भतृहरि शतकत्रय (१. नीतिशतक, २. शृङ्गारशतक, ३. वैराग्यशतक) नीतिशतकम् भर्तृहरेः दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये । स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ १.१ ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपहताः चान्ये जीर्णमङ्गे सुभाषितम् ॥ १.२ ॥ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ॥ १.३ ॥ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात् समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् न तु प्रतिनिविष्टमूऋखजनचित्तमाराधयेत् ॥ १.४ ॥ लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः । क्वचिदपि पर्यटन् शशविषाणमासादयेत् न तु प्रतिनिविष्टमूर्खचित्तमाराधयेत् ॥ १.५ ॥ व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते छेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति । माधुर्यं मधुबिन्दुना रचयितुं क्षारामुधेरीहते नेतुं वाञ्छन्ति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ १.६ ॥ स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषाअतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥ १.७ ॥ यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ १.८ ॥ कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितं निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ १.९ ॥ शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं म्हीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोऽधो गङ्गेयं पदमुपगता स्तोकम् अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १.१० ॥ शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिम् ॥ १.११ ॥ साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस् तद्भागधेयं परमं पशूनाम् ॥ १.१२ ॥ येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ॥ १.१३ ॥ वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ १.१४ ॥ शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः । तज्जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥ १.१५ ॥ हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदाऽप्य् अर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं येषां तान् प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ १.१६ ॥ अधिगतपरमार्थान् पण्डितान्मावमंस्थास् तृणमिव लघु लक्ष्मीर्नैव तान् संरुणद्धि । अभिनवमदलेखाश्यामगण्डस्थलानां न भवति बिसतन्तुर्वारणं वारणानाम् ॥ १.१७ ॥ अम्भोजिनीवनविहारविलासमेव हंसस्य हन्ति नितरां कुपितो विधाता । न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्धीकीर्तिमपहर्तुमसौ समर्थः ॥ १.१८ ॥ केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १.१९ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥ १.२० ॥ क्षान्तिश्चेत्कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् । किं सर्पैर्यदि दुर्जनाः किमु धनैर्विद्याऽनवद्या यदि व्रीडा चेत्किमु भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ १.२१ ॥ दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् । शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ १.२२ ॥ जाड्यं धियो हरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिं सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ १.२३ ॥ जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः । नास्ति येषां यशःकाये जरामरणजं भयम् ॥ १.२४ ॥ सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः स्निग्धं मित्रमवञ्चकः परिजनो निःक्लेशलेशं मनः । आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना ॥ १.२५ ॥ प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् । तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसामेष पन्थाः ॥ १.२६ ॥ प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति ॥ १.२७ ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १.२८ ॥ क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम् आपन्नोऽपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि । मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी ॥ १.२९ ॥ स्वल्पस्नायुवसावशेषमलिनं निर्मांसमप्यस्थि गोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये । सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपं सर्वः कृच्छ्रगतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥ १.३० ॥ लाङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ १.३१ ॥ परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशः समुन्नतिम् ॥ १.३२ ॥ कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः । मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा ॥ १.३३ ॥ सन्त्यन्येऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास् तान् प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते । द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ १.३४ ॥ वहति भुवनश्रेणिं शेषः फणाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा स च धार्यते । तमपि कुरुते क्रोडाधीनं पयोधिरनादराद् अहह महतां निःसीमानश्चरित्रविभूतयः ॥ १.३५ ॥ वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर् उद्गच्छद्बहुलदहनोद्गारगुरुभिः । तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ १.३६ ॥ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः ॥ १.३७ ॥ जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना । शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु नः केवलं येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे ॥ १.३८ ॥ धनमर्जय काकुत्स्थ धनमूलमिदं जगत् । अन्तरं नाभिजानामि निर्धनस्य मृतस्य च ॥ १.३९ ॥ तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रमेतत् ॥ १.४० ॥ यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ १.४१ ॥ दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात् विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान् मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनम् ॥ १.४२ ॥ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥ १.४३ ॥ मणिः शाणोल्लीढः समरविजयी हेतिदलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः । कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता तन्निम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः ॥ १.४४ ॥ परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये स पश्चात्सम्पूर्णः कलयति धरित्रीं तृणसमाम् । अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिनाम् अवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥ १.४५ ॥ राजन् दुधुक्षसि यदि क्षितिधेनुमेतां तेनाद्य वत्समिव लोकममुं पुषाण तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः ॥ १.४६ ॥ सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा ॥ १.४७ ॥ आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च येषामेते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण ॥ १.४८ ॥ यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकम् । तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ १.४९ ॥ त्वमेव चातकाधारोऽ सीति केषां न गोचरः । किमम्भोदवरास्माकं कार्पण्योक्तं प्रतीक्षसे ॥ १.५० ॥ रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम् अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः । केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १.५१ ॥ अकरुणत्वमकारणविग्रहः परधने परयोषिति च स्पृहा । सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धमिदं हि दुरात्मनाम् ॥ १.५२ ॥ दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् । मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥ १.५३ ॥ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि । तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥ १.५४ ॥ लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ १.५५ ॥ शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ १.५६ ॥ न कश्चिच्चण्डकोपानाम् आत्मीयो नाम भूभुजाम् । होतारमपि जुह्वानं स्पृष्टो वहति पावकः ॥ १.५७ ॥ मौनोमूकः प्रवचनपटुर्बाटुलो जल्पको वा धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः । क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ १.५८ ॥ उद्भासिताखिलखलस्य विशृङ्खलस्य प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः । दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतैः सुखमाप्यते ॥ १.५९ ॥ आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ॥ १.६० ॥ मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १.६१ ॥ वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् । भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १.६२ ॥ विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्यपटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १.६३ ॥ प्रदानं प्रच्छन्नं गृहमुपगते सम्भ्रमविधिः प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः । अनुत्सेको लक्ष्म्यामनभिभवगन्धाः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १.६४ ॥ करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयि भुजयोर्वीर्यमतुलम् । हृदि स्वच्छा वृत्तिः श्रुतिमधिगतं च श्रवणयोर् विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥ १.६५ ॥ सम्पत्सु महतां चित्तं भवत्युत्पलकोमलम् ।ापत्सु च महाशैलशिला सङ्घातकर्कशम् ॥ १.६६ ॥ सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते । स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ १.६७ ॥ प्रीणाति यः सुचरितैः पितरं स पुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् । तन्मित्रमापदि सुखे च समक्रियं यद् एतत्त्रयं जगति पुण्यकृतो लभन्ते ॥ १.६८ ॥ एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा । एको वासः पत्तने वा वने वा ह्येका भार्या सुन्दरी वा दरी वा ॥ १.६९ ॥ नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तः स्वार्थान् सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे । क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान् दुर्जनान् दूषयन्तः सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ १.७० ॥ भवन्ति नम्रास्तरवः फलोद्गमैर् नवाम्बुभिर्दूरावलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एष परोपकारिणाम् ॥ १.७१ ॥ श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन । विभाति कायः करुणपराणां परोपकारैर्न तु चन्दनेन ॥ १.७२ ॥ पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति । आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥ १.७३ ॥ पद्माकरं दिनकरो विकचीकरोति चम्द्र्प्वोलासयति कैरवचक्रवालम् । नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते विहिताभियोगाः ॥ १.७४ ॥ एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजन्ति ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ १.७५ ॥ क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः । गन्तुं पावकमुन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ १.७६ ॥ इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम् इतश्च शरणार्थिनां शिखरिणां गणाः शेरते । इतोऽपि बडवानलः सह समस्तसंवर्तकैऋ अहो विततमूर्जितं भरसहं सिन्धोर्वपुः ॥ १.७७ ॥ तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् । मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥ १.७८ ॥ मनसि वचसि काये पुण्यपीयूषपूर्णास् त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः । परगुणपरमाणून् पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्त सन्तः कियन्तः ॥ १.७९ ॥ किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव । मन्यामहे मलयमेव यदाश्रयेण कङ्कोलनिम्बकटुजा अपि चन्दनाः स्युः ॥ १.८० ॥ रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न परयुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥ १.८१ ॥ क्वचित्पृथ्वीशय्यः क्वचिदपि च परङ्कशयनः क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ १.८२ ॥ ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ १.८३ ॥ निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ १.८४ ॥ भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः यथा लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥ १.८५ ॥ आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति ॥ १.८६ ॥ छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥ १.८७ ॥ नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः किल हरेरैरावतो वारणः । इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥ १.८८ ॥ कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी । तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता ॥ १.८९ ॥ खल्वातो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके वाञ्छन् देशमनातपं विधिवशात्तालस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ १.९० ॥ रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् । मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ १.९१ ॥ सृजति तावदशेषगुणकरं पुरुषरत्नमलङ्करणं भुवः । तदपि तत्क्षणभङ्गि करोति चेदहह कष्टमपण्डितता विधेः ॥ १.९२ ॥ पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ १.९३ ॥ नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १.९४ ॥ ब्रह्मा येन कुलालवन्नियमितो ब्रह्माडभाण्डोदरे विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे ॥ १.९५ ॥ नैवाकृतिः फलति नैवअ कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा । भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ १.९६ ॥ वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ १.९७ ॥ या साधूंश्च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणः प्रत्यक्षं कुरुते परीक्षममृतं हालाहलं तत्क्षणात् । तामाराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ १.९८ ॥ गुणवदगुणवद्वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १.९९ ॥ स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कमूलस्य हेतोः । कृत्वा कर्पूरखण्डान् वृत्तिमिह कुरुते कोद्रवाणां समन्तात् प्राप्येमां कर्म्भूमिं न चरति मनुजो यस्तोप मन्दभाग्यः ॥ १.१०० ॥ मज्जत्वम्भसि यातु मेरुशिखरं शत्रुं जयत्वाहवे वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् । आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ १.१०१ ॥ भीमं वनं भवति तस्य पुरं प्रधानं सर्वो जनः स्वजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १.१०२ ॥ को लाभो गुणिसङ्गमः किमसुखं प्राज्ञेतरैः सङ्गतिः का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः । कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं विद्या किं सुखमप्रवासगमनं राज्यं किमाज्ञाफलम् ॥ १.१०३ ॥ अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः । परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा ॥ १.१०४ ॥ कदर्थितस्यापि हि धैर्यवृत्तेर् न शक्यते धैर्यगुणः प्रमार्ष्टुम् । अधोमुखस्यापि कृतस्य वह्नेर् नाधः शिखा याति कदाचिदेव ॥ १.१०५ ॥ कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति किपकृशानुतापः । कर्षन्ति भूरिविषयाश्च न लोभपाशैर् लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ १.१०६ ॥ एकेनापि हि शूरेण पादाक्रान्तं महीतलम् । क्रियते भास्करेणैव स्फारस्फुरिततेजसा ॥ १.१०७ ॥ वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान् मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते । व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १.१०८ ॥ लज्जागुणौघजननीं जननीमिव स्वाम् अत्यन्तशुद्धहृदयामनुवर्तमानाम् । तेजस्विनः सुखमसूनपि सन्त्यजनति सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १.१०९ ॥ ______________________________________________________________________________ शृङ्गारशतकम् भर्तृहरेः शम्भुस्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकुम्भदासाः । वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते मकरध्वजाय ॥ २.१ ॥ स्मितेन भावेन च लज्जया भिया पराण्मुखैरर्धकटाक्षवीक्षणैः । वचोभिरीर्ष्याकलहेन लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ २.२ ॥ भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जितान्ताश्च हासाः । लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं च ॥ २.३ ॥ क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः । कुमारीणामेतैर्मदनसुभगैर्नेत्रवलितैः स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ २.४ ॥ वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः । बक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ २.५ ॥ स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतानामारम्भः किसलयितलीलापरिकरः स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥ २.६ ॥ द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं मुखं घ्रातवेष्वपि किं तदास्यपवनः श्रव्येषु किं तद्वचः । किं स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ २.७ ॥ एताश्चलद्वलयसंहतिमेखलोत्थझङ्कार नूपुरपराजितराजहंस्यः । कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ २.८ ॥ कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा । नूपुरहंसरणत्पद्मा कं न वशीकुरुते भुवि रामा ॥ २.९ ॥ नूनं हि ते कविवरा विपरीतवाचो ये नित्यमाहुरबला इति कामिनीस्ताः । याभिर्विलोलितरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ २.१० ॥ नूनमाज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः । यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ २.११ ॥ केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने अन्तर्वक्त्रमपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः । मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमावित्थं तन्वि वपुः प्रशान्तमपि तेरागं करोत्येव नः ॥ २.१२ ॥ मुग्धे धानुष्कता केयमपूर्वा त्वयि दृश्यते । यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ २.१३ ॥ सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ २.१४ ॥ उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिष्ठितमोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावलिः केन सा ॥ २.१५ ॥ मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः । कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २.१६ ॥ गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता । शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ २.१७ ॥ तस्याः स्तनौ यदि घनौ जघनं च हारि वक्त्रं च चारु तव चित्त किमाकुलत्वम् । पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ २.१८ ॥ इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप प्रारम्भाः स्मरविजयदानप्रतिभुवः । चिरं चेतश्चोरा अभिनवविकारैकगुरवो विलासव्यापाराः किमपि विजयन्ते मृगदृशाम् ॥ २.१९ ॥ प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः । प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी रहसि किमपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ २.२० ॥ विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् । स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥ २.२१ ॥ अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गसुखैकलोला । आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदम् ॥ २.२२ ॥ मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलम् । वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः ॥ २.२३ ॥ प्राङ्मामेति मनागनागतरसं जाताभिलाषां ततः सव्रीडं तदनु श्लथोद्यममथ प्रध्वस्तधैर्यं पुनः । प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ २.२४ ॥ उरसि निपतितानां स्रस्तधम्मिल्लकानां मुकुलितनयनानां किञ्चिदुन्मीलितानाम् । उपरि सुरतखेदस्विन्नगण्डस्थलानामधर मधु वधूनां भाग्यवन्तः पिबन्ति ॥ २.२५ ॥ आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति । मिथुरैर्मिथोऽवधारितमवितथम् इदमेव कामनिर्बर्हणम् ॥ २.२६ ॥ इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मन्मथा विकाराः । तदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ २.२७ ॥ राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे । गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ २.२८ ॥ रागस्यागारमेकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्ति बीजं जलधरपटलं ज्ञानताराधिपस्य । कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ २.२९ ॥ शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति । तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ २.३० ॥ संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्ग व्यस्तधैर्यं कथममलधियो मानसं संविदध्युः । यद्येताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ २.३१ ॥ सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि । कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ २.३२ ॥ संसार तव पर्यन्तपदवी न दवीयसी । अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ २.३३ ॥ दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां कवलमुपलकोटिच्छिन्नमूलं कुशानाम् । शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम् अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ २.३४ ॥ असाराः सर्वे ते विरतिविरसाः पापविषया जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदमिति । तथाप्येतद्भूमौ नहि परहितात्पुण्यमधिकं न चास्मिन् संसारे कुवलयदृशो रम्यमपरम् ॥ २.३५ ॥ एतत्कामफलो लोके यद्द्वयोरेकचित्तता । अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ २.३५*१ ॥ मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किमु भूधराणामत स्मरस्मेरविलासिनीनाम् ॥ २.३६ ॥ संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् । नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ २.३७ ॥ आवासः क्रियतां गङ्गे पापहारिणि वारिणि । स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ २.३८ ॥ किमिह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम् इह पुरुषाणां सर्वदा सेवनीयम् । अभिनवमदलीलालालसं सुन्दरीणां स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ २.३९ ॥ सत्यं जना वच्मि न पक्षपाताल् लोकेषु सप्तस्वपि तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः ॥ २.४० ॥ कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुङ्ग पयोधरेति समुखाम्भोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिभस्त्रिकां स्त्रियमहो मोहस्य दुश्चेष्टितम् ॥ २.४१ ॥ स्मृता भवति तापाय दृष्टा चोन्मादकारिणी । स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ २.४२ ॥ तावदेवामृतमयी यावल्लोचनगोचरा । चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ २.४३ ॥ नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् । सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ २.४४ ॥ आवर्तः संशयानामविनयभुवनं पट्टणं साहसानां दोषाणां सन्निधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ २.४५ ॥ नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता । किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ २.४६ ॥ लीलावतीनां सहजा विलासास्त एव मूढस्य हृदि स्फुरन्ति । रागो नलिन्या हि निसर्गसिद्धस्तत्र भ्रम्त्येव वृथा षडङ्घ्रिः ॥ २.४७ ॥ संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किं नाम वामनयना न समाचरन्ति ॥ २.४७*१ ॥ यदेतत्पूर्णेन्दुद्युतिहरमुदाराकृति परं मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु । इदं तत्किं पाकद्रुमफलमिदानीमतिरसव्यतीतेऽस्मिन् काले विषमिव भविष्य्त्यसुखदम् ॥ २.४८ ॥ उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गत चक्रवाकयुगला वक्त्राम्बुजोद्भासिनी । कान्ताकारधरा नदीयमभितः क्रूरात्र नापेक्षते संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ २.४९ ॥ जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ २.५० ॥ मधु तिष्ठति वाचि योषितां हृदि हालाहलमेव केवलम् । अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ २.५१ ॥ अपसर सखे दूरादस्मात्कटाक्षविषानलात् प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः । इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधैश्चतुर् वनिताभोगिग्रस्तं हि मन्त्रिणः ॥ २.५२ ॥ विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशमत्र भवाम्बुराशौ । येनाचिरात्तदधरामिषलोलमर्त्य मत्स्यान् विकृष्य विपचत्यनुरागवह्नौ ॥ २.५३ ॥ कामिनीकायकान्तारे कुचपर्वतदुर्गमे । मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ २.५४ ॥ व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना नीलाब्जद्युतिनाहिना परमहं दृष्टो न तच्चक्षुषा । दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ २.५५ ॥ इह हि मधुरगीतं नृत्यमेतद्रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् । इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥ २.५६ ॥ न गम्यो मन्त्राणां न च भवति भैषज्यविषयो न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः । भ्रमावेशादङ्गे कमपि विदधद्भङ्गमसकृत् स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ २.५७ ॥ जात्यन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च । यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ २.५८ ॥ वेश्यासौ मदनज्वाला रूपेऽन्धनविवर्धिता । कामिभिर्यत्र हूयन्ते यौवनानि धनानि च ॥ २.५९ ॥ कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञमपि । चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ २.६० ॥ धन्यास्त एव धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणाम् । क्षामोदरोपरि लसत्त्रिवलीलतानां दृष्ट्वाकृतिं विकृतिमेति मनो न येषाम् ॥ २.६१ ॥ बाले लीलामुकुलितममी मन्थरा दृष्टिपाताः किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते । सम्प्रत्यन्ये वयमुपरतं बाल्यमास्था वनान्ते क्षीणो मोहस्तृणमिव जगज्जालमालोकयामः ॥ २.६२ ॥ इयं बाला मां प्रत्यनवरतमिन्दीवरदलप्रभा चीरं चक्षुः क्षिपति किमभिप्रेतमनया । गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर ज्वाला शान्ता तदपि न वराकी विरमति ॥ २.६३ ॥ किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि । मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ २.६४ ॥ विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् । हृदयमपि विघट्टितं चेत् सङ्गी विरहं विशेषयति ॥ २.६५ ॥ किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किम् । इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरम् ॥ २.६६ ॥ विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात् कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् । न खलु नरके हाराक्रान्तं घनस्तनमण्डलं शरणमथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ २.६७ ॥ यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः । प्रियाणामालापैरधरमधुभिर्वक्त्रविधुभिः सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ २.६८ ॥ यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं तदा दृष्टनारीमयमिदमशेषं जगदिति । इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ २.६९ ॥ तावदेव कृतिनामपि स्फुरत्येष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः ॥ २.७० ॥ वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानाम् । जघनमरुणरत्नग्रन्थिकाञ्चीकलापं कुवलयनयनानां को विहातुं समर्थः ॥ २.७१ ॥ स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः । यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ २.७२ ॥ मत्तेभकुम्भदलने भुवि सन्ति धीराः केचित्प्रचण्डमृगराजवधेऽपि दक्षाः । किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य कन्दर्पदर्पदलने विरला मनुष्याः ॥ २.७३ ॥ सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ २.७४ ॥ उन्मत्तप्रेमसंरम्भाद् आरभन्ते यदङ्गनाः । तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ २.७५ ॥ तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ २.७६ ॥ शास्त्रज्ञोऽपि प्रगुणितनयोऽत्यान्तबाधापि बाढं संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् । येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ २.७७ ॥ कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः । क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ २.७८ ॥ स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ २.७९ ॥ विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम् इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ २.८० ॥ परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो मधुरविधुरोत्कण्ठाभाजः प्रिया पिकपक्षिणाम् । विरलविरसस्वेदोद्गारा वधूवदनेन्दवः प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ २.८१ ॥ मधुरयं मधुरैरपि कोकिला कलरवैर्मलयस्य च वायुभिः । विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधापि विषायते ॥ २.८२ ॥ आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाः कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः । गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ २.८३ ॥ पान्थ स्त्रीविरहानलाहुतिकलामातन्वती मञ्जरीमाकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते । अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ २.८४ ॥ प्रथितः प्रणयवतीनां तावत्पदमातनोतु हृदि मानः । भवति न यावच्चन्दनतरु सुरभिर्मलयपवमानः ॥ २.८५ ॥ सहकारकुसुमकेसरनिकर भरामोदमूर्च्छितदिगन्ते । मधुरमधुरविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा ॥ २.८६ ॥ अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च । मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ २.८७ ॥ स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः परागः कासारो मलयजरजः शीधु विशदम् । शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ २.८८ ॥ सुधाशुभ्रं धाम स्फुरदमलरश्मिः शशधरः प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः । स्रजो हृद्यामोदास्तदिदमखिलं रागिणि जने करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ २.८९ ॥ तरुणीवेषोद्दीपितकामा विकसज्जातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा प्रावृट्तनुते कस्य न हर्षम् ॥ २.९० ॥ वियदुपचितमेघं भूमयः कन्दलिन्यो नवकुटजकदम्बामोदिनो गन्धवाहाः । शिखिकुलकलकेकारावरम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ २.९१ ॥ उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः । क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति ॥ २.९२ ॥ इतो विद्युद्वल्लीविलसितमितः केतकितरोः स्फुरन् गन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः । इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ २.९३ ॥ असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनि प्राज्ञंमन्ये पतति पृषतानां च निचये । इदं सौदामिन्याः कनककमनीयं विलसितं मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ २.९४ ॥ आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते शीतोत्कम्पनिमित्तमायतदृशा गाढं समालिङ्ग्यते । जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ २.९५ ॥ अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्य तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते । सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥ २.९६ ॥ हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः । वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ २.९७ ॥ प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफे काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि । येषां नो कण्ठलग्ना क्षणमपि तुहिनक्षोददक्षा मृगाक्षी तेसामायामयामा यमसदनसमा यामिनी याति यूनाम् ॥ २.९८ ॥ चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदमापादयन्तः । ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽंशुकानि व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ २.९९ ॥ केशानाकुलयन् दृशो मुकुलयन् वासो बलादाक्षिपन्नातन्वन् पुलकोद्गमं प्रकटयन्नावेगकम्पं शनैः । बारं बारमुदारसीत्कृतकृतो दन्तच्छदान् पीडयन् प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ २.१०० ॥ यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि । रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ २.१०१ ॥ वैराग्ये संचरत्येको नीतौ भ्रमति चापरः । शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ २.१०२ ॥ इति शुभं भूयात् । ______________________________________________________________________________ वैराग्यशतकम् भर्तृहरेः चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् । अन्तःस्फूर्जदपारमोहतिमिरप्राग्भारमुच्चाटयन् श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ ३.१ ॥ भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं त्यक्त्वा जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ ३.२ ॥ उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव ॥ ३.३ ॥ खलालापाः सौढाः कथमपि तदाराधनपरैर्निगृह्यान्तर् बाष्पं हसितमपि शून्येन मनसा । कृतो वित्तस्तम्भप्रतिहतधियामञ्जलिरपि त्वमाशे मोघाशे किम अपरमतो नर्तयसि माम् ॥ ३.४ ॥ अमीषां प्राणानां तुलितविसिनीपत्रपयसां कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् । यदाढ्यानामग्रे द्रविणमदनिःसंज्ञमनसां कृतं मावव्रीडैर्निजगुणकथापातकमपि ॥ ३.५ ॥ क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः । ध्यातं वित्तमहर्निशं नित्यमितप्राणैर्न शम्भोः पदं तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ ३.६ ॥ भोगा न भुक्ता वयमेव भुक्तास् तपो न तप्तं वयमेव तप्ताः । कालो न यातो वयमेव यातास्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ ३.७ ॥ बलिभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः । गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ३.८ ॥ विवेकव्याकोशे विदधति समे शाम्यति तृषा परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता । जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं यस्यां भवति मरुतामप्यधिपतिः ॥ ३.८*१ ॥ निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने अहो मूढः कायस्तदपि मरणापायचकितः ॥ ३.९ ॥ आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः परगता विशुद्धमलसो नन्दन्ति योगीश्वराः ॥ ३.१० ॥ न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः । महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥ ३.११ ॥ अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति ॥ ३.१२ ॥ ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः । सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान् वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ ३.१३ ॥ धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु जलं पिबन्ति शकुना निःशङ्कमङ्केशयाः । अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा काननकेलिकौतुकजुषामायुः परं क्षीयते ॥ ३.१४ ॥ भिक्षाशतं तदपि नीरसमेकबारं शय्या च भूः परिजनो निजदेहमात्रम् । वस्त्रं विशीर्णशतखण्डमयी च कन्था हा हा तथापि विषया न परित्यजन्ति ॥ ३.१५ ॥ स्तनौ मांसग्रन्थी कनककलशावित्युपमिती मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् । स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ ३.१६ ॥ एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः । दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः शेषः कामविडम्बितान्न विषयान् भोक्तुं न मोक्तुं क्षमः ॥ ३.१७ ॥ अजानन् दाहात्म्यं पततु शलभस्तीव्रदहने स मीनोऽप्यज्ञानाद्बडिशयुतमश्नातु पिशितम् । विजानन्तोऽप्येते वयमिह वियज्जालजटिलान् न मुञ्चामः कानामहह गहनो मोहमहिमा ॥ ३.१८ ॥ तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् । प्रदीप्ते कामाग्नौ सुदृढतरमालिङ्गति वधूं प्रतीकारं व्याधः सुखमिति विपर्यस्यति जनः ॥ ३.१९ ॥ तुङ्गं वेश्म सुताः सतामभिमताः सङ्ख्यातिगाः सम्पदः कल्याणी दयिता वयश्च नवमित्यज्ञानमूढो जनः । मत्वा विश्वमनश्वरं निविशते संसारकारागृहे संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ ३.२० ॥ दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी । याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ ३.२१ ॥ अभिमतमहामानग्रन्थिप्रभेदपटीयसी गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचन्द्रिका । विपुलविलल्लज्जावल्लीवितानकुठारिका जठरपिठरी दुस्पुरेयं करोति विडम्बनम् ॥ ३.२२ ॥ पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे । द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ॥ ३.२३ ॥ गङ्गातरङ्गकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि । स्थानानि किं हिमवतः प्रलयं गतानि यत्सावमानपरपिण्डरता मनुष्याः ॥ ३.२४ ॥ किं कन्दाः कन्दरेभ्यः प्रलयमुपगता निर्झरा वा गिरिभ्यः प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः । वीक्ष्यन्ते यन्मुखानि प्रसभमपगतप्रश्रयाणां खलानां दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ ३.२५ ॥ पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् । क्षुद्राणामविवेकमूढमनसां यत्रेश्वराणां सदा वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ ३.२६ ॥ फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा शय्या सुललितलतापल्लवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ ३.२७ ॥ ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः । तेषामन्तःस्फुरितहसितं वासराणि स्मरेयं ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ ३.२८ ॥ ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो ये त्वन्ये धनलुब्धसङ्कलधियस्तेसां न तृष्णाहता । इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ ३.२९ ॥ भिक्षाहारमदैन्यमप्रतिसुखं भीतिच्छिदं सर्वतो दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् । सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं शम्भोः सत्रमवायमक्षयनिधिं शंसन्ति योगीश्वराः ॥ ३.३० ॥ भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं माने धैन्यभयं बले रिपुभयं रूपे जराय भयम् । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं सर्वं वस्तु भयान्वितं भुवि नॄणां वैराग्यमेवाभयम् ॥ ३.३१ ॥ आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं सन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर् अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा ॥ ३.३२ ॥ आधिव्याधिशतैर्जनस्य विविधैरारोग्यमुन्मूल्यते लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः । जातं जातमवश्यमाशु विवशं मृत्युः करोत्यात्मसात् तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ ३.३३ ॥ भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता । तत्संसारमसारमेव निखिलं बुद्ध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३.३४ ॥ भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् । लीला यौवनलालसास्तनुभृतामित्याकलय्य द्रुतं योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ३.३५ ॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुम् ॥ ३.३६ ॥ कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः । वामाक्षीणामवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ ३.३७ ॥ व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाश्च शत्रव इव प्रहरन्ति देहम् । आयुः परिस्रवन्ति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चित्रम् ॥ ३.३८ ॥ भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत् कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः । आशापाशशतापशान्तिविशदं चेतःसमाधीयतां कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयमस्मद्वचः ॥ ३.३९ ॥ सखे धन्याः केचित्त्रुटितभवबन्धव्यतिकरा वनान्ते चित्तान्तर्विषमविषयाशीत्विषगताः । शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः ॥ ३.३९*१ ॥ ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान् यत्र स्थितो मन्यते यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः । भोगः कोऽपि स एव एक परमो नित्योदितो जृम्भते भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ ३.४० ॥ सा रम्या नगरी महान् स नृपतिः सामन्तचक्रं च तत् पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः । उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ ३.४१ ॥ यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नयौ रजनिदिवसौ लोलयन् द्वाविवाक्षौ कालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥ ३.४२ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ॥ ३.४३ ॥ रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः । व्यापारैः पुनरुक्तभूतविषयैरित्थं विधेनामुना संसारेण कदर्थिता वयमहो मोहान्न लज्जामहे ॥ ३.४४ ॥ न ध्यानं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयम् ॥ ३.४५ ॥ नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः । कान्ताकोमलपल्लवाधररसः पीतो न चन्द्रोदये तारुण्यं गतमेव निष्फलमहो शून्यालये दीपवत् ॥ ३.४६ ॥ विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता । आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ ३.४७ ॥ वयं येभ्यो जाताश्चिरपरिगता एव खलु ते समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः । इदानीमेते स्मः प्रतिदिवसमासन्नपतना गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ३.४८ ॥ आयुर्वर्षशतं नॄणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ ३.४९ ॥ क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः क्षणं वित्तैर्हीनः क्षणमपि च सम्पूर्णविभवः । जराजीर्णैरङ्गैर्नट इव बलीमण्डिततनूर् नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ ३.५० ॥ त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः । इत्थं मानधनातिदूरमुभयोरप्यावयोरन्तरं यद्यस्मासु पराङ्मुखोऽसि वयमप्येकान्ततो निःस्पृहा ॥ ३.५१ ॥ अर्थानामीशिषे त्वं वयमपि च गिरामीश्महे यावदर्थं शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः । सेवन्ते त्वां धनाढ्या मतिमलहतयेमामपि श्रोतुकामामय्य् अप्यास्था न ते चेत्त्वयि मम नितरामेव राजन्ननास्था ॥ ३.५२ ॥ वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः सम इह परितोषो निर्विशेषो विशेषः । स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्रः ॥ ३.५३ ॥ फलमलमशनाय स्वादु पानाय तोयं क्षितिरपि शयनार्थं वाससे वल्कलं च । नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम् अनुमन्तुं नोत्सहे दुर्जनानाम् ॥ ३.५४ ॥ अश्नीमहि वयं भिक्षामाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ३.५५ ॥ न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः । नृपमीक्षितुमत्र के वयं स्तनभारानमिता न योषितः ॥ ३.५६ ॥ विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ३.५७ ॥ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर् धुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् । तदंशस्याप्यंशे तदवयलेशेऽपि पतयो विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ३.५८ ॥ मृत्पिण्डो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते । ये दद्युर्ददतोऽथवा किमपरं क्षुद्रा दरिद्रं भृशं धिग्धिक्तान् पुरुषाधमान् धनकणान् वाञ्छन्ति तेभ्योऽपि ये ॥ ३.५९ ॥ स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं कपालं यस्योच्चैर्विनिहितमलङ्कारविधये । नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ ३.६० ॥ परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् । प्रसन्ने त्वय्यन्तःसवयमुदितचिन्तामणिगणो विविक्तः सङ्कल्पः किमभिलषितं पुष्यति न ते ॥ ३.६१ ॥ सत्यामेव त्रिलोकीसरिति हरशिरश्चुम्बिनीवच्छटायां सद्वृत्तिं कल्पयन्त्यां बटविटपभवैर्वल्कलैः सत्फलैश्च । कोऽयं विद्वान् विपत्तिज्वरजनितरुजातीवदुःखासिकानां वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पाम् ॥ ३.६१*१ ॥ परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां स्वयं भवति यद्यथा भवति तत्तथा नान्यथा । अतीतमननुस्मरन्नपि च भाव्यसङ्कल्पयन्नतर्कित समागमानुभवामि भोगनाहम् ॥ ३.६२ ॥ एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयश्रेयो मार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । स्वात्मीभावमुपैहि सन्त्यज निजां कल्लोललोलं गतिं मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ ३.६३ ॥ मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु । को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ ३.६४ ॥ चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् । कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या पङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥ ३.६५ ॥ अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ३.६६ ॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्तं पदं शिरसि विद्विषतां ततः किम् । सम्पादिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ ३.६७ ॥ भक्तिर्भवे मरणजन्मभयं हृदिस्थं स्नेहो न बन्धुषु न मन्मथजा विकाराः । संसर्ज दोषरहिता विजया वनान्ता वैराग्यमस्ति किमितः परमर्थनीयम् ॥ ३.६८ ॥ तस्मादनन्तमजरं परमं विकासि तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः कृपणलोकमता भवन्ति ॥ ३.६९ ॥ पातालमाविशसि यासि नभो विलङ्घ्य दिङ्मण्डलं भ्रमसि मानस चापलेन । भ्रान्त्यापि जातु विमलं कथमात्मनीनं न ब्रह्म संसरसि विर्वृतिम्मेषि येन ॥ ३.७० ॥ किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं स्वात्मानन्दपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ॥ ३.७१ ॥ नायं ते समयो रहस्यमधुना निद्राति नाथो यदि स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः । चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर् निर्दौवारिकनिर्दयोक्त्यपरुषं निःसोमशर्मप्रदम् ॥ ३.७१*१ ॥ यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः । धरा गच्छत्यन्तं धरणिधरपादैरपि धृता शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ३.७२ ॥ गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर् दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ ३.७३ ॥ वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां स्थानं जरापरिभवस्य तदा पुमांसम् । आरोपितांस्थिशतकं परिहृत्य यान्ति चण्डालकूपमिव दूरतरं तरुण्यः ॥ ३.७४ ॥ यावत्स्वस्थमिदं शरीरमरुजं यावच्च दूरे जरा यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान् सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ३.७५ ॥ तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं गुणोदारान् दारानुत परिचरामः सविनयम् । पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान् न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ३.७६ ॥ दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः । जरा देहं मृत्युर्हरति दयितं जीवितमिदं सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः ॥ ३.७७ ॥ माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने । युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचित् ॥ ३.७८ ॥ रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः । कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥ ३.७९ ॥ रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये । किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छाया चञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥ ३.८० ॥ आ संसारात्त्रिभुवनमिदं चिन्वतां तात्तादृङ्नैवास्माकं नयनपदवीं श्रोत्रमार्गं गतो वा । योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तः करणकरिणः संयमालानलीलाम् ॥ ३.८१ ॥ यदेतत्स्वच्छन्दं विहरणमकार्पण्यमशनं सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् । मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ३.८२ ॥ जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं हन्ताङ्गेषु गुणाश्बन्ध्यफलतां याता गुणज्ञैर्विना । किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोऽक्षमी हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ ३.८३ ॥ महेश्वरे वा जगतामधीश्वरे जनार्दने वा जगदन्तरात्मनि । न वस्तुभेदप्रतिपत्तिरस्ति मे तथापि भक्तिस्तरुणेन्दुशेखरे ॥ ३.८४ ॥ स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने सुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः । भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशाम् ॥ ३.८५ ॥ महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा एवागारं वसनमपि ता एव हरितः । सुहृदा कालोऽयं व्रत्मिदमदैन्यव्रतमिदं कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ३. ॥ वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् । वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास् त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः ॥ ३.८६ ॥ कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम् । अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ३.८७ ॥ उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रममितं भिक्षाटनं मण्डनम् । आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ ३. ॥ स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले । आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ३.८८ ॥ एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः । कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ३.८९ ॥ पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् । अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ ३.९० ॥ कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी नैश्चिन्त्यं निरपेक्षभैक्ष्यमशनं निद्रा श्मशाने वने । स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किम् ॥ ३.९१ ॥ ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः । शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ ३.९२ ॥ मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर् भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणामसि । सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर् भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥ ३.९३ ॥ महाशय्या पृथ्वी विपुलमुपधानं भुजलतां वितानं चाकाशं व्यजनमनुकूलोऽयमनिलः । शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ ३.९४ ॥ भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः । रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ३.९५ ॥ चण्डालः किमयं द्विजातिरथवा शूद्रोऽथ किं तापसः किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किम् । इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर् न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ ३.९६ ॥ हिंसाशून्यमयत्नलभ्यमशनं धात्रा मरुत्कल्पितं व्यालानं पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः । संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां तामन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥ ३.९७ ॥ गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य । किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ३.९८ ॥ जीर्णाः कन्था ततः किं सितममलपटं पट्टसूत्रं ततः किं एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् । भक्तं भुक्तं ततः किं कदशनमथवा वासरान्ते ततः किं व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ ३. ॥ पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यमक्षय्यमन्नं विस्तीर्णं वस्त्रमाशादशकमचपलं तल्पमस्वल्पमुर्वीम् । येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस्ते धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ ३.९९ ॥ त्रैलोक्याधिपतित्वमेव विरसं यस्मिन्महाशासने तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः । भोगः कोऽपि स एक एव परमो नित्योदिता जृम्भने यत्स्वादाद्विरसा भवन्ति विसयास्त्रैलोक्यराज्यादयः ॥ ३.९९*१ ॥ मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त समस्तमोहमहिमा लीने परब्रह्मणि ॥ ३.१०० ॥ शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः कोमलैः । येसां निर्झरमम्बुपानमुचितं रत्यै तु विद्याङ्गना मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥ ३.१००*१ ॥ धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं मित्रमिदं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः ॥ ३.१००*२ ॥ अहो वा हारे वा बलवति रिपौ वा सुहृदि वा मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ ३.१००*३ ॥