्य आयान्ति यान्ति सततं नीरं शिशिरं खरं न गणयन्ति ।* विद्मो न हन्त दिवसाः कस्य किमेते करिष्यन्ति ॥ ३३.४८ *(१०६६) ॥* उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर्नाभीपद्मः प्रभवति हि सर्वत्र नियतिः । यदत्रैव ब्रह्मा पिबति निजमायुर्मधु पुनर्विलुम्पन्ति स्वेदाधिकममृतहृद्यं मधुलिहः ॥ ३३.४९ *(१०६७) ॥ यदा हत्वा कृत्स्नां तिमिरपटलीं जातमहिमा जगन्नेत्रं मित्रः प्रभवति गतोऽसाववसरः । इदानीमस्ताद्रिं श्रयति गलितालोकविभवः पिशाचा वल्गन्तु स्थगयतु तमिस्रं च ककुभः ॥ ३३.५० *(१०६८) ॥ कुशलनाथस्य उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वच्छं विलसथ विनीतक्लमभराः । इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥ ३३.५१ *(१०६९) ॥ यंप्याकस्य सलीलं हंसानां पिबति निवहो यत्र विमलं जलं तस्मिन्मोहात्सरसि रुचिरे चातकयुवा । स्वभावाद्गर्वाद्वा न पिबति पयस्तस्य शकुनेः किमेतेनोच्चैस्त्वं भवति लघिमा वापि सरसः ॥ ३३.५२ *(१०७०) ॥ प्रसीर प्रारम्भाद्विरम विनयेथाः क्रुधमिमां हरे जीमूतानां ध्वनिरयमुदीर्णो न करिणाम् । असंज्ञाः खल्वेते जलशिखरमरुद्धूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमिदम् ॥ ३३.५३ *(१०७१) ॥ अमरसिंहस्य अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं ह्रदं हस्ताघातैर्विदलसि किमुत्फुल्लनलिनम् । तदा जानीमस्ते करिवर बलोद्गारमसमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ ३३.५४ *(१०७२) ॥ समुद्रेणान्तःस्थतटभुवि तरङ्गैरकरुणैः समुत्क्षिप्तोऽस्मीति त्वमिह परितापं त्यज मणे । अवश्यं कोऽपि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस्त्वां कुर्यान्मुकुटमकरीचुम्बितरुचिम् ॥ ३३.५५ *(१०७३) ॥ अशोके शोकार्तः किमसि बकुलेऽप्याकुलमना निरानन्दः कुन्दे सह च सहकारैर्न रमसे । कुसुम्भे विश्रम्भं यदिह भजसे कण्टकशतैरसंदिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥ ३३.५६ *(१०७४) ॥ पातः पूष्णो भवति महते नैव खेदाय यस्मात्कालेनास्तं क इह न गता यान्ति यास्यन्ति चान्ये । एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्तस्मिन्नेव प्रकृतिमहति व्योम्नि लब्धोऽवकाशः ॥ ३३.५७ *(१०७५) ॥ कश्चित्कष्टं किरति करकाजालमेकोऽतिमात्रं गर्जत्येव क्षिपति विषमं वैद्युतं वह्निमन्यः । सूते वातं जवनमपरस्तेन जानीहि तावत्किं व्यादत्से विहग वदनं तत्र तत्राम्बुवाहे ॥ ३३.५८ *(१०७६) ॥ मा संचैषीः फलसमुदयं मा च पत्रैः पिधास्त्वं रोधःशाखिन् वितर तदिदं दानमेवानुकूलम् । नूनं प्रावृत्समयकलुषैरूर्मिभिस्तालतुङ्गैरद्य श्वो वा सरिदकरुणा त्वां श्रिया पातयित्री ॥ ३३.५९ *(१०७७) ॥ आमोदैस्ते दिशि दिशि गतैर्दूरमाकृष्यमाणाः साक्षाल्लक्ष्म्या तव मलयज द्रष्टुमभ्यागताः स्मः । किं पश्यामः सुभग भवतः क्रीडति क्रोड एव व्याडस्तुभ्यं भवतु कुशलं मुञ्च नः साधु यामः ॥ ३३.६० *(१०७८) ॥ अणुरपि ननु नैव क्रोडभूषास्य काचित्परिभजसि यदेतत्तद्विभूतिस्तथैव । इह सरसि मनोज्ञे संततं पातुमम्भः श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ॥ ३३.६१ *(१०७९) ॥ श्रीधर्मकरस्य नभसि निरवलम्बे सीदता दीर्घकालं त्वदभिमुखनिसृष्टोत्तानचञ्चपुटेन । जलधर जलधारा दूरतस्तावदास्तां ध्वनिरपि मधुरस्ते न श्रुतश्चातकेन ॥ ३३.६२ *(१०८०) ॥ श्रमपरिगतैर्विस्तीर्णश्रीरसीति पयः परं कतिपयमपि त्वत्तोऽस्माभिः समुद्र समीहितम् । किमसि नितरामुत्क्षुब्धोर्मिः प्रसीद नमोऽस्तु ते दिशि दिशि शिवाः सन्त्यस्माकं शतं कमलाकराः ॥ ३३.६३ *(१०८१) ॥ अचलस्यैतौ ककुभि ककुभि भ्रान्त्वा भ्रान्त्वा विलोक्य विलोकितं मलयजसमो दृष्टोऽस्माभिर्न कोऽपि महीरुहः । उपचितरसो दाहे च्छेदे शिलातलघर्षणेऽप्यधिकमधिकं यत्सौरभ्यं तनोति मनोहरम् ॥ ३३.६४ *(१०८२) ॥ तरणिनन्दिनः अभिपतति घनं शृणोति गर्जाः सहति शिलाः सहते तडित्तरङ्गान् । विधुवति गरुतं रुतं विधत्ते जलपृषते कियतेऽपि चातकोऽयम् ॥ ३३.६५ *(१०८३) ॥ अचलस्य बद्धोऽसि विद्धि तावन्मधुरसन व्यसनमीदृगेतदिति ।* अनवहितकमलमीलन मधुकर किं विफलमुत्फलसि ॥ ३३.६६ *(१०८४) ॥* तस्यैव हृत्वापि वसुसर्वस्वममी ते जलदाः सखि ।* मित्राप्यपकुर्वन्ति विप्रियाणां तु का कथा ॥ ३३.६७ *(१०८५) ॥* श्रीफलेनामुनैवायं कुरुते किं न वानरः । हसत्युल्लसति प्रेङ्खत्यधस्तादीक्षते जनम् ॥ ३३.६८ *(१०८६) ॥ तरणिनन्दिनः अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः । शाखोटकस्य पुनरस्य महाशयोऽयमम्भोद एव शरणं यदि निर्गुणस्य ॥ ३३.६९ *(१०८७) ॥ त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम विद्युल्लताभिरभितर्जय नाम भूयः । प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेरेतस्य पश्य विहगस्य गतिस्त्वमेव ॥ ३३.७० *(१०८८) ॥ आमन्थिनीकलश एष सदुग्धसिन्धुर्वेत्रं च वासुकिरयं गिरिरेष मन्थः । सम्प्रत्युपोढमदमन्थरबाहुदण्ड कण्डूयनावसर एव सुरासुराणाम् ॥ ३३.७१ *(१०८९) ॥ भट्टगणपतेः व्याकुर्महे बहु किमस्य तरोः सदैव नैसर्गिकोऽयमुपकाररसः परेषु । उन्मूलितोऽपि मरुता बत वारिदुर्ग मार्गे यदत्र जनसंक्रमतामुपेतः ॥ ३३.७२ *(१०९०) ॥ विस्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किंचिदपि चारु मृगाधिपस्य तेजस्तु तत्किमपि येन जगद्वराकम् ॥ ३३.७३ *(१०९१) ॥ कस्य तृषं न क्षपयसि न पयसि तव कथय के निमज्जन्ति ।* यदि सन्मार्गजलाशय नक्रो न क्रोडमधिवसति ॥ ३३.७४ *(१०९२) ॥* वीरस्य न स्फूर्जति न च गर्जति न च करकाः किरति सृजति न च तडितः ।* न च विनिमुञ्चति वात्यां वर्षति निभृतं महामेघः ॥ ३३.७५ *(१०९३) ॥* न भवतु कथं कदम्बः प्रतिप्रतीकप्ररूढघनपुलकः ।* विश्वं धिनोति जलदः प्रत्युपकारस्पृहारहितः ॥ ३३.७६ *(१०९४) ॥* अचलसिंहस्य करं प्रसार्य सूर्येण दक्षिणाशावलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥ ३३.७७ *(१०९५) ॥ न शक्यं स्नेहपात्राणां वितानं च विरूक्षणम् । दह्यमानान्यपि स्नेह व्यक्तिं कृत्वा स्फुटन्ति यत् ॥ ३३.७८ *(१०९६) ॥ नालम्बनाय धरणिर्न तृषार्तिशान्त्यै सप्तापि वारिनिधयो न धनाय मेरुः । पूर्वार्जिताशुभवशीकृतपौरुषस्य कल्पद्रुमोऽपि न समीहितमातनोति ॥ ३३.७९ *(१०९७) ॥ आश्वास्य पर्वतकुलं तपनोष्मतप्तं निर्वाप्य दावविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा रिक्तोऽसि यज्जलद सैव तवोन्नतश्रीः ॥ ३३.८० *(१०९८) ॥ ये पूर्वं परिपालिताः फलदलच्छायादिभिः प्राणिनो विश्रामद्रुम कथ्यतां तव विपत्काले क्व ते साम्प्रतम् । एताः संनिधिमात्रकल्पितपुरस्कारास्तु धन्यास्त्वचो यासां छेदनमन्तरेण पतितो नायं कुठारस्त्वयि ॥ ३३.८१ *(१०९९) ॥ वित्तोकस्य दूरं यदि क्षिपसि भीमजवैर्मरुद्भिः संचूर्णयस्यपि दृढं यदि वा शिलाभिः । सौदामिनीभिरसकृद्यदि हंसि चक्षुर्नान्या गतिस्तदपि वारिद चातकस्य ॥ ३३.८२ *(११००) ॥ यस्योदये बहुमनोरथमन्थरेण संचिन्तितं किमपि चेतसि चातकेन । हा कष्टमिष्टफलदानविधानहेतोरम्भोधरात्पतति सम्प्रति वज्रघातः ॥ ३३.८३ *(११०१) ॥ लडहचन्द्रस्य देवे कालवशं गते सवितरि प्राप्यान्तरासंगतिं हन्त ध्वान्त किमेधसे दिशि दिशि व्योम्नः प्रतिस्पर्धया । तस्यैवास्तमुपेयुषः करशतान्यादाय विध्वंसयन्नेष त्वां कलितः कलाभिरुदयत्यग्रे शशी पार्वणः ॥ ३३.८४ *(११०२) ॥ धन्यस्त्वं सहकार सम्प्रति फलैः काकाञ्शुकान् पूरयन् पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दिरः । अक्रीडन्निमिषं स नैति फलिनं यत्त्वां विकाशैकमुत्तद्धर्मोऽस्य फलाशया परिचयः कल्पद्रुमेऽप्यस्ति किम् ॥ ३३.८५ *(११०३) ॥ यः पूर्वस्फुटदस्थिसम्पुटमुखे दृष्टः प्रवालाङ्कुरः प्रायः स द्विदलादिकक्रमवशादारब्धशाखासनः । स्निग्धं पल्लवितो घनं मुकुलितः स्फारच्छटं पुष्पितः सोत्कर्षं फलितो भृशं च विनतः कोऽप्येष चूतद्रुमः ॥ ३३.८६ *(११०४) ॥ जायन्ते बहवोऽत्र कच्छपकुले किं तु क्वचित्कच्छपी नैकाप्येकमसूत नापि च पुनः सूते न वा सोष्यते । आकल्पं धरणीभरोद्वहनतः संकोचखिन्नात्मनो यः कूर्मस्य दिनानि नाम कतिचिद्विश्रामदानक्षमः ॥ ३३.८७ *(११०५) ॥ हनूमतः भवकाष्ठमयी नाम नौके हृदयवत्यसि । परकीयैरपरथा कथमाकृष्यसे गुणैः ॥ ३३.८८ *(११०६) ॥ भगवति यामिनि वन्दे त्वयि भुवि दृष्टः पतिव्रताधर्मः ।* गतवति रजनीनाथे कज्जलमलिनं वपुर्वहसि ॥ ३३.८९ *(११०७) ॥* धिगेतद्गाम्भीर्यं धिगमृतमयत्वं च जलधेर्धिगेतां द्राघीयः प्रचलतरकल्लोलभुजताम् । यदेतस्यैवाग्रे कवलिततनुर्दावदहनैर्न तीरारण्यानी सलिलचुकुलेनाप्युपकृता ॥ ३३.९० *(११०८) ॥ कणिकाकारस्य अम्भोनिधेरनवगीतगुणैकराशेरुच्चैःश्रवप्रभृतिषु प्रसभं हृतेषु । आश्वासनं यदवकृष्टमभून्महर्षे तोयं त्वया तदपि निष्करुणेन पीतम् ॥ ३३.९१ *(११०९) ॥ वनारोहस्य कतिपयदिवसस्थायी पूरो दूरोन्नतोऽपि भविता ते ।* तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ३३.९२ *(१११०) ॥* प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं विनीतोऽयं वेशः शममिव नदीनां कथयति । तथाप्यासां तैस्तैस्तरुभिरभितस्तीरपतितैः स एवाग्रे बुद्धौ परिणमति रुद्धोऽप्यविनयः ॥ ३३.९३ *(११११) ॥ सततं या मध्यस्था प्रथयति यष्टिः प्रतिष्ठितासीति ।* पुष्करिणि किमिदमुचितं तां चेदानीमधो नयसि ॥ ३३.९४ *(१११२) ॥* कुशलनाथस्य कृतमिदमसाधु हरिणैः शिरसि तरूणां दवानले ज्वलति ।* आजन्म केलिभवनं यद्भीतैरुज्झितं विपिनम् ॥ ३३.९५ *(१११३) ॥* खदिरस्य विध्वस्ता मृगपक्षिणो विधुरतां नीताः स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता । भस्मीकृत्य सपुष्पपल्लवदलांस्तांस्तान्महापादपान् दुर्वृत्तेन दवानलेन विहितं वल्मीकशेषं वनम् ॥ ३३.९६ *(१११४) ॥ ।वर्{॰न्तरिताः।लेम् ।ेमेन्द्, ॰न्तरिता ।ेद्क्ग्} कर्णाहतिव्यतिकरं करिणां विपक्ष दानं व्यवस्यति मधुव्रत एष तिक्तम् । स्मर्तव्यतामुपगतेषु सरोरुहेषु धिग्जीवितव्यसनमस्य मलीमसस्य ॥ ३३.९७ *(१११५) ॥ चित्रं तदेव महदश्मसु तापनेषु यन्नोद्गिरन्त्यनलमिन्दुकराभिमृष्टाः । सम्भाव्यतेऽपि किमिदं नु यथेन्दुकान्तास्ते पावनं च शिशिरं च रसं सृजन्ति ॥ ३३.९८ *(१११६) ॥ दाहच्छेदनिकाषैरतिपरिशुद्धस्य ते वृथा गरिमा ।* यदसि तुलामधिरूढं काञ्चन गुञ्जाफलैः सार्धम् ॥ ३३.९९ *(१११७) ॥* सुरभेः सिन्धोरुच्चैः पवनचलनादुत्सलद्भिस्तरङ्गैः कूलं नीतो हतविधिवशाद्दक्षिणावर्तशङ्खः । दग्धः किं वा न भवति मसी चेति संदेहनीभिः शम्बूकाभिः सह परिचितो नीयते पामरीभिः ॥ ३३.१०० *(१११८) ॥ सुचरितस्य छिद्रं मणेर्गुणार्थं नायकपदहेतुरस्य तारल्यम् ।* कथमन्यथेश्वराणां विलुठति हृदये च मौलौ च ॥ ३३.१०१ *(१११९) ॥* परिणतिसुकुमार स्वादुमाकन्द निन्दां कथमिव तव भृष्टो राजकीरः करोतु । अनवधिकठिनत्वं नारिकेरस्य यस्मिन् वशिकहृदयवृत्तेर्लुप्तसारश्रियश्च ॥ ३३.१०२ *(११२०) ॥ किंपाक पाके बहिरेव रक्त तिक्तासितान्तर्दृशि कान्तिमेषि ।* एतावता काकमपास्य कस्य हृत्प्रीतिभित्तिस्त्वमिदं न जाने ॥ ३३.१०३ *(११२१) ॥* बुद्धाकरगुप्तस्य विगर्जामुन्मुञ्च त्यज तरलतामर्णव मनागहंकारः कोऽयं कतिपयमणिग्रावगुडकैः । दृशं मेरौ दद्याः स हि मणिमयप्रस्थमहितो महामौनः स्थैर्यादथ भुवनमेव स्थिरयति ॥ ३३.१०४ *(११२२) ॥ आज्ञामेव मुनेर्निधाय शिरसा विन्ध्याचल स्थीयतामत्युच्चैः पदमिच्छता पुनरियं नो लङ्घनीया त्वया । मैनाकादिमहीध्रलब्धवसतिं यः पीतवानम्बुधिं तस्य त्वां गिलतः कपोलमिलनक्लेशोऽपि किं जायते ॥ ३३.१०५ *(११२३) ॥ अभ्युद्यत्कवलग्रहप्रणयिनस्ते शल्लकीपल्लवास्तच्चास्फालसहं सरः क्षितिभृतामित्यस्ति को निह्नुते । दन्तस्तम्भनिषण्णनिःसहकरः श्वासैरतिप्रांशुभिर्येनायं विरही तु वारणपतिः स्वामिन् स विन्ध्यो भवान् ॥ ३३.१०६ *(११२४) ॥ ।चोलो इत्यन्यापदेशव्रज्या ततो वातव्रज्या उद्दामद्विरदावलूनबिसिनीसौरभ्यसम्भावित व्योमानः कलहंसकम्पितगरुत्पालीमरुन्मांसलाः । दूरोत्तानतरङ्गलङ्घनजलाजङ्घालगर्वस्पृशः कर्पूरद्रवशीकरैरिव दिशो लिम्पन्ति पम्पानिलाः ॥ ३४.१ *(११२५) ॥ अन्ध्रीनीरन्ध्रपीनस्तनतटलुठनायासमन्दप्रचाराश्चारूनुल्लासयन्तो द्रविडवरवधूहारिधम्मिल्लभारान् । जिघ्रन्तः सिंहलीनां मुखकमलमलं केरलीनां कपोलं चुम्बन्तो वान्ति मन्दं मलयपरिमला वायवो दाक्षिणात्याः ॥ ३४.२ *(११२६) ॥ वसुकल्पस्यैतौ लतां पुष्पवतीं स्पृष्ट्वा कृतस्नानो जलाशये । पुनस्तत्सङ्गशङ्कीव वाति वातः शनैः शनैः ॥ ३४.३ *(११२७) ॥ विनयदेवस्य कान्ताकर्षणलोलकेरलवधूधमिल्लमल्लीरजश्चौराश्चोडनितम्बिनीस्तनतटे निष्पन्दतामागताः । रेवाशीकरधारिणोऽन्ध्रमुरलस्त्रीमानमुद्राभिदो वाता वान्ति नवीनकोकिलवधूहूंकारवाचालिताः ॥ ३४.४ *(११२८) ॥ श्रीकण्ठस्य धुनानः कावेरीपरिसरभुवश्चम्पकतरून्मरुन्मन्दं कुन्दप्रकरमकरन्दानवकिरन् । प्रियप्रेमाकर्षच्युतरचनमामूलसरलं ललाटे लाटीनां लुठितमलकं ताण्डवयति ॥ ३४.५ *(११२९) ॥ वहति ललितमन्दः कामिनीमानबन्धं श्लथयितुमयमेको दक्षिणो दाक्षिणात्यः । वितरति घनसारामोदमन्तर्धुनानो जलधिजलतरङ्गान् खेलयन् गन्धवाहः ॥ ३४.६ *(११३०) ॥ भुक्त्वा चिरं दक्षिणदिग्वधूमिमां विहाय तस्या भयतः शनैः शनैः । सगन्धसारादिकृताङ्गभूषणः प्रयात्युदीचीं दयितामिवानिलः ॥ ३४.७ *(११३१) ॥ ।वर्{॰भूषणः।लेम् ।ेमेन् ।िन्गल्ल्स्, ॰भूषः ।ेद्क्ग्} वाति व्यस्तलवङ्गलोध्रलवलीकुञ्जः करञ्जद्रुमानाधुन्वन्नुपभुक्तमुक्तमुरलातोयोर्मिमालाजडः । स्वैरं दक्षिणसिन्धुकूलकदलीकच्छोपकण्ठोद्भवः कावेरीतटताडिताडनतटत्कारोत्तरो मारुतः ॥ ३४.८ *(११३२) ॥ चुम्बन्नाननमालुठन् स्तनतटीमान्दोलयन् कुन्तलं व्यस्यन्नंशुकपल्लवं मनसिजक्रीडाः समुल्लासयन् । अङ्गं विह्वलयन्मनो विकलयन्मानं समुन्मूलयन्नारीणां मलयानिलः प्रिय इव प्रत्यङ्गमालिङ्गति ॥ ३४.९ *(११३३) ॥ अलीनां मालाभिर्विरचितजटाभारमहिमा परागैः पुष्पाणामुपरचितभस्मव्यतिकरः । वनानामाभोगे कुसुमवति पुष्पोच्चयपरो मरुन्मन्दं मन्दं विचरति परिव्राजक इव ॥ ३४.१० *(११३४) ॥ शष्पश्यामलितालवालनिपतत्कुल्याजलप्लावित क्रीडोद्याननिकेतनाजिरजुषामस्पृष्टभूरेणवः । सुप्तं सम्प्रति बोधयन्ति शनकैश्चेतोभुवं कामिनां प्रत्यग्रस्फुटमल्लिकासुरभयः सायंतना वायवः ॥ ३४.११ *(११३५) ॥ अचलसिंहस्य अद्याभोगिनि गाढमर्मनिवहे हर्माग्रवेदीजुषां सद्यश्चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् । प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः साय्ंनया वायवः ॥ ३४.१२ *(११३६) ॥ शतानन्दस्य शिशिरशीकरवाहिनि मारुते चरति शीतभयादिव सत्वरः । मनसिजः प्रविवेश वियोगिनी हृदयमाहितशोकहुताशनः ॥ ३४.१३ *(११३७) ॥ कुमारदासस्य दीर्घान्मुक्तः सपदि मलयाधित्यकायाः प्रसङ्गादाविष्कुर्वन् प्रणयपिशुनं सौरभं चन्दनस्य । मन्दं मन्दं निपतति चिरादागतो माधवीषु व्याकुर्वाणो भयमिव परं दाक्षिणो गन्धवाहः ॥ ३४.१४ *(११३८) ॥ मधुशीलस्य प्रभाते सन्नद्धस्तनितमहिमानं जलधरं स्पृशन्तः सर्वत्र स्फुटितवनमल्लीसुरभयः । अमी मन्दं मन्दं सुरतसमरश्रान्ततरुणी ललाटस्वेदाम्भःकणपरिमुषो वान्ति मरुतः ॥ ३४.१५ *(११३९) ॥ सुरतभरखिन्नपन्नगविलासिनीपानकेलिजर्जरितः ।* पुनरिह विरहिश्वासैर्मलयमरुन्मांसलीभवति ॥ ३४.१६ *(११४०) ॥* एते पल्लीपरिवृढवधूप्रौढकन्दर्पकेलि क्लिष्टापीनस्तनपरिसरखेदसम्पद्विपक्षाः । वान्ति स्वैरं सरसि सरसि क्रोडदंष्ट्राविमर्द त्रुट्यद्गुन्द्रापरिमलगुणग्राहिणो गन्धवाहाः ॥ ३४.१७ *(११४१) ॥ नाधन्यैः शङ्खपाणेः क्षणधृतगतयः प्रांशुभिश्चन्द्रकान्त प्रासादैर्द्वारकायां तरलितचरमाम्भोधिनीराः समीराः । सेव्यन्ते नित्यमाद्यत्करिकाठिनकरास्फालकालप्रबुद्ध क्रुध्यत्पञ्चाननाग्रध्वनिभरविगलद्गुग्गुलूद्गारगर्भाः ॥ ३४.१८ *(११४२) ॥ हिमस्पर्शादङ्गे घनपुलकजालं विदधतः पिकत्रोटीत्रुट्यद्विकचसहकाराङ्कुरलिहः । अमी स्वैरं स्वैरं मलयमरुतो वान्ति दिनजं दिनापाये चक्षुःक्लममपहरन्तो मृगदृशाम् ॥ ३४.१९ *(११४३) ॥ अयमुषसि विनिद्रद्राविडीतुङ्गपीन स्तनपरिसरसान्द्रखेदबिन्दूपमर्दी । स्रुतमलयजवृक्षक्षीरसौरभ्यसभ्यो वहति सखि भुजङ्गीभुक्तशेषः समीरः ॥ ३४.२० *(११४४) ॥ ये दोलाकेलिकाराः किमपि मृगदृशां मन्युतन्तुच्छिदो ये सद्यः शृङ्गारदीक्षाव्यतिकरगुरवो ये च लोकत्रयेऽपि । ते कण्ठे लोठयन्तः परभृतवयसां पञ्चमं रागराजं वान्ति स्वैरं समीराः स्मरविजयमहासाक्षिणो दाक्षिणात्याः ॥ ३४.२१ *(११४५) ॥ राजशेखरस्य दरोन्मीलच्चूडप्रकरमुकुलोद्गारसुरभिर्लतालास्यक्रीडाविधिनिबिडदीक्षापरिचयः । विभिन्दन्नुद्यानान्यतनुमकरन्दद्रवहर श्रमस्वैरो वायुर्मनसिजशरैर्जर्जरयति ॥ ३४.२२ *(११४६) ॥ श्रान्ताश्चूतवनानि कुञ्जपटलप्रेङ्खोलनादुन्मिषन्मल्लीकुड्मलसान्द्रसौरभसरित्संस्यन्दशृङ्गारिणः । एते संवसथोपकण्ठविलसद्वृष्ट्यम्बुवीचीचयोन्मीलद्बालतुषारशीकरकिरः क्रीडन्ति झञ्झानिलाः ॥ ३४.२३ *(११४७) ॥ बुद्धाकरगुप्तस्य ।चोलो इति वातव्रज्या ततो जातिव्रज्या॥ ३५ अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः । अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥ ३५.१ *(११४८) ॥ ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । शष्पैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ ३५.२ *(११४९) ॥ कालिदासस्य स्वैरं चक्रानुवृत्त्या मुहुरुपरि परिभ्रम्य सम्यक्कृतास्थः क्षिप्ताधिदृष्टिलक्ष्यीकृतपलशकलः पक्कणप्राङ्गणेषु । तीव्राधःपातपुञ्जीकृतविततचलत्पक्षपालीविशालश्चिल्लश्चाण्डालपल्लीपिठरजठरतः प्रोद्धरत्यर्धदग्धम् ॥ ३५.३ *(११५०) ॥ उद्ग्रीवा विवृतारुणास्यकुहरास्तृष्णाचलत्तालवः पक्षासम्भववेपमानतनवः प्रोड्डीय किंचिद्भुवः । अन्योन्याक्रमिणः शरारिशिशवः प्रातर्नदीरोधसि प्रालेयाम्बु पिबन्ति वीरणदलद्रोणीप्रणालस्रुतम् ॥ ३५.४ *(११५१) ॥ रज्जुक्षेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी । तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठानतिव्याकृता भोगश्रोणिरुदस्यति प्रतिमुहुः कूपादपः पामरी ॥ ३५.५ *(११५२) ॥ पक्षाभ्यां सहितौ प्रसार्य चरणावेकैकशः पार्श्वयोरेकीकृत्य शिरोधरोपरि शनैः पाण्डूदरे पक्षती । निद्राशेषविशेषरक्तनयनो निर्याय नीडोदरादासृक्कान्तविदारिताननपुटः पारावतो जृम्भते ॥ ३५.६ *(११५३) ॥ भृङ्गारस्य प्रातर्वारविलासिनीजनरणन्मञ्जीरमञ्जुस्वनैरुद्बुद्धः परिधूय पक्षतिपुटं पारावतः सस्पृहम् । किंचित्कुञ्चितलोचनां सहचरीं संचुम्ब्य चञ्च्वा चिरं मन्दान्दोलितकण्ठकुण्ठितगलः सोत्कण्ठमुत्कूजति ॥ ३५.७ *(११५४) ॥ विक्रमादित्यतपस्विनोः उत्प्लुत्य दूरं परिधूय पक्षा वधो निरीक्ष्य क्षणबद्धलक्ष्यः । मध्येजलं बुड्डति दत्तझम्पः समत्स्यमुत्सर्पति मत्स्यरङ्कः ॥ ३५.८ *(११५५) ॥ वाक्पतिराजस्य नीडादपक्रम्य विधूय पक्षौ वृक्षाग्रमारुह्य ततः क्रमेण । उद्ग्रीवमुत्पुच्छमुदेकपादमुच्चूडमुत्कूजति ताम्रचूडः ॥ ३५.९ *(११५६) ॥ अङ्गुष्ठाक्रमवक्रिताङ्गुलिरधः पादार्धनीरुद्धभूः पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः । न्यग्जानुद्वययन्त्रयन्तितघटीवक्त्रान्तरालस्खलद्धाराध्वानमनोहरं सखि पयो गां दोग्धि गोपालकः ॥ ३५.१० *(११५७) ॥ उपाध्यायदामरस्य कर्णाग्रन्थितकिंतनुर्नतशिरा बिभ्रज्जराजर्जर स्फिक्संधिप्रविवेशितप्रविचलल्लाङ्गूलनालः क्षणम् । आराद्वीक्ष्य विपक्वसाक्रमकृतक्रोधस्फुरत्कन्धरं श्वा मल्लीकलिकाविकाशिदशनः किंचित्क्वणन् गच्छति ॥ ३५.११ *(११५८) ॥ तुन्दी चेत्परिचुम्बति प्रियतमां स्वार्थात्ततो भ्रश्यति स्वार्थं चेत्कुरुते प्रियाधररसास्वादं न विन्दत्यसौ । तं चेमं च करोति मूढजडधीः कामान्धमुग्धो यतस्तुन्दौ तुन्दितविग्रहस्य सुरते नैको भवेन्नापरः ॥ ३५.१२ *(११५९) ॥ नश्यद्वक्त्रिमकुन्तलान्तलुलितस्वच्छाम्बुबिन्दूत्करा हस्तस्वस्तिकसंयमे नवकुचप्राग्भारमातन्वती । पीनोरुद्वयलीनचीनवसना स्तोकावनम्रा जलात्तीरोद्देशनिमेषलोलनयना बालेयमुत्तिष्ठति ॥ ३५.१३ *(११६०) ॥ भोज्यदेवस्य अम्भोमुचां सलिलमुद्गिरतां निशीथे ताडीवनेषु निभृतस्थितकर्णतालाः । आकर्णयन्ति करिणोऽर्धनिमीलिताक्षा धारारवं दशनकोटिनिषण्णहस्ताः ॥ ३५.१४ *(११६१) ॥ हस्तिपकस्य हलाग्रोत्कीर्णायां परिसरभुवि ग्रामचटका लुठन्ति स्वच्छन्दं नखरशिखराच्छोटितमृदः । चलत्पक्षद्वन्द्वप्रभवमरुदुत्तम्भितरजः कणाश्लेषभ्रामद्रुतमुकुलितोन्मीलितदृशः ॥ ३५.१५ *(११६२) ॥ आकुब्जीकृतपृष्ठमुन्नतवलद्वक्त्राग्रपुच्छं भयादन्तर्वेश्मनिवेशितैकनयनं निष्कम्पकर्णद्वयम् । लालाकीर्णविदीर्णसृक्कविकचद्दंष्ट्राकरालननः श्वा निःश्वासनिरोधपीवरगलो मार्जारमास्कन्दति ॥ ३५.१६ *(११६३) ॥ पयसि सरसः स्वच्छे मत्स्याञ्जिघृक्षुरितस्ततो वलितनयनो मन्दं मन्दं पदं निदधद्बकः । वियति विधृतैकाङ्घ्रिस्तिर्यग्विवर्तितकन्धरो दलमपि चलत्सप्रत्याशं मुहुर्मुहुरीक्षते ॥ ३५.१७ *(११६४) ॥ मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः । आत्मोद्धतैरपिरजोभिरलङ्घनीया धावन्यमी मृगजवाक्षमयेव रथ्याः ॥ ३५.१८ *(११६५) ॥ पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैरासज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूम्रां विधूय । घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥ ३५.१९ *(११६६) ॥ आघ्रातक्षोणिपीठः खुरशिखरसमाकृष्टरेणुस्तुरङ्गः पुञ्जीकृत्याखिलाङ्घ्रीन् क्रमवशविनमज्जानुरुन्मुक्तकायः । पृष्ठान्तः पार्श्वकण्डूव्यपनयनरसाद्द्विस्त्रिरुद्वर्तिताङ्गः प्रोत्थाय द्राङ्निरीहः क्षणमथ वपुरास्यानुपूर्व्यां धुनोति ॥ ३५.२० *(११६७) ॥ आदौ वितत्य चरणौ विनमय्य कण्ठमुत्थाप्य वक्त्रमभिहत्य मुहुश्च वत्साः । मात्रा प्रवर्तितमुखं मुखलिह्यमान पश्चार्धसुस्थमनसः स्तनमुत्पिबन्ति ॥ ३५.२१ *(११६८) ॥ प्रियायां स्वैरायामतिकठिनगर्भालसतया किराते चाकर्णीकृतधनुषि धावत्यनुपदम् । प्रियाप्रेमप्राणप्रतिभयवशाकूतविकलो मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥ ३५.२२ *(११६९) ॥ शीर्णक्षुद्रातपत्री जठरवलयितानेकमात्राप्रपञ्चश्चूडानिर्व्यूढबिल्वच्छद उदरदरीभीषणो जीर्णकण्ठः । दूराध्वभ्रान्तिखिन्नः कथमपि शनकैरङ्घ्रिपीडां नियम्य स्वैरेन्धस्फोटनाय द्विजभवनमनु स्नातकः सायमेति ॥ ३५.२३ *(११७०) ॥ चञ्चच्चञ्चलचञ्चुवञ्चितचलच्चूडाग्रमुग्रं पतच्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् । वारं वारमुदङ्घ्रिलङ्घनघनप्रेङ्खन्नखक्षुण्णयोः कामं कुक्कुटयोर्द्वयं द्रुतपदक्रूरक्रमं युध्यति ॥ ३५.२४ *(११७१) ॥ एते जीर्णकुलायकालजटिलाः पांसूत्कराकर्षिणः शाखाकम्पविहस्तदुःस्थविहगानाकम्पयन्तस्तरून् । हेलान्दोलितनर्तितोझितहतव्याघट्टितोन्मूलित प्रोत्क्षिप्तभ्रमितैः प्रपापटलकैः क्रीडन्ति झञ्झानिलाः ॥ ३५.२५ *(११७२) ॥ एते संततभृज्यमानचणकामोदप्रधाना मनः कर्षन्त्यूषरसंनिवेशजरठच्छायाः स्थलीग्रामकाः । तारुण्यातिशयाग्रपामरवधूसोल्लासहस्तग्रह भ्राम्यत्पीवरयन्त्रकध्वनिरसद्गम्भीरगेहोदराः ॥ ३५.२६ *(११७३) ॥ अस्मिनीषद्वलितविततस्तोकविच्छिन्नभुग्नः किंचिल्लीलोपचितविभवः पुञ्जितश्चोत्थितश्च । धूमोद्गारस्तरुणमहिषस्कन्धनीलो दवाग्नेः स्वैरं सर्पन् सृजति गगने गत्वरान् पत्रभङ्गान् ॥ ३५.२७ *(११७४) ॥ कैश्चिद्वीतदयेन भोगपतिना निष्कारणोपप्लुत प्रक्षीणैर्निजवंशभूरिति मितैरत्यज्यमानाः कुलैः । ग्रामा निस्तृणजीर्णकुड्यबहुलाः स्वैरं भ्रमद्बभ्रवः प्रायः पाण्डुकपोतकण्ठमुखरारामे न यान्त्युत्कताम् ॥ ३५.२८ *(११७५) ॥ दुरुपहितहलेषासार्गलद्वारमारात्परिचकितपुरन्ध्रीपातिताभ्यर्णभाण्डम् । पवनरयतिरश्चीस्तोयधाराः प्रतीच्छन् विशति वलितशृङ्गः पामरागारमुक्षा ॥ ३५.२९ *(११७६) ॥ उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रहङ्घं ततो वक्त्रस्वैरपदक्रमैरुपगताः किंचिच्चलन्तो गले । भेकाः पूतिनिपातिनो मिचिमिचीत्युन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर्निर्मक्षिकं कुर्वते ॥ ३५.३० *(११७७) ॥ विलासमसृणोल्लसन्मुसललोलदोःकन्दली परस्परपरिस्खलद्वलयनिःस्वनैर्दन्तुराः । हरन्ति कलहूंकृतिप्रसभकम्पितोरःस्थल त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥ ३५.३१ *(११७८) ॥ विकासयति लोचने स्पृशति पाणिनाकुञ्चिते विदूरमवलोकयत्यतिसमीपसंस्थं पुनः । बहिर्व्रजति सातपे स्मरति नेत्रवर्तेः पुमाञ्जराप्रमुखसंस्थितः समवलोकयन् पुस्तकम् ॥ ३५.३२ *(११७९) ॥ वराहस्य प्रायो रथ्यास्थलभुवि रजःप्रायदूर्वालतायां जाल्मैः पृष्ठापहृतसलवाः सक्षुधो मामहोक्षाः । स्वैरं श्वासानिलतरलितोद्भूतधूलीप्रवेश प्लुष्टप्राणा विहितविधुतग्रासविघ्नं चरन्ति ॥ ३५.३३ *(११८०) ॥ सीमनि लघुपङ्कायामङ्कुरगौराणि चञ्चितोरस्काः ।* लघुतरमुत्प्लवमानाश्चरन्ति बीजान्ति कलविङ्काः ॥ ३५.३४ *(११८१) ॥* क्वणद्वलयसंततिक्षणमुदञ्चिदोष्कन्दली गलत्पटसमुन्मिषत्कुचतटीनखाङ्कावली । कराम्बुजधृतोल्लसन्मुशलमुन्नमन्ती मुहुः प्रलम्बिमणिमालिनी कलमकण्डनी राजते ॥ ३५.३५ *(११८२) ॥ वागुरस्य उत्पुच्छः प्रमदोच्छ्वसद्वपुरधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः । उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस न्यग्भूतां चटकः प्रियामभिसरत्युद्वेपमानः क्षणम् ॥ ३५.३६ *(११८३) ॥ सोन्नोकस्य सिद्धार्थयष्टिषु यथोत्तरहीयमान संस्थानबद्धफलसूचिपरम्परासु । विच्छिद्यमानकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ॥ ३५.३७ *(११८४) ॥ बकोटाः पान्थानां शिशिरसरसीसीम्नि सरताममी नेत्रानन्दं ददति चरणाचोटितमुखाः । धुनाना मूर्धानं गलबिलगलत्स्फारशफर स्फुरत्पुच्छानच्छव्यतिकरसबाष्पाकुलदृशः ॥ ३५.३८ *(११८५) ॥ तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः किंचित्कुञ्चितलोचनः खुरपुटेनाचोटयन् भूतलम् । निश्वासैरतिसंततैर्बुषकणाजालं खले विक्षिपन्नुक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दमास्कन्दति ॥ ३५.३९ *(११८६) ॥ अचलस्य अर्चिर्मालाकरालाद्दिवमभिलिहतो दाववह्नेरदूरादुड्डीयोड्डीय किंचिच्छलभकवलनानन्दमन्दप्रचाराः । अग्रेऽग्रे संरटन्तः प्रचुरतरमसीपातदुर्लक्षधूम्रा धूम्याटाः पर्यटन्ति प्रतिविटपममी निष्ठुराः स्वस्थलीषु ॥ ३५.४० *(११८७) ॥ मधुकण्ठस्य नीवारौदनमण्डमुष्णमधुरं सद्यःप्रसूतप्रिया पीतादप्यधिकं तपोवनमृगः पर्याप्तमाचामति । गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीर्यते ॥ ३५.४१ *(११८८) ॥ भवभूतेः मधुरमिव वदन्तः स्वागतं भृङ्गशब्दैर्नतिमिव फलनम्रैः कुर्वतेऽमी शिरोभिः । मम ददत इवार्घं पुष्पवृष्टिं किरन्तः कथय नतिसपर्यां शिक्षिताः शाखिनोऽपि ॥ ३५.४२ *(११८९) ॥ श्रीहर्षस्य अस्मिन् वृद्धवनेचरीकरतलैर्दत्ताः सपञ्चाङ्गुलाः . . . . . . . . शिखरिभिः शृङ्गैः करालोदराः । द्वारोपान्तपशूकृतार्प्यपुरुषक्षुब्धास्थिकिर्मीरिताश्चित्तोत्कम्पमिवानयन्ति गहनाः कान्तार . . . . ॥ ३५.४३ *(११९०) ॥ तैस्तैर्जीवोपहारैरिह कुहरशिलासंश्रयामर्चयित्वा देवीं कान्तारदुर्गां रुधिरमुपतरु क्षेत्रपालाय दत्त्वा । तुम्बीवीणाविनोदव्यवहितसरकामह्नि जीर्णे पुराणीं हालां मालूरकोषैर्युवतिसहचरा बर्बराः शीलयन्ति ॥ ३५.४४ *(११९१) ॥ योगेश्वरस्य अभिनवमुखमुद्रं क्षुद्रकूपोपवीतं प्रशिथिलविपुलत्वं ज्वालकोच्छ्वासिपालम् । परिणतिपरिपाटिव्याकृतेनारुणिम्ना हतहरितिमशेषं नागरङ्गं चकास्ति ॥ ३५.४५ *(११९२) ॥ अभिनन्दस्य ।चोलो इति जातिव्रज्या॥ ३५ ततो माहात्म्यव्रज्या॥ ३६ तद्ब्रह्माण्डमिह क्वचित्क्वचिदपि क्षोणी क्वचिन्नीरदास्ते द्वीपान्तरमालिनो जलधयः क्वापि क्वचिद्भूभृतः । आश्चर्यं गगनस्य कोऽपि महिमा सर्वैरमीभिः स्थितैर्दूरे पूरणमस्य शून्यमिति यन्नामापि नाछादितम् ॥ ३६.१ *(११९३) ॥ केशटस्य आपीयमानमसकृद्भ्रमरायमाणैरम्भोधरैः स्फुरितवीचिसहस्रपत्रम् । क्षीराम्बुराशिमवलोकय शेषनालमेकं जगत्त्रयसरःपृथुपुण्डरीकम् ॥ ३६.२ *(११९४) ॥ विष्णुर्बभार भगवानखिलां धरित्रीं तं पन्नगस्तमपि तत्सहितं पयोधिः । कुम्भोद्भवस्तु तमपीयत हेलयैव सत्यं न कश्चिदवधिर्महतां महिम्नः ॥ ३६.३ *(११९५) ॥ किं ब्रूमो जलधेः श्रियं स हि खलु श्रीजन्मभूमिः स्वयं वाच्यः किं महिमापि यस्य हि किल द्वीपं महीति श्रुतिः । त्यागः कोऽपि स तस्य बिभ्रति जगन्त्यस्यार्थिनोऽप्यम्बुदाः शक्तेः कैव कथापि यस्य भवति क्षोभेण कल्पान्तरम् ॥ ३६.४ *(११९६) ॥ वाचस्पतेः एतस्माज्जलधेर्जलस्य कणिकाः काश्चिद्गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः । अस्मान्मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥ ३६.५ *(११९७) ॥ मुञ्जराजस्य आश्चर्यं वडवानलः स भगवानाश्चर्यमम्भोनिधिर्यत्कर्मातिशयं विचिन्त्य हृदये कम्पः समुत्पद्यते । एकस्याश्रयघस्मरस्य पिबतस्तृप्तिर्न जाता जलैरन्यस्यापि महात्मनो न वपुषि स्वल्पोऽपि तोयव्ययः ॥ ३६.६ *(११९८) ॥ केशटस्य निपीतो येनायं तटमधिवसत्यस्य स मुनिर्दधानोऽन्तर्दाहं स्रज इव स चौर्वोऽस्ति दहनः । तथा सर्वस्वार्थे बहुविमथितो येन स हरिः स्वपित्यङ्के श्रीमानहह महिमा कोऽपि जलधेः ॥ ३६.७ *(११९९) ॥ धराधरस्य ।वर्{दधानो।लेम् ।ेमेन्द्, ददानो ।ेद्क्ग्} अन्यः कोऽपि स कुम्भसम्भवमुनेरास्तां शिखी जाठरो यं संचिन्त्य दुकूलवह्निसदृशः संलक्ष्यते वाडवः । वन्द्यं तज्जठरं स मीनमकरग्राहावलिस्तोयधिः पश्चात्पार्श्वमपूरितान्तरवियद्यत्र स्वनन् भ्राम्यति ॥ ३६.८ *(१२००) ॥ वाशटस्य श्वासोन्मूलितमेरुरम्बरतलव्यापी निमज्जन्मुहुर्यत्रासीच्छिशुमारविभ्रमकरः क्रीडावराहो हरिः । सीमा सर्वमहाद्भुतेषु स तथा वारांपतिः पीयते पीतः सोऽपि न पूरितं च जठरं तस्मै नमोऽगस्तये ॥ ३६.९ *(१२०१) ॥ वाचस्पतेः उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय । सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥ ३६.१० *(१२०२) ॥ उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरुस्त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः । शौर्यं यच्च न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः सत्यं ब्रह्मतपोनिधेर्भगवतः किं नाम लोकान्तरम् ॥ ३६.११ *(१२०३) ॥ इतो वसति केशवः पुरमितश्च तद्विद्विषामितश्च शरणागताः शिखरिपक्षिणः शेरते । इतश्च वडवानलः सह समस्तसंवर्तकैरहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ ३६.१२ *(१२०४) ॥ तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदैति । अभ्युद्गते सकलधामनिधौ च तस्मिन्निन्दोः सिताम्रपटलस्य च को विशेषः ॥ ३६.१३ *(१२०५) ॥ अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनरिह नासीन्न भविता । पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीमन्तर्जलधिवसुधामुत्तुलयति ॥ ३६.१४ *(१२०६) ॥ तेषां तृषः परिणमन्ति न यत्र तत्र नान्यस्य वारिविभवोऽपि च तादृगस्ति । विश्वोपकारजननीव्यवसायसिद्धिमम्भोमुचां जलधयो यदि पूरयन्ति ॥ ३६.१५ *(१२०७) ॥ किं वाच्यो महिमा महाजलनिधेर्यत्रेन्द्रवज्राहति त्रस्तो भूभृदमज्जदम्बुविचलत्कौलीलपोताकृतिः । मैनाकोऽपि गभीरनीरविलुठत्पाठीनपृष्ठोल्लसच्छेवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ३६.१६ *(१२०८) ॥ वल्लणस्य किं ब्रूमो हरिमस्य विश्वमुदरे किं वा फणां भोगिनः शेते यत्र हरिः स्वयं जलनिधेः सोऽप्येकदेशे स्थितः । आश्चर्यं कलशोद्भवः स जलधिर्यस्यैकहस्तोदरे गण्डूषीयति पङ्कजीयति फणी भृङ्गीयति श्रीपतिः ॥ ३६.१७ *(१२०९) ॥ विस्तारो यदि नेदृशो न यदि तद्गाम्भीर्यमम्भोनिधेर्न स्याद्वा यदि सर्वसत्त्वविषयस्तादृक्कृपानुग्रहः । अन्तः प्रज्वलता पयांसि दहता ज्वालावलीर्मुञ्चता के न स्युर्वडवानलेन बलिना भस्मावशेषीकृताः ॥ ३६.१८ *(१२१०) ॥ केशटस्य उद्दीप्ताग्निरसौ मुनिर्विजयते यस्योदरे जीर्यतः पाथोदेरवशिष्टमम्बु कथमप्युद्गीर्णमन्तोऽर्णवम् । किं चास्माज्जठरानलादिव नवस्तत्कालवान्तिक्रमान्निर्यातः स पुनर्यमाय पयसामन्तर्गतो वाडवः ॥ ३६.१९ *(१२११) ॥ श्रीदशरथस्य यस्मिन्नापस्त्तदधिकरणस्यास्य वह्नेर्निवृत्तिः संवासान्ते व्रजति जलदे वैकृतस्ताभिरेव । अस्त्यन्योऽपि प्रलयरजनीसंनिपातेऽप्यनिद्रो यः सामुद्रीरविरतमिमास्तेजसि स्वे जुहोति ॥ ३६.२० *(१२१२) ॥ केशटस्य ।चोलो इति माहात्म्यव्रज्या॥ ३६ ततः सद्व्रज्या॥ ३७ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः प्रिया वृत्तिर्न्याय्या चरितमसुभङ्गेऽप्यमलिनम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ ३७.१ *(१२१३) ॥ धर्मकीर्तेः प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः । पुरो वा पश्चाद्वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपदि विशुद्धं विजयते ॥ ३७.२ *(१२१४) ॥ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः परापततु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ ३७.३ *(१२१५) ॥ भर्तृहरेः निर्मलानां कुतो रन्ध्रं कथंचिदपविध्यते । विधीयते गुणैरेव तच्च मुक्तामणेरिव ॥ ३७.४ *(१२१६) ॥ त्र्यम्बकस्य यदा किंचिज्ज्ञोऽहं गज इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः । यदा किंचित्किंचिद्बुधजनसकाशादधिगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ३७.५ *(१२१७) ॥ कालिदासस्य अनुहरतः खलसुजनावग्रिमपाश्चात्यभागयोः सूच्योः ।* एकः कुरुते च्छिद्रं गुणवानन्यः प्रपूरयति ॥ ३७.६ *(१२१८) ॥* गोभट्टस्य पुण्ड्रेक्षुकाण्डसुहृदो मधुराम्बुभावाः सन्तः स्वयं यदि नमन्ति नमन्ति कामम् । आन्दोलितास्तु नमनस्पृहया परेण भज्यन्त एव शतधा न पुनर्नमन्ति ॥ ३७.७ *(१२१९) ॥ जतुपङ्कायते दोषः प्रविश्यैवासतां हृदि । सतां तु न विशत्येव यदि वा पारदायते ॥ ३७.८ *(१२२०) ॥ कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः । सर्वलोकस्य वा मूर्ध्नि शीर्यते वन एव वा ॥ ३७.९ *(१२२१) ॥ व्यासस्य राजा त्वं वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहाः ॥ ३७.१० *(१२२२) ॥ भर्तृहरेः उदन्वच्छिन्ना भूः स च निधिरपां योजनशतं सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः सतां प्रज्ञोन्मेषः पुनरयमसीमा विजयते ॥ ३७.११ *(१२२३) ॥ राजशेखरस्य सत्पक्षा ऋजवः शुद्धाः सफला गुणसेविनः । तुल्यैरपि गुणैश्चित्रं सन्तः सन्तः शराः शराः ॥ ३७.१२ *(१२२४) ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरतिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ ३७.१३ *(१२२५) ॥ स साधुर्यो विपन्नानां साहाय्यमधिगच्छति । न तु दुर्विहितातीत वस्तुपालनपण्डितः ॥ ३७.१४ *(१२२६) ॥ सत्यं गुणा गुणवतां विधिवैपरीत्याद्यत्नार्जिता अपि कलौ विफला भवन्ति । साफल्यमस्ति सुतरामिदमेव तेषां यत्तापयन्ति हृदयानि पुनः खलानाम् ॥ ३७.१५ *(१२२७) ॥ अपूर्वः कोऽपि कोपाग्निः सज्जनस्य खलस्य च । एकस्य शाम्यति स्नेहाद्वर्धतेऽन्यस्य वारितः ॥ ३७.१६ *(१२२८) ॥ छायां कुर्वन्ति चान्यस्य तापं तिष्ठन्ति वातपे । फलन्ति च परार्थाय पादपा इव सज्जनाः ॥ ३७.१७ *(१२२९) ॥ अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहिते सक्ता रत्नदीपा इवोत्तमाः ॥ ३७.१८ *(१२३०) ॥ लक्ष्मीं तृणाय मन्त्यन्ते तद्भरेण नमन्ति च । अहो किमपि चित्राणि चरित्राणि महात्मनाम् ॥ ३७.१९ *(१२३१) ॥ अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् । अहो सुमनसां वृत्तिर्वामदक्षिणयोः समा ॥ ३७.२० *(१२३२) ॥ परगुणतत्त्वग्रहणं स्वगुणावरणं परव्यसनमौनम् ।* मधुरमशठं च वाक्यं केनाप्युपदिष्टमार्याणाम् ॥ ३७.२१ *(१२३३) ॥* विचिन्त्यमानो हि करोति विस्मयं विसारिणा सच्चरितेन सज्जनः । यदा तु चक्षुःपथमेति देहिनां तदामृतेनेव मनांसि सिञ्चति ॥ ३७.२२ *(१२३४) ॥ सम्पर्केण तमोभिदां जगदघप्रध्वंसिनां धीमतां क्रूरोऽपि प्रकृतं विहाय मलिनामालम्बते भद्रताम् । यत्तृष्णाग्लपितोऽपि नेच्छति जनः पातुं तदेव क्षणादुज्झत्यम्बुधरोदरस्थितमपांपत्युः पयः क्षारताम् ॥ ३७.२३ *(१२३५) ॥ क्वाकराणारुषां संख्या संख्याताः कारणक्रुधः । कारणेऽपि न कुप्यन्ति ये ते जगति पञ्चषाः ॥ ३७.२४ *(१२३६) ॥ सुजनाः परुषाभिधायिनो यदि कः स्यादपरोऽपि मञ्जुवाक् ।* यदि चन्द्रकराः सवह्नयो ननु जायेत सुधा कृतोऽन्यतः ॥ ३७.२५ *(१२३७) ॥* मङ्गलस्य॥ ये दीनेषु कृपालवः स्पृशति यानल्पोऽपि न श्रीमदः श्रान्ता ये च परोपकारकरणे हृष्यन्ति ये याचिताः । स्वस्थाः सत्यपि यौवनोदयमहाव्याधिप्रकोपेऽपि ये ते भूमण्डलमण्डनैकतिलकाः सन्तः कियन्तो जनाः ॥ ३७.२६ *(१२३८) ॥ यशो रक्षन्ति न प्राणान् पापाद्बिभति न द्विषः । अन्विष्यन्त्यर्थिनो नार्थान्निसर्गोऽयं महात्मनाम् ॥ ३७.२७ *(१२३९) ॥ यथा यथा परां कोटिर्गुणः समधिरोहति । सन्तः कोदण्डधर्माणो विरमन्ति तथा तथा ॥ ३७.२८ *(१२४०) ॥ अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ३७.२९ *(१२४१) ॥ ये प्राप्ते व्यसनेऽप्यनाकुलधियः सम्पत्सु नैवोन्नताः प्राप्ते नैव पराङ्मुखाः प्रणयिनि प्राणोपयोगैरपि । ह्रीमन्तः स्वगुणप्रशंसनविधावन्यस्तुतौ पण्डिता धिग्धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ॥ ३७.३० *(१२४२) ॥ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी श्रुतमनवगीतं श्रवणयोः । हृदि स्वच्छा वृत्तिर्विजयिभुजयोर्वीर्यमतुलं विनाप्यैश्वर्येण स्फुरति महतां मण्डनमिदम् ॥ ३७.३१ *(१२४३) ॥ वज्रादपि कठोराणि मृदूनि कुसुमादपि । लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ ३७.३२ *(१२४४) ॥ चेः आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।* बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ ३७.३३ *(१२४५) ॥* पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययहार्यबुद्धिः ॥ ३७.३४ *(१२४६) ॥ कालिदासस्यैतौ गुह्यपिधानैकपरः सुजनो वस्त्रायते सदा पिशुनम् ।* भवतामयं विडम्बो यदिदं छिद्रैर्विसूत्रयतु ॥ ३७.३५ *(१२४७) ॥* ब्रूत नूतनकूष्माण्ड फलानां के भवन्त्यमी । अङ्गुलीकथनादेव यन्न जीवन्ति मानिनः ॥ ३७.३६ *(१२४८) ॥ यन्नेत्रैस्त्रिभिरीक्षते न गिरिशो नाष्टाभिरप्यब्जभूः स्कन्दो द्वादशभिर्न वा न मघवा चक्षुःसहस्रेण वा । सम्भूयापि जगत्त्रयस्य नयनैर्द्रष्टुं न तच्छक्यते प्रत्यादिश्य दृशौ समाहितधियः पश्यन्ति यत्पण्डिताः ॥ ३७.३७ *(१२४९) ॥ नीरसान्यपि रोचन्ते कर्पासस्य फलानि नः । येषां गुणमयं जन्म परेषां गुह्यगुप्तये ॥ ३७.३८ *(१२५०) ॥ गुणवत्पात्र मात्रैक हार्यनिर्यासमाशयन् । आत्मनावैति ते लोकः स्वबन्धुरिति धावति ॥ ३७.३९ *(१२५१) ॥ सततमसत्याद्बिभ्यति मा भैषीरिति वदन्ति भीतेषु ।* अतिथिजनशेषमश्नति सज्जनजिह्वे कृताथासि ॥ ३७.४० *(१२५२) ॥* यद्यपि दैवात्स्नेहो नश्यति साधोस्तथापि सत्त्वेषु ।* घण्टाध्वनेरिवान्तश्चिरमनुबध्नाति संस्कारः ॥ ३७.४१ *(१२५३) ॥* रविगुप्तस्य ।चोलो इति सद्व्रज्या॥ ३७ ततोऽसद्व्रज्या अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।* तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ॥ ३८.१ *(१२५४) ॥* सद्गुणालंकृते काव्ये दोषान्मृगयते खलः । वने पुष्पकलाकीर्णः करभः कण्टकानिव ॥ ३८.२ *(१२५५) ॥ मुखरस्याप्रसन्नस्य मित्रकार्यविघातिनः । निर्माणमाशानाशाय दुर्जनस्य घनस्य च ॥ ३८.३ *(१२५६) ॥ निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे । इत्थं तद्भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ॥ ३८.४ *(१२५७) ॥ अकारणाविष्कृतवैरदारुणादसज्जनात्कस्य भयं न जायते । विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥ ३८.५ *(१२५८) ॥ खलवृन्दं श्मशानं च भवत्यपचितं यदा । ध्रुवं तदैव लोकानां कल्याणमवगम्यते ॥ ३८.६ *(१२५९) ॥ अन्तर्मलिनदेहेन बहिराह्लादकारिणा । महाकालफलेनेव कः खलेन न वञ्चितः ॥ ३८.७ *(१२६०) ॥ सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः । सूत्रं किंचिदपूर्वमेव जठरादुत्पाद्य सद्यः स्वयं लूतातन्तुवितानजालकुटिलं चक्रं करोत्यद्भुतम् ॥ ३८.८ *(१२६१) ॥ देवानामपि पश्यन्तां स श्रिया मेध्यते खलु । वाससापि न योगोऽस्ति निश्चक्रस्य पिनाकिनः ॥ ३८.९ *(१२६२) ॥ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो न सदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥ ३८.१० *(१२६३) ॥ आखुभ्यः किं खलैर्ज्ञातं खलेभ्यः किमथाखुभिः ।* अन्यत्परगृहोत्खातात्कर्म येषां न विद्यते ॥ ३८.११ *(१२६४) ॥* दुर्जनदूषितमनसां पुंसां स्वजनेऽपि नास्ति विश्वासः ।* बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति ॥ ३८.१२ *(१२६५) ॥* गुणोत्कर्षद्वेषात्प्रकृतिमहतामप्यसदृशं खलः किंचिद्वाक्यं रचयति च विस्तारयति च । न चेदेवं तादृक्कमलकलिकार्धप्रतिनिधौ मुनेर्गण्डूषेऽब्धिः स्थित इति कुतोऽयं कलकलः ॥ ३८.१३ *(१२६६) ॥ प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा परिचयचले चिन्ताचक्रे निधाय विधिः खलः । मृदमिव बलात्पिण्डीकृत्य प्रगल्भकुलाकवद्भ्रमयति मनो नो जानीमः किमत्र विधास्यति ॥ ३८.१४ *(१२६७) ॥ पादाहतोऽथ धृतदण्डविघट्टितो वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । कोऽप्यन्य एष पिशुनोऽत्र भुजङ्गधर्मा कर्णे परं स्पृशति हन्त्यपरं समूलम् ॥ ३८.१५ *(१२६८) ॥ परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते ।* पवनाशिनोऽपि भुजगाः परोपघातं न मुञ्चन्ति ॥ ३८.१६ *(१२६९) ॥* रविगुप्तस्य अगम्यो मन्त्राणां प्रकृतिभिषजामप्यविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः । जगद्भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ॥ ३८.१७ *(१२७०) ॥ यः स्वानपि प्रथममस्तसमस्तसाधु वृत्तिर्गुणान् खलतया मलिनीकरोति । तस्यास्य भोगिन इवोग्ररुषः खलस्य दाक्षिण्यमस्ति कथमन्यगुणोपमर्दे ॥ ३८.१८ *(१२७१) ॥ रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि । स्वार्थार्थं मृदुभाषिणीष्टविहतावेकान्ततस्तोषिणि श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले ॥ ३८.१९ *(१२७२) ॥ गुणाकरस्य श्लेषश्लोकौ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम भवेद्गुणः स गुणिनां यो दुर्जने नाङ्कितः ॥ ३८.२० *(१२७३) ॥ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवान् शूरान् द्वेष्टि धनच्युतान् परिभवत्याज्ञापयत्याश्रितान् । गुह्यानि प्रकटीकरोति घटयत्यन्योन्यवैराश्रयान् ब्रूते शीघ्रमवाच्यमुज्झितगुणो गृह्णाति दोषान् खलः ॥ ३८.२१ *(१२७४) ॥ यद्यदिष्टतरं तत्तद्देयं गुणवते किल । अत एव खलो दोषान् साधुभ्यः सम्प्रयच्छति ॥ ३८.२२ *(१२७५) ॥ करुणाद्रवमेव दुर्जनः सुतरां सत्पुरुषं प्रबाधते ।* मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ॥ ३८.२३ *(१२७६) ॥* आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ ३८.२४ *(१२७७) ॥ खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः । इतीमं व्यामोहं परिहर विचित्राः शृणु कथा यथायं पीयूषद्युतिरुपलखण्डं द्रवयति ॥ ३८.२५ *(१२७८) ॥ उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् ।* तं जनमसत्यसंधं भगवति वसुधे कथं वहसि ॥ ३८.२६ *(१२७९) ॥* मुखे नीचस्य पतिता अहेरिव पयःकणाः । क्षणेन विषतां यान्ति सूक्तपीयूषबिन्दवः ॥ ३८.२७ *(१२८०) ॥ मुण्डाप्रियादायतिदुःखदायिनो वसन्तमुत्सार्य विजृम्भितश्रियः । न कः खलात्तापितमित्रमण्डलादुपैति पापं तपवासरादिव ॥ ३८.२८ *(१२८१) ॥ नरदत्तस्य तुल्योत्पत्ती प्रकृतिधवलावप्यमू शङ्खसोमौ तत्र स्थाणुर्विधुमसदृशेनोत्तमाङ्गेन धत्ते । शङ्खस्तापक्रकचनिचयैर्भिद्यते शङ्खकारैः को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति ॥ ३८.२९ *(१२८२) ॥ अकलितनिजपररूपः स्वकमपि दोषं परस्थितं वेत्ति ।* नावास्थितस्तटस्थानचलानपि विचलितान्मनुते ॥ ३८.३० *(१२८३) ॥* आश्रयाशः कृष्णवर्त्मा दहनश्चैष दुर्जनः । अग्निरेव तथाप्यस्मिन् स्याद्भस्मनि हुतं हुतम् ॥ ३८.३१ *(१२८४) ॥ वरमाक्षीणतैवास्तु शशिनो दुर्जनस्य च । न प्रवृद्धिस्तु विस्तारि लाञ्छनप्रतिपादिनी ॥ ३८.३२ *(१२८५) ॥ सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः ।* तिष्ठन्ति वारिराशेरुपरि तरङ्गास्तले मणयः ॥ ३८.३३ *(१२८६) ॥* आरम्भरमणीयानि विमर्दे विरसानि च । प्रायो वैरावसानानि संगतानि खलैः सह ॥ ३८.३४ *(१२८७) ॥ गुणकणिकानपि सुजनः शशिलेखामिव शिवः शिरसि कुरुते ।* चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः ॥ ३८.३५ *(१२८८) ॥* बिभीमो वयमत्यन्तं चाक्रिकस्य गुणादपि । निष्पन्नमपि यः पात्रं गुणेनैव निकृन्तति ॥ ३८.३६ *(१२८९) ॥ परसंतापनहेतुर्यत्राहनि न प्रयाति निष्पत्तिम् ।* अन्तर्मना असाधुर्गणयति न तदायुषो मध्ये ॥ ३८.३७ *(१२९०) ॥* दिवसांस्तानभिनन्दति बहुमनुते तेषु जन्मनो लाभम् ।* ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ ३८.३८ *(१२९१) ॥* दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः परां व्रजति विक्रियां न हि भयं ततः पश्यति । यतस्तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश्चरति तत्र शान्तोद्धवः ॥ ३८.३९ *(१२९२) ॥ शूरस्य असज्जनाश्चेन्मधुरैर्वचोभिः शक्यन्त एव प्रतिकर्तुमार्यैः । तत्केतकीरेणुभिरम्बुराशेर्बन्धक्रियायामपि कः प्रयासः ॥ ३८.४० *(१२९३) ॥ नूनं दर्पात्तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं नीतं चेतो न च धवलितं हेलया नार्पितं च । येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर्यस्माच्चायं हृदयरहितो दुर्विधः सर्वदैव ॥ ३८.४१ *(१२९४) ॥ निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे । विशङ्कितान्योन्यभयं सुदूरान्नमस्क्रियामर्हति सौहृदं तत् ॥ ३८.४२ *(१२९५) ॥ अभिनन्दस्य एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् ।* सिद्धार्थानामेषां स्नेहोऽप्यश्रूणि पातयति ॥ ३८.४३ *(१२९६) ॥* वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः । दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् ॥ ३८.४४ *(१२९७) ॥ चक्रसम्भारिणि क्रूरे परच्छिद्रानुसारिणि । द्विजिह्वे दृष्टमात्रे चेत्कस्य न स्याच्चमत्कृतिः ॥ ३८.४५ *(१२९८) ॥ चक्षुराश्रयते कामः कामुकस्य दरिद्रतः । क्रूरस्य चाप्रभवतः परद्रोहः सरस्वतीम् ॥ ३८.४६ *(१२९९) ॥ शतानन्दस्य खलं दृष्ट्वैव साधूनां हृदयं काष्ठवद्भवेत् । ततस्तद्दारयत्यस्य वाचः क्रकचकर्कशाः ॥ ३८.४७ *(१३००) ॥ हेतोर्विनोपकारी यदि नाम शतेषु कश्चिदेकः स्यात् ।* तत्रापि क्लिष्टधियां दोषं वक्ष्यत्यतिखलत्वम् ॥ ३८.४८ *(१३०१) ॥* आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः । बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ॥ ३८.४९ *(१३०२) ॥ श्रीधर्मदासस्य प्रकृतिरिह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः । उभयमिदमवश्यं जायते सर्ववारं पटुरपि नियतात्मा कीर्तिमेवाभिधत्ते ॥ ३८.५० *(१३०३) ॥ ।चोलो इत्यसद्व्रज्या॥ ३८ ततो दीनव्रज्या प्रातर्बाष्पाम्बुबिन्दुव्यतिकरविगलत्क्लिन्नसृक्कः कथंचित्किंचित्संकुब्जजङ्घाजनितजडजवो जीर्णजानुर्जरार्तः । मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः कुन्थन्नुत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति ॥ ३९.१ *(१३०४) ॥ पुण्याग्नौ पूर्णवाञ्छः प्रथममगणितप्लोषदोषः प्रदोषे पान्थस्तप्त्वा प्रसुप्तस्तदनु तततृणे धामनि ग्रामदेव्याः । उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणमेति ॥ ३९.२ *(१३०५) ॥ बाणस्यैतौ पोतानेतानपि गृहवति ग्रीष्ममासावसानं यावन्निर्वाहयति भवती येन वा केनचिद्वा । पश्चादम्भोधरजलपरीपातमासाद्य तुम्बी कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ॥ ३९.३ *(१३०६) ॥ धरणीधरस्य क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो लिप्ता जर्जरकर्करी जतुलवैर्नो मां तथा बाधते । गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ॥ ३९.४ *(१३०७) ॥ साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः प्रच्छन्ने च वधूर्विभागकुशला मध्ये स्थिता गेहिनी । कट्याच्छादनबन्धकेन कथमप्यासादितेनान्धसा सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर्दीयते ॥ ३९.५ *(१३०८) ॥ एते दरिद्रशिशवस्तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः । सूर्यस्फुरत्करकरम्बितभित्तिदेश लाभाय शीतसमये कलिमाचरन्ति ॥ ३९.६ *(१३०९) ॥ तस्मिन्नेव गृहोदरे रसवती तत्रैव सा कण्डनी तत्रोपस्करणानि तत्र शिशवस्तत्रैव वासः स्वयम् । एतत्सोढवतोऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशामद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत्कुन्थति ॥ ३९.७ *(१३१०) ॥ अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती । इत्यश्रुपातमलिनीकृतगण्डदेशा नेच्छेद्दरिद्रगृहिणी रजनीविरामम् ॥ ३९.८ *(१३११) ॥ सक्तूञ्शोचति सम्प्लुतान् प्रतिकरोत्याक्रन्दतो बालकान् प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति । दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला किं तद्यन्न करोति दुःस्थगृहिणी देवे भृशं वर्षति ॥ ३९.९ *(१३१२) ॥ योगेश्वरस्य जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एकोऽहम् ।* परिमितकदन्नवण्टनविद्यापारंगता गृहिणी ॥ ३९.१० *(१३१३) ॥* वीरस्य मा रोदीश्चिरमेहि वत्स विफलं दृष्ट्वाद्य पुत्रानिमानायातो भवतोऽपि दास्यति पिता ग्रैवेयकं वाससी । श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः ॥ ३९.११ *(१३१४) ॥ कूष्माण्डीविटपः फलत्यविरतं सिक्तः सुवर्णाम्बुना भूयोभिर्गदितं हितैषिभिरितीवास्माभिरङ्गीकृतम् । तत्संयाच्य कुतश्चिदीश्वरगृहादानीयमानं शनैरध्वन्येव हि बिन्दुभिर्विगलितं श्राणे शरावोदरे ॥ ३९.१२ *(१३१५) ॥ मातर्धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् । इत्येवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर्गच्छति ॥ ३९.१३ *(१३१६) ॥ लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले । एकः शीर्णजरद्गवो विधिवशात्सर्वस्वभूतो गृहे सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ॥ ३९.१४ *(१३१७) ॥ शीतवातसमुद्भिन्न पुलकाङ्कुरशालिनी । ममाम्बरविहीनस्य त्वगेव पटिकायते ॥ ३९.१५ *(१३१८) ॥ सद्यो विभिद्यते नूनं दरिद्रतनुपञ्जरम् । यदि न स्यान्मनोराज्य रज्जुभिर्दृढसंयतम् ॥ ३९.१६ *(१३१९) ॥ प्रायो दरिद्रशिशवः परमन्दिराणां द्वारेषु दत्तकरपल्लवलीनदेहाः । लज्जानिगूढवचसो बत भोक्तुकामा भोक्तारमर्धनयनेन विलोकयन्ति ॥ ३९.१७ *(१३२०) ॥ अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर्जरायै । एतानि मे विदधतस्तव सर्वदैव धातस्त्रपा यदि न किं न परिश्रमोऽपि ॥ ३९.१८ *(१३२१) ॥ वर्धनमुखासिकायामुदरपिशाचः किमिच्छकामिच्छन् ।* पर्याकुलयति गृहिणीमकिंचनः कृपणसंवासः ॥ ३९.१९ *(१३२२) ॥* वरं मृतो न तु क्षुद्रस्तथापि महदन्तरम् । एकस्य बन्धुर्नादत्ते नामान्यस्याखिलो जनः ॥ ३९.२० *(१३२३) ॥ कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् । विभवस्तस्य तद्दोष घोषणापटुडिण्डिमः ॥ ३९.२१ *(१३२४) ॥ व्यासस्य जीवतापि शवेनापि कृपणेन न दीयते । मांसं वर्धयतानेन काकस्योपकृतिः कृता ॥ ३९.२२ *(१३२५) ॥ कविराजस्य श्रीफलं यन्न तद्दीर्घमिति तावद्व्यवस्थितम् ।* तत्रैकान्तधृतिर्यस्य मन्यते मुग्ध एव स ॥ ३९.२३ *(१३२६) ॥* रिसूकस्य दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य ।* कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥ ३९.२४ *(१३२७) ॥* गोभट्टस्य पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस्त्वमिहागतः । इदमहिभ्रमितं पचमन्दिरं बलिभुजोऽपि न यान्ति यदन्तिकम् ॥ ३९.२५ *(१३२८) ॥ रवेरस्तमये येन निद्रा नेत्रेषु निर्मिता । तेन किं न कृतो मृत्युर्मर्त्यानां विभवक्षये ॥ ३९.२६ *(१३२९) ॥ येनैवाम्बरखण्डेन दिवा संचरते रविः । तेनैव निशि शीतांशुरहो दौर्गत्यमेतयोः ॥ ३९.२७ *(१३३०) ॥ मलीमसेन देहेन प्रतिगेहमुपस्थिताः । आत्मनैवात्मकथका वयं वायसवृत्तयः ॥ ३९.२८ *(१३३१) ॥ भूयादतो बहुव्रीहि शासनाशा मुधैव मे । पूर्वापरापरामर्शाद्विमूढस्येव मे मतिः ॥ ३९.२९ *(१३३२) ॥ ।चोलो इति दीनव्रज्या॥ ३९ ततोऽर्थान्तरन्यासव्रज्या॥ ४० कालिन्द्या दलितेन्द्रनीलशकलश्यामाम्भसोऽन्तर्जले मग्नस्याञ्जनपुञ्जसंचयनिभस्याहेः कुतोऽन्वेषणा । ताराभाः फणचक्रवालमणयो न स्युर्यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदम् ॥ ४०.१ *(१३३३) ॥ भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव जगतः शान्तौ क्षये चाकुलम् ॥ ४०.२ *(१३३४) ॥ यस्याः कृते नृपतयस्तृणवत्त्यजन्ति प्राणान् प्रियानपि परस्परबद्धवैराः । तेषामसृक्पिबति सैव मही हतानां श्रीः प्रायशो विकृतिमेति बहूपभुक्ता ॥ ४०.३ *(१३३५) ॥ रथस्यैकं चक्रं भुजगयमिताः सप्त तुरगा निरालम्बो मार्गश्चरणरहितः सारथिरपि । रविर्यात्येवान्तं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ ४०.४ *(१३३६) ॥ वागीश्वरस्य पौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातवान् काकुत्स्थेन कथं न हेमहरिणस्यासम्भवो लक्षितः । अक्षाणां च युधिष्ठिरेण महता ज्ञातो न दोषः कथं प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥ ४०.५ *(१३३७) ॥ अकार्ये तथ्यो वा भवति वितथः काममथवा तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः । तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गत इति ॥ ४०.६ *(१३३८) ॥ कृतो यदह्नस्तनिमा हिमागमे लघीयसी यच्च निदाघशर्वरी । अनेन दृष्टान्तयुगेन गम्यते सदर्थसंकोचसमुद्यतो विधिः ॥ ४०.७ *(१३३९) ॥ पीताम्बराय तनयां प्रददौ पयोधिस्तत्कालकूटगरलं च दिगम्बराय । तत्रानयोर्वदत कस्य गुणातिरेकः प्रायः परिच्छदकृतादर एव लोकः ॥ ४०.८ *(१३४०) ॥ किं जन्मना जगति कस्यचिदीक्षितेन शक्त्यैव याति निजया पुरुषः प्रतिष्ठाम् । शक्ता हि कूपमपि शोषयितुं न कुम्भाः कुम्भोद्भवेन पुनरम्बुधिरेव पीतः ॥ ४०.९ *(१३४१) ॥ पुंसः स्वरूपविनिरूपणमेव कार्यं तज्जन्मभूमिगुणदोषकथा वृथैव । कः कालकूटमभिनन्दति सागरोत्थं को वारविन्दमभिनिन्दति पङ्कजातम् ॥ ४०.१० *(१३४२) ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मूर्धनि छायामातपवैरिणीमनुसरन् बिल्वस्य मूलं गतः । तत्राप्याशु कदाचिदेव पतता बिल्वेन भग्नं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रापदां भाजनम् ॥ ४०.११ *(१३४३) ॥ अलंकारः शङ्काकरनरकपालः परिकरः प्रशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः । अवस्थेयं स्थाणोरपि भवति यत्रामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥ ४०.१२ *(१३४४) ॥ न सम्बन्दोपाधिं दधत इह दाक्षिण्यनिधयः प्रहृष्टप्रेमाणां स हि सहज एषामुदयते । क एते सम्बन्धान्मलयमरुतश्चूततरवो यदेतानालभ्य प्रतिपरुरुदानं जनयति ॥ ४०.१३ *(१३४५) ॥ लोकोत्तरं चरितमर्पयति प्रतिष्ठां पुंसः कुलं न हि निमित्तमुदात्ततायाः । वातापितापनमुनेः कलशात्प्रसूतिर्लीलायितं पुनरमुष्यसमुद्रपानम् ॥ ४०.१४ *(१३४६) ॥ स्थलीनां दग्धानामुपरि मृगतृष्णानुसरणात्तृषार्तः शारङ्गो विरमति न खिन्नेऽपि वपुषि । अजानानस्तत्त्वं न स मृगयतेऽन्यां च सरसीमभूमौ प्रत्याशा न हि फलति विघ्नं च कुरुते ॥ ४०.१५ *(१३४७) ॥ किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन्निश्चलः । किं त्वङ्गीकृतमुत्सृजन् कृपणवच्छ्लाघ्यो जनो लज्जते निर्व्यूढिः प्रतिपन्नवस्तुषु सतामेकं बताहो व्रतम् ॥ ४०.१६ *(१३४८) ॥ स्वच्छाशयो भवति कोऽपि जनः प्रकृत्या सङ्गः सतामभिजनश्च न हेतुरत्र । दुग्धाब्धिलब्धजननो हरकन्धरास्थः स्वां कालतां त्यजति जातु न कालकूटः ॥ ४०.१७ *(१३४९) ॥ वासश्चर्म विभूषणं शवशिरो भिक्षाणतेनाशनं गौरेकः स च लाङ्गलेऽप्यकुशलस्तन्मात्रसारं धनम् । शर्वस्येत्यवगम्य याति विमुखी रत्नालयं जाह्वनी कष्टं दुर्गतिकस्य जीवितमहो दारैरपि त्यज्यते ॥ ४०.१८ *(१३५०) ॥ कैवर्तकर्कशकरग्रहणच्युतोऽपि जाले पुनर्निपतितः शफरो वराकः । दैवात्ततोऽपि गलितो गिलितो बकेन वामे विधौ वद कथं व्यसनस्य शान्तिः ॥ ४०.१९ *(१३५१) ॥ खनति न खुरैः क्षोणीपृष्ठं न नर्दति सादरं प्रकृतिपुरुषं दृष्ट्वैवाग्रे न कुप्यति गामपि । वहति तु धुरं धुर्यो धैर्यादनुद्धतकन्धरो जगति कृतिनः कार्यौदार्यात्परानतिशेरते ॥ ४०.२० *(१३५२) ॥ शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिभृतं महीध्रादुत्तुङ्गादवनितलमस्माच्च जलधिम् । अधोऽधो गङ्गावद्वयमुपगता दूरमथवा पदभ्रंशेतानां भवति विनिपातः शतमुखः ॥ ४०.२१ *(१३५३) ॥ क्वापि कस्य च कुतोऽपि कारणाच्चित्तवृत्तिरिह किं गुणागुणैः । उन्नतं यदवधीर्य भूधरं नीचमब्धिमभियाति जाह्नवी ॥ ४०.२२ *(१३५४) ॥ सरसि बहुशस्ताराछायां दशन् परिवञ्चितः कुमुदविटपान्वेषी हंसो निशासु विचक्षणः । न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्येऽप्यपायमवेक्षते ॥ ४०.२३ *(१३५५) ॥ अस्थानाभिनिवेशी प्रायो जड एव भवति नो विद्वान् ।* बालादन्यः कोऽम्भसि जिघृक्षतीन्दोः स्फुरद्बिम्बम् ॥ ४०.२४ *(१३५६) ॥* निर्गुणमप्यनुरक्तं प्रायो न समाश्रितं जहति सन्तः ।* सहवृद्धिक्षयभाजं वहति शशाङ्कः कलङ्कमपि ॥ ४०.२५ *(१३५७) ॥* अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेऽत्यर्थम् ।* कमलिन्या किमपकृतं हिमस्य यस्तां सदा दहति ॥ ४०.२६ *(१३५८) ॥* भयं यद्धनुरीश्वरस्य शिशिना यज्जामदग्न्यो हतस्त्यक्ता येन गुरोर्गिरा वसुमती बद्धो यदम्भोनिधिः । एकैकं दशकन्धरक्षयकृतो रामस्य किं वर्ण्यते दैवं वर्णय येन सोऽपि सहसा नीतः कथाशेषताम् ॥ ४०.२७ *(१३५९) ॥ शशिनमुदितं लेखामात्रं नमन्ति न चेतरं गगनसरितं धत्ते मूर्ध्ना हरो न नगात्मजाम् । त्रिभुवनपतिर्लक्ष्मीं त्यक्त्वा हरिः प्रियगोपिकः परिचितगुणद्वेषी लोको नवं नवमिच्छति ॥ ४०.२८ *(१३६०) ॥ उपशमफलाद्विद्याबीजात्फलं धनमिच्छतां भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतम् । नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुमलं शालेर्बीजं न जातु जवाङ्कुरम् ॥ ४०.२९ *(१३६१) ॥ तृषार्तैः शारङ्गैः प्रति जलधरं भूरि विरुतं घनैर्मुक्ता धाराः सपदि पयसस्तान् प्रति मुहुः । खगानां के मेघाः क इव विहगा वा जलमुचामयाच्यो नार्तानामनुपकरणीयो न महताम् ॥ ४०.३० *(१३६२) ॥ अमरसिंहस्य पयस्तेजो वायुर्गगनमवनिर्विश्वमपि वा स्वयं विष्णुस्तस्य त्रिदशजयिनः किं न सुकरम् । छलान्नीतोऽधस्ताद्बलिरणुकरूपेण तदपि स्वभावाच्चक्री यः प्रगुणमपि चक्रेण सृजति ॥ ४०.३१ *(१३६३) ॥ मुष्टिकरगुहस्य किं नोज्ज्वलः किमु कलाः सकला न धत्ते दत्ते न किं नयनयोर्मुदमुन्मयूखः । राहोस्तु चक्रपतितोऽस्तमितोऽयमिन्दुः सत्यं सतामहृदयेषु गुणास्तृणानि ॥ ४०.३२ *(१३६४) ॥ अतुलस्य लूनास्तिलास्तदनु शोषमुपागतास्ते शोषाद्धि शुद्धिमथ तापमुपेतवन्तः । तापात्कठोरतरयन्त्रनिपीडनानि स्नेहो निमित्तमिति दुःखपरंपरायाः ॥ ४०.३३ *(१३६५) ॥ दुग्ध मुग्धमस्ति यस्त्वया धृतः स्नेह एष विपदेककारणम् ।* यत्कृते त्वमपवासितं पुनश्छिन्नमुन्मथितमग्निसाकृतम् ॥ ४०.३४ *(१३६६) ॥* मूर्धेन्दुः परमेश्वरेण विधृतो वक्रो जडात्मा क्षयी कर्णान्ते च परापकारचतुरो न्यस्तो द्विजिह्वाधिपः । नन्दी द्वारि बहिःकृतो गुणनिधिः कष्टं किमत्रोच्यतां पात्रापात्रविचारणास्वनिपुणः प्रायो भवेदीश्वरः ॥ ४०.३५ *(१३६७) ॥ काकुत्स्थस्य दशाननो न कृतवान् दारापहारं यदि क्वाम्भोधिः क्व च सेतुबन्धघटना क्वोत्तीर्य लङ्काजयः । पार्थस्यापि पराभवं यदि रिपुर्नादात्क्व तादृक्तपो नीयन्ते रिपुभिः समुन्नतिपदं प्रायः परं मानिनः ॥ ४०.३६ *(१३६८) ॥ शम्बूकाः किल निर्गता जलनिधेस्तीरेषु दावाग्निना दह्यन्ते मणयो वणिक्करतलैरायान्ति राज्ञां शिरः । स्थानप्रच्युतिरल्पकस्य विपदे सन्तस्तु देशान्तरं यान्तो यान्ति सदा समर्पितगुणाः श्लाघ्याः परामुन्नतिम् ॥ ४०.३७ *(१३६९) ॥ य एको लोकानां परमसुहृदानन्दजनकः कलाशाली श्रीमान्निधुवनविधौ मङ्गलघटः । सुधासूतिः सोऽयं त्रिपुरहरचूडामणिरहो प्रयात्यस्तं हन्त प्रकृतिविषमा दैवगतयः ॥ ४०.३८ *(१३७०) ॥ अपेताः शत्रुभ्यो वयमिति विषादोऽयमफलः प्रतीकारस्त्वेषामनिशमनुसंधातुमुचितः । जरासंधाद्भग्नः सह हलभृता दानवरिपुर्जघानैनं पश्चान्न किमनिलसूनुः प्रियसखः ॥ ४०.३९ *(१३७१) ॥ चन्द्रः क्षयी प्रकृतिवक्रतनुर्जडात्मा दोषाकारः स्फुरति मित्रविपत्तिकाले । मूर्ध्ना तथापि विधृतः परमेश्वरेण नैवाश्रितेषु महतां गुणदोषचिन्ता ॥ ४०.४० *(१३७२) ॥ शुक्लीकरोति मलिनानि दिगन्तराणि चन्द्रो न शुक्लयति चात्मगतं कलङ्कम् । नित्यं यथार्थघटनाहितमानसानां स्वार्थोद्यमो भवति नो महतां कदाचित् ॥ ४०.४१ *(१३७३) ॥ गृह्णाति युक्तमितरच्च जहाति धीमानेष स्वभावजनितो महतां विवेकः । अन्योन्यमिश्रितमपि व्यतिरिच्य शुद्धं दुग्धं पिबत्युदकमुज्झति राजहंसः ॥ ४०.४२ *(१३७४) ॥ प्रायो भवत्यनुचितस्थितिदेशभाजः श्रेयः स्वजीवपरिपालनमात्रमेव । अन्तःप्रतप्तमरुसैकतदह्यमान मूलस्य चम्पकतरोः क विकाशचिन्ता ॥ ४०.४३ *(१३७५) ॥ विद्यायाः ग्रहपरिकवलिततनुरपि रविरिह बोधयति पद्मषण्डानि ।* भवति विपद्यपि महतामङ्गीकृतवस्तुनिर्वाहः ॥ ४०.४४ *(१३७६) ॥* प्रणत्या बहुलाभोऽपि न सुखाय मनीषिणः । चातकः स्वल्पमप्यम्बु गृह्णात्यनन्तकन्धरः ॥ ४०.४५ *(१३७७) ॥ कस्योपयोगमात्रेण धनेन रमते मनः । पदप्रमाणमाधारमारूढः को न कम्पते ॥ ४०.४६ *(१३७८) ॥ उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गाननुभवति पश्यैष जलदः । कथंचिल्लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ॥ ४०.४७ *(१३७९) ॥ वल्लणस्यैते सुधाधाम्नः कान्तिं ग्लपयति विलुम्पत्युडुगणं किरत्युष्णं तेजः कुमुदवनलक्ष्मीः शमयति । रविर्जानात्येव प्रतिदिवसमस्ताद्रिपतनं तथापि प्रत्यग्राभ्युदयतरलः किं न कुरुते ॥ ४०.४८ *(१३८०) ॥ कविराजस्य ।चोलो इत्यर्थान्तरन्यासव्रज्या॥ ४० ततश्चाटुव्रज्या॥ ४१ देव त्वद्विजयप्रयाणसमये काम्बोजवाहावली विङ्खोल्लेखविसर्पिणि क्षितिरजःपूरे वियच्चुम्बति । भानोर्वाजिभिरङ्गरूषणरसास्वादः समासादितो लब्धः किं च नभस्तलामरधुनीपङ्केरुहैरन्वयः ॥ ४१.१ *(१३८१) ॥ त्वद्यन्त्राणां प्रयाणेष्वनवरतवलत्कर्णतालप्रकीर्णैराकीर्णे व्योम्नि सर्पसमदगजघटाकुम्भसिन्दूरपूरैः । बिभ्राणाः पारिभद्रद्रुमकुसुमरुचो रश्मयः पत्युरह्नां मध्याह्नेऽप्यस्तसंध्याभ्रमचकितदृशश्चक्रिरे चक्रवाकान् ॥ ४१.२ *(१३८२) ॥ स्फीतो धाम्ना समरविजयी श्रीकटाक्षप्रदीर्घः स्निग्धश्यामः कुवलयरुचिर्युद्धमल्ल त्वदीयः । वर्षेऽमुष्मिन् प्रतिनृपयशःपूरगौरे परीक्षा क्षीरन्यस्तं तुलयति महानीलरत्नं कृपाणः ॥ ४१.३ *(१३८३) ॥ दिग्दन्तिनः स्वकरपुष्करलेखनीभिर्गण्डस्थलान्मदमसिं मुहुराददानाः ।* श्रीचन्द्रदेव तव तोयनिधितीरताडीपत्रोदरेषु विजयस्तुतिमालिखन्ति ॥ ४१.४ *(१३८४) ॥* अभिनन्दस्य सत्सु रक्तो द्विषां कालः पीतः स्त्रीणां विलोचनैः । शुभ्रकीर्त्यासि तत्सत्यं चतुर्वर्णाश्रमो भवान् ॥ ४१.५ *(१३८५) ॥ अचलस्य न जनयसि कंसहर्षं वहसि शरीरं यशोदया जुष्टम् ।* त्यजसि न सत्योन्मुखतामिति सत्यं वासुदेवोऽसि ॥ ४१.६ *(१३८६) ॥* भद्रस्य न लोपो वर्णानां न खलु परतः प्रत्ययविधिर्विकारो नास्त्येव क्वचिदपि न भग्नाः प्रकृतयः । गुणो वा वृद्धिर्वा सततमुपकाराय जगतां मुनेर्दाक्षीपुत्रादपि तव समर्थः पदविधिः ॥ ४१.७ *(१३८७) ॥ पाणिनेः सत्यं त्वद्गुणकीर्तनेन सुखयत्याखण्डलं नारदः किं तु श्रोत्रकटु क्वणन्ति मधुपास्तत्पारिजातस्रजाम् । वार्यन्ते यदि चाप्सरःपरिषदा ते चामराडम्बरैरुद्वेल्लद्भुजवल्लिकङ्कणझणत्कारस्तदा दुःसहः ॥ ४१.८ *(१३८८) ॥ मधुकूटस्य यस्य द्वीपं धरित्री स च जलधिरभूद्यस्य गण्डूषतोयं तस्याश्चर्यैकमूर्तेरपि नभसि वपुर्यत्र दुर्लक्षमासीत् । तत्पीतं त्वद्यशोभिस्त्रिभुवनमभजंस्तानि विश्रामहेतोस्तच्चान्तः कैटभारेः स च तव हृदये वन्दनीयस्त्वमेकः ॥ ४१.९ *(१३८९) ॥ तथागतदासस्य कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः । तत्सौधानां परिसरभुवि त्वत्प्रसादादिदानीं क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥ ४१.१० *(१३९०) ॥ शुभाङ्गस्य लक्ष्मीवशीकरणचूर्णसहोदराणि त्वत्पादपङ्कजरजांसि चिरं जयन्ति । यानि प्रणाममिलितानि नृणां ललाटे लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ ४१.११ *(१३९१) ॥ अभिनन्दस्य त्वं चेन्नाथ कलानिधिः शशधरस्तत्तोयनाथा वयं मर्यादानिधिरम्भसां पतिरथ त्वं चेद्वयं वारिदाः । सर्वाशापरिपूरको जलधरस्त्वं चेद्वयं भूरुहः सन्मार्ग्वस्थितिसुन्दरस्त्वमिह चेच्छाखी वयं चाध्वगाः ॥ ४१.१२ *(१३९२) ॥ पदहीनान् बिलवसतीन् भुजगानिव जातभोगसंकोचान् ।* व्यथयति मन्त्राक्षरमिव नाम तवारीन् वनेचरैर्गीतम् ॥ ४१.१३ *(१३९३) ॥* येषां वेश्मसु कम्बुकर्परचलत्तर्कुध्वनिर्दुःश्रवः प्रागासीन्नरनाथ सम्प्रति पुनस्तेषां तवानुग्रहात् । षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ॥ ४१.१४ *(१३९४) ॥ नाथ त्वामनुयाचे प्रसीद विजहीहि सङ्गरारम्भम् ।* उन्नतिभाजः सम्प्रति सन्ति विपक्षाः परं गिरयः ॥ ४१.१५ *(१३९५) ॥* देव स्वस्तुतिरस्तु नाम हृदि नः सर्वे वसन्त्यागमास्तीर्थं न क्वचिदीदृगत्रभवती त्वत्खड्गधारा यथा । यामेकः स्वशरीरशुद्धिरसिको मूर्धि प्रतीच्छन् रिपुर्द्वैविध्यादनु पञ्चतां तदनु च त्रैदश्यमाप क्षणात् ॥ ४१.१६ *(१३९६) ॥ रथाङ्गस्य मत्पर्यन्तवसुंधराविजयिने मुक्तादि रत्नं मया सर्वं ढौकितमेव तुभ्यमधुना जातोऽस्मि निष्किंचनः । इत्युल्लासितवीचिबाहुरुदयन्मार्तण्डबिम्बच्छलात्प्रातस्तप्तकुठारमेष वहते देव त्वदग्रेऽम्बुधिः ॥ ४१.१७ *(१३९७) ॥ वसुकल्पस्य संदिष्टं मरुभूमिभूरुहचयैर्भूपाल भूयाद्भवान्निर्जेता नवखण्डमण्डलभुवो ये त्वत्प्रसादाद्वयम् । प्रत्यासन्नविपन्नवारडवधूनेत्रप्रणालीगलद्बाष्पाम्भःप्लवपङ्कपिच्छलतलाः श्रीमुञ्ज मोदामहे ॥ ४१.१८ *(१३९८) ॥ तन्वीमुज्झितभूषणां कलगिरं सीत्कारमातन्वतीं वेपन्तीं व्रणिताधरां विवसनां रोमोद्गमं बिभ्रतीम् । हेमन्ते हिमशीतमारुतभयादाश्लिष्य दोर्भ्यां तनुं स्वां मूर्तिं दयितामिवातिरसिकां त्वद्विद्विषः शेरते ॥ ४१.१९ *(१३९९) ॥ भूसम्पर्करजोनिपातमलिनाः स्वस्माद्गृहात्प्रच्युताः सामान्यैरपि जन्तुभिः करतलैर्निःशङ्कमालिङ्गिताः । निर्लग्नाः क्वचिदेकतामुपगता बद्धाः क्वचिन्मोचिता अक्षाणामिव शारयः प्रतिगृहं भ्रान्तास्तवारिस्त्रियः ॥ ४१.२० *(१४००) ॥ वर्षासम्भृतपीतिसारमवशं स्तब्धाङ्घ्रिहस्तद्वयं भेकं मूर्ध्नि निगृह्य कज्जलरजःश्यामं भुजङ्गं स्थितम् । मुग्धा व्याधवधुस्तवारिनगरे शून्ये चिरात्सम्प्रति स्वऋनोपस्कृतिमुष्टिसायकधिया साकूतमादित्सति ॥ ४१.२१ *(१४०१) ॥ पर्यङ्कः शिथिलीकृतो न भवता सिंहासनान्नोत्थितं न क्रोधानलधूमराजिरिव च भ्रूवल्लिरुल्लासिता । राज्ञां त्वच्चरणारविन्दमथ च श्रीचन्द्र पुष्पन्त्यमूश्चञ्चच्चारुमरीचिसंचयमुचां चूडामणीनां रुचः ॥ ४१.२२ *(१४०२) ॥ सुविनीतस्य द्वारं खड्गिभिरावृतं बहिरपि प्रक्लिन्नगण्डैर्गजैरन्तः कञ्चुकिभिः स्फुरन्मणिधरैरध्यासिता भूमयः । आक्रान्तं महिषीभिरेव शयनं त्वद्विद्विषां मन्दिरे राजन् सैव चिरन्तनप्रणयिनीशून्येऽपि राज्यस्थितिः ॥ ४१.२३ *(१४०३) ॥ विजयपालस्य अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतकीर्तनेषु रसना केषां न कण्डूयते । देव त्वद्विजयप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्ततो रिपुवधूबाष्पाम्बुभिः पूरिताः ॥ ४१.२४ *(१४०४) ॥ ताडीताडङ्कमात्राभरणपरिणतीन्युल्लसत्सिन्दुवार स्रग्दामानि द्विषां वो घनजघनजरद्भूरिभूर्जांशुकानि । विन्ध्यस्कन्धेषु धातुद्रवरचितकुचप्रान्तपत्राङ्कुराणि क्रीडन्ति क्रोडलग्नैः कपिशिशुभिरविश्रान्तमन्तःपुराणि ॥ ४१.२५ *(१४०५) ॥ त्वन्नासीरविसारिवारणभरभ्रश्यन्महीयन्त्रणादन्तःखिन्नभुजङ्गभोगविगलल्लालाभिरासीन्नदी । किं चास्यां जलकेलिलालसवलन्नागाङ्गनानां फण श्रेणीभिर्मणिकेशराभिरभवत्सम्भूतिरम्भोरुहाम् ॥ ४१.२६ *(१४०६) ॥ गङ्गाधरस्य संग्रामाङ्गणसंगतेन भवता चापे समारोपिते देवाकर्णय येन येन महसा यद्यत्समासादितम् । कोदण्डेन शराः शरई रिपुशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरनघा कीर्त्या च लोकत्रयम् ॥ ४१.२७ *(१४०७) ॥ संग्रामाङ्गणस्य शरैर्व्यर्थं नाथ त्रिभुवनजयारम्भचतुरैस्तव ज्यानिर्घोषं नृपतिरिह को नाम सहते । यमुच्चैराकर्ण्य त्रिदशपतिरप्याहवभिया ह्रिया पार्श्वं पश्यन्निभृतनिभृतं मुञ्चति धनुः ॥ ४१.२८ *(१४०८) ॥ नाहिल्लस्य ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेरारात्सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले । प्रातर्निद्राविनोदक्रमजनितमुखोन्मीलितं चक्षुरेकं व्याधाः पालालभस्मस्थितदहनकणाकारमालोकयन्ति ॥ ४१.२९ *(१४०९) ॥ ते कौपीनधनास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनिवहास्तैरेव लब्धा क्षितिः । तैरेतत्समलंकृतं निजकुलं किं वा बहु ब्रूमहे ये दृष्टाः परमेश्वरेण भवता रुष्टेन तुष्टेन वा ॥ ४१.३० *(१४१०) ॥ जयादित्यस्य दत्तेन्द्राभयविभ्रमाद्भुतभुजासम्भारगम्भीरया त्वद्वृत्त्या शिथिलीकृतस्त्रिभुवनत्राणाय नारायणः । अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण प्राणोत्तुङ्गभुजङ्गतल्पमधुना भद्रेण निद्रायते ॥ ४१.३१ *(१४११) ॥ वत्से माधवि तात चम्पक शिशो माकन्द कौन्ति प्रिये हा मातर्मदयन्ति हा कुरबक भ्रातः स्वसर्मालति । इत्येवं रिपुमन्दिरेषु भवतः शृण्वन्ति नक्तंचरा गोलाङ्गूलविमर्दसम्भ्रमवशादुद्यानदेवीगिरः ॥ ४१.३२ *(१४१२) ॥ शुभाङ्गस्य वज्रिन् वज्रमिदं जहीहि भगवनीश त्रिशूलेन किं विष्णो त्वं च विमुञ्च चक्रममराः सर्वे त्यजन्त्वायुधम् । अद्यायं परचक्रभूमनृपतेर्वोढुं त्रिलोकीधुरं प्रौढारातिघटाविघट्टनपटुर्दोर्दण्ड एवोद्यतः ॥ ४१.३३ *(१४१३) ॥ बाणास्ते परचक्रविक्रमकलावैलक्ष्यदिक्षागुरोर्वीक्षन्ते मिहिरांशुमांसलरुचः क्षिप्ताः प्रतिद्वेषिणः । हस्ताहल्लितहारवल्लितरला युद्धाङ्गणालोकन क्रीडालोलदिगङ्गनासमुदयोन्मुक्ताः कटाक्षा इव ॥ ४१.३४ *(१४१४) ॥ मञ्जुश्रीमित्रस्य मन्दोद्वृन्तैः शिरोभिर्मणिभरगुरुभिः प्रौढरोमाञ्चदण्ड स्फायन्निर्मोकसंधिप्रसरदविगलत्संमदस्वेदपूराः । जिह्वायुग्माभिपूर्णानन्दविषमसमुद्गीर्णवर्णाभिरामं वेलाशैलाङ्कभाजो भुजगयुवतयस्त्वद्गुणानुद्गृणन्ति ॥ ४१.३५ *(१४१५) ॥ मुरारेः जीयासुः कलिकालकर्णकजगद्दारिद्र्यदारूदर व्याघूर्णद्घुणचूर्णलङ्गिमजुषस्त्वत्पादयोः पांसवः । लक्ष्मीसद्मसरोजरेणुसुहृदः सेवावनम्रीभवद्भूमीपालकिरीटरत्नकिरणज्योत्स्नानदीवालिकाः ॥ ४१.३६ *(१४१६) ॥ वल्लणस्य पृथुरसि गुणैः कीर्त्या रामो नलो भरतो भवान्महति समरे शत्रुघ्नस्त्वं सदैव युधिष्ठिरः । इति सुचरितैर्बिभ्रद्रूपं चिरंतनभूभुजां कथमसि न मांधाता देव त्रिलोकविजय्यपि ॥ ४१.३७ *(१४१७) ॥ प्रभुरसि वयं मालाकारव्रतव्यवसायिनो वचनकुसुमं तेनास्माभिस्तवादरढौकितम् । यदि तदगुणं कण्ठे मा धास्तथोरसि मा कृथा नवमिति कियत्कर्णे धेहि क्षणं फलतु श्रमः ॥ ४१.३८ *(१४१८) ॥ भयमेकमनेकेभ्यः शत्रुभ्यो युगपत्सदा । ददाति तच्च तेनास्ति राजंश्चित्रमिदं महत् ॥ ४१.३९ *(१४१९) ॥ सर्वदा सर्वदोऽसीति मिथ्या संस्तूयसे बुधैः । नारयो लेभिरे पृष्ठं न वक्षः परयोषितः ॥ ४१.४० *(१४२०) ॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौघः समायाति गुणो याति दिगन्तरम् ॥ ४१.४१ *(१४२१) ॥ सालकाननयोगेऽपि सालकाननवर्जिता । हारावरुद्धकण्ठापि विहारारिवधूस्तव ॥ ४१.४२ *(१४२२) ॥ अमी वीर्यमित्रस्य कर्षद्भिः सिचयाञ्चलानतिरसात्कुर्वद्भिरालिङ्गनम् । गृह्णानैः कचमालिखद्भिरधरं विद्रावयद्भिः कुचौ । प्रत्यक्षेऽपि कलिङ्गमण्डलपतेरन्तःपुराणामहो धिक्कष्टं विटपैर्विटैरिव वने किं नाम नाचेष्टितम् ॥ ४१.४३ *(१४२३) ॥ वसुकल्पस्य गम्भीरनीरसरसीरपि पङ्कशेषाः कुर्वन्ति ये दिनकरस्य करास्त एव । स्त्वद्वीरवैरिवनितानयनाम्बुलेश शोषे कथं प्रतिहता इति मे वितर्कः ॥ ४१.४४ *(१४२४) ॥ त्वत्सैन्यग्लपितस्य पन्नगपतेरच्छिन्नधाराक्रमं विस्फारायतशालिनि प्रतिफणं फेलाम्भसि भ्रश्यति । देव क्ष्मावलयप्रभो फणिकुलैः प्रव्यक्तमेकोत्तर स्थूलस्तम्भसहस्रधारितमिव क्ष्माचक्रमालोक्यते ॥ ४१.४५ *(१४२५) ॥ शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः सिन्धून् धूलिभरेण कर्दमयितुं तैरेव रोद्धुं नभः । नासीरे च मुहुर्मुहुश्चल चलेत्यालापकोलाहलान् कर्तुं नाथ वरूथिनीयमवनीं जेतुं पुनस्त्वद्भुजौ ॥ ४१.४६ *(१४२६) ॥ वसुकल्पस्य देव त्वत्सैन्यभारादवनिमवनतां धर्तुमुत्तब्धदेहः स्फूत्कारक्ष्वेडमीलत्फणशतनिपतत्पीनलालाप्रवाहः । दृष्टः प्रारोहशाली वट इव फलितो रक्तमूर्धन्यरत्नः कूर्मेणोद्धृत्य कण्ठं निजविपुलवपुश्चत्वरे सर्पराजः ॥ ४१.४७ *(१४२७) ॥ अम्भः कर्दमतामुपैति सहसा पङ्कद्रवः पांशुतां पांशुर्वारणकर्णतालपवनैर्दिक्प्रान्तनीहारताम् । निम्नत्वं गिरयः समं विषमतां शून्यं जनस्थानकं निर्याते त्वयि राज्यपाल भवति त्यक्तस्वभावं जगत् ॥ ४१.४८ *(१४२८) ॥ महोदधेः असिन्दूरेण सीमन्तो मा भून्नो योषितामिति । अतः परिहरन्त्याजा वसिं दूरेण तेऽरयः ॥ ४१.४९ *(१४२९) ॥ देव त्वं किल कुन्तलग्रहरुचिः काञ्चीमपासारयन् क्षिप्रं क्षिप्रकरस्ततः प्रहणनं प्रारब्धमङ्गेष्वपि । इत्याकूतजुषस्तव स्तवकृता वैतालिकेनोदिते लज्जन्ते प्रमदाः परस्परमभिप्रेक्ष्यारयो बिभ्यति ॥ ४१.५० *(१४३०) ॥ भीमे प्रस्थानभाजि स्फुरदसिजलदापह्नुतद्वेषिवह्नौ गृह्णीताह्नाय सर्वे भुवि भुवनभुजश्चामरं वा दिशो वा । नैवं चेद्वस्तदानीं प्रधनधृतधनुर्मुक्तरावर्णविद्धं गृध्रा मूर्धानमूर्ध्वं नभसि रभसिनो लाघवेनोद्धरन्ति ॥ ४१.५१ *(१४३१) ॥ वसुकल्पस्य भवानीहितकृन्नित्यं त्वं हिमानीगिरिस्थितः ।* अतः शंकर एवासि सदा स्कन्दः परं न ते ॥ ४१.५२ *(१४३२) ॥* आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मत्संकथयैव पार्थिवसुतः सम्प्रत्ययं लज्जते । इत्थं खिन्न इवात्मजेन यशसा दत्तावलम्बोऽम्बुधेः प्राप्तस्तीरतपोवनानि भवतो वृद्धो गुणानां गणः ॥ ४१.५३ *(१४३३) ॥ स्तनयुगमश्रुस्नातं समीपतरवर्तिहृदयशोकाग्नेः ।* चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥ ४१.५४ *(१४३४) ॥* संकल्पेऽङ्कुरितं द्विपत्रितमथ प्रस्थानवेलागमे मार्गे पल्लवितं पुरं प्रविशतः शाखाशतैरुद्गतम् । प्रातर्भाविनि दर्शने मुकुलितं दृष्टे तु देव त्वयि प्रोत्फुल्लं फलितं च सम्प्रति मनोराज्यद्रुमेणाद्य मे ॥ ४१.५५ *(१४३५) ॥ भूतिविभूषितदेहाः कान्तारागेण लब्धमहिमानः ।* त्रिकलिङ्गन्यस्तकरा भवदरयस्त्वत्समा जाताः ॥ ४१.५६ *(१४३६) ॥* जाने विक्रमवर्धन त्वयि धनं विश्राणयत्यर्थिनां भावी शोण इवोपलैरुपचितो रत्नैरगाधोऽम्बुधिः । तत्पश्यामि च रोहणो मणिभरैराध्मायमानोदरः पाकोत्पीडितदाडिमीफलदशां कैश्चिद्दिनैर्यास्यति ॥ ४१.५७ *(१४३७) ॥ एकस्त्रिधा हृदि सदा वससि स्म चित्रं यो विद्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च तन्वञ्शौर्योष्मणा च विनयेन च लीलया च ॥ ४१.५८ *(१४३८) ॥ देव त्वामहमर्थये चिरमसौ वर्षागमो निर्गतस्तीर्थं तीर्थमितस्ततो विचरितुं चेतोऽधुना धावति । तद्विश्रामय वीर वीर्यनिबिडज्याबन्धनात्कार्मुकं मा भूद्वैरिवधूविलोचनजलैर्मार्गक्रमो दुर्गमः ॥ ४१.५९ *(१४३९) ॥ द्विरूपा समरे राजन्नेकैवासिलतावधूः । दारिकारिकरीन्द्राणां सुभटानां च कुट्टनी ॥ ४१.६० *(१४४०) ॥ आमृश्य स्तनमण्डलं प्रतिमुहुः संचुम्ब्य गण्डस्थलीं ग्रीवां प्रत्यवलम्ब्य सम्भ्रमबलैराहन्यमानः करैः । सुप्तस्याद्रिनदिनिकुञ्जगहने मत्तः पयोदानिलैः कर्णान्ते मशकः किमप्यरिवधूसार्थस्य ते जल्पति ॥ ४१.६१ *(१४४१) ॥ लम्बमाननयनाम्बुबिन्दवः कन्दरासु गहनासु भूभृताम् ।* आकपोलतललोलकुन्तलाः संचरन्ति तव वैरियोषितः ॥ ४१.६२ *(१४४२) ॥* मा ते भवतु शत्रूणां या श्रुतिः श्रूयते क्विपः । सार्धं बन्धुभिरङ्गस्य या परस्मैपदे सिचि ॥ ४१.६३ *(१४४३) ॥ तत्कल्पद्रुमपुष्पसंस्तरिरजस्तत्कामधेनोः पयस्तं च त्र्यम्बकनेत्रदग्धवपुषः पुष्पायुधस्यानलम् । पद्मायाः श्वसितानिलानि च शरत्कालस्य तच्च स्फुटं व्योमादाय विनिर्मितोऽसि विधिना काम्बोज तुभ्यं नमः ॥ ४१.६४ *(१४४४) ॥ वसुकल्पस्य द्विषो भवन्ति वीरेन्द्र मुखे न तव संमुखाः । भवद्भुजबलप्रौढि परित्याजितहेतयः ॥ ४१.६५ *(१४४५) ॥ क्षिप्तः क्षीरगृहे न दुग्धजलधिः कोषे न हेमाचलो दिक्पाला अपि पालिपालनविधवानीय नारोपिताः । नो वा दिक्करिनः क्वणन्मधुलिहः पर्यायपर्याणन क्रीडायां विनियोजिता वद कृतं किं किं त्वया दिग्जये ॥ ४१.६६ *(१४४६) ॥ दक्षस्य वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्मभिर्धूलीभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे । दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली दीर्घायुःकृतवासरः प्रतिदिशं व्यस्तो रविस्ताम्यति ॥ ४१.६७ *(१४४७) ॥ दातैष विश्वविदितः किमयं ददाति सर्वाहितानि जगते ननु वार्तमेतत् । अस्योदयात्प्रभृति वाञ्छति दानपात्रं चिन्तामणिर्यदि ददाति ददातु तावत् ॥ ४१.६८ *(१४४८) ॥ अङ्कोकस्य पूर्णेऽग्रे कलशो विलासवनिताः स्मेराननाः कन्यका दानक्लिन्नकपोलपद्धतिरिभो गौरद्युतिर्गोवृषः । क्षीरक्ष्मारुहि वायसो मधुरवाग्वामा शिवेति ध्रुवं त्वां प्रत्युच्चलतां नरेन्द्रतिलक प्रादुर्भवन्त्यर्थिनाम् ॥ ४१.६९ *(१४४९) ॥ यतो यतो नृप नखपृष्ठपाटलं विलोचनं चलति तव प्रसीदतः । ततस्ततो नलिनवनाधिवासिनी तदीप्सया किल कमलानुधावति ॥ ४१.७० *(१४५०) ॥ परमेश्वरस्य रुदितं वनेचरैरपि विन्ध्याद्रिनिवासिभिस्तवारिशिशौ ।* वनमानुषीषु हस्तं फलहस्तासु प्रसारयति ॥ ४१.७१ *(१४५१) ॥* आबद्धभीमभृकुटीस्थपुटं ललाटं बिभ्रत्पराङ्मुखरिपोर्विधुताधरोष्ठः । आत्मैव सङ्गरमुखे निजमण्डलाग्र च्छायाछलादभिमुखस्तव देव जातः ॥ ४१.७२ *(१४५२) ॥ निजगृहमयूरनामभिराहूतानागतेषु वनशिखिषु ।* बालतनयेन रुदता त्वदरिवधूर्रोदिता दीर्घम् ॥ ४१.७३ *(१४५३) ॥* योगेश्वरस्य ये तृष्णार्तैरधिकमनिशं भुज्यमानाः प्रसन्ना अन्तर्भूता झटिति गुणिनो यत्र पूर्णा भवन्ति । नम्रीभूतैः फलमभिनवं प्राप्यते यद्यवश्यं तत्किं कूपाः सुकृतघटितास्त्वादृशा वा पुमांसः ॥ ४१.७४ *(१४५४) ॥ अमरदत्तस्य भ्रान्तं येन चतुर्भिरेव चरणैः सत्याभिधाने युगे त्रेतायां त्रिभिरङ्घ्रिभिः कथमपि द्वाभ्यां ततो द्वापरे । न स्यात्त्वं यदि देव पुद्गलगुडः काले कलऊत्कले सोऽयं पङ्गुरवस्थितैकचरणो धर्मः कथं भ्राम्यति ॥ ४१.७५ *(१४५५) ॥ चित्तूकस्य त्वं धर्मभूस्त्वमिह संगरमूर्ध्नि भीमः कीर्त्यार्जुनोऽसि नकुलेन तवोपमास्ति । तुल्यस्त्वया यदि परं सहदेव एव दुःशासनस्तव पुनर्ननु कोऽपि शत्रुः ॥ ४१.७६ *(१४५६) ॥ हलायुधस्य कूर्मः पादोऽत्र यष्टिर्भुजगपतिरसौ भाजनं भूतधात्री तैलोत्पूरः समुद्राः कनकगिरिरयं वृत्तवर्तिप्ररोहः । अर्चिस्तिग्मांशुरोचिर्गगनमलिनिमा कज्जलं दह्यमाना शत्रुश्रेणी पतङ्गा ज्वलति नरपते त्वत्प्रतापप्रदीपः ॥ ४१.७७ *(१४५७) ॥ खिपाकस्य अन्तःखेदमिवोद्वहन् यदनिशं रत्नाकरो घूर्णते यच्च ध्यानमिवास्थितो न कनकक्षोणीधरः स्यन्दते । जाने दानविलास दानरभसं शौर्यं च ते शुश्रुवानेको मन्थविघट्टनास्तदपरष्टङ्काहतीः शङ्कते ॥ ४१.७८ *(१४५८) ॥ वाक्कूटस्य मया तावद्दृष्टो न खलु कलिकन्दर्पनृपतेर्गुणैस्तुल्यः कोऽपि क्वचिदपि किमश्रावि भवता । इति प्रश्नश्रद्धाकुलितमिव कर्णान्तिकमगान्मृगाक्षीणां चक्षुश्चटुलतरतारान्ततरलम् ॥ ४१.७९ *(१४५९) ॥ वसुकल्पस्य न दीनस्त्वं पुण्यप्रभवरमणीनां विलसितैर्विराजच्छुद्धान्तस्त्वमहिमकरप्रौढमहिमा । क्वचिन्न क्रोधस्ते स्वपदजितदेवस्त्वमुदधेरभिन्नोऽपि स्वामिन्न किमसि समुद्रः स्वविषये ॥ ४१.८० *(१४६०) ॥ ।चोलो इति चाटुव्रज्या समाप्ता॥ ततो निर्वेदव्रज्या धन्यानां गिरिकन्दरोदरभुवि ज्योतिः परं ध्यायतामानन्दाश्रुजलं पिबन्ति शकुना निःशङ्कमङ्कस्थिताः । अस्माकं तु मनोरथोपरचितप्रासादवापीतट क्रीडाकाननकेलिमण्डपसदामायुः परं क्षीयते ॥ ४२.१ *(१४६१) ॥ आस्वाद्य स्वयमेव वच्मि महतीर्मर्मच्छिदो वेदना मा भूत्कस्यचिदप्ययं परिभवो याञ्छेति संसारिणः । पश्य भ्रातरियं हि गौरवजराधिक्कारकेलिस्थली मानम्लानिमसी गुणव्यतिकरप्रागल्भ्यगर्भच्युतिः ॥ ४२.२ *(१४६२) ॥ पश्य गोभट किं कुर्मः कर्मणां गतिरीदृशी । दुषेर्धातोरिवास्माकं दोषनिष्पत्तये गुणः ॥ ४२.३ *(१४६३) ॥ अनादृत्यौचित्यं ह्रियमविगणय्यातिमहतीं यदेतस्याप्यर्थे धनलवदुराशातरलिताः । अलीकाहंकारज्वरकुटिलितभ्रूणि धनिनां मुखानि प्रेक्ष्यन्ते धिगिदमतिदुष्पूरमुदरम् ॥ ४२.४ *(१४६४) ॥ जातिर्यातु रसातलं गुणगणस्तस्याप्यधो गच्छतु शीलं शैलतटात्पतावभिजनः संदह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणास्तृणलवप्रायाः समस्ता इमे ॥ ४२.५ *(१४६५) ॥ निष्कन्दाः किमु कन्दरोदरभुवः क्षीणास्तरूणां त्वचः किं शुष्काः सरितः स्फुरद्गिरिगुरुग्रावस्खलद्वीचयः । प्रत्युत्थानमितस्ततः प्रतिदिनं कुर्वद्भीरुद्गीतिभिर्यद्धारार्पितदृष्टिभिः क्षितिभुजां विद्वद्भिरप्यास्यते ॥ ४२.६ *(१४६६) ॥ अमीषां प्राणानां तुलितबिसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । यदीशानामग्रे द्रविणकणमोहान्धमनसां कृतं वीतव्रीडैर्निजगुणकथापातकमपि ॥ ४२.७ *(१४६७) ॥ यदेते साधूनामुपरि विमुखाः सन्ति धनिनो न चैषावज्ञैषामपि तु निजवित्तव्ययभयम् । अतः खेदो नास्मिन्नपरमनुकम्पैव भवति स्वमांसत्रस्तेभ्यः क इव हरिणेभ्यः परिभवः ॥ ४२.८ *(१४६८) ॥ नो बद्धं शरदिन्दुधामधवलं पाणौ मुहुः कङ्कणं व्रीडामन्थरकोमलं नववधूवक्त्रं च नास्वादितम् । नीतं नैव यशः सुरेन्द्रभवनं शस्त्रेण शास्त्रेण वा कालो जीर्णमठेषु धृष्टपिशुनैश्छात्रैः सह प्रेरितः ॥ ४२.९ *(१४६९) ॥ वयमकुशलाः कर्णोपान्ते निवेशयितुं मुखं कृतकचरितैर्भर्तुश्चेतो न वञ्चयितुं क्षमाः । प्रियमपि वचो मिथ्या वक्तुं जडैर्न च शिक्षितं क इव हि गुणो योऽस्मान् कुर्यान्नरेश्वरवल्लभान् ॥ ४२.१० *(१४७०) ॥ खलोल्लापाः सोढाः कथमपि पराराधनपरैर्निगृह्यान्तर्दुःखं हसितमपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किमपरमतो नर्तयसि माम् ॥ ४२.११ *(१४७१) ॥ जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् । कृता लङ्गाभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥ ४२.१२ *(१४७२) ॥ सृजति तावदशेषगुणालयं पुरुषरत्नमलंकरणं भुवः । तदनु तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥ ४२.१३ *(१४७३) ॥ सत्पुरुषपक्षपातिनि भगवति भवितव्यते नमस्तुभ्यम् ।* या त्वं स्वयमकृतज्ञं जडमकुलीनं न संस्पृशति ॥ ४२.१४ *(१४७४) ॥* दाता बलिः प्रार्थयिता च विष्णुर्दानं मही वाजिमखस्य कालः । नमोऽस्तु तस्यै भवितव्यतायै यस्याः फलं बन्धनमेव जातम् ॥ ४२.१५ *(१४७५) ॥ प्रिया दुहितरो धातुर्विपदः प्रतिभान्ति नः । गुणवत्यः कुलीनेभ्यो दीयन्ते कथमन्यथा ॥ ४२.१६ *(१४७६) ॥ भद्रे वाणि विधेहि तावदमलां वर्णानुपूर्वीं मुखे चेतः स्वास्थ्यमुपेहि गच्छ गुरुते यत्र स्थिता मानिनः । लज्जे तिष्ठ पराङ्मुखी क्षणमितस्तृष्णु पुरः स्थीयतां पापो यावदहं ब्रवीमि धनिने देहीति दीनं वचः ॥ ४२.१७ *(१४७७) ॥ प्रियां हित्वा बालामभिनवविसालव्यसनिनीमधीते भिक्षाभुग्भुवमधिशयानश्चिरतरम् । अपि ज्ञात्वा शास्त्रं कटकमटतो जीर्यति वपुस्ततो रे पाण्डित्यं यदिह न सुखं नोऽपि च तपः ॥ ४२.१८ *(१४७८) ॥ विद्यालते तपस्विनि विकसितसितकुसुमवाक्यसम्पन्ने ।* विरम वरं भ्रमरहिते न फलसि भुक्तिं च मुक्तिं च ॥ ४२.१९ *(१४७९) ॥* उन्मादगद्गदगिरो मदविह्वलाक्ष्या भ्रश्यन्निजप्रकृतयः कृतमस्मरन्तः । ऐश्वर्यसीधुरसपानविघूर्णमानाः के नाम न प्रतिपदं पुरुषाः स्खलन्ति ॥ ४२.२० *(१४८०) ॥ स्वल्पद्रविणकणा वयममी च गुणिनो दरिद्रति सहस्रम् ।* दानव्यसनलवो हृदि धिग्धातः किं विडम्बयसि ॥ ४२.२१ *(१४८१) ॥* विद्यावानपि जन्मवानपि तथा युक्तोऽपि चान्यैर्गुणैर्यन्नाप्नोति मनः समीहितफलं दैवस्य सा वाच्यता । एतावत्तु हृदि व्यथां वितनुते यत्प्राक्तनैः कर्मभिर्लक्ष्मीं प्राप्य जडोऽप्यसाधुरपि च स्वां योग्यतां मन्यते ॥ ४२.२२ *(१४८२) ॥ ईश्वरगृहमिदमत्र हि विषं च वृषभश्च भस्म चाद्रियते ।* यस्तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥ ४२.२३ *(१४८३) ॥* कामघ्नाद्विषसदृशो भूत्यवलिप्ताद्भुजङ्गसङ्गरुचेः ।* को भृङ्गीव न शुष्यति वाञ्छ न फलमीश्वरादगुणात् ॥ ४२.२४ *(१४८४) ॥* अपि वज्रेण संघर्षमपि पद्भ्यां पराभवम् । सहन्ते गुणलोभेन त एव मणयो यदि ॥ ४२.२५ *(१४८५) ॥ लभन्ते कथमुत्थानमस्थानं गुणिनो गताः । दृष्टः किं क्वापि केनापि कर्दमात्कन्दुकोद्गमः ॥ ४२.२६ *(१४८६) ॥ हृत्पट्टके यद्यदहं लिखामि तत्तद्विधिर्लुम्पति सावधानः ।* भूयोविलोपान्मसृणे त्विदानीं रेखापि नोदेति मनोरथस्य ॥ ४२.२७ *(१४८७) ॥* कुर्यान्न किं धनवतः स्वजनस्य वार्ता किं तत्क्रिया नयनयोर्न धृतिं विदध्यात् । मामेष याचितुमुपागत इत्यसत्य सम्भावनाविकलमस्य न चेन्मनः स्यात् ॥ ४२.२८ *(१४८८) ॥ अस्मादृशां नूनमपुण्यभाजां न स्वोपयोगी न परोपयोगी । सन्नप्यसद्रूपतयैव वेद्यो दारिद्र्यमुद्रो गुणरत्नकोषः ॥ ४२.२९ *(१४८९) ॥ तावत्कथं कथय यासि गृहं परस्य तत्रापि चाटुशतमारभसे कथं च । स्वं वर्णयस्यथ कथं कुलपुत्र मानी हा मुग्ध दग्धजठरेण विडम्बितोऽसि ॥ ४२.३० *(१४९०) ॥ सारसवत्ता विहता न बका विलसन्ति चरति नो कङ्कः ।* सरसीव कीर्तिशेषं गतवति भुवि विक्रमादित्ये ॥ ४२.३१ *(१४९१) ॥* सुबन्धोः उचितकर्म तनोति न सम्पदामितरदप्यसदेव विवेकिनाम् । इति निरस्तसमस्तसुखान्वयः कथमतो न विषीदतु पण्डितः ॥ ४२.३२ *(१४९२) ॥ छित्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां पर्यस्ताग्निशिखाकलापजटिलान्निःसृत्य दूरं वनात् । व्याधानां शरगोचरादतिजवेनोत्प्लुत्य गच्छन्मृगः कूपान्तःपतितः करोति विगुणे किं वा विधौ पौरुषम् ॥ ४२.३३ *(१४९३) ॥ कामं वनेषु हरिणास्तृणेन जीवन्त्ययत्नसुलभेन ।* विदधति धनिषु न दैन्त्यं ते किल पशवो वयं सुधियः ॥ ४२.३४ *(१४९४) ॥* वसुमति वसुमति बन्धौ धनलवलोभेन ये निषीदन्ति ।* तांश्च तृणानिव दधती कलयसि वद गौरवं कस्य ॥ ४२.३५ *(१४९५) ॥* कपोलेभ्यो बद्धः कथमखिलविश्वप्रभुरसावनार्यैरस्माभिः परमियमपूर्वैव रचना । यदिन्दोः पीयूषद्रवमयमयूखोत्करकिरः कलङ्को रत्नं तु प्रतिफणमनर्घं विषभृताम् ॥ ४२.३६ *(१४९६) ॥ वित्तोकस्य सर्वः प्राणविनाशसंशयकरीं प्राप्यापदं दुस्तरां प्रत्यासन्नभयो न वेत्ति विभवं स्वं जीवितं काङ्क्षति । उत्तीर्णस्तु ततो धनार्थमपरां भूयो विशत्यापदं प्राणानां च धनस्य चायमधियामन्योन्यहेतुः पणः ॥ ४२.३७ *(१४९७) ॥ नो मेघायितमर्थवारिविरहक्लिष्टेऽर्थशस्ये मया नोद्वृत्तप्रतिपक्षपर्वतकुले निर्घातवातायितम् । नो वा वामविलोचनामलमुखाम्भोजेषु भृङ्गायितं मातुः केवलमेव यौवनवनच्छेदे कुठारायितम् ॥ ४२.३८ *(१४९८) ॥ भर्तृहरेः ये कारुण्यपरिग्रहादपणितस्वार्थाः परार्थान् प्रति प्राणैरप्युपकुर्वते व्यसनिनस्ते साधवो दूरतः । विद्वेषानुगमादनर्जितकृपो रूक्षो जनो वर्तते चक्षुः संहर बाष्पवेगमधुना कस्याग्रतो रुद्यते ॥ ४२.३९ *(१४९९) ॥ मातृगुप्तस्य नरेन्द्रैः श्रीचन्द्रप्रभृतिभिरतीतं सहृदयैरतिक्रान्तं तैस्तैः कविभिरभिनन्दादिभिरपि । इदानीं वाक्तूष्णीं भव किमु मुधैव प्रलपसि क्व पूजासम्भारः क्व च तव गुणोल्लासरभसः ॥ ४२.४० *(१५००) ॥ वाक्कूटस्य सुधासूतिः क्षीणो गणपतिरसावेकदशनः पदभ्रष्टा देवी सरिदपि सुराणां भगवती । द्विजिह्वादन्येषां क्व ननु गुणिनामीश्वरजुषां त्वया दृष्टो भोगः किमिह विफलं क्लिश्यसि मनः ॥ ४२.४१ *(१५०१) ॥ गच्छ त्रपे विरम धैर्य धियः किमत्र मिथ्या विडम्बयसि किं पुरुषाभिमान । प्रध्वस्तसर्वगुणमर्जितदोषसैन्यं दैन्यं यदादिशति तद्वयमाचरामः ॥ ४२.४२ *(१५०२) ॥ निरानन्दा दारा व्यसनविधुरो बान्धवजनो जनीभूतं मित्रं धनविरहदीनः परिजनः । असंतुष्टं चेतः कुलिशकठिनं जीवितमिदं विधिर्वामारम्भस्तदपि च मनो वाञ्छति सुखम् ॥ ४२.४३ *(१५०३) ॥ दुर्वासो मलिनाङ्गयष्टिरबला दृष्टो जनः स्वे गृहे नीचात्कर्णकटु श्रुतं धनमदादारुढगर्वं वचः । अन्यो मन्दिरमागतः परिचयादप्राप्तकामो गतः खिन्नाः स्मः स्वपरोपकारकरणक्लीबां वहन्तस्तनुम् ॥ ४२.४४ *(१५०४) ॥ क्व पङ्कः क्वाम्भोजं क्वणदलिकुलालापमधुरं शिरो रौद्रं क्वाहेः स्फुरदुरुमयूखः क्व च मणिः । कलिः क्वायं पापः क्व च गुणनिधेर्जन्म भवतो विधिः सत्यं सत्यं सदृशविनियोगेष्वकुशलः ॥ ४२.४५ *(१५०५) ॥ नमस्यः प्रज्ञावान् परिकलितलोकत्रयगतिः सुखी मूर्खः सोऽपि स्वगतमहिमाद्वैतहृदयः । अयं मा भूत्कश्चित्प्रतनुमतिकिर्मीरितमनः समाधानोन्मीलत्सदसदितिसंदेहविधुरः ॥ ४२.४६ *(१५०६) ॥ वल्लणस्य अस्माभिश्चतुरम्बुराशिरशनावच्छेदिनीं मेदिनीं भ्राम्यद्भिर्न स कोऽपि निस्तुषगुणो दृष्टो विशिष्टो जनः । यस्याग्रे चिरसंचितानि हृदये दुःखानि सौख्यानि वा संजल्प्य क्षणमेकमर्धमथवा निःश्वस्य विश्राम्यते ॥ ४२.४७ *(१५०७) ॥ इतो दावज्वालः स्थलभुव इतो जालजटिला इतो व्याधो धावत्ययमनुपदं वक्रितधनुः । इतोऽप्यग्रे तिष्ठत्ययमजगरो विस्तृतमुखः क्व यायात्किं कुर्यान्मृगशिशुरयं दैववशगः ॥ ४२.४८ *(१५०८) ॥ केनेयं श्रीर्व्यसनरुचिना शोण विश्राणिता ते जाने जानुद्वयसजल एवाभिरामस्त्वमासीः । वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः कस्येदानीं कलुषसलिलः कूलभेदी प्रियोऽसि ॥ ४२.४९ *(१५०९) ॥ शतानन्दस्य सिन्धोरर्णः स्थगितगगनाभोगपातालकुक्षः पोतोपाया इह हि बहवो लङ्घनाय क्षमन्ते । आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादतटकुहरालोकनैर्यस्य कल्पः ॥ ४२.५० *(१५१०) ॥ केशटस्य दैवे समर्प्य चिरसंचितमोहभारं स्वस्थाः सुखं वसत किं परयाचनाभिः । मेरुं प्रदक्षिणयतोऽपि दिवाकरस्य ते तस्य सप्त तुरगा न कदाचिदष्टौ ॥ ४२.५१ *(१५११) ॥ अर्थो न सम्भृतः कश्चिन्न विद्या काचिदर्जिता । न तपः संचितं किंचिद्गतं च सकलं वयः ॥ ४२.५२ *(१५१२) ॥ आजन्मानुगतेऽप्यस्मिन्नाले विमुखमम्बुजम् । प्रायेण गुणपूर्णेषु रीतिर्लक्ष्मीवतामियम् ॥ ४२.५३ *(१५१३) ॥ सरोकस्य दृष्टा साथ कुपीटयोनिमहसा लेलिह्यमानाकृतिः पुष्पोन्मेषवती च किंशुकलता नीतावनीं वायुना । रम्भे नोपरि पद्मयोर्बिसलते नाग्रस्फुरत्पल्लवे सौवर्णौ न घटौ न नूतनघनासन्नः शशी पार्वणः ॥ ४२.५४ *(१५१४) ॥ शशीकरस्य तोयं निर्मथितं घृताय मधुने निष्पीडितः प्रस्तरः स्नानार्थं मृगतृष्णिकोर्मितरला भूमिः समालोकिता । दुग्धा सेयमचेतनेन जरती दुग्धस्यता गर्दभी कष्टं यत्खलु दीर्घया धनतृषा नीचो जनः सेवितः ॥ ४२.५५ *(१५१५) ॥ जोयीकस्य रत्नाकरस्तव पिता स्थितिरम्बुजेषु भ्राता सुधारसमयः पतिराद्यदेवः । केनापरेण कमले वद शिशिक्षितासि शारङ्गशृङ्गकुटिलानि विचेष्टितानि ॥ ४२.५६ *(१५१६) ॥ अर्थाभावे मृदुता काठिन्यं भवति चार्थबाहुल्ये ।* नैकत्रार्थमृदुत्वे प्रायः श्लोके च लोके च ॥ ४२.५७ *(१५१७) ॥* ।चोलो इति निर्वेदव्रज्या॥ ४२ ततो वार्धक्यव्रज्या अनङ्ग पलितं मूर्ध्नि पश्यैतद्विजयध्वजम् । इदानीं जितमस्माभिस्तवाकिंचित्कराः शराः ॥ ४३.१ *(१५१८) ॥ धर्मकीर्तेः अनुचितमिदमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ ४३.२ *(१५१९) ॥ विद्याकालिदासयोः प्रायश्चित्तं न गृह्णीतः कान्तायाः पतितौ स्तनौ । अत एव तयोः स्पर्शे लोकोऽयं शिथिलादरः ॥ ४३.३ *(१५२०) ॥ धिग्वृद्धतां विषलतामिव धिक्तथापि वामभ्रुवामुपरि सस्पृहतामतन्वीम् । कोऽत्रापराध्यति विधिश्च शठः कुठार योग्यः कठोरहृदयः कुसुमायुधश्च ॥ ४३.४ *(१५२१) ॥ स्वस्ति सुखेभ्यः सम्प्रति सलिलाञ्जलिरेव मन्मथकथायाः ।* ता अपि मामतिवयसं तरलदृशः शरलमीक्षन्ते ॥ ४३.५ *(१५२२) ॥* क्षणात्प्रबोधमायाति लङ्घ्यते तमसा पुनः । निर्वास्यतः प्रदीपस्य शिखेव जरतां मतिः ॥ ४३.६ *(१५२३) ॥ पलितेष्वपि दृष्टेषु पुंसः का नाम कामिता । भैषज्यमिव मन्यन्ते यदन्यमनसः स्त्रियः ॥ ४३.७ *(१५२४) ॥ एकगर्भोषिताः स्निग्धा मूर्ध्ना सत्कृत्य धारिताः । केशा अपि विरज्यन्ते जरया किमुताङ्गनाः ॥ ४३.८ *(१५२५) ॥ गात्रैर्गिरा च विकलश्चटुमीश्वराणां कुर्वन्नयं प्रहसनस्य नटः कृतोऽस्मि । नो वेद्मि मां पलितवर्णकभाजमेतं नाट्येन केन नटयिष्यति दीर्घमायुः ॥ ४३.९ *(१५२६) ॥ अविविक्तावतिस्तब्धौ स्तनवाढ्याविवादृतौ । विविक्तवानतावेव दरिद्राविव गर्हितौ ॥ ४३.१० *(१५२७) ॥ निर्दयस्य ।चोलो इति वार्धक्यव्रज्या॥ ४३ ततः श्मशानव्रज्या चञ्चत्पक्षाभिघातग्लपितहुतभुजः प्रौढधाम्नश्चितायाः क्रोडादाकृष्टमूर्तेरहमहमिकया चण्डचञ्चुग्रहेण । सद्यस्तप्तं शवस्य ज्वलदिव पिशितं भूरि जग्ध्वार्धदग्धं पश्यान्तःप्लुष्यमाणः प्रविशति सलिलं सत्वरं गृध्रसंघः ॥ ४४.१ *(१५२८) ॥ पाणिनेः उद्बद्धेभ्यः सुदूरं घनरजनितमःपूरितेषु द्रुमेषु प्रोद्ग्रीवं पश्य पादद्वितयधृतभुवः श्रेणयः फेरवाणाम् । उल्कालोकैः स्फुरद्भिर्निजवदनगुहोत्सर्पिभिर्वीक्षितेभ्यश्च्योतत्सान्द्रं वसाम्भः क्वथितशववपुर्मण्डलेभ्यः पिबन्ति ॥ ४४.२ *(१५२९) ॥ पाणिनेः उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसो मांसान्यङ्गस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्यग्रपूतीनि जग्ध्वा । आत्तस्नाय्वन्त्रनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थस्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ ४४.३ *(१५३०) ॥ कर्णाभ्यर्णविदीर्णसृक्कविकटव्यादानदीप्ताग्निभिर्दंष्ट्राकोटिविसंकटैरित इतो धावद्भिराकीर्त्यते । विद्युत्पुञ्जनिकाशकेशनयनभ्रूश्मश्रुजालैर्नभो लक्ष्यालक्ष्यविशुष्कदीर्घवपुषामुल्कामुखानां मुखैः ॥ ४४.४ *(१५३१) ॥ अन्त्रैः कल्पितमङ्गलप्रतिसराः स्त्रीहस्तरक्तोत्पल व्यक्तोत्तंसभृतः पिनह्य सहसा हृत्पुण्डरीकस्रजः । एताः शोणितपङ्ककुङ्कुमकुषः सम्भूय कान्तैः पिबन्त्यस्थिस्नेहसुराः कपालचषकैः प्रीताः पिशाचाङ्गनाः ॥ ४४.५ *(१५३२) ॥ एतत्पूतनचक्रमक्रमकृतश्वासार्धमुक्तैर्वृकानुत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः । खर्जूरद्रुमदध्नजङ्घमसितत्वङ्नद्धविष्वक्तत स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥ ४४.६ *(१५३३) ॥ गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारसंवल्लित क्रन्दत्फेरवचण्डहात्कृतिभृतिप्राग्भारभीमैस्तटैः । अन्तःशीर्णकरङ्ककर्करतरत्संरोधिकूलंकष स्रोतोनिर्गमघोरघर्घररवा पारेश्मशानं सरित् ॥ ४४.७ *(१५३४) ॥ भवभूतेरमी अत्रास्थः पिशितं शवस्य कठिनैरुत्कृत्य कृत्स्नं नखैर्नग्नस्नायुकरालघोरकुहरैर्मस्तिष्कदिग्धाङ्गुलिः । संदश्यौष्ठपिटेन भुग्नवदनः प्रेतश्चिताग्निद्रुतं सूत्कारैर्नलकास्थिकोटरगतं मज्जानमाकर्षति ॥ ४४.८ *(१५३५) ॥ जयादित्यस्य चञ्चच्चञ्चूद्वृतार्धच्युतपिशितलवग्राससंवृद्धगर्धैर्गृध्रैरारब्धपक्षद्वितयविधुतिभिर्बद्धसान्द्रान्धकारे । वक्त्रोद्वान्ताः पतन्त्यश्छिमितिशिखिशिखाश्रेणयोऽस्मिञ्शिवानामस्रस्रोतस्यजस्रस्रुतबहलवसा वासविस्रे स्वनन्ति ॥ ४४.९ *(१५३६) ॥ श्रीहर्षदेवस्य विदूरादभ्यस्तैर्वियति बहुशो मण्डलशतैरुदञ्चत्पुच्छाग्रस्तिमितविततैः पक्षतिपुटैः । पतन्त्येते गृध्राः शवपिशितलोलाननगुहा गलल्लालाक्लेदस्नपितनिजचञ्चूभयपुटाः ॥ ४४.१० *(१५३७) ॥ पिबत्येकोऽन्यस्माद्घनरुधिरमाछिद्य चषकं ललज्जिह्वो वक्त्राद्गलितमपरो लेढु पिबतः । ततः स्त्यानाः कश्चिद्भुवि निपतिताः शोणितकणाः क्षणादुच्चग्रीवो रसयति लसद्दीर्घरसनः ॥ ४४.११ *(१५३८) ॥ चिताग्नेराकृष्टं नलकशिखरप्रोतमसकृत्स्फुरद्भिर्निर्वाप्य प्रबलपवनैः स्फूत्कृतशतैः । शिरो नारं प्रेतः कबलयति तृष्णावशवलत्करालास्यः प्लुष्यद्वदनकुहरस्तूद्गिरति च ॥ ४४.१२ *(१५३९) ॥ अमी श्रीक्षेमीश्वरस्य अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् । सर्वैः क्रामद्भिरुल्काननकवलरसव्यात्तवक्त्रप्रभाभिर्व्यक्तैस्तैः संवलद्भिः क्षणमपरमिव व्योम्नि वृत्तं श्मशानम् ॥ ४४.१३ *(१५४०) ॥ वल्लणस्य नेत्राकुञ्चनसारणक्रमकृतप्रव्यक्तनक्तंदिनो दिक्चक्रान्तविसर्पिसल्लरिसटाभारावरुद्धाम्बरः । हस्तन्यस्तकपालकन्दरदरीमुक्ताभ्रधाराः पिबन्नुन्मुक्तध्वनिभिन्नकर्णकुहरः क्रव्यादयं नृत्यति ॥ ४४.१४ *(१५४१) ॥ ।चोलो इति श्मशानव्रज्या॥ ४४ ततो वीरव्रज्या॥ ४५ श्रुत्वा दाशरथी सुवेलकटके सानन्दमर्धे धनुष्टङ्कारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् । अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत्पुनर्वैदेहीकुचपत्रवल्लिवलनावैदग्ध्यमर्धे कराः ॥ ४५.१ *(१५४२) ॥ संतुष्टे तिसृणां पुरामपि रिपौ कण्डूलदोर्मण्डल क्रीडाकृत्तपुनःप्ररूढशिरसो वीरस्य लिप्सोर्वरम् । याच्ञादैन्यपराञ्चि यस्य कलहायन्ते मिथस्त्वं वृणु त्वं वृण्वित्यभितो मुखानि स दशग्रीवः कथं कथ्यते ॥ ४५.२ *(१५४३) ॥ एको भवान्मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि । तल्लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणमस्तु युद्धम् ॥ ४५.३ *(१५४४) ॥ रे वृद्धगृध्र किमकाण्डमिह प्रवीर दावानले शलभतां लभसे प्रमत्त । लक्पावसानपवनोल्लसितस्य सिन्धोरम्भो रुणद्धि किमु सैकतसेतुबन्धः ॥ ४५.४ *(१५४५) ॥ एतौ संघश्रियः॥ आस्कन्धावधि कण्ठकाण्डविपिने द्राक्चन्द्रहासासिना छेत्तुं प्रक्रमिते मयैव तरसा त्रुट्यछिरासंततौ । अस्मेरं गलिताश्रुगद्गदपदं भिन्नभ्रुवा यद्यभूद्वक्त्रेष्वेकमपि स्वयं स भगवांस्तन्मे प्रमाणं शिवः ॥ ४५.५ *(१५४६) ॥ देवो यद्यपि ते गुरुः स भगवानर्धेन्दुचूडामणिः क्षोणीमण्डलमेकविंशतिमिदं वाराञ्जितं यद्यपि । द्रष्टव्योऽस्यमुमेव भार्गवबटः कण्ठे कुठारं वहन् पौलस्त्यस्य पुरः प्रणामरचितप्रत्यग्रसेवाञ्जलिः ॥ ४५.६ *(१५४७) ॥ रुद्रादेस्तुलनं स्वकण्ठविपिनच्छेदो हरेर्वासनं कारावेश्मनि पुष्पकस्य च जयो यस्येदृशः केलयः । सोऽहं दुर्जयबाहुदण्डसचिवो लङ्केश्वरस्तस्य मे का श्लाघा घुणजर्जरेण धनुषा कृष्टेन भग्नेन वा ॥ ४५.७ *(१५४८) ॥ वीरप्रसूर्जयति भार्गवरेणुकैव यत्त्वां त्रिलोकतिलकं सुतमभ्यसूत । शक्रेभकुम्भतटखण्डनचण्डधामा येनैष मे न गणितो युधि चन्द्रहासः ॥ ४५.८ *(१५४९) ॥ रामे रुद्रशरासनं तुलयति स्मित्वा स्थितं पार्थिवैः सिञ्जासञ्जनतत्परेऽवहसितं दत्त्वा मिथस्तालिकाः । आरोप्य प्रचलाङ्गुलीकिशलये म्लानं गुणास्फालने स्फाराकर्षणभग्नपर्वणि पुनः सिंहासने मूर्छितम् ॥ ४५.९ *(१५५०) ॥ पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः । दिक्कुञ्जराः कुरुत तत्त्रितये दिधीर्षां रामः करोतु हरकार्मुकमाततज्यम् ॥ ४५.१० *(१५५१) ॥ राजशेखरस्यामी लाङ्गूलेन गभस्तिमान् वलयितः प्रोतः शशी मौलिना जीमूता विधुताः शटाभिरुडवो दंष्ट्राभिरासादिताः । उत्तीर्णोऽम्बुनिधिर्दृशैव विषदैस्तेनाट्टहासोर्मिभिर्लङ्केशस्य च लङ्घितो दिशि दिशि क्रूरः प्रतापानलः ॥ ४५.११ *(१५५२) ॥ अभिनन्दस्य यो यः कृत्तो दशमुखभुजस्तस्य तस्यैव वीर्यं लब्ध्वा दृप्यन्त्यधिकमधिकं बाहवः शिष्यमाणाः । यद्यच्छिन्नं दशमुखशिरस्तस्य तस्यैव कान्तौ संक्रामन्त्यामतिशयवती शेषवक्त्रेषु लक्ष्मीः ॥ ४५.१२ *(१५५३) ॥ मुरारेः भग्नं देव समस्तवानरभटैर्नष्टं च यूथाधिपैः किं धैर्येण पुरो विलोक्य दशग्रीवोऽयमारादभूत् । इत्थं जल्पति सम्भ्रमोल्बणमुखे सुग्रीवराजे मुहुस्तेनाकेकरमीक्षितं दश शनैर्बाणानृजूकुर्वता ॥ ४५.१३ *(१५५४) ॥ भ्रमणजवसमीरैः शेरते शालषण्डा मम नखकुलिशाग्रैर्ग्रावगर्भाः स्फुटन्ति । अजगरमपि चाहं मुष्टिनिष्पिष्टवक्त्रं निजभुजतरुमूलस्यालवालं करोमि ॥ ४५.१४ *(१५५५) ॥ कृष्टा येन शिरोरुहेषु रुदती पाञ्चालराजात्मजा येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः । यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवान् सोऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवाः ॥ ४५.१५ *(१५५६) ॥ कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् । मुहुः पश्यञ्श्रुत्वा रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ ४५.१६ *(१५५७) ॥ हरिरलसविलोचनः सगर्वं बलमवलोक्य पुनर्जगाम निद्राम् ।* अधिगतपतिविक्रमास्तभीतिस्तु दयितापि विलोकयांचकार ॥ ४५.१७ *(१५५८) ॥* मेठस्य भूयः काञ्चनकेनिपातनिकरप्रोत्क्षिप्तदूरोद्गतैर्यत्संख्येषु चकार शीकरकणैरेव द्विषां दुर्दिनम् । किं चाकाण्डकृतोद्यमस्त्रिपथगासंचारिनौकागणो गीर्वाणेन्द्रफणीन्द्रयोरपि ददौ शङ्कां विशङ्कोऽपि यः ॥ ४५.१८ *(१५५९) ॥ नरसिंहस्य मैनाकः किमयं रुणद्धि गगने मन्मार्गमव्याहतं शक्तिस्तस्य कुतः स वज्रपतनाद्भीतो महेन्द्रादपि । तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणं विज्ञातं स जटायुरेष जरसा क्लिष्टो वधं वाञ्छति ॥ ४५.१९ *(१५६०) ॥ पुत्रस्त्वं त्रिपुरद्रुहः पुनरहं शिष्यः किमेतावता तुल्यः सोऽपि कृतस्तवायमधिकः कोदण्डदीक्षाविधिः । तत्राधारनिबन्धनो यदि भवेदाधेयधर्मोदयस्तद्भोः स्कन्द गृहाण कार्मुकमिदं निर्णीयतामन्तरम् ॥ ४५.२० *(१५६१) ॥ द्राङ्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण ग्रन्थ्युद्भासिनि भङ्गमोघमघवन्मातङ्गदन्तोद्यमे । भर्तुर्नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीरिव यस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ ४५.२१ *(१५६२) ॥ चेः॥ ।चोलो इति वीरव्रज्या॥ ४५ ततः प्रशस्तिव्रज्या॥ ४६ यद्वर्ग्याभिर्जग्राहे पृथुशकुलकुलास्फालनत्रासहास व्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्जयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोमुक्तपर्यस्तलोलत्कल्लोलाबद्धमुग्धध्वनिचकितकणत्कुक्कुभं कामिनीभिः ॥ ४६.१ *(१५६३) ॥ मज्जत्यामज्जमज्जन्मणिमसृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छ्रात्पातालमूलाविलबहुलनिरालम्बजम्बालनिष्ठः पृष्ठाष्ठीलप्रतिष्ठामवनिमवनमत्कर्परः कूर्मराजः ॥ ४६.२ *(१५६४) ॥ यस्योद्योगे बलानां सकृदपि चलतामुज्जिहानई रजोभिर्जम्बालिन्यम्बरस्य स्रवदमरसरित्तोयपूर्णे मार्गे । निर्मज्जच्चक्रशल्याकुलतरणिकरोत्ताडिताश्वीयदत्त द्वित्रावस्कन्दमन्दः कथमपि चलति स्यन्दनो भानवीयः ॥ ४६.३ *(१५६५) ॥ भवभूतेरमी देवे दिशां विजयकौतुकसुप्रयाते निर्यन्त्रणप्रसरसैन्यभरेण यत्र । प्रत्यूप्यमानमणिकीलकगाढबन्ध प्राणः . . फणपतिर्वसुधां दधाति ॥ ४६.४ *(१५६६) ॥ मुरारेः गुञ्जत्कुञ्जकुटीरकुञ्जरघटाविस्तीर्णकर्णज्वराः प्राक्प्रत्यग्धरणीध्रकन्दरदरीपारीन्द्रनिद्राद्रुहः । लङ्काङ्कत्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये यस्य भ्रेमुरमन्ददुन्दुभिरवैराशारुधो घोषणाः ॥ ४६.५ *(१५६७) ॥ त्वं सर्वदा नृपतिचन्द्र जयश्रियोऽर्थी स्वप्नेऽपि न प्रणयिनी भवतोऽहमासम् । इत्थं श्रिया कुपितयेव रिपून् व्रजन्त्या संजघ्निरे समरकेलिसुखानि यस्य ॥ ४६.६ *(१५६८) ॥ ते पीयूषमयूखशेखरशिरःसंदानमन्दाकिनी कल्लोलप्रतिमल्लकीर्तिलहरीलावण्यलिप्ताम्बराः । सर्वक्षत्रभुजोष्मशातनकलादुःशीलदोःशालिनो वंशे तस्य बभूवुरद्भुतगुणा धाराधरित्रीभुजः ॥ ४६.७ *(१५६९) ॥ यन्निस्त्रिंशहतोद्गतैररिशिरश्चक्रैर्बभूव क्षणं लोके चान्द्रमसे विधुन्तुदघटावस्कन्दकोलाहलः । किं चामीभिरपि स्फुरन्मणितया चण्डांशुकोटिभ्रमं बिभ्राणैरुदपादि राहुभुवने भूयान् सुभिक्षोत्सवः ॥ ४६.८ *(१५७०) ॥ तेनेदं सुरमन्दिरं घटयता टङ्कावलीनिर्दलत्पाषाणप्रकरः कृतोऽयमखिलः क्षीणो गिरीणां गणः । अर्थिभ्यो वसु वर्षता पुनरसौ संरूढरत्नाङ्कुर श्रेणिस्मेरशिरःसहस्रशिखरः संवर्धितो रोहणः ॥ ४६.९ *(१५७१) ॥ सुराणां पातासौ स पुनरतिपुण्यैकहृदयो ग्रहस्तस्यास्थाने गुरुरुचितमार्गे स निरतः । करस्तस्यात्यर्थं वहति शतकोटिप्रणयितां स सर्वस्वं दाता तृणमिव सुरेशं विजयते ॥ ४६.१० *(१५७२) ॥ जीवाकृष्टिं स चक्रे मृधभुवि धनुषः शत्रुरासीद्गतासुर्लक्षाप्तिर्मार्गणानामभवदरिबले तद्यशस्तेन लब्धम् । मुक्ता तेन क्षमेति त्वरितमरिगणैरुत्तमाङ्गैः प्रतीष्ठा पञ्चत्वं द्वेषिसैन्ये स्थितमवनिपतिर्नाप संख्यान्तरं स ॥ ४६.११ *(१५७३) ॥ येषां कल्पमहीरुहां मरकतव्याजेन तैरर्थिभिर्व्यक्रीयन्ते शलाटवोऽपि मणयस्ते पद्मरागादयः । तेषु प्रौढफलोपमर्दविनमच्छाखामुखारोहिभिस्त्यागाद्वैतमहर्निशं सुकृतिनो यस्यामरैर्गीयते ॥ ४६.१२ *(१५७४) ॥ यो मौर्वीकिणकैतवेन सकलक्ष्मापाललक्ष्मीबलात्कारोपग्रहवाच्यतामकिनितौ बिभ्रद्भुजौ भूपतिः । लोकान् वाचयति स्म विक्रममयीमाख्यायिकामात्मनः क्वापि क्वाप्यनुगच्छदर्जुनकथासम्भारलम्भावतीम् ॥ ४६.१३ *(१५७५) ॥ मुरारेरेतौ क्रुध्यद्गन्धकरीन्द्रदन्तमुषलप्रेङ्खोलदीप्तानल ज्वालापातितकुम्भमौक्तिकफलव्युत्पन्नलाजाञ्जलौ । हस्तेनासिमयूखदर्भलतिकाबद्धेन युद्धोत्सवैर्राज्ञा येन सलीलमुत्कलपतेर्लक्ष्मीः पुनर्भूः कृता ॥ ४६.१४ *(१५७६) ॥ वसुकल्पस्य ।चोलो इति प्रशस्तिव्रज्या॥ ४६ ततः पर्वतव्रज्या॥ ४७ गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतोऽयं गिरिः । एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितैरुद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः ॥ ४७.१ *(१५७७) ॥ एते चन्द्रशिलासमुच्चयमयाश्चन्द्रातपप्रस्फुरत्सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः । येषामुन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामामेव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः ॥ ४७.२ *(१५७८) ॥ आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर व्यूहोल्लेखपदावलीवलिमयई रत्नैर्मुदं मन्दरः । आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलोऽधुना जानीमः परतः पयोधिमथनादुच्चैस्तरोऽयं गिरिः ॥ ४७.३ *(१५७९) ॥ तत्तादृक्फणिराजरज्जुकषणं संरूढपक्षच्छिदा घातारुन्तुदमप्यहो कथमयं मन्थाचलः सोढवान् । एतेनैव दुरात्मना जलनिधेरुत्थाप्य पापामिमां लक्ष्मीमीश्वरदुर्गतव्यवहृतिव्यस्तं जगन्निर्मितम् ॥ ४७.४ *(१५८०) ॥ सोऽयं कैलासशैलः स्फटिकमणिभुवामंशुजालैर्ज्वलद्भिश्छाया पीतापि यत्र प्रतिकृतिभिरुपस्थाप्यते पादपानाम् । यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्रामुद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ॥ ४७.५ *(१५८१) ॥ गिरिः कैलासोऽयं दशवदनकेयूरविलसन्मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः । अमुष्मिन्नारुह्य स्फटिकमयसर्वाङ्गसुभगे निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ॥ ४७.६ *(१५८२) ॥ दशमुखभुजदण्डमण्डलीनां दृढपरिपीडनपीतमेखलोऽयम् । जलगृहकवितर्दिकासुखानि स्फटिकगिरिर्गिरिशस्य निर्मिमीते ॥ ४७.७ *(१५८३) ॥ कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर ज्योत्स्नाकन्दलिताभिरिन्दुदृषदामद्भिर्नदीमातृकाः । गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ॥ ४७.८ *(१५८४) ॥ नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल त्रस्यत्कौशिकभुक्तकन्दरतमाः सोऽयं गिरिः स्मर्यते । यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते चिन्वत्यो वनदेवतास्तरुलतामुच्चैर्व्यधुः कौतुकात् ॥ ४७.९ *(१५८५) ॥ ।वर्{पत्राणि त्लेम् ।ेमेन् ।िन्गल्ल्स्, पत्राणि ।ेद्क्ग्} एतेऽक्ष्णोर्जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणोऽपि लक्ष्मण दृढं संतापयन्त्येव माम् । इत्थं वृद्धपरम्परापरिणतैर्यस्मिन् वचोभिर्मुनीनद्याप्युन्मनयन्ति काननशुकाः सोऽयं गिरिर्माल्यवान् ॥ ४७.१० *(१५८६) ॥ करिकवलितमृष्टैः शाखिशाखाग्रपत्रैररुणसरणयोऽमी भीषयन्तेऽग्रकुञ्जैः ।* चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ॥ ४७.११ *(१५८७) ॥* कमलायुधस्य इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरददशनाभुग्नतरवः । लताकुञ्जे यासामुपनदि रतक्लान्तशबरी कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ॥ ४७.१२ *(१५८८) ॥ दक्षस्य स्निग्धश्यामाः क्वचिदपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झात्कृतैर्निर्झराणाम् । एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः ॥ ४७.१३ *(१५८९) ॥ भवभूतेः निष्कूजस्तिमिताः क्वचित्क्वचिदपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः । सीमानः प्रदरोदरेषु विवरेष्वल्पाम्भसो यास्वयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ॥ ४७.१४ *(१५९०) ॥ दधति कुहरभाजामत्र भल्लूकयूनामनुरसितगुरूणि स्त्यानमम्बूकृतानि । शिशिरकटुकषायः स्त्यायते शल्लकीनामिभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ॥ ४७.१५ *(१५९१) ॥ भवभूतेरेतौ इह समदशकुन्ताक्रान्तवानीरमुक्त प्रसवसुरभिशीतस्वच्छतोया भवन्ति । फलभरपरिणामश्यामजम्बूनिकुञ्ज स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥ ४७.१६ *(१५९२) ॥ एताः स्थानपरिग्रहेण शिवयोरत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् । व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ॥ ४७.१७ *(१५९३) ॥ ।चोलो इति पर्वतव्रज्या॥ ४७ ततः शान्तिव्रज्या॥ ४८ यदेतत्स्वच्छन्दं विरहणमकार्पण्यमशनं सहार्यैः संवासः श्रुतमुपशमैकश्रमफलम् । मनो मन्दस्पन्दं विहरति चिरायाभिविमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ४८.१ *(१५९४) ॥ हरिणचरणक्षुण्णोपान्ताः सशाद्वलनिर्झराः कुसुमशबलैर्विष्वग्वातैस्तरङ्गितपादपाः । मुदितविहगश्रेणीचित्रध्वनिप्रतिनादिता मनसि न मुदं कस्यादध्युः शिवा वनभूमयः ॥ ४८.२ *(१५९५) ॥ गुणाकरभद्रस्य पूरयित्वार्थिनामाशां प्रियं कृत्वा द्विषामपि । पारं गत्वा श्रुतौघस्य धन्या वनमुपासते ॥ ४८.३ *(१५९६) ॥ ते तीक्ष्णदुर्जननिकारशरैर्न भिन्ना धीरास्त एव शमसौख्यभुजस्त एव । सीमन्तिनीविषलतागहनं व्युदस्य येऽवस्थिताः शमफलेषु तपोवनेषु ॥ ४८.४ *(१५९७) ॥ वासो वल्कलमास्तरः किसलयान्योकस्तरूणां तलं मूलानि क्षतये क्षुधां गिरिनदीतोयं तृषां शान्तये । क्रीडा मुग्धमृगैर्वयांसि सुहृदो नक्तं प्रदीपः शशी स्वाधीनेऽपि वने तथापि कृपणा याचन्त इत्यद्भुतम् ॥ ४८.५ *(१५९८) ॥ गतः कालो यत्र प्रियसखि मयि प्रेमकुटिलः कटाक्षः कालिन्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जठरकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं व्यसनिनि मुधैव क्षपयसि ॥ ४८.६ *(१५९९) ॥ मातर्जरे मरणमन्तिकमानयन्त्याप्यन्तस्त्वया वयममी परितोषिताः स्मः ।* नानासुखव्यसनभङ्गुरपर्वपूर्वं धिग्यौवनं यदपनीय तवावतारः ॥ ४८.७ *(१६००) ॥* एकं वा कुपितप्रियाप्रणयिनीं कृत्वा मनोनिर्वृतिं तिष्ठामो निजचारुपीवरकुचक्रीडारसास्वादने । अन्यद्वा सुरसिन्धुसैकततटीदर्भाष्टकस्रस्तर स्थाने ब्रह्मपदं समाहितधियो ध्यायन्त एवास्महे ॥ ४८.८ *(१६०१) ॥ ज्ञानानन्तस्य यद्वक्त्रं मुहुरीक्षसे न धनिनां ब्रूषे न चाटुं मृषा नैषां गर्वगिरः शृणोषि न पुनः प्रत्याशया धावसि । काले बालतृणानि खादसि सुखं निद्रासि निद्रागमे तन्मे ब्रूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ॥ ४८.९ *(१६०२) ॥ क्वचिद्वीणागोष्ठी क्वचिदमृतकीर्णाः कविगिरः क्वचिद्व्याधिक्लेशः क्वचिदपि वियोगश्च सुहृदाम् । इति ध्यात्वा हृष्यन् क्षणमथ विघूर्णन् क्षणमहो न जाने संसारः किममृतमयः किं विषमयः ॥ ४८.१० *(१६०३) ॥ आत्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः । न प्राप्तानि पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययो वाञ्छामात्रपरिग्रहाण्यपि वयं त्यक्तुं न तानि क्षमाः ॥ ४८.११ *(१६०४) ॥ अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् । यद्येतत्स्यात्कुरु भवरसे लम्पटत्वं तदानीं नो चेच्चेतः प्रविश परमब्रह्मणि प्रार्थनैषा ॥ ४८.१२ *(१६०५) ॥ उत्पलराजस्य आस्तां सकण्टकमिदं वसुधाधिपत्यं त्रैलोक्यराज्यमपि देव तृष्णाय मन्ये । निःशङ्कसुप्तहरिणीकुलसंकुलासु चेतः परं वलति शैलवनस्थलीषु ॥ ४८.१३ *(१६०६) ॥ ददति तावदमी विषयाः सुखं स्फुरति यावदियं हृदि मूढता । मनसि तत्त्वविदां तु विवेचके क्व विषयाः क्व सुखं क्व परिग्रहः ॥ ४८.१४ *(१६०७) ॥ सत्यं मनोहरा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्ग भङ्गिलोकं हि जीवितम् ॥ ४८.१५ *(१६०८) ॥ धिग्धिक्तान् क्रिमिनिर्विशेषवपुषः स्फूर्जन्महासिद्धयो निष्कन्दीकृतशान्ति येऽपि च तपःकारागृहेष्वासते । तं विद्वांसमिह स्तुमः करपुटीभिक्षाल्पशाकेऽपि वा मुग्धावक्त्रमृणालिनीमधुनि वा यस्याविशेषो रसः ॥ ४८.१६ *(१६०९) ॥ बीभत्सा विषया जुगुप्सिततमः कायो वयो गत्वरं प्रायो बन्धुभिरध्वनीव पथिकैः सङ्गो वियोगावहः । हातव्यायमसंस्तवाय विसरः संसार इत्यादिकं सर्वस्यैव हि वाचि चेतसि पुनः पुण्यात्मनः कस्यचित् ॥ ४८.१७ *(१६१०) ॥ भर्तृहरेः यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि । इदानीं त्वस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ४८.१८ *(१६११) ॥ मातर्लक्ष्मि भजस्व कंचिदपरं मत्काङ्क्षिणी मा स्म भूर्भोगेभ्यः स्पृहयालवस्तव वशाः का निःस्पृहाणामसि । सद्यःस्यूतपलाशपत्रपुटिकापात्रीपवित्रीकृतैर्भिक्षासक्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥ ४८.१९ *(१६१२) ॥ धर्मस्योत्सववैजयन्ति मुकुटस्रग्वेणि गौरीपतेस्त्वां रत्नाकरपत्नि जह्नुतनये भागीरथि प्रार्थये । त्वत्तोयान्तशिलानिषण्णवपुषस्त्वद्वीचिभिः प्रेङ्खतस्त्वन्नाम स्मरतस्त्वदर्पितदृशः प्राणाः प्रयसयन्ति मे ॥ ४८.२० *(१६१३) ॥ वाक्कूटस्य तडिन्मालालोलं प्रतिविरतिदत्तान्धतमसं भवत्सौख्यं हित्वा शमसुखमुपादेयमनघम् । इति व्यक्तोद्गारं चटुलवचसः शून्यमनसो वयं वीतव्रीडाः शुक इव पठामः परममी ॥ ४८.२१ *(१६१४) ॥ विषयसरितस्तीर्णाः कामं रुजोऽप्यवधीरिता विषयविरहग्लानिः शान्ता गता मलिनाथ धीः । इति चिरसुखप्राप्तः किंचिन्निमीलितलोचनो व्रजति नितरां तुष्टिं पुष्टः श्मशानगतः शवः ॥ ४८.२२ *(१६१५) ॥ कामं शीर्णपलाशसंहतिकृतां कन्थां वसानो वने कुर्यामम्बुभिरप्ययाचितसुखैः प्राणावबन्धस्थितिम् । साङ्गग्लानि सवेपितं सचकितं सान्तर्निदाघज्वरं वक्तुं न त्वहमुत्सहेय कृपणं देहीत्यवद्यं वचः ॥ ४८.२३ *(१६१६) ॥ अवश्यं यातरश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयमिमान् । व्रजन्तः स्वातन्त्र्यात्परमपरितापाय मनसः स्वयं त्यक्त्वा ह्येते शमसुखमनन्तं विदधति ॥ ४८.२४ *(१६१७) ॥ भाग्यं नः क्व नु तादृगल्पतपसां येनाटवीमण्डनाः स्यामः क्षोणिरुहो दहत्यविरतं यानेव दावानलः । येषां धूमसमूहबद्धवपुषः सिन्धोरमी बन्धवो निर्व्याजं परिपालयन्ति जगतीरम्भोभिरम्भोमुचः ॥ ४८.२५ *(१६१८) ॥ एतत्तद्वक्त्रमत्र क्व तदधरमधु क्वायातास्ते कटाक्षाः क्वालापाः कोमलास्ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः । इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरं रागान्धानामिवोच्चैरुपहसितमहो मोहजालं कपालम् ॥ ४८.२६ *(१६१९) ॥ इत्थं बाला मां प्रत्यनवरतमिन्दीवरदल प्रभाचौरं चक्षुः क्षिपति किमभिप्रेतमनया । गतो मोहोऽस्माकं स्मरसमरबाणव्यतिकर ज्वरज्वाला शान्ता तदपि न वराकी विरमति ॥ ४८.२७ *(१६२०) ॥ शिशुत्वं तारुण्यं तदनु च दधानाः परिणतिं गताः पांशुक्रीडां विषयपरिपाटीमुपशमम् । लसन्तोऽङ्के मातुः कुवलयदृशां पुण्यसरितां पिबन्ति स्वच्छन्दं स्तनमधरमम्भः सुकृतिनः ॥ ४८.२८ *(१६२१) ॥ वहति निकटे कालस्रोतः समस्तभयावहं दिवसरजनीकुलच्छेदैः पतद्भिरनारतम् । इह हि पततां नास्त्यालम्बो न वापि निवर्तनं तदपि महतां कोऽयं मोहो यदेवमनाकुलाः ॥ ४८.२९ *(१६२२) ॥ भार्या मे पुत्रो मे द्रव्यं सकलं च बन्धुवर्गो मे ।* इति मे मे कुर्वन्तं पशुमिव बद्ध्वा नयति कालः ॥ ४८.३० *(१६२३) ॥* दिशो वासः पात्रं करकुहरमेणाः प्रणयिनः समाधानं निद्रा शयनमवनी मूलमशनम् । कदैतत्सम्पूर्णं मम हृदयवृत्तेरभिमतं भविष्यत्यत्युग्रं परमपरितोषोपचितये ॥ ४८.३१ *(१६२४) ॥ शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः । आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ४८.३२ *(१६२५) ॥ कुरङ्गाः कल्याणं प्रतिविटपमारोग्यमटवि स्रवन्ति क्षेमं ते पुलिन कुशलं भद्रमुपलाः । निशान्तादस्वन्तात्कथमपि विनिष्क्रान्तमधुना मनोऽस्माकं दीर्घामभिलषति युष्मत्परिचितिम् ॥ ४८.३३ *(१६२६) ॥ मन्निन्दया यदि जनः परितोषमेति नन्वप्रयत्नजनितोऽयमनुग्रहो मे । श्रेयार्थिनो हि पुरुषाः परतुष्टिहेतोर्दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ४८.३४ *(१६२७) ॥ क्रिमुकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं सशङ्कितमीक्षते गणयति न हि क्षुद्रो लोकः परिग्रहफल्गुताम् ॥ ४८.३५ *(१६२८) ॥ विवेकः किं सोऽपि स्वरसवलिता यत्र न कृपा स किं मार्गो यस्मिन्न भवति परानुग्रहरसः । स किं धर्मो यत्र स्फुरति न परद्रोहविरतिः श्रुतं किं तद्वा स्यादुपशमपदं यन्न नयति ॥ ४८.३६ *(१६२९) ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः सम्प्राप्स्यन्ते जरठहरिणाः शृङ्गकण्डूविनोदम् ॥ ४८.३७ *(१६३०) ॥ प्रेम्णा पुरा परिगृहीतमिदं कुटुम्बं चेल्लालितं तदनु पालितमद्य यावत् । सम्प्रत्यपि स्तिमितवस्त्रमिवाङ्गलग्नमेतज्जिहासुरपि हातुमनीश्वरोऽस्मि ॥ ४८.३८ *(१६३१) ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः सोढा दुःसहशीतवाततपनक्लेशा न तप्तं तपः । ध्यातं वित्तमहर्निशं न च पुनस्तत्त्वान्तरं शाश्वतं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चितम् ॥ ४८.३९ *(१६३२) ॥ भिक्षाशनं भवनमायतनैकदेशः शय्या भुवः परिजनो निजदेहभारः । वासश्च कीर्णपटखण्डनिबद्धकन्था हा हा तथापि विषयान्न जहाति चेतः ॥ ४८.४० *(१६३३) ॥ रेतःशोणितयोरियं परिणतिर्यद्वर्ष्म तच्चाभवन्मृत्योरामिषमास्पदं गुरुशुचां रोगस्य विश्रामभूः । जानन्नप्यवशी विवेकविरहान्मज्जन्नविद्याम्बुधौ शृङ्गारीयति पुत्रकाम्यति बत क्षेत्रीयति स्त्रीयति ॥ ४८.४१ *(१६३४) ॥ यदा पूर्वं नासीदुपरि च यदा नैव भविता तदा मध्यावस्थातनुपरिचयो भूतनिचयः । अतः संयोगेऽस्मिन् परवति वियोगे च सहजे किमाधारः प्रेमा किमधिकरणाः सन्तु च शुचः ॥ ४८.४२ *(१६३५) ॥ भर्तृहरेः गोमायवः शकुनयश्च शुनां गणोऽयं लुम्पन्ति कीटकृमयः परितस्तथैव । स्वां सम्पदं सकलसत्त्वकृतोपकारान्नो दृष्टवान् यदसि तच्छव वञ्चितोऽसि ॥ ४८.४३ *(१६३६) ॥ केशटस्य धूर्तैरिन्द्रियनामभिः प्रणयितामापादयद्भिः स्वयं सम्भोक्तुं विषयानयं किल पुमान् सौख्याशया वञ्चितः । तैः शेषे कृतकृत्यतामुपगतैरौदास्यमालम्बितं सम्प्रत्येष विधेर्नियोगवशगः कर्मान्तरैर्बध्यते ॥ ४८.४४ *(१६३७) ॥ दशरथस्य ।चोलो इति शान्तिव्रज्या ततः संकीर्णव्रज्या॥ ४९ तुषारशैलाञ्जनशैलकल्पयोरभेदभागीश्वरविश्वरूपयोः । शरत्पयोदस्थसितार्धतारका पथप्रतिस्पार्धि वपुर्धिनोतु वः ॥ ४९.१ *(१६३८) ॥ यद्बद्धोर्ध्वजटं यदस्थिमुकुटं यच्चन्द्रमन्दारयोर्धत्ते धाम च दाम च स्मितलसत्कुन्देन्द्रनीलश्रियोः । यत्खट्वाङ्गरथाङ्गसङ्गविकटं श्रीकण्ठवैकुण्ठयोर्वन्दे नन्दिमहोक्षतार्क्ष्यपरिषन्नानाङ्कमेकं वपुः ॥ ४९.२ *(१६३९) ॥ मा गर्वमुद्वह कपोलतले चकास्ति कान्तस्वहस्तलिखिता मम मञ्जरीति । अन्यापि किं न सखि भाजनमीदृशानां वैरी न चेद्भवति वेपथुरन्तरायः ॥ ४९.३ *(१६४०) ॥ चेतः कातरतां विमुञ्च झटिति स्वास्थ्यं समालम्ब्यतां प्राप्तासौ स्मरमार्गणव्रणपरित्राणौषधिः प्रेयसी । यस्याः श्वाससमीरसौरभपतद्भृङ्गावलीवारण क्रीडापाणिविधूतिकङ्कणझणत्कारो मुहुर्मूर्छति ॥ ४९.४ *(१६४१) ॥ कथाभिर्देशानां कथमपि च कालेन बहुना समायाते कान्ते सखि रजनिरर्धं गतवती । ततो यावल्लीलाप्रणयकुपितास्मि प्रकुपिता सपत्नीव प्राची दिगियमभवत्तावदरुणा ॥ ४९.५ *(१६४२) ॥ विततकरेऽप्यनुरागिणि मित्रे कोषं सदैव मुद्रयतः ।* उचितानभिज्ञकैरव कैरवहसितं न ते चरितम् ॥ ४९.६ *(१६४३) ॥* पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव ।* विलसत्करेणुगहनं सम्प्रति सममावयोर्भवनम् ॥ ४९.७ *(१६४४) ॥* गुरुरपि गलति विवेकः स्खलति च चित्तं विनश्यति प्रज्ञा ।* पतति पुरुषस्य धैर्यं विषयविषाघूर्णिते मनसि ॥ ४९.८ *(१६४५) ॥* राजनि विद्वन्मध्ये वरसुरतसमागमे वरस्त्रीणाम् ।* साध्वसदूषितहृदयो वाक्पटुरपि कातरीभवति ॥ ४९.९ *(१६४६) ॥* किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि किं कुर्युरनुजीविनः ॥ ४९.१० *(१६४७) ॥ अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । हृदयसंगतमेव सुसंगतं न तनुसंगतमार्य सुसंगतम् ॥ ४९.११ *(१६४८) ॥ द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलमङ्गुलीर्दलयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरश्चिरान्नयनयोः सीमानमेति प्रियः ॥ ४९.१२ *(१६४९) ॥ तेषां त्वं निधिरागसामसहना मानोन्नता साप्यतो गन्तव्यं भवया न तद्गृहमिति त्वं वार्यसे यासि चेत् । गाढं मेखलया बलान्नियमितः कर्णोत्पलैस्ताडितः क्षिप्तः पादतले तदेकशरणो मन्ये चिरं स्थास्यसि ॥ ४९.१३ *(१६५०) ॥ जाने सासहना स चाहमपकृन्मय्यङ्गणस्थे पुनस्तस्याः सम्भविता स साध्वसभरः कोऽपि प्रकोपापहः । यत्रोद्यत्पुलकैः प्रकम्पविकलैरङ्गैः क्व कर्णोत्पलं कुत्रात्मा क्व च मेखलेति गलति प्रायः स मानग्रहः ॥ ४९.१४ *(१६५१) ॥ तुरुष्कराजभोजदेवयोः जातानन्तरमेव यस्य मधुरां मूर्तिश्रियं पश्यतः सद्यःपुत्रमहोत्सवागतवधूवर्गस्य शृङ्गारिणः । उन्नीयान्ययुवास्यकालिमकरीं तारुण्यरम्यामिमां धन्यं जन्म सहामुनैकसमयं न प्राप्य तप्तं हृदा ॥ ४९.१५ *(१६५२) ॥ वल्लणस्य सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् ।* नागरकः किमु मिलितो न हि न हि सखि हैमनः पवनः ॥ ४९.१६ *(१६५३) ॥* सव्रीडार्धनिरीक्षणं यदुभयोर्यद्दूतिकाप्रेषणं वाद्य श्वो भविता समागम इति प्रीत्या प्रमोदश्च यः । प्राप्ते चैव समागमे सरभसं यच्चुम्बनालिङ्गनान्येतत्कामफलं तदेव सुरतं शेषः पशूनामिव ॥ ४९.१७ *(१६५४) ॥ पश्योदञ्चदवाञ्चदञ्चितवपुः पश्चार्धपूर्वार्धभाक्स्तब्धोत्तानितपृष्ठनिष्ठितमनाग्भुग्नाग्रलाङ्गूलभृत् । दंष्ट्राकोटिविसंकटास्यकुहरः कुर्वन् सटामुत्कटामुत्कर्णः कुरुते क्रमं करिपतौ क्रूराकृतिः केशरी ॥ ४९.१८ *(१६५५) ॥ एते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः । लीलोन्मूलितनर्तितप्रतिहतव्यावर्तितप्रेरित त्यक्तस्वीकृतनिह्नुतप्रचलितप्रोद्धूततीरद्रुमाः ॥ ४९.१९ *(१६५६) ॥ वातैः शीकरबन्धुभिः श्रुतिसुखैर्हंसावलीनिस्वनैः प्रोत्फुल्लैः कमलैः पयोभिरमलैर्नीत्वा जगन्निर्वृतिम् । पश्चात्क्षीणधनां बहिर्निजदशां दृष्ट्वा मृणालच्छलादर्थिभ्यः प्रददौ नवेन्दुविशदान्यस्थीनि पद्माकरः ॥ ४९.२० *(१६५७) ॥ विद्यते स न हि कश्चिदुपायः सर्वलोकपरितोषकरो यः । सर्वथा स्वहितमाचरणीयं किं करिष्यति जनो बहुजल्पः ॥ ४९.२१ *(१६५८) ॥ चापस्यैव परं कोटि विभवत्वं विराजते । यस्माल्लभन्ते लक्षाणि निर्गुणा अपि मार्गणाः ॥ ४९.२२ *(१६५९) ॥ कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः ।* अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ ४९.२३ *(१६६०) ॥* ग्रामेऽस्मिन् पथिकाय नैव वसतिः पान्थाधुना दीयते रात्रावत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा । तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रियां यत्कृतं तेनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ ४९.२४ *(१६६१) ॥ आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।* सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ४९.२५ *(१६६२) ॥* उन्मुद्रीकृतविश्वविस्मयभरैस्तत्तन्महार्घैर्गुणैर्दुर्गाधे हृदयाम्बुधौ तव भवेन्नः सूक्तिगङ्गा यदि । विश्वश्वित्रमतङ्गिनीघनरसस्यन्दिन्यमन्दध्वनिर्गङ्गासागरसंगमः पुनरिवापूर्वः समुन्मीलति ॥ ४९.२६ *(१६६३) ॥ एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । तत्फलीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रांशुकैर्मा पिधाः ॥ ४९.२७ *(१६६४) ॥ ह्रिया सर्वस्यासौ हरति विदितास्मीति वदनं द्वयोर्दृष्ट्वालापं कलयति कथामात्मविषयाम् । सखीषु स्मेरासु प्रकटयति वैलक्ष्यमधिकं प्रिया प्रायेणास्ते हृदयनिहितातङ्कविधुरा ॥ ४९.२८ *(१६६५) ॥ गुणवदगुणवद्वा कुर्वता कर्मजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामा विपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ४९.२९ *(१६६६) ॥ वर्षाः कर्दमहेतवः प्रतिदिनं तापस्य मूलं शरद्धेमन्ते जडता तथैव शिशिरेऽप्यायास्यते वायुना । चित्तोन्मादकरो वसन्तसमयो ग्रीष्मोऽपि चण्डातपः कालः काल इति प्रहृष्यति जनः कालस्य का रम्यता ॥ ४९.३० *(१६६७) ॥ दृष्टिरोधकरं यूनां यौवनप्रभवं तमः । अरत्नालोकसंहार्यमवार्यं सूर्यरश्मिभिः ॥ ४९.३१ *(१६६८) ॥ आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् । कालः कलिर्जगदिदं न कृतज्ञमज्ञे स्थित्वा हनिष्यति तवैव मुखस्य शोभाम् ॥ ४९.३२ *(१६६९) ॥ अप्रियाण्यपि कुर्वाणो यः प्रियः प्रिय एव स । दग्धमन्दिरसारेऽपि कस्य वह्नावनादरः ॥ ४९.३३ *(१६७०) ॥ अयं काणः शुक्रो विषमचरणः सूर्यतनयः क्षताङ्गोऽयं राहुर्विकलमहिमा शीतकिरणः । अजानानस्तेषामपि नियतकर्म स्वकफलं ग्रहग्रामग्रस्ता वयमिति जनोऽयं प्रलपति ॥ ४९.३४ *(१६७१) ॥ कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि पलायते भवति योजयितुर्वचनीयता ॥ ४९.३५ *(१६७२) ॥ नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किमपरैः किं च विधिना नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ ४९.३६ *(१६७३) ॥ यदा विगृह्णाति तदा हतं यशः करोति मैत्रीमथ दूषिता गुणाः । स्थितः समीक्ष्योभयता परीक्षकः करोत्यवज्ञोपहतं पृथग्जनम् ॥ ४९.३७ *(१६७४) ॥ तृष्णे देवि नमस्तुभ्यं कृतकृत्यासि साम्प्रतम् । अनन्तनाम यद्रूपं तत्त्वया वामनीकृतम् ॥ ४९.३८ *(१६७५) ॥ पुरा याताः केचित्तदनु चलिताः केचिदपरे विषादः कोऽस्माकं न हि न वयमप्यत्र गमिनः । मनःखेदस्त्वेवं कथमकृतसंकेतविधयो महामार्गेऽस्मिन्नो नयनपथमेष्यन्ति सुहृदः ॥ ४९.३९ *(१६७६) ॥ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥ ४९.४० *(१६७७) ॥ अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति कस्य तन्महदहो संजायते किल्बिषम् । इत्येवं पथिकः करोति हृदये यावत्तरोर्मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकशः ॥ ४९.४१ *(१६७८) ॥ अद्राक्षीदपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्धूलीदुर्दिनसूदिताम्बरमसावुद्यानमुर्वीपतिः । आस्थानीभवनं वसन्तनृपतेर्देवस्य चेतोभुवः सत्रागारमनुत्तरं मधुलिहामेकं प्रपामण्डपम् ॥ ४९.४२ *(१६७९) ॥ मदनज्वरमपनेतुं कुरु सम्प्रति सततमौषधद्वितयम् ।* बालाधरमधुपानं कुचपीडनमुष्टियोगं च ॥ ४९.४३ *(१६८०) ॥* उपचारविधिज्ञोऽपि निर्धनः किं करिष्यति । निरङ्कुश इवारूढो मत्तद्विरदमूर्धनि ॥ ४९.४४ *(१६८१) ॥ कस्या नाम किमत्र नास्ति विदितं यद्वीक्ष्यमाणोऽप्ययं लोको मूक इवास्ति मां प्रति पुनः सर्वो जनस्तप्यते । शक्यं दर्शयितुं न पूगफलवत्कृत्वा द्विधेदं वपुर्यत्सत्यं सखि वीक्षितः खलु मया नूनं चतुर्थ्याः शशी ॥ ४९.४५ *(१६८२) ॥ खुराघातैः शृङ्गैः प्रतिदिनमलं हन्ति पथिकान् भृशं शस्योत्सादैः सकलनगराख्यातपटिमा । युगं नैव स्कन्धे वहति नितरां याति धरणीं वरं शून्या शाला न च पुनरयं दुष्टवृषभः ॥ ४९.४६ *(१६८३) ॥ पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया । शोकक्षोभे च हृदयं प्रलापैरवधार्यते ॥ ४९.४७ *(१६८४) ॥ धिक्चन्दनं कैव सुधा वराकी किमिन्दुना हारितमब्जकन्दैः । न वेद्मि तद्वस्तु यदत्र लोके सुताङ्गधूलेरुपमानपात्रम् ॥ ४९.४८ *(१६८५) ॥ यौवनं चलमपायि शरीरं गत्वरं वसु विमृश्य विशिष्टः । नान्यजन्मगततिक्तविपाकं दृष्टसौख्यमपि कर्म विधत्ते ॥ ४९.४९ *(१६८६) ॥ अधोऽधः पश्यतः कस्य महिमा नोपजायते । उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥ ४९.५० *(१६८७) ॥ तिमिरमिदमिन्दुबिम्बात्पूतिर्गन्धोऽयमम्बुरहकोषात् ।* निन्दितमभिजातमुखाद्यदलीकं वचनमुच्चरति ॥ ४९.५१ *(१६८८) ॥* यो नीवारतृणाग्रमुष्टिकबलैः संवर्धितः शैशवे पीतं येन सरोजिनीदलपुटे होमावशिष्टं पयः । तद्दानासवपानमत्तमधुपव्यालोलगण्डं गजं सोत्कण्ठं सभयं च पश्यति शनैर्दूरे स्थितस्तापसः ॥ ४९.५२ *(१६८९) ॥ पाणिप्रेङ्खणतो विशीर्णशिरसः स्वेदावरुग्णश्रियस्ता इत्याकृतिलेशतो मनसि नः किंचित्प्रतीतिं गताः । वैचित्र्यात्पुनरुक्तलाञ्छनभृतः खण्डेन वाक्येन वा व्याक्षेपं कथयन्ति पक्ष्मलदृशो लेखाक्षरश्रेणयः ॥ ४९.५३ *(१६९०) ॥ ताडीदलं यदकठोरमिदं यदत्र मुद्रा स्तनाङ्कघनचन्दनपङ्कमूर्तिः । यद्बन्धनं बिसलतातनुतन्तवश्च कस्याश्चिदेषा गलितस्तदनङ्गलेखः ॥ ४९.५४ *(१६९१) ॥ मृणालमेतद्वलयीकृतं तया तदीय एवैष वतंसपल्लवः ।* इदं च तस्याः कदलीदलांशुकं यदत्र संक्रान्त इव स्मरज्वरः ॥ ४९.५५ *(१६९२) ॥* राजशेखरस्यामी मधुर्मासो रम्यो विपिनमजनं त्वं च तरुणी स्फुरत्कामावेशे वयसि वयमप्याहितभराः । व्रजत्वम्बा मुग्धे क्षणमिह विलम्बस्व यदि वा स्फुटस्तावज्जातः पिशुनवचसामेष विषयः ॥ ४९.५६ *(१६९३) ॥ वल्लणस्य मुनीन्दोर्वाग्बिन्दुः प्रविततसुधापूरपरमो न चेच्चिन्तापात्रे मिलति कथमप्यस्य मनसः । कुतः प्राप्य प्रीतिं तुहिनगिरिगर्भस्थितिजुषोऽप्यसह्यः सह्येत प्रियविरहदाहव्यतिकरः ॥ ४९.५७ *(१६९४) ॥ धर्मकीर्तेः सर्वस्यैव हि लोकस्य बहुमानं यदात्मनि । विष्णोर्मायासहस्रस्य इयमेका गरीयसी ॥ ४९.५८ *(१६९५) ॥ कृशः काणः खञ्जः श्रवणविकलः पुच्छरहितः क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । व्रणैः पूयक्लिन्नैः क्रिमिकुलचितैराचिततनुः शुनीमभ्येति श्वा हतमपि निहन्त्येव मदनः ॥ ४९.५९ *(१६९६) ॥ तरन्तो दृश्यन्ते बहव इह गम्भीरसरसि स्वसाराभ्यामाभ्यां हृदि विदधतः कौतुकशतम् । प्रविश्यान्तर्लीनं किमपि सुविवेच्योद्धरति यश्चिरं रुद्धश्वासः स खलु पुनरेतेषु विरलः ॥ ४९.६० *(१६९७) ॥ पण्डितज्ञानश्रियः ।चोलो इति संकीर्णव्रज्या ततः कविस्तुतिव्रज्या सुबन्धौ भक्तिर्नः क इह रघुकारे न रमते धृतिर्दाक्षीपुत्रे हरति हरिचन्द्रोऽपि हृदयम् । विशुद्धोक्तिः शूरः प्रकृतिसुभगा भारवगिरस्तथाप्यन्तर्मोदं कमपि भवभूतिर्वितनुते ॥ ५०.१ *(१६९८) ॥ तातः सृष्टिमपूर्ववस्तुविषयामेकोऽत्र निर्व्यूढवान्निष्णातः कविकुञ्जरेन्द्रचरिते मार्गे गिरां वागुरः । रेवाविन्ध्यपुलीन्द्रपामरवधूझञ्झानिलप्रेषित प्रायेऽर्थे वचनानि पल्लवयितुं जानाति योगेश्वरः ॥ ५०.२ *(१६९९) ॥ अभिनन्दस्य पातुं कर्णरसायनं रचयितुं वाचः सतां संमतां व्युत्पत्तिं परमामवाप्तुमवधिं लब्धुं रसस्रोतसः । भोक्तुं स्वादुफलं च जीविततरोर्यद्यस्ति ते कौतुकं तद्भ्रातः शृणु राजशेखरकवेः सूक्तीः सुधास्यन्दिनीः ॥ ५०.३ *(१७००) ॥ शंकरवर्मणः देवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः । अब्धिर्लङ्घित एव वानरभटैः किं त्वस्य गम्भीरतामापातालविलग्नपीवरवपुर्जानाति मन्थाचलः ॥ ५०.४ *(१७०१) ॥ तत्तादृगुज्ज्वलककुत्स्थकुलप्रशस्ति सौरभ्यनिर्भरगभीरमनोहराणि । वाल्मीकिवागमृतकूपनिपातलक्ष्मीमेतानि बिभ्रति मुरारिकवेर्वचांसि ॥ ५०.५ *(१७०२) ॥ मुरारेरेतौ धिग्धिक्तान् समयान् परिश्रमरुजो धिक्ता गिरो निष्फला यत्रामूर्न भवन्ति वल्लणगुणोत्खातामृतप्रीतयः । रोम्णां नृत्यभुवो विलोचनपयःपूराब्धिचन्द्रोदयाः साहित्यप्रतिगण्डगर्वगलनग्लानिक्रियाहेतवः ॥ ५०.६ *(१७०३) ॥ उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला । रथ्यागर्तविगाहनाद्भुतकृतैर्गाह्यः क्व रत्नाकरो यस्यान्तःशफरावमाननटतीमज्जद्गिरीन्द्राः श्रियः ॥ ५०.७ *(१७०४) ॥ अनुद्घुष्टः शब्दैरथ च घटनातः स्फुटरसः पदानामर्थात्मा रमयति न तूत्तानितरसः । यथा किंचित्किंचित्पवनचलचीनांशुकतया स्तनाभोगः स्त्रीणां हरति न तथोन्मुद्रिततनुः ॥ ५०.८ *(१७०५) ॥ वल्लणस्यैते अस्तंगतभारविरवि कालवशात्कालिदासविधुविधुरम् ।* निर्वाणबाणदीपं जगदिदमद्योति रत्नेन ॥ ५०.९ *(१७०६) ॥* जानकीहरणं कर्तुं रघुवंशे पुरःस्थिते । कविः कुमारदासो वा रावणो वा यदि क्षमः ॥ ५०.१० *(१७०७) ॥ शब्दास्ते न तथाविधाः पथि धियां लोकस्य ये नासते नार्थात्मापि स कोऽपि धावति गिरां भूपालमार्गे न यः । अस्त्यन्यस्तु स संनिवेशशिशिरः शब्दार्थयोः संगमो येनामी स्ववशेन दग्धकवयो मथ्नन्ति चेतांसि नः ॥ ५०.११ *(१७०८) ॥ जयति कविकण्ठहरः श्रीरघुकारः प्रमेयकेदारे ।* यन्मतिदात्रविलूने शिलोञ्छमिव कुर्वते कवयः ॥ ५०.१२ *(१७०९) ॥* कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ ५०.१३ *(१७१०) ॥ कीर्तिः प्रवरसेनस्य प्रयाता कुसुमोज्ज्वला । समुद्रस्य परं पारं कपिसेनेव सेतुना ॥ ५०.१४ *(१७११) ॥ सन्ति श्वान इवासंख्या जातिभाजो गृहे गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ ५०.१५ *(१७१२) ॥ बाणस्यामी कवयः कालिदासाद्याः कवयो वयमप्यमी । पर्वते परमाणौ च वस्तुत्वमुभयोरपि ॥ ५०.१६ *(१७१३) ॥ सौजन्याङ्कुरकन्द सुन्दरकथासर्वस्व सीमन्तिनी चित्ताकर्षणमन्त्र मन्मथसरित्कल्लोल वाग्वल्लभ । सौभाग्यैकनिवेश पेशलगिरामाधार धैर्याम्बुधे धर्माद्रिद्रुम राजशेखर सखे दृष्टोऽसि यामो वयम् ॥ ५०.१७ *(१७१४) ॥ यदेतद्वागर्थव्यतिकरमयं किंचिदमृतं प्रमोदप्रस्यन्दैः सहृदयमनांसि स्नपयति । इदं काव्यं तत्त्वं स्फुरति तु यदत्राणु परमं तदन्तर्बुद्धीनां स्फुटमथ च वाचामविषयः ॥ ५०.१८ *(१७१५) ॥ सुवर्णालंकारा प्रकटितरसाश्लेषनिपुणा स्फुरद्वैदर्भोक्तिर्ललितपदबन्धक्रमगतिः । लसद्भूयोभावा मृदुरपि विमर्दोचिततनुः कवीन्द्र त्वद्वाणी हरति हरिणाक्षीव हृदयम् ॥ ५०.१९ *(१७१६) ॥ अम्बा येन सरस्वती सुतवती तस्यार्पयन्ती रसान्नानाचाटुमुखी स दुर्लडितवान् खेलाभिरुच्छृङ्खलः । जिह्वादुर्व्यसनैरुपद्रवरुजः कुर्वन्ति ये दुःसुतास्तान् दृष्ट्वार्थमितस्ततो निखनति स्वं निःस्वमातन्वती ॥ ५०.२० *(१७१७) ॥ वल्लणस्य अविदितगुणापि सत्कविभणितिः कर्णेषु वमति मधुधाराम् ।* अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ ५०.२१ *(१७१८) ॥* सुबन्धोः बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमेठताम् । पुनः स्थितो यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ॥ ५०.२२ *(१७१९) ॥ उच्छ्वासोऽपि न निर्याति बाणे हृदयवर्तिनि । किं पुनर्विकटाटोप पदबन्धा सरस्वती ॥ ५०.२३ *(१७२०) ॥ यल्लग्नं हृदि पुंसां भूयो भूयः शिरो न घूर्णयति ।* तदपि कवेः किमु काव्यं काण्डो वा धन्विनां किमसौ ॥ ५०.२४ *(१७२१) ॥* तामरसस्य कथंचित्कालिदासस्य कालेन बहुना मया । अवगाढेव गम्भीर मसृणौघा सरस्वती ॥ ५०.२५ *(१७२२) ॥ कश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतुरुभयतो विस्मयं नस्तनोति । न ह्येकस्मिन्नतिशयवतां संनिपातो गुणानामेकः सूते कनकमुपलस्तत्परीक्षाक्षमोऽन्यः ॥ ५०.२६ *(१७२३) ॥ कालिदास्य॥ न्बिन्गल्ल्स्पोइन्त्सोउत्थत्थे अत्त्रिबुतिओन् तो कालिदास इस्बसेद् ओन मिसुन्देर्स्तन्दिन्गोf थे रेमर्क्स्wइथ्wहिछ्राजशेखर प्रेचेदेस्हिस्चिततिओनोf थे वेर्से इन् थे काव्यमीमांसा. प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च वाक्यार्थघटने । अगम्यायामन्यैर्दिशि परिणतेश्चार्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते ॥ ५०.२७ *(१७२४) ॥ शालिकस्य इयं गौरुद्दामा तव निबिडबन्धापि हि कथं न वैदर्भादन्यत्स्पृशति सुलभत्वेऽपि हि कथम् । अवन्ध्या च ख्याता भुवि कथमगम्या कविवृषैः कथं वा पीयूषं स्रवति बहु दुग्धापि बहुभिः ॥ ५०.२८ *(१७२५) ॥ शब्दार्णवस्य शैलैर्बन्धयति स्म वानरहृतैर्वाल्मीकिरम्भोनिधिं व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वागर्थौ च तुलाधृताविव तथाप्यस्मिन्निबन्धानयं लोको दूषयति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ॥ ५०.२९ *(१७२६) ॥ धर्मकीर्तेः हा कष्टं कविचक्रमौलिमणिना दक्षेण यन्नेक्षितः श्रीमानुत्पलराजदेवनृपतिर्विद्यावधूवल्लभः । तस्याप्यर्थिजनैकरोहणगिरेर्लक्ष्मीर्वृथैवाभवद्दक्षस्यास्य न येन सुन्दरगिरः कर्णावतंसीकृताः ॥ ५०.३० *(१७२७) ॥ दक्षस्य यस्य यथा विज्ञानं तादृक्तस्येह हृदयसद्भावः ।* उन्मीलति कविपुङ्गवचने च पुराणपुरुषे च ॥ ५०.३१ *(१७२८) ॥* वहति न पुरः कश्चित्पश्चान्न कोऽप्यनुयाति मां न च नवपदक्षुण्णो मार्गः कथं न्वहमेककः । भवति विदितं पूर्वव्यूढोऽधुना खिलतां गतः स खलु बहुलो वामः पन्था मया स्फुटमुर्जितः ॥ ५०.३२ *(१७२९) ॥ धर्मकीर्तिपदानाम् विद्यावधूमपरिणीय कुलानुरूपां श्लाघ्यां सुतामिव ततः श्रियमप्रसूय । तां चार्थिने प्रणयपेशलमप्रदाय धिक्तं मनुष्यपदमात्मनि यः प्रयुङ्क्ते ॥ ५०.३३ *(१७३०) ॥ भर्तृहरेः ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च लक्ष्मीः ॥ ५०.३४ *(१७३१) ॥ चेः। निधानं विद्यानां कुलगृहमपारस्य यशसः शुचि क्ष्मापालानां सुचरितकथादर्पणतलम् । कलासम्पद्रत्नव्रततिविटपानां सुरतरुः प्रकृत्या गम्भीरः कविरिह सशब्दो विजयते ॥ ५०.३५ *(१७३२) ॥ उन्नीतो भवभूतिना प्रतिदिनं बाणे गते यः पुरा यश्चीर्णः कमलायुधेन सुचिरं येनागमत्केशटः । यः श्रीवाक्पतिराजपादरजसां सम्पर्कपूतश्चिरं दिष्ट्या श्लाघगुणस्य कस्यचिदसौ मार्गः समुन्मीलति ॥ ५०.३६ *(१७३३) ॥ परमाद्भुतरसधामन्युत्सलिते जगति वल्लनाम्भोधौ ।* विश्रान्तो रसभागस्तिमितयति यथा गभीरिमा कोऽपि ॥ ५०.३७ *(१७३४) ॥* वल्लणस्य आढ्यराजकृतारम्भैर्हृदयस्थैः स्मृतैरपि । जिह्वान्तः कृष्यमाणेव न कवित्वे प्रगल्भते ॥ ५०.३८ *(१७३५) ॥ बाणस्य वाल्मीकेर्मुकुलीकृतैव कविता कः स्तोतुमस्त्यादरो वैयासानि वचांसि भारविगिरां भूतैव निर्भर्त्सना । काव्यं चेदवतंसभूपमभजद्धर्मायणं कर्णयोस्तातः किं बहु वर्ण्यते स भगवान् वैदर्भगर्भेश्वरः ॥ ५०.३९ *(१७३६) ॥ धर्माशोकस्य वामाङ्गं पृथुलस्तनस्तबकितं यावद्भवानीपतेर्लक्ष्मीकण्ठहठग्रहव्यसनिता यावच्च दोषाणां हरेः । यावच्च प्रतिसामसारणविधिव्यग्रौ करौ ब्रह्मणः स्थेयासुः श्रुतिशुक्तिलेह्यमधवस्तावत्सतां सूक्तयः ॥ ५०.४० *(१७३७) ॥ कीर्त्या समं त्रिदिववासमुपस्थितानां मर्त्यावतीर्णमरुतामपि सत्कवीनाम् । जग्रन्थ दुर्लभसुभाषितरत्नकोषं विद्याकरः सुकृतिकण्ठविभूषणाय ॥ ५०.४१ *(१७३८) ॥ । इति कविवर्णनव्रज्या समाप्ता॥ ।समाप्तोऽयं सुभाषितरत्नकोष इति॥ । पण्डितश्रीभीमार्जुनसोमस्य॥